Canegie Mellon Univeristy

Sribhashya Vartika

Bhat't'a,ratnagopala · 2006/01/20

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF I'RE BEN ARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R T. H GRIFFITH, MA,C.I. E. AND G. THIBAUT, PH. D. Na. 123 Registered under ActXXV. of 1867. ( ALL RIGHTS RESERVED.) श्रीभाष्यवाातकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैत- सिद्धान्तप्रतिपादनपरम् । श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रत्नगोपालभट्टेन संशोधितम् । ŜRİ BHÂSHYA VÂRTIKA, A TREATISE ON VISISHTADVAITA PHILOSOPHY, EDITED BY RATNA GOPAL BHATTA Fasciculus I AND SOLD BY HD GUPTA, BENARES. Published by the Proprietors Messrs Braj B. Das & Co., Secretary, Chowkhamba Sanskrit Book Depot. Printed at the Vidya Vilâs Press, BENARES. 1906.

१ सूचीपत्रम्। गणपाठः गोलप्रकाश गगालहरी गुरसारणी जातकतत्त्वम् तत्त्वदीप तकर्सग्रहं. दत्तकमीमांसा धम्मशास्त्रसंग्रहः धातुपाठ ( शिला -1) . १ १ ६ २ २ धातुरूपावली . २ . १ . a 0 0 २ नेपध चरित नारायणी टीका टाइप परिभाषापाठ पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् (प्रश्न विचार का बहुत उत्तम ग्रन्थ) बीजगणितम् (म० म०प० सुधाकरकृतटिप्पणीसहित) १ मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिपणीमहिता लघुकौमुदीभाषाटीका लक्षणावली लीलावती ( म०म० पं० सुधाकरकृतटिप्पणीसहित) १ वसिष्ठसिद्धान्त विष्णु सहस्त्रनाम शब्दरूपावली गार सप्तशती समासचक्रम् समासचन्द्रिका सरस्वतीकण्ठाभरणम् ३ सायचन्द्रिका टिप्पणीसहिता साङ्ख्यतत्त्वकौमुदी सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता ३ उपसर्गवृत्ति क्षेत्रकौमुदी क्षेत्रसंहिता २ . १ १ ६ १ ६ .

श्रीगणपतये नमः।
श्रीभाष्यवार्तिकम् ।
श्रीहरिप्रणतिं कृत्वा रामानुजमते मया ॥
व्याससूत्रार्थबोधाय भाष्ये वार्तिकमुच्यते ॥ १ ॥
वृद्धव्यवहृतेरादौ शक्तेः कार्यान्विते ग्रहाद ॥
निष्पन्नब्रह्मरूपाथै प्रामाण्यं वै कथं श्रुतेः ॥ २॥
निसानन्तफलज्ञानजन्मब्रह्मविचारणम् ॥
नारम्भणीयं तेनादाविसाशय समुच्यते ॥ ३ ॥
ब्रह्मज्ञानफलानन्तस्थायित्वज्ञानहेतुकः ॥
व्यक्तो विचारारम्भोऽत्र सिद्ध व्युत्पत्तिदर्शनात् ॥ ४ ॥
अम्बतातादिशब्देषु बालानां पितृशिक्षया ॥
अम्बतातादिसङ्केतग्रहो लौकिकसंमतः ॥ ५ ॥
स्वाध्यायानन्तरं ज्ञात्वा ह्यनियफलहेतुताम् ।।
कर्मणां ब्रह्मजिज्ञासा कर्त्तव्या ब्रह्मकर्मिका ॥ ६ ॥
स्वाभाविकास्तसकलहेयानन्तगुणाकरः ।।
ब्रह्मशब्दस्य मुख्यार्थो नृहरिः पुरुषोत्तमः ॥ ७॥
बृहत्त्वगुणयोगेन ब्रह्मशब्दो हरौ स्मृतः ।।
बृहत्त्वं च स्वरूपेण गुणैर्यत्र हि दृश्यते ॥ ८॥
गुणलेशस्य संयोगादन्यत्राप्यौपचारिकः॥
नानार्थकल्पनायोगाद्भगवच्छब्दवत् स्मृतः ॥ ९ ॥
तापत्रयातुरैः सोऽयममृतत्वाय वै हरिः॥
जिज्ञास्य एव सर्वेशो जिज्ञासाकर्म ब्रह्म तत् ॥ १० ॥

श्रीभाष्यवार्तिके ज्ञातुमिच्छा हि जिज्ञासा सेष्यमाणप्रधानिका ॥ तस्मादिहष्यमाणं तज्ज्ञानमेव विधीयते ॥ ११॥ पूर्वमीमांसया ज्ञानं कर्माऽल्पास्थिरसत्फलम् ॥ तस्या उत्तरया ज्ञानमनन्ताऽक्षयसत्फलम् ॥ १२ ॥ ततः कर्म प्रविज्ञाय ब्रह्म ज्ञातव्यमिष्यते ॥ कर्ममीमांसया ब्रह्ममीमांसाऽभेदमश्नुते ॥ १३ ॥ तस्माच्छारीरशास्त्रेण षोडशैकस्वलक्षणम् ॥ जैमिनीयं भवेदेकविशेषार्थोपपादकम् ॥ १४ ॥ किं तद् ब्रह्म पुनर्यद् वै जिज्ञास्यं परिकीर्तितम् ॥ अचिन्सरचनस्यास्य दिक्कालनियतस्य च १५ ॥ फलभोगविशिष्टस्य क्षेत्रज्ञैः संयुतस्य हि ॥ उत्पत्तिस्थितिसंहारा जगतः सम्भवन्ति हि॥ १६ ॥ यस्मात् सर्वेश्वरात ससकल्याणगुणसागरात् ॥ सर्वज्ञात् सर्वशक्तस्तद् ब्रह्मैवेति विनिश्चिनु ॥ १७ ॥ लक्षणानामनेकत्वाद् ब्रह्मानेकत्वमापतेत् ॥ व्यावर्तकं लक्षणं हि विशेषणतयोदितम् ॥ १८॥ मसक्षादिप्रमाणाधैर्यत्रैकं लक्ष्यमिष्यते ॥ तवैकं तद् भवति चेद् भवत्वत्र तथा न हि ॥ १९॥ जगज्जन्मस्थितिलया उपलक्षणरूपिणः॥ उपलक्ष्यब्रह्मरूपं बृहद्ब्रहणयोगि च ॥ २० ॥ अक्षायविषयं ब्रह्म यतोऽतीन्द्रियमिष्यते ॥ अनुमानेन नो सिद्धयसनन्तगुणवान विभुः ॥ २१ ॥ शास्त्रपामाणसम्बोध्यं ब्रह्म तस्माद् बृहद्गुणम् ॥ यतो वेत्यादिवाक्यानि प्रमाणं ब्रह्मनिर्णये ॥ २२ ॥ शास्त्रैकाविषयं ब्रह्म यद्यपि प्रतिपादितम् ॥

१ अध्याये १ पादः।
प्रवृत्त्यादिपरं शास्त्रं न तद्बोधे तथाऽप्यलम् ॥२३ ॥
इसाशमाह तच्छास्त्रयोनित्वं ब्रह्मलक्षणम् ॥
युक्तं समन्वयाद्धेतोः पुरुषार्थे हि ब्रह्मणि ॥ २४ ॥
मुख्यवृत्त्या यतो वाक्यान्वयो छत्र समन्वयः ॥
यतो वेत्यादिवाक्येन सर्वज्ञं सर्वशक्तिमत् ॥ २५ ॥
समस्तहेयरहितं कल्याणगुणसागरम् ॥
जगतः कारणं ब्रह्म जिज्ञास्यमिह बोधितम् ॥ २६ ॥
जगज्जन्मादिकर्तृ स्यादानुमानिकमेव यत् ॥
प्रधानं तत एवेह युक्तकज्ञानहेतुका ॥ २७ ॥
सर्वज्ञानप्रतिज्ञाऽपि समस्तं प्राकृनं यतः ॥
इसाशय निराचष्टे सदेवेसादिवाक्यगम् ॥ २८॥
सत्पदं न प्रधानस्य बोधकं जडरूपिणः॥
ईक्षतिश्रवणात् सा तु चेतने युज्यते यतः ॥ २९ ॥
सदैवतेति वाक्यं वै चेतनेक्षणबाधकम् ॥
सर्वज्ञः सर्वशक्तिर्यः सत्पदार्थः स एव हि ॥ ३० ॥
नच, ता आप ऐक्षन्तेसादि गौणेक्षणं यथा ।।
सदैक्षन्तेयत्र तथा गौणमीक्षणमुच्यताम् ॥ ३ ॥
ऐतदात्म्यमिदं सर्वं तत्ससं परिकीर्तितम् ॥
स आत्मेसत्र सच्छब्दवाच्यस्यात्मोपदेशतः ॥ ३२ ॥
इतोऽपि न प्रधानं तत्सच्छब्दप्रतिपादितम् ॥
सच्छब्दार्थैकनिष्ठस्य मोक्षप्राप्त्युपदेशतः ।। ३३ ॥
न हि चेतनरूपस्याचित्सम्पत्तिः प्रयुज्यते ॥
सच्छब्दप्रतिपाद्यं स्यात् प्रधानं हि तदा पुनः ॥ ३४ ॥
श्वेतकेतोस्तदात्मत्वं हेयत्वं न वदेत् कथम ॥
यत्रायं स्वपिति म सता सम्पन्नतां गतः ॥ ३५॥

श्रीभाष्यवार्तिके खमपीतस्तदा सोम्य स्वपितीत्युच्यतेऽजनम् ॥ स्वकारणे लयो यस्मादेवं जीवस्य वर्ण्यते ॥ ३६ ॥ अचेतनं चेतनस्य कारणं न यतो भवेत् ॥ अतः सच्छब्दवाच्यं हि प्रधानं न कथञ्चन ॥ ३७॥ सर्वेषां सृष्टिवाक्यानां समानार्थत्वतोऽपि च ॥ सर्वेश्वरः कारणं हि सर्ववाक्येषु वर्ण्यते ॥ ३८॥ श्रुतमात्रोपनिषदि सच्छब्दार्थात्मनस्तथा ॥ नामरूपादिजगतो व्याकर्तृत्वं न चान्यगम् ॥ ३९ ॥ तस्मात् प्रधानं तच्छब्दव्युत्पाद्यं न कथञ्चन भाष्यार्थस्य चतुःसूत्रीवार्तिकं पूर्णतागतम् ॥ ४० ॥ आनन्दमयजीवो हि शारीरश्रवणाच्छरुतौ ॥ प्रियमोदप्रमोदादिशिरआद्यवयवी च सः ॥ ४१॥ ब्रह्मपुच्छं प्रतिष्ठति स एव परिकीर्तितः ॥ देवादिभेदाभिन्नोऽयमखण्डानन्दचिन्मयः ॥ ४२ ॥ इसाशमय परात्मासावानन्दमय उच्यते ॥ प्रकृसतिशयाभ्यासाद् विस्पष्टं स तु दृश्यते ॥ ४३ ।। सैषाऽऽनन्दस्य मीमांसेसारभ्योत्तरमुत्तरम् ।। ब्रह्मावधि तदभ्यास उक्तः शतगुणो यतः ॥ ४४ ॥ अभ्यस्यमान आनन्दः कल्याणगुणसागरम् ।। स्वाश्रयं परमात्मानमावेदयति सादरम् ॥ ४५ ।। यद्विज्ञानमयादन्य आनन्दमय ईरितः॥ तद्विज्ञानमयो जीवो बुद्धिमानं स नो भवेत् ॥ ४६ ॥ मयट्प्रसयसम्बन्धादुक्तत्वाद् बुद्धिभेदतः ॥ अगसाऽऽश्रीयते स्वार्थे स तु प्राणपदोत्तरम् ॥ ४७ ॥ विज्ञानं तनुते यज्ञं कथमत्र हि केवलम् ॥

१ अध्याये १ पादः।
विज्ञानशब्दोपादानमत आत्मस्वरूपकम् ॥ ४८ ॥
स्वप्रकाशतयैवोक्तं विज्ञानमितिचेन्न हि ॥
ज्ञातुः स्वरूपं ज्ञानकरूपणीयं यतस्ततः ॥ ४९ ॥
धर्मिणं धर्मशब्दो हि स्वमुखेन निरूपयेत ॥
विज्ञानशब्दनिर्दिष्टो जीवः काण्वादिपाठतः ॥ ५० ॥
तदन्तरस्तदन्योपमानन्दमय ईश्वरः ।
व्यासोऽपि भेदव्यपदेशादियनन्तरमूचिवान् ॥ ५१॥
नानन्दमयब्रह्मात्र जीवादन्यः कथञ्चन ॥
विकारवाचिमयटः प्रसयादिति तन्न हि ॥ ५२ ॥
प्राचुर्यवाचको यस्मान्मयडत्र निरूप्यते ॥
शतसंख्योऽत्र गणितः क्रमेणैवोत्तरोत्तरम् ॥ ५३ ।।
अभ्यस्यमान आनन्दो न तु जीवाश्रितो भवेत् ॥
अतो ब्रह्माश्रयोऽयं स्याद् विकारान्तो न युज्यते ॥ ५४ ॥
जीवानानन्दयसेवं हेतोश्चैवोपदेशतः ॥
अत्रानन्दमयो ह्यात्मा जीवादन्यः प्रकीर्तितः ॥ ५५ ॥
मन्त्रवर्णोदितं ब्रह्म ससं ज्ञानमनन्तकम् ॥
जीवप्राप्यं जीवभिन्नमानन्दमयमीरितम् ॥ ५६॥
ननु-भेदेनोपासकात् प्राप्यं भवेद् यद्यपि निश्चितम् ॥
तथाप्युपासकस्यैव निर्विशेषं निरूप्यते ॥ ५५ ॥
स्वरूपं मन्त्रवणेऽत्र यतो वाचो निवर्तिताः॥
इति चेनैव घटते विपश्चिद्ब्रह्मवर्णनात् ॥ ५८॥
विज्ञानमयजीवादै भिन्नानन्दमयो यतः ॥
उपदिप्टस्ततो नैवं जीवात्मा युज्यतेऽपृथक् ॥ ५९॥
सोऽकामयतवाक्ये हि जडासंसर्गिणो हरेः॥
कामोत्या न प्रधानं तत् परानन्दमयं भवेत् ॥६० ॥

w श्रीभाष्यवार्तिके परसङ्कल्पवशताश्चिदचिद्वस्तुतोऽखिलम् ॥ विश्वमुत्पद्यते तस्मान्न ह्यपेक्षानुमानिके ॥ ६ ॥ जीवस्य योग शास्तीह परानन्दमये यतः॥ अत आनन्दमयतो जीवोऽन्य इति निर्णयः ॥ ६२ ॥ ब्रह्मपुच्छं प्रतिष्ठेति प्रणवस्याऽत्र वाचकः ।। ब्रह्मशब्दः परेशस्य वाचकत्वात्स आश्रयः ॥ ६३ ॥ इति केचित् केचिदत्र पराकाशात्मिकां रमाम् ॥ आनन्दमयशब्दार्थी तदाधारं परात्परम् ॥ ६४ ॥ ब्रह्मपुच्छं प्रतिष्ठेति वाक्येन हरिमूचिरे ।। पञ्चस्वात्मसमभ्यासात् पञ्च ब्रह्मेति केचन ॥६५॥ छान्दोग्ये, अन्तरादिस य एषो दृश्यते पुमान् ॥ हिरण्यकेशः सर्वो हि स्वर्णाङ्गः स्वर्णश्मश्रुलः ॥ ६६ ॥ कप्यासकमलाक्षश्च पाप्मभ्यः सर्वतोदितः ॥ अक्षिमण्डलमध्यस्थपुरुषो यः प्रकीर्तितः ॥ ६७ ॥ यस्तं वेद स सर्वेभ्यः पाप्मभ्योऽप्युदितो भवेत् । अक्ष्यादिसान्तरगतः पुण्योपचयहेतुकः ॥ ६८ ॥ प्राप्तैश्वर्यः सदादियशब्दप्रभृतिबोधितः ॥ जीवस्तदतिरिक्तोऽत्र परमात्माऽथ वा भवेत् ॥ ६९ ॥ किं युक्तं, जीव एव स्याच्छरीरश्रवणात किल ॥ जीवानां देहसम्बन्धः कर्मानुगुणतो यतः ॥ ७० ॥ प्रियाप्रियादिसंयोगः स तु देहं विना न हि ॥ लोककामेप्सितत्वादि जीवस्यैव यतो घटेत् ॥ ७१ ॥ विश्वष्टिप्रकर्तृत्वं विश्वस्यान्तःप्रवर्तनम् ॥ पुण्योपचितसर्वज्ञजीवमात्रे हि युज्यते ॥ ७२ ॥ अत्रोच्यते स्वसिद्धान्त आदिसाक्ष्यादि मण्डले ॥

१ अध्याये १ पादः।
परमात्माहरिः मोक्तस्तद्धर्मस्योपदेशतः ॥ ७३ ॥
एषोऽपहतपाप्मा स्यादिति जीवेष्वसम्भवन् ।
धर्मोऽपहतपाप्मत्वप्रभृतिः परमात्मनि ॥ ७४ ॥
उपदिष्टस्ततो जीवात् पृथगक्ष्यादिमण्डले ॥
स्यादत्र परमात्मैव तत्रैवाकर्मवश्यता ॥ ७ ॥
कर्मणा मुखदुःखादिभोगिनः परमाणवः ॥
अतोऽपहतपाप्मत्वं निरुपाधिकमीश्वरे ॥ ७६ ॥
यत्तु शरीरसम्बन्धान जीवेभ्यः पृथग् हरिः ॥
सदयुक्तं यतो देहः कर्मवश्यत्वमीश्वरे ।। ७७ ॥
न साधयति तस्यैव सससङ्कल्पभावतः ॥
स्वेच्छया देहसम्बन्धः सम्भवसेव नान्यथा ॥ ७८॥
प्रकृतेर्विकृते रूपं भूतसवातनामकम् ॥
शरीरं सससङ्कल्पपुरुषस्येच्छयाऽपि न ॥ ७९ ॥
सम्बन्धोऽपुरुषार्थत्वाज्जीवानां तु स्वकर्मणा ॥
मुखदुःखादिभोगार्थ बलाद् देहोऽपि युज्यते ॥ ८ ॥
इदं तदा यदि स्याद् वै त्रिगुणः प्राकृतो हरेः ॥
देहः स तु स्वाभिमतः स्वानुरूपः सदोज्ज्वलः ॥ ८१॥
अप्राकृतो हरेस्तन न दोषः कोऽपि युज्यते ॥
जीवादिमृत्युपर्यन्तं शरीरं परमात्मनः ॥ ८२ ।।
उपदिष्टं यतः श्रुसा सदापहतपाप्मनः ॥
अतोऽक्ष्यादिसमध्यस्थो जीवादिभ्यः पृथक् प्रभुः॥ ८३ ॥
आकाशपदवाच्यो न प्रसिद्धाकाश उच्यते ॥
आसमन्तात् काशते यः सोऽयमात्मा परेश्वरः॥ ८४ ॥
विश्वसर्जनलिङ्गादिर्न भूते किन्तु वै हरौ ॥
अत एव प्राणशब्दः प्रसिद्धात् प्राणतः पृथक् ॥ ८५॥

८ श्रीभाष्यवार्तिके यः प्राणयति सर्वाणि तमात्मानं वदत्ययम् ॥ छान्दोग्येऽतः परो ज्योतिर्यद् दिवो दीप्यते किल ॥ ८६ ॥ विश्वतः सर्वतः पृष्ठेषूत्तमेष्वप्यनुत्तमे ॥ यदन्तःपुरुषे ज्योतिः किमिदं लौकिकं ज्वलत् ॥ ८७ ॥ प्रसिद्धादिसरूपं वा ब्रह्मरूपं श्रुतीरितम् ॥ तत्र युक्तं प्रसिद्धं न किन्तु स्याद् ब्रह्म सुन्दरम् ॥ ८८ ॥ सर्वभूतानि पादोऽस्य त्रिपादस्याऽमृतं दिवि ॥ इसेव चरणानां हि श्रुतिवाक्योपदेशतः ॥ ७६ ॥ धुसम्बन्धि परं ज्योतिर्हरिरूपं निगद्यते॥ गायत्रीपदवाच्यं न छन्दः किन्तु हरिः स्वयम् ॥ ९॥ सर्वात्मकत्वं नो युक्तं छन्दसः किन्तु तद्धरेः॥ चेतोऽर्पणत्वसाम्येन गायत्रीपदमीरितम् ॥ ९१ ॥ भूतभूदेहहृदयां निर्दिश्यैवं चतुष्पदाम् ॥ व्यपदेश इति श्रुसा ब्रह्मण्यवोपपद्यते ॥ ९२॥ उपदेशभेदान्न ब्रह्म प्रोच्यतेऽत्रेति चेन्न हि ॥ देवः परो दिवीत्येवमुभयत्राविरोधतः ॥ ९३॥ प्राणोऽस्म्यहं तं मामायुरमृतं हीत्युपास्व च ॥ किमत्रेन्द्रप्राणशब्दनिर्दिष्टो जीव एव वा ॥ ९४ ॥ तद्भिन्नः परमात्मेति तत्र जीवः प्रसिद्धितः॥ इति प्राप्ते प्राणशब्दनिर्दिष्टो हरिरेव हि ॥ ९५ ॥ माण एष हि प्रज्ञात्मा परानन्दोऽजरोऽमृतः ॥ इसेवं व्यपदेशो हि न जीवे युज्यते यतः ॥ ९६ ॥ मामायुरिति वक्ता हि त्वाष्ट्रहन्ता शचीपतिः ॥ विज्ञातजीवभावोऽसौ स्वोपास्यत्वमुपादिशत् ।। ९७ ॥ प्रतर्दनाय जीवोऽत इति तत्परिहीयते ॥

१ अध्याये १ पादः।
चेतनाऽचेतन वस्तुप्रज्ञाभूतद्वयोक्तिभिः॥ ९॥
प्रतिपाद्य तदाधारो जीवान्यो हरिरेव हि ।।
समग्रवस्त्वाधारत्वं न जीवे युज्यते यतः॥ ९९ ॥
प्रज्ञातजीवभावेन मामेवैति यदुच्यते ॥
न तन्मानान्तरमाप्तस्वात्मदृष्टय प्रयुज्यते ॥ १०॥
किन्तु शास्त्राव स्वकीयात्मदृष्टया त्वाष्ट्रारिणोच्यते ॥
वामदेवः परस्यात्र सर्वात्मत्वस्य निश्चयात् ॥ १०१॥
शरीरवाचिशब्दानां सम्पत्तिं शरीरिणि ॥
पश्यन् यथा मनुरहं सूर्योऽहमभवं परः ॥ १०२॥
स्वात्मदेहं परं ब्रह्म निर्दिश्येसवदद तथा ॥
मामितीन्द्रोवदसेवं स्वात्मदेहं परात्परम् ॥ १०३॥
माणो वसति यावद्धि तावदायुः शरीरके ॥
प्राण एव हि प्रज्ञात्मा शरीरं परिगृह्य वै ॥ १०४॥
इदमुत्थापयसेवं मुख्यमाणादिलिङ्गतः ॥
अध्यात्मयोगभूमेह नेतिचेनैव युज्यते ॥ १०५॥
स्वरूपेणानुसन्धानं जगत्कारणब्रह्मणः ।।
भोक्तृवर्गशरीरित्वाऽनुसन्धानं पुनस्तथा ॥ १०६॥
भोग्यभोगोपकरणशरीरित्वेन तद्धरेः॥
एवं विधानुसन्धानात् प्राणादिपदजातयः ॥ १०७ ॥
परब्रह्मात्मपर्यन्ताः पर्यवस्यन्ति निश्चितम् ॥
अतः माणादिशब्दार्थः सर्वत्र नृहरीश्वरः ॥ १०८॥
इति श्रीभाग्यवार्तिके प्रथमाध्यायस्य प्रथमः पादः ॥ १॥१॥

१०
श्रीभाष्यवार्तिके
प्रथमे चरणे सर्वप्रमाणागम्यरूपकः ॥
सर्वज्ञः सससङ्कल्पामितोदारगुणाकरः ॥ १ ॥
खभिन्नाखिलवस्तुभ्यो भिन्नः सर्वोत्तमो हरिः ॥
सर्ववेदान्तसंवेद्यः सादरं विनिरूपितः ॥२॥
द्वितीयतृतीयतुर्यचरणेषु च यद्यपि
वेदान्तवेद्यं ब्रह्मैव मुनिरूप्यं तथापि हि ॥३॥
प्रधानात्मपराणां तन्निराकरणपूर्वकम् ॥
अनन्तकल्याणगुणं ब्रह्माऽत्र प्रतिपाद्यते ॥४॥
तत्र द्वितीये घस्पष्टजीवलिङ्गानि यानि च ॥
वाक्यानि सुविचार्यन्ते स्पष्टलिङ्गान्यथोत्तरम् ॥ ५॥
किन्तु मनोमयत्वादिगुणो जीवोऽथवा परः ॥
तत्र युक्तं जीव एव मनःमाणादियोगतः ॥६॥
अप्राणो घमना ईश इति तस्य निषेधतः ॥
इसाशा परेशस्य प्रसिद्धस्योपदेशतः ॥ ७॥
सर्वत्रातः परं ब्रह्म समुपास्यतयोच्यते ॥
मनोमयत्वादिगुणो यतोऽयं स्यान्मनोमयः ॥ ८॥
एषोऽन्तर्हृदयाकाशस्तस्मिन् संराजतेऽमृतः ॥
अप्राणो ह्यमनावाक्यं प्राणायत्तां स्थिति तथा ॥
ज्ञानं च मनआयतं निषेधति परेश्वरे ॥९॥
अथवा खल्विदं ब्रह्म सर्व वै तज्जलानिति ॥
शान्तः सम्यगुपासीतेसेवोपासा विधीयते ॥ १० ॥
अतः सर्वात्मकं ब्रह्म शान्तः सन्, सेव्यतां बुधाः॥
अत्राज्यं संशयो ब्रह्मशब्देनात्मा किमुच्यते ॥ ११ ॥
उत किं परमात्मेति तत्र जीवो हिं युज्यते ॥
कुतस्तस्यैव सामानाधिकरण्यं यतोऽवदत् ॥ १२॥

१ अध्याये २ पादः। सर्वशब्दस्य तेनाऽयं ब्रह्मादि सकलं जगत् ॥ ब्रह्मादिभावोऽनाद्यविद्यामूलकर्माद्युपाधितः ॥ १३ ॥ विद्यते न परेशस्य सर्वतो गतपाप्मनः॥ अविद्यादिदोषगन्धहीनस्याचिन्समायिनः ॥ १४ ॥ जगज्जन्मस्थितिलया जीवकर्मनिमिचकाः ॥ तज्जलानिति हेतो जीवेऽतो योग्यता भवेत् ॥ १५॥ तस्माज्जीवान्मनिर्देशस्तत्र सिद्धान्त उच्यते ॥ वेदान्तवाक्ये सर्वत्र प्रसिद्धस्य परात्मनः ॥१६॥ उपदेशात् प्रसगात्मा वक्तुं नैवोपयुज्यते ॥ इदं सर्व नु ब्रह्मति सर्वस्मिञ्जगतीश्वरः ॥ १७ ॥ निर्दिष्टो ब्रह्मशब्देन सर्वस्थान्मतयैव हि ।। प्रामद्धेशोपदेशाद् वै तज्जलानिति हेतुतः ॥ १८॥ ब्रह्मणः सर्वमुत्पन्नं सर्व ब्रह्माण लीयते ॥ ब्रह्माधीनं जीवनं च सर्वस्येति विनिश्चयात् ॥ १९ ॥ ब्रह्मात्मकं सर्वमिदमतो ब्रह्मात्र पठयते ॥ ईशात् सर्वस्य जातत्वाल्लीनत्वात् तेन जीवनात् ॥ २० ॥ सर्वात्मकतया सर्वैस्तादात्म्यं परमेश्वरे ।। उपासोतेदृशं ब्रह्म शान्तो भूत्वेति निश्चयः ॥ २१ ॥ पूर्व सूक्ष्मचिदचिद्भ्यां विशिष्टं कारणात्मकम् ॥ स्थूलचिदचिद्विशिष्टं कार्यावस्थं तदुच्यते ॥ २२ ॥ कारणं कार्यरूपात्माऽवस्थान्तरतां गतम् ॥ एवं मर्वात्मतादात्म्यप्रतिपादनतो हरौ ॥ २३ ॥ सर्वहेयप्रतिद्वन्द्रिकल्याणगुणसङ्गतिः ।। न विरुध्यने हि देहस्था दोषा देहप्रकारिणि ॥ २४ ॥ न प्रसान्ति किन्त्वेव गुणा वै परमेश्वरे ॥

