Rop
Sidghnithryam
Front matter
No text on this page.
॥ श्रीः ।। श्रीभगवद्रामानुजपरमाचार्य- श्रीभगवद्यामुनमुनि- विरचित सि हि त्रयम् जगद्विख्यात - परमहंसपरिव्राजक- (कोलियालम् श्रीस्वामि-) श्रीरङ्गरामानुजमहादेशिक श्रीषष्टधब्दपूर्ति महोत्सवाभिज्ञानार्थ तच्चरणाम्भोजवरिवस्यावाप्तवेदान्तरहस्यार्थेन तर्कार्णवेन पण्डितरत्नेन शिरोमणिना उभयमीमांसावल्लभेन ( उत्तमूर्) ति. वीरराघवाचार्येण परिष्कृत्य स्वकृत गूढमकाशाख्यटिप्पणादिना संयोज्य प्रकृतमहोत्सवप्रवणमहाजनसमर्पितद्रविणसाहाय्येन तिरुपति श्रीवाणी मुद्रणालये मुद्रितम् मूल्यम् ] 1942 [रू.2-0-0 सं के तार्थ : [ ] चिह्नमिदमनुपलब्धावश्यकांश प्रक्षेप इहेति ज्ञापयितुम् ( ) इदं पाठान्तरं दर्शयितुम् । १ वाक्यसमाप्ति व्यतिरिक्तस्थले इदं चिह्नं यथामुद्रणमेवानी अन्य वेति विमर्शाय । ( ) संवित्सिद्धौ अल्पाक्षराणामेवं कुण्डलसंदष्टता लुप्तस्थलपूरणमिति बोधयितुम् । * आदौ कुचित्कृचिदिदं चिह्नमुपलब्धपाठस्याधस्तानिवेशः, अहिद- पाठस्य तु ग्रन्थमध्ये इति वेदयितुम् । एवं तत्र तत्र समुचितपाठ संभावनादिकं टिप्पण - तत्परिशिष्टदर्शनतोर्षि बहुषु स्थलेषुषसेयम् ।
No text on this page.
此时,
自学
星一
4
作者
मुख्य विज्ञप्ति:
सर्वाचार्य निबन्धरत्नसरसव्याख्यानवैचक्षणी-
विख्यातः प्रतिपन्न - विश्रुतबुधच्छात्रवजाभिष्टुतः ।
भक्तेर्धाम विरक्तिशेवधिरयं वृत्ताधिको द्योतते
मीने लब्धजनुषे गुरुवरः श्रीरङ्गरामानुजः ।।
श्रीमद्वेदान्तरामानुजमुनिकृपया सार्वभौमी समृद्धि
संप्राप्तस्तद्गुरूणामपि सह यशसा नाम विभ्रत् , दिशंश्च ।
अर्थ सन्तं श्रितेभ्यः, कृतिभिरपि परित्राणमुख्याभिरत्र
ख्यातस्सदृन्दवन्द्यो जयति यतिनृपो रङ्गरामानुजाख्यः ॥
एतत्पादाब्जभक्तास्सुचिरमिह गुरोरस्य षष्टयब्दपूर्ति-
प्रज्ञानार्थ प्रबन्धप्रकटनमभिसंमत्य विश्वाभिनन्धम् !
संमुद्य ग्रन्थरत्नं सपदि गुरुकृतं भेदसाम्राज्यसंज्ञ
सर्वप्राचीनसिद्धित्रयकृतिकलने माञ्च शिष्यं न्ययुञ्जन् ।।
उपधीकृत्य मामित्थं प्रवृत्तं गुर्वनुग्रहः ।
सिद्धित्रयपरिष्कारमकार्षीत् सहटिप्पणम् ।।
अस्तु यामुनसिद्धित्रय्यर्थास्वादमुदोज्ज्वलः ।
अनुराधोद्भवो नाथः श्रियै श्रीरङ्गलक्ष्मणः ।।
मुनये यामुनार्याय रङ्गलक्ष्मणयोगिने ।
संविदात्मेश्वरप्रख्यत्रिदण्डोद्भासिने नमः ।।
विषय सूची . .... ७४ ७८ नित्यचैतन्यस्थापनम् उपोद्घातप्रकरणम् - आमनो मानसप्रत्यक्षविषयत्व- विमर्शः जीवात्मपरमात्मविषये विप्रतिपत्ति- ग्राहकावभासविमर्शः ६७.७० प्रदर्शनम् १.१० बित्तिस्वयंप्रकाशविमर्शः ७१७२ आत्मनो देहेन्द्रियमनःप्राणधी आत्मस्वयंप्रकाशत्वम् ७२-७३ भ्योऽन्यत्वम् ११.५६ अनित्यचैतन्यपूर्वपक्षः ७८८८ तत्र देहात्मवादः ११-१३ देहात्मवाद मंगः प्रकाशतेपदार्थशोधनम् ८८-१०० १३-१८ नित्यचैतन्यस्थापनशेषः १०१.१०४ इन्द्रियात्मवादमङ्गः आत्मनित्यत्वपरीक्षा मनआत्मवादभङ्गः- मनःस्वरूपविचारश्च २०-२४ ईश्वरसिद्धौमीमांसकपूर्वपक्षः१०६-११३ प्राणात्मवादभङ्गः २४-२५ तार्किकसमाधानम् ११३-१२० बौद्धाद्वैतिनोः संविदात्मवादः २५२७ संवित्सिद्धौ - अद्वितीय- बौद्धवादभङ्गः २७.२८ श्रुत्यर्थ विचारः १२१-१२६ अद्वैतात्मवाद - तद्भङ्गी २८ ४८ प्रपञ्चे सत्त्वासत्त्वसङ्कर- संविदात्मत्वसाधकाजडत्वहेतु- विचार: १२६-१२७ विमर्शः १२७१२९ सहोपलम्भनियमदूषणम् ५०.५६ संविदद्वैतवादः १३०-१३१ आत्मनोऽनन्यसाधनत्वम् ५६-१०५ तत्खण्डनम् - ४९.५० तत्त्वमसिविचारः अविद्यादूषणं च । १३१-१३७ गौतमानुमानविमर्शः साह्यानुमानविमर्शः आगमैकवेद्यत्वप्रस्ताव ५७ ५९ जीवैकत्वादि दूषणम् १३७ ५९.६३ धर्मतोऽप्यद्वितीयत्वायोगः२३८-१४२ ६३ ६४ सहोपलम्भनियमदूषणम् १४२-१४३ JIPE ।। श्रीः॥ श्री पद्मावतीसमेतश्रीनिवासपरब्रह्मणे नमः श्रीभगवद्यामुनमुनये नमः आत्म सिद्धि: प्रकृतिपुरुषकालव्यक्तमुक्ताः यदिच्छां अनुविदधति नित्यं नित्यसिद्धैरनेकैः । स्वपरिचरणभोगैः श्रीमति प्रीयमाणे भवतु मम परस्मिन् पूरुषे भक्तिभूमा श्री: श्रीमते रङ्गरामानुजमहादेशिकाय नमः गूढप्रकाशः. . श्रीवेङ्कटेशमस्मद्गुरूंश्च सर्वान् समाश्रये येषु । यामुनशरणसमुच्छ्ति सुमनस्संदर्भसंस्तवो जयति ।। भगवद्वादरायण बोधायन द्रमिडाचार्यादिप्राचीनाचार्यदर्शितः परमार्थः पश्चात्तनकतिपयपृथङ्मतिप्रवर्तितविविधविसंष्ठुलार्थविक्षिप्तचित्तानां हृदि न प्रति- वास्यतीति, पारम्पर्येण प्रवर्यमानंः समुपसन्नशिष्यजनोपदेशमात्रमपर्याप्तमाक- लव्य प्रकृष्टयोगप्रत्यक्षितपरावरयाथात्म्यैः प्रपन्नजनसंतानप्रभवभूतैः उभयवेदान्त- प्रवर्तकः परमकारुणिकैर्भगवन्नाथमुनिभिः न्यायतत्त्वाभिधानं शास्त्रं योगरहस्यश्चेति ययोमन्थरत्नयोर्निर्माणेन निबन्धमुखेन परमार्थतत्त्वहितविज्ञान प्रतिष्ठानं प्रथममा- हरेण विदधे, तयोः स्वपितामहपादानुगृहीतयोरेकतरस्मिन् सर्वार्थगर्भे गभीरे न्याय- सच्चे शास्त्रे सर्वेषामपि प्राज्ञमणीनां सरसप्रवेशसंपिपादयिषया तथैव भक्तिविज्ञान बैराग्यैः प्रथितः सरसकविताविहारभूमिः सकलपरमतमर्मभेदिकर्कशतर्कशस्त्रप्रयोग समार्जितकश्चसझामजयलक्ष्मीसमेधितप्रभावो भगवद्यामुनमुनिः आत्म परमात्म गूढप्रकाशः तत्संबन्ध तत्प्राप्ति तत्साधनोपदेशक प्रकरणग्रन्थं प्रारभमाणो निर्विघ्नपरिसमा- तये विरचितं मङ्गलं वक्ष्यमाणार्थसंग्रहरूपतया निबध्नाति प्रकृतीति । पुरुषः बद्धजीवः । व्यक्तं महदादि । अनुविदधति अनुवर्तन्ते स्वरूपस्थितिप्रवृत्तिषु । वक्ष्यति हि स्वाधीन त्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदमिति । नित्य- सिद्धैः नित्यसूरिभिः । अनेकैरिति सूरीणां संसारिजीवापेक्षया त्रैगुण्यमभिप्रेतम् । श्रूयते हि भूतभविष्यद्वर्तमानससाराणां प्राणिनामकपादत्वं अमरणधर्मणां सूरीणां परमे व्योन्नि पादत्रयमितत्वञ्च, 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवाति । श्रीमतीति देवतान्तरव्यावृत्तिः। भक्तिभूमशब्दः उपायभक्तिमिव साध्यभक्तिमपि वक्ति । अत्र आत्मनां, परमात्मनः, नित्यमनुविदधतीति तत्संबन्धस्यापृथक्सिद्ध्यादेः, स्वपरिचरणभोगैरिति मोक्षाख्यतत्प्राप्तिप्रकारस्य, भक्तिभूमेति तत्साधनस्य च कीर्तनाद्वक्ष्यमाणार्थसङ्ग्रहो भाव्यः । इदमत्र बोद्धयम्- न्यायसिद्धाञ्जने न्यायतत्त्वाख्यस्य शास्त्रस्य तत्रतत्रो- पविंशाधिकस्थलेषु निर्देशात् , तत्रत्यकतिपयवाक्यश्लोकोपादानात्, काचित्कचित् पादनामसंकीर्तनात् , सप्तमे, अष्टमे इत्येवमधिकरणसंख्याकथनात् , उपात्तसूक्ति शैलीपरिशीलनया च तच्छास्त्रं सर्वार्थगर्भ गंभीरविस्तृतं वाक्यश्लोकोभयात्मकं पर- मतपरिमर्दि चेति, तत्र ज्ञानपादः, प्रमातृपादः, करणपादः, प्रमेयपाद इति पाद- चतुष्कमस्तीति, एकैकोऽपि पादो विषयभेदैन बहुधिकरणात्मना विभक्त इति चावसीयते । आहुश्च, 'यो वेत्ति युगपत्तवं प्रत्यक्षेण सदा स्वतः। तं प्रणम्य हरि शास्त्रं न्यायतत्त्वं प्रचक्ष्महे ' इति तत्रादौ श्लोक इति । श्रीभाष्ये जिज्ञासा- विकरणे अविद्यादूषणघट्टे ' ज्ञानरूपं परब्रह्मे' त्यादिनोपात्तास्त्रयश्लोकाः नाथमुनि- भिरुक्ता इति श्रुतप्रकाशिकायाम्। ते च नूनमत्रत्या एव स्युः। एवमत्रात्मसिद्धा- पि वहूनि न्यायतत्त्वाधिकरणानि नाम्ना निर्दिष्टानि । 'प्रत्युक्तश्चायं प्रतिबिम्ब- वादः प्रच्छन्नबाह्यमतप्रत्यादेशे' इत्यात्मसिद्धिवचनमपि मन्ये अत्रत्यकिञ्चिद्भागपरं स्यात् । अहो बतेदृशं विशिष्टाद्वैतस्थापनेदम्परं कूटस्थकृतं भगवद्यामुनमुनि भग- वद्रामानुजमुनिप्रभृतिमहनीयप्रवर्तकाचार्यमार्गदर्शि महच्छास्त्रं अंशतोप्यर्वाचीनन परिपालितमभूदिति । अथाप्यपरहयमुखावताराणां अशेषपरमतसमूलोन्मूलनेन गूढप्रकाशः ३ अस्मसिद्धान्तप्रमाणप्रमेयनिष्कर्षणेन च निरवशेषमुपकृतवतां श्रीमन्निगमान्तमहा- देशिकानां इदं सामग्र्येण दृष्टिपथं प्राप्य स्थितमिति तावन्तं वा कालं परिपलि- तमासौदिति कूटस्थाभीष्टसिध्या कथंचिदाश्वसनीयम् । तस्यैतस्यायं प्रकरणग्रन्थः नूनं विशिष्य तत्रत्यप्रमातृपादवेशद्यार्थः । अत्रचादौ आत्मपरमात्मतत्संबन्धतत्प्राप्तितत्साधनविषयविप्रतिपत्तिप्रदर्शनपूर्व तच्छो- धनप्रतिज्ञानात् ग्रन्थेऽस्मिन् तावानभ्यंशो निरूपित इति निश्चीयते । उपलभ्यमा- नात्मसिद्धिभागे तु जीवात्मनिरूपणमपि न समग्रम् ; देहेन्द्रियति कारिकोत्तरार्ध- विवरणारम्भ एव विनष्टम् | अत्र कश्चिदाक्षेप:- यद्येवं प्रतिज्ञानुरोधेनात्रैव पर- मात्मापि न्यरूपीति विमृश्यते, किमिति ईश्वरसिद्धियरचीति | तत्र निरीश्वरवादनिराकरणेन आनुमानिकेश्वरसिद्धिप्रकारमात्रकथनाय स ग्रन्थ इति कश्चित्परिहारः । अन्यम्तु-भगवता भाष्यकृता ईश्वरसिद्धौ दृश्यमानं सर्व तथैव शास्त्रयोनित्राधिकरणे पूर्वपक्षेऽनूद्य उपरि आनुमानिकत्वनिरसनेन श्रौतस्वसिद्धान्त विधानाद्भगवद्यामुनमुनिग्रन्थेऽपि सैव रीतिः स्थितेति युक्तम् । कथं हि जीवात्मविषय एवानुमानानि प्रदूष्य — आनुमानिकीमप्यात्मसिद्धिमश्रद्धधानाः श्रौतीमेव तां श्रो- त्रियास्संगिरन्ते' इति कथयन्नयं ईश्वरसिद्धि आनुमानिकी मंस्यते । अतः प्रक्र- मानुसारेण एकस्यैवात्मसिद्धिग्रन्थस्य जीवात्मासिद्धिः ईश्वरसिद्धिश्चेति भागद्वयम् । तत्रचेश्वरसिद्धौ, विप्रतिपत्तिप्रदर्शनरीत्यनुसारेणानुमानेन निरीश्वरवादनिराकरणा- नन्तरं विविधाद्वैतमतपातञ्जलमतादि निरस्य श्रौतयथावस्थितेश्वरसिद्धिप्रकारः प्रतिपादितो भवेत् । अथवा 'आनुश्रविक एवेत्येके, आनुमानिकश्चेत्यन्ये, विशिष्ट- प्रत्यक्षसमधिगम्यश्चेत्यपरे' इति प्रमाणनिर्देशक्रमानुसारेणाद्वैतादिनिरासेन वैदि- केश्वरसिद्धिप्रकारमुपवानुमानतोऽपि एनत्सिद्धिमन्यदर्शितामारभ्य, ' तत्र कस्य- चिदेकस्य' त्यादिना पूर्वपक्षोपन्यासपुरस्सरं, ' अत्र ब्रूमः ' इत्यनेनानुमानिकत्व- मुपपाद्य, एवमपि एककर्तृकत्वाजीवकर्तृकत्वादिविषये दृढनिश्चयायोगात् व्यक्ति- विशेषनिर्धारणायोगाच्च, ' तदुपपादनन्यायानुगताः पूर्वानुमानभेदाः .... आद्रि- यन्ते' इत्युपलभ्यमानात्मसिद्धिवचनरीत्या, 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्यनुसाराच्चानुमानानां यावत्संभवं संभावनातर्कत्वेन ग्राह्यतामवबोध्य विशि- ४ आत्मसिद्धौ । विरुद्धमतयोऽनेकास्सन्त्यात्मपरमात्मनोः । अतस्तत्परिशुद्यर्थ आत्मसिद्धिर्विधीयते ॥ २ ॥ संमतं हि सर्वसमयेषु, 'आत्मज्ञानं निःश्रेयसहेतु' रिति । श्रूयते टप्रत्यक्षसमधिगम्यत्वं पश्चादुपपादितं स्यात् । न केवलमेतावत् ; नदुपरि तत्म- बन्धतत्प्राप्त्यादिस्वरूपमपि शोधितं भवेत् । सर्वोपि भागस्संप्रति प्रनष्टः । तदि- दानी आत्मसिद्धिरीश्वरसिद्धिरिति पृथक्प्रबन्धता प्राप्तेति ॥ अस्मिंश्च परिहारद्वये प्रायः प्राश्चमेव प्राज्ञाः रोचयेरन् ; यतः सित्रिय- मिति चिरन्तनी प्रसिद्धिः । श्रीमति रहस्यत्रयसारेपि गुरुपरम्परासारे, एतदनु गृहीताः प्रबन्धाः आगमप्रामाण्यं, पुरुषनिर्णयः, आत्मसिद्धिः ईश्वरासद्धिः सं- विसिद्धिरिति सिद्धित्रयम् , श्रीगीतार्थसंग्रहः, स्तोत्रं चतुःश्लोकीचेत्यष्टाविति स्पष्ट मुक्तम् । अतः यथा पुरुषनिर्णयः परमात्मपरोऽपि नारायणपारम्ये श्रुतितात्पर्यवर्णने- दम्परः पृथग्भूतः, तथेश्वरसिद्धिरप्यनुमानादिना तत्साधकः पृथग्भवितुमर्हति । यद्यपि अत्रत्यद्वितीयकारिकाद्यनुसारेणात्मसिद्धौ परमात्मनिरूपणमेष्टव्यम् ; वक्ष्यतिचात्रैव, परमात्मनिरूपणेऽतिनिपुणमुपपादयिष्यामः' इति – अथापीश्वरसिद्ध्युक्तावशिष्टं सर्व परमात्मविषयेऽभिधायेतरांशस्य तत्रैव द्रष्टव्यत्वमुपदिश्य तदुपरि वक्तव्यसं. बन्धप्राप्त्यादिकं विमृश्यात्मसिद्धिस्समापिता भवेदिति ग्राह्यमित्यलमनुपलभ्यमान गोचरानिष्कृष्टविमर्शेन । संवित्सिद्धिः पृथग्रन्थ इत्यत्र तु नैव विशयः । यदु- च्यतेऽत्रैव, 'प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव सा- धितम् ' इति ' भ्राान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धी चानुसंधातव्य ' मिति च । अत एवात्मसिद्धेः प्राक्कृता संविसिद्धिरित्यघि ध्येयम् । अत्र धीप्रकरणे संवि- स्सियुक्तसाशनिरूपणस्य प्रसक्तत्वेऽपि प्राक्कृतत्वादेव अत्रानतिविस्तर इति । विरुद्धमतयो विप्रतिपत्तयः । अनेका इति स्वरूपप्रमाणपरिमाणादि. मुखभेदतोक्नेकत्वं विवक्षितम् । तत्परिशुध्द्यर्थम् तयोरात्मपरमात्मनोः अप्रति- पत्त्यन्यथाप्रतिपत्तिप्रतिक्षेपियथावस्थितप्रतिपत्तिसंपत्तये अप्रतिपत्त्यादिक्षेपायेतिवा { एतत्कारिकार्थविस्तरः संमतमित्यारभ्य आ कारिकान्तरारम्भात् । काकदन्तपरीक्षा- लक्षण्यबोधाय बाह्याबाह्यसर्वस्वीकारेण विप्रतिपत्तिप्रदर्शनौचित्याय चाह संमत - उपोद्घातप्रकरणम् च 'पृथगात्मानं प्रेरितारश्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति', 'आत्मानश्चे- द्विजानीयात्', 'तरति शोकमात्मविद ,' 'ब्रह्मविदाप्नोति पर' मित्यादिः परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन् वेदान्तवाक्यगणः । तत्रास्मिन्नात्मनि परस्मिश्चानेकविधाः विप्रतिपत्तयस्तीर्थकरा- णाम् । तद्यथा (जीवात्मविषयविप्रतिपत्तिः) आत्मविषये तावत् - देहमेव केचिदात्मानमाचक्षते; इन्द्रिया. ण्यन्ये; मन इत्यन्ये प्राणमपरे; अध्यस्तज्ञातृभावं अनहङ्कारं वोधमात्र- मितरे देहेन्द्रियमनःप्राणवोधविलक्षणं आकाशादिवदचित्स्वभावं आग- न्तुकबोधसुखदुःखाद्यसाधारणगुणाधारं अहङ्कारगोचरमपरे । अपरे हीति ! तेन परमात्मना जुष्टः प्रीतिविषयीकृतः । आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेदिति पूर्णवाक्यम् । क्रमप्राप्तं बाह्यबौद्धमतमाह अध्यस्तेति । शाङ्करमतं तु, 'अन्ये तु ज्ञाना नन्दस्वभाव'मिति वक्ष्यति । वक्ष्यमाणोऽन्तःकरणोपाधिकरागद्वेषाद्यवभासोऽद्वैतमते- ऽप्यस्ति । न तु बौद्धमतेऽन्यगतरागादेरात्मन्यारोपः, बाह्यापलापित्वाद्वौद्धस्य रागद्वे. षादेविज्ञानानतिरेकात् । तदुक्तं तत्त्वकौमुद्याम् (१०का.) येत्वाहुः विज्ञानमेव हर्ष- विषादमोहशब्दाद्यात्मक'मिति । अयमेव चात्मातिरिक्तसाभावो बोधमात्रमिति मात्र पदेन विवक्षितः। अध्यस्तज्ञातृभावमनहङ्कारमिति ज्ञातृत्वाध्यासाहम्प्रत्ययाविषयत्वे उक्ते प्रच्छन्नप्रकटबौद्धयोस्तुल्ये । अत्रैतत्कथनं बौद्धमतापेक्षया नैयायिकमतस्य आत्मनि ज्ञातृत्वाहमर्थत्वे अनुमन्यमानस्यास्मदन्तरङ्गत्वज्ञापनार्थम् । यद्वा जगदपला- पाविशेषात् एकहेलयैवात्र प्रच्छन्नप्रकटयोर्ग्रहणम् , तथैव विस्तरे दर्शनात् ! एवंसरि उपरि 'ज्ञानानन्दस्वभाव' मिति मीमांसकैकदेशिमतम् । यदाहुः-' निजं यत्वात्म- चैतन्यमानन्दश्चेष्यते च यः । यच्च नित्यविभुत्वादि तैरात्मा नैव मुच्यते' (मी.वा) इति । तथाच ज्ञानानन्दगुणमिति तदर्थः । वैनाशिकमतमुक्ता अर्धवैनाशिकवैशे- षिकमतमाह देहेति । इदं पार्थसारथ्यादिमीमांसकमतमपि । अहङ्कारगोचरं अहम्प्रत्ययविषयम् . अहममिति यावत् । सांख्यमतमाह अपरेविति । वेदासन्निकृष्टपूर्वमतापेक्षया सन्निकृष्टमतपार्थक्यसूचनाय पृथक्तिङन्तप्रयोगेणेतदा- ६ आत्मसिद्धी मानसप्रत्यक्ष- . तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फाटिकमाणं उपधानविशेषा- पादितारुणिमगुणादिनिर्भासं, अन्तःकरणोपधानापादितरागद्वेषसुख- दुःखाद्यशिवगुणनिर्भासं अनुदितानस्तमितस्वरूपप्रकाशं स्वयंज्योति पमिममभिदधति; अन्ये तु ज्ञानानन्दस्वभावम् ; आश्रयानुकूल्यपति- लब्धानन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये । ( जीवात्मनि प्रमाणादिविषयविप्रतिपत्तिप्रदर्शनम् ) तथा – अनुमानसमधिगम्यः, आगमैकवेद्यः, वेद्यः, ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः, ज्ञानस्वभावतयाऽनु- दितानस्तमितस्वरूपप्रकाशः स्वयंज्योतिः ईशोप्यागमानुमानयोगज- प्रत्यक्षैः स्वेतरसकलविलक्षणस्वाभाव्येन विशद-विशदतर · विशदत- मतया [विदितः] अन्ततो यथावदपरोक्ष्यते इति – तथा परममहान् ; अणुपरिमाणः शरीरपरिमाणः; स्वतः परिमाणरहितोऽपि व्याप्यवस्तु- रभ्य पृथग्वाक्यकरणम् । बोधैकत्येकपदेनानन्दस्वरूपत्वस्य बोधधर्मकत्वस्य च व्यवच्छेदः । रागद्वेषादिकोटौ ज्ञानस्यायरिंगणनात् न रागादिवत् चैतन्यमन्य- निष्ठमारोप्यते इति द्योत्यते । तदा द्रष्टुम् स्वरूपेणावस्थानम् ' (यो.सू.) इत्यत्र च वाचस्पत्यम्, ‘स्वरूपस्यचाभेदेऽपि भेदं विकल्म्याधिकरणभाव उक्त' इति । उपधान- विशेषो जपाकुसुमसन्निधानम् । ज्ञानानन्दस्वभावमित्यस्याद्वैतमतत्वे स्वभाव- धवलमित्यादरेत्रानुषङ्गः । एवमुपर्यपि, सिद्धान्तेपि रागसुखादेर्मनोधर्मत्वस्य वक्ष्यमा- णत्वात् । तस्य मीमांसकमतत्वे तु न तदनुषङ्गः । एवमुपर्यपि नानुषङ्गः । इदमुप- रिष्टाद्वयक्तीभविष्यति । मीमांसकमते ज्ञानातिरिक्त आनन्दः, सिद्धान्ते तु ज्ञानमेवा' नन्दः । आश्रयानुकूल्येति । आश्रयंपत्यनुकूलत्वाबोध एवानन्दादिव्यपदेशं प्रति- लभते। अनुकूलं ज्ञानह्यानन्दः । बोधः किंविषयकोऽनुकूल इतित्वनुभवप्रमाणा- म्यामवसातव्यम् । अपरोक्ष्यत इत्यत्रागमानुमानयोरेनन्वयात् मध्ये विदित इत्येवं पदमपेक्ष्यते । अन्ततः मुक्तौ । उपरि नित्यो व्यापीतिनिर्देशात् कालावच्छेद- परीक्षाया एवं पूर्वत्वाच्च विप्रतिपत्तिस्थलेपि तथा क्षणिक' इत्यादिकं पूर्व, पश्चाच्च, 'तथा परममहान्' इत्यादिकं स्थितं स्यात् । अथवा क्रमानादरस्स्यात् । 'व्याप्ति- .
उपोद्घातप्रकरणम् ७ परिमितिकृतपरिच्छेद इति, व्याप्तिरपि चैतन्यमात्रेण स्वरूपेण [मात्रे- णेव न स्व ? रूपेण] इति – तथा क्षणिकः, यावच्छारीरोष्मस्थायी, आपाकृतपलयावस्थायी, आमोक्षस्थायी, कूटस्थो नित्य इति सर्वशरीरेषु एकः, प्रतिक्षेत्रं नानाभून इति च – तथातथा प्रतिपद्यन्ते । परमात्मविषयविप्रतिपत्तिप्रदर्शनम् ) तथा परमात्मविषयेऽपि - केचित् समस्तवस्तुसाक्षात्कारिणं सर्वशक्तिमीश्वरमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तोप्येके प्र- त्यस्तमितमितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञानकरसं अनाद्यविद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानेश्वर्यादिमहिमविकल्पतया रपि चैतन्यमात्रेण स्वरूपेणे ति पाठो दृश्यते। अत्र पक्षद्वयमभिमतश्चेत् , वाकार आवश्यकः । एवं स्वरूपपक्षस्यान्ते निर्देशो न युक्तः, सिद्धान्त्यनभिमतत्वात् । श्रुतप्रकाशिकायां जिज्ञासाधिकरणे देहेन्द्रियेत्याद्यत्रत्यकारिकानुवादिभाष्यव्याख्या. नावसरे, 'ज्ञानेन व्याप्तिरात्मसिद्धावेवोच्यते, 'व्याप्तिरपि चैतन्यमात्रेणैव, न रूपे. णेति' इत्युक्तत्वात् अन्यत्र तद्वाक्यानुपलम्भात् औचित्यादव तन्नघटित वाक्य- मित्यालोच्यते । ननु स्वयमेवात्मनोऽविभुत्वस्य हृदयायतनत्वस्य च वक्ष्यमाणत्वात् अणुत्वस्य सिद्धान्त्यभिमतत्वाच कथं स्वतः परिमाणरहितोपात्युच्यते ? सत्यम् - अथापि स्वतश्शरीरादि परिमाणरहितोपीति तदर्थः । अथवा विभूनां परिमाणाभाव- स्यागमप्रामाण्ये उक्तत्वात् अणोरप्यस्य चैतन्यरूपेण विभुत्वात् स्वतःचैतन्यविशि- ष्टवेषेण परिमाणरहितोपीत्युच्यते । यद्वा सिद्धान्ते नैयायिकादिमत इव परिमाण रूपगुणान्तरास्वीकारस्य न्यायतत्त्वानुसारिन्यायासिद्धाञ्जनोक्तत्वात् परिमाणाना- स्थया तथोक्तिरिति। तथातथेत्यनेन स्वतस्सु। खित्वतदभावग्रहणम् । प्रतिपद्यन्ते इति । एवं तत्तद्वादिप्रतिपत्तिकथनाद्विप्रतिपत्तिर्शिता भवति । मिथ्यावादिमतद्वयंक्रमेणाहअभीति। आदिना ईशनग्रहणम्। एवरूपाणां भेदानां वि. कल्पोवैचित्र्यं तस्य प्रत्यस्तमितत्वं परमार्थतोऽसत्त्वम्।पक्षद्वयेपि जीवेश्वरयोमिथ्यात्वे- पि द्वितीयपक्षे अनाद्यविद्यावत् प्रपञ्चहेत्वनादिमायाङ्गीकारादविद्योपहितजीवतुल्यं मा- योपहितेश्वरस्सेद्भुमर्हति । ब्रह्मविषयकजीवाश्रिताविद्यावादिप्रथमपक्षे तु अनाद्यविद्या.
आत्मसिद्धी काल्पनिकमाचक्षते । अपरे अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रकल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीन- विचित्रविवर्तस्वभावमायोपहिततया समासादितसार्वयादिसंपदमुप- हितमिममभिदधति । तथाऽन्ये प्रकृष्टसत्त्वोपादाननिमित्तस्वतन्त्रप्रधान- परिणामविशेषमात्रनियमनिर्वाहितसर्वैश्वर्यमर्यादमाद्रियन्ते । अनुप- हितमपि परिणामिनमपरे प्रतिपेदिरे । अपरिणामिनमपि स्वमायांश भूतविचित्रान्तःकरणदर्पणतलपतिबिम्बिततया प्रतिपन्नविश्वतैजसमाज्ञ- भावं तमेकमेव चेतनमितरे रोचयन्ते । अन्ये तु स्वाधीनत्रिविधचेतना- चेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकनिरवधिकातिशयज्ञानबलैश्वर्य वीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुषविशेषमीश्वर- मातिष्ठन्ते । ( तन्मूर्त्यादिविप्रतिपत्तिः) तथा तद्विशेषेऽपि हरिहरविरिश्चभास्करात्मना अनभिमततत्तन्मूर्ति परित्यागेन च चतुस्त्रिव्येकमूर्तितया विवदन्ते । मूर्तिविशेषविषयाश्च नि- सिद्धेन जीवेन ब्रह्मणि प्रपञ्चेश्वरकल्पना क्रियत इति तस्येश्वरस्य व्यवहारकाले आस्तिकाबाध्यत्वेपि जीवकल्पितप्रातिभासिकमुक्तिकालनिवर्यकतिपयशक्तिरजत- तुल्यता दुर्वारेत्याशयेनाह काल्पनिकमिति । तद्गुणसारता 'आरोपिताविधिक- कर्तृत्वादिकत्वम् । सकलजीवात्मवत् शुद्धचिन्मात्ररूपएवेश्वरः प्रकृतिपरिणाम- शुद्धसत्त्वचित्तोपहितोऽस्पृष्टाविद्यो जगदुदिधीर्षया संप्रदायप्रवर्तकोऽनुग्राहकश्च भ- वति । प्रलयप्राक्क्षणे शुद्धसत्त्वचित्तसत्ताकाले, ' अहमेतावन्तं कालमतीय पुनः प्रवर्तिष्ये' इतीश्वरकृतप्रणिधानवशात् प्रलीनं शुद्धसत्त्वं प्रलयान्ते पुनः प्रकृ- तितःपृथग्भवति । यथा अहं तदानीमुत्थास्यामीति प्रणिधानवशादभीष्टसमये सुप्त- चित्तप्रबोधस्तद्वन् । अतः प्रधानपरिणामभूतचित्तबलसिद्धं प्रलयेऽनीश्वरस्य सृष्टा- वैश्वर्यमिति पातञ्जलाः। तन्मतमाह तथान्ये इति । अनुपहितमपीति । सन्मात्रं ब्रह्म समुद्र इव फेनतरङ्गबुद्धदात्मना चिदचिदीश्वररूपेण परिणमत इति । प्रतिबिम्बेश्वरपक्षमाह अपरिणामिनमपीति । विश्वतेजसादिनिरूपणं माण्डूक्यो- पनिषदि । चतुर्तिपक्षमुक्ता त्र्यादिपक्षानाह अनभिमतेति । - उपोद्धातप्रकरणम् ९ त्यत्वानित्यत्व भौतिकत्वाभौतिकत्व स्वार्थ [व] परार्थत्वादिविताः प्रादुर्भवन्ति; परिजनस्थानादिगोचराश्च । ( तत्प्रमाणविप्रतिपत्तिः) तथा प्रमाणतोऽपि - आनुश्रविक एवेत्ये के। आनुमानिकश्चेत्य- न्ये । विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे । ( आत्मपरमात्मसंवन्धविप्रतिपत्तिः) तथा आत्मपरमात्मनास्संबन्धेऽपि-अनाद्यविद्योपादानभेदास्पदो- ऽयं ईश्वरेशितव्यतादिरूपस्संवन्धः; परमार्थतस्त्वकं तत्त्वमिति केचित् । व्यतिरेकाभावेऽप्यतिरिक्तो जीव इत्यन्ये । स्वतस्तु ऐक्यम् , उपाधितो भेद इति विशिष्ट-स्वरूपभावेन भिन्नाभिन्नत्वमितरे ! नानात्वे सत्येवाभे- दो नामान्वयः अंशांशिभावलक्षणः, समवायः परतन्त्रतालक्षणः, शेयशेषित्वरूपः, स्वस्वामिभावः भृत्यस्वामि [भाव ? ] लक्षण इति च नानाविधाः वादाः। (तत्प्राप्ति वषयविप्रतियत्तिः) तथा परमपुरुषार्थभूते ब्रह्मपाप्तिलक्षणमोक्षेऽपि-स्वरूपोच्छित्ति- लक्षणः, अविद्याऽस्तमय लक्षणः, निश्शेपवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्य रूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसंक्रान्तिलक्षणः, तच्छाया- पत्तिलक्षणः, सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभव- १. व्यतिरेको विरहः । परमात्मानं विहाय जीवस्थित्यभावेपि तदविभक्तोऽयं ततो भिन्न इति । सिद्धान्ते नाव्यतिरेकित्वमात्रम्, तस्य परं प्रतीक कालादिकं प्रत्यपि भावात् । यद्वा सन्मात्रैकद्रव्यतया विशेषभेदाभावेपि सन्मात्राविकृतयोर्जीवे. श्वस्योर्भेदः, अग्निविस्फुलिङ्गयोरिव वा । २. अयं सिद्धान्तः। अन्वय इत्यनेन 'शब्द- ग्रतीताभेदनिर्वाहप्रकार एबोच्यते ; न तु वस्तुनोरभेद ' इति सूच्यते । ननु द्रव्य' योरेनयोः कथं समवाय इत्यत्राह परतन्त्रतेति । वक्ष्यति संयोगविशेषातिरिक्त- स्समवायो नास्तीति । अतो नित्यपारतन्त्र्यगर्भस्संयोग एव समवायः । अत्रोत्तरो- चरं पूर्वपूर्वविवरणरूपम् । ३. बाह्यपक्षोऽयम् । कैवल्यमन्तःकरणाद्यनुपहितत्वा- दिरूपं सांख्यमतम् । तद्भावत्यादौ तच्छब्दो ब्रह्मपरः । . .
१० आत्मसिद्धौ ) रभ्यते ।। जनितनिरतिशयसुखसमुन्मेपोपनीतात्यन्तिकतकिकरत्वलक्षण इति व- था तथा विवदन्ते । ( मोक्षसाधनविषयविप्रतिपत्तिः) तत्साधनतोऽपि – कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्य- रानुगृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितस्वान्तस्य ऐका- न्तिकात्यन्तिकभक्तियोगलभ्य इति ।। तदेवं अनवसितविशेषविमर्शकजनविमतिदर्शनात् तत्तत्पक्षसाध- नबलाबलानवगमाच्च ततस्ततस्संदिहानाः प्रेक्षावन्तः न तावत् परम- पुरुषार्थाय घटेरन् , यावत् अयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णीयेतेति तत्प्रतिबोधायेदमार- (स्वप्रबन्धस्यागतार्थत्वम् ) यद्यपि भगवता बादरायणेन इदमर्थान्येव सूत्राणि प्रणीतानि । विवृतानि च तानि परिमितगम्भीरभाषिणा द्रमिडभाष्यकृता । विस्तृता- नि च तानि गम्भीरन्यायसागरभाषिणा भगवताश्रीवत्साङ्कमिश्रेणापि - तथाऽपि आचार्यटङ्क भर्तृप्रपञ्च भर्तृमित्र भर्तृहरि ब्रह्मदत्त शङ्कर श्रीव- साङ्क भास्करादिविरचितसितासितविविधानिबन्धनश्रद्धाविपलब्धबुद्ध- यः, न यथावत् , अन्यथा च प्रतिपद्यन्ते इति तत्प्रतिपत्तये च युक्तः १. अत्र भगवबोधायनानुक्तिस्वयं तदृत्तेसाक्ष साक्षाददृष्टत्वात्स्यात् । अतएव हि स्वयं सूत्रभाष्यं निबन्धुकामैरप्येभिर्नेनं तत्संपादनार्थविलम्बेन स्वान्त्यसमये समाप- तिते श्रीभगवद्रामानुजमुखेन तत् प्रतीक्षितमासीत् । ते च स्वान्तेवासिश्रीकरश- सहिताः उत्तरेषु कचित्कञ्चिद्बोधायनवृत्ति समग्रां समीक्ष्य द्रमिडभाष्ये तदैक- रस्यमनुभूय श्रीभाष्यं प्राणैषुरितीतिवृत्तविदः । सूच्यते चेदमादौ श्रीभाष्ये, 'भगवद्बोधायनकृतां विस्तीणां ब्रह्मसूत्रवृत्ति पूर्वाचार्यास्संचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्यख्यास्यन्त इति । २. भगवता श्रीवत्साङ्कमिश्रेणेति पुरस्कृता- मिश्रादन्य एवं सितासितनिबन्धकारिपङ्किनिविष्टः श्रीवत्साङ्क इति चिन्त्यते ।
देहात्मवादः ११ प्रकरणप्रक्रमः । तत्र - (जीवात्मनिरूपणम् ) देहेन्द्रियमन:प्राणधीभ्योऽन्योऽनन्यसाधनः ! नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥ ३ ॥ (देहात्मभावपूर्वपक्षः । तस्य प्रत्यक्षसिद्धत्वम् ) ननु देहमेवात्मानं प्रत्यक्षतः प्रतिपद्यामहे । अहं जानामीति ज्ञा- ता ह्यात्मा अहमिति चकास्ति । देहश्चाहङ्कारगोचरः, स्थूलोऽहं, कृशोऽ- हमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः । अतस्तत्समानाधि- करणतयाऽयमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयम् । इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश्च । चायं लाक्षणिको व्यवहारः मुंख्यवृत्तिभूमेः पृथगसिद्धत्वात् । नचानेकावयवयोगिशरीरालम्बनत्वे ज्ञानवमासस्य, तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम् , तदन्वयाभावात् जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् : बाह्येन्द्रि- यप्रत्यक्ष एव तथा नियमदर्शनात् स्वान्तस्याऽऽन्तरगुणाधारतावभास एव सामर्थ्यनियमात् । अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महि- मगुणशालिनस्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् ; वायोश्च त्वगिन्द्रि- येण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच्च । देहव्यतिरिक्तात्मगोचरत्वे- ऽपि यथा तदीयगुणान्तराग्रहणं तथेहापि; यथा (च) तत्र बाह्यप्रत्य- क्षगोचर एव संख्यापरिमाणादिग्रहणनियमः ।। १. 'न्यायतत्त्वशास्त्रप्रकरणं ह्यात्मसिद्धि' रिति न्यायसिद्धाञ्जने बुद्धिप- शास्त्रैकदेशसंबद्धं शास्त्रकार्यान्तरोस्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित' इत्याहुः । 'प्रक्रियते आरभ्यतऽनेनेति प्रकरण ' मिति च । २. स्वप्रकाशः । ३. ज्ञानद्वारा सर्वव्यापनशीलः । एतत्पदद्वयार्थोऽत्रैव विस्तरे व्यक्त इति तत्त्वटीका । ४. स्थूलाद्यमिनाहमर्थविषयकोऽयं प्रत्ययः । ५. प्रतीतिविरोधमुक्त्वा व्यवहारविरोधमाह । ६. शक्यार्थस्य । ७. शरीर- रूपावयव्यविषयकत्वसाधकहेतुमाभासयति । ८. तदवयवाविषयकत्वरूपहेतो. य॑भिचारं बाह्यएव दर्शयति । ९. परिमाणादि । रिच्छेदे ।
१२ आत्मसिद्धी ( देहाचेतनत्वानुमाननिरासः) एवञ्च 'प्रत्येक परमाणुषु चैतन्यानुपलब्धेः तदभ्युपगमे च एक- शरीर एवानेकसहस्रचेतनापातात् अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासम्भवान्न शरीरविशेषगुणश्चैतन्यम् । अयावच्छरीरभा- वित्वाच्च ' इत्यादयोऽनुमानभेदाः प्रत्यक्षबाधितविषयतया न पराक्र- मितुं क्षमन्ते । विशेषगुणत्वे च प्रतिषिध्यमाने देहगुणत्वाभ्युपगमप्रस- ङ्गश्च । अपिचेच्छानुविधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाःसं- प्रतिपन्नाचैतन्याद्धटादेरत्यन्तव्यावर्तमानाश्शरीरमेव चेतनमवगमयन्ति । क्रमुकफलताम्बूलदलावयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येव अ- वयविनि संयोगविशेषात् , देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैत- न्यस्याप्याविर्भावो नानुपपन्नः। चर्वणजनितहुतवहसंयोगसंपादितपाट- लिमभिः परमाणुभिर्व्य णुकादिक्रमेण कारण(गुण पूर्व एव तत्र रागोदय इति चेन्न – प्रमाणाभावात् । अपिच सितासितादितन्तुषु प्रत्येकम- विद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फुटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम । न वयवरूपातिरकेणावय- विनि चित्रं नाम रूपान्तरं नान्त्येवः अवयविनोऽचाक्षुषत्वप्रसङ्गात् । अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापद्येत । (ततः ) अनुभवविरोधः, सर्वव्यवहारविरोधश्च । विशेषगुणश्च काठिन्यं करका- द्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च । न च संयोगविशेषः १. चैतन्यं न शरीरविशेषगुणः शरीरसमवायिकारणसमवेतगुणाजन्यत्वात् शरीरसत्ताकालाव्यापित्वाचेति प्रयोगद्वयम् । तत्र प्रथमहेतुसिद्धये शरीरकारणप- रमाण्वाद्यसमवेतत्वं चैतन्यगुणस्योच्यते । २. विशेषनिषेधस्नामान्याभ्यनुज्ञानार्थ इति न्यायात् । ३. शरी रं न चैतन्यरूपविशेषगुणवत् तद्रहितद्रव्यारभ्यत्वात् घटवदित्येवं प्रथमानुमानस्थानापन्नानुमाने इमे व्यतिरेकिणस्सत्प्रतिपक्षहेतवोऽपि । ४. कण्ठोक्तानुमानस्यानैकान्तिकत्वं स्थलत्रये आह । ५. पीलुपाकमतेन हेतो- रदुष्टत्वं शङ्कते। ६. नच नास्त्येवेत्यन्वयः ।
दहात्मवादभङ्गः गावकाशः। काठिन्यम् , तस्य द्विष्ठन्वात् । अस्य तु कारकाद्रव्यैकवर्तित्वात् , विशेषतया पदार्थनिद्भिरभ्युपगमाञ्च । (कर्मकर्तृविरोधपरिहारः) दृश्यस्य देहस्य कथं द्रष्टुत्वमिति चेत् - को विरोधः ? अयमेव, यदेकस्यां क्रियायामेकस्य कर्मत्वं कर्तृत्वञ्च न घटन इनि(चन्-यद्येवं, व्यतिरेकवादे वा कथमात्मनि अहमितिप्रत्ययः? रूपभेदादिति चेत् समानमिदं देहात्मवादेऽपि । अपिच परसमवायिक्रियाफलभागि कर्म, स्वसमवेतज्ञानफलभागिनश्शरीरस्य कर्मत्वमेव नास्तीनि न पर्यनुयो- ( सप्रमाणं चार्वाकमतोपसंहारः) अतो देह एवात्मेति बार्हस्पत्याः । तथाच, 'पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तेभ्यश्चैतन्यम् । किण्वादिभ्यो मदशक्तिव' दिति सूत्रम्। ( देहातिरिक्तत्वसिद्धान्तः) अत्र प्रतिविधिदेहो नात्मा प्रत्यक्षबाधनः । न खत्वहमिदकारावेकस्यैकत्र वस्तुनि ।। अहजानामीति प्रत्यग्वृत्तिरहमिति मतिः इदङ्कारगोचगच्छरीरान्निष्कृष्ट- १. वैशेषिकः, न्यायतत्त्वशास्त्रकृद्भिश्च । न्यायसिद्धाञ्जने द्रवत्वरूपाद्रव्य- प्रस्तावे निर्विरलसंयोगप्रयुक्तस्पर्शः कठिन इति विशेषः॥ २. ज्ञानस्य फलं प्रकाशः व्यवहारः । आत्मानं जानामीति द्वितीया तु नैयायिकादिमत इव गौणकर्मत्वे । कर्मणि द्वितीयेत्यनुशासनं मुख्यगौणसाधारणम् । कर्मकर्तृविरोधव्यवहारः मुख्य- कर्मविषये । ३. इदं सूत्रत्रयमिति कचित् । किण्वमङ्कुरस्सुराबीजम् । ४.अनया कारिकया देहात्मवादे प्रत्यक्षबाधः काणादानुरोधेन कथ्यते; उत्तरकारिकया च स एव साङ्ख्यानुरोधन । प्रायः कारिकोपरितनानि वाक्यानि कारिकाविवरणरू. पाणीति ध्येयम् । अहमिदङ्कारौ- अहमिति इदमिति च प्रतीती । स्वस्य यरात्मनि अयमितिधीसत्त्वादेकस्यैकत्रेत्युक्तं । ५. अतिरिक्तम् । मेति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तरप्रत्यक्ष' इति सूत्रम् (वै. ३ २-१४ । अहंबुध्या परागर्थात्प्रत्यगर्थो हि भिद्यते । अतः पराक्त विशेषावटादित इव देहा. ॥४॥ १ अह- 3 आत्मसिद्धौ -- मेव स्वविषयमुपस्थापयति घटादेरिव ; पराग्वृत्तिरिदमिति शरीर- विषयिणी च शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति, यथा अरं घट इति । इतरथा म्वपरविभागानुपपत्तेः । नचैकस्मिन्नेव रूपभेदादर प्रतीतिः, न हि देवदत्तो दण्डिनमात्मानं दण्डययमिति प्रत्येति । - अहमिति प्रत्यक्षस्यावयवाविषयकत्वादेहाविषयकत्वोपपादनम् ) अन्यच्च-नियमितबहिरिन्द्रियवृत्तेरवाहितमनसः अहमिति स्वा- स्मानमवयतः करचरणोदरायवयवा न भासन्ते । स्थवीयसि चावयविनि शरीरे अहीमतिमतिगोचरेऽभ्युपगम्यमानेऽवश्यमवयव- प्रतिभासेनाप्यन्वयिना भाव्यम् । नास्ति संभवः, ' ' अवयवा स्थवीयान्पचकास्ति. अवयवास्तु न केचन प्रथन्त ' इति । यत्तू त्र्यणुके व्यभिचार इति - तन्न - वातायनविवरदृश्यनिर्भागत्रसरेणुव्य- तिरेकेण परमाणुस्वीकारे कारणाभावात् , प्रत्यक्षयोग्यावयवस्य तथा- प्रतिभासनियमाद्वा न व्यभिचारः । नचावयविनि बहिरिन्द्रियग्राब एवायं नियम इत्युत्प्रेक्ष्यम् , प्रमाणाभावात् , अन्तःकरणस्य च केवल- स्यावयविनि वृत्त्यसंभवाच्च । वायोस्तु रूपाधभावात्केवलस्पर्शाधारत- योपलम्भः । तत्रापि तादृशानेकावयवप्रतिभासोऽस्त्येव स्पृश्यमान इन घटादाविति न तेन व्यभिचारः । ( स्थूलोहमित्यत्राप्यतिरिक्तभानम् ) यत्तु स्थूलोह, कृशोहमिति शरीरेऽहंप्रत्ययो दृश्यत इति तदपि पर्यालोचनीयम् । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्त्वहङ्कारो दपि भेदो गृह्यते । एवं इदम्बुध्या प्रत्यगात्परागर्थश्च भिद्यत इति अयं देह इति घिया देहेऽहमर्थभेद ग्रह इत्याह १, परागिति । २. अतोऽवयवाभावादेव त्रसरेणुप्रत्यक्षे तदप्रतीतिः। अतस्तत्र त्र्यणुकव्य- वहारोऽव्ययुक्त इति भावः । ३. अभ्युपगम्यवादेनाह प्रत्यक्षेति । ४. यत् अब. यविप्रत्यक्षं तत् बहिरिन्दिजन्यमिति व्याप्तेरिति । सिद्धान्तेऽवयवातिरिक्तावय- व्यनङ्गीकारात्सुतरामवयवाप्रतिभासानुपपत्तिरिति ध्येयम् । ५. तथाच स्थौल्या अहङ्कार देहात्मवादभङ्गः विव। गोचरयति, न पुनश्चाक्षुय इव देहप्रत्ययः स्थौल्यवाल्यादियोगिदह- मात्रम् । अत एव ममेदं गृहमितिवत् ममदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । नासो सामान्मतीतभेदनिमित्तःप्रतायमानः शिलापुत्रक- शरीरव्यपदेशवदोपचारिको युक्त आश्रयितुं ममात्मेतिवन तत्रात्म- शब्दस्यात्मनि वृत्तरंकाथ्यादविवादाच्च युक्तं तथाश्रयणम् ! नचैवमत्र । अतो देहव्यतिरेकिणश्चेतनस्य प्रत्यक्षसिद्धन्वात्तत्सम्बन्धिनि लाक्षणि- को देहेऽहंशब्दप्रयोगः । (अभेदनमनिर्वाह वाह्यविषयेषु परस्परांवरुद्धरूपपरिमाणसंख्यासंनिवेशग्रहणन व्य- तिरेकस्य स्फुटत्वात् आत्मनि नाशरूपान्तराग्रहणेन देहाभेदप्रतिभा- सभ्रमोऽविवेकिनाम् । इनश्च - इच्छानुविधायिस्वव्यापारोऽयमात्मा । इच्छयेव हि सङ्कल्पयति स्मरत्यभ्यूहति * च । शरीरमपि तदिच्छानु- विधायिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः, शुक्तिरजतादा- योगजप्रत्यक्षेण भेदग्रहः) प्रणिहितमनसस्तु ज्ञातृनया सिध्यन्तमहमाकारमर्थमनवयवम् , इदमिति परिस्फुरतस्स्थूलादवयविनश्शरीरात्पृथगपरोक्षयन्त्येव । (उक्तार्थे प्रयोगनिष्कर्षः) भंवन्ति च (प्रयोगाः?) जानामीति प्रत्ययश्शरीरविषयो न भ- वति, अर्थान्तरविषयो वाऽयम् , अप्रकाशमानतदवयवप्रतिभासत्वात् ,य दियोगिदेहावच्छिन्नात्मा प्रत्यक्षविषय इति भावः । स्थूलोऽहमिति वाक्ये तु स्थू- लाभेदोपपत्तयेऽहंशब्दो लाक्षणिक इति वक्ष्यति । देहाभेदस्वीकारापेक्षया लक्ष- णाकल्पनं ज्याय इति तदाशयः । वेदान्तव्युत्पत्तौ तु स्थूलशब्दस्य स्थलावच्छि- नात्मपरत्वान्न लक्षणापि ! स्मरन्यप्यूहति ॥ उपसर्गादस्यत्यूहयोवेति वार्तिकम् । १. देहात्मवादिनापि तत्र तथैव निर्वाह्यत्वादिति । २. घटादौ मिथोभेदकत्वेन बहिस्सिद्धो य आकारस्तत्तुल्याकाराग्रहणात् समानाकारग्रहणाच भ्रम इति । ३. लौकिकप्रत्यक्षमुक्त्वा योगजप्रत्यक्षं दर्शयति । ४. एवमुपवर्णितं प्रत्यक्षस्या- तिरिक्तग्राहित्वं प्रयोगाभिनयन निष्कर्षति । ५. प्रकाशमानशरीरावयवकप्रति- आत्मसिद्धी एवंप्रकारः स तथा, यथा अयमिति प्रतिभासः, यत् शरीरवि. षयम्:न तत्तथा, यथा उभयसंमतं शरीरज्ञानम् । तथा-शरीरमहम्पत्य यगोचरो न भवति, इदमिति गृह्यमाणत्वात्, बाह्येन्द्रियग्राह्यत्वाद्वा घटा- दिवदिति । ( साङ्ख्यरीत्या देहात्मवादे प्रत्यक्षबाधः) किश्च - अपरार्थ स्वमात्मानमात्मार्थेऽन्यच्च जानतः । सङ्घातत्वात्परार्थेऽस्मिन् देहे कथमिवात्मधीः ॥५॥ सर्वस्य वाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तु. चात्मनोऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च श. गरमनन्याथै संघातत्वात् । संघाता हि सर्वे परायों दृष्टाश्शयनासनरथा- दयः । न च संघातास्संहतशरीराद्यर्था दृश्यन्त इत्यात्मनोपि संहतत्व- मापद्यत इति वाच्यम् , तथासति तस्यापि परार्थत्वप्रसङ्गात् । अपरार्थ- थायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तम् । योग्यानुपलम्भवाधितं चा- त्मनि संघातत्वम् । संघातान्तरार्थत्वे च, तस्यापि तथा, नतोऽन्यस्या- पि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च संघातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकम् ; भोक्तृतयैवा- त्मनस्स्वार्थसंघातं प्रति परत्वोपपत्तेः ! व्याप्त्यनुपयोगिनोपि दृष्टान्त- दृष्टधर्ममात्रस्यानुरोधेनानुमानमिच्छतस्सर्वानुमानोच्छेदप्रसङ्गः । (चार्वाकदूषितानुमानोद्धारः) अस्फुटत्वेपि भेदम्य शरीरे तदसंभवात् । तद्गुणान्तरवैधादपि ज्ञानं न तद्गुणः । ॥६॥ सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथम- तत्पूर्वकश्शरीरे चैतन्यगुणस्संभवेत् । भासभिन्नप्रतिभासत्वात् । १, घटादादिति शेषः । न हि घटादिज्ञानं शरीरावयत्र- विषयकम् । तद्वदिति भावः । २. उद्देश्यत्वोपपत्तेः । सङ्घातं प्रत्युद्देश्यत्वे भोक्तृत्वशक्तिरेक प्रयोजिका ; न सङ्घातत्वमिति । ३. अयावव्यभाविवादि- रूपात् । ४. कारिकायां तदसंभवादिति संगृहीत विवृणोति ।
देहात्मवादभङ्गः क इति कथमतत्पूर्वकश्शरीरे चैतन्यगुणस्संभवेत् । (शक्तिदृष्टान्तभङ्गः) यत्तु बार्हस्पत्यं वचनं, 'पृथिव्यापस्तेजो वायुरिति तत्वानि ते- भ्यश्चैतन्यं किण्वादिभ्यो मदशक्तिव'दिति – तदनुपपन्नम् । शक्तरवि- शेषगुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्कायसमधिगम्यस्तत्प्रतियोगी अक्तयाख्यो गुणस्साधारणः; नैवं चैतन्यम् , देहेकगुणत्वाभ्युपगमान् ; कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात्। द्रव्यान्तर- सेयोगसमासादितमदशक्तिभिरकार्यभूनैः परमाणुभिर्निजगुणपुरस्का- रेण स्वकार्यद्रव्येषु मदशक्तशुत्पादोपि नानुपपन्नः । ( रागदृष्टान्तमङ्गः) ताम्बूलरागस्तु पूर्वद्रव्यावयवविभागानन्तरं द्रव्यान्तरसंयोग- अनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्रावयवेष्वपि प्र- त्येकं रक्तिमगुणः । न च शरीरावयवेषु प्रत्येकं चैतन्य गुणः प्रज्ञायते प्रतिज्ञायते वा, तदुपगमे च एकशरीर एवानेकचेतनापानादङ्गाङ्गित्वा- मावः प्रतिसन्धान व्यवहारलोपश्च, देवदत्तदृष्ट इव यज्ञदत्तादेः । (चित्ररूपदृष्टान्तभङ्गः) यत्तु - अकारणगुणपूर्वकं चित्ररूपं पटे इति-तन्न । नानारूपता हि चित्रता । सा च नानारूपैस्तन्तुभिः क्रियत इति किमनुपपन्नमिति । १. तेषां द्रव्याणां यत्कार्य तत्समधिगम्यः। अयं न्यायासिद्धाञ्जनदृष्टः पाठः । १४२५. पु.) पा० तत्तत्कार्येति । तत्प्रतियोगी कार्यविषयकः । २. चैतन्य विशेषगुणः कार्यत्वे सत्येकेन्द्रियग्राह्यगुणत्वादिति । रूपत्वज्ञानवादौ व्यभि- चारवारणाय सत्यन्तम् । द्वीन्द्रियग्राह्यसंयोगादिवारणाय एकोति । त्वक्चक्षुर्मा. अग्राह्ययोवायुप्रभयोारणाय गुणत्वम् । मास्तु वा तत् सामान्यगुणभिन्नत्वस्य साध्यत्वे । ३. उपकार्योपकारकभावाभावः । ४. प्रतिसन्धानस्य व्यवहारस्य च लोपः। ५. अनेकविजातीयरूपत्वं चित्रशब्दप्रवृत्तिनिमित्तम् ; न रूपसमु. दायत्वम् । नीलादिरूपाण्येव चित्ररूपम् । तत् अवयविनीवावयषष्यस्ति । 4 १८ आत्मसिद्धौ . प्रत्येकमविद्यमानमपि तचित्ररूपं तन्तुषु संहतेषु दृश्यत एव, चित्रा इमे- तन्तब इति । संभूय च तेषां पटारम्भकत्वम् । एवं तत्कारणेषषि तदिति न कचियभिचारः । नचैकरूपनियमाभावेनावयविनोऽचाक्षुष- त्वम् , महत्त्वकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः । अस्तु वा चित्रं नाम एको रूपविशेषः । स तु रूपरेव कारणगतैर्नानाविधैः- रारभ्यत इति दृष्टम् । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरीरे चैतन्यविशेषारम्भः, चितितन्मात्रस्यैव तेष्वसंभवात् । अतो न देह- गुणश्चैतन्यम् । एतेन सुखादयोपि शरीरगुणाः प्रत्युक्ताः । ( तद्गुणान्तरवैधर्म्यरूपहेतूपपादनम् ) अपिच दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुम-विलेपन गन्ध इव निवर्तमानश्चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति, न खलु तद्विशेष गुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषाञ्च शरीरगुणाः प्रत्य- क्षयोग्याः, वाह्येन्द्रियग्राह्याश्व; न च तथा ज्ञानादिरिति नासौ तद्गुणः । (अनेकहेत्वन्तरोपन्यासः) किश्च- उत्पचिमत्वात्पारात्सिन्निवेशविशेषतः । रूपादिमवाद्भूतत्वादेहो नात्मा घटादिवत् ॥ ७ ॥ सच्छिद्रत्वाददहित्वादेहत्वान्मृतदेहवत् । इत्यादिसाधनाय्यनिषेध्या वर्मणश्चितिः॥८॥ ( देहात्मभावसाधकोक्तव्यतिरोकिदूषणम् । एवं प्रत्यक्षविरोधात् , अन्वयमुखेन साध्यमुपस्थापयद्भिदी- रितसाधनैरपह्तविषयतयेन्द्रियाश्रयत्वादिव्यतिरोकिहेतवो न साध्य- १. अनुद्भुतचैतन्यैः। २. अनुद्भूतानामुद्भूताजनकत्वात् । न्तरवैधमर्यादित्युक्तमुपपादयति । स्वविरोधिगुणाभावविशिष्टस्वाश्रयसत्ताकाला- व्यापित्वं हेतुः । काठिन्यादौ व्यभिचार इति विशिष्टान्तम् । ४. मृगमदादि । ५. चैतन्यं न शरीरगुणः पराग्राह्यत्वात् बहिरिन्द्रयाग्राह्यत्वाच्चेति वैधान्तर- ६. प्रतिज्ञादिसमुदायो न्यायस्तदनपेतैः । अनिदमर्थभूता- नन्यार्थात्मविषयकप्रत्यक्षविरोधात् ; नेशत इत्यत्रावन्यः । ८. विषयस्साध्यं - ३. तहणा. द्वयमाह। ..
