Sringeri Sharada Peetham
Vani Bhushana
Front matter
KÂYYAMÂLÂ, 53.
THE
VÂNÎBHÛS'HANA
OF
DÂMODARA MIS'RA.
EDITED BY
PANDIT DURGÂPRASADA
AND
KÂSÎNÂTH PÂNDURANG PARAB
REVISED BY
WÂSUDEV LAXMAN SHÂSTRÎ PAŅSIKAR.
Second Revised Edition.
PUBLISHED
BY
PÂNDURANG JAWAJI,
PROPRIETOR OF THE “NIRNAYA-SAGAR" PRESS,
BOMBAY.
1925
w
Price & Annas.
[ All rights reserved by the publisher.
PUBLISHER :-Pandurang Jawaji, at the Nirnaya-sagar" Press,
PRINIER :-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay.
},
काव्यमाला. ५३. श्रीदामोदरमिश्रविरचितं वाणीभूषणम्। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम्, तच्च पणशीकरोपावलक्ष्मणशर्मात्मज- वासुदेवशर्मणा च संस्कृतम् । द्वितीयावृत्तिः । तदिदं मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितम् १९२५ वाणीभूषणस्यानुक्रमणिका। विषयः। पृष्ठे। " १ २ गाथा ... नामानि ... :: ... 90 विषयः। पृष्ठे। प्रथमः परिच्छेदः। वर्णपताका ... मङ्गलाचरणग्रन्थकरणप्रतिज्ञे वृत्तानि । मात्राप्रस्ताररीतिः षट्कलभेदनामानि २ उपगीतिः पञ्चकलभेदनामानि २ विगाथा चतुष्कलप्रस्तारे पञ्चानां गणानां गीतिः ३ गाथिनी. अन्तगुरुचतुष्कलनामानि ३ सिंहिनी मध्यगुरुनामानि ३ स्कन्धकम् आदिगुरुनामानि ३ दोहा त्रिकलप्रस्तारे गणत्रयनामानि... ३ ललितम् गुर्वादित्रिकलनामानि... ३ रोला त्रिलघुगणनामानि ३ गन्धानकम् गुरुनामानि ४ चौपैया लघुनामानि गणानां नामरूपाणि ४ घत्तानन्दः -गणानां देवताः गणानां फलानि ४ प्रज्झटिका मात्राणामुद्दिष्टम् ५ अरिला मात्राणां नष्टम् ५ पादाकुलकम् वर्णोद्दिष्टम् वर्णनष्टम् ५ पद्मावती वर्णमेरुः ५ कुण्डलिका मात्रामेरुः ५ गगनाङ्गनम् :: :: ८ ... ९ ४ घत्ता ९ ९ . . ४ नवपदम् ... :: १० ११ ५ षट्पदम् : : :: १२ १२ १३ २ पृष्ठे। २० २१ २१ १४ सारु ... :: :: :: २१ २१ २२ २२ २२ २२ २३ २३ 000 विषयः। पृष्ठे । विषयः। द्विपदी १३ मधुः खञ्जकम् १३ मही. शिखा माला ... १४ ज्यक्षरच्छन्दः। ताली चुलिआला सोरठा प्रिया १५ शशी हाकलि १५ रमणः मधुभार १५ अभीरम् पाञ्चालम् १५ मृगेन्द्रः दुर्मिला १६ मन्दरः रुचिरा दीपकम् कमलम् १६ चतुरक्षरच्छन्दः। सिंहविलोकितम् प्लवङ्गमम् १७ धारि लीलावती १७ नगाणी हरिगीता १८ पञ्चाक्षरच्छन्दः । त्रिभङ्गी १८ संमोहा हीरम् १८ हारी जनहरणम् १९ हंसा मदनगृहम् . १९ यमकम् मरहट्टा १९. शेषा द्वितीयः परिच्छेदः। तिलका एकाक्षरच्छन्दः। विमोहा श्री... ..२० चतुरंसा यक्षरच्छन्द:। मन्थानम् कामः ..२० शङ्खनारी १६ तीर्णा २३ २३ २४ :: :: ... ... ... :: :: :: २४ २४ २४ २५ २५ २५ २५ २६ २६ ::
३ विषयः। hu पृष्ठे। विषयः । पृष्ठ । ... 95- २६ सुषमा २७ अमृतगति एकादशाक्षरच्छन्दः। २७ बन्धुः ३३ २७ सुमुखी -- .. ... २७ दोधकम् २८ शालिनी ::: :: ३४ ... : : :: ३५ ३५१ 10 सुमालती. दमनकम् सप्ताक्षरच्छन्दः। समानिका सुवासकम् . करहञ्चि शीर्षा अष्टाक्षरच्छन्दः। विद्युन्माला मल्लिका प्रमाणिका तुङ्गा कमलम् माणवकक्रीडितकम्... अनुष्टुप् नवाक्षरच्छन्दः। महालक्ष्मी सारङ्गी पाइत्ता कमलम् बिम्बम् तोमरम् रूपामाली दशाक्षरच्छन्दः। संयुतका चम्पकमाला सारवती :: mm m, ३६ दमनकम् २८ सेनिका २८ मालती २८ इन्द्रवज्रा २९ उपेन्द्रवजा २९ उपजातिः २९ रथोद्धता २९ स्वागता द्वादशाक्षरच्छन्दः। ३० ३० ३० भुजङ्गप्रयातम् लक्ष्मीधरम् .. तोटकम् ३१ ३१ सारङ्गम् ३१ मौक्तिकदाम मोदकः ३१ तरलनयनम् ३२ सुन्दरी ३२ प्रमिताक्षरा. विद्याधारम् ... ... : : ३६ ३० ::: ... ३७ ३८ ३८ ३८ 1 है।
.... ४ ४६ .... .... ३९ मञ्जीरा .... .... .... .... ३९ क्रीडाचन्द्र .... बुष्पिताग्रा .... .... .... ...७ .... .... .... विषायः। पृष्ठे। विषयः। पृष्ठे । त्रयोदशाक्षरच्छन्दः। हरिणी ३८ अष्टादशाक्षरच्छन्दः। तारकः ४७ कुन्दाः .... ३९ चर्चरी पङ्घावलिः एकोनविंशत्यक्षरच्छन्दः। चतुर्दशाक्षरच्छन्दः। शार्दूलविक्रीडितम् वसन्ततिलका चन्द्रम् ४० घवलम् विंशत्यक्षरच्छन्दः। पञ्चदशाक्षरच्छन्दः। शंभुः ४९ चामरम् गीतिका मालिनी ४१ गण्डका अमरावली ४२ एकविंशत्यक्षरच्छन्दः। अनहंसम् ४२ स्त्रग्धरा ५० ४२ नरेन्द्रः निशिपालम् ४३ द्वाविंशत्यक्षरच्छन्दः। षोडशाक्षरच्छन्दः। हंसी नराचम् ४३ त्रयोविंशत्यक्षरच्छन्दः। नीलम् ४३ सुन्दरी ५२ ४४ चतुर्विंशत्यक्षरच्छन्दः। .... ४४ दुर्मिला ५२ सप्तदशाक्षरम्। किरीटम् ૨ पृथ्वी ४५ पञ्चविंशत्यक्षरच्छन्दः। माटाधरः ४५ शालूरम् शिखरिणी ४५ ग्रन्थगतसकलकृतसंख्या मन्दाक्रान्ता ४६ ग्रन्थसमाप्तिः ५३ .... .... .... .... .... .... .... ... .... .... .... .... ....
काव्यमाला। श्रीदामोदरमिश्रविरचितं वाणीभूषणम् । . प्रथमः परिच्छेदः। राजकुञ्जरराजकृत्ति विमलोदञ्चहुकूलाकृति अाजद्भोगिफणामणि प्रविलसन्मुक्तामणिग्रामणि । पादाम्भोजभुजङ्गफूत्कृति रणन्मञ्जीरम द्युति श्रेयो वः शिवशैलराजसुतयोर्देयादभिन्नं वपुः ॥ १ ॥ सन्तीह यद्यपि महाकविसंप्रणीत- ग्रन्थास्तथापि मम बालिशताविलासः । संपूर्णशारदविधावुदयं प्रपन्ने किं नाम नाभ्युदयमञ्चति तारकापि ॥२॥ अलसधियः प्राकृतमधि सुधियः केचिद्भवन्तीह । कृतिरेषा मम तेषामातनुतादीषदपि तोषम् ॥ ३ ॥ दीर्घदोषकुलोद्भूतदामोदर इति श्रुतः । छन्दसां लक्षणं तेन सोदाहरणमुच्यते ॥ ४ ॥ १. अयं च दामोदरमिश्रो मैथिलज इतिसमाप्तिलेखतोऽवगम्यते, तत्रापि दीर्घघोषाकुहे. त्पन्न इति चतुर्थश्लोकतोऽवगम्यते. समयश्च प्राकृतपिङ्गलव्याख्यात्रा लक्ष्मीनाथेक १६५७ संवत्सरे निर्मितायां व्याख्यायामस्योल्लेखात्ततः प्राचीन इत्यवसीयते. २. अस्य अन्यस्य पुस्तकचतुष्टयमस्माभिः समासादितम्. तत्र क-संज्ञकं २३ पत्रात्मकं संवत् १८३१ मध्ये लिखितं जयपुरराजगुरुभट्टश्रीलक्ष्मीदत्तानाम् , ख-संज्ञकं १५पत्रात्मकं जयपुरराजगुरुम श्रीश्रीनारायणपर्वणीकराणाम् ,ग-संज्ञक२६पत्रात्मकं १७६२ संवत्सरे लिखितम् ,घ-संवर्क २९ पत्रात्मकं महामहोपाध्यायपण्डितदुर्गाप्रसादशर्मणां संग्रहात्समासादितम्. ३. “ क. ४. 'प्रामणी' घ. ५. 'मभि' घ. ६. अयं श्लोको द्वितीयत्वेन लिखितोस्ति प-पुखके काव्यमाला। 'संयोगिपूर्व सविसगकं च दीर्घखरैः संगतमन्त्यगं वा । विद्यादनुखारसमन्वितं च गुर्वक्षरं वक्रमिह द्विमात्रम् ॥ ५ ॥ संयुक्तपूर्वोऽपि लघुः क्वचित्स्याद्वर्णस्तु ग्रहादिगतो विभाषा । एं ओ क्वचित्प्राकृतके लघु स्त इही तथा बिन्दुयुते पठित्वा ॥ ६ ॥ टॅठडढणेति गणाः स्युः षट्पञ्चचतुस्त्रियुग्ममात्राणाम् । तेषां त्रयोदशाष्टकपञ्चत्रिद्विभेदाः स्युः ॥ ७ ॥ (मात्राप्रस्ताररीतिः-) प्रथमगुरोरधरे लघु दत्त्वा शेषं समानमितरेण । उद्धृत्तं गुरुलघु वा प्रस्तारः सर्वलघु यावत् ॥ ८॥ (षट्कलभेदनामानि-) शिवशशिदिनपतिसुरपातैशेषाहिसरोजधातृकलिचन्द्राः। ध्रुवधर्मी शालिकरः षण्मात्रे स्युस्त्रयोदश विभेदाः ॥ ९ ॥ (पञ्चकलभेदनामानि-) इन्द्रासनमथ शूरश्चापो हीरश्च शेखरं कुसुमम् । अहिगणपापगणाविति पञ्चकलानां च नामानि ॥ १०॥ सुमरेन्द्राधिपकुञ्जरपर्यायो मेघदन्तयोश्चापि । ऐरावततारापतिरित्यादिलघोश्च पञ्चमात्रस्य ॥ ११ ॥ पक्षी विराण्मृगेन्द्रामृतवीणायक्षगरुडाख्याः । जोहलकमिति संज्ञा मध्यलघोः पञ्चमात्रस्य ॥ १२ ॥ १. 'संयोग' ख-घ. २. 'क्वचिलघुः स्या' ख. ३. 'प्रहादेः प्राक्क्वचित्' इति छन्दः- पीयूषसूत्रानुसारेण तु ' प्रहादिपरः' इत्येव पाठो भवेत् । अतएव तत्र “आदिशब्दात "अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति' इत्यत्र रीकारस्य, 'भ्रमति भ्रमरनारी कानने विप्रयुक्ता' इत्यत्र तीकारस्य च लघुवादिष्टसिद्धिर्वोध्या" इत्याद्युक्तम्. ४. 'एतत्' क-ग; ‘एवं' ख. ५. 'लघूक्त' ग. ६. 'युगे' ग. ७. षट्रकलष्टगणस्त्रयादेशविधः । पञ्चकलष्ठगणोऽष्टविधः । चतुष्कलो डगणः पञ्चविधः । विकलो ढगणस्त्रिविधः। द्विकलो णगणो द्विविधः' इति समुदितार्थः. ८. 'द्वित्रि' ग. ९. 'शालिकरौ' घ. .. 'दन्तमेघयो' क-ख-घ. ११. 'पक्षिविराडमृ' क-ख-ग; 'पक्षिविडालमृ' घ.
