Allahabad University
Mimansa Balaprakashah
Front matter
चौखम्बा-संस्कृत-प्रन्थमाला ।
(ग्रन्थसंख्या १६)
॥ मीमांसावालप्रकाशः॥
(जैमिनीयद्वादशाध्यायार्थ-संग्रहः ।)
श्रीमदूपवाक्यप्रमाणपारावारीणधुरीणमीमांसाढे.
तसाम्राज्यधुरन्धर श्रीभट्टनारायणात्मज
भट्टशङ्कर-विरचितः।
अडकरोपनामक-श्रीमुकुन्दशास्त्रिणा परिशोधितम् ।
काश्याम् ।
विद्याविलास-नानि यन्त्रालये, श्रीयुतबाबूहरिदासगुप्ते
मुद्रयित्वा प्रकाशितम्।
सन् १९०२ ईस्वी
वैक्रम सम्बत् १९५९
शुलन् ।
No text on this page.
विज्ञापनम् । श्रीपरमेश्वराय नमः। तत्रभवन्तो भगवन्तः परमकारुणिकाः श्री ६ शबरस्वा- मिकुमारिलभप्रभृतयो महर्षयो विस्तरेण धर्ममीमांसां व्याच- ख्युः। तेषु मन्दमतीन् व्युत्पित्स्न् दुरवगाहतया ऽप्रवर्तमानान् निबन्धविस्तरदर्शनसातालस्यमात्रेण तत्तत्पठनादावधिकारि- णो ऽप्यमवर्तमानान् धीमतश्च समनुग्रहीतुकामः (श्रीमत्पदवा- क्यप्रमाणपारावारपारीणधुरीणमीमांसाद्वैतसाम्राज्यधुरन्धर श्री ६ भट्टनारायणात्मजभट्टशङ्करः) धर्ममीमांसाशास्त्रमहोदधेः सा- रसुधां समुद्धृय पाययन्निव धर्ममीमांसानिबन्धानां शिरोभूषणं मीमांसाबालप्रकाशसमाख्यं निवन्धमुपानबबन्धः । अयं महारा- ब्राह्मणः, अस्य च वंशटक्ष विश्वनाथनारायणमण्डलीकमुद्रा- पितानेकटीकासनाभमनुस्मृतौ द्रष्टव्यः । तस्य चास्य निबन्धस्य शोधनार्थजीर्णमेकं पुस्तकं महामहोपाध्यायगुरुवर श्री ६ ग- ङ्गाधरशास्त्रिचरणसकाशादुपलभ्य । अपरं च नातिशुद्धम् दुर्ल- भसंस्कृतपुस्तकसङ्ग्रहशीलस्य श्रीगोविन्ददास-गुप्तमहाशयस्य पुस्तकालयादुपलभ्य एतत्पुस्तकद्वयद्वारा यथामति विचतुर- वारं संशोध्य एतत्पुस्तकद्वारा प्राचीनप्रौढनिबन्धदर्शनरसिक- जनान् प्रमोदयितुकामस्य श्रीहरिदासगुप्तमहाशयस्यानुमत्या तदीयविद्याविलासनाम्नि यन्त्रालये संमुद्य प्रकाशितवानस्मि ( २ ) अत्र मधुलिह इव साररसं स्वीकृत्य दृष्टिदोषात् मतिमान्धात् सीसकाक्षरयोजनप्रमादाद्वा जातस्खलनं समुपेक्ष्य सफलयन्तु मत्परिश्रमम् गुणैकपक्षपातिनः प्राज्ञवरा इति भूयोभूयः प्रार्थ- यते प्रसीदतु चानेन व्यापारेण सर्वान्तर्यामी नारायण इति शुभम् । अडकरोपनामको मुकुन्दशास्त्री ।
बालप्रकाशस्य विषयसूची विषयाः पृष्ठाङ्काः १ ६ ८।९।१०। ११ । १२ १३। २८ २९॥ ४१। ४४ ४४। उपोद्घातः चोदनासूत्रार्थः प्रत्यक्षसूत्रविचारः औत्पत्तिक सूत्रविचारः इति श्री प्रथमपादार्थानुक्रमणसंक्षेपः विप्रकीर्णपदार्थनिरूपणम् अथ प्रत्यक्षादिविधिभेदाः इति विधिनिषेधभेदाः श्रुतिभेदनिरूपणम् कारकविभक्तिरूपाया. श्रुतेर्निरूपणम् इति श्रुतिनिरूपणम् अर्थवादभेदाः अथ मन्त्रभेदाः इति भाष्योक्ता अष्टाविंशतिर्मन्त्रभेदाः अष्टाविंशाधिकमन्त्रभेदनिरूपणम् अथ लौकिकच्छन्दांसि इति श्री० मन्त्रभेदनिरूपणम् अथ मन्त्रप्रामाण्यम् इति श्री० मन्त्रप्रामाण्यनिरूपणम् इति प्रथमाध्यायार्थसंग्रहः अथ अर्थभावनानिरूपणम् इत्यर्थभावनानिरूपणम् ४८। ५८ ફર ४३ ( २ ) पृष्ठाङ्काः ७५। ७८ ७९। ८० ८९ ९१ इति विध्याख्यशब्दभावनानिरूपणम् इति प्रतिषेधाख्यशब्दभावनानिरूपणम् इति शब्दभावनेतिकर्तव्यतानिरूपणम् अथ द्वितीयाध्यायार्थकर्मभेदप्रसङ्गात् सकलकर्मभेदनिरूपणम् इति संख्याधिकरणन्यायविषयाविषयविवेकनिरूपम इत्याश्रयलक्षणनिरूपणम् इति प्रकरणान्तरनिष्कर्षनिरूपणम् इति मासाग्निहोत्रमासदर्शपूर्णमासयोः कर्मभेदाभेदविचारः इति शाखान्तराधिकरणनिष्कर्षनिरूपणम् इति द्वितीयाध्यायार्थविचारः। शेषलक्षणम् इति बहुब्रीहावन्यपदार्थवाच्यतानिरूपणम् इति विशिष्टविधिनिरूपणम् इति मत्वर्थलक्षणाविचार इत्यनुपादेयनिरूपणम् इति प्रवाधिकरणदूषणोद्धारः इति पूषाधिकरणसिद्धान्ताक्षेपपरिहारः इति विशेषणतादविचारः इति तृतीयाध्यायार्थसंग्ग्रहः तन्त्रप्रसङ्गाप्रयोजकलक्षणनिरूपणम् प्रयाजशेषाभिधारणाधिकरणसमाहितिः इति चतुर्थाध्यायार्थसंग्रहः प्रयाजानुमन्त्रणक्रमाधिकरणसमर्थनम् इति पञ्चमाध्यायार्थसंग्रहः अभ्युदयेष्टयधिकरणसमर्थनम् इति प्रतिहर्तृजघन्यत्वे पुनः प्रयोगबाधनिरूपणम् ७८ । १०१ १०२ १०३ १ ११२ पृष्ठाङ्काः ११६ ११९ ११९ १२१ १२६ ર૭ १३१ इति षष्टाध्यायार्थसंग्रहः इत्यातदेशलक्षणतद्भेदनिरूपणम् इति सप्तमाध्यायार्थसंग्रहः आष्टमिकभेदप्रपञ्चनिरूपणम् पार्वण-वैमृधवैषम्यनिरूपणम् इति अष्टमाध्यायार्थसंग्रहः ऊहभेदनिरूपणम् इत्यकादविधस्योहप्रयोजकस्य निरूपणम् इति नवमाध्यायार्थसंग्रहः प्राप्तबाधभेदनिरूपणम् अथाप्राप्तबाधभेदनिरूपणम् इति दशमाध्यायार्थसंग्रहः एकादशाध्यायार्थ-संग्रहः प्रसङ्गनिरूपणम् विकल्पप्रयोजकनिरूपणम् विकल्पदोषनिरूपणम् विकल्पगतदोषनिरूपणम् अथ विकल्पभेदाः इति विकल्पभेदनिरूपणम् समुच्चयनिरूपणम् इति समुच्चयभेदनिरूपणम् वाक्यभेदनिरूपणम् इति द्वादशाध्यायार्थसंग्रहः १४७ १५० १५२ १८०
No text on this page.
ॐ श्रीगणेशाय नमः। मीमांसाबालप्रकाशः। -- अर्थ द्वादशलक्षण्याः संक्षिपत्यत्र शङ्करः॥ जिज्ञामुभ्यो ऽतिबालेभ्यो ऽतिस्फुटं गहनं ततः ॥१॥ लक्षणशब्दो मीमांसाशास्त्रे प्रमाणाध्याययोईष्टः “चोदनालक्ष- णोऽर्थो धर्मः" " अथातः शेषलक्षणमिति” । तेन द्वादशलक्षणी द्वा- दशाध्यायी। तस्या धर्मो ऽर्थो विषयः । तदुक्तम् । अथातो धर्मजिज्ञासासूत्रमाद्यामिदं कृतम् । धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् ॥ इति । धर्मशब्देन च गौतमीयादिवन्नापूर्वमुच्यते किं तु त- साधनं यागाद्येव । तदुक्तं श्रेयस्करभाष्ये, धर्मश्च “फलसम्बद्धं क- मयागादि वर्ण्यते” इति। अपवादतया चात्राधर्मो ऽपि जिज्ञास्यो द्वि- तीयलक्षणे(१)भेदापवादत्वेनाभेदवदिति न शास्त्रस्य विषयनानात्वं शयम् । इह च धर्मजिज्ञासापदं न विचारं लक्षयति । औपनिषदानां तु ब्रह्मजिज्ञासापदं तल्लक्षकमिति(२) वैषम्यम् । धर्मे जिशासितुमि- च्छेत् । तस्माद्धर्मो जिज्ञासितव्य इत्यादिभाष्ये, सम्बन्धं क्रिययोोष ब्रूते शास्त्राञ्च ते पृथगित्यादिवार्तिके, तद्व्याख्यार्थे च न्यायरत्नाकरे अध्ययनजिज्ञासाक्रिययोः सम्बन्धमथशब्दो ब्रूते ते च शास्त्रादत्य- न्तभिन्ने । न हि जिज्ञासाशब्दो मीमांसापर्याय इति श्रीतार्थपरत्वस्यै- धोक्तः । तथा आनन्तर्यवचोव्यक्तिराश्रितैवात्र गम्यतइति वार्तिके ऽथशब्द आनन्तर्यार्थो नाधिकारार्थ इत्युक्तम् । जिज्ञासापदस्य च विचारलक्षकत्वे ऽधिकारार्थताप्यविरुद्धोति । तृतीये ऽप्युक्तम् । प्र- थमाध्यायप्रथमसूत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणाया व्याख्ययत्वेना- नुपन्यासादनन्तरानुष्ठेयमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । इह त्वध्यायरूपं वा तदर्थात्मकमेव वा व्याख्येयमधिकर्तुं हि शक्यते F (१) अध्याये इत्यर्थः । (२) विचारलचकमित्यर्थः ।
२ मीमांसाबालप्रकाशे। शेषलक्षणामिति ग्रन्थयोराद्ये प्रथमसूत्रे विचारानुपादानादधिकारा- र्थताऽथशब्दस्य नास्तीत्युक्तम् । द्वितीयग्रन्थे तु तृतीयाध्यायाद्यसूत्रे विचारोपादानाद- धिकारार्थतति । तस्मात्सर्वस्य धर्मो विषयः । द्वादशा- नां त्वध्यायानां द्वादशविषयाः । प्रमाणभेदशेषत्वप्रयुक्तिक- माधिकारसामान्यातिदेशविशेषातिदेशोहबाधतन्त्रप्रसङ्गाख्याः । स- मस्तस्य चार्थस्य द्वादशविधस्य वक्ष्यमाणस्य प्रतिज्ञापिण्डो ऽयं धर्मजिज्ञासेतीति भाष्यकारो भावाभावविषयाष्टविधजिज्ञासापरतया धर्मजिज्ञासापदं व्याकुर्वन्संक्षिप्य दर्शयति को धर्मः, कथं लक्षणकः, कान्यस्य साधनानि, कानि साधनाभासानि, किं परश्चेति, तत्राष्टवि- धत्वं तावदाभासजिज्ञासायाः साधनइव धर्मस्वरूपतत्प्रमाणतत्फले- म्वपि योजनेनाभिप्रेतम् । तत्रापि लक्षणशब्दः प्रमाणवचन उपदे- शमिवातिदेशं तत्प्रमाणको चोहबाधावनिर्दिष्टपदार्थधर्मप्रतियोगिभू- तौ संगृह्णाति । लक्षणशब्देनैव चोपदेशातिदेशौ वदतोपदिष्टाति- दिष्टपदार्थधर्मभूतौ तन्त्रप्रसङ्गौ संगृहीतौ । साधनशब्देन च सा- धनाख्याङ्गधर्मभूतौ प्रयुक्तिक्रमौ संगृहीतौ । अत्रैव च सूत्रे धर्ममी. मांसाऽऽरभ्यान वेति चिन्त्यते।तदर्थ चाथशब्देन योग्यतया ध्ययना- नन्तर्यमुक्त्वा धर्मजिज्ञासा कर्तव्येत्युपदेशात्मकजैमिनिसूत्ररूपस्मृ- स्याऽधीत्य स्नायादिति स्मृतिर्बाध्या न वेति । तदर्थ चाध्ययनविधिः स्वर्गाद्यदृष्टार्थ उत फलवर्थावबोधरूपदृष्टार्थ इति । तत्र स स्वर्गः स्यादिति विश्वजिन्न्यायन पूर्वपक्षयित्वा दृष्टे सम्भवत्यदृष्टकल्पनान- धकाधात्सिद्धान्तितम् । ततश्चाध्ययनविधिमूलया जैमिनिसूनस्मृत्याऽधीत्य साया- दिति । स्मृतेर्बाधाद्यथावदर्थज्ञानार्थ न्यायनिरूपणात्मिका मीमां- साऽऽरया। तत्राध्ययनविधौ स्वाध्यायमिति द्वितीयया गुणत्व- मेव लक्ष्यते ऽन्यथा स्वाध्याये वाजपेयवाक्यइव यागे गुणविधौ वै- रूप्यापत्तरिति भवदेवः । तन्न । श्रयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते त्वसौ ॥ इति वार्तिकोक्तन्यायेन परिहारात् । चित्राधिकरणे पञ्चदशा- न्याज्यानीत्यत्र पूर्वपक्षे प्रकरणेन स्तोत्रविनियोगे ऽपि नास्ति मत्वर्थ- लक्षणोत प्रतिपादनार्थ हीदं वार्त्तिकम् । तत्र राणकग्रन्थः विवक्षितार्थापेक्षया न्यूनत्वाभ्युपगमे लक्ष णावाक्यमेदो आधिक्याभ्युपगमे त्वादिशब्दोक्तमानर्थक्यम् १ - उपोद्धातः। यद्वा न्यूनस्याधिकार्थविषयत्वकल्पने लक्षणावाक्यभेदगौण- त्वाध्याहारदोषा इत्यर्थः २ यद्वा न्यूनत्वे लक्षणावाक्यभेदी आधिक्ये चानर्थक्यम् अ- न्यथात्वकल्पने विपरिणामव्यवहितकल्पनाव्यवधारणकल्पनादोषा इति ३ तत्रोदाहरणानि । तत्र विवक्षितार्थापेक्षया न्यूनत्वाभ्यु. पगमे लक्षणेत्यत्रोदाहरणम् “ वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजे- ते"ति । अत्र हि विवक्षितो ऽर्थ उत्तरकालविशिष्टबृहस्पति- सवान्तराङ्गकत्वं वाजपेयस्य तदपेक्षया न्यूनो ऽर्थः प्रसिद्धस्यैव कृ. हस्पतिसवस्य वाजपेयोत्तरत्वं तदभ्युपगमे वाजपेयश्रुतौ काललक्ष. णेति । विवक्षितार्थापेक्षया न्यूनत्वाभ्युपगमे वाक्यभेद इत्यत्रोदाहरणं "यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यांचाच्युतोभवती"ति । अत्र हि विवक्षितो ऽर्थो द्रव्यदेवताकालद्वयविशिष्टयागविधिस्तदपे- क्षया न्यूनो ऽर्थः पूर्णमास्यधिकरणे द्वितीयपूर्वपक्षे शशिते विद्वद्वा. क्यविहितयोर्द्रव्यदेवतमव विधीयते न यागविधिरिति तदभ्युप- गमे वाक्यभेद इति । विवक्षितार्थापेक्षया आधिक्याभ्युपगमे त्वादिशब्दोक्तमा- नर्थक्यमित्यत्रोदाहरणम्, आमनमस्यामनस्य देवा इति तिसू आहुतीर्जुहोती"ति। अत्र हि "सांग्रहण्या ग्रामकामो यजेते"ति प्रधा- नवाक्यगतग्रामकामपदानुषङ्गेण विवक्षितार्थापेक्षया ऽऽमनहोमवि- धेराधिक्याभ्युपगमे ग्रामकामपदानुषङ्गानर्थक्यम्। अत्र व्याख्यान म- त्वर्थलक्षणा न सङ्ग्रहीतास्यादित्यपरितुष्याह "यद्वति” न्यूनस्याधि- कार्थविषयत्वकल्पने लक्षणेत्यत्रोदाहरणम् सोमेन यजेतेत्यादिमत्व- थलक्षणा । न्यूनस्याधिकार्थविषयत्वकल्पने वाक्यभेददोष इत्यत्रोदा- हरणं "सौय चरुं निर्वस्तू ब्रह्मवर्चसकाम” इति । अत्र हि स्वर्गका मपदाध्याहारं विश्वजिन्याये चतुर्थे शङ्कितं निरसितुमुक्तं ब्रह्मवर्चस- स्यान्वाचयत्वे प्रमाणाभावात् ब्रह्मवर्चसमात्र फलत्वेन न्यूनस्य स्वर्ग- स्य कल्पनया ऽधिकार्थत्व फलद्वयसमावेशाद्वाक्यभेदापत्तिरिति।न्यू- नस्याधिकाविषयत्वकल्पने गौणत्वदोष इत्यनोदाहरणम् । “सृष्टी- रुपदधाति" "प्राणभृत उपदधाती"ति।अत्र हि सृष्टिशब्देनसृष्टिशब्दव- न्त एव मन्त्रा उच्यन्तइतिन्यूनस्य गौण्या सृष्टिशब्दवतामपि मन्त्राणां प्रहणेनाधिकार्थत्वे गौणत्वमेव दोषः। स त्वगत्या व्रीहियवविकल्प- “घदङ्गीक्रियते । न्यूनस्याधिकार्थविषयत्वे ऽध्याहारदोष इत्यत्रोदाह- रणम् "विश्वजिता यजेते"ति । अयमप्यगत्याऽङ्गीक्रियते। तृतीयव्य- मीमांसाबालप्रकाशे। ख्याने न्यूनत्वे लक्षणावाक्यभेदी आधिक्ये चानर्थक्यमित्य- स्यार्थः । अधिकस्य सतो न्यूनत्वइति । तत्राधिकस्य न्यूनत्वे लक्षणे- त्यत्रोहरणम् “चतुरवत्तं जुहोती"ति। अन हि जुहोतेर्दैवतोद्देशत्या- गविशिष्टप्रक्षेपवचनस्याग्नयादिचोदनयैवेतरयोरंशयोः प्राप्त प्रक्षेप- मानपरत्वेन न्यूनत्वे लक्षणा । अधिकस्य सतो न्यूनत्वे वाक्यभेद इत्यत्रोदाहरणम् "वषट्कर्तुः प्रथमभक्ष” इति। अत्र हि प्राथम्य- मानविधौ भक्षानुवादात् प्राथम्यस्य च विधानादेकपदे चोभयास- म्भवाद्वाक्यभेदः । अन्यथात्वकल्पने विपरिणाम इत्यत्रोदाहरणमा- प्रेयवाक्यम् । अन्यथात्वकल्पने व्यवहितकल्पनेत्यनोदाहरणम् । प्रतितिष्ठन्तीत्यत्र प्रतितिष्ठासन्ति रात्रीरुपेयुरित्यन्यथात्वे कल्पिते ये इत्यस्य रात्रिसमभिव्याहृतस्य ये प्रतितिष्ठासन्तीति व्यवहितकल्प- ना । अन्यथात्वकल्पने व्यवधारणकल्पनेत्यत्रोदाहरणम् । “यावतो श्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालानिर्वपेदि"ति। इत्युपो- यातः। - एवं द्वादशसु लक्षणार्थेषु जिज्ञास्येषु स्वरूपानन्तरमपि जिज्ञास्यतयोक्तं प्रमाणं मानाधीना मेयसिद्धिरिति प्रथमेनाध्यायेनादौ निरूप्यते । तश्चानेकविधं विध्यर्थवादमन्त्रनामधेयस्मृत्याचाररूपम् । तत्रार्थवादं पृथक्कृत्य विध्युद्देशापरनाम्नो विधेः फलान्तो वि- ध्युहेश इति भाष्यकारलक्षितस्य धर्मे प्रामाण्यमाद्यपादेनोच्यते । तत्प्रतिज्ञार्थ चोदनासूत्रम्। तदुक्तम्। “चोदना चोपदेशश्च विधिश्चै- कार्थवाचिन” इति । तच्चेदं धर्मलक्षणद्वारा सामान्यतो धर्मस्वरूपो- क्त्यर्थमपि । तञ्चेदमर्थद्वयं वचनव्यक्तिद्वयत एकेनापि सूत्नेणोच्य- ते । तत्रान्यतरा शाब्दी अन्यतराऽऽर्थी । तत्र यो धर्म इत्युद्दिश्य स चोदनालक्षणश्चोदनाप्रमाणक इति प्रमाणवचनव्यक्तिः । यश्चोदनालक्षण इत्युद्दिश्य स धर्म इति स्वरूपवच- नव्यक्तिः। तत्र चोदनाप्रमाणकत्वस्य धर्मलक्षणत्वान्निषेध्ये ऽपि च प्रवर्त्तमानाविषयत्वेनेव विधेये निवर्तनाविषयत्वेन चोदना- लक्षणत्वादतिव्याप्ति वारयितुमर्थ इत्यनर्थसाधनत्वाभावो ऽपि विशेषणम् । श्येनयागव्यावृत्त्यर्थ तदिति भाष्ये । तस्य हि फलं हिंसेति तत्रोत्तरस्यां तावतैव पर्यवसा- नम् । आद्यायां तु द्वौ नियमौ विवक्षितौ । यो धर्मस्तन चोदना प्रमाणमित्येकः प्रत्यक्षानुमानबुद्धवाक्यादिव्यावृत्त्यर्थः । यो धर्मस्त- चोदनासूत्रप्रत्यक्षसूत्रौत्पत्तिकसूत्रार्थसंग्रहः । त्र चोदनाप्रमाणमेवेत्यपरो नास्तिकाभिमतवेदाप्रामाण्यनिरासार्थः * इति चोदनासूत्रार्थः * तत्र प्रथमनियमफलमुपपादयितुं प्रत्यक्षसूत्रम् । म्प्रयोगे पुरुषस्येन्द्रियाणाम्बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं वि- द्यमानोपलम्भनत्वादिति । तत्र श्रुत्या प्रत्यक्षमात्नस्याप्रामाण्यमु- क्तमादितरेषाम् । तदुक्तं भाष्ये । प्रत्यक्षपूर्वकत्वाच्चानुमानोप- मानार्थापत्तीनामप्यकारणत्वमिति । तत एव च बुद्धादिपुरुषवचन- निराक्रियापि सिद्धति च । अत्र सर्वज्ञनिरासः प्रत्यक्षनिरासायैवे- ति * इति प्रत्यक्षसूत्नं समाप्तम् * द्वितीयनियमसाधनार्थ त्वौत्पत्तिकसूत्रम् । औत्प- त्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशो ऽध्य- तिरेकश्चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वा- दि"ति । अत्र यस्य च दुष्टं करणं यत्र च मिथ्यति प्रत्ययः स ए- घासमीचीनः प्रत्यय इति भाष्योक्तस्य कारणदोषज्ञानस्याप्रामाण्य- हेतोरभावः पञ्चपदेनाद्यावयवेनोक्तः । भाग्योक्तद्वितीयाप्रामाण्य- हेतोरभावः अव्यतिरेकश्चेत्यनेन । तदुक्तम् । औत्पत्तिकगिरा दोषः कारणस्य निवार्यते । अबाधो ऽव्यतिरेकेणति । तत्र शब्द औत्प- त्तिको नित्यः । अर्थश्च जात्यात्मा सम्बन्धश्चासङ्केतरूपः सामो- त्मेत्याद्यावयवार्थः । उपदेशो विधिस्तस्य धर्मस्य ज्ञायत ऽनेनेति ज्ञानम् । ज्ञापक इत्यनेनाज्ञापकत्वरूपस्याप्रामाण्यस्याभाव उक्तः। तदुक्तम्। अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयरिति । तथा। विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते । श्रुतस्वर्गादिबाधेन धात्वर्थः साध्यतां ब्रजेत् ॥ विधौ तु तमतिक्रम्य स्वर्गादेः साध्यतष्यते । तत्साधनस्य धर्मत्वमेवं सति च लभ्यते ॥ इति । अर्थे ऽनुपलब्धे इत्यनेन तु गृहीतग्राहकतया स्मृतेरि- वाप्रामाण्यं निरस्तम् । अनपेक्षत्वादित्यनेन च प्रामाण्यस्य स्वतस्त्वं(१) (१) प्रामाण्यस्य परतस्त्वं तु । परापेक्षं प्रमाणत्वं नात्मानं लभते क्वचित् । मूलीच्छेदकर पक्षं की हिमामाधावस्यति ।। यदि हि सर्वमेव ज्ञानं स्वविषयप्रामा. ण्यावधारणे खयमसमथै विज्ञानान्तरमपचेत तत: कारणगुणसंवादार्थज्ञानान्यपि खविषय- * भूत गुणाद्यवधारणे परमपेचरेन् अपरमपि तथेति न कश्चिदर्थो नमसहसणाप्यधावसीये- तेति प्रामाण्यमेवीत्सीदेदित्यादिना निराकृतम् शा. ।
तन्मत- ३ मीमांसाबालप्रकाशे। कारणगुणसंवादार्थक्रियाज्ञानानधीनत्वरूपमुक्तम् । प्रामाण्यं ह्य र्थतथात्वरूपविषयधर्मः । यन्निमित्तौ शाने प्रमाणबुद्धिव्यपदेशी भवतः। तच्च स्वतो गृह्यते ज्ञानेनैव विषयीक्रियते घटादीव अप्रामा- ण्यं त्वन्यथात्वं बाधकज्ञानकारणदोषज्ञानविसम्वादनानैर्गृह्यतइति परतः। तथा तेनैव(१)सूत्रावयवेन लौकिकवाक्ये वक्तृज्ञानहेतुनि- श्चयापेक्षत्वं प्रामाण्यप्रतिष्ठाया वेदे तु वक्तुरभावेन तदनपेक्षत्वादेव न तदभावादयथार्थतेत्युक्तम् । तदेतदुभयमनपेश्नत्वादिति सूत्राव- यवोक्तत्वात्तद्वयाख्यानावसरे वाच्यमप्यनागतावेक्षणेन वक्ष्यमाण- तयैव चोदनासूत्रे एव वार्तिककृतोक्तम् । औत्पत्तिकसूत्रएव च भाष्ये निरालम्बनवादनिरासेन बाह्यार्थसद्भाव उक्तः । ततश्च चोदनायास्तदर्थस्य तत्फल- स्य स्वर्गादेश्च सत्वे धर्मप्रामाण्यं युक्तं नान्यथेति एवं महायानिकसम्मतशून्यवाददूषणमपि । इयांस्तु योभैदः निरालम्बनवादे बाह्यो विषयो ऽपि नास्ति । नीलाद्याकारा भपि न सन्ति संविद्गता इति । अत एव तन्निरासावसरे तन्मत. तात्पर्यमनूदितमाचार्यैः। स्वच्छस्य ज्ञानरूपस्य न हि भेदः स्वतो ऽस्ति तइति ॥ शून्यवादमते तु संविद्गता नीलाद्याकारास्सन्तीति । एवं सिद्ध बाह्ये ऽर्थे यन्माध्यमिकैरुक्तमर्थाभावादेव ज्ञानमपि नास्तीति तदपि हेतुनिरासादेव निरस्तम् । एवं स्फोटनिरासोऽप्यत्र सूत्रे चोदनाया धर्मप्रामाण्यसिद्ध्य- र्थमेव । ऊहादिमान्हि धर्मश्चोदनाप्रमयः । ऊहश्च पदादिधर्मः पदाधसत्वे कथं प्रमीयेत । एवं पदार्थमृषात्वे ऽपि तदाश्रितमू- इतन्त्रप्रसङ्गादि तदुक्तं स्फोटनिरासस्य नेष्फल्यश- डापूर्वमाचार्यः । वर्णातिरेकः प्रतिषिध्यमानः। पदेषु मन्दं फलमादधाति ॥ कार्याणि वाक्यावयवाश्रयाणि । सत्यानि कर्तुं कृत एष यत्नः ॥ इति । अनेनैव यथा विधान्तरेणापि धर्मप्रमितिसिद्धिरस्य फलं श्रेयःसाधनधर्मप्रमितिर्हि स्वर्गादिश्रेयस्तत्साधनयागादिपदपदार्थयो- मुंषात्वेन स्यादिति। अस्मिन्नेव च सूत्रे ऽनित्यव्याक्तिशब्दार्थत्वे वेदाप्रामाण्यापत्ते- (१) अनेनैवेति २ पु. पा० ।
प्रकरणनिरूपणम् । स्तत्प्रामाण्यप्रतितिष्ठापयिषया नित्याकृतिः पदार्थभूता स्थाप्यते आ- कृतिवादेन । आकृतिश्च मीमांसकानां जातिः। जातिमेवाकृति प्राहुर्व्यक्तिराश्रीयते ययेति वार्तिकातू । तस्याश्च सौगताभिमतावस्तुरूपतुच्छान्यापोहरूपत्वे पुनर्वेदाप्रामा-' ण्यापत्तीवरूपतोपपादिता अपोहवादेन।ततो वनवादे वनादिवत्प- रमाण्वादिपुञ्जात्मक एवावयवी नार्थान्तरमित्याशङ्का । तस्याप्रत्यक्ष- त्वेन व्यवहारानुपयोगित्वात्सङ्गतिग्रहाद्यसम्भवेन तन्मूलकवेदाप्रा- माण्यावहति तत्प्रामाण्यसिद्ध्यर्थमेव वनादिदृष्टान्तवैषम्योपपादनेन निरस्ता । ततः पदपदार्थसम्बन्धस्येश्वरकृतसङ्केतात्मकत्वे ऽपि घेदा- प्रामाण्यापत्तेस्तत्प्रामाण्यायैवेश्वरनिरासः सम्बन्धाक्षेपपरिहारेण । ततो यः प्रत्यक्षसूत्रे ऽनिमित्तं विद्यमानोपलम्भनत्वादित्यवयवेनान- न्तरफलानुपलब्ध्या चित्रादिचोदनाक्षेपः कृतः स परिहृतः । ततो यस्तेनैव प्रत्यक्षसूत्रावयवेन "स एष यज्ञायुधी आत्मा अञ्जसा खर्ग लोकं याती" त्यादिचोदनानां यज्ञायुधवतःशरीरस्य स्वर्गगमनासम्भ- वरूपप्रत्यक्षविरोधात्तत्सामान्याच्चाग्निहोत्रादिचोदनानां प्रामाण्या- क्षेपः कृतस्तत्परिहार आत्मसाधनेनात्मवादे कृतः। तदेतदुभयमप्य- व्यतिरेकश्चेत्यवयवेनैवोक्तमिति । तदेवं षोडशाप्यर्थाः सूत्रऔत्पत्तिकादिके। प्रामाण्यस्य प्रसिद्ध्यर्थ चोदनाया निरूपिताः॥ इत्यौत्पत्तिकंसूत्रं समाप्तम् । कमैके तत्र दर्शनादित्यधिकरणे च घेदप्रामाण्यसि- घ्यर्थमौत्पत्तिकसूत्रएवौत्पत्तिकत्वरूपनित्यत्वस्य शब्दार्थरूपोभय- विशेषणविशिष्टे सम्बन्धे ऽन्वयाद्विशेषणीभूतशब्दीनत्यत्वमप्यर्थात्प्र- तिज्ञातमेवाक्षिप्य समाधीयते । तदिदमष्टादशसूत्रकं शब्दाधिकरणं नाम । ततस्तद्भूताधि- करणेन सूत्रनयघटितेन करणासम्भवाद्धर्मप्रमित्यशक्ति चोदनाना- माशङ्य पदार्थकरणत्वप्रतिपादनेन चोदनाप्रामाण्यमेवोपपादि- तम् । ततो वेदांश्चैके सन्निकर्षे पुरुषाख्या इति षट्सूत्रेण वे- दाधिकरणेन रघुवंशादिवत् पौरुषेयत्वं चोदनानामाशय निरस्तम् । तदेवं कृत्स्नेनाध्यायाद्यपादेन चोदनाप्रामाण्यमेव द्वितीयसुत्रप्रति- ज्ञातं साधितम् । तदुक्तम् । इति प्रमाणत्वमिदं प्रसिद्धं युक्त्येह धर्म प्रति चोदनायाः। अतः परं तु प्रविभज्य वेदं त्रेधा ततो वक्ष्यति तस्य यो ऽर्थः। इति ।
मीमांसाबालप्रकाशे।
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी-
मांसाद्वैतसाम्राज्यधुरंधरश्रीभट्टनारायणात्मजभ-
दृशङ्करकृतमीमांसासारसङ्ग्रहे बालपकाशे
प्रथमपादानुक्रमणसङ्केपः।
अतः परमधिकरणरचनाभाष्यवार्तिकशास्त्रदीपिकादिग्ग्रन्थेषु
स्फुटैव । क चित्तु मीमांसकसिद्धान्ताः शास्त्रे तत्र तत्र विप्रकी-
की नातिस्फुटाश्च बालव्युत्पत्त्यर्थमुद्धृत्योच्यन्ते । तत्र प्रमाणं ताव-
न्मीमांसकानां विभक्तविभागेनानेकविधम् ।
तथा हि । प्रत्यक्षमनुमानं शब्द उपमानमर्थापत्तिरभाव इति षट् ।
तत्र प्रत्यक्ष षड्विधम् । चाक्षुषादिभेदात् । अनुमानं द्विविधम् ।
सामान्यतोदृष्टं विशेषतादृष्टं च । द्विविधमपि पुनर्द्विविधं स्वार्थ
परार्थ च । केवलान्वयिकेवलव्यतिरेकिभेदौ तु नेष्टौ ।
लिङ्गिज्ञानं च तद्वत्स्यात्रिरूपाल्लिङ्गतो न तद् ॥
इत्यनुमान त्रैरूप्यवर्जितस्य लिङ्गत्वासम्भवोक्तः । परार्थानु-
मानवाक्यस्य च तार्किकाणामिव न पञ्चावयवाः । किं तु त्रय एव ।
तदुक्तम्।
तत्तु
पञ्चतयं के चिद् द्वयमन्ये वयं त्रयम् ।
उदाहरणपर्यन्तं यद्वोदाहरणादिकम् ॥
इति प्रत्यक्षानुमानोपमानाभावाख्यानि चत्वारि लौकिकान्येव ।
अर्थापत्तिर्विधा । दृष्टार्थापत्तिः श्रुतार्थापत्तिश्च । उत्तरापि द्विवि-
धा । लौकिकी वैदिकी चाशब्दो ऽपि द्विविधो लौकिको वैदिकश्च ।
वैदिको पि द्विविधः।उपदेशातिदेशभेदात्।उपदेशो ऽपि द्विविधः।
विधिनिषेधश्च । विधिनिषेधभेदान्वक्ष्यामः ॥२०॥
पुनरुपदेशो ऽनेकविधः । शब्दान्तरमभ्यासः संख्या सज्ञा गुणः
प्रकरणान्तरं चेति द्वैतीयकानि कर्मभेदकानि षट् ।
श्रुतिर्लिङ्गं वाक्यं प्रकरणं क्रमः समाख्या चेति तार्तीयानि
विनियोजकानि षट् ।
श्रुतिरर्थः पाठक्रमः स्थानक्रमो मुख्यक्रमः प्रवृत्तिक्रमश्चति
पाञ्चमिकानि क्रमप्रमाणानि षट् ।
प्रत्यक्षविधिरभावविधिर्विकारः खशब्दो निषेधानुवादश्चेति
नावमिकानि कार्यापत्तिप्रमाणानि पश्चेति । अतिदेशस्तु सप्तविधो
वक्ष्यते ॥३०॥
'प्रकरणनिरूपणम् । श्रुतिरपि चतुर्विधाविधिःप्रतिषेधो ऽभिधात्री चिनियोकी च। लिङ्गं द्विविधम् । शब्दसामर्थ्यमर्थसामर्थ्य च ब्दसामर्थ्यमपि द्विविधम् । मन्त्रस्य कर्मसमवेतार्थप्रकाशनसा- मर्थ्यमेकवाक्यतोपगमनसामर्थ्य च तत्रोत्तरं लिङ्गवाक्याविरोधाधि. करणे भाष्यकृता व्यवहृतं पूर्वलिङ्गबाध्यता चास्योका(१)। ननु स्योनं तइत्यस्य शब्दस्य यथैवोपस्तरणाभिधानसामर्थ्यमेवमुत्तरेणैकवाक्यता- मुपगन्तुं सामर्थ्यम् । सामर्थ्य च लिङ्गमित्युच्यते । तस्माद्भिद्यमाने वाक्ये लिङ्गमेव बाधितं भवतीति सत्यमेवम् । एतदपि लिङ्गम् । लि- ङ्गमपि खल्वेतदेवं लक्षणकं विप्रकष्टार्थमेव भवति लिङ्गादेकवाक्य. ता। तस्मादभिधानसामर्थ्यम् । ततः श्रुत्यर्थ इति विप्रकृष्टार्थतोत अन्थेन। वाक्यमपि द्विविधम् । महावाक्यमवान्तरवाक्यं चेति । तदुक्तम् । स्वार्थबोधे समाप्तानामङ्गमाङ्गत्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ इति । तत्राद्यं प्रयोगविधिरूपं नित्यानुमेयमेव कल्पिता- अवाक्यैकवाक्यताको हि प्रधानविधिरेव प्रयोगविधिरिति । द्वितीयं “ समिधो यजति दर्शपूर्णमासाभ्यां स्वर्गवामो यजेते" त्यादि। अवान्तरवाक्यमपि द्विविधं विधिमन्त्रश्च । अर्थवा- दस्तु तात्पर्याभावे ऽपि स्तुतिलक्षकवाक्यार्थप्रतिपादकत्वमाप्रेस पृथव्यपदिश्यते । प्रकरणमपि द्विविधम् । महाप्रकरणमवान्तरण- करणं च । तत्रायं प्रधानस्य । द्वितीय प्रधानस्याङ्गस्थ वा । तथाचं प्रकृतेर्विकृतेश्च । एवं द्वितीयमपि । तत्र प्रकृतेरसन्दंशोद्भूतिकम् । यथा दर्शपूर्णमासादेः । विकृतेमहाप्रकरणं तु सन्दंशेनापि भवत्यस- म्दशेनापि । तत्राद्यं यथा, राजसूये राजसूयाय ह्येनामुत्पुनाति रा- जसूयेनेजानः सर्वमायुरेतीति सन्दंशेनोद्भूतं क्रमप्रकरणबलाबला- धिकरणे शास्त्रदीपिकायामुक्तम् । असन्दशे ऽपि विकृतेमहाप्रकरणं यथा । यत्र विकृतौ प्राकृतक्रियानुवादेन किं चिद्विहितं तत्तत्प्रकर- णेन गृह्यते । यथा प्रयाजे प्रयाजे कृष्णलं जुहोतीति । अहीनात्म- कद्वादशाहे च द्वादशदीक्षाद्वादशोपसद इति द्वादशत्वं च । तदुक्तं श्रुतिलिङ्गाधिकरणे। इतिकर्तव्यतांशस्थां येनोद्दिश्योपसक्रियाम् । द्वादशत्वविधिस्तेन कथंभावेन गृह्यते इति ॥ ।
१० मीमांसाबालप्रकाशे। . अत्र च क्रियामुद्दिश्येत्युक्तोर्विकृती द्रव्योद्देशेन जात्यादिवि- धौ औदुम्बरो यूपो भवतीत्यादौ न प्रकरणग्राह्यतेत्युक्तम् । अतएवो- कंचित्राधिकरणे ऽपि । नावान्तरक्रियायोगाहते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैग़हन्ति प्रकृताः क्रियाः ॥ इति । न चोदुम्बरवाक्ये यूपलक्षितनियोजनसम्बन्धो धा. क्यीयइति वाच्यम् । आनर्थक्यपरिहारस्य सन्निधिनैव सिद्धः । यूपपरिच्छेदिकायाश्चौदुम्बरजातरार्थापत्तिकनियोजनान्वयात् । अ- न्यथावघातादेरपि ब्रीहिलक्षितयागान्वयस्य वाक्यीयत्वापत्तेः । यत्र तु प्रमाणान्तराक्रियान्वयालाभस्तत्रैव लक्षितक्रियान्वयं याव- द्विधिरायास्यते वर्णमय्यादिवाक्ये इति । एवं च वक्ष्यमाणेषु वार्त्तिकादिग्रन्थेषु यत्प्राकृताङ्गानुवादेन विधीयतइत्यादिषु अङ्गशब्दः क्रियापर एवेति ध्येयमिति । सन्देशेन च विकृतेमहाप्रकरणं राजसूय इव न केवलं वाच- निकं विकृत्यङ्ग सन्दशेनैव भवति । किं तु सन्दशस्यानकविधत्वादने- कविधम् । तथा हि । प्राकृताङ्गानुवादेन विहिताभ्यां सन्दष्टं पदसंयुक्तमपि विक- तौ श्रुतं तदपि प्रकरणेन गृद्यते । प्राकृताङ्गानुवादेन विहितयोः पू- पश्चात्तनयोः प्रकरणग्रहणोक्तमध्ये च तद्विच्छेदकहत्वभावात् । तथा विकृतेः पूर्वमसंयुक्तं किं चिद्विहितं ततः पूर्व तु प्राकृताङ्गा- नुवादेन यद्विहितं ततो ऽमयुक्तं यत्तद्विकृतिप्रकरणेन गृह्यते । तथा विकृतेरनन्तरमसंयुक्तं किं चिद्विधाय प्राकृताङ्गानुवादेन कस्मिंश्चि- द्विहिते तत्पूर्वमसंयुक्तं प्रकरणन गृह्यते। तदिदं भेदत्रयं बलाबलाधिकरणवार्त्तिके उक्तम् । यस्यां तु विकृती प्राकृतं किं चिदङ्ग सङ्कीर्त्य तस्य पुरस्तात्प- रस्ताद्वा वैकृतमङ्गमाम्नायते तत्र कथम्भावगृहीताङ्गमध्यवर्तित्वात्प्र- करणपाठो विज्ञास्यतइति । तदेतद्वार्तिकं सोमेश्वरेणानन्तरभेदत्र- यपरत्वेन योजितम्। तथा विकृतेः पूर्वमसंयुक्तं किं चिद्विाहतं ततः पूर्व विकृत्य- नुवादेन यदि विहितं ततो संयुक्तं यत् तद्विकृतिप्रकरणेन गृह्यते । तथा विकृतेरनन्तरमसंयुक्तं किं चिद्विधाय विकृत्यनुवादेन क- स्मिश्चिद्विहिते तत्पूर्वमसंयुक्तं प्रकरणेन गृह्यते । तदिदं भेदद्वयं विकृत्यनुवादेन विहितस्य प्रकरणमायती. यवादुक्तं भवति । अस्य च भेदद्वयस्य पूर्वोक्तस्य च भेदत्रयस्यो- प्रकरणनिरूपणम् । की दाहरणानि मृग्याणि । तथा सांग्रहणीं विधाय । तदङ्गप्राकृतपरिधिपरिधाने ध्रुवो ऽसीत्यादींश्च त्रीन्मन्त्रान् वैकृतान्विधाय "आमनमस्यामनस्य देवा इति तिन आहुतीर्जुहोती" त्यामनहोमा असंयुक्ता विहिताः । ततस्तेषां यत्प्रयाजानां पुरस्ताज्जुहुयात् बहिरात्मानं सजातानां दध्याद्यद- नुयाजानां परस्तात्स्वर्ग लोकमकामेत् मध्ये जुहोति मध्यत एव स. जातानामात्मन्धत्ते इति प्रयाजानुयाजैस्सह क्रमो विहितः । तेन प्राकृताङ्गसम्बन्धित्वेन विधानात्सांग्रहणीप्रकरणानुवृत्तेरामनहोमाः प्रकरणेन गृह्यन्ते । तदेतञ्चतुर्थतन्त्रसारे फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्या- दित्यधिकरणे उक्तं माहेन्द्रस्तोत्रं प्रत्याभिषिच्यतइत्यत्रतु अभिषेकादेराभिषेचनीय- प्राकृताङ्गसम्बधित्वेन विधाने ऽपि न तेन प्रकरणमनुवर्त्य तन्मध्य- विहितमभिषेकादि गृह्यतइति सम्भवति तन्मध्ये ऽभिषेकादिविध्य- भावादिति तत्पूर्वाधिकरणे ऽभिहितमिति । अत एव मिश्रा अपि न्यायरत्नमालायामामनहोमानां प्रकरणग्राह्यतामाहुः । विकृनिव- पि यत्प्राकृताङ्गमध्ये पठितं यथामनहोमादि तस्य प्रकरणेन ग्रहण- मिति ग्रन्थेन । भट्टसामेश्वरस्तु बलाबलाधिकरणे । क्रमत्वे सत्यपि सांग्र- हण्यादस्तिन आहुतीर्जुहोतीत्यादिभिरकवाक्यत्वोपपत्तेरिति ग्रन्थन क्रमादेवामनहोमानामङ्गतामाह । तदपि शब्दादझ्युपेत्यवादमात्र- मिति झेयम् । यदपि मित्रैः शास्त्रदीपिकायाम् । चतुर्थे (१) फलवद्वोक्तहेतु- त्वादित्यत्र सन्निधिग्राह्यत्वमुक्तं तदप्यभ्युपेत्यवादमात्रम् । अत एव तन्त्ररत्ने प्रकरणग्राह्यतामुक्त्वा सन्निधिनापि तदधिकरणसिद्धिरू- का । तदेवं यत्र प्राकृताङ्गानुवादेन द्वादशोपसत्त्ववद्विधिरुक्तरूपः सप्तविधः सन्देशो वा तत्रैव विकृतौ प्रकरणं विनियोजकमन्यत्र स- निधिरेवेति सिद्धम् । एवं प्रधानस्य महाप्रकरणं प्रकृतेरसन्दशोद्भूतिकं विकृतेस्तु सन्दशोभूतिकमपि निरूपितम् । अवान्तरप्रकरणं तु सन्दशोभूतिकमेव तश्च प्रकृतेर्नास्त्येव प्र- कृत्यङ्गस्य तु प्रयाजानामाभक्रमाधिकरणे उक्तम् । विकनेस्त्ववान्तरम करणं सन्दशोद्भुतिकं सप्तमे प्रणयनाधिकरणे वरुणप्रघासानामुक्तम् । (३) चतुर्थाध्यायस्य ४ पाद पामनीमाना सांयाययातास्ये ४ चतुर्थाधिकरण - १२ मीमांसाबालप्रकाशे। तन हि उपात्रावपन्तीति वरुणप्रघासावान्तरप्रकरणाधीतमपि न धैश्वदेवे उत्तरवेदिमुपवयन्ति न सुनासीरीये इति पर्युदासैकवाक्य- ताबलादेवावान्तरप्रकरणं बाधित्वा चातुर्मास्यानामेवानति वाद इत्युक्तम् । इति प्रकरणनिरूपणम् । क्रमो ऽपि द्विविधः। पाठसादेश्यमनुष्ठानसादेश्यं च पाठसा- देश्यमपि द्विविधम् । यथासंख्यपाठः, सन्निधिपाठश्च । समाख्यापि द्विविधा । लौकिकी वैदिकी च । पुनरपि समा- ख्या द्विविधा सामान्यसमाख्या, विशेषसमाख्या च । विधिरपि द्विविधः प्रत्यक्षः कल्प्यश्च । प्रत्यक्षो ऽप्यनकधा वक्ष्यते । कल्प्यो ऽपि नानास्मृतिकल्प्य आचारकल्प्यो विधिकल्प्यो ऽर्थवादकल्प्यो मन्त्रकल्प्यश्च । तत्र विधिकल्प्यो यथा विशेषण- विधिः । अथवादकल्प्यस्तु द्विविधः। स्वतन्त्रार्थवादकल्प्यो विध्यन्त- रशेषार्थवादकल्प्यश्च । आद्यो ऽपि त्रिविधः। फलार्थवादकल्प्यः सि- द्धवत् कीर्तनार्थवादकल्प्यः, उपाख्यानार्थवादकल्प्यश्च । अन्त्यो पि द्विविधः । एककर्तृकोपाख्यानरूपपरकृतिकल्प्यो ऽनेककर्तृकोपा. ख्यानरूपपुराकल्पकल्प्यश्च । तत्र फलार्थवादकल्प्यो यथा यस्य पर्णमयी जुर्भवति न स पापं श्लोकं शृणोती"ति । सिद्धवत्कीर्तनार्थवादकल्प्यो यथा “त्रीणि ह वै यज्ञस्योद- राणि गायत्री बृहत्यनुष्टुपच । अत्र ह्येवावपन्त्यत एघोद्वपन्ती"ति । परकृतिकल्प्यो यथा “ ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्" इति । इन्द्रस्येदमुपाख्यानं तस्मादिन्द्रोऽबिभे- दित्युपक्रमात्तस्य प्रायच्छदिति क्रियायां कर्तृत्वेनाप्नुषङ्गात् । पुराकल्पकल्प्यो यथा । “ तावतामग्नीषोमावाज्यस्यैव नाखु- पांशु पौर्णमास्यां यजन्नि”ति । विध्यन्तरशेषार्थवादकल्प्यो यथा । " उपरि हि देवेभ्यो धारयती"नि । मन्त्रकल्प्यो ऽपि द्विविधः मन्त्रगताख्यातस्यैव लेट्त्वकल्प- नात् । विधियुक्तवाक्यान्तरकल्पनाच । तत्राद्यो यथा “वसन्ता- य कपिजलानालभत" इति । द्वितीयो यथोपांशुयाजादौ याज्यानुवाक्यासूक्तयाकादिम- स्त्रकाल्यो देवतादिविधिः यथा वा “उचा दिवि दक्षिणावन्तो प्रस्थुर्ये अश्वदाः सह ते सूर्येणे" त्यश्वदानफलविधिः । तदेतद्विरो- घाधिकरणमनटीकाव्याख्यानान्ते सोमेश्वरेणोक्तम् ।
प्रत्यक्षविधिभेदाः। अथ प्रत्यक्षविधिभेदाः प्रायश उच्यन्ते । ते च के चित्स्मा- तो अपि सम्भवन्तः प्रत्यक्षभेदप्रदर्शनवोक्तप्राया इति न पृथगुच्य- न्ते । के चित्स्मार्ता एव सम्भवन्तीति तत्र तत्र वक्ष्यन्ते । पुनर्विधिर्द्विविधः । अर्थकर्मविधिर्गुणकर्मविधिश्च । गुणक- भविधिरपि त्रिविधः। अदृष्टार्थों दृष्टार्थ उभयार्थश्च । उत्तरी द्विवि- धौ । प्रतिपत्तिरूपी अप्रतिपत्तिरूपौ च । तत्र दृष्टार्था प्रतिपत्तिर्यथा। "चात्वाले कृष्णाविषाणां प्रास्यती"ति । उभयार्था प्रतिपत्तिर्यथा । प्राथयिकर्मस्विष्टकृदादि । अप्रत्तित्तिरूपं दृष्टार्य गुणकर्म यथा "वीहीनवहन्ती"ति । अप्रतिपत्तिरूपमुभयाथै गुणकर्म यथा पशुपुरो- डाशयागाद्याश्रयिकर्म । पुनरपि विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिः प्रयोगविधिरधिकाराविधिश्च । ततोत्पत्त्यादिविधिश्चतुर्विधो ऽपि प्रत्येकं द्विविधः। त्वर्थः पुरुषार्थश्च । तत्र त्वर्थ उत्पत्तिविधिर्यथा । “समिधो यजती" त्यादिः। पुरुषार्थ उत्पत्तिविधिर्यथा “ऽग्निहोत्रं जुहोती"त्यादिः। कत्वर्थो विनियोगविधिर्यथा। "व्रीहीन्प्रोक्षती"त्यादिः। पुरुषार्थों विनियोगविधिर्यथा । द्रव्यार्जनविधिः । क्रत्वर्थः प्रयोगविधिर्यथा 55रम्भणीयादिविधिः आतिदेशिककालदेशाद्येकवाक्यतापनः । पुरुषार्थः प्रयोगविधिरपि द्विविधः । अवान्तरप्रयोगविधिर्म- हाप्रयोगविधिश्च । तत्राद्यो यथा । “पौर्णमास्यां पौर्णमास्या यजेत" "अमा- वास्यायाममावास्यया यजेते"त्यादिः । अत्र च फलवाक्ये करण- त्वेनेव प्रयोगावच्छेदेन कर्मणो विधेयत्वात्तस्य करणत्वाक्षिप्तमङ्गन्सा- हित्यमन्योन्यमपि विवक्षितम् । कालस्यापि च विधेयत्वात्तदेकत्व- मपि विवक्षित, विधेयत्वमेव च विवक्षाबीजं नोपादेयत्वं तद्विशेष गत्वं वेति । नटीकायामुक्तम् । नोपादेयत्वमेवैकं विवक्षाकारणं मतम् । विशेषणविवक्षायां कारणं हि महद्विधिः ॥ इति। एक मुख्यम् अतस्त्रिकस्य त्रिकस्यैकप्रयोगतासिद्धिरेका- दशोक्ता पौर्णमास्यधिकरणवार्तिकोपपाद्वितोपपन्ना। महाप्रयोगविधिर्यथा “समे दर्शपूर्णमासाभ्यां.वर्गकामो य- जते "ति । भवापि षण्णामेकप्रयोगतासाधकः। पूर्वोक्को खिलो ऽपि मीमांसाबालप्रकाशे। न्यायस्तुल्यः । तस्य फलमेकः सङ्कल्पः । त्वर्थो ऽधिकारविधिरपि द्विविधः । नैमित्तिकः सन्नदोष- निर्घातार्थो ऽनैमित्तिकः सन्दोषनिर्घातार्थो ऽपि च । तवाद्यो यथा “ भिन्ने जुहोती"ति । एतदुदाहरणं शास्त्रदी- पिकायां द्वादशे(१) समुश्चयस्त्वदोषनिर्घातार्थेष्वित्यत्रोक्तम् । तत्र विध्यतिक्रमे हि दोषः । अङ्गनाशे च विध्यातिक्रमः । कपालं चासादनोपात्तमङ्गम् । तेन कपालभेदे ऽङ्गभ्रेषेण दो- पातन्निर्घातार्थ एवायं होमः।अत एव षष्ठ (४पा.४अ.) "ऽर्थसमवायात् प्रायश्चित्तमेकदेशेऽपी" त्यत्रैकदेशभेदएवायं होम इति पूर्वपक्षहेतु)मो ऽयं भिन्नसंस्कारो भेददोषनिबर्हणादित्युक्तः । न च भेददोषो नेति सिद्धान्तहेतुरुक्तः । किं तु हेत्वन्तरमेव नित्यानित्यसंयोगविरोधः । एतदस्माभिः शास्त्रदीपिकाप्रकाशे उक्तम् । तस्माददोषनिर्धा- तार्थनैमितिकोदाहरणमश्वप्रतिग्रहेष्टिभ्यमानमन्त्रोक्तिश्चेति । द्वितीयो द्विविधः । विहितातिक्रमानिमित्तको निषिद्धाचरण- निमित्तकश्च। तत्राद्यो यथा “ यवृतो यह आतिमियाद् भूः खाहे "ति गा- ई पत्ये जुहुयादित्यादिः । ऋग्वेदादिनिषिद्धाचरणे ऽप्यस्य प्रवृत्तेईि- तीयोदाहरणमपीदमेव । पुरुषार्थो ऽधिकारविधिस्त्रिविधः । काम्यो नैमित्तिकः सवलितश्च । काम्यो ऽपि द्विविधः । कर्म- फलसम्बन्धपर:गुणफलसम्बन्धपरश्च । तत्राद्यो यथा “ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" स्यादि । द्वितीयो यथा “दनेन्द्रियकामस्य जुहुयादि"त्यादिः । नैमित्तिको ऽपि द्विविधः नियनिमित्तकः अनियतनिमि- तकश्च। तत्राद्यो यथा “यावजीवमग्निहोत्रं जुहोती"त्यादि । द्वितीयो यथा । “ यस्याहिताग्नेरनिर्ग्रहान्दहेत् क्षामवते ऽनये पुरोडाशमष्टाकपालं निर्वपेदि"त्यादिः । तृतीयो ऽपि द्विविधः निमित्तजन्यदोषनाशफलसम्वलितः इतरफलसम्वलितश्च । तत्राद्यो ऽपि द्विविधः विहितातिक्रमनिमित्तको निषिद्धाचर- गानिमित्तकश्च । पानिपुन दोषनिर्धावार्थानि बिमिले अर्मानानि मिन्ने बुकीवास्यादिनि तेषां प्रया मादौमामिवापर्यायविधामारसमश्चय इति प्रत्यु दासपमावमेतदिति मा.
" प्रत्यक्षविधिभेदाः । तनाधो यथा यो मावास्यां पौर्णमासीं चातिपातयेदग्नये पथिकृत ऽष्टाकपालं निर्व"दित्यादिः । निषिद्धाचरणनिमित्तको यथा । यद्येकं यूपमुपस्पृशेदेष ते पायो" इति ब्रूयादित्यादिः । इतरफलसम्वलितो यथा।" वैश्वानरं द्वादशकपालं निर्व- पेरपुत्रे जात इत्यारभ्य “ यस्मिन् जातएतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवती "त्यन्तो जातेष्टिविधिः। पुन रपि विधिरेकादशविधः । सामान्यविधिर्विशेषविधिः प्रतिप्रसवविधिरभ्यनुक्षाविधि- पसंहारविधिर्व्यवस्थाविधिः पर्युदासविधिरभावविधिः साधार- ण्यविधिरुत्कर्षविधिरपकर्षविधिश्चति । इह चाभ्यनुज्ञाविधिः प्रति- प्रसवभिन्नोऽपि अस्ति । यथा । अण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाश्च प्रतिग्रहः । इति ॥ तथा प्रतिप्रमवरूपो ऽप्यस्ति। "क्रीतराजको ऽभोज्यान" इति। तथा प्रतिप्रसवो ऽध्यभ्यनुज्ञाविधिभिन्नो ऽप्यस्ति " पूषा प्रपिष्टमा- ग" इति । अतस्तौ पृथगुपात्तौ । यद्यपि चोपसंहारविधिर्विशेष. विधिभेद एव । प्रतिप्रसवर्विधेरपि च सामान्यविधिविशेषविधिमे- दौ सम्भवतस्तथापि भेदं विना ऽपि सामान्यसम्भवात् गोवलीपर्द- न्यायेन पृथगुद्देशः। एकादशविधो ऽपि विधिद्धिविधः । क्रत्वर्थः पुरुषार्थश्च । तत्र क्रत्वर्थः सामान्यविधिर्यथा “यदाहवनीये जुहोती"ति । पुरुषार्थः सामान्यावधिर्यथा पुत्रकामेष्टेः । क्रत्वर्थो विशेषविधिर्यथा पदे जुहोती"ति। पुरुषार्थो विशेषविधिर्यथा “ यः कामयेत वीरो म आजायते- ति स चतुर्योतारं जुहुयादि "ति । वीरपुत्रकामनायां हि चतुहात- होमेन बाधात् पुत्रसामान्यकामस्यैव पुत्रष्टिः। त्वर्थः प्रतिप्रसवविधिर्यथा " पूषा प्रपिष्टभाग इति । पुरु- पार्थः स यथा, ग्रहणे सूतके ऽपि श्राद्धविधिः स्मार्तः। पुनः प्रतिप्रसवविधिः पञ्चविधः। लुप्तार्थप्रतिप्रसवः । भूता- निषिद्धप्रतिप्रसवः । पर्युदस्तप्रतिप्रसवः नियमविधिना फलतो व्या- धर्तितं यत्तद्विषयः प्रतिप्रसवः। परिसंख्यया व्यावर्तितं यत्तद्वि- षयश्चेति। तत्राद्यो यथा “ पूषा प्रपिष्टभाग" इति तार्तीयः । दाथमिक- मीमांसाबालप्रकाशे। श्व " कृष्णलचसै घृते श्रपयती "ति । द्वितीयो यथोदाहृतः स्मार्तः ग्रहणे सूतके ऽपि श्राद्धविधिः । स्मातकर्मपरित्यागो राहोः रन्यत्न सूतकइति । राहोरन्यत्र नि- मित्ते यत्स्मातकर्मश्राद्धादि तस्य सूतके परित्यागो न राहुनिमित्त- कस्मातस्येत्यर्थः। श्रीतो ऽपि "न हिंस्यात्सर्वाभूतानी"ति निषिद्धस्य प्रतिप्रसवो ऽग्निषोमीयं पशुमालभेत वायव्यं श्वेतमालभेते"ति । पर्युदस्तप्र- तिप्रसवो यथा भट्टसोमेश्वरमते "नप्रथमयशे प्रवृज्यादि"त्यस्य प- युंदासत्वात्तत्प्रतिप्रसवो "ऽग्निष्टोमे प्रवृणक्ती"ति । नियमविधिव्यावर्तितप्रतिप्रसवो यथा । वृतैरेवार्विज्यं कर्त्त- व्यमिति । वरणनियमे नावृतव्यावृत्तौ सत्यामवृतः सामिधेनरिन्वा- हेति होतुरवृतस्यापि प्रतिप्रसवः। परिसंख्याव्यावर्तितप्रतिप्रसवो यथा । दशमे पशोरेकहवि- ष्ट्रमित्यत उत्तरे ऽधिकरणे हृदयस्याने विद्यतीत्यादौ परिसंख्यति यथासूत्रं भाष्यकृतो मतम् । भट्टसोमेश्वरेण तु पशुसोमाधिकरणे तदधिकरणार्थ एवं वर्णितः । एकादश वै पशोरवदानानीति परि- संख्या । अतस्तयाङ्गान्तराणि यागे व्यावर्तितानीति तद्वारा खि- एकत्यपि शेषकार्ये व्यावर्तितान्येव तत्र ध्यङ्गैः विष्टकृतं यजती स्वङ्गान्तरेषु त्रयाणां प्रतिप्रसवः । क्रत्वों ऽभ्यनुशाविधिर्यथा । यदि सोमाविक्रयी प्रतिविवदेत पृषतेनं वरनाकाण्डेनावक्षाणं नाशयेयु- लकुटैज़न्तीत्येके, नित्यवदेके, वधं समामनन्तीत्यापस्तम्बसूत्रे । पुरुषार्थो यनुज्ञाविधिर्यथा । क्रीतराजको ऽभ्योज्यान इति। पुनरभ्यनुज्ञाविधिविधः । कुतोऽप्यव्यावृत्तं यत्तद्विषयः, कुत्तो ऽपि ध्यावृत्तं यत्तद्विषयश्च । तत्राद्यो यथा। षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाश्च प्रतिग्रहः ॥ इति । द्वितीयः पञ्चविधः। निषिद्धविषयः पर्युदस्तविषयो ऽनियमब्यावर्तितविषयः परि- संख्याव्यावर्तितविषय उपसंहारव्यावर्तितविषयश्चेति । तत्राद्यो द्विविध: सामान्यरूपो विशेषरूपश्च । आयो यथा मनूक्तो न दीक्षितस्थानमनीयादिति निषिद्धे । जीवितात्ययमापन्नो यो ऽन्नमत्ति यतस्ततः । आकाश इव पडून न स पापेन लिप्यते ॥ इति। द्वितीयो बथा क्रीतराजको ऽभोज्यान इति । उभयोश्च 14 प्रत्यक्षविधिभेदाः। प्रयोजनमल्पदोषत्वं निर्दोषत्वं चेत्युक्तं वार्तिके । सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते । विशेषो ऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया । इति । एवं पर्युदस्ताभ्यनुज्ञाविधिरपि द्विविधः । सामान्य- सपो विशेषरूपश्च। तत्राद्यो यथा “न दीक्षितस्यान्नमश्नीयादित्यस्य पर्युदास- त्वपक्षे ऽग्नीषोमीय संस्थिते । यजमानस्य गृहे ऽशितव्यमिति । द्वितीयो यथा ऐतरेयब्राह्मणे “अशितव्यं वपायां हुतायामि'- ति । उभयोश्च प्रयोजनं बह्वल्पफलत्वं पर्युदासविधेरित्याह भट्ट सोमेश्वरः। नियमविधिव्यावर्तिताभ्यनुज्ञा यथा । विप्रादेव्यार्जनोपाय. नियमावर्तिता क्षत्रियादिवृत्तिरापद्यभ्यनुज्ञायते । अजीवस्तु यथोक्तंन ब्राह्मणः स्वन कर्मणा। जीवेक्षत्रियधर्मेणेति । परिसंख्याव्यावर्तित्ता भ्यनुशाविधिः यथा पञ्च पञ्चे नखा भक्ष्या" इत्यनेन व्यावर्तितानां मार्जारादीनामभ्यनुज्ञाविधिःप्रा- णात्ययइत्यादि। उपसंहारव्यात्राततविषयो भ्यनुज्ञाविधिर्यथा । "भवत्पूर्वी ब्राह्मणो भिक्षेते"ति । सामान्यविधेरुपसंहारेण ब्राह्मणेषु चरेद्रेक्ष- मित्यनेन व्यावर्तितस्य क्षत्रियादेभ्यनुज्ञाविधिश्चातुर्वर्ण्य चरेद्रेक्ष- मिति । क्रत्वर्थ उपसंहारविधिर्यथा “ऽऽग्नेयं चतुर्धा करोती"ति । पुरुषार्थः स यथा । ब्रह्महा द्वादशाब्दानीति सामान्य पूर्व- योर्वर्णयोर्वेदाध्यायिनं हत्वेति विशेष उपसहियते । पुनरप्युपसंहारो द्विविधः । उपसंहार्यस्योपसंहारविषये नियमतः प्राप्तावनियमतः प्राप्तौ वेति आद्योदारणान्युक्तान्येव द्विती- योदाहरणं तु "यजुयुक्तं रथमध्वर्यवे ददाती"ति । दशमे हि प्रा. काशवद्यजुर्युक्तरथो ऽप्यध्वर्युभागस्य निवर्तक इति पूर्वपक्षं कृत्वा प्राकाशावपूर्वी विधीयमानौ युक्तं यद्ध्वर्युभाग बाधेते इह तु सप्त- दशसप्तदशकानि प्राकृतदक्षिणावाधेन परस्परसहितान्येव दक्षि. णात्वेन विहितानि तत्र यजुर्युक्तस्यापि प्राप्तमेव दानं स त्वध्व- र्यवे ऽन्यस्मै वा दातव्यः प्राप्तो ऽध्वर्यावुपसंहियते । इति सि. द्धान्तितम् । क्रत्वर्थो व्यवस्थाविधिर्यथा " वाघ्नी पौर्णमास्यामनूच्येते - धन्वती अमावास्यायामि"ति । "चतुर्होत्रापौर्णमासीमभिमृशेत्पञ्चहो- मीमांसापालप्रकाशे। घामावास्यामि"ति च। पुरुषार्थों व्यवस्थाविधिर्यथा क्षयाहे पार्वणैकोद्दिष्टव्यव- साविधिः। पुनर्व्यवस्थाविधिस्त्रिविधः । उभयप्राप्तावनुभयप्राप्तावन्यतर प्राप्ती चेति । भाद्यो यथा वानीवृधन्वत्योः । आज्यभागक्रमे पाठाल्लिङ्गा. बोभयप्राप्तेः । द्वितीयो यथा । चतु)तृपश्चहोतुमन्त्रयोः तयोः प्रक- रणेनाम्नानात् । यथा वा “यदग्नये च प्रजापतये च सायं जुहोति" "सूर्याय च प्रजापतये च प्रातरि"ति ब्राह्मणेन देवताविधिपक्षे ऽग्निसूर्ययोरप्राप्तेः। तृतीयो यथा वाशिष्ठानां नाराशंसो द्वितीयः प्रयाजस्तनून- पादन्येषामिति । भत्र हि विधिपाठक्रमात्तनूनपादेव द्वितीयः प्राप्तो न नाराशंसः । तथा यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रा. न प्रहान्गृहीयाद्यदि वृहत्सामा शुक्रामानिति अनापि हि पाठत ऐ- न्द्रबायवाग्रतैव प्राप्ता न शुक्राग्रतति पुनरपि व्यवस्थायाः द्वैविध्याद् द्विविधो व्यवस्थाविधिः।न्यायगम्याव्यवस्था वाचनिकी च । तत्राद्या यथोत्पवनावधातादेराज्योषधयोः । वाचनिकी तु व्यवस्था सप्तधा तेम सप्तविधस्तद्विधिः। देशतो व्यवस्था । कालतो व्यवस्था । कर्मतो व्यवस्था। फलतो न्यवस्था । निमित्ततो व्यवस्थेति । देशतो व्यवस्था यथा वरुणप्रघासेषु उत्तरे विहारे ऽध्वर्युरष्टी हबींच्यासादयति मारतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्निति । स्मार्त्तमुदाहरणं यथा । नर्मदोत्तरभागे तु कर्त्तव्यं सिंहयुक्तके । "कुलीरे संस्थिते भानावुपाकुर्यात्तु दक्षिणे ॥ इति बृहस्पतिः। कालतो व्यवस्था यथा। वसन्ते ब्राह्मणो ऽग्निनाद्धति" ग्रीसे राजन्यः शरदि वैश्यो वर्षासु रथकार भाद- ध्यादि "ति। स्मार्समुदाहरणे यथा। दिवा संध्यासु कर्मस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चैदिक्षणामुखः॥ इति । कर्तृतो व्यवस्था यथा “पयोव्रतं ब्राह्मणस्य यवागू राजन्यस्या" 55 मिक्षा वैश्यस्येति । तथा " बाहगिरं ब्राह्मणस्य ८ प्रत्यक्षविधिभेदाः। ब्रह्म साम कुर्यात्पाथुरश्म” राजन्यस्य रायोवाजीय वैश्यस्येति । तथा युवं हिस्थःस्वपति" इति द्वयोर्यजमानयोः प्रतिपदं कुर्यादेते अस्- प्रमिन्दव इति बहुभ्यो यजमानेभ्य इति । संस्कार्यतो व्यवस्था यथाज्योषधसानाय्यधर्माणाम् । स्मात तूदाहरणम्। "गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । "गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विश इति । कर्मतो व्यवस्था यथा। रथन्तरे प्रस्तूयमाने समीलयेद् बृहति समुद्रं मनसा ध्याये- दिति । स्मातॊदाहरणं तु बृहस्पतिः। इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः। नैमित्तिके कालकामौ काम्ये तु धुरिलोचनौ ॥ पुरुरवावौ चैव पार्वणे समुदाहृतावित्यादि । मनुः । पित्र्ये स्वदितमित्येवं वाच्य गोष्ठे तु सुश्रुतम् । संपन्नमित्यभ्युदये देवे रोचितमित्यति । फलतो व्यवस्था यथा। "मृण्मयेन प्रतिष्ठाकामस्य प्रणयेत् "कांस्येन ब्रह्मवर्चसकामस्योति" । स्मार्तोदाहरणं तु । ब्रह्मयज्ञ एव फलविशेषार्थमृग्यजुःसा- माध्ययनविधिः। निमित्ततो व्यवस्था यथा “यदि रथन्तरसामा सोमःस्थादेन्द्र- घायवाग्रान्ग्रहान्गृहीयाद्यदि बृहत्सामा शुक्रामानि"ति। स्मातों- दाहरणं तु। नृणामकृतचूडानामशुद्धिनेंशिकी स्मृता। निवृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ तथान्यतरकोटिव्यवस्थाया कोट्यन्तरस्यार्थिकी व्यवस्था भक- ति सापि भावविषया भावविषया चेति द्विविधा। तत्राद्या यथा । “ आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्टता ऽनीषोमीयो भवति" यदेवादः पौर्णमासं हविस्तत्तहनुनिर्वपेत्तर्हि स उभयदेवतो भवतीत्यग्नीषोमीयपुरोडाशे कृतसोमयागपुंविषयत्वेन व्यवस्थापिते ऽर्थात्तद्भावो कृितसोमयागपुंविषयत्वेन व्यवस्थितो भवति । पुर्वेद्युरमावास्यायां वेदिं करोतीत्यमावास्यायां पूर्वेधुर्वेदिक- रणे व्यवस्थापिते ऽर्थाद्धविरभिवासनोत्तरं वेदिकरणं पौर्णमास्यां व्यवस्थितं भवति । तदिदमुदाहरणद्वयं पञ्चमे सिद्धम् । तथापूर्वमि- इति मनुः ।
मीमांसाबालप्रकाशे। त्यत्र पूर्वम् उत्कर्षाद्राह्मणस्येत्यत्रोत्तरम् । त्वर्थः पर्युदासविधिर्यथा । यजतिषु ये यजामहं करोति नानुयाजेष्विति पुरुषार्थः पर्युदासो यथा । नेक्षेतोद्यन्तमादित्यमित्यादिः। पुनः पर्युदासविधिर्द्विविधः । पर्युदासस्य स्वातन्त्र्यात्परवि- शेषणत्वाच्च। तत्राद्ये नेक्षेतेत्येवोदाहार्यम् । द्वितीयस्तु द्विविधः। पर्यु- दासस्योद्देश्यविशेषणत्वाद्विधेयविशेषणत्वाद्वा । तत्रोद्देश्यविशेषण- स्वेनानुयाजेष्वित्युदाहार्यम् । विधेयविशेषणत्वाद्यथा “नार्षेयं वृ. णीते न होतारं वृणीते” इति । पुनरपि वक्ष्यमाणनिषेधषोडशत्व- घत्पर्युदासो ऽपि षोडशविधः । तथा हि । प्रकृती विकृती अप्रकृतिविकृत्यात्मके च कर्मणि समानविधानः पर्युदासविधिर्नानुयाजेषु ये यजामहमिति । अत्र ह्यातिदेशिकद्वारा प्रतीक्षणात्सप्तदशो वै प्रजापतियज्ञे यज्ञे ऽन्वायन्त इत्यत्र वार्त्तिकदुक्तस्य द्विरुक्तता न्यायापवादस्य साम्यात् । एवं प्रकृतिगतारादुपकारिपर्युदासो विकृतिगतारादुपकारि- पर्युदासः । अप्रकृतिविकृत्यात्मककर्मगतारादुपकारिपर्युदासः । प्र. कृतिगतादृष्टार्थसन्निपातिपर्युदासः । प्रकृतिगतप्रतिपत्तिव्यतिरिक्त- सन्निपातिदृष्टार्थपर्युदासः । प्रकृतिगतप्रतिपत्तिपर्युदासः । विकृति- गतोपदिष्टस्य पूर्ववत्रिविधस्य सन्निपातिनः पर्युदासास्त्रयः। विकृतिगतातिदिष्टस्य पूर्ववत्रिविधस्य सन्निपातिनः पर्यु- दासास्त्रयः। अप्रकृतिविकृत्यात्मककर्मगतोपदिष्टसन्निपातिनः । पूर्ववत्रि. विधस्य पर्युदासास्त्रय इति द्वादश । एषामुदाहरणानि यथासम्भवं मृग्याणि । क्रत्वर्थो भावे विधि- र्यथा स्त्रिष्टकदर्थावत्तनाशआज्यविधि “यां वै का चिहेवतामन्तरि- तस्तस्या आवृश्चते आज्येनैता देवताः परिसंख्याय यजेते"ति । तथा नग्न्यभावे तु विप्रस्य पाणावेवोपपादयोदति । पुरुषार्थों भावे विधिर्यथा । “सत्रायागूर्य विश्वजिता य. जेते "ति। साधारण्यविधिर्द्धिविधः विनियोगसाधारण्यविधिरनुष्ठान- साधारण्यविधिश्चेति । तत्राद्यो यथा । " यदातिथ्यायां बर्हिस्तदुपसदां तदग्नीषोमी- यस्ये"ति यथा वा बहिषो बर्हिर्धर्माणां च वेद्या वेदिधर्माणां च वि.
