Bharti Bhawan Library Allahabad

Vadanakshatramala

Appaya Dikdhita

PDF Proofread

Front matter

PURVOTTARAMIMAMSA
VADANAKSHATRAMALA
BY
APPAYA DIKSHITA
SRIRANGAM
SRI VANI VILAS PRESS.
1912.
Copyright Registered.]
[All rights reserved.

No text on this page.

No text on this page.

॥ श्रीः॥
पूर्वोत्तरमीमांसा
॥ वादनक्षत्रमाला ॥
श्रीमदप्पयदीक्षितेन्द्रविरचिता।
श्रीरङ्गम्
श्रीवाणीविलासमुद्रायन्त्रालये
संमुद्रिता ।
५९.१२.

No text on this page.

PREFACE. was FÂDANAKSHATRAMÂLÂ, otherwise known as. NAKSHATRAVADAVALI is one of the several scholarly works that proceeded from the pen of the illustrious Appaya Dikshita, who flourished in Southern India in the sixteenth century and who was held in great reverence throughout the length and breadth of India for his profound learning and erudite scholarship. The esteem for his genius was such that it was considered discourteous even to refer to him by his name. The honorific appellation "Dikshita considered quite sufficient to specify him. He was the author of more than one hundred works several of which are masterly treatises full of original thought and close reasoning His Sivärkamanidîpika--the saiyavişishtadvaitio commentary on the Srikanthabhâshya of the Brahmasutras, his Parimala--the pure Advaitio com. mentary on the Kalpataru of Amalânanda which is itself a commentary on the Bhâmati which in its turn expounds the Sankarabbâshya of the Brahma sutras, his Siddhantaleşasangraha wherein he explains all the different views of the several writers on Advaita on all controversial points, his Nyâyarakshamani wbich is a splendid exposition of the Advaitic interpretation of 8 the Brahmasutras, his Upakramnparakrama which is an elaborate discussion of the canons of Mimamsa 18 applied to Vedanta, his Kuvalayananda, Chitramiminsan and Vrittivârtika which dexl with Alankara, or rhetorie, his Vyâkarana Vadanakshatraumala tirorting of grammar and his Purvottaramimamsil Vadanakshatrapala treating of both the Mimâmsas, form certainly the glorious and ever-enduring monuments of his versatile genius. India can very well feel proud of 010 who has contributed such classic works on many different subjects and has thereby ennobled her already noble literature. She was perfectly justified in counting Appaya Dikshitia as one of the illustrious galaxy of her brilliant sons- stars of the first magnitude --- who have made her literature what it is the rich heritage and the proud possession of the prosnt genera. tion of Hindus, and the wonder ind envy of the whole civilised world. Appaya Dikshita's compositions are numerous and varied and several of these have not yet beon published in print. Among such hitherto umpublished works wo have to reckon this Vadanakshatrunalar which consists of a string of twenty-seven discussions on various topics connected with either the Mimamen or the Vedanta Philosophy, The several discussions will be found extremely interesting and the subjects treatod of are not touched upon in any other treatise. The Dikshita himself states in the opening verse of this book that the 9 the topic sdiscoursed upon in this work in very simple style are such as are not dealt with anywhere else and are prosumed in the Bhashyas to be well established. That Appaya Dikshita was looked upon as an authority on both the Parva and the Uttara Mimâmsa systems is well attested to by Khandadeva, bimself a Mimamsa scholar of no mean repute, styling him as Mimimsakûmûrdhanya--the foremost among Mimâmsa scholars. Emanating from the pen of such a reputed scholar this work is sure to be found very valuable. We had the help of several Mss. in preparing this work for the Press and our thanks are due to Brahmaşri Subrahmanya Şastrigal of Mannargudi and to Brahmasri Subrahmanya Sastrigal, Professor of Vedânta at the Sans. krit Institute of Bangalore which is founded by His Holiness of Sringeri Mutti, for the two well written palm leaf Mss. of this work placed by them at our disposal. We had access also to the Mss, at the Mysore Government Oriental Manuscripts Library whenever a reference to them was found necessary. We have also to specially thank Brahmapri Vaidyanatha Sastrigal, Professor of Mimamsa at the Sanskrit Institute of Bangalore, but for whose invaluable help in editing, we could not have brought out this precious work. In conclusion we hope that this is the first of the several works of this great scholar that will be issued from this Press. J. K. Balasubrahmanyam.

- विषयाः॥ १ ३ पृष्ठम् मासाग्निहोत्रवादः हिसिधात्वर्थवादः .... गुणगुण्येकशक्तिवादः गुणगुण्यनेकशक्तिवादः गुणगुण्येकशक्तिपक्षश्रेयस्त्ववादः गुणलक्षणापक्षनिरासवादः अरुणैकहायनीसामानाधिकरण्यवादः क्रयारुण्यान्वयवाद: योगलक्षणाशङ्कानिरासार्थजीवान्तर्यामिशक्तिवादः १५४ भ्रममूलत्वशङ्कानिरासार्थजीवान्तर्यामिशक्तिवादः... १६२ गौरोऽहमित्यादिप्रतीत्यविषयत्वशङ्कानिरासार्थान्तर्या- मिशक्तिवादः अहमादिपदविषयान्तर्यामिपर्यन्तत्वाभावशङ्कानिरा- सार्थान्तर्यामिशक्तिवादः अहमादिपदविषयान्तर्यामित्वपर्यन्तशक्त्यभावप्रयुक्त- शक्कानिरासार्थान्तर्यामिशक्तिवादः १८१ .... ...

(१२) ब्राह्मणादिशब्ददृष्टान्तप्रसक्तगौरादिशब्दवाच्यत्वश- कानिरासार्थान्तर्यामिशक्तिवाद: अन्तर्यामिविषयपृथिव्यादिशब्दवाच्यत्वसमर्थनवादः १९७ अन्तर्यामिविषयसकलशब्दवाच्यत्वसमर्थनवादः व्याकरणश्रुतिगततृतीयैकवचनसमर्थनवाद: सर्वोपादानत्वहेतुकसर्वशब्दवाच्यत्वसमर्थनवादः ऐकशास्त्र्यनिराकरणवादः अध्ययनविधेरर्थज्ञानफलकत्वनिराकरणवादः २५९ अध्ययनस्य स्वविधिप्रयुक्तत्वममर्थनवादः २८१ भस्मोद्धृलनत्रिपुण्ड्रयोः सकलब्रह्मविद्याङ्गत्वसमर्थ- .40 A. D 2. * अयथार्थज्ञानसमर्थनवादः स्वप्नायथार्थत्ववादः शुक्तिरजताधुत्पत्तिसमर्थनवादः प्रपश्चासत्तानिराकरणवादः ब्रह्मानन्दवैषयिकानन्दाभेदसमर्थनवादः .22 ....

॥श्रीः॥
पूर्वोत्तरमीमांसा
॥ वादनक्षत्रमाला ॥
मासाग्निहोत्रवादः॥
तन्त्रान्तरेष्वनुपपादितमर्थजातं
यसिद्धवयवहृतं ध्वनितं च भाष्ये ।
तस्य प्रसाधनमिह क्रियते नयोक्त्या
बालप्रियेण मृदुवादकथापथेन ।
शेषीभवदपि भाष्ये सुमहति सोऽग्निहोत्रमिव ।
स्वातन्त्र्येण प्रकरणमर्थप्रतिपादने समर्थमिदम् ॥
कुण्डपायिनामयनाख्ये सत्वे श्रूयते---' उपसद्भिश्चरित्वा
मासमग्निहोत्रं जुहोति' इति । तन्मासाग्निहोत्रं नैयमिकाग्नि
होत्राद्भिद्यते न वेति जरन्मीमांसकमतानुसारिणः पूर्वपक्षिण:
*V.1
.

पूर्वोत्तरमीमांसा- श्रीकण्ठाचार्यमतानुसारिणः सिद्धान्तिनश्च विप्रतिपत्त्या सं. शये सति, सिद्धान्तमतानुसारिणो वादिनः प्रथमा कक्ष्या- - ७ मासाग्निहोत्रं नैयमिकामिहोत्रान्न भिद्यते, विधिवाक्यश्रु- ताग्निहोत्रनामकत्वात्-- यद्विधिवाक्यश्रुताग्निहोत्रनामक न तन्नैयामिकाग्निहोत्राद्भिद्यते, यथा यवाग्वाग्निहोत्रं जुहोति इति श्रुतं यवागूगुणकमग्निहोत्रम् । अत्र वैश्वानरविद्याङ्ग- भूते प्राणाहुतिकर्मणि ‘स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्ताहक् तत्स्यात्' इत्य- र्धवादश्रुताग्निहोत्रनामके व्यभिचारवारणार्थ विधिवाक्य. श्रुतेति हेतुविशेषणम् । तथा च विधिवाक्यश्रुतत्वविशिष्टं यदग्निहोत्रनाम तद्विषयत्वादिति हेतोरर्थः । तेन अर्थवाद- श्रुतं यदग्निहोबनाम तदेव विधिवाक्येष्वपि श्रुतमिति तदु- पलक्षितत्वमादाय व्यभिचारतादवस्थ्यमिति शङ्काया नाव- काशः । यद्वा अग्निहोत्रनामसमानाधिकरणविध्युद्देशश्रुतजु- होतिविषयत्वादिति हेतुः । न च आधानाङ्गे तूष्णींहोमे पुनराधानाङ्गसप्तवतीहोमे प्रवाङ्गधर्मशेषहोमे च व्यभि. चारः, तेषां ततस्तूष्णीमग्निहोत्रं जुहोति' 'सप्त ते अग्ने समिधः सप्त जिह्वा इत्यग्निहोत्रं जुहोति' 'एतस्मादेव धर्मशेषादुपयमनेनाग्निहोत्रं जुहोति' इति विधिवाक्यता- - क वादनक्षत्रमाला । ग्निहोत्रनामकत्वात् , तत्समानाधिकरणविधिवाक्यश्रुतजुहो- तिधातुविषयत्वाञ्चेति वाच्यम । तेष्वपि उक्तसाध्याभ्युपगमेन तेषां पक्षसमत्वादिति ।। : : - ७ अथ प्रतिवादिनः द्वितीया कक्ष्या- विपक्षबाधकतर्काभावात् अप्रयोजकोऽयं हेतु: नोक्तसा- ध्यसाधनक्षमः; 'प्रायणीयोऽतिरात्रः' इति द्वादशाहिके प्रथमेऽहनि श्रुतस्य प्रायणीयनान्नः गावामयनिके च प्रथमे. ऽहनि वैश्वानरो ज्योतिष्टोमः प्रायणीयमेतदहर्भवति ज्योति- रेव पुरस्तादधते' इति श्रवणेन नामाभेदे सत्यपि कर्मभेद- स्याभ्युपगततया नामैक्यस्य तदैक्याप्रयोजकत्वात् । तस्मा- न्मासामिहोत्रं नैयमिकाग्निहोत्राद्भिद्यते, नैयमिकाग्निहोत्र- होमविध्यसंनिहितानेकाविषयकस्वाभिधेयानङ्गनामार्थसंक्रा- न्तिरहितविधिपरजुहोतिविषयत्वात्- यदुक्तसाधनवत् तदु- क्तसाध्यवत, सप्तवत्या पूर्णाहुतिं जुहोति' इति विहितं पूर्णाहुतिकर्म । तत्र यवागूगुणकाग्निहोत्रहोमे नैय- मिकाग्निहोत्रप्रकरणपठितयवागू गुणविधिपरजुहोतिविषये व्य- भिचारवारणार्थ नैयमिकाग्निहोत्रहोमविध्यसंनिहतेति विशे- षणम् । नैयमिकाग्निहोत्रहोमः स्वविध्यसंनिहितस्य आ- हवनीयाख्यगुणविधिपरस्य ‘यदाहवनीये जुहोति' इत्य- यथा पूर्वोत्तरमीमांसा- नारभ्याधीतवाक्यश्रुतस्य जुहोतेविषयो भवन् न स्वस्मा- द्भिद्यत इति तत्र व्यभिचारवारथिम् अनेकाविषयके- ति । आहवनीयवाक्यानुगतो जुहोतिधातुः नानाप्रक- रणपठिताननारभ्याधीतांश्च सर्वानपि होमान् आहवनी- यगुणविधानार्थमनुवदति-----इत्यनेकविषयकत्वात् न व्यभि- चारः । “य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनो- पाप्नोति तावदुपाप्नोति'- इत्यर्थवादे श्रुतस्य नैयमिकाग्नि- होत्रहोमविध्यसंनिहितस्य होमान्तराविषयस्य जुहोतेविषयो भवति नैयमिकाग्निहोत्रम् ; अतस्तत्र पुनरपि व्यभिचारः स्यात् ; तद्वारणार्थ विधिपरेति विशेषणम् । न च अर्थवाद. स्थजुहोतेरपि विधौ तात्पर्यमस्ति, अर्थवादानां यत्किचिदि. ध्येकवाक्यतां विना प्रामाण्याभावादिति शङ्कथम् ; विधिपर- शब्देन स्तुतिद्वारानपेक्षविध्यर्थत्वस्य विवक्षितत्वात् । 'अमा- वास्यायां रात्रौ स्वयं यजमानो यवाग्वाग्निहोत्रं जुहोति' इत्यु- क्तरूपजुहोतिविषये नैयामिकाग्निहोवे व्यभिचारवारणाय स्वाभिधेयानङ्गसंक्रान्तिरहितेति विधिविशेषणम् । तेन भवति व्यभिचारनिरासः ; तस्मिन्वाक्ये श्रुतस्य विधेरग्निहोत्रहो. मानङ्गामावस्यार्थदधिप्रयुक्तयवागूसंक्रान्तत्वात् । एवं सति हेतोः स्वरूपासिद्धिः स्यात् , मासाग्निहोत्रविधेः जुहोत्याभि- .

वादनक्षत्रमाला । धेयानङ्गतत्करणकाख्यातार्थभावनासंक्रान्तिसत्त्वादिति । त- द्वारणाय नामार्थविशेषणम् । नामार्थत्वमिह नाममात्रसमर्पित- त्वं विवक्षितम् । अतो जुहोत्यभिधेयो होमः स्वस्य स्वयमनङ्गम् अग्निहोत्रनामार्थश्च भवतीति विधेस्तत्रापि संक्रान्तिसत्त्वात् स्वरूपासिद्धितादवस्थ्यमिति शङ्काया नावकाशः । तथा च नैमिकाग्निहोत्रहोमविध्यसनिहितानेकाविषयकस्वाभिधेया- नङ्गनाममालसमर्पितार्थसंक्रान्तिरहितविधानविषयकस्तुतिद्वा- रानपेक्षोपयोगवज्जुहोतिधातुविषयत्वात्--- इति हेत्वर्थनिष्क- र्षः । यद्युच्येत---यवागूविधिः नातचनार्थः, किंतु 'नास्यैतां रात्रि कुमारा अपि पयमो लभन्ते' इत्यस्य दृष्टार्थत्वला- भाय सर्वस्यापि यजमानगवीनां पयसो दार्शिकदध्यर्थ- त्वेन विनियोक्तव्यत्वात् , अग्निहोत्रस्य पयोऽभावेन दधित- ण्डुलयवाग्वादियत्किचिद्विकल्पितद्रव्यान्तरग्रहणे प्राप्ने, यवा- गूनियमार्थः 'यवाग्वैतां रात्रिमग्निहोत्रं जुहोति' इति — आ- दिष्टं वा इदं देवतायै हविर्गृहीतं भवति यत्पयः यद्धि पयसा जुहुयाद्यथान्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै जुहुयादेवं ह तं समदं कुर्यात् तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति' इति शतपथब्राह्मणे दर्शनात् । गृहमेधीयेष्टौ आतञ्चनाभा- वेऽपि सर्वासां दुग्धे सायं चरुम्' इति सर्वस्य यजमान- ७ N .

पूर्वोत्तरमीमांसा- " गवीनां पयसो गृहमेधीये विनियुक्ततया अग्निहोत्रस्य पयो- ऽभावेनैव यवाग्वैतो रात्रिमग्निहोत्रं जुहोति' इति शतपथ- ब्राह्मण एव विधानाञ्च । तथा च उदाहृतयवागूविधिविषये व्यभिचारतादवस्थ्यमिति--तदा, नैयमिकाग्निहोत्रप्रकरणा- नाम्नातविधिगोचरत्वादिति हेतुः कार्य: । आबनीयादिवा- क्येषु विधेर्गुणसंक्रान्तत्वान्न व्यभिचारः । एवमपि अश्व- मेधसंकल्पानन्तरं दक्षिणीयायाः प्राग्रात्रौ वाग्यमं विधाय श्रुते 'वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोति' इति प्रातरग्नि- होत्रस्य रात्रावुषःकाले अपकर्षविधौ व्यभिचार: स्यात्, कालस्य गुणस्यापि अनुपादेयस्य विधानायोगेन कालमुहि- श्य होमस्य विधेयत्वादिति । तदा नैयमिकाग्निहोत्रप्रकरणाना- नातहोमानुष्ठापकविधिगोचरत्वादिति बा, उभयसिद्धनैयमि. कानिहोत्रविषयविधिभिन्नविधिगोचरत्वादिति वा हेतुष्टव्यः । अपकर्षार्थविधेः होमानुष्ठानार्थत्वाभावात् आधहेतोर्न व्याभि- चारः । द्वितीयहेतौ संदिग्धसिद्धिवारणार्थम् उभयसिद्ध-- इति विशेषणम् । यद्वा स्वाभिधेयाननेति विशेषणरहित: पूर्वहेतुरस्तु । तेन विशिष्टव्यतिरेकप्रयुक्तोद्भावितव्यभिचार- शङ्काया नावकाश: । प्राक् त्विदं दत्वा इदं देयमिति मते, विशिष्टव्यतिरेको भिन्न इति मते च वैयर्य नास्तीति यवा- - वादनक्षत्रमाला । स्वा: शतपथब्राह्मणसिद्धहोमाङ्गत्वपक्षप्रसजनावकाशला- भाय तद्विशेषणमुक्तम् । अवापि अपकर्षविधौ व्यभिचारः समान इति अनुपदोक्तायेव हेतू प्रायौ । १ 3 , अथ वादिनः तृतीया कक्ष्या- यदुक्तं मदीयो हेतुरप्रयोजक इति, तत् तावत् दुरुक्तम् , मासाग्निहोत्रस्य नैयमिकाग्निहोत्रात् भेदे तद्विधिवाक्यश्नुता- ग्निहोत्रनामस्वारस्यभङ्गप्रसङ्गस्य विपक्षबाधकस्य सत्त्वात् । तथाहि--तस्य नैयमिकाग्निहोत्रात् भेदाभ्युपगमे, तस्मिन् अ- मिहोन्नशब्दस्य मुख्यवृत्तिरिष्यते अमुख्या वा, आधेऽपि अग्नये हो- होमद्रव्यम् अस्मिन् इति प्रतीतयोगरूपा, बाक्यप्रतीति- कल्प्या रूढिरूपा वा, नाद्यः, यथा नैयमिकाग्निहोत्रे यदग्नये च प्रजापतये च सायं जुहोति' इति तत्प्रकरणा- नातेन देवताविधिना 'अग्निज्योतिः' इति मन्त्रवर्णेन वा अग्निदेवत्यत्वमवगतम्---- एवं मासाग्निहोत्रे केनचिदुपायेन तस्थानवगतत्वात् । न द्वितीयः, 'अन्याय्यश्चानेकार्थः' इति न्यायविरुद्धानेकार्थत्वकल्पनस्य अयुक्तत्वात् । न च अग्नि- देवत्यत्वाभावेऽपि प्रातरग्निहोत्रे प्राणाहुतिकर्मणि च प्रवृत्त- तस्य अनेकार्थत्वकल्पनम् अवर्जनीयमिति वाच्यम् , 'अग्निहोत्रं जुहोति' इति वाक्योत्पन्नस्य एकस्यैव नैयमि- 6 ८ पूर्वोत्तरमीमांसा- काग्निहोत्रहोमस्य ‘सायं जुहोति' प्रातर्जुहोति' इति तत्प्रकरणानातवाक्याभ्यां सायंप्रात:कालयोरभ्यासस्य चो- दितत्वेन सायंहोमाभिन्ने प्रातहोंमेऽपि अग्निदेवत्यत्व- संभवात् ; प्राणाहुतिषु आर्थवादिकस्य अग्रिहोत्रशब्दस्य अन्यदीयनाम्न एव सत:- दर्शपूर्णमासयोरपामुत्सेके ' एष वै दर्शपूर्णमासयोरवभृथः' इत्यत्र अवभृथशब्दस्येव, प्रस्तरा- दिषु यजमानशब्दस्येव च औपचारिकत्वेन तासु वृत्यर्थ शक्तिकल्पनानपेक्षणात् । द्वितीयपक्षे अमुख्या वृत्तिः ल- क्षणा गौणी वा, नाद्यः, तन्मुख्यार्थभूतनैयमिकामि- होत्रसंबन्धानवगमात् । सत्रमध्ये कर्तव्यस्य मासाग्नि- होत्रस्य न ददाति' न जुहोति' 'न पचति' इति सोमप्रयोगमध्ये पर्युदस्तेन तेन एककालत्वसंबन्ध- स्याप्यभावात् । गौण्यपि प्रसिद्धसादृश्यमूला न संभवति, मासामिहोत्रे तेन सह होमान्तरव्यावृत्तस्य अनत्यन्त- बहिरङ्गस्य कस्यचित्सादृश्यस्य अप्रसिद्धत्वात् । तस्मात् लक्षणातो जघन्यत्वेन मीमांसकैरभ्युपगतासु गौणवृत्तिध्वपि कल्प्यसादृश्यमूलत्वेन अतिक्लिष्टगौणवृत्तिरभ्युपगन्तव्या । न च नैयमिकाग्निहोत्राभेदाङ्गीकारेण मुख्यवृत्तिसमर्थनसंभवे तदभ्युपगमो युक्तः । प्रायणीयनानस्तु यथा प्रयन्ति प्रार. ७ .

वादनक्षत्रमाला। भन्ते अनेन-- इति व्युत्पत्त्या द्वादशाहिके प्रथमेऽहनि वृत्तिः, तथा गावामयनिकेऽपि वृत्तिरुपपद्यते इत्यतिक्लिष्ट- वृत्त्यन्तरकल्पनादोषाभावात् तस्य तस्माद्भेद इध्यते । तस्मिन् प्रथमश्रुतस्य ज्योतिष्टोमनाम्नः प्रवृत्तिनिमित्तस्या- बलप्रत्वान अतिष्टिकल्प्यसादृश्यमूलकगीणवृत्तिकल्पनादो- षपरिहाराय ‘ज्योतिरेव पुरस्तात् दधते' इति ज्योतिष्टोम- प्राथम्यप्रतिपादकवाक्यशेषसामञ्जस्याय च तस्य ज्योतिष्टो- मरूपप्रकृत्यतिरानात् भेद एव इष्यते । तस्मात् मदीयहोतो- रक्तसाध्यानङ्गीकार अग्निहोत्रनामस्वारस्यभङ्गप्रसङ्ग इति वि. पक्षबाधकसत्त्वात् नाप्रयोजकत्वशङ्कावकाशः । त्वदीयहेतुस्तु उपन्यस्तप्रतिकूलतर्कपराहतत्वात् न साध्यसाधनक्षम इति ॥ अथ प्रतिवादिन: चतुर्थी कक्ष्या- प्रकरणान्तरेण मासाग्निहोत्रवाक्यश्रुतप्रधानभूतधात्वर्थे नै- यमिकामिहोत्रहोमाद्भिन्नतया प्रतीयमाने, तदुपसर्जनीभूत- तन्नाम न तदभेदप्रत्यभिज्ञानं जनयितुं क्षमते । तस्मात् नैयमिकामिहोने प्रथम गृहीतशक्तिकेन नाना तदुपस्थितेरव- श्यंभाचे, तस्य नाम्नः प्रधानभूतधात्वर्थे नैयमिकामिहोन्नाद्भि- ने वृत्तेरवश्य वक्तव्यत्वेन तत्र प्रवृत्तिनिमित्तस्याक्लुपतया मुख्यवृत्त्यसंभवात्-'सिंहो देवदत्तः' इत्यत्र प्रधानभूतविशे- w- । - पूर्वोत्तरमीमांसा- tarna ध्यपदस्वारस्यानुरोधात् सिंहशब्दस्येव गौणवृत्तेरेव कल्पनी- यत्वेन सा तदुपस्थिति: गौणवृत्तिमुखभूतसादृश्यप्रतियोग्युप- स्थितित्वेन उपयुज्यते---इत्येवाङ्गीकर्तव्यम् । तत्र यदुक्तं साध्य- सादृश्यमूला गौण्यतिक्कुिष्टेति, तन्न, इह सिद्धसादृश्यमूलक- गौणवृत्त्यपेक्षया तस्या एव ज्यायस्त्वात् । तथा हि- आद्यपक्षे यथासिद्धसादृश्यानुवादकत्वमात्र सिध्येत् , न तु कश्चिदनुष्ठाने विशेषो लभ्यते । द्वितीयपक्षे तु मासा. मिहोत्रहोमस्य अनुपदिष्टेतिकर्तव्यताकस्य नैयमिकाग्निहो- त्रवत्कर्तव्यतापरेण नाना नैयमिकाग्निहोत्रधर्मातिदेशकेन आ- काङ्कितेतिकर्तव्यतालाभात् अनुष्ठान विशेषो लभ्यते इति अन्यदीयनानोऽन्यत्र प्रवर्तनं साफल्यमश्नुते । तस्मात् सा- ध्यसादृश्यमूलकगौणप्रसङ्गस्य इष्टापादनरूपत्वात् त्वदीय. हेतोरप्रयोजकत्वतादवस्थ्यम् , मदीयहेतोश्च न प्रतिकूल- तर्कपराहतिरिति ।। अथ वादिनः पञ्चमी कक्ष्या- अप्रसिद्धार्थस्य नाम्नो राजसूयनामवत आख्यातपरतन्त्र- त्वेऽपि प्रसिद्धार्थ नाम न आख्यातपरतन्त्रम् । किं तदेव नामपरतन्त्रम् , दर्शपूर्णमासफलवाक्ये तथा दर्शनात् । तथा हि-यदामेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चा- वादनक्षत्रमाला। . . च्युतो भवति' ' अग्नीषोमीयमेकादशकपालं पूर्णमासे प्राय. च्छत् ' उपाशुयाजमन्तरा यजति' 'ऐन्द्रं दध्यमावास्याया- म्' 'ऐन्द्रं पयोऽमावास्यायाम्' इति पौर्णमास्यमावास्याका- लयुक्तविधिविहितानाम् आग्नेयादीनां षण्णां यागानाम , ' स- मिधो यजति' तनूनपातं यजति' इति अकालयुक्तविधि- विहितानां प्रयाजादियागानां च संनिधावानाते 'दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत' इति वाक्ये श्रुतेन यजिना फलसंबन्धयोधनार्थ संनिहितयागाननुवदता संनिहितत्वावि- शेषात् आग्नेयादीनामिव प्रयाजादीनामपि अनुवादे प्राप्ते, पौर्णमास्यमावास्याकालसंबन्धिनि आग्नेयादियागषट्के एव लक्षणया वर्तमानदर्शपूर्णमासनामधेयमनुरुद्धय तस्मिन्नेव यागषटके यजिर्वर्तते- इति प्रसिद्धार्थनामपरतन्त्रत्वम् आख्यातस्य अङ्गीकृतम् । तद्वदिहापि अङ्गीकर्तुं युक्तम् तस्मादिह नानो मुख्यार्थग्रहणे बाधकाभावात् अबाधित- मुख्यार्थस्वारस्यभङ्गप्रसङ्गो दोष: स्यादेवेति मदीयहेतु: ना. प्रयोजक:, त्वदीयश्च हेतुः प्रतिकूलतर्कपराहत इति ।। . . अथ प्रतिवादिनः षष्ठी कक्ष्या- सर्वत्र गुणभूतं नामैव आख्यातपरतन्त्रम् । न क्वचिदपि आख्यातं नामपरतन्त्रम् । नाम्नश्च आख्यातपारतन्त्र्यम् आ.

पूर्वोत्तरमीमांसा- ख्यातानुपस्थाप्यार्थासंस्पर्शेन आख्यातोपस्थापिते एव अर्थे व- तनम् । तदर्शपूर्णमासनानोरपि अविकलम् ; न हि तदुपस्थाप्या- नां षण्णां यागानां मध्ये कश्चिदपि आख्यातानुपस्थाप्योऽस्ति, येन तमर्थ स्वयमुपस्थाप्य तत्व आख्यातमपि वर्तयतीति नान्नः स्वातन्त्र्यं भवेत् । तस्मात् नानः सर्वत्र आख्यातपारतन्त्र्यान- पायात् इहापि प्रकरणभेदनियमितहोमान्तरतात्पर्यकाख्यात- परतन्त्रस्य नाम्नो मुख्यार्थग्रहणे बाधकसत्त्वात् मुख्यार्थ- स्वारस्यभङ्गो न दोष इति त्वद्धतुरप्रयोजकः, मद्धेतुश्च न प्रतिकूलतर्कपराहत इति ।। अथ वादिन: सप्तमी कक्ष्या- नाम्नः स्वयं कंचिदथै धात्वनुपस्थापनीयमुपस्थाप्य तत्र धातोर्वर्तनं यथा स्वातन्त्र्यम् , तथा धातूपस्थापनीयानां मध्ये केचिदेव स्वशक्तिवलेन संकोचनमपि स्वातन्त्र्यमेव । तद्वदिह नाम्नः स्वशक्तिबलात् आख्यातस्वारस्यानुपस्थाप- नीयेऽर्थे तद्वर्तनरूपमपि स्वातन्त्र्यमस्तु । न हि आख्यातप- रतन्त्रत्वेनाभ्युपगतस्य नाम्नः कचिद्विषये स्वातन्त्र्यं कचित् न-इति अर्धजरतीयमाश्रयितुं युक्तम् । तदाश्रयणे वा वैप- रीत्येन स्वातन्त्र्यं किमिति नाभ्युपगम्येत ? तस्मात् नाम- स्वारस्यभङ्गो न युक्त इति मद्धेतु प्रयोजकः, त्वद्धेतुश्च .

वादनक्षत्रमाला । प्रतिकूलतर्कपराहत इति । अथ प्रतिवादिनः अष्टमी कक्ष्या- व्यावर्तकस्वभावानां विशेषणानां विशेष्यपदे स्वान्वया- नुरोधेन संकुचद्वृत्तित्वापादनं विशेषणतास्वभावसिद्धम् , नीलमुत्पलम्' अरुणया गवा क्रीणाति' इत्यादिलौकिक- वैदिकप्रयोगदृष्टं च-इति न तत् नाम्नः प्रधानभूताख्याते तद्विरुद्धाचरणरूपम् । अत: तावता नाम्नामाख्यातपारत- न्यस्याहानिरिति अत्रापि आख्यातस्वारस्यानुरोधेन नाम- स्वारस्यभङ्गो न दोषः । अत: त्वद्धेतुरप्रयोजकः, मद्धेतुश्च न प्रतिकूलतर्कपराहत इति ॥ अथ वादिनो नवमी कक्ष्या- monam यथा व्यावर्तकस्वभावविशेषणस्य स्वशक्तिबलेन विशेष्य- पढ़संकोचनमविरुद्धम् , एवं नाम्नः स्वशक्तिबलानीतेऽर्थे आख्यातस्य वर्तनमप्यविरुद्धमेव । न हि नैयमिकाग्निहोत्र. विधिसंनिधिर्नास्ति इत्येतावता मासाग्निहोत्सवाक्यस्थमाख्यातं तद्भिन्नत्वेन होममुपस्थापयतीति वक्तुं शक्यम् , तद्भिन्नत्वे शक्त्यभावात् । किंतु नैयमिकाग्निहोत्वसंनिध्यभावात् तदभि. नत्वेन नोपस्थापयतीति एतद्वक्तुं शक्यम् । तथा च आख्या- पूर्वोत्तरमीमांसा- तस्य भेदाभेदयोरौदासीन्ये सति, आख्यातसमानाधिकरणेन नाम्ना स्वशक्तिबलादाख्याते नैयमिकाग्निहोत्रवर्तित्वापादनम- विरुद्धम् । आख्यातस्यापि कांस्यभोजिन्यायेन नामानुवर्तनं न्याय्यम् । अत: नामस्वारस्यभङ्गो दोष इति मद्धेतु प्रयो- जकः, त्वद्धेतुश्च प्रतिकूलतर्कपराहत इति ।। अथ दशमी कक्ष्या- , . यदुक्तम्-इहाख्यातं भेदाभेदयोरुदासीनमिति, तदयु- क्तम् , तस्य भेदपक्षपातित्वात् । तथा हि इहाख्यातस्य नैयमिकाग्निहोत्रविषयत्वे, तस्य परामर्शः तदनुवादेन गुण. विधानार्थः, तस्यापि विधानार्थो वा स्यात् । नाधः, प्राप्त- कर्मानुवादेन मासोपसदानन्तर्यरूपगुणद्वयविधाने वाक्यभे- दप्रसङ्गात् । न च तेषां द्वादशोपसदः' इति उपसदाम् मालमग्निहोत्रं जुहोति' इति अग्निहोत्रहोमस्य च पाठक्रम- प्राप्तः क्रम: ' उपसद्भिश्चरित्वा' इत्यनेन अनूधते, मासगुण- मानं विधीयते---इति न वाक्यभेदप्रसङ्ग इति वाच्यम् , अङ्गाङ्गिभावादिना एकप्रयोगान्तर्गतौ सत्यां हि अनुष्ठाना- यापेक्षित: क्रमः पाठक्रमेण कल्प्यते । न च पुरुषार्थस्याग्नि- होत्रस्य त्वर्थानामुपसदां च अङ्गाङ्गिभावादिकमस्ति । अत्रैव उपसदामग्रिहोत्राजत्वस्य अग्निहोत्रस्योपसदङ्गत्वस्य वादनक्षत्रमाला। वा विधाने, तस्य मासगुणस्य च विधाने वाक्यभेदप्र- सङ्गः । तस्मादनुवादपक्षस्यायुक्तत्वात् विधिपक्ष एवाश्रय- णीयः । न च विहितस्य पुनविधानं संभवति-इत्याख्यात विधियोग्यं होमान्तरमेवोपस्थापयेत् । अतो नाम्नः तत्पर- तन्त्रस्य तद्विरुद्धार्थसमर्पकत्वायोगात् तस्य मुख्यार्थस्वारस्व- भङ्गो न दोष इति अप्रयोजकस्त्वद्धेतुः, मद्धेतुश्च न प्रति- कूलतर्कपराहत इति ॥ -- , अथ वादिन एकादशी कक्ष्या--- विधिपक्ष एवाश्रीयते । विहितस्यापि विधानं सत्राङ्ग- त्वसिद्धयर्थ युक्तम् ; सति हि सत्रप्रकरणमध्ये विधाने तस्य सन्नाङ्गत्वं सिध्यति-- यथा दर्शपूर्णमासप्रकरणे विहितानां प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम् । दृष्टं च प्राप्तस्यापि पुन- विधानं प्रयोजनान्तरार्थम् ‘चित्रिणीरुपदधाति' 'वभिणी- रुपदधाति' इत्यादी। तथाहि-'इष्टकाभिरग्निं चिनुते' इति विधिना इष्टकानामग्न्याधारस्थण्डिलविशेषनिवर्तकत्वमवग- तम् । न च अनुपहिताभिरिष्टकाभिः स्थण्डिलं निर्वर्तयितुं शक्यते-- इति सर्वासामिष्टकानामुपधानमर्थतः प्राप्तमेव । तथापि 'चित्रिणीरुपदधाति' इत्यादिविधिभिः कासांचिदि- टकानां प्रत्यक्षवचनेनोपधानं विधीयते । तत् तासां मध्यम- . .

पूर्वोत्तरमीमांसा- -- . , चितिप्राप्तिरूपप्रयोजनान्तरार्थम् । एवं हि श्रूयते--- यां वै कांचिद्भाह्मणवतीमिष्ट कामभिजानीयात्तां मध्यमायां चिता- वुपदध्यात्' इति । अत्र अभिपूर्वो जानातिः प्रत्यक्षे वर्तते तथा च यामिष्टका प्रत्यक्षब्राह्मणविहितां पश्येत् , तामग्नेः पञ्चसु चितिषु मध्यमचितावेव उपध्यात् न चित्यन्तरे- इति तस्यार्थः । एवं च वञिणीरुपदधाति' इत्यादिप्रत्यक्ष- ब्राह्मणविधानेन वज्रिण्यादीष्टकानामनियमेन यस्यां कस्यां- चिञ्चितौ उपधेयत्वेन प्राप्तानां मध्यमचितावेव उपधेया:- इति नियमरूपप्रयोजनान्तरार्थ प्राप्तोपधानपुनर्विधानम् । तद्वदिह विहितस्यापि नैयमिकाग्निहोत्रम्य पुनर्विधानमङ्गत्व- रूपप्रयोजनान्तरार्थ भवेत् । तस्मात् नामाख्यातयोविरोधा- भावात् नाम्नो मुख्यार्थभङ्गप्रसङ्गो दोष एवेति न मद्धेतुर- प्रयोजकः, त्वद्धेतुश्च प्रतिकूलतर्कपराहत इति ॥ अथ द्वादशी प्रतिवादिनः कक्ष्या- नैयमिकाग्निहोत्रस्य स्वतन्त्रस्य क्रत्वर्थत्वलाभाथै पुनर्वि- धानमिति न युज्यते, एकस्य स्वातन्त्र्यपारतन्त्र्ययोः वि- रोधात् । न हि स्वातन्त्र्येण पुरुषार्थसाधने शक्तः तत्सा- धनार्थमन्याङ्गभावं भजते इति युक्तम् । तस्मान्मासाग्नि हो- त्रवाक्येन विधेयः सत्राङ्गभूतो होम: कर्मान्तरमिति नामा- ..

वादनक्षत्रमाला। - " ख्यातयोविरोधात् आख्यातपरतन्त्रस्य नानो मुख्यार्थत्व- भको न दोष इति त्वद्धेतुरप्रयोजकः, मद्धेतुश्च न प्रतिकूल- तर्कपराहत इति ॥ अथ वादिनः त्रयोदशी कक्ष्या- किंचित्फलसाधने स्वयं प्रधानभूतस्यापि फलान्तरसाधने अन्याङ्गतायां न तावदर्थविरोधः, फलभेदेनोभयोपपत्तेरमा- त्यादिषु दृष्टत्वात् । नापि तदुभयबोधकशब्दविरोधः, एक- स्यैव वाक्यस्य अङ्गत्वप्रधानत्वोभयबोधकत्वे हि विरोध: स्यात् । इह च नैयमिकाग्निहोत्रप्रकरणपठितवाक्येन प्राधा- न्यम् ; सनप्रकरणपठितेनाङ्गत्वमिति विनियोजकवाक्यभे- दात् न शब्दविरोधोऽपि । तस्मात् नामाख्यातयोविरोधा- भावात् नानो मुख्यार्थभङ्गो दोष एवेति न मद्धेतुरप्रयो- जकः, त्वद्धेतुश्च प्रतिकूलतर्कपराहत इति ।। अथ प्रतिवादिनश्चतुर्दशी कक्ष्या- यद्वैदिकं कर्म प्रधानम् , न तदन्यस्य कर्मणोऽङ्गम्- इत्यव्यभिचरितसहचारदर्शनेन नियमोऽवधृतः । न चेत्थम- वधृतस्य नियमस्य बाधनं युक्तम् । अतः सत्रातया विधे- यहोमो नैयमिकाग्निहोत्राद्भिन्न इति नामाख्यातयोर्विरोधात् नाम्नो मुख्यार्थभङ्गो न दोष इति त्वद्धतुरप्रयोजकः, मद्धे- " *V.2 पूर्वोत्तरमीमांसा- Enama , तुश्च न प्रतिकूलतर्कपराहत इति ॥ अथ वादिनः पञ्चदशी कक्ष्या- यत्प्रधानं न तत्कर्मान्तरालम्- इति नायं नियमो- ऽस्ति, प्रस्तरप्रहरणे व्यभिचारात् । तथा हि- दर्शपूर्ण- मासप्रकरणे · सूक्तवाकेन प्रस्तरं प्रहरति' इति श्रूयते प्रस्त- रप्रहरणरूपं कर्म । तस्य प्रकरणानानसिद्धं दर्शपूर्णमासा- ङ्गत्वं तावनिर्विवादम् । आयुरादिफलसाधनत्वरूपं प्राधा- न्यमप्यस्ति । तत्करणत्वेन श्रुते हि सूक्तवाकमन्ने फलान्या- युरादीनि संकीर्त्यन्ते । मन्त्रस्य च क्रियाकरणत्वं तदनुष्ठा- नोपयोगितत्स्मरणसंपादनद्वारा । न च आयुरादिकीर्तनस्य साक्षात्प्रहरणादिक्रियास्मरणहेतुत्वमस्ति । अत: कीर्त्यमाना- नामायुरादीनां तया क्रियया संबन्ध: कल्पनीयः । तथा सति हि क्रियासंबन्धिकीर्तनस्य संबन्धिस्मरणद्वारा क्रिया- स्मारकत्वमुपपन्नं भवति । संबन्धश्च आशास्यमानानामायुरा- दीनां क्रियया सह कल्प्यमानो योग्यतया फलफलिभाव- रूप एव पर्यवस्यति । अत: श्रुतकृत्स्नसूक्तवाकमन्त्रकरणक- त्वान्यथानुपपत्तिसिद्धम् आयुरादिफलसाधनत्वरूपं प्राधा- न्यमवश्यमभ्युपगन्तव्यमिति सुस्थो व्यभिचारः ।। अथ प्रतिवादिनः षोडशी कक्ष्या- - वादनक्षत्रमाला । यथा यत्प्रधानं न तत्कर्मान्तराङ्गम् - इति नियमे प्राधान्य फलसाधनत्वमात्ररूपं न विवक्षितम् । किंतु यत्कर्म प्रति अङ्ग. त्वमिष्यते, तत्प्रयोगाद्वहिरनुष्ठानन फलसाधनत्वम् । न चैतत् प्रस्तरप्रहरणे अस्ति । तस्य दर्शपूर्णमासप्रयोगाद्वहिरनुष्ठाने निष्फलत्वात् । तस्मात् नास्त्युक्तव्याप्तौ व्यभिचार इति ।। अथ वादिनः सप्तदशी कक्ष्या- नेयं व्याप्तिरस्ति, विपक्षे बाधकतर्काभावात् राजसूयान्तर्गताया एव अवेष्टेः पवित्रादिक्षत्रस्यधृत्यन्ता- नेकयागान्तरसाहित्येन स्वाराज्यफलसाधनत्वेऽपि एतया अन्नाद्यकामं याजयेत्' इति विधिबलेन फलान्तरसाधन- त्वम् , एवं सत्राङ्गतया तहारा सबफलोपयोगिनोऽपि अग्नि- होत्रहोमस्य सत्रप्रयोगाद्वहिरनुष्ठीयमानस्य स्वतन्त्रफलसा- धनत्वोपपत्तेः । यदि च एतया' इति संनिहितपरामर्शि- सर्वनामबलात् राजसूयप्रकरणानाताया एव अवेष्टेः स्वात- त्र्येण फलान्तरसाधनत्वमपि इष्यते ; तर्हि स्वतन्त्रफलसा- धनस्यैवाग्निहोत्रस्य तत्परामर्शकाग्निहोत्रनामबलात् सत्राङ्ग- विशेषाभावादिति ॥ अथ प्रतिवादिनोऽष्टादशी कक्ष्या- उक्तव्याप्ती असिद्धो विपक्षबाधकतर्काभावः । प्रकरणा- . त्वमपि इध्यताम् , nama पूर्वोत्तरमीमांसा- न्तरे स्वतन्त्रफलसाधकतया विहितस्य अन्यस्मिन्प्रकरणे कर्मान्तराङ्गत्वेन विध्यङ्गीकारे वाक्यभेदप्रसङ्गस्य विपक्षबा- धकस्य जागरूकत्वात् । मासाग्निहोत्रवाक्यं नैयमिकाग्निहो- त्रस्यैव सत्रे विधानं करोति-इत्यभ्युपगमे असंनिहितनै- यमिकाग्निहोत्रप्रत्यभिज्ञापनम् , प्रत्यभिज्ञापितस्य सन्ने विधान -इत्युभयमप्यत्र वचनेन संपादनीयम् । एकं चात्र वचनम् । न चैकं वचनं पापारद्वयाविष्टं भवितुमर्हति । न च प्रत्यभिज्ञापनं पदमात्रकृत्यम् , विधानं वाक्यकृत्यमिति अवाक्यभेदः शङ्कनीयः, पदं हि स्वशक्त्या नैयमिकाग्निहोत्रं धात्वर्थे तदभेदं प्रत्यभिज्ञापयति ; 'पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते' इति न्यायात् ; अभेदबोधनं तु अमिहोत्रनामजुहोतिसमभिव्याहारात्मकस्य वाक्यस्य कृत्यमिति स्यादेव वाक्यभेदः । प्रस्तरप्रहरणस्य अ- ङ्गस्य सत: तत्प्रकरणाम्नातेन वाक्येन विधानमात्रं क्रियते, फलसंबन्धबोधनं तु मन्त्रलिङ्गकृत्यमिति न वाक्यभेदप्रसङ्गः । ‘यवाग्वाग्निहोत्रं जुहोति' इत्यत्रापि दध्ना जुहोति' इत्यवेक संनिधिलभ्यं प्रत्यभिज्ञापनम् , न तु नामधेयलभ्यम् । एतया अन्नाद्यकामं याजयेत्' इत्यत्रापि तथैव । एतेन वाक्यान्तर- गतत्वेन बहिरङ्गसंनिधिरपि प्रत्यभिज्ञापकश्चेत् , एकवाक्य- स्मारयति परम् । न ।

वादनक्षत्रमाला । २५ गतत्वेनान्तरजं नाम कथं न प्रत्यभिज्ञापकम् - इति शङ्कापि निरस्ता, संनिधे: प्रत्यभिज्ञापकत्वे तत्कल्पितवाक्यस्य श्रुतवा- क्यतो भिन्नतया तत्र वाक्यभेददोषाप्रसङ्गात् । इह नान्नः प्रत्यभिज्ञापकत्वे नाममावस्य तवासामयेन विधायकवाक्य- स्यैव तत्रापि व्यापारस्य वक्तव्यतया वाक्यभेदस्यावर्जनी- यत्वादिति ॥ waenerana अथ एकोनविंशतितमी वादिन: कक्ष्या- विधिव्यापारभेदेनैव वाक्यभेदो भवति, न तु प्रत्यभि- ज्ञापनविधिव्यापाराभ्याम् । अन्यथा गृहमेधीये आज्य- आगौ यजति' इति विधावपि वाक्य भेदः प्रसज्येत । तथा हि-चातुर्मास्येषु आम्नायते- 'मरुद्भ्यो गृहमेधिभ्य: स- र्वासा दुग्धे सायं घरुम्' इति । तत्संनिधौ आनायते- । आज्यभागौ यजति' इति । गृहमेधीयेष्टौ दर्शपूर्णमास- तोऽतिदेशात्संभवत्प्राप्तिकयोः आज्यभागयोः पुनर्विधानं क्रियते, प्राकृतावाज्यभागावेव यथा स्याताम् , प्राकृ- तानि प्रयाजादीन्यङ्गान्तराणि यथा न म्यु: इत्येत- दर्थम् । तत्र आज्यभागनामोपस्थापितयोः प्राकृतयोरा- ज्यभागयोः प्रत्यभिज्ञापनं तयोर्गृहमेधीये विधानं च एक. स्मिन्वाक्ये अभ्युपगम्यते । तद्वदिहापि स्यात् । न च तेन " २२ पूर्वोत्तरमीमांसा- , . वाक्येन विधानमात्रं क्रियते, न प्रत्यभिज्ञानम् ; 'दर्शपूर्णमा- सबकुर्यात्'--इत्यतिदेशवाक्यरूपेण चोदकेन विपरिवर्तमा- नयोराज्यभागयोः वाक्येन प्रत्यभिज्ञापनस्य अकरणीयत्वात् , इह तु न तथा प्रत्यभिज्ञापकमन्यदस्तीति वाच्यम् । यतः चो- दकात् आज्यभागप्राप्त्यनन्तरम् ‘आज्यभागी यजति' इति वाक्यं न प्रवर्तते, प्राप्तयोर्विधानस्यानपेक्षितत्वेन वाक्यस्य आज्यभागव्यतिरिक्ताङ्गान्तरनिषेधार्थत्वेन परिसंख्यारूपत्व- कल्पनाप्रसङ्गात् । न च इष्टापत्तिः, आज्यभागविधिरूप- स्वार्थत्यागः, प्रयाजादिनिषेधरूपपरार्थपरिग्रहः, चोदकपात- प्रयाजादिबाधश्च- इति प्राप्तपरिसंख्यायां दोषत्रयप्रसङ्गात् । किं तु प्रागेव चोदककल्पनात् गृहमेधीयस्य इतिकर्तव्यता- रूपव्यापारापेक्षा प्रत्यक्षश्रुतक्लप्तोपकाराज्यभागव्यापारसं- योजनया निराकाङ्क्षतापादनेन तदाकाङ्क्षामूलचोदककल्पना- प्रतिबन्धद्वारा गृहमेधीयस्य प्रकृतिराहित्यरूपापूर्वतासिद्धध. र्थम् इदमाज्यभागव्यापारविधानं प्रवर्तते । अत: चोदककृ- तविपरिवृत्यसिद्धेः प्राकृताज्यभागप्रत्यभिज्ञापनमपि ' आज्य- भागौ यजति' इत्यत एव लभ्यम् । अत: तदभावेन अवा- क्यभेदो न समर्थयितुं शक्य:- इति विपक्षबाधकतर्काभा- वात् नोक्ता व्याप्तिरस्तीति ।

वादनक्षत्रमाला। पORIOR , अथ प्रतिवादिनो विंशतितमी कक्ष्या- गृहमेधीयाज्यभागवाक्येन प्रत्यभिज्ञापनमात्रं क्रियते न विधानम् ; विधानं तु प्रकरणकल्प्यवाक्यान्तरकृत्यमिति उप- पद्यते । एवमेव हि वार्तिककृता प्रकरणान्तराधिकरणे गवा- मयनादिगतानि 'ज्योति:' 'आयुः' इत्यादीनि अहःक्लप्ति- वचनानि एकाइक्रतुरूपाणामेव सोमयागानां सत्रैकदेशतया विधानार्थ प्रत्यभिज्ञापकानि, न तु तद्धर्मकर्मान्तरपराणि- इति स्वाभिमतसिद्धान्तं व्यवस्थापयता प्रत्यभिज्ञापनमात्रम् 'ज्योतिगौरायुः' इत्यादिवचनकृत्यम् , सबैकदेशतया फले विधानं 'यं कामं कामयते तमेतेनाप्नोति' इति फलव- चनकृत्यम्-इति अवाक्यभेदः समर्थितः । उक्तं हि बार्तिके- 'एकेन वचनेन पर्युपस्थाप्य अपरेण फले विधीयते' इति । न चैवं मासाग्निहोत्रवाक्येन प्रत्यभिज्ञापनम् , प्रकरणकल्पि- तवाक्येन सत्राणतया विधानमिति शङ्कथम् ; मासश्रुत्यवैय- थाय प्रत्यभिज्ञापकवाक्य एव मासमुद्दिश्य होमविधान- स्यापि अङ्गीकर्तव्यत्वात् । अतः वाक्यभेदप्रसङ्ग इति वि- पक्षबाधकतर्कसत्त्वात् उक्तव्याप्ति: सुदृढेति ।। , अथ वादिन एकविंशतितमी कक्ष्या- गावामयनिकाहःक्लप्तिवाक्यदृष्टान्तमवलम्ध्य गृहमेधी- .

पूर्वोत्तरमीमांसा- N यवाक्येन प्रत्यभिज्ञापनमात्रं क्रियते न विधानम्---इत्य- वाक्यभेद समर्थनमयुक्तम् , तेषु वाक्येषु वार्तिककृता भि- धते भावनामानं धात्वर्थो नायजि श्रुतेः' इति विधेय- भावनाभेदस्य तद्विध्यर्थम् ‘ज्योति: कार्यम्' 'गौः कार्य:' इत्यादिरूपेण भावनाविध्यर्थपदाध्याहारस्य च अङ्गीकृत- तया तेषां प्रत्यभिज्ञापनमात्रं कृत्यमिति वक्तुमशक्यत्वात् । वार्तिककृता तदनन्तरमुदाहृत एव वारुण्या निष्कासेन तुषैश्वावभृथं यन्ति' इति वाक्यान्तरे तुषनिष्कासश्रुत्य- वैयर्थ्याय तदुभयविशिष्टकर्मविधानस्यापि अङ्गीकृतत्वेन तस्य सौमिकावभृथप्रत्यभिज्ञापनमात्रं कृत्यमिति वक्तुमश- क्यत्वाच्च । तस्मात् ज्योतिरादिदृष्टान्तेन गृहमेधीयवाक्यस्य प्रत्यभिज्ञापनमानपरत्वोपपादनेन अवाक्यभेदः समर्थयितुं न शक्यते । किंतु तदृष्टान्तेन प्रत्यभिज्ञापनं विधानं च इत्यु- भयमपि गृहमेधीयवाक्ये अङ्गीकरणीयमिति, तत्र विधान- द्वयाभावेनैव अवाक्यभेदः समर्थनीयः । तद्वत् मासानि- होत्रादिवाक्येष्वपि अवाक्यभेदसमर्थनमुपपद्यते-इति वि- पक्षे बाधकतर्काभावात् त्वदुक्तव्याप्तिः अप्रयोजिकेति ।। , - अथ द्वाविंशतितमी प्रतिवादिनः कक्ष्या- विधेयभेदे सत्येव वाक्यभेद इति परिभाषामात्रम् ; किंतु वादनक्षत्रमाला। .. अर्थभेदमात्रे वाक्यभेदनियमः । “चैत्रो गच्छति' 'मैत्रः पश्यति' इत्यादिषु अविधिपरेष्वपि वाक्येषु भेददर्शनात् । मासाग्निहोत्रवाक्ये प्रत्यभिज्ञाप्यविधेयरूपार्थद्वया- ङ्गीकारे वाक्यभेदप्रसङ्गो न शक्यनिवारण इति दृढो वि. पक्षे बाधकतर्कः । गृहमेधीयवाक्येन तु प्रत्यभिज्ञापनमात्रं क्रियते । विधानं तु प्रकरणकल्प्यवाक्येनेति न वाक्यभेदः प्रसज्यते । न हि तत्र भावनाभेदोऽस्ति, सौर्यादिषु चोदकपा- प्रयोरिष-गृहमेधीये प्रत्यक्षवञ्चनप्राप्तयोरपि आज्यभागयोः तद्भेदस्य अनभ्युपगन्तव्यत्वात् । न वा गुणश्रवणमस्ति । यत्तु ज्योतिरादिदृष्टान्तासिद्धेः तदृष्टान्तेन प्रत्यभिज्ञापनपरतामु- पपाच अवाक्यभेदसमर्थनमशक्यमित्युक्तम , तत् अभिप्रा- यानबबोधविलसितम्- हि गावामयनिकज्योतिरादीनामे- काहज्योतिराद्यभेदो बारुणप्रधासिकावभृथस्य सौमिकाव- भृथामेदश्च बार्तिककाराभिमत इति तदभिमतदृष्टान्तोपा- दानं कृतम् ; बार्तिककृतैव टुप्टीकायाम् ' तथावपृथः सोमात्' इति सामिकाधिकरणे सौमिकावभृथाद्वारुणप्रधासिकावभृ- थस्य भेदम् , 'एकादशिनीवत् त्र्यनीकापरिवृत्तिः स्यात्' इति दाशमिकाधिकरणे ज्योतिराखेकाहक्रतुभ्यो गावामय- निकज्योतिरादीनां भेदं च प्रकरणान्तराधिकरणन्यायसिद्धं . .

पूर्वोत्तरमीमांसा- , सिद्धवत्कृत्य, तेभ्यः तेषु नाना धर्मातिदेशस्य व्यवहृतत्वात् । अभेदे स्वत एव धर्माणां प्राप्त्या अतिदेशानपेक्षणात् । न वा अनुमान इव दृष्टान्तसद्धावायत्तमभिमतार्थसमर्थनमिति प्रकृतार्थसिद्धौ अवश्यापेक्षितदृष्टान्तोपादानं कृतम् , दृष्टा- न्ताभावेऽपि विधेयगुणभावनाश्रवणाभावेनैव प्रत्यभिज्ञापन- मानं गृहमेधीयादिवाक्यकृत्यमिति उपपादयितुं शक्यत्वात् । किंतु यत्र प्रत्यभिज्ञापनमात्रं वाक्यकृत्यमित्यभ्युपगमे अनु- पपत्तिरस्ति, तत्रापि तदभ्युपगमः प्रौढिवादेन कृतो दृश्य- ते; स: यत्रानुपपत्तिर्नास्ति गृहमेधीयादिवाक्ये, तत्र पार- मार्थिकस्य तदभ्युपगमस्य ज्ञापक:- इत्यभिप्रेत्य । कोऽपि विरोध इति ॥ , तस्मान्न अथ वादिन: त्रयोविंशतितमी कक्ष्या- यदुक्तम्-विधानभेदे सत्येव वाक्यभेदः इत्येव नास्ति नियम इति, तन्नियमभजनमनुक्तोपालम्भनम् । न हि तथा मया नियम उक्तः । किंतु यथा विधानभेदे वाक्यभेदो भवति, नैवं विधानप्रत्यभिज्ञाभ्यां संभवति- इत्येतावदु- क्तम् । तत्र नास्ति कश्चन दोषः । न च तत्रापि प्रत्यभिज्ञा- पनं विधानमपीति व्यापारभेदेन वाक्यभेदः शङ्कनीयः, प्रसिद्धाभेदबोधनं हि प्रत्यभिज्ञापनमुच्यते ; न त्वप्रसिद्धाभेद- ܦ वादनक्षत्रमाला। . बोधनम् । ततश्च यथा- पटो भवति' इत्यत्र प्रत्य- क्षादिप्रसिद्धरक्तिमगुणविशिष्टाभेदवति पटे रक्तपदसमा- नाधिकरणेन पटपदेन प्रत्यभिज्ञाप्यमाने तस्मिन् भवन- क्रियासंबन्धमानं वाक्येन बोध्यते, यथा वा- अग्नये दाने पुरोडाशमष्ठाकपालं निर्वपेत्' इत्यभ्युदयेष्टिवाक्ये म- न्त्रवर्णप्रसिद्धदातृत्वगुणविशिष्ठाभेदबत्ति अग्नौ दातृपदसमा- नाधिकरणेनाग्निपदेन प्रत्यभिज्ञाप्यमाने तस्मिन् हविःसंब. न्धमान वाक्येन बोध्यते, तत्र उभयत्रापि प्रत्यभिज्ञानांशे- ऽनुवादरूपत्वात् न वाक्यभेद: तथा अत्रापि नैयमि- काग्निहोत्रप्रकरणगतोत्पत्तिवाक्यादिप्रसिद्धाग्निहोत्रनामविशि- टाभेदवति होमे नामसमानाधिकरणेन धातुना प्रत्यभिज्ञाप्य- माने तस्य विधिसंबन्धमा वाक्येन बोध्यते । अतो नात्र बाक्यभेदशङ्का प्रसरं लभते । न च तथापि गृहमेधीयवा- क्यदृष्टान्तेन प्रत्यभिज्ञापनविधानाभ्यां न वाक्यभेदः प्रस- ज्यते इति समर्थनमनुपपन्नम् , तस्य आज्यभागप्रत्यभिज्ञा- पनमात्रपरत्वोपपत्तेरिति वाच्यम्। विध्यभावे समीहितसाध. नत्वाप्रतीत्या समीहितविशेषाकालाविरहेण अन्योन्याकाला- लक्षणप्रकरणानुत्थित्या आज्यभागयोः तन्मूलकगृहमेधीया- गत्वकल्पनासिद्धिप्रसङ्गात् । एवाहुराचार्या:- अत -:-stani पूर्वोत्तरमीमांसा- -6 , न चाविहितमङ्गं भवति' इति । यत्तु गावामयनिकज्यो- तिरादिष्टान्तासिद्धिवचनम् अभिप्रायानवबोधविलसितमिति वचनम , तदेव बार्तिकग्रन्थानवबोधविलसितम्, वार्तिके हि 'भिद्यते भावनामानं धात्वर्थो नायजिश्रुतेः' इति गावामय- निकज्योतिरादिषु एकाहज्योतिरादिभ्यो वारुणप्रघासिकाव- भृथे सौमिकावभृथाच्च भावनामात्रकृत एव भेदः न धात्व- र्थकृतभेदः-इत्ययमेव पक्ष: पारमार्थिकत्वेनोपन्यस्त: । न तत्न प्रौढिवादाश्रयणं युक्तम् । दशमसप्तमाधिकरणयोरतिदेश- वचनं तु भावनाभेदादुपपद्यते । अपूर्वभावनया खलु इतिक- तव्यतान्वय: न धात्वर्थेन । एवमेव मासाग्निहोत्रदर्शपूर्णमा- सादिषु नैयमिकाग्निहोत्रदर्शपूर्णमासादिभ्यो धर्मातिदेशसम- र्थनमपि उक्तं क्रियाभिधानं तच्छ्तावन्यत्र विधिप्रदेशः स्यात्' इति साप्तमिकाधिकरणे कृतं भावनामेदादेव । न च अतिदेशवचनस्य भावनाभेदेनोपपत्तावपि धात्वर्थाभेदे अग्निहोत्रादिनाम्नां मासाग्निहोत्रादिषु गौणत्वोक्ते: नोपपत्तिः, नाम्नां धात्वर्थगोचरत्वादिति शङ्कथम् ; नित्याग्निहोत्रादि- विव मासाग्निहोत्रादिषु प्राकरणिकदेवताभिधानादिभि: अ- ग्निहोत्रादिनाम्नां प्रवृत्तिनिमित्ताभिव्यक्तिर्नास्ति, किंतु नैय- मिकाग्निहोत्राद्यभेदानुसंधानेन तद्धर्मातिदेशानुसंधानेन च वादनक्षत्रमाला । प्रवृत्तिनिमित्तसत्त्वमवगन्तव्यमिति अस्फुटशक्तिकत्वाभिप्रा. याया गौणत्वोक्तेः भाष्यादिदृष्टाया: गौणत्वात् । प्रत्यक्षा- गुणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्धं स्यात्' इति उक्तं क्रियाभिधानम्' इत्यधिकरणगुणसूत्रेणैव तथा- भिप्रायस्य स्फुटीकरणात् । किंच 'तथावभृथः सोमात्' इति साप्तमिकाधिकरणे वरुणप्रघासेषु विधीयमानोऽवभृथः सोमिकावभृथ एव विवक्षितः, न तु ततोऽन्यः तद्धर्मधर्मकः इति अवभृथशब्दस्य प्रथमान्तत्वेनावसीयते । वारुणप्रघासिके अवभृथनामकर्मणि सौमिकावभृथात् धर्मग्रहणम्-- इत्यर्थ- विवक्षायां हि अवभृथशब्दे पञ्चम्या भाव्यम् । एवमपि तत्राधिकरणे भाष्यादिषु यस्तस्मिन् अवभृथशब्दस्य गौण- त्वव्यवहार:, तस्याभिप्राय: कथंचिदित्थमेव वर्णनीय: । ननु गावामयनिकज्योतिरादीनां वारुणप्रधासिकावभृथस्य च प्र- सिद्धाभेदोऽस्तु नाम यज्यश्रवणात् , इह मासाग्निहोत्रमा- सदर्शपूर्णमासादिषु जुहोतियजतिश्रवणे सति कथमभेदः स्यादिति चेत् न, प्रकरणान्तरगतस्याप्याख्यातस्य धात्वर्थ- भेदादावौदासीन्यस्य व्यवस्थापितत्वेन नाम्ना प्राप्यमाणस्य प्रसिद्धाभेदस्यानिवारणात् । 'भिद्यते भावनामात्रं धात्वर्थों नायजिश्रुतेः' इत्यस्य अयं भाव:- -यजिश्रवणे हि प्रकरणा- " Saman पूर्वोत्तरमीमांसा- 6 . न्तरात् तदर्थभेदः शङ्कयतापि, सोऽप्यत्र नास्ति । अत एव हि प्रकरणान्तराधिकरणवार्तिक एव नाना धात्वर्थमानं च संनिधाप्येत शक्तितः । भावना त्वनुपस्थानाद्भिद्यमाना न वार्यते-सामानाधिकरण्येन हि सर्वाणि नामधेयानि धात्वर्थानां नामधेयत्वेनावस्थितानि न भावनानाम् । तेन भावनान्यत्वानन्यत्वपरीक्षावेलायां सत्यपि धात्वथैकत्वे भा- वना तावत् अनन्यप्रमाणत्वात् आख्यातप्रत्ययान्तरेणानुप- नीयमाना न कथंचित् प्रत्यभिज्ञाप्यते इत्युपपन्नं प्रयोजना- न्यत्वम्' इति श्लोकतव्याख्यानाभ्यां मासाग्निहोत्रादिषु भा- वनाभेदमात्रम् , न धात्वर्थभेदः, नाना तत्प्रत्यभिज्ञानादिति धात्वर्थाभेदेऽपि भावनाभेदमात्रेण प्रकरणान्तरस्य कर्मभेदे प्रामाण्यमुपपन्नम् , भावनान्यत्वानन्यत्वपरीक्षाया एव अ- ध्यायप्रमेयत्वादिति, ‘प्रकणान्तरे प्रयोजनान्यत्वम्' इति सूत्रमपि भावनाभेद एवार्थे समजसम् , प्रयोजनशब्दस्य प्रधानवाक्यार्थभूतभावनापरत्व एव स्वारस्यादिति च स्पष्टमु- क्तम् । तस्मिन्नधिकरणे वार्तिककाराणां धात्वर्थस्यापि भेदमा- श्रित्य पक्षान्तरोपन्यासस्तु भावनाभेददृढीकरणार्थः प्रौढिवा. दः । यदि नैयमिकाग्निहोत्रस्य विहितस्य पुनर्विधानमत्र न संभ- वति, तदा विधेयगुणवाच्युपपदाश्रवणेन गुणसंक्रान्तिराहि- , ,

वादनक्षत्रमाला।
..
..
त्यात् भावार्थाधिकरणन्यायत: स्वारस्येन धात्वर्थे निविष्टो
विधिः कर्मान्तरमेव विदध्यात् , अत: प्रधानभूताख्यातपर-
तन्त्रनामापि स्वोपस्थापितमुख्यार्थसादृश्येन कर्मान्तर एव व-
र्तेत--इति शङ्क्येत । संभवति तु विहितस्यापि नैयमिकाग्नि
होत्रस्य सत्राङ्गत्वसिद्ध्यर्थ पुनर्विधानम--इति समर्थितमेव ।
एवं प्रकरणान्तराधिकरणन्यायस्य भावनाभेदमात्रनिविष्टत्व-
मभिप्रेत्यैव शंकरभगवत्पादैः श्रीकण्ठाचायः विवरणाचार्य-
प्रभृतिभिश्च पुरुषार्थस्यैव सौत्रामणिबृहस्पतिसवादेः अग्नि-
चयनवाजपेयादिप्रकरणान्तरेषु तत्तत्कर्माङ्गतया विधानं तत्र
तत्र दृष्टान्ततया व्यवहृतम् । गुरुणा च निबन्धनटीकायाम्
अग्निचयनवाजपेयाङ्गयोः सौत्रामणिबृहस्पतिसवयोः कर्मा-
न्तरत्वं व्यवहृतवता विवरणटीकायां प्रसिद्धसौत्रामण्या-
दिरूपत्वमेवोक्तम् । तस्मात् मासाग्निहोत्रादिषु प्रकरणा-
न्तरात् कर्मभेद:-इति मीमांसकव्यवहारे कर्मशब्दं धा-
त्वर्थैकान्तिकमभिमन्यमानानां नैयमिकामिहोत्रात् मासाग्नि-
होत्रं भिन्नमिति गतानुगतिकप्रसिद्धिमवलम्बमानानां च
केषांचित् जरन्मीमांसकानां प्रकरणान्तराधिकरणबार्तिका-
दिहृदयानभिज्ञानां मतमयुक्तमेव ।।
इति मासाग्निहोत्रवादः ॥ १॥

हिसिधात्वर्थवादः॥ antya ne यथा मासाग्निहोत्रमग्निहोत्रपदवाच्यम , एवं मीमांस- कानां प्रकरणान्तराधीतक्रत्वर्थपशुसंज्ञपनं हिसिधातुवाच्यम् ; तथापि न हिंस्यात्' इति निषेधविषयो न भवति-- इति सिद्धान्तस्थितिः ॥ अत्र वादिनां बहुविधा: पन्थान: -प्राभाकरास्तावत्- रागप्रयुक्ता हिंसा निषेधविषयः क्रत्वर्थसंज्ञपने रागत: प्रवृत्तिः । किंतु विधित:- इति व्यवस्था कल्पय- न्ति । कौमारिलनैयायिकादयस्तु- रागं विना प्रवृत्त्यसंभवात् नेयं व्यवस्था युज्यते; किंतु विधिसंस्पृष्टस्य निषेधविषयताया विरुद्धत्वेन--आहवनीयादिविधिः पदहोममिव-हिंसानि- षेधः क्रत्वर्थसंज्ञपनं परिहृत्य प्रवर्तते-इति व्यवस्था वर्ण- नीया--इत्याहुः । सांख्यास्तु--न केनापि प्रकारेण व्यवस्था वर्णनीया । क्रत्वर्थसंज्ञपने विध्यधीनस्य इष्टसाधनत्वस्य नि- षेधाधीनस्यानिष्टसाधनत्वस्य च समावेशसंभवात् । पशुव. धप्रयुक्तस्य अल्पस्यानिष्टस्य वित्तव्ययायासदुःखस्येव अभ्युप- गमेन ऋतुसाध्यमहाफलार्थतया प्रवृत्तेरुपपन्नत्वेन विधिनिषे- वादनक्षत्रमाला धाधीनप्रवृत्तिनिवृत्तिसमावेशदोषस्य अनवकाशत्वात्-इत्या- हुः । रामानुजमतानुवर्तिनस्तु सांख्यवत् त्वर्थसंज्ञपनस्य निषेधविषयत्वमनङ्गीकुर्वाणा: तत्संमतविधिनिषेधविरोधनि- राकरणोपायमपि अनालोचयन्त: श्रूयत हि---'हिरण्यशरीर ऊर्व स्वर्गमति न बा उवे तन्निग्रम नरिष्यमि' इति पशु- हिंसाया अहिंसात्वमिति श्रीकण्ठाचार्यसूक्तापातप्रतिपन्नमर्थ- मवलम्बमाना: क्रत्वर्थमंजपनं हिंसैव न भवति इत्यभ्युपग- मेन तस्य निषेधविषयत्वप्रमक्तिं परिहरन्ति । इदमेव मतं पूर्व- पक्षतया निवेश्य श्रीकण्ठाचार्याणामाशयगतं कौमारिलोदी- रितं सिद्धान्ततया परिगृह्य कक्ष्याविशेषानुषङ्गिकसांख्य- प्राभाकरमतनिराकरणान्तर्भावा वादकथा प्रस्तूयते - तत्र क्रत्वर्थपशुसंज्ञपनं हिसिधातुवाच्यम् , मारणत्वात् , यन्मारणं तत् हिसिधातुवाच्यं यथा शत्रुमारणम- इति प्रथमा कक्ष्या ।। अप्रयोजकमिदमनुमानम् , क्रोधादिकृतस्य शरीरावयव- दाहच्छेदादे: निग्रहत्वेऽपि व्रणशान्त्यर्थ कृतस्य तस्यानुप्रहरू- पत्वेन अनिग्रहत्त्ववत्---ऋत्वर्थान्यमारणस्य हिसिधातुवा- च्यत्वेऽपि न वा उवे तन्नियसे नरियसि देवा५ उदेषि पथिभिः सुगेभिर्यत्र यन्ति सुकृतो नापि दुष्कृत: तत्र त्वा - पूर्वोत्तरमीमांसा- •. देवः सविता दधातु' इति श्रुतिसिद्धपशुम्वर्गपर्यवसायितया पश्वनुग्रहरूपत्वेन क्रत्वर्थम्य तस्य तदवाच्यत्वोपपत्तेः । त. स्मात् क्रत्वर्थपशुमारणं न हिसिधातुवाच्यम् , क्रत्वर्थत्वात् , यत्क्रत्वर्थ तन्न हिसिधातुवाच्यम्- यथा प्रोक्षणम- इति द्वितीया कक्ष्या ॥ . , अथ तृतीया- मदीयानुमानं तावन्नाप्रयोजकम , क्रत्वर्थमारणेऽपि हि- सिधातुप्रवृत्तिनिमित्तस्य सत्त्वेन तस्य तद्वाच्यत्वाभावायो. गात् । मरणोद्देश्यकमरणफलोपहिततत्कारणक्रियात्वं हि तम्य प्रवृत्तिनिमित्तम । मरणकारणत्वमानस्य योग्यतासाधा- रणस्य शत्रुमरणोद्देश्य कलक्ष्यापतितायुध पादौ मरणफल- कत्वमात्रस्य कारणकारणरूपान्यथासिद्धसाधारणम्य पङ्कपति- तगवादिमरणफलकतटाकनिर्माणादौ च अतिप्रसक्तत्वेऽपि वि- शिष्टम्य अनतिप्रसक्तत्वात । न च क्रत्वर्थपशुमारणस्य हिंसात्वे तदनुग्रहत्वानुपपत्तिः, व्रणशान्त्यर्थकृतदाहछेदादेः प्रवृत्तिनि- मित्तानुसारेण दाहछेदादिरूपत्वेऽप्यनुग्रहत्ववत् - क्रत्वर्थप- शुमारणम्य तदनुसारेण हिंसात्वेऽप्यनुप्रहत्वोपपत्तेः । तस्मा- नाप्रयोजकं मदीयमनुमानम्। त्वदीयमेवानुमानमप्रयोजकम; क्लप्सप्रवृत्तिनिमित्ताधीनस्य तत्तद्धात्वर्थत्वस्य ऋत्वर्थत्वे सत्य- . .

वादनक्षत्रमाला। प्युपपनेरिति ।। अथ चतुर्थी कल्या- स्वदनुमानं तावदप्रयोजकमेव, त्वदुक्तमात्रम्य हिसिधातु- प्रवृत्तिनिमित्तत्वाभ्युपगमे क्रत्वर्थपशुमारणस्य 'न हिंन्या- सर्वा भूतानि' इति निषेधविषयत्वापत्त्या तत्प्रवृत्तिनिमित्ते क्रत्वर्थपशुमारणव्यावर्तकविशेषणस्य निवेशनीयतया ताव- मात्रम्य तत्प्रवृत्तिनिमित्तत्वासिद्धेः । न च न हिंस्यात" इति निषेधो रागप्रयुक्तहिंसाविषयत्वात् विधिप्रयुक्तं क्रत्व- र्थमंज्ञपनं न स्पृशति, कामाधिकारे करणांशे रागत: प्रवृत्तिः, अङ्गेषु वैधीति विशेषाभ्युपगमान ; तथा च तव्यावर्तकविशे- षणं हिंसापदप्रवृत्तिनिमित्त न निवेशनीयमिति वाच्यम् ; तस्य विधिप्रयुक्तानुष्ठानत्वेऽपि हिंसात्वाभ्युपगमे न हिंस्या- न्' इति वाक्ये तेन रूपेण क्रोडीकृतस्य तस्य निषेध्यताया अनिवार्यत्वात । सेतिकर्तव्यताकस्य फलकरणत्वेन फलसिद्धि- मिच्छतस्तदर्थकरणे इव अङ्गध्वपि रागावश्यंभावेन तेष्वपि रागत एवं प्रवृत्त्युपपत्त्या अर्धजरतीयकल्पनायोगाच जैमिनिना तृतीयाध्याये 'पट्त्रिंशत्प्रक्रमा प्राची चतुर्विशति- रप्रेण त्रिंशजघनेन' इनि विहिता सौमिकी महावेदिः के. वलप्रधानार्था, ' इयति शक्ष्यामहे' इति तद्वाक्यशेषे एता. चाभगवता .

पूर्वोत्तरमीमांसा- . , . . वति भूभागे कर्तुं शक्ष्यामह इत्यर्थके तुमुन्प्रत्ययार्थचि. कीर्षासंयोगात् । न त्वङ्गप्रधानार्था, अङ्गानामीप्सितफलमा- धनत्वाभावनाचिकीर्षितत्वात् इत्येवम् 'चिकीर्षया च संयोगान्' इति सूत्रण पूर्वपनं कृत्वा, ‘तयुक्ते तु फल- अति: तस्मात्सर्वचिकीर्षा स्यात्' इति गुणसूत्रेण स. कलाङ्गयुक्त फलश्रुतेः सर्वत्र प्रधानेऽङ्गकलापे च चिकीर्षा अस्तीति अङ्गानामपि चिकीर्षितत्वाविशेषादङ्गप्रधानार्था महा- वेदिरिति सिद्धान्तयता -अङ्गेष्वपि रागत एव प्रवृत्ते: स्था. पितत्वाच्च । षष्ठाध्यायेऽपि 'सामान्यं तञ्चिकीर्षा हि' नित्यं तच्चिकीर्षा हि' इत्यादिसूत्रगतैश्चिकर्षािशब्दैरङ्गेषु रागत: प्रवृत्तव्यवहृतत्वाञ्च । ननु अङ्गेष्विच्छा नास्तीति नोच्यते, इच्छां विना प्रवृत्त्ययोगान; किंतु करणांशे फल- सिद्धयर्थत्वेन रागशब्दाभिलप्यफलेच्छाधीनेच्छया प्रवृत्ति:; कामाधिकारेषु प्रथमपरामृष्टस्वर्गादिफलकरणभावस्य यागस्य विधिशब्दाभिलप्यनियोगाख्यकार्यविषयतया अन्वये सति विषयावच्छिन्नतया तम्य लिङ्वाच्यस्य कार्यस्य प्रतीति- रिति कार्यप्रतीतेः प्रागेव यागे फलकरणत्वस्य प्रतीततया तत्र फलरागाधीनेच्छया प्रवृत्त्यौचित्यात् अङ्गानां प्रथमं कार्येण अन्वयः पश्चात्कार्यद्वारा फलोपकारकत्वावगतिरिति तेषु प्रथ- वादनक्षत्रमाला। , मान्वितकार्यसंपादनच्छया प्रवृत्त्यौचित्याचेति चेत् ; मैवम् , चिरातीत याग स्वर्गकरणत्वघटकस्य नियोगाख्यकार्यस्य प्रतीतेः प्राग्यागे स्वर्गकरणत्वप्रतीत्यसभवान् । मतान्तरेध्विव गुरुमतेऽपि द्वारव्यतिरेकनिश्चयाभावन योग्यतासंदेहमात्रा- स्करणत्वावगतिसमर्थन, तथैव साक्षात्कृत्यसाध्यस्यापि नि- योगस्य कृतिमाध्यतासंघटकयागादितदवच्छेदकरूपविषय. प्रतीति विनापि प्रतीतिमभवन यागादिरूपविषयावच्छिन्नत. यैव कार्यप्रतीतिरिति प्रक्रियाया अनाश्रयणीयत्वात् । तदाश्र. यणावश्यंभावेऽपि स्वरूपेणैव यागादविषयतया कार्यावच्छेद- कत्वसंभवन विषयताप्रतीते: पूर्व यागे म्वर्गकरणत्वपरामर्श- स्यानपेक्षणान् । स्वर्गकामकृतिमाध्यत्वं स्वर्गकरणत्वमन्तरेण न संभवनीति चेन , माभूत् , तावता स्वर्गकरणत्वावग. तिमन्तरेण शब्द तो नियोगस्य स्वर्गकामकृतिमाध्यत्वावग- तौ कानुपपत्तिः । न हि वहिमन्तरेण धूमो न संभवतीत्ये- तावता पर्वते धूमोऽस्तीति शब्दत: तत्र धूमावगतिवषव- गममन्तरेण न संभवति । ननु गुरुमतप्रक्रियया घटयितु- मशक्यापि करणांगे रागत: प्रवृत्तिरङ्गेषु वैधीति मर्यादा कुमारिलमते स्यादेव, तन्मते प्रथमं यागस्य स्वर्गकरणत्व- प्रतीति: तन्निर्वाहार्थमपूर्वकल्पना कल्पितापूर्ववाचकशब्दाध्या- .

पूर्वोत्तरमीमांसा- , हारेण यागेन अपूर्व कृत्वा स्वर्ग भावयेत्' इति वाक्यार्थ- प्रतीतिः, पश्चादपूर्वभावनेतिकर्तव्यतारूपेण अङ्गानामपूर्वा- न्वय इति स्वीकारादिति चेत् , सत्यम् , अपूर्वार्थतया अ- जानुष्ठानेऽपि अङ्गचिकीर्षायाः फलरागाधीनत्वं न हीयते । न हि तन्मते विधिसिद्धिरेव विधः फलमिति तदर्थमङ्गानु- ष्ठानम्। किंत्वपूर्व विना स्वर्गादिफलं न सिध्यतीति परंपरया फलरागाधीनमेव तदनुष्ठानम् । तस्मात्क्रत्वर्थपशुसंज्ञपनस्य हिंसात्वाभ्युपगमे 'न हिंस्यात्' इति निषेधविषयत्वमनि. वार्यमिति तव्यावर्तकविशेषणावश्यंभावात् त्वदनुमानं ता- वदप्रयोजकमेव । अत एव मदनुमानं नाप्रयोजकम , क्रत्वर्थ- मारणस्य हिसिधात्वर्थत्वे तस्य निषेधप्रसङ्गस्य विपक्षे बाध- कस्य सत्त्वादिति ।। अथ पञ्चमी- लाघवान्मदुक्तमात्रं हिसिधातुप्रवृत्तिनिमित्तम् । क्रत्वर्थ- मारणस्य हिंसात्वेऽपि न हिंस्यात्' इति निषेधो न प्रस- ज्यते । स हि निषेधः शीघ्रप्रतीतिकपुरुषार्थहिंसाव्यावर्तनेन निर्वृतः, कल्पनीयविलम्बोपस्थितिकक्रत्वर्थहिंसां न स्पृशति । तथाहि-न हिंस्यात् ' इत्यत्र पुरुषार्थैव हिंसा हिसिधातु. नानूद्यते, न क्रत्वर्थापि ; कर्तुराख्यातवाच्यत्वपक्षे समानपद- , बादनक्षत्रमाला। ७ श्रुत्या हिंसायास्तच्छेषत्वप्रतीतेः, तस्य आख्यातवाच्यभावना. क्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तृशेषत्वप्रतीतेः । नात्र क्रतोर्वाचक किंचिदस्ति । येन 'अथातोऽग्निमग्निष्टोमेनानुयजन्ति' इत्य- नारभ्याधीतवाक्ये चित्याग्नेर्यजिशब्दोक्तयागशेषत्ववत् अ. स्या: क्रतुशेषत्वमवगम्येत । नापि तोराक्षेपकं किंचिदस्ति, येन पर्णताया जुह्वाभिप्रक्रतुशेषत्वमिव अस्याः क्रतुशेषत्वमव. गम्येत । न च प्रकरणेन क्रतोविपरिवृत्तिरस्ति, येन 'नानृतं वदेत्' इति दर्शपूर्णमासप्रकरणाम्नातवाक्ये अनूद्यमानस्यान- तवदनस्येव क्रत्वर्थत्वप्रतीतिर्भवेत् । तस्मादिह हिसिधातुना अनुवादः शीघ्रप्रतीताया: पुरुषार्थहिंसाया इति तस्या एव निषेधो न क्रत्वर्थायाः। शब्दशक्तिसाम्येऽपि शीघ्रोपस्थित- शक्यस्य वाक्यार्थान्वयो न विलम्बोपस्थितिकस्य इति हि न्यायमर्यादा । अत एव 'दर्शपूर्णमासाभ्यां स्वर्ग- कामो यजेत' इत्यधिकारवाक्यगतपूर्णमासपदेन उत्प- त्तिवाक्यश्रुतपौर्णमासीकालयोराग्नेयाग्नीषोमीययागयोरेव झ- टिति प्रवृत्तिनिमित्तावगत्या शीघ्रोपस्थितयोः फलान्वयः स्यात् ; उपांशुयाजस्य तु ' उपा" शुयाजमन्तरा यजति इति पौर्णमासीकालकर्तव्यानेयाग्नीषोमीययागद्वयान्तराले वि- धानादर्थसिद्धपौर्णमासीकालस्य झटिति प्रवृत्तिनिमित्तान- .