१२
श्रीभाष्यवार्तिके
नच सर्वत्र तादात्म्यं जीवानामपि युज्यते ॥ २५ ॥
प्रतिदेहं प्रभिन्नानां तादात्म्यं न परस्परम् ॥
अनवच्छिन्नरूपस्य मुक्तस्यापि न युज्यते ॥ २६ ॥
यतो जीवेषु तादात्म्यं जगज्जन्मादिहेतुता ॥
जगद्व्यापारवति सूत्रकृद्भिनिषिद्धयते ॥ २७ ॥
विवक्षितगुणाश्चात्र सससङ्कल्पतादयः ॥
मनोमयमाणदेहभारूपत्वादिसंयुताः ॥ २८॥
परात्मन्येव युज्यन्ते न जीवेषु कथञ्चन ॥
योऽप्रतिहतसङ्कल्पः सससङ्कल्प एव सः ॥ २९ ॥
माणानां धारकः प्राणशरीरी हरिरुच्यते ॥
देहशब्दमवृत्तौ हि चेतनाचेतनद्रये ॥ ३०॥
आधेयत्वविधेयत्वशेषत्वानि परं प्रति ॥
निमित्तानि यथायोग्यमग्रे सम्यग् वदिष्यति ॥ ३१ ॥
यतोऽस्य दुःखसम्बन्धो देहसङ्गनिबन्धनः ॥
खद्योतकल्पस्येशानादुदारगुणसागरात् ॥ ३२ ॥
गुणलेशस्य सम्बन्धः शारीरस्य न युज्यते ॥
अतोऽत्र ग्रहणे शङ्का प्रकरणेऽस्य न जायते ॥ ३३ ॥
इतः प्रेसाभिगन्तैतमितिवाक्यात् परेश्वरः॥
प्राप्यत्वेन विनिर्दिष्टो जीवोऽयं मापकस्तथा ॥ ३४ ॥
अतोऽपि जीवभिन्नोऽत्र परेशः परिगृह्यते ॥
एष मे इति वाक्येन षष्ठ्या जीवो युपासकः ॥ ३५ ॥
ईशः प्रथमयोपास्यो निर्दिष्ट इतिशब्दतः ॥
विशेषाद्धाररेखात्र प्रकरणे परिपठ्यते ॥ ३६ ॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ॥
स्मृतिरित्थं परं भिन्नं जीवस्य हृदयेऽवदत् ॥ ३७॥

१ अध्याय २ पादः। एष म इति वाक्येन ह्मणीयसि हृदि स्थितः॥ अतोऽणीयान् यवो व्रीहिर्वेसणीयस्त्वतस्त्वयम् ॥ ३८॥ जीव एव भवेदत्रापरिच्छिन्नः परो न हि ॥ सिद्धान्तस्तु परोऽणीयानुपास्यत्वेन युज्यताम् ॥ ३९ ॥ अस्य रूपमणीयस्त्वं केवलं नैव युज्यते ॥ व्योमवद् व्यपदेशाद्यैर्महत्त्वस्य स्वभावतः ॥ ४०॥ अतोऽल्पत्वोपदेशोऽयमुपासार्थो भवेद् ध्रुवम् ॥ जीवस्येव परस्यापि देहान्ततितास्ति चेत् ॥ ४१ ॥ मुखदुर :खोपभोगस्तु तत्सङ्गात्तहि किन्न हि ।। इतिचेन्नैव तत्सङ्गात् सुखदुःखादिभोक्तृता ॥ ४२ ॥ किन्तु कर्मपराधीनप्रयुक्तात्मनि भोक्तृता ।। परात्मनि कथं सा स्यात् कर्माधीनत्वहानितः॥४३॥ यस्य ब्रह्म च क्षत्रं चोभे भवत ओदने । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ४४ ॥ अत्रौदनादिपदतः सूचितोऽत्ता भवद्धि कः॥ जीवः किं वा परोवेति युक्तो जीवो हि भोक्तृतः ॥४५॥ तस्य कर्मनिमित्तत्वाज्जीवेष्वेव हि सम्भवात् ॥ अत्रोच्यतेऽत्ता परमः कृत्स्नभोक्ता यतो हरिः॥४६ ॥ नेदं तु कर्मणा शयं भोगवैजात्यतो हरेः॥ जगज्जन्मास्थितिलयहेतौ हन्तृत्वमेव यत् ॥ ४७ ॥ भोक्तृत्वं तत्परं विद्याद् विष्णुनिष्ठं नचात्मनि ॥ सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ४८॥ इसादौ दर्शनादस्य सर्वाता हरिरेव सः ॥ मृत्युर्यस्येति वचनाच्चराचरमिदं जगत् ॥ ४९ ॥ अदनीयौदनत्वेन ब्रह्मक्षत्रोपलक्षितम् ॥ वै

१४
श्रीभाष्यवार्तिके
अद्यमानं सदन्यस्याऽदनहेतपसेचनम् ॥ ५० ॥
मृयोरप्यद्यमानत्वं ततस्तदुपसेचनम् ॥
हन्तृत्वरूपं भोक्तृत्वं तस्मात् सर्वस्य वै हरौ ॥ ५१ ॥
इदं प्रकरणं विष्णोस्तस्माज्जीवेन चाऽत्तृता ॥
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ५२ ।।
न मेधया प्रवचनाद भूयसाऽपि श्रुतेन च ।।
लभ्योऽयमेषो वृणुते तेनैवेति प्रसादतः ॥ ५३ ॥
हरिप्राप्तिः प्रस्तुताऽतो हरिरत्र न संशयः ॥
क इत्थेसपि वाक्येन तत्प्रसादाहते हरेः ॥ ५४ ॥
दुर्बोधत्वं प्रस्तुतं यत् प्रसभिज्ञायते तु तत् ॥
ब्रह्मक्षत्रोदनपदात् सूचितः पुरुषोत्तमः ॥ ५५ ॥
परापहतपाप्माऽयं तदनन्तरमुच्यते ॥
ऋतं पिबन्ताविति तौ बुद्धिप्राणौ शरीरिणः ॥ ५६ ॥
भोगोपकरणौ यस्मादेकमकरणत्वतः ॥
प्रस्तुतोत्रापि जीवात्मा स एवार्यो निरूपणे ॥९७॥
अत्रोच्यते बुद्धिजीवौ प्राणजीवौ न वा गुहा ॥
प्रविष्टावृतभोक्तारावुच्येते किन्तु ताविह ॥ ५८ ॥
जीवात्मपरमात्मानौ व्यपदेशस्य दर्शनात् ॥
गूढं गुहाहितं तत्रानुप्रविष्टं पुरातनम् ॥ ५९॥
इत्थं गुहाप्रवेशोऽत्र परेशे व्यपदिश्यते ॥
गुहां प्रविश्य तिष्ठन्ती प्राणेन सह सादितिः ॥६॥
अत्ति कर्मफलानीत्थमदितिर्जीव उच्यते ॥
एवं गुहाप्रवेशोऽपि जीवात्मन्युपदिश्यते ॥६॥
अच्छत्रिच्छत्रिगमने यथा गच्छन्ति छत्रिणः॥
इत्येवं व्यवहारोऽस्ति लक्षणावृत्तितस्तथा ॥ ६२ ॥

१ अध्याये २ पादः। १५ ऋतं पिबन्ताविति हि व्यपदेशः प्रपद्यताम् ॥ यद्वा पाने हि कर्तृत्व प्रयोज्यं जीववर्गगम् ।। ६३ ।। प्रयोजकं परेशे तद् द्वौ पिबन्तौ भवेदिति ॥ उपास्योपासकभावाद प्राप्यप्रापकभावतः ॥ ६४ ॥ सर्वत्र प्रतिपाद्यते जीवात्मपरमेश्वरौ ॥ ब्रह्मजज्ञ देवमीड्यमियादिश्रुतिवाक्यतः ॥६५॥ छायातपाविवाप्यस्मिन्नज्ञज्ञौ तौ निरूपितौ ॥ उपक्रमाद्धि जीवस्य नेदं प्रकरणं भवेत् ॥ ६६ ॥ केचिच्चिन्मावजीवस्य स्वरूपोच्छित्तिलक्षणम् ॥ मोक्षमाचक्षते केचिद् ह्यविद्यास्तमयः परः ॥ ६७ ॥ जडपाषाणरूपस्य विशेषगुणरूपिणाम् ॥ ज्ञानादीनां समुच्छेदलक्षणं मोक्षमूचिरे ॥ ६८॥ यदुपाधिनिमित्तो हि जीवभावः परेश्वरे । तदुच्छेदं परं मोक्षं केचिदाचक्षते बुधाः ॥ ६९ ॥ विलक्षणस्य सर्वात्मभूतस्य परमात्मनः ॥ शरीरत्वात् प्रकारस्य जीवस्यानादिकर्मणा ॥ ७० ॥ अविद्यारूपिणा छिन्नरूपस्य भवभोगिनः ।। परात्मानुभवो यः स्यादविद्योच्छेदपूर्वकः ॥ ७१ ॥ मोक्षः प्रख्यायते धीरैः सिद्धान्तमतवेदिभिः॥ मोक्षं ससाधनं विद्यामिति प्रश्नोत्तरे पुनः ॥ ७२ ॥ परात्मतत्त्वविज्ञानं परात्मोपासनं तथा ॥ परात्मपदसम्प्राप्तिलक्षणं मोक्षमूचिवान् ॥ ७३ ॥ तस्मादत्र परात्मैव पाप्यो जीवेन वर्णितः ॥ एष आत्मेति होवाच य एषो दृश्यतेऽक्षिणि ॥ ७४ ॥ एतद् ब्रह्माऽमृतमयमभयं तत्र संशयः ॥

श्रीभाष्यवार्तिके
अक्ष्याधारतया योऽयं निर्दिष्टः पुरुषः स किम् ॥ ७५ ॥
प्रतिविम्बस्वरूपो वा चक्षुरध्यक्षदेवता ॥
जीवात्मा परमात्मा वा भवतीसत्र वर्ण्यते ॥ ७६ ॥
युक्तोऽत्र प्रतिविम्बात्मा निर्देशः सिद्धवद् यतः॥
अपरोक्षदृशिनोक्तत्वाज्जीवात्मा वाऽपि युज्यते ॥ ७७ ।।
समिधानाद् विशेषेण प्रसिद्धिश्चक्षुरिन्द्रिये ॥
मीलितं चक्षुरुद्वीक्ष्य निश्चिन्वन्ति सुरश्मिभिः ॥ ७८ ॥
जीवात्मनः स्थितिगती शरीरेऽस्मिन् प्रतिष्ठितः ॥
अयमित्यं प्रसिद्धयाऽत्र चक्षुरध्यक्षदेवता ॥ ७९ ॥
विशेषो वेति सम्पासे परमात्मेति निश्चयः ।।
एतद् ब्रह्माऽमृतमयं संयद्वामः प्रचक्ष्यते ॥ ८०॥
अभिसंयति वामानि सर्वाण्येतं स वामनिः ।।
एष सर्वाणि वामानि नयति होव भामनिः ॥ ८१ ॥
एष सर्वेषु लोकेषु भातीसेवं गुणाः किल ॥
परमात्मनि युज्यन्ते न जीवे देवतासु च ॥ ८२ ॥
स्थितिनियमनं चापि परमात्मन एव हि ॥
तिष्ठन् यश्चक्षुषीसादिश्रुतिवाक्येन पठ्यते ॥ ८३ ॥
योगिभिः पश्यमानत्वाद् दृश्यर्थोऽपि न दुर्लभः ॥
कं खं ब्रह्मेति प्रकृतात् सुखिब्रह्मनिरूपणात् ॥ ८४ ॥
संयद्वामतप्रभृतिगुणाधानार्थमेव च ॥
उपासास्थानसिद्धयर्थमक्षिण्येषोभिनीयते ॥ ८५ ॥
नन्वग्नयः समग्नीनां कं खं ब्रह्मेति वाक्यतः ॥
उपासनं वदन्तीति ब्रह्म नेहोपदिश्यते ॥ ८६ ॥
नचेह ब्रह्मविद्याङ्गमग्निविधोति शक्यताम् ॥
द्वितारोधफलमाप्तिश्रवणादितिचेन्न तत् ॥ ८७॥

१ अध्याये २ पादः। ब्रह्मसंशब्दनाव पापलेपाऽभावोक्तितोऽपि च ॥ संयद्वामत्वमभृतिकल्याणगुणशालिनः ॥ ८८॥ अक्षिस्थानोपास्यताया अचिरादिगतेस्तथा ॥ उपदेशात् सुखि ब्रह्म परमत्राभिधीयते ॥ ८९ । नात्रोच्यते ब्रह्म किन्तु प्रसिद्ध खे च लौकिके ॥ मुखे कुर्याद् ब्रह्मदृष्टिरिसाशङ्य समुच्यते ॥ ९० ॥ अत एव च स ब्रह्म कं यदेव तदेव खम् ॥ इति वाक्याव सुखाकाशं परं ब्रह्माभिधीयते ॥ ९१ ॥ अक्ष्याधारोऽत्र पुरुषस्ततोऽपि प्रतिपाद्यते ।। तयाथात्म्यविदो यस्मादर्चिरादिगतेर्वचः ॥ ९२ ॥ नियमेनाक्षिसंस्थाना न छायाजीवदेवताः ।। नराऽन्तराऽसनिधानाच्छाया नैवाऽक्षिणि यतः ॥ ९३ ॥ व्यापारानुगुणत्वाय मिलितेन्द्रियसंश्रिते ॥ स्थाने स्थितिर्हि जीवानां केवलं नैव चक्षुषि ॥ ९४॥ रश्मिद्वारा देवताया यतः संस्थितिरुच्यते ॥ अतो देशान्तरस्थाया अक्षिण्यप्याश्रयो भवेत् ॥ ९५ ॥ तस्माच्चक्षुष्यवस्थानममृतत्वाऽऽदयोऽपि च ॥ निरुपाधिकता होषां परात्मन्येव सम्भवेत् ॥ ९६ ॥ अवस्थितिनियमनं वर्णितं यत् परात्मनि ॥ समर्थयस्तदेवाह सूत्रेऽन्तर्यामिवर्णके ॥ ९७ ॥ समामनन्ति काण्वा वै तथा माध्यन्दिनाश्च ये॥ तिष्ठन् पृथिव्यामात्मा यः पृथिव्या अन्तरो ह्ययम् ॥ ९८॥ पृथिवी यं न वेदेति शरीरं यस्य सा भवेत् ॥ अन्तर्यस्ता यमयति सोऽन्तर्याम्येष ते हरिः॥ ९९ ॥ एवं जलाग्न्यन्तरिक्षवाय्वादिसदिशासु च ॥

१८
श्रीभाष्यवार्तिके
आकाशचन्द्रतारासु तमस्तेज सुरेषु च ॥ १० ॥
सर्वभूतेषु वाक्माणचक्षुःश्रोत्रमनःसु च ॥
विज्ञानत्वक्षु रेतःसु तिष्ठनात्मसु योऽन्तरः ॥ १०१ ॥
उपदिष्टः किमात्मा वा परात्मा वेति संशये ॥
प्रसगात्मा भवेदत्र वाक्यशेषवलादयम् ॥ १०२॥
सथाहि द्रष्टा श्रोतेति करणायत्तबुद्धिमान् ॥
श्रुताऽन्तर्यामिता तस्माद् द्रष्टुरेवोपदिश्यते ॥ १०३ ॥
अतोऽन्यो नास्ति द्रष्टेति द्रष्ट्रन्तरनिषेतः ॥
इति प्राप्तेऽधिदैवादिलोकेष्वात्मा हरिः स्वयम् ॥ १०४ ॥
अन्तर्यामी न जीवात्मा तद्धर्मस्योपदेशतः ॥
सद्धर्मः सर्वलोकादिनियन्तृत्वं कुतोऽन्यगम् ॥ १०५ ॥
अन्तः प्रविश्य सर्वेषां सर्वदेहप्रकारभाक् ॥
सर्वैवेद्यः सर्वात्मा शास्ता सर्वजनेश्वरः ॥ १०६ ॥
पर एव भवेन्नान्यो जीवादिर्वा न संशयः ॥
करणायत्तबुद्धित्वं न च किन्तु स्वतो हरेः ॥ १०७॥
पश्यत्यचक्षुरियादिश्रुतिभिः प्रतिपाद्यते ॥
सर्वात्मत्वं नियन्तृत्वं सर्वदेहत्वमीश्वरे ॥ १०८ ॥
अमृतत्वं स्वभावेन जीवेषु परतन्त्रतः॥
अन्तर्यामी ततो लोके परमात्मैव गीयते ॥ १०९ ॥
श्रोताऽश्रुतो तथाऽदृष्टो द्रष्टेत्युत्तरवाक्यतः ॥
निषिद्धयते नियन्तुस्तन्नियन्त्रन्तरमियतः ॥ ११० ॥
वाच्यः स्याद् युष्मदस्मद्भयां नृहरिः पुरुषोत्तमः ॥
जीवस्तथा प्रधानं वै नान्तर्यम्यत्र गीयते ॥ १११ ॥
सर्वद्रष्टुहि सर्वस्य नियन्तृत्वं तदात्मता ॥
स्वत एवाऽमृतत्वं च सम्भवत्येव नो तयोः ॥ ११२ ॥

१ अध्याये २ पादः। अचेतनप्रधानस्य सर्वज्ञत्वादि नार्हति ॥ अल्पजस्यपिजीवस्य तथा तन्नोपयुज्यते ॥ ११३ ॥ अतोऽमीषां गुणानां वै परात्मनि समन्वयः ॥ अन्तर्यामिनियम्यत्वं वागादिमिरचेतनैः ॥ ११४ ॥ सममस्मिन्नधीयाते काण्वमाध्यन्दिनावुभौ ॥ तिष्ठनात्मनि यस्यात्मा शरीरं यं न वेद सः॥ ११५॥ यमन्तरो यमयति विज्ञानेऽप्येवमेव सः॥ अतो विलक्षणो जीवादन्तर्यामी समीरितः ॥ ११६ ॥ अथर्वणे हि द्वे विद्ये परापरतयेरिते ॥ अक्षराधिगमे हेतुः परविद्या प्रकीर्तिता ॥ १७ ॥ यत तददृश्यमग्राह्यमगोत्रावर्णमीरितम् ॥ अपाणिपादमश्रोत्रं निसं सर्वगतं विभु ॥ ११८॥ यद् भूतयोनि सूक्ष्मं तत् परिपश्यन्ति साधवः ।। उत्तरत्राऽप्यदो वाक्यमक्षरात् परतः परः ॥ ११९ ॥ इमौ प्रधानपुरुषौ परमात्माऽथवान किम् युक्तं प्रधानपुरुषौ द्रष्टुत्वादेरवर्णनात् ॥ १२० ॥ विकारभूतात् सर्वस्मात् परभूताद तथाऽक्षरात् ॥ परः समष्टिपुरुषः क्षेत्रज्ञः प्रतिपाद्यते ॥ १२१ ॥ स्थूलरूपादिमद्भूतनिष्ठत्वेन निवारितम् ।। तदृश्यत्वमिदं सूक्ष्मे पर्यवस्यत्यचेतने ॥ १२२ ॥ तच प्रधानमेव स्यात् समष्टिपुरुष तथा ॥ तत्परत्वमतस्तेनाधिष्ठितं यत् प्रधानकम् ॥ १२३ ॥ स्ते विकारजातं तन्महदाद्यखिलं जगत् ॥ तस्मात् प्रधानपुरुषाविति मातेऽभिधीयते ॥ १२४ ॥ अदृश्यत्वादिगुणको ह्यक्षराद परतः परः ।

२० श्रीभाष्यवार्तिके पुरुषोत्तम एवोक्तस्तद्धर्मोक्तिप्रभावतः ॥ १२५ ।। सर्वज्ञसर्वविद्वाक्यात सर्वज्ञत्वादिकास्तु ये ॥ उच्यन्ते ते परस्यैव धर्मास्तद्धर्मिणः सदा ॥ १२६ ॥ ययेतिश्रुतिवाक्याच्चादृश्यत्वगुणकाक्षरम् ॥ अभिधायाक्षराद् विश्वं भवतीति विधाय च ॥ १२७ ॥ सर्वज्ञः सर्वविद् यस्य तपो ज्ञानमयं ततः ॥ तद् ब्रह्म नाम रूपं च जायते भूतयोनितः ॥ १२८॥ अक्षरादिति तस्यैव सर्वज्ञत्वादि वर्ण्यते ॥ परत्वस्याऽक्षरादुत्त्या भूतस्वक्ष्ममचेतनम् ॥ १२९ ॥ ब्रूतेऽत्राक्षरशब्दो हि न तु तद्गुणवत् परम् । प्रधानपुरुषाभ्यां च परत्वाख्यविशेषणात् ॥ १३० ॥ तथैव भेदव्यपदेशाददृश्यत्वगुणः परः। अव्याकृताक्षराद्भिन्नः समष्टिपुरुषोऽस्ति यः॥ १३१॥ अदृश्यत्वादिगुणकस्तस्मादपि परो हरिः॥ अग्निमूर्दृत्युपक्रम्य रूपोपन्यासहेतुतः ॥ १३२॥ सर्वभूतान्तरात्मैव निर्णीतो नेतरौ च तौ ।। तस्माद् वेदान्तवाक्यानां तात्पर्य सगुणे हरौ ॥ १३३ ॥ वैश्वानरं म आत्मानं ब्रूहीसेवमुपक्रमः ॥ यस्त्वतमेवं प्रादेशमा वैश्वानरं हृदि ॥ १३४॥ उपास्त इति संहारस्तत्र संशय ईरितः ॥ वैश्वानरः किमात्मायं परमात्माऽयवाऽत्र किम् ॥ १३५॥ युक्तमात्मैव संग्राह्यो यतोऽशक्यविनिर्णयः ॥ वैश्वानरस्य शब्दस्य प्रयोगोऽर्थचतुष्टये ॥ १३६ ॥ तत्रादौ जाठराग्निः वैश्वानरपदोदितः॥ येनेदं पच्यतेऽनं हि घोषोऽयं तस्य दृश्यते ॥ १३७ ।।

१ अध्याये २ पादः।
२१
कर्णद्वयं पिधायापि यं शृणोति नरः सदा ॥
इसादिलिङ्गजातानि नेतुं नाऽऽत्मनि शक्यते ॥ १३८ ॥
इति प्राप्ते परात्मैव वैश्वानरपदोदितः ॥
यतः साधारणैर्द्धभैः पर एव विशेष्यते ॥ १३९ ॥
यथेषिकातूलमग्नौ प्रोतं सर्व प्रयते ॥
तथाऽस्य सर्वे पाप्मानः प्रदूयन्ते हि सर्वशः ॥ १४० ॥
दिवः प्रभृति भूम्यन्तं रूपं वैश्वानरस्य यत् ॥
उपदिष्टं तद् घटते परमात्मनि नान्तरे ॥ १४१ ॥
अन्तःस्थजाठरस्याग्नेः प्रतीतिरितिचेन हि ॥
त्रैलोक्यमुशरीरस्य ब्रह्मणस्तच्छरीरिणः ॥ १४२॥
उपासनोपदेशाद् वै तद्विशिष्टस्य निश्चयात् ॥
अतो न देवता चात्र न भूतं नापि जाठरः ॥ १४३ ॥
जाठराग्निशरीरत्वात् तद्विशिष्टपरात्मनः॥
अग्निशब्दे वाचकत्वमुपास्यत्वं च वर्णितम् ॥ १४४ ॥
जैमिनिस्त्वग्निशब्दस्य वैश्वानरमुशब्दवत् ॥
परात्मनो वाचकत्वं साक्षादेवाभिमन्यते ॥ १४५ ॥
साधारणोऽप्ययं शब्दो जाठराग्न्यादिवाचकः॥
तथापि विश्वनारस्य नेतृत्वादिगुणात्मना ॥
असाधारणधर्मेण वाचकः परमात्मनः ॥ १४६ ॥
यस्त्वेतमेवं प्रादेशमात्रमियादिनोदितः ॥
अपरिच्छित्ररूपस्य परिच्छेदः कथं भवेत् ॥ १४७ ॥
तत्राश्मरथ्यो वदांत व्यत्ययं सेवकं प्रति ॥
उपासाथ परेशस्य मादेशत्वादि युज्यते ॥ १४८ ॥
कृत्स्नं व्याप्तवतो मानरहितस्याभिव्यक्तये ॥
वादिप्रदेशसम्बन्धपरिच्छिन्नत्वमात्मनः ॥ १४९ ॥

श्रीभाष्यवार्तिके
मूख्यवयवधर्मः परस्य घटते न चेत् ॥
उपासनार्थमाहायमाचार्यो बादरिः स्वयम् ॥ १५०॥
वैश्वानरः परात्माऽयं तस्यैवोपासकैः सदा ॥
क्रियमाणोपासनस्य स्वभाणाहुतिरूपिणः ॥१५१ ॥
अग्निहोत्रत्वभावाय धुमूर्दाधुपवर्ण्यते ॥
प्राणाहुसास्ततो हेतोः परात्मोपासनोचितम् ॥ १५२ ॥
फलं श्रुतिर्दर्शयति जैमिनिस्त्विति मन्यते ॥
घुमूर्दत्वादिसंयुक्तं वैश्वानरमिमं विह ॥ १५३ ॥
माणाहुसाधारताया उपासककलेवरे ॥
आमनन्तीति निर्णीतो वैश्वानरपरेश्वरः ॥ १५४ ॥
इति श्रीभाष्यवार्तिके प्रथमाध्यायस्य द्वितीयः पादः॥१॥२॥

१ अध्याये ३ पादः। २३ यस्मिन् द्यौस्तथा भूमिरन्तरिक्षं मनः सह ॥ माणैरोतं तमेवैकं जानथात्मानमादरात् ॥१॥ विमुञ्चयान्या चाचो वै सेतुरेषोऽमृतस्य तु ॥ संशयस्तत्र किमयं घुभ्वाचायतनश्रुतः ॥२॥ जीवात्मा परमात्मा वा किं युक्तं जीव एव हि ॥ नाड्याधारत्वबहुधा जायमानत्वतस्तथा ॥ ३ ॥ पाणपञ्चकसम्बन्धान्मनसश्वाश्रयत्वतः ॥ धुभवाद्यायतनत्वस्य कर्मणा चात्र सम्भवात् ॥ ४ ॥ इति प्राप्ते परात्मैव धुभ्वाचायतनो हरिः॥ सेतुरेषोऽमृतस्येति परधर्मोपदेशतः ॥५॥ मुक्तिरूपाऽमृतस्यायं प्रापकः सेतुरुच्यते ॥ मुक्तोपमृप्योपदेशाद शुभ्वाद्यायतनो हरिः॥६॥ यदा पश्येसादिवाक्यान्मुक्तपाप्यतयोदितः ॥ भधानं माणभृदपि नात्र प्रकरणे द्वयम् ॥ ७ ॥ सवाचकवचोभावादतोऽपि परमेश्वरः॥ भेदस्य व्यपदेशात्तु जीवात्मपरमात्मनोः ॥ ८॥ पराऽभिन्नोऽत्र जीवात्मा धुभ्वाद्यायतनो न हि ॥ प्रकरणादपि परं परात्मैव निरूप्यते ॥ ९॥ अदृश्यत्वे तु सूत्रे वै परप्रकरणोक्तितः॥ सहस्थितेः कर्मफलानशनाशनबोधनात् ॥१०॥ जीवपाप्यफलात्मैव धुभ्वाद्यायतनो भवेत् ॥ भूमा कि प्रसगात्मा स्यात् परमात्मेति संशये ॥ ११ ॥ किं युक्तं प्रसगात्मैव प्राणावध्युपदेशतः॥ पाणशब्देन निर्दिष्टः प्रयगात्मा, न मारुतः॥ १२॥ माणो माता पिता प्राण इसादिश्रुतिवाक्यतः ॥

२४
श्रीभाष्यवार्तिके
चेतनः प्रसगात्मा स्यान्न वायुरिति निर्णयात् ॥ १३ ॥
आत्मन्येवारनाभिदृष्टान्तस्योपपत्तितः ॥
अस्यैवानुगुणतया वाक्यशेषस्य सन्नयात् ॥ १४ ॥
इति प्राप्ते भूमगुणविशिष्टः परमेश्वरः॥
नात्मा, कुतः, ? सम्प्रसादादधिकस्योपदेशतः ॥ १५॥
नामादिमाणपर्यन्तं पूर्वाधिकतयोत्तरम् ॥
अभिधानात् ततः प्राणादधिकं ससशब्दतः ॥१६॥
उपदिष्टं परं ब्रह्म भूमात्मगुणवत्तरम् ॥
आनन्दमयसूत्रे यत् सुखरूपत्वमीश्वरे ॥ १७ ॥
निरूपितमतः प्राणनिर्दिष्टात् प्रसगात्मनः ॥
भिन्न घन्सं मुखं ब्रह्म भूमेसेवोपदिश्यते ॥१८॥
खाभाविकामृतत्वं चानन्याधारत्वमिसपि ॥
सर्वात्मत्वं च ये धर्मा भून्नस्ते पस्मात्मनि ॥ १९ ॥
युज्यन्तेऽतः परं ब्रह्म भूमेसेव विनिर्णयः॥
अन्तर्यामिब्राह्मणोक्सा प्रसगर्थः परात्परः ॥ २० ॥
अहमर्थोऽपि तत्रैव पर्यवस्येन संशयः॥
परात्मनः प्रसगात्मशरीरित्वधियो हतः ॥ २१ ॥
प्रतिष्ठार्थमहंग्रहोपासनस्य निरूपणात् ।।
परमात्मा भूमगुणविशिष्ट इति निर्णयः॥ २२ ॥
तदेतदक्षरं गार्गि ब्राह्मणा यद् वदन्ति हि ॥
तत्मधानं तु जीवो वा परमात्मेति संशये ॥ २३ ॥
युक्तं प्रधानं तत्रैवाक्षरशब्दप्रयोगतः ॥
अस्थूलत्वादिशब्दानां तत्रैवाथ समन्वयात् ॥ २४ ॥
यया तदक्षरमिति परस्मिन्नक्षरं वचः ॥
दृश्यते नामसिद्धं हि प्रमाणान्तरतस्तु तत् ॥ २५ ॥

१ अध्याये ३ पादः। प्रमाणान्तरं प्रथमं प्रवृत्तं श्रुतितः पुरा ॥ अतस्तयोयोर्मध्ये प्रथम बलवद् भवेत् ॥ २६ ॥ तस्माद प्रमाणान्तरतोऽक्षरशब्दप्रयोगतः ॥ विकारकारणमिति प्रधानमिह चाक्षरम् ॥ २७ ॥ इति भाक्षरं पूर्णमम्बरान्तस्य धारणात् ॥ अव्याकृतं त्वम्बरान्तं तदाधारोपदेशतः ॥२८॥ त्रैलोक्यविकृताधारं परं ब्रह्माऽक्षरं भवेत् ॥ आकाशशब्दनिर्दिष्टं भूतसूक्ष्मं यदोच्यते ॥ २९ ॥ सदाधारं प्रधानं वै तदा भवितुमर्हति ॥ अक्षरार्थविवक्षायामक्षरं जीववाचकम् ॥ ३०॥ सद्भूतसूक्ष्मपर्यन्तकृत्स्नस्याचेतनस्य च ॥ आधारत्वेन जीवात्मन्यक्षरस्य प्रयोगतः ॥ ३१॥ इसाक्षेपे समाधानं हरिरात्माऽक्षरो वरः॥ सा चाम्बरान्तविधृतिरक्षरे पुरुषोत्तमे ॥ ३२ ॥ एतस्य वाऽक्षरस्योत वाक्येन स्यात् प्रशासनाव ॥ प्रधानभावव्यावृत्तेः पुरुषान्यत्ववारणात् ॥ ३३ ॥ अक्षराभास्ति द्रष्टाऽन्य इति स्यादक्षरो हरिः॥ य एतदक्षरं गार्यविदित्वा प्रति लोकतः ॥ ३४॥ अस्मात् स कृपण इति यज्ज्ञानाद् घोरसंसृतिः ॥ निवर्तते परं ब्रह्म तस्मादक्षरमुच्यते ॥ ३५ ॥ अभिध्यायीत परमं पुरुष पुरि सस्थितम् ।। इर्शतेऽत्र विनिर्दिष्टः समष्टिपुरुषोऽथवा ॥ ३६ ॥ पुरुषोत्तमो वा किं युक्तमण्डाध्यक्षश्चतुर्मुखः ॥ त्रिमात्रस्योपासकस्य ब्रह्मलोकफलोक्तितः ॥ ३७ ॥ अमरत्वादिधर्माणां कथं चित् तत्र सम्भवात् ।। .