प्रत्यक्षविधिभेदाः। धिरङ्गप्रधानसाधारणः। द्वितीयो यथा । उपदेशेनाग्नीषोमीये ऽतिदेशेन च सवनीया- नुबन्ध्ययोरङ्गभूतस्य यूपस्यानुष्ठानसाधारण्यार्थो दीक्षासु यूपं छिन- तीत्यपकर्षविधिरिति। उत्कर्षविधिर्यथा । आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति” "स एष औपवसथ्ये ऽहन् द्विदेवत्यः पशुरालभ्यत" इत्यग्नीषोमीयस्य क्र- यसन्निधावुत्पन्नस्योत्कर्षविधिः । (१) साधारण्यविधिव्यतिरिक्तो ऽपि यथा “ तिष्ठन्तं पशुं प्र- यजन्ती"ति। पुनरपि सामान्यादिविध्येकादशकं यथा सम्भवं द्विविधम् । दृष्टार्थमदृष्टार्थ च । तत्रादृष्टार्थों सामान्यविशेषविधी यथा उदाहृतावेवाहवनीयपदविधी । दृष्टार्थों तु सोमफलचमसविधी प्रतिप्रसवविधिस्तूदाहृतो द्विविधो ऽप्यदृष्टार्थ एव । दृष्टार्थस्तु प्रति- प्रसवविधिर्यथा “ पशुं सझपयती "ति । अभ्यनुज्ञाविधिस्तु सर्वो ऽपि दृष्टार्थ एव न त्वदृष्टार्थो ऽपीति । उपसंहारविधिस्तु पूर्वोक्तः त्वों दृष्टार्थः । पुरुषार्थस्तु पूर्वोक्तो ऽदृष्टार्थः । व्यवस्था- विधिस्तु प्रागुक्तः सर्वो ऽप्यदृष्टार्थ एव । यद्यपि वात्रघ्रीवृधन्वत्यो राज्यभागदेवताभूताग्निसोमप्रकाशनार्थत्वादृष्टार्थतैव तथापि तु- ल्यार्थयोयुगलयोर्व्यवस्थाविधिरदृष्टार्थ एव । दृष्टार्थो व्यवस्थाविधिर्यथा आर्षसंख्यशिखाव्यवस्थाविधि- स्तत्संख्यार्षयुक्तगोत्रज्ञानरूपदृष्टार्थ इत्युक्तं स्मृत्याधिकरणन्यायसु- । धायाम् । पर्युदासविधिस्तु प्रागुक्तो द्विविधो ऽपि पुरुषार्थः अदृष्टार्थ एव । दृष्टार्थस्तु पर्युदासो “ यजतिषु येयजामहं करोति नानुयाजे- वि "ति । अत्र च यद्यप्यनूयाजव्यतिरिक्तश्वित्यंशो न दृष्टार्थस्तथा- पि विधेययेयआमहांशे यागप्रकाशकत्वन दृष्टार्थत्वात्पर्युदासविधि- ईष्टार्थ इत्युच्यते । अभावविधिस्तु पूर्वोदाहृतयोर्मध्ये क्रत्वों यः स दृष्टार्थः पुरुषार्थस्त्वदृष्टार्थः । पुनरपि सामान्यादिविध्येकादशकं जातिद्रव्यगुणक्रियाविषयत्वेन यथासम्भवं चतुर्धा । जात्यादिवि- षयत्वमपि उद्देश्यांशे विधेयांशे उभयांशे चेति जात्यादिविषय- मपि विध्यकादशकं प्रत्यकं त्रिविधमिति द्वात्रिंशदुत्तरं शतम्भे- दा भवन्ति । एषामुदाहरणान्यन्वेष्याणि ग्रन्थगौरवात्तु न प्रदर्शितानि । (१) पपकर्षविधिरित्यधिकं २ पु. ।
मीमांसाबालप्रकाशे। . पुनरप्यष्टविधो विधिर्धात्वर्थमानविधिः सगुणधात्वर्थविधिः किं चिदुद्दिश्य धात्वर्थविधिस्तत्रैव विशिष्टधात्वर्थविधिर्धात्वर्थोद्देशे- नान्यविधिर्धात्वर्थे ऽन्ययोः सम्बन्धविधिर्धात्वर्थानुरक्तेन प्रत्ययेना. न्ययोः सम्बन्धविधिर्मुक्त्वा धात्वर्थमन्ययोरेव सम्बन्धविधिश्चति । अत्र दूषणभूषणं द्वितीयाध्यायार्थप्रस्तावे वक्ष्यते । पुनरपि त्रिविधो विधिरपूर्वविधिनियमविधिः परिसंख्या- विधिश्च । त्रिविधो ऽप्यसौ चतुर्विधः। जातिविधिव्यविधिर्गुणविधिः क्रियाविधिश्च । तत्र जातेरपूर्वविधिर्यथा “ खादिरं वीर्यकामस्य यूपं कु- ते "ति । द्रव्यस्थापूर्वविधिर्यथा “ गोदोहनेन पशुकामस्य प्रणयदि "ति गोदोहनशब्दस्य यौगिकत्वेन द्रव्यवाचित्वात् । गुणस्यापूर्वविधिर्यथा “यदि कामयेत वर्षुकः पर्जन्यः स्यान्नीचः सदो मिनुयादि "ति। क्रियापूर्वविधिर्यथा 5"ग्निहोत्रं जुहोती"ति । देवतावि- धिोमाधिकरणीभूताहवनीयादिविधिश्चापूर्वविधांववान्तर्भूतः । दे- बताया यागसिध्यादृष्टार्थ(त्वे ऽपि विध्यकप्रमाणत्वात् । आह- धनीयादेरप्यधिकरणत्वेन दृष्टार्थत्वे ऽपि होमविधिनानाक्षिप्तत्वे- नादृष्टार्थत्वस्याघारा)ग्निहोत्राधिकरणवार्तिके उक्तत्वात् । अतो ऽदृष्टार्थत्वं नियमविधिलक्षणं दीक्षितोक्तमज्ञानमूलमेव । तदेवं द्विविधो पूर्वविधिः पुनः सिद्धो दृष्टार्थः अदृष्टार्थश्च । देवतावि- धिरपि तद्धितचतुर्थीमन्त्रवर्णद्वितीयार्थवादभेदात्पञ्चविधः । तत्रान्ये स्फुटाः । आर्थवादिको ऽर्थवादभेदेषु वक्ष्यते । अध्य यनविधिरप्यपूर्वविधिदृष्टार्थश्च । न स्वयं नियमः स ह्यर्थज्ञानस्वरूपे घा स्याऋत्वपूर्वे वा। नाद्यः न ह्यध्ययनेनैवार्थज्ञानमिति नियमः सम्भवी उपायान्त- रेणापि तदर्शनात् । न द्वितीयः । अनारभ्याधीतत्वेन क्रत्वपूर्वानुप- स्थितेः । अव्यभिचारिद्वारेण हि क्रतूपस्थितिः स्यान्न चात्र तदस्ति भावे वा पर्णतादिवाकत्वङ्गत्वापत्तिः । अत एवाध्ययने नियमापूर्व नास्ति शूद्रव्यावृत्त्या तु फलतो नियमव्यवहार इत्येतत्सर्व न्यायरत्न- मालायामुक्तम्। पुनरप्यपूर्वविधिर्द्विविधः । क्रत्वर्थः पुरुषार्थश्च । तत्राद्यो य- (१) अयं पा० २ पु. ना. ।
२३ प्रत्यक्षाविधिभेदाः। था "समिधो यजती त्यादिः। द्वितीयो यथा “ऽग्निहोत्रं जुहोती"त्यादिरिति ।नियमविधिस्तु त्रिविधः । प्रतिनिधिनियमः प्रतिपत्तिविधिस्तदुभयव्यतिरिक्तश्चेति । प्रतिनिधिनियमो ऽपि तावदपूर्वविधिवदेव जातिद्रव्यगुणक्रियाविष- यत्वेन चतुर्विधः । तत्र जातिप्रतिनिधिनियमो यथा पूतीकविधिः । द्रव्यप्रतिनिधिनियमो यथा षष्ठे "यदि सत्राय दीक्षितानां प्रमीयेत यो ऽस्य नेदिष्ठः स्यात्तं तस्य स्थाने दीक्षायित्वेति” । नेदिष्ठशब्दस्य युवाल्प- योः कनन्यतरस्यामिति युवशब्दादेशनेदविधानाद्यौगिकत्वेन द्रव्य- घाचित्वात् । “यद्यपाकृतः पशुः पलायेतान्यं तद्वर्ण तद्वयसमिति तु कातीयं, न द्रव्यस्य गुणस्य वा प्रतिनिधिनियमः । यदा वै पशोर्द- न्ताः पुनर्जायन्ते अथ सें मेध्यो भवतीति ऽवयोवस्थाविशेषावच्छिन्नस्य कृष्णासारङ्गो ऽग्नीघोमीय इत्यादिगुणयोगिनश्च मुख्यद्रव्यस्य प्रधा- नन प्रयुक्तत्वाद्रीहिनाश इव ब्रीह्यन्तराणाम् । गुणप्रतिनिधिनियमो यथा कातीयानां कृष्णसारङ्गाभावे लो- हितसारङ्गविधिरग्नीषोमीये पशो “यदि कृष्णसारङ्गं न विन्देदयो अपि लोहितसारङ्गः स्यादिति शतपथात् । क्रियाप्रतिनिधिनियमो यथा ऽऽपस्तम्बः “यदि यजमानः प्रस- वेत्प्रजापतर्विभानामलोक इति ध्रुवायां यजमानभागमवधाय समिष्ट- यजुषा सह जुहुयादिति । अत्र होमः प्रक्षेपमात्रं देवताभावात् । त- थाहिताग्निपात्रप्रतिपत्तेईक्षिणे हस्ते जुहूमासादयतीत्याद्यायाः प्रति- निधिः पतिताहिताग्निपात्रध्वन्या स्मयते । पात्राणि तु दहेदग्नी यजमाने वृथा मृत इति । तथा द्विजाभावे श्राद्धान्नभोजनस्य प्रतिनिधिः स्मर्यते । हेमा- द्रौ देवलः। निधाय वा दर्भबटूनासनेषु समाहितः । प्रेषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥ निर्दिश्याप्यन्नमुद्धृत्य यत्र पात्रं ततो गतिः । पात्राभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वेति ॥ प्रतिनिधिनियमः सर्वः क्रत्वर्थ एव न पुरुषार्थों ऽपीति न द्वि- विधः। तथा प्रतिनिधिनियमः सर्वोऽपि दृष्टार्थ एव नादृष्टार्थोऽपीति न द्विविधस्त्रिविधो वेति । प्रतिपत्तिविधिस्तु क्रियाविधिरेव न जा- तिद्रव्यगुणविधिरिति न चतुर्विधः । तथा प्रतिपत्तिविधिद्रव्योद्देश्यक एव न जातिगुणक्रियोद्देश्य- कति नोद्देश्यचातुर्विध्यादपि चतुर्विधः। पुनश्च प्रतिपत्तिः क्रत्वथै- २४ मीमांसाबालप्रकाशे। घन पुरुषार्थेति न द्विविधस्तद्विधिः । पुनरपि प्रतिपत्तिविधिदृष्टार्थों इष्टादृष्टार्थोभयार्थश्च नादृष्टमात्रार्थों ऽपीति न त्रिविधः। तत्राद्यो यथा “चात्वाले कृष्णविषाणां प्रास्यती"त्यादिः । द्वितीयो यथा खिष्टकद्विधिरिति । पुनश्च द्विविधा प्रतिपत्तिः साक्षाद्विनियुक्त प्रतिपाद्यविषया साक्षाद्विनियुक्तोपादानानुषङ्गसिद्ध- प्रतिपाद्यविषया च । तत्राद्योदाहृतैव । द्वितीया यथा । शकृत्प्रविध्यतीति । प्रतिनिधिप्रतिपत्तिनिय- मव्यतिरिक्तो पि नियमावधिः प्रतिनिधिविधिवजात्यादिविषयत्वेन तावञ्चतुर्विधः । तत्र जातेनियमविधिर्यथा क्रयवाक्ये गवति । गो- पदवदेव हि क्रयवाक्यमाकृत्यधिकरणवार्तिके अद्रव्यशब्दत्वादि ति सूत्रे ऽनन्यथासिद्धग्रन्थे उदाहृतम् । द्रव्यस्य नियमवि. धियथैकहायन्यति । गुणस्य यथारुणयति । क्रियाया यथा ब्रीही- नवहन्तीति । सो ऽये प्रतिनिधिप्रतिपत्तिविधिव्यतिरिक्तो नियमविधिः पु- नर्द्विविधः क्रत्वर्थः पुरुषार्थश्च । अनन्तरोदाहृतश्चतुर्विधः क्रत्वर्थः । पुरुषाथों यथा । ऋतो भीयामुपेयादिति प्राङ्मुखो ऽन्नानि भुञ्जीतेति च । पुनः सोऽयं नियविधिस्त्रिविधः । दृष्टार्थो दृष्टार्थों दृष्टादृष्टोभयार्थश्च । तत्र पुरुषार्थक्रियानियमो नैमित्तिकः सर्वो ऽप्य॒तौ भार्यामुपेयादित्यादि. दृष्टादृष्टोभयार्थः । इह हि प्रयोजकत्वेन तादयमुच्यते नियमादृष्टस्याप्रयोजक- त्वादवघातादेष्टार्थत्वात् प्राङ्मुखत्वादेरपि भोजननिरपेक्षेणादृष्ट- मात्रेणाप्रयुक्तरवधातवदृष्टार्थतैव । गमनं तु भार्यासुखानिच्छोरपि क्रुद्धादेः ऋतौ निमित्त अदृष्टार्थ प्रयुक्त एव विधिः। सुखेच्छु प्रति तूदास्त इति दृष्टादृष्टोभयार्थो ऽयम् । केवलादृष्टार्थस्तु नियमविधिर्यथा प्रकृती वैकल्पिकयोबृहद्र- थन्तरपृष्ठयोरदृष्टार्थयोरन्यतरस्य क्वचिद्विकृती नियमः श्रूयते इति। अपूर्वनियमविधिवञ्च परिसंख्याविधेरपि जात्यादिविषयाण्युदाहर- णानि मृग्याणिः । पुनः परिसंख्याविधिर्द्विविधः । शेषिपरिसंख्या शेषपरिसंख्या च आद्या यथा “ इमामगृणन्नि "ति । द्वितीया यथा गृहमेधीये पश्चमे पक्षे । यत्तु भट्टसोमेश्वरेण पशुसोमाधिकरणे शेषपरिसंख्योदाहरणमुक्तम् न्यायात्सर्वावयवप्रा- सावप्येकादश वै पशोरवदानानीत्यस्यानन्यप्रयोजनवादवयवान्तरप- प्रत्यक्षविधिभेदाः। २५ रिसंख्यार्थत्वाभ्युपगमेन दाशमिकः सिद्धान्त इति । तदेतदस्माभि- देशमे पशोरेकहविष्टमित्यतो ऽग्रिमे ऽधिकरणे दूषितम् । मिश्रा हि तत्रास्य द्विर्द्विरवद्यतीति संख्याविधिनैकवाक्यता मेवाहुः । यदि परं हृदयादिवाक्यानामेवेमामगृश्णनिति वत्फल- तः परिसंख्यात्वं तत्रत्यभाष्यकृदुक्तं वरम् । तदपि विशसने ऽपि प- शुप्रत्यभिज्ञानाद्धृदयादिवाक्याभावे पशोरेव मध्यात्पूर्वार्धाच सकृद- बदान प्राप्नुयानावयवेश्य इति निरस्तम् । यत्तु तत्र मित्रैः पशोर्विशसनेन साधनत्वायोगात्सर्वावयवे. भ्यो ऽवदानप्रसक्तिरुक्ता सा ऽपातत एवेत्यप्युक्तं तत्रैव। तदुक्तमा- कृत्यधिकरणवार्तिके पश्वादिष्वपनीताङ्गेषु विशेषबुद्ध्यभावात्सामा- न्यरूपैव विशसनादिविशिष्टा बुद्धिईष्टेति । पुनः परिसंख्या द्विविधा शाब्दी आर्थी च । तत्राद्या निषे- धरूपैवेति भट्टसोमेश्वरः । एवकारेण शाब्दीपरिसंख्योति मिश्राः । यथा “त्रीणि हवै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप्च अत्र होवावपन्त्यत एवोद्वपन्ती"ति । आर्थी तु द्विविधा प्राप्तपरिसंख्या या त्रिदोषा, अप्राप्तपरिसं- ख्या च या तद्धीना सा च फलतः परिसंख्यति गीयते । तत्राद्याया भाष्यवार्तिकोक्तं सिद्धान्ते उदाहरणं नास्त्येव । पूर्वपक्षे तु गृहमे- धीये पञ्चमे पक्षे ऽस्ति । भाष्यकारान्तरमते तु सिद्धान्ते ऽपि व चि. दङ्गीकृता । यथा दशमे ऽङ्गिरसां द्विरात्रे श्रुतं "वैखानसं पूर्वे ऽहन्साम भवति षोडश्युत्तर” इति । तत्र द्विरात्रोत्तमाहानामतिरात्रसंस्थत्वात्प्र- कृत्यतिरात्रतःषोडशिविकल्पे प्राप्ते उत्तरेऽहन्द्विरात्रस्य गृह्यतइति वा- क्यान्तरेणानारभ्याधीतेन नियतषोडशीत्युत्तर इत्यनेनाङ्गिरसां द्वि- रात्र एव परिसंख्यायते तेन द्विरात्रान्तरे विकल्प इति भाष्यकारा- न्तरोक्तः सिद्धान्तः । शबरखामिभिस्तु परिसंख्या नाङ्गीकृता त्रिदोषत्वात् । वैखा- नसविधेस्त्वर्थवादः षोडश्युत्तर इतीत्यङ्गीकृतमिति । सप्तदशविंज इत्यपि न प्राप्तपरिसंख्या। यद्यपि न वा परिसंख्यानादिति (अ०३। पा० ७। सू० ३३ ।) सूत्रकृता तत्र परिसंख्यात्वमेवोक्तंभाच्यकृता च तथैव व्याख्यातम् । तथापि वार्तिककृताधिकरणान्ते सप्तदशश्रुते- रुपसंहारार्थतैवोक्ता । तदेदुपपादितमस्माभिः शास्त्रदीपिकाप्रकाशे । तस्मात्प्राप्तपरिसंख्योदाहरणं स्मार्तमेव " पञ्च पञ्चनखा भ- ध्या" इति । अप्राप्तपरिसंख्योदाहरणं त्विमामगृभ्णन्नित्येव । - मीमांसाबालप्रकाशे। पुनः परिसंख्या द्विविधा त्वर्था पुरुषार्था च । पूर्वोक्तानि श्री- ताम्याचोदाहरणानि । द्वितीयोदाहरणं तु स्मार्तमेव " पञ्च पञ्चनखा भक्ष्या" इति । पुनः परिसंख्या द्विविधा दृष्टार्था अहष्टार्था च । तत्रेतरनिवृ- स्यंशः सर्वत्राप्यदृष्टार्थ एव । विधेयांशस्तु क चिदृष्टार्थः । क चि- ददृष्टार्थः । आयो यथा इमामगृश्णन्पञ्च पञ्चनखा भक्ष्याः त्रीणि हवे यज्ञस्योदराणीति । मन्त्रभक्षणावापोद्वापानां दृष्टार्थत्वात् । अदृष्टार्थोदाहरणं तु गृहमेधीये “पञ्चमे पक्षे "इति । पुनरपि परिसंख्या द्विविधा नियमतस्तत्र चान्यत्र च प्राप्तावनियमतस्तत्र चान्यत्रच प्राप्तीचेति । तत्राद्योदाहरणमिमामगृभ्णन्नित्यादि श्रौतम्। द्वितीयोदाहरणं तु स्माते पञ्च पश्चनखा भक्ष्या इतिापुनरपि विधिनवविधः । अध्याहारेण विपरिणामेन व्यवहितकल्पनया व्य- वधारणकल्पनया गुणकल्पनया ऽनुषङ्गेण यदिशब्दपरित्यागेन रु- च्यध्याहारेण हेतुहेतुमतोर्लिङिति तत्राद्याः पञ्चार्थवादाधिकरण- पूर्वपक्षे आशङ्कामिषेण भाष्यएवोक्ताः। अथोच्येत अध्याहारेण वा विपरिणामेन वा व्यवहित- कल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिदर्थः कल्पयिष्यतइति । अनुषङ्गस्त्वनुषङ्गाधिकरणे ( अ० २।पा०अ० १६) सिद्धः । यदिशब्दपरित्यागादयस्तु त्रयो रथन्तराधिकरण- पूर्वपक्षे ऽवेष्टयधिकरणसिद्धान्तोपयोगितया भाष्ये वार्तिके ( अ. २। पा०३ । अ०२) चोक्ताः । यदिशब्दपरित्यागो रुच्यध्या- हारकल्पनाव्यवधानेन संबन्धो हेतुहेतुमतोश्च लिङिति । अत्र व्य- वधानेन सम्बन्धः पूर्वोक्ताव्यवहितकल्पनैव । यदिशब्दश्च यच्छब्दा- देरप्युपलक्षणमिति नवैव भेदाः । तत्राद्यचतुष्टयलक्षणार्थः प्राचा सार्धश्लोकः । अध्याहारो ऽश्रुताक्षेपो व्यत्यासो व्यवधिः पदैः। भतो विपरिणामो ऽसौ प्रकृतिप्रत्ययान्यथा॥ घाक्यान्यथात्वकरणं व्यवधारणकल्पनेति । तत्राध्याहारोदाहरणं, यथा विश्वजिता यजेतेति । अन हि चतुर्थे स्वर्गकामपदाध्याहार उक्तः । व्यवहितकल्पना यथारात्रिसत्राधिकरणे प्रतितिष्ठन्ति हवा य एतारात्रीरूपयन्तीत्यत्र ये प्रतितिष्ठन्ति ते एता रात्रीरुपयन्तीत्यन्वयकल्पनादुक्का । विपरि- णामस्याप्येतदुदाहरणं प्रतितिष्ठासन्ति उपेयुरिति विपरिणामोक्तः । व्यवधारणकल्पना यथावेदोपक्रमे "उचैर्ऋचा क्रियत" इत्यत्रो- वा वैश्य प्रत्यक्षविधिभेदाः। पसंहारे वेदविषयत्वकल्पनाद्वाक्यपादाद्ये उक्का । तथाश्वप्रतिग्रहे- टयधिकरणे दानविषयोपक्रमबलेन यावतो ऽश्वान्प्रतिगृह्णीयादित्यु- पसंहारस्य प्रतिग्राहयेदिति दानविषयत्वकल्पनोक्ता । नन्वाद्ये व्य- वधारणकल्पनोदाहरणे गुणकल्पनैवास्ति द्वितीये प्रकृतिप्रत्ययान्य- तरस्यान्यथात्वाद्विपरिणाम एवेति को भेदो व्यवधारणकल्पनायाः यदपि तल्लक्षणं वाक्यान्यथात्वकरणमिति तदपि वाक्यार्थस्यान्यथा- त्वकरणेन तश्च प्रतितिष्ठन्तीति विपरिणामोदाहरणे ऽप्यविशिष्टम् । यदितु विपरिणामन्यावृत्त्यै वाक्येनैकवाक्यतापनेनोपक्रमेणान्यथात्वं ध्यवधारणकल्पनालक्षणम् । प्रतितिष्ठन्तीति विपरिणामे तु वर्तमान- त्वबाधातुपेयुरिति चानिमफलापेक्षिविधेयकवाक्यत्वादेव चान्यथा- त्वं न केन चिदुपक्रमेणेत्युच्यते । तदपि न । फलचमसवाक्ये हि यदि राजन्य घा याजयेदि " त्युपक्रमात्तमस्मै भक्षं प्रयच्छेदित्युपसंहारे तेन यजेतेति कल्पनाद्भाप्ये च सैषा व्यवधारणकल्पनेत्युक्तिनिर्विवादा व्यवधारणकल्पना । वार्तिके तु तदधिकरणान्ते एतेन पूतीकानभि- धुणुयादित्यादीनि व्याख्यातानीत्युक्तर्यदि सोमं न विन्देत पूतीकान- भिषुणुयादित्यस्याप्युदाहरणतोक्ता तत्रं यागोपक्रमाभावादव्याप्तिः स्यात् उच्यते । यदि सोमं न विन्दतेत्युपक्रमादेव तत्रापि पूतीकानां यागसा- धनता कल्प्यते । यागसाधनीभूतः सोमो यदि न लभ्यतेत्युक्ते हि इदमवगम्यते । किं चिदत्र यागसाधनं विधित्सितमग्रे ऽस्तीति। अ- न्यथा सोमालाभोक्तिरनर्थिकैव स्यादिति । गुणकल्पना यथा “स- ष्टीरुपदधाति प्राणभृत उपधाती"ति । पूर्वत्रासृष्टिलिङ्गा अप्युत्त- रत्राप्राणभृच्छब्दोपेता अपि मन्त्रा गोण्या वृत्त्योक्ता विधीयन्ते इति । तथा "श्येनचितं चिन्धीत स्वर्गकाम" इति प्रकृतचयनाश्रितः श्ये- मसाहश्यं गुणः फलाय विधीयते । अत्र हि कर्मणि हन' इत्यत उपप- दार्थे कर्मणीत्यनुवर्तमाने 'कर्मण्यग्न्याख्यायामिति कर्मणि विविधेः श्येनं चीयमानमिति प्रतीतेः सामानाधिकरण्योपपत्यै श्येनसहशमि- ति गौण्या कल्प्यते । पुरुषार्थोदाहरणं त्वेतत् । अनुषतेण विधिस्तु द्विविधः पुरस्तादनुषङ्गः परस्तादनु- पश्च। तत्राद्यो यथा “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधाया- दुतिमाहात हुत्वा तमभिधारयेद्यदि राजन्य ऐन्द्रं यदि वैश्यो वैश्वदे- यमि" त्यत्र ऐन्द्रं वैश्वदेवमित्यतः परं मध्ये निधायेत्याधनुषज्यते ।
२८ मीमांसाबालप्रकाशे। तदुक्त मवेष्टयधिकरणवार्तिके । राजन्यस्यापि ब्राह्मणवैश्य- धदेव कर्मान्तरण प्रयोगान्तरण वा सम्बन्ध इत्युक्त्वा एवं च त- स्यापि मध्यनिधानवाक्यं तन्त्रप्रयोगे सत्युपपद्यतइति । परस्तादनुषङ्गो यथा । “अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेते" त्यत्र एतेनेत्यादिपूर्ववाक्य- प्रये ऽनुषज्यते । यदि शब्दपरित्यागेन विधिस्तु यद्यपि वार्तिके यदि ब्राह्माणो यजेतेत्यत्र उत्तरपक्षोत्थापनाय पूर्वापरितोषमिषेण दू- षितः परित्यागाद्वरमध्याहृत्य पूरणमिति मत्वा । अथ वा यदि रोचतेति दर्शयतीति ग्रन्थेन तथापि यदिशब्द- समानार्थकयच्छब्दपरित्यागोदाहरणं यदाग्नेयो ऽष्टाकपाल इत्याद्येव यदिशब्दपरित्यागस्थाने ऽभिषिच्योदाहार्यम्।यद्वा रुच्यध्याहारसम्भव यदि शब्दपरित्यागो न युक्तः व्यवधानेन सम्बन्धसम्भवे रुच्यध्याहा- रोऽप्ययुक्त हेतुहेतुमल्लिङ्सम्भवे व्यवधानेन सम्बन्धो ऽप्ययुक्त इति वार्तिके उक्तम् । अतो यत्र रुच्यध्याहारव्यवहितकल्पनाहेतुम- ल्लिङल्पनरूपपक्षत्रयं न सम्भवति तद्यदिशब्दपरित्यागे उदाहार्यम् । यथा “यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदि"ति। अत्र हि यदि रोचेत रथन्तरसामा सोमः स्यादितिवद्यदि रोचेत आतुरः स्थादि- ति रुच्यध्याहारो न सम्भवत्यातुरताया अविधेयत्वात् । एवं व्यव- धानेन सम्बन्धो न सम्भवति । स हि गृह्णीयादिति लिङः 'कामप्रवेद. ने किञ्चि'तीत्यङ्गीकृत्य यद्येन्द्रवायवाग्रान्ग्रहीतुमिच्छेद्रथन्तरसामा सोमः स्यात्कार्य इतिवद्यदि मनसा वाचा वा संन्यसितुमिच्छेदातुरः स्यादिति कल्प्येत । न चैतत्सम्भवति आतुरताया अविधेयत्वादेव एवं यद्यातुरः स्यादित्यत्र हेतुहेतुमतोलिङिति पक्षो ऽपि न सम्भवति । ऐन्द्रवाय- वाग्रान्ग्रहान्गृह्णीयादिति हेतुमल्लिपक्षे हि ग्रहणरूपफलस्य हेतुः रथन्तरसामा सोमः कार्य इति वदिह मनसा वाचा वासंन्यस्येदिति हेतुमलिङ्पक्षे संन्यासरूपफलस्य हेतुरातुरः कार्य इत्यर्थो वाच्यः । न चैतत्सम्भवति । आतुरताया अविधेयत्वादेव । न च हेतुलिङ्सम्भवः । तदा हि रथन्तरसामा सोमः स्या- दिति हेतौ लिङ्ग्रहान्गृह्णीयादिति विधावेव । ततश्च रथन्तरसाम- सोमहेतुकं ग्रहानत्वं कार्यमितिवदिह यद्यातुरः स्यादिति लिङ् हेतौ संन्यस्येदिति विधौ ततश्चातुरताहेतुकः संन्यासः कार्य इत्यर्थो वाच्यः । न चासो सम्भवति सोमयागस्य हि शेषित्वात्प्रयोजकत्या- प्रत्यक्षविधिभेदाः । ૨૬ ख्य हेतुत्वं सम्भवति न त्वातुरताया अशेषित्वादनिमित्तत्वाञ्च । त- स्मादातुरवाक्ये रुच्यध्याहारव्यवधानसम्बन्धहेतुहेतुमल्लिपक्षा- णामसम्भवादातुरवाक्यं यदि शब्दपरित्यागस्यैवासङ्कीर्णमुदाहरण- मिति । रुच्यध्याहारपक्षस्तु यद्यपि वार्तिके यदि ब्राह्मणो यजेतेत्यत्र उत्तरपक्षोत्थापनाय पूर्वापरितोषव्याजेन दूषितः। अध्याहारादपि स्वपवृत्तिरेव व्यवहितकल्पनया लघीयसी धर्ममात्रबाधादिति ग्रन्थेन तथापि यत्र लिङ्दयाभावाद्वयत्ययेन सम्बन्धस्य कामप्रवेदने च गृह्णीयादिति लिङिच्छां प्रत्यापयती- ति वार्तिकोक्ततृतीयपक्षस्य हेतुहेतुमतोर्लिङिति चतुर्थपक्षस्य चा- सम्भवस्तत्नं रुच्यध्याहारः सम्भवत्येव । तादृशमुदाहरणं मृग्यम् । व्यवहितकल्पनापक्षो ऽपि यद्यपि यदि ब्राह्मणो यजतत्यत्र वार्तिककृता हेतुहेतुमतोर्लिङिति पक्षसम्भवे निराकृतः । विनय व्य- वहितकल्पनयाप्ययं पक्षो भवन्बलवत्तर इति मन्वानो हेतुहेतुम- तोलिङित्युपन्यस्यतीति ग्रन्थेन तथापि यत्र हेतुहेतुमतोर्लिङित्यस्य विषयो नास्ति प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्तीति लट्प्रयो- गात्तद्वयवहितकल्पनोदाहरणं सम्भवतीत्यतः पूर्वमुदाहृतम् । हेतु- हेतुमतोर्लिङित्यत्रोदाहरणं तु यदि ब्राह्मणो यजेतेत्यायव । तत्र हेतुः कारणं हेतुमान्फलम् । तत्रापि विधाद्वयं ब्राह्मणो यजेतेति हेतो लिङ् अभिघारयेदित विधावेव । तेनायमर्थःब्राह्मणक- र्तृकयागहेतुकं मध्यनिधानपूर्वकमाभिधारणं कार्यमिति । न चाक्रि- यमाणो यागो हेतुत्वं प्रतिपद्यत इत्यर्थाद्विहितो भवतीति । अथ वा हेतुमत्यभिधारयेदिति लिङ् ब्राह्मणो यजेतेति विधावेव । अनुक्तम- पि च यागस्य हेतुत्वं हेतुमदाक्षेपात्संनिधेश्च भाविष्यति । तत्रायम- र्थः । मध्यनिधानपूर्वकहोमपूर्वकाभिधारणरूपफलहेतुभूतो ब्राह्मण- कर्तृको यागः कार्य इति । प्रतिषेधो ऽपि द्विविधः । प्रत्यक्षः कल्प्यश्च । प्रत्यक्षो ऽयं- नेकधा वक्ष्यते । कल्प्यो ऽपि सप्तधा स्मृतिकल्पयः आचारकल्प्यः निषेधक- ल्प्यः अर्थवादकल्प्यः मन्त्रकल्प्यः प्रायश्चित्तकल्प्यो दण्डकल्प्यश्च । तत्र स्मृतिकल्प्यो यथा । सगोत्रा न परिणयेत्यादिः॥ आचारकल्प्यो यथा हरिवासरपरिभाषिते काले पारणा- निषेधः ।
. मीमांसाबालप्रकाशे। ३० निषेधकल्प्यो यथा विशिष्टनिषधाद्विशेषणनिषेधः। अर्थवादकल्प्यो द्विविधः स्वतन्त्रार्थवादकल्प्यो विध्यन्तर- शेषार्थवादकल्प्यश्च । आद्यो ऽपि द्विविधः दोषार्थवादकल्प्यः सि- द्धवत्कीर्तनार्थवादकल्प्यश्च । आद्यो यथा स्मार्तः । मिथ्याभिशंसने दोषो द्विः समो भूतवादिनः । मिथ्याभिशस्तदोषञ्च समादत्ते मृषा वदन्निति ॥ द्वितीयो यथा ऽग्निहोत्रप्रकरणे तस्मा “ द्वत्सं जातं दशरात्रीनं दुह- न्ती"ति । जातं वत्समनुलक्ष्यीकृत्य तदनन्तरन्तरं " दशरात्रं गौने दो- धे"ति सिद्धवत्कीर्तनान्यथानुपपत्त्या निषेधः कल्प्यते । “ यदाग्ने यो ऽष्टाकपालो मावास्यायों पौर्णमास्यां चाच्युतो भवती"ति वि- धिवदिति । विध्यन्तरशेषार्थवादकल्प्यो यथा तस्मादारण्यमेवाश्नीया- "दिति विधिशेषेण न वा एते माषान्हविहन्तीत्यनेन माषनिषेधः क- प्यते "उपरि हि देवेभ्यो धारयती"ति विधिवदिति । मन्त्रकलग्यो ऽपि निषेधो विधिवद्विधा मन्त्रगतस्यैव नभ्युक्त- वर्तमानापदेशस्य निषेधत्वकल्पनातू निषेधयुक्तवाक्यान्तरकल्पना- च । आधोदाहरणं मृग्यम् । द्वितीयो यथा मोघमन्नं विन्दते अप्रचेता" इति । प्रायश्चित्तकल्प्यो यथा । तदाहुर्य आहिताग्निर्यदि सूतकार्य प्राश्नीयाका तत्र प्रायश्चित्तिरिति सो ऽग्नये तन्तुमते ऽष्टाकपाल पुरोडाशं निर्वपदि "ति। दण्डकल्प्यो यथा कर्मप्रदीपे। यजनीये ऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिर्तुत्वा दण्डं दद्याद् द्विजातये ॥ इति नेयं दक्षिणा ऋत्विगभावात् । अत्र च पूर्वदिने ऽन्वाधा- मे दण्डविधिरेव कल्प्यः तेन तु निषेधः कल्प्यतइति । स्मृत्यादिकल्प्यो ऽपि निषेधो यथासम्भवं जातिव्यक्तिगुणक्रि- याविषयत्वेन चतुर्विधः। तत्राद्यो यथा श्राद्धे चणकादिनिषेधः । मरीचिः। कुलत्थाश्चणकाः श्राद्धे न देयाश्चैव कोद्रवा इति । व्यक्तिनिषेधो यथा श्रादएव रोग्यादिनिषेधः। याज्ञवलक्यः । रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथेति । रोग्यादिशब्दस्य यौगिकत्वात् ।
प्रत्यक्षाविधिभेदाः। गुणनिषेधो यथा मरीचिः। कटुकानि च सर्वाणि विरसानि तथैव चति । क्रियानिषेधो यथा वृद्धमनुः । ऋतुकाले नियुक्तो वा नैव गच्छत्त्रियं व चिदिति । पुनः स्मार्त्तादिनिषेधी द्विविधः क्रत्वर्थः पुरुषार्थश्च । तत्रायो यथा उक्त एव चतुर्विधः। पुरुषार्थो पि जातिद्रव्यगुणक्रियानिषेधभेदेन चतुर्विधः । तत्र पुरुषार्थो जातिनिषेधो यथा मसूरादिनिषेधः। यथा हि भोजना- श्रितं प्राङ्मुखत्वं विधीयते न भोजनं एवमत्रापि भक्षणाधित मसू- राधेव निषिध्यते न भक्षणम् । पुरुषार्थो द्रव्यनिषेधो यथा । उच्छिष्टं न भक्षयदिति । उच्छिष्टशब्दस्य यौगिकत्वेन द्रव्य- वाचित्वात् । पुरुषार्थों गुणनिषेधो यथा । शुक्तं न भक्षयोदिति कालपरिवासजाम्लरसस्य शुक्तशब्दार्थ- त्वात् । पुरुषार्थस्तु क्रियानिषेधः स्मात्तॊ यथा मनुः । सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् बाह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इति । पुनः स्मार्लादिनिषेधो द्विविधः । अदृष्टार्थो दृष्टार्थश्च । पूर्वोदाहृतः सर्वो ऽप्यदृष्टार्थ एव । दृष्टार्थों यथा विवाहे अरोगिणीमि- स्यादिः । तदुक्तं विज्ञानेश्वरेण रोगिण्यादिषु तु दृष्टविरोध एवेति । क्रत्वर्थो ऽपि स्मार्त्तादिनिषेधो द्विविधः। पुरुषार्थमात्रविषय- कः क्रत्वर्थमात्रविषयकश्च । आद्यो यथा श्राद्धव्रतादौ मैथुनादि- निषेधः । द्वितीयो यथा श्राद्धे विहितस्यापि मांसस्य निषेधः। कलो अक्षता गोपशुश्चैव श्राद्धे मांस तथा मधु । देवराश्च सुतोत्पत्ति कलौ पञ्च विवर्जयेत् ॥ इति निगमः । तथा । शामित्रं चैव विप्राणामिति । पुरुषार्थस्तु स्मार्त्तादिनिषेध एकविध एव पुरुषार्थमानविषय- क इति । क्रत्वर्थमात्रविषयकस्तु नास्त्येवोदाहरणाभावात् । पुरुषार्थमात्रविषयकः पुरुषार्थनिषेधो द्विविधः । रागप्राप्तवि- षयकः विधिप्राप्तविषयकश्च । आद्यो यथोदाहृतो मानवःसुरानिषेधः । द्वितीयो यथा षष्ठे (अ०६ पा०१। अ०६)तस्या याव- मीमांसाबालप्रकाशे। क दुक्तमित्यधिकरणे स्त्रिया अध्ययननिषेध इति । प्रत्यक्षा निषेधः । श्रोतः सो ऽपि चतुर्विधः । जातिनिषेधो गुणनिषेधः क्रियानिषेधश्चेति । तत्र जातिनिषेधो यथा “तस्माद् बर्हिषि रजतं न देयामि"ति। व्यक्तिनिषेधः । श्रीतो यथा नासोमयाजी सन्नयेदिति असो- मयाजिपदस्य यौगिकत्वात् । कर्तृनिषेध एव चायं न क्रियानिषे. धः । तथात्वे विहितक्रियानिषेधात्तेनैव विकल्पसिद्धौ दशमे तदु समे ऽवनयोदिति प्रतिप्रसवबलेन विकल्पोक्तिरयुक्ता स्यादिति । गुणनिषेधः श्रीतो यथा । षष्ठे सप्तमपादे आधाने एका देया द्वादश देयाइत्यादिविधायाम्नातमपरिमितं देयमिति तत्र पूर्वपक्षि- तमयं पूर्वोक्तसर्वसंख्याप्रतिषेध इति स्थितोदाहरणं तु मृग्यम् । क्रियानिषेधः श्रीतो यथा। "नातिरात्रे षोडशिनं गृहाती"ति। पुनः श्रौतो निषेधो द्विविधः क्रत्वर्थः पुरुषार्थश्च । तत्र पू. र्वोदाहृतश्चतुर्विधो ऽपि क्रत्वर्थः । पुरुषार्थों ऽपि जातिद्रव्यगुण- क्रियानिषेधंभेदेन चतुर्विधः । तत्र पुरुषार्थों जातिनिषेधो यथा षष्ठे ऽजारभ्याम्नातः “न क- लजं भक्षयेन्न लशुनं न गृञ्जनमि"ति । अत्रापि जातिमात्रनिषेधो मसूरनिषेधोक्तयुक्त्या । द्रव्यनिषेधः प्रत्यक्षो यथा । न मलवद्वाससा सह सम्वदे- दि "ति । मलवद्वासः शब्दस्य यौगिकत्वात् । गुणनिषेधः पुरुषार्थः प्रत्यक्षो यथा । रजस्वलावतेषु न रव- घेण पानेण पिबेदिति परिमाणनिषेधः । पुरुषार्थः श्रोतः क्रियानिषेधो यथा “न हिं स्यात्सर्वाभूतानी"ति नटीकायां वार्तिककृतोक्तः । प्रत्यक्षश्च निषेधः सर्वोऽप्यदृष्टार्थ एव दृष्टार्थस्तु नास्त्येव । क्रत्वर्थश्च श्रौतो निषेधस्त्रिविधः पुरुषार्थमानविषयकः क्रत्व- थैमानविषयक उभयविषयश्च । आद्यो ऽपिद्विविधः रागप्राप्तविषयो विधिप्राप्तविषयश्च । तत्राद्यो यथा। स्युपायमांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ इति व्याकरणाधिकरणउक्तः। विधिप्राप्तपुरुषार्थमात्रविषयः त्वर्थो निषेधो यथा “दीक्षितो न ददाति न जुहोती"ति। तदेतद्दशमे उक्तम् । क्रत्वर्थमात्रविषयको यथोदाइतएव "नातिरात्रे षोडशिनं विधिनिषेधभेदाः। गृह्णाती"ति । ऋत्वर्थपुरुषार्थोभयविषयः क्रत्वर्थः श्रीतो निषेधो यथा । दर्शपूर्णमासाङ्गं “नानृतं वदेदि"ति । प्रतिषेधो ऽपि "व्रीहिभिर्यक्ष्य” इति सङ्कल्प्य यवैरीजानस्य य- त्तबीहिसङ्कल्परूपमनृतं क्रत्वर्थ प्रसज्येत तद्विषयो ऽपि भवति, भवति च पुरुषार्थरागप्राप्तानृतवदनविषये ऽपी त्युक्तं तृतीये। अक- मंतुसंयुक्तं सयोगानित्यानुवादः स्यादित्यत्र (अ० ३। पा०४।१० ४) पुरुषार्थस्तु श्रौतनिषेध एकविध एव पुरुषार्थमात्रविषय इति । क्रत्वर्थमानविषयकस्तु पुरुषार्थो निषेधो नास्त्येव उदाहरणासम्भ- वातू सहनारभ्याधीतो ऽपि न पुरुषार्थः फलकल्पनाप्रसङ्गात्।क्रत्व. र्थस्तु युक्तः, क्रत्वव्यभिचारिकत्वनिषेध्यद्वारा क्रतोरुपस्थितेः। पुरुषार्थमानविषयकः पुरुषार्थः श्रौतनिषेधो ऽपि द्विविधः। रागप्राप्तविषयो विधिप्राप्तविषयश्च । आद्यो यथा “न हिंस्यात्सर्वाभूतानी"ति । तथा षष्ठनवमयो"ने कलशं भक्षयेत्” । तस्माद्यूपो नोपस्पृश्य इत्येतौ रागप्राप्तकलाभक्ष- णयूपीपस्पर्शननिषेधौ पुरुषार्थावित्युक्तम् । द्वितीयो यथा असोमयाजिनः सान्नाय्यनिषेधः सो ऽपि कर्तृ- निषेधेन फलितः। पुनरपि प्रतिषेधः षोढा । सामान्यप्रतिषेधो, विशेषप्रतिषेधः, प्रतिप्रसवरूपः प्रतिषेधो, अभ्यनुज्ञारूपः प्रतिषेधः, उपसंहाररूपः प्रतिषेधः, व्यवस्थारूपः प्रतिषेधश्चति । तत्राद्यो यथा “न हिंस्यात्सर्वाभूतानी"ति । द्वितीयो यथा "ब्राह्मणं न हन्यादिति । तृतीयो यथा न हिंस्यादित्यस्य गां न हन्यादित्यस्य वा गौरनु- बन्ध्य इति बाधे प्रसक्ते पुनः कलौ प्रतिप्रसवो ऽक्षतागो पशुश्चेति । अभ्यनुज्ञारूप: प्रतिषेधो यथा । एष पन्था एतत्कर्मेत्यैतरेये ऽपि द्वितीयारण्य- के तस्मात्कालएव दद्यात्काले न दद्यादिति । अत्र काले दारिट्रा- घवस्थारूपे न दयादिति न दाने दोषः प्रतिपाद्यते न हि भोजनमात्र- पर्याप्तवतो ऽप्यतिथ्याद्यागमने तस्मै तद्दत्वा खयमनशनं कुर्वतोऽपि दोषो युज्यते तथात्वे। सक्तुप्रस्थस्य वो विप्रा न यज्ञः सहशो मतः । इत्याधुपाख्यानविरोधात् । तस्मात्काले न दद्यादिद्यभ्यनुस- वेति तत्राददत ईषद्दोष इति ।
मीमांसाबालप्रकाशे। उपसंहाररूपः प्रतिषेधो यथा । मृतानुगमने नास्ति ब्राह्मण्या ब्रह्मशासनादिति सामान्य- निषेधः। पृथक् चितिं समारुह्य न विप्रा गन्तुमर्हतीत्यनेन विशेषे उप- संहियते । त्वर्थोदाहरणं तु हेमाद्री पैठीनसिः। वृन्ताकनालिकापौतीककुसुम्भाश्मन्तकाश्चेति शाकानामभक्ष्या इति । तदिदं वृन्ताकसामान्यनिषेधकम् । कण्डूरं श्वतवृन्ताकं कुष्माण्डं च विवर्जयेदिति देवलवचनेन विशेष उपसंहियते । व्यवस्थितः प्रतिषेधो ऽपि सप्तधा। देशतो व्यवस्थितः, कालतो व्यवखिता, कर्तृतो व्यवस्थितः, कर्मतो व्यवसितो, निमित्ततो व्यव- सितः, संस्कार्यतो व्यवखितः, फलतो व्यवसितश्चेति । तत्र देशतो व्यवस्थितो निषेधो यथा। कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति के चन । ये ऽपीच्छन्ति न तेषामपीष्टो विन्ध्यस्य दक्षिणे॥ इति । त्रिकाण्डमण्डने । कालतो व्यवस्थितो निषेधो यथा। सायम्प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तरा भोजनं कुर्यादिति ॥ कर्तृतो व्यवस्थितो निषेधो यथा नासोमयाजी सन्नयेदिति। कर्मतो व्यवस्थितो निषेधो यथा ।कातीयसूले। प्रजाकामस्य नवसप्तदशाख्यो तिरानो नाम प्रथमः। ज्यष्ठस्य ज्यैष्ठिनेयस्य विषुवानाम द्वितीयः। भ्रातृव्यवतो गौ म तृतीयः । वर्गकामस्यामयाविनो वा आयुर्नाम चतुर्थः । ऋद्धिकामस्य ज्योतिष्टोमातिरात्रो नाम पञ्चमः । पशुकामस्य विश्वजिदतिरानो नाम षष्ठः ॥ . ब्रह्मवर्चसकामस्य त्रिवृदतिरानो नाम सप्तमः। वीर्यकामस्य पञ्चदशातिरात्रो नामाष्टमः ॥ अन्नाद्यकामस्य सप्तदशातिरावो नाम नवमः । प्रतिष्ठाकामस्य एकविंशातिरात्रो नाम दशमः। अप्तोर्यामातिरात्रो नामैकादशः। अभिजिदतिरात्रो नाम भ्रातृव्यवतो द्वादशः। सर्वस्तोमातिरात्रो नाम बुभूषतस्त्रयोदश इति । है .
। विधिनिषेधभेदाः। त्रयोदशातिरात्रान् वक्ष्यमाणांस्त्रयोदशातिरात्राइत्युपक्रम तेषां चत्वारो 5षोडशिकाःप्रथमा इति सूत्रेण चतुर्वेव व्यवस्थितः बोडशिनिषेधः कृत इति । निमित्ततो व्यवस्थितो निषेधो यथा । स्मातकर्मपरित्यागो राहोरन्यत्र सूतकइति ॥ राहोः राड्डसूतकादन्यत्रान्यसूतके स्मार्तकर्मपरित्याग इत्यप्य- र्थाश्रयणात् । नन्वस्यार्थान्तरं पूर्वमुक्तम् । सत्यम् । तथाप्यर्थद्वयवो- घकस्मृत्यन्तरगतवाक्यद्वयबलेन तात्पर्यग्रहादस्योभयार्थत्वाविरोधा- हेमाद्रिणा तथा व्याख्यातम् । संस्कार्थतो व्यवस्थितो निषेधो यथा । आश्वलायनसूत्रे हो- ज्यद्धर्मेषु परिस्तीति सर्वत्र परिस्तरणं विधाय कृताकृतमाज्यहोमेषु परिस्तरणमित्यकृतशब्देन निषेधो ऽन्यत्र व्यवस्थयोक्तः। फलतो व्यवस्थितो निषेधो यथा । “यो ब्राह्मणायावगुरेत्तं श- तेन यातयेद्यो निहनेत्सहस्रेण यो लोहितं कुर्याद्यावतः प्रस्कन्ध पां- सून्सङ्ग्रणीयात्तावतः सम्वत्सरान्सुवर्ग लोकं न प्रजानीयात्तस्मात्र ब्राह्मणायावगुरेन हन्यान लोहितं कुर्यादि"ति । निषेध्यफलान्येव हि निषेधफलानि तेषु चात्र निषेधा व्यवस्थिताः । षड्विधो ऽपि चाय सामान्यादिनिषेधः श्रौतस्मादिभे- देन प्रत्यक्षकल्प्यभेदभिन्नः । तत्र तत्रास्माभिर्यथासम्भवं श्रौतस्मा- तौदाहरणान्युक्तानि । तथा त्वर्थपुरुषार्थभेदयोरपि सामान्या- विविधनिषेधेषु सम्भवाद्यथासम्भवं क्रत्वर्थपुरुषायादाहरणान्या- प्यस्माभिः क चित्कानि चिदुक्तानि इतराण्यपि मृग्याणि । यो पि श्रौतः स्मातो वा क्रत्वर्थक्रियायाः प्रतिषेध इति प्र- तिषेधभेदः पूर्वमुक्तः सो ऽपि क्रत्वर्थक्रियाणां षोडशविधत्वात्षोड- शविधः । तथा हि प्रकृती विकृतौ अप्रकृतिविकल्यात्मके च कर्मणि स- मानविधानो निषेधो यथा। शूद्रानीतैः क्रयकीतैः कर्म कुर्वन्पतत्यध इति सर्वत्रोपदिष्टकु- शेषु निषेधः । तथा आरादुपकारकक्रियानिषेधः सन्निपत्त्योपकारक- क्रियानिषेधश्च । तत्राद्यो ऽपि त्रिविधः । प्रकृतिगतो विकृतिगतो पूर्व- कर्मगतश्च। तनाद्यो यथा "त प्रथमग्रशे प्रवृज्यादिति । विकातिगतोऽप्रिद्विविधो ऽतिदिष्ट-विषय उपदिष्टविषयश्च ।
मीमांसाबालप्रकाशे। आद्यो यथा न तो पशौ करोतीत्याज्यभागनिषेधः । वैकृतोपदिष्टारादुपकारक विषयो निषधी यथा । कातीयसूत्रे अग्नीषोमीये पशौ "वाहा देवेभ्यः" "देवेभ्यः स्वाहा” इतिमन्त्राभ्यां परिपशव्ये आहुती आरादुपकारिके सज्ञपनपूर्वापरकालयोर्विधाय न चैते जुहोतीतिनिषिद्ध। अपूर्वकर्मण्युपदिष्टारादुपकारकक्रियानिषेधो यथा दाशामि- कः अग्न्याधेये वारवन्तीयादिसामगानं निषिध्यते " न ब्रह्मा सा- मानि गायती"ति। अत्र ब्रह्मणःसामगानस्याप्राप्तेरनुवादमात्रत्वात्सा- मगानानिषेधान्नित्यं सामगानमित्याशझ्यानुवादमात्रस्यानर्थक्या- सामगाननिषेध एवायं ब्रह्मशब्दस्तु ब्रह्मणपरो ऽनुवाद इत्युक्तम् दशमे । सन्निपत्योपकारकक्रियानिषेधो ऽपि त्रिविधः । प्रकृतिगतो विकृतिगतो प्रकृतिविकृत्यात्मकर्मगतश्च । तत्र प्रकृतिगतसन्निपातिक्रियानिषेधो ऽपि द्विविधः। अष्टार्थविषयो दृष्टार्थविषयश्च । दृष्टार्थविषयोऽपि द्विविधः। प्रतिपत्तिभिन्नद्रव्यसंस्कारविष- यः प्रतिपत्तिविषयश्च । एवमेवापूर्वकर्मगतो ऽपि त्रिविधः। विकृतिगतो ऽप्येवमेव- त्रिविधः । स तु निविधो ऽपि विकृतिगतो निषेधः पुनर्द्विविधः । उप- दिष्टविषयो ऽतिदिष्टविषयश्च । तदेवं द्वादशनिषेधभेदाः सिद्धाः । तेषां तु द्वादशानामुदाहरणानि द्वादशोच्यन्ते । तत्र प्रकृतिगतसन्निपात्यदृष्टार्थक्रियानिषेधो यथा । मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च । नोच्छिष्टो भवति द्विज इति । सोमे पुंशुद्ध्यर्थत्वेनादृष्टार्थ- स्य सन्निपातिन आचमनस्य निषेधः। प्रकृतिगतप्रतिपत्तिव्यातरिक्तदृष्टार्थसन्निपातिक्रियानिषेधो य- था । अग्निहोत्रहोमे हुते ऽग्निमुपतिष्ठतइति विधाय तस्मानोपतिष्ठते- ति शतपथे दृष्टार्थाग्निसंस्कारकसंन्निपात्युपस्थाननिषेधः। प्रकृतिगतप्रतिपत्तिनिषेधो यथा अग्निहोत्रहवण्याश्च लेह इति कलौ निषेधः। अप्रकृतिविकृत्यात्मककर्मगतसन्निपात्यदृष्टार्थक्रियानिषेधो य- था कातीये ऋतुनक्षत्रसम्भारसामवपनचातुष्प्राश्यजागरणइध्मपू- (धान्वारम्भणसार्पराज्ञीन वा कुर्यादिति वपननिषेध आधाने ।
विधिनिषेधभेदाः। अप्रकृतिविकृत्यात्मककर्मगतप्रतिपत्तिव्यतिरिक्तदृष्टार्थसन्निपा- तिक्रियानिषेधो यथा अनन्तरोक्तकातीयसूत्रगतएव रात्रौ पदार्थरक्ष- णार्थत्वेन दृष्टार्थस्य सन्निपातिनो जागरणस्य निषेधः । अप्रकृतिविकृत्यात्मकर्मगतप्रतिपत्तिनिषेधो यथा । आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्याधानकर्तृसंस्कारास्त- च्छरीरप्रतिपत्तिरूपो विहितस्तस्यात्महनने निषेधो भविष्योत्तरे। खच्छया मरणं विप्रादित्यादिनात्मघात्यादीनुक्त्वा न तेषां मानसंस्काराविति संस्कारशब्देन दाहो निषिद्धः। विकृतिगतोपदिष्टादृष्टार्थसन्निपातिक्रियानिषेधो यथा तिराने षोडशिग्रहनिषेधः। पशुसोमाधिकरणे क्रमसमुच्चयदर्शनोपपत्त्यै ग्रहणानामदृष्टा- र्थतोक्तः । तथा शतपथे ऽग्नीषोमीये पशौ तदाहुनोंपकुर्यान्नाग्नि मन्थे- दित्युपाकरणनिषेधः। तथा कल्पसूत्राधिकरणे । अन्यार्थैर्ब्राह्मणैश्चान्यान् ज्ञापयन्त्य- यनिर्णयानिति वार्तिकव्याख्याने न्यायसुधाकृतोक्तं प्राश्य घृतं शसे- धथा हवा इदमनो वा रथो वा तो वर्तते एवं हैवाक्तो वर्तत इति घृतप्राशनविधिशेषभूतब्राह्मणज्ञापितः आचमननिषेध आश्वलायनसूत्रे । नाचामेद्विज्ञायते देवरथो षा एष यद्धोता नाक्षमद्भिः करवाणीति । सो ऽयं निषेधः आचान्तेन कर्त्तव्यमित्यनेन क्षुतादिनिमित्तक- स्येवोच्छिष्टनिमित्तकस्यापि विहितस्य । स च विधिरतिदिष्टेष्वप्यङ्गेषु शस्त्रादिषु उपदेशत एव प्रवर्त्तते न द्विरुक्ततान्यायादतिदेशतः कर्त्तव्यत्वेनोहिश्याचमनविधानात् क- तव्यतायाश्चातिदिष्टेष्वप्योपदेशिकत्वात् । अन्यथा चैक एवाचम- नविधिर्विकृती प्रधानांशे औपदोशिको ऽङ्गाशे त्वातिदोशक इति वै. रुप्यमापद्यतति। विकृतिगतदृष्टार्थप्रतिपत्तिव्यतिरिक्तसन्निपातिक्रियानिषेधो य- था शतपथीयः पूर्वोक्तो ऽग्नीषोमीयपशौ विहितस्याग्निमन्थनस्य निषे- धो नानिं मन्थेदिति । विकृतिगतोपदिष्टप्रतिपत्तिनिषेधो यथा भागावदानानि क्लोमं ब्रह्मणे प्लीहं यजमानाय पुरीततमध्वर्यवइत्यादीनि तान्यनारभ्य वि- हितानि अग्नीषोमीयमायातानीति कर्पोक्तः। पुनस्तेनोकं शाखान्तरे अग्नीषोमीये प्रतिषेधाद्विकारपशनुपग- मीमांसाबालप्रकाशे। च्छन्तीति । तेन निरूढे उपदेशादेव प्राप्तानि तेषां निरूढ एव निषेधः । शतपथे क्लोमप्लीहाध्यूनीपुरीततं चेच्छन्निति । अत एव तत्र विकल्प इति । विकृतिगतातिदिष्टादृष्टार्थसन्निपातिक्रियानिषेधो यथा । वाजसनेयिमते । पूर्णमासविकृतित्वेन समतेषु दर्विहोमरूपेष्वपि यम्बक- होमेषु शतपथे श्रयते ते वा अक्ताः स्युः तस्मादनक्ता एव स्युरिति च सोऽयं प्राकृतस्याञ्जनस्य निषेधः । अत एव तन्मूलकं कात्याय- नसूत्रम् अक्तान्वेति। अतिदिष्टइष्टार्थसन्निपातिनिषेधो यथा । पृयति वा एतहचो ऽक्षरं यदेनदूहति तस्माहचं नोहेदित्यूहनिषेधात्प्राकृतयाज्यानुवा- क्याघृनिषेधः। विकृतिगतातिदिष्टप्रतिपत्तिनिषेधो यथा पित्र्यायां शतपथे तामुहूयावेव जिघ्रन्ति न प्राश्नन्तीति मन्थस्येडोपह्वानानन्तरमवघ्रा- णं विधाय प्राशनं निषिद्धम् । अत एव कर्केणोक्तं न प्राश्नन्तीति प्रतिषिध्य प्रतिप्रसवः प्राशितव्यं स्वेव धयं मन्यामहइतीति । न स्वेत- धुक्तम् । न गिरागिरेति भूयादितिवनिषेधानुवादस्यावघ्राणस्य प्रा- शनस्थानापत्त्यर्थत्वात् । निषेधानुवादं बिनापि वा स्थानापत्तावव- घ्राणप्राशनविधिभ्यामेव विकल्पसिद्धी निषेधययन तस्यावया- णपक्षे.नित्यानुवादमात्रत्वात् । अतोऽन्यदुदाहरणं मृग्यम् । ननु यथा पूर्वविधिनियमविधिः परिसंख्याविधिरिति विधि- वैविध्यमुक्तमेषमपूर्वनिषेधो, नियमरूपो निषेधः, परिसंख्यारूपो नि- षेध, इति निषेधविध्यं कस्मानोक्तम् । न चोदाहरणासम्भवात्रोक्तमिति वाच्यम् । उदाहरणोपर्व- तेः। तथा हि ।अपूर्वनिषेधोदाहरणं ताव"मातिराषोडशिनं गृहा- ति" "दीक्षितो न जुहोती"त्यादि । अत्र यद्यपि षोडशिग्रहणादिखरूपं विध्यन्तरेण प्राप्तं तथाप्यनिष्टसाधनत्वमपूर्व बोधयन्त एते पूर्वनिषे- था स्युः । यथामिहोत्रस्योत्पतिविधितः खरूपप्राप्तावपि तस्येष्टमा- धनत्वमपूर्व बोधयन्नाग्निहोत्रं जुहुयात्स्वर्गकाम इति फलविधिरपूर्व- विधिरिति । नियमरूपनिषेधोदाहरणं तु । अभिषवणफलके प्रकृत्य श्रुतं न सन्तृणत्ति असन्तृणे हि हनू इति । अन्न हि सन्तर्दनासन्तन- योरत्यतरेणाप्यभिषवसिद्धराक्षेपत उभयोः पाक्षिकप्राप्ती सन्तर्द- विधिनिषेधभेदाः। ननिषेधो सन्तदनं नियमयस्तदप्राप्तिपक्षं पूरयनियमनिषेधः स्यात् । परिसंख्यारूपनिषेधोदाहरणं तु वामनपुराणे । नन्दासु नाभ्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम्। पूर्णासु पोषित्परिवर्जनीया भद्रासु सर्वाणि समारभेत ॥ इति सामान्यनिषेधे ऽपि विशेषनिषेधः। बृहस्पतिः। अमावास्येन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च । नरश्चण्डालयोनी स्यात्तैलस्त्रीमांससेवनादिति ॥ तस्मा दपूर्वनिषे- धनियमपरिसंख्यारूपनिषेधत्रैविध्यमपि सम्भवति तत्किमिति नो- कमिति चेत् । उच्यते । परिसंख्यासूत्रे सर्वत्र हि परिसंख्या- शब्दादेवकाराद्वा विना न श्रुत्या परिसंख्यानियमो वा बोध्यत इति बार्तिकम्। तत्र वेदादौ परिसंख्यति कुत्राप्यभावावर्जनबुद्धिः परिसं- ज्या तद्वाचकः शब्दो नभिति व्याख्यातं न्यायसुधायाम् । ततश्च निवृत्त्यर्थों निषेधः सर्वोऽपिीतपरिसंख्यात्वेनैवोका तेन प्रवर्तकयोर्विध्योरेवापूर्वविधित्वनियमविधित्वे समते इति न निषेधस्यापूर्वविध्यादिवद्भेदत्रयमुक्तमिति । नन्वेवमपि निषेधस्य कथं परिसंख्यात्वम् । तत्र चान्यत्र च प्राप्त परिसंख्येति कीर्त्यतइति परिसंख्यालक्षणे परिसंख्याशास्त्रविष- स्य तदविषयस्य च प्राप्तौ तदविषयव्यावर्तकं शास्त्रं परिसंख्योति प- रिसंख्यालक्षणोक्तः। निषेधे च स्वविषयस्यैव निषेध्यस्य व्यावृत्तरिति चेतू न । निषेधस्यापि परिसंख्यात्वप्रतिपादकवार्तिकानुरोधेन तत्र चान्यन चेति वार्तिकस्यैवं तात्पर्यमुनीयते यस्य कस्यापि कथं चित्प्राप्तस्य प्राप्स्यमानस्य वा व्यावृत्तिफलकं यच्छास्त्रं सा परिसं- ख्यति । तेन न कश्चिद्दोष इति । विधिःप्रतिषेधश्च पुनः प्रत्येकं पञ्चविधः । लिङ्लोटकृत्यक- स्यार्थपञ्चमलकारभेदात् । पञ्चविधो ऽपि विधिः पुनर्द्विविधः श्रौतः स्मार्त्तश्च । एवं निषेधो ऽपि द्विविधः श्रोतः स्मार्त्तश्च । तत्र श्रीतो लिङ् यथा “ज्योतिष्टोमेन स्वर्गकामो यजेते"ति । श्रीतो लोद "यथा एकथास्य त्वचमाछयतादिति । अयं च मन्त्रगतो ऽपि लोट विधौ ज्ञेय एकेन प्रकारेण त्वगाच्छेदस्याप्राप्तेः। श्रतः कृत्यो यथा “स्वाध्यायो ऽध्यतव्य" इति । यद्यपि विधी मीमांसाबालप्रकाशे। कृत्यो न स्मर्यते तयापि प्राप्तविषयप्रवर्तनारूपप्रैषे स्मृतस्य तव्यादे- रप्राप्तविषयप्रवर्तनारूपो विधिलक्ष्यः । तदुक्तम् । प्रवर्तनस्मृतिः प्राप्त प्रैष इत्यभिधीयते । अप्राप्तप्रेषणं सर्व विधित्वं प्रतिपद्यते । इति ॥ विधौ कृत्यार्थतवैप्रत्ययाद्युदाहरणेषु तवैप्रत्ययो यथा । अ- न्वेतवै अन्वेतव्यम् । केन् अवगाहे । अवगाहितव्यम् । केन्यः । शु. श्रूषेण्यः । शुश्रूषितव्यः । त्वन् कर्व हविः कर्त्तव्यम् । एवं जा- तीयकाः। विधौ श्रोतः पञ्चमलकारो यथा समिधो यजतीत्यादि । पञ्चमत्वं च लेटो द्वेधा शेयम् । अच्प्रत्याहारे यद्यप्येकारः ष- ष्ठस्तथापि लकारानुबन्धकस्य लकारस्यामावादजनुबन्धकेषु लका- रेषु एकारानुबन्धकस्य लेटः पञ्चमत्वं लकारानुबन्धभूतेष्वक्षरेषु ए- कारस्य पश्चमत्वात् । यद्वा धातुसम्बन्धे प्रत्यया इति तृतीये धात्वधिकारे क्रियास- मभिहारे लोडिति लोटविहितः । ततच्छन्दसि लुङ्लङ्लिट्इति ल- कारत्रयं विहितं ततो लिङथै लडिति लेविहितः । अतस्तृतीयधात्वधिकारे लकारचतुष्टयादुत्तरं विहितत्वात्प- श्चमलकारो ऽयम् । दृष्टश्च विधानापेक्षः पूरणप्रत्ययः अथ“षष्ठी चि- तिं चिनुत"इत्यत्र । तदेतत्पञ्चमे प्रतिपादितमिति । श्रौतः प्रतिषेधे लिङ् यथा । न चतुस्विंशदिति बयादिति । श्रौतः प्रतिषेधे लोटे यथा । मृग्यम्।श्रीतः प्रतिषेधे कृत्यो यथा। "त- स्माद् बर्हिषि रजतं न देयमि"ति । श्रोतः प्रतिषेधे पञ्चमलकारो यथा। "न सन्तृणत्ति दीक्षितो न जुहोती"त्यादि ।श्रौतः प्रतिषेधे तवै- प्रत्ययो यथा “तस्माद्ब्राह्मणेन न म्लच्छितवै" इति । तदुक्तं व्याकर- णाधिकरणन्यायसुधायाम् । एवं केन् नावगाहे नावगाहितव्यमिति काशिकायाम् । एवं केन्यत्वनौ मृग्यौ । स्मार्तों विधौ लिङ् यथा मनुः । अग्निहोत्रं तु जुहुयादाद्यन्ते युनिशोः सदेति । स्मात्तॊ विधौ लाट् यथा । मृग्यम् । स्मात्तोंविधौ कृत्यो यथा । चरितव्यमता नित्यं प्रायश्चित्तं विशुद्धयइति । तवैप्रत्ययाधुदाहरणानि स्मृतिषु प्रायो नोपलभ्यन्ते ॥ स्मात्तों विधौ पञ्चमलकारो यथा। मनुः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते ननुः । प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ॥ इति । अत्न कर्त्तव्याविधातव्यामित्यर्थः।
64 । श्श्रुतिभेदनिरूपणम् । अनापि विधौ प्रतिषेधे वा क्रत्वर्थपुरुषार्थभेदसम्भवात्तदा- हरणान्यपि यथासम्भवं मृग्याणि एवमुत्तरत्रापि शेयम् । इति वि- धिनिषेधभेदाः। इतः परमभिधाध्यादयः श्रुतिभेदा उद्दिष्टास्तेषामपि भेदा इदानीमभिधीयन्ते। अभिधानीश्रुतिः पञ्चविधा धातुः, प्रातिपदिकं, कृदादिप्रत्यय, उपसर्गो, निपातश्चेति । धातुरपि द्विविधः। “भूवादयो धातव" इति विहितधातुसञ्चः "सनाद्यन्ता धातव" इति च । प्रादिपदिकमपि द्विविधम् । “अर्थवदधातुरप्रत्ययः प्रातिपदि- कमि"ति कृत्सझं “कृत्तद्धितसमासा"श्चेति च । प्रत्ययस्तु चतुर्विधः । सुप्तिङ्कत्तद्धितभेदात् । उपसर्गानपात- योस्तु वाचकत्वमित्येकः पक्षः।नटीकायां नो निवर्तनावाचित्वो- के पर्युदासे च नमो लक्षणोक्तेर्मुख्याभावे च गाव्यादीनामिव ल- श्रणानुपपत्तेः । तयो?तकत्वमित्यपरः पक्षः । आकृत्यधिकरणे यदर्थद्योतको तौ तु वाचकः स विचार्यतइत्युक्तः । द्योतकत्वपक्षे ऽपि द्योत्यस्य तदन्वयानुविधानात्तयोर्वाचक- कल्पनैवेति न श्रुतित्वाविघातः पदस्येव प्रकृतिप्रत्ययार्थयोरनन्वित- योरभिधानपक्षे ऽपि विनियोजकश्रुतित्वाविघातः । विनियोक्रीश्रुतिस्तु अष्टधा। विधिश्रुतिः परस्मैयदश्रुतिरात्मनेपदश्रुतिः सुबन्ततिङन्ता- धेकपदरूपा योपश्लेषलक्षणेति गीयते । एकप्रत्ययरूपा । कारकवि- भक्तिः। उपपदविभक्तिषु तादर्थ्यचतुर्थी । शेषषष्ठी चेति । तत्र विधिश्रुतिर्यथा । ग्रजेतेत्यादी सा स्वविषयीभूतां भा- चनामपुरुषार्थरूपं यागमुपेक्ष्य पुरुषार्थरूपे स्वर्गादौ भाव्ये वि- नियुक्त। परस्मैपदरूपा तु श्रुतिस्तृतीये "तथा कामो ऽर्थसंयोगादि" खाधिकरखे ( अ०३१पा० ८ अ०५१) सिद्धान्तसाधकतयोक्ता मि- जैः। मिनुयादिति परस्मैपदश्रुत्याध्वर्युव्यापारः परार्थः श्रूयते तया श्रुत्या विरोधाद्यदि कामयेत वय्कः पर्जन्यः स्यान्नीचैः सदा मि- नुयादिति तत्सामानाधिकरण्यं कामयतेर्बाध्यत इति । बात्मनेपदश्रुतिर्यथा ऽऽधीतेत्यात्मनेपदश्रुत्या धानसाध्या- निसाध्यकर्मफलानामाधानर्थता भवतीत्युक्तं षष्ठीप्रयोगे पुरुषश्रुते- रित्यधिकरणे तन्त्ररत्ने ऽन्यार्थेनाभिसम्बन्ध इतिसूत्रे । सौर्यादीनां ६ मीमांसाबालप्रकाशे। त्वाधानगतेनात्मनेपदेनाधानकर्तुरेव फलमित्यादिना सुबन्तात्मकै- कपदरूपा एकप्रत्ययरूपा च विनियोक्री क्रमेण बाध्यबाधकभावेनोक्त यथा । तथा पश्वङ्गमेकत्वं पदश्रुत्या प्रतीयते । समानप्रत्ययश्रुत्या बलीयस्या क्रियाङ्गतेति ॥ तिङन्तात्मकैकपदरूपा विनियोक्री श्रुतिर्यथा । यजेतेत्यादि- का श्रुतिर्भावनायां धात्वर्थस्य करणत्वं प्रतिपादयति । एकप्रत्यय. रूपा तु श्रुतिर्यथा पशुनोत प्रागुंक्ता सुप्पा, यजेतेति तिङ्पा च तया हि कर्बकत्वादिसंख्या भावनायां विनियुज्यते श्रुत्या । अत्र च तौतातितमते अभिहितान्वय उत्सर्गः । तदपवादस्त्वनेकार्थकप्रत्यये ककत्वविधिभ्यामन्विताया भावनायास्तिङि सुपिल पशुनेत्यादौ एकत्वलिङ्गाभ्यामन्वितस्य करणादिकारकस्य देवतातद्धिते च दे. वतया ऽन्वितस्य द्रव्यस्याभिधानाङ्गीकारात् । तदुक्तं तन्त्ररत्ने प- श्वेकत्वाधिकरणे (अ०४।पा० १।०५) किं चैकेनाभिधानेन युग- पदभिधीयमाने संख्या कारके मिथो ऽन्विते एवाभिधीयेते अन्यथा युगपदाभिधानायोगादक्षादिशब्देवदर्शनादतो ऽभिधानादेव कारक- तया प्रतीयमानस्यैकत्वस्य क्रियार्थत्वं श्रौतमवति । न्यायरत्नमालायां चाङ्गनिर्णये उक्तम् । तद्यत्रानेकार्थाभिधानमेकेन शब्देन युगपत् भवति विभक्त्येव लिङ्गसंख्याकारकाणां तत्र तेषामन्वितानामेवाभिधानम् । अनन्विता- नामनेकेषामर्थानांमेकेन शब्देन युगपदभिधानस्यैकशेषमन्तरेणासम्भ- वात् अक्षशब्देनेव विदेवनादीनाम् । अन्यथा गामानयोति वद्या कां चिद्वयक्तिमक्षमानयेति नियुक्तो विदेवनादीनामन्यतममानयेन सन्दिहीत सन्दिग्धे च किं परो ऽयं प्रयुक्त इति । तस्मादन्वि- ता ऽभिधानम् । तत्रापि प्रतीतिबलेन कारकं प्रधानम् लिङ्गसंख्ये गुणतः सुपि तिङयपि भावनाप्रधानं कर्तृसंख्यादिगुणभूतम् । देवतातद्धिते द्रव्यं प्रधानं देवतागुणभूतेत्यादि । तथा चोक्तमभियुक्तः । यदा कर्मादयो विभक्त्यर्थास्तदैकत्वादयो विशेषणत्वेनेति । तथा भावप्रधानमा- ख्यातमिति । अन्विताभिधानवादान्ते तु मत्वर्थीयान्तेष्वप्यन्विता- भिधानमुक्तम् ।मत्वर्थीया अपि विशिष्टमेवाभिद्धति न हि तेषां वा- च्यान्तरं निरूप्यते हिरण्यमालिन ऋत्विज इत्यत्र विशेषणभूताहिर- ज्यमाला तावत्प्रकृत्यैवोक्ता ऋत्विजो ऽपि विशेष्याः स्वशब्देन मतु- तु किमभिदध्यादन्यद्विशिष्टादिति । तत्रैव पदे ऽप्यन्विताभिधानं न श्रुतिभेदनिरूपणम् । वेति मतद्वयमुक्तम् । तत्र हि कथं तर्हि भाग्यकारेण प्रातिपदिका- दुच्चरन्ती द्वितीयाविभक्तिः प्रातिपदिकार्थों विशेषक इत्याहेति प्र. त्ययस्यान्विताभिधायित्वमुच्यतइति गुरुमतेन शङ्कित्वाद् द्वेधा समाहितम्। भवत्पक्षे वा कथं सर्वशब्दानामन्विताभिधायित्वे सति विशे- षेण प्रत्ययस्य तत्कथ्यते तेन ग्रन्थानुगुण्याच्छब्दान्तराणां स्वरूपमा- प्राभिधायित्वं प्रत्ययस्य त्वन्विताभिधायित्वमिति व्यवस्थाप्यम् । यद्वानेनाप्यन्विताभिधायित्वं प्रत्ययस्य नोच्यते किं तर्हि प्र. त्ययेन स्वार्थो ऽभिधीयमानः प्रथमावगतप्रकृत्यर्थानुरक्त एवावगम्य- तइति तत्रान्वयव्यतिरेकाभ्यां प्रकृतेःप्रत्ययस्य च स्वखार्थेऽनुरागांशे च प्रकृतिप्रत्ययसमभिव्याहारस्यैव पदान्तरसमाभिव्याहारस्यैव प- दार्थानुरागे निमित्तत्वं विविच्यते । अतो ऽनुरागांशस्य समाभव्या- हारादेव प्रतीतिसिद्धेन प्रत्ययस्य तत्र शक्तिः। स तु स्वार्थमात्रमे- वाभिधत्ते तदुक्तं शाब्दे । प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थ सहेति यत् । भेदेनैवाभिधाने ऽपि प्राधान्येनैतदुच्यते ॥ नान्यावयवशक्तिभ्यां शक्तिः का चित्पदाश्रया। विद्यते यत एकस्माद्विशिष्टार्थगतिर्भवेत् ॥ नित्यं विशिष्ट एवार्थे प्रत्ययो यत्प्रवर्तते । तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणादिति ॥ अत्र द्वितीयपक्ष एव पारमार्थिक इत्येवं परतया शब्दान्तरा- धिकरणसिद्धान्तवार्तिकं भट्टसोमेश्वरेण व्याख्यातम् । यस्मात्तु प्रकृतिप्रत्यययोः स्वार्थाभिधाने स्मृतराचाराच नित्यं विवक्षितक्रम- त्वेन पूर्वप्रयुक्त प्रकृत्यर्थव्यापृतेषु प्रतिपत्तृषु प्रत्ययाः सनिपतन्तस्त- स्कृतानुबन्धमेव स्वार्थ वदान्त तस्मान्न कदा चित्प्रत्ययार्थः शुद्धो लभ्यते यथोक्तं प्रातिपदिकादुच्चरन्ती द्वितीया विभक्तिः प्रातिप- दिकार्थों विशेषक इत्याहेतीति सो ऽयं सुबन्ततिङन्तपदयोरुक्तः प्र- कारः । पाचकादिकृदन्ते ऽप्युक्तः। पाकं तु पचिरेवाह कर्तारं प्रत्ययो ऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्य चित् ॥ (१) अयमेव प्रकारो देवतातद्धिते मत्वर्थीयादावपि च सम्भवति। अतः पदश्रुतेर्बलीयस्या विधिश्रुत्या हि भावना अवरुद्धा न यागा- दिभाव्यमालम्बितुंक्षमेत्यादिः।वर्गकामाधिकरणादौ मिश्रादीनां पदे (१) शिनाभिधीयतइति पाठान्तरम् ।
मीमांसाबालनकाशे। श्रुतित्वव्यवहारो नान्विताभिधाननिबन्धनः । किं तु विशिष्टाभि-. धानमात्रनिबन्धनः । न च विशेषणाभिधानं विना कथं विशिष्टा- भिधानमिनि वाच्यम् । विशिष्टग्रहणं नेष्टमगृहीतविशेषणम् । अभिधानभिधाने तु न केन चिदिहाधिते ॥ इतिकर्त्रधिकरणवार्तिकोक्तरीत्या तदुपपत्तेः । ननु यजेत प- शुनेत्यादिपदं विशिष्टाभिधानमात्राञ्चेच्छतिस्ततः समाख्याया अपि तत्तौल्याच्छृतित्वापत्तिस्तेन तदधिकरणे तस्याः श्रुतित्वमाशय पाक तु पचिरवाहेति हरिकारिकोपन्यासेनान्वयानभिधानाच्छतित्वा. भावोक्तिरयुक्ता सत्यमभ्युच्चययुक्तिरवैषा तत्रोक्ता यात्वितः परंतत्र युक्तिरुक्ता अथापि समाख्या सम्बन्धमभिदध्यात्तथापि न सातत्र प्र- माणमिति सैव श्रुतित्वनिरासहेतुर्मुख्यः । किं च पारार्थ्यसूत्रे ऽभि- हितं न श्रुत्यादयः पारार्थ्यमभिदधतीति ब्रूमः किन्तर्हि विधिसहि- ताः पारार्थ्य बोधयन्तीत्यादि तेन विध्यभावादपि न समा- ख्यायाः श्रुतित्वमिति समञ्जसं सर्वम् । एवं प्रत्ययश्रुतिः पदश्रुति- श्व निरूपिता। अथ कारकविभक्तिरूपा श्रुतिनिरूप्यते । ननु सुपतिप्रत्यययोः कारकविभक्तेश्च को भेदो येन सा पृथङ् निरूप्यते उच्यते। सुबादिश्रुतिः खोक्तानामेवार्थानामन्योन्यं विनियोत्क्री। कारकविभक्तिस्तु प्रातिपदिकार्थक्रिययोरस्वार्थयोरपि विनियोत्की- तिभेदः । तत्र कारकविभक्तिरनेकधा। तत्र “कर्मणि द्वितीवे"त्यनुशिष्टा व्रीहीनवहन्तीत्यादिः कर्मणि द्वितीया "तृतीया च होश्छन्दसी"त्यनु- शिष्टा यवाग्वा जुहोतीत्यादिः कर्मणि तृतीया। “गत्यर्थकर्मणि द्विती- याचतुर्थी चेष्टायामनध्वनी"त्यनुशिष्टा ग्रामाय यातीत्यादिः कर्मणि चतुर्थी । “कर्तृकरणयो स्तृतीये"त्युदिता “ सोमेन यजेत णेन निष्कारणः षडङ्गो वेदो ऽध्येयो शेयश्चे" त्यादि करणे कर्तरि च तृतीया। "सज्ञो ऽन्यतरस्यां कर्मणी"त्युदिता पित्रा पितरं वा सञ्जानीते इत्यादिः कर्मणि तृतीया । “चतुर्थीसम्प्रदान" इत्युक्त्वा “मैत्रावरुणाय दण्डं प्रयच्छती"त्यादिः सम्प्रदाने चतुर्थी। "क्रियार्थोपपदस्य च कर्मणि स्थानिन" इत्युक्ता फलेभ्यो याती- त्यादिः कर्मणि चतुर्थी "मन्यकर्मण्यनादरे विभाषाऽप्राणिधि"त्युक्ता ब्राह्म- श्रुतिभेदानिरूपणम् । तत्रैव सैव। “अपादाने पञ्चमी”ति विहिताग्नेस्तृणान्यपचिनोतीत्यादि- रपादाने पञ्चमी "करणे च स्तोकार्थकृच्छकतिपयस्यासत्ववचनस्ये"- ति विहिता स्तोकेन स्तोकाद्वा मुक्त इत्यादिः करणे पञ्चमी। "दिवस्तदर्थस्ये"ति चोदिता शतस्य दीव्यतीत्या- दि"र्विभाषोपसर्ग"इति च चोदिता शतस्य प्रतिदीव्यतीत्यादिः। "प्रे- प्यवोर्हविषो देवतासम्प्रदान” इति च विहिता “अग्नये छागस्य हविषो वपाया मेदसः प्रेष्यानुबही"ति चेत्यादिर्यजेश्च करणे इति च विहिता आज्यस्य यजतइत्यादिः। करणे षष्ठी। “चतुर्थ्यर्थे बहुलं छन्दसी"ति चोदिता “पुरुष- मृगश्चन्द्रमसे गोधाकालकादाघाटस्ते वनस्पतीनामि"त्यादिः । सम्प्रदाने षष्ठी। "कृत्वार्थप्रयोगे कालेऽधिकरण"इति चोदिता पञ्चकृत्वो द्वि- वाह्रो भुङ्क्ते इत्यादिरधिकरणे षष्ठी । "कर्तृकर्मणोः कृती"ति चोदिता कृष्णस्य कृतिः जगतः कर्ते- त्यादिः कर्तरि कर्मणि च षष्ठी। "उभयप्राप्ती कर्मणी"ति चोदिता चित्रमगोपेन गवां दोह इत्यादिः कर्मणि षष्ठी। "सप्तम्यधिकरणे चे"त्युपदिष्टा । “समे दर्शपूर्णमासाश्यां यजे. ते"त्यादिरधिकरणे सप्तमी । इति कारकविभक्तिरूपा श्रुतिनिरूपिता। तादर्थ्यचतुर्थी यथा सर्वेभ्यो ज्योतिष्टोमः सर्वेभ्यो दर्शपूर्णमासा- वित्यादिः। शेषषष्ठी द्विविधा गुणत्वे प्राधान्ये च । तत्राद्या "यथाज्य- स्यैव तावुपांशु पौर्णमास्यां यजनि"त्यादिः । प्राधान्ये षष्ठी यथा “तिन एव साह्नस्योपसदो द्वादशाहीन. स्ये"त्यादिः । भट्टसोमेश्वरमते त्वन्या अपि विनियोक्यः श्रुतयः । इतिकरणः इषे त्वति शाखां छिनत्तीत्यादिः । तथा धातुस- म्बन्धविहितो णमुल् अभिक्रामं जुहोतीत्यादिः । तादृश एव क्त्वाप्रत्ययो ऽपि तत्रापि द्वयी गतिः पूर्वस्योत्तरा- ङ्गत्वमुतरस्य चा पूर्वाङ्गत्वम् । तत्राद्योदाहरणं यथा । मूलतः शाखां परिवास्योपवेषकरोतीति । उपवेशाख्यानाङ्गं परिवासनम् । द्वितीयोदाहरणं यथा। "वाजपेयेनेष्वा बृहस्पतिसवेन यजेते"ति। एवं तदादेशो ल्यबपि। तस्याघारमाघार्येत्यादिः । एवं "तुमुन्- ण्वुलौ क्रियायां क्रियार्थायां" "भाववचयाश्च” “अम् कर्मणि चे"ति मीमांसाबालप्रकाशे। विहितास्तुमुनादयः । एवं “संख्यायाः क्रियाश्यावृत्तिगणने कृत्वसुर्जि"ति विहितः कृत्वसुच् । पर्व "द्वित्रिचतुर्यःसुजि"ति सुच्प्रत्ययो ऽपि “वेदिरसि बहिषे त्वे"ति त्रिर्वोद प्रोक्षतीत्यादिः । एवं लट् “आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावा- रप्स्यमान” इति क्रियार्थायां क्रियायामुपपदे ऽनुशिष्टेन लटा श्रुत्यैवा- रम्भाङ्गत्वादिष्टेः। पार्थसारथिमते तु इतिकरणादिसप्तसु वाक्यायो विनियोगो न श्रीतः तत्रतिकरणस्य तावत् तथाह्वानमपीति चेदित्यधिकरणे (अ० ३।पा०२।१० ३) सिद्धान्ते श्रुतित्वं निरस्न शास्त्रदीपिकाया- म् । क्त्वाप्रत्यये तु वाक्यीयमङ्गत्वमुक्तं चतुर्थे तन्त्ररले तच्चाफलं सफलवाजययसमाभिव्याहृतं वाक्याद्वाजपेयाङ्गमिति । तथा चतुर्थएव उपवेशाधिकरणउक्तम् । न च परिवास्यति क्त्वाप्रत्ययादुपवेषकरणार्थ परिवासनं वाक्यसंयोगाद् बलीयस्या द्वि- तीययेत्यादि । यत्तु धातुसम्बन्धविहितश्च क्त्वाप्रत्ययो वाजपेयवृहस्पतिस- घयोरेव सम्बन्धमाचष्टइति तत्परमतं क्रियान्वयस्य वाक्यार्थत्वोपप- तौवाच्यत्वायोगात्। “धातुसम्बन्धे प्रत्यया" इति तु साधुत्वान्वाख्या- नमात्रार्थ क्रियान्तरसमाभिव्याहारएव णमुलादेः साधुता यथा क्रि- यायोगएव प्रादेरुपसर्गस्यति । अभिक्रमाधिकरणवार्त्तिके ऽपि (अ० ३। पा० १ अ०१) अभिक्रमणं प्रकृतक्रियामात्राङ्ग होमागमव घति भाष्यकृन्मते संशयमुक्त्वा संयुक्तश्रवणात्तमाक्षिप्य तद्धेतुं वदता कर्मणोऽमूर्तत्वाद्वाक्येन च सम्बन्धोपादानादिति वाक्यायम- ङ्गत्वमुक्तं न तिम् । तत्रत्यसिद्धान्ते ऽपि सर्वथा तावदभिकाममित्येतत्पदं न क्रि- यान्तरमन्तरेण निराकाङ्क्षी भवतीत्येवोक्तं न क्रियासम्बन्धं ब्र- पीतीति । तथा यावज्जीवाधिकरणवार्तिके (अ० २।पा०४। अ०१) यावजीवपदाख्यातश्रुतिवृत्तत्वसम्भवः। मत्पक्षे भवतस्त्वत्र लक्षणा- वृत्तता भवेदिति यावदव्ययजीवधातुश्रुतिभ्यामेव निमित्तत्वसिद्धान्त उपपादितः न तु णमुलश्रुत्येति । "संख्यायाः क्रियाश्यावृत्तिगणने कृत्वसुच्” "द्वित्रिचतुर्यः सुच्” "तुमुएण्वुलौ क्रियायां क्रियार्थायामि"त्येता अपि शब्दस्मृतयो "धातुसम्बन्धे प्रत्यया” इति वदेव व्याख्येयाः।