पूर्वोत्तरमीमांसा- वगत्या विलम्बोपस्थितिकस्य फलान्वयो स्यात् शीघ्रोपस्थितिकपौर्णमासीकालसंबन्धस्य यागद्वयस्य फल- संयोजनेनैव वाक्यस्य चारितार्थ्यात्- इति उपांशुयाज- स्यापि श्रुतपौर्णमासीकालत्वेन झटिति प्रवृत्तिनिमित्तावगल्या शीघ्रोपस्थितिकत्वसिद्धयर्थमेव अन्तरालविधिसामर्थ्यलभ्ये- ऽपि उपांशुयाजस्य पौर्णमासीकालसंबन्धे ‘तावबेतामग्नी. पोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इति प्रत्यक्ष- विधिरपेक्ष्यत इति ।। अथ षष्ठी कक्ष्या- यत्र प्रवृत्ति निमित्तावगतौ शैघ्रयविलम्बविशेषः तत्र शीघ्रावगतप्रवृत्तिनिमित्तस्यैवार्थस्य वाक्यार्थान्वयः, नान्य- -इति नियमः । अत एव उपांशुयाजे प्रवृत्तिनिमित्ता- वगतिशैघ्रयसाम्यसिद्धयर्थ प्रत्यक्षः कालविधिरपेक्ष्यते । यत्र तु प्रवृत्तिनिमित्तावगतिशैघ्रषविलम्बविशेषाभावेऽपि तुल्य- कालावगतिकेषु एकप्रवृत्तिनिमित्तकोडीकृतेष्वर्थेषु क्रत्वर्थपु. रुषार्थत्वादिविशेषावगतौ शैघ्रयविलंम्बविशेषोऽस्ति, तत्र तेन विशेषेण ऋत्वर्थस्य पुरुषार्थस्य वा शीघ्रप्रतीतिकस्यैव वा. क्यार्थान्वय इति नास्ति नियमः । अन्यथा यदाहवनीये जुह्वति' इत्यनारभ्याधीतवाक्येऽपि आख्यातोपात्तभावना- वादनक्षत्रमाला। क्षिप्तकर्तृशेषतया पुरुषार्थानामेव होमानामाहवनीयविधि:, न क्रत्वर्थानां नारिष्ठामनहोमादीनामित्यापत्तेः । एवं न्याय- स्थितौ हिमिधातुप्रवृत्तितिमित्तम्य क्रत्वर्थसंज्ञपनसाधारण्ये तस्यापि न हिंन्यान' इति निषेधगोचरत्वमनिवार्य भवे. दित्यत: तब्यावृत्तमेव हिसिधातुप्रवृत्तिनिमित्तं निर्वक्तव्य- मिति ॥ -- अथ सप्तमी कक्ष्या यत्र प्रवृत्तिनिमित्ताविशेषेण क्रत्वर्थपुरुषार्थोभयग्रहणे वि- धिवैरूप्यमापद्यते, तत्र क्रत्वर्थपुरुषार्थयोरुभयो: अन्यतरस्यैव वाक्यार्थान्वयः नान्यस्येत्यपि नियम आदर्तव्यः । अत एव अश्वदानेष्टिहिरण्य भरणादीनां क्रत्वर्थपुरुषार्थोभयविधाश्वदा. नादिसंयोगो नाङ्गीक्रियत, क्रत्वर्थाश्वदानादिसंयोगेनापतत: क्रत्वर्थत्वस्य पुरुषार्थाश्वदानादिसंयोगेनापततः स्वतन्त्रपुरुषा- थसाधनत्वस्य च एकेन वाक्येन बोधयितुमशक्यत्वात् । किं तु अश्वदानादिश्रुतिमाधारण्येऽपि यथायथं कस्यचित्क्र- त्वर्थसंयोग एव कस्यचित्पुरुषार्थमंयोग एवेति व्यवस्था अङ्गीक्रियते । तथा हि-'प्रजापतिर्वरुणायाश्वमनयत्म स्वां देवतामार्छत्स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्य- तन्निरवपत्ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं पूर्वोत्तरमीमांसा- , , N गृह्णाति योऽश्वं प्रतिगृहाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निवपेत्' इति विहिताश्वदाननिमित्तेष्टिः ऋत्वर्थाश्वदाननिमित्ता, उत पुरुषार्थाश्वदाननिमित्तेति संशये, पौण्डरीकादिषु अन्वहं द्वादश शतानि ददाति अश्वसहस्र- मुत्तमे' इत्यादिवाक्यश्रुतक्रतुदक्षिणारूपाश्वदानस्य विहितत्वे. नादुष्टत्वात् तस्मिन्दोषसंकीर्तनं नान्वेति । सुहृदादिभ्यः क्रिय. माणस्य पुरुषार्थाश्वदानस्य न केसरिणो ददाति' इति प्रति- षिद्धत्वेन दुष्टत्वात् तत्र दोषसंकीर्तनमन्वेति । अतस्तदशा- ल्लौकिकाश्वदाननिमित्ता इयमिष्टिरिति दोषास्विष्टिलौकिक स्याच्छास्त्राद्धि वैदिके न दोष: स्यात्' इति सूत्रेण पूर्वपक्षं कृत्वा, लौकिक वैदिकं वा अश्वदानं कृतवतो वरुणग्रहशब्दो- कजलोदरख्याध्युपनिपातादर्शनात् दोषसंकीर्तनमिदम्--यथा वरुणप्रहे सति तद्विमोचनसाधनमवश्यानुष्ठेयम् , एवमश्वदाने कृते सति इयमिष्टिः- इत्येवमवश्यकर्तव्यतापरं दृष्टान्ताभे. दोपचारवदर्थवादमात्रम् । अतो न तद्वशात् लौकिकानदा- ननिमित्तेयमिष्टिः । किंतु वैदिक्या इष्ठेवैदिकमेव निमित्त बुद्धिस्थं भवतीति बुद्धिसंनिधिलक्षणस्थानप्रमाणानुमारान् ऋत्वर्थत्वे ऋतुफलातिरेकेण पुरुषार्थत्व इब फलान्तरं न कल्प- नीयमिति लाघवानुसाराच न लौकिकावदाननिमित्ता--इत्ये- वादनक्षत्रमाला । . वम् ' अर्थवादो वानुपपातात्तस्माद्यज्ञे प्रतीयेत' इति सूत्रेण सिद्धान्तितम् । तथा · तस्मात्सुवर्ण हिरण्यं भार्य दुर्वर्णोऽस्य भ्रातृव्यो भवति' इति विहितं हिरण्यभरणं क्रत्वर्थ पुरुषार्थ वेति संशये, कृत्यप्रत्ययेन हिरण्यस्य संस्कार्यताप्रतीते: क्रतु- दक्षिणादिरूपस्यैव हिरण्यस्याग्रे विनियोगसद्भावेन संस्कार्य- तौचित्यात् क्लपक्रतुफलव्यतिरेकेण फलान्तरस्याकल्पनीय. स्वेन लाघवाच्च क्रत्वर्थत्वमित्येवं पूर्वपक्षं कृत्वा कृत्यप्रत्य. येन फलभागित्वमात्रप्रतीतावपि संस्कार्यत्वानबगते: कार्या- न्तरदर्शनेनैव मंस्कार्यत्वस्यावगन्तव्यत्वात् अप्रकरणाधीते च कार्यान्तरानवगमान् न संस्कार्यताधीबलेन क्रत्वर्थता । किं तु रात्रिसत्रन्यायेनार्थवादिकफलविपरिणत्या श्रुतफलम- द्भावेन ऋतूपकारफलस्याप्य कल्पनीयतया पुरुषार्थमेवेति 'अ. प्रकरणे तु तद्धर्मस्ततोऽविशेषात्' इति सूत्रेण सिद्धान्तितम् । एवमादिष्वधिकरणेषु क्रत्वर्थ पुरुषार्थ वेत्येवं विचारमवतार्य, यथान्यायं क्रत्वर्थत्वं पुरुषार्थत्वं वा निर्णीतम् । न तु क्रतुपुरु- षोभयार्थत्वमिति कचिनिर्णयः कृतोऽस्ति । न वा तथा कचित्संशयकोटिमात्रोदाहरणमस्ति । तत् कुतः? लौकिके पुरुषार्थत्वं वैदिके ऋतुशेषतेति वाक्यवैरूप्यापत्तेः । एवमि- हापि निषेधस्य क्रत्वर्थपुरुषार्थोभयविधहिंसासंयोगे तस्यापि पूर्वोत्तरमीमांसा- , तदुभयरूपतापत्त्या एकेन वाक्येन तदुभयरूपबोधनस्याश- क्यतया अन्यतरसंयोग एव स्वीकर्तव्ये पूर्वोक्तरीत्या शीघ्रप्र- तीतिकपुरुषार्थहिंसासंयोग एवादर्तव्यः । न च एकस्यैव दनः खदिरत्वस्य च क्रत्वर्थत्वं पुरुषार्थत्वं च दृष्टम् , तथेहापि स्या दिति वाच्यम ; तत्र ‘दना जुहोति' 'दध्नेन्द्रियकामस्य जुहुयान' खादिरी यूपो भवति' 'खादिरं बीर्यकामस्य यूपं कुर्वीत' इति तयोः ऋतुपुरुषसंबन्धबोधकवाक्यभेदस्य सत्त्वान । इहैकेन वाक्येन हिंसासामान्यनिषेधस्य क्रत्वर्थहिं- मांश क्रत्वर्थत्वस्य पुरुषार्थहिंसांश पुरुषार्थत्वस्य च बोधयि- तुमशक्यत्वात् । न च 'सूक्तवाकेन प्रस्तरं प्रहरति' इति प्रस्तरप्रहरणविधायकमेकमेव वाक्यं श्रूयत, तस्य ऋत्वर्थत्वं पुरुषार्थत्वं चेत्युभयमभ्युपगम्यते, तथेहापि स्यादिति वा- च्यम ; तत्र श्रुतवाक्येन दर्शपूर्णमासवाक्यैकवाक्यतापनेन क्रत्वर्थत्वबोधनम् , तृतीयाश्रुतिविनियुक्तायुरादिफलसमाशा. सनयुक्तकृत्स्नसूक्तवाकमन्त्रकरणकत्वान्यथानुपपत्तिकल्पितेन वाक्यान्तरेण फलार्थत्वबोधनमिति तत्रापि वाक्यभेदमत्त्वात् । इह श्रुतकल्प्यभेदेनापि वाक्यभेदाभावादिति ।। . १ , अथाष्टमी कक्ष्या- mmense हिंसानिषेधवाक्यस्य ऋवर्थपुरुषार्थोभयविधहिंसास्पर्श- वादनक्षत्रमाला। -- , मात्रण तस्य क्रत्वर्थहिंसांश क्रत्वर्थता पुरुषार्थहिंसांशे पुरु- षार्थतति द्वैरूप्यं न प्रमज्यते, येन तदुभयबोधने वाक्य- वैरूप्यमापोत, क्रत्वर्थपुरुषार्थोभयविधहिंसानिषधस्यापि पुरुषार्थत्वोपपत्तेः । न हि त्वर्थेन संबद्धं यद्विधीयते त- सर्व क्रत्वर्थमिति नियमः । ‘गोदोहनेन पशुकामस्याप: प्रणयेत्' इति दार्शपौर्णमासिका प्रणयनाश्रिततया विधीयमा- नस्य गोदोहनम्य पुरुषार्थत्वदर्शनात् । न च कमिपदसम- भिव्याहाराभाव त्वर्थसंबन्धितया विधीयमानस्य क्रत्वर्थ- तेति नियमः, 'अनतिश्न५ स्तृणाति अनतिहश्नमेवेनं प्रजया पशुभिः करोति' इति दार्शपौर्णमासिकस्त रणा- श्रितत्वेन विधीयमानाया स्तरणीयभूम्यदर्शनापादकबहिनि. बिडतारूपाया अनतिदृश्नताया: पुरुषार्थत्वदर्शनात् । लिप्सा. सूत्रे द्वितीयवर्णक गोदोहनवदनतिहमतापि हि पुरुषार्थोदा- हरणत्वेन शबरस्वामिना लिखिता । तत्र प्राभाकरैः अङ्गेषु फलश्रुतिरर्थवादः स्यादिति पर्णतार्थवादन्यायसाम्यमाशङ्कय यस्य पर्णमयी जुहूर्भवति न स पाप" श्लोक ५ शृणाति' इति उभयोरपि पर्णतापापश्लोकश्रवणयोर्वर्तमानापदेशेन तुल्यका- लताप्रतीते: तुल्यकालयोश्च कार्यकारणभावायोगात् वि. धीयमानपर्णताप्रशंमार्थमपापश्लोकश्रवणमर्थवादः, स्तरणी .

पूर्वोत्तरमीमांसा- १ । न " : यभूमेरनतिदृश्नताया यजमानस्य प्रजया पशुभिरनतिद्- अतायाश्चेति भिन्नयोरुभयोरभदोपचारम्य आयुघृतम' इतिवत् कार्यकारणभावसंबन्धमुपचारनिमित्तमन्तरेण अ- नुपपत्तेः तयोः कार्यकारणभावो अविवक्षित इति पर्ण. तावैषम्यप्रदर्शनेन तत्समर्थनं कृतम् । विधयफलाभेदव्यपदेशोऽपि नास्ति, तत्र क्रत्वर्थसंबन्धि- तया विधीयमानस्य क्रत्वर्थतेति नियमः; 'ओमित्येत- दक्षरमुद्गीथमुपामीत' इत्यादिवाक्यैः सौमिकोद्गीथाद्याश्रि- तत्वेन विधीयमानानामुपासनानाम · आपयिता ह वै का- मानां भवति' इत्यादिवाक्यशेषश्रुतकामानिक्रतुफलाप्रतिब- धादिफलार्थत्वदर्शनात् । ‘तनिर्धारणानियमस्तदृष्टेः पृथ- रध्यप्रतिबन्धः फलम्' इति ब्रह्ममीमांसासूत्रेण हि पर्णताफ लार्थवादन्यायसाम्यमुपासनाफलार्थवादानामाशङ्कय, पर्ण- ताया जुहूसंबन्धेऽप्यव्यापाररूपतया फलनिष्पादकत्वं न स्यादिति तत्मिद्धये ऋतूपरागण व्यापाररूपतां संपादयितुं जुहूलिनेन ऋतुमुपस्थाप्य तत्संबन्धबोधकशब्दः कल्प्यते । जुहूशब्दस्यैव वा जुहूसंबन्धिनि ऋतौ लक्षणा कल्प्यते । तत्कल्पने च प्रतीतजुहूद्वारा ऋतुशेषत्वनिर्वाहार्थ तस्याः ऋतूपकारकत्वकल्पनमावश्यकमिति तत एव नैराकाथात् 12 NE वादनक्षत्रमाला। एव फलपर्यव- न रात्रिसत्रन्यायेनार्थवादिकफलविपरिणाम: कल्प्यते उपासनानां स्वयं व्यापाररूपाणां स्वत सानं संभवतीति न उद्गीथायुपस्थापितक्रतुसंबन्धबोधक- शब्दकल्पनादिकमपक्ष्यते। तस्मादप्रतीतऋतूपकारफलकल्प- नात् वरम् अर्थवादप्रतीतफलविपरिणामकल्पना । अतस्तासां पुरुषार्थत्वात् क्रतुष्वनियम: । अत एव । तेनोभौ कुरुतो यश्चैवं वेद यश्च न' इति वाक्यशेषेणैव तेषु तासामनियमो द. शिन इति तन्न्यायवैषम्यमुक्तम् । तस्मात् यत्क्रत्वर्थत्वेन प्रतीतं प्रति शेषतया विधीयते तत्क्रत्वर्थमिति नियमः । अत एव प्राभाकरर्वारुणचतुष्कपालेष्टी अश्वदानस्य · योऽश्वं प्रति- गृह्णाति' इति कर्तृपरयच्छन्दयुक्तवाक्ये स्वरसप्रतीतया नि- मित्ततया केवलमन्वये क्रत्वर्थत्वं न मिध्यति, शेषतयाध्यन्व- ये वृत्तिद्वयविरोधः । न च एतदिष्टिविधायकवाक्यस्य अनार- भ्याधीतत्वे अश्वदानस्य क्रत्वपूर्वार्थत्वप्रत्यायकं किंचिदस्ति, प्रकरणतः क्रत्वपूर्वविपरिवृत्त्यसंभवात् । वैदिकस्य वैदि- कमेव निमित्तमिति नियमस्य क्षामवत्यादिषु व्यभिचारात् अश्वदानमात्रस्थ निमित्तत्वं प्रतिपादयतो 'योऽश्वं प्रतिगृहा- ति' इति वाक्यस्य बुद्धिसंनिधानरूपस्थानप्रमाणेन संकोचा योगात् । न च अश्वदानस्य पर्णतावदव्यभिचरितक्रतुसंब- पूर्वोत्तरमीमांसा- - न्धोऽस्ति । येऽश्वदा: मह ते सूर्येण' इत्यादिश्रुतिप्रतिपन्नानां सूर्यसायुज्यफलानां वैदिकानां मित्रादिभ्यः क्रियमाणानां लौकिकानामश्वदानानां बहुलमुपलम्भात् । तस्मात् लौकिक- वैदिकसाधारण्येन अश्वदानमात्रे निभित्ते पुरुषार्थतया इयमिष्टिरवश्यकर्तव्या सिध्येत् । न तु ऋत्वर्थतयेति 'दोषा- विष्टिलौकिके स्यात् ....'- इत्यधिकरणोक्तक्रत्वर्थत्वनिर्वा- हार्थम इयमिष्टिः अश्वसहस्रदक्षिणावति पौण्डरीके श्रूयते इति कृत्वाचिन्तयेदमधिकरणमित्युक्तम् । यत् ऋत्वर्थव्याप- त्तिनिमित्ततया विधीयते तदपि तद्व्यापत्तिप्रयुक्तक्रतुवैकल्य. समाधानार्थतया क्रत्वर्थ भवति--यथा भिन्ने जुहोति' इति पात्रभंदननिमित्ते विहितो होमः । न चेह तथा हिंस्यात्' इति वाक्ये हिंसायाः क्रत्वर्थत्वापादकं प्रकरण- मस्ति । न वा हिंसानिषेधे तस्या: शषित्वेन तद्व्यापत्तनि- मित्तत्वेन वा अन्वयोऽस्ति । तस्मात् प्रवृत्तिनिमित्तानुसारा- लौकिकवैदिकसाधारण्येन हिंसामात्रस्य निषेधः क्रियत इति स्यात् यदि क्रत्वर्थपशुसंज्ञपनमपि हिंसा स्यात् । अत: तव्यावृत्तमेव हिंसापदप्रवृत्तिनिमित्तं वाच्यमिति ।। . . अथ नवमी- निषेध्यनिषेधयोः क्रत्वर्थपुरुषार्थत्वविषयैकरूप्ये अस्ति वादनक्षत्रमाला । . . . तन्नियमः । अत एव दर्शपूर्णमासप्रकरणानाते 'नानृतं वदेत्' इति वाक्ये प्रकरणबलात् निषेध्यनिषेधावुभावपि क्र- त्वों ग्राह्याविति ऋतूपयोगिद्रव्यादिसंपादनार्थतया अर्थप्राप्त क्रत्वर्थमेवानृतवदनं निषेध्यम् , तनिषेधोऽपि तोरङ्ग न पुरुषार्थः । तेन क्रत्वर्थानृतवदने तदङ्गभूतनिषेधातिकमात् क्रतोवैगुण्यम् । दर्शपूर्णमासमध्येऽपि पुरुषार्थानृतवदने यो नाम ऋतुमध्यस्थ: कलजादीनि भक्षयेत् । न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः' इति न्यायात् ऋतोर्न वै- गुण्यं किंतु पुरुषप्रत्यवायः इति नितं कधिकरणे। 'मल- वद्वाससा न संवदेत न सहासीत नास्या अन्नमद्यात्' इति दर्शपूर्णमासप्रकरण एव आम्नातेषु वाक्येषु निषेध्यानां नि- षेधानां च अनृतवदनतनिषेधवत् प्रकरणबलात्क्रत्वर्थत्वमाश- य, 'यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्थात्तामपरुद्धय यजेत' इति मलवद्वासस: ऋतौ सर्वात्मना उदासीनीकरणरूपस्या- परोधस्य विहितत्वात् तया संवादसहासने न प्राप्नुतः ; तद- 'अथो खल्वाहुः अभ्यञ्जनं वाव स्त्रिया अन्नं अभ्यञ्जनमेव न प्रतिगृह्यम्' इति अभ्यजनशब्दोक्त- स्त्रीसंगमरूपत या व्याख्यातत्वात् कथमपि न प्राप्नोति- इति पुरुषार्थानामेव संवादादीनां निषेध्यत्वात् निषेधा अपि *V.4 नादनं तु पूर्वोत्तरमीमांसा- तथा H पुरुषार्था इति निर्णीतम 'प्रागपरोधान्मलवद्वासस: इत्यधिकरणे । 'यो ब्राह्मणायापगुरेत्तं शतेन यातयाद्यो निहनत्सहस्त्रेण यातयाद्यो लोहितं करवद्यावत: प्रस्कद्य पासून्संगृहात्तावत: संवत्सरान्पितृलोकं न प्राजा- नादिति तस्माद्ब्राह्मणाय नापगुरेत न निहन्यान लो. हितं कुर्यादतावता हैनसायुक्तो भवति' इति दर्शपूर्णमासप्र- करण एव श्रुता निषेध्या निषेधाश्च प्रकरणात्ऋत्वर्था ग्राह्या इति दर्शपूर्णमासयोरात्विज्यार्थमन्वाहार्य मात्रेण ब्राह्मणाना- मनानतौ तदानमनेन ऋतुनिर्वृत्त्यर्थतया प्राप्तास्तेष्वायुधो- द्यमनादिरूपा अपगोरणादयो निषेध्या: तन्निषेधाश्च दर्शपूर्ण- मासयोरङ्गभूता इति पूर्वपक्षं कृत्वा, स्ववाक्ये एव अपगोर- णादिनिषेधानां शतयातनादिपरिहारार्थत्वप्रतीते: म्ववाक्य- गतेन फलेन फलवश्वसंभवे प्रकरणालोचनालभ्यक्रतूप- कारफलकल्पनानौचित्यात् प्रकरणादुत्कृष्टैरेतैर्वाक्यैः पुरुषा. र्थानामपगोरणादीनां पुरुषार्था एव निषेधाः क्रियन्ते इति सिद्धान्तितम् ‘शंयौ सर्वपरीदानात्' इत्यधिकरणे । एवं सर्वत्र निषेध्यनिषेधयोः क्रत्वर्थपुरुषार्थविषयैकरूप्यनियमो दृश्यते । एवं च 'न हिंस्यात्' इति निषेधस्य क्रत्वर्थपुरु- पार्थोभयविधहिंसानिषेधरूपत्वे स्वयमप्ययं कृत्वर्थपुरुषार्थो- ..

वादनक्षत्रमाला। -- भयरूपी भवन् स्वस्य ऋतुपुरुषसंबन्धबोधनार्थं वाक्यं भिन्द्यादिति तत्परिहारार्थ शीघ्रप्रतीतपुरुषार्थहिंसामात्रस्यैव निषेध्यत्वमङ्गीकरणीयमिति ।। अथ दशमी- अमिद्धोऽयं निषध्यनिषेधयोरुक्तप्रकारैकरूप्यनियमः; ज्योतिष्टोमप्रकरणे न ददाति न जुहोति न पचति' इत्या- नातानां पुरुषार्थदानहोमपाकप्रतिषेधानां क्रत्वर्थत्वस्य दश- माध्याय व्यवस्थापितत्वात् । तत्तत्कर्मविशेषप्रकरणानातानां म्युपगमनमांसभक्षणादिरूपपुरुषार्थनिषेधानाम् न्युपाय- मांसभक्षादि पुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात्' इति व्याकरणाधिकरणे वार्तिककृता उक्त- त्वाच्च । तद्वत् क्रत्वर्थप्रतियोगिकनिषेधस्यापि पुरुषार्थत्वं सं. भवतीति क्रत्वर्थसंज्ञपनस्य पुरुषार्थनिषेधाविषयत्वसिद्धयर्थ तब्यावृत्तमेव हिंसापदप्रवृत्तिनिमित्तं वाच्यमिति ।। अथैकादशी- निषेध्यनिषेधयोः क्रत्वर्थत्वपुरुषार्थत्वविषयवैरूप्ये बुद्धि- गौरवात् , लाघवानुरोधेन पुरुषार्थस्य निषेधः पुरुषार्थः, क्रत्व- र्थस्य निषेधः क्रत्वर्थः-इति तदैकरूप्यनियमस्तावदौत्सर्गिकः । एवं क्लप्तस्योत्सर्गस्य बाधकवति स्थले त्यागेऽपि अन्यत्र त्यागो , पूर्वोत्तस्मीमांसा. नं युज्यते । द्वितीयनियमस्य कचिदाधकोपनिपातेन त्यागो. ऽपि न दृश्यते । एवं च अहिंसाशास्त्रेण पुरुषार्थहिंसाया: पुरुषार्थो निषेधः क्रियत इति अनारभ्याधीततया संप्रतिपन्ने- ऽर्थे स्थिते, तेन क्रत्वर्थहिंसाया अपि निषेधः क्रियत इत्यभ्यु- पगमे, तनिषेधोऽपि क्रत्वर्थः स्यादिति वाक्यवैरूप्यपरिहा- रार्थ क्रत्वर्थपुरुषार्थान्यतरहिंसानिषेध एव वाक्यार्थ इत्यङ्गी- कर्तव्ये, शीघ्रोपस्थितपुरुषार्थनिषेध एव वाक्यार्थ: पर्यवस्य- ति-इति अतिप्रसङ्गाभावात् न त्वर्थहिंसाव्यावृत्तं हिसि- धातुप्रवृत्तिनिमित्तं वाच्यमिति || अथ द्वादशी- आद्यनियमः कथंचिदौत्सर्गिको वाप्युत्प्रेक्षितुं शक्यः। द्वि- तीयनियमस्तु औत्सर्गिकोऽप्यसिद्धः । दूरे तस्याव्यभिचरि- तत्वम् , तद्विरुद्धस्य पुरुषार्थनिषेधानां क्रत्वर्थकरम्बितप्रति- योगितानियमस्य औत्सर्गिकस्य अवश्याभ्युपगन्तव्यत्वात् । न च तदसिद्धिः, अपगोरणादिनिषेधानां पुरुषार्थानां निषे. ध्यकोटौ क्रत्वर्थानापि अपगोरणादीनामनुप्रवेशावश्यंभा- वात् । अन्यथा अनृतवदनवत् क्रत्वर्थतया प्रसक्तानामपगोर- णादीनां पुरुषार्थनिषेधे निषेध्यकोटावनुप्रवेशानङ्गीकारे क्रतु- निवृत्त्यर्थ ब्राह्मणापगोरणादिषु स्वाच्छन्द्यप्रसङ्गात् । तस्मात् वादनक्षत्रमाला । ॐ .. . ऋत्वर्थत्वेन पुरुषार्थत्वेन वा यावन्तोऽपगोरणादयः प्रस- क्ताः, तेषां सर्वेषां पुरुषार्थतया निषेधः । तस्माद्ब्राह्मणाय नापगुरेत' इत्यादिवाक्यैः क्रियते- इत्येवं शंय्वधिकरणा- र्थनिर्णय आस्थेयः । अत एव सर्वपरीदानात्' इति सौत्रो हेतुः सर्वेषां सर्वावस्थागतानामपि अपगोरणादीनां प्रतिषेधा- तु-- इति भाष्यकारेण व्याख्यातः । एवम् 'प्रागपरोधान्मल- वद्वासमः' इत्यधिकरणे पुरुषार्थतया निर्णीते मलवद्वास:संवा- दनिषेधे पत्न्यादिसंवादोऽपि तत्क्रतूपयोगिद्रव्यनिधानस्थला- दिपरिज्ञानोपायतया क्रत्वर्थत्वेन प्राप्तस्यैव मलवद्वाससा पत्न्या अन्यया वा सह संवादस्य निषेध्यकोटावनुप्रवेशो वाच्यः; अन्यथा तस्य अनृतवदनस्येव क्रत्वर्थनिषेधाभावात् पुरुषार्थनिषेधेनापि तदसंस्पर्शे कदाचित् क्रत्वर्थतया तदनु- ष्ठानापत्तेः । अनेनैव न्यायेन पुरुषार्थेषु हिंसानिषेधादिषु ऋतूपयोगिद्रव्यसंपादनादिप्रतिबन्धकप्राणिवधादीनामपि नि- ध्यकोटावनुप्रवेशो वाच्यः, तथैव ऋत्वर्थत्वाविशेषात् । पशुसंज्ञपनस्य हिंसात्व तम्यापि निषेध्यकोटावनुप्रवेश: स्या- त् । अत: तव्यावृत्तमेव हिसिधातुप्रवृत्तिनिमित्तं वाच्यमिति ॥ अथ त्रयोदशी- क्रतुनिवृत्त्यर्थमनुष्ठेयत्वेनापतद्विविधमस्ति । एक लोकतः aurammar पूर्वोत्तरमीमांसा- MERIA प्राप्तमनियतोपायरूपं विध्यसंस्पर्शात् क्रतोरननं केवलं तदु- पकारकं ऋतूपयोगिद्रव्यादिराहित्यावस्थाविशिष्टस्य पुरुष- स्यैव शेषभूतम् - यथा द्रव्यसंपादनाद्यर्थमनृतबदनमलव- द्वासःसंवादादि । अन्यद्वैदिकं विधिसंस्पृष्टं क्रत्वङ्गभूतम्- यथा पशुसंज्ञपनादि । तत्र आद्यं पुरुषार्थनिषेधेषु निषेध्य- कोटावनुप्रविशति ; स्वयमपि पुरुषार्थत्वात् , अनृतवादादिकं बिना द्रव्यसंपादनादिषु उपायान्तरसद्भावाच्च । द्वितीयं तु न प्रविशति, क्रत्वङ्गतया विहितस्य नियतोपायस्य त्यागे विधिविरोधापत्तेः क्रतोरनिवृत्तिप्रसङ्गाच्च । ननु अनृतवद नस्य क्रत्वङ्गस्यैव निषेधः कत्रधिकरणेऽङ्गीकृतः । एवं हि तत्र अनृतवदननिषेधोदाहरणभाष्यम-व्रीहिमयं संकल्प्य न यवमय: कार्य इति । ब्रीहिद्रव्यकेण पूर्णमासेन दर्शन वा यक्ष्य-इति संकल्पाभिवदनं क्रत्वङ्गम् ; सत्यं उदाहृतसंकल्पा- भिवदनमात्रं क्रत्वङ्गम् ; न तु ब्रीह्यलाभे यवमुपादाय तद- भिवदनस्य अनृतरूपत्वापादनमपि । तस्यैव ऋत्वङ्गस्य नि- षेधः । तेन संकल्पितब्रीह्यलाभे प्रतिनिधिमुपादाय संकल्पवैत- ध्यपरिहारेण ऋतुं निवर्तयेदिति पर्यवस्यति । तथापि मलव- द्वासोऽधिकरणे क्रत्वर्थस्यैव पत्नीसंवादस्य निषेधः पूर्वपक्षे सि- द्धान्ते वा अङ्गीकृतः । स. तु मलवद्वास:संवादनिषेधः 'त- वादनक्षत्रमाला । . । स्मान्मलवद्वाससा न संवदेत' इति दर्शपूर्णमासप्रकरणगतवा- क्यार्थः पूर्वपक्षे । सिद्धान्ते तु ' यस्य ब्रयेऽहन्' इति वाक्या- न्तरार्थः । 'न संवदेत' इति वाक्यं तु पुरुषार्थनिषेधप- रमित्येतावान्विशेषः । सत्यं तत्र वचनबलाद्रजोदिवसेषु क्र- त्वङ्गपनीसंवादादित्यागेऽपि नास्ति तद्विधिविरोधः, शुद्धिस- मयेषु चारितार्थ्यात् । क्रतुसाद्गुण्यं च वचनबलात् । कचिन् पत्नीसंवादाद्यनपेक्षयैव । इह तु पशुसंज्ञपनस्य पुरु- पार्थनिषेधाभ्युपगमे निर्विषयतया तद्विधिविरोध:, हृदयाद्य- वदानराहित्येन ऋतोरनिवृत्तिश्च--- इत्यपरिहार्यमुभयम् । ननु इहापि नैत होषद्वयमापतति । तथाहि-न तावद्विधि- निषेधयाविरोधोऽस्ति, विधिना कात्रष्टसाधनत्वस्य निषेधेन तदनिष्टसाधनत्वस्य च बोर्धायतुं शक्यत्वात् । न च एकस्य इष्टानिष्टोभय साधनत्वं विरुद्धम् , घृतपानादः पुष्टयादिमेहा- दिरूपेष्टानिष्टसाधनत्वस्य, यागादेः स्वर्गादितात्कालिकल्लेशा- दिरूपेष्टानिष्टसाधनत्वस्य च दर्शनादिति चेत् । मैवम् ; तथा सति 'न हिंस्यात्' इति शास्त्रस्य क्रत्वर्थपशुहिंसांशे अननु- छापकत्वलक्षणाप्रामाण्यप्रसङ्गात् । 'प्रवृत्तिर्वा निवृत्तिर्वा नि- त्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते' इत्युक्तरीत्या विधीनां प्रवर्तकत्वेनैव निषेधानां निवर्तकत्वेनैव पूर्वोत्तरमीमांसा- शास्त्रत्वस्य समर्थनीयत्वात् । न च पशुहिंसा ऋतुनिवृत्त्यर्थं कार्या प्रत्यवायपरिहारार्थ च वर्जनीया वा-इति विकल्पापाद- कतया पाक्षिकनिवर्तकत्वं संभवतीति वाच्यम् ; तथा सति तदं. शे पाक्षिकनिषेधबोधकत्वम् अंशान्तरे नित्यनिषेधबोधकत्व- मिति बैरूप्यदोषस्य वैधहिमाननुष्ठानपक्षे त्वनिर्वृत्तिदोषस्य च अनिवार्यत्वात् । किं च हिंसानिषेधशास्त्रस्य ऋत्वर्थसंज्ञपन- साधारण्ये विधिनिषेधशास्त्रयोर्बोध्यविरोधोऽप्यापद्येत । तथा हि--- इष्टसाधनत्वमानं न प्रवृत्त्यौपयिकम , मधुविषसंपृ- तान्नभोजनादिसाधारण्यात्; किं तु बलवदिष्टसाधनत्वम् ; बलवत्त्वं च इष्टोपायानुष्ठानप्रयुक्तात्सर्वविधादनिष्ठात् उद्दे. श्यम्य तत्साध्यस्येष्वस्य अधिकत्वम । तच सार्थवादेषु विधिषु यागाद्यनुष्ठानप्रयुक्ततात्कालिकक्लेशादिदर्शनकृतालस्यभजना- थै प्रवृत्तः स्तुत्यर्थवादैः स्तुतिरूपेण समय॑ते । निरर्थवादेषु विधेरेव तदाक्षेपे शक्तिः कल्प्यते । तथा अनिष्टसाधनत्वमात्रं न निवृत्त्यौपयिकम् , तात्कालिकक्लेशादिकरम्बितयागादिसा- धारण्यात् ; किं तु बलवदनिष्टसाधनत्वम् । अत्र बलवत्त्वम् इष्टोपायानुष्ठानमाध्यादुद्देश्यादिष्टात् तदनुष्ठानप्रयुक्तस्यानि- ष्टस्य अधिकत्वम् । तत् सार्थवादेषु निषेधेषु तात्कालिकेष्ट- रुचिप्रयुक्तप्रवृत्तिप्रतिबन्धार्थ निन्दार्थवादैः निन्दारूपेण स- वादनक्षत्रमाला। - मप्यते । निरर्थवादेषु निषेधानामेव तदाक्षेपे शक्तिः क- ल्प्यते- इति वस्तुस्थितिः । एवं च क्रत्वर्थसंज्ञपनस्य निषे- धविषयत्वे विधिनिषेधयो: परस्पराधिकेष्टानिष्टसाधनत्वबो. धकताविरोधोऽपि अनिवार्यः । तस्मात् क्रत्वर्थसंज्ञपनस्य हिंसात्वेऽपि उक्तदोषत्रयभिया पुरुषार्थनिषेधो न स्पृशति । ततश्च क्रत्वङ्गनिषेधः क्रत्वङ्गमिति नियमे बलेन स्थिते, वा- क्यवैरूप्यभिया षोडशिग्रहनिषेधन्यायप्राप्तः क्रत्वर्थोऽपि नि- षेधः न स्पृशति- इति न तव्यावृत्तहिमिधातुप्रवृत्तिनिमित्त- कल्पना क्लेशोऽनुभाव्य इति । अथ चतुर्दशी-- निषेधवाक्यानां निवर्तकत्वेनैव शास्त्रत्वमिति नायं नि. यमः, अस्यैव हिंसानिषेधशास्त्रस्य पञ्चसूनानान्तरीयकहिं. सानिवर्तकत्वाभावात् । अत: यथा अस्य तदंशे ‘पञ्च- सूना गृहस्थस्य चुल्ली पेषण्यवस्कर: । खण्डिनी तो- चकुम्भश्च वध्यताबाम्तु वाहयन । आसां क्रमेण सर्वा- सां निष्कृत्यर्थ महर्षिभिः । पञ्च क्लाना महायज्ञा: प्रत्यहं गृहमेधिनाम्' इति स्मृत्युक्ततदपनोदकपञ्चमहायज्ञप्रवर्त- कत्वेन शास्त्रत्वम एवं वैधपशुसंज्ञपनांशेऽपि तत्तत्प्रा- णिवधोपदिष्टप्रायश्चित्तप्रवर्तकत्वेन शास्त्रत्वं नियूदं भवेत् , maste पूर्वोत्तरमीमांसा- , " यदि तस्य हिंसात्वमभ्युपगम्येत । अतो न तावत् तस्य हिंसात्वे तद्विधिनिषेधयोः प्रवर्तकत्वनिवर्तकत्वविरोधः । अत एव न क्रत्वानिवृत्तिदोषप्रसङ्गोऽपि, निषेधस्य ऋतुसंज्ञपनांशे निवर्तकत्वाभावात् । नापि तयोबाध्यविरोधः, यत: निवृ- त्यौपयिकेऽनिष्टसाधनत्वे अनुप्रविष्टं बलवदनिष्टं बहुविधम्- एकमिष्टापेक्षया अधिकम् इष्टप्राप्तेः पूर्वमवश्यंभावि, अन्यत् गुरुलघूपायद्वय साध्ये फले गुरूपायानुष्ठानप्रयुक्तक्लेशादिरूपम् इष्टप्राप्तेः पूर्व गुरूपायानुष्ठाने अवश्यंभावि, अपरम् इष्टापेक्षयाधिकमिष्टप्राप्त्यनन्तरभावि इष्टोपायादधिकक्लेशादि- साध्येन उपायेन परिहर्तव्यम् , इतरत् इष्टप्राप्त्यनन्तरभावि इष्टापेक्षया न्यूनम् इष्टप्राप्त्युपायाल्लधुनोपायेन परिहतु शक्य- म् । एतत्सर्वम् अनुष्ठातृपुरुषाननुमतत्वन-अङ्गीकृता ग्लानि: न दोषाय-इति न्यायाविषयतया जिहासितत्वात् बलवदनि- ष्टमुच्यते । यदिष्टप्राप्नेः पूर्वभावि इष्टापेक्षया अल्पतरम् , यत् इष्टप्राप्त्यनन्तरभावि अल्पतरत्वेन सह्यतया अनुमतम , तदुभयं न बलवदनिष्टम् ; बुभुक्षोः पूर्वभाविपाकादिक्लेशानु- संधानेऽपि अनन्तरभाविस्वैर संचारविरोधिश्रान्त्याद्यनुसं- धानेऽपि तदुभयानुमत्या पाकप्रभृति यावदिष्टभोजनान्ते व्यापारे प्रवृत्तिदर्शनात् । बलवदनिष्टेष्वाद्यं त्रयं निवृत्ति- वादनक्षत्रमाला । - प्रयोजकम् ; न तु चतुर्थम ; तत्तु स्त्रपरिहारोपाये प्रवृत्तिप्रयो- जकम-न खलु मूषकग्रहणाथै गिरिखनने, निर्बाधलघु- मार्गवत: पुरादेः प्राप्त्यर्थ सबाधगुरुमार्गगमने, तृप्त्यर्थं च मरणपर्यवसायिनि मधुविषसंपृक्तान्न भोजने वा कश्चित् प्रव- तते । प्रवर्तते अतिरुच्यानोपस्थिती किंचिदधिकभोजने, तत्प्रयुक्तमजीर्णादिकं लघुना प्रतिविधानौषधेन समाधास्यामि इति । एवं च निषेधवाक्यैः निषेध्यम्य अनिष्टसाधनत्वे बोध्यमाने यस्य निषेध्यस्य अनुष्ठाने प्रसक्तस्यानिष्टस्य यथा- भूतं बलवत्त्वम् , तथाभूतमेव तत्तदनुष्ठाने तन्निन्दार्थवादै- लक्षणया समयंते, निषेधैरेव वा आक्षिप्यते---- इति हिंसा- निषेधवाक्येन सर्वासामपि हिंसानामनिष्टसाधनत्वे बोध्यमाने, तदर्थवादः तन्मूलाक्षेपो वा ऋतुसंज्ञपनांश तद्विध्यविरोधाय तत्कृतानिष्टस्य चतुर्थप्रकार एव बलवत्त्वे पर्यवस्येत् । न हि इष्टस्य अनिष्टस्य वा बलवत्त्वमेकरूपमेव बोधनीयमिति नियन्तुं शक्यते । श्येनादिविधीनां शत्रुमारणादिप्रयुक्तभावि- नरकरूपाधिकानिष्टावश्यंभावेन तदविरोधाय श्येनाद्यनुष्ठान- कृतात्सर्वस्मादनिष्टात् आधिक्यरूपमर्थ परित्यज्य अनुष्ठानक्ले- शादिमानात् इष्टस्याधिक्य पर्यवसानस्य वक्तव्यत्वात् । अतः क्रत्वर्थसंज्ञपनस्य हिंसात्वेन तनिषेधातिक्रमप्रयुक्तदुरितानु पूर्वोत्तरमीमांसा- . बन्धित्वस्य अपरिहार्यत्वात् , तस्य तदननुबन्धित्वमिच्छद्भिः भगवद्वादरायणमतानुसारिभिः तव्यावृत्तमेव हिसिधातुप्रवृ- त्तिनिमित्तं कल्पनीयमिति ॥ अथ पञ्चदशी- निषेधशास्त्राणां निवर्तकत्वं तावदौत्सर्गिकम् । तदबुद्धिपू- कात्प्रामादिकान्निवर्तनस्याशक्यत्वात् तदंशे तेषां निवर्त- कत्वं परित्यज्य प्रायश्चित्त प्रवर्तकत्वमाश्रीयते । बुद्धिपूर्वके तु तस्मिन्निवर्तकत्वमप्य भ्युपगन्तव्यम् । अत एव खण्डिन्या. दिषु चक्षुषा प्राणिवधप्रसक्तिदर्शने पञ्चमहायज्ञानुष्ठानाव. श्यंभावनिश्चयेऽपि बुद्धिपूर्वकतद्वधानिवृत्तिः । अत: ऋतु संज्ञपनस्य बुद्धिपूर्वकप्राणिवधत्वात ततो निवर्तकत्वमपि नि- षेधशास्त्रस्यावश्यमाश्रयणीयम् । तदा प्रागुक्तदोषवयमापते- दिति तत्परिहारार्थ तस्य हिंसात्वेऽपि न तनिषेधवाक्यं स्पृशति- इति युक्तम् । न च दोषत्रयपरिहारार्थमिहापि नि- वर्तकत्वोत्सर्ग एव त्यज्यतामिति वाच्यम्; निषेधास्पर्शन तत्परिहारे संभवति क्लमोत्सर्गत्यागायोगादिति ।। अथ षोडशी- बुद्धिपूर्वकनिषेधानुष्ठानेऽपि निषिद्धस्य विधिस्पर्श निषेध- शास्त्रस्य न निवर्तकत्वम; किं तु प्रायश्चित्ते प्रवर्तकत्वमा- Rom वादनक्षत्रमाला। , त्रम्- इति क्लमं वर्णिवधपरिहारार्थसाक्ष्यनृतवदनमाथि विषयीकृत्य प्रवृत्ते पुरुषार्थानृतबदननिषेधशास्त्रे- तद्धि शास्वं ततो न निवर्तकम; किंतु केवलम बर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वाप्यश्चरु: सारस्व- तो द्विजैः' इति स्मृत्युक्तप्रायश्चित्ते प्रवर्तकम् । न च तदनृत- वदनम् अविहितत्वान्न निषिद्धम् , सारस्वतचरुरपि नैमित्तिक: न तत्प्रायश्चित्तरूप इति शङ्कनीयम् । तस्यानृतवदनस्य पुरु- पार्थत्वे 'नानृतं वदेत' इति पुरुषार्थनिषेधगोचरत्वावश्य- भावात् । त्वयापि हि वैधाहिंसाया न विहितत्वान्निषेधागो. चरत्वमुच्यते ; किंतु वाक्यरूप्यक्रत्वनिवृत्तिप्रसङ्गमयान् । न च इह तदुभयप्रसङ्गोऽस्ति । सारस्वतचरुरपि तत्प्राय- श्चित्तरूप एव, 'तत्पावनाय' इति पापनिवृत्तिफलसंकीर्त. नात् । तथा च ऋत्वर्थसंज्ञपनस्य हिंसात्वे हिंसानिषेधशास्त्रस्य तदंशे अनृतवदननिषेधशास्त्रस्य वर्णिवधपरिहारार्थानृतवद- नांश इव निवर्तकत्वाभावेऽपि तदपनोदकप्रायश्चित्ते प्र- वर्तकत्वमात्रेण शास्त्रत्वं चरितार्थ भवेत् । अतस्तदनु- प्राने प्रायश्चित्ताभावमिद्भिः तव्यावृत्तमेव हिसिधातु- प्रवृत्तिनिमित्तं वाच्यम् । तेन क्लमस्य निवर्तकत्वोत्सर्गस्य त्यागो न युक्त इति शङ्कापि निरस्ता; बुद्धिपूर्वकानृत- पूर्वोत्तरमीमांसा- बदननिषेधातिक्रमे तत्यागस्यापि क्लमत्वात निषेधशास्त्राणां निषेध्यसमर्पकशब्दसमर्पितयावदर्थनिषेधबोधकत्वमपि औ- ल्सर्गिकमिति कतुसंज्ञपनस्य हिंसात्वमभ्युपगम्य निषेधसं. स्पर्शानभ्युपगमे तस्योत्सर्गम्य त्यक्तव्यतया क्लप्मोत्सर्गत्या- गस्य तन्मतेऽपि समानत्वात्। न च निवर्तनस्य निषेधबोधन फलतया शेषित्वेन शेषशेष्यन्यतरोत्सर्गत्यागप्रमत्तौ शेषोत्स- गत्यागो युक्त इति वाच्यम् ; निवर्तनस्य निषेधबोधाधीन- तया प्राथमिकेन निषेधबोधेन सर्वहिंसाक्रमणे सति, तदनु- सारेण निवर्तनोत्सर्गत्यागस्यैव युक्ततरत्वात् । प्राधान्यबला- प्राथम्यबलाधिक्यस्य 'असंजातविरोधित्वादर्थवादो श्रुतः । व्याख्येयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षणा' इत्युप- क्रमाधिकरणन्यायसिद्धत्वेन प्रधानाश्रयणबलात्प्राथम्यबलाधि- क्यस्य कैमुतिकन्यायप्राप्तत्वादिति ।। . यथा sonam अथ सप्तदशी- निषेधशास्त्राणां निषेध्यपरशब्दप्रतिपाद्ययावदर्थनिषेधबो- धकत्वरूपस्योत्सर्गस्य हिंसानिषेधशास्त्र एव त्याग श्यक: । अन्यथा सर्वस्वारक्रत्वङ्गात्मव्यापादने मरणान्त- प्रायश्चित्ते च प्रवृत्त्यभावप्रसङ्गात् । न हि आत्मव्यापादनप्र- युक्तं नरकदुःखम् ‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरा- वादनक्षत्रमाला । , मास्ये मृत: शुद्धथति' इति शास्त्रविहितकामकृतसुरापान- प्रायश्चित्तसुरापात्महननरूपब्रह्महत्त्योभयप्रयुक्तनरकदुःखं वा अल्पीयः । येन उभयमभ्यनुज्ञायैव ज्योतिष्टोमतुल्यरूपस- वस्वाराख्यैकाहऋतुसाध्य स्वर्गार्थं तदीयार्भवपवमानकालक- तव्ये स्वव्यापादने पूर्वकृतसुरापानप्रयुक्तनरकानुत्पत्त्यर्थ उ. क्तमरणान्तप्रायश्चित्ते वा कश्चित्प्रवर्तेत । न वा व्यापादनादिजन्यं दुरितं लघुना उपायेन निवर्तयितुं शक्यम् । न वा मृतेन पश्चात् तदुभयनिवर्तनोपायभूतं लघु गुरु वा किंचिदनुष्ठातुं शक्यम् ; येन कयाचित्प्रायश्चित्त- क्रियया स्वव्यापादनादिजनितदुरितमपनेष्यामि इति तद- लक्षीकृत्य तस्मिन्नुभयस्मिन्पुरुषः प्रवर्तेत; तदनुसारेण हिंसासुरापाननिषेधशास्त्रयोस्तदंशे निवर्तकत्वोत्सगै परि- त्यज्य तत्प्रायश्चित्ते प्रवर्तकत्वमावं परिगृह्य श्रुतनिषेध्यप- रशब्दप्रतिपाद्ययावदर्थनिषेधबोधकत्वोत्सर्ग: परिपाल्येत । तस्मात्तदंशे हिंसानिषेधशास्त्रस्य वर्णितोत्सर्गत्याग । एवमाहवाभिमुखशत्रुवधादिषु प्रवृत्त्यर्थमपि त- त्याग आवश्यकः । न दोषो हिंसायामाहवे' इत्यादि- शाम्नेष्वाहत्य दोषाभावस्मरणात् । तस्माद्धिंसानिषेधशास्त्र एव केषुचिदंशेषु प्रथमोत्सर्गत्यागस्य क्लप्तत्वात् क्रत्वर्थ- आव- श्यकः .

पूर्वोत्तरमीमांसा- । संज्ञपनरूपांशान्तरेऽपि तस्यैव त्याग उचित: न तु तमपरित्यज्य निवर्तकत्वोत्सर्गपरित्यागः । एवं मरणान्तप्रा- यश्चित्तादिवत् पुरुषार्थनिषेधकोटेबहिर्भूतामपि क्रत्वर्थहिं- सां पुन: ऋत्वर्थनिषेधप्रतियोगित्वेन गृहीत्वा प्राथमिकोत्स- गस्य सर्वात्मना त्यागो न भवतीति लोभात् कृत्वर्थहिंसानि- षेधस्थापि अहिंसावाक्यार्थत्वस्वीकारे प्रागुक्तवैरूप्याद्यापत्तिः। तस्मात्क्रत्वर्थसंज्ञपनस्य हिंसात्वेऽपि न्यायतो हिंसानिषेधशा- स्त्रस्य ततो व्यावृत्तेः न तव्यावृत्तं हिमिधातुप्रवृत्तिनिमित्तं वाच्यमिति ।। अथाष्टादशी- न हिंस्यात्' इति पुरुषार्थहिंसानिषेधे हिंसामात्रस्य प्रथमं निषेध्यत्वप्रतीतो यत्र मरणान्तप्रायश्चित्तादौ निषेधशा- नस्य निवर्तकत्वेन प्रायश्चित्तप्रवर्तकत्वेन वा चारितार्य नास्ति, तन्मात्रस्य बाधकवशान्निषेध्यत्वत्यागेऽपि दृष्टान्तस- त्त्वमात्रेण क्रत्वर्थहिंसांशस्यापि तत्त्यागो न युक्तः । तत्र प्राय- श्चित्तप्रवर्तकत्वेनापि निषेधचारितार्थ्यात् । न हि सामान्य- त: प्राप्तानां मध्ये कस्यचिदाधकवशात् त्यागे सति तदृष्टान्ते- न अन्यस्यापि त्यागो युक्तः । तथा सति आग्रयणदक्षिणारूपे वत्से चोदकप्राप्तानामन्वाहार्यधर्माणां मध्ये पाकस्य दक्षिणा- वादनक्षत्रमाला। रूपवत्सनाशप्रसङ्गात् तत्त्यागे सति तदृष्टान्तेन तथाभूतबाध- करहितस्य अन्यस्यापि तद्धर्मस्य त्यागप्रसङ्गः। तस्मात्क- त्वर्थहिंसाया अपि पुरुषार्थनिषेधः प्राप्नोतीति तमनङ्गी- कुर्वद्भिः तत्परिहाराय तव्यावृत्तं हिसिधातुप्रवृत्तिनिमित्तं वाच्यमिति ॥ अथैकोनविंशतितमी- -मरणान्तप्रा- न दृष्टान्तसद्भावमात्रेण क्रत्वर्थहिंसाया: पुरुषार्थनिषेधे निषेध्यकोटिबहिर्भाव उच्यते; किं तु मरणान्तप्रायश्चित्ता- दिव्यावर्तकविशेषणक्रोडीकृतत्वेन । तथा हि. यश्चित्तं सर्वस्वारकत्वङ्गस्वात्मव्यापादनम् आहवाभिमुखश- त्रुहननम् उचितदण्डरूपगोचोरहननं स्तेयप्रायश्चित्तरूपम्तेन- हननम्- इति बहूनि हननानि पुरुषार्थहिंसानिषेधे निषे- ध्यकोटेयावर्तनीयानि । तावळ्यावर्तनाथ तव्यतिरिक्तत्वरू- पबहुविशेषणोपादाने गौरवम् ; एकेन रूपेण सर्व व्यावर्त- नीयहिंसाजातं क्रोडीकृत्य तव्यतिरिक्तत्वरूपैकविशेषणोपादाने लाघवमिति तथा तावत्क्रोडीकारकरूपसंभवे तत्क्रोडीकृत- व्यतिरिक्तत्वमेव पुरुषार्थहिंसानिषेधप्रतियोगिकोटौ निवेश- यितुमुचितम् । संभवति च अत्र तथाभूतं रूपं वध्यानुग्रहप- यवसायित्वम् । अनुगतं हि तत् सर्वत्र ; मरणान्तप्रायश्चित्त- *V.5 पूर्वोत्तरमीमांसा- " स्य महापातकनिवर्तकत्वात् , सर्वस्वारे स्वात्मव्यापादनम्य तत्साध्यस्वार्थत्वात, आहवाभिमुखचोरस्तेनहतानामपि 'द्वाविमौ पुरुषो लोके सूर्यमण्डलभेदिनौ। परिबाड्ब्रह्मनि- पश्च रणे चाभिमुखो हत:' 'राजभिः कृतदण्डास्तु त्यक्त्वा पापानि मानवा: । निर्मला: म्वर्गमायान्ति सन्तः सुकृतिनो यथा' 'स्तेन: प्रकीर्णकेशो मुसली राजानमियात्कर्माचक्षा- ण: पूतो वधमोक्षाभ्यामघ्नन्नेनस्वी राजा' इत्यादिस्मृत्यनुसा- रेण वध्येष्टसाधनत्वात् । तेन च रूपेण ऋत्वर्थहिंसापि कोडीक्रियत एव । यदि आततायिनमायान्तमपि वे- दान्तपारगम् । निहत्य भ्रूणहा न स्यादहन्ता भ्रूणहा भवेत्' इति स्मृतिविहितमाततायिब्राह्मणहननम् आदि- त्यां मह्नां गर्भिणीमालभेत' इति श्रुतिविहितगर्भिणीहनन- नान्तरीयकं गर्भहननं च न तेन क्रोडीक्रियत इत्यप- रितोष:, तदा तेषामनुपदिष्टवैशेषिकप्रायश्चित्तत्वे सति वि. ध्यनुज्ञातत्वं क्रोडीकारकमस्तु । तथा च उक्तधर्मक्रोडीकृत. व्यतिरिक्तरूपपुरुषार्थनिषेधप्रतियोगिहिंसाविशेषणविवक्षाव- शात् मरणान्तप्रायश्चित्तादिवत्क्रत्वर्थहिंसापि पुरुषार्थनिषेधः- तियोगिकोटेावर्तिता भवति । पुनः क्रत्वर्थहिंसाया अपि क्रत्वर्थनिषेधो निषेधशास्त्रस्वार्थ इति स्वीकारे प्रागुक्तवैरू- %D वादनक्षत्रमाला । १ प्यादिदोषापत्तिः । एवं न्यायत एव क्रत्वर्थहिंसाया निषेधा- विषयत्वसमर्थनसंभवात् न तव्यावृत्तं हिसिधातुप्रवृत्तिनि- मित्तं वाच्यमिति ॥ अथ विंशतितमी- मरणान्तप्रायश्चित्तादिकं हिंसानिषेधाब्यावर्तनीयमिति ता- वदविवादम् । तत् प्रथममेव हिसिधातुप्रवृत्तिनिमित्तसंकोच- नेन वा पश्चाद्वाधकोपनिपातेन वा-इति विचारणायाम् , आद्यपक्षे हिंसानिषेधवाक्यार्थप्रथमप्रतीतावेव तव्यावर्तनं लभ्यत इति लाघवं भवति ; द्वितीयपक्षे तु प्रथमं मारण- मात्रनिषेधप्रतीतो मरणान्तप्रायश्चित्तादिबहुविधहिंसाविधिवा- क्यविरोधस्फूर्त्यनन्तरं तन्निरासाय क्लपमुत्सर्ग परित्यज्य म- रणान्तप्रायश्चित्तादिव्यावर्तकविशेषणं निषेध्यकोटी निवेश्य पूर्वप्रतीतमुपमृद्य अहिंसावाक्यार्थप्रतीत्यन्तरं संपादनीयमिति गौरवं स्यात्- इत्यतो लाघवानुसारात , न वा उवे तम्रियसे नरिष्यसि' इति संज्ञपनीयस्य पशोरहिंस्यत्वप्रति- पादकमन्त्ररवारस्यानुसाराञ्च प्रवृत्तिनिमित्तसंकोचपक्ष एव न्याय्य इति ।। अथैकविंशतितमी- अहिंसावाक्यार्थप्रतीतिलाघवानुसरणं तावदयुक्तम् । तदु- ६८ पूर्वोत्तरमीमांसा- . पजीव्यहिसिधातुशक्तिग्रहकाले लाघवेन मरणान्तप्रायश्चित्ता- दिव्यावर्तकविशेषणरहितस्य तत्प्रवृत्तिनिमित्तत्वावधारणे स- ति तदनुसारेण अहिंसावाक्यार्थनिर्णयविलम्बरूपस्य गौरवस्य फलमुखत्वेन अदोषत्वात्। अन्यथा वाक्यार्थनिर्णयविलम्बरू- पगौरवपरिहारार्थमिह प्रवृत्तिनिमित्तसंकोचकल्पनेन त्वर्थ- संज्ञपनं न हिंसा- इत्यभ्युपगमे, सौत्रामण्यां वर्णत्रयेऽपि निषिद्धस्पर्शाघ्राणादिकायाः पैष्टया: सुराया: ग्रहणं न ग्रहणं पानं न पानम् , अश्वमेधे राजानुज्ञया अश्वसंरक्षकैः क्रिय- माणम् अश्वमेधविषयमन्त्रब्राह्मणकल्पादिवेदिनां ब्राह्मणाना- मब्राह्मणानां च अभ्यवहार्यस्य आच्छिद्य हरणं न परस्व- हरणम् , वामदेव्योपासकस्य प्रार्थयमानसर्वयोषिदपहरणं न तत्संगति:-- इत्यपि तनिषेधवाक्यार्थप्रतीतिलाघवार्थमभ्यु- पगमप्रसङ्गात् । तस्मात् यथा ' यदाहवनीये जुह्वति' इत्याह- वनीयरूपहोमाधिकरणविधिवाक्ये जुहोतिधातोः 'अश्वस्य पदे पदे जुहोति' इति आवृश्चने जुहोति' इत्यादिवाक्य- निर्शाताधिकरणान्तरविशिष्टहोमातिरिक्तहोमविषयत्वं कल्य- ते ; न तु तस्य तदतिरिक्तहोमे शक्तिसंकोचः क्रियते; एवमिहापि स एव न्यायोऽनुसरणीयः । तथा 'न वा उवे तम्रियसे नरिष्यसि' इत्यादिमत्रस्वारस्यानु- वादनक्षत्रमाला। ' अहिं- : , , , सरणमप्ययुक्तम् , क्लप्रप्रवृत्तिनिमित्तानुसारेण सन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' 'आरण्यानुत्सृजन्त्यहिंसायै' 'न दोषो हिंसायामाहवे' इत्यादिश्रौतस्मातव्यवहारानुसा- रेण च ऋत्वर्थसंज्ञपनादीनामपि हिसिधात्वर्थत्वस्थिती, तदनु- सारेण 'न म्रियसे' इत्यौपचारिकप्रायपाठानुसारेण च 'न रियसि' इत्यस्यापि औपचारिकत्वस्यौचित्यात् । तस्मात् अ- वश्यव्यावर्तनीयहिंसान्तरव्यावृत्त्यर्थ पुरुषार्थनिषेधप्रतियोगि- हिंसाविशेषणवशादेव क्रत्वर्थहिंसायाः पुरुषार्थनिषेधाविषय- त्वलाभात् तस्याः क्रत्वर्थनिषेधस्यापि अहिंसावाक्यार्थत्व- स्वीकारे वैरूप्यादिदोषापत्तेः तस्यैव तद्वाक्यार्थत्वाभ्युपगमश- कायाश्च शीघ्रप्रतीतपुरुषार्थहिंसानिधेधविषयत्वौचित्येन अन- वकाशीकरणात् क्रत्वर्थसंज्ञपनख हिंसात्वेऽपि न निषे- ध्यत्वप्रसक्तिरिति न तव्यावर्तकहिसिधासुप्रवृत्तिनिमित्तकल्प- नागौरवमुररीकरणीयम-- इति सिद्धं मदीयमनुमानं नाप्र- योजकं त्वदीयमेवानुमानमप्रयोजकमिति । 'पशुहिंसाया अ- हिंसात्वम्'-इति भाष्यं तु औपचारिकाहिंसापरम , हिंसाया: सत्या: मुख्याहिंसात्वानुपपत्तेः । 'हिंसायाः' इत्यनुवादेन हि वस्तुतो हिंसात्वाभ्युपगम: स्फुटीकृतः । तस्मात् 'अपशवो वा अन्ये गोऽश्वेभ्यः पशवः' इति पशुत्वेनानूदितानां गवाश्व- . , .

पूर्वोत्तरमीमांसा-
व्यतिरिक्तानामपशुत्वोक्तिवत्- इयमहिंसात्वोक्तिरौपचारिकी
-इत्येव युक्तम् । अत एव अत्रधिकरणभाष्ये हिंसारूपं हि
परप्राणविमोचनम्'- इति जगदनुग्रहार्थस्यापि प्रलये सर्व-
संहारस्य हिंसात्वं व्यवहृतम् । तस्मात् क्रत्वर्थसंज्ञपनस्य
हिंसारूपत्वेऽपि विधिविरोधात् निषेधाविषयंता- इत्येक
भाष्यकाराणामाशयः ।।
इति हिसिधात्वर्थवादः ॥ २ ॥

गुणगुण्येकशक्तिवादः॥ क्रत्वर्थसंज्ञपनस्य हिसिधातुवाच्यत्वनिरूपणप्रसङ्गेन नी- लादिगुणवद्व्याणां नीलादिशब्दवाच्यत्वम् ‘सर्वत्र प्रसिद्धो- पदेशात्' इत्यधिकरणे भाष्ये ब्रह्मणः सर्वशब्दवाच्यत्वोपपा- दनार्थ दृष्टान्ततया उपात्तं व्यवस्थापयितुं नीलादिशब्दाः गुणमात्रवाचका: गुणिनि मतुब्लोपेन अभेदोपचारेण लक्ष- णया शक्तिभ्रमेण वा प्रयुज्यन्ते- इति नैयायिकादिमतं पूर्वपक्षतया परिगृह्य वादकथा प्रस्तूयते-- तत्र नीलघट: नीलत्वजातिप्रवृत्तिनिमित्तकतया नील- शब्दवाच्यः, नीलत्वजात्यधिकरणत्वात् , यत् नीलत्वजात्य- धिकरणम् , तत् नीलत्वजातिप्रवृत्तिनिमित्तकतया नीलशब्द- वाच्यम् यथा नीलरूपम- इति प्रथमा कक्ष्या ।। अप्रयोजकमिदमनुमानम् , अनुकूलतर्काभावात् । नील- घटो न नीलत्वजातिप्रवृत्तिनिमित्तकतया नीलशब्दवाच्यः, नीलरूपान्यत्वात् , यत् नीलरूपान्यत् , न तत् नीलत्वजाति- प्रवृत्तिनिमित्तकतया नीलशब्दवाच्यम्-यथा शुक्लरूपम् ; नी- " maarea पूर्वोत्तरमीमांसा- - लशब्दवाच्यत्वाभावव्याप्यनीलरूपान्यत्ववांश्च अयम् ; त- स्मात् न नीलत्वजातिप्रवृत्तिनिमित्तकतया नीलशब्दवाच्य:- इति द्वितीया । शब्दप्रवृत्तिनिमित्ताश्रयस्य तद्वाच्यत्वाभावानुपपत्ते: वा- द्यनुमानं नाप्रयोजकम् । प्रत्यनुमानमेव अप्रयोजकम्--- इति तृतीया ।। गुणगतजातीनां परंपरया द्रव्याश्रितत्वाभ्युपगमे प्रवृत्ति- निमित्ताश्रयत्वमात्रं न शब्दवाच्यत्वप्रयोजकम् । किं तु सा- क्षात् तदाश्रयत्वम् । अन्यथा परंपरया गुणशब्दप्रवृत्तिनि- मित्ताश्रयस्य द्रव्यस्यापि गुणशब्दवाच्यत्वे गुणवचनेभ्यो मतुपो लुगनुशासनं विरुध्येत । अतो वाद्यनुमानम् अप्रयो- जकम् । प्रत्यनुमानं च नाप्रयोजकम्- इति चतुर्थी । अथ पञ्चमी- शब्दवाच्यताप्रयोजके तत्प्रवृत्तिनिमित्ताश्रयत्वे साक्षात्त्व- विशेषणाभावे मतुब्लोपानुशासनविरोधो न प्रसज्यते । द्विविधा हि गुणशब्दा:-द्रव्यपर्यन्ता गुणमात्रविश्रान्ताश्च ; * नीलम् उत्पलस्य' 'नीलमुत्पलम्'-इति द्विविधव्यवहा- रदर्शनात् । तथा च यथा द्रव्यवाचिनां नीलादिशब्दानां गुणपरत्वविवक्षायां नैल्यं नीलत्वं नीलिमा-इति भाव- - , वादनक्षत्रमाला। प्रत्ययः, तथा तेषां . , . गुणवाचिनां द्रव्यपरत्वविवक्षायां मतुष्प्रत्ययोऽपि भवेत्-- दृश्यते हि पुण्यपापशब्दानाम् 'अयं पुरुष: पुण्यः' अयं पापः अस्य पुण्यम् अस्य पापम्' 'पुण्य: पुण्येन कर्मणा भवति पाप: पापेन कर्मणा' इत्यादिद्विविधव्यवहारदर्शनात् धर्माधर्ममाववाचक- त्वेन तद्धर्मिपर्यन्तत्वेन च द्विविधानां मध्ये धर्माधर्ममात्रवा- चकानां धर्मिपर्यन्तत्वविवक्षायाम् 'पुण्यवान्' पापवान् इत्यादिमतुबन्तव्यवहारः। तथा अत्रापि तत्प्राप्तौ तल्लोपानुशा- सनम् । तेन गुणविश्रान्ता नीलादिशब्दा: मतुब्लोपेन द्रव्य- पर्यन्तं नेतव्याः; न तु मतुबन्ततया-~-इति सिध्यति । अत: साक्षात्वविशेषणं गौरवान्न निवेशनीयम- इति नाप्रयोजक वाद्यनुमानम् , प्रत्यनुमानमेव अप्रयोजकमिति ।। अथ षटी- se गुणवाचिनामेव नीलादिशब्दानां तद्वत्सु द्रव्येषु लक्षण- या प्रयोगसंभवात् न तेष्वपि शक्तिः कल्पनीया, गौरवात् । अतो मतुब्लोपानुशासनं गुणवाचिन: शब्दा गुणिषु लक्षण- या प्रयोक्तव्याः, न तु मतुबन्ततया इति लक्षणानियमा- र्थमेव उपपादनीयम् । गुणपरनीलिमादिशब्दनिष्पत्तिरपि लक्ष्यमाणद्रव्यपरनीलादिशब्दात् भावप्रत्ययेन उपपादनी- " पूर्वोत्तरमीमांसा- या। अतो मतुब्लोपानुशासनानुरोधेन लक्षणीयद्रव्यातिप्र- सङ्गवारणाय साक्षास्वविशेषणापेक्षणात् वाद्यनुमानमप्रयो- जकम् , प्रत्यनुमानं च न अप्रयोजकमिति ।। अथ सप्तमी- गुणशब्दानां गुणिषु शक्त्यन्तरकल्पने हि गौरवं भवेत् । लाघवात् साक्षात्परंपरासाधारण्येन तेषां स्वप्रवृत्तिनिमित्ता- श्रयमात्रे शक्तिरिति लाघवोपनीतकधर्मावच्छेदेन गुणेषु गु. णिषु च एकशक्तिग्रहणपक्षे क गौरवप्रसक्तिः । यद्यपि अ- स्मिन्पक्षे शक्यव्यक्तिबाहुल्यलक्षणं गौरवमस्ति, तथापि प्रथ- मप्रवृत्तावच्छेदकलाघवानुसारेण पश्चादापतत्फलमुखं व्यक्ति- गौरवं न दोषः । तस्मात् नीलादिशब्दप्रवृत्तिनिमित्ते सा- क्षात्त्वं न निवेशनीयम् । नापि मतुब्लोपानुशासनं लक्षणा- नियमार्थमिति उपपादनीयम् । तस्माद्वाद्यनुमानं नाप्रयोज- कम् , प्रत्यनुमानमेवाप्रयोजकमिति ।। अथाष्ठमी- लुगनुशासनं लक्षणानियमार्थम्-- इत्येव उपपादनीयम्; साक्षात्त्वं च अवश्यं निवेशनीयम्; अन्यथा त्वदुक्तरीत्या घटवतो भूतलस्य परंपरया घटत्वाश्रयत्वेन तस्यापि घटश- ब्दवाच्यत्वापत्तेः । न च प्रवृत्तिनिमित्तं प्रति अपृथक्सिद्धा- वादनक्षत्रमाला। श्रयत्वं विवक्षितमिति नातिप्रसङ्ग इति वाच्यम् ; अपृथक्- सिद्धिर्हि न तावत् द्वयोरेकस्य अपराश्रयत्वनियतिः, तत्त. टूटव्यक्त्यत्ययानन्तरमपि अनुवर्तमानाया नीलत्वजातस्तदा- श्रितत्वनियमाभावात् । नापि सति धर्मिणि तदाश्रयत्व- नियतिः, घटे प्रथमक्षणावच्छिन्ने नीलरूपानुत्पत्त्या तस्मिन्ना- मपाकनिहिते नीलरूपनाशेनैव तस्याः सत्यपि घटे तदाश्रि- तत्वनियमासिद्धेः । नापि धर्मिणि परंपराघटके च सति धाश्रितत्वनियति: अपृथक्सिद्धिः, साक्षान्नीलत्वजात्याश्रये नीलरूपे परंपराघटकामावेन तदसंग्रहापत्ते: । अत: संबन्धानु- वृत्तिप्रयोजकयावत्सत्त्वे तदाश्रयत्वनियम: तदपृथक्सिद्धिरिति वाच्यम् । तथा सति घटत्वस्य परंपरया भूतलसंबन्धे घट- भूतलसंसर्गोऽपि प्रयोजक इति तत्सत्त्वे घटत्वस्य भूतलाश्रि- तत्वनियतिसद्भावात् कथमपृथक्सिद्धिविशेषणेन तव्यावृत्तिः, कथं च घटस्य रूपादिशब्दवाच्यत्वप्रसक्तेावृत्तिः । न हि रूपत्वादीनां नीलत्वादीनां च द्रव्यात्पृथक्सिद्धिसदसत्त्वे केनचिद्विशेषेण उपपादयितुं शक्ये । अतः साक्षात्त्वविशेष- णमेव निक्षेनीयम् । लुगनुशासनं च लक्षणानियमार्थमि- त्येवोपपादनीयम् । तस्मादप्रयोजकं वाद्यनुमानम् , प्रत्यनु- मानं च नाप्रयोजकमिति !!

पूर्वोत्तरमीमांसा- अथ नवमी- mummon- यथा " घटत्वस्य भूतलं रूपत्वस्य रूपि च आश्रय एव न भवति, घटो भूतलम्' 'रूपं घट:' इत्येवमादिव्यवहारादिरूपस्य आश्रयताग्राहकप्रमाणस्य अभावात् । न हि आश्रयाश्रयमा- त्रम् आश्रयद्वारा भवत्याश्रय: । किं तु यस्य तत्रापि आश्र- यताग्राहकं प्रमाणमस्ति, स एव तदाश्रयो भवति- कारणकारणमात्रं न कारणम् , कुलालपित्रादेस्तथात्वेऽपि अकारणत्वात् ; किंतु तस्यापि यत्र कारणताग्राहकं प्रमाण- मन्ति, तदेव यागादि स्वर्गादिकारणं भवति- तथा इहापि योजनीयम् । तस्मात् न माक्षात्त्वं निवेशनीयम् । नापि लुगनुशासनं लक्षणानियमार्थमित्युपपादनीयम् । अतो नाप्रयोजकं वाद्यनुमानम् , प्रत्यनुमानमेव अप्रयोजकमिति ।। अथ दशमी- यदि घटभूतलादिकं रूपत्वघटत्वाद्याश्रयो न भवति तथा- त्वग्राहकप्रमाणाभावात् , तर्हि घटादिकं नीलत्वाद्याश्रयोऽपि न भवेत् , वाद्यभिमतस्य तथात्वग्राहकप्रमाणस्य अभावादेव 'नीलो घटः' इत्यादिव्यवहारोऽस्तीति चेत् ; न, स हि मतु- ब्लोपानुशासनानुसारेण मतुपः प्रयोगे यावानर्थः, तावन्त- मर्थ द्रव्यपरस्य नीलादिशब्दस्य गमयति । मतुष्प्रयोगे च वादनक्षत्रमाला । muRNI द्रव्यस्य नीलत्वाद्याश्रयगुणाश्रयतैव तदर्थों भवेन ; न तु नीलत्वाद्याश्रयता। अत: यथा 'दण्डी पुरुषः' इति व्यव. हारः पुरुषस्य दण्डत्वाश्रयत्वे न प्रमाणम , तथा 'नीलो घटः' इत्यादिव्यवहारोऽपि घटस्य नीलत्वाद्याश्रयत्वे । अत: कारणकारणरीतिं परित्यज्य आश्रयाश्रयमात्रम् आश्रयद्वारेण आश्रयो भवति-- इति वादिनो रीतिरास्थया रीतिमनुरुध्य प्रतिवादिना अतिप्रसङ्गवारणाय लक्षणानियमा. र्थलुगनुशासनानुरोधाय च साक्षात्त्वं निवेशनीयमित्यापा- दितम् । अतो वाद्यनुमानमप्रयोजकम् , प्रत्यनुमानं च न अप्रयोजकमिति ।। । तामेव अथैकादशी- . घट: . घटादीनां नीलत्वाद्याश्रयत्व प्रमाणाभावोऽसिद्धः, नीलो इत्यादिप्रतीतिव्यवहारसद्भावात् । न हि नीलो गुणः' इत्यादिप्रतीतिव्यहारयोश्च 'नीलो घटः' इत्यादिप्रती- तिव्यवहारयोश्च मात्रयापि विशेषमीक्षामहे । येन गुणविषयौ तौ नीलत्वाद्याश्रयगोचरौ, गुणिविषयौ तदाश्रयाश्रयगोचरौ- इति वैषम्यं कल्प्येत । उभयविषययोरपि तयोर्विशेषाभावा- देव हि तौ प्रमाणीकृत्य गुणगुणिनोः केचिदत्यन्ताभेदं मन्यन्ते । अन्ये 'घटस्य नीलो गुणः' इत्यादिप्रती- पूर्वोत्तरमीमांसा- १ तिव्यवहारावनुरुध्य तयोर्मेदाभेदं च समर्थयन्ते । तयोर- त्यन्तभेदवादिनच कथं तर्हि 'नीलो घट:' इत्यादि- प्रतीतिव्यवहारौ इत्याशङ्कय मतुब्लोपात् अभेदोपचाराद्वा इति मतुब्लोपतुल्यत्वेन अभेदोपचारमपि तदुपपादकमुपा- ददते । तयोरनुभवसाक्षिकविशेषसद्भाचे तु नीलो घटः इत्यादिप्रतीतिव्यवहारालम्बनमभेदसमर्थनं भेदाभेद समर्थन च अत्यन्तनिरालम्बनं स्यात् ; अभेदोपचारवर्णनमपि विरुध्ये- त । तस्मान्मतुब्लोपानुशासनं पुण्यवानित्यादिरीत्या मतुब- न्तप्रयोगो न कार्य इत्येतदर्थमित्येव युक्तम् । नैवम् ‘घटो भूतलम् इत्यादिप्रतीतिव्यवहारौ स्तः । यो घटभूतलादीनां रूपत्वघटत्वाद्याश्रयत्वे प्रमाणीभवेताम् । न च ' बर्हिषि हवींष्यासादयति' इति वचनानुसारेण सा- क्षाद्वर्हिराश्रितानां हविषां बहिराश्रयभूता वेदिरपि आश्रय इत्यत्र-यथा 'वेद्यां हवींष्यासादयति' इति वचनम् , केवलं बर्हिषां कूपाच्छादनतृणन्यायेन हविराधारता न संभवतीति लौकिकदृष्टिश्च प्रमाणम्-- तथा इह किंचित्प्रमाणं दृश्यते । अतो वाद्यनुमानं नाप्रयोजकम् , प्रत्यनुमानमेवाप्रयोजक- . १ 1-0 रूपं घटः . मिति ।। अथ द्वादशी-- वादनक्षत्रमाला । .. रूपत्वस्य वटाश्रयत्व इव घटत्वस्य भूतलाश्रयत्व इव च नीलत्वस्य घटाश्रयत्वेऽपि प्रमाणाभावो न असिद्धः, गुणवि- षय योद्रव्यविषययोश्च नीलप्रतीतिव्यवहारयोः लोकतः स्पष्ट विशेषानवगमेऽपि आद्यौ नीलत्वजात्याश्रयविषयौ द्वितीयौ तद्विशिष्टवैशिष्टयविषयौ---इति विशेषस्य अवश्याभ्युपगन्त- व्यत्वान् । अन्यथा 'नीलः स्फटिक:' पीतं सुवर्णम्' 'उष्णं सलिलम्' इत्यादिप्रतीतिव्यवहारे स्फटिकसुवर्णसलिलानामपि नीलत्वपीतत्वोष्णत्वादिजात्याश्रयता पत्त्या नीलपीतोष्णादिश- ब्दवाच्यत्वप्रसङ्गात् । एवं द्रव्यविषययो: नीलादिप्रतीति- व्यवहारयोः विशिष्टवैशिष्टयविषयत्वमालोच्यैव कात्यायनेन मतुब्लोपानुशासनं कृतम् । अथ प्रमाणाभावे- ऽपि आश्रयाश्रयमात्रम आश्रयद्वारा आश्रयो भवति-इति परिभाषामात्रं क्रियते, तदा घटभूतलादीनां रूपघटादिशब्द- वाच्यत्वप्रसङ्गवारणाय माक्षात्त्वविशेषणं निवेशनीयम् । मतु- ब्लोपानुशासनं च लक्षणानियमार्थमित्युपपादनीयम । तस्मा- दप्रयोजकं वाद्यनुमानम् , प्रत्यनुमानं च नाप्रयोजकमिति ॥ अथ त्रयोदशी- गुणविषययोरिव द्रव्यविषययोरपि नीलादिप्रतीतिव्यव- हारयो: नीलत्वाद्याश्रयतायां प्रामाण्यमुपपद्यत एव । 'नील: भगवता पूर्वोत्तरमीमांसा- AMROO स्फटिकः' इति प्रतीतिव्यवहारयोस्तु भ्रान्तितन्मूलव्यव- हाररूपत्वात् न तस्यां प्रामाण्यं प्रसज्यते-- स्फटिक: संनिहितेन्दीवरादिनीलिमगतनीलत्वस्य साक्षादा- श्रय: । नापि परंपरया, नीलिम्नः तदाश्रयस्येन्दीवरस्य च स्फटिकाश्रयत्वाभावात् ; परंपराघटकस्य द्वारस्य आश्रितत्वे हि तहारा तदाश्रितमपि आश्रितं भवेत् -- यथा द्वारस्य कारणत्व एव तद्वारा तत्कारणमपि द्वारानन्तरभाविनि कारणं भवति । अन्यथा यागस्य स्वर्गकारणतानिर्वाहार्थम् अपूर्वमात्वं कल्प्येत ; न तस्य स्वर्गकारणत्वमपि । एवं च सर्वथा नीलत्वानाश्रये स्फटिके भवन्ती नीलप्रतीतिः भ्रा- न्तिरूपति तस्याः तन्मूलव्यवहारस्य च नीलत्वाश्रयतायां प्रामाण्याभावमात्रेण कथम् 'नीलो घट:' इत्यादिप्रतीतिव्य- वहारयोः स्वत: प्राप्तं प्रामाण्यमपैति । ' पीतं सुवर्णम्' इति प्रतीतिव्यवहारौ तु पीतिमाश्रयतायां प्रमाणमेव । पीतिमगु- रुत्वाधिकरणपार्थिवावयवव्यतिरेकेण तदन्तर्गतस्य सुवर्णश- ब्दवाच्यस्य तैजसांशस्य अनङ्गीकारात्; नैमित्तिकद्रवत्वस्य जतुवत् पार्थिव एव उपपत्तेः । न हि द्रुतसुवर्णमध्ये पार्थि- वभागः तन्मध्यनिक्षिप्तपाषाणखण्डवत् अद्रुत एवावतिष्ठते । येन द्रवत्वाश्रयभूतमन्यत् कल्प्येत । प्रत्युत - पीतं द्रुतम्' वादनक्षत्रमाला। ७ । इत्येवानुभूयते । कथ्यमानजलरूपापरावृत्तेरिव सुवर्णरूपापरा- वृत्तेरपि तदीयद्रवत्वेन अत्यन्तानलसंयुक्तवज्ररूपापरावृत्तेरिव वस्तुस्वभावेन वा उपपत्तेः । सुवर्णस्य पार्थिवत्वेऽपि अत्यन्ता- नलसंयोगेन तदीयद्रवत्वस्य वज्ररूपम्येव अनुवृत्तेरपि वस्तु- स्वभावादेवोपपत्तेः । अथवा सुवर्ण तैजसमेवास्तु, शुद्धसु- वणे दृश्यमानस्यात्यन्तपीतिनः । यदग्ने रोहितं रूपं तेजस- स्तद्रूपम्' इति श्रुतौ तेजोरूपत्वेन प्रतिपन्ने लौहित्य एव अवान्तरविशेषत्वोपपत्तेः । श्रुतिषु तेजोऽबन्नरूपत्वेन वर्णि- तेभ्यो लोहितशुक्लकृष्णवर्णेभ्योऽतिरिक्तस्य रूपस्याप्रामाणि- कत्वात् । गुरुत्वमपि करकावस्थे जले काठिन्यमिव सुव- र्णावस्थे तेजसि अनुभवबलादुपपन्नम् । उद्भूतरूपस्य तेजसः परप्रकाशकत्वदृष्टावपि अत्र तदभावः तथैवानुभवबलादुप- पन्नः । सुवर्णगततेजोऽशस्य परप्रकाशकत्वाभावोऽपि पर- पक्षे पार्थिवांशगतपीतिना अभिभवादिति अन्यत्रादृष्ट स्वभावविशेष: कल्पनीयः । न हि परपक्षेऽपि अन्यत्र रत्न- दीपादौ उपष्टम्भकपार्थिवभागरूपस्य तेजोगतभास्वरत्वाभि- भावकत्वं दृष्टम् । एवम् ' उष्णं जलम्' इति प्रतीतिव्यवहारा- वपि जलस्योष्णत्वाश्रयतायां प्रमाणमेव ; जलवत् स्वत: द्रव- त्वरहितस्यापि पार्थिवस्य घृतलाक्षादेवत्ववत् स्वतः शीत- *V.6 एवं ..

पूर्वोत्तरमीमांसा- -- म्यापि जलस्य अग्निसंयोगान्नैमित्तिकम्य उष्णस्पर्शस्योपपत्तेः तत्र तेजोऽन्तरोत्पत्तिकल्पनाया गौरवपराहतत्वात् । न हि अय:पिण्डारूढवह्निवत् अतिसप्ततैलोद्भूतवाहिज्वालावञ्च तत- जलसंयुक्तं किंचित्तेजोऽनुभूयते । तस्मात् 'नीलो घट:' इति प्रतीतिव्यवहारयोर्नीलत्वाश्रयतायां प्रामाण्यस्य दृष्टा- न्तोपन्यासेन प्रतिक्षेप्तुमशक्यत्वात् प्रागुक्तरीत्या वाधनु- मानं नाप्रयोजकम् , प्रत्यनुमानमेवाप्रयोजकमिति ।। अथ चतुर्दशी-- नीलम्फटिकादिष्टान्ता: प्रतिवादिनो नैयायिकस्य मतम- नुसृत्य उपन्यस्ता: -तन्मते हि नील: स्फटिकः' इति प्रतीतिः परंपरासंबन्धेन संनिहितोपाधिगतनीलगुणवैशिष्टय- विषया प्रमैव । तथा 'पीतं सुवर्णम्' इति प्रतीति: तैजसे सुवर्णे तदुपष्टम्भकपार्थिवभागगतपीतगुणवैशिष्टयविषया । * उष्णं सलिलम्' इति प्रतीति: तदन्त:प्रविष्टानुद्भूतरूपतेजो- गतोष्णगुणवैशिष्टयविषया । न च तन्मतमर्यादासिद्धदृष्टा- न्तोपन्यासस्य सता असता वा वाद्युपन्यस्तदूषणेन किंचि- द्धीयते । सन्ति वाद्यभिमता अपि दृष्टान्ता: प्राक् आदिश- ब्दन गृहीता: · नीलं वस्त्रम्' 'लोहितं काष्ठम्' इत्यादिप्रती- तिव्यवहारा:। न हि वखं रखकद्रव्यावयवानां काष्ठम् आश्र- .

