Svi-ksri-chennai
Sruung-garasheikharabhaand-a
Front matter
No text on this page.
THE
579
SRINGARA SEKARA BHANA.
by
T: S. SUNDARESA SARMA
THE KUPPUSWAMI SASIRI
RESEAR ti injetiti?
MADRAS.
Published By
THE GENERAL STORES,
Ayyan-kadai Street, Tanjore.
PRINTED AT THE
SRI VIDYA POWER PRESS,
RUMBAKONAM.
1938.
All Rights Reserved]
Price 6 Apnas.
No text on this page.
॥ श्रीः॥ सुन्दरेशशर्मविरचितः ॥शृङ्गारशेखरभाणः॥ केलीसौधगृहं मिताश्चितमुखः क्षोणीसुतायाः करं प्रेम्णाऽऽलम्ब्य भुजान्तरे मलयजं धृत्वा स्रजाऽलंकृते । कर्पूरद्रववीटिकामपि करेणादाय चेटीकरा- च्छृङ्गारः स तु मूर्तिमानिव रघूत्तंसो विशन्पातु वः ॥१॥ (नान्द्यन्ते) सूत्रधार:- संभिन्नं कुचमण्डलं लघुतरो रोमावलीनीलिमा वक्रत्वं च विलोचने तरलता गात्रवतत्यामपि । येनोदेति वचःसु चाटुरचना बिम्बाधरे वा सुधा तादृशं नवयौवनं मृगदृशां चेतोहरं वर्धताम् ॥२॥ ( इति पुष्पाञ्जलि विकीर्य, नेपथ्याभिमुखमवलोक्य।) मारिष, इतस्तावत् । (प्रविश्य ) पारिपार्श्वक:-भाव, अयमहमस्मि । सूत्रधारः-अद्य किल रघुवीरचरण निरन्तरसेवानन्दभरितश्रीत्याग- राजार्यवर्यपरमानुग्रहपात्रशरभोजिराजवंश्यपरिपूजितस्य, स्वाक- तिसमुन्नतिसंदर्शनसकौतुकसंकृष्यमाणनिखिललोकपरिवृतनन्दी- शसमुपासितपुरोभागस्य, सकलमोक्षान्तफलदाधिवाससंवेदनो- द्यत्समुन्नतमहागोपुरालंकृतमहालयप्रतिष्ठितस्य बृहदीश्वरस्य वस- सो सागिकियोस। .
शृङ्गारशेखरभाणः। - पारिपार्श्वकः कथमिव ? सूत्रधारः- अदीर्घमश्रुतं किंचिद्रूपकं रसनिर्भरम् । प्रयुज्य भरताचार्य मोदयख मनांसि नः ॥३॥ इति ! पारिपार्श्वकः-न ज्ञायते तादृशं रूपकं यद्वा प्रयुञ्जानाः सामा- जिकानावर्जयिष्यामः । सूत्रधारः-कथमिदं विस्मृतं सुन्दरेशशर्मणाऽचिरादेव निबद्धं शृङ्गारशेखरनामकं रूपकम् ? सुललितपदैनिगुम्भितमधुनातनहृदयहारिरसभावम् । शृङ्गारहास्यरूपकममलं शृङ्गारशेखराभिख्यम् ॥४॥ पारिपार्श्वकः--आः, ज्ञातम् । तदेवात्र प्रयोक्तव्यम् । यतः, सभा सारज्ञेयं सरसकविसर्वस्ववचसां वयं प्राप्ता नाट्ये सुभृशमपि नैपुण्यपदवीम् । कवेर्वाचो नूनं त्रिदशजनजीवातुसहजा विधिः पुण्येनेदं सकलमपि नः संघटयति ॥५॥ परं तु विसयास्पदमाभाति मे यत्किल सततसमर्चितरघुनाथ- चरणस्य श्रीत्यागराजचरितरामामृततरङ्गिणीमुखभक्तिमयग्रन्थनि- मातुः शमप्रवणस्यापि कवेरस्य कथं प्रवृत्ता मतिः शृङ्गारकाव्यरच- नायामिति । सूत्रधारः-किमत्र चित्रं नाम ? अनृतशतसाध्ये वाणिज्ये व्यापृतस्यापि कथमिव मनो विनिहितं रघुकुलतिलकचरणयोः ? विभाति कविरेष तु त्रुटितसर्वदुश्चेष्टितः प्रशान्तहृदयः स्वयं प्रहतसर्वचित्तैषणः ।
शृङ्गारशेखरभाणः। mm निजोदरकपूर्तये विहितनव्यचेलापणः प्रभौ रघुकुलोत्तमे वितनुते हि भक्ति पराम् ॥६॥ पारिपार्श्वकः- युक्तमेवैतत् । भूपाला उपभोक्तुमक्षमतया काव्याङ्गनाचातुरी चिन्वन्तः प्रमदाजनान्नवनवान्देशाटनं कुर्वते । कृत्वा पापमपीह मूढधनिनो वित्ते यतन्ते पुन दीनास्ते कवयो निजोदरकृते कुर्वन्ति तास्ताः कृतीः ॥७॥ सूत्रधारः- मारिष, न विलम्बनीयमस्माभिः। त्वर्यतां प्रसाध- नविधानाय । पारिपार्श्वकः -- तथा । ( इति निष्क्रान्तः।) सूत्रधारः-(परितो विलोक्य। ) अहो रमणीयता वसन्तागमस्य । माकन्दपल्लवरसानुभवोद्गतेन कण्ठेन कोकिलयुवाऽऽह्वयतीव कान्ताम् । भृङ्गश्चिरं विचिनुते नवमल्लिकां तां सद्यःप्रसक्तसुमनोरजसाऽभिरामाम् ॥८॥ ( पुरोऽवलोक्य ।) क एपः? रक्तांशुकाकलितकृत्तशिरोविभागः संदृश्यदेहरुचि चांशुकमादधानः । ताम्बूलचर्वणसुरक्तरदच्छदोऽय- मायाति सत्वरमिहोद्धृतलोलवेत्रः ॥९॥ ( विचिन्त्य।) अयं खलु मे मातृष्वतीयः सौगन्धरः शृङ्गारशेखरभूमि- कामादायेत एवायाति । तदनन्तरकरणीयाय यतिष्ये । (इति निष्कान्तः।) प्रस्तावना।
४ शृङ्गारशेखरभाणः। ( ततः प्रविशति यथानिर्दिष्टः हारशेखरः।) शृङ्गारशेखरः-- ( र बाप्पगद्गदम् ।) प्रियां लब्ध्वा कान्तां चिरतरकृतैरुद्यमचयै- यंदा प्रेमालापानहह कृतवान्कर्णनिकटे । सहस्रांशु|रो ह्युदयति भृशं चण्ड इति सा विधुन्वाना हस्तं चकितचकिता विद्रुतवती ॥१०॥ म्मरणमभिनीय।) शिञ्जन्नपुरमिन्दुविम्बवदना मन्दं यदायात्पुरा मन्दस्मेरमुखेण रागविवशा यन्मामपश्यच्च सा । पार्श्वे यच्च शिलातले पुलकिता हृष्टा न्यपीदत्पुन- बच्चाटूनि वचास्यवोचदथ सा तन्मे मनः कृन्तति ॥११॥ ( सास्त्रम । ) पश्याम्यनङ्गविशिखाकृतिकां च कान्ता- माकर्णयामि मधुराणि वचांसि तानि । ( पार्श्वतो दृष्ट्वा ।) नष्टा पुनर्नलिनपत्रसमायताक्षी त्वासादयेयमबलां कथमद्य दीनः ॥१२॥ ( आकाश दृष्टि बद्वा।) अनूरुसारथे, किं मयाऽपराद्धं नाम ते? यत्प्रध्वंसयसि मे सुचिराभिलषितम् । स्पृशसि करैर्दिग्ललनाश्चुम्बसि नलिनी च जातमात्रस्त्वम् । विघटयसि किं दुरात्मंश्विरलब्धां तां तु बिम्बोष्ठीम् ॥१३॥ ( मक्रोधम्।) भवतु, पश्यामि तावदद्य ते साहसम् । श्वस्तवोद- यात्प्रागेव यदि तां नाधिगच्छामि, नाहं शृङ्गारशेखरः। भवतु, साधयामि । रति परिक्रम्य परितोतलोना च।) )
शृङ्गारशेखरभाणः।
५
रमणीयेयं क्षणदावसानवेला । संप्रति हि,
शीतांशुश्वरमाद्रिशृङ्गमयते तेजोविहीनः स्वयं
प्रेम्णाऽऽभुज्य कुमुद्वतीं प्रियतमां तारा अनादृत्य च ।
प्राच्योऽयं तु समीरणः स्तबकसंलीनान्विरेफवजा-
नुत्सार्य स्वयमेव चूतलतिका गाई समालिङ्गति ॥१४॥
(पुरो दृष्टा ।) क एष कटिनिबद्धसमुद्धतधवलवसनः सर्वावयव-
समुल्लसिततनूरुहः कृत्तकेशपाशश्चकितचकित इत एवाभिवर्तते ।
( निपुणं निरूप्य।) कथं हेमगुप्तस्य तनयो मित्रवर्धन एव ।
भवतु, एनमालापयिष्ये । ( इति परिक्रम्य ।) प्रियसख, कुत्र वा प्रत्यूष-
समये प्रस्थितोऽसि ? सभयं किं ब्रवीपि ? "मा शद्धं कुरु" इति ।
( स्वगतम् ।) कथमेष भृशमुद्विग्नः । ( प्रकाशम। ) सखे, सर्वकार्यक्षमे
शृङ्गारशेखरे स्थिते किमर्थं बिभेषि? यो वा को वा भवतु, हस्त-
तलेनैव निहन्याम् ।
भित्तयः शतसहस्रिका मया लचिताः कुलवधूकृते सखे!
घातिताश्च पतयः परःशता मुष्टिभिस्तु मम धीरसत्तमाः ।।
ततो विस्रब्धो भण । किं ब्रवीषि? नाहमकामय आचार्य-
तनूजां कनकवल्लरीमिति । (स्वगतम् । ) एष किल माधवदत्तसुता-
मुपगतो गुरुणा तेन संदृष्टः प्रहत इति मन्ये । सा किल,
प्रमुग्धा लोलाक्षी नवसमुदितैणाङ्कसुषमा
समुत्कर्ष सृष्टः प्रथयति मनोजाम्बुजजनेः ।
वयं यूनो दृष्ट्वा तरलविषमैरेव नयन-
रनूढा दीर्घ सा श्वसिति च समुद्बुद्धमदना ॥१६॥
( प्रकाशम।) किं तु तयैव स्वयमुपभुक्तोऽसि ? तर्हि भाग्यवानसि।
पुण्यफलमेव मन्ये यूनां स्वयमेव कुलवधूवरणम् ।
स्पृहणीयोऽसि सखेऽद्य प्रथितैविटशेखरैनूनम् ॥१७॥
ur
शृङ्गारशेखरभाणः।
?
सविषादं किं ब्रवीषि ? न मया भुक्ता, शृणु यदृत्तमिति ।
अरे, यथाजात, किं त्वया नोपभुक्ता? किमु केशकर्तनमेव फलं
प्राप्तम् ? किं ब्रवीपि ? " सा किल पठनकालेषु चिन्तनसमये च
कपाटान्तरे विलीना मामेव पश्यन्ती तिष्ठेत् । चिरमित्थंभूतेऽपि गुरु-
कन्यकेति भीत्योदासीनतया वर्तमानं मामालक्ष्य खिन्नेव ? ह्यः पुनः
शिवालयं गतयोस्तत्पित्रोः, आपणं गतेषु सहाध्यायिषु, चरमगिरिम-
वरोहति सहस्रपरीचिमालिनि, एकान्ततया मम पार्श्वमागत्य श्लिष्ट
पिष्टानि वाक्यान्यभाणीत्" इति । सदृशमेवैतन्मुग्धानाम् । ततस्ततः ।
किं ब्रवीपि ? " परिज्ञातान्तरार्थतत्त्वे मयि, रात्रौ दशमघटिकायाः
परं यात्रिकगृहबहिर्वेदिकायां संकेतितं स्थानम्" इति । उचित
एव स्थलविशेषश्चौर्यरतस्य । ततस्ततः। किं ब्रवीषि ? "निशा-
मुख एव भुक्त्वा क्षणमपि कृच्छ्रेण युगवन्नीत्वा, प्रसुप्तेषु सर्वजनेषु,
गाढान्धकारेण समावृते नभसि, मन्दं मन्दं चलन् गृहबहिार-
मासाद्य, कपाटमनर्गलं दृष्ट्वा, परां तुष्टिमुपगतः पश्यन्नेव परितो
मन्दं मन्दमभिसरन्संकेतवेदिकामासादयम् " इति । सखे, धीर-
तरोऽसि । ततस्तत.। किं ब्रवीपि ? " कचग्रहणाननुवेद्ये गाढे
तमस्युपविशञानुभ्यां शोधयन्मार्ग हस्तेनैव, प्रकम्पितशरीरः
शनैरुपागमं यात्रता, तावदालग्नं करे मम पदयुगलम्" इति ।
भाग्यवानसि यल्लब्धं नवनीतम् । ततस्ततः। साश्रुनेत्रः किं ब्रवीषि ?