४७ . श्रुतिभेदानरूपणम् । "वेदिरासि बर्हिषे त्वे"ति त्रिर्वेदिं प्रोक्षतीति मन्त्रावृत्त्याना. त्तिचिन्ताथैकादशाधिकरणे ऽपि क्रियावृत्ती हि सुच् विधीयतइति ग्रन्थो वाक्यीयक्रियान्वयाशय एव । यत्तु नवमे (पा० । अ० १०) "अग्नावैष्णवमेकादश कपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमान इत्यारम्भणीयाविधौ लट्प्रत्य- यो ऽपि श्रुत्यैव तादर्थ्यस्याभिधायक इति सिद्धान्ते मिरुक्तं तत्प- रमतमेव अतएवाग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाण इति लश्रुतावेव पञ्चमे (पा०३। अ० ११) मित्रैर्वाक्यीयो विनियोग उक्तः। निरपेक्षव वाक्येन दीक्षार्थेष्टिर्विधीयते इति । तन्त्ररत्ने ऽपि परेणावेदनादित्यधिकरणे पञ्चमे (पा०३ । अ० ११) उक्तम् । आग्नावैष्णवो वाक्येन दीक्षिष्यमाणपदसमभिव्याहा. रेण दीक्षार्थ इति । “सोमेन यक्ष्यमाणोऽग्निमादधीते"त्यत्रापि वाक्यी- यमेवाधानोत्तरकालस्य सोमाङ्गत्वं लटो श्रुतित्वादेव । यदप्यत्र तन्त्ररत्नं यक्ष्यमाण इति च दीक्षिष्यमाण इतिव- क्रियार्थायां क्रियायामुपपदे लट्प्रत्ययः सोमेन यष्टुमित्यर्थ इति त- दपि क्रियान्तरयोगएव लटः साधुत्वोक्तिद्वारा वाक्यीयविनियोगोप- पादनार्थमेवेति सङ्क्षपः । एवं “तुमुन्ण्वुलौ क्रियायां क्रियार्थायामि"ति विहितयोस्तुमु- पण्वुलोर्यत्र प्रयोगः यष्टुं याति याजको यातीत्यादिः एवंतदग्रिमसूत्रेण । "भाववचनाश्चे"त्यनेन क्रियायांक्रियायामु- पपदएव विहितानां घनादीनां यत्र प्रयोगः यागाय याति भूतये या- तीत्यादिः। एवं तदुत्तरसूत्रेण "अगा कर्मणि चे"त्यनेन क्रियार्थायांकि- यायामुपपदएव विहितस्याणप्रत्ययस्य यत्र प्रयोगः गोदायो बजती- त्यादिस्तत्र सर्वत्र वाक्यीय एवान्वयो न श्रोतः। इतिश्रुतिनिरूपणम् । लिङ्गादिभेदास्तु पूर्वमेव निरूपिताः । इति श्रीमत्पदवाक्यप्रमाणपारावारपारणिधुरणिममिांसा- दैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्मजभदृशङ्कर- कृते मीमांसाबालप्रकाशे सकलविधि- भेदनिरूपणम् ।
मीमांसाबालप्रकाशे। अथार्थवादभेदा निरूप्यन्ते । तत्रार्थवादस्त्रिविधः । गुणवादः अनुवादः भूतार्थवादश्च । तदुक्तम्। विरोधे गुणवादः स्यादनुवादो ऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । विरोधे प्रमाणान्तरेण अवधारिते प्रमाणान्तरेण नि- श्चिते । तयार्विरोधावधारितत्वयोनिाभावे (१)। तत्र विरोधे गुणवादः स्यादित्यस्योदाहरणं यथा।"धूम एवा- नेर्दिवा ददृशे नार्चिरि"त्यादि । धूममात्रदर्शनस्यार्चिरदर्शनस्य चा- चिषो ऽपि दर्शनेन विरुद्धत्वात् दूराद्भूयस्त्वेन च दर्शने विशेषे सा- मान्यवाचिनो दृशेरौपचारिकत्वात् । अनुवादो विधारित इत्यस्योदाहरणं तु नृसिंहाधमैरुक्तम् । "अग्निहिमस्य भेषजमिति तत्स्वाध्यायाध्ययनवैधुर्याद्वैचित्याद्वा । अत्र वैदिकानां मन्त्रत्वप्रसिद्धेस्तस्या एव च द्वैतीयकमन्त्राधिकरण मन्त्रव्यवस्थाप्रयोजकत्वोक्तर्विध्यन्तरैकवाक्यत्वाभावाच्च । तस्माद्वा- युर्वै क्षेपिष्ठा देवतेत्याद्येव अनुवादो ऽवधारितइत्यत्रोदाहरणम् । भूतार्थवादस्तद्धानादित्यत्रौपनिषदा उदाहरन्ति । देवताविग्रहभोजनतृप्तिप्रसादफलदातृत्वप्रतिप्रतिपादकान- र्थवादान् “प्रजापतिरात्मनो वपामुदखिदत्"। “आहुतिभिरिव हुतादो देवान्प्रीणाति तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयती"त्यादीन् त- दयुक्तम् । नवमे विग्रहादिपञ्चकनिससात् । तदेतनवमार्थप्रपञ्चे ब- श्यामः । तस्मादत्र विरोधाभावे ऽपि गुणवादाङ्गीकाराद्भूतार्थवाद- स्तद्धानादित्यत्र । यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत्तत्सुखं स्वः पदस्पदमित्येवोदाहार्यम् । इदं च न लक्षणं विशेषणचतुष्टयव्यावाभावात् किं तु स्व- रूपकथनमानं विशेषणचतुष्टयेनापि हि सांसास्किसुखवैलक्षण्यम- स्य ब्रुवता सुखत्वावान्तरजातिः खर्गत्वमुपलक्ष्यते तद्धिः दुःखाम- श्रमिदं तु न तथा एवं सांसारिक राज्यादिसुखं वर्षाद्यवधिप्रमा- णाभावाच्छत्रुकृतापहारादिशङ्काग्रस्तम् । इदं त्वर्थवादादिप्रमाणतो वर्षादियावत्कालभोग्यतया प्रमितं न तन्मध्ये ऽपहारादिशड्डा- (१)हानावभावे . पु. पा० ।
अर्थवादभेदविरूपणम् । प्रस्तम् । तथेदमनन्तरमवच्छिन्नं सन्ततं वर्षादिपर्यन्तमितरतु न त- । किं तु सुखदुःखोभयरहितावस्थयावच्छिन्नम् । एवमिदम- भिलाषमात्रेणोपनीतमुपस्थितेन स्रक्चन्दनवनितादिविषयापेक्षाम- तरत्तु विषयापेक्षमेव । यद्वदं प्रयत्नानपेक्षाभिलाषमानोपनीतविषयमितरतु प्रयत्नो- पनीतविषयमिति । अत एवाकृत्यधिकरणे। अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गः सममाहुर्गवादिषु । इति वैयाकरणमतनिरासावसरे तदुक्तहष्टान्तवैषम्योक्त्यर्थे कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसन्ततिरिति वार्तिके निर्मिश्रसन्त- तिपदाभ्यामाद्यतृतीयविशेषणार्थावेव स्वर्गत्वजात्युपलक्षणार्थमुक्तौ। तद्व्याख्याने भट्टसोमेश्वरेण तु तद्वार्त्तिकव्याख्यार्थवा- लिके केवलमेव सुखमित्युक्तेषुःखामिश्नत्वमेव स्वर्गत्वसामान्योप- लक्षपाटनेनोक्तं सन्ततित्वं तु चिरकालताख्यं दुःखामिभंत्वेनैवा- क्षिप्यते इति वदता अलौकिकसुखविशेषप्रतिपत्त्यर्थ तदुपातमित्यु- क्तमिति । भूतार्थवादस्तद्धानादित्यत्रोपनिषदो ऽप्युदाहरणं ता थापि हि विध्युपयोगिस्वर्गस्वरूपनिरूपपार्थार्थवादरच्छ्रवणादिवि- ध्युपयोग्यात्मस्वरूपनिरूपणार्थत्वेन वाक्यशेषा एव । अत एव भा- वार्थपादे विंशतिमर्थवादभेदांतच्बोदकेषु मन्त्राल्या" "शेषे ब्राह्म- णशब्द" इत्येतत्सूत्रद्वयव्याख्याने भाष्ये प्रदर्श्य एतदपि प्रायिकाम- त्युक्तं तत्सत्यं ज्ञानमनन्तं ब्रह्मेत्यादेपलक्षणार्थमित्युक्तं भट्टसोमे- श्वरेण । : एवं “य एवं विद्वान्पौर्णमासी यजते य एवं विद्वानमावास्यां यजत" इति विद्वद्वाक्यद्वयं दर्शपूर्णमासाभ्यामिति द्विवचनोपपत्त्यर्थ- समुदायद्वयासिद्ध्यर्थे वैश्वदेवेन यजत" इति वत्प्राचीनप्रवणे वैश्व- देवेनेत्यत्तिदेशविधिस्थैकवचनोपपत्त्यर्थेकसमुदायसिद्ध्यर्थे भूतार्थवा- दोदाहरणमेव । अत एव त्रिभाम एव वेद इत्युक्तम् । विध्यर्थवाद्मन्त्राणामुपयोगोऽधुनोच्यतइत्यादौ । भूतार्थवादस्तद्धानावित्यत्रोदाहरणान्तरं यथा ॥ * अवस्तात्समिधं धारयन्नद्रवदुपरि हि देवेभ्यो' धार- यती."ति। अत्र तृतीये उपरि धारणस्थापि हिशब्दत्यागेन विधिरि- - मीमांसाबालप्रकाशे। स्युकम। पुनरप्यर्थवादो ऽष्टत्रिंशद्विधः । आशीः “सो ऽकामयत प्रजाः सृजेये"ति । प्रलापः "न चैतद्वियो ब्राह्मणाः स्मो वयमब्राह्मणा वे"ति। परिदेवनं “ये मामधुक्षन्त ते मां प्रत्यमुश्चति । तथा यावज्जीवाधिकरणे वार्तिके। "आहिताग्निर्वा एष सन्नाग्निहोत्रं जुहोति न दर्शपूर्णमासौ यज ते या पाहुतिभाजो देवतास्ता अनुध्यायिनीः करोतीति परिदेवन- सरूपो ऽर्थवाद इत्युक्तम् । प्रेषः "अमुतः सोममाहरे"ति । "अन्वेषणम् इह वा स इह स" इति । प्रश्नः “वेद कर्णवती सुर्मिमिति । प्रतिवचनं विद्मति। अनुषङ्गः यदस्तेन कण्डूयेत पामनं भावुकाः प्रजाः स्युर्यत्स्म- यते ननं भावुकाः कृष्णाविषाणया कण्डूयतइति । इह नग्नं भावुकाः इत्यत्र प्रजाः स्युरित्यनुषङ्गः । इतिकरणबहुलो ऽर्थवादः। उत्सृज्यानोत्सृज्यामिति मीमांसन्ते ब्रह्मवादिनस्तबाहुरुत्स- ज्यमेवेति अमावास्यायां च पौर्णमास्यां चोत्सृज्यमित्याहुरेते हि यहं वहत इति ते त्वावनोत्सृज्येदित्याहुर्ये अवान्तरं यज्ञं भेजाते इति । इत्याहोपनिबद्धार्थवादः । " देवस्य त्वा सवितुः प्रसव" इति स्फ्यमादत्ते प्रसूत्यै इति विधेर्वाक्यशेषः । अश्विनोर्बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्य आस्तां पूष्णो हस्ताभ्यामित्याह पत्यै इति । आख्यायिकारूपोऽर्थवादः। पुरुषं वै देवाः पशुमालभन्तं तस्मादालब्धान्मेध उदक्रामत्सो श्वं प्राविशत्तस्मादश्वो मेध्यो ऽभवदथैनमुत्क्रान्तमेधमत्यात स किं पुरुषो भवत्ते ऽश्वमालभन्त सो ऽश्वादालब्धादुदक्रामत्स गां प्राविशदित्यादि। हेतुवन्निगदो ऽर्थवादः। "शूर्पण जुहोती"त्यस्य विधर्वाफ्यशेषः। "तेन ह्यान्नं क्रियत" इति। निर्वचनरूपोऽर्थवादः। तदेनमधिनोत्तइंनो दधित्वमिति ।
अर्थवादभेदनिरूपणम् । निन्दार्थवादः। न ब्रह्मा सामानि गायती"ति निषेधस्यार्थवाद " उपवीता वा एतस्याग्नय” इति । प्रशंसार्थवादो। "वायुर्वै क्षेपिष्ठा देवतेति । यद्यपि निन्दार्थवाव्यतिरिक्तेषु सर्वेष्वप्यर्थवादेषु प्रशंसार्थ- त्वमविशिष्टं तथापीह वायुप्रशंसाद्वारा विधेयवायव्यपशुयोगप्रशंसा इतरत्र तु न तथेति भेदः। संशयार्थवादः। "होतव्यं गार्हपत्येन होतव्यमिति । विधिकल्पको ऽर्थवादः। यजमानसम्मित्तौदुम्बरी भवतीति । परकृतिरर्थवादः। "इति ह स्माह वटुकुर्णिाषानेव मह्यं पचते"ति तस्मा- दारण्यमेवाश्नीयादित्यस्य विधेर्वाक्यशेषः। पुराकल्पोऽर्थवादः। "उल्मुकैर्हस्म पूर्वे समाजग्मुस्तानसुरारक्षांसि निर्जनुरिति तस्माद् गृहपतेरेवाग्निषु निर्मथ्य निर्वपेरनिति विधेर्वाक्यशेषः। अनयोश्च भेदो वार्तिककृतैवमुक्तः एकपुरुषकर्तृकमुपाख्यानं परकृतिःबहुकर्तृकं पुराकल्प इति बहुकर्तृकपदं द्विकर्तृकस्यापि सङ्- ग्रहार्थमनेककर्तृकमिति व्याख्यातम् । भट्टसोमेश्वरेणार्थवादाधिकरणे द्विकर्तृकोदाहरणं तु “तावतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्ण- मास्यां यजन्त्रि"ति। व्यवधारणकल्पनार्थवादः । वेतसशाखयावकाभिश्चाग्निं वि- कर्षतीत्यस्य विधेर्वाक्यशेषः । “आपो वै शान्ताः शान्ताभिरेवास्य शुचं शमयती"ति । यथा ह्युच्चैर्ऋचा क्रियते इति यावतो श्वान्प्रति- गृहीयादित्यनयोर्व्यवधारणकल्पनाविध्योरुपसंहारगतयोरुपक्रमग- तवेदविषयदानविषयार्थवादवशेन वेदानविषयतैव कल्प्यते ५ घमुपक्रमस्थवेतसावकाविषयविधिवशेनोपसंहारस्थार्थवादगतं शुक्- शामकत्वं नापां किं तु वेतसावकविषयमिति कल्प्यते इति । तदेवं विशन्तिमर्थवादभेदान्भावार्थपादे तच्चोदकेषु मन्त्रा ख्या शेषे ब्राह्मणशब्द इत्येतत्सूत्रद्वयव्याख्यानावसरे भाग्यएव प्र- दर्य एतदपि प्रायिकमित्युक्तं तत्सत्यं शानमनन्तं ब्रह्मेत्यादरुपलक्ष- णार्थमिति भट्टसोमेश्वरेण व्याख्यातम् ।
मीमांसाबालप्रकाशे। अतो ऽन्ये सम्भवन्तो ये व चित्के चिन्निरूपिताः । भाज्यवावार्तिककाराद्यैस्तान्भेदानभिदध्महे ॥ तथा हि। पूर्व हेतुवन्निगदो ऽर्थवाद उक्तः । कश्चित्तु हेतुविधिरर्यवादः आतिथ्यायामिडान्तातिथ्या सन्तिष्ठत इतिवचनादनूयाजाभावे ऽप्यष्टावुपभृति गृह्णातीति प्रकृती विहितस्योपभृत्यष्टगृहीतस्य चो- दकप्राप्तस्य निवृत्त्यर्थे चतुगृहीतान्याज्यानि भवन्ति न पत्रानुया- जान्यक्ष्यन्भवतीति चतुर्ग्रहीते विधीयमाने ऽनुयाजाभावस्य हेतुत्वा- भिधानाद्यत्र यत्रानुयाजाभावस्तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृतौ चाष्टग्रहणस्य चतुष्टद्वयलक्षणार्थत्वद्योतनात्प्रयाजार्थ जुहवां समानयने नियोगतो ऽर्द्धमेव समानतव्यमिति ज्ञायते । इञ्च हेत्वधिकरणवार्त्तिके उदाहरणोक्तौ न च परमार्थतो हेतव इति प्रत्युदाहरणं चतुर्थे वक्ष्यमाणं सूचितं भट्टसोमेश्वरेण व्याख्यातमू। तथा पूर्व वायुवै क्षेपिष्ठा देवतेति विधेययागविशेषणदेवता- भूतवायुप्रशंसाद्वारा विधेययागप्रशंसेत्युक्तम् । कश्चित्वर्थवादः साक्षादेव विधेयप्रशंसार्थः । यथा प्रजापतिरात्मनो वपामुदखिदत्तामनौ प्रागृहात्ततोऽज- स्तूपरः समभवतेनायजत्ततो वै स प्रजाः पशूनसृजत यः प्रजा- कामः पशुकामः स्यात्स एतं प्राजापत्यमजं तूपरमालभेतेति । तथा विधेयतद्विशेषणव्यतिरिक्तप्रशंसाद्वारापि विधेयप्रशं- सार्थः कश्चिदर्थवादः । यथा दशमे अभिधार्या स्त्रयम्बका नाभि- धार्या इति यदभिधारयेत्तद्रुद्रायास्ये पशून्निध्याद्यन्नाभिधारयेन्न त. द्रुद्रायास्य पशून्निध्यात्तन्न सूक्ष्य अभिघार्या एव न हनभिघृतं ह- चिरस्तीत्युदाहृतम् । तत्रार्थवादाधिकरणे वार्तिककारेणोक्तं यन्नाभिघारयेन्न त- द्रुद्रायास्ये पशूनिध्यादिति स्तुतमप्यनभिधारणं नाश्रयिष्यते इति । तथा विधेयव्यतिरिक्तनिन्दाद्वारापि विधेयप्रशंसार्थः कश्चि- दर्थवादः। सो ऽपि द्विविधः। विध्यन्तराविहितस्य प्रकृतविधेयव्यतिरिक्तस्य निन्दाद्वारा, विध्यन्तरविहितस्य प्रकृतविधेयव्यातरिक्तस्य वा निन्दाद्वारेति । तवाद्यो यथा। नवमे यहचा स्तुवते तदसुरा अन्ववायन यत्साम्ना स्तुषते अर्थवादभेदनिरूपणम् । तदसुरा नान्ववायन्य एवं विद्वान्साम्ना स्तुवीतेत्युदाहृतम् । तत्रार्थवादाधिकरणे वार्तिककृतोक्तं तत्रान्ते सामविधानात्त- प्रशंसार्थमृचां निन्दति गम्यतइति । द्वितीयोश्यथा। "प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये ऽग्निहोत्रं दिवाकीय॑मदिवाकीर्तयन्तःसूर्यो ज्योतिर्न तदा ज्योतिरेषां तस्मादु- दित होतव्यमिति । एवं यथावातिथये प्रद्रुतायान्नमाहरेयुस्ताहक्तया- ध उदिते जुह्वति तस्मादनुदिते होतव्यमिति । अन पूर्वत्रोत्तरवि- धिविहितानुदितहोमनिन्दाद्वारा उदितहोमस्तुतिः । उत्तरत्र पूर्ववि- धिविहितोदितहोमनिन्दाद्वारानुदितहोमस्तुतिरिति । तदिदं शाखा- न्तराधिकरणे (अ० २ पा० ४ । अ० २) उदाहरणद्वयमुदाहृतं भाष्ये ॥६॥ तथा हेतुविधिवत्कश्चित्फलविधिरर्थवादः । यथा "प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ती"ति॥७॥ तथा कश्चिनिषेधफलार्थवादः। यथा तस्माद्राह्मणाय नावगुरेतति निषेधे यो ब्राह्मणायावगु- रेतं शतेन यातयादिति वर्षशतयातनारूपं फलं वाक्यशषात् ॥ ८॥ तथा कश्चिद्धतुविधिसरूपवत्फलविधिसरूपो ऽर्थवादः यथा "यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोती"ति। एषु त्रि- भवाद्यान्त्यौ चतुर्थे (पा०३ अ० १ ) निरूपितौ। मध्यमस्तु तृतीये शयौ सर्वपरीदानादिति शय्वधिकरणे नि.. रूपितः । तथा कश्चिद्देवताविधिरर्थवादः। यथा वाजसनेयिनं देवयाशिको नादं वा य एतमात्मनो ज- नयते यदग्निमिति पूर्णाहुतेर्वाक्यशेषमग्निदेवताप्रापकमाह ॥ ९ ॥ तथा कश्चिद्देवताविधिसरूपो ऽर्थवादः। यथा । "विष्णुरुपांशु यष्टव्यो ऽजामित्वाय प्रजापतिरुपांशु यष्टव्यो ऽजामित्वाय अग्नीषोमावुपांशु यष्टव्यावजामित्वाये"ति शाखाभेदेनो- पांशुयाजक्रमे आम्नातैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्या- युगलै प्राप्ता विष्णवाद्यादेवता उपांशुयाजस्तुल्यर्थे कीर्त्यन्तइत्युक्त- मुपांशुयाजाधिकरणे ( अ०२ पा० २ अ० ४.)॥१०॥ तथा कश्चिद् द्रव्यविधिरर्थवादः । यथा वासः परिधत्तइति विधौ "एतद्वै सर्वदेवत्यं वासो यत् क्षौमामि"ति क्षौमशब्दस्य यौगिकत्वादार्थवादिको द्रव्यविधिः । इदं च वै प्रजा. मीमांसाबालप्रकाशे। सन्दिग्धेषु वाक्यशेषादित्यधिकरणान्ते भाष्यकारेणोदाहृतम् ॥ ११ ॥ तथा कश्चिद् द्रव्यविधिसरूपो ऽर्थवादः । यथा महावते प्रेडमारुह्य होता शंसतीति विधौ यदा मह आविशन्ति प्रेवास्तारोहन्तीति प्रेतशब्दस्य यौगिकत्वाद् द्रव्य विधिसरूपो ऽयमर्थवादः । तदेतदपि वा कारणाग्रहणे प्रयुक्तानि प्रतीथेरन्नित्यस्य सदा- चारप्रामाण्यप्रतिपादनपरे वर्णके वार्तिककृतोदाहृतम् । एतानि वै दशयज्ञायुधानीतिच । चतुर्थे ( पा० १ अ०.४) हि एतच्छब्दस्य सर्वनाम्नो द्रव्यवचनत्वाद्यागे. स्फ्यादिद्रव्यवि- धिमाशङ्कितन्निरस्यार्थवादमात्रमित्युक्तम् ॥ १२ ॥ तथा कश्चिजातिविधिरर्थवादः। यथाग्नेये यदष्टाकपाल इति विधितः "संस्कृतं भक्षा स्मिन्नर्थे तद्धितोत्पत्तेर्भक्षद्रव्ये प्राप्ते मण्डकादिप्रसक्ती ते पुरोडाशं कूर्म भूत्वा प्रसर्पन्तमपश्यनिति वाक्यशेषः पुरोडाशत्वजातिमा- त्रप्रापकः । इदमपि सन्दिग्धेषु वाक्यशेषादिति (अ० १ पा० अ० १८) न्यायादेव सिद्धम् ॥ १३ ॥ तथा कश्चिजातिविधिसरूपो ऽर्थवादः । यथा तावतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजनिति । एतद्धि अप्राप्तपौर्णमासीकालविधिपरत्वान्नाज्यत्व- जातिविधिः किं तु "सर्वस्मै वा एतद्यज्ञाय गृह्यते यत् ध्रुवायामा- ज्यमि"ति प्राप्ताया उपांशुयाजद्रव्यपरिच्छेदकाज्यत्वजातेरनुवाद इ- त्युक्तं दशमे उपोपान्त्ये ॥ १४ ॥ तथा कश्चिद् गुणविधिरर्थवादः । यथा “ सृष्टीरुपद्धाती "ति वार्तिककृन्मते । भाष्यकृद्वन्नोपधानमात्रविधिमन्त्रानुवादश्च किं तु उपधानमा- अविधावपि दोषोक्तेमन्त्रमात्रविधावपि दोषोक्तोर्विशिष्टविधी मुख्या- नां सृष्टिलिङ्गकानामेव मन्त्राणां विधिप्रसक्तौ यत्सप्तदशेष्टका उपद- धातीतिवाक्यशेषाद् गौण्या सप्तदशसंख्याविधिः। तदेतत्सृष्टयधि- करणे भट्टसोमेश्वरेणोक्तम् ॥ १५ ॥ तथा कश्चिद् गुणविधिसरूपो ऽर्थवादः। यथा यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती- त्यष्टसंख्यावधिसरूपत्वात् । तदिदमुक्तं वैश्वानराधिकरणे (अ०१ पा० अ० १८)॥१६॥ तथा कश्चिक्रियाविधिरर्थवादः । H . अर्थवादभेदनिरूपणम् । यथामृताग्निहोत्रे “अधस्तात्समिधंधारयन्ननुद्रवदिति"विधेर्वा- क्यशेषः। “उपरि हि देवेभ्यो धारयती"ति। तत्र तृतीये (पा०४० ५) उक्तं देवेश्य इत्युक्तर्दैवाग्निहोत्रे जीवदग्निहोत्रे उपरिधारणस्य कथं चिदण्याचारादिमा अप्राप्तेहिंशब्दपरित्यागेन विधिः कल्प्य- तइति ॥ १७॥ तथा कश्चिक्रियाविधिसरूपो ऽर्थवादः । यथा “यो विदग्धःस नैर्ऋतो यो नृतःस रौद्रो यः शृतःस सदेवतस्तस्मादविदहता श्रपयितव्यः सदेवतत्वाये"ति दर्शपूर्णमास- प्रकरणाधीत वाक्यमौदुम्बराधिकरणे प्रकरणे (अ०१पा०२ १०२) च सम्भवन्नपकर्षों न कल्प्यते विध्यानर्थक्यं हि ते प्रतीति सूत्रे भाध्यकृतोदाहस्य विधिपक्षे तु यत्र नैऋतस्तत्र विदग्धता नीयेत तथा सति प्रकरणं बाध्यतेति क्रियाविधिनिरस्त इति क्रिया- विधिसरूपो ऽयमर्थवादः ॥ १८ ॥ तथा कश्चिनिमित्तविधिरर्थवादः । यथा । अग्नौ श्रूयते “यो वै सम्वत्सरमुख्यमभृत्वाग्निं चिनु- ते यथा सामिगर्भो विपद्यते तागेव तदार्तिमाईद्वैश्वानरं द्वादशक- पालं पुरस्तान्निर्वपेदिति । अत्र चतुर्थे (पा०४ अ०६) वैश्वानरश्च नित्यः स्यादित्यधिकरणे सम्वत्सराभरणमर्थवादमात्रमिति नित्य- तेति पूर्वपक्षयित्या कर्तृसमानाधिकरणो यच्छब्दो निमित्ततांसम्व- त्सराभरणस्य प्रतिपादयतीति नैमित्तिको वैश्वानरयाग इति सिद्धा- न्तितम् ॥ १९॥ तथा कश्चिन्निमित्तविधिसरूपो ऽर्थवादः । यथा ज्योतिष्टोमे श्रुतं यां वा अध्वर्युश्च यजमानश्च देवताम- न्तरितस्तस्या आवृश्च्यते यत्प्राजापत्यं दधिग्रहं गृह्णाति शमयत्येवै- नामिति । ' तत्र चतुर्थे (पा० ४ अ०५)" दधिग्रहो नैमित्तिकः श्रुतिसं- योगादि"त्यधिकरणे देवतान्तरायो निमित्तं पूर्ववद्यच्छब्दादिति पूर्वप- क्षिते सिद्धातितम् । अकर्तृसमानाधिकरणस्य यच्छब्दस्य निमित्तता- प्रतिपादकत्वाभावादर्थवादमात्रमन्तरायश्रवणमिति नित्यो दधिग्रह इति ॥२०॥ तथा कश्चित्कर्तृविधिरर्थवादः । यथा षष्ठे (पा० ८ । अ० १) चतुर्होतृसञकर्मन्त्रैः पुरुषार्थ- तया विहिता जपाहोमाश्च चतुर्होतारं प्रयुञ्जीत चतुर्होत्रा प्रजाकामो जुहुयादित्यत्न पूर्वपक्षितं होमा आहवनीये कार्या एषा वा ऽनाहिता- मीमांसाबालप्रकाशे। नेरित्यर्थवादमात्र जपस्तुत्यर्थम् । इष्टिशब्देन जपोक्तेः यैषामाहिताग्नेः किया जपात्मिका सेष्ट्रिरिति । सिद्धान्तस्तु वचनानर्थक्येष्टिशब्दलक्षणापरिहाराय षष्ठीच. त्या नाहिताग्न्यधिकारा होमास्तत्कर्तृका इति ॥२१ ॥ तथा कश्चित्कर्तृविधिसरूपः । यथा षष्ठे (पा०७।अ०१२) इति हस्माहवर्वाणिर्माषानेव मां पचतति वृष्णिगोत्ररेव माषपाकः कर्त्तव्यो नान्यैरिति पूर्व- पक्षयित्वा निरस्तम् । तदिदं माषपाकविधिकल्पनां कृत्वा चिन्ति- तम् ॥ २२॥ तथा कश्चित्कालविधिरर्थवादः । यथा तावतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां य- जनिति । तदेतद्दशमे । (पा०८ । अ०१७) उपोपान्त्ये उ- क्तम् ॥ २२॥ तथा कश्चित्कालविधिसरूपोऽर्थवादः । यथा अपहतपाप्मानो वा ऋतव इति यदा व चन कदा च- नोपनमदथादधीताथ यजेतेत्यस्य शतपथविधेः शेषस्तेन नव सन्त- व्यतिरिक्तऋतुविधियोतिष्टोमे यदा व चनेति विधित एव तद्वि- धिसिद्धेः । इदं च पश्चमे (पा० ४ अ०५) खकाले स्यादविप्र- विषेधादित्यधिकरणे तन्त्ररत्ने यदा व चनेत्यादेः शातपथवाक्यस्य ज्योतिष्टोमे क्रत्वन्तरविधित्वोक्तस्तच्छेषस्य कालविधिसरूपत्वमर्था- दुक्तम् ॥ २३॥ तथा कश्चिद्देशविधिरर्थवादः । यथा खाण्डके सरस्वत्या विनशने दीक्षन्ते अध्वर्युः राम्यां प- राति सा यत्र निपतति तद्गार्हपत्यः ततः षट्त्रिंशतं प्रक्रमान्प्र- क्रामति तदाहवनीयःप्रतीपं यन्ति पूर्वेण पक्षसा यन्ति हषद्वत्या अप्य- ये ऽपानप्रीयं चरुं निरूप्यायाति यन्तीति विधाय वाक्यशेषः चतुश्च- त्वारिंशदाश्वीनानि सरस्वत्याविनशनात्प्लक्षः प्रस्रवण इति । स सावन्तं देशं याने विदधाति अत एव तदनूद्योपसंहृतम् । यदा प्लक्ष प्रास्त्रवणमागच्छन्त्यशोत्थानं ल्पक्षप्रावणमाग- म्याग्नये कामायोष्टिं निर्वपन्ते तस्यामश्वां च पुरुषी च धेनुके दत्वा कारपञ्चवं (१) प्रति यमुनामवभृथमभ्यवयन्तीति वार्तिके तु चतु- स्त्रिंशदाश्वानानीति श्रुत्यन्तरं व्याकरणाधिकरणउक्तम् ॥२४॥ देप्राविधिसरूपो ऽर्थवादो यथा । (१) यमुनाचा देशविशेषज्ञत्यर्थः ।
अर्थवादभेदनिरूपणम् । षट्त्रिंशत्प्रक्रमा प्राची त्रिंशजधनेन चतुर्विंशतिः पुरस्तादिति सौमिकमहावैदिमानविधेर्वाक्यशेषः इयति शक्ष्यामहे ऽस्यां कर्तु- मिति । तदेतत्तृतीये (पा०७। अ०३) "चिकीर्षया च संयोगादि- त्यधिकरणे भट्टसोमेश्वरेणोक्तम् ॥ २५ ॥ तथा कश्चिनिषेधविध्यर्थवादो यथा ऐतरेयिब्राह्मणे हरिश्चन्द्रोपाख्याने हिरण्य(१)कशिपावासीन आचष्टइति होतकर्तृकस्य क्रत्वर्थस्य पुत्रकामाहाप्याख्यापयेरनि. ति च पुरुषार्थस्य शौनः शेपाख्यानविधेर्वाक्यशेषे नियोक्तारं न विविदुर्विशसितारं न विविदुरिति शामित्रकर्बलाभोक्त्या मह्यमपर शतं दत्ताहमेनं विशसिण्यामीति च लोभात्प्रवृत्त्युक्त्या शामित्रे दो- पावगतेनिन्दया तनिषेधः कल्प्यते । यद्यपिचान"नहिंस्यादि"ति सामान्यानिषेध ऋत्विजांखाधि- कारिकः पराधिकारिकेण समाख्यानिकेन कर्तृत्वमानतया ऋत्विजः स्पृशताप्यबाधितः प्रवृत्तो ऽस्ति । अत एव तृतीये (पा०७।०१३) “शमिता च शब्दभेदादि"त्यधिकरणे वार्तिककृतोक्तम् । अत एवाविज्यं निन्दन्तीति तथापि विशेषनिषेधो दोषवि- शेषार्थत्वेनार्थवानेवति ॥ २६ ॥ तथा कश्चिनिषेधविधिसरूपोऽर्थवादो यथा। अथो खल्वाहु- रनाहुति(जर्तिलाश्च गवेधुकाश्चेति । दशमे ह्यनाहुतिरिति निन्दया निषेधकल्पनां पूर्वपक्षयित्वा न हि निन्दा निधं निन्दितुं प्रवर्तते । अपि तु विधेयं स्तोतुमिति शाखान्तराधिकरणे प्रसङ्गादुक्तेन न्यायेन यत्पयसाग्निहोत्रं जुहोतीति पयविधिशेषत्वान्न निषेधकल्पनेति सि- द्धान्तितम् ॥ २७ ॥ सन्दिग्धार्थोपादाननिर्णायको ऽर्थवादो यथा । सारखतौ भवत इति विधौ "एतद्वै दैव्यं मिथुनं यत्सरखती- सरखांश्चेति अत्न सरस्वान्देवता यस्यासौ सारखतः अपरोऽपि तथा ततः सारखतश्च सारस्वतश्च सारस्वती उत सरस्वान्देवता यस्येत्ये कस्तद्धित अपरस्तु सरस्वती देवता यस्येति तद्धितस्ततस्तयो- रेकशेष इति सन्दिग्धे स्त्रीपुसदेवत्य एवायं न पुन्द्वयदेवत्य इति निर्णयो ऽस्मादर्थवादाद्भवति । तदेतत्पश्चमे (पा० १ । अ० ७) मुख्य- क्रमेण वाङ्गानामित्यधिकरणे शास्त्रदीपकायामुक्तम् ॥२८॥ तथा कश्चित्सन्दिग्धार्थशक्तिग्राहकार्थवादो यथा । यवमतीभिरद्भिरौदुम्बरी प्रोक्षतीति विधेर्वाक्यशेषः यदा वा (१) हिरण्यासनेत्यर्थः ।
मीमांसाबालप्रकाशे। यथा मन्या औषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्तीति तदुक्तं शास्त्रस्था वा तनिमित्तत्वादि "त्यधिकरणे (अ०१ पा०३ । अ० ५)॥२९॥ तथा कश्चिदुपमानार्थवादः। यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निषत्यादत्ते यमभिचरति श्येनेनति” । तदुक्तं तद्वयपदेशं चेत्यधिक- रणे नामधेयपादे ( अ० १ पा० ४ अ०४)॥ ३०॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्मज- भट्टशङ्करकृते मीमांसाबालप्रकाशे सक- लार्थवादभेदनिरूपणम् । अथ मन्त्रभेदा निरूप्यन्ते । मन्त्रो ऽपि तावत्रिविधः । ऋग्यजुः सामति । एषां लक्षणानि क्रमेण सूत्रैरेवोक्तानि । तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेषे यजुः शब्द इति निगदास्तु यजुर्भेदा एवेत्युक्तं भावा- यंपादे “यजूंषि वा तद्रूपत्वादिति” ( अ० १ पा० १ अ० १३) ते चाग्नीदग्नीन्विहरेत्यादयः परसम्बोधनरूपा । अतः परं "तच्चोदकेषु मन्त्राख्ये "त्यत्र सूत्रे ब्राह्मणशब्द इत्यत्न च सूत्रे भाष्यएव प्रद- र्शिता अष्टाविंशतिर्मन्त्रभेदा उच्यन्ते । तत्रोत्तरेषां बहूनामर्थप्रयु- तत्वात्सामखसम्भवः । स्वर्यचातुःस्वर्ययोरपि वर्णधर्मोदात्ता- दिरूपत्वेन सामखसम्भवः । अनुषङ्गस्यापि अपूर्णेषु खल्वनुषङ्ग इति भाग्यादर्थप्रयुक्तत्वात्सामस्वसम्भवः । अतः सर्वे ऽपि वक्ष्यमाणा भेदा ऋग्यजुर्मन्त्रगतत्वेन द्विगुणा ज्ञेयाः । अत एव भाष्यकारेण क चिहङ्मन्त्राः क्वचिद्यजुर्मन्त्रा उदाहृताः । तंत्र भाष्योक्तास्तावदष्टाविंशतिर्भेदाः। एवम् तत्र कश्चिद्वि- धायकः मन्त्रः "पृणीयादिन्नाधमानायतव्यानि"ति।नाधयांच्या- पान्तव्यान्भोज्यापदार्थानिति सोमेश्वरः। तथा कश्चिद्विधायको यजुर्मन्त्रः यथा “वसन्ताय कपि- अलानालभत" इति । एवं विधायकस्य मन्त्रस्य ऋचं यजुश्चेति मन्त्रभेदनिरूपणम्। विविधमुदाहरणं वदत्तो भाष्यकृतो ऽ ऽपि सर्वन वैविध्यमाभ- मतं तेन यत्र ऋङ्मन्त्र उदाहृतस्तत्र यजुषो ऽप्युपलक्षणम् । यत्र च यजुर्मन्त्र उदाहृतस्तत्र ऋङ्मन्त्रस्याप्युपलक्षणं तशि- दयते। कश्चिदस्यन्तो मन्त्रः यथा “मेधो ऽसीति । तथा कश्चित्वान्तो “मन्त्रः यथा इषेत्वे ति॥ तथा कश्चिदाशीमन्त्रः यथा "आयुर्दा असी"ति । तथा कश्चित्स्तुतिरूपो मन्त्रः यथा “अग्निर्मूर्धे"ति ॥ तथा कश्चित्संख्यामन्तः।यथा "एको मम एका च तस्ये"ति। तथा कश्रित्प्रलपितमन्त्र यथा अक्षी ते इन्द्रपिङ्गले डुलेरिवे- ति । डुलिः कच्छपी। तथा कश्चित्परिदेवनमन्त्रः। यथा “म्बे ऽम्बिके इम्बालिके न मानयति कश्चन ससस्त्य- श्वकः सुभद्रिकां काम्पीलवासिनीमि"ति सुकल्याणरूपां काम्पील- देशवासिनी मां कश्चिन्न नयति कुत्सितो ऽश्वः स्वपितीति सौर्यायाः परिदेवनम् । तथा कश्चित्प्रैषमन्त्रः यथा “ग्नीदग्नीन्विहरे"ति । तथा कश्चिदन्वेषणमन्त्रः यथा को ऽसि कतमोऽसिक- स्यासि को नामासि यस्य ते नामा मन्महि ये त्वा सोमेनातीतूपा- म इति । तथा कश्चित्प्रश्नमन्त्रः यथा “पृच्छामि" त्वा परमन्तं पृथिव्या इति । अश्वमेधे ब्रह्मोघे होत्रादीनां चतुणों महर्विजां यजमान प्रति प्रश्नो ऽयम्। तथा कश्चिदाख्यानमन्त्रः यथा “इयं वेदिः परो अन्तः पृथि- व्या” इति । तत्रैव यजमानस्य प्रत्युत्तरमिदम् । तथा कश्चिदनुपङ्गमन्त्रः। स तु द्विविधः। पुरस्तादनुषङ्गः परस्तान नुषङ्गश्चति ।। तत्राद्यो यथा “याते अग्ने रयाशया तनूर्वर्षिष्ठा गहरेष्ठोग्नं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा” “या ते अनेरजाशया या ते अग्ने हराशयति । पूर्वाहापरालयोरभ्यस्यमानमाग्नेयसौम्यवैष्णवयागत्र- यमेकोपसत्तथाविधास्तिस्त्र उपसदस्त्रिदिनं ज्योतिष्टोमे तत्राद्याया अग्निमनीकमित्यस्याः ।क्रमेणा स्त्रयेङ्गभूतमिदं मन्त्रत्रयम् । पतदर्थों ब्राह्मणे।
६० मीमांसाबालप्रकाशे। अशनपिपासे हवा उग्रं वचः एनश्च वैरहत्यञ्च त्वेषं बच इति । एनः उपपापं वैरहत्यं महापापम् । परस्तादनुषङ्गो यथा । "चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरि"ति। ऋङ्मन्त्रे ऽप्यनुषङ्ग उक्को मन्त्राधिकरणे अम्यक्सात इन्द्रऋषिरस्मे इत्यचि उपरितन्यामृचि त्वं तून इन्द्रं तं- रयिन्दा इति श्रूयते तदेवास्यामृच्यनुषङ्गेण द्रष्टव्यमिति । अयं च अद्वये ऽप्यन्वयात्पुरस्ताद्नुषङ्गयोरुभयोरप्युदाहरणम् । तथा कश्चित्प्रयोगरूपो मन्त्रः स द्वेधा त्रैस्वर्यवांश्चातुः स्वर्यवांश्च। तत्राद्यऋमन्त्रो यथा “अग्ने मृलमहां असि यईमा देवयु- अनम् इयथ बर्हिरासदार्मि"ति । चातुः स्वर्यवानृङ्मन्त्रो यथा “ अग्निमीळे पुरोहितमि "त्या- दिः लेतमित्येन्तयोः प्रचयत्वात् । त्रैस्वर्यघान्यजुर्मन्त्रो यथा इषेत्वोर्जे त्वेत्यादिः। चातुः स्वर्यवान्यजुर्मन्त्रो यथा “देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण “इति आद्ययकारस्य प्रचयत्वात् । तथा कश्चित्सामर्थ्यवान्मन्त्रः यथा “देवस्य त्वति निर्वापप्र- काशनसमर्थो मन्त्रः । कश्चिदसिमध्यो मन्त्रः यया ईड्यश्चासि धन्ध- मासी"ति । तथा कश्चित्त्वामध्यो मन्त्रः यथा “तत्त्वायामि ब्रह्मणा बन्दमा- न" इति। तथा कश्चिदिति करणबहुलो मन्त्रः यथा इति वा इति मे मन इति । तथा फश्चिदित्याहोपनिबद्धः यथा “भगं भक्षीत्याहे"ति । तथा कश्चिदाख्यायिकारूपो मन्त्रः यथा “तुग्रो ह भुज्युमश्वि- नोदमेघेरयिनं कश्चिन्ममृवां अवाहाः । तमूहथुनौभिरात्मन्वती- भिरन्तरिक्षमुद्भिरपोदकाभिरिति । तदर्थः । हे अश्विनौ तुम्रो नाम कश्चिद्राजा भुज्यु नाम स्वपुत्रं उमेघे समुद्रे अवाहाः वाह- यामास तिज तिङो भवन्तीति प्रथमपुरुषार्थे मध्यमः । प्रसि- खर्चा हकारः । नकार इवार्थे । यथा कश्चिन्ममृवान्मुमूर्षुरपि द्रव्यं समुद्रे बाहयतीति दृष्टान्तः । तं भुज्युमात्मन्वतीभिईढाभिरन्त- तथा मन्त्रभेदनिरूपणम्। रिक्षाद्भिराकाशगामिनीभिरपोदकाभिनिर्जलाभिनौंभिर्युवामूहथुरु- त्तारयामासथुरिति । तथा कश्चिद्धेतुविधिमन्त्रः । यथा “इन्दवो वा मुशन्ति ही"- ति । अत्र हि इन्द्र वायू इमे सुता उपप्रयोभिरागतामिति पूर्वार्द्धर्चे हे इन्द्रवायू इमे सोमा अमिषुनास्तानत्तुं प्रयोभिरत्नैर्यजमानाय देयैः सह युवामुपागतमित्युक्ते यस्मादिन्दवः सोमा वां युवामुशन्ती- च्छन्तीति हेतुः । अत्र चाचेतनानां सोमानामिच्छायोगाद्देवतायाश्च विग्रहादिनिरासेनागमनायोगादिच्छया तदुद्देशेन विधिलक्ष्यते । आगमनेन च तत्कार्यभूतं भक्षणं तेनाप्यदर्शनहेतुत्वसादृश्यादाचा- रप्राप्तं भस्मसात्करणं दाहरूपं लक्ष्यते । ततश्च यद्यदेवतोद्देशन विहितं तद्भस्मीकार्यमिति दृष्टान्त- धचनकल्पनया हेतुविधिन ह्यनानुयाजान्यक्ष्यन्भवतीति परमार्थहेतु- वदिति भाष्यतात्पर्यमुन्नीयते। तथा कश्चिनिर्वचनार्थो मन्त्रः । यथा “यत्प्रेषिता घरुणेन ताः शीभ समबला ता तदाप्नोदिन्द्रो वायतीस्तस्मादापो अनुस्थन"ति। अत्र हि हे आपो यस्मात्ता यूयं वरुणेन प्रेषिताः सत्यः शीभं स्वच्छन्द समवला तवलानमकुर्वततच्चयतीः कुर्वतीर्वो युष्मानिन्द्र आप्नोत्त- स्मादनु अनन्तरम् अपि स्थन भवत तप्तनप्तनथनाश्चेति लोपमध्यम पुरुषबहुवचनस्य थनादेशः तेनापशब्दनिर्वच मदम् । तथा कश्चिन्निन्दामन्त्रः यथा “मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वधइत्सतस्य नार्यमणं पुष्यति नो सखायं फेवलाद्यो . भवति केवलादीति। अन हि यः केवलं एकाकी अत्ति न त्वर्यमशब्दोपलक्षितं देव- गणं सखायं मनुष्यगणं पोषयति स मन्दप्रज्ञो निष्फलमन्नं लभते प्रत्युत चोराद्युपद्रवहेतुत्वाद्वधकार्येव भवति केवलपापश्च स भवति सत्यमेतद्रवीमीति कृपणनिन्दा। तथा कश्चित्संशयार्थो मन्त्रः । यथा तिरश्चीनो विततोरश्वि- रेषामधः खिदासीदुपरि स्विदासीदिति । अत्र ह्यषां कवयो म. नीषेति पूर्वस्यामृचि निर्दिष्टानां कवीनां रश्मिस्तिरश्चीनो विततः किमध आसीदुतोपरीति खिच्छब्दादधः खिदासीदिति उपरि खि. दासीदिति च विचार्यमाणार्थयोर्वाक्ययोष्टेः क्रमेणादात्ताया अनु- दात्तायाश्च विचार्यमाणानामुपरिखिदासादिति चेति सूत्राभ्यां वि. हिताप्लुताञ्च संशयो गम्यते । तथा कश्चित्परकृतिरूपो मन्त्रः। यथा"चित्रइद्राजा राजका इद- क ઉર मीमांसाबालप्रकाशे। न्यके यके सरस्वती मनुः पर्जन्य इव ततनद्धि वृष्णा सहस्रमयुता- दददिति। अत्र हि हे राजका राजानः चित्रो नाम राजा इदिति नि- श्चये स एव सरस्वतीमनु तद्देशे यकेन्यके यस्मिन्कस्मिंश्चिदन्यस्मि- न्देशे गवां सहस्रमयुतानि दददिददावेव वृष्टया ततनत्तन्वन्पर्जन्य इव हिः प्रसिद्धौ । एवमेककर्तृकोपाख्यानरूपा परकृतिरेषा। तथा कश्चित्पुराकल्परूपो मन्त्रः ।यथा “ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । तेह नाकं महिमानः सचन्त य- त्र पूर्वे साध्याः सन्ति देवा" इति । अत्र हि यज्ञेन ज्योतिष्टोमादिना विष्णुर्वे यज्ञ इतिश्रुनेर्यज्ञं विष्णुं देवा अयजन्त तानि धर्माणि पु. ण्यानि स्याद्धर्ममस्त्रियाम्पुण्यश्रेयसी इत्यमरः । प्रथमान्यासन् । हे- ति प्रसिद्धौ । ते देवा महिमानो महत्ववन्तः नाकं स्वर्ग सचन्त अगमन् । यत्र नाके पूर्व पुराणाः साध्या नाम देवाः सन्तीति ब- हुकर्तृकोपख्यानरूपः पुराकल्पः । एतेष्वपि सामर्थ्यादि द्वादशभे- देषु यत्र ऋगुदाहृता तत्र यजुरप्युदाहायै यत्र यजुरुदाहृतं तत्र ऋगप्युदाहार्येति द्वादशद्वैगुण्ये चतुर्विशतिभेदा भवन्ति । इतिभाष्यो- का अष्टाविंशतिर्मन्त्रभेदाः । अत्रापि भाष्यकारेण प्रायिकमिदं लक्षणमित्युक्तम् । अतोऽन्ये मन्त्रभेदा ये क चित्के चिन्निरूपिताः । भाष्यवार्तिककाराद्यैस्तान्सर्वानभिदध्महे ॥ तथा हि । पूर्व हेतुविधिमन्त्र उक्तः । कश्चित्तु हेतुविधिस- रूपो मन्त्रः । यथा द्वादशारं न हि तजरायति । तथा हेतुविधिमन्त्रवत्कश्चित्फलविधिमन्त्रः । स त्रिविधः। यजमानगामिफलविधिविग्गामिफलविधिरुभयगामिफल- विधिश्चेति । तनाद्यो यथा “ ममाग्ने व! विहवेष्वस्तु वयं त्वेन्धानास्त- न्वं पुषेम मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेमे ति । तदिदं ऋत्विक्फलं करणेष्वर्थवत्त्वादित्यधिकरणे तृतीये (पा० ८। अ०१३) उक्तम् । ऋत्विग्गामिफलविधिमन्त्रो यथा “अग्नाविष्णू मावामवक्र- मिषं विजिहाथां मामा सन्ताप्तमि"त्याहवनीयवायव्यदेशस्थस्याध्वर्योः स्रौवाधाराथै नैर्ऋत्यदेशे ऽभिक्रमणस्य करणमन्त्रः । तत्कल्पित- मसन्तापनरूपं फलमध्वर्युगामीत्युक्तम् । तृतीये (पा० ८ 1 अ० १४) कर्मार्थ तु फलं तेषां स्वामिनं प्रत्यर्थवत्वादित्यधिकरणे ऋत्विक्फ- ले करणेष्वर्थवत्त्वादित्याधिकरणापवादार्थे ।
मन्त्रभेदनिरूपणम । उभयगामिफलविधिमन्त्रो यथा। उपरवयोर्हस्तौ प्रवेश्याध्वर्यु- रितरयोस्तयोःप्रवेशितहस्तम् यजमानमाह किमनति यजमान आह भद्रभद्रमिति । तन्नौ सहेत्यध्वर्युः प्रत्याहेति प्रतिवचनकरणत्वेन वि- नियुक्त भन्ने व्यपदेशाच्चेति पूर्वाधिकरणापवादार्थे ऽधिकरणे तृतीय वक्ष्यते उभयगामिफलविधिर्मन्त्रो ऽयमिति । तथा कश्चित्फलविधिसरूपो मन्त्रः । यथा आयुर्दा अग्ने अ- सि आयुर्मे देहीति दर्शपूर्णमासान्ते आहवनीयोपस्थानार्थः तृतीये (पा०८।०७) हि मन्त्राश्चाकर्मकरणास्तद्वंदित्यधिकरणे ऽस्य लैङ्गिकविनियोगेन फरणतया विनियोगाभावान्न फलविधिः किंतु प्रधानफलमव यजमानप्रोत्साहनाय प्रकाशयतीत्युक्तम् । तथा कश्चिद्देवताविधिमन्त्रः। स द्विविधः गणभूतदेवताविधिःप्रधानभृतदेवताविधिश्चेति। तवाद्यो यथा । “समिधः समिधो अग्न आज्यस्य व्यन्त्वि"ति समिदादिप्रयाजयाज्यामन्त्रः प्रयाजेषु हि मान्त्रवर्णिको देवताविधि- नवमे प्रयाजे ऽपीति चेदित्यधिकरणे द्वितीयाया देवताविधिसामर्थ्य निरस्य तत्प्रख्यन्यायेन समिदादिपदानां नामतासाधनार्थमुक्तः । प्रधानभूतदेवताविधिर्मन्त्री यथा । उत्तमप्रयाजमन्त्रआज्य- भागादिषु यक्ष्यमाणानामग्न्यादिदेवतानां प्रकाशकः स्वाहाग्निं स्वाहा सोममित्यादिः। दशमे (पा०१। अ०७) हि प्रयाजे च तन्न्यायत्वा- दित्यधिकरणे स्वाहाकार यजतीति स्वाहाकारशब्दस्य द्वितीया- न्तत्वेन देवताविध्यसामर्थ्यान्मान्त्रवर्णिकदेवतास्मरणार्थो ऽन्त्यः प्र- याजः स्वाहाशब्दस्तु स्वाहाग्निमित्यादिमन्त्रसम्बन्धेन नामधेयमिति संस्कारकर्मत्वसिद्ध्यर्थमुक्तम् । तथा कश्चिद्देवताविधिसरूपो मन्त्रः । यथा पात्नीवतं गृ- हातीति पालीवतग्रहाभ्यासे हौत्रो मन्त्रः । ऐभिरग्ने सरथं याह्या- ङ् नानारथं वा विभवो ह्यश्वाः । पानीवतस्त्रिंशतं नींश्च देवताननु- वधमावह मादयस्वेति । अन हि तृतीय (पा २ । अ० १५) त्रि- शच्च परार्थत्वादित्यधिकरणे अग्नाइ पत्नीवत्सतर्देवेन त्वष्ट्रा सोम पिब स्वाहेत्याध्वर्यवमन्त्राच्चोदनायामश्रुतस्याप्यग्नरिव हौत्रमन्त्रा- प्रयस्त्रिंशतामपि देवतात्वं कल्प्यामति पूर्वपक्षं कृत्वा सिद्धान्तितम् । इहापि तदुद्देशेनात्यागे मादयितृत्वानुपपत्तेरग्नेरेव देवतात्वं इतरे त्वग्निदत्तेन कामं माद्यन्तु न तु देवता इति न देवतावि- धिरिति। तथा कश्चिद् द्रव्यविधिमन्त्रः । स द्विविधः । गुणभूतद्रव्य- मीमांसाबालप्रकाशे। विधिः प्रधानभूतद्रव्यविधिश्चेति । तत्राद्यो यथा प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातृणां प्रयज- मानस्योति यजमानशब्दस्य यौगिकत्वाद्भक्ष्ये द्रव्यविधिः । प्रधानभूतद्रव्यविधिमन्त्रो यथा भट्टसोमेश्वरमते ऽनुवषट्- कारहोमस्य प्रतिपत्तित्वात्सोमस्याग्ने वीहीत्यनुवषट्करोतीति विनि- युक्तो मन्त्रः संस्कार्यसोमद्रव्यविधिः । तथा कश्चिद् द्रव्यविधिसरूपो मन्त्रः । यथा यूपपरिव्या- णे त्रिवृता यूपं परिव्ययतीति विहिते त्रिवृत्करणके वासोरूपद्रव्यवि- धिसरूपो हौत्रः क्रियमाणानुवादी "युवा सुवासाः परिवीत आगा- दि"ति । तथा कश्चिजातिविधिमन्त्रः । यथा “छागस्य वपाया मेद- सो नुब्रूही"ति । तदेतत् षष्ठान्त्ये (पा० ८ । अ०९) उक्तम् । तथा कश्चिजातिविधिसरूपो मन्त्रः । यथा “बर्हिर्देवसदनं दामी"ति मन्त्रोदामीत्युक्ते लवनेन बर्हिःप्रापकःबर्हि नातीति। विधि- नैव बर्हिःसंस्कारकं लवनं विद्धता लवने संस्कार्यभूतबर्हिःप्राप्तेः । तथा कश्चिद् गुणविधिमन्त्रः। यथा “दर्भःस्तृणीत हरितैः सु- पणैरिति मन्त्री बर्हिषि हवींप्यासादयतीति हविरासादनाङ्गत्वेन वि- हिते बर्हिषि हारित्यगुणं प्रकाशयन्नन्यथानुपपत्त्या तं विधत्ते । अत एव नवमे (पा०३। अ०२) जातिनैमित्तिकं यथास्थान- मित्यधिकरणे । “मौद्गं चरुं निर्वपच्छ्यैि श्रीकाम” इति कर्मणि पौ- ण्डरीकाणि बहीषि भवन्तीति विहितेषु पुण्डरीकेषु प्राकृते हारित्य- गुणप्रकाशके पूर्वोक्त मन्त्रे ऽतिदिष्टे हरितपदस्थाने रक्तपदमूहित- व्यमित्युक्तम् । (अस्मादेवाभियुक्ततरवैदिकभाष्यकारादिलेखादवैदि- कामरकोशो ऽनाहत्यः पुण्डरीकं सिताम्भोजमिति (१)। तथा कश्चिद् गुणविधिसरूपो मन्त्रः । यथा षड्विंशतिरस्य वंक्रय इति । अत्र हि छागवंक्रीणां षविंशतिसंख्यास्वभावसिद्धा प्रकाश्यते । न तु विधीयते पार्श्वयोरवद्यतीति विधिनैव प्राप्तः । तथा । कश्चिक्रियाविधिर्मन्त्रः यथा “अश्विनोस्त्वा बाहुभ्यां सध्यासं नृचक्षसं त्वा सोमदेवसुचक्षा अवख्येषं मामेवाङ्नाभिमति गा" इति। एते हि ग्रहणावेक्षणसम्यग्जरणप्रकाशकाः प्रकरणेन विनियुक्ताः ग्रहणादीनामनुष्ठानयोग्यानां स्वाङ्गत्वसिद्धयै विधि कल्पयन्तीति तृतीये (पा०२। अ०९) लिङ्गसमाख्याभ्यां भक्ष्यार्थतानुवाकस्ये- त्यधिकरणे उक्तम् । (१) पयं पा० २ पु. ना. परन्तु टोपणीरूपेण दृश्यते ।
६६ मीमांसाबालप्रकाशे। श्चाष्टाविंशतिरपि ऋग्यजुषभेदेन षट्पञ्चाशदिति सर्वसङ्कल्पने शतं भेदाः सम्पन्नाः। पुनरप्यङ्मात्राणां चतुर्दशच्छन्दः प्रयुक्ताश्चतुर्दशभेदाः । गायत्री उष्णिक् अनुष्टुप् बृहती पङ्क्तिः त्रिष्टुप् जगती अतिजगती शक्करी अतिशक्करी अष्टिः अत्यष्टिः धृतिः अति- धृतिरिति । तत्र गायत्रीचतुर्विशत्यक्षरा । तत उत्तरोत्तरं चतुरक्षर- चतुरक्षरवृद्ध्या उष्णिगाद्याः। तेनोष्णिहि २८ अनुष्टुभि ३२ बृहत्यां ३६ पङ्क्तौ ४० त्रि- ष्टुभि ४४ जगत्याम् ४८ अतिजगत्यां ५२ शक्कर्या ५६ अतिशक्वर्या ६० अष्टयां ६४ अत्यष्टयां ६८ धृत्यां ७२ अतिधृत्यां ७६ । तत्रापि सर्वानुक्रमणीकृता गायत्र्यादीनामाद्यानां सप्तानां जगत्यन्तानां भे- दानामवान्तरभेदा अपि प्रत्येकमुक्ताः । तद्यथा । गायत्र्या नवभेदाः । गायत्री १ पदपङ्क्तिः २ उ- णिग्गर्भा ३ पादनिवृत ४ अतिनिवृत् यवमध्या ६ वर्धमाना ७ प्रतिष्ठा ८ हूसीयसी ९ इति । उष्णिहो ऽष्टौ भेदाः । उष्णिक १ पुर उष्णिक २ ककुप ३ ककुद्मयङ्कुशिरा ४ तनुशिरा ५ पिपीलिकमध्या ६ अनुष्टुवाी ७ उष्णिगेव ८ इति ० अनुष्टुभः सप्तभेदाः । अनुष्टुप् १ महापदपङ्क्तिः २ कृतिः ३ पिपीलिकमध्या ४ काविराट् ५ न. ष्टरूपी ६ विराट ७ इति । बृहत्या नव भेदाः। बृहती १ पुरस्ताबृहती २ न्यङ्कुसारिणी ३ उपरिष्टाबृह- ती ४ विष्टारबृहती ५ ऊर्ध्वबृहती ६ पिपीलिकमध्या७विषयपदा ८ बृहत्येव ९ इति पक्रष्टौ भेदाः । पङ्क्तिः १ विराट् २ सतोबृहती ३ वि- परीता ४ प्रस्तारपङ्क्तिः ५ विष्टारपङ्क्तिः ६ आस्तारपाङ्गः ७ सं- स्तारपङ्किः ८ इति । त्रिष्टुभो दश भेदाः । त्रिष्टुप् १ अभिसारिणी २ विराट्स्थाना ३.विराटरूपा ४ पुरस्ताज्ज्योतिः ५ मध्ये ज्योतिः ६ उपरिष्टाज्यो- तिः ७ महाबृहती ८ यवमध्या ९ पङ्कयुत्तरेत १०। जगत्यास्त्रयो भेदाः । जगती १ महासतो बृहती २ महापाङ्कः ३। इति । तदेवमेते आद्यानां गायत्र्यादीनां जगत्यन्तानां सप्तानां भेदा- नां पादविशेषप्रयुक्ताश्चतुष्पश्चाशत्सर्वे ऽपि मिलित्वा भेदाः सिद्धाः। एते ऽपि सर्वे प्रत्येकं चतुर्विधाः। एकेनाक्षरेण न्यूनानि बृह- मन्त्रभेदनिरूपणम्। द्गायत्र्याद्याः तावतैवाधिकाभूरिग्गायत्र्याद्याः । द्वाभ्यामक्षराभ्यां न्यूना विराट्गायत्र्याधाः द्वाभ्यामधिकाः खराद्गायत्र्याचा इति । तदेवमेतैश्चतुर्भिर्भेदैः प्रत्येकं भिन्ना पूर्वोक्ताश्चतुःपञ्चाशद्भदाः षोड- शोत्तरं द्विशतं सम्पन्नाः । अतिजगत्यादिभिरुत्तरैः सप्तभिभेदैः स- हितास्त्रयोविंशत्यधिकं द्विशतं सिद्धा इति । कात्यायनानुक्रमण्या गायत्र्यादेस्तु लक्षणम् । क्षेयं तवृत्तितः सर्वाणीहोदाहरणानि तु॥ एवं ऋङ्मन्त्राणां पूर्वोक्तैः पश्चाशद्भिर्भेदैः सह द्विश- तं त्रिसप्ततिश्च भेदा उक्ताः । यजुर्मन्त्राणां तु पञ्चाशदेव भेदाः पूर्वमुक्ताः । पुनस्तेषामप्यमन्त्रवच्छन्दः प्रयुक्ता भेदा: सन्ति । याजुषानुक्रमण्यास्तु कर्कानुसारिणः प्रामाण्यमेव नाङ्गी- कुर्वन्ति । ये ऽपि प्रामाण्यं मन्यन्ते देवयाज्ञिकादयस्ते ऽपि यजुषामनियताक्षरत्वादेकेषां छन्दो न विद्यते इति । याजुषानुक्रमणीग्रन्थमेवं व्याचक्षते षडधिकशताक्षरपर्यन्तं छन्दांसि सन्त्येव तदधिकाक्षराणां तु यजुषां छन्दो नास्तीति । यजु- षां छन्दः सद्भावप्रमाणं तु पिङ्गलसूत्रमेव । तत्र हि । अथ लौकिकमित्यतः प्राक् छन्दः । गायत्री दैव्ये- कम् । आसुरी पञ्चदश । प्राजापत्याप्टौ । यजुषां षट् । साम्नां द्विः । ऋचां त्रिः । द्वौ द्वौ साम्नां वर्धेत । त्रीस्त्रीनृचाम् । चतुरश्चतुरः प्राजापत्यायाः । एकैकं शेषे । जह्यादासुरी । तान्युष्णिकनुष्टुब्बृ- हतीपङ्क्तिनिष्टुञ्जगत्यः । तिनस्तिस्रः सनाम्न्य एकैका ब्राह्मयः ।. प्राग्यजुषामार्ण्यइति पाद इत्यधिकारात्प्राक् षोडशभिः सूत्रैरपादव- द्धानि एकाक्षरादारभ्य एकैकाक्षरवृद्ध्या सप्त गायत्र्यादीनि जगत्य- न्तानि छन्दांसि दैवी आसुरी प्राजापत्या याजुषी सामोपपदा ऋगुपपदा ब्राह्मी आर्षि चेति प्रत्येकमष्टभेदाभिन्नान्युक्तानि । तद्यथा । अत्न गायत्री तान्युष्णिगिति सूत्राभ्यां सप्तानां छ- न्दसामुद्देशः । दैव्येकैकमित्यादिषट्सूरैर्दैव्यादीनां षण्णां गाय- त्र्यादीनां पतयन्तानां षट्लक्षणान्युक्तानि । तत्र साम्नां द्विरिति सूत्रेण सामगायत्र्यां पूर्वसूत्रोक्तषण्णां द्विरिति द्वैगुण्योक्त्या द्वाद- शाक्षरतोक्ता । एवं त्रिरिति षट्कत्रित्वोक्त्या ऋग्गायत्र्यामष्टादश्य- क्षरता । एवं दैव्यादीनां षण्णां गायत्रीणां लक्षणान्युक्तानि तत उ- ष्णिगादिषु जगत्यन्तासु कियदक्षरवृद्धिरित्यपेक्षायां द्वौ द्वौ सा- म्नाम्वर्धेतति सूत्रत्रयेण क्रमात्सामगायत्रीतो ऋग्गायत्रीतः प्राजाप- त्यगायत्रीतश्च । सामोष्णिगादिषु ऋगुष्णिगादिषु प्राजापत्यष्णिगा- ६८ मीमांसाबालप्रकाशे। दिषु च द्वित्रिचतुरक्षरवृद्धिरुक्ता। तत एकैकं शेष इति सूत्रेण ( शेषे उक्तवक्ष्यमाणवृद्धि- ह्रासाविषये दैवीपूष्णिगादिषु याजुषीषु चोष्णिगादिषु क्रमे- ण १) दैव्या गायत्रीतो याजुभ्याश्च गायत्रीतश्च एकैकं वर्धेत । दै- व्या एकाक्षराया गायत्रीत एकवृद्ध्या द्वचक्षरा दैव्युष्णिक।तत एका- क्षरवृद्ध्या त्र्यक्षरा दैव्यनुष्टुबित्यादि जगतीपर्यन्ता । एवमेव षडक्षरा- या याजूच्या गायत्र्या एकाक्षरवृद्ध्या सप्ताक्षरा याजुष्युणिक् । ततो ऽप्येकवृद्ध्या ऽष्टाक्षरा याजष्यनुष्टुबित्यादि जगत्यन्तम् । ततो ज. ह्यादासुरीत्यनेनासुर्या गायत्रीत आसुरीष्णिगादिषु उत्तरोत्तरमे- कैकाक्षरहानिरुक्ता। ततस्तिस्रस्तिस्र इति सूत्रेण गायत्रीत्येवं सनाम्न्यस्तिस्रो यजु- र्गायत्री सामगायत्री ऋग्गायत्रीत्यनन्तराः पूर्वोक्तास्तिस्रो मिलिता यावन्त्यक्षराणि तावन्ति ब्राह्मयो गायत्र्याद्या इत्युक्तं तेन यजुर्गायत्र्याः षट् सामगायत्र्या द्वादश गायत्र्या अष्टादशे- दैवी १ ૨ ३ ५ आसु री १५ १४ १३ १२ ११ १० प्राजा १२ १६ २० २४ २८ ३२ पत्या याजु षी १० ११ १२ साम्नां १२ १४ १६ १८ २० २२ २४ wr ९ ६ ० ऋचां १८ २१ २४ २७ ३० ३३ ३६ आर्षी २४ २८ ३२ ३६ ४० ४४ ४८ ती क् ब्राह्मी ३६ ४२ ४८ ५४ ६० ६६ ७२ गाय उष्णि अनु बृह पङ्किः त्रिष्टु जग ष्टु ती त्येवं मिलित्वा षट्त्रिंशदक्षराणि ( तावती ब्राह्मी गायत्री एवं यजुरुष्णिहः सप्तसामोणिहश्चतुर्दश ऋगुष्णिह एकविंशतिरित्येवं मिलित्वा द्विचत्वारिंशदक्षराणि२)तावती ब्राह्मी उष्णिगित्यादियोज्यं (१)अयं पा० २ पु. ना. । (२) अयं पा० २ पु. मा० ।
मन्त्रभेदनिरूपणम् । जगतीपर्यन्तम् । ततःप्राग्यजुषामितिसूत्रेण याजुष्या गायत्र्यादेः प्राक् यास्तिस्त्रस्तिस्रः सनाम्न्यः दैवी गायत्री आसुरी गायत्री प्राजाप- त्या गायत्रीत्याद्यास्ता मिलिता यावन्त्यक्षराणि तावन्त्यायों गायत्र्या- द्या इत्युक्तम् । तेन दैव्या गायत्र्या एकमासुर्या गायत्र्याः पञ्चदश प्राजापत्याया गायत्र्या अष्टाविंशत्येवं मिलित्वा चतुर्विंशतिरक्ष- राणि तावती आर्षी गायत्री। एवं दैव्या उष्णिहो द्वे आसुर्या उ- ष्णिहश्चतुर्दश प्राजापत्याया उष्णिहो द्वादशेत्येवं मिलित्वा ऽष्टाविंश- तिरक्षराणि तावती आर्षी उष्णिगित्यादि जगतीपर्यन्तं योज्यम् । एवं षोडशभिः सूत्रैः पिङ्गलेन गायत्र्यादीनि जगत्यन्तानि सप्त- छन्दांसि प्रत्येकं दैव्यासुर्याद्यष्टभेदभिन्नान्युक्तानि । तेनैते षट्पश्चाश- द्भेदाः। एतानि च सूत्राणि यजुर्विषयाण्येव । अन्यथोक्तादीनां लोक- विषयत्वादृक्षु च चतुष्पादादिगायत्र्यादिचतुईशछन्दसामेवानुक्रमा- ण्युक्तानां प्रयोगस्यास्माभिः पूर्वमुक्तत्वादेतेषां सूत्राणां निर्विषयतैव स्यात् । एवमन्यान्यपि ऋङ्मन्त्रविषयचतुर्दशच्छन्दोभिन्नानि अथ लौकिकमित्यतः प्रागेव पञ्चदश छन्दासि चतुरुत्तरशताक्षरोत्कृति- तश्चतुरक्षरचतुरक्षरहान्याष्टाचत्वारिंशदक्षरजगतीपर्यन्तं पिङ्गले- न चतुःशतमुत्कृतिः चतुरश्चतुरस्त्यजेदुत्कृतेरित्यादिसुत्रसप्तकेनो- कानि । तानि च यजुर्मन्त्रविषयाण्येव । अन्यथा ऋङ्मन्त्रेषु अनुक्र- मण्यामतिधृत्यन्तानां चतुर्दशानामेव छन्दसामुक्तत्वाल्लौकिकाधि- काराञ्च पूर्वमुक्तत्वेन लौकिकविषयत्वाभावात्सूत्रसप्तकोक्तानां पञ्च- दशानां जगत्यादीनामुत्कृतिपर्यन्तानां निर्विषयतैव स्यादिति । अत एव हलायुधेनाथ लौकिकमिति सूत्रे व्याख्यातं पूर्वेषां छन्दसां वैदि- कत्वमेवेति । एवं च षोडशसूत्रैः पूर्वमुक्तानि षट्पञ्चाशदोभश्च सप्त- सूत्रैरुक्तानि पञ्चदशेत्येवं मिलित्वा एकसप्ततिश्छन्दांसि यजुवामु- तानि । एतान्यपि प्रत्येक ऋङ्मन्त्रवञ्चतुर्विधानि एकनाक्षरेण न्यू- नानि च । तावतैवाधिकं भूरिक् । द्वाभ्यां न्यून विराट् । द्वाभ्यामधिकं स्वराडिति । तदेवमेतैश्चतुर्भिर्भेदैः प्रत्यकं भिन्नाः पूर्वोक्ता एकसप्ततिर्भेदा- श्चतुरशीत्यधिकं द्विशतं भवन्तीति । तेन (उत्कृतिरेवैकाक्षराधिकाभूरिक् । द्वयक्षराधिकाखराडि- ति१)षडधिकशताक्षरपर्यन्तं यजुषामपि छन्दांसि सन्ति तदधिकाक्ष- राणां तु होता यक्षद्वनस्पतिमित्यादीनां यजुषामनियताक्षरत्वासू छ- (१) अयं पा. २ पु. ना० ।
७० मीमांसाबालप्रकाशे। न्दो नास्तीति सिद्धम् । एवमृङ्मन्त्राणां यजुर्मन्त्रणां च भेदा उक्ताः। अथ साममन्त्राणां गीतिमात्ररूपत्वेन यद्यपि अक्षरसंख्याविशेषरूप- च्छन्दः प्रयुक्ता भेदा न सम्भवन्ति तथापि खरूपत एव भेदाः स- न्ति । ते च सामभेदा योनिग्रन्थे उत्पन्नास्तत एव ज्ञेयाः बहुत्वात्तु विस्तरभियेह नोच्यन्ते । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे मन्त्रभेदनिरूपणम् । अथ मन्त्रप्रामाण्यम् । मन्त्राणां पदार्थत्वेन प्रामाण्यं वाक्याथै पदार्थानां प्रामाण्या- भ्युपगमादिति पार्थसारथिमिश्राः शास्त्रदीपिकायामाहुः । तस्यार्थः तर्कपादे उत्पत्ती वा वचनाः स्युरिति सूत्रे आ- चायः । प- अत्राभिधीयते यदयप्यस्ति मूलान्तरं न नः। पदार्थानां तु मूलत्वमिष्ट तद्भावनावतः ॥ इति वाक्यार्थप्रतीतो पदार्थानां करणत्वमुक्तम् । दर्शपू- र्णमासादिप्रयोगविधिषु श्रुतिलिङ्गादिविनियोज्या मन्त्रा दार्थत्वेन प्रविष्टा वाक्यैकवाक्यतयति मन्त्रावशिष्टां दर्शपूर्णमासादि- भावनां विदधतो महावाक्यस्य दर्शपूर्णमासादिप्रयोगविधेर्महावा- क्यार्थे पदार्थभूता मन्त्राः प्रमाणभावं लभन्त इति । गुरुचरणास्तु एवं सति ब्रीह्यादिवत्पदार्थविधयैवैषां प्रामा- ण्यं स्यान्न शब्दविधयेति दूषयित्वा स्मृतिवद्याथायलक्षणमेवैषां प्रा- माण्यामित्याहुः । भट्टसोमेश्वरस्तु अनधिगतार्थगन्तृत्वमप्याह । प्रपादिस्मृतिलिङ्गत्वं मन्त्राणां वक्ष्यते ऽत्र यत् । देवताकल्पनं यश्च मान्नं तस्माद्यजिश्च यः॥ मन्त्रवर्णाश्च यजोतुः पूर्वपानं वदिष्यते । मे देहीत्यात्मवादित्वान्मन्त्राणां याजमानता ॥ करणानां त्वार्विजत्वे ऽप्यङ्गसाध्यफलस्य यत् । स्वामिगत्वं क्रियार्थस्य कर्तृगत्वं च वक्ष्यते ॥
मन्त्रप्रामाण्यनिरूपणम् । ७१ मन्त्रक्रमानुरोधाच्च ब्राह्मणक्रमबाधनम् । छागस्य निश्चयो यश्च पशावूहश्च मन्त्रगः ॥ तदर्थपरतायां स्यात्सर्व नैवान्यथा भवेत् । सर्वसाधारणत्वेन विचारस्य प्रयोजनम् ॥ कर्मकाले तु सन्धेयो मन्त्रार्थो ऽर्थपरत्वतः । इषेत्वादिषु चोच्चार्य छिनमीत्यादिपूर्तये ॥ असावित्यादिशब्दस्य स्थाने यष्ट्रादिनाम च । सिद्धान्ते मन्त्रलोपश्च प्रकाश्याभाव इष्यते ॥ यथाम्नातप्रयोगस्तु केवलो ऽर्थाविवक्षणे । यदि त्वर्थपरत्वे ऽपि नैतावत्स्यात्प्रयोजनम् ॥ ततो धर्मप्रमाणत्वं मन्त्राणां नैव सिध्यति । लवनादिवरूपस्य प्रकाश्यत्वे हि धर्मता ॥ समीहिताङ्गताभावान्न कथं चित्प्रतीयते। अपूर्वसाधनत्वेन यद्यप्येतत्प्रकाश्यते ॥ विधिप्राप्तानुवादत्वान्न तथापि प्रमाणता । अपूर्वसाधनत्वात्तु लवनादौ समीहिते ॥ आत्मनो ऽङ्गत्वबोधेन मन्त्रः प्रामाण्यमश्नुते । अश्रुतद्रव्ययागादिकल्पनाञ्च प्रमाणतेति ।। तत्रापि गुरुचरणोक्ते याथार्थ्यलक्षणे प्रामाण्ये सोमश्व- रोक्ते च सर्वमन्त्रसाधारणे मन्त्रार्थानुसन्धानविषये प्रामाण्य जपमन्त्रेवव्याप्तिरूपो दोषो ऽस्त्येव । अविवक्षितार्थकमुच्चार- णमात्रमेव हि जपः । तदुक्तं द्वादशे । यत्र सन्तमप्यर्थमविव- क्षित्वोच्चारणमात्रमदृष्टार्थ क्रियते यथा वैष्णवीमृचमनूच्यति स जप इति । तत्र सन्तमपीत्यपिशब्दात्त चिदर्थाभावो ऽपि प्रतीयते । त- तश्चासतः कुतो याथार्थ्यं कुतो वानुसन्धानमिति केचित् । तन्न । जपमन्त्राणामपि सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमं पारिप्लवं शंसतीति गुणगुणिसम्बन्धकीर्तनात्मके शस्त्रे विनियोगाद् गुणगुणिसम्बधरूपे ऽर्थे तात्पर्यमस्त्येव । तेन ते- षां मन्त्रार्थीनुसन्धानविषये प्रामाण्यं सम्भवत्येव । याथार्थ्य तु त- त्राप्यव्याप्तमेव । ननु तत्रापि लक्षणया याथार्थ्यं वाच्यमेव । अत एवार्थवादाधिकरणे धूम एवाग्नेर्दिवा दहशइत्यादिष्वय- थार्थेषु गुणवादस्त्वित्युपक्रम्य दूरभूयस्त्वादित्यादिसूत्रैरुपचारादेव याथार्यमुक्तमिति चेत् न ।
૭૨ मीमांसाबालप्रकाशे। तेषूदाहरणेषु सम्भवमात्रेण तदुक्तं न स्वयं नियमः । अस- तापि गुणेनासतो ऽपि गुणिनः स्तुतिबुद्धयुत्पत्तिसम्भवात् । अत एवार्थवादाधिकरणएव "प्रजापतिरात्मनो वपामुदखि- ददि"त्यत्र महाभूतविषयत्वेन भाष्योक्तां व्याख्यामेवं तु स्तुतित्वमेव हीयतइति दूषयित्वार्थवादादिमूलिकां सृष्टिप्रलयप्रतीतिमात्रेणास- तो ऽपि प्राजापतेरसतापि गुणेन स्तुतिरङ्गीकृता । तस्मात्स्तोत्रमन्त्रेषु याथार्थ्यमव्याप्तमेव । मन्त्रार्थानुसन्धान- विषयं तु प्रामाण्यम् । सम्भवतीति तदेव युक्तमिति सिद्धम् । नन्वेवमपि साममन्त्राणां कथं शब्दविधया प्रामाण्यमि- ति चेतू । उच्यते । तेषामशब्दतायामपि शब्दाभिव्यञ्जकत्वेन शब्दानुग्रा- हकत्वाच्छाब्दप्रमाजनकसामग्यन्तर्गतत्वेन शब्दप्रमाणान्तर्भावात् । सा चेयमप्यनुक्केषु प्रजापतेर्हृदयादिषु विधा न सम्भवति । अतस्तान्यपि व्याप्नोतीतीहशं पदार्थविधया प्रामाण्यं मित्रैरुक्तम् । तानि चानृक्वाणि पञ्चत्रिंशत्सामानि । अर्कग्रीवमेकम् । पञ्चानुगानमध्ये सामत्रयम् । हा उहो वा सामैकम् । हा उवाक् सामानि त्रीणि । वाचो व्रते द्वे। सत्रस्पर्धि एकम् । परमेष्ठिसामैकम् । आङ्गिरसव्रतमेकम् । इलान्दमेकम् । सधस्थमेकम् । देवव्रतानि त्रीणि। कत्पयग्रीवमेकम् । प्रजापतेर्हृदयमेकम् । अनडुद्रतमेकम् । महादिवाकीानि नव । सत्वाभूतमेकम् । धर्मवोचनमेकम्। आदित्यआत्मैकम् । इन्द्ररोचनमेकम्।
७३ अर्थभावनानिरूपणम् । इडानां सङ्कार एकमिति। इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे मन्त्रप्रामाण्यनिरूपणम् । ॥ इति प्रथमाध्यायार्थसंग्रहः ॥ अथार्थभावनानिरूपणम् । सैव हि सर्ववाक्येषु मीमांसकम- ते कारकविशिष्टरूपेण वाक्यार्थो न नैयायिकवत्संसर्गः । तदुक्तम् । तद्भूताधिकरणे । भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया। अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥ इति अर्थकत्वादेकं वाक्यमित्यत्राप्युक्तम् । भावनैव च वाक्या- थःखकारकविशेषितेति संसर्गो भेदश्च न वाक्यार्थः इत्युक्तम् । तत्रैव भाष्ये । भेदःसंसर्गो वा वाक्यार्थ इति यद्युच्यते तथाप्येकार्थता न स्यात् । बहुपदेषु भेदानां संसर्गाणां च बहुत्वादिति । तद्विवरणं तु वार्तिके कृतम्। व्यक्तिपदार्थपक्षे सर्वव्यक्तीनां गवादिपदेनैवोपात्तत्वातद्वि- शेषशब्दैः शुक्लादिभिः कृष्णादिव्यवच्छेदमात्रं कर्तव्यं तत्संसर्गः पदार्थान्तर्गतत्वान्न वाक्यार्थों भवतीति तदुपसर्जनस्तेषां भेदो गृह्यते । स च यथा शुक्लशब्देन गोशब्दस्य कृष्णादिभ्यो भिद्य- मानत्वाद्भवति। एवं शुक्लशब्दस्यापि गोशब्देनाश्वादिभ्यो व्यावर्ति- तस्य भवति । व्यवच्छेद्यनानात्वाच्च नास्त्येकवाक्यत्वे प्रमाणम् । भेदसामान्यग्रहणे चासर्ववाक्याथैकत्वप्रसङ्ग इति । तथाकृति- पदार्थपक्षे शुक्लत्वगोत्वयोः स्वरूपेणाभिहितयोः सन्निधानादि- तरेतरानुसञ्जनादर्थसिद्धो भेदो न वाक्यार्थः । स च गोत्वे शु- क्लत्वसंसर्गः शुक्लत्वे च गोत्वसंसर्गः सामस्त्येनैकव्यक्त्युपसंहा- रादुपलभ्यत इति नाना। यद्यपि च कथं चिद्विपदे स एवोभयत्नापि संसर्ग इत्येकत्वं गम्येत तथापि बहुपदे येन प्रदेशेन पदद्वयं संसृज्यते तेन तेन त- संसर्गरूपापलब्धेरनेकत्वमिति । सा च भावना सर्वैः पदैः का- ७४ मीमांसाबालप्रकाशे। रकविशिष्टत्वेन लक्ष्यते तत्रैकैककारकविशिष्टत्वेन तत्तत्कारकपदैः क्रियापदेन तु सर्वकारकविशिष्टत्वेन । तदुक्तं भावार्थाधिकरणे (अ०२ पा० १ अ० १) यदि हि धर्मस्वरूपमभिधीयत ततः किं पदेन पदेनोच्यते इति विचारो युज्येत लाक्षणिकत्वे त्वयुक्त इति । वाक्यार्थो लक्ष्यमाणो हि सर्व- त्रैवेति नः स्थितिरिति च । लक्षणा च पदार्थधर्मो न पदधर्मः । तदुक्तम्। तेन तल्लक्षितव्यक्तः क्रियासम्बन्धचोदनेति । तच्छब्देनाकृतिः परामृश्यते । तथा न्यायसुधाकृताप्यर्थवादा- धिकरणे लिङः प्रवर्तनासामान्ये शक्तिमुपपाद्योक्तं प्रवर्तनासामा- न्यस्य वाच्यत्वे ऽवगते तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्माणां वेदे ऽनुपपत्तेस्तद्विलक्षणं विशेषान्तरमभिधेयेन सामान्येन विधि- प्रेरणानियोगाख्यं लक्ष्यतइति । अत्र वाच्यप्रवर्तनासामान्यधर्म एव लक्षणेत्युक्तं न शब्द- धर्म इति । सेयं वाक्यार्थभूता भावनार्थभावनति गीयते अर्थयत- इत्यर्थः फलकामः पुरुषस्तद्धर्मत्वात् । सा च प्रयत्नरूपैव, रथा गच्छतीत्यादौ च लक्षणेति भट्टसोमेश्वरो भावार्थाधिकरणे प्रत्य- पादयत्। मिश्रास्तु प्रायेण पुरुषधर्मः प्रयोजकव्यापाररूपैव त्वसौ रथो गच्छतीत्यादावपि गत्यनुकूलचक्रभ्रम्यादिरूपास्त्येवेति न लक्षणेति भावार्थाधिकरणएव प्रोचुः । सा च किं करोति पचति पाकं करोतीति च करोतिसामा- नाधिकरण्यात्सर्वाख्यातवाच्या । करोतिश्च किं चिदुत्पाद्यवस्त्वन्तरविषयं प्रयोजकव्यापारमे- वाह । तस्याश्च पूर्वापरीभूतं सर्वकारकान्वययोग्यं क्रियारूपमाख्या- तेनैवोच्यत इत्यनन्याख्येयो भावार्थ इत्युभये ऽप्याहुः । यथा कर्मत्वं द्वितीयावाच्यम् । अत एव घटः कर्मत्वमानयनं कृतिरित्ययोग्यं वा- क्यमाहुः । सा च चेतनप्रवर्तनात्मकविध्यवरुद्धा पुरुषार्थरूपं भाव्यं विना विध्यनुपपत्तेः पुरुषार्थरूपं भाव्यमवलम्बमाना तस्यानि - तकरणत्वादनिर्शातेतिकर्तव्यताकत्वाञ्च खयं शास्त्रीय सच्छास्त्रीये एव करणतिकर्तव्यते गृह्णाति । इत्यर्थभावनानिरूपणम् । एतामेव च भावनां साक्षाद्विषयीकुरुतो विधिप्रतिषेधौ तदद्वारा तु तद्विशेषणानि कारकाणि । तदुक्तम् । तद्भताधिकरणे।
शब्दभावनानिरूपणम् । विशिष्ट भावनां प्राप्य वृत्तिर्विधिनिषेधयोरिति । तत्र विधिःप्रेरणा नियोग इत्येकार्थाः । सैव च शब्दभावने- त्यप्युच्यते । लिङादिरूपशब्दधर्मत्वात् । तदुक्तं भावार्थाधिकरणे । अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते । इति । अभिधीयते ऽनेनेत्यभिधालिदिः शब्दम्तद्धर्मो ऽभि- धाभावना शब्दभावनति यावत् । सा च सामान्यतो विशेषतश्चैवं साध्या । स्वतन्त्रपुरुषप्रवृ- त्तिर्द्विधा लोके दृश्यते । क्व चित्स्वेच्छयाथै सुखार्थ प्रवर्तते । क चिदन्यप्रेरित आचार्यप्रेरितो ऽहं गामानयामि न स्वेच्छयेति व्यव- हारातू । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति प्रवर्तयितुं तथापि खारसिकेच्छारहितमपि शिष्यादिकं खप्रवर्तनाबलेनेच्छामुत्पाद्य प्रव- यतीति द्वैविध्योपपत्तिः । तत्र शब्दश्रवणानन्तरभाविन्यां प्रवृत्तावाचार्यादेः स्वप्रवर्त- नाझानजननेन प्रवर्तकत्वमवसीयते । का पुनः प्रवर्तना प्रवृत्तिहेतुभू- तः प्रवर्तयितुर्धर्मः । प्रवर्तायतृधर्मत्वाभावे यज्ञदत्त एव मां प्रवर्तय- ति न देवदत्त इति व्यवस्थानुपपत्तेः । प्रवृत्तिहेतुज्ञापकत्वेन तु व्य- वस्थोक्ती देवदत्तस्त्वां प्रवर्तयतीति प्रवर्तनाज्ञापनाद्यज्ञदत्तस्यापि प्रव- तकत्वापत्तिः । तथा लौकिकलिङोऽपि गुर्वादिगताशादिज्ञापकस्य प्रवर्तक- स्वोपपत्तिः । लोके चाचार्यादेः प्रवर्त्तयितुर्धर्मो ऽहमेनं प्रवर्त्तया- मीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः प्रैषादिरूपो नापह्नोतुं शक्य- ते । वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्तकत्वात्तद्धर्मों ङ्गीकार्यः स एव विधिः। तत्रोत्तमप्रवर्तनमध्येषणम् । समस्यामन्त्रणम् । नीचस्य निम- न्त्रणमाज्ञाख्यम् । एषु च लिङादेरनुशासनाच्छक्तिग्रहः । तत्र बानार्थत्वपरि- हाराय प्रवर्त्तनारूपमनुस्यूतं चतुर्वपि यच्चतुष्टयानुगतमेकं प्रवर्त्त- नात्वं शक्यतावच्छेदकम् । ईप्सितानीप्सितकर्मणोरिव साध्यत्वं द्वितीयाया मिश्रमते । अत एव हरदत्तः । अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ इत्याशङ्ख्याह । न्यायव्युत्पादनार्थ वा प्रपश्चार्थमथापि वा। .