इन्द्रियात्मवादमङ्गः १९ . . - . मुपस्थापयितुमीशते ।। (इन्द्रियात्मकाङ्का सन्तु तहीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते, येन देह- वदहङ्कारगोचराद्धहिष्क्रियेरन् ! नापि तथोद्धृतरूपादिगुणानि, स्थू लानि; येन तत्पतिभास इवेन्द्रियगोचरत्वेऽहम्प्रत्ययस्य रूपावयवादि प्रतीतिः प्रसज्येत । तद्वयापारफलञ्च ज्ञानं तगामि युक्तं स्नानाध्यय- नादिफलवत् ! अत एव सत्यतपाः, 'द्रष्टुश्चक्षुष ' इति । (तत्खण्डनम्) तन्न — विकल्पासहत्वात । तथाहि किं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय दा? यदि प्रत्येकम् , इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसन्धानं न स्याद् । अस्ति च तत्-यमहमद्राक्षं, तमहं स्पृशामीति। अत एव न संभूयापि चेतनत्वम् । न हि पञ्चभिरिन्द्रियैस्संभूयैकं वस्त्वनुभूयतेऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इ- न्द्रियचैतन्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तद्वयापारफलतया तत्समवायित्वं ज्ञानस्य, शस्त्रादिव्यापारजन्म- नोऽपि पापादेःपरसमवायित्वात् । अन्यथा च प्रष्टुः मृत्युपपत्तिं शर- दपहारो नाम बाधः । अन्वय्यपेक्षया व्यतिरोकणो दुर्बलाः, व्यतिरेकव्याप्तेरन्व- यव्यप्तिसंपादनमुग्वेन कार्यकरत्वस्वीकारान् । समबलत्वेपि प्रत्यक्षोपष्टब्धत्वात्प्र- कृते प्राबल्यम् । १. उक्तं हि · ज्योतिष्टोमे तीर्थे स्नातीति विहितस्नानफलं स्नातृगतमालि. न्यापनयादि; न तु क्रतुगतोपकारः ( मी.३ - ४ -९); अध्ययनफलञ्चाध्येतृग- तार्थज्ञानाक्षरग्रहणादि; नत्वाचार्यस्याचार्यकसिध्द्यादि ( मी०.१.१.१) इति । २. प्रायणं मरणम् । ३. ज्ञानमिन्द्रियनिष्टं तद्वयापारजन्यत्वादिति शस्त्रावृत्तिनि पापेऽनेकान्तिकम् । ४. कुत्र वराह इति प्रष्टुः तदकथने क्षुधा मृत्या- पत्तिः; कथने चाश्रमागतवराहत्यागाच्छरणागतत्याग इत्यालेच्य किमपि सत्यतप- सोक्तम् । अतो न तत् तत्त्वसाधकमिति । इमौ व्याधवराही ऋषिगुणपरी- क्षार्थमागताविन्द्राविष्णू । शिष्टं परिशिष्टे ।
२० मनआत्मवादभङ्गः , णागतपरित्यागस्य नृशंसताञ्चालोच्य सत्यतपसस्तथावचनम् ।। (मनआत्मवादोपक्षेपः) अस्तु तर्हि मन एव चेतनम् । तथासति हि पूर्वोक्ता दोषाः प- रिहता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्षं प्रज्ञायते प्रतिज्ञायते च ! उपप- यते चेन्द्रियान्तरण प्रतिसन्धानम् , दर्शनानुसन्धानाधारस्य मनस एक- त्वात् । तत्तदिन्द्रियापायेपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् । (तरवण्डनम् ) तदपि न - करणत्वात् चक्षुरादिवत् । वाह्यान्तरसकलविषयसंवे- दनकरणतया हि मनः प्रकल्प्यते । वाह्यन्द्रियेषु यथायथं निजविषय- सन्निकर्षभागिष्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतोत्र गच्छामः, 'अस्ति किश्चिदपरमपि साधनम् , यत्साहायकविरहान्न सर्वे प्रकाशन्ते; कश्चिदेवैकः प्रतीयत' इति । तथा सुखादिसंवेदनान्यपि करणवन्ति क्रियात्वात् संवेदनत्वाद्वा रूपादिज्ञानवदिति । तदेवं ज्ञा- नकरणतयावगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् । स्वातन्त्र्यलक्षणं हि तव । तच्च स्वच्छन्दानुरोधेन साध्यसिध्यनुगुणोपकरणसंपादनसाम- र्थ्यम् , स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः । करणत्वं तु परा- धिष्ठानाधीनव्यापारतारूपपारतन्त्र्यनियतं साधकतमत्वमिति कथमिवै- कत्र मनसि परस्परविरुद्धतदुभयधर्मसम्बन्ध प्रतिपद्येमहि । अथ तदपि मनः करणान्तरेण स्मरणादिषु कर्वभावमनुभवति, तथासति संज्ञामात्रे विवादः । य एव हि चक्षुरादिभी रूपादीन् , आन्तरकरणेन च सुखा- दीश्चेतयते, स एवात्मा । तस्मिन्नेव चेन्मनस्संज्ञा निवेश्यते, कामं नि- वेश्यताम् । न नः किचिद्धीनम् । किन्तु * तदा सर्वलौकिकव्यवहारो बाध्यतेत्यलमनेन । १. बाह्यान्तरेत्यत्र बाह्यमादावुपपाधते । तदुक्तम् - युगपद्ज्ञानानुत्पत्तिर्मन- सो लिङ्गम् (न्या०.१-१-१६) इति । तथेत्यादिना आन्तरेत्येतदुपपाद्यते । २. स्वतन्त्रः कर्तेत्युक्तं स्वातन्त्र्यं शक्तिविशेषः, स्वेच्छाधीनप्रवृत्तिर्वा । अचे- * तथा मनस्सिद्धिविचारः २१ (उक्तमनस्सिद्धिप्रकाराक्षेपः) आह --किमिदं मनो नाम । ननूक्तमान्तरं ज्ञानकरणं द्रव्यमि- ति ॥ किंपुनरस्य साधनम्? । ननूक्तं युगपद्ज्ञानानुत्पत्तिर्मनसो लिङ्ग- मिति।। उक्तं नाम । तथापि कथं तत्वान्तरसिद्धिः । कल्पयित्वापि हि तत् युगपत्स्मरणानुत्पन्युपपत्तयेऽवश्याश्रयणीयमेव निमित्तान्तरम् । सन्ति हि युगपदस्य स्मर्तु नार्थानुभवभाषितास्संस्काराः; अथ च न सर्वे स्मर्यन्ते; किश्चिदेव कदाचित्स्मर्यते ।। संस्कारोन्मेषहेतूपनिपातक्र- मात्तथात्वमिति चेत् , एवमपि प्रणिधानमालोद्वोधनीयसंस्कारस्य स्मृ. तियोगपद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्या हृतचेतसस्साधारण्येन प्रणिदधतोऽपि न सर्व एवार्थास्स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाट्यवस्था, क्रम*ज्ञानस्वा- भाव्याद्वाऽऽत्मनः, तथासति बहिरिन्द्रियेषु च यथायथं स्वविषयसंप्रयु- तेषु तथैवं युगपद्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण । ( सुखाद्यसमवायिसंयोगाश्रयतया मनस्सियाक्षेपः ) स्यान्मतम्-कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषया- दृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यम् । तच्चात्ममनस्सन्निक- घे इति मनोद्रव्यसिद्धिरिति-तदसत्-सुखदुःखादिपूर्वकालजन्मनोऽभि- मतानभिमतविषयसंपर्कजज्ञानस्यात्मसमवायिन एवासमवायिकारण- स्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंपयोग एवात्मसमवेतोऽसमवायि. कारणम् । तद्धतुरपीन्द्रयव्यापारः प्रयत्नमदृष्टञ्चात्मसमवेत- मपेक्षमाणादात्मेन्द्रियसनिकर्षादसमवायिकारणात् । प्रयत्नस्य तु स्व- तनगतप्रवृत्तिवारणाय तन्त्रीकृत्येत्यन्तम् । १. उक्तं मनस्साधनप्रकारमाक्षिपति आहेत्यादिना, ' उच्यते-यदि बुद्धिरेव मन {२४ - पु.) ' इत्यतः प्राग्य- न्थेन । २. युगपदिति सन्तीत्यत्रान्वेति; स्मर्यन्त इत्यत्रानुषज्यते । ३, एकदा एकज्ञानजनकत्वमात्मनस्वभावः । समबलनानाज्ञानसामग्रीकाले ज्ञानविशेषप्राथ. म्येऽदृष्टं नियामकम् । ४.विषयसंप्रयोगहेतुः । * व्यवस्थाक्रमः, ज्ञानस्वाभाव्याद्वा । 5 २२ आत्मासिद्धौ -- पूर्वक्षणवर्ति कर्तव्यताज्ञानम् । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशे-- षगुणानांबुद्धिसुखदुःखेच्छादीनामसमवायिकारणसापेक्षतयापि द्रव्या- न्तरपरिकल्पनं न्याय्यम् । ( आत्मगुणस्य संयोगैकासमवायिकत्वसाधकभङ्गः ) यत्तु-नित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकार- णम् , पार्थिवपरमाणु ग्निसंयोगादसमवायिकारणाद्रूपोत्पत्तेरिति-तदपि स्थवीयः, पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कुतोऽव- गतम् ? कार्यद्रव्ये तथा दर्शनादिति चेत्-इह वा तर्हि किं न दृश्यते, इष्टानिष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति । दृष्टकारणव्यभिचारे हि कारणान्तरानुमानावसरः । नचेहास्ति व्यभिचारः। अतः प्रसि कारणभावेष्वेव यत्र कार्यसमवायः, तत् समवायिकारणम् । यत्तु तत्पत्यासन्नम् , तदसमवायि; यत् अन्यत् , तत् निमित्तमिति व्यवस्था- श्रयणमुचितम् , नत्वनपेक्षितापसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्या. समवायिकारणत्वाश्रयणम् , कारणान्तरानुपलब्धेः । दृष्टानुसाराचाणु- गतरूपादौ तथाभ्युपगमः । इह तु तद्विपर्ययः प्रदर्शित एव । (संयोगासमवायिकत्वेप्यभीष्टमनोऽसिद्धिः) एवमपि व्याप्तिवलेन यो (यदि) द्रव्यान्तरसंयोगोऽनुमातव्यः स तर्हि स्पर्शवव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदे- हादिसंयोग एवानुमानपर्यवसानान्न नवमद्रव्यासिद्धिः । अथोच्येत - भौतिकत्वं हि मनसः पृथिव्याद्यन्यतमत्वेन भवितव्यम् । तच्चानु. मानान्तरैय॑तिरेकमापादयद्भिः प्रत्यासिद्धम् । तथाहि - न पार्थिवं २. रूपादि प्रति रूपायेवासमवायिकारणमिति नियमः कचिदग्निसंयोगान्व- यव्यतिरेकबलाद्यथा भव्यते, तथा संयोगासमवायिकारणकत्वमप्यात्मनि पूर्वपूर्व- गुणान्वयव्यतिरेकबलाद्भज्यताम् । किमप्रसिद्धसंयोगतदाश्रयकल्पनेन, असम. वायिलक्षणे ज्ञानादिभिन्नत्वनिवेशेन चेति । २. संयोगासमवायिकारणकत्वाऽऽग्र. हेपि मनसो भौतिकत्वापत्त्येष्टासिद्धिरित्याह । ३. भौतिके-भूतपरिणामे । अनेन स्वर्शवव्यस्य तस्यानित्यत्वमप्युक्तम् । ४. ज्ञानासमवायिकारणसंयोगाश्रयवस्तु न .
मनस्सिद्धिविचारः २३ मनः, रसावगमनिमित्तन्द्रियत्वासनावत् , न पायसीयं गन्धग्र- हणनिभित्तेन्द्रियत्वात् घाणवत् । एवमलेजसत्वाद्यपि तत्तदिन्द्रियागोच. रग्रहणनिमित्तनया शक्याध्यवसानमित्वभौतिकत्वं मनस इति - तदनु- पपन्नम् . धर्मिविशेषविपरीतसाधनान् : रसावगमनिमित्तन्द्रियत्वमाथि- वत्वमिव पाथसीयत्वमपि समर्थयनि (ते । एवं साधनान्तराण्यपि भूता न्तरव्यतिरेकमिवाऽऽत्मीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूप- रसगन्धेषु यद्गुणग्राहि यदिन्द्रियम् , तदेव तद्गुणकभूतारब्धम् हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाप्यवगतमिति नै तदवगमकतामात्रेणा- भिमतव्यतिरेकसिद्धिः। अपिच शब्दादिगुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम् , एकद्विवादिमयं वेतरभूतसंसृष्टमस्तु मनः । तथाम्नायते 'अन्नमयं हि सोम्य मन' ( छा.६४) इति । नतु तन्न तत्प्रकृतित्वप्रतिपादनपरम् , अपितु तदधीनप्रवृत्तिता मात्रप्रदर्शनार्थम् , 'आपोमयः प्राण' इत्यादिवत् । अतएवापवर्गदशा- यामपि मनोऽनुवृत्तिः। दर्शितं हि तत्रैवाष्टम 'मनसैतान्कामान्पश्यन् रमते' मनोऽस्य देवं चक्षुः' इति । तथा परस्याश्च देवतायाः, सोन्यं काम मनसा ध्यायीते ति महोपनिषदि । 'मनसैव जगत्सृष्टि' मिति च पुराणे । ( मनसो बुध्यन्तर्भावः) उच्यते, सत्यमेवम् : द्रव्यान्तरपरिकल्पनातो वरमेवं वाश्रयणमि- त्युक्तम् । परमार्थतस्तु न भौतिकं, नापि नवमं द्रव्यम् । क तहीदानी मनश्शब्दः? बुद्धारेव । अत एव हि बुद्धिमान् मनस्वीति व्यपदि- भौतिकं पार्थिवादिव्यतिरिक्तत्वादित्यनुमानम् । तत्र प्रत्येकव्यतिरेकं साधयति । १. धर्मिणि पक्षेभिमतो यो विशेषः अभौतिकत्वं तद्विपरीतपाथसीयत्वादि- साधनाद्धेतुर्विशेषविरुद्ध इति । २. यद्गुणमात्रग्राहि । ३. गन्धमात्रग्राहिता पृथिवीमात्रारब्धत्वे प्रयोजिका, घ्राणे पृथिवीतरानारब्धत्वविशिष्टपृथिव्यारब्धत्वदर्श- नात् । अतो मनसि गन्धमात्रग्राहित्वाभावात्तन्मानारब्धत्वाभावसिद्धावपि न तदारब्धत्वासिद्धिरिति । ४. इयं शरीरदृष्टान्तेन भौतिकत्वसाधकहेतुः । भौतिकत्वं सकलभूतोपादानकत्वं वा किञ्चिद्भूतोपादानकत्वविशिष्टान्यभूताप्यायितत्वं वा । .
२४ आत्मसिद्धौ दिश्यते । मनसोऽवस्थाभेदाश्च द्रागेवापरोक्ष्यन्ते, क्षुभितं मे मनः, प्रसन्नं मे मन' इति । एवञ्च मनसः करणतया व्यपदेशो बुद्धयहका- रयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति । ( मनोऽचैतन्यनिगमनम् ) उच्यते - यदि बुद्धिरेव मनः, यदि वा द्रव्यान्तरम् , उभय- थापि तस्य न चेतनत्वमिति किमनेनापतिज्ञातस्वरूपविमर्शन ।। ( प्राणात्मवादोपक्षेपः) अस्तु तर्हि प्राण एवात्मा, तथासति तदन्वयिनि शरीरे सात्म- कत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयाताम् । देहा- दुत्क्रान्तिर्लोकान्तरगमनं देहान्तरसञ्चारचोपपद्यन्तेतराम् ,गत्वरस्वाभा- व्यात्प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानु- पपत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्तास्स्युः । (तत्खण्डनम् ) इदमप्यसव , वायुत्वादेव बाह्यवायुवत्माणस्य चैतन्यानुपपत्तेः। वृत्ति- हनिप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्वाच्च । तद्वृत्त्या हि सुप्तस्यापि सप्त- १. बुध्धपेक्षया पृथक्करणतया व्यपदेशः । एकमेव करणं मत्यध्यवसायाभि. मानचिन्तावृत्तिभेदान्मनोबुध्यहङ्कारचित्तशब्दैव्य॑पदिश्यत इति । भौतिकत्व इत्र सात्त्विकाहङ्कारजन्यत्वेपि मोक्षदशानुवृत्त्ययोगादत्र बुद्धिपदं धर्मभूतज्ञानपरम् । तदेव मन इति । अतएवात्रावस्थाभेदानामपरोक्षत्वकथनमपि सुश्लिष्टम् ; मनसः करणतयेत्यत्र पृथक्छब्दाश्रवणञ्च । अयमर्थः - धर्मभूत. 'ज्ञानस्य कार्यगुणात्मकस्य करणतया व्यपदेशो वृत्तिभेदात् । ज्ञानद्रव्यमेवेन्द्रिय. संयोग संस्कारादिव्यापारं सत् करणम् । तदेव प्रत्यक्षस्मरणाद्यवस्थापन्नं कार्यम् । करणावस्थायामेव मनश्शब्दः; यथाऽहङ्कारे बुद्धिशब्दस्तत्पदविवक्षितवृत्त्यन्य- वृत्तिविवक्षयेति । २. एवं द्रव्यान्तरप्रतिक्षेरे सिद्धान्त्येकदोशना कृते स्वयमुप- युक्तमुत्तरमाह । ३. प्राणस्येन्द्रियादिसर्वनिर्वाहकतया श्रेष्ठ्यं लोकवेदप्रसिद्धम् । ४. झानादिक्रियाहीने । ५. रसासृङ्मासमेदोऽस्थिमज्जाशुक्राणि धातवः । अन्नादेः रसाधुत्तरोत्तरात्मना क्रमेण परिणामः । यद्वा मनसो ।
बौद्धाद्वैतिनोस्संविदात्मवादः २५ - धातुभावेन अशितपीनद्रव्यपरिणामः, श्वासप्रश्वामौ च । ननु नग्नजो ऽबन्नानुविद्धः कौष्ट्यमारुनो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे ब- हिश्च रोचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति । किश्च - निरस्तो देहचैतन्यप्रतिषेधप्रकारतः । प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ।। ९ ।। अविभुत्वेनास्यात्मनः (अविभोरात्मनः)स्पर्शविरहिणोपि प्रयत्नादृष्ट- प्रेरणानुगुण्येन मनस इवोत्क्रान्तिगत्याद(गत)यो युज्यन्त इति न तन्नि- र्देशानाममुख्यार्थता । परिमाणनिरूपणेऽप्येतद्भविष्यतीत्यलमधुना ।। (घिय आत्मत्वशङ्का) भवतु तर्हि संविदेवात्मा अजडत्वात् । जडत्वप्रतिबद्धं ह्यना. स्म्यं घटादिषु दृष्टम् । जडत्वच संविदो निवर्तमानं तदपि निवर्तयनि । अजडत्वञ्च संविदः सत्तयैव प्रकाशमानत्वात् । न हि सती संविन् घटादिरिवाप्रकाशमानाऽवतिष्ठते, येन परायत्तसिद्धिरास्थीयेत । (भाट्टमतेन धियो जडत्वशङ्का) स्यान्मतम् - जातायामपि संविदि विषयमानं प्रथते । न खलु नीलमिदमिति प्रतियन्तस्तदैवानीलमनिदरूपमपि संवेदनं प्रतीमः। अत- स्स्वरूपसत्यैव संविदा इन्द्रियसन्निकर्षेणेव विषयः प्रकाश्यते । ततश्च तद्गतागन्तुकप्रकॉशातिशयदर्शनेन पश्चात्संविदनुमास्यत इति । ( ज्ञातताग्वण्डनेनाजडत्वोपपादनम् ) तन्न, ज्ञानव्यतिरेकिणोऽर्थधर्मस्य प्रकाशस्य निपुणमपि निरी- क्षमाणानां रूपादिवदनुपलब्धेः । उभयाभ्युपेतसंविदैव सकलव्यवहा- रोपपत्तौ च तत्कल्पनानुपपनेः। वित्तिवेदितपतिभासशून्यायांच विष- यवित्तावभ्युपगम्यमानायां, 'घटस्तावदयम् , अहं तु जानामि नवेति १. स्वप्रयत्नस्य, अदृष्टस्य, मुक्तावीश्वरादिप्रेरणायाश्चानुरोधेन । २. व्यापी- त्येतद्विवरणावसरे । ३. जडत्वव्याप्यम् । ४. नीलरूपेदमभियव्यतिरि. कम् । ५. प्रकाशो ज्ञातता तद्रूपो योऽतिशयो विशेषस्तस्य । अमुना। 6 आत्मसिद्धी न ज्ञायत' इति च कदाचित्प्रतिभासस्स्यात् । नचैवमस्ति ।। अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयोरभावे, भा- वेपि, ततः प्रागेव विदितत्वमनीतेः नानुमानिकी तत्र * विषयप्रकाश सिद्धिः, नंतरां तत्पूर्विका तत्र वुद्धिसिद्धिः । तथाहि- केनचित्प्रेरितः प्रणिधाय स्मृत्वाऽनन्तरमेव प्रतिवदति 'स्मृतमद्य मये' ति । नचायमेव व्याहारस्तत्र लिङ्गम् , तत्पूर्वकत्वाद : अन्योन्याश्रयणापतेश्च । स्व. व्याहोरण स्वज्ञानानुमान क इव निरपत्रपः प्रतिजानीत ? (स्वयंप्रकाशत्वे हेत्वन्तरम् । अन्यच्च - यत्सम्बन्धादर्थान्तरे यो व्यवहारः, धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः, न तु तत्सम्बन्धनिवन्धनः । यथा सत्तासंबन्धात्पृथिव्यादिषु सट्यवहारः रूपसम्बन्धाच्च चाक्षुषत्वं सत्तायां रूपे च । एवं संवित्सम्बन्धात्प्रवर्तमानो घटादिषु प्रकाशत(?)इति व्यव- हारः, प्रकाशमानत्वं वा धर्मः संविदि तु परिदृश्यमानो न संवित्स- म्बन्धापेक्षः, अपितु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्वात्सवात्मेति । (लायवादपि संविदतिरिक्तात्मनिरासः ) किश्च योपि संविदोऽन्यं संवेदितारमभ्युपगच्छति, अभ्युपगच्छ- त्येवासी संविदम्। नासत्यामेव संविदि 'संवेत्ती'त्युपपद्यते । एवं चेत् , उभयवादिसंप्रतिपन्नतया सेव वरं वेदित्री भवतु । किमन्येन कल्पितेन । (अहं जानामीत्यस्यातिरिक्तात्मासाधकत्वम् ) नन्वहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतोऽयमात्मा प्रती- १. किचातीताद्यर्थानुमानादिस्थले प्राकट्यदर्शनायोगात्कथं प्राकट्येन बुध्य- नुमानम् ? वाचिकव्याहारेण कायिकहानोपादानादिना वा प्राकटयानुमानमिति तत्र तयोरभावपि विदितत्वज्ञानसत्त्वात् । तयोर्भावेपि, तदुत्पत्तेः प्रागेव विदित्वज्ञानाच । २. अयं शब्दप्रयोग एतज्ज्ञानजनक इति ज्ञात्वा किल व्याहारः क्रियते । ततो ज्ञानज्ञानं प्रागेवापेक्षितमिति । ३. प्राकट्यम् । ४. अतिरिक्तात्मसत्त्वे तदधीनप्रकाशा संवित् स्वयंप्रकाशा न स्यादिति । विषयसिद्धिः -- . ६ सैव परम् बौद्धवादभङ्गः यते -सत्यम् ; स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यस्संश्र- यितुम् । भेदज्ञानसिद्धवत्कारेण पृथग्रस्तुतया-गृहीताव्याभिचारेण सहो- पलम्भनियमेन,अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगान् प्रका- शस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनोऽहमित्यंशस्य त. स्वमेव दुरुपगमम्। ( ग्राहकवत् ग्राह्यस्याप्यसत्यत्वमुक्त्वा निगमनम् ) ग्राह्य विकल्पप्रत्युद्धारेप्येष एव प्रकारः। अतो वासनाभिधान- समनन्तरप्रत्ययसामर्थ्यांदनाद्यविद्यावशाच समारोपितावास्तवग्राह्य- ग्राहकविकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती; सेवात्मेति सौगताः प्रकटाः प्रच्छन्नाश्च । यथाहुः प्रकटाः- अविभागोपि बुध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥' इति । यथा वा प्रच्छन्नाः- 'शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः। ज्ञातृज्ञेयविभागस्य मायेव जननी ततः ।। ' इति । (प्रकटबौद्धमतखण्डनम्) अत्राह - क्षणभगिनी प्रतिविषयमन्याऽन्या च संविञ्चकास्ति । सेव चेदात्मा, पूर्वेद्यदृष्टमपरद्युः ‘अहमिदमदर्श' मिति कथमिव प्रत्य- १. प्रत्यक्षत्वसंश्रयणमशक्यमित्यर्थः । २. दृष्टव्याप्तिकेन संवित्सहोपलम्भनि- यमरूपहेतुनाऽहमित्यंशस्य प्रकाशात्मत्वं संविद्रूपत्वं सिद्धम्। एममहमर्थस्याप्रकाशरू- पत्वे प्रकाशायोगः,प्रकाशाप्रकाशयोविरोधात् ; प्रकाशरूपत्वे च संवेदनत्वापत्तिरिति हेतुनापि । एवं संविदभिन्नस्याहमर्थस्य संविद्भिन्नत्वज्ञानं पारमार्थिकतया सिद्धव- स्कृत्य संविदपेक्षया पृथग्वस्तुतया स्थितिदुरुपगमेत्यर्थः । पृथग्वस्तुतयेत्यन्तस्य तत्त्वमेव दुरुपगममित्यत्रान्वयः । ३. ग्राहकरूपस्य विकल्पस्याहमर्थस्येव, ग्रा- ह्यस्य घटादेरपि घटमहं जानामीति सहोपलम्भनियमादिना पृथग्वस्तुत्वनिरासे इत्य- र्थः । विकल्पो नाम व्यावर्तकांशः। ४. अव्यवहितपूर्व ज्ञानम् । ५. बुद्धिरूप आत्मा प्रामग्राहकाभिन्नोपि भ्रान्तैर्भेदवानिव दृश्यते । ६. अनिवृत्तिप्रसंगात् - अनिर्मोक्षप्रसंगात् । ७.दृष्टमिति, अपरेद्युरिति च प्रत्यभिजानीयादित्यत्रान्वेति। ..
२८ आत्मसिद्धौ भिजानीयात् । न च निरालम्बनप्रतिभाभेदमात्रतया इह समाधे- यम् , निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसकलप्रतीतिबाधितविषयः त्वात् । साधनस्य च सालम्बनत्वे, तदविशेषादशेषशेमुषीणां तथा स्वापत्तेः । निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः । प्रपञ्चि- तश्च पूर्वोत्तरमीमांसाभागयोनिरालम्बनत्वप्रतिषेधः; यथार्थख्यातिसमः नेन च शास्त्र इति न व्यावर्ण्यते । [ सन्तानाश्रयणेपि प्रत्याभिज्ञाऽनिर्वाहः ) अतएव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः । विज्ञानक्षणव्यतिरिक्तस्य स्थायिनोऽनुसन्धायिनस्सन्तानस्याभ्युपगमे स्वसिद्धान्तत्यागः, परसिद्धान्नाभ्युपगमश्च । अनभ्युपगमे प्रत्यभिज्ञा. ऽनुपपत्तिः । न ह्यन्येनानुभूतेऽन्यस्य प्रतिसन्धानसम्भवः । न च सुस- दृशतया भेदाग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः, युज्यते हि तत्रैकस्यैवं पूर्वापरव्यक्तिदर्शिनस्तुल्यसंस्थानतया व्यक्तीनां भेद- मविदुषस्तथाभ्रमः, इह तु संविद्वयक्तयः परस्परवार्तानभिज्ञा निरन्व- यविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्याश्रयता विषयता वा संभविनी । न च सदृशत्वेपि, अन्येन कृतमात्मकृततयाऽन्योऽनुसन्धा- तुमलमित्यागमापायिसंवित्सन्तानाश्रयःप्रत्यभिज्ञानक्षणस्थायी चेतना भ्युपगन्तव्यः। (एतदोषोद्धाराय प्रच्छन्नेन संविदजत्वनिर्विकारत्वनिर्भेदत्वस्थापनम्) कश्चिदाह - न संविदनित्या, प्रागभावाद्यसिद्धेः। तदसिद्धिश्व १. निरालम्बनत्वगमकपरामर्शस्य । २. भागपदेनैकशास्न्यं दर्शितम् । पूर्व- भागे १. १. सत्संप्रयोगसूत्रवृत्तौ, उत्तरभागे २ . २. पादे । ३. न्यायतत्त्वे । ४. प्रदीपदृष्टान्तेन प्रत्यभिज्ञानोपपादनं ग्रहीत्रैक्यमङ्गीकृत्य ग्राह्यमात्रभेदस्वीकारे स्यात् । ग्रहीत्रैपस्याप्यस्वीकारे तु पूर्वप्रतिसन्धानाद्यभावेनात्मनः प्रत्यभिज्ञाश्रय- स्वायोगान किमपि प्रत्यभिज्ञाविषयीभवेदिति । ५. इष्टसिद्धिग्रन्थकारो विमुक्ता- स्मनामा आगमापायिसंवित्सन्तानेत्युक्तमसहमानोऽद्वैती । इयं संविदात्मशङ्कासमाधा- नसरणिः प्रायो जिज्ञासाधिकरणभाष्येऽनूदितैवेति सर्व ततस्सुगमम् । ६.उत्पन्ना।
अद्वैतात्मवादः २९ नस्याः स्वतसिद्धत्वात् । न हि स्वतसिद्धस्य पागभावादयस्वतोऽन्य तो वा सिध्यन्ति । स्वयं हि स्वाभावमवगमयन् , सद्वाऽसद्धा साधयेत्। सत्वे, अभाव एव नास्तीति कथं साधयेत् ? असत्वादेव सा. धकस्य, पक्षान्तरे नतरां साधकत्वमिति न स्वतस्तावत्तत्सिद्धिः। ना- प्यन्यतः, अनन्यगोचरत्वादनुभूतेः; अनुभाव्यत्वे च घटादिवदननु- भूतित्वप्रसङ्गात् । अतस्सा न जायते ।। जन्माभावादेवेनरेऽपि भाव- विकारा निराकार्याः; तत्पतिवद्धत्वात्तेषाम् । अत एव नानात्वमपि संविदि प्रत्युक्तम् । उत्पत्तिमत्त्वव्यापकनिवृत्त्या तव्याप्यभूतनानात्व- स्यापि निवृत्तिसिद्धः । नाजं विभाग्यस्ति । चत्यत्वाच्च भेदेतरेतरा- भावादयो न तद्धर्माः, रूपादिवत् । अतोऽ*स्या न मेयः कश्चिदपि ध- . स्वयंप्रकाशत्वात् । स्वयंप्रकाशत्वं हि स्वेतर प्रकाश्यत्वविशिष्टस्वप्रकाश्य . त्वम् । तत्र स्वकाले स्वप्रागभावाभावात् , स्वप्रागभावकाले च स्वाभावात् स्वप्रा- गभावस्य स्वप्रकाश्यत्वं न संभवति । नापि ज्ञानान्तरप्रकाश्यत्वम् , स्वप्रागभावस्य स्वात्मकप्रतियोगिनं विहाय प्रकाशनायोगात् , स्वस्य च स्वान्यग्राह्यत्वे स्वयं- प्रकाशवघटकस्वेतराप्रकाश्यत्वदलभङ्गापत्तेरिति भावः।। तद्दल प्रवेशावश्यकता दर्शय ति २.अन्विति। ३.ऋद्धिपरिणामापक्षयविनाशाः । ४.जन्मव्याप्यत्वात् । ५. ज- न्माभावादेव। ६. उत्पत्तिमत्वरूपस्य व्यापकस्याभावेन ! नानात्वं सजातीय भेदः; स एव विभागः। भेदो वैजात्यम्। 'भेदः प्रसिद्धतरो लोके,इतरेतराभावश्चे' (२ पु) तीष्टसिद्धिवाक्यानुरोधेन भेदेतरेतराभावयोः पृथग्ग्रहणम् । यही विभाग सर्वविधभेदः । 'अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्ये ' ति अत्र वक्ष्यमा णत्वात् । इष्टसिद्धिग्रन्थे विभागशब्दस्य देशपरिच्छेदपरत्वप्रतीतावपि तत्रापि अ. जत्वहेतुना ' अमेयानन्ते ' ति कारिकोक्तमेयशून्यत्वत्रिविधपरिच्छेदराहित्ययोस्सा- धनान तात्पर्यविरोधः। संवित्पक्षकानुमानमुक्त्वा धर्मपक्षकानुमानमाह चेत्यत्वा- दिति । चेत्यत्वं चेतनाविषयत्वम् । * अतो नास्यानुमेयः इति, अतोऽस्यानुमेय इति च पाठः ' अनु' इत्यस्य व्यर्थत्वादप्यशुद्धः ; 'यदपि नास्या मेयो धर्मोप्यस्तीति वक्ष्यमाणानुवादानुसाराच; इष्टसिद्धिग्रन्थानुरोधाच्च । तद्न्थे आदौ येत्यनेन स्वत- .. 7 ३० आत्मसिद्धी मोस्ति। अतो निधूतनिखिलभेद(दा)विकल्पनिर्धर्मप्रकाशमात्रैकरसा कूट- स्थनित्या संविदेवात्मा परमात्मा च । यथाह ‘याऽनुभूतिरजाऽमेया- ऽनन्तात्मे' ति । सेव च वेदान्तवाक्यतात्पर्यभूमिरिति तेषां परिभाषा यथाह तद्वार्तिककारः परांगर्थप्रमेयेषु या फलत्वेन संमता । संवित्सेवेह मेयोऽर्थों वेदान्तोक्तिप्रमाणतः ।। अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने । वेदान्तानामतस्तस्मानान्यमर्थ प्रकल्पयेत् ।। ' इति । (प्रच्छन्नमतभङ्गः) तदिदमलोकिकमवैदिकं च दर्शनमित्यात्मविदः । तथाहि (लोकानुभवापेतत्वोपपादनम् ) संविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानाव- गत्यनुभूत्यादिपदपर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः। तथैव हि सर्वप्राणभृत्सत्यात्मसिद्धोऽयमनुभवः, 'अहमिदं संवेमी' ति। तस्यास्योत्पत्तिस्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते । वापमदमूर्छादशासु च योग्यानुपलम्भनिराकृतस्तत्सद्भावो नाभ्युपग- ममर्हति । यदि हि तास्वपि दशासु संवेदनमवर्तिष्यत, ततः प्रबोधसमये- स्सिद्धत्व सूचनान्मयभिन्नत्वस्य लब्धत्वादमेयेत्यत्र बहुव्रीहिः । तत्रामेयत्वंप्राग्विवृतम् ; अनन्तत्वं पश्चात् ; अत्रत्वमेयत्वं पश्चादिति भेदः। 1 भेदविकल्पो भेदप्रकारः। १. ' यानुभूतिरज!ऽमेयानन्तामाऽऽनन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ता' मितीसिद्धिमङ्गलइलोको वक्तव्यार्थसंग्रहरूपः । २. प्रमेयभूतबाह्यार्थ. विषये प्रमाणफलत्वेन कल्पिता,प्रमाणवृत्तिप्रतिबिम्बतया साह्यमता वा संविदेव वेदान्तोक्तं चिद्रूपं ब्रह्म । अन्यथा शशविषाणादिवदत्यन्ताप्रसिद्धार्थपरत्वे वेदान्तस्या प्रामाण्यापत्तिः । तस्मादतोऽन्यं प्रसिद्धसंविद्भिन्नमथं न कल्पयेदिति । यद्वा सा संविदेवेह व्यवहियमाणो मेयो ग्राह्यग्राहकरूपोऽर्थः । तदध्यस्तताइगर्थापेक्षयाऽ- न्यवास्तवमेयकल्पने चाद्वैतवेदान्ताप्रामाण्यमिति ।।
अद्वैतात्मवादमङ्गः ३१ . ऽनुसमधास्यत । नचानुसन्धीयते। अत एव हि, इयन्तं कालं न किञ्चि- दहमज्ञासिष'मिति प्रबुद्धः प्रत्यवमृशति । यावदनुभूतपदार्थस्मरणनिय- माभावीप, संस्कारविच्छेदनिमित्तप्रायणादिप्रवलहेतुविरहेपि नित्यवद- स्मरणमनुभवाभावमेव साधयति । न च सत्यपि संवित्प्रकाशे विषया- वच्छेदविरहादहङ्कारंगोचरापायाद्वा तत्स्मृत्यनुदयः, अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाशप्रयुक्तकार्यप्रतिवन्धकत्वायोगान् । 'त्रित. यावभासेपि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् । न च प्रत्यभिज्ञावललब्धस्थेमाऽहमर्थः, स्वापादिदशासु निर्धनमुपगत इति शक्योऽभिधातुम् । अत एव हि, 'इयन्तं कालमहमस्वाप्स' मिति प्रबोधे परामर्शः । न च निर्विषया निराश्रया वा संविन्नाम काचित्सं- भवति, अत्यन्तानुपलब्धेः । सम्बन्धिशब्दाश्च संविदनुभूतिज्ञानप्र- काशादिशब्दा इति शब्दार्थविदः । नद्यकर्मकस्य जानात्यादरकर्तकस्य वा प्रयोगो लोके वेदे वा। ( संविदा स्वप्रागभावाद्यग्रहनिरासः) यत्तु स्वतस्सिद्धस्य सत्व तद्विरोधादेव प्रागभावादेस्तदानीमव- स्थानासंभवान्न ततम्सिद्धिरिति - तदतिस्थवीयः, न हि संविदा स्व- १. नित्येन तुल्यमस्मरणम् । नित्यं तदस्मरणमिति यावत् । २. अहमर्थ- विलयात् । ३. सुषप्तौ अहमर्थाभावो विषयाग्रहणञ्च सुषुप्तिकालाभ्युपगतसंवि- प्रकाशाधीनजागरकालिकतत्स्मरणरूपकार्यप्रतिबन्धके न भवतः । अन्यथा पृष्ठ- ताडनेन दन्तभङ्गापत्तेरिति । ४. ननु सर्वस्मिन्नगि ज्ञाने ज्ञातृ यज्ञानत्रयभा- नस्य घटमहं जानामीत्याद्याकारबलादभ्युपेयत्वात् अन्वयव्यतिरकानुविधानवशात् ज्ञात्रादिभानमपि ज्ञानस्मरणे हेतुः कल्प्यत इत्यत्राह त्रितयेति । एकानुभवस्या- न्यस्मृतिहेतुताया लोकेऽदर्शनेन तत्स्मरणं प्रति तत्प्रकाशो हेतुरित्यस्यैव क्लृप्ततया कल्पनान्तरे मानाभावात् ज्ञानाद्यभानात्तदस्मरणेपि ज्ञानस्मरण स्यादिति । अपी- त्यनेन तदसंमतिः, तदादरे सुषप्तौ ज्ञानस्याप्रकाश एव स्यादिति च सूच्यते । ५. योऽहं पूर्वेचुर्गामपश्यम् , सोहमिदानी क्रीणामीत्येवम् । ६. नाशम् ।
भात्मसिद्धौ कालवर्तिन एवार्थास्सिध्यन्तीत्यस्ति नियमः, अतीतानागतयोरसंवे- द्यत्वप्रसङ्गात् । अथ संवित्यागभावादस्सिध्यतस्तत्समकालतया भवि- तव्यमिति; किमेवं कचिदृष्टम्? हन्तैवं सति तत्सिद्धेर्न प्रागभावाद्यसि- द्धिः। तत्पागभावः तत्समकाल इत्युन्मत्तवचः । ऐन्द्रियकरत्यक्षस्व- भावो ह्ययं स्वसमकालपदार्थप्रकाशकत्वं नाम; न ज्ञानमात्रस्य, प्रमाण- मात्रस्य वा । एतेन (एतेनै ? ) तदपि पराकृतम् - 'मानं स्वयंप्रकाशत्वात्स्वतस्सचेत्सदास्त्यतः । तन्मेयं च सदाऽस्त्येव मानं मेययुगेव हि ।।' इति । न हि मानस्य स्वसत्ताकालेऽर्थाविनाभावो मेययोगः, किन्तु यद्देशकालादिमत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वम् । अत एव 'स्मृतिर्न बाह्यविषया नष्टेप्यर्थे स्मृतिदर्शना' दित्यपि प्रलापः। (प्रमाणाभावात्प्रागभावासिद्धिरित्यस्य भङ्गः ) अथ संवित्यागभावादेरवर्तमानतया न प्रत्यक्षत्वम् । लिङ्गाद्यभा- १. नन्वर्थान्तराणामतीतानागतानां ग्रहणमस्त्येव । संविधागभावतद्धंसादि. विषय एवायं नियमः यत्र गृह्यमाणत्वविशिष्टसंविःप्रागभावत्वादि, तत्र तत्सम- कालत्वमितीति शङ्कते अथेति । २. संवित्प्रागभावस्य परं समकालवर्ति- सेविदा ग्रहणम् । ३. प्रमितिसामान्यस्य । ४. माने स्वयंप्रकाशत्वस्य अत एव स्वतःप्रामाण्यस्य चेष्टत्वात् तस्य सत्त्वे, यत् सन् तत्सर्वदैव सदिति न्यायेन सदा सत्त्वमिति तत्प्रमेयस्यापि सदातनत्वमेव, मानस्य मेयाव्यभिचारित्वादित्यर्थः । अतो मानमेव न स्वीकार्यम् ; नित्यमेयमानं वा स्वीकार्यमिति भावः । ५. मेयेन नियतयोगः। मानस्य मेययुक्तत्वं न स्वसत्ताकालव्यापिस्वमेयकत्वम् , किन्त्वबाधितमेयरूपकत्वम् । अयमपि कश्चिदविनाभाव इति भाष्ये । नाय समानकालिकत्वघटितः, किन्तु तन्मितिस्तन्मयनिरूपितप्रकारतासंबन्धेन यद्दे- शकालादौ, तन्मयं देशिककालिकस्वरूपादिसंबन्धेन तत्रेत्येवंरूप इति । प्रसिद्धश्च प्रमायाः प्रमेयाविनाभावः । अत एवं न्यायसूत्रादौ ' अव्यभिचारी' ति भ्रमवारणं क्रियते । अत्रापि 'युगेव' ही ति हिशब्दैवकाराभ्यां मेययोगनियमप्रसिद्धिर्दर्शिता । - अद्वैतात्मवादभङ्गः ३३ त्वात् । वाच न प्रमाणान्तरतस्सिद्धिरिति - यद्येवम् , अकारणं तर्हि स्वत- स्सिद्धत्वं प्रागभावाद्यमिद्धः । प्रमाणाभाव एव हीदानी वाच्यः; न च तदभावश्शक्योषिधातुमित्युक्तमेव, योग्यानुपलब्ध्यैवाभावस्य समर्थित- (कादाचिकत्वे युनयन्तरम् ) अपिचं प्रत्यक्षसंवित् स्वसत्ताकाले स्वविषयस्य सद्भावं साध- यन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते 'अहमिदानीमेवा- स्मि नान्यदे'ति कालविशेषावच्छिन्नैव सा चकास्तीति । इतरथा घटा- देरपि नित्यत्वप्रसङ्गात् । एवमनुमानादिसंविदोपि। न च प्रत्यक्षानु- २. प्रागभावो नास्तीत्यत्र स्वतस्सिद्धत्वं न हेतुर्भवेत् ; किन्तु प्रमाण भाव एव । स च नास्ति; प्रागभावस्यानुपलब्धिप्रमाणकत्वात् संविदनुपलब्ध्यैव संविधा- गभावस्योक्तत्वात् (पु. ३० -३१)। २. प्रत्यक्ष कालविशेपावच्छिन्नं भाति स्वकाल एवं विषयप्रकाशकावे सति कालविशेषावच्छिन्नतया तत्प्रकाशकत्वादिति युक्तयन्तरमाह अपिचेति । ज्ञानस्वप्रकाशस्य ज्ञानविषयकप्रत्यक्षतुल्ययोगक्षेम- स्वात्प्रत्यक्षेणेव तेनापि प्रकृतकालावच्छिन्नतयेव ज्ञानभानम् । तत्रानया युक्तया प्रत्यक्षसंवित् स्वस्मिन् किञ्चित्कालावच्छिन्नत्वमानं कालान्तरानवच्छिन्नत्वविशिष्ट- मनुमापयतीति ! अहमिति संविदुच्यते । संविदिदानीमेवास्ति नान्यदेति पुरुषो मन्यत इति वक्तव्ये, 'अहमिदानीमेवास्मी' ति संविन्मन्यत इति निर्देश औपचा- रिकः, घटो गुणमाकाङ्क्षति, भावना अंशत्रयमपेक्षन इत्यादिवत् । ३. प्रत्य- क्षसंविदस्सर्वकालेपि भाने, सर्वकालावच्छिन्नत्वे इति वा । ४. अनुमानादि. संविदोऽपि कालविशेषावच्छिन्ना एवं चकासतीत्यर्थः नासा सर्वकालावन्छि- न्नत्वेपि विषयनित्यत्वापत्तिः-यत्रानुमितिश्शाब्दधीरन्या वा संवित् स्वकालवर्तमान- तया घटादिग्राहिणी, तत्र तस्यास्सर्वकालावच्छिन्नत्वे तद्वस्तुनित्यत्वापत्तिरिति । पूर्वकालाद्यवच्छिन्नतयाऽभानरूपयोग्यानुपलब्ध्या संविसामान्यानित्यत्वं प्रागेवो- क्तम् । तत्र सति इयमपि यथासंभवं युक्तिः । एवञ्च एवमित्यस्य प्रत्यक्षवत् वर्तमानविषयग्राहिण्य इत्यप्यर्थो भवेत् । तदोद्देश्यविशेषणम् । एवं कतिपयसंविद- नित्यत्वे तत्सामान्यादितरत्रापि तथात्वं युक्तमिति च भावः । विस्तरस्त्वन्यत्र । 8 ३४ आत्मसिद्धौ . मानादिभेदशून्या निर्विषया निराश्रया धीस्सम्भवतीत्युक्तमेव । ( संविदोऽननुभाव्यत्वभङ्गः) नचान्याविषयत्वात्संविदः अन्यतस्तत्मागभावाद्यसिद्धिः; अज्ञा- सिषमिति प्राक्तनसंविदोऽद्यतनधिया विषयीक्रियमाणत्वात् । प्रतिकू- लानुकूलविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः । तदनभ्युपगमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिकसमस्तव्यवहारा- भावप्रसङ्गः। गुरूपसर्पणाचनुपपत्तिश्च ; ज्ञानवत्वेन तस्याप्रतीतेः । ( अनुभाव्यत्वेऽनिष्टापादनपरिहारः) नचान्यविषयत्वेऽननुभूतित्वम् । स्वाश्रयस्य स्वसत्तयैव प्रका- शमानत्वं, स्वविषय साधनत्वं वा ह्यनुभूतित्वम् । ते च संविदन्तरविष- यभावपि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्वप्रसङ्गः घटा- देस्तु तथास्वाभाव्याभावादेवाननुभूतित्वम् , नानुभाव्यत्वात् । अपि. चाननुभाव्यत्वेपि समानस्तत्प्रसङ्गः गगनकुसुमवत् । नचात्मनोऽनुभूति- त्वम् , अनुभवितृत्वात् । नाप्यसावननुभाव्यः, अनुभवस्येव स्वत- स्सिध्यतोप्यस्य स्वपरसंवेद्यत्वाभ्युपगमात् । वेद्यत्वेऽनात्मत्वापादनमवे- यत्वेऽपि समानं पूर्ववत् । यदि तु गगनकुसुमस्यासत्वमेवानात्मत्वाननुभू- तित्वप्रयोजकमास्थीयेत, आस्थीयतां तर्हि घटादेरप्यसंविदाश्रयत्वा- ज्ञानाविरोधित्वयोरेव तत्प्रयोजकत्वम् । अथ ते अपि विषयत्वे स्या- तामिति चेत् , अविषयत्वेपि तथैवेत्यलमप्रतिष्ठितकुतापहसनेन ।। १. अयमेतद्विषयकप्रतिकूलताज्ञानवान् एतत्कर्मकहानकर्तृत्वादित्येवम् । २. वृद्धव्यवहारादेः प्रयोज्यवृद्धादिज्ञानानुमापकत्वमुखेनैव शब्दार्थग्राहकत्वादिति भावः! ३. जडज्ञानवादिनैयायिकाढिसाधारण्यायेदम् । ४. अननुभूतित्वप्रसङ्गः । ५. स्वकीयपरकीयधर्मभूतज्ञानविषयत्वोपगमात् । ६. गगनकुसुमवत् । ७. संविदात्मनोवित्तिविषयत्वाङ्गीकार घटादेरिव क्रमेणाज्ञानाविरोधित्वासंविदा- श्रयत्वे स्यातामिति चेत् – अवेद्यत्वपक्षेपि गगनकुसुमवत्तत्र तत्र तत्तत्स्यादिति ।
अद्वैतात्मवादभङ्गः ५ ? . ( अजवस्य विकारान्तरावारकत्वम् ) यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम् , व्यभिचरति तदपि प्रागभावे ! जन्माभावेपि तस्य विनाशदर्शनात् । भावविशेषणो. पादानेपि भवदभिपताविद्ययाऽनैकान्त्यम् । सा ह्यनादिरपि विविध- विकाग्वती; विनाशवती च तत्त्वज्ञानोदयात् ।। अपरमार्थास्तद्विकारास्स- न्तीति चेत् -- परमार्थाश्च ते किं विकारास्सन्ति, जन्मवन्तो वा पर- मार्थाः, येन पारमायेन विशेषणं साध्यस्य साधनस्य वाऽर्थवत्ताम- श्नुवीत ? तथा च सति साधु समर्थितं तर्ककुशलेनेत्यलमनेन ।। ( अजन्वेन निर्भेदत्वानुमानायोगः) यदपि न ह्यजं विभाग्यस्ती' ति - तदपि न, अर्जेस्यैवात्मनो देहेन्द्रियादिभ्यो विभागस्य समर्थितत्वात्। अनादित्वेनाभ्युपगत- स्याज्ञानस्य, आत्मनो व्यतिरिक्ततयाऽवश्याश्रयणीयत्वात् ।। अपरमा- थस्स विभाग इति चेत् -परमार्थभेदः किं जन्मप्रतिबद्धः कचिदृष्टः? नि- बधिप्रतीतिसिद्धच दृग्दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः (संविदो निर्धर्मकत्वानुमाने व्यभिचार व्याघातादि) यदपि नास्या मेयो धर्मोप्यस्ति', 'चेत्यानां न चिद्धर्मत्व' मिति न - तदपि शास्त्रानुमानादिपमाणसिद्धस्स्वयंप्रकाशत्वनित्य- त्वादिधर्मेस्स्वयमभ्युपगतैरनैकान्तिकम् । न च ते चितिमात्रमिति वा- च्यम् - तत्सिद्धावपि तेषु विमतिदर्शनात् । अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षाणिकत्वादि प्रतिजानते वादिनः । स्वरूपभेदाच । स्वा- श्रयं प्रति सत्तयैव कस्यचित्प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु १. स्वरूपासिद्धौ सत्यां दोषान्तरमप्याह । २. तव । ३. सन्तीत्यनुषङ्गः । ४. विभाग इत्यनेन भेदसामान्यविवक्षायामनुपपत्तिमाह अजस्यति। सजाती. यभेदराहित्यं संविन्नानात्वदर्शनाद्बाधितमित्युक्तम् । ५. अत्र, इष्टसिद्धौ च । ६. सिद्धत्वादित्यर्थः । ७. धर्माभिन्नत्वे तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाद्धर्मा- णां मिथस्स्वरूपभेदोपि न स्यादिति । .
नात्मसिद्धौ , . सत्तयैवात्मने प्रकाशमानता । प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम् । तदनभ्युपगमे तु व्यवहारानुगु- ण्यवचनः प्रकाशशब्दः । नित्यता तु सर्वकालवर्तमानता। एकसंख्याव- च्छेदः एकत्वमिति । न च जडत्वकालदेशनानात्वाद्यवच्छेदशून्यता. रूपत्वात्तेषां न यथोक्तदोष इति युक्तम् ; तथारूपैरपि तैश्चितिधर्म- भूतैरनैकान्त्यस्यापरिहार्यत्वात् । संविदि च निषेध्यत्वाभिमतजडत्वा- नित्यत्वनानात्वादिविरुद्धविविधधर्माभावे निषेधोक्तिरुक्तिमात्रमेव ।। चे- त्यश्चाज्ञानमात्मनि दृष्टमिष्टश्च भवताम् ।। अपिच अस्या' इति षष्ठया अनुभूतेस्सम्बन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं, वन्ध्यात्तमिव जन- न्याः, विरुद्धार्थमापद्येत । सिद्धिश्चेदभ्युपेयेत संविदः, स्यात्सधर्मता । नचेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ॥ १० ॥ ननु-सिद्धिरेवं सा कस्य भोः? यदि न कस्य चित् , न तर्हि सिद्धिरेव । सा हि पुत्रत्वमिव कस्यचित्किश्चित्पति। आत्मन इति चेत्- कषष्ठयर्थः तदेवं व्योमारविन्दसदृशवपुषि यथोदितशि वेदान्ततात्पर्य वर्णनं वेदान्तायैव स्यात् । (प्रच्छन्नपक्षेपि प्रत्यभिज्ञानुपपत्तिः) अपि, नित्यत्वेऽप्यनुभूतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव । सा १. प्राकटयम् । यद्वा तस्य मीमांसकमतस्य पूर्व पश्चाच्च खण्डनाद्वक्ष्यमाणो ज्ञानादूरत्वरूपोऽयं धर्मः । अस्य धर्मिरूपत्वं न भवति, किन्तु धर्मत्वमेवेति संवित्सिद्धौ ‘संविदेव न ते धर्मास्सिद्धायामपि संविदी' त्युक्तम् । २. जडत्वानवच्छिन्नत्वं स्वयंप्रकाशत्वम् , कालानवच्छिन्नत्वं नित्यत्वम् , देशा- नवच्छिन्नत्वं विभुत्वम् , नानात्वानवच्छिन्नत्वमेकत्वमित्येवमभावरूपत्वात् अभावस्य चाधिकरणरूपत्वान दोष इत्याशङ्कय अभावरूपत्वेपि नाधिकरणस्वरूपत्वमि- स्याह । ३. अनभ्युपगताधिकरणस्वरूपताकमपि किञ्चिदर्शयति । ४. सिद्धि संविदोरैक्यात्संविदस्सिद्धिरिति व्यधिकरणप्रयोगो ने कार्य इति भावः । ५. वेदविनाशाय । ६. एवं, 'कश्चिदाहे ' त्यादिनाऽनूदित क्रमेण निरस्य, . ।
३७ भद्वैतात्मवादभङ्गः अनुभवितारं पूर्वापरकालावस्थायिनमुपस्थापयति, अहमिदमन्वभूव- मिति । अनुभूतिस्त्वनुभूतिरेव भवताम् , न नां प्रति सा की कर्म वा। (आत्मनि ज्ञातृत्वस्याध्यस्तत्वानुपपत्तिः) यद्युच्येत- परमार्थतस्तथाभूतापि भ्रान्त्या अनुभविनया परि- स्फुरति, रजततयेव शुक्तिः । न हि तथ्यमनवलम्ब्य मिथ्यावभास स्योत्थानमिति- तन्न, तथासत्यनुभवसमानाधिकरणतया अनुभविता- ऽहमर्थः प्रकाशेत, 'अनुभूतिरह ' मिति, पुरःस्थितभास्वरद्रव्य शङ्ख मु. ख चन्द्रादेराकारतयेव रजत पीत मुकुरस्थता द्वित्वादिः पृथगवभासमान एवत्वयमनुभवः, दण्ड इव देवदत्तमर्थान्तरमहमर्थ विशिंषन् आल- क्ष्यते, अनुभवाम्यहमिति । तदेवमनुभवविशिष्टमस्मदर्थमवभासयत्रय- महम्प्रत्ययः कथमिव विशेषणभूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः ? अथ ज्ञानमात्रनित्यत्ववाद्यद्वैतिमतेपि बौद्धमत इव प्रत्यभिज्ञानुपरत्तिः, तया ज्ञातु- नित्यत्वस्यानुभूतेरनित्यत्वस्य चावगाहनादित्याह । १. अधिष्ठानन्तु सत्यमपेक्षितमिति नानुभूतेरप्यपारमार्थ्यमित्याह । २. भा- स्वरद्रव्याकारतया रजतता, शङ्खाकारतया पीतता, मुखाकारतया मुकुरस्थता, चन्द्राकारतया च द्वित्वं यथा,तथाऽनुभूतिविशेषणतयाऽनुभवितृत्वं प्रकाशेत { अहं- शब्दवाच्यादनुभवितुर्भिन्नतयात्वनुभूतिरवभासते, अहमर्थविशेषणतया च । अनु- भवामीत्येतद्धि दण्डीतिवद्विशिष्टपरम् ,न विशेषणमात्रपरमित्यर्थः। एतेन-अहंशब्दे- नाध्यस्तज्ञातृताकमनुभवमेवोक्त्वा धात्वर्थानुभूती विषयविषयिण्यां तदभेदभान- स्वीकारोऽप्यपास्तः, तिङन्तस्यानुभूतिमात्रपरत्वाभावात् ; अहंशब्दस्यानुभवपर्य- न्तार्थकत्वे मानाभावाच्च । अतएव- अहंशब्देनाहमर्थत्वमुखन गोण्याऽनुभूतिरुच्यते सिंहशब्देनेव माणवकः । तत्रानुभवामीति ज्ञातृत्वभानमित्यपि निरस्तम्-गौण्यां मानाभावात् , अहमर्थे वास्तवानुभवितृत्वग्रहणेन प्रतीत्यभ्रमत्वस्य युक्तत्वात् । घटमनुभवामि, पटमनुभवामीत्यनुवृत्तधात्वर्थः परतत्त्वरूपानुभूतिरिति स्वाभिमति- विरुद्धतया तस्या अहंशब्दार्थत्वायोगाच । एवमहंशब्दोऽहमर्थविशिष्टानुभूतिपर ः । 9 ३८ आत्मसिद्धा (अध्यासयुक्तिभङ्गः) कुतश्चैष निश्चयः, अध्यस्तं ज्ञातृत्वमिति ? स्थूलोऽहमितिवत् देहात्माभिमानवतः प्रतिभासनादिति चेत् - नन्वात्मतयाऽभिमताऽनु. भूतिरपि तद्वत एवावभातीति सापि तथा स्यात् ।। तत्वज्ञानोदयात्पर- तोपि तदनुवृत्तेर्न तथा सेति चेत्-किं भोः ! तत्त्वज्ञानात्परम् अबोद्धैवा- यमात्मा? हन्तैवं वरमितोऽतत्त्ववेदित्वम् । भ्रान्त्यापि हि तत्र बहु भद्रं पश्यतीति । (ज्ञातृत्वस्याहङ्कारस्थावशङ्का) ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं विक्रियात्मकं जडमहङ्कारग्रन्थि- स्थम् । तत्फलभुक् अकर्ता अविक्रियः साक्षी प्रकाशमात्र आत्मा। कतै- स्वादिहि दृश्यत्वात् रूपादिवनात्मधर्मः । कर्तृत्वे ह्यात्मनः, अहंप्रत्यय- गोचरत्वेपि, देहस्येवानात्मत्वपरा[ग]र्थत्वजडत्वादिप्रसंगो दुर्निवारः। दृष्टश्च लौकिकवैदिककर्मसु कर्तृतथा प्रसिद्धा हात्तत्क्रियाफलभुजः प्र- मातुरहम्पत्ययिनः पृथक्त्वम् । तथेहापि प्रमातुरहमाद्विलक्षणस्साक्षी प्रत्यगात्मेति युक्तम् ॥ (तत्र लोकानुभवाविरोधप्रदर्शनम् ) नैवं युक्तम् ; अहं जानामीति ज्ञातृतया सिध्यतः प्रत्यगात्मनी व्यतिरेकेण साक्षिणो नाम प्रकाशमानस्यात्मनोऽनुपलब्धेः। देहेन्द्रिय तत्रानुभवामीत्यनुभूतिवैशिष्टयं भासमानं विशेष्यभूतायां धात्वर्था भिन्नायामनुभूती बाधाद्विशेषणेऽहमर्थे पर्यवस्थतीत्यप्यनुभवविरोधादिना निरस्तमेव । 'अहंशब्दः प्रत्यग्वाची; तत्र प्रतीचि अनुभवामीति वास्तवमनुभवितृत्व' मित्येवानुभवात् । १. अध्यस्ता ! २. नन्वहङ्कारस्य ज्ञातृत्वे तदतिरिक्त आत्मनि किं मानम् ? तत्राह तत्फलेति । 'पुरुषोस्ति भोक्तभावात् ।' पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यत इति । ज्ञानस्यान्तःकरणवृत्तापारात्मनोऽहङ्कारस्थता । भोगस्सुखदुःखगोचर- स्साक्षिप्रकाश इत्यात्मनो भोक्तृत्वम् । तत्फलभुगकर्तेति विवक्षितमनुमानं विव- रिष्यति दृष्टश्चेत्यादिना । ज्ञानकर्ता स्वान्यभोक्तविशिष्टः कर्तृत्वात् देहवदित्यनु- मानम् ! अनामत्वं वा साध्यम् । अहमर्थे भोक्तत्वमात्मसंबन्धबलादौपचारिकमिति पश्चान्निश्चीयत इति भावः ३. आत्मनः कर्तृत्वेऽहम्प्रत्ययगोचरत्वे च सतीत्यर्थः । १. साक्षी प्रत्यगात्मेति वदतः; प्रमातुरहमाद्विलक्षण इत्यु- आचाक्षुषस्यच्छांया- अद्वैतात्मवादभङ्गः ३९ मनःप्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव नि- र्भासमानोऽहंभाव एव हि प्रत्यक्त्वं नाम; साक्षित्वमपि तस्य साक्षाज्ज्ञा- तृत्वम् । नाजानन् साक्षीत्यपदिश्यते । सर्वञ्च पकाशमानं ज्ञात्रेऽहमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धोऽयमनुभवः, अहं जानामि, मह्यं प्रकाशत इति । ( अहङ्कारस्थत्वेऽनुपपत्तिः ) नचाव्याकृतपरिणामभेदस्याहंकारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृत्वम् ,देहस्येवाचेतनत्वपरिणामि(म?)त्वजडत्वपरार्थत्वादिहेतुभिस्त- दनुपपत्तेः । (छायापत्तिसंपर्काभ्यां ज्ञातृत्वारोप इत्यस्य भङ्गः) न च चितिच्छायापत्या तयोस्तत्संभवः, ऽदर्शनात् । न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येन, अग्निसंपर्का- व अयापिण्ड इवोष्ण्यम् ,तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत, ज्ञायेत वा।। क्तिाहतेत्याह देहेति । इवेत्युक्तिरञ्चुधातुमुख्यार्थाविवक्षासूचनाय । १. न हि कर्ता साक्षीति व्यपदिश्यत इति परे । तन्न-नह्याक्षिप्ताकर्तृत्वरूपार्थरक्ष- णाय द्रष्टरूपवाच्यार्थत्यागः; दर्शनकतैव च साक्षिशब्दवाच्य इति । न्तं चतुर्थ्यन्तम् । ३. देहदृष्टान्तादिस्त्वदुक्तस्त्वदनिष्टसाधक इत्याह नचेति । अहमर्थः किं महत्तत्वरूपा बुद्धिः, तज्जन्योऽहङ्कारो वा, बुध्यहङ्कार. शब्दवाच्यमन्यन्मनातत्वं वा; सर्वथाऽव्याकृतपरिणामत्वान्न ज्ञातृत्वमिति ॥ ४. ननु साङ्ख्यरीत्या वृत्त्याश्रयत्वरूपं ज्ञातृत्वं प्रकृतिपरिणामे नानुपपन्नम् । एव- मपि नित्यचैतन्यस्यैव ज्ञाधात्वाद्युपात्तताया अस्मदभिमतत्वात् ज्ञानानुभूत्यादिशब्द- मुख्यार्थाश्रयत्वमनुभवसिद्धं कथं निर्वाह्यमिति प्रश्नः । तत्र चिच्छायापत्त्या वा चित्संपर्केण वा चिद्वयञ्जकतया वा चिदाश्रयत्वभ्रान्तिरिति समाधिरिति शङ्का क्रमेण क्षिपति नचेत्यादिना ! तयोः-अहङ्कारे बुद्धौ च । यद्वा चिदहङ्कारयोः । अहङ्कारे छायापत्त्या ज्ञातृत्वम् । अथ तस्य चित्यप्यध्यास इति भावः । ५. छा- या प्रतिबिम्बः । चैतन्येऽहङ्कारः प्रतिबिम्बितः । अतो दर्पणस्थमालिन्यस्य मुख इवाहङ्कारे तत्प्रतीतिः; यद्वा चैतन्यमहङ्कारे प्रतिबिम्बितम् । तेन जले च- न्द्रवत्त्वस्येवाहङ्कारे चिदाश्रयत्वस्य प्रतीतिरितीदमुभयमपि न भवतीति । ६. सम्प- पक्षं खण्डयति। २. शत्र- आत्मसिद्धौ - (अहङ्कारस्य व्यञ्जकत्वात् ज्ञातृत्वभ्रम इति शङ्का) यधुच्येत-ज्ञप्तिमात्रमेवात्मानमभिव्यञ्जनचेतनोऽप्यहंकारः स्वा- श्रयतया तमभिव्यनक्ति । स्वभावो ह्ययं व्यञ्जकानाम् , यत् आत्म- स्थतयाऽभिव्यङ्गयमभिव्यञ्जन्ति,दर्पण-जल-खण्ड मुण्डादय इव मुख- मिहिरबिम्ब-गोत्वादीन । तत्कृतश्चायम् , अहं जानामीति भ्रमः। अत एंव खल्वहसुल्लेखविगमे सुषुप्तिमुक्तयोःस्वाभाविकविशदानुभवमात्ररूपे- णात्मनः प्रकाशः, तत एवचानात्मत्वमहमर्थस्य । तथाच सौरेशं वचः आत्मनश्चेदहं धर्मो यायान्मुक्तिसुषुप्तयोः । यतो नान्वेति तेनायमन्यदीयो भवेदहम्'(नै.२.३२ )इति- ( तत्परिहारः) तदिदमेसंबद्धम् , यतः शान्ताङ्गार इवाऽऽदित्यमहङ्कारो जडात्मकः । स्वयज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ।।११।। आँत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयोऽभिप्रेयन्ते। तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावंत मनु- भवं तदधीनसिद्धिरचिदहंकारोऽभिव्यनक्तीत्युपहास्यमिदमात्मविदाम् । १. व्यञ्जकत्वपक्षं शङ्कते । २. स्वाश्रयकतया! अकत्वकृतत्वादेवेत्यर्थः। व्यञ्जकविलयादिति शेषः। ४.अहम्— अहन्त्वम् ! सुषु- सेति भावे क्तः। भवेदित्यस्यायमिति कर्ता; अतः प्रथमपुरुषः । ५.अहङ्कारस्य वैत- न्यव्यञ्जकत्वाच्चैतन्येऽहङ्कारवृत्तित्वभ्रम इत्युच्यते । तत्र व्यञ्जकत्वं, व्यक्तिस्वरूपं, व्यञ्जकत्वस्य तादृशन्नमनियामकत्वं, सुषुप्तावहमुल्लेखविगम इत्यादि सर्व दुर्वच- मिति । ६. ननु जडस्यापि दर्पणगोघृतादेर्मुखकुङ्कुमगन्धादिव्यञ्जकत्वं दृष्टम् ; प्रकाशरूपादित्यादेश्चक्षुर्व्यङ्ग्यत्वञ्च । अतः कथमयुक्तिरित्यत्र दृष्टान्तद्योत्यं विशद- यति आत्मत्वेति । अहङ्कारो नानुभूतिव्यञ्जकः तद्वयङ्ग्यत्वात् अङ्गारवत् , अनुभूति हङ्कारव्यङ्ग्या तचिरपेक्षप्रकाशत्वादिति प्रयोगद्वयं विवक्षितम् । ३. व्य.