" नासादितं नवनीतम् । शृणु यवृत्तम् । सपयेव सकौतुकेन मया
जानुनि न्यस्त हस्ते, पादेन खलु भृशं वक्षसि संताडितः पार्श्वे न्य-
पतम्" इति । कथं कष्टम् । सा किं धूर्ता त्वां प्रलोभ्य शिक्षितवती ?
कुलस्त्रियस्तु परं न विश्वसनीयाः ।
सस्पृहा इव वीक्षन्ते प्रलपन्ति च सादरम् ।
गम्यते यदि पार्श्वे तु घोषयन्ति खरा इव ॥१८॥
शृङ्गारशेखरभाणः ।
भवतु, अपांसुला भवितुमिच्छन्ती किमर्थं संकेतस्थानमधि-
गतवती ? किं ब्रवीषि ? " मा त्वरस्व । विषयमवधेहि । उत्थातुं
कृतोद्यमे मयि सक्रोधमेकः कचं गृहीत्वा मां सुदूरमाकृष्य वैद्युतं
दीपमुज्ज्वाल्य मन्मुखं वीक्षमाणः 'रे धूर्त मित्रवर्धन, अकिंचन
इति जनान्वश्चयन्नाकण्ठमपि मुजानः सर्वेषु गृहेपु, शिवालयपरि-
चारिकामनुभवसि । साधु रे धूर्त', इत्युदीरयन्नेव कटिनिहितेन
कृपाणेन मम शिरोरुहान्कृन्तन् ‘गच्छ रे पाप, इयं दुष्टा वराकी
जरद्द भी, मद्दत्तांस्तस्करिततण्डुलानन्यांच तेलादीन्यथेच्छं विस्रब्धं
भुक्त्वाऽन्येन केनापि सुदृढं भुज्यत इति चिरेण समदिहि । स एव
त्वमद्यैव करग्राहं गृहीतः। पय्यपि महाशनशिवद्विजे ते साहसं
दर्शयसि' इति संघुष्य संताड्य बलवत्कपोल, पदा च मामभिहत्य,
क्रुधा मां निष्कास्य, कपाटं च सारवमर्गलयन्नन्तर्गतः। अहमपि
यावद्रजनी सुदूरेण तिन्त्रिणीमूल एव संग्रहितशरीरो निलीनः प्रभा-
तमनुचिन्त्य भीतभीत इत एवागच्छामि " इति । अरे विधिनेमां
गमितोऽस्यवस्थाम् ।
नियोजयत्येव विधिः कुकर्माणि
प्रदत्त एतेन महत्फलानि च ।
संताडयत्यन्यमनात्तकामक
दुर्लङ्घनिर्देश इति प्रभाति मे ॥१९॥
यत्तेन सजीव एवोन्मुक्तस्त्वमेतदपि तव सुकृतपरिपाक इति
मन्ये । यता,
सदा द्विजकुलाधमः क्षुरकृपाणपाणिर्बला-
च्छताधिकपराङ्गनाः स हि निषेवते कामुकः ।
न चापि सहते शठः सकृदपि प्रभुक्तं जनं
समीक्षितुमपीक्षणैः परजनानिहन्ति क्रुधा ॥२०॥
८
शृङ्गारशेखरभाणः।
अपि च,
अहरपि च दिनान्तो यामिनी प्रत्युषश्च
प्रसभवरवधूटीसंगमायैव कालः।
न च गणयति पुण्यं वाऽपि देशं स मूढो
न च वयसि गरिष्ठां नापि जाति स्मरातः ॥२१॥
किं ब्रवीषि ? "प्ररोहााय मे केशपाशाय नाहं विषीदामि ।
नापि वा शीलक्षयाय । कथंभूता कनकवल्लरीत्येव मानसं मे परित-
प्यत" इति ।
उचितमेव स्वयं कृतानुरागायां विशिष्टः प्रेमवन्धो नाम ।
मूर्तित्रयकृतानुशासनो भगवाञ्शम्बरशासन एव परिपालयेयुवतीर्युव-
जनं च । विस्रब्धं गच्छ । ( इत्यन्यतो गत्वा ।)
केयं पुरातनमहार्हवसनपरिधाना संसेचिताङ्गारकातिर्मामे-
वाभिवर्तते ( निरूप्य।) कथं मजुभाषिण्याचेटी सरमा !
कुतः
सत्वरमायाति । ( उपसृत्य । ) अयि सरम, अपि कुशलं मे प्रिय-
सख्याः?
कि ब्रवीषि ?
" कुशलमेव भवादृशानामनुग्रहदृष्ट्या ।
देवी विज्ञापयति-अद्य किल सायं गृहोद्याने नूतनडोलाविहारः
प्रवर्तिष्यते । देवेन साकं तमुत्सवमासेवितुमभिलषामि" इति । अनु-
गृहीतोऽसि । महाननुरागः किल मयि ते देव्याः । कथय तां मयि
निहितप्रेमानुबन्धसदृशं संभावयामीति । भवतु, किं तब मदन-
महोत्सवाः सदनषु निरर्गलं प्रवर्तन्ते ?
गच्छसि युवानमधनं जरठं बधिरं च पङ्गुमूकमपि ।
पुंभावमात्रतस्त्वं रमसे रमयस्यहर्निशं सकलान् ॥२२॥
2 शृङ्गारशेखरभाणः । ९ सलजस्मितं किं ब्रवीपि ? "किमप्यविदितं नाम नास्ति भवताम्" इति । भवतु, सृष्टाऽसि चिकित्सकानां भागधेयेन । साधय मनोरथान् । (अन्यतोऽवलोक्य ।) क एष कोलाहलः । अत्र किलाचिरसंपत्स्यमानमदनमहाहव- संसूचकबदरीलिकुचकपित्थफलोपमकुचमण्डला नवयुवत्यः कृत- हस्ततालाः कलं च गायन्त्यः कन्यकामेकां मध्ये संस्थाप्य प्रदक्षिणी- कुर्वन्ति । अन्याश्च प्रगल्भास्तरुण्यः संनद्वतालफलकलशमहीधरा- धरीकरणचतुरकुचमण्डलाचर्वितमधुरसुरभिताम्बूलाः परित उपवि- शन्त्यः समोदमनुभवन्ति नृत्यरसम् । सरसः संनाह एतासाम् । हंसपद्मसमाकीर्णस्तटाक इव शोभत। विचित्र कुसुमाकीर्णलतानिष्कुटवञ्च सः ॥२३॥ कथमेताः सत्वरं नृत्यगीतानि समाप्य मामेव सबहुमानं पश्यन्ति । अस्तु, संभावयाम्येनाः । ( इति परिक्रम्य।) सरभसमुपसृत्य सहर्ष कलभाषिणि, किं ब्रवीषि? "अद्य रमणीयेयं परिषत्तारका- वलिरिव कलाधरण" इति । स्वभावनियता किल वचसि चटुलता वनजनिदृशाम् । किमुत भवादृशां शतवारसुनीतानां वारवनितानाम् । सिद्धेह वाचि नयने भृकुटीलतिकासु वक्रता सुदृशाम् । तारल्यमद्य चेतसि गात्रच्छविवीक्षणेपु तन्नियतम् ।।२४।। किं ब्रवीषि ? "अद्य किल कनीयसी मम कलावती कुसुमिता। ततश्च प्रवृत्तस्तदभिनन्दनविलासोऽद्य विलासिनीनाम् । भवतोऽत्र समागमः कलावत्या भाविभाग्योदयमभिव्यनक्ति" इति । नैतदुचितं नाम । यत्सा, नूनं पञ्चशरेण पञ्चभिरहो वाणप्रसनेरियं लोकोन्मादकृते तु शर्वदहनप्राप्त क्रुधा निर्मिता ।
१०
शृङ्गारशेखरभाणः ।
अप्रौढामपि कन्यकां पुनरिमे दृष्ट्वा प्रमुह्यन्ति य-
मन्ये पुष्पधृतिं नवां युवजनस्योत्फुल्लभाग्योद्गतिम् ।।
किं ब्रवीषि? "
आस्थायात्र ताम्बूलग्रहणेनानुग्रहणीयोऽयं
जनः" इति । किमेतेन वीटिकामात्रग्रहणेन ।
स्नातामिमां तु मुग्धां सरसवचोभिर्मुदा वशीकृत्य |
बिम्बाधरस्य पानादोष्ठं रक्तं करोमि मे नूनम् ॥२६॥
किं ब्रवीषि ? धन्या बालेति । भवतु, साधयामि ।
( इत्यन्यतो गत्वा ।)
क एष नवकोमलपल्लवविलसद्वकुलतरुमूलशिलातल उपविश-
चन्मत्त इव स्वयं प्रलपन्मोदते नितराम् ।
( निर्वयं । ) कथं मम प्रियसख एव! ( परिक्रम्य । ) अरे चन्द्रदत्त,
कथमुन्मत्त इव लक्ष्यसे?
किं ब्रवीषि? “विटशेखर, अद्यैव त्वां व्यचिन्तयम् । काले
किल समागतोऽसि" इति । किं मयाऽद्य करणीयं ते? किं ब्रवीषि?
सुखं दुःखं च सन्मित्रैविभक्तुमुचितं प्रियैः ।
एकस्य हृदय तिष्ठद्भिनत्त्येव हि मानसम् ॥२७॥ इति ।
उचितमवैतत् । यदद्य किल तव वदनमनुपश्यन्नतर्कितेन
श्रेयसा नियोजितो देवेनेत्यनुमिमे । येन किल,
शीताश्रुवर्षि नेत्रं पुलकभरेणाकुलं च संहननम् ।
स्फुरितं च गण्डयुगलं शंसति हृदयस्थितं तोषम् ॥२८॥
( निपुणं निर्वर्ण्य । ) अहो कृतभाग्योऽसि । यतः,
वक्षोजद्वयकुङ्कुमाङ्किनमुरो गण्डोऽधरालेपन-
प्रस्निग्धः कटकावलीकिणचितस्त्वंसोऽलसे लोचने ।
पाणिविश्लथ एष शंसति सखे दीर्घ पुनर्यत्स्वयं
तालाकारकुचद्वयीविरचितं सबस्तु वीरायितम् ॥२९॥
शृङ्गारशेखरभाणः। ११ सप्रमोदं किं ब्रवीषि? "पण्डितोऽसि मदनविद्यायां यत्प्रत्यक्षदृष्टमिव वर्णयसि वृत्तम्" इति । भवतु, कया नीतमिदमधिगतभागधेयं शरीरमियन्तं विपर्ययम् ? किं ब्रवीषि? "दीर्घतरमिदं पुराणमिव । संग्रहेण कथयामि तावत् । आलयपूजकस्य महाशनस्य नवोढया भार्यया परिचारिकामुखेण सार्धयामात्परं निशायां गोपुरपुरोगततीर्थमरणिं समागन्तुमभि- पार्थितः" इति । उचितमेव निमन्त्रणमिदम् । सा किल, नवार्तवमहोत्सवे युवतिसंघमध्ये पुरा मनोजमपि साक्षिणं विदधती यथा तत्प्रमूः । उवाच शपथेन सा नवनवेन पुंसा पुन- स्त्वनाकलितसंगमा न हि शयिष्य इत्यन्वहम् ॥३०॥ किं ब्रवीषि ? "मया च सत्यप्रतिज्ञेन, अनादृत्य शिवारव- मविगणय्य गाढं तमस्तृणीकृत्य भुजंगवर्ग प्रलोभ्य यातुधानगण- मिवास्थितं यामिकवर्ग मन्दं मन्दं गोपुरमासाद्य तस्या आगमनमा- कलयन्मनस्यचिरमवसम्" इति । सखे, धीरतरोऽसि । ततस्ततः । किं ब्रवीषि ? " तदा किल तटिल्लतिकेव धरणिमासन्ना सश- रीरेव शशधरच्छविः शरीरातिभिन्नतमोराशिरेकाकिनी ललना पावस्थितयात्रिकगेहादागत्य परितो दृष्टिं प्रसारयन्ती सोद्वेगं चकितचकिता निवर्तितुमारभत" इति । ततस्ततः । किं ब्रवीषि ? "अहमप्यभिसारिकां मन्यानस्तां पञ्चषट्पदान्य. नुसृत्य मन्दम् ‘प्रिये' इत्याह्वयम्" इति । यायो नाता। तनम्नतः ।
१२ शृङ्गारशेखरभाणः। किं ब्रवीषि ? “सा किल सभयं मामभिवीक्ष्यादृष्टपूर्वतया वेपपाना 'आय, क्षन्तुमर्हसि । सोदरं विचिन्वती समागताऽहम् । तं तु निवृत्तं मन्ये' इति वदन्त्येव गन्तुं समुद्यता" इति । पटव्यः किल पङ्कजाक्ष्यः। ततस्ततः । किं ब्रवीषि ? " अहं पुनः 'अयि प्रेयसि, किमु युक्तं नाम रजनीमध्ये मामेकमभिज्ञायापि विहाय गन्तुम् । भृशकातरश्चन्द्र- दत्त इति किल घण्टाघोपः पोरेषु । अहमपि मम सोदरीमेव विचिन्वन्संचरामीतस्ततः' इत्यवोचम्" इति । पण्डितः किल परवञ्च- नायाम् - ततस्ततः । किं ब्रवीषि ? सा क्षणमिव निपुणं मां निर्वर्ण्य कथं त्वं चन्द्रदत्तः । अरे जाल्म विटशेखर, मदनविद्यापारंगत इति श्रुतोऽसि । चिरेण त्वामधिगन्तुं यतमानाऽपि नासादयम् । दैवेनाद्य गमितोऽसीति वदन्त्येव गाढमालिङ्गन्ती कर्षन्ती सुदूरमधिगत्येदं शिलातलं पात- यित्वा मामधः, तरलनयनं ताम्यन्मध्यं तिरस्कृतभीतिकं चलितचिकुरं चण्डोत्कम्पाकुलाङ्गतटिल्लतम् । क्वणितमणितं क्लिश्यद्वक्षोजतुङ्गमहीधरं रभसरभमं तन्वी चक्रे तदा पुरुषायितम् ॥३१॥” इति । अरे धन्यस्त्वं यदनुकूलविधिरसि । ततस्ततः । किं ब्रवीषि ? अविरतरतिकेलीश्रान्तचित्तेन्द्रिया सा तरुमिव नववल्ली गाढमालिङ्गय मेऽङ्गम् । चिरतरमपि सुप्ता निश्चला चञ्चलेव प्रणयभरवशेन प्रीतिभूम्ना च तन्वी ॥३२॥ इति । प्रियसख, इतः परमासादनीयं किमास्ते ?