२६
श्रीभाष्यवार्तिके
इति मासेऽत्र परमः पुरुषः पुरुषोत्तमः ॥ ३८ ॥
ईक्षति प्रति कर्मत्वं तस्यैव व्यपदिश्यते ॥
अजराऽमरशान्तेति स एव परिपठ्यते ॥ ३९ ॥
चतुर्मुखस्य लोकोऽपि क्षयिष्णुर्धाम तस्य न ॥
अजरेक्षितृलोको यनजरो नमरो भवेत् ॥ ४० ॥
इदं ब्रह्मपुरे तस्मिन् दहरं पुण्डरीककम् ॥
वेश्माऽस्मिन्नन्तराकाशो दहरस्तस्य चान्तरे ॥ ४१ ॥
यदस्ति तद्धि विज्ञेयमन्वेष्टव्यं तदेव च॥
हृत्पबमध्यवर्ती ह दहराकाशनामकम् ॥ ४२ ॥
महाभूतमुत प्रत्यगात्मा किंवा परेश्वरः ॥
इत्यं हि संशये युक्तो भूताकाशः प्रसिद्धितः ॥ ४३ ॥
अन्वेष्टव्यान्तराधारतयैतस्य प्रतीतितः॥
इति प्राप्ते हि दहरं गगनं पर ईश्वरः ॥ ४४ ॥
उत्तरेभ्यस्तु वाक्येभ्यस्तथाच परिपठ्यते ॥
आत्मा पहतपाप्माऽयं विजरो मृत्युवज्जितः ॥ ४५ ॥
अपिपासः ससकामः सत्यसङ्कल्पशोकहा ॥
इत्यं वै श्रूयमाणा ये तत्रात्मत्वादयो गुणाः ४६ ॥
खाश्रयं दहराकाशं बोषयन्ति परेश्वरम् ॥
तदन्वेष्टव्यमित्र श्रुतिगं तत्पदं तु यत् ॥ ४७ ॥
तदुपस्थापकं पूर्वप्राप्तस्य तवयस्य वै ॥
दहरस्य तदन्तःस्थगुणजातस्य चापि हि ॥४८॥
अतो गुणविशिष्टस्य जिज्ञासाबोधकं हरेः॥
संकल्पात कामसम्मानिर्दहराऽऽकाशवेदिनः ॥ ४९ ॥
साऽपि तं दहराकाशं ब्रह्मेशं बोधयत्यलम् ॥
भूताकाशेनोपमानं परस्मिन् घटते यतः ॥ ५० ॥

१ अध्याये ३ पादः। उपासकशरीरं तु ब्रह्मणः पुरमीरितम् ॥ तत्राल्पहृत्पुण्डरीकं ब्रह्मणो वेश्म तत्र च ॥५॥ वात्सल्यैकसज्जलधिदहरः परमेश्वरः । तवान्तवर्त्यसंख्येयकल्याणगुणमण्डलम् ॥ १२ ॥ अन्वेष्टव्यमिति प्रोक्तं तद्गुणो दहरो हरिः ।। हृत्पद्मे समुपास्योऽयं वाक्येनेत्यं विधीयते ॥ ५३ ॥ दहराकाशनिर्दिष्टः सर्वाधारः परेश्वरः॥ तस्याऽऽत्मत्वं चैष आत्मेसनेन प्रतिपादितम् ॥ ५४॥ तत्रापहतपाप्मत्वाद्यन्वेष्टव्यं गुणाष्टकम् ।। उपदिष्टमुपास्योतस्तदष्टगुण ईश्वरः ॥ ५५ ॥ गच्छन्सेताः ब्रह्मलोकं प्रजाः सर्वा दिने दिते ॥ न तं विदन्सनेनात्र गमनब्रह्मलोकयोः ॥ ५६ ॥ निर्देशाद दहराकाशः परमात्मेति निश्चयः ॥ सति सम्पद्य न विदुरिसन्यत्रापि दर्शनात् ॥ ५७ ॥ लयकाल इव स्थानं सुप्तौ ब्रह्मणि यन्नृणाम् ॥ श्रूयमाणं हि पर्याप्तं लिगन्तद् ब्रह्मताश्रये ॥ ५८ ॥ तथा जगद्विधरणं दहरे श्रूयते तु यत् ॥ गमयन्येव तदपि दहराश्रितब्रह्मताम् ॥ ५९॥ तथैवाकाशशब्दस्य ब्रह्मण्येव सिद्धितः ॥ भवेद्धि दहराकाशः परात्मा नरकेसरी ॥ ६०॥ वाक्यशेषेऽपि जीवस्य परामर्षान्न सो हरिः॥ इति नोक्तगुणा जीवे सम्भवन्तीति सो हरिः ॥ ६१॥ जीवोऽपहतपाप्मादिः प्रजेशवचसो न किम् ॥ ससं किन्तु यदा भूयाद् विमुक्तः कर्मबन्धनात् ॥ ६२॥ आविर्भूतस्वरूपः सस्तदाऽष्टगुणवान् भवेत् ॥

२८
श्रीभाष्यवार्तिके
पार कै प्रजापतेर्वाक्ये तिरोहितगुणोवरः ॥ ६३॥
पश्चादुद्भूतरूपस्य गुणाविर्भाव उच्यते ॥
मुक्तजीवात्मरूपस्य याथात्म्यज्ञानमेव हि ॥ ६४॥
दहरोपासना विद्या प्रयोजकतयोच्यते ॥
ब्रह्मप्रेप्सोहि जीवस्य स्वरूपज्ञानमिष्यते ॥१५॥
कल्याणगुण एवैषोऽनुभविष्यति तादृशम् ।।
कल्याणगुणमात्मानं परमानन्दमीश्वरम् ॥ ६६ ॥
तस्माद स्वरूपविज्ञानं दहरोपासनाफलम् ॥
इत्यं प्रजापतेर्वाक्ये तद्गुणो जीव उच्यते ॥६॥
तिरोहितरूपः सन् मकाशगुणवान सदा ।।
वर्णितः परमात्मेत्यं वाक्ये दहरसंझके ।। ६८॥
आविर्भूतस्वरूपस्य जीवस्याप्यशरीरिणः॥
जगद्विधरणत्वादिगुणानैव भवन्ति हि ॥ ६९ ॥
ससकामत्वमभूतिगुणा एव हि केवलम् ॥
इत्थमग्रे फलाध्याये स्वयमेव वदिष्यति ।। ७०॥
अल्पत्वश्रवणं यत्तु निचाय्यत्वात्तु तद् भवेत् ॥
अत्रोक्तो दहराकाशो नृहरिर्गुणसागरः॥ १॥
जीवस्तथा भवसेव रूपसम्पत्त्यनन्तरम् ॥
साम्यं तयोः श्रूयते च परात्मप्रसगात्मनोः ॥ ७२॥
मुक्तौ संसारिणां तेषां तत्साम्यापत्तिलक्षणम् ।
इदं ज्ञानमुपाश्रियेसादिवाक्ये हिं स्मर्यते ॥ ७३ ॥
अङ्गुष्ठमात्रः पुरुषो जनानां हृदये सदा ॥
सनिविष्टः कठश्रुखामित्येवं श्रूयतेच किम ॥ ४॥
अङ्गुष्ठमात्रः प्रमितः प्रसगात्सायवा परः ॥
युक्तं तु प्रत्यगात्मैव तत्वस्यान्यत्र संश्रुतेः ॥ ७ ॥

१ अध्याये ३ पादः। पाणा धियः सञ्चरन्ति सर्वे चैते स्वकर्मभिः । अङ्गुष्ठमात्र आत्माऽयं रवितुल्या प्रकाशमाक् ॥ ७ ॥ उपासार्थतयाऽप्येवं परेशे न श्रुतं कचिद ।। नचाङ्गुष्ठमितस्याणोः कथमीशानता घटेत ॥ ७७॥ शरीरेन्द्रियसम्भोग्यभोगोपकरणात्मनाम् ।। अपेक्षयापि जीवस्य घटेतेशानता यतः ॥ ७८ ॥ इति प्राप्तेऽशुष्ठमात्रो हृदये स्यात् परात्परः ॥ अगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ॥ ७९ ॥ ईशानो भूतभव्यस्य न ततो विजिगुप्सते ॥ इत्यं चैव श्रूयमाणाच्छब्दादेव नचात्मनि ॥ ८ ॥ सर्वेशितृत्वमस्मिन् स्यात् कर्माधीने शरीरिणि ।। सर्वेशानस्य महतः कथमङ्गुष्ठमात्रता ॥ ८१॥ इसाशय प्रवृत्तेस्तु मनुष्यमधिकृय यत् ।। शास्त्रस्येति मनुष्याणां हृदयापेक्षयाध्वदत् ॥ ८२ ॥ अङ्गुष्ठमात्रपुरुष इसगुष्ठामवे हृदि । ईशस्य विद्यमानत्वादुपासार्थ तदुच्यते ॥ ८३ ॥ ब्रह्मणोऽङ्गुष्ठमात्रत्वप्रमितत्वोपपत्तये ॥ उक्तोपासनशाने हि मनुष्यस्याधिकारिता ॥ ८४ ॥ तत्मसङ्गेन विद्यायां देवादीनां हि साम्प्रतम् ॥ अधिकारोऽस्ति नास्तीति विचारः सम्पवर्तते ॥ ८५॥ युक्तं न तावदस्येव सामर्थ्याभावतः परम् ॥ न हि देहविहीनानां देवादीनां प्रवर्तते ॥ ८६॥ ब्रह्मोपासनसामय साधनानामसम्भवाद ।। न हि देहविहीनेन किञ्चित् कर्तुं हि पार्यते ॥८॥ देवादीनां शरीरित्वे प्रमाणं नोपलभ्यते ॥

श्रीभाष्यवार्तिके
ये तु कर्मविधौ शेषभूता मन्त्रार्थवादकाः ।।८८ ॥
देवादिविग्रहं नैव प्रतिपादायतुं क्षमाः ॥
इति प्राप्ते हि देवादेरधिकारोऽस्त्युपासने ॥ ८९ ॥
सामर्थ्यार्थित्वयोः सत्त्वन्मन्यते बादरायणः ॥
आध्यात्मिकादिदुःखाभितापादार्थत्वमिष्यते ॥ ९ ॥
निरस्तहेयासंख्येयकल्याणगुणसागरे ।
भोग्यत्वादिपरिज्ञानात् सामर्थ्यस्यापि सम्भवः ॥ ९१ ॥
यद् देवतियङ्मानुष्यस्थावरादिचतुर्विधा ।
सृष्टिराम्नायते तत्तत्कर्मानुगुणतस्तथा ॥ ९२ ॥
लोकस्थितिभॊगयोग्यशरीरेन्द्रियसम्भवः ॥
देवादीनामतो ब्रह्मोपासनाधिकृतिः किल ॥ ९३ ॥
इन्द्रो वै सर्वदेवानाममुराणां विरोचनः ॥
प्रजापतेः सकाशं तावागच्छन्तौ कृताञ्जली ॥ ९४॥
द्वात्रिंशद्वर्षपर्यन्तं ब्रह्मचर्य समूषतुः ॥
विस्पष्टमितिवाक्येन देवादीनां प्रतीयते ॥ ९५॥
शरीरेन्द्रियवत्वं च विधिशेषार्थवादके ॥
अविरोधाच्यते हि वज्रहस्तः पुरन्दरः ॥ ९६ ॥
एवं सविग्रहा देवा ब्रह्मविद्याधिकारिणः॥
परिच्छिन्नशरीरित्वे देवादीनां तु कर्मसु ॥ ९७ ॥
योगपद्यागमाभावाद् विरोधः कर्मणीति चेत् ॥
अनेकदेहसम्पत्तिसापान स दृश्यते ॥ ९८॥
सौभरिप्रभृतीनां हि दृश्यते शक्तिमत्तया ॥
अनेकदेहसम्पत्तिर्भोगार्थमिह कर्मणे ॥ ९९ ॥
शरीरेन्द्रियवत्त्वेन जन्मनाशप्रसङ्गतः ॥
इन्द्रादीनामनिसत्वे वेदानित्यत्वमापतेव ॥ १० ॥

१ अध्याये ३ पादः। ३१ किचैवं जन्मनः पूर्व नाशार्ध्वं च सम्भवेत् ॥ निरर्थकत्वं वेदस्य विरुद्धमितिचेन हि ॥ १० ॥ वैदिकेन्द्रादिशब्देभ्य इन्द्रार्यस्य सम्भवात् ॥ इन्द्रादिशब्दाश्चैत्रादिशब्दवनैव वैदिकाः॥ १०२ ॥ खव्यक्तिमात्रसङ्केतपूर्वकाः प्रसरन्ति हि ॥ किन्त्वाकृतिविशेषाणां वाचकास्तु गवादिवत् ॥ १० ॥ एकेन्द्रव्यक्तिसन्नाशे वैदिकान्मनसिस्थितात् ॥ इन्द्रशब्दाद् वाच्यभूतं विज्ञायेत्यं प्रजापतिः ॥१०४ ॥ तदाकारान्यमेवेन्द्रं सृजतीह कुलालवत् ॥ यथा कुलालो मनसि घटशब्दाद्धि संस्थितात् ॥ १०५॥ तदाकृतिविशेषान्यं घंटं सृजति तत्तथा ॥ व्याकरोग्रामरूपाणि वेदेनेतिश्रुतेर्वलात् ॥ १०६ ॥ वेदशब्देभ्य एवादाविति स्मृसा च निर्णयात् ॥ स्मृतिपूर्वा हि देवानां सृष्टिस्तत्स्मरणं पुनः ॥ १०७ ॥ वेदशब्देभ्य एवातो वेदे निसत्वमस्यलम् ॥ नैमित्तिकादिप्रलये कल्पनेत्थं तु युज्यते ॥ १०८ ॥ पाग्भवेन्द्रादिसंस्मृत्या देवा धात्रा हि सृज्यताम् ॥ प्राकृतमलये स्रष्टुर्नाशाच्छब्दस्य नाशतः ॥१०९॥ भूतादिपरिणामस्य नाशात् सृष्टिः कथं भवेत् ॥ विनष्टस्य तु वेदस्य निसत्वमपि दुर्लभम् ॥ ११० ॥ अतो वेदादिनिसत्वं प्रवाहानादिताश्रयात् ॥ इति चेन विरोधोऽत्र कथञ्चिदपि सम्भवेत् ॥ ११ ॥ समाननामरूपं तज्जगत् सृजति वै हरिः॥ बहु स्यामिति सङ्कल्प्य पूर्वावस्थं जगत् स्मरन् ॥ ११२॥ शक्तिमात्रावशेषं यत्सलीनमभवत् पुरा ।।

३२
श्रीभाष्यवार्तिके
समाननामरूपं तद् वेदादिजगदसृजत् ॥ ११३ ॥
हिरण्यगर्भपर्यन्तब्रह्माण्डं महदादिकम् ॥
पूर्व सृष्ट्वा तथा वेदान् यथावस्थानुपूर्वकान् ॥ ११४ ॥
आविर्भाव्योपदिश्यैवं ब्रह्मणे पूर्ववत् तथा ॥
देवसर्गे तं नियुज्य तत्चदात्मतया स्वयम् ॥ ११५ ॥
अवतस्थे ह्यतः सर्वमुपपन्नं भविष्यति ॥
पूर्वानुपूर्वीसदृशं वेदस्योच्चारणं तु यत् ॥ ११६ ॥
तदेवापौरुषेयत्वं क्रमसंस्कारसंस्मृतेः॥
वस्वादियोपासनायामधिकारोऽस्ति वा नवा ॥ ११७ ॥
वस्वादित्यादिदेवानां तत्र नास्तीति युज्यते ॥
उपासकातिरेकेण वस्वादीनामसम्भवात् ॥ ११८॥
असाविसादिवाक्येन वस्वादिसत्वामिष्यते ॥
प्राप्यं तस्मानाधिकारो देवानां देवसेवने ॥११६ ॥
तं देवा इति वाक्येन परब्रह्मात्मनीश्वरे॥
देवमानवसेव्यत्वं श्रूयते नेतरच तत् ॥ १२० ॥
इति प्राप्तेऽधिकारं तु मनुते बादरायणः ॥
वस्वादित्योपासनायां वखादियासुरद्विषाम् ॥ १२१ ॥
वस्वादित्यत्वसम्माप्तिपूर्वकं यत इष्यते ॥
ब्रह्मप्रेप्सा ततोऽस्सेव तेषां तद्देवताश्रयः ॥ १२२ ॥
ब्रह्मणः प्राप्तिपर्यन्तं वस्वादिफलसंश्रुतेः॥
वस्वादिभोग्यभूता ये आदिसांशाः प्रकीर्तिताः॥ १२३ ॥
तेषामुपासनं यत्तु तदवस्थपरात्मनः॥
कार्यकारणसदस्थब्रह्मोपासनवान् सुरः ॥ १२४ ॥
सम्पाप्य वस्वादिसत्त्वं तत्कल्पे ब्रह्म गच्छति ।।
ब्रह्माप्यवधिपर्यन्तं वस्वादिफलसंश्रुतेः॥ १२५ ॥

१ अध्याये ३ पादः। ३३ शूद्रस्याप्यधिकारोस्ति न वेसत्र विचार्यते ॥ किं युक्तमधिकारोऽस्ति शूद्रस्य ब्रह्मसेवने ॥ १२६ ॥ अर्थित्ववत्त्वाच्छूद्रस्य तत्मयुक्ताधिकारिता । अनग्निविषयत्वाच्च नाधिकारोऽस्ति कर्मसु ॥ १२७ ॥ अग्निसाध्येषु शूद्रस्य यद्यप्यत्रास्ति तथापि ॥ ब्रह्मोपासनमात्रे हि स्वस्ववर्णाश्रमोचिताः ॥ १२८॥ क्रिया एव त्वपेक्षन्ते शुश्रूषासन्तिताः क्रियाः ॥ शूद्रेसामन्त्र्य रैक्वस्तु ब्रह्मविद्यां वदयमुम् ॥ १२९ ॥ अतोऽस्य ब्रह्मविद्यायामधिकारः प्रवर्ण्यन्ते ॥ इति प्राप्ते नाधिकारः सामर्थ्याभावतो बलम् ॥ १३० ॥ असमर्थस्य चार्थित्वसम्भवेऽपि न युज्यते ॥ अधिकारस्तु शूद्रस्य वेदाध्ययनहानितः ॥ ११ ॥ पुराणश्रवणानुज्ञापापनाशार्थमिष्यते ॥ शूद्रस्य ब्रह्मोपासार्थं न तु सेति विनिर्णयः ॥ १२ ॥ यत्तु संवर्गविद्यायां शुश्रूषाद्याः क्रियाः पुनः॥ अधिकार सूचयन्ति शूद्रस्येति भवेन हि ॥ १३३ ॥ ब्रह्मज्ञाने हि वैकल्ये हंसोक्सानादरश्रुतेः ।। जानश्रुतेस्तु साता शुगस्येति तया शुचा ॥ १३४ ॥ रैक्वब्रह्मविदः पार्थ प्रसाद्रवणहेतुना ॥ तेन शूद्रेति सम्बोध्य ब्रह्मविद्योपदिश्यते ॥ १३५ ।। रैक्वेनेसेव शूद्रत्वं न तु तद्वर्णतोऽत्र हि ॥ बहुग्रामपदानत्वात् तथा देशाधिपत्वतः ॥ १३६ ॥ जानश्रुतेः क्षत्रियत्वाऽवगमानास्ति शूद्रता ॥ अस्यां संवर्गविद्यायामुत्तरत्रापि कीर्तनात् ॥ १३७ ।। अभिमतारिनाम्नश्च क्षत्रियस्येससावपि ॥ G

३४
श्रीभाष्यवार्तिके
भानश्रुतिः क्षत्रियो हि साहचर्याख्यलिङ्गतः ॥ १३८ ॥
शूद्राधिकारे नो लिङ्गमेवं न्यायविरोधिनि ।
ब्रह्मविद्योपदेशेषु संस्कारः श्रूयते पुनः ॥ १३९ ॥
अतः शूद्रो नाधिकारी शुद्धे नोपनयो यतः ॥
शूद्रस्य वेदश्रवणं वेदाध्ययनमेव च ॥ १४० ॥
पुनस्तदानुष्ठानं प्रतिषिद्धमतोऽपि न ॥
अथ हाऽस्येति वाक्येन प्रतिषेधस्तु स्मर्यते ॥ १४१ ॥
निर्विशेषेकचिन्मात्रं ब्रह्मैव परमार्थतः ॥
तद्भिनमखिलं मिथ्या बन्धश्चापारमार्थिकः ॥ १४२॥
स वाक्यजन्ययाथात्म्यज्ञानमात्रानिवर्चते ॥
तनिवृत्तिः परं मोक्ष इसङ्गीकर्तृणां मते ॥ १४३ ॥
शूद्राथनधिकारोऽत्र न वक्तुपपि शक्यते ॥
यस्मात् कस्मादपि तथा चिन्मात्रब्रह्मवेदनात् ॥ १४४ ॥
शूद्राणां बन्धहानिः स्यादुपनीताधभाविनाम् ।।
न छत्र तत्त्वमस्यादिवाक्याद्याथात्म्यवेदनम् ॥ १४५ ॥
सम्पाचं नेतरस्माद्धि नियन्तुमिति शक्यते ॥
अस्यापुरुषतन्त्रत्वात् सामग्रीमात्रतो जनेः॥ १४६ ॥
अनिच्छतोपि लोकस्येत्येवं तद्भाष्यदर्शनात् ॥
वेदवाक्यजयाथात्म्यज्ञानेन विनिवर्तते ॥ १४७ ॥
बन्ध इसपि नो वक्तुं शक्यते त्वाशैरपि ॥
वेदवाक्याद् भवेद्यादृग् याथात्म्यज्ञानमत्र ते ॥ १४८ ॥
पौरुषेयादपि तथा नोविशेषोऽस्ति कश्चन॥
शुक्तिकारजतभ्रान्तिर्यथा पौरुषवाक्यतः ॥ १४९ ॥
निवर्तते तथैवास्माच्छूद्रबन्धनिवर्त्तनम् ॥
निदिध्यासनतो द्वैतवासनागमनोचरम् ॥ १५० ॥

१ अध्याये ३ पादः। तत्त्वमस्यादिवाक्योत्यं शानं बन्धनिवर्चकम् ॥ इति चेत् पौरुषं वाक्यं तथैवाऽस्तु निवर्चकम् ॥१५१ ॥ अपशूद्राधिकरणं नातः स्वरसतो लगे । तदेवं मध्यसम्माप्तामधिकारकथामिमाम् ॥ १५२॥ समाप्यागुष्ठमात्रस्य ब्रह्मेशत्वेऽधुनोच्यते ॥ हेत्वन्तरं यतः सर्वे कम्पन्तेऽगुष्ठात्रतः॥ १५३ ॥ अतोऽङ्गुष्ठमितं ब्रह्म परेशमिति निर्णयः । अगुष्ठमितयोर्मध्ये वाक्ययोः सर्वकारणम् ॥ १५४ ॥ ब्रह्मासाधारणं सर्व तेजसा छादकं तथा ।। ज्योतिः संदृश्यते तस्मादङ्गुष्ठमित एव सः ॥ १५५॥ आकाशो वै निर्वहिता नामरूपद्वयोरिह । आकाशशब्दनिर्दिष्टो मुक्ताऽऽत्मा वा परेश्वरः ॥ १५६ ।। किं युक्तं तत्र मुक्तात्मा बश्व इसादिवाक्यतः॥ प्रकृतत्वाद् विमुक्तस्य निःसङ्कोचप्रकाशतः ॥ १५७ ॥ मुक्तत्वे नामरूपादिमुक्तस्यापि शरीरिणः ॥ बद्धवे नामरूपादिनिर्वाहस्यापि सम्भवात् ॥ १५८ ॥ इति मासे परात्मा वा आकाशोऽर्थान्तरत्वतः ॥ न नामरूपे निर्वोदुं शक्नुयानामरूपवान् ॥ १५९ ॥ मुक्तोऽपि नो निर्वाहता नामरूपादिकस्य हि । जगद्व्यापारराहिसाव सद्वानाकाश ईश्वरः ॥ १६० ॥ न मुक्तः प्रकृतो छत्र प्रकृतः परमेश्वरः॥ नामरूपादिनिर्वोदा गतपाप्मा ततो हरिः ॥ १६१ ॥ नचाकाशः प्रसगात्मा क्वचिद् दृष्टचरो वरैः॥ अत आकाशपदतो वर्णितः परमेश्वरः ॥ १६२ ।। अथ स्यात् प्रसगात्माऽत्र ब्रह्माभेदोपदेशतः ।