४१ , अद्वैतात्मवादमङ्गः किञ्च - व्यक्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः। व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्यायथा घटे ॥ १२ ॥ दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोच:, करतलस्य तदाहुल्यमानहेतुत्वान् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वम् ।। ( अहङ्कारकृताभिव्यक्तेस्त्रेधा विकल्य निरासः ) अपिच केयमभिव्यक्तिः, याऽनुभूतिरूपस्यात्मनोऽहङ्कारेण क्रि- १. ननूपकार्योपकर्तृभाव स्तव्यस्तोतृभावादिकमिव व्यक्तृव्यङ्ग्यभावोपि मि- थः किं न भवति ? न खल्वादित्याङ्गारस्थलेऽर्शनमात्रेण निषेधसंभवः ! एवं सिद्धान्ते निरपेक्षप्रकाशस्यात्मादेर्शानादिव्यङ्ग्यत्वस्यापि स्वीकारात्कथं व्यङ्ग्यत्व- निषेधोपीति हेत्वोरप्रयोजकत्वशङ्कायां प्रयोगद्वयमर्धद्वयेन समर्थयते । प्रातिकूल्प- त:-विरुद्धत्वात् । अत्र यादृशं व्यञ्जकत्वं व्यङ्गयत्वञ्च विवक्षितम् , तादृशं मि- थोविरुद्धम् । अन्योन्यव्यङ्क्तव्यङ्गयस्वे सति यत्र परस्पर व्यायधीनव्यक्तिकत्व- 'प्रसक्तिः, तत्रान्योन्याश्रयदोषात् । तथाहि व्यञ्जकं हि व्यक्तिकारणं व्यक्तः मागावश्यकम् । तत्र यद्यहङ्कारः स्वरूपसन्नेवानुभूतिव्यञ्जकः, ताहमुल्लेखा- भावात् तत्स्थतयाऽनुभूतिग्रहणमिष्टं न सिध्येत् ; अमर्थस्य यावत्सत्तं साक्षि- भास्यत्वसिद्धान्तभङ्गश्च । अतोऽहङ्कारो व्यक्तस्सन्ननुभूतिव्यञ्जको वाच्यः। तथा- ऽनुभूतिरप्यहङ्कारव्यक्त हेतुरव्यक्ता पूर्व न स्थातुमर्हति, प्रकाशस्वभावत्वात् । नाप्यहङ्कारं विना व्यक्ता, तथासति तस्याहेतुत्वापत्तेः । अतो व्यक्तयोः परस्प- रपूर्वकत्वमिति । अतोऽनुभूतव्यञ्जकत्वमात्रम् , अहङ्कारस्य व्यङ्गयस्वमात्रमिति प्रकृतप्रथमहेतोः प्रकृतविवक्षितव्यजकत्वविरुद्धत्वात्प्रकृतसाध्यव्याप्यत्वमक्षतम् । द्वितीयानुमानमपि त्वन्मतानुसारेण प्रयुक्तं त्वया दुनिषेधम् ; एवमनिष्टस्यैवापाद- नादिति । यद्वा प्रथमकारिकायाम् अहङ्कारो न प्रकाशव्यञ्जका ऽप्रकाशत्वात् , सं- विन जडव्यङ्गया प्रकाशत्वादिति सामान्यतो विवक्षितम् । पूर्वोक्तानुमानद्वयं तूत्तरकारिकायाम् । पूर्वव्याख्याने 'तमनुभवं तदधीनसिद्धि'रिति वाक्यस्वारस्यम् । द्वितीये 'किञ्चे' त्युत्तरत्रारम्भस्वारस्यम् । 10 ४२ आत्मसिद्धौ नुग्रहः। यत इत्युच्यते? न तावत्तत्सिद्धिः तस्य स्वतस्सिद्धत्वेनानन्याधीनसि- द्धित्वाभ्युपगमात् । नापि तद्विषयज्ञानम् , ज्ञानान्तराननुभाव्यत्वात् । अनुभाव्यत्वे हि घटादिवदननुभूतित्वप्रसङ्गः । अत एवं न ज्ञानकरणा- (तत्र तृतीयविकल्पस्य त्रेधा विकल्प्यापि निरासः स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा, दीपेनेव सन्त- भसनिरसनेन चक्षुषः; वेद्यसनिकर्षोपाधित्वेन वा, व्यक्तिदर्पणादेरिव जाति - निजमुखादिबोधकस्य नयनादे।। वेर्नु (बोवृ?) (वेदितृ?) गतकलङ्कक्षालनेन वा, शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्याऽऽ. गमादेः । न तावदनुभवगतमहङ्कारापनेयमस्ति किंचिन् ज्ञानोदयपरि- पन्थि । (1 अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभाववि- रहिणि भवदभिमतसाक्षिणि निक्षेपमहति । न खलु ज्ञानप्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुनिज्ज्ञातृत्वं ज्ञानमात्रस्येति न तस्याप्यज्ञानं भवेत् भवदपि तत् अहङ्कारापनेयं नेष्यते, ज्ञानैकनिव- य॑त्वादज्ञानस्य तथाऽभ्युपगमाच्च ज्ञानश्च स्वविषय एवाज्ञानं निवर्त- यति। न च तद्विषयत्वमात्मतयाऽभिमतस्यानुभवस्येष्यत इति तत्रत्यम्- ज्ञानं न केनचित्कदाचिदुच्छित ! ज्ञानप्रागभावरूपञ्चाज्ञानं न ज्ञा- १. उत्पत्तिः । २. तद्विषयकज्ञानाभावादेव । ३. तद्विषयकज्ञानमस्ति नवे. त्यस्त्वेतत् । करण'नुग्रहोपि प्रकृते दुर्वच इत्याह । चक्षुष इत्यादी अनुग्रह इति विभज्यानुषङ्गः । ४. मुख्यो गौगो वा ज्ञातरि वेत्तशब्दश्शास्त्रदीपिकादा- वात्मवादे । अत्र तु वेदितृशब्द एव सर्वत्र । एतत्स्थलीयभाष्यानुसारे तु बोद्धृ- ५. ज्ञानाश्रयत्वज्ञानविषयत्वरहिते । वेद्यगत ज्ञानोदयप्रतिबन्धकेत्यनेनाज्ञानग्रहणे (1) तस्य वेद्यगतत्वं तद्वृ. तित्वरूपं तद्विषयकत्वरूपं वा नास्ति , (2) अज्ञानस्याहङ्कारापनेयत्वमपि नास्ति, (3अनुभवगतस्य तस्योच्छेद्यत्वमपि त्वन्मते न भवति, (4)अज्ञानमभिमतं प्रतिबन्ध- कमपि न भवतीत्येवं वेद्ये किञ्चित्कारमुखेनानुग्रहरूपं प्रथमाशरः खण्डयित्वा, वित्ति. करणे वेदितरि वा किञ्चित्कारमुखेनेति शिरोद्वयं शिष्टमर्धद्वयेन खण्ड यति कर. शब्दः ।
भद्वैतात्मवादभङ्गः नोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुम् । भावरूपमज्ञानमनिर्वचनीयं जगदुपादानमित्यादि मलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते। अतो न वेद्यदोषापनयनरूपा अहङ्कारेणानुभवाभिव्यक्तिः ।। करणानामभूमित्वान्न तत्संबन्धहेतुता । अहमर्थस्य बोद्धृत्वान्न स तेनेव शोध्यते ॥ १३ ॥ ( व्यजकस्य स्वनिष्ठतया व्यङ्गयप्रकाश नस्वभावविरहः ) न च स्वाश्रयतयाऽभिव्यङग्य प्रकाशनमभिव्यञ्जयितुः स्वभा- वः, प्रदीपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच्च ज्ञानतत्साधनतदनुग्राहकाणाम् । तच्च स्वतःप्रामाण्यन्यायात , तदन- भ्युपगमे च सर्वत्रानाश्वासप्रसङ्गात् ॥ व्यक्तस्तु जातिराकार एवेति तथा प्रत्यायनम् ; न व्यञ्जकत्वप्रयुक्तम् , उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहःप्रतिफलनलक्षणदोषहेतु भिव्यञ्जको वदना- देः। व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वेपि प्रतीपगमनदोषप्रयुक्तस्त- त्रान्यथाऽवभासः। नचेह तथाऽहमर्थस्य तादृशदोषापादकत्वं स्वभावः; तथासति सर्वस्यपि प्रत्यक्षादेरप्रामाण्यप्रसंगान किश्चित्तथ्यं स्यात् ।। तस्मौज्ज्ञातृतया सिध्यन्नहमर्थ एव प्रत्यगात्मा, न ज्ञप्तिमात्रम् ।। (सौरेशवचोर्थदूपणम् – सुषुप्तावहमर्थस्यैव भानम् यत्तु - सुषुप्तिमुक्त्योईप्तिमात्रतया स्फुरणम् ; अहमिति तु न प्रतिभातीति-तत्र सुषुप्तौ तथास्थितिः पुरस्तादेव निरस्ता । अहमि त्येकरूपेणाऽऽप्रबोधात्तत्राप्यात्मनस्स्फुरणात् । यदिपरं परागाननु- णानामिति । करणानामभूमित्वात् = अनुभूतेरिन्द्रियासंबन्धित्वात् । अहमर्थ- स्येति काकाक्षिन्यायात्प्रागप्यन्वेति ! तेनैवेति । स्वस्वरूपस्यैव स्वकल्मषप्रतिभटत्वे कल्मषप्रसक्तयभावादिति । १. पुटदर्शितविप्रतिपत्तिविषयनिरूपणावसरे ? २. अद्वैतज्ञानमप्यप्रमा स्यात् । ३. अहमर्थस्याहङ्कारत्वे तत्र देहवद्वास्तव. ज्ञातृत्वायोगस्य, छायापत्त्या संपर्केण वा ज्ञातृत्वाध्यासायोगस्य च पूर्वमिव, इदानी व्यञ्जकत्वाधीनज्ञातृत्वाध्यासायोगस्य चोक्तत्वात् । ५. सुषुप्तिगतं वैलक्षण्यं दर्शयति । यदिपरमिति समुदितं 'परन्तु' पर्यायक- .
आत्मसिद्धी भवाचमोगुणाभिभवाच न विविच्य स्फुट चकास्ति । भवदभिमतानु- भूतिरपि तदानी तथैव हि प्रथत इति वाच्यम् । नाहमहं (नाहम् १ ), नाप्यर्थान्तरम् , अपितु अनुभूतिमात्रमज्ञानसाक्षितयाऽवतिष्ठत इत्येवं- विधं स्वापसमयभवमनुभवं न हि सुप्तोत्थितः कश्चित्परामृशन्नुपलब्ध- चरः ।! 'एतावन्तं कालं न किश्चिदहमवेदिष' मिति परामर्शनादेव त- थात्वं लभ्यत इति चेत्-कथमिव न किञ्चिदिति निर्देशादिति चेत् - नन्वेवमनुभूतिप्रतिभासोपि प्रत्याख्यातस्स्यात् । ( उक्तपरामर्शस्य विपरीतसाधकत्वम् ) अपिच सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य, 'न किञ्चि- देवेदिष' मिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकी वित्तिसिद्धिम् अहमर्थस्य चासिद्धिमभिदधानोऽनुभवविरोधमपि न जानाति देवानां- प्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव । (अहमर्थप्रकाशबाधकपरामर्शान्तरनिर्वाहः ) ननु मामप्यहं न ज्ञातवान् प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम् , स तु वर्णाश्रमादिविशिष्टतया प्रबोधसमयसंवेद्यमानं देहिनं मामित्यादाय स्वाप्ययावस्थापसिद्धाविशदस्वानुभवकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञापयति, न पुन स्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभव:, अत्र सुप्तोऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानह (परोक्तिशोधनेपि सुषुप्तावहमर्थसत्ताप्रकाशयोरवय॑त्वम्) अपिचारमा सुषुप्तावज्ञानसाक्षित्वेनास्ते इति हि यौष्माकी स्थि- त्पम् । अतोऽत्र तीत्येवं वाक्यापेक्षा नास्ति । यदि विशेषो विमृश्यः, तर्हि वक्ष्य- माणं परमस्तीति यदिपरमित्यस्यार्थः । इयं प्राचीनप्रयोगसरणिन्यायंसिद्धाजनेऽपि जडद्रव्यपरिच्छेदे (५७) 'यदिपरं तनिमित्तत्वमानं महत' इति । १. अस्फुटतया । २. त्वदुक्तज्ञानस्याश्रयापेक्षत्वासमन्तव्यस्य, अतएव प्रभातुल्यप्रकाशाश्रय- त्वात्स्वयंप्रकाशस्य । वक्ष्यति च, 'चैतन्यस्वभावतया स्वयञ्ज्योतिष्ठा ' दिति । अतएव चैतन्यस्वभावता हि स्वयम्प्रकाशते' ति भाष्यं चैतन्यस्वभावत्वात्स्व- - मिति॥ , भद्वैतात्मवादभङ्गः ४५ . तिः । साक्षित्वन साक्षाज्ञातृत्वमित्युक्तम् । सचायं * ' जानामी ति प्रतिभासमानोऽस्मदर्थ एवेनि कथमिव तदानीमहमर्थो न प्रथेत, स्वस्मै स्वयंप्रकाशमानोऽहमित्येव हि प्रकाशत इति ।। तत्सिद्धं स्वापादिदशास्वपि आत्मा प्रकाशमानोऽहमित्येव प्र- काशत इति ॥ (मुक्तावहमर्थसमर्थनम्) यत्तु - मुक्तावहमर्थो नोपावर्तत इति-तद्वार्तम् , यतस्तथासति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरण प्रतिज्ञातस्स्यात् । नो खल्वहमिति धर्ममात्रम् ; येन तदपगमेऽप्यविद्यानिवृत्यामिवात्मनः स्वरूपेणावतिष्ठत इत्युच्यते (च्येत?) । अहमित्येव हि तस्य स्वरूपम् । ज्ञानमपि हि तद्धर्मत्वेन तस्यैव प्रकाशते, 'ज्ञानं मे जात ' मिति । को कथा पुनरर्थान्तरस्यात्मत्वे ?. ( मोक्षशास्त्रमुमुक्षुप्रवृत्तिबलतोपि मोक्षऽहमर्थसत्त्वम् ) अन्यच्चे – यस्सांसारिकदुःखैदुःखित्वेनात्मानं तस्यतो भ्रा- यम्प्रकाशतेति व्याख्यातम् । साक्षित्वं ज्ञानवत्वम् । न च ज्ञानमप्रकाशमा- नम् , आश्रयं विना प्रकाशमानं वेति । नन्वज्ञानसाक्षित्वम् 'अहमज्ञानं जानामी. त्येवंरूपं नेष्यते, किन्तु ' न जानामी ' त्येवंरूपमिति चेत् - एवमपि जानामी- त्युत्तमपुरुषेणास्मदर्थप्रकाशो दर्शित एवेति । १. क्षणिकज्ञानसंतत्युच्छेदो मो. क्ष इति बौद्धमते । २. नन्वात्मन्यविद्याया इवाहमर्थस्याप्यध्यस्तत्वादध्यस्तना- शेप्यधिष्ठानभूतात्मस्थितिरपवर्गे निर्बाधेति शङ्कां क्षिपति नो इति । धर्ममात्रमिति ! अविद्यापि नाध्यस्ता, किन्त्वात्मधर्मः । अहमर्थस्तु न धर्मोपि । अतो 'धर्मना- शेपि धर्मिस्थिति' रिति रीतिरपि न भवतीति । ३. 'आत्मा स्वरूपेणे 'ति बा, आत्मनास्वरूपमिति वा, आत्मन इत्यस्याविद्यानिवृत्त्यामित्यत्रान्वयविवक्षया, 'अविद्यानिवृत्त्यामिवात्मनः, आत्मा स्वरूपेणे' ति वा पाठस्स्यात् । अन्यथा त्यध्याहारस्स्यात्। ४. ज्ञानस्यावस्थितिरेव तदाऽहमर्थनाशे न सिध्यतीति स्थिते कुतस्तस्याहमर्थभिन्नस्यात्मत्वप्रसक्तिरिति । ५. 'यद्यात्मधर्मोऽह . कारो नित्यत्वं तस्य बोधवत् । नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्धृव' मिति सौरेशोक्तदोषस्तस्यैवेत्यभिसंधायाह । . +आत्मे 11 आत्मसिद्धी । त्या वा प्रत्येति, दुःख्यहमिति, सः, 'सर्वमिदमनिष्टजातं कथमहम- पुनरुदयमपनुद्याव्याकुल:(लं) स्वस्थो भूयासमिति संजातमुमुक्षस्तत्सा- धने प्रवर्तते । स यदि, साधनानुष्ठानादहमेव न भविष्यामी'त्यवगच्छति, अपगच्छेदसौ मोक्षकथासङ्गादपि । ततश्चासंभवदधिकारितया सर्व एव वेदान्तविधयः, सर्वाणि च मोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन्।। अहमुपलक्षितः प्रकाशोऽपवर्गेऽवस्थास्यत इति चेत् - किमतः? न हि मयि नष्टेऽपि कोऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान् प्रयस्थति।। (अहमर्थस्य युष्मदर्थत्वभङ्गः) एतेन ( एतेनै ?) तदपि परास्तम् , 'अस्मत्प्रत्यये योऽनिदम- शश्चिदेकरसः प्रकाशः, स आत्मा। तस्मिंस्तद्वलनि सिततया लक्ष- णतो युष्मदर्थ एवाहं जानामीति सिध्यनर्थ' इति । प्रत्यक्षविरोधात् - अहं जानामीति सिध्यंश्चेतनो युष्मदर्य इति माता वन्ध्येतिबयाह- तार्थ वचः । नचासांवन्याधीनावभासः; चैतन्यस्वभावतया स्वयंज्यो. तिष्वात् । प्रकाशश्च प्रकाशत्वादेव कस्यचिद्भवेत् दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतयाऽहमिति सिध्यनर्थ एवात्मा । (मुक्तप्यहन्त्वसाधकन्यायः) स च मुक्तावप्यात्मनेऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमान- १. मुक्तावहमानुवृतेरावश्यकत्वेन । २. अहमिति प्रतीतावहङ्कारोऽनु- भूतिश्चेति द्वयं भासते । तत्रानुभूतिश्चिद्रूपा स्वयंप्रकाशतया प्रत्याशः परा. ग्रूपेदमंशादन्या । ३. चिदधीनप्रकाशतया । लक्षणतः पराधीनप्रकाशत्व- रूपपराग्लक्षणवत्तया । अहम्प्रतीतिगोचरवाहंशब्दार्थत्वयोस्सत्त्वेपि सोऽर्थो लक्ष- गतो युष्मदर्थ एव, इदमंश एव, परागर्थ एवेति । सिध्धन् - ज्ञातृत्वेन सि- ध्यन् । ४. उत्तरेणैकवाक्यामिदम् । यद्वा यथाभाष्यमत्र वाक्यच्छेदः । ५. अह- ६. स्वयं काशत्वात् । ननु प्रकाशतदाश्रययोस्स्वप्रकाशत्वे उभयोः प्रत्यक्वापत्तिः । नैवम् , अहन्त्वस्यैव प्रत्यक्त्वरूपतया केवलप्रकाशे तदप्रसक्तेरिति । ७. अन्वयिव्यतिरेकिपञ्चावयवन्यायेन मुक्तावहन्त्वानुवृत्तिकथनमुखेनाहन्त्व. । मर्थः !
अद्वैतात्मवादभङ्गः . त्वात् । योयः स्वस्मै प्रकाशते, स सर्वोऽहमित्येव प्रकाशमानो दृष्टः; यथा तथाप्रकाशमानत्वेनोभयवादिसम्मतस्संसार्यात्मा । यः पुनरह- मिति न चकास्ति, नासौ स्वस्मै प्रकाशते; यथा घटादिः । स्वस्मै प्र- काशते चायं मुक्तात्मा । तस्मात्सः अहमित्येव प्रकाशते । ( अहन्त्वप्रकाशस्योपाधिकृतत्व भङ्गः) नचैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्वसंसारित्वादिप्रसङ्गः आ- पादनीयः, मुक्तत्वविरोधात् । अतदुपाधित्वाच तत्प्रत्ययस्या नह्यज्ञानो- पाधिरहंप्रत्ययः, ब्रह्मात्मापरोक्षज्ञानक्षपितनिरवशेषाविद्यानामपि वा. मदेवौदीना मतत्म ( महम्प्र ? ) त्ययदर्शनात् । श्रूयते हि - 'तबैत- त्पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुरभवं सूर्यश्च', 'अहमेव च (मेकः प्रथममासं ?) वामि [च] भविष्यामी 'त्यादि । तथा कशंचि- दप्यविद्यादिक्लेशैर्लेशतोपि जातुचिदपरामृष्टस्य परमपुरुषस्याप्यहमि- त्यात्मपरामर्शः प्रज्ञायते, 'हन्ताहमिमास्त्रिस्रो देवता:', 'बहु स्यां प्र- जायेय', 'स ईक्षत लोकानु सृजै' इति, तथा 'यस्मात् क्षरमतीतोऽहम क्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥' तेषामहं समुद्धर्ता', 'अहं बीजप्रदः पिता', 'वेदाहं समतीतानि'इत्ये. वमादिभिः॥ ( अनात्मगोचराहङ्कारशब्दस्यान्यथानिर्वाहः ) एव साक्षादहमर्थादात्मनो विलक्षणेऽपि देहे येनाऽऽव्यक्तिक- रूपप्रत्यक्त्वस्य स्वरूपं विवृणोति । स्वस्मै प्रकाशमानत्वं प्रत्यक्त्वम् ; पराक्त्वञ्च परस्मै भासमानत्वमिति शिक्षितं भवति । १. आदिना ज्ञानस्यापि परिग्रहः। २.अहमिति प्रकाशमानत्वे । ३.वामदेवशब्दोऽत्र महर्षि महादेवञ्चाभिप्रेत्य । आदि- शब्देन वा रुद्रग्रहणम् । ४.ऋषिमध्ये वामदेवानुसन्धानं बृहदारण्यकवाक्येन प्रद. र्य, देवमध्ये सर्वज्ञस्य वामदेवस्य महादेवस्यानुसन्धानमप्यथर्वशिरोवाक्येन दर्श- यति । अत्र तत्त्वटीकायाम् , ' अथर्वशिरसोऽप्येवमेव निर्वाहो वेदार्थसंग्रहे स्थापि- त' इति वाक्यम् , अहमेवेत्यादेरथर्वशिरोवाक्यत्वस्य तत्र भगवद्भाध्यकृत्संमतश्च सूचनायेति ज्ञायते । ५. अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः (यो. सू.) ६.'महाभूतान्यहङ्कार इत्येताक्षेत्रमुच्यत'(२-४३)इतिसोरेशकटाक्षणाह एवञ्चेति। . - आत्मसिद्धौ परिणामभेदेनाहमिति भ्रमः, तदभिपायोऽहंकारस्य क्षेत्रान्तर्भावोपदेशो भगवतः, 'महाभूतान्यहङ्कार इति । बहुमन्तव्यजनावधीरणहे- तुश्चासौ गांपरपर्यायस्तत्रतत्र शास्त्रेषु प्रायशो हेयतयोपदिश्यते । ( आत्मनोऽहमर्थव एवाविधानिर्वाहसंभवः) तस्मादहमिति मतिधिकापेता साक्षादात्मगोचरैव ; अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तम् । उक्तञ्च- 'श्रूयताञ्चाप्य (तच्छु- यताम?) विद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यात्मबुद्धिर्या' इति महर्षिणा वासिष्ठनन्दनेन । न च ज्ञप्तिमात्रप्रतिभासः कस्यचिच्छरीरे- ऽस्ति, येन तन्मात्रात्मवादिनोऽप्यनात्मबुद्धिरुपपद्येत ॥ अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चात्मा ज्ञाताहमिति भासते ।। १४ ॥ मात्मन एवाहन्त्वे स्वतएव सर्वदाऽहमिति भासमानत्वे च सतीत्यर्थः । अहङ्कार- शब्दे भावे करणे च घञ् । कृत्रर्थश्च प्रकृते ज्ञानक्रिया । तथाच अहंबुद्धि- स्तत्करणञ्च तदर्थः। तत्राऽऽत्मन्यहम्बुद्धिस्तात्विकी। तदभिप्रायेण कचित्प्रयोगः। यथा, 'अथातोऽहङ्कारादेश' इति । अनहमर्थेऽहमिति बुद्धिरप्यहङ्कारः । अयमेव देहादावात्मभ्रम इत्युच्यते । अयं सर्वप्राणिसाधारणः । अयमेव यदा प्रशस्तदे- हादिविषयकात्मभ्रमरूपो भवति, तदा गर्व इत्युच्यते । आत्मगुणादिभिरुस्कृष्टस्य जनस्य यत् देहादि, ततस्वदेहादौ प्राशस्त्यमभिमत्य देहात्मभ्रमवशादात्मानमेव तादृशप्राशस्त्यविशिष्टतया गृह्णन् हि परात्मनस्तदभावमाकलय्य तमवधीरयतीति । 'अहङ्कारं वलं दर्प ' मित्यादौ बलदर्पादिसाहचर्यादयमेव गुणविशेषो हेयत्वेनो. पदिष्ट इति ज्ञायते । आत्मन्यहम्बुद्धेस्स्वतसिद्धत्वान्न तत्र करणापेक्षा । करणेघन- न्तस्त्वहङ्कारशब्दोऽनहमर्थे देहादावहम्बुद्धिकरणे क्षेत्रज्ञार्थचतुर्विशतिक्षेत्रतत्त्वा- न्तर्गतेऽहङ्कारतत्त्वे प्रवर्तत इति तस्य क्षेत्रान्तर्भावोपपत्तिरिति । मतदूषणं निगमयति अत इति । भत्र संविदनित्यत्वसाश्रयत्वादि निरूप्य, बौ. द्धमत इवैतन्मतेपि प्रत्यभिज्ञानुपपत्ति प्रस्तुत्य, 'अहानामी' ति प्रत्यक्षं न ज्ञप्तौ ज्ञातृत्वभ्रमरूपम् ; नाप्यन्तःकरणे वस्तुतो भ्रान्त्या वा ज्ञातृत्वसंभवः, अतो ज्ञा- १. अद्वति- संविदात्मवादभङ्गः . - . ( संविदात्मत्वसाधकाजडत्वहेतुभङ्गः) यदुक्तमजडत्वाद्वित्तिरेवात्मेति-तत्रेदं वाच्यम् - किमिदमजड- त्वं नामेति । यद्युच्येत - सदपि यन्न प्रकाशते, तज्जडम् ; तद्विपरीत- मव्यभिचरितप्रकाशसत्ताकमजडमिति-तथासति सुखादिभिर्गभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदनवभा- ममाना भवन्ति।। स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिभिरनैकान्तिकम् ; ज्ञानव्यतिरिक्तप्रकाशानङ्गीकाराचासिद्धता, विरुद्धता च।। यदि मतम् अव्यभिचरितप्रकाशोपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडनां नाऽहमर्थ एवात्मा, न ज्ञप्तिमात्र ' मिति वर्णनेन आत्मनि ज्ञातृत्वान्त्वयोः प्रत्य- क्षसिद्धिर्शिता । अथ सुषुप्तौ मुक्तौ चाहमर्थस्फुरणोपपादने प्रवृत्य, अन्यथा वै- नाशिकमताविशेषः, मोक्षशास्त्रमुमुक्षुप्रवृत्तिवैघश्यञ्चेति तर्कमुक्त्वा, आत्मनि स्व- स्मै भासमनत्वेन सर्वदाऽहमिति भानं साधयतः पञ्चावयवन्यायस्य कथनादहम्माने न्यायोऽप्युक्तः । एवमहम्भाने वामदेवादिविषय भागमोप्युक्तः । ज्ञातृत्वविषये- स्वागम उपरिष्टावक्ष्यते । अविद्यायोगो नाम अविद्याया अनात्मनि देहादावा- मभ्रान्तोंग उपपत्तिः । यहा तस्या अयोगोऽनुपपत्तिः, आत्मनि वस्तुतोऽह- त्वसत्त्व एत्र स्थूलोहमित्यहम्भ्रमस्यात्मभ्रमत्वोपपत्तिः, तत्र वस्तुतस्तदसत्त्वे. च तस्य तद्भमत्वायोग इति । अयमनन्तरमेवोक्त इति । १. एवं विशिष्य प्रच्छ- नबाह्यमतं निरस्य प्रकटप्रच्छन्नसाधारण्येन प्रथममनूदिते संविदात्मवादे शिष्टं खण्डनं वर्तयिष्यन् तद्वादारम्भोक्तमजडत्वहेतुमामासीकरणायानुवदति । २. अव्यभिच- रितः प्रकाशो यस्यास्सा सत्ता अव्यभिचरितप्रकाशा । अत्र स्वसत्ताव्यापकप्रका- शवत्त्वं, स्वसत्ताप्रयुक्तप्रकाशवत्वं, स्वस्मैभासमानत्वमिति पक्षत्रये .मध्यमपक्षः प्रथमपक्षत्वेन भाष्ये आइतः, औचित्यविशेषात् । ३. संविदात्मा स्वसत्ताप्रयु- कप्रकाशवत्त्वादित्यत्र, स्वमते अहमर्थे आत्मत्वसद्भावात्साध्यतदभावसाधारणतया हेतुरनैकान्तिकस्स्वमतरीत्या । परेण संविदतिरिक्तस्य सर्वस्यानात्मत्वस्वीकाराद्धेतु- साध्याभावकसमानाधिकरण इति तद्रीत्या विरुद्धत्वम् । तेन प्रकाशरूपधर्मा- स्वीकारात्प्रकाशवत्वरूपहेतोरसिद्धिश्चेति । 12 ५. आत्मसिद्धौ नातिवर्तते; तेनानात्मेति - ज्ञानं वा किं स्वस्मै प्रकाशते ? अन्यस्यैव हि तदपि जानतोऽहमर्थस्य प्रथते, अहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानोऽजडत्वहेतुरसिद्धस्संवि. दि। अतस्सत्तयैव स्वमात्मानं प्रति सिध्यनजडोऽहमर्थ एवात्मा। तत्संबन्धावत्ता तु ज्ञानस्यापि प्रकाशता । अत एव हि स्वाश्रयचेतन प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य, सुखदुःखादेरिव । नचैव- मात्मान्तरसंबन्धमर्थान्तरं वाऽपेक्ष्यायमात्माऽऽत्मने प्रकाशते । एतच्चा- नन्तरमेवोपपादयिष्यते ।। (अभेदसाधकाभिमते सहोपलम्भनियमेऽशेषहेत्वाभासवचनम् ) न च ज्ञानेन सहोपलम्भनियमोऽहमर्थस्यार्थान्तरतां वारयति, ज्ञानस्यापि तथात्वमसङ्गात् । तदपि हि तेने नियतेन सहोपलम्भमि- त्यहमर्थादनन्तरं मिथ्यारूपमेवाऽऽपद्येत । असिर्द्धश्च संविद्विशेषे- १. अथ संविदात्मवादोक्तस्य प्राकटयाभावादेस्स्वसंमतत्वात् तदुपर्युक्तमेव विम्रक्ष्यन् , ' संविद एवात्मत्वे लाववाकिमन्येन कल्पितेंने ' ति तदुक्तविषये समाधानरूपं, ' कल्पनायां ह्येष दोषः, प्रत्यक्षसिद्धत्वादन्यो दुरपलप ' इत्यर्थपरं नन्वित्यादिग्रन्थं दूषयितुं तेनोपन्यस्तं यत् सहोपलम्भनियमादि, तत्खण्डयति । २. अहमर्थेन । सह उपलम्भो यस्य तदिति बहुव्रीहिः । 'सहोपलभ्य ' मिति वा नियतसहोपलम्भ' मिति वा पाठरस्वरसः | ३. अभेदं साधयतश्च संविद्यह- मर्थस्य कल्पितत्वसाधन एव तात्पर्यम् । नीलतद्धियौ, अहमर्थतत्संविदौ वा अ- भिन्ने परस्परोपलम्भनियतोपलम्भकत्वादिति प्रयोगे मिथ्यात्वरूपपर्यवसितसाध्य- स्य पक्षकदेशे बाधादिकमत्र विवक्षितम् अहमर्थो ज्ञानाभिन्नः स्वोपलम्भव्यापक- संविदुपलम्भकत्वादिति प्रयोगे च यत् स्वोपलम्भव्यापकयदुपलम्भकं तत् तदभि- न्नमिति सामान्यमुखव्यातिविवक्षायां, संविदि स्वोपलम्भव्यापकाहमर्थोपलम्भकत्व- रूपहेतुसत्त्वात्साघ्याभावाच्च तदृष्टान्तेनात्रापि साध्याभावसाधनसंभवाद्धतोविरुद्ध- ता, तत्रैव व्यभिचारश्चेति ज्ञापितम् । अत्र सहत्वघटितहेतुनिर्देशस्तु - सहत्वस्य भेदाधिष्ठानत्वात् 'स्वभिन्नाहमर्थोपलम्भव्यापकोपलम्भगोचरसंविकत्वा ' दिति । स्वं संवित् । एतदनुसारेण सामान्यमुखव्याप्तिवचनप्रकारोऽप्यूह्यः । ४, घटपटायेकेक संविदुपलम्भेपि चालिनीन्यायेनाहमर्थोपलम्भव्यापकत्वरूपविशे. . प्रायः ।
संविदात्मवादभङ्गः स्सहोपलम्भनियमः, प्रत्येकं व्यभिचारदर्शनात् । न च विशेषमात्र (?) निधूत निखिलविषयविशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहो- पलम्भनियमस्संवेदितुरभिधीयेत । सामान्य तु सदपि सौगतैन वस्तु- तयाऽऽस्थीयते ॥ समस्तवृत्तिप्रत्यस्तमयेऽपि स्वयज्योतिरयमात्माऽव- तिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्च - एक द्वाविति निर्देशात । द्वयोर्वेकक्रियानु- प्रवेशे सहशब्दः; शिष्येण सहाऽऽगच्छत्याचार्य इति यथा| अपि नी. लतद्धियोरिति द्वे उपादाय, अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्व- विधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वदिभिः, सर्व- षणाभावात्साधनाप्रसिद्धिरिति । १. भत्र विशेषमात्रातिरिक्तमित्येतदर्थपरः पाठ- स्स्यात् । वित्तिविशेषमादाय व्यापकत्वाभावेपि वित्तिमात्रमादाय व्यापकत्वं भवतीति न, निर्विशेष न सामान्यमिति न्यायेन विशेषातिरिक्तसा- मान्याभावात् । एवं घटसंविदित्येवं विषयवैशिष्टयं विसृज्य निर्विषय- वित्तिमात्रग्रहणमपि दुष्करम् , तादृशवस्त्वभावादिति । २. ननु स. विषयव्यक्तयतिरिक्तवित्यभावपि प्रकृते तादृशव्यक्तीनामेव संवित्त्वेन रूपेण सामा- न्यतोग्रहणेन व्यापकत्ववर्णनान्न दोष इत्यत्राह सामान्यमिति । अतद्वयावृत्त्या- त्मकापोहातिरिक्तभावरूपजातिस्सौगतासमता । अतद्वयावृत्तिश्च व्यक्तयनतिरि- तेति । ३. प्रकारान्तरेण साधनाप्रसिद्धिमाह समस्तेति । सुषुप्तिप्रलयादाव- हमर्थप्रकाशोस्ति, न संवित्प्रकाश इति न व्यापकत्वमिति । ४. अभिन्नं सहो. पलभ्यत्वादिति साध्यहेतुनिर्देशः एकं द्वाविति निर्देश एव, सहेति द्वयोरुक्तः । तथाच पूर्वोक्तसहत्त्वघटितहेतावयं वाग्विधात इति । ५. सहोपलम्भनि यमादभेदो नीलतद्धियोरिति तत्कारिकातः नीलतद्धियौ अभिन्न इति प्रति. ज्ञानिर्देशः प्रतीयते । तत्र पक्षतावच्छेदकहत्वोदित्वैकत्वयो विरोधात्प्रतिज्ञा. विरोधोपीति । ६. जडत्वमूर्तत्वादिकं हि सौगतैरपि संविदि नेष्टम् । तत्र जड. त्वादेरपि संवित्प्रकाश्यतया संवित्सहोपलम्भनियमसत्त्वात्तत्र संविदभेदरूपसाध्याभा. वायभिचारः । अभेदस्वीकारे च तस्याः जडत्वाद्यापत्तिः । ननु जडे व्याभि. १ .
भात्मसिद्धा ज्ञानेन. सहोपलम्भनियमभागिभिस्संसारिज्ञानश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्वमित्यापद्येत । (एकज्ञानमात्रविषयत्वरूपसहोपलम्भनियमदूषणम् ) नियमेनैकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्युक्तम् । विपक्षम्यति- रेकश्चासिद्धः। भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञानज्ञेयज्ञातॄणाम् , मा च भूदभेदः; को विरोधः? किमप्रकाशरूपत्वात्पकाशमनुरुध्यते । व्यवहाराय नीलादिराहोस्वित्तदभेदतः ।। १५|| चार इति वक्तव्यम् , न तु जडत्वे इति, तथा हि सति संविदो जडत्वत्वापत्ति- रेव स्यात् - सत्यम् सत्यम् - सौगतमते धर्मधम्यभेदादेवमुक्तम् । १. सर्वज्ञस्य सुगतस्य ज्ञानं हि संसारिज्ञानविषयकम् । तथाच तस्य ततो भेदे व्यभिचारः, अभेदे बुद्धस्य बद्धत्वापत्तिरिति । ननु संसारिज्ञानोपलम्भव्याए. कत्वं सर्वज्ञज्ञानोपलम्नस्य कथम् , जीवेपि व्याप्यस्य सत्त्वादिति चेत्- उच्यते, संविद्विशेषैनियतसहोपलम्भभावस्योक्तत्वात्तदर्थ संवित्त्वसामान्येन व्यापकत्वविव- क्षया पक्षे स्वविषयकसंविदभेदसाधनेऽयं दोषः । यद्वा व्यापकत्वं नियमश्चेत्- पूर्वदोषः, व्याप्यस्वरूपश्चेत् - अयं दोष इति । २. अयं हेतुस्सहत्वा- घटित इति पूर्वोक्तकिञ्चिद्दोषपरिहारः । एवं पूर्व सहोपलम्भे विषयोपलम्भस्य सं- विदुपलम्भस्य चैकत्वनिर्बन्धो नासीत् | विषयोपलम्भव्यापकत्वं संविदुपलम्भे तदभिन्न भिन्ने वा यथायथमिति विवक्षितम् । अत्रोभयोरेकज्ञानसिद्धत्वमुच्यते । तच्च स्वप्रकाशकज्ञानमात्रप्रकाश्यसंविकत्वं वा संवित्प्रकाशकज्ञानमात्रप्रकाश्यत्वं वा । आद्यं नीलादावसिद्धम् , संविदो नीलाप्रकाशकपीतज्ञानप्र. काश्यत्वात् ॥ घटसंविद्वयक्तेः घटज्ञानमात्रप्रकाश्यत्वमस्तीति चेत् - जडगोचर- सेविश्यक्तेर्जडज्ञानमात्रप्रकाश्यत्वस्य, सर्वज्ञसंविद्वयक्तस्संसारिज्ञानज्ञानमात्रप्रकाश्य- त्वस्य सत्त्वादुक्तदोषः । ३. द्वितीयसाधारण्येनाप्रयोजकत्वमाह विपक्षेति । हेतोविपक्षेऽभावोऽनिश्चितः, अभंदरूपसाध्यं मास्तु, संवित्प्रकाशकमात्रप्रकाश्य- त्वमस्त्रिति शङ्कासत्त्वादिति । तदुपपादयति भवत्विति । संविदं विनाऽप्रका- श्यत्वं जडत्वप्रयुक्तम् , नाभेदप्रयुक्तामेति । ४.दिवादिगोऽयं रुधधातुः 'अनो रुध संविदात्मवादभङ्गः इति सन्दिह्यमानत्वान्नाभेदश्शक्यनिर्णयः। बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ॥१६॥ स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तेरपि वेदितुर्भे- दस्यापरोक्षत्वात् । न च प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्या- उपरोक्ये त्वपेक्षितव्यम् , सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशे. घस्यानाक्षेपात् (१) । अनवभासमानेऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकस्वसाक्षिकमेतत् ।। (ज्वालादृष्टान्तेनाबाधितत्वशङ्का ) ननु जीवतो भेदप्रत्यक्षस्य शिरसि पैदनिधानेन सहोपलम्भनिय- मस्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः ? तथासति हि ज्वालाभेदानुमानमपि तदेकत्वप्रत्यभिज्ञयाऽपोयेत ॥ (ज्वालादृष्टान्तवैषम्यवचनम् ) अविशेषज्ञो देवानांप्रियः । तत्र हि क्लुप्तकारणदोषानुवृत्तौ सत्यां जायमानोऽपरोक्षावभासः न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथा हि – अचिरनिर्वापितारोपितेषेकवर्तिभागवर्तिषु बहुषु दीपेषु त- काम' इत्यनूपसृष्टः कामार्थकः । कर्तरिति । अत्र अनुरुणद्धीत्यपेक्षया एतत्प्रयोगो युक्ततरः। १. ज्ञातरि 'भवत्वि' ति हेत्वङ्गीकारोपि नेत्याह बोध्येति । ज्ञानानुरो- धनियमो नीलादौ वेद्यमात्ररूपे जडे स्यात् , न बोद्धरि, तस्य स्वप्रकाशत्वात् । अतोऽहमर्थस्संविदभिन्नस्तदेकप्रकाश्यत्वादित्यत्र स्वरूपासिद्धिरिति । २. प्रत्यक्ष रूपज्ञानत्वम् । भेदप्रत्यक्षे प्रतियोगिप्रत्यक्षमेव तन्त्रम् । तत्र वित्तेस्वप्रकाशतया प्रत्यक्षान्तरानपेक्षा प्रत्यक्षवित्तावेव, तत्स्वप्रकाशस्य प्रत्यक्षरूपत्वात् । अनुमित्या- दिस्वप्रकाशस्य त्वनुमित्यादिरूपतया प्रत्यक्षान्तरविषयतयैव तन्त्रत्वमिति शङ्कि- तुराशयः । ३. प्रतियोगिप्रकाशेन । ४. गोत्वेन गोज्ञानमप्यश्व- रूपप्रतियोग्यमानेप्यश्वभेदज्ञानरूपमेव । प्रतियोगिभाने तु सुतराम् । एतावता, 'भेदज्ञानसिद्धरत्कारः कथ' मिति तेन कृता शङ्क। परिहता । स्यापि तृणीकारेण । ६. अभेदनिरूपितव्याप्तिग्रहणम् । । सामान्यतः । ५. प्रत्यक्ष- 13 आत्मसिद्धौ द्रेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायत इति दृष्टम् । अतोऽन्यत्राप्यप्रतिबन्धपुष्कलकारणक्रमोपनिपातादवयवविश्लेषाच सु- सशनिरन्तरप्रवृत्तप्रदीपप्रवाहाऽऽलम्बनैव तथामतिरिति निश्चीयते । तथैक [स्मि] नानात्वप्रत्ययः स्वतःप्राप्तेन्द्रियवृत्तिविपर्ययप्रयुक्तः सम- समयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्च द्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभवितुं प्रभवति ॥ नचैवमिह ज्ञातृज्ञान- ज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्धयेवायमिहाभेदानुमानो- दयप्रसक्तिम् । नचोपलब्धिसाहित्यनियमादेव तथात्वमत्रानुमेयमिति युक्तम् , विपक्षे बाधकानुपलब्धः। संविदधीनसिद्धितयापि तथानि यमोपपत्तेः । अनैन्द्रियकत्वेन च तवृत्तिविपर्ययस्याकिञ्चित्करत्वात् । योग्याँनुपलेम्भपराकृतत्वाच बाधकप्रत्ययस्य । अपिच विषयसि- दिहि संवित् । सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । न च भेदों पि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानुभवपराहतमतातिव्याकुलीकरणेन । ( प्रकाशातिरिक्तासंभवखण्डनम् ) अप्रकाशात्मनश्च नीलादेः प्रकाश इति अनुभवसिद्धत्वान्न सम- १. एकस्मिन्निति युक्तम् । एकन्नानात्वेत्यत्र एकमिति पदच्छेदे आलम्ब्येति पदमावश्यकम् । वृत्तिविपर्ययेति-इन्द्रियप्रसरणे अङ्गुल्यवष्टम्भादिकृतान्यथाभा- वेत्यर्थः । २. अन्यपुरुषीयमिदम् । ३. घटमहंजानामीति मिथोभेदमाहिप्रत्यक्षम् एवं कारणदोषजन्यं नेत्यर्थः । ४. सहोपलम्भनियमादभेदसाधनार्थात् तथात्वं कारणदोषजन्यत्वमपि। ५. नन्वत्रापि द्विचन्द्रादाविवेन्द्रियप्रसरणविपर्यास एव मूलमित्यत्रेदं वाक्यम् । इन्द्रियग्राह्यविषये हि तद्वृत्तिविपर्यासस्य भ्रमहेतुता, न तु तदयोग्याहमर्थादिविषये इति । ६. कारणदोषनिश्चयाभावेपि बाधकप्रत्यया- द्रमत्वनिश्चयोऽस्तु तत्राह । ७. संविदधीनसिद्धित्वेपि संविदुपलम्भनियमः ८. संविदधीनसिद्धित्वमेवं कथमित्यत्राह नचेति । भेदोपि संवित्प्रतियोगिकभेदरूपत्वेन संप्रत्युच्यमानो घटादिरपि । ज्ञातृज्ञेयग्रहणमेव भेदग्रहणमिति हि प्रागुक्तम् । ९. इतीदमिति प्रार्थनाकर्तृ । कुत इत्यत्राह । - संविदात्मवादभङ्गः ५५ - र्थनान्तरं प्रार्थयते ।। आत्मा तु प्रकाशस्वभाव एव । न च तावता ज्ञानत्वम् , स्वतन्त्रत्वात् । परतन्त्रमागन्तु यावदर्थेन्द्रियसन्निकर्षादिका- रणसन्निधानमवतिष्ठमानमावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम। आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्मं प्रथते । यदि पुनरीहशो- ऽप्ययमनन्याधीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यता कामम् । तथापि ज्ञानवदेवेदं ज्ञानम् , न ज्ञप्तिमात्रतया (त्रं तथा)। ( ज्ञानातिरिक्तात्मनि श्रुतिप्रमाणोपन्यासः) अत एव हिच्छन्दोगाः, ' अथ यो वेदेदं जिघ्राणीति, स आ. त्मा' इत्याद्यामनन्ति । तथा, 'कतम आत्मेति प्रश्नपूर्वकमिदमेव ल- क्षणमानन्ति वाजसनेयिनः, 'योयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इति । अत्र हि, 'योऽयं सर्वलोकानुभवसिद्धा विविधविषय- वेदनप्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्कोतिरहमिति प्रत्यक्त्वेन प्रकाशते, स पुरुष' इति यथोदितमेवात्मस्वरूपमुपदिश्यते । एष हि द्रष्टा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष' इत्याथर्वणाः । तथा, 'विज्ञातारमरे केन विजानीया' दिति, 'न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम्', 'स उत्तमः पुरुषः .... ..नोपजनं स्मरन्निदं शरीरम्', 'एवमेवास्य परिद्रष्टुरिमाषोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति', 'तस्माद्वा एतस्मान्मनोमया. अतः प्रकाशाप्रकाशयोविरोधः प्रागुक्तोऽयुक्तः, कालभेदेनाविरोधात् । १. 'प्र- काशस्वाभाव्ये च संवेदनत्व '. मित्युक्तं निरस्यति । २. लोकप्रसिद्धज्ञानरूप- स्वाभावाद्रौणोऽयं निर्देश इति भावः। ३. एवं सौगतोक्तं निरस्य तदनुसारिप्रच्छ- नमतनिरासायात्मनो ज्ञातृत्वे श्रुतीरपि दर्शयति । विज्ञानमयः तद्गुणप्रचुरः । भन्तज्योतिः स्वप्रकाशः अत्र 'अयं हृदी' ति हृदयावच्छेदेनोपलम्भो दयते । अत- एव सिद्धो नासादिगप्राणभेदः 'प्राणेषिति तत्पृथक्कारेण ज्ञाप्यते । ४. हि यतः द्रष्टा दर्शनादिरूपप्रकाशधर्मकः, अत एव विज्ञानात्मा प्रकाशस्वरूपोऽपि प्रकाशधर्मकप्रदीपवदिति । ५.प्रश्नोपनिषदि (६-४) उक्ताः ; देहेन्द्रियाणि वा । : - ५६ भात्मसिद्धी - दन्योऽन्तर आत्मा विज्ञानमयः' इत्यायाः॥ सत्यं ज्ञानमित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशन्दो न ज्ञानमात्र- वचनः, अपितु तद्वद्वचनः । तद्वचनत्वे 'लिति' (पा. ६-१-१९३) इति आंधुदात्तत्वप्रसक्तेः । अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाच्- प्रत्ययान्तत्वे तथात्वं घटते, नान्यथेत्येतत् परमात्मनिरूपणे अति- निपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपि 'प्रज्ञानं ब्रह्म' इत्युक्त्वा, स एतेन प्राज्ञेनात्मनेति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति ॥ तत्सिद्धं ज्ञातैवायमात्मेति ॥ ( अथानन्यसाधनत्वप्रकरणम्) किं पुनरस्मिन् देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनि प्रमाणम् ? अनुमानमिति नयविचक्षणोऽक्षपादः - यदाह - 'इच्छाद्वेष- प्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गमिति ' ( १ . १. १०) इति । { अक्षपादमताऽऽक्षपः) किममीषामात्मना अविनाभावो दृष्टः, धूमवंजविशेषेणेव धूमविशेषस्य ? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन ? (तार्किकणाऽऽशयाविष्करणम् ) माभूद्विशेषतोदर्शनम् , सामान्यतस्तु भविष्यति । तथाहि १. जीवात्मनीव परमात्मन्यपि ज्ञातृत्वस्वभावे श्रुतिं दर्शयति । २. तेन सूत्रेण तादृशप्रत्ययात्पूर्वस्योदात्तविधानादिति । ३. एवं देहोन्द्रयमनःप्राणधीभ्योऽन्य इति विवेचितम् । अथानन्यसाधनत्वं वित्रियते । अनन्यत् स्वं साधनं ज्ञापकं यस्येत्यनन्यसाधनः । तत्रानुमानादे साधनत्ववादिनां मतं विमृश्यते । विप्रतिपत्त्यवसरदर्शितक्रमण गौतमकापिलादिता- किंक-श्रोत्रिय कौमारिल प्राभाकरमतान्युपन्यस्य सिद्धान्तं वक्ष्यति । १.धूमादाविवेच्छादौ व्याप्तिग्रहणाभावादनुमानमपि नेति शङ्कते । ५. धूमो ध्वजो यस्य सोनिः । उदर्याधम्नेषूमादननुमानात् , उदर्याद्यम्नेषूमादननुमानात् , जलसिक्ताङ्गारजन्यधूमादे- रग्न्यसाधकत्वाच्चोभयत्र विशेषपदम् । ततः दर्शनात् । ६. सामान्यतोदृष्टमनुमानं - - ५७ अनन्यसाधनत्ववादे गौतमानुमानविमर्शः इच्छादयः कार्यत्वानित्यत्वगुणत्वादिभिः शब्दादय इवाश्रिततयाऽनु- मीयन्ते । यश्चैषामाश्रयः स आत्मा। गुणत्वञ्च परिशेषात्- न सामा- न्यविशेषसमवायाभावाः, अनित्यत्वात् । न द्रव्यं कर्म वा, व्यापक द्रव्यसमवायादिति ! विशेषगुणत्वं चानित्यत्वे सत्यस्मदायेकेन्द्रियग्राह्य- त्वनियमाद्रूपादिवत् ॥ (सामान्यतोदृष्टानुमानाद्विशेषसिद्धिप्रकारः ) एवमाश्रयमात्रमुपस्थापयन्तोऽन्वयव्यतिरेकिणो हेतवः द्रव्या- न्तरगुणत्वं प्रत्याचक्षाणैः केवलव्यतिरोकिसाधनैरात्मगोचरतया नि- यम्यन्ते । तथाहि भवति - इच्छादयो न महाभूतगुणाः स्वात्मन एव प्रत्यक्षत्वादबाह्येन्द्रियग्राह्यत्वाद्वा । ये भूतगुणास्ते स्वात्मपरात्मप्रत्य- क्षाः बाह्यकरणप्रत्यक्षाश्च; यथा रूपादयः। न तथेच्छादय इति न त- गुणाः। दिक्कालमनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्य- क्षत्वमिति न तेषामपि गुणाः । अकारणगुणपूर्वत्वात् अयावच्छरीर- भावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रा- नुक्रष्टव्याः । “तेनेच्छादयो न शरीर [ रादि] गुणास्तद्गुणभावापवा- दकप्रमाणवत्वे सति गुणत्वात् । ये यथोक्तसाध्या न भवन्ति, ते यथो- क्तसाधना अपि न भवन्ति, यथा रूपादयः । यथोक्तसाधना:पुनरि- च्छादय इति यथोक्तसाध्या एवेति । विमतिपदास्पदेभ्यश्शरीरादि- भ्योऽर्थान्तरगुणा इच्छादय इति वा प्रतिज्ञा । यथोक्त एन हेतुः, उदा. इरण प्रयोक्तव्यम् । सामान्येन वान्वयः प्रदर्शनोयः -- यो यद्गुण- भावापवादकप्रमाणववे सति गुणः, स ततोऽर्थान्तरस्य गुणः यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति संभवतीति तार्किकःपृच्छति । १. इच्छादेर्गुणत्वसाधक परिशेषानुमानमाह । २. विभुसमवेतत्वात् । विभुत्वञ्चेच्छाद्याश्रयस्य, सर्वदेशावच्छेदेन शब्दोत्पत्त्या गगनस्येव, सर्वतोजन्मलाभादिकार्येण सिद्धम् । ३. इच्छादयो न दिक्कालमनो- गुणाः विशेषगुणत्वात्प्रत्यक्षत्वाचेति । ४. एवं तत्तदवृत्तित्वे प्रत्येकहेतुमुक्त्वा अनुगतमेके विशिष्टप्रयोगमाह । ५. यथोक्तमित्यनुषज्यते । ६. पृथिव्यादि- म्योऽर्थान्तरस्य गुण इत्यनुषङ्गसिद्धम् । .. 14 ५८८ आत्मसिद्धौ ( तार्किकाशयखण्डनम् ) इदमपि न समीचीनमित्येके । तथाहि - अन्वयव्यतिरेकिहेतु- भिदेहादिसाधारणमाश्रयमात्रमवगमितम् । न च तावताऽऽत्मसिद्धिः । ( केवलव्यतिरेकिणो हेत्वाभासत्वम् ) केवलव्यतिरेकी तु साधनदशामेव नासादयति, सपक्षान्वयवि- रहात् , असाधारणवत् । नचैवं केवलान्वयिनो विपक्षव्यतिरेकदर्शनवि- कलतया साधारणवदसाधनत्वम् , देशकालादिशङ्कितोपाधिविगमेप्य- १. एवं तार्किकाशयमनूद्य दूषयति इदमिति । इच्छादयः किञ्चिदाश्रिताः गुणत्वादिति प्रथमानुमानम् । इच्छादीनां शरीराद्यसमवेतत्वसाधकान्यन्यान्यनुमा- नानि । इच्छादयश्शरीरायतिरिक्तसमवेता इत्यन्तिमानुमानम् । तत्र प्रथमानुमा- नेनात्मनि साधनीये मध्यानुमानानि सहायभूतानि, अन्तिमानुमानं वाऽऽत्मसाध- कम् । नाद्यः, तत्र साध्यघटककिञ्चित्पदेनात्मरूपविशेषालाभात् । सहायभूतानु- मानहेतवस्तु केवलव्यतिरेकित्वादहेतवः, अत एव नान्त्यपक्षोपीति । २. शब्दो नित्यशब्दत्वादित्यसाधारणहेतुर्हि सपक्षवृत्तित्वरूपाङ्गवैकल्यादसाधक इष्टः । हेतोः पञ्च रूपाण्यपेक्षितानि, पक्षसत्त्वं सपक्षसत्त्वं विपक्षासत्त्वमबाधितत्वमसत्प्रति- पक्षितत्वञ्चेति । पक्षे सत्त्वं हेतोः पक्षसत्त्वम् । एवमुपरि । ३. यथा धूमवान् वहेरिति साधारणहेतुस्तृतीयरूपाभावादसाधनम् , तद्वत् केवलान्वय्यप्यस्तु । वयादौ विपक्षः प्रसिद्धः; तत्र हेतोरसत्त्वं नास्ति; केवलान्वयिनि विपक्ष एवा प्रसिद्धः। एवं विशेष सत्यपि विपक्षासत्त्वस्य दुरुपपादत्वमुभयत्र तुल्यमिति शङ्का । देशेति । साधारणस्थल इव व्यभिचारनिश्चयाभावात्केवलान्वयिनि न विपक्षस. विनिश्चयप्रयुक्तं तद्रूपवैकल्यम् ! किन्तु विपक्षाप्रसिद्धिप्रयुक्तम् । विपक्षप्रसि- द्धिस्थल एव तत्र सत्त्वं शङ्कयतेति तत्रैवासत्त्वज्ञानमपोक्षतम् । अप्रसिद्धिस्थल तु न तदपेक्षा, प्रसक्तौ सत्यामेव प्रतिषेधप्रवृत्तेः । यद्युच्येत - विपक्षाप्रसिद्धिनिश्चय एव दुर्लभः, देशान्तरे वा कालान्तरे वा हेतोस्सोपाधिकत्वशङ्कया व्यभिचारशङ्का- सत्त्वादिति, तईनुकूलतर्केणोपाधिशङ्काविगमस्संपाद्यते । एवं शङ्कितोपाधिविगमे सति यत्रक्कचित्साध्यसाहचर्यदर्शनत एव साध्यव्याप्तिपरिनिश्चयश्चान्वयव्यति- - अनन्यसाधनत्ववादे सांख्यानुमानविमर्शः ५९ न न्वयदर्शनेन साध्यान्वितस्वभावतया परिनिश्चितत्वात् । च साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुम् । अमावस्यानन्तदेशव्यापितयाऽनवयवेन ग्रहणस्यैव दुष्कर- त्वात् । कलयाऽप्यन्यत्र वृनौ संबंन्धे नियमासंभवात् । सन्देहग्रस्त त्वाञ्च-किं साधनाभावप्रयुक्तस्साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । पृथिव्यादिभ्योऽर्थान्तरगुणत्वप्रतिज्ञापि द्रव्यान्तरापासिद्धेरप्रसि- द्धविशेषणा ॥ ( साङ्ख्योक्तजीवानुमानसरणिदूषणम् ) एतेन साङ्खयोदीरितसाधनभेदा अप्यापोदिता वेदितव्यास्सं- घातपरार्थत्वादयः। तथाच तानेव तावदादितो व्याकुर्महे ( सांख्याशयाऽऽविष्कारः) 'संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात्कैवल्यार्थ प्रवृत्तेश्च । अयमर्थः - देहेन्द्रियादयः परार्थाः संघातत्वाच्छयनासनशरैः णादिवत्। प्रत्यक्षञ्च शरीरस्य संघातत्वम् , भूतानाश्च । अव्यक्तमहदहं- कारेन्द्रियाणाश्च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव ॥ नचे- न्द्रियाणामाहंकारिकत्वस्याभ्युपेतस्य, साध्यत्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थत्वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहं - रेकिण्यपि क्लुप्तः, तथैव केवलान्वयिनोपि । सर्वोपाधिविगमेप्यन्वयो हि नव्याप्तिं वि- नेति ।१.साधनाभावे सति कचित्साध्याभावदर्शनमात्रेण । अनवयवेन कृत्स्नतः। २. हेतौ साध्यसंबन्धस्सामानाधिकरण्यरूपः । ३. अन्तिमानुमानेऽन्वयिनि दोषो- ऽयमेव । प्रतिज्ञायां पक्षांशे विशेषणं साध्यम् । तदप्रसिद्धमिति । ४. पश्चात्त- निराससुगमत्वाय । ५. शरणं गृहम् । ६. शरीरादिवदेव । ७. विरुद्धहेत्वाभासे विशेषविरुद्ध इति कश्चित्प्रभेदः । स च धर्मिविशेषवि. रुद्धो धर्मविशेषविरुद्ध उभयविशेषविरुद्ध इति त्रेधा । धर्मी पक्षः । धर्मस्साध्यम् । तत्रतत्र सिद्धान्त्यभिमत आकारो विशेषः । तद्विपरीतसाधकत्वं विशेषविरुद्धत्वम् । अत्र च शयनादिदृशान्तेनेन्द्रियेषु परार्थत्वसाधकस्संघातत्वहेतुस्तदृष्टान्तेनैव तेषना- ६. आत्मसिद्धौ - कारान्वयव्यतिरेकानुविधानेन, 'देवा वैकारिकाः स्मृता' इत्याद्यागमब- लेन, प्रकाशलाघवगुणान्वयेन च वैकारिकाभिधानसात्विकाहंकारभेद- योनित्वस्थेन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः । आत्मनस्तु सं- घातत्वे तस्यापि संघातान्तरार्थतयाऽनवस्थापच्या निष्प्रमाणकानेकक- ल्पनाप्रसंगात , अप्रयोजकत्वाच्च संघातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेष- धर्मोपस्थापनेऽनुमानप्रामाण्यस्यैवासंभवापत्तेस्तदसंघातत्वस्य चाँप- चाल्यत्वात् । न च प्रमाणान्तरबलेनाऽनाहंकारिकत्वसंघातान्तरार्थत्व- यो धेऽबाधितेन संघातपरार्थत्वेनापि न भवितव्यम् । एवंच संहत. स्वव्यापकावरुद्धत्रैगुण्यादिरहितोऽसंहत आत्मा सिद्धः। तां देहादयस्सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रा- दिभिरिव रथादयः। अपिचानुकूलप्रतिकूलवेदनीये सुखदुःख भृत्यभ्रा- तृव्यवदनुकूलनीयप्रतिकूलनीयवती। दृश्यत्वादेहादयो घटादय इव वि- हङ्कारिकत्वं साधयतु । तथा प्रकृतानुमाने परार्थत्वरूपसाध्यघटकस्य परस्या संघातरूपत्वमेव सिद्धान्त्यभिमतम् ; प्रकृतहेतुस्तु प्रकृतदृष्टान्तेनासंहतपरार्थत्व- विपरीतं संहतपरार्थत्वं साधयत्विति शङ्का । १. तत्रेन्द्रियाणामनाहङ्कारिकत्व. साधनमागमबाधितमित्याह ! देवाः इन्द्रियाणि । तत्र सात्त्विकाहङ्कारजस्वे युक्तिः प्रकाशेति । ' सत्त्वं लघु प्रकाशक ' मिति ह्युच्यते । विपरीतसाधनमप्यप्रयोजकत्वेनानिष्टप्रसत्या च दुष्टमित्याह ! ३. अयं चकारः असंभवापत्तेरित्यत्रान्वेति ; इन्द्रियाहङ्कारिकत्वसमुच्चयार्थो वा । ४. संघात. स्वहेतुना संघातस्य पारायं साध्यमानमबाधितं देहादौ भवत्येवेति । ५. संहतत्व- रूपं यत् व्यापकं तदबरुद्धं तद्वयाप्यं यत् त्रैगुण्यं तदभाववान् सिध्यति, संहत. स्वरूपव्यापकाभाववत्त्वादिति । एवं त्रिगुणादिविपर्ययादिति व्याख्यातम् । ६. अधिष्ठानादित्येतद्विवृणोति । यन्ता- सारथिः । ७. भोक्तभावा- दित्येतद्वयाख्याति । सुखमनुकूलनीयवत् अनुकूलतया वेदनीयत्वात् भृत्यव. दित्येवमनुमानम् । दृष्टान्ते अनुकूलनीयेति देहस्य ग्रहणम् ; पक्षे पुंसः । भ्रा- तन्यो रिपुः । ८. भोक्तभावादित्यस्य द्रष्टत्वादित्यपरा व्याख्या; तदनुसारेणाह । २. धर्मविशेष.