शृङ्गारशेखरभाणः । १३ सुरतावसानवेलाक्लान्तिभरेणाकुलां तु तन्वङ्गीम् । उद्वहति चेदवाप्तं यूना तजन्मसाफल्यम् । ३३॥ ततस्ततः । किं ब्रवीषि? चिरतरमपीत्थंभूत, अरुणकिरणजालेरावृतं व्योम दृष्ट्वा चकितचकितचेता धुन्वती दोलताग्रम् । प्रसभमपि च बन्धान्मोचयित्वाऽश्रुनेत्रा स्खलितचरणपमा गच्छति स्मामनस्का ॥३४॥ तचिन्तयतो मे कम्पते शरीरम् । पश्यन्ती सा प्रणयपिशुनैर्दीर्घदीर्घरपाङ्ग- मन्दं मन्दं स्खलितवसनं कुर्वती च स्तनाग्रे । उद्युक्ताऽपि प्रलपितुमनीशा पुनर्गद्गदेन प्रेम्णाऽऽक्रान्ता निरगमदहो केवलं त्वङ्गकेन ॥३५॥ इति । इदं परमसह्यतरं कुलाङ्गनानाम् । ततस्ततः। किं ब्रवीषि ? "अहमपि तस्या विरहमसहमानस्त्वरितमनुसृत्य 'प्रेयसि, कथम- गतिकं मां परित्यज्य गन्तासि ? यत्र कुत्रापि वा निलीनौ रस्यावहे, तिष्ठ तिष्ठ' इत्यवोचम् । सा पुनरंसे मम विन्यस्यन्ती करपल्लवं निश्वसती दीर्घम् ' हा प्रिय ! अहं किल माधवदत्तस्य दुहिता कनकवल्लरी । मम पिता किल अविज्ञातनारीनिसर्गः, ऋतुमतीमपि मां न प्रादात् । चिरेण त्वामश्रौषम् । अथैव च संगता कृतकृत्यास्मि। अद्य च रात्री त्वामत्रैव प्रतीक्षे । स्नानाय पुनरागच्छेयुरत्र नागरिकाः। गच्छा- न्यतस्त्वरितम् । मुश्च मामित एव' इति वदन्त्येव विद्रुतवती । तामेव ध्यायंस्तदेव चिन्तयंस्तद्विरहेण च परिदयमानः प्रलपत्रहमपश्यं प्रियसखम्" इति । किं कनकवल्लर्येव सा! दुनिरूपं हि विधिविलसितम् । ।
१४
शृङ्गारशेखरभाणः।
घटयति फलमेकस्य प्रहरत्यन्यं विधिस्तु दुर्ललितः ।
यान्ती पुनरन्यस्मै भुक्ता भवता सुशिक्षितः सोऽयम् ।।३६॥
अरे, धन्योऽसि नवयुवतीसंगमेन । प्रतीक्षस्व दिनावसानम् ।
( इत्यन्यतो दृष्ट्वा।)
का नामेमाः परिष्कृतचिकुरविन्यस्तार्धचन्द्राकारदान्तवलयाः,
लम्बमानधम्मिल्लार्धविराजमानचमरीवालसदृशकेशपाशरमणीयाः,सं-
दर्शनीयबाहुमूलकुचपरिणाहसूक्ष्मकञ्चुकधारिण्यः, कान्तिझरगोपन-
भीत्येवैकमेव कनकौवेयकं दधानाः, नयननिहितकनकोपनेत्राः,
प्रकोष्ठपरिकलितघटिकायन्त्राः, करलम्बितकुरङ्गचर्मभस्त्रिकाः, चरण-
निहितकोशेयपदत्राणाः संघशः,
पादलम्बिसितचेलभूषिताः
पुस्तकैश्च विनिगृहितस्तनाः।
मन्दमन्दमधरोदिताशया
अत्र यान्ति ललनाः समन्ततः ॥३७॥
( निरूप्य।) विद्याशालामनुप्रयान्ति विशालाक्ष्यः ।
असे कृत्वा करकिसलयं पार्श्वगाया युवत्या
मुग्धा वामाः सरससरसं संलपन्त्यः सहर्षम् ।
विद्याशालां कुतुकरभसं संप्रयान्त्यो मनो मे
कर्षन्त्यम्भोरुहसुरभयः षट्पदानामिवालिम् ॥३८॥
एताभिः सहाध्ययनं परेण पुण्येन भाव्यं युवमाणवकानाम् ।
यत:,
कुचाग्रमिह संस्पृशंश्चलति संघसंघर्षितः
कदापि भुजमूलमप्युपसमीक्षते सस्पृहम् ।
रहस्यपि च संलपत्यहह संशयच्छमना
वधूपरवशीकृतिः परमहो समभ्यस्यते ॥३९॥
शृङ्गारशखेरभाणः । १५ कैषा सहाध्यायिनीकरग्रहणान्मोचयन्ती ममाभिमुखमायाति । ( निरूप्य।) कथं मम वर्षमात्रकलत्रस्य कनकलतायाः कनीयसी कीरवाणी। किमियमियन्तमापन्ना वषव्य त्यासम् । दृश्यन्ते न च नूपुराणि चरणे नैव प्रकोष्ठे पुनः सप्ताष्ट ग्रथितानि हैमवलयान्यङ्गे हरिद्रारसः । मुक्ताचम्पकमालिकाश्च न गले चूडामणि कचे वासः सूक्ष्मतम च केवलमियं कान्त्या परं लक्ष्यते ॥४०॥ अपि च । श्वेतद्वीपसमागतललनेवेयं प्रसाधिता तरुणी । आजानुलम्बिवसनाऽप्यकरं परमद्य कञ्चुकं दधती ॥४१।। अयि कीरवाणि, किं त्वयाऽप्यभ्यस्यते साधारणजनैरिव केवलमियं विद्या? स्रीत्वेनैव पिकीयं प्रलोभ्य काकी प्रसूत इह पोतम् । किं विद्यया युवत्याः कुशलायाश्चापि वेशवृत्यां ते ॥४२॥ किं ब्रवीपि ? कथमिमां चटुलां मन्यते भवान् ? यदि द्रष्टासि पुनरध्यापयित्रीं वेत्तासि कौशलं स्त्रीणाम् । संलम्बिस्तनमण्डलाऽपि वसनैरारोहयन्ती दृढ़ मुग्धेव प्रतिभाति विंशतितमं स्वस्या वयो वक्ति सा । पातिव्रत्यमनारतं समुपदिश्यासान्विटैगच्छति प्रायस्ता गणिकाजनस्य नियतैर्जीवन्ति वै वर्तनः ॥४३॥ अपि च, अन्तर्धत्वा कलुषकलुषं चांशुकं दीर्घरोगाः संधार्यापि प्रतनुललितं चेलमाडम्बरेण । गन्धोन्मित्रैर्वदनमुकुलं लेपयन्त्यः परागै- हृत्वा चेतस्त्वबलमनसामर्जयन्त्याशु वित्तम् । ४४।। इति ।
१६ शृङ्गारशेखरभाणः । दृष्ट्वा ।) तर्हि ताभिः किमिव साधयिष्यसि ? ( इत्यन्यतो कथमुपगतोऽहं वेशवाटिकाम् । कुसुमगन्धपरागककञ्चुलीकनककङ्कणविक्रयशालिभिः । अनुगृहं च गतागतलालसैः परिवृतः परवञ्चनपण्डितैः ॥ कैपा मां दृष्ट्वाऽन्तरुपयाति । ( निर्वर्ण । ) कथं पिकभाषिणी । प्राक्तनेनाल्पागसा भृशममर्षिता । भवतु, उपसरामि । ( इति परिक्रम्य । ) प्रिये, किपद्यापि ते कलुषितं मनः ? सरोष किं ब्रवीपि ? " गच्छ गच्छ यत्रास्ते खरकण्ठी" इति । ( स्वगतम।) व्यत्यस्तगुणगणा अपि वितरन्त्योऽङ्गानि विटनटानां च । रोषामर्षादिगुणैरनुकुर्वन्त्येव किं सतीं वेश्याः ॥४६॥ ( प्रकाशम् ।) प्रिये, किमल्पोऽप्यनल्पीक्रियते भवत्या । किं ब्रवीषि ? मा किल बहुमता भवतः । किमत्र वृथा संलापेन । गच्छ यथेष्टमिति । ( म्वगनम् । ) धर्मसंकटे किल नियोजितवान्पुरा, प्रियसखः शृङ्गारभूषणः। घण्टामेकां कनककलितां मेखलायां निवध्य प्रौढा या वा निधुवनकृतौ ते तु धीरस्य जेत्री । दातव्येति प्रथममदिशत्सा पुनर्मद्विजेत्री दत्तायां किं कलुषितमनाः कुप्यति प्राप्तमेषा ॥४७|| ( प्रकाशम् । ) प्रिये, त्वयाऽपि किल बहुशः प्रयतितं पणलाभाय । तया पुनः कलकण्ठ्या साधितम् । किं मयि कोपेन ? भवतु, अनन्तरं पश्यामि। - 3 शृङ्गारशेखरभाणः। १७ ) ( इत्यन्यतो गत्वा ।) कैषा गृहालिन्दे हस्ते कपोलमावेश्य ध्यायन्तीव लक्ष्यते । निरूप्य।) मजुवदना किलैषा। ( परिक्रम्य।) अपि कुशलम् ? किं ब्रवीषि? "कथं कुशलमपि मन्दभाग्यायाः" इति । ( स्वगतम्। ) कस्येयमद्य कामिनी। आः स्मृतम् ! कनकमित्रेण मासत्रयं कलत्रीकृता । (प्रकाशम्। ) किं कनकमित्रेण यथापत्रं दातव्यं न दीयते ? सविषादं किं ब्रवीषि ? “किं सर्वेऽपि शृङ्गारशेखराः ? न केवलं दातव्यं न दीयते । कमलमित्रेणान्यैश्च दत्तान्यप्यपहृतानि" इति । अरे जाल्म, किं मजुवदनायामपि ते दौरात्म्यं दर्शयसि ? शृणु तेन पुरा कृतम् दीनारं द्विशताधिकं दद इति प्रोच्य प्रतिज्ञामयं कल्याणी स तु मासमेकमददाद्भुक्ता पुनर्दीर्घशः । दास्यत्यद्य परश्व इत्यहरहः सा तु प्रतीक्षान्विता नादादेष तु काचमप्यहह संभुज्यापि मासान्दश ॥४८।। किं ब्रवीषि ? "नाजानामेतावतेममुदन्तम् । ततस्ततः" इति । राकाभार्गववासरोऽयमिति वै यामत्रयान्तं पुनः कृत्वा केलिचयान्स वञ्चकमणिः प्रास्वापयत्तां शनैः । क्लान्ता सा तु तपस्विनी रतिभरश्रान्ता प्रसुप्ता दृढं हृत्वा सर्वमहो कलापनिचयं दुद्राव पापाग्रणीः ॥४९॥ किं ब्रवीषि? "हन्त किं कल्याण्यपि हन्त किं कल्याण्यपि तेन मुण्डिता? ततस्ततः" इति । ततः किम् ? सर्वस्वमपि दत्त्वा सा पुनः काचाय करमुन्नमयन्ती चरति । भवतु, कथय ते कथाम् । किं ब्रवीषि ? रूप्यसहस्रं दास्ये प्रतिमासमिति प्रलोभ्य भुक्ताऽहम् । वस्त्रयुगलं च नूत्नं कञ्चुकषद्कं च हेमतन्तुकृतम् ।। इति ।
शृङ्गारशेखरभाणः । वचनेष्वपि किं दरिद्रता । भवतु, जरत्याऽपि न किमर रूप्याय नियन्त्रितः? किं ब्रवीषि? "जरती किमिमं विजहाति । प्राप्तमात्रमेनमेष शार्दूलीव भृशं तुदन्त्यासीत्" इति । ततः कुतो वा स मोचितः? किं ब्रवीषि? " जरत्या यात नामसहमानः पञ्चदशदिनेभ्यः परमयमेकामन( कनकचम्पका मालिकां मरकतमणिग्रैवेयकं च प्रादात्" इति । जरत्याः परमो मोदः स्यात् । ततस्ततः । किं ब्रवीषि? न केवलं वृद्धा, अहमपि मुदमपारामाप्त्वाऽकर- वमिममपि विस्रम्भभाजनम्" इति । ततस्ततः । किं ब्रवीषि? "एकदा किल रात्र्यां चिरादुपागत्य 'भूषण- द्वयमपि धनागारस्य निक्षिप्तम् । तदद्यैव स्थापयितव्यं तत्र । अतः प्रदेहि' इति निर्बबन्ध" इति । किं वृद्धपिशाचिकाऽपि तमन्वमन्यत ? किं ब्रवीषि ? “जरत्याः सविधेऽपि किमयमोजायेत ? तया क्षणेन निष्कासितः" इति । उचितमेवैतत् । ततस्ततः । किं ब्रवीषि ? " महता कोपेन गतः स पञ्चघटिकायाः परमागत्य बहिःकपाटं बलवदताडयत् । अन्तरुपविष्टया जरत्या कुत्सितोऽपि बहुधा न निरगात् । अनुकम्पावशेन मया कपाटेऽपा- वृते द्वित्रः समं सरभसं प्रविश्य वैद्युतं दीपमुज्ज्वलयन्करस्थम्, संदर्य कृपाणं तदत्तमाभरणद्वयमन्यदत्तान्यपि बहुशो बहुधा भूषणानि चापहृत्य क्षणादन्तर्दधे". इति । अहो नृशंसता विटजनस्य ।