१ परिच्छेदः ] वाणीभूषणम् । विविधप्रहरणनामा पञ्चकलः पिङ्गलेनोक्तः । गजरथतुरगपदातिसंज्ञकः स्याच्चतुर्मात्रः ॥ १३ ॥ (चतुष्कलप्रस्तारे पञ्चानां गणानां नामानि-) कर्णः स्याद्गुरुयुगलं गुर्वन्तः करतलो भवति । गुरुमध्यमः पयोधर इति विख्यातस्तृतीयोऽसौ । आदिगुरुर्वसुचरणं चतुर्लघुर्द्विजवरो ज्ञेयः ॥ १४ ॥ ( अन्तगुरुचतुष्कलनामानि-) करबाहोः पर्यायाः प्रहरणभुजयोरलंकाराः। वज्रं रत्नमिति स्युर्मुर्वन्तचतुष्कले संज्ञाः ॥ १५ ॥ (मध्यगुरुनामानि-) अश्वगजमनुजपतयो वसुधापतिचक्रवर्तिगोपालाः। नायकपवनपयोधररज्जव इति मध्यगुरुसंज्ञाः ॥ १६ ॥ ( आदिगुरुनामानि-) तातपितामहदहनाः पदपर्यायाश्च गण्डबलभद्रौ । जङ्घायुगलं रतिरित्यादिगुरोश्चतुष्कले संज्ञाः ॥ १७ ॥ (त्रिकलप्रस्तारे गणत्रयनामानि-) ध्वजचिह्नचिरचिरालयतोमरतुम्बुरुकचूतमाला च । रैसवासपवनवलयां लध्वादिनिकलनामानि ॥ १८ ॥ (गुर्वादित्रिकलनामानि-) तालपटहकरतालाः सुरपतिरानन्दतूर्यपर्यायाः। निर्वाणसमुद्रावपि गुर्वादिनिकलनामानि ॥ १९ ॥ (त्रिलघुगणनामानि-) ताण्डवसात्त्विकभावा नारी च त्रिकलनामानि ।। २० ।। १. अयं श्लोक एकादशत्वेनाझीकृतः क-ग-घ पुस्तकेषु. २. 'फणिपतिनृपतिमाणितमि- त्यादिगुरोः स्युश्चतुष्कले संज्ञाः' ख; 'इत्यादि चतुष्कलसंज्ञा फणि राजनिर्दिष्टाः' क. ३. 'चूड' घ. ४. 'वसुवासवपवन' घ.
काव्यमाला MIN (गुरुनामानि-) नूपुररसनाचामरकङ्कणमञ्जीरताटङ्काः । कुण्डलहारौ वलयं गुरुनामानीति कथितानि ॥ २१ ॥ (रघुनामानि-) शरमेरुदण्डकनकं शङ्खरवौ रूपगन्धकुसुमानि । स्पर्शरसाविति संज्ञा मात्रामात्रस्य पिङ्गलेनोक्ताः ।। २२ ।। (गणानां नामरूपाणि-) मगणस्त्रिगुरुस्त्रिलघुर्नगणो भगणादिगुरुयंगणादिलघुः । गुरुमध्यगजो लघुमध्यगरः सगणोऽन्तगुरुस्तगणोऽन्तलघुः ॥ २३ ॥ गणानां देवता:-) महीजलानलान्तकाः खरर्यमेन्दुपन्नगाः। फणीश्वरेण कीर्तिता गणाष्टकेऽष्ट देवताः॥ २४ ॥ (गणानां फलानि-) मः संपदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति जो रगणो निहन्ति राष्ट्रं विनाशयति सस्तगणोऽर्थहन्ता ॥ २५ ॥ मैत्र्यं मगणनगणयोर्यगणभगणयोश्च भृत्यता भवति । औदास्यं जतगणयोररिभावः सगणरगणयोरुदितः ॥ २६ ॥ मित्रयोरुदिता सिद्धिर्जयः स्यान्मित्रभृत्ययोः । मित्रोदासीनयोन श्रीः स्यात्पीडा मित्रवैरिणोः ॥२७॥ कार्य स्यान्मित्रभृत्याभ्यां भृत्याभ्यां सर्वशासनम् । भृत्योदासीनयोर्हानिर्दाकारो भृत्यवैरिणोः ॥ २८ ॥ उदासीनवयस्याभ्यां क्षेम साधारणं फलम् । स्यादुदासीनभृत्याभ्यामखायत्तिस्तु सर्वशः । २९ ॥ - १. 'भ्यां तस्यापत्ति' घ.
१ परिच्छेदः] वाणीभूषणम् । उदास्ताभ्यां फलाभावः परारत्योर्विरोधिता । शत्रुमित्रे फलं शून्यं स्त्रीनाशः शत्रुभृत्ययोः ॥ शत्रूदासीनयोर्हानिः शत्रुभ्यां नायकक्षयः ॥ ३० ॥ (मात्राणामुद्दिष्टम्-) दत्त्वा पूर्वयुगाई गुरु शीर्षाकं विलुप्य शेषाङ्के । अङ्करितोऽवशिष्टैः शिष्टैरुद्दिष्टमुद्दिष्टम् ॥ ३१ ॥ (मात्राणां नष्टम्-) नष्टे कृत्वा कलाः सर्वाः पूर्वयुग्माङ्कयोजिताः । पृष्टाङ्कहीनशेषाङ्क येन येनैव पूर्यते ॥ ३२ ॥ परां कलामुपादाय तत्र तत्र गुरुभवेत् । मात्राया नष्टमेतत्तु फणिराजेन भाषितम् ॥ ३३ ॥ (वर्णोद्दिष्टम्-) उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एक लघुवर्णाङ्के दत्त्वोद्दिष्टं विजानीत ॥ ३४ ॥ (वर्णनष्टम् -) नष्टे तु कल्पयेद्भागं समभागे लघुर्भवेत् । देत्त्वैकं विषमे भागे कार्यस्तत्र गुरुभवेत् ॥ ३५॥ (वर्णमेरु:-) कोष्ठमक्षरसंख्यातमन्त्याचोरेकचिह्नितम् । शीर्षकोष्ठद्वयाङ्कन शून्यं कोष्ठं प्रपूरयेत् ॥ ३६ ॥ (मात्रामेरु:-) द्वयं द्वयं समं कोष्ठं कृत्वान्त्येष्वेकमर्पयेत् । एकद्विकत्रिकचतुःक्रमेण प्रथमेष्वपि ॥ ३७ ।। शीर्षाकाप्तपराकाभ्यां शेषकोष्ठान्प्रपूरयेत् । मात्रामेरुरयं दुर्गः सर्वेषामेतिदुर्गमः ॥ ३८ ॥ १. 'एक विषमभागे तु दत्त्वाध गुरु कल्पयेत्' ग. २. 'भागः'क-ख-ग. ३. 'तेष्वे' घ. ४. 'एकद्येकत्येकचतुः' क-ख-ग. ५. 'मपि' ग. २ वाणीभू.
६ काव्यमाला। (वर्णपताका-) अङ्कमुद्दिष्टवद्दत्त्वा शेषे पूर्वानपासयेत् । एकैरेकगुरु ज्ञेयं द्वयं द्वाभ्यां त्रिभिस्त्रयम् ॥ ३९ ॥ एषा वर्णपताका कीर्तिपताकाहिराजस्य । एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि ॥ ४० ॥ अथ वृत्तानि- आदि तृतीये द्वादशदशाष्टमात्रा द्वितीयचरणे च । तुर्ये पञ्चदश स्युर्गाथेयं पिङ्गलेनोक्ता ॥ ४१ ॥ सप्त तुरगाः सदीर्घाः षष्ठे जगणो द्विजोऽथवा भवति । षष्ठं लघूत्तरदले विषमे जगणो न गाथायाः ॥ ४२ ॥ यथा- उदितेऽर्धचन्द्रनिकरे प्रसरन्ति समन्ततोऽन्धकाराणि । घनपवनेऽपि लताया निस्पन्दत्वं सुमुखि चित्रम् ॥ ४३ ॥ इति गाथा। गाथोत्तरदलतुल्यं पूर्वदलं भवति यदि बाले । तामिह फणिपतिभणितामुपगीतिं वर्णयन्ति जनाः ॥ ४४ ॥ यथा- त्वदर्शनंदिवसावधि सावधि नो बाधते मदनः । क्षणमपि यामति, यामो दिवसति, दिवसास्तु कल्पन्ति ॥ ४५ ॥ इत्युपगीतिः । गाथा द्वितीयतुर्यों पादौ भवतस्तु विपरीतौ । सेयं भवति विगाथा फणिनायकपिङ्गलेन संप्रोक्ता ॥ ४६॥ यथा- वृन्दारण्यविहारी बल्लवनारीमनोहारी । गोपालीकरताली र्तनशाली पुनातु वनमाली ॥ ४७ ॥ इति विगाथा। १. मात्र' ख.घ; 'मेव' ग. २. 'नदर्शावधि' ग.३. 'भवतो यथा च' गः भवतो यदा च' ख. ४. 'वर्तन' क.
१ परिच्छेदः] वाणीभूषणम् । गाथाद्वितीयतुर्यावष्टादशमात्रको यदा भवतः । मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह हि फणिपतिना ॥ ४८ ॥ यथा--- अयि धृतिमोचन लोचन वद कथमुपयासि सविधमेणदृशः । निष्क्रान्तायामस्यां तव दुश्चरितेन भावि हृदि शल्यम् ॥ ४९ ॥ इतिः गीतिः । यदि गाथातुर्यपदं विंशतिमात्रं च गाथिनी भवति । फणिपतिपिङ्गलभणितं तद्विपरीतं तु सिंहिनीवृत्तम् ॥ ५० ॥ यथा- वन्दे रवीन्दुनयनं नवजलधररुचिमिन्दिरारमणम् । नन्दानन्दनिदानं वृन्दारकवृन्दवन्दितपदाम्भोजम् ॥ ५१ ॥ इति गाथिनी। पर्याप्ता जलधारा विरमति न च हन्त लोचने जलधारा । जग्मुः प्रसादमाशास्तदपि न मे जीवितस्याशा ॥ ५२ ॥ इति सिंहिनी । स्कन्धकमिति तत्कथितं यत्र चतुष्कलगणाष्टकेना स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ॥ ५३ ॥ यथा- अयमेति विमलविद्युत्करालकरवालविमलजलधरकालः । उद्यन्नवधनगर्जिततर्जितपथिकाङ्गनानिवहहृदयतलः ॥ ५४ ॥ इति स्कन्धकम् । षट्कलतुरगौ त्रिकलमपि विषमपदे विनिधेहि । समपादान्ते चैकैकलमिति दोहामवधेहि ॥ ५५ ॥ १. 'यथा' घ. २. प्राकृतपिङ्गलसूत्रे तु गाथिन्यां पूर्वार्धस्य त्रिंशन्मात्रत्वम्, उत्तरा- र्धस्य द्वात्रिंशन्मात्रलमभिधाय तद्विपरीतत्वं सिंहिन्यामुक्तम्. ३. अयमुदाहरणश्लोकः काग-पुस्तयोस्त्रुटितः. ४. 'ललित' ख. घ. ५. त्रिकलस्य स्थान एककलमिति विषसे त्रयोदश, समे एकादश मात्रा दोहायां भवन्ति.