अनन्यसाधनत्ववादे सांख्यानुमानाविमर्शः ६१ लक्षणद्रष्टका इति । अधिष्ठातुरनुकूलप्रतिकूलवेदकस्य द्रष्टुस्त्रैगुण्यादि- विपर्ययः पूर्ववदेव निर्णेतव्यः । तथा देहादेव्यक्तान्तस्य कृत्स्नस्य त्रिगुणात्मकतयाऽत्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेस्तदर्थश्च शा. स्त्राणां महाधियाश्च प्रवृत्तेरस्ति देहादिव्यतिरिक्तोऽसंहतस्वैगुण्याद्यसं- स्पृष्टः पुरुष इति । ( साङ्ख्यानुमानदूषणम् ) अत्रापि संघातपारार्थ्यादिभिर्यद्यपि परः कोप्यधिष्ठाता द्रष्टा सिद्धः, तथापि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषशक्यनि- श्चयः । तथाहि-संघातस्य संघातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा संघातकल्पना न दोषाय, कार्यतयेवानादिकारणपरम्परापरिक- ल्पना । नचाप्रयोजकत्वमपि, असंघातस्यासंगस्याशेषविक्रियाशून्य- स्यानाधेयातिशय कूटस्थचितिमात्रवपुषः पुरुषस्य संघातं प्रति परत्वा- नुपपत्तेः। तद्धि तस्य शेषि भवति, तच्च तदर्थम् । यद्येनोपंक्रियते क्रि- यते वा, यच्चोपकरोति करोति वाँ। न च तथा सांख्यपुरुष इति कथं तस्य संघातं प्रति परत्वम् ? कथंतराश्च संघातस्य तादर्यम् ? अनुप- कार्योप्युपकार्यतयाऽऽत्मानं मन्यत इति चेत् - कामं मन्यनाम् ; कि- मायातमुपकार्यत्वस्य ? न खलु बालास्तलमलिनतादिमत्तया गगन- मभिमन्यन्त इति तस्य तथात्वं भवति । (शेषित्वारोपस्याप्ययोगः) अपिच तथाविधभ्रमोऽपि कस्य कथमुदयत इति विवेचनीयम्। न तावञ्चितिशक्तः, सर्वविक्रियाशून्यतयाऽतिविशुद्धायामशुभशतनि- १. अधिष्ठानादिहेतुत्रयस्य त्रैगुण्यादिरहितात्मसाधनपर्यवसानं पूर्ववदनव' स्थापरिहारायेत्याह । २. कैवल्यार्थ प्रवृत्तेरिति हेतु व्याचष्टे । त्यर्थः । उपर्युपरीति यावत् । ४. धर्मविशेषविरुद्धता पूर्वोक्तां स्थापयति । ५. इदमारादुपकारकप्रयाजाद्यभिप्रायेण । क्रियत इति स्वरूपनिष्पादक सन्नि- पत्योपकारकावहननपुरोडाशाद्यभिप्रायेण । ६. यस्येति शेषः । कर्माध्याहार्यम् । । ८. तलमधःप्रदेशो मूर्तरूपं वा । तथाापरि नभो दृश्यते । ३. अन्याऽन्ये- ७. यदिति 15 आत्मसिद्धौ दानभूतभ्रमपरिणामासंभवात् । अन्तःकरणन्तु बुध्धपरपरिभाषा- भिधानमचेतनतया तनुरिव न भ्राम्यति ॥ अचिदपि स्वच्छत या चि. तिच्छायामापनं चेतनायत इति चेत् - न, नीरूपायाचितेर्बुद्धेश्चच्छा (चिच्छा) यातद्ग्रहणानुपपत्तेः॥ छायेवच्छायेति चेत्-कः खल्विवार्थ: चितिसरूपत्वमिति चेत् - हन्तैवमशेषविकाररहितचितिसरूपतापत्ता- वन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमापद्यत इति दुरुपपादतरोऽयं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः॥ चेतनत्वेन संरूपत्वमिति चेन्न चितिरेव हि ते पुरुषः, न चेतयिता । यथाह - तत्रभवान् पतञ्जलिः, यदा चितिरेव पुरुषः किमत्र केन व्यपदिश्यत इति ॥ अ- जडायमानत्वमिवार्थ इति चेत् - अजडत्वमपि न ज्ञातृत्वातिरिक्तं कि ञ्चिदित्युक्तमेव । तेनैवं तद्विवरणमिति च न किंचिदेतत्।। अपिच चि. तिसंनिधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रति- जानीयात् ? न च चितिस्वान्तयोबिम्बप्रतिबिम्बाधाराभिमतयोरन्य- तरस्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य :- तिबिम्बे संभवः । प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाधमतप्रत्या- देशे। (वृत्त्यारोपसंभवशङ्कापरिहारः) यदुच्यते-निर्विकारायापि पुंसे तत्संनिधिमहिमसमुत्थापित प्र- माणविपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृत्तिं विषयविशेषांश्चो- कथं चेतनायत इत्यत्राजडायमानतयेति हेतुनिर्देशे यदेवोपपाद्यं तदेवो- पपादकमिति दोष इति । २. संप्रतिभ्यामनाध्याने (१- ३ -४६) इत्याध्याने परस्मैपदम् । आध्यानमुकण्ठःपूर्वकस्मरणम् । परायत्तप्रकाशेऽन्तःकरणे कथं स्वप्रकाशत्वरूपमजडत्वं सोत्कण्ठं स्मरेत् । ३. चितिबिम्बः, स्वान्तं प्रति- बिम्बाधारः । न तन कुत्रापि भ्रान्तिमत्त्वम् , किन्तु चित्प्रतिबिम्बे इत्याशङ्कयाह । . ४. ३९ पुटे । तत्राचाक्षुषस्यच्छायाऽदर्शनादित्युक्तत्वात् । यदि नारूपायाश्चिते' रितीहानन्तरोक्तवाक्य इव तत्रापि किञ्चिदेवोक्तमित्यपरितोषः, तदा न्यायतत्वादि- कमत्र विवक्षितमस्तु । ५. ननु ज्ञातृत्वमिति न चैतन्यवत्त्वं विवक्षितम् । कि. . , अनन्यसाधनत्ववादे आगमैकवेद्यत्वप्रस्तावः पदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलबिलोलनादिवृत्तीस्वा- मिनं । ततस्साक्षी भोक्ताचापदिश्यते. राजेति (व?) विक्रमी विजयी चेति-तदनुपपन्नम् - द्रष्टे हि दर्शनीयं दृश्यते ( दर्यत? ; । न च दृशि- मात्रात्मवादिनां सांख्यानां तदुपजीविनाञ्च प्रच्छन्नानां द्रष्टुत्वं वास्त- वमस्ति । न च काल्पनिकेन शेषित्वसंभवः । कल्पनापि न संभवती- त्युक्तमेव । राजा तु सामान्यतो विशेषतो वा तेषु कर्मस्वमात्यान्नियुः आनस्तत्फलमैश्वर्यादि चाश्नुवानः स्वस्वामिभावहेतुक्रयप्रतिग्रहजनना- दिव्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शनमिति यत्किञ्चिदेतत् ॥ स्थूलोऽहं, गच्छाम्यहमित्यादिप्रत्यक्षमृदितविषय- तया प्रसिद्धैवातीतकालता व्यतिरेकानुमानभेदानामित्यानुमानिकी- मप्यात्मसिद्धिमश्रदधानाः श्रौतीमेव तां श्रोत्रियास्संगिरन्ते । (आत्मनि श्रुति श्रुतार्थापत्त्योः प्रदर्शनम् ) श्रुतयो हि साक्षादेवात्मनश्शरीरादिव्यतिरेकमादर्शयन्ति- ‘स. एष नेति नेति', ' अकायमत्रणमस्नाविरं शुद्धमपापविद्धम्', '. 'योनि- मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये', 'न जायते म्रियते वा कदाचित् ', 'जीवापेतं वाव किलेदं म्रियते', 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृ. शतः' इत्याद्याः। कालान्तरभाविस्वर्गादिसाधनविधयश्चाऽऽक्षिपन्ति न्तु वृत्तिरूपज्ञानवत्त्वम् । वृत्तिश्चान्तःकरणे वस्तुतोऽस्तीति आत्मनि तदारोप- श्शक्यवचन इत्याशयेनाह । १. पराक्रमवत्तरमित्यर्थः, पराक्रमवच्छब्दात् ईय- सुन्प्रत्यये द्वयोरेकस्यातिशयार्थे परे, 'विन्मतोलक ' (पा. ५-३-६५ ) इति २. न च पुंसो द्रष्टवाभावेप्यन्तःकरणकर्तृकशेषित्वारोपविषय- त्वमेव बद्धत्वमिति वाच्यम् , विषयत्वस्यापि तुल्यनयानिर्विकारेऽयोगात् , मुक्त- स्यापि भ्रान्तकर्तृकतादृशारोपविषयत्वे बद्धत्वापत्तेश्च । ३. त्रैगुण्यादिविपर्यय. साधकानामसंहतत्वाधिष्ठातृत्वभोक्तृत्वरूपाणामनुमानविशेषाणाम् । प्रसिद्धेत्यनेन केवलव्यतिरेकिणोऽननुमानत्वमप्यस्फुटं दूषणमस्तीति सूच्यते । - मतुपो लुक् ।
६४ भात्मसिद्धी देहादिब्यतिरिक्तं नित्यं चेतनमिति श्रुतितदनुपपत्तिप्रमाणकोऽयं प्रत्य गात्मेति ॥ ( मीमांसकेनाऽऽत्मनः प्रत्यक्षत्वोपक्षेपः) ननु हिताहितमाप्तिपरिहारमात्रपरस्याम्नायस्य शिरसि किमिति महानयं भारः प्रक्षिप्यते ! अनुमानागमावशेषप्रमाणमूलभूतेन प्रत्य क्षेणैव ह्येनं प्रतिपद्यामहे । 'ममेदं शरीरं', 'इदमहं जानामी' तिघ टादिदृश्येभ्य इवायं द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति । (तत्खण्डनम्) मैवं वोचः । इन्द्रियार्थसन्निकर्ष हि विज्ञानं प्रत्यक्षम् । नचे. न्द्रियाणि रूपादिव्यतिरेकिणि निरतिशयमूक्ष्मे प्रतीचि, परागर्थ इव, सन्निकर्षण ज्ञानं जनयितुमर्हन्ति । यथाऽऽम्नायते ‘पराञ्चि खानि व्यतृणत्स्वयंभूः' इति । अचित्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः । तेन नैन्द्रियकं ज्ञानमात्मानं स्पष्टुमर्हति ॥ १७ ॥ (भादृसंमतमानसप्रत्यक्षविषयत्वशङ्का ) स्यान्मतम् - भौतिकत्वादहिरिन्द्रियाणि मा नामात्मनि प्रवर्ति- पत। मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति - तन्न, तस्यापीन्द्रियत्वे भौतिकत्वस्यापरिहार्यत्वात् । यथाऽऽम्नायते, 'अन्नमयं हि सोम्य मन' इति । प्रपञ्चितश्चैतनि (चैतदेतन्नि?) रूपणे ॥ अथोच्येत - अस्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । नचै- न्द्रियकत्वमन्तरेणासौ संभवति । क्लुप्तञ्च बहिरिन्द्रियागोचरेऽपि सु- खादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयो- १. ननु सिद्धपरवाक्यप्रामाण्येऽपि आम्नायस्य क्रियार्थत्वान्न सिद्धवस्तुन्या- त्मनि तात्पर्यम् । न च तच्छेषतयापि तद्बोधनैदम्पर्यम् ; अप्राप्ते हि शास्त्रमर्थ. वत् । आत्मा च प्रत्यक्षप्राप्त इति श्रोत्रियोपरि मीमांसकश्शङ्कते । २. श्रोत्रियः ३. आत्मा नेन्द्रियग्राह्यश्चित्वादिति व्यतिरेक्यनुमानमिह विव- ४. अहमितिप्रत्ययः इन्द्रियजन्योऽपरोक्षावभासत्वादिति प्रयोगः । खण्डयति । क्षितम् ।
अनन्यसाधनत्ववादे मानसप्रत्यक्षखण्डनम् . . गश्च भवति - आत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात्सुखादिवदिति (मानस प्रत्यक्षसाधकस्याभासीकरणम् ) तन्न - संवेदनेन व्यभिचाराद , न च तदप्रत्यक्षम् , जानामी- त्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्यादित्युक्तमेव ।। ( ज्ञानस्य मानसप्रत्यक्षाविषयत्वसमर्थनम् } न च तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति, विमर्दास- इत्वात् । यदा खलु कुतश्चिदात्ममनस्संयोगाद्विषयसंवित् उदयमासा- दयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदाऽन्ये- नेति वाच्यम् । न च युगपदुभयजननं संभाव्यते । तथा हि सति परा- परतत्तद्गोचरनिरवधिकधीनिकुरुम्बैजन्म तत्कालमेवाऽऽपद्येत । न च त- दस्ति । युगपदुत्पत्तौ विषयविषयित्वनियमश्च निर्निबन्धनः।। असम समयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वम् , क्षणिकत्वेनाग्रिमज्ञानस्या- ऽऽग्राहकज्ञानोदयमवस्थानाभावात् । भाचे च सर्वज्ञानानां सर्वदाऽव स्थानप्रसंगात् । कार्यविरों धित्वे चानन्तरमेव संस्कारोदयान काला- न्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वम् । (संवेदने व्यभिचारनिगमनम् , दोषान्तरवर्णनञ्च ) चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः ॥ ऐन्द्रियकत्वस्या- १. नन्वस्मत्पक्षे ज्ञानस्यातीन्द्रियत्वात्कथं तत्र व्यभिचार इति भादृशङ्कायां तदतीन्द्रियत्वं निरस्यति । २. ज्ञानस्य या सामग्री तयैव ज्ञानकार्योपपत्ती ज्ञानमिति वस्त्वेव न सिध्यदिति । ३. कथं व्यभिचारः, साध्यस्यापि सत्त्वा. दिति तार्किकशङ्कां क्षिपति । १. संवेदनजनकेनाऽऽत्ममनस्संयोगेनैव संवेदन- विषयकज्ञानान्तरमप्युत्पाद्यते । ५. घटज्ञान तद्ज्ञानज्ञान तद्ज्ञानज्ञानज्ञानेत्येव- मनन्तज्ञानोत्पत्तिः । ६. पूर्व स्थितमिन्द्रियसन्निकर्षबलात्पश्चाज्जातेनं विषयी- क्रियत इति युक्तम् । अन्यथा युगपदनकोत्पत्तौ एकस्य विषयत्वमन्यस्य विषयि- खमेवेत्यत्र गमकं नास्तीति । ७. पूर्वज्ञानस्य । ८. कार्यनाश्यत्वे । कार्य विरोधि यस्येति बहुव्रीहिः । ९. ननु संवेदने प्रत्यक्षत्वघटितहेतोरप्यभावान्न न 16 ६६ आत्मसिद्धौ नात्मत्वप्रतिबद्धत्वाविरुद्धता च ।। साध्यविकलश्च दृष्टान्तः, सुखदुःख- योः प्रत्यक्षत्वानभ्युपगमात् । (सुखदुःखादिस्वरूपशोधनम् ) अनभ्युपगमश्चेन्द्रियपोकल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नमत्यक्षे तत्पौष्कल्यं वैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्षत्वाभिमानः, मनोऽवस्थाभेदेष्विव चानुमेय- मनोवादिनाम् । यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयो- रपि तदन्तर्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगु. णत्वम् - ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत; स्वतस्सुखीत्येतद्विमर्श वाऽनत्यम् । रागद्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षी भवन्तीति न तन्निदर्शनेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः; तद्विरोधप्रयुक्तविषयीकारं तदेव द्वेषः; भूतदुःखज्ञानेन तच्चलनं (चेतश्चलनं ?) शोकः; आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविस्तरेण ।। एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरोधादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चां शान्तरमाश्र- यितव्यम् , तथा तत्र तत्रेत्यनवस्था; संघातत्वंचात्मनः ।। व्यभिचार इति भादृशङ्कायां परिहारं पूर्वकृतं स्मारयन् तन्न व्यभिचारं निगमयति । १. व्याप्यस्यैन्द्रियकत्वस्य साधको हेतुापकानात्मत्वसाधकोपीति धर्मिवि. शेषविपरीतसाधनासिद्धान्तहानेश्च विरुद्धता । २. खमिन्द्रियम् । शो- भनं खं सुखम् ; दुःस्थं खं दुःखमिति व्युत्पत्तिरपीह भाव्या । पश्यामीत्यादौ । अनुमेयेति । अहमर्थभूतमन्तःकरणं मनःसाक्षिभास्यमिति पक्षे कामादिमनोऽवस्थाभानं युज्यते । अन्यमते त्वपरोक्षत्वाभिमान एवेति । ४. न्या. यतत्त्वस्थम् . । ५. देहेन्द्रियेतिकारिकास्थान्तिमपदविवरणम् । तथाच सु- खदुःखयोरात्मविशेषगुणत्वेपि धर्मभूतज्ञानावस्थादिरूपत्वेन स्वयंप्रकाशत्वान्मनोग्रा- ह्यत्वानङ्गीकारात्साध्यवैकल्यमेवेति भावः । ६. चैतन्यमेव । ७. तथाच रागादौ स्वयंप्रकाशे साध्यं नास्ति, शौकादौ च चेतोवृत्तौ हेतुरपि नास्तीति न कश्चि- दृष्टान्त इति । ८.कर्मकर्तृविरोधात् । ९. अंशो ह्यवयव एवेति सावयवत्वापत्तिरिति । ३. चक्षुषा अनन्यसाधनत्ववादे ग्राहकावभासविमर्शः (पुनर्भादृशङ्का) न च ग्राहकावभासश्श्रुत्या(?) स्वसिद्धान्तश्रद्धाविपलब्धबुद्धिभिर- भिहितः, इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशोपिकचि. दस्तु नाम प्रत्ययः । सत्वागन्तुकात्मप्रतियोगिकपाकटयप्रकाशादिप दाभिधेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिवन्धनः । (तत्र प्राभाकरसमाधिः) उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम् , यव विषयानुभवसमये पूर्वावस्थातो न कश्चिद्विशेषमयमात्मनोऽत्रबुध्यत इति । उक्तं ह्येतत् - ईदृश एवायमर्थो ज्ञायते नवेति न विद्मः, मम वा प्रति- भासते परस्य वेत्यपि न विद्मः इति न जातुचिदेवं प्रतीतिरस्ति; ज्ञान- ज्ञानोरनवभासे तादृश्यपि प्रतीतिरापद्येत-इति। सोयं परसंचतितात्स्व- संचेतितस्यानिशयस्सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । १. एवमात्मनो मानसप्रत्यक्षग्राह्यत्वे दूषिते, प्राभाकरसंमतग्राहकावभासपक्षाद- रेण स्वपक्षदूषणं क्रियत इति मत्वा भादृस्तत्रानुपपत्ति प्रदर्थ स्वाशयमाह नन्वि- ति। ग्राहकावभासो नाम इन्द्रियजन्यघटादिविषयमाहिवित्तिषु आत्मनो गृहीतृत्वेन रूपेणावभासः । अत्र श्रुतिः 'अथ यो वेदेदं जिघ्राणीति स आत्मेत्येवमादिः ! श्रुत्या अन्यथा गृहीतार्थया। यद्वा श्रुत्थाः इति षष्ठयन्तं स्वसिद्धान्तेत्यत्रान्वेति । श्रुत्येति स्थाने वित्येति स्यात् । तदा घटपटादिवित्तिकृतो ग्राहकावभास इत्यर्थः । २. घटादि- प्रकाश एवानुभवसिद्धः, न ज्ञानज्ञानोरिति । ३. ज्ञाने जातेऽर्थ आत्मानं प्रति प्रकटो भवतीति अर्थस्य धर्मः प्राकटयमात्मप्रतियोगिक आत्मनिरूपित इति । तथाच पूर्वमयं घट इत्येव ज्ञानं जायते । घटमहं जानामीति तु न सर्वत्र । कचि. देव तु ज्ञाततया ज्ञानेऽनुमितेऽनुमितज्ञानवानात्मा मनसा प्रत्यक्ष्यते तथेति । न- चात्मनस्सांशत्वापत्तिः, आत्मनो देहादिमत्तया ग्राहकत्वं, प्रत्यक्त्वादिमत्तया ग्राह्यत्व. मिति रूपभेदादेवोपपत्तेः। ईदृशस्थले कर्मकर्तृविरोध एव नास्तीति वा स्वीक्रि- यत इति। ४.२५. पुटान्ते । ५. संदेह प्रतिभटत्वरूपः । ज्ञानज्ञात्रोरभाने यथा परस्य घटज्ञाने सत्यपि, 'घटापरेण ज्ञायते न वा', 'घटस्तस्मै भासते नवे 'ति आत्मसिद्धौ अनुमितज्ञानाऽऽलम्बनत्वे च प्रज्ञासिषमित्येव प्रतिभासस्स्यात् ;न 'जा- नामी' ति; ज्ञानजन्यार्थाविशयदर्शनवदशप्त्यनुसन्धानानुमानोदयस- मयेऽनुमित्सितज्ञानस्यातिवृत्तत्वात् । ज्ञानानुमानासंभवः पूर्वमेवोक्तः । मानसप्रत्यक्षत्वनात्मग्राबधीनिरस्तम्(?) । तथासति हि स्वपरवेद्ययोरन- तिशय॑स्स्यात् ।। (पुनर्भाट्टोन्मेषः) नेनु कथमिव ग्राहकानवमासे स्वपरवेद्ययोरनतिशयप्रसङ्गः ? न हि ग्राहकसिद्धिनिवन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोध. जन्मना परसमवेतवोधजन्मना च तद्विशेषोपपत्तेः । स्वपरसंबन्धिबो- धविशेषोदयव्यवस्थाऽपि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतु- सामग्रीभेदनिबन्धना । नचात्मसिद्धिरपि तत्सामग्र्यनुप्रवेशमर्हति, इन्द्रियादेरिवानवभासमानस्यैव हेतुत्वसंभवात्। न च विषयबोध एवा- संदेहोऽस्माकम् , तथा स्वविषयेपि स्यादिति । १. नन्वम्भसि पिपासोपशमन- शक्तेरिवाप्रत्यक्षस्यापि ज्ञानस्य झटित्यनुमानात्संदेहानुदय इति शङ्कायां तदुपे- क्षया दोषान्तरमाह। २. पु. २६.। ३. आत्मा स्वं ग्राह्यो यस्यास्सा धीस्तया निरस्तम् । धियो मनोग्राह्यत्वरूपतार्किकपक्षोपि धियस्स्वप्रकाशत्वस्वी. कारानिरस्त इत्यर्थः । यद्वा आत्मा जीवो ग्राह्यो ययेति । जीवस्य मानसप्रत्य- क्षत्वं भाट्टोक्तं धिय एव ग्राहकामावभासकत्वस्वीकारानिरस्तमित्यर्थः । नं स्वस्य वा भवतु, परस्य वा । सर्वथा घटस्य वेद्यत्वमविशिष्टम् । एवं सति पर- वेद्यात्स्ववेद्येऽतिशयः स्वस्मै भासमानवित्तिविषयत्वरूपो वाच्यः । स च ग्राहकान- वभासे न भवतीति । ५. भन्ते उक्तं स्वपरवेद्ययोरनतिशयं परिहरन् ग्राहका- वभासं खण्डयति नन्विति । परवेद्ये परसमवेतवित्तिविषयत्वं, स्ववेद्ये स्त्रसमवेत- वित्तिविषयत्वमित्ययमतिशय एव स्वपरवेद्ययोरतिशयः । तत्र स्वस्मैभासमानवित्ति- विषयत्वं स्ववेद्यत्वमिति न निर्वाच्यमिति । जन्मना उत्पत्त्या। ६. ग्राहकावभासे सत्येव स्ववेद्यत्वरूपोतिशयस्सुवच इति वदतः को भावः किं पूर्वमात्मावभासः, ततस्वस्य घटवित्तिरिति, किं वा घटवित्तिरेव घटमिवात्मानमपि गृह्णातीति विक- रूप्य द्वयमपि क्रमेण दूषयति नचेत्यादिना । ४.ज्ञा. ।
अनन्यसाधनत्ववादे प्राहकावभासविमर्शः . स्मबोध इति सांप्रतम् । नार्थान्तरसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अति- प्रसङ्गात् । अपिच यदधीना भावानां रूपभेदव्यवस्था, तदपि हि सं- वेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनस्तदाश्रयस्या- स्मनः प्रतिभासप्रसक्तिः? यदाहुः - इदमहं जानामीति त्रितयावभा- सस्सार्वत्रिका-इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति ॥ (भाट्टदूषणेन प्राभाकरस्य स्वमतपरिष्करणम) अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः । अभ्युः गन्तव्या हि संविदरस्वतस्सिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः प्रका- शाव्यभिचारः, तथा अपश्चितं प्रथमा (प्रमाs) धिकरण इति नात्रो- पक्षिप्य प्रतिक्षेप्तव्यम् । सतोपि प्रमेय जातस्य स्वापादिसमयेऽनुपलब्धे- रभ्युपगतं तावत्संविदस्तत्साधकत्वम् । अतः क्लुप्तार्थान्तरसाधन- भावया तयैवात्मनोपि सिद्धिरभ्युपगन्तुं न्याय्या । (स्वापमोक्षयोरहम्भानाभावोपपादनं प्राभाकरीयम् ) या विषयवित्युपरमेऽपि स्वापसमये अयमात्मा प्रकाशत इति, तत् उपपत्ति भिरुपप ( पा?) घमानमपि यथाप्रतीति व्यवहरतान १. नन्विदमस्मदाकूतम्- विषयवित्तौ नात्मसिद्धिः कारणम् , न वा वित्ता- वात्मा विषयः; तस्याः विषयमात्रगोचरत्वात् । किन्तु विषयवित्तिवेलायां वेदितु. सिद्धिः प्रकाशो भवति; वित्त्यभावे च न प्रकाश इति वित्तिभास्यत्वमात्मनः । वित्तिश्च स्वप्रकाशेति घटमहं जानामीति नितयावभासोपपत्तिरिति प्राभाकरो भाई खण्डयति । २. न्यायतत्त्वे । ३. वित्तिरात्मसाधनी अर्थान्तरसाध. नत्वेन क्लुप्तवादिति वक्ष्यन् , घटादेरेव स्वप्रकाशत्वं कुतो नेत्यत्राह । ४. वेदा- न्तिपक्षं प्राभाकरः खण्डयन्नात्मनो वित्त्येकभास्यत्वं समर्थयते । ५. सुखमह- मस्वाप्सामित्यादिभिः। ६. अहम्भाने तदा सति ' अहमात्मानमन्वभूव' मिति व्यवहारस्स्यात् । ' सुषापादुत्थिताश्चैवं निर्विद्यन्ते हि कामुकाः। वृथेयमन्तरेणैव कामिनी यामिनी गता ॥ भाश्लिष्ठामप्यबुध्वनां मृतवच्छयितं मया ( शा. दी. 17 आत्मसिद्धौ चित्तमनुरञ्जयति ॥ अपवृक्तस्य तु ज्ञानं हेत्वभावान संभवि । नित्यत्वे नित्यमुक्तिस्स्यादर्थवादास्तथोक्तयः ॥१८॥ निधूतनिखिलकरणकलेबरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य न खलु स्वपरसंवेदनोदयनिबन्धनं किंचित्संभाव्यते । न च मनसो नि त्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम् , स्वरूपतो गगनवन्नित्यस्यापि सतस्तस्य इन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माध विरोधनिबन्धनत्वात् । धर्माधमांवरुद्धं सन्मनो ज्ञानस्य साधनम् । सति नित्येन्द्रियत्वेऽपि श्रोत्रवत् करणत्वतः १९. न च योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम् , क्षीयन्ते चास्य कर्माणि ', ' तदा विद्वान् पुण्यपापे विधूय निरञ्जनः' इत्यादि- शुक्लेरिसकलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरा- वृत्तिप्रसङ्गः । नास्त्यकृतः कृतेन', 'तद्यथेह कर्मजि (चि) तो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इत्यादिश्रवणाच्च । नचात्म (१) सत्तयैव तदानीं तज्ज्ञाननिमित्तमिति वाच्यम् , क्लुप्तत्या- गाक्लुप्तकल्पनप्रसक्तेः । तन्मात्रनिमित्तत्वे च सर्वदा आत्मस्वरूपवत् तदपि विद्यत इति संसारानवतारप्रसंगात् , बन्धमोक्षावस्थयोर- विशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतयेदानी तँदभाव इति वा- च्यम् । तत्खलु प्रतिबन्धकं, यत्सति पुष्कलकारणे कार्योदयं निरु- णद्धि । नचाद्याप्यात्मनस्तत्पुष्कलकारणत्वं सिद्धम् , शरीरेन्द्रियवता- मेव ज्ञानदर्शनात् । क्लुप्तज्ञानकारणभावस्य तस्यैव तद्वन्धकत्ववचनमु- न्मत्तवचः । अतो नास्त्यपवर्गदशायां ज्ञानम्। तात्कालिकज्ञानसुखादि- १-१-५) इत्यपि व्यवहरन्तीति । १. पुण्य तदितरेत्यर्थः । जित इति पाठ उपलभ्यमानः फलनिर्देशेषु इमान् लोकान् जयतीत्येवं जिधातुप्रयो- गादुपनिषदि चित इत्यत्र जित इति पाठं रोचयमानानामनुकूलः। ३. पुष्कल. कारणात्ममात्रसत्तया तत् मनः। पृथक्पदम् । तदपि मनोपि । आत्मा सत्त्येति पाठसत्त्वे तज्ज्ञानेत्येकपदमात्मज्ञानार्थकम् । सत्तयैव स्वमात्रम् । तदपि आत्म- ज्ञानमपि । विद्यते विद्यतेत्यर्थः । ५. देहादेः । २. अत्र ४.ज्ञानाभावः ।
अनन्यसाधनत्ववादे वित्तिस्वयम्प्रकाशविमर्शः ७१ वादास्त्वात्मज्ञानविधिशेषतया गुणवादन नेतव्याः। अतो विषयवित्ति- समय एवात्मसिद्धिनियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदिततयैवात्म- सिद्धिरिति । (प्राभाकरखण्डनमात्मस्वयम्प्रकाशत्वकथनाय ) इदमप्यात्मतत्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः । विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्मवित्ति (त्तिः) स्वरूपं वा (आत्मा वित्तिस्वरूपं वा?) सेध्दुमर्हति, अतद्विषयत्वात् । यो हि यत्संविद्विषयो न भवति, नासौ तया सिद्धयति, रूपसंविदेव रसः । अविषयौ च विषयवित्तेर्बुद्धिबो- द्धाराविति तावपि न तया सिद्धयतः ॥ ननु वेद्यस्वभावोऽयं यत् स्वविषयसंविदा सिद्धयतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितै. वेति कुतस्तयोर्वेद्यस्वभावानुमवेशः? उक्तं हि तयोर्मानसप्रत्यक्षागोच- रत्वमनुमेयत्वासंभवश्च । कुतस्तर्हि वित्तिसिद्धिः ? स्वत एव । स्वयं- प्रकाशा हि संवित् । ( वित्तिस्वतस्सिध्द्याक्षेपः) मैवम् - सापि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतः स्सिध्यति । स्वतस्सिध्यन्ती च सा किमिति कंचिदेव प्रति चका- स्ति, न सर्वान् प्रति? तत्समवायादिति चेत्-यत्समवायिनी हि या संवित् तस्यैव सा चकास्ति, नेतरस्य,तदसमवायादिति-यद्येवम् , आश्रितस्तर्हि आत्मसम्बन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधानात् । १. ' सुषुप्तस्थान एकीभूतः प्रज्ञानधन एवानन्दमयो ह्यानन्दभुक्', 'सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वश ' इत्यादयः । गुणवादेन गोण्या वृत्या । २. घटवित्तितदाश्रयो न घटवित्त्यधीनसिद्धिको घटवित्यविषयत्वादित्यनुमाने हेतौ वेद्यत्वे सतीति विशेषणं देयमिति प्राभाकरश्शङ्कते । वेदित्रोः प्रकाशे विषयत्वं नापेक्षितमिति सत्यम् ! वित्यधीना च वेदि- तृसिद्धिरिति वदता वित्तिसिद्धिः किमधीनेति वक्तव्यमिति सिद्धान्ती पृच्छति । ४. तत्समवायादिति स्वोक्तं स्वयमेव प्राभाकरो विवृणोति । ५. सिद्धान्त्याह । ६. आत्मसंबन्धादात्मने प्रकाशत इयं संवित्, अन्यसंवित्तु आत्मसंबन्धाभावा- ३. वित्ति- भात्मसिद्धौ - यधुच्येत - प्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय-इति; कुतः खल्वयं निश्चयः? यदि हि प्रति- योगिनिरपेक्षव कदाचिदात्मस्वरूपमिव संवित्प्रकाशेत, तत एवमध्य वस्येमापि । न च तथाऽस्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वा- देरिव तस्यास्स्वरूपसत्तेति न पृथसिद्धयुत्प्रेक्षावकाशः ॥ सत्यास्सं. विदः प्रकाशव्यभिचाराभावात्स्वरूपपयुक्तः प्रकाश इति चेत् - सत्याः किं तस्याः आत्मसम्बन्धव्यभिचारोऽस्ति ? अपिचैवं सुखदुःखादयो- ऽपि वन्मते स्वतसिद्धास्स्युः । न हि तेऽपि सन्तो न प्रकाशन्ते । अथार्थान्तरसाधकतया सर्ववादिसंमतायास्संविद एव परं (वरं?) स्वयंप्रकाशत्वमाश्रितम् ; तयैव तथाभूतया तदितरवाह्याभ्यन्तरसकल. पदार्थसिध्धुपपत्तेः किमनेस्वयंप्रकाशभावाभ्युपगमेनेति भावः तथासति- सर्वस्यार्थस्य तद्वित्तेस्साक्षी सर्वत्र संमतः । आत्मैवास्तु स्वतस्सिद्धः किमनेकैस्तथाविधैः ॥२०॥ { वित्तिस्वतस्सिद्धावध्यात्मनस्तदनपेक्षप्रकाशत्वम्) किच-यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी। अर्थस्येवार्थवित्तरप्यात्मा साक्षी हि लक्ष्यते ॥२१॥ दात्मने न प्रकाशत इत्यात्माधीनसिद्धिरेव संविदस्त्विति । १. ममेयं संवित्, मह्यं प्रकाशत इति आत्मवैशिष्टयभानायात्मापेक्षेति । २. संयोगादिकं हि अनु- योगिप्रतियोग्युभयापेक्षप्रकाशम् , तद्वदिति । ३. स्वमते तु संविद एव स्वतस्सिभ्यभावात्सुखादेर्शानावस्थारूपत्वाद्वा संवित्तुल्ययोगक्षेमतैवेति । खादिस्वयंप्रकाशत्वेत्यर्थः ननु वित्तेस्वतस्सिद्धिं विहायात्म- संबन्धमात्रात्प्रकाशस्वीकारे आत्मनित्यत्वाणुत्वधर्माधर्मादयोपि तत एव प्रकाशे- रन् । अतो वित्तिप्रकाशस्स्वरूपप्रयुक्त इत्यास्थेयम् । एवमपि वित्तेरात्मानं प्रत्येव प्रकटत्वादन्यं प्रत्यप्रकटत्वादात्मसंबन्धोपि कामं तत्प्रकाशसामग्रीप्रविष्टोऽस्तु । नचैवं विषयं विना वित्तिप्रकाशाभावाद्विषयस्यापि वित्तिप्रकाशकारणत्वापत्तिः, अतीता- नागतादिरूपतया तस्य तदयोगादित्यत्र वित्तिस्वतस्सिद्धिं संमत्यैवाह । ६. लो- कानुभवोपेता न । वित्तिर्नामसाधनी तत्साक्षिकत्वाद्धटादिवदिति प्रयोगः । ४.सु. , अनन्यसाधनत्ववादे आत्मस्वयम्प्रकाशत्वम् सन्तु नामार्थवित्तयस्स्वतस्सिद्धाः; नथापि न ताभिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासो प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदाश्च साक्षात्कारी चेतन इति सोऽपि न ताभिरपरोक्षीभवति ॥ (आत्मस्वयम्प्रकाशत्वम् ) सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः । सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥ २२ ॥ न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थन्तरापेक्षो दृष्टः। न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीय- मालोकादि । एवमालोकोपि प्रकाशमानो नालोकान्तरमपेक्षतेनापि स्वा- पेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियम् । एवमि- न्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वाऽपेक्षते; अपे- भते तु विजातीयं संवेदनम् ! एवं संवेदनमपि संविदन्तरं स्वाधीनसि- द्धिकमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ; अपेक्षते तु विजातीयं स्वा. श्रयभूतं स्वतन्त्रमात्मानम् । एवमात्माप्यात्मान्तरं, स्वाधीनसिद्धि संविदिन्द्रियादिकमपि स्वापरोक्षे नापेक्षते इत्यनंन्यापेक्षा ह्यात्मस्वरूप- सिद्धिः। ( आत्मनि नित्यचैतन्यस्थापनम् ) तदेवं चित्स्वभावस्य पुंसस्स्वाभाविकी चितिः। १.ननु संविदप्रकाश्यत्वेप्यन्याधीन आत्मप्रकाशोस्तु तत्रेयं कारिका । सजातीय- स्वसाध्यार्थत्वन्नाम साध्यत्व सजातीयत्वान्यतरसंबन्धेन स्वविशिष्टार्थत्वम् । सा- ध्यत्वं प्रकाश्यत्वम् ! आत्मसिद्धिः स्वरूपप्रकाशः । तथाचात्मा निरुक्तसं- बन्धेन स्वविशिष्टार्थनिरपेक्षप्रकाशः पदार्थत्वात् घटादिवदिति प्रयोगः। सा- ध्यत्वसजातीयत्वैकैकघटनया प्रयोगद्वयं वा । २.न च विजातीयापेक्षा आत्म. सिद्धिः, तस्यापि वित्तिवेद्यान्यतरतया स्वसाध्यत्वात्तदपेक्षाऽयोगात् । ३. एव- मात्मनस्स्वरूपेण प्रकाशे नानुमानं, नागमः, न मानसप्रत्यक्षं, नापि विषयवित्तिः कारणमिति स्वरूपांशेऽन्याप्रकाश्यत्वं स्वप्रकाश्यत्वञ्चोक्तम् , नित्यत्वाणुत्वाद्याका- रान्तरवत्तयाऽऽगमानुमानप्रत्यक्षप्रकाश्यत्वमस्त्येवेति वक्ष्यते। संप्रति चैतन्य- प्रयुक्त एवात्मप्रकाशः । स चैतन्यानित्यतया स्वापमूर्छामोक्षादौ नानुवर्तत इति , 18 आत्मसिद्धौ नानापदार्थसंसर्गात्तत्तद्वितित्वमश्नुते ॥ २३ ॥ यथैव खलु सूर्यालोकस्तेनतेनार्थभेदेन संसर्गात्तत्तत्प्रकाशो भवति, घटप्रकाशः, पटपकाश इति, एवमात्मनः प्रकार(स्वभाब)भूतं चैतन्यमर्थ- विशेषसंसर्गात् घटसंवित पटसंविदित्यादिप्रख्योपाख्ये प्रतिपद्यते । ते च चैतन्यस्य दशाविशेषाश्चेतयितुरात्मनो धर्मविशेषत्वादेव तस्यापरोक्षा भवन्ति, कादाचित्कबोधवादिनामिव वोधस्य विषयभेदविच्छेदादयः। (अनित्यं चैतन्यमिति पूर्वपक्षः = तत्र नित्यत्वेऽनुपपत्तिः ) ननु आत्मनश्चैतन्यमागन्तुकमिति न्यायवैशेषिकविदः, तन्मतो- पजीविनश्चाभिनवमीमांसकाः; अर्थेन्द्रिय सन्निकर्षाद्यन्वयव्यतिरेकानु- विधानात् ; गच्छामि, अगच्छमित्यादिवत् जानामि, अज्ञासिषमि- त्यादिकालावच्छेदप्रतीतेः । स्वापतुरीयादिदशासु च बोधाधारत्वे सु- प्रबुद्धबद्धमुक्तादिव्यवस्थाऽभावप्रसंगाच्च । नित्यस्य च ज्ञानस्यात्म- समवायिनः प्रतिकर्मव्यवस्थाऽपि दुरुपपादेव । तदा हि प्रकाशनशील. तया तस्याः,एकस्यां संविदि सर्वमेव प्रकाशेत; न वा किंचित् , अवि- शेषात् । अन्यदा तु यदर्थसन्निकर्षजुषेन्द्रियलिङ्गादिना या धीर्जन्यते, तदीयैव सेति व्यवस्था युक्तिमती । ( सिद्धान्त्याशयखण्डनम् ) स्यान्मतम् - इन्द्रियादिषणाडिकया चैतन्यमेव तेनतेनार्थेनानु- रज्यमानं तत्प्रकाशतया तदीयत्वेन व्यवतिष्ठते, अनुरागस्य चागन्तु- कतया इन्द्रियाद्यनुविधानं कालावच्छेदस्स्वापादिव्यवस्था चोपपद्यत- वादं चैतन्यनित्यत्वस्वीकारणापि निरसितुमारभते । १. तत्तद्वित्तिवामिति पाठ ईशावास्यकूर नारायणीयभाष्ये १६ मन्त्रे दृष्टः, 'तत्तच्चित्तत्वं ', 'तत्तच्चिहत्व ' मिति पाठद्वयमुपेक्ष्येहाऽऽदृतः । २. बुद्धिशब्दौ । ३. चैतन्यगतावस्थाया आत्मधर्मत्वं परम्परया । यद्वा आत्मनो यो धर्मस्तदीयविशेषत्वादित्यर्थः । ४.विषयविशेषवैशिष्टय प्रत्यक्षत्वानुमितित्वादयः । ५. अथ चैतन्यमनित्यमिति पूर्वपक्षी प्रत्यवतिष्ठते नन्वित्यादिना अत्राहुरात्मेतिकारिकाप्राग्ग्रन्थेन । ६. प्रतिविषयव्यवस्था नियतविषयकत्वम् । ७. अनित्यत्वपक्षे। - ८.सि.
अनन्यसाधनत्ववादे भनित्य चैतन्यपूर्वपक्षः इति; तदसत् - अर्थान्तरसन्निकर्षेऽर्थान्तरस्यानुरागासंभवात् ॥ चैत- न्यमपि तथा निष्क्रम्य सन्निकृष्यत इति चेन्न - अमृतस्याकाशस्येव निष्क्रमणप्रवेशाद्यनुपपत्तः । गुणश्च चैतन्यं गुणिनमपहाय कथमन्यतो यास्यति? नचार्थोऽन्तः प्रविशति । स हि बहिर्देशसंबद्धस्सर्वलोकप्र- त्यक्षः । जात्यादिषु चानुपपत्तिस्तुल्येव । ( आत्मनश्चैतन्यस्य चेकप्रत्यगर्थव्यत्वशङ्कापरिहारः ) अयोच्येत - द्वेधा खल्वयं प्रत्यगर्थोऽवतिष्ठते बहलो विरल. श्व । तत्र वहलः प्रत्यक् चेतनक्षेत्रज्ञादिपदपर्याय आत्मा । विरलस्तु चै- वन्यज्ञानादिपदाभिधेयः प्रत्यगर्थतन्त्रतया गुण इत्युपचर्यते तेजोवन , यथा बहलं तेजः प्रदीपः अग्निरिति । विरलं तु प्रभा ज्योतिरिति । अतो विरलात्मप्रदेशतया चैतन्यस्याऽऽलोकस्येव गमनं (गमन?; संयोगा- दिकमुपपद्यत-इति-इदमनुपपन्नम् - निरवयवस्यामूर्तस्यासङ्गस्यात्मनो बहलविरलतादिधर्मानुपपत्तेः यदि दिसावयवत्वमूर्तत्वानित्यत्वसंसर्गि. त्वादिकमपि धर्मजातमात्मन्यनुमन्वीमहि, तत एवमङ्गीकुर्वीमहि । न च तदनुमन्तुमुचितम् , अचेतनत्वापातादित्यलमनेनाऽऽर्हतमतानुकारदूषि- तेनाऽऽत्मवादेन । (चैतन्यविभुत्वखण्डनम् ) अथ मतम् -- आत्माऽयमनवयवेन सर्वतस्सर्वार्थावभासनसमर्थ. चैतन्यानुबन्धस्सर्वव्यापी । अथ च न सर्वमस्य परिस्फुरति, तमोगु- णप्रतिबन्धात् । सवोत्कटैस्तु करणैस्स्वकस्वकपाटवानुसारेण पाटिते तु तमसि तेतेऽर्थाः प्रतिभासन्ते । अतोऽन्तरेणापि ज्ञानार्थयोनिष्क्रम. णप्रवेशौ उपपद्यत एवार्थाविशेषोपरागस्संविद इति - एवमप्याति- द्धान्ती पृच्छति। १. इन्द्रियसन्निकर्षे हीन्द्रियानुरक्तत्वमेव वस्तुनस्यात् , न ज्ञानानुरक्तत्वमिति । २. घटादेर्मूर्तत्वादन्तःप्रवेशश्शङ्क्येतापि । अमूर्तजाति- गुणादिविषये तु चैतन्यस्येव क्रियानुपपत्तिरेवेति । ३. सिद्धान्ते प्रत्यगीतिरिक्त तद्धर्मभूतं द्रव्यं चैतन्यम् । अत्र तु कश्चिदेकमेव द्रव्यमंशभेदेनात्मज्ञानोभयात्म- कमिति निष्क्रमणाद्युपपादयन् खण्डयते । विरलोय आत्मैकदेशस्तत्तया । ५. यथा ज्ञानमर्थे प्राकव्यं व्यवडियमाणतां वा जनयत् अतिशयहेतुरेव, न तु .