श्रीभाष्यवार्तिके नामरूपादिनिर्वोढाऽऽकाशः स्यादिसतो छवे ॥ २६३ ।। मसगात्मनः परस्मात् सुषुप्त्युत्क्रान्तिकालयोः । व्यपदिष्टो यतो भेद अत आकाश ईश्वरः ॥ १६४ ॥ परात्मना परिष्वक्तो न बाह्यं नापि नान्तरम् ॥ जानाति मुप्तौ चोत्क्रान्तौ परात्मा प्राज्ञ उच्यते ॥ १६५ ।। स एष सर्वाधिपतिर्वशी सर्वस्य सर्वराद् ॥ स एव भूताधिपतिर्भूतपाल स एव हि ॥ १६६ ॥ इति पयादिशब्देभ्य आकाशः परमेश्वरः॥ ऐक्योक्तिस्तु परस्यैवं चेतनाचेतनात्मनः ॥ १६७ ॥ स्थूलस्य सूक्ष्मचिदचिद्विशिष्टब्रह्मकार्यतः ॥ सर्व सद खल्विदं ब्रह्मेसादिवाक्ये निरूप्यते ॥ १६८० इति श्रीभाज्यवार्तिके प्रथमाध्यायस्य तृतीयः पादः॥१॥३॥ RA १ अध्याये ४ पादः। ३७ मोक्षहेतुततया ब्रह्म जिज्ञास्यं विश्वकारणम् ॥ अचिद्वस्तुमधानाच्च बद्धमुक्तोभयाह्वयात् ॥१॥ विलक्षणं दोषहीनं सर्वदं सर्वशक्तिमत् ।। समस्तकल्याणगुणं सससङ्कल्पमीश्वरम् ॥ २॥ निरूप्य प्रतिपाद्यन्ते प्रधानादिपराणि हि ॥ कापिलागमसिद्धान्तिवर्यैरसादृतानि च ॥ ३ ॥ वाक्यानि तत्र यद् व्यक्तमव्यक्तपदमीरितम् ॥ तत् किं प्रधानं किमुत परब्रह्मति संशयः ॥ ४ ॥ तत्र प्रधानमिति हि यतस्तत्मक्रियासु च ॥ प्रसभिज्ञानतो भानात् तस्यैव पुरुषात् पृथक् ॥ ५ ॥ महतः परमव्यक्तमित्येवं कारणोक्तितः ॥ इति प्राप्तेऽव्यक्तशब्दो न प्रधानप्रबोधकः ॥ ६ ॥ आत्मदेहमनोबुद्धिरथादिलेन रूपणात् ॥ शरीररूपकन्यस्तमन्नमव्यक्तमीरितम् ॥ ७॥ आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ८॥ इन्द्रियाणि हयानाहुरविषयांस्तेषु गोचरान् ॥ इत्यादि सोऽध्वनः परमाप्नोति परमं पदम् ॥९॥ इसन्तेन रथित्वेन शरीरादिनिरूपणम् ॥ तस्मादव्यक्तशब्देन शरीरमिह पठ्यते ॥१०॥ रथादिरूपिते देहे येषां येभ्यः प्रधानता ॥ इन्द्रियेभ्यः परा ह्या इति वाक्येन सोच्यते ॥११ कथमव्यक्तशब्देनाऽव्यक्तो देहो निरूप्यते ॥ तत्रोच्यते भूतसूक्ष्ममवस्थान्तरतां गतम् ॥ १२ ॥ अन्याकृतमिहाव्यक्तशब्देन भवितन्यते ॥

३८
श्रीभाष्यवार्तिके
अव्याकृताचेतनस्य विकारिरथवत् पुनः ॥ १३ ॥
परार्थसाधनीभूतयलाईत्वान संशयः ॥
यद्यप्येवं भूतसूक्ष्ममव्याकृतमिहोच्यते ॥ १४ ॥
सहि कापिलतन्त्रेण सिद्धं न किमिहोच्यते ॥
तत्राह कारणीभूतपुरुषाधीनताप्तितः ॥ १५ ॥
प्रयोजनं प्रकृत्यादि खं खे संसाधयत्यलम् ।।
यतः सर्व प्रकृत्यादिशरीरं परमात्मनः ॥ १६ ॥
अन्यथा स्युः प्रकृसादेः स्वरूपं न प्रवृत्तयः ।।
तत एव हि तत्सिद्धप्रकृसाखण्डनं कृतम् ॥ ७॥
अत एव श्रुतिस्मृसोर्जगजन्मलयोक्तिषु ॥
प्रकृतिविकृतिर्जीवाः सङ्कीर्सन्ते परात्मकाः ॥ १८ ॥
तन्त्रसिद्धामहाव्यक्तं भवेद् यदि विवक्षितम् ॥
प्रवदेव सहि ज्ञेयत्वमतो नास्येह संग्रहः ॥१६॥
अशब्दमिति वाक्येन ज्ञेयत्वं वदति श्रुतिः॥
इति चेन यतः माज्ञो निचाय्यत्वेन पठ्यते ॥ २० ॥
विज्ञानसारथिर्यस्तु मनःमग्रहवानरः ॥
सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥ २१ ॥
एषु सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ॥
दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २२ ॥
इति प्राज्ञेश्वरस्यात्र प्रकृतत्वान संशयः॥
अत एवात्र पुरुषात् पञ्चविंशकसंज्ञकात् ॥ २३ ॥
न परं किञ्चिदिति च मिन्नतत्त्वनिराकृतिः॥
अशब्दत्वादयो धर्मास्तस्यैव परमात्मनः ॥ २४ ॥
यत्तदप्राथमिसादिश्रुतिभिः परिकीर्तिताः ॥
महतः परमिसादि बुद्धरात्मा महान् परः ॥ २५ ॥

१ अध्याये ४ पादः। इति पाक् प्रकृताज्जीवात् परत्वं परिपठ्यते ॥ उपन्यासखयाणां वै शेयत्वेन यतः कृतः ॥ २६ ॥ उपायोपेयोपेतृणामतोऽव्यक्तं न कापिलम् ॥ यथाऽऽत्मशब्दसमभिव्याहृतान्महतो गिरा ॥ २७ ॥ महत्तत्त्वं न च तथाऽव्यक्तमप्यात्मनः परम् ॥ कापिलं नात्मनो यस्मात् परत्वेनाभिधानतः ॥ २८ ॥ अजामियादिमन्त्रे या प्रकृतिः श्रूयते किल ॥ खतन्त्रा तन्त्रसिद्धा साऽथवा ब्रह्मात्मिका भवेत् ॥ २९ ॥ युक्तं तु केवला यस्मादजेसेकत्वसंश्रुतिः ॥ वसरूपानन्तविश्वस्रष्तृत्वश्रवणं तथा ॥३०॥ इति प्राप्ते चमसवदविशेषादिहोच्यते ॥ न जायत इसजात्वमोक्तिमात्राम दृश्यते ॥ ३१॥ केवलायास्तथा ब्रह्मात्मिकाया अहणेऽपि च ॥ विशेषः प्रकृतेर्यदच्चमसो भक्षसाधने ॥ ३२ ॥ प्रसिद्धो न विशेषार्थो विशेषो वाक्यशेषतः ॥ यौगिकानां हि शब्दानामर्थमकरणादिभिः ॥ ३३ ॥ विना नार्थविशेषे हि निर्णयो भवति ध्रुवम् ॥ अजा तथाऽत्र निर्णेया धर्थप्रकरणादिभिः ॥ ३४ ॥ नचात्र तन्त्रसिद्धाज्जाग्रहे प्रकरणादयः ॥ दृश्यन्तेऽस्यां न स्वातन्त्र्यात् स्रष्टुत्वं जडभावतः ॥ ३५ ॥ अजा ह्यनेन मन्त्रेण परब्रह्मात्मिकोच्यते ॥ ब्रह्मात्मिकाऽजाग्रहणे हेतुरस्तीत्युवाच ह ॥ ३६॥ ब्रह्मकारणिकाऽजेयं सैषांजा ज्योतिरिसतः ॥ उपक्रमात् तथा होके शाखिनोऽपि पठन्ति ताम् ॥ ३ ॥ अणोरिसादिवाक्येनोपास्यत्वेन गुहाहितम् ॥

श्रीभाष्यवार्तिके
ब्रह्माभिधाय तस्माच्च सप्तपाणजनिस्तुताः ॥ ३८॥
ततस्तु सर्वलोकानां ब्रह्मादीनां प्रसम्भवम् ॥
अभिधाय विश्वजनिका साजोत्पन्नाऽभिधीयते ॥ ३९ ॥
ते ध्यानयोगादपश्यन्निसादिश्रुतिवाक्यतः ॥
ब्रह्मशक्तिखरूपाया अजायाः सम्प्रतीतितः ॥ ४०॥
न स्वतन्त्रप्रकृयादिप्रतिपत्तिः कथचन ॥
कथमस्या अजात्वं वा ज्योतिष्ट्वं समुपक्रमात् ॥ ४१ ॥
इतिचे विश्वसृष्टीनामुपदेशाद् द्वयं भवेत् ॥
तथाहि सूक्ष्माऽवस्थातः कारणादीश्वरो जगत् ॥ ४२ ॥
सृजतीति कल्पनातः कार्यकारणरूपतः ॥
अवस्थाद्वयस्यान्वयः प्रकृतेरवगम्यते ॥ ४३ ॥
सा हि मलयवेलायां ब्रह्मतापनरूपिणी ॥
अविभक्तनामरूपा बव्यक्तादिगिरेरिता ॥ ४४ ॥
सृष्टिकाले समुद्भूतसत्त्वादिगुणभागिनी ॥
विभक्तनामरूपा साऽव्यक्तादिपदबोधिता ॥ ४५ ॥
तेजोवनस्वरूपेण परां परिणतिं गता ॥
रक्तशुक्लशिताकारा प्रकृतिः परिपठ्यते ॥ ४६ ॥
अतोज्जा कारणावस्था कार्यावस्था च सा भवेत् ॥
ज्योतिरुपक्रमेसेवं मध्वादिवददुष्टता ॥ ४७ ॥
सूर्यस्य कारणावस्थावस्थितस्यैकरूपिणः॥
कार्यावस्थावस्थितस्य त्रयीनिष्पाद्यकर्मणा ॥ ४८ ॥
वस्त्रादिभोग्यसतरसाश्रयतया यथा ॥
मधुत्वकल्पनमयोदयास्तमयकल्पनम् ॥ ४९ ॥
न विरुद्धं तथाऽनेन मन्त्रेणाजा परात्मिका ॥
अभिधीयते तन्त्रसिद्धा स्वतन्त्रा नाभिधीयते ॥ ५० ॥

१ अध्याये ४ पादः। अजाशब्देन छागत्त्वमजायाः परिकल्प्यते॥ सदप्यसङ्गतं विद्यानिष्पयोजनभावतः ॥५१॥ पञ्चपञ्चजना यस्मिन्नाकाशश्च प्रतिष्ठितः ।। समेवमन्य आत्मानं विद्वान् ब्रह्माऽमृतं भवेत् ॥५२॥ कापिलागमसंसिद्धतत्त्वस्य प्रतिपादक ॥ किमयं मन्त्र उत न ? युक्तं तत्तत्त्वबोधनम् ॥ ५३॥ यत् पञ्चजनसंशब्दात् पञ्चशब्दविशेषितात् ॥ पञ्चविंशतितत्त्वानां प्रययादेव हेतुतः ॥ ५४॥ इति माप्ते सन्त्रसिद्धतत्त्वसम्प्रत्ययो न हि ॥ एषां पञ्चजनानां यत् पञ्चसंख्यावतामिह ॥ ५५ ॥ सन्त्र संसिद्धतत्त्वेभ्यः पृथग्भावान्न तद्ग्रहः ।। यस्मिन् पञ्चेति यच्छन्दनिर्दिष्टपरमात्मनि ॥ ५६ ॥ समाश्रयतया ज्ञेया परब्रह्मात्मका हि ते ॥ यतो यच्छन्दनिर्दिष्टपरब्रह्मेति गम्यते ॥ ५७ ॥ अतस्तेभ्यः पृथग्भूता उक्ताः पञ्चजना इति ॥ न तन्त्रसिद्धा यत्तेभ्यो व्यतिरेकादतः परः ॥ ५८ ॥ सर्वतत्त्वाश्रयो ह्यत्र पुरुषः सप्तविंशकः ॥ संख्योपसंग्रहान्नापि प्रतीतिरिह जायते ॥ ५९॥ पञ्चविंशतितत्त्वानामित्येव परमाशयः॥ ब्रह्माश्रयाः पञ्चपञ्चजनाः पाणादयोऽत्र हि ॥ ६ ॥ विज्ञायन्ते वाक्यशेषात् प्राणस्येसादिरूपिणः॥ पञ्चपञ्चजनाः केचिदिन्द्रियाणीति सजगुः ॥ ६१ ॥ पञ्चपञ्चजना यस्मिन्नाकाशश्च प्रतिष्ठितः ॥ अत्राकाशपदोद्दिष्टमहाभूतानि यानि च ॥ ६२ ॥ इन्द्रियाणीति तत्त्वानां ब्रह्मनिष्ठत्वमीरितम् ॥ ६

श्रीभाष्यवार्तिके
तस्मान्न तन्त्रसंसिद्धतत्त्वग्रामोऽत्र गृह्यते ॥६३ ॥
वेदान्तवाक्येष्वेकस्मात सृष्टिराम्नायते न हि ॥
सदेवेति कचित् सा तु सत एव हि पठ्यते ॥ ६४ ॥
अमटेखादिवाक्येन कचिद्वा असतो जनिः ॥
असतो जायत इति जगतः परिपठ्यते ॥६५॥
निश्चेतुं शक्यते नातो जगद् ब्रह्मैककारणम् ॥
तद्धेदमिति संश्रुत्याऽव्याकृतं विश्वकारणम् ॥६६॥
अव्याकृतं पुराऽव्यक्तनामरूपं मुसंस्थितम् ॥
व्याक्रियते मधानं तत् साम्प्रतं नामरूपतः॥ ६७ ॥
एवं प्रधानहेतुत्वे निश्चिते हि क्षणादयः॥
सृष्ट्युन्मुखाशयेनेह नेया अव्याकृतेऽक्षरे ॥ ६८ ॥
बृहत्त्वसर्वव्यापित्वे प्रधाने संस्थिते यतः ॥
ब्रह्मात्मशब्दावापे च ततस्तत्रैव नीयताम् ॥ १९॥
अतः स्मृतिन्यायसिद्धं प्रधानं विश्वकारणम् ॥
समुच्यते वेदवाक्यैरिति प्राप्त प्रचक्ष्महे ॥ ७० ॥
सससङ्कल्पसर्वेशानिरस्ताखिलदोषतः ॥
परब्रह्मण एव स्याज्जगतोऽखिलसनिः॥१॥
आकाशादिषु हेतुत्वव्यपदेशाधथायथम् ॥
तस्माद्रेयादिवाक्याच्च तद तेज इति वाक्यतः ॥ ७२ ॥
ससं ज्ञानमनन्तं यद् विपश्चिद् ब्रह्मसंश्रुतम् ॥
तस्माद्वा एतस्मादिति तदेव परिगृह्यते ॥ ७३ ॥
सर्वत्र सृष्टिवाक्येषु द्रष्टव्यं निखिलं जगत् ॥
ब्रह्मैककारणं तत्रासदोतिश्रुतिवाक्यतः ॥ ७४ ॥
असत्कारणमुद्दिष्टं सर्वशं तत् कथं भवेद ॥
तत्रोच्यते समाकर्षादस वेति परश्रुतौ ॥ ७ ॥

१ अध्याये ४ पादः। साक्षिणं तमुपक्रम्यासद् वेत्याद्युत्तरत्र च ॥ भीषास्मादिति वाक्येन समाकृष्य परात् परम् ।। ७६ ॥ पशासितृत्वप्रमृतिगुणानामुक्तितो सत् ॥ नामरूपविभागादिरहितेशमवाचकम् ॥ ७७ ॥ असत्पदेनोच्यतेऽतो नामरूपाविमक्तकम् ॥ तदेदमिति वाक्ये वा अव्याकृतपदं घुनः ॥ ७८ ॥ अव्याकृतशरीरं तद् ब्रह्मैव पठति ध्रुवम् ॥ प्रकृतिधर्माध्यासेन हेतुः परिणति प्रति ॥ ७९ ॥ पुरुषः पठ्यते नैवं किन्त्वत्र पुरुषोत्तमः ॥ यस्य चैतजगत् कर्म तत्कार्यजगदुक्तिमिः ॥८० ॥ जीवमुख्यमाणलिङ्गाज्जीवमाणौ करो न च ॥ इति चेन्न यथा तत्र लिङ्गानि परमेश्वरे ॥८॥ संयोज्यानि तथैवात्र यस्येसखिलकारणम् ।। ब्रह्मेत्युक्तं यतो हेतोः स्वाराज्यफलसंश्रुतिः ॥ ८२॥ जीवसङ्कीर्तनं जीवाद्भिन्नेशस्य प्रतीतये । प्रश्नोत्तराभ्यामित्येवं जैमिनिर्मन्यते परम् ॥ ८३ ॥ मुप्ताज्ज्ञानमयाद्भिनमेके वाजसनेयिनः ॥ सदाश्रयं परात्मानमामनन्ति न संशयः ॥१॥ यदि कापिलसंसिद्धपुरुषाद्भिन्न ईश्वरः ।। इति नो तर्हि द्रष्टव्य आत्मा स्यादीखरो हरिः॥ ८५ ॥ परमात्मा हि जीवेभ्यो यथाकर्म प्रपूजितः ।। तत्तत्कर्मानुरोधेन पियत्वं सम्प्रयच्छति ॥ ८६|| एकविज्ञानभावेन सर्वविज्ञानजन्मनः । लिङ्गाज्जीवात्मसंशब्दैः परमात्माभिधीयते ।। ८७ ॥ परकार्यतया जीवः परमात्मैव नो भवेत् ।।

श्रीभाष्यवार्तिके
तर्हि परात्मविज्ञानाद तद्विज्ञानं कथं भवेत् ॥ ८८॥
पावका सुदीप्ताद्यथा विस्फुलिङ्गाद सहस्रशः ॥
सरूपाः सम्प्रभवन्ते अक्षराद्विविधाः प्रजाः ॥ ८९ ॥
तथैवेत्थमाश्मरथ्य आचार्यो मन्यते स्फुटम् ।।
कार्यजीवस्य ब्रह्मैक्यात् तद्विज्ञानाद्धि तन्मतेः ॥ ९० ॥
प्रतिज्ञाऽऽपादनं यच्च तदयुक्तं यतो जनेः ॥
न जायते इति वाक्याज्जीवानां प्रतिषेधतः ॥ ९१॥
प्राचीनकर्मजनितफलभोगाय सर्जनम् ॥
जगतो जीवजातानां कार्यत्वे ब्रह्मताऽस्ति हि ॥ ९२ ।।
तथाच ब्रह्मतापत्तिमोक्षार्थ कर्मणोऽक्रिया।
उत्क्रमिष्यतो जीवस्य ब्रह्मभावाद परात्मनः॥ ९३
जीवशब्देनाभिधानमोडुलोमेरिदं मतम् ॥
उत्क्रमिष्यति जीवे हि ब्रह्मभावस्तथा न च ॥१४॥
पागन्ते इत्थमुक्तं यत् तदयुक्तमवस्थितः ॥
अन्यथा ब्रह्मभावस्य विकल्पासहनं भवेत् ॥ ९५॥
मागन्ते ब्रह्मभावोऽयं भवेत् स्वाभाविकोऽथवा ।।
औपाधिकस्तत्र युक्तः पक्षः स्वाभाविको न हि ॥ ९६ ॥
ब्रह्मभिन्न स्वरूपस्य ब्रह्मत्वाशक्यवाक्यतः ॥
औपाधिकत्वे भेदस्य सर्वदा ब्रह्मणि स्थितेः ॥ १७ ॥
उत्क्रान्तावेव ब्रह्मत्वं कथमित्थं नियम्यते ।।
सथाच खशरीराख्यजीवेष्वात्मतया स्थितेः॥ ९८॥
परात्मवाचको जीवः काशकृत्स्नमते भवेत् ॥
एवं निरीश्वरे सांख्ये निरस्ते सेश्वरा हि ते ॥ ९९ ॥
समुत्थिता वदन्तीत्यमाधिष्ठयं विना न हि ॥
अधिष्ठातुरीवरस्य कारणत्वं कथञ्चन ॥ १००॥

अध्याये ४ पादः। अधिष्ठायैव प्रकृतिमुपादानस्वरूपिणीम् ॥ विश्वं सृजति विश्वेशो निमित्तं कुम्भकारवत् ॥ १० ॥ इति प्राप्ते छुपादानं निमित्तं परमेश्वरः ॥ एकविज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥ १०२॥ यथा सोम्येति दृष्टान्तानुपरोधेन हेतुना ॥ अनाद्यन्तवतीयं गौरियादिप्रकृतिश्रुतौ ॥ १०३ ॥ अविभक्तनामरूपं कारणावस्थमीश्वरम् ॥ ब्रह्मप्रकृतिशब्देन पठ्यतेऽन्यस्य हानितः ॥ १०४ ।। सर्व वेदात्मनोऽन्यत्र तं परादादिति श्रुतिः ।। ब्रह्मातिरिक्ताभावं सा प्रतिपादयति स्फुटम् ॥ १०५॥ सोऽकामयतवाक्येन बहु स्यामिति वाक्यतः ॥ उपादानं निमित्तं च ब्रह्मैव परिकीर्यते ॥ १०६ ॥ न केवलं प्रतिज्ञाधैरयमर्थोऽभिधीयते। किन्तु साक्षादुपादाने निमित्तं ब्रह्म चोच्यते ॥ १०७ ॥ ब्रह्मवनं ब्रह्मक्षो यतं आसीदिदं जगत् ॥ ब्रह्माध्यतिष्ठन् सर्वत्र धारयद् भुवनानि हि ॥ १०८ ॥ किमुपादानं कानि च साधनानीति लोकतः ॥ पृष्टे स्वेतरभिन्नस्य ब्रह्मणः सर्वयोग्यता ॥ १०९ ॥ न विरुद्धति ब्रह्म स्यादुपादानं निमित्तिकम् ॥ स्वयमकुरुतात्मानमित्येवं कर्तृकर्मणोः॥११० ॥ अभेदस्योपदेशेन यदेकं ब्रह्म तद् द्वयम् ॥ अविभक्तनामरूप आत्मा कर्ताऽभिधीयते ॥ १११॥ विभक्तनामरूपः स कार्यमित्यपि पठ्यते ॥ तस्मात् कर्तृत्वकर्मत्वे न विरोधो मनागपि ॥ ११२ ॥ निरस्ताऽखिलदोषस्य चेतनाचेतनात्मनः॥

श्रीभाष्यवार्तिके
परिणामविकारो हि कथमित्यत्र संशृणु ॥ १२३ ॥
परिणामस्वभावो हि विशषणगतो भवेत् ॥
न विशेष्यस्य दोषित्वमावहेबिष्फलस्य हि ॥ ११४ ॥
सूक्ष्मचिदचिद्रूपस्य स्थूलचिदचिद्रूपता ॥
सम्पद्यते यतो देवान भवेद स विकारभाक् ॥ ११५ ॥
योनिशब्दादुपादानं कर्तृशम्दानिमित्तकम् ॥
ब्रह्मैवाचिन्यशक्तित्वान्न विरोधो मनागपि ॥ ११६ ॥
एवं सर्वत्र वेदान्ते जगत्कारणवाचकाः॥
चेतनाचेतनवतो ब्रह्मणः प्रतिपादकाः ॥ ११७॥
सूक्ष्मस्य स्थूलतापत्ति स्थूलस्य सूक्ष्मतां तथा ॥
सम्पाद्य रमते विष्णुर्वेदवेदान्तगोचरः ॥ ११८ ॥
प्रसक्षादिप्रमाणानां गोचरादविचेशनात् ॥
तत्संसृष्टाद्वियुक्ताच्च चेतनाद्भिननिष्कलम् ॥ ११९ ॥
आनन्दरूपममलमायेऽध्याये निरूपितम् ॥
इति श्रीभाग्यवार्तिके प्रथमाध्यायस्य चतुर्थः पादः॥१॥४॥

२ अध्याये १ पादः। ४१ विरुद्धवादिसम्भाव्यप्रकारविनिवृत्तये ॥ आरभ्यते गुरुं नत्वा द्वितीयाध्यायवार्तिकम् ॥१॥ श्रुतीनां तत्परत्वं न विरोधात कापिलस्मृतेः ॥ अतस्तत्स्मृतिसंसिद्ध एवार्थः श्रुतिबोधितः ॥२॥ अन्यथाऽनवकाशः स्यात् कापिलायाः स्मृतेरिह ॥ इतिचेन्नान्यमन्वादिस्मृतीनां तत्प्रसङ्गतः ॥३॥ यदि कापिलस्मृत्युक्तसिद्धान्तस्यानुरोधतः ॥ श्रुतिवाक्यव्यवस्था स्यात् तदान्यानवकाशता ॥ ४ ॥ भारतं भगवद्गीता मन्वायाः स्मृतयस्तथा ॥ विरुद्धानवकाशत्वदोषेणैषां तु पीडनम् ॥५॥ यद्याप्तकपिलोक्तीनामनुरोधाच्छुतीरितम् ॥ व्यवस्थाप्यं तदासाप्तगुरुक्तीनां हि गौरवात् ॥ ६ ॥ तत्पणीतेन वेदार्थो व्यस्थाप्यः कुतो न हि ॥ यदै किञ्चिदिति श्रुसा सिद्धमन्वादितद्विदाम् ॥७॥ तत्वोपलब्धि वास्ति कपिलोक्तिमकारतः ॥ तदुक्तिओन्तिमूलेति श्रुसर्थो न तया ततः॥८॥ शक्योऽस्ति प्रच्यावयितुं तद्विदुक्तिविरोधतः ॥ कापिलोक्तिनिराकृसा निरस्ता यौगिकस्मृतिः ॥९॥ योगे ईशाभ्युमगमान्मोक्षसाधनतोक्तितः ॥ वक्तुर्हिरण्यगर्भस्य वेदान्ताधिकृतत्वतः ॥ १०॥ श्रुसर्थनिर्णयोन्याय्यो योगोक्तेरनुरोधतः ॥ इतिचेन्न प्रधानस्य जगत्कारणतोक्तितः ॥ ११ ॥ ब्रह्मविखं प्रतीशस्यानुपादानत्वतोक्तितः ॥ निमित्तमात्रतोक्तश्च न योगः श्रुतिसंमतः ॥ १२ ॥ अत्र त्वाशङ्कयते ब्रह्म जगतो नैव कारणम् ॥

श्रीभाष्यवार्तिके
विलक्षणत्वात् तदपि शब्दादप्युपदिश्यते ॥ १३ ॥
अचेतनत्वदुःखित्वादयो धर्मा अनीश्वरे ॥
विज्ञानमुखानसत्वादय ईशे विलक्षणाः ॥ १४ ॥
कथ्यन्तेऽतः प्रषानं स्यात् कारणत्वविलक्षणम् ॥
अशुद्धदुःख्यनीशं यच्चेतनाचेतनात्मकम् ॥ १५॥
जगद् विलक्षणेशेन तत् कथं प्रवितन्यते ॥
ननु,-चेतनात् पुरुषाद केशा जायन्तेऽचेतनाः कथम् ॥१६॥
अचेतनाद् गोमयाच्च वृश्चिकाश्चेतना यतः॥
कार्यकारणभावोऽतो वैलक्षण्येऽपि दृश्यते ॥ १७ ॥
चेति वाच्यं चेतनात् स्यादचेतनजनिः कथम् ॥
अचेतनत्वाभिमतं चेतनत्वेन पठ्यते ॥ १८ ॥
आपोऽकामयतेत्यादौ मृदोऽपि वचनान्वयात् ।।
इतिचेन्न विजातीयं कारणं कार्यमात्रके ॥ १९ ॥
पुरुषेऽचेतनांशेन केशदन्तादिकं यतः॥
पृथिव्याघभिमानिन्यो देवता मृत्पदादितः ॥ २० ॥
विशेषणत्वादुच्यन्ते मृदादिर्देवतोदिता ॥
विशेष्यत्वात् तथाचापि देवताऽनुप्रवेशतः ॥ २१ ॥
अतः कार्य कारणाद्वै जायते न विलक्षणम् ॥
ततो जगद् ब्रह्मकार्य नेति प्राप्तेऽभिधीयते ॥ २२ ॥
जगद्विलक्षणं ब्रह्म तदुपादानमिष्यते ॥
दृष्टा जनिर्माक्षिकादेः क्रम्यादभिन्नरूपिणः ॥ २३ ॥
ननूक्तं यच्चेतनाशं सजातीये हि कारणम् ॥
ससमुक्तं नचैतेन सर्व सर्वसलक्षणम् ॥ २४ ॥
सर्वस्मात् सर्वमुत्पनमन्यथा स्यान संशयः॥
ततो विलक्षणं ब्रह्म विलक्षणजगत् प्रति ॥ २५॥