काव्यमाला। यथा- - चरणसरोरुहमस्तु हृदि मे वदने तव नाम । चक्षुषि रूपं यावदसु रमय मनो मम राम ॥ ५६ ।। इति दोहा। द्विजवरयुगमिह रचय, त्रिलघुकगणमथ कलय,। सुललितकलितरसपदि, सरसिजमुखि भवति यदि । जगति विदितललितमिति, वरफणिपतिरिति वदति ॥ ५७ ॥ यथा- प्रविचलकुवलयनयन, जलनिधिकृतवरशयन, । दितितनयनिवहदमन, शमनविविधभयशमन । मयि वरमुपनय सुचिर, मभिनवजलधररुचिर ॥ ५८ ॥ इति ललितम् । रोलावृत्तमवेहि नागपिङ्गेलकविभणितं प्रतिपदमिह चतुरधिककलविंशतिपरिगणितम् । एकादशमधि विरतिरखिलजनचित्ताहरणं सुललितपदमदकारिविमलकविकण्ठाभरणम् ॥ ५९ ॥ यथा- तरति पयोनिधिसलिलमयति गिरिशिखरशिखोपरि विशति रसातलमटति यशस्तव सकलदिशः परि । गगनगमनमभिनयति समं शशिना श्रियमञ्चति चित्रमिदं न तथापि भवन्तं भूप विमुञ्चति ॥ ६०॥ इति रोला। दशसप्तवर्णमिह रचय प्रथमचरणं द्वितीयमष्टादशकलितमतिहृदयहरणम् । ईदृशमुत्तरदलमपि हृदयसंधानकं नागपतिपिङ्गलमणितमिति शृणु गन्धानकम् ॥ ६१॥ १. 'मद्वदने क; 'मद्वचने' ख-घ. २. 'पतिपिङ्गलभ' क-ख-घ. ३. 'मटति' घ.
१ परिच्छेदः ] वाणीभूषणम् । यथा- गर्जति जलधरः परिनृत्यति शिखिनिवहो नीपवनीमवधूय वहति दक्षिणगन्धवहः । दूरे दयितः कथय सखि किमिह हि करवै प्रज्वालय दहनं झटिति शलभमनुकरकै ।। ६२ ॥ इति गन्धानकम् । चौपैयावृत्तं त्रिंशन्मानं फणिपतिपिङ्गलगीतं कुरु सप्ततुरङ्गममतिहृदयंगममन्ते गुरुमुपनीतम् । यदि दशवसुरविभिश्छन्दोविद्भिः क्रियते यतिरभिरामं सपदि श्रवणसमये नृपतिः कवये वितरति संसदि कामम् ॥६३॥ यथा- कालियकुलगञ्जनदुरितविभञ्जनसज्जनरञ्जनकारी गोवर्धनधारी गोपविहारी वृन्दावनसंचारी । हतदुर्जयदानवपालितमानवमुदिताखण्डलपाली गोपालीनिधुवनसुखरसशाली भवतु मुदे वनमाली ॥ ६४ ।। इति चौपैया। इह सप्तचतुष्कलगणनिर्मितपदं त्रिले घु]विरामं भवति यदि । नागाधिपपिङ्गलभणितसुमङ्गलघत्तावृत्तमिति द्विपदि ॥ ६५ ॥ यथा- हृदि तावदनेकः स्फुरति विवेकस्तपसि मनो नियतं भवति । यावन्नवहरिणीनयनातरुणीमितसुभगं न विलोकयति ।। ६६ ॥ इति घचा। एतद्भेद एव-- एकादशविश्रामि तुरगविरामि यदि घत्तावृत्तं भवति । छन्दो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ॥ ६७ ।। - १. 'यति' ख. २. 'त्रिलविराम' इत्येव भवेत.
१० काव्यमाला। . यथा- मधुरस्मितलवंशालि यदि वनमालिवदनकमलमवलोकये। अधरसुधारसधाम परमभिराममवलम्बे जीवितमये ॥ ६८॥ इति घत्तानन्दः। प्रथममुपनय रामकलत्रयमहिगणेन सह दण्डमिति पैदानि विषमाणि संचिनु समपदे च षट्पञ्चवसुषट्कलकमिहैतदातनु । एवं पञ्च पदानि कुरु दोहामने देहि भुजगराजपिङ्गलमणितनवपदमेतदवेहि ॥ ६९ ॥ यथा- विहर मानिनि मानमपहाय रमय रमणमतिर्शयितकपटकलहरेति किमु विनश्यसि यौवनमिदमतिचंपलं नदीजलगतिसमं न पश्यसि । अनुभव हरिपरिरम्भसुखमिति वक्ता वद कोऽपि मुग्धे माधवमधि सपदि कुरु कारुण्यमितोऽपि ॥ ७० ॥ इति नवपदम् । चत्वारि चतुष्कलकानि धेहि तत्रापि जगणमन्ते निधेहि । भणिता फणिनायकपिङ्गलेन प्रज्झटिकेयं षोडशकलेन ॥ ७१ ॥ यथा- रमते न मनः परितापधारि न मनागपि विरमति नयनवारि । यदवधि हेरिणीदृक्पथमंगामि तदवधि बाधाशतमनुभवामि ॥ ७२ ॥ इति प्रज्झटिका। छन्दसि षोडशकले विलासिनि प्रतिपदमन्ते यमकविलासिनि । अरिला नाम पयोधरधारिणि शेषे नियतलघुद्वयधारिणि ॥ ७३ ॥ १. 'शशि' ख. २. 'त्रितय ग-घ. ३. 'पादानि' क-ग. ४. 'शयितम्' क-घ. ५. 'रीति विधुमुखि' ख. ६. 'चपलमचलनदीजलगतिनसि' ख. ७. देहि' क. 4. "विधेहि' क. ९. 'हरिणा' क. १०. 'अग कुटिलायां गतौ' इत्यस्य धातो रूपमेतत्, ११. 'अलिला'कख-ग.
१ परिच्छेदः] वाणीभूषणम् । यथा- किं कीनाश पाशधर गर्जसि मामुपगम्य दास(?)भरमसि । हरिचरणं शरणं न हि पश्यसि यन्नामश्रवणादपि नश्यसि ॥ ७४ ॥ इत्यरिला । अक्षरगुरुलघुनियमविरहितं भुजगराजपिङ्गलपरिगणितम् । भवति सुगुम्फितषोडशकलकं वाणीभूषणपादाकुलकम् ॥ ७५ ॥ यथा- - मलयपवनहृतकुसुमपरागः परभृतनिभृतरणितवनभागः । चिरतरसंचितमानदुरन्तः कस्य न मुदमुपनयति वसन्तः ॥ ७६ ॥ इति पादाकुलकम् । षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु शेषे द्विकलं कलय चतुष्पदमेवं संचिनु । छन्दः षट्पदनाम भवति फणिनायकगीतं रुद्रे विरतिमुपैति नृपतिसुखकरमुपनीतम् । उल्लालयुगलमत्र च भवेदष्टाविंशतिकलमितं शृणु पञ्चदशे विरतिस्थितपठनादपि पंण्डितजनहितम् ॥ ७७॥ यथा- वामकरोदरकलितकमलसोदररुचिवदना गुरुपुरतोऽपि तवैव नाम जल्पति गुरुमदना । भवदभिलिखनविशेषरभसपरीशेषितदिवसा मुञ्चति चन्द्रभयेन रजनिमधि "जीवितमपि सा । १. 'हासभरतर्जसि' घ. २. 'भर्जसि' ग. ३. 'लपितम्' क-ग. ७. 'गणितम्' घ. ४. 'भूषा' क-ख-ग. ५ स्थित' क. ६. 'गुणिगणहितम्' क-ग. ७. 'राम' क. ८. 'लषण' क. ९. 'निवेश' ग. १०. 'जीवन' क-ख-ग.
काव्यमाला। हृदि विनिहितभवदभिशरणरसरङ्गतरङ्गदनङ्गवति भवदीयविलोकनमन्तरा न मनोरथसुखमनुभवति ॥ ७८ ॥ इति षट्पदम् । यद्यष्टचतुष्कलगणनिर्मितपदकरपदकर्णद्विजविहिता सा पद्मावतिका विबुधसुमहिता जगणविरहिता सुकविहिता । इह देशवसुभुवनैर्भवति विरामः सकलाभिमतफलाय तदा फणिनायकपिङ्गलभणितसुमङ्गलरसिकमनःसंविहितमदा ॥ ७९ ॥ यथा- विधुरेव विधुरयति मर्म निकृन्तति जनयति शर्म न नर्मसदः चन्दनवनपवनो विकलयति मनो दलयति मदनो हृदयमदः । प्रियसखि मम नयनं पङ्कजनयनं कीर्तिसिंहधरणीरमणं यदि मिलति विशालं भवति तदालं विरहपयोनिधिसंतरणम् ।।८०॥ इति पद्मावती। कुण्डलिका सा कथ्यते प्रथमं दोहा यत्र रोलाचरणचतुष्टयं प्रभवति विमलं तत्र । प्रभवति विमलं तत्र पदं प्रति सुललितयमकम् अष्टपदी सा भवति विविधकविकौशलगमकम् । अष्टपदी सा भवति सुखितपण्डितमण्डलिका कुण्डलिनायकभणिता विबुधकर्णकुण्डलिक। ॥ ८१ ॥ यथा- तरणी भवसि निमज्जतो दुरितपयोनिधिवारि दिशि दिशि विलसति तव यशो नवहिमरुचिरुचिधारि । नवहिमरुचिरुचिधारि महोऽपि न यस्य समानं परवारण बलसिंह विदुषि वितरसि बहु दानम् । १. 'शरणे सारंगत' घ. २. 'मतौ सुख' घ. ३. 'विविध' ग. ४. 'दशभुवन' ग. ५.. 'कथिता' ग. ६. 'नियतं' क. ७. 'विमल' घ. ८. 'भणित' क-ख-ग. 8. 'कर्णे' क ख-ग. १०. 'महौहिमोऽपि' घ. ११. 'गुरु' क-ग.
- १ परिच्छेदः] वाणीभूषणम् । १३ परवारण बलसिंह जयसि भुवि जगदेकरणी कीर्तिसिंह नृप जीव यावदमृतद्युतितरणी ॥ ८२ ॥ इति कुण्डलिका। षट्कलमादौ विरचय शेषे रगणविभूषितं मध्ये नियमविहीनं द्वादशके यतिसंगतम् । फणिपतिपिङ्गलवर्णितं कविकुलहृदयरञ्जनं पैञ्चाधिकविंशतिकलवृत्तमिदं गगनाङ्गनम् ॥ ८३ ॥ यथा- गिरिवरतनयाकुँचरसपातविमुद्रितलोचने निद्राश्वसितसमीरणदूरदुरितभयमोचने । अतिबलविचलदसुरबलतारितसुरवरनायके अनुगतजनतातारिणि मम नेतिरस्तु विनायके ॥ ८४ ॥ इति गगनाङ्गनम् । आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलं दलम् ॥ ८५ ॥ यथा- क्षणमपि मयि विनिधेहि विलासिनि मधुकरमदविमोर्चने । विषमायुधविषमायुधशासनविकले सुमुखि लोचने ॥ ८६ ॥ इति द्विपदी। द्विजवरनवगणमुपनय तदनु च विमल कमलदलमृदुलसुतनु रंगणमिह हि खञ्जके। द्विदलमंमलदलमिदमिति फणिवरनरपतिगदितमिदमतिशयगुणसुहृदय- सुरञ्जके ॥ ८७ ॥ - .... १. 'जयदे' ग. २. 'वर्णितक' ग-घ. ३. 'पञ्चविंशतिकल' ख. ४. 'कुंज' ग. ५. 'रवि' ग. ६. "विलोचने' घ. ७. 'कमलसुत' घ. ८. 'नगण मिह ललितखाके' घ. ९. 'ममलमति' क. 'ममलमिति' ग. ...