भात्मसिद्धी . शयमानहेतुत्वादिन्द्रियलिङ्गादेः ज्ञानस्येव ज्ञापकत्वं न स्यात् , ज्ञानहेतु- त्वाभावात् । नचार्थप्रकाशस्य ज्ञानत्वम् , प्रकाशमानतयाऽर्थस्यापि ज्ञातृत्वप्रसंगात् । यदाहुरात्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञान- मित्युच्यत इति – तत्रापि संयोगस्योभयनिष्ठतया स एव प्रसङ्गः । अनुभवविरोधश्च-अहमिदमिदानीं जानामि, नेदानीमित्यात्मसमवायि- नोरेव ज्ञानभावाभावयोरनुभवात् ॥ अविकृतप्रकाशहेतुकिरणसंहता. वप्यहिममहसि प्रकाशकत्वप्रख्योपाख्यानवदुपपद्यत इति मा वोचः, तत्र हि गभस्तीनां द्रव्यतयाऽऽकुञ्चनप्रसारणद्रव्यान्तरसंगोगविभागादे स्संभवादुपपद्यते व्यवस्थोपलब्धिः । चैतन्यं तु गुण इति न तथा व्य- वस्थामर्हति । ( आत्मनि नित्यानित्यज्ञानद्वयभङ्गः) अथोच्यते- द्विधा हि ज्ञानमात्मनः, स्वस्मिन्नन्यत्र च । तत्राय मुदयास्तमयरहितमात्मस्वरूपप्रयुक्तमनवरतमनुवर्तते । इतरत्तु तत्तदर्थसं- बन्धीन्द्रियाद्यागन्तुकहेतुभेदायत्तात्मलाभं तत्तद्भावाभावानुविधायि तत्तदर्थप्रकाशतयोदीयते, लीयते च। तदपेक्षयैव स्वापजागराद्यवस्था- व्यवस्थाऽपि सङ्गस्यत-इति उच्यते । अभ्युपगच्छेमाप्येवं, यदि नि- त्यमात्मनि ज्ञानमस्तीत्यत्र किमपि साधनमुपलभेमहि । (सुषुप्तावात्मानुभवसाधक प्रातदृष्टतटाकन्यायभङ्गः) नन्नङ्गीकृतस्तावजाग्रदवस्थायां सर्वदाऽऽत्मानुभवः; स्वापादिषु चा मीयते, तात्कालिकस्य विषयज्ञानाभावस्योत्तरोत्तरकालं पराम- श्यमानत्वात् । यत्कालीनोऽभावः परामृश्यते, तत्कालीनेन तदाश्रय- ज्ञापकम् , तथेन्द्रियादिकमपि तमःपाटनरूपातिशयमात्रकरं स्यादिति । १. उक्तं सूर्यालोकदृष्टान्तं खण्डयति । २. ननु नित्यचैतन्यमङ्गीक्रिय- तां स्वमात्रविषये; अन्यविषये चानित्यज्ञानमिति कश्चिच्छङ्कते । ३. अय. मात्मा स्वापकालिकानुभवगोचरः तत्काले ज्ञानाभावाश्रयतया पश्चात् (जागर- काले) परामृश्यमानत्वात् । यत् यत्काले किञ्चिदभावाश्रयतया पश्चात्परामृश्यते, तत्कालिकानुभवगोचरभूतम् , यथा संप्रति कुखराधभाववत्तया परिदृश्यमानं प्रात- ईष्टतीरादीत्यनुमानम् । तत् -- अनन्यसाधनत्ववादे अनित्यचैतन्यपूर्वपक्षः स्वरूपज्ञानेनापि हि भाव्यम् : मध्याह्नकालपरामृश्यमान इव प्रातस्सम- यपरिदृष्टतटाकतीरादिवर्तिनि कुञ्जराद्यभावे । यत्कालीनाभावाश्रयतया यः परामृश्यते, स तत्कालीनस्वरूपानुभववान् , यथा प्रातरनुभूनतटा- कतीरादिः । स्वापादिकालिकार्थानुभवाभावाश्रयतया चायमात्मा परा- मृश्यते । अतस्तात्कालिकस्वरूपानुभववानिति-मैवम् - अनेकान्त्यानु 'प्रातस्तत्र नाहमास'मिति स्वाभावभूमिनया प्रतीतेन प्रातरनवगतगिरित- टाकादिना। अभावपतिपत्तिसमये प्रतिपित्सिताभावसमकालवर्तिनस्त- दाश्रयस्वरूपस्यावगत्या, विद्यमानत्वे तत्कालतयाऽवगमप्राप्तस्य प्रति- योगिनोऽनवगत्या च भवितव्यमभाव ज्ञानम्येत्येतावत् । अन्तरेणापि स्वापकालीनमात्मानुभवामिह तदुभयमुपपद्यते, प्रत्यभिज्ञयैव प्रबोधे स्वरूपसिद्धेः; जाग्रदनुभवस्येव पटीयसस्स्वापेऽपि सनोऽनुभवस्य स्म- तव्यस्य सतस्तदानीमस्मरणाच्च । १. प्रातःकाले तीरवर्तितया कुञ्जराभावे मध्याह्नकालावच्छेदेन परामृझ्यमाने सती- त्यर्थः । इवेति । तत्कालीनेन तदाश्रयस्वरूपज्ञानेनेत्यनुषङ्गः। २. अनुभवगोचरः। ३. कदाचित्कश्चित्प्रातर्गिरितटाकादिकमज्ञातवानेव मध्याह्ने गिरितटाकादिवृत्ता- न्तप्रसङ्गे प्रातस्तत्र नाहमासमिति परामृशति । तत्र गिर्यादौ व्यभिचारः, प्रात:- कालिकस्वाभाववत्तया परामृश्यमानत्वरूपहतुसत्त्वात् , प्रातःकालिकावगतिगोचर- त्वरूपसाध्याभावादिति।। यदि तत्कालावच्छिन्नमाश्रयज्ञानं नापेक्षितम् , किं तहगे. क्षितमित्यत्राह अभावेति । अवगत्या अनवगत्या च भवितव्यमित्यन्वयः। समय- इत्यस्य अवगत्येत्यत्रान्वयः । यत्कालिकोऽभावो यत्र प्रतिपत्तुमित्रः, तत्काल- वर्तित्वेन तस्याश्रयस्यावगतिरभावप्रतिपत्तिसमयेऽपेक्षिता । विद्यमानत्व इत्यादि, यदि प्रतियोग्येव तत्काले स्थितं स्यात् , उपलब्धं स्यादिति वक्तुमर्हस्येत्यर्थकम् । अनवगत्येति, तत्काल इति शेषः । अभावज्ञानस्य अभावज्ञानं प्रति : ४. योऽयं पूर्वेारपश्यम् , सोहं स्पृशामीति प्रबोधकालिकात्यभिज्ञया प्रबोधरूपे. ऽभावप्रति रत्तिकाले स्वापकालस्थतयाऽऽत्मस्वरूपमवगतम् । ५. यथा कुछ- राभाप्रज्ञानं प्रति प्रातस्तीरे कुञ्जरानवगतिरपेक्ष्यते । तथा स्वापे विषयानुभवविरह- 19 आत्मसिद्धौ अस्वाप्समितिज्ञानस्य नित्यप्रकाशासाधकत्वम् ) सुखमहमस्वाप्समित्यादिवृत्तयश्च तात्कालिकदेहेन्द्रियलाघवपा. टवादिपर्यालोचनपूर्विका न स्मृतयः, जातिवेषसंस्थानादिष्विव । ते- ऽपि हि परामृश्यन्ते, 'एवञ्जातीयोऽहमीदृशेन वेषेणानेन संस्थानेना- नेयन्तं कालमस्वाप्स' मिति । अपिच स्मृतित्वेऽपि जाग्रदवस्थायामिव निद्रालक्षणया प्रमाण- विपर्ययादिवृत्त्यभावकारणतमोगुणालम्बनया प्रतीत्या तत्कालपसि. द्धस्यात्मनस्स्मरणम् , न तु सहजसंवेदनसिद्धस्य स्वप्रकाशस्य वा; प्रमाणाभावात् । निद्रापि प्रमाणविपर्ययादिवत् वृत्तिविशेष इति तत्र भवान् पतञ्जलिः । यदाह ' अभावप्रत्ययालम्बना वृत्तिनिंद्रा' इति । (वित्त्यधीनात्मप्रकाश – वित्त्यनित्यत्वनिगमनम् ) प्रयोगश्च — विमत्याक्रान्तात्मस्वरूपसिद्धिः, विषयानुभवनिब- न्धना आत्मस्वरूपसिद्धित्वात् जाग्रतस्तत्सिद्विवदिति। तथा आगन्तुकं ज्ञानमात्मविशेषगुणत्वात्सुखादिवत्। न च सुखदुःखादयो नात्मगुणाः अप्रसिद्धाश्रयान्तरत्वे सत्यहम्पत्ययसामानाधिकरण्येन प्रकाशमान- { नित्यचैतन्यस्थापनारम्भः ) अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः स्वरूपोपाँधिधर्मत्वात्प्रकाश इव तेजसः ॥ २४ ॥ चैतन्याश्रयतां मुक्ता स्वरूपं नान्यदात्मनः । यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ॥ २५ ॥ ज्ञान प्रति स्वापकाले विषयानुभवानवगतिरपेक्ष्यते । तत्र तदातनकुञ्जरानवगति रिदानीन्तनकुञ्जरास्मरणेनेव, तदातनानुभवानवगतिरिदानीन्तनास्मरणेनानुमीयत १. प्रमाण प्रमितिः, विपर्ययो मिथ्याज्ञानम् । प्रमाणविपर्ययविकल्प निद्रास्मृतयः (१.६) इति योगसूत्रम् । विकल्पः = आहार्यज्ञानम् । २. आत्मनस्स्मरणमित्यनुषङ्गः । ३. अभावस्य प्रमाणादिवृत्त्यभावस्य प्रत्ययः कारणं यत्तमस्त दालम्बना वृत्तिर्ज्ञानविशेषो निद्रेति । त्वात् ज्ञानवदिति - इति ! ४.स्वरूप- ७९ ? .... : अनन्यसाधनत्ववाद नित्यचैतन्यस्थापनम् 'नितिशक्त्या नचात्मत्वं मुक्तो नाशप्रसङ्गतः । ॥ २६॥ बुद्धिसुखदुःखादिनिःशेषवैश्शेषिकात्मगुणात्यन्तिकोपरमलक्षणों हि मोक्षः कणभक्षाक्षचरणमते । नचात्यन्तलुप्तकार्य वस्तु तत्कार्यजनन- शक्तमित्यत्र किश्चित्प्रमाणं क्रमते; देहादिविशिष्टसंबन्धितया दृश्यमान- सुखदुःखज्ञानादिकार्य विशिष्टवर्तिनीमेवात्मोत्पादशक्ति कल्पयति, धू- म इवाइँन्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम् , ब्रीह्यकुर इच च सतुषतण्डुले । अपिचें वोधे सत्येवात्मनोऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्त्याश्रयणेन । (बोधीनत्यत्वेप्यात्मनोऽन्यत्वम् ) नचैवं सतिबोध एव प (व?) रमात्मेति युक्तम् , तस्याश्रयप्रतियो- गिसापेक्षस्वरूपत्वान् ; आत्मनश्च तद्विपरीतस्वभावत्वात् । साक्षाच्च चेत. यितुरहमर्थस्य स्फुरणात् । अनुभवतांगमवलेन चितिमत आत्मभाव- स्यानन्तरमेव प्रपञ्चितत्वाच्च । चैतन्यविषयसंयोगस्य ज्ञानत्वनिरासः) न च चितिमात्रात्मवादेऽपि तस्यागन्तुकविषयसंबन्धे बोधत्व- मध्यारोप्य बोद्धृत्वसमर्थनं साधीयः-संवन्धस्योभयनिष्ठतयाऽर्थस्यापि बोबृत्वप्रसङ्गात् । न चे कार्यकारणभाववव्यवस्थितत्वम् - तत्र जनि- मुपाधिः प्रयोजकं यस्य धर्मस्य, तत्त्वात् ; यद्वा स्वरूपस्योपाधिर्निरूपको व्यवच्छेदको धर्मस्तत्त्वादिति । १. घटादिषनात्मस्वेव सत्सु केषाञ्चिदात्मत्वं चितिशक्तिप्रयुक्तं, न चैतन्यप्रयुक्तम् । अतश्चैतन्यस्यानित्यत्वेपि न दोष इति चेन्न - तच्छक्तेरप्यात्मनि देहसंबन्धप्रयुक्ततया मुक्तौ नाशापत्तेरविशेषादित्यर्थः । एतदुत्तरार्धं भ्रष्टं स्यात् । तच्च 'सतुषतण्डुल' इत्येतदनन्तरविवृतसर्वार्थसंग्राहक स्यात् । २. अन्तिमकारिकां विवृणोति । ३.ज्ञानापरिलोपश्रुत्यादिनिर्वाहाय नित्य- शक्तिस्वीकारिणं मीमांसकं प्रत्याह नचेति । न च मुक्तौ साक्षाद्वोधस्वीकारे कि- ञ्चिदनिष्टम् , येन श्रुतिस्वारस्यभञ्जनेन शक्तिपर्यन्तधावनमिति । ४. अद्वैत. भने । ५. यथा कार्यकारणोभयनिरूप्यत्वेपि तद्भावरूपसंबन्धस्य, कचित्कार्यत्व मन्यत्न कारणत्वञ्च व्यवस्थितम् , तथा बोधात्मकस्संयोग आत्मन्येव, न विषये .
आत्मसिद्धौ --- मतो जनयितुश्च परस्परापेक्षानियमलक्षणसंबन्धः । ( आत्मविषययोः कार्यकारणभावादिसंबन्धायोगः ) इहापि स एवेति चेन्न - अपेक्षाहेत्वभावात् । किमर्थमर्थश्चैतन्य- मपेक्षते, चैतन्यं वाऽर्थम् ? सिध्यर्थमिति चेत् – कस्सिध्द्यर्थः ? न तावदुत्पत्तिः, तस्याः नितिनिमित्तान्तरत्वात् । घटादयो हि प्रसिद्ध- मृद्दण्डचक्रभ्रमणादिपर्याप्त निमित्तान्तरशालिनो न चितिमपि निजजन- नेऽपेक्षन्ते । निरस्तश्च विज्ञानमात्रवादः । नित्यस्यात्मन उत्पत्यर्थम- र्थापेक्षेति सुव्याहृतम् ॥ सिद्धिः प्रकाश इति चेत् - किं भोः आत्मा स्वयञ्जोतिरप्यर्थाधीनप्रकाशः, यदसौ तदर्थमर्थमपेक्षते ? महनीयमिद- मात्मवेदित्वम् । प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मसंभवतीत्यावे- दितम्। संभवन्नप्यसौ न चितिस्वरूपमात्रनिमित्तः, सर्वदा सर्वार्थप्र- काशप्रसङ्गात् । न हि सदासन्निहितसमग्रकारणं कार्य कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्तरेण ज्ञानमेवाङ्गीकृतमिति तद्वाने- वात्माऽऽयातः। (अस्यातिशयस्यागन्तुकक्रियात्वात्स्वाभाविकचैतन्यत्वायोगशङ्का) नन्वेवमर्थसिद्धिव्यवस्थापकतयाऽभ्युपगतं ज्ञानमागन्तुकं क्रिया- इति न - तत्रैकनिरूपितोऽन्यनिष्ठः कार्यत्वादिस्संबम्ध इष्यते, न तु संयोग ई- दृशः, अस्य द्विष्ठत्वादित्यर्थः । अत्र विषयसंयोगस्यापि सिद्धान्ते निश्चयादिरू- पत्वं वक्ष्यमाणं विमृश्यम् । धर्मधर्मियनित्यत्वमिनिर्विकारस्वधर्मप्रसरणादिगो- चरश्रुत्यादिविरोधरूपं बलिष्ठं बाधकमपि चितिमात्रात्मवादे ध्येयम् । १. नन्वा- स्मार्थयोरपि परस्परापेक्षानियमलक्षण एव कश्चित्संबन्धोऽस्त्विति शङ्कते। २. सिद्धिरुत्पत्तिश्चेत् , आत्मार्थयोरुत्पाद्योत्पादकभावस्संबन्धः, प्रकाशश्चेत्, प्रकाश्यप्रकाशकभावः। तत्र प्रथमे उत्पाद्यो विषयो वा स्यादात्मा वा । नाद्य इत्याह तस्या इति; नान्त्य इत्याह नित्यस्येति । ३. घटादेरपि क्षणिकविज्ञान- रूपत्वं विज्ञानरूपात्मजन्यत्वञ्च बौद्धमतं सहोपलम्भनियमदूषणादिना प्राङ्निर. स्तम् (पु ५०) ४.द्वितीयपक्षेपि किमात्मनोऽर्थप्रकाश्यत्वम् , अर्थस्य वाऽऽत्म- प्रकाश्यत्वम् ? नाद्य इत्याह किमिति; नान्त्य इत्याह प्रकाशश्चेति । ५. ननु सर्वदा सर्वार्थप्रकाशवारणाय तदातदा तत्तत्प्रकाशोपयोगी कादाचित्कोऽतिशय अनन्यसाधनत्ववादे नित्यचैतन्यस्थापनम् ८१ रूपमिति कथं तत् आत्मस्वभावः? तथाहि-अन्तिरगतत्वे सति जन- कद्रव्यान्तरं प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशमाप्त्या- दिः यं प्रत्यसाधारणस्तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः। तादृशी चार्थसिद्धियं पुरुषं प्रत्यसाधारणी तत्समवेततादृशक्रि. याजन्येति शक्यमनुमातुम् । (तत्परिहारः) मैवम् । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन क्षेत्रिणं प्रत्य. साधारणेन क्षेत्रजवीह्यादिस्वत्वेन चानेकान्त्यात् । न च निर्गापार- तया क्षेत्रिणस्तत्राजनकत्वम् ; व्यापारकालादिना व्यभिचारात् । त- द्भावभावित्वस्य चाविशेषात् ॥ तज्जीवनमेव तत्र जनकव्यापार इति चेत् - ननु तत् सस्यपालनादिसाधारणमिति कथमसाधारणक्रियाज- न्यत्वम् ? अपिचैवं सति तदेवार्थकाशेऽपि जनकव्यापारोऽस्तु: किम- क्लप्तकल्पनया? सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत् - स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? ब्रीह्यादिसत्ताऽप्यपेक्ष्यत इति चेत् - इहापीन्द्रियादिप्रत्यासत्तिरिति समानश्चर्चः । अतो यं प्रत्यसा- धारणो यथोदितधर्मस्तदीयासाधारणधर्मनिमित्त इत्येतावत् । स चेष्य- त एवात्मनश्चैतन्यं रवेरिव तेजस्वित्वम् । आत्मनि स्वीक्रियत इत्यत्राह । १. अर्थप्रकाश आत्मसमवेतासाधारणक्रिया- जन्यः आत्मभिन्नवृत्तित्वे सति कार्यत्वादिरूपेणात्मासाधारणत्वात् गन्तव्यदेशगत- गन्तृसंयोगवत् । सामान्यमुखी व्याप्तिः। गन्तृगतगमनक्रियायां व्यभिचारवार- णाय सत्यन्तम्। २. क्रयादिक्रियानिरपेक्षेण पित्राद्यभावे पुत्रादेस्स्वतःप्राप्तेन । ३. व्यापारादे ापारान्तराभावेपि जनकत्वात् । ४. क्षेत्रिजीवनमेव । तत्र क्षे- त्रादिस्वत्वे । ५. जीवनमेव । ६. नन्वेवमिन्द्रियप्रत्यासत्यादिकादाचित्का- पेक्षाबलादेव सदासन्निहितसमप्रकारणकत्वाभावेन सर्वदा सर्वार्थप्रकाशप्रसङ्गवार- णादात्मन्यागन्तुकातिशयाश्रयणमनावश्यकमिति कथं धर्मभूतज्ञानसिद्धिरित्याशङ्कायां पूर्वपक्ष्यनुमानपरिष्करणपूर्वकनिगमनव्याजेनानुमानतोपि ज्ञानसिद्धिं दर्शयति अत इति । यथोदितधर्मों में प्रयसाधारणस्तदीयेत्येवं योजना । एतावदिति । न तु । 20 ८२ आत्मसिद्धौ . - ( अथ पूर्वपक्ष्युक्तार्थदूषणारम्भः ) न च हेतुभेदानुविधायितया, 'जानामि', 'अज्ञासिष' मित्यादि- कालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्याऽऽगन्तुकत्वमनुमेयम् ; आदित्य- प्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापि, इमं देशमादित्यः प्रकाश- यति प्राचीकशत्प्रकाशयिष्यतीति प्रतीतिः। स्वारसिकत्वेऽप्यादित्य- प्रकाशस्य प्रकाश्यदेशसंबन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत् -- इहापि तहाँन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावोऽनु- भाव्यभेदः स्वाभाविकमात्मनश्चैतन्यगुणमवच्छिन्नत्तीति तदपेक्षयैवेन्द्रि- याद्यनुविधानमतीतानागतप्रत्युत्पन्नत्वमत्ययप्रयोगौ चोपपद्यन्ते । (चैतन्ये गमनादिवैलक्षण्यम् ) कथं पुनरत्र निर्णयः, मणिधुमणिप्रकाशादेरिवौपाधिकोऽयं में- दः, न तु गमनपचनादेरिव स्वाभाविक इति ? ताद्रूप्येणैव प्रत्यक्ष- त्वात् । न हि जातुचिदांचद्रूपोऽयमात्मा लोष्टादिवद् दृष्टचरः, यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः, मरुदिव स्पर्शगुणतयैवाध्य- क्ष्यमाणः । यो यत्स्वभावो न भवति, स तद्विरहेणापि स्वरूपत उप. लभ्यते, गमनादिरहिततयेव देवदत्तादिः। (शरीरदृष्टान्तासिद्धिः) शरीरवदिति चेन्न,असिद्धत्वात् । स्यादेतत्-यथैव खल्वस्वभाव- भूतेनापि शरीरेण सध्रीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येना- पीति – तन्नवम्--असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परि- स्फुरति । योगिनां प्रणिहितमनसामुपरतबहिरिन्द्रियाणाञ्च देहानुसं- धानविरहेणाप्यहमिति स्फुटमनुभवात् । जानामीति प्रत्ययश्शरीरवर्ण धर्मे आगन्तुकत्वक्रियात्वादिकं साध्यघटकमिति : १. एवं चेतनस्वभावश्चैत- न्यमित्युपपाद्य तदागन्तुकत्ववाद्युक्तांशान् क्रमेण खण्डयिष्यन् पूर्वपक्षारम्भोक्त (पु. ७४)हेतुद्वयं निरस्यति नचेति । हेतुभेदोऽर्थेन्द्रियसन्निकर्षाद्यात्मा कारणविशेषः। २. स्वाभाविकत्वेपि । ३. वर्तमानेत्यर्थः । ४. प्रत्यक्षीभवति । ५. इमा. वेव शङ्कापरिहारौ स्यादेतदित्यादिना वित्रियेते । ६. ननु स्वापप्रलयादौ ८३ अनन्यसाधनत्ववादे नित्यचैतन्यस्थापनम् सन्निवेशनिभीसशून्यतया तत्वान्तरगोचर इति च प्रागेवाचोचम् । कर्मा- नुगुण्येन सुरमनुजादिजातीयतया भिद्यमानासु आगमापायिनीषु तनुषु मनस इवैकस्य वर्मणस्स्वभावानुवन्धित्वेनायितुमशक्यत्वान् । लि. ङ्गस्य पुनरनुवृत्तावप्यप्रत्यक्षत्वान्न व्यभिचारित्वम् । (स्वापादावप्यात्मप्रकाशापत्तेस्त्रेधा विकल्प्य विमर्शः) बोधस्वाभाव्ये पुंसस्स्वापर्छयोः प्रकाशप्रसङ्ग इति चेन्न- वि. कल्पासहत्वात् । तथाहि - प्रकाश इति पदार्थमात्रसाधारणं वोधजन्यं प्रकटतादिपदपर्यायं धर्ममभिप्रेत्य वाऽयं प्रसङ्गः, अथ वोधमेव, तद- विप्रकर्ष वा। आये, तदभावादेव न प्रसंगः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धिसमर्थनसमये । भावेऽपि, तमःप्रतिबन्धादप्यनुदय स्संभवी । इतरयोरभिमतमेवापादितमित्यदोषोद्भावनम् । बोधस्वाभाव्ये हि पुरुषस्य स्वापादिदशासु च तथाभावोऽभिमत एवेति न हि तदा- पादनं दोषाय । (व्यवहाररूपप्रकाशस्य स्वापादावनापत्तिवचनम् ) अथ मतम् – स्वापादावपि स्वानुभवसद्भावे जागर इव व्यव- हारप्रसङ्ग इति । मैवम् - व्यवहारागोचरत्वाद। कः खल्वात्मनि व्य- वहारः ? नासावादातुं हातुमुपेक्षितुं वा शक्यः ।। व्याहारः प्रसज्यत इति चेत् - किमङ्ग! निर्विकल्पक.बाल कादिवेदनविषयो व्याहियत एव? करणपाटवव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत्- समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः । चैतन्यप्रकाशं विना अहमितिप्रकाशस्य संमतत्वात्कथं चैतन्यविशिष्टतयैव तदुप. लम्भ इति चेन्न-पूर्वपक्षिणा यदायदाऽऽत्मप्रकाश इष्यते, तदातदा चैतन्यविशिष्ट- तयैव स्फुरणस्य विवक्षितत्वात् । १. स्थूलशरीरविलक्षणसूक्ष्मशरीरात्मकैकलिङ्गशरी- स्वैशिष्टयस्य सुरमनुजादिसर्वदशास्वप्यात्मनि सत्त्वस्वीकारेपि तच्छरीरस्वभावकत्व- रूपसाध्यस्यात्मनि विरहेपि च न व्यभिचारः, तद्विशिष्टतयोपलम्यमानत्वरूपहेत्व. भावादिति । २. स्वापतुरीयेत्यादिना पूर्वपक्ष्युक्तहेतुं खण्डयितुमाह । प्रसङ्ग इति । न हि बोधे सत्यपि पुंसोऽप्रकाशो जागरे दृष्ट इति भावः । ५. स्वापादिकालेऽनुत्पत्तिः । ? पदेन । ३. इति ६. बोध- ४. प्राकव्याभावः।
८४ आत्मसिद्धौ (स्वापकालिकात्मानुभवस्य जागर स्मृत्यापत्तिपरिहारः ) स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् । यद्युच्येत- मूर्छादावा- स्मानुभवाभ्युपगमे, अर्थान्तरानुभव इव, एवमहमन्वभूवमिति परस्ता. स्मृतिः प्रसज्यते - इति, तन्न-अवृत्तित्वात् । न हि मूर्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत् । येन स्मृतिवर्वाजं संस्कारमा. दधीयाताम् । किंतूभृतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसां- सिद्धिकबोधस्वरूपेणावस्थानमात्रमात्मनः।। न च बोधस्वभावत्वादेवा- स्य संस्काराधायकत्वम् ; अनवरतोपचीयमानसंस्कारतयाऽनिर्मोक्षप्र- सङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्धे सदृशसंबन्धिदर्श- नादिसमुद्रोधितनिजबीजानुसारेण स्मरणमुपजायते । नचेहात्मस्वरूप- बोधस्य जातुचिनिरोधो जन्म वा; नित्यात्मसत्तापयुक्तत्वात् । निमि- तान्तराभावश्चानन्तरमेव व्याकरिष्यते । तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत्।। य एवाहं पूर्वेधुरासम् , स एवाहमद्यापीति स्मृतिसंभिन्न प्रत्ययोऽपि कालावच्छिन्नस्वरूपगोचरः, न स्वरूपमात्रे : अविशदश्च स्वापादौ स्वानुभवः, निर्विकल्पश्च । पटीयसा सविकल्प- केनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः ? साँम्याचाननु- स्तददूरत्वं वा प्रकाश इति पक्षद्वये । १. अनयोरेव शङ्कापरिहारयोर्यधुच्येते- त्यादिना विवरणम् । अवृत्तित्वात् स्वापकालिकाहमर्थप्रकाशस्य वृत्तिरूप- त्वाभावात् ! वृत्तिरूपस्सकर्मकानुभवो हि स्मृतौ कारणम् , तस्यास्सकर्मकत्वात्। सिद्धान्ते धर्मभूतज्ञानावस्थारूपस्मृते स्तदवस्थारूपानुभवं प्रत्येव सामानाधिकरण्य- वशेन कार्यत्वाच्च । २. एवं संस्कारासंभवात्स्मृतिर्न भवतीत्युक्ता, अनुभवस्यै- वानुवर्तमानतयापि स्मृतिन भवतीत्याह । ३. 'बोधकारणानुवृत्यापि बोधानु- वृत्तिरुपपद्यत' इत्येतदूषणावसरे । ४. कथं तर्हि स्मर्तुमनर्हस्यात्मनोपि स्मरण- ५. संवलितेत्यर्थः। ६. आत्मरूपज्ञानस्य क्लप्तकारण- रूपत्वाभावादपि न संस्काराधायकतेत्याह । देशकालावच्छेदाधनवगाहनादवैशचं निर्विकल्पत्वञ्च । ७. अनुभूतस्याप्यननुभूतस्येव पश्चादस्मर्यमाणत्वाविशेषात् । E विशेष इत्यत्नाह ।
अनन्यसाधनत्ववादे नित्यचैतन्यस्थापनम् भवाभिमानश्शरीरतद्धारणप्रयत्नाननुसंधानवत् । (सुप्तमुक्तादिव्यवस्थाभावप्रसङ्गभङ्गः ) नचाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशे- पापत्तिः, क्लेशवासनानां गुणाभिभवस्य नैकत्र भावात् ; इतरत्र तद त्यन्तनिवृत्तेः [अतः?] [अ] संप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः । (निद्राया वृत्तित्वे उपपत्तिस्तनिरासश्च ) कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः, 'सुखमह- मस्वाप्स' मित्याद्याः ? नाननुभूतगोचरास्स्मृतयस्संभवन्ति । सत्त्व सचिवसमुल्लसिततमोगुणानुभवभावितभावनायोनिः खलु, 'सुखमह. १. न हि स्वशरीरस्वरूपमा तद्धारणप्रयत्नच कश्चिस्मरतीति । २. तमो- गुणादिनाऽभिभूयमानत्वस्य । इदं सिद्धान्तमोक्षस्वरूपमप्रतिबोध्यैवोत्तरम् । ३. स. माधिर्द्विविधस्संप्रज्ञातोऽसंप्रज्ञातश्च । आद्यः स्थूलाचेतन सूक्ष्माचेतन सात्विकान- न्दांश चेतनरूपचतुविधालम्बनभेदाचतुर्धा । अन्त्यो निरालम्बनः । एकाग्रता- संस्कारपर्यन्तसर्वोपमर्दनेन निरन्तरवाहित्वं निरोधसंस्कारस्य पटुतरत्वम् । च. रिताधिकारमवसितभोगापवर्गरूपोद्देश्यं चित्तम् । अपवर्गिणा अपवर्गिकृतः । अत्र संपज्ञातसमाधावपीत्येव पाठो दृश्यते । तदा च इतरत्रेत्यारम्य विशेष इत्यन्तमेकं वाक्यमित्युचिततरम् । अयमर्थः - मोक्षे क्लेशादेरत्यन्तं निवृत्ततया, प्रमाणादिवृत्तिषिव संप्रज्ञातसमाधिविषयेपि योऽन्यन्तं विरक्तो निरोधसंस्कारपाटवेन चित्तं चरिताधिकारमकरोत् तादृशापवर्गिकृतो विशेषस्तविलक्षणपुरुषसुषुप्यपेक्ष- याऽस्तीति । निवृत्तेरित्यन्तस्य पूर्वान्वयस्वारस्ये असंप्रज्ञातेति च पाठे हनेऽयमर्थ:- नन्वस्तु स्वापमोक्षयोर्विशेषः, स्वापसमाध्योः । संप्रज्ञातसमाधौ सालम्बन- वृत्तिरूपविशेषसत्त्वेऽप्यसंप्रज्ञातस्य सर्ववृत्तिनिरोधात्मकतया स्वापतुल्यत्वादित्यत्राहा संप्रज्ञातेति । तत्र हि पुंसो वैराग्यं निरोधसंस्कारश्चरिताधिकारचित्तत्वमपवर्ग- भाजनत्वञ्च; नैतानि सुप्त इति । ४. निद्राया भवृत्तित्वस्य पूर्वपक्षीष्टवेपि सि. द्वान्त्येकदेशी तत्त्वं पृच्छति । ५. सत्त्वेन सहोदिक्तं यत्तमस्तदनुभवजनित- कथम् 21 आत्मसिद्धा . - मस्वाप्सम् , प्रसन्नं मे मनः, लघूनि मे गात्राणी' ति प्रत्यवमर्शः । रजस्तमस्समुद्रकेतु,'दुःखमहमस्वाप्स, भ्रमत्यनवस्थितं मे चित्त मिति ! सत्त्वरजसी त्वभिभूय नितान्तमुद्भुते तमसि, ‘गाई () मूढं सुप्तोऽ स्मि. गुरुणि मे गात्राणि, मुषितमिव मनः, मीलितमिवे 'ति- सत्यमेवम् । दत्तोत्तरं ह्येतत्-नैवामी वासनायोनयः प्रत्ययाः; अपितु तात्कालिकशरीरेन्द्रियमनोऽवस्थाविशेषपर्यालोचननिमित्ता आनुमानि- का इति । एवंरूपा हीमे, 'यतःप्रसन्नं मे मनः, सम्यगाहारपरिणामव- शाल्लघूनि चाङ्गानि; अतस्सुखमहमस्वाप्समिति । स्वापावस्थायां वे. न्द्रियोपरमतारतम्यवशाद (दा) विशदतात्कालिकतत्तदनुकूलपतिकूल- विषयानुसंधाननिवन्धनतयाऽपि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः। { निद्राया अवृत्तित्वेऽपि योगसूत्राविरोध: ) कथं तर्हि पारमर्ष सूत्रम् अभावप्रत्ययालम्बना वृत्तिनिद्रे ति ? निरोधपरत्वात्पकरणस्य न वृत्तिस्वरूपे तात्पर्य विपर्ययवत् । नह्यतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् । स चाधिकरणसिद्धः; साधयिष्यते चोपरिष्टात् । कैवल्यभागियच्चित्तु संस्कारजन्यः । १. पूर्वपक्षिकृत एतन्निर्वाहप्रकारोऽस्मदिष्ट एव । जागरारम्भ• कालिकसुखदुःखमोहोपयोगिमन:प्रसादास्थैर्यस्तैमित्यपरामर्शाधीनास्तथाऽनुमितय इति भावः । २. उक्तत्रिविधप्रत्यवमर्शेषु गाढस्वापप्रत्ययस्यानुमितिरूपत्वेप्याद्ययो- र्जागरवदविशदनिद्राकालिकसुखदुःखलवगोचरप्रमाणादिरूपानुभवजन्यस्मृतित्वम . स्तु: तथाच सुखदुःखविषये स्मृतित्वेपि स्वापांशेऽनुमितिरेवेति न निद्रा नाम वृत्तिरिति । ३. उक्तं हि · योगश्चित्तवृत्तिनिरोधः ' ( १-२) अभ्यासवैराग्या- भ्यां तन्निरोधः ' (१.१२) इति । प्रमाणादिवृत्तिगतनिरोद्धव्यवसादृश्यागौणो निद्रायां वृत्तिशब्दः । ४. 'विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्' (१:९)- अतद्रूपप्रतिष्ठवञ्च तद्रूपाप्रतिष्ठत्वम् । तेन संशयस्यापि संग्रहः । यथार्थ सर्व. विज्ञानमिति हि सांख्ययोगादिमतम् । अतो रजतभ्रमो नाम शुक्तिदर्शन रजत- स्मृतिसंवलितो रजतभेदाग्रहः अख्यातिः । तत्र दर्शनं स्मृतिश्च प्रमाणादावन्त- र्भवतीति अग्रहरिशष्यते । स चाभावरूपत्वान्न वृत्तिरिति । ५. योगभाष्ये कै- अनन्यसाधनत्ववाद नित्यचैतन्यस्थापनम् (गि यञ्चित् तत्व ?) ( भागीयचित्ती ) प्रत्यनीकतया निद्रादेनिरोध्यत्वे. नोपदेशः । (निद्राया वृत्तित्वे तत एव सहजचैतन्यसिद्धिः) अस्तु वा पूर्वोक्तप्रमाणादिवृत्यभावकारणभूतपचिततमतमोगु- णावलम्बना वृत्तिरेव निद्रा । सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि तथासति अनवरतानुवृत्तवोधतया स्थितमेव पुंसो बोधस्वभावत्वम् ।। आह - बोधकारणानुवृत्याऽपि वोधानुवृत्तिरुपपद्यत इति कथं तथा- स्वाभाव्यनिश्चयः ? इत्थम् । यतः स्वतस्सतो वोधाहते पुंसो यथोदितम् । तमः स्वापादिकालीनं न सिध्ये त्वसिद्धितः ॥२७॥ उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा ।सं- स्कारस्य च न स्मृतेरन्यत्र सामर्थ्यम् । न च स्वप्रकाशं तमः, अर्थान्त- वल्यभागीयशब्दस्य तत्रतत्र प्रयोगात् , 'चित्तनदी वहति कल्याणाय पापाय चे' ति भाषणाचात्र संसारभागं विहाय कैवल्यभागसंबन्धिनश्चित्तस्य निद्रादयः प्रत्यनीका इत्यर्थो युज्यते । १. अत्रेदं बोध्यम् – पूर्वपक्षिणा निद्राया वृत्ति - वे तया सह तदाऽऽत्मप्रकाशस्स्यात् ; स च नित्यचैतन्याधीनो वा स्वरूपप्रयुक्तो वा कथ्यतेति भिया तस्या वृत्तित्वं पूर्व निरस्तम् । पश्चात्तस्या वृत्तित्वेति नित्यचै- तन्यमात्मनो नास्तीत्युक्तम् ! सिद्धान्तिना च तस्या वृत्तित्वे तदधीनप्रकाश आ- स्मन आपद्येतेत्यालोच्य पूर्व तन्निरस्तम् । पश्चात्तद्वृत्तित्वमभ्युपगम्य तत एव सह. जचैतन्यं समर्थ्यत इति ॥ ननु मुखमहमस्वाप्समिति स्मृतिरिति सिद्धान्तः । अत्रानुमितिरित्युक्तमिति विरोधः स्वापांशे ह्यवृत्तित्वपक्षेऽनुमितित्वमु- च्यते । तत् सिद्धान्तसंमतमेव | अहमर्थप्रकाशस्तु मूलग्रन्थेऽपीछः । परन्तु दुः- खमह'मितिवत् सुखांशेऽप्यनुमितित्वं वैषयिक स्वल्पसुखस्मृतित्वं वा लक्ष्यते । तत्र तु दुःखविषयेऽगत्या तथास्वीकारेपि आत्मनोऽनुकूलत्वस्यानुभवप्रमाणसिद्धतया तत्प्रकाशमादाय प्रत्यवमर्शनिर्वाहे बाह्यानुकूलवस्तुग्रहादेर्निद्राकाले कल्पने माना- भाव इत्युत्तरं स्वतस्सुखीत्येतद्विमविसरे वक्तव्यमिति नातोच्यत इति । २. जागरवदनित्यःकारणसंपाताधीन एवास्तु तदापि बोध इति शङ्कते ।
८८ भात्मसिद्धौ रवर्तिनोऽप्यनिशं प्रकाशप्रसंगात् । क्लृप्तश्च सर्वार्थसाधनतया बोध इति तेनैव कारणविरहिणा सता स्वभावभूतेनोद्भू (द्भूतेनोद्भू) तवृत्तेस्तमसोऽ. न्यस्य वाऽऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयम् ।। (आत्मप्रकाशनित्यत्वानुमानम्) नित्यप्रकाशश्चात्मा प्रमावृत्वात् । अप्रमातृत्वव्यापकबद्धं ह्यनि. त्यप्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभवे ( आत्मप्रकाशस्य स्वरूपप्रयुक्तत्वानुमानम्) स्वतस्सिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः । अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ॥ २८ ॥ (प्रकाशपदार्थनिष्कर्षाय प्रश्नः ) कःपुनरयं प्रकाशः, योऽस्य नित्योऽभ्युपेयेत, स्वाभाविकच ? कश्चास्यात्मना संबन्धः? यदि ज्ञानमेव, संबन्धश्चाश्रयाश्रयित्वम् । ततो हेत्वभावेन सा- ध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाद्युपादातव्यम् - यद- १.सत्त्वादेः (अनुकूलत्वस्येति वा) ३ २. एवं वृत्तिस्वीकारेप्यात्मप्रकाशो न पूर्व- पक्ष्युक्तरीत्या वृत्तिप्रयुक्तोऽनित्यः; किन्तु नित्यस्स्वरूपप्रयुक्तश्चेत्यंशद्वयं प्रयोगद. येन साधयति नित्येत्यादिना । ३. इतः परमुक्तप्रयोगघटकप्रकाशपदार्थ- शोधनव्याजेन आत्मनि नित्यचैतन्यस्वीकारे पूर्वपक्ष्युक्तप्रतिकर्मव्यवस्थानुपपत्तिपरि- हाराय परसंमतप्रकाशपदार्थखण्डनेन स्वाभिमतं प्राक् (८३) सूचितं बोधाविप्रक- परूपप्रकाशपदार्थ स्थापयितुं प्रवृत्तः पृच्छति क इति । 'अयमर्थः प्रकाशत' इत्यत्र प्रकाशो धात्वर्थो ज्ञानम् , माझ्यातार्थो विषयिविषयभावस्संबन्ध इति ता- किंकाः। प्राकटयं प्रकाशः, आश्रयत्वं संबन्ध इति भाट्टाः । ज्ञानमेव प्रकाशः, तदधीनव्यवहारानुकूलत्वं संबन्ध इति प्राभाकराः । सिद्धान्ते ज्ञान प्रकाशः, अदृरत्वं संबन्धः; अदूरत्वपर्यन्तस्य वा तदधीनव्यवहारक्षमत्वस्य वा प्रकाशप- दार्थत्वे त्वाश्रयत्वं संबन्ध इति विवेकः । तत्र तार्किकादिमिरात्मनित्यप्रकाशोऽ- संमतः। तदर्थ साध्यमानोऽयं तेषु कतमस्यच्छायावलम्बनेनेति प्रश्नाशयः ।
नित्यचैतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् ८९ नित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमात्, यथा घटादीनि । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाऽऽक्षेपकत्वादागन्तुकं ज्ञानं घटादा. वनुमतमापद्येत । ( आत्मनस्वरूपप्रकाश विषयत्वानुपपत्तिः) अथ तन्मा भूदिति विषयविषयिभाव एव संवन्धस्सं(स? गीयत नतो नित्यवद्ज्ञानविषयत्वमात्मनः प्रसज्येत । ज्ञानविषयीकारश्च साधन- विशेषायत्तत्वेन नियत इति न स्वाभाविकत्वसंभवः ॥ अचेतनगोचर एव तथा नियम इति चेन्न- चेतनान्तरविषयीकारेऽपि तथाभावदर्श- नात् । नचानात्मगोचर एव साधनसापेक्षत्वनियम इति वाच्यम् आत्मनोऽप्यानुमानिकागमिकयोगज्ञानविषयीकारे तत्मापेक्षत्वदर्शनात्। विरुद्ध चैक (कक्रिय ) स्यैकक्रियायां कर्मकर्तृत्वे, मूच्यग्रस्येवात्मनि वेध्यवेधकत्वे । नित्यत्वनिरतिशयमूक्ष्मत्वव्यापित्वचित्स्वाभाव्यादिरू- पेण प्रत्यगर्थस्योपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूः पापेक्षयैव स्वतस्सिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः । रूपभेदेन ग- म्यगमकत्वाङ्गीकारपक्षेऽपक्षस्येव (?) शब्दादेर्न स्वतस्सिद्धत्वम् । ( प्राकटयपक्षेण शङ्का) अथोच्येत -न प्रकाशो ज्ञानम् ; अपितु तन्निमत्तश्चेतनेतरसर्व- पदार्थसाधारणो धर्मः, यदृशान् प्रकाशन इति प्रख्योपाख्ये प्रतायेते सर्वपदार्थेष्वविशेषेण । आश्रयाश्रयित्वलक्षणश्च संबन्धस्तेन सह सर्व- १. तार्किकच्छायया ज्ञानेनात्मनो विषयविषयिभावसंबन्धस्वीकारे उक्तसाध्यासि- द्विमाह । २. आत्मा स्वात्मा। ३. तर्हि कर्मकर्तृविरोधे आनुमानिकादिज्ञान- कर्मत्वं कथमित्यत्र वैषम्य दर्शयति । ४. नन्विहापि रूपभेदेन निर्वाहोस्त्वि- ५. अत्र वाक्यान्वयानौचित्येन पक्षस्येति पदायोगादधिकाक्षरानुप- लम्भाच अपक्षस्येतिच्छेदः । न हि शब्दादावपि स्वतसिद्धिसाधनमेष्टुं श- क्यमिति तस्य पक्षवायोगसूचनाय अपक्षस्येति तद्विशेषणम् । शब्दशब्दो हि गोशन्दादेरिव स्वात्मकशन्दस्यापि गमकः । एवं पदादम् । स्वाध्यायोऽध्येतव्य इति विधिवाक्येन वाक्यान्तरमिव स्वात्मापि गृह्यते । तत्र सर्वत्र न स्वतस्सिद्धिः; यत्राह । 22 , आत्मसिद्धौ भावानाम् । स च यथादितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति । ( तत्परिहारः) पराकृतोऽयं पक्षः-न ज्ञानातिरेकी प्रकाशो नाम । यद्वयवहारोप- जननानुगुणं ज्ञानं तत् प्रकाशतइत्युच्यते । ज्ञेयस्य ज्ञातुः स्वात्म. नश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तस्त्रिष्वप्येकप्रकारः 'प्रका- शते' व्यवहारः ! तत्वान्तरप्रकाशाभ्युपगमे तात्स्वाभाव्येन च पुनः किं चैतन्याश्रयणेन ? न च प्रकाश एव तदिति वाच्यम् - घटादेरपि प्रकाशवनया चेतनत्वप्रसङ्गात् । यद्युच्येत - सति चेतनावच्चे पुंसः प्रकाशमानत्वमिति; संविदीदानी का वार्ता । चेतनैव हि सा न चेत- यते । अथ संविदस्तत्संबन्धाधीनस्स धर्म इति चेत् - कस्तया संब- न्धः, यस्तन्निबन्धनम् ? नाश्रयाश्रयित्वम् , घटादेस्तदभावप्रसंगात । न विषयविषयिभावः, तस्यैवानिरूपणात् । अनिरूपणश्च भ्रान्त्यधि- करणसिद्धान्तारम्भे संवित्सिद्धो चानुसन्धातव्यम् । आत्मनस्त (स्स्व?) स्य चाप्रकाशमसङ्गश्च।। ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः, तया चानुमेयं ज्ञानमिति पक्ष प्रागेव प्रतिक्षिप्तः । गम्यत्वं सामान्यरूपेण; गमकत्वं विशेषरूपेणेति भेदादिति । १. प्रमातृत्वा- दिहेतुबलात् । २. प्रकाशमानत्वेन । ३. प्रकाशः स्वाभाविक इति पूर्वा- नुमानेनोक्तत्वेन । सिद्धान्ते आत्मनि नित्यप्राकटयसंमतौ तस्य ज्ञानाधीनत्वे स्वाभा- विकावं न स्यात् । अतो लाववाच्च स्वाभाविकचैतन्यगुण एव स्वाभाविक प्राक- टयमिति भाटेच्छाया नालम्ब्येति ! ४. न प्रकाशसामान्यं चैतन्यम् ; किन्त्वात्म- प्रकाशव्यवहारश्चेतनावत्त्वाधीन इति शङ्कते । ५. चेतनया संबन्धासंविदि प्राकटयमिति तत्र प्रकाशव्यवहारोपपत्तिश्चैतन्याश्रयत्वाभावपीति । ६. चे. तनाया आश्रये आत्मन्याश्रितत्वं संविदः । ७. विषयत्वं घटादौ स्यात् ; नात्मनि, न वा स्वस्मिन् ज्ञान इति । स्त्रीलिङ्गप्रक्रमात्तस्येति पाठोऽयु. क्तः । यद्वा आत्मनः स्वस्य ज्ञानस्य, तस्य पुंस इति व्याख्येयम् । कृतं प्राकटयखण्डनप्रकारमपि स्मारयति । . ८.प्रा.
नित्यचेतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् (गुरुभादृदृषणेनार्थज्ञानसन्निकर्षस्थापनम् ) स्वप्रकाशसंविद्वादिनोऽपि व्यवहारानुकूल्ये वैरूप्यमशक्य(क्य) परिहारम् । आत्मनि समवेतं ज्ञानमसम्बन्धिन्यर्थे प्रकाशं व्यवहारं वा कयं प्रसुवीतेत्यपि चिन्त्यम् ॥ इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिव- शादिति मा वोचः । न खलु लब्धात्मकं कार्य स्वनिमित्तकारणमनुरु- ध्य कार्यमारभते । मा भूदुदकाहरणादि घटादेः कुलालादिसमाना- धिष्ठानम् । न च निमित्तकारणनाशे कार्यनाशः । नश्यति चेन्द्रिय- संप्रयोगादिनाशे रूपादिज्ञानम् । अत इन्द्रियेण सह चैतन्यमपि निःसृ. त्य तेन तेनार्थेन सन्निकृष्यते. हस्तादिनेव त्वगिन्द्रियम् । तथासति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वम् । अन्यथा उत्पन्न ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्तौ किमिति निवर्तते ? । (निमित्तनाशात्कार्यनाशायोगस्य ज्ञाततानाशेप्यतिदेशः) ज्ञानजन्यार्थधर्मप्रकाशवादिनोऽपि समानोऽयं दोषः । निमित्त- कारणं हि ज्ञानम् । कुतस्तनिवृत्तावप्रकाशो निवर्तते ? कुतो वा यावत्त- द्भावमवतिष्ठते ? (द्वित्वादेरपेक्षाबुद्धिनाशानाश्यत्वम् ) न च संख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम् १.तर्हि प्राभाकरसरणिरेवास्तु, तबाह । २. वक्ष्यति 'अपर्यनुयोज्यं निमित्तवैरूप्य' मिति । संवित् घटादिकमिन्द्रियप्रत्यासत्तिवशाद्वयवहारयति, तदभावेपि वेदिता. रमिति वैरूप्यं निमित्तवैरूप्यम् । यद्वा कार्यान्तरनिमित्तकारणवैलक्षण्येनात्र परं निमित्तानुरोधेन कार्यारम्भो निमित्तवैरूप्यम् । व्यवहारानुगुणसंवेदनत्वरूपप्रका- शपक्षे वक्ष्यमाणं प्रवृत्तिनिमित्तवैरूप्यं वा । घटज्ञानफलस्य व्यवहारक्षमत्वस्य घटे ज्ञानज्ञानोश्चाविशेष घटस्यैव कर्मत्वं, न तयोरिति वैरूप्यमपीह सुवचम् । ३. अथ प्रकाशपदार्थत्वेन स्वसंमतस्यार्थज्ञानसंबन्धविशेषस्यावश्यकत्वोपोदाततया भाट्टप्राभाकरयोरनुपपत्त्यन्तरमाह । ४. अन्यथा घटस्य कुलालवत्येव देशे उदकाहरणकरत्वं स्यादिति। ५. अस्ति ह्यर्थहस्तसन्निकर्षे त्वगर्थसन्निकर्षोपि । ६. ननु द्वित्वादिसंख्या अपेक्षाबुद्धिरूपनिमित्तकारणनाशानश्यन्ती दृष्टया- आत्मसिद्धी असिद्धत्वेन नाशस्य संख्याया बुद्धिनाशतः । एकसंख्येव संध्यात्वादन्याप्याद्रव्यभाविनी ॥२९ ।। सर्वा काश्रया संख्या नित्यानित्यार्थवर्तिनी। यावदाश्रयसत्येव संमता सर्ववादिनाम् ॥ ३० ॥ द्वित्वादिका परार्धान्ता संख्या याऽनेकवर्तिनी । साऽपि संख्यात्वसामान्ये सति कस्मान्न तादृशी ॥ ३१ ॥ ( एकत्वस्य स्वरूपातिरिक्तसंख्यात्वम् ) ननु नैकत्वं संख्या, स्वरूपानतिरेकात् । अतस्साधनविकल- मुदाहरणम् । मैवम् । संख्यैव सा; द्रव्यान्तरेऽप्यनुवृत्तः। यदि हि घ- टादेस्स्वरूपमेवैकत्वम् , ततो घट एकः, पट एक इति सर्वव्यसाधा- रण्यमेकत्वस्य न स्यात् । न हि घटस्वरूपस्य पटस्वरूपेण संभवति सामानाधिकरण्यं, घटः पट इति । अस्ति तु तत् एकत्वस्य ।। किंच- संख्यकता विरुद्धत्वात् द्विसंख्येवान्यसंख्यया। एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ॥ ३२ ॥ (द्वित्वाद्ययावद्दव्यभावित्वसाधकभङ्गः ) यत्तु - अनेकद्रव्यवृत्तित्वे सति गुणत्वात् संयोगवत् अयावद्द- व्यभाविनी द्वित्वादिसंख्येति- तत् नानात्वेऽनैकान्तिकम् । न हि स तोरेव घटपटयोस्तन्नानात्वं नश्यति। न च तद् द्वि (त्व ) संख्यैव; त्र- याणां तदभावप्रसंगात । न च तत् एकत्वाभावमात्रम् ; तुच्छस्यापि नानात्वापत्तेः । (द्विवादिप्रत्यक्षसार्वदिकत्वापत्तिपरिहारः) आपेक्षिकत्वाद् द्वित्वादेः प्रतियोग्य नवग्रहात् । बुभुत्सोपरमाञ्चापि सत्या एवानवग्रहः ।। ३२ ।। शङ्कां संख्यारूपकिञ्चित्पदार्थान्तरस्वीकारपक्षे ऽप्यनन्तद्वित्वोत्पत्तिपक्षस्य बीभत्स्य- तया वक्ष्यमाणरीत्या तत्स्वीकार एव लाघवाद्युक्त इत्यभिनेत्य परिहरति । १. ए. कत्वं संख्या त्रित्वसंख्याविरुद्धत्वात् द्वित्वसंख्यावदित्यर्थः । ननु तर्हि प्रतिद्रव्य- मेकत्वसत्त्वाद्वित्वादि निराश्रयं स्यादित्यत्र विरोधमुत्तरार्धेनोपपादयति । २. घटादौ द्वित्वस्य पटादिसापेक्षतया तदभावेऽनुत्पनत्वादेवाग्रहः । उत्प- -- नित्यचैतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् ९३ अतश्चैतन्यस्यैवेन्द्रियद्वाराऽर्थसन्निकर्ष एव तद्भावाभावानुविधा- नोपपत्तिः। (प्रकाशकत्वहेतुनापि ज्ञानार्थसंबन्धमाधनम्) अन्यञ्च – अर्थस्य प्रकाशकं हि ज्ञानं भवताम् ! सर्वच प्रका. शकं प्रकाश्यवस्तुसनिकृष्टमेव प्रकाशकं दृष्टं दीपप्रभादि । अतस्तदपि तथेति युक्तमाश्रयितुम् ॥ व्योमबदमूर्तस्य न क्रियावत्वमिति चेत् - केयं मूर्तिर्नाम, यद्विरहिणः क्रियाऽयोगः १ । (ज्ञाने परिच्छिन्नद्रव्यत्वरूपमूर्तस्वाभावासिद्धिः ) यदि पारिभाषिकी द्रव्यत्वे सति काचित्कनेति, इष्यत एव सा चैतन्ये : न हि तत् सर्वगतं द्रव्यम् ; तथासति युगपत्सर्वार्थसिद्धिप्रस- ङ्गात् । काचित्कत्वे तु - तद्धि यदेकदेकेन्द्रियेण संप्रयुक्तं (संपृक्तं) तदर्थाभिमुखं, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपद्ज्ञा- नानुत्पत्तिः । निरतिशयवेगञ्च तत् , युगपदिवातिशीघ्रमनेकेन्द्रियाधि- ठानदर्शनात् । अतो यथोदितममूर्तत्वमसिद्धम् ।। (अस्पर्शत्वरूपामूर्तत्त्वस्य शब्दमनसोरनैकान्त्यम् ) स्पर्शवत्ता मूर्तिः तद्विरहानिष्क्रियत्वमिति चेत् – शब्देनाने. कान्तः । स खलु शङ्खमुखादेर्दवीयसोपि देशान्नोदनविशेषेण लोष्टा- दिरिव यावद्वेगं प्रतिष्ठते स्पर्शविहीनोऽपि । स्पर्शरहितस्यापि मनइ. न्द्रियस्य क्रियावत्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव । ( अतीतादावपि चैतन्यसंप्रयोगसंभवः) कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत्- कथं वा नस्यापि, निरूपकान्तरस्य पटादेरग्रहादग्रहः। पटादिग्रहकालेपि बुभुत्साविरहा- दग्रह इत्यर्थः । भक्षाबुद्धिस्थितद्वित्वादिव्यजिकति तदभावेऽग्रह इति भावः । १. संख्यादिनिदर्शनेन प्रत्यवस्थानायोगान, इन्द्रियसन्निकर्षनिवृत्तौ ज्ञाननिवृत्त्य- नापत्तेः । २. एवं भादृप्राभाकरसंमतप्रकाशव्यवहारयोरप्यसंबन्धिन्यर्थेऽयोगा- संबन्धं प्रसाध्य प्रभावत्प्रकाशकत्वहेतुनापि तं साधयति । ३. 'अमूर्तस्याका- शस्येव निष्क्रमणप्रवेशाद्यनुपपत्ते ' रित्युक्तं निरसितुमनुवदति । दिस्यत्र दृशां, दिशामिति पाठद्वयं न्यायसि - व्याख्याने । ५. वैशेषिकमी- ४. देशा- 23 आत्मसिद्धौ विषयभावः, प्रकाशमानत्वं, संख्यादियोगो वा ? तयोर्यस्तत्र निर्वाहः, स एवात्रास्तु । अपिचातीतयाऽनागततया च तावप्यद्यापि विद्यते इति तेन रूपेण बोधसन्निकर्षे काऽ(ना)नुपपत्तिः। किंच यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक् तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाऽऽद्यन्तवर्तिना स्व (स्वा ?) यंभुवादिनेति नालोकं किंचित् । किंच नातीतानागते बुद्धेरे भवितुमर्हतः । बुध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ॥ ३४ ॥ { अन्तरालाग्रहणोपपत्तिः ) एवञ्च चैतन्यस्य निरतिशयवेगितया अन्तरालदेशकालाग्रहणा- भिमानोऽलातचक्रगतक्रमवद्देशसंयोगविभागाग्रहणाभिमानवत् । अपिचे. न्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपं, तेनैवोपश्लिष्य निस्सरचैत- न्यमपि तद्रोचरेणैव सन्निकृष्यते; यथा गवादिपदशक्तिरेकबुद्धिसिद्धे. ऽपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेनैव सम्बध्यते; यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायास्पृशति । अत इन्द्रिया. दिद्वारेण चैतन्यमपि तदर्थाभिमुखं निर्गच्छत्तीति न्याय्यम् । यथाऽऽह भगवान् ‘तदस्य हरति प्रज्ञा वायुर्नावमिवाम्भसि ' इति । मांसकानाम् । १. वर्तमानापेक्षाबुद्धिजन्यद्वित्वादियोगः । तानागतयोः । तत्र विषयभावादो । ३. सिद्धान्ते सर्वस्यापि द्रव्यस्य नित्यः वादतीतत्वाद्याश्रयद्रव्यं वर्तमानमेवेति संयोगस्सूपपन्न इति तात्त्विकं समाधि- ४. न लोकानुभवापेतम् । ५. बुध्द्यपेक्षया दवीयस्त्वमेव नेति सा- ६. अलातचक्रगतानां क्रमिकाणां देशविशेषसंवन्धिनां संयोगविभा- गानां वस्तुतो ग्रहणसत्त्वेप्यग्रहणाभिमानवत् । ७. तेनार्थेन । यदिति पृथ- क्पदश्चेत् तपस्य गोचरेणत्यर्थः । ८. जातिव्यक्तयात्मके । ९. दध्ना जुहो- तीत्यत्र हि दधिहोमोभयविशिष्टभावनान्वायनो विधेर्दधिरूपे भावनांशे संबन्धः । अत एव हि तदेव विधेयमुच्यते । १०. यदा करणायत्तश्चैतन्यप्रसरस्तदा कर- णव्यापारोपलक्षित करणयोग्यार्थसन्निकर्ष एव चैतन्यस्य, ग्रहणपदार्थ इत्याशयः । २. अती- माह। धयति ।
नित्यचैतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् मनुश्च- 'इन्द्रियाणां हि सर्वेषां यद्यकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥२-९९॥ इति । (चैतन्ये गुणत्वप्रयुक्तपूर्वपक्षनिरासः ) यत्तुं गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति - तदयु- क्तम् , प्रहाणानभ्युपगमात् । अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादि- द्वारानिश्चरति विच्छिन्नायाश्च तस्यास्सन्धानासम्भवश्शास्त्र एवोक्तः। दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्ती ध. यंतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः । (शब्दस्य गुरुमतनित्यत्व विभुत्वगगनीयत्वनिरासः ) ननु नभ इव विभुश्शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव ग. त्वर इव चोपलभ्यते । तथाहि - शब्दस्सर्वव्यापी एकद्रव्यवर्तित्व स- ति आकाशगुणत्वात्तत्परिमाणवन् – मैवम् , अतद्गुणत्वात् । वायवी- यश्शब्दः तेन नियतसहोत्पत्तिकत्वात्तदीयस्पर्शवत् । यश्च येन द्रव्येण १. अस्य नरस्य तदिन्द्रियद्वारा प्रज्ञा निस्सरति। क्षरतिशब्दो ह्ययं पूर्ववन्निस्सरणा- २. १७५५०३ कृतं चोद्यं निरस्यति । ३. गुणत्वमत्यन्तपर- तन्त्रत्वम् । तच्चाद्रव्यकतिपयद्रव्यसाधारणम् । तत्राद्रव्ये शब्दादौ, द्रव्ये आलो. कादौ च गतिमत्त्वं, यदीयत्वेनास्य प्रसिद्धिस्तद्धर्म्यनुपलम्भदेशेपि सत्त्वरूपं धर्म्य- तिवर्तित्वञ्चानुभविक; शब्दगन्धयोर्भ पुष्पानुपलम्भदेशेपि सत्त्वात् । परन्तु तत्र शब्दगन्धयोरद्रव्यत्वाद्गतिमत्त्वदेशान्तरस्थत्वयोस्साक्षादयोगाव्यद्वारा तत्स्वीकारः। आलोकादेस्तु द्रव्यत्वात्साक्षादेव । प्रकृते चाणोरात्मनो देहान्तरेव स्थितेश्चिते- शब्दादिवद्गुणत्वे गत्याद्यनुपपत्तावप्यालोकादिवद्गुणत्वे न कश्चिद्दोष इति भावः । एतदर्थज्ञापनायतावदृष्टान्तकथनम् ! ४. ननु कथं शब्दो गुणः; तथात्वेपि भेरीगुणस्य किन्द्रव्यद्वारा गतिमत्वादि सूपपादमित्यत्रारभते अतीति । भेर्यादि- जनितो वायुगुणश्शब्दो वायुद्वारैव गत्यादिमानिति विशिष्टार्थः । ५. पूर्ववाक्येन शब्दस्य भाट्टमत नित्यविभुद्रव्यत्वनिरास सूचयित्वा गुरुमतं गगनगुणत्वे सति नित्यविभुत्वं निरसितुमाह । ६. नमोगुणतया द्रव्यद्वारापि गत्युपपादनायो- र्थक एव।
९६ आत्मसिद्धा नियतसहोत्पत्तिर्गुणः, स तद्गुण एव, यथा तथाविधा रूपादयः । नि- यतसहोत्पत्तिश्च वायुना शब्दः, उभयोरपि भेरीदण्डवंशदलनादिसंयो- गविभागजत्वनियमात् । उत्पद्यते च शब्दः; इन्द्रियग्राह्यत्वे सति गुण त्वात् गन्धादिवत् । कृतकश्च क्रियोत्तरमेवोपलभ्यत्वात्संयोगादिवत् । नचाभिव्यञ्जकत्वं प्रयत्नादेः कल्प्यम् , गौरवात् । तत्प्रतीतिकारण- त्वकल्पनादपि तत्कारणत्वकल्पनैव हि लघ्वी । अभिव्यञ्जकाश्चैकदे. शांवस्थितान् एकेन्द्रियग्राह्यान् युगपदभिव्यञ्जन्ति; यथा प्रदीपो रूपसं- ख्यापरिमाणानि करकादींश्चैकप्रदेशवर्तिनः। नचैवं ताल्वादिसंयोग- विभागजनितपवन इति नासो व्यञ्जकः । नित्यत्ववादिनईशब्दा निर्भागव्योमवर्तिनः । श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ॥ ३५ ॥ देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् । तदभावात्मयत्रोत्यमारुतः कारणं ध्वनेः ॥ ३६॥ अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् । कृतस्य करणायोगाढेतुपौष्कल्यभेदतः ॥ ३७ ॥ किंचोदात्तानुदात्तत्वदीर्घत्वहस्वतादयः । गादिस्था युगपद्भान्तो न भिन्द्युस्स्वाश्रयान् कथम् ।।३८॥ स्थानक्यायातसादृश्यात्मत्यभिज्ञाऽपि नैक्यतः । प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ॥ ३९ ॥ (विना संबन्धं व्यवहारानुगुण्यवादः प्राभाकरीयः) नन्वेवं चैतन्यसंयोगः संयोगजो वा कश्चित्पकाशः प्राप्तः । गादेवमुक्तम् । १. असिद्धिपरिहाराय हेतुघटकमुत्पत्यशं साधयति । कृतक: क्रियाजन्यः । २. मिथस्समानाधिकरणान् । ३. कमण्डवादीन् । १. कादिव्य- अकेन गाद्यव्यञ्जनात् । ५. प्राभाकरस्य । ६. शब्दसामान्यं वनिः । ७. एता- वता प्रयत्नादरनभिव्यञ्जकत्वादुत्पादकत्वात् वायुगुणश्शब्दस्तहारैव गत्यादिमानिति सिद्ध शन्दसूर्यालोकादिनयाच्चैतन्यस्य गत्यादिमत्त्वमिति ज्ञानार्थयोस्संबन्धो निराबाध नित्यचैतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् उभयमपि तन्न चैतन्ये संभवति भेदापेक्षत्वात्संवन्धस्य । आन्मनोऽपि न चैतन्येन संयोगः तद्धर्मित्वात् । न हि धर्मधर्मिणोम्संबन्धसंयोनः । समवायो हि सः, अयुतसिद्धसंवन्धत्वात् । संयोगस्तु पृथक्सिद्धयो. व्ययोः क्रियानिमित्ता प्राप्तिः, अकार्यकारणयोर्वा नयोनिरन्तरस्थितिः। चैतन्यसंयोगसमवाययोरन्यतरस्य, संवन्धमात्रस्य वा प्रकाशत्वे ज्ञात- ज्ञानज्ञेयशरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वा- न्तरप्रकाशाभ्युपगमस्त्वनुपलब्धिवाधितो न दृषणान्तरं प्रयोजयति । अतो यद्वयवहारोदयानुगुणं ज्ञानम् , तत् प्रकाशन इत्येवाभ्युपगमो युक्तः । त्रितर्यव्यवहारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं नि- मिनवैरूप्यम् । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवञ्चेत्सं (चैत- सं?) योगसमवायविरहिणोऽपि पदार्थस्य निमित्तभेदानुसारेण व्य- वहारहेतुस्संविदिति युक्तमाश्रयितुम् । ( तदुक्तप्रकारानुपपत्तिः) उच्यते । उक्तमत्र न निमित्तकारणमनुरुध्य कार्य स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वेऽपि प्रकाशपदार्थे प्रवृत्तिनिवृत्ति (निमि- त?) भेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभावप्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातज्ञेययोरसंवेदनत्वेनाप- काशप्रसङ्गः । व्यवहारोदयानुगुण्यश्च व्यवहारतोऽवगन्तव्यम् । ततः पागेव च भवति विदितत्वप्रतीति ा (र्व्यव) हारश्च । इत्युपपादितम् । एवमर्थविषये उक्तस्य संबन्धस्य वित्तौ वेदितरि च दुर्वचतया संबन्धस्वीकारेपि वैरूप्यमस्त्येवेति संवन्ध विना स्वभावत एवं प्रतिनियतप्रकाश- कत्वं वित्तेरस्त्विति प्राभाकरशङ्कते। १. अवयवावयविभिन्नद्रव्ययोः, विभुनोः । २. इदं प्राकटयम् । ३. यस्य वस्तुनो व्यवहारत्यर्थः । तत् वस्तु। ४. नन्वानु- गुण्यमेव केन निमित्तनेत्यत्राह । ५. घटवित्तः पटव्यवहारा जनकत्वं कुत इत्यत इदमुक्तम् । ६. तादृशसंवेदनत्वं प्रकाशः; ६. ताशसंवेदनत्वं प्रकाशः; तद्वत्वं प्रकाशमानत्वम् । ७. विदितत्वं वित्त्यधीनव्यवहारार्हत्वमिति मते हीदं द्वयं न वटते । सिद्धान्ते 24 भआत्मसिद्धौ -- , (सिद्धान्तसंमतः प्रकाशपदार्थः) यद्येवं, कस्तर्हि 'प्रकाशते ' पदार्थः । न हि निरवद्यमेकरूपं ज्ञातज्ञेयज्ञानानुगतं तमुपलभामहे - उच्यते - नूनं भवानश्रुतपूर्वी प्रथ. माधिकरणस्य न्यायतत्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपाद- यद्भिः, अनुभवादूरत्वं स्मृतिनिमित्त मिति । एतदुक्तं भवति - सं. विददृरत्वं प्रकाश इति । (अदूरविकल्पेन दूषणं तत्परिहारश्च ) आह - किमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा! तथा विशेषणमुपलक्षणं वा, अदूर इति ? विशेषणत्वे पक्षत्रयेऽपि नि- यमेन संवेदनदूरत्वानुसंधानपूर्विकया प्रकाश इति प्रतीत्या भवितव्यम्। न च तथाऽस्ति । उपलक्षणत्वे स्वरूपान्तरं वाच्यम् । न च तदवग- भ्यत इत्युक्तम् - उच्यते । अलमस्थाने संभ्रमेण । तु वित्तिसंयुक्तत्वं विदितःवमिति न दोषः । १. ननु 'क्तस्येन्विषयस्य कर्म- प्युपसंख्यान - मिति वार्तिकप्रवृत्तौ 'प्रथमाधिकरणे 'इति सप्तमी स्यात् । पूर्व शब्दश्रवणात् 'इष्टादिभ्यश्चे' त्येतदप्रसक्तया तान्तस्येन्प्रकृतित्वाभावात्तदप्रवृत्तौ च 'कर्तृकर्मणोः कृती' ति कृद्ग्रहणात् 'सपूर्वाच्चे ति विहिततद्धितान्तेऽत्र षष्ठी न स्यात् , किन्तु · कृतपूर्वी कट ' मितिवत् द्वितीयवेति कथं षष्ठी ? उच्यते- कृतीत्यस्य कृदर्थोपसर्जनीभूतक्रियान्वये इत्यर्थः । न तु वृत्त्यनन्तर्गतकृदन्तयोग इत्यर्थः, भक्ष्याणां पाकशालेत्यादौ षष्टयनापत्त्या द्वितीयापत्तेः । पृथक्प्रयोगाहकृ. दन्तयोग इत्यर्थोपि नः कृतपूर्वमिति भावविवक्षया पृथगप्रयोगे मानाभावेन कट- मिति द्वितीयानःपत्तेः । अत इह कृदर्थोपसर्जनक्रियान्वयविवक्षया षष्ठी। तद्धिता. ोपसर्जनक्रियान्वये तु न पष्ठी । सा च क्रिया कृदाद्युपात्ता, तद्धितलक्षिता वे- त्यन्यदेतत् । अतष्षष्ठीद्वितीयान्तप्रयोगद्वयोपपत्तिः । किञ्चेह शेषषष्ठया न कश्चि- पवाद इति निरवद्यम् । २. स्मृतेरनुभूतानुभवोभयगोचरत्वात्तैरुक्तमदूरत्वरूप- निमित्तमुभयसाधारणमभिमतमिति स्वस्मिन्नपि संविददूरत्वरूपप्रकाशस्तत्रेष्ट इति सिध्यतीति। ३. 'तदन्य तद्विरुद्धतदभावेषु नञ् इति ' स्मृतिः। ४. ज्ञाप्य- बहिर्भूतस्यैवोपलक्षणतया ज्ञाप्यस्य प्रकाशस्य प्रतीतौ दूरविरोधित्वादिरूपस्यादि- नित्यचैतन्यस्थापनमध्ये प्रकाशतेपदार्थशोधनम् णम् । भवत्वनुभवादरं दूरादन्यविरोधि वा । तद्भावश्च प्रकाशत्वं (शोऽत्र) किमत्र बहु जल्प्यते ॥४०॥ प्रकाशतइति प्रतिभासोऽपि बुद्धिविप्रकर्षप्रत्यनीकवोधतत्संसृष्ट- पदार्थस्वरूपविमर्श एव, बायपकाशवत् । तत्रापि ह्यालोके तद्व्याप्तभू- भागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते। यथा च तत्र तन्निमत्ता सन्तमसनिवृत्तिः. एवमिहापि ज्ञानादूरत्वनिमित्ता अज्ञान- निवृत्तिः । अत एव चानुभूते अनुभवे चोत्तरकाल (लं?) तुल्य वत्स्मर- (संबन्धविशेषनिष्कर्षः) एवंच चैतन्यसंबन्धविशेषविषयविकल्पोऽप्य लब्धावसाश इति नि. रनुयोज्यानुयोग एव । नरन्तर्यपदपर्यायमत्यन्तसामीप्यमात्रञ्च संयोगः। स एव परतन्त्राश्रितस्समवायपदपरिभाषाभूमिवैशेषिकाणामिति नार्था- न्तरत्वमूरी (मुररी) कृत्य विकल्पस्संभवति । यथा च संयोगान्तर्भाव- षयत्वे रूपान्तरेणैव प्रकाशस्य विषयत्वं वाच्यमिति ! १. घटादिकमनुभवादूर- मित्यत्राभावपक्षेऽनन्वयात्तमुपेक्ष्याऽऽह || 'प्रकाशत्वं प्रकाशमानत्वम् । प्रकाशो- ऽत्रेति पाठस्समीचीन ' इति न्या०. सि०. व्याख्या । २. विशेषणवे न किश्चिद्बाधकम् । उपलक्षणत्वेपि प्रकाशमानवस्तुस्वरूपमेव रूपान्तरमिति भावः । ३.अदूरत्वमप्यन्ततः किं संयोगस्समवायो वा, भावातिरिक्ताभावाभावादित्यत्राह । १. रूपरूप्यादौ स्वरूपमेव संबन्धः। पृथस्थितयोव्ययोसंबन्धस्संयोगो द्रव्या- तिरिक्तः क्लुप्तः । तदत्रापृथसिद्धयोर्द्रव्ययोश्शरीरात्मभूतयोरन्यादृशयोर्वा संबन्धः स्वरूपं वा संयोगो वेति विमर्श-धर्म्यतिरिक्तसंबन्धानऽद्रव्ये स्वरसतो नैरन्तर्य- बुध्धभावाव्ये च भावाद्विभुद्वयसंयोगवत् संयोगरस्वीकारमर्हति । अतो ज्ञान- ज्ञात्रोरप्यस्तु संयोगः । वैशेषिकास्त्वेवमपृथक्सिद्धद्रव्यसंबन्धं समवायं परिभाष. माणास्तुल्यनयात्परतन्त्रस्थले सर्वत्र समवायमकल्पयन् । वस्तुतोऽद्रव्ये स्वरूपाति- रिक्तसंबन्धाभावात्समवायः परतन्त्रद्रव्यसंयोग एवेति। एवञ्च संविददूरत्वमनुयोगि- स्वप्रतियोगित्वान्यतरसंबन्धेन संवित्संयोगवत्त्वम् । इदं संविद्यध्यक्षतम् । अस्य च संयोगस्य नियमेन ज्ञानभास्यत्वात् , अहं जानामि, हातोऽयमर्थ इति १०० आत्मसिद्धा स्समवायस्य, नथा संबन्धविमर्श दर्शयिष्यामः ॥ ज्ञानादूरत्वप्रयुक्तो व्यवहारक्षमतालक्षणो वा पर:(?) प्रकाशः। स च सत्यपि स्वनिमित्त- पौष्कल्ये प्रतिबन्धात् योग्यताविरहाद्वा व्यापित्वासंगित्वाद्यात्मधर्मा- न्तरेषु देहेन्द्रियादौ च न संजायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः (दिषु?)। अतो यथोक्तंनीत्याऽऽत्मा स्वतश्चैतन्यविग्रहः । हा (भा?) (ज्ञा?) नस्वभाव एवान्यत्करणैः प्रतिपद्यते ॥४१॥ विशिष्टव्यवहार इति । १. ननु-ईदृशज्ञानसंबन्धस्य प्रकाशपदार्थत्वे संबन्धस्य संबन्ध्यधीनतयाऽऽत्मप्रकाशस्य ज्ञानाधीनत्वापत्तिः । किञ्च ज्ञानादेन अवस्था. पन्नज्ञानग्रहणे स्वापे आत्मनोऽप्रकाशापत्तिः । सामान्यतो ज्ञानद्रव्यग्रहणे स्वापेपि धर्मभूतज्ञानप्रकाशापत्तिः। न चेष्टापत्तिः; अद्वैतनिरसनावसरे तदा संविदप्रकाशस्यो- क्तत्वात् । विषयप्रकाशनवेलायामिति च भाष्यम् । एवं ज्ञानस्य कृत्स्नदेहादिव्यापि तया तत्सर्वाशप्रकाशापत्तिः; संयुक्ताश्रितत्वरूपसंबन्धबलाद्रूपादेरिव सर्वात्मधर्म- प्रकाशापत्तिश्च | अतो नायं प्रकाशपदार्थः-इत्याशङ्कायाम्-प्रकाशपदं व्यवहारक्ष- मत्वार्थकमेवास्तु। स चोक्तानुमानादिवशादात्मनि स्वतः; अवस्थाविशेषविशिष्टज्ञा. नमात्रे स्वरूपात्मसंबन्धोभय बलात् ; घटादौ तु ज्ञानादूरत्वप्रयुक्तः, अन्यथा वि- षयनियमायोगात् । अदरत्वे सत्यपि कचित्तादृशप्रकाशाभावः प्रतिबन्धादिना । एवञ्च घटमहं जानामीत्यादाववस्थापन्नज्ञानक्रियाजन्यसंयोगरूपकलाश्रयत्वादेव कर्म- त्वम् । आत्मनि न तादृशक्रियाजन्यस्सयोगः, किन्तु नित्यः । अनुमानादिना- ऽऽत्मग्रहणे च प्रसरणावस्थज्ञानेन जन्योपि स इष्यते । भवस्थाविशेषे युक्तया न तदनापनज्ञानस्य स्वप्रकाशत्वाचापत्तिरित्याद्याशय्याह ज्ञानेति । पूर्व वरमिति स्थाने परमिति, अत्र पर इति च दर्शनादुत्कृष्टार्थको वरशब्दतुल्यः पर- शब्दस्स्यात् । सर्वानुगत इत्यर्थको वेह, परजातिरितिवत् । अन्यार्थ एव वा; तदा परो वा ज्ञानादूरत्वेत्येवं योजना। २. वास्तवशुक्र. रूपेत्यर्थः । ३. प्रकाशनित्यत्वस्वाभाविकत्वसाधकप्रयोगद्वयेन । उत्तरार्धान्वये तु स्वरूपोपाधिधर्मत्वरूपोक्तहेतुनेत्यर्थः । विग्रहशब्दस्वारस्यात् पूर्व चैतन्यस्वरू- पत्वोक्तयवगमात स्वभावपदबलेन च धर्मभूतज्ञानविवक्षाप्रतीते ोनेति युक्तम् । - .