वादनक्षत्रमाला। याशस्य वर्तेर्वा नाश्रय इति वक्तुं शक्यम् । तस्मात् वादि. नापि तन्मतसिद्धदृष्टान्तानुसारेण द्रव्यविषययोर्नीलादिप्र- तीतिव्यवहारयोः नीलत्वाद्याश्रयत्वविषयताभिमानस्त्यक्तव्य .. इति ।। . अथ पञ्चदशी- * नीलं वस्त्रम् इस्यादिप्रतीतिव्यवहारा अपि नीलत्वा- द्याश्रयताविषया एव न; किंतु भ्रान्तिरूपा: ‘अनीलमेव वस्त्रं रखकद्रव्यसंयोगानीलं भासते' · अलोहितमेव काष्टं तदुपारूढवह्निसंपर्काल्लाहितं भासते' इति विरुद्ध प्रतीति- व्यबहारयोः तत्प्रतीतिव्यवहारदशायामप्यनुवृत्तेः । न चै- वम • अनील एव घटो नीलतया भासते' इति विरुद्ध- प्रतीतिव्यवहारौ स्तः । 'घटो नीलगुणो न भवति' -इति प्रतीतिव्यवहारौ तु नीलत्वाश्रयताबाधको, गुणत्वाभावेन चारितार्थ्यात् । तस्मादबाधितौ प्रतीतिव्यवहारौ घटस्य नीलत्वाश्रयतायां प्रमाणीभवेतामेव-इति ।। अथ षोडशी- नीलत्वजात्याश्रयत्वविषयतायामबाधितौ एतौ प्रतीतिव्य- वहारौ-इत्येतदसिद्धम् , इहापि बाधकसद्भावात् । तथाहि- मतुब्लोपानुशासनं तावत् एकं बाधकम्---प्रत्ययश्रवणप्रथु- पूर्वोत्तरमीमांसा- अत एव कयौगिकार्थप्रतीतिमद्भावे हि तल्लोपानुशासनं सार्थकं भवेन् । पञ्चाला नाम केचन क्षत्रिया: तेषां निवासो ज- नपद:'--इति विवक्षायाम सोऽस्य निवास:'-इत्यर्थे प्राग्दीव्यतीयः प्रत्ययो भवति-इति मत्वा तस्य जनपदे लुप्' इति यल्लोपानुशासनं जरद्वैयाकरणैः कृतम् ; तन्न क- तव्यम् , जनपदविशेषे वर्तमानेन तत्संज्ञारूपेण पञ्चाला इति शब्देन पञ्चालनामकक्षत्रियाणां निवासो जनपद इति यौगिकार्थप्रतीत्यनुदयात् , ततो रूढ्या जनपदवि- शेषस्यैव प्रतीत्युदयादिति दूषितं पाणिनिना 'लुब्यो- गाप्रत्याख्यानात्' इति सूत्रेण 'अशिष्यम्' इति पूर्व- सूत्रादनुवृत्तिमता । अथ अरुणाधिकरणन्यायविरोधरूपम अन्यदाधकम् अरुणाधिकरणे हि 'अरुणया पिका- क्ष्यकहायन्या सोमं क्रीणाति' इति श्रुतिगतस्य अरुणापदस्य अरुणिमगुणपरत्वमङ्गीकृत्य अरुणिमगुणैकहायनीद्रव्योभय- साधनकक्रयभावनाविधिः अङ्गीकृतः । स तु गुणवचनानां गुणमात्रशक्त्यङ्गीकारे संगच्छते । अरुणाशब्दस्य पिङ्गा- क्ष्यादिशब्दसामानाधिकरण्यरूपेण वाक्यप्रमाणेन द्रव्यपर- त्वप्रतीतावपि तस्य गुणमात्रशक्तिपक्षे द्रव्यपरत्वस्य लक्षणया उपपादनीयत्वेन श्रुतिविरुद्धवाक्यबाधनोपपत्तेः । तस्य गु- वादनक्षत्रमाला। णिसाधारणशक्तिपक्षे तु स न संगच्छते, श्रुत्यविरुद्धस्य वाक्यप्रमाणस्य उपेक्षानहत्वात् । तस्मात् 'नीलो घट: इति प्रतीते: घटगतनीलत्वजात्याश्रयताविषयत्वे बाधकस- द्भावेन भ्रान्तित्वापत्तेः तत्प्रामाण्यमभ्युपगच्छता विशिष्टवै- शिष्टयविषयत्वमेवाभ्युपगन्तव्यम् । तस्माद्धटस्य रूपत्वाश्र- यत्वे नीलत्वाश्रयत्वे च प्रमाणाभावस्तुल्य इति ।। अथ सनदशी- . , मतुब्लोपानुशासनस्वारस्यभङ्गस्तावत् न बाधकः, लो घट:' नीलो गुणः' इति प्रतीत्योरविशेषानुभवविरो- धेन तत्स्वारस्यभङ्गस्य उचितत्वात् ; मतुब्लोपे नीलादिगुण- विशिष्टद्रव्यप्रतीतिः, अन्यत्र नीलत्वादिविशिष्टद्रव्यप्रतीति:--- इति व्यवस्थया उभयसामजस्य समर्थनसंभवाच । अरुणाधि- करणन्यायविरोधस्तु न प्रसज्यते, गुणशब्दानां गुणगु- ण्युभयवाचकस्वेऽपि अरुणावाक्ये गुणिपरिग्रहे विभक्तेः शब्दसाधुत्वमात्रार्थतया वैयर्थ्य स्यात् ; गुणिगतकरण- कारकत्वस्य समानाधिकरणपदान्तरगततृतीयाविभक्तिलब्ध- त्वात् । न च गुणपरिग्रहेण तद्तकरणकारकत्वार्थकतया सार्थकत्वे संभवति वैयाङ्गीकारो युक्तः । न च द्रव्यै- कपरपिङ्गाक्ष्यैकहायनीपदगतविभक्तिद्वयवत् अनन्यगतिक- पूर्वोत्तरमीमांसा .. स्वमस्ति । अरुणापदस्य गुणार्थत्वपरिग्रहेण तत्सार्थकत्व- समर्थनसंभवात् । अत: प्रकृतिश्रुत्यविरोधेऽपि विभक्ति- श्रुतिविरोधेन वाक्यबाधनमुचितमालोच्य पूर्वमीमांसकैः गु- णार्थपरिग्रहः कृतः । अस्माभिस्तु सामानाधिकरण्यस्यापि अनुप्रहसंभवे तद्वाधनायोगात् अरुणाशब्दस्य गुणिपर्यन्तत्व- माश्रित्यैव विभक्त्यर्थस्य विशेषणसंक्रान्ति: इध्यते । तस्मात् बाधकामावेन 'नीलो घट:' इति प्रतीते: 'नीलो गुण:' इति प्रतीतेरिव नीलत्वाश्रयतायां प्रामाण्यमुपपद्यत एव । अतो घटस्य नीलशब्दप्रवृत्तिनिमित्ताश्रयत्वात् शब्दवाच्य- स्वप्रयोजके प्रवृत्तिनिमित्ताश्रयत्न साक्षात्वविशेषणस्य गौरव- पराहतत्वाञ्च नीलशब्दप्रवृत्तिनिमित्ताश्रयस्य घटस्य नीलश- ब्दवाच्यत्वम अव्याहतमिति विपक्षे बाधकतर्कस्य अप्रति- हततया वाद्यनुमानमेव प्रयोजकम् , प्रत्यनुमानमप्रयोजक- मिति सिद्धं घटस्य नीलशब्दवाच्यत्वम् । नीलशब्दन्यायेन अन्येऽपि रूपविशेषवाचिनो रसगन्धविशेषवाचिनश्च गुण. गुण्येकशक्तिमन्तः प्रत्येतव्याः ।। इति गुणगुण्येकशक्तिवादः ॥ ३ ॥ ६ गुणगुण्यनेकशक्तिवादः॥ " यथा अथ एषां गुणवचनानां शब्दानां गुणगुणिनोभिन्ना श- क्तिरिति सैद्धान्तिक पक्षान्तरमाश्रित्य कथा प्रस्तूयते- नीलगुणाश्रयो घटो नीलशब्दस्य वाच्यः, धटनीलगुणा- न्याप्रतियोगिकाभावप्रतियोगित्वात् , यो घटनीलगुणान्या- प्रतियोगिकाभावप्रतियोगी, स नीलशब्दवाच्यः- नीलगुण:---- इति प्रथमा कक्ष्या ।। अप्रयोजकमिदमनुमानम् , नीलगुणस्य नीलशब्दप्रवृ- त्तिनिमित्तनीलत्वजात्याश्रयत्वेन नीलशब्दवाच्यत्वेऽपि घटस्य तदनाश्रयत्वेन नीलशब्दावाच्यत्वोपपत्तेः । तस्मात् घटो न नीलशब्दवाच्यः, नीलत्वजात्यनाश्रयत्वात् , यो नीलत्व. जात्यनाश्रयः, स न नीलशब्दवाच्यः -यथा शुक्लगुणः । नीलशब्दवाच्यत्वाभावव्याप्यनीलत्वजात्यनाश्रयत्ववांश्च अ- यम् , तस्मात् न नीलशब्दवाच्यः---इति द्वितीया कक्ष्या ॥ . है . न अप्रयोजकमिदमनुमानम , नीलत्वजातिवत् नील- गुणस्यापि नीलशब्दप्रवृत्तिनिमित्तत्वेन तदाश्रयस्य नीलश- ANNI पूर्वोत्तरमीमांसा- ब्दवाच्यताया अव्याहतत्वात् । त्वदनुमानमेव अप्रयोज- कम् , घटस्य नीलत्वानाश्रयत्वेऽपि नीलशब्दप्रवृत्तिनिमि- त्तान्तराश्रयत्वेन तद्वाच्यत्वोपपत्ते: -इति तृतीया ।। , Poe त्वदनुमानम् अप्रयोजकमेव, लाघवात् नीलत्वजाति- मात्रस्य नीलशब्दप्रवृत्तिनिमित्तत्वोपपत्तौ तया अक्रोडीकृता- नां नीलगुणानामपि तत्प्रवृत्तिनिमित्तत्वकल्पनायोगात् । अत एव मदनुमानं न अप्रयोजकम, प्रवृत्तिनिमित्तानाश्र- यस्य तद्वाच्यत्वायोगात्-इति चतुर्थी । मदनुमानं तावत् न अप्रयोजकम् , 'नीलो गुणः' इति व्यवहारात् गुणगतनीलत्वजातेरिव 'नीलो घटः' इति व्यवहारात् तद्गतनीलगुणस्यापि तत्प्रवृत्तिनिमित्तत्वकल्पना- वश्यंभावात ; व्यवहारमनुरुध्य प्रवृत्तिनिमित्तकल्पनौचि- त्यात् । अत एव त्वदनुमानमप्रयोजकम् , प्रवृत्तिनिमित्ताश्र- यस्य तद्वाच्यत्वोपपत्तेः -इति पञ्चमी ।। re , त्वदनुमानं तावत अप्रयोजकमेव, नीलशब्दस्य स्व- वाच्यनीलगुणसंबन्धात् घटे लक्षणया 'नीलो घटः' इति व्यवहारोपपत्तौ तत्रापि नीलशब्दस्य शक्त्यन्तरकल्पने गौ- रवात् । अत एव मदनुमानं न अप्रयोजकम, प्रवृत्तिनिमि- वादनक्षत्रमाला। .. तानाश्रयस्य शब्दवाच्यताया व्याहतत्वात्- इति षष्ठी ।। अथ सप्तमी- यदि नीलादिशब्दानां द्रव्ये लक्षणा स्यात् , वर्ण- दृढादिभ्यः ध्यञ् च' इति पाणिनिसूत्रेण वर्णवाचिभ्यो नील. दिशब्देभ्यः तस्य भावे'. इत्यर्थे विहितौ ध्यज्ञिमनिचौ प्रत्ययौ नीलादिगुणस्य भावे नीलत्वादिजाती भवेताम् । नीलादिद्रव्यस्य भावे नीलादिगुणे तौ दृश्यते- घटस्य नैल्यं नीलिमा इति हि लोके नीलादिगुण एव उच्यते अत: नीलादिशब्दानां द्रव्यवाचकत्वमवश्यमभ्युपगन्तव्य- मिति द्रव्ये तेषां शक्तिकल्पनं न गौरवेण त्यक्तुं शक्य- ते- इति ॥ अथ अष्टमी कक्ष्या- वैयाकरणैः नीलादिशब्दाः केवला: लुप्तमतुबन्ताश्च- इति द्विविधाः इध्यन्ते । तत्र आद्या: गुणेषु, द्वितीया: तद्विशिष्टद्रव्येषु च प्रवर्तन्ते । तदिह वर्णदृढादिसूत्रे नीला- दिशब्दा: केवला: धर्मविषया ग्राह्याः, द्वितीया: धर्मिविषया इति संदेहे धर्मिपरहढादिशब्दसाहचर्यात् द्वितीया एव ग्राह्या इति च तैरिष्यते । एवमकल्पितनित्यशब्दस्वरूप- परिज्ञानार्थ चित्रतुरगन्यायेन कल्पितप्रकृतिप्रत्ययतल्लोपादि- mate ।

Cesh ९० पूर्वोत्तरमीमांसा- .. .. -- युक्तानित्यशब्दनिष्पादने प्रवृत्तैः वैयाकरणैः मतुब्लोपस्य व्यवहृतत्वेऽपि वस्तुतत्त्वमनुरुध्य सिद्धशब्दानामेव अर्थनिर्णये प्रवृत्तः न्यायविद्भिः न्यायानुसारेण शब्दार्थनिर्णयः कार्यः । तदनुसारेण च मतुब्लोपस्य वैयाकरणकल्पितत्वान् केवला एव नीलादिशब्दा: गुणेषु गुणिषु च प्रवर्तन्ते----इत्यभ्युप- गन्तव्यम् । ततश्च लाघवात् गुणवाचिनामेव तेषां गुणिषु लक्षणया प्रवृत्त्युपपत्ते: गङ्गादिशब्दाना तीरादिष्विव-तषां गुणिषु शक्त्यन्तरं न कल्पनीयम् । ननु गुणवाचिनामेव नीलादिशब्दानां गुणिषु लक्षणा चेन , मतुब्लोपानुशासनं न कर्तव्यं स्यात् , न हि गङ्गादिशब्दाना तीरादिषु लक्षणया प्रवृत्त्यर्थ तीरादिप्रत्यायककिंचित्प्रत्ययलोपानुशासनं क्रियते । अत: तदनुशासनेन इदमवगम्यते-- प्रत्ययप्रयोगे यावान- र्थः तावदर्थकत्वमपि नीलादिशब्दानामस्तीति वैयाकरणा- नामभिप्राय:---इति । मतुष्प्रत्ययप्रयोगे च नीलगुणवत्त्वमर्थो भवति-इति निर्विवादम । अतो नीलादिशब्दानां गुणिषु शक्तिकल्पनमावश्यकम् । अन्यथा शब्दार्थनिर्णयाभियुक्तवै. याकरणकृतमतुब्लोपानुशामनवैयर्थ्यप्रसङ्गात्- इति चेत् , मैवम् , यतो नीलादिशब्दानां गुणिषु लक्षणाभ्युपगमेऽपि न मतुब्लोपानुशासनवैयर्थ्य प्रसज्यते-- यथा हि गङ्गाश- , वादनक्षत्रमाला। a , ब्दस्य लक्षणया तीरे कदाचित्प्रयोग: 'गङ्गायां घोषः इति; कदाचित्तीरवाचकशब्देन सह प्रयोग: 'गङ्गातीरे घोषः इति----- एवं गुणशब्दानां कदाचित् लक्षणया गुणिषु प्रयो- नीलो घट:' 'पीतो घटः' इत्यादि, कदाचिद्व्य- बाचिना मतुपा सह प्रयोग: नीलवान्घट: पीतवान्घट: इति---- एवं द्विविधव्यवहारप्रसक्तो लक्षणया प्रयोग एव साधुः मतुबन्तप्रयोगस्तु असाधुः इति ज्ञापनार्थत्वोपपत्तेः । एवं च नीलादिशब्दानां शक्त्या गुणमात्रपरत्वं लक्षणया गुणिपर्यन्तत्वम्- इति स्थिते गुणिपर्यन्नानामेव तेषां वर्ण- दृढादिसूत्रे ग्रहणमिति धर्मिपरहढादिशब्दसाहचर्यात् नै. ल्यादिशब्दैः नीलादिगुणानामिव तद्गतनीलत्वादिजातीनाम- भिधानदर्शनाच अवसीयते । न च शक्तादेव प्रत्ययनिष्पत्तिः, न लाक्षणिकात--- इति नियमोऽस्ति; धर्मवाचकानामेव शब्दानां वृत्तिविषये लक्षणया धर्मिपर्यन्तत्वस्य निद्रा- यते' करुणायते' : ओजायते' इत्यादी बहुलमुपलम्मात् । तेषु हि अनिद्रो निद्रावान्भवतीत्याद्यर्थेषु निद्रादिशब्दाः निद्रावदादिधर्मिलक्षका:: एवमलोहितो लोहितो भवति लोहितायते-- इति शब्दनिष्पत्त्यर्थ प्रत्ययविधायके 'लोहि- तादिडार्जभ्य: कृष्' इति सूत्र लोहितग्रहणमपि लक्षणया क पूर्वोत्तरमीमांसा- धर्मिपरम् , लोहितगुणरहितस्य घटादेः पाकादिना लोहितगु- णवैशिष्टयवत् अलोहितगुणस्य लोहितगुणतायाः कचिदपि भावस्य अदर्शनात् । तस्मात् नीलादिशब्दानां द्रव्यपरत्वस्य लक्षणया उपपन्नत्वात् अप्रयोजकं त्वदनुमानम् , मदनुमान च न अप्रयोजकम् --- इति । अथ नवमी- mpan क . नीलादिशब्दानां द्रव्यवाचकत्वाभावे द्रव्यपरेभ्यस्तेभ्यः घ्यज्ञादिप्रत्ययविधिरेव न संभवति । भावार्थे हि तद्विधा- नम् ; 'तस्य भावस्त्वतलौ' इति भावार्थाधिकारात् । भाव- शब्देन च यस्माच्छब्दात् भावार्थप्रत्ययविधानं क्रियते, त्प्रवृत्तिनिमित्तभूतो धर्म उच्यते ; न तु तद्वाच्यर्मिगतधर्म- मात्रम् , घटत्वशब्देन घटशब्दप्रवृत्तिनिमित्तजातेरिव घटगत- क्रियागुणादिधर्मान्तरस्य अनभिधानात् । यस्य गुणस्य हि भावाद्रव्ये शब्दनिवेश: तदभिधाने त्वतलौ-इत्यादिवदद्भिः शब्दविद्भिरपि तथैवाङ्गीकृतत्वाञ्च । न च शक्त्या शब्द- प्रवृत्तौ निमित्तस्य शक्यतावच्छेदकस्येव लक्षणया शब्द- प्रवृत्ती निमित्तस्य मुख्यार्थस्यापि शब्दप्रवृत्तिनिमित्तत्वावि- शेषात् इह भावशब्देन ग्रहणमस्त्विति वाच्यम् , सति लक्षणया तीरे गङ्गाशब्दप्रवृत्तिनिमित्तस्य प्रवाहत्वस्यापि तथा वादनक्षत्रमाला। ९३ गङ्गात्वशब्देन अभिधानप्रसङ्गात् । तस्मात् नीलादिशब्दानां गुणेष्विव द्रव्येष्वपि शक्तिरङ्गीकरणीया । अत एव 'वर्णो वर्णेन' इति वर्णवाचिनां वर्गवाचिभिः सह समानाधिकर- णसमासविधायकसूत्रेण गुणवाचिनां गुणिवाचिनां च तेषाम- विशेषेण ग्रहणमिष्यते । तत एव हि द्रव्येष्वपि नीललोहित इत्यादिप्रयोगाः । तेषु श्वेतलोहितादिगुणानां भिन्नभिन्नावयवा- श्रितत्वेऽपि अवयवगुणेन समुदायः तथा निर्दिश्यते इति सामानाधिकरण्यं भाष्यादिषु उपपादितम् । अत एव नाति- श्वेते नातिरक्ते गुणिनि गुणे च ' श्वेतरक्तस्तु पाटलः' इति श्वेतरक्तशब्दप्रयोगः । च गुणगुण्युभयसाधारण्यम् 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्यग्रिमवच- नेन स्फुटीकृतम् । तस्मात् नीलादिशब्दानां द्रव्येष्वपि शक्तरवश्यंभावात् नाप्रयोजक मदनुमानम् , त्वदनुमानमेव अप्रयोजकम्-- इति । तस्य . अथ दशमी- नीलादिशब्दानां द्रव्येष्वपि शक्तिरिष्यते चेत् , गुणेषु तत्प्रवृत्तिनिमित्तानां नीलत्वादिजातीनां परंपरासंबन्धेन द्र. व्याश्रितत्वस्यापि 'नीलो गुण: 'नीलो घट:' इत्यादिव्य- वहारैकरूप्यानुसारेण कल्पयितुं शक्यत्वात् त्वदभिमत- पूर्वोत्तरमीमांसा- नीलो घटः' इत्यादिप्रतीतिव्यवहारयोः नीलादिगुणविशि- छद्रव्यविषयत्वमेव न सिध्येत् । दूरे नीलादिगुणानां प्रवृत्ति- निमित्तत्वम् । अत: तयोः नीलत्वादिजातिविशिष्टद्रव्यविष- यत्वपक्षमपहाय नीलादिगुणविशिष्टद्रव्यविषयत्वपक्षमाश्रयता तीरे गङ्गाशब्दम्य प्रयोगप्रतीत्योः तस्मिन्प्रवाहत्ववैशिष्टयवि- षयत्वमपहाय प्रवाहसंबन्धितीरत्वविषयत्वमिच्छता गङ्गाश- ब्दस्य तीर इव-नीलादिशब्दानां द्रव्येषु लक्षणैवाभ्युपेतव्या । एवं न्यायत: स्थितौ क्वचिल्लक्ष्यतावच्छेद केऽपि प्रयोगा- नुसारेण भावप्रत्ययो भविष्यति, प्रयोगमूलत्वाव्याकरणस्य । वर्णो वर्णेन' इत्यत्र तु प्रयोगानुसारणे द्रव्यलक्षकाणामपि नीलादिशब्दानां ग्रहणं भविष्यति । अत: त्वदनुमानमप्रयो- मदनुमानं नाप्रयोजकमिति ।। अथैकादशी-- द्रव्येषु नीलादिशब्दप्रवृत्तौ नीलादिगुणानां निमित्तत्वा- भावे तेषु नैल्यनीलिमादिशब्दप्रयोगो न स्यात् , नीलत्वा- दिजातीनां निमित्तत्वे तासु तेषां प्रयोगश्च स्यात्, भावार्थ- प्रत्ययानां प्रवृत्तिनिमित्तवाचित्वात्-- इति दोषसद्भावादेव नीलत्वादिजातिप्रवृत्तिनिमित्तत्वाप्रसक्तः, तद्भयात् द्रव्येषु न शक्तिर्वक्तव्या । व्याकरणं च नान्यथाकरणीयम्; किंतु गु- जकम्, बादनक्षत्रमाला ! ९५ णेषु नीलिमादिशब्दसिद्धये गुणविशिष्टेषु द्रव्येषु शक्तिरङ्गी- करणीया। अतो नाप्रयोजकं मदनुमानम् , त्वदनुमानमप्रप्रो- जकमिति ।। । अथ द्वादशी- शक्यमन्त्र लाघवमूलकैकशक्तिपक्षानुमारण नीलिमादिश- ब्दप्रयोगस्य नीलत्वादिजातिविषयतायां इष्टापत्या परिहर्तुम् , घटस्य नैल्यम्' 'घटस्य नीलत्वम' इति प्रतीतिव्यवहा- राणां विषयैक्यानुभवात । न च वाच्यम् ‘पूरणगुणसुहि- तार्थसदव्ययतव्यसमानाधिकरणेन' इति सूखभाध्ये गुण - वाचिना सह षष्ठीसमासनिषेधस्य बलाकायाः शौक्ल्यं का- कम्य कार्ण्यम- इत्युदाहृतम् , अत: ध्यज्ञादिप्रत्ययान्तानां गुणवाचिशब्दानां शुक्लत्वादिगुणवाचित्वमेव अङ्गीकर्तव्य- मिति ; तस्मिन्सूत्रे गुण दस्य रूपादिपञ्चकासाधारण्या- भावात् 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इत्यादिसूने- विव धर्मान्तरसाधारण्यात् । अत एव भाध्ये कण्टकस्य तैष्ण्यम्--- इत्यपि गुणवाचिना सह षष्ठीसमासनिषेधस्य उदाहरणान्तरं दर्शितम् । अवश्यं च नीलत्वादिजातिध्वपि त्वया नीलिमादिशब्दोऽभ्युपेयः । अन्यथा तासु नीलत्वादि- शब्दोऽपि न स्यात् । भावार्थत्वेन त्वतलो: इमनिजाद्यविशे- पूर्वोत्तरमीमांसा- षात् । तस्मादिष्टापच्या परिहारसंभवात् शक्तिपक्षे 'नीलो घटः' इत्यादिप्रतीतिव्यवहारयोः त्वदभिमतं नीलगुणवि- शिष्टविषयत्वं न सिध्येदिति तसिद्धिमन्विच्छता लक्षणवाश्रय- णीया इति अप्रयोजकं त्वदनुमानम् , मदनुमानं च नाप्रयो- जकमिति ॥ अथ त्रयोदशी-- यदि साक्षात्परंपरासंबन्धाभ्यां गुणगतजातिरेव गुण- गुणिनो: नीलादिशब्दप्रवृत्तौ निमित्तमिति सैव नीलिमादि- शब्दभागपि भवेत् , तदा 'घटस्य नीलिमा' इतिवत् 'घटरू- पत्य नीलिमा' इत्यपि व्यवहारः प्रसज्येत । न चैवं सति सा नीलत्वशब्दभागपि न भवेत् इति वाच्यम् , न हि वर्णदृढा- दिसूत्रेण त्वतलोविधिः ; येन द्रव्यविषयेभ्य एव नीलादिश- ब्देभ्यस्तावपि स्याताम् । किं तु 'तस्य भावस्त्वतलौ' इति सूत्रेण । तत्र च तस्य' इति षष्ठीसमर्थमात्रात् त्वतलो विधी- यमानौ गुणवाचिभ्योऽपि नीलादिशब्देभ्यो भवेतामेव । अपि च द्रव्येष्वपि नीलादिशब्दानां यदि नीलत्वादिजातिरव प्रवृ- त्तिनिमित्तं भवेत् , तदा तेभ्यो नीलत्वादिविशिष्टत्तयैव द्रव्याणां प्रतीति: स्यात् ; न तु नीलत्वादिविशिष्टगुणविषय- तया । तथैव च तेभ्यस्तत्प्रतीतिरभ्यर्थ्यते; मतुब्लोपानुशा- ।

वादनक्षत्रमाला। , सनदर्शनात् व्यवहारमूलभूतप्रत्यक्षानुसाराश्च । प्रत्यक्षेण यथाभूतमर्थम् आप्तः पश्यति, तथाभूतार्थबुबोधयिषया स वाक्यं प्रयुझे। श्रोतुश्च वक्तृतात्पर्यमवगच्छतः ततो वा- क्यात्तथाभूतार्थविषय एव प्रत्ययो भवतीति वस्तुस्थितिः । इह च नीलं घटमवलोकयतः पुरुषस्य नीलगुणविशिष्टद्रव्य. विषयिणी बुद्धिः जायते ; न तु नीलगुणगतनीलत्वजाति- विशिष्टद्रव्यबुद्धिः ; रूपरूपिणी: समानवित्तिवेद्ययो: प्रकार- प्रकारिभावेन भाननियमस्य सर्वसंप्रतिपन्नत्वात् । तथा च प्रत्यक्षमूल: 'नीलो घटः' इति व्यवहार: तज्जन्यशाब्द- प्रत्ययश्च कथं नीलगुणविशिष्टद्रव्यविषयौ न भवेताम् । न च नीलो घटः' इति प्रतीते: 'नीलो गुणः' इति प्रतीत्य- विशेषानुभवस्यापि सामजस्याथै मतुब्लोपमनपेक्ष्य 'नीलो घटः' इति व्यवहारो नीलत्ववैशिष्टयविषयः. तमपेक्ष्य त- द्व्यवहारो नीलगुणवैशिष्टयविषय:- इति कल्प्यतामिति वाच्यम; मतुब्लोपवार्तिकानन्तरं प्रवृत्तेन 'अव्यतिरेका- सिद्धमिति चेदृष्टो व्यतिरेकः' इति वार्तिकेन-शुक्लादि- शब्दरभिधीयमानानां गुणानामव्यतिरेकात् गुण्यव्यभि- चारात शुक्लू वस्त्रम् इति गुणिना सहैवाभिधानात् शुक्छादिशब्दशक्त्यैव गुण्यभिधानसिद्धेः मतुब्लोपानुशासनं *V.7 पूर्वोत्तरमीमांसा- - व्यर्थमिति शङ्कामुद्भाव्य, वस्त्रस्य शुक्लः इति गुणा- भिधानस्य गुणिव्यभिचारदृष्टः केवलगुणवाचकोऽपि शुक्ला- दिशब्दाऽम्तीति तस्य द्रव्यपर्यन्तत्वविवक्षायां मतुपः प्राप्नो तल्लोपानुशासनं सार्थकमिति परिहारार्थ प्रवृत्तेन----मतुब्लो- पानपेक्षस्यापि द्रव्येषु शुक्लादिशब्दस्य गुणिविशिष्टाभिधा- यकत्वावगमात् शब्दशक्तिनिर्णयाभियुक्तवृद्धव्यवहारविरुद्ध- स्य लौकिकानामितरसारूप्यानुभवस्य प्रमाणीकरणायो. गात् । तत्प्रमाणीकरणे लुममतुष्प्रयोगजन्यज्ञानात्यन्तसा- रूप्यानुभवबलात् तदन्यस्यापि 'नीलो घटः' इति ज्ञानस्य गुणवैशिष्टयविषयत्वकल्पनस्यैव उचितत्वात् । 'नीलो घट:' इति प्रयोगयोरेव सारूप्यम् , न तजन्यज्ञानयोरिति कल्पने नीलो घट:'- इति प्रयोगयोरेव नीलत्वांशे सारूप्यम् न तज्जन्यज्ञानयोरिति वक्तुं शक्यत्वात् । तस्मात् अव्यतिरेकवार्तिकानुरोधाय 'घटरूपस्य नीलिमा'- इत्यादि- व्यवहारप्रसङ्गपरिहाराय च द्रव्येषु नीलादिशब्दानां नीला- दिगुणा एव प्रवृत्तिनिमित्ततया स्वीकार्याः । न तु नीलत्वा- दिजातयः ; इत्यत: त्वदुक्तदोषप्रसक्त्यभावेन नीलादिशब्दा- नां नीलगुणादिविशिष्टेषु द्रव्येषु शक्तेरवश्याश्रयणीयत्वात् सिद्धं घटादीनां नीलादिशब्दवाच्यत्वसाधकं मदनुमानं , नीलो गुण:

वादनक्षत्रमाला ।
९९
नाप्रयोजकम् ,
तेषां
अप्रयोजकमिति ॥
तदवाच्यत्वसाधकं त्वदनुमानमेव
इति गुणगुण्यनेकशक्तिवादः ॥ ४ ॥

गुणगुण्येकशक्तिपक्षश्रेयस्त्ववादः ॥ Manerease , एवं नीलादिशब्दानां गुणगुणिविषयैकानेकशक्तिपक्षी द- र्शितौ । अनयोरेकशक्तिपक्ष एव श्रेयानिति निर्णयार्थ कथा प्रस्तूयते-- तत्व नीलो घटः इति घटपदसमानाधिकरणनीलपद- गता शक्ति: नीलगुणविशिष्टविषया, नीलगुणप्रवृत्तिनिमित्त- केति यावत् , नीलगुणशक्तपदगतघटविषयकशक्तित्वात् , या नीलगुणशक्तपदगता घटविषयकशक्तिः, सा नीलगुणविशिष्ट- विषया-यथा प्रकृतनीलगुणविशिष्टपरामर्शिन: ‘स घट:' इति वाक्ये श्रुतस्य सर्वनाम्नः शक्तिः। हेतौ नीलगुणश- क्तत्वं नीलत्वजात्या प्रवृत्तिनिमित्तेन विवक्षितम् , अत: नी- लगुणघटोभयविषयवस्तुपदादिशक्तौ न व्यभिचार:--इति पूर्वपक्षिण: प्रथमा कक्ष्या ॥ गौरवलक्षणप्रतिकूलतर्कपराहतमिदमनुमानम् , नीलत्व- जात्या प्रवृत्तिनिमित्तेन नीलगुणे शक्तस्य नीलपदस्य नीलगुणेन प्रवृत्तिनिमित्तेन द्रव्ये शक्त्यन्तरस्वीकारे हि अनेकार्थत्वलक्षणं १ वादनक्षत्रमाला। . १ , oto गौरवं स्यात् । अत: पक्षीकृतेयं शक्तिः न नीलगुणविशिष्टवि. षया, नीलत्वजातिप्रकारकबोधानुकूलशक्तित्वात् , या नील. स्वजातिप्रकारकबोधानुकूला शक्तिः, सा न नीलगुणविशिष्ट- विषया -यथा तदीयनीलगुणविषया शक्तिः । परमते नी. लपदस्य गुणविषया शक्ति: पक्षीकृतद्रव्यविषयशक्तितो भिन्ना दृष्टान्तः । मन्मते पक्षीकृतैव शक्तिः गुणविषयत्वा- कारण दृष्टान्तः। साध्यसाधनवत्वेन संप्रतिपत्तिहि दृष्टा- न्तत्वप्रयोजका । न तु सर्वथा पक्षादन्यत्रापि इति द्वितीया कक्ष्या ।। . . अनेकशक्तिकल्पनागौरवं न मदनुमानवाधकम् , नीलो घट:' 'नीलो गुणः' इति प्रयोगद्वयनिर्वाहकतया तस्य प्रामाणिकत्वात् । न हि गुणविषयशक्त्या गुणिविषयस्यापि व्यवहारस्य निर्वाहोऽस्ति । न च लक्षणया तन्निर्वाहः त्वयापि अभ्युपगम्यते । अत: त्वदनुमानमेव 'नीलो घटः' इति प्रयो- गार्मभवलक्षणप्रतिकूलतर्कपराहतम्-इति तृतीया कक्ष्या ॥ गुणगतनीलत्वजात्यैव प्रवृत्तिनिमित्तेन गुण इव द्रव्येऽपि प्रवृत्ति: संभवति, लाघवेन साक्षात् परंपरया वा प्रवृत्तिनिमि- त्ताश्रयमात्रम्य शब्दवाच्यताप्रयोजकत्वात् । तस्मात् एकयैव शक्त्या प्रयोगद्वयस्यापि निर्वाहात् मदनुमानं न प्रतिकूल.

पूर्वोत्तरमीमांसा- , तर्कबाधितम् , स्वदनुमानमेव तदाधितम्-- इति चतुर्थी कक्ष्या ।। एवं सति नीलो घट: इत्यस्य नीलत्वजातिविशिष्टो घटः इत्येवार्थः स्यात् ; न तु नीलगुणविशिष्टो घट: इति । नीलगुणविशिष्टो घटः इत्येव च तदर्थों वर्णनीयः, नीलगुणविशिष्टप्रत्यक्षमूलकस्य प्रत्यक्षदृष्टार्थबुबोधयिषया प्र. युक्तस्य तस्य तदेकविषयत्वनियमात्; मतुब्लोपानुशासनेन मतुबन्तप्रयोगसमानार्थत्वावगतेश्च ; नीलगुणविषयनीलिमा- दिशब्दगतभावप्रत्ययानुरोधाच्च ; यः शब्दो यद्धर्मविशिष्टे प्रव. तत ततो. भावप्रत्ययः तस्मिन्धर्मे-- इति नियमदर्शनात् । त- स्मादनेकशक्तिकल्पनावश्यंभावात् मदनुमानं न गौरवलक्षण- प्रतिकूलतर्कपराहतम् , त्वदनुमानमेव 'नीलो घट:' इति प्रयोगासंभवरूपतर्कपराहतम्-इति पञ्चमी कक्ष्या ।। नीलगुणवैशिष्टयविषयप्रत्यक्षावगतार्थतात्पर्येण प्रयुक्तस्य नीलो घट:'.. इत्यस्य नीलगुणवैशिष्ट्यप्रतिपादकत्वं भवतु नाम । तावता नीलशब्दस्य नीलगुणविशिष्टे शक्तिर्न सिध्य- ति; त्वदुदाहतस्य मतुब्लोपानुशासनस्यैव तत्प्रतिकूलत्वात् । नीलशब्दमात्रस्य नीलगुणवैशिष्टयप्रतिपादनसामर्थ्य तदनु- शासनवैयर्थ्यांपत्तेः । केवलगुणवाचका: ये नीलादिशब्दा: .

वादनक्षत्रमाला तभ्यो मतुपः प्रसक्तिरस्तीति तल्लोपानुशासनं सार्थकमिति चेत; न, तेभ्य एव लुप्तमतुष्प्रत्ययेभ्यो गुणिप्रतीत्युपपत्ती स्वतो. गुणविशिष्टशक्तियुक्तनीलादिशब्दकल्पने प्रमाणाभा- वान् । गुणवाचिनामेव मतुब्लोपे सति लुनमतुबर्थावगमार्थ गुणविशिष्टेऽपि शक्तिरङ्गीकरणीया इति चेत् ; न ; लुप्तप्रत्ययार्थ लुम एव प्रत्ययः स्मृतो बोधयतीति पक्षे तं प्रकृतिलक्षयतीति पक्षे च तत्र तेषां शक्तरनङ्गीकरणीयत्वात् । प्रत्ययलोपस्थले प्रकृतेस्तदर्थेऽपि शक्त्यन्तरकल्पनाभ्युपगमे तादृशस्थले लाघ- वान् प्रत्ययार्थमात्रे प्रकृते: शक्त्यन्तरकल्पनेन एकप्रत्ययोपा- त्तसंख्याकारककृतीष्टसाधनत्वादिरीत्या प्रकृतिगतसामान्यवि. शेषशक्त्युपस्थापितयोः प्रकृत्यर्थलुप्रप्रत्ययार्थयोः संसर्गप्रती- तेरुपपादयितुं शक्यतया गौरवपराहतप्रकृत्यर्थविशिष्टप्रत्यया- थगोचरशक्त्यन्तरकल्पनायोगात् । तस्मान्मदनुमानं न प्रति- कूलतर्कपराहतम् , त्वदनुमानमेव तद्बाधितम्-इति षष्ठी ।। .. मतुब्लोपानुशासनं लुममतुष्प्रकृत्यंशस्यैव गुणविशिष्टे श- क्तिरस्तीत्यत्र ज्ञापकत्वेन नोपन्य स्तम् , येन तदनुशासनं तत्प्रतिकूलं स्यात् । किंतु द्रव्ये प्रवर्तमानस्य नीलशब्दस्य नीलगुणविशिष्टपर्यन्तप्रतिपादकत्वम् अङ्गीकरणीयम् ; न तु नीलत्वाश्रयमात्रप्रतिपादकत्वम्- इत्यत ज्ञापकत्वेन । Saama पूर्वोत्तरमीमांसा च तावता नेष्टसिद्धिः, मतुप्पृकृत्यंशस्य गुणविशिष्टे शक्तिं विना तत्प्रतिपादकत्वस्य नियूंढत्वादिति वाच्यम्; तेन तु प्रकृत्यंशस्य गुणविशिष्टे शक्त्यसिद्धावपि मतुब्लोपं विना द्रव्ये प्रयुज्यमानस्यापि नीलादिशब्दस्य तत्तुल्यन्यायेन गुण- विशिष्टपर्यन्तत्व त्वसिद्धौ ततः तस्य तत्र शक्तिसिद्धेः । तथाभूतनीलशब्दान्तरसद्भावे प्रमाणाभावः, मतुब्लोपानु- शासनवार्तिकानन्तरं पृवृत्तस्य 'अव्यतिरेकात्सिद्धमिति चेन्न दृष्टो व्यतिरेकः' इति वार्तिकस्य तत्र प्रमाणत्वात् । तद्धि वार्तिकम 'नीलो घट:' इति स्वत एव नीलशब्दस्य द्रव्यपर्यन्तत्वदृष्टेः मतुबनुशासनम् व्यर्थम्- इति शङ्कामु- द्भाव्य द्रव्यपर्यन्तवत् गुणमात्रविश्रान्तोऽपि अस्ति नीला- दिशब्दः, 'घटस्य नीलो गुणः' इत्यादिव्यवहारदर्शनात् ; ततश्च गुणमात्रविश्रान्तस्य नीलादिशब्दम्य द्रव्यपर्यन्तत्व- विवक्षायां मतुबुत्पत्त्या तच्छ्रवणं स्यात् , तन्माभूत्- इत्ये- तदर्थ तल्लोपानुशासनमिति परिहारं दर्शयितुं प्रवृत्तम् । तेन मतुब्लोपं विना द्रव्ये प्रवर्तमानो नीलादिशब्दोऽस्तीति स्पष्टमेव अवसीयते । तस्मात् गौरवस्य प्रामाणिकत्वात् म- दनुमानं न प्रतिकूलतर्कबाधितम , त्वदनुमानमेव तद्बाधि- तम- इति सप्तमी ।

वादनक्षत्रमाला। अन्य- द्रव्यपर्यन्तनीलादिशब्दसद्भावे प्रमाणामाची मया नोक्तः किंतु गुणविशिष्टरूपेण द्रव्यपर्यन्तस्य सद्भावे । न च तिरेकात्सिद्धम्' इत्यादिवातिकं गुणविशिष्टरूपेण द्रव्यपर्य- न्तस्य तस्य सद्भावे प्रमाणम् , तस्य नीलत्वादिजातिविशिष्टे तत्र शक्तिसद्भाव प्रामाण्येनापि चारिताात । लाघवेन साक्षात्परंपरासाधारण्येन प्रवृत्तिनिमित्ताश्रयत्वमात्रस्य शब्द- वाच्यत्वप्रयोज जकतया नीलत्वजातिविशिष्टे द्रव्ये तस्य श- क्त्यवश्यंभावेन तत एतस्य वार्तिकस्य उपपत्त्या नीलगुण- विशिष्ट द्रव्ये शक्त्यन्तरकल्पनाया: अप्रामाणिकत्वाच्च । अव्यतिरेकवार्तिकस्य · नीलो गुणः' इति गुणवत् 'नीलो इति द्रव्यस्यापि गुणगतनीलत्वजात्याश्रयतया प्रती- यमानत्वेन गुणगुणिनो: अव्यतिरेकात् अभेदात् गुण इव द्रव्येऽपि मतुब्लोपं विनैव सिद्धम् ' नीलो घट:' इति व्य- वहारप्रयोजकम् इति शङ्कामुद्भाव्य घटस्य नील: इति गुणगुणिनोर्भेददृष्टेः 'नीलो घट:' इति प्रतीति: परंपर या नीलत्वाश्रयविषयेति द्रव्ये नीलगुणवैशिष्टय- बुबोधयिषायां गुणविषयनीलादिशब्दात् मतुपः प्राप्तौ तल्लोपानुशासनम् --- इति परिहारार्थत्वोपपत्तेः । तस्मात् स्वदनुमानं प्रतिकूलतर्कपराहतम् , मदनुमानं च न घट: woman पूर्वोत्तरमीमांसा- धितम् -- इति अष्टमी ।। ७ द्रव्यस्य नीलत्वजात्याश्रयत्वे स्यादेतदेवम; तत्रैव नास्ति प्रमाणम् । न च आश्रयाश्रयमात्रम् आश्रयद्वारा भवत्या- श्रयः- इति नियमोऽस्ति, रूपत्वघटत्वादिकं प्रति घटभूत- लादीनामाश्रयत्वात् । न च 'नीलो घट:' इति प्रतीति- बलादेव घटस्य नीलत्वाश्रयत्वमभ्युपगन्तव्यम् । तस्य द्रव्य- विषयलुममतुबन्तप्रयोगसमानार्थतौचित्यात् । न हि द्रव्य एव तत्तुल्यप्रयोगस्य क्लमं विषयं विना विषयान्तरक- ल्पनं युक्तम् । अत: शक्त्यन्तरकल्पनागौरवस्य प्रामाणि- कत्वात् मदनुमानं न प्रतिकूलतर्कबाधितम , त्वदनुमान- मेव बाधितम् इति नवमी ।। अथ दशमी कक्ष्या- घटस्य नीलत्वाश्रयत्वे मा भूत् प्रमाणान्तरगवेषणा; 'नीलो घटः' इत्यव्यतिरेकप्रयोग एव तत्र प्रमाणम् ; तत्र नीलशब्दस्य 'नीलो गुणः' इति प्रयोगसाम्येन नीलत्ववै- शिष्टयविषयत्वात् । द्रव्यविषयलुप्तमतुबन्तप्रयोगसाम्येन नीलगुणवैशिष्ट्यविषयत्वकल्पने गौरोऽहम्' इत्यादिब्रह्मवि- दनुसंधानमूलके प्रयोगे गौरादिशब्दानां गौरादिगुण इव तद्विशिष्टे शरीरे शरीरविशिष्ट्र जीवे जीवविशिष्टे अन्तर्या- .

वादनक्षत्रमाला । मिणि च शक्ति: कल्पनीया -इत्येवं शक्तिचतुष्टयकल्पना- प्रसङ्गात् । न च तेषां साक्षाद्गुणविशिष्ट एव शक्तिः, अन्य- त्र लक्षणेति न उक्तदोषप्रसङ्गः इति वाच्यम् ; तथा सति तत्पर्यवसानदृष्टान्तेनैव अन्तर्यामिणि सर्वशब्दपर्यवसानव्य- वस्थापनाय दृष्टान्तं संपादयितुं प्रवृत्तस्य अस्य वादस्य तत्प्र. तिकूलत्वापत्तेः । न च साक्षात्परंपरासाधारण्येन नीलगुण- वैशिष्टयेनैव अन्तर्यामिपर्यन्तं शक्तिरिष्यत इति वाच्यम्; तथा सति साक्षात् परंपरया वा गुणगतजातिवैशिष्टथे- नैव तत्पर्यन्तं शक्तिरुपपद्यत इति शक्तिद्वयकल्पनस्यापि त्यागौचित्यात् । तस्मात् अनेकशक्तिकल्पनस्य अप्रामाणि- कत्वात् त्वदनुमानं प्रतिकूलतर्कपराहतम् , मदनुमान न तद्वाधितमिति ॥ अथैकादशी- . घटस्य नीलत्व जात्याश्रयत्वमक्लप्तं धर्म परिकल्प्य 'नीलो घटः' इत्यस्य तद्विषयत्वकल्पनात् क्लप्तस्य नीलगुणवैशि- ट्रयस्चैव गुरोरपि तद्विषयत्वकल्पनं ज्याय: । शक्तिचतुष्टयं तु न प्रसज्यते, गुणे गुणविशिष्टे च समर्थितेनैव शक्तिद्व- ग्रेन सर्वनिर्वाहात् । सर्वाधारस्य अन्तर्यामिणः गुणस्येव गुणगतजात्याश्रयतया गुणशक्त्यैव अन्तर्यामिणि अर्शआ- पूर्वोत्तरमीमांसा- . द्यजन्ततया जीवे च प्रयोगनिर्वाहात । 'अर्शआदिभ्यो- ऽच्' इति सूत्रगृहीते अर्शआदिगणे पठितो वर्णशब्दो वर्णविशेषवाची, शुक्लनीलगौरादिशब्दवत् तेभ्य अज्विधानात् शुक्लादिगुणवद्रव्यविशिष्टप्रतीतिनिर्वाहार्थम- इति न्यास- कृता उक्तत्वात् । अत: शक्तिद्वयकल्पनस्य प्रामाणिकत्वात् अतिरिक्तशक्तिकल्पनागौरवप्रसङ्गाच्च मदनुमानं न प्रतिकूल- तर्कपराहतम् , त्वदनुमानमेव तद्वाधितम इति ।। अथ द्वादशी- साक्षात् गुणगतजात्याश्रयत्वम् अन्तर्यामिणस्तावदसिद्धम् । परंपरया तदाश्रयत्वमिध्यते चेत्, परंपराघटकयोः देहजी- वयोरपि तदाश्रयत्वम् अनिच्छतापि स्वीकर्तव्यमिति देहतु- ल्यन्यायतया घटेऽपि गुणगतजात्याश्रयत्वसिद्धेः त्वदापा- दिताक्लप्तधर्मान्तरकल्पनागौरवस्य न प्रसक्तिः एकशक्तिपक्ष एव च पर्यवस्येत् । अथापि गुणविशिष्टे देहे पृथक् श- क्तिरभ्युपगम्येत, तथा सति तद्विशिष्टे तद्विशिष्टे च पृथक् पृथक् शक्तिरभ्युपेतव्या इति शक्तिचतुष्टयकल्पनागौरवम् अनिवार्यम् । अर्शआद्यजन्ततया वर्णितो जीवे शक्तिं विना निर्वाहोऽपि न युज्यते, वर्णवाचिभ्यः अज्विधानस्य शुक्लादि- गुणवद्व्यविशिष्टप्रतीतिनिर्वाहार्थत्वकल्पनायां प्रमाणाभा- ७ ।

वादनक्षत्रमाला १०१ वात् । तस्मात् त्वदनुमानं प्रतिकूलतर्कबाधितम् , मदनुमानं न तद्वाधितम्--इति ॥ अथ बयोदशी-- अक्षरमम्बरान्तधृतेः' इति सूत्रे परमेश्वरस्य सर्वाधार- त्वमुक्तम् । तत् साक्षात्सर्वाधारत्व एव संभवति । अत: तस्य अवश्यं साक्षादेव नीलत्वाद्याधारत्वम् अङ्गीकरणीयम् इति न तव गुणशक्तिव्यतिरेकेण शक्त्यन्तरकल्पनं प्रसज्य- ते । न वा गुणशक्त्यैव घटे देहजीवयोश्च प्रयोगनिवाहो भवति । गुणवाचिभ्य: अज्विधानं गुणवद्विशिष्टप्रतीतिनि- वहार्थम-इत्यवश्यं कल्पनीयम् , शुक्लगुणविशिष्टैः प्रासादैः विशिष्टे नगरे 'शुक्ल नगरम्' इति प्रयोगनिर्वाहार्थ तदिति न्यासकृतैव उक्तत्वात् । अत: जीवेऽपि शक्त्यन्तरकल्पनं न प्रसज्यते । तस्मात् मदनुमानं न प्रतिकूलतर्कपराहतम् , त्वद- नुमानमेव तदाधित्तम्--इति ।। अथ चतुर्दशी- साक्षादाश्रय एव आधार इति न नियमः; तृणवत्रा- न्तरितघटादिधारकत्वस्य पुरुषभूतलादिषु पर्यवसानदर्शनात् पुरुषस्य घटादिधारणप्रयुक्तक्लेशोदयेन कूपाच्छादनेषु तृणेषु कूपस्योपरि प्रसारिते वस्ने वा घटादिनिधाने सति तदनव- पूर्वोत्तरमीमांसा- स्थानत: तृणादीनां तद्धारणशक्त्यभावनिर्णयेन च तत्पर्य- बसानावसायात् । अत: परमेश्वरस्य साक्षात् नीलत्वा- श्रयत्वं नीलगुणाश्रयत्वं वा नाभ्युपेतव्यमिति न गुणश- क्त्या गुणिशक्त्या वा तत्र गुणवचनप्रयोगनिर्वाहः । वर्ण- वाचिभ्यो विहितस्याचो गुणवत्वमेवार्थ: न तु गुणवद्वैशि- ष्ट्रयम् । 'शुक्लं नगरम्' इत्यादिव्यवहारस्तु मद्रीत्या नगरस्य परंपरया शुक्लत्वजात्याश्रयतया निर्वाह्यः । त्वद्रीत्या गुणवति गुणवद्विशिष्टेऽपि ; न तु अर्शआद्यचा तद्विधानस्य गुणवद्विष- यकत्वमपहाय गुणवद्विशिष्टविषयत्वकल्पनेन ; गुणवति प्रस- क्तयो: इनिठनो: अचा बाधनालाभेन नीली' नीलिकः' इत्यपि प्रयोगप्रसङ्गात् । तस्मात् गुणे गुणिनि च शक्तिभे- दमभ्युपगच्छता गुणवद्विशिष्टे जीवे तद्विशिष्ट अन्तर्यामिणि च पुनरपि शक्तिद्वयकल्पनं आपतेत्-- इति अनिवार्य गौरवम् । अत: त्वदनुमानं प्रतिकूलतर्कपराहतम् , मद- नुमानं न तदाधितम्- इति ।। . अथ पञ्चदशी-- धारकमात्रस्य साक्षात् आधारतानियमाभावेऽपि उपा- दानतया धारकस्य अस्ति तन्नियमः; सर्वोपादानं च पर- मेश्वरः ; अत: तस्य नीलत्वनीलगुणादिकं प्रत्यपि साक्षादाधा- वादनक्षत्रमाला। रत्वस्य अवश्याश्रयणीयत्वात् गुणशक्त्या गुणिशक्त्या वा तस्मिन् वर्णवाचिशब्दप्रयोगो निर्वहतीति न तत्र शक्त्यन्तरक- ल्पनागौरवं प्रसज्यते । अज्विधानं गुणवद्विषयमेव इति नियमो न अभ्युपगम्यते ; किं तु गुणवद्विषयं गुणवद्विशि- टविषयं च इत्यभ्युपगम्यते । अर्शआदिगणे पठितेन च वर्णशब्देन 'वर्णो वर्णेन' इति सूत्रपठितेनेव गुणशक्तानां गुणिशक्तानां च शुक्लादिशब्दानां ग्रहणात् । एवं सति इनि- ठनोर्बाधनम 'शुक्ल नगरम्' इत्यादिप्रयोगनिर्वाहश्च इत्युभ- यमपि अखसा उपपद्यते-- इति न गुणवद्विशिष्टनगरे जीवे च शक्त्यन्तरकल्पनागौरवं प्रसज्यत । तस्मान जीवे परमे. श्वरे च विनैव शक्त्यन्तरकल्पनं गुणवचनप्रयोगनिर्वाहात मदनुमानं न प्रतिकूलतर्कपराहतम , त्वदनुमानमेव तद्वाधि- तम्- . RADHNA इति ।। अथ षोडशी- यत्परिणामितया उपादानम् , तस्यैवावस्थाविशेषविशिष्ट- परिणामरूपम्य एकदेशं प्रति साक्षादाधारत्वं नियतम- यथा अन्त:करणस्य स्ववृत्तिं प्रति । न च परमेश्वरः तथा उपादानम् , निर्विकारत्वात् ; किं तु प्रकृत्यधिकरणोक्तन्या- येन प्रपश्चाकारपरिणामिचिच्छक्त्यपृथक्सिद्धाश्रयतया ।

११२ पूर्वोत्तरमीमांसा- अत: परमेश्वरस्य उपादानत्वेऽपि न साक्षान्नीलगुणाधश्रायत्वं वाच्यमिति न तेन तत्र गुणशक्त्या गुणिशक्त्या वा गुणवचन- प्रयोगनिर्वाहः । परंपरया नीलत्वजात्याश्रयत्वमवलम्ब्य तत्र गुणशक्त्या तनिर्वाहः क्रियते चेत्, गुणिनः प्रयोगोऽपि तथैव निर्वहतीति तव गुणिशक्तिरपि न सिध्येत् । अन्त्रि- धानं मतुब्लोपविधानवत् गुणवद्रव्यविषयमेव ; न तु गु- णवद्रव्यतद्विशिष्टोभयविषयम् ; अन्यथा मतुब्लोपविधान तदुभयविषयम् अविधानं केवलगुणवद्विषयमिति वेपरीत्य- स्यापि कल्पनापत्तेः । गुणवद्विशिष्टविषयस्यापि कस्यचित् मत्वर्थीयप्रत्ययस्य कल्पने गौरवम् । पुत्रभार्यादिषु गौरादि- मत्सु पितृभादिषु गौरोऽयम्' इति व्यवहारापत्तेः; गुणद्विशिष्टविषयवत् तद्विशिष्टविषयस्याषि कल्पयितुं श- अन्तर्यामिण्यपि गुणवचनानां शक्त्यसिद्ध्या- पत्तेश्च- शक्यते हि गुणिदेहशक्ताद्गौरादिशब्दात् अ- आद्यचा देहविशिष्टजीवग्रहणे सति ततो मतुब्लोपेन अन्तर्यामिण्यपि प्रयोगनिर्वाहः कर्तुम् । मत्वर्थीयप्रत्य- यान्तात् पुनस्तत्सरूपस्य प्रत्ययान्तरस्यानिष्टावपि दण्डि- मती शाला' इत्यादौ तद्विरूपस्य तस्य संप्रतिपन्नत्वात् । साक्षात् परंपरया वा गुणगतजात्याश्रयत्वेन गुणशक्तिरेव क्यतया वादनक्षत्रमाला। परमेश्वरसाधारणी सिध्येत- इति शङ्का तु प्रागेव नि- रस्ता । न च घटादीनां परम्परया वा गुणगतजात्याश्रय- स्वाभावेऽपि परमेश्वरस्य परम्परया तदाश्रयत्वमस्त्येव, अ. न्यथा तस्य तद्धारकत्वाभावप्रसङ्गात्- इति वाच्यम् ; तथा सति परम्पराघटकयोर्देहजीवयोरपि तदाश्रयत्वक्लप्तताया वक्तव्यत्वेन तत्क्लप्तेरेव न्यायतौल्येन घटादिष्वपि तत्क्ल- तिरूपतापत्त्या तव गुणशक्तिभिन्नाया गुणिशक्तेरप्यसिद्धि- प्रसङ्गात । गुरुत्वे सति आपतति द्रव्य एव धारकापे. श्रणेन स्वधाश्रयणमात्रनिवृतेषु जात्यादिषु तदनपेक्षणा- च । तस्मात् सर्वान्तर्यामिण: परमेश्वरस्य सर्वशब्दवाच्य- त्वमिच्छता त्वया मत्वर्थीयप्रत्ययादिसाध्यनिर्वाहदुराशय- मपहाय गुणवचनानां गुणगुणिनोरिव गुणविशिष्टे जीवे जीवविशिष्टेऽन्तर्यामिणि च भिन्नभिन्ना शक्तिरभ्युपेत. व्या- इत्यनिवार्य शक्तिचतुष्टयकल्पनागौरवमिति त्व. दनुमानं प्रतिकूलतर्कबाधितम् ; । मदनुमानं न तदाधि- तम् । तस्मात् उक्तगौरवपरिहारार्थम् 'नीलो घटः' मम देहो गौरः' गौरोऽहम' इत्यादिप्रतीतिव्यवहाराणां पर- म्परया गुणगतजात्याश्रयत्वाविषयत्वमभ्युपगम्य गुणशक्तिरेव गुणिषु घटदेहादिषु देहविशिष्टेषु जीवेषु जीवविशिष्टेऽन्तर्या- *V.8 a .

पूर्वोत्तरमीमांसा- " , . - मिणि च प्रसृता भवतीति एकशक्तिपक्ष एवाङ्गीकरणीय: । अवश्यम् ' पाण्डुरहम्' 'बभ्ररहम्' 'श्वेतोऽहम् ' 'देहः' इत्यजन्तत्वादिसंभावनारहितप्रतीतिव्यवहारेषु एषैव गतिरा- श्रयणीया । न हि देहात्मभ्रमसमयेष्वेव पाण्डुरहम्' इत्यादिव्यवहारः, देहविविक्तात्मज्ञानसमग्रेषु तु अजन्तत्वा- दिसंभावनास्पदगौरादिशब्दव्यवहारमात्रमिति त्वत्कल्पित- मर्यादानुसारेण नियन्तुं शक्यते । एतेन अक्लपधर्मान्तरक- ल्पनागौरवशङ्कापि निरस्ता; 'बभ्ररहम्' इत्यादिव्यवहारेषु तत्कल्पनावश्यंभावात् । शक्तिचतुष्टयकल्पनापेक्षया अस्य गौ- रवस्य लाघवरूपत्वाच्च । एवम् ‘शुक्लं नगरम्' इत्यादिव्यव- हारेष्वपि शुक्लत्वादिपरम्परासंबन्धाश्रयणमेव गतिः । तत्रापि हि पाण्डु नगरम् ' · अश्वेतनगरम्' 'अदह्यत नगरम्' इत्यादिव्यवहारेषु एवं गतिरवश्यमाश्रयणीया । तथैव 'अ- पुष्प्यद्वनम्' 'अदह्यत वनम्' इत्यादिव्यवहारो दृश्यते । यदि तु एकदेशस्थानां वृक्षाणां वनशब्दार्थत्वात् तेषु सा- भादेव पुष्पदहनादिसंबन्धोऽस्तीत्युच्येत, तदा न्यायतौल्यात् संख्यासंनिवेशविशिष्टा गृहा एव नगरपदार्थतामापद्येरनिति तेषु साक्षात् शुक्वादिगुणसंबन्धसत्त्वात् 'शुक्ल नगरम्' इत्या- दिव्यवहारनिर्वाहार्थम् अज्विधानस्य गुणवद्रव्यविषयत्वक- , . .

वादनक्षत्रमाला। ल्पनादुराशा नितान्तं निरालम्बना स्यात् । 'नगरे गृहा:' इति व्यवहारात् गृहविशेषाणामाश्रयः प्रदेशो नगरम् इति चेत्, वने वृक्षा:- इति व्यवहारात वृक्षविशेषाणामाश्रयः प्रदेशो वनम् इति तुल्यम् । तस्मानपुष्पितत्वव्यवहारतौ- ल्यादपि नगरौलधादिव्यवहारः परम्परासंबन्धावलम्बनः । एतेन ‘वर्णो वर्णेन' इति सूत्रगतेनेव अर्शआदिगणगतेनापि वर्णशब्देन गुणशक्तानां गुणिशक्तानां च शुक्लादिशब्दानां प्रणमवर्जनीयम्-इत्यपि शङ्का निरस्ता । यथा 'वर्ण- दृढादिभ्यः प्यञ्च' इति सूत्रगतेन धर्मिपरदृढादिशब्दसाह- चर्यात् गुणिशक्तानामेव ग्रहणम् , तथा अत्र पूर्वोक्तबाधक- वशात् 'श्वेतरक्त: पाटलीकुसुमवर्णः' 'श्वेतरक्तं पाटलीकुसु- मम्' इति तदुदाहरणवत् एतदुदाहरणस्य कस्यचित् उभ- यविधशुक्लादिशब्दग्रहणापेक्षस्य अदर्शनाञ्च अत्र गुणिशक्ता- नामेव ग्रहणमित्युपपत्तेः । न च मतुब्लोपेनैव गुणविशिष्ट- प्रतीत्युपपत्तेः अविधानं गुणवद्विशिष्टविषयमेव स्यात् इ- त्यपि शङ्कनीयम् , तथा सति गुणवद्विषये प्राप्तयोः इनिठनो: अचा बाधनाभावप्रसङ्गस्य बाधकस्य उक्तत्वात् । लुप्तमतु- बन्तस्य अजन्तस्य च शुक्लादिशब्दस्य रूपाभेदेऽपि अर्थाभे- देऽपि क्तव्यक्तव्यन्यायेन स्वरविशेषसिद्धयर्थ प्रत्ययविधानो- , .

पूर्वोत्तरमीमांसा-
पपत्तेश्च । तस्मादेकशक्तिपक्ष एव श्रेयानिति निरवद्यः
पन्थाः ।।
इति एकशक्तिपक्षश्रेयस्त्ववादः ॥ ५॥

गुणलक्षणापक्षनिरासवादः॥ १ केचित् गुणवचनानां शब्दानां गुणविशिष्टेषु द्रव्येषु श- क्तिमभ्युपगम्य तद्विशेषणेषु गुणेषु गौर्नित्या' इत्यादिप्रयो- गगतानां गवादिशब्दानां गोत्वादिष्विव लक्षणां वदन्ति । तन्मते शक्तिः तत्तद्गुणविशिष्टेऽपि न विश्राम्यति ; किंतु तत्तद्गुणविशिष्टशरीरविशिष्टजीवविशिष्टान्तर्यामिणि पर्यवस्य- ति । तथैव च तैरिष्यते । अत एव ते 'स्वर्गकामो यजेत' इत्यादिप्रयोगेषु यागाद्यधिकारिसमर्पकाणां स्वर्गकामादिशब्दा- नाम् अन्तर्यामिणि शक्तावपि क्षुद्रफलाभिलाषेण अन्तर्यामिण ईश्वरस्य यागादिप्रवृस्यसंभवात् मुख्यार्थानुपपत्त्या तद्विशे- षणे स्वर्गकामनावति जीवे लक्षणेत्याहुः । तमिममन्तर्याम्येक- शक्तिवाद निरसितुं कथा प्रस्तूयते-- तत्र नीलगुणः न स्वातन्त्र्येण नीलशब्दशक्तिविषयः, नीलशब्दशक्तिविशिष्टैकदेशत्वात् , यो नीलशब्दशक्तिविशि- टैकदेशः, न सः स्वातन्त्र्येण नीलशब्दशक्तिविषयः- यथा नीलत्वजातिविशेष:-- इति प्रथमा कक्ष्या ।। अप्रयोजकमिदमनुमानम् , सद्भाववस्त्वादिशब्दानां स्व- , ११८ पूर्वोत्तरमीमांसा- शक्तिविशिष्टैकदेशेषु सत्त्वभावत्ववस्तुत्वादिष्वपि शक्तिवत् इहाप्युपपत्तेः । तस्मात् नीलगुणः स्वातन्त्र्येण नीलशब्दश- क्यः, नीलगुणतद्विशिष्टान्याप्रतियोगिकभेदप्रतियोगित्वात् , यत् नीलगुणतद्विशिष्टान्याप्रतियोगिकभेदप्रतियोगि, तत् स्वातन्त्र्येण नीलगुणशक्यम्- यथा नीलगुणविशिष्टम्- इति द्वितीया । न अप्रयोजक मदनुमानम् , सत्तादिषु सद्व्यवहारदर्श- नेन प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नते यतः' इति न्या- यमनुसृत्य सत्तादिस्थित्यभ्युपगमात् सत्तादीनां प्रवृत्तिनि- मित्तवतां स्वातन्त्र्येण सदादिशब्दशक्यत्वेऽपि नीलगुणादी. नां नीलगुणादिरूपप्रवृत्तिनिमित्तानाश्रयतया स्वातन्त्र्येण नी- लादिशब्दशक्यत्वं न संभवति- इत्येवंरूपानुकूलतर्कसद्भा- वात् गुणगतनीलत्वादिजातीनामपि नीलादिशब्दप्रवृत्तिनि- मित्तत्वकल्पने गौरवात् । अत: नाप्रयोजकं मदनुमानम् ; त्वदनुमानमेवाप्रयोजकम् , गुणिनां प्रवृत्तिनिमित्ताश्रयतया नीलादिशब्दशक्यत्वेऽपि गुणानां तदनाश्रयतया तदशक्य- त्वोपपत्तेः- इति तृतीया ।। अथ चतुर्थी- त्वदनुमानं तावदप्रयोजकमेव, नीलादिगुणानां प्रवृत्ति- , वादनक्षत्रमाला। ११९ निमित्ताश्रयतया नीलादिशब्दशक्यत्वोपपत्तेः । न च तद- सिद्धिः, 'नीलो गुणः' इति सार्बलौकिकव्यवहारोपपत्तये नीलत्वादिजातीनामपि तत्प्रवृत्तिनिमित्तत्वाभ्युपगमात्- इति ॥ अथ पञ्चमी- नीलस्वादिजातीनामपि तत्प्रवृत्तिनिमित्तत्वाभ्युपगमे गौ- रवं भवेत् । नीलो गुणः' इत्यादिव्यबहारस्तु गौनित्या' इत्यादिव्यवहार: गोशब्दस्य गोत्व इव नीलादिशब्दानां गुणेषु लक्षणयापि उपपद्यते- इति ।। अथ षष्ठी- उक्तगौरवं न दोषः, मतुब्लोपानुशासनशास्त्रप्रापितस्य प्रामाणिकत्वात् । तद्धि शास्त्रं नीलादिगुणविशिष्टद्रव्यप्रती- त्यर्थम् । तेन तत्प्रकृतीनां नीलादिशब्दानां गुणेषु शक्तिः सिध्येत् । रूपवानित्यादिमतुबन्तप्रकृतीनां रूपादिशब्दाना- मिव- इति ॥ अथ सप्तमी- मतुब्लोपानुशासनं न नीलगुणवैशिष्ट्यप्रतीत्यर्थम् ; किं- तु गुणिविषयाणां तेषां विशेष्यलिङ्गमाहित्व सिद्धयर्थ स्वरवि- शेषसिद्धयर्थ च-स्वरलिलविशेषाथै मतुब्लोपानुशासनम् ।

१२० पूर्वोत्तरमीमांसा. विशिष्टवाचकत्वं तु तदायन्तं न मन्महे' इति हि मन्मतम् । तस्मात् मतुब्लोपानुशासनानुसारेण न नीलादिगुणानां नी- लादिशब्दशक्यत्वसिद्धिरिति नाप्रयोजक मदनुमानम् , स्व- दनुमानं तु अप्रयोजकमेव- इति । अथाष्टमी- .. .. स्वरविशेषसिद्धयर्थं मतुब्लोपानुशासनम् इति तावदयु- क्तम् , नीलादिशब्देषु मतुब्लोपायत्तम्वरविशेषसिद्धयुदाहर- णस्य कस्यचिददर्शनात् लिङ्गविशेषसिद्धयर्थमित्यपि न यु- क्तम् , शब्दस्वाभाव्यादेव तत्सिद्धेः । दृश्यन्ते हि शब्दाः स्वभावादेव क्वचिदर्थे व्यवस्थितैकलिङ्गाः अन्यत्र द्विलिङ्गाः अपरत त्रिलिङ्गाश्च । एकस्मिन्खल्वपि अर्थे केचन शब्दा: स्वभावात् द्विलिङ्गाः त्रिलिङ्गाश्च भूयांस: अर्थभेदेन व्यव- स्थिताः । व्यवस्थितलिङ्गत्वे एकलिङ्गानुपपत्तिः । तस्मात् 'अव्यतिरेकात्सिद्धमिति चेत्' इति मतुब्लोपानुशासनवै- याशकोत्तरेण 'दृष्टो व्यतिरेकः' इति शब्दवार्तिकेन- नीलो घट:- इत्यस्य व्यतिरेकवत् घटस्य नीलो गुण:- इति व्यतिरेकस्यापि दृष्टत्वात् नीलादिशब्दानां गुणेष्वपि स्वातन्त्र्येण शक्तिसद्भावात् गुणशक्तानां तेषां द्रव्यपर्यन्तत्व- विवक्षायां मतुप: प्राप्तौ तल्लोपानुशासनं सार्थकम्- इत्ये- वादनक्षत्रमाला। प वमर्थकेन उक्तरीतिमनुसृत्य न मतुब्लोपानुशासनस्य तदेव प्रयोजनं कल्पयितुं युक्तम्--- इति ।। अथ नवमी- मतुब्लोपानुशासनं लिङ्गविशेषादिसिद्धयर्थमित्येव वाच्य- म् , अर्शआदिगणे वर्णशब्दपाठेनैव वर्णविशेषवाचिभ्योऽज्वि- धानस्य मत्वर्थीय प्रत्ययान्तरबाधकतया गुणविशिष्टबोधनार्थ मतुप: प्रसक्त्यभावात् तदबाधकत्तायाम् अत इनिठनौ' इति सूत्रत: इनिठनोरपि प्राप्त्या नीली नीलिक: इत्यपि रूपान्तर- सिद्धिप्रसङ्गात् ; मतुप इव तयोः लोपानुशासनाभावात् । 'दृष्टो व्यतिरेकः' इति वार्तिकं तु मुख्यपरिहारपरं न भ. वति । अत एव तदनन्तरप्रवृत्तेन ‘तथा च लिङ्गवचन- सिद्धिः' इति वार्तिकान्तरेण मतुब्लोपानुशासनस्य लिङ्ग- विशेषादिसिद्धयर्थत्वमेव उक्तम्- इति ।। अथ दशमी- नीलादिशब्देभ्यो मतुपः प्रसक्तिर्नास्तीत्येतदसिद्धम् , अ- विधानस्य मत्वर्थीयप्रत्ययान्तर रबाधकत्वेऽपि मतुप्प्रत्ययबाध- कत्वाभावात् । 'प्राणिस्थादातो लजन्यतरस्याम्' इति सूत्र- गतस्य अन्यतरस्यांग्रहणस्य सर्वत्रैव मत्वर्थीयप्रकरणे मतुप्स- मुच्चयार्थत्वेन अनुवृत्तरिष्टत्वात् सर्वत्रानुवर्तमानस्यापि तस्य , Sadetail १२२ पूर्वोत्तरमीमांसा- क्वचित्कचित् मत्वर्थीयानेकप्रत्ययप्राप्ती तत्र एकनियमन- सामर्थ्यात् अनभिधानाद्वा बाधनसत्त्वेऽपि गुणवचनेषु तद्वा- धानाङ्गीकारे तल्लोपविधायिशास्त्रावतारवैकल्यप्रसङ्गात् । न च लिङ्गादिसिद्धिमानं तत्प्रयोजनम् ; लुप्तस्यापि प्रत्ययस्यार्थ- वत्त्वावश्यंभावेन तन्मात्रस्य तत्फलत्वासंभवात् , तस्याप्य- जन्ततयैव सिद्धिसंभवाच्च । न चैवं तर्हि तद्वैफल्यमेव अभ्युपेयते इति वाच्यम्; तथापि अच्प्रत्ययप्रकृतीनां गुण- शक्तरप्रतिक्षेप्यतया भाष्यकृदनुमोदितस्य तस्य वैफल्याभ्यु- पगमसाहसस्य निष्फलत्वात् । तस्मात् नीलादिशब्दानां निकृष्ठेषु गुणेष्वपि शक्तिरस्तीति तेषां द्रव्यपर्यन्तत्वविव- क्षायां मतुप: प्रसक्तेः तदश्रवणार्थ तल्लोपानुशासनमित्येवम् 'सिद्धो व्यतिरेकः' इति वार्तिकोक्तं तस्य तत्फलत्वमवश्य- मभ्युपगन्तव्यम् । लिङ्गवचनसिद्धिवार्तिकं तु आनुषङ्गिक- प्रयोजनाभिप्रायम् । एवं च नीलादिशब्दानां नीलादिगुण इव तद्विशिष्टे शरीरे शरीरविशिष्टे जीवे जीवविशिष्टेऽन्तर्या- मिणि च शक्तिः स्यादिति गौरवापादनमिष्टमेव, प्रामाणि- कत्वात् । अन्यथा सर्वेषां शब्दानामन्तर्यामिण्येव शक्तिः अन्यत्र सर्वत्र लक्षणा इत्यभ्युपगमे ब्रह्ममीमांसाधिकर- मेषु अन्यविषयश्रुतिलिङ्गादि मूलकानां पूर्वपक्षाणामनुस्था- .. .

वादनक्षत्रमाला।
१२३
नप्रसङ्गात् । तस्मात् मतुब्लोपानुशासनशास्त्रानुसारेण
नीलादिशब्दानां नीलादिगुणेषु शक्तेः तदनुगुणप्रवृत्तिनि-
मित्तस्य अवश्यमभ्युपगन्तव्यत्वात् तेषां शक्यविशिष्टकदे-
शत्वेऽपि सत्तादिन्यायेन शक्यत्वमुपपद्यते इति अप्रयोजक
त्वदनुमानम् , मदनुमानमेव तु उक्तरूपानुकूलतर्कसद्भावात्
प्रयोजकमिति सिद्धं नीलादिगुणेष्वपि शक्तिरिति ।
इति गुणलक्षणापक्षनिरासवादः ॥ ६ ॥

अरुणैकहायनीसामानाधिकरण्यवादः॥ . . एवं गुणवचनानां शब्दानां शक्तिवैचित्र्यादिना गुणिपर- शब्दसामानाधिकरण्येन तद्वैयधिकरण्येन च प्रयोगः संभव- तीति स्थितौ 'अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्यानातम् 'अरुणया' इति पदम् ‘पिङ्गाक्ष्या एक. हायन्या' इति पदाभ्यां सामानाधिकरण्येन स्वार्थ प्रति. पादयति, तद्वैयधिकरण्येन वा इति भवति संशयः ॥ तत्र पूर्वमीमांसकाः प्राहुः-एको हायनोऽस्या अस्तीति यौगिकोऽपि एकहायनीशब्दः धेनुशब्दवत् गोसमवेतयौ- गिकार्थप्रतिपादकत्वात् गोरूपान्यपदार्थपरः :: । तथा च 'ए- कहायन्या' इति पदेन एकहायनविशिष्टा गौः सोमक्रय- भावनां प्रति करणत्वेन प्रतिपाद्यते । पिङ्गाक्षीशब्दोऽपि बहु- ब्रीहिसमासत्वात् पिङ्गाक्षत्वगुणविशिष्टे कचिदन्यपदार्थे वर्त- मानः समभिव्याहृतपदान्तरोपस्थापितं गोद्रव्यमवलम्बते । ततः तृतीयाविभक्तिः विशेषणविभक्तित्वात् प्रयोगसाधु- त्वार्था, विशेष्यविभक्तिप्रतिपादितगोद्रव्यगतकरणत्वानुवा- दिनी वा । अरुणया' इत्यत्र तृतीयाविभक्तिस्तु न तद्गतक- वादनक्षत्रमाला। । रणत्वानुवादिनी ; अरुणाशब्दस्य हि पिङ्गाक्षी इति बहुव्री- हेरिव द्रव्यपरत्वावश्यंभावाभावेन उपात्तद्रव्यतया गुण. मात्रपरत्वावगमेन च तस्या गुणगतकरणत्वप्रतिपादकत्वसं- भवात् । तत्संभवे च कारकविभक्तेरनुवादकत्वेन वैय- मुकल्पनायोगात् । तस्मात् 'अरुणया' इति पदं पिङ्गा- क्ष्यैकहायनीपदवैयधिकरण्येन वाक्यार्थप्रतिपादनोपयोगि । तस्य ताभ्यां सामानाधिकरण्यप्रतीतिस्तु विभक्त्यैक्यनिब- न्धना भ्रान्तिरूपेति । वयं तु प्रतीतसामानाधिकरण्याबाधेन गुणगतकरणत्वप्रतिपादनसंभवात् न तदाधनं युक्तमिति 'अरुणया' इति पदं पिङ्गाक्ष्यैकहायनीपदसामानाधिकर- ण्येनैव वाक्यार्थप्रतिपादनोपयोगि- इति सिद्धान्तमुररी. कुर्मः । तमिमं सिद्धान्तं व्यवस्थापयितुं कथा प्रस्तूयत्ते- ' अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्याम्नातम् ' अरुणया' इति पदम् 'एकहायन्या' इति पदसामानाधिकरण्येन वाक्यार्थप्रतिपादकम् , यथा 'पिङ्गा- क्ष्या' इति पदम् ---- इति प्रथमा कक्ष्या ।। गुणद्रव्यरूपभिन्नार्थपरयो: अरुणैकहायनीशब्दयो: सा- मानाधिकरण्यासंभवात् बाधितमिदम् अनुमानम् । न च गुणवचनानां केवलगुण इव गुणिन्यपि सामर्थ्यसद्भावात् .

पूर्वोत्तरमीमांसा- . 'वायव्यं श्वेतमालभेत' इत्यादिवैदिकप्रयोगेषु श्वेतादिशब्दा- नां द्रव्यपर्यन्तत्वस्य नैमित्तिके कार्यत्वात्प्रकृते स्यात्तदापत्तेः' इति दशमाध्यायाधिकरणे व्यवहृतत्वाञ्च अरुणाशब्दस्यापि द्रव्यपर्यन्तत्वमिष्यताम् , अतो नास्ति सामानाधिकरण्य- बाध इति वाच्यम् ; पदान्तरेणानुपाते हि द्रव्ये गुणवचना- नां द्रव्यपर्यन्तत्वम् ; न तु उपात्तेऽपि ; 'पटस्य शुक्लो गुण:' एतद्वै पशूनां भूयिष्ठं रूपं यद्रोहितम्' इत्यादिलौकिकवैदिक- प्रयोगेषु उपात्ते द्रव्ये तेषां केवलगुणपरत्वदर्शनेन तथैव व्युत्पत्तिसिद्धत्वात् । तथा च 'श्वेतमालभेत' इत्यादी पदा. न्तरेण द्रव्यविशेषानुपादानात् श्वेतशब्दस्य गुणवद्व्यपर. त्वेऽपि अत्र एकहायनीशब्देनाविशेषोपादानात् अरुणाशब्दस्य केवलगुणपरत्वं युक्तम् । न च षष्ठयन्तेन द्रव्योपादानं केवलगुणपरत्वे प्रयोजकमिति वाच्यम् ; लाघवेन द्रव्यो- पादानमात्रस्य एतत्प्रयोजकत्वोपपत्तेः । न च द्रव्योपादान- मात्रमपि न तत्र प्रयोजकम् , 'नीलो घटः' इत्यत्र व्य. भिचारादिति वाच्यम् । तत्र द्रव्यपरपदसामानाधिकरण्यस्थ गुणपरत्वबाधकत्वेन क्लप्तस्य सत्त्वात् । षष्ठयन्तपदेन द्रव्योपादानं गुणपरत्वप्रयोजकमिति वदतापि 'घटस्य नीलो भागः' इत्यत्र व्यभिचारवारणार्थ तस्य तदा- वादनक्षत्रमाला । . अन्यथा कारक- - घटः धकत्वक्लप्रेरवश्याभ्युपगन्तव्यत्वात् । चैवं तह अरुणया पिङ्गाक्ष्यैकहायन्या' इत्यत्रापि सामानाधि- करण्यं तद्वाधकं स्यादिति वाच्यम् ; तत्र कारकविभक्तेः सामानाधिकरण्यवाधिकायाः सत्त्वात् । विभक्तिवैयांपत्तेः घटस्य नीलो भागः' इत्यत्र 'नीलो इत्यत्रेव न कारकविभक्तिरास्ति । किंच उमयत्रापि सामानाधिकरण्यबाधे वाक्यभेद: स्यात् । अरुणावाक्ये तु न तत्प्रसक्तिरस्ति; आरुण्येन यथोक्तगुणकेन गोद्रव्येण च विशिष्टाया: क्रयभावनाया विधातुं शक्यत्वात् । कारकवि- भक्तिसत्त्वेऽपि वाक्यभेदप्रसङ्गे तामनाहत्य सामानाधिकर- ण्यमिष्यते 'नीलं घटमाहर' इत्यादौ । कारकविभक्तिरस्ति वाक्यभेदोऽपि न प्रसज्यते- 'नीलेन घटेन जलमाहर' इत्यादौ । तथाभूतमुदाहरणमरुणावाक्य- तुल्यमस्तु । न च उदाहरणद्वयेऽपि अमूर्तस्य गुणस्य क्रियासाधनत्वासंभवो दोषः, साक्षात्तदसंभवेऽपि द्रव्यपरि. च्छेद द्वारा तत्संभवात् । न च तथा सति द्रव्यान्तरस्यापि तहारत्वप्रसक्तिः, वाक्यार्थप्रतीतिवेलायां द्रव्यगुणयोः पर- स्परान्वयं बिना प्रत्येक क्रियासाधनतया अन्वयेऽपि द्रव्य- स्य परिच्छेदकगुणाकाखथा गुणस्य परिच्छेद्यद्रव्याकाड्या च . यथा यत्र तु . ७ १२८ पूर्वोत्तरमीमांसा- पश्चादाथिकपरस्परान्वयोपपत्तेः । तस्मात्सामानाधिकरण्या- संभवात् अनुमानमिदं बाधितमेव । प्रत्यनुमानं च अरु- णावाक्यानातम् । अरुणया' इति पदं न एकहायन्या' इति पदसामानाधिकरण्येन वाक्यार्थप्रतिपादकम्- यथा 'अरुणिना शोभते पादः' इति लौकिकवाक्यगतम् अरु- णिना इति पदम्- इत्येवं द्वितीया कक्ष्या ।। अथ तृतीया कक्ष्या- प्रतीयमानमामानाधिकरण्याबाधेन वाक्यार्थनिर्वाहे सं- भवति न तद्वाधनं युक्तम् । न च कारकविभक्तिसाफल्याय तद्वाधनम् ; अरुणाशब्दस्य गुणगतजात्यैव प्रवृत्तिनिमित्तेन द्रव्यपर्यन्तस्वमिति १ गुणगतजाते: द्रव्ये परम्परासंबन्ध- घटकतया अर्थाक्षिप्ते गुणे कारकविभक्त्यर्थसंक्रमोपपत्तेः । 'आग्नेयमष्टाकपालं निवपेत्' इत्यत्र आख्यातार्थस्य विधे: प्रकृत्यर्थं निर्वापमतिलय द्रव्यदेवतासंबन्धाक्षिप्ते यागे सं. कान्त्यभ्युपगमात् । तस्य गुणेन प्रवृत्तिनिमित्तेन द्रव्यपर्यन्त- त्वमिति पक्षे विशेष्यमतिलय विशेषणे तत्संक्रमोपपत्तेः । 'चतुरो मुष्टीनिर्वपति' इति संख्यामुष्टिरूपकारकद्वयविशि- ष्टनिर्वापविधौ ‘चतुरः' इति द्वितीयोक्तकारकत्वस्य त. प्रातिपदिकेन विशेष्यतया अभिहितं समभिव्याहृतमुष्टि- वादनक्षत्रमाला १२९ द्रव्यरूपं संख्येयमतिलङ्घन्य तद्विशेषणे संख्यायां संक्रान्त्यभ्यु- पगमात् । अरुणाशब्दस्य अर्शआद्यजन्ततया द्रव्यपर्य- न्तत्वमिति कल्पने विभक्त्यर्थस्य तद्धितार्थमतिलङ्घय त- त्प्रकृत्यर्थे संक्रान्त्युपपत्ते:- 'दण्डी प्रैषानन्वाह' इत्यादौ तथा दर्शनात् । तस्य लुममतुबन्तत्वकल्पने लुप्रस्य मतु- पोऽर्थः प्रकृत्यैव विशेषशक्त्या लक्षणया वा बोधनी- य:- इति द्रव्यमपहाय तत्सामान्यशक्त्युपस्थापिते गुण विभक्त्यर्थान्वयोपपत्ते:-- लोहितोष्णीषा लोहितवसना ऋत्विज: प्रचरन्ति' इति श्येनयागवैशेषिकाङ्गविधायके वास्ये लोहितवमनाः' इति बहुव्रीहिसमामवर्तिपदयोः सामानाधिकरण्यनिर्वाहाथै लोहितशब्दस्य अवश्यवक्तव्य द्रव्यपर्यन्तत्वं मतुब्लोपेन निर्वाह्यमिति तत्र प्रकृतेः सामा- न्यविशेषवृतिभ्यामुपस्थाप्ययोः गुणद्रव्ययोर्मध्ये द्रव्यमप- हाय गुणे विधिसंक्रान्तिसंप्रतिपत्तेः अरुणापदं गुणपरमेव 3 गुणगुणिनोरभेदोपचारेण · अरुणया एकहायन्या' इति पद- योः सामानाधिकरण्यमिति तन्निर्वाह, ऋजुनैव मार्गेण गुणे करणकारकत्वान्वयसंभवात् । न च एतेषां पक्षाणां मध्ये विशेष्यं विहाय विशेषणे विभक्त्यर्थान्वयः इति पक्षे 'पि. काक्ष्या' इति पदेऽपि तथात्वापत्तिर्दोषः; इष्टापत्ते:- : om *V.9 पूर्वोत्तरमीमांसा- . , हि अरुणया' इति पद एव कारकविभक्तिः साफल्यं ने- तव्या, न 'पिङ्गाक्ष्या' इति पदे--- इत्यत्र विशेषहेतुरस्ति । न च आरुण्यस्येव पैङ्गल्यविशिष्टस्य अक्ष्ण: क्रय साधनत्वं न संभवति । न च अन्यदीयस्यापि पैशल्यविशिष्टस्याक्षण: उ- बृतस्य ऋयसाधनत्वं संभवति, 'अश्वशफेन क्रीणाति' इति वाक्यादश्वशफस्येवेति आरुण्यस्येव तस्य नियमेन गोद्रव्यान्व यापेक्षा न स्यादिति वाच्यम् ; अर्थत: स्वातन्त्र्यसंभवेऽपि ब- हुव्रीहिसमासेन गोद्रव्यविशेषणभूतस्यैव तस्य समर्पणात् । त- स्मात् सामानाधिकरण्यस्य अत्रासंभवात् नास्ति मदनुमाने बाधशङ्का । त्वदनुमानं तु अप्रयोजकम, · अरुणिना शोभते' इति लौकिकवाक्ये एकहायनीपदाभावात् इमनिच्प्रत्ययस- द्भावाञ्च तत्सामानाधिकरण्यप्रतिपादकत्वाभावेऽपि, अन ए- कहायन्यादिश्रवणेन तत्सामानाधिकरण्यविरोधिनो भावप्र- त्ययस्य अभावेन च तत्सामानाधिकरण्येन वाक्यार्थप्रतिपा. दकत्वोपपत्ते: इति ॥ . amom अथ चतुर्थी कक्ष्या- अरुणाशब्दस्य गुणमानपरत्वमङ्गीकृत्य आर्जवेन तत्र विभक्त्यर्थान्वयसंगमनाय समानपदश्रुतिनिर्वाहोपपत्तौ वा- क्यरूपपदान्तरसामानाधिकरण्यनिर्वाहाय श्रुतिस्वारस्यभ- वादनक्षत्रमाला । जो न युक्तः । अभेदोपचारकल्पनेऽपि उपचार एव दोषः । अतोऽत्र सामानाधिकरण्यं न संभवतीति बाधितमेव त्वद- नुमानम् । मदनुमानं च नाप्रयोजकम् , तृतीयार्थस्य करण- त्वस्य स्वारस्येन गुणसंगते: अरुणाशब्दस्य गुणमानपरतया वैयधिकरण्य एव संभवात्- इति ॥ अथ पश्वमी- m १ इह सामानाधिकरण्यं न एकविभक्त्यन्तपदद्वयसमभि- व्याहारमात्रनिबन्धनमिष्यते ; किंतु स्त्रीलिङ्गारुणाशब्दश्रु- त्याप्यानीतम् । स्वातन्त्र्येण गुणमात्रपरत्वे हि 'गुणे शुक्ला- दयः पुंसि' इत्यनुशासनात् पुंल्लिङ्गता स्यात् । अत: सामा- नाधिकरण्यमेवाभ्युपगन्तव्यमिति न बाधितं मदनुमानम् । त्वदनुमानं तु अप्रयोजकमेव, अन्यत्र वैयधिकरण्येऽपि अत्र उक्तरीत्या सामानाधिकरण्योपपत्तेः इति ॥ अथ षष्ठी कक्ष्या- गुणेषु प्रयोगसाधून्येव लिंगानि नार्थसाधूनि । न हि गुणेषु पुंस्त्वं वा मुख्यम् । अत: स्त्रीत्वमपि तद्वदिष्यताम् । तथैव बुद्धिकरुणादिशब्देषु गुणवाचिध्वपि स्त्रीलिंग ह- श्यते । तस्मादरुणाश्रुतिस्वारस्येन सामानाधिकरण्यं नोप- नीयते । किं तु एकविभक्त्यन्तपदद्वयसमभिव्याहारमात्रे- ।

१३२ पूर्वोत्तरमीमांसा- णेति तस्य एकपदश्रुतिस्वारस्यविरोधिन औपचारिकत्वापा- दकस्य च त्याग एव युक्तः । अत: त्वदनुमानं बाधितम् । मदनुमानं च नाप्रयोजकम् , 'उक्तयुक्त्या वैयधिकरण्यावश्य- भावात्- इति ॥ अथ सप्तमी manner यदुक्तं प्रयोगसाध्विह लिंग मार्थसाध्विति, तदयुक्तम् , 'गुणे शुक्खादयः पुंसि' इत्यनुशासनविरोधेन प्रयोगसाधुत्व. स्याप्यसिद्धेः : । न हि करुणादिशब्दसामान्यत: दृष्टम् अनु- शासनविरोधे प्रभवति । तथा सति शुक्लादिशब्देषु पुँल्लिंग- दर्शनेन करुणादिशब्देष्वपि कदाचित पुंल्लिंगप्रयोगापत्तेः । न च कारकविभक्त्यन्वयस्वारस्यसिद्धचमिहव स्त्रीलिंगप्रयोगस्य साधुत्वं कल्प्यतामिति वाच्यम् , उभयोरपि मदुक्तरीत्या अर्थसाधुत्वसंभवे कस्य चित् प्रयोगसाधुत्वकल्पनानौचि- स्यात् । अन्यथा लिंगमेवार्थसाधु, कारकविभक्तिः प्रयोग- साधुरिति वैपरीत्यस्यापि कल्पनाप्रसङ्गात् । विशेषणविभक्तेः साधुत्वार्थत्वस्य अन्यत्र बहुशः क्लप्ततया गुणशब्दः स्त्रीलिंग एव स्यात् । अक्लप्तस्य प्रयोगसाधुत्वस्य अकल्पनीयत्वेन तस्यैवौचित्याच्च । एतेन लिंगकारकयोः कारकस्य प्राधा- न्यात् कारकान्वयस्वारस्यमेवानुरोद्धव्यम् ; न च लिंगस्या- ..

वादनक्षत्रमाला। . प्राधान्ये ऽपि 'स्त्रियाम्' इति व्याकरणसूत्रभाध्यायुक्तरीत्या तस्य प्रातिपदिकस्त्रीप्रत्ययान्यतरार्थत्वेन प्रथमश्रुतत्वात् प्र. थमश्रुतस्य अप्राधान्येऽपि न प्रथमयज्ञे प्रवृजथात्' इत्यत्र प्राथम्यविशेषणस्येव प्राबल्यात् लिंगमेवानुरोद्धव्यमिति वा- च्यम् , लिंगस्य प्राथमिकप्रातिपदिकस्त्रीप्रत्ययान्यतरार्थत्वे- ऽपि तत्प्राबल्यहेतोः प्रथमप्रतीतेरसिद्धेः ; अरुणया' इति तृतीयाप्रयोगे स्त्रीप्रत्ययस्य टाबाकारस्याश्रवणेन टापं स्त्रीलिङ्गासाधरणेन विभक्तिविकारणोन्नीय तदनन्तरं तेन स्वयं वाचकेन प्रातिपदिकार्थद्योतकेन वा लिंगस्य प्रत्येतव्य. त्वात्-इति निरस्तम्, क्लप्रकल्प्ययोः क्लप्तस्य बलीय- स्त्वात् स्वातन्त्र्येण गुणपरेषु शुक्लादिशब्देषु क्वचिदपि स्त्री- लिंगस्य कलप्त्यभावात् लिंगानुशासनविरोधेन कल्पनस्यायुक्त- स्वाच्च । अपि च अरुणापदस्य द्रव्यपर्यन्तत्वपक्षेष्वेव कार- कविभक्त्यन्वयस्वारस्यविरोधशङ्कापि । न तु गुणमात्रपरो- ऽरुणाशब्दः, एकहायनीसामानाधिकरण्यं परमौपचारिका- भेदावलम्बनमिति पक्षेऽपि । न च तस्मिन्पक्षे सामाना- धिकरण्यस्य औपचारिकत्वापत्तिरेव दोषः; प्रतीयमा- नसामानाधिकरण्यात्यन्तबाधनात् तदौपचारिकत्वकल्पन- स्य ज्यायस्त्वात् । किंचायमुपचार: सांप्रतिकलक्षणान्यायेन .

पूर्वोत्तरमीमांसा- . aant . . अत्रैव न कल्पनीयः ; किंतु निरूढलक्षणान्यायेन क्लप्त एव । तथा हि- स्त्रियाम्' इति सूत्रे भाष्यकारैः स्त्रीत्वस्य टाबाद्यर्थत्वपक्षे तस्य स्वयमस्त्रीत्वात् एकत्वाच ' कुमारी, मायौँ, कुमार्यः' इत्यादिषु स्त्रीलिंगस्य द्विवचनबहुवचनयोश्च अनुपपत्तिमाशङ्क्य, समाहितम्-गुणवचनानां हि शब्दा- नामाश्रयतो लिंगवचनानि भवन्ति । तद्यथा- 'शुक्लं वस्त्रम् , शुक्ला शाटी, शुक्ल: कम्बल:, शुक्तौ कम्बलौ, शुक्ला: कम्बला: इति, यद्रव्यं श्रितो भवति गुणः, तस्य यल्लिङ्गं वचनं च, तत् गुणस्यापि भवति; एवमिहापि यदि द्रव्याश्रितं भवति स्त्रीत्वम् , तस्य यल्लिंगं वचनं च तत् स्त्रीत्वस्यापि भविष्यति इति । तत्र हि शुक्लशब्दः केवलगुणपर एव उदाहृतः । तस्य द्रव्य- पर्यन्तत्वे स्वत एव लिंगवचनयोरुपपन्नत्वेन आश्रयतस्तयो- रसमर्थनीयत्वात् । अतस्तत्र भिन्नार्थयोर्गुणद्रव्यशब्दयोः सामानाधिकरण्यमभेदोपचारावलम्बनमिति स्पष्टमेव इति । एतेन अरुणाशब्दस्य केवलगुणपरत्वपक्षे तवापि स्त्रीलिंग- मयुक्तमित्यपि शङ्का निरस्ता; यत्र गुणवाचिनामौपचारिक- द्रव्यवाचिपदसामानाधिकरण्यम् , तत्व आश्रयलिङ्गानुरोधस्य 'शुक्ला शाटी' इत्यत्र क्लप्तत्वात् । तस्मात् प्रतीयमानसा- मानाधिकरण्याबाधनेन कारकविभक्त्यर्थसमर्थनोपपत्तेः न वादनक्षत्रमाला। तदाधनं युक्तमित्यत: मदनुमानं न बाधितम् , त्वदनुमानमेव तु अप्रयोजकमिति ॥ अथाष्टमी- . , सामानाधिकरण्याबाधनेन कारकविभक्तिसाफल्यसमर्थ- नमयुक्तम् , कारकविभक्त्यन्तत्वे क्रियापदान्वयस्य सामाना- धिकरण्ये एकहायनीपदान्वयस्य च वक्तव्यत्वात् अरुणया क्रीणाति, अरुणयैकहायन्या' इत्येवमेकस्य पदस्य युगपदु- भयान्वयायोगात् । न च पर्यायेण उभयान्वयः; एकस्मा- द्वाक्यात् क्रमिकार्थद्वयप्रतीत्यसंभवात् । न च वार्तिककारैः अरुणिमैकहायन्योः पाटिकान्वयसमर्थनानन्तरम् ‘एवं च वाक्यगतमपि सामानाधिकरण्यं समर्थितं भविष्यति' इत्यु- क्तत्वात् तत्र विभक्तिश्रुत्यानीतक्रियान्वयविरोधमाशक्य, 'क्रियापेक्षित एवायं संबन्धः क्रियते तयोः । न चात्रानु- गुणावृत्तिर्दुर्बलापि निरुध्यते' इति पर्यायेण उभयान्वयः स्वीकृत इति शङ्कनीयम् ; अरुणाशब्दस्य प्रथमं निष्कृष्टगु- णमात्रशक्त्या अरुणिममात्रविषयत्वेन कारकविभक्त्या क्रिया- न्वितस्य पश्चाद्वार्तिककाराभिमतया गुणिलक्षणया तस्य एक- हायनीविशेषणतयापि अन्वयासंभवात् , शब्दानां युगपदा- वृत्त्या वा अर्थद्वयप्रतिपादकत्वस्य वार्तिककारैरेव नामधेय- .