७६ मीमांसाबालप्रकाशे। विध्यादीनामुपादानां चतुर्णामादितः कृतमिति ॥ अत्र लौकिकनिमन्त्रणादिभ्यो ऽन्योऽप्यलौकिको भेदो ऽस्ति । न्यायसिद्ध इति न्यायसूचनं न्यायव्युत्पादनं वाच्यतावच्छेदकस्य प्र- वर्तनात्वस्याश्रया इयत्यो व्यक्तयो न लौकिक्य एवेति सूचनं प्रपञ्चः । ननु लोडर्थप्रैषातिसर्गयोरपि प्रवर्तनात्वात्कथं चतुरुक्तिः। मैवम् । कामचारानुशारूपस्यातिसर्गस्य कामचारकरणात्मकामन्त्रण- रूपत्वात् । प्रवर्तनासामान्यस्यैव च प्राप्तविषयत्वविशेषितस्य प्रेष- त्वात् । तदुक्तम् । प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रेषणं सर्व विधित्वं प्रतिपद्यते ॥ इति "स्वाध्यायो ऽध्येतव्य" इत्यादी प्रैषान्तःपातिविशेष्यभू. तप्रवर्तनामात्र लक्ष्यम् । अप्राप्तप्रवर्त्तनं च विधिरिति विधातृतेत्युत्त- रार्धार्थः। न्यायसुधायां तु शक्तिग्रहो ऽन्यथोक्तः। बुभुक्षितस्य बालस्य रोदनेन स्तनपाने प्रवर्तनां ज्ञात्वा स्तनदाने माता प्रवर्तते । तदासौ तस्या मातुः प्रवृत्तेः कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या ख- प्रवर्तनायां कारणत्वं प्रकल्प्य गामानयति वाक्यश्रवणानन्तरं प्रयो- ज्यप्रवृत्तिं दृष्ट्वा मातृप्रवृत्तिदृष्टान्तेन तस्यामपि प्रवर्तनाज्ञानस्य कार- णत्वमनुमाय तत्कारणजिज्ञासायां लिङादिशब्दश्रवणानन्तर्यात्तस्यै- घान्वयव्यतिरेकाभ्यां प्रवर्तनाभिधानशक्ति कल्पयतीति । अथ प्रवर्तनालक्षणे पूर्वोक्त पदकृत्यम । तत्राद्यविशेषणेन प्रवर्तयितृकृतयागादेर्निरासः । धर्मशब्देन च समवेतत्ववाचिना प्रवर्तयितृसम्बन्धिनामपि तदसमवेतानां प्रवर्त्यलिशब्दतदुच्चार- णानां निरासः। सर्वस्यापि लक्षणस्य फले तिव्याप्तिस्तस्य प्रवृत्ति प्रति हेतु- त्वात् । प्रवर्तयितृगुर्वादिधर्मत्वाच । अतः परसमवेतप्रवृत्तिहेतुत्वमत्र विवक्षितं फलं तु प्रवाय- तुरेव प्रवृत्तेर्हेतुर्न परसमवेतप्रवृत्तरिति नोक्तातिव्याप्तिः । महामुद्गलभट्टास्त्वाहुः । धर्मशब्देनापूर्वनिरासः । प्रवर्तयि- तृशब्देनेष्टतत्साधनत्वयोः । आद्यविशेषणेन निष्ठीवनादीनामिति । धर्मशब्देनापूर्वनिरासायोगात् । अपूर्व हि प्रवर्त्यगतं प्रवर्तयि ७७ शब्दभाधनानिरूपणम्। तृगतं था । आधे प्रवर्त्तयितुरिति षष्ठा प्रवर्तयितृसम्बन्धित्वोक्तः प्रवर्त्यगतस्य चापूर्वस्य प्रवर्त्तयितृसम्बन्धाप्रसिद्धस्तद्गतातिव्याप्तेः प्रचयितुरिति षष्ठयन्तेनैव निरासात् । द्वितीये प्रवर्त्तयितृगतस्या- पूर्वस्य प्रवर्त्यप्रवृत्ति प्रति हेतुत्वाभावेन तद्गतातिव्याप्तेः प्रवृत्ति- हेतुरित्यनेनैव निरासादिति । तदिदं भट्टसोमेश्वरमतं तदभिधाव्यापारस्यैव विधिरूपभा- वनात्वे बाधकाभावान्निर्मूलम् । तदेतन्मतं मित्रैः षष्ठाये शास्त्रदीपिकायामुक्तम् । अंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापारो ऽस्य प्रवर्त्त- कस्यार्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्त्तनारूपत्वमिति । यत्तु अस्तु तयभिधानाख्यो व्यापारो ऽस्य प्रवर्तकः । तस्य ह्यर्थप्रतीत्याख्यकार्यक्लप्तस्य केवलम् । कल्प्यं प्रवृत्तिहेतुत्वं लिवाच्यस्योति लाघवम् ॥ इत्याशड्य। शब्दान्तरगताप्यास्मिन्नभिधा स्यात्प्रवर्तिका। पक्षे ऽर्थतो विशेषश्चत्स एव स्यात्प्रवर्तकः ।। इति दोषद्वयमुक्त्वा। न चास्या अभिधेयत्वाद्विशेषः कार्यतो गतेः। न युक्तं ह्यभिधेयत्वं सर्वासां वा प्रसज्यते ॥ इत्यनेन पूर्वदोषद्वयोद्धारपूर्वकमन्यदोषद्वयमुक्त्वा तदुद्धारः। अथ प्रवर्तनात्वेन कार्यादनवबोधतः । तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ इत्याशङ्य ।तन्न । अस्याह्यभिधानात्प्राक्चत्प्रवर्तकरूपता स्या- द्वयर्थमाभिधेयत्वम् । नास्ति चेत्स्यादसत्यतेति विकल्प्य दूषणद्वय- तदेतल्लिङः प्रवर्तकत्वं विहाय तदभिधायाः प्रवर्तकत्वे ज्यते । अभिधानं विनापि हि प्रवर्तकस्वभावस्य लोके आचार्यो- देर्वेदे च लिङादेर्व्यर्थमेवाभिधेयत्वम् ।न विदं दूषणं लिङः प्रव- तकत्वे ऽभिधायाश्च प्रवर्तनात्वे प्रसज्यते । यथा ह्यभिधार्थबा- धाख्यकार्याद् बुद्धापि न प्रवृत्तिहेतुरेवं त्वदभ्युपेतो ऽपि व्यापारी ऽग्निहोत्रादी प्रवृत्तिं दृष्ट्वा 55प्तवाक्याद्वास्ति कश्चिल्लिङो न प्रवृत्ति- हेतुर्व्यापार इति सामान्यतो ऽवगतो ऽपि न प्रवृत्तिहेतुः । अत- स्त्वयाप्यसौ प्रवर्तनात्वेन शब्देन तत्रापि लिवाभिहितः सन्खस्य प्रवर्तनात्वनिर्वाहाय खविषयस्येष्टसाधनताक्षेपमुखेनेच्छाञ्जनयन्प्रवृ- मुक्तम्।
मीमांसाबालप्रकाशे। तौ हेतुर्वाक्यार्थज्ञान इव पदाभिहित एव पदार्थ इत्यवश्यमभ्युपेयम्। तच्चैतन्ममापि तुल्यमिति न सोमेश्वरोक्तदूषणावकाशः कश्चित् । तस्माद्वेदे लिङादिरेव प्रवर्तकः । तदभिधैव चप्रवर्तनाविशेषः प्रेरणा विधिरिति वोच्यतइति । इति विध्याख्यशाब्दभावना नि- रूपणम् ॥ निवारणारूपापिशब्दभावना निवर्तनारूपसामान्यतो निवारणा रूपविशेषतश्च विधिवदेव प्रसाध्या । सापिच निवृत्तिहेतुर्निवर्तयितु- धर्मरूपाहमेनं निवर्तयामीति निवर्तयितुर्मानसप्रत्यक्षवेद्या प्रवर्तना- वत् । सापि च न्यूनोत्तमसमविषयत्वेन वेधा लोकेषु धर्मों वेदे च पुरुषाभावात्तदीयाशयविशेषरूपतत्त्रयांसम्भवाल्लिङादेरेव नि- वर्तकत्वात्तद्धर्मभूता चतुर्थ्यपि विधाङ्गीकार्या । सैव च प्रतिषेधो निषेध इति च गीयते । लोके तु तदुभयव्यवहहारो विधिव्यवहारवद्भाक्त एव । तत्र त्वतावान्विशेषः । न निवर्तनायां विधिनिमन्त्रणेतिवत्प्रवर्तनायां शक्तिग्राहक- मनुशासनमस्ति तथाप्यनादौ संसारे नञ्युपहितलिङादिश्रवणानु- विधायिनी प्रयोज्यवृद्धनिवृत्तिं दृष्ट्वा आवापोद्वापाभ्यां न पहित- लिङादेर्निवृत्तावेव शक्तिग्रहे प्रसक्ते गुरूणा हनिवर्तकेन निव- तितो निवर्ते इत्यादिगुरौ निवर्तकत्वव्यवहारान्यथानुपपत्त्या प्रव- तैनायामिव प्रवर्तकत्वान्यथानुपपत्त्या तद्व्यापारभूतायां निवर्त- नायां शक्तिग्रहो भवति व्युत्पित्सोः । तदुक्तं तद्भूताधिकरण- वार्तिके। विधायकैरसंयुक्तो न हि नम्प्रतिषेधकः । विधिना युज्यते यत्र न हन्यानपि चेदिति ॥ तत्राभावार्थता नैव स्वयं पुंसो रुणद्धि हि । इति अत्र नो निवर्तनायां शक्तिरुक्ता । नम्टीकायां तु प्रतिषेधविधिपरो हि विधायक इत्यादौ प्रत्ययावृत्तिलक्ष- णो वाक्यभेदप्रसङ्गः इत्यन्ते ग्रन्थे विधायकपदेन लिङ एव प्रतिषे- धार्थतेत्यपि पक्ष उक्तः। तथा च निषेध्यलिङ्गविवक्षायां तस्यैवावृत्तिरुक्ता न नत्रः । येषान्त्विति ग्रन्थे तु पूर्वमतमप्युक्तम् । तत्र नआदेरभावविषयाया लिङादेश्च प्रवर्तनाविषयायाः शक्तस्त्यागस्याविशेषे ऽपि। तथा ना- देर्निवर्तनावाचित्वपक्षे तत्समभिव्याहृतलिङादेरागादिप्राप्तप्रवर्तना- नुवादकत्वस्य लिङादेश्च निवर्त्तनावाचित्वपक्षे नादेस्तत्फलीभू- शब्दभावनेतिकर्तव्यतानिरूपणम् । तार्थप्रवृत्त्यभावानुवादकत्वस्याविशेषे ऽपि अमानो नाः प्रतिषेध इत्यव्ययचतुष्टये शक्तिचतुष्टयं कल्प्यमित्याद्यपक्षे लाघवम् । लि- ङ्लोट्पञ्चमलकाराणां तव्यादीनां चानेकेषां कृत्यानां चतुष्टयाधि- कशक्तिकल्पनापत्त्या गौरवान्न प्रत्ययशक्तिकल्पनापक्षो युक्त इति न- त्रि शक्तेर्वार्त्तिककृता द्विरभिधानेन तत्रादरं सूचयता ध्वनितमिति । इति प्रतिषेधाख्यशब्दभावनानिरूपणम् । सेयं द्वष्यपि शब्दभावना प्राशस्त्याप्राशस्त्यज्ञानानुगृहीतैव खफलभूतां प्रवृत्तिं निवृत्तिं च जनयतीति तदितिकर्तव्यतात्वेनापेक्षते गृह्णाति चार्थवादैः खाम्नानार्थवत्त्वाय लक्षितम् । तस्याश्चेति कर्त्तव्य- तापेक्षातदन्वयश्चार्थभावनावद्विध्यन्वयात्कर्तव्यत्वेन प्रतीतौ तत एव च भाव्यकरणयोराकाङ्क्षापूर्वमन्वये स्यात् नान्यथा न च शब्द- भावना ज्योतिष्टोमादिप्रातिस्विकविधिवाक्येषु स्वरूपतः सत्यपि कर्तव्यत्वेन प्रतीयते किं त्वर्थभावनैव । अतो ऽध्ययनविधौ सा विधीयमानत्वात्कर्त्तव्यत्वेन प्रतीयते । तदुक्तं वार्तिक । सा ह्येवं प्रवर्तते इति । व्याख्यातं चाभियुक्तैः। अध्ययनविधिवशात्कार्यत्वेन प्रतीयतइति । ननु तत्राप्याख्यातप्रत्ययोक्तार्थभावनैवाध्ययनकरणिका वि- धीयते न तु प्रेरणा तस्या आख्यातवाच्यत्वाभावाल्लिङा च विधि- द्वयानुक्तेः । अत्रोच्यते । न तावत्सक्नुहोमवद् द्वितीयाभङ्गोत्र पुराहतं वृणीतइति वत्तु द्वितीयावधृतप्रधानभावं स्वाध्यायं प्रति गु- णभूताध्ययनभावनावगता। ततःसंस्कार्यत्वानुपपत्त्या ऽयमेव विधिः शक्त्यनुसारेण स्वाध्यायं सम्भविनि इष्टे विनियुज्य पर्यवस्यतीति तृ- तीये उक्तम् । तत्र विध्यंशे तावत्पुरुषप्रवृत्तिरेव दृष्टम् । तत्र च शब्दानां करणत्वं वा कर्तृत्वं वा निरूप्यते इति वार्त्तिकाल्लोकउभ- यविवक्षासम्भवे ऽपि वेदे प्रवयितृपुरुषाभावेन कर्तृव्यापारव्याप्य- त्वनियतकरणत्वासम्भवात्स्वातन्त्र्याच्च कर्तृत्वेनैव स्वाध्यायो वि. नियुज्यते। अन्तरङ्गं च कर्तृ ( कारक क्रियायाः। अत एवाख्याता- भिहिता संख्यानभिहिते ऽपि कर्तर्येवान्वेतीत्युत्सर्ग इत्युक्तं कत्र- धिकरणे। एवं कर्तृ१)तया खाध्याये विनियुक्ते ऽर्थवादादेर्गुणत्वाद्वि- धायकस्य च प्राधान्यात्प्रातिस्विकवाक्यस्था लिङः कर्तृत्वेन विनि- युज्यन्ते ऽध्ययनेनोपात्ता लिङो भावयेयुरिति । ततः कि- मित्यपेक्षिते सामर्थ्यादेव पुरुषप्रवृत्तिमिति भावयेयुरितिवध्याहृत्य सम्बध्यते। (१) अयं पा०२ पु. ना. ।
मीमांसाबालप्रकाशे। धः श्रुतार्थापत्तिमूलकश्चायमध्याहार इषेत्वा छिनमीत्यादिवत् । तदुक्तमर्थवादाधिकरणवार्त्तिके ततः किमित्यपेक्षिते साम- •देव पुरुषप्रवर्तनमिति सम्बध्यते इति । तेनेदं श्रुतानुमितैकदे- शनिष्पन्न महावाक्यं भवति । अध्ययनसंस्कृताः स्वाध्यायपदो- पात्ता लिङः पुरुषप्रवृत्तिं भावयेयुरिति । अयमेव च वाक्यार्थः पारमार्थिको ऽन्यथाशब्दभावनायाः कार्यत्वानवगमात्तदिति कर्त- व्यताभूतप्राशस्त्यलक्षणयार्थवादप्रामाण्यं न सिध्येत् । नन्वर्थवादाधिकरणएवाद्यसूत्रे चाचार्यैः कर्मस्वर्थज्ञानस्य लैङ्गिकविनियोगात्तदर्थो ऽध्ययनविधिरधीतेन स्वाध्यायेन फलव- दर्थावबोधं भावयेदितीत्युक्तम् । तद्विरुद्धा कर्तृत्वोक्तिः प्रवृत्ति- फलत्वोक्तिश्च सत्यमुक्तम् ।न तु विरोधः । शब्दभावनायां हि लिङा- दीनां कर्तृत्वे सत्यर्थात्फलवदर्थावबोधे करणत्वं फलितं भवतीति प्रवृत्तिकर्तृत्वमेवार्थावबोधकरणत्वेन फलितं व्याख्यातमित्यविरो- । प्रवृत्तिफलत्वं तु फलवर्थावबोधद्वारेत न भाव्यद्वयविरो- । लिङो हि प्रवृत्तिरूपस्य वाक्यार्थस्येष्टसाधनतया बोधं कृ- त्वाप्रवृत्तिं जनयन्ति नान्यथेति नन्वेवमपि चेतनप्रवर्तनात्मा विधिः काथमचेत्तनाल्लिङो नियुञ्जीतेति चेत् । सत्यम् । उपायासत्यत्वे ऽप्युपेयसत्यत्वात् । यथा वर्णलोपागमविका- राधसत्यत्वे ऽपि तेनं सत्यमेव साधुत्वं ज्ञाप्यते शिष्टपरिग्रहायात- व्याकरणप्रामाण्यात् । एवमिहाध्येता तावल्लिङ् मां प्रवर्तयतीति लि- व्यापारभूतशब्दभावनाकर्त्तव्यतां बुध्यते तद्गतचैतन्यस्य लि. यारोपानियोज्यत्वमसत्यमेव । तेनोपायेन शब्दभावनाकर्त्तव्यत्वं सत्यम् ज्ञाप्यते अर्थवादप्रामाण्यातू तस्याह्यकर्तव्यत्वे तदितिकर्तव्य- ताभूतप्राशस्त्यानपेक्षणात्तलक्षणयार्थवादप्रामाण्यं न स्यादिति । एवं कर्तव्यत्वेनावगतायाः शब्दभावनायाः करणं शक्त्यालोचनयैव वि- धिज्ञानमेव। अथ केनेत्यपेक्षितं पूर्वसम्बन्धानुभवापेक्षेण विधिविज्ञानेनेति सम्बध्यत इति वार्त्तिकात् । युक्तं चैतत् । यागो हि स्वरूपतो भावन- या साध्यः संस्तस्यां फलोपहितायां करणं भवति । एवं विधिज्ञानम- पि स्वरूपेण विधिना विषयेण साध्यम् । सत्तत्रैव शब्दभावनायां प्रवृत्तिरूपफलोपहितायां करणं भवति । केचित्सबन्धस्मरणमेव क- रण विधिज्ञानं तु तव्यापारः करणत्वनिर्वाहको यागस्यैवापूर्वमि- त्याहुः। लिडो भिधा सैव च शब्दभावना ।
कर्मभेदनिरूपणम् । ८१ भाव्यं च तस्याः पुरुषः प्रवृत्तिः॥ सम्बन्धबोधः करणं तदीयम् । प्ररोचना चाङ्गतयोपयुज्यते ॥ इति । अत्र प्ररोच्यते ऽनयेति प्ररोचना प्राशस्त्यज्ञानम् । त- ञ्चाङ्गं फलोपकारिप्रयाजादिवत् । तजन्य तु प्ररोचनं प्रवृत्तिप्रतिब- न्धकालस्य भङ्ग उपकारो ऽङ्गत्वनिर्वाहकः । प्रयाजादिजन्यापूर्ववत् प्रयाजद्रव्यदेवतवच्चात्रार्थवाद इति ज्ञेयम् । इति शब्दभावनेतिकर्त- व्यतानिरूपणम् । अथ द्वितीयाध्यायार्थकर्मभेदप्रसङ्गात्सर्वे कर्मभेदा निरू- प्यन्ते । तत्र कर्म द्विविधं लौककं वैदिकं च । वैदिकमपि त्रिविधं प्र- वृत्तिरूपं निवृत्तिरूपमुभयरूपं च । अन्त्यं पर्युदासाख्यामति । तत्राद्यं कर्म द्विविधं क्रत्वर्थ पुरुषार्थ च तन्त्ररत्ने तु लिप्सा- सूत्ने प्रथमवर्णके वैदिककर्मणां त्रैविध्यमुक्तं कृत्वर्थ पुरुषार्थमनु- भयरूपं च अध्ययनमाधानं च न क्रत्वर्थ न पुरुषार्थमिति (तन्त्ररत्ने द्रव्यार्जनवर्णके १) शास्त्रदीपिकायां तु तत्रैव । यद्भावना कथं भावपूरणार्थ विधीयते। तक्रत्वर्थम् । अन्यत्करणं फलं च पुरुषार्थमिति ग्रन्थेन द्वैविध्यमेवोक्तम् । तद्गुरूणामपीष्टम् । तन्मतं हि तत्र तन्त्ररत्नएवोक्तम् । अध्ययनस्य पुरुषार्थत्वमिष्टमिति । त्रैविध्ये तु मूलं द्रव्या- जनवर्णक एव नचाधानवद्भवितुमर्हतीति भाष्यस्य कोक्त्यर्थे वार्तिके यथाधानं न क्रत्वर्थ न पुरुषार्थमेवं कस्मान्न भ- वतीति ग्रन्थस्य पूर्वपक्षग्रन्थत्वे ऽपि आधानं न पुरुषार्थमिति सि- द्धान्तवार्तिकम् । तत्तु तन्त्ररत्ने प्रत्यक्षेण द्रव्यार्जनस्य यथापुरु- षार्थतावगम्यते नैवमाधानस्येत्यभिप्रायं व्याख्यातम् । अतो न वार्तिकं न किंचिन्त्रविध्ये मूलमस्ति द्वैविध्ये तु मूलमथातः क्रत्व- र्थपुरुषार्थयोर्जिज्ञासेति सूत्रमेव । अत्र हि द्वैविध्यमेव कर्मणामुक्तं न त्रैविध्यम् । भाष्यमप्ये- वमेव अङ्गं क्रत्वर्थः प्रधानं पुरुषार्थ इत्यादि । अन्यत्तु ग्रन्थव्या- ख्यात्रैविध्यदूषणादि च शास्त्रदीपिकाप्रकाशे ऽनुसन्धेयम् । पुनरपि वैदिकं कर्म द्विविधं गुणकर्म प्रधानकर्म चार्थकर्मापरपर्यायम् । तत्राद्यं यथा धानम्। द्वितीयं यथाग्निहोत्रादि । (१) अयं पा. २ पु. ना. । व्याख्यापश्च- ८२ मीमांसाबालप्रकाशे। क्रत्वर्थमपि द्विविधमारादुपकारकं सन्निपत्त्योपकारकञ्च । तत्राद्यमदृष्टार्थमेव यथा प्रयाजाः । सन्निपत्योपकारकं तु त्रिविधं दृष्टार्थमदृष्टार्थमुभयार्थ चाश्र- यिकर्माख्यम्। दृष्टार्थमपि द्विविधं भाव्युपयोगसंस्कारार्थ (भूतोपयोगसंस्का- रार्थ १) चेति । तत्राद्यं द्वयं प्रत्येक द्विविधम् । द्रव्यसंस्कारकं देवतासंस्का- रकं चेति। तत्र दृष्टार्थ भाव्युपयोगद्रव्यसंस्कारार्थम् । सन्निपत्योपकारक द्विविधम् । साक्षाद्विनियुक्तसंस्कारार्थ साक्षाद्विनियुक्तस्य यदुपका. रकं तत्संस्कारार्थ चेति । तत्राद्यं यथा "व्रीहीनवहन्ती"ति । द्वितीयं यथा "वत्समालभेते"ति । अत एव वत्सस्येव विनि- युक्तदोहाङ्गगोद्रव्योपकारकतया वत्समालभेतेत्यत्रालम्भसंस्कार्यत्व- मिति पशुसोमाधिकरणे भवदेवः । (भूतोपयोगद्रव्यसंस्कारार्थ दृष्टार्थ सन्निपत्योपकारकं २)प्र- तिपत्तिस्तु त्रिविधा प्रधानोत्तरकाला तत्पूर्वकाला तत्समका- तत्राद्या यथा "चात्वाले कृष्णविषाणाम्प्रास्यती"त्यादिः। द्वितीया यथा "शकृत्प्रविध्यति" "लोहितं निरस्यती"ति । इयं चतुर्थे (पा० १ अ० ११) पशावनालम्भाल्लोहितशकृतो- रकर्मत्वमित्यधिकरणे प्रतिपादिता । प्रधानसमकाला यथा ऽऽग्ने- यचोदनया विहिते यागे “चतुरवत्तं जुहोती"ति होमरूपा प्रतिपत्तिः। होमो हि "वषकृते जुहोती"ति विधानाद्वषट्कारोच्चारणोत्तरक्ष णे ध्वर्युणा कर्तव्यः तस्मिन्नेव च क्षणे यागस्मरणार्थेन वषट्कारण स्मारितो यागो यजमानेनानुष्ठयः । तदिदं सर्वप्रदानाधिकरणवार्तिके प्रतिपादितम् । (भूतभाव्युपयोगोभयसंस्कारार्थ तु द्रव्यसंस्कारकं नास्त्येव भूतभाव्युपयोगोभयदेवतासंस्कारकस्तु पशुपुरोडाशयाग आश्रयिक- मभेदेषु वक्ष्यते ३)। अदृष्टार्थ सन्निपत्योपकारकं यत्तदपि प्रतिपत्तिवदेव त्रि. विधम् । (१) अयं पा० २ पु. ना. प्रतिपत्तिश्चेति पा० । (२) अयं पा. २ पु. ना० । (३) अयं पा० २ पु. ना. ।
कर्मभेदनिरूपणम् । भूतोपयोगसंस्कारार्थ भाव्युपयोगसंस्कारार्थमुपयोगसम- कालं च । (तत्राद्यं यथा हुतहविर्दाहः शिष्टाचारकल्प्यावधिप्राप्तः । न चेयं प्रतिपत्तिः होमन प्रतिपादितस्याकीर्णकरतानि- वृत्तौ प्रतिपत्त्यन्तरानपेक्षत्वात् । भाव्युपयोगद्रव्यसंस्कारार्थमपि द्वि- विधम् । साक्षाद्विनियुक्तसंस्कारार्थ साक्षाद्विनियुक्तस्य यदुपकारक तत्संस्कारार्थ चति १)। तत्राद्य (२) यथा “व्रीहीन्प्रोक्षती"ति । (द्वितीयं यथा दशमे खलेवाल्या स्थावाहुतिः कर्तव्या विनियुक्तयूपासम्बन्धत्वेनाविनियुक्तस्थाणुसम्बन्धत्वेन वारादुपका- रित्वादिति पूर्वपक्षयित्वा सिद्धान्तितं न कर्त्तव्या यूपीयो हमावश्च न स्थाणुरिति । तत्संस्कारद्वारा यूपसंस्कारार्थत्वादिति ३)। तृतीयं यथा एकपालमपर्यावर्त्तयञ्जुहोतीति । प्रकृतौ तु पर्यावर्तनविधिरदृष्टार्थ एव दृष्टादृष्टोभयार्थमाधयि- कर्माख्यं यत्तदपि त्रिविधम् । किं चिद् द्रव्यप्रक्षेपांशेन दृष्टार्थ देवतोद्देशांशेन त्वदृष्टार्थ यथा खिष्टकद्यागाः अग्नेः स्विष्टकृतः क्वचिदन्यत्राविनियोगात् । किं चि- देवतोद्देशांशेन दृष्टार्थ द्रव्यप्रक्षेपांशेनादृष्टार्थ यथोत्तमः प्रयाजः । तत्र हि स्वाहाग्निं स्वाहा सोममित्यादियाज्यामन्त्रलिङ्काक्रमेण प्रत्य- भिज्ञायमाना आज्यभागादिषु यक्ष्यमाणा एव देवताः संस्कार्याः त- देतदशमे (पा० १ अ० ७)प्रयाजे च तन्न्यायत्वादित्यधिकरण प्रति- पादितम् । पशुपुरोडाशयागो ऽप्येवमेवेति दशमे एव (पा० १ अ०९) पशावपीति चदियधिकरणे प्रतिपादितम् । अत्रेदं चिन्त्यते। “अग्नीपोमीयस्य वपया प्रचर्याग्नीषोमीयं पशु- पुरोडाशमनुनिर्वपती'त्यग्नीषोमदेवतासंस्कारार्थतया विहितः पुरो- डाशयागो भूतवपायागाभ्यासार्थ एवोत भाव्यङ्गयागाभ्यासार्थ ए- वोतोभयार्थो ऽपीति । तनोभयार्थो ऽयं तत्संस्कार्याया अग्नीषोमदे- बताया उभयत्न सत्त्वादित्याद्यः पक्षः। द्वितीयस्तु वपायागाभ्यासार्थ एवासंस्कार्यदेवताया उभयत्र (१) अयं पा. २ पु० ना। (२) हितोयमिति २ पु० पा० । (३) अयं पा० २ पु. ना० । १ मीमांसाबालप्रकाशे। व्या- पारकल्पना सत्त्वे ऽपि "वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते"ति व संस्थाप्य पौ- र्णमासी वैमृधमनुनिर्वपती"तिवञ्च वाक्येन वपायागाभ्यासमात्रार्थ- त्वावगमादिति। उच्यते पुरोडाशयागस्तावद्वाक्यादेवाग्नीषोमीयदेवतासंस्का- रार्थः। तत्र वपायागस्य वाक्यादेवाग्नीषोमदेवतारूपोद्देश्यविशेषणत्वे खतन्त्रोद्देश्यत्वे वाक्यभेदापत्तिः । बृहस्पतिसववैमृधयो (१)स्तु नायं दोषः । तस्मान्न भाव्यं यागाभ्यासार्थमेव तत्रोपपत्तिः। सन्निपत्योपकार्य यागापूर्व प्रधानोत्पत्त्यपूर्वएव व्याप्रियते इ- ति हि सार्वत्रिकं क्वचिदेव त्वगत्या तदुत्पन्नस्यैव प्रधानापूर्वस्य धा- रणे व्याप्रियत इति कल्प्यते । तदिह भाव्यङ्गयागाभ्यासापूर्वोत्पत्तौ पुरोडाशयागापू- र्वस्य व्यापारसम्भधे उत्पन्नवपायागाभ्यासापूर्वधारणे न सम्भवति । तस्मात्पुरोडाशयागो ऽप्युत्तमप्रया- जवद्वक्ष्यमाणदेवतासंस्कारार्थ एवेति । सिद्धान्तस्तु प्रकरणावगतोभयार्थत्वबलेन भूतोपयोगभाव्यु- पयोगदेवतासंस्कारार्थत्वावश्यम्भावादुत्पन्नस्थापूर्वस्य धारणमनु- त्पन्नस्य चोत्पत्तिरित्यविरोधादुभयाभ्यासार्थत्वमेवेति । किं चि- दायिकर्मदेवताद्देशांशेनापि दृष्टार्थ द्रव्यप्रक्षेपांशेनापि द्रव्यत्यागां- शेनैव तु केवलदृष्टार्थमित्याश्रयिकर्मतां लभते । यथा "सूक्तवाकेन प्रस्तरं प्रहरती"ति प्रस्तरप्रहरणं सूक्तवाक- प्रकाशिते ऽष्टदेवताकल्पनात्तदुद्देशेनापि दृष्टार्थम् । एवं प्रस्तरे जुहूमासादयतीत्युपयुक्तप्रस्तरद्रव्यप्रक्षेपांशेनापि दृष्टार्थम् । तत्त्यागमात्रं तु तत्रादृष्टार्थमिति । पुनरपि वैदिकं कर्म च- तुर्विधम् । उत्पत्तिप्राप्तिविकृक्तिसंस्कृत्यर्थत्वेन । तत्राद्यं यथा “प्रणीताभिः संयोती"ति संयवनं पुरोडाशपि- ण्डोत्पत्त्यर्थम् । यागादि च स्वर्गाद्युत्पत्त्यर्थम् । द्वितीयं “पयो दोग्धी।"त । ऊधःस्थस्यैव हि दुग्धस्य प्राप्त्यर्थ दोहनम् । तृतीयं यथा “व्रीहीनवहन्ती"ति । वैतुष्यरूपविकारार्थत्वात् । चतुर्थ यथा व्रीहन्प्रिाक्षतीति अदृष्टरूपसंस्कारार्थत्वात् । पुनरपि वैदिकं कर्म चतुर्विधम् । प्रकृतिविकृतिरुभयात्मकम- नुभयात्मकं च । (१) वैमधेवि २ पु० ना । - कर्मभेदनिरूपणम् । तत्राद्यं यथा ऽग्निहोत्रदर्शपूर्णमासादि। द्वितीयं यथा मासाग्निहोत्रादि । तृतीयं यथा ऽग्नीषोमीयसवनीयपश्वादि। अष्टम (पा० १ अ० ७ ) ह्येतदुक्तं दर्शपूर्णमासयोरग्नीषोमीयो विकृतिस्तस्य च सवनीयपशवस्तेषांचैकादशिनाः सुत्याकालत्वसा- म्यात्तेषां च प्राजापत्याः पशुगणत्वसाम्यादिति । चतुर्थ यथा दर्विहोमा नारिष्टादयः । तेषां ह्यपूर्वत्वमष्टमान्त्ये उक्तम् । एवं गृहमेधीयाद्यपीति । पुनरपि वैदिकं कर्म द्विविधम् । नैमित्तिकं काम्यं च । नैमित्तिकमपि द्विविधं नियतनिमित्त- कमनियतनिमित्तकं च । अनियनिमित्तकमपि द्विविधं दोषनिर्धातार्थमदोषनिर्घा- तार्थ च । १ तत्र नियतनिमित्तकं यथा । “ यावजीवमग्निहोत्रं जुहोति "वसन्ते वसन्ते ज्योतिषा यजेते"ति। तत्राद्य यावजीवाधिकरणे प्रतिपादितम् । द्वितीयं तु षष्ठे सोमविद्याप्रजारणवाक्येन संयोगादित्यधिक- रणे प्रतिपादितम् । अनियतनिमित्तकं दोषनिर्घातार्थ यथा “यो मावस्यां पौर्णमा- सी वातिपातयेदग्नये पथिकृते ऽष्टाकपालं निर्वपदिति । यो ऽमावा- स्यां पौर्णमासीं वातिपातयेद्वैश्वानरं द्वादशकपालं निर्वपेदिति च । दोषनिर्घातार्थत्वादेवैकार्थत्वादनयोर्विकल्पो द्वादशे ( पा० ३ अ०५) प्रायश्चित्तेषु चैकार्थ्यादित्यधिकरणे वक्ष्यते । अनियतमदोषनिर्घातार्थ यथा द्वादश एवसमुञ्चयस्त्वदो- षनिर्धातार्थेष्विति पूर्वापवादार्थे ऽधिकरणे प्रतिपादितम् । “ भिन्ने जुहोती"त्यादि काम्यमपि कर्म त्रिविधम् । ऐहिकफलकमामुष्मिकफलकमनियतफलकं च । तत्राद्यं यथा "कारीर्या दृष्टिकामो यजत" 'श्येनेनाभिचर- न्यजेते"ति जातेष्टिश्च पूतत्वादिफलिका। उपस्थितसस्याथैव हि वृष्टिः सर्वैः काम्यते नानुपस्थितैहिकसस्यापि किमुत जन्मान्तरीयस. स्यार्था । एवमभिचारोऽप्युपस्थितशत्रोरेव काम्यते नानुपस्थित- स्यैहिकस्यापि किमुत जन्मान्तरीयस्य । एवं पूतत्वाद्यपि यो यदा जायते पुत्रस्तस्यैव काम्यते न कालान्तरजातस्यैहिकस्यापि किमुत जन्मान्तरीयस्येति।
मीमांसाबालप्रकाशे। आमुष्मिकफलकं यथा स्वार्थाग्निहोत्रादि । न हि स्वर्गः के- वलसुखात्मको मानुषशरीरेण सुखदुःखोभयभोगार्थ धर्माधर्मोभया- रब्धेनानुभवितुं शक्य इति । अनियतफलकं यथा “चित्रया यजेत पशुकाम” इत्यादि । प- श्वादि हि फलमैहिकामुष्मिकत्वेनानियतमिति चतुर्थे (पा० ३ । अ० ११) योगसिद्ध्यधिकरणे प्रतिपादितमिति । निवृत्तिरूपमपि कर्म द्विविधं क्रत्वर्थ पुरुषार्थ च । तत्राद्यं यथा “ नातिरात्रे षोडशिन गृहाती"ति । द्वितीयं यथा न हिंस्यात्सर्वाभूतानी "ति । प्रवृत्तिनिवृ- त्यात्मकतयोभयरूपं पर्युदासाख्यं यत्कर्म तदपि द्विविधं क्रत्वर्थ पु. रुषार्थ च। तत्राद्यं यथा “यजतिषु ये यजामहं करोति नानुयाजेवि"ति "नार्षेयं वृणीते न होतारं वृणीत" इति च । 'द्वितीयं यथा “ नेक्षेतोद्यन्तमादित्यमि "ति । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरभट्टनारायणात्मजभ- दृशङ्करकृते मीमांसाबालप्रकाशे सक- लकर्मभेदनिरूपणम् । संख्याधिकरणे ( अ०२ पा०२। अ०७) "सप्तदश प्राजाप- त्यान्पशूनालभत” इत्युदाहरणे एकस्य हृदयाघेकादशावदानगणस्य प्रापको यश्चोदकस्तबलात्कर्मभेदः प्रतिपादितः । एवं चेद्यत्र चो- दको नास्ति तत्र तदपवादः । यथा नवमोपान्त्ये ऽश्वमेधे" श्रुतमी- शानाय परस्वत आलभत तान्पर्यग्निकृतानारण्यानुत्सृजती "त्युदाह- त्य प्रतिपादितम् । तान्पग्निकृतानिति गुणवाक्येन तदन्ताङ्गरीति- विधानादपूर्वत्वमिति । ततश्च हृदयाघकादशावदानगणाप्रापकस्य चोदकस्याभावादे- क एव यागो नेकपशुद्रव्यकः प्राजापत्येषु पूर्वपक्ष इव इयांस्तु वि- शेषस्तत्रालम्भविशसनाद्यभावाद्वपाहृदयाद्यनिष्काश्यैव कृत्स्ना एव पश्ववयविनो देवतोदेशेन त्याज्या इति । तदुक्तं सर्वप्रदानाधिकरणे मित्रैः त्यागमात्रेण संख्याधिकरणन्यायविषयाविषयविवेकाश्रयलक्षणे । होमाभावे ऽपि " पर्यग्निकृतानारण्यानुत्सृजती " तिवद्देव- तासम्बन्धोपपत्तरिति । अतश्च संख्याधिकरणे (अ०२पा०२अ०७) न्यायसुधाकृतारण्येषु यो यागभेदः उक्तः स भ्रान्त्यैवेत्युपेक्षितव्यः । एवं सति के चिदाक्षिपन्ति एकादशे (पा० ३। अ० १३) पञ्चशारदीयास्तथेति चेदित्यनोदाहृतं वैशाख्याममावास्यायां सप्त- दश मारुतीस्त्रिवत्सा उपाकरोति सप्तदश पृश्नीनुक्ष्णस्तान्पग्निक- तानितरा आलभन्ते प्रेतरानुत्सृजन्तीति । तत्र च सिद्धान्तितं पर्य- ग्निकृतवाक्येन तदन्तागरीतिविधिः । उक्षवाक्ये च मारुतपदा- नुषङ्गण सप्तदशोक्षयागा विधीयन्त इति त्रिवत्सायागैः सप्तदशाभः सह चतुस्त्रिंशत्कर्माणीति । तदनुपपन्नम् । अत्रापि ह्युक्षवाक्ये ऽप्येक एव यागः प्राप्नोति तदन्ताङ्गरीति- विधिना ऽऽरण्यवच्चोदकाभावेन प्राजापत्यन्यायाभावादिति । अन ब्रूमः । उक्षवाक्ये आख्याताश्रवणात्रिीवत्सावाक्यश्रुतमु- पाकरोतीत्यनुषज्यते तञ्च तत्रानेककर्मविधायीत्युक्षवाक्ये ऽनुषज्यमा- नमवैरूप्यायानेकमेव कर्म विधत्ते अन्यथासकृदाम्नातमुपाकरोती- त्याख्यातं त्रिवत्सावाक्ये सप्तदश कर्माणि विधत्ते उक्षवाक्ये चैक कर्म विधत्तइति वैरूप्यमापद्यतेति । इति संख्याधिकरणन्यायविष- याविषयविवेकनिरूपणम् । द्वितीये (पा० २ । अ० ११) इन्द्रियकामाधिकरणे गु- णे गुणफलसम्बन्ध उक्तः । तदपेक्षितस्य त्वाश्रयस्य लक्षणमुक्तं फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रय इति । तदिदमव्यापकम् । ज्योतिष्टोमे काम्योक्थ्यादिसंस्थाश्रयत्वेन मीमां- सकाभिमते । न ह्युक्थ्यादिसंस्थायां फलार्थ क्रियमाणायामपि ज्योतिष्टोमे साकारका भवति किं तु सोम एव । अतः फलाय विधीयमानो गुणो यां क्रियामपेक्षते स आश्रय इत्येवाश्रयलक्षणम- भिमतम् । संस्था समाप्तिरूपत्वात्समाप्तिमन्तमपेक्षते । अतो ऽस्त्येवेदं लक्षणमुक्थ्यादिसंस्थाश्रयभूते ज्योतिष्टोम इति नाव्याप्तिः । तथा फलार्थो गुणो यत्रकारकमित्याश्रयलक्षणं साडूप्रस्थाय्य कुम्भीसाहित्यं फलार्थों गुणो न प्रकृते आश्रयत्वेन सम्मते मावास्या- यागे दधिदुग्धकरणके कारकतामापद्यतइति तत्राप्यव्याप्तम् । अ- तो उप्युक्तमेव लक्षणमाश्रयस्य युक्तमिति तथा रेवत्यधिकरणे (पा० २ । अ० १२ ) क्रियाकारकभावव्यतिरिकेनापि समानकर्तृक- तासम्बन्धेनाश्रयाश्रयिसम्बन्धं यागेन सह रेवतीवारवन्तीयसम्बन्ध- ८८ मीमांसाबालप्रकाशे। करणस्य फलाय विधीयमानस्य गुणस्याशय क्रियाकारकभावव्य- तिरिक्तसम्बन्धान्तरेणाश्रयाश्रयीभावो न सम्भवतीति नोत्तरितं किं तु तत्सम्भवमङ्गीकृत्यैवान्यदेवात्तरं दत्तम् । एवमप्यग्निष्टोम सामति नावकल्पत इति । तस्मादप्यस्मदुक्तमेवाश्रयलक्षणमाभमतं लक्ष्यते न फलार्थगुणस्य यत्र कारकत्वमिति । इत्याश्रयलक्षणनिरूपणम् । प्रकरणान्तराधिकरणे पञ्चविधमनुपादेयमुक्तं देशः कालः फलं निमित्तं संस्कार्य चेति । अनुप देयसन्निधिसचिवश्चासन्निधिः प्रकरणान्तरमिति प्र. करणान्तरलक्षणमुक्तं सर्वग्रन्थेषु । तच्च “वारुण्या निष्कासेन तु- पैश्चावभृथं यन्ती"त्यनाव्याप्तम् । तत्र हि प्रकरणान्तरेणैव भेद उक्तो वार्तिके प्रकरणान्तराधिकरणएव । शास्त्रदीपकायामपि सप्तमे (पा०३। अ०४) तथावभृथः सोमादित्यधिकरणे उक्तं यन्तीत्यनेन प्रकरणान्तरन्यायेन कर्मोत्तरं विधीयत इति । अत्र भट्टसोमेश्वरः समादधे अस्त्येवोक्तलक्षणं तत्र वारुणी निष्कासस्य तुषाणां च भूतोपयोगित्वेन संस्कार्यतयानुपादयत्वा- दिति । तदुक्तं तेन । तृतीयया तुषनिष्कासस्य साधनत्वोक्तावपि , निष्कासस्य वारुण्यामिक्षाशेषत्वात्तुषाणां चाग्नेयादियागशेषत्वाद्य- कि चित्सोमलिप्तं स्यात्तेनावभृथं यन्तीतिवत्प्रयाजशेषेण हवींष्य- भिघारयतीतिवच्च प्रतिपाद्यत्वं रूपसंस्कार्यत्वाविरोध इति । तन्मन्दम्। अधिकरणविरोधात् एकादशे ह्यस्मिन्नेव वाक्ये सवनीयव- त्प्रचारविप्रकर्ष पूर्वपक्षं विधान्तरेण निरस्य प्रतिपत्तिरिति पूर्वपक्षा- न्तरं तुषनिष्कासाख्यसंस्कार्यद्वयोद्देशाद्वाक्यभेदापत्तनिरस्यार्थकर्म- त्वमेवोक्तम् । अत एव प्रकरणान्तरलक्षणं वाच्यम् । नानासन्नि- धिरिव स्वरूपतो ऽनुपादेयसन्निधिः प्रवेश्यः। किं तु तत्काय विधे- रुपपदार्थसक्रमासम्भवः । स च यथानुपादेयसन्निधिना भवति । एवमुपादेयद्वयसन्निधिनापि भवति । तस्माद्विधेरुपपदार्थसङ्कमा- सम्भवेन सहकृतो ऽसन्निधिः प्रकरणान्तरमिति प्रकरणान्तरलक्ष- णमभिप्रेतम् । अत एव “विश्वजिता यजेते"त्यादौ यत्रोपपदार्थो वि- धेयो नास्त्येव नामधेयमात्रश्रवणात् तत्राप्युपपदार्थसक्रमासम्भव- सहकृतादसन्निधेरेव भेद इत्यवधेयम् । अत एवोद्भिदादी नाम्नव चैवमादीनां भेद इति सन्निधावेव नाम्ना भेद उक्तः । एवमथैष ज्यो- तिरित्यादावपि ।
प्रकारणान्तरनिष्कर्षनिरूपणम् । अष्टमतृतीये ( आध०२) च जनकसप्तरात्रप्रकरणाम्नाते "चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानी"ति वाक्ये चतुः संख्यात्रि- वृत्त्वरूपानेकोपादेयगुणश्रवणे तुषनिष्कासवाक्यवत्प्रकरणान्तरन्या- येनैव भेदो भ्युपगतः । अत एव च प्रकरणान्तराधिकरणे ( अ०२ पा० ३ अ०११) "मासमग्निहोत्रंजुहोती"त्यादावनुपादेयगुणे वेति वाक्ये उपसद्भिश्च- रित्वंति गुणान्तरापादानात्स्वरूपतः सन्नपि वाक्य भेदःसिद्धान्तसि- घ्यनुपयोगित्वादुपदियगुणद्वययुक्तवाक्याभिप्रायेणैव सिद्धान्तहे- तुतयोक्तो भाष्य । आचार्यश्च मासादिवाक्येष्वेव तस्य सिद्धान्तसिद्ध्यनुपयो- गो दूषितो न सार्वत्रिक इति ध्ययम् । इति प्रकरणान्तरनिष्कर्षनि- रूपणम्। अथ "मासमग्निहोत्रं जुहोती"त्यत्र कर्मभेदो नैयमिकाग्निहो- प्रवकर्माभेदो वेति चिन्त्यते । तत्र पूर्वपक्षः । “तिन आहुती होतीत्यादावयं न्यायः स्थितः यत्र गुणद्वये ऽन्योन्यविरुद्ध कर्मोत्पत्तिवाक्योपात्ते भेदावृत्त्यारन्यत- राक्षेपमन्तरेण कर्मान्वयो ऽनुपपन्नस्तत्र भेद एवाक्षिप्यते नावृत्तिरि- ति । मासाग्निहोत्रवाक्ये च नामातिदेशेन परस्परविरुद्ध सायम्प्रातः कालद्वयं कर्मोत्पत्तिवाक्यगतमस्ति तेन कर्मभेद एवाक्षिप्यते "यदा- नेयो ऽष्टाकपाल" इत्यत्र पौर्णमास्यमावास्याकालद्धयेनेवेति । अत्रो- च्यते । नामातिदेशेनाङ्गत्वाविशेषादश्यासो ऽपि कालद्वयवत्प्राप्त ए- व । ततश्चोपात्तेनाभ्यासेनैव कालद्वयान्वयोपपत्तेर्न कर्मभे- दाक्षेपः । "तिन आहुतीर्जुहोती"त्यादौ तु नैव केन चिच्छब्देनाभ्यास उपात्तो यतस्तेनैव त्रित्वसंख्योपपन्ना स्यादतस्तदुपपत्त्यै कर्मभेद ए- वाक्षिप्यते । एवमानेयवाक्ये ऽपीति दृष्टान्तद्वयवैषम्यम् । अथेदानीमिदं चिन्त्यते । "मासं दर्शपूर्णमासाभ्यां यजते” इत्यत्रा ज्यभागौ यजतीति व द्वित्वसंख्यया कर्मभेदाद् द्वे कर्मणी यजिना विधीयते इति तावद- विवादम् । तथा दर्शशब्देन पूर्णमासशब्देन च प्राकृताग्नेयादित्रयस- म्बन्धि इतिकर्तव्यतात्रयमेकैकेन शब्देनैकैकस्मिन्कर्मण्यतिदिश्यत- तइत्यप्याविवादम् । अथ परस्परविरुद्धद्रव्यदेवतादिरूपेतिकर्तव्यता- यास्त्रयम् उत्पत्तिवाक्यगतम् । एकैकस्य कर्मणो भेदमाक्षिपति न वे- मीमांसाबालप्रकाशे। अत्र ति चिन्त्यम् । तत्र पूर्वपक्षः । बद्ययंत्र "मासमग्निहोत्रं जुहोती” त्यत्रेवाभ्यासोपादानं नास्ति तथापि विध्यन्ताधिकरणे इति कर्तब्यताद्वयसमुच्चयनिरा. साधथा सौर्ये प्राकृताग्नेयकर्मभेदे ऽपि तदीयपौर्णमास्यमावास्यादि- विरुद्धोतिकर्तव्यतयोर्विकल्पनातिदेश एवमिहापि विनिगमकाभा- हर्शशब्देन पूर्णमासशब्देन च तिस्रस्तिस्र इति कर्तव्यता आग्ने- यादित्रयसम्बन्धिन्या ऽतिर्दिष्टा विकल्पेतैकस्मिन्कर्माण निवेक्ष्यन्त इति न कर्मभेदः षोढा किं तु द्रुधैवेति । बम: इतिकर्तव्यताविकल्पो ऽप्यष्टमाघे निरस्त एव तथापि मासं दर्शपूर्णमासाश्यामित्यत्र दर्शशब्देन पूर्णमासशब्देन चैकैकेन लक्षणे- त्यकशब्दोपादानात्समुच्चये सत्याग्नेयवाक्यमुद्रामुद्रितत्वात्षट्क- आणि सौर्ये तु प्राकृताग्नेयेतिकर्तव्यतयोन प्रत्यकशब्दोपादानमस्ति येन समुच्चयस्तबलाश्च कर्मभेदः स्यात् किं तु तत्रैकेतिकर्तव्यताका- सावशाच्छब्दकल्पना एकतिकर्तव्यतयैव चाकाङ्कोपशाम्यतीतीहगे- वातिदेशकः शब्दः कल्प्यते पौर्णमास्याग्नेयघद्दर्शाग्नेयवति । एवं काशब्दयुक्तातिदेशकशब्दकल्पनान प्राकृताग्नेयोतकर्तव्य- तयाः समुच्चो न वा तबलात्कर्मभेदापत्तिरिति वैषम्यम् । मन्विह यथा पूर्णमासशब्देन दर्शशब्देन वा कर्मत्रयकर्मत्रय- सम्बन्धीतिकर्तव्यतात्रयं लक्षणयातिदिश्यते । इतिकर्तव्यतायाश्च त्रयस्य त्रयस्यैकैकशब्दोपादानात्समुच्च- याधगतेः षट्कर्माणि। एवंसान्नाय्ययागद्वयन सह प्राक्सोमाद्वैकल्पिकस्यैन्द्राग्नस्या- पि द्रव्यदेवतरूपेतिकर्तव्यतापि प्रकृतिस्था दर्शशब्देन लक्षणयकश- ब्दोपात्तैकेति सप्तममपि कर्म दर्शपूर्णमासवाक्ये विधीयत इति षट्- कर्मानुष्ठानं याशिकानां चिन्त्यमेव । प्रकृताबैन्द्राग्नविकल्पे ऽपी- ह तदितिकर्तव्यताया अप्येकशब्दोपादानेन समुच्चित्य वि- धानात्। तत्र त्वियान्विशेषः । प्रकृतावन्द्रानःप्राक्सोमात् इह तु तद्विकृतावपि सत्रस्य सो. मोन्तरकालत्वात्तदङ्गत्वे ऽङ्गगुणविरोधन्यायन समप्राधान्ये तु भूर यसां स्यात्वधर्मत्वमिति न्यायेन सोमप्रारकबाध इति । सत्यं समं कमैद्राग्नविकृतिभूतं सिध्यति तस्य तु नित्यवद- .
मासाग्निहोत्रमासदर्शपूर्णमासयोः कर्मभेदाभेदविचारशाखान्तरनिष्कर्षानिरूपणे । नुष्ठाने दर्शशब्दनाम्नातिदिष्टस्य प्रकृतिवद्भावस्य वाधः स्यात् । तथा चैकादशे ( पा०२ अ० १५) “ वारुण्या निष्कासन तुषैश्चावभृथं यन्ती "त्यत्र प्रकरणान्तरात्कर्मान्तरत्वेन तत्प्रातिपत्ति- रर्थकर्मभूतसौमिकावभृथवद्भावबाधकापत्तेरित्युक्तम् । अतः षट्- कर्मानुष्ठानं याशिकानां युक्तमेवेति । ननु समुञ्चयावगमकोपदेशेन प्रकृतिवद्भावातिदेशबाधो ऽस्तु । मैवम् । प्रकृतिवद्भावेन हि प्रधा- नाङ्गं विकल्पो ऽतिदिष्टः समुच्चयस्तु वैकृते प्रधाने कल्प्यः श्रुत- स्त्वितिकर्तव्यतायामङ्गे । तत्र चाङ्गगुणविरोधन्यायादोपदोशको ऽपि समुच्चय आतिदेशिकेनापि विकल्पेन बाध्यतइति प्रकृतिवदे- वानुष्ठानं सिद्धम् । इतिमासाग्निहोत्रमासदर्शपूर्णमासवाक्ययो कर्म- भेदाभेदविचारः। शाखान्तराधिकरणवार्तिके उदितानुदितहोमयोस्तथैन्द्राग्नै- कादशकपालद्वादशकपालयोः शाखान्तरीययोः समविकल्पः सर्वा- प्रतीत्युक्तम् । तत्परमतं न स्वमतं श्रुतिलिङ्गाधिकरणे ऽनेकविध- बाधनिरूपणे खयमेव वार्त्तिककृता परशाखाविहितं खशाखाविहि- तेन बाध्यतइत्युक्तम्। युक्तं चैतत् । स्वशाखाविहितञानस्य स्वाध्यायाध्ययनजानतस्य कर्माङ्गत्वा- सत्सम्भवें इतरस्यानाक्षेपात् । वंशाखाविहितविरुद्धवैकल्पिकानु- ठानेनापि च साद्गुण्यसम्भवात् । स्वशाखाविहिताविहितविरु- वैकल्पिकस्य तु ज्ञान शाखान्तराध्ययनजनितमपि कर्मणा साद्गु- ण्यायाक्षिप्यतएव । एतन्न्यायमूलकमेवेदं भविष्यत्पुराणवचनम् । यन्नाम्नातं स्वशाखायां पारक्यमविरोध यत् । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकं यथेति । इति शाखान्तराधिकरणानिष्कर्षनिरूपणम् । शेषः परार्थत्यात् । ननु परोद्देशप्रवृत्तिश्चेत्पारायं सतो नासौ कर्तृव्यतिरिक्तेषु शेष्वस्ति। अथ परोहेश्यकप्रवृत्तिविषयत्वं तत् । ततो द्रव्यादौ यागादौ फले च क्रमेण यागफलपुरुषोद्देश्यकप्रवृत्तिविषयत्वसत्त्वे ऽपि न पु- रुषे यागोद्देश्यकप्रवृत्तिविषयत्वमास्त किं तु ताहशप्रवृत्त्यधिकरणत- व । उभयमपि वार्थमावनाख्यप्रवृत्तौ नास्ति । यत्तु न्यायरत्नमालायामुक्तं कर्तुः समीहितं येन सिध्यास्य- - - ९२ मीमांसाबालप्रकाशे। ङ्गं तदुच्यतइत्यनेन वैधेष्टसाधनत्वमेव शेषलक्षणमुक्तं तदपि फले अव्याप्तं न हि तस्येष्टसाधनता विधिना बोध्यत इति । उच्यते । प्रवृत्तिः प्रवर्तना । परं चेष्टम् । तदुद्देशेनैव या प्रवर्तना वैधी- या प्रवर्त्तना लौकिक्या इष्टोद्देश्यकत्वनियमाभावात् सा प्रयोजिका सती पारार्थ्यम् । प्रयोजकत्वं च कारणतत्कारणाधनुगतम् । वैधप्रवर्त्तनैव च साक्षात्प्रवृत्तेः कारणं तद्वारा फलस्य । पुरुषस्यापि कर्तृत्वं प्रवृत्तिद्वा- राप्रवर्तनयैव जन्यते । एवं करणत्वेन बीह्यादिकारकान्तरं चेति । यद्वा परोद्देश्यकप्रवृत्तिमत्तैवात्र विवक्षिता । तद्वत्तानियामकश्च सम्बन्धः पुरुषे ऽधिकरणताख्यः द्रव्य- यागफलेषु तु विषयताख्यो नान्यो द्वयोरेव लोके तद्वत्तानियामक- स्वात् । न चैवं फलोद्देश्यकयागविषयकृत्याधिकरणत्वात्पुरुषस्य फलं प्रत्यङ्गत्वापत्तिः । इष्टापत्तेः । सप्तमनवमाद्ययोर्हि ( पा० १ अ० १) सर्वस्यापूर्वैवमर्थ्य न यागस्वरूपमात्रे ऽङ्गत्वमित्युक्तम् । तेन यथावघातप्रोक्षणादेाहिलक्षिते ऽपूर्वसाधनरूपे विशिष्टे विनियोगाद्विशेषणे ऽपूर्वे ऽप्यङ्गत्वमेवमिहापीति । एतत्सर्वमभिप्रेत्य परोद्देश्यप्रवृत्तिरित्येवोक्तं न तद्विषयता त- दधिकरणता वेति । तदिदमपि प्रवृत्तावेवाव्याप्तमित्युपेक्ष्यम् । तस्मादाद्यैव विवक्षा युक्तति । यदि तु न्यायरत्नमालागतमेव लक्षणं समर्थनीयं तदैवं वाच्यम्। यदुक्तं वैधेष्टसाधनत्वं फले ऽव्याप्तं न हि तस्येष्टसाधनता वि. धिना बोध्यतइति तन्न । तस्यापि कर्तृगतभोगरूपेष्टसाधनत्वस्य वैधत्वात् । खर्गादिभोगो ऽपि हि पुंसां स्वर्गादिवदिष्ट एव । नन्वेवमपि पुष्टयादिफले पुत्रदावव्याप्तिरेव न हि तस्येष्टसा- धनत्वं वैधमिति चेत् । न । इष्टसाधनत्वसामान्यस्यावैधत्वे ऽपि पुढेष्टेः कत्रिष्टसाधनता विधिगम्येति स्वर्गकामाधिकरणउक्तम् । एवं च सति पुत्रेष्टेः कत्रि- टसाधनतां बोधयती विधिना तस्याः पुत्ररूपस्येष्टस्य कर्बर्थतां विना- मुपपत्तेः पुत्ररूपस्यापीष्टस्य कत्रिष्टतद्भोगसाधनतारूपा कर्बर्थता बो.