नित्यचैतन्यस्थापनम् १०१ (पूर्वपश्युक्तसुग्वादिदृष्टान्तप्रतिक्षेपः, यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चिरागन्तुकत्वमा- पादितम् , तदपि गुणवृत्तापरिज्ञानेन; यतः स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः । नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ॥ ४२ ॥ यथा च बोधोपाधिरात्मभावः, तथोपपादितम् । सुखदुःखे च (चा नात्मधर्मों, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् ; व्याकरिष्यते चै- नत् अन्तिमपदार्थसमर्थनावसर इति माधनविकलता च निदर्शनस्य । रागद्वेषादयोऽपि मनोऽवस्थाविशेषाः न साक्षादात्मगुणाः । विज्ञायते हि, 'कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृनिरधृतिहीं धी- रेत्येतत्सर्व मन एवे 'ति। गीयते च, 'इच्छा द्वेषस्सुखं दुःख' मिति । १. सुखादि न स्वरूपोपाधिभूतमित्यर्थः । २. ननु स्वतस्मुखीत्यामनि मुख- मुक्तवता कथमनात्मधर्मत्वमुच्यत इत्यत्राह व्येति । अयं भावः - तत्रामगत- स्वाभाविकानुकूल्यप्रकाशरूपं मुखमात्मनीष्टम् ! भवदुक्तसुखदुःखयोश्च नाम- स्वरूपप्रयुक्तत्वम् , प्रकृातेसंसर्गकृतकर्ममूलत्वात् । न च भगवभूितित्वप्रयुक्तं आस्तवमानुकूल्यं प्रकाशते, किन्तु सौन्दर्यादिकृतं कल्पितमिति सुखस्य दुःखा- दविशेषः । एतावता साधनवैकल्यं कथमिति चेत् - अत्रायमर्थः - स्वतस्सु- खात्यात्मनि सुखं वक्ष्यते । ग्रन्थारम्भे च आनुकूल्यप्रतिलब्धानन्दनुखादि- ज्यपदेशबोधविशेष एवेति सुखस्य ज्ञानरूपत्वमुक्तम् । तुल्यनयात्प्रतिकृलं ज्ञानं दुःखमिति च सिद्धम् । अतो घटादिज्ञानस्येवानयोरपि चितिरूपतया दृष्टान्तत्व- मेवासिद्धम् । सर्वत्रावस्थांशे आगन्तुकत्वस्याविशिष्टत्वाञ्चितिशब्दवाच्यविशेष्यांश व तद्वार्यते । तदेतदृष्टान्तासिद्धिपरिहाराय ज्ञानातिरिक्तसुखदुःखयोरेव त्वयेहोपा- दानं वाच्यम् । यद्येवं ज्ञानातिरिक्ते सुखदुःखपदप्रसिद्धिर्मन्यते, तर्हि श्रुत्यादिविरोधि- तार्किकादिप्रसिद्धरुपेक्ष्यतया इन्द्रियसौष्ठवादिकमेव सुग्वादीति । एवं रागादिकमपि बानातिरिक्तं त्वया निदर्यमानं मनोगुण एवेति । इदमुक्तं भवति-प्राकृतं सुखदुः- खेच्छादिकं मुक्तिकालासंभवि अत एवात्मस्वरूपाप्रयुक्तं नात्मविशेषगुणः मा. 25 १०२ आत्मासिद्धी १ (सिद्धान्तिमतं शरीरलक्षणम् ) 'चतनाधृति' रिति क्षेत्रलक्षणमेकपद्येन । चेतनया ध्रियमाण- संघातो हि देहः । स्ववृत्त्य (धृत्य? ) नुगुणचैतन्यमात्रादेव प्रवर्तमान क्षेत्रमिति यावत् । अत एव ह्यन्तर्यामिब्राह्मणे, 'यस्य पृथिवी शरीरं; यस्यापश्शरीरं'; यस्थात्मा शरीर' मित्यादिनिर्देशः । तानि सर्वाणि तद्वपुरिति च पुराणे । (श्रुत्यन्तरविरोधादेतीशब्दस्यार्थान्तरपरत्वम् ) किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत् ; न ज्ञप्तिविषयम् : त- स्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि 'न विज्ञातुर्विज्ञातेविपरिलोपो विद्यते 'इति, 'न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते, अविनाशित्वा 'दिति च । ज्ञातुरविनाशित्वादेव ज्ञानस्यावि- नाशमुपपादयन्तीयं श्रुति तुस्स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति । न चे दृष्टिविशेषणतया द्रारुपादानमिति सांपतम् : पुंल्लिङ्गनिर्देशविरोधात् । हेतोश्च साध्यसमत्वापत्तेः । द्रष्टुः स्वरूपनिर्देशपरत्वेपि दृष्टिपदस्य, अ- समाधेयमहेतुत्वम् ; स्वपक्षहानिश्च । आत्मनस्तु नित्यत्वमप्रचाल्यम- (ल्या)नेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुम् । न हि सति पदार्थे तत्स्वरूपोपाधयो न भवितुमर्हन्ति, सति कनक इव पैङ्गल्यम् , प्रभेव च प्रदीपे । तेनायमर्थः - आत्मस्वभावभूतायाश्चिते बाह्याभ्यन्तरविषय- विशेषसंबन्धपकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्य- स्मनि तत्तद्वत्ताव्यवहारस्तु तत्तद्रोचरज्ञानविशेषस्यापि तत्तच्छब्दार्थत्वविवक्षया ! स्वरूपप्रयुक्तं तु मुक्तिकालभावि इच्छासुखादिकं केवलज्ञानावस्थाविशेष एव । अत एव द्विविधेपि सुखादिपदशक्तो मानाभावादत्रत्यं सुखादिपदं पूर्वोक्तधीपदनयेन नयार्थम् । एवमपि ज्ञानातिरिक्तसुखादिपदार्थाऽऽग्रहे श्रुत्याद्यनुसार रिणीत्थमेव व्यव- स्यति । १. एवं सुखादः क्षेत्रान्तर्भाववचनादनात्मधर्मत्वे अत एव चेतनारू- पपक्षेपि हेत्वसिद्धिस्स्यादित्यत्र चेतनाधृतिरिति समस्तमेकं पदमन्यार्थकमित्याह । २.द्रष्टात्मिका दृष्टिरिति दृष्टिपदस्यात्मपरत्वं निरस्यति । ३.तार्किकादिमते आत्मनः जडत्वात् । अद्वैतिमते चाहमर्थस्य विनाशित्वात् । १. चक्ति- जानात्येवायं पुरुषः; ज्ञातव्यं नित्यचैतन्यस्थापनम् १.३ पदेशभेदायाः स्वात्मावभासिन्यास्संसारापवर्गावस्थयोन जातुचि. द्विपरिलोपो विद्यत इति । ‘स यया सैन्धवघनोऽनन्तरोऽबाह्यः कु- स्नो रसघन एव. एवं वा अरे अयमात्मा अनन्तरोऽवाद्यः कृत्स्न: प्रज्ञानधनः,' तथा, ' स्वन भासा स्वेन ज्योतिषा', 'आत्मज्योतिस्स- म्राडिति होवाचे' ति । तथाऽपवर्गदशायामेवच्छन्दोगाः, ' न पश्यो मृत्यु पश्यति, न रोगं नोत दुःखताम् । सर्व ह पश्यः पश्यति', 'नोपजनं स्मरन् ' इति । स वा एष एतेन देवेन चक्षुषा मनसेतान् कामान् पश्यन् रमत' इति च । अन्याश्च, तु न वेद'इत्याद्यास्सकलकरणोपरमदशायामप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति ! 'निर्वाणमय एवाय (ह) मात्मा ज्ञानमयोऽमल ' इत्यादि च पुराणे । ज्योतिषामपि तज्ज्योति 'रि- त्यादि इतिहासे । भगवान् शोनकश्च - यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः: दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा । यथादपानकरणान् क्रियते न जलाम्बरम् । सदेव नीयत व्यक्तिमसतस्सम्भवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते' ॥ इति । अत एव हि सूत्रकारश्च, 'ज्ञोऽत एवे 'ति ।। (अनित्यगोचरनिश्चयसंशयादिव्यवहारनिर्वाहः; तदेवमात्मस्वभावभूतस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्च- यसंशयादि व्यवहारभेदः, तत्तद्विशेषभाजि चैतन्ये वा । चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः, तस्यैव बहुभियुगपददृढसंयोगस्सं. रिह शाब्दबोधः । श्रुतिश्शब्दग्रहणम् । १. तदेवं पूर्वाधं विवृत्य नानापदा- थसंसर्गादित्युत्तरार्ध विवृणोति । अनेन पूर्वपक्ष्युक्त: (७६ पु.) इन्द्रिय- लिङ्गादे पकवायोगो वारितः । २. भयमेव सिद्धान्तः, घटादिपदस्येव नि- १०४ भात्मसिद्धी शयः; ज्ञानवासनानुसारेण संश्लेषस्स्मरणमित्यादिः । उक्तश्च 'आत्म- धर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यते' इति । नचैवं' सं- योगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसंगः; विषयेणे संयोगा- भावात् । चैतन्येन हि तस्य संयोगः; वाह्यप्रकाशवत् । यथा खल्वालो- कसम्बन्धेऽपि प्रकाशे मर्यादेरेव प्रकाशकत्वम् , न घटादेः। अथ सूर्या- दितन्त्रत्वादालोकस्य स एव तद्धर्मी तत्सम्बन्धेनार्थान्तरस्य प्रकाश [क] इत्युच्यते, इहापि तर्हि चैतन्यस्यात्मधर्मत्वात्तेनार्थान्तरं स्पृशन् स एव जानातीत्युपपद्यते ।। तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते अन्यत्तु निमित्तभेदानुसारेण जानाति, न जानाति चेति । (स्वप्रकाशेप्यात्मन्यागमाद्यावश्यकता) तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशय- चरमीनवत् जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपा- दनन्यायानुगताः पूर्वानुमानभेदाः वचनानि चान्द्रियन्ते । तैरप्यपरि- तुष्यन्तो यमनियमादियोगाङ्गानुष्ठानक्षपिताशुद्धयावरणमलाः निरो- धाभ्यासपुटपाकनिधूतरजस्तमाकलङ्कसवोद्रेकसमुत्थस्वेतरसकलविष- यवैलक्षण्यापरोक्षज्ञानाय प्रयतन्ते । भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञान- मुदयत इति सर्ववादिनिर्विवादमिति न तदुपपादनायाय प्रयत्यते । एवमात्मा स्वतस्सिध्द्यन्नागमेनानुमानतः ! योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ॥ ४३ ।। इचयादिपदस्यावस्थाविशेषापन्नधर्मिपर्यन्ते प्रसिद्धः । १. संयोग एव निश्च- यादिरिति पक्षे । २. न हि स्वनिरूपितस्संयोगस्स्वस्मिन्निति । ३. धर्मभूतज्ञानस्य शतृत्वापत्ति मात्मनस्तदनापत्तिञ्च वारयितुं दृष्टान्तमाह | प्रकाशस्यान्तरस्य वाह्यो दृष्टान्तः । जानातीतिव्यवहारः प्रकाशयतीतिव्यवहारेण तुल्यः, न तु प्रकाशत इत्यनेनेति भावः । भनेन पूर्वपक्ष्युक्तोऽनुभवविरोधोऽपि शमितः । ४. स्वशब्दः प्रयतमानात्मपरः । वैलक्षण्यस्यापरोक्षज्ञानायेति विग्रहः । ५. काष्ठायाम् ।
आत्मनित्यत्वपरीक्षा १.५ (आत्मनित्यत्वसाधनारम्भः) अथास्य कालावच्छेदपरीक्षा। (क्षणिकत्वशङ्का } तंत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनी क्षणिकतामाचक्षा गा नित्यात्मदर्शनमेव सर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं संगिरन्ते, यत्सत् तत् क्षणिकम् ; संश्चायमात्मेति । कथं पुनस्सन्मात्रानुबन्धिनी क्ष- णिकता? अक्षणिकस्य सत्तानुपपत्तेः । यन्न कस्मैचित्कार्याय, अन्त- तस्सार्वस्यविज्ञानगोचरत्वायापि न प्रभवति - न तस्य सद्भावस्सं- भाव्यत इत्यर्थक्रियाकारितेव सत्ता भावानाम् । न च सा स्वव्याप. कभूतक्रमगोगपयविरहिण्यक्षणिक संभविनीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते ॥ कथं पुनः क्रमयोगपद्ययोरर्थक्रियाव्यापक- त्वम् ? कथं वा तयोरक्षणिकानिवृत्तिः ? श्रूयताम् । अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः । क्रमेण युगपद्धति न विधान्तरसंभवः ॥ ४४ ॥ भावाभाववदनयोरन्यनरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाज- नने भावानां न तृतीयप्रकारसंभव इति क्रमाक्रमप्रतिवद्धैवार्थक्रिया। न चाक्षणिक क्रमयोगपये संभवतः ।। आत्मसिद्धावेतदुपरितनग्रन्थो नैवोपलभ्यते । १. एतावता देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधन ' इति विवृ- तम् । अथोत्तरार्धे प्रथमनिर्दिष्टं नित्यत्वं परीक्षितुमारभ्य प्रागुक्तकल्पेषु प्रथम सौगतपक्ष प्रस्तौति । २. क्षणिकत्वव्याप्या भवति । क्षणिकत्वव्याप्यव्याप्य तया तद्वयाप्यत्वम् । ३. प्रथमप्रश्न समाधने । ४. घट घटाभावादिवत् । तदुक्तम् – 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' (न्या०.कु०.३. ) इति । १. द्वितीयं प्रश्नं समाधातुमाह ।। ६. अत्रात्मासिद्धिग्रन्थेपि ग्रन्थान्तरवद्विनष्ट श्व भागोऽधिकः, प्रतिज्ञातबहर्थप्रथमाशैकदेशगोचरत्वादुपलभ्यमानस्येति ॥ श्रीगुरुभ्यो नमः 26 || श्रीः ।। श्री भगवद्यामुनमुनये नमः ई श्व र सिद्धि: , तंत्र कस्यचिदेकस्य वशे विश्व प्रवर्तने । इति साधयितुं पूर्व पूर्वपक्षं प्रचक्ष्महे ॥ १ ॥ तत्र मीमांसकाः प्राहुः - नायं सर्वार्थदर्शनशक्तिसंपन्नः पुरुषो- ऽभ्युपगममहति; अतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वात् : ॥ श्रीः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः गूढ ५ का श: १. अयं ग्रन्थ आत्मचिन्ताग्रन्थादर्वाचीनः, न संवित्सिद्धिवप्राचीनः, अत्र 'देहान्तरप्रापक उपपादितमात्मचिन्ताया ' मिति वक्ष्यमाणत्वात् । अ- त्रात्मसिद्धावित्यनुक्तः आत्मचिन्तायामित्युक्तिरस्य ग्रन्थस्यात्मसिध्धन्तर्गतत्वपक्ष- मुपष्टम्नातीव । निर्विवादपारम्परिकप्रसिद्धिप्रामाण्यात्त्वयं ततोऽन्य एव ग्रन्थः । करिष्यमाणेतदीश्वरसिद्धिग्रन्थविवक्षितार्थस्येत एव द्रष्टव्यतामुपदिश्याभिसंधाय वाऽन्यांशमात्रचिन्तनेन तं ग्रन्थं समाप्य संगृहीतांशविशेषविस्तरायायं ग्रन्थ इति पक्षान्तरञ्च प्रागेवावाचि । मन्ये इष्टसिद्धिनैष्कर्म्यसिद्धि ब्रह्मसिद्धिरूपप्राक्तनाद्वैत- ग्रन्थत्रयप्रतिभटभूतमिदं सिद्धित्रयमिति । आस्तामेतत् । अत्र मङ्गलश्लोकाभावात् अथेत्यादिपदं विना तत्रेतिप्रयोगाच्चैतद्ग्रन्थोपक्रमभागोपि कश्चिन्नष्टस्स्यात् । अब 'पूर्वपक्षं प्रचश्मह' इत्यपक्रान्तपूर्वपक्षसमाप्तिः अत्रम इति कारिकातःप्रागेव चेत् इश्वरस्यानुमानिकावं सिद्धान्तितं भवेत् । श्रीभाष्यशास्त्रयोनिवाधिकरणे त्वयमी- श्वरसिद्धिप्रन्थभागस्पष्टमक्षरशोपि पूर्वपक्षमध्ये निक्षिप्त इति, तत्रत्यसिद्धान्तग्रन्यो- प्यतीत्सद्धान्तभागसंग्रह इत्यवसीयते । अत्रापि मीमांसकेन, 'तत्खल्वनुमानमागमः वे' यागमोपि विकल्पमध्ये प्रवेशितः । नच , ' अत्रब्रूम' इत्यतः प्राक्तदुपपाद. नमस्ति । अतः प्रथम सर्वप्रमाणविरहप्रतिज्ञापूर्वकं मीमांसकेन प्रत्यक्षस्यासाधन- मीमांसकपूर्वपक्षः १.७ स्फुटविविधबाधकत्वाच्च । तथाहि-अस्य प्रत्यक्षमन्यद्वा साधकं भवेत् ; प्रत्यक्षमपि लौकिकं यौगिकं वा । (लौक्रिकप्रत्यक्षस्येश्वरासाधकत्वम् ) व्यवस्थितमित्तस्वार्थं न तावदिह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ॥ २ ॥ सर्वार्थदर्शनशक्तिशालिनमवगमयन्तो(तो, (ता?) हि देशकालस्व- भावविप्रकर्षव्यवधानजुषस्सर्व एवार्थास्तदर्शनं शक्तिश्च गोचरयितव्या. नि। न च विद्यमानेन्द्रियसनिकर्षयोग्य कतिपय विषयनियतहनेलौकि कप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि । ( योगिप्रत्यक्षसामान्यस्यासाधकत्वम् । नापि योगिप्रत्यक्षमस्य साधकम् ; यतः प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव (वा न ) प्रत्यक्ष प्रतिभादिवत् ॥ ३ ॥ तत्खलु योगिविज्ञानमैन्द्रियकं न वा । ऐन्द्रियकमपि वहिरिन्द्रि- यसंभवमान्तरकरणजनितं वा । बहिरिन्द्रियाणि तावत् समधिगतनिज. विषयसन्निकर्षसहकारीणि तगोचरज्ञानजननानीति जगति विदितम् । बोक्तिः, तार्किकेणानुमानप्रस्तावः, मीमांसकेन तदूषणम् , पुनस्तार्किकेण अत्र ब्रूम इति तत्प्रतिविधानम् , भूयो मीमांसकादिना तन्निरास आगमनिरासश्च, अधागमप्रामाण्यग्रन्थवदिहापि श्रौतीमीश्वरसिद्धिमादृत्यानुमानप्रत्यक्षयोः पश्चादव- सरवर्णनमिति रीतिर्विभाव्यते । प्राभाकारा अपीश्वरानुमानिकतामेव निराकुर्वन्ति । उक्तञ्च प्रभाकरविजये, आनुमानिकत्वमेवेश्वरस्य निराकृतम्....तत्समर्थनञ्च वेदा- न्तमीमांसाया' मिति तथा नयविवेकेऽपि। १. बहुव्रीहिः । २. कतिपयस्वयो- ग्यार्थमात्रनियतम् । ३. देशादीनां विप्रकर्षः । स्वभावविप्रकर्षो मिथोविरोधः । ४. विद्यमानस्सन्निकर्षों येषामिति बहुव्रीहिः । ५. अतोऽसर्वग्राहित्वान्न सर्वज्ञत्व- विशिष्टग्राहीति ! ६.इन्द्रियलिङ्गादिप्रसिद्ध कारणाभावेऽप्यर्थविशेषस्य कारणविशे- षात्प्रतिनियतं भानं प्रतिभा । अत्र 'प्रतिभाति हि', 'प्रतिभाति यत्' इत्यपि पाठः । योगिप्रत्यक्षातिरिक्ततया आर्ष प्रातिभं ज्ञानं प्रशस्तपादभाष्ये भाषितम् | ७. सहकारिपदान्तं सर्वमत्र बहुव्रीहिवृत्तम् ।
१०८ ईश्वरसिद्धौ - यत् यत्सहकारि अतो न रसनादिभिरजातातिवृत्तव्यवहितादिसकलविषयवेदनप्रसंगः। न चाविद्यमानै रजताभिस्संभवति सन्निकर्षः; तस्य द्याश्रयत्वादा- श्रयाभावे तदसंभवात् । अतः अपेक्षितीर्थसन्निकर्षः सहकारिविरहे ( अपेक्षितार्थसन्निकर्षसहकारिविरहे ? ) कथमिन्द्रियाण्यतीतादिवि- षयसाक्षात्काराय कल्पेरन् ? भवति च यत्कार्यजननं, तत् तदभावे न तज्जनयति; यथा क्षिति- सलिलसहकारि अङ्कुरकार्यजननबीजं क्षित्याद्यभावेऽङ्कुरम् । अ. र्थसन्निकर्षसहकारीणि वहिरिन्द्रियाणि ज्ञान जननानीति तान्यपि नाती- तेऽनागते वाऽर्थे ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविष- यनियममतिकामति । नाप्यान्तरकरणसंभवम् , आन्तरगोचर एव सु. खादौ स्वान्तस्वातन्त्र्यात् । बाह्यविषयमितिषु च मनसो निरंकुशकरण- ताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो बधिरो वा भ- वेत । भवति चात्र - विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न वाह्यप्रत्य- क्षगोचरे प्रवतेते, तत्र तत्तन्त्रत्तित्वात् । यत् यत्र यत्तन्त्रवृत्ति, न तत् तनिरपेक्षं तत्र प्रवर्तते, यथाऽऽलोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे अन्ध- तमस इति । (सिद्धिसंस्कृतस्याप्यक्षस्यासाधकत्वम् ) न च सिद्धौषधमन्त्रतपस्समाधिमहिमसमासादितातिशयानीन्द्रि- याणि कदाचिदपजहति समधिगतविषयनियममिति संभवति; सांसि- द्धिकसामर्थ्याविर्भावैकफलत्वात्तेषाम् ; सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावग- माय कल्पते । भवति च-विवादाध्यासितबाह्याभ्यन्तरकरणपाटवाति- शयोऽनुल्लखितसीमा ऐन्द्रियकपकर्षत्वात् दृश्यमानतत्मकर्षवत् । इत्यन्द्रि- यकं ज्ञानं नातीतादि गोचरयति । (भ्यानजप्रत्यक्षस्यासाधकत्वम् ) भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनि सित्वे प्राच्यानु- भवगोचरादनधिकमधिकं वाऽध्यवस्यतः स्मृतिविभ्रमस्रोतसोरन्यतरा- १. स्वविषये घटादौ । २. न च संभवतीत्यन्वयः । तमात्रगोचरत्वे स्मृतित्वम् ; अधिकगोचरत्वे च विभ्रमत्वमिति प्रामाण्यस्यवाभोव ३. अनुभू.
: प्रत्यक्षं प्रमाणम् । मीमांसकपूर्वपक्षः १.९ चर्तपरिवर्तिनः कुतः प्रामाण्य कूलपनिलम्भः ; कुनस्तराश्च प्रत्यक्षतयो- त्तम्भनम् ; प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः अतिक्रामतो वा कुतः प्रत्यक्षत्वमिति न विश्वानुभवैश्वर्यशालिनि (प्रत्यक्षातिरिक्तस्याप्यसाधकवम्) नापि प्रमाणान्तरम् । तत्खल्वनुमानमागमो वा ! अनुमानमपि वि- शेषतादृष्टं सामान्यतोदृष्टं वा तत्र सकलपदवीदवीयसि भगवति न ता- वत् स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिद(दा- घ?) मनुमानमुदेतुमलम् । नयनवगनचरहुतभुजस्तदविनाभावितया धूम- मनुसंधातुमीशते। न च सर्वार्थनिर्माणमाक्षात्कारपटीयसि लिङ्गं सा- मान्यतोदृष्टमपि किंचन लभ्यते ॥ तार्किकवादः) नन्वेकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनारब्धत्वादरोगस्वशरीरवत् ॥ ४ ॥ तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् । कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ।। ५ । सर्व हि कार्यमुपादानोपकरणसंपदानप्रयोजनसंवैदिचेतनगचि- तमवगतं घटमणिकगृहादि । कार्यश्च विमतिपदमवनिगिरिमहार्णवादीति तदपि तथाविधवुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम् – अवयवसनिवेशादिभिर्हे तुभिस्तत्सिद्धेः । इह चान्त्यावयवि. भ्यः प्रभृति आद्यणुकमखिलमवयवि क्रमनिहीयमाननानावयवव्यति. षङ्गविशेषजनितमवगतमिति अन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरिस्पन्दश्च तदनुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयो- तदवान्तरप्रत्यक्षप्रमाणत्वं कथमिति । १. सिसाधयिषितव्यक्तिगोचर (प्राक्कालिक) साक्षात्कारेत्यर्थः । २. निर्माणे साक्षात्कारे च ! सामान्यतोदृष्टं हि व्याप्तिग्रहो- पयुक्तदृष्टान्तगतव्यक्तयनुगतसामान्याकारमात्रेण वस्तु साधयेत् । न त्वभिमतं सर्वविलक्षणाकारविशिष्टकर्तारमिति । ३. अवयवीति जनितमिति च दृष्टान्ते हेतुसाध्यान्वयप्रदर्शनम् । ४. व्यणुकादिकं त्वान्तसलिकमुपादानम् । 27 ईश्वरसिद्धौ गासमवायिकारणक इति उपकरणमपि समस्तक्षेत्रज्ञवर्तीनि धर्मा- धर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्तदभिनिवर्तितविचित्रार्थक्रिया- ऽऽकारश्चेतनोपकारप्रकारभेदोऽपर्यन्तः । तदुपभुजस्त एव क्षेत्रज्ञास्संभ- दानम् । नचामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तद- तिरेकी निखिलभुवननिर्माणनिपुणोऽधिकरणसिद्धान्तसमधिगतनिरति. शयसहजसकलविषयसंविदैश्वर्यशक्तयतिशयः पुरुषधौरेयकः (रेय एकः ?) किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ? ( मीमांसकेन तार्किकदूषणम्) तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमांसकाः। तथाहि - किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तेनु (१) भुव- नादेः? तदायत्चत्वमिति चेन् - किमस्य तस्मिन्नायत्तं किन्नु जन्माथ वा स्थितिः । प्रवृत्तिर्वाऽऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ॥ ६ ॥ न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यहाधीन- सुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपिच शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषाहते न चेतयि- १. अर्थक्रिया कार्यमिति यावत् । २. 'यत्सिद्धावन्यप्रकरणसिद्धिस्सोऽधि- करणसिद्धान्त:' (न्यायद० १-१-३०)। 'यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते; न तर्विना सोऽर्थस्सिध्यति; तेऽर्थाः यदधिष्ठानाः; सोऽधिकरणसि- द्धान्त ' इति भाष्यम् । न हि सहजसार्वयाभावे सर्वपक्षीकारेण प्रवृत्तं सिध्य- तीति । इदमेवानुमानस्थले पक्षधर्मताबलमित्युच्यते । यदाह 'पक्षधर्मतयाऽधि. करणसिद्धान्तापरपर्यायये ' ति (नयवि० पु. १८१)। ३. 'तरुभुवनादिकं सर्व सावयवमवसीयते । यच्च नाम सावयवं तत् अवयवव्यतिषङ्गबलसमासादि- तात्मलाभ ' मिति पञ्चिका (७.प्र.)। अत्रापि ग्रन्थे श्रीभाष्ये चेह सर्वत्र तनु- मीमांसकपूर्वपक्षः तारं परमपेक्षते । या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ संभवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायि- नीमुदीक्षामहे । एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्न- प्रचाल्यैरुपलतरुरथादिभिर्व्यभिचारः। आरब्धत्वादेव चैतत्साध्यसि- द्धावधिकमिदमुपादानविशेषवचनम् । (सिद्धसाधनवचनम् ) चेतनाधीनतामात्रसाधनं सिद्धसाध्यता! चेतनर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ॥७॥ युक्तञ्चैतत् , यत्- उभयवादिसिद्धानामेव चेतनानां कर्तत्वा- भ्युपगमः; लाघवान् । नचोपादानाधनभिज्ञतया तत्प्रतिक्षेपः । उपादानं पृथिव्यादि यागदानादि साधनम् । साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ।। ८ ।। अद्यवदेव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचयैकदेशशा- लिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसा- क्षात्कारो न कर्तृभावोपयोगी । कर्मणशक्तिरूपं यदपूर्वादिपदास्पदम् । मा भूत्रत्यक्षता तस्य शक्तिमद्धयक्षगोचरः ॥९॥ न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोप. करणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्चदारभन्ते । यदिपरं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारोऽनुपप- नः । इह तु - आगमादवगम्यन्ते विचित्राः कर्मशक्तयः । तेन कर्मभिरात्मानः सर्व निर्मिमतां पृथक् ॥ १० ॥ शब्दस्तरुशब्दो वेति विमृश्यम् ! १. हेतुकोटावचेतनरूपोपादानविशेषोक्तिर्व्य- थेति व्याप्यत्वासिद्धिमाह। २. उपलादौ व्यभिचारपरिहाराय एकत्यंशत्यागे । ३. इतीति शेषः । ४. न तु परमाणवः । न कदाचिदनीदृशं जगदिति पृथि- व्यादेस्सदा स्थितेः; सृष्टिप्रलयविषये बाधकसत्त्वान्मानाभावाच्च (न्या.कु. २-स्त)। ५. शक्तिमद्वस्तु अक्षगोचरोहि। तदलमिति । ६. परन्तु । ७. निर्मान्तु।
११२ ईश्वरसिद्धी ( शक्यक्रियत्वाद्युपाधिवचनम् ) अपिच तदेव चेतनककं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीधरमहार्णवादीति कथमिव तत् तत्कार्यत्वम् । र्यम् ?); कथन्नराश्च तदुपादानोपकरणादेस्साक्षा- कारगोचरता? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणि- कादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवतीति । ( हेतोविन्द्धत्वम्) अपिचानीश्वरेण परिमिनशक्तिज्ञानेन विग्रहवताऽनवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं वोद्धारमुपस्थापयन् हेतुरभि मतपुरुषसार्वत्यसर्वेश्वर्यादिविपर्ययसाधनाविरुद्धस्स्यात् । नचैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्गशङ्कितव्यः । प्रमाणान्तरगोचरे हि लि. ङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्पमाणमेव प्रतिरुणद्धि । इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिसाधयि- षिते यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास्तानप्यवि- शेषेणोपस्थापयति । ( सत्प्रतिपक्षितत्वम्) अपिचं - स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः । ईश्वरस्योभयाभावाजगत्सर्गो न युज्यते ॥ ११ ॥ अवाप्तकामत्वान्न तावदात्मार्थे सृजति ; प्रलयसमये प्रलीनस- कलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावात् दु:- खिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्यनि- तेव्योप्यभूतया प्रेक्षावत्प्रवृत्यापि निवर्तितव्यम् । सुखैकतानं जनयेज्जगत् करुणया सृजन् । तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥ १२ ॥ { अनेकान्तत्वम्) नै चोपादानादिसाक्षात्कारिण एव कर्तृत्वमित्यपि नियमः; १. कार्यत्वमिति पाठे अनुभवेदित्येवं क्रियापदं स्थितं स्यात् । २. जगन्न प्रेक्षावत्कर्तृकं स्वप्रयोजन कारुण्यान्यतराप्रयोज्यत्वादिति सत्प्रतिपक्षमाह । ३. न हि ज्ञानसुखादिकं . मीमांसकपूर्वपक्षः उपादानमुपकरणञ्चाविदुष एवात्मनो ज्ञानादिषु कर्तृत्वात् । ( मीमांसकमतोपसंहारः) अत:-असिद्धत्वाविरुद्धत्वादनकान्त्याच्च वर्णितात् । कार्यत्वहेतोर्जगतो न यथोदितकर्तृता (?) ॥ १३ ॥ प्रयोगश्च भवति-महीमहीधरादि कार्य न भवति, प्रसिद्धकार्यवि- लक्षणत्वात् गगनवत् ; अशक्यदर्शनोपादानापकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवो न प्रत्यक्षाः निरतिशयमक्ष्मद्रव्यत्वात् , तथैव घटादिवत् । विमतिविषयः कालो न लोकशून्यः कालत्वात् इदानी- न्तनकालवत् । तनुभुवनादि ईश्वरककं न भवति कार्यत्वात्तदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति ।। (तार्किकसमाधानम् ) अत्रै बूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् । सभागत्वात् क्रियावत्वान्महत्वेनं विशेषितात् ॥ १४ ॥ नादृशादेव मृतत्वात् वाहप्रत्यक्षताऽन्वितान् । ससामान्यविशेषत्वादित्यादिभ्यो घटादिवत् ॥ १५ ॥ कुत्रोत्पद्यते, उपकरणञ्च किमिति विविच्य पश्चादज्ञानादिसंपादने यतन्ते । १. अनेन स्वरूपासिद्धिर्विशिष्टसाध्यासिद्धिश्चोक्ते । एतदुपपादनं प्रयोगश्चे- यादिना । २. यथोदितं कर्तृत्वं न जगन्निरूपितमित्यर्थः । अतोऽबहुव्रीहि- न ' भघृतश्चे ' ति कप् । यथोदितकर्तृके ति वा पाठः । ३. मीमांसकप्रत्युक्तिं तार्किकः प्रतिक्षिपन्नानुमानिकत्वं समर्थ- यते ॥ पञ्चिकान्यायग्रन्थागमप्रामाण्येपिवात्रापि कार्यत्वमुत्यत्तिमत्त्वम् । तस्यैवा- ऽऽदितस्साधनदूषणयोः प्रवृत्तत्वाच्च । श्रुतप्रकाशिकाकृतश्रीभाष्ययोजनान्तर- रीत्येह कृतिसाध्यत्वरूपकार्यत्वपरतापि सावयवत्वेन कृति- साध्यत्वानुमानं न्यायरत्नाकरे। सावयवत्वेनोत्पत्तिमत्त्वाद्यनुमाय ततस्तदनुमान. ५. महत्त्वे सति क्रियावत्त्वात् । ६. महत्त्व सति मूर्तत्वात् । ७. बहिरिन्द्रियजप्रत्यक्षविषयत्वे मति सामान्यविशेषवत्त्वात् । सामान्यविशेषपदं व्याप्यजात्यर्थकं प्राचीनप्रसिद्धम् । तन्मात्रोको मनसि व्यभि- तया । जगती न भाव्या मन्यत्र । ४, सावयवत्वात् । 28 ईश्वरसिद्धो नचंदृश एव सन्निवेशः कार्यः, नेतर इत्यवयवसन्निवेशविशेष- प्रतिनियतं रूपभेदमुदीक्षामहे । { पूर्वोक्तोपाधिनिरासः ) यनु - शक्यक्रियं शक्यज्ञानोपादानोएकरणञ्च क्रियत इति - तदस्तु नाम । किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिग- मनीये; ते च क्षित्यादिषु यथोक्तसाधनवलसमुपस्थापिते इति न दि. वर्षः प्रसिद्धप्राकारगोपुरादिकार्येभ्यस्तनुभुवनादेः । नचैतावानेव क्रि- थागोचर इति विषयनियमः कश्चित् क्रियाया दृष्टः; येनेदमशक्यक्रिय- मध्यवस्येम । सिद्ध च कार्यत्वे तदुपादानादिसाक्षात्करण तदधिष्ठान- तत्प्रेरणनिपुणः पुरुषविशेषरिसध्यत्येव । चारात्सत्यन्तम् । आनि व्यभिचारादायनि । सामान्यादावपि भावपदाः मदितिव्यवहाराद्यथाकथञ्चित्सत्तारूपसामान्याधारत्वसत्त्वाद्वयभिचाराद्विशेषेति । न खलु तत्र सदितिव्यवहारवत द्रव्यमितिव्यवहारोस्ति, येन विशेषाधारत्वमपि तत्र शक्यतेति । सामान्यादी जात्यतिरिक्त यत्किञ्चिद्विशेषसत्त्वात्स एव दोष इति जातिरूपविशेषग्रहणाय सामान्येति । विशेषो नाम व्यावृत्तो धर्मः । १.घटादौ व्यवस्थितं क्षित्यादिव्यावृत्तम् । २. ननु पक्षे सिध्यतु हेतुः, चेतनकर्तृकत्वे माध्ये पूर्व शक्यक्रियत्वादिरुपाधिरक्त इत्यसिध्द्यन्तरमस्तीत्यत्राह यविति । क्रियते कृत्या साध्यते । ३. कर्तुं शक्यत्वं ज्ञातुं शक्यत्वञ्च | ते च क्रिया- ज्ञाने च । तत्साधकहेतोस्सुतरां तद्व्यापकसाधव साध्यतुल्यत्वानोपाधि- स्वम् । साध्यं हि हेतुना साध्यमानं स्वव्यापकक्रोडीकारेणैव सिध्द्यतीति । नचै- वमयोगोलके धूमसाधने आन्धनसंयोगस्यापि नोपाधित्वम् ; मानान्तरेण तद्बर- धनिश्चयेन विशेषादिति भावः । ४. अशक्यक्रियवादिरूपो विशेषो न । ५. अत्र उपाधिदोषस्य सर्वथैवायोगात्कार्यत्वस्वरूपासिद्धिदोष एव चिन्तनीयः। स च वारित एवेति कार्यकरमेवानुमानम् । क्षित्यादेरपि कार्यतया परमाणुपर्यन्तो. पादानसिद्धौ तत्साक्षात्कारस्यास्मदाद्यवृत्तेस्साधनादित्याह सिद्ध इति । पूर्वोक्तं चेतनाधीनत्वस्वरूपविकल्पदूषणमपि न स्थास्यति, चेतनाधीनत्वस्य चेतनादि- ष्ठितप्रेरितोपादानादिजन्यत्वरूपत्वादिति दर्शयितुं तदधिष्ठानेत्याद्युक्तम् । कत्वमिति तार्किकसमाधानम् ११५ ( उक्ताधिष्टानादिस्वरूपशोधनम् ) अधिष्ठानञ्च तत्मवृत्त्यनुगुणसंकल्पवदीश्वरसन्निकर्षः, क्षेत्रज्ञेनेव स्वशरीरादौ। स च द्रव्येस्संयोगलक्षणः, नद्गुणैस्तु संयुक्तसमवायरूपः। प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा । धर्माधर्मयोस्तु फलोदयानुकूल- ता (?) दृशदेशकालादिसहकारिसहितता ?) ताभ्यां धर्माधर्माभ्या- मेव फलम् , चेतनानधिष्ठिनानां सर्वेषामतेषांमचैतन्येनाकिञ्चित्कर- स्वात् । न हि चेतनेन वर्धाकनाऽनधिष्ठिता वासी देशकालादिसहकारि- शतसमधिगमेपि यूपादीन्यापादयितुमलम् । बीजाङ्कुरादयस्तु पक्षा- १. धर्मधर्मयोः प्रवृत्तिःफलाभिमुख्यम् ; तच्च निरुच्यमानरूपम् । तादृशेति चेतनाधिष्ठितेत्यर्थकम् । ताभ्याम् उक्तरूपेण स्वसाक्षात्कारिचेतनाधिष्ठिताभ्याम् । ताभ्यामित्यत्र 'नाभ्या' मिति स्यान्न वेति चिन्त्यम् ! वस्तुतोऽत्र पाठरीतिर्विमृश्या । तादृशतादृशदेशेति कचित्पाटः । सर्वत्र शब्द प्रक्षेपबहुले कोशे, 'धर्माधर्मयोः फलो- दयानुकुलता सा च तादृशदेशकालादिसहकारिसमवहितता । ताभ्यां धर्माधर्माभ्या- मेव फलं चेतनाधिष्टिताभ्याम् ; सर्वेषामतेषा ' मित्येवमस्ति । प्रकृतग्रन्थखण्ड्यः पञ्चिकाग्रन्थस्त्वेवम् , ' प्रवृत्तिरपि कीदृशी? .... फलदानमिति चेन्न- देशका- लावस्थादिसहकारिसहिताभ्यामेव फलम् । न चेतनव्यापारापेक्ष' मिति । एतदर्थ- परं किञ्चेत्यादिभाष्यम् । २. धर्माधर्मदेशकालादीनाम् !! ननूपर्यचेतनत्वहे . तुना चेतनाधिष्ठितत्वं सर्वेषां पृथग्वक्ष्यत इति किमिति कार्यत्वहेतुप्रस्तावमध्ये तदुक्तिः । किञ्चोपकरणपदेन धर्माधर्मग्रहणे तयोः कुलालाधनाधिष्ठितत्वादृष्टान्ते साध्यपैकल्यम् । उच्यते - साध्यकोटौ सामान्यत उपकरणेत्येव निवेशादृष्टान्ते पक्षे तु धर्मादिकमपि सुग्रहमिति गमयितुं पृथग्वक्ष्यमाणा. नुमानसिद्धार्थस्यैवेह प्रतिबोधनमिति । ३. बीजेत्यादि सिद्धरित्यन्त वाक्यजातं प्रधानप्रकृतकार्यत्वहेतुकप्रयोगविषयकं संभवानुरोधादवान्तर प्रकृ. ताचेतनत्वहेतुकगोचरमपीभ्यते । तथाच प्राङ्गणनिकटवर्तिदृर्वाङ्कुरादिषनवसि- तपुरुषव्यापारजन्मस्वनेकान्तः इति अकृष्टजातवस्त्वभिप्रायमागमप्रामाण्यम् । अचेतनत्वहेतुः कार्यत्वहेतुश्च न बीजेऽङ्कुरे च व्यभिचरितः; तस्यापि पक्षत्वा- यथासंभवं ग्रहणम् ।
ईश्वरसिद्धौ -- मनसः . दृष्टं हि दण्डचकादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्ये. त - तदपि न - अभिध्यानमात्रेणेव परशरीरगतगरनिरसन विसारण- दर्शनात्।।कथमसति शरीरं परप्रेरणात्मकस्संकल्प इति चेत्-किं शरीरं संकल्पयति, येन तदभावे न भवेत् ।। करणमिति चेन्न करणत्वात् । किमस्तीश्वरस्य मनः १ वाढम् । नन्वेवं विग्रहधर्मा- धर्मानेश्वर्यादयः साधारणधर्माः प्रादुःष्युः - मैवम् ; कार्यत्वाक्षिप्त- समर्थकर्तृमत्वाइटिम्नवापास्तत्वात् । मनसो नित्येन्द्रियतया देहापगमे. ऽपि संवन्धाभ्युपंगमादनैकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्त्युप- योगि, तावदनुज्ञायते । नचास्मदादेमनसाऽप्यचिन्त्यरचनस्यापर्यन्त- विस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किंचिज्ज्ञः पु. ग्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानेश्वर्यशक्तिशरीराधन- पेक्षः संकल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः । ( दृष्टान्तदृष्टवैषम्यायोगशङ्कापरिहारः ) ईदृशंन कर्ता घटादिषु कार्यत्वस्य संबन्धो न दृष्ट इति चेन्- अति- गहनगिरितटाधिष्ठानेनानिमकृष्टादृष्टचरेन्धननिवहसंबन्धिना हुतवह- विशेषेण महानसादो धूमस्य वा किं संबन्धो दृष्टः, येन धूमविशेषदर्श- नाद् गिरिशिखरे तथाविधाग्निरनुमीयते ॥ यादृशो धूमो यत्रावगतस्त. त्रैव तादृशस्तत्संपादनसमर्थो दृष्टान्तभूमावपरिदृष्टोऽपि सामान्यव्याप्ति- वलेन पक्षधर्मतावशासिध्यतीति चेत् - तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिरोहति भवताम् । इहापि कार्यत्वं समर्थकर्तृपूर्व- कत्वेन घटादिषु विदितसंबन्धनियमं क्षित्यादिपु दृश्यमानं स्वसंपादन- समर्थमदृष्टपूर्वमेव बुद्धिमत्कारमुपस्थापयति । यथैव हि देशकालेन्धन- १. समनस्कत्व। २.विग्रहादिसापेक्षवेऽसामर्थ्यमेव स्यात् , न पक्षीकृत सर्व- निर्माणसामर्थ्यमिति । इदं यावद्धीत्यादिना वित्रियते । कचित् समर्थकर्तृ.... ढिम्नेति दर्शनात् समर्थकर्तृमत्त्वार्थद्रढिम्नेति पाठ ऊह्यते । ३. मीमांसको मुक्तस्यापि मनोऽभ्युपगच्छति ।
तार्किकसमाधानम् ११९ परिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण संव. धनियमः, तथैवानीश्वरत्वकिंचिद्ज्ञवशरीरित्वपुण्य पापपरवशत्वमनु- ध्यत्वादिविशेषप्रहाणेन कार्यस्य स्वनिर्माणसमर्थबुद्धिमत्कमात्रेण संबन्धनियमनिश्चय इति न कश्चिद्विशेषः । (कर्नन्तरवैलक्षण्यस्यानेकदृष्टान्तमुखेन स्थिरीकरणम्) अपिच विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वा- व्यभिचारे पि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ? कथश्च वायवीयद्रव्यस्य महिमगुण- शालिनो 'नियताधिष्ठानस्पार्शनत्वनियमदर्शनेऽपि त्वगिन्द्रिये तद्विप- ययः, तैजसस्य वा रूपस्पर्शयोः, अन्यतरस्य वा प्राकटयनियमऽपि रूपोपलम्भसाधनतानुमिततेजसभावस्य चक्षुषो नियमेन नदुभयानु- द्भवाभ्युपगमः १ अथ कार्यदर्शनानुमितसद्भावानां तेजसादिभावेऽपि तत्तद्विशेषाणां योग्यानुपलब्धिबाधितत्वात् तदभ्युपगमेऽनेकनियम भङ्गमसङ्गाच्च तथाऽभ्युपगमः, हन्त तर्हि प्रकृतविषयेऽपि प्रसञ्जितधर्म- विशेषाणामनुपलम्भवाधाविशेषात् * अनेकनियमदर्शनविघातप्रसङ्गाच्च १. ज्ञानादिना नित्यद्रव्यायेन विशेषगुणेनानुमिता य आत्मसंयोगोऽसमबा- यिकारणमूतः, तद्वतः । २. नियताधिष्ठानेतिच्छेदे नियताधिष्ठानस्यासाधा- रणस्य स्पर्शस्येत्यर्थस्स्यात् । अनियताधिष्ठानेतिच्छेद नियतशरीराधिष्ठानातीन्द्रि- यत्वगिन्द्रियवैलक्षण्येन तदन्यवायुद्रव्यसामान्यस्य सदागतेरधिष्टानानियमः स्पार्श- नवनियमश्चीच्यत इति स्यात् । ३.तैजसगतरूपस्पर्शयोः प्राकटयमग्न्यादौ; अन्य- तरप्राकटयं रत्नप्रभाकापालपावकादौ । ४.ईश्वरस्य विग्रहवत्त्वमनुपलब्ध्या बाध्यते । * एतदारभ्य स्थितं पाठान्तरं 'बाधितत्वा' दित्यनन्तरपाठान्तरत्वेन तत्रतत्र मुद्रितम् । तत्तु मद्रनगर राजकीयकोशालयस्थे डि. १५२८४ कोशे दृश्यते । स तु कोश आदितः प्रभृति श्रान्तमनेकपदवाक्यप्रक्षेपबहुलोऽशुद्धश्चेति, तदीय- विलक्षणपाठस्यात्र परं प्रदर्शनं व्यर्थमिति चात्र पुस्तके तन्मुद्रणमुपेक्षितम् ।।
१२. तथाऽभ्युपगम इति सर्व समानमन्यत्राभिनिवेशात् ।। (ईश्वरसाधकानि अचेतनत्वादीन्यनुमानान्तराणि ) दृश्यन्ते हि नीत (नियत ) यः। यथा विवादास्पदं परमाण्वा- दि प्रेक्षावत्प्रेरित चेष्टते अचेतनत्वात् । यदचेतनं तत्तथा; यथा तथा- विधं कन्दुकादि । तथा – विवादाध्यासिता वाह्याभ्यन्तरप्रवृत्तयः प्रकृत्युपकरणप्रत्यक्षपूर्षिकाः कार्यत्वात्तद्वदेव । प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् । एकेच्छानुविधायीदम (मा) चैतन्यात्स्वदेहवत् ॥१६॥ एकेनाधिष्ठिताः कार्य कुर्वते सर्वचेतनाः । देहसंबन्धसापेक्षकार्यकृत्वात् त्वगादिवत् ॥ १७ ॥ एकप्रधानपुरुषं विवादाध्यासितं जगत् । चेतनाचेतनात्मत्वादेकराजकदेशवत् ॥ १८ ॥ (इतःपरमीश्वरसिद्धिग्रन्थो नोपलभ्यते) श्रीभगवद्यामुनमुनये नमः । ॥ शुभमस्तु॥ १. तथेति पाठे तथा उक्तनीतिवत् अन्या अपि नीतयो दृश्यन्ते हीत्यर्थः । २. न्यायकुसुमाञ्जलावपि कार्यत्वानुमानानन्तरं । कार्यायोजने' तिकारिका. स्थाऽऽयोजनविवरणावसरेऽचेतनत्वहेतुकानुमानं द्वितीयमुक्तम् । श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रीगुरुभ्यो नमः ॥ श्रीः ।।
१२१ ॥श्रीः॥ श्रीभगवद्यामुनमुनये नमः सं वि सिद्धिः .... .... .... .... .... ( अद्वितीयश्रुत्यर्थ विचारः) एकमेवाद्वितीयं त (स? ) ब्रह्मेत्युपनिषद्वचः । ब्रह्मणोऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥ अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः । किं स्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ।। ॥ श्रीः ।। श्रीमते रङ्गरामानुजमहादेशिकाय नमः गूढ म का श: -09:0100- इयं संवित्सिद्धिस्सिद्धित्रये प्रथमा । अत्र च परमतसवित्स्वरूपादि विमृश्य स्वमतं स्थाप्यते । शतदूषण्याञ्च संविदद्वैतभङ्गवादे (३३) 'एकव संविदनेकज्ञातृज्ञेय- तदवच्छिन्नज्ञप्तिरूपेण विवर्तते ' इति नूनमेतद्ग्रन्थपूर्वपक्षपरमसारः प्रादर्शि । एवमेवोपक्रान्तः श्रीभाष्ये महापूर्वपक्षोपि सहसिद्धान्तः प्राय एतद्ग्रन्थशैलीमव- लम्ब्य स्यात् । 'प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधित' मित्यात्मासिद्धिवचनाचात्र मीमांसकादिमतशोधनमपि कृतं लक्ष्यते । अत्र- त्यास्साम्प्रतमनुपलभ्यमानाः काश्चित् कारिकाश्श्रुत्रप्रकाशिकायां दृश्यन्ते । यथा- यद्यप्रकाशमाना धीः कदाचिदवतिष्ठते । वटादाविव तत्रापि कल्पनीयं प्रकाशनम्, 'घटोऽयमिति विज्ञाने घटमात्र प्रकाशते । न वित्तिरिति युष्माकं गोष्टीषु ननु घुष्यते', 'अतीतेऽनागते चार्थे कथं प्राकट्यसंभवः । न हि धर्मिण्य सत्येव धर्मस्संभवमृच्छति', 'तदेवापश्यतां सर्वशून्यत्वाद्विभ्यतां सताम् । गतिस्स्वयंप्रका- शत्वाइते नान्योपलभ्यते ।' इति । एवं तत्त्वटीकायामपि । एवमत्रोपक्रमे मध्ये त्र भागो बहुर्नष्ट इति एतद्ग्रन्थ एवं व्यनक्ति | तथाह्यत्र वचनानि - 'व्याव- 30 १२२ संवित्सिद्धौ ( परमतेऽत्र तत्पुरुषायोगः) (2) पूर्वस्मिनुत्तरस्तावत्प्राधान्येन विवक्ष्यते । पदार्थस्तत्र तड्रम ततोऽन्यत् सदृशं तु वा ॥ तद्विरुद्धमथो वा स्यात् त्रिध्वप्यन्यन्न बाधते । अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥ विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा । ब्रह्म पामोति यस्मात्तद् द्वितीयेन विरुध्यते ॥ अतस्सप्रथमास्सर्वे तृतीयाद्या (ध ?) थैराशयः । हारिकसत्यत्वान्मृषात्वेप्यविरुद्धता । प्रत्यक्षादेरिति मतं प्रागेव समददुषम् ।। इति, मायाऽविद्याभेदं प्रस्तुत्य छ, 'क्षुब्रह्मविदामेतन्मतं प्रागेव दूषित' मिति, अन्यत्र च, ' भेदाभेद विकल्पस्तु यस्त्वया परिचोदितः'इति, ' सदसद्वपतिरेकोक्तिः पूर्व- मेव पराकृता' इति च । आत्मसिद्धिसंविदात्मवादस्थल इव बौद्धमतसहोपलम्भ. नियमादिप्रस्तावोऽप्यनेति, नीलाद्युपप्लवापेतस्वच्छचिन्मात्रसंततिरिति वच. नान्निश्चीयते । भेदस्य प्रत्यक्षाविषयत्वं ब्रह्मसिध्द्युक्तमभ्युपर्यनूध खण्डयते । तथा चान ज्ञातृज्ञेयादिभेदमृषात्वम् , एकाविद्यामायाविद्याभेदादिमतभेदः, प्रत्यक्षस्य व्या- वहारिकगोचरत्वेन वा भेदस्य प्रत्यक्षागोचरत्वाद्वाऽद्वैतागमाविरोधः, संवित्स्वयंप्र- काशत्वप्राकटयादि, संविदद्वैतस्य युक्तिभिरागमैश्च गम्यत्वमित्यादि बहु एतदनुसारिश्रीभाष्यमहापूर्वपक्षादाविव विचार्य सिद्धान्तस्स्थापित इत्यवगम्यते । उपलभ्यमानाश्च काश्चित्कारिकास्तत्रतत्रोपात्तास्सन्त्येव । तत्रतत्र शत. दूषणीमिमां संविसिद्धिञ्च सावधानं सेवमानानामेतद्ग्रन्थसंदर्भविस्तरभूतोऽय- मयं शतदूषणीभाग इति सुज्ञानम् । तदिदं बहुषु स्थलेषु दर्शयिष्यते । तत्रायमुप- लभ्यमानभागोपक्रमस्थोऽद्वितीयश्रुत्यर्थविचारः, 'स्वतस्सर्वजगत्सूते स्संवित्सिध्द्या- दिभिः स्फुटम् ! अद्वितीयपदोक्तयैव साधिता सविशेषता' इति संवित्सिद्धीति अन्धनिर्देशपूर्वकमेव शतदूषण्यामद्वितीयश्रुतिविसंवादवादे (५९) व्यस्तारि । १. तत्पुरुषपक्षे उत्तरपदार्थप्राधान्यम् । बहुव्रीहौ त्वन्यपदार्थप्राधान्यमिति। ननु द्वितीयभिन्नमित्याद्यर्थे नअर्थस्यैव प्राधान्यात्कथमुत्तरप्राधान्यमिति चेन्न-अब्राह्मण इत्यादौ भिन्नाद्यर्थलाभस्यार्थिकता; आरोपितब्राह्मणत्ववानिति च वाच्यार्थ इति वर्ण: यद्भिवैयाकरणैर्बहूपपत्तिपूर्वकमुत्तरप्राधान्यस्य नसमासे स्थापितत्वात् । २. तृती- - अद्वितीयश्रुत्यर्थः १२३ द्वितीयेन तथा स्पृष्ट्वा (ष्टाः?) (स्पष्ट्रा) स्वस्थास्तिष्ठन्त्यवाधिताः । ननु नब ब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् । द्वितीयग्रहणं यस्मात्सर्व स्यैवोपलक्षणम् ॥ नैवम् , निषेधो न ह्यस्माद् द्वितीयस्यावगम्यते । ततोऽन्यत्तद्विरुद्धं वा सदृशं वाऽत्र वक्ति सः ॥ द्वितीयं यस्य नैवा- स्ति तद्ब्रह्मेति विवक्षिते । सत्यादिलक्षणोक्तीनामपलक्षणता भवेत् ॥ अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे । स्वनिष्ठत्वानबर्थस्य न स्याद्ब्रह्मपदान्वयः ॥ द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् । विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ॥ ( बहुव्रीह्ययोगः ) (3) प्रसक्तं पूर्ववत्सर्व बहुव्रीही समस्यति । ब्रह्मणः प्रथमा (मो ? ) ये च तृतीयाद्या जगत्त्रये ॥ ब्रह्म प्रत्यद्वितीयत्वात् स्वस्थास्ति- यप्रथमादिकम् । १. तथा विरुद्धत्वेन स्पृष्टाः । अद्वितीयमित्यत्र विरुद्धवद्वारा द्वितीयस्यान्वयः । तत्राद्वितीयमिति प्रथमविवक्षायां पदार्थद्वयसि- द्विः । तृतीयचतुर्थादिविवक्षायां त्रयचतुष्टयादिसिद्धिः । ३. अस्य श्लोकस्य तत्पुरुषपक्षनिविष्टत्वादेवमर्थः - यस्य यत्प्रति द्वितीयं ना- स्ति । यदपेक्षया द्वितीयाभावोऽद्वितीयपदार्थस्तब्रह्मेत्युक्तौ अद्वितीयश्रुतिर्गुणतोपि सद्वितीयता इति सत्यादिवाक्यं लक्षणपरं न स्यादिति । ४. ब्रह्मणो द्वितीयाभावरूपत्वस्वीकारेण विशेषणत्वेपि प्रतियोग्यभावयोरेक- वायोगेन प्रतियोगिनो द्वितीयत्वे यदपेक्षया प्रकृताभावप्रतियोगि द्वितीयं तत् प्रथ. मम् ; अभावरूपं ब्रह्म तृतीयम् ! अभावापेक्षयैव प्रतियोगिनो द्वितीयत्वे च ब्रह्म प्रथममिति सिध्द्यतीत्यर्थः । तथाच लोके परमार्थस्यैव प्रतियोगित्वान्नैकमात्रसिद्धि- रिति भावः । अत्र प्राक्प्रध्वंसात्यन्तान्योन्याभावविकल्पेन ब्रह्मणोऽनित्यत्वं का- र्यत्वं, प्रपञ्चस्य तुच्छत्वम् , इष्टसिद्धिश्च; द्वितीयाभावस्य स्वप्रकाशत्वे द्विती- यस्य प्रतियोगिनोऽध्यसायोगश्चेति शतदूषण्याम् ५. ब्रह्मणो यत्प्रथम, ब्रह्म प्रति यानि तृतीयादीनि, तानि सर्वाणि ब्रह्मण्यबाधितानि । कुतः। तस्याद्विती- यत्वात् । द्वितीयमानरहितत्वादिति । तदुक्तम् -'प्रथमादिविधिकटाक्षेणे' ति। २. अभावः। न सहत १२४ संवित्तिदो ( ठन्त्यबाधिताः । किं तत्र बहुव्रीही समासे संश्रिते सति ।। वृत्यर्थस्य नवर्यस्य न पदार्थान्तरान्वयः । सत्या (त्य?) र्थान्तर सम्बन्धे षष्ठी यस्येति युज्यते ॥ द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् । असत्वात् ; नासद्ब्रह्म भवेद , नापि विशेषणम् ॥ तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः । स्वप्रमाणवलासिद्धः श्रुत्यौ चाप्यनुमोदितः॥ ( सिद्धान्ते अद्वितीयश्रुत्यर्थः) (4) तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयमुच्यते । द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ॥ समो वाऽभ्यधिको वाऽस्य यो द्वितीयस्तु गण्यते । यतोऽस्य विभवव्यूहकलामात्रमिदं जगत् ॥ द्वितीयवागा- स्पदतां प्रतिपद्येत तत् कथम् । यथा चोलनृपस्समाइद्वितीयोऽद्य (त्र) भूतले ॥ इति तत्तुल्गनृपतिनिवारणपरं वचः । न तु तद्धृत्यत- त्पुत्रकलत्रादिनिषेध (निवार) कम् ।। तथा सुरासुरनरब्रह्म ब्रह्माण्ड १. सर्वनिषेधाभिप्रायेण बहुव्रीही दोषमाह ॥ २. वृत्त्यर्थस्य वृत्यु- पस्थाप्यस्य, नवर्थस्य निषेधस्य द्वितीयाभावरूपस्य। तदुक्तम् - निषेधवत्त्वञ्च ब्रह्मण उपस्थापयन्त्यां वृत्तौ कथं निर्विशेषत्वसिद्धि ' रिति । ३. प्रकृतवाक्यस्थानशब्द कर्मकाण्ड सृष्टिश्रुत्यादिना। चश्रुत्यर्थापत्तिसमुच्चये । ४. 'अस्मत्पक्षे तु वृत्तिद्वयमपि सम्यक् । द्वितीयव्यतिरेकोक्तया सतस्स्यादप्र- गण्यता । द्वितीयशून्यतोक्तया च तत्समाननिषेधन' मिति श -द.। निमि- तान्तरनिषेधेन ब्रह्मणस्वतर्क्सवजगत्सूतित्वबोधकोऽद्वितीयशब्द इति भाष्यार्थ- स्य प्रकृतग्रन्थार्थसामरस्यमभिप्रेत्य च ' कारणपरत्वे च सति अद्वितीयपदस्य स्वतन्त्रभेदनिषेधपरत्वे प्राप्ते सति अविभक्तनामरूपताप्रतिपादकेनैकमितिपदेनो- पादानत्वस्य सिद्धत्वानिमित्तान्तरस्य बुद्धिस्थत्वाच्च निमित्तान्तररूपस्वतन्त्रवस्तु- निषेधपरमद्वितीयपद , मिति श्रु. प्र. जि. ; एवं शतदूषण्यपि । ५. अस्यैव राज्ञस्सभायां वादिनो विजित्य निजवैष्णवसिद्धान्तस्थापनादेते पर- माचार्या गार्हस्थ्ये 'आल वन्दार् ' इत्यभिनन्दनेनार्धराज्यप्रदानेन संमानिताः । ६. 'यथा शरीरजाति गुणवसनभूषणादि पुरुषेऽवस्थिते तत्रैक एव 'द्वितीय- .