पूर्वोत्तरमीमांसा- पेटिकादिषु बहुषु प्रदेशषु प्रतिषिद्धत्वात् । तस्मात् एवं च' इत्यादिनन्थस्य अरुणिमैकहायन्यो: आर्थिकपरस्परान्वयस- मर्थनानन्तरं प्रवृत्तत्वात् तत्रैव अभ्युशयकथनपरः इति नेत- व्यम् । अत: कारकविभक्तितया साफल्यसमर्थनप्रवृत्तस्य तवापि सामानाधिकरण्यासंभवात् त्वदनुमानं बाधितमेव । मदनुमानं च नाप्रयोजकमिति ॥ अथ नवमी- WHAIRNO क्रियान्वयः सामानाधिकरण्येनाविरुद्धः ; भिन्नप्रवृत्तिनि- मित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिर्हि सामानाधिकरण्यम् । तत्र एकस्मिन्निति पदोक्तमथैक्यं तात्त्विकं चेत् मुख्यं सामा- नाधिकरण्यम , औपचारिक चेत् अमुख्यमिति विशेषः । द्विविधमपि सामानाधिकरण्यं प्रकृते संभवति इत्युपपा- दितम् । तहिविधमपि क्रियान्वये सति असत्यपि नापति न हि आद्यपक्षानुसारेण विशेषणे कारकविभक्त्यर्थसंक्रान्त्या द्रव्यपर्यन्तत्वमरुणाशब्दस्य अपैति । न वा द्वितीयपक्षानु- सारेण तस्य आश्रयलिंगग्राहित्वं क्रियान्वये अपैति । न च अनपेतमपि सामानाधिकरण्यं क्रियान्वये वाक्यार्थप्रतीत्यनु- पयोगि जातमित्ययं दोषः । न हि तस्य वाक्यार्थप्रती- त्युपयोगित्वपर्यन्तम् अस्माभिः सिसाधयिषितम्; किं तु वादनक्षत्रमाला। बाक्यार्थप्रतीतिसमये सत्त्वमात्रम् । न च तदनुपयोगिना किं तेन सामानाधिकरण्येन इति शङ्कनीयम् , प्रयोजना- भावेन लिंगविभक्त्यैकरूप्यावगतस्य तस्य प्रतिक्षेपायोगात् अरुणिमैकहायन्योः परस्परान्वयस्य न्यायलभ्यत्वेऽपि तत्प्र- तिष्ठाहेतुतया सप्रयोजनत्वात् । न च क्रियान्वये सति सामा- नाधिकरण्यस्य वाक्यार्थप्रतीत्यनुपयोगित्वमपि, सामानाधिक- रण्यबलात् द्रव्यावच्छेदकतया प्रतीयमानस्यैव गुणस्य क्रिया- शेषत्वेनाप्यन्वयसंभवात् । अभ्युपगन्तव्यश्च पूर्वमीमांसकैरपि तथा अन्वय: 'चतुरो मुष्टीनिर्वपति' इत्यत्र । तथा हि- पाश्चमिके मुष्टिकापालाधिकरणे चतुर्मुष्टिनिर्वाप एक: पदार्थः न तु एकैकमुष्टिनिर्वापश्चत्वारः पदार्थाः । अतो नैकपुरो- डाशास्त्रिष्टिषु पदार्थानुसमयेन अङ्गकलापे कर्तव्ये स्थिते सति, प्रतिपुरोडाशम् एकैकमुष्टिना अनुसमयो न कार्यः; प्रतिमुष्टि निर्वाषपदार्थस्य भिन्नत्वाभावात् । किं तु प्राथ- मिकस्य पुरोडाशस्य चतुर्मुष्टिनिपिं समाप्य द्वितीयस्य स आरम्भणीय:-- इत्येवं चतुर्मुष्टिनिर्वापेण अनुसमय: कार्यः, ताबत एकपदार्थत्वात्-- इति व्यवस्थापितम् । अत्रेयं शङ्का समुन्मिपति-दाशमिके संख्यामुष्टयधिकरणे चतु:संख्याया मुष्टिद्रव्यशेषत्वं निराकृत्य निर्वापक्रियाशेषत्वं ..

१३८ पूर्वोत्तरमीमासा- . . , N समर्थितम् । तथा च 'तित्र आहुती:' इत्यत्र आहुतिक्रि- यान्वयिन्या त्रित्वसंख्यया आहुतिक्रियाभेद इव-निर्वाप- क्रियान्वयिन्या चतुःसंख्यया निर्वापक्रियाभेदोऽपि स्यात् ; अतो मुष्टिना अनुसमय इति पूर्वपक्ष एव युक्तः- इति । तत्रेदमुत्तरं वाच्यम्---युक्तं तिस्र आहुतीर्जुहोति' इत्यत्र संख्यया क्रियाभेदः, तत्र त्रित्वसंख्याया: साक्षादाहुतिक्रि- यावच्छेदकत्वेनान्वयात् ; इह चतु:संख्या न निर्वापक्रिया- वच्छेदकत्वेन अन्वेति ; तथा सति ‘संख्याया: क्रियाभ्यावृ- त्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्यः सुच्' इति पाणिनीयवि- हितक्रियाभ्यावृत्तिगणनविषयसुजन्ततया चतु:- इति रूप- प्रसङ्गात् । न च 'तिस्त्र आहुती:' इत्यत्व आहुतिशब्दवत् इह 'चतुरो निर्वापान्' इति निर्वापशब्द: 'चतुरो वारान्' इति वारशब्दो वा अस्ति । न च तदध्याहारो युक्तः ; लिंगविभक्त्यैकरूप्यावगतमुष्टिसामानाधिकरण्यनिवृतस्य 'च- तुरः' इत्यस्य अध्याहारनिरपेक्षत्वात् । अत एव मुष्टय- तिरिक्तद्रव्यवाचिशब्दान्तराध्याहारेण लिंगविभक्त्युपपादना- शङ्कापि निरस्ता स्यात् ; मुष्टिसामानाधिकरण्यात् मुष्टयव- च्छेदिकैव सती कारकविभक्तिबलात् क्रियायां शेषत्वमात्रेण अन्वेति ; न तु तदवच्छेदकत्वेनापि; किंचिदवच्छेदकसं- वादनक्षत्रमाला । ७ . ख्याया तदितरावच्छेदकत्वविरोधात् । अवच्छेदकत्वेन द्रव्या- न्विताया अपि संख्याया: शेषत्वेन क्रियान्वयस्तु न विरुध्यते; कया चिद्विधया किंचित्संबन्धिनोऽपि विधान्तरेण तदि- तरसंबन्धसंभवात् ; 'सप्तदशारनिर्वाजपेयस्य यूपः' इत्यत्र अरल्यवच्छेदिकायाः संख्याया विषयतया विध्यन्वयस्य सं- प्रतिपन्नत्वाच्च । अत एव 'सप्तदश प्राजापत्यान्पशूनालभेत' इत्यादिषु तथा अन्वयोऽभ्युपगन्तव्यः । तद्यथा- 'पृथ- क्वनिवेशित्वात्संख्यया कर्मभेदः स्यात' इति द्वैतीयीकाधि- करणे ‘तिम आहुतीर्जुहोति' इत्येतत् संख्यया कर्मभेदस्य उदाहरणम्- इति प्रथममुदाहृत्य आहुतिक्रियारूपकर्मान्व- यिन्या संख्यया कर्मभेदसिद्धेः स्पष्टत्वेन अत्र व्युत्पाद्य- न्यायाभावात् नेदमुदाहरणमिति तत् परित्यज्य प्राजा- पत्यवाक्यमुदाहृतम् । तत्र संख्यया कर्मभेदसिद्धरस्पष्टत्वं च एवं व्युत्पादितम्- नात्र क्रियान्वयिनी संख्या ; किंतु द्रव्यान्वयिनी ; तया यागक्रियारूपकर्मभेदसिद्धिः इत्थम्-- सा न केवलं पशुद्रव्यान्वयिनी ; येन बहुध्वपि पशुषु प्रजा- पतिदेवतासंबन्धस्य एकत्वात् तदाक्षिप्तो यागोऽपि एको भवे- त् ; किं तु प्रजापतिदेवताविशिष्टपश्वन्वयिनी । तथा च पशू- नामिव प्रजापतिदेवतासंबन्धानामपि सापदश्यसिद्धौ तैरा- पूर्वोत्तरमीमांसा- ७ क्षेप्या यागा अपि सप्तदश भवेयुरिति । तत्रापि एवं शङ्का उन्मिषति- यत्र संख्या कर्मान्वयिनी तनोदाहार्यमिति मन्वानानामिदमपि नोदाहरणं भवितुमर्हति; 'प्राजा- पत्यान्पशून्' इति पदद्वयसमभिव्याहारप्रतीतद्रव्यदेवतासं- बन्धाक्षिप्तयागक्रियायामेव अरुणाधिकरणन्यायेन साक्षात् संख्यान्वयोपपत्तेः; न हि परिपूर्णवाक्यार्थप्रत्ययानन्तरं यागाक्षेपः; येन संख्या यागक्रियाक्षेपात्प्रागेव द्रव्यान्विता जाता, न तस्याः पुन: क्रियान्वयो भावीति शङ्कयेतापि । प्राजापत्यपशूनां विनियोगानवगमेन वाक्यभेदप्रसङ्गेन पशु- मात्रोद्देशे देवतापदवैयर्थ्यप्रसङ्गेन च स्पर्शरूपस्यालम्भस्य संस्कारकर्मतया यागान्वयिदेवतापदानन्वयप्रसङ्गेन अर्थक- मतया वा अन्वयासंभवेन द्रव्यदेवतासंबन्धाक्षिप्तविधियो- ग्ययागक्रियाध्याहारपर्यन्तं परिपूर्णवाक्यार्थप्रतीत्यसंभवात् , तदसंभवे च श्रुतविधिनिर्वाहाथै विधियोग्ययागक्रियाध्याहारे सति, तत्रान्वययोग्याया: संख्याया: 'गुणानां च परार्थत्वा- दसंबन्धः समत्वात्स्यात्' इति न्यायविरुद्धस्य गुणभूतद्र- व्यान्वयस्यासंभवेन सप्तदश' इत्यस्यापि आख्यातवत् द्रव्यान्वयोपपत्तेः, यागक्रियाक्षेपात्प्रागपि यावच्छ्रतपदस- मभिव्याहारलभ्यवाक्यार्थप्रत्ययोत्पत्त्यभ्युपगमेन . - . , . प्राजा-

वादनक्षत्रमाला ।
पत्यान्पशून्' इत्यस्येव 'सप्तदश' इत्यस्यापि कारकविभ-
क्तितः क्रियान्वयस्यैव प्राप्त्या द्रव्यान्वयालाभात्-इति । तत्रा-
प्येवमुत्तरं वाच्यम्--- सामानाधिकरण्यात् द्रव्यावच्छेदक-
त्वेन द्रव्यान्विताया एव संख्याया: कारकतामात्रेण क्रिया-
न्वयो भवेत् । तच्च कारकत्वं द्रव्यावच्छेदद्वारा निर्वाह्यमिति
देवतासंबन्धविशिष्टद्रव्यान्वयिन्या संख्यया तद्विशिष्टद्रव्य-
भेदवत् द्रव्यदेवतासंबन्धभेदस्यापि सिद्धौ तहारैव संख्यया
कर्मभेदसिद्धिः ; न साक्षादिति । तस्मात् अरुणापदम् एक-
हायनीपदसमानाधिकरणं सदेव क्रियान्वयीति मदनुमानं
न बाधितम् । त्वदनुमानमेव तु अप्रयोजकमिति सिद्धम् ॥
इति अरुणकहायनीसामानाधिकरण्यवादः ॥७॥

ऋयारुण्यान्वयवादः॥ इति , " विष्णुभागवतास्तु अरुणाशब्दस्य स्वशक्त्या गुणविशि- टद्रव्यपर्यन्तत्वमङ्गीकृत्य आरुण्यस्य एकहायनत्ववत् द्रव्य- गुणतयैवान्वयः ; न स्वातन्त्र्येण क्रयसाधनतया- मन्यन्ते । तन्निरासार्थ कथा प्रस्तूयते- अरुणावाक्यसमर्पितमारुण्यं सोमक्रयक्रियासाधनम् , अरुणावाक्यगततृतीयार्थान्वयित्वात् ; यदरुणावाक्यगतत- तीयार्थान्वयि, तत् सोमक्रयक्रियासाधनम्- यथा गोद्र- व्यम् । यद्यपि उक्तहेतुः साध्यपर्यवसितः, तथापि रूपभेदेन भेदः इति प्रथमा कक्ष्या ।। अथ द्वितीया- असिद्धोऽयं हेतुः, साध्यतो रूपभेदेन भेदसत्त्वेऽपि पक्षे हेतोः मम असंप्रतिपन्नत्वात् ; मया विशेषणविभक्तिः 'अरुणया' इति तृतीया केवलं साधुत्वार्था, तृतीयान्तरप्र- तिपन्नगोगत करणत्वानुवादिनी वा; न तु अरुणिमान्वित- करणत्वसमर्पिणी-इत्यङ्गीकृतत्वात् । तस्मात् अरुणावाक्य- प्रतिपन्नमारुण्यं न सोमक्रयक्रियासाधनम् , गोविशेषणत्वात्, mome ७ वादनक्षत्रमाला । १४३ यद्गोविशेषणम् , न तत्सोमक्रयक्रियासाधनम्- यथा एक- हायनत्वम् इति ॥ me . अथ तृतीया- अरुणया' इति कारकविभक्तिसाफल्याय गुणे तदर्थसं- क्रान्तिरङ्गीकरणीया; विभक्तरर्थवत्त्वे संभवति साधुत्वमात्रा- र्थत्वस्य अनुवादकत्वस्य वा अभ्युपगमायोगात् । न च वि- भक्त्यर्थस्य विशेषणसंक्रान्तिरदृष्टचरी; 'चतुरो मुष्टीनिर्व- पति' इति वाक्ये चतु:शब्दपरद्वितीयार्थस्य संख्येयविशे- षणसंख्यान्वयित्वस्य संप्रतिपन्नत्वात् । तथा हि- 'चतुरो मुष्टीनिर्वपति' इति दर्शपूर्णमासप्रकरणामातेन वाक्येन चतु:- संख्यामुष्टिद्रव्योभयसाधनको निर्वापो विधीयते । कथम् ? शकटानीताद्रीहिराशेः पुरोडाशार्थानां ब्रीहीणां पृथक्करणमर्थतः प्राप्नुवदपि न नियमेन प्राप्यते ; शकटेन पुरोडाशोपयुक्तबीहि- मात्रस्यापि आनयनसंभवात् । अत: तव नियमार्थो विधिः । स च ब्रीहीणां निर्वापो मुष्टिभिः कर्तव्यः, तस्य चतु:संख्या च इति तत्रापि नियमः । यद्यपि द्वितीयया मुष्टीनां संस्कार्यता प्रतीयते, तथापि तेषां प्रागविनियुक्तत्वात् अवनेजनसंस्कृ- ताध्वर्युहस्तवत् अग्रे विनियोक्ष्यमाणत्वाभावाच्च संस्का. यता नोपपद्यते । न च मुष्टिशब्दो मुष्टिपरिमितव्रीहिपरोऽ- ---- पूर्वोत्तरमीमांसा- , . स्तु, ततश्च ब्रीहीणां विनियोगसद्भावात् संस्कार्यता उपपद्यत इति वाच्यम् ; तेषां मुष्टिवैशिष्टधेन प्राप्तेरभावात् तेन रूपे- णानुवादानुपपत्ते:, चतु:संख्यायाः पृथगुद्देशे तद्विशिष्टमु- ष्ट्युद्देशे वा वाक्यभेदापत्तेश्च । तस्मात् 'सक्तूजुहोति' इतिवत् अनीप्सितकर्मणि द्वितीयेति योज्यम् । अत्र ' आद. शत: संख्याः संख्येये' इति चतुःशब्दस्य संख्येयपर्यन्तत्वा- वगमेऽपि कारकविभक्तिसाफल्याय विशेषणे तदर्थसंक्रमो- ऽङ्गीकृतः । एवं शङ्कापरिहारावभिप्रेत्यैव ‘मुष्टिलोपात्तु सं. ख्यालोपस्तद्गुणत्वात् , न निर्वापशेषत्वात्' इति दशमाध्याय- पूर्वपक्षसिद्धान्तावलम्बनं सूत्रद्वयं प्रवृत्तम् । अत्र हि ‘बार्हस्प- त्यो नैवारः सप्तदशशरावश्चरुर्भवति' इति वाजपेये विहितस्य सप्तदशशरावपरिमितचरोरतिदेशप्राप्तैश्चतुर्भिर्मुष्टिभिः परिमि- तेन ब्रीहिद्रव्येण संपादयितुमशक्यत्वात् संख्यामुष्टयन्यतर- लोपे कर्तव्ये चतुःशब्दस्य संख्येयप्रधानत्वात् तद्विशेषणत्वे- नाप्रधानभूताया: संख्याया लोप: कार्य इत्यभिप्रायेण पूर्व- पक्षसूत्रं प्रवृत्तम् । चतुःशब्दस्य संख्येयपरत्वेऽपि तद्गतस्य कारकत्वस्य द्वितीयान्तरेणाभिहिततया चतुःशब्दपरद्वितीया- याः तद्विषये साफल्याभावात् विशेषणे तदर्थसंक्रमो वाच्यः । तथा च संख्यामुष्टयोरुभयोरपि निर्वापाङ्गत्वाविशेषात् प्रथ- वादनक्षत्रमाला। १४५ मश्रुतप्राबल्यानुरोधेन मुष्टेरेव लोप: न्याय्य इत्यभिप्रायेण सिद्धान्तसूत्रं प्रवृत्तमिति स्पष्टमेव । तस्मात् तत्र चतुःशब्दस्य संख्येयपरत्वेऽपि तत्परद्वितीयाया इव अरुणाशब्दस्य द्रव्य- परत्वेऽपि तत्परतृतीयाया: साफल्यार्थमरुणिनि संक्रान्तिरभ्यु- पगन्तव्या इत्येवं प्रसाध्यो हेतुः कृतकत्वादिवदुपपद्यत इति नात्रासिद्धिशङ्कावकाशः । त्वदनुमानं तु अप्रयोजकम् , 'ए- कहायन्या' इत्यत्र कारकविभक्तर्विशेष्यान्वयेन साफल्यात् विशेषणानन्वयेऽपि, अत्र साफल्यार्थ विशेषणान्वयौचित्या- दिति ॥ maa : .. अथ चतुर्थी- चतुरुत्तराया इव अरुणोत्तराया विभक्तेः विशेषणान्व- यकल्पनं न युक्तम् ; तथा सति 'तं वै दशभिः क्रीणाति' इति दशसाधनक्रयश्रुतिविरोधात् । आरुण्यस्यापि तत्साधन- त्वे हि संख्यातिरेको भवेत् । अतोऽत्र विशेषणविभक्तेः साधु- त्वाद्यर्थतैव युक्तेति त्वदीयो हेतुः प्रसाधयितुमप्यशक्य इति असिद्ध एव । मदीयस्तु नाप्रयोजकः, संख्यानतिरेकार्थ- एकहायनत्वसमत्वेन अवश्यमङ्गीकरणीयत्वा- , मारुण्यस्य दिति ॥ अथ पञ्चमी *V. 10 पूर्वोत्तरमीमांसा- . . epap दशक्रयवचनं न विधायकम् , 'हिरण्येन क्रीणाति' अजया क्रीणाति' इत्यादिदशविधविधिवाक्यैः क्रयतत्सा- धनतत्संख्याविशेषाणां सिद्धेः । किं तु प्रचय शिष्टसंख्यानु- वादकम् । न च अनुवादस्वारस्यानुरोधेन विधिवाक्यगत- कारकविभक्तिवैफल्यापादनं युक्तम् । तस्मात् यथा- चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते' इत्यनुवादगतचतुर्दश- संख्याश्रवणं सतीष्वपि पार्वणहोमादिषु अवषट्काराहुतिषु सवषट्काराहुतिविषयतया योज्यते-- तथा इदमप्यनुवादग- तमेव दशसंख्याश्रवणं स्वतन्त्रक्रयसाधनद्रव्यविषयतया यो- जयितुं युक्तम् । अतो मदनुमाने हेतु सिद्धः । त्वदनुमान तु अप्रयोजकमेवेति ॥ अथ षष्ठी- दशक्रयवचनस्य विधायकत्वे संभवति न अनुवादकत्वक- ल्पनं युक्तम् । अस्ति चात्र विभक्तिसाफल्यलोभेन आरुण्य - स्थापि क्रयसाधनत्वप्राप्तौ तव्यावृत्तिफलकस्य विधेरवकाशः । अत: तत्साफल्याय विभक्तिमात्रस्य प्रयोगसाधुत्वार्थत्वम् अ- नुवादकत्वं वा कल्पयितुं युक्तम्। 'यदि सोममपहरेयुरेका गां दक्षिणां दद्यात् , अभिदग्धे सोमे पञ्च गा दद्यात्' इत्यत्र हि समभिव्याहृतैकादिप्रातिपदिकवैयर्थ्यलक्षणादिदोषपरिहा- - वादनक्षत्रमाला। १४७ . in राय 'एकाम् पञ्च' इत्यनयो: कारकविभक्तित्वाश्रयणेन क्रियासंबन्धः त्यक्तः । तथा हि-तत्र यदि एकां गां दद्यात् इति संबन्धः क्रियते, तदा गौश्चाश्वश्चाश्वत रश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं दक्षिणा' इति ज्योतिष्टोमदक्षिणात्वेन बहुषु गवा- दिषु समुच्चित्य देयत्वेन प्राप्नेषु अनियमेन यां कांचिदेकामेव दक्षिणां दद्यात्-इत्यर्थः स्यात् ; तदा गोशब्दस्यानियतप्राप- णीयगवादिसर्वद्रव्यलक्षणा भवेत् , पक्षप्राणायाः गो: अनु- वादः संभवेत् । अथ तु एकां दद्यात् , तां च गाम् इति विधीयेत, तदा प्राप्तक्रियानुवादेन अनेकार्थविधानाद्वाक्य- : । यदि तु गां दद्यात्- इति गौरव दक्षिणादाने वि- धीयेत, तत: तस्या वचनप्राप्ता द्वादशशतसंख्यैव परिच्छे- दिका प्राप्नुयादिति एकपञ्चशब्दौ अनर्थको स्याताम् । तयोरपि विधाने वाक्यभेदः । अथ एकवचनबलात् विवक्षि- तैकत्वसंख्या गौर्विधीयते, तदा एकशब्दस्य अनुवादत्वेनान- र्थक्यम् , पञ्चशब्दस्य अनन्वितार्थत्वं च स्यात् । तस्मादुक्तदो- षपरिजिहीर्षया कारकविभक्तिश्रुतिप्राप्तमपि संख्ययोः क्रिया- संबन्धं परित्यज्य वाक्यलक्षणो गोसंख्यासंबन्ध एव विधेयो- ऽभ्युपगन्तव्यः । ततश्च एकां गाम् इत्येतावत्येव विधिः समा- भेदः .

१४८ पूर्वोत्तरमीमांसा. प्यते । दक्षिणां दद्यात्- इत्यनुवादः । ज्योतिष्टोमदक्षिणारूपा- स्वेव गोषु द्वादशशतसंख्याश्रवणलिंगात् 'एकाम् पञ्च इति शब्दोक्तयोरपि संख्ययोस्ताम्वेव निवेशस्यार्थलभ्यत्वात् ; अनुवादसामर्थ्यादेव वा दक्षिणारूपगवाश्रयत्वनियमः संख्य- योर्लभ्यते-- ऐरं कृत्वोद्यम्' इति इरापदविधानस्य 'यद्राि गिरेति ब्रूयात् आत्मानमेव तदुद्गाता गिरेत' इत्यनुवादसामर्थ्यात् गिरापदस्थाननियमस्याङ्गीकृतत्वादिति 'एकां पञ्चेति धेनुवत्' इति दशमाध्यायाधिकरणे निर्णी- तम् । यदैवम् एकादिपदमात्रवैयर्थ्यपरिजिहीर्षया कारक- विभक्तिस्वारस्यं त्यक्तम् , तदा किमु वक्तव्यम् ' तं वै दशभिः क्रीणाति' इति वाक्यवैयर्थ्यपरिहारार्थ तदिह त्यक्तव्यमिति । एवं च दशक्रयवचनरूपविधिविरोधात् आरुण्यस्य तृतीया- र्थान्वयित्वं न संभवतीति त्वद्धेतुरसिद्ध एव, मद्धेतुश्च नाप्र- योजक इति ।। अथ सप्तमी- दशक्रयवचनस्य दशाधिकसंख्याव्यावृत्तिफलकविधिपरत्वे परिसंख्याविधित्वं भवेत् । तथा च तस्य श्रुतदशसंख्यारू- अश्रुतदशाधिकसंख्याव्यावृत्तिरूपपरा- र्थश्च ग्राह्यः, कारकविभक्तिप्राप्तमारुण्यस्य ऋयसाधनत्वं च पस्वार्थः त्यक्तव्यः, वादनक्षत्रमाला। १४९ अतः EUROID बाधितव्यम्-- इति त्रैदोऽयं प्राप्नुयात् । प्रचयशिष्टस्वतन्त्रक्रयसाधनद्रव्यसंख्यानुवादकत्वकल्पनमेव युक्तम् । वरो हि त्रिदोषदुष्टपरिसंख्याभ्युपगमापेक्षया तद- नुवादकत्वाभ्युपगमः । अत एव वैखानसं पूर्वेऽहन्साम भवति' इत्यङ्गिरसां द्विराने पूर्वस्याह्नो वैखानससामविधा- नानन्तरं श्रुतस्य 'षोडश्युत्तरे' इति वाक्यस्य परिसं- ख्यार्थत्वं परित्यज्य अनुवादकत्वमभ्युपगतम् उत्तरस्याह्नः घोडशित्वं हि षोडशिनं प्रस्तुत्य प्रवृत्तेन सर्वद्विरात्राणामुत्तर- स्याह्नः षोडशिविधायकेन 'उत्तरेऽहन्द्विरात्रस्य गृह्यते' इत्यनारभ्याधीतवाक्येन सिध्यति । ततश्च अस्यापि वाक्यस्य विधिपरत्वे अङ्गिरसां द्विरात्रस्यैव उत्तरेऽहनि षोडशिग्रहः ग्राह्यः । न तु द्विरात्रान्तराणामुत्तरेष्वहःसु इति-द्विरात्रान्त- रेभ्यः षोडशिग्रहव्यावृत्तिरूपपरिसंख्याविधिपरत्वमेव स्या- दिति अङ्गिरसां द्विरात्रे षोडशिग्रहप्रापणरूपस्वार्थस्त्यक्तव्यः, द्विरात्रान्तरेभ्य: तव्यावर्तनरूपः परार्थश्च प्राधः, अनारभ्या- धीतवाक्येन द्विरात्रान्तरेषु प्राप्तं षोडशिमत्त्वं च बाधितव्य. मिति त्रैदोप्यं प्रसज्येत ; अत: 'षोडश्युत्तरे' इत्यस्य अ- नारभ्याधीतवाक्यप्राप्तषोडशित्वानुवादकत्वकल्पनमेव न्या. व्यमिति दशमाध्याये व्यवस्थापितम् । तस्मात् आरुण्यस्य पूर्वोत्तरमीमांसा- तृतीयान्वियित्वस्याविकलत्वात् मदीयो हेतुः नासिद्धः त्वदीयस्तु अप्रयोजक एवेति ।। अथाष्टमी- अनुवादापेक्षया जघन्यापि अत्र क्रयसाधनसंख्यानत्ति- रेकफला परिसंख्यैव अवश्यमभ्युपगन्तव्या । अन्यथा नि- पिवाक्ये संख्यावत् इहाप्यारुण्यस्य स्वातन्त्र्येण क्रयसाध- नत्वे संख्यामुष्टयोरुभयो: असंभवस्थले मुष्टित्यागवदिह अरुणिमैकहायन्योरुभयोरसंभवस्थले गोरेव एकहायनीश- ब्दोपात्ताया: त्यागप्रसङ्गात् । न च तादृशस्थलदौर्लभ्यम् ; यत्र अरुणा पिङ्गाक्षी मेषी लब्धा, अतथाभूता गोर्ल- ब्धा ; अरुणा पिङ्गाक्षी एकहायनी गौस्तु न लब्धा ; तत्र आरब्धस्य क्रतोरवश्यसमापनीयत्वेन अन्यतरपरित्यागेन अनु- ष्ठाननिर्वृत्त्यवश्यंभावात् । न च वाच्यं यत्रारुणा पिङ्गाक्षी एकहायनावस्थापन्ना मेषी लब्धा, अतथाभूता गौर्लब्धा, तत्र भूयोऽनुग्रहन्यायेन गौस्त्यक्तव्या स्यादित्येवं तवापि तुल्यो दोष इति; मन्मते भूयसामप्यारुण्यादीनां द्रव्यशेष- त्वेन शेषिविरोधे, भूयस्त्वेऽपि शेषाणामेव त्यक्तव्यत्वात् । अत एव 'द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्' इति षष्ठा- ध्यायाधिकरणे- यत्र खदिरस्तनुत्वेन तक्षणाद्ययोग्यः पशु- , वादनक्षत्रमाला : कदरस्तु महत्त्वेन , नियोजनमानयोग्यो लब्धः, तत्प्रतिनिधिः तक्षणादीनामपि योग्यो लब्धः, तत्र बहूनां संस्काराणा- मनुग्रहाय यूपार्थ कदरो ग्राह्य इति पूर्वपक्षं कृत्वा, बहूनामपि संस्काराणां द्रव्यशेषत्वात् शेष्यनुग्रहार्थ खदिर एव ग्राह्य इति सिद्धान्तितम् । तस्मादसिद्ध एव त्वद्धेतुः, महेतुर्ना- प्रयोजक इति ॥ अथ नवमी- AMOM ." परिसंख्यानङ्गीकारे अरुणावाक्यस्यापि संख्यामुष्टयधिक- रणन्यायविषयत्वापत्तिरिति यदुक्तं तदयुक्तम् ; यत्र अरुणा मेषी लब्धा, पिङ्गाक्ष्येकहायनी गौर्लब्धा, तत्र स्वातन्त्र्येण क्रयसाधनयोः पिङ्गाक्षिरूपावयवैकहायनीद्रव्ययोः द्वयोरनुप- हाय एकस्यारुण्यस्यैव त्याग: ‘विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्वम्' इति न्यायत: प्राप्नोतीति न तन्त्र संख्यामुष्टयधिकरणन्याय: प्रसज्यते । यत्र अरुणा पिङ्गाक्षी मेषी, एकहायनी गौश्च लब्धा, तत्र उक्तन्यायप्रसक्तौ इष्टाप- त्तिरिति अरुणाधिकरणन्यायेनैव हि चतुष्वस्य निर्वापशेषत्वमा- श्रित्य मुष्टित्यागः तत्राधिकरणे व्युत्पादितः । तथा चतुष्ववत् अरुणिमापि तस्याधिकरणस्य कथं विषयो न स्यात् । अरुणिमैकहायनीविरोधः काचित्कत्वात् अस्पष्टः । संख्यामु- पूर्वोत्तरमीमांसा- , ष्टिविरोध: सार्वत्रिकत्वात् स्पष्ट इति वा, अरुणाशब्दस्य नि- कृष्टगुणेऽपि शक्तिसद्भावात् 'अरुणया' इति निर्देशस्य द्रव्य- शेषत्वपक्षेऽपि विशेषणविभक्तितया प्रयोगसाधुत्वमात्रार्थत्वस्य अवश्यवक्तव्यत्वात् तथैव क्रियाशेषत्वपक्षेऽपि स्त्रीलिङ्गस्य तन्मात्रार्थत्वोपपत्ते: आरुण्यस्य क्रियाशेषत्वमस्तु ; चतुष्टुं तु न क्रियाशेषः; आदशत: संख्या: संख्येये' इत्यनु- शासनविरोधेन चतु:शब्दस्य निष्कृष्टगुणपरताया वक्तुमश- क्यत्वात् । अतो मुष्टिविशेषणमेव चतुष्वमित्यधिकाशङ्का निरा. करणीयेति तस्मिन्नधिकरणे संख्यामुष्टयुदाहरणं कृतम् । न्यायसाम्येनापतत् आरुण्यस्यापि तदधिकरणन्यायविषयत्वं न दण्डेन वारयितुं शक्यम् । यत्र तु वाक्यभेदादिदोषप्रस- झात् ' अभिदग्धे सोमे पञ्च गा दद्यात्' इत्यत्रेव गुणवाचिश- ब्दस्य गुणशक्तिबलात् अभेदोपचाराद्वा गुणस्य द्रव्यवि- शेषणतैव केवलम् -- यथा “ अश्वः श्यावो दक्षिणा' पि. शङ्गी पष्ठीही दक्षिणा' 'श्वेतायै श्वेतवत्साय दुग्धं मथित- माज्यं भवति' इत्यादौ, तत्र विशेषणस्य गुणस्याप्राधा- न्यात् द्रव्यगुणविरोधे गुणस्य त्याग इति संख्यामुष्टयधिक- रणपूर्वपक्षन्यायः प्रवर्तते । तद्विषयमेव च- 'विशेषणं वि- शेष्येण बहुलम्' इति सूत्रे 'यत्र हि अन्यतरद्रव्यम् अ- क a -

वादनक्षत्रमाला।
न्यतरो वा गुणः, तत्र यद्व्यं तत्प्रधानम् , तद्यथा-- 'शु-
लमालभेत' 'कृष्णमालभेत' इति न पिष्टपिण्डमालभ्य कृ.
तार्थों भवति-- इति महाभाष्यवचनम् । तस्मात् दशक्रय-
वचनस्य परिसंख्याविधित्वकल्पकाभावात् वैखानसाधिक-
रणन्यायेन तस्य यथाप्राप्त्यनुवादकतैव उचितेति आरु-
ज्यस्य क्रयान्वये बाधकाभावात् कारकविभक्तेः संभवत्
साफल्यं नोपेक्षणीयमिति मदीयो हेतु सिद्धः, त्वदीयस्तु
अप्रयोजक इति सिद्धमारुण्यस्य क्रयसाधनत्वम् ।।
"
इति क्रयारुण्यान्वयवादः ॥८॥

योगलक्षणाशङ्कानिरासार्थजीवान्तर्यामि- शक्तिवादः॥ गुणे नीलादिशब्दानां शक्तिं गुणिनि लक्षणाम् । वदन्ति केचिदनयोरिच्छन्ति व्यत्ययं परे ॥ गुणे गुणिनि चास्माभिस्तेषां शक्तिः समर्थिता । सा शक्तिरेकानेका चेत्येतदप्यत्र चिन्तितम् ।। केचिदाहुः क्रयेणैव द्रव्येणैवान्वयं परे । उभाभ्यामन्वयोऽस्माभिरारुण्यस्य समर्थितः ।। ।. शक्तिमेव द्रढीकर्तुमुभयोरुपजीव्यताम् । समर्थितोऽत्रारुण्यस्य कयद्रव्योभयान्वयः ।। एवं गुणे गुणिनि च क्रमाच्छक्तिप्रसाधनम् । जीवान्तर्यामिपर्यन्तं तेषां शक्तिप्रसिद्धये ॥ यथा हि गुणिपर्यन्तं गुणशक्तिः प्रधावति । तथैव तावत्पर्यन्तं सा प्रधावेत्क्रमादिति ।। तत्र यदि गौरोऽहम् इत्यादिव्यवहारः मत्वर्थीयप्रत्ययोत्प- वादनक्षत्रमाला। त्तिप्रयुक्तेन योगेन लक्षणया वा निर्वहेत्, तदा गौरादिश- ब्दानां जीव एव शक्तिर्न सिध्येत् ; दूरे तहारा अन्तर्या- मिणि शक्तिरिति शङ्कानिरासाय तेषां जीवे शक्तिं प्रसाध- यितुं कथा प्रस्तूयते- गौरदेविशिष्ठो जीव: गौरशब्दवाच्यः, गौरवजात्या- श्रयत्वात् , यो गौरवजात्याश्रय:, स गौरशब्दवाच्यः-यथा गौरवर्ण: इति प्रथमा कक्ष्या ।। असिद्धोऽयं हेतुः, गुणगतजातिं प्रति आत्मन आश्रयत्वे प्रमाणाभावात् । तस्मात् गौरदेहविशिष्टो जीवः न गौरश- ब्दवाच्यः, गौरवजात्यनाश्रयत्वात् , यो गौरत्वजात्यनाश्रयः स न गौरशब्दवाच्यः- यथा शुक्लवर्ण:--- इति द्वितीया ।। RAHA Seman मद्धेतु सिद्धः, गौरो वर्णः' इति प्रतीत्यविशिष्टायाः 'गौरोऽहम' इति प्रतीतेरात्मनः गौरत्वजात्याश्रयत्वे प्रमाण- त्वात् । अत एव त्वद्धेतुरसिद्धः इति तृतीया ।। गौरोऽहम्' इति प्रतीते: अक्लममात्मन: गौरत्वजा- याश्रयत्वं धर्म परिकल्प्य तद्विषयत्वकल्पनात् क्लप्रगौ रदेहवैशिष्टयविषयत्वकल्पनं ज्यायः । अतस्त्वद्धतुरसिद्धः, मद्धेतुश्च नासिद्धः- इति चतुर्थी ।।

पूर्वोत्तरमीमांसा- - तथा सति गौरोऽहम्' इति आत्मनि गौरशब्दप्रयोगो न घटेत ; गौरशब्दस्य गौरत्वजातिविशिष्ट इव गौरद्रव्यवि- शिष्टे शक्त्यभावात् । तस्मात् अविगीतप्रयोगानुसारेण आत्मनो देहगुणगतजात्याश्रयत्वमङ्गीकरणीयम् इति मद्धे- तुर्नासिद्धः । त्वद्धतुरेवासिद्धः- इति पञ्चमी ।। वर्णवाचिगौरशब्दात् अर्शआद्यजन्तात् मतुब्लोपे सति गौरशब्दस्य गौरद्रव्यविशिष्टविषयत्वं योगेन लभ्यते । मत्वर्थीयप्रत्ययान्तात् तत्सरूपस्यैव मत्वर्थीयप्रत्ययान्तरस्या- निष्टत्वेन तद्विरूपप्रत्ययस्यानिषेधात् । यद्यपि विरूपावपि मत्व- र्थीयप्रत्ययो समानवृत्तौ नेष्येते, तथापि गौरवर्णोऽस्मि- न्नस्ति- इति सप्तम्यर्थवृत्तात् अर्शआद्यजन्तात् गौरो देहोऽस्य अस्तीति षष्ठयर्थवृत्तमतुब्लोप उपपद्यते ; 'दण्डि- मती शाला' इत्यादी असमानवृत्तरूपप्रत्ययाङ्गीकारात् । एवम् ‘गौरोऽहम्' इत्यादेरन्तर्यामिपर्यन्तत्वं पुनरपि अर्श- आद्यचा सप्तम्यर्थवृत्तेन उपपद्यते । अन्तर्यामिणः परमेश्वर- स्य सर्वाधारत्वेन जीवान्तर्यामिणोः स्वस्वामिभाववत् आधे. याधिकरणभावस्यापि सत्त्वात् । अथवा गौरादिशब्दा: गौ- रदेहादिविशिष्टे जीवे तद्विशिष्टेऽन्तर्यामिणि च लक्षणया व- तिष्यन्ते । तस्मात् शक्तिं विनापि जीवान्तर्यामिणोः गौ- . .

वादनक्षत्रमाला । . . रादिशब्दप्रयोगनिर्वाहात् तस्य तयोः शक्तिसिद्ध्यर्थ गुणग- तजात्याश्रयत्वं नाङ्गीकर्तव्यमिति त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्धः इति षष्ठी ।। एवं योगेन लक्षणया वा निर्वाहः सार्वत्रिको न भवति, * पाण्डुरहम् ' 'वभ्ररहम्' ' श्वेतोऽहम्' इत्यादिप्रयोगाव्याप- नात् । अतस्तत्र आत्मनः परम्परया गुणगतजात्याश्रयत्वम- ङ्गीकृत्य तत्प्रवृत्तिनिमित्तत्वमेव कल्पनीयमिति गौरादिशब्दे- ध्वपि एषैव गतिराश्रयितुं युक्ता । न तु मत्वर्थीयप्रत्ययपर- म्पराविन्यासेन लक्षणाश्रयणेन वा क्लिष्टगति:-इति सप्तमी। ' पाण्डुरहम्' इत्यादिव्यवहारस्य पाण्डादिवर्णविशिष्ट- देहाभेदोपचारेण उपपत्तेः न तन्निर्वाहाथै गुणगतजात्याश्रय- त्वम् आत्मन: कल्पनीयम् , अक्लप्तप्रवृत्तिनिमित्तकल्पनेन शक्तिनिर्वाहात् क्लनेन शक्यसंबन्धेन लक्षणाश्रयणस्य ज्या- यस्त्वात्- इति अष्टमी ।। एवं सति पाण्डुरहम्' इत्यादिव्यवहाराणामौपचारि-- कत्वकल्पनम् ‘गौरोऽहम्' इत्यादिप्रतीतीनां विषयगौरवाश्र- यणम् , तन्मूलव्यवहाराणां प्रक्रियागौरवेण लक्षणया वा निर्वहणम्- इति बहवो दोषा: प्रादुष्युः । ततो युक्ततर- मात्मनि एकस्यैव गुणगतजात्याश्रयत्वस्य कल्पनम्-- इति पूर्वोत्तरमीमांसा- । नवमी॥ औपचारिकत्वकल्पनं तावन्न दोषः, देहाभेदोपचारा- भिप्रायेणैव प्रयुक्तेषु वाक्येषु तस्यावश्याश्रयणीयत्वेन क्ला- त्वात् । प्रतीतीनां विषयगौरवाभ्युपगमोऽपि न दोषः, गौरदे- हविशिष्टात्मबुबोधयिषया प्रयुक्तेषु वाक्येषु तस्यापि अवश्या- श्रयणीयत्वात् । अत एव प्रक्रियागौरवाश्रयणं लक्षणाश्र- यणं वा न दोषः, उदाहृतप्रतीतिमूलप्रयोगनिर्वाहार्थं तस्य अवश्याश्रयणीयत्वात् । नैवमात्मनो गुणगतजात्याश्रयत्वम- वश्यमङ्गीकरणीयम्- इत्यत्र उपपादकमस्ति । अत: प्रमाणा- भावात् त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्धः--इति दशमी ।। अथैकादशी- गौरोऽहम्- इत्यभेदोपचारतात्पर्येण प्रयुक्ते वाक्ये गौ- रशब्दस्य गौरत्वजातिविशिष्टविषयकत्वं पदद्वयसमभिव्या- हारस्य गौरत्वजातिविशिष्टाभेदविषयत्वं च तावत् तवापि संप्रतिपन्नम्। तदेव तद्विशिष्टवैशिष्टयबुबोधयिषया प्रयुक्त- ऽपि वाक्ये अङ्गीकर्तु युक्तम् ; क्लप्तत्वात् लघुत्वाच्च । विशिष्टवैशिष्टये तु अर्थात् सिध्यति इत्यपि तात्पर्यमुप- पद्यते- धूमोऽस्तीति वाक्यस्य वह्नाविव । सिध्यति चार्थात् गुणगतजातिपरम्परासंबन्धघटकतत्तद्विशिष्टवैशि- वादनक्षत्रमाला। १५९ ट्रयम् यद्यपि शब्दत एव विशिष्टवैशिष्टयं बुध्यताम् इति तात्पर्येण प्रयुक्ते वाक्ये मत्वर्थीयप्रत्ययेन विशिष्टवैशि- ष्टयविषयत्वमपि क्लुप्तम् , तथापि विषयलाघवात् मदुक्त- मेवाङ्गीकरणीयम् । एवं च जीवस्य अन्तर्यामिणो वा पर- म्परया देहगुणगतजात्याश्रयत्वकल्पनादपि तत्कल्पनागौरवं न दोषः । क्लप्तत्वेन लघुत्वेन च गौरोऽहम्-इत्युपचारता- त्पर्यरहितस्यापि वाक्यस्य गौरत्वजातिविशिष्टाभेदविषयत्व- सिद्धौ तन्निर्वाहार्थकल्पनागौरवस्य फलमुखत्वात् । वस्तुतस्तु नाव कल्पना काचिदन्या प्रवर्तते; किंतु क्लप्तत्व लघुशरीर- त्वानुसंधानरूपलाघवतर्कानुगृहीतं गौरोऽहमिति व्यवहार- मूलं प्रत्यक्षमेव आत्मनः परम्परया गुणगतजात्याश्रयतायां प्रमाणं पर्यवस्यति । एवमेव गुणाश्रयद्रव्यस्य परम्परया गुण- गतजात्याश्रयतायाम् 'नीलो घट:' इत्यादिप्रतीतिव्यवहारौ प्रमाणमिति गुणशक्त: गुणिपर्यन्तता । तत्रापि विवदमान: उक्तरीत्यैव प्रतिबोधनीयः । अव्यतिरेकवार्तिकप्रदर्शनाच- अव्यतिरेकात्सिद्धमिति चेन्न दृष्टो व्यतिरेकः' इति शब्द- वार्तिकं हि गुणवचनेभ्यो मतुब्लोपानुशासनस्य वैयर्थ्यशङ्का- मुद्भाव्य तत्परिहारार्थम् ; गणगुणिनोरभेदभ्रान्तिरत्र शङ्काबी- जम् । अभेदभ्रान्तेश्च 'नीलो घटः' इत्यादिव्यवहार एव मूलम् ।

पूर्वोत्तरमीमांसा- , - ma- तद्यथा वस्त्रस्य स च तस्याः तदा मूलं भवेत् ; यदि तत्र नीलशब्दो नील- त्वजातिविशिष्टविषयः स्यात् । नीलगुणविशिष्टविषयत्वे तु अभेदभ्रान्तिनिवर्तकतामेवाश्नुवीत; न तन्मूलताम् । ननु उदाहृतवार्तिकगतम् अव्यतिरेकपदं नाभेदपरम् ; किंतु अव्य- भिचारपरम् , 'न गुणा गुणिनं व्यभिचरन्ति' इति तद्वि- वरणभाष्यदर्शनात् इति चेत् ; न; भिन्नयोः सत्यपि अ- व्यभिचारे भेदप्रयुक्तमतुष्प्रसक्तिसत्त्वेन अव्यभिचारस्य शङ्काबीजवाभावात् । ‘दृष्टो व्यतिरेकः' इति परिहारवा- तिकविवरणभाष्ये 'दृश्यते व्यतिरेक:- इति भेदव्यवहारस्य उदाहृतत्वाञ्च । तस्मात् 'न गुणा गुणिनं व्यभिचरन्ति' इति भाष्यम्-- व्यभिचारे हि भेदः प्रतीयेत इति अभेदो न सिध्येत् ; न तु व्यभिचारोऽस्तीति अभेदबाधकशङ्कानिरासेन अभेदोपपादनपरं पीलुपाकप्रक्रि- यावलम्बनेन प्रवृत्तम्-- इति व्याख्येयम् । एवं च भेदव्य- वहारदर्शनात् सत्यपि गुणगुणिनोभेंदे, गुणवत् गुणिनोऽपि गुणगतजात्याश्रयतयैव गणवचनैर्बोध्यमानतया तन्मूला तयो- रभेदभ्रान्तिः शङ्कावादिन:- इति भाष्यकाराशय: स्थितः । तन्मूलाभेदभ्रान्तिकृत एव केषांचित् गुणगुण्यभेदवादोऽपि । यत्तु परिहारवार्तिकविवरणभाष्याशयप्रदर्शनप्रवृत्तेन प्रदी- वादनक्षत्रमाला। पकृता उपायापायवन्तो गुणा गुणिनं व्यभिचरन्तीत्युक्तम् , तत्----- भाष्यकारैः पीलुपाकप्रक्रियावलम्बनेन प्रवृत्तः शङ्का- वादी तदवलम्बनेनैव बोधनीयः- इत्यभिप्रेत्य भेदव्य- वहारप्रदर्शनेनैव परिहारे कृतेऽपि, पक्षान्तरेऽपि परिहारा भ. वन्ति- इति न्यायात् पिठरपाकप्रक्रियामाश्रित्य परिहा- रान्तरप्रदर्शनपरम् ; न तु तस्य भाष्यस्थ व्याख्यानरूपम् ; तदननुगुणत्वात् । तस्मात् 'मम देहो गौरः' इति देहस्येव । अहं गौरः' इति जीवस्यापि गौरत्वाश्रयत्वेन भासमानत्वात् तथाभूतभानमूलकाभेदभ्रान्तिनिवर्तनाथै शब्दाभियुक्तकृतयनदर्शनात् तथाभूतभानमेवाबलम्ब्य अ- द्यापि कैश्चित् गुणगुण्यभेदस्य प्रसाध्यमानत्वाच्च परम्परया गौरत्वाश्रयत्वं देहस्येव जीवस्य तदन्तर्यामिणश्च अवश्यमशी- कर्तव्यमिति मद्धेतु सिद्धः । त्वद्धतुरेवासिद्धः । अतो जीवेऽन्तर्यामिणि च गौरादिशब्दानां न योगेन लक्षणया वा वृत्तिः । किंतु शक्तिरेवेति सिद्धम् ।। इति योगलक्षणाशङ्कानिरासार्थजीवान्तर्यामि- शक्तिवादः॥९॥ *V.11 भ्रममूलत्वशङ्कानिरासार्थजीवान्त- मिशक्तिवादः ॥ - गौरादिशब्दानां जीवे योगेन लक्षणया रूढिशक्त्या वा वृत्तिर्नाङ्गीकरणीया; दूरेऽन्तर्यामिणि ; 'गौरोऽहम्' इत्या- दिव्यवहाराणां शुक्तिरजतव्यवहारवत् भ्रममूलत्वात्- इति शङ्कानिरासेन तत्र तेषां शक्ति व्यवस्थापयितुं कथान्तरं प्र- स्तूयते--- अत्र आदित: कक्ष्यात्रयं पूर्ववत् ।। .. aste अथ चतुर्थी- गौरोऽहम' इत्यादिप्रतीति: नात्मनि गौरवादिवैशिष्टय- विषया; किंतु गौरादिगुणविशिष्ट शरीर एव आत्मत्वारोप- रूपा; स्थूलोऽहम् , गौरोऽहम् , ब्राह्मणोऽहम्-इत्यादिप्रकारेण खशरीरं पश्यन्नेव हि पुरुष: तदेव अहमर्थमात्मानं मन्यते । उक्तप्रतीते: आत्मविशेष्यकत्वेऽपि रक्तस्फटिकरीत्या त- स्मिन्सन्निहितशरीरगतगौरगुणाधारोपरूपैव सा। अत: त्वद्धे- तुरसिद्धः, मद्धेतुश्च नासिद्धः- इति ॥ " वादनक्षत्रमाला। -- अथ पञ्चमी- उदाहृतप्रतीते: औत्सर्गिके प्रमात्वे मदुक्तरीत्या निवर्वोढुं शक्ये भ्रमत्वं न कल्पयितुमुचितम् । अतो विपरीते हेत्वोः सिद्धयसिद्धी इति ॥ अथ षष्ठी- भ्रमत्वमसंप्रतिपन्नं नास्या: कल्प्यम् ; देहात्मभ्रमस्य लोकायतिकातिरिक्तसकलवादिसंप्रतिपन्नत्वात् । अतः हेत्व- सिद्धिसिद्धी त्वदुक्तविपरीते-- इति ।। INDIA अथ सप्तमी Gaases देहातिरिक्तमात्मानमवगच्छताम् इयं प्रतीतिः प्रमाणत्वेन उपपादनीया; न भ्रमत्वं नेतव्या; बाधकाभावात् । अत: मदुक्तरीत्यैव हेत्वोः सिद्धथसिद्धी--- इति ।। अथाष्टमी- असिद्धो बाधकाभावः; शरीरस्य आत्मानाश्रितत्वेन शरीरगतस्य गौरगुणादेः शरीरद्वारेण आत्माश्रितत्वानुप- पत्तेः । शरीरं हि स्वावयवानेवाश्रित्य तिष्ठति । तत्प्रविष्टः पुरुषः गृहं प्रविष्ट इव तत्र सुखदुःखादि अनुभवन् आस्ते । तस्मात् शास्त्रतो देहाहमर्थविवेकवतामपि साक्षात्काररूप:

पूर्वोत्तरमीमांसा- देहात्मभ्रमः रक्तस्फटिकदर्पणमुखादिभ्रमन्यायेन अनुवर्तते- इत्येवमुक्तप्रतीते: भ्रमत्वमेवाश्रयणीयम् । अत: त्वद्धतुर- सिद्धः, मद्धेतु सिद्धः इति । अथ नवमी- chana शरीरमात्माश्रितं तदपृथक्सिद्धमेव । तदेतत् आत्मोत्क्रम- णानन्तरमेव शरीरस्य शोषविशरणावस्थाप्राप्त्यनुभवेन अव- गम्यते । अत: विवेकिनां व्युत्थानसमयेषु कदाचित् भ्रमा- नुवृत्तिसंभवेऽपि देहात्मभेदानुसंधानसमयेषु भवन्ती गौ- रोऽहम्' इत्यादिप्रतीति: प्रमात्वेनैव उपपादनीया। अतो मद्धेतु सिद्ध:, त्वद्धेतुश्च असिद्ध इति ।। अथ दशमी- जीवोत्क्रमणानन्तरं शरीरस्य यत् शोषविशरणं दृश्यते, तत् जीवविशेषप्रयुक्तम् इत्यत्र गमकं नास्ति; जीवोत्क्रमण- समये तदन्तरप्रतिपत्त्यधिकरणोक्तन्यायेन तदीयोपादानसा- रांशभूतसूक्ष्माणामपि सहोत्क्रान्त्या तद्विश्लेषणे मूलविश्लेषणे शाखानामिव-शोषणविशरणोपपत्तेः । अत: त्वद्धेतुरसिद्धः मद्धेतु सिद्धः इति ।। अथ एकादशी- अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीव- वादनक्षत्रमाला । नवेद्यो मध्येऽभ्याहन्याज्जीवन्तवेद्योऽग्रेऽभ्याइन्याज्जीवन्स- वेत्स एष जीवेनात्मना अनुप्रभूत: पेपीयमानो मोदमान- स्तिष्ठति । अस्य यदेकां शाखां जीवो जहाति अथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्व जहाति सर्व शुष्यति' इति श्रुत्या शाखाशोषणस्य जीबोक्रमणप्रयुक्तत्वं प्रतिपादितम् । तन्न्यायेन शरीरान्तर- शोषणमपि तत्प्रयुक्तम् इत्येवावगम्यते । तस्मात् उभयथापि उपपद्यमान: जीवोत्क्रमणानन्तरं शरीरशोषणाद्यनुभव: जी. बविश्लेषप्रयुक्तशोषादिविषयः इत्येव आश्नयणीयमिति, ततः शरीरम्य जीवाश्रयत्वसिद्धेः मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति ॥ पगा अथ द्वादशी- न उदाहृतश्रुति: शाखाशोषणस्य जीवोत्क्रमणप्रयुक्तत्वं प्रतिपादयति ; किंतु तदानन्तर्यमात्रम् । तत्तु शरीरोपादान- भूतसूक्ष्माणां जीवेन सह उत्क्रान्त्यवश्यंभावात् पारलौकिक- देहारम्भकादृष्टकृतमपि उपपद्यते । अतो देहस्य जीवाश्रितत्वे प्रमाणाभावात् त्वबेतुरसिद्धः, मद्धेतु सिद्ध इति ।। अथ त्रयोदशी- स एष जीवेनानुप्रभूतः' इत्यस्य · यदेकां शाखाम्' इति , ARTS .

पूर्वोत्तरमीमांसा- च देहपोषणशोषणयोः जीवान्वयतव्यतिरेको प्रदर्शयन्ती उदाहृतश्रुति: देहशोषस्य जीवोत्क्रमणप्रयुक्तत्वं प्रतिपाद- यत्येव । न तु आर्थसमाजवशप्राप्ततदानन्तर्यमानं तिपादयति; अन्वयव्यतिरेकप्रदर्शनस्य तत्प्रयुक्तत्वप्रति- पत्त्यर्थत्वात् । तस्मात् उदाहृतश्रुति: जीवोत्क्रमणसमये भूत- सूक्ष्मोत्क्रमणश्रुतिं च अनुरुध्य देहोपादानभूतसूक्ष्माणां तहारा देहस्य च जीवाश्रितत्वमभ्युपगम्य ‘गौरोऽहम्' इत्यादिवि. वेकिव्यवहाराणां प्रमात्वोपपादनमेव युक्तम् , औत्सर्गिक- प्रमात्वनिर्वाहसंभवे भ्रमत्वकल्पनायोगात् । न च एवं वि- वेकिव्यवहार एव नास्तीति विवदितुं शक्यम् , 'पुरुषं कृष्णपिङ्गलम्' इत्यादिवैदिकव्यवहाराणाम् , 'अर्धपुंलक्षणं वन्दे पुरुषं कृष्णपिङ्गलम्' इत्यादितन्मूलपौराणिकव्यवहा- राणां च वेदेषु पुराणेषु च गौरकृष्णलोहितादीनां प्र. योगाणां च बहुलमुपलम्भात् , वेदस्य यथावत् वेदार्थनि- बन्धृणामृषीश्वराणां च परमेश्वरादिदेहतादात्म्यैक्यभ्रममू- लोऽयं व्यवहार इति वा तदीयस्यैव देहात्मैकत्वभ्रमस्य अ. नुवादरूपोऽयमिति वक्तुमशक्यत्वात् तन्न्यायेन विवेकिना- मपि गौरोऽहम्' इत्यादिव्यवहाराणां तन्मूलप्रतीतीनां च संभावितानां प्रतिषेधुमशक्यत्वात् । तस्मात् देहोपादान- .

वादनक्षत्रमाला।
भूतसूक्ष्मतदाश्रितदेहवत् गौरादिगुणतदीयगौरवादिजातीना-
मपि जीवाश्रितत्वोपपत्तेः मदीयहेतुसिद्ध्यर्थप्रमाणे त्वदुक्त-
बाधकानवतारात् मदीयो हेतु सिद्धः, त्वदीय एवासिद्ध
इति सिद्धं जीवस्य गौरादिशब्दवाच्यत्वम् । तत एव
तद्वारा अन्तर्यामिणोऽपि तद्वाच्यत्वमिति ॥
.
इति भ्रममूलत्वशानिरासार्थजीवान्तर्यामि-
शक्तिवादः ॥ १०॥

गौरोऽहमित्यादिप्रतीत्यविषयत्वशङ्का- निरासार्थान्तर्यामिशक्तिवादः ॥ . . अस्मदादिदेहादिगुणवाचिनां गौरादिशब्दानां जीवे शक्ति- सत्त्वेऽपि न तदन्तर्यामिणि शक्तिरस्ति ; प्रमाणाभावात्- इति शहानिरासाय कथान्तरं प्रस्तूयते- तत्र आदित: कक्ष्याद्वयं पूर्ववत् । गौरदेहविशिष्टजीवा- न्तर्यामी इति पक्षनिर्देश:-- इति विशेषः ।। *गौरोऽहम्' इत्यादिब्रह्मविदनुसंधानस्य अन्तर्यामिपर्य- न्तत्वात् मद्धेतौ प्रमाणाभावोऽसिद्धः । अत एव त्वद्धेतुरसि- द्धः इति तृतीया ॥ अथ चतुर्थी-- दहरायुपासका: खलु ब्रह्मविदः । ताश्चाहंग्रहोपासना: जीवब्रह्माभेदविषयाः; 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि तद्योहं सोऽसौ योऽसौ सोऽहम् अथ योऽ. न्यां देवतामुपास्ते अन्योसावन्योऽहमस्मीति न स वेद यथा पशुरेवम्' इत्यादिश्रुतिस्वारस्यात् । ततश्च दहरा- वादनक्षत्रमाला। ... धुपासनाभ्यासदशापन्नानां स्वभावनाप्रतिपादकवाक्ये-- यथा शिवादिशब्दाः परब्रह्मपरा: -एवमहंशब्दः प्रत्यगात्म- परः। उपासनाविषयस्तयोरभेदस्तु मुखचन्द्राद्यभेदवत् वा- क्यार्थविधया भासते । एवं च तत्र अहंशब्दस्यैव ब्रह्मप- यन्तत्वाभावे, कुतः तद्विशेषणत्वेन त्वया उच्यमानस्य गौरा- दिशब्दस्य तत्पर्यन्तता । ये तु दहराद्युपासकाः चिरं निरन्तराभ्यासदायेन प्रत्यगात्मनः शिवात् भेदं विस्मृत्य शिव इत्येव स्वात्मानं भावयन्ति, तेषाम् शिवोऽहमस्मि' इति वाक्ये-शुक्तिरजतभ्रममूलकवाक्ये रजतशब्दस्य शुक्ता- विव- अहंपदस्य शिवे पर्यवसानसत्त्वेऽपि रजतवाच्यत्वं शुक्तेरिव- अहंशब्दवाच्यत्वमेव अन्तर्यामिणस्तेन न सि- ध्यति । नतरां तस्य विशेषणगौरादिशब्दवाच्यत्वोपयोगि- तत्प्रवृत्तिनिमित्ताश्रयत्वम् । प्रमाणाभावात् त्वद्धेतु- रसिद्धः, मद्धेतुश्च नासिद्ध इति । . . अतः . अथ पञ्चमी- परमशिवं परं ब्रह्म दहरादिविद्याभिः स्वाभेदेनोपासीना इव स्वस्य अन्येषां च सर्वेषामन्तर्यामितया नित्यनियाम- कत्वेन स्वामी परमशिव: तद्दासभूता वयं सर्वे.- इत्य- न्तर्यामिब्राह्मणादिशास्त्रतोऽवगम्य लौकिकगर्भदासानां त- पूर्वोत्तरमीमांसा त्तत्स्वामिनीव अस्माकं सहजसिद्धे स्वामिनि सवैश्वर्यसंपन्ने महाकारुणिके सर्वात्मना अस्मद्रक्षणजागरूके स्थिते, न अन्यस्य यस्य कस्यचित् आश्रयणं युक्तमिति त्वं देवेषु ब्रा- ह्मणोऽस्यहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावति उप त्वा धावामि त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिष्यामि यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नो- ति पापीयान्भवति' इत्यादिशास्त्रत: तद्दासभूतैः सर्वैरस्मा- भिः अनन्यशरणतया तमेव प्रतिपद्य तदनुज्ञया तदाराध- नरूपेणैव सर्वाणि कर्माणि कर्तव्यानीति अवबुद्ध्य तथैव तं प्रपद्य तदाराधनरूपाण्येव सत्कर्माणि अनुतिष्ठन्ति, तेऽपि ब्रह्मविदो भवन्त्येव । तेषामन्तर्यामिदृष्ट्या अहमित्यनुसं- धानेषु अहमर्थविशेषणतया भासमानानां गौरत्वादीनामपि तत्पर्यवसानावश्यंभावः । अतस्तथाभूतानुसंधानरूपप्रमाण- सद्भावात् मद्धेतु सिद्धः, त्वद्धतुरेवासिद्धः-- इति ।। अथ षष्ठी- शिवस्य परब्रह्मणः प्रपत्तेः मुक्तिफलकत्वात् तदन्तर्गते शिवस्वात्मनोः खाम्यदास्यानुसंधाने स्वात्मन्यन्तर्यामिणि शिवे वा हेयप्राकृततदातनगौरत्वादिविशेषणं न प्रविशति, 'यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेत: प्रेत्य भवति' इति .

वादनक्षत्रमाला । श्रुत्या ब्रह्मवित् यथाभूतयावद्गुणकलापविशिष्टं ब्रह्म अनुसं- धत्ते तथाभूततावद्विशिष्टं तत्प्राप्नोति इत्युपदिष्टत्वेन प्रति- पत्तिमत: स्वविशिष्टब्रह्मानुसंधानेऽस्मिन् अन्तर्यामिणि वा प्राकृतदेहतद्गुणादिप्रवेशे तथाभूतस्वविशिष्टब्रह्मप्राप्तिप्रसक्त्या मुक्त्यभावापत्तेः; एक आत्मनः शरीरे भावात्' इत्यधि- करणोक्तन्यायन ब्रह्मणि तत्तद्विद्योपसंहार्यगुणकलापादिवि- शिष्टे प्रजापतिविद्योपदिष्टमुक्तिप्राप्यापहतपाप्मत्वादिमात्रवि- शिष्टस्यैव प्रत्यगात्मनः तन्नियम्यतया अनुसंधानेषु निवेश- नीयत्वात् । अत: प्रमाणाभावात् त्वद्धेतुरसिद्ध एव, मद्धे- तुश्च नासिद्ध इति ॥ अथ सप्तमी- - शरणागतिरूपायाः प्रपत्तेः मुक्तिरेव फलं न भवति, 'भीताः सुरा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणा: शरणं सदा- शिवम्' इत्यादिवचनैः कालकूटाद्यापन्निवारणार्थाया अपि तस्याः प्रतिपादनात् । मुक्तिफलकत्वमपि तस्या: दहराधुपा- सनाजन्यसाक्षात्कारद्वारा; निरन्तरचिन्तानुवृत्तेः साक्षात्का- रजनकत्वस्य लोके दर्शनात् । ततस्तु पश्यते निष्कलं ध्या- यमानः' इति शास्त्रदर्शनाच्च । आफलोदयमावर्तनीयानां द. हराद्युपासनानामिव शिवमेव विश्वस्य तदाधाररूपतया स- 6 पूर्वोत्तरमीमांसा- कलसत्कर्मानुष्ठानारम्भात् प्रागनुष्ठेयायाः तस्याः साक्षात्का- रजनकत्वासंभवात् साक्षात्काराभावे द्रष्टव्यः श्रोतव्यो म- न्तव्यः' तस्मिन्दृष्ट परावरे' इत्यादिश्रुतिभिः साक्षात्का- रफलत्वेनावगताया मुक्तेः तया साधयितुमशक्यत्वात् । न च 'मुमुक्षु शरणमहं प्रपद्ये' 'अजात इत्येव कश्चिद्भीरुः प्रपद्यते' 'रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम्' इत्यादिशाखप्रामाण्यात् साक्षात्कारद्वारानपेक्षाया एव तस्या मुक्तिफलकत्वं कल्पनीयम् ; उदाहृतश्रुत्यो: प्रपत्त्यनुष्ठानकरण- मन्त्रत्वेन विधिमन्त्राधिकरणन्यायेन स्वयं मोक्षकामं प्रति प्रतिपश्यविधायकत्वात् । सूक्तवाकमन्त्रगतायुरादिफलकी- तनैः प्रस्तरप्रहरणस्य आयुरादिफलकत्वबोधकविधेरिव अत्र फलविधे: कल्पने च, श्रुत्यन्तरसिद्धसाक्षात्कारनियमाविरो- धाय तस्याः क्रममुक्त्युपयोगिशिवकैंकर्यैकान्त्याभिरतिद्वारा परम्परया मोक्षफलकत्वेनैव तस्या विधे: कल्पनीयत्वात् । अन्यथा सकृत्कृताया अपि तस्या: साक्षान्मोक्षसाधनत्वे, तथैव ध्यानोपास्त्यादिशब्दरहितानां विदिमात्रश्रवणवतीनामुप- कोसलादिविद्यानामपि सकृदनुष्ठितानामेव साक्षान्मुक्तिसाध- नत्वसंभवेन तासामावृत्त्यकल्पनापत्तेः । एतेन 'खाद्यानि चादनीयानि पेयान्यन्यानि यानि च । देयानि तानि

वादनक्षत्रमाला।
वै शंभोरश्नीयाहासभावतः । दासमार्गप्रपन्ना ये शैव-
पाशुपते स्थिताः । तैरेव पेयं भोज्यं च घातव्यं च मुमु-
क्षुभिः' इति शिवागमे दासमार्गप्रपन्नेषु मुमुक्षुत्वविशेषणात्
प्रपत्तेर्मोक्षसाधनत्वमुररीकरणीयम्- इत्यपि शङ्का नि-
रस्ता, उक्तरीत्या दासमार्गप्रपदनमात्रस्य तथा प्रपन्नेनानु-
ष्ठीयमानस्य निवेदितानामेव स्वीकरणनियमस्य दासबुद्धथा
तत्स्वीकरणस्य वा अन्त:करणशुद्धयादिद्वारमनपेक्ष्य मोक्ष.
साधनत्वायोगात् । तस्मात् प्रपदनस्य मोक्षपले यज्ञादितु.
ल्ययोगक्षेमत्वात् यज्ञाद्यनुष्ठातुरिव प्रपन्नस्यापि स्वात्मनि
गौरोऽहम- इत्याद्यनुसंधानं न विरुध्यते । ततश्च तस्य
अहंप्रत्ययव्यवहारौ अन्तर्यामिपर्यन्तमपि धावत: इति त-
स्मिन्नपि तत् न विरुध्यते । अविरुद्धं च तत्स्वात्मनीव स्वा-
न्तर्यामिण्यपि कदाचित् भवत् अनिवार्यमेव । तस्मात्
मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति सिद्धमन्तर्यामिणोऽपि
गौरादिशब्दवाच्यत्वम् ।।
इति गौरोऽहमित्यादिप्रतीत्यविषयत्वशङ्का-
निरासार्थान्तर्यामिशक्तिवादः ॥ ११ ॥

अहमादिपदविषयान्तर्यामिपर्यन्तत्वा- भावशङ्कानिरासार्थान्तर्यामि- शक्तिवादः॥ ma . अहंपदस्यान्तर्यामिपर्यन्तत्वे खलु तद्विशेषणानां गौरा- दिपदानामपि तत्पर्यन्तत्वं भवेत् , तदेवासिद्धमिति विप्र- तिपत्तिनिरासार्थ कथान्तरं प्रस्तूयते- तत्रादित: कक्ष्यात्रयम् अव्यवहितपूर्ववादवत् ।। अथ चतुर्थी- अहंपदस्य अन्तर्यामिपर्यन्तत्व एव न प्रमाणम् , लोक- वेदयोः तस्य तद्विषयप्रयोगादर्शनात् । प्रपन्नानां स्वात्म- शिवयोः स्वस्वामिभावानुसंधानजन्यः तत्र तत्प्रयोगोऽस्तीति 'ममान्तर्यामी मत्स्वामी शिवः तस्याहं दास:' इत्येव तत्प्रयोगोपपत्तेः । तथैव लोके तत्प्रयोगदर्शनाच्च । तस्मात्त्वद्धेतुरसिद्धः, मद्धेतु सिद्ध इति ॥ अथ पश्चमी- 'तद्वैतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च चेत--न, वादनक्षत्रमाला । अहं कक्षीवानृषिरस्मि विप्रः' इत्यादिवैदिकप्रयोगेषु अहंपदस्य अन्तर्यामिपर्यन्तता दृश्यते । तत्र व्युत्पन्नानां प्रपन्नानामपि तथैव लौकिकप्रयोगो भवेत् ; वैदिकानामन्यत्र वेदप्रयोगवा- सनानुवृत्तिदर्शनात् । तस्मात् मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति ।। अथ षष्ठी- अहं मनुरभवम्' इत्यत्र तावत् अहंपदप्रयोगो न नियम्य- नियामकतया स्वात्मान्तर्यामिणोः स्वखामिभावविषयः, चि. रनिरन्तराभ्यस्ताभेदोपासनालब्धाभेदसाक्षात्कारवतो वाम- देवस्य मन्वादिसर्वात्मकः शिवोऽहमेवेति शुक्तौ रजतपदवेव अन शिवे अहंपदस्य प्रयोग इत्युपपत्तेः । न च तस्य उत्प- नसाक्षात्कारत्वे प्रमाणाभाव:, 'तद्वैतत्पश्यन्' इति तत्रैव तदुक्तिदर्शनात्; तथा 'मामेव विजानीहि एतदेवाहं मनु- ध्याय हिततमं मन्ये यन्मां विजानीयाः' इत्यादिषु प्रतर्दनं प्रति इन्द्रवाक्येषु माम्' इति प्रयोगोऽपि अभेदविषय एव । तत्र इन्द्रस्य ब्रह्मसाक्षात्कारवत्त्वप्रतिपादकशब्दाभावेऽपि ज्ञानस्य हिततमत्वलिंगेन । स यो मां विजानीयानाथ केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया' इति तत्फलकीर्तनेन लिंगेन च साक्षात्कारफ- पूर्वोत्तरमीमांसा- .. . , लकशिवाभेदोपासनारूपतावगमात् । तथा त्वामेव विजा- नीयाम्' इति इन्द्र प्रति कृतप्रश्नं विश्वामित्रं प्रति प्राणो वा अहमस्मि ऋषे प्राणस्त्वं प्राण: सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि' इत्युत्तरवाक्ये श्रृंतमहंपदमपि इन्द्रेण स्वाभि- अतया अवगत एव शिवे पर्यवस्यति ; न त्वन्तर्यामितयाव- गते, तत्र इन्द्रस्य साक्षात्कारवक्त्वप्रतिपादकशब्दाभावेऽपि तदुपदिष्टस्य ज्ञानस्य मुक्तिफलकत्वावगमकलिंगाभावेऽपि * इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामि' इत्यादिना प्रतर्दनाख्यायिका- श्रुतिसामान्येन तत्तुल्यार्थत्वावगमात् ; 'वयः सुपर्णा उपसेदु- रिन्द्र प्रियमेधा ऋषयो नाथमाना अपध्वान्तमूणुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्' इति मन्त्रेण मुक्तिफलक भेदोपासनालाभार्थमेव ऋषीणामिन्द्रोपसदनप्रतिपादनाच्च । अस्य हि मन्त्रस्य अयमर्थ:-प्रियमेधा: यज्ञप्रिया: विद्या- थंग्रज्ञादिकर्मानुष्ठानेन शुद्धान्त:करणा:, अत्त एव सुपर्णा वयः शोभनपक्षा: पक्षिण:-यथा पक्षबलवन्त: पक्षिण: सततमु- त्पतनोत्साहवन्तो भवन्ति-एवमचिरादिमार्गसाध्योर्ध्वगमना- भिलाषवन्त: मुमुक्षव इति यावत्, एवंभूता ऋषयः नाथ- वादनक्षत्रमाला । . माना: अर्थयमानाः सन्तः इन्द्रमुपसेदुः, किं नाथमाना इत्या- काङ्कितम् उत्तरार्धेन उच्यते- ध्वान्तमविद्यावरणम् अपो- णुहि अपावृणु, चक्षुः मनोऽस्य दैवं चक्षुः' इति श्रुतिप्र- सिद्धं चिच्छक्तिरूपं चक्षुः इदानीं संसारदशायां संकुचितं पूर्धि पूरय विकसित कुरु, निधयेव पाशेनेव विषयजालेन बद्धानस्मान् मुमुग्धि मुञ्च इति । निधाशब्दः पाशवाचित्वेन ऐतरेयब्राह्मणे एव व्याख्यात: 'मुमुग्ध्यस्मानिधयेव बद्धा- निति पाशा वै निधाः मुमुग्ध्यस्मान् पाशादिव बद्धान् इत्येव तदाह' इति । न च प्राणो वा अहमस्मि ऋषे' इत्यादेः स्वा- भिन्नब्रह्मपरत्वाङ्गीकारे त्वामेव विजानीयाम्' इति वाक्य- वैरूप्यापत्तिर्दोषः, इन्द्रस्य तेजोविशेषेण दृश्यमानेन इन्द्रः स्वा- भिन्नब्रह्मोपासकः इति निश्चित्य तदभिप्रायानुसारेण ब्रह्मवि- षयतयैव त्वाम्' इति प्रयोगोपपत्तेः। ब्रह्मविद इव ते मुखं भाति' इत्यादिश्रुत्यन्तरेषु ब्रह्मविदि तेजोविशेषस्य प्रसिद्ध. त्वात् । एवम् अहं ब्रह्मास्मि' इति बृहदारण्यकवाक्यमपि स्वा- भिन्नब्रह्मानुसंधानार्थम् ; न तु स्वान्तर्यामितद्नुसंधानार्थम् ; 'यद्ब्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते' इति उपक्रमे स्वाभिन्नब्रह्मोपासनाजन्यसाक्षात्कारफलस्य सर्वात्मभावस्य कीर्तनात् । स हि तस्यैव फलम् , ' तदपश्यत्तदभवत्प्रजासु' इति *V. 12 - . , पूर्वोत्तरमीमांसा- ७ तैत्तिरीयारण्यके श्रवणात; 'तद्योऽहं सोऽसौ योऽसौ सोऽहं त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इति वाक्ययोः त्वमहंशब्दसामानाधिकरण्यमभेदार्थकमिति स्पष्टमेव । अन्यथा व्यतिहारानुपपत्तेः । न हि जीवपरस्य अहंशब्दस्य त्वंशब्द- निर्दिष्टेऽन्तर्यामिणि वा अन्तर्यामिपरस्य वंशब्दस्य अहंश- ब्दनिर्दिष्टे जीवे वृत्तिस्त्वया अभ्युपगम्यते । एतेन 'तत्त्व- मसि' इति वाक्यमपि अभेदार्थकत्वेन व्याख्यातम् ; असि- शब्दयोगात् उद्देश्यत्वेनावगते जीवे तत्पदस्य जगत्कारणब- ह्मपरस्य वृत्त्ययोगात् । अत: प्रमाणाभावात् त्वद्धेतुरसि- द्ध: मद्धेतुश्च नासिद्ध इति ।। अथ सप्तमी- , . 'अहं मनुरभवम्' इति श्रुतौ मन्वादिशब्दास्तावत् मन्वा- द्यन्तर्यामित्वाभिप्रायाः, न तु तदभेदाभिप्रायाः, ब्रह्मणि स्वा- भेदस्येव मन्वाद्यभेदस्य प्रागनुचिन्तनाभावेन तद्वासनादाय- स्य दूरनिरस्तत्वात् ; तत्समभिव्याहारात् ' अहम्' इति प्रयो- गोऽपि स्वान्तर्यामित्वाभिप्रायः इत्येव युक्तम् । न च अभेद- वासनादाात् विस्मृत भेदस्य वामदेवस्य प्रयोगे तथा अभि- प्रायकल्पनं न युक्तमिति वाच्यम् ; स्वात्मशिवयोः तात्त्वि- को भेदोऽस्तीति बासनाया: सर्वात्मना लुमत्वेऽपि औपाधि- वादनक्षत्रमाला । मीड्यः कभेदप्रतीतितद्वासनावृत्त्योः सत्त्वात् । अन्यथा उत्पन्नसाक्षा- स्कारस्य भगवतः कृष्णस्य गीतासु तमेव चाचं पुरुषं प्रपद्ये इति कर्मकर्तृभावनिर्देशस्य हरिवंशे तत्कृतबिल्बोदकेश्वरस्तुतौ अहं ब्रह्मा कपिलोऽथाप्यनन्तः पुत्रा: सर्वे ब्रह्मणश्चातिवी- रा: । त्वत्त: सर्वे देवदेव प्रसूता एवं सर्वेश: कारणात्मा त्व. इति कार्यकारणभावनिर्देशस्य अन्येषां च श्रुतिपु. राणादिषु बहुलमुपलभ्यमानानामेवंविधनिर्देशानाम् अनुपप- त्तिप्रसङ्गात् । तथा 'मामेव विजानीहि' इति इन्द्रवाक्ये 'माम्' इति प्रयोगोऽपि एवमेव व्याख्येय: । 'शाखदृष्ट्या तूपदेशो वामदेववत्' इति सूत्रकृता तस्य वामदेववाक्यस- मानार्थत्वस्य सूत्रितत्वात् । तथैव भाष्यकृता तस्य सूत्रस्य व्याख्यातत्वाच्च । यत्तु ' अथवा' इत्यादिभाध्येण दृष्टान्तदा- ष्टान्तिकयोरभेददृष्टिपरतया व्याख्यानान्तरं कृतम् , तत् मु. क्तिफलकदहराद्युपासनम् अभेदेनैव, न तु स्वस्वामिभावेनेति - आत्मेति तूपगच्छन्ति ग्राहयन्ति 'च' इत्याद्यधिकरणेषु व्य- वस्थापयिष्यमाणस्यार्थस्य सूत्रणमात्रम् , न तु शास्त्रदृष्टिसू त्रविवक्षितत्वाभिप्रायम् ; 'जीवमुख्यप्राणलिङ्गामेति चेन्नोपा- सालैविध्यात्' इति तदनन्तरसूत्रतद्भाध्ययोः ब्रह्मणः स्वरूपेण इन्द्रशरीरकत्वेन प्राणशरीरकत्वेन च त्रिविधमुपासनमिह वि- . - , .

१८० पूर्वोत्तरमीमांसा- वक्षितमिति स्फुटं प्रतिपादितत्वात् । अन्यथा तद्विरोधापत्तेः । मुक्तिफलकमुपासनमभेदेन कार्यमिति पक्षमास्थितवत: कथ- मिहान्तर्यामित्वाभिप्रायवर्णनं संगच्छते इति चेत्-- भ्रा- न्तोऽसि, न हि इन्द्रान्तर्यामि परं ब्रह्म अहमेवास्मि इति इन्द्रान्तर्यामित्वेन अनुसंधीयमानस्य स्वाभेदेन अन्यप्रतर्दना- दिकर्तृकोपासने कश्चिद्विरोधोऽस्ति, इन्द्रकर्तृकेऽपि स्वान्तर्या. मितया स्वभेदेन च उपासने विरोधो नास्ति, औपाधिक- स्वाभाविकभेदाभेदानुसंधानेन च तदुभयोपपत्तेः । अत एव मुक्तिफलासु मध्वादिविद्यासु वस्वादीनामपि अधिकारो देव- ताधिकरणे व्यवस्थापितः । एवमेव विश्वामित्रं प्रति इन्द्रव- चनमपि अन्तर्यामिविषयं द्रष्टव्यम् । एवं च अहमादिपदा नामन्तर्यामिपर्यन्तताया वेदेषु दृष्टत्वात् तेषु व्युत्पन्ना: प्रप- ना: शिवस्वात्मनोः स्वाभ्यदास्यानुसंधानसमयेषु अन्तर्यामि- पर्यन्तमहंपदं प्रयुञ्जाना विरोधाभावादनुसंहितं गौरत्वाद्यपि अहमर्थविशेषणत्वेन व्यवहारे निवेशयेयुः । तस्मान्मद्धेतु- नासिद्धः, त्वद्धतुरेवासिद्ध इति सिद्धमन्तर्यामिणोऽपि गौरा. दिशब्दवाच्यत्वम् ।। इत्यहमादिपदविषयान्तर्यामिपर्यन्तत्वाभावश- कानिरासार्थान्तर्यामिशक्तिवादः ।।

अहमादिपदविषयान्तर्यामित्वपर्यन्त- शक्त्यभावप्रयुक्तशङ्कानिरासार्था- न्तर्यामिशक्तिवादः॥ AR अथ अहमादिशब्दानां प्रपन्नप्रयुक्तानामन्तर्यामिणि शक्ति- सत्त्वेऽपि अन्तर्यामित्वेन शक्तिर्नास्तीत्येतत्प्रयुक्तशङ्कानिरा- सार्थ कथान्तरं प्रस्तूयते-- अब आदित: कक्ष्यापञ्चकमव्यवहितपूर्ववादवन् ।। अथ षष्ठी- अहमादिपदानामन्तर्यामिणि शक्तिर्नास्तीति नोच्यते, किंतु अन्तर्यामित्वेन शक्तिर्नास्ति इति ; एकशक्तिपक्षे परम- सिद्धान्तत्वेन त्वया अभ्युपगते स्वात्मन्यहंपदस्य वृत्तौ यदा- स्मत्वं प्रवृत्तिनिमित्तं यश्च स्वात्ममात्रवृत्तिधर्मः प्रयोगोपाधिः, ताभ्यामेव परम्परासंबन्धाभ्यां तस्यान्तर्यामिपर्यन्तताया: समर्थनीयत्वात् अनेकशक्तिपक्षे अन्तर्यामिण्यन्तर्यामित्वेन शक्त्यन्तराभ्युपगमसंभवेऽपि तस्य परमसिद्धान्तत्वेन त्वया अनभ्युपगतत्वात् इत्युच्यते । अन्तर्यामित्वेन शक्तिरेव च १८२ पूर्वोत्तरमीमांसा- , त्वत्पक्षोपपादनार्थमपेक्षिता । अतस्तदभावात् प्रपन्ना न गौरो. ऽहमित्यादि अन्तर्याम्यभिप्रायेण प्रयुजते ; किंतु गौरत्वादि- विशिष्टस्य ममान्तर्यामी शिवः स्वामी शिवः इत्यायेव प्रयुञ्जते इति वक्तव्यम् । अतस्त्वद्धेतुरसिद्धः, मद्धेतु सिद्ध इति ॥ अथ सप्तमी- अन्तर्यामित्वेन शक्ति: मत्पक्षोपपादनार्थ नापेक्ष्यते, प्रप- नानां स्वप्रयुक्तस्य अहंपदस्य अन्तर्यामिणि शक्तिसद्भावाव- गतिमात्रात् अन्तर्याम्यभिप्रायेण गौरोऽहम् इत्यादिप्रयोग- स्याप्युपपत्तेः । अत: मद्धेतु सिद्धः त्वद्धेतुरेवासिद्ध इति ॥ अथाष्टमी- प्रपन्ना: स्वात्मशिवयोः स्वस्वामिभावरूपं नियम्यनिया- मकभावं स्वानुसंहितं प्रकाशयितुं खलु शब्दान्प्रयुञ्जते । अहंपदस्यान्तर्यामिण्येव शक्त्यभावात् स तत्प्रकाशने न समर्थः । अतः ते ममान्तरात्मा इत्यात्मन्येव स्वानुसंहि- तार्थप्रकाशनार्थ प्रयुजत इति त्वद्धेतुरसिद्ध एव, मद्धेतुश्च नासिद्ध इति ॥ अथ नवमी- अहंपदस्यान्तर्यामिणि स्वात्मवृत्तिभ्यामेव प्रवृत्तिनिमित्त.

वादनक्षत्रमाला। १८३ प्रयोगोपाधिभ्यां वृत्तावपि तयोस्तस्मिन् परम्परासंबन्धघट- कस्वात्मशिवसंबन्धरूपतया स्वात्मशिवयोनियम्यनियामक- भावस्यापि अन्तर्यामिपर्यन्तादहंपदात् प्रतीतिर्भवत्येव । अतः प्रपन्नानां स्वानुसंहितस्वाम्यदास्यप्रकाशनार्थमन्तर्यामिपर्यन्तो गौरोऽहम् इत्यादिव्यवहारः संभवत्येवेति मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति ॥ अथ दशमी- स्वात्मशिवयोराश्रयायिभावादिसंबन्धान्तरस्यापि स. त्त्वात् तेनापि परम्परासंबन्धघटनोपपत्ते: अन्तर्यामिपर्यन्ते- नाहंपदेन अन्तर्यामित्वप्रतीतिनियमः समर्थयितुं न शक्य. ते। अत: तत्प्रकाशनैकपरायणं प्रपन्नानामुक्तव्यवहारो न संभवतीति त्वद्धेतुरेवासिद्धः, मद्धेतुश्च नासिद्ध इति ।। १ अथैकादशी- प्रपन्नानां शिवकैंकर्याभिरतिस्थिरीकरणाथै सहकार्यन्तरा- धिकरणोक्तन्यायसाम्येन शिवस्वात्मनोः स्वाम्यदास्यानुसं- धानाभ्यासवशात् स्वाम्यदास्यरूप एव तयोः संबन्धः स्वा. त्मवृत्त्यहंपदप्रवृत्तिनिमित्तप्रयोगोपाधिधर्मपरम्परासंबन्धघट- कतया स्फुरेत् । स्फुरितसंबन्धतात्पर्येणैव च तेषामन्तर्यामि-

१८४
पूर्वोत्तरमीमांसा-
.
पर्यन्तो गौरोऽहम् इति व्यवहारो वक्तृतात्पर्यानुसारेणैव च
श्रोतृणां ततोऽर्थप्रतीतिश्च भवेत् । तस्मादहमादिशब्दानाम-
न्तर्यामित्वे शस्त्यभावेऽपि तेभ्योऽन्तर्यामित्वप्रतीतेरुपपन्न-
तया प्रपन्नानामन्तर्यामिपर्यन्ते. गौरोऽहम् इत्यादिव्यवहारे
अनुपपत्यभावात् मद्धेतु सिद्धः, त्वद्धेतुरेवासिद्ध इति
सिद्धं मदनुमानेन अन्तर्यामिणो गौरादिशब्दवाच्यत्वम् ।।
इति अहमादिपदविषयान्तर्यामित्वपर्यन्तशक्त्य-
भावप्रयुक्त शङ्कानिरासार्थान्तर्यामिश-
क्तिवादः ॥ १३ ॥

ब्राह्मणादिशब्ददृष्टान्तप्रसक्तगौरा- दिशब्दवाच्यत्वशङ्कानिरासा- र्थान्तर्यामिशक्तिवादः॥ अथ गौरोऽहम् इत्यादिप्रपन्नानुसंधानमूलकव्यवहारेषु अहंपदस्य अन्तर्यामिपर्यन्तत्वेऽपि तद्विशेषणगौरादिपदानां न तत्पर्यन्तत्वम् , तथात्वे बाधकसद्भावात् इति शङ्कानिरा- साथै कथान्तरं प्रस्तूयते- तत्र आदित: कक्ष्यात्रयं पूर्ववत् ।। अथ चतुर्थी- गौरत्वादिविशेषणानाम् अन्तर्यामिपर्यन्तत्वे तत्तुल्यन्या- यतया ब्राह्मणोऽहम्' 'क्षत्रियोऽहम्' इत्यादिव्यवहारेषु ब्राह्मणत्वादिविशेषणानामपि तत्पर्यन्तता स्यादिति अन्तर्या- मिण: परब्रह्मणः शिवस्यापि ब्राह्मणाद्यधिकारिकर्मविधिनि- योज्यता प्रसज्यते । न च ब्राह्मणक्षत्रियादिशरीरावच्छिन्ना- वस्थतया ब्राह्मणादिशब्दवाच्यतापन्नस्यान्तर्यामिण: तत्त- च्छरीरावच्छेदेन तत्तदधिकारिकर्मनियोज्यतायामिष्टापत्तिः 1:35 १८६ पूर्वोत्तरमीमांसा- तथा सति पूर्वपूर्वशरीरावच्छिन्नान्तर्यामिकृतकर्मजन्यान्यु- त्तरोत्तरशरीराणि स परिगृह्णातीति तस्य कर्मजन्यशरीरप- रिग्रहेण जीवाविशिष्टतया जीववत्तत्तच्छरीरप्रयुक्तसुखदुःख- भोक्तृत्वापत्तेः । न च शिवोद्देश्यकैरङ्गप्रधानभूतैर्यागहोमैः करम्बितेषु कर्मसु तस्य नियोज्यता न संभवति, आत्मान- मुद्दिश्य त्यज्यमानस्य हूयमानस्य वा द्रव्यस्य स्वत्वत्या- गासंभवात्, अतो न देवता देवतान्तराभावात् इति तिर्यगधिकरणोक्तदेवतानधिकारन्यायसाम्यात्तस्य कर्मसु नि- योज्यता न प्रसज्यत इति वाच्यम् ; तथापि देवतोदेशरहि- तेषु वर्णाश्रमायुपाधिना विहितेषु कर्मसु तस्य नियोज्यत्वप्र- सक्त्यनिवारणात् । न च तेषामपि कर्मणां शिव एव फल- दातेति ‘फलमत उपपत्तेः' इत्यधिकरणे निर्णीतत्वात् स्वा- त्मने स्वयं फलदातृत्वासंभवाञ्च न उक्तदोष: प्रसज्यत् इति वाच्यम् ; स्थिते हि तस्य वर्णाश्रमादिधर्मभूतकर्मनियोज्य- स्वाभावे तेषां स फलदाता सिध्येत् , स्वयमपि तत्तत्कर्मनियो- ज्यश्चेत् कथं तेषां स फलदाता इति न्यायसहस्रेणापि सिध्येत् ; 'न कर्मणा वर्धते नो कनीयान्' इति श्रुतिबलात्तस्य विहित- निषिद्धकर्मानुष्ठानेष्वपि न तं पुण्यपापे स्पृशतः इति तस्य पुण्यपापाधीनशरीराप्रसक्त्या न तत्प्रयुक्तसुखदु:खभोक्तृत्व- .