शृङ्गारशेखरमाणः। १९ दयनीयासु पिशाचैरपि किं क्रौर्य चरन्ति ते पापाः । विषमा वामा इति तु प्रथयन्त्येते कथं माः ॥५१॥ ततस्ततः। दृष्ट्वा।) किं ब्रवीषि? “यो वा समागमिष्यतीति पश्यन्ती परितो वसामि" इति । भवतु, श्वः पुनरनर्घया कनकमणिमालिकया त्वां योजयिष्यामि । ( इत्यन्यतो कथं मम प्रियसखी सौधमुखमधिवसन्ती नखमुखैः कुन्तलभ- रमालिखन्ती तिष्ठति । (परिक्रम्य 1) अयि सरसवाणि, अपि कुशलम् ? किं ब्रवीषि ? “कितव मन्दं वद । संनिहिता वृद्धा । भुजंग- श्रुतिः श्रोष्यति" इति । सत्यं भुजंग्य एव जरत्यः । यथा भुजंग्यः फणधारिरत्ना उद्वेजयन्तीह परान्प्रकामम् । एता जरत्यः स्वसुताप्रवालपार्श्वे वलन्त्यः परितर्जयन्ति ।। अपि जरती न मर्तुकामा ? अथ व्यसरद्वा प्रेतपतिः । सोत्स्मयं किं ब्रवीषि? "किमर्थं तां मृतां कामयसे?" इति । ? द्रिये, धनमेव काङ्खमाणा गमयति धनिनोऽपि रोगिणो वृद्धान् । न च पश्यति सा यूनो निधुवनकुशलांश्च मन्मथाकारान् । किं ब्रवीषि ? "गच्छ त्वरितम् । पश्यति चेद्देयाय तुदेन्मासि- कधनाय" इति । युक्तमेव, भुक्ता पुनस्तु तन्वी मासत्रयमप्यनङ्गकुशला सा। दातव्याय तुदन्त्यां मार्जार इवाहमद्रवं मौनी ॥५४॥ भवतु, किं सरसि तान्दिवसान् ?
२० शृङ्गारशेखरभाणः। अहर्निशविभावनाविधुरमानसौ संततं व्यवायकुशलौ पुनः सुदृढबद्धरागोत्कटौ । प्रनष्टतिलकावलीप्रचुरसंस्रवत्स्वेदको पुरा ह्यकलयाव ता नवनवाश्च केलीमुहुः ॥५५॥ सलज्जं किं ब्रवीषि ? दीर्घकालादपि त्वयैव मनसि धृतमिदं सकलमिति । भवतु, अचिरेणैव जरतीरहितां त्वां पश्यामि । (इत्यन्यतो गत्वा ।) कैषा करकलितचित्रातपत्रा समायाति । ( निर्वर्ण्य । ) कथं मुकुलमालिका! किं कुशलिन्यसि ? धर धवलवसनमार्ये चूचुकमात्रस्य किं नु कञ्चुल्या । अलमिह पुंभावस्याप्यङ्कुरितं ते मुखे श्मश्रु ॥५६॥ किं ब्रवीषि? " दुष्टवराक, किं प्रहिणोषि वाग्वत्रं मय्यपि साहसिन्याम् । जाने स्त्रीवेषेण पर्यटन्तं त्वाम् ” इति । अयि शुष्कस्तनि! कि त्वया सत्यं दृष्टः । किं ब्रवीषि ? “जाने देव जाने । कृत्वा वक्षसि नालिकेरशकलं बद्धं दृढं ककुकै- धृत्वा चित्रितमंशुकं लघुकचं संगोपयन्वाससा । भोक्तुं तां रजनीषु यावनसुतां पुंभिस्त्वदृश्यां परै- गच्छंस्त्वं शतवारमप्यहह रे दृष्टोऽसि पापाधम । ५७|| अरे वैधवेय, भवतु, तव दुर्वृत्तं यातुधानाय तस्मै निवेद्य प्रति- करिष्यामि" इति । अयि दुष्टचारिणि, किं वनजम्बुको बिभेति चञ्चलशब्दतः । अहमपि तस्य चेष्टितं द्वितीयगृहिणीरहःसमुपभोगं तत्से. व्याय हेमगुप्ताय प्रथममाख्याय तव भर्तरि च तेऽपदानानि संलप्य यथागतं गच्छामि ।
शृङ्गारशेखरभाणः ।
२१
सभयं किं ब्रवीषि? "किं मय्यपि किंवदन्ती जनानाम्?" इति ।
किं जन्मभवनमाहात्म्यं सोदर एव दर्शयसि । अरहस्यानि ते
शीलवृत्तानि ।
कृच्छ्रादेव गृहादवश्यकृतये निर्गच्छसि प्रत्यहं
दृष्टिं पादतले निवेश्य सभयं यासीह पुंणं पुरः ।
Qषे कृच्छ्तरेण वामनयनापृष्टा परं भाषितं
दृष्ट्वा काकमपि प्रभूतनिनदं नूनं विभेषि स्वयम् ॥५८||
किं ब्रवीषि? “तत्कथं मयि वचनीयतालेशस्यापि संभवः
इति। भवतु,
-
संगोपितमपि वृत्तं स्त्रीणामाकाशमुड्डयेतैव ।
धूम इव सिक्तकाष्ठगवढेलशुनस्य पूतिगन्ध इव ।।५९॥
शृणु ते पुण्यवृत्तं यावदहं जानामि ।
मल्लीवर्धनमेत्य गूढरमणं नातं तु वर्षद्वयं
नीतो वर्ष इह प्रभूतधनिभिर्जातिव्यवस्था विना ।
पश्चत्वं स च यापितो दमनको लब्ध्वाऽपि पञ्चायुतं
ह्यद्य त्वं स्थविरं शिखण्डिवणिज यान्ती परं निवृता ॥
किं ब्रवीषि? सत्यमेव वदन्ति वेदान्तिनः प्रपञ्चोऽयं
मिथ्यामय इति । यन्मय्यप्येतादृशी जनश्रुतिः" इति ।
अयि, किमर्थं गोपयसि ? सृष्टाऽसि विधिना तस्यैव गूढभार्या।
यतः।
वक्षोजभारमपहत्य तवानताङ्गया-
स्तस्योदरे निहितवान्कमलासनोऽयम् ।
तस्योत्तमाङ्गमतुलं पलितं विधाय
षट्सप्तगौरचिकुराणि तवैव शीर्षे ॥६१॥
२२ शृङ्गारशेखरभाणः। किं ब्रीषि? "किं यथार्थ मन्यते देवो मिथ्याप्रसारितमिम- मुदन्तमपि" इति । भवतु, का हानिः । (इत्यन्यतः परिक्रम्य।) क एष महाशब्दो निदाघस्तनितमिव भूतलं कम्पयन्नावृणोति कर्णयुगलम् । (निरूप्य ।) कथं बृहदीश्वरः प्रातरुत्सवाय वीथीमलं- करोति। तत एवायं कोलाहलो नागरिकाणाम् । ( सादरं पश्यन् ।) निमेषक्रोधोऽसौ रभसरभसं शम्बररिपुं निहत्या कामादहह निजवामे कलितवान् । ततः प्रायश्चित्तं रचयितुमिवाभीरतरुणी सहस्राक्षापत्यं च स हि विदधे सूनुललने ॥६२॥ किमेते बालका ग्रामीणाश्शसमावृतबदनाः साश्चर्यं पश्यन्ति । भवतु, पश्यामि । अहो! क्वणड्डमरुमर्दलप्रचुरनिःस्वनप्रस्फुरद्- द्रुतादिगतिभेदसंकलितपादविन्यासकम् । मृषाचरणवाजिनं मुकुरखण्डिकामण्डितं स्वलंकृतनरेरितं सकुतुकं प्रपश्यन्ति ते ॥६३॥ दृष्टा किते युवानश्चपलाश्च वृद्धाः परिवृत्य तिष्ठन्तः समुन्मीलितनयनाः पश्यन्ति । ( उपमृत्य । ) आः! अत्र किल प्रवर्तते नाट्यम् । अनङ्गलता किलाभिनयति । दृढं बद्धा चेलं पदयुगलशिञ्जन्मणिगणा प्रगायन्ती मन्दं सुषिरपणवातोद्यमधुरम् । करौ तत्तद्भावानुगुणमधरीकृत्य चतुरा भुवा नेत्रेणापि प्रथयति परं भावमखिलम् ॥६४॥ ( निरूप्य ।) कथमेकान्तवाससुखमनुभवति भगवान्बृहदीश्वरः। ( अन्यतो । ) शृागरशेखरभाणः। २३ परिवार्य वारवनितां परितस्तिष्ठन्ति सादरं तरुणाः। पलितकचा जरितमुखाः पुत्रैर्वालैश्च मुग्धवनिताभिः ।। किमत्र तरुण्यः सवयोभिः साकमङ्गुलीनिर्दिश्य सोत्साह संलपन्ति । अर्धावगुण्डितशिरोरुहरम्यवक्त्राः संदर्शनीयतरकच्छनितम्बभागाः । हस्तासंकलितकञ्चुकभूषणैध दृश्यास्तु गूर्जरयुवत्य इहावभान्ति ॥६६॥ ( अन्यतो विलोक्य।) एताः पन्नगभोगसोदरतुलाकोटित्रयाभूषिताः संसिक्तान्कनकेन पञ्च कटकान्संधारयन्त्यः करे । आपाश्र्वावृतदृश्यकच्छवसनाः फालस्फुरत्कुङ्कुमाः संदृश्यस्तनमण्डलाकलितसंव्यानाः किलान्ध्राङ्गनाः ।। { अन्यतः दृष्टा। ) दृष्टेरिदमामिषम् । धवलवसनमेकं धारयन्ती नितम्बे वसनमपि च सूक्ष्मं हाटकान्तं कुचान्ते । प्रसृतकचकलापा जानुनि स्वर्णकान्ति- वितरति मम मोदं केरली केलिधीरा ॥६८॥ ( अन्यतो गत्वा।) चेलं महाघ पुनरादधानाचोलाङ्गनाश्चित्रमटन्ति पावे । शिरोरुहाभावनिगृहनार्थं धरन्ति ये पुच्छमहो चमर्याः ।। कथं क्षणत एव सुदूरं गतः परमेश्वरः । ( निर्वर्ण्य । ) नभोमध्यमारूढो दिनमाणः।
२४
भृङ्गारशेखरभाणः।
सेवन्ते तरुकोटरं परभृताः स्वस्वागनाभिः समं
खादन्तो नवशावलं च हरिणाः शीतं परं निष्कुटम् ।
नूनं नृत्यकलामिह प्रथायितुं न्यग्रोधकं केकिनः
संकेतं कुलटाः समीरणसुखास्वादस्य च च्छमना ॥७०॥
अतो देवालयपरिसरगतमुपवनमधिष्ठाय तपनातपखेदमपोह-
यिष्ये ।
( इत्युपवनप्रवेशं नायित्वा । )
( सुखमभिनाय । ) सरसोऽयमभिनिवेशः।
नीरन्ध्रद्रुमशीतलो निधुवनक्रीडानिकुञ्जावृतो
निष्यन्दामृतपानमत्तमधुपव्यूहारवालंकृतः ।
निःसीमोत्थितफुल्लमल्लिकुसुमामोदाहरन्मारुतो
नूनं निष्कुट एष नन्दननिभो मां नन्दयत्यन्वहम् ॥७१॥
( पावतो दृष्ट्रा।)
शीतश्वेतजलाशयः पुनरयं शीतांशुधारारुचिः
शालीनेक्षणकामिनीविरहहत्तापव्यपोहक्षमः ।
शिल्पाकल्पसमुच्चयाकलितसत्पद्याभिराभूषितः
शान्तं मे हृदयं करोति शशभृद्वक्लाभितप्तस्य च ॥७२॥
क एषः!