२ अध्याये १ पादः। उपादानं कारणं स्याद् यथा स्वर्ण कटादिषु ॥ वस्त्वन्तराद् वस्तुनोऽत्र व्यावृत्तिजनकस्य तु ॥ २६ ॥ अनुवृत्तिरेव सता सालक्षण्यमुरीकृतम् ॥ माक्षिकादिसमुत्पन्ने कुम्यादौ दृश्यते न तत् ॥ २७ ॥ तस्मन्निास्यनुपपत्तिब्रह्मकार्ये जगसपि ॥ न मृघटादाविव हि माक्षिककृमिकादिषु ॥ २८ ॥ व्यावर्तकानुगः कश्चिद् वस्त्वन्तरनिरूपितः ॥ कार्यस्वरूपाज्जगतः:? कारणं ब्रह्म चेत् पृथक् ॥ २९ ॥ तयोर्द्रव्यान्तरात्वाप्या कार्य ब्रह्मण्यसद्भवेत् ॥ नैतदेवं तयोः साम्यनियमप्रतिषेधतः ॥ ३० ॥ न तु द्रव्यान्तरत्वं हि कार्यस्य प्रतिपाद्यते ।। किन्तु ब्रह्म स्वतो भिन्नविश्वाकारेण केवलम् ॥ ३१ ॥ परिणामीति सिद्धान्तः श्रुतिवाक्यस्य गौरवात् ।। वैलक्षण्येऽपि द्रव्यैक्यं काममाक्षिकयोरिह ॥ ३२ ॥ कार्यकारणयोरस्ति कुण्डलस्वर्णयोरिव ॥ द्रव्यैक्यमभ्युपेतं चेत् कार्यकारणयोस्तदा ॥ ३३ ॥ कार्यधर्मा ब्रह्मणि स्युः सुवर्ण इव कौण्डलाः ॥ विजरो विमृत्युरियादिश्रुतीनां पीडनं ततः ॥ ३४ ॥ अत्रोच्यते शरीरस्थयुवत्वादि नचात्मनि ॥ तथा ब्रह्मशरीरस्थं सङ्कोचादि न ब्रह्मणि ॥ ३५॥ प्रतीयते यतः सर्व चेतनाचेतनात्मकम् ।। विधेयाधेयशेषत्वैः शरीरं परमात्मनः ॥ ३६ ॥ यच्चेतनस्य यद् द्रव्यं स्वार्थं सर्वात्मना भवेत् ॥ धारयितुं नियन्तुं च शक्यं तच्छेषतात्मकम् ॥ ३७॥ तत्तस्य चेतनस्यात्र शरीरमिति लक्षणम् ॥

५०
श्रीभाष्यवार्तिके
क्वचिच्च प्रतिबन्धेन नियन्तुं चेन शक्यते ॥ ३८ ॥
तथापि न शरीरस्य लक्षणाव्याप्तिरिष्यते ॥
अतः सर्वे परेशेन स्वार्थ सर्वात्मना भवेत् ॥ ३९ ॥
धार्य नियम्यं तच्छेषं शरीरमशरीरिणः ॥
कर्मजन्यशरीरस्याशरीरमिति वाक्यतः ॥ ४० ॥
प्रतिषेधो नचानन्दशरीरं प्रतिषिध्यते ॥
चेतनेन वियोगाख्यविशीर्यन्वानिरूपणात् ॥ ४१ ॥
आनन्दविग्रहो गौणशरीरं तत उच्यते ॥
प्रधानहेतुवादस्य दुष्टत्वादपि नाश्रयः ॥ ४२ ॥
ब्रह्मकारणवादस्तु निर्दुष्टत्वात् समाश्रितः ॥
तथाहि निर्विकारस्य चिन्मात्रैकरसस्य हि ॥ ४३ ॥
प्रधानसन्निधानेन तद्धर्माध्यासतस्तथा ॥
जगत्पत्तिः किमुत चिन्मात्राध्यासतो बलात् ॥ ४४ ॥
जगत्पत्तिः प्रकृतेर्नोभयं स्यादसम्भवात् ॥
सन्निधानमसङ्गस्य प्रकृसध्यसनं तथा ॥ ४५ ॥
चिदध्यासश्च नो वक्तुं शक्यते योग्यताहतेः ॥
सद्भावः प्रकृतेः किं वा विकारस्तद्गतोऽथवा ॥ ४६॥
पुरुषस्थित एवात्र विकारः कश्चिदिष्यते ॥
न तावत् पुरुषीयं स्यादनभ्युपगमादिह ॥४७॥
प्रकृतेर्न विकारोऽपि तस्याध्यासैककार्यतः ॥
सद्भावः सनिधानं चेन्मुक्तेऽस्याध्याससम्भवः ॥ ४८॥
जगत्पत्तिस्तत्पक्षे अत एव न सम्भवेत् ॥
ब्रह्मकारणवादस्तु श्रुतिमूलः समाश्रितः ॥ ४९ ॥
प्रधानवादो निर्मूलो नाश्रितः शिष्टपण्डितैः ॥
शाक्यौलूक्याक्षपादीयतर्काणां कपिलादिभिः॥५०॥

२ अध्याये १ पादः। ५१ अन्योन्यं व्याहतिबलादप्रतिष्ठानसम्भवात् ।। तैरनिर्णयो न स्याच्तिवर्मसमुज्झितैः ।। ५१ ॥ योगतर्कव्याहताऽतः कापिल्यक्तिर्न गृह्यते ॥ अन्यतर्कोक्तिरपि चे गृह्यतेऽन्यस्य तर्कतः ॥ ५२ ॥ दृष्येति तर्कासंस्थानादनिक्षिपसङ्गतः ॥ अतीन्द्रियेऽर्थे शास्त्रं स्यात् प्रमाणमत एव हि ॥ ५३ ।। आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना ॥ यस्तर्केणानुसन्धत स. धर्म वेद नेतरः ॥ ५४॥ इति वेदाविरुठून तर्केणार्थो निरूप्यते ॥ न तु स्वोत्प्रक्षितेनैव तेनार्थस्य निरूपणम् ॥ ५५ ॥ वेदापरिगृहीतोक्तसांख्यपक्षप्रतिक्षयात् ॥ कणभक्षाक्षपात्पक्षमुख्या अन्ये परिक्षताः ।। ५६ ॥ ज्ञानात्मार्थात्मकं चैतत् क्षणिकं चापि ये जगुः ॥ वेदापरिगृहीतास्ते तेषां तर्काप्रतिष्ठितेः ॥ ५७ ॥ ननु, स्थूलसूक्ष्मशरीरस्य कार्यकारणरूपिणः॥ जीवस्य ब्रह्मणश्चापि विभागः सम्भवेत् कथम् ॥ ५८ ।। ब्रह्मणः सशरीरत्वे भोक्तृत्वमविवर्जितम् ॥ जीवस्येव शरीरित्वप्रयुक्तसुखदुःखतः ॥ ५९॥ नच सम्भोगसूत्रे तत्परिहारः समर्थितः॥ तत्रोपास्यतयैतस्य हृदयायतने स्थितः ॥ ६ ॥ तन्मात्रेण न भोगस्य प्रसङ्गो भवति स्फुटम् ॥ जीववद् ब्रह्मणस्त्वत्र शरीरित्वेन भोजनम् ॥ ६१ ।। प्रसक्तं परिहार्य न भवेदपि कथञ्चन ॥ इतिचेन्न विभागः स्यादीशजीवस्वभावयोः ॥ ६२ ।। न हि जीवे शरीरित्वकृतं भोक्तृत्वमस्ति तु ॥

श्रीभाष्यवार्तिके
पुण्यपापस्वरूपं यत् कर्म तत्कृतमेव सत् ॥ ६३ ॥
निष्पाप्मनः परेशस्य स्थूलसूक्ष्मशरीरिणः॥
कर्मसम्बन्धगन्धोऽपि नास्यतः कर्मतो न तत् ॥ ६४ ॥
शरीरित्वाऽविशेषेऽपि राजसेवकयोरिव ॥
निग्रहानुग्रहकृतं सुखदुःखं जनेशयोः ॥ ६५ ॥
विभागाभावमाशङ्कय यत् तरङ्गसमुद्रयोः॥
दृष्टान्तेन परो ब्रूते विभागं न स्वभावतः ॥ ६६ ॥
किन्त्वविद्योपाधिकं तन्न सङ्गतमिहोच्यते ॥
न जीवे ईशभावः स्यात् परिणामी न चापि सः॥६॥
क्षेत्रज्ञतत्कर्मणां चानादित्वप्रतिपादनात् ॥
स्वरूपतोऽपरिणामाच्छङ्का कस्यचिदत्र हि ॥ ६८॥
भोक्तृभोग्यविभागस्य कदाचिनैव जायते ॥
मृदो घटादिः स्वर्णादेः परिणामः कटादयः ॥ ६९ ॥
तेषां विभागवत् प्रोक्तो विभागो भोक्तभोग्ययोः ।
स्वरूपरिणामेऽपि ब्रह्मणो भोक्तृभोग्यता ॥ ७० ॥
स्यादेव पुनरप्यत्रासामअस्यं समापतेत् ॥
असदिसत्र कार्यस्य जगतो ब्रह्मकारणात् ॥ ७१ ॥
अनन्यत्वमुरीकृस कारणत्वमुरीकृतम् ॥
तदिदानीमनन्यत्वमाक्षिप्यान विधीयते ॥ ७२॥
विभिन्नबुद्धिबोध्यत्वान्न कार्य कारणात्मकम् ॥
न तन्तुपटबुद्धिर्वा एकाऽऽकारा निरूप्यते ॥ ७३ ॥
कारणे कार्यसत्त्वस्य स्वीकृतौ कारकादिकम् ॥
व्यर्थ स्यादिति कार्ये स्यादसदेव स्वकारणे ॥ ७४ ॥
कृत्स्नः प्रपञ्चो मिथ्या स्यात् सन्मानं कारणं हि सत् ॥
बेद्धमाक्षव्यवस्थाऽत्र नोपपतचेन तत् ॥ ७५ ॥

२ अध्याये १ पादः । कल्पिताया व्यवस्थाया अभावादेव वस्तुतः॥ ब्रह्मणोऽपि परिच्छेदः कार्याभिन्नत्वतो भवेत् ॥ ७६ ॥ इतिचेन्न परिच्छेदः कल्पितोऽस्ति न तत्त्वतः ॥ चिदचिद्वस्तुशरीरस्य ब्रह्मणः सकलं हि तत् ॥ ७७ ॥ प्रकारत्वेन भिन्न स्यादिति प्राप्ते समुच्यते ॥ वाचारम्भणमियादि सदेवेसादिवाक्यतः ॥ ७८ ॥ तदैक्षतेति वाक्येन बहु स्यामिति पाठतः ॥ ऐतदात्म्यमिदं सर्वमिसादिश्रुतितोऽपि च ॥ ७९ ॥ चेतनाचेतनं विश्वमनन्यं ब्रह्मतो भवेत् ॥ येनाश्रुतं श्रुतं च स्यादमतं मतमियतः ॥ ८॥ कृत्स्नस्य जगतो ब्रह्मकारणामान्यतोच्यते ॥ कार्य द्रव्यान्तरं भाति न तु भिन्नं स्वकारणात् ॥ ८१ ॥ मृत्तिकेयेव ससं तद् विकारे नैव ससता ॥ मृद्रव्येण च तेनैव पृथुबुध्नोदरादिकः ॥ ८२ ॥ संस्थानात्मा विकारो यस्तत्प्रयुक्तघटेति च ॥ दृश्यते नामधेयं च जलाहरणसिद्धये ॥ ८३ ॥ संस्थानान्तरं मृद्रव्यं नामधेयान्तरं च तत् ॥ भजतेऽतो घटायेव मृत्तिकेसेव गृह्यताम् ॥ ८४ ॥ घटे विचार्यमाणे तु मृत्तिकेसेव न पृथक् ॥ तथा विचारितं कार्य न भिन्नं स्वस्य कारणात् ॥ ८५॥ मृदि नष्टो घट इति व्यवहाराद् घटः पृथक् । इति चेन्न विनाशाया अवस्थाः कारणस्य हि ॥ ८६ ॥ अवस्थाभेदमादाय व्यवहारः समर्थ्यते ॥ कारणावस्थमेवाचित्कार्यावस्थं हि वस्तु तत् ॥ ८७ ॥ स्थूलसूक्ष्मं ब्रह्मणः स्याञ्छरीरं परमात्मनः ॥

५४
श्रीभाष्यवार्तिके
अन्तर्यामिब्राह्मणं हि प्रमाणमुलभ्यते ॥ ८८ ॥
शरीरभूतचिदचिद्वस्तुगा अखिलाश्च ये ।।
विकारा न परेशे ते निरवद्यत्वतः श्रुतेः ॥ ८९ ॥
ऐतदात्म्यमिदं सर्वमिति सर्वस्य सादरम् ॥
प्रवदसात्मतादात्म्यं तदेव परमार्थतः ॥१०॥
तत्त्वमसीति वाक्येन निश्चितं गमयसलम् ॥
चिदचिद्वस्तुशरीरं तत्पकारतया हरिम् ॥ ९१ ॥
सर्वशब्दाभिधेयं स्यात् सूक्ष्मस्थूलप्रभेदतः ॥
सूक्ष्मकारणतावस्थः स्थूलकार्यस्ववस्थया ॥ ९२ ॥
परिणामी परात्मायं लौकिकव्यवहारभाक् ॥
अवस्थान्तरयोगे ऽपि बुद्धिशब्दान्तरादयः ॥ ९३ ॥
एकस्यैव प्रदृश्यन्ते बालोऽयं स्थविरो यथा ।
मृदारुकनकादिभ्यो द्रव्यान्तरमुद्भवाद ॥ ९४ ॥
व्यवहारभेदसंदृष्टया नावस्थाभेदतो भवेत् ॥
मृदादिकारणे सद्धि बुद्धिशब्दान्तरादिकम् ॥६५॥
अत्रोत्तरं कुण्डलादिकार्यवर्गेषु दृश्यते ॥
कारणं हि सुवर्णादि सुवर्ण कुण्डलं तथा ॥ ९६ ॥
प्रत्यभिज्ञतिभिन्नं न कारणात कार्यकुण्डलम् ॥
न हि द्रव्यान्तरे भिन्नं द्रव्यं समुपलभ्यते ॥ ९७ ॥
अन्यथा स्यात् सुवर्णेषु मृद्रव्यस्योपलम्भनम् ॥
कार्यस्य कारणे सत्त्वान्न कार्य कारणाव पृथक् ॥ १८ ॥
लोके वेदे च कार्य हि कारणत्वेन पठयते ।।
लोके घटो मृत्तिकैव वेदे चेदं सदेव सत् ॥ ९९ ॥
असतो व्यपदेशादि सर्वमग्रेऽसदेव तु ॥
इति चेनैव सर्वस्य कार्यस्यादावसत्तया ॥ १० ॥

२ अध्याये १ पादः। व्यपदेशो न स्वरूपाद किन्तु संस्थानभेदतः॥ सत्यासत्त्वे द्रव्यधर्मों सत्त्वं सन्नामरूपता ॥ १०१॥ सूक्ष्मावस्था तद्विरोधी धर्मोऽसत्वं प्रकीर्तितम् ॥ वाक्यशेषाद् युक्तिसत्त्वात् तथा शब्दान्तरादपि ॥ १०२॥ वाक्यशेष इदं नाग्रे किञ्चनासीदिति श्रुतिः ॥ युक्तिर्मदः सत्त्वधर्मः पृथुबुध्नोदराकृतिः ॥ १०३ ॥ घटादिव्यवहारे वै हेतुः स्यात् तस्य वा परः ॥ असत्त्वधर्मस्तद्विरोधी सोऽवस्थान्तरनामकः ॥ १०४ ॥ कपालेति घटो नेति व्यवहारस्य साधनम् ॥ न कपालाद्यवस्थातो घटाभावोऽतिरिच्यते ॥ १०५ ॥ एकस्यैव हि द्रव्यस्य माक्पश्चात्कालभेदतः ॥ धर्मान्तरसमायोगः श्रुतिवाक्येऽवगम्यते ॥ १०६ ॥ यथा तन्तव एवैते अवस्थान्तरतां गताः ।। पट इत्थं सदा नामरूपकार्यादिभागिनः ॥ १०७ ।। तथा विशिष्टं ब्रह्मात्र नामरूपादिभार भवेत् ॥ यथा समीरणो होकदेशत्तिविशेषतः ॥ १०८॥ प्राणापानसमानादिनामरूपविभागवान् । तद्वद् ब्रह्माप्येकमेव चिदचिद्भिन्नसंस्थितेः ॥ १०९ ॥ नामरूपविभागि स्यात् तस्मादन्यज्जगन हि ॥ ब्रह्मणोऽनन्यविश्वं चेच्तयो भेदबोधिकाः ॥११० ॥ त्वयैव सकलास्यक्ता भेदे ससेकता कथम् । अत औपाधिको भेदो भेदश्रुतिविबोधितः ॥ १११ ॥ अभेदश्रुतयो मुख्याः स्वभावाद्वैतवादिनः ॥ इति चेन्न स्वतो भिन्नं जीवं विश्वस्य कारणम् ॥ ११२ ॥ उपाधिरहितं ब्रह्म जानाति किमुतो न हि ॥

श्रीभाष्यवार्तिके
न चेत् सर्वज्ञताहानिराधे दुःखादि जानतः ॥ ११३ ॥
हिताहितक्रियादोषमसक्तिब्रह्मणो भवेद ।।
यद्यज्ञानकृतो भेदस्तं श्रुतिर्वदतीति चेत् ॥ ११४ ॥
तम जीवाज्ञानपक्षे जीवाभिन्नपरात्मनः ।।
अल्पज्ञता तथा जीवे सर्वज्ञत्वं समापतेत् ॥ ११५ ॥
ब्रह्माज्ञानमते तु स्वप्रकाशे ज्ञानसाक्षिता ।।
जगत्मृष्टिश्च युक्ता न सर्वदा स्वप्रकाशतः ॥ ११६ ॥
अज्ञानेन तिरोधानं प्रकाशस्येति चेन्न तत् ॥
प्रकाशस्य स्वरूपत्वात् तन्नित्तिस्तिरोहितिः ॥ ११७॥
तथाचैवं स्वरूपस्य निवृत्तिरिति दृषणाव ।।
तस्माज्जगत्कारणत्वं ब्रह्मणो नेसतो ब्रुवे ॥ ११८॥
दुःखादियुक्तजीवात्तु ब्रह्मार्थान्तरमेव तत् ॥
निर्दिश्यते यतो जीवाद्भेदेन परमेश्वरम् ॥ ११९ ॥
अनश्ननिति वाक्याच्च ज्ञाज्ञाविसादिवाक्यतः ॥
अश्मकाष्ठाद्यचिद्वर्गाद् विकारास्पदतो यथा ॥ १२० ॥
अभिन्नं निरवधं न तथा दुःख्यात्मनोऽणुनः ॥
स्थूलसूक्ष्मकावस्थचेतनाचेतनस्य हि ॥ १२१ ॥
परब्रह्मशरीरत्वात् ततो भिन्नं परं स्थितम् ॥
इदानीं तस्य सङ्कल्पमात्रेण विविधं जगत् ॥ १२२ ॥
जायतेऽतः सृष्टियोगाविरोधस्तस्यवर्ण्यते ॥
सर्वसर्जनशक्तीनां कारणानां ह्यपेक्षणात् ॥ १२३ ॥
कथं तदनपेक्षस्य जगत्कारणतोच्यते ॥
न समर्थः कुलालादिर्घटादौ कारणं विना ॥ १२४ ।।
सबै कर्तुं समर्थस्य कारणापेक्षणेन किम् ॥
कार्यजननशकीनां सर्वेषामुपसंहृतेः ॥ १२५ ॥

२ अध्याये १ पादः। ६७ सापेक्षत्वं यथा क्षीरनीरादेर्दधिशीतयोः॥ सर्वसर्जनशक्तस्य तथैव परमात्मनः ॥ १२६ ॥ सर्वस्य जनयितृत्वमुपपद्येत केवलम् ॥ नच दध्यादिमावायाऽऽतञ्चनापेक्षणं वद ॥ १२७॥ क्षीरादौ किन्तु शैघयार्थं विशेषरसलब्धये ॥ यथा देवादयःस्वे स्खे लोके स्वापेक्षितानि हि ॥ १२८ ॥ सृजन्ति स्वस्य सङ्कल्पात तथाऽसौ पुरुषोत्तमः ॥ चिदचिद्विभागहीनं निर्गतावयवं पुरा ॥ १२६ ॥ आसीत् तदेवसङ्कल्पान्नाकादिविविधं भवत् ॥ कृत्स्नं ब्रह्मांशतयाये नाकं वा पृथिवी भवेत् ॥ १३० ॥ अन्ये निरंशब्रह्मात्मबोधकश्रुतिकोपनम् ।। अतो जगत्कारणं न ब्रह्म स्यादिसतो ब्रुवे ॥ १३१ ॥ नायं दोषः श्रुतिब्रह्मनिर्गतांशं यतोऽवदत् ॥ ततो विचित्रसृष्टिं च न समर्थस्य दृषणम् ॥ १३२ ॥ नच बाधितमर्थ सा कुतो वक्तुं प्रभुभवेत् ॥ वक्तव्यं हि यतः शब्दप्रमाणविषयो हरिः ॥ १३३ ॥ विचित्रशक्तियोगेन न विरोधोऽस्ति कश्चन ॥ चस्त्वन्तरधर्मस्य वस्त्वन्तररोपणे ॥ १३४ ॥ कृते घटादिधर्माः स्युरात्मनि चेतनेऽखिलाः ॥ तस्मात् स्वभाववैचित्र्याल्लौकिकैर्न च सङ्करः ॥ १३५ ॥ यथाऽनिलजलादीनां भिन्नौष्ण्यादिस्वशक्तयः॥ दृश्यन्ते तद्वदेवात्र विजातीये परेश्वरे ॥ १३६ ॥ अचिन्याः शक्तयः सन्ति न किञ्चिदवहीयते ॥ प्रमाणं वैष्णवं चात्र पुराणं परिदृश्यते ॥ १३७ ॥ निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ॥

श्रीभाष्यवार्तिके कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ १३८॥ तत्रोत्तरम्- शक्तयः सर्वभावानामचिन्सज्ञानगोचराः॥ यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ १३ ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ प्रधानवादपक्षेऽपि स्युर्दोषा लौकिकास्तु ये ॥१४० ॥ यदि लोकविजातीयं प्रधानं कारणं तदा ॥ ब्रह्मेतरविजातीयं कारणं नोच्यते कथम् ॥ १४१॥ निरंशं ते प्रधानं हि जगदारम्भकं कथम् ॥ सत्त्वाद्यवयवास्तस्य चेत् तदेदं विचिच्यताम् ॥ १४२ ॥ सस्त्रादीनां समूहः किं प्रधानमुत तद्भवम् । अन्से कथं कारणं स्यात् संख्याभङ्गश्च सम्भवेत् ॥ १४३॥ निरंशसत्त्वादिभ्योऽपि कार्यारम्भो हि ते कथम् ॥ समूहपक्षे तेषां च देशभेदानपेक्षया ॥ १४४ ॥ अन्योन्यं युज्यमानानामारभ्भस्थूलवस्तुनः ॥ तस्मात् सर्वविजातीयां सर्वशक्याश्रितां पराम् ॥ १४५ ॥ देवतां सन्दर्शयति परा शक्तिरिति श्रुतिः॥ सर्वशक्ति यदा ब्रह्म कारणापेक्षणं कथम् ॥ १४६ ॥ न तस्य कार्यमिसादिकारणादिनिषेधतः॥ सखं ब्रह्म तथैवास्ति समर्थं विश्वसर्जने ॥ १४७ ॥ प्रयोजनं विना सर्वसर्जनं च कथं ततः ॥ अनोत्तरं तस्य लीला केवलैकं प्रयोजनम् ॥ १४८ ॥ लोकवत् कारणापेक्ष्यं सर्वकार्यप्रसर्जनम् ॥ सृज्यमानम्माणिकर्मापेक्षया प्राणिसर्जनम् ॥ १४९ ॥ उच्चनीचविभागेन निघृणो विषमो न सः॥

२ अध्याये १ पादः। सृष्टयादौ यदि जीवा न सदेवेसेव संश्रुतेः ॥ १५० ।। तत्कर्म न च विद्यत तत्सापेक्षजनिः कथम् । अत्रोत्तरमनादित्वात् कर्मणां तदपेक्षया ॥ १५१ ॥ स्मृष्टिप्रवाहोऽनादिहि धाततिश्रुतिवाक्यतः ॥ प्रधानपरमाण्यादौ कारणत्वे विकल्पिताः ॥ १५२ ॥ धर्मास्ते कारणत्वार्थ परब्रह्मणि सन्ति हि ॥ इति श्रीभाष्यवार्तिके द्वितीयाध्यायस्य प्रथमः पादः ॥ २ ॥१॥ Cam श्रीभाष्यवार्तिके चिचिद्विशिष्टब्रह्मजगज्जन्मादिकारणम् ॥ परैरुद्भावितास्तत्र दोषास्ते दूरतः कृताः ॥ १ ॥ स्वपक्षरक्षणार्थाय परपक्षा हि साम्प्रतम् ॥ निरस्यन्तेऽन्यथा वेदे श्रद्धावैकल्यमापतेत् ॥२॥ परपक्षपतिक्षेपायायं पादः प्रवर्तते ॥ कापिलं मतमत्रादौ सम्यगेव निरस्यते ॥ ३ ॥ तत्रेक्षते शब्दामियाद्यखिलसूत्रतः ॥ अतत्परत्वमात्रं हि पूर्वत्र प्रतिपादितम् ॥ ४ ॥ स्वरूपतोऽत्र तत्पक्षप्रतिक्षेपः प्रदर्श्यते ।। विकृया रहिता मूलप्रकृतिर्महदादयः ॥५॥ प्रकृतयो विकृतयः सप्त षोडशको गणः॥ विकारस्तथाऽत्र पुरुषः प्रकृतिविकृतिर्न च ॥ ६ ॥ तमःसत्त्वरजासाम्यरूपा प्रकृतिरुच्यते ॥ अचेतना चेतनानां भोगमोक्षप्रचारिणी ॥ ७॥ अविवेकाद् भोगदात्री विवेकान्मोक्षदायिनी ॥ गुणत्रयसाम्यरूपा प्रकृतिस्त्रिगुणात्मकम् ॥ ८॥ विश्वं प्रति कारणं स्यादत्र प्रतिविधीयते ॥ न समर्थ प्रधानं स्याद विचित्रजगतो जनौ ॥९॥ तस्य स्वभावाभिज्ञानामनधिष्ठितरूपतः॥ अचेतनत्वादेवं यस्तदेवं भवति ध्रुवम् ॥ १० ॥ रथप्रासादप्रभृतिकार्यसनिर्मितिं प्रति ॥ अचेतनं चेतनेनानाधिष्ठितमिह स्वतः ॥ ११ ॥ दारुमृत्प्रभृति कापि कारणं नैव दृश्यते ॥ यदि तव्यतिरिक्तं च पक्षीकृस प्रयुज्यते ॥ १२ ॥ प्राज्ञानधिष्ठिताद्यापि विचित्रजगतो जनिः॥

२ अध्याये २ पादः।
परिणामिनः पयसो दधिभावेन चेतनम् ॥ १३ ॥
अधिष्ठानतयापेक्ष्यं यथैव जलदोज्झितम् ॥
नियतैकरसं वारि नालिकेराम्रसंश्रयात् ॥ १४ ॥
विचित्ररसरूपेण परिणामि स्वतस्तथा ॥
विचिवजगदाकारपरिणामिप्रधानकम् ॥ १५ ॥
इतिचेन यतो नीरप्रभृति कापि केवलम् ॥
दध्यादिभावे नो दृष्टं स्वत एव प्रवर्तते ॥ ६ ॥
भिन्नानधिष्ठितत्वेऽपि परेशाधिष्ठितं वरम् ॥
प्रधानं विश्वजनने घटे मृवद्धि कारणम् ॥ १७ ॥
समस्तप्राप्तकामस्य परिपूर्णस्य सर्वतः ॥
निरवद्यातिशयानन्दस्वरूपस्येश्वरस्य ह ॥ १८ ॥
विरुद्धविश्वजनने विषमत्वादिकं पतेव ।।
नो दोषोऽस्ति हि लीलार्थे हरियस्मात् प्रवर्तते ॥ १९ ॥
क्षेत्रज्ञकर्मणामेव विषमत्वादनादितः ।।
सृष्टिवैषम्यसम्पत्त्या नैव दोषो हरेरयम् ॥ २० ॥
प्राज्ञानधिष्ठितायास्तु प्रकृतेः स्यन्दनात्मिका ॥
प्रवृत्तियद्यपि नास्ति तथापि स्वयमेव हि ॥ २१ ॥
जगदाकृतिरूपेण परिणामवती भवेत् ॥
यथा धेन्वादिना भुक्ततृणाधनजलादिकम् ॥ २२ ॥
क्षीराकृतिभावेन परिणाम्यवलोक्यते ॥
नेदं युक्तं षैर्मुक्तं न तृणादि पयस्तया ॥ २३ ॥
परिणामीयतः प्राज्ञगवा सम्पद्यते पयः॥
तथेशेनैव प्रकृति परिणम्याखिलं जगत् ॥ २४॥
प्रकाश्यते तत्र यदि प्रकृति डरूपिणी ॥
निष्क्रियः पुरुषस्तस्मात् प्रवृत्ति धिता भवेत् ॥ २५ ॥