शेषलक्षणबहुव्रीहावन्यपदार्थवाच्यतानिरूपणे । ध्यतइति पुत्ररूपस्य फलस्य विशेषत इष्टसाधनताविधिगम्यैवेति ना- व्याप्तिरित। इति शेषलक्षणम् । अरुणाधिकरणे (अ०३ पा० १ अ०६) बहुव्रीहेरन्यपदार्थशक्तिरित्युक्तम् । अतश्च दण्डिशब्देन सम्बन्ध्येवोच्यते यथा । तथैव यौगिकैः शब्दैः पिङ्गाक्ष्यादिपदेरपि । इत्युपक्रमात् । तस्मादुपपन्नं पिङ्गाक्ष्यादीनां द्रव्यवचनत्व- मिति चोपसंहारात् । इन्द्रपीतनिषादस्थपत्यधिकरणद्वयपर्यालोच. मात्तु लाक्षणिको ऽन्यपदार्थ इति भाति । तथा हि । आये इन्द्रपीतशब्दः सोमविशेषणन्तत्पुरुष. स्तत्र पूर्वपदार्थमात्रलक्षणापत्तेर्न बहुव्रीहिः सवनविशेषणं तत्र पदद्व- ये ऽप्यन्यपदार्थलक्षणापत्तरिति पूर्वपक्षिते बहुव्रीहावन्यपदार्थः श- क्य इत्येवोत्तरं वाच्यम् तत्त्वनुक्त्वा हुताहुतसमुदायवाचिन इन्द्रपी- तशब्दस्य तदवयवे लक्षणापत्तिं तत्पुरुषे वदतः सिद्धान्तिनःपू- पक्ष्युक्ता बहुव्रीहावन्यपदार्थलक्षणाभिमतेति गम्यते । निषादस्थपत्यधिकरणे ( अ०६ पा० १ अ० १३)च तत्पुरुषा- कर्मधारयबलीयस्त्वेन सिद्धान्तितं तत्र बहुव्रीहावन्यपदार्थस्य श- क्यत्वे विद्याप्रयुक्तिलाघवात्कर्मधारयं हित्वा निषादः स्थपतिर्यस्य- त्येवं बहुव्रीह्यापत्त्या पूर्वपक्षः परावर्तेतेति । तत्र लक्षणापक्षे बहु- बीहारेरुणशब्दस्य च द्रब्यलक्षकत्वाविशेषे किं विनिगमकं यद्बहु- बीह्योरेव द्रव्याभिधायिता नारुणपदस्यति । प्रत्युत बहुव्रीही लक्षणायाः समस्यमानानेकपदालोचनापे- क्षत्वेन विलम्बितत्वान्न तेन द्रव्यविधिः स्यात् । किं तु गुणशब्देनै- वेति क्रयसाधनद्रव्यनिवेशस्य पूर्वोत्तरपक्षयोः साम्यात्तदाक्षेपपू- र्वपक्षस्य वाक्यीयतत्सिद्धिसिद्धान्तस्य चायोगादरुणाधिकरणमनु- पपन्नं स्यादिति वाच्यत्वपक्ष एव सम्मतः । न च लक्षणा न्याय्या। तत्र हि किमाकृतिन्यायो नागृहीतवि- शेषणेत्ययं बीजम् । अनम्यलभ्यः शब्दार्थ इति कर्मधिकरणन्यायो वा । नाद्यः। आकृत्यधिकरणन्यायो हि तत्र प्रवर्तते यः शब्दः कदा चि- दपि विशेषणमात्रे दृष्टप्रयोगः । तेन पाचकनप्तृस्नुषाकुलालादि- शब्दा न तत्रोदाहरणमित्युक्तम् । अतो बहुव्रीहेरपि विशेषणमाने कदा चिदप्यप्रयोगान्नातिन्याय इति विशिष्टवाचितैव । न द्विती- यः । तत्रापि ह्याक्षेपतो ऽन्यलभ्यत्वं वा स्याल्लक्षणया वा नाद्यः । पिङ्गाक्ष्यादी व चिव्यभिचारेणाक्षेपसम्भवे ऽपि चित्रग्वादी व्य- मीमांसाबालप्रकाशे। भिचारेणाक्षेपायोगात् । न द्वितीयः । नियमतः शक्तिग्रहापेक्षे शब्दे ऽनन्यलभ्यो हि शब्दार्थ इति न्यायस्याप्रवृत्तेः। अन्यथा पङ्कजादिपदे पद्मस्य लक्षणया प्रतीतिसम्भवादनन्यलभ्यन्यायादवाच्यता स्यात् । अस्ति च चित्र- ग्वादिबहुव्रीहेरन्यपदार्थबोधे शक्तिग्रहापेक्षेति । तत्पुरुषे तु न रा- जसम्बन्धिनि राजशब्दस्य शक्तिग्रहापेक्षा । यत्त्विन्द्रपीतनिषादस्थप- त्यधिकरणालोचनाद् बहुव्रीहेः षष्ठीतत्पुरुषात्कर्मधारयाञ्चेष्टं दौर्बल्यं न सिध्यदित्युक्तम् । तन्न । कर्मधारये तावद्यावन्तः श्रुतपदार्थास्तावतां वाक्या- र्थे ऽन्वयः । बहुव्रीहौ त्वेकस्यैवेति दौर्बल्यम् । षष्ठीतत्पुरुषादौ त्वे- कस्यैवोत्तरपदार्थस्य वाक्याथै इन्वयः बहुव्रीहावप्येकस्यैवेति साम्यम् । यद्यपि तथापि तत्पुरुषे एकस्यैव त्यागः बहुव्रीही त्वनेकल्या- ग इति दौर्बल्यम् अतः “ सर्वत्र योगकैः शब्दैव्यमेवाभिधीयते इतिवार्तिकं बहुव्रीहिविषयमपि न कृत्तद्धितमात्रविषयमिति स- र्वमनवद्यम् । गौतमीयैर्निरस्तान्यपदार्थस्येह वाच्यता। बहुव्रीही जैमिनीये मते त्विष्टोपपादिता ॥ इति बहुव्रीहावन्यपदार्थवाच्यतानिरूपणम् । यदाग्नेयो ऽष्टाकपालः" " "" सोमेन यजेत अरुणयक- हायन्ये " त्यादौ विशिष्टविधिरभिमतः । तत्र वार्त्तिककृता ऽघारा- ग्निहोत्राधिकरणे (अ० २ पा०२ अ०६) अष्टौ श्रुतिप्रकारा- त्परदौर्बल्यवतो ऽनिरस्यता दूषणमुक्तं दध्ना जुहोतीत्यादिगुणमा- नविधौ समानपदोपात्तसन्निकृष्टधात्वर्थग्रहणासम्भवात् विप्रकृष्ट- ग्रहणम् अतो विशिष्टविधौ उभयोर्विशेषणविशेष्ययोर्विध्याश्रयणात्स- निकृष्टविध्यर्थ तत्सम्भवो विप्रकृष्टविध्यर्थं च तदसम्भवो ऽभ्युपग- न्तव्य इति युगपद्विरुद्धसम्भवासम्भवापत्तिरिति । अतः श्रुतेन प्र- त्ययेन शुद्धयागं विधायोपपदार्थविधानायाश्रुतं प्रत्ययान्तरं कलयं तेनोत्पतिशिष्टबलीयस्त्वं विशिष्टविध्यङ्गीकारप्रयोजनं न सिध्यति उत्पत्तिशिष्टाया अप्यामिक्षाया वाजिनवदुत्पन्नशिष्टत्वाद्विकल्पोप- पत्तेः। कर्मान्तरविधिर्वाजिनवाक्ये न स्यात् । यद्यप्यन तद्धितचतुर्थीकृतबलाबलादपि भेदः सिध्येत्तथाप्य- न्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णातीत्यादावुभयत्र तद्धिताविशेषे नो- त्पत्तिबलीयस्त्वेन विना भेदः सिध्येदिति । " * विशिष्टविधिनिरूपणम् । अनोच्यते शुद्धस्य कर्मणो ऽनुष्ठानाशक्तर्विधानासम्भवात्स- म्भवति विशिष्टविधिः । न चैव " मग्निहोत्रं जुहोती " त्यादी शुद्धकविध्यसम्भवः विध्यनुपपत्त्या तत्रापि उत्पत्तिविधौ सामान्यत इष्टभाव्यवत् द्रव्यसामान्ये कल्पितेऽपि तद्विशेषाकाङ्क्षायां वाक्यान्त- रविहितविशेषलाभेनोपपन्नस्य प्रधानविधेस्तद्विधानक्लेशाङ्गीकरणा- योगात् । स्ववाक्योपात्ते तु विशेषे तद्विधानमात्रपर्यवसानो- पपत्तेः । यत्तूक्तम् । सन्निकृष्टविध्यसम्भवनिमित्तो विप्रकृष्टार्थविधिरि- ति। तन्न। तस्योपपदानर्थक्यप्रसक्तिहेतुकत्वात् । तदुक्तम् । प्रसिद्धर्बलवत्वेन प्रयोजनक्शेन च । अधिकत्वात्प्रवृत्तेश्च गुणरूपं विधीयते ॥ इति । अत्र व्रीह्यादिवदुद्भिदादेर्गुणविधित्वं प्रयोजनवत्त्वं हे- तुं वदन्विपर्ययपर्यवसानेन दृष्टान्ते ऽपि व्रीहिविधावन्यथा नदुपादा- नानर्थक्यमेव हेतुं ब्रूते । किं च । आधाराग्निहोत्राधिकरणे गुण- स्य क्रियाद्वारैव विधेयतोक्तर्विप्रकृष्टविध्यर्थमपि सन्निकृष्टविधिस- म्भव एव वाच्यः। स तु तत्प्राप्तौ विशिष्टरूपेण वाच्यः अप्राप्तौ तु ख- रूपत एवति न युगपद्विरुद्धसन्निकृष्टविधिसम्भवासम्भवदोषः । न चानेकविशेष्यविशेषणविधानार्थ विध्यावृत्त्यापत्तिः । विशेषणमनु- तिष्ठन्नेव हि विशिष्ठमनुतिष्ठति नान्यथेति विशिष्टविध्यन्यथानुपपत्त्या विशषणविधिकल्पनात् । तदुक्तम् । पूर्णमास्यधिकरणे । विशिष्टायां भावनायामाधाय श्रौतं कि- धित्वं यद्यन्यत्रापि श्रुत्यैव पुनर्व्याप्रियेत ततः पुनरुञ्चारणदोषमवै- दिकत्वापत्त्या लभते । अयं पुनः सद्विधाय निवृत्तव्यापारः स्वार्था- न्यथानुपपत्त्या सर्वविशेषणेषु प्रत्येकनिष्ठानि विध्यन्तराण्याविर्भाव- यन्समाम्नायावगतकरूपापरित्यागेनैवासकृदुच्चारणफले वर्ततइ- ति । विशेषणान्यनुपादाय विशिष्टे व्यापारासम्भवादिति च । (ग्रहै- कत्वाधिकरणे (अ० ३ पा० १ अ०७) ऽपि पशौ पुनद्रव्यसंख्या- लिङ्गानां भावनां यागं च प्रत्युपादेयत्वादवैरूप्येण विशिष्टेकभाव- नाविधानादापत्तिलभ्यविशेषणविध्यन्तराविर्भावाच्चैकवाक्यत्वसि- द्धिरिति १)। एवं विशिष्टविध्यन्यथानुपपत्त्या विशेषणविधिषु कल्प्य- मानेष्वपि यागादेर्धात्वर्थस्य विशेषणत्वे ऽपि न तद्विषयो विशेषण- विधिः श्रुतेनैव तु प्रत्ययेन धात्वर्थानुरक्तैव भावना विधीयते न (३) अयं पा. २ पु. ना. ।
इत्युक्तम् । मीमांसाबालप्रकाशे। शुद्धा शब्दान्तरन्यायात् तत्र ह्युक्तं सम्बन्धिनिरूपणाधीननिरूप- णः सम्बन्धीव झेयनिरूपणाधीननिरूपणं च ज्ञानमिवावच्छेदक- धात्वर्थनिरूपणाधीननिरूपणा भावनेति अतो या धात्वर्थ विना नि- रूपयितुमेवाशक्या सा सुतरां तद्विधि विना शुद्धा प्रत्ययेनोक्तापि विधातुमशक्येति श्रुनेनैव विधिना धात्वर्थानुरक्ताया एवं विधानान्न धात्वर्थरूपविशेषणविषयं विध्यन्तरं कल्प्यते इति । ग्रहैकत्वाधिकरणन्यायसुधायामपि धात्वर्थावच्छिन्नैव भावना श्रुतविधिविषय इति विशिष्टविधिनिरूपणम् । विशिष्टविधिष्वपि यत्र "सोमेन यजेते" त्यादौ तृतीयान्तेन द्रव्यादिविधिस्तत्र सोमादिप्रातिपदिक सोमादिमान्यागो मत्वर्थस्त- लक्षणास्ति । तथा हि । सोमादि हि करणत्वेन श्रूयते करणं च कारकत्वा- क्रिययैव सम्बध्यते नान्येन क्रिया चात्र फलभावनैव प्रत्ययवाच्या न च तस्यां सोमादेः करणत्वं सम्भवति समानपदोपात्तधात्वर्थाव- रोधादिति भावार्थाधिकरणे स्थितम् । न च धात्वर्थेनैव सोमादेः सम्बन्धः सम्भवति तस्य धातुना प्रत्ययार्थ प्रति करणत्वेनोपादानात् क्रियारूपतयानवगमाक्रियारूप- त्वे वा धात्वर्थस्य प्रत्ययार्थ प्रति करणत्वानुपपत्तेः । न च सत्यपि प्रत्ययवाच्यायाः फलभावनायाः धात्वर्थावरोधेऽक्षिप्तधात्वर्थभाव- नया सोमादेः सम्बन्ध इति वाच्यम् । तस्या इहाश्रुतत्वात् अश्रुतया च तया शब्दान्तरस्यान्वयायोगात् । फलभावना ह्यत्र श्रुता न धा- त्वर्थभावना चाध्याहृत्य धात्वर्थभावनां तया सोमादेरन्वयः सोमेन भाव्यमानेन यागेनेष्टं भावयेदिति विनाप्यध्याहारेण वाक्यसमन्वयोपपत्तेः । तदवश्य यत्र प्रत्ययार्थे करणं यागस्तत्रैव तृतीयान्तेन सोमादिपदेन वर्तितव्यं नान्या गतिरस्ति तत्रात्यन्तं निरूढत्वेन सोमादिपदस्य सामानाधिकरण्यमात्रेण नामत्वासम्भ- वादर्थान्तरवाचिनः सोमादिपदस्यार्थान्तरे यागे वृत्तिमत्वर्थलक्ष- णया ऽङ्गीक्रियते इति सेयं मत्वर्थलक्षणा विशिष्टवि- धावति ग्रन्थतः प्रतिभाति । उद्भिदाधकरणवार्तिके ( अ० १ पा० १ अ० १ ) हि कर्मणि गुणविधिः फले गुणविधिर्विशिष्टविधिरूपेण वेति विकल्प्य त्रिष्वपि पक्षेषु पञ्च पञ्च दोषा उक्ता । तत्र तृतीयपक्ष एव मत्वर्थलक्षणादोषउक्तो नेतर- योः । शास्त्रदीपिकायामपि।विशिष्टविधिपक्षे च भवेग्मत्वर्थलक्षणेति। न भनुपादेवनिरूपणम् । तेन ॥ बन्नेन्द्रियकामस्य जुहुयादि " स्यादिगुणफलसम्बन्धेषु यथा धात्वर्थाविधानात्र मत्वर्थलक्षणाभिमता एवं “व्रीहिभिर्यजे- ते " ति कर्मणि गुणविधावपीति । के चिदेवमेव सिद्धान्तं ब- जयन्ति । ननु धात्वर्थस्य करणत्वावगतिमत्वर्थलणायां बीजंतत्करणत्वं च शब्दाभिहितमस्ति किं तु लाक्षणिक भावनायाश्च करणाका- क्षया तल्लक्षणा यजौ स्यात् करणाकाङ्क्षा च विधेयाया भावनायाः स्यान्नानद्यमानायाः सो ऽयं भावार्थाधिकरणान्यायः तेन "त्री- हिभिर्यजेते"त्यादौ भावनानुवादान्न करणाकाङ्क्षास्तीति न धातुना धात्वर्थः करणत्वेनोच्यते किं तु कर्मत्वेनैव भावार्थाधिकरणन्याया- प्रवृत्तेः । धात्वर्थकर्मिकायां च भावनायां व्रीह्यादेः करणत्वेनैवान्वयो घटत इति न मत्वर्थलक्षणेति । तयुक्तम् । धात्वर्थस्य हि करणत्वं सिध्यति तथापि नव- माद्यन्यायेन (अ०९ पा० १ ०१) यागखरूपे व्रीहिविधिरनर्थक इ. ति साधनांशे गुणं विधातुमवश्यं धात्वर्थः करणत्वेनानुवदितव्यो लक्षणयति गुणविधावपि सिद्धा मत्वर्थलक्षणा । तदुक्तम् । विधाने वानुवादे वा यागः करणमिष्यतइति । विशिष्टविधावेव तु मत्वर्थलक्षणोक्तिर्भावार्थाधिकरणन्यायेना- तिसुलभत्वात्कृतेति शेयम् । इति मत्वर्थलक्षणा । अनुपादेयानि पञ्चैवेति प्रकरणान्तराधिकरणपर्यालोचनया प्र- तिभाति द्वित्वबहुत्वयुक्तं वा ऽचोदनात्तस्येत्यधिकरणे (अ०३ पा०३ म. ९)तु यजमानस्यात्मीयमेकत्वमप्यनुपादेयमित्युक्तं तत्राशक्ति छताङ्गत्यागन्यायाप्रवृत्त्यै तदुक्तं पार्थसाराथमिश्रः । अनुपादेयमेकत्वं यजमानस्य कालवदिति । अत्र यजमानस्यति यागाद्येकत्वब्यावृत्त्यै एकत्वमिति यजमानद्वित्वबहुत्वव्यावृत्त्यै । उभयस्थाने संख्येत्यनुक्तिरुपसद्वाद- शत्वव्यावृत्त्यै । एवं ब्राह्मण्यादिजातिरप्यनुपादेयैव । तदुक्तं द्वितीये (अ० २ पा०.३१०३) आधानाधिकरणे सोमे- श्वरेण वविधिप्रयुक्ते तु ब्राह्मणत्वादेः कर्तृविशेषणत्वे ऽपि जातेरनु- पादेयत्वादिति जातेरादधिकारिविशेषणत्वावगतेः सिद्धत्वेन च काम्यतयाधिकारिविशेषणत्वायोगादाधानस्य च फलाश्रवणेन राज- सूयवनिमित्तान्वयाविरोधानिमित्तत्वप्रतीतरिति च । ननु किमिदमनुपादेयत्वम् । उच्यते । कृतिव्याप्यत्वमुपादेयत्वं तव्याप्यत्वं चानुपादेयत्वम् ।
मीमांसाबालप्रकाशे। यथा च देशादिपञ्चकं कृत्यव्याप्यं भवत्येवं यजमानस्यात्मी- यमेकत्वं ब्राह्मण्यादिजातिश्च स्वभावसिद्धत्वाद्भवत्येव कृत्यव्याप्यम्। न चैवं पशुत्वादिजातिः पश्वकत्वाद्यपि चानुपादेयं स्यात् । न । तयोः पशुव्यक्तिद्वारा कृतिव्याप्यत्वेनोपादेयत्वात् । यजमानव्यक्तेस्तु खकृत्यव्याप्यत्वात्तद्वारापि न तदीयैकत्वजात्यादितत्कृतिव्याप्य- मित्यनुपादयमेव(१)आहवनीयविद्ययोस्तु कृतिव्याप्यत्वेनोपादेययो- पि सतार्विध्यन्तरसिद्धयोरेवोपादानात्प्रयोगविध्यननुष्ठाप्यत्वमात्रे- ण यथाशक्तिन्यायाविषयत्वम् । अत एव “यदाहवनीये जुहोती" त्यस्यानुपादेयसम्बन्धसचिवो ऽसन्निधिः प्रकरणान्तरमित्येतन्या- याविषयतेष्यते । ननु यजमानस्यात्मीयमेकत्वं ब्राह्मण्यादिजातिश्चानु- पादेया चेत्तत्सम्बन्धसचिवेनाप्यसन्निधिना प्रकरणान्तरत्वाद्भेदः स्यात् । तत्राद्योदाहरणं “यदाहवनीये जुहोती” त्येव । जात्युदाह- रणमपि मृग्यमिति चेत् । न । रूपालाभात् । जुहोतिर्हि साधारणो न किं चिद्धोमविशेष नियमेनोपस्थापयति यदीयेतिकर्तव्यतातिदि- श्येत । अत एव दर्विहामा अपूर्घा इत्युक्तमष्टमे (पा० ४ अ० १) उपदेशस्तु नास्येव । अनारभ्याधीते तु "ब्राह्मणो यजेते"त्यादि- श्रवणे"विश्वजिता यजेते"त्यादिवदव्यक्तचोदितत्वेनातिदेशतो रूप- लाभसम्भवात्प्रकरणान्तरतः कर्मभेद इष्ट एव । अतो न पश्चैवानु- पादेयानीति नियम इति सिद्धम् । इत्यनुपादेयनिरूपणम् । प्रवाधिकरण (अ०३ पा० ३ अ० १२) वार्तिककृता मित्रैश्च सिद्धान्त उक्तः "न प्रथमयज्ञे प्रवृञ्जयादिति” प्रथमप्रयोगा- ङ्गभूतो ऽयं निषेधः । तस्य च प्रतिप्रसवो ऽयम् “अग्निष्टोमे प्रवृणक्ती" ति। तच्चैतन्न द्वितीयादिप्रयोगविषयम् । तत्र यत्प्रवर्य प्रवृञ्जन्ती- ति प्रवर्योत्पत्तिविधिनैवानुष्ठानसिद्धेः । अतः प्रथमप्रयोग निषि- द्धस्य प्रतिप्रसवार्थमिदम् । अतस्तत्र विहितप्रतिषिद्धत्वाद्विकल्पः । अतिरात्रप्रथमाहारे तु नित्यमकरणमेव वैकल्पिकातिरात्रप्रथमाहा- रविधानेन तत्र निषेधातिदेशादग्निष्टोमसंस्थत्वाभावेन च प्रतिप्रस- चानतिदेशादिति । • तत्र न्यायसुधाकृता दूषणद्वयमुक्तं दशमे प्रतिषेधः प्रदे- नारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यादित्यत्रोक्तेन दुर्बलो ऽपि विधिस्तदधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति न्यायेन न प्रथमयज्ञे प्रवृञ्जयादित्यस्य प्रतिषेधत्वे वैधप्रवये प्रतिषेधब. (1) मेवेति २ पु. ना. सब बादिवि पा० ।
प्रवाधिकरणदूष गोद्धारः । लादेव विकल्पसिद्धेरग्निष्टोमवाक्यानर्थक्यमित्येको दोषः। न प्रथमयज्ञ इत्यस्य प्रतिषेधत्वे त्वतिदिष्टतबलादेवाग्निष्टो. मप्रथमप्रयोग इवातिरात्रप्रथमाहारे ऽपि विकल्प एवापद्यतन नित्य- मकरणं सिद्ध्येदिति द्वितीयो दोषः । स्वयं तु समाहितम् । न प्रथमयज्ञइति न प्रतिषेधः किं तु पर्युदासो यत्प्रवग्ये प्रवृञ्जन्तीति प्रवग्र्योत्पत्तिवाक्यशेषः । पर्युद- स्तप्रतिप्रसवश्चाग्निष्टोमवाक्यम् । नन्वकर्तव्यत्वेनोक्तस्य कर्तव्यत्वे- नोक्तः प्रतिप्रसवत्वात्पर्युदासस्य चाकर्तव्यत्वोक्त्यर्थत्वाभावस्य विधीनामेकदेशः स्यादिति सूत्रेणाविकल्पाय दशमे सिद्धान्तयिष्य- माणत्वात्पर्युदस्तप्रतिप्रसवो न युक्तः । अत एवाग्निष्टोमप्रथमप्रयोग विकल्पो ऽव्ययुक्तः । कर्त्तव्यत्वाकर्त्तव्यत्वयोरुदासीनेन पर्युदासेन. सामान्यविधेद्वितीयादिप्रयोगमात्रविषयत्वेनोपसंहारात्प्रथमप्रयोगे तु विध्यभावादेवाननुष्ठाने प्राप्ते ऽग्निष्टोमविधितस्तत्राप्यनुष्ठानमात्र सिध्यदिति चेत् सत्यमन्यत्र पर्युदासो नैवाकर्त्तव्यत्वोक्त्यर्थः । तथा- पीहावश्यं तदर्थताभ्युपेया। अन्यथा प्रथमप्रयोगे नित्यानुष्ठानमात्र- स्य पर्युदासाग्निष्टोमवाक्यद्वयसाध्यस्यानारभ्यवादेनैव सिद्धेस्तदु- भयानर्थक्यं स्यात् । नानूयाजेष्विति वन्नित्याननुष्ठानेन पर्युदाससा- र्थक्ये तु पुनर्विधिर्व्यर्थः स्यात् । अतो 57 पर्युदासस्याकर्त्तव्यत्वो- त्यर्थत्वात्पुनर्विधिना विकल्पस्तस्य च प्रतिप्रसवत्वं युक्तमिति । यापि निषेधत्वे ऽतिराने विकल्पापत्तिरुक्ता सापि न । प्रकृती सा- मान्यवास्यशेषभूतस्य पर्युदासस्यातिराने ऽतिदेशात्प्राप्तेनित्यम- करणाद्विकल्पार्थस्यैव प्रतिप्रसवस्यानतिदेशादिति । तदेतदपि सो. मेश्वरमतमयुक्तम् । यत्तावदिह पर्युदासो ऽप्यकर्त्तव्यत्वोत्यर्थ इति काप्यन्यत्राष्टमश्रुतं च कल्पितम् । तन्न। एवं हि तवाप्यतिरात्रप्रथमाहारे ऽपि विकल्पो परि- हार्यः । यत्वत्रोक्तं विकल्पार्थस्य प्रतिप्रसवस्यानतिदेशान्नित्याकरण- मिति । तदपि न । न हि विकल्प प्रतिप्रसवस्य वाक्यार्थ एव किंतु पयुदासस्थाकर्त्तव्यत्वतात्पर्यनिर्णयद्वारा प्रयोजनं ततश्च तात्पर्य- ग्राहकस्यानतिदेशे ऽपि तेनाकर्तव्यत्वे गृहीततात्पर्यकतया निर्णी- तार्थस्यैव पर्युदासस्यातिदेशादेकस्य च तस्य प्रकृतावकर्तव्यत्वे तात्पर्य विकृतौ तु नेति परस्परविरुद्धा ऽनेकार्थत्वायोगाद्विकृताव- प्यकर्तव्यत्वोयर्थत्वादतिरात्रे ऽपि विकल्पप्रसङ्गस्तवापि दुष्परिह- निर्णीतं चैतन्त्रवमे मीमांसाबालप्रकाशे। एकधाधिकरणे। यदुत प्रकृतावन्यार्थत्वेन निर्णीतस्य शास्त्रस्य विकृतावतिदेशे. न्यार्थपरता न न्याय्येति । तेन पर्युदासस्याकर्त्तव्यत्वोक्त्यर्थत्वे पति- रात्रप्रथमाहारे ऽपि विकल्पापत्तिरपरिहार्या । इतरपर्युदासंवदक- व्यत्वोक्त्यर्थत्वाभावे त्वग्निष्टोमप्रथमप्रयोगे नित्यानुष्ठानापत्तर्विक- ल्पासिद्धिरित्युभयतःपाया रज्जुः । अग्निष्टोमवाक्यानर्थक्यापत्तिश्च स्यादिति। नन्वेवं भट्टसोमेश्वरमतदूषो ऽपि वार्तिककन्मते तदुक्तं दूषणद्वयं कथमुद्धर्तव्यमिति चेत् । अन ब्रूमः । न प्रथमयशइति- निषेध एव तस्य च वैधक्रियाविषयत्वाद्विकल्पः सिद्ध एक न त्व- सावग्निष्टोमवाक्यलभ्यः । एवमापि त्वनिष्टोमवाक्यानर्थक्यं ताहश- व विकल्पो ऽतिरात्रे प्रसज्यतेति भट्टसोमेश्वरोक्तं दृषणद्वयमेवं प- रिहर्तव्यम् । अग्निष्टोमवाक्यार्थ परिसंख्यार्थम् अग्निष्टोमातिरावप्रथ- माहारयोः, प्रसक्तो विकल्पो ऽग्निष्टोमएव नातिरामप्रथमाहार इति । प्रतिप्रसवो ऽपि च तदा ऽग्निष्टोमवाक्यं भवत्येव अक- संव्यत्वेन बुद्धस्य कर्तव्यत्वबोधात् । न च प्रतिप्रसवत्वं परिसं- स्यात्वं च विरुद्धम्। यद्वा परिसंख्येव प्रतिप्रसवशब्देन पूर्वोक्तसारश्यागौण्योच्य- ते । ननु विकल्पपरिसंख्यातिरात्रे ऽननुष्ठानमात्रेणापि निवहत्यदु- छानमात्रेणापि चेत्यननुष्ठानमेव न सिध्यदिति चेत् मैवम् । न धन्न विकल्प्यपरिसंख्या शाब्दी किं तु अग्निष्टोमएव प्रवृणक्ति नाति- रात्रइति । प्रवर्यानुष्ठानपरिसंख्याद्वारा आर्थीत्यतिरावे नित्यान- नुष्ठानसिद्धिः । एवं विकल्पपरिसंख्यारीतिः क्वाप्यदृष्टेति यदि ध्यात्यतिबयादेनम् । अकर्तव्यत्वोक्त्यर्थपर्युदासरीतिर्वा क्व दृष्टेति । अथासावत्रैव कल्प्यते ततः पूर्वाप्यत्रैव कल्प्यतइति तुल्यौ पर्युदासानुयोगपरिहारौ । नन्वग्निष्टोमे एव प्रवृणक्ति नान्यत्रेति परिसंख्यायामतिरात्रद्वितीयादिप्रयोगेष्वपि विकृत्यन्तरे च सर्वत्रे- व प्रवयों न स्यात् । । तत्र वैकल्पिकप्रवर्ग्यमात्रपरिसंख्यायां स- स्थामतिरात्रप्रथमाहारस्थस्यैव प्रवर्यस्य पाक्षिकत्वात्परिसंख्या स्यान्न तु वैकल्पिकप्रवर्गामात्रपरिसंख्यायामेव प्रमाणमस्तीति चे- तू उच्यते । लाघवात्तद्विषयता लभ्यते । अग्निष्टोमएव प्रवृण- क्ति नान्यत्रोत हि परिसंख्या यान्यत्र प्रवर्ग्यनिवृत्तिाध्यमाना यत्रा- तिरात्रप्रथमाहारे विकल्पातिदेशात्पक्षे प्रवर्दीनिवृत्तिः प्रसक्ता त- मेव पक्षान्तरे पि सा चे बोध्यते लाघवं भवति । यत्र त्वतिरा- पूषाधिकरणसिद्धान्ताक्षेपपरिहारः । १०२ द्वितीयादिप्रयोगे विकृत्यन्तरे च प्रवय॑निवृत्तिः पक्षे ऽपि न प्रस- का तत्र चेत्परिसंख्या या सा बोध्यते तत्रात्यन्तं गौरवं स्यात् । यथा नियमविधिरवघातादेरप्राप्तिपक्षमेव पूरयति प्राप्तिपक्षे तूदास्ते एवमियमपि परिसंख्या यत्र प्रवर्यमिति वृत्तरप्राप्तिपक्षस्तमेव पूरयति तत्प्राप्तिपक्षेतूदास्ते । यथा च ब्रीहिनियमो यत्राग्नेयादी ग्रीहयः पक्षे प्राप्तास्तत्रैव तदप्राप्तिपक्षं पूरयन्प्रवर्तते नोपांशुया- जादौ तत्रानुत्पत्तिशिष्टस्य सामान्यविहितस्यापि ध्रौवस्य प्राप्तः पक्षे ऽपि व्रीहीणामप्राप्तेः । लाघवाच्च विशेषप्रवृत्तस्यापि वाक्य- स्य विशेषपरता दशमे (पा०३ । अ० २) उक्का । यथा वायव्ये पशो " हिरण्यगर्भः समवर्त्तताग्रे " इत्याघारमाघारयती- ति श्रुतमुत्तरे जौहवाधारएव तत्रैवेन्द्र ऊर्यो ऽघर” इति प्राकृतं मन्त्रजन्यनियमादृष्टक्लप्तेर्लाघवात्पूर्वाधारे तु तत्कल्पनापत्तेौरवा- दिति । नन्वेवमप्येषा प्राप्तपरिसंख्या । सा च त्रैदोष्यपरिहारा- सम्भवान्न क चिदप्यङ्गीकृति चेत् न।। अस्या अपि वस्तुतो प्राप्तपरिसंख्यात्वात् । यथा हि इमामगृभ्णन् रशनामृतस्ये" त्युदाहरणे यदीयं न स्यात्ततो लिङ्गाद्विनियोजकवाक्यकल्पनया गर्दभरशनादाने ऽपि मन्त्रः प्राप्नुयादस्यां तु सत्यां लिङ्गकल्पवा- क्यकल्पनैव प्रतिबध्यते । एवमत्रापि यद्यग्निष्टोमे प्रवृणक्तीति प. रिसंख्या न स्यात्ततो ऽतिरात्रप्रथमाहारे यत्प्रवये प्रवृञ्जन्ति न प्रथमयशे प्रवृञ्जयादित्यनयोरतिदेशकल्पनाद्विकल्पः प्राप्नुयात् । अस्यां तु सत्यामतिदेशप्रतिबन्धानातिरात्रप्रथमाहारे विकल्पो भव- तीति सर्व निरवद्यम् । परीपाकाच्छास्त्रे यदुदितमहो वार्तिकता। तदज्ञात्वा सामेश्वर इह बहु स्मा ऽऽन्यथयति । तदुष्याह स्वां प्रकृतिमनयं वार्तिकमतम् । तदक्षात्वा दृष्यं न विवुधजनद्वेषविमुत्रैः ।। इति प्रवाधिकरणदूषणोद्धारः । धाक्यपादान्ये पूषा प्रपिष्टभाग " इत्यत्रानारभ्याधीते सिद्धान्तितं भज्यत इति भाग इतिव्युत्पत्त्या भक्ष्यं स्वीकार्य वा भा- गशब्दार्थः । पूष्णश्च देवताधिकरणान्यायेन देवताविग्रहादिपञ्च- कनिरासेन भक्षयितृत्वस्वीकर्तृत्वासम्भवात्तदुद्देशेन त्याज्यं भागश- दन लक्ष्यते । तदुक्तम् । देवता निष्फला नैव पेषणस्य प्रयोजिका। उपादानं च यागस्य भागशब्देन विद्यते ॥ .
१०२ मीमांसाबालप्रकाशे। मुख्यार्थासम्भवाद्यागालिलक्षयिषया ऽत्र हि । श्रूयते भागशब्दो ऽयं नानुपादानमस्त्यतः ॥ इति । तत्र चोदयान्ति केवलपूषोइंशेन प्रपिष्टता न विधेया जुह्वादिवत्पूष्णः क्रत्वव्यभिचाराभावेन क्रत्वनुपस्थानेनानर्थक्या- पातात्। न च यागमात्रोद्देशेन प्रपिष्टताविधिः नित्यवत्पूष्णो ऽनुवाद-. स्य प्राप्त्यभावेनायोगात् । अतो ऽवश्यं यागविशिष्टपूषोद्देशेन पूष- विशिष्टयागोद्देशेन वा प्रपिष्टता विधेया तन च विशिष्टानुवाददोषः। तथा न परं स एव किंतु"व्यङ्गैः स्विष्टकृतं यजति" "वषट्कर्तुः प्रथ- मभक्ष" इत्यादाविवैकस्मिन्समासपदे उत्तरपदार्थोशात्पूर्वपदार्थवि- विधेश्चैकप्रसरत्वाभावात्समासविघातो ऽपि स्यात् । न च “यदग्नये च प्रजापतये च सायं जुहोती" त्यादौ "क्षौमे वसानावग्निमादधीया- तामि"त्यत्र च यथा सायमनुवादेन वसनानुवादेन च देवतायाः क्षौमस्य च विधौ प्रकरणप्राप्तयोर्जुहोत्याधानयोरनुवादाद्विशिष्टानु- धाददोषपरिहार एवं पूषवाक्ये सम्भवति अप्रकरणाधीतत्वात् । तस्मादिह विशिष्टानुवादकृतवाक्यभेदस्य कः परिहार इति । अत्र ब्रूमः। यथा “लोहितोष्णीषा ऋत्विजःप्रचरन्ती"त्युष्णीषगतमेव लौ• हित्यम् ऋत्विज उद्दिश्य विधीयते । अन्यथा गैरिकादिना साक्षादेव- विजां लौहित्यकरणं प्रसज्येत । समासोपात्तविशिष्टार्थविधी वा- क्यभेदश्च नास्ति लौहित्यमात्रपरश्च विधिर्भवति उष्णीषिणः प्रचर- न्तीति प्रकृतित उष्णषिप्राप्तेः । यथा वा “एकं साम तृचे क्रियते स्तोत्रीयमित्य"नापि स्तोत्रोद्देशेन ऋग्गतमेव त्रित्वं विधीयते । अन्य- था स्तोबएव साक्षात् त्रित्वविध्यापत्तेस्त्रीणि स्तोत्राणि क्रियेरन्।यद्य- पिच स्तोत्राणामुत्पत्तावेकत्वं निरधारि तथाप्यावृत्त्येयं त्रित्वसंख्या सम्पाद्येत । स्तोत्रावृत्तिश्च नर्गवृत्ति विनोपपद्यत इत्यूगावृत्तिरेव स्थान तिस ऋचः । तस्माद्याहशी ऋग्गता त्रित्वसंख्या समासा- स्पतीयते ताहश्येव विधीयते संख्यामात्रपरश्च विधिर्भवति । एवं पूषवाक्ये ऽपि भागस्त्याज्यं हविरिति यावत् ततश्च समासावगतं हविगतमेव पेषणं पूषोद्देशेन विधीयते पेषणमात्रपरश्च विधिर्भ- वति । न च हविगतं पेषणमदेवताभूते पूष्णि हविरभावाच्छक्यं कर्तृ देवताभूत एवेति पूष्णो देवतात्वाक्षेपेण देवताभूत एव पूष्णि पेषणं विधीयतइति न विशिष्टानुवाददोषो न च समासवैकप्यदोष इति सर्व सुस्थम् ।
१०४ मीमांसाबालपका। तत्र तु प्रकरणेन प्रयाजमात्रस्य ग्रहणमिति न विशिष्टस्य विनियोगे प्रमाणमस्तीति विशेषणानां दर्शाङ्गत्वमि- ति वैषम्यम् । एवमेवावघातादेर्दर्शप्रकरणात्तदपूर्वीयबीह्यादौ वि- नियोगात्तदपूर्वाङ्गता युक्ता । अध्ययनस्य त्वर्थशानाङ्गत्वे ऽप्यर्थभूत- कर्मप्रकरणाभावान्न तदङ्गतेष्टा। तापाष्टवर्षादेस्तु ग्रहगार्हपत्यवत् क्त्व चिद्विनियोगाभावेन वाक्यीयसंयोगे सत्यपि न तद्ङ्गत्वमुपनयनद्- ध्यानयनयोरिति ब्राह्मणत्वजातिवदुद्देश्यतावच्छेदकतैव न तूहेश्य- तायै अर्थापत्तिः प्रभवतीति वैषम्यमिति । नन्वेवमुद्देश्यविशेषणविवक्षायां वाक्यभेदः स्यात् सत्यमुहे- श्यतादशायामविवक्षितमेव विशेषणम् । अनन्तरवाक्ये तु तमध्याप- यीतेति सा वैश्वदेव्यामिक्षेति तच्छब्देनोपनयनसंस्कृताष्टवर्षब्राह्मण- स्य ध्यानयनं संस्कृततप्तपयसश्च परामर्शनोपादेयत्वाद्विशेषणवि. वक्षासिद्धिः । एवं यस्य "पिता पितामहो वा न सोमं पिबेत्स व्रात्य" इत्यत्रापि तच्छन्देनैकेनोभयपरामर्शात।न चाष्टवर्षब्राह्मणतप्त- पयःप्रभृतिवदुभयविशेषणसमुच्चयः, एकशब्दोपादाने ऽपि वैकल्पिको भयपरामर्शात् । एवं "कामं तु यो ऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृ- अयादि" त्यत्र कर्तृविशेषगामित्वादिति वार्त्तिकात्कर्तृविध्यवगतेःप्राप्ते च कर्मणि भिन्नपदोपात्तानेककर्तृविशेषणविधौ वाक्यभेदात्तच्छ- ब्दनैवोभयपरामर्शादु भयविधिरिति । इति विशेषणतादर्थ्यविचारः । प्रकृती वा द्विरुक्तत्वदित्यधिकरणे (अ०३ पा०६ अ०१) द्विरुक्तत्वदोषापत्तिः कालवैषम्यं चेति सिद्धान्तहेतुद्वयमुक्तम् । त- दन्योन्यव्यभिचारातू"सप्तदशो वै प्रजापतिर्यक्षे यज्ञे न्वायत्त" इति तद्- धिकरणान्तएव वार्तिककृदुक्ते प्रत्युदाहरणे प्राकृतद्वारप्रतीक्षणानपे- क्षत्वात्प्राप्तिकालवैषम्याभावे ऽप्युपदशातिदेशाभ्यां प्राप्तौ द्विरुक्तता- प्रसङ्गो ऽस्त्येव । तथा फलचमसे सोमसामानविध्ये उच्यमाने वि- कृतित्वस्योभयवाद्यसिद्धत्वेन द्विरुक्तत्वोद्भावनायोगाग्नित्यविधेःप्र- थमं प्रवृत्तेनैमित्तिकविधेस्तु पश्चात्प्रवृत्तेः प्राप्तिकालवैषम्यमस्त्येव । तेन नैमित्तिकमतुल्यत्वादसमानविधानं स्यादिति सोमधर्मसामानवि- ध्यधिकरणे अपि च नैमित्तिकः फलचमसःस सोमधर्मान् ग्रहीष्यति तत्र धर्माः साधारणाः सन्तो द्विरुक्का इत्युच्येरनिति ग्रन्थेन सामा- नविध्ये द्विरुक्तताप्रसङ्गाभिधानं भाष्यकारीयमुपेक्ष्यमेवेति । ननु “ सप्तदशो वै प्रजापति"रित्यत्र द्विरुक्तत्वप्रसने सति सामानविध्यायोगात्कथं प्रत्युदाहरणत्वं वार्तिककृतोक्तम् । उच्यते करण तृतीयाध्यायार्थसङ्ग्रहः। १०५ तदर्थशास्त्रादाविवात्रानर्थक्यपरिहारःप्रकृती वाऽद्विरुक्तत्वादित्याधि- ( अ० अ० ३ पा० ६ अ० १ ) पूर्वपक्षप्रयोजने- न कार्यः । पर्णतादावप्येवमेव तदुद्धारः सुवचः । अ. तश्च प्राप्तिकालवैषम्यमेवात्र मुख्यो हेतुः सिद्धान्तसिद्धेः । द्विरुक्तताप्रसङ्गस्त्वभ्युच्चयहेतुरेव । अन्यथा हि संशय एव स्यात् किमतिदेशाभ्युपगमेन द्विरुक्तताख्यमानर्थक्यं परिहर्त्तव्यं किं वाति- देशन प्राप्स्यमानस्यापि पर्णतादेः पूर्वपक्षप्रयोजनरूपप्रायश्चित्तविशे- षप्राप्त्यर्थत्वाभ्युपगमेनानर्थक्यं परिहर्त्तव्यमिति सन्देह एव दुष्परि- हरः स्यात् । अभ्युपगतो हि तन शतशो ऽतिदेशादिमन्थरप्रमाणा- न्तरप्राप्स्यमानस्याप्यर्थस्य पुनर्विधिः प्रयोजनविशेषेण अनेरुक्थ्या- दो तमुक्थ्येनेत्यादिना । गवामयने चाद्ययोरहोरेन्द्रवायवाग्रताविधिना भागधर्मत्वा- प्राप्स्यमानाया ऐन्द्रवायवाग्रतायाः । तथा तदर्थशास्त्रतायामपि लिङ्गात्प्राप्स्यमानस्य मन्त्रस्य । तथा ज्योतिष्टोमादी सार्वकाम्यप्राप्त- स्य स्वार्थत्वस्य । एवमाम्नातेनार्थवादेन विधित आक्षेप्स्यमानस्या- पि प्राशस्त्यस्य । एवमत्रापि । तस्मात्प्राप्तिकालवैषम्यमेव संशया- पनयायोपास्यं प्रकृतौ वा ऽद्विरुक्तत्वादित्यत्नेति निष्कर्षः । अथैतदधिकरणप्रयोजनं न सुज्ञेयमित्यतो ऽभिधीयते । य- द्यपि को धः सामानविध्ये चेद् गुणकामप्रवर्तनाम- त्यन्यत्रोक्तं तथापि तश्चयनादिक्रियायामेव युज्यते । त- दाधितगुणकामसम्भवात पर्णत्वादिजातेस्त्वक्रियत्वेन तदाश्रितगु- णकामो न सम्भववि । अतः प्रयोजनान्तरं वाच्यम् । तत्र पूर्वपक्षे पर्णत्वादीनामुपदिष्टत्वाविशेपेण तल्लोपे प्रकृती विकृतौ च प्रा- यश्चित्तसाम्यं सिद्धान्ते तूपदिष्टातिदिष्टयोर्लोपे प्रायश्चित्तविशेष इति भवदेवः। तन्न। न ह्युपदिष्टातिदिष्टयोमे॑षे प्रायश्चित्तविशेषः क्वाप्यम्नातो दृश्यते । अतः प्रयोजनं वाच्यम् । तदुच्यते । वाक्यपादाद्ये "उच्चै- ॠचा क्रियत" इत्यादिखरस्य यधृतो यज्ञ आर्तिमियादू"भूः स्वाहे" ति" गार्हपत्ये जुहुयादि"त्यादिनैमित्तिकप्रायश्चित्तस्य च वेधर्म- त्वमुक्तम्। ततो द्वितीयाधिकरणे उत्पत्तिवेदनिबन्धनमिदमुभय- मिति पूर्वपक्षिते सिद्धान्तितं विनियोगविधिनिबन्धनमुभयं ऋग्वेदादिना यद्वियुज्यते तत्रोच्चस्त्वादि तस्यैव चात्तौ प्रा. यश्चित्तमिति । ततश्च याजुर्वेदिकाज्ज्योतिष्टोमात्तद्विकृतौ सामवैदि- मीमांसाबालप्रकाशे। के श्येने या दीक्षणीयादीष्टयः स्वाङ्गविशिष्टा अतिदिष्टास्तास्वपि या जुहूस्तत्रापि पर्णतात्रत्यपूर्वपक्षे याजुबैदिकविधिनियुक्तोत त- दभ्रेषे याजुर्वेदिकाङ्गभ्रेषप्रायश्चित्तं कार्य सिद्धान्त तु तस्याः प्रकृती याजुर्वेदिकविधिविनियुक्तत्वे ऽपि श्येने सामवैदिकातिदेशविनियु- क्तत्वात्सामवैदिकाङ्गभ्रेषप्रायश्चित्तं न चोहादीनामनाम्नादमन्त्रत्व- मिवातिदेशस्यावेदत्वम्। ऊहप्रवरनानाममन्त्रत्वमित्यत्रैव हीदमुक्तम्। अवदानादिविधौद्रवादिपद्वद्विश्वजिदादी फलपवत्सौर्यादावतिदे- शघदूहादेरपि श्रुतार्थापत्तिकल्प्यस्य अर्थाद्वा कल्पनैकदेशत्वादिति वैदैकदेशत्वोक्तेर्धेदत्वाभ्युपगमे ऽपि मन्त्रो ब्राह्मणमित्युक्तं द्वैराश्यं प्रत्यक्षवेदस्यैव न कल्पस्यति प्रसङ्गाद्वक्तुमतदधिकरणमिति । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरभट्टनारायणात्मजभ- दृशङ्करकृते मीमांसाबालप्रकाशे तृतीयाध्यायार्थसङ्ग्रहः । चतुर्थे प्रयोजकाप्रयोजको निरूपितौ । तत्र प्रयोजको ऽपि सप्तथा । अप्रयोजको ऽपि सप्तधा। तथा हि । कश्चिदुत्पतेरपि प्रयोजकः उपादानस्यापि पाल- लनस्यापि। यथा 5ऽग्नेययागामिक्षायागादिर्यथाक्रममष्टाकपालामिक्षादेः। कश्चित्तु त्रितयस्याप्यप्रयोजको यथा तुषोपवापः कपालस्य नोत्पत्तेः प्रयोजको नोपादानस्य च पालनस्य स तु पुरोडाशार्थमेवो- त्पन्नमुपात्तं पालितं च कपालं साधनत्वेन गृह्णाति । कश्चित्तु उ- त्पत्तेरप्रयोजक उपादानपालनयोस्तु प्रयोजकः यथा 5क्षाभ्यञ्जनं न पांसूनामुत्पत्तेः प्रयोजकं खत एव तूत्पत्त्या सिद्धानां तेषां पदग्रह- णरूपोपादानस्य प्रयोजकं पालनस्य च । एवं प्रातःहयागो ऽपि अशितपीतोत्पन्नस्यैवोधःस्थितदुग्धस्य दोहनरूपमुपादानं पालनं च प्रयुङ्क्ते । वाजिनयागो ऽपि वाजिनोत्पत्तरप्रयोजकस्तस्या आमिक्षार्थद- ध्यानयनाधीनत्वात् । वाजिनोपादानपालनयोस्तु प्रयोजक एच । क- श्चित्तत्पत्तेरेव प्रयोजिका नोपादानपालनयोर्यथाऽऽमिक्षा वाजिनोत्प- तन्त्रप्रसङ्गाप्रयोजकलक्षणनिरूपणम् । १०७ त्तेःप्रयोजिका नोपादानपालनयोः।एवं खर्गादिफलं यागोत्पत्तेरेव प्र- योजक न यागोपादानपालनयोः उत्पत्तिव्यतिरिक्तयागोपादानास- म्भवात् । क्षणिकस्य च पालनासम्भवात् । कश्चित्तूत्पत्त्युपादान- योर्न प्रयोजकः पालनमात्रस्य तु प्रयोजको यथा खिष्टकृद्यागादिः शे- षस्य । कश्चित्तूपादानस्यैव प्रयोजको नोत्पत्तिपालनयार्यथा ग्राणि सप्तमपदनिधाने ऽक्षाभ्यञ्जनमसंस्कृतपांसूपादानस्यैव प्रयोजकं न पा- सूत्पत्तिपालनयोः । एवं चरौ तुषोपवापो हस्तोपादान- स्यैव प्रयोजको न तदुत्पत्तेः पालनस्य वा । एवमाग्नेयादिया- गो देवताया उद्देशात्मकोपादानस्यैव प्रयोजको न देवतोत्पत्तेस्तत्पा- लनस्य वा । कश्चित्तूत्पत्तिपालनयोरेव प्रयोजको न तूपादानस्य यथा ख- र्गादिफलमपूर्वस्योत्पत्तेः प्रयोजकं पालनस्यापि धर्मनाशककर्मनाशा- जलस्पर्शादौ हि कृते स्वर्गानुत्पत्तेः । न तूत्पत्तिव्यतिरिक्तं किं चि- दस्त्यपूर्वस्योपादानं यत्स्वर्गादिना फलेन प्रयुज्येत । कश्चित्पत्त्यु- पादानयोरेव प्रयोजको न पालनस्य । यथाऽऽग्नीषोमीयविकारे निरूड- पशावसति दीक्षिते मैत्रावरुणाय दण्डदानं दण्डोत्पत्त्युपादानयोः प्रयोजकं न तत्पालनस्य पूर्वमविद्यमानत्वात्तस्येति । एवं प्रयोजको ऽप्याद्यभेदस्य तृतीयादिभेदानां च गणनया सप्तविधः । प्रयोजको ऽपि द्वितीयस्य तृतीयादिभेदानां च गणनया सप्तवि- ध इति सिद्धम् । पुनरपि प्रयोजको द्विविधः। कश्चित्वार्थ प्रयुङ्क्ते यथा शेषी स्वर्गादिः शेषं यागादिकं स्वार्थ प्रयुक्ते न परार्थम् । कश्चित्तु परार्थ किं चित्प्रयुङ्क्ते न स्वार्थम् । यथा निमित्तं जी- वनभेदनादि अशेषिभूतं दार्दिकं भेदनहोमादिकं च न खार्थ प्रयुक्त किं तु पापक्षयऋतूपकारादिशेष्यर्थं प्रयुके । तदुक्त- माचार्यः । तथा होमाः प्रयुज्यन्ते भेदनस्कन्दनादिभिः। निमिर्तेन च तेष्वेषां होमानां शेषता मता ॥ इति । अप्रयोजकोऽपि पुनर्द्विविधः । कश्चित्स्वाङ्गस्याप्य- प्रयोजको यथा तुषोपवापः । कपालस्य खाङ्गभूतस्याप्यप्र- योजकः। कश्चित्तु पराङ्गस्य खोपकारिणो ऽप्यप्रयोजकः यथा दध्या- नयनस्य वाजिनयागः।यथावाक्षाभ्यञ्जनम् एकहायनीनयनसाध्यमपि . ।
मीमांसाबालप्रकाशे। न तस्य प्रयोजकम् । यथा वा प्रतिपत्तिः शकल्लोहितनिरसनस्विष्ट- कृद्यागचात्वालपासनादिःप्रतिपाद्यस्य शकल्लोहितस्य शेषस्य कृष्ण- विषाणादेश्चाप्रयोजकाः। तथा प्रसङ्गयपि पशुपुरोडाशयागादिः पश्व- ङ्गस्य प्रयाजादेः स्वोपकारिणो ऽप्यप्रयोजकः । अप्रयोजकादिलक्ष- भाष्ये । साधारणं भवेत्तन्त्रे परार्थे त्वप्रयोजकः। एवमेव प्रसङ्गः स्याद्विद्यमाने स्वके विधौ ॥ इति । अस्यार्थः । साधारणम् अनेकेषां यत्र प्रयोजकत्वशक्ति- रस्ति तत्तन्त्रम् । यथा प्रयाजादेः सकृदनुष्ठानं तद्विषया ह्यनेकेषा- माग्नेयादीनां प्रयोजकत्वशक्तिरस्ति । परार्थे स्वप्रयोजकः । अत्र प- राथे परमात्रार्थ इत्यर्थः । अन्यथा तन्त्रे ऽतिप्रसङ्गात् । एवमपि पुरो- डाशकपाले अव्याप्तिः।कपालेषु श्रपयतीति सप्तम्या परस्मिन्पण- इव कपालानां पुरोडाशकपालेनेति तृतीयया तुषोपवापे ऽपि ताद- या॑त् । अतः परार्थ इत्यस्य परमात्रप्रयुक्त इत्यर्थः । एव मेव प्रसङ्गः स्यादित्युक्ते कस्तहप्रयोजकप्रसङ्गयोर्भेदः इत्यत उक्त विद्यमाने स्वके विधाविति । यद्यपि भट्टनये पशुपुरोडाशे प्रसङ्गोपकारिप्रयाजादरनन- त्वात्तदंशे पुरोडाशीयो ऽतिदेशः प्रयोगवचनश्च लुप्यते तथापि पि- एलेपफलीकरणाज्यभागादिसाधारण्येन तावत्प्रयाजादिप्रयुक्तिसम- थों विधिरस्ति वाजिनादिविधिस्तु वाजिनाद्येव विषयीकरोति न च तस्य तत्र प्रयोजकशक्तिरस्ति अन्यत्तु किं चिन्नेवासौ विषयीक- रोतीति वैषम्यमित्यर्थः । अत्रैवार्थे द्वादशाध्यायाद्यभायगतस्य त- च्छ्लोकव्याख्यानग्रन्थस्य तात्पर्य वर्णनीयम् । इति तन्त्रप्रसङ्गाप्रयोजकलक्षणनिरूपणम् । चतुर्थे प्रयाजशेषाभिधारणाधिकरणे किं चिदुच्यते । चतुर्जुह्नां गृह्णाति प्रयाजेभ्यस्तदिति प्रयाजाथै चतु- गृहीतं चतुर्ग्रहीतं वा एतदभूतस्याघारमाघार्य त्रिरितः प्राचीनं प्र- याजान्यजतीत्यनेन प्रयाजत्रये उपसंहृतं तेन जुह्वा जुहोतीति होमे विहिते कृत्स्नमेव होतव्यम् । ननु प्रयाजशेषाभिधारणरूपप्रतिपत्त्यनुरोधेनाकृत्स्नहोमः स्यात् । न । प्रतिपत्तीनामप्रयोजकत्वात् । नचोत्पत्तिप्रयोकत्वमेव तासां नास्ति धारणप्रयोजकत्वं तु तासामस्त्विति वाच्यम् । अ- धिकरणचतुष्टयविरोधात् । तथा हि । सोमे ऽवचनाद्भक्षो न वि- द्यते इति पूर्वपक्षिते । ग्रहर्जुहोति चमसैर्जुहोतीति सर्वहोमप्राप्ता- प्रयाजाशेषाभिधारणाधिकरणसमाहितिः । १०९ वपि अल्पं जुहोतीति वचनेन सिद्धान्तितं तद्विरुध्येत अकृत्स्नहोम- स्य न्यायप्राप्तत्वे ऽल्पवाक्यस्य विधित्वायोगात् । तथा आज्याच्च सर्वसंयोगादित्यत्र चतुर्गृहीतं जुहोतीति ध्रौवाज्याद् गृहीतेन चतुर्ग्रहीतेनोपांशुयाजे कृते ऽपि शेषकार्यानुरो- धेन शेषः स्थाप्येतेति तदधिकरणविरोधः । एवं साकम्प्रस्थाय्ये खिष्टकृदिई तद्वत् सौतामण्यां च ग्रहेग्वित्यनयोरप्य- धिकरणयोः ( अ० ३ । पा० ५ । अ० २ ।३।) सिद्धान्तौ प्रत्युद्धृतौ स्याताम् किं च न केवलं सिद्धान्तविरोध एवं किंतु प्रतिपत्तीनां प्रतिपाद्यप्रयोजकत्वायोगरूपन्यायेन यथा प्रति- पाद्योत्पत्तिप्रयोजकत्वाभावः सिध्यत्येवं प्रतिपाद्यस्य शास्त्रतः कृत्स्न- होमे प्राप्ते तद्धारणाप्रयोजकत्वमपि सिध्यत्येव । तदुक्तं सोमे ऽवच- नादित्यधिकरणे (अ०३।पा०५।०६) शास्त्रदीपिकायाम् अथशेष- कार्यवशाच्छेभ्येत ततस्तेषामपि प्रयोजकत्वाच्छेषनाशदोषापहारादा- वपि हविरन्तरागमः स्यादिति । तस्मादल्पं जुहोतीत्यादिवचनाभा- वाजौहवस्य प्रयाजत्रयेण कृत्स्नहोमात्प्रयाजशेष एव नास्तीति प्र- याजशेषाभिधारणाधिकरणमनुपपन्नम् । अत्र ब्रूमः कृत्वाचिन्तैषेति कश्चिदपि ग्रन्थकारैरनुक्तमपि कल्पनीयम् यद्वा । कृत्स्नहोमे शास्त्रतः प्राप्ते यदि प्रमादात्सशेषं जुहो- तितत इयं शेषस्य प्रतिपत्तिर्विधीयते इति नित्यवदाम्नानभङ्गेन कल्पनीयम् । प्रतिपत्तिविधिनैव च कृत्स्नहोमाभावकृतवैगुण्यप्रति- समाधित्सापि निवर्ततइति । इति प्रयाजशेषाभिधारणाधिकरणसमाहितिः। चतुर्थाध्यायाद्यपादे ऽन्त्याधिकरणे ऽनारभ्याधीतं "चतुगृहीतं जुहोती ति वाक्यं सिद्धान्तसाधकत्वेनो- पन्यस्तं चतुर्गृहीतं जुहोतीति ह्यनारभ्याधीतेन होमाङ्गं चतुर्गृहीतं प्राप्तम् तेनाष्टावुपभूति गृह्णाति प्रयाजानुयाजेभ्यस्तादति होमाङ्गभू- तग्रहणाङ्गभूताष्टसंख्या बाधिता चतुष्टद्वयलक्षणार्थोति । तद्नुपपन्नम् । चतुर्गृहीतं जुहोतीति हि होमानुवादेन चतुर्ग्रहीतं विधत्ते न च प्रयाजानुयाजयोहोंमः केन चित्प्राप्तः । एवमाज्यभागयोरु- पांशुयाजे च होमस्याप्राप्तेन चतुर्ग्रहीतं विधीयते । अथ चतुर्गृहीतं जुहोतीति चतुर्ग्रहीतविशिष्टहोमविधिरित्युच्यते । तदप्यनुपपन्नं न ह्यन दर्शयागादि किं चिदनूदितं न वा “यस्य पर्णमयीजुहू"रित्या- दिवकर्माव्यभिचारि किं चिद्वारमनूध होमविधानम् । तेन क- ङ्गितैवास्य होमस्य न स्यात् । किं तु विश्वजिद्वत्कल्प्यफलं स्व- ११० मीमांसाबालप्रकाशे। तन्त्रमेवेदं होमान्तरमापद्यत । अथ मतं चतुर्ग्रहीतामति द्वितीयाबलात्तदनूचं तत्संस्कार- कत्वेन प्रतिपत्तिभूतो होमो विधीयते । चतुर्ग्रहीतस्य होमाङ्गत्वा- क्तिस्तु तन्त्ररत्ने होमोपकारकत्वमात्राभिप्रायेत्युच्यते । तदप्ययु- कम् । एवमप्यस्यानारभ्याधीतत्वाञ्चतुर्ग्रहीतस्य भोजनादौ लोके ऽपि सम्मवान्निर्वापालम्भवन्न वैदिककर्माङ्गचतुर्गृहीतोपस्थितिरस्ती- ति नास्य होमस्य प्रयाजाद्यङ्गता सिध्येत् । अथ चतुर्ग्रहीतस्य हो. माङ्गत्वोक्तिवदनारश्यवादत्वोक्तिर्नाद्रियते ततोऽस्तु नाम कर्माच- तुर्ग्रहीतोपस्थितिस्तथापि यत्र चतुर्गृहीतं विहितमस्ति चतुर्जुह्वां गृह्णा- ति प्रयाजेभ्यस्तदित्यत्र तत्रैव विनैव चतुर्ग्रहीताक्षेपेण होमविध्युपप- तौ नोपांशुयाजाज्यभागादौ चतुर्ग्रहीताक्षेपो होमविधिनोपपद्यते शू- द्रस्य विद्याक्षेपवत्कर्मभिः। एतेनेदमपिनिरस्तम् । यथा अध्ययनस्य खा- ध्यायार्थत्वविधिरेव सामर्थ्यदृष्टार्थत्वसनाथःस्वाध्यायस्यार्थज्ञाने वि- नियोगमाक्षिपति यथावा “चरुमुपद्धाती"ति चर्वर्थोपधानविधिरेव सामर्थ्यदृष्टार्थत्वप्रकरणैश्चरोरेवं होमो ऽप्युपांशुयाजाद्यर्थः सन्स्व- भाव्यस्य चतुर्गृहीतस्योपांशुयाजाद्यर्थतामाक्षिपतीति । अथ मतम् उपांशुयाजाज्यभागादिष्वपि ध्रौवमेव चतुर्गृहीत- मङ्गमस्तीति तदनूद्यैव होमविधिरयम् । एवमप्योपभृते चतुर्गृही- तस्यानेन विध्यभावान्नाटत्वस्य चतुष्वद्वयलक्षणार्थता सिध्यत् । किं चैवं सति उपांशुयाजादौ धौवस्यैवैकदेशं सकृदेव जुह्वां गृह्णी- यात्समानयनवन्न त्वपरं चतुर्गृहीतं सिध्येत् । अथैवमेतद्दोषद्वयो- द्धारो ऽभिमतः । औपभृते. होमस्यैवासिद्धेर्न होममनूद्य चतुर्ग. हीतं विधीयते किं तु चतुर्ग्रहीतमनूद्य होमो विधेयस्तत्र चान्योन्या- श्रयापत्तिः अष्टत्वेन चतुष्पवयलक्षणायां सत्यां प्राप्तं चतुर्गृहीतमनूद्य होमो विधेयः । होमविधौ च तस्याङ्गत्वनिर्वाहाय चतुर्गृहीतस्याक्षे- पतः प्राप्ता तल्लक्षणाष्टत्वेनेति । अतः समानयनदृष्टार्थत्वादेवीपभृते होमप्राप्तौ चतुर्ग्रहीतविधिरित्याद्यदोषपरिहारः । किं चेत्यादिद्वि- तीयदोषस्य परिहारस्तु उपांशुयाजादौ ध्रौवैकदेशस्य चतुर्ग्रही- तत्वाभावात् । अतः तद्नूद्य होमविध्ययोगाद्धोमानुवादेनैव चतुर्मू- हीतं विधेयामति । एतदप्ययुक्तम् । उपांशुयाजादौ होमाप्राप्तेरेव । किं च यदुक्तम् । ध्रौवैकदे- शस्य चतुर्गृहीतत्वाभावादिति। तदपि न । प्राक्तनप्रयाजत्रयविषयजी- हवे ऽपि चतुर्ग्रहीतैकदेशस्यैव चतुर्ग्रहीतशब्देन लक्षणयोक्तेस्तद्वदेव ध्रौवे ऽपि सम्भवात् । एवमप्यौपभृते चतुर्ग्रहीतस्यानेन विध्यभावा- चतुर्थाध्यायार्थसङ्ग्रहः । १ नाष्टत्वस्य चतुष्वद्वयलक्षणार्थता सिध्योदति दोषः पूर्वोक्तः स्यादेव । किं चैवं धौवाज्जुह्वामुपांशुयाजाद्यर्थ चतुगृहीतं न सिध्येदित्यपि पू- वोक्को दोषः प्रसज्येत । यदि च तत्र कृत्स्नचतुर्ग्रहीतसंस्कारकहो- मस्याङ्गत्वानुपपत्त्या चतुर्ग्रहीतं प्रति होममाक्षिप्येत ततः प्रयाजत्र- ये ऽपि प्रत्येक ताडशहोमस्याङ्गत्वानुपपत्त्या प्रत्येकं चतुर्ग्रहीतमाक्षि- प्येत । अथ चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते त्रयोदशामावा- स्यायामिति सामान्यतो ऽभिकामं जुहोतीत्यादिविशेषतो लिङ्गदर्श- नैरेवोपांशुयाजप्रयाजानुयाजाज्यभागेषु होमप्राप्तिः । चतुर्ग्रहीत जुहोतीत्यनेन तु प्राक्तनप्रयाजत्रये चतुर्गृहीतसत्त्वात्तद्वयतिरिक्तेषु हामवत्सु चतुर्गृहीतं विधीयते । प्राक्तनप्रयाजत्रये तु चतुर्जुह्वां गृह्णाति प्रयाजभ्यस्तदित्युद्देश्यभूतप्रयाजसाहित्यस्याविवक्षितत्वेन प्र- तिप्रयाजं चतुगृहीतप्राप्तया शङ्कायामपि जुद्धेकत्वादेकस्यैव चतुर्गु- हीतस्य तन्त्रण लिङ्गदर्शनाप्राप्तहोमसाधनतासिद्धेर्न तत्र चतुर्गृहीतं जुहोतीत्यस्य व्यापार इति । तदप्ययुक्तम् । लिङ्गदर्शनमात्रस्य होमप्रापकत्वायोगात् । अत एव तत्र तत्र भाष्यकारेणोक्तं लिङ्गमसाधकं प्राप्तिरुच्यतामिति । न च सप्तमे (पा० ३ । अ० १) स्वरसामैककपालामिक्ष लिङ्गदर्शनादित्यत्र लिङ्गमात्रस्य प्रापकत्वमिवात्रापि तथा स्या- दितिवाच्यम् । तत्रापि इतिकर्तव्यताकासाभावनाविध्यन्यथानुपप- त्या सामान्यतो ऽतिदेशकल्पने ऽक्ताः शर्करा इत्यत्रार्थवादेनेव लिङ्ग- विशेषमात्रावगमादिति । अत्र ब्रूमः । यजतिचोदनाचोदितेषु द्रवद्रव्यकेषु प्रतिपत्तिरू- पे आचाराद्धोमे प्राप्ते ऽनारभ्यवादेन चतुर्गृहीतं जुहोतीत्यनेन चतुगु- हीतमानविधिः सो ऽप्युक्तरीत्याद्यप्रयाजनयव्यतिरिक्तग्विति । यत्तु शास्त्रदीपिकायां सर्वप्रदानाधिकरणे (अ०३पा०४।अ०१४) नन्वाचारादेव होमः प्राप्त इत्याशय दूषितम् । न। आचारस्य स्वतः प्रामाण्याभावात् श्रुतिकल्पनस्य च प्रत्यक्षश्रुतिसद्भावे ऽनुपपत्तेः ।। यदि चाचारप्रमाणको हामः स्यात्ततस्तस्य प्रकृतिविकृतिसाधार- णत्वाद्विकृतिध्वप्यौपदोशक एव होम इति प्रत्यक्षद्वारत्वादाहवनीया- दयः । पवमानेष्टयादिषूपदेशादेव प्राप्येरनग्नयश्च वकालत्वादिति न्यायातू । तत्र तासामग्निः प्रकृतितः प्रयाजवादति सूत्रकारव्यव- हारो नोपपद्यतेति । तदपि चतुरवत्तहोमविषयमेव तत्रैव प्रत्यक्ष- श्रुत्योपस्तरणादिवाक्यप्राप्तचतुरवत्तानुवादन होमविधिसम्भवादा- द्यदूषणापाताश्चतुर्ग्रहीतं जुहातीयन तु न तदापत्तिः चतुर्ग्रहीतमा- He ११२ मीमांसाबालप्रकाशे। सयभावात्तदनुवादेन होमविधेरसम्भवस्योक्तत्वातू । नापि द्वि- तीयदोषप्रसक्तिः । तासामग्निरिति सूत्रस्य चतुरवत्तहोममात्रवि- षयतयाप्युपपत्तरिति । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसावालप्रकाशे चतुर्थाध्यायार्थसङ्ग्रहः। पञ्चमे ( पा० १। अ० ३) अनियमो ऽन्यत्रेत्याधिकरणे शाखाभेदेनाम्नातानां प्रयाजाद्यनुमन्त्रणानामेको ममैका च तस्येत्या- दीनां वसन्तमृतूनां प्रीणामीत्यादीनां च समुश्चयं सिद्धं कृत्वा किं क- श्चिनियतः क्रमो ह्युतानियत इति चिन्तितम् । तत्र शङ्ख्यते । ननु य- धनुमन्त्रणानामहष्टार्थत्वं ततो मन्त्राधिकरणविरोधः। तथा क्रमश्च देशसामान्यादित्यत्र न चाविज्ञातलिङ्गानां प्रक्रिया विनियोजिका अ- सीत्यस्य च सामर्थ्य सन्निधावुपसंहृतमित्यनुमन्त्रणदृष्टार्थत्वोक्त्य- विरोधः । तथा। मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरते । शेषिणं तन्मना भूत्वा स्यादेतद्नुमन्त्रणम् ॥ इत्येवं लक्षणानुमन्त्रणत्वव्याघातः । अथ दृष्टार्थत्वं ततः समुच्चयाभावेक्रमचिन्ता न युक्तति । अत्र केचित् । मन्त्राणां स्मृ- तिरूपं दृष्टमेव प्रयोजनम् । स्तोत्रशस्त्रमन्त्राणामिव स्मृतिस्तु स्तो- शस्त्रवदद्दष्टार्था प्रयाजानुमन्त्रणेषु च यद्यपि श्रुतिवृत्त्या कर्मस्मृ- तिर्न भवति तथाप्यनुमन्त्रणसमाख्यया । तात्पर्यग्रहात्सावश्याश्यु- पेया या ऽनुक्रमश्चेत्यत्न स्मृतेरपि दृष्टार्थत्वोक्तिः कृतयागप्रत्यवेक्षणेन दृष्टार्थत्वादितिग्रन्थे साऽभ्युपेत्यवादमात्रमिति तदयुक्तम् । तथा सति पूषादिस्मृतेरप्यदृष्टार्थाया दर्शप्रकरणग्रहणसम्भ- वे तद्नुमन्त्रणानामुत्कर्षायोगात् । अतो यत्र मन्त्राणां लिङ्गात्कर्मस- मवेतार्थप्रकाशकता तत्र स्मतेरपि दृष्टार्थतव । तद्विषयत्वादिव च प्रायिकमनुमन्त्रणलक्षणं लिङ्गमूलत्वात् । अतोन तद्वशात्प्रयाजानुमन्त्र- णमन्त्राणां लक्षणया स्मृत्यर्थतत्यहष्टार्थत्वमेव । कृतयागेत्यादिवार्तिकं च स्मृत्यर्थानुमन्त्रणविषयमेव नाभ्युपेत्यवादः । तदानिममेव तु स- प्रयोजानुमन्त्रणक्रमाधिकरणसमर्थनम् । अभ्युदितष्टयधिकरणसमर्थनं च स्वपि चाहष्टार्थत्वइति वार्तिकं नित्यानुवाद इति । यद्वा मन्त्रार्थत्वेनेति न मन्त्रप्रतिपाद्यतयेत्यर्थः । करणमन्त्रे- भवतिप्रसङ्गात् । किंतु प्रयोजनवचनो ऽयमर्थशब्दः । ततश्च क चि- दप्रतिपाद्यः क्व चित्प्रतिपाद्यः शेषी मन्त्रप्रयोजनत्वेन यत्र स्मर्यते त- दनुमन्त्रणमित्यर्थः । एवं च मन्त्रमुचारयन्निति शतप्रत्ययो वर्तमा- नार्थः समर्थितो भवति । मन्त्रजन्यानुस्मृतिमन्त्रपाठोत्तरकालेति त- प्र मन्त्रमुञ्चारयन्स्मरेदित्यनुपपन्नम् । तेन दृष्टार्थस्याप्याग्नेयाद्यनुम- त्रणस्यादृष्टार्थस्यापि च प्रयाजाद्यनुमन्त्रणस्य पाठकाले शेष्यनु- सन्धानावृत्तरत्रानुमन्त्रणतापि युक्ता अदृष्टार्थत्वाच्च खस- मुच्चयोऽपीति । ऋजवस्तु करणवाभावे सतीति विवक्षितत्वान करणेव- तिप्रसङ्गः । उच्चारयन्निति च वर्तमानसामीप्ये वर्तमानवढे ति शता मन्त्रार्थत्वेनेति मन्त्रप्रतिपाद्यत्वेनेत्येवार्थः । ततश्च प्रया- जानुमन्त्रोवण्यनुमन्त्रणसमाख्ययैव लक्षणया दृष्टार्थत्वकल्पने ऽपि अभ्रवादानमन्त्रवद्वचनं समुश्चयार्थ भविष्यति कृत्वाचिन्ता धे- त्याहुः । इति प्रयाजानुमन्त्रणक्रमाधिकरणसमर्थनम् । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभदृशङ्करकृते मीमांसाबालप्रकाशे पञ्चमाध्यायार्थसङ्ग्रहः। B षष्टाध्यायें “यस्य हविर्निरुतं पुरस्ताश्चन्द्रमा अभ्युदेति स त्रै धा तण्डुलान्विभजेधे मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टा- कपालं निर्वपेचे स्थविष्ठास्तानिन्द्राय प्रदाने दधंश्चरुं ये ऽणिष्ठास्ता. विष्णवे शिपिविष्टाय श्रुते चलमि" स्यत्र प्रक्रान्ते दर्शकर्मणि देवता- तद्गुणचरुत्वविधौ वाक्यभेदात्कर्मान्तरमिति पूर्वपक्षयित्वा सिद्धा- न्तितम् । मन्त्रार्थवादादी शिपिविष्टो विष्णुरित्यादिसामानाधिकर- ण्याद्विशिष्टावमता देवतास्ति हातप्रदातृशिपिविष्टशब्दानां च यो- मिकत्वेन श्रुत्यैवाग्न्यादिपदसामानाधिकरण्यात्पदव्यप्रतिपादित विशिष्टं देवताकारकमेकमेव विधेयम् । अभ्युदयोष्ठिप्रकरणे व सह अपयतीति वचनमास्त तद्देवतैक्याहधिस्थविष्ठयोः भूताणिष्ट- मीमांसाबालप्रकाशे। यांश्च सह पाकं विधत्ते ततश्चार्थतः प्राप्तं चरुत्वं दधितयोश्चाधिः करणत्वमनूद्यते केवलं तु देवताकारकं विशिष्टं विधीयते प्रकृते दशैं इति वाक्यभेदाभावान्न कर्मान्तरविधिरिति । तदेतदाक्षिपन्ति दीक्षिताः । दधिवाक्ये शृतवाक्ये च प्रति- द्रव्यं देवतासम्बन्धबोधनाद्वाक्यभेदो दुष्परिहर इति कर्मान्तरत्वपू- र्वपक्षो दुष्परिहरः । अङ्गीकृतं च षष्ठएव वाक्यभेदप्रसङ्गपरिहाराय प्रकृतयागहानेन कर्मान्तरविधिपरत्वम् । यथा “यस्योभयं हविरार्ति- माईदैन्द्रं पञ्चशरावमोदनं निर्वपेदि"त्यत्रौदनद्रव्यविधानात्पञ्चश- रावपरिमाणविधानान्महेन्द्रेण च सह विकल्पतः प्राप्तस्येन्द्रस्य नि- त्यवद्विधानाद्वाक्यभेदभियैव प्रकृतकर्महानेन कर्मान्तरस्य दोहार्तिनि- मित्तकस्य विधिः सिद्धान्तितः । अन्यथाभ्युदये वाक्यभेदं सोवा देवतान्तरमात्राविधिवद्यस्योभयमित्यत्राप्यातदोहप्रतिनिधिविधिरिति पूर्वपक्ष एव परावर्तेति । तदेतदनतिक्षुण्णमीमांसान्यायानां बिभी. षिकामात्रमव । तथा हि । वाक्यभेदादपि बलवदानर्थक्थमप्रामाण्यापत्तेः । अत एव श्रुत्यादीनामप्यानर्थक्यप्रतिहतानां विपरीतं बलाबलमि- त्युक्तम् । तदिह विध्यन्तरैकवाक्यत्वाभावात्सह श्रपयतीति सह पाकविधिरभ्युदयवाक्यस्य कर्मान्तरविधित्वे दधश्चरुं शृते चरु- मित्यत एव सह पाकप्राप्तेरनर्थकः स्यात् । न च "प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्काम” इति प्रधानविधौ घृते अपयती- ति गुणावधिप्राप्तघृतानुवादवकर्मान्तरत्वे ऽप्यभ्युद्यवाक्ये सहश्र- पणविधिसिद्धचरुत्वानुवादः स्यादिति वाच्यम् । उभयप्राप्तावनुभ- यप्राप्ती वा सम्बन्धविधिरिति हि जाघन्यधिकरणे ( अ० ३ पा० ३ १० ) उक्तं चर्वनुवादे च तबंव- तासम्बन्धाविधानाद्योगविध्यासिद्विः । अतः सहपाकविध्यान- र्थक्यपरिहाराय तबलेनैव तात्पर्यग्रहानिर्वपेदित्यस्यानुषङ्गेण स्थवि- ठक्षादिष्ठद्धितरूपद्रव्यचतुष्टये ऽपि देवतान्वयविधानार्थत्वात्प्र- तिद्रव्यं बाक्यभेदमेवाभ्युपेत्य न प्रकृतकर्महानमप्रकृतकर्मान्तरबि. धानं च युक्तम् । तदुक्तम् । गौणं लाक्षणिकं वापि वाक्यभेदेन वा खयम् । वेदो यमाश्रयत्यर्थ को नु तं प्रतिकूलयेदिति ॥ बाक्यभेदाभ्युपगमस्य ह्येतद्वार्तिकोक्तस्येदग्विधमेवोदाहरणं नान्यत् । गौणत्वोदाहरणं तु “यथा वै श्यनो निपत्यादत्त" इति।ल- क्षणोदाहरणं तु मत्वर्थलक्षणैव । आर्तिवाक्ये तु सह पाकविधि- प्रतिहर्तृजघन्यत्वे पुनः प्रयोगबाधनिरूपणम् । घदानर्थक्येन तात्पर्यग्राहकस्याभावाद्वाक्यभेदपरिजिहीर्षया क- मन्तिरविधिरेव न्याय्य इति वैषम्यम् । इत्यभ्युदितेष्टयधिकरणस- मर्थनम् । षष्ट एव याद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसन्दया- धथेतरस्मिन्नित्यधिकरणे (पा०५ अ०२०) उक्तं पौर्वापर्य पूर्वदौर्बल्ये स्थिते चिन्त्यते यदि प्रतिहत्रपच्छेदे जाते पश्चादुद्गाता अपच्छिद्यते तदा पुनर्यज्ञे सर्ववेदसं देयमुत्त द्वादशशतमिति । तदर्थ यद्युद्गाता- ऽपच्छिद्येताऽदक्षिणो यज्ञः परिसमाप्यते इत्यदक्षिणता विधीयते ऽनू- द्यते वेति। तत्र यत्पूर्वस्मिन्दास्यन्नितिक्रतुस्वासाव्याद्वादशशतं वा देयं प्रतीयते । न च तस्य प्रतिहज्रपच्छेदनिमित्तकसर्ववेदसेन बाधा- त्सर्ववेदसमेव दास्यन्नासीदित्युद्गात्रपच्छेदे तदेव पुनः प्र- योगे देयमिति वाच्यम् । तस्याप्युद्गात्रपच्छेदे विहितेनादाक्षिण्ये- न बाधादिति प्राप्तम् । सिद्धान्तस्तु नात्रादाक्षिण्यं विधीयते वाक्यभेदात् । किं तु पूर्वस्मिन्प्रयोगे दातव्या सली दक्षिणा तत उत्कृष्योत्तरप्रयोगे निक्षिप्यते तेनादक्षिणो यज्ञ इत्यनुवादः । पूर्वप्रयोगे चोद्गात्रप- च्छेदे सति द्वादशतं बाधित्वा सर्ववेदसमेव दातव्यमासीत् अतस्त- देव पुनःप्रयोगे देयमिति । तत्रेदं न चिन्तितं । यदि प्रतिहर्ता जघन्यः स्याकिं भवतीति । तेनेदमवश्यं विचार्य प्रतिहत्रपच्छेदवति प्रयो- गे विहिते न सर्ववेदसेन पूर्वजातोद्गात्रपच्छेदे निमित्त प्राप्त नैमि- त्तिकं बाध्यामिति पौर्वापर्यन्यायेन स्थिते किं पुनः प्रयोगो ऽपि बा:- ध्यते । उतोत्कर्षविध्यर्थसिद्धमदाक्षिण्यमानमिति । तत्र विरोध- . निमित्तको बाधः न च पुनः प्रयोगांशेन सह विरोधो ऽस्ति सर्वस्व- दानस्य किं तु दक्षिणोत्कर्षेणैव पूर्वप्रयोगादाक्षिण्यद्वारति तावदेव बाध्यते। उच्यते षष्टएव साभ्युत्थाने विश्वजिति क्रीते विभागसंयोगादित्यधिकरणे ( पार ० ७ ) यदि सत्राय दीक्षितानां साम्युत्तिष्ठासेत्सोममपभज्य वि- श्वजिता यजेतेत्युदाहृत्य किमयं विश्वजिक्रीतराजकस्यै- वोत्थाने उत्ताक्रीतराजकस्यापीति संशय्य तदर्थ च सोमसएभज्योति विधिरनुवादो वेति संशय्य विधिस्ततश्च तद्विशिष्टं नैमित्तिकं की तराजक एव शक्नोति कर्तुं नाक्रीतराजक, इति तस्य न विश्वजिदि- ति प्राप्ते सोममपभज्यत्यनुवादो ऽर्थसिद्धत्वात्सत्रार्थ ह्येकीकृतधना- नां सत्रत्यागे दक्षिणाद्रव्यस्येव सोमस्यापि विभज्य ग्रहणं प्राप्तमे छ ।न । विधिस्ततश्च विश्वजिनमात्रं नैमित्तिकम् । तब यथा मीमांसाबालप्रकाशे। शक्यमेवाक्रीतराजकेन कर्तुमिति तस्याप्यधिकार इति सिद्धा- न्तितम्। तस्यानुवादेन सिद्धान्तकरणं व्यर्थमेव स्यादित्येवं ज्ञायते यत्न विशिष्टं नैमित्तिकं तत्र विशेषणबाधे विशिष्टमेव बाध्यामिति । अतः प्रकृते ऽपि सर्वस्खदानेन पुनः प्रयोगविशेषणे पूर्वप्रयोगदयद- क्षिणादाने बाधिते पूर्वमुत्पन्नं नैमित्तिकं ज्ञानं विशिष्टपुनः प्रयोगवि- षयं कृत्स्नमेव बाध्यते इत्येवं न्याय्यम् । तेनायमत्र वाक्यार्थः । प्रस्तोतृप्रतिहत्रपच्छेदे दानविकार- मात्रम् उद्गात्रपच्छेदे तु पुनः प्रयोगो ऽपीति । ततश्च नेतरयोः पुनः प्रयोग इति गम्यते । अन्यथा योगपधे ऽपि तत्र विप्रतिषेधाद्विकल्प इत्याधिकरणोक्तो विकल्पो ऽप्युच्छिद्येत पूर्वपक्षएव तु समुनयः स्थिरः स्यात् । तत्रापि हि विशेषणेनैव सह सर्ववेदसस्य विरोधा- विकल्पः स्यात्पुनः प्रयोगश्च स्यादेव । अथ तत्र का दक्षिणेति चेत् । तत्र पौर्वापर्ये पुनः प्रयोगे का दक्षिणेति प्रतिबन्दीमुद्धर अथ सुहृद्भूत्वा पृच्छसि । ततः शृणु । द्वादशशतमुभयति । पौर्वापर्येण युगपट्टा ऽपच्छेदे हि पूर्वप्रयोगे द्वा- दशशतं दास्यन्नासीदिति तदुत्कर्षविशिष्टः पुनः प्रयोगः स्यादेव । पूर्वप्रयोगे चोभयत्र सर्ववेदसं दीयते इति योगपद्ये ऽपि समुच्चय पंव स्यान्न विकल्प इति तदधिकरणोच्छेदापत्तिः । त- स्माद्विशेषणमात्रबाधं सर्ववेदसेन वदन्नुपेक्षणीय एवेत्युप- रम्यते। इति प्रतिहर्तृजघन्यत्वे पुनः प्रयोगबाधनिरूपणम् । अथेह कथं यत्राये प्रयोगे केवलमुद्गाता ऽपच्छिन्नस्तनिमि. ते तु द्वितीयप्रयोगे केवलं प्रतिहतो ऽपच्छिन्नः । अत्राधप्रयोगगता द्वादशशतदक्षिणोद्गात्रपच्छेदाद् द्वितीयप्रयोगे प्राप्ता यत्पूर्वस्मिन्दा- स्यत्स्यादिति सा द्वितीयप्रयोगगतप्रतिहर्षपच्छेदनिमित्तेन सर्ववेद. सेन बाध्यते । ननु द्वितीयः प्रायश्चित्तरूपत्वेनाधप्रयागाङ्गम् । याद्गाता जघन्यः स्यादित्यत्र चेमुक्तं पूर्वप्रयोगाङ्गभूतैव दक्षिणोत्तरप्रयोगे उत्कृष्य तेन त्वाद्यप्रयोगे अदाक्षिण्यं विधीयते इति । ततश्च द्वाद- सातदक्षिणाद्यप्रयोगाङ्गत्वान्नैमित्तिकतदीयाङ्गद्वितीयप्रयोगाङ्गभूतंप्र- तिहर्षपच्छेदनिमित्तं सर्ववेदसमेव बाधेत अङ्गगुणविरोधन्यायादि- ति चेत् । एवमुत्कर्षविधेरहष्टार्थत्वं प्रसज्येत । न धुत्तरप्रयोग गगतया दाक्षिण्यापूर्वप्रयोगौपयिकी आनतिः क्रियते ।। 4 प्रतिहर्तृजधन्यत्वे पुनः प्रयोगबाधनिरूपणम् । अतिदेशलक्षणतद्भेदनिरूपणं च किं च पूर्वप्रयोगाङ्गत्वेनैवावगता दक्षिणा तत आच्छिद्योत्त- रप्रयोगाङ्गत्वेनेह विधीयते अदाक्षिण्यानुवाक्यशेषान्न गिरागिरंति वाक्यशेषेणव गिरापदस्थानापत्तिरिरापदस्य । नन्वाच्छिद्य वि. धानं चतुर्थे निरस्तं यदातिथ्यायां बहिरित्यादौ । न । तत्र ह्यानि- थ्याप्रकरणे प्रसूनं बर्हिर्विहितं तन्प्रकरणपाठे वैयपत्तेरातिथ्या- ङ्गमेवावश्यम् । ततश्च तस्य निर्विषयतापत्तेः सादिकमाच्छिद्य वि- धानं न युक्तमित्युक्तम् । इह त्वाच्छिद्य विधानं घटतएव नैमित्ति- कत्वात् । निमित्ताभावे च तस्या दक्षिणायाः पूर्वप्रयोगाङ्गत्वोपप- तरिति । किं च द्वितीयप्रयोगाङ्गक नतिसिद्ध्यर्थेयं दक्षिणा तत्त- योगाङ्गभूतैवेत्युचितम् । नाद्यप्रयोगाङ्गभूतेति आद्यप्रयोगाङ्गकर्नाऽऽनतिसद्ध्य- र्थत्वाभावात् । अन्यप्रयोगस्य हि ऋत्विजः संस्क- रोति अन्यप्रयोगस्य चाङ्गमित्यपूर्वा युक्तिः । ततश्च तद्दक्षिणा- लोपे प्रायश्चित्तमपि द्वितीयप्रयोगाङ्गमेव नाद्यप्रयोगाङ्गामति । त- स्मादाद्यप्रयोगगतोद्गात्रपच्छेदनिमित्तके द्वितीयप्रयोगे उत्कृष्टा द्वादशशतदक्षिणा द्वितीयप्रयोगाङ्गतप्रतिहपच्छेदनिमित्तकसर्ववेद- सदाक्षिणावद् द्वितीयप्रयोगाश्रमेव नायप्रयोगाङ्गामित्यङ्गगुणविरोध- न्यायाविषयत्वान्न पूर्षयोत्तरा बाध्यते किं त्वनयोदितन पौर्वापर्य- न्यायेन पूर्ववोत्तरया बाध्यतइति सुस्थम् । इत्याचे प्रयोगे केवलो- द्वानपच्छेदे द्वितीयप्रयोगे च केवलप्रतिहर्जपच्छेदे पौर्वापर्यन्यायप्र- त्तिनिरूपणम् । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- भट्टशङ्करकृते मीमांसाबालप्रकाशे षष्ठाध्यायार्थसङ्ग्रहः। सप्तमाये ऽतिदेशलक्षणं भाष्ये । श्लोकमप्युदाहरन्ति । प्राकृतात्कर्मणो यस्मात्सरसमानेषु कर्मसु । धर्मप्रदेशो येन स्यात्सो ऽतिदेश इति सितिरिति ॥ स पुनर्विभक्तविभागेन सप्तविधः ।