वादनक्षत्रमाला । मापद्यत इति वाच्यम् ; न हि सा श्रुतिः तात्पर्यवद्विधिनिषे- धवाक्यमूलकर्माधीनशरीरवत्वेनापतत् तच्छरीरप्रयुक्तसुख- दु:खभोक्तृत्वमर्थवादो निरोद्धमीष्टे । स एव केवलं प्रशंसार्थः स्यात् । तस्मात्तख जीवतुल्यतया सांसारिकभोगप्रसक्ति नि- वारयितुमिच्छता तस्य विधिनिषेधवाक्यगतब्राह्मणादिशब्द- वाच्यत्वापादकतत्प्रवृत्तिनिमित्तब्राह्मणत्वाद्यनाश्रयत्वमभ्युप- गन्तव्यम् इत्यनिच्छतापि ब्राह्मणोऽहम् इत्याद्यनुसंधानेषु ब्रा- ह्मणत्वादीनामहंपदप्रवृत्तिनिमित्तपरम्परासंबन्धघटकतया प्र- तीयमाने जीव एवान्वयोऽङ्गीकार्यः, तथैव गौरत्वादीनाम- पि स्यात् । न च सर्वाधारस्य ब्रह्मणो गौरत्वब्राह्मणत्वाद्य- नाश्रयत्वं न संघटत इति वाच्यम् । देशकालवत् सर्वाधारता- प्रयोजकसंबन्धेन तदाश्रयत्वेऽपि तत्प्रवृत्तिनिमित्तकशब्दवा. च्यताप्रयोजकसंबन्धेन तदनाश्रयत्वोपपत्तेः । अत: त्वद्धेतुर- सिद्धः, मद्धेतुश्च नासिद्ध इति ।। अथ पश्चमी- लोकवेदसाधारणप्रसिद्धिबाहुल्यात् विधिनिषेधवाक्य-- गतैः ब्राह्मणादिशब्दैः प्रथमोपस्थितानां जीवानामेव वाक्या- र्थान्वय: स्यात् , न तु वैदिकव्युत्पत्तिग्रहापेक्षया परम्परा- संबन्धघटकजीवात्मगतब्राह्मणत्वग्रहणापेक्षया च विलम्बितो- १८८ पूर्वोत्तरमीमांसा- पस्थितिकस्य शिवस्यापि । अतः तस्य ब्राह्मणत्वाद्याश्रयत्वे- ऽपि तत्प्रवृत्तिनिमित्तकब्राह्मणादिशब्दवाच्यत्वेऽपि कर्मसु नियोज्यता न प्रसज्यत इति ब्राह्मणत्वादिवत् गौरत्वादी- नामपि प्रधानान्वयोपपत्तेः न अप्रधानान्वयोऽभ्युपगन्त- व्यः । तस्मान्मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति ॥ अथ षष्ठी- प्रवृत्तिनिमित्ताश्रयत्वेन शब्दवाच्यत्वाविशेषे कस्यचिद्वा- क्यार्थान्वयः कस्यचिन्न इत्यर्धजरतीयाश्रयणेन संकोचो न युक्तः । न च लौकिकवैदिकगवादिशब्दप्रयोगेषु प्रसिद्धि- बाहुल्यात् सानावत्प्रभृतीनामेव वाक्यार्थान्वयः, नेतरे- षामिति दृष्टमिति वाच्यम् ; प्रवृत्तिनिमित्तभेदेन शक्तिभे- दे हि वृत्तिद्वयविरोधपरिहारार्थ कस्यचिदेव शक्य- स्य ग्रहण कार्यम , नान्यस्य इति स्थितौ, कस्य ग्रहणं कार्यमित्याकाङ्क्षायां तत्र विनिगमकत्वेन प्रसिद्धिबाहुल्यमा- दरणीयम् । प्रवृत्तिनिमित्ताभेदेन शक्त्यभेदे तु वृत्तिद्वय- विरोधाप्रसक्तेः सर्वस्यापि शक्यस्य ग्रहणं युक्तम् । कस्यचिद्वैदिकव्युत्पत्तिविधुरस्य तदपेक्षार्थानुपस्थितौ त- द्वयुत्पत्त्यनुसारात् तत्प्रसिद्धिमात्रान्वयेन वाक्यार्थप्रत्ययः तस्य जायते चेदपि, स पुरुषापराधप्रयुक्तो भ्रमरूप इत्येव n वादनक्षत्रमाला । कल्पयितुमुचितम् । अन्यथा स्वीयायामेव गवि गोशब्दप्र. सिद्धिबाहुल्यवत: गामालभेत' इति वाक्ये गोशब्दात्तन्मा- त्रविषय इव भवन्ती प्रतीतिरपि भ्रमो न स्यात् । तथा अ- न्तर्यामिगतब्राह्मणत्वग्रहणस्य जीवगततद्हणापेक्षत्वेऽपि अ- न्तर्यामिणोऽपि विधिनिषेधवाक्यगतैः ब्राह्मणशब्दैग्रहणं नि- वारयितुं न शक्यम् ; अन्यथा पुत्रगतब्राह्मण्यग्रहणस्य पितृ- गतब्राह्मण्यग्रहणापेक्षत्वापत्तेः पितुरेव ग्रहणं स्यात् न पुत्रस्य । तस्मादन्तर्यामिण: शिवस्य ब्राह्मणत्वाद्याश्रयत्वे पूर्वोक्तदोषो न निवारयितुं शक्यते इति तदनाश्रयत्वम् , तत्तुल्यन्याय. तया गौरत्वाद्यनाश्रयत्वमपि स्वीकर्तव्यम् । अत: त्वद्धतुर- सिद्धः, मद्धेतु सिद्ध इति ।। En . अथ सप्तमी- सर्वपुरुषसाधारण्येन नियतं यस्य यच्छब्दार्थतथा प्रसि. द्धिबाहुल्यादिना झटिति प्रतीतिः, तस्यैव वैदिकवाक्यगतेन शब्देन ग्रहणमिति नियमोऽस्त्येव । अत एव दर्शपूर्णमासा- भ्यां स्वर्गकामो यजेत' इत्यधिकारवाक्यगतेन पूर्णमासश- ब्देन 'यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चा- च्युतो भवति' 'ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्ण- मासे प्रायच्छत्' इति प्रत्यक्षश्रुतपौर्णमासीकालसंबन्धतया , पूर्वोत्तरमीमांसा- . शीघ्रप्रतीतिकयोराग्नेयाग्नीषोमीययागयोरेव ग्रहणेन तयोरेव फलसंबन्धात् प्राधान्यं स्यात् , न तु ' उपांशुयाजमन्तरा य- जति' इति तदुभयान्तरालकालविधिमामर्थ्यलभ्यपौर्णमासी. संबन्धस्य उपांशुयाजस्यापि । अतः तस्यापि तत्सिद्धये श्रुत- पौर्णमासीकालत्वेन तदुभयाविशेषसिद्धयर्थम् ' तावताम- ग्रीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इति प्रत्यक्ष: तस्य पौर्णमासीकालविधिरिति मीमांसकैरङ्गीकृतम् । गोशब्द- न तत्तद्गोविशेषप्रतीतिस्तु न सर्वसाधारणी । तथा नियमेन यद्गतयच्छब्दप्रवृत्तिनिमित्तावगत्तिसापेक्षा अन्यत्र तदवगतिः, तत्र वैदिकेन तेन शब्देन तस्यैव ग्रहणमित्यपि नियतमेव अत एव ‘न प्रथमयज्ञे प्रवृद्ध्यात्' इति वाक्यगतेन प्रथ. मशब्देन साक्षात्प्राथम्याश्रयतया प्रथमं प्रमितस्य प्रयोगस्यैव ग्रहणम् ; न तु तद्गतप्राथम्यानुसंधानसापेक्षावगतिकपरम्प- रासंबन्धिप्राथम्याश्रयस्य ज्योतिष्टोमस्येति प्रथमप्रयोगाङ्ग- मयं प्रवर्यनिषेधः; न तु प्रथमप्रयोगविषयज्योतिष्टोमन- त्वङ्गम् इति 'संख्यायुक्तं क्रतो: प्रकरणात्स्यात्' इति तृती- याध्यायाधिकरणे निर्णीतम् । पुत्रगतब्राह्मण्यग्रहणं तु न नियमेन पितृब्राह्मण्यग्रहणसापेक्षम् , प्रत्यक्षेण तद्हणे तद पेक्षासत्त्वेऽपि आप्तवाक्येन तद्हणे तदपेक्षाभावात् । इह तु वादनक्षत्रमाला। .. जीवगतं श्राह्मण्यं लौकिकवैदिकप्रसिद्धिबाहुल्येन अन्तर्या- मिगतब्राह्मण्यावगत्यपेक्षितानुसंधानत्वेन च झटिति प्रथम प्रतीयत इति तद्हणेन चरितार्थैः विधिनिषेधवाक्यगतबा- हाणादिशब्दैः जीवानामेव ग्रहणं भवति ; न तु अन्तर्यामि- णोऽपि विलम्बितप्रतीतिकत्वात् । शब्दानां विरम्यव्या- पाराभावेन पश्चात् तद्रहणासंभवात् । तस्मात् प्रवृत्तिनिमि- ताश्रयत्वेऽपि विधिनिषेधवाक्यगतैाह्मणशब्दैरन्तर्यामिणो न ग्रहणं प्रसज्यत इति मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति ॥ - अथाष्टमी- प्रसिद्धिबाहुल्येन अपेक्षितत्वेन वा नियतशीघ्रप्रतीतिरपि अनियतशीघ्रप्रतीतिवदेव न वैदिकशब्दार्थग्रहणे प्रयोजिका, उभयत्रापि वृत्त्यभेदस्य अर्थद्वयग्रहणप्रयोजकस्य अविशि- तृत्वेन नियमत: प्रथमप्रतीतार्थमात्रग्रहणे प्रयोजकत्वकल्प नाभावात् । न चैवं सति उदाहृतपौर्णमासीविधिवैयर्थ्यम् । तस्य अमावास्याव्यावर्तनेन चरितार्थत्वात् । तदावे हि उत्पत्तिवाक्यमात्रपर्यालोचनायाम् अमावास्यायामपि उपांशु- याज: प्राप्नोति । न च तत्र पुरोडाशद्वयाभावात् तदन्तराल- कालो नास्तीति शङ्कनीयम् , असोमयाजिनामैन्द्राग्नपुरोडाश- सत्त्वात् पुरोडाशद्वयनियमस्तु पौर्णमास्यामपि नास्ति ; अमा- १९२ पूर्वोत्तरमीमांसा- - वास्यायां सोमयाजिनामैन्द्रामस्येव पौर्णमास्यामसोमयाजिना. म् अग्नीषोमीयाभावात् ' अनपायो हि कालस्य लक्षणं हि पु. रोडाशौ' इति दशमाध्यायाधिकरणसूत्रोक्तन्यायेन पुरो- डाशद्वयाभावेऽपि तदुपलक्षितान्तरालकालोऽस्तीति एक- पुरोडाशपौर्णमास्याम् उपांशुयाजसमर्थनप्रकारस्य एकपुरो- डाशामावास्यायामपि तुल्यत्वात् । अवश्यं च अमावास्यावर्ज- नरूपपरिसंख्यानस्य जघन्यत्वेऽपि अस्य पौर्णमासीविधे: तथात्वमेव वाच्यम् , शीघ्रप्रतीतेवैदिकार्थग्रहणाप्रयोजकत्व. स्य वर्णितत्वात् । अन्यथा उत्पत्तिवाक्यप्रवृत्तिसापेक्षवा- क्यान्तरावगम्यपौर्णमासीसंबन्धात् उपांशुयाजादुत्पत्तिवा- क्यावगतपौर्णमासीसंबन्धयोः आग्नेयाग्नीषोमीययोः शी- व्रप्रतीत्या तयोरेवाधिकारानुप्रवेश: स्यादिति दोषतादव- स्थ्यस्य तवाप्यप्रतीकारात् । न च शीघ्रप्रतीतिमात्रस्य वैदि- कार्थग्रहणनियामकत्वाभावेऽपि अपेक्षितत्वेन शीघ्रप्रतीतिः तन्नियामिका स्यादेव; अन्यथा न प्रथमयज्ञे प्रवृ. ज्यात्' इत्यत्र प्रथमशब्दस्य साक्षात्प्राथम्याश्रयत्वेन शीघ्रप्रतीतिमात्रविषये प्रयोगे तद्वारा परम्परासंबन्धिप्रा- थम्याश्रयत्वेन विलम्बितप्रतीतिविषये ज्योतिष्टोमक्रती च तुल्यपक्षपातित्वे कांस्यभोजिन्यायेन प्रकरणानुग्रहाय ज्योति. " वादनक्षत्रमाला। ष्टोमक्रतुविषयत्वं स्यादिति वाच्यम् । तस्य प्रथमप्रयोगावस्थ- ज्योतिष्टोमविषयत्वे द्वितीयादिप्रयोगावस्थतदङ्गत्वालाभेन प्रकरणानुग्रहालाभात् फलत: सैद्धान्तिकप्रयोगाङ्गत्वपक्षप. यवसायित्वाच्च । प्रथमप्रयोगमुपलक्षणीकृत्य केवलज्योति- टोमक्रतुपरत्वकल्पने ज्योतिष्टोमत्वाकारेण तत्र तस्य श. क्ल्यभावेन लाक्षणिकत्वस्य अभ्युपगन्तव्यतया प्रकरणा- नुग्रहाय श्रुतेर्बाधनीयत्वापत्तेः । एवम् 'तिः प्रथमामन्वाह त्रिरुत्तमाम्' इत्यत्र 'प्रथमाम्' इत्यनेन प्राथम्योपलक्षितप्र. वोवाजीयाख्यविशेषग्रहणे लक्षणा स्यादिति तत्परिहारार्थ- मेव तदग्रहणम् ; न तु प्रतीतिशैघ्रयस्य वैदिकार्थग्रहणनिया. मकत्वानुरोधेन ; तत्रैव साक्षात् प्राथम्याश्रयत्वेन शीघ्रप्रती- तिकमनुवचनं परित्यज्य तहारा परम्परया प्राथम्याश्रयत्वेन पश्चात् प्रत्येतव्याया ऋच: 'प्रथमाम्' इत्यनेन प्राथम्यसंयु- क्तत्वाकारेण ग्रहणस्याप्यभ्युपगतत्वात् । तस्मात् प्रतीतिशै- ध्रथस्य वैदिकार्थग्रहणनियामकत्वानभ्युपगमे न्यायविरोधाभा- वात् अन्तर्यामिणोऽपि ब्राह्मणत्वाद्याश्रयत्वाभ्युपगमे जीव- वत् कर्मवश्यता स्यादिति दूषणस्य वज्रलेपायमानत्वात् त्वद्धे- तुरसिद्धः, मद्धेतुश्च नासिद्ध इति ।। अथ नवमी- on- *V. 13 १९४ पूर्वोत्तरमीमांसा- N तावताम्' इत्यादिवाक्यम् उपांशुयाजश्व शीघ्रप्रती- त्यविशेषोपादानेन आग्नेयाग्नीषोमीयवत् तस्यापि अधिकार- वाक्यगतपूर्णमासपदेन ग्रहणं भवतु इत्येतदर्थ भवत्येव । न च तथापि उत्पत्तिवाक्यश्रुतपौर्णमासीकालसंबन्धयोः आ- नेयाग्नीषोमीययोरेव तेन ग्रहणं स्यादिति शङ्कनीयम् ; 'ताव- ब्रूताम्' इत्यादिवाक्याम्नानानन्तरम् ‘उपांशुयाजमन्तरा य- जति' इति वाक्याम्नानेन तस्मिन्नुत्पत्तिवाक्ये श्रुतस्य अन्त- राशब्दस्य पौर्णमास्यामेव पर्यवसानेन ‘तावब्रूताम्' इत्या- दिवाक्यस्य उत्पत्तिवाक्य श्रुतपौर्णमासीकालत्वेन उपांशुया. जस्य आग्नेयाग्नीषोमीयाविशेषोपादानार्थत्वात् । एवं च उत्पत्तिवाक्यश्रुतपौर्णमास्यविरोधादेव उपांशुयाजस्य अमा- वास्यायां न प्रसक्तिरिति न तव्यावृत्तिफलकपरिसंख्यारूपत्वं जघन्यम् 'तावबेताम्' इत्यादिवाक्यस्य कल्पनीयम् । उक्तरीत्या उपांशुयाजस्य फलसंबन्धापादनार्थत्वेन अपूर्ववि. धित्वोपपत्तेः । एवं च ' तावताम्' इत्यादिवाक्यप्रवृत्त्या शीघ्रप्रतीते: वैदिकार्थग्रहणनियामकत्वमवसीयत इति युक्त. मेव । एवं प्रथमप्रतीतिमात्रस्य वैदिकार्थग्रहणनियामकत्वसि. द्धौ अपेक्षितत्वेन प्रथमप्रतीतेस्तन्नियामकत्वं कैमुतिकन्यायसि- द्धम्। प्रवाधिकरणन्यायसिद्धं च; अन्यथा हि प्रवर्ग्यनिषेधः , वादनक्षत्रमाला। १९५ १ . प्राथम्यसंयुक्तस्य ज्योतिष्टोमम्य ऋतोरेवाङ्गं भवेत् ; प्रकरणा- नुग्रहलाभात् । न च प्राथम्यसंयुक्तावस्थापन्नस्यैव ग्रहणं स्यादिति प्रकरणानुग्रहलाभ: ; प्रयोगविशेषे यः प्राथम्यसंयुक्तः क्रतुः तस्य तदवस्थानापन्नस्यापि ग्रहणसंभवात् प्राथम्यवि- शेषणस्य तवस्थापन्नग्रहणार्थत्वं परित्यज्य इतरव्यावर्तक- त्वमात्रेण उपयोगकल्पनोपपत्तेः । 'प्रदोषे पुरहन्तारं पश्ये- त्पातकशान्तये' 'श्रोत्रियान्भोजयेत्पित्र्ये' :संदेहे साक्षिणः पृच्छेत्' इत्यादिप्रयोगेषु हि पुरहन्तृत्वच्छन्दोध्येतृत्वसाक्षा- द्रष्टुत्वादिविशेषणानां तवस्थापन्नग्रहणार्थत्वं विना इतरव्या- वर्तकत्वमात्रेण उपयोगो दृश्यते । न चैवं सति 'त्रि: प्रथ- मामन्वाह' इत्यत्रापि प्राथम्यसंयुक्तमात्रस्य अभ्यासविधौ प्रयोगविशेष प्राथम्यसंयुक्ता प्रवोवाजीया यत्रतत्रस्थापि अ- भ्यसनीया स्यादिति वाच्यम् ; प्रवोवाजीया यदि कस्यां चिदिष्टौ मध्ये अन्त्ये वा स्यात् , तदानीम् अन्या काचित् प्रथममनुवर्तनीया भवेत् । तथा च सापि प्राथम्यसंयुक्तत्वावि- शेषात् त्रिरभ्यसनीया स्यादिति पञ्चदशतासंपत्तिरूपदृष्टार्थता विरभ्यासस्य न स्यात्। 'पञ्चदश सामिधेनीरनुयात्' इति विधाय एकादश ऋचः पठित्वा त्रिः प्रथमामन्वाह त्रिरु- त्तमा ता: पञ्चदश संपद्यन्ते' इति त्रिरनुवचनाभ्यासं वि- - , पूर्वोत्तरमीमांसा- धाय तस्य विहितसंख्यासंपत्तिरूपदृष्टार्थत्वं श्रूयते । यत् तन्न साक्षात्प्राथम्याश्रयमनुवचनमतिलय तहारकप्राथम्याश्रय- गर्ग्रहणम् , तत् अनुवचनाभ्यासविधौ. अनुवचनस्यैवोद्देश्य- त्वासंभवात् प्राथम्यस्य क्रियाविशेषणत्वे स्त्रीलिङ्गायोगाञ्च तदुभयानुरोधेनाभ्युपगतम् । एवम् ‘एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः' इत्यादिष्वपि निर्धारणषष्ठयन्तस- मानाधिकरणयज्ञशब्दद्वयन साक्षाज्ज्योतिष्टोमनाना च सम- भिव्याहारः साक्षात्प्राथम्याश्रयप्रयोगाद्यतिलङ्घने कारणमस्ति; न चेह तथा साक्षात् ब्राह्मणत्वाद्याश्रयजीवातिलङ्घने किंचि- त्कारणमस्ति । तस्माद्वृत्त्यभेदेऽपि प्रथमप्रतीतेवैदिकार्थग्रहण- नियामकत्वस्य अनेकन्यायसिद्धत्वात् अन्तर्यामिण: शिवस्य ब्राह्मणत्वाद्याश्रयत्वेऽपि कर्मवश्यत्वं न प्रसज्यत इति तस्य तदाश्रयत्वम् , तद्वत् गौरत्वाद्याश्रयत्वं च ब्रह्मविदनुसंधान- सिद्धं न प्रत्याख्यातुं शक्यम् । अतो मद्धेतु सिद्धः, त्वद्धे- तुरेवासिद्ध इति सिद्धमन्तर्यामिणो गौरादिशब्दवाच्यत्वम् ।। गुणवचनशक्तिविषये वादद्वादशकमित्थमारचितम् । धीराणां परितुष्टयै चक्रव्यूहमिव गाहमानानाम् ॥ इति ब्राह्मणादिशब्ददृष्टान्तप्रसक्तगौरादिशब्दवाच्य- त्वशानिरासार्थान्तर्यामिशक्तिवादः ॥ १४ ॥ " अन्तर्यामिविषयपृथिव्यादिशब्दवा- च्यत्वसमर्थनवादः॥ अथ शरीरवाचिनां गुणवचनब्राह्मणादिशब्दानामन्त- यामिपर्यन्तत्वसिद्धावपि पृथिव्युदकादितटस्थद्रव्यवाचिना त- त्पर्यन्तत्वं तावता न सिध्यतीति शङ्कानिरासाय तेषामपि शरीरत्वप्रसाधनार्थ कथान्तरं प्रस्तूयते- भूगोलसरित्समुद्रमहीधरादिकं शरीरं भवितुमर्हति, श- रीरलक्षणयोगित्वात् , यत् शरीरलक्षणयोगि तत् शरीरम- यथा अस्मदादिशरीरम् इति प्रथमा कक्ष्या ।। HARS , असिद्धोऽयं हेतुः, शरीरलक्षणन करचरणादेः भूगोल- कादिष्वभावात् । अतो भूगोलकादिकं शरीरं न भवति, तल्लक्षणरहितत्वात् , यत् शरीरलक्षणरहितं न तत् शरीरम्- यथा परं ब्रह्म इति द्वितीया ॥ करचरणादिकं न शरीरलक्षणम् , मनुष्यपशुपक्षिसरी- स्पतरुगुल्मलतादिशरीरेषु तस्य तथाभूतस्य वा manna १९८ पूर्वोत्तरमीमांसा- चिदवयवसंस्थानस्यानुगतस्य अभावात् । किंतु यस्य यद्- व्यं सर्वात्मना नियम्यं तत् तस्य शरीरम् इति शरीरलक्ष- णम् । तथा च पृथिव्युदकादिकं तत्तदभिमानिनां देवानां सर्वात्मना न नियम्यमिति न मद्धेतुरसिद्धः, त्वद्धतुरेवासि- इति तृतीया ॥ ७ १ त्वदुक्तमपि शरीरलक्षणमयुक्तम् , तत्र सर्वात्मना इत्य- नेन यस्यैव नियम्यं नान्यस्य इत्यन्ययोगव्यवच्छेदविवक्षा. याम् असंभवापत्तेः; सर्वेषां शरीराणां तत्तदभिमानिनं देव- मनुष्यादिकं प्रतीव सर्वनियन्तारं परमेश्वरं प्रत्यपि निय- म्यत्वात् । यस्य नियम्यमेव न कदाचिदनियम्यम् इत्ययोग- व्यवच्छेदविवक्षायां सुषुप्तिमूर्छादिशरीराणां तत्तदभिमानिनं प्रत्यनियम्यत्वेन कल्पादौ परमेश्वरेण सृष्टानां कल्पान्तपर्य- न्तस्थायिनां प्राणेन्द्रियादीनां प्रतिमन्वन्तरभिन्नान् तत्तदभि- मानिदेवान् प्रति कालान्तरेषु अनियम्यत्वेन च तेष्वव्याप्ल्या- पत्तेः । न च वाच्यम्-नियम्यत्वं योग्यतामात्रेण विवक्षितम् , सुषुप्तमूर्छितादिशरीरेषु योग्यता स्पष्टैव, प्राणेन्द्रियादिष्वपि सा अस्ति, निवृत्ताधिकाराणामभिमानिदेवानां तदनुप्रवेशा- दिनियमनसहकारिसमवधानाभावात् नियम्यत्वाभाव इति ; तथा सति चैत्रमैत्रादिशरीराणां परस्परनियमनयोग्यतास्ति, वादनक्षत्रमाला । १९९ स्वदुक्तसहकारिसमवधानाभावादेव नियमनाभाव:- इति चैत्रशरीरस्यापि मैत्रं प्रति शरीरत्वप्रसलेन अतिव्याप्त्यापत्तेः । तस्मात्करचरणाद्याश्रयत्वमेव शरीरलक्षणमास्थेयम् । करच- रणादिकं च अवयवसंस्थानरूपं न विवक्षितम् । किंतु इन्द्रियरूपम् । इन्द्रियाणां च एकादशानामपि आमोक्षम् अनुवृत्तिमत्त्वेन पशुवृक्षसरीसृपादिरूपेषु जङ्गमस्थावरात्म- केषु सर्वेष्वपि शरीरत्वेन संप्रतिपन्नेषु सद्भावोऽस्त्येव । अतः पृथिव्युदकादिषु तत्तदभिमानिदेवताधिष्ठितसंचारिश- रोरेष्विव तस्याभावात् त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्ध इति चतुर्थी || ७ अथ पञ्चमी- करचरणादीन्द्रियाश्रयत्वं न शरीरलक्षणम् , अन्तयामि- ब्राह्मणे 'यस्य पृथिवी शरीरम्...यस्यापः शरीरम्.... यस्य तेजः शरीरम्' इत्यादिवाक्यैः परमेश्वरशरीरत्वेन प्रतिपा- दितेषु पृथिव्यादिध्वभावात् । तस्मात् मदुक्तमेव लक्षणं ग्राह्यम् । न च उक्तदोषप्रसङ्गः, सर्वात्मशब्देन मध्यमपद- लोपिसमासवता सर्वानुप्रविष्टस्य आत्मनो विवक्षितत्वात् । सर्वशब्दश्चात्र सर्व: पटो रक्तः इत्यत्रेव एकैकस्य द्रव्यस्य अवयवकात्य॑परः । तथा च यद्दव्यं स्वकीयसवयवावच्छे- २०० पूर्वोत्तरमीमांसा- देन व्याप्य अधितिष्ठता यस्यात्मना नियम्यं तत्तस्य शरीरम् इति लक्षणं पर्यवस्यति । इदं च लक्षणं गुणानयत्वादिबन् यावद्र्व्यभाव्ययावद्व्यभाविनियमनसाधारण्येन योग्यतामा- त्ररूपं विवक्षितम् । अत: सुषुप्तमूर्छितादिशरीरेषु प्राणेन्द्रिया- विषु तत्तदभिमानिदेवताशरीरेषु च नाव्याप्तिः। नापि भृत्यादि- शरीरेषु स्वाम्यादिशरीरत्वापन्तिरूपातिव्याप्तिः, यतः खामी भृत्यमननुप्रविष्ट एव आज्ञामात्रेण नियच्छति नाविको नाव- मनुप्रविष्टोऽपि न तां सर्वावयवावच्छेदेन व्याप्य अधि- तिष्ठति । दारुचर्मादिव्याघ्राकारयन्त्रानुप्रविष्टकृत्रिमव्या- घ्रादिभिरपि तथा । तस्मात् पृथिव्युदकादीनां शरीरलक्ष- णयोगित्वम् । अतो मद्धेतु सिद्धः, त्वद्धतुरेवासिद्ध इति । अथ षष्ठी- त्वदुक्तलक्षणं तावत् न युज्यते, कायव्यूहपरिग्रहवता भृत्यशरीरनौदारुयन्त्रादिषु सर्वावयवव्याप्त्या नियामकत्वम- स्तीति तेषां तत्तच्छरीरत्वप्रसङ्गेन रक्षःपिशाचगन्धर्वाद्या- विष्टशरीराणां रक्षःपिशाचादिभोगोपयुक्तानां रक्षःपिशा- चादिशरीरत्वप्रसङ्गेनातिव्याप्तः अनिवार्यत्वात् । तस्माद- गया मदुक्तमेव शरीरलक्षणमास्थेयम् । तन्निर्वाहाय च श्रुतिषु पृथिव्यादीनां परमेश्वरशरीरत्वप्रतिपादनं शरीरव- वादनक्षत्रमाला। २०१ नियम्यत्वसद्भावेन गौणमुपपादनीयम् । अत: पृथिव्यादिषु शरीरलक्षणाभावात् त्वद्धेतुरसिद्धो मद्धेतु सिद्ध इति ।। अथ सप्तमी- मदुक्तलक्षणस्य तावत् नातिव्याप्तिः, कायव्यूहपरिग्रह- वत: शिवयोगिनोऽपि राजवदाज्ञावचनेन भृत्यं प्रेरयतो लीलया नाविकवत् नावमधिरुह्य क्षेपण्या तां क्षिपतो दारुचर्मादियन्त्राच्छादनेन व्याघ्रादिवत्संचरतश्च भृत्यशरी- रादिव्याप्तिसत्त्वेऽपि तव्याप्तः भृत्यादिनियमनाप्रयोजकत्वात् ; तस्या एव तत्प्रयोजकतायामाज्ञावचनादिवैयर्थ्यात् । अव- श्यं च लक्षणे नियम्यव्याप्तेः नियमनप्रयोजकत्वं विवक्षणी- यम् , अन्यथा सर्वाङ्गीणसुखदुःखानुभवानुरोधात् चिच्छक्ति- विकासेन स्वशरीरमन्तबहिश्च व्याप्य स्थितस्य स्वकुक्षिस्थ- कृम्यादिकमौषधसेवादिना यमयतश्च पुरुषस्य कुक्षिस्थक- म्यादिशरीरमपि शरीरं भवेत् । यदि तु शिवयोगी मन्त्रमहिना योषिदाद्याकर्षणमिव चिच्छक्तिव्याप्तिमहिना विनवाज्ञाव- चनम् अन्तर्यामिवत् भृत्यादीन् प्रेरयेत्, नावमनधिरुह्येव जले तां संचारयेत् , व्याघ्राकृतिदारुयन्त्रादिकमननुप्रविष्ट एव संचारयेत् , तदा किमतिव्याप्तिनं भवति- इत्ये- तावच्छङ्कनीयम् । तत्रेदमुत्तरम् शिवयोगिनः तथा तथा Manus .

२०२ पूर्वोत्तरमीमांसा- .. कर्तु प्रभवन्येव । अत एव विरूपाक्षयोगिना गगनमार्गे दिग्गजानानीय द्वौ द्वौ दिग्गजो परस्परं योधयन्तं तेन स्वीयमैश्वर्य लोकातिशायीति दर्पभरोष्मलं सहस्राक्षं दृष्ट्वा तदर्पमपनीय शिवयोगे रुच्युत्पादनेन तमनुग्रहीतुं द्वौ शैली गजवत् परस्परोपसर्पणेन योधितौ; तदत्यन्तमाश्चर्य दृष्ट्वा गगनतलादवरुह्य प्रणिपत्य कथमिदमाश्चर्य भवता कारि- तम् । इति पृष्टवन्तं सहस्राक्षं प्रति तव हस्तौ त्वदिच्छया परस्परास्फालन इव मदिच्छया इमौ पर्वतौ परस्परयुद्धे प्रवर्तेते; शिवयोगप्रभावः तादृशः इति विरूपाक्षयोगिना प्रतिबोधितम् । ततो विलक्षः सहस्राक्ष: तुच्छमिदमैश्वर्यम् इति ततो विरज्य ततः प्रभृति निरन्तरशिवयोगाभ्यासे एव निरतोऽभूत्-इति कथामभियुक्ता वर्णयन्ति । एवमपि ना- तिव्याप्तिः, शिवयोगिनां चिच्छक्तिविकासेन प्रपञ्चं व्याप्य शिवयोगप्रभावेन स्वेच्छया तत्तन्नियच्छतां शिवत्रदेव प्रप- ञ्चशरीरकत्वाङ्गीकारात् । अत एव सर्व खल्विदं ब्रह्म' 'सर्वो वै रुद्रः' इत्यादिषु स्वतःसिद्धतया शिवस्येव यद्भ- ह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते' इति ब्रह्मवि- द्याफलत्वेन 'सर्वमेधेन दशरात्रेण यजेत यः कामयेत सर्व- मिदं भवेयमिति' इत्यादिश्रुतिषु विद्यासाधनसहकारिकर्म- क वादनक्षत्रमाला। २०३ फलत्वेन च जीवानामपि सर्वशरीरकत्वरूपं सात्म्यिं श्रू. यते । एवं तर्हि जीवानामपि सर्वशरीरकत्वेन सर्वशब्दवाच्य- तया शिवसाम्यं स्यात् । न च वाच्यम्-शिवयोगे सिद्धे चि. च्छक्तौ च विकासितायां तत्कालवर्तिप्रपञ्चमालं जीवानां नि- यम्यम्, न त्वतीतप्रपञ्चोऽपि, अत: सर्वप्रपञ्चशरीरकत्वं शिवस्यैव न कस्यापि जीवस्येति, नियमनं हि योग्यतया ल- क्षणेऽनुप्रविष्टम् ; तत् अतीतप्रपञ्चे शिवयोगसिद्धचिच्छक्तिवि- कासरूपसहकारिविरहातु नियमनफलानुदयेऽपि अक्षतमिति चेत् , सत्यम् ; जीवानामतीतप्रपञ्चशरीरकत्वमपि अस्त्येव ; अत एव संसारदशायामपि विश्वाकारपराहंभावयोग्यताम- ङ्गीकृत्य देवमनुष्यादिना अहंभावस्य भ्रान्तिरूपत्वं भाष्ये तत्र तत्र वर्णितम् ; एवमपि शिवस्येव न कस्यापि जीवस्य स्वव्यतिरिक्तसर्वप्रपञ्चशरीरकत्वं प्रसज्यते; शिवयोगिस्क- न्दनन्दिकेश्वरादिनित्यसिद्धदिव्यगणानां च केनापि जीवेन नियम्यताभावात् । तदभावश्च ‘वयश्चित्ते पतत्रिणो द्विपाच- तुष्पादर्जुनि उष: पारनृतू५ रनु दिवो अन्तेभ्यस्परि' इति मन्त्रेण दर्शितः । अस्य च अयमर्थ:-पतत्रिणः शोभनपत्रा: वयः पतत्रिणः, चित् इत्युपमार्थे, पक्षबलयुक्ताः पक्षिण इव अर्ध्वगमनोत्साहयुक्ताः ते ऋषयः, ये 'वयः सुपर्णा उपसे. , २०४ पूर्वोत्तरमीमांसा- . ७ दुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः' इति मन्त्रे मुमुक्षया इन्द्रमुपसन्ना: प्रतिपादिताः, ते ऋषयः, द्विपाच्चतुष्पात् द्वि- पाच्चतुष्पादात्मकम्, सर्व प्रपञ्चम् , प्रारन् प्रकर्षण प्रावि- शन्; नियन्तृत्वरूपोऽत्र प्रकर्षों विवक्षितः ; कदा, ऋतून , ऋतुशब्देन संसारदशायां वृत्ताः मासर्तुसंवत्सरायः सर्वे. ऽप्यवच्छिन्नकाला विवक्षिताः; 'मधुश्च माधवश्च वासन्ति- कावृतू' इत्यादिश्रुतिषु मासविषयोऽपि हि ऋतुशब्दप्रयो- गो दृष्टः। तथा च सांसारिकजरापरिणत्यादिहेत्ववच्छिन्न- कालभोगानन्तरं प्राविशन्नित्यर्थः; किम् अविशेषेण सर्व. द्विपाच्चतुष्पादात्मक प्रपञ्चं नियन्तृत्वेन प्राविशन् ? नेत्यु- च्यते दिवो अन्तेभ्यस्परीति, दिवः परमशिवस्थानस्य महाकेलासाख्यस्वर्गस्य, अन्तेभ्यः पर्यन्तदेशेभ्यः मध्ये वि- लसन्ती शिवराजधानी परितः स्थितेभ्य: दिव्यगणानां मुक्तानां च धामभ्यः, परि तानि वर्जयित्वा, दिव्यगणा मुक्ता: शिवैकनियम्या इति तद्वर्जनमात्रं विवक्षितम् ; परि त्रिगर्तेभ्यो वृष्टो देवः-इत्यादिष्विव परि-शब्दो वर्जनार्थः; शिवराजधानी परितः स्थितेषु तद्धृत्यगृहेष्वपि नियन्तृत्वेन प्रवेशाभावे शिवराजधान्यां तदभावः कैमुतिकन्यायसिद्धः; मुक्तानां यद्यपि परस्परनियम्यत्वयोग्यता अस्ति; तथापि " , वादनक्षत्रमाला। २०५ - अत एव न मुक्त्यनन्तरम् ; ' अत एव चानन्याधिपतिः' इति सूत्रो- क्तन्यायेन शिवैकनियन्यानां तेषां तदा परस्परनियम्यत्वं नास्तीत्येतावता तेषु तद्वर्जनमुक्तम् ; अर्जुनि धवलवणे तमो- विवासनसमर्थस्वच्छतायुक्ते, उषः महाप्रलयरूपशर्वर्यपग- मकालरूपे-- इति इदं द्वयं शैवचिच्छक्तेः संबोधनम् । इन्द्रं गुरुषूपसन्नानामृषीणामेवंभूतं सकलपशुपाशनियन्तृत्वं तत्प्रसादादासीदिति भाव: । एवं च अनया प्रक्रियया यद्य- पि सर्वमुक्तिपक्षे स्वामिभृत्यादिशरीराणां परस्परनियम्यत्व- योग्यतारूपं परस्परशरीरत्वमुपपद्यते, अथापि । हि विद्वत्सु मुच्यमानेषु सर्वदा । ब्रह्माण्डलोके जीवानामन- न्तत्वादशून्यता' इति वार्तिकोक्ते सर्वमुक्त्यभावपक्षे तत् क्वचित् कचित् नास्ति । भृत्यादीनामाज्ञादिना नियमनमानं च न शरीरत्वप्रयोजकम् ; किं तु व्याप्त्या नियमनमेवेति व्ययितुं तावडूरं लक्षणमुक्तम् । न चैवमपि पिशाचाद्या. विष्टशरीराणामपि पिशाचादिशरीरत्वप्रसङ्गो दोषः, पिशा- चादीनामतीन्द्रियेण स्वशरीरेण मनुष्यादीनाविश्य भोक्तृ. त्वात् मनुष्यादिशरीरताडने तदन्तर्गतपिशाचादिशरीरस्य- कञ्चुकताडने कञ्चकान्तर्गतशरीरस्येव ताडनाभिघातेन खोपपत्तेः । यदि तु आविष्टशरीरेणैव पिशाचादीनां भो- २०६ पूर्वोत्तरमीमांसा- . क्तृत्वमिष्यते, तदा तस्य पिशाचादिशरीरत्वमपि इध्यत एव, तदा तद्भोगायतनत्वसत्वात् । तस्मान्मदुक्तशरीरलक्षणे न कश्चिद्दोषः । त्वदुक्तं तु लक्षणमयुक्तम् , पृथिव्यादीनां परब्रह्मशरीरत्वाभावप्रसङ्गात् । पृथिव्यादिपर्यायेषु सर्वेष्वपि प्रतिपर्यायम् आदरेण शरीरत्वप्रतिपादनस्य गौणत्वोक्त्ययो- गाच्च । 'विग्रहं देवदेवस्य जगदेतञ्चराचरम् । एतमर्थ न जानन्ति पशवः पाशगौरवात् । विद्येति चेतनं प्राहुस्तथा- विद्यामचेतनम् । विद्याविद्यात्मकं सर्व विश्वं विश्वगुरोविभोः । रूपमेव न संदेहो विश्वं तस्य वशे यतः' इति प्रपञ्चस्य पर- ब्रह्मशरीरत्वासंदेहोक्त्या 'विश्वं तस्य वशे यतः' इति तस्य तच्छरीरत्वव्यवस्थापकलक्षणानुगतिप्रदर्शनेन च तद्गौ- णत्वाशङ्काया: सुदूरनिरस्तत्वाच्च । विश्वं तस्य वशे यत:' इत्यनेन नियम्यत्वमानं लक्षणतया न विव- क्षितम् , यत: तावन्मात्रेण भृत्यादिशरीरमपि खाम्या- दीनां शरीरं भवेदिति दोषः स्यात् । किं तु व्यापनेन नियमनं लक्षणतया विवक्षितम् । तच्च ‘विभोः' इति विशेषणेनाविष्कृतम् । न च तद्विशेषणं नियमनसामर्थ्य- तस्य 'विश्वगुरोः' इत्यनेन लाभात् । तस्मात् मदु- क्तमेव लक्षणं युक्तमिति पृथिव्यादीनां तद्योगात् मद्धेतु - . . परम्,

वादनक्षत्रमाला ।
सिद्धः, त्वद्धेतुरेवासिद्ध इति । अत: मदनुमाने पृथिव्यादी-
नां शरीरत्वसिद्धौ तदभिमानिदेवानां पृथिव्यहम् उदकमहम्
तेजोऽहम् इत्याद्यनुसंधानैः तेषां पृथिवीत्वाद्याश्रयत्वसिद्धौ
तेषामपि अन्तर्यामिब्राह्मणोक्तरीत्या अन्तर्यामिशरीरत्वात्
ब्रह्मविदां तेषां पृथिव्यहम् इत्याधनुसंधानम् अन्तर्यामिपर्य-
न्तं भवेदिति ततोऽन्तर्यामिणः परमेश्वरस्य पृथिवीत्वाद्याश्रय-
त्वलाभे सति तस्य तत्प्रवृत्तिनिमित्तकपृथिव्यादिशब्दवाच्य-
त्वमपि सिध्यतीति सर्व समजसम् ।।
इत्यन्तर्यामिविषयपृथिव्यादिशब्दवाच्यत्वसम-
र्थनवादः ॥ १५ ॥

अन्तर्यामिविषयसकलशब्दवाच्यत्व- समर्थनवादः॥ Dammam नन्वेवमपि परमेश्वरस्य शरीरादिशब्दवाच्यत्वासिद्धेः सर्वशब्दवाच्यत्वं तस्य न सिध्यतीति शङ्कानिरासाय कथा- न्तरं प्रस्तूयते- तत्र परमेश्वरः शरीरादिशब्दवाच्यः, शरीरशब्दप्रवृत्ति- निमित्ताधिकरणत्वात् , यत् शरीरशब्दप्रवृत्तिनिमित्ताधिकर- णम् , तत् शरीरशब्दवाच्यम्- यथा शरीरम् इति प्रथमा कक्ष्या ॥ Continuses अथ द्वितीया- असिद्धोऽयं हेतुः, शरीरशब्दप्रवृत्तिनिमित्तं हि शरीर- त्वम् । तदधिकरणत्वं जीवस्यैव तावत् नास्ति, गौरोऽहम् , ब्राह्मणोऽहम्--इत्याद्यनुभववत् शरीरमहम् , कलेबरमहम् , हस्तोऽहम् , पादोऽहम्- इत्याद्यनुभवस्य कदाप्यदर्शनात् ; कुत: तद्वारा अन्तर्यामिपर्यन्तेन अहमनुभवेन प्रापणीयम् अन्तर्यामिणः शरीरत्वाधिकरणत्वं सिध्येत् । न च अहमनु- वादनक्षत्रमाला। २०९ १ भवमनपेक्ष्य तत्प्रापकं प्रमाणान्तरं वक्तुं शक्यम् ; तथाभू- तस्य कस्यचित् प्रमाणस्य अदर्शनात् । न च सर्वाधारत्वात् ब्रह्मणः शरीरत्वाधिकरणत्वमपि तस्य अप्रतिक्षेप्यामिति वा- च्यम् , कालादिसाधारणेन सर्वाधारताप्रयोजकसंबन्धेन प्रवृ- सिनिमित्ताधिकरणत्वस्य शब्दवाच्यत्वाप्रयोजकत्वात् । तत्प्र- योजकसंबन्धविशेषेण शरीरत्वाधिकरणत्व एव प्रमाणस्य मृग्यत्वात् । तस्मात् परमेश्वरः शरीरशब्दवाच्यो न भवति, शरीरत्वानधिकरणत्वात् , यत् शरीरत्वानधिकरणं न तत् शरीरशब्दवाच्यम्-- यथा जीवस्वरूपम् ---- इति ।। . अथ तृतीया कक्ष्या- . . परमेश्वरस्य शरीरत्वाधिकरणत्वे प्रमाणाभावोऽसिद्धः, सर्व खल्विदं ब्रह्म' 'सर्वो वै रुद्रः ' : अनेन जीवेनात्मना- नुप्रविश्य नामरूपे व्याकरवाणि' 'तद्धेदं तमुव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत' सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इति श्रुतिरूपप्रमाणसद्धा- वात् । अत्तो न मद्धेतुरसिद्धः, त्वद्धतुरेवासिद्ध इति ।। अथ चतुर्थी-- सर्व खल्विदं ब्रह्म' 'सर्वो वै रुद्रः' इति श्रुतिद्वयमो- *V. 14 पूर्वोत्तरमीमांसा- - पचारिकाभेदाभिप्रायेण तात्त्विकाभेदाभिप्रायेण वा उपपन्नं न सर्वप्रवृत्तिनिमित्ताश्रयत्वसमर्पणक्षमम् । अनेन जीवनात्म- ना' इति श्रुतिवचनं प्रपश्चगतनामरूपव्याकरणार्थत्वेनाप्युपप. धमानं सर्वेषां नामरूपाणां परमेश्वरपर्यन्तव्याकरणार्थत्वम- पेक्षते । 'तन्नामरूपाभ्यां व्याक्रियत' इति वचनं परब्रह्मा- साधारणनामरूपव्याकरणार्थत्वेनाप्युपपद्यमानं न सर्वनाम- रूपव्याकरणस्य परब्रह्मपर्यन्तत्वमर्थ स्पृशति । 'सर्वाणि रूपाणि' इति मन्त्रे सर्वनामरूपग्रहणे सत्यपि स मन्त्र: प्रपञ्चगतनामरूपसंपादनतत्प्रवृत्तिनिमित्तकतत्तद्वस्तुनामकर - णार्थत्वेनाप्युपपद्यते । अत: प्रमाणाभावात् त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्ध इति ॥ अथ पञ्चमी- नामरूपे व्याकरवाणि' 'तन्नामरूपाभ्यां व्याक्रियत' 'सर्वाणि रूपाणि' इति श्रुतित्रयस्यापि नामरूपव्याक- रणश्रुतित्वाविशेषात् संभवदैकार्य न परित्यक्तुं युक्तम् । अत: श्रुतित्रयार्थोपसंहारे तेजोऽबन्नात्मकसकलप्रपञ्चगतना- मरूपव्याकरणस्यापि परब्रह्मपर्यन्तत्वं लभ्यते । अत एव सर्वाणि रूपाणि' इति मन्त्रानन्तरम् ‘धाता पुरस्ताद्यमु- दाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः' इति परमेश्वरेण स्व- .

वादनक्षत्रमाला । विषयतया कृतैर्नामभिः परमेश्वरस्य प्रथमपुत्रो हिरण्यगर्भः प्रथमं व्यवजहार; ततः प्रकर्षेण विद्वान्शकोऽपि व्यवज- हार ; तत: क्रमेण सर्वासु दिक्षु स्थिता: प्रजा अपि व्यव- जह्वः-- इत्यर्थो ज्ञायते । यद्यपि अस्मिन्मन्त्रे परमेश्वरवि- षयव्यवहरणमात्रं श्रूयते । न तु पूर्वमन्त्रोक्तैः सर्वैर्नामाभि- रित्यपि श्रूयते; तथापि पूर्वमन्त्रैकवाक्यतासामर्थ्यात् सो- ऽर्थो लभ्यते । प्रमाणसत्त्वात् न मद्धेतुरसिद्धः, स्वद्धतुरेवासिद्धः इति ।। अतः . अथ षष्ठी- शरीरादिनामव्याकरणस्य परमेश्वरपर्यन्तत्वाङ्गीकारो न युक्तः, तत्परम्परासंबन्धघदकत्वाभिमतजीवपर्यन्तत्वस्यैवा- भावात् । तदभावे सहारा परमेश्वरपर्यन्तत्वासंभवात् । तस्मात बाधितेऽर्थे श्रुतीनां परस्परार्थोपसंहारेण तात्पर्य कल्पनमयुक्तम् , शरीरत्वादीनां जीवपर्यन्तत्वाभावश्च शरीर. महम् , हस्तोऽहम् , पादोऽहम्- इत्यनुभवाभावादेव स्पष्टः । एवं शरीरतवयवगतशरीरत्वादिधर्माणां स्वतो जीवपर्यन्त- त्वाभावादेव-काणोऽहम् , खजोऽहम्-इत्याद्यनुभवव्यव- हारनिर्वाहार्थम् अर्शआदिगणे 'स्वाङ्गाद्धीनात्' इति पाठेन स्वाङ्गवाचिनः काणखजादिशब्दात् मत्वर्थीयोऽच्प्रत्ययो वि. . , पूर्वोत्तरमीमांसा- हितः, ततः प्रमाणाभावात् त्वद्धेतुरसिद्धः, मद्धेतुश्च नासिद्धः इति ॥ - अथ सप्तमी- शरीरस्य अन्तर्यामिणि परमेश्वरे शरीरशब्दवाच्यत्व- संबन्धघटनार्थद्वारभूते जीवे तस्य संबन्धमात्रमपेक्ष्यते । न तु तथाभूत एव संबन्धः; संयुक्तविशेषणविशेष्यभावा- दिषु घटकघटनीयसंबन्धयोरेकरूपत्वनियमाभावदर्शनात् । तथा च उदाहृतश्रुतित्रयस्य न्यायलभ्याथै क्योपपादनाय शरीरस्य जीवेऽपि कश्चित् शरीरद्वारकः परम्परासंबन्धो- ऽस्ति इति कल्प्यते ; श्रुतोपपादनार्थमश्रुतकल्पनौचित्यात् । अथवा श्रुतोपपादनार्थमेव जीवद्वारमनपेक्ष्य परमेश्वरे शरी- रशब्दवाच्यताप्रयोजकः साक्षादेव शरीरत्वस्य संबन्धवि- शेषोऽस्तीति कल्प्यते । एवं च काणत्वख जत्वादीनां जीवे तत्तच्छब्दवाच्यताप्रयोजकसंबन्धविशेषाभावात् जीवे तत्त- च्छब्दप्रयोगनिर्वाहाथै मत्वर्थीयप्रत्ययविधानमपि युज्यते । न चायमस्ति नियमः, हीनस्वाङ्गवाचिनां मत्वर्थीयप्रत्ययेनैव जीवपर्यन्तत्वनिर्वाह इति, कुणिरहम्- इत्यादावदर्शनात् । एवं च कुणित्वादिवत् खञ्जत्वादीनां शब्दवाच्यताप्रयोजकसं- बन्धसंभवेऽपि स्वरविशेषादिसिद्धयर्थ काणखजादिशब्देभ्यो .

वादनक्षत्रमाला।
२१३
मत्वर्थीयप्रत्ययविधानम् इत्युपपादनीयम् । तथैव च उपपा-
दितं पदम जर्यान् । ततः प्रमाणबत्त्वात् मद्धेतु सिद्धः, त्वद्धे-
तुरेवासिद्ध इति मदनुमानात् सिद्धमन्तर्यामिणः शरीरशब्द-
वाच्यत्वम् । शरीरशब्देनैव अहंपदसामानाधिकरण्यविषयाः
सर्वेऽपि शब्दा व्याख्याता: ।।
इति अन्तर्यामिविषयसकलशब्दवाच्यत्व-
समर्थनवादः ॥ १६॥

व्याकरणश्रुतिगततृतीयैकवचन- समर्थनवादः ॥ उदाहृतायां नामरूपव्याकरणश्रुतौ जीबेन' 'जीवेन' इति तृतीया कर्तृत्वार्था इति विष्णुभागवता: ; सहार्था इति सि- द्धान्तः ; प्रसङ्गात् तव्यवस्थापनार्थ कथान्तरं प्रस्तूयते- नामरूपव्याकरणश्रुतिगता जीवेन' इति तृतीया क- र्तृत्वार्था, कतिरिक्तकारकार्थत्वरहितकारकविभक्तित्वात् ; मया शिव: सेव्यते- इत्यत्र तृतीयावत् । 'जीवन' इति तृतीयाया: कारकान्तरार्थत्वराहित्यस्य वादिद्वयसंप्रतिपन्न- त्वात् न हेतोविशेषणासिद्धिः, नापि विशेष्यासिद्धिः, उप- पदविभक्तित: कारकविभक्तेर्बलीयस्त्वेन संभवतः कारकवि- भक्तित्वस्य त्यागायोगात्-इति पूर्वपक्षिण: प्रथमा कक्ष्या ।। अथ द्वितीया- . बाधितमिदमनुमानम् , कर्तुः 'व्याकरवाणि' इत्याख्या- ताभिहितत्वेन तृतीयायास्तादर्थ्यायोगात् । अत: कारकार्थ- त्वासंभवात् उपपदविभक्तित्वमेवाश्रयणीयम् इति हेतुरप्य- वादनक्षत्रमाला। ना २१५ सिद्धः । तस्मादुदाहृता 'जीवेन' इति तृतीया की न भवति, तदभिधायिपदान्तरसमभिव्याहृतत्वात् ; पुत्रेण सह अहं भोक्ष्ये- इत्यत्र तृतीयावत् इति ।। अथ तृयीया- .. .. व्याकरणक्रियाकर्तृशक्ते: आख्यातेनाभिहितत्वेऽपि प्रवेश- क्रियाकर्तृशक्तेः केनाध्यनभिहितत्वेन तदर्थत्वं तृतीयायाः संभवतीति मदनुमानस्य न बाधासिद्धिदोषः । त्वदनुमान- स्यैव तु बाधासिद्धिदोषः इति ।। अथ चतुर्थी- तथा सति अहं भुक्त्वा ब्रजामि- इत्यादिप्रयोगविष- येऽपि मया भुक्त्वा- इत्यादिप्रयोग: स्यात् ; भोजनादि- क्रियाकर्तुः प्रत्ययान्तरेणानभिधानात्; तदिहापि कर्तृशक्त्य- धिष्ठाने प्रथमयैव भाव्यमिति तृतीयाया: कर्बर्थत्वकारकवि- भक्तित्वयोरसंभवात् त्वद्धेतोरेव प्रागुक्तदोषः न मद्धेतोरिति ।। अथ पञ्चमी- marne . व्याकरणमर्यादया प्रसज्यमानोऽयं दोष: तवापि तुल्य:, अहं भुक्त्वा व्रजामि- इति प्रयोगे हि यथा अहम MARRIA २१६ पूर्वोत्तरमीमांसा- .. थोऽभिहितवजनक्रियाक कर्तृशक्त्याश्रयः एवमनभिहितमो- जनक्रियाकर्तृशक्त्याश्रयोऽपि, क्त्वाप्रत्ययस्य शब्दान्तराभि- हितकर्तृशक्तिद्वयाभेदमानार्थकत्वेन कर्तृशक्त्यनभिधायकत्वा- त् । अनभिहितसूत्रेण च अनभिहितकारकशक्त्याश्रये यथा- यथं विभक्तयो विधीयन्ते ; न त्वभिहिताश्रये प्रति- षिध्यन्ते ; पर्युदासपक्षाश्रयणात् । अत एव अनभिहितसूत्रे द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्त्यभावप्रसङ्ग इति वार्तिकेन प्रासाद आस्ते- इत्यत्र प्रसीदन्त्यस्मिन्निति अधिकरणार्थे निष्पोन सदेप्रत्ययेन प्रासादगताधिकर- णकारकशक्तरभिधानात् सप्तमी न स्यात् इति प्रतिषे. धपक्षाश्रयणेन शङ्कामुद्भाव्य, 'न वान्यतरेणानभिधानात्' इति वार्तिकेन असिक्रियाधिकरणशक्तेः आसेरुपरितना- ख्यातप्रत्ययेनानभिधानात् नायं दोषः प्रसज्यते इति पर्युदा- सपक्षाश्रयणेन सप्तम्युपपादिता । तस्माद्ध्याकरणमर्याद- या प्रसज्यमानोऽयं दोषः तन्मर्यादयैव यत्नान्तरमास्थाय अहं भुक्त्वा इत्यादौ कथं चित् प्रथमासमर्थनेन समाधे- य इति, इह तृतीयाया: कर्बर्थत्वकारकविभक्तित्वयोरनुपप- त्यभावात् न मद्धेतोः प्रागुक्तदोषः, त्वद्धेतोरेव स दोष . . इति ।।

वादनक्षत्रमाला । २१७ अथ षष्ठी-- - - वैयाकरणमर्यादया नैष दोषः प्रसज्यते । एवं हि तन्म- र्यादा अहं भुक्त्वा ब्रजामि- इत्यत्र अहमर्थस्य भोजन- ब्रजनक्रियाभ्यामुभाभ्यामपि न शाब्द अन्वयः; किंतु व्रज. नक्रिययैव, प्राधान्यात् ; आर्थस्तु भोजनक्रियया अन्वयः । अत: शब्दव्यापारापेक्षायामभिधानमेव, न त्वनभिधानमपि- इति न अहमर्थे तृतीया प्रसज्यते । अत एव पक्त्वा भुज्यते ओदन:- इत्यत्र पाककर्मत्वानभिधानमाश्रित्य ओदनमिति द्वितीया न प्रवर्तते ; पाके कर्मान्वयस्य आर्थत्वात् । प्रासाद आस्ते- इत्यत्र तु प्रासादस्य प्रसदनासनक्रियाभ्यां शाब्द एवान्वय: ; पदार्थदशायां घबन्तप्रातिपदिकेन प्रसदनेना- धिकरणतया अन्वितस्यैव हि प्रासादद्रव्यस्य वाक्यार्थदशा. याम् आसनक्रियाधिकरणत्वेनापि अन्वयात् । अतस्तत्व शा. ब्दव्यापारापेक्षयैव अनभिहितासनक्रियाधिकरणकारकश- क्त्याश्रयत्वमपि प्रासादस्यास्तीति तन्त्र सप्तम्युपपद्यते । एव. मसङ्कीर्णा प्राक्सिद्धा वैयाकरणमर्यादेति तदाश्रयणेनैव स- वोपपादने संभवति लौकिकप्रयोगे कर्तरि प्रथमामुपपादयितुं न यनान्तरमास्थेयमिति, इह तृतीयाया: कर्बर्थत्वकरणार्थ- त्वयोरसंभवात् त्वद्धतोरेव पूर्वोक्तदोषः, न मद्धेतोरिति ।।

२१८ पूर्वोत्तरमीमांसा- अथ सप्तमी- MERO . जीवेन' इति तृतीयाया: सहार्थत्वेन उपपदविभक्तित्वे येन जीवेन परमेश्वरस्य साहित्यं तस्य आत्मत्वाव्यभिचा- रात् 'आत्मना' इत्येतत् व्यर्थ भवेत् , कारकविभक्तित्वे तु जीवशरीरकेण मया--- इत्येतदर्थलाभार्थत्वेन तत् सार्थक भवति । तस्मादभ्यर्हितस्य कारकविभक्तित्वस्य आत्मना' इति पदसार्थकत्वस्य च लाभार्थ यनान्तरमास्थायैव प्रथमो- पपादनं युक्तम् । यदि तु प्राक्सिद्धमर्यादयैव तदुपपादनं कार्यम् , तदा जीवशरीरकेण मया इत्यस्य प्रवेशक्रियामात्रा- न्वयोऽस्तु; तदा हि तस्योपसर्जनक्रियान्वय: शाब्दव्यापा- रविषयो भवति । तस्य प्रधानक्रियान्वयाभावेन अर्थात् सियसंभवात् । ततश्च तत्र शाब्दव्यापारविषयानाश्रयम् अनभिहितसूत्रं प्रवर्तत इति भाव्यं तत्र कारकविभक्त्या । दृश्यते च तथैव प्रयोग: ' इष्टका: पक्त्वा भुङ्क्ते' इति । अत्र खलु इष्टकानां पाकक्रिययैवान्वय इति तदन्वयस्य शाब्दव्यापारविषयत्वात् अनभिहिताधिकारविहिता कर्मणि द्वितीया दृश्यते । एवमिहापि कर्तरि तृतीया उपप- द्यते । तस्मान्न मद्धेतो: पूर्वोक्तदोषः, त्वद्धेतोरेव स दोष , इति ॥

वादनक्षत्रमाला। २१९ अथाष्टमी- RAND . जीवेनामना' इत्यस्य जीवशरीरकेण मया इत्यर्थवर्ण- नायाम् 'अनेन' इति पदं व्यर्थं स्यात् । न हि मया इत्यस्य अर्थः स्वातिरिक्तोऽपि कश्चिदस्ति । येन तव्याव- तनाय तत्सार्थकं भवेत् । जीवरूपेण केनचिदात्मना सह इत्यर्थवर्णनायां तु त्रिवृत्करणीयभूताभिमानित्वेन संनिहितं परामृशत: 'अनेन' इत्यस्यासंनिहितजीवान्तरव्यावर्तनया सार्थकत्वं लभ्यते । अत: प्रथमश्रुतपदसार्थकत्वलम्भनार्थ चरमश्रुतपदस्य अनतिप्रयोजनत्वाश्रयणं न दोषाय । तस्मात् 'आत्मना' इत्यस्य सार्थकत्वलाभमनुरुद्धय न यत्नान्तर- मास्थेयम् । यत्तु प्रवेशक्रियामात्रान्वयमङ्गीकृत्य प्राक्सिद्ध- वैयाकरणमर्यादयैव कर्तरि तृतीयासमर्थनम् , तत्तुच्छम् , क्त्वाप्रयोगे कारकान्तरस्य एकक्रियान्वयेऽपि समानकर्तृ- कत्वनिर्वाहार्थ कर्तुः क्रियाद्वयान्वयावश्यंभावात् कर्तुा- करणासंबन्धे अहमिति प्रथमान्तानन्वयप्रसङ्गाच्च । व्याक- रणकर्तुः आख्यातेनाभिधानमपेक्ष्यैव तत्र प्रथमाया: समर्थ- नीयत्वात् । संज्ञामूर्तिक्लप्त्यधिकरणे परमेश्वरस्यानुप्रवेश इव व्याकरणेऽपि कर्तृत्वव्यवस्थापनेन तद्विरोधापत्तेश्च । तस्मात्त्वद्धेतोरेव प्रागुक्तदोषः, न मद्धेतोरिति ।।

२२० पूर्वोत्तरमीमांसा- अथ नवमी- Ramsalam * अनेन जीवेन' इत्यस्य संनिहितजीवपरत्वे त्रिवृत्कर. णीयतेजोऽबन्नाभिमानिदेवतात्रयपरत्वं वक्तव्यम् , संनिधाने विशेषाभावात् । तथा च ' जीवेन' इति एकवचनमनुपपन्नम् ; जीवपदं च जलाभिमानिनि नारायणेऽनुपपन्नम् । तस्य ब्रह्म- कोटित्वाङ्गीकारात्; ततश्च 'जीवेन' इत्यत्र प्रकृतिप्रत्यययोः असामञ्जस्यम् , ' आत्मना' इत्यस्य वैयर्थ्यम् इति बहुदो- षाभ्युपगमात् वरमेकस्यैव · अनेन' इति इदंशब्दस्य-अय- महमागच्छामि- इत्यादाविव न अतिप्रयोजनत्वाभ्युपगमः अत: तन्निर्वाहाय यनान्तराश्रयणमेव युक्तमिति न मद्धतो- रुत्तदोषः, किं तु त्वद्धेतोरेव इति ।। अथ दशमी- . 'जीवेन' इत्यत्र एकवचनं जीवाजीवसमुदाये जीवपदं च -काकादधि रक्ष्यताम् इत्यत्र एकवचनवत् , काकतदन्यसमु- दाये काकपदवच्च-उपपद्यते; त्रिमूर्त्यन्तर्गतो नारायण:पर- नारायणादन्यो जीव इति पक्षे तु तत्र प्रकृत्यंशस्य न का- प्यनुपपत्तिः ; तस्मात् 'आत्मना' इत्येतावन्मालस्य मत्पने नातिप्रयोजनत्वम् ‘अनेन' इति प्रथमश्रुतपदसार्थकत्वानु-

वादनक्षत्रमाला।
२२१
सारेण सोढुं युक्तमिति तद्व्याकरणमर्यादामतिलङ्घय-अहं
भुक्त्वा इत्यादि प्रयोगसमर्थनस्याकर्तव्यत्वात् व्याकरणमर्या.
दया च अल कर्तरि तृतीयानुपपत्तेः त्वद्धेतोरेव बाधासिद्धि-
दोषः, न मद्धेतोरिति सहाथै वात्र तृतीया इति युक्तम् ।।
इति व्याकरणश्रुतिगततृतीयैकवचनसम-
र्थनवादः ॥ १७ ॥

सर्वोपादानत्वहेतुकसर्वशब्दवाच्यत्व- समर्थनवादः॥ व्याकरणश्रुतिबलादिव सर्वोपादानत्वश्रुतिबलादपि ब्रह्मणः सर्वशब्दवाच्यत्वं सिध्यतीति निर्णेतुं कथान्तरं प्रस्तूयते- " ब्रह्म वृक्षत्वजातिप्रवृत्तिनिमित्तकशक्त्या वृक्षशब्दवाच्यम् , वृक्षोपादानत्वात् , यत् वृक्षोपादानम् तत् वृक्षत्वजातिप्रवृत्ति- निमित्तकशक्त्या वृक्षशब्दवाच्यम्- यथा वृक्षोपादानपार्थि. वद्रव्यम्-इति प्रथमा कक्ष्या। अथ द्वितीया- MORaara वृक्षाकारपरिणतस्य वृक्षाभिन्नस्य पार्थिवद्रव्यस्येव नि- विकारतया वृक्षाकारपरिणतिरहितस्य ततो भिन्नस्य वृक्षो- ऽयं जीवति- इत्यादिवृक्षशब्दसामानाधिकरण्यव्यवहारवि- षयात् वृक्षाभिमानिजीवतोऽपि भिन्नस्य ब्रह्मणः त्वदुक्तश- क्या वृक्षशब्दवाच्यत्वं न संभवतीति बाधितमिदमनुमानम् ; हेतुश्च असिद्धः, कार्याकारपरिणततदभिन्नद्रव्यस्य उपादान- त्वेन अतथाभूतस्य ब्रह्मणः कचिदप्युपादानत्वासंभवात्; , वादनक्षत्रमाला । २२३ तस्मात् ब्रह्म वृक्षत्वजातिप्रवृत्तिनिमित्तकशक्त्या वृक्षशब्द- वाच्यं न भवति, उभयसिद्धत्वदुक्तसाध्यवद्भिन्नत्वात् , यत् उभयसिद्धत्वदुक्तसाध्यवद्भिन्नम् , न तत् वृश्नत्वजातिप्रवृत्ति- निमित्तकशक्त्या वृक्षशब्दवाच्यम्-- यथा कूटम् इति ॥ १ अथ तृतीया- mamme वृक्षत्वप्रवृत्तिनिमित्तकशक्त्या वृक्षशब्दवाच्यत्वे प्रयो- जकं वृक्षशब्दप्रवृत्तिनिमित्तवृक्षत्वाश्रयत्वम् , तत् पार्थि- वद्रव्यस्य ब्रह्मणश्च अविशिष्टम्; अत: पार्थिवद्रव्यवत् ब्रह्मणोऽपि मदुक्तसाध्यवत्वं युज्यते इति मदनुमानस्य न बाधः ; नापि हेत्वसिद्धिः, कार्यावस्थाश्रयकारणत्वस्य उपादानलक्षणतया तस्यापि ब्रह्मपार्थिवद्रव्ययोरविशिष्ट- त्वात् ; त्वदनुमानं तु अप्रयोजकम् , उभयसिद्धमदुक्तसा- ध्यवद्भिन्नस्यापि ब्रह्मणो वृक्षत्वाश्रयतया तत्प्रवृत्तिनिमित्त- कशब्दवाच्यत्वोपपत्तेः इति ॥ अथ चतुर्थी- वृक्षत्वजात्याश्रयत्वमानस्य तत्प्रवृत्तिनिमित्तकशब्दवाच्य- ताप्रयोजकत्वे कार्यावस्थाश्रयकारणत्वमात्रस्य उपादानलक्षण- त्वे च कालस्यापि वृक्षत्वप्रवृत्तिनिमित्तकशब्दवाच्यत्वं वृक्षो- २२४ पूर्वोत्तरमीमांसा- पादानत्वं च प्रसज्येत ; अतः कालवत् ब्रह्मणः सर्वाधार- तया वृक्षत्वाश्रयत्वेऽपि तत्प्रवृत्तिनिमित्तकशब्दवाच्यत्वं वृ- क्षोपादानत्वं च न संभवतीति त्वदनुमानस्य बाधासिद्धी तदवस्थे; मदनुमानं च नाप्रयोजकम् , ब्रह्मणः वृक्षत्वा- श्रयत्वमात्रेण तत्प्रवृत्तिनिमित्तकशब्दवाच्यत्वे कालस्यापि त- द्वाच्यत्वं स्यादिति विपक्षबाधकानुकूलतर्कसद्भावात् इति ।। अथ पञ्चमी- त्वयापि वृक्षत्वाश्रयत्वं तत्प्रवृत्तिनिमित्तकशब्दवाच्यतायां प्रयोजकमेष्टव्यम् , न तु वृक्षाभिन्नत्वम् , वृक्षाभिमानिजी- वाव्यापकत्वात् । तत्र आश्रयत्वं त्वयापि कालातिप्रसङ्गवार- णाय सर्वाधारताप्रयोजकसंबन्धातिरिक्तसंबन्धविशेषगर्भमेष्ट- व्यम् ; मयापि तथैवेष्यत इति नातिप्रसङ्गः । अतो मदनुमा- नस्य न बाधासिद्धी, त्वदनुमानं च अप्रयोजकमेवेति ।। अथ षष्ठी- वृक्षाभिमानिजीवस्य वृक्षत्वाश्रयत्वं संबन्धविशेषगर्भमि- त्यत्र अस्ति प्रमाणम्-- वृक्षो जीवति- इत्यादिसामानाधि- करण्यव्यवहारः; ब्रह्मणस्तु तत् संबन्धविशेषगर्भमित्यत्र नास्ति प्रमाणम् , ' अक्षरमम्बरान्तधृतेः' इत्यधिकरणसिद्धका- वादनक्षत्रमाला। २२५ लसाधारणसर्वाधारताप्रयोजकसंबन्धमात्रेण तस्य वृक्षत्वा- श्रयत्वोपपत्तेः; अतस्त्वया कालातिप्रसङ्गो निरसितुं न श- क्यते इति त्वदनुमानस्य बाधासिद्धी तदवस्थे, मदनुमानं च नाप्रयोजकमिति ।। अथ सप्तमी- ब्रह्मणः संबन्धविशेषगर्भ वृक्षत्वाश्रयत्वमस्तीत्यत्र प्रमा- णाभावोऽसिद्धः; तस्य श्रुतिसिद्धेन सर्वोपादानभावेन प्रा- तस्य वृक्षोपादानत्वस्य निर्वाहाथै कालगुणजातम्य काल इव वृक्षत्वस्य ब्रह्मणि सर्वाधारताप्रयोजकसंबन्धभिन्नेनापि संबन्धविशेषेण वृत्तेरभ्युपगन्सध्यत्वे सति नीलत्वादेर्घटादा- विव वृक्षत्वस्यापि ब्रह्मणि तहारकवैशेषिकसंबन्धस्याप्रत्या- ख्येयत्वात्; तस्मात् मदनुमानस्य न बाधासिद्धी, त्वदनुमानं तु अप्रयोजकमेवेति ॥ अथाष्टमी- ब्रह्मणः सर्वोपादानभावे तव नास्ति प्रमाणम् ; 'आसन आकाश: संभूत: 'यतो वा इमानि भूतानि जायन्ते' 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' इत्याधुपादानत्वसमर्पकश्रुतीनां त्वया चिच्छक्तिविषयत्वस्या- " *V. 15 २२६ पूर्वोत्तरमीमांसा- भ्युपगतत्वात् ; नीलत्वादिदृष्टान्तवर्णनमपि अयुक्तम् , रूप- त्वादिप्रति दृष्टान्तसद्भावात्; तस्मात् तव मते ब्रह्मणः संबन्धविशेषगर्भवृक्षत्वाश्रयत्वे प्रमाणाभावेन कालादावतिप्र. सङ्गतादवस्थ्यात् त्वदनुमानस्य बाधासिद्धी तदवस्थे, मदनु- मानं च नाप्रयोजकमिति ॥ अथ नवमी-- १ ब्रह्मणः सर्वोपादानभावे प्रमाणाभावोऽसिद्धः, छान्दो- ग्ये ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय । यथा सोम्य केन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्' इत्यादिना तत्रोपादा- नोपादेयभावापन्नमृत्पिण्डघटादिदृष्टान्तोपादानसामर्थ्यात् ब्र- झप्रपञ्चयोरपि उपादानोपादेयभावो विवक्षित इत्यवगमात् ; संभवतश्च दृष्टान्तसाम्यस्य त्यागायोगात् ; न च तथापि वृक्षादीनामुपादानोपादेयभावसंबन्धेन ब्रह्माश्रितत्वसिद्धा- वपि वृक्षत्वादीनां तथाभूतसंबन्धविशेषेण ब्रह्माश्रितत्वं न सिध्यति ; रूपत्वादीनां घटाधनाश्रितत्ववत् तेषां ब्रह्माना- श्रितत्वस्यापि उपपत्तेरिति वाच्यम् , ' आत्मैवेदं सर्वम्' 'सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्यादिश्रुतौ सर्वोपादानभावप्रयुक्तसर्वप्रपञ्चसामानाधिकरण्यव्यवहारद- र्शनेन- वृक्षोऽयं जीवतीत्यादिव्यवहारानुसारेण वृक्षत्वादीनां बादनक्षत्रमाला । वृक्षाभिमानिजीवाश्रितत्ववत् तेषां ब्रह्माश्रितत्वस्यापि तत्प्र. वृत्तिनिमित्तकशब्दवाच्यताप्रयोजकसंबन्धविशेषगर्भस्य सि- द्धेः; अतो मदनुमानस्य न बाधासिद्धी, त्वदनुमानमप्रयोज- कमेव इति ॥ ७ अथ दशमी-- सर्वविज्ञानश्रुतिस्तावत् ब्रह्मणः सर्वोपादानत्वे प्रमाण न भवति, मृत्पिण्डस्य ज्ञानेन तदभिन्नस्य घटशरावादेरिव ब्रह्म ज्ञानेन तद्भिन्नस्य प्रपञ्चस्य ज्ञातत्वासंभवेन सर्ववि- ज्ञानप्रतिज्ञानस्यैव ब्रह्मप्राधान्यस्तावकतया औपचारिक- त्वात् ; न च तस्य औपचारिकत्वे मुख्यसर्वविज्ञानदृष्टा- न्तीकरणायोगः, चन्द्रमण्डलमिव जगद्विसमरकान्तिमनो- हरमस्य मुखम्--- इत्यादिव्यवहारेषु मुख्यस्यापि स्तुत्य- अॅपचारिकदृष्टान्तीकरणस्य बहुलमुपलम्भात् ; मृत्पिण्डस्य घटशरावादीनां च भिन्नभिन्नमृत्कार्यतया तस्य तदुपादान- त्वाभावेन दृष्टान्तोपन्यासस्यापि मार्तिकत्वरूपप्रकारक्य- विषयत्वेन औपचारिकत्वाच्च ; दृष्टो हि देवदत्त एवं भोजयि- तव्यः इति देवदत्तभोजनव्याख्यानानन्तरम्, एतेन यज्ञद- त्तभोजनं व्याख्यातमिति अव्याख्यातेऽपि व्याख्यातसमा- नप्रकारकत्वेन व्याख्यातत्वव्यवहारः; एवंरूपमौपचारिक- पूर्वोत्तरमीमांसा- त्वम् एकेन मृत्पिण्डेन' इति एकग्रहणमपि प्रसाधयति; न हि एकमृत्पिण्डज्ञानेन देशान्तरकालान्तरवर्तिसकलमृत्पिण्डज्ञानं कथमपि समर्थयितुं शक्यम् ; 'सर्वं खल्विदं ब्रह्म' इत्या. दिश्रुतिस्तु जीवविषया, तस्यैव पर्यायेण देवमनुष्यपशुप- क्षिसरीसृपादिसर्वात्मभावस्य लोकवेदयोः प्रसिद्धतरत्वात् । अस्ति च जीवेऽपि ब्रह्मशब्दः । इदं ब्रह्मागच्छति' इत्यादि- श्रुत्यन्तरे ; अत: त्वदनुमानस्य बाधासिद्धी तदवस्थे; मदनु- मानं च न अप्रयोजकम् इति ।। अथैकादशी-- उदाहृतच्छान्दोग्यश्रुतिस्तावत् ब्रह्मण: सर्वोपादानत्वे प्र- माणं भवत्येव ; तत्र हि सदेव सोम्येदमन आसीदेकमेवा द्वितीयं ब्रह्म' इत्यत्र सत्पदं सूक्ष्मचिदचिद्रूपापन्नचिच्छक्ति- विशिष्टशिवपरम् । अन्यथा तदतिरिक्तजीववर्गादिसत्त्वेन अवधारणविरोधात्; तज्ज्ञाने च तत्कार्य सर्वमपि विषयो भवति, कार्यद्रव्यस्य कारणानन्यत्वात् । तद्गतस्थौल्यावस्था- परं न विषयः ; अत: तेनाकारेण अश्रुतत्वादिश्रवणमुपपद्यते ; दृष्टान्तोऽपि उपादानज्ञानेन उपादेयानां ज्ञातत्वविषय एव; न च मृदेव घटादीनामुपादानम् , न तु मृत्पिण्डः, घटा- दिषु मृदाकारस्येव पिण्डाकारखानुवृत्त्यभावादिति वा- वादनक्षत्रमाला । २२९ n .. इत्यत्र सर्व , च्यम् ; मृत्पिण्ड एव घटः कृतः इति व्यवहारानुसारेण तस्य घटाधुपादानत्वात् । न च उपादानगतयावदाकारानु- वृत्तिरुपादेये नियतास्ति, क्षीरस्य वत्सस्य च यावदाकारा- नुवृत्त्यभावेऽपि लोके 'ऋषभोपानहोर्षः' इति व्याकरण- सूत्रे च क्षीरस्य दनि वत्सस्य ऋषभे उपादानत्वव्यवहा- रात्; मृत्पिण्डगतमृत्त्वरूपकिंचिदाकारानुवृत्तिः घटादिष्व. स्त्येव ; एवं च ‘सर्व मृण्मयं विज्ञातं स्यात्' शब्द: ‘एकेन मृत्पिण्डेन' इति प्रागगृहीतैकमृत्कूटविकारघ- टशरावादिसामस्त्यपरो युक्तः। एवं दृष्टान्तस्य मुख्यत्वव्य- वस्थितौ तद्गौणत्वमुखेन आपतत् दान्तिकस्य गौणत्वं प्रत्याख्यातं भवति ; दार्शन्तिके सर्वविज्ञानं प्राधान्यविषय- तया गौणम् , दृष्टान्ते तु तत्प्रकारैक्यविषयतया इति तयोरूप्यं च परिहृतं भवति ; ' सर्वं खल्विदं ब्रह्म' इत्या- दिश्रुतिरपि न जीवविषया, 'तज्जलान्' इति सर्वस्य प्रप. ब्रह्माधीनजन्मस्थितिलयत्वोक्ते वेऽनन्वयात्, अ. तो मदनुमानस्य न बाधासिद्धी, त्वदनुमानं च अप्रयोजक- , , - ७ . मेवेति ॥ अथ द्वादशी- सद्विज्ञानेन सर्वविज्ञानं मुख्यमुपपादयितुं न शक्यम् , २३० पूर्वोत्तरमीमांसा- सच्छब्दस्य सूक्ष्मचिदचिद्विशिष्टवस्तुपरत्वकल्पने प्रमाणा- भावात; 'सदेव' इत्यवधारणस्य असत्कारणत्वनिषेधदृढी- करणार्थत्वेन एकमेवाद्वितीयम्' इति पदानामधिष्ठात्रन्तर- निषेधढीकरणार्थत्वेन च अन्वयसंभवात् ; अत: सत्पदं ब्रह्मस्वरूपमात्रपरं वाच्यमिति तद्विज्ञानेन मुख्यं सर्वप्रप- ञ्चविज्ञानं न संभवति । अतो दृष्टान्तस्य मुख्यसर्वविज्ञान- विषयत्वसंभवेऽपि दार्शन्तिकं मुख्यप्राधान्यापेक्षसर्वविज्ञा- नावलम्बनमेवेति वाच्यम् ; न च दार्शन्तिके सर्वविज्ञानस्य गौणत्वे तत्र मुख्यसर्वविज्ञानदृष्टान्तीकरणायोगः, दाान्ति- कानुगुण्यार्थ दृष्टान्तेऽपि सर्वविज्ञानस्य 'सर्व मृण्मयम्' इत्यत्र सर्वशब्दस्यासंकोचमाश्रित्य गौणस्यैव ग्रहणोपपत्तेः मुख्यगौणत्ववैरूप्यापेक्षया सत्येव गौणत्वे तत् कचित् प्राधा- न्यापेक्षम् अन्यत्र प्रकारक्यापेक्षम् इत्यवान्तरवैरूप्यस्य स- ह्यत्वात् , सर्वशब्दासंकोचलाभेन स्वारस्याच्च ; 'सर्वं खल्वि- दं ब्रह्म' इत्येतदपि जीवसात्म्यिविषयमित्येव वक्तुं युक्तम् , तत्सात्म्यिस्य प्रसिद्धतरत्वात; प्रपञ्चजन्मस्थितिलयेषु च अदृष्टद्वारा जीवाधीनत्वस्यापि सत्त्वाञ्च; अतो मदनुमानस्य न बाधासिद्धी, त्वदनुमानं च अप्रयोजकमिति ।। अथ त्रयोदशी- वादनक्षत्रमाला। " . सच्छब्दस्य सूक्ष्मचिदचिदाकारापन्नशक्तिविशिष्टशिवपर- त्वे प्रमाणाभावोऽसिद्धः, 'सदेव' इत्यवधारणस्यासत्कार- णत्वनिराकरणदृढीकरणार्थत्वेऽपि अधिष्ठात्रन्तरनिषेधार्थस्य 'एकम्' इत्यस्य तदृढीकरणार्थस्य एवकारस्य उपादाना- न्तरनिषेधार्थस्य ' अद्वितीयम्' इत्यस्य च तत्र प्रमाणत्वात् ; चिचिद्वर्गयोः सच्छब्दार्थबहिर्भावे हि द्विकर्तृकेषु नामरू- पव्याकरणप्रभृतिसृज्यवस्तुषु कञन्तराणां हिरण्यगर्भादीनाम् अचिद्वर्गोपादानभूतशुद्धमायायाश्च सत्त्वेन 'एकमेवाद्विती- यम्' इत्यवधारणानि 'सदेव सोम्येदमन आसीत्' इत्येत- स्यानन्तरमसद्वादनिराकरणोत्तरस्य 'सत्त्वेव सोम्येदमन आसीत्' इत्येतस्य चानन्तरमभ्यस्तानि 'एकमेवाद्वितीयम्' इत्यवधारणानि न संगच्छेरन् । अतस्तदनुसारेण स- च्छब्दस्य सूक्ष्मचिदचिदाकारापन्नशक्तिविशिष्टशिवपरत्वम- भ्युपगन्तव्यम् ; तथा सति उक्तप्रकारेण सूक्ष्मदशापन्नस्य स्थूलचिदचिदाकारापन्नशक्तिविशिष्टतया स्थूलदशापत्त्यर्थ 'बहु स्याम्' इति संकल्पोऽपि उपपद्यते; तत्र हि बहु- शब्दो वैपुल्यवाची, न तु संख्याविशेषवाची ; चिदचिद्वर्ग- भेदविवक्षायां बहुत्वसंख्यायाः पूर्वमपि सत्त्वेन, तयो- ब्रह्मविशेषणतया विशिष्टरूपैक्यात् तद्देदाविवक्षायां पश्चाद- .

२३२ पूर्वोत्तरमीमांसा- - पि बहुत्वसंख्याभावेन च उभयथापि 'बहु स्याम्' इति सं. कल्पायोगात्; तस्मात् उक्तरीत्या सूक्ष्मदशापन्नं सत् स्थूल- दशापनं स्याम्-इति संकल्पमकरोत् इत्येव तदर्थो वक्त- व्य इति तदनुसारेणापि विशिष्टपरत्वमङ्गीकर्तव्यम् ; ए- वं च दृष्टान्तदान्तिकयोरुभयोरपि एकविज्ञानेन सर्व- विज्ञानं मुख्यमेव लभ्यते, सर्वशब्दस्य मृण्मयशब्दानुसा. रेणेव एकशब्दानुसारेणापि संकोचौचित्यात् ; अतो बाध- काभावेन दृष्टान्तसाम्यानुरोधात् , प्रपञ्चस्य स्थूलसूक्ष्माव- स्थाद्वयेऽपि ब्रह्मविशेषणतोक्त्या तदपृथक्सिद्धत्वलाभाच्च , ब्रह्मप्रपञ्चयोरुपादानोपादेयभावे सद्विद्यागतं सर्वविज्ञानप्र- तिज्ञानं प्रमाणं भवत्येव ; तथा चिच्छक्तेः प्रपञ्चोपादान- भावे प्रमाणत्वेनाभ्युपगतानि 'सर्वाणि ह वा इमानि भूता- न्याकाशादेव समुत्पद्यन्ते' इत्यादीन्यपि ब्रह्मणः सर्वोपा- दानभावमाक्षिपन्ति इति तत्र प्रमाणभावं भजन्ते ; चि- च्छक्तेः ब्रह्मापृथक्सिद्धतया चिच्छक्त्यपृथक्सिद्धस्य प्रप- वस्यापि ब्रह्मापृथक्सिद्धिलाभात्। तस्मात् सर्वोपादा- नत्वहेतोः नासिद्धिः; नापि साध्यस्य बाधः, ब्रह्मप्रप- ञ्चयोर्भेदेऽपि- सर्व ब्रह्म- इति सामानाधिकरण्येन तस्य वृक्षत्वाद्याश्रयत्वोपपत्तेः । तद्धि 'यतो वा इमानि भूतानि .

वादनक्षत्रमाला। . . , : , जायन्ते' इत्यादिश्रुतिप्रसिद्धं तज्जत्वादिकमनुवदतीति यु- क्तम् , सारूप्येण तस्य शीघ्रं बुद्धिस्थिरीकरणात् , न तु अदृष्टद्वारकं जीवजन्यत्वादिकम् , तस्य पुरुषयत्नेन विलम्बित बुद्धिस्थिरीकर्तव्यत्वात् ; अत एव हि यतो वा' इत्या- दिकं चिच्छक्तिपरम् , तदर्थस्य ब्रह्मणि कथमन्वयः इत्याशङ्का- वारणार्थम् सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत' इत्युपक्षिप्तब्रह्मोपासनापेक्षितगुणविधानार्थे ' मनोमयः प्राण- शरीरः' इत्यादिसंदर्भ आकाशात्मा' इत्युपास्यस्य ब्रह्मणो विशेषणमुक्तम् । 'यदेष आकाश आनन्दो न स्यात्' इत्या- दिश्रुतिषु आकाशशब्दोक्तायाः चिच्छक्तेरपि अयमात्मा- चैत्रशरीरस्य चैत्र इव ; अतो यथा शरीरकृतं जन्मस्थितिलयं शरीरािणि भवति- एवं चिच्छक्तिकृतं प्रपञ्चजन्मस्थिति- लयं ब्रह्मणो भवतीति तज्जलान्' इत्येतत् युक्तमिति तद- भिप्राय: ; यत्तु जीवस्य सर्वात्मभाव: प्रसिद्धतरः इत्युक्तम् , विपरीतम् , 'इदं सर्व यदयमात्मा' 'आत्मैवेदं सर्वम्' 'सर्वो वै रुद्रः' 'पुरुष एवेदं सर्वम्' इत्यादिश्रुतिषु — रुद्रो ह्येवैतत्सर्वम्' इत्यादिस्मृतिषु च ब्रह्मण एव हि तत् प्रसिद्ध - तरम् जीवस्य तु योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' इत्यादिश्रुति- ܒ तत् . .