काव्यमाला। यथा- - गुरुतमसि मम मनसि घनरामय लघु शमय मनसिशयविशिखचयजनि- तख्जमायताम् । अतिसुरभिकुटजमभिनिगदघनमदुपवनमुपनयतु हरिमित तु स हृदि मलयजायताम् ॥ ८८॥ इति खञ्जकम् । द्विजवरमिह हि रसगुणितमुपनयतु तदनु. जगणमवधेहि । खरगुणितमैपरदलमपि कुरु वर फणिपतिमुखभणितरुचिरशिखेहें ॥८९॥ यथा- नकुलवनमृदुपवनरयनिहतविरहिशतसुरभिरयमेति । दयिततमविरहि मम हृदयमतिपतति सखि यदि हतविधुरयमुदेति ॥९॥ इति शिखा । द्विजवर वगणमतिशयसुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्णवच्छेषे । अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥ ९१ ।। यथा- खरनखरमुखदलितदितितनयकठिनहृदय- रुधिरनिवहभवदभिषवसुखितमानसो हन्यात् । भवदंहो नरसिंहो दिविषत्संघोपसंयातः ॥ ९२ ॥ इति माला । दोहादलशेषे यदा पञ्चकलो विमलो हि विराजति । फणिपतिनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥ ९३ ॥ १. 'जनितहृदयज' घ; 'जहृदयरुज' इति यथाकथंचित्संभवति. २. 'मुनि' क-ग. ३. "मवर' घ. ४. 'शिखेहि' घ. 'शिखाहि' क. ५. 'निवह' ख. 'मिहर' घ. ६. 'नवगणमिह' ख ग घ. ७. 'मालावृत्ते दादूटललितमपि करर्ष' इत्यधिकं घ-पुस्तके. ८. 'षत्सु महोपसंपातः' ख-घ; "दिविषत्संगाहोपसंपातः' ग.
१ परिच्छेदः] वाणीभूषणम् । १५ यथा- स्मितपटुकपटविलोकितैरपहृतमानस पङ्कजलोचन । दृष्टिपथे भवितासि मम गोपवधूजनशोकविमोचन ॥ ९४ ॥ इति चुलिआला । तत्सोरठावृत्तममलमुरगपतिरिति वदति । तदोहाविपरीतमिह जनहृदि मुदमुपनयति ॥ ९५ ॥ यथा- अभिनवजलधरनीलममलकमलदललोचनम् । सखि पश्यामि कदापि मधुमथनं भवमोचनम् ॥ ९६ ॥ इति सोरठा । द्विजगणसगणभगणकलिता भवति चतुर्दशकलकलिता । अन्तगुरुमुपधाय यदा हाकलिरेषा भवति तदा ॥ ९७ ॥ यथा -- कौमुदकुमुदबन्धुवदना स्मितपीयूषजनितमदना । चपलविलोचनजितहरिणी हरति न कस्य मनस्तरुणी ॥ ९८ ॥ इति हाकलि। सगणं निधाय जगणं विधाय । श्रुतिसौख्यधाम मधुभारनाम ॥ ९९ ॥ यथा- अपि मुञ्च मानमवटौ बधान । भुजपाशकेन भयनाशकेन ॥ १०० ॥ इति मधुभार । एकादशकलधारि कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्तमधिधेहि ॥ १०१ ।। यथा- तरलनयनवलितेन मदमन्थरचलितेन । सुमुखि हृदयमभिलाषि सपदि न कस्य विलासि ॥ १०२ ॥ इत्यांभीरम् । १. 'पश्मेम' क-ख. २. 'ललिता' क-ग. ३. 'सदा' क. ४. 'मनु' ख.
१६ काव्यमाला। - द्वात्रिंशन्मानं भवति पवित्रं फणिपतिजल्पितवृत्तवरं दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कलकलितसकलपदमिति दुर्मिलकानामधरं नरपतिवरतोषण बन्दिविभूषण भुवनविदितसंतापहरम् ॥ १०३ ।। यथा- यमुनाजलकेलिविलोलविलोचनगोपीजनहृतवसनवरं तटजातविशालतमालतरुणतरुदुर्गमशाखारोहपरम् । निजभुजमदमत्तभोजपतिमानससंभृतदम्भविनाशकरं करचरणमयूखमुषितकमलं नम लीलामानुषवेषधरम् ॥ १०४ ॥ इति दुर्मिला। सप्तचतुष्कलकलितदलसकलमत्यहितकुण्डलरुचिरा । न कुरु पयोधरमिह फणिपतिवरभणितमिदं वृत्तं रुचिरा ॥१०५॥ यथा- कस्य तनुर्मनुजस्य सितासितसंगममधिविधितः पतिता । यस्य कृते करभोरु विषीदसि मिहिरातपनिहितेव लता ॥ १०६ ॥ इति रुचिरा। तुरगैकमुपधाय सुनरेन्द्रमवधाय । इह दीपकमवेहि लघुमन्तमधिधेहि ॥ १०७ ॥ यथा- क्षणमात्रमति वल्गु जगदेतदति फल्गु । धनलोभमपहाय नम पद्मनयनाय ॥ १०८ ॥ इति दीपकम् । शृणु सिंहविलोकितवृत्तवरं वरयमकमनोहरचरणधरम् । धरणीपतिमानसमधिकलितं किल वेद चतुष्कलगणललितम् ॥१०९॥ - १. 'सकलदलसंमोहित' ख-घ. २. 'निहतेन' ग. ३. देहि ख. ४. 'मन्तिके' ग.
१ परिच्छेदः ] वाणीभूषणम् । १७ - यथा- दिवसाद्यवसादिततिमिरवनं वनजावलिबोधनिसगधनम् । धनदेन्द्रकृतान्तपाशिनमितं मितभुवनतलं नम दिवसकृतम् ॥ ११० ॥ इति सिंहविलोकितम् । षट्कलमादिगुरुं प्रथमं कुरु संततं पञ्चकलं च ततोऽपि चतुष्कलसंगतम् । नायकमत्र चतुर्थमितो गुरुमन्तके एकाधिकविंशतिः प्लवङ्गमवृत्तके ॥ १११।। यथा- विष्णुविरञ्चिविभाकरवासववन्दितं विस्मृतविषयविषादकमुनिजननन्दितम् । चञ्चलया तुलितं सुसुखं न हि कामये शंकरपादसरोजरजः परिभावये ॥ ११२ ।। इति प्लवङ्गमम् । लघुगुरुवर्णनियमविरहितमिह हि सुकलय चतुष्कलमष्टगणं द्वात्रिंशत्कलविरचितमिदमतिशयसहृदयहृदयदुःखहरणम् । लीलावतिका भवति च करकर्णद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तममलगुम्फनललिता ॥ ११३॥ यथा- - धेनुसहस्रमनुदिनमिह वितरसि द्विजनिवहे मुंदमातनुषे विश्वतिमिरदिनकर सपदि करकमलमपि लक्ष्मीवसतिं तनुषे । दोषापनयलब्धनिजसमुदयराजसुवलमप्यवलयसि रणे त्वयि चलति चलति वसुधा वसुधाधिप कीर्तिसिंह धरणीरमणे॥११४॥ इति लीलावती। १. 'मन्तिके' ग. २. 'मिद' ग. ३. "रिपु' ख-घ. ४. 'दलनकरहस्तकुशेशयमपि' ख-घ. ५. 'दुरितविलयमिलितखजनोदयनृपराजवलयमवलयसि' घ. ३ वाणीभू० काव्यमाला। - इन्द्रासनं प्रथमं विसर्जय तदनु संचिनु षट्कलं ननु तदनु पञ्चकलत्रयं किल कुरु विरामे कुण्डलम् । अष्टाधिकामिह विंशतिं च कलाः कलावति सुन्दरं हरिगीतमिति हरिगीतकं वर वृत्तमतिरसमन्दिरम् ॥ ११५॥ यथा- सखि बंभ्रमीति मनो भृशं जगदेव शून्यमवेक्ष्यते परिभिद्यते मम हृदयमर्म न शर्म संप्रति वीक्ष्यते । परिहीयते वपुषा भृशं नलिनीव हिमैततिसंगता रुदती परं वदतीति सा सुदती रतीशवशं गता ॥ ११६ ॥ इति हरिगीता । प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसु वसुकं वसु विमलतुरङ्गममतिहृदयंगमहृषितभुजंगमनृपतिलकम् । त्रिंशद्विकला संविहितविलासं सततनिवासं हृदयमुदो मदमुदितभुजंगीमोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः ॥ ११७ ॥ यथा- - विविधायुधमण्डितसंगरपण्डितरणदण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरर्खण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मङ्गलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम्॥११८॥ इति त्रिभङ्गी। वहिटगणमन्त्यरगणमेव चरणशोभितं पश्य सुदति नागनृपतिरत्र वदति नो हितम् । राजभजनकालपठन एव रटनरञ्जनं हीरक इति नाम भवति काममवति सज्जनम् ॥११९॥ यथा- ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । १. 'संतनु' घ. २. 'त्रितयं घ. ३. 'हिमकरसंगता' घ. ४. 'मण्डिनि' ग.
१ परिच्छेदः ] वाणीभूषणम् । द्वारभवनदाररमणसारचयनवासना तावदयति नावतरति कालनृपतिशासना ॥ १२० ॥ इति हीरम् । लघुगुरुकनियमगतमिह फणिमणिमतमवगतमतिसुखनिगदपदं दशवसुभवनैर्यतिरिह हि यदि भवति रसिकजनहृदयविहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणं कचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि जनहरणम्॥१२१॥ यथा- उपगम्य निभृततरमभिनवजलधरसुभगसुदर्शनचक्रधरं सखि कथय हृदयरुजमुरगराजभुजममलकमलदलनयनवरम् । अतिकुटिलकठिनहठमपनय मयि शठ दर्शनमपि न ददासि चिरा- दचिरांशुलतासदृशी नवयौवनकान्तिरचिरमिह रुचिरतरा ॥ १२२ ॥ इति जनहरणम् । प्रथमं कुरु षट्कलमन्ते कुण्डलमिह मध्ये वसुतुरगधरं संतापहरं दशवसुभुवनाष्टभिरत्र चरणमभिभवति विरामो यदि ललितम् । कविवलयहितं फणिनायकभणितं जगणविरहितं चत्वारिंशत्कलवित्तं भुवनेवृत्तं महितं रसनिवहं तन्मदनगृहं नरपतिसंसदि लब्धपदं गुरुशोकगदम्।। यथा- विरहानलतप्ता सीदति सुप्ता रचितनलिनदलतल्पतले मरकतविमले करकलितकपोलं गलितनिचोलं नयति सततरुदितेन निशामनिमेषशा। न सखीमभिनन्दति रुजमनुविन्दति निन्दति हिमकरकरनिकरं परितापकरं मनुते हृदि भारं मुक्ताहारं दिवसनिशाकरदीनमुखी जीवितविमुखी ॥ १२४ ।। इति मदनगृहम् । आदौ कुरु षट्कलमत्र चतुष्कल पञ्चानन्दमितोऽपि दशवखेकादश भवति विरतिवशमधिकशुचामवलोपि । विंशति नवसंख्यं कविकुलसंख्यं वन्दितगुणगणकोटि मरहट्टावृत्तं किल चयकृत्ये कृतरिपुविनतकरोटि ॥ १२५ ॥ १. 'दवति' क. २. 'जगण' ख-घ. . ३. 'सुदृशी' ग. ४. 'कलितम्' ख-ग. ५. 'हिमकरनिकर' ग. ६. 'मप' ग.