११८ मीमांसाबालप्रकाशे। प्रथमं तावन्नामातिदेशो वचनातिदेशश्चेति द्वेधा । तदुक्तं भाष्ये । स चे नाम्ना वचनेन च । तत्र नाम त्रिविधमतिदेशकं क- मनाम संस्कारनाम यौगिकं चति । वचनम् पुनाविधम् । प्रत्य- क्षश्रुतमानुमानिकं चेति । आनुमानिकमपि त्रिविधं चोदनासा- सान्यातिदेशः आश्रयातदेशः स्थानापत्त्यतिदेश इति । तत्र यद्यप्यन्त्यौ द्वौ भेदी सप्तमे ऽध्याये नोक्तौ तथापि तयो- राद्य इन्द्रियकामाधिकरणे ( अ० २। पा० । अ० ११) निरूपितः । बुद्धौ बिपरिवर्तमान आश्रय एव हि तत्र खेतिकर्तव्यताया आश्र. यवदिति कल्पनया प्रापको भवति चोदनासामान्यम् । स्थाना- पत्त्यतिदेशो ऽपि फलचमसाधिकरणे निरूपितः । न च सोम भक्षयतीति चोदनासामान्यामह भक्षश्रुतोरति वाच्यम् । इन्द्रिय- कामवाक्ये जुहोतोरव नारष्टादिसाधारण्येन भक्षस्यापि इडादि- भक्षसाधारण्येन चोदनालिङ्गत्वायांगात् । अतः प्रकृतभक्षयोगात्सोम- कार्यस्य च स्वैः क्रयाभिपवादिधर्मविनानुपपत्तेराकाङ्क्षया सोमवदि- तिकल्पनान्नायं चोदनासामान्ये ऽन्तर्गत इति सप्तविधत्वं सिद्धम् । अतश्च श्लोके तत्समानेष्वित्यविवक्षितं चोदनासामान्यनिमित्तातिदे- शव्यतिरिक्त भेदषट्के अव्याप्तेः । तथा कर्मस्तित्यप्यविवक्षितम् । फलचमसविषये स्थानापत्त्यतिदेशभेदे अव्याप्तेः । यद्वा फलचमसवद्दध्युन्मार्जनस्यापि विधेयत्वेन वाक्यभेद- प्रसङ्गात्तदुभयविशिष्टमवेष्टिवद्यजमानचमसाभ्यासप्रयोगान्तरमेव विधीयतइति कर्मग्रहणे विवक्षिते ऽपि नाव्याप्तिः । तथापि खलेवा- ली यूपो भवतीति खलेवालद्रिव्यविषययूपशब्दरूपसंस्कारना- मातिदशे कर्मग्रहणविवक्षायामव्याप्तिः स्यादेवेति तदविवक्षित- मेवेति । अत्र मिश्नाः । षड्विध एवातिदेशः । यौगिकशब्देन हि केवलयौगिक वोक्तं योगरूढं वा । तत्राद्यं विश्वजिति सर्वपृष्ठा- दि तन्नैव नाम गुणविधित्वात् । उत्तरं त्वग्निहोत्रोद्भिदादिकर्मना- मशब्देनैवोतम् । प्रायणीये तु प्रथममयन्त्यनेनेति येनैव योगेन द्वा- दशाहे प्रवृत्तिस्तेनैव गवामयने ऽपीति श्रुतिवृत्तेन धर्मलक्षकमित्य- नतिदेशकमेव । भाध्ये त्वतिदेशकानतिदेशकनामसु भूम्नातिदेशक शब्द इति । वयं तु कर्मनामति प्रागुक्तयोमरूढभिन्नं श्येनादि । न हि त- प्रापि कादिरस्ति गुणविशेषस्यैव निमित्तत्वात् सिंहो माणवक इति - - आष्टमिकभेदप्रेपश्चनिरूपणम् । तू न च योगः । यौगिकामति च योगरूढामिति भाष्याथै न को ऽपि दोषः । टुपीका तुं यौगिकं नातिदेशकामति प्रायणीया- दिकेवलयौगिकपरं भाज्यस्थ यौगिकपदं न भवति किं तु योगा- ढपरामित्येवमाशया । इत्यतिदेशलक्षणतद्भेदानरूपणम् । इति श्रीमत्पदवाक्यप्रमाणपारापारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे सप्तमाध्यायार्थसङ्ग्रहः । अष्टमे ऽध्याये यस्य लिङ्गमर्थसंयोगादित्येतत्सूत्रार्थप्रपञ्चा- वधिकरणेषु नानाविधानि प्रकृतिलिङ्गान्युक्तानि इष्टिषु तद्धि- तेन देवतानिर्देश एकद्विदेवतत्वमौषधद्रव्यकत्वम् आज्यद्रव्यकत्वं प. योद्रव्यकत्वं दधिद्रव्यकत्वम् उज्वलविशद्रव्यकत्वं द्र. घसमानवर्णद्रव्यकत्वं पशुप्रभवमतिमद्रव्यकत्वं निर्बपति- पत्त्वं आलभतिवत्त्वं पशुषु पाणिद्रव्यकत्वं सुत्याकालत्वं पशुग- णत्वम् इत्यादीनि सोमेष्वव्यक्तचोदितत्वम् अहर्गणत्वमहीनत्वं सत्रत्वं सम्वत्सरसत्रत्वं निकायित्वमित्यादीनि । तत्र यस्य लिङ्ग- मर्थसंयोगादिति सामान्यसूत्रेणैव विशेषविवरणार्थैः सूत्रान्तरैर- निबद्धान्यपि कानि चिदम्यान्यपि चोदनालिङ्गानि सामान्यतः संगृ- हीतानीत्यन्यथानुपपत्त्या विश्यं कल्पनीयं यथा तेषामृग्यनार्थवशेन प्रादव्यवस्थेत्यत्रार्थवशेनेति पादव्यवस्था हत्वन्तरस्यापि वृत्तादिव- शस्योपलक्षणार्थमित्युक्तम् । कानि तान्यन्यानि चोदनालिङ्गानी- ति चेत् । उच्यते । एकं तावश्चोदनालिङ्गं द्रव्यदेवतासम्बन्धप्रतिपाद- कतद्धितान्तपदाक्षरसाम्यम् । “यथा ऽऽग्नावैष्णवमेकादशकपालं निर्वपेत्सरस्वतीमाज्यस्य यजेत बार्हस्पत्यश्चरुरि"ति । अत्रकादशक- पालत्वमैन्द्राग्नमेकादशकपालं निर्वपेदिति प्राकृते ऐन्द्राग्ने ताभ्या- मेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छदिति विहिते। प्रा- कृते ऽग्नीषोमीये चाविशिष्टमेवं द्विदेवतत्वं निर्वपतिवत्त्वं च । यद्य- पिद्वितीयं प्राकृताग्नीषोमीयप्रधानचोदनायां नास्ति तथा ऽप्यङ्गवि- मीमांसाबालप्रकाशे। धिना निर्धापवत्त्वमस्त्येव । अतस्तत्र द्रव्यदेवतासम्बन्धप्रतिपाद- कतद्धितान्तपदे ऽग्निमुखत्वसाम्यमेव चोदनालिङ्गं प्राकृताग्नीषोमी- यविध्यन्तातिदेशनियामकम् । तदेतञ्चोदनालिङ्गं मीमांसकानामप्य- भिप्रेतं लक्ष्यते । अन्यथाष्टमएव तृतीयपादाद्य हविर्गणे परमुत्तर- स्यत्यधिकरणे आनावैष्णवे ऽग्नीषोमीयस्य विध्यन्त इति साध्ये दे- वतासामान्यादिति हेतुरसङ्गतः स्यात् । द्विदेवत्यत्वस्येन्द्राग्ने ऽपि तुल्यत्वात् एवमग्निसमवायमात्रस्यापि । तद्धितमात्रं त्वाग्नेये ऽपि तुल्यं तदवश्यं पञ्चाक्षरतद्धितान्तपदवत्त्वमाग्नमुखतद्धितान्तपदवत्त्वं घा वश्यं किं चिच्चोदनालिङ्गान्तरमिह सिद्धान्तहेतुतया विवक्षि- तं गम्यते एवमारम्भणीयाया“माग्नावैष्णवमेकादशकपालं निर्वपेह- शंपूर्णमासावारप्स्यमान” इति। "आग्नावैष्णवमेकादशकपालं निर्वपे- हीक्षिष्यमाण” इति च “द्यावापृथिव्यमककपालाम"त्यत्र तु पश्चाक्षर- तद्धितादेव चोदनालिंगादग्नीषोमीयविकृतित्वम् । आश्विनादिकपा- ले तु द्विदेवतात्वे सति व्यक्षरतद्धितवत्त्वादन्द्राग्नविकृतित्वम् । एवं "मारुतं सप्तकपालं मरुद्भयः सान्तपन यो मध्यन्दिने चलमि"- त्यत्रापि सान्तपने रूपविशेषणाधिक्ये ऽपि प्रधानभूतदेवताविधि- खधक्षर एवेति व्यक्षरदेवताविधिसाहश्यादनेकदेवतत्वान्द्राग्नवि- कृतित्वमोव । “ सौमेन्द्र चलं निर्वपेच्छचामाकं सोमवामिन' इत्यत्र तु व्यक्षरत्वे सत्यपि अर्थवाचिशब्दगतसंख्याया: प्रथमोप- स्थिताया अपि बहिरङ्गत्वादन्तरङ्गसोमरूपार्थसमवायेनेन्द्रसमवाय- साम्ये ऽपि स सोमप्राथम्यात्तदुपस्थितो ऽग्नीषोमीयविध्यन्त एव । एकमिन्द्रासोमीये इन्द्रमुख्यत्वादन्द्राग्नविकृतित्वम् । सो. मापौष्णसोमारौद्रादौ तु सोमसमवायमानणाग्नीषोमीयविशातित्वं शुनासीरीये ऐन्द्रावैष्णवमित्यत्र सत्यप्यग्नीषोमीयचोदनालिने प- चाक्षरस्के क्षरसंख्याया बहिरङ्गत्वादन्तरङ्गोन्द्रसमवायेनेन्द्रामविक- तित्वम् । एवमैन्द्रापौष्णेन्द्राबार्हस्पत्यादौ । एवमन्द्रः पुरोडाशः सौम्यश्चरित्यत्रेन्द्रसमवायेनेन्द्राग्नविकृतिः पूर्वः । उत्तरस्तु सोम- समवायेनाग्नीषोमीयविकृतिः। “वैश्वदेवं चरु निर्वपेद् भ्रातृव्यवा- नित्यादौ तु चतुरक्षरे न किं चित् यक्षरपञ्चाक्षरत्वादिनियामक- मस्तीत्यनियम एवेन्द्रामाग्नीषोमीयविकृतित्वे । तदिदमुक्तमापस्त- स्वसूत्र।
पावणवैमृधवैषम्यनिरूपणम् । ११ दुंक्तोदाहरणेषु पूर्वोक्तरीत्या व चिच्चाव्यवस्थितविकल्पो ऽपीति । कपर्दी तु यासां विकृतीनां द्विबहुदेवतापदेषु चत्वार्यक्षराण्यधिका- नि वा ता अग्नीषोमीयविकारा यासां तु त्रीण्यूनानि वा ता ऐन्द्राग्न- विकारा अन्यत्र प्रकृतिदेवताभ्य इत्याह तत्र द्वचक्षरेण सामीप्यात् अक्षरोपस्थितावपि षडक्षरादिभिश्च सामीप्यात्पश्चाक्षरोपस्थितावपि चतुरक्षरे उभयसाम्यात्कथं पंञ्चाक्षरस्यैवोपस्थितिरिति चिन्त्यम् । यस्य तु कर्मणः क्व चिदुत्पत्तिचोदनायां केन चित्प्रतिलिङ्गन किं चिद्विकृतित्वमवधारितं तस्य कर्मणो न्यत्रांतिदिष्टस्योहेना- न्यदेवतत्वे ऽपि न तद्धेतुकं कर्मान्तरविकृतित्वं भवति पूर्वावधा- रितकमविकृतित्वं वा अपैति । अवधारिताङ्गविशिष्टस्यैवातिदेशा- तू । यथा ऽग्नीषोमीयपशुपुरोडाशस्या ग्रीषोमीयस्य वपया प्रच- ग्निीषोमीयं पशुपुरोडाशमनुनिर्वपतीत्यग्नीषोमीयपशुप्रकरणे उ- त्पन्नस्याग्नीषोमीयमिति प्रकृतिलिङ्गसंयोगेन दार्शपौर्णमासिका55. ग्नीषोमीयपुरोडाशविकृतित्वेनानवधारितस्याग्नेये सवनीये ऐन्द्राग्ने च निरूढपशावतिदिष्टस्योहेनाग्नेयत्वे ऐन्द्राग्नत्वे च सत्यपि तत्र प्रत्यक्षचोदनाभावेन चोदनालिङ्गासम्भवात्प्राकृतस्यैव पशुपुरोडा- शयागस्य प्रकृतावग्नीषोमीयमिति चोदनालिङ्गेनावधारितं दार्शपौ- र्णमासिकाग्नीषोमीय पुरोडाशविकृतित्वं न बाध्यंतइति तदीयमेवा- नुमन्त्रणादि भवतीति धूर्तस्वाम्यादेः सवनीये आग्नेयस्य पशु- पुरोडाशस्याग्नेयविकृतिस्वं निरूढे चैन्द्राग्नस्य पशुपुरोडाथस्यैन्द्रा- ग्नविकृतित्वमित्यभिधानमुपेक्ष्यमेव । यत्तु तद्गमकमापस्तम्बसूत्रं तदप्यङ्गं वा समभिव्याहारादि- तिवच्छतितदनुसारिन्यायविरोधाद् बोध्यम् । अत एव कातीया नै- तदनुमन्यन्तइति । इत्याष्टमिकप्रकृतिलिङ्गभेदप्रपञ्चनिरूपणम् । पार्वणहोमयोस्त्वप्रवृत्तिरिति विशेषातिदेशापवादः फलनि यमकर्तृसमुदायवदष्टमएव वक्तव्यो ऽपि कथं चित्प्रसङ्गानवमे उ- क्तःप्रमेयं त्वाष्टमिकमितीहैव तत्र किं चिच्चिन्त्यते । स्रुवेण पार्वणी जुहोतीति संख्यया कर्मभेदाद्वौ पर्वदेवत्यौ होमौ विधीयेते तत्र पर्वशब्दः पृणातेर्दानकर्मणो निष्पन्नः कर्मवच- नस्तेन कमैव देवता सा च स्मरणीयत्वेन संस्कार्या तन योकैको होमः षट्कर्मदेवत्यः स्यात्ततो विद्यमानकर्मीशे अदृष्टार्थता ऽऽपद्येत तत्परिहाराय एकः पौर्णमासीदेवत्यो ऽपरो ऽमावास्यादेवत्य इति कल्प्यते । तेन प्रकरणाविशेषे ऽपि सूक्तवाकन्यायेनं संस्कार्यवर ૨૨૨ मीमांसाबालप्रकाशे। शाद्वयवस्था । सौर्यादौ च संस्कार्यस्य समुदायस्याभावादनतिदेश इत्यधिकरणार्थः। तत्र कालाभीज्योति पूर्वपक्षे निरस्ते ऽपि पूर्वपक्षान्तरं प्रति. भाति पौर्णमास्यमावास्याशब्दयोः पौर्णमास्यधिकरणे समुदायनाम- त्वनिरासेन यागनामत्वमुक्तम् । तद्वत्पर्वशब्दो ऽपि न समुदाय- वाची किं तु यागवाची पृणातेर्दानान्निष्पन्नत्वात् । पर्वेत्येकश- ब्दोपादानात् (१) त्वाग्नेयादियागत्रयसंस्कारे ऽपि प्रत्येकधर्मत्वात्प्र- त्येकविकृतौ सौर्यादावतिदेशः स्यादेवेति । अत्रोच्यते । विधिमात्रप्रमाणिका देवतेत्युक्तमिन्द्रमहेन्द्राधि- करणे विधिशब्दस्य मन्त्रत्वे भावः स्यादिति दशमे च अतःपार्वणा- विति तद्धितो देवताविधिस्तावदवश्यं बाच्यः तस्यैव तु संस्कार्यस- मर्पकत्वे वैरूप्यलक्षणवाक्यभेदापत्तः स देवताविधिरेव । पर्वदेवत्य- स्य च होमस्य पर्वस्मारणसामर्थ्याल्लिङ्गाद्वाक्याच्च पर्व प्रति तादर्थ्य पदान्तरकल्पनया भवति सामर्थ्यवाक्ययोः श्रुतिकल्पकत्वात् । यादृशानां च कर्मणां विधेयविशेषणविवक्षया परस्परसहितानां देवतात्वमवगतं ताशानामेव भाव्यत्वं भवति न प्रत्येकमिति प्र- त्येकविकृतावनतिदेशः। नन्वेकस्यैव पुंस उपादेयतादशायां विवक्षितमेकत्वं स्वर्ग- काम इति पदान्तरेणोद्देशदशायां त्वविवक्षितं तद्वत्पर्वणामप्युपादे- यतादशायां विवक्षितं साहित्यं पदान्तरणोहेशदशायां त्वविवक्षितं स्यादिति चेत् । न । कल्पितवाक्ये उद्देश्यसाहित्यविवक्षायामपि वाक्यभेदाभावाद्वैषम्यं तदुक्तं चित्राधिकरणे । श्रृंयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने । लक्षणावाक्यभेदादिदोषो नानुमिते त्वसाविति ॥ न हि विवक्षितसाहित्यदेवताको होमो ऽदृष्टार्थतया शक्य एकैकेन पर्वणा स्वार्थत्वेन ग्रहीतुमिति विधेयसामर्थ्यादुद्देश्यसा- हित्यविवक्षा लभ्यते । यथाभावग्नी अनुगतावभिनिम्लोचेदश्यु- दियाद्वा पुनराधेयं तस्य प्रायश्चित्ति"रित्यत्र षष्ठे विधेयसाम- यानिमित्तविशेषणाग्निसाहित्यविवक्षा लभ्यते इति । तो चेमी पार्वणहोमौ विकृती नातिदिश्यते इति सामान्यतो यद्यप्युक्तं तथा- प्येकस्मिन्द्वयोर्वा नातिदिश्यते बहुषु त्वतिदिश्यते एव | यथा वैश्वदेवादिपर्वणि तो हि प्राकृतानेयादेस्तत्समप्रधानयागान्तरस (1) त्वाने यादियागानां साहित्यं प्रतीयतेत त्तु तेषां संस्कार्य त्वेनोद्दश्यविशेषणत्वाद- विवक्षितम् । अत. प्रकृतौ तन्वानुष्ठानेनेत्यधिकं २ पु.।
पार्वणवैमृधवैषम्यनिरूपणम् अष्टमाध्यायाथसङ्ग्रहश्च। १२३ हितस्य संस्कारकाविति वैश्वदेवाद्यन्तर्गतैकैकयागस्य तत्समप्र- धानेन तदेकप्रकृतिकेन तदन्यप्रकृतिकेन वायागाङ्गान्तरेण सहितस्य संस्कारार्थमतिदेष्टव्यावेव । वैकृतप्रधानयागानां प्राकृतप्रधानयाग- स्थानापन्नत्वात् । यथा ऽग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशु- पुरोडाशमनुनिर्वपतीत्यत्राप्यग्नीषोमीयमिति तद्धितो देवताविधिरेव नोद्देश्यपरो वैरूप्यात् । द्वन्द्वोपात्तं च देवतासाहित्यं विधेयविशे- पणत्वाद्विवक्षितम् । विवक्षितसाहित्यदेवताकश्च पुरोडाशयागः सामर्थ्यवाक्याभ्यां पशुदेवतासंस्कारार्थः । तदुक्तं कर्बधिकरणे । त- धथा ऽऽग्नीषोमीयस्य वपया प्रचर्या ऽऽग्नीषोमीयं पशुपुरोडाशमनुनिर्व- पतीत्यत्र सत्यपि तद्धितेन देवतोपसर्जनत्वोपादान यागस्य प्रयोजना- काङ्क्षायां सत्यामग्नीषोमयोरेव सन्निहितयोः संस्कार्यत्वं विज्ञाय- तइति न पशोरारादुपकारकत्वेन कल्प्यते न हि पूर्व गुणत्वमुत्त- रेण प्राधान्येन विरुध्यतइति स चाय पुरोडाशयागः परस्परस- हिताग्नीषोमदेवतासंस्कारका प्रकृती विकृतौ तु तत्स्थानापन्नाया- मेकस्यां देवतायां द्वयोश्चातिदिश्यते । यथा 55ग्नेये सवनीये ऐन्द्राग्ने च निरूढे । पार्वणी त्वेकस्मि- कर्मणि द्वयोश्च नातिदिश्येते एकस्य वैकृतस्य कर्मसोः द्वयोश्च वैकृतयोः कर्मणोः प्राकृतबहुकर्मस्थानापत्त्यभावादिति विशेषः । एवं यत्र पार्वणपशुपुरोडाशन्यायो मा- स्ति तत्रानेकेषामेकशब्दोपात्तत्वे ऽप्युद्दिश्यमानसाहित्यस्या- विवक्षितत्वात्प्रकृती प्रत्येकमङ्गत्वात्प्रत्येकविकृतावतिदेशो वत्येव । यथा “संस्थाप्य पौर्णमासी वैमृधमनुनिर्वपती"ति । अन्न हि पौर्णमास्यधिकरणे पौर्णमासीशब्दसमुदायवाचित्वनिरासेन समुदा- यिवाचिनोक्तरुद्देश्यत्वेन च परस्परसाहित्यस्याविवक्षितत्वेन पार्व- णवैषम्यात्प्रत्येकमङ्गत्वेन प्रकृतौ तन्त्रन्यायेन सकृदनुष्ठाने ऽपि उपां- शुयाजाग्नीषोमीयप्रत्येकविकृतौ वैमृधातिदिशो भवत्यव प्रयाजादि- वदिति । क्नु पौर्णमासीमिति नोद्देश्यसमर्पकम् अत एव तद- धिकरण वाक्यीयो विनियोग इत्युक्तं न तु श्रौत । तेन पार्वणाविति यथा विधेयत्वेन विवक्षित (साहित्यानामेव पर्वणां वाक्यीयभाव्यत्वदशायामपि विव- क्षितसाहित्यतैव भवति । एवं विधेयपौर्णमास्युत्तरकालविशेष- णपौर्णमासाख्ययागत्रयसाहित्यस्य विधेयविशेषणविशेषणस्य वि- वक्षितत्वे तादृशस्यैव यागत्रयस्य वाक्यीयभाव्यत्वात्प्रत्येकविकृता- वनतिदेशः स्यात् । न । वैषम्यात् । पार्वणावित्यत्न हि विवक्षि- च सति भ- १२४ भीमासाबालप्रकाशे। तसाहित्यदेवताकस्य होमस्य न प्रत्येकं दृष्टार्थतया ऽङ्गत्वं भवति इति विधेयसामर्थ्यादुद्देश्यसाहित्यविवक्षा लभ्यतइत्युक्तं न (वाक्यीयवि- नियोगमानातू १) वैमृधस्य तु विवक्षितसाहित्यपौर्णमासाख्ययागत्र- योत्तरानुष्ठितस्यापि प्रत्येकमदृष्टार्थतया इङ्गत्वं सम्भवतीति न सा- मर्थेनोद्देश्यसाहित्यविवक्षा लभ्यतइति पूर्व कालविशेषणतादशा- यां साहित्यविवक्षायामप्युत्तरकालमविवक्षितसाहित्यतायां न को ऽपि विरोध इति । ननु न त्वदुक्तसामर्थ्य पार्वणहोमयोरुद्देश्यवि- वक्षालाभहेतुर्येन वैमृधे तद्भावाद्वैषम्यं स्यात् किन्तूहेश्यसमर्पकं पदं कल्प्यते पार्वणहोमयोरिति त्वयैवोक्तम् । तेनैव न्यायेन वैमृधे- ऽपि तत्कल्प्यते । न च कल्पितवाक्ये साहित्यविवक्षादावपि वाक्य- भेदो भवति । तदुक्तं चित्राधिकरणे । श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने । लक्षणावाक्यभेदादिदोषे नानुमिते त्वसाविति २)॥ (स्य सौर्य चळं निर्वपेद् "ब्रह्मवर्चसकाम” इति । अत्र हि स्वक कामपदाध्याहारं विश्वजिन्न्यायेन चतुर्थे शङ्कितं निरसितमुक्तं बन ह्मवर्चसाख्यान्वाचयत्वे प्रमाणाभावाद् ब्रह्मवर्चसमात्रफलत्वेन न्यू नस्य वर्गकल्पनया ऽधिकार्थत्वे फलद्वयसमावेशाद्वाक्यभेदापत्ति- रिति । ऊनस्याधिकार्थविषयत्वकल्पने गौणत्वदोष इत्यत्रोदाहरण- म् । सृष्टीरुपद्धाति प्राणभृत उपदधाती"ति । अत्र हि सृष्टिश- ब्देन सृष्टिशब्दवन्त एव मन्त्रा उच्यन्तइति न्यूनस्य गौपया वृत्त्या असृष्टिशब्दवतामपि मन्त्राणां ग्रहणेनाधिकार्थत्वे गौणत्वमेव दोषः । स त्वगत्या व्रीहियवविकल्पवदङ्गीक्रियते । एवं प्राणभृदुदाहरणे द्रष्टव्यम् । न्यूनस्याधिकार्थविषयत्वे ऽध्याहारदोष इत्यत्रोदाहरणम् । विश्वजिता यजेतेति । अयमप्यगत्याङ्गीक्रियते । तृतीयव्या- ख्याने न्यूनत्वे लक्षणावाक्यभेदो आधिक्ये चानर्थक्यामि- त्यस्यार्थः । अधिकस्य सतो न्यूनत्वे न्यूनस्य सतश्चाधिक्य इति । तत्राधिकस्य सतो न्यूनत्वकल्पने लक्षणेत्यत्रोदाहरणम् । चतु रवत्तं जुहोती "ति । अत्र हि जुहोतेर्दैवतोदेश्यत्यागविशिष्टद्रव्यप्र- क्षेपवचनस्याग्नेयादिचोदनयैवेतोरंशयोः प्राप्तत्वात्प्रक्षेपमानपर- त्वेन न्यूनत्वे लक्षणा । अधिकस्य सतो न्यूनत्वे वाक्यभेद इत्यत्रो- दाहरणम् । “वषट्कर्तुः प्रथमभक्ष" इति । अन हि प्राथम्यमात्रविधी भक्षानुवादोत्प्राथम्यस्य च विधानादेकपदे चोभयासम्भवाद्वाक्य- (१) अयं पा० २ पु० ना० । (२) अयं पा. २ पु. ना० ।
अष्टमाध्यायार्थसङ्ग्रहः ऊहभेदनिरूपण च । १२५ भेद इति । न्यूनस्य सतो ऽधिकत्वे आनर्थक्यमित्यत्रोदाहरणम् । आमनामस्यामनस्य देवा इति तिन आहुतीजुहोतीत्येव पूर्वोक्तम् । अत्र हि भावानुपादान्न्यूनस्य सतः सांग्रहण्या ग्रामकाम यो यजे- तेति प्रधानन्या (१) । उच्यते ततश्च पार्वणहोमयो_मृधे चोभयत्र कल्पितवाक्ये वा. क्यभेदाभावादुद्देश्यसाहित्यविवक्षया विकृतावनतिदेश इति । अत्र ब्रमः। सूक्तवाकविभागाधिकरणे ( अ०३ पा० २ अ० ६ ) आग्नेयाद्युत्पत्तिवाक्येष्वपि फलसामान्ये विधिबलेन करणत्वावग- मात्फलवाक्यं तद्विशेषमानार्थ ततश्चोत्पत्तिवाक्येषु षण्णां कर्मणां षडाकाङ्क्षा उत्पद्यन्तइति षट् प्रकरणानीत्युक्तम् । अङ्गविधीनां चोत्पत्तिविधिभिरेव सह प्रकरणादेकवाक्यता कल्प्यत इत्युक्तं चित्राधिकरणे । उत्पत्तिवाक्यविज्ञातं कर्म सर्व ह्य- नूद्यतइति । व्याख्यातं चेदं सोमेश्वरेण । ततश्च पार्वणयोः सामर्थ्यस्योद्देश्यसाहित्यविवक्षा हेतुत्वाभावे प्रत्येकप्रकरणात्प्रत्येकमेवोद्देश्यता ऽग्नेयादेः स्यादिति प्रत्येकविकृता- वतिद्वेशापत्तिः । अन्यथा प्रयाजादेरपि विवक्षितसाहित्येष्वेव कल्पि- तवाक्ये वाक्यभेदाभावात्प्रकरणेन विनियोगात्प्रत्येकविकृतावनतिदे- श: स्यात् । वैमृधे ऽपि च तद्वदेव प्रत्येकप्रकरणात्प्रत्येकमेव वि. नियोगः । अतः पूर्वोक्तसामर्थ्यादेव पार्वणयोरुद्देश्यसाहित्यविवक्षा- तः प्रत्येकविकृतावनतिदेशः । वैमृधे तद्विपर्यय इति सिद्धम् । तस्माद्याज्ञिकवर्याणां पार्वणन्यायतो कृतिः । विकृती वैमृधस्येति न्यायजैनहितं वचः ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे पार्वणवैमृधवैषम्यनिरूपणं अष्टमाध्यायार्थसंग्रहश्च । (१)अयं पा. १ पु. ना. ।
मीमांसाबालप्रकाशे। कहो द्विविधः । वाचनिको न्यायगम्यश्च । आद्यो यथा- सकृद्वहन्तीति । द्वितीयस्यतु लक्षणमाहुर्माधवाचार्या अधिकर- णमालायाम्। प्राकृतस्थानपतितपदार्थान्तरकार्यतः। कहःप्रयोगो विकृत ऊह्यमानतयोदित इति ॥ अत्र कार्यत उपकारातू प्रयोजनत्वेन चास्य हेतुत्वं तेनोपका- रार्थमित्यर्थः । अत्र च प्राकृतस्थानपतितेत्यनुक्तौ पदार्थान्तरं व्रीहितो यवास्तदुपकारार्थ विकृते पदार्थान्तरान्वयादेवान्यथाभूते प्रोक्षणा- घघातप्रयोगे ऽतिव्याप्तिः स्यादत उक्तम् । प्राकृतस्थानपतितेति न च बीहिस्थानापन्ना यवाः। प्रत्यक्षविधिना भावे विधानेन विकारतः। खशब्दाच निषेधानुवादात्तत्कार्यकारितेति ॥ सोमेश्वरसंगृहीतनवमोक्तस्थानापत्तिप्रमाणपञ्चकाभावात् । अन्यथा वैपरीत्यस्यापि प्रसङ्गाच्च । पदार्थान्तरेत्यनुवादः तत्रैव हि विकृतत्वं सम्भवति नान्यत्नेति अतस्तत्पदकृत्यं न कार्यम्। कार्यत इ- त्यनुक्ते ऽसकृद्वन्तीति वाचनिके विकृताववघातस्य विकृतप्रयोगे- प्रतिव्याप्तिः स्यादत उक्त कार्यत इति । असौ च वाचनिको न का- यतः आवृत्तस्यैवावघातस्य तुषविमोकलक्षणकार्यतः प्राप्तेरतो न तनातिव्याप्तिरिति । विकृत इत्यनुक्ते पदार्थान्तरेत्यस्यापि लक्ष- । ननु प्रवेशोक्तेर्वैकृते नैहे हविषि अवघातप्रयोगे अतिव्याप्तिः स्यादत उक्तं विकृत इति न चासाववघातो विकृतः पदार्थान्तरान्वयादिति नातिब्याप्तिरिति । चतुर्थपादेन तु ऊहश- ब्दस्य यौगिकत्वं दर्शितं तेन कार्यकल्प्यत्वं लब्धम् । इतरांशस्तु रू- ढिलभ्य इति योगरूढो ऽयं पङ्जादिशब्दवदूहशब्द इति भावः । सोयमूहो विभक्तविभागनैकादशविधः । तद्यथा प्रथमं तावत्त्रिविधः । मन्त्रोहः सामोहः संस्का- रोहश्चेति । अत्र गोबलीवर्दन्यायेन मन्त्रीहसामोहयोः पृथगुक्तिस्तत्सा- धफनावमिकन्यायभेदात् । नवमद्वितीयपादषोडशाधिकरणे हि सा- मोहन्यायउक्तः। तदुत्तरपादाद्ये च तदितरमन्त्रोहन्याय उक्तः इति मन्त्रोहो ऽपि नवधा क्व चिंतप्रकृतिमानमूह्यते न लिङ्गं वचनं च सू. र्याय जुष्टमिति १ क चिल्लिङ्गमात्रमूखते म प्रकृतिर्वचनं च यथा चस्वसि रुद्रासीत्येकहायन्या मन्त्रः साण्डे वसुरसि रुद्रो ऽसीति २ ऊहप्रयोजकानरूपणम् । ર૭ के चिद्वंचनमात्रमूह्यते न प्रकृतिलिङ्गं च यथा “छागस्य व- पाया मेदस" इति मन्त्रः प्राजापत्येषु छागानामिति ३ क्वचित्प्रकृतिलिङ्गे एवोोते न वचनं यथाऽग्नये जुष्ट- मि"त्येतददित्यै जुष्टमिति ४ क्व चित्प्रकृतिवचने एवोोते न लिङ्ग यथाग्नये जुष्टमित्येत- द्विश्वेश्यो देवेश्य इति वैश्वदेवे हबिधि ५ क्व चिल्लिङ्गवचने एवोह्यते न प्रकृतिः यथा प्रास्मा अग्नि भरतेत्यत्रास्मै पदं पुल्लिङ्गैकवचनं मल्हाआलभेतेत्यादिषु प्राभ्य इ. त्येवं स्त्रीलिङ्गबहुवचनरूपण'६ क्व चित्रीण्यपि प्रकृतिलिङ्गवचनान्यूह्यन्ते । यथापोदेवी शुद्धाः स्थति प्रोक्षण्यभिमन्त्रणार्थो मन्त्रस्तत्रापशब्दः स्त्रीलिङ्गो बहु घचनान्तो घृतं प्रोक्षणमिति।विहिते घृते प्रोक्षणे घृतदेवशुद्धमसीति नपुंसकलिङ्गैकवचनान्तघृतपदोहे सर्वमवान्यथा भवति ७ क्व चित्तु प्राकृतस्यैव.सकलस्य पदस्याभ्यासात्मके ऊहूः यथा पशुगणे एकधैकधेति र क चित्त्वव्ययसकतद्धितान्तपदस्थाने ऽव्ययसशकतद्धिता- न्तान्तरपदरूपमूह्यते यथा वाजसनेयिनां फर्कमते "मित्रा. बरुणौ त्वोत्तरत” इत्युत्तरपाधिपरिधानमन्त्रः । पित्रायां मि- प्रावरुणौ त्वा पुरस्तात्परिधत्तामिति यथा चाहवनीयावेक्षणे सूर्यस्त्वा पुरस्तात्पाविति प्राकृतो मन्त्रः पित्र्यायां सूर्यस्त्वा दक्षिणतः पात्वि- त्यूह्यते । सम्प्रदायमते त्वत्र मन्त्रद्वये ऽप्यूहो नास्तीत्युक्तम् । कचित्त्वतद्धितान्तस्याप्यव्ययस्य स्थाने ऽतद्धितान्तमण्यव्ययमूह्य- ते । यथा । ". आनं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमढे । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वो यज्ञाय रमतां देवता- भ्य" इत्यन्वाधानमन्त्रे याजमाने सद्यस्कालप्रकृती मन्त्रलोपे ऽपि सद्यस्कालविकृती अद्य यशाय रमतामित्यहः क्रियते । तत्र श्व इत्यव्ययस्थाने अद्येत्यव्ययमूह्यते । इत्यूहभेदनिरू- पणम् । अथैकादशविधमूहप्रयोजकं निरूप्यते । तदुक्तम् । मुख्यदृष्टार्थता स्वार्थसमवेतार्थतादिभिः । प्रयुक्ताः प्रकृती मन्त्रा गताः कार्यातिदेशतः ॥ विकारेष्वनिषिद्धोहा कार्यापन्नेषु पञ्चधा । अर्थान्तरेष्वपूर्वार्थद्वारेणोहं ब्रजन्ति नः ॥ इति । तत्रैवमेकादश प्रयोजकान्यत्रोक्तानि । मुख्यार्थत्वं १ १२८ मीमांसाबालप्रकाश। दृष्टार्थत्वं २ स्वार्थत्वं ३ समवेतार्थत्वं ४ शब्दखरूपाविवक्षा आदि- शब्दस्यार्थः ५ कार्यमुखो तिदेशः ६ विकृतिगतत्वं ७ अनिषिद्धोह त्वं ८ कार्यापत्तिः ९ अर्थान्तरत्वम्१०अपूर्वार्थत्वं धर्माणां चेति ११ । तानि चैतान्येकादशापि प्रयोजकानि ऋग्यजुर्मन्त्रोहएवापेक्षितानि न साममन्त्रोहसंस्कारोहयोः । तत्न त्वष्टावेव प्रयोजकानि । दृष्टा- र्थत्वं १ शब्दस्वरूपाविवक्षा २ कार्यमुखो ऽतिदेशः ३ विकृतिगत- त्वं ४ कार्यापत्तिः ५ अर्थान्तरत्वं ६ अनिषिद्धोहत्वं ७ अपूर्वार्थत्वं धर्माणां चेति ८ मन्त्रा इत्यनेन सूचितम् । अत्रैकादशानामपि मु ख्यार्थत्वादीनामूहप्रयोजकत्वसिद्ध्यै एकैकंव्यतिरेके ऽप्यूहाभावं न- घमाधिकरणेषूक्तं दशमाद्यसिद्धं च कार्यमुखातिदेशस्योहप्रयोजक त्वमुच्यते। तथा हि इयं गौस्तया क्रीणामि तस्यै शृतमित्यादी सोमक्र- थार्थकहायनीप्रकाशनार्थे मन्त्रे क्षीरादिवाचिनां शृतादिशब्दानां विक्रेत्रानमनार्थत्वाद् दृष्टार्थत्वे ऽपि क्रयसाधनस्तुत्यर्थत्वाच स्वार्थत्वे अपि कालान्तरे चैकहायन्यामपि क्षीरादिसम्भवात्समवेतार्थत्वेऽपि एकहायन्यवस्थायामुच्यमानस्य क्षीरादिमत्त्वस्य मुख्यत्वाभावादी- पचारिकस्य क्षीरादिमत्त्वस्य साण्डोत्पादयिष्यमाणधेनुद्वारेण सा- ण्डे ऽप्युपपत्तेरूहाभावान्मुख्येत्युक्तम् १ । " पत्नीमित्येकवचनस्य विद्यमानार्थत्वेन मुख्यत्वे ऽपि सन्नहनीयपत्नीसंख्याप्रकाशनाच्च स्वार्थत्वे ऽपि एकत्वस्य चानेकपत्नीप्रयोग ऽपि पत्नीत्वसामान्ये समवायात्समवेतार्थत्वे ऽपि प्रकृतावपूर्वसाधीभूतपत्नीव्यक्तिपर- स्वात्सामान्यसंख्याप्रकाशनस्यादृष्टार्थत्वेनोहाभावादृष्टार्थतेत्युक्तम् । २ । इडोपह्वानमन्त्रे “ यशपति वर्धानि "ति यज्ञपतिशब्दस्य य- जमाने मुख्यत्वे ऽपि तत्प्रोत्साहनार्थत्वेन दृष्टार्थत्वसम्भवे ऽपि य- जमानस्य च कर्मसमवायात्समवेतार्थत्वे ऽपि इडास्तुत्यर्थवृद्धिवि- शेषणत्वात्स्वार्थत्वाभाबेनोहाभावात्स्वार्थेत्युक्तम् । इन्द्रागच्छ हरिव आगच्छे "ति सुब्रह्मण्यामन्त्रे हारवच्छ. ब्दस्य हरिवत्तालक्षणे गुणे मुख्यत्वे ऽपि तस्य चन्द्राय हरिवते धाना इति सवनीयहविरादिषु देवतात्वान्तर्गतेस्तत्प्रकाशनार्थत्वेन दृष्टार्थत्वे ऽपि यक्ष्यमाणेन्द्रप्रकाशनाच्च खार्थत्वे ऽपि वस्तु- यन्द्रे हरिवत्त्वासमवायात्समवेतार्थत्वाभावेनोहाभावात्समवेतार्थते- स्युक्तम् ४। सत्स्वपि मुख्यत्वादिषु अर्थप्रकाशनवच्छब्दरूपस्याप्याद- रे सत्यर्थान्तरयुक्तायां विकृतावैन्द्रीवद् गौणत्वोपपत्तेमहासम्भ- बात्प्रकृत्तो यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततो तत्प्रकृतित्वान एकादशविधस्योहप्रयोजकस्य निरूपणम् । १२९ चाकार्यत्वादित्येत्तदधिकरणसिद्धशब्दस्वरूपानादरसूचना- यादिशब्दः ५। ननु प्रकृतौ मन्त्राणां मुख्यत्वादिरूपेण प्रयोगे ऽपि विकृता- वर्थान्तरयुक्तायामतिदेशेन प्राप्तानां तदीयद्रव्यदेवतादिप्रकाशना- सामर्थ्यन प्राकृतकार्यार्थत्वायोगादतिदेशबलात्कार्यान्तरकल्पनैव स्यान्नोहेन प्राकृतकार्यसामर्थ्यकल्पनेत्याशय विकारेषु कार्याति- देशतो गता इत्युक्तम् । प्राकृतकार्यनरपेक्ष्येण पदार्थातिदेशे शा- स्त्रातिदेशे वा कार्यान्तरकल्पना युज्येत वैकृतभावनाकाङ्क्षावशास्तु करणोपकारलक्षणात्कार्यद्वारस्यैवातिदेशस्य दशमाघे वक्ष्यमाण- त्वान्न कार्यान्तरकल्पनेत्याशयः ६ । यद्यपि प्रकृती व्रीहिमन्त्रे मुख्यदृष्टार्थतास्वार्थत्वसमवेतार्थ- त्वव्रीहिवरूपा विवक्षाः सन्ति यवेषु ब्रीहिकार्ययागसाधनता ऽप्य- स्ति तथापि व्रीहियवविध्योर्युगपद्यागानुवादेन प्रवृत्तींहिकार्य सद्य- वैः साध्यतइति विनिगमनाविरहादनवगतेलैंङ्गिकोपदेशेनेव का- यापत्तिमुख्यातिदेशनाप्यप्राप्तहिमन्त्रानूह इत्यतिदेशविकृतिशब्दा- भ्यां सूचितम् । ७। मुख्यत्वादिदशप्रयोजकसत्वे ऽपि " पूयति वा एतहचो ऽक्षर यदेनदहति तस्माहचं नोहेदि "ति निषेधादनूहं प्राकृतयाज्यानुवा- क्यादा वक्तुम् अनिषिद्धोहा इत्युक्तम् । कार्यद्वाराऽतिदेशे ऽपि कार्यान्तरार्थे व्रीह्यादौ यूपावटस्तरण- बर्हिायन मन्त्रप्राप्तेरेवाभावेनोहाभावात्प्राकृते कार्यमापन्नोष्वि- त्युक्तम् ९। प्राकृतकार्यार्थेष्वपि वैकृतव्रीहिष्वन्तरत्वाभावेनाविकृतस्यैव व्रीहिमन्त्रस्य प्रयोगोपपत्तेरुहाभावादर्थान्तरेष्वित्युक्तम् १०। ननु कार्यद्वारके ऽप्यतिदेशे ब्रीह्यादिकार्यापन्नेष्वपि च नी- वारेषु व्रीह्यादिप्रकाश्याभावेन व्रीहिमन्त्रस्यैवाप्राप्ते!हः स्यादित्याश- झ्यापूर्वार्थद्वारेणेत्युक्तम् । स्वरूपप्रयुक्तत्वनिरासेनापूर्वप्रयुक्तत्वस्य नवमाद्ये वक्ष्यमाणत्वान्नीवारादिषु ब्रीह्यादिस्वरूपाभावे ऽपि व्रीह्या- दिलक्षितापूर्वसाधनत्वसद्भावात्तद्वारेणास्तिप्राप्तिरित्याशयः ११ । पञ्चधा कार्यापत्तिश्च विभक्तविभागात्प्रमाणपञ्चकप्रमेयत्वा- च । तद्यथा । क्व चित्प्रत्यक्षानुमानाभ्याम् । शब्दात्तु त्रेधा । क्व चित्प्रत्यक्षादेव स्वशब्दात् । क्व चित्तु प्रतिषेधेन स्वशब्दानुमानमनु- मिताच्च स्वशब्दात्कार्यापत्तिः । क्व चित्त्वभावेन प्रतिषेधानुमानं प्रतिषेधाच्च स्वशब्दानुमानं तेनानुमितानुमानलब्धात्वशब्दात्कार्या- १३० मीमांसाबालप्रकाशे। पत्तिः । तत्र नैवारश्चरुरिति विकारतद्धितेन नीवाराणां चस्प्रकृति- त्वोक्तेः प्रत्यक्षसहकृतविधिना प्रदेयप्रकृतित्वलक्षणव्रीहिकार्यापत्ति- रवसीयते । १॥ नखावपूतानां चरुरित्यादौ न प्रत्यक्षेण . कार्यापत्तिः न हि निर्मुश्चनावघातयोः प्रत्यक्षेणैक्यङ्गम्यते । येन प्रत्यक्षतो नखानामु- लूखलमुसलकार्यापत्तिः स्यात् । किं त्ववपवनस्य वैतुष्यं फलं प्र. त्यक्षेण दृष्ट्वाऽऽनुमानं भवति नूनमुलूखलमुसलकार्ये नखा वर्तन्तइ- ति । अतो नानुमानेन कार्यापत्तिः।२। "परिधौ पशुं नियुञ्जती”त्यत्र तु स्वशब्देनैव परिधिः सप्तम्या यूपकार्ये नियोजने प्राकृते ऽधिकरणत्वेन यूपवद्विधीयते न ह्ययम- प्राकृतनियोजनान्तरविधिौरवात् ।३। "न गिरागिरेति यादि"ति गिरापदकार्य लक्षयति प्रतिषिद्धे हि गिरापदे तत्कार्य साधनाभिलाषि लक्ष्यते । तत्र च लक्षिते इरा- पदस्य साध्याभिलाषिणो विधिः । न हीरापदं कार्यप्रतिपादकशब्दा- हते तत्साधनत्वेन शक्यं विधातुं न ह्यशाब्देन शाब्दस्यैकवाक्यता भवतीति । तस्मादत्र खशब्दानुमानम् । परिधौ त्वाम्नातएव खशब्द इति विशेषः।४। "जुहूषा एतर्हि वाग्भवति यहि पृष्ठयः षडहःसन्तिष्ठत" इत्यत्र संस्थया प्रतिषेधो लक्ष्यते न हि संस्थितः कर्तव्योभवतीति । प्रतिषेधे- न च पूर्ववत्कार्य लक्ष्यते । तस्मिल्लक्षिते मध्वशनघृताशने विधीये- ते । एवमत्र लक्षितलक्षणया खशब्दः । तदिदं मधुघृताशनोदाहरणं वार्त्तिककृता दूषितम् । संस्था हि समाप्तिन चाभूतस्य संस्था संस्थित- स्य वा अभावः । तेन लिङ्गवाक्याभ्यां कृतषडहस्य पुंसः संस्कारके ऽवगम्यमाने मधुघृताशने कथं षडहफलार्थे स्यातामिति । तस्मा- दत्रोदाहरणं मृग्यमित्युक्तम् । तत्तु वयं ब्रूमः । षष्ठे (पा० ४ अ० ११) उक्तं " सत्रायागूर्य विश्वजिता यजेते ” त्यत्रागोरणशब्दोक्तं सत्रसङ्कल्पे विहिते विश्वजित्सत्रमकुर्वतोभवति न कुर्वत इति । तेनेदमभावे विधानस्यो- दाहरणमिति । इत्येकादशविधस्योहप्रयोजकस्य निरूपणम् । इति श्रीमत्पदवाक्यप्रमाणपारापारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालपकाशे नवमाध्यायार्थसङ्ग्रहः ।
बाधाः । प्राप्तबाधभेदनिरूपणम् । १३१ बाधो निवृत्तिरननुष्ठानमिति यावत् । स च द्विविधः । प्राप्त- बाधो ऽप्राप्तबाधश्चति । यत्रातिदेशसामान्यशास्त्रादिजनिते ज्ञाने ऽशे सर्वविषय वा मिथ्येदमिति प्रत्ययान्तरं भवति स प्राप्तवाधः । यत्र तु लिङ्गादौ श्रुतिकल्पनाप्रतिबन्धातू ज्ञानोत्पत्तिरेव प्र- तिबध्यते ऽसावप्राप्तबाध इति । अनयोश्च मध्ये पूर्वो मित्रैः प्रमेयापहारलक्षणो बाध इत्यपि व्यवहृतः । उत्तरश्च मूलाच्छेदलक्षण इत्यपि । तत्र प्राप्तबाधो ऽपि द्विविधो नित्यो वैकल्पिकश्च । तत्रनित्यस्तावदकविंशतिभेदः । तद्यथा । प्रत्यक्षेण तदाभासो बाध्यते १। अनुमानेन तदाभा- सः २ शब्देन तदाभासः३ । उपमानेन तदाभास: ४ । अर्था- पत्त्या तदाभासः ५ । अभावेन तदाभासः ६ । एते षट्लौकिका अथ शास्त्रीयाः । नित्यं नैमित्तिकेन यथा “दर्शपूर्णमासयोः पञ्चदश सामिधेनीरतुयादिति नित्यं पाञ्चदश्यं सप्तदश वैश्यस्ये"ति वैश्यनिमित्तकेन साप्तदश्यन वैश्यकर्तृके प्रयोग बाध्यते । १ । उभयमपि क्रत्वर्थ पुरुषार्थेन । यथा । पूर्वोक्तं पाश्चदश्यं सा. सदश्यं च " एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्थे "ति काम्येन एक- विंशतित्वेन बाध्यते। २। पूर्व परण । यथा यद्युद्गाता ऽपच्छिद्यत अद- क्षिणो यज्ञः परिसमाप्यते यत्पूर्वस्मिन्दास्यन् स्यात्तद्दद्यात् । याद प्रतिही सर्ववेदसं दद्यादि"ति द्वयोनिमित्तयोद्धे नैमित्तिके विहि- ते तत्र निमिचपौर्वापर्ये परेण नैमित्तिकेन पूर्वनौमत्तिकं बा- ध्यते ।। प्राकृतमथलोपेन बाध्यते । यथा । कृष्णलचरावघातः प्राकृ- तश्चोदकप्राप्तो वैतुष्यरूपार्थलोपात् । यथा वा खयं विते बर्हिषि ल. वनं प्राप्तिरूपार्थलोपातू । ४ । प्राकृतमेव पर्युदासेन बाध्यते । यथा।“न होतारं वृणीते" इति पित्र्यायां श्रुतं तत्र वैधनिषेधे विकल्पप्रसक्तः पर्युदासत्वं नित्यबाधा- थै दशमे उक्तं ५। प्राकृतमेव प्रत्याम्नानेन बाध्यते । तदप्यारभ्याधीतेनानार- भ्याधीतेन वेति द्विधा । आद्योदाहरणं यथा “कुशमयं बर्हिर्भवती"ति प्रकृतितःप्राप्ताः कुशा "शरमयं बर्हि भवती"ति विकृतौ विहितः शरै- १३२ मीमासाबालप्रकाशे। र्खाध्यन्ते । ६। द्वितीयोदाहरणम् । यथा य इष्टयेत्यनारश्य विहितेन सद्य- स्कालत्वेन विकृतिष्वतिदिष्टद्वैयहकाल्यबाधः ७ सामान्यविहितं विशेषविहितेन बाध्यते। तदपि विधेयभेदे विधेयैक्ये वेति द्विधा । तत्राद्योदाहरणं यथा । पदेनाहवनीयबाधः । द्वितीयोदाहरणमुपसंहारः । ९ । सामान्यविशेषबाधो न वाक्यानेकत्वएव किं तु वाक्यैक्ये ऽपि यथा सप्तमे (पा०३। अ०४।) उक्तं वारुण्या निष्कासने "ति द्रव्यावशेषेणावभृथनाम्ना सामान्यतो ऽतिदिष्टः पुरोडाशो बाध्यते । १०। निष्प्रयोजनं सप्रयोजनेन बाध्यते । यथा निगदेषु परसम्बो- धनार्थेषु तदर्थ कल्पितविधिनापि प्राप्तेनोच्चैस्त्वनोपांशुत्वमुपांशुय- जुषेत्यनेन प्राप्तं बाध्यते । ११ । अल्पं भूयसा बाध्यते यथा । पञ्चदशरात्रे नाम्नां मिथश्चि- न्तायामेकमग्निष्टुन्नामाग्नेयी सुब्रह्मण्याप्रवर्तकमनेकनन्द्रीसुब्रह्मण्याप्र- वर्तकेन ज्योतिरादिनाम्ना बाध्यते । १२ । सावकाशं निरवकाशेन । यथा । यत्कि चित्प्राचीनमिति वी- प्सार्थयत्किञ्चिच्छब्दवशेनाग्नीषोमीयप्राग्भाविपदार्थविशेषोद्देशेन वि- हितं दीक्षणीयातो ऽन्यत्रापि सावकाशमुपांशुत्वं दीक्षणीयादिमा- प्रार्थेन यावत्येति स्वरेणान्यत्र निरवकाशेन बाध्यते । तथा विशेषसमाख्यया सामान्यसमाख्याबाधो ऽपि तातर्तीयो त्रिोदाहरणम् । १३ । अङ्गं प्रधानेन बाध्यते यथा । पवमानेष्विग्निहोत्रहवणी नि- पेण बाध्यते । १३ । अङ्गधर्मः प्रधानधर्मेण बाध्यते । यथा । दीक्षणीयायाः पर्व- कालत्वं सुत्यापर्वकालत्वेन । १४ । उपादेयमनुपादेयेन । यथा । सान्तपनीयोत्कर्षे ऽग्निप्रणयनं कालेन बाध्यते । १५ । त इमे पञ्चदश शास्त्रीयबाधभेदाः पूर्व च लौकिकाः षडिति एकविंशतिर्बाधभेदाः । प्रसङ्गलक्षणो ऽपि बाधः प्राप्तबाध एव । स तु सप्तविधः । प्रधानप्रसङ्ग एकप्रकार: यथा काम्यार्थेनाग्निहोत्रादिप्रयोगेण नित्यतत्प्रयोगस्य प्रसङ्गसिद्धिः । १ । अङ्गप्रसङ्गस्तु षोढा । तद्यथा । औपदेशिकेनाङ्गेनौपदेशिकस्य प्रसङ्गः । तत्रापि नैमित्तिकेन नित्यस्य यथा । वैश्यनिमित्तकसाप्तद- श्येन नित्यस्य पाश्चदश्यस्य ।२।
प्राप्तवाधभेदनिरूपणम् । १३३ तथा काम्येन नित्यस्य नैमित्तिकस्य च । यथा प्रति- ष्ठार्थेनैकविंशतित्वेन पाञ्चदश्यस्य नित्त्यस्य वैश्यनिमित्तकस्य च साप्तदश्यस्य।३।४। औपदेशिकेना ऽऽतिदेशिकस्य । यथा। दर्शार्थन प्रयाजादिना निशीष्टयर्थस्य प्रयाजादेः । ५ । आतिदेशिकेनातिदशिकस्य । यथा । पश्वर्थन प्रयाजादिना प- शुपुरोडाशार्थस्य प्रयाजादेः । ६ । आतिदेशिकेनौपदेशिकस्य यथा। “एकविंशतिमनुब्रूयात्प्रति- ष्ठाकाम्यस्ये"ति काम्ये ऽनुवचनान्तरे नित्यानुवचनप्रकृतिके ति- दिष्टाभिः सामिधनीभिः प्राकृतसामिधेनीकार्यस्याग्निसामन्धनस्य प्रसङ्गतः सिद्धेस्तासां बाधः।७। तंइमे सप्तप्रसङ्गलक्षणा बाधाः पूर्वैरेकविंशतिसंख्यैर्वाधैः स- हाष्टाविंशतिर्बाधभेदाः सिद्धाः। वैकल्पिकस्तु प्राप्तबाधः पूर्वमुद्दिष्टः सो ऽपि. विभक्त. विभागेन चतुर्विधः । तथा हि। औपदेशिकनौपदेशिकस्य कश्चि- त् । सो ऽपि चतुर्धा । भावयोर्भावाभावयोश्च । द्विविधो ऽपि चायं प्रकृतौ विकृती चेति तत्र प्रकृती उपदिष्टयो वयोर्यथा व्रीहियवयोः । विकृती उप- दिष्टयो वयोर्यथा "खादिरो यूपो भवति बैल्वो यूपो भवतीति । प्रकृतावुपदिष्टयोर्भावाभावयोर्यथा ऽग्निहोत्रे न दध्यधिश्रयेदधिश्रये- दित्येक इति।विकृतावुपादिष्टयोर्भावाभावयोर्यथा “ऽतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाती"ति । कश्चित्तु उपदिष्टेनाति- दिष्टस्य वैकल्पिको बाधः । स तु त्रिविधः । उपदिष्टेन भावनाति- दिष्टस्य भावस्य वैकल्पिको बाधः । यथा पित्र्यायां द्वौ त्रीन्वा प- रिधीन्परिदध्यादित्यापस्तम्बसूत्रम् । अत्र हि प्राकृतपरिधानानुवादेन त्रित्वस्यापि विधौ वाक्यभेदापत्तेः । परिधिद्वयमेव वैकल्पिकतया विधीयते तदभावपक्षे ऽतिदेशप्राप्तमेव परिधित्रित्वमनूद्यते । १ । उपदिष्टेन भावेनातिदिष्टस्याभावस्य वैकल्पिको बाधः । स च तत्र यत्प्रकृती किं चिनियमेन निषिद्धं विकृतौ तदेव वैक- ल्पिकतया विधीयते । तादृशमुदाहरणं मृग्यम् । २। उपदिष्टेनाभावेनातिदिष्टस्य भावस्य वैकल्पिको बाधः . . यथा । पशावाज्यभागावतिदेशतः प्राप्तौ "न तो पशौ करोती"ति निषे- धाद बाध्येते । उपदिष्टेनाभावेनातिदिष्टस्याभावस्य वैकल्पिको बाध मीमांसाबालप्रकाशे। एव इति नैव सम्भवतीति ते एते वैकल्पिकाः सप्त बाधभेदाः । एकच- त्वारिंशत्तु वैकल्पिकबाधभेदाः । द्वादशाध्यायार्थनिरूपणे एकच- त्वारिंशद्विधविकल्पोक्त्या ऽर्थाद्वक्ष्यन्ते । तेनेमे सप्त वैकल्पिकवाध- भेदास्तैरेकचत्वारिंशत्संख्यैर्वैकल्पिकवाधभेदैः सहाष्टाचत्वारिंशद्वै- कल्पिकबाधभेदाः पूर्वोक्ताश्चाष्टाविंशतिनित्यबाधभेदा मिलित्वा षट्- सप्ततिः प्राप्तबाधभेदाः सिद्धाः । यदा तु वक्ष्यमाणैकचत्वारिंशद्वैक- ल्पिकबाधभेदवत्पूर्वोक्ता अष्टाविंशतिसंख्या अपि नित्यबाधभेदा जा- तिद्रव्यगुणक्रियादिविषयत्वेन भिन्ना निरूप्यन्ते तदा ते द्वादशोत्तरं शतं भवन्ति । तेनैते नित्यैरष्टाचत्वारिंशत्संख्यैः प्राप्तबाधभेदैः सह षष्टयधिकं शतं प्राप्तबाधभेदाः सिद्धाः ॥ १६०॥ इति प्राप्तबाधभेदनिरूपणम् । अथा प्राप्तबाधभेदा उच्यन्ते । ते च विभक्तविभागेन पश्च- विंशत्यधिकशतचतुष्टयं भवन्ति । तथा हि । प्रत्यक्षेणानुमानादीन पञ्च बाध्यन्त इति ते पञ्चबाधभेदाः। ५ । प्रत्यक्षव्यतिरिक्तानां तु मध्ये यदेव प्रथमं प्रवृत्तं तेनोत्तरस्यो- त्पत्तिप्रतिबन्ध भवति । तेनानुमानकृताश्चत्वारो बा- धभेदाः।४। उपमानकृताश्चत्वारः । ४ । शब्दकृताश्चत्वारः । ४ । अर्थापत्तिकृताश्चत्वारः । ४ । अभावकृताश्चत्वारः। ४ । यौगपद्ये तु द्वयोर्द्वयोः प्रमाणयोः सामग्योरेकविषयत्वेन विरोधे ऽन्योन्यप्र- तिबन्धात्प्रमाणसंप्लव एव ज्ञानानुत्पत्तिलक्षण इति नैयायिकाः । त इमे लौकिकाः पञ्चविंशतिर्बाधभेदाः ॥ २५ ॥ अथ शास्त्रीया अप्राप्तबाधभेदा उच्यन्ते । श्रुत्या लिङ्गादीनि पञ्च बाध्यन्ते । लिङ्गेन वाक्यादीनि चत्वारि । वाक्येन प्रकरणादी- नि त्रीणि । प्रकरणेन क्रमादिद्वयम् । क्रमेण समाख्येति । एते- पञ्चदशबाधभेदा यत्रैकः शेषो द्वयोः शेषिणोभ्यां प्रमाणाभ्यां विनियुज्यते तत्रापि सम्भवति (यथा । एकैन्द्रीश्रुत्या गार्हपत्ये लिङ्गे- नेन्द्र तथा यत्रैकस्मिन् शेषिणि द्वौ शेषौ द्वाभ्यां प्रमाणाभ्यां विनि- युज्यते तत्रापि सम्भन्ति । यथा एकस्मिन् गार्हपत्ये शंषिणि श्रुत्यै- न्द्रीलिङ्गेन यां कां चित्प्रकृताग्नेयीसामान्यसम्बन्धापेक्षत्वादिति १) त्रिंशत् ।ते च पूर्वोक्तः पञ्चविंशतिसंख्यौकिकैः प्रत्यक्षादिबाधभेदैः सह पञ्चपश्चाशद्वाधभेदाः सपन्नाः ५५ ॥ श्रुत्यादिषु च यथा वि- जातीयैर्विजातीयानां बाध एवं सजातीयैः सजातीयानामपि बाधः । तद्यथा श्रुत्या तावच्छतिर्बाध्यते । तदुक्तम् । (१) अयं पा, २ पु. ना० ।
अप्राप्तबाधनिरूपणम् । १३५ तथा पश्वङ्गमेकत्वं पदश्रुत्या प्रतीयते । समानप्रत्ययश्रुत्या बलीयस्याक्रियाङ्गतेति ।१। तथा इसन्दिग्धश्रुत्या सन्दिग्धश्रुतिबाधो यथा । आमिक्षा- यागे वैश्वदेवीत्यसन्दिग्धतद्धितश्रुत्या वाजिभ्य इति चतुर्थी पञ्च- मीत्वेन सन्दिग्धायाः श्रुतेर्बाधो गुणाधिकरणे उक्तः।२। लिङ्गेनापि लिङ्गं बाध्यते । यथा स्योनं ते सदनं कृणोमी त्यन मन्त्रे उभयोरर्धयोः कर्मसमवेतखस्वार्थप्रकाशनसामयेन त- स्मिन्नित्येकवाक्यतोपगमनसामर्थ्यात्मकं लिङ्गं बाध्यते । ३। वाक्येनापि वाक्यं बाध्यते । यथा । प्रोक्षिताभ्यामुलूख- लमुसलाभ्यामवहन्ती"त्यत्र प्रोक्षिताभ्यामिति तृतीयायाः क्तप्रत्य- योक्तोलूखलमुसलगतकरणकारकानुवादित्वाच्छौतविनियोगाभावेन वाक्यीयविनियोगे सत्यसौ वैयधिकरण्यान्नावघाते किंतूलूखलमुस- लयोरेवेति नवमे उत्पत्तिसंयोगादित्याधिकरणे वक्ष्यते । यत्त्वत्र वार्तिकमुदाहरणमुक्तम् “ पञ्चदश सामिधेनीरनुव्र- यात्सप्तदश सामिधेनीरनुबूयाद्वैश्यस्येति । उभयत्रापि हि सामाना- धिकरण्यादेकवाक्यत्वकृते विनियोगे सति निमित्तविशेषसंयोगा- साप्तदश्यं बलीयो भवतीति । तदयुक्तम् । निमित्तनैमित्तिकन्यायेनैव तत्र बाधसिद्धः । किं च नैमित्ति- कत्वेन बाधः प्राप्तबाधः तेन वाक्यान्तरत्वे पूर्व नित्यपाञ्चदश्यशा- नोत्पत्तेः स एव युक्तः । वाक्ययोस्त्वन्योन्यं बाधो प्राप्तबाधः स वाक्यैकत्वएव युक्तः अवघातसमभिव्याहारनिमित्तबोधानुत्पत्ते- रिति ।४। प्रकरणेनापि प्रकरणं बाध्यते । यथा “भिकामं जुहोतीत्य- वान्तरप्रकरणन महाप्रकरणम् । महाप्रकरणमपि महाप्रकरणेन बाध्यते । यथा ज्योतिष्टोमप्रकरणेन नित्यानित्यसंयोगविरोधसह- कृतेन संस्थाप्रकरणम् । ५ । क्रमेणापि क्रमो बाध्यते । ऐन्द्रानयोः कर्मणोरेन्द्राग्नयाश्च याज्यानुवाक्यायुगलयोर्यथासंख्यक्रमेणात्यन्त- देशसामान्यलक्षणेन पौर्वापर्यप्रत्यासत्तिक्रमो युगलयोरनियमेन फर्म- द्वये प्रापको बाध्यते । ६ । समाख्ययापि समाख्या बाध्यते । यथा विशेषसमाख्यया सा- मान्यसमाख्याः । यथोक्तं तृतीये (पा० ७ । अ० २१) तस्योपदे शसमाख्यानेन निर्देश इत्याधिकरणे । ७। त एते सप्त बाधभेदाः शेषशेषिभेदेन द्विगुणा द्वादश पूर्वोक्तः पञ्चपञ्चाशत्संख्यैरप्राप्तबाधभेदैः द्विषष्ठिरप्राप्तबाधभेदाः मीमांसाबालप्रकाशे। तु तार्तीयधन्न सूत्र- सिद्धाः । ६२ । शब्दान्तरादीनां तु मिथः समवायाभावान्न बाध- भेदाः सम्भवन्ति क्रमप्रमाणानामपि श्रुतिलिङ्गादिव. षण्णां पञ्चदशबाधभेदाः क्रमेण बलाबलं किं त्वन्यथा । तथा च निरालम्बनवादे श्रुत्य- र्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिरित्ययथासूत्रमनुक्रम्य विरोधे सति दौर्बल्यमेतेषामपि पूर्ववदित्युक्तं पूर्ववच्छ्रतिलिङ्गादिवदित्यर्थः । सू- त्रक्रमेण बलाबले सति अवदानाभिघारणासादनेषु प्रवृत्तिकमान्मु- ख्यक्रमस्य बलीयस्त्वं पञ्चमोक्तं विरुध्यतेति । ते च श्रुत्यर्थादीनां षण्णां पञ्चदशबाधभेदा एवम् । श्रुतिः पञ्चभ्यो ऽपि बलीयसीति स्पष्टमेव । तेन श्रुत्यार्थादीनां पञ्चानां पञ्चबाधाः । ५। अर्थाख्यप्रयोजनविरोधे हि यागादीनामप्रसरात्तैः क्रमक- ल्पनासम्भवादर्थेन पाठादीनां चतुर्णी चत्वारो बाधाः४। पाठः स्थानादित्रिभ्यो बलवानित्यपि स्फुटमेव । स हि श्रुति- बदाम्नातेन प्रत्यक्षएव स्थानादिषु तु न तदस्ति । श्रुतिस्तु साक्षात्र- मविषयैव न पाठ इति श्रुतितो भेदः । तेन ते त्रयो बाधाः ३ । स्थानमपि मुख्यप्रवृत्तिभ्यां प्रबलमित्यसन्दिग्धम् । पाठे हि क्रमवतोर्शाने प्रत्यक्षक्रमेण जाते ऽनुभवक्रमेण स्मृति- स्तत्क्रमेण चानुष्ठानक्रमः स्थाने तु आश्विनग्रहणेन सवनीयमात्रज्ञानं पश्वन्तरस्य तु चोदकावश्यकर्तव्यत्वात् सह पशूनिति साहित्यस- म्पत्यै सवनियाऽऽनन्तर्याक्षेपमात्रं परिशेषात्प्रयोगविधिना न तु प- श्वन्तरस्य सवनीयानन्तरं ज्ञानं पाठेनेवास्ति । मुख्यक्रमे तु मुख्य- स्यव ज्ञानमस्ति न तु क्रमवतोरन्यतरस्यापि पाठेनेव ज्ञाने स्तः । एवं प्रवृत्तावपि क्रमवश्यां पूर्वयोरेव ज्ञाने सिद्धेन तु क्रमवतोरन्य- तरस्यापि पाठेनेव तेन तौ द्वौ बाधौ २। मुख्यक्रमो ऽपि प्रवृत्तेः सबलः । पूर्वो हि प्रधानानामङ्गासत्त्यर्थः उत्तरस्त्वङ्गानामेव परस्प- रप्रत्यासत्त्यर्थ इत्यङ्गगुणविरोधन्यायादेवायं बाधः सिद्ध इति प- उचदशैते बाधाः । तदेते पञ्चदशापि बाधा विप्रतिपत्ती वा प्र- कृत्यन्वयाद्यथा प्रकृतीति सूत्रे तन्त्ररत्ने उक्ताः । श्रुत्यादिचतुष्टयं मुख्यप्रवृत्तिभ्यां सर्वत्र बलीयः षणामपि हि श्रुत्यादीनां पूर्वपूर्वब- लीयस्त्वं तत्र तत्र साधयिष्यतइति । अत्रोदाहरणानि । तत्र श्रुत्यार्थबाधे स्थितोदाहरणाभावात्कृ- स्वाचिन्तान्यायेनोदाहरणमुक्तं तन्त्ररत्ने क्रमको यो ऽर्थशब्दाभ्यामि- त्यधिकरण (अ०५पा०४ अ०१)।