स्वेदक्लिन्नशरीरः सीत्कारेण व्यपोहयंस्तापम् ।
आयाति गृहिताङ्गः कोमलगानः करात्तकरवालः ॥७३॥
कथं स्यमन्तक एव ? अहो, दिष्टया त्वां कुशलिनमवलोकये।
राजन्यकुलवामाक्ष्यां यत्त्वं व्याप्रियसे दृढम् ।
अवेहि तत्त्वदन्ताय विषमिश्रं यथाऽऽभिषम् ॥७४॥
शृङ्गारशेखरभाणः। २५ किं ब्रवीपि ? "राजन्यो वा स भवतु ! उत वा स्वयं राजा । किं कुर्यात्स कृपाणपाणिमपि च हरिणप्लुतेन पलायमानम्" इति । भवतु, राजन्यगृहेष्वेव निशीथे स्थितं वयस्येन ? किं ब्रवीषि? न हि न हि । चिरमपि राज्यां द्वियामावधि परिसरवकुलोद्याने तिष्ठन्नपि यथा संकेतितं यदा तां नाध्यगच्छं दीनमनाः प्रतिनिवृत्तः। इतिकर्तव्यतामूढमनसि मन्दं मन्द- मुपयियासति मयि, शिवालयस्य परिसरे एका किल तरुणी गाढान्धकारे तिष्ठन्ती मां दृष्ट्वा 'आर्य यत्किंचित्किल मद्गृहमागत्य भवद्भिपकर्तव्यम्' इत्यभाणीत् । परिघूनां तां दृष्ट्वा दयमानहृदयः कि कर्तव्यमिति पृच्छन्नेव परिसर एव तहमासादयम् । तत्र किल ललनेयं निर्मनुजे गृहेऽन्तगृहमानाय्य, भृशमपि परितुष्टा नूतनाप्तेन यूना परवशहृदया मां पातयित्वा च तल्पे । अरचयदथ केलीः प्राप्तपुंभावशीला प्रबलतरशरीरा कामुकी केलिधीरा ॥७५।। रसवदिदं वृत्तम् । ततस्ततः । किं ब्रवीषि ? “चिरेणाप्यपूर्णकामा मां वीक्ष्य खिन्ना पति- समागमकालोऽयं गच्छ त्वरितमित्याभाष्य करेण मां संगृह्य 'प्रिय, श्वो निश्यवश्यमागन्तव्यम् , कदापि न विस्मरणीयमिदं महाशन- द्विजस्य गृहमिति पुनः पुनः प्रार्थयन्ती आगृहद्वारमनुगम्य विसर्ज- यामास । अहमपि निशामेव प्रतीक्षमाणो यत्र कुत्रापि संचरन्प्रिय- सखमद्याद्राक्षम्" इति । सखे, तस्यां पिशाचिकायां किमु लग्नोऽसि । अतिविस्मयनीयोऽसि यत्त्वं सप्राणो विमुक्तः । किं ब्रवीषि ? कया निवृतो वयस्यो ह्यो निशीति | सखे, व्रणे किल तप्तसूचीमानेडयसि ।
२६
शृङ्गारशेखरभाणः।
किं ब्रवीषि ? कथं वयस्यो भृशं खिन्न इव" इति ।
अवधेह्युदन्तम् । द्वित्रदिनेभ्यः किल पूर्व सकलभुवन-
मण्डलमण्डनायमानं काञ्चीनगरं विषधराशनवाहनं वरदराजमासे-
वितुकाम उपयातः।
किं ब्रवीषि? अरे कितव, किं भगवति निरर्गला भक्ति-
निरगलत्ते हृदयकोशात् ।
विन्दन्ति देवं गरुडाधिरूढं संद्रष्टुकामा इव पत्तनं तत् ।
गच्छन्ति नूनं मधुपानमत्ता मुग्धाङ्गना एव तदुत्सवेषु ॥ इति ।
भवतु, यथेष्टं मन्यस्त्र प्रयात एव च मयि, अस्त-
शिखरशेखरीभूते सवितरि, महोत्सवदर्शनागतनानानगरनरनारी-
मणिभिरावृतासु नगरवीथीषु दीप्यमानैः शतसाहस्रकैद्युतदीपै-
स्तारागणालंकृते नभोमण्डल इव विराजमाने भुवनमण्डले, क्रयविक्र-
यणच्छलेन संघसंघशः सर्वतः समलंकृत्य संचरत्सु प्रमदाजनेषु,
तदीक्षणमार्गपरेषु द्वित्रिशोऽनुगच्छत्सु युवजनेषु, संकेततलनिश्च-
यव्यापृतेषु पूर्वपरिचितेषु, नवपरिचयाय विटसार्वभौमेषु वीक्षण-
वागुरां सृजन्तीषु वक्षोजशालिनीषु, नवयुवतीषु नयनाय नवागताऽ
नानानागरजनं मृगयमाणासु दतिकासु, वाणिज्यव्याजेन विपणि-
मुखमागत्य विविधमालपन्तीरिवनिताः सादरं वाचालयत्सु वयास्थ.
पण्यानुजीविषु, दिक्षु विक्षिपन्नलियुगलमनतिरभसमहमचरम् ।
किं ब्रवीषि ? " युक्तमेवैतत् । तत्रैव किल सर्वमुपनतं भवति ।
ततस्ततः" इति ।
तदा किल,
मुग्धा वामा मदनधनुषो विच्युतेवेषुरागा-
न्मन्दं मन्दं मधुकरकचाक्लप्तचित्रप्रसूना ।
पश्यन्तो यां परवशहदः पार्श्वभागे युवानो
याता यादःपतिसमजनव्यूहमध्याभिसंस्थाः ॥७७॥
शृङ्गारशेखरभाणः । २७ किं ब्रवीषि? ततस्ततः इति । नैकव्याजानुयायिविटजनानुकर्षणक्लान्तेव मन्दं विन्यस्यन्ती चरणे मदन्तिकमुपागता क्षणमिव मां निर्वर्ण्य सानुरागमीक्षमाणा पदगलितमिव नू पुरं समीकुर्वन्ती तस्थौ । किं ब्रवीषि ? स एव किल सारसाक्षीणां छलविलम्बनप्रकारः। ततस्ततः। अहमपि तदीयमितवदनसरोजवीक्षणमात्रेण क्षणमवि- ज्ञातशरीरो विस्मरन्प्रपञ्चं विभावयंस्तन्मुखमण्डलमेव सकलमपि कुव- लयमतिष्ठम् । किं ब्रवीषि? दर्शनादेव कुसुमितानुरागौ जम्पती! ततस्तत इति । चिरेणापि प्रतिष्ठामापन्नः पतिबन्धुजनपरिवृतामालक्ष्य खिन्न- हृदय इतिकर्तव्यताविमूढस्तन्निहितदृष्टिरभवम् । किं ब्रवीषि ? पतिबन्धुजनाः परमतिमात्रं पङ्कजाक्षीहरिण- ततीनां पश्चास्या एव । ततस्तत इति । सा तु मामेव सस्पृहमवलोकयन्त्यपि पतिजनसमाहूता प्रस्थिता । क्षणेन निर्वापिते वै ते दीपनिचय इवान्धकारमग्नमखिल- कुवलयमाकलयताऽन्वगामि मया च । तादृशं च मामुपलक्ष्य स्वावास- मावेदयन्तीवासकृदभिवीक्षमाणा द्वित्रवीथीरतिक्रम्य स्वगृहद्वार- मुपेत्यान्तराविष्टेषु सहानुयायिषु व्याजेन दूरादुपस्थितं माम् , वृषभ चर यथेष्टं पत्तने वा स्वतन्त्रो वस कितव भुजङ्गादर्शितो निष्कुटे वा । इह किल निशि मध्ये कंधरे बन्धयिष्ये करकिसलयरज्जु शाहलासेवनाय ॥७८॥ इति वदन्त्येव बलवदाह्वानरवमाश्रुत्य ससंभ्रममन्तर्गता। किं ब्रवीषि? अन्यादृशमेव कौशलं कामिनीनामिति ।
२८ शृङ्गारशेखरमाणः। अहमपि तद्भावं विज्ञाय सुचिरं वलमानोऽपि तहहवलय- मनासन्नसुन्दरीदर्शनः प्रतिनिवृत्य पण्यवीथिकां तद्गतमनाचिरमपि परिभ्रमन्यामान्त एव तगृहपार्श्वमुपरुध्य यावदवालोकयं तावता । स्थालादयस्तदीया दीपयुताः संलपन्ति सवयोभिः। संकृत्यमानहृदयस्त्वशपं तान्प्राणनाशाय ॥७९॥ सहासं किं ब्रवीषि ? मन्ये भस्मीभूतानमत्मियसखशापा- नलेन तान् । ततस्तत इति । अल्पायुषस्ते प्रलपितमेव प्रलपन्तोऽपि अस्मृतकालात्य- याः सुचिरमप्यासन् । मनस्तु मे त्वरयति, माद्यति, खिद्यति, शीर्यते इव, म्लायते च । किमु हन्यामेतानित्यप्यालोचयम् । चिरेण किल ते पापिनः प्राप्तखेदाः प्रलापेन निर्वाप्य दीपं प्रस्थिताः शयनागारम् । अहमपि गृहद्वाराभिमुखो मूषकशब्दमपि मञ्जवदनाया नू पुरशब्दमभिमन्वानः सोत्कण्ठं प्रतीक्षमाणोऽवतस्थे । चिरमित्थं भूतेऽपि नागता सा तरुणी। नूनं प्रलोभितवतीत्यचिन्तयम् । किं ब्रवीषि ? नैतदुचितं नाम भारतीयरमणीषु । वैदेशि- कीनां किल सा प्रकृतिर्यत्तरुणान्प्रियवचनैः परं वशीकृत्य वैद्युत- यानेषु समारोप्य समानीय सुदूरं व्याजेन पुनदुर्गतरे मार्गेऽवतार्य सहस्ततालमपहसन्त्यः प्रलोभ्य गच्छन्तीति । ततस्ततः इति । ततः किल कपाटापावरणं श्रुत्वा संविग्नहृदये मयि वीक्षमाणे सा किल मन्दं विन्यस्यन्ती चरणे सचकितमभितः पश्यन्ती गृहालि- न्दादहिरायात् । अहमपि सकौतुकं तदुन्मुखीभूय प्रिये इत्याह्व- यम् । सा पुनः “मानद, रसालतरुमूले निलीय मामेव परिकाङ्ग- माणं वातायनमार्गेण भवन्तं चिरेणाप्यपश्यम् । किं क्रियता दीनया ? नायमवसरः प्रलपितुम् । पतिरसुप्तो वर्तते ।
शृङ्गारशेखरभाणः। २९ पुनरहं मम कनीयस्या आर्तवमहोत्सवाय तज्जानगरमासादयिष्ये " इति वदन्त्येवाश्रूण्यवर्षत् । श्रुत्वा दीनां वाचमस्या दृष्ट्वा च परिम्लानं मुखपङ्केरुहं भृशं परिघुनः “प्रिये मा शुचः । तञ्जा- नगरमेव मम जन्मभुवनम् । नूनं त्वां श्वो द्रष्टास्मि ।" इत्यभि- दधे । सा किल परितुष्टा हस्तेन मामालम्ब्य प्रिय महासदन- वीथिकायां नन्दगुप्तवणिजो गेहे........... इत्य|क्त एवान्तरुद्गतेन शब्देन भीतभीता विद्रुतवती । कि ब्रवीषि ? पतिगृहवासो नाम परमसंकटावहः पङ्कजाक्षी- णाम् । ततस्ततः इति । हस्तस्पर्शसमुद्गतपुलकेनाहं भृशं तु तुष्टोऽपि । सर्वस्वनाशमेत्येवाहो कृपणो व्यषीदमुद्रान्तः ॥८॥ चिरतरमपि तदागमनमभिकाङ्कमाणो रसालमूल एव स्थितः, उदयगिरिमारोहति भास्वति निखिलनिशाजागरेण परिक्लान्तः, मन्दं मन्दमुत्थाय तदिदृक्षातुर इत एवाभ्यवर्ते । किं ब्रवीषि ? साहसी किल पियसुहृत् । ततस्ततः । तदापणिकगृहमार्तवमहोत्सवं च विज्ञाय भृशं परितुष्टोऽभि- मुखगृहं चिरमधिवसतोऽपि बहुजनसंकुले सा न दृष्टिपथमधिगता । ततस्तु निशामुखे मन्दं मन्दमन्धकारेणावृते नभसि गवाक्षान्तरुत्स्म- यमाना, यामार्धे पार्श्वनिष्कुटमासादयितुमादिदेश हस्ताक्षेपेण । किं ब्रवीषि ? कुशलिनी किल कमलाक्षी । ततस्ततः इति । अहमपि पर्यन्तोद्यानमासाद्य, सुदीर्घमपि कालं वृक्षमूलेष्वेव निलीय सर्वतश्चारयंश्चक्षुरभवम् । तदा किल तिरस्कुर्वती तरुण- ज्योत्स्निकामुत्स्मयेनैव परितर्जयन्तीव चकोराङ्गना नू पुररवेणैव गृहा- राममासादितवती । तदर्शनमात्रेणैव प्रकम्पितजानुः सद्यः संविग्न- हृदयकमलः खेदक्लिन्नसर्वाङ्गः स्तब्ध इव मूक इवोन्मत्त इव संवृत्तः ।
शृङ्गारशेखरभाणः।
क्षणेन धैर्यमालम्ब्य सितमुखाम्बुजमवलोक्य करेण करपल्लवमा-
लम्ब्य पार्शवस्थितपूनागतरुमूलशिलातलमुपसृत्य,
ऊरौ कृत्वा निवेशं धनकुचकलशेनादरात्पीडयन्ती
मन्दसेराम्बुजास्यां मम गलनिहिताशोकवल्लीप्रवेष्टाम् ।
प्रेम्णा वाचः प्रकुर्वन्नहह किल निशां व्यर्थमेवानयं तां
नापि स्पृष्टं स्तनाग्रं रसित इह न तद्विम्बदन्तच्छदो वा ।।
इत्थमेव मूढे प्रलपति मयि सुदीर्घमुत्थाय सरभसमेषा ।
उदयति सहस्रकिरणस्त्विति सा हस्तौ विधून्वती भीत्या ।
अश्रूणि वर्तयन्ती विमनास्त्वरितं गृहाङ्गणं याता ॥८२॥
किं ब्रवीषि ? अहो दुर्विनीतता विधेः ! इति
अहमपि दुर्लभपुनःसमागमां निश्चिन्वन्ध्यायमानरमणीमुखा-
म्बुजः, स्मर्यमाणकामिनीवचनमाधुर्यः, तामेव दिदृक्षमाणः पर्यट-
न्वयस्यमद्राक्षम् ।।
किं ब्रवीषि? चतुरा एव प्रायो मूढा भवन्त्युपस्थिते
कार्ये । भवतु, तामद्य निशायामेव योजयिष्यामि " इति ।
कथं नाम साध्यं भविष्यति शताधिकपतिगृहजनमध्यगतां
तामानेतुम् ।
किं ब्रवीषि ? किं जानासि पुंश्चलीनां परममुपकारं करोति
पटनाट्यमिति । कथमिव ?