६२ श्रीभाष्यवार्तिके तथापि चेतनेशस्य सन्निधानादचेतनम् ॥ प्रवर्तते प्रधानं हि पम्वन्धवदिह स्फुटम् ॥ २६ ॥ सन्निधानादयाकान्तमणेर्लोहमवर्तनम् ।। तथेशसन्निधानेन प्रकृतिः परिणामिनी ॥ २७॥ प्रकृया पुरुषस्यैव योगात् सर्गः प्रवर्तते ॥ स्वतस्तु साम्यावस्थानां न्यूनाधिक्यादिहानितः ॥ २८ ॥ अङ्गाङ्गित्वाद्यनुत्पत्त्याजगत्सर्गो न युज्यते ॥ वैषम्यं निसतश्चेत् स्यान्निसं सर्गस्तदापतेव ॥ २९॥ ईशानधिष्ठितं तस्मात् प्रधानं कारणं न हि ॥ पुरुषप्रकारभिन्नप्रकारेणानुमानतः ॥ ३० ॥ प्रधानसिद्धौ ज्ञातृत्ववियोगादोषसम्भवः ।। तत्प्रधानं नानुमेयमत एव निगद्यते ॥ ३१॥ निष्प्रयोजनतोऽप्येवं प्रधानं नानुमीयते ।। चैतन्यमात्रवपुषः पुरुषस्याक्रियस्य हि ॥ ३२ ॥ प्रकृतेर्दर्शनं भोगस्तद्वियोगोऽपवर्गकः ॥ प्रयोजनं प्रधानस्य न युक्तं नानुमेयता ॥ ३३ ॥ नियो विकारहीनो हि पुरुषो यदि केवलः ।। कथं प्रकृतिसांनिध्यात् कर्तृत्वाध्यासलक्षणः ॥ ३४ ॥ संसारः स्यात् परं तस्य स्वरूपावरणं विना ॥ आतेनिर्विकारत्वहानिरेव न संशयः ॥ ३५ ॥ इसादिप्रतिषेधाच्च प्रत्युक्तं कापिलं मतम् ॥ जन्ममृत्युव्यवस्थार्थमिच्छन्ति पुरुषं परम् ॥ ३६॥ सांख्यास्तु मायिनो नैव तदपीससमञ्जसम् ॥ प्रधानकारणत्वस्य युक्त्याभासतया पुरा ॥ ३७॥ असमञ्जसमाक्षिप्य मतं काणादमदति ॥

२ अध्याये २ पादः।
तन्त्वादयो ह्यवयवाः स्वांशैः षड्भिः सुसंयुताः ॥ ३८॥
उत्पादयन्संशिनं स्वं तथैव परमाणवः ॥
भवेयुर्थणुकादीनां जनकास्तत्त्वसम्भवि ॥ ३९ ॥
प्रदेशभेदाभावेन सहस्रपरमाणवः ॥
संयुक्ता अपि नो तेभ्यो महद्रव्यादिसम्भवः ॥ ४० ॥
प्रदेशभेदाभावेन जायते प्रथिमा न हि ॥
नगसर्षपयोरस्मादसिद्धरसमञ्जसम् ॥ ४१ ॥
तथा परमाणुगतं स्वगतादृष्टकारितम् ॥
न वा भयथाऽप्येवं न सम्भवति तच्छृणु ॥ ४२ ॥
पुण्यादिजनितादृष्टं परमाणुगतं न हि ॥
यद्युरीक्रियते तर्हि सर्वदोत्पत्तिसम्भवः ॥ ४३ ॥
अदृष्टस्यात्मनिष्ठस्य परमाणुस्थकर्मणि ॥
हेतुत्वासम्भवस्तत्र यद्येवं परिकल्प्यते ॥ ४४ ॥
सस्याऽऽस्मद्वारसंयोगादणौ कर्मजनिस्तदा
तत्मवाहस्य निसत्वात् सर्गो निसं प्रसज्ज्यते ॥ ४५ ॥
शास्त्रयोनित्वसूत्रे हि नानुमानेन सिध्यति ॥
ईश इत्थं प्रबन्धेन महता विनिरूपितम् ॥ ४६ ॥
जासादीनां तु व्यक्त्यादौ समवायस्य स्वीकृतौ ॥
साम्यात् तत्रापि तत्साप्तावनवास्थितिदूषणम् ॥ ४७॥
समवायः स्वरूपेण चेत् तथा व्यक्तिजातिधीः ॥
अतोऽसमञ्जसं सर्व काणादं दर्शनं मतम् ॥ ४८ ॥
समवायस्य नियत्वात् तत्सम्बन्धिद्वयस्य च ॥
निसभावादनिसत्वं जगतस्तेऽसमञ्जसम् ॥ ४९ ॥
चतुर्णा परमाणूनां रूपाद्याश्रयतो भवेत् ॥
अनित्यभावः स्थूलत्वं सावयवत्वं घटादिवत् ॥ ५० ॥

श्रीभाष्यवार्तिके कार्यनिष्ठगुणास्ते च स्युः कारणगुणपूर्वकाः ॥ अतो रूपादिशून्या वै पृथिव्यादय एव ये ॥ ११ ॥ रूपाद्यसत्वे तत्सत्त्वे दोषः स्यात् पक्षयोर्द्वयोः ।। शिष्टापरिग्रहात तर्कमतं स्यादसमअसम् ॥ ५२ ॥ अंशतः कापिलं वेदे गृहीतं त्वंशतोऽपि न ॥ काणादं गौतमं तस्मादसमञ्जसतां गतम् ॥ ५३ ॥ परमाणुकारणत्वं वदन्तो वादिनो गताः ॥ परमाणुं कारणं ये जगतः प्रवदन्ति हि ॥ ५४ ॥ सौगताश्च निरस्यन्ते तच्चतुर्दा मतानि तु ॥ तत्र कोचित् पार्थिवादिवायवीयान्तमादराव ॥ ५५॥ करीकुर्वन्ति सङ्घातरूपान् वै भूतभौतिकान् ॥ बाह्यानाभ्यन्तरान् चित्तचैयरूपान् प्रतीतितः ॥५६॥ प्रसक्षलैङ्गिकाणून ये वाधान सर्वान् वदन्ति हि ॥ विज्ञानेनानुमेयान् हि पृथिव्यादीन परे पुनः ॥ ५७ ॥ अर्थजन्यं तु विज्ञानं परमार्थ, परं मतम् ॥ स्वासार्थकल्पा बाह्यार्था असन्त इति सजगुः ॥ ५८॥ प्रयोऽप्येते स्वीकृतं स्वक्षणिक प्रवदन्ति हि ॥ भूतभौतिकतच्चित्तचैत्त्यभिन्नात्मखादिकम् ॥ ५९ ॥ न मन्यन्ते तथाऽन्ये तु सर्वशून्यत्ववादिनः ।। निरस्यन्ते तत्र तावद् बाह्यार्थास्तित्ववादिनः ॥६॥ रूपरसगन्धस्पर्शस्वभावाः पार्थिवास्तथा ॥ रूपरसस्पर्शभावा जलीयाः परमाणवः ॥६१ ॥ रूपस्पर्शस्वभावास्तु तैजसाः परमाणवः ॥ स्पर्शवन्तो वायवीयाः सर्वसङ्घातमागताः॥१२॥ देहेन्द्रियादिरूपास्ते विषयादिस्वरूपिणः ॥

२ अध्याये ३ पादः।
अहङ्काराख्यविज्ञानसन्तानो देहमध्यगः ॥ ६३ ॥
स एवात्मा हितत्वेन व्यहारविभागिनः॥
पृथिव्यादय एवात्र संहतास्तत्र दृष्यते ॥ ६४ ॥
भूम्यादिभूतसङ्घातः परमाणुनिमित्तकः ॥
यश्च देहादिसङ्घातः पृथिव्यादिनिमित्तकम् ॥६५॥
तत्रोभयत्र सङ्घातसमुत्पत्तिर्न युज्यते ॥
क्षणं स्थितानां नष्टानां सङ्घातः क्षणिकः कथम् ॥ ६६ ।।
व्याप्रियन्ते कदा तेऽत्र संहन्यन्ते कदा पुनः॥
क्षणिकत्वान सम्बन्धस्तयोः कारणकार्ययोः ॥ ३७॥
विज्ञानात्मा स्वविषयं क्षणिक क्षणिकः कथम् ॥
ग्रहीतुं शक्नुयाद तस्मात् सौगतं न समञ्जसम् ॥ ६८॥
सन्तानानामभेदेऽपि सन्तानिभ्यो हि वस्तुतः ।।
वस्त्वन्तरत्वाभावेन व्यवहारो न तत्कृतः॥६९ ॥
यद्यप्यखिलभावा वै क्षणिकास्ते तथापि हि ॥
अविद्ययैवोपपन्नं व्यवहारादि केवलम् ॥ ७० ॥
क्षणिकादौ स्थिरत्वादिगोचरज्ञानरूपिणी ॥
अविद्या तया तु जायन्ते रागद्वेषादयः पुनः ॥ ७१ ॥
चित्ताभिज्वलनरूपविज्ञानं नाम जायते ॥
चित्तचैत्यास्ततो भूमिषडायतनमिन्द्रियम् ॥ ७२ ॥
ततः स्पर्शादयो ये वै वेदनादय एव हि ॥
एवं मर्वोऽपि जायेत व्यवहारो ह्यविद्यया ॥ ७३ ॥
नेदं युक्तमविद्यादौ सङ्घातं प्रति नो यतः ॥
निमित्तत्वमता नैव विपरीतास्तु बुद्धयः ॥ ७४ ॥
इनश्च क्षणिकत्वाख्यपक्षे न जगदुद्भवः ॥
पूर्वक्षणस्य नष्टत्वानष्टोत्तरक्षणं प्रति ॥ ७ ॥

श्रीभाष्यवार्तिके हेतुत्वातुपपतैस्तु न भावोऽभावहेतुकः ।। न पूर्वक्षणवर्येव हेतुरेवमथान्यथा ।। ७६ ।। घटक्षणः कश्चिदेव तदुत्तरक्षणे सताम् ॥ गवाश्चमाहिषादीनां हेतुः स्याचैव संशयः ॥७॥ हेतु विना कार्यभूतिस्तहि सर्वत्र सर्वदा ॥ सर्व स्यादिति हीयेत प्रतिज्ञा भवतां ननु ॥ ७८ ॥ कार्यकारणयोर्युगपदुपलब्धिः प्रसज्ज्यते ।। क्षणिकत्वादन्यथा च क्षणिकत्वक्षतिस्तव ॥ ७९ ॥ इसेवमसदुत्पचिनिरस्ता साम्प्रतं पुनः ॥ निरन्वयविनाशोऽपि न स्यादिसेवमुच्यते ।। ८० ॥ अभिघातोत्तरं भावी प्रतिक्षणं भवन् हि यः॥ स्थूल: सदृशसन्तानः पाक्तनान्तस्वरूपकः ॥ ८१॥ उपलब्धियोग्यऽयोग्य) विरहः सनिरन्वयः॥ प्रतिसंख्यापदेनाद्यो निरोधोऽथ द्वितीयकः ॥ ८२॥ निरोधोऽमतिसंख्याख्यवचसा विनिरूपितः । योग्यौ न तावविच्छेदात् तथा हि शृणु सादरम् ॥ ८३ ॥ उत्पत्तिनाशौ सद्रव्ये ह्यवस्थान्तररूपिणौ ॥ अवस्थायोगि सद्रव्यमेकमवस्थिरं ततः ॥ ८४ ॥ कारणाभिन्नकार्य स्यादिति माक् प्रतिपादितम् ॥ निरन्वयविनाशस्तु दृष्टो दीपे विनाशिते ॥ ८५ ॥ अन्यत्राप्यनुमीयेतेसेवं न घटते पुनः ।। तस्यापि सूक्ष्मतारूपा यवस्थान्तरकल्पनात् ॥ ८६ ॥ तुच्छादुत्पद्यते कार्य तुच्छमेव भविष्यति ॥ मृदः सुवर्णाच्चोत्पन्नं माद सौवर्णमेव हि ॥ ८७॥ सतो निरम्बये नाशे तुच्छातिर्जगतः क्षणात् ॥

२ अध्याये २ पादः।
दोषादुभयथाऽप्येवं कार्योत्पत्तिविनाशयोः ॥ ८८ ॥
भवदुक्तमकारेण न भवेत् सम्भवस्तयोः ॥
निरुपाख्यता न युक्तैवमाकाशे अवता यतः ॥ ८९ ॥
अङ्गीकृता पृथिव्यादिवदवाधितबुद्धितः ॥
अत्र श्येनः पूतसत्र गृध्र इसनुभूतितः ॥ ९० ॥
सदेशं गगनं न स्याद् भूम्यादिविरहात्मकम् ॥
तदेवेदं सदेवायमिसेवं प्रसभितया ॥ ९१ ॥
स्थिरं न क्षणिकं न स्यान्न च सादृश्यतो ह्ययम् ।।
प्रत्यभिज्ञामसयोऽयं न वक्तुं परिशक्यते ॥ ९२ ।।
घदबुद्धौ घटाकारं समर्प्य ध्वस्त एव चेत् ॥
ज्ञाननिष्ठन नीलादिरूपाकारेण मीयते ॥ ९३ ॥
नीलज्ञानस्य सन्ताने पीतज्ञानोद्भवो न हि ॥
अनः पूर्वत्र विज्ञानाज्ज्ञानाकारो न सिध्यति ॥ ९४ ॥
ततोऽर्थकृतवैचित्र्यं ज्ञानवैचित्र्यमिष्यते ॥
नीलपीताद्याक्कतिहि विज्ञाने दृश्यते न सा. ॥१५॥
विनष्टार्थस्य युक्ता स्यादसतो दर्शनं यतः ॥
धर्मिनाशेन तो मिले सेक्रमितो भवेत् ॥ ६६ ॥
दृष्ट यत् प्रतिबिम्बादि स्थिरस्यैव भवेद्धि तत् ॥
तत्तत्क्षणिकभावानामसदुत्पत्त्यहेतुकः ॥ ९७ ॥
विचाशो मन्यते तस्मादुदासीनस्वभाविनाम् ।।
पुजाभाववतां चात्र विशेषविरहाद किल ॥ ९८ ॥
सर्वार्थसिद्धिः स्यादिष्टमाप्यनिष्टनिमितः ॥
तथैहिकामुष्मिकं च फलं मोक्षश्च सिध्यतु ॥ १९९ ॥
विज्ञानमात्रमस्तीति योगाचारा वदन्ति हि ॥
यदुक्तमर्थवैचिश्यकृतज्ञानविचित्रता ॥ १० ॥

श्रीभाष्यवार्तिके इति न ज्ञानमखिलं करणैः सहितं स्वयम् ॥ विचित्र वासनायाश्च वैचित्र्यादेव जायते ॥ १०१॥ प्रवाह प्रसयानां यो वासना सा विलक्षणा ॥ यद् घटाकारविज्ञानं कपालाकारसंविदः ।। १०२ ।। सत् पूर्वघटविज्ञानं स्वपूर्वस्य च तस्य हि ॥ आपादकं भवेदेवं खं पूर्वस्योत्तरोत्तरम् ॥ १०३ ॥ एवंरूपः प्रसयानां प्रवाहो वासना भवेत् ॥ अङ्गीकृद्भिर्वाह्यमर्थ घटज्ञाने घटाकृतौ ॥ १०४ ॥ विना घटीयसारूप्यं वक्तुं नैव प्रपार्यते ॥ सेनैव व्यवहारश्चेद् वृथा स्यादर्थकल्पना ॥ १०५॥ अत्रोच्यतेऽर्थविरहो नार्थानामुपलब्धितः ॥ प्रतीयन्त एवमेव लौकिकाः सर्व एव हि ॥ १०६ ॥ जानाम्यहं पदमिति क्रियाकर्मस्वभावतः ॥ सद्धात्वर्थज्ञानरूपादर्थो भिन्नः स्वरूपतः ॥ १०७ ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः॥ इसात्मख्यातिमतिभिः साहिसस्य निरूपणाव ॥ १०८॥ अङ्गीकृतोऽर्थभेदो हि सहितं वस्तु तत्र हि ॥ यथा दीपगुणत्वेऽपि प्रभाद्रव्यं त्वयेष्यते ॥१०९॥ तथैवात्मगुणज्ञाने द्रव्यत्वेन विरोधिता ॥ आत्मसंयोगिनस्तस्माद् वाह्यार्थत्वघटादिवत् ॥ ११० ॥ ज्ञानस्यार्थस्य सम्बन्धात् प्रकाशोऽर्थस्य सम्भवन् । बाद्यार्थत्वं माधयति निरावाचं नयोत्तमम् ॥ ११ ॥ यत् परैः स्वप्नदृष्टान्ताज्जाग्रज्ज्ञानं निराश्रयम् ॥ निरूप्यते तत्र वाच्यं वैधान्न हि स्वप्नवत् ॥ ११२ ॥ स्वप्रज्ञानाविधर्मवादर्थशून्यं न जागरम् ॥

२ अध्याये २ पादः। ज्ञानं सम्भवितुं योग्यं ज्ञानादर्थस्वतः पृथक् ॥ ११६ ।। निद्रादिदोषसन्दुष्टकरणैः स्फुरितानि हि ॥ खमज्ञानान्यपानि तद्विरुद्धानि जागरे ॥ १२४ ॥ अर्थवत्त्वेन ज्ञानानि न तेषां स्वप्नसाम्यता ।। सर्वेषामर्थशून्यत्वे ज्ञानानां च निरर्थता ॥ ११५ ॥ न सिध्यसनुमान यद्विषयार्थस्य साधकम् ।। निर्विषयानुमानेन विषयः प्राप्यते कथम् ॥ ११६ ॥ तदेवमर्थशून्यत्वं ज्ञानानां दुर्घटं मतम् ॥ निर्वक्तुं शक्यते नैवानिर्वाच्योऽर्थो हि यन्मते ॥ ११७ ॥ तन्मते जागरं ज्ञानं निरालम्बं कुतो न हि ॥ न केवलार्थशून्यस्य ज्ञानस्यानुफ्लम्भनात् ॥ ११८ ॥ भावोऽस्ति कर्मकर्तृभ्यां रहितं क्वापि नैव तत् ॥ खमज्ञानादिषु तथा नार्थशून्यत्वमिष्यते ॥ ११६ ॥ निरूपयिष्यते चेदमग्रे ख्यातिनिरूपणे ॥ पाराकाष्ठा सौगतानां शून्यवादः प्रकीर्तितः ॥ १२० ।। बुद्धथारुढा यथैव स्युर्मन्दानां च तथात्र हि ॥ क्षणिकत्वादयो वादा दर्शिता दयया परम् ॥ १२१ ॥ शून्यमेव परं तत्त्वमभावापत्तिरेव हि ॥ मुक्तिरिसेव बुद्धस्य परमाशयशासनम् ॥ १२२ ॥ सर्वथानुपपत्तेश्च शून्यं तत्त्वं भवेन्न हि ॥ सिषाधयिषितं शून्यं प्रमाणादुपलभ्य चेत् ॥ १२३ ॥ प्रमाणसत्त्वं स्यादेव तच्छून्यं केवलं कथम् ॥ तदसत्त्वे च शून्यस्य सिद्धिस्ते कथमिष्यते ॥ १२४ ॥ सर्व जैनमते वस्तु सत्त्वासस्वादिभङ्गिभिः॥ नियतं नैव वाञ्छन्ति तन्मतमतिपादकाः॥ १२५ ।।

श्रीभाष्यवार्तिके अस्ति स्यान्न च नास्ति स्यादस्ति नास्ति च स्यादपि । वक्तव्यमस्ति स्यादस्ति न वक्तव्यं तथाऽस्ति हि ॥ १२६ ॥ नास्ति स्यादथ वक्तव्यमस्ति नास्ति च तत्पुनः ॥ एवं सर्वत्र द्रष्टव्या भङ्गयः सप्त सादरम् ॥ १२७ ।। नैतद् युक्तं विरोधेन यतो नैकत्र सम्भवः ॥ यनिसं तदनिसं न यत् ससं तदसत् कुतः ॥ १२८ ।। न सम्भवत्यतो जैनमतं मत्तोक्तिवद किल ॥ देहमानेन सदृशमान आत्मास्ति तन्मते ॥ १२९ ॥ हस्तिदेहमितस्यापि मशके मातृता कथम् । मशकोऽल्पमितोऽप्येवं व्याप्नुयात सर्वतो गजे॥ १३० । पापपुण्यादिवशतः सङ्कुच्य विकसयलम् ॥ इति चेदेह आत्मैव भवेच्चार्वाकवत् तव ॥ १३१॥ पत्सङ्कोचविकासाभ्यां तदेवेदं कलेवरम् ।। भिन्न प्रतीयते नैव तथैवात्मा हि तन्मते ।। ३३२ ।। अवस्थान्तरतापसा विकारस्यापि सम्भवात् ॥ अनिसता प्रसज्ज्येत वृथातो मतवर्णनम् ॥ १३ ॥ परिमाणं मुक्तगतं देहस्याग्रेऽपरिग्रहात् ।। स्थिरं तत्सर्वदाप्यस्तु तेन देहमितेन किम् ॥ १३४ ॥ नादर्तव्यं पशुपतेर्मतमन्योन्यव्याहतेः ।। भगासनस्थात्मचिन्तामुद्राषट्कस्य धारणम् ॥ १३५॥ मुराकुम्भस्थापनं च तत्स्थदेवार्चनं रहः ॥ श्मशानभस्मस्नानादि सर्व वेदविरोधतः ॥ १३६ ॥ परिकल्प्योपासनं यनाङ्गीकर्तव्यमास्तिकः ॥ निमिचकारणेशस्य कल्पनाया असम्भवाद ॥ १३७ ।। न प्रधानविष्ठानमीशो मृदि कुलालवत् ॥

२ अध्याये २ पादः।
अशरीरात्मनो भोक्तुर्यथा देहेन्द्रिगदिकम् ॥ १३८ ।।
प्रसधिष्ठानता योग्या तयेशस्याशरीरिणः ॥
प्रकृसधिष्ठानता चेनादृष्टादिप्रसङ्गतः ॥ १३९ ॥
अदृष्टादिकृतं जीवे योग्यं, न तु महेश्वरे ॥
धर्माधर्मादृष्टवत्त्वे सृष्टिसंहारभार भवेत् ॥ १४० ॥
अन्तवान् सर्वथाऽल्पज्ञो जीववत् परमेश्वरः ॥
अपामाण्यं समाशय पश्चरात्रागमस्य हि ॥ १४१ ॥
चैदिकार्थाविरोधेन प्रामाण्यमधुनोच्यते ॥
आशङ्कवं वासुदेवाज्जीवसङ्कर्षणोऽभवत् ॥ १४२ ॥
सङ्कर्षणान्मनो जज्ञे प्रद्युम्नपरिसंज्ञकं ॥
ततोऽनिरुद्धोऽहङ्कारो जात इथं विकल्प्यते ॥ १४३ ॥
विरुद्धा प्रक्रिया यस्माज्जीवोत्पत्ति जगाद तत् ॥
न जायते म्रियते वेसादिवाक्यसमूहतः ॥ १४४ ॥
अनादिजीवजातीनामुत्पत्तिप्रतिषेधतः ॥
मनसः करणस्यापि कर्तुजीवाज्जनिन हि ॥ १४५ ॥
इसाशा समाधानं सिद्धान्ते वदति स्फुटम् ॥
अजानता भागवतप्रक्रियामिदमुच्यते ॥ १४६ ॥
विरुद्धाभिहिता येयं जीवोत्पत्तिरिति स्फुटम् ॥
चतुरात्मा वासुदेव उपास्योऽभिहितो यतः ॥ १४७ ॥
ततो विरोधलेशोऽपि पश्चरात्रे न विद्यते ।।
वासुदेवः परं ब्रह्म पूर्णपाइगुण्यसद्वपुः ॥ १४८ ॥
सूक्ष्मसव्यूहविभवभेदमिन्नं हि सेवकः ॥
यथाधिकारं ज्ञानेन कर्मणाऽभ्यर्च्य लभ्यते ॥ १४९ ॥
विभवार्चनात् सव्यूहं प्राप्य तस्यार्चनात् परम् ॥
सूक्ष्मं यद् वासुदेवाख्यं प्राप्यते इति तन्मतम् ॥ १५० ॥

श्रीभाष्यवार्तिके
विभवो हि नाम रामकृष्णादिप्रकटो गणः॥
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः ॥ १५ ॥
चतु→हो व्यूहसंज्ञः शास्त्रकृद्भिनिरूपितः ॥
मुक्ष्मं तु वासुदेवाख्यं परं षाड्गुण्यविग्रहम् ॥ १५२ ॥
अतः सङ्कर्षणादीनां परस्यैव समीक्षया ॥
खेच्छाविग्रहरूपत्वादजानां बहुधा जनिः ॥ १५३ ॥
कृपानिमित्तो यः प्रोक्तः स्वेच्छाविग्रहसङ्ग्रहः ॥
तदेव जन्म सम्मोक्तं शास्त्रेणेति न दूषणम् ॥ १५४ ॥
तदत्र जीवाधिष्ठाता सङ्कर्षणपरेश्वरः॥
जीवधान्दाभिधो यः स्यात् तथा प्रद्युम्नसंज्ञकः ॥ १५५ ॥
अधिष्ठाता हि मनसो मनसा व्यवह्रियते ॥
अधिष्ठाताऽनिरुद्धः स्यादहङ्कारस्य वै तथा ॥ १५६ ॥
अतोभिधेयोहङ्कारशब्देन परमेश्वरः ॥
प्रतिषिद्धाप्तो जीवस्य समुत्पत्तिरिहागमे ॥ १५७ ॥
अप्रमाणं विरुद्धांशमुक्त्वा सूत्रचतुष्टयम् ॥
समाख्यातं परैर्यत् तत् सूत्रकाराऽनभीप्सितम् ॥ १५८ ॥
व्यासो हि सूत्रकारोत्र गृहस्थेसादिवाक्यतः॥
प्रतिपादितवान् पञ्चरात्रशास्त्रार्थसक्रियाम् ॥ १५९ ॥
सांख्यादिवाबतन्त्राणां न्यायाभासादिमूलता ॥
अतो विप्रतिषेधाच्चासामअस्यमुदाहृतम् ॥ १६० ॥
इति श्रीभाष्यवार्तिके द्वितीयाऽध्यायस्य द्वितीयः पादः॥२॥२॥

२ अध्याये ३ पादः। इदानीं स्वीयपक्षस्य निर्दुष्टत्वप्रसिद्धये ॥ ब्रह्मकार्यत्वसिद्धयर्थं चेतनाचेतनात्मके ॥१॥ प्रपञ्चे कार्यतायास्तु प्रकारः परिशोध्यते ॥ तत्राकाशसमुत्पत्तिरुत नेति प्रसंशये ॥२॥ युक्तं न वियदुत्पत्तिरिति कुत्राप्यसंश्रुतेः ॥ अन्यथाऽऽकाशकुसुमं समुत्पन्नं भवत्वलम् ॥ ३ ॥ न निरंशस्य सर्वत्र गतस्य गगनस्य तु ॥ सुनिरूपयितुं शक्या समुत्पत्तिर्न संशयः ॥ ४ ॥ उत्पत्त्यसम्भवादेव छान्दोग्ये सृष्टिरूपणे ॥ तेजोऽबन्नानि त्रीण्येव जन्मभाजीति रूपितम् ॥ ५॥ आकाश आत्मनो जात इसादिश्रुतिरूपिता ॥ वियदुत्पत्तिरर्थस्य विरोधात् बाध्यते खलु ॥ ६ ॥ अत्रोच्यते समुत्पत्तिराकाशस्यास्ति सर्वथा ॥ श्रुतिसिद्धे विरुद्धं यन्निरंशत्वादिहेतुकम् ॥७॥ नानुमानं समर्थ स्यादात्मन्येव प्रसङ्गत्तः॥ तस्माद्वेति श्रुतौ गौणी गगनोत्पत्तिरीरिता ॥८॥ इति नैवासम्भवाद्वै शब्दाच्चेति शृणुष्व तत् ॥ छान्दोग्ये यतः पूर्व ब्रह्मणस्तेजसो जनिः ॥ ९ ॥ अतः प्रथमतो नैव गगनोत्पत्तिरिष्यते ॥ वायुश्चाथान्तरिक्षं च श्रुतावऽमृतमुच्यते ॥ १० ॥ सम्भूतैकस्य शब्दस्य गौणत्वं गगनेक्षया ।। अग्नीक्षया च मुख्यत्वं कथमिसत उच्यते ॥ ११ ॥ तस्माद् वेसादिवाक्ये तु गगने ब्रह्मशब्दवत् ॥ गौणत्वेन प्रयुक्तं तत् सम्भूतस्य पदस्य हि ॥ १२ ॥ मुख्यत्वासम्भवाद वायोरग्निरिसादिसङ्गतात् ॥