अप्राप्तवाधभेदनिरूपणम् । भ्रत्यर्थयोर्विरोधस्तु नैव क चन सम्भवी । यथाश्रुत्येव हि न्याय्यमर्थस्य परिकल्पनम् ॥ कृत्वाग्निहोत्रं पक्तव्या यवागूरिति हि श्रुते । पाको दृष्टार्थ एव स्यादनुष्ठानं च पश्चिमम् ॥ इति । अनुष्ठानं च पश्चिमं होमोत्तरं स्यादित्यनुषङ्गः। अथेन तु पाठबाधः क्रमकोपाधिकरणे ( अ०५ पा० ४ अ०१) एवाग्निहोत्रं जुहोति अवागू पचतीत्युदाहृत्य सिद्धान्तित इत्यर्थतो दुर्बलस्य पा- ठस्य श्रुतितो दौर्बल्यं कैमुतिकन्यायेनार्थादेव सिद्धामिति तदुदा- हरणानुक्तिः । एवमस्मदुक्तबलाबलरीत्या पाठादू दुर्बलस्य स्थानस्य श्रुत्यर्थाभ्यां सुतरां दौर्बल्यं कैमुतिकन्यायसिद्धम् । तत्र तु श्रुति- स्थानयारर्थस्थानयोश्च बाधोदाहरणे पञ्चमे ऽनुक्तत्वान्न स्त इति ग- म्यते । पाठेन स्थानबाधे तूदाहरणं प्राकृताच्च पुरस्ताद्यदित्यधिक- रणे ( अ०५। पा०२ अ०११)उक्तम् । सावित्रहोमोखासम्भरणाद्य- पूर्वपदार्थाविधाय दीक्षणीयादयः प्राकृताः सगुणाः श्रुताः । तत्र प्राकृतेन दीक्षणीयाप्राचीनन पदार्थेनोपस्थितानां दीक्षणीयादीनां स्थानेन प्रागनुष्ठाने ततः प्राक् पाठः सावित्रहोमादेन स्यादिति पाठ- क्रमेण स्थानाक्रमो बाध्यतइति । पाठेन मुख्यक्रमबाधे तूदाहरणं प्रकृती तु स्वशब्दत्वादित्यधिकरणउक्तम् । ( अ०५ पा० १ अ०८) अग्नीषोमीयनिर्वाप आज्यनिर्वापोत्तरं मुख्यक्रमात्प्राप्त भौषधनिर्वा- पत्वेनाज्यनिर्वापात्प्राक् । पाठात्तथैव कार्य इति । मुख्यक्रमेण प्रव- त्तिक्रमवाधे तूदाहरणमवदानाभिधारणासानध्वानुपूर्व्य प्रवृत्त्या स्यादित्यधिकरणउक्तम् । ( अ० ५ पा०, ४ अ० २ ) साना- य्यधर्मा हि पूर्व प्रवृत्ताः पश्चादाग्नेयधर्माः प्रधानं त्वाग्नेयस्य प्रथमं पश्चात्सानाय्यस्य । ततः खिष्टकृदवदानं प्रयाजशेषाभिधारणं वेद्यामासादनं तत्सान्नाय्यस्य पूर्व प्रवृत्तिकमात्प्राप्तं मुख्यकमात्त्वा- प्रेयस्य पूर्व कार्यमिति । एवं पञ्चदशानां बाधानां मध्ये ऽर्थेन पाठबा- धः पाठेन स्थानबाधः पाठेन मुख्यबाधो मुख्यन प्रवृत्तिबाध इत्येते- षां चतुर्णा बाधभेदानामुदाहरणानि चत्वारि चतुर्वधिकरणेषु वि- शेषत उदाहृतान्युक्तानि । आद्यबाधभेदोदाहरणं च क्रमको यो ऽर्थशब्दाभ्यामिति जैमिनिनैव कृत्वाचिन्तयोपनिबद्धमुक्तम् । इत- रेषां तु दशानां बाधभेदानामुदाहरणान्यनुपलम्भात्पञ्चमे नोक्तान्य- स्माभिश्चेति । श्रुत्यर्थादिषु च श्रुतिलिङ्गादिवत्सजातीयानामप्य- न्योन्यबाधाः श्रुत्योरर्थयोः स्थानयोर्मुख्ययोः प्रवृत्त्योश्चेत्येवं विधा उदाहरणासम्भवात्पञ्चमे न चिन्तिताः । पाठयोस्तु विधिमन्नग- मीमांसाबालप्रकाशे। । यथा इति तयोर्मन्त्रगतो बलवानित्युक्तं मन्नतस्तु विरोधे स्यादित्यधिकरणे (अ. ५पा०१ अ०९) अग्नीषोमीयब्राह्मणं प्राक्पाठितं पश्चात्वाग्नेयब्राह्मणं मन्त्रकाण्डे तु प्रागाग्नेयस्य याज्यानुवाक्यायुगलं ततो ऽग्नीषोमीयस्य तत्र मन्चपाठक्रमेण विधिपाठक्रमबाधादाग्नेयः पूर्वमनुष्ठेयः पश्चा- दग्नीषोमीय इति । तएते षोडशबाधभेदाः पूर्वोक्तौर्द्विषष्ठिसंख्यर्बाध- भेदैः सहाष्टसप्ततिरप्राप्तबाधभेदाः सिद्धाः ॥ ७८ ॥ तथा श्रुत्या स्मृतिर्वाध्यते यथा “औदुम्बरी स्पृष्टोदायेदिति श्रुत्या " औदुम्बरी सर्वा वेष्टयितव्ये"ति स्मृतिः । १ । तथा श्रुत्या ऽऽचारो बाध्यते ऽपशब्दप्रयो- गरूप आचारस्तस्माद् ब्राह्मणेन न म्लेच्छितवै इति निषेधरूपया श्रुखा।२। तथा स्मृत्याप्याचारो बाध्यते । यथा । मातुलस्य सुतामूवा मातृगोत्रां तथैवच । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत् ॥ स्मृत्या मातुलकन्यापरिणयनाचारो दाक्षिणा- त्यानां ।३ । तथा प्रत्यक्षवैदिकलिङ्गेन स्मृतिर्बाध्यते । अत्रोदाहरणं सोमे- श्वरेणोक्तम् । मातुलकन्योद्वाहनिषेधस्मृतिः पूर्वोक्ता श्रीतलिङ्गेन बाध्यते । श्रीतलिङ्गत्रयं च तत्रोक्तम् । “गर्भे नु तौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूप” इत्येकम् । आयाहीन्द्रपथिभिरीलितेभिरित्यपर मन्त्ररूपम् । वा- जसनेयके " स्रुची व्यूहति प्राची जुहूं प्रतीचीमुपभृ- तमिति रुग्व्यूहनविधिवाक्यशेषरूपं तस्मात् समाना देव- पुरुषा दत्ता चाद्यश्च जायते उत तृतीये सङ्गच्छामहै चतुर्थे सङ्गच्छा- महे इति तृतीयम् । तदर्थस्तन्निरासश्च शास्त्रदीपिकाप्रकाशे ऽस्म- स्कृतो विस्तरभयान्नेहोक्तः। इदं तु तत्रोदाहरणम् । आशसनं विशसनमथो अधिविकर्त्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मानुशुन्धतीति ॥ सूर्याख्याया नववध्वा आशसनविशसनविकर्तनाख्यवस्त्रत्र- यधारणविषयश्रीतमन्त्रलिङ्गेन सूर्याविदे वधूवस्त्रं दद्यादिति स्मृतेरे- कवस्त्रधारणार्थाया बाधः । ४। तथा प्रत्यक्षवैदिकलिङ्नाचारो बाध्यते । यथा यववराहाधि- करणे (अ० १ पा०३ अ०५) “यदा वा अन्या ओषधयो म्लायन्ते अप्राप्तबाधभेदनिरूपणम् । अथैते मोदमाना इवोत्तिष्ठन्ती"त्यर्थवादलिङ्गन प्रियगुषु यवशब्द- प्रयोगरूप आचारो बाध्यते ५। एवं श्रुतिस्मृत्याचारसम्बद्धाः पञ्चबाधभेदाः पूर्वोक्तैरष्टस- ततिसंख्यैर्बाधभेदैः सह त्र्यशीतिरप्राप्तबाधभेदाः सिद्धाः ॥ ८३ ॥ तथा आप्तस्मृत्या अनाप्तस्मृतिर्बाध्यते । यथा । नात्मानं घातये- दिति मन्वादिस्मृत्या केदार पातयेदेहमिति पाखण्ड्यादिस्मृतिः१। तथा अविगीतस्मृत्या विगीतस्मृतिर्बाध्यते यथा न स्तनः स्यादि- त्यनया। तथैव सप्तमे भक्त भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ।। इत्याप्तस्मृतिरपि दण्डाभावमात्रपरा अल्पदोषपरा च २॥ अदृष्टार्थस्मृत्या दृष्टार्था स्मृतिर्बाध्यते । यथा । न जातु ब्राह्मणं हन्यादित्यनया जिघांसन्तं जिघांसीयादित्यात्मरक्षणादि दृष्टार्था ।३। एवं आप्ताचारेणानाप्ताचारो बाध्यते।यथा पिल्बाधिकरणउक्तं ( अ० १ पा० ३ ० ५) वृक्षविषयपीलुशब्दप्रयोगरूपाचारण हस्तिविषयम्लेच्छरूपानाप्तप्रयोगरूपा 5sचारबाध इति । ४। तथा । अविगीताचारेण विगीताचारो बाध्यते । यथा दाक्षि- णात्यानां मांसभक्षणवर्जनाचारःप्राच्यादीनां च मांसभक्षणाचारः । तत्रोभाभ्यामाचाराभ्यां श्रुत्यनुमानं सामान्यत एव स्यात् दा- क्षिणात्यप्राच्याद्युपपदकल्पनाया होलाकाधिकरणन्यायेन (अ. १ पा० ३ अ० ८ ) निरस्तत्वात् । ततश्च कि कल्प उतान्यतरेणान्यतरबाधः । बाधे ऽपि केन कस्योति वीक्षायां लोभादिमूलकत्वेन भक्षणाचारस्य विगीतस्यासम्भवल्लोभादिमूल- केनाविगीतेन वर्जनाचारेण बाधः । ५। तथा अहष्टार्थेनाचारेण दृष्टार्थ आचारो बाध्यते । यथा वसन्तोत्सवाद्याचारेण अपि वा कारणाग्रहणे प्रयुक्तानि प्रती- येरनिति वर्णके (अ० १ पा०३ अ०४) श्रुतिकल्पनोक्तेर- दृष्टार्थेन तत्समानकालीनस्य यस्य कस्य चिदृष्टार्थस्याचारस्य बाधः ६। तदेते षट् स्मृत्याचारसम्बद्धा बाधभेदाः पूर्वोक्तैस्त्रयशीतिसंख्यै- धिभेदैः सह एकोननवतिर्वाधभेदाः सिद्धाः ॥ ८९ ॥ तथा ऐन्द्रयेति वत्तृतीयादिश्रुतिप्रभवया स्मृत्या लिङ्गादिस- माख्यान्तप्रभवा बाध्यते । यथा पुत्रं प्रतिग्रहीष्यन्निवेशनस्य मध्ये व्याहृतिभिर्दुत्वेत्याद्यया होमादीतिकर्तव्यतायुक्तपुत्रप्रतिग्रहादिवि- मीमासापालप्रकाशे। षयत्वाद्विधिश्रुतितृतीयाश्रुतिप्रभवया स्मृत्या न शेषो अग्ने अन्यजा- तमस्तीत्यादेः शेषोऽपत्यमन्योत्पादितंनास्तीत्यर्थत्वेन दत्तकपुत्रनिषे- धलिङ्गत्वात्तत्प्रभवा यस्य ये बीजिनो जातास्तस्य ते नंतरस्य त्वि. त्यायेति । तेनैते ऽपि पञ्चदशभेदाः शेषसमवाये, पञ्चदश च शेषिसमवाये इति त्रिंशत् । ततश्चैते पूर्वोक्तैरेकोननवतिबाधभेदैः सह एकोनविंशत्यधिकं शतमप्राप्तबाधभेदाः सिद्धाः ॥ ११९ ॥ विधिप्रभवया स्मृत्या अर्थवादप्रभवा सा बाध्यते । यथा मागामनागामदितिं वधिष्टेति विधिप्रभवया गां न हन्यादित्यनया तद्यदेवादो मनुष्यराज आगते अन्यस्मिन्वाहत्युक्षाणं वा वेहतं वा क्षदन्त इत्यर्थवादप्रभवा महोक्षं वा महाजं वा श्रोत्रियायोकल्पयदि- तथा ति।। तथा सन्दिग्धमसन्दिग्धेन । यथा शर्करानं केनेति स- न्दिग्धं घृतस्तुत्या । २। तथा दुर्बलाश्रयं बलवदाश्रयेण बाध्यते । यथादुर्ब- लक्रमाश्रयं वेदं कृत्वा वेर्दि करोती "ति वेदवाक्यं बलवत्प- दार्थाश्रयेण "क्षुते आचामेदि"ति स्मृतिवाक्येन । ३ । तथा उपसंहारस्थमुपक्रमस्थेन । यथा उच्चैर्ऋचेत्याग्रुपसंहार- स्थमृगाविपदं वेदोपक्रमेण ।४। तथा अत्यन्तादृष्टार्थ नियमादृष्टार्थेन यथा ऽवधाते आज्यसा- नाय्यार्थत्वमौषधार्थत्वेन । ५। आरादुपकारित्वं सन्निपातित्वेन यथा पशुपुरोडाशादौ । ६ । अनेकार्थविधानमल्पार्थविधानेन बाध्यते । यथा । ना जुहो- तीत्यादौ विशिष्टविधिर्गुणविधिना । ७। तथा अनेकार्थत्वमेकार्थत्वेन बाध्यते । यथा । आकृत्याधि- करणे ( अ०१ पा०३ अ० १० द्वि० वर्णके )।८। तथानेकशब्दत्वमेकशब्दत्वेन बाध्यते । यथा व्याकरणाधि- करणे (अ०१ पा०३ अ०९) बहुबाधो ऽल्पबाधेन बाध्यते । यथाश्वप्रतिग्रहेष्टेः । प्रतिग्रही- तृविषयत्वे वरुणायेति चतुर्थ्याः पञ्चम्यर्थत्वमनयदित्यस्य च प्रति- प्रहार्थत्वं स स्वां देवतामिति च तच्छब्दस्याप्राधान्यनिर्दिष्टवरुणप- रामर्शित्वं दातृत्वे च वरुणस्यादेवतात्वाद्देवताशब्दायोग इति बहु- बाधः । दातुरिष्टिपक्षे प्रतिगृह्णातिमात्रस्य स्वार्थत्यागः । १० । तथा वेदान्तरात्पन्नं वेदान्तरविहितत्वेन बाध्यते । यथाधाने सामवेदोत्पन्न वारवन्तीयादि उच्चस्त्वेन प्राप्तं यजुर्वेदविहितत्वेनो- मीमांसाबालप्रकाशे। शब्द इति निर्विवादम् । स मासमग्निहोत्रमितिवद् गोण्या हिङ्कारादि- पृष्ठधर्मातिदेशार्थ इत्याशय गौणीतो बलीयस्या लक्षणया मन्त्रा एव करणतया विधीयन्ते इति सिद्धान्तितम् । ननु उपान्मन्त्रकर- णइति मन्त्रकरणके ऽभिधाने ऽर्थे प्रयोजने विवक्षिते उपपूर्वात्ति- छतेरात्मनेपदस्मरणादभिधानार्थमग्निसमीपे तिष्ठदित्याख्यातपदा- र्थावगमात्समीपस्थितौ च पृष्ठधर्माणां हिङ्कारादीनामप्राकृतकार्यताप- त्तेरनतिदेश इति न्यायान्तरेणैव सिद्धान्ते उक्तो न लक्षणा प्राबल्या- दिति चेत् । सत्यम् । तथापि न्यायद्वयन सिद्धान्तसाधनं न विरु- ध्यते । यथा नैमित्तिकेन साप्तदश्यादिना नित्यपाञ्चदश्यादिबाधे यथा वा काम्येन एकविंशतिमनुब्रुयात्प्रतिष्ठाकामस्येत्यादिना नित्य- नैमित्तिकयोर्बाधे तार्तीये इति । १९ । तथा लक्षणानामपि मध्ये लक्षणया लक्षितलक्षणा बाध्यते । यथोक्तं नवमे" यावत्या वाचा कामयीत तावत्या दीक्षणीयायाम- नुबयादित्मदिः स्वरयोर्नियमो न लक्षितलक्षणया ज्योतिष्टोमापूर्वा- र्थः किं तु लक्षणया दीक्षाया पूर्वार्थ एवेति । २० । तथा लक्षणानां मध्ये अजहत्स्वार्थया जहत्स्वार्था बाध्यते । पूर्वस्याम्मुख्यार्थस्य वाक्यार्थान्वयात् उत्तरस्यां तदभावात् । ए- तद्बीजं गौणीतो मत्वर्थलक्षणाया बलीयस्त्वाय तद्वयपदेशाधिकर- णपूर्वपक्षे वार्त्तिककृतोक्तम् । गुणविधिपक्षे हि स्वार्थापरित्यागेनैव श्येनपदं तद्वन्तमुत्तरकाले लक्षयति। आत्मोच्चारणकाले तु स्वार्थमेव विनियुक्त भवतस्तु श्येनार्थानुपयोगादादित एव सादृश्यविवक्षया पदं प्रवृत्तमित्यभ्युपगमात् श्रुतिबाधप्रसङ्ग इति । एतच्च बीजं जह- स्वार्थाजहत्वार्थलक्षणयोरपि बलाबले तुल्यम् । तत्रोदाहरणं सू- क्तवाकेन प्रस्तरं प्रहरतीति । अत्र हि श्रुतिविनियुक्तस्य सूक्तवा- कस्य करणत्वात्तत्प्रकाश्यानां देवतानां संयोगे कल्पिते तदुपपत्त्य- थै कल्पितो यागः प्रहरतिना लक्ष्यते तत्र यागमात्रं न लक्ष्यते किं तु प्रक्षेपविशेष्यक इति । गौतमीयास्तु यत्न शक्यलक्ष्ययोरुभयोर- पि प्राधान्यं काकेभ्यो दधि रक्ष्यतामित्यादौ तत्रैवाजहखालक्षणे- त्याहुः तत्परिभाषामात्रम् । २१ । तदिदमुदाहरणं प्रकृतिरूपैकशब्दविषयं प्रकृतिप्रत्ययरूपशब्द- भेदविषयं तूदाहरणं यथा । प्रोद्गातृणामित्यत्र उद्गातृप्रातिपदिकं उद्गीथाख्याद्वितीयसामभक्तेर्गातुरेकस्यैव मुख्यस्य पुरुषस्याभिधा- यकं तत्रोद्गात्रादिपुरुषत्रयलक्षणा अजहत्स्वार्थाबहुबचने त्वेक- त्वलक्षणा जहत्वार्था सा पूर्वया बाध्यतइत्युक्तं तृतीये । २२ ।
अप्राप्तबाधभेदनिरूपणम् । १४३ तथा तथा निरूढलक्षणया अनिरूढलक्षणा बाध्यते । उदाहरणं मृग्यम् । २३। तथैकलक्षणया ऽनेकलक्षणा बाध्यते । यथा दशमे र- थघोषेणेत्यत्र समाहारद्वन्द्ध इति पूर्वपक्षे पदद्वयलक्षणा स्यात्तत्पुरुषे तु पूर्वपद एवेति स एव युक्त इति सिद्धान्तितम् । २४ । तथाल्पलक्षणया बहुलक्षणाबाधः बहुबाधा-ऽल्पबाधेनेत्यत्रो- दाहृतः ।२५। तथा क्लप्तया लक्षणया अक्लप्ता लक्षणा बाध्यते।यथा "ऋग्- भिः प्रातर्दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अन्हः । सामवेदे. नास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्य" इत्यत्र ऋगादिशब्दानां वेदपरा लक्षणा क्लुप्तेत्युच्चर्ऋचा क्रियतइत्यत्र ऋगादिशब्दा एव वेदपरा न वेदपदं ऋगादिलक्षकं तल्लक्षणाया अक्लप्तत्वादिति ।२६। तथा लक्षणयोरपि कार्यलक्षणया धर्मलक्षणा बाध्यते । यथा त्रैधातव्या दीक्षणीयेति । २७ । गौणीनामपि मध्ये भूमलिङ्गसमवायांश्यां या गौणी तयेतरा गौणी बाध्यते । पूर्वस्यां मत्वर्थलक्षणायामिव शक्यस्यापि वाक्यार्थान्वयादुतरस्यं तदभावात् । २८ । तथा भूमलिङ्गसमवाययोरपि पूर्वयोत्तरा बाध्यते । पूर्वस्यां बहूनां शक्यानां वाक्यार्थान्वयात् उत्तरस्यां तदभावात् । २९ ॥ तथा नियमविधिना अपूर्वविधिर्वाध्यते । यथोपांशु यजुषेति निगदेष्वपूर्वविधित्वापत्तेर्यजुरन्तरेषु नियमविधिरेवाङ्गीकृतः । ३० । तथा नियमविधिनैव परिसंख्याविधिर्बाध्यते । यथा ऋतौ : भार्यामुपगच्छेदिति । ३१ । तथा मन्त्रत्रक्रमेण ब्राह्मणक्रमो बाध्यते । यथोक्तं मन्त्रतस्तु विरोधे स्यादिति । ३२। तथोत्पत्तिशिष्टेनोत्पन्नशिष्टं बाध्यते । यथाऽऽमिक्षया वाजि- नम्।३३। तथा अनुवादेनविधित्वं विध्यन्तर्गतिः।यथा ऽवभृथेऽग्नीवरुणौ विष्टकृती यजतीति स्विष्टकृच्छब्दलक्षिते स्विष्टकृत्वविशिष्टाग्निकार्य ऽग्निवरुणयोर्विधी विशिष्टस्थानापत्तेरस्विष्टकृच्छब्दकं वचन कार्यमिति पूर्वपक्षिते यतिना प्राकृतस्विष्टकृयागमेवोद्दिश्याग्नीवरुणयोर्विधावे- कविशेष्यस्थानापत्सिरेव द्वयोरिति विशेषणं प्राप्तमेवानूद्यते स्विष्ट- कृतावितीत्युक्तं दशमे । ईदृगसङ्कीर्णोदाहरणादेवानेकार्थविधिरल्पा- र्थविधानेनेत्यनेनागतार्थता । ३४। - मीमांसाबालप्रकाशे। 9 तथार्थवादत्वेन विधित्वं बाध्यते । अर्थवादायोगाद्धि विधि- क्त उपरि हि देवेभ्यो धारयतीति । यथा “ विष्णुरुपांशु यष्टव्य इत्यादौ । ३५। तथा प्रतिप्रसवविधिना नियमविधिर्बाध्यते । यथा घृते श्रपयतीति श्रपणप्रतिप्रसवस्य घृतनियमस्य चैकत्र वाक्ये कर्तुम- शक्यत्वात्पूर्वेणोत्तरबाधे उत्पत्तिवाक्यप्राप्तघृतानुवाद इत्युक्तं दश- मद्वितीयपादाद्ये । ३६ । तथा प्रतिप्रसवविधिना अपूर्वविधिरपि बाध्यते । यथा पूषा प्रपिष्टभाग" इति पेषणस्य चरौ प्रतिप्रसवेन पशौ पुरोडाशे चापूर्वविधिः । ३७। तथा वैदिकत्वसामान्योपस्थितेनावैदिकं बाध्यते । यथा 55- श्वप्रतिग्रहेप्टेनिमित्तं वैदिकं दानं न लौकिकम् । ३८ । तथा अनपेक्षितविधिरपेक्षितविधिना बाध्यते । यथा सोमव- मनेटिवैदिकसोमस्य वमने न तु लौकिकस्य । ३९ । तथा देवताविधौ तद्धितेन चतुर्थी बाध्यते । यथा वैश्वदेवी- ति तद्धितेनामिक्षाया विश्वैर्देवैः सम्बन्धं बोधयता वाजिभ्य इति चतुर्थी वाजिनस्य विश्वैर्देवैः सम्बन्धं बोधयन्ती । ४० । तथा तद्धितेनैव मन्त्रवर्णो बाध्यते । यथा पात्नीवतं गृहा- तीति तद्धितेन निरपेक्षस्य पत्नीवतो देवतात्वं बोधयता अग्नाइप लीवन्नित्यायवमन्त्रवर्णस्त्वष्टुर्देवतात्वप्रापकः । ४१ । तथा तद्धितेन द्वितीया बाध्यते मृग्यमुदाहरणम् । ४२ । तथा चतुर्था मन्त्रवर्णो बाध्यते । यथा सोमेश्वरमते ऽग्नि- होत्रे “यदग्नये च प्रजापतयेच सायं जुहोती"तिचतुर्ध्या केवलस्या- ग्नेर्देवतात्वप्रापिकया ऽग्निज्योतिरिति मन्त्रवर्णो ज्योतिष्ट्वविशिष्ट- स्याग्नेदेवतात्वप्रापकः । ४३ । तथा चतुर्येव द्वितीयापि बाध्यते । मृग्यमुदाहरणम् । ४४ । तथा मन्त्रवर्णेन द्वितीया बाध्यते । यथोपांशुयाजे 5ग्नीषो- मीययाज्यामन्त्रवर्णन तावतामाज्यस्यैव नाविति द्वितीयया । ४५ । तथा प्रतिनिधिनियमेन द्रव्यनियमविधिर्बाध्यते । यथा प्रतीकेषु । ४६ । तथा प्रतिनिधिनियमेनैवाभावे विधिरपि बाध्यते । यथा पूतीकेष्वेव । ४७। तथा ऽनुषङ्गणाध्याहारो बाध्यते । यथा “याते अग्ने रजा- शये"त्यादौ । ४८ ।
अप्राप्तबाधभेदनिरूपणम् । तथा क्लसया रूढ्या योगो बाध्यते । यथा रथकार इति।४९। तथा अन्यत्न योगेन रुढिर्बाध्यते यथा प्रोक्षणीशब्दे । ५०। तथा क्लप्तजातिवाचित्वेन संस्कारनिमित्तत्त्वं बाध्यते । यथा बर्हिराज्यपुरोडाशादौ । ५१ । तथा क्लप्तयोगेन संस्कारनिमित्तत्वं बाध्यते यथा प्रोक्षणी- शब्दपव। ५२॥ तथा यौगिकप्रसजद्वाक्यभेदतत्प्रख्यतद्वयपदेशेषु नामधेय. त्वेन गुणविधित्वं बाध्यते । निरूढेषु तु गुणविधित्वेनैव नामधेयत्वं बाध्यते सोमादिषु । एते पञ्चबाधभेदा द्विपञ्चाशद्भिः सह सप्तप- ञ्चाशदप्राप्तबाधभेदाः पूर्वोक्तैरेकोनविंशत्यधिकशतसंख्यैरप्राप्तबाध- भेदैः सह षट्सप्तत्यधिक शतमप्राप्तबाधभेदाः सिद्धाः ॥ १७६ ॥ तथा पूर्वोक्ताः षट्षष्ठयधिकं शतं प्राप्तबाधभेदा, एते च षट्- सप्तत्यधिकं शतमप्राप्तबाधभेदा मिलित्वा शतद्वयं द्विचत्वारिंशच्च बाधभेदा भवन्ति ॥ २४२ ॥ एतेषामपि च सर्वेषां बाधभेदानामानर्थक्यप्रतीघाते विपरी- तो बाधो भवति । तेन सर्वे ऽपि द्वैगुण्यमापन्नाः सन्तश्चत्वारिश- तानि चतुरशीतिश्च सम्भाव्यन्ते । तद्यथा “व्रीहीनवहन्ती"त्यत्र ब्रीहिमात्रावघातप्रापिका श्रु- तिः, प्रकरणेन बाध्यते । एवं तत्रैव लक्षणया मुख्य- वृत्तिरपि । श्येनादौ चोपमानानर्थक्याद् गौण्या मत्वर्थलक्षणा बाध्यते । न केवलं तायप्रमाणमेवानर्थक्यप्रतीघातेन बाध्यते । किं तु द्वैतीयकमपि यथा ऽभ्युदितेष्टौ ये स्थाविष्ठा ये ऽणिष्ठा इत्यन- योर्वाक्ययोरनेकार्थोपादानाद्वाक्यभेदापत्तेर्गुणेन कर्मभेदस्य प्रसक्त- स्य सह श्रयपतीति विध्यानर्थक्याद् बाधः श्रुत्यादीनां चानर्थक्याभा- वे ऽप्युत्तरोत्तरेणान्यथानुपपत्त्यादिसहकृतेन पूर्वस्य पूर्वस्य बाधो भवति । तत्सोदाहरणं प्रपश्चयामः। तद्यथा लिङ्गेन श्रुतिबाधे तावत्स्रुवेणावधति स्वधितिना विद्यतीति स्रुवादिरेकः शेषः श्रुत्या द्रवावदाने इतरावदाने वानेकन शेषिणि प्राप्तो लिङ्गेन द्रवावदानएव नियमनातू शेष्यन्तरे बाध्यते। तथैकस्मिन्शेषिणि द्रवावदानादौ श्रुत्यैव स्रुवः करणान्तरं चानेक- शेषः प्राप्तस्तत्र लिङ्गेन स्रुवमेव नियच्छता करणान्तरं श्रौतमपि बा- ध्यते वाक्येन लिङ्गबाधे “देवस्य त्वे"ति मन्त्रे सवित्रादिदेवताप्रका- शनसामर्थ्य तमंशं सवित्रादौ विनियुञानं वाक्येन प्रकृताग्निदेवत्य- निर्वापे विनियुञानेन बाध्यते । १९ मीमासाबालप्रकाशे। पशी च "हिरण्यगर्भः समवर्ततान"इत्याघारमाघारयतीत्याघा- रयतेः पूर्वाधारविषयता हिरण्यगर्भमन्त्रलिङ्गादाशयोत्ताराधारे "इन्द्र ऊों ऽश्वर" इति मन्त्रजन्यनियमाइटस्य क्लतत्वात्तद्विषयतानिश्च- ये तत्समभिव्याहारात्मकाद्वाक्याल्लिङ्गं बाध्यतइति दशमे स्थितम् । प्रकरणेन वाक्यबाधे श्यने "निवीता ऋत्विजः प्रचरन्ती"ति विहितं निवीतं तायवेदिबर्हिस्तद्धर्मन्यायेन वाक्यादङ्गप्रधानार्थ प्रसक्तं श्येनप्रकरणात्प्रधानमात्रार्थ भवति । अत एव दशमे तदङ्गेष्वैष्टि- केषु चोदकप्राप्तमुपवीतं भिन्नविषयमिति नारिष्टीयहोमबाधसमुच्च- यचिन्ताविषय इति वक्ष्यते । नन्वेवं निवीतमङ्गान्तरे ऽपि न स्यात् किं च ताीयबहिः- दिन्यायवैषम्यम् । उच्यते । सौमिकदीक्षादक्षिणवत्प्रधानार्थमेव सत्कर्तृद्वारा प्रयोगाङ्गत्वात्प्रसङ्गादङ्गान्तरेषूपकरिष्यतीति न तद- थमपि वाक्यमायासनीयम् । प्रधानहविपि तु वेदिबहिषोरासादिते- नाङ्गहविरासादितं भवतीति तदर्थमपि वाक्यस्य पृथगायासेन भा- व्यमिति तातीयन्यायवैषमिति । क्रमेण प्रकरणबाधे दबिनामासीति मन्त्रमाग्नेयादि- ध्वपि विनियुञ्जानं प्रकरणमुपांशुयाजमात्रे विनियुजाने- न यथासंख्याम्नानक्रमेण बाध्यते । न चाक्रियात्मको मन्त्रो थाभिधानक्रियावेशेन ग्राह्यः । अयं चास्पष्टलिङ्गो ऽस्यार्थस्याभि- धायक इत्यशानात्कथं प्रकरण विषय इति वाच्यम् । मिश्रमत उ चारणावेशेनैव ग्रहणसम्भवात् । अन्यत्प्रकाशे शेयम् । समाख्यया क्रमबाधे ज्योतिष्टोमे वरणोपात्तानामृत्विजां स- निधानात्सर्वत्राव्यवस्थया कर्तृत्वे प्राप्त समाख्यया व्यवस्था । एवमे- कान्तरितादावपीति पञ्चदशैते ऽपि बाधाः ते ऽपि शेषशेषिभेदाद द्विगुणास्त्रिंशत्पूर्वैश्चतुरशीत्याधिकशतचतुष्टयसंख्यैः सह चतुर्दशा- धिकानि पञ्चशतानि बाघभेदा भवन्ति ॥ ५१४॥ तथा प्रत्यक्षः श्रुत्यादिभिरानुमानिकानां श्रुत्यादीनां बाधः । यथा श्येनादौ "शरमयं बर्हिरि"ति प्रत्यक्षश्रुत्या " बर्हिषि हवींष्या- सादयती"त्यानुमानिकश्रुतेः । त इमं पञ्चदश बाधाः । १५ । तथा ऽऽनुमानिकैः श्रुत्यादिभिरानुमानिकानां तेषां बाधः । यथा पशावनुमेयैः प्रयाजादिविनियोजकैः श्रुत्यादिभिः पशुपुरोडाशे तद्विनियोजकानामानुमानिकानां श्रुत्यादीनाम् । ते ऽपि पञ्चदशबा- धाः । तथा ऽनुमानिकानां श्रुत्यादीनां प्रत्यक्षैर्लिङ्गादिभिर्बाधः । यथा कृष्णलेषु सामर्थेन ब्रीहीनवहन्तीत्यतिदेशानुमितश्रुतेः । ते तन्त्रनिरूपणम् १४७ ऽपि पञ्चदश । एवं पञ्चचत्वारिंशद्बाधभेदाः पूर्वोक्तश्चतुर्दशाधि- कपञ्चशतमितैर्वाधभेदैः सह एकोनपष्टयधिकं शतपञ्चकं बाधभेदा भवन्ति । ५५९॥ ये के ऽपि तत्र तत्र स्युर्बाधा न्यायसहस्त्रगाः । तत्रैवान्तर्भवन्तीति न भेदान्तरसम्भवः ।। प्रमाणानामिव च न्यायानामप्यन्योन्यं तन बाध्यबाधकभा- घो भवति तं वाक्यभेदनिरूपणग्रन्थानन्तरं निरूपयिष्यामः ॥ इति श्रीमत्पदवाक्यप्रमाणपारापारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे दशमाध्यायार्थसङ्ग्रहः । अथैकादशाध्यायार्थः । तत्र तन्त्रलक्षणमुक्तमेव, साधारणं भवेत्तन्त्रमिति । अत्र साधारणशब्दो विशेषाग्रहणमाह ततश्च विश. षग्रहणे सति प्रसङ्गाप्रयोजकत्वे भवतः । विशेषाग्रहणे तु तन्त्रं सकृदनुष्ठानमित्यर्थः । विशेषाग्रहणं च सप्तधा । फलकामनातो निमित्तता रूपतः संख्यातः कालतो मन्त्रतः कर्तृतश्चेति । तन्त्रं च प्रधानानामङ्गानां चेति द्विविधम् । यथा साक्षाय्य- यागयोः प्रयाजानां च दर्शपूर्णमासयोः । तत्र चोभयत्र पूर्वोक्त सप्त- धा विशेषग्रहणं नास्ति । आधे स्वर्गकामनाया द्वितीये करणापका- रकामनाया अविशेषात् न ह्यत्र काम्याग्निहोत्रेण नित्याग्निहोत्रप्रस- ङ्ग इव कामनातो विशेषग्रहणमस्ति । न चोक्तं तन्त्रोदाहरणद्वये निमित्ततो विशेषग्रहणमस्ति यथा वैश्यनिमित्तकसाप्तदश्येन नित्य- पाञ्चदश्यस्य प्रसङ्गसिद्धौ । न च तन्त्रोदाहरणद्वये द्रव्यदेवताख्य- रूपतो विशेषग्रहणमस्ति यथा पाशुकैः पृषदाज्ये नानुयाजान्यजतीति पृषदाज्यद्रव्यकैरनुयाजैः केवलाज्यद्रव्यकाणामनूयाजानां पौरोडा- शिकानां प्रसङ्गसिद्धौ । नापि पूर्वोक्ततन्त्रोदाहरणद्वये संख्यातः कालतो वा विशेषग्रहणमस्तिायथा पाशुकैः "प्रयाजैस्तिष्ठन्तं पशुप्र- यजन्ती"ति तिष्ठतिपशावपकृष्यमाणैरकादश प्रयाजान्यजतीत्येकादश १४८ मीमासाबालप्रकाशे। संख्याकैश्च पौरोडाशिकानामासनेषु हविःषुप्रयजन्तीति हविरासाद- नोत्तरकालविहितानां पञ्चसंख्यानां चातिदेशिकानां प्रयाजानां प्रस- असिद्धौ । न च प्रागुक्ततन्त्रोदाहरणद्वये मन्त्रतः कर्तृतोवा विशेष- ग्रहणमस्ति यथा सवनीयपशौ मैत्रावरुणकर्तृकाग्निमद्यहोतारमवृ- णीतायं सुतासुती यजमान इत्यग्नीषोमीयादनतिदिष्टात्सूक्तवाकप्रैषा- त्तन्त्रिणि सवनीयहविरङ्गानां मैनावरुणरहितानांप्रसङ्गोपकारित्वे । तदुक्तं द्वादशे । पशुसवनीयेषु विकल्पः स्यादित्यत्र । तस्मात्सप्तधा विशेषाग्रहणे तन्त्रम्भवतीति सिद्धम् । सप्तधा च विशेषग्रहणे प्रस- ङ्गो भवतीत्यपि सिद्धम् । तत्र च प्रसङ्गात्सप्तविधान्युदाहरणान्य- प्युक्तानि । तञ्च तन्त्रं निविधम् । तत्र द्विविधमुक्तं प्रधानतन्त्रमणतन्त्रं च प्रधानाङ्गतन्त्रं च तृतीयम् । प्रधानतन्त्रमपि त्रिविधम् । प्रकृत्योर्विकृत्योः प्रकृतिविकृत्यो- श्च । तत्र प्रकृत्योर्यथा सान्नाय्ययोरित्युक्तम् । द्वितीयं यथा । आहि- ताग्नेर्युगपदनेकगृहदाहादौ क्षामवत्यादीनाम् । तृतीयभेदे श्रौतमुदा- हरणं मृग्यम् । स्माते तु हेमाद्रिोक्तम् । अमावास्याव्यतीपातश्राद्धादीना- मेकदिनकर्तव्यत्वापत्ताविति । अङ्गतन्नमपि त्रेधा । उपदिष्टानामेवाङ्गानामन्योन्यम् । यथो- दाहृतं दर्शाङ्गानां प्रयाजानाम् । उपदिष्टातिदिष्टयोरन्योन्यं यथा “दीक्षासु यूपं छिनती"त्यप- कृष्यमाणस्याग्नीषोमीये उपदिष्टस्य सवनीये चातिदिष्टस्य यूपस्य तत्संस्काराणां चान्योन्यम् । अतिदिष्टानामेवान्योन्यं यथा वरुणप्रघासेषु उत्तरे वि- हारे ऽष्टसु हविःषु अतिदिष्टानां प्रयाजानां तन्त्रम् । प्रधानाङ्गतन्त्रं तु द्वेधा। प्रकृतिप्रधानस्य स्वाङ्गविकृत्या सह तन्त्रं यथा “यस्योभयं ह- विरातिमाईदैन्द्रं पञ्चशरावमोदनं निर्वपेदि"ति सान्नाय्ययागाङ्गभूत- या ऽऽग्नेययागविकृतिभूतयेष्टया सह सान्नाय्ययागस्य तन्त्रम्। तथा विकृतिप्रधानस्य वाङ्गविकृत्या तन्त्रं यथा ऐन्द्रस्यामिक्षायागस्य प्रधानभूतस्यामिक्षार्तावतिदिष्टेन तदङ्गभूतेन विकृतिरूपेण सा- भाय्यहविरातिनिमित्तकैन्द्रपञ्चशरावयागेन सह तन्त्रम् । न चो- तोदाहरणद्वये प्रसङ्ग एवति वाच्यम् । सान्नाय्यवद् द्रव्यभेदादेव- तैक्याञ्च । तदेवमष्टविधं तन्त्रं निरूपितम् ।
१४९ विकल्पप्रयोजकप्रसङ्गनिरूपणम् । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे एकादशाध्यायार्थसंग्रहः । अथ द्वादशाध्यायार्थः । तत्र विशेषग्रहणे सकृदनुष्ठानं प्रस- ङ्ग इत्युक्तमेव विशेषग्रहणं च सप्तधा फलतो निमित्ततो रूपतः सं- ख्यातः कालतो मन्त्रतः कर्तृतश्चेत्यप्युक्तमेव । तदुदाहरणान्यप्यु- क्तान्येव एकादशे । इदानी भेदा एव निरूप्यन्ते । प्रसङ्गस्त्रिविधः । प्रधानप्रसङ्गो ऽङ्गप्रसङ्गः प्रधानाङ्गप्रसङ्गश्चेति । तत्र प्रधानप्रसङ्गस्त्रिविधः । प्रकृत्योर्वियोः प्रकृतिविकृत्योश्च । तत्र प्रकृत्योः प्रसङ्गो यथा । काम्येनाग्निहोत्रादिप्रयोगेण- नित्यतत्प्रयोगस्य प्रसङ्गः । विकृतिप्रधानयोः प्रसङ्गो यथा या विकृतयो निमित्त कामे च वि- हितास्तत्र युगपन्निमित्तफलकामोत्पत्तौ अग्निहोत्रवदेवकाम्यप्रयोगेण नित्यप्रयोगस्य प्रसङ्गसिद्धिः।स्मार्तोदाहरणं तु दर्शश्राद्धविकृतिभूत- योमहालयापरपक्षश्राद्धनित्यश्राद्धयोर्मध्ये पूर्वेणोत्तरस्य प्रसङ्ग- सिद्धिः । प्रकृतिविकृतिप्रसङ्गस्तु द्विविधः प्रकृत्या विकृतेर्विकृत्या वा प्रकृतेः । तनोभयत्र श्रौतमुदाहरणं मृग्यम् । स्मार्त तु आद्योदाहरणं दर्शश्राद्धेन नित्यश्राद्धस्य प्रसङ्गसिद्धिरिति । द्वि- तीयोदाहरणं तु यथा । तीर्थश्राद्धेन दर्शश्राद्धस्य प्रसङ्गास- द्धिरिति । अङ्गप्रसङ्गस्तु षोढा । तद्यथा । औपदेशिकेनाङ्गेनौपदेशिक- स्याङ्गस्य प्रसङ्गः । यथा वैश्यनिमित्तकेन साप्तदश्येन नित्याङ्गस्य पाञ्चदशस्य। तथा काम्येन नित्यस्य नैमित्तिकस्य च । यथा प्रतिष्ठार्थस्यै- कविंशत्यनुवचनस्याङ्गेन एकविंशतित्वेन नित्यस्य पाञ्चदश्यस्य वै- श्यनिमित्तकस्य च साप्तदश्यस्य प्रसङ्गसिद्धि। औपदेशिकेनाङ्गेनातिदेशिकस्य प्रसङ्गो यथा । दर्शार्थन प्रयाजादिना निशीष्टयर्थस्य प्रयाजादेः प्रसङ्ग- सिद्धिः। यथा तथा १५० मीमांसाचालनकाशे। तथा आतिहशिकेनातिदोशकस्य प्रसङ्गो यथा । पश्वर्थेन प्र- याजादिना पशुपुरोडाशार्थस्य प्रयाजादेः प्रसङ्गसिद्धिः । तथा आतिदेशिकेनोपदेशिकस्य प्रसङ्गो यथा। श्येने ऽतिदिष्टैः कर्तृभिः प्रयोगविधितश्चादकवलीयस्त्वेन प्रापितैः श्येनस्यौदास- माख्यया प्रापितस्योद्गातुः कार्यसिद्धेः प्रसङ्गः प्रधानाङ्गप्रसङ्गश्चतु- र्धा । प्रकृतिप्रधानेनाङ्गस्य प्रसङ्गा सिद्धिः । अङ्गेन च प्रकृतिप्र- धानस्येति द्वौ भेदौ । विकृतिप्रधानेनाङ्गस्य प्रसङ्गसिद्धिः । अङ्गेन च विकृतिप्रधानस्येति द्वौ भेदाविति । एषु चतुर्वपि भेदषु श्रोतो- दाहरणानि मृग्याणि । स्मार्तानि तूच्यन्ते । तत्राद्ये भेदे उदाहरणं यथा । काम्येना- मावास्याश्राद्धन यात्राद्यङ्गभूतश्राद्धस्य प्रसङ्गसिद्धिः । द्वितीयभेदे उदाहरणं यथा यानाद्यङ्गभूतश्राद्धन नित्यामा- वास्य प्रसङ्गसिद्धिः । तृतीयभेदोदाहरणं यथा काम्यभरण्यादिश्रा- द्धेन यात्राद्यङ्गभूतश्राद्धस्य प्रसङ्गसिद्धिः । चतुर्थभेदोदाहरणं यथा यात्राद्यङ्गभूतश्राद्धेन नित्यश्राद्धस्य प्रसङ्गसिद्धिरिति ॥ तदे- वञ्चतुर्दशविधः प्रसङ्गो निरूपितः ॥ अथ द्वादशे ऽध्याय एकार्थास्तु विकल्पेरन्समुच्चये ह्यावृत्तिः स्यात्प्रधानस्थत्यधिकरणे ( पा०३। ४ )व्रीहियवादीनां विकल्पे एकार्थत्वं हेतुरुक्तः । तेन न दृष्टार्थत्वं तत्र हेतुः द्वादश (पा०३१०५ )एव दर्शपूर्णमासात्ययजदोषनिर्धातार्थानां पथिकृत- श्वानरीयादीनां विकल्प उक्तस्तानि चादृष्टार्थानीति दृष्टार्थत्वहेतुस्तत्रा- अ० व्यापकः। तथा पञ्चमे परेणावेदनाद्दीक्षितः स्यादित्यधिकरणे ( पा० ३। अ० ११) काम्यानामेकार्थानां कर्मणां विकल्पः तन्त्ररत्ने उक्त- स्तत्राप्यव्यापकों दृष्टार्थत्वहेतुः। अत एकार्थ्य सूत्रे हेतुरुक्तः तनापि श्रुतं भाव्यं गृहीत्वैकार्थ्य बोध्यम् । न त्वश्रुतमवान्तरकार्य गृहीत्वा काम्यानामेकफलानां कर्मणां तदभावात् । नन्वेवमाग्नेयादीना- मैकार्थ्याद्विकल्पापत्तिः । अन समादधे भट्टसोमेश्वरः । निरपेक्षसा- धनत्वमपि विकल्पे हेतुः समर्थः पदविधिरिति हि स्मृत्या पदसम्ब- न्धिविधिमात्रे सामर्थ्यापेक्षोक्तेः समासो यथा पदयोर्विधिरिति कृत्वा पदविधिरेवं पदत्वसम्पादकः सुब्बिधिरपि पदविधिरिति तृ- तीयादिविभक्तावपि सामर्थ्य प्रतीयते । तच्च व्यपेक्षारूपम् । वि- गतापेक्षत्वं च व्यपेक्षा । तेन निरपेक्षसाधनत्वावगमाद् ब्रीह्यादौ वि- कल्पः । आग्नेयादीनां तु फलवाक्ये उपादेयत्वाद्यजतिरूपैकशब्दोपा- विकल्पगतदोषनिरूपणम् । १५१ दानादू द्वन्द्ववशाच्च साहित्यविवक्षया निरपेक्षसाधनत्वाभावान्न विकल्पापत्तिरिति । तयुक्तम् । पञ्चमे हि परेणावेदनाहीक्षितःस्यादित्यत्र दण्डेन दीक्षयति मेखलया दीक्षयतीति तृतीयया दीक्षायां दण्डादीनां समु- श्चय उक्तः । सो ऽनुपपन्नः स्यात्तृतीयया निरपेक्षसाधनत्वावगमा- तू । न च यथा ममैकस्मिन्नपि क्रये निरपेक्षसाधनत्वेनैकहायन्य- जादीनां समुच्चयस्तथा दण्डादीनामपीति वाच्यम् । दृष्टादृष्टार्थत्वेन वैषम्यातू । अजादीनां ह्येकहायन्यसिद्धानत्यतिरेकरूपदृष्टार्थत्वान्नै- कहायनीमात्रेण क्रयो निराकाङ्को भवतीति युक्तः समुच्चयः । दण्डादीनां तु दीक्षाभिव्यञ्जकत्वम्। इष्टेस्तु तदुत्पादकत्वं दीक्षा चा- दृष्टरूपा अतस्त्वदुत्पादकन नाभिव्यञ्जककाङ्गानिवृत्तिः । अभिव्यञ्ज- कानेकत्वे ऽपि च नान्यतरेणान्यतराकाङ्गानिवृत्तिः । अतो दण्डा- दिसमुच्चयसिद्धान्तभङ्गापत्तन निरपेक्षसाधनत्वं विकल्पहेतुः। अत आग्नेयादीनामकार्याद्विकल्पापत्तिर्मिश्रोक्तत्यैिव समाधेया । तैर्हि परेणावेदनादित्यत्र तन्त्ररत्ने उक्तम् । ऐकार्यवत्समुच्चयप्रमाणा- भावो ऽपि विकल्पहतुः । समुच्चयप्रमाणं च युगपत्सर्वाङ्गप्रधा- नग्राही प्रयोगवचनः । स चाग्नेयादिषु एकशब्दोपादानद्वन्द्वगर्भो ऽस्तीति न समुच्चयप्रमाणाभावाबीहियवादौ तु दृष्टार्थे ऽन्यतरेणैव तत्सिद्धनासौ समुच्चयेन गृहातीति समुश्चयप्रमाणाभावः । का- म्यानां त्वेकार्थानां कर्मणामेकप्रयोगवचनामावादेव समुच्चयप्रमा- णाभावः । एवं द्वादशे दर्शपूर्णमासातिपत्त्येकनिमित्तकानां पथिकृत- वैश्वानरीयादीनामेकप्रयोगवचनामावादेव समुच्चयप्रमाणाभावः ।। दण्डादिषु तु एकप्रयोगवचनसत्त्वाददृष्टार्थत्वेन च ब्रीहियवन्या- याभावात्समुश्चयप्रमाणमेवास्तीति युक्तः समुश्चय इति सर्व सुस्थम्। इति विकल्पप्रयोजकनिरूपणम् । अथ विकल्पदोषनिरूपणम् । तत्र द्वयोर्विकल्पे तावदष्टौ दोषाः । तथा हि व्रीह्यनुष्ठाने यवशास्त्रस्य प्रतीतप्रामाण्यत्यागः अ- प्रतीताप्रामाण्यकल्पनं चेति द्वौ दोषौ । तथा पूर्व यवानुष्टानसमये व्रीहिशास्त्रे त्यक्तस्य प्रतीतप्रामाण्यस्य पुनरुज्जविनम् । अप्रतीतस्य चाप्रामाण्यस्य कल्पितस्य त्याग इति द्वौ दोषौ । तदेवं व्रीह्यनुष्ठाने यवशास्त्रे दोषो व्रीहिशास्त्रे च द्वावितिं चत्वारो दोषाः । एवं य- वानुष्ठाने ऽपि व्रीहिशास्त्रे द्वौ दोषौ यवशास्त्रे च द्वाविति चत्वारः । एवं वस्तुद्वयविकल्पे ऽष्टौ दोषाः । एवं वस्तुद्वयविकल्पे प्रतिशास्त्रं दोषचतुष्कापत्तौ वस्तुत्रयविकल्पे एकशास्त्रवृद्ध्या दोषचतुष्कवृद्ध- मीमांसाबालप्रकाशे। दिशदोषाः। नन्वेकस्मिन्युगले दोषाष्टकप्रसक्तौ प्रतियुगलं दोषाष्टकवृद्ध- स्त्रिविकल्प त्रीणि युगलानीति चर्तुविशतिर्दोषाः स्युः । एवं चतुष्टयविकल्पे षडुयगलानीति षडष्टकानि अष्टाचत्वा- रिंशदोषाः स्युरिति चेत् । न । स्याद्धि एतद्यदि सामयिकानां प्रामा- ण्यत्यागानां सामयिकानां चाप्रामाण्यकल्पनानां भेदः स्यान्न तु तदस्ति । त्रिविकल्पे हि शास्त्रद्वयार्थानुष्ठानसमद्वये ऽप्यननुष्ठीयमा- नार्थकतृतीयशास्त्रं कृतः प्रामाण्यत्याग एक एव न समयभेदाद्भिन्नः। एवमप्रामाण्यकल्पनमपि न समयभेदाद्भिन्नम् । ततश्च त्रिविक- ल्पे तृतीयशास्त्रे तो द्वावेव दोषो तद्विपर्ययरूपौ च द्वावेव दो- पाविति द्वादशैव दोषा इति द्विविकल्पप्रसक्तदोषाष्टकात्प्रतिशास्त्रं दोषचतुष्कस्यैव प्रवृद्धश्चतुर्विकल्पे षोडश दोषाः । पञ्चविकल्प विंशतिः । षड्विकल्पे चतुर्विंशतिः । सप्तविकल्पे ऽष्टाविंशतिः । अष्टविकल्पे द्वात्रिंशत् । नवविकल्पे षट्त्रिंशत् । दशविकल्पे चत्वारिंशदग्निहोत्रद्रव्येषु । एवमुत्तरत्रापि शास्त्रसंख्यातश्चतुर्गुणा दोषाः उन्नयाः। इति विकल्पगतदोषनिरूपणम् । अथ विकल्पभेदाः। तत्र प्रथमं तावद्विकल्पः सर्वोऽपि त्रि- विधः । न्यायगम्यः, वाचनिकः, ऐच्छिकश्चेति । तत्राद्यो अष्टविधः । जात्योर्द्रव्ययोर्गुणयोः क्रिययोर्जातितभावयोर्द्रव्यतद्भावयोर्गुणत- दभावयोः क्रियातदभावयोश्चेति । तत्र जात्योर्विकल्पो यया व्रीहियवयोः । इह च यद्यपि द्र- व्यविकल्पो ऽप्यस्ति तथापि द्रव्यपरिच्छेदरूपव्यापारवत्त्वाख्यकर- णत्वस्य जातौ सम्भवात् द्रव्यलक्षणां विना जात्योरेव करणत्वोप- देशे तयारवादी विकल्पो भवति । जातेः करणत्वान्यथानुपपत्त्या द्रव्यकरणत्वज्जातिधिकल्पान्यथानुपपत्त्या द्रव्यधिकल्पः प्रसूतो भ- वन्न स्वात्तन्त्र्येण व्यपदिश्यत इति । १ । द्रव्ययोर्विकल्पो यथा दर्शपूर्णमासयोरग्नीषोमीयैकादशद्वा- दशकपालयोः शाखाभेदेनाम्नातयोर्विकल्पः शाखान्तराधिकरणउ- तः। यौगिकानां हि द्रव्यवाचितोक्ता । सर्वत्र यौगिकैः शब्दैव्यमेवाभिधीयतइति ।। गुणयोर्विकल्पो यथा कृष्णसारङ्गो ऽग्नीषोमीयः । लोहितसा- रङ्गो ऽग्नीषोमीय इति । ३। क्रिययोर्विकल्पो यथा । ज्योतिष्टोमे बहिःपवमानं प्रसर्पताम- विकल्पमेदनिरूपणम् । भ्योन्यकच्छधारणे “यदि प्रस्तोता ऽपच्छिद्यादब्रह्मणे वरं दद्याद्यदि प्र- तिहर्ता सर्ववेदसं दद्याद्यद्युद्गाता ऽदक्षिणो यज्ञः परिसमाप्यते तेन पुनर्यजेत यत्पूर्वस्मिन्दास्यन्स्यात्तद्दद्यादिति विशिष्टदानादिनैमि- त्तिकविधीनां युगपदपच्छेदे विकल्प इति षष्ठे (पा० ५। अ० १८) उक्तम्।४॥ जातितदभावयोव्यतदभावयोश्चविकल्पोदाहरणे यथा वा- जसनेयिनाम् । “ क्रतुनक्षत्रसम्भारचातुःप्राश्यजागरणइध्मपूर्वार्धा- न्वारम्भणसार्पराज्ञीन वा कुर्यादि"त्याधाने श्रुतम् । तदिह नक्षत्रश. ब्देन कृत्तिकाद्युक्तेर्जातितभावयोर्विकल्पः । सम्भारचातुः प्राश्यश- ब्दयोश्च यौगिकत्वेन द्रव्यवाचित्वाद् द्रव्यतभावयोर्विकल्पः । अत्र वाशब्दश्रवणे ऽपि न वाचनिको विकल्पः किं तु विधिनिषेधवशा- न्यायत एवेति वाशब्दो ऽनुवादः । ५।६। गुणतदभावयोर्विकल्पो यथा दार्शिकवेदिमाने वाजसनेयि- नामेव वेदिपरिमाणविशेषतदभावयोः । व्याममात्रा पश्चात्स्यादित्या- हुरिति नात्र मानास्तीति च शतपथात् । ७। क्रियातदभावयोर्विकल्पो यथा।"अतिरात्रे षोडशिनं गृह्णाति" "नातिराने षोडशिनं गृह्णाती"ति । ८ । तदेवमष्टविधो न्यायगम्यो विकल्पः । सो ऽयं न्यायगम्यो वि- कल्पः क्रत्वर्थपुरुषार्थभेदेन द्विविधः । तत्राष्टविधो ऽपि क्रत्वर्थ उ- दाहृत एव । स चाष्टविध एव जातिद्रव्ययोर्जातिगुणयोर्जातिक्रिय- योर्द्रव्यगुणयो व्यक्रिययोर्गुणक्रिययोरिति द्विकविषयाः षट् तथा जातिद्रव्यगुणानां जातिव्यक्रियाणां जातिगुणक्रियाणां द्रव्यगुण- क्रियाणां वेति निकविषयाश्चत्वारो भेदास्तथा चतुष्टयविषय एक इ- त्येकादशभेदा न सभवन्त्यैकार्थ्याभावात् । पुरुषार्थस्य त्वेते ऽप्येका- दश सम्भवन्ति पूर्वोक्ताश्चाष्टावित्येकोनविंशतिविधो ऽसौ । तत्र न्यायगम्यः पुरुषार्थजात्योर्विकल्पो यथा । “वानस्पत्येन ब्रह्मवर्चसकामस्य प्रणयदि"ति वाजसनेयिनामुक्तम् । “कांस्येन ब्रह्म- वर्चसकामस्य प्रणयदि"ति तु चतुर्थ उदाहृतम् । अन हि जातिरेव फलार्थ विधीयते।यथा “ह्योदुम्बरो यूपो भवती"त्यत्रातिदेशेन “यस्य पर्णमयी जुहूर्भवती"त्यन च जुह्वा जुहोतीत्यनेन द्रव्यप्राप्तेर्जातिमात्र क्रत्वर्थत्वेन विधीयते । तथा कांस्यवानस्पत्यवाक्ययोरपि "चमसे- नापः प्रणयेदि"त्यनेनाकारविशिष्टद्रव्यप्रार्जातिरेव फले विधीयते। अत एव वानस्यत्यकांस्यमये चमसाकारे एव पाने कर्तव्ये । तदुक्तं तन्त्ररले चतुर्थे नैमित्तिके विकारत्वादित्यधिकरणे । (पा०३। २० मीमांसाबालप्रकाशे। अ०२) ननु प्रणयने विशेषत एव चमसो विहितः सत्यम् । न तु स कांस्यविधिना विरुध्यते । आकारवाची हि चमसशब्दो न प्रकृतिविशेषमपेक्षते शक्यते हि कांस्येनापि तदाकृतिकं पात्रं स- म्पादयितुं सामान्यविहितं होमार्थ वारणमेव तेन विरुध्यत इति ग्र- न्थेन । तस्माज्जात्योरेवाकस्मिन्फले विहितयोायगम्यो विकल्प इति । १। न्यायगम्यः पुरुषार्थद्रव्यविकल्पो यथा । “गोदोहनेन पशुका- मस्य प्रणयेदि"तिवद्यौगिकेनैव शब्देन द्रव्यान्तरस्य पशुफलार्थत्वेन विहितस्य विकल्पो भवति ।२। न्यायगम्यः पुरुषार्थगुणविकल्पो यथा । “यदि कामयीत वधूं- कः पर्जन्यः स्यानीचैः सदो मिनुयादि"ति वृष्टयर्थविहितनीचैर्माना- ख्यगुणन सह वृष्टयर्थविहितगुणान्तरस्य विकल्प इति ।३। न्यायगभ्यः पुरुषार्थक्रियाविकल्पो यथा । एकार्थानां कास्ये- ष्टीनाम् 1४1 न्यायगम्यस्य पुरुषार्थजातितदभावयोर्द्रव्यतद्भावयोर्गुणतद- भावयोश्च विकल्पस्योदाहरणानि मृग्याणि । ५ । पुरुषार्था हि जातिद्रव्यगुणा गुणफलसम्बन्धेष्वेव सम्भव- न्ति तेषां च विकल्पसिद्ध्यर्था निषेधा यद्यप्यभागिप्रतिषेधसूत्रे वा- तिककृता वैयर्थ्यान्निरस्तास्तथापि यत्न तद्विषया गुणफलसम्बन्ध- विधयः सामान्यतः प्रवृत्ताः सामान्यत एव च तनिषधाः। अमिचारमहीनं च कृत्वा चान्द्रायणं चरोदिति । काम्याहीननिषेधवत्तत्र पुरुषार्थस्यापि जात्यादित्रयस्य विकल्पः सम्भवति । वार्तिकवदुक्तं तु चैयर्थ्य निषेधस्याननुष्ठानमात्रफलक- त्वाभ्युपगमेन तस्य तु दोषार्थत्वाद्वस्तुतो न वैयर्थ्यम्।निषेधामाचे हि काम्यस्य कामनायामपि सत्त्यामैच्छिकाननुष्ठानसिद्धावपि काम्यानु ष्ठाने दोषो न सिध्येदिति तद्नुष्ठाने दोषबोधनेनार्थवान्निषेधः यथा । अभिचारमहीनं च कृत्वा चान्द्रायणं चरेदिति । काम्यानामहीनानां निषेधः । तादृशानि तु पुरुषार्थजात्या दित्रयविषयाण्युदाहरणान्यन्वेष्याणि । न्यायगम्यः पुरुषार्थक्रियातदभावयोस्तु विकल्पो यथा । अहीनविकल्पएवोक्तः । उदाहरणान्तरमपि यथा पि- ण्डपितृयज्ञे जीवत्पितृकस्य होमान्तं जीवत्पितुरनारम्भो वेति । पिण्डपितृयज्ञो विहितो निषिद्धश्च तत्र पुरुषार्थक्रियातदभावयोर्वि- कल्पो न्यायगम्यः । न चात्र वाचनिको विकल्पो वाशब्दाादीत भ्र- -- विकल्पभेदनिरूपणम् । मितव्यं विहितप्रतिषिद्धस्य न्यायादेव विकल्पो भवति षोडशिग्रह- णाग्रहणयोरिवति वाशब्दस्यानुवादत्वादिति ॥ ८॥ एवं जातिद्रव्यादीनामेकादश ये विकल्पभेदास्तेषामप्युदाहर- णान्यन्वेष्याणि । एवं न्यायगम्य एकोनविंशतिविधो विकल्पो नि- रूपितः । एवमेव वाचनिकस्यापि विकल्पस्यैकोनविंशतिभदा ज्ञेया। तत्र त्वर्थजातिविकल्पे वाचनिक उदाहरणं मृग्यम् । क्रत्वर्थद्रव्यविकल्पस्तु वाचनिको यथा “य इष्टया पशुना सो- मेन वा यजेत सो ऽमावास्यायां पौर्णमास्यां वे"ति । न चायं न्याय- गम्यो होमान्तं जीवत्पितुरनारस्भो वेतिवद्वाशब्दस्त्वनुवाद इति वाच्यम् । तत्र छकवाक्योपादानाभावात्समुश्चयासम्भवाच्च न्या- याद्विकल्पः । इह त्विष्टिपशुसोमानामुद्देश्यानां भेदादेकवाक्या- न्तर्गत्यसम्भवे ऽपि इष्टुयदेशेन कालद्वविधेरेव पशूद्देशेन सोमाहे- शेन च कालद्वयविधेः प्रयोगविधित्वेन "द्वादशाहनप्रजाकामं याज- येदि"त्यनेकगुणफलान्वयविधिवदनुत्पत्तिविधित्वे ऽप्यनेकगुणविधि- निमित्तवाक्यभेदाभावादेकवाक्योपादानेन समुच्चयप्रसक्तौ वाशब्देन वाचनिक एव विकल्पः अंत एव वाशब्दोपादानाभावे दृष्टार्थयोरपि गुणयोरेकवाक्योपादानात्समुच्चय उक्तो वैश्वानराधिकरणे. वार्ति ककृता । यदि चैकं वाक्यं भवेत्ततः सर्वविशिष्टैकभावनाविधानान्न विकल्प: स्यादिति । प्रयोगविधित्वाच्च वाक्यभेदपरिहारसम्भवे तदर्थ पौर्णमास्यमावास्यापदाभ्यां पर्व लक्ष्यते ततश्चैच्छिको विक- ल्पः पशुना यजेतेत्यत्राय वा पशुरयं वा पशुरिति वदित्यभिधानं मूर्खस्योपेक्ष्यम् । घाचनिकः क्रत्वर्थगुणविकल्पो यथा “युग्वा अयुग्वा मुष्टीलनाती"ति । इहापि न न्यायाद्विकल्पसिद्धिः युजां चायुजां च मुष्टीनामेकवाक्योपादानेन समुश्चयप्रसक्तो वाशब्देन वाचनिक- त्वादेव विकल्पस्य । अत्र हि बहिर्लनातीति विहिते ऽपि लवने का- लादिप्रयोगविधिचिन्हाभावे ऽपि च युगयुक्पदलक्षितोभयवि- शिष्ट्रकविकल्पविधानान वाक्यभेदः । यथा रथन्तरं वेत्यऋ वक्ष्यते । वाचनिकः क्रत्वर्थक्रिययोर्विकल्पो यथा “रथन्तरं पृष्ठं भवति बृहत्पृष्ठं भवती"ति वाक्यद्वयविहितपृष्ठस्तुत्योर्विकल्पमा रथन्तरं वा पृष्ठं भवति बृहद्वा पृष्ठं भवतीति वाशब्द(१)लक्षितकविकल्पविधिः । ननु पृष्ठद्वयोहेशे वाक्यभेदः स्यात् । न । नैकत्वं विवक्षितं न द्वित्वं (२) अप्राधान्ये भीतर विध्यन्वधाय प्राधान्य नीती लक्षणा गाम्पश्यातदित्याधयः । .
मीमांसाबालप्रकाशे। किं तु पृष्ठमात्रमुद्दिश्य विकल्पविधी विधेयविकल्पसामर्थ्यादेव पृष्ठद्वयलाभादिति । क्रत्वर्थयोस्तु जातितदभावयोद्रव्यतभावयो- गुणतदभावयोः क्रियातदभावयोश्च ये वाचनिका विकल्पास्तदुदाह- रणानामेवं विधो विषयः । यत्र विकृतावातिदोशकजात्यादिचतुष्टय- स्य निषेधा वाशब्दयुक्ताः श्रुताः प्राकृतजात्यायेव वा वाशब्दयुक्तं श्रुतं तत्रासौ चतुर्विधो ऽपि विकल्पः सम्भवति । न च तत्र न्यायाद्विक- ल्पसिद्धि शब्दार्थविध्यभावे हि औपदेशिकेन निषेधेन “न तौ पशी करोतीतिवत्प्राकृतस्य जात्यादेर्बाध एव स्यादतो न्याया- दसिध्यन्वाचनिको विकल्प इति । ताहशानि चोदाहरणानि मृ. ग्याणि ॥८॥ एवं जातिद्रव्यादीनामेकादश ये विकल्पभेदास्तेषामपि वाच- निकानामुदाहरणान्यन्वेष्याणि । यथा । “पयसा पायसेन वा श्राद्धं कुर्वीते"त्यादीनि वाचनिक एवापुरुषार्थजात्योः पुरुषार्थद्रव्ययोः पुरु- षार्थगुणयोः पुरुषार्थक्रिययोर्विकल्पे उदाहरणानि । तत्र पुरुषार्थ- जातिविकल्पो वाचनिको यथा । तिलैहियवैर्मारद्भिर्मूलफलेन वा। दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणामिति ॥ पुरुषार्थद्रव्यविकल्पो वाचनिको यथा । मनुः । कुसूलधान्यको वा स्यात्कुम्भी धान्यक एव वा । व्यहोहको वापि भवेदश्वस्तनिक एव वेति ॥ पुरुषार्थगुणविकल्पो वाचनिको यथा । मनुः । षट्कमैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवतीति । पुरुषार्थक्रियाविकल्पो वाचनिको यथा । चतुर्थकालिको वा स्याद्यद्वाप्यष्टमकालिकः । चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयन् । पक्षान्तयोर्वाप्यश्नीयाद् यवागूक्कथितां सकृदिति ॥ पुरुषार्थजातितदभावयोः पुरुषार्थद्रव्यतदभावयोः पुरुषार्थ- गुणतदभावयोः पुरुषार्थक्रियातद्भावयोश्च वाचनिकविकल्पे तूदा- हरणानि मृग्याणि । स च यत्न विधिनिषेधौ भिन्नौ स्तस्तत्र न्याया- देव विकल्पः सिद्धो न वाचनिकः किं तु यत्र पुरुषार्थजात्यादिविधि- रेव वाशब्दयुक्तः श्रुतस्तत्र भवति वाचनिकः । एवं जातिद्रव्यादी- नामकादश य विकल्पभेदास्तेषामपि पुरुषार्थविषयाणां वाचनिका- नामुदाहरणान्यन्वेष्याणि । यथा “पयसा पायनेन वा श्राद्ध दत्तेन विकल्पभेदनिरूपणम् । -- मासं तृप्तिः पितृणामित्यादीनि ॥ १९ ॥ ऐच्छिको ऽपि विकल्पः क्र- त्वर्थविषय एकोनविंशतिविधः पुरुषार्थन्यायगम्यविकल्पवक्रत्वर्थ- वाचनिकविकल्पवत्पुरुषार्थवाचनिकविकल्पवञ्च । तत्र । क्रत्वर्थविषययोर्जात्योरैच्छिको विकल्पो यथा। "ब्रह्मणे ब्राह्मण- मालभेते"त्यादौ कौण्डिन्यादजात्योः इह यद्यपि ब्राह्मणत्वादिजातरे- वाङ्गत्वं न कौण्डिन्यत्वादिजातस्तथापि क्रतूपकारकत्वमात्रण क्रत्व. र्थत्वव्यवहारः। सन्ति हीदृशा अप्यस्मिन् शास्त्रे व्यवहाराः। तदु. कं बलाबलाधिकरणवार्तिके। पशुकामप्रयोगे च क्रमेण चमसाङ्गता। श्रौता गोदोहनात्तत्र चमसस्य निराक्रियति ॥ एवमुत्सरत्र क्रत्वर्थविषयो द्रव्ययोरैच्छिको विकल्पो यथा । पशुना यजेतेत्यत्रोपादेयविशेषणस्यैकत्वस्य विवक्षितत्वान्मन्त्रवर्णेन छागनियमे ऽप्ययं वा छागो ऽयं वेत्यैच्छिको द्रव्यविकल्पः । एवमा- नेय्याभिधमुपतिष्ठतइत्यत्र प्रकृताग्नेयी ग्राह्यति तार्तीयन्यायेन सिद्धे ऽपीयं वा प्रकृताग्नेयी ऋगियं वेत्यैच्छिक एव ऋग्द्रव्यविकल्पः । क्रत्वर्थविषयोगुणयोरौच्छिको विकल्पो यथा “गौरनुबन्ध्य” इत्यादी निर्गुणोपादानायोगाद्यत्किं चिद् गुणोपादाने प्रसक्त श्वेतो वा रक्तो वेत्यैच्छिक एव गुणविकल्पः । तथा ऽऽहीने ऽनेकयजमानके येन कन चिद्यजमानेन शुक्राम्वारम्भ औदुम्बरीसम्मानं च कार्यामिति द्वाद- शे उक्तम् । क्रत्वर्थविषयः क्रिययोरैच्छिको विकल्पो यथा । “वर्षासु रथ- कार आध्यादिति अत्रैवर्णिकस्याधाने विहिते सति शानं विना त- दनुष्ठानायोगाद्शाने ऽप्याक्षिप्ते पुस्तकपाठादिजन्यानां शानानामच्छि- को विकल्पः। त्वर्थस्य तु जात्यादेस्तदभावस्य च ऐच्छिको विक- ल्पो नित्यकर्मणि शक्ताशक्तविषयत्वेन व्यवस्थितः सम्भवति । षष्ठे नित्यकर्मण्यशक्याङ्गत्यागस्य स्थापितत्वात् । एवमेकादश ये जातिद्रव्यादिविषया विकल्पास्तेषामपि क्रत्वर्थविषयाणामच्छि- कानामुदाहरणान्यन्वेष्याणि । श्राद्ध हि पयः पायसादिभिन्नैर्वाक्य- विहितं तच्च लोकतो भोजने समुच्चयेनापि क्लुप्तं विकल्पेनापि यथा प्राप्तं च विधीयतइति न नित्यं समुच्चयो नापि नित्यं विकल्पः इति हेमाद्रावुक्तं युक्तं च । अत ऐच्छिके क्रत्वर्थजातिद्रव्यादिविक- पे तदुदाहरणम् । पुरुषार्थजात्यादिविकल्पभेदा। अथैच्छिको एको- नविंशतिरंव । तत्र ययपि तुल्यफलानां जात्यादीनां न्यायगम्यो वि.
मीमांसाबालप्रकाशे। । कल्पो न त्वैच्छिकस्तथापि भिन्नफलानामन्यतरफलकामनायामैच्छि- को विकल्पो भवति । तेषां तूभयफलकामनायां समुश्चयो ऽपि भव- ति अतो वक्ष्यमाणानि तद्विषयाणि समुच्चयोदाहरणान्येवान्यतर- फलकामनायां विकल्पोदाहरणानि शेयानि । पुरुषार्थजातितदभावादीनां तु चत्वार्युदाहरणानि समुच्चयेन सम्भवन्ति विकल्पविषयाणि तान्युच्यन्ते इन्द्रियार्थदधित्वतदभावयोरैच्छिको विकल्पः तथा “गोदो- हनन पशुकामस्य प्रणयोद"ति पश्वर्थविहितगोदोहनद्रव्यतदभा- वयोरैच्छिको विकल्पः । तथा “यदि कामयीत वर्षुकः पर्जन्यः स्या- नीचैः सदो मिनुयादि"तिवृष्टयर्थविहितनीचस्त्वतदभावयोरैच्छिको विकल्पः।तथा “चित्त्रया यजेत पशुकाम” इति पश्वर्थविहितचित्रेष्टिाक्र- यातदभावयोरैच्छिको विकल्प इति । एवमैच्छिकविकल्पस्यैकोनविंश- तिक्रत्वर्थविषयो एकोनर्विशतिश्चपुरुषार्थविषयो इत्येवमष्टत्रिशदैच्छि- कविकल्पभेदाः पूर्वोक्ताश्च सप्तविंशतिनायगम्यविकल्पभेदाः अष्ट- त्रिंशच्च वाचनिकविकल्पभेदा इति सर्वे मिलित्वा ज्यधिकं शतं विकल्पभेदा:सिद्धाः। पुनरपि द्विविधो विकल्पः पूर्वोक्तो यथासम्भवम् । अव्यव- स्थितो व्यवस्थितश्च। आद्ये यथाऽग्निहोत्रे दशद्रव्यविकल्पः। द्वितीयो यथा “व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेत "यवेभ्यः यवैरिट्वा यवैरेव यजताव्रीहिन्य” इति ब्रीद्याग्रयणोत्तरं व्रीहिभिरेव दर्शपूर्णमासी कार्यों यवाग्रयणावधि यवाग्रयणोत्तरं च यवैरेव दर्शपूर्णमासौ कार्यों व्रीह्याग्रयणपर्यन्तमिति । यदा त्वग्निहोत्री वै नानादायत्वात्तस्याः पयसा जुहुयादि- ति व्रीह्याग्रयणकाले ब्रीहियवाग्रयणकाले च यवानग्निहोत्रधेनुं खादयित्वा तत्पयसा ऽग्निहोत्रहोम कृते आग्रयणसिद्धपक्षस्तदा- ग्रयणाभावादेव व्रीहियवयोरप्यव्यवस्थितविकल्प एव । व्यवस्थितविकल्पस्तु द्विविधः । न्यायगम्यो वाचनिकश्च । तत्राद्यो यथा । “रुवेणावधति खधितिनाऽवद्यति हस्तेनावद्यतीति" संहतद्रवमांसावदानेष्वव्यवस्थितविकल्पे रुवादेः प्राप्ते न्यायतो व्यवस्थोक्ता अर्थाद्वा कल्पनैकदेशत्वादित्यत्र । स्मात्तॊदाहरणं तु । प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा ग्रहणान्तिकमित्यव्यवस्थित- विकल्प उक्त स्मृतिपादेवार्तिककृता समर्थासमर्थगार्हस्थ्ययोग्यायो- ग्यावषयोऽयं व्यवस्थितविकल्प इति न्यायेन स्थापितम् ।
विकल्पभेदनिरूपणम् । वेदानधीत्य वेदी वा वेदं वापि यथा क्रमम् । सामर्थ्याश्रमयोग्यत्वमङ्गीकृत्यैतदुच्यतइति ॥ वाचनिकस्तु व्यवस्थितविकल्पः सप्तधा सम्भवति । देशतः कालतः कर्तृतः कर्मतः फलतः निमित्ततः अवधितश्चोति । तत्र देशतो वाचनिको व्यवस्थितविकल्पो यथा तैत्तिरीयाणां श्रौतसूत्रे ऽन्न यः परिधय इति परिधिषु विहितेषु पश्चादेशादित्रये स्थाविष्ठादीनां परिधीनामव्यवस्थितविकल्पे प्राप्ते स्थविष्ठम्पश्चादणी- यान्द्राधीयान्दक्षिणायॊ ऽणिष्ठो हलिष्ठ उत्तरार्ध्य इति देशतो व्य- वस्थितविकल्प उक्तः। स्मार्तोदाहरणमपि । “वसन्ते ब्राह्मणी प्री- नादधीते" त्यादौ यत्र वसन्तस्याङ्गत्वं तत्र त्रिकायडमण्डनेन । श्रौतस्मार्तक्रियाः सर्वाः कुर्याश्चान्द्रमसर्तुष्विति । चान्द्र नियमे कृते अमावास्यया मासान्सम्पाद्याहरुत्सृजन्ति अमावास्यया हि मासान्सम्पश्यन्ति पौर्णमास्यया मासान्सम्पाद्याहरु- त्सृजन्ति पौर्णमास्यया हि मासान्लम्पश्यन्तीति श्रुत्युक्तस्य द्विविध- स्य चान्द्रस्य सर्वदेशेष्वव्यवस्थितविकल्पे प्राप्ते त्रिकाण्डमण्डनेन । चान्द्रो ऽपि शुक्लपक्षादिः कृष्णादिर्वेति च द्विधा । कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन ॥ ये ऽपिच्छन्ति न तेषामपीष्टो विन्ध्यस्य दक्षिणे । इति देशतो व्यवस्थितविकल्प उक्तः । कालतो वाचनिको व्यवस्थितविकल्पो यथा दर्शपूर्णमासयो- राज्यभागयोः क्रमे वानी युगलं वृधन्वतीयुगलं चेति याज्यानु- वाक्यायुगले पठिते तयोः पौर्णमास्याममावास्यायां चाव्यवस्थित- विकल्पे प्राप्ते वानीपौर्णमास्यामनूच्येते वृधन्वती अमावास्याया- मिति वाक्यात्कालतो व्यवस्थितविकल्पः। पौर्णमास्यमावास्याशब्दो कर्मवाचिनावङ्गीकृत्य कर्मतो व्यवस्थितविकल्पो ऽयमिति सोमेश्व- रमतमस्माभिः शास्त्रदीपिकाप्रकाशे निरस्तम् । कर्तृतो वाचनिको व्यवस्थितविकल्पो यथा । याजमाने व्रते तत्प्र- काशकस्य दर्शपूर्णमासप्रकरणाधीतस्य "अग्ने व्रतपते" "वायो व्रत- पते" "आदित्य व्रतपसे” इति मन्त्रत्रयस्य ब्राह्मणक्षत्रियवैश्येष्वव्यव- स्थितविकल्पे प्राप्ते ब्राह्मणादिकर्तृतः क्रमेण व्यवस्थितविकल्प उक्तः। स्मार्तोदाहरणमपि आश्वलायनगृह्यसूत्रे । यदि “वासांसि वसीरन् रक्तानि वसीरन्काषायं ब्राह्मणो माञ्जिष्ठं क्षत्रियो हारिद्रं वैश्य" इति। अत्र वृत्ती वासांसि वसीरनित्यजिनन पूर्वविहितेन सह वैकल्पिको वासो विधिरित्युक्तं यथा यदि रक्तानि वसीरन्निति यदिशब्दस्य .