२० काव्यमाला। यथा- अभिमतधनदाता सिद्धिविधाता जगदन्तरगतशील दुरितद्रुमदाही विश्वविगाही कल्पक्षयकृतलील । भुवनत्रयवन्दित गिरिजानन्दित हरशिरसि स्थिरवास दह हुतवह पापं देहि दुरापं वसुहततिमिरविलास ॥ १२६ ॥ इति मरहट्टा। इति श्रीदामोदरमिश्रविरचिते वाणीभूषणे मात्रावृत्तं नाम प्रथमः परिच्छेदः । द्वितीयः परिच्छेदः अथैकाक्षरच्छन्दः- यद्गौः। सा श्रीः॥१॥ यथा- विष्णुम् । वन्दे ॥२॥ इति श्रीः। अथ ब्यक्षरच्छन्दः- यस्मिन्हारौ। कामः स स्यात् ।। ३ ॥ था कल्याणं वः । शंभुर्देयात् ॥ ४॥ इति कामः । द्विकलघु । मधुरिति ॥ ५॥ यथा- - रतिमय । वरतनु ॥ ६॥ इति मधु। १. 'गति' ख-ग.२. 'रिति मधु' ख-ग.
२ परिच्छेदः] वाणीभूषणम् । लघुश्च गुः । मही स्मृता ॥ ७॥ यथा हरोऽस्तु मे। मनोमुदे ॥ ८॥ इति मही। हारलश्च । धारि सारु॥९॥ यथा- कृत्यवस्तु। सिद्धमस्तु ॥ १०॥ इति सारु। अथ व्यक्षरच्छन्दः-- ताली सा निर्दिष्टा। उद्दिष्टो मो यत्र ॥ ११ ॥ यथा- ज्ञानी ते जानीते। सारूप्यं वैरूप्यम् ॥ १२ ॥ इति ताली। . जोहलं दृश्यते । सा प्रिया कथ्यते ॥ १३ ॥ यथा-- नौमि तं पालकम् । देवकीबालकम् ॥ १४ ॥ इति प्रिया । नरेन्द्रो यदा स्यात् । शशी कथ्यते तत् ॥ १५ ॥ ४. 'गोपा' ख. १. 'गुरुःख-घ. २. 'हारदण्ड' ख-घ. ३. सिद्धिरस्तु'घ. ५. 'दारकम्' ग.
૨૨ काव्यमाला। यथा- - जनानन्दकन्दः। श्रिये स्तान्मुकुन्दः ॥ १६ ॥ इति शशी । सगणो रमणः । कविना कथितः ॥ १७ ॥ यथा- OR धनदो धनदः । भवतो भवतात् ॥ १८ ॥ इति रमणः । कर्णेन गन्धेन । पाञ्चालमाख्याहि ॥ १९ ॥ यथा शर्माणि सर्वाणि । देयानि शेर्वाणि ॥ २०॥ इति पाञ्चालम् । नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥ २१॥ यथा- कवीन्द्रहितानि । नरेन्द्रगृहाणि ॥ २२ ॥ इति मृगेन्द्रः । चञ्चति भो यदि। मन्दरमञ्चति ॥ २३॥ यथा- शं कुरु शंकर । वैरिभयंकर ॥ २४ ॥ इति मन्दरः । ४. 'वृथा १. 'दण्डेन' ख. २. 'रुद्राणि' ख-घ, ३. 'पयोधरधारि' ख-घ. विलपामि । हरिं न भजामि ॥' ख-घ. ५. 'छन्दसि' ख.
२ परिच्छेदः ] वाणीभूषणम् । २३ कमलमयत । नगणमैवत ॥ २५ ॥ यथा- मयि पुरहर। शमिह वितर ॥ २६ ॥ इति कमलम् । अथ चतुरक्षरच्छन्दः- यस्मिन्वृत्ते कर्णः कर्णः। वेदैर्वणः : सा स्यात्तीर्णा ॥ २७ ॥ यथा- वंशीवादैर्दत्तोन्मादैः। हृत्वा चेतः कासौ यातः ॥ २८ ॥ इति तीर्णा । यत्तु पक्षिदण्डलक्षि । वेदवर्णधारि धारि ॥ २९ ॥ यथा- राम राम राम राम । सारमेतदेव नाम ॥ ३०॥ इति धारि। द्वितुर्यके गुर्यदा। नगाणिका भवेत्तदा ॥ ३१ ॥ यथा- पयोधिजालमीक्ष्यते । धवैव तेन लक्ष्यते ॥ ३२ ॥ इति नगाणी। अथ पञ्चाक्षरच्छन्दः- द्वौ कर्णौ हारः संमोहा सारः । वर्णाः पञ्चैवं नागाधीशोक्ताः ॥ ३३ ॥ १. 'मयतु' ख-घ. २. 'मिह तु' ख-घ. ३. 'लब्ध्वा तु खत्पादानन्तः। आमोदन्ते नित्यं सन्तः ॥' क-ग. ४. 'विलोकये कदा क्षणम् । हरिं सरोरुहेक्षणम् ॥' ख-घ.
काव्यमाला। Rom E यथा- दूरं याताली घोरा वन्याली । कृष्णो मायावी निर्वेदो भावी ॥ ३४ ॥ इति संमोहा। आद्यन्तकर्णाः पञ्चैव वर्णाः। लघ्वेकहारी वाच्यः स हारी ॥ ३५ ॥ यथा कंसादिकेतुं धर्मैकसेतुम् । इन्दीवराभं वन्देऽजनाभम् ॥ ३६ ॥ इति हारी। पिङ्गलदृष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥ ३७ ॥ यथा- एति वसन्ते याति दिगन्ते । किं सखि कान्तः कोऽपि कृतान्तः ॥ ३८ ॥ इति हंसः। नगणमनु द्विलघु कुरु । फणिभणितयमकमिति ॥ ३९ ॥ यथा- विषमतरविषमशर । प्रहर मयि न चिरमयि ।। ४० ॥ इति यमकम् । अथ षडक्षरच्छन्दः- एषा वर्णैः षभिः प्रोक्ता छन्दोविद्भिः । सर्वे वर्णा यस्यां दीर्घाः शेषा सा स्यात् ॥ ४१ ॥ यथा- किं कुर्यां मे कान्तः सख्यं कर्तुं भ्रान्तः । दुःखैः खान्तं पूर्ण यात प्राणास्तूर्णम् ॥ ४२ ॥ इति शेषा। १. किं वा कुर्या हे ही नैवायातः कान्तः। व्योमात्रैः संपूर्ण' ख-घ. २. 'व्योमात्रैः - - संवर्ते' ग.
२ परिच्छेदः] वाणीभूषणम् । २५ - - सखि सद्वितयं भवतीह यदा। रसवर्णपदा तिलकेति तदा ॥ ४३ ।। यथा- वनमालिकथा सकलालि वृथा । पुनरेति कथं मम दृष्टिपथम् ॥ ४४ ॥ इति तिलका। यत्र पादद्वयं दृश्यते रद्वयम् । नागराजोदिता सा विमोहा मता ॥ ४५ ॥ यथा पर्वते पर्वते किं नसन्त्यापगाः। सर्वतो वर्तते नैव दैवापगा ॥ १६ ॥ इति विमोहा। द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥ ४७ ॥ यथा- जय जय विष्णो त्रिभुवनजिष्णो । अपनय दुःखं प्रवितर सौख्यम् ॥ ४८ ॥ इति चतुर्रसा। कर्णध्वजानन्दमाधाय नित्यं च । वर्णे रसैर्यत्तु मन्थानमेतत्तु ॥ ४९ ॥ यथा- शीतांशुवत्राय पाथोजनेत्राय । वन्दस्य नन्दस्य भव्याय पुत्राय ॥ ५० ॥ इति मन्थानम् । ध्वजानन्दकर्णाः षडेवात्र वर्णाः । बुधानन्दकारी भवेच्छङ्खनारी ॥ ५१ ॥ १. 'सगणद्वितयं' ख-घ. २. 'यत्र पक्षिद्वयं दृश्यते सुन्दरम् । सर्पराजो ख-घ. ३. 'विजोहा' ख-घ. ४. 'इतः प्राक् 'आलि वंशीधरे कामकेलीपरे । किं मया' साधितं मौनमारोपितम् ॥ पुनः' इत्यधिक ख-घ.५. 'वर्णैः' ख-घ. ६. 'रंशा' ख-घ. ७. इतः प्राक् 'तव रतिशाली यदि वनमाली । विविधविलासे सखि किमुदासे ।। पुनः' इत्यधिकं ख-घ. ८. 'सानन्द' क-ग. ९ 'धारी' ख-घ. - २६ काव्यमाला। - यथा- स्फुरद्गोपनारीपरीरम्भकारी। हरिः पातु वृन्दावनाभ्यर्णचारी ॥ ५२ ॥ इति शङ्खनारी। यदा जगणद्वि भवेदमलद्यु । फणी वितनोति सुमालतिकेति ॥ ५३ ॥ यथा- मनोजशरेण विषण्णतरेण । अवादि न तेन भवद्दयितेन ॥ ५४ ॥ इति सुमालती। द्विगुणनगणमिह वितनुहि । दमनकमिदमिति गदति हि ॥ ५५ ॥ यथा- सुवचनमिह भृशमुपनय । सुमुखि मदनरुजमपनय ॥ ५६ ॥ इति दमनकम् । अथ सप्ताक्षरच्छन्दः हारमेरुणा यदा संकुला भवेत्सदा । सप्तवर्णसंगता सा समानिका मता ॥ ५७ ॥ यथा- पद्मचारुचक्षुषा नीलँनीरजत्विषा । आलि मन्मनो हृतं वंशनादमोहितम् ॥ ५८ ॥ इति समानिका। द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति गुणिनायक ॥ ५९॥ यथा- गिरिवरनन्दिनि दुरितनिन्दिनि । विहित तौ मयि कुरु करुणामयि ॥ ६० ॥ इति सुवासकम् । १. 'सरभसमिह दृशमुपनय' ख घ. २. 'निर्मिता' ख-घ. ३. 'नीरद' ख-घ. 5. 'वाद' ख-घ. ५. 'निकृन्तनि' ग. ६. 'तनौ' ग. -- - २ परिच्छेदः] वाणीभूषणम् । २७ द्विजगणमवेहि जगणमनुदेहि । विविधरसस(सि)ञ्चि भवति करहश्चि ॥ ६१ ॥ यथा- रचय रुचिराणि सुमुखि वचनानि । नयनमपिधेहि शयनतलमेहि ॥ ६२ ॥ इति करहञ्चि । उक्ता वर्णाः सप्तास्यां सर्वे दीर्घाः स्युर्यस्याम् । एषा शीर्षा निर्दिष्टा केषां हर्ष नादेष्टा ॥ ६३ ॥ यथा- दृष्टः कृष्णः कलिन्दीतीरे गोगोपानन्दी वेणुकाणैरुत्कानां चेतोहर्ता गोपीनाम् ॥ ६४ ॥ इति शीर्षा । अथाष्टाक्षरच्छन्दः- उक्ता यस्यामष्टौ वर्णाः पादे पादे सर्वे दीर्घाः । विश्रामः स्यात्तुर्ये तुर्ये सा विद्युन्माला निर्दिष्टा ।। ६५ ।। यथा- आगामिन्यो नो यामिन्यो या या याता भूयो भूयः । अभ्रच्छायावत्तारुण्यं मानेनानेन स्याकिं ते ॥ ६६ ॥ इति विद्युन्माला। हारशङ्खकक्रमेण मण्डिताष्टवर्णकेन । वर्णिता कुतूहलेन मल्लिकेति पिङ्गलेन ॥ ६७ ॥ यथा- वेदवेदिवालखिल्यनारदादिसंस्तुताय । अस्तु मे नतिः सदैव विश्वरूपभावितैव ॥ ६८ ॥ इति मल्लिका। प्रसूनकुण्डलक्रमैरिहाष्टवर्णविभ्रमैः । भुजंगराजवर्णिता प्रमाणिकेति सा मता ॥ ६९ ।। १ 'नोद्दिष्टा' ख-घ. २. 'गोपाला' ख-घ. ३. 'द्वेदैर्वेदैः' ख-घ.४-५. 'विद्वन्माला' ख-घ. ६. 'वास' ग. ७. 'तुभ्यमम्बुज प्रियाय' ख-ग-घ. - २८ काव्यमाला। यथा- Don- प्रयाहि दूति सत्वरं न ते वचोऽतिसुन्दरम् । इतोऽप्युदेति पश्चिमे कुलव्रतव्ययो न मे ॥ ७० ॥ इति प्रमाणिका। द्विगुणनगणकर्णैः सुललितवसुवर्णैः । रसिकविहितरङ्गा प्रभवति किल तुङ्गा ।। ७१॥ यथा- विहरसि मम चित्ते मदनविशिखकृत्ते । न नयनविषयत्वं ब्रजसि तदपि मे त्वम् ॥ ७२ ॥ इति तुङ्गा । द्विजवरगणान्वितं जगणगुरुसंगतम् । फणिनृपतिजल्पितं कमलमिति कल्पितम् ।। ७३ ॥ यथा- anta विहरति विलासिनीपरिषदि हरिवने । इति वदति राधिका निजसहचरीजने ॥ ७४ ॥ इति कमलम् । भादिगणं कर्णधरं सान्तमिदं वृत्तदरम् । पन्नगराजेन कृतं मानवकक्रीडितकम् ॥ ७५ ॥ यथा- - कोकवधूशोकहरं पद्मवनीबोधकरम् । गाढतमोनाशकरं नौमितरामुष्णकरम् ॥ ७६ ॥ इति माणवकक्रीडितम् । लघु स्यात्पञ्चमं यत्र गुरु षष्ठं तु सप्तमम् । द्वितुर्यपादयोर्हखमष्टाक्षरमनुष्टुभम् ॥ ७७ ॥ १. 'प्युदेतु' ख-घ.