यथा द्वितीयश्रुत्यर्थः १२५ कोटयः । क्लेशमविपाकायरस्पृष्टस्याखिलेशितुः ॥ ज्ञानादि पाइगुण्यनिधेचिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रप्स- विपुषः ॥ कः खल्वङ्गुलिभङ्गेन समुद्रान् सप्त संख्यया । गणयन् गणये दुर्मिफेनबुद्दविग्रुषः ॥ यधैक एवं सविता न द्वितीयो नभः- स्थले । इत्युक्तया न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ।। प्रधानसंख्येयसंख्यायां नैव गण्यते । संख्या पृथक्मती तत्र संख्ये- यान्यपदार्थवत् ॥ ( सिद्धान्ते श्रुत्यन्तरोपष्टम्भः) (5) तथा-'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' । इति ब्रुवञ्ज(ज?)गत्सर्वामित्वम्भावे न्यवेशयत । तथा—' एतावानस्य महिमा ततो ज्यायस्तरो हि सः', 'यत्रान्यन्न विजानाति स भूमा', 'उदरम- न्तरम् ॥ कुरुतेऽस्य भयं व्यक्त' मित्यादिश्रुतयः पराः । 'मेरोरि. वाणुर्यस्येदं ब्रह्माण्डमखिलं जगत् '॥ इत्यादिकास्समस्तस्य तदित्थं- भावतापराः । 'वाचारम्भणमानं तु जगत्स्थावरजङ्गमम् ।। विकारजातं; कूटस्थं मूलकारणमेव सत्। अनन्यन् कारणाकार्य पाव- काद्विस्फुलिंगवत् ॥ मृत्तिकालोहर्वाजादिनानादृष्टान्तविस्तरैः ।। 'नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् ।। न वायुश्चलितुं शक्तस्त- च्छक्तयाप्यायनादृते', 'एकप॑धानविज्ञानाद्विज्ञातमखिलं भवेत् ।। इत्यादिवेदवचन-तन्मूलातागमैरपि । ब्रह्मात्मनाऽऽत्मलाभोऽयं प्रप- श्रश्चिदचिन्मयः ॥ इति प्रमीयते ब्राह्मी विभूतिन निषिध्यते । तिष्ठति ....इति व्यपदिशन्ती'ति शतपणी (३६)। १. अविद्याऽस्मितारागद्वेषा- भिनिवेशाः क्लेशाः; कर्म पुण्यापुण्यरूपम् , तत्फलं विषाकः, आशयो वासना । २. अन्यतया स्थितापीत्यर्थः । अपृथक्सतीतिच्छेदे अपृथक्सिद्धत्वान्न गण्यत इत्यर्थः । ३. प्रकारतापराः । ४. विशिष्ट विशेष्यतयान्तर्गतत्वात्कारणत्वाच्च प्राधान्यम् । कारणदशायां चिदचिदीश्वरत्रयसत्त्वेप्येतन्मात्रनिर्देश ईदृशप्राधा- न्यात् । अन्यत्तु विशेषणं, कारणतावच्छेदकञ्चेति । ५. ब्रह्मरूपेणात्मनाऽन्त- 31 १२६ संवित्सिद्धौ । (प्रपञ्चनिषेधायोगः ) (6) तनिषेधे समस्तस्य मिथ्यात्वान् लोकवेदयोः ॥ व्यवहारास्तु लुप्येरन् तथा स्याब्रह्मधीरपि । 'व्यावहारिकसत्यत्वान्मृषात्वेऽप्यवि. रुद्धता। प्रत्यक्षादे' रिति मनं प्रागेव समदुषम् । अतश्वोपनिषज्जात- ब्रह्माद्वैतधिया जगत् ॥ न वाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् । (प्रपञ्चे सत्वासत्त्वसंकरविचारः) (7) ननु सत्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ॥ असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् । सदसत्वं तथैकस्य विरुद्धत्वाद- संभव ॥ सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसंगमे । तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ॥ सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिजानते । सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् ।। सदा सत्वं प्रपञ्चस्य सांख्यास्तु प्रतिपेदिरे । सदसत्प्रत्ययप्राप्त विरुद्धद्वन्द्वसंकटे ॥ विरो- धपरिहारार्थ सत्वासत्वांशभङ्गतः । सदसद्भयामनिर्वाच्यं प्रपञ्चं के. चिचिरे ॥ सत्त्वासन्वे विभग्गेन देशकालादिभेदतः। घटादेरिति मन्वाना व्यवस्थामपरे जगुः॥ तदेवं वादिसंमर्दात् संशये समुपस्थिते । निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥ घटस्वरूपे नास्तित्वमस्ति- त्वं यद्यबुधत् (न् ?) । स्यादेव युगपत्सत्त्वमसत्त्वञ्च घटादिषु ।। इदा- नीमिदमत्रास्ति नास्तीत्येवंविधा यतः । देशकालदशाभेदादस्तिना- स्तीति नो धियः । अतो देशादिभेदेन सदसत्वं घटादिषु । व्यव- स्थितं निरस्तत्वा ( स्या ? ) द्वादस्यह न संभवः ॥ ननु देशादि संबन्धः सत एवोपपद्यते । न देशकालसंबन्धादसतस्सत्त्वमिष्यते ।। मिणा । आत्मनस्वरूपस्य लाभो यस्यति बहुव्रीहिः । १. एतत्प्रघट्टार्थश्च शतदूषण्यां सत्त्वासत्त्वविवेकवाद (६०) तो द्रष्टव्यः। २. अनेन बौद्धमतनिरासः। ३.मीमांसकास्सिद्धान्तिनश्च । १. जैनमतं निरस्यति । धिय इति वक्ष्यमाणत्वा- दत्रापि धियां कर्तृत्वे अबूबुधन्निति बहुवचनं युक्तम् । ५. स्याद्वादस्येति पामे युक्ततरः । जैनवादस्येत्यर्थः । ६. साङ्ख्यमतमुत्थापयति । ?
तत्त्वमसिविचारः १२७ संबन्धो याश्रयस्तस्मात्सतत्स्सत्वं सदा भवेत् । असतः कारकैस्सत्त्वं जन्मनेत्यतिदुर्घटम् ॥ आद्यन्तवान् प्रपञ्चोऽतस्सत्कक्ष्यान्तनिवेक्ष्यते आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा ॥ अतो निश्चितसद्भावस्सदा सन्नभ्युपेयताम् । असतस्सदाऽसत्त्वं जन्ययो- गात् खपुष्पवत् ॥ असच्चे न विशेषोऽस्ति प्रागत्यन्तोसतोरिह । उक्तञ्च २ .... .... ( तत्त्वमसिवाक्यार्थविचारः) (8) श्वेतकेतुमुपादाय · तत् त्व' मित्यपि यच्छ्रुतम् । षष्ठप्रपाठके तस्य कुतो मुख्यार्थसंभवः ।। कार्पण्यशोकदुःखार्तश्चेतनस्त्वम्पदोदितः । सर्वज्ञस्सत्यसंकल्पो निःसीमसुखसागरः । तत्पदार्थस्तयोरेक्यं जस्ति. मिरवत् कथम् । त्वमर्थस्थे तटस्थे वा [तदर्थस्थे च भेदके ] 1 गुणे तत्वं- पदश्रत्योरैकार्थ्य दूरवारितम् ॥ अज्ञत्वसर्ववेदित्वदुःखित्वसुखिता- दिके ! विशेषणे वा चित्तोरथवाऽप्युपलक्षणे ॥ विरुद्धगुणसं- क्रान्तेर्भेदस्स्यात् त्वंतदर्थयोः। 'वाच्यैकदेशभङ्गन चिदेकव्यक्तिनि- ष्ठता ॥ सोऽयं गौरितिवत् तत्वंपदयो' रित्यपेशलम् । देशकालद- शाभेदादेकस्मिन्नपि धर्मिणि ॥ विरुद्धद्वन्द्वसंक्रान्तः सोऽयं गौरिति युज्यते । स्वप्रकाशस्य चिद्धातोविरुद्धद्वन्द्वसंगतौ॥ न व्यवस्थापक 1. आद्यन्तवत्वेनाभिमन्यमानः । १. प्रागसत: कार्यत्वाभिमतस्य, अत्यन्त सतः खपुष्पस्य च । २. अत्रोक्तानां जैनसाङ्ख्याद्वैतिमीमांसकमतानां मध्ये जैननि- राकरणपूर्वकसांस्यप्रस्तावमात्रोपलम्भात् सांख्यदूषणातिप्रस्तावत्तदृषणभागो लुप्त इत्यालोच्यते; उत्तरोपलब्धांशेनासङ्गतत्वाच्च । सदसद्वयतिरेकोक्तिः धर्ममेव पराकृता' इत्युपरितनवाक्यमत्रत्यपराकरणप्रकाराभिप्रायमपि स्यात् । ३. तत्व- मसिवाक्यादखण्डकमात्रसिद्धिरिति परोक्तं निरस्यति । ४. मूलभूतं सारभूतं वा वस्तु धातुशब्देन तत्रतत्रोच्यते, आकाशधातुः, तेजोधातुः, विज्ञानधातुरित्ये- वम् । ५. उपलक्ष्यैक्ये उपलक्षणद्वयवैयादुपलक्षणवैलक्षण्याचोपलक्ष्यधर्म- भेद आवश्यक इति विरुद्धगुणत्वमवयमिति ! ६. तथाच तत्रापि न व्यक्तिमात्रे ७. विभिन्नोपाधिमप्यन्तरेण चिति अज्ञत्वसर्वज्ञत्वस्वीकारे विरुद्ध- लक्षणेति ।
१२८ संवित्सिद्धी किञ्चित् देशकालदशादिके । निधूतनिखिलद्वन्दस्वप्रकाशे चिदा- त्मनि ॥ द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् । एतेनं सत्य- कामत्व-जगत्कारणतादयः ॥मा(योपाधौ) परेऽध्यस्ताः, शोकमोहा- दयः पुनः । अविद्योपाधिके जीवे विनाशेने (विभागेन ?) ति यन्म- तम् ॥ क्षुब्रह्मविदामेतन्मतं प्रागेव दूषितम् । चित्स्वरूपे विशिष्टे वा मायाऽविद्याद्युपाधयः ॥ पूर्वस्मिन् सर्वसांकर्य परजीवाविभागतः। उत्तरस्मिन्नपि तथा विशिष्टमैपि चिद्यदि ॥ चित्स्वरूपं हि निर्भेदं मायाऽविद्याधुपाधिभिः। विभिन्नमिव विभ्रान्तं विशिष्टञ्च (अभिमन्यते)। तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् । न हि दण्डि (ण्डय?) शिरश्छेदादेवदत्तो न हिंसितः ॥ अचिदंशव्यपोहेन चिदेकपरिशे. षता। अतस्तत्वमसीत्यादेरर्थ इत्यप्यसुन्दरम् । अब्रह्मानात्मता- भावे प्रत्यचित् परिशिष्यते । तत्त्वम्पदद्वयं जीवपरतादात्म्यगोचरम्।। तन्मुख्यचितादात्म्यमपि वस्तुद्याश्रयम् । भेदाभेदविकल्पस्तु य- समावेशदोषो दुर्वार इति भावः । १. उपाध्यभावे विरोधपरिहारायोग इति हेतुना । अस्य यन्मतमित्यत्रान्वयः । २. उपरि परजीवाविभागत इति दर्शनादनापि विभागले ति स्यात् । ३. विशिष्ट मायादिसंबन्धवादिनापि वि- शिष्टान्तर्गते विशेषणे तदयोगात् विशेष्यांशे तदुक्ती सर्वसांकर्यदोष एवेति । ४. अतो मायाद्यतिरिक्तं विशेषणमपि दुर्वचमिति 'नचोप- लक्षणं सर्व बहिष्ठमिति नियमः, गोत्वपृथिवीत्वाद्युपलक्षणसास्नादिमत्त्वगन्धवत्त्वा- देर्बहिष्ठत्वाभावात् ' ( श. दू. - ३८) इति । नह्यज्ञत्वादिकमविद्यादिमात्रगतम् ; तथासति मायाविद्ययोरेव जीवत्वेश्वरत्वापत्तेः । अत इह तटस्थतावादिना उप- हितस्वरूपगत्वमेव वाच्यमिति ! दण्डीत्यत्र दण्डयेति स्यात् , अज्ञत्वादौ अविद्याशब- लत्वादेरिव शिरश्छेदे दण्डयतायाः प्रयोजकत्व संभवात्। ६. मायाविद्योपाधि- पक्षदूषणं निगमयति ॥ अत इत्यस्य तत्त्वम्पदयोः मायाविद्यावच्छिन्नचिद्वाचक- त्वाभावादित्यर्थकस्यासुन्दरमित्यत्रान्वयः । ७. त्वमर्थ भात्मनि अब्रह्मत्वस्य, तदर्थे ब्रह्मण्यनात्मत्वस्य चाभावे पदद्वयार्थस्यात्यन्ताभिन्नावे केवलचिन्मात्रमर्थस्स्या- ५. तदुक्तम् । - संविदद्वैतवादभङ्गः १२९ , । स्त्वया परिचोदितः ॥ अभेदाभेदिनोऽसत्ये बन्धे सति ( ? ) निर- र्थकः । अभेदो भेदमर्दी तु(ति) स्वाश्रयीभूतवस्तुनोः ॥ भेदः परस्प- रानात्म्यं भावानामेवमेतयोः । स्वरूपमभ्युपत्येव भेदाभेदविकल्प- योः ॥ (विधानं ) तेच वाग्बाधाविरोधेन निगृह्यसे । भिन्नाभिन्नत्व- संबन्धसदसत्त्वविकल्पनम् ॥ प्रत्यक्षानुभवापास्तं केवलं कण्ठशो- षणम् । नीले नीलमतिर्याहक उत्पले नीलधीहि सा ॥ नीलमुत्प- लमेवेदामिति साक्षाचकास्ति नः ! यथा विदितसंयोगसंबन्धऽप्यक्षगो- चरे ॥ भेदाभेदादिदुस्तर्कविकल्पाऽऽधानविभ्रमः । तद्वत् तादा- म्यसंबन्धे श्रुतिप्रत्यक्षमूलके ॥ श्रुनिदण्डेन दुस्तर्कविकल्पभ्रमवा- रणम् । निर्दोषाऽपौरुषेयी च श्रुतिरत्यर्थमादरात्।। असकृत् 'तत् त्व मित्याह तादात्म्यं ब्रह्मजीवयोः । ब्रह्मानन्दंह (न्दह ) दान्तःस्थो मुक्तात्मा सुखमेधते ॥ फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता । एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥ ( एकस्यास्संविदाप्रपञ्चोपादानत्वेऽनुपपत्तिः) (8) किश्च प्रपञ्चरूपेण का नु संविद्विवर्तने । न तावद्धटधीः. त- स्यामसत्यामपि दर्शनात् ॥ न हि तस्यामजातायां नयां वाऽखिलं जगत् । नास्तीति शक्यते वक्तुमुक्तो प्रत्यक्षवाधनात् ॥ नाप्यन्यसं. त् । तथाच प्रवृत्तिनिमित्तभेदविशिष्टवेषेण वस्तुभेदप्रयुक्तत्वात्तादात्म्यस्य, तदत्र न भवतीति। १. यत्र प्रवृत्तिनिमित्तरूपेण भेदः, विशेष्यरूपेणाभेदश्च, तत् भेदाभेदि, तइन्यस्य, घटः पटः, घटो घट इति च तादात्म्य संबन्धऽ सति उक्त- विकल्पो व्यर्थ इति । सतीत्यत्र 'स तु' इति वा पाठः २.ब्रह्मसिद्धिकारदिना भेदा- भेदयोस्स्वरूपभेदसिद्धान्तमम्युपेत्यैव तद्विरोधिवचनान्निग्रहस्थानमित्याह । ३.बाधा- रूपो विरोध: । बाधादिति पाठो वा । ४. भिन्नयोत्मयोगश्चेत् , विन्ध्यहिमवतो- स्यात्। अभिन्नगश्चेत्,स्वात्मना सहापि घटादेस्स्यादित्येतादृशः। ५.मोक्षेपि ब्रह्म मिनजीवस्थितेरावश्यकत्वं दर्शयति ॥ अन्तःस्थ पदेन नदीसमुद्र जलयोरिव मुक्त- ब्रह्मणार्भेदः, त्वम्पदस्य प्रकारभूतजीवविशिष्टपरत्वञ्च दर्यते । फले फलकाले । N 14 १३० संवित्सिद्धौ विन् , तन्नाशेऽप्यन्येषामुपलम्भनाद ।। (अथ पूर्वपक्षः - तत्र सोपपत्ति संविदेकत्ववचनम् ) (9) ननु संविदभिन्नैका न तस्यामस्ति भेदधी: घटादयो हि(पि)भि- धन्ते न तु सा चित् प्रकाशनात् ॥ घटधीः पटसंवित्तिसमये नाव- भाति चेत् । नैवम् , घटो हि नाभाति सा स्फुरत्येव तु (सु) स्फु. टम् ॥ घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् । तद्व्यावृत्ति (त्त? पदेनापि किं सैवोक्ताऽथवेतरत् ॥ सैव चेत् , भासते, ऽन्यच्चेत् , न ब्रूम- स्तस्य भासनम् । किञ्चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः।। ऋते विषयनात्वान्नानात्वावग्रहभ्रमः । न वस्तु वस्तुधर्मो वा न प्रत्य- क्षो न लैङ्गिकः ॥ घटादिवेधभेदोऽपि केवलं भ्रमलक्षणः। यदा, तदा तदायत्तो धीभेदावग्रहोदयः ।। कुतः, कुतस्तरां तस्य परमार्थ- स्वसंभवः । ( संविन्नित्यत्वम् ) (10) किञ्च स्वयंप्रकाशस्य स्वतो वा परतोऽपि वा। प्रागभावा- दिसिद्धिस्स्याव; स्वतस्तावन्न युज्यते ।। स्वस्मिन् सति विरुद्धत्वाद- भावस्यानवस्थितेः । स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसंभवात् । अनन्यगोचरत्वेन चिता न परतोऽपि च । ( संविनिर्धर्मकत्वम्) (11) किश्च वेद्यस्य भेदादेन चिद्धमत्वसंभवः । रूपादिवत् अतस्संवि- फलेनेति पाठे सहयोगे तृतीया । १. प्रापञ्चिकपदार्थानाम् । वस्तुभेदेपि वित्तिभेदो नास्तीत्युक्तम्। अथ वस्तुभेदोपि मिध्येति वित्तिभेदसत्यत्वं दुरापास्तमित्याह ॥ स्वतो नीरूपायाः निराकारायाः । ३. अवग्रहो वैशि- टयमवगाहनं वा । ४. भेदो नाम न वस्तुस्वरूपम् ; वस्तुग्रहणमात्रेण भेद- व्यवहाराभावात् । नापि वस्तुधर्मः, तुल्यन्यायेन वस्तुनि धर्मभूतभेदभेदस्यापि धर्मतयाऽनवस्थापत्त्यादिदोषात् । न प्रत्यक्षः, प्रत्यक्षस्य सन्मात्रग्राहित्वात् । अत एव कृचिदप्यप्रत्यक्षतयाऽगृहीतसंबन्धत्वादलैङ्गिकोपीति । भाष्यादावेतद्विस्तरः। ५. भ्रान्तिसिद्धः । ६. एतद्विवरणमात्मसिदौ २९ पुटे । ७. आ. सि. १९.९. २. एवं संविदद्वैतवादभङ्गः मतः ॥ दद्वितीया स्वयम्प्रभा । अतस्तद्भेदमाश्रित्य यद्विकल्पादिजल्मितम् । तदविद्याविलासोऽयमिति ब्रह्मविदो विदुः ॥ (उक्तपूर्वपक्षखण्डनविस्तरः; संविद्भेदसमर्थनम् ) (12) हन्त ! ब्रह्मोपदेशोऽयं श्रद्धानेषु शोभते । वयमश्रद्दधानास्स्मो ये युक्तिं प्रार्थयामहे ॥ प्रतिप्रमाविषयं परस्परविलक्षणाः । अप- रोक्ष प्रकाशन्ते सुखदुःखादिवत् धियः ॥ सम्बन्धिव्यंग्यभेदस्य संयो- गेच्छादिकस्य नः ( च ) । न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च सं. (नित्यविभुसंविदैक्यपक्षेऽनुपपत्तिः) (13) यदि सर्वगता नित्या संविदेवा ( का? ) भ्युपेयते । ततस्सर्व स. दा भायात् , न वा किञ्चित्कदाचन ॥ तदानीं न हि वेद्यस्य सन्नि: धीतरकारिता । व्यवस्था घटते वित्तः व्योमवद्वैभवाश्रयात् ॥ नापि कारणभेदेन, नित्यायास्तदभावतः। न च स्वरूपनानात्वात्, तदेकत्वप- रिग्रहात् ॥ ततश्च बधिरान्धादेश्शब्दादिग्रहणं भवेत् । गुरुशिष्या- दिभेदश्च निर्निमित्तः प्रसज्यते ॥( संविद्भिन्नसपिलापेन शङ्का तरखण्डनश्च) (14) ननु नस्संविदो भिन्नं सर्व नाम न किञ्चन । अतस्सर्व सदाभा- यादित्यकाण्डेऽर्नुयुज्यते।।इदमाख्याहि भोः किन्नु नीलादिर्न प्रकाशते। प्रकाशमानो नीलादिस्सविदो वा न भिद्यते ॥ आदी प्रतीतिसुभगो निर्वाहो लोकवेदयोः। यतः पदपदार्थादि न किंचिदवभासते॥ द्वितीये संविदोऽद्वैतं व्याहन्येत समीहितम् । यद्ययं विविधाकारप्रपञ्चस्संविदा. स्मकः॥ साऽपि संवित् तदात्मेति यतो नाना प्रसज्यते । १.प्रतीत्यादिकारिकाद्वयं श्रु. प्र.जि. व्याख्यातम् । तत्र नः इत्यत्र चेति पाठः। श. दू. संविदद्वैतभङ्ग-(३३) वादादिह प्रायो विंशतः कारिकाणामर्थो ग्राह्यः । २. संबन्धिना आश्रयेणैव संयोगादेस्संयोगाद्यन्तराद्भदो ज्ञाप्यते । तावता न वि- श्वसंयोगैक्यम् । एवमिच्छादौ । ३. ननु काचित्संवित् कञ्चिदेवार्थ भासयतीति स्वभावत एव व्यवस्थेत्यत्र, एवं संविन्देऽपसिद्धान्त इत्याह । १. 'न युज्यत ' इति मुद्रितपाठः । ५. अनुभवानुगुणः । ६. इदं पञ्चिकायामपि (८.प्र) १३२ संवित्सिद्धौ तत् केन (अविद्यादेर्भिन्नाभिन्नानिर्वचनीयत्वखण्डनम् ) (15) न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा । सा हि न्या- यानलस्पृष्टा जातुषाभरणायते ॥ ( तत्र अविद्येत्यत्र नअर्थविचार) (16) तथाहि ~ यद्यविधेयं विद्याऽभावात्मिकेष्यते । निरुपाख्य स्वभावत्वात्सा न किंचिनियच्छति ॥ अर्थान्तरमविद्या चेत् , सा- ध्वी भेदानिरूपणा । ‘अर्थानान्तरत्वादिविकल्पोऽस्या न युज्यते । विद्यातोऽर्थान्तरं चासा' विति सुव्याहृतं वचः ॥ अथार्थान्तरभावो- ऽपि तस्यास्ते भ्रान्तिकल्पितः॥ हन्तैवं सत्यविद्यैव विद्या स्यात्पर- मार्थतः । किंच शुद्धाञ्जडा संवित् , अविद्येयं तु नेदृशी ॥ हेतुना सेयमन्येव न निरूप्यते । । अविद्यापदार्थगतविद्यास्वरूपशोधनम् ) (17) अपिचेयमविद्या ते यदभावादिरूपिणी ॥ सा विद्या किन्नु संवित्तियं वा वेदिताऽथवा । वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ॥ न हि ज्ञानादृतेऽज्ञानमन्यतस्ते निवर्तते । संविदेवेति चेत् । तस्या ननु भावादसम्भवः ॥ किंचेयं तद्विरुद्धा वा, न तस्याः कापि सम्भवः । यतोऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥ अभा- वोऽन्यो विरुद्धो वा संविदोऽपि यदीष्यते । तदानीं संविदद्वैतप्रति. ज्ञां दूरतस्त्यज ॥ ( अविद्याया आश्रयानुपपत्तिः) (18) किंचासो कस्य ? जीवस्य; को जीवः ? यस्य सेति चेत् । नन्वे- वमसमाधानमन्योन्याश्रयणं भवेत्॥ न ते (नर्ते?) जीवादविद्या स्यात् , न च जीवम्तया विना । न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ॥ ब्रह्मसिद्धिखण्डनावसरे । १. अविद्याया भिन्नाभिन्नानिर्वचनीयतया तद्विलासे नीलादावपि सेति नेत्यर्थः। इदमेवोक्तं (श.दू.) अनिरूपितभेदाभेदाविद्याविलास- दौर्घटयविश्रमेऽस्मदुक्तदूषणाभ्युपगतिमन्तरेणापसर्पणासिद्धेः' इति । २. अविद्ये- त्यत्र विद्याशब्दार्थः क इत्यर्थः । ३. अविद्या यन्निवा सा हि विद्या । न च वेद्यवेदितृभ्यामविद्यानिवृत्तिरिति ! प्रत्युत तयोरपि विद्यानिवय॑त्वान्न विद्यात्व- मिति भावः । ?
॥ अश्रयः अविद्यादूषणम् (जीवाविद्यानिरासानन्तरं ब्रह्माविद्यानिरासः) (19) ब्रह्मणश्चेत् - न- सर्वज्ञं कथं तत् बम्भ्रमीति ते । अविद्याकृतदे- हात्मप्रत्ययाधीनता न ते ॥ ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः । भेदावभासगर्भवादथ सर्वज्ञता मृषा ।। तत एवामृषा कस्मान्न स्या- च्छब्दान्तरादिवत् । यथाँ शब्दान्तराभ्याससंख्याद्याः शास्त्रभेदकाः॥ भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् । सर्वज्ञ नित्यमुक्तऽपि यद्यज्ञानस्य संभवः ॥ तेजसीव तमस्तस्मान निवर्तेत केनचित् । स. र्वज्ञत्वादिवचनप्रामाण्यं व्यवहारिकम् ॥ तात्विकं तु प्रमाणत्वमद्वैत- वचसामिति । नियामकं न पश्यामो निबन्धातावकाहते ॥ प्रतियोगित्वे परस्परविरोधिनी । कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते॥ प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् । रूपभेदः कुतस्त्योऽयम् यद्य- विद्याप्रसादजः ॥ ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः । (अविद्याया वस्तुत्वम्) (20) अवस्तुत्वादविद्यायाः (नैतत् तद्रूषणं यदि ):॥ वस्तुनो दृषण- १. 'किञ्चासौ कस्ये ' ति प्रश्ने. ब्रह्मण इति समाधिस्नूद्य निरस्यति ।। अविद्येति किं ज्ञानसंसर्गाभावादिरुच्यते, उत ज्ञानान्योन्याभावः। आधे आह सर्वज्ञमित्यादि । अन्त्ये वक्ष्यति आश्रय प्रतियोगित्वे इति । तदुक्तं शत- दू. १९. 'नापि ज्ञानान्योन्याभावः, ज्ञानान्तरानभ्युपगमात् , ज्ञानान्तरानभ्युपगमात् , स्वप्रतियोगिक दायोगाचे 'ति २. . सर्वज्ञत्वं मिध्या अयथार्थ भेदावगाहित्वादिति । ३. कर्मभेदकप्रमाणानि षट् पू. मी. द्वितीयाध्याये कथितानि । ददाति, जुहोती. स्यादौ शब्दान्तरम् । समिधो यजति, तनूनपातं यजतीयभ्यासः ; तित्र आहुती होतीति संख्या ; अथैष ज्योतिरथैष विश्वज्योतिरिति संज्ञा वाजिभ्यो वाजिनमिति - वैश्वदेव्यामिक्षायुक्तादन्यो गुणः ; मासमग्निहोतं जुह्रतीति नि- त्याग्निहोत्रता प्रकरणान्तरमिति । एषां कर्मभेदकानां शास्त्रभेदकत्वपक्षानुसारेण शास्त्रभेदका इत्युक्तम् । तदुतम् श्रु.प्र.जि. शास्त्रभेदः कर्मभेदो वेति। ४. वि- द्याभेदरूपाविद्याश्चयत्वं प्रत्यक्त्वेन रूपेण, विद्यारूपस्य तस्य प्रतियोगित्वं ब्रह्मत्वे- नेति । पुनः जीवाविद्यापक्ष इव । । . 384 .... .... संवित्सिद्धौ संविदद्वैतवादभङ्गे त्वेन त्वया केदनिरीक्षितम् । ससा उ (स्वसाध्यसिद्धव ) कारा- होपोऽन्योन्यसमाश्रयः।। न वस्तुत्वात् ; अवस्तुत्वादित्यतो नेदमुत्तरम्। (अवस्तुत्वा आसिद्धिवचनम् ) (21) किञ्चाविद्या न चेत् (वस्तु व्यवहारः कुतस्त्वयम्) । (नचैष व्योम-(नचावस्तु ख -) पुष्पादि व्यवहारवदिष्य ( दीक्ष्य ) ते । 'ना- प्यवस्त्विति चो (क्तिस्ते वस्तुतां तत्र साधयेत् ) ॥ निषिध्यते) सम- स्तेन नबा वस्त्विति चेत् ( न तत्) । समस्तेन नबा वस्तु प्रथमं य. निषिध्यते ॥ प्रतिप्रमुत (तं ? ) व्यस्तेन पुनस्तदिति वस्तुता ! अ. तो न वस्तुना । न कश्वकास्तीति विवक्षि- या () स्म जातुचित् । (अतो 'न वस्तु नावस्तु याऽविद्या तबले सति । भेदो न कश्चकास्तीति विवक्षार्मा स्म जातुचित् ।) ( अविद्याया जीवस्य चैकत्वनानात्वविकल्पः) (22) किञ्च प्रपञ्चनिर्वाहजननी .येयमाश्रिता ॥ अविद्या सा किमेकैच नैका वा तदिदं वद । तदाश्रयश्च संसारी तथैको नैक एव वा।। ( अविद्यैकत्वदूषणम् ) (23) सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया । पूर्वमेव निरस्तेति १. तथाचैषां दोषाणां दोषता कुत्रापि न स्यात् । सर्वमिथ्यात्ववादिना चाव- स्तुन्येवैषां दोषत्वमेष्टव्यमिति । २. अन्योन्याश्रयदोषो हि स्वस्य स्वसाध्यापे- क्षसिद्धित्वप्रयुक्तः, न तु वस्तुत्वप्रयुक्तः । अतः अवस्तुत्वादितीदं नोत्तरमिति । ३. सदसदनिर्वचनीयवादिना, 'अविद्या न वस्तु नाप्यवस्तु' इत्युच्यते । तत्र न वस्तु इत्यंशमत्र दूषयति अवस्तुत्वादिति हेतुरसिद्ध इति बोधनाय । इदमेव स्थापयति नाप्यवस्त्वित्यंशशोधनेनोपरितनकारिकाभ्याम् । खपुष्पादिव्यव- हारो हि वस्तुशून्यः केवलं शब्दज्ञानानुपाती। नचैष लोकव्यवहारस्तादृशः । अन्यथाऽवस्तुनि प्रपञ्च इव खपुष्पादावप्येवं विचित्रव्यवहारप्रसङ्गादिति। द्विती- यरीत्या पाठवलुप्तौ तु खपुष्पादीति पृथक्पदम् । तदा व्यवहारवत् व्यवहारावीश- टम् । तथाचार्थक्रियाकारित्वाद्वस्तुत्वमेवेति । ४. तत्प्रतिप्रसवो नाम तनिषेध अविद्यादूषणम् १३५ व्यर्थस्ते मुक्तये श्रमः॥ (शुकादिमुक्तिमिध्यात्वेन एकाविद्यापक्षसमर्थनम् ) (24) स्यान्मतम् नैव ते सन्ति वामदेवशुकादयः । यद्विद्यया निरस्त- त्वान्नाद्याविद्यति चोद्यते ॥ मुक्तामुक्तादिभेदो हि काल्पतो मदवि- द्यया । दृश्यत्वान्मामकस्वमदृश्यभेदप्रपञ्चवत् ।। यन् पुर्नब्रह्मविद्या. तस्तेषां मुक्तिरभूदिति । वाक्यं तत् स्वाभमुक्त्युक्तियुक्ताप्रत्यूहता (यु- क्त्या प्रत्यूह्यता ?) मिति ।। ( तत्खण्डनम्) (25) नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् । प्रपञ्चं साधयत्य- न्यः कथं प्रत्युच्यते त्वया ॥ त्वदविद्यानिमित्तत्वे यो हेतुस्ते विव- क्षितः। स एव हेतुस्तस्यापि भवेत् सर्वसिद्धिवत् ।। इत्यन्योन्यवि- रुद्धोक्तिव्याहते भवतां मते । मुखमस्तीति यत्किंचित् प्रलपन्निव ल. क्ष्यसे । यथा च स्वाममुक्त्युक्तिसदृशी तद्विमुक्तिगीः ॥ तथैव भवतो- ऽपीति व्यर्थो मोक्षाय ते श्रमः। यथा तेषामभूतैव पुरस्तादात्मविद्य- या ॥ मुक्तिर्भूतोच्यते, तद्वत् परस्तादात्मविद्यया। अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ॥ सन्ति च स्वमदृष्टानि दृष्टान्तवच- नानि ते । ननु नेदमनिष्टं मे यत् मुक्तिर्न भविष्यति ॥ आत्मनो नि- त्यमुक्तत्वान्नित्यसिदैव सा यतः। तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ॥ येनैव सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः । (नित्यसिद्धमुक्तयभिव्यक्तये यत्न इति शंका) (26) अविद्यापतिबद्धत्वादथ सा नित्यसत्यपि ॥ .असतीवेति त- व्यक्तिर्विद्याफलमुपेयते । हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ॥ यथा तदेव हस्तस्थमवगम्योपशाम्यति । तथैव नित्यमुक्तात्मस्वरूपा- १. येषां वामदेवादीनां विद्यया । २. प्रत्यूह्यताम् बाध्यताम् । ३. सर्वज्ञोऽस्तीति वादिनस्सार्वयापादने सर्वज्ञो नास्तीति तन्निषेद्धरपि तद्ज्ञा- नावश्यकतया सार्वझ्यापत्तिः, तत्रेवेत्यर्थः । यद्वा 'सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा। तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयो रितिरीत्या एकमते सर्वज्ञ- सिद्धावन्यमतेपि सर्वज्ञान्तरमिद्धिः; सत्रेवेत्यर्थः । ४. एवंसति, मुक्त तत्वस्येव. निषेधः।
१३६ संवित्सिद्धौ संविदद्वैतवादभने नवबोधतः॥ संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया। (अभिव्यक्ति विकल्प्य तत्परिहारः ) (27) हन्त कयमभिव्यक्तिर्या विद्याफलमिष्यते ।। स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता । संवित् , किं सैव, किंवाऽहं ब्रह्मास्मी- तीति कीदृशी॥ यदि स्वरूपसंवित् सा, नित्यैवेति न तत्फलम् । अथ ब्रह्माहमस्मीति संवित्तिय॑क्तिरिष्यते ॥ ननु ते ब्रह्मविद्या सा सैच तस्याः फलं कथम् । किञ्च सा तत्त्वमस्यादिवाक्यजन्या भव. न्मते ।। उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् । (अविद्यायाः ब्रह्मधीप्रतिबन्धकत्वायोगः) (28) अपिच व्यवहारज्ञाः सति पुष्कलकारणे ॥ कार्य न जायते येन तमाहुः प्रतिबन्धकम् । इह किं तव , यत् उत्पत्तुमुपक्रान्तं स्वहे- तुतः ॥ अविद्यापतिबद्धत्वादुत्पत्तिं न प्रपद्यते । न मुक्तिः नित्यसि- द्धत्वान् ; न ब्रह्मास्मीति धीरपि ॥ ने हि ब्रह्माहमस्मीति संविधु- कलकारणम् । संसारिणस्तदास्तीति कथं सा प्रतिबध्यते ॥ यत- स्सा कारणाभावादिदानी नोपजायते। न पुनः प्रतिवद्धत्वात् ; अस्था. ( जीवैकत्वपक्षस्य पुनर्विशिष्य दूषणम् ) (29) किंको जीव इत्येतत् वस्तुस्थित्या न युज्यते । अविद्या - तत्समाश्लेष-जीवत्वादि मृषा हि ते॥ प्रातिभासिकमेकत्वं प्रतिभास. पराहतम् । यतो नः प्रतिभासन्ते संसरन्तस्सहस्रशः॥ आसंसार- समुच्छेदं व्यवहाराश्च तत्कृताः । अबाधिताः प्रतीयन्ते स्वमवृत्त (ता. व) विलक्षणाः ॥ तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् । भट्ट भविष्यत्वस्याप्यभावे। १. इति पक्षद्वये किंरूपेयमभिव्यक्तिरिति । २. अहं ब्रह्मस्मीति संविदो यत् पुष्कलं कारणं, तत् अदौ नास्तीति । ३.किश्चेत्यादयः का- रिका उपदशाश्शतदूषण्या (६१) मर्थतोऽनूदिताः। ४. अबाधितप्रतीतिगोचर- स्वात्मकस्वाप्नवैधर्म्यरूपयुक्तिसत्त्वेन । ५. विवादाध्यासितं चेतनजातमहं चेतन- त्वात् , सर्वाणि शरीराणि मयैवात्मवन्ति शरीरत्वादित्यादियुक्तिकल्पितम् । ... ने तेन तद्वचः।। ) मैकार्यविभ्रमः । जीवकत्वादिदूषणम् १३७ त्तिभेदानुमिता विरुद्धमितिवृत्तयः ॥ तचत्स्वात्मवत् अन्येपि देहि- नोऽशक्यनिहवाः । यथाऽनुमेयाद्यादेरनुमाना (?) विलक्षणाः ।। प्रत्यक्षं (?) ते तथाऽन्येभ्यो जीवेभ्यो न पृथक् कथम् । नचेञ्चेष्टाविशे- पेण परो बोद्धाऽनुमीयते ॥ व्यवहारोऽवलुप्येत सर्वो लौकिकवैदिकः। नचौपाधिकभेदेन मेयमातृविभागधीः ॥ स्वशरीरेऽपि तत्प्राप्तेः शिरः- पाण्यादिभेदतः । त (य?, था तत्र शिरःपाणिपादादो वेदनोदये ।। अनुसंधानमेकत्वे, तथा सर्वत्र तं भवेत् । प्रायणान्न :ना) रकक्लेशात प्रतिव्यसनादपि ॥ चिरातिवृत्ताः प्रारजन्मभोगा न स्मृतिगोचराः । युगपज्जायमानेषु ( मिथो ह्यस्मरणास्थितः ) ॥ आश्रयासङ्करः, तत्र कथ- ( अविद्याजीवानेकत्वपक्षस्यापि दूषणम् ) (30) न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकः ॥ जीवैरनेके रप्येषा लोकयात्रोपपद्यते । परवातीनभिज्ञास्ते स्वस्वस्वप्नेकदर्शिनः ।। कथं प्रवर्तयेयुस्तां समायेकनिबन्धनाम् । १. अनुमिताः देहिनः । २. अनुमेयम्य स्वाभिन्नत्वेऽनुमानवैयर्थ्यम् , प्रत्यक्षसिद्धत्वात् । न च तेषां परोक्षवःन्मियोभेदप्रत्यक्षायोगः । तेषु परोक्षेषु स्वभेदप्रत्यक्षायोगेऽपि स्वस्मिन् प्रत्यक्षे तद्भेदप्रत्यक्ष भवादित्याश- येनाऽऽह यथेति । अनुमानाः इतिच्छेदः महानसादिगतव- हिव्यक्तीनां व्याप्तिग्रहोपयोगितया तद्विषयतया चानुमानवम् । यार्थश्चैवम् अनुमेयपर्वतवह्नयादिविलक्षणा अनुमापकवह्नयादयो यथा, तथा अन्येभ्यो जीवभ्यः पृथक् त्वत्स्वरूपं ते न प्रत्यक्षं किमिति । 'प्रत्यक्षस्ते ' इति पाठान्तरे त्वत्स्वरूपमितिस्थाने त्वदात्मत्यध्याहारः । विल- क्षणा इति बहुवचनं भूयोदर्शनस्य व्याप्तिग्राहकस्य संभावितत्वाभिप्रायेण । अत्र 'यथाऽनुमेयाद्वयादेरनुमात्रा विलक्षणाः । प्रत्यक्ष्यन्ते तथे' ति पाठोप्यभ्यूह्यते। ३. अन्येप्यस्मरणहेतवो मूलभावप्रकाशिकायां दर्शिताः । ४. वस्त्वेकत्वभ्रमः । ५. मिथस्समागमादिसत्त्व एव साध्याम् । अन्व- 84-A १३८ संवित्सिद्धौ. संविदद्वैतवादभङ्गे ते (संविदस्सधर्मकत्वादप्यद्वितीयत्वायोगः ) (31) किंचे स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ॥ त्वदभ्युपेता बाधेरन् संविदस्तेऽद्वितीयताम् । संविदेव न. ते धर्माः सिद्धायामपि संविदि ॥ विवाददर्शनात्तषु; तद्रूपाणां च भेदतः । न च ते भ्रा- न्तिसिद्धास्तं येनाद्वैताविरोधिनः ॥ तत्वाऽऽवेदकवेदान्तवाक्यसिद्धा हि गुणाः । आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ । ब्रह्मस्वरूप- येवेष्टम्, तत्रापीदं विविच्यताम् । ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः ॥ अथवा तस्य ते, यद्वा त एवं ब्रह्मसंज्ञिनः। आये तत्तत्प- दाम्नानवैयर्थ्य वेदलोकयोः ॥ पूर्वोक्तनीत्या भेदश्च; जगज्जन्मादि- कारणम् । अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ।। द्वितीये सैवे तेरेव ब्रह्मणस्सद्वितीयता । तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदेपदे ।। तत्समूहोऽथवा ब्रह्म तरुवन्द विनाश ( वनादि?) वत् । प्रकर्षश्च प्र- काशश्च भिन्नावेवार्क (१) वर्तिनौ ।। तेन न कापि वाक्यार्थो विभा- गोऽस्ति निदर्शनम् । { स्वयम्प्रकाशत्वादेावृत्तिरूपत्वेपि दोषः ) (32) जाडयदुःखाद्यपोहेन यद्येकव वर्तिता ।। ज्ञानानन्दादिशब्दा- नां न सतस्सद्वितीयता ॥ अपोहाः किं न सन्त्येव सन्तो वा नो- भयेऽपि वा । सव सत्सद्वितीयः स्याज्जडाद्यामकतेतरे (सत्वे सत् १. एवं सांबदद्वैतखण्डनसिद्धान्तमारभ्य नीलादेस्संविद्भेदाभेदविचारं प्रस्तुत्य तदु- निरूपत्ववर्णनार्थप्रस्ताविद्यादूषणेऽवतीर्य तत्स्वरूप-तदश्रय-तदवस्तुत्व-तद्गतप्र- तिबन्धकत्व-तदेवनानात्व - तदाश्रयजीवेकत्वनानात्वानामनुपपन्नतां प्रदर्य सं. प्रति पराभिमतधर्मवशादपि संविदो नाद्वितीयत्वमित्याह । २. ते धर्मास्संविद्रुपा एव न भवन्ति । ३. हेत्वन्तरमाह ।। नित्यत्त्रविभुत्वादेमिथोभिन्नत्वाचेत्यर्थः । ४. महत्त्व विभुत्वम् । ५. पूर्वोक्तेव । ६. ' सत्यादिवाक्यमखण्डार्थपरं समा- नाधिकरणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवादिति शतदूषण्याम् (३८- १५८ पु.)। ७. निर्भाग इति पाठो वा, विभागो विगतभाग इत्यर्थो वा, अविभाग इतिच्छेदो वा। अखण्ड इति यावत् । ८. ज्ञानादिशब्दानां व्या- - धमर्तोप्यद्वितीयत्वायोगः १३९ यथा- १. कृतस्समा- सद्वितीयं स्यात् जडाद्यात्म कृतेतरे?) ॥ सदसव्यतिरेकोक्तिः पूर्वमेव पराकृता । तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥ किञ्चापोह्य जडत्वादिविरुद्धार्थासमर्पण । नेव तत्तदपोखेत तदेकार्थः पदैरिव ॥ प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः। सेवाभाव इतीहापि सद्भिस्ते सद्वितीयता ॥ (प्रपञ्चस्थापि सदस्यतिकिवायोगः ) (33) भूतभौतिकभेदानां सदसद्वतिरेकिता । कुतोऽवसीयते ? कि- नु प्रत्यक्षादेरुतागमात् ।। प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथाय- थम् । व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ।। ग्रतः स्थिते नीले, नीलिमान्यकथा न, धीः . एकाकारा; न हि तथा स्फटिक धवले मतिः ॥ क्षीरे मधुरधीर्याक नैवे (?) निशि ) वृत्तिपरत्वपक्षं शङ्कते जाडयेति; परिहरति अपोहा इति । हितः पक्ष इतरो यस्मात्तस्मिन् असत्त्वपक्ष इत्यर्थः । बहुव्री हित्वादितरपदमसर्व- नाम | गतरे इति वा अन्यो वा कश्चित् पाठस्स्यात् । घटवत्सदसत्त्वाभ्यामनिर्वाच्य' ( १४१. पु. ) मिति । ३. अपोह्यस्य जड- त्वादविरुद्धभावरूपाबोधने । 'लब्धरूपे कचित्किञ्चित्तादृगेव निषिध्यते' : ब्र. सि.) इति त्वयैव किञ्चिद्रूपविशिष्टतया प्रतिपन्न एव किञ्चिद्र्पविशिष्टस्यैव व्यावृ- त्तिर्बोधयितुं शक्येत्युक्तत्वादिति भावः । ४. धर्मिमात्रार्थकैः, यह निषेधमा- त्रार्थकैः । न खल्वनुयोगिप्रतियोगिरूपदयाभावे निषेधकथेति भावः । ५. यदि घटस्स्यात् सोपि दृश्येत, योग्यत्वात् । अतो दृश्ये घटे यत् भूतलमात्रविषयं ज्ञानं तत् 'घटोऽत्र भूतले नास्ती ' ति व्यवहारकारणम् । अतो नाभावरूपं कि- चित्प्रमेयमिति (शा. दी. १-१.५) मतानुसारणेदम् । इतीहापि इत्यस्मिन् पक्षेपि । यदि 'केवलब्रह्मज्ञानमेवापोहः, नान्य इति ' पूर्वपक्षी मन्येत, तदापि ज्ञानरूपैरेवापोहेस्सद्वितीयत्वमवर्जनीयमिति । अपीत्यनेन वस्तुतो ब्रह्मरूपधर्मि- ज्ञानमात्रेण जडाद्याशङ्काडानेवृत्त्या भावरूपत्वेप्यपोहस्य ब्रह्मगतकिञ्चिद्धर्मात्मक- त्वमेवेति सूच्यते । ६. नील इत्येकाकारैव नीले धीः; न तु नीलिमान्यस्य क- ७. कषायधीनॆवं मधुरविषयिणी । २. वक्ष्यति च, . थापि।
संवित्सिद्धौ संविदद्वैतवादभने म्बकषायधीः। व्यवहाराश्च नियतास्सर्वे लौकिकवैदिकाः।। सत्यं प्रती- तिरस्ति; अस्या मूलं नास्तीति चेत् -न तत् । सा चेदस्ति तया मूलं कल्प्यतां कार्यभूतया ॥ क्लृप्तञ्चेन्द्रियलिङ्गादि तद्भावानुविधानतः । (प्रत्यक्षस्य व्यवच्छेदकत्वायोगखण्डनम् ) (34) यौगपंद्यक्रमायोगाद्वयवच्छेदविधानयोः ॥ ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः । भेदेतरेतराभावविवेका (धीवेगा)- ग्रहणेन सः ॥ स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् । भेदव्याहार- हेतुस्स्यात् प्रतियोगिव्यपेक्षया॥ यथा तन्मात्रधी नानास्तिव्याहारसा- धनी । हस्वदीर्घत्वभेदा वा यदै (थै? ) कत्र षडङ्गुले ॥ एवं व्यव- स्थितानेकपकाराकारवत्तया । प्रत्यक्षस्य प्रपश्चस्य त ( स ?) द्भावो. ऽशक्यनिवः॥ आगमः कार्यनिष्ठत्वादीशेऽर्थे न तु प्रमा। प्रा- माण्येऽप्यन्वयायोग्यपदार्थत्वान्न बोधकः ।। नासत् प्रतीतेः, बाधाच्च न सदित्यपि यन्न तत् । प्रतीतेरेव सत् किन्न, बाधान्नासत् कुतो जगत् ॥ तस्मादविद्ययैवेयमविद्या भवताऽऽश्रिता । (मिथ्यात्वमिथ्यात्वविचारेण जगत्सत्यवस्थापनम् ) (35) किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ॥ मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयमञ्जसा। *तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् ॥ पारमार्थेपि तेनैव तवाद्वैतं विहन्यते । सर्वाण्येव प्रमा- १. प्रतीतिनियममुक्त्वा व्यवहारनियममाह । २. व्यवच्छिन्दन्ति जा. यन्त इत्युक्तमयुक्तमि याक्षेपं निरसितुमनुवदति । अयमों ब्रह्मसिद्धौ (२, १७) 'आहुर्विधात प्रत्यक्षं न निषेद्ध विपश्चितः' इत्यादौ द्रष्टव्यः । अनेन च न वस्तु वस्तुधर्मोवे(१३०)त्युक्तं निरस्तं भवति । विधानं स्वरूपग्रहः,व्यवच्छेदो भेदग्रह इति त. टी.। विधानकार्यत्वाद्वयवच्छेदस्य न योगपद्यम् । क्षणिकत्वात्प्रत्य- क्षस्य न क्रमेण स्वरूपभेदग्राहित्वे। ३. (?) तद्भावः तादृशाकारवत्त्वम्। ४. प्रत्यक्षं विचारितम् । आगमात्सदसद्वयतिरेकसिद्धिमपास्यति । ५. अनुमानस्यासाधकत्व- माह । ६. ब्रह्मातिरिक्तपरमार्थमिथ्यात्वसत्त्वेनैव । ७. न तु मिथ्यात्वप्रमाणमात्रं ब्रह्मप्रमाणमात्रं वा । * अत्रान्यादृशः कारिकापाठक्रमो मुद्रितग्रन्थस्थोऽशुद्धः ।