किं ब्रवीषि?
प्रतार्य पतिमङ्गनाः पटविलासकच्छमना
प्रयान्ति बहिरेव ता नटविटान्समासादितुम् ।
चिरं समुपभुज्य तान्कलुषितेक्षणाचालसा
गदन्ति धवमन्ततः पटविलाससंभावितम् ॥८३॥
शृङ्गारशेखरबाणः । . शृणु चापरं चेष्ठितं तासाम् । एताः किल घृषस्यन्त्यः छाया दर्शिनीनटिका इव परिभूषयन्त्यः तिरस्करिणिकारुद्धेषु विविक्तेष्वा- सनेषु संकेतितेन जारपतिना सममुपविशन्त्यः, निर्वापितेषु दीपेषु मन्दान्धकारेण मलीमसेषु मण्डपेषु निनिमेषं नटनं पश्यत्सु नाट्य- रसिकेषु, संलप्य भूरि विविधाश्च कथाः पुराणाः प्रेमानुबद्धहृदया कृतकण्ठहस्तम् । आलिङ्गयत्यथ विचुम्बति केलिलोला बिम्बाधरं कुचतटे कृतहस्तकस्य ॥८४॥ इति । भवतु, कथं तां समानेष्यसि पटनाट्यव्याजेन वा ? सहासं किं ब्रवीषि ? विटसार्वभौम इति नाम संप्राप्यापि कथमिदमप्यविदितं ते ? गृहमार्जनकारिण्यः प्रायः कुर्वन्ति दृतिकावृत्तिम् । तण्डुलमपि तैलादीन्रहसि लभन्ते च येन कुलवध्वाः ॥ इति विचक्षणोऽसि वश्यविद्यायाम् । कथं वा वशीकुर्वन्ति कुल- योषितामपि मानसमेताः सेविकाललनाः ? किं ब्रवीषि? दारिद्येण निपीडितां धनचर्यमुग्धां च चाटूक्तिभि- वीरां कामकलासु धीरपुरुषं संयोजयन्त्यः स्वयम् । पुत्र्यास्तूद्भवकारणेन तनयाहीनां चिरायाङ्गनां तोकौघाकुलितां त्वपुत्रजनकं ख्यात्वा वशीकुर्वते ।। इति । प्रियसख, सिंचन्तीव सुधारसं तव वचनाक्षराणि । निशा- मुख एव यदि सा नासादिता, न सप्राणमेनं जनं द्रक्ष्यसि । यतः, ३२ शृङ्गारशेखरभाणः । । वायुः कालदिशः किरत्यसदृशं गन्धद्रुमाहेर्विषं शीतांशुमयि वर्षतीव शकलाशंभुत्रिनेत्रोद्गतान् । सूच्या वेधयतीव कोकिलगणः कूजन्खरं पञ्चमं हृत्तापज्वलनं प्रदीपयति मे चञ्चत्प्रसूना लता ।।८७।। किं ब्रवीषि ? मा शुचः, नूनं त्वामत्रैव लतागृहे रजनी- मुख एव तया योजयिष्ये, अनुमन्यस्व दृतिको प्रेषयितुम् । इति । साधय यावद्दिनावसानं कृच्छ्रेण प्राणान्धारयिष्ये । कथं स त्वरितं प्रस्थित एव । नूनमेष साधयिष्यति मे मनोरथम् । ( आकाशं निरूाय।) सह्यातपस्तपनः । नवधनमवाप्य धूर्तः साधून्संक्लिश्य वित्तमदमत्तः । विरते कोशे कोमलशील इवायं चकास्ति दिननाथः ।।८८।। भवतु, कुत्र वा समेत्य विनोदयिष्ये मदिराक्षीकामुकं मानसम् । स्मृतिमभिनीय । ) आः स्मृतं मजुभापिण्या किल दूतीमुखेन डोला. विहाराय सायमभिप्रार्थितः । तत्रैव गत्वा मानसं परितोष. यिष्ये ( इति परिक्रम्य । ) पण्यवीथिकां खलूपगतोऽहम् । कैषा चेला- पणमुखमधितिष्ठन्ती कलहायते विपणिगंतन साकम् । भवतु, पृच्छामि-( इति परिक्रम्य । ) कथं कमलवदनैव! प्रिये, चतुरा रतिकलहेष्विति पूर्व विदिताऽसि मे तन्वी । दृष्टा पुनरद्यैव प्रथिता करवचनकलहे च ॥८९॥ किं ब्रवीपि ? " प्रकृतिरेव यूनां युवजनपक्षसमाश्रयणं नाम इति । अयि कमलवदने, किं शृङ्गारशेखरेऽपि युवतिजनविरोध- भावतामारोपयसि । आः कष्टं यच्छ्रुतं प्रियसख्या मुखादपि घोरतरं वचनम् । किं ब्रवीषि? क्षमस्व । व्यवहारः कश्चित्प्रियसखेन निर्णय इति । कथमिव ?
5 शृङ्गारशेखरभाणः। किं ब्रवीषि ? " एष किलापणिको ह्य एव पट्टचेलमिदमपुराणं प्रतिज्ञाय बहुमूल्येन विक्रीतवान्मह्यम् । तच सूचीकरण कञ्चुकी- कृत्य शुक्रवासर इति निशायामेवाचिरं धृत्वा निर्मुक्तवती । अद्य तु यावद्धारयामि घटिकार्धेनैव द्वैधीभूतः । एष तु नूत्न इत्येव शपमानो नेच्छति प्रतिप्रदातुं मूल्यम् । तत्प्रियेण लम्भनी- यम्" इति । अरे आपणिक, किं वनिताजनेष्वपि दर्शयसि ते वाणिज्य- कौशलम् ? किं ब्रवीषि? कथमविज्ञाय निवृत्तमेकपक्षपातितां वहसि ? नूनं चेलमिदं तु नूतनकृतं नूनं दृढं निर्मितं नूनं रूपमपि त्रिधा सुरचितं नूनं न मूल्याधिकम् । इति । अरे घातुक, कथं वा दिनेनैकेनैवेदं द्विधाभूतम् ? किं ब्रवीषि? स्निग्धश्चेत्सदयं प्रपश्यति पुनर्यत्र द्विधा तत्कृतं ज्ञास्यत्यद्य निदानमब्जनयनाकायोद्गतां वैकृतिम् ॥ इति (नाट्येन कञ्चुकमादाय सादरं पश्यन् । ) अयि कमलवदने, नापराधी पुनरापणिकः, क्षणक्षणविजृम्भमाणकठिनकुचभूधरयुगलं ते यौवन- मेव परमपराध्यति । इतः पश्य । पूर्वेपुर्यत्समीभूतं तदद्य किल भामिनि । संवर्धितेन सुदृढं वशोजेन द्विधाकृतम् । ९१।। तत्कुचकलशसमुन्नतिभङ्गाय परमद्य प्रथमतो यतनीयम् । अन्यथा दोषमावहेत् । सायमागत्य ते सदनं समीकरिष्यामि । किं ब्रवीषि ? आर्यस्यायं स्वभाव इति । भवतु। ( इत्यन्यतः परिक्रम्य ।)
३४ शृङ्गारशेखरभाणः। कथमत्र सौचिकमेकं परिवार्य तिष्ठन्ति प्रदीपदर्शिन्यः । ( निरूप्य । ) अहो सूचीकरस्य विदग्धता । मुग्धाङ्गनामुपेतां कञ्चुककरणाय मानदम्भेन । सूचीकरः कुलस्त्रियमालिङ्गत्यद्य किं तरुणः ॥१२॥ ( पार्श्वतो विलोक्य । ) क एष करनिहितमानपट्टः सायास इव लक्ष्यते । आः, ज्ञातम् । तिर्यस्तु भूधरकुचां मातुं यत्तः समानतन्तुरयम् । आपार्श्वपूरितकरः पश्यति परितश्च लोलनेत्रान्तः ॥१३॥ अरे मूढ, किं परिक्लप्तेन मानतन्तुनैव मातुमेनामुद्युक्तोऽसि | एतस्याः स्तनमण्डलं वलयितुं नालं परो वासुकिः यस्त्रिमन्थरभूधरं म ललितं बध्नाति पूर्व दृढम् । किं ब्रवीषि? एषा वक्ति शिलाकठोरकुचभृत्सर्वाः कृताः कञ्चुली- न्यूना एव कलेबरस्य न पुनर्मातुं परं पारये ॥९४॥ इति । उद्यतो भव । चिरादपि साधयिष्यसि । ( इत्यन्यतो दृष्ट्वा ।) अहो शाकटिकस्य परैरविज्ञातं वैदग्ध्यम् । भारस्यायं समकृतिमिषादावहन्पार्श्वभागे साध्वीमूलं करिकरसमं जानुनि स्वस्य कृत्वा । वक्षोजाग्रं स्पृशति सततं बाहुपृष्ठेन धृष्टो वाहं वेगादिव स तु तुदन्सारथिः शाकटस्य ॥१५॥ ( अन्यतो दृष्य 1) कैषा विपणिमुखमधिष्ठाय वलयमादधाति । तटिद्भिरेनां विरचय्य कान्तां मनोजवेधा जनमोहनाय ।
शृागरशेखरभाणः। नूनं धरित्र्यां स्थितिकारणाय स्तनद्वयीभारशिलां चकार ॥१६॥ ( निरूप्य ।) मामेति सा गदन्ती सीत्कारमनारतं च संदधती । ज्ञपयति नवां तु केलि भ्रमयन्ती भ्रूलतां च सस्वेदा ॥९७॥ वलयमोचनानन्तरं कथमेतौ कलहायेते, पश्यामि तावत् । ( इत्युपसृत्य। ) अरे वलयवणिक् , किमबलामनाथामेनां तर्जयसि ? किं ब्रवीषि ? "बहूनि वलयानि विच्छिद्य करधृतानामेव मूल्यमर्पयत्येषा" इति । अयि कुशोदरि, किमु न्याय्यमेतद् बहु धनं व्ययीकृत्यापि विक्रयणस्य विरलतया विद्यमानहृदो वणिजो विलोभनं नाम ? किं ब्रवीषि ? " मन्मुखमविरलं वीक्षमाणेन 'क्व ते निलयः किं ते वयः इति प्रश्नानुपश्निकां कुर्वता अनवधानेन भना- नामपि किं मया दातव्यम्” इति । अरे आपणिक, अपि तं प्रियसख्या वचनम् ? किं ब्रूषे ? " न हि मय्यपराधलेशस्थापि प्रसक्तिः ? पञ्चदश- वयस्काया अप्यस्या इयन्तं परिणाहमासादितवती कुचमण्डले अष्टा- दशे वयसि कियन्तं परिणाहं संपादयिष्यत इति चिन्ताकुलचेतसा भग्नानि वलयानि" इति । अयि प्रेयसि, अपराधः पुनस्ते कुचकलशयोः किल निष्पतति। किं ब्रवीषि? यद्येषोऽदृष्टचरयुवतिजन इव मम कुचयुगमेव दृष्ट्वाऽधिगत इयन्तं विसयं यदि पश्यति मत्कनीयसीकुचभूधरं कामवस्थां गमिष्यतीति विस्मये । -
शृङ्गारशेखरभाणः ।
अनुदिनविवर्धमानस्तनगिरिभारेण पूर्वनतकायाम् ।
परिचुम्बितुमिह कृच्छ्रा युवका यत्ताश्च पारयन्ति न हि ॥ इति ।
अरे आपणिक मुश्चेमाम् । यदि तामानयेत सर्वाणि तव
विपणिगतानि वलयानि भङ्क्त्वा कपालहस्तं त्वां विधास्यति ।
प्रियसखी प्रति किं ब्रवीषि ? अयि कलशस्तनि, यथेष्टं गच्छ ।
करधृतवलयानामपि वा माऽस्तु मूल्यदानम् । मा पुनस्तामिहानय
इति । कथमुत्स्मयमाना गतैव ।
( पदान्तरे स्थित्वा । ) किमत्र चत्वरे महान्कोलाहलः ।
चरणधृतकृपाणौ चक्रवद्भूर्णमानौ
समबलपरिमाणौ युद्धकृत्यप्रवीणौ ।
कुरुत इह हि रोषादाहवं त्यक्तनीडी
परहनननिबद्धोत्साहिनौ ताम्रचूडौ ॥१९॥
दृष्टा,
माश्चर्यम् ।) क्षणक्षणप्रतीक्षमाणकृतान्ताह्वानपत्रि-
कयोरपि मेषयोरयमाहवसमुत्साहः ।
विटनटगणिकाभिः प्रेरितावत्र मेषौ
सरमसमपि यात्वा पार्श्वभागे च पृष्ठ ।
भृशमिह कलुषाक्षी किंचिदानम्रशीर्षों
विधमत इह रक्तस्राविफालेन मूढी ॥१०॥
( अन्यतः परिक्रम्य । ) किमत्र जनौघोऽयं परिवार्य तिष्ठन्सादरं
(अन्यतो
पश्यति ।
कट्यां निबद्धदृढकच्छविशेषभीमौ
भीमाकृती सुभृशमांसलबाहुदण्डौ ।
अन्योन्यपातनकृताध्यवसायरूक्षी
चक्रादिमण्डलमिमौ भ्रमतोत्र मल्लौ ॥१०॥
शृङ्गारशेखरभाणः।
३७
३
किमंतेषामायोधनपराणां दर्शनेन ।
( इत्यन्यतो
दृष्ट्वा
।) एताः
किल चमरीदृशः समायान्ति सहाध्यायिनीभिर्विद्याशालायाः।
( निर्वर्ण्य ।)
अपाङ्गं साकृतं नवयुवजनं द्रष्टुमसक.