२ परिच्छेदः] वाणीभूषणम् । - यथा- हृदयं मदयन्त्येते मदोन्मत्ताः शिलीमुखाः । विषाक्ताः पुष्पधनुषो मूर्ता इव शिलीमुखाः ।। ७८ ॥ इत्यनुष्टुप् । अथ नवाक्षरच्छन्दः- दृश्यते पक्षिराजत्रयं यत्र वृत्ते मनोहारके । संततं पिङ्गलेनोदिता सा महालक्ष्मिका कीर्तिता ॥ ७९ ॥ - यथा - नौम युष्मत्पदाम्भोरुहं चण्डकीनाशपाशापहम् । शेषचूडामणीरञ्जितं देवराजादिभिर्वन्दितम् ॥ ८० ॥ इति महालक्ष्मी। द्विजवरको सगणं विरचय यस्याश्चरणम् । जगदभिरामं हितया भवति हि सारङ्गिकया ॥ ८१ ॥ यथा- प्रणमत राधारमणं नृगनृपबाधाशमनम् । असुरमदापाहरणं यदुकुलचूडाभरणम् ॥ ८२ ॥ इति सारङ्गी। आदौ कर्णद्वयललितं कृत्वा विप्रं गुरुसहितम् । तद्वृत्तं पिङ्गलभणितं पाइत्तेति श्रवणहितम् ॥ ८३ ॥ यथा- - भ्रामं भ्रामं भुवनतलं दर्श दर्श जगदखिलम् । भूयो भूयः परिगणितं विष्णोर्नाम श्रयत हितम् ॥ ८४ ।। इति पाइत्ता। द्विजवरयुगलयुतं कलय गुरु विरतिगम् । भणति फणिपतिरिदं कमलमिति रतिपदम् ॥ ८५ ॥ १. 'द्विजवरकगणयुगं' ख-घ. ४ वाणीभू० काव्यमाला। DER यथा- सजलजलधरनिभं भुवनतलकृतशुभम् । विनिहतबलिनरकं नमत मधुमथनकम् ॥ ८६ ॥ इति कमलम् । नगणकरगन्धकर्ण भवति नववर्णपूर्णम् । फणिवदनभूषणं यद्भवति किल बिम्बमेतत् ॥ ८७ ॥ यथा- कपटकृतगोपवेषः शयनवरभूतशेषः । जयति कृतनन्दहर्षो गिरिविधृतवातवर्षः ॥ ८८ ॥ इति बिम्बम् । प्रथमं करं विनिधाय जगणद्वयं च निधाय । इंति तोमरं सुखकारि कविराजवऋविहारि ॥ ८९ ।। 'यथा- सखि मादके मधुमासि व्रज सत्वरं किमिहासि । सह तेन किं विहरामि किमु पावकं प्रविशामि ॥ ९० ॥ इति तोमरम् । चत्वारोऽसिन्कर्णा जायन्ते छन्दस्येकं हारं कुर्वन्ते । रन्ध्रा वर्णाः पादे राजन्ते रूपामालीवृत्तं तत्कान्ते ॥ ९१ ॥ यथा हत्वा शत्रु नृत्यन्ती चण्डं सा चण्डी वः कल्याणं कुर्यात् । देवेन्द्राद्याः प्रीत्या संप्राप्ताः संसेवन्ते यत्पादाम्भोजम् ॥९२।। इति रूपामाली। अथ दशाक्षरच्छन्दः- सगणं पुरः कुरु शोभितं जगणद्वयं गुरुसंचितम् । फणिनायकेन निवेदिता भवतीह संयुतका हिता ॥ ९३ ।। १. 'कुरु' ख-घ. २. 'ऽस्याः' घ. ३. 'वर्णा ख. ४. 'भव्या' ख घ. ५. 'प्रीताः' ख. ६. 'संगतम्' ख घ. ७. 'संघतिका' ख; 'संगतिका' घ.
२ परिच्छेदः] वाणीभूषणम् । . - यथा- अवधेहि किंचिदनुत्तरं प्रवदामि ते नृप सत्वरम् । तव दिक्षु कीर्तिविलासिनी प्रतिभिक्षुगेहनिवासिनी ॥ ९४ ॥ इति संयुतका। पादविराजन्नूपुरयुग्मा कुण्डलशोभासङ्गिसुकर्णा । शङ्खवती हारद्वयपूर्णा चम्पकमाला भाति सुवर्णा ॥ ९५ ।। यथा- आलि कुलभ्रष्टाहमधन्या हन्तु च मामेषा रविकन्या । नन्दकुमारो निर्गतशङ्कः संप्रति भावी कोऽपि कलङ्कः ॥ ९६ ॥ इति चम्पकमाला। दीर्घलघुद्वयभद्विगणा हारविराजिचतुश्चरणा । पिङ्गलनागमते भणिता सारवती कविसार्थहिता ॥ ९७ ॥ यथा-- माधवमानय मत्सविधं किं सखि चिन्तय मित्रवधम् । यन्न करिष्यसि मप्रणयं नो गमयापि तदा समयम् ॥ ९८॥ इति सौरवती। कर्णो द्विलघुः कर्णो भगणः शेषे गुरुणा पूर्णश्चरणः । यस्यां भविता बाले परमा सैषा सुषमा दीव्यत्सुषमा ॥ ९९ ॥ यथा- एणीनयने केलीकलहे प्रेयान्वद किं किं नो कुरुते । धन्या रमणी सर्व सहते दुःखं सुखवत्खान्ते मनुते ॥ १०० ॥ इति-सुषमा । नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥ १०१ ॥ १. 'सखि गोपवेषविहारिणं शिखिपिच्छचूड विधारिणम् । मधुसुन्दराधरशालिनं ननु कामये वनमालिनम् ॥' क. २. 'सुवर्णा' क-ग-घ.३. 'हन्त भवद्वन्द्या रविकन्या' ख-घ. ४-५. 'हारवती' घ. ६. 'तृप्यत्सुखमा' ख-ग. ७. 'अमृततिलका' घ. E ३२ काव्यमाला। यथा- अभिसरति प्रतिभवनं मलयजनुः सततगतिः । अभिलषति प्रियवंचना श्रमसलिलं विरमयितुम् ॥ १०२ ॥ इत्यमृतगतिः । अथैकादशाक्षरच्छन्दः- भत्रयसंगतशोभितकर्णः शुद्धसुसंगतपतिककर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः॥ १०३ ॥ यथा- - भक्षितवासरनायकचन्द्रः कामिसमूहसमाहिततन्द्रः । दर्शितलोलतडित्करवालः सोऽयमुपैति धनागमकालः ॥ १०४ ॥ इति बन्धुः । परिकलयादिलघुद्वितयं कुरु विमलं सगणत्रितयम् । प्रभवति शेषसहस्रमुखीविनिगदितेह तदा सुमुखी ॥ १०५ ॥ यथा- कलयसि चन्दनमिन्दुकरं मृदुपवनं परितापकरम् । प्रियविरहेण तैवेति दशा कथमपयातु वसन्तनिशा ॥ १०६ ॥ इति सुमुखी। भत्रितयं यदि कर्णसमेतं पिङ्गलनागसुभाषितमेतत् । पण्डितमण्डलसंहृतचित्तं भामिनि भावय दोधकवृत्तम् ।। १०७ ॥ यथा- . एतदुपैति धनं घनजालं निर्दलदिन्द्रमणीरुचिकालम् । फुल्लकदम्बलसद्वनमालं पान्थवधूजनदर्शितकालम् ॥ १०८ ॥ इति दोधकम् । कृत्वा कर्णौ मण्डितौ कुण्डलेन शङ्ख हारं नूपुरं रावयुक्तम् । धृत्वा युग्मं चामरं चावभाति शालिन्येषा प्रेयसी पिङ्गलस्य ॥ १०९॥ VrakauneHINDI १. 'जनि' क'जनि' ख; 'जनिः'घ. २. 'वचनश्रम ख. 'वदना' घ. ३. 'एक' क ख-ग. ४. 'नवामिदले कथमपि यातु रमण्यतिले' घ.
२ परिच्छेदः] वाणीभूषणम् । : - यथा- आरभ्यन्ते शर्मकर्माणि नूनं प्रार्लोकैर्वाच्यतामात्रभीतैः । तन्निष्पत्तौ वासुदेवः प्रमाणं को वा वक्ता कार्यकर्ताहमस्मि ॥ ११०॥ इति शालिनी। द्विजवरगणयुगममलं तदनु च कलय करतलम् । फणिपतिवरपरिकलितं दमनकमिदमतिललितम् ॥ १११ ॥ यथा- प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिकृतनति सुचिरम् ॥ ११२ ॥ यथा वा- प्रणमत मुनिजनशरणं भवजलनिधिपरितरणम् । अमलकमलसमचरणं सुरवरतरुवरहरणम् ॥ ११३ ॥ इदं च प्राकृतेनापि पठितुं शक्यते । जहा- पणमह मुणिअणसरणं भवजलणिहिपरितरणम् । 'अमलकमलसमचरणं सुरवइतरुवरहरणम् ॥११४ ॥ इति दमनकम् । हारशङ्खकुण्डलेन मण्डिता या पयोधरेण वीणयाङ्किता। रूपनूपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ॥ ११५ ॥ यथा- सायुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥११६॥ इति सेनिका । आदौ चत्वारोऽस्यां कर्णा दृश्यन्ते शेषे यस्या रॉमा हारा रॉजन्ते । रुदैर्वर्णाः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ।।११७॥ १. 'कृत्य' ग-घ. २. 'मण्डनेन' क-ख-ग. ३. 'रेण चान्य अङ्किला' क-ख-ग. ४. 'वामा' क-ख-ग. ५. 'जायन्ते' क-ख-ग. ६. 'वर्णः' ग. ७. 'संख्याता' ख.