पूर्वोत्तरमीमांसा-
मवलम्ब्य पर्यायत: सर्वशरीरग्रहणरूपसर्वात्मभावः कल्पनीय
इति न तस्य वेदतः सुप्रसिद्धिरस्ति ; नापि लोकत: ; यद्यपि
'यद्ब्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते किं तद्ब्रह्मा-
वेद्यस्मात्तत्सर्वमभवत्' इत्यादिश्रुतिषु जीवस्यापि मुक्ती सार्वा-
ल्य प्रसिद्धतरम्, तथापि सिद्धसाध्ययोः सात्म्यियोः सि.
द्धस्यैवान ग्रहणं युक्तम् , सापेक्षनिरपेक्षन्यायात् ; तस्मात् मद-
नुमानस्य न बाधासिद्धी, त्वदनुमानं तु अप्रयोजकमिति
अनयैव भङ्गधा घटोपादानत्वादिना घटादिशब्दवाच्यत्व-
स्यापि सिद्धौ ब्रह्मणः स्वोपादेयसकलवस्तुवाचकशब्दवाच्य-
त्वसिद्धिः
,
.
इति सर्वोपादानत्वहेतुकसर्वशब्दवाच्यत्व-
समर्थनवादः ॥ १८ ॥

ऐकशास्त्र्यनिराकरणवादः॥ :साध- . श्रेयः ७ एवं सकलशब्दवा च्यत्वेन सिद्धं ब्रह्म अलौकिकश्रेयः नवप्रवृत्तिनिमित्तककर्मवाचिधर्मशब्दवाच्यमपि भवति ; सा- क्षादपि उक्तप्रवृत्तिनिमित्तसंबन्धेन तद्वाच्यं भवितुमर्हति, :साधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः' इति वेदावगम्यश्रेय:साधनता- कत्वप्रवृत्तिनिमित्तकतया अभ्युपगतस्य धर्मशब्दस्य कर्मवत् जातिगुणद्रव्याण्यपि अर्थ इति मीमांसकैरुक्तत्वात् ; तेन 'अथातो धर्मजिज्ञासा' इति सूत्रगतधर्मशब्दगृहीततया ब्रह्मणोऽपि जैमिनीयधर्मविचारप्रतिज्ञाविषयत्वमस्ति न वा- इति विचारार्थ कथान्तरं प्रस्तूयते-- तदस्तित्ववादिनां परेषामिदमनुमानम्-ब्रह्म स्वरूपप्र- माणसाधनफलैः सह जैमिनीयविचारप्रतिज्ञाविषयः, अलौ- किकश्रेयःसाधनत्वात् , कर्मवत् ; ब्रह्मणोऽपि नक्षत्रेष्टयादिषु देवतात्वेनान्वयात् जैमिनीये यागेषु देवताप्राधान्यतदभाव- विचारे. देवतासामान्यात्मना विषयत्वमस्ति, देवतानां कर्मा- धिकारानधिकारविचारे च तदात्मना विषयत्वमस्तीति सि- .

पूर्वोत्तरमीमांसा- सह-- इति द्धसाधनवारणाय स्वरूपप्रमाणसाधनफलैः विशेषणम्--- इति प्रथमा कक्ष्या । अथ द्वितीया- ब्रह्मणो जैमिनीयधर्मविचारप्रतिज्ञाविषयतायाम् अग्रेत- द्विचारेण भाव्यम् , न त्वसौ तत्र दृश्यते ; न च तमपि चिकीर्षतो महर्षेः विघ्नः कश्चित् उत्प्रेरितुं शक्यते; नापि विस्मरणम् , यो हि द्वादशलक्षण्या स्वरूपप्रमाणसाधनफलैः सह कर्मजातं निर्णीय तत्रासूत्रितान् कांश्चित्तदुपयुक्तान न्यायानालक्ष्य तत्संग्रहार्थ द्वादशलक्षणीशेषं संकर्षणकाण्ड- मकार्षीत् , तस्य महर्षेः ब्रह्मविचारे विघ्नं विस्मरणं वा कथमुत्प्रेक्षामहे ; न च कर्मविचारोपयुक्तन्यायैरेव ब्रह्मणोऽपि स्वरूपप्रमाणसाधनफलनिर्णयः सिध्यतीत्यभिप्रेत्य पृथक्त- द्विचारो न कृत इति शक्यं वक्तुम् , कर्मपरवाक्यार्थनि. णायकन्यायेभ्यो विलक्षणानामेव ब्रह्मपरवाक्यार्थनिर्णायक- न्यायानां चतुर्लक्षण्यां प्रथनदर्शनात् । न च द्वादश- लक्षणीचतुर्लक्षण्योः ऐकशास्त्र्याभ्युपगमेन ब्रह्मविचारप्र- तिज्ञानिर्वाहः कल्पयितुं शक्यः, भिन्नवक्तृकयोः धर्मब्रह्म- विचारप्रतिज्ञोपक्रमयोः परस्परविलक्षणसाध्यासाध्यार्थनि- र्णायकन्यायग्रथनप्रवृत्तयोः तयोरैकशास्यकल्पने प्रमाणा- वादनक्षत्रमाला । २३७ Mamam , , भावात् ; अतो बाधितमिदमनुमानम् इति- ब्रह्म नोक्त- साध्यवत्, कर्मान्यत्वात् घटवत्- इति ॥ अथ तृतीया कक्ष्या- न बाधितं मदनुमानम् , ऐकशास्त्र्यकल्पनेन प्रतिज्ञानि- होपपत्तेः; न च तत्कल्पकाभावः, वेदरूपैकग्रन्थव्या- ख्यात्वस्य तत्कल्पकत्वात् ; न च वक्तृभेदः तत्कल्पनाबा- धकः, वक्तृभेदेऽपि व्याकरणरूपैकप्रबन्धव्याख्यानत्वेन वा- मनजयादित्यवृत्त्योः ऐकशास्त्र्यदर्शनात् ; नापि धर्मब्रह्मवि- चारप्रतिज्ञोपक्रमौ तद्बाधकौ, धर्मशब्देन कर्मब्रह्मसाधारणेन द्वादशलक्षणीचतुर्लभणीसाधारणप्रतिज्ञायां वृत्तायां कर्मवि- चारानन्तरम् 'अथातो ब्रह्मजिज्ञासा' इत्यस्य शेषलक्षणम्' इतिवत् अवान्तरप्रतिज्ञापरत्वोपपत्तेः न च परस्परविलक्षणन्यायग्रथनं तदाधकम् , निर्णयानुसारेण न्यायवैलक्षण्योपपत्तेः; द्वादशलक्षण्यामपि कर्मभेदशेषशेषि- भावादिनिर्णेयार्थानुसारेण विलक्षणन्यायग्रथनदर्शनात् ; अतो न बाधितं मदनुमानम् , त्वदनुमानं तु अप्रयोजकम्- इति ।। अथ चतुर्थी कक्ष्या- न्यायानामिह वैलक्षण्यं भेदमात्रं न विवक्षितम् , किंतु अथातः Rasome पूर्वोत्तरमीमांसा- -- फलमत ज विरोधः; प्रसिद्धो हि विरोधः, चतुर्लक्षण्यां जैमिनिमतस्य प्राय: पूर्वपक्षीकरणदर्शनात् । न हि परस्परविरुद्धमतद्वया- वलम्बनेन द्वाभ्यां प्रवर्तितं शास्त्रद्वयं ताभ्यामैकमत्येन एक- शास्त्रतया कृतमिति कल्पयितुं शक्यम ; धर्मशब्दश्च ब्रह्म- प्रतिकोटितया यागादिकर्मपरत्वेन उपपत्तेः इत्यधिकरणे धर्म जैमिनिरत एव' इति सूत्रे प्रयुक्तः आपस्तम्बेन च महर्षिणा धर्माधौं चरत आवां स्व: इति न देवगन्धर्वा न पितर इत्याचक्षते अयं धर्मोऽयं धर्म इति यत्त्वार्या: क्रियमाणं प्रशंसन्ति स धर्मः यद्गहन्ते सो. ऽधर्मः' इति अनुष्ठेययागादावेव धर्मशब्द: प्रयुक्तः, अतस्त- दनुसारेण धर्मजिज्ञासासूत्रगतस्यापि तस्य यागाद्यनुष्ठेयपरत्वं वाच्यमिति धर्मब्रह्मजिज्ञासासूत्रयोः साधारणावान्तरप्र- तिज्ञापरत्वविभागकल्पनमपि न युक्तम् ; तस्मात् बाधितं त्वदनुमानम् , मदनुमानं च नाप्रयोजकम् , यत् येन रूपेण नानुष्ठेयम् तस्य तेन रूपेण अनुष्ठेयपरधर्मशब्दग्राह्यत्वा- योगात इति ॥ . अथ पञ्चमी- असिद्धोऽयं जैमिनीयवैयासिकमतयो: विरोधः, चतुर्लक्ष- ण्यां क्वचिदपि जैमिनीयमतस्य पूर्वपक्षीकरणाभावात् । यत्तु वादनक्षत्रमाला। . ७ पुरुषार्थाधिकरणे 'शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः' इति ब्रह्मापलापपरं पूर्वपक्षसूत्रम् , न तत् जैमिन्य- भिमतस्य पक्षस्य अनुवादकम् , किं तु मदीयस्याभ्युच्चयवा- दस्य ; अत एव परं जैमिनिमुख्यत्वात्' इत्यादिसूत्रेषु ब्र- ह्याभ्युपगमेनैव प्रवृत्तस्य पक्षस्य जैमिनीयत्वेनानुवादः ; एवं परामर्श जैमिनिरचोदना चापवदति हि' इति सूत्रं संन्या- सापलापस्य जैमिनिना अभ्युच्चयवादत्वेन उपन्यस्तस्यैवानुवा- दकम् , न तु तदीयमिद्धान्तस्य ; अत एव 'तद्भूतस्य तु ना. तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः' इति सूत्रे संन्यस्त- वत: संन्यासात् प्रच्युति: जैमिनेरपि न संमता इत्युक्तम् । एवमन्यत्रापि तत्र तत्र विरोधपरिहार उन्नेयः ; धर्मशब्दस्य अनुष्ठेयासाधारण्यमपि असिद्धम् , 'ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्म सनातनम्' इति महाभारते भगवत्साधारण्योक्तेः, अतो विरोधाभावात् कथंचित् विरोधसद्भावेऽपि ब्रह्मानभ्युपग- मादेः द्वादशलक्षण्यामसूत्रितत्वात् धर्मशब्दसाधारण्याच क- तभेदेऽपि ऐकशास्त्र्याङ्गीकारे न काचिदनुपपत्तिः ; त्वदनु- मानं तु अप्रयोजकमेव, अननुष्ठेयस्यापि धर्मशब्दगृहीतत्वेन जैमिनीयविचारप्रतिज्ञाविषयत्वोपपत्तेः इति ॥ .. - पूर्वोत्तरमीमांसा- अथ षष्ठी कक्ष्या- , यदुक्तं विरोधो नास्तीति, तदसिद्धम् , ब्रह्मसंन्यासाभ्यु. पगमानभ्युपगमाभ्यां विरोधस्याप्रत्याख्येयत्वात् , यत्तु जै- मिने: तदुभयाभ्युपगमप्रदर्शकं' सूत्रम्, तत् तदभ्युपगम एव तस्य सिद्धान्त इत्यस्य ज्ञापकमिति न अवधारयितुं श. 'विप्रतिषेधाचासमञ्जसम्' इति सांख्याधिकरणोक्त- न्यायेन जैमिनिमतस्य परस्परविरुद्धतया अनुपादेयत्वोद्धा- टनपरत्वेन अन्यथासिद्धेः; यञ्चोक्तं ब्रह्मानभ्युपगमतदभ्युप. गमैकान्त्यादिषु जैमिनिबादरायणयोः विरोधसद्भावेऽपि ब्र- ह्यानभ्युपगमादेः द्वादशलक्षण्याम असूत्रितत्वात् अविरुद्धा- यास्तस्याः चतुर्लक्षण्या सह ऐकशास्त्र्यमुपपद्यत इति, तद्- प्ययुक्तम् , अविरुद्धार्थत्वासिद्धः; तथा हि- 'तस्य निमि- त्तपरीष्टिः' इति धर्मप्रमाणनिरूपणं प्रतिज्ञाय प्रथमाध्या- येन यत् तत्र प्रमाणनिरूपणं कृतम्, तत्तावद्विरुद्धम् ; तत्र हि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद- नित्यमुच्यते' इति सूत्रेण- आम्नायस्य कृत्स्नस्थापि प्रयोजनपर्यवसानाय क्रियार्थत्वावश्यंभावात् अतदर्थानाम् 'वायव्यं श्वेतमालभेत भूतिकामः' इत्यादिक्रियावाक्या- नपेक्षिततया क्रियार्थत्वरहितानाम् आनर्थक्यं निष्प्रयोजन- A वादनक्षत्रमाला। s . त्वम् , तस्मात् अक्रियार्थवाक्यजातमप्रमाणमुच्यते-इत्ये- तदर्थकेन वेदेष्वर्थवादानामप्रामाण्यमाशङ्कय, विधिना त्वे- कवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः' इति सूत्रेण- सिद्धार्थवादानां विधिवाक्येन एकवाक्यत्वात् विधीनां स्तुतिरूपेणार्थेन सप्रयोजना: स्यु:-- इत्येतदर्थकेन तेषां विध्येकवाक्यतया प्रामाण्यमुपपादितमर्थवादाधिकरणे; औ- दुम्बराधिकरणेऽपि- ' उक्तं तु वाक्यशेषत्वम् ' इति अर्थ- वादाधिकरणोक्तार्थस्मारणेन तहृढीकृतम् ; धर्मविचारप्रति- ज्ञाया ब्रह्मविचारसाधारण्ये हि तस्य निमित्तपरीष्टिः इति धर्मप्रमाणनिरूपणप्रतिज्ञापि ब्रह्मप्रमाणनिरूपणसाधार- णी स्यात्; तथा सति अक्रियार्थानामानर्थक्यशङ्कायां केषां- चिदक्रियार्थानां फलसाधनयागादिविधिशेषत्वेन केषांचित स्वत:फलभूतब्रह्मप्रतिपादकत्वेन च प्रामाण्यमुपपद्यत इति विभज्य परिहरणीयम् ; एवमन्यत्रापि प्रमाणाध्याया मार्थविरोधो- ऽनुसंधेयः ; तथा ' विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपा- ख्यत्वात्' इत्याष्टमिकाधिकरणे ऐन्द्रपुरोडाशेषु हवि:सामा- न्यात् आग्नेयविध्यन्तः, न तु देवतासामान्यात् ऐन्द्रविध्यन्त इति निर्णयार्थ प्रवृत्ते-देवताया: शब्देन उद्देश्यमात्ररूप- त्वेन गुणत्वात् इति युक्ति: जैमिन्यभिमता ; तदपि मतं वैया- .. : * V. 16 पूर्वोत्तरमीमांसा- , . सिकमतविरुद्धम् .... वैयासिकतन्त्र देवताधिकरणे देवतानां यागदेशे संनिधानस्य हविर्भोक्तृत्वेन प्राधान्यस्य च सम- र्थितत्वात् ; तथा 'चोदना पुनरारम्भः' इति द्वैतीयीकाधि- करणे कर्मणामपूर्वद्वारा फलसाधनत्वं जैमिनिना समर्थित- म् , तदपि ‘फलमत उपपत्तेः' इति वैयासिकाधिकरणेन विरुद्धम् । तत्र कर्मोपासनप्रसादितस्य परमेश्वरस्य फलप्रद- त्वसमर्थनात्; तस्मात् शाखयोरेव विरोधोऽस्ति; ब्रह्मासं- न्यासापलापप्रयुक्तोऽपि तयोरस्ति विरोधः ; तथा हि-तत्त्व- मसि' इत्यादिब्रह्मविषयाणि वाक्यानि जीवं ब्रह्म बोधयन्ती. तिविधिना त्वेकवाक्यत्वात् इति अक्रियार्थानां वि- विशेषत्वोक्त्या तेषामुपासनाविधिशेषत्वमुक्तं भवति । तदुपा- सनाश्च तूपयुक्तकर्तृरूपद्रव्यसंस्कारत्वात् प्रोक्षणादिन्यायेन ऋतुशेषतां भजन्ते ; कर्तृमात्रस्य लौकिकक्रियासाधारण्येऽपि देहात्मभावेनापि लौकिकक्रियोपपत्तेः 'आत्मानमुपासीत' इत्यादिषु अनारभ्याधीतेषु वेदान्तेषु उपासनासंस्कार्यत्वेना- नूदितस्य आत्मनः स्वर्गादिभोक्तृयागादिविध्याक्षिप्तदेहाति- रिक्तात्मरूपत्वेन अव्यभिचरितक्रतुसंबन्धितया तहारा वा- क्यप्रमाणेन ‘यदेव विद्यया करोति' इति श्रुतिप्रमाणेन च तासां क्रतुसंबन्धोपपत्तेः । न च अपहतपाप्मत्वादिजीवासं- - वादनक्षत्रमाला । , भावितगुणाम्नानेन ब्रह्मणो जीवादधिकत्वसिद्धेः तदुपा- सनानां न ऋतुशेषत्वप्रसक्तिरिति वाच्यम् , अक्रियार्थानां विधिशेषत्वनियमस्य जैमिन्यभिमतस्य समन्वयाधिकरणेन भङ्गं कृत्वा वेदान्तानां स्वातन्त्र्येण उपक्रमादितात्पर्यलिङ्गेन च ब्रह्म तद्गुणेषु प्रामाण्ये व्यवस्थापिते खलु अपह्तपाप्मत्वादि- गुणैः जीवाधिकं ब्रह्म सिध्येत् , जैमिनिदृष्टया तेषां विधिशे- षत्वे तथाभूतगुणवर्णनस्य जीव एव स्तुत्यर्थत्वेनान्वयं को वा- रयेत् ; दृश्यते हि क्रत्वन्वयितत्तद्वस्त्वसंभावितगुणवर्णनं तत्त- मन्त्रार्थवादेषु-यथा 'दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिसी: पृथिव्या संभव' 'यां ते धूमो गच्छतु अन्त- रिक्षमर्चि: पृथिवीं भस्मना पृणस्व स्वाहा 'अपहतपाप्मा- नो वा ऋतवः 'आपो वा इद- सर्वम्' इत्यादिषु ; एवं ब्रह्मापलापे सति तत्प्राप्युपाय: संन्यासोऽपि अपलपितो भवति ; अत एव कर्मानधिकारिणामन्धपङ्ग्वादीनां कथंचित् गत्युपन्यास: संन्यास इति मीमांसकप्रवादः ; तस्मात् शास्त्र- योर्विरोधो नास्तीति अयुक्तम् ; धर्मशब्दस्य ब्रह्मसाधारण्य- वचनमपि अयुक्तम् , ' ते वदन्ति महात्मानं कृष्णं धर्म स. नातनम्' इति भारतवचनस्य धर्मो विग्रहवात्रामः' इति- वत् स्तुत्यर्थत्वेनापि उपपत्तेः ; तस्मात् मदनुमानं न बाधि- १ , , .

२४४ पूर्वोत्तरमीमांसा- तम् , त्वदनुमानं तु अप्रयोजकमिति ।। अथ सप्तमी- सान , , १ . ७ न तावत् बाधितं मदनुमानम् , पूर्वतन्त्रे प्रामाण्यप्रति- ज्ञाया अक्रियार्थानामानर्थक्येनाप्रामाण्यशङ्कायाश्च ब्रह्मपर- वाक्यसाधारण्येऽपि, क्रियाविशेषार्थवादेषु विधिशेषत्वेन सार्थकतया प्रामाण्यप्रकारमुक्त्वा, ब्रह्मपरवाक्येषु स्वत: पुरुषार्थब्रह्मविषयतया क्रियाविधिशेषत्वमनपेक्ष्य स्वत एव प्रामाण्यमिति तत्प्रामाण्यप्रकारमनुद्धाट्य, तद्विषये गूढाभि- संधिरासीत जैमिनिरिति प्रथमाध्यायोद्घाटितविरोधपरिहा- रसंभवात् ; 'विप्रतिपत्तौ हविषा नियम्येत' इत्याष्टमिका- धिकरणसिद्धान्ते देवताया गुणत्वं न युक्तिः, द्रव्यस्यापि गुणत्वाविशेषात् ; किं तु 'कर्मणस्तदुपाख्यत्वात्' इति सूत्रशेषोक्ता- हविस्त्यागरूपस्य यागकर्मणो हविःषु उप- लभ्यमानत्वात् हविःसामान्यं बलीय:, हविर्हि त्यज्यमान- मुपलभ्यते, न देवतेति एषैव मूलयुक्तिः- इत्याष्टमिकाधिक- रणविरोधपरिहारलाभात् ; 'चोदना पुनरारम्भः' इत्यधि- करणे कर्मणां द्वारसद्भावमात्रमुक्तम् , न त्वीश्वरप्रसादप्र. त्याख्यानेन अपूर्वमेव द्वारमिति समर्थितमिति तद्विरोधप- रिहारलाभात् ; 'विधिना त्वेकवाक्यत्वात्' इत्यत्र वायुक्षे- . - - वादनक्षत्रमाला । . पिष्ठादिवाक्यानामेव विधिशेषत्वेन प्रामाण्यमुक्तम् , न ब्रह्म- परवाक्यानामिति, अत एव ब्रह्मापलापादिशङ्कापरिहार- लाभात् भारतवचनानुसारेण धर्मशब्दस्य अलौकिक श्रेयः- साधनमात्रवाचितया ब्रह्ममाधारण्यसंभवे तत्प्रवृत्तिनिमित्ते विहितत्वानुष्ठेयत्वादिविशेषणानुप्रवेशेन ब्राव्यावृत्तशक्तिक- ल्पनस्य गौरवपराहततया भारतवचनस्य स्तुत्यर्थत्वकल्पना- नुपपत्तेः । तस्मात न बाधितं मदनुमानम् , त्वदनुमानं तु अप्रयोजकमेवेति ॥ अथाष्टमी कक्ष्या- प्रथमाध्यायार्थविरोधसमाधानं तावत् अयुक्तम् , सामान्य- प्रतिज्ञानाप्रामाण्यशङ्कयो: साधारण्ये, केषुचिदक्रियार्थेषु अप्रा- माण्यशङ्का परिहत्य केषुचित् गूढाभिसंधिरासीत् इति कल्प- नस्यापहास्यत्वात् ; यः खलु विध्यर्थवादमन्त्रनामधेयात्मक- वेदस्य धर्मप्रामाण्यं सप्रकारमुपपाद्य स्मृत्याचारयोरपि तत्र संभवत् प्रामाण्यमुपपादयामास, स कथं जैमिनि: ब्रह्मप्रमा- णविचारलाधारण्येन धर्मप्रमाणविचारं प्रतिज्ञाय ब्रह्मपरवेदा- न्तभागरूपार्थवादसाधारण्येन आनर्थक्यादप्रामाण्यशङ्कामु- ड्राव्य क्रियाशेषार्थवादमात्रे परिहारमाह, न तु ब्रह्मविषयवे- दान्तरूपार्थवादेषु- इति कथमिदमसारमुत्प्रेक्षणं न्यायविद, पूर्वोत्तरमीमांसा- . ७ श्रद्दधीरन् ; किंच धर्मविचारप्रतिज्ञायास्तत्प्रमाणविचारप्रतिज्ञा- याश्च कर्मब्रह्मतदुपासनादिसाधारण्ये अन्यानर्थक्यात्' इति अर्थवादाधिकरणपूर्वपक्षसूत्रस्य पूर्णाहुत्या सर्वान्कामानवाप्नो- ति' इत्यादिकर्मविधिफलार्थवादवत् उपासनाविधिफलार्थवा- दा अपि विषया भवेयुः, तुल्यं हि तेष्वपि अन्यानर्थक्य- चोद्यम्-यदि 'सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् य- स्तमात्मानमनुविद्य विजानाति' इति प्रजापतिविद्याफलार्थ- वादोऽपि विवक्षितार्थः स्यात् , तर्हि 'सोऽश्नुते सर्वान्का- मान्' इति केवलं सर्वकामावाप्त्यर्थत्वेन श्रुतानन्दमयब्रह्मो- पासना, 'तेषां सर्वेषु लोकेषु कामचारो भवति' इति केवलं सर्वलोकावाप्त्यर्थत्वेन श्रुता दहरोपासना च व्यर्था स्यात् ; यदि उक्तोपासनाभिः सर्वलोककामावाप्तिसहिता मुक्तिः, तर्हि वसुरुद्रादित्यमरुत्साध्यतत्तुल्यभोगमात्रप्राप्तिसहितमुक्ति फला मधुविद्या गार्हपत्यादिलोकत्रयप्राप्तिपूर्वकमुक्तिफलोप- कोसलविद्या लोकविशेषप्राप्तितत्रत्यभोगरहित केवलमुक्तिफला- क्षरादिविद्या च अनर्थका स्यात् ; यदि सकलविषयभोगवि- रक्तं ब्रह्मानन्दैकप्रेप्सुमुपासनाधिकारिणं प्रति लोकविशेषप्रा- प्तिः तत्रत्यभोगश्च न फलम , किंतु स्वेप्सितफलप्राप्तौ अन्त- रायमात्रमिति इष्यते, तदा निरन्तरायाविलम्बितेप्सितफल- , वादनक्षत्रमाला। .. प्रापकत्वेन अक्षरादिविद्याः श्रुता इति अतथाभूता मधुवि- द्यादयोऽनर्थिकाः स्युः; यदि अनियतकालारम्भत्वेन यावज्जी. विकत्वेन च अनियतकालपरिमाणा: न्यूनाधिकगुणाः न्यू- नाधिकवर्णाश्रमधर्मानुगृहीताश्च सर्वा अपि ब्रह्मविद्या अवि- शिष्टमुक्तिफला:, तदा गुणत: कर्मत: कालतो वा अधिका अनर्थिकाः स्युः; यदि 'निरजनः परमं साम्यमुपैति' इत्यादयो विद्याफलार्थवादा विवक्षितार्थाः स्युः, तदा मुक्तेरपि वैधफलत्वप्राप्तौ 'सर्वेभ्य: कामेभ्यो दर्शपूर्णमासौ' 'सर्वे- भ्यः कामेभ्यो ज्योतिष्टोमः' इति सार्वकाम्यवाक्ययोः त- संग्राहकत्वमपि स्यादिति सकृत्प्रयुक्ताभ्यां दर्शपूर्णमासाभ्यां सकृत्प्रयुक्तेन ज्योतिष्टोमेन वा मुक्तिसिद्धेः सकलवर्णाश्रम- साहित्येन यावज्जीवमनुष्ठेया: सर्वा अपि ब्रह्मोपासना: अनर्थि- का: स्यु:- इत्येवम् अन्यानर्थक्य सूत्रस्य सर्वविषयत्वे च स- र्वसाधारणेन परिहारेण सूनितेन भवितव्यम् ; कर्मविध्यर्थवा- दमात्रविषयत्वमेव च परिहारसूत्राणां दृश्यते ' सर्वत्वमाधिका- रिकम् ' ' फलस्य कर्मनिष्पत्तेः तेषां लोकवत् परिमाणत: फल- विशेष: स्यात्' इति ; तत्र आद्यसूत्रेण 'विद्या प्रशंसा' इति पूर्वसूत्रत: प्रशंसापदानुवृत्तियुक्तेन पूर्णाहुतिवाक्ये यत् कामस- त्वम् , तत् प्रशंसामात्रम् , न तु साक्षात्फलम् , अग्निसंस्कारस्य .. ..

पूर्वोत्तरमीमांसा- , . च पूर्णाहुतेः फलानपेक्षत्वात् , प्रशंसार्थमुपादीयमानकामसर्व- त्वम् आधिकारिकम् , पूर्णाहुत्यनन्तरमग्निसिद्धौ सत्यामेव हि नानाफलेषु कर्मसु अधिक्रियते पुरुषः । तेषां फलानां सिद्धिः पूर्णाहुत्यधीनेति तत् फलसर्वत्वं पूर्णाहुतिफल- त्वेन प्रशंसार्थमुपादीयते ; न च अग्निसाध्यकर्मफलग्रहणेन सर्वकामावापिसाधनतया पूर्णाहुतिः प्रशंसितुं न शक्यते, आकाशगाम्यमरकन्यालाभादे: अग्निसाध्य कर्मफलत्वाभावा- दिति शङ्कथम् , यत: पूर्णाहुतिवाक्ये सर्वत्वमधिकारापेक्षम् यावत्फलजातं कर्मविधिवाक्येष्वधिकृतम् , तावत्येव संकुचितवृत्ति, सर्वोदनोऽनेन भुक्त:---- इत्यादौ प्रकरणादिना संकोचदर्शनात् इत्ययमर्थ उच्यते ; न च इत्थं प्रशंसार्थत्वम् सोऽश्नुते सर्वान्कामान्' इत्यादिषु रात्रिसत्रार्थवादवत् फलसमर्पकेषु अङ्गीकर्तुं शक्यम् ; द्वितीयसूत्रेण अग्निहोत्रतः स्वर्गसिद्धेः इष्टिसोमाद्यानर्थक्यम्- इत्यादिशङ्कापरिहाराय कृषिन्यायेन कर्मभूयस्त्वात् फलभूयस्त्वमुच्यते ; तत्र शङ्का तावत् उपासनाभागेऽपि समाना ; तत्परिहार: सिद्धान्तभागे न दृश्यते ; न हि तत्र कर्मभूयस्त्वात् फलभूयस्त्वन्याय: प्रव- तते ; ' तथा फलाभावात्' इति सूत्रोक्तम् उच्यमानफला- भावरूपमप्रामाण्यकारणम् ' शोभतेऽस्य मुखं य एवं वेद' n .

वादनक्षत्रमाला। इत्यादिकर्मकाण्डगतफलार्थवादस्य 'चक्षुष्यः श्रुतो भवति' इत्यादिब्रह्मकाण्डगतफलार्थवादस्य च साधारणम् , कर्मका- ण्डगतार्थवाद एव परिहारसूत्रं दृश्यते ; 'विद्या प्रशंसा' इति विदुषो मुखमेवं गर्गत्रिरात्रब्राह्मणार्थवेदनेनैव शोभते, न वनितामुखवल्लावण्येन इति विद्या प्रशस्यत इति ; नायं परि. हार: 'चक्षुष्यः श्रुतो भवति' इत्यत्र प्रवर्तते, चक्षुष्यत्व- श्रुतत्वयोः ज्योतिर्विद्याफलत्वाभ्युपगमात् ; एवम् अन्यान- र्थक्यादिसूत्राणामवर्जनीये तत्तदुपासनाविधिफलार्थवादसा- धारण्ये तत्तत्सिद्धान्तसूत्राणां कर्मविधिफलार्थवादविषया- णामेव प्रथनेऽपि, जैमिनेः क्वचित् परिहारोद्धाटनं कचि- दभिसंधिनिगृहनम् इत्येवं गत्याश्रयणं कस्य नापहास्यम्; तस्मात् आत्मोपासनानां ऋतुशेषत्वात् अपापश्लोकश्रवणा- दिवत् तत्फलार्थवादा अविवक्षितार्थाः इत्यभिप्रेत्य अन्यान- र्थक्यशङ्का तत्परिहारश्च तेषु न प्रवर्तिताः ; अत एव वेदो- षरा वेदान्ता इति विचारणीयाभावात् असारत्वाभिप्रायो जैमिनीयानां प्रवाद इति प्रथमाध्यायार्थविरोधसमाधानं तावदयुक्तमेव ; तथैव आष्टमिकाधिकरणविरोधसमाधान- मपि ; तत्र हि- हविषो दृश्यमानत्वेऽपि यागस्य देवता- राधनरूपत्वात् देवतैव प्रसन्ना फलदात्री प्रधानभूता ; अत:

पर्वोत्तरमीमांसा- •. .. तत्सामान्यं हवि:सामान्यात् बलीय इति शङ्कानि- राकरणाथै सूत्रम् ---- 'गुणत्वेन देवताश्रुतिः' इति ; न चैतदभ्युचयपरत्वेन योजयितुं शक्यम् , नवमाध्याये जै. मिनिना 'देवता देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थ- त्वात्' इति सूत्रेण यथा अतिथिपूजात्मकमातिथ्यम् अतिथिप्रीत्यर्थ सत् अतिथिप्रधानम्--- एवं देवपूजा- त्मकं यजनमपि देवताप्रीत्यर्थ सदेव देवताप्रधानम्, सैव च प्रीता देवता फलदात्रीति पूर्वपक्षं कृत्वा · अपि वा शब्दपूर्व- त्वात् यज्ञकर्म प्रधानं स्यात् गुणत्वेन देवताश्रुतिः' इति सूत्रेण न देवताप्रधानं यजनम् । तदेव अपूर्वद्वारा फलजन. कम् । न तु हविषा प्रीता देवता; तस्यास्तु द्रव्योदेश्यतया यागोपसर्जनत्वेनैव श्रुतिरिति सिद्धान्तमभिधाय, 'अतिथी तत्प्रधानत्वमभावः कर्मणि स्यात् तस्य प्रीतिप्रधानत्वात् ' इति सूत्रेण आतिथ्यवैषम्यं यजने दर्शितम्-- आतिथ्यम् अतिथिप्रीतिविधानम्-यथा अतिथि: प्रीयते तथा कर्तव्य तया विहितमिति तदतिथिप्रधानं युज्यते, कर्मणि तु नामित प्रीति- विधानम्-यथा देवता प्रीयते तथा कर्म कर्तव्यमिति ; अतो न देवताप्रधानं यजनमिति कण्ठत एव देवताप्राधान्यस्य नि राकृतत्वात् ; एतेन चोदना पुनरारम्भः' इत्यधिकरणवि- वादनक्षत्रमाला। - , रोधसमाधानमपि निरस्तम् , जैमिनिना देवताप्राधान्ये स्पष्टं निराकृते 'चोदना पुनरारम्भः' इत्यधिकरणे व्याख्यातृभिः व्यवहृतमपूर्वमेव द्वारं जैमिनेरपि अभिमतम् इति अवधा- रणात् ; ब्रह्मतत्प्राप्त्यर्थसंन्यासापलापविरोधसमाधानमपि अ- युक्तम् , ब्रह्मविषयवाक्यानां कर्तृसंस्काररूपकर्माङ्गोपासना- विषयजीवात्मस्वरूपसमर्षकत्वमभ्युपगच्छतः जैमिने: मते ब्रह्मणि प्रमाणाभावेनैव तयापलापसिद्धेरनिवार्यत्वात् , अत एव अर्थवादाधिकरणे वार्तिककारैः वायु क्षेपिष्ठा' इत्यार्थिवादानां विधिशेषत्वसमर्थनानन्तरमुक्तम--एतेन उप- निजदामपि नैराकार्ष व्याख्यातमिति; यत्तु वार्तिककारैः व्याकरणाधिकरणे परमात्मोपासनाविधितत्फलवचनान्युदा- हृत्य तासां स्वातन्त्र्येण अभ्युदयनि:श्रेयससाधनस्वमुस्तम , तत् सर्वधा ब्रह्मापलापभीरूणां तेषामेव मनीषिकया प्रवृ- त्तम् , न तु सूत्रकाराभिमततया, जैमिनीयवैयासिकसूत्राणां स्फुटविरोधस्य दर्शितत्वात ; यत्तु प्रवृत्तिनिमित्तगौरवपरिहा- रार्थ धर्मशब्दस्य ब्रह्मसाधारण्यावश्यंभावात् भारतवचनस्य स्तुत्यर्थत्वं न कल्प्यत इति ; तत्रेदमुत्तरम् ---- अद्धा तस्य स्तु- त्यर्थत्वं न कल्प्यम् , किंतु कृष्णस्तुतिप्रकरणादेव सिद्धम् ; तत धर्मशब्दस्य अलौकिकश्रेयःसाधनमात्रवाचितायां न निर्व- २५२ पूर्वोत्तरमीमांसा- : हति । तदा हि अनुष्ठातृत्वेन अलौकिकश्रेयःसाधनानां जीवा- स्मनां निमित्तत्वेन तथाभूतानामन्येषां च बहूनां धर्मशब्दः साधारण इति तद्वाच्यत्वोक्त्या भगवत: का स्तुतिलभ्यते; त- स्मादुदाहृतभारतवचनस्वारस्वप्रसिद्धधर्थमेव धर्मशब्दस्य या- गादिकर्ममात्रवाचिस्वभङ्गीकर्नव्यम्-धर्मसंस्थापनार्थमवती- गों भगवान् साक्षात् स्वयमेव धर्मः इत्युक्त्या स्तुतो भवति ; अस्तु वा यथाकथंचित् धर्मशब्दम्य ब्रह्मण्यपि वृत्तिः, तथापि धर्मजिज्ञासासूत्रोक्तः धर्मशब्दः ‘धर्म जैमिनिरत एव' इति सूत्रगत इव ब्रह्मव्यावृत्त एव ग्राह्यः, 'चोदना- लक्षणोऽर्थों धर्मः' इति विचार्यत्वेन प्रतिज्ञातस्य धर्मस्य चोदनालक्षणत्वोक्तेः; 'चुदप्रेरणे' इति धातो: निष्पन्नो हि चोदनाशब्दः प्रवर्तकवचनमाचष्टे; तस्मात् चोदना धर्मे साक्षात् प्रमाणम् ; तत्तच्चोदनासंनिध्याम्नातानि सिद्धार्थबो- धकानि वचनानि स्तुत्यादिद्वारा तत्तचोदनैकवाक्यतया तत्र प्रमाणानि ; प्रधानविध्येकवाक्येष्वेव रात्रिसत्राद्यर्थवादेषु श्रू- यमाणं फलं विध्यपेक्षितत्वात् विवक्षितम् ; कर्तृसंस्कारत्वेन कर्माङ्गेषु आत्मोपासनेषु श्रूयमाणं तु फलं विध्यनपेक्षित- त्वात् न विवक्षितमित्यभिप्रायेणैव न तेषु जैमिनिना अन्यानर्थक्यादिदोषपरिहाराश्चिन्तिताः; भगवान् बादरा- वादनक्षत्रमाला। २५३ ७ यणस्तु क्षयिष्णुसातिशयाभ्युदयफलं यागादिरूपं धर्ममेव स- कलवेदाथै मन्वान: जैमिनि: उपक्रमाद्यवगमितमहातात्पर्य- सकलवेदान्तप्रमाणकं ब्रह्म नित्यनिरतिशयपुरुषार्थरूपमुक्ति- फलानि तदुपासनानि कर्मणां तत्साधनसहकारिभावं च नाज्ञासीत्- इत्येतदालोच्य जैमिनीयपालोचनेन लोको मा मोमुहत् इति लोकानुग्रहाय 'अथातो ब्रह्मजिज्ञासा' इत्यादिशास्त्रं प्रणिनाय-- इति अस्त्येव जैमिनीयबादराय. णीययोः शास्त्रयोः महान्विरोधः; अत: तयोरैकशास्त्र्यासं- भवात् बाधितं त्वदनुमानम् , मदनुमानं तु नाप्रयोजकम् , क्षयिष्णुसातिशयफलं यागादिकमेव विचार्यत्वेन प्रतिज्ञातवतः तन्त्रे तदन्यख्य विचार्यत्वायोगात्; न च कर्मान्यत्वेऽपि यूपा- हवनीयगोदोहनादीनां स्वरूपप्रमाणादिभिर्विचारो दृष्ट इति तद्वत् ब्रह्मणोऽपि देवतात्वेन यागाद्यन्वयसद्भावात् हेत्वसिद्धिः, देवतायाः त्यज्यमानद्रव्योद्देश्यत्वेऽपि तद्वाचकशब्दस्यैव उच्चा- रणार्थकृतिरूपानुष्ठानविषयत्वेन तथा: तद्विषयत्वाभावात् ; एतेन जैमिनीये विचार्यपरस्य धर्मशब्दस्य कर्मपरत्वेन सा. क्षात् ब्रह्मास्पर्शित्वेऽपि उपासनरूपकर्मपरत्वस्याप्रत्याख्येय- तया तद्विषयफलरूपब्रह्मस्पर्शित्वमवर्जनीयमिति प्रतिज्ञा. साधारण्यात् यथा कथंचित् विरोधमवधूय ऐकशास्त्र्यं पूर्वोत्तरमीमांसा. अयं कठ- .. - समर्थनीयमित्यपि शङ्का निरस्ता, धर्मशब्दस्य उत्तरसूत्रजा- तपर्यालोचनया क्षयिष्णुसातिशयाभ्युदयफलकर्ममात्रपरत्वस्य उक्तत्वात् । अस्ति हि धर्मशब्दस्य तथाभूतकर्ममात्रेऽपि वैदिक: प्रयोग:-- अन्यत्र धर्मादन्यत्राधर्मादन्यतास्मात्कृताकृतात् । अन्यत्र भूताञ्च भव्याञ्च यत्तत्पश्यसि तद्वद' इति; बल्लीमन्त्रः क्षयिष्णुसातिशयफलसाधनकर्मतत्साध्यफलतत्सा- धककर्तृविलक्षणसाधनसाध्यसाधकत्रयपर इति मतदयेऽपि समानम् ; 'त्रयाणामेव चैवमुपन्यास: प्रश्नश्च' इति सूत्रे परैः उक्तत्रयलाभार्थम् इत्थमयं मन्त्रो व्याख्यातः धर्मोऽ- भ्युदयफलकयागादिः, ततोऽन्यत्र तद्विलक्षणं साधनम् , अ- धर्मो धर्मादितर: तत्साध्यः स्वर्गादिरभ्युदयः, ततोऽन्यत्र त- द्विलक्षणं साध्यम् अस्मात् , बुद्धिसंनिहितात् यागादिसाध- कात् सांसारिकफलप्रवणात् पुरुषादन्यत्र तद्विलक्षणं साधकं इति यत्तत् साधनादित्रयं पश्यसि, कृताकृतात् भूताच्च भव्याचेति धर्मादीनां त्रयाणामपि विशेषणम् , कृताकृतम् प्रा- रब्धापरिसमाप्तं यत्प्रकारमुच्यते, तेन भूतभविष्यद्वर्तमाना- स्मकात प्रसिद्धसाधनादेः विलक्षणं साधनादित्रयं बद इत्युक्तं भवति; यद्वा अन्यत्र धर्मादन्यसाधर्मात्- इति प्र- सिद्धपुण्यपापयोरसाधनप्रश्नः, अन्यत्रास्मात् कृताकृतात् . . .

वादनक्षत्रमाला। भूताच्च भव्याञ्चेति भूतभविष्यद्वर्तमानात्मकानित्यसाध्येतरनि- त्यसाध्यप्रश्न:, साधकप्रश्नस्य तु साध्यप्रश्न एवान्तर्भाव:, साधकस्यापि नित्यत्वात् ; साध्यकोटित्वाञ्चेति । तत्र अधर्म- शब्दस्य पापे प्रसिद्धस्य धर्मफलस्वर्गादिफलत्वेन, अस्मात् इत्यस्य कृताकृतविशेषणभावेन प्रतीयमानस्य विभिद्य स्वयमेव साधकत्वेन, कृताकृतादित्यस्य अस्मात् इत्येतद्विशेष्यभावेन प्रतीयमानस्य धर्मादिसर्वविशेषणत्वेन, भूताच्च भव्याच्च इत्य- नयोः पृथक् अन्यत्र-शब्दयोगात् स्वातन्त्र्येण प्रतीयमा. नयो; धर्मादिसर्व विशेषणत्वेन च योजना क्लिष्टेति प्रथमप्रकारे दोषः; द्वितीयप्रकारे साधकप्रश्नालाभो दोषः, नित्यत्वेन कोटित्वेन च द्वितीयप्रश्नसंग्रहीतत्वाभ्युपगमे यागादिफलसाध- कविलक्षणसाधकालाभ: यागादिफलसाधकस्यापि नित्यत्वेन भूतभविष्यद्वर्तमानान्यत्वरूपसंग्राहकक्रोडीकृतत्वात् , अपह- तपाप्मत्वाद्याविर्भावविशिष्टत्वेन मुक्तस्येव स्वर्गादिविशिष्टत्वेन प्राप्यत्वाञ्च ; तस्मात् अनुपपन्ना परकीया योजनेति, तामुपेक्ष्य अस्माभिः अन्या ऋज्वी योजना दर्शिता, प्रथमपादेन यत् बलवदनिष्टाननुबन्धिक्षयिष्णुसातिशयफलम् , यञ्च तदनु- बन्धि तथाभूतफलम् , तदुभयविलक्षणं साधनमुपन्यस्तम् , द्वितीयपादेन 'प्लवा होतेऽहढा यज्ञरूपा अष्टादशोक्तमवरं प्राप्य. , ७ पूर्वोत्तरमीमांसा- येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुन- रेवापियन्ति'-- इत्यादिमत्रान्तरनिन्दितयागादिसाधकविल- क्षण: साधक उपन्यरतः। तत्र कृताकृतात् इत्यस्य कृतमय- कृतम् अकृतप्रायं यस्य तस्मादिति व्याख्या, तृतीयपादेन स्वर्गादिसाध्यविलक्षणं साध्यमुपन्यस्तम् , तत्र चकाराभ्यां भूतभव्यान्वताभ्या भूतभव्योभयाकारस्य वर्तमानस्य सं. ग्रहः, एवम्--- अन्यत्रधर्ममनुना प्रथितेतरेषु प्रश्नत्रये करणसाधकतत्फलेषु । पादत्रयेण सुवचे क्रमशो निबद्ध क्लिश्नन्ति तं किमिति तत्परयोजनार्थम् ।। इति मतद्वयेऽपि तत्र धर्मशब्द: क्षयिष्णुसातिशयफल- कर्ममात्रपर इति निर्विवादम् ; किंच तथा विधप्रयोगदर्श- नेऽपि अग्रिमव्यवहारानुसारेण तावन्मानपरत्वं जैमिनी- यप्रयोगस्य तावानव धर्मो नान्योऽस्तीति भ्रान्तिकृता कल्पयितुं शक्यम् ; दृष्टं हि 'अथातो धर्म व्याख्या- स्यामः' इति कणादसूत्रे विचार्यपरस्य धर्मशब्दस्य अ- ग्रिमसूत्रानुसारेण किंचिद्धर्मपरत्वम् ; अग्रे हि यागाद्यनुष्ठान- प्रकारो न चिन्तितः, किंतु षष्ठाध्याये प्रथमाह्निके दानप्र. -- वादनक्षत्रमाला । .. तिग्रहधर्मश्चिन्तितः, द्वितीयाह्निकेन चातुराश्रम्यधर्म: किया- नपि चिन्तितः संग्रहतः; तस्मात् युक्तं धर्मविचारप्रतिज्ञान- स्य न ब्रह्मविचारसाधारण्यमिति सिद्धम् । अत्रायं मत- द्वयसंक्षेप:- जातिद्रव्यगुणान्वयि धर्मत्वं ब्रह्मणोऽपि समवेतम् । तदुपासनक्रियाया नि:संदेहं च धर्मत्वम् ॥ १ ॥ तत्साक्षाद्गोचरयेद्धर्मविचारप्रतिज्ञानम् । स्वर्गादिवद्विचार्यः क्रियाफलत्वेन वा ब्रह्म ।। २ ।। इत्यैकशास्त्र्यमुभयोर्मीमांसाशास्त्रयोर्यदास्थिषत । तत्राशामपनेतुं तेषां प्रतिबोधनं क्रियते ॥ ३ ॥ भवदभिमतरूपं ब्रह्म तत्तद्वचो हि स्पृशति यदि विचार्य पूर्वतन्त्रप्रतिज्ञा । किमिति न भवितव्यं तद्विचारैस्तदास्तां ननु परिहरणीयं सर्वधा तद्विरुद्धम् ।। ४ ।। लक्षसूत्रगतचोदनापदं प्रेरक विधिपदं हि नोज्झति । अक्रियार्थवचसामनर्थतामर्थवादनयपूर्वपक्षताम् ॥ ५ ॥ अर्थवादवचसामनर्थता पर्यहारि विधिशेषभावतः । तत्किमागमवचांसि न स्पृशेच्चोदनं तव समं हि तेष्वपि ।। न स्पृशेद्यदि ततो हि जैमिनि: स स्वयंफलपराणि सूत्रयेत् । *V. 17

२५८
पूर्वोत्तरमीमांसा-
..
अत्र गूढमभिसंधिमल्पधीरस्य कल्पयति केन हेतुना ।। ७ ॥
इत्थं गूढाभिसंधिः कियति तु विषये कल्पनीयो महर्षे-
रन्यानर्थक्ययुक्त्याद्यपि हि विफलतोक्त्यादिसाधारणं ते ।
कृत्स्नं धर्मप्रमाणं कलयितुमनसं लक्षणे तन्यमाने
स्मृत्याचारादि तद्वत्स्मृतिपथमगमत्किनु वेदान्तभागः ।।
अत्र निर्भरमशक्यसंवरे प्रस्फुटे प्रणव एव विस्वरे ।
श्रद्दधीत क इवेह तावकीमैकमत्यकृतिकत्थनां तयोः ॥ ९ ॥
अष्टम च नवमे च देवतामध्वरेषु गुणमाह जैमिनिः ।
स्वप्रधानमथ बादरायणस्तत्र वा परिहति: क्रमेत का ।।
द्वारं यागादीनां यदपूर्व देवताप्रसाद इति
वैषम्यं तत्रापि प्रवर्तते नैव परिहृतिः कापि ॥ ११ ॥
तस्मात्पूर्वत्र तन्त्रे क्षयनियतफलः कामिकार्यों विचार्यों
धर्मस्तत्रैव वेदं सकलमपि मुनि मिनिर्मानमूचे ।
एतत्कमैकनिष्टैर्गुरुकृतमहितं तन्मतं बोधयिष्य-
न्ब्रह्मज्ञानाय सूत्राण्यकुरुत भगवान्पुण्डरीकाक्ष एव ।।
इति तन्त्रयोर्विरोधे प्रधानभूतार्थफलसमालम्बे ।
जाग्रति न धीषु विदुषां लभते पदमैकशास्त्र्यवार्तापि ।।
इति ऐकशास्त्र्यनिराकरणवादः ॥ १९ ॥

अध्ययनविधेरर्थज्ञानफलकत्वनि- राकरणवादः ॥ , एवम् 'अथातो धर्मजिज्ञासा' इति सूत्रे विचार्यपरस्य धर्मशब्दस्य ब्रह्मसाधारण्याभावेन ब्रह्मविचारार्थ पृथक् 'अ- थातो ब्रह्मजिज्ञासा' इति शास्त्रान्तरे समारब्धव्ये समर्थिते, यदि अध्ययनविधिः अर्थज्ञानफलकः, तदा ब्रह्मविचारेऽपि धर्मविचार इव स एव प्रयोजको भवेत् । स यदि अक्षरा- वाप्तिमात्र विश्रान्त: तदा तत्र प्रयोजकान्तरमन्वेषणीयम्; पक्षद्वयमपि भाष्यकारैः दर्शितम् ; तत्र कतर: पक्ष: श्रेया- निति निर्णयार्थ कथान्तरं प्रस्तूयते- तत्र 'स्वाध्यायोऽध्येतव्यः' इति विधिविहितम् अर्थवद्वे- दभागाध्ययनम् अर्थज्ञानफलकम् , अर्थवद्विषयविहिताध्यय- नत्वात् , अङ्गाध्ययनवत्- इति प्रथमा कक्ष्या; 'वेदाङ्गानि समस्तानि कृष्णपक्षे तु संपठेत्' इति विधिविहितं वेदाङ्गाना- मध्ययनम् अर्थज्ञानफलकम् , अन्यथा तेषां वैदिकस्वरवर्णादि- निर्णायकत्वासंभवात; तन्निर्णयार्थत्वेनैव च तेषां वेदाङ्ग- त्वात् । अतो न दृष्टान्तस्य साध्यवैकल्यम् ; स्तोभाक्षराध्य- २६० पूर्वोत्तरमीमांसा- यने कौतुकादिप्रवृत्तलौकिकाध्ययने च व्यभिचारवारणार्थ हेतौ विशेषणद्वयम् । तयोरेव अंशतो बाधवारणार्थ पक्ष विशेषणद्वयम् ; एवमपि विनाप्यर्थज्ञानं जपमात्रेण महाफल- जनकस्य श्रीपञ्चाक्षरादिमन्त्रस्य गुरूपदेशानूच्चारणरूपे प्र. हणे व्यभिचारवारणाय हेतौ विहितविशेषणस्य स्थाने नि- त्यविधिविहितत्वं कार्यम् इति । अथ द्वितीया कक्ष्या- अप्रयोजकमिदम् , विपक्षे अनिष्टप्रसङ्गाभावात् ; न च अर्थज्ञानफलकत्वाभावे अध्ययनविधेः निष्फलत्वप्रसङ्गः; अक्षरावाप्त्या तस्य साफल्यात् , अक्षरावाप्तिर्हि प्राप्यकर्मा- र्थकतव्यप्रत्ययेन फलतया उपनीता स्तोभभागाध्ययने स्वा- ध्यायाध्ययनफलत्वेन क्लाना अर्थज्ञानात्प्राग्भाविनी अध्यय- नस्य अर्थज्ञानफलकत्वपक्षेऽपि तन्निर्वाहकतया प्रथममपे- क्षिता च, अध्ययनस्य कालान्तरभाविविचारसाध्यार्थज्ञान- कारणत्वस्य अक्षरावाप्तिशब्दितस्वाधीनोच्चारणहेतुदृढसंस्का- रलाभमूलकविचारणीयवेदवाक्यस्मृतिद्वारा निर्वाह्यत्वात् ; किं च अर्थज्ञाने दृष्टफले नियमविधिरास्थेयः, न च तस्यावका- शोऽस्ति ; यदा तावत् अध्ययनजन्यविधिवाक्यार्थज्ञानव- तामेव विहितानुष्ठानमभ्युदयकरम्- इतिवत् अध्ययनजन्य- " वादनक्षत्रमाला । :- , निषेधवाक्यार्थज्ञानवतामेव निषिद्धानुष्ठानं प्रत्यवायकरमिति नियमफलमाश्रियते, तदा तदध्ययनरहितानां तच्छाखिनां हिंसानृतादिभिः प्रत्यवायो न स्यात् , वेदाध्ययने सति एतालि निषिद्धानि प्रत्यवायकराणि- इति विशिष्य तज्ज्ञा- नावश्यंभावात् तदनुष्ठाने प्रत्यवायो भवेदिति अनिष्टफल- त्वप्रतिसंधानेन तत्र प्रवृत्तिरपि न स्यात्; अथोच्येत-निषे- धवाक्येषु प्रत्यवायफलकं निषिद्धानुष्ठानं न शास्त्रार्थः, किंतु प्रत्यवायपरिहारफलकं तदननुष्ठानमिति, तद्विषयो नियम:- अध्ययनपूर्वकनिषेधवाक्यार्थज्ञानवत एव निषिद्धाननुष्ठानं प्रत्यवायपरिहाराय भवतीति । तथा च निषिद्धानुष्ठानेन प्रत्य- वायजनने निषेधवाक्यार्थज्ञानं नापेक्षितमिति, तदध्ययनरहि- तानां तदनुष्ठाने प्रत्यवायाभावो न प्रसज्यते ; प्रत्यवायपरि- हारोपयोगिज्ञानफलकमध्ययनं नानिष्टफलकमिति तेषामध्य- यनप्रवृत्त्यभावोऽपि न प्रसज्यते--- इति । एवमपि अनधी- तवेदानां निषिद्धाननुष्ठानेऽपि प्रत्यवायापरिहारात् अव- श्यंभावी प्रत्यवाय: तदनुष्ठानेनैवास्तु- इति प्रतिसंधानेन तेषां निषिद्धानुष्ठानप्रसङ्गो दुर्वार:; अध्ययनं विना उपा. यान्तरण निषेधवाक्याथै जानन् प्रत्ययात् इति नियम- फलमाश्रियत इति चेत् , एवं सति अध्ययनरहितानां निषि- २६२ पूर्वोत्तरमीमांसा- द्धवर्जनार्थमुपायान्तरेण ज्ञाने तत्कृत: प्रत्यवाय:, तदज्ञाने निषिद्धानुष्ठानकृत:-इत्युभयथाध्यवर्जनीयः प्रत्यवायो भवेत् ; एवम् अध्ययनसंध्यावन्दनादिविध्यर्थानामध्ययनात्प्रागुपाया- न्तरेण ज्ञाने अध्ययननियमविध्यतिक्रमेण, तदज्ञाने अध्ययना- दिषु अप्रवृत्त्या च प्रत्यवायप्रसङ्गो द्रष्टव्यः ; ननु अध्ययन- गृहीतवेदार्थज्ञानवतामेव अनुष्ठानमभ्युदयकारि इत्येवमादि- फलम् अध्ययननियमस्य न कल्प्यते, किं तु कर्मसु शूद्रान- धिकारसिद्धिः तत्फलमभ्युपगम्यते-कर्मविधयो हि अनुष्ठे- यार्थज्ञानवदधिकारिसापेक्षा: :: स्वाध्यायाध्ययनविधेः अर्थज्ञान- फलकत्वे तद्विधिप्रापितानुष्ठेयार्थज्ञानेषु त्रैवर्णिकेष्वेवाधिकारिषु लब्धानुष्ठाना: न शूद्राणां तज्ज्ञानमाक्षिपन्ति, तस्य अर्थज्ञान- फलकत्वाभावे तु कर्मविधिभिरेवानुष्ठानार्थम् अर्थज्ञानमाले- प्यमिति अविशेषात् शूद्राणामपि अर्थज्ञानमाक्षिप्य तानपि अधिकारित्वेन गृह्णीयुरिति चेत ; मैवम् , अध्ययननियमसद्भा- वेऽपि शूद्राधिकारापत्तेरनिवार्यत्वात् , त्रैवर्णिकानामपि “स्वा- ध्यायोऽध्येतव्यः' इति पितृपितामहादिपरम्परागतस्वशाखा- मान्न एव अध्ययनस्य विहितत्वेन न शाखान्तरगताङ्गमन्त्रो. पसंहारेण कर्मानुष्ठानार्थ शाखान्तरगततत्तद्वाक्यार्थग्रहणा- क्षेपावश्यंभावेन, तथैव शूद्रस्यापि कर्मतदङ्गविषयवाक्यार्थग्र- , , वादनक्षत्रमाला। २६३ , . हणाक्षेपोपपत्तेः । न च वाच्यम्-शूद्रस्य कर्मानुष्ठानापेक्षित- ज्ञानं कात्स्न्येनापेक्षणीयम् , त्रैवर्णिकानां तु शाखान्तराम्नात- मात्रगोचरमिति आक्षेपलाघवात् विधयः त्रैवर्णिकानेवाधि- कुर्युः न तु शूद्रमिति, एवं तहि यस्य कर्मणो यस्यां शाखायां भूयसामङ्गानां विधानम् , ' भूयस्त्वेनोभयश्रुति' इति न्यायेन प्रधानस्यापि तत्र विधानम् , शाखान्तरे तु स्वल्पाङ्गविधा- नम्- तत्र कर्मणि तच्छाखाध्यायिनामेवाधिकार: स्यात् ; तस्मात् त्रैवर्णिकानामपि अर्थज्ञानाक्षेपावश्यंभावात् शूद्रान- धिकारे तस्य वेदतदर्थग्रहणयक्षानुष्ठाननिषेध एव हेतुरिति, नासौ अर्थज्ञानफलकस्य अध्ययननियमविधेः फलमिति; तस्मात् विहितमर्थवद्वेदभागाध्ययनम् अर्थज्ञानफलकं न भव- ति, विहितवेदाध्ययनत्वात् , स्तोभभागाध्ययनवत् ; अर्थ- ज्ञानफलमुद्दिश्य कौतुकेन क्रियमाणे लौकिकाध्ययने अंशे बाधस्य व्यभिचारस्य च वारणार्थ पक्षहेत्वोः विहितविशे- षणमिति ॥ अथ तृतीया कक्ष्या- मदनुमानं नाप्रयोजकम , अध्ययनस्यार्थज्ञानफलकत्वा- भावे वेदस्य अर्थपरत्वाभावप्रसङ्गस्य विपक्षे बाधकस्य सत्त्वात्- विशिष्टार्थप्रतीत्युद्देश्यकोच्चारणाधीनं हि श.

२६४ पूर्वोत्तरमामासा. ब्दानामर्थपरत्वम् । अत एव गौरश्वः पुरुषो हस्ती इति पदसमभिव्याहारस्य नास्त्यर्थपरत्वम् , तदुच्चारणस्य वि. शिष्टार्थप्रतीत्युद्देश्यकत्वाभावात् ; यत्र तु आपकृतस्य तदु- चारणस्य विशिष्टार्थप्रतीत्युद्देश्यकत्वमस्तीत्यवसितम् । तत्र अयं गौः पुंगवः अश्वो वेगवान् पुरुषो नियतचेष्टः हस्ती म- हाबल:- इति गवाश्वादिपदानां पुंगवादी गौणवृत्तिकल्पनया अर्थपरत्वमुपपाद्यत एव; ततश्च वेदेऽपि अर्थपरत्वसिद्यर्थ- मर्थावबोधोद्देश्यकोच्चारणापेक्षणे लोके इव रागप्रयुक्तस्य त- स्थासंभवात् विधिप्रयुक्तं तदेष्टव्यम ; विधिश्च अध्ययनविधे- रन्यः कश्चित् अर्थज्ञानफलकत्वकल्पनायोग्यः स्वाध्यायो- ञ्चारणविषयो न दृश्यत इति अध्ययनविधेरपि अर्थावबोधो- द्देश्यकत्वाभावे वेदस्य अर्थपरत्वं न सिध्येदेव; न च वाच्यम्- व्युत्पन्नस्य लौकिकादिव वैदिकादपि वाक्यादर्थप्रतीतेरनिवा- यतया बाधकामावादौत्सर्गिक प्रामाण्यं न भज्यते, तत एव वेदस्यार्थपरत्वं सिध्येत्- इति, एवमपि येषां यजमानप्रस्त- रादिवाक्यानां यथाश्रुतार्थे बाधकमस्ति, तेषां गौणीलक्षणाव्य. वधारणकल्पनाद्याश्रयणेन अर्थपरत्वस्य असमर्थनीयतया तेषां निरर्थकत्वप्रसङ्गात् ; न च तेषामपि वेदान्तर्गतत्वहेतुना सामान्यतोऽर्थवत्त्वसिद्धौ तन्निर्वाहायार्थविशेषपर्यवसानोप- ।

वादनक्षत्रमाला । २६५ योगिलक्षणादिकल्पनया सार्थकत्वं सिध्येदिति वाच्यम् , वे- दान्तर्गतत्वेऽपि स्तोभभागवत् अनर्थकत्वोपपत्त्या तत्रैव व्य- भिचारेण च अनुमानस्यासाधकत्वात् ; एवं तर्हि स्तोभभा- गाध्यलनाव्यापकं निषेधाध्ययनसंध्यावन्दनादिविधिषु अश- क्यनियमनं चाध्ययनम् अर्थज्ञानफलं न स्यादिति चेत् , न, स्तोमभागांशेऽध्ययनविधेः अक्षरावाप्तिफलकत्वाभ्युप- गमात् ; न चैवं सति विधिवैरूप्यं दोषः, यदेव हि किंचन विध्यन्तरोपयोगि स्वाध्यायाध्ययनेन शक्यं भाव- यितुम् , तत्सर्वं तेन भावयेत्-- इति एकयैव वचन- भङ्गया उभयार्थत्वलाभात् ; एवं च स्तोभभागव्यापित्वेन अर्थज्ञानोपजीव्यत्वेन च अक्षरावाप्रध्ययनफलत्वावश्यंभा- वेऽपि, अर्थज्ञानस्यापि तत्फलत्वस्यावश्यवाच्यतया तन्निा- हाय स्वाध्यायस्योपादेयाध्ययनगुणत्वेन अन्वयेऽभ्युपगन्तव्ये स्वाध्यायप्राधान्यसमर्पकतव्यप्रत्यय स्वारस्यभङ्गो न दोष इति तस्यार्थसिद्धस्वाध्यायगताध्ययनसंस्कार्यतानुवादकत्वमेव क- ल्पयितुमुचितम् । अस्ति हि शाब्दबोधे अध्ययनगुणस्यापि स्वाध्यायस्य आर्थिकमध्ययनसंस्कार्यत्वम् , अध्ययनस्य तत्सं- स्कृतं स्वाध्यायद्वारमनपेक्ष्य तदर्थज्ञानाद्युत्पादकत्वासंभवात् ; तस्मात् नाप्रयोजकं मदनुमानम् , त्वदनुमानं तु अध्ययनस्य . ७ , पूर्वोत्तरमीमांसा- amma . अर्थज्ञानफलकत्वाभावे वेदस्य निरर्थकत्वप्रसङ्ग इति प्रति- कूलतर्कपराहतम् इति ॥ अथ चतुर्थी कक्ष्या- शब्दानामर्थपरत्वे अर्थप्रतीत्युद्देश्यकमुच्चारणं न प्रयोज- कम् , मौनिना लिखित्वा दत्ते परेणाप्येतेनैव लिखित दृष्ट्वा मनसानुसंहिते श्लोकादौ तदभावात् ; अतस्तत्र प्रयो- जकापेक्षणे अन्यदेव किंचित् प्रयोजकमन्वेषणीयमिति त्व- दनुमानमप्रयोजकमेव, मदनुमानं च न प्रतिकूलतर्कपरा- हतमिति ॥ अथ पञ्चमी कक्ष्या- शब्दानामर्थतात्पर्ये संभवदनुगतं प्रयोजकं नोपेक्षणीय- मिति अर्थप्रतीत्युद्देश्य कमुच्चारणं तत्र प्रयोजकं भवत्येव, किंतु नोच्चारणत्वेन प्रयोजकम् ; कथं तर्हि ? अर्थप्रतीत्युद्देश्यकव्या- पारत्वेन, अतो मौनिश्लोकेऽपि लिखित्वा दानरूपस्य तदु- द्देश्यकव्यापारस्य सत्वात् नोक्तदोष: ; एवं च वेदे तदनुकूल- व्यापारो अध्ययनरूपादुच्चारणादन्यो न संभवतीति तस्या- र्थवत्त्व निर्वाहार्थमध्ययनविधेरर्थज्ञानफलकत्वमवश्यमास्थेय- मिति नाप्रयोजक मदनुमानम् , त्वदनुमानं च प्रतिकूलतर्क- पराहतमिति ॥ woman . .

वादनक्षत्रमाला। २६७ अथ षष्ठी कक्ष्या- यदि अर्थप्रतीत्युद्देश्यकव्यापारत्वेन तात्पर्यप्रयोजकता, तर्हि अध्ययनादन्य एव कृत्स्नस्वाध्यायार्थप्रतीत्युद्देशेन अध्य- यनानन्तरं कर्तव्यो विचारः; न हि विचारमन्तरेण कस्यापि ऋतूपासनोपयुक्त: वेदार्थनिर्णय: संभवति ; अतस्तस्यैव वेदा- नामर्थपरत्वे प्रयोजकत्वोपपत्तौ नाध्ययनस्य तत्प्रयोजकत्व- निर्वाहार्थ तव्यप्रत्ययस्वारस्पादिप्राप्तमक्षरावाप्तिमतिलध्य अर्थज्ञानस्थापि तत्फलत्वं कल्पनीयमिति त्वदनुमानमप्रयो- जकमेव, मदनुमानं च न प्रतिकूलतर्कपराहतमिति ॥ - अथ सप्तमी कक्ष्या- अध्ययनस्यार्थज्ञानफलकत्वाभावे कृत्स्नास्वाध्यायार्थप्रती- तेरुद्देशेन विचार एव न प्राप्नुयात् ; तस्यार्थावबोधफलकत्वे हि तदीयफलोपकार्यङ्गतया तद्विध्याभिप्त: स प्राप्नुयात् ; न हि विध्यन्तरमूला रागमूला वा तत्प्राप्तिः संभावयितुं शक्यते ; एवं च अध्ययनानन्तरं कृत्स्नवेदार्थविचारकर्तव्यतामिच्छता त्वयापि तन्निर्वाहार्थमध्ययनविधेरर्थज्ञानफलकत्वस्यावश्या- भ्युपगन्तव्यतया साक्षादर्थप्रतीत्युद्देश्यकव्यापारोऽध्ययनमे- व, विचारस्तु तदङ्गमिति वेदतात्पर्यप्रयोजकव्यापारत्वमपि अध्ययनस्यैव पर्यवस्यति, अतो मदनुमानं नाप्रयोजकम , २६८ पूर्वोत्तरमीमांसा- aano , त्वदनुमानमेव प्रतिकूलतर्कपराहतमिति ।। अथाष्टमी कक्ष्या- अध्ययनस्य तव्यप्रत्ययोपात्ताक्षरावाप्त्यर्थत्वेन अर्थज्ञा- नार्थत्वाभावेऽपि अध्ययनसंस्कृतस्य स्वाध्यायस्य विनियो- गाकाङ्खायामर्थज्ञाने तस्य विनियोगो भवति- यथा 'अग्नीनादधीत' इति विहितस्याधानस्य द्वितीयाश्रुत्युप- जीताग्निसिद्धयर्थत्वेन त्वर्थत्वाभावेऽपि आधानसंस्कृताना- मग्नीनां विनियोगाकाङ्क्षायां तेषां क्रतुषु विनियोगो भव- ति; एवं च स्वाध्यायस्यार्थज्ञानकरणत्वं विचारमितिकर्त- व्यतामपेक्षत इति तदितिकर्तव्यतारूपेण विचार: प्राप्नु- थादेव ; अतो वेदानामर्थपरत्वस्य तदर्थप्रतीत्युद्देश्यकविचार- व्यापारेण सिद्धः न तत्सिद्ध्यर्थम् अध्ययनस्यार्थज्ञानफल- कत्वं कल्पनीयमिति त्वदनुमानमेवाप्रयोजकम् , मदनुमानं तु न प्रतिकूलतर्कपराहतमिति ।। अथ नवमी कक्ष्या- संस्कृतस्वाध्यायेतिकर्तव्यतारूपेण विचारस्य प्राप्तौ हिस एव तात्पर्यप्रयोजकव्यापारो भवेत् । तत्प्राप्तिरेव न संभव- ति, तन्मूलभूतस्यार्थज्ञाने स्वाध्यायविनियोजकस्य वचन- स्याभावात् ; ननु वचनाभावेऽपि विनियोगाकाङ्कस्य स्वा- वादनक्षत्रमाला। २६९. ७ . ध्यायस्य अर्थज्ञानजननसामर्थ्यरूपलिङ्गादर्थज्ञाने तस्य वि. नियोगो लभ्यत इति चेत् , न, ‘धन्यं यशस्यमायुध्यं पुण्यं स्वर्गापवर्गदम् । धारणं धर्मशास्त्रस्य वेदानां धारणं तथा', 'त्रिभिरनश्नन्पारायणैः पूतो भवति' इत्या- दिवचनप्राप्तेन धारणपारायणादिविनियोगेन निराकाङ्क्षी- कृतस्य स्वाध्यायस्य ततोऽन्यत्र लैङ्गिकविनियोगकल्प. नाया अप्रवृत्तेः । न हि आधानसंस्कृतानामग्रीनाम् आह- वनीये जुहोति' गार्हपत्ये हवींषि श्रपयति' 'दक्षिणाना- वन्वाहार्य पचति' इत्यादिवाचनिकविनियोगैः निराकाडी- कृतानामन्यत्रापि यत्र यत्र लौकिके वैदिके वा कार्ये साम. य॑मस्ति, तत्र सर्वत्रापि वस्तुसामयेन विनियोगकल्पना प्रवर्तते ; न वा सादनप्रोक्षणादिसंस्कृतानां स्फ्यादीनां यज्ञा- युधानाम् ‘स्फ्येनोद्धन्ति' इत्यादिवाचनिकविनियोगनिरा. काङ्कीकृतानाम् अन्यत्रापि यत्र यत्र यज्ञोपयुक्तकार्ये साम- र्थ्यमस्ति, तत्र सर्वत्रापि तेन विनियोगकल्पना प्रवर्तते; तस्मात् विचारप्राप्तिरध्ययनविधेरर्थज्ञानफलकत्वमभ्युपगम्य तत्प्रसादायत्तैव सा समर्थनीया ; ततश्च तात्पर्यप्रयोजकन्या- पारोऽपि प्रथमोपस्थितं साक्षादर्थप्रतीत्युद्देश्यकम् अध्ययन- मेवेति पर्यवस्यति- इति नाप्रयोजकं मदनुमानम् , त्वद- . 3 २७० पूर्वोत्तरमीमांसा- नुमानं च प्रतिकूलतर्कपराहतमिति ।। POST अथ दशमी कक्ष्या- स्वाध्यायस्य धारणपारायणादिषु विनियोगेन आकाङ्क्षा- शान्तावपि साङ्गाध्ययनवशात् फलवत्त्वेनापातप्रतीतानी कर्म- णामनुष्ठानार्थमर्थनिर्णयाकाङ्क्षाणाम् अस्य वाक्यस्य अयमे- वार्थ इति निर्णयरूपेऽर्थज्ञानेऽपि विनियोगो भवत्येव ; क्रत्व- पेक्षितार्थनिर्णये कारणाकाङ्क्षायां तत्कारणीभावयोग्यस्य अ- ध्ययनसंस्कृतस्वाध्यायस्यापि तत्र विनियोगाकाङ्कोत्थापन- संभवात्; अस्ति हि उस्थापिताकाङ्कयापि विनियोग: यथा ज्योतिष्टोमे सामवेदगतस्तोत्रप्रकरणाम्नाताया: अग्न आयाहि वीतये' इत्यादिकाया ऋचः स्तोत्रविनियोगेन निराकाङ्क्षाया अपि 'आग्नेय्या आग्नीध्रमुपतिष्ठते' इति यजुर्वेदविहितस्योपस्थानस्य करणभूताग्निदेवत्याकाङ्कोत्थापि. तया आकाङ्क्षया तत्रापि करणत्वेन विनियोगः । एवं च अर्थ- निर्णयकरणतया विनियुक्तस्य अधीतस्वाध्यायस्य इतिकर्त- व्यताकाङ्क्षया विचरः प्राप्नुवन् अर्थप्रतीत्युद्देश्यकव्यापारो भवेत् इति न तत्सिच्यर्थम् अध्ययनस्य क्लिष्टमर्थज्ञानफलकत्वं कल्पनीयम् ; अत: त्वदनुमानमप्रयोजकम् । मदुनुमानं चन प्रतिकूलतर्कपराहतम् इति ।। " .

वादनक्षत्रमाला। २७१ ७ अथ एकादशी कक्ष्या- ऋत्वपेक्षितार्थनिर्णयः कल्पसूत्रतदभिज्ञोपद्रष्ट्रवचनादिनापि संभवन् न नियमेन विचारमितिकर्तव्यतामपेक्षते ; न च त- त्रापि कल्पसूत्राभ्यासादिकम् अर्थप्रतीत्युद्देश्यकव्यापार: स्या- दिति वाच्यम् , तथा सति सिद्धान्ताभिमत विचारनियमा- सिद्धिप्रसङ्गात् ; न च अध्ययनस्य अर्थज्ञानफलकत्वपक्षेऽप्येष दोषः, तस्मिन्पक्षे यावधीतार्थवत्स्वाध्यायार्थज्ञानसंपादनार्थ विचारस्यावश्यापेक्षितत्वेन तदनाक्षेपशङ्कानवकाशात् ; न हि क्रत्वनुष्ठानापेक्षिततत्तत्ऋतूपयुक्तवेदभागार्थज्ञानमिव या- वधीतस्वाध्यायार्थज्ञानमपि विचारमन्तरेण संभवतीति सं- भावयितुमपि शक्यते, एकरूपाणां वेदवाक्यानां न्यायतो भिन्नभिन्नार्थानाम् असमीकरणेन तत्तदर्थावधारणस्य तदुप- पादकन्यायानुसंधानं विना संपादयितुमशक्यत्वात् ; तस्मात् वेदे तात्पर्यनियामकम् अर्थप्रतीत्युद्देश्यकव्यापार विचारम- भ्युपगच्छतापि विचारनियमसिद्धयर्थमध्ययनविधेरर्थज्ञानफ- लकत्वम् अभ्युपगन्तव्यमिति ।। अथ द्वादशी कक्ष्या- यथा अध्ययनविधेरर्थज्ञानफलकत्वपक्षे फलापवर्गिणी अध्ययनभावना यावधीतस्वाध्यायार्थज्ञानपर्यन्तं व्याप्रियत पूर्वोत्तरमीमांसा- , इति स्नानात् प्रागेव युगपत् सकलवेदार्थज्ञानसंपादनार्थ विचरमपेक्षते, तथा तख अक्षरावाप्तिफलकत्वपक्षेऽपि अध्य- यनावाप्तानां वेदानराणामर्थज्ञाने कर्मानुष्ठानाकाङ्क्षोत्थापिता- काङ्ख्या विनियोगे सति, दारपरिग्रहमारभ्य यावज्जीवं निर. न्तरमनुष्ठेयेषु नित्यनैमित्तिकावश्यापेक्षितकाम्यकर्मसु विघ्नप- रिहारार्थ तावदपेक्षितविधिमन्त्रार्थवादविभक्तसकलस्वाध्या- यार्थज्ञानं स्नानात्प्राग्युगपदेव संपादनीयम् । अन्यथा कदा. चित् कल्पसूत्रार्थपरामर्शोपद्रष्टुवचनाद्यमेलने तत्कालावश्या- नुष्ठेयकर्मानुष्ठानविघ्नप्रसङ्गात्- इति युगपत् संपादनार्थम् अस्त्येव विचारापेक्षा; ततो विचारनियमासिध्यभावात् विचार एवार्थप्रतीत्युद्देश्यकव्यापार इति ।। अथ त्रयोदशी कक्ष्या- एवमपि कृत्स्नखाध्यायार्थविषयो विचारनियमो न सि. ध्यति, कर्मकाण्ड इव ब्रह्मकाण्डे विचाराक्षेपकाभावात् ; न च ब्रह्मोपासनरूपक्रत्वनुष्ठानं तदर्थनिर्णयापेक्षं ब्रह्मभागवि- चाराक्षेपकमस्तीति वाच्यम्, विकल्पो विशिष्टफलत्वात्' इति न्यायात् एकामेव ब्रह्मोपासनां यावज्जीवं चिकीर्षमा- णस्य मुमुक्षोः तावन्मात्रोपयोगिवेदान्तवाक्यार्थनिर्णयस्य आप्तोपदेशतोऽपि लन्धुं शक्यत्वेन तदर्थगुरूपायरूपवि- वादनक्षत्रमाला। - चाराक्षेपासंभवात्; न च सिद्धान्ते श्रवणविधिरस्ति, येन ततो वेदान्तविचारकर्तव्यता लभ्येत ; 'तद्विज्ञानार्थं स गुरु- मेवाभिगच्छेत्' इति गुरूपसदनविधिस्तु स्वानुष्ठेयोपास. नापेक्षितकतिपयवेदान्तवाक्यार्थोपदेष्ट्रगुरूपसदनविषयतयापि चरितार्थम: तम्मात् विचारनियमसिद्धयर्थम अध्ययनविधेः अर्थज्ञानफलकत्वमेवाङ्गीकरणीयामिति ।।.' अथ चतुर्दशी कक्ष्या-- अध्ययनविधेरथज्ञानफलकत्वाभावेऽपि कृत्स्नखाध्यायवि- चारः सिध्यत्येव, एकामेवोपासनां चिकीर्षमाणेनापि पुरुषेण मन्त्रार्थवादादिप्रसिद्धमहामहिमशालिनां देवताविशेषाणां मध्ये विशिष्य इदमेव ब्रह्मेति निर्धार्य यावज्जीवम् अहरहरावर्त- नीया ब्रह्मोपासना आरब्धव्या; तन्निर्धारणं तु यद्यपि अय. मितिवत् इदं ब्रह्मेति शृङ्गमाहिकया आप्ततमोपदेशेनापि क- थंचित् लब्धुं शक्यम् , तथापि तल्लक्षणमुखेनैव संपाद- नीयम् ; ब्रह्मसद्भावमानं संप्रतिपद्य तत् किं ब्रह्म इति इदंतया ज्ञानार्थम् 'अधीहि भगवो ब्रह्म' इति उपसन्नाय भृगवे ' यतो वा' इत्यादिलक्षणमुखेन तदुपदेशसामर्थ्यत: 'तद्विजिज्ञासस्व तद्ब्रह्म' इति वाक्यशेषतश्च लक्षण मुखेनैव ब्रह्म निर्धार्य उपासनीयमिति नियमोन्नयनात् , न हि शृङ्गः- *V.18 पूर्वोत्तरमीमांसा- .. प्राहिकया उपदेशस्यापि उपासनोपयोगिब्रह्मनिर्धारणोपायत्वे गुरूपाये लक्षणमुखेन ब्रह्मनिर्धारणे गुरुः शिष्यं प्रवर्तयेत्; लक्षणमुखेन ब्रह्मनिर्धारणं लिप्सुः असंभवातिव्याप्तिशङ्का- निरासेन लक्षणदृढीकरणार्थ सर्ववेदान्ततात्पर्यनिर्णायकवि- चारमपेक्षते; अत एव शाने 'जन्माद्यस्य यत:'. इति लक्षणमुखेनैव ब्रह्म निरूप्य लक्षणविशिष्टब्रह्मणि प्रमाणप्रद- र्शनपूर्वकं तदसंभवातिव्याप्तिशङ्कानिरासार्थः कृत्स्नावेदान्त- विचारः कृतो दृश्यते ; तस्मात् अध्ययनविधेः अक्षरावाप्ति- फलकत्वेऽपि विचारनियमसिद्धेः स एवार्थप्रतीत्युद्देश्यक- व्यापारः इत्युपपद्यत एवेति ।। अथ पञ्चदशी कक्ष्या- एवमपि सर्वेषां ब्रह्मोपासनानां विचारनियमो न सिध्य- ति, आनन्दमयब्रह्मोपासनाप्रकरणे लक्षणाम्नानसामर्थात् तदुपासनार्थिन एव लक्षणमुखेन ब्रह्म निर्धारणनियमसिद्धेः; न हि उपासनास्वपि प्रकरणविशेषाम्नाता धर्माः सर्वासूपा- सनासु पारिप्लवा भवन्ति, तथा सति 'पूर्वोऽतिथिभ्योऽश्री- यात्' इत्यादिविधिविहितानामपि वैश्वानरविद्यादिप्रकरणा- म्नातानां धर्माणां सर्वोपासनासाधारण्यप्रसङ्गात् ; अतो वि. चारनियममिच्छता विचारमेव अर्थप्रतीत्युद्देश्यकव्यापार- , वादनक्षत्रमाला। २७५ मभ्युपगच्छता च त्वयापि तन्निर्वाहार्थम् अर्थज्ञानफलकत्व- मभ्युपगन्तव्यमिति ॥ , अथ षोडशी कक्ष्या- श्रवणविधिमनङ्गीकुर्वतो भाष्यकारस्य मते सर्वमुमुक्षु- साधारण्येन विचारनियममनभ्युपगम्यापि उपासनानुष्ठानं समर्थयितुं शक्यत एव; ये स्वयं विचारसमर्थाः विचारमन्तरेण सर्वविधसंशयनिवृत्तिमलभमानतया स्वयं विचारमिह कुर्वन्ति, तेषां श्रवणमननप्रणाड्या उपासनार- म्भः, अतथाभूतानां बहुकर्मानुष्ठानलब्धचित्तशुद्ध्यतिशय- तया ब्रह्मापरोक्ष्यवति गुरौ अतिविश्वासवतां विनापि श्रव- णमनने गुरूपदिष्टप्रकारेण उपासनारम्भ इति ; न हि कर्म- सु उपासनेषु वा सर्वाधिकारिसाधारण्येन विचारनियमः कर्तुं शक्यते, स्त्रीणां तदभावात् ; एवं च प्राचीनशालादीनां वैश्वानरविद्यादिषु संभावितसंशयनिवृत्त्यर्थ विद्यानुष्ठानप्र- कारमात्रोपदेष्ट्रगुरूपसर्पणादिलिङ्गमपि उपपद्यते ; एवं च वि- चारहीनानाम् अर्थज्ञानार्थगुरूपसर्पणादिव्यापार एव अर्थप्र- तीत्युद्देश्यकव्यापारो भविष्यति ; याच्येत----श्रवणविधि प्र- त्याख्यातवतापि श्रवणविध्यर्थमन्यथासिद्धं समर्थितवता भाष्य- कारेण वेदाध्ययनवता मुमुक्षुणां विचारनियमः स्वीकृत एव; , पूर्वोत्तरमीमांसा- प्राचीनशालादीनां तु कृतश्रवणानामेव श्रवणकाले ' श्रवणा- यापि बहुभिर्यो न लभ्य: शृण्वन्तोऽपि वहवो यं न विद्युः । आश्चयों वक्ता कुशलोऽस्य लब्धाश्चर्यों ज्ञाता कुशलानुशिष्टः' इति मन्त्रोक्तरीत्या विपर्यासेनाथै निर्णीय उपासनासु प्रवृ- त्तानां परस्परवैमत्यदर्शनेन संजातसंदेहानां पुनर्गुरूपसर्पण- मिति-लिङ्गमपि अन्यथा उपपद्यते ; अत एव त्वया सर्वेषां वेदाधिकारिणां विचारनियममभ्युपगम्य विचार एवार्थप्रती- त्युद्देश्यकव्यापारत्वेन प्रतिज्ञात इति- तथापि न दोषः, प्र- करणविशेषाम्नातस्यापि लक्षणस्य ब्रह्मेदंतानिर्धारणरूपदृष्टा- थताबलात् सर्वोपासनासाधारण्यस्योपपत्ते: ; अत एव विवि- दिषन्ति यज्ञेन दानेन तपसानाशकेन' विद्यां चाविद्यां च य- स्तद्वेदोभयं सह अविद्यया मृत्युं तीा विद्ययामृतमश्नुते' 'अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् ब्रतमे- तत्पाशुपतं पशुपाशविमोक्षाय' ' शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्' इत्यादिभिः उपासन- विशेषप्रकरणविहितानामपि चित्तप्रसादचित्तैकाग्र्यरूपदृष्टप्र- योजनार्थानां विद्यासाधनसहकारिभस्मोद्धूलनशमदमादीनां सर्वोपासनासाधारण्यमभ्युपगम्यते; एवमध्ययनस्य अक्षरा- वाप्तिफलकत्वेऽपि अध्ययनवतां मुमुक्षूणां वेदान्तविचारनि- वादनक्षत्रमाला। २७७ ७ , यमः समर्थयितुं शक्यत एव ; प्रत्युत तस्यार्थज्ञानफलकत्वप- क्ष एव वेदान्तविचारो मुमुक्षूणामेवेति नियमः समर्थयितुं न शक्यते, फलापवर्गिण्या अध्ययनमावनया स्नानात्प्रागेव कर्मकाण्ड इव ब्रह्मकाण्डेऽपि अर्थज्ञानफलोपकारिविचारा- क्षेपस्यानिवार्यत्वात् ; एतेन साक्षात् परम्परया वा वेदार्थ- ज्ञानार्थस्याङ्गाध्ययनस्य वेदाध्ययनकाल एव कृष्णपक्षेषु कर्तव्यस्य अनुष्ठानसादेश्यावगताध्ययनाङ्गत्वान्यथानुपपत्त्या अध्ययनस्यार्थज्ञानफलकत्वमभ्युपगन्तव्यमित्यपि शङ्का नि. रस्ता, 'षडङ्गो वेदोऽध्येय:' 'वेदाङ्गानि समस्तानि कृष्ण- पक्षेषु संपठेत्' इत्यादिवचनैः तेषां वेदाङ्गत्वस्यैव प्रतिपाद्य- मानतया तेषामध्ययनावाप्तस्वाध्यायफलार्थज्ञानार्थत्वस्यैवाव- गमात् ; तथात्वेऽपि वेदाध्ययनकाल एव अङ्गाध्ययनक- र्तव्यताविधेः दारपरिग्रहप्रभृति निरन्तरसंतन्यमानकर्मानु- ष्ठानोपयोग्यर्थज्ञानेकछासंपादकापातज्ञानजननार्थत्वेन अन्य- थासिद्धेः अङ्गाध्ययनस्य वेदाध्ययनस्य च फलार्थत्वा- भ्युपगमेऽपि साक्षात्परम्परासाधारण्येन तत्फलार्थत्वोपपत्तेः; अन्यथा क्रत्वनुष्ठानकालनिर्णायकस्य ज्योतिष्टोमशास्त्रस्य क्र- त्वनुष्ठानार्थस्य कल्पसूत्रस्य च तदङ्गत्वाभावप्रसङ्गात् ; एते- नैव अङ्गाध्ययनस्य अर्थज्ञानपर्यन्तताया: क्लप्तत्वन्यायेन वे- -- पूर्वोत्तरमीमांसा- प्राचीनशालादीनां तु कृतश्रवणानामेव श्रवणकाले ' श्रवणा- यापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि वहवो यं न विद्युः । आश्चयों वक्ता कुशलोऽस्य लब्धाश्चर्यों ज्ञाता कुशलानुशिष्टः' इति मन्त्रोक्तरीत्या विपर्यासेनार्थं निर्णीय उपासनासु प्रवृ. तानां परस्परवैमत्यदर्शनेन संजातसंदेहानां पुनर्गुरूपसर्पण- मिति-लिङ्गमपि अन्यथा उपपद्यते; अत एव त्वया सर्वेषां वेदाधिकारिणां विचारनियममभ्युपगम्य विचार एवार्थप्रती- त्युद्देश्यकव्यापारत्वेन प्रतिज्ञात इति- तथापि न दोषः, प्र- करणविशेषाम्नातस्यापि लक्षणस्य ब्रह्मेदंतानिर्धारणरूपदृष्टा- र्थताबलात् सर्वोपासनासाधारण्यस्योपपत्तेः ; अत एव विवि- दिषन्ति यज्ञेन दानेन तपसानाशकेन' 'विद्यां चाविद्यां च य- स्तद्वेदोभयं सह अविद्यया मृत्युं तीा विद्ययामृतमश्नुते' 'अग्मिरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् व्रतमे- तत्पाशुपतं पशुपाशविमोक्षाय' ' शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत्' इत्यादिभिः उपासन- विशेषप्रकरणविहितानामपि चित्तप्रसादचित्तैकाग्र्यरूपदृष्टप्र- योजनार्थानां विद्यासाधनसहकारिभस्मोद्धूलनशमदमादीनां सर्वोपासनासाधारण्यमभ्युपगम्यते ; एवमध्ययनस्य अक्षरा- वाप्तिफलकत्वेऽपि अध्ययनवतां मुमुक्षूणां वेदान्तविचारनि- वादनक्षत्रमाला । ७ , यम: समर्थयितुं शक्यत एव ; प्रत्युत तस्यार्थज्ञानफलकत्वप- क्ष एव वेदान्तविचारो मुमुक्षूणामेवेति नियमः समर्थयितुं न शक्यते, फलापवर्गिण्या अध्ययनभावनया स्नानात्प्रागेव कर्मकाण्ड इव ब्रह्मकाण्डेऽपि अर्थज्ञानफलोपकारिविचारा- क्षेपस्यानिवार्यत्वात् ; एतेन साक्षात् परम्परया वा वेदार्थ- ज्ञानार्थस्याङ्गाध्ययनस्य वेदाध्ययनकाल एव कृष्णपक्षेषु कर्तव्यस्य अनुष्ठानसादेश्यावगताध्ययनाङ्गत्वान्यथानुपपत्त्या अध्ययनस्यार्थज्ञानफलकत्वमभ्युपगन्तव्यमित्यपि शङ्का नि. रस्ता, 'षडङ्गो वेदोऽध्येयः' 'वेदाङ्गानि समस्तानि कृष्ण- पक्षेषु संपठेत्' इत्यादिवचनैः तेषां वेदाङ्गत्वस्यैव प्रतिपाद्य- मानतया तेषामध्ययनावाप्तस्वाध्यायफलार्थज्ञानार्थत्वस्यैवाव- गमात् ; तथात्वेऽपि वेदाध्ययनकाल एव अङ्गाध्ययनक- तव्यताविधेः दारपरिग्रहप्रभृति निरन्तरसंतन्यमानकर्मानु- ष्ठानोपयोग्यर्थज्ञानेच्छासंपादकापातज्ञानजननार्थत्वेन अन्य- थासिद्धेः अङ्गाध्ययनस्य वेदाध्ययनस्य च फलार्थत्वा- भ्युपगमेऽपि साक्षात्परम्परासाधारण्येन तत्फलार्थत्वोपपत्तेः; अन्यथा क्रत्वनुष्ठानकालनिर्णायकस्य ज्योतिष्टोमशास्त्रस्य - त्वनुष्ठानार्थस्य कल्पसूत्रस्य च तदङ्गत्वाभावप्रसङ्गात् ; एते- नैव अङ्गाध्ययनस्य अर्थज्ञानपर्यन्तताया: क्लप्तत्वन्यायेन वे- ..