१६० मीमांसाबालप्रकाशे। व्यवहितान्वयो ऽङ्गीकृतः तत्र काषायादीनामव्यवस्थितविक- ल्पे ब्राह्मणादौ प्राप्त ब्राह्मणादिकर्तृतः काषायादेर्व्यवस्थित- विकल्पः। कर्मतो व्यवस्थितविकल्पो यथा वरुणप्रघासेषु "द्वावग्नी प्रण- यत" इति विहारद्वयं विहितं तस्याव्यवस्थितविकल्पो नवहविरासा- दने प्राप्तस्तत्र अष्टावध्वर्युरुत्तरे विहारे हवींष्यासादयति मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्निति मारुतीव्यतिरिक्तहविरासादनमा- रुतीहविरासादनरूपकर्मतो विहारद्वयस्य व्यवस्थितविकल्पः । फलतो व्यवस्थितविकल्पो यथा ज्योतिष्टोमे षोडशिसंस्थे “सौ- भरमुक्थ्यानां ब्रह्म साम भवती"त्युक्थ्यत्रयब्रह्माख्यस्तोत्रसाधनत्वेन नित्यं सौभरं विहितम् । ज्योतिष्टोमातिराने तु“यदि बृहत्सामातिरा• पः स्यात्सौभरमुक्थ्यानां ब्रह्मसामकार्यमिति ब्रह्मसामत्वेनैव नैमि- तिक" "यदि रथन्तरसामा सौभरं कुर्यादि"ति चोक्थ्यत्रये ऽपि नै- मित्तिकं विहितम् । ततो नित्यं नैमित्तिकं च सौभरं पुनः फलत्रय- साधनत्वेन विहितं "यो दृष्टिकामो ये ऽन्नाद्यकामो यः स्वर्गकामः स सौभरण स्तुवीते"ति । सौभरस्य च नानाशास्त्रीयस्य नानानिधन- कस्याव्यवस्थितविकल्पे प्राप्ते “हीषिति दृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नाद्यकामाय ऊ इति वर्गकामाये"ति । तत्तत्फले तत्त. निधनकस्य सौभरस्य विधानात्फलतो व्यवस्थितविकल्पः । निमित्ततो व्यवस्थितविकल्पो वाचनिको यथा । दशाहं शावमाशोचं सपिण्डेषु विधीयते । अक्सिश्चयनादस्थ्नां व्यहमेकाहमेव वेति ॥ अर्वागित्यनेन चतुरहोपलक्षणाच्चतुर्णा पक्षाणामव्यव- खितविकल्पे मनुनोक्ते उपनीते तु विषममिति स्मृत्यन्तरात् । दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते । इति मनुवाक्यान्तरे चोपक्रमस्थे अनुलोमक्रमे 5ङ्गीक्रियमाणे द- न्तजाते दशाहापत्तेः कृतचूडे च एकाहापत्तेस्तत्र च । निवृत्तचूडकानां तु निरात्राच्छुद्धिरिष्यते । इति विरोधापत्तेः प्रतिलोमक्रमाश्रयणेन दन्तजाते एकाहः अनुजातमपत्यं यस्मात्तादृशे व्यहः कृतचूडे चतुरहः । उपनीते दशाह । इति व्यवस्थितविकल्पो विरो- धाधिकरणे वार्तिककृतोक्तः । अस्मिन्पले निर्वृत्तचूडकानामिति निरात्रपक्षः प्रथमवर्षकृतचूडविषयः । चतुरहस्तु तृतीयवर्षकृतचूड- विषयः । अकृतचूडे तत्रापि यह एवेति । प्रकारान्तरेणापि व्य- मनुनैव व्यवस्थाया विकल्पभेदनिरूपणम् । धस्थितविकल्पो वार्तिकएवोक्तः । ब्राह्मणस्य खाध्यायानिवृत्त्यर्थमि- ति गौतमवचनात् । एकाहादू ब्राह्मणःशुध्येद्योऽग्निवेदसमन्वितः । ज्यहाकेवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥ इति स्मृत्यन्तराच्च निवेदस्याग्निमत एकाहः द्विवेदस्य चतुरहः अग्निवेदरहितस्य दशाह इति । अयमेव पक्ष आहतो मेधा- तिथिविज्ञानेश्वरादिभिः । अनुजातपव्याख्या मेधातिथेः । अनुजा- तो दन्तजातादू बालतर इति स्मरन्तीति। तद्दन्तजातानुजातान्यकृतचूडेषु च क्रमात् । चितिक्रिया व्यहैकाहा इति वार्त्तिकविरोधातुपेक्ष्यम् । अत्र हि क्रमशब्दस्य प्रतिलोमक्रमपरतोक्तदन्तजातविषयादेकाहादधिक- स्यहो ऽनुजातविषय उक्तः । सदन्तजातादू बालतरे ऽनुजातशब्दार्थे सद्यः शौचविषये विरुध्येतेति अवधितो स्तूदाहरणमुक्तमेव "व्रीहिभिरिष्ट्वा ब्रीहिभिरेव यजेते"त्यादि । सर्व. स्मिश्च व्यवस्थितविकल्पे पूर्वोक्ता अष्टौ दोषा न सन्ति । इतरेतर- रविषये इतरेतरवाक्याप्रवृत्तेरेव एकानुष्ठाने ऽपीतरशास्त्रस्य प्रतीतप्रा- माण्यत्यागाद्यभावात् व्यवस्थितविकल्पे च दोषाष्टकं नास्तीति शा- खान्तराधिकरणे । ( ० २ पा० अ० २ ) न चैकं प्रति शिष्यतइति सूत्रे तेषां विकल्पना- थैवत्वं तद्वरं शाखान्तराणामेव व्यवस्थितप्रतिपद्यमानानाम- नाकुलतरं कल्पितमिति वार्तिके इनाकुलतरमित्यनेनोक्तम् । भट्ट- सोमेश्वरेण व्याख्यातम् । पूर्वपक्षिणा प्रतिचरणमाग्निहोत्रादिव्यव- स्था इनभ्युपगमे निरपेक्षसाधनत्वेनसमुच्चयायोगादेकेनैवाग्निहोना- द्यानर्थक्यापत्तेर्विकल्पनार्थवत्त्वं वाच्यं तच्च कमक्याभ्युपगमेन शाखानामेव व्यवस्थितैः कठादिचरणैः प्रतिपद्यमानत्वेनाटदोषत्व- निमित्ताकुलत्वानापादकत्वात्कल्पितं वरमिति । पवमैच्छिकविकल्पे ऽप्यष्टौ दोषा न सन्ति कस्यापि शास्त्रस्य प्रतीतप्रामाण्यत्यागाद्यभावात्। “पशुना यजेते"ति टेकमेव शास्त्रं तत्र चैकत्वविवक्षावशेन कदाचित्कस्याश्चित्पुव्यक्ते(१)रुपादाने ऽपिसक- लस्तच्छास्त्रार्थो ऽनुष्ठीयत एवेति कत्त्यं तस्य शास्त्रस्य प्रामाण्यत्यागा- दि। एवं स्वेच्छया व्यक्त्यन्तरोपादाने ऽपीतिं । एवमेव वाचनिके ऽपि विकल्पे ऽष्टौ दोषा न सन्ति।“ रथन्तरं वा पृष्ठं भवति" "बृहद्वा पृष्ठं भवती"त्यादौ हि उभयोः पाक्षिककर्तव्यतैव प्रतीयते न व्रीहि- (१) पशुव्यक्तरिति २ पु. पा. । थ मीमांसाबालप्रकाशे। यववत्सर्वदोभयकर्त्तव्यतेति नान्यतरानुष्ठाने ऽपीतरशास्त्राप्रामाण्या. दिकल्प्यमिति । तस्मान्न्यायगम्यविकल्पे एवाष्टदोषत्वमिति सिद्ध पूर्वोक्ताश्च विकल्पाः पुनर्यथासम्भवं भावाभावविषयाः पञ्चधा । के चित्प्रकृतिगता एवाके चिद्विकृत्युपदिष्टपदार्थविपयाः। के चिद्रप्रकृतिविकृत्यात्मककर्माङ्गोपदिष्टपदार्थविषयाः के चिद्विकृतावु- पदिष्टातिदिष्टपदार्थविषयाः। क चिद्विकृतावतिदिष्टमात्रविषया इति। तत्र प्रकृतावुपदिष्टपदार्थविषयो भावविकल्पो भावाभावविकल्पश्च यथा मासाग्निहोत्रप्रकृती नित्याग्निहोत्रे पयादिदशद्रव्याणां विकल्पः । दध्यधिश्रयणतदभावयोश्च विकल्पः । न त्यधिश्रये- दधिश्रयेोदित्येक इति बचब्राह्मणात् । विकृतावुपदिष्टयो वयोर्भावाभावयोश्च विकल्पो यथा । वा- जपेये प्राजापत्यानां क्रतुपशुभिः सहालम्भो ब्रह्मसामकाले वेत्युपदि- प्रयोः कालयोर्विकल्पः । “अतिरात्ने षोडशिनं गृह्णाति नातिरात्रे षो- डशिनं गृह्णाती"ति षोडशिग्रहदभावयोर्विकल्पः । अप्रकृतिविकृत्यात्मककर्मोपदिष्टयो वयोरभावयोश्च विक- ल्पो यथा । आधाने पवमानेष्टीनां पूर्णाहुत्या सह विकल्पः । तत्रैव वाजसनेयिनामृतुनक्षत्रसम्भारचातुःप्राश्यजागरणेमपूर्वार्धान्वार- म्भणसापराशीन वा कुर्यादिति पूर्वमुदाहृतम् । विकृतावुपदिष्टातिदिष्टया वयोस्तादृशयोर्भावाभावयोश्च विकल्पो यथा “य इष्टया पशुना सोमेन यजेत सो मावास्यायां पौर्णमास्यां वे" त्यत्रष्टिशब्दोपात्तायाममावास्याविकृतावतिदिष्टाया अ- मावास्यांया उपदिष्टायाश्च पौर्णमास्या विकल्पः । एवमिंष्टिशब्दो- पात्तायां पौर्णमासीविकृतावतिदिष्टायाः पौर्णमास्या उपदिष्टायाश्चा- मावास्याया विकल्पः । भावाभावोदाहरणं तु।“न तौ पशौ करोती"- ति पशुयागरूपायां विकृतावतिदिष्टयोराज्यभागयोरुपदिष्टस्य च त- निषेधस्य विकल्प इति । विकृतावतिदिष्टमानविषयस्तु भावयोर्विकल्पो जाघन्या पत्नीः सयाजयन्त्याज्येन वति विहितम् । पशौ पुनः श्रुतं " जाधन्या पत्नीः संयाजयन्ती"ति । तत्पत्नीसंयाजानां जाघन्यर्थतार्थ न भवति अप्राकृतकार्यतापत्तेः किं तु प्रकृतितो वै- कल्पिक्याः प्राप्ताया जाघन्या नियमार्थम् । तत्र चोपादेयत्वाज्जाघ-' न्यकत्वं विवक्षितम्।ततश्च पशुगणे प्रतिसंस्कार्य संस्कारावृत्तिरिति- जाधनीसमुच्चयन्यायाप्रवृत्तेर्या काचिज्जाघन्युपादेयेति विकल्पः । इदं च द्वादशे(पा ०४अ०६) द्रव्यविकारं तु पूर्ववदर्थकर्म स्यादित्यधि- यथा ।
विकल्पभेदनिरूपणम् । करणे उक्तं विकृतातिदिष्टस्य भावस्यानुपदिष्टेनानतिदिष्टेनाभावेन विकल्प उदाहरणम् । अत्र यः कश्चिद्भावः प्रकृताववैकल्पिक एव विकृतौ तु निषेधानुपदेशे ऽपि पदार्थान्तरविकल्पवशादर्थात्स्वाभा- वेन सह विकल्पं भजते ताहगुदाहार्यमन्त्ये भेदे । तद्यथा । अनीषा- मीये प्रयाजशेषाभिधारणं वपाया अवैकल्पिकमेवासीत् प्राजापत्यप- श्वालम्भे तु कालद्वयं वैकल्पिकं विहितं क्रतुपश्वालम्भकाले ब्रह्म- सामकाले वेति । ततश्च प्रयाजशेषाभिधारणं प्राजापत्यवपानां चैक- ल्पिकं भवति । ब्रह्मसामकालपक्षे प्राजापत्यवपाभिधारणार्थ प्रया- जशेषस्थापनस्य चतुर्थे निरासादिति । तदेवं प्रकृतिविकृतितदुभया- नात्मककर्मनिष्ठा उपदिष्टातिदिष्टभावाभावविषया दश विकल्पभेदा निरूपिताः। अथेदमुच्यते ये के चित्पूर्व भावाभावविपया विकल्पभेदा उक्तास्ते सर्वे यद्भावविषयास्तत्प्रतियोगिकाभावविषया एव । के चित्तु तद्भावविषयास्तत्प्रतियोगिकाभावव्यतिरिक्ताभा- वविषया अपि सन्तो भावविषया अप्यभावान्तरविषया अपि विक- ल्पाः सम्भवन्ति । तद्यथा अग्निष्टोमसंस्थैव नित्या तोरङ्गं अन्याः काम्याः । संस्था च ग्रहस्तोत्राभ्यासविषयव्यापारोपरमात्मकत्वे- नाभावरूपा । न चान समुच्चयः सम्भवति । संस्थितस्य संस्थान्त- रायोगात् । तत्र ऋत्वर्थया ऽग्निष्टोमसैस्थया पुरुषार्थानामुक्थ्यादि- संस्थानामैच्छिको विकल्पः । तथा पुरुषार्थानामुक्थ्यादिसंस्थानां भिन्नफलानामप्यैच्छिको विकल्पो ऽन्योन्यम् । तथा संस्थानां स्वसमानफलज्योतिप्टोमतदङ्गाश्रितैर्जात्यादिभावैः सहकार्थ्यान्न्यायगम्यो विकल्प इति । अत्र च ये के चिदन्ये विकल्पा दृश्यन्ते यथोपांशुयाजादौ वैष्णवादियाज्यानुवाक्यामन्त्रविकल्पः यथा वा तत्रैव देवताविक- ल्पः यथा वा तन्त्रं वा वैश्वदेविकमिति तन्त्रविकल्पः यथा वेष्टिपूर्य- स्वादिक्रमविकल्पः । यथा वैको द्वौ बहवो वा हीनेन यजेन्नित्या- दिः कर्तृविकल्पः । यथा वा तलवकारादिसहसूसामशाखागतानां गीतिप्रकारभेदानां विकल्पः इत्यादयस्ते यथासम्भवं जात्यादिवि. कल्पेष्वेषान्तर्भवन्ति के चित् । तन्त्रक्रमादीनामपि क्रियाधर्मत्वाद्धर्भधर्मिणोश्चाभेदात्तद्विक- ल्पाः क्रियाविकल्पभेदे एवान्तर्भवन्ति । तथा क चिद्विकल्पस्याप्यन्यतरकोट्या सह विकल्पो भवति मीमांसाबालप्रकाशे। यथा असोमयाजिनः सान्याय्यविकल्पः नासोमयाजी सन्नयेत् तदु- समेव नयेदिति विधिप्रतिषेधबलात् सोमयाजिनस्तु सान्नाय्यमेव- ति । पुरोडाशाभ्यामेवासोमयाजिनं याजयेद्यावेतावानेयश्चैद्राग्नश्च सान्नायेन तु सोमयाजिनमिति वचनात् । तदेतदशमे प्रतिपादितं पुरोडाथाभ्यामित्यधिकृतानामित्यत्न । स्मात्तॊदाहरणत्रयं तु विज्ञाने- श्वरेणोक्तम् । श्वश्वा सह भर्ती सह पित्रा सहेति सपिण्डीकरणे विकल्पः स्मृतिभेदेनोक्तः। स्मृतिः। पितामह्यादिभिः सार्ध सपिण्डीकरणं स्मृतम् । पैठीनसिः। अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहवास्याः सपिण्डीकरणं भवेत् ।। यमः। पत्या चकेन कर्तव्यं सपिण्डीकरणं स्त्रिया। सा मृतापि हि तेनैक्यङ्गता भन्नाहुतिव्रतैः॥ उशनाः। पितुः पितामहे यद्वत् पूणे संवत्सरे मुतैः । मातुर्मातामहे तद्वदेषा कार्या सपिण्डतेति ॥ तत्रापुत्रायां भार्यायां मृतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । भन्वारोहणे तु पुनः स्वपित्रैव मातुः सापिण्ड्यं कुर्यात् । आसुरादिविवाहोत्पन्नः पुत्रिकापुत्रश्च मातामहेनैव । ब्राह्मादिविवाहोत्पन्नः पित्रा मातामहेन पितामह्या वा वि- कल्पेन कुर्यादिति। तथा मातुः पिण्डदानादौ गोत्रे विकल्पः । स्वगोत्राद् भ्रश्यते मारी विवाहात्सप्तमे पदे । स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ॥ इतिं भर्तृगोत्रविषयात् । पितृगोत्रं समुत्सृज्य न कुर्याद्भर्तृगोत्रतः। जन्मन्येव विपत्तौ च नारीणां पैतृकं कुलमिति ॥ पितृगोत्रविषयाच्च वचनात् । तत्रासुरादिविवाहेषु पुत्रिकाकरणे च पितृगावमेव । ब्राह्मादिविवाहषु प्रीहियववद् बृहद्रथन्तरवच्च विकल्प एवति। तथा क्षयाहश्राद्धे एकोद्दिष्टं पार्वणं वेति विकल्पः ।
समुच्चयनिरूपणम् । १६५ सपिण्डीकरणादूर्व प्रतिसम्वत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृते ऽहनि ॥ इति यमेनकोद्दिष्टविधानात् । सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसम्वत्सरं विद्वान्श्छागलेयोदितोविधिः ॥ इति शातातपेन पार्वणविधानात् । तत्र संन्यासिनां क्षयाहे सुतेन पार्वणं कार्यम् । एकोद्दिष्टं यतेास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥ इति प्रचेतोवाक्यातू । अमावास्याक्षयाहे प्रेतपक्षक्षयाहे च पार्वणमेव । अमावास्याक्षयो यस्य प्रेतपक्षे ऽथ वा पुनः । पार्वणं तस्य कर्तव्यं नैकोद्दिष्टं कदाचन ॥ इति स्मृतेः । अन्यत्र क्षयाहे असंन्यासिनः पार्वणकोदिष्टयो- बहियववद्विकल्प एवति । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसावालप्रकाशे विकल्पभेदनिरूपणम् । यद्यपि शाब्दिकैः प्रत्येकमेकक्रियान्वयः समुच्चय इति । वि- शेषतो ऽसौ लक्षितस्तथापि मीमांसकव्यवहारः साहित्यसामान्ये एव दृश्यते परेणावेदनादित्यत्र हि समुच्चयप्रमाणाभावो ऽप्यैकार्थ्यव- द्विकल्पहेतुरुक्तः। समुच्चयप्रमाणं चैकः प्रयोगविधि रित्युक्तम् । न च प्रयाजादिषु प्रत्येकं एकस्या दर्शपूर्णमासक्रियाया अ- न्वयो ऽस्ति । ग्रहकत्वाधिकरणे ( अ०३ पा० १ अ० ७) हि वा- तिककृता प्रत्येकवाक्यपरिसमाप्तिसमुदायवाक्यपरिसमाप्तिन्याय- योरेवं विषयभेद उक्तः । प्राधान्य पूर्वो गुणत्वे तूत्तरः । यथा “ग्रहं सम्मार्टि" " अरुणयकहायन्या क्रीणातीति” । प्रयोगविधौ च प्रया- मीमांसावालप्रकाशे। - जादेर्गुणत्वान्न प्रत्येकमेकक्रियान्वयो ऽस्ति । अस्ति च समुच्चयप्रमा- णत्वव्यवहार इति साहित्यसामान्यएव मीमांसकानां समुञ्चयव्यव- हारः सिद्धः सो ऽयं समुच्चयो ऽपि विकल्पवत्प्रथम तावत्रिविधः। न्यायगम्यो वाचनिक ऐच्छिकश्चति । तत्र न्यायगम्यः समुच्चयो विकल्पवन्नाष्टविधः । द्रव्यादीनां तदभावानां च समुच्चयायोगात् । नापि चतुर्विध एवासी जात्योर्द्रव्ययोर्गुणयोः क्रिययोश्चेति । किं तु सजातीयविजातीयविषयत्वेन द्विकत्रिकचतुष्कविषयत्वेन च पञ्चदशविधः समुच्चयः । तत्र सजातीयविषयश्चतुर्विध उक्त एव । विजातीयद्विकवि- षयस्तु षोढा । जातिद्रव्ययोजातिगुणयोर्जातिक्रिययोर्द्रव्यगुणयो - व्यक्रिययोर्गुणक्रिययोश्चेति विजातीयनिकविषयश्चतुर्धा चतुष्क- विषयस्त्वेकः । एवं पञ्चदशानां न्यायगम्यसमुच्चयभेदानां क्रमेणे.- दाहरणान्युच्यन्ते । तत्र न्यायगम्यो जात्योः समुच्चयो यथा सोमेश्वरमते क्रयै- क्यात्तत्रैव गवाजादीनां न्यायेन समुच्चयः साधितो द्वादशे (पा० ४ अ०३)क्रयणेषु तु विकल्पः स्यादेकार्थत्वादित्यधिकरणे । १ । न्यायगम्यो द्रव्ययोः समुच्चयो यथा । आधाने “सम्भारान्स- म्भरती"त्यत्र सभ्रियन्तइति सम्भारा इति सम्भारशब्दस्य यौगिक- त्वेन"परिधीन्परिदधाती"त्यत्रच परिधीयतेऽग्निस्तदायतनं वायैरिति परिसमन्ताद्धीयन्तइति वा परिधिशब्दस्य यौगिकत्वेन द्रव्यवाचि- त्वात्संख्यायुक्तेषु तु समुच्चय इति द्वादशाधिकरणन्यायात्तां चतु- भिरभ्रिमादत्तइत्यत्र मन्त्रसमुच्चयायोक्तादाधाने सम्भाराणां दर्श- पूर्णमासयोश्च परिधीनां समुच्चय इति । २। न्यायगम्यो गुणयोः समुच्चयो यथा । अरुणयकहायन्येत्य- बारुणाधिकरणन्यायेनैककान्नियमः स्यादित्यनेनारुण्यस्यैकहाय- न्येकसंख्ययोश्चान्योन्यनियमात्समुच्चयः।३। क्रिययोन्यायगम्यः समुच्चयो यथा एकादशे हि अङ्गानां तु शब्दभेदादित्यादिपञ्चदशसूत्रे द्वितीये ऽधिकरणे प्रयाजानुयाजादी- नामङ्गानां विकल्पो ऽङ्गभूयस्त्वे फलभूयस्त्वं वेति पूर्वपक्षद्वयं निर- स्थेकप्रयोगविधिविधेयत्वात्समुच्चय उक्तः । तथा द्वादशे क्रयणेषु त्वित्यत्र सन्निपातिक्रयसमुच्चयो न्यायगम्य उक्तः द्वादशे (पा० ३ अ०६) समुच्चयस्त्वदोषनिर्घातार्थेष्वित्याधीकरणे । तथा सूत्रव्याख्याने or अ० यथा समुच्चयभेदनिरूपणम् । नैमित्तिकक्रत्वङ्गक्रियासमुच्चयो न्यायगम्य उक्तः । ४ । न्याययम्यो जातिद्रव्ययोः समुच्चयो यथा । “अरुणयैकहाय- न्या पिङ्गाक्ष्या गवा सोमं क्रीणाती"ति गोपदमाम्नातमित्याकृत्याधि- करणे अद्रव्यशब्दत्वादिति वार्तिककृतो- क्तम् । तत्रैकहायनीपिङ्गाक्षीशब्दाभ्यां यौगिकाभ्यामुक्तस्य द्रव्यस्य गोशब्दोक्तायाश्च जातेररुणाधिकरणन्यायेन स- मुच्चयः । ५॥ जातिगुणयोरपि न्यायगम्यः समुच्चयो त्रैव गोत्वारु- गययोः ।। न्यायगम्यो जातिक्रिययोः समुच्चयो यथा। निर्मन्थ्येनेष्टकाः पचन्तीति । न ह्यरुणाधिकरणे ( अ० ३ पा० ६ ) नियम्यमानस्य खशब्दनोपादानं न्यायशरीरान्तर्गतं किं कथं चिदुपादानमपेक्षते अस्ति মাগ पानाक्षेपतो ऽग्निजातेरुपादानम् । तेन निमन्थ्यशब्दावहि- ताया मथनक्रियायाः पाकाक्षिप्तायाश्चाग्निजातेरैककादरुणान्याये- नैव समुच्चय इति । ७। न्यायगम्यो द्रव्यगुणयोः समुच्चयो यथा । एकहायनीपिङ्गा- क्षीशब्दाभ्यामभिाहतस्य द्रव्यस्यारुण्यस्य च समुच्चयः । ८। न्यायगम्यो द्रव्यक्रिययोः समुच्चयो यथा । निर्मन्थ्यश- ब्देन यौगिकेन द्रव्योपादानात्तस्य मथनक्रियाया वान्योन्यनियमाद- रुणान्यायेनैव समुच्चयः । ९ । न्यायगम्यो गुणक्रिययोः समुच्चयो यथा । "लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्तीति । अत्र हि वस्यते परिधीयते तद्वसनमिति यौगिको ऽयं वसनशब्दो निर्मन्थ्यवत् न वस्त्रजातिवच. नः तथा सति उष्णीपस्यापि वस्त्रत्वालोहितवसना इत्यनेनैव सिद्धे लोहितोष्णीषा इत्यनर्थकं स्यात् । ततश्च निर्मन्थ्यशब्देनेव वसनश- ब्देनोक्तायाः परिधानक्रियाया लौहित्यगुणस्य च प्रचरन्तीत्येकाक्र- यावशीकारादरुणान्यायेनैव समुश्चयः । १०॥ तदेवं न्यायगम्यानां द्विकसमुच्चयभेदानान्दशानामुदाहरणा- न्युक्तानि एवं जातिद्रव्यगुणानां जातिद्रव्याक्रियाणां जातिगुणक्रिया- णां द्रव्यगुणक्रियाणामिति त्रिकविषयाश्चत्वारश्चतुष्कविषयश्चैक इति पञ्चानां न्यायगम्यसमुच्चयभेदानामुदाहरणानि वाच्यानि । यथारुणावाक्ये गोत्वजायकहायनीद्रव्यारुणागुणानामित्या- दि । त एते पञ्चदशन्यायगम्यसमुच्चयभेदाः क्रत्वर्थजात्यादिविषया मीमांसावालप्रकाशे। एवोदाहृताः । एवं पुरुषार्थजात्यादिविषया अपि पञ्चदशन्यायग- म्यसमुच्चयभेदा उच्यन्ते । तन पुरुषार्थयोर्जात्योायगम्यः समुच्चयो यथा । मनुः । तिलै/हियवैर्मारद्भिर्मूलफलेन वा। दत्तन मासं प्रीयन्ते विधिवत्पितरो नृणामिति ॥ अत्र हि व्रीहियवरिति द्वन्द्वोपात्तं समुच्चितं जातिद्वयं प्रक- तश्राद्धाश्रितं फले विधीयते । एवं मूलफलेनेति । पुरुषार्थद्रव्ययोायगम्यः समुच्चयो यथा । मार्कण्डेयः। भक्षभोज्यस्तु संस्कृतैः । रागवायडवचोप्यैश्च । दत्तैस्तु मासं प्रीयन्ते श्राद्धषु पितरो नृणामिति । अत्र हेमाद्रिणा व्याख्यातं दन्तरवखण्ड्य यद्भुज्यते तद्भक्ष- म् । यत्त्वनतिकाठिन्यादतिप्रयत्नवत्खण्डनानपेक्षं चर्वयित्वैव निगी- यते तद्भोज्यम् । यस्यौष्ठदशनरसनादिभिर्निष्पीडितस्य ससूत्कारेण मुखमारुतेन रसो निष्पीयते तच्चोष्यं यथेक्षुखण्डादक, मुगाढक्या- दिरसाः क्वाथ्यगृहीताः शर्करादियुक्ता रागाः । अम्लादियुक्ताः खा- पडवा इति । तत्रैते सर्वे न जातिवचनाः किं तु द्रव्यवचनाः । तत्र भक्षभोज्यचोष्यशब्दा उक्तार्थविशेषवचनेभ्यो धातुभ्यः कृत्प्रत्यये कृते निष्पत्तेोगिकत्वाद् द्रव्यवचनाः। रागखाण्डवशब्दौ तु रूढा- वपि कुलालादिशब्दवदाकृत्यधिकरणाविषयत्वाद् रूट्यवोपाधिवि- शिष्टद्रव्यवचनाविति द्रव्याणामेवात्र द्वन्द्वोपात्तानां प्रकृतश्राद्धाश्रि- '. तानां फले न्यायगम्यः समुच्चय इति । पुरुषार्थयोर्गुणयोायगम्यः समुच्चयो यथा । वायुपुराणे । स्निग्धमुष्णं च यो दद्यादग्निष्टोमफलं लभोदिति । न च चशब्ददर्शनाद्वाचनिको ऽयं समुच्चय इति भ्रमित- व्यम् । ऐका भावादेकवाक्योपादानादेव समुच्चयासिद्धौ चशब्द- स्यानुवादत्वात् न च स्निग्धोष्णशब्दौ द्रव्यविधी लोहि- तोष्णीषादिवदप्राप्तगुणस्यैव विधानाद् द्रव्यस्य तु श्राद्धविधिना प्राप्तस्यैवानुवादात् । पुरुषार्थक्रियासमुच्चयो न्यायगम्यो यथा । “दर्शपूर्णमासा- 'भ्यां वर्गकामो यजेतेति । अन्न हि यजिरूपैकशब्दोपादानादाग्नेया- दीनां साहित्यं फले विवक्षितमित्येकादशाये साधितम् । पुरुषार्थयोर्जातिद्रव्ययोन्यायगम्यः समुच्चयो यथा ।
समुश्वयमेदनिरूपणम् । पद्मपुराणे। सम्वत्सरं तथा गव्यं पयःपायसमेव चति। अन्नापि चशब्दो ऽनुवादः एकवाक्योपादानेन न्यायादेव समुश्वयसिद्धेः । न च भिन्नपदोपात्तयोः पयःपायसयोर्विधी धाक्यभेदः इन्द्रियकामाधिकरणे गुणफलसम्बन्धविधौ भावनान्तर- विध्य युगमेनोभयविशिष्टैकफलभावनाविधानादवाक्यभेदात् । पुरुषार्थयोर्जातिगुणयोायगम्यः समुच्चयो यथा। "खादि- रं वीर्यकामस्य यूपं कुर्वीते"ति । इहापि हि स्वदिप्रातिपदिकोपात्त- या जात्या एकवचनोपात्तया चैकत्वसंख्यया विशिष्ठं यदेकं करण- कारकं द्वितीयालक्षितं तद्विशिष्टैका फलभावना विधीयते । तत्र ख- दिरत्वजातेरेकसंख्यायाश्चैकपदोपादानात्पशुना यजेतेतिघत्समुच्च- यः । जातिक्रिययोः पुरुषार्थयोः समुच्चये उदाहरणं मृग्यम् । पुरुषार्थयोद्रव्यगुणयोायगम्यः समुच्चयो यथा। "गोदोह- नेन पशुकामस्य प्रणयेदि"ति । अत्रापि हि खादिरपदवद्यौगिकगोदो- हनप्रातिपदिकोक्तेन द्रव्येण एकवचनोपात्तया चकत्वसंख्यया वि- शिष्टमेकं करणकारकं फले विधीयते । तयोर्द्रव्यसंख्ययोरेकपदो- पादानात्पशुनेतिवत्समुच्चयः । ननु "चमसेनापः प्रणयदिति चमसैकत्वं चमसस्थानापन्ने गोदोहने ऽपि प्राप्तमेवानूद्यताम् । न च प्रणयनाङ्गमेवैकत्वस्य द्वारमपेक्षितामति वाच्यम् । अभ्युदयष्टा- विज्यार्थत्वेन श्रपणानङ्गभूतयोरपि दधिपयसोः प्रणीतास्थानापत्त्या प्रणीताधर्मप्राप्तेनवमे स्थापनात् । मैवम् । प्रणीताधर्माणां हि प्रणी- ताङ्गत्वात्प्रणीतास्थानापन्नयोधिपयसोयुक्ता प्राप्तिः चमसैकत्वं तु नः चमसस्याङ्गं पश्वकत्वमिव पशोः । तथा पश्वङ्गमेकत्वं पदश्रुत्या प्रतीयते । समानप्रत्यक्षुत्या बलीयस्या क्रियाङ्गता ।। इति न्यायात् तेन चमसाधर्मत्वान्न चमसैकत्वं चमसस्था- नापन्ने ऽपि गोदोहने प्राप्नोति । नन्वेवं स्थानापत्तिरूपेणातिदेशेन मामापच्चमसैकत्वं गोदोहने उपदेशेनैव तु प्राप्नोतु । चमसेनेति हि चमस एकत्वं च प्रणयनाङ्गं प्रणयनं च गोदोहनस्याश्रयः। तत्र गोदोहनेनैककार्यत्वाच्चमसमात्रबाधे ऽपि भिन्नकार्यत्वान्नैकत्वं बा- ध्यत इति तदङ्गकमेव प्रणयनमाश्रयो भवतीत्येकत्वानुवाद एव स्यात् । न च “ नानृतं वदेदि "ति पुरुषार्थनिषेधे ऽपि त्वर्थ संयो- गान्तरमर्थवदित्युक्तं कत्रधिकरणे तद्वदत्र क्रत्वर्थत्वे ऽप्येकत्वस्य पुरुषार्थ संयोगान्तरमर्थवादिति वाच्यम् । तत्र हि पुरुषार्थनिषेधेन ૨૨ १ . १७० ' मीमांसाबालप्रकाशे। नैतसिध्यति यत्तदतिक्रमे ऋतुफलं न भवतीति तदर्थ संयोगान्तर इह तु फलार्थसंयोगान्तराभावे ऽप्येकत्वस्य प्रणयनाङ्गैकत्वातिक्रमे विगुणप्रणयनाश्रिताद्गोदोहनात्फलं न भवतीति सिद्धमेवैकेनैव ऋत्व- र्थसंयोगेनेत्यनर्थकं संयोगान्तरम् । तस्माद्गोदोहनेनेत्येकत्वानुवाद एव स्यात् । मैवम् । चमसैकत्वं हि प्रणयने उपदिश्यमानं द्वारमा- काश्रमाणं प्रणयने यद्विधितो नित्यं चमसादि तद्द्वारैव प्रणयने उप- दिश्यते अन्यथा नित्यानित्यसंयोगविरोधात् । तस्माद्गोदोहनाश्रयी- भूते क्रत्वङ्गे ऽपि प्रणयने नित्यद्वाराभावान्नोपदेशतश्चमसैकत्वं प्रा- मोतीति । गोदोहनेनेत्येकत्वानुवादासम्भवाद् गोदोहनं तदेकत्वं चो- भयं समुच्चितं फलार्थ विधीयतइति सिद्धम् । द्रव्यक्रिययोः पुरुषा- र्थयोयायगम्ये समुच्चये उदाहरणं मृग्यम् । गुणाक्रिययोः पुरुषार्थयोायगम्यः समुच्चयो यथा “ज्योति- ष्टोमेन खर्गकामो यजेते"ति । अत्र ह्यरुणयैकहायन्योतिवदेकवाक्यो- पात्तं ज्योतिष्टोमेनेत्येकत्वं करणं यागश्च याजना करणत्वेन लक्षितः फलभावनायां समुच्चित्य विधीयते इति । एवमेव जात्यादित्रिकवि- षयेषु चतुर्यु भेदेषु चतुष्कविषये चैकस्मिन्भेदे उदाहरणान्यन्वेष्या- णि । तदेव न्यायगम्यस्त्रिंशद्विधः समुच्चयो निरूपितः । वाचनिक- स्यापि समुच्चयस्य तावन्त एव भेदाम्त उच्यन्ते । यद्यपि दर्शपूर्णमासादिसमुच्चयो ऽपि प्रागुक्तः कश्चिदेकय- ज्याद्यभिधानश्रुतिगम्यः कश्चिदेकवाक्यगम्य इति वाचनिक एव तथापि चशब्दोभयशब्दादिश्रुतिगम्य एवेह वाचनिकत्वेनाभि- प्रेत इति भेदः। तत्र क्रत्वर्थजातिसमुच्चयो वाचनिको यथा । गौश्चाश्वश्वे- त्यादिः । न चात्रैकवाक्योपादानादेव समुच्चयासिद्धौ चशब्दो ऽनुवादमानामति वाच्यम् । “ऋत्विग्भ्यो दक्षिणां ददाती"ति प्राप्तद- क्षिणोद्देशेनाने कद्रव्यविधौ वाक्यभेदापत्तेश्च शब्दार्थविशिष्टानेकद्रव्य- विधिं विनैकवाक्योपादानस्यैवासिद्धेः। क्रत्वर्थद्रव्यसमुच्चयो वाचनिको यथा । सवनीयेषु "आग्नेयम- जमाग्नष्टोमआलभेते"त्युक्त्वा ऐन्द्राग्नमुक्थ्ये द्वितीयमैन्द्रं वृष्णि षोड- शिनि तृतीयं सारस्वती मेषीमतिरात्रे चतुमिति द्वितीयादिशब्दैश्च- शब्दस्थानीयौगिकैन्द्राग्नादिशब्दोक्तानां तत्तवताविशिष्टद्रव्याणां समुच्चयो विधीयते । अन्यथा सवनीयसमाख्यया एककार्यत्वावग- मादुक्थ्याद्युत्तरसंस्थासु विकृतिपदिष्टैरैन्द्राग्नादिभिरितिदिष्टस्य पूर्वस्याग्नेयस्य बाधापत्तेः । तदिदं संस्थाधिकरणे वार्तिकक- समुच्चयभेदनिरूपणम् । १७१ तोक्तम् । क्रत्वर्थगुणसमुच्चयो वाचनिको यथा। ब्रह्मपुराणे । मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च । खादूनि देवभोज्यानि तानि श्राद्धे नियोजयदिति ॥ अत्रापि स्निग्धकट्वम्लकशब्दैररुणादिवदु गुणवचनैरनेके गुणाः प्राप्तश्राद्धोदेशेन चशब्दात्समुच्चिता एव गौश्चाश्वश्चेत्यादिव. द्विधीयन्ते। क्रत्वर्थक्रियासमुच्चयो वाचनिको यथा। "संसव उभे कुर्या- दु गोसव उभे कुर्यादिति वार्तिककृन्मते ऽतिदेशतो विकल्पेन प्राप्त- योरथन्तरसाधनकबृहत्साधनकयोः पृष्ठयोः समुच्चयो विकृती समु- श्चयाविशिष्टपदार्थवाचिना उभयशब्देन विहितः । क्रत्वर्थजातिद्रव्यसमुच्चयो वाचनिको यथा । देवलः। ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्षवत् । चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पयेदिति ॥ अत्र प्राप्तश्राद्धोद्देशेनौदनजातिरन्नशब्देनोक्ता यौगिकचोष्यपे- यशब्दोक्तं च द्रव्ये वाक्यभेदपरिहाराय चशब्देन समुच्चित्य विधीयन्ते । क्रत्वर्थजातिगुणसमुच्चयो वाचनिको यथा । देवलः। अथ पिण्डावशिष्टान्नं भोजयेत्प्रयतो द्विजान् । भोजनैः सतिलैः स्नेहैर्भक्षपूपविमिश्रितैरिति ॥ अत्र स्नेहैरिति गुणस्तिलजातिश्च सहादेशोपस्थापितशब्देन च शब्दसमानार्थेन प्राप्ते श्राद्ध समुच्चित्य विधीयते । क्रत्वर्थजातिक्रियासमुच्चयो वाचनिको यथा। शङ्खलिखितौ। तत्तस्तिलैमर्मासैः शाकैः पूपैः कृशरपायसापूपैर्लाजैर्भः पा- नैर्मधुना घृतेन धना पयसा च प्रभूतमिष्टमन्नं दद्यादिति । अत्र निर्मन्थ्यशब्दवत्पयसा तं पायसमिति शृतार्थतद्धि- तोपात्ता श्रपणक्रिया पयआदिजातिश्च चशब्देन प्राप्ते श्राद्ध समुच्चि- त्य विधीयते । क्रत्वर्थद्रव्यगुणसमुच्चयो वाचनिको यथा। ब्रह्मपुराणे। पूरिकां च रसालां च गोक्षीरं च नियोजयेत् । 7 १७२ भीमांसाबालप्रकाशे। यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः। ईषदुष्णकटून्येव देयानि श्राद्धकर्मणीति ॥ भत्र रसालाशब्दः कुलालशब्दवदूढो ऽपि न जातिवचनः । किंतु। सिताचतुर्जातमधूषणाढ्यं दधिप्रघृष्ट सरसं रसाला। इत्युपाधिपुरस्कारेण द्रव्यवचनः। चशब्देन च तद्रव्यं निग्धो पणादिश्च गुणः समुश्चित्य प्राप्ते श्राद्ध विधीयते । क्रत्वर्थद्रव्यक्रियासमुच्चयो वाचनिको यथा । पूर्वोक्त शङ्ख- लिखितवाक्ये पायसशब्दः श्रपणक्रियाविधिनिर्मन्थ्यवदित्युक्तं भक्ष- शब्दो यौगिको द्रव्यवचन इत्यप्युक्तम् । । अतस्तत्र क्रियाद्रव्ये चशब्देन समुच्चित्य प्राप्ते श्राद्ध विधीयते । ऋत्वर्थगुणक्रियासमुच्चयो वाचनिको यथा।सौरपुराणे। विविधं पायसं दद्यात् भक्ष्याणि विविधानि च । लेह्य चोप्यं यथाकाममुष्णमेव फलं विनेति । अत्रपायसशब्दे प्रत्ययोपात्ता श्रपणक्रिया उष्णगुणश्च चशब्दे- न समुच्चित्य प्राप्ते श्राद्ध विधीयते । एवं क्रत्वर्थजात्यादिविषया वा- चनिकसमुच्चयभेदा दश सोदाहरणा उक्ताः। एवमेव दशपुरुषार्थजात्यादिविषया वाचनिकसमुच्चयभेदा- स्तदा स्युर्यादाहरणानि सम्भवेयुन तु तानि सम्भवन्ति यानि तु। श्यामाकैश्चणकैः शाकैर्नीवारश्च प्रियङ्गुभिः । गोधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ इत्यादीनि कूर्मपुराणादिवाक्यानि प्रकृतश्राद्धाश्रितबीह्यादि- जातीनां चशब्देन समुच्चितानां फलसम्बन्धबोधकानीव दृश्यन्ते । तत्र सर्वत्रानेकधीह्यादिविशिष्टफलभावनाविधाने वाक्यभेदाभावात् एकवाक्योपादाननैव समुच्चये सिद्धे चशब्दस्यानुवादत्वान्न कापि घाचनिकः पुरुषार्थजात्यादिसमुच्चयो ऽस्ति पुरुषार्थपयआदिजातेः पुरुषार्थगयाश्राद्धक्रियायाश्च चशब्देन फले वाचनिकसमुच्चयोदाह- रगां दृश्यते। पाझे। वाध्रीणसामिषं लोहं कालशाकं तथा मधु । दुहिनामिषमन्नं च दत्ताभ्यात्मकुलोद्भवैः॥ अनन्तां वै प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा। पितुणां नात्र सन्देहो गयाश्राद्धं च भो द्विजाः॥ इतिान चात्र पयादिना गयाश्राद्धन च विशिष्टका फलभावना १७३ समुश्चयभेदनिरूपणम्। विधीयतइत्यवाक्यभेद इति वाच्यमारवतीवारवन्तीयसम्बन्धेन यागेन च विशिष्टाया एकस्याः फलभावनाया विधानेन. वाक्यभेदोद्धारा- द्रेवत्यधिकरणसिद्धान्तभङ्गापत्तेः । तस्माच्चशब्देनैवात्र वाक्यभेद- परिहारो वाच्य इति । यदा त्वत्रापि प्रकृतश्राद्धाश्रितजात्यादितत्त- कृतश्राद्धाश्रितैव गयापि देशः फलाय विधीयते आश्रयश्राद्धानुवा- देन “संक्रमयज्ञेन यजेत साकं प्रस्थाय्येन यजेत” इतिवत्तदा नास्त्येव घाचनिके पुरुषार्थजातिक्रियासमुच्चये उदाहरणम् । एवमेव जात्या- दित्रिकविषयेषु चतुर्यु भेदेषु चतुष्कविषये चैकस्मिन्भेदे पञ्चो- दाहरणान्यन्वेष्याणि । इति वाचनिकसमुच्चयभेदास्त्रिशभिरूपिताः। इदानीमैच्छिकसमुच्चयभेदास्तावन्त एवोच्यन्ते । तत्र तु क्रत्वर्थजात्यादिविषयेषु पञ्चदशस्वैच्छिकंषु समुच्चय- भेदेषु प्रायश उदाहरणानि न सन्ति । क्रत्वर्थानां जात्यादीनां प्र- योगविधिना नित्यवत्समुच्चयस्यैव सिद्धेः । पुरुषार्थजात्यादिविषयेषु तु पञ्चदशस्वैच्छिकेषु समुच्चयभेदेषु उदादरणान्युच्यन्ते । तेषां चैकफलत्वे न्यायेन विकल्पावश्यम्भावात्फलभेदएवोदाहरणानि स. म्भवन्ति । तथा एकाश्रयत्वे फलभेदे ऽप्यैच्छिको विकल्प एव भव- ति । यथा ऽऽश्वलायनसूत्रे यवागूरोदनोदधिसर्पिमिकामानाद्यका- मेन्द्रियकामतेजस्कामानामिति । भत्र यवाग्वादीनां चतुर्णा क्रमेण फलचतुष्टयकामनायामैच्छिको विकल्प एव भवति न समुच्चयः । तस्मात्फलभेदवन्त्याश्रयभेदवन्ति चेहोदाहरणानि , प्रायशः। तत्र पुरुषार्थजातिसमुञ्चय ऐच्छिको यथा “कांस्येन ब्रह्म- वर्चसकामस्य प्रणयेत्”। “आहार्यपुरीषां पशुकामस्य वेदी कुर्वीते"ति दर्शपूर्णमासयोर्ब्रह्मवर्चसपशुरूपफलद्वयकामनायां प्रणयनपात्रप्रकृ- तिपरिच्छेदककांस्यजातेवेदिप्रकृतिपरिच्छेदकपुरीषजातेश्च ऐच्छिकः समुच्चयः। ननु “वेदी खनती"ति नित्यप्रयोगे बननोत्पाद्यं मृदाख्यं पुरी प्राप्तमेव तत्र प्राप्ताप्राप्तविवेकेनाहरणमेवाहार्यपुरीषामित्यत्र विधी यते न मुज्जाति।न । आहरणस्याहार्यसापेक्षत्वात्पुरीषमप्यवश्यं वि. धेयं तत्राप्रतीतं विशेषणत्वं हित्वा प्रतीतविशेष्यत्वेनैव विधियुक्तः । तथा च वेद्याश्रयानुवादो ऽप्युपपन्नः अन्यथा क्रियाया आश्रयानपे- क्षत्वात्तदनुपपत्तिरिति । पुरुषार्थद्रव्यसमुच्चय ऐच्छिको यथा । आश्वलायनसुत्ने १७४ मीमांसाबालप्रकाशे। ऽन्नप्राशनाश्रितौ गुणकामौ श्रूयेते "आजमन्नाद्यकामस्तैत्तिरं ब्रह्मव- सकाम” इति । अत्र तद्धितान्तत्वेन यौगिकाभ्यां द्रव्यवचनाभ्यामा- जतैत्तिरशब्दाभ्यामजमांसं तित्तिरिमांसं च फलार्थ विधीयते तत्र फलद्वयकामनायामैच्छिकः समुच्चयः । अत्र यद्यप्येकाश्रयत्वं त- थापि वृत्तिकृता व्यञ्जनत्वेनैव मांसस्य लोके भक्ष्यत्वप्रसिद्धरन्नम- पि देयमित्युक्तत्वाद्वयञ्जनानां च लोके समुच्चयस्यापि सम्भवदर्श- नात्समुच्चयाविरोधः। पुरुषार्थगुणयोरैच्छिकः समुच्चयो यथा। “यदि कामयेत वधू- कः पर्जन्यः स्यान्नीचैः सदो मिनुयात्" इति ज्योतिष्टोमाङ्गसदो- मानाश्रितः काम्यो गुणः । “एकविंशेनातिरानेण प्रजाकामं याजयेत् त्रिणवेनौजस्कामं त्रयस्त्रिंशेन प्रतिष्ठाकाम” इति ज्योतिष्टोमाश्रिता- तिरात्रसंस्थाख्यकाम्यगुणाङ्गस्तोमाश्रितस्त्रिणवादिसंख्याविशेषात्म- कः काम्यो गुणः । तयोज्योतिष्टोमप्रयोगे ऐच्छिकः समुच्चयः। पुरुषार्थक्रिययोरैच्छिकः समुच्चयो यथा । दर्शपूर्ण- मासयोः प्रस्तरप्रहरणं प्रस्तरप्रतिपत्त्यर्थत्वान्नित्यागमपि सत्करणी- भूतसूक्तवाकप्रकाशितफलसमवायकल्पनात्काम्यमपि । " एकविं- शतिमनुब्रूयात्प्रतिष्ठाकामस्ये "ति क्रियान्तरं काम्यमनु- शब्दबलाइर्शपूर्णमासप्रयोगान्तर्गतमित्युक्तं तृतीये ( पा० १ । ११ ) सन्दिग्धे तु व्यवायाद्वाक्यभेदः स्यादिति निविदधि- करणे । अत "आयुराशास्ते दिव्यं धामाशास्ते सुप्रजास्त्वमाशास्त”इति सूक्तवाकोक्तफलकामनया प्रस्तरप्रहरणानुष्ठाने प्रतिष्ठाकाम- नया चैकविंशतिसामिधेन्यनुवचनानुष्ठाने पुरुषार्थक्रिययोरैच्छिकः समुच्चयः । ननु सूक्तवाकोक्तफलकामनया प्रस्तरप्रहरणानुष्ठाने इत्युक्ति- रयुक्ता नित्यं हि सूक्तवाकस्य करणत्वादायुरादीन्यानुषङ्गिकाण्य- काम्यमानान्येव नित्यकर्मफलवक्रतूपकारार्थमेवानुष्ठीयमाने प्रहरणे उत्पद्यन्ते । मैवम् । नित्यकर्मणां हि यावन्निमित्तं नियतमनुष्ठान नियतं फलं विनानुपपन्नमित्यकाम्यमानमपि फलं विधिरनुम- न्यते । प्रहरणविधिस्तु नित्यवत्प्रवृत्तो ऽपि ,नित्यक्रतूपकारफला- र्थतयैवोपपन्नो नायुरादीनां फलानामकाम्यमानत्वमनुमन्यते । यथा जातेष्टिविधिर्यावन्निमित्तं नियतमनुष्ठापयन्नियतप्रत्यवायपरिहारा- दिफलार्थतयैवोपपन्नो न पूतत्वादेः फलस्याकाम्यमानत्वमनुमन्यते ।
समुच्चयभेदनिरूपणम् । दशमे चास्थियज्ञे कृत्वाचिन्तयोक्तेन ईहार्थाश्चाभावात्सूक्तवा- कवदितिन्यायेन सर्वखार ऽपि सर्वेषामेव सूक्तवाकफलानामकाम्य- मानत्वेनावचने प्राप्ते जीवत्ववचनमायुराशिषस्तदर्थत्वादित्यायुर्मात्रे ऽपवादोक्तरितरसूक्तवाकफलस्य काम्यमानस्यैव फलत्वमिष्टमिति गम्यते इति । न चेच्छायाः कर्तव्यत्वाक्षेपो विरुद्धः अधीतस्वाध्या- यस्यावश्यकर्त्तव्यविचारार्थ धर्मजिज्ञासाकर्त्तव्यताध्ययनविधिना- क्षिप्ता तन्मूलकेनाथातो धर्मजिज्ञासेति' सूत्रेण कर्त्तव्यपदाध्याहारस- हितेनोच्यतइत्युक्तंः। पुरुषार्थजातिद्रव्यसमुच्चय ऐच्छिको यथा । "आहार्यपुरीषां पशुकामस्य वेदिं कुर्वीत” “गोदोहनेन पशुका- मस्य प्रणयेदि"ति दर्शपूर्णमासयोरैहिकामुष्मिकादिभेदभिन्नपशुफल- कामनायामाहार्यपुरीषजाते!दोहनद्रव्यस्य चैच्छिकसमुच्चयः। न च पुरीषगोदोहनयोरन्यतरणौव सर्वपशुफलसिद्धावनर्थ- कः समुच्चयः । वृष्टयादौ ह्ययं दोषः वृष्टिर्हि शुष्यत्सस्यानुकूलैव लोके कास्यते तादृश्याश्चैकेन साधनेन सिद्धावपरमनर्थकम् । यथा सौभरे पुरुषश्रुनेनिधने कामसंयोग इत्यत्र हीषितिवृष्टिकामा- य निधनं कुर्यादुर्गित्यन्नाद्यकामाय उ इति स्वर्गकामा- येति सौभरफलेभ्यो वृष्ट्यादिभ्यो भिन्नानि हीषादिनिधनफलानी- ति पूर्वपक्षे यदा वृष्टयथै सौभरप्रयोगस्तदा वृष्टयन्तरार्थ हीषनिधन- प्रयोगोऽनर्थक इति। न त्वेतादृशी ऐहिकादिभेदभिन्नसर्वपशुकामना- लोकतः सिद्धास्ति तेनोभयोः पवर्थयोः समुच्चयो युक्तः । अन्यथा चित्रेष्टयादेरपि पुनः प्रयोगो न स्यादेवं स्वर्गाद्यर्थकर्मणामपीति । पुरुषार्थजातिगुणसमुच्चय ऐच्छिको यथा “ खादिरं वीर्यका- मस्य यूपं कुर्वीते"ति ज्योष्टिमाङ्गाग्नीपोमीयपश्वङ्गयूश्रितखदिर- जातेार्यफलार्थाया “यदि कामयीत वर्षुकः पर्जन्यः स्यान्नीचैः सदो मिनुयादि"ति वृष्टयर्थ नीचैः परिमाणस्य चोभयकामनायां स- मुच्चयः। पुरुषार्थजातिक्रियासमुच्चय ऐच्छिको यथा । दर्शपूर्णमास- योराहार्यपुरीषां पशुकामस्य वेदिं कुर्यादित्याहार्यपुरीषजातेः एक- विंशतिमनुब्रूयात्प्रतिष्ठाकामस्येति चानुवचनान्तरक्रियाया उभयफल- कामनायामच्छिकः समुच्चयः। पुरुषार्थद्रव्यगुणसमुच्चय ऐच्छिको यथा । गोद हनेन पशुकामस्य प्रणयदि "ति गोदोहनद्रव्यस्य व- सजानुं पशुकामस्य वेदि कुदिति वत्सजान्वाकारस्यावयवसयो- मीमांसाबालप्रकाशे। गात्मनस्तत्परिमाणस्य वा गुणस्य पशुफलार्थ विहितस्योभयफलका- मनायामैच्छिकः समुच्चयः । पुरुषार्थद्रव्यक्रियासमुच्चय ऐच्छिको यथा । गोदोहनस्य एकविंशत्यनुवचनस्य चोभयफलकामनायामौच्छि- का समुच्चयः । पुरुषार्थगुणक्रियासमुच्चम ऐच्छिको यथा । वत्सजावाकारस्य एकविंशत्यनुवचनस्य चोभयफलकामना- यामैच्छिकः समुच्चयः। पुरुषार्थजातिद्रव्यगुणत्रिकस्यैच्छिकः समुच्चयो यथा । दर्शपूर्णमासयोराहार्यपुरीषगोदोहनवत्सजान्वाकाराणां - याणां पशुत्रयकामनायां समुच्चय ऐच्छिकः । पुरुषार्थजातिद्रव्यक्रियानिकस्यच्छिकः समुच्चयो यथा । आ- हार्यपुरुषगोदोहनकविंशत्यनुवचनानां पशुद्धयप्रतिष्ठाकामनायामै- च्छिकः समुश्चयः। पुरुषार्थजातिगुणक्रियात्रिकस्यैच्छिकः समुच्चयो यथा । आ- हार्यपुरीषवत्सजान्वाकारैकविंशत्यनुवचनानां पशुद्वय प्रतिष्ठाकाम- नायामैच्छिकः समुच्चयः । पुरुषार्थद्रव्यगुणक्रियासमुच्चय ऐच्छिको यथा गोदोहनवत्स- जान्वाकारकविंशत्यनुवचनानाम्पशुदयप्रतिष्ठाकामनायामैच्छिकः समुच्चयः। पुरुषार्थचतुष्टयसमुच्चयो यथा माहार्यपुरीषगोदोहनवत्सजा- न्वाकारकविंशत्यनुवचनानां चतुर्णामपि पशुनयप्रतिष्ठारूपफलचतु- टयकामनायामैच्छिकः समुच्चयः । एवमैच्छिकसमुच्चयभेदास्त्रिंश- निरूपिताः । तदेवं न्यायगम्यास्त्रिंशद्वाचनिकात्रिंशदैच्छिकास्त्रि- शदिति नवनिसमुच्चयभेदा उक्ताः । एते च जात्यादिसमुच्चयाभाव- विषया एवेत्युक्तम् । ते च पुनः पञ्चधा। के चिद् प्रकृतावुपतिदिष्टपदार्थविषयाः। केचिद्विकृतावुपदिष्टपदार्थावषयाः । के चित्प्रकृतिविकृत्यनात्मककर्मोपदिष्टपदार्थावषयाः । केचिद्विकृतावतिदिष्टपदार्थविषयाः। के चिद्विकृतावेवोपदिष्टातिदिष्टपदार्थविषया इति । तत्नाद्योदाहरणम् । यथा ऋये गवारुण्यादीनां क्रयाणां च ज्योतिष्टोमे दर्शपूर्णमासयोश्चादोषनिर्घातार्थप्रायश्चित्तानाम् । तत्रो- समुच्चयभेदनिरूपणम् । तरद्वयं द्वादशे उक्तं तथा द्वादशे याज्यानुवाक्ययोः समुच्चय द्वितीयोदाहरणं यथा दशपेये "शतं ब्राह्मणाः सोमान्भक्षयन्ती”- त्युपदिष्टायाः ब्राह्मणजातेर्दशदशैकैकं चमसमनुप्रसर्पन्तीत्युपदिष्टा- याः शतसंख्यायाश्च समुश्चय इति । तृतीयोदाहरणं यथा । आधाने पवमानेष्टीनां समुश्चयः । तत्रापि भाष्यकृन्मते तासामाधानेन समुच्चयो वाचनिकः संवत्सरे निर्वपद् द्वादशसुरात्रिषु सद्यो वेति । वार्त्तिककृन्मते ऽप्यङ्गत्वा- प्राकरणिकस्तासामेव तिसृणामन्योन्य"मग्नये पवमानायाग्नये पाव- कायाग्नये शुचय" इति। चतुर्थोदाहरणं यथा। "संसव उभेकुर्याद् गोसवउभे कुर्याद- पचितावष्यकाहे उभे बृदद्रथन्तरे कुर्यादिति । पञ्चमोदाहरणं यथा|संस्थाधिकरणे संस्थापशोरैन्द्राग्नमुक्थ्ये द्विती- यमित्युक्थ्यादिविकृतावुपदिष्टस्यैन्द्रानादेरतिदिष्टस्य चाग्नेयस्य सवनी- यस्य समुच्चय उक्तः।तथा दशमे (पा०२०१६) द्वेष्ये चाचोदनाइक्षि- णापनयः स्यादित्यधिकरणे प्राकृतवैकृतदक्षिणासमुच्चय उक्तः। तथा नैमित्तिके तु कार्यत्वात्प्रकृते स्यात्तदापत्तेरित्यधिकरणे वायव्यादि- पशावुपदिष्टश्वेतगुणस्य प्राकृताजादिजातेश्च समुच्चय उक्तः । तथा षड्भिर्दीक्षयतीत्यधिकरणे (अ० १ पा० ३ अ०४ )ग्रावाकूतिमग्नि- मित्यादयः । षड्भिर्दीक्षयतीति दीक्षार्थतयोपदिष्टाः षण्मन्त्रा अति- दिष्टीक्षार्थराकूत्यै प्रयुजे ऽग्नय इत्यादिभिः षभिमन्त्रैः सह स- मुच्चीयन्ते द्वादश जुहोतीति दीक्षावृत्तिविधेरित्युक्तम् । तथा यजुर्युक्तइत्यधिकरणे (अ०१०पा०३अ०१)वाजपेये यजु- र्युक्तं रथमध्वर्यवे ददातीति यजुर्युक्तेनोपदिष्टेनातिदिष्टस्याध्वर्युभा- गस्य समुश्चय इत्युक्तम् । तथा तदुत्तराधिकरणे ( अ० १० पा० ४ अ०१) नक्षत्रेष्टौ सो ऽनुजुहोतीत्युपदिष्टानामुपहोमानामतिदिष्टानां च नारिष्टहोमानां तथा तदुत्तराधिकरणे बृहस्पतिसवादी पार्हस्पत्यं गृह्णातीति ग्रहान्तरस्योपदिष्टस्यातिदिष्टानां च ग्रहाणां समुच्चय इत्युक्तम् । तथा तदुत्तराधिकरणे वाजपेये उपदिष्टानां प्राजापत्यपशू- नामतिदिष्टानां च संस्थापशूनां समुच्चय उक्तः । तथा तदुत्तराधिकरणे सांग्रहण्यामुपदिष्टानां त्रयाणामाम- महोमानामतिदिष्टैस्त्रिभिरनुयाजैः सह समुच्चय उक्तः। समुच्चय उक्तः।
मीमांसाबालप्रकाशे। तथा उपगेग्वित्यधिकरणे(अ०१०पा०३अ०६)गवामयने महाव- ते दिक्षु दुन्दुभयो नदन्तीति प्रकृत्य पत्नय उपगायन्तीत्युपदिष्टानां पत्नीनामातदिष्टैरुपगातृभिऋत्विग्भिः समुच्चय उक्तः । तथा संस्कारे चेयधिकरणे ( अ० १० पा०३०७) अञ्जना- भ्यञ्जने गौग्गुलवन प्रातः सवने भ्यञ्जतइत्युपदिष्टगोग्गुलवाभ्यज- नस्यातिदिष्टनवनीताभ्यञ्जनेन सह समुच्चय उक्तः । तथा तदुत्तराधिकरणे (अ०१पा०३०८) महाव्रतं तार्प य- जमानः परिधत्तइत्युपदिष्टस्य सार्पस्यातिदिष्टस्य चाहतस्य समु- च्चय उक्तः। तथा तदुत्तराधिकरणे (अ०१०पा०३१०९) महाव्रतएवोपदि- टश्लोकादिसाम्नामतिदिष्टानां च गायनादीनां समुच्चय उक्तः। तथा स्तोमविवृद्धावित्यधिकरणे ( अ०१०पा०३अ०१२ ) द्वात्रिंशतपवमानो ऽभिषेचनीय इत्यादिचिवृद्धावुपदिष्टानां राजसाम्नामतिदिष्टानां च समुच्चय उक्तः। यथा द्वादशे (पा०४ अ०५) गुदेनोपयजतीति प्रतिपत्तित्वान्प शुगगो ऽनकेषां गुदानां समुच्चय उक्तः । अत्र च ये के चिदन्ये समुच्चय भेदा दृश्यन्त। यथा वा द्वादशोक्ता(पा०४अ०३)याज्यानुवाक्ययोः समुच्चयः। यथा वा द्वादशोक्त (पा०३ अ० १४) एव तां चतुर्भिरभ्रि- मादत्तइत्यादौ मन्त्रसमुच्चयः । यथा वा ऽग्निहोत्र अग्निसूर्यप्रजापतीनां देवतानां समुच्चयः । यथा वा ज्योतिष्टोमे प्राकरणिकग्रहणसमुच्चयादात्सिद्धो यागे ऽनङ्गभूतानामपीन्द्रवारवादीनां समुच्चयः । तदुक्तं पशुसो- माधिकरणे वार्त्तिके देवतानामन्यसंयुक्तत्वादक्रिया- रूपत्वाच्च न प्रकरणन यागार्थत्वं विज्ञायत इति । यागानङ्गत्वादेव इमाः पुनग्रहणसम्बद्धाः श्रुताः प्रकरणेन यागसम्बन्धं प्रतिपद्यन्तइ- ति प्रसङ्गोपकारित्वेन यागान्वयमात्रमुपक्रम उक्तम् । उपसंहारे ऽपि तद्वशेन च देवतानामपि समुच्चयसिद्धिरित्ये- वोपसंहृतं नाङ्गत्वम् । एष तावद्वात्र्तिकार्थः प्रतिभाति । सोमेश्वरेण तूपसंहारवार्त्तिकमङ्गत्वपरतया व्याख्यातम् । यथा वा सो "चतुर्विंशतिपरमाः सप्तदशावराःसनमासीर- रन्निति कर्तृसमुच्चयः। यथा वाध्वर्यवे याजमाने च काण्डे दर्शपूर्णमासयोराम्नातेषु "वाजस्य प्रसवेने"त्यादिमन्त्रेषु सामाख्यानिककर्तृद्वय- १८० मीमांसाबालप्रकाशे। च्य एवेतरेतरयोगः तस्मिंश्च शाब्दे सति एकयाजिशब्दोपादानार्थो न विवक्षितस्तस्य सन्निकृष्टप्रमाणद्वन्द्वावगतस्यैकशब्दोपादानेन लक्ष- णया विप्रकृष्टेनानुवादादिति । एतत्तदाहरणं मिश्राणां न सम्मतम् । षष्ठे ऽध्याये द्वयाधानं चेत्यत्र द्वन्द्वे इतरेतरयोगो न वाच्यः प्रधान- भूतेन कारकेणादावन्विताः समस्यमानपदार्था गुणभावन च कारक प्रति विवक्षितसाहित्यास्तथैव क्रियान्वायनो भवन्ति । यत्र तु प्रधा- नभूताः पदार्थास्तत्र द्वन्द्वस्थानामपि साहित्यं न विवक्ष्यतइति प्रति- पादनात् । तदा च न्यायादेव समुच्चयावगमसिद्धेश्वार्थे द्वन्द्व इति स्मृतिः शब्दानुशासनमात्रपरा नार्थानुशासनपरापि। तस्मादेकपदेन समुच्चयसमुच्चये बृहद्रथन्तरे इत्येवोदाहरणम् । एकवाक्यापा- दानात्तु द्वित्वसमुच्चययोः समुच्चये दर्शपूर्णमासाभ्यामित्यप्युदाहर- णमेव । यदा हि न द्वन्द्ववाच्य इतरेतरयोगस्तदा पदान्तरलभ्यत्वेन विप्रकृष्टात्समासलभ्यादितरेतरयोगाद्भावार्थाधिकरणन्यायेन फल- सम्बन्धिना यजेतेत्येकशब्देनोपादानाल्लभ्यमेव साहित्यं सन्निकृष्ट- मिति विधीयते द्वन्द्वस्तु तदंशे ऽनुवादः । लिङ्गपादवार्तिकं तु पर- मतमभ्युपेत्यवाद एव । तदापि तु दर्शपूर्णमासाश्यामिति समुदाय- गतं द्वित्वं विवक्षितमेव । अन्यथा पौर्णमास्यधिकरणे दर्शपूर्णमा- सनाम्नाः। प्रत्येकवाचितोक्ते सङ्कल्पे यजोर्वशेषणापेक्षायां दशैंः पूर्ण- मासैश्च यक्ष्यइति सङ्कल्पापत्तेः । तस्माद्दर्शपूर्णमासाभ्यां यक्ष्य इ- तीप्टसङ्कल्पसिद्ध्यै द्वित्वमपि विवक्षितामत्येकवाक्योपादानात् द्वित्व- 'समुच्चययोः समुच्चये दर्शपूर्णमासाभ्यां यजतेत्यप्युदाहरणमिति सिद्धम्। . इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभट्टनारायणात्म- जभट्टशङ्करकृते मीमांसाबालप्रकाशे समुच्चयभेदनिरूपणम् । अथ द्वादशलक्षण्यां विप्रकीर्णा इतस्ततः । वाक्यभेदभिदाः सर्वाः सङ्क्षिप्येह ब्रवीम्यहम् ॥ तत्र त्रिविधस्तावद्वाक्यभेदः । आवृत्तिलक्षणो विभागलक्षणो वैरूप्यलक्षणश्चेति ।
वाक्यभेदनिरूपणम् । आवृत्तिलक्षणो ऽपि त्रिविधः । प्रकृत्यावृत्तिः प्रत्ययावृत्तिरुभ- यावृत्तिश्चेति । प्रकृत्यावृत्तिरपि द्विविधा । प्रातिपदिकावृत्तिर्धात्वावृत्तिश्चेतिा प्रातिपदिकावृत्तिरपि द्विविधा । समासासमासभेदात् । प्रत्ययावृत्तिरपि चतुर्विधा । सुप्तिकृत्तद्धितभेदात् । तदुक्त- मर्थकत्वादेकं वाक्यमित्यत्र वार्तिके । पदतदेकदेशतत्समूहावृत्तिप्र- सङ्गात्मकस्तद्विभागलक्षणो वाक्यभेद इति । तथा विभागलक्षणे ग- म्यमानसम्बन्धत्यागो ऽनेकादृष्टकल्पना च दोषः।इतरत्रावृत्तरवदत्वा- दप्रामाण्यमिति। एतद्वयाख्यातं भट्टसोमेश्वरेण वाजपेयगुणविधावा- ख्यातपदावृत्तिर्ग्रहै कविवक्षायां पदैकदेशप्रातिपदिकावृत्तिहविरा- तरुभयत्वेन विशेषणे हविरातिमा,दिति पदसमूहावृत्तिरारुण्यस्य कृत्स्नप्रकरणनिवेशे ऽरुणयेति पदस्य पिङ्गाक्ष्यादिवाक्याद्विभाग इति विभागलक्षणवाक्यभेदस्य त्ववान्तरभेदा न सन्तीति नोक्ताः। वैरूप्यलक्षणो ऽपि वाक्यभेदो ऽनेकविधः । वैरूप्यभेदात् । तत्र वैरूप्यं त्रिविध प्रकृती प्रत्यये वाक्ये वेति । आद्यं वाजपेयगुणविधिपक्षे यजौ । कर्मधिकरणत्वरूपमुद्दे- श्यत्वोपादेयत्वरूपं गुणप्रधानत्वरूपं विधेयत्वानुवाद्यत्वरूपं चेति चतुर्विधम् । द्वितीयं ग्रहमित्येकत्वस्य सम्मार्ग ग्रहं वा प्रति गुणत्वे द्विती- याविभक्त्या लक्ष्ये ग्रहापेक्षया प्राधान्यस्यापि श्रौतत्वात् । तृतीयं तु अरुणयेत्यत्र तृतीयया करणीभूनामेकहायनीमुद्दि- श्यारुणप्रातिपदिकार्थविधौ भिन्नपदोपात्ताया अप्येकहायन्या एक- वाक्ये वैरूप्यम् । तथा ऽन्यान्यपि नानाविधानि वैरूप्याण्युच्यन्ते । अश्वप्रतिग्रहेष्टेलौकिकवैदिकोभयदाननिमित्तकत्वे क्रत्वर्थत्वपुरुषा- थत्वबैरूप्यम् । षष्ठचतुथैकादशे च । तत्र हि यः सत्रायागुरते स विश्वजिता यजेतेति विश्वजितः सत्र प्रवृत्तमप्रवृतं च प्रति- साधारण्यन विधौ प्रवृत्तं प्रति क्रत्वर्थत्वादप्रवृत्तं च प्रति पु. रुषार्थत्वाद्वैरूप्यं स्यादित्युक्तम् । तथावघातस्याज्योषधसान्ना- य्यार्थत्वे दृष्टादृष्टार्थत्ववैरू प्यम् । सोमवमनेष्टलौकिक- वैदिकसोमवमननिमित्तकत्वे उपेक्षितानपेक्षितविधिवैरूप्यम् । तथा पूर्वोदाहृते यः सत्रायागुरतइत्यत्रापि। तथा षष्ठे युदिते ऽयो तण्डलविवक्षायां दधिश्तयोर्देवतानपनयाद्देवताविधावाकाङ्क्ष- तानाकासितविधिवैरूप्यम् । तथा मातुलकन्यापरिणयने स्मृत्या- चारतुल्यबलत्वं दोषजनकत्वाजनकत्वविरोधाद्वस्तुवैरूप्यम् । इदं तथा ૨૮૨ मीमांसाबालप्रकाशे। तथा च विधिभेदादावृत्त्यभावे ऽपि वैरूप्यप्रसङ्गादुदाहृतम् । तथान्यदपी- दृशमेव वैश्वदेवस्यान्नसंस्कारकर्मत्व पुरुषार्थत्वे चैकमेव कर्म प्रत्ये- कमेवान्नं द्रव्यं गुणभूतं प्रधानभूतं चेति । तथा कृष्णलचरौ घृते श्रपयतीति श्रपणप्रतिप्रसवघृतनियमविधिवैरूप्यम् । तथा “पूषा प्रपिष्टभाग” इति पेषणस्य चरुपशुपुरोडाशार्थत्वे चरौ प्रतिप्रसवा- त्पशुपुरोडाशयोश्चापूर्वविधित्वाद्वैरूप्यम् । तथा नवमे पत्नीसं- याजान्तान्यहानीत्यत्रापूर्वविधिनियमविधिवैरूंप्यादन्त्याहवर्ज प्रवृ- त्तिरित्युक्तम् । तथा ग्रहैकत्वविवक्षायामपूर्वविधिपरिसंख्यावरू- प्यम् । तथोभयार्त्यधिकरणे ऽपि । तथा दशमतृतीयोपान्त्ये सोमच- मसी दक्षिणेत्यत्रैकवाक्यत्वे सोमचमस एवेति नियमात्स ब्रह्मण ए- वेति परिसंख्यापत्तेश्च वैरूप्यम् । तथा नित्यानित्यसंयोगविरोधात्मकं च वैरूप्यम् । तदपि भा- व्यखरूपे द्वारे वा। आद्यं संस्थासामानविध्ये । द्वितीयं फलचमसासामानविध्यधिकरणे । षष्ठतुर्याद्ये एकस्यैवोपलक्ष्योपलक्षणत्ववैरूप्यम् । तत्र हि होमार्थचतुरवत्तनाशे शेषादेव पुनरवदेयं “यस्य सर्वाणि ह- वींषि नश्येयुर्दुष्ययुरपहरेयु" आज्येनैता देवताः परिसंख्याय यजे- तेति हविर्नाशे निमित्ते विहिते त्वाज्यं निःशेषनष्टे हविष्युतान्याया- त्पुरोडाशान्तरोत्पादने प्रसक्ते हवि शनिमित्तविहिताज्येन यष्टव्य- मिति संशय्य पूर्वकोटिं पूर्वपक्षीकृत्य सिद्धान्तितं तन्त्ररत्ने । कृत्स्न स्थाविकलस्य पुरोडाशस्य मध्यपूर्वार्धे अवदानोपलक्षणमित्येव शास्त्रार्थः । कृत्स्नस्यैव शास्त्रवेलायां प्रकृतत्वात् । इतरथा यदि कृत्स्नपुरोडाशमध्यपूर्वाधलक्षितमवदानद्वयं शास्त्रार्थ इति न गृह्यते ततो द्वयवदाननाशे सति इतरत्सर्वमवशिष्टं तस्योपलक्षणं नाशं तु सति तदेवोपलक्षणभूतमेव शिष्टम् । पुनरवदीयमानमुपलक्ष्य प्रसज्यतेति वैरूप्यं शास्त्रस्य स्यात् । एकरूपेण च शास्त्रेण भाव्य- । तस्मादपादानत्ववाचिपञ्चमीबलाद्यागाङ्गभूतद्वयवदानोप- लक्षणमेवेतरन्न तु स्वयं यागाङ्गभूतमुपलक्ष्यमिति । यथा विधि- प्रत्यये ऽपि विध्यनुवादवैरूप्यम् । तद्यथा द्वितीये "वायव्यं श्वेत- मालभेत सौर्य चकै निर्वपेदिति । दार्शपौर्णमासिकावीषामालभेत चतुरो मुष्टीन्नित्रपतीत्यालम्भानर्वापावनूद्य श्वेतचरुगुणी विधीयत वायव्यमितीषाया वृक्षप्रभवत्वाद् वृक्षस्य च वायुसम्बन्धात्सौर्यमि- ति च चरोः स्थाल्यास्तेजस्वित्वेन सूर्यसाहयात्कथं चिदनुवाद म् वाक्यभेदनिरूपणम् । इति पूर्वपक्षिते आलम्भनिर्वापयोलोंके ऽपि सत्वेन व्यभिचारा- दार्शपौर्णमासिकयोरेवापस्थितिः सम्भवतीति सिद्धान्तिनोक्ते लिङा विहिती यावालम्भनिर्वापाविति विशेषणान्नायं दो- ष इत्याशय एवं त्तर्हि लिङो ऽनुवादकत्वाद् गुणविधिन ल- श्यते उभयाश्रयणे च युगपद्विध्यनुवादविरोध इत्युत्तरि- तमिति । इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणमी- मांसाद्वैतसाम्राज्यधुरन्धरश्रीभदृशङ्करकृते मीमांसाबालप्रकाशे द्वादशा- ध्यायार्थसङ्ग्रहः ।