श्रीभाष्यवार्तिके - यथा प्रधाने ब्रह्मगीर्गौणत्वेन प्रयुज्यते ॥ १३ ॥ तत्पकरणे ब्रह्मणि मुख्यत्वेनापि युज्यते ॥ तथा मम्भूतशब्दोऽपि मुग्योऽनौ गगने न च ॥ १४ ॥ परिहरति- छान्दोग्यश्रुतिवाक्येन गौणो नाकाशमम्भवः ।। यतस्तत्रैकविज्ञानाद सर्वविज्ञानमीरितम् ॥ १५ ॥ अत आकाशशब्दोऽपि ब्रह्मकार्य तदुद्भवात् ॥ छान्दोग्ये वियदुत्पत्तिरन एव न संशयः ॥ १६ ॥ यतः, सदेव मौम्येदमग्र आमीदिति श्रुनी ॥ एकत्वोक्तेरैतदात्म्यमिदमियादितश्च ह ॥ १७ ॥ कार्यत्वाद् ब्रह्मणो नैव व्यतिरेकः प्रतीयते ॥ ऐतदात्म्यमिदं सर्वमिसादिवचनादपि ॥ १८ ॥ आकाशस्य विकारित्ववचनाद ब्रह्मणो जनिः ॥ विभागाख्यापि युक्तोक्ता यथा लोकेऽपि दृश्यते ॥ १९ ॥ इमे सर्वे देवदनपुत्रा इसभिधाय वै ॥ तेषु केषां चिदुत्पत्तिवचनादितरेऽखिलाः ॥ २० ॥ उत्पत्तिमन्तो निर्णीताम्तथैव गगनादयः ॥ हेतुनाऽनेन वायोश्च व्याख्याता जनिरव हि ॥ २१॥ पृथग्योगस्य करणमाकाशानिलयोस्तु यत् ॥ तेजोऽत इति सूत्रे हि परामर्शार्थमस्य हि ॥ २२ ॥ ब्रह्मभिन्नाखिलस्याऽत्र नानुत्पत्तिरसम्भवात् ।। उपलक्षणमात्रेण वायोराकाशकस्य च ॥ २३ ॥ उत्पत्तिवचनं किन्तु सर्वमुत्पद्यते सतः ॥ एकस्य ब्रह्मणो ज्ञानात सर्वज्ञानप्रतिज्ञया ॥ २४ ॥ अवाधयाऽन्यथा चेयं प्रतिज्ञाहानिरापते ।।

२ अध्याये ३ पादः।
एकमेवेति प्राक् सृष्टरकतत्त्वाऽवधारणाद ॥ २५॥
ऐतदात्म्यमिदं सर्वमिसादिशब्दतश्च हि ।।
ब्रह्मणोऽव्यतिरेकस्य प्रतीतेवियतो जनिः ॥ २६ ॥
ब्रह्मभिन्नस्य कृत्स्नस्य कार्यत्वमुपपादिनम् ॥
अधुनाऽन्येन जन्यानां कार्यत्वं परिचिन्यते ॥ २७ ॥
केवलात् कारणाज्जन्यं तद्रूपादुत ब्रह्मणः ॥
जायते केवलाद्युक्तं वायोरनिरितीरितात् ॥ २८ ॥
अनेरापस्तथैवाद्भयः पृथिवीजनिरुच्यते ।।
ब्रह्मणः कारणवस्य पारम्पर्येण सङ्गतिः ॥ २४
इति प्राप्ते सर्वकार्ये ब्रह्म कारणमिष्यते ॥
बहु स्यामिति मङ्कल्पात् तल्लिङ्गान्महदादिकम् ॥ ३० ॥
प्रतीशः कारणं किञ्च तत्तेज ऐक्षत स्वयम् ॥
बहु स्यां मजायेयेति ह्याप ऐक्षन्त ता अपि ॥ ३१ ॥
बह्वयः ह्याम प्रजायेमहीतीक्षापूर्विकाऽखिलैः ।।
सृज्यतेऽतो जडेवीक्षाबाधात् तत्तच्छरीरः ॥ ३२॥
ईशः कर्ता सृज्यमात्रेऽखिलं प्रति कलेवरी ॥
अन्तर्यामिब्राह्मणेऽपि पृथिव्याखिलं प्रति ॥ ३३ ॥
शरीरिब्रह्मसंश्रुसा कारणं तजगत् प्रति ॥
ब्रह्मानन्तर्यरूपोऽयमुत्पत्तिक्रमवर्णकः ॥ ३४ ॥
तदा घटेद् यदा ब्रह्म सर्वकारणमिष्यते ॥
विज्ञानसाधनत्वाच्च विज्ञानमिन्द्रियाणि हि ॥ ३५ ॥
एतस्मादिति वाक्येन ब्रह्मणोऽनन्तरं जगत् ॥
कामसेव कलनात् सर्वस्योत्पत्तिरीशतः ॥ ३६॥
अभिध्यानेन लिङ्गेन तदेतन्नोपपयते ॥
क्रमविशेषपरत्वादा वाक्यस्यास्येति हेतुतः ॥ ३७॥

श्रीभाष्यवार्तिके अत्रापि सर्वकार्याणां क्रम एवं प्रतीयते ॥ श्रुसन्तरेण सिद्धोऽत्र क्रमोऽपि गगनादिषु ॥ ३८ ॥ प्रतीयते पाठलिङ्गात्तैः सह प्राणभूतयोः ।। उत्पद्यते अन्तराले विज्ञानमनसी ह्यपि ॥ ३९ ॥ साक्षाद् ब्रह्मण एव स्यादतः सर्वस्य सम्भवः ।। उत्पत्तेरविशिष्टत्वादेतस्मादिति वाक्यतः ॥ ४० ॥ न क्रमोन्यश्रुतेर्वाक्यात् सिद्धक्रमविरोधतः ।। पृथिव्यास्त्विति वाक्येन क्रमान्तरप्रतीतितः॥ ४१ ॥ ततोऽव्यक्तादिसदेहात् परस्मात् परमात्मनः ॥ उत्पत्तिः सर्वकार्याणामिसतः सकलाऽऽवाः॥ ४२ ॥ तदात्मभूतं सद् ब्रह्म मुख्यवृत्त्या वदन्ति हि ॥ नन्वेमखिलैः शब्दब्रह्म चेत् प्रतिपाद्यते ॥ ४३ ॥ तदा समस्तशब्देभ्यो वस्तु व्यवहृतिः कथम् ॥ तत्राह ब्रह्मभिन्नेऽत्र स्थावरे जङ्गमे तथा ॥४४॥ व्यपदेशस्तत्पदानां भाक्त इसवगम्यताम् ॥ वाच्यप्रकार्येकदेशे भज्यते हीति भाक्तता ॥ ४५ ॥ सर्वप्रकारिब्रह्मणो हि प्रकाराखिलवस्तु यत् ॥ तद्ग्राह्यऽक्षाद्यखिलप्रमाणाविषयत्वतः ॥ ४६ ॥ प्रकारिब्रह्ममात्रस्य प्रतीतिः श्रुतिसंश्रुतेः ।। प्रकारोऽयं प्रकारीति प्रतीतिविरहात तथा ॥ ४७ ॥ प्रतीतिभावभावित्वात् पर्यवस्येत् प्रकीरिणि ॥ तत्तद्वस्तुमात्रेऽनस्ते ते शब्दाः समस्तकाः ॥ ४८ ॥ वाच्यैकदेशे सम्भज्य व्युद्दिश्यन्ते न संशयः ॥ तेजःप्रभृतिभिः शब्दैस्तेजःप्रभृतिवाचकैः ॥ ४९ ।। ब्रह्मणो व्यपदेशः स्यादमुख्य इति चेन्न हि ॥

२ अध्याये ३ पादः।
चराचरवाचिशब्दो मुख्यो ब्रह्माण तत् कुतः ॥ ५० ॥
नामरूपश्रुतिवाक्या वाचकत्वस्य निर्णयात् ।।
कृत्स्नस्य गगनादेव परस्मान्जनिरीरिता ॥ ११ ॥
इदानी जीववर्गस्य जन्माऽस्ति किमु तन हि ॥
अस्तीति युक्तमेकस्य विज्ञानाज्जायतेऽखिलम् ॥ ५२ ॥
प्रतिज्ञेयं हि युज्येत यदा स्यादखिलं ततः ॥
यतो वेखादिवाक्येन जीवाद्युत्पत्तिरुच्यते ॥ ५३ ॥
ब्रह्माभिन्नत्वतो जीवो नोत्पन्न इति चेन हि ॥
ब्रह्मत्वाद खादिरप्येवं नोत्पन्न इति निश्चयात् ॥ ५४॥
अत उत्पद्यते जीव इति प्राप्तेऽभिधीयते ॥
उत्पद्यते न जीवात्मा जनिमृत्युनिषेधतः ॥ ५५ ॥
न जायते मियते वा विपश्चिदिति वाक्यतः॥
द्वावजाविति वाक्याच्च जीवजन्म निषिध्यते ॥ ५६ ॥
नचैकज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ।
कथं भाव्यं हीति वाच्यं यत इत्थं विनिर्णयः ॥ ५७ ।।
अवस्थान्तरसम्प्राप्तिर्जीवानां जन्मशब्दभाक् ॥
स्वरूपतान्यथाभावो वियदादेजर्डस्य च ॥५८ ॥
जीवस्य ज्ञानसङ्कोचविकासात्मक एव हि ॥
अन्यथाभाव उद्दिष्टः प्रतिषेधस्वरूपतः ॥ ५९॥
भोग्यभोक्तृनियन्तॄन् वै संश्लिष्टान् प्रतिपाद्य च ॥
उत्पत्त्यादि भोग्यगतं भोक्तरि प्रतिषिध्य च ॥ ६० ॥
नियतां प्रतिपाद्याऽथ तथा भोग्यगतं पुनः ॥
उत्पत्त्यादिभोक्तृगतमपुरुषार्थाश्रयत्वकम् ॥ ६१ ॥
नियन्तरि निषिध्यैवं निसं तां निरवद्यताम् ।
सदा सर्वज्ञतां चापि सससङ्कल्पतां तथा ॥ १२ ॥

श्रीभाष्यवार्तिके करणाधिपाधिपत्वं च विश्वेशत्वं तथैव च ।। प्रतिपाद्य सर्वदेयं चेतनस्याचितस्तथा ॥ ६ ॥ शरीरत्वं नियन्तारं प्रसव प्रतिपाद्यते ॥ अतस्तच्चिदचिद्वस्तुशरीरं तत्पकारकम् ॥ ६४ ॥ अतस्तद् ब्रह्मणश्चिदचिद्विभक्ताव्यपदेशभाक् ॥ सूक्ष्मात्मचिदचिद्वस्तुशरीरं ब्रह्मकारणम् ॥ ६५॥ कारणावस्थमेवोति तस्य संज्ञेति गम्यताम् ।। कारणावस्थमेवेदं नामरूपविभागवत् ॥ ६६ ।। चिदचिच्छरीरिस्थूलं कार्यावस्थं भवसलम् ॥ सत्राप्यचेतनागं यत् कारणावस्थयान्वितम् ॥ ६७ ।। शब्दादिहीनं भोग्यत्वायोग्यं सत्कार्यतां गतम् ॥ शब्दादिमत्तया योग्यं स्वरूपाद्विकृति गतम् ॥ ६८ ॥ चिदंशस्य तु भोक्तृत्वयोग्यतार्थं स्वरूपतः ॥ अन्यथाभावहीनत्वं किन्तु ज्ञानं स्वधर्मिणि ॥ ६९ ॥ विकासमा सम्प्राप्य भोक्तृत्वं घटयसलम् ॥ यावत् संकुचितं ज्ञानं तावद्भोक्ता न चेतनः ॥ ७० ॥ सृष्टेः पार भोग्यविरहात् कुण्ठितज्ञानधर्मकम् ॥ अभोक्ता चेतनोऽस्येवं भोग्यभावे स एव तु ॥ ७ ॥ विकासज्ञानधर्मत्वाद् भोक्ता सृष्टौ हि चेतनः ॥ एवं हिकारणावस्था कार्यावस्थाद् विवेकतः ॥ ७ ॥ ज्ञेयो हरिः सदा ससः कल्याणगुणसागरः ॥ तेन संमिश्रणं भोग्यभोक्तृभ्यां सर्वदाऽस्ति हि ॥ ७३ ॥ सर्वभेदश्रुतिर्मुख्या केवलाद् भेदसंश्रुतिः ।। वियदादिरिव जीवो नोत्पद्यत इति रूपितम् ॥ ७४ ॥ तत्मसङ्गेन जीवस्य स्वरूपं विनिरूप्यते ॥

२ अध्याये ३ पादः।
आत्मस्वरूपं चिन्मात्रं किं वागन्तुकचिद्गुणम् ॥ ७५ ॥
किंवा ज्ञातृत्वमेवास्य स्वरूपमिति संशये ॥
युक्तं चिन्मात्रमेवास्य स्वरूपमिति तच्छ्रुतेः ॥ ७६ ॥
विज्ञानात्मनि यस्तिष्ठनिति काण्वास्तथाऽपरे ।
अघीयते हि विज्ञानं यज्ञं सन्तमुतेऽपि च ॥ ७७ ॥
इति श्रुतिभ्यां विज्ञानस्वरूपात्मा प्रकीर्तितः ।।
अपर आह तु जीवस्य ज्ञानत्वं चापि ज्ञातृता ॥ ७८ ॥
स्वाभाविकतया चेत् स्यात् सर्वगस्य तदा सदा ॥
सर्वस्मिन्नुपलब्धिः स्यात् करणानां किमर्थता ॥ ७९ ॥
सुप्तिमूर्छादिषु सतश्चैतन्यानुपलम्भनात् ॥
जाग्रत्सामग्रीसम्पत्तौ चैतन्यस्योपलम्भनात् ॥ ८ ॥
अतो जीवस्य चैतन्यं न स्वाभाविकमिष्यते ।।
तथा सर्वगतत्वं च सर्वस्मिन् कार्यदर्शनात् ॥ ८१ ॥
सर्बत्र संविधानाच्च गमनागमनादिकम् ॥
शरीरगमनेनैव सति कार्यस्य सम्भवे ॥ ८२ ॥
तद्गतेः कल्पनायां वै प्रमाणं नोपलभ्यते ॥
श्रुतिः सुषुप्तिवेलायां स्वाज्ञानं दर्शयसलम् ॥ ८३ ॥
अयमस्मीति नो जाने सम्मसात्मानमेव मे ॥
न प्रेसे संज्ञाऽस्तीसेवं श्रुसा मुक्तावपि स्वयम् ॥ ८४ ॥
प्रदर्श्यते ज्ञानहानि नरूपस्तु तद्गुणात् ।।
इति प्राप्ते ज्ञ एवायं ज्ञाताऽप्यात्माऽस्ति नो जडः ॥ ८५ ॥
एष इसादिवाक्येन श्रोतृत्वादिनिरूपणात् ॥
आत्मा ज्ञाता भवसेव न शङ्कयं किञ्चिदस्ति हि ॥ ८६ ॥
नन्वात्मा सर्वगो ज्ञाता चेत्तु सर्वत्र सर्वदा ॥
उपलब्धिः कुतो न स्यादिसेवं न विशाक्यताम् ॥ ८७ ॥

श्रीभाष्यवार्तिके सर्वगोऽप्यणुरेवायमुत्क्रान्सादिसमीरणात् ॥ प्रद्योतेनैष आत्माऽयं मूनों वा चक्षुषोऽथवा ॥ ८८ ॥ निष्क्रामति तथा लोकाल्लोकान्तरगतिश्रुतेः ।। शरीरेण वियोगो हि स्थिरस्याऽप्यात्मनो भवेत् ॥८६॥ गयागती त्वणुत्वेन विना नैवात्मनो ह्यम् ॥ योऽयमिसादिवाक्येन जीवं प्रस्तुस चोत्तरम् ॥ ९० ॥ स वा एषेति वाक्येन महत्त्वं श्रूयते कथम् ॥ तदणुर्जीवो नैवायमिति चेन्नेतरात्मनः ॥ ९१ ॥ प्राज्ञस्यात्राधिकाराद्वा अणुर्जीवो व्यवस्थितः ॥ यद्यप्युपक्रमे जीवः प्रस्तुतोऽथापि वाक्यतः ॥ ९२ ॥ यस्यानुवित्त आत्मेति मध्ये सम्बोध्यते परः ।। अतो महत्त्वं तस्यैव न जीवस्यति निर्णयः ॥ ९३ ॥ एषोऽणुरात्मा संवेद्यो यस्मिन् प्राणास्तु पञ्चधा ।। संविशन्तीति वाक्यात्तु जीवोऽणुपरिमाणकः ॥ ९४ ॥ बालाग्रशतभागस्य शतधा कल्पितस्य च ॥ भागो जीवः स विज्ञेयः स चानन्याय कल्पते ॥ ९५ ॥ आराग्र इति वाक्यादै जीवोऽणुपरिमाणकः ॥ अथ स्यादात्मनोऽणुत्वं वेदनाऽखिलदेहगा ॥१६॥ नोपपद्यत यदिति तन्नैवमविरोधतः॥ यथा चन्दनबिन्दुवै देहकावयवे गतः ॥९७ ॥ देहव्यापिनमाहादं जनययेवमेव हि ॥ एकदेशस्थितोऽप्यात्मा देहव्याप्तां स्ववेदनाम् ॥१८॥ मुखं चानुभवसेवं परिहारो मतान्तरे ॥ एकदेशस्थितो नात्मा मैवं ब्रूहि हृदि स्थितेः ॥ १९ ॥ अयमात्माहृदीत्येवं श्रवणाच्छरुतिमण्डले ॥

२ अध्याये ३ पादः। ८१ आत्मा वा स्वगुणेनाध्यं ज्ञानेनाखिलदेहगः॥ १०॥ आलोकवत् ततो दुःखं सुखं देहैकदेशगम् ॥ साक्षादनुभवसेष सर्वदाऽणुस्वरूपकः॥ १०१ ॥ अप्येकदेशस्थमणेः प्रभा स्यात् सर्वदेशगा ॥ तथा हृत्स्थस्य जीवस्य ज्ञानं सकलदेहगम् ॥ १०२॥ मणिप्रभेव ज्ञानं हि स्वाश्रयव्यतिरेकतः ॥ स्थितौ न बाधकं किञ्चिच्छतिन्यायविनिर्णयाव ॥१०॥ विज्ञानमात्रमेवात्मा चेत् कथं तद्गुणो भवेत् ॥ गुणो युणिखरूपो न कदाप्यत्रोच्यते शृणु ॥ १०४ ॥ यथा पृथिव्यां गन्धो हि गुणत्वेनोलभ्यते ॥ व्यतिरेकात तथा ज्ञानं बातुर्भिन्नो गुणो भवेत् ॥ १०५॥ श्रुतिरित्यं दर्शयति जानासेव हृदि ह्ययम् ॥ विज्ञानं तनुते यज्ञं विज्ञाने तिष्ठति स्वयम् ॥ १०६ ॥ विज्ञातुर्लुप्यते नैव विज्ञानमिति वाक्यतः॥ गुणगुणिनोस्तु तादात्म्यं व्यवहारनियामकम् ॥ १०७॥ यथा तादात्म्यसम्बन्धाद् विषयो विषयी भवेत् ॥ तत्र ज्ञानं विषयतासम्बन्धाज्जायते तथा ॥ १०८॥ गुणो गुणी भवसेव विषये विषयत्ववत् ॥ घटे तद्घटतादात्म्यं यदि न स्यात् तदा घटे ॥१०९ ॥ तघटस्य हि भेदः स्यादतो हि घटवान् घटः ॥ ज्ञानादिगुणवानात्मा तथा तादात्म्यतो भवेत् ॥ ११ ॥ ननु ह्यानस्वरूपमसन्तनिर्मलं परमार्थतः ॥ इसादिषु ज्ञानमेव ह्यास्मेति व्यपदिश्यते ॥ १११ ॥ अत्राह- ८२ श्रीभाष्यवार्तिके विज्ञानगुणसारत्वादात्मा विज्ञानमुच्यते ॥ अस्यात्मनो हि विज्ञानं सारभूतो गुणोत्तमः ॥१२॥ यथा विपश्चित्माज्ञो हि ज्ञानशब्देन पठ्यते ॥ सदात्मभाविधर्मत्वाद् विज्ञानस्योपदिश्यते ॥ ११३ ॥ तत्पदेन न दोषोऽस्ति गोत्वधर्मेण गोरिव ॥ ज्ञानवत्स्वप्रकाशत्वादात्मा ज्ञानपदेन च ॥ ११४ ।। व्यपदिश्यतेऽबाधकादिति चेन्न समुच्चयः ॥ ननु मुप्तौ ज्ञानहानेः कथमात्माऽनुवन्धिता ॥ ११५ ॥ ज्ञानधर्मस्येति मैवं सतोऽभिव्यक्तियोगतः ॥ विद्यमानं यथा पुंस्त्वं यौवनेन प्रकाश्यते ॥ ११६ ॥ मुषुप्तौ विद्यमानस्य तथा ज्ञानस्य जागरे । प्रकाशसम्भवादात्मधर्मता नैव हीयते ॥ १७ ॥ सप्तधातुमयत्वं हि शरीरायतनं सदा अहमर्थप्रकाशस्तु सुपुप्यादौ समर्थितः ॥ १८ ॥ ज्ञानस्य विद्यमानस्य विषयग्रहणं पुनः ।। समर्थितं जागरादौ ज्ञातृत्वादय आत्मनि ॥ ११९ ।। समर्थिता अतो ज्ञेय आत्मा ज्ञातैव निश्चितम् ॥ न प्रेस संज्ञाऽस्तीति यत् तन्न मुक्तस्य वक्ष्यति ॥ १२० ॥ ज्ञानहानि किन्तु जन्मनाशादीनां हि दर्शनम् ॥ निषेवसथ नस्यैत्र सर्वगत्वे हि दृषणम् ॥ १२१ ॥ उच्यते ज्ञानमात्रत्वे नियमेवोपलभ्यताम् ।। अथवा नोपलभ्यत्वं नियमात्मनि शक्यताम् ॥ १२२ ॥ कारणायत्तासक्षे सर्वेपामात्मनां पुनः ।। सर्वगत्वेन करणैः सदा सम्बन्धवत्तया ॥ १२३ ॥ सर्वभोगस्य माय स्यादतोऽणन एव ते ॥

२ अध्याये ३ पादः।
८३
आत्माऽणुपरिमाणोऽयं ज्ञातेति विनिरूपितम् ॥ १२४ ॥
स कर्ता किमकर्ता वेसेवं हि परिसंशये ॥
युक्तं गुणगकर्तृत्वं स्वात्मन्येवाध्यवस्य हि ॥ १२५ ॥
श्रुसा स्मृखा यतोऽकर्चा स्वत आत्मा निगद्यते ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥ १२६ ।।
पुरुषः मुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
इसादिवाक्या कर्तृत्वं प्रकृतेरेव युज्यते ॥ १२७ ॥
भोक्तृत्वमेव पुरुषे इति प्राप्ते प्रचक्ष्महे ॥
आत्मैव कर्ता, न गुणाः कुतः शास्त्रार्थवत्तया ॥ १२८ ।।
यजेत स्वर्गकामो हि मुमुक्षुब्रह्मसेवनम् ॥
कुर्वीतेसादिशास्त्रं हि फलमात्मनि शंसति ॥ १२९ ॥
फलभोक्तारमात्मानं हिरुम् नान्योनियोज्यते ॥
कर्तृत्वे किञ्च नो युक्तं कर्वचेतनमत्र वै ॥ ३० ॥
हननं प्रसकर्तृत्वमात्मनः श्रूयते तु यत् ॥
तदात्मनो हि नियत्वाद्धन्तव्यत्वाधभावतः ॥ १३१॥
गुणानामेव कर्तृत्वं गीतादिस्मृतिनिश्चितम् ॥
सदस्य गुणसंसर्गकृतं सांसारिकस्य हि ॥ १३२ ॥
न स्वरूपमयुक्तं तत् केवलस्यात्मनो भवेत् ॥
अधिष्ठानं तथा कर्ता करणं च पृथम्विधम् ॥ १३३ ॥
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चम् ।।
इति पञ्चकसापेक्षकर्तृत्वं केवलात्मनः ॥ १३४ ॥
कर्तृत्वं मन्यते योऽयं न स पश्यति दुर्मतिः ॥
उपादाने तु प्राणानां विहारेऽप्यात्मनस्तथा ॥ १३५ ॥
एवमेवैष वा एतानिति श्रुसोपदिश्यते ॥
कर्जत्वमन्यथा बुद्धनिर्देशे स्याद् विपर्ययः ॥ १३६ ॥

८४ श्रीभाष्यवार्तिके तद्विज्ञानपदेनात्मा प्रतिपाद्योऽन्यथा तु वै॥ करणतृतीयापत्तिबुद्धयर्थकपदोत्तरम् ॥ ११७ ।। भोक्तुरन्यस्य कर्तृत्वं न युक्तमुभयोस्तयोः॥ एकत्र सत्त्वसम्बन्धाद् भिन्नत्तिप्रखण्डनात् ।। १३८ ॥ सर्वसाधारणत्वेन प्रकृतेश्चेत् सकर्तृता ॥ सर्वकर्माणि सर्वेषां भोगाय स्युन संशयः ॥ १३६ ।। भोक्तुरन्यस्य कर्तृत्वं न युक्तमुभयोस्तयोः । एकत्र सत्त्वसम्बन्धाद् भिन्नत्तिप्रखण्डनात् ॥ १४०॥ उपाध्यभावापत्त्या वै न बुद्धेः कर्तृतेष्यते ॥ न हि बुद्धिः समाधातुं समर्था कुत्र चिद् भवेत् ॥ १४१ ॥ अत आत्मैव कर्ता स्यात् सपन्नः साधनैरपि । करोतीच्छानुगुण्येन तक्षा वास्यादिमिर्यथा ॥ १४२ ॥ आत्मबुद्धस्तु कर्तृत्वे भोगवाञ्छादि कारणम् ॥ नियतं नेति कर्तृत्वं बुद्धिगं सर्वदा भवेत् ॥ १४३ ॥ यदि जीवात्मकर्तृवं स्वातन्त्र्येणेह चोच्यते ॥ अतो विधिनिषेधादिशास्त्रसार्थक्यमापतेत् ॥ १४४ ॥ यो हि खबुद्धया शक्तोऽत्र प्रसांवा निवर्तने । स एव स्यानियोज्यो नाऽप्राप्त ससेवमुच्यते.॥ १४ ॥ जीवात्मनां हि कर्तृत्वं परमात्मैकहेतुतः ॥ अन्तः प्रविष्टः शास्तति श्रुसादिमतिपादनात् ॥ १४६ ॥ पुरुषेण कृतं यत्नमपेक्ष्य परमेश्वरः ।। तस्यानुमतिदानेन प्रवयांत कर्मणि ॥ १४७ ॥ अन्तरेण परेशस्यानुमतिर्न प्रवर्तनम् ॥ य ईश्वरानुकूल्ये हि वर्तते नितरां जनः ॥ १४८ ।। अनुष्टान् स भगवान कल्याणेष्वेव कर्मसु ॥