पूर्वोत्तरमीमांसा- दाध्ययनमपि अर्थज्ञानपर्यन्तं स्यादित्यपि शङ्का निरस्ता, वेदाङ्गानि समस्तानि' इत्यादिवचनेषु अङ्गप्रातिपदिकानु- सारेण द्वितीयाविभक्त्यवगतं प्राधान्यं परित्यज्य- वेदाझै- रर्थज्ञानं भावयेत्- इति तेषामर्थज्ञाने गुणभावोऽङ्गीकृतः, अन्यथा अध्ययनावाप्तवेदजन्यार्थज्ञानोपयोगित्वाभावेन वेदा- गत्वानिर्वाहात्; न चैवं स्वाध्यायविधिवाक्ये तव्यप्रत्यया- वगतस्वाध्यायप्राधान्यं परित्यज्य अर्थज्ञानगुणभावाङ्गीकारे किंचित्कारणमस्ति; न च स्वाध्यायस्य गुणत्वानङ्गीकारे स्वशब्दार्थस्य कुलक्रमागतत्वरूपम्य स्वीयत्वस्य उद्देश्य- विशेषणत्वापत्त्या ग्रहकत्ववत् अविवक्षाप्रसङ्गेन स्वाध्या- याध्ययनविधेः सर्ववेदाध्ययनविषयत्वापत्तिः, सर्ववेदाना- मध्ये तुमशक्यतया संकोचापेक्षासत्त्वेन उद्देश्यस्यापि वि- शेषणसहिष्णुत्वात् , ' यस्योभयं हविरातिमा त्यैन्द्रं पञ्च- शराबमोदनं निर्वत्' इत्यत्र आतिमात्रस्य निमित्ततया उद्देश्यत्वे प्रतिक्षणं यस्य कस्यचित् नाशसंभवेन नैमित्तिक- स्याशक्यानुष्ठानता प्रसज्यत इति तत्परिहारार्थम् आति- मात्रं न निमित्तम् , किंतु हविरातिः निमित्तमिति हवि- विशेषणविवक्षाङ्गीकारात्; तस्मादर्थप्रतीत्युद्देश्यकव्यापारा- पेक्षणमात्रम् अध्ययनस्य अर्थज्ञानगुणत्वाङ्गीकारे हेतुर्वाच्यः; .

वादनक्षत्रमाला। स च विचारेणान्यथासिद्धिसमर्थनेन प्रत्याख्यात एव; वस्तुतस्तु शब्दानामर्थपरत्वम् अर्थप्रतीत्युद्देश्यकव्यापारं नापेक्षते, यत: लोकव्युत्पत्तिसिद्धं तदौत्सर्गिकम् ; कचि- स्कचित् लौकिकवाक्ये बक्तृदोषादपवादेऽपि अपौरुषेये वेदे तदभावात् निरपवादमवतिष्ठते ; तदौत्सर्गिकमर्थपरत्वसामा- न्यं वक्तृविवक्षिते विशेष लोके पर्यवस्थति; वेदे वक्तुरभा- वात् न्यायलभ्यविशेषे पर्यवस्यति; तदनुसारेणैव च वेदे लक्षणा गौणी व्यवधारणम्- इति कल्प्यते; अत एव शब्दा- नामर्थपरत्वम् अर्थप्रतीत्युद्देश्यकोचारणाधीनमिति मन्वानेन भवदेवेनापि स्वाभिमतोक्तन्यायबलेनैव स्वाध्यायावाप्तिमात्र- फलताप्रत्यायकतव्यप्रत्ययस्वारस्यमुल्लङ्घय स्वाध्यायाध्ययनेन यत् भावयितुं शक्यं तत्सर्व तेन भावयेत् इति व्यवधारण- कल्पना अङ्गीकृता; न हि अध्ययनविधेः उक्तानिश्चयो- ऽयम् अर्थावबोधोदेश्यकतदुच्चारणविध्यधीनः, तथाभूतविध्य- न्तराभावात् , अस्यैव विधेरपेक्षायाम् आत्माश्रयापत्ते:: किंतु शब्दानामर्थपरत्वमौत्सर्गिकमित्येतदाश्रित्य तस्य स्वो- तन्यायाधीने विशेषे पर्यवसानात् तन्निर्वाहार्थम् इदं व्यवधारणकल्पनमित्येव वक्तव्यम्। एवं च तथैव वेदवा- क्यान्तराणामपि अर्थपरत्वसामान्यतद्विशेषपर्यवसानयोः नि- २८० पूर्वोत्तरमीमांसा- .. . , •. बाहे संभवति, किं तन्निर्वाहार्थन्यायाभासावलम्बनया व्यव. धारणकल्पनया; इतोऽप्ययं न्यायामास:, यदि वेदवाक्याना- मर्थप्रतीत्युद्देश्यकमुच्चारणं न स्यात् , तदा तेषामर्थपरत्वं न स्यात् इति तकरूपः खलु अयं न्याय:; अयं च स्वप्रवृत्तेः प्रागेव आपाद्यविपर्ययस्य प्रमाणत: सिद्धिमपेक्षते, अन्यथा तर्कस्य अनिष्टप्रसङ्गत्वाभावप्रसङ्गात् , तच्च प्रमाणमन्विष्य- माणम्- शब्दानामर्थपरत्वमौत्सर्गिकम्- इत्येतदेवावतिष्ठते; ततश्च तेनैवान्येषामपि वेदवाक्यानामर्थपरत्वसिद्धेः न तत्र नि- यामकान्तरमपेक्षणीयम् , नतरां तदपेक्षाधीनमध्ययनविधेद्य- वधारणं कल्पनीयम् । तत्कल्पने च अध्ययनेन भावयितुं शक्यं चार्वाकापादितं ख्यातिलाभादिकमपि तत्फलं स्यात् ; विध्य- न्तरापेक्षितं यद्भावयितुं शक्यमिति विशेषणेऽपि अतिप्रसङ्ग- स्तदवस्थः, धनलाभस्य ऋतुविधिभिरपेक्षितत्वात् ख्यातेरपि धनलाभद्वारा ऋतूपयोगात् ; तस्मात् अर्थप्रतीत्युद्देश्यकव्या- पारापेक्षणीयन्याय: नाश्रयणीयः इति त्वदनुमानमप्रयोज- कम् , मदनुमानं न प्रतिकूलतर्कपराहतम् इति अक्षरा- वाप्तिफलकमेव अध्ययनमिति सिद्धम् ।। . इति अध्ययनविषेरर्थज्ञानफलकत्वनिराकरणवादः।।

अध्ययनस्य स्वविधिप्रयुक्तत्व- समर्थनवादः॥ एवम् अक्षरावाप्तिफलकत्वेन निर्णीतमध्ययनं न स्ववि- धिप्रयुक्तानुष्ठानम् , किं तु अध्यापनविधिप्रयुक्तानुष्ठानम् इति केचन मन्यन्ते ; तेषामित्थं मतम्- अध्ययनविधिः न स्वविषयानुष्ठापकः, निनियोज्यत्वात् , प्रयाजादिविधिवत् ; न च विश्वजिन्न्यायन नियोज्य: कल्पनीयः, स्वर्गकामादि- नियोज्यकैदर्शपूर्णमासादिविधिभिः प्रयाजादीनामिव आचा- यत्वकामिनियोज्येन अध्यापनविधिना अध्ययनस्य प्रयुक्ति- संभवे तत्कल्पनानपेक्षणात् ; तथापि उपनयनपूर्वकाध्यापनात् आचार्यत्वं निष्पद्यते, " उपनीय तु यः शिष्यं वेदमध्यापयहि- जः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते' इति स्मृत्या अचार्यत्वकामः शिष्यमुपनीय वेदमध्यापयेत् इति श्रुत्यु- नयनात् , तदनुसारेण 'अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयी- त' इति श्रुतौ उपनयीत' इत्यत्र संमाननादिसूत्रविहिता- त्मनेपदबलात् उपनयने प्रतीयमानस्य आचार्यत्वहेतुत्वस्य , .

२८२ पूर्वोत्तरमीमांसा- " तन्निर्वाहकाध्यापनद्वारकत्वकल्पनौचित्याच; तदाचार्यत्वं य- द्यपि आधाननिष्पाद्यमाहवनीयत्वादिकमिव अलौकिकातिश- यरूपम् , तच्च न स्वत: पुरुषार्थः, तथापि आचार्याय वरो देयः' इत्यादिस्मरणात् दक्षिणादानादिहेतुत्वेन गौणपुरुषार्थों भवति । अतस्तत्कामोऽयमध्यापनविधौ नियोज्यः इति सनि- योज्यकेन तेन विधिना अध्ययनं प्रयुज्यते-- इति ; तत्र करिष्यमाणपूर्वपक्षोपयोगिनमपेक्षितांशं परिगृह्य अध्ययनस्य स्वविधिप्रयुक्तत्वसमर्थनार्थ कथान्तरं प्रस्तूयते- 'स्वाध्यायोऽध्येतव्यः' इति विधिविहितं नियमाध्यय- नम् अध्ययनविधिप्रयोज्यम् , विध्यन्तराप्रयोज्यत्वे सति विधिप्रयोज्यत्वात्- इति सैद्धान्तिकी प्रथमा कक्ष्या ।। त्वदीयो हेतुर्विशेषणासिद्धः, अध्ययनानुष्ठानस्य अध्या- पनविधिप्रयुक्तत्वात् ; तस्मात् उक्ताध्ययनानुष्ठानं न अध्य- यनविधिप्रयुक्तम् , अध्यापनविधिप्रयुक्तत्वात् , अध्यापन- वत्-- इति द्वितीया ।। अथ तृतीया कक्ष्या- न मदीयो हेतुर्विशेषणासिद्धः अध्ययनस्य अध्यापन- विधिप्रयुक्तत्वायोगात् ; न च अध्ययनं विना अध्यापन न निर्वर्तते इति तस्य तत्प्रयुक्तत्वम् , लौकिकाध्ययनेनापि वादनक्षत्रमाला। २८३ 0000 • तन्निर्वृत्त्या विहिताध्ययनस्य तत्प्रयुक्तत्वासिद्धेः ; अत एवं त्वदीयो हेतुरसिद्ध इति ॥ अथ चतुर्थी कक्ष्या- उपनयनस्य अध्यापनाङ्गतया तस्य किंचित्काराकाङ्का. याम् उपनेयासत्तिरूपो दृष्ट एव किंचित्कार इति सिद्धौ, अध्यापनं प्रति अनुपयोगिन उपनेयस्यासत्तिः अध्यापनानु- पकारिणी न तदङ्गकिंचित्कारो भवतीति, उपनेयस्याध्याप- नापेक्षितव्यापाराकाङ्क्षायाम् उपनयनं प्रक्रम्य स्वाध्यायो- ऽध्येतव्यः' इति विधिविहितस्य नियमाध्ययनस्यैव तव्यापार- तया अन्वयेन तस्य तत्प्रयुक्तत्वसिद्धेः त्वदीयो हेतुर्विशेषणा- सिद्धः, मदीयश्च नासिद्धः इति ।। अथ पञ्चमी- उपनयनस्य अध्यापनाङ्गत्वे स्यादेतदेवम् , न त्वेतद- स्ति, तत्र प्रमाणाभावात् इति ।। अथ षष्ठी- उपनयनस्य अध्यापनाङ्गत्वे प्रमाणाभावोऽसिद्धः, तथा हि- उपनीय तु यः शिष्यम्' इति स्मृत्यनुमित श्रुतिवा- क्यगतोपनयनाध्यापनयोः समानकर्तृकत्ववादिनी क्त्वाश्रुति- स्तावत् तत्र प्रमाणम् , समानकर्तृकत्वं हि प्रयोगैक्यं विना . , , पूर्वोत्तरमीमांसा- नोपपद्यते; यद्यपि प्रयोगैक्यं तयोः समप्राधान्ये वैपरीत्ये- नाङ्गाङ्गिभावे च संभवति, तथापि उपनयनमुपनेयासत्ति- मसंपाद्य तत्कर्तृकेणाध्ययनेन अध्यापनं निर्वतयितुं क्षममिति दृष्टद्वारसत्त्वात् उपनयनस्य अध्यापनाङ्गत्व एव क्त्वाश्रुतिः पर्यवस्वतीति तथा 'तमध्यापयीत' इति तच्छब्दपरामृष्टो. पनीतस्य अध्यापनसंबन्धबोधनात् तच्छब्दश्रुतिरपि उपन- यनस्य अध्यापनाङ्गत्वे प्रमाणम् , 'तप्ते पयसि ध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र 'सा' इति तच्छब्देन दध्यानयनसंस्कृतपयःपरामर्शिना दधिसंसर्ग. प्राप्तघनीभावपयोवाच्यामिक्षापदसामानाधिकरण्यलब्धस्त्री- लिङ्गेन ध्यानयनसंस्कृतस्य पयसो वैश्वदेवयागसंबन्धबो- धनात् पय:संस्कारस्य ध्यानयनस्यापि वैश्वदेवयागाङ्गत्व- सिद्धिरभ्युपगम्यते; तथा उपनयीत' इति आत्मनेपद- श्रुतिरपि तत्र प्रमाणम् , सा हि अध्यापनफलस्य आचार्य- त्वस्य उपनयनान्वयं बोधयन्ती पूर्वोक्तरीत्या उपनयनस्य अध्यापनाङ्गत्वे पर्यवस्यति ; तस्मात् अध्यापनविधिना स्वा- नमुपनयनं प्रयुजानेन उपनीतव्यापाराध्ययनस्यापि प्रयु- क्तिरुपपद्यत इति त्ववेतुर्विशेषणासिद्धः, मद्धेतुश्च नासिद्ध इति ॥

वादनक्षत्रमाला । २८५. अथ सप्तमी कक्ष्या- - , क्त्वाश्रुतिस्तावत् उपनयनाध्यापनयो: अङ्गाङ्गिभावे न प्र. माणम् , 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत' इत्यत्रेव तस्य कर्तृत्वाधिष्ठानपुरुषैक्यमात्रावलम्बनत्वोपपत्ते: ; ध्यापयीत' इत्यत्र उपनीतपरामर्शितच्छब्दश्रुतिरपि न प्रमा- णम् ; तथाहि- दध्यानयनरीत्या उपनयनस्य समभिव्या- हृतक्रियान्वयमात्रं सिध्यति ; समभिव्याहृता च क्रिया तत्र वैश्वदेवयागवत् इह अध्यापनक्रियैव न भवति, किंतु अध्य- यनक्रियापि, णिजन्तधातुना प्रयोज्यप्रयोजकव्यापारद्वयोप- स्थिते: ; अत: उपनयनस्य प्रयोज्यव्यापारभूताध्ययनसंब- न्धबोधनेनापि तच्छब्दश्रुति: चरितार्था भवेदिति ; तथा आ- त्मनेपदश्रुतिरपि तत्र न प्रमाणम् , तया हि आहत्य उपन- यनस्य न अध्यापनाङ्गत्वं बोध्यते, संमाननोत्सर्जनाचार्य- करणज्ञानभृतिविगणनव्ययेषु नियः' इति सूत्रेण उपन- यनाध्यापनयोरङ्गाङ्गिभावे नयते: आत्मनेपदविधानाभा- उपनयने अध्यापनफलाचार्यत्वसंबन्धबोधनं तस्था- ध्यापनाङ्गत्वं कल्पयेदिति चेत्, न, अध्ययनद्वारेण उपनय- नोपकार्यस्य अध्यापनस्य फलम् उपकारके व्यपदिश्यते इति उपपत्तेः, आधानद्वारा अग्निहोत्रदर्शपूर्णमासादिसर्वकर्मों- .. वात् , २८६ पूर्वोत्तरमीमांसा- " पकारिण्याम् आधानाङ्गपूर्णाहुती पूर्णाहुत्या सर्वान्कामान- बाप्नोति' इति तदुपकार्यसर्वकर्मफलव्यपदेशदर्शनात् ; एव- मन्यथासिद्धात्मनेपदश्रुतिरपि तत्र न प्रमाणमिति ।। अथाष्टमी कक्ष्या- क्त्वाश्रुतिस्तावत् इहाङ्गाङ्गिभावे प्रमाणं भवत्येव, तद- भावे कर्तृकारकभेदेन समानकर्तृकत्वानिर्वाहात्; दर्शपूर्ण- मासयोः सोमयागस्य च स्वातन्त्र्येण पृथक्फलसाधनतया वाक्यान्तरावगतत्वेन गत्यन्तराभावात् उदाहृतवाक्ये क्त्वा- अतिः कर्तृकारकाधिष्ठानक्यमात्रावलम्बना कथंचिदुपपद्यते; इह तु तथा अनुपपत्त्यभावात् ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इत्यत्रेव क्त्वाश्रुतेः अङ्गाङ्गिभावपर्यवसानं युक्तम् । तथा 'तमध्यापयीत' इत्यत्र तच्छब्दश्रुतिरपि तत्र प्रमाणं भवत्येव, क्रियाद्वयसमभिव्याहारेऽपि प्रधानक्रियान्वयस्य अभ्यर्हितत्वात् ; तथा आत्मनेपदश्रुतिरपि, अङ्गप्रधानभावेन साक्षात्संबन्धिनोऽध्यापनस्य फलम् उपनयने निर्दिश्यते इति वक्तुं शक्ये परम्परासंबन्धकल्पनायोगात् , न हि आधा- नस्येव उपनयनस्य अन्याङ्गत्वमवधृतमिति ।। अथ नवमी कक्ष्या- उपनयनस्य अन्याङ्गत्वं नावधृतमिति असिद्धम् , तस्या- , - mins वादनक्षत्रमाला। २८७ , न्याङ्गत्वावधारणात् ; तथा हि 'वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्य शरदि वैश्यम्' इति द्वितीयाश्रुतिभिः उप- नयनस्य उपनेयब्राह्मणाधर्थत्वमवगम्यते; तादयं तस्य तदीयकार्याध्ययनाङ्गत्वे निर्वहति, न तु अन्यदीयकार्या- ध्यापनाङ्गत्वे ; तथा उपनयनजन्याचार्यासत्तिरूपदृष्टसंस्का- रस्य विनियोगाकाङ्क्षायामध्ययनस्य उपनेयगतत्वेन अन्तरङ्ग- त्वाच्च तादर्थ्यमेव युक्तम् , न तु अध्यापनाङ्गत्वम् ; तस्य अन्यगतत्वेन बहिरङ्गत्वात् ; तथा उपनयनजन्यादृष्टसंस्का- रस्य उपनेयकार्यार्थत्वादपि तज्जन्याचार्यासत्तिरूपष्टसंस्का- रस्य तदीयकार्याध्ययनार्थत्वं युक्तम् , अस्ति हि अदृष्टसंस्कारो- ऽपि उपनयनजन्य: उपनेयस्य सर्वकर्माधिकारार्थः तदपेक्षमेव स्मरणम् --उपनयनादिनियमः इति ; तदपेक्षमेव च 'तस्मि- स्तु शिष्यमाणानि जननेन प्रवर्तेरन्' इति षष्ठाध्यायाधिकरण- म् । तत्र हि स्मृत्याचारप्राप्तानि कर्माणि जन्मप्रभृति कर्तव्या- नि सन्ति सामर्थ्यानुसारेण प्रागप्युपनयनात् कर्तव्यानीति पूर्वपक्षं कृत्वा, उपनयनप्रभृत्येव कर्तव्यानि इति सिद्धा- न्तितम् , तथा बीजगर्भसमुद्भवदुरितनिर्हरणार्थश्वायमुपनयन- जन्यः संस्कारः, 'गायैहोमर्जातकर्मचौलमौजीनिबन्धनैः । बैजिक गाभिक चैनो द्विजानामप्रमृज्यते । एवमेन: शमं ।

LABEL २८८ पूर्वोत्तरमीमांसा- याति बीजगर्भसमुद्भवम्' इत्यदिस्मरणात् ; इत्थमेनोनिहर- णार्थत्वेन कर्मानधिकृतयोरपि मूकोन्मत्तयो: उपनयनाव- श्यंभावमभिप्रेत्यैव तयोरनुपनयनपक्षो मनुना केषांचित्पक्ष- त्वेन उपन्यस्तः 'मूकोन्मत्तौ न संस्कार्याविति केचि- प्रचक्षते । कर्मस्वनधिकाराश्च पातित्यं नास्ति चैतयोः' इति; एवमुपनयनस्य अदृष्टसंस्कारद्वारा उपनेयार्थत्वस्य क्लप्तत्वात् दृष्टसंस्करद्वारापि तायमेवाभ्युपगन्तुं न्याय्यम् ; तथा 'सप्तमे ब्रह्मवर्चसकामम् अष्टमे आयुष्कामम्' इत्याधुपनय- नाश्रितवयोविशेषलक्षणगुणानामुपनेयार्थत्वात् तदाश्रयोपनय- नस्यापि ताय वक्तव्यम्; ' तथा कामोऽर्थसंयोगात्' इत्यधिकरणे यदि कामयेत वय्कः पर्जन्यः स्यानीचैः सदो मिनुयात्' इति वाक्ये सदोमातुरध्वर्यो: कामना न विवक्षिता, किं तु प्रधानफलाश्रयस्य यजमानस्यैव, प्रधान- गुणफलयोः एकार्थत्वस्यौत्सर्गिकत्वात् इति सिद्धान्तितत्वात् ; किं च उपनयनविधिना किमर्थमहमाचार्यसमीपं प्रापित:-इति उपनेयस्य कार्याकाझ्या उपनयनविध्यनन्तरं कर्तृरहिततया विहितस्याध्ययनस्य काकायया च उपनयनाध्ययनवि- ध्योरेकवाक्यता भवतीति वाक्यप्रमाणमपि उपनयनस्या- ध्ययनाङ्गत्वे प्रमाणम् ; तस्मादुपनयनस्याध्ययनाङ्गत्वेन बहु- वादनक्षत्रमाला। २८९ प्रमाणावधृतस्य अध्यापनाङ्गत्वाभावात् अध्ययनस्य विध्य- न्तराप्रयोज्यत्वमुपपद्यत इति न मद्धेतुर्विशेषणासिद्धः, त्वद्धे- तुश्चासिद्ध इति ॥ अथ दशमी कक्ष्या-- अस्तु उपनयनस्य यदाहृतप्रमाणैः अध्ययनाङ्गत्वम् , त- थापि अध्ययनस्यैवाङ्गमिति अवधारणं न संभवति, मदुदा- हृतप्रमाणैः अध्यापनाङ्गत्वस्याप्युपपत्तेः, न हि अल्पमपि प्रमाणम् अविरोधे बहुप्रमाणबाध्यं भवति। न च किंचिदङ्ग- भावस्य अन्याङ्गाभावेन विरोधोऽस्ति, प्रयाजादीनामानेयाद्य- नेकाङ्गत्वदर्शनात् ; न च यस्य यत्प्रधानम् , तस्य तदेव प्रधान द्वारीकृत्य तदन्याङ्गत्वमयुक्तमिति वाच्यम्, गीति- क्रियारूपसामसंस्कार्यत्वेन तत्प्रधानभूतामृचमेव द्वारीकृत्य साम्नो गुणिनिष्ठगुणाभिधानरूपस्तुतिसाधनत्वस्य 'साना स्तुवीत' इति श्रुतिबोधितस्य संप्रतिपन्नत्वेन तथैव उपनय- नस्याध्ययनाङ्गस्य अध्ययननिर्वर्तनद्वारा अध्यापनाङ्गत्वस्यापि उपपत्तेः; तस्मात् अध्ययनस्य अध्यापनविधिना स्वाङ्गभूत- मुपनयनं प्रयुञानेन प्रयुक्तिसंभवात् त्वद्धेतुर्विशेषणासिद्धः, मद्धेतुश्च नासिद्धः- इति ॥ अथैकादशी कक्ष्या- *V: 19 २९० पूर्वोत्तरमीमांसा- Media . . . १ अध्ययनाङ्गस्य सत: उपनयनस्य अध्यापनेऽपि अङ्गत्व- मापादयत् अनन्यथासिद्धमिह नास्ति प्रमाणम् ; तथा हि- 'उपनीय तु यः शिष्यम्' इति स्मृति: न : अध्यापनमात्रे- णाचार्यो भवति, किंतु उपनयनेनापि इत्येतावन्मानपरा- यथा 'न विद्यया केवलया तपसा वापि पात्रता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते' इति स्मृति: केवलं विद्यया तप- सा वृत्तेन वा पावं न भवति, किंतु विभिरित्येतत्परम् , प्रा- यपाठानुरोधात्, 'निषेकादीनि कर्माणि यः करोति यथावि- धि । संभावयति चान्नेन स विप्रो गुरुरिष्यते' इत्ययम् 'समाचार्य प्रचक्षते' इत्येतदनन्तर श्लोको हि निषेकाद्यध्या- पनान्तकर्मकरणेन पुत्राणां वृत्तिकल्पनेन च गुरुर्भवति, न तदेकदेशेन इत्येतदर्थो दृश्यते ; “स' गुरुर्यः क्रि- याः कृत्वा वेदमस्मै प्रयच्छति' इति तदर्थसंग्राहक- स्मृत्यन्तरे च क्त्वाप्रत्ययोऽपि दृश्यते ; न चैतावता निषेकादिचौलान्तकर्मकरणमपि तत्राध्यापनाङ्गमिष्यते; त- स्मात् नेह कर्तृकारकैक्येऽभिनिवेष्टव्यम् । तदपि चात्र उपपादयितुं शक्यम् अध्यापनोपकारकाध्ययनान्वयमात्रेण, दृश्यते हि आग्नेययागेन सह समुच्चित्य फलसाधनतया तदुपकारकस्य अग्नीषोमीययागस्याकानाम् आग्नेययागस्थ वादनक्षत्रमाला । २९१ , च क.क्यम् एकप्रयोगान्त:पातित्वात्। 'तमध्यापयीत' इत्यत्र तच्छब्दपरामृष्टस्य उपनयनस्य प्रयोज्यव्यापारभूता- ध्ययनाङ्गत्वमेव, अतिकुशलेन तक्ष्णा रथं निर्मापयति-- इत्यत्र प्रयोज्यविशेषणस्य तब्यापारे रथनिर्माण एवं उप- योगदर्शनात् ; 'उपनयीत' इत्यात्मनेपदश्रुतिस्तु उपनय- नस्य अध्यापनकारकत्वमावेणापि उपपादयितुं शक्येति प्रसाधितं सप्तमकक्ष्यायाम् । न च साक्षात्संबन्धसंभवे अध्ययनाङ्गभावद्वारकपरम्परासंबन्धग्रहणं न युक्तमिति वा- च्यम् , उपनयनमध्ययनाङ्गमिति बहुप्रमाणसिद्धत्वेन क्लप्त- संबन्धविषयत्वे संभवति स्मृतेः कल्प्यसंबन्धान्तरालम्बन त्वाभ्युपगमायोगात्; उपनयनसंस्कारस्य अन्यत्र विनियोगा- दर्शनेन कैमर्थ्याकाङ्क्षायां हि अक्लमोऽप्यध्यापर्नेन साक्षा- संबन्धः तदालम्बनं कल्प्येत ; किंच आत्मनेपदश्रुतिः उप- नयनस्य अध्ययनाङ्गत्व एव प्रमाणम् , संमाननादिसूत्रेणा- त्मनेपदविधानस्य अकत्रभिप्रायार्थत्वात् , कत्रंभिप्राये क्रिया- फले नयते: आत्मनेपदस्य स्वरितत्रितः' इत्यादिसूत्रेण सिद्धत्वात्। ननु उपनयनं प्रत्यङ्गित्वेन उद्देश्यस्य अध्याप- नस्य तत्फलस्याचार्यत्वस्य च कर्तृगतत्वेऽपि तस्याध्याप- नाङ्गतायां द्वारभूतस्य उपनयनजन्यसंस्कारस्याकर्तृगतत्वात् .

२९२ पूर्वोत्तरमीमांसा- . , अन्यथा संमाननादिसूत्रेण आत्मनेपदम् इत्येतदुपपद्यत इति चेत् , न, उपनयनजन्याचार्यासत्तिरूपसंस्कारस्यापि त्वन्मते उपनयन- कर्तृगतत्वात् ; न हि तद्गतत्वं तत्समवेतत्वम् , किंतु तादर्थ्यम् , पशुपुत्रहिरण्यादीनां यजमानसमवेतत्वाभावेन 'चित्रया यजेत पशुकामः' इत्यादौ आत्मनेपदं न स्यात् ; उपनयनकर्थत्वं च माणवकसंस्कारस्य अध्ययननिर्वर्तनद्वा- रा तदीयाध्यापनार्थत्वात् अस्त्येव ; किं च कभिप्रायस्यापि क्रियाफलस्य सत्त्वे स्वरितादिसूत्रेणैव आत्मनेपदसिद्धेः सं- माननादिसूत्राप्रवृत्तिशङ्का तदवस्थैव ; अपि च अकर्तृगतमपि किंचित् क्रियाफलम् अस्तीत्येतावदवलम्बनापि संमाननादि- सूत्रप्रवृत्तिरिह अशक्यशङ्का, शाब्दिकमर्यादाविरोधात्----शा- ब्दिकैर्हि यत्प्रधानं फलमुद्दिश्य क्रियारम्भः, तस्य कर्तृगत. त्वाकर्तृगतत्वयोरेव पदव्यवस्थाप्रकरणविषयत्वमङ्गीकृतम् उक्तं च हरिणा-- यजति याजकः पचति पाचक:- इत्यत्रात्मनेपदं स्यात् , तत्रापि दक्षिणादेः कर्तृगामित्वात्- इत्याशङ्का निराकुर्वता 'यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम्' इति; न च ऋत्विगादिव्यापारा: दक्षिणालाभाद्यर्थमारभ्यन्ते शङ्का तवस्थेति वाच्यम् , उपात्तयागपाकादिक्रियासंतत्य- . .

वादनक्षत्रमाला। २९३ .. , वच्छेदकप्रयोगप्रथमप्रवृत्तेरारम्भशब्दार्थत्वात् ; सा च प्रथम- प्रवृत्ति: स्वामिगता ऋतुपाकसंकल्पवरणपाचकप्रवर्तनादिरू- पैवेति नातिप्रसङ्गः ; तस्मात् 'उपनयीत' इत्यात्मनेपदश्रुतिः उपनयनस्य अध्ययनाङ्गत्व एव प्रमाणम् ।। कैश्चिदिमां कौमारिलोक्तां युक्तिं विलिख्य, तत्र उपनयन- मध्यापनाङ्गम् इति वदतामाक्षेप: तत्समाधानं चेति उभयं खबुद्धिकल्पितं किंचिल्लिखितम् , तत् प्रसङ्गादिह निराकर्तु विलिख्यते---ननु क्रियाफलस्य कर्डकगतत्वं कर्बभिप्रायत्वम् , तथा च उपनयनफलस्य कर्बकत्रुभयगतत्वेन तत्र स्वरितादि- सूत्राप्रवृत्तेः तत्र आत्मनेपदाथै संमाननादिसूत्रमिति चेत् , न, तथा विवक्षायाम् ‘अग्नीनादधीत' इत्यत्र कत्रभिप्रायसूत्रेण आत्मनेपदाभावप्रसङ्गात् , आधानफलस्य अग्नियजमानोभ- यगतत्वात् ; कत्रैकगतत्वोक्त्या कत्रंतिरिक्तचेतनगतत्वव्या- वृत्तिर्विवक्षितेति चेत् , न, तथापि ऋत्विजो वृणीते' इत्यत्र स्वरितादिसूत्रेणात्मनेपदाभावप्रसङ्गात् ; अथ अव्य- वहितक्रियाफलस्य कर्तृगतत्वं कभिप्रायत्वं विवक्षितम् , ततश्च उपनयनाव्यवहितमाणवकसंस्कारस्याकर्तृगतत्वात् स्व- रितादिसूत्राप्रवृत्तेः संमाननादिसूत्रमिति चेत् , न, एव- मपि · अग्नीनादधीत' इत्यत्र कत्रंभिप्रायसूत्रेण आत्मनेपदा- पूर्वोत्तरमीमांसा- . भावप्रसङ्गात् , आधानाव्यवहितफलस्य अग्निसंस्कारस्य क- र्तृगतत्वाभावात् कर्तृगतस्याहिताग्नित्वस्य व्यवहितफलत्वात् ; ननु आधानसंस्कृताग्निः कर्तुः फलमिति आधातुरव्यवहि- तफलान्वयोऽस्तीति चेत्, न, एवमुपनयनस्यापि तत्संस्कृतो माणवकः फलमिति उपनेतुरव्यवहितफलसत्त्वात् कत्रभिप्रा- यसूत्रेणैवात्मनेपदसिद्धेः संमाननादिसूत्रवैयर्थ्यतादवस्थ्यापा- तात्; तस्मात् असाधारणस्य क्रियाफलस्य कर्तृगतत्वं करें- भिप्रायः इत्यस्यार्थः । एवं चाकभिप्रायफलजनकक्रियायाम- साधारणस्य फलस्याकर्तगतत्वेऽपि साधारणफलान्तरलिप्स- या कर्तुः प्रवृत्तिरुपपद्यते ; असाधारणक्रियाफलस्य आचार्य- स्वस्य कर्तृगतत्वात् तादयें स्वरितादिसूत्रेणैव आत्मनेपद- सिद्धेः संमाननादिसूत्रम् अकर्मभिप्रायफलार्थमिति उपनय. नस्य अध्ययनाङ्गत्वमपि ततः सिध्यतीति-- सर्वमिदम् अस्थानविजृम्भितम् तथा हि-यत्तावत् शङ्कितम्- कर्वेकगतत्वं कर्मभिप्रायत्वं विवक्षितमिति, तत्र किं शाब्दि- कमर्यादया यत् प्रधानफलमुद्दिश्य क्रियारम्भः, तदिह क्रियाफलं गृहीत्वा इयमधिकविवक्षाशङ्का, उत यथा कथं- चित् क्रियाजन्यफलमा क्रियाफलं गृहीत्वा, यदि आद्यः पक्षः, तदा न अनया अधिकविवक्षया प्रागुक्तदोषोद्धारो Aaplanegaon .

वादनक्षत्रमाला । an लभ्यत इति व्यथैव एषा शङ्का भवेत् ; उपनयनस्य अध्यापनाङ्गत्वपक्षे तस्य प्रधानं फलमाचार्यत्वमिति तत्फ- लय ककगतत्वात् । यदि शाब्दिकमर्यादामतिलक्ष्य क्रि- याफलस्य प्राधान्यमिह न विवक्षितम् , किंतु कञकगतत्वमेव, तथा विवक्षायामपि यजन्ति याजका: पचन्ति पाचका: इत्या- स्मनेपदं न भविष्यति, स्वामिगतस्वर्गभोजनादेरपि यागपा- कफलत्वेन क्रियाफलस्य कर्बकगतत्वाभावात् इति कल्पयित्वा द्वितीय: पक्ष: समाश्रीयते, तदा यजते इति स्वामिविषयेऽपि आत्मनेपदं न स्यात् , आत्रेयदानबिग्दक्षिणासदस्यदक्षिणादि- विधिमूलकानाम् आत्रेयादिगतहिरण्यलाभादीनामपि यथा- कथंचित् यागक्रियाफलभूतानां सत्त्वेन तत्रापि क्रिया- फलस्य कञकगतत्वाभावात् ; क्रीणातिददात्योश्च आत्मनेपदं न स्यात् क्रयफलयोः केयमूल्यद्रव्यलाभयोः दानफलयोः सुकृतदेयद्रव्यलाभयोश्च क्रयदानकत्रकर्चुभयगतत्वात् , वि. क्रयप्रतिग्रहफलयोः आदेयमूल्यद्रव्यलाभयोः क्रयदानसा. पेक्षत्वेन तत्फलत्वस्यापि सत्वात् । तस्मात् प्राधान्यविवक्षा अवश्यमाश्रयणीया इति न अनया अधिकविवक्षया प्रागु- क्तदोषोद्धारो लभ्यते; यत्तु कञकगतत्वविवक्षायां दूषणमु- तम्-तथासति आदधीत' इत्यत्र कत्रभिप्रायसूत्रेण आ- .

२९६ पूर्वोत्तरमीमांसा- , . . , त्मनेपदं न स्यादिति, तदपि प्राधान्यविवक्षावश्यंभावसमर्थ- नेन निरस्तम् । कामश्रुतिप्रयुक्तस्याधानस्य आधानारम्भे प्रयो- जकस्य · अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिवाक्येषु काम- नाविषयत्वेन श्रुतस्य फलस्य कर्वेकगतत्वात् , आधानस्य स्व- विधिप्रयुक्त्यङ्गीकारेऽपि अग्निसंस्कारस्य आधानकर्तृगतत्वाच्च न हि तद्तत्वं तत्समवेतत्वम् , किंतु तादर्थ्यमित्युक्तम् ; अग्नि- संस्कारस्य च यजमानगतत्वं निर्विवादम् । न च तस्य मीनाधीत' इति द्वितीयाश्रुत्यवगतमग्न्यर्थत्वमपि अस्तीति वाच्यम् , द्वितीयाश्रुत्या हि संभारेषु मथिताग्निनिधानरूपा- या आधानक्रियाया निधेयाग्न्यर्थत्वमवगतम् ; न तु तज्ज- न्यसंस्कारस्य, तजन्यसंस्कारविशिष्टत्वेन आहवनीयादिश- ब्दवाच्यस्य 'आहवनीये जुहोति' इत्यदिवाक्यान्तरा- वगतभाव्युपयोगस्याग्नेः तद्विशिष्टरूपेण आधानं प्रत्युत्पाद्य- कर्मत्वाङ्गीकारेण तस्यैव तदर्थत्वायोगात्; तस्मात् आधा- नक्रियाजन्यसंस्कारस्यापि तद्विशिष्टानेरिव आहवनीयादि- पदार्थानतिरेकात् आधातृमात्रार्थतैव, न तु आहवनी- याद्यर्थतापि इति नेयं कत्रेकगतत्वपक्षे दूषणभङ्गी युक्ता ; एवं तु तत्र दूषणं वक्तव्यम्-तथा विवक्षायां चित्रादिवा- क्येषु आत्मनेपदं न स्यात् , चित्रेष्टयादिफलानां पशुहिरण्या- .

वादनक्षत्रमाला। २९७ .. . दीनां क्रयप्रतिग्रहादिभिः यजमानेन लभ्यानां विक्रयदाना- दिभिः तेन अन्यसात्कर्तुं शक्यानां यजमानार्थत्वसमयात्प्राक् पश्चाच्च अन्यार्थत्वस्यापि सत्त्वेन तस्मिन्नपि समये जन्मप्र- भृति पितृधनस्वामिभूतपुत्राद्यर्थत्वस्यापि सत्त्वेन तेषां कत्रे. कगतत्वाभावात् ; पचिधातोः स्वामिविषयेऽपि आत्मनेपदं न स्यात् , पचिक्रियाफलस्य अन्नस्य अन्ततो भिक्षुमक्षिकाद्य- कर्तृसाधारणस्यावर्जनीयत्वात् इति । यत्तु 'आदधीत' इत्यत्र स्वरितादिसूत्राप्रवृत्तिप्रसङ्गदूषणपरिहारार्थ कञकगतत्वम् इ- त्यनेन कतिरिक्तचेतनगतत्वनिषेधो विवक्षित इत्युक्तम् , तद- पि अज्ञानविलसितम्, आघानजन्यसंस्काराणाम् आहवनी- याद्यभिमानिदेवतागतत्वात् ; अन्यथा आधानकाले आहित- स्य आह्वनीयादेरचेतनस्याग्नः आधानप्रयोगसमाप्त्यनन्तरं परित्यागेन तद्तस्य संस्कारस्य तन्नाशान्नाशोऽवश्यंभावीति आहवनीयाद्यनुवृत्त्यभावप्रसङ्गात् ; अजस्रपक्षेऽपि आहवनी- यादिशब्दानामनेकार्थत्वापत्तेः; पशो प्रणयनविशेषसंस्कृतस्या- हवनीयस्य औत्तरवदिकप्रणयनानन्तरं गाहपत्यतापत्त्या तस्या- हवनीयशब्दप्रवृत्तिनिमित्तत्वायोगाच्च ; तस्मात् आहवनीया- द्यभिमानिदेवता एव तत्तदायतनविशेषनिहितेषु संभारेषु मथि- ताग्निनिधानरूपेण आधानेन संस्कियन्ते ; देवताश्व संस्कृता २९८ पूर्वोत्तरमीमांसा- - अजस्त्रपक्षे यजमानशरीरे अग्निदानपर्यन्तं मध्ये अग्निसं- स्कारविच्छेदनिमित्तोपजनने तत्पर्यन्तं च तेष्वग्निषु संनि- दधते ; अग्नीनामजनधारणाभावे तत्तत्कर्मावसानेषु आहब- नीयादिदेवता: गाईपत्यमनुप्रविशन्ति ; पशौ च औत्तरवेदिके प्रणयने क्रियमाणे तमाहवनीयोऽनुप्रविशति, तेन प्रागधि- ष्ठितमग्निं गार्हपत्यः इत्यादिकमभ्युपगन्तुं युक्तम् ; एवं सत्येव नान्तराग्नि संचरति यदि पूर्वोऽनुगत: संचर्य पश्चाहिस्तहि गतः' इति गाईपत्याज्ज्वलन्तमाङ्वनीयमुद्धरति' इति च कल्पसूत्रकारवचनं सामजस्यमश्नुते, न हि संस्कारमात्रस्य पश्चाद्गमनं संभवति, नापि आवनीयस्य गाईपत्यानुप्रवेशा- भावे गार्हपत्यात् तत्र असत: आवनीयस्योद्धरणं संभवति । यत्तु कर्त्रेकचेतनगतत्वपक्षे ऋत्विजो वृणीते' इत्यत्र आत्मने- पदं न स्यात् इति दूषणमुक्तम् , तत् अतिस्थवीयः, 'वृङ्- संभक्तो' इति इनाविकरणपठितस्य ङितः खलु वृणीते इति रूपम्, न तु श्नुविकरणपठितस्य बित: ‘वृन् वरणे' इति धातोः; अत: अत्र स्वरितादिसूत्राप्रवृत्तिप्रसजनम् इष्टप्रस- अनमेव, 'अनुदात्तचित आत्मनेपदम्' इति सूत्रविषय- त्वात् ; तस्मात् इहापि पूर्ववत् यजते पचते इति स्वा- मिविषयेऽपि आत्मनेपदं न स्यादिति दूषणं वाच्यम् । यत्तु , वादनक्षत्रमाला। , ७ स्यात्, • अव्यवहितक्रियाफलस्य कर्तृगतत्वं विवक्षितमिति पक्षा- न्तरमाशङ्कितम् , तत् कथमाशङ्कनीयत्वेन परहृदयमा- रूढमिति न जानीमः, यो हि प्रागाशङ्कितं पक्षद्व- यम् आदधीत' इत्यत्र आत्मनेपदं न णीते' इत्यत्रात्मनेपदं न स्यादिति एकैकेन दूषणेनादू- दुषत् , तस्य कथं तदूषणद्वयमपि अत्र जागर्ति- इत्य- भिमन्तुमर्हस्य आदधीत' इत्यत्रात्मनेपदं न स्यादित्येव अमुं पक्षं दूषयिष्यतश्च अयं पक्षः शङ्कनीयत्वेन हृदयमा- रोहेत; किंच स्वरितादिसूत्रे कभिप्रायविशेषणस्य यजन्ति याजका: पचन्ति पाचका: इति प्रसिद्धं प्रत्युदाहरणम्- यजन्ति इत्यत्र कर्तृगामि फलं दक्षिणालाभरूपं ऋतुप्रयोगम- ध्य एव भवत् न कदापि व्यवहितफलं भवति, किंतु अकर्तृ- गामिस्वर्गादिकमेव व्यवहितफलम् , पचन्ति इत्यत्र कर्तृगामि फलं भूतिलाभरूपम् अव्यवस्थया प्राङ्मध्ये पश्चाद्वा भवत् नियमेन व्यवहितं न भवति ; अत: सौत्रविशेषणस्य व्याव- तनीयत्वाभिमतव्यावर्तनाक्षमतापादकं विशेषणान्तरं विव- क्षितमिति अशङ्कनीयत्वेन कथं मन्दस्यापि हृदयमारोहेत् ; त- स्मात् नेयं पक्षान्तराशकोद्भावनशैली पण्डितानां हृदयंगमा ; यत्तु अस्मिन्पक्षे आदधीत' इत्यत्र आत्मनेपदं न स्यात् ,. यन्त्र १ - पूर्वोत्तरमीमांसा- , . . , , तदव्यवहितफलस्य अग्निसंस्कारस्य अकर्तृगतत्वादिति दूष- णमुक्तम् , तदपि तुच्छम् , तस्यापि पशुहिरण्यादिरीत्या कर्तृगतत्वसमर्थनात् ; किं च अग्निसंस्कारस्य कर्तृगामि- फलापेक्षया पूर्वभावित्वमपि असिद्धम् , कर्तृगतं हि फ- लम् आहिताग्नित्वमिति पराभिमतम् , तत् यद्यपि सर्वक्र- त्वधिकारार्थत्वात् दानविशेषेषु पात्रतापादकत्वाच्च कर्तुरिष्य- माणं फलं भवितुमर्हति, तथापि न तत्पूर्वभाव्यग्निसंस्कारः, स खलु साङ्गस्य कृत्स्नस्याधानप्रयोगस्य समाप्त्यनन्तरं जायते, न तु संभारेषु अग्निनिधानानन्तरमेव, उदीच्याङ्गवै- यांपत्तेः आहिताग्नित्वमपि साङ्गाधानप्रयोगसमात्यनन्त- रमेव जायते, न तत्र कश्चिद्विशेषोऽस्ति; अपि च यस्मिन् आधानप्रयोगसमाप्त्यनन्तरक्षणे अग्निसंस्कारो जायते, तस्मि- नेव कर्तृसमवेताधानक्रियाफलरूपमपूर्वमपि जायते । न च आधानस्य अग्निसंस्कारमात्रार्थत्वात् अपूर्वजनकत्वं नास्तीति शङ्कनीयम्, अनाहिताग्नित्वस्य उपपातकेषु परिगणनेन अ- ग्न्याधेयस्य चत्वारिंशत्पुरुषसंस्कारमध्ये परिगणनेन च तस्य पुरुषार्थताया अपि सत्त्वेन तज्जन्यापूर्वस्य अवश्या- भ्युपगन्तव्यत्वात् ; गुरुणापि विवरणटीकायाम् अग्न्य- र्थस्थाधानस्य नियोगविषयत्वमप्यस्ति इत्युक्तत्वाच; न च , वादनक्षत्रमाला। आधानसंस्कारस्य साङ्गप्रधानानन्तरभावित्वेऽपि संभारेष्व- ग्निनिधानरूपप्रधानानन्तरमेव अग्नौ स्वायतनप्राप्तिरूपाति- शयो जायत इति वाच्यम् , तदानीमेव कर्तरि अपूर्वजन- नेनाविशेषात् ; यत्तु अग्निसंस्कारख व्यवहितफलस्य कर्तृग- तत्वाभावेऽपि आधानसंस्कृतोऽग्निः अव्यवहितं कर्तृगामि फ- लमस्तीति शङ्कितम् , तत् संस्कारात् संस्कृतस्य केन विशेषेण कर्तृगामित्वमस्तीति शङ्कितम् इति न विद्मः; कर्तृगतत्वं कर्तृ- समवेतत्वं चेत् संस्कृतस्यापि असिद्धम् , कर्बर्थत्वं चेत् संकार- स्यापि अविशिष्टम् ; यत्तु दूषणमुक्तम्- एवमुपनयनस्यापि तत्संस्कृतो माणवकः फलं स्यात्-इत्यादि, तदपि उक्तरीत्यैव निरस्तम् , कर्तृगतत्वं कर्तृसमवेतत्वम् इत्यभ्युपगमे माणवकस्य फलत्वायोगात्, कर्बर्थत्वम् इत्यभ्युपगमे उपनयनस्य फलत्वा- संभवेऽपि उपनीतस्याव्यवहितफलत्वं संभवतीत्युक्त्ययोगात्; यत्तु स्वयं कभिप्रायसूत्रार्थनिर्धारणं कृतम्- असाधारण- क्रियाफलस्य कर्तृगतत्वं कर्बभिप्रायसूत्रार्थः इति ; तदपि तुच्छम् , यदि तस्या एव क्रियाया यत्फलं न क्रियान्तरापे- क्षम् , तदसाधारणमिति विवक्षितम् , तदा 'नवसप्तदशेना- तिरात्रेण प्रजाकामो यजेत' इति आत्मनेपदं न स्यात् , प्र- जोत्पादनार्थ लौकिकक्रियाया अपि अपेक्षणात्; यदि यदे १ ३०२ पूर्वोत्तरमीमांसा. कमात्रगतम् , तदसाधारणम् इति विवक्षितम् , तदा चित्रा- दिवाक्येषु आत्मनेपदं न स्यात् , पश्वादिफलानां पुत्रादिसा- धारण्यात्; तस्मात् शाब्दिकमर्यादानुसारेण प्रधानस्य क्रि- याफलस्य कर्बर्थत्वमेव कर्बभिप्रायसूत्रार्थः इत्यस्मदुन्नीत एवात्र आक्षेपसमाधानप्रकारो द्रष्टव्यः; तस्मात् उपनयनस्य अध्यापनाङ्गत्वाभावात् तत्प्रयुक्तिमूलं विहिताध्ययनस्य अ- ध्यापनविधिप्रयुक्तत्वं न भवति इति न मद्धेतुर्विशेषणासि- द्धः, त्वद्धेतुश्च असिद्ध इति ।। अथ द्वादशी कक्ष्या- उपनयनस्य अध्यापनाङ्गत्वे मदुपन्यस्तानि प्रमाणानि अध्ययनाङ्गत्वविषयतया अन्यथासिद्धान्युपपादयता त्वया विहिताध्ययनस्य अध्यापनविधिप्रयुक्तत्वमेव उपपादितमिति त्वयैव त्वद्धतोर्विशेषणासिद्धिः मद्धेतोरसिद्धयुद्धारश्च इत्युभय- मपि कृतम् ; तथा हि-अध्ययनाङ्गस्योपनयनस्य अध्यापनस्य च कर्तृत्वाधिष्ठातृपुरुषैक्यं कक्यं वा वाक्यार्थ इति यत्प- क्षद्वयमुक्तम् , तत्र अध्ययननिर्वय॑स्याध्यापनस्य अध्याप- यित्पुरुषकर्तृकोपनयनसाध्यत्वेन उपस्थितं यद्विहिताध्ययनं तन्निर्वर्तकत्वेनान्वयं न भजते, वृत्तेः प्रसक्तेः ; 'तमध्या- पयीत' इत्यत्र तक्षकौशलन्यायेन उपनयनस्य प्रयोज्या. . ८ वादनक्षत्रमाला । न्वयं वदता त्वया उपनयनाङ्गकं विहितमध्ययनम् अध्याप- नविधिप्रयोज्यम् इति स्पष्टमेवोक्तम् ; तथा अध्ययनाङ्गे उप- नयने श्रुतस्य आचार्यत्वस्य तदङ्गकविहिताध्ययनद्वारा अध्या- पनसंबन्धेन आत्मनेपदश्रुतिमुपपादयतापि त्वया विहिता- ध्ययनस्य अध्यापनविधिप्रयुक्तत्वं स्पष्टमेवाङ्गीकृतम्, अत उपनयनस्य अध्यापनाङ्गत्वनिराकरणेन मम न काचित्क्ष- तिः, तत्प्रसाधनीयस्य प्रधानार्थस्य अध्ययनाङ्गत्वं व्यव- स्थापयता त्वयैव प्रसाधितत्वात्-- इति ।। अथ त्रयोदशी-- उपनयनस्याध्यापनाङ्गत्वे त्वदुपन्यस्तानि प्रमाणानि मया तस्य विहिताध्ययनाङ्गत्वविषयतया न नीतानि, किंतु अ- ध्ययनसामान्यद्वारकत्वमात्रविषयतया; अध्ययनसामान्यद्वा. रकत्वं च लौकिकाध्ययननिवेशनेनाप्युपपद्यते; विहिता- ध्ययनस्यैव उपनयनेन संबन्धः क्लप्त इति चेत्, न, लौकि- काध्ययनस्यापि तत्संबन्धस्य क्लप्तत्वात् ; न हि लौकिक- मध्ययनम् आचार्यसमीपप्राप्तिं विना कर्तुं शक्यम् ; न वा क्त्वाश्रुत्यादिकं विहिताध्ययननिवेशनमन्तरेण नोपपद्यते; अथापि कथंचित विहिताध्ययनं द्वारत्वेन निवेश्यत इति प्रत्याशा क्रियेत, यदि विरोधो न स्यात् , अस्ति नित्या- पूर्वोत्तरमीमांसा- नित्यसंयोगविरोधः अध्ययनं हि नित्यम् , तदङ्गस्य उपन- यनस्य नित्यत्वात् , 'अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृ- ताः । साविलीपतिता व्रात्या भवन्त्यार्यविहिताः' इति स्मर- णात् 'योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीव- ब्रेव शूद्रत्वमाशु गच्छति सान्वयः' इति अध्ययनाभावे दोष- स्मरणाच्च ; अध्यापनविधिस्तु काम्य इत्यङ्गीक्रियते; एवं च यत्र ग्रामे जनपदे वा धनवत्त्वादिहेतुभिः आचार्यत्वकामो न स्यात् , सन्वा कश्चित् उपनीय अध्यापयितुं प्रवृत्तः प्रव्रज- नादिहेतुभिः निवृत्ताध्यापनसंबन्ध: स्यात् , तदा तद्रामज- नपदवासिनामपि अध्ययनस्य तेनाचार्येण उपनीतानाम् एकदेशमध्यापितानाम् एकदेशान्तराध्ययनस्य च कथं नि- वृत्तिः स्यात् ; अपि च अध्ययनं यावद्वेदसमाप्ति आचार्या- धीनेन स्मृत्युक्तशिश्रूषादिनियमः तदुपासनापरेण च सता यथा तदुच्चारणं स्वरवर्णादिभ्रंशराहित्येन कर्तव्यमतिक्लेश- साध्यम्; अस्मिन्कथमन्यपुरुषगाम्याचार्यत्वसिद्धयर्थमन्यः प्रवर्तेत, कथं च तस्मै दक्षिणां दद्यात् ; याच्येत अध्यापथि- तैव स्वस्याचार्यत्वसिद्ध्यर्थम् अध्ययनेन माणवकस्य अर्थज्ञा- नादिफलं प्रदय तं प्रवर्तयेदिति, तथा सति तस्य स्वाधि- कार एव प्रवर्तकः स्यात्, न अध्यापनविधिः वादनक्षत्रमाला । : अध्यापकेन स्वस्याध्यापनफलसिद्धयर्थ माणवकः तदधिका- रप्रदर्शनेन अध्ययने प्रवर्तत इति एतावता तस्य अध्यापन- विधिप्रयुक्तत्वसिद्धिः, द्रव्यार्जनप्रवृत्तयाजकैः निषादः स्वाधि- कारं प्रदर्य स्थपतीष्टौ प्रवर्तत इति स्थपतीष्टेरपि द्रव्याज- नविधिप्रयुक्तत्वप्रसङ्गात् ; अपि च द्रव्यार्जनोपायत्वेन प्रति- ग्रहादिवत् प्राप्ते अध्यापने विध्यसंभवादेव अध्यापनविधिप्र- युक्तमध्ययनमिति निरर्थकं वचः; न च आचार्यत्वार्थत्वेन विधिः शङ्कनीयः, तस्य अपुरुषार्थत्वात् ; न च पूजादक्षि- णादानादिहेतुत्वेन तस्य पुरुषार्थता, मातृपितृमातुलपितृव्या- दीनां यौनसंबन्धेनेव आचार्यस्य मौखसंबन्धेन पूज्यत्वोप- पत्तौ तदर्थमाचार्यत्वनामकालौकिकातिशयकल्पनायोगात् ; न हि तत्र अन्यत्प्रमाणमस्ति, न च तमाचार्य प्रचक्षते' इति स्मृति: तत्र प्रमाणम् , तस्य ‘आचार्याधीनो भव' इत्यादि- श्रुतिस्मृतिदृष्टाचार्यशब्दार्थकथनमानपरत्वोपपत्तेः; दृश्यते हि ब्राह्मणं पात्रेन च परीक्षेत' इत्यादिश्रुतिस्मृतिदृष्टपात्र- शब्दार्थनिर्णयार्था न विद्यया केवलया' इत्यादिस्मृतिः; न च आचार्यकरणविशिष्टे नयत्यर्थे आत्मनेपदविधायिनी व्याकरणस्मृतिः तत्र प्रमाणम् , आचार्यकरणं हि आ- चार्यस्य क्रिया उपनयनाङ्गभूताचार्यानुष्ठेयवैदिककर्मरूपा, . , , . ८ . . *V.20 पूर्वोत्तरमीमांसा- तद्विशिष्टे समीपप्रापणे आत्मनेपदम् , न तु समीपप्रापणरू- पधात्वर्थमात्रे इत्येतदर्थत्वात् तस्याः स्मृतेः ; तस्मात् अध्य- यनस्य विध्यन्तरप्रयोज्यत्वायोगात् न मद्धेतुर्विशेषणासिद्धः, त्वहेतुश्चासिद्धः इति स्वविधिप्रयुक्तमेवाध्ययनमिति सिद्धम् ।। " इति अध्ययनस्य स्वविधिप्रयुक्तत्व- समर्थनवादः ॥२१॥ 33 भस्मोद्धूलनत्रिपुण्ड्रयोः सकलब्रह्म- विद्याङ्गत्वसमर्थनवादः ॥ यथा उपनयनम् अध्ययनविध्येकवाक्यतापन्नविधिविहि- तत्वेन अध्ययनाङ्ग सत् अधिकारापादकत्वेन सर्वकर्मार्थ- मपि, एवं भस्मोद्भूलनं पाशुपतविद्याप्रकरणानानेन तद सत् चित्तशुद्धथापादकत्वेन सकलब्रह्मविद्याङ्गमपि- इति स- मर्थनाय कथान्तरं प्रस्तूयते--- विष्णुभागवता मन्यन्ते---- 'अग्निरित्यादिना भस्म गृही- त्वा विमृज्याङ्गानि संस्पृशेत् व्रतमेतत् पाशुपतं पशुपाशवि- मोक्षाय' इति अथर्वशिरसि पाशुपतविद्याप्रकरणे समानातं भस्मोद्भूलनं प्रकरणवशात् तन्मात्राङ्गम् , न तु सकलब्रह्म- विद्याङ्गम् , न हि पूर्वोऽतिथिभ्योऽनीयात्' इति वैश्वान- रविद्याप्रकरणे समानातम् अतिथिप्राम्भोजनं सकलब्रह्मवि- द्यानम्- इति; सैद्धान्तिकी मर्यादा तु सकलब्रह्मविद्यापेक्षित- चित्तशुद्धिरूपपापक्षयोपकारजनकं भस्मोद्भूलनं सकलब्रह्मवि- द्याङ्गम् , तस्य हि जाबालश्रुतौ--'पापं नाशयते कृत्स्नमपि ३०८ पूर्वोत्तरमीमांसा - . जन्मशतार्जितम्' इत्यादिना पापक्षयोपकारहेतुत्वमवधृत- मिति ॥ MINIA . तत्रेयं सैद्धान्तिकी प्रथमा कक्ष्या- 'अग्निः' इत्यादि- मन्त्रविधेयं भस्मोद्भूलनं सकलब्रह्मविद्याङ्गम् , विद्याङ्गत्वे सति सकलब्रह्मविद्यापेक्षितोपकारजनकत्वात् , शमदमादि- वत् । 'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मु. च्यते सर्वपापैः' इति शातातपस्मृतौ प्रायश्चित्तप्रकरणे स्वत- न्त्रप्रायश्चित्ततया विहिते रुद्रजपे तदने भस्मोद्धूलनादौ च विद्यापोक्षितोपकारजनके व्यभिचारवारणार्थं विद्याङ्गत्वे सती- ति विशेषणम् ; अतिथिप्राग्भोजनादौ व्यभिचारवारणार्थ विशेष्यम् । न च उदाहृतजाबालश्रुतेः स्वतन्त्रभस्मोद्धूल- नविषयत्वसंभवात् विशेषणासिद्धिरिति शङ्कनीयम्; 'अ- ग्निरिति भस्म वायुरिति भस्म' इत्यादिभस्मोद्धूलनमन्त्राणा- मथर्वशिरस्यानाताना जाबालश्रुतौ भस्मोद्धूलनार्थतया समा- मानेन पाशुपतविद्याङ्गस्यैव भस्मोद्भूलनस्य पापक्षयद्वारकत्वं जाबालश्रुतावुच्यत इति मन्त्रप्रत्यभिज्ञया अवगम्यमानत्वात् इति ॥ OUR अथ द्वितीया कक्ष्या- INE वादनक्षत्रमाला। ३०९ प्रकरणनियन्त्रितं भस्मोद्धूलनं प्रकृतिविकृतिभावादिकम- न्तरेण अपेक्षामात्रात् न पारिप्लवं भवितुमर्हति । न हि सा उपदेशातिदेशप्रमाणेषु अन्तर्भवति ; न च पाशुपतविद्या स. कलविद्याप्रकृतिरिति वक्तुं शक्यम् , तस्यां विद्याङ्गविद्यासह- कारिकर्मगतिचिन्तनादीनामनाम्नानात् ; कृत्स्नविधानेन हि प्रकृतिर्भवति ; न चेह प्रमाणान्तरं वास्ति; तस्मात् अप्रयो- जकं त्वदनुमानमिति- भस्मोद्धूलनं न सकलब्रह्मविद्याङ्गम् , विद्याविशेषप्रकरणनियन्त्रितत्वात् , अतिथिप्राम्भोजनवत्- इति ॥ अथ तृतीया- anRED यदुक्तम् अपेक्षा न उपदेशातिदेशप्रमाणेषु अन्तर्भवति, न चेह प्रमाणान्तरमस्तीति, तदयुक्तम् , अपेक्षायास्तु साम- र्थ्यपर्यालोचनामूलतया लिङ्गेऽन्तर्भावात् ; तयैव खलु अव- हननस्य यवादिसाधारण्यम् ; अन्यथा वीयुद्देशेन विहितस्य तस्य कुतो यवसाधारण्यं स्यात् ; तयैव च विद्याविशेषप्रकर- णानातानां यज्ञदानतप:प्रभृतीनां शमदमादीनामचिरादि- गतिपर्वणाम् अन्येषां चैतादृशानां सकलब्रह्मविद्यासाधार- ण्यम् । तस्मात् अपेक्षासामर्थ्य तावत् इहैकं प्रमाणं भवत्येव । तथा- 'व्रतमेतत्पाशुपतं पशुपाशविमोक्षाय' इति श्रुति- , पूर्वोत्तरमीमांसा- . रपि तत्र प्रमाणम् ; तत्र हि विमोक्षशब्देन विमुक्ति- साधनं विद्यामात्रमुच्यते ; यथा एतावदरे खल्वमृतत्वम्' इत्यत्र अमृतत्वशब्देन अमृतत्वसाधनमुच्यते; न हि विद्यैकसाध्यायां विमुक्तौ भस्मोद्भूलनस्य साक्षात्साधनत्वं संभवति । तथा तेषामेवैतां ब्रह्माविद्यां वदेत शिरो- व्रतं विधिवद्यैस्तु चीर्णम्' इति मुण्डकवाक्यमपि तत्र प्रमाणम्- तत्र हि शिरोव्रतशब्देन अथर्वशिरस्युक्तं पाशु- पतव्रतं प्रत्यभिज्ञाप्यते । तस्मात् नाप्रयोजकं मदनुमानम् । त्वदनुमाने प्रकरणनियन्त्रितत्वम्- किं प्रकरणानानमात्रम् , उत प्रकरणिविद्याविशेषमात्रवशीकृतत्वम् ? आये हेतुरप्रयो- जकः, आधानप्रकरणानातानां यज्ञपात्राणाम् ' वारणो यज्ञा- वचर: वैकंकतो यज्ञावचरः' इति वाक्यवशेन यज्ञाङ्गत्ववत् श्रुतिलिङ्गवाक्यैः भस्मोद्भूलनस्य सकलविद्याङ्गत्वोपपत्तेः, वि- द्यानविद्यासहकारिकर्मशमदमादिषु व्यभिचारी च ; द्वितीये हेतुरसिद्धः, प्रकरणात् बलवद्भिः श्रुतिलिङ्गवाक्यैः सर्ववि- द्याङ्गत्वापादनात्- इति ।। . , .. Mus अथ चतुर्थी कक्ष्या- एकत्र निबन्धनम् अन्यत्रापि अपेक्षामावेण पारिप्लवं भवति चेत्-- चोदकप्रमाणविचार एवं व्यर्थः स्यात् ;

वादनक्षत्रमाला। . अत: न तन्मात्रं प्रमाणम् , न च अवहननस्य अपेक्षामा- त्रात् यवसाधारण्यम् ; किंतु द्वितीयाश्रुत्यवगतम् ब्रीहीणाम- वहननसाध्यत्वं प्राक्सिद्धनीहित्वाकारेण न संभवतीति त- साध्यतावच्छेदकत्वेन अपूर्वीयत्वं लक्षणीयम् ; किंच अव. हननवाक्ये ब्रीहिपदस्य लौकिकापूर्वीयसाधारण्येन ब्रीहि- मात्रपरत्वे भूतभाविविनियोगरहितेषु लौकिकब्रीहिषु अव- हननस्यार्थकर्मत्वम् , अपूर्वीयव्रीहिषु विनियुक्तसंस्कारतया गुणकर्मत्वमिति विधिवरूप्यापत्तिः; लौकिकबीहिमात्रपरत्वे द्वितीयाश्रुत्यवगतद्रव्यप्राधान्यभङ्गापत्तिरिति, तत्परिहारार्थ- खेनापि अपूर्वीयत्वं लक्षणीयम्, तत्र ब्रीहित्वस्यापि विवक्षायां विशिष्टानुवाददोष: स्यादिति प्रवृत्तिनिमित्तैक्यात् यवसाधारण्यम् ; यज्ञादीनां शमादीनां च 'विविदिषन्ति यज्ञेन' इत्यादौ तृतीयाश्रुत्या ‘समाहितो भूत्वा आत्म- न्येवात्मानं पश्येत्' इत्यत्र क्त्वाश्रुत्या च सकलविद्यासाधा- रण्यम् ; तत्र हि विविदिषन्ति' इति पश्येत्' इति च विद्यामात्रमुपात्तम् ; अचिरादिगतीनां सकलविद्यासाधा- रण्यमपि तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्यु- पासते' इत्यादिवाक्येन; श्रुतिवाक्ये च प्रकरणात् बली. यसी ; तस्मात् अपेक्षामात्रेण न कापि विनियोगः , .

पूर्वोत्तरमीमांसा- . 'पशुपाशविमोक्षाय' इत्यत्र विमोक्षशब्दो न श्रुत्या स- र्वसाधारण:, तस्य मुक्तिवाचित्वात् ; द्वारत्वेन विद्या नि- वेश्यते चेत् , प्रकरणाविरोधेन प्रकृता पाशुपतविद्यैव तथा निवेशयितुमुचिता; 'तेषामेवैताम्' इति वाक्यं शिरसि अङ्गारधारणरूपमुण्डकाध्ययनाङ्गभूतव्रतमाचष्टे ; न तु अथ- वंशिरसि उक्तं पाशुपतव्रतम् , तत्र आथर्वणिकानां शिरोज- तशब्दप्रसिद्धेः; तस्मात् अप्रयोजकं त्वदनुमानम् ; मद्धेतो: द्वितीय एवार्थः, श्रुतिलिङ्गवाक्यविरोधाभावेन भस्मोद्धूल- नस्य प्रकरणिविद्याविशेषवशीकृतत्वोपपत्ते:- इति ।। क अथ पञ्चमी- ne अपेक्षासामर्थ्य तावत् प्रमाणं भवत्येव, तद्वशादेवाकृत्स्न- विधानानाम् अन्यतो धर्मग्रहणम् ; तदपेक्षामूलमेव च चोद. कवाक्यकल्पनम् । प्रकृतिविशेष व्यवस्थार्थस्तु आष्टमिको वि- शेषातिदेशविचार: ; निरपेक्षस्यापि अन्यदीयधर्मग्रहणे, सो- मस्यापि ऐष्टिकधर्मग्रहणं प्रसज्येत ; अवहननस्य यवसाधार- ण्यमपि अपेक्षयैव, न अपूर्वीयत्वलक्षणया, लक्षणाहेत्वोः स्वदुपन्यस्तयोः अयुक्तत्वात् ; तथा हि-आद्यो हेतुस्तावत् अयुक्तः, साध्यतावच्छेदकानुपस्थितावपि स्वर्गज्योतिष्टोमयो- रिव ब्रीह्मवहननयोः शब्देन साध्यसाधनभावबोधसंभवात्;

वादनक्षत्रमाला। , द्वितीयोऽप्ययुक्त:, अवहननवाक्यजन्यशाब्दबोधस्य व्रीहित्व- प्रकारकत्वेऽपि द्वितीयाश्रतिनिर्दिष्टबीहिगुणतया विधीयमान- मवहननं भूतभाव्युपयोगरहितलौकिकबीहिविषयं भवितुं न योग्यमिति विधेयसामर्थ्यात् शाब्दबोधानन्तरम् अपूर्वीय- ब्रीहीणां विषयत्वावगतिसंभवात् ; 'यस्योभावग्नी अनुगतौ अभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्तिः। इत्यत्र हविराधिकरणन्यायेन अग्न्युभयत्वस्याविवक्षायाम् अग्न्यनुगममात्रस्य शाब्दबोधवेलायां निमित्तत्वावगतावपि निमित्ते विधीयमानमाधानं सहितयोरेवाग्न्योरुत्पादनक्षमम् , न तु एकैकस्थानेरिति विधेयसामर्थ्यात् उभयाग्न्यनुगमस्यैव निमित्तत्वपर्यवसानाङ्गीकारात्; 'तप्ते पयसि दध्यानयति' इत्यत्र शाब्दबोधस्य पयस्त्वमानप्रकारकत्वेऽपि सा वैश्वदे- व्यामिक्षा' इति तदनन्तरवाक्ये तस्य पयसो यागान्वय- विधाने सति तत्सामर्थ्यात् शाब्दबोधानन्तरं तदपूर्वसंब- न्धिन: पयसो विषयत्वावगतिरिति अवश्यवक्तव्यत्वाच्च ; य- ज्ञादीनां शमादीनां च साधारण्यं न श्रुत्या, ‘तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाश- केन' इति श्रुतौ- तमेतं विविदिषन्ति- इति तस्मादेवं. विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्ये- ३१४ पूर्वोत्तरमीमांसा- वात्मानं पश्येत्' इति श्रुतौ च- एवंवित् पश्येत्- इति च प्रकृतविद्याविशेषसंबन्धबोधनात्; किं तु अपेक्षयैव; अचिरा- दिगतरपि अपेक्षयैव सर्वसाधारण्ये सिद्धे थे चेमेऽरण्ये' इति वाक्यं पञ्चाग्निविद्यायाम् अचिरादिगतिसद्भावे दृष्टान्ता- र्थम्-जीवगतागतविषया न ब्रह्मविद्या इति दिव्यस्थानप्राप्ति- फलाभावेन तस्या देवयानगत्यभावप्रसक्तो तत्सद्भावविधाना- र्थम् ' तद्य इत्थं विदुः' इति वचने प्रवर्तनीये तत्र दृष्टान्ता- थे दीपकालंकारेण ब्रह्मविद्या अपि सहोपात्ताः; "पशुपाश- विमोक्षाय' इत्यत्र विमोक्षशब्दः अत्यैव सर्वविद्यासाधारण:, तस्य भावार्थप्रत्ययान्ततया मुक्ताविव- करणार्थप्रत्ययान्त- तया विद्यायामपि शक्तिसद्भावात् ; 'शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इति वाक्यम् अथर्वशिरोवर्णितपाशुपतव्रतविषयमेव, सौरपुराणादिषु तथा व्याख्यातत्वात् , उपब्रह्मणानुसारेण श्रुत्यर्थस्य ग्राह्यत्वात्; अध्यापकप्रसिद्धितः पुराणप्रसिद्धेः बलवत्त्वात् ; तस्मात् नाप्रयोजकं मदनुमानम ; त्वदनुमाने च हेत्वसिद्धिः- इति ।। "om अथ षष्ठी- अपेक्षासामर्थ्य चोदककल्पनयैव अन्यत्र अन्यधर्मप्राप- कम् , न तु साक्षात् , इष्टिपशुसोमादिषु तथा दर्शनात् ;

वादनक्षत्रमाला । ३१५ न चेह पाशुपत विद्या विद्यान्तराणां प्रकृतिरिति वक्तुं श- क्यम् , कृत्स्नविधानत्वाविशेषेण वैपरीत्यस्यापि वक्तुं शक्य- त्वात् ; अत एवावहननस्य यवसाधारण्यं न अपेक्षामात्रेण, तथा सति चोदककल्पनावश्यंभावेन यवानां व्रीहि विकार- त्वापत्त्या 'ब्रीहीणां मेध सुमनस्यमानः' इति मन्त्रस्य यवपुरोडाशेषु ऊहप्रसङ्गात् । अतः अवहननस्य यवसा- धारण्य मिच्छता तद्वाक्यगतस्य ब्रीहिपदस्य अपूर्वीयत्वलक्ष- णैव उपासनीया ; तथा सति कार्यतावच्छेदकप्रतीत्या कार्यका. रणभावबोधनम् अपूर्वविनियुक्तत्वप्रतीत्या विनियुक्तसंस्कारबो- धनं च निराकार्ड्स पर्यवस्यति ; उपपादकसापेक्षार्थप्रतिपादक- त्वकल्पनं हि अनन्यगतिकम् तेषामेव' इति श्रुतै प्रकृतवा- चिनि एताम्' इति पदे सत्यपि सकलब्रह्मविद्यासाधारण्यम- भ्युपगच्छत: तव मते तथैव यज्ञादीनां शमादीनां च तत् संभ- वतीति तेषां श्रुत्या सर्वसाधारण्याभावोक्तिरपि अयुक्ता; चेमेऽरण्ये' इति वाक्यम् अचिरादिगते: सर्वासु ब्रह्मविद्यासु प्राप्त्यर्थमेव, न तु अपेक्षावशात् प्राप्तस्य अन्यत्र दृष्टान्तीकर- णार्थम् , तस्याश्चोदककल्पनामन्तरेण न अन्यत्र अन्यदीयध. मप्रापकत्वम् इत्युक्तत्वात् ; अत एव सूत्रकारैः ‘अनियम: सर्वेषाम्' इत्यधिकरणे अचिरादिगतेः सर्वविद्यासाधारण्ये , , पूर्वोत्तरमीमांसा- . ये चेमेऽरण्ये' इति शब्द एव स्वतन्त्रप्रमाणतया उपन्य- 'पशुपाशविमोक्षाय' इत्यत्र विमोक्षशब्दो विमुक्तिवा- ची इत्येव युक्तम् , तादर्थ्यचतुर्थ्या मुख्यपुरुषार्थत्वस्य औ- सर्गिकत्वात् ; 'शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इत्यत्र अध्यापकप्रसिद्धम् अध्ययनाङ्गं शिरसि अङ्गारधारणमेव ग्राह्यम् , ' स्वाध्यायस्य तथात्वेन' इति सूत्रे तथा व्याख्या- तत्वेन न्यायनिर्णायकसूत्रानुगृहीततया अर्थवादप्रायपुराण- प्रसिद्धितो बलवत्त्वात् ; तस्मात् त्वदनुमानमप्रयोजकम् ; मदनुमाने च न हेत्वसिद्धिरिति ॥ , अथ सप्तमी- अपेक्षासामर्थ्यस्य अन्यत्र अन्यदीयधर्मप्रापकत्वं चोदक. कल्पनयैवेति न नियमः, 'आग्नेय्या आग्नीध्रमुपतिष्ठते' इति विहितस्य आग्नीध्रोपस्थानस्य आग्नेयर्गपेक्षायाः साक्षा- देव 'अग्न आयाहि वीतये' इत्यादिस्तोत्राङ्गभूताग्नेयाप- कत्वाभ्युपगमात्; 'त्रिणवेनौजस्कामम्' त्रयस्त्रिंशेन प्रतिष्ठा- कामम्' इत्यादिविधिविहितेषु विवृद्धस्तोमकेषु क्रतुषु यत्र आगमेन संख्यापूरणं कार्य तत्र अन्यत्र निबद्धानामृचाम् अपेक्षासामर्थ्यादेव आगमस्य अभ्युपगतत्वाञ्च ; अतोऽवह- ननस्य अपेक्षयैव यवसाधारण्यमुपपद्यते इति तदर्थ न .

वादनक्षत्रमाला। ७ अपूर्वीयत्वलक्षणा वाच्या; नापि कार्यतावच्छेदकविनि- युक्तत्वप्रतीत्यर्थम् , श्रुतोपपत्यर्थमुपपादकान्वेषणस्यैव सर्वत्र दृष्टत्वेन तदर्थ श्रुतपदलक्षणाया: कचिदपि अभावात्; अपूर्वीयत्वलक्षणायाम् अवहननस्य जुह्वादिष्वपि प्रसक्ती तेषामबहननानपेक्षा यवानां तदपेक्षां च आलोच्य तण्डु- लद्वारकत्वस्य शाब्दबोधानन्तरं निवेशनीयतया लक्षणा- पक्षेऽपि अपेक्षासामर्थ्य गवेषणावश्यभावाच; एतेन ब्रीहि- धर्माणामपेक्षयैव यवेषु प्राप्ती यवानां ब्रीहिविकारत्वापत्ति- रिति शङ्कापि दूरनिरस्ता, अवहननादिवाक्यजन्यत्रीहित्व- प्रकारकशाब्दबोधानन्तरं द्वितीयाश्रुतिनिर्दिष्टब्रीहिप्राधान्यनि- वहाय तण्डुलद्वारा दर्शपूर्णमासापूर्वोपयोगिनां ब्रीहीणाम- वह्ननादिसंस्कार्यत्वम् इत्यवगतिकाले ब्रीहिशास्त्रसमकाल- प्रवृत्ति केन “यवैर्यजेत' इति शास्त्रेणावगतयागीयपुरोडाश- साधनभावानां यवानामपि वितुषीभावव्यपेक्षामालोच्च सं- स्कारवाक्यश्रुतमपि ब्रीहित्वं प्रयोजककोटौ न निविष्टम् , किंतु उक्तरूपापूर्वोपयोगित्वमात्रम् इत्यवगत्युदयेन तद्वशा- दवहननादिसंस्काराणां यवसाधारण्यप्राप्त्या यवानां व्रीहि- विकारत्वाप्रसङ्गात् ; जुह्वादिव्यावर्तकस्य तण्डुलद्वारकत्वस्य विशिष्टानुवाददोषापत्त्या लक्षणीयकोटावनिवेशितस्य निवेश- ३१८ पूर्वोत्तरमीमांसा- , नार्थ शाब्दबोधानन्तरं तत्परिष्कारकबोधान्तरोदयस्य अ- वश्याभ्युपगन्तव्यत्वात् ; यज्ञादीनां शमादीनां च सर्व- विद्यासाधारण्यम् अपेक्षयैव, न श्रुत्या, तत्र विद्यावि- षयश्रुतेः प्रकृतविद्याविषयपरामर्शिश्रुत्या नियन्त्रितत्वात् ; 'तेषामेवैताम्' इति श्रुतिरपि उक्तन्यायेन शब्दप्रवृत्त्या प्र- कृतविद्यामानविषया; हेतुबशात्तु अर्थत: सकलविद्यासा- धारणी तथा हि--- तेषामेवैताम' इत्यत्र विद्याशब्दस्य 'ब्रह्मा देवानां प्रथम: संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता स ब्रह्मविद्या सर्व विद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह' इति उपक्रान्ताक्षरविद्यारूपब्रह्मविद्याविषयत्वम् एताम्' इति प्रकृतपरामर्शनेव सिध्यति; अतस्तन ब्रह्मविशेषणमधिकं हेतुसूचनार्थम्--- यस्मादेषा विद्या ब्रह्मविद्या, तस्मात् चीर्ण- शिरोव्रतायैव देया; अचीर्णशिरोव्रताय इति; हेतुसाधा- रण्ये च हेतुमति सर्वत्र विधेयमर्थात् सिध्यति ; अत एव आतिथ्यष्टिप्रकरणे 'चतुरुपभृति गृह्णाति' इति चतुर्ग्रहणा- नानस्य प्रकरण्यातिथ्यमात्रविषयत्वेऽपि न झत्रानूयाजा:' इति हेतुसाधारण्यात् यत्र यत्र इष्टौ अनूयाजानाम- भावः, तत्र सर्वत्राप्युपभृति चतुर्ग्रहीतमेव, नाष्टगृहीतम् इति सिद्धिरिष्यते; 'शूर्पण जुहोति तेन ह्यन्नं क्रियते' , n वादनक्षत्रमाला। ३१९ .. k a इत्यत्र तु अन्नसाधनत्वहेतुबलात् यद्यदन्नसाधनम् तेन सर्वे- णापि होतव्यम् इति व्याप्त्याक्षेपे दर्वीपिठरादीनामपि अन्न- करणत्वेन होमसाधनत्वप्राप्तौ श्रुतस्य शूर्पस्य अश्रुतैर्दीपिठ- रादिभिः विषमशिष्टविकल्प: स्यादिति तत्परिहाराय व्याप्त्य- नाक्षेपात् हेतुवन्निगदमात्रम् , न तु हेतुरित्यभ्युपगम्यते ; ब्रह्मविद्याम्' इत्यत्र तु न ह्यत्रानूयाजा इज्यन्ते' इत्य- वेव व्याप्त्याक्षेपे बाधकाभावात् सद्धेतुरिति तेन सर्वविद्या- साधारण्यमापतत् न निवारयितुं शक्यम् ; न च इह यज्ञा- दिवाक्ये शमादिवाक्ये च सर्वविद्यासाधारण्यापादकं हेतुश्र- वणमस्तीति अपेक्षासामर्थ्यादेव सर्वविद्यासाधारण्यमभ्युपेय- म्; तथा 'आनन्दादयः प्रधानस्य' इत्यधिकरणे निर्णीतम् --- विद्याविशेषश्रुतानामानन्दादिगुणानाम् , 'अक्षरधियाम्' इत्यधिकरणे निर्णीतं स्थूलत्वादिनिषेधानां च सर्वविद्यासा- धारण्यम् अपेक्षासामर्थ्यादेव उपपादनीयम् ; एवं सर्वविद्या- नामुपासनारूपत्वमपि, विदेः उपासिना सह प्रयोगस्य संवर्ग- विद्यादौ कचिदेव दर्शनेन तावन्मात्रमवलम्ब्य विद्यान्तरेषु केवलविदिश्रवणस्य उपासनार्थत्वकल्पनायोगात् ; न च सा- क्षात्काररूपफलानुसारेण आवृत्तिसिद्धिः, साक्षात्काररूपफ. लश्रवणस्यापि असार्वत्रिकत्वात् , 'ततस्तु तं पश्यते निष्क- . . ७ .

पूर्वोत्तरमीमांसा- . , . लं ध्यायमानः' इत्यादौ क्वचित्क्वचिदेव तस्य श्रवणात् ; एवम्- अपेक्षासामर्थ्यस्य विद्यान्तरसाधारण्यकल्पकत्वस्य व्यवस्थितौ अचिरादिगतेरपि तत एव सिध्यतीति ये चेमेऽरण्ये' इति वाक्यं दृष्टान्तार्थमेव, अनियमः सर्वेषा- म्' इत्यधिकरणे दृष्टान्तीकरणार्थम् अपेक्षासामर्थ्यसिद्धार्था- नुवादकमेव 'ये चेमेऽरण्ये' इति वाक्यं शब्दपदमाचष्टे, न तु स्वतन्त्रप्रमाणभूतम् ; यद्वा तदधिकरणम् अचिरादि- गतेः सकलब्रह्मविद्यासाधारण्यनिर्णयार्थ न भवति, अपेक्षा- सामर्थ्यादेव तत्सिद्धेः; अपेक्षासामर्थ्यस्य · आनन्दादयः प्रधानस्य' इत्यादिषु बहुवधिकरणेषु क्षुण्णत्वात् ; न च अचिरादिगते: सर्वविद्यासाधारण्ये पञ्चाग्निविद्यायामुपकोस- लविद्यायां द्विद्धिः पाठः व्यर्थः स्यात् इत्यधिकाशङ्कानिरा- करणार्थं तदधिकरणमिति वाच्यम् , पञ्चाग्निविद्याया अब्रह्म- विद्यात्वेन तस्या: धूमादिमार्ग एवेति शङ्कामपनेतुं तस्याम- चिरादिमार्गप्रतिपत्त्यर्थम् 'ये चेमेऽरण्ये' इति ब्रह्मविद्याह- ष्टान्तोपन्यासेन तस्थिरीकरणार्थम् ‘वेत्थ पथोर्देवयानस्य पि- तृयाणस्य च व्यावर्तनाः' इति पृष्टदेवयानपितृयाणव्यावर्तक- प्रतिपादनार्थं च अचिरादिगतिवर्णनम् , उपकोसलविद्यायाम् अथ यदुचैवास्मिञ्च्छव्यं कुर्वन्ति यदुच न अर्चिषमेवाभिसं- , वादनक्षत्रमाला। ३२१ भवन्ति' इति उपकोसलविद्योपासकस्य दहनादिशवकर्माभावे- ऽपि गार्हपत्यादीनामनीनाम् उपकोसलविद्याङ्गविद्याभि: उ- पासितानामनुग्रहात् अविलम्बेनाचिर्लोकप्राप्तिरस्ति, न तु विद्यान्तरोपासकानामिव दहनादिशवकर्मवैगुण्ये अचिर्लोक- प्राप्तौ कियान्विलम्बोऽस्ति- इति विशेषप्रतिपादनार्थम् 'ए- तेन प्रतिपद्यमाना इमं मानवमावतै नावर्तन्ते' इत्यचिरादि- मार्गेण परं ब्रह्म प्राप्तानाम् अनावृत्तिप्रतिपादनार्थ च तत्सं- कीर्तनमिति द्वि:पाठावैयर्थ्यस्य स्पष्टत्वात् , तस्मात् तदधि- करणम् अचिरादिगते: सकलसगुणविद्यासाधारण्यप्रतिपा. दनार्थ न भवति, किं तु कस्यांचिद्विद्यायां तदभावप्रतिपाद- नार्थम् ; निर्गुणविद्या हि देशान्तरप्राप्तिफलकसगुणाविद्यावत् गत्यपेक्षा न भवति, न तस्य प्राणा उत्क्रामन्ति अत्रैव सम- वनीयन्ते' इति श्रुतेः ; भाष्यकारैरपि एतत्सूत्रम् 'केचिदा. हुः' इत्यादिना द्वितीयव्याख्यानप्रदर्शनेन तथैव योजितम् तस्मात् अपेक्षासामर्थ्यादेव अचिरादिगते: सर्वविद्यासाधार. ण्यम्; अवश्यं च तस्यामपि अपेक्षासामर्थ्यमुपासनीय- म् । पर्यऋविद्यानातेन्द्रवरुणप्रजापतिलोकादिपर्वोपसंहारार्थम् ; 'पशुपाशविमोक्षाय' इत्यत्र विमोक्षशब्दो विमुक्तिकारणवा- चीत्येव युक्तम् , विद्यैकसाध्या ध्याया विमुक्तेः भस्मोद्धूलनक्रि. ७ *V.21 ३२२ पूर्वोत्तरमीमांसा- याफलत्वायोगात्, फलत्वयोग्ये मुख्यार्थान्तरे विद्यमाने तदयोग्यमर्थान्तरं गृहीत्वा कथंचित् प्रयोज्यप्रयोजकभावमा- त्रावलम्बः फलत्वव्यपदेश इति तन्निर्वहणायोगात् । 'शिरो- अतं विधिवद्यैस्तु चीर्णम्' इत्यत्र शिरोव्रतमथर्वशिरःप्र- सिद्धं पाशुपतव्रतमेव, सौरसंहितादिषु तथैव उपब्रह्मणात्; तथा हि-स्कान्दे सौरसंहितायां पठ्यते- 'इदं शि- रोव्रतं चीर्ण विधिवद्यैर्द्विजातिभिः । तेषामेव परां वि- द्यां वदेदज्ञानवाधिकाम् । शिरोव्रतमिदं नाम शिरस्याथ- र्वणश्रुतेः । यदुक्तं तद्धि वान्यत्तत्तत्पाशुपतसंहिताम् । शा. खाभेदेषु नामानि तस्यास्य प्रविभेदतः । पठ्यते मुनिशा- र्दूल शाखास्वेकं वृतं हि तत् । अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना । सर्वाङ्गोलनं कुर्याच्छिरोव्रतसमाह्वयम्' इति; ब्रह्मोत्तरखण्डेऽपि-अयमित्याश्रमो धर्मों यैः समाच- रितस्तथा । तेषामेव परं ज्ञानं संसारच्छेदकारणम् । उद्धृलनं त्रिपुण्डू च मायापाशनिवृत्तये । आमनन्ति मुनिश्रेष्ठा अथ- वैशिरसि स्थितम् । अतोऽपि पापविच्छेदलाभाय ज्ञानसि- द्धये । उद्भूलनं त्रिपुण्ड्रं च मुमुक्षुः सर्वदाचरेत्- इति । कथं तर्हि ' स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्छ' इति सूत्र- म् ? तस्य हि अयमर्थ:-- स्वाध्यायस्य तथात्वेन स्वा- .