छुतिर्वद्धोत्साहा रतिकलहकेलीषु निभृतम् ।
स्तनौ यूना दृश्यौ लिकुचफलसाम्यं विदधतौ
वयःसंधिप्रेक्ष्यं हरति हृदयं मे वपुरिदम् ॥१०२।।
( अन्यतो दृष्ट्वा ।)
अस्याः किल ।
गतिर्मन्दा पीनस्तनजघनभारेण सुतनो-
भृशं भोगीवाद्य स्फुरति मृदुला रोमलतिका ।
स्तनौ बद्धस्पधी शिखरिशिखरेणेव कलिता
स्पृहादृष्टियूनि प्रसरति भयात्संकुचति च ॥१०३॥
इयं हि,
तिर्यक्पश्यति लज्जयेव सुतनुः पूर्वं युवानं गतं
संकोचाद्विपना इवास्त्यवहिता केलीकथास्वादरात् ।
वक्तुं हृच्छयमुद्यताऽपि वयसा तुल्येष्वशक्ता भयाद्
गृहन्ती हृदये मनोजकदनं दीना पुनः पश्यति ॥१०४॥
( अन्यतो दृष्ट्वा ।)
कैषा निवृत्तातपतया लम्बमानसखीकरपल्लवकलितकरांगाले-
मन्दमभिसर्पति तरुमूलमिदम् ।
गच्छन्ती विजनेऽपि सा पथि वृथा संगोपयन्ती कुचौ
गर्वेणैव न लजया कृशतनुर्वस्वाञ्चलेन स्वयम् ।
स्निग्धैश्वापि सखीजनैः परिवृता मुग्धा पर निर्भये
त्रस्यत्येव भृशं प्रवृद्धशरमे यान्तीव बाला मृगी ॥१०५॥
३८ शृङ्गारशेखरभाणः। अहो रमणीयता दिनान्तारुणतपनकिरणपिञ्जरिताया अस्या गात्रलतिकायाः। लावण्याम्बुभिरङ्गनेयमधुना क्लप्ताभिषेकक्रिया नूनं पञ्चशरेण किं नु बलवत्प्राप्तव्यनैजाहवे । सैनापत्यपदेऽन्यथा पुनरियं नूत्नेव भात्यद्य मे नेत्राकर्षणरूपसंपदमला केनेह वा हेतुना ॥१०६॥ शिलातले समुपविशन्ती । एकान्ते परिवीक्ष्य वक्षसिरुहौ तालोपमो भामिनी संतुष्टा हृदये यथैव कृपणः प्राप्येव वित्तार्णवम् । ध्यात्वा व्यर्थगतं नवं निजवयः सीदत्यशर्माकुला संकीर्णेव वनाग्निना गजसती दीर्घ श्वसित्याकुला ॥ उपसृत्यैनां संलपामि । ( इति परिक्रम्य । ) एषा किल हाटक- मित्रस्य तनूजा हेमाङ्गी वर्षत्रयात्प्रागेव कुसुमिता । नवयुवतीनामयं किल स्वभावः। बालोलतमाऽपि केलिकुतुकैर्मन्दं त्यजन्ती च ता- स्पृष्टाऽज्ञातशरीरभावविपयैः संकोचयत्यङ्गकम् । प्राप्तुं वा दृढयौवनाश्च तरुणीरप्राप्तधैर्याः स्वयं कालं व्यर्थमहो नयन्ति कलुपा एकान्तमेवाश्रिताः ।। (अन्यच्च ।) जायन्ते हृदये पुनर्नवनवा भूषाम्बरेषु स्पृहाः प्राप्यापि क्षणभङ्गुरा च भवति प्रीतिस्तु तेष्वन्वहम् । क्रुध्यन्ति क्षणतोऽपि ता भृशतरं त्वव्यक्तमूलं पुनः स्पष्टव्या न तेति पन्नग इति प्रोल्लङ्घनीया न तु ॥ अयि सुलोचने, किमेकान्तमाश्रित्य दीर्घ निश्वसिषि ?
शृङ्गारशेखरभाणः । ३९ किं ब्रवीषि ? किमविदितं देवस्येति । ज्ञातमखिलं भावे- नैव । असह्यमिदमनवाप्तपतिसमागमं नामाबलानामात्तकुसुमानाम् । भवतु, कुतो वा न परिणीताऽसि ? किं ब्रवीषि ? "पुरा किल मम पिता प्रत्यग्रयौवनामपि मां राजकीयाज्ञानियमितपरिणयवयोन्यूनां मत्वा न पर्यणीनयत् । अतः परमन्विष्यन्नपि जामातरमनधिगतस्वाभिलषितवरव्याजेन चिरं कालमनीनयत् । अद्य पुनरुपयमप्रस्तावोऽपि गाढं सुप्तः" इति । भवतु नाम । पतिगृहपातालमुखपतनात्पातुमेव प्रमदाजना- पञ्चशरः पार्थिवाज्ञामेनां परिकलितवानिति मन्ये । अत इतः परं संचर यथाभिलषितम् । आश्रय गणिकावीथीम् । अनुभुक्ष्व विटनटसार्वभौमान् । किं वदसि ? स्वैरिण्यः सदोपवासिन्य इति किल श्रूयत इति । मैवम् । पुरावृत्तमेतत् । अद्य तु, पटनाट्यकारिधनिनो मृगयन्ते तास्तु पुंश्चलीः प्रायः । स्वैरं स्वयमुपभुज्य प्रलभन्ते वित्तमपि ताभ्यः ॥११०॥ सोत्साहं किं ब्रवीषि? अनुगृहीताऽसि । अद्यैव पातिव्रत्यमहादुर्गादात्मानमुपमोच- यन्ती भवदनुग्रहेण पारदारिकमहासौधमधिरोहामि तावदिति | भवतु, पञ्चबाणः प्रतिदिनमेकमनुप्रेष्यानुगृह्णातु भवतीम् । ( इत्यन्यतः परिक्रम्योमबलोक्य ।) एषा किल सौधमुखमास्थाय प्रसाधयति चात्मानम् । इयं वेणीबन्धं विरचयति फुल्लाम्बुजमिव प्रसून वर्णाढ्यं क्षिपति नवमीचन्द्रसदृशम् । पुनः प्रक्षाल्यास्यं वरनवसुधाखण्डनिचयैः प्रलिम्पन्ती लेपं नवघृतसमं श्वेतमधुरम् ॥१११।।
शृङ्गारशेखरभाणः। अपि च, ततो धृत्वा चाोरुकवसनमत्यन्तमृदुलं नवं वासः सूक्ष्मं धरति लतिकाचित्रितमपि । उपर्याराद्धत्ते कुचकलशमात्रावरणिकां पुनर्दोर्मूलश्रीविवरणचणं कञ्चुकमपि ॥११२।। ततस्तु, प्रकोष्ठे सा कृत्वा कनकपटिकायन्त्रममलं धरन्ती वित्तौघं हरिणशिशुचर्मप्रणिहितम् । पदत्राणारूढा करकलितचित्रातपहरा क्क वा निर्यात्येषा सुतनुरिह किं नृत्यसदनम् ॥११३॥ भवतु, यथेप्सितं साधयत्वेषा । ( इति परिक्रम्य ।) इदं हि निकेतनं हरतीव मे नयनयुगलम् ( निर्वर्ण्य । ) लीला- मन्दिरमिदं नितम्बिनीनाम् । भवतु, पश्यामि । ( इति परिक्रग्य।) एप किल नीलश्वेतसुधासंलिप्तसकलभित्तिकेन सर्वत्र संदृश्यमान- चारूरचितवातायनशतपरिमण्डितेन द्विवभौमेन समावृतः, सुखस्पर्श- नीलरक्तहरितादिकौशेयसमलंकृतसुखासनशतापूरितान्तःपदः, सर्वत्र लम्बमानचित्रपात्रविराजमानसंदर्शनीयच्छदकुसुमप्रतानिनीसहस्रप - रिमण्डितः, तत्र तत्र चक्राकारकृतपञ्चषपरमासनपरिवृतः, मध्य- विराजमानवर्णविकृतबडिशविभूषितचतुरश्रसमसर्वसहापरिष्कृतपार्श्व- भागः, नेत्रहारिमुकुरपात्रपरिदृश्यमानमधुमेरेयापूरितान्तर्गृहः, विला- सिनीनां विलासावासः समाह्वयतीव माम् । अन्तः प्रविशामि तावत् । ( इत्युपसृत्य । )। अहो रमणीयता संनिवेशस्य । नयनमिह दीपसंहतिरबला इव चारु कर्षति युत्या । विक्रीडितमिव तासां वल्लीबृन्दं सकौतुकं तनुते ॥११४।।
6
शृङ्गारशेखरभाणः।
४१
अत्र किल पञ्चषाः प्रमदा हस्तविस्तृतपत्रनिचयमनिमेपं
पश्यन्त्यश्चित्रलिखिता इव दृश्यन्ते । ( निरूप्य ।) कथमिमाश्चतु-
रधिकत्रिशतं नाम पत्रविहारमभिविहरन्ति । उचितैव चित्तापहृतिः।
( इत्यन्यतो
दृष्ट्वा
।)
अत्र किल विहरन्ति करकलितकन्दुकविद्राविण्यः कातराक्ष्यः।
( साश्चर्यम् ।)
आजानुलम्बिदृढबद्धदुकूलरम्या
आबाहुमूलकुचमात्रपटं दधानाः ।
उल्लङ्घय पार्श्वमभिहत्य च कन्दुकानि
क्रीडन्ति कन्दुकविहारमिहायताक्ष्यः ॥११५।।
पार्श्वतः किल,
दृढनिवद्धनिजावरणोत्थित-
स्तनभराकलितेक्षणमानसाः ।
परित एत्य पर शतमानवाः
सकुतुकं ललितं रसयन्ति ते ॥११६।।
अत्र किल मम मनो विनोदयत्येतासां विहारः।
संनम्रस्तनमण्डलं पुनरियं प्रोन्नामयन्त्यंशुकैः
क्रीडत्यात्तसुमेव कन्दुकमहो पञ्चाशदब्दान्विता ।
मुग्धाः केलिवशेन वक्षसि पुनः संताडनायोधता-
थेलं षड्गुणितं समीक्ष्य सुभृशं खियन्ति सीदन्ति च ॥
सकुतुकमेषा किल,
कोपेन कन्दुकमियं प्रहिणोति वृद्धा
वामा पयोधरतटे नवयौवनायाः।
प्रत्यागतेन कठिनाचलपातनोत्थ-
वेगेन ताम्यति भृशं प्रतिहन्यमाना ॥११८॥
४२
शृङ्गारशेखरभाणः।
इयमत्र मम प्रियसखस्य विहारशेखरस्य पूर्वजा मदनमञ्जरी ।
कथं सप्ताष्टाप्यपत्यानि परित्यज्य कन्दुकप्रेषणीहस्ता परिक्रीडति ।
इतश्च दृष्टमात्रं माम्, विहाय कन्दुकमभियाति ।
अयि मदनमञ्जरि, शोभसे नितरां कन्दुकप्रेषणीहस्ता ।
तदुचितप्रसाधनेन च । भवतु, मृतानि किं तेऽपत्यानि ? येन त्वं
निर्विशङ्क चिरं परिक्रीडसे।
किं ब्रवीषि ? "न मृतानि । मासद्वयात्प्रागपि शिशुरेकः
कुटुम्बगणनायामधिकतामातनोत्" इति ।
कथं तमपि परित्यज्यायाताऽसि ?