--- काव्यमाला। R यथा- पायान्मायामीनो लीलः कल्पान्ते प्राग्दिक्क्षोणीभर्तुः पाणिक्रोडे यः । व्याप्ताम्भोधिस्तस्मिन्काले लीलाभिः सम्यक्सर्वोषध्यो यत्पृष्ठेऽतिष्ठन् ११८ इति मालती। कर्णध्वजौ गण्डमृगेन्द्रहारा भवन्ति यस्याश्चरणे समस्ते । तामिन्द्रवज्रामतिमात्रकान्तां भोगीन्द्रवाजमरन्दधाराम् ॥११९।। यथा- रक्ताम्बरेणोदितलम्बमानशीतांशुचण्डातपकुण्डलाभ्याम् । तारांशुतारावलिहृद्यहारैः स्वीयां श्रियं भूषयतीव संध्या ॥ १२० ॥ इतीन्द्रवज्रा। पयोधरं हारयुगं दधाना कर सशङ्ख वलयद्वयं च । उपेन्द्रवज्रा भुवनैकसारा विराजते पन्नगराजकान्ता ॥ १२१ ॥ म यथा- न षट्पदश्रेणिभिरेणदृष्टेर्न वा नवाम्भोधरकन्दलीभिः । अतुल्यभास्याः कबरीलेतेति दिवा समुन्मीलति नान्धकारः॥१२२॥ इत्युपेन्द्रवज्रा। उपेन्द्रवज्रापदसंगतानि यदीन्द्रवज्राचरणानि च स्युः । तदोपजातिः कथिता कवीन्द्रैर्भदा भवन्तीह चतुर्दशास्याः॥१२३॥ यथा- पयोधरस्यातिभरेण तस्या मध्यो न भज्येत सुमध्यमायाः। अबन्धि दत्त्वा नवरोमराजिं मनोभवेन त्रिवलीगुणेन ॥ १२४ ॥ इत्युपजातिः। हारसंगतपयोधराकरं शङ्खयुक्तवलयेन संयुतम् । बिभ्रती कनककुण्डलं मुदं कामिनीव कुरुते रथोद्धता ॥ १२५ ॥ १. 'ता स्यात्कब' क-ख. २. 'लतेव' ख. ३. 'न' ख.
२ परिच्छेदः ] वाणीभूषणम् । यथा- HARImera दीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकरो व्यराजत । ईर्ण्ययेव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरखती ॥ १२६ ॥ इति रथोद्धता । हारिणी कनककुण्डलयुक्ता पुष्पयुक्करयुगा वलयश्रीः । वर्णिताहिपतिवक्रसहस्रैः स्वागता हरति कस्य न चेतः ॥१२७॥ यथा- : पङ्कजं तदपि पाथसि मग्नं चन्द्रमाः स च घनान्तरितोऽभूत् । त्वन्मुखेन्दुतुलयापि विनोदं नैव हन्त सहते हत वेधाः ॥ १२८॥ इति खागता । अथ द्वादशाक्षरच्छन्दः नागाधीशेनोक्तं वृत्तं विद्याधारं षड्भिः कणैरेतैर्भूमौ छन्दःसारम् । स्यादस्मिन्विश्रामो वेदै दैवेदैः कृत्वा यत्स्यात्तूर्णं धीरः कीर्त्या युक्तः१२९ यथा- वन्दे पादाम्भोजं नित्यं सीताभर्तुः कृत्वा सिन्धौ सेतुं रक्षोनाथं हन्तुम् । पित्रोराज्ञां ज्ञात्वा प्राज्यं राज्यं हातुःखीयैः सर्वैर्लोकः साकं नाकं यातुः ।। इति विद्याधारम् । यदावृत्तयो गन्धकर्णक्रमेण भवेयुश्चतस्रो वरं वृत्तमेतत् । भुजङ्गप्रयातं हरिप्रीतिहेतोर्भुजङ्गाधिराजस्तदा संजगाद ॥ १३१ ॥ यथा- निशायां तमःपूरसंपूरितायां प्रयान्ती रहस्त्वत्समीपं समुत्का । अकस्मात्समालोक्य मामन्तिके ते कदा ह्रीयुता तोयराशेः सुता स्यात् ।। इति भुजङ्गप्रयातम् । १. अनेन ग्रन्थका खकीयवर्णनं कृतम्, २. 'व्यकासयत्' इति घ-पुस्तकपाठानु- सारेण 'व्यराजयत्' इति पाठो भवेत्. 'रविकरस्तु पिङ्गलसारविकाशिनी वृत्तरत्नावली-कर्ता, शूलपाणिसुतरत्नाकरसुतदोहविसुतधण्डेशसुतभीमेश्व- रसुतहरिहरसुतः' इति Theodor Aufrecht महाशयैः Catalogus Catalogorum अन्थे वर्णितोऽयमेव भवेत्. ३. 'हतया' क-ख-ग. ४. 'रेखा' काख.
काव्यमाला। द्वादशैर्वर्णकनिर्मितं संततं तद्धि लक्ष्मीधरं वृत्तमाकीर्तितम् । दृश्यते यच्चतुर्कोहलैरतितं पन्नगाधीशवाणीविनोदायितम् ।। १३३ ॥ यथा- रासकेलीकलोल्लाससंभावितं गोपसीमन्तिनीवृन्दसंलालितम् । राधया गीतसंमुग्धयालिङ्गितं नौमि गोपालकं देवकीबालकम् ॥१३४॥ इति लक्ष्मीधरम् । विनिधेहि चतुःसगणं रुचिरं रविसंख्यकवर्णकृतं सुचिरम् । फणिनायकपिङ्गलसंभणितं कुरु तोटकवृत्तमिदं गणितम् ॥ १३५ ॥ यथा- हरिरेति पुनर्यदि मत्सविधं विदधामि तदा ननु किं न वैधम् । युवतीजनजीवनमालि वृथा न करोति यदा वनमालिकथाः ॥ १३६ ॥ इति तोटकम् । कर्णध्वजानन्दमाधाय सानन्दमेतत्पुनः सूर्यसंख्याकवर्णेन । सारङ्गवृत्तं तदा पिङ्गलायेन सद्यः प्रकाशीकृतं काव्यविद्येन ॥ १३७ ॥ यथा- सानन्दलक्ष्मीकरोपास्यमानेन दृष्टेन तृप्यन्ति के नाम लोके न । गोविन्दपादेन जातप्रसादेन सूर्यांशुसंभिन्नपद्मप्रकाशेन ॥ १३८ । इति सारङ्गम् । पयोधरमत्र चतुष्कमवेहि कलाश्चरणे किल षोडश देहि । भुजङ्गपतेर्हदि मौक्तिकदाम सुवृत्तमिदं शृणु मौक्तिकदाम ॥ १३९ ।। यथा- मया तव किंचिदकारि कदापि विलासिनि वाम्यमनुस्मरतापि । तथापि मनस्तव नाश्वसनाय व्रजामि कुतो भवतीमपहाय ।। १४० ॥ इति मौक्तिकदाम । पादयुगं कुरु नूपुरसुन्दरमाशु करे कुसुमद्वयमाहर। सुन्दरि सर्वजनैकमनोहरमोदकवृत्तमिदं परितो धर ॥ १४१ ।। १. 'धनम्' ख-घ.
२ परिच्छेदः] वाणीभूषणम् । यथा- - मानसमेतदनुक्षणमिच्छति गोपकुलं यदि हे सखि गच्छति । तत्करवै प्रणयं मुरविद्विषि सर्वसपत्नजने विहितत्विषि ॥ १४२ ॥ इति मोदकः। द्विजवरगणयुगमुपनय सकुसुमनगणमिह रचय । सुदति विमलतरफणिपतिनिगदिततरलनयनमिति ॥ १४३ ॥ यथा- HD अपहर पुरहर मम दरमभिनवकलियुगभयकर । हिमगिरिविहितशयनवर सुकृतसुलभ शशधरधर ॥ १४४ ॥ इति तरलनयनम् । कुसुमगन्धरसैरतिभूषिता चरणसंगतनूपुरमण्डिता । करसुवर्णलसद्वलयांन्विता स्फुरति कस्य न चेतसि सुन्दरी ।। १४५ ॥ यथा- - असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशम् । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ॥ १४६ ॥ इति सुन्दरी । करसङ्गिशङ्खवलया सरसा कनकद्वयैकवल्या सुभुजा । वरवर्णिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते प्रेमदा ॥ १४७ ।। यथा- अभजद्भयादिव नभो वसुधां दधुरेकतामिव समेत्य दिशः । अभवन्मही पदयुगप्रमिता तिमिरावलीकवलिते जगति ॥ १४८ ।। इति प्रमिताक्षरा। अथ त्रयोदशाक्षरच्छन्दः- कृत्वा कर्णौ कुण्डलयुक्तौ कुरु रत्नं धृत्वा पादं नूपुरयुक्तं कुरु हारम् । मायावृत्तं पिङ्गलनागोदितमेतज्जानीतादः पण्डितवाम्बुजसारम् १४९ - १. 'तरलनयनिरिति' क-ख-ग. २. 'वनिता' ख-घ.
काव्यमाला। यथा- उद्यद्बाधा संप्रति राधा मधुमासे शके संकेतं प्रति याता किमुदासे। केलीकुञ्ज शून्यमवेक्ष्यास्त रहस्याः प्राणत्राणं भावि कथं वा वद तस्याः॥ इति माया। यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम् । फणिनायकपिङ्गलवर्णितमेतद्वरपण्डितमण्डलिकाहृतचित्तम् ॥ १५१ ॥ यथा- अतिभारतरं हृदि चन्दनपैङ्क मनुते सरसीपवनं विषशङ्कम् । तव दुस्तरतारवियोगपयोधेर्नहि पारमसौ भविता परमाधेः ॥ १५२ ॥ इति तारकः। ध्वजं, चामरै मण्डितं गन्धहारेण मृगेन्द्रद्वयं चापि युक्तं समुद्रेण । तदाभाविभोगीन्द्रवारविन्देन जनानन्दकन्देन वृत्तेन कन्देन॥१५३ ॥ यथा- - हृतं मे मनो हन्त गोपालबालेन नैवीनाम्बुवाहावलीचारुदेहेन । सुधावीचिसंवादिबिम्बाधराग्रेण स्फुरदर्हशोभालसत्कान्तिपूरेण ॥१५४॥ इति कन्दः । पादकुसुमरसगन्धसुदण्डकगण्डकयुगलकरूपमुपाहर । नागनृपतिवरभाषितसुद्युतिपङ्ककलितमिदमावलि माद्यति ॥ १५५ ।। यथा- शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनु विन्दति । मन्मथविशिखिभयेन निषीदति माधव तव विरहेण विषीदति ॥१५६॥ इति पत्रावलिः। द्विजवरकररज्जुकर्णपूर्णौ प्रथमतृतीयपदौ यदा भवेताम् । द्विजपदगुरुरज्जुकर्णयुक्तौ यदि चरणावपरौ च पुष्पिताया ॥ १५७ ॥ - १. 'तरे' ख. २. 'पके ख. ३. 'नदीनां' ख. 'नचीना' घ. ४. 'तूर्ण' क.
२ परिच्छेदः ] वाणीभूषणम् । यथा- bom प्रसरति पुरतः सरोजमाला तदनु मदान्धमधुव्रतस्य पतिः । तदनु व्रतशरासनो मनोभूस्तव हरिणाक्षि विलोकनं तु पश्चात् ॥१५८॥ इति पुष्पिताया। अथ चतुर्दशाक्षरच्छन्दः- कर्णस्फुरत्कनककुण्डलमण्डिता या भावान्विता चरणसंगतनूपुरश्रीः । गन्धान्विता सुरसना वलयावनद्धा कान्ता वसन्ततिलका मुदमातनोति ॥ १५९ ॥ यथा ans- शंभौ करेण पुलकाङ्कुरदन्तुरेण सस्मेरमामृशति कुम्भमिभाननस्य । रोमाञ्चिताञ्चितकुचान्तचलाञ्चलायाः पायात्रपातरलमीक्षितमम्बिकायाः ॥ १६०॥ इति वसन्ततिलका। कुण्डलकलितनगणमिह त्रितयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥ १६१ ॥ यथा- सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥ १६२ ॥ इति चक्रम् । १, 'वृत' क-ग.