वादनक्षत्रमाला। ३२३ " . ध्यायं प्रत्यङ्गत्वेन शिरसि अङ्गारधारणरूपस्य शिरोव्रतस्य विधिः, न तु विद्यां प्रत्यङ्गत्वेन, तत: समाचारे अधिकारात् आथर्वणिकानां वेदव्रतोपदेशार्थे समाचाराख्ये अन्थे तथाप्रति- पादनात्, ‘नैतदचीर्णव्रतोऽधीते' इत्यग्रिमवाक्ये मुण्डका- ध्ययनाङ्गत्वस्य स्पष्ठमुक्तत्वाञ्च इति । एवं च अत्र ब्रह्मविद्या- शब्दस्य ब्रह्मविद्याप्रतिपादकमुण्डकोपनिषद्बाचित्वप्रदर्शनात् ‘स ब्रह्मविद्याम्' इति उपनिषतुपक्रमगतोऽपि ब्रह्मविद्या- शब्दः तदर्थ इत्युक्तं भवति ; युक्तं चैतत्-- ‘स ब्रह्मवि- द्याम्' इत्युपक्रमानन्तरम् द्वे विद्ये बेदितध्ये इति स्म य- ब्रह्मविदो बदन्ति परा चैत्रापरा च तत्रापरा यहग्वेदो यजुर्वे- दः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषभितिहासपुराणन्यायमीमांसाधर्मशास्त्राणीति । अथ परा यया तदक्षरमधिगम्यते' इति विद्याशब्दस्य विद्यास्था- नेषु प्रयुक्तत्वात् ; उच्यते- उदाहृतं सौरसंहितादिवचन- जातं विधानार्थ प्रवृत्तं नार्थवादत्वशङ्कास्पदम् , तत् सूत्रादपि प्रबलम् , वेदोपब्रह्मणार्थत्वात् बेदार्थनिर्णये सूत्राणामपि उपजीव्यत्वाच्च । अत एव स्मयते च' इत्यादीनि सू- स्वाध्यायख्य' इति सूत्रं कृत्वाचिन्ता- रूपेण नेतव्यम्- यद्यत्र शिरोवतपदम् आथर्वणि कमा- . त्राणि । अतः 6 पूर्वोत्तरमीमांसा- १ ७ त्रानुष्ठेयं शिरसि अङ्गारधारणमेव आचक्षीत, तदापि न दोषः, तस्मिन्पक्षे समाचारग्रन्थानुसारेणैव तस्य मुण्डकाध्य- यनाङ्गत्वस्यैव प्राप्तः, तस्य विद्याङ्गत्वाप्रसक्तः इति । सन्ति हि एतादृशान्यपि सिद्धान्तानभिमतमर्थ कृत्वाचिन्तारूपेण सिद्धान्ततया प्रदर्शयन्ति ; यथा तावत् जैमिनीयसूत्रम् ---- 'अपि तु वाक्यशेषत्वादितरपर्युदास: स्यात् प्रतिषेधे विकल्प: स्यात्' इति । इदं हि सूत्रम्-- ज्योतिष्टोमप्रकरणाम्नातेन 'दीक्षितो न ददाति न जुहोति' इति वाक्येन क्रत्वर्थपुरु- पार्थानां सर्वेषामपि होमानां प्रतिषेधः क्रियते, अथवा क्रत्व- थेषु प्रत्यक्षशिष्टान्विहाय अतिदेशप्राप्तानां पुरुषार्थानां च होमानां प्रतिषेधः क्रियते-इति पूर्वपक्षनिराकरणार्थम् ; अने- न प्रतिषेधपक्षे, स्वस्व विधिभिः ऋतुमध्ये कर्तव्यत्वेन, दीक्षि- तप्रतिषेधात् अकर्तव्यत्वेन च प्राप्तानां होमानां विकल्पः प्रसज्यते ; तत्परिहाराय 'दीक्षितो न जुहोति' इति वाक्य- स्य अग्निहोत्रादिवाक्यशेषत्वमभ्युपगम्य नमः पर्युदासे वृ- त्तिराश्रयणीया, तेन अदीक्षितो यावज्जीवमग्निहोत्रं जु- होति- इत्यादिरर्थः संपद्यते इति । अत्र वस्तुत: प्रतिषेध एव युक्तः, न पर्युदासः, विकल्पाप्रसक्तेः, न खलु पुरुषार्थहोमनिषेधे विकल्पः प्रसज्यते, होम: पुरुषार्थः, , , वादनक्षत्रमाला। होमनिषेधः क्रत्वर्थ इति विधिनिषेधयोः विषयभेदात् । उभयोरपि क्रत्वर्थत्वेन विषयैक्ये हि षोडशिग्रहणाग्रहणरीत्या तयोरन्यतरस्य परिग्रहेऽपि ऋतो: साद्गुण्यात् विकल्पो भ- वेत् । इह होमनिषेध एव क्रत्वर्थ इति होमपक्षे क्रतो_गु- ण्यात् न विकल्पप्रसक्तिः ; न क्रत्वर्थस्यापि होमस्य निषेधे विकल्प: प्रसज्यते, निषेधस्य पुरुषार्थहोमविषयतया चारि- तार्थेन क्रत्वर्थतया प्राप्तस्य बाधनायोगात्; तस्मात् यदि प्रतिषेधाश्रयणे पर्युदासाधिकरणपूर्वपक्षरीत्या विकल्पः प्रस- ज्यते, तदा तत्परिहाराय दीक्षितो न जुहोति' इत्यस्य अग्निहोत्रादिवाक्यशेषत्वमङ्गीकृत्यापि विकल्पः परिहरणीयः इति कृत्वाचिन्तारूपेण इदं सूत्रं प्रवृत्तम् ; किंचित्प्रकरणा- नातस्य एकस्य शब्दस्य प्रदेशान्तरानातानेकवाक्यशेषमा- वादपि पापीयान् विकल्पः इति न्यायं व्युत्पादयितुम् इति नेतव्यम् । तथैव नीतं भट्टपादैः । एवं वैयासिकमपि 'प्राणा- दयो वाक्यशेषात्' इति सूत्रं कृत्वाचिन्तावलम्बनं दृश्य- ते यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः' इति मन्त्रे पञ्च पञ्च इति शब्दाभ्यां पञ्चविंशतिसंख्याप्रतीते: पञ्चपञ्चजना:' इत्यनेन पञ्चविंशतिः सांख्योदितानि त- त्वान्युच्यन्ते इति पूर्वपक्षे प्राप्ते-- न संख्योपसंग्रहादपि , pean .

MARWAMERTIS पूर्वोत्तरमीमांसा- , नानाभावादतिरेकाच' इति सूत्रेण सिद्धान्तः कृतः, पञ्चविं- शतिसंख्योपसंग्रहादपि सांख्यतत्त्वग्रहणप्रत्याशा न कार्या, नानाभावात् आत्मप्रतिष्ठितत्वरूपसांख्यतत्त्ववलक्षण्यात आ- स्माकाशशब्दाभ्यां पञ्चविंशतिसंख्यातिरकाञ्च- इति तदर्थः; अपिशब्देन पञ्चविंशतिसंख्याप्रतीतिरपि नास्ति, पञ्चजनश- ब्दस्य 'पञ्चानां त्वा पञ्चजनानाम्' इत्यादाविव समस्तस्य अर्थविशेषसंज्ञात्वात् इत्यपि दर्शितम् , तर्हि के ते पञ्चजनसं- ज्ञासंज्ञिता इत्याकाङ्क्षायाम् 'प्राणादयः' इति सूत्रम्- वा- क्यशेष 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रम्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः' इत्यस्मिन षष्ठयन्तप्राणादिशब्दोदिता: प्राणादयो मनःपर्यन्ताः पञ्चजनशब्दसंज्ञिनः इति सूत्रार्थः । एवं पञ्चजनशब्दार्थग्रहणं न युक्तम् , प्राणादिषु पञ्चसु एकस्य पञ्चजनशब्दप्रवृत्तिनिमित्तस्याभावात् ; तवैवं सूत्रमुप- स्कर्तव्यम् --- प्राणशब्देन वायुविकारत्वात् त्वगिन्द्रियं ल- क्ष्यते, अन्नशब्देन पृथिवी विकारत्वात घ्राणं लक्ष्यते, तेनैव अद्यते अनेनेति व्युत्पत्त्या रसनेन्द्रियमपि उपचर्यते, तेन षट्स्वपि अनुगतमिन्द्रियत्वं प्रवृत्तिनिमित्तम् , अन्नश- ब्दोक्तत्वेन ब्राणरसनयोरेकीकरणात् पञ्चसंख्या-- यथा हेमन्तशिशिरयोरेकीकरणात् ऋतुषु द्वादश मासा: पञ्च- वादनक्षत्रमाला। मिति । ' तंव:' इति पञ्चसंख्या-इति भूयानिह क्लेशः; एवं तु वक्तुं युक्तम्- पञ्चजना: प्रसिद्धरूढ्या मनुष्याः, ते चत्वारो वर्णाः निषादश्चेति पञ्चसंख्या, अन्येषां मनुष्याणां स- त्वेऽपि पञ्चानामेव यागसंबन्धेन अभ्यर्हितत्वात् 'जना य. दग्निमयजन्त पश्च' इति मत्रान्तरदर्शनाच तेषामिह ग्रहण- यमाय हार्म्यमवपन्पञ्च मानवा:' वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः' इति मन्त्रयोः निषादपञ्चमा- श्चत्वारो वर्णाः पञ्च मानवाः इति भट्टभास्करादिमियां- ख्यातम् ; 'यं त्वा होतारं मनसा हि सा विदुः त्रयो भौवनाः पञ्च मानवाः' इत्याथर्वणमन्त्रेऽपि ‘पञ्च मानवाः इत्येतत् माधवीयभाष्ये तथा व्याख्यातम् ; 'यस्मिन्पश्च पञ्च- जनाः' इत्येतस्मिन्मन्त्रे 'पञ्चपञ्चजनाः' इत्येतत् बृहदार- ण्यकभाष्ये व्याख्यातम्- ---'पञ्च पञ्चजना: गन्धर्वाः पितरो देवा: r: असुरा रक्षांसि, निषादपञ्चमा वा वर्णाः' इति; एवं प्रसिद्धेऽर्थे सत्यपि यत् अप्रसिद्धातिकिष्टार्थग्रहणेन प्राणा- दयः' इति सूत्रम् , तत् कृत्वाचिन्तया--- यदि पञ्चपञ्च- जनाः' इत्यस्य प्रसिद्धमकिष्टमर्थान्तरं न संभाव्यते, तथापि वाक्यशेषे श्रुतेषु कथंचन किंचित्प्रवृत्तिनिमित्तं पञ्चसंख्यां च तेषु संपाच तेषु पञ्चपञ्चजना' इत्येतत् वर्तितव्यम् , न ७ ७ , ३२८ पूर्वोत्तरमीमांसा- . . तु सांख्य तत्त्वेषु, वेदे कथंचन वैदिकार्थग्रहणस्यैव युक्तत्वा- दिति न्यायं व्युत्पादयितुम् । एवं न्यायव्युत्पादनार्थ कृत्वा- चिन्तायाः प्रवृत्तिरित्येतत् 'ज्योतिषैकेषामसत्यन्ने' इति उत्त- रसूत्रेण व्यक्तम्- माध्यंदिनशाखायामिव काण्वशाखा- याम् अन्नस्यान्नम्' इत्यस्य पाठाभावात् कथं पञ्चसं- ख्यानिष्पत्तिरिति-- अस्यां शङ्कायामिदं सूत्रम् काण्व- शाखायाम् * यस्मिन्पश्च' इति मन्त्रालाक् 'तं देवा- ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' इत्याम्नायते, तत्र षष्ठयन्तोपात्तानि प्रकाशकत्वात् पञ्च ज्ञानेन्द्रियाणीति ताद. र्थ्यम् पञ्चपञ्चजना' इत्यस्य ग्राह्यमिति सूत्रार्थः; अत्र माध्यंदिनशाखोक्तानोपसंहारेण अन्नवत्वात असत्यन्ने' इत्येतत् कृत्वाचिन्तयेति स्पष्टमेव ; यदि काण्वशाखायामन्नं न स्यात् , यदि च ज्योति:शब्दोदितेषु मनःषष्ठेन्द्रियेषु पञ्चसं- ख्या न स्यात् , तदापि तान्येव गृहीत्वा तेषु द्वयोरेकीकरणेन एकप्रहाणेन वा पञ्चसंख्यामपि संपाद्य 'पञ्चजना:' इत्य- स्य तादर्थ्य ग्राह्यम् , न तु वेदास्पृष्टसांख्यतत्त्वार्थत्वमिति न्या- यव्युत्पादनमेव तस्यापि फलम् । एवमेव कृत्वाचिन्तया न्या- यव्युत्पादनार्थम् 'स्वाध्यायस्य' इति सूत्रमिति न तत्र अभि- निवेश: कार्य: । यत्तु तेषामेवैताम्' इत्यत्र ब्रह्मविद्याशब्दस्य . , .

वादनक्षत्रमाला। ३२९ . . , मुण्डकोपनिषद्रूपविद्यास्थानपरत्वात् 'स्वाध्यायस्य' इति सू- त्रं तात्त्विकार्थनिर्णयपरमेवेत्युक्तम् , तदयुक्तम्-- ‘स ब्रह्म- विद्या सर्व विद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय पाह' इति मुण्डको- पक्रमानन्तरम् अथर्वप्रभृत्यङ्गिर:पर्यन्तां गुरुपरम्परामुक्त्वा 'शौनको ह वै महाशालोऽङ्गिरस विधिबदुपसन्नः पप्रच्छ क- स्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति शौनकस्य प्रश्नमुपन्यस्य तस्मै स होवाच' इत्यारम्भात् । तदेतत्सत्य- मृषिरङ्गिराः पुरोवाच' इत्यन्तं शौनकाङ्गिरःसंवादरूपा- ख्यायिका मुण्डके प्रवर्तिता ; तस्यामाख्यायिकायां यद्विज्ञाने सर्वविज्ञानं भवति, तदहश्यत्वादिगुणकं ब्रह्म उपदिश्य ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति' इत्यादिना तदुपासनां तत्फलं च उपदिश्य, तदन- न्तरमेव तदेतहचाभ्युक्तम् क्रियावन्त: श्रोत्रिया ब्रह्म- निष्ठा: स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रत विधिवयैस्तु चीर्णम्' इत्युक्ता- थेविषयत्वेन अबतार्य अङ्गिरसा शौनक प्रति श्रावितमन्त्रे श्रुतो ब्रह्मविद्याशब्दः कथमकस्मादुपासनं परित्यज्य उपनि- पदं गृह्णीयात् ; एवं च उपासनार्थत्वेऽपि शिरोव्रतमाथर्व- णिकप्रसिद्धं शिरसि अङ्गारधारणमेव उपासनाङ्गत्वेन विधी- , . ..

पूर्वोत्तरमीमांसा- . ' - यतामित्यपि चोद्यं गर्भस्रावेण गतम् , कथं हि बढचत्वेन प्रसिद्धाय शौनकाय अगिरा: स्वयमिमां विद्यामुपदिश्य आथर्वणिकमात्रानुष्ठेयव्रतवत एव एतदुपदेश: कार्यः इति ब्रूयात् । शौनकाङ्गिरःसंवादरूपाख्यायिकासमाप्त्यनन्तरम् नैतदचीर्णव्रतोऽधीते' इति मुण्डकाध्ययनाङ्गत्वेन विधीय- मानं व्रतं कामं समाचारग्रन्थोक्तमार्वणिकमावानुष्ठेय वेदव्रतं भवतु, नैतावता इदमपि तद्भवेत् । एतेन 'द्वे विद्ये वेदितव्ये' इत्यत्र विद्याशब्दख्य विद्यास्थानपरत्वदर्शनात् ब्र- झविद्याशब्दस्यापि तत्परत्वमित्यपि शङ्का निरस्ता, तत्र ऋग्वेदादिशब्दसमभिव्याहारेण तथात्वेऽपि अत्र तदभावात् ऋग्वेदादीनां ब्रह्मविद्याप्रतिपादनरहितकर्मभागरूपाणामपर- विद्यात्वोक्तेः ब्रह्मविद्याप्रतिपादकोपनिषद्भागस्थ परविद्यात्वो- क्तेश्च उपक्रमोपसंहारैकरूप्यावधृततात्पर्य विषयब्रह्मविद्याप्रशं- सार्थत्वस्य वक्तव्यतया प्रधानार्थपरयोः ब्रह्मविद्याशब्दयोः विद्यास्थानलक्षकत्वकल्पनायोगाच्च । तस्मात् अपेक्षासामर्थ्य- रूपस्य लिङ्गस्य 'विमोक्षाय' इति चतुर्थीश्रवणस्य 'ब्रह्म- विद्यां वदेत' इति ब्रह्मग्रहणसूचितहेतुसामर्थ्यस्य च मूल- प्रमाणस्य सत्त्वात् नाप्रयोजकं मदनुमानम् , त्वदनुमा- नहेतुश्च असिद्ध इति सिद्धं भस्मोद्धूलनस्य सकलब-

वादनक्षत्रमाला।
r
ह्यविद्यासाधारणाङ्गत्वम् । एतेन त्रिपुण्ट्रस्यापि तद्वयाख्या-
तम् , बृहज्जाबालश्रुतौ तस्य 'अग्निः' इत्यादिमन्वसाध्य-
भस्मोद्भूलनतुल्यबलत्वेन प्रपञ्चितत्वात् , कालाग्निरुद्रोपनि-
षदि तिर्यक्तिस्रो रेखा: प्रकुर्वीत व्रतमेतच्छांभवं सर्ववेदेषु
वेदवादिभिरुक्तं तत्समाचरेन्मुमुक्षुरपुनर्भवाय' इति तस्य
मुक्तिफलकत्वश्रवणात् तत्फलकत्वस्य च विद्याद्वारा समर्थ-
नीयत्वात् तस्य विद्याविशेषस्य अनुक्रमणाभावात् विनिग-
मनाविरहेण सर्वासां ब्रह्मविद्यानां द्वारत्वेन निवेशनात् ॥
इत्युलनत्रिपुण्ट्रयोः सकलब्रह्मविद्याङ्गत्व-
समर्थनवादः ॥ २२ ॥

अयथार्थज्ञानसमर्थनवादः ॥ अथ असाधारणस्य ज्ञानप्रामाण्यस्य सर्वज्ञानसाधारण्यं वदतां मतं निराकर्तुं कथान्तरं प्रस्तूयते- तेषामित्थं मतम्'-- सर्व ज्ञानं यथार्थम् , शुक्तिरजतादि- ज्ञानमपि ग्रहणस्मरणाद्यात्मकज्ञानद्वयरूपतया यथार्थमेव इति ; तान्प्रति इदमनुमानम्--- रजतार्थिप्रवर्तकं शुक्तावि- दमिति ज्ञानं रजतत्वप्रकारकम् , रजतार्थिप्रवर्तकज्ञानत्वात् रजते रजतज्ञानवत् इति प्रथमा कक्ष्या ॥ अथ द्वितीया- यदि प्रवर्तकत्वं प्रवृत्तिजनकत्वम् , तदा ज्ञायमानेष्टपुरोव- तिभेदाग्रहः प्रवर्तक इति मत्पक्षे हेत्वसिद्धिः; यदि प्रवृत्ति- प्रयोजकत्वम् , तदा त्वन्मते रजतभ्रमजनकर्मिज्ञाने व्यभि- चारः, कार्याभावव्याप्याभावप्रतियोगित्वरूपस्य प्रयोजक- त्वस्य कारणतावच्छेदक इव कारणकारणेऽपि सत्त्वात् ; अ- गृहीतेष्टभेदपुरोवर्तिज्ञानं प्रवर्तकमिति मत्पक्षे तु अनुमानम- प्रयोजकम् , त्वन्मतेऽपि भ्रमकारणत्वेनावश्यकात् तत एव " वादनक्षत्रमाला। प्रवृत्त्युपपत्तौ भ्रमरूपविशिष्टज्ञानकल्पने गौरवात्; तस्मात् उक्तज्ञानं रजतत्वप्रकारकं न भवति, शुक्तिमात्रविशेष्यकत्वात् -इयं शुक्तिः इति ज्ञानवत्- इति ॥ . ७ अथ तृतीया कक्ष्या- प्रवृत्तिजनकत्वमेव प्रवर्तकत्वम् ; न च भेदाग्रहः प्रवर्तक इति त्वत्पक्षे हेतोरसिद्धिः, प्रमास्थले त्वत्पक्षे प्रतियोग्यप्र- सिद्धौ भेदाग्रहस्य असंभवेन तस्य तत्र प्रवर्तकत्वायोगात् प्रतियोगिप्रसिद्ध्यङ्गीकारे रजते नेदं रजतमिति अन्यथाख्या- ते: स्वीकर्तव्यतापत्तेः । न च प्रमास्थले विशिष्टज्ञान प्रवर्तक भ्रमस्थले भेदाग्रह इति युक्तम् , अननुगमात् , रजते नेदं रजतमिति भ्रमस्थले प्रवृत्त्यापत्तेश्च ; तत्रापि अन्यथाख्याति- भिया इदमिति न रजतमिति ज्ञानद्वयस्य त्वया स्वीकर्त- व्यत्वेन पुरोवर्तिनि इष्टभेदाग्रहसत्त्वात्; तस्मात् ज्ञानमेव प्रवर्तकं वाच्यमिति न हेतोरसिद्धिः, नापि अप्रयोजकत्वम् । इष्टपुरोवर्तिज्ञानरूपे कारणे भेदाग्रहस्य अवच्छेदकतया निवे- शेऽपि प्रमास्थले तदसंभवेन प्रवृत्त्यभावापत्त्या नेदं रजत- मिति भ्रमस्थले तत्सत्त्वेन प्रवृत्यापन्त्या च भेदाग्रहं विहाय इष्टपुरोवर्तिवैशिष्ट्यविषयं ज्ञानं कारणमिति ज्ञानविषयभावेन वैशिष्टयस्य कारणतावच्छेदककोटौ निवेशनीयत्वात्; न .

पूर्वोत्तरमीमांसा- १ चैवं सति भ्रमरूपविशिष्टज्ञानकल्पनागौरवं दोषः, प्रामाणिक- त्वात् ; तस्मात् निरवद्यं मदनुमानम् ; त्वदनुमानं तु भ्रमस्थले इदमिति ज्ञानस्य रजतत्वप्रकारकत्वाभावे तत्र रजतार्थिप्रवृ. त्तिः न स्यात् ; प्रवृत्तिमात्रे विशिष्टज्ञानस्य कारणतायाः क्लप्तत्वात्-- इति प्रतिकूलतर्कपराहतमिति ।। अथ चतुर्थी-- इष्टपुरोवर्तिभेदाग्रहः इत्यनेन पुरोवर्तिनि स्वतन्त्रोपस्थि- तेष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभाव उच्यते; तत्रैव अ- ख्यातिवादिनां भेदाग्रहव्यवहारस्य निरूढत्वात् , तथा च प्रमास्थले तत्प्रसिद्धेः न अप्रवृत्तिप्रसङ्गः; नापि नेदं रजत- मिति भ्रमस्थले प्रवृत्तिप्रसङ्गः, तत्र इष्टस्य स्वतन्त्रोपस्थि- त्यभावात् ; अतो भेदाग्रहस्य प्रवर्तकत्वं ज्ञानगतप्रवर्तकता. वच्छेदकत्वं च उपपद्यते इति त्वद्धेतोरसिद्धिः अप्रयोजकत्वं वा नापति, आवश्यकात्तत एव प्रवृत्त्युपपत्तेः विशिष्टज्ञानं गौरवात् न कल्प्यमिति विशिष्टज्ञानस्य प्रवर्तकत्वक्लप्त्यभा- वात् न मदनुमानस्य प्रतिकूलतर्कपराहति:-- इति ॥ अथ पञ्चमी- एवं भेदाग्रहविवक्षायामपि नेदं रजतमिति भ्रमस्थले प्रवृ.

बादनक्षत्रमाला। त्तिप्रसङ्गदोषः तदवस्थः, पुरोवर्तिगतस्य विशिष्टाभावस्य इ. टभिन्नत्वप्रकारकज्ञानविषयत्वरूपविशेष्याभावमात्रादपि सि- ध्यत: स्वतन्त्रोपस्थितत्वरूपविशेषणस्यापि अभावे सुतरां सि- द्धेः; तत्र स्वतन्त्रोपस्थितत्वं नास्तीत्यभिप्रेत्य खलु इदं विशेषणं दत्तम् ; अत: तदभावादपि विशिष्टाभावः कथं न सिध्येत्; नेदं रजतमिति प्रमास्थलेऽपि रजतार्थिप्रवृत्तिः स्यादिति दोषश्च अत्र अधिकः; तत्र विशेषणाभावाद्विशिष्टाभावसि- द्धेः; अत: त्वद्विवक्षितविशिष्टाभावस्य प्रवर्तकत्वं ज्ञानगत- प्रवर्तकता तावच्छेदकत्वं च न संभवतीति विशिष्टज्ञानस्यापि अयं दोष इति मदनुमानस्य न हेत्वसिद्धिः, न वा अप्रयो- जकत्वम् ; त्वदनुमानस्य प्रतिकूलतर्कपराहतिः इति । : " अथ षष्ठी कक्ष्या- भेदाग्रहशब्दोक्तविशिष्टाभावप्रतियोगिकोटौ इष्टविशेषण- त्वेन स्वातन्त्र्यं न निवेशितम् , इष्टभिन्नत्वप्रकारकज्ञानदशा- याम् इष्टस्य भेदप्रतियोगित्वेन उपस्थितिविषयत्वनियमेन तद- भावविशिष्टेष्टविशेषितस्य प्रतियोगिनोऽप्रसिद्धथा तदभावाप्र- सिद्धयापत्तेः ; किं तर्हि ? स्वातन्त्र्यमपि प्रवृत्तौ पृथक्कारणम् ; अत: तदभावात् नेदं रजतमिति प्रमाभ्रमस्थलयोः प्रवृत्ति- प्रसङ्गाभावात् उक्तभेदारहस्य प्रवर्तकत्वसत्वात् त्वदनुमानस्थ पूर्वोत्तरमीमांसा- असिद्धिः अप्रयोजकत्वं वा; मदनुमानस्य न प्रतिकूलतर्क- पराहतिरिति ।। nama अथ सप्तमी कक्ष्या- यदि भेदप्रतियोगित्वेन अनुपस्थितत्वं तत् , तदा इदं रजतं घटनिष्ठभेदप्रतियोगि- इति ज्ञानादप्रवृत्तिःयदि पुरोवर्तिनिष्ठभेदप्रतियोगित्वेनानुपस्थितत्वम् , तदा नेदं रजत. मिति भ्रमस्थले दोषः तदवस्थः । ननु पुरोवर्त्यगृहीतासंस- गभेदप्रतियोगित्वेनानुपस्थितत्वं स्वातन्त्र्यम् ; अत: तदभा- वात् नेदं रजतमिति भ्रमेण न प्रवृत्तिप्रसङ्गः, तत्र पुरोव- र्तिनि रजतभेदासंसर्गाग्रहसत्त्वेन तद्विशेषितभेदप्रतियोगि- त्वोपस्थिते: विद्यमानतया तदभावाभावात् । नापि इदं रजतं घटनिष्ठभेदप्रतियोगि इति ज्ञानेन अप्रवृत्तिप्रसङ्गः, तत्र पुरो- वर्तिनि रजतभेदासंसर्गरूपरजताभेदग्रहसत्त्वेन तदभावविशे- षितभेदप्रतियोगित्वोपस्थित्यभावसत्त्वात् इति चेत् , न ; एव- मपि यत्र इदं नेति भेदविशिष्टपुरोवर्तिज्ञानं रजतस्मरणं च इति ज्ञानद्वयरूप: नेदं रजतमिति भ्रमः, तत्र रजतार्थिप्रवृ. त्तिप्रसङ्गात् ; न चेदं भेदज्ञानं न संभवतीति वाच्यम् , इदमिति न रजतमिति ज्ञानद्वयपक्षे अधिकरणविशेषानुल्ले- खिन इव इदं नेति प्रतियोगिविशेषानुल्लेखिनोऽपि भेदज्ञानस्य वादनक्षत्रमाला। संभवात् ; तस्मात् स्वातन्त्र्यानिरुक्त्या तत्सहितभेदाग्रहस्य प्रवृत्तौ कारणत्वं तदवच्छेदकत्वं च नोपपद्यत इति न मद्धे- तोरसिद्धिः अप्रयोजकत्वं बा, त्वद्धेतोश्च प्रतिकूलतर्कपराह- तिरिति ॥ mins अथाष्टमी कक्ष्या- स्वातन्त्र्यमिह पुरोवर्यगृहीतासंसर्गभेदप्रतियोगित्वासंस- गर्गाग्रहाभाववत्त्वं विवक्षितम् , तथा च इदमिति न रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये पुरोवर्तिनि रजतभेदस्यासंसर्गाग्रहोऽस्ति -इदं रजतमिति भ्रमोदये रज- तस्येव; तथा च तत्र पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य ग्रहणात् तत्प्रतियोगित्वासंसर्गाग्रहोऽस्तीति तदभा- वाभावात् न तत्र रजतार्थिप्रवृत्तिप्रसङ्गः; नापि इदं नेति रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये तत्प्रसङ्गः, तत्र पुरोवर्तिनि गृहीतसंसर्गत्वेन अगृहीतासंसर्गों यो भेदः तत्प्रतियोगित्वस्यासंसर्ग इष्टे यद्यपि वर्तते, तथापि तस्य नेदं रजतमिति अमदशायाम् अग्रहस्य सत्त्वेन तदभा- वाभावात् । इदं रजतं घटनिष्ठभेदप्रतियोगि इति ज्ञानोदये च नाप्रवृत्तिप्रसङ्गः, तत्र रजते भेदप्रतियोगित्वसंसर्गग्रहणेन तदसंसर्गाग्रहरूपविशेष्यसंभवेऽपि पुरोवर्तिनि भेदासंसर्गरू- * V.22 .

पूर्वोत्तरमीमांसा- पाभेदग्रहणेन विशेषणाभावात् तद्विशिष्टस्य भेदप्रतियोगि- त्वासंसर्गाग्रहस्थामावसस्वात; यत्र तु इदं रजतम् इत्येव प्रत्ययः, तत्रापि प्रवृत्तिरुपपद्यते, तत्र भेदप्रतियोगित्वेनेव भेदाप्रतियोगित्वेनापि अगृह्यमाणरजते विशेष्यसत्त्वेऽपि पुरो- वर्तिनि भेदासंसर्गरूपस्य रजताभेदस्य ग्रहोऽस्तीति विशेष- णाभावेन विशिष्टाभावसत्त्वात्; तस्मात् प्रागुक्तरीत्या त्वद्धे- तोरसिद्धिः मद्धेतोश्च न प्रतिकूलतर्कपराहतिरिति ।। अथ नवमी कक्ष्या नैवमपि स्वातन्त्र्यनिर्वचनं युज्यते, यत्र इदं रजतमिति भ्रमकाले घटो रजतभिन्न इत्यपि स्मरणम् , तत्र अप्रवृत्ति- प्रसङ्गात् , तत्र पुरोवर्तिनि रजतभेदस्यासंसर्गग्रहे मिथ्याज्ञान- प्रसङ्गेन तदसंसर्गाग्रहस्थ विशेषणस्य सत्त्वेन रजते भेद- प्रतियोगित्वग्रहकाले तदसंसर्गाग्रहस्य विशेष्यस्य च सत्त्वेन विशिष्टाभावाभावात ; अरजतरजतयोः इमे रजतारजते इति समूहालम्बनभ्रमात् अरजते रजतार्थिप्रवृत्त्यभावप्रसङ्गाच; तत्र पुरोवर्तिनि अरजते रजतभेदासंसर्गग्रहे मिथ्याज्ञानप्रस- ङ्गेन अरजतरूपपुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य गृह्यमाणतया उक्तविशिष्टाभावप्रतियोगिनो विशिष्टस्य स- स्वात् ; किं च यत्र पुरोवर्तिनि इष्टभिन्नत्वज्ञानं नास्ति, किंतु वादनक्षत्रमाला । तस्मिन् इष्टव्यावर्तकशुक्तित्वादिज्ञानम् इष्टे पुरोवर्तिभिन्नत्व- ज्ञानम् पुरोवर्तिनिष्ठधर्मसामान्ये इष्टतावच्छेदकभिन्नत्वज्ञानम् इष्टतावच्छेदके पुरोर्तिनिष्ठधर्मभिन्नत्वज्ञानम् अन्यद्वा एता- दृशं प्रवृत्तिविरोधिज्ञानमस्ति तत्रापि प्रवृत्तिप्रसङ्गः; न च यावन्तो भेदकग्रहाः प्रवृत्तिविरोधिन: तदभावकूटसहितम् इष्टपुरोवर्तिज्ञानं प्रवर्तकमास्त्विति वाच्यम् , एतदपेक्षया इष्ट- पुरोवर्तिज्ञाने तदुभयवैशिष्टयस्य एकस्य भावरूपस्य इदं रजतत्वेन जानामि इति सर्वानुभवसिद्धज्ञानवित्तिवेद्य- तया शीघ्रोपस्थितिकस्य प्रवृत्तिकारणतावच्छेदकत्वकल्पने लाघवात् तदनुसारेण भ्रमस्थले प्रवृत्त्यर्थ पश्चात् वि- शिष्टज्ञानकल्पने च फलमुखगौरवस्थादोषत्वात् ; न यस्य भ्रमस्थले ज्ञानप्रवृत्त्योः कार्यकारणभावग्रहः, त- स्य तन्मते वैशिष्टयस्थ ज्ञानवित्तिवेद्यत्वाभावात् उक्त- लाघवं सार्वत्रिकमिति वाच्यम् , तन्मतेऽपि वैशिष्टयविषयाया रजतस्मरणविषयवित्तेः सत्त्वात् तेनापि हि इदं रजतत्वेन जानामीति लोकसिद्धा वित्तिर्नापह्नोतुं शक्या; किंतु इदं रजतमिति ज्ञानादगृहीतभेदज्ञानद्वयरूप- तया उपपादनीयत्वात् त्वद्विवक्षितभेदाग्रहसहितम् इष्टपुरोव- तिज्ञानं मम कारणत्वेन संप्रतिपन्नमिति, तदप्यसिद्धम् , मम ন पूर्वोत्तरमीमांसा- मते इष्टपुरोवर्तिभेदाग्रहादिकूटो मिथ्याज्ञानकारणम् , त्वन्मते पुरोवर्त्यगृहीतासंसर्गेत्यादि ; केवलद्रव्यविषयस्य चाक्षुषज्ञान- स्यानुदयात् तदीयशुक्लरूपस्य च तदानीमम्फुरणात् ; नापि आरोपितस्मरणम् नदीजलादिषु नीलं जलमिति नियमेन नै- ल्यविशिष्टतयैव जायमाने ज्ञाने नियतं संभवति ; न चायम- नुभूयमानारोपः अतिधवलासु सिकतासु प्रवहति नदी- जले नीलद्रव्यसंनिधानाभावात् ; न च अविनाभूतोपष्टम्भक- तस्यैव नदीजलस्य वियति विक्षिप्तस्य शौ- क्ल्यदर्शनात्; तस्मात् मदनुमानस्य नासिद्धिः अप्रयोजकत्वं वा, त्वदनुमानस्य तु प्रतिकूलतर्कपराहतिरिति सिद्धं शुक्तिर- जतादिज्ञानमयथार्थमिति ।। इति अयथार्थज्ञानसमर्थनवादः ॥ २३ ॥ कल्पनं युक्तम् ।

स्वप्नायथार्थत्ववादः ॥ शुक्तिरजतज्ञानवत् स्वप्नज्ञानमपि अयथार्थमिति समर्थ- नार्थ कथान्तरं प्रस्तूयते-- , स्वानं वह्विजलादिज्ञानं वह्नित्वादिमति वह्नित्वादिप्रकार- कम् , दाहपिपासोपशमादिसमर्थविषयप्रवृत्तिजनकत्वे सति वह्नित्वादिप्रकारकत्वात् , तथाभूतजाप्रबोधवत्--- इति प्रथमा कक्ष्या ॥ , अथ द्वितीया कक्ष्या- असिद्धोऽयं हेतुः, न च स्वाप्नेन वह्निजलादिना स्वमे दाइपिपासोपशमादि दृश्यते इति वाच्यम् , तद्दर्शनस्यारोप- रूपत्वात--स्वप्ने स्वशरीरस्य दुग्धत्वदर्शनेऽपि प्रबोधानन्तरं तस्य यथापूर्वमवस्थानात् , स्वापारम्भे सम्यगपां तृप्तस्य पिपासाया एवानुदयात् , पिपासितस्यैव शयितस्य प्रबोध- नानन्तरं पिपासानुवृत्तिदर्शनाच, अर्गलितापवरकशयितेन प्रबोधकालेऽपि तवैवोत्तिष्ठता शरीरेण बहिर्देशदृश्यस्वाप्रव- झिस्पर्शस्वानजलपानादेः अत्यन्तासंभावितत्वेन तत्प्रयुक्तदा- ३४२ पूर्वोत्तरमीमांसा- हपिपासोपशमादिप्रत्ययस्य प्रमात्वायोगाच्च ; तस्मात् स्वाप्न- वह्नयादिज्ञानम् अयथार्थम् , यथार्थवह्नयादिज्ञानसामग्री विना जायमानत्वात् , गुजापुखमरुमरीचिकादिषु जलवाहिज्ञान- वत् इति ।। अथ तृतीया कक्ष्या- - " न मद्धेतुरसिद्धः, स्वप्ने हि दाहप्रयुक्तदुःखाद्यनुभवेन दा. हादिसद्भावनिश्चयात् । न च अग्रे सुप्तस्य शरीरदाहादिका- र्यादर्शनात् स्वप्नसमये तच्छरीरस्य बहिनिर्गमनाभावाच दाहादिर्न संभवतीति शङ्कयम , सुप्तशरीरं विना शरीरान्त- रेण जीवस्य बहिर्बयादिदर्शनदेशपर्यन्तनिर्गमनाङ्गीकारात् तस्मिन्देहे दग्धेपि पूर्वदेहस्य यथापूर्वमवस्थानोपपत्तेः, तदेहा- वच्छेदेनैव स्वप्नदश: पिपासोद्यतच्छान्त्योः संभवाच्च ; एवं च त्वदीयहेतुरेवासिद्धः, न मद्धेतुः, बहिः शरीरान्तरेण जीवस्य निर्गमनाङ्गीकारेण तदीयचक्षुर्वयादिसंनिकर्षरूपतत्प्रमाकर- णसद्भावादिति ॥ " अथ चतुर्थी कक्ष्या- त्वद्धेतुरसिद्ध एव, शरीरान्तरे तेन बहिनिर्गमने च प्रमाणाभावात् , वस्तुतो यत्र देशे वह्निजलादिकं नास्ति, वादनक्षत्रमाला। तब स्वप्नदृक् वह्निजलादिकं पश्यति, तत्प्रयुक्तदाहपानादेः भ्रमविजृम्भितत्वावश्यंभावात्; अत एव न मद्धेतुरसिद्ध इति ॥ अथ पञ्चमी- - प्रा. . . शरीरान्तरे तेन निर्गमे च तावदस्ति प्रमाणम्- णेन रक्षन्नवरं कुलायं बहिष्कुलायादवरश्चरित्वा । स ईयते अमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः' इति श्रुतिः; यत्र देशे स्वप्नदृक् वह्निजलादिकं पश्यति, तत्र तदा परमे- श्वरः तत्सृजति, 'न तन रथा न रथयोगा न पन्थानो भवन्ति अथ रथात्रथयोगान्पथः सृजते न तत्र वेशान्ता: पुष्करिण्यः सवन्त्यो भवन्ति अथ वेशान्तान् पुष्करिण्यः सृजते स हि कर्ता' इति श्रुतेः; अतो नास्ति विषया. संभवदोषोऽपीति न मद्धेतुरसिद्धः त्वद्धतुरेवासिद्ध इति ।। , अथ षष्ठी कक्ष्या- शरीरान्तरेण निर्गमस्तावत् अर्गलितेऽपवरके शयितस्य विरुद्धः, निर्गतस्य च वयादिदेशपर्यन्तं गच्छत्तो मध्ये व- स्तुतो यद्यद्यथा वर्तते तस्य तस्य तथा दर्शनाभावो विरुद्धः वयादिदेशे स्थित्वा दाहादिकमनुभवत: तत्काले एवं केन- .

पूर्वोत्तरमीमांसा- चित् प्रबोधितस्य अपवरके एव उत्थानं च विरुद्धम् ; प्रबो- धकाले प्रत्यागमनाङ्गीकारे तावडूरं गतस्य आह्वानमात्रेण झ- टिति उत्थानं विरुद्धम् ; तथा काच्या रात्री शयितस्य स्वप्ने दिवा दक्षिणादिशं प्रस्थाय घटिकामात्रेण काशीप्राप्ति- दर्शनम् , काच्यां शयितस्य अप्रस्थायैव काशीवृत्तान्तद- र्शनं च विरुद्धम् ; मुहूर्तमात्रवर्तिनि स्वप्ने बहुकालं काश्या- दिसंचारदर्शनं च विरुद्धम् ; तस्मात् सर्वविधविरोधपरिहा- राथै बहिष्कुलायश्रुति: बहिष्कुलायादिव चरित्वा इति भा. क्ततया व्याख्येया; अत एव 'यत्रतत्स्वप्नया चरति' इत्युप- 'स्वे शरीरे यथाकामं परिवर्तते' इति श्रुत्यन्तरम् ; एवं च शरीरान्तरेऽपि नास्ति प्रमाणमा देशान्तरं गच्छ- न्तमात्मानमनुभवन्नपि स्वप्नहक् येन शरीरेण शयितः तेनैव शरीरवन्तमात्मानं मन्यते; शरीरान्तरग्रहणे तदंशे भ्रमत्वं स्वप्नस्य त्वयापि स्वीकरणीयं स्यात् ; एवं वह्नथादिरहिते देशे वह्नथादिसृष्टथङ्गीकारे प्रबोधनानन्तरं तद्देशं गत्वा पश्य- त: तत्र भस्माद्यदर्शनं च विरुद्धम् ; यत्र देशे महाहदादिकं तिष्ठति तत्र वह्निजलादिदर्शनं च विरुद्धम् , यत्र गोपुरप्रासा- दादिकं तत्र कश्चित् स्वप्नदृक् वनं पश्यति, तदैव कश्चित् सेनां पश्यति, अन्य: समुद्रम् , परः शैलमिति बहूनां मूर्तानां युग- कम्य 3B वादनक्षत्रमाला । - पत् एकनावस्थानं च विरुद्धम् ; तस्मात् उक्तसकलविध- विरोधपरिहारार्थ रथादिसृष्टिश्रुतिरपि भाक्ततया व्याख्येया; अत एव तवैव न तत्र रथा न रथयोगा न पन्थानो भव- न्ति' इत्यादौ तदभावोऽपि श्रूयते ; तस्मात् न मद्धेतुरसिद्धः; त्वद्धतुरेवासिद्ध इति ॥ अथ सप्तमी कक्ष्या- स्वप्नशरीरमर्गलितादप्यपवरकात् निर्गमनयोग्यं योजनश" तप्राप्यं देशं क्षणेन गन्तुं क्षणेन तत आगन्तुं च शक्तं स्वप्नार्थमात्रग्रहणयोग्यचक्षुरादियुक्तं च कल्प्यते ; देशका- लविपर्यासश्च स्वप्नहगेकानुभाव्यादित्यगत्याधुपाधिविशेषप्रयु- क्तदिक्कालविशेषकल्पनेन उपपद्यते ; अगत्वा देशान्तरदर्शनम् अल्पमार्ग गत्वा दूरदेशदर्शनं च अगमनदूरमार्गगमनयो: अननुसंधानेन उपपद्यते ; बहुकालातिवाहनं च देवादिकालो- पाधिभ्यो मनुष्यादिकालोपाधीनामिव जामत्कालोपाधिभ्यः स्वप्नकालोपाधीनां सूक्ष्मत्वतारतम्यकल्पनेन उपपद्यते; मू- र्तानां विरुद्धानां च समावेशस्तु तेष्वन्यानुभाव्यमूर्तद्रव्या- न्तरावस्थितिप्रतिघातकत्वाभावान्यानुभाव्यविरुद्धत्वाभावक- ल्पनेन उपपद्यते; भस्माद्यदर्शनं परमेश्वरः स्वप्नहगेकानुभा- व्यमर्थजातं सृष्ट्वा तदैव स्वप्नान्ते तत्सर्वं निरवशेषमुपसं पूर्वोत्तरमीमांसा- ७ हरतीति कल्पनेन उपपद्यते ; अतो नात्र युक्तिविरोधः क- श्चिदस्ति ; ' स्वे शरीरे' इति श्रुतिः शरीरान्तरस्यापि स्वश- रीरत्वादुपपद्यते; तत्र शयितशरीराभिमानमात्रं भ्रमोऽस्तु ; न हि स्वप्नसत्यत्ववादिनः स्वप्ने भ्रम एव नास्ति, स्वप्नेऽपि शुक्तिरजतादिभ्रमाङ्गीकारात्; 'न तत्र रथाः' इत्यादिश्रुतिः स्वप्नरथादिसृष्टेः प्राक् तत्र देशे रथाद्यभावविषया; अत अथ रथान्' इत्यादी अथशब्दः; तस्मात् न मद्धे- तुरसिद्धः, त्वद्धतुरेवासिद्ध इति । . . , एव , अथ अष्टमी कक्ष्या- , तावल्लोकदृष्टविरुद्धं किमवलम्ब्य कल्प्यते ; बहिष्कुलाय- श्रुतिं रथादिसृष्टिश्रुतिं च इति चेत् , न, बहिष्कुलायश्रुतेः 'स्वे शरीरे' इति श्रुत्यनुसारेण भाक्ततया व्याख्यातव्य- त्वात् , शरीरान्तरं परिगृह्णाति चेत् , तस्यापि पूर्वशरीरवत् स्वीयत्वमनुभवसिद्धमिति तस्यावक्तव्यतया, तस्याः श्रुतेः विकृतशरीरान्तरपरिग्रहदर्शनऽपि बहिः संचारदर्शनेऽपि श- यिते पूर्वशरीर एव परिवर्तते, न शरीरान्तरं परिगृह्णाति, नापि बहिः संचरतीति तस्य सर्वस्य मिथ्यात्वप्रदर्शनेनैव साफल्यस्य उपपादनीयत्वात् ; रथादिसृष्टिश्रुतेः “न तत्र रथा:' इत्युपक्रमानुरोधेन भाक्ततया व्याख्यातव्यत्वाच्च ; तत्र ..

वादनक्षलमाला। , लडाख्याताभ्यां रथाद्यभावरथादिसृष्टयो: समानकालत्वप्र. तिपादनेन रथादिमिथ्यात्वावश्यंभावात् ; 'अथ' इत्यव्य- यं तु अथापि इत्येतदर्थत्वेनापि उपपन्नम् ; किं च सृष्टिश- रीरान्तरश्रुत्योः स्वार्थपरत्वे प्रकरणप्रतिपाद्यप्रधानार्थविरो- धोऽपि स्यात् ; तद्धि प्रकरणमात्मनः स्वयंज्योतिष्वं प्रतिपाद- यितुं प्रवृत्तम् । तत्र जाग्रदवस्थायाम् आदित्यादिज्योतिर्व्यति- करात् तदुर्विवेचमिति तद्विवेचनार्थ स्वप्नावस्था अवतारिता; तन्त्र यदि सृष्टिः प्रतिपाद्यते, तदा तस्यामपि तदुर्विवेचं स्यात् आदित्यादिसद्भावात् ; अत: प्रधानप्रतिपाद्यविरोधात् -स्वर्गार्थज्योतिष्टोमप्रकरणे तदङ्गविध्यर्थवादरूपस्य को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा न वेति' इति वाक्यस्येव स्वप्नसृष्टशरीरान्तरपरिग्रहवचनस्य न स्वार्थे तात्पर्यम् , किंतु तन्मिथ्यात्वप्रदर्शन एव उक्तरीत्या तात्पर्यमिति योजयितुं युक्तम् ; किं च स्वप्ने महासेनायां गजतुरगवृषभोष्ट्रपदाति- रूपा: पारेपरार्ध चेतना दृश्यन्ते ; कस्यचित् स्वप्नं निर्वो, कियन्तश्चेतना कुतः समानीय परमेश्वरेणापि मेलनीयाः; न हि स्वप्ननिर्वाहार्थमेव तेन कचित्केचन चेतना: पृथनिवे- शिता: सन्ति ; चेतनांशे चेत् स्वप्नानामयथार्थता अचेत- नांशेऽपि तथास्तु, किमर्धजरतीयेन ; अत एव लोकानाम्

पूर्वोत्तरमीमांसा-
आरुक्षमिव शैलाश्रम् अद्राक्षमिव काननम् इत्यादिरूपेण
स्वाप्नमिथ्यात्वानुवादः
उतेव स्त्रीभिः सह मोदमान: जक्ष-
दुतेवापि भयानि पश्यन्' इति श्रुतावपि लोकप्रसिद्धिसिद्ध-
तन्मिथ्यात्वानुवादः; तस्मात् त्वद्धेतुरसिद्धः न मद्धेतुरिति
सिद्धम् बहिःसंचारवाहिजलतदर्थक्रियादिदर्शनं सर्वमयथा-
..
र्थम् ॥
इति स्वमायथार्थत्ववादः ॥ २४ ॥

शुक्तिरजताद्युत्पत्तिसमर्थनवादः ॥ , अथ शुक्तिरजतादिकं स्वाप्नवह्निजलादिकं च नासंनिहित. मयथार्थज्ञानविषयः किं तु तत्रत्यमेवेति निर्णयार्थ कथान्तरं प्रस्तूयते- एतच्छुक्तीदंतया गृह्यमाणं रजतम् एतद्देशवर्ति, एतदिदं. तया गृह्यमाणत्वात्- एतच्छुक्तिवत्; यस्याः शुक्रवस्तात् रजतं नास्ति सा शुक्तिः एतच्छब्देन विवक्षिता; अतो नास्ति सिद्धसाधनाशङ्का इति प्रथमा कक्ष्या ॥ अथ द्वितीया- बाधितविषयं त्वदनुमानम् , न हि तत्र प्राक्सिद्धं रजत- मस्ति, न वा अभिनवरजतोत्पत्तौ अन्यत्र क्लप्तं रजतकार- णमस्ति; अभिनवरजतोत्पत्तौ च पश्चादपि तदुपलब्धिप्रसङ्गः, ननु शुक्तौ रजतावयवानुप्रवेशोऽस्ति, तत्सदृशत्वात् , भूयोऽव- यवसामान्य सादृश्यमित्यङ्गीकारात्; मीमांसकैरपि प्रतिनि- धिपेटिकायाम् अवश्यकर्तव्येषु व्रीहिद्रव्यकेषु कर्मसु ब्रीह्य- लाभे तत्सदृशा नीवारा: ग्राह्याः, तेषु ब्रीहित्वजायभावेऽपि , ३५० पूर्वोत्तरमीमांसा- , तदवच्छेद्यानां ब्रह्मवयवानां सत्त्वेन किंचित् व्रीहिशास्त्रानु- ग्रहलाभात्- इति उक्तत्वात् ; न च शुक्तौ रजतावयवसत्त्वे दोषाभावदशायामपि तदुपलब्धिप्रसङ्गः, शुक्तौ शुक्त्यवयवा भूयांस इति तदा तेषां ग्रहणेन प्रतिबन्धात् रजताग्रहणम्, दोषदशायां तेषामग्रहणेन प्रतिबन्धाभावात् रजतग्रहणमि- त्युपपत्तेः ; अत: शुक्त्यनुप्रविष्टरजतावयवविषयत्वेन साध्यप- यवसानसंभवात् न बाध इति चेत् ; मैवम् , एवं शुक्तिरजत- भ्रमनिर्वाहेऽपि नीवारादिषु ब्रीह्यादिभ्रमानिर्वाहात् ; न हि यथा रजतावयवा रजतानि तथा ब्रीह्यवयवा ब्रीहयः, तावयवेषु रजतत्वस्येव ब्रह्मवयवेषु ब्रीहित्वाभावात् ; अत: ताशस्थलपक्षीकरणे बाधो नापैति ; उपलक्षणं हि स्थालीपु- लाकन्यायेन रजतभ्रमस्थलपक्षीकरणम् । एवं नीलं जलम् इत्यादिभ्रमस्थलपक्षीकरणेऽपि बाधो द्रष्टव्यः; वस्तुतस्तु उपन्यस्तानुमानपक्षेऽपि बाधस्तदवस्थः, शुक्तो रजतावयवा- नामभावात् ; शुक्त्यवयवानां शौक्ल्यं चाकचक्यं च अस्ति, एतावतैव हि तयोः सादृश्यम् , शुक्तौ रजतावयवानामपि सत्त्वे, तस्याम् अत्यन्ताग्निसंयोगेन शुक्त्यवयवेषु भस्मीभवत्सु, रजतावयवेषु द्रवत्वोत्पत्तिप्रसङ्गात् ; तस्मात् एतच्छुक्तीदं- तया गृह्यमाणं रजतम् , एतच्छुक्तिदेशवर्ति न भवति, रज- तत्वात् , देशान्तरद्वीपान्तरगतरजतवत् इति ।। .

वादनक्षत्रमाला। अथ तृतीया कक्ष्या- , न बाधितविषयं मदनुमानम् , भ्रमदशायाम् अभिनव- रजतोत्पत्तेः :: तस्य बाधकाले लयस्य च अङ्गीकारात्; कार- णाभावदोषस्तु असंनिहितरजतस्फुरणपक्षेऽपि तुल्यः, असं- निकृष्टस्य भानायोगात् ; न च भ्रमे शुक्तिविशेष्यं रजतं विशेषणमिति न रजतसंनिकर्षांपेक्षा, विशेषणज्ञानविशेष्य- संनिकर्षतदुभयासंसर्गाग्रहमात्रात् विशिष्टप्रत्यक्षोत्पत्तिसंभ- वदिति वाच्यम् , तथा सति संनिकृष्टपर्वतपक्षकवथनु- मितिस्थले प्रत्यक्षोदयप्रसङ्गात् ; अनुमित्साविरहदशायां स- माने विषये प्रत्यक्षसामग्र्या बलवत्त्वात् ; यदि प्रमारूपे ज्ञाने क्लप्तस्य कारणस्याभावेऽपि दोषवशात् भ्रमरूपं ज्ञानं जायते इत्युच्येत, तदा सत्यरजते क्लप्तस्य कारणस्याभावेऽपि भ्रम- ग्राह्यमसत्यं रजतं दोषवशाज्जायते इत्येव वक्तुं युक्तम् , अनु- भवानुरोधात् । इदंतया पुरोदेशवर्ति हि रजतमनुभूयते; न च दोषवशादसनिकृष्टभानस्येव रजतावयवानपेक्षस्य रज- तस्योत्पत्तिः स्वीकर्तुं न युक्ता, निरुपादानद्रव्योत्पत्त्ययोगा- दिति वाच्यम् , दोषसहितात् मूलकारणादेव भ्रमयितुरी- श्वरस्य इच्छया तदुत्पत्त्युपपत्तेः; तस्मात् मदनुमानं न बाधितविषयम् , त्वदनुमानमेव बाधितविधयमिति ।। " ३५२ पूर्वोत्तरमीमांसा- अथ चतुर्थी- त्वदनुमानं बाधितविषयमेव, रजतसामान्ये क्लप्तस्य कारणस्याभावे रजतोत्पत्त्ययोगात्; मन्मते तु असंनिहि- तेऽपि ज्ञानरूप: संनिकोंऽस्तीति न ज्ञानसामान्ये क्लप्तस्य कारणस्याभावः ; एवं च रजतस्य पुरोदेशवर्तित्वासंभवेना- संनिहितस्यैव तस्य भानेऽवश्यं वक्तव्ये शुक्तीदमंशतादा- म्येन स्फुरणात् इदं रजतमिति व्यवहारः इत्युपपादनी- यम् । अतोऽनुभवविरोधपरिहारात् मदनुमान न बाधित- विषयम् इति ॥ अथ पञ्चमी कक्ष्या- रजते ज्ञानं संनिकर्षश्चेत् बहावपि संनिकर्षः स्यादिति तत्प्रत्यक्षोदयः दुर्वार: ; अत: क्लसकारणाभावेऽपि भ्रमो- त्पत्तौ दोष एव शरणीकरणीयः इति तद्विषयोत्पत्त्युपपाद- नमेव युक्तम् , अनुभवस्वारस्यानुरोधात् , सर्वथा तदसंभवे हि कथंचित् तदुपपादनं कार्यम् । तस्मात् मदनुमानं न बाधितविषयम , किं तु त्वदनुमानमेवेति ।। |mwares अथ षष्ठी कक्ष्या- त्वत्पक्ष एव क्लप्सकारणाभावदोषः, न तु मत्पक्षे, ज्ञा- .

वादनक्षत्रमाला। नसंनिकर्षसत्त्वात् । न च तथा सति वह्नयनुमितिस्थले प्रत्य- क्षोदयप्रसङ्गः, अलौकिक प्रत्यक्षसामग्यपेक्षया समानेऽपि विषये अनुमितिसामग्र्या बलवत्त्वाभ्युपगमात् ; अतः प्रागुक्त- रीत्या त्वदनुमानमेव बाधितविषयामिति ।। IMIMANTRA अथ सप्तमी- तथा सति संशयोत्तरभ्रमरूपप्रत्यक्षस्थले अनुमितिप्रसङ्गः; अतो गत्यन्तराभावात् दोष एव उपपादनीयः- क्तरीत्या मदनुमानं न बाधितविषयम् ; किं तु त्वदनुमान- इति मदु- मेवेति ॥ अथाष्टमी- प्रमारूपालौकिकप्रत्यक्षसामग्र्यपेक्षयैव अनुमितिसामग्री बलवती ; संशयोत्तरप्रत्यक्षस्थले भ्रमरूपालौकिकप्रत्यक्षसामग्री तु अनुमितिसामग्र्यपेक्षया बलवतीति नोक्तदोष इति ।। अथ नवमी-- Daman तथा सति भ्रमरूपधूमपरामर्शस्थले वह्नयभाववति भ्रम- रूपवह्निप्रत्यक्षप्रसङ्गः; अतस्तत्र ज्ञानस्य संनिकर्षत्वायोगात् दोष एव शरणीकरणीय इति तदवस्थो मदुक्तदोष: इति ॥ अथ दशमी- *V.23 पूर्वोत्तरमीमांसा- ज्ञानं न संनिकर्षः इति तावदयुक्तम् , सुरभि चन्दनम् इत्यादिप्रत्यक्षस्थले तस्य संनिकर्षत्वक्लोः, तथैवात्रापि ज्ञा- नस्य संनिकर्षत्वसंभवात् । न च तथा सति संशयोत्तरभ्रम- स्थल इव भ्रमरूपवद्वयनुमितिस्थलेऽपि प्रत्यक्षोदयप्रसङ्गः; तत्र प्रत्यक्षभ्रमप्रयोजकदोषविशेषाभावात् ; तदभावश्च तत्र वहिं पश्यामीति अनुव्यवसायाभावात् वह्निमनुमिनोमि इत्येवानुव्यवसायदर्शनाच्च कल्प्यते; आरोपे सति निमित्ता- नुसरणम् , न तु निमित्तमस्तीत्यारोपः इति हि न्यायविदः । एवं च दोषामहकतालौकिकप्रत्यक्षमामध्यपेक्षया समाने विषयेऽपि अनुमितिसामग्री बलवतीति फलबलात् कल्प्यते ; तस्मादिह ज्ञानस्य संनिकर्षत्वाभ्युपगतौ न कश्चिद्दोष इति त्वदनुमानमेव बाधितविषयम् , न तु मदनुमानम्- इति ।। अथैकादशी कक्ष्या- क्वचिदपि ज्ञानं न संनिकर्षः इति न प्रत्याख्यायते, किंतु वह्नयनुमितिस्थल इव रजतभ्रमस्थलेऽपि ज्ञानं संनि- कर्षों भवितुं नाहति इत्येतावदुच्यते ; यत्र चन्दनखण्डे पूर्व सौरभमवगतम् , तत्रैव हि स्मृत्युपनीतसौरभविषयं सुरभि चन्दनमिति प्रत्यक्षम् ; न हि कचिच्चन्दनखण्डे सौरभमनु- भूतवत: चन्दनखण्डान्तरदर्शनेऽपि सुरभि चन्दनखण्डमिति , वादनक्षत्रमाला। प्रत्यक्षमस्ति । न च शुक्तिरजतस्य पूर्वमनुभवोऽस्ति ; अतो न तत्र तज्ज्ञानं संनिकर्षः इति युज्यते ; यदि यदवच्छेदेन यत्पूर्व- मवगतम् , तद्वत्त्वेन, ज्ञाते तज्ज्ञानं संनिकर्षः चन्दनत्वावच्छे- देन प्राक् सौरभं गृहीतवत: तद्वत्त्वेन ज्ञाते चन्दनखण्डान्त- रेऽपि सुरभि चन्दनमिति प्रत्यक्षम् इष्टमित्युच्येत, तदापि प्रकृते ज्ञानस्य संनिकर्षत्वं न युज्यते; रजततादात्म्यावच्छे- दकत्वेन गृहीतस्य कस्यचित् शुक्तावदर्शनात् ; तस्मात् प्रागु- क्तरीत्या त्वदनुमानमेव बाधितविषयमिति ॥ अथ द्वादशी रजततादात्म्यावच्छेदकत्वेन रजते गृहीतं चाकचक्यं शुक्ती रजतभ्रमात्पूर्व गृह्यते, सादृश्यज्ञानस्य तद्धेतुत्वसंप्रतिपत्तेः , अतोऽत्र ज्ञानस्य संनिकर्षत्वं युज्यते ; अतो देशान्तरस्थरजत- भाने क्लप्तकारणसद्भावात् रजतान्तरोत्पत्तौ तदभावाच्च अ- संनिहितभानमेवाङ्गीकृत्य तत्र शुक्तीदमंशतादात्म्यस्फुरणात् इदं रजतमिति व्यवहारः इत्युपपादनीयम् , अन्यथा चैत्रा- दिव्यक्तिविशेषभ्रमस्थले तदेवेदं रजतमिति व्यक्तिविशेषप्रत्य- भिज्ञाभ्रमस्थले च का गतिः; न हि रजतसामान्यार्थिप्र- वृत्तिः प्रातिभासिकरजतज्ञानादिव प्रसिद्धचैत्रोद्देश्यकप्रवृत्तिः प्रातिभासिकचैत्रज्ञानात् नष्टान्विष्यमाणस्वकीयरजतोद्देश्यक- पूर्वोत्तरमीमांसा- प्रवृत्तिः प्रातिभासिकरजतज्ञानाद्वा उपपद्यते; तस्मात् त्वद- नुमानमेव बाधितविषयम् इति ।। अथ त्रयोदशी- शुक्तावतिप्रसक्तं चाकचक्यसामान्यं न रजततादात्म्याव- च्छेदकम् ; शुक्तिचाकचक्ये रजतवृन्तिचाकचक्यविशेषतादा- स्यभ्रमेण अवच्छेदकत्वज्ञानोपपादने रजतचाकचक्यविशे- पस्यापि देशान्तरगतस्य भानानुपपत्तिस्तुल्या; तथा नीलं ज- लमिति भ्रमस्थले प्राक् जलस्य नीलिमावच्छेदकवत्वेन ज्ञानं नास्ति, रूपं विना केवलजलाप्रतीते: ; नीलिमावच्छेदकत्वेन शङ्कनीयस्य कस्यचिदभावाच ; प्रागदृष्टोरगस्य ऐन्द्रजालि- कप्रदर्शितोरगभ्रमे मण्डूकवसाञ्जनदोषजन्यवंशोरगभ्रमे च उरगतादात्म्यावच्छेदकवत्त्वेन अधिष्ठानस्य ज्ञानं नास्ति, तदवच्छेदकस्य प्रागविज्ञातत्वात् ; एवं संनिकर्षस्येव निरालो- कदेशान्तरस्थितवस्तुभ्रमे विषयालोकसंयोगस्याभावादपि न देशान्तरस्थस्य भ्रमविषयत्वमुपपद्यते ; अपि च प्रतार- कवाक्यात्-- शशस्य शृङ्गमस्ति, तदेवलक्षणमरण्ये पति- तमन्विष्य लब्धं शक्यम् ; तेन च इदं प्रयोजनं भवति- इत्येवंरूपात् अवाप्तमोहस्य तथैवारण्यं गत्वा तदन्वेषमाण- स्य यथोकचिह्नयुक्तकाष्ठशृङ्गान्तरादिदर्शने शशशृङ्गामिदम् वादनक्षत्रमाला । इत्यनुभवोऽस्ति ; अस्ति च स्वप्ने मनुष्यपशुपक्षिवृक्षाद्यनेक- रूपस्य एकस्यैवावयविनोऽनुभवः ; न च तत्र असंनिहितं शशशृङ्गादिकं भ्रमविषय इति वक्तुं शक्यामिति अगत्या दोषात् प्रातिभासिकस्यैव तस्योत्पत्तिरङ्गीकरणीया; एवं तत्र दोषस्य प्रातिभासिकविषयोत्पत्तिकारणत्वक्लप्सौ तेनैव रजत- भ्रमेऽपि विषयोत्पत्तेरङ्गीकरणं युक्तम् ; एवं च भ्रमविषयाणाम् इदंतया अनुभव: स्वारस्य प्रापितो भवति ; चैत्रादिव्यक्ति- विशेषभ्रमेण अप्रसिद्धचैत्रााद्देश्यकप्रवृत्तिस्तु तन्निष्ठचैत्र- त्वादेः प्रातिभासिकविषयेऽपि स्फुरणात् उपपद्यते ; अस्ति हि चैत्रशरीरे चैत्रत्वं तदाकृतिविशेषव्यङ्ग्यम् । तत्प्राति- मासिकचैत्रशरीरेऽपि व्यजकसत्त्वेन अभिव्यक्तं स्फु- रति ; तत्स्फुरणमानं प्रसिद्धचत्रोद्देश्यकप्रवृत्तौ तन्त्रम् ; इष्टतावच्छेदकज्ञानादेव प्रवृत्त्युपपत्तेः; रजतव्यक्तिविशे- षविषयप्रत्यभिज्ञाभ्रमेण तदर्थप्रवृत्तिरपि प्रातिमासिकरजत- स्यैव शुक्तौ विशेषवैशिष्टयेन स्फुरणादुपपद्यते ; सत्यरजतान्त- रविषये तदिदं रजतम् इति प्रत्यभिज्ञाभ्रमे हि पुरोवर्तिन्येव रजते तत्तावैशिष्टयस्फुरणमङ्गीकर्तव्यम् । तत् प्रातिमासिकर- जतेऽपि अस्तु; सा तत्ता तवासंनिहिता, मम रजतेन सह तद्विशेषणभावेन उत्पन्नेति विशेष: ; तत् पुरोदेशे प्रत्यारज- पूर्वोत्तरमीमांसा- तोत्पत्तो कारणसत्त्वात् असंनिहितरजतभाने कारणाभावाच मदनुमानं न बाधितविषयम् , त्वदनुमानमेव बाधितवि- षयमिति सिद्धं शुक्तिरजतादिकमिदं पुरोदेशवर्ति प्रसिद्धरज- तादिभिन्न मिति; एतेन स्वप्नचित्तभ्रममनोराज्यविषया अपि व्याख्याता:॥ इति शुक्तिरजताद्युत्पत्तिसमर्थनवादः ।। २५ ॥

प्रपञ्चसत्तानिराकरणवादः॥ anse यथा शुक्तिरजतादिकम् अग्रे नेदं रजतमित्यादिप्रकारेण बाध्यमपि भ्रमकाले शुक्तीदंतया इदमितिवत् शुक्तिसत्तथा सदिति प्रतीयते, एवं जगदपि ब्रह्मसत्तया सदिति प्रतीयते, न स्वधर्मरूपया सत्तयेति निर्णयार्थ कथान्तरं प्रस्तूयते-- सन् घटः इति प्रतीतौ भासमानसत्ता घटधर्मः, सन् घट: इति प्रतीतिप्रकारत्वात् , घटत्ववत्-- इति पूर्वपक्षिण: प्रथमा कक्ष्या ॥ अथ द्वितीया-- अप्रयोजकमिदम्---- शुक्तिरजतस्य अधिष्ठानसत्तयेव प्रपञ्चस्य सर्वोपादानभूतया ब्रह्मसत्तया सत्प्रतीतिविषयत्वो- पपत्तेः । तस्मात् सन् घट इत्यत्र भासमानसत्ता घटधर्मो न भवति, सन्मात्रवृत्तित्वात् , आनन्त्यवत्, इति ।। अथ तृतीया- नाप्रयोजकं मदनुमानम् , घटः सन्निति घटत्वतौल्येन घटविशेषणतया घटधर्मत्वेन भासमानाया: सत्तायाः बाध- काभावेन तथात्वस्यैव स्वीकरणीयत्वात् त्वदनुमानमेवाप्रयो- पूर्वोत्तरमीमांसा- , जकम् , सत्ताया: सन्मात्रवृत्तित्वेऽपि घटादिवृत्तित्वोपपत्तेः तेषामपि सत्त्वे बाधकाभावात् इति ॥ अथ चतुर्थी- घटधर्म: : सत्ता स्वरूपसन्ता वा स्यात् । जातिसत्ता वा; नाद्यः, स्वरूपस्य तद्धमत्वानुपपत्तेः ; नापि द्वितीयः, सामान्या- दिषु सत्ताजातिरहितेषु ताद्धर्येण सब्यवहारानिर्वाहात् ; घ- टादिषु ताद्धयण सामान्यादिषु तदेकार्थसमवायादिसंबन्धा- न्तरेण इत्यभ्युपगमे अननुगमात्; तस्मात् सर्वानुगतया ब्रह्मसत्तयैव प्रपञ्चानुगतसव्यवहारो निर्वोढव्यः, स्वरूपस- त्ताया इव ब्रह्मसत्तायां प्रपञ्चानुगतसयवहारनिर्वाहकत्वे बाधकाभावात् । एवं ब्रह्मसत्तयैव सर्वत्र सब्यवहारनिर्वाहे तस्याः प्रपञ्चधर्मत्वासाधनम् अप्रयोजकमेव; मदनुमानं नाप्रयोजकम् , घटधर्मसत्ताभ्युपगमेऽपि तया सब्यवहारा- निर्वाहेण घट: सन्निति प्रतीतौ भासमाना सत्ता ब्रह्मसत्तैव इत्यभ्युपगन्तव्यत्वात् इति ।। अथ पञ्चमी कक्ष्या- घटःसन्निति व्यवहारविषयसत्ताया ब्रह्मसत्तारूपत्वे बा- धकं नास्ति इत्येतदसिद्धम् , सर्वोपादानब्रह्मशक्तिरूपा सा द्रव्यमिति त्वयाङ्गीकृतत्वेन नीरूपद्रव्यस्य चाक्षुषत्वायो- वादनक्षत्रमाला। गात् ; अत: संबन्धाननुगमेऽपि जातिसत्तयैव प्रपञ्चे सद्ध्य- वहारो निर्वोढव्यः, तवापि ब्रह्मणि सब्यवहार: ताद्धयेण जगति उपादानानुवेधेन सत्ताया भेदेनेति संबन्धाननुगमस्य अङ्गीकर्तव्यत्वात् ; तस्मात् मदनुमानं नाप्रयोजकम् ; किंतु त्वदनुमानमेवेति ॥ अथ षष्ठी- नीरूपापि ब्रह्मसत्ता प्रपञ्च सत्तावत् चाक्षुषी भवितुमर्ह. ति ; नीरूपद्रव्यं न चाक्षुषमित्येतत् अप्रयोजकम् , घट: स्फुर- तीति स्फुरणरूपायास्तस्या: चाक्षुषत्वदृष्टेश्च ; न च सत्ताया नीरूपत्वमापि, उपादानोपादेययोः अभिन्नतया घटरूपेणापि तस्या रूपवत्वात् । अत एव जातिसत्तयेव ब्रह्मसत्तया स- ब्यवहारनिर्वाहे संबन्धाननुगमोऽपि नास्ति, ब्रह्मणा धर्मिणा उपादेयेन प्रपञ्चन चाभिन्नाया ब्रह्मसत्तायाः सर्वत्राभेद- संबन्ध एव सध्यवहारनिर्वाहक इत्युपपत्तेः ; तस्मात् त्वदनु- मानमेव अप्रयोजकम् ; मदनुमानं नाप्रयोजकमिति ।। अथ सप्तमी कक्ष्या- नीरूपद्रव्यं न चाक्षुषम् इत्येतन्नाप्रयोजकम् , द्रव्यचाक्षु- षतायां महत्त्वसमानाधिकरणोद्भूतरूपस्य प्रयोजकत्वेन क्लप्त- त्वात् ; घट: स्फुरतीत्येतत् घटवृत्त्यनुभवविषयार्थकम् , न तु wammam ३६२ पूर्वोत्तरमीमांसा- ब्रह्मशक्तिरूपस्फुरणवत्त्वार्थकम् ; घटादिरूपेण ब्रह्मासत्ता रूपिणीत्येतदपि अयुक्तम् , तथा च सति इन्द्रियेष्वपि सत्ता- याश्चाक्षुषत्वप्रसङ्गात् ; अभेदसंबन्धानुगमोक्तिरपि अयुक्ता, तेन हि सुवर्ण कुण्डलमितिवत् घट: सत्ता इत्येव अनुभव: स्यात् , मम तु सत्तायामपि सत्तैकार्थसमवायोऽस्ति ; अत एव अभेदेऽपि सामानाधिकरण्यरूपा व्याप्तिरभ्युपेयते ; त- स्मात् घटादिसत्तथैव तेषु सद्व्यवहारनिर्वाहः कार्यः, न ब्रह्म- सत्तयेति-यथा घटगन्धेनैव घटो गन्धवानित्यादिव्यवहार- निर्वाहः कार्यः, न तु 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्व- रसः' इति श्रुतिप्रतिपन्नब्रह्मगन्धेनेति नाप्रयोजक मदनु- मानम् , त्वदनुमानमेवाप्रयोजकमिति ।। " आका- अथाष्टमी- द्रव्यचाक्षुषतायामुद्भूतरूपं न प्रयोजकम् , इह पक्षी इह न-इत्यादिप्रत्यक्षे इहप्रत्ययवेद्यदेशत्वेन नीरूपस्थापि आकाशय चाक्षुषत्वात् । नन्वस्तु आलोक: इहप्रत्ययवेद्यदेशः, शस्य तथात्वाङ्गीकारेऽपि तस्य पक्ष्याधारत्वानाधारत्वव्यव- स्थार्थम् आलोक उपासनीयः, निरवयवस्य आकाशस्य स्वा. वयवभेदेनावच्छेदासंभवेन आलोकावयवभेदैरवावच्छेदभेद- स्य वक्तव्यत्वात् । न च तत्तद्धःक्षितिभागभेदोऽवच्छेदकः " वादनक्षत्रमाला। आ- - स्यादिति वाच्यम् , ऊर्ध्वाधरदेशयोः इह पक्षी इह नेति प्रतीतावाधारत्वव्यवस्थायां तद्भेदाभावात् ; निबिडमूर्तद्रव्या- भावो वा इहप्रत्ययवेद्यो देशोऽस्तु ; आकाशाङ्गीकारेऽपि हि तदभावोऽपेक्षितः, अन्यथा कुड्याद्यावरणेऽपि अप्रतिघात- पक्षिसंचारापत्तेः । न च यत्र कुड्याद्यावरणम् , तत्र काशो नास्तीति शक्यं वक्तुम् , तस्य असर्वगतत्वप्रसङ्गात् ; आवरणापायेऽपि आकाशाभावप्रसङ्गाच; न हि आकाशस्तत्र पूर्वमसन् आवरणाभावे समुत्पद्यते इति चेत् , उच्यते-- अस्त्यालोकातिरिक्त: प्रागादिदेशरूप आकाशः, प्राग्भागे चन्द्रालोकः समुन्मिपति प्रत्यग्भागे तमोऽनुवर्तते इत्यादि- प्रतीतिषु आलोकादेरपि आधारत्वेन प्रागादिदेशरूपस्याका- शस्य प्रतिभासात् ; आकाशस्यैव सूर्यगत्याद्यवच्छेदभेदेन प्रा- गादिदेशत्वाङ्गीकारात्; एतेन आकाशे प्रदेशभेदार्थम् आलो- कावयवापेक्षणमावश्यकमित्यपि शङ्का निरस्ता, क्लप्तैः प्रागा- धुपाधिभिः तदवच्छेदोपपत्ते: ; निबिडमूर्तद्रव्याभावरूपोऽव- काश इहप्रत्ययवेद्यः इत्यपि न युक्तम् , इह प्राग्भागेऽवका- शोऽस्ति, न प्रत्यग्भागे भुञ्जानैर्निबिडे-इत्यादिव्यवहारदर्शनेन प्रागादिदेशस्य ततोऽपि व्यतिरेकावसायात् ; इदानी घट: अयं घट: इत्यादिप्रतीतिषु नियमेन .. . - , . कालस्य पूर्वोत्तरमीमांसा- 6 mamm तस्य भासा ७ चाक्षुषत्वादपि न रूपं द्रव्यचाक्षुषत्वे प्रयोजकम् ; संप्रतिप- नं च ब्रह्मशक्तेः स्फुरणरूपेण चाक्षुषत्वम् ; घट: स्फुरति इत्या- दिप्रत्ययो हि सविता स्फुरति भाति प्रकाशते इत्यादिप्रत्य- यवत् स्फुरणवैशिष्टयविषयः ; तच्च स्फुरणं चैतन्यरूपा ब्रह्म- शक्तिः इत्येव युक्तम् । अत एव श्रुति:- सर्वमिदं विभाति' इति ; ब्रह्मसत्ताया घटादिरूपेण रूपव- स्वाभ्युपगमेऽपि नातिप्रसङ्गः, घटाद्यवच्छेदेन हि तस्या रूपवत्त्वम् ; अभेदेऽपि सन् घट इत्यादिविशेषणविशेष्यभा- व उपपद्यते इदानीमभिजिन्मुहूर्तः इत्यादावभेदेऽपि तथा- त्वदर्शनात् ; अथवा प्रपञ्चे ब्रह्मसत्तानुवेधो नाम सर्वो- पादानभूतसत्ताधिष्ठानभूतब्रह्मतादात्म्यानुभवः; अत: सन् घट: इत्यादिप्रत्यय: सदित्यंशे सत्ताविशिष्टब्रह्मविषयक: इति न काचिदनुपपत्तिः अत एव भाष्यम् --- 'सच्चिद्रूपेण शिवेन यदि न व्याप्तं जगत् , तदा सत्तास्फूर्तिभ्यां विनाकृतं कथमस्ति स्फुरति इति च दृश्येत ; अतो मृदा घटादिकमिव कारणेन शिवेन कार्यमिदं व्याप्तम्' इति; अनेन भाष्येण वस्तुतः प्रपञ्च: सन्न भवति किंतु बाध्यः इति दर्शितम् ; इत्थमेव हि भाष्यकारस्य उपासनामार्गनिरूपणतात्पर्येण तत्र विनेयानां रुच्युत्पादनार्थ सर्वत्र शुद्धाद्वैतं प्रच्छादितवतोऽपि

वादनक्षत्रमाला ।
३६५
अनियमाधिकरणादिषु निर्विशेषब्रह्मविद्यायामचिरादिमार्ग
प्रतिषिद्धवतः परमसिद्धान्तः; न च ब्रह्मशक्तिः सत्तेति परि-
भाषा कृता, तस्याः प्रपञ्चधर्मत्वनिषेधमात्रेण प्रपञ्चस्य बा-
ध्यत्वं कथं सिध्येत् इति शङ्कनीयम् , नित्यत्वप्रामाण्यादेरनि-
त्यत्वाप्रमाण्यादिविरोधित्ववत् ब्रह्मसत्ताया बाध्यत्वविरोधित्व-
मिष्यत इति नित्यत्वव्यतिरेकेणानित्यत्ववत् तव्यतिरेकेण बा-
ध्यत्वसिद्धेरप्रत्यूहत्वात् । न चैवं सति गन्धरसादिकमपि घटा-
दिषु प्राकृतं न सिध्येत् इति शङ्कनीयम्; ब्रह्मणि हि निर्दोष
सुरभिरेव गन्धः हृद्य एव रसः; स च तस्य दिव्यनित्यविग्रहे;
अत एव पर्यङ्कविद्यायाम् अचिरादिमार्गेण ब्रह्मलोकं गतस्य
दिव्यविग्रहसनिकर्ष प्राप्तस्यैव ब्रह्मगन्धरससंक्रान्तिभाजनता
श्रूयते---- 'तं ब्रह्मगन्धः प्रविशति तं ब्रह्मरस: प्रविशति' इति ;
तस्मात् प्रागुक्तरीत्या त्वदनुमानमप्रयोजकम् , मदनुमानं ना-
प्रयोजकमिति ब्रह्मसत्तयैव प्रपञ्च: सन्निति प्रतीयते न स्वसत्त-
येति सिद्धम् ; एवं च शुक्तिरजतस्वाप्नपदार्थजातवत् वियदादि-
प्रपञ्चस्यापि बाध्यत्वसिद्धिः अखण्डाद्वित्तीयब्रह्मभावपरममु-
क्त्युपयोगिनी अव्याहता; 'न विलक्षणत्वात्' इत्यधिकरणन्या-
येन सत्यमिथ्यावस्तुनोरपि उपादानोपादेयभावोपपत्ते: इति ।
इति प्रपञ्चसत्तानिराकरणवादः ॥ २६ ॥

ब्रह्मानन्दवैषयिकानन्दाभेद- समर्थनवादः॥ mamawe यथा प्रपञ्चे भासमाना सत्ता चिदानन्दरूपा ब्रह्मशक्तिः, एवं संसारिषु भासमानो वैषयिकानन्दोऽपि सैवेति प्रसा- धनाय कथान्तरं प्रस्तूयते- सांसारिकानन्दो ब्रह्मानन्दात् न भिद्यते, आनन्दत्वात् , स एको ब्रह्मण आनन्दः' इति श्रुतानन्दवत् ; अभेदेऽपि अवच्छेदकभेदेन पक्षदृष्टान्तभाव:----इति प्रथमा कक्ष्या ॥ अथ द्वितीया- बाधितमिदमनुमानम् , मानुषादिप्राजापत्यान्तात् सांसा. रिकमहानन्दात् उत्कृष्टो हि निरतिशयो ब्रह्मानन्दः श्रूयते; तेन कथमत्यन्तापकृष्टस्य क्रिमिकीटाद्यानन्दस्यापि अभेदो यु- ज्यते ; तस्मात् सांसारिकानन्दः ब्रह्मानन्दात् भिद्यते, अप- कृष्टत्वात् , तारध्वन्यपकृष्टमन्द्रध्वनिवत् इति ॥ अथ तृतीया- न बाधितं मदनुमानम् , एकत्रापि अभिव्यक्तितारतम्येन Morayan वादनक्षत्रमाला। ३६७ उत्कर्षापकर्षप्रतिभासोपपत्तेः; त्वदनुमानमेव श्रुतिबाधितम् , 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति हि सांसारिकानन्दजातस्य ब्रह्मानन्दलेशत्वं श्रुतम् , तथा आनन्दवल्ल्याम् ' सोऽश्नुते सर्वान् कामान्सह ब्रह्मणा विप- श्चिता' इति ब्रह्मविदः सकलवैषयिकानन्दावाप्तिं फलमुक्त्वा निर्धूतसकलसंसारस्य कथं सुखावाप्तिः फलमुच्यते इति शङ्कानिराकरणार्थम् अग्रे तद्विवरणप्रस्तावे 'सैषानन्दस्य मीमा५सा भवति' इत्युपक्रम्य ‘युवा स्यात् साधु युवाध्या- यकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः' इति मानुषेषु सर्वोत्कृष्टतया संभावितमानन्दं प्रथममभिधाय ततो गान्धर्वादिप्राजापत्यान्तानामानन्दानाम् उत्तरोत्तरशतगुणानु- क्वा, 'ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य' इति प्राजापत्यानन्दात् शतगुणत्वेनाभिधीयमानस्य ब्रह्मानन्दस्य मुक्तभोग्यत्वाभि- धानात् तस्य सकलवैषयिकानन्दानन्तजलकणिकामहासमु- द्रायमाणत्वेन तावदानन्दसमष्टिरूपत्वं दर्शितमिति ।। अथ चतुर्थी कक्ष्या- उत्कर्षापकर्षयोः भेदकधर्मत्वेन तयोः सतो: भेदस्यौत्स- पूर्वोत्तरमीमांसा- , , गिकत्वात् सक्चन्दनवनितादिभोज्यविषयवैलक्षण्येनानन्द- भेदानुभवाञ्च प्रत्यक्षानुभवानुसारेण मुख्य एव भेदः स्वीकर्तु युक्तः, न तु औपाधिकतया नेतुं युक्तः ; "एतस्यैवानन्दस्य इति श्रुति: वैषयिकानन्दाः ब्रह्मानन्दस्य लेशभावमईन्ति इति “अम्ब स्वदंशोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दुः' इति कवितासरणिरीत्या तेषां तुच्छत्वप्रदर्शनपरा ; सर्वका- मावाप्तेः ब्रह्मानन्दावाप्तिरूपतया विवरणम् अनाद्यनन्तदे- शकालप्रवदखिलप्राणिजातवति यावत्सुखबन्दम् अस्ति, ता- वत्समानो ब्रह्मानन्द इत्येतदभिप्रायम् ; तस्मात् मदनुमानं न बाधित्तम् , त्वदनुमानमेव बाधितमिति ।। अथ पञ्चमी कक्ष्या- तारगकारात् मन्द्रमन्द्रतरमन्द्रतमगकारेष्विव लौकिक- सुखेषु अनुभूयमानस्य प्राजापत्यादिमानुषान्तेषु आनन्देषु श्रूयमाणस्य च अपकर्षतारतम्यस्य अभिव्यक्तिविशेषकृत- त्वमुपपद्यते; सुखभेदप्रतीतेश्च तारगकारात् मन्द्रगकारो. ऽन्यः इति भेदप्रतीतिवत् औपाधिकापकर्षभेदकृतत्वमुपपद्यते; तत्र स एवायं गकार इति अभेदप्रत्यभिज्ञासिद्धैक्यबलात् मे- दभेदकप्रतीत्योः औपाधिकविषयत्वं कल्प्यत इति चेत् , इहापि श्रुतौ मानुषादिपर्यायेषु ' स एको मानुष आनन्दः वादनक्षत्रमाला। .. इत्यादिना तत्तदानन्दैक्यस्य अन्ते ‘स यश्चायं पुरुषे । य- श्वासावादित्ये । स एकः' इति पुरुषादित्यशब्दोक्तयो- मनुष्यदेवजात्योः जीववर्गपरब्रह्मणोर्वा आनन्दैक्यस्य प्रति- पादनमस्तीति तदलात्तयोः औपाधिकत्वकल्पनं युक्तम् । वर्णेषु ध्वनिविशेषाणामिव आनन्देष्वपि विषयविशेषाणाम- भिव्य खकानां तारतम्य सत्त्वात् । प्रत्यक्षप्रत्यभिज्ञाबलादिव शब्दबलात् भेदभेदकप्रतीत्यो: औपाधिकविषयत्वकल्पनमयु- कमिति चेत्, न, प्राग्विषयविशेषसुखमनुभूतवत: काला- न्तरेऽपि तद्विषयलाभे तदेव सुखमिदानीमपि अनुभूयते इति प्रत्यक्षप्रत्यभिज्ञानस्यापि अत्र सत्त्वात् ; न हि सोऽयं गकार इति प्रत्यभिज्ञानात् अस्य मात्रयापि विशेषमीक्षामहे; किं च सर्वेष्वपि आनन्देषु आनन्दाकारानुगतबुद्धिरपि आनन्दै- क्ये प्रमाणम् ; न च सा जातिविषयेति कल्पनीयम् ; क्लप्ने स्पष्टे हि व्यक्तिभेदे जातिविषयत्वं कल्पनीयम् ; आनन्देषु विषयविशेषोपाधि विना स्वत: भेदाप्रतीते: व्यक्त्यैक्यमेवो- पपद्यत इति कुतो जातिः कुतस्तरां तद्विषयता बुद्धेः अपि च संभावितदोषात् प्रत्यक्षात् निर्दोषा तात्पर्यवती श्रुतिरेव प्रबला ; तात्पर्यवती च आनन्दमीमांसा, सर्वकामावाप्निफल- विवरणार्थ प्रवृत्तत्वात् ; न च तात्पर्यवत्यामुपचारकल्पनमपि पूर्वोत्तरमीमांसा- १ , युक्तम न विधौ परः शब्दार्थः' इति न्यायात्; न च वैषयिकसुखानां सर्वेषां मिलितानामपि अखण्डब्रह्मानन्दले- शरूपत्वात् तदनुभव: सकलवैषयिकसुखावाप्नेः अतिरिच्यते इति तवापि निरतिशयब्रह्मानन्दानुभवोक्तेः सर्वकामावा- तिफलविवरणत्वमौपचारिकं नेयामिति वाच्यम् , मुक्तं प्रति सर्वात्मना अभिव्यक्ते ब्रह्मानन्देऽनुभूयमाने वैषयिकानन्दा- स्मना विद्यमानास्तदंशाः सर्वेऽप्यनुभूयन्त एवेति तस्य सर्वका- मावाप्तिसत्त्वेन तत्र उपचारस्याकल्पनीयत्वात् ; किंतु मन्त्रा- थेसर्वकामावाप्निवचनं परं तदन्यूनतापरं कल्पनीयम् । दृष्टं हि 'आकाशवत्सर्वगतच नित्यः' इति वचनमन्यूनता- परम्; इहापि मनुष्यगन्धर्वादिपर्यायस्थानि अकामहतश्रोत्रि- यवाक्यानि मुक्तानुभाव्यस्य ब्रह्मानन्दस्य मनुष्यगन्धर्वाद्या- नन्दान्यूनतापराणि दृष्टानि ; न खलु ब्रह्मानन्दमनुभवन्मु- क्तः कश्चित् मनुष्यगन्धर्वानन्दमात्रमनुभवन्नास्ते; सर्वेषां मुक्तानां निरतिशयब्रह्मानन्दानुभवसत्त्वात; तस्मात् त्वदनु- मानं बाधितविषयम् ; न तु मदनुमानमिति सर्वे वैषयिका- नन्दा लेशा: परब्रह्मानन्दस्येति सिद्धम् ।। इति ब्रह्मानन्दवैषयिकानन्दाभेदसमर्थनवादः ॥२७॥ "

वादनक्षत्रमाला।
समूलश्रवणाश्लेषचिवाभाद्रपदोत्तरा ।
नव्या नक्षत्रमालेयं प्रीत्यै सोमस्य निर्मिता ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीविश्वजिद्याजि-
श्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतिषु
पूर्वोत्तरमीमांसावादनक्षत्रमाला
संपूर्णा ॥

Vadanakshatramala

Author
Appaya Dikdhita
Title
Vadanakshatramala
File name
Vadanakshatramala
Text
OCR done
Citation
1912
Publisher
Sri Vani Vilas Press
Language
Sanskrit
Pages
384
Library
Bharti Bhawan Library Allahabad
DLI number
273919
Barcode
5990010894521.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
ufR8BOi9eAj
Download PDF

Vadanakshatramala