किं ब्रवीषि ? " भर्तेति नाम्ना किमर्थमेकः समभिवर्तते" इति ।
उचितमेवैतत् । (खगतम्। ) स किल,
वहन्नथेनैकं शिशुमपि च संक्रन्दनपरं
क्षुधा क्षीणं चान्यं दृढतरशिरोरोगमपरम् ।
कराभ्यामाकर्षश्चलति गृहपृष्ठेषु सुचिरं
प्रियामन्विष्यन्नप्यटति च स पूर्वापरदिशोः ॥११९॥
( प्रकाशम् । ) अयि कुशलाऽसि । उचिता च नागरिकामण्ड-
लाधिपत्यस्य । यत्वया भर्तृपदं यथार्थतामुपनीतम् । नाहमुपरुन्धे ।
गच्छ, विहर यथेष्टम् ।
( इत्यन्यतः परिक्रम्य, सादरं पश्यन् ।)
किमत्र मन्दिरे मेषशिशुमेकः स्वांसे निधाय तत्पुच्छं चुम्बति।
अयं च पन्नगमिव वक्षसि कुण्डलितं धरन् तद्वालं मुखे करोति ।
किमेतेषां समवेषाणां दर्शनमात्रेण युवानो युवत्यश्च सरभसमन्तरा-
यान्ति । पश्यामि ( इति परिक्रम्य।) कथमेते वाधविशेषाः!
एते षोडश मनुजा वाद्यवरान्वादयन्ति किल विविधान् ।
स्थायित्रये च क्लप्तांस्ततसुषिरघनांस्तथाऽऽनद्धान् ॥१२०॥
शृङ्गारशेखरभाणः ।
४३
अहो मनोहरता बृन्दातोद्यानाम् !
विमार्य भावमन्यं विवशयति मनो विनापि हठयोगम् ।
मदयति नटयति रसयत्यपि मां मोदयति मोहयति ॥
कथं तरुण्यस्तरुणान्करे गृहीत्वा नर्तनमारभन्ते ।
उन्नम्य पाणिकमलं धृतमङ्गुलीभि
श्चित्तेप्सितस्य तरुणस्य पुनः प्रगल्भाः ।
वक्षोनिविष्टकुचभारमिहानताङ्गयो
नृत्यन्ति तालसदृशं किल पङ्कजाक्ष्यः ॥१२२॥
कथमेता अचिरेणैव सह नृत्यन्तं परित्यज्य पुनरन्येन नटन्ति ।
नवं नवमिहागना नयनहारिरूपोच्चयं
प्रगृह्य करपल्लवैः स्तनभरं निधायोरसि ।
नटन्ति नवनागरं परमुपेत्य नेपथ्यक
विहर्तुमिह चेप्सितैः कुलवधूः समायात्यहो ॥१२३॥
पटनाट्यादपि परममुपकरोति विहारसदनं वामविलोचनानाम् ।
एकान्ते रचनीयमेव ललितं दीपेषु निर्वापिते
वन्यालक्षितमेव वैद्युतमये नाव्ये प्रगल्भैरपि ।
गेहेऽस्मिञ्शतदीपदीपितनिजप्रान्ते जने पश्यति
प्रोद्भुष्टे मुरजादिवाद्यनिचये क्रीडन्ति नृत्यन्ति च ॥१२४॥
अनुचितमन्तराययितुमेता मत्संलापेन नृत्यपरायणाः ।
( इति परिक्रम्य ।)
कथमस्तशिखरमवतरितुमभिलपतीवाहस्पतिः ।
कार्तस्वरेण कवचेन विभूष्यमाणां
वीक्ष्येव घस्रपतिना भुवमत्रहस्तैः ।
वेश्यास्तु यान्ति सहसा परिक्लप्त भूषा
नूनं विटा धनचयेन कलत्रितास्ताः ॥१२५॥
शृङ्गारशेखरमाणः। अतो न विलम्बनीयम् । त्वरितमितो मजुभाषिणीपार्श्व- मासादयिष्यामि ( इति परिक्रम्य । ) इदमेव प्रियसख्याः सदनम् । कथं मञ्जुभाषिणी स्वयमेव सकौतुकमायाति । अयि प्रेयसि, क्षमस्व विलम्बितागमन माम् । सोत्स्मयं ममांसे करपल्लवं विन्य- स्यन्ती किं ब्रवीषि ? "कया वा मुग्धया रुद्धा गतिः" इति । को रमेतैताभिरविदितमदनतन्त्राभिर्मुग्धाभिः । पैशल्यं वा करचरणयोः किंचिदुन्नम्रभावो वक्ष पीठे भवतु सुभृशं विस्तृतिर्वा नितम्बे । संदृश्या वा त्रिवलिरथ वा रोमराजिवलग्ने किं वाऽप्येतैर्यदि पुनरियं संवृता हीपटेन ॥१२६॥ शृणु चेष्टितमेतस्याः। रहः केलीस्थानं गमयति हठेनैव रमणे रतेच्छां संप्राप्याप्यहह कलुषा विद्रुतवती । किमर्थं स्वां शय्यामपि पुनरनासाद्य सुभृशं प्रमुञ्चन्ती चाच प्रतपति कृशा निश्वसिति सा ॥१२७॥ सहस्ततालं किं ब्रवीपि ? "अद्यैव परिज्ञातं प्रियसखस्य प्रगल्भाङ्गनावलनकारणम्" इति । भवतु, कुतो वा न प्रवृत्तो डोलाविहारः ? किं ब्रवीषि ? आर्यस्यैव संनिधानं प्रतीक्ष इति । तर्हि प्रारभ्यतां विहारः । किं कंजलोचना कुञ्चितागुलिः कलं गायन्ती विपञ्ची वादयितुमारभते । ( श्रुतिममिनीय।) कथं गायसि?
शृङ्गारशेखरभाणः।
४५
जयतु जयतु देवः पश्चवाणो यदीया.
मुपकृतिमिह काङ्गत्यात्मभूः सृष्टिकृत्ये ।
जडमपि भुवनं यदृष्टिपातेन जीव-
द्रसयति निखिलांश्च प्राणिनः सर्वदाऽपि ॥१२८॥
अहो मधुरता परिवादिनीनिनदस्य विशेषतः पङ्कजाक्षी-
गीतिसंयुतस्य ।
हरति हृदयमेतद्वल्लकीनादजुष्टं
सुमधुरगलजातं नायिकाप्रेमगीतम् ।
परिसरधृतकोकं प्रावृषीवाद्य पद्म
किसलयमिव सायं भानुरोचिः प्रदीप्तम् ॥१२९।।
सादरं किं ब्रवीषि ? पार्थासनमास्थाय कृतार्थयतु प्रियसखी-
मिति ।
( नाटयेनोपविश्य।)
घ्राणहारिकुसुमस्रगावृता हेमतन्तुकृतचेलभूषिता ।
नन्दयत्यहह कामिनीव मां डोलिका नवनवं विनिर्मिता ॥
अयि प्रेयसि, पश्य ।
प्रोन्नतं प्रथमतश्वलन्त्यहो स्मारयत्यखिलपांसुलादशाम् ।
सच्चरित्रकुलयोषितामियं दर्शयत्यवनता सुखं प्रिये ॥१३१॥
किं ब्रवीषि? आर्येणैव सर्व विज्ञायत इति । (आकाशमुद्रीक्ष्य,
सोद्नेगम् । ) किमुदितः कलाधरः। ( सश्लाघम् । )
भुक्त्वाऽसौ रजनी सुरारिनिकरप्रीतिकरां नित्यशः
सप्तापि द्विदशाधिकान्स्वयमहो तारागणान्सेवते ।
तैरप्येष सुधाकरः पुनरितोऽसंपूरितानन्यज-
स्तारामप्यपरां गुरोरपि सती कामातुरो गच्छति ॥१३२॥
४६ शृङ्गारशेखरभाणः। ( खगतम् । ) स्यमन्तकः परं ममागमनं प्रतीक्षमाणोऽभिवर्तेत । ( प्रकाशम् ) अयि प्रेयसि, अनुमन्यस्व मामावश्यिककार्यनिर्वर्तनाय । पुनस्त्वामचिरादव द्रक्ष्यामि । सविषादं किं ब्रवीषि ? किमेतस्मादपि परमावश्यिक कार्यम् । भवतु,ताम्बूलग्रहणेन कृतार्थयतु प्रियजनमिति। ( करेण वीटिकां गृह्णान् किचित्परिक्रम्य । ) किं स्यमन्तको ममाभिमुख- मायाति । दृष्टमात्रं मां सहर्ष किं ब्रवीषि? कथं प्रियजनेन विलम्ब्यत इति । किं सा हस्तगता? किं ब्रवीषि ? कः संदेहः पूर्वोक्तमार्गेणैव समानीता दूतिकया निष्कुटे निक्षिप्ता। उपभुक्ष्व च यथेष्टमिति । ( सत्वरं परिक्रम्य।) कथं दूतिकापार्श्वमधितिष्ठन्ती लजयाव- नता तिष्ठति । दूतिके, किं ब्रवीषि ? अनधिगतकामतन्त्रेणेयं भुक्ता चिरेण किल पत्या । अनवाप्तकामपूर्तिनिधुवनकुशलं प्रतीक्षतेऽद्य त्वाम् ।। इति । यथाकौशलं तर्पयाम्येनाम् । ( इति वदनमुन्नमयन ) अयि प्रियसखि, अकलङ्कमेव मन्ये वदनं ते कुमुदबान्धवं तन्वि । मम नयनयुग्मजीवंजीवं पातुं प्रियेऽनुमन्यस्व ॥१३४॥ सस्मितं किं ब्रवीषि ? स्वाधीना किलाहं प्रियसखस्येति । तर्हि समवाप्तं जीवितफलम् । स्यमन्तक, किं ब्रवीषि ? इतश्च किं करणीयमिति । किमास्ते कर्तव्यम् ।
शृङ्गारशेखरबाणः । ४७ शीतो गन्धवहः प्रतप्तमिह मे शान्तं विधत्ते वपुः सोऽयं शीतकरश्च तोषयति मां दूरप्रियाक्लेशितम् । प्राप्ता जीवितनाडिरङ्गजकलाधीरा युवाम्यामिह प्राप्तं सर्वमिदं किमन्यदिह मे लब्धव्यमास्ते भुवि ।। तथाऽपीदमस्तु भरतवाक्यम् । प्रजानां यो वाग्भिः सचिवपदवी प्राप्य नियतो भुवं त्वेतां प्रत्नां सरणिमनुसृत्यैव वहतु । जनः स्वाचारान्मा प्रजहतु पुनः कृच्छ्रगमितः पतिप्रीत्या दीव्यन्त्वनुदिनमिमा वामनयनाः ॥१३६॥ अपि च, दुष्टमपि लोकमेनं दृष्टिः पायाद्रघोरपत्यस्य । अष्टसु च दिक्षु काव्यं तुष्टं कुर्यात्कलावतां चेतः ॥१३७।। ( इति निष्क्रान्तः।) नवनिमिमिते कलावयमब्दे शृङ्गारशेखरो भाणः । परितोषाय बुधानां रचितः श्रीसुन्दरेशेन । इति श्री सुन्दरेशशर्मविरचितः शृङ्गारशेखरभाणः समाप्तः
No text on this page.
No text on this page.