२ अध्याये ३ पादः।
८५
तद्रुचिं जनयसेव प्रतिकूलं विपर्ययात् ॥ १४९ ॥
जीवात्मनां हि कर्तृत्वं परेशायत्तमीरितम् ।।
इदानी किमयं जीवो मिनः स्यात् परमात्मनः ॥ १५० ॥
आहोखित परमं ब्रह्म स्वोपाधिपरिकल्पितम् ॥
किं वा ब्रह्मांश एव स्यादिसेवं संशयः श्रुतेः॥ १५१ ॥
तत्राद्यपक्षो युक्तोऽत्र ज्ञाज्ञाविसादिवाक्यतः ॥
उपचारादभेदोऽत्राभेदश्रुतिविबोधितः ॥ १५२ ॥
ब्रह्मैकदेशो ब्रह्मांशो जीवश्चेद ब्रह्म दोषवत् ॥
ब्रह्मैकदेशजीवस्थदोषाणां ब्रह्मसंश्रयाव ॥ १५३ ।।
भ्रान्तं ब्रह्मैव जीवो वा ब्रह्मभावोपदेशतः ॥
अनाद्युपाध्यवच्छिन्नं जीवो वाऽभेदसंश्रुतेः ॥ १५४ ॥
इति प्राप्त प्रतिक्षिप्य सिद्धान्तः प्रतिपाधते ॥
ब्रह्मांश एव जीवोऽयं नानात्वव्यपदेशतः ॥ १५५ ॥
तथैकत्वोपदेशाच्च नान्यथोभयथा भवेत् ।।
उपदेशस्तथा हि स्यात् स्रष्दृत्वादिप्रकारकः ॥ १५६ ॥
तत्त्वमस्यादिवाक्येन तथाऽभेदप्रकारकः॥
उभाभ्यामुपदेशाभ्यां ब्रह्मांशो जीवचेतनः ॥ १७ ॥
जीवाभेदः सर्वजीवव्यापित्वेनोपदिश्यते ॥
पादोऽस्य विश्वा भूतानीसेवमत्र प्रभाषणात् ॥ १५८ ॥
ब्रह्मांशत्वं हि जीवानां स्पष्टमेव न संशयः॥
ब्रह्मैकदेशजीवस्य ब्रह्मांशत्वनिरूपणे ॥ १५९ ।।
दोषा जीवगता ये वै ते स्युः सर्वे परात्मनः ॥
इसाशङ्कय समाधानं ज्वलदग्निप्रकाशवत् ॥ १६०॥
यथाऽग्न्यादेः प्रकाशोंऽशो गोत्वादीनि गवादिके ॥
अंशः स्याद् देहिनो देहो ाश एवं प्रकीर्तितः ॥ १६१ ॥

श्रीभाष्यवार्तिके एकवस्त्वेकदेशत्वमंशलक्षणमीरितम् ॥ वैलक्षण्येऽपि चांशत्वविशेषणविशेष्ययोः॥ १६२॥ भवेदतो विशेष्ये न दोषा अंशगताः पुनः ॥ लक्षण्याद द्वयोरत्र विशेषणविशेष्ययोः॥ १६३ ॥ इदमाश्रिस श्रुसादौ भेदनिर्देश ईरितः ॥ स्वपृथसिद्धयनहत्वाद विशेषणविशेष्ययोः ॥ १६४॥ अभेदो बोध्यते श्रुसा न विरोधो मनागपि ॥ प्रभाप्रभावतोरिख शक्तिशक्तिमतोर्यथा ॥ १६५ ॥ तथा देहात्मभावेन जगद्ब्रह्मात्मनोरिह॥ अंशांशिभावसम्बन्धं स्मरन्ति परमर्षयः ॥ १६६ ॥ सर्वस्य ब्रह्मणोंऽशवे केचिद् वेदाधिकारिणः ॥ केचिन्नेयेव संस्पृश्याः केचिरति कथं भवेत् ॥ १६७ ।। विशेष इलाशङ्याह देहभेदाद् भवेदयम् ॥ अग्नेर्यथैकरूपत्वेऽप्येवं सम्बन्धभेदतः ॥ १६८ ॥ श्रोत्रियाऽमिः श्मशानानिः स्पृश्यास्पृश्यौ यथैव तौ॥ अनुज्ञापरिहारौ च देहसम्बन्धभेदतः ॥ १६९ ॥ स्थात्मनः परिश्रेयौ शुच्यशुच्यादिदेहिनः ॥ ब्रह्मांशत्वादिनैकत्वमण्वात्मनि हि यद्यपि ॥ १७० ॥ परस्परमणुत्वेन प्रतिदेहं विभिन्नता ॥ अत एव भवखेवं व्यवस्था भोगभाविका ॥१७१ ॥ अविद्याकृतोपाधितो व्यवस्था चेदिहोच्यते ॥ अखण्डकरसस्यास्य प्रकाशात्मन एव च ॥ १७२ ॥ स्वरूपं हि तिरोधायोपाधिभेदोपपादने । उद्दिष्टो हेतुरामासः प्रकाशात्मविनाशतः ॥ १७३ ॥ आभासा इति पाठे तु कल्पितोपाधिभेदके ।।

२ अध्याय ३ पादः।
आभासा हेतवः सर्वे इयर्थः सूत्रसङ्गतः ॥ १७४ ।।
वास्तवात्मन एकत्वाद् भोमसाकर्यमापतेत् ।।
अदृष्टनियतोपाधिकृतभेदोऽत्र मन्यते ॥ १७५ ॥
तस्यापि नियमाभावादव्यवस्थैव केवलम् ॥
एकमेव ब्रह्मरूपं विविधोपाधिसङ्गतम् ॥ १७६ ॥
तथाऽप्युपाधिब्रह्मदेशभेदाद भाव्यव्यवस्थया ॥
इति चेत् सङ्गतं नैतत् प्रदेशानां हि सर्वतः ॥ १७७ ॥
उपाध्यन्तर्गतत्वेन व्यवस्थाभावसम्भवात् ।।
पूर्वत्र वेदबाह्यानां सूत्राभ्यां दोष उद्धृतः ॥ १७८ ॥
वादावलंविनामत्र दोपः सम्यनिरूप्यते ॥
इति श्रीभाष्यवार्तिके द्वितीयाऽध्यायस्य तृतीय. पादः ॥२॥३॥

८८ श्रीभाष्यवार्तिके ब्रह्मात्माभिन्नाकाशादेः कृत्स्नस्योत्पत्तिरूपणे ॥ अपोदितोऽन्यथाभावस्तत्मसद्भाद् विशोधितम् ॥ १॥ जीवस्वरूपमधुना हीन्द्रियमाणमङ्गतः ।। उत्पत्यादिप्रकारोऽत्र शोध्यते बुद्धिपूर्वकम् ॥ २॥ तत्रोन्द्रियाणां कार्यत्वं जीववद्वियदादिवत् ॥ युक्तं जीववदेवात्र वाद्येवं प्राह सादरम् ॥ ३॥ इन्द्रियाणि तथा माणा जीववन्नोद्भवन्ति हि ॥ नोत्पत्तिः श्रूयते जीवे तथाऽत्रापीति हेतुतः ॥ ४ ॥ असद्वेसादिवाक्येन प्रलयेऽवस्थितिश्रुतेः ॥ जीवोत्पत्तिर्यथैवोक्ता प्राणोत्पत्तिस्तथैव हि ॥ ५ ॥ तत्रोच्यते समाधानं वियदादिवदेव च ॥ प्राणोत्पत्तिः सदेवेदमग्र इसादिवाक्यतः ॥ ६ ॥ सृष्टेः प्रागात्मनो ह्येवमेकत्वस्यावधारणात् ॥ एतस्मादपि सद्वाक्यादुत्पत्तिश्रवणादपि ॥ ७ ॥ तथा पूर्वमवस्थानासम्भवाचेन्द्रियादिकम् ॥ उत्पद्यते न जीवस्य जन्मवच्छङ्कयतेऽन्यथा ॥ ८॥ आत्मनो जन्मनिसत्वश्रुतिवन्नेह तव्यम् ॥ न श्रूयतेऽतः प्राणानामुत्पत्तिर्वियदादिवत् ॥ ९॥ प्राणमेवेति वाक्येऽस्मिन् प्राणशब्दः परात्मनि ॥ प्रसिद्ध इति तस्माद्वै प्राणादुत्पत्तिरीरिता ॥ १० ॥ बहुत्वश्रवणं गौणं माणा इसादिवाक्यगम् ॥ बहाऽसम्भवात्तस्य सृष्टेः प्रागात्मनः श्रुतेः ॥ ११ ॥ परात्मवाचकमाणशब्दोऽत्रेति विनिर्णयः॥ यतोऽभिन्नं ततः सर्व वाचा यत् परिकीर्त्यते ॥ १२॥ तत्सर्व जायते पश्चानाकाद्युत्पत्तिपूर्वकम् ॥

२ अध्याये ४ पादः। ८१ तांनीन्द्रियाणि नो सप्त भवन्सेकादशैव हि ॥ १३ ॥ हस्तादीनां शरीरस्थभोगोपकरणत्वतः ॥ आदानादिकार्यभेदो दृश्यतेऽतोऽत्र सन्ति ते ॥ १४ ॥ सर्वेऽनन्ता इति श्रुसा विभुत्वमितिचेन्न हि ॥ उत्क्रान्तिश्रवणात् तेषां पारिमिसं निरूप्यते ॥१५॥ आनन्सश्रवणं चैषामुपासाथै न संशयः॥ माणाद्विशेषभूतादिकार्यबाहुल्यतस्तथा ॥ १६ ॥ एकत्वनिश्चयात् सृष्टेः मागित्थं परमात्मनः ।। भिन्नमुत्पद्यते सर्व प्राणादिर्गगनादिवत् ॥१७॥ प्राणादि वायुमात्रं न क्रियारूपं न चापि हि ॥ एतस्माज्जायते प्राण इति भिन्नोपदेशतः ॥ १८ ॥ नापि भूतविशेषोऽयं प्राणः किन्त्ववरात्मनः ॥ भोगोपकारणात्मैव चक्षुरादिर्यथाऽत्र हि ॥ १६ ॥ चक्षुरादिवदस्यापि करणत्वे शेषरूपया ॥ क्रियया भवितव्यं तदभावान्नेन्द्रियादिवत् ॥ २०॥ इसाशङ्म समाधानं क्रियात्वाभावतो भवेत् ॥ जीवं प्रत्युपकाराख्यक्रियाया विरहत्वतः ॥ २१ ॥ दोष उद्भाव्यते योऽपि स नास्तीति कुतः शृणु ॥ देहेन्द्रियधारणादिक्रिया दर्शयति श्रुतिः ॥२२॥ प्राणस्योत्क्रमणे जाते देहः पाप्मा भवेदिति ॥ वागाद्युत्क्रमणेऽप्येवं शरीरस्थितिदर्शनात् ॥ २३ ॥ माणाभावे शरीरस्य क्षणमप्यस्थितेश्च हि ।। ज्यानादयो वायुवर्गाः प्राण एव न संशयः ॥ २४ ॥ अणुश्चायं पूर्ववच्च समुत्क्रामणसंश्रुतेः ॥ परिच्छिमस्वरूपत्वमणुत्वमिति न त्वणुः ॥ २५ ॥ १२ श्रीभाष्यवार्तिके जीवात्मदेहप्राणादिदेवानामभिमानिनाम् ॥ परेशमननायत्तं कार्य शब्दप्रमाणतः ॥ २६ ॥ परमात्माऽधिष्ठितत्वं निसं सर्वस्य वस्तुनः ॥ तत्स्वरूपानुबन्धित्वात् सर्वाधिष्ठातृताऽऽत्मनि ॥ २७ ॥ सत् सृष्ट्वेयादिवाक्येन चिदचिद्वस्तुमात्रके ॥ अन्तर्नियमनत्वेन प्रवेशः परिपठ्यते ॥२८॥ स्वरूपानुबन्धी स स्यात् स्मयते जगति स्थित ॥ यतः सर्वाणीन्द्रियाणि प्राणभिन्नानि सन्ति ॥ २६ ॥ तत सर्वत उत्कृष्ट प्राणा इन्द्रियवर्गत ॥ जीवनिष्ठं हि कर्तृत्वं परायमितीरितम् ॥ ३० ॥ स्वेन्द्रियादिष्यधिष्ठानं परायत्तमनन्तरम् ॥ प्रपञ्चव्यष्टिसृष्टिा सा कि जीवन रध्यते ॥३१॥ उत तेजःप्रभृतिकशरीरेण परेण हि ॥ युक्तं हिरण्यगर्भाख्यजीवेन सृज्यते जगत् ॥ ३२ ॥ अनेनेति श्रुतेर्जीवकर्तृकत्वस्य निर्णयात् ॥ न हि स्वेन स्वरूपेण परमात्मेसेवमैक्षत ॥ ३३ ॥ नामरूपे व्याकरोमीसेवं किन्त्वंशभागिना ॥ ननु- चारेणानुपविश्यवं बलं सङ्कलयाम्यहम् ॥ ३४ ॥ करवाणीत्युत्तमः पुरुपः सम्भवेदितिचेन्न हि ॥ राजचारस्वरूपस्य भिन्नत्वादिह तन्न हि ॥ ३५ ॥ जीवस्येशाशरूपत्वात् तेन रूपेण तवयम् ॥ प्रवेशो व्याकृतिश्चैव लक्षणा न प्रसज्जते ॥ ३६ ॥ तस्माज्जीवस्वरूपेण नामरूपीयव्याकृतिः ॥ परात्मना भवसे प्राप्त समभिधीयते ॥ ३७॥ -- २ अध्याये ४ पादः। नामरूपव्याकरणं त्रिवृत्कुर्वत ईश्वरान् ॥ जीवेनानेनात्मनेति समकर्तृत्वप्रययात् ॥ ३८ ॥ जीवेशाभेदबुद्धिस्तु तुल्याधिकरणत्वतः ॥ जीवः शरीरमस्येति जीवशब्दार्थ ईश्वरः ॥ तेज ऐक्षत हीत्यादौ तेजआदिशरीरकम् ॥ ३९ ॥ परमेवोच्यते ब्रह्म देहदेहिस्वभावतः॥ हिरण्यगर्भो जीवस्य समष्टिर्जीव उच्यते ॥ ४० ॥ स शरीरं परस्येति व्याकारोतीश्वरोऽखिलम् ॥ नामरूपात्मकं विश्वं तत्र प्रविशति स्वयम् ॥ ४१ ॥ चतुर्मुखे यत् कर्तृत्वं चतुर्मुखशरीरके । परस्मिन् घटते मुख्यममुख्यमितरत्र तु ॥ ४२ ।। परस्परमसंबद्धास्तेजोऽबन्नादयः पुनः ॥ विशेषसृष्टिकरणेऽसमर्था इति तेषु वै ॥ ४३ ॥ सामर्थ्याथ तदैकैकं त्रितं त्रिदृतं कृतम् ॥ ननु- त्रिसत्करणस्य जीवेषु संभवाजीवकर्तृकम् ॥ ४४ ॥ नामरूपव्याकरणं नेशकर्तृकमुच्यताम् ॥ यदग्ने रोहितं रूपं तद्रूपं तेजसस्तथा ॥ ४५ ॥ यच्छुक्लं तदपां प्रोक्तं कृष्णं तत्त्वन्नसम्भवम् ॥ इसादिना ब्रह्मसृष्टाग्न्यादियचन्द्रविद्युतः ॥ ४६ ॥ प्रदृश्यते त्रिसत्कार्यमेषु व्याकरणोत्तरम् ॥ इति प्राप्ते नोक्तयुक्तमग्न्यादित्यादिदैवते ॥ ४७ ॥ त्रेधेति नैव त्रितः करणं युपदिश्यते ॥ परिणामस्त्रिधा किन्तु शब्दात् सम्यक् प्रतीयते ॥ ४८ ॥ अतः पुरीषमांसानि मनांसि च क्षितेस्ततः ॥ - श्रीभाष्यवार्तिके विकारा मूत्ररुधिरमाणा ये जलजास्तु ते ॥ ४९॥ तथाऽस्थिमज्जावाचस्तु विकारास्तेजसोऽभवन् । मनो हि सोम्यान्नमयं प्राण आपोमयः स्मृतः ॥ ५० ॥ तेजोमयी वागिति च वाक्यशेषाविरोधतः । त्रिवृत्कृतस्य भूम्यादेः पुरुषमाप्यनन्तरम् ॥ ५१ ॥ अन्नं पाशितमिसादिवाक्येन त्रिविधो छयम् ।। परिणामः समुद्दिष्टो, नोद्दिष्य त्रिवृतः कृतिः ॥ ५२ ॥ ततोऽण्डसृष्टेः मागेव तेजोऽबन्नानि माधवः ।। त्रित्कृतानि संमेल्य महदादि सृजखयम् ॥ ५३ ॥ अथान्नमशितं पीतं जलं तेजोऽशित तथा ॥ त्रिवृत्कृतं त्रिरूपं तत् कथमेकैकरूपकम् ॥१४॥ उच्यते व्यपदेशोऽतोऽयोग्य इसत उच्यते । यस्यांशस्य हि वैशेष्यव्यपदेशस्तु तेन वै ॥ ५५ ॥ अन्ने भूम्यंशवैशेष्यादल्पत्वादितरस्य हि ॥ तस्मादेकैकरूपस्य व्यपदेशो न दृष्यते ॥ ५६ ॥ अध्यायस्य समाप्तिश्च द्विरुत्या परिधोत्यते ॥ इति श्रीभाध्यवार्तिके द्वितीयाध्यायस्य चतुर्थः पादः ॥२४॥ समाप्तोऽयं द्वितीयोऽध्यायः॥

३ अध्याये १ पादः। गताध्यायद्वयेनैव गुणसागरसुन्दरम् ॥ निरस्तनिखिलापायं विश्वसबैककारणम् ॥१॥ विलक्षणामितोदारं ब्रह्मोपास्यं मुमुक्षिभिः ॥ वेदान्तवेद्यं स्मृणादिविरोधहृतिपूर्वकम् ॥ २॥ स्थापितं तस्य संप्राप्या अधुनोपाय ईर्यते ॥ सनिमित्तं तृतीयस्य लक्षणस्य द्वयोत्तरम् ॥ ३ ॥ प्रारम्भावसरस्तत्र वैतृष्ण्यं प्राप्य वस्तुतः ॥ व्यतिरिक्त तत्सिद्ध्यर्थ दोषा जीवे परे न च ॥४॥ किन्तु कल्याणगुणतो प्रथमे च द्वितीयके ॥ निरूप्यतेऽत्र जीवः किं गच्छन् देहान्तरादिषु ॥५॥ देहारम्भकसत्सूक्ष्मभूतैः समिलितोऽथवा ॥ नेति तत्रेति समाप्तं मिलितस्तेन सर्पति ॥ ६ ॥ यत्र गच्छति तत्रापि भूतसूक्ष्माणि सन्सतः ॥ इति प्राप्ते सम्मिलितो भूतसूक्ष्मर्हि गच्छति ॥ ७ ॥ यतः पञ्चाग्निविद्यायां प्रश्नोत्तरनिरूपणम् ॥ नराकारं परिणतमरूपं भूतमेव यत् ॥८॥ वक्तव्यस्तत्परिष्वङ्गो नाखिलैः सूक्ष्मभूतकैः ।। इत्याशङ्ग्य वित्कृसा सर्वेषामविशषतः ॥९॥ आप इत्युपदेशस्तु भूयस्त्वाच्छ्तिसंमतः ।। भूतसूक्ष्मपरिषङ्गः प्राणानुगतिवाक्यतः ॥ १० ॥ गृहित्वैतानि संयाति वायुर्गन्धानिवाऽऽशयी ॥ इति स्मृया भूतसूक्ष्मैमिलितः परिसपति ॥ ११ ॥ अग्न्यादिषु लयश्रुसा प्राणादीनां मृतस्य तु ॥ न तैर्जीवे परिष्वङ्ग इति चेल्लयभाक् ततः ॥ १२ ॥ नापो होभ्या इति न हि श्रद्धा एव च ताः स्मृताः ॥

श्रीभाष्यवार्तिके
पञ्चम्यामिति वाक्येन प्रश्नोत्तरविनिर्णयात् ॥ १३ ॥
कृत्स्नं कर्मफलं भुक्वा जीवो गच्छति नेति वा ॥
कृत्स्नभोगे नावशेषः कर्मणोऽस्तीति तत्कथम् ।। १४ ।।
गच्छत्सनुशयी जीव इति प्राप्तेऽभिधीयते ॥
गछसनुशयी जीव. श्रुतिस्मृतिनिरूपणात् ॥ १५ ॥
कार्णाजिनिराचार्य अचारेणोपलक्षितम् ॥
पापपुण्यात्मकं कर्म मन्यतेऽतो न तत्क्षतिः ॥ १६ ॥
तदपेक्षो हि सर्वेषामाचार: पुण्यकर्मणाम् ।।
दृश्यते स तु नान्येषामधिकारविवर्जनात् ॥ १७ ॥
चरते: संप्रयोगादै पुण्ये पापे च कर्मणि ॥
तस्मादाचारशब्देन बादरिर्मन्यते हि तत् ॥ १८ ॥
याचनामनुभूयते ते वानिष्टादिकारिणः ॥
चन्द्रारोहावरोहौ च नान्यथेति विनिर्णयः ॥ १९
अत एव नारकान् सप्त रौरवादीन स्मरन्ति हि ॥
विद्याया विरहत्वादै मार्गोऽनिष्टादिकारिणाम् ॥२०॥
देवयानेन गमनं तथेष्टादेरभावतः ॥
पितृयानेन चन्द्रादौ गमनं नोपपद्यते ॥ २१ ॥
देहारम्भनिमित्तं हि पञ्चमाहुसपेक्षणम् ॥
न पापकर्मणि नरे भवतीत्युपलभ्यते ॥ २२॥
पञ्चमाहुसपेक्षा न केषाञ्चित् पुण्यकर्मणाम् ।।
देहारम्भनिमित्तं हि श्रूयते द्रुपदात्मजौ ॥ २३ ॥
तथोद्भिजस्वेदजयोः पञ्चमाहुतिमन्तरा ॥
उत्पत्तिरिह तस्माद्वै नाहुतिनियताऽस्ति हि ॥ २४ ॥
अतश्चन्द्रमसोऽप्राप्तिः केवलं पापकर्मणाम् ॥
अवरोहप्रकारे च यदाकाशादिभाववाक् ॥ २५ ॥

३ अध्याये १ पादः।
९५
सादृश्यभावः स प्रोक्तो मानवापत्तिवन हि ॥
भोगाभावान्न नाकादिभावो मानुषभाववत् ॥ २६ ॥
आकाशभावप्राप्ते यावद् ब्रीद्यादिभावता ॥
तावत्तत्र च नाकादौ चिरं तीष्ठति नेति वा ॥ २७ ॥
नियमे हेत्वभावाच्चानियम इति चेन्न हि ॥
यावद ब्रीह्यादिभावो वा तावन्नातिचिरस्थितिः ॥ २८ ॥
अचिरं निर्गनेर्यस्माज्जीवानां श्रवणाच्छरुतेः ।।
जीवाद् व्रीह्यादभावेन जायन्त इति यच्छरुतम् ॥ २९ ॥
बीद्यादिभावो जीवानामिहाकाशादिभाववत् ॥
भोक्तृत्वाभावतो नैव किञ्चित् कर्माभिलप्यते ॥ ३०॥
बीह्यादिभावो भोगार्थ जीवानां शब्दतो न च ॥
अतो त्रीह्यादिजन्माऽपि गौणमेव न संशयः ॥ ३१ ॥
रेतोभाव इवायं स्याद् भावो व्रीह्यादिकस्य च ॥
शरीरित्वं तु जीवानां योनिप्राप्तेरनन्तरम् ॥ ३२ ॥
सुखदुःखोपभोगस्य सद्भावादत एव हि ॥
प्राणाकाशादिसम्माप्तिर्योगमात्रं न संशयः ॥ ३३ ॥
इति श्रीभाष्यवार्तिके तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥१॥

श्रीभाष्यवार्तिके जाग्रतो जीववर्गस्य दुःखित्वं स्थापितं ततः ॥ स्वमस्थानपरीक्षाऽपि साप्रतं प्रवितन्यते ॥ १॥ न रथास्तत्र न रथयोगा इत्यादिवाक्यतः ॥ रथादिसृष्टि किजीवः करोतीश्वर एव वा ॥ २ ॥ युक्तं स्वप्ने जीव एव मृष्टेः कर्ता हि स्वप्नदृक् ॥ एकेऽत्र शाखिनो जीवं निर्मातारं वदन्ति हि ॥ ३॥ एवं प्राप्ते समाधानं मायामात्रेति सूत्रतः ॥ जनकस्य कुले जाता देवमायेव निर्मिता ॥४॥ इसादिवचनान्मायाशब्द आश्चर्यवाचकः ।। अतो रथाद्यर्थजातं स्वप्नद्रष्ट्रैव दृश्यते ॥ ५॥ तत्कालमात्रसत्ताकं परमाश्चर्यरूपकम् ॥ करोति परमात्मैव ससकङ्कल्पतो हरिः ॥ ६ ॥ न तु जीवोऽनभिव्यक्तरूपत्वात् कृत्स्नतोऽपि हि ॥ सससङ्कल्पयुक्तो हि संसारे तु तिरोहितः ॥ ७ ॥ तथाविधाश्चर्यरूपां सृष्टि स्रष्टुमलं न हि ॥ स हि कति च वचः कारं वदतीश्वरम् ॥ ८॥ जीवेऽपहतपाप्मत्वमीशसङ्कल्पतोऽधुना ॥ तिरोहितं ततो दृष्टावस्य बन्धविपर्ययौ ॥ ९॥ तिरोभावोऽपि जीवेश्य देहयोगमभावतः॥ मृष्टिकाले स्थूलदेहात प्रलये सूक्ष्मदेहतः ॥ १० ॥ जीवसङ्कल्पतो नैव स्वामार्थाः प्रभवन्ति हि ॥ यतस्तेषां सूचकत्वं शुभाशुभनिरूपितम् ॥ ११ ॥ श्रुतिराहेति नो जीवकृतं जीवेशुभावहम् ॥ नायः पुरीतद् ब्रह्म च मुप्तजीवाश्रयत्रयम् ॥ १२॥ कि विकल्पो हि सर्वस्य वा सर्वत्र समुच्चयः ॥

बनारससंस्कृतसीरीज़नाम्नी वाराणसेयसंस्कृतपुस्तकावली । रु० आ० १ १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहव. प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैा- हकमहाशयैरियं पुस्तकावला नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ॥) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशययः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १० मूल्यं प्रापणव्ययश्च =) देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेक खण्डानि ५ अर्थसङ्ग्रह अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाष्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ५ (प्रथमभाग प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३। द्वितीयभाग. तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधर. खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रह. खण्डानि ५ नैष्कर्म्यसिद्धि. खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाध्यम खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि४४ विवरणोपन्यास. सटीकवाक्यसुधासहितः खण्डे २ तत्त्वदीपनम् (पश्चपादिकाविवरणस्य व्याख्यानम् ) ख०८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ૨. २ २ ४ ૨ पातालदशनम्।श्रीरामानन्दयतिकृतमणिप्रभाऽऽख्यवृर्ति मं० १ व्याकरणमिताक्षरा । श्रीमदनभट्टप्रणीता खण्डानि रसमञ्जरी । व्यङ्गयार्थकौमुद्या प्रकाशेन च सहिता स्व० ३३ भेदधिक्कारः व्याख्यासहितःश्रीमदप्पयदीक्षितकन उपक्रमप- राक्रमसहितः खण्डे २ बोधसारो नरहरिकृतः तच्छिध्यदिवाकरकृतटीकयास ख० १० ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ २ दैवज्ञकामधेनुः अर्थात् प्राचीनज्योतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीश्रीवल्लभाचार्यविरचितम । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितमाध्यप्रकाशाख्य- व्याख्या समेतम् खण्डानि १० तत्त्वशेखरः। श्रीभगवल्लोकाचार्यप्रणीतः। तथा-तत्त्वत्रयचुलक- संग्रहः । कुमारवेदान्ताचार्यश्रीमद्वरदगुरुविरचितः। श्रीभाष्यवार्तिकम्। श्रीमद्रामानुजाचार्यविशिष्टाद्वैतसिद्धान्तप्र- तिपादनपरम् । ३ १ ब्रजभूषण दास और कम्पनी चांदनीचौक के उत्तर नई सड़क बनारस

No text on this page.

Sribhashya Vartika

Author
Bhat't'a,ratnagopala
Other authors
Bhattam, Ratna Gopala
Title
Shribhaashhyavaatikama~
File name
Sribhashya Vartika
Text
OCR done
Citation
1906
Published
2006/01/20
Publisher
Chowkambha Sanskrit Book Depot.banaras,vidya Vilasa Press,banares
Language
Sanskrit
Pages
104
Library
Canegie Mellon Univeristy
Classification
Philosophical Systems
Keywords
Hindusim : Indology
DLI number
495397
Barcode
1990020084738.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
uXzjSFNtbo9
Download PDF

Sribhashya Vartika