- धर्मतोऽप्यद्वितीयत्वायोगः १४१ मानि स्वस्वमर्थ यथोदितम् ॥ असतोऽर्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति नः । तथाहीह घटोऽस्तीति येयं धीरुपजायते ॥ सा तदा त- स्य नाभावं पटत्वं वाऽनुमन्यते । नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि । अर्थान्तरं वा तन्मात्रे सदद्वेतं प्रसज्यते । अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ।। यद्येवम् , अस्ति ब्रह्मेति ब्रह्मौप- निषदं मतम् । घटवत् सदसत्त्वाभ्यामनिर्वाच्यं तवाऽऽपतेन्॥ आनन्द- सत्यज्ञानादिनिर्देशैरेव वैदिकैः । ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं सम- थितः ॥ सदसपतिरेकोक्तिः प्रपञ्चस्य च हीयते । यद्यथा किश्चि- दुच्येत तत् सर्वस्य तथा भवेत् ॥ तस्मात् अस्तीति संवित्तिर्जायमाना घटादिषु । तत्तत्पदार्थसंस्थानपारमार्थावबोधिनी ॥ सजातीयवि- जातीयव्यवच्छेद निबन्धनैः । स्वैस्स्वैर्व्यवस्थित रूपैः पदार्थानां तु या स्थितिः ॥ सा सत्ता; न स्वतन्त्राऽन्या; तत्राद्वैतकथा कथम् । न च नानाविधाकारप्रतीतिश्शक्यनिहवा ॥ (धर्मनिषेधेपि सधर्मकतया सद्वितीयत्वम्) (36) न वेद्यं वित्तिधर्मस्स्यादिति यत् प्रागुदीरितम् । तेनापि साधितं किंचित् संविदोऽस्ति न वा त्वया ॥ अस्ति चेत् पक्षपात: बाँधः स्यात् १. घटोस्तीत्यत्र घटशब्दवाच्यमस्तिशब्दवाच्यसन्मात्रब्रह्मणोऽनन्यदन्यद्वा । आधे पटोस्तीत्यादावप्येवमिति सदेकतत्त्वसिद्धिः । २. घट इत्येतत् । ३. समा- नाधिकरणास्तिपदार्थाद्धटपदाद्यर्थस्य भिनत्वे । ४. आनन्दो ब्रह्मेत्याधैरान- न्दादिभिन्नता । ५. सदसद्वयतिरिक्तः प्रपञ्च इति प्रयोगे तद्भेदस्यैव प्रपञ्चे ६. ननु तर्हि समानाधिकरणस्थलेऽभेदस्यैव बोध्यत्वात् कथं सदरे- तासिद्धिरित्यत्र - अस्तीति न ब्रह्मोच्यते, किन्तु घटादिपरतन्त्रो धर्म इति वद- निगमयति । ७. एवं प्रत्यक्षादिप्रतीतेविधायकत्ववत् व्यवच्छेदकत्वस्यापि सं- भवात् , सत्त्वेन प्रतीतेषु सदसद्वयतिरेकित्वायोगाचापोहानामपि सदसयतिरे- किवायोगात सर्वथा स्वयंप्रकाशत्वादिभिस्सद्वितीयत्वमित्युक्त्वा प्रकारान्तरेणापि तदाह । ८. पक्षपात इति श्रु. प्र. पाठः । निधर्मकत्वस्येवान्येषामपि धर्माणां सिद्धेः। 35 १४२ संवित्सिद्धौ संविदद्वैतवादभने न चेत्ते विफलः श्रमः ! अतः स्वरसविस्पष्टदृष्टभेदास्तु संविदः ।। यथास्था (रथा ) दिभिर्वा (l) नॆिक्यं याति (यथांव (वत् ) स्थायिभिर्बाधेनैक्यं यान्ति ?) घटादिभिः । सेहोपलभानियमो न खल्वेकैकसंविदा ॥ न चेदस्ति ससामान्यं सर्व संवेदनास्पदम् । ( सहोपलम्भनियमेन ग्राह्यग्राहकापलापः ) (37) सहोपलंभनियमानान्योऽर्थस्संविदो भवेत् ॥ यदेतदपराधीन- स्वप्रकाशं तदेव हि । स्वयंप्रकाश (१) ताशब्दमिति वृद्धाः प्रचक्षते ।। यस्मिन्नभासमाने हि यो नामार्थो न भासते ! नासावर्थान्तरस्त (रंत?, स्मान्मिथ्येन्दुरिव चन्द्रतः ॥ अभासमाने विज्ञाने न चात्मार्थावभा- सनम् । इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ॥ (तत्खण्डनम् ) (38) .... मैवं ( मा नामैवं ? ) परिभवः, प्रत्यक्षेण बलीयसा । संरक्ष्य- माणभेदास्ते नानुमानानुवर्तिनः ।। तथाहीदमहं वेदीत्यन्योन्याना. प्रमाणसिद्धत्वे तदेकमात्रस्वीकारे पक्षपात इति । पक्षबाध इति पाठे अद्वितीयत्व- सिद्धान्तभङ्ग इत्यर्थः । १. यथावस्थितैः । बार्जीरित्यनेन आन्तरसंविद्वैलक्षण्यं दर्यते । अत्र मीमांसाकृतानिरालम्बनवाददूषणसरणिरभिप्रेता। अत एव सम- नन्तरमेतदसहमानस्य सहोपलम्भनियमावलम्बनेन पुनरुत्थानम् । २. 'सहो. पलम्भनियम ' इति, 'नचे' दिति चार्धव्यं विनैव कृचित्तालकोशे पाठः । अस्य च सहोपलम्भपक्षदूषणपरत्वात् , उपर्येव पूर्वपक्षप्रस्तावात् , ततःपश्चा- छत्र कापि तत्खण्डनग्रन्थमध्ये निवेशः स्वरसः। नचेदित्यस्य, ' माभूदिति चेत् - तही त्यर्थः । यद्वा सौगतैस्सामान्यापलापात् संवेदनास्पदं सर्व ससामान्यं न चेत् , संविदः कथमप्यनुगमायोगादेकैकसंविदैव सहोपलम्भनियमो वाच्या; स चा- संभवीति विशिष्टार्थः । अयमर्थः आ.सि. ५१ पु. १ ३. शङ्कते सहेत्या- द्य सप्तकेन । ' सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञान- ईश्य इन्दाविवाद्वये' इति बौद्धः । ४. ग्राहकस्यात्मनो ग्राह्याणामर्थानाञ्च भा- सहोपलम्भनियमदूषणम् त्मना स्फुटम् । त्रयं साक्षाचकास्तीति सर्वेषामात्मसाक्षिकम् ॥ प्रत्य- क्षप्रतिपक्षञ्च नानुमान प्रवर्तते । न हि वहेरनुष्णत्वं द्रव्यत्वादनुमी- यते ॥ किञ्च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः - तवाहि नत् हि तिवापि नहि?] (तथाहि - न हि ?) संवित्तिस्स्वात्मना सह भासते ।। 'नीलाधुपप्लवापेतस्वच्छचिन्मात्रसन्ततिः । स्वापादो भासते, नैवमर्थ- संवेदनात्पृथक् ॥ तेन संवेदनं सत्यं संवेद्योऽर्थस्त्वसन् ' इति । तदेतदपरामृष्टस्ववाग्बाधस्य जल्पितम् ।। सहोपलंभनियमो येनैवं स- ति हीयते । यस्मादृते यदाभाति भाति य ( त ? ) स्माहतेऽपि तत्।। घटाहतेऽपि निर्भातः पटादिव घटः स्वयम् । ( इतःपरस्संवित्सिद्धिग्रन्थो नोपलभ्यते ) श्रीभगवद्यामुनमुनये नमः नमो नमः । नमो नमो यामुनाय नमो नमो यामुनाय ॥ श्रीरस्तु॥ यामुनाय यामुनाय नमो नमः॥ नम् | १. यस्माद्वस्तुनः यत् ज्ञानम् । तस्मात् ज्ञानविशेषात् । तत् वस्तु । २. शत्रन्तात्पञ्चमी । बटं विनापि भासमानास्पटाहते घट इव भातीत्यन्वयः ॥ एतदुपरि सर्वो ग्रन्थो नष्टः । अद्वितीयश्रुतिविमर्श - सत्त्वासत्त्ववाद - तत्त्वमसि- विचारेभ्यः पश्चात्प्रवर्तितो यो विस्तरेण संविदद्वैतपूर्वपक्षस्तस्य खण्डनमेताव- तापि न समाप्तम् । प्रत्यक्षानुमित्यादिरूपेण विचित्राणां संविदा प्रमातृभेदा- द्विषयभेदाच भेदं सिद्धान्तारम्भे प्रदर्श, तदुपरि सर्वापलापाय प्रस्तुताया अवि- द्यायास्स्वरूपादि प्रदूष्य, ततस्संविदस्सधर्मकत्वादपि संविदद्वितीयत्वं दुर्वच- मित्यारभ्य, धर्माणामपोहरूपाणां सदसद्वयतिरेकप्रसङ्गे प्रपश्चसदसद्वयतिरेकमेव निरस्य, एवं संविधर्माणां विषयप्रपञ्चस्य च वास्तवतया सर्वापलापायोगमभिधाय, पुनबौद्धसरण्या संविदतिरिक्तनिरसनाय सहोपलम्भनियमप्रस्तावे तत्खण्डनमत्र क्रियते । एतत् समाप्य शिष्टं संविदद्वैतपूर्वपक्षिप्रस्तुतांशसमाधानं वक्तव्यमस्तीति ।। , १११ 1. उपक्रमादिलुप्तांशलिप्सया त्वियमादिमा संवित्सिद्धिर्मातृकादिक्रमाच्चान्ते परिष्कृता ।। अभिनन्दन्ति बालस्य स्खलतोपि पदक्रमम्। भ्रान्तेः पुरुषधर्मत्वात्तृप्येदृप्येच्च कापुनः स्वोक्तमप्युज्यते स्वेन सता दुष्टं परैः किमु ! गुणश्लाघिबुधप्रीत्यै गुरुभक्त्योद्यतं मया इत्थं विरचितानेकशास्त्रसाहित्यवाङ्मयः।तर्णिवाद्युपाख्यो यस्सोऽहं श्रीवीरराघवः। प्रणीतानेकसुश्लाघ्यप्रबन्धैर्गुणभूषणैः । यतीन्द्रः प्राज्ञसच्छिष्यबृन्दस्तुतपदाम्बुजैः॥ श्रीरङ्गलक्ष्मणाभिख्यैयरस्म्यपरयामुनैः । देशिकैर्बोधिताशेषगूढार्थो यैर्दयाधनैः। लम्भितोभयमीमांसावल्लभास्यश्च संसदि। एषां षष्टयब्दसंपूर्तिमहसत्कारकाम्यया ॥ प्रत्नं सिद्धित्रयं प्रौढं भगवद्यामुनोद्गतम्! सुहृत्संप्रेरितः प्रीत्या परिष्कृत्य स्वकीयया॥ गूढप्रकाशटिप्पण्या संयोज्याद्य समर्पये। दैवतं ये ममैतेभ्यो गुरुभ्यो रोचतामिदम्।। वाञ्छा परं भवति वक्तुमनुक्तमन्यैः एवं विचिन्त्य कथितञ्च परत्र दृश्यम् । दृश्यं न यत् तदपि बाध्यमबाधितञ्च प्राज्ञो न मृष्यति परस्तु न वेत्ति किञ्चित्॥ 'यतिपतिरवधत्ते यामुनार्यस्स्वयं वे ' त्यनघनिगमचूडासूरिसूक्तप्रकारा । कुतु कृतिरियमीहक्काहमज्ञोऽन्यसक्तः कथमपि गुणमन्विष्यात्र तुष्यन्तु सन्तः॥ वेधोजिह्वाग्रवासिन्यपि भवति कला भारती यस्य यस्य स्वास्थानं भाति नित्यं निरवधिमहिमाचार्यजिहा स देवः । सच्चित्तक्षेत्ररूढस्वकचरणयुगीभक्तिवल्लीप्रसूतैः तत्त्वज्ञानप्रसूनै जनमिह निखिलं वासयेद्वाजिवक्त्रः ॥ इति श्री वीरराघवाचार्य विरचितम् गूढप्रकाशाख्यम् सिद्धित्रयटिप्पणम् । श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥शुभमस्तु॥
॥ श्रीः ॥ टि प ण प रि शिष्ट म् टिप्पणकटाक्षणोपरि गुरुचरणैरनुगृहीतमिह घटयन् । काचित्कमूल - टिप्पणसुव्यक्त्यै वर्तयामि परिशिष्टम् ।। ३.६ नित्यसिद्धैरिति सहेति शेषः । प्रकृत्यादयो नित्यसिद्धाश्चानुविदधतीति । 3. विरुद्धमतय इत्यत्र विरुद्धख्यातय इति, यतो विमतय इति च पा० २-७ मन इतीति । पूर्वापरानुसारादत्रापि इतिकरणं न युक्तमिव; अथापि प्रामाणिकं यत् मनः तद्वयतिरिक्त मनस्त्वारोपेण मनआत्मवादा वादिभिः कृत इति ज्ञापयितुं तत् । ३.४ सिद्धान्ते आत्मन्यनुभूत्यात्मकबोधरूपत्वस्यानिष्टत्वात् तत्र ज्ञानव्यवहार- स्यौपचारिकताया वक्ष्यमाणत्वाच्च बोधरूपत्वानुक्तिः । स्वयञ्जोतिष्ठन्तु समन. न्तरमुच्यत एवेति स्थितनिर्वाहप्रकारः । अत्र अन्येवित्यारभ्य कृत्स्नमेकं मतमिति युक्तमिति संभावना । तदनुकूल, द्वितीयं अन्यइति पदं विना पाठोपि संप्रति लक्ष्यते, 'अन्ये तु ज्ञानानन्दस्वभावमिमं मन्यमानाः अस्या- अयानुकूल्य....स्वाभाविक इती ' ति मद्रनगरराजकीयपुस्तकभाण्डागारकोशे (R. १९३३), आन्ध्रमुद्रणे अधस्ताञ्च । ६-८ ज्ञानस्वभावतया ज्ञस्वाभाव्येन । वश्यति चेदं ८८ पु. ६.१० अनुमानस्य श्रुतमननरूपत्वे ततोज्ञानं विशदतरम् । कुचिदनुमानं वमपि निर्देक्ष्यते । ६.११ अन्तत इत्यस्य भावनाप्रकर्षपर्यन्त इति वाऽर्थः; त पारे दर्शनात् ! ७-१ अत्र सिद्धान्यभिमताणुपरिमाणत्वस्य शरीरपरिमाणत्वपक्षापूर्व कथनवत् चैतन्यमात्रेणेति सिद्धान्तिपक्षस्यापि पूर्व कथनसंभवात् स्वरूपेणेति पक्षान्तरपरमेवास्तु । श्रुतप्रकाशिकादृष्टं वाक्यं तु आत्मसिद्धौ स्थलान्तरे स्यादिति मन्तुमवसरोऽस्ति । परन्तु सर्वत्र सिद्धान्तिपक्षस्यैवान्ते कीर्तनादिहाप्येवम् । तथाच गुणत्वाद् ज्ञानस्य व्याप्यनहत्वमभिमत्यैवात्माणुस्वं -- टिप्पण्याशय एवम् सि द्धि त्रय- - - वदतां, नित्योपलव्ध्यनुपलब्धिप्रसंगादिना परममहत्त्वमनिच्छतां मतं प्राक् 'अ- गुपरिमाण ' इति प्रस्तुत्य, 'पादे मे वेदना, शिरसि सुख' मित्याद्यनुसंधानोपए- त्तयेऽणुःवत्यागिनां शरीरपरिमाणपक्षमुपन्यस्य, तत: व्याप्यवस्स्वनुरूपपरिमाणर- हितोपि ज्ञानव्याप्तिस्वीकारात्कृस्नशरीरसुखाद्यनुभावी भवितुमर्हतीति सिद्धा- न्तिपक्षण निगमनमिति । शरीरपरिमाण इति कुचिकोशे न । तदा सिद्धान्ति- पक्षोऽन्ते इति निर्बाधम् । ७.२ अनात्मानित्यत्ववादिनश्चतुर्विधा इति सर्वार्थसिद्धिरनुसन्धेया ( जी. १७) ७.४ अत्र चकार एवानुक्तसमुचायक: स्वतस्सुखित्वादिविकल्पं समु- चिनोति । तथातथेति पूर्वोक्तसर्वप्रकारपरामर्शी तद्विकल्पस्यापि परामर्शकः ? ८.३ स्वभावमायेत्यत्र स्वभावं मायेति पा० ८-४ प्रकृष्टसत्वरूपमुपादानकारणं निमित्तं जनकं यस्य परिणामवि. शेषस्य तन्मात्रे नियमेन संकल्पव्यवस्थानुसारेण निर्वाहिता सर्वैश्वर्यमर्यादा यस्त तादृशमित्यर्थः । ८.१२ 'विष्णुर्ब्रह्मा च रुद्रश्च विष्णुरेव दिवाकरः । तस्मात्पूज्यतरं नान्यमहं मन्ये जनार्दना ' दिति मूर्तिचतुष्टयमात्रग्राहि तात्पर्यचन्द्रिकोद्धृतं (गी. ८-१३) वचनम् । ९-७ अनादीत्यादि अनाद्यविद्यारूपोपादानविशेषमूलक इत्यर्थकम् । ९.८ परमार्थतस्त्वेकत्वश्रुतेरेकं तत्त्वमिति पा० ९.१० विशिष्टभावेन भिन्नत्वम् ; स्वरूपभावेनाभिन्नत्वम् ! अभेदो नामा-- न्वय इत्यादिकमवान्तरानेकमताभिप्रायेणापि स्यादित्याहुः । ९.११ अंशांशिभावलक्षणतमयाय इति पा० ९.१७ स्वरूपाविर्भावस्य सिद्धान्तत्वात् अत्र 'लक्षणः' इति न स्यात् । सांसिद्धिकानन्दादिस्वरूपाविर्भाव-तद्गुणानुभवेनि समस्तमेकपदं स्यात् ? १०-१३ द्रमिडाचार्यः वाक्यग्रन्थोपरि भाष्यकर्ता, यस्य भाष्यस्योपरि वामनटीकेति श्रु. प्र. प्र. तो ज्ञायते (श्रीभाष्यद्वितीयश्लोके, लघुसिद्धान्ते च) १०.१५ टङ्कः प्रशंसितो यतिराजसप्ततौ 'निरातङ्काः टङ्कद्रमिडगुहदेव- टिप्प. ण प रि शिष्टम् प्रभृतय ' इति । एवं वेदार्थसंग्रहेऽपि ।१५४ पु.) भगवद्वोधायन-टङ्क-द्रमिड गुहदेव-कपर्दि - भारुचिप्रभृति....व्याख्यानेत्यादि । ' एवंभूतस्य सितासितनि- बन्धनकारिमध्यप्रवेशनमिह परममुख्यार्थेऽवैषम्येप्यन्यनान्यथात्वादिना स्यात् । अत्राप्याचार्येति विशेषणेन टङ्कस्यांशतः प्रशंसापि स्यात् । अत्र सितनि- बन्धनकारिणः केचित् ; असितनिबन्धनकारिणश्चान्ये इत्यप्यभिप्रयन्ति । भप्रपञ्चोऽद्वैती स्यात् । तदुक्तमनूक्तं प्रकरणपञ्चिकायाम् (८ प्र.) * यत्विदं प्रपञ्चेन साधितम् प्रत्यक्षादिविरोधेप्याम्नायस्य बलीयस्त्वम् । तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति' इति । 'न दृष्टे ईष्टारं पश्ये:' (वृ.३ ४ २) इत्यत्र शाङ्करोपनिषद्भाष्ये प्रपञ्चकृतं व्याख्यानं दूषितमस्ति । तदौचित्यविमर्श- श्चास्माकृतपरमार्थप्रकाशिकाग्रन्थे ( १७४ पु. ) कृतो द्रष्टव्यः । भवृमित्रं मनसिकृत्यैवादौ श्लोकवार्तिके, 'प्रायेणैव हि मीमांसा लोके लोकायतीकृता ' इति, ' इममेव च संस्कारं श्रोत्रग्रहणकारणम् । केचित्तु पण्डितमन्याः श्रोत्रमित्यभिमन्वते (१-६-१३० ) इति चोक्तमिति न्यायरत्ना- करादवसीयते । तदयं नित्यनिषिद्धयोरिष्टानिष्टं फलं निषेधति, श्रोत्रेन्द्रियञ्च यथा- वन्नेच्छति । वेदान्तवादोऽस्य कीदृश इति विमृश्यम् । भर्तृहरिः स्फोटस्थापकः शब्दाद्वैतवादी । ब्रह्मदत्तो भेदाभेदवादीति परमतभङ्गे भास्करभङ्गाधिकारे । सर्वार्थसिद्धौ च जीवसरे (१६) ब्रह्मदत्तादिभिरुक्तं जीवानां स्वरूपतस्सृष्टिसंहृतिविषयत्व- मिति । तदयं यादवप्रकाशतुल्यः । ११.२ 'बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्बुवः । नानाभूतः प्रति- क्षेत्रमात्मवित्तिषु भासते ॥ इति पश्चिका (त.प्र)। अत्रोक्तं वित्तिभास्यत्वादि 'अन- न्यसाधन'इत्येतद्विवरणादौ निराकरिष्यते । एतदात्मसिद्धिकृता देहेन्द्रियादिभेदप्रति- पादनसरणिनन्दीश्वरकृते प्रभाकरविजयेपि। विशिष्य देहेन्द्रियविषयमात्रे, न केवलं प्रभेयतः, पदवाक्यपरिस्थितितश्च बहुलमनयोस्संवादो विस्षष्टमस्ति । परन्तु नन्दीश्वरग्रन्धादत्र गाम्भीर्य संदर्भसौष्ठवमधिकांशबोधनश्चापोतुमशक्यम् । न- न्दीश्वरश्च शालिकनाथ - भवनाथरूप नाथद्वयादर्वाचीन इति 'नाधद्वयात्तसारे' 1 .
१४८ सिद्धि त्रय- ? - इति तच्श्लोक एव दर्शयतीत्यलमत्राल्पके विस्तरेण । ११-१७ तथेहापि इति पूर्वस्थितस्य 'ग्रहणनियम' इति वाक्यसमन- न्तरं पाठःस्थितस्स्यात् । १२-७ अपिचेति वाक्यं काठिन्यानेकान्तनिगमनानन्तरं स्यादिति प्रथ- ममालोचितम् । अथापि स्थितमनुसृत्याऽऽशयविशेषः टिप्पणेऽदर्शि । प्रभाकरवि- जये त्वयमंशस्ततः पश्चादेव लक्ष्यते । १३-१५ अहं जानामीतिस्थाने अहमिदं जानामीति स्यात् ।। [ (४७-४) १५३ प्रतायमान इत्यत्र प्रतीयमान इति पा. १ तथैव च नीतिमाला १५-७ भवन्तिचेत्येतावन्मात्रोक्तावपि प्रयोगा इत्यर्थसिद्धम् । ईदृशसूक्ति- शैल्या ईश्वरसिद्धौ बहुलमुपलम्भात् । १५-९ स्फुटत्वादिति । भेदप्रतिभासाभावेपीति शेषः । १६.१ 'यथा घटोऽयमिति प्रतिभास ' इति प्र. वि. । 'यथाऽयं घट इति प्रतिभास ' इति आत्मसिद्धावेव पा० कृचित् (डि. १५२८४ ) १७-२१ अत्र गुणपदमद्रव्यार्थकम् । अतश्च कार्यत्वे सतीति मूलोक्तसा- र्थक्यं रूपस्वादीति टिप्पणसांगत्यञ्च । १९.६ प्र. विजये, 'अतएव वचनं सत्यतपसः, द्रष्टुश्चक्षुषो नास्ति जिहेति 'इति, 'यत्तु सात्यतपसं वचनं तत् शरणागतपरित्राणस्यावश्यकर्तव्यता. मन्यथा च व्याधस्य प्राणयात्रापत्तिञ्चालोच्योक्तमिति न दोष' इति च । श्रीवराहपु- राणे (९८ अ.) यदि तं दर्शयाम्यस्मै वराहं हन्यते तदा । नो चेत् कुटुम्बः क्षुधया सीदत्यस्य न संशयः ', ' दृष्टश्चक्षुर्निहितं जङ्गमेषु जिह्वा वक्तुं मृगयौ तद्विसृष्टम् । द्रष्टुञ्चक्षुर्नास्ति जिह्वेह वक्तुं जिह्वायास्यात्तत्त्वतोऽस्तीह चक्षुः इति । अत्रैवं शुद्धपाठस्स्यात् , ' द्रष्टुञ्चक्षुर्निहितं जङ्गमेषु जिंबा वक्तुं मृगयो ! तद्विसृष्टम् । द्रष्टुश्चक्षुषो नास्ति जिह्ह वक्तुं जिह्वाया वेत्येवम् । २१-१९ तस्य चेत्यादि । अत्रायं (प्र.प.तत्त्वा-) ग्रन्थोऽनुसंधेयः, 'तच्चा- त्ममनस्सन्निकर्षाख्यम् । तस्य चासमवायिकारणं मानस एव परिस्पन्दः । तस्या- प्यात्ममनस्सन्निकर्षान्तरमात्मसमवेतं प्रयत्नमदृष्टञ्चापेक्षमाणमसमवायिकारणम् । - - - टि प्प ण प र शिष्टम् प्रयत्नादृष्टयोश्चात्ममनस्सन्निकर्षान्तरमेवेत्यनादिरेषा कार्यकारणपरम्परा ' इति । आत्मसिद्धिग्रन्थे तु मनःस्थाने इन्द्रियमेवोक्तम् । टिप्पणे तद्धेतुरित्यस्य विषय- संप्रयोगरूपविशेषणांशहेतुत्वोक्तिरात्मनो विभुतयाऽऽत्मेन्द्रियसन्निकर्षस्य सूपपाद. स्वामिप्रायेण । विशेष्यभूतेन्द्रियसंप्रयोगपरत्वमेव वाऽस्तु; तस्यापि क्रियाजन्य- तया प्रकृतग्रन्थ इवार्थवर्णनसंभवात् । २३ १४ उपनिषद्वाक्यमिदं १०३ पुटे उदाहरिष्यते । तत्र धर्मभूतज्ञान. परत्वे मनः पदं स्वरसम् । २६.१२ सत्तायां रूपे चेत्यत्र, उपलभ्यमान ' इत्यादिपूर्ववाक्यांशानु- षङ्गः । प्रकाशत इतीति । प्रकाशत इति पदार्थघटकः प्रकाशसंवित् । तत्सबन्धाद्धटः प्रकाशत इति व्यवहारः । सैव चानुभूति: अतः अनुभूतिः प्रकाशत इत्यत्र न प्रकाशः कर्तृभूतानुभूत्यतिरिक्त इति । २६-१८ (प्र. प. तत्त्वा - ) ' सैव परं वेदित्री भवतु। कृतमन्येन बोद्धा' इति पूर्वम् , पश्चात्तु, 'बुद्धिरेव वरमस्तु; अलं बोद्रेति यदुक्त' मिति च पर- मिति वरमिति च दृश्यते । २७-३ अप्रकाशात्मन इत्यादि अद्वैतिभिरुच्यत इति प्र. प. त. प्रकरणे । २८.९ विज्ञानलक्षणेति प्रायिकः पाठः । विज्ञानक्षणेति क्वचित् ( R. १५९७)। प्र. विजये (९०) विज्ञानलक्षणसंतानस्थायितया ' इति. 'अथ विज्ञानक्षणानां भेदेपि सौसादृश्या' दिति च लक्षणपदं क्षणापदञ्चोपलभ्यते । बौद्धाः स्वलक्षणपदेन व्यक्तिस्वरूपं व्यवहरन्ति । योगसूत्रे (३-१-३) लक्ष- अपदमतीतवर्तमानाद्यवस्थापरं दृष्टम् (भावागणेशवृत्तौ ) । अतो विज्ञानलक्ष- गति पाठप्रमाण्ये अतीताद्यवस्थविज्ञानव्यक्तीत्यर्थस्यात् । ३२-७ स्वतस्सचेत् सदास्तीति यथाश्रुतान्वय एव वाऽस्तु । ३३-१७ इति वक्तव्य इति ! इतिवस्तुस्थितिरिति तथैव प्रमेये वक्तव्ये इति यावत् । इति निर्देशः = इतिप्रतीतिसंपादकवाक्यनिर्देशः । ३४.६ शब्दार्थग्रहणेति अस्य शब्दस्यायमर्थ इति ग्रहणेत्यर्थः; शब्दार्थ- [ पाठझ्यात् । ३५.५ तद्विकाराइत्यनन्तरं सन्तीपत्र 'सर्व' इति वा 'सन्तु' इति वा संबन्धग्रहणेति यावत् ।
१५० सिदित्रय - । ३७-२ अहमिदमन्त्रभूवमिति अहमर्थस्य कर्तुरिदमर्थस्य कर्मणश्चैव पूर्वा. परकालस्थायिता प्रतीयते । अनुभूतिस्तु अनुपूर्वकभूधास्वर्थः । नास्याः कर्तृकर्म- पदार्थता । अनुभूतेर्नित्यत्वे प्रतिसंधानसामञ्जस्यादनुभूतेरात्मत्वं सुस्थमिति परा- शयः । प्रतिसंधातृनित्यत्व एव तु प्रतिसंधानसामञ्जस्यम् , नत्वप्रतिसंधानु- भूतिनित्यस्व इति न तस्या आत्मत्वमिति । ' कर्मत्ववत् कर्तृत्वमरि दुर्घट' मिति भाष्यानुसारात् अत्र कर्मेति दृष्टान्तार्थम् । ३७.११ अवभासयन्नयं प्रत्यय इत्येतावस्यात् । अहमित्यधिकम् ! ३८-२४ कर्तृत्वादिति । अहम्प्रत्ययगोचरत्वादित्यपि हेतुः । ४७९ अतत्प्रत्ययदर्शनादित्यशुद्धम्। तत्प्रत्ययदर्शनादिति वा पाठस्स्यात् । ५१.२६ ननु जडे व्यभिचार इति कथं सुवचम् , नीलादेर्जडस्य पक्ष- त्वात् । सत्यम्-जडत्वादेस्संविदि बौद्धैः प्रतिषिद्धत्वाजडस्य पक्षावे बाधस्स्यादिति नीलवादिना पक्षता, न तु जडत्वेनेत्युक्तौ जडत्वेन जडेपि हेतुसत्त्वाद्वयभिचार इति तात्पर्यम् । ५४.१३ 'न च भेदोपि मिद्धिमन्तरेणे' त्यत्र, नचाभेदोपि सिद्धिमात्रेण इति, 'नचाभेदोपि सिद्धिमन्तरेणे' ति वा पाठस्स्यादित्यप्याहुः । ५४-१६ प्र. प. प्रमाणपारायणे, 'अप्रकाशात्मकस्यैव प्रकाशव्यतिरिक्तस्थ प्रकाश इति प्रकाशादेव सिद्धम्' इति । ५५-६ न ज्ञप्तिमात्रमित्येतावदेव पाठरस्यात् । तथेत्यधिकम् । [र्थितम् । ५८-७ अत्र अपीति न स्यादिति मन्यते | स्थितं तु कथञ्चिट्टिप्पणे सम- ५९.१ ननु सपक्षसत्त्वमप्यन्वयव्याप्तिग्रहोपयोगित्वान्न प्रकृतेऽपेक्षितमि. त्यत्र व्यतिरेकव्याप्ते१प्रहावमाह नचेति । दुष्करत्वादिति । अनुकूलतर्कश्च व्यतिरेकव्याप्तो दुर्वच इति भावः । ६०.६ तदसंघातत्वस्य चैति चकारः कृचिन्न । ६१२६ तलमध्यस्यन्ति, भवाङ्मुखीभूतमहेन्द्रनीलमणिमयमहाकटाह कल्पमित्यर्थ' इति भामती। ६३.१ पातञ्जलयोगभाष्ये (२-१८) 'यथा जयः पराजयो वा योद्धृत टिप्प ण प रि शिटम् . वर्तमानः स्वामिनि व्यपदिश्यते; स हि तत्फलस्य भोक्तेति. -- एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते; स हि तत्फलस्थ भक्ते' ति ! ६३-१० व्यतिरेकानुमानेति। देहादि व्यतिरेकसाधक-दूषितावशिष्टप्रस्तुत सांख्यहेतुपरतया वाक्यमिदं टिप्पणे व्याख्यातम् । देहादिव्यतिरेकसाधक-तत्त. द्वादिसमतान्वय्यादिसर्वानुमानदूषणपरतयापि शक्यं व्याख्यातुम् । ६६.४ प्र. वि. ( ९५ पु.) 'तार्ह चाक्षुषं रूपं, श्रावणशब्द इत्यादी- न्द्रियविशिष्टव्यवहारा' दिति । ६६-११ प्रथमवाक्ये चेतश्चलनमिति अनन्तरवाक्ये तच्चलनमिति च स्थितम् । लेखकप्रमादात्तु तयोर्यत्यास आपतित इत्यूह्यते ! ६६.१४ अत्र निरंशस्येतिस्थाने निरङ्कुशस्येति पाठः तालकोशे 'कु' अक्षरोपरिकृतनिरासचिह्नानवलोकनकृतः । ६८-४ भत्र 'मानसप्रत्यक्षश्चात्मना (ह्य) हि अधोनिरस्त' मिति पाठः स्यादिति पूर्वमालोचितम् । स्थितसमर्थनं टिप्पणे कृतम् । मानसप्रत्यक्षत्वमित्यस्य मानसप्रत्यक्षसिद्धत्वमित्यर्थः मानसं प्रत्यक्षं यस्येति बहुव्रीहि विना न सुलभः । परन्तु पूर्वमपि (६५) तथा प्रयोगोऽस्ति । अत्र ग्राह्येत्यक्षरं पूर्व संयोज्य, "मानसप्रत्यक्षग्राह्यत्वञ्चात्मनो धीव्यभिचारनिरस्त ' मिति स्यादित्यपि तर्कयन्ति । अत्र भात्मग्राह्येत्यनन्तरं धीत्यतः प्राक् अक्षरभ्रंशचिह्न कृचिदस्ति (१५९८७) ६८.५ अत्र स्वपरवेद्ययोरनतिशय इत्यत्रातिशयपदेन पूर्वोक्तस्य संदेह- प्रतिभटत्वरूपातिशयस्य ग्रहणे नन्वित्यादिसमनन्तरवाक्योच्यमानेन स्वसमवे- तबोधोत्पत्तिरूपविशेषेण वथाश्रुते संदेहनिवृत्त्युपपादनायोगात् टिप्पणे अनु- मितेत्यादिपूर्वग्रन्थः पूर्वोक्तातिशयानिवोहदोषपरिहाराभिसंधिपूर्वक इत्यभिधायात्र विवक्षितोऽतिशयोऽन्य इत्युक्तम् । अस्तु वा पूर्वोक्तातिशय एवात्र विवक्षित इति । एवञ्च अनुमितेत्यादेस्तथावतरणं मा भूतु। नन्वित्यादिग्रन्थतात्पर्यन्त्विस्थम् - स्वपरवेद्यस्थले हि स्वस्मिन् बोधः, परस्मिन् बोध इति विशेषोऽस्ति । तथाच परगतबोधस्य स्वयं ज्ञाततालिङ्गानुमान-मानसप्रत्यक्षान्यतरग्राह्यत्वायोगेपि स्वगत- बोधस्य तथाग्रहणसंभवात् झटित्येव तद्ग्रहणस्वीकारात् क्षणविलम्बस्य दुर्ज्ञान- १५२ सिदित्रय - कराशयः । .. । त्वाच न कश्चिद्दोष इति । ६९.१७ अत्र वित्तिजनकसामग्र्येव वित्तिं वेदितारञ्च भासयतीति प्राभा- [मूलं व्यस्येयम् । ७०-१४ आत्मसत्तैवेति पाठमपीह मन्यन्ते । तदापि टिप्पणोक्तद्वितीयरीत्या ७१.१२ अत्र ताल कोशे स्वतन्त्र एतेति विलिख्य 'स्त्र' अक्षरोपरि नि- रासचिह्नं निक्षिप्तम् । तदनवधानेन तदक्षरमपि गृह्णद्भिः स्त्रीलिङ्गानुसारेण स्व- तन्त्रैवति शोधयित्वाऽन्यत्र मुद्रितम् । स्वत एवेत्येव पाठः । ७१.२२ अयमत्रावतारिकार्थः - यो हि यत्संविद्विषयो न भवतीति पूर्वोक्तसामान्यमुखव्याप्तौ हेतुकोटौ वेद्यत्वे सतीति विशेषणमिष्यते । तथा च घटवित्तितदाश्रयावित्यनुमानं हेतौ वेद्यत्वविशेषणमन्तरा दुर्वचम् । तद्विशेषणे च स्वरूपासिध्या न प्रकृतसाध्यानुमानसंभव' इति । ७२.१ उपरि आश्रयप्रतियोगीति प्रतियोगिपदेन विषयग्रहणेप्यत्र प्रति योग्यवच्छेदायेत्यत्र तत्पदेनात्मग्रहणं टिप्पणाभिमतम् , अन्ययत्किञ्चिद्भाने आत्म संबन्धस्यापेक्षितत्ववर्णनापेक्षया स्ववैशिष्टयभाने स्वसंबन्धापेक्षावर्णनमुचित- मिति कृत्वा। अस्तु वा विषयवैशिष्टयमेव प्रतियोग्यवच्छेदः स्वारस्यात् । संविदो न स्वप्रकाशायात्मापेक्षा, किन्तु विषयसंबन्धायेति । तथाच भाष्यम् , बन्धितया ह्यस्यास्सत्ता विज्ञप्तितादि चे' ति। ७२-१० वरमिति पाठे अश्रयितुमित्युचितमिव । परन्तु प्रकरणपञ्चिकादी बहुलमीदृशः प्रयोगः । [च द्रष्टव्यम् । ७३-६ एतत्कारिकाविवरणं तत्त्वटीकायां (२७५) न्यायकुलिशे (७५ पृ.) ७३-१५ स्वापरोक्षायेति पा० । ७५ १२ अमूर्तस्येति कचिन । ७६-७ प्रकाशकत्वेत्यत्र अर्थविशेषप्रकाशकत्वेति पाठो भाव्यते । ७९-२ भ्रष्टमुत्तरार्ध (चित्यैवान्यव्यवच्छेदे कुतश्शक्त्यन्तधावन' मिति 'स्वसं- रीत्या स्यात् । ७९-१० वरमित्येव तालंपाठः ।
टिप्प ण प रि शिष्टम् १५३ ८०१० संभवतीत्यत्र संभवीति पा० [प्राप्तेति स्यात् । ८१.६ तद्भावभाविस्वस्येत्युपरितनपदानुसारेणात्र अभावप्राप्तत्यत्र भाव- ८५.१ शरीरधारणेति पाठस्स्यात् । स्थितं योजितं टिप्पणे । ८५.५ निवृत्तः संप्रज्ञातेत्येव सर्वत्र पाठः । निवृत्तरित्यत्र वाक्यसमाप्ती असंप्रज्ञातेति पाठान्तरोहो दर्शितः। तथावाक्यस माप्तावपि संप्रज्ञातेत्येव पाठ- रक्षणाय मध्ये 'अत' इति पदमुचितं तर्कितम् । ८५-८ प्रत्यवमर्शाश्चात्र दर्शितप्रकारा योगभाष्ये (१.१० ) द्रष्टव्याः । ८७-११ अर्थान्तवर्तिन इति अन्तरवर्तिन इति च पा० ८९-४ संगीयतेतिस्थाने ' स गीयेते' ति स्यादिति दर्शितम् । संप्रति 'संगीर्येते'ति स्यादित्यालोच्यते; यथा (प्र.प.३) 'मीमांसकैरपि संगीर्यत ' इति । ९१.२ आशङ्कयपरिहारमिति पाठान्तरं अशक्यपरिहारमिति शोधितम् । १०८-१ 'रसनादिभिः रजतातिवृत्ते' त्यत्र रसनादिभिरजातातिवृत्तेति कृतं शोधन केनचित्तालकोशेनापि (५०७२ ) रक्षितम् । एवमेव - ' अपेक्षितार्थसन्निकर्षसहकारिविरहे ' इति समस्तपदसंभावना अपेक्षित सन्निकर्ष सहकारिविरह' इति (डि. १५२८४) कोशीयपाठदर्श- नेन स्थैर्यमर्हति । १०९-१८ अत्र 'एषा च दिक् क्रमेणान्त्यावयविभ्योऽवतरन्ती आद्वयणुक- मवतिष्ठत ' इति प्र. प. वचनं स्मार्यते । ११०-११ अत्र टिप्पणे तनुशब्दविषयविमविकाशकल्पनं कतरशब्दग्रहणे- ऽर्थक्लेशोऽनधिक इति श्रीभाष्यव्याख्यालोडनेन विमर्शार्थम् । न तु तनुशब्दो- अनुपपन्न इत्याशयेन; न्यायवार्तिकतात्पर्यटीकायां ( ४ १-२१) 'तनुतरुमही- धर', ' तरुमहीधर', 'तनुभुवनादि ' इति नानारूपप्रयोगदर्शनात् । ११२-२ कार्यत्वसाध्यकत्वे शक्यक्रियत्वमुपाधिः; चेतनाधिष्ठितत्वसाध्यकत्वे शक्यज्ञानत्वमुपाधिरिति नयविवेके (१९४) प्रभाकरविजये { ८२, ७९ ) च । अत्र चेतनकर्तृकत्वे साध्ये उभयमुपाधिरुच्यते । ११७-१३ अधिष्ठातृदेहानुप्रवेश इति अधिष्ठात्रन्तरानुप्रवेश इति च पा० " ११७-१६ अस्त्वेकतत्त्व संबद्धस्याधिष्ठानेत्यत्र, 'नह्येतत् । किन्तु तदसंबद्धस्य तदधिष्ठाने ' ति प्रक्षेपबहुले कोशे पाठः । १२०.६ प्रकृतिशब्द उपादानार्थकः । १२४-२ क्वचित्तालकोशे व्रत्यर्थत्येति पाठ. । अन्यत्र सर्वत्र 'वत्यर्थस्येति । १२७-४ जन्ययोगात् जनेरुत्पत्तेरयोगात् । १२५-६ प्रधानसंख्येयः संख्यायामित्येव सर्वत्र पाठः । १३८.१५ वर्तिनशब्दस्य पृथक्प्रयोगस्साधुश्चेत् , तदा पूर्व पश्चाच्च सिद्धा- न्तिवाक्यम् ; इयं तु कारिका शङ्कितुरिति टिप्पणोत्तरीतिः । असाधुश्चेत् - 'वर्तिताः' इति शोधनीयं स्यात् । एवञ्च, 'ज्ञानानन्दादिशब्दाः न (नो) (किं) न सतस्सद्वितीयते 'त्युत्तराधं शोध्यम् । तदात्वियमपि कारिका सिद्धान्तिन एवेति । १४१.११ स्वैरित्यादिकारिका शतदूषण्यां ६१ वादेऽन्ववादि । अर्थानुवादश्शतदूषणीस्थः प्रागेव सिद्धेषदर्शितोऽस्याः । शब्दानुवादाः स्वयमेव दृश्या ये न्यायसिद्धाञ्जन आत्मसिद्धेः।। उपोद्घातं पृथन्द्रष्टुमुत्सहन्ते न वैदिकाः । तत्तसिद्धिमुखेऽन्तश्च तदर्थोऽतो व्यभज्यत ।। न यत्र चिह्न निरदेशि किश्चिन्न टिप्पणादावपि यद् व्यचारि। तत्रान्यथापाठ इह प्रक्लुप्त स्तालानुरोधादिति भावनीयम् ।। स्वैरं न पाठोऽन्यथितो मयेह प्रदर्श्य दृष्टां स्थितिमन्यरीतिः । यथाईमावेदि मनाक् अशेपं धिया च कोशैर्विमृशन्तु सन्तः ।। यद् ब्रह्मसिद्धिः स्फुटमिष्टसिद्धिनैष्कर्म्यसिद्भिश्च निरस्यतेत्र। विमृश्यते तन्त्रगपश्चिकादिग्रन्थश्च तचागिहाभिनन्द्यम् ।। श्रीमते रङ्गरामानुजमहादशिकाय नमः । श्रीमते हयवदनपरब्रह्मणे नमः ॥ ॥ शुभमस्तु॥
आकर 94 ची आ. पु . ? ४७. अ. शिरसि. ७० छा. आ. अकायमव्रण ६३ ई. उ. ८ चेतनाधृ १०२ गी. १३.६ अथयोवेद ५५ छा. ८.१२.३ जानात्येवा १०३ बृ. ४.४.१४ अनुभवादू ९८ न्यायतत्त्वे जीवापेतं ६२ छा. ६.१.३ अन्नमय २३ छा. ६.५.४ ज्योतिषामपि१०३ इतिहा० अप्रामाण्य ३० सुरेश्वर वार्तिक ज्ञोत एव १०३ . मू. २.३.१९ अभावप्रत्य ८६ यो.सू. १.१० तत्त्वमसि १२७ छा. ६.८.६ अविभागो २७ बौद्धग्रन्थे ? तथाहेय १०३ श्रीविष्णुधर्मे १०३ अस्मत्प्रत्यये ४६ तदस्य ९४ गी. २.३७ अहमेवच सदाविद्वा ७० मु.उ. ३.१.३ अहं बीज ४७ गी. १४.४ तद्धतत्प ४७ बृ.उ. ३.४.१० आत्मज्योति १०३ बृ. ६.३.६ तद्यथेहे ८.१.६ आत्मधर्म ७६ तरतिशो ५ छा. ७.१.३ आत्मनश्चे ४० नै. सि. २.३२ तस्माद्वा ५५ ते. आन. ४ आदावन्तेपि १२७ तानिसर्वाणि १०२ वि.पु.१.२२.८६ आपोमयः २३ छा. ६.५.४ तेषामह ४७ गी. १२.७ इच्छाद्वेष प्र ५६ न्या.सू. १.१.१० देवावैकारिकाः ६० वि.पु. १.२.४७ इच्छाद्वेषस्सु १०१ गी. १३.६ द्रष्टुश्चक्षु १९ व.पु.९८ इन्द्रियाणां ९५ म. स्मृ. २.९९ नजायते ६३ गी. २.२० विप- उदरमन्तरं १२५ ते. आन. २.७ श्चिदितिपाठे - क उ.२.१.१८ एकमेवा० १२१ छा. ६.२.१ नपश्यो ५५ छा. ७२६ एतावानस्य १२५ पु. सू. नविज्ञातुः १०२ बृ.उ. ६.३.३० एवमवास्य ५५ प्र.उ.६.५ नहवसं ६३ छा. ८.१२.१ एषहिंद्रष्टा प्र. उ. ४.९ नहिंद्रष्टु १०२ बृ. उ. ६.३.२३ कतमआत्मति ५५ बृ. उ. ३.७ नाजं ३५ इष्टसिद्धि कामस्संकल्प १०१ नाशकद्द १२५ केनोपनिवदर्थः क्षीयन्ते ७० मु.उ.२.२.९ नास्त्यकृतः ७० मु.उ.१.२.१२ ? बृ. ३.५.३ -- 2 वि. पु. आ. आ. नास्यामेयो ३५ इष्टसिद्धि यानुभूति ३० इष्टसिद्धि प्रथमका- निर्वाणमय एव१०३ वि.पु.६.७.२२ योनिमन्येप्र ६३ क. उ. २.५.७ नोपजनं १०३ छा. ८.१२.३ योयं विज्ञान ५५ बृ. उ. ६.३.७ परागर्थ ३० सुरेश्वरवार्तिक ? लिति ५६पा.अ. ७.१.१९३ पराञ्चि ६४ क. उ. २.४.१ वाचारम्भ १२५ छा. ६.१.४ पादोस्य १२५ पु.सू. विज्ञातार ५५ बृ. उ. ४.४.१४ पृथगात्मानं ५ श्वेताश्व १ वेदान्ताना ३० सुरेश्वरवार्तिक ? पृथिव्याप: १३ बृहस्पतिसू. वेदाह सम ४७ गी, ७.२.६ प्रज्ञानं ब्र. ५६ ऐ. उ.३.१.३ शुद्ध तत्त्वं २७ अद्वैतिग्रन्थे ? बहुस्यां ४७छा. ६.२.३ श्रूयताश्चा ४८ पु. ६.७.०० ब्रह्मबिदा ५ ते. आन १ सईक्षत ४७ ऐ. उ.१ मनसैतान् २३ डा. ८.१२.५ सउत्तमः ५५ छा. ८.१२.३ मनसैवज वि.पु. ५.२२.१५ सएतेन ५६ ऐ. उ. ३.१.३ मनोऽस्य छा. ८.१२.५ सएषनेति ६३ बृ. उ. ६:५.१५ महाभूतान्य ४८ गी. १३.५ सत्यं ज्ञान ५६ ते. आन १ मानंस्वयंप्र ३२ ? सयथासै १०३ बृ.उ. ६.५.१३ मेरोरिवाणु १२५ ? सवा एष छा. ८.१२.५ यत्रान्यन्न , छा. ७.२४ संघातप ५९ सां.का. १७ यथानक्रिय १०३ श्रीविष्णुधर्मे १०३ संवित्सैवे ३० सुरेश्वरवार्तिक? यथोदपान सोऽन्यंकामं २३ महोप यदाचितिरे ६२ पा.यो.सू.भा.१.९ स्मृतिर्नबा ३२ इष्टसिद्धि * यस्मात्क्षरम ४७ गी. १५.१८ स्वेनभासा १०३ बृ. उ. ६.३.९ यस्यपृथिवी १०२ बृ. उ.५.७ हन्ताहमिमाः ४७ छा. ६.३.२ * इ-४ -(पु.३९४) 'नष्टेप्यर्थे तत्स्मृतिदर्शनान्न सार्था स्मृतिः । कथं तत्स्मृतिस्तं विनति चेत् - तदाकारत्वात् ' इति । . अत्र व्याख्या, इतरच स्मृतिर्न बाह्य लम्बनेत्याहे ति ।
न्यायतत्त्व, 1.2,13.28.66. 69. 98 - . मा. प्रा. ११५. ११७ सर्वार्थसिद्धि. १४७. रहस्य, ल. सा. ४. ५. न्या. सि. 2. 11. 17. 44.93.99. 2.113,121.124. 133. I4I तत्व टीका. 27. I2I. 140. I52. नयविवेक, 107. II0. I53. शास्त्रदीपिका, 42, 69. 89. IB9. ११३ न्याय. कुलिश. १५२. प्रकरण पश्चिका. 40. 110.115. 131. 147. 148. 149. 150. श्रीभाष्य, 2.3.6.10.28.32,100. 106. 110. 115. 116. 121.150.152. श.दू. 121. 122.123.124.125. 126.128.131.132.133.136.138. (२) बादरायण · द्रमिडभाष्यकार • श्रीवत्साङ्कमिश्र - आचार्यटङ्क - भतप्रपञ्च • मतृमित्र - भर्तृहरि - ब्रह्मदत्त • शङ्कर-श्रीवत्साङ्क-भास्करादिः १०.१४६.१४७ सिद्धित्रय - टिप्पण - परिशिष्ट- निर्दिष्ट नाम सूची (गीतापुराणोपनिषद्विषयनामसूचनं तु न) ११) पु. पु. इष्टसिद्धि. 25. 35. 106. सौ. नै. सि. 40. 45. 47. 196. न्या.वा. ता.टी. 153. न्यायद, 20. 32,56. 110. मीमांसा. 19. 28. 42. योगसूत्र. 47. 78. 86. 149. व्याकरण, 15.56. 62.63. 98. पु. वैशे. द. १३. कूरनारा.भा. ७४, बार्हस्पत्य १३. १७. प्रश. भा. १०७. योगभाध्य. ८६. १५०. पर. मत. भंग. १४७ तत्वकौमुदी. वेदार्थ. सं. १४७. कुसुमाञ्ज. १०५. १११ मूलभावप्र. ता. चन्द्रि. १४६. न्यायरत्नाकर. प्रभाकर विजय. 107. 117. 147. 148, 149. 151. 153. बोधायन. १.६. तद्वार्तिककार ३०. चोलनप. १०३. नाथमुनि. १. अक्षपाद. १९.५०.७९ शौनक. १०. नि. महादे. ३. पाणिनि. ६२.६३.७८ कुरेश. १४७. सत्यतपा: ६२.५८ नन्दीश्वर. प्रकटाः २७. कणभक्ष. ७९. प्रच्छन्नाः २७.६२. मनु. ९५. विमुक्तात्मा. २८. सूत्रकार. १०३. १३७. पतञ्जलिः शालिकनाथ. भवनाथ सुरेश.
ii का रि का सू ची आ त्म सिद्धि प्रकृति, १०५. " विरुद्ध. देहेन्द्रि. १ ४ ११ १३ १६ अत्र प्रति ! अर्थक्रि. -rototoo ईश्वर सि दि ततक. १०६ व्यवस्थि. १०७ प्रत्यक्ष. नन्वेक. तथास.. किमस्य. ११० १८ १०९ T चेतना. Coc.oC WW 5 . अपरार्थ. अस्फुट. उत्पत्ति. सच्छिद्र. निरस्तो सिद्धिश्चे. शान्ताङ्गा. व्यक्तव्य. करणा. अतः प्र. किमप्रका. इति संदि. अचित्त. अप. सजाती. देवं. अत्राहु. ७८ चैतन्या चितिश. ७९ यतः स्व. स्वतस्सि. ८८ असिद्ध. ९२ सर्वा ह्ये द्वित्वादि. संस्यैक. ९२ आपेक्षि. नातीता. नित्यत्व. देशैक्ये. अत ए. किचोदा. स्थानक्या. भवत्व. स्वरूपो. १०१ एवमा. १०४ उपादा. कर्मण. आगमा. ४१ ४३ ४८ ५२ स्वार्थका. ११२ ११२ ११३ " . " ६४ सुखैक. असिद्ध. अत्र ब. तादृशा. प्रत्यक्षं. एकेना. एकप्रधा. धर्माध. ९ १२० "" सर्वस्या. ७२ यो यस्य. " संवित्सिद्धेः कारिकामय वात् बाहुल्यात तत्कारिकासूर्ची न विधीयते ।
iii शो ध नि का प.. पुट. पुट. प०. ४ . १२ तत्साधकः प्रबन्धः पृ. ९ जडत्वादिभिः ८ . १६ आरोपिताविद्यक [थक् ५९. ८ अप्यपोदिता ८ . २६ चतुर्मूर्तिपक्षमुक्त्वा ७६ - २६ परामृश्यमानं - २० सन्मात्रविकृतयोः ७९ : २३ अपिचेति ११. ८ इतरथा ८९ . ४ (स गीयेत?)(संगीर्येत:) १५.४.५ तनास्मच्छब्दस्या १.५ . २४ प्रथमार्शक २३ - ११ (छा०. ६.४ ) १०९ २२ सिषाधयिषित २३ . १२ ननु तन्न १२५ - १५ लोहबीजादि २६ - ३ भावेपि ततः प्रागेव, १२७ - २७ - १८ एवमहमर्थ १३१ १ जल्पितम् २५ ग्राह्यग्राह १३५ - २४ सार्वत्य २८ - ५-६ समर्थनेन २० सर्वज्ञान्तरसिद्धिः २८.१६ न च सुसह १३६ . २३ ब्रह्मास्मीति ३२ . २६ 'युगेव ही'ति १८६ - २० इत्युपक्रान्त ४९. ९ ताऽहमर्थ ७ यच्छ्रुतम् मुद्रणे मातृकात्वेनोपयुक्तं काश्यां मुद्रितं देवनागरलिपिपुस्तकम् ; आन्ध्रलिपिपुस्तकञ्च । श्रीवेङ्कटेश प्राच्यविद्यापुस्तकभाण्डागारस्थो प्रन्थाक्षर- तालकोशोऽप्यान्तमवैक्षि । मद्रनगरराजकीय पुस्तकभाण्डागारस्थिताश्च कोशा- स्तत्रतत्र यथावसरमलोकिषत ॥ अस्ति पुनः अण्णामलैविश्वविद्यालये मुद्रितं भाङ्गलभाषापरिवृत्तिसाहतं सिद्धित्रयं प्राय:प्राप्तप्रचारम् ; यस्य मुद्रणे मादृशैरपि मूलशोधनादौ यथावसरं नूनमुपंकृतम् । परन्तु पृथक् टिप्पणेन सह संप्रति शुद्ध- संस्कृतमात्रमुद्रणे प्रवृत्तेन ऐदम्पर्यमधिकं यथावसरं वहता मया भूयः पाठशोध. नेन, स्थितपाठार्थ विमर्शनेन, विषयविभजनेन, विशेषचिन्तनेन, प्राचीनग्रन्ध- संवादानुवादप्रदर्शनेन च यथाशक्ति प्रेक्षावतां प्रीणनाय सुबहु व्यापृतम् । फलांशे तु सन्तः प्रमाणम् । अधिकं तु सतामादरात् पुनर्मुद्रणे प्रतीक्ष्यम् ॥
iv अस्य सिद्धित्रयस्य निर्माता श्रीभगवद्यामुनमुनिः कवेरजाभागपरिसर- प्रख्यात श्रीवीरनारायण (काटुमन्नारगुडि ) पुराभिजनस्य बाह्यकुदृष्टिनिरसनेन स्वमतस्थापनाय व्यायतत्त्वं शास्त्रं भगवत्तद्भक्तसाक्षात्कारानुभवसंपत्तये योगरह- स्यञ्च प्रणीतवतो योगिसार्वभौमस्य श्रीभगवन्नाथमुनेः पौत्रः ईश्वरमुनिपुत्रः चोलराजास्थानपण्डितं विजित्य प्राप्तार्धराज्यः पितामहशरणादिष्टेन तच्छिष्येण श्रीपुण्डरीकाक्षसूरणा स्वाशक्त्यवस्थामालोक्य स्वशिष्य श्रीराममिश्रमुखेन विबो- धिनविशेषार्थस्त्रिदण्डधारी परमतनिरसनादिना परिरक्षितवेदवैदिकः स्वस्य स्थाविरे श्रीभगवद्रामानुजमनुगृह्य तन्मुखेन स्थापितपुरातनसिद्धान्तः (आङ्गल- गणनया एकादशद्वादशशतकमध्यकाले लब्धाभ्युदयः); येन हि विजयप्रस्थाने विशिष्य घोषिताविमौ श्लोकाविति संप्रदायः न वयं कवयस्तु केवलं न वयं केवलतन्त्रपारगाः । अपितु प्रतिवादिवारणपकटाटोपविपाटनक्षमाः ॥ आ शैलादद्रिकन्याचरणकिसलयन्यासधन्योपकण्ठान आ रक्षोनीतसीतामुखकमलसमुल्लासहेतोश्च सेतोः । आ च पाच्यप्रतीच्यक्षितिधरयुगलादर्कसोमावतंसात् मीमांसाशास्त्रयुग्मश्रमविमलमना मृग्यतां मादृशोऽन्यः ।।' इति।। एतदनुगृहीताश्च प्रबन्धाः- श्री चतुःश्लोकी, स्तोत्ररत्नम् , आगम- प्रामाण्यम् , गीतार्थसंग्रहः, पुरुषनिर्णयः, सिद्धित्रयञ्च । अत्र पुरुषनिर्णयस्सर्व- थैव नोपलभ्यते; शिष्टेषु च सिद्धित्रयादन्ये ग्रन्थाः सामग्र्येण लब्धास्सम्यगेव परिष्कृत्य मुदितास्समुल्ललन्तीति साम्प्रतमिदमेव मुद्रयित्वा प्रकाश्यते । श्रीभगवद्यामुनमुनये नमः॥ श्रीरङ्गरामानुजमहादेशिकषष्टयब्दपूर्तिसमये संप्राप्तप्रकाशानि तावत् आचार्यानुगृहीतं भेदसाम्राज्यम् , सिद्धित्रयम् , पण्डितप्रकाण्डै तच्छिष्य- रन्यैश्च विरचितानि तद्विषयस्तोत्राणि, मणिप्रवालमयस्ताव्यचारतग्रन्धश्च !! ॥ श्रीरस्तु । शुभमस्तु ॥ १. एतच्चरितं विशिष्य दिव्यसूरिचरितकाव्यादौ द्रष्टव्यम् ।
No text on this page.