। काव्यमाला। अथ पञ्चदशाक्षरच्छन्द: हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभासितम् ।। १६३ ॥ यथा- रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जमञ्जुकुञ्जमध्यगेन दोलता। तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते(?) सुखाय मन्दहासिना ॥ १६४ ॥ इति चामरम् । द्विजकुसुमसुरूपा कर्णताटङ्कयुक्ता कनकवल्यहारैर्मण्डिता शङ्खयुक्ता । सुललितरशनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥ १६५ ॥ यथा- नयनविगलदस्रस्रोतसाकृष्यमाणे नवकिसलयतल्पे हन्त सुप्ता मृगाशी । प्रबलमदनबाधालोलदोर्वल्लिरेषा विरहजलधिपारं गन्तुमभ्यस्यतीव ॥ १६६ ॥ इति मालिनी। भुजसंगतशतयुगा वलयाकलिता करपुष्पसुगन्धवती रशनारुचिरा । करकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपर्दूललिता ॥ १६७ ॥ १. 'शङ्खसुवर्णलसद्वलया' घ. २. 'दुर्लपिता' घ.
२ परिच्छेदः ] वाणीभूषणम् । यथा- सखि संप्रति के प्रति मौनमिदं विहितं मदनेन धनुः सशरं खकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा रतिनायकसायकदुःखमुपैषि वृथा ॥ १६८ ॥ इति भ्रमरावली। सगणं विधाय पयोधरद्वयसुन्दरं भगणं ततो विनिधाय चामरतोमरम् । मनहंसवृत्तमिदं च पञ्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥ १६९॥ यथा- - नवम वजुलकुजकूजितकोकिले मधुमत्तचञ्चलचञ्चरीककुँलाकुले । समयेऽतिधीरसमीरकम्पितमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ॥ १७० ॥ इति मनहंसम् । द्विजवरतृ(त्रि.)तयकलितमिह सगणं कलय शरभमिदमतिरतिकरणम् । फणिवरनरपतिवदनविहरणं कविवरसकलहृदयकृतहरणम् ॥ १७१ ॥ यथा- - अमलकमलदलरुचिधरनयनो जलनिधिमधि फणिपतिफणशयनः । दनुजविजयसुरपतिनतिमुदितो हरिरपहरतु दुरितततिमुदितः ॥ १७२ ॥ इति शरभम् । १. 'कि' घ. २. 'ततोऽथ निधा' घ. ३. 'तव' घ. ४. 'समाकुले' घ. ५. 'अ- घिजलनिधि' क-ख-ग. ५वाणीभू० ४२ काव्यमाला तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिचित्तकृतसंगमं वृत्तनिशिपालमसिताक्षिहृदयंगमम् ॥ १७३ ॥ यथा- चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरश(ल्यव)ल्पतरकीलितं मामिह हि पश्य जहि कोर्पमतिशीलितम् ॥ १७४ ॥ इति निशिपालम् । अथ षोडशाक्षरच्छन्दः- ध्वजेन नायकेन कुण्डलेन यद्विभूषितं पयोधरेण वीणेया शरेण पंक्षिणाङ्कितम् । नराचवृत्तमत्र षोडशाक्षरं समीरितं मनीषिमण्डलीहितं फणीन्द्रपन्नगोदितम् ॥ १७५॥ यथा- निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूपघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरीतु नः प्रियं पिनाकिवल्लभा ।। १७६ ॥ इति नराचम् । तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भामिनि वृत्तवरम् । नीलमिदं फणिनायकायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ॥ १७७ ॥ - १. 'युत' घ. २. 'तद्भवति' घ. ३. 'भरशातितम्' घ. ४. 'रोषमतिसंचितम्' घ. ५. 'पक्षिणा' घ. ६. 'वीणया' घ. ७. 'पिङ्गलो' घ.८. 'कलायक-ख 'कपाल'ग. ९. पिङ्गलसंजपितम्' घ.
२ परिच्छेदः । वाणीभूषणम् । यथा- RSSIO सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं परुषे । हारिणि हारिणि ते हृदये निहितो दयितो भाविनि भावि निवासि मनोऽस्य चिराय यतः॥ १७८॥ इति नीलम् । तूर्यतालपक्षिराजमेरुहारनायकेन चामरध्वजेन चापि वर्णिता सुवर्णकेन । वर्णितातिसुन्दरेण पन्नगेन्द्रपिङ्गलेन चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥ १७९॥. यथा- omm- आलि याहि मञ्जुकुञ्जगुञ्जितालिलालितेन भास्करात्मजाविराजिरम्यतीरकाननेन । शोभिते स्थले स्थितेन संगता यदूत्तमेन माधवेन भाविनी तडिल्लतेव नीरदेन ॥ १८० ॥ इति चञ्चला। आदौ विद्वन्मालापादं दत्त्वा कर्णद्वन्द्वं हारं ताटङ्कद्वन्द्वं गुर्वन्तं तद्ब्रह्माख्यं वृत्तं सारम् । नागाधीशेनोक्तं चैतत्सर्वखान्तानन्दाधारं कृत्वा धीरः संप्राप्नोत्याकल्पं कीर्तिस्तम्भं सारम् ॥ १८१॥ यथा- - ख"" राजद्भालः स्फूर्जन्नेत्रप्रोद्यद्वह्निज्वालाजालैः "त्यम्भोवीचीनीरासारखिद्यचूडाचन्द्रः । माद्यगौरीवकाम्भोजखैरस्मेरक्रीडाशीतः श्रेयो देयान्नागश्रेणीभूषामीषश्चन्द्रापीडः ॥ १८२ ॥ इति ब्रह्मवृत्तम् । १. इदं सोदाहरणं ब्रह्मवृत्तलक्षणं केवलं घ-पुस्तक एवोपलभ्यते.
काव्यमाला। अथ सप्तदशाक्षरं च्छन्दः- पयोधरयुता स्फुरत्कनकयुग्मताटकिनी सुवर्णरुचिकङ्कणा ललितभाववन्नूपुरा । सुगन्धरुचिरा लसच्छ्रवणरूपवत्कुण्डला भुजङ्गपतिवर्णिता हरति हन्त पृथ्वी मनः ॥ १८३ ॥ यथा- क्षताधरतटी घनश्वसितमङ्गरागव्ययो दृशोरपि च शोणिमा भवति कारणादन्यतः । इदं तव परप्रियानिभृतसंगमव्यञ्जकं मुखे यदिदमञ्जनं रहसि चार्धचन्द्रं गले ॥ १८४ ॥ इति पृथ्वी। द्विजवरगणान्वितो गैजपतिश्रियस्तूर्यवा- करतलपरिस्फुरत्कनककङ्कणेनान्वितः । सुरपतिगुरुश्रिया परिगतः समन्तात्सखे जयति भुवि वृत्तभूपतिरैवर्णमालाधरः ।। १८५॥ यथा- क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनी- मनुभवति भाविनी मदनवेदनामन्ततः ॥ १८६ ॥ इति मालाधरः। ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः समुद्रो रनं च प्रभवति यदा सप्तदशभिः । भुजङ्गेन्द्रोद्दिष्टा विबुधहृदयाहादजननी स्सै रुदैर्यस्यां वितिरिह सैषा शिखरिणी ॥ १८७ ॥ १. 'सुगन्धि' ग; 'सुवर्ण' घ. २. 'नरपति' घ.३. रयं तु' घ. ४. 'स्तोमरयुतः'ध. ५. 'सरस' घ. ६. 'भवति विरविः सा' घ.
२ परिच्छेदः] वाणीभूषणम् । ४५ यथा- - निविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिनि । तया चक्षुर्लीलाकमलरजसा दूषितमिति द्रुतं मुक्ता मुक्ताफलपरिणता बाष्पकणिकाः ॥१८८ ॥ इति शिखरिणी। मन्दाक्रान्ता हरति हृदयं कर्णताटङ्कयुग्मा प्रोद्यद्भावा करतललसत्कंकणा शङ्खयुक्ता । हारोत्कृष्टा ललितवलया राववन्नूपुरा या विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥ १८९॥ यथा- - ज कर्णाभ्यर्णे हितमवहिता वर्णयन्तश्चिरेण द्रागस्यन्तो हृदि कलुषतामानने शोणिमानम् । यान्तो भूमिं नयनपयसां बिन्दवो मानवत्याः पादाम्भोजप्रणतमरुता कान्तमुत्थापयन्ति ॥ १९० ।। इति मन्दाक्रान्ता । द्विजवरमुखी भावद्रूपा सकुण्डलकर्णका ललितवलया हारोत्कृष्टा पयोधरभूषिता । कनकरसनारावैर्युक्ता लेसद्दरनपुरा हरति हरिणी केषां चित्तं न योषिदिवाधुना ॥ १९१ ॥ यथा - सुरभिरजनी याता भूयः कृशी भविता शशी परभृतयुवा मूको भावी विरंस्यति पञ्चमः । कुसुमविशिखः संहर्ता खं धनुः पतिरेष्यति प्रियसखि परावृत्तं न स्याद्तं मम जीवितम् ॥ १९२ ॥ इति हरिणी। १. 'नूपुराभ्यां संराजन्ती' घ. २. 'लसन्नवनूपुरा' घ.
काव्यमाला। अथाष्टादशाक्षरच्छन्द:- आदौ कृत्वा कर्ण कुण्डलयुक्तं हारयुगं दत्त्वाथो कुर्यात्ताटकं पादं कुरु सन्मञ्जीरयुगाभ्यां युक्तम् । कृत्वा तातं कुन्तीपुत्रसमेतं वै गुरुयुग्मं दत्त्वा मञ्जीरा सा नागाधीशनिसृष्टा राजति सैषा वक्रे ॥ १९३ ।। यथा- - प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यान्ती । कृत्वा सारङ्गाक्षीसाहसमुच्चैः केलिनिकुञ्ज शून्यं दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ वद प्रेयस्याः ॥ १९४ ॥ इति मञ्जीरा । हारयुक्तसुवर्णकुण्डलपाणिशविराजिता पादनूपुरसंमता सुपयोधरद्वयभूषिता । शोभिता वलयेन पन्नगराजपिङ्गलवर्णिता चर्चरी तरुणीव चेतसि चाकशीति सुसंगता ॥ १९५ ॥ यथा- कोकिलाकलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारि सुधाकरं न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥ १९६ ।। इति चर्चरी ध्वजं चामरं गन्धकर्णी रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्वन्द्वमत्र । १. 'युग्मं घ. २. 'युतं' घ. ३. 'कृत्वा' घ. ४. 'त्यक्त्वा' घ. ५. 'कथं वा नो वदत प्रेयस्यः' घ. ६. 'कङ्कण' घ. ७. 'पिङ्गलपनगाधिप' घ. ८. 'सुन्दरि' घ. ९. 'मञ्चसि' घ. १०. 'मन्दिरे न सुखायसे' घ.
२ परिच्छेदः ] वाणीभूषणम् । तदा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं संजगाद ॥ १९७ ॥ यथा- भ्रमन्ती धनुर्मुक्तनाराचधारानिरुद्धे समस्ते नभःप्राङ्गणे पक्षिवाय्वोः प्रयाते निरन्ते प्रशस्ते । तथा चण्डगाण्डीवबाणावलीनीचरक्षाविलक्षो बभूवाङ्गराजो यथा न स्थितोऽसौ विपक्षस्वपक्षः ॥ १९८॥ इति क्रीडाचन्द्रः। अथैकोनविंशाक्षरच्छन्दः- कर्णः कुण्डलसंगतः करतलं चामीकरेणान्वितं पादान्तो रवनूपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुयदि भवेत्तत्तूनविंशाक्षरं. नागाधीश्वरपिङ्गलेन भणितं शार्दूलविक्रीडितम् ॥ १९९ ।। यथा- सौमित्रे किमु मृग्यते प्रतिलताकुऑ कुरङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशकं चमरी चरत्यपि निरातकं पिकी गायति ॥ २०० ॥ इति शार्दूलविक्रीडितम् । द्विजवरगणयुगमुपधाय परिकलय कर- मथ नगणयुगलमिह गन्धयुगमनु विहर । फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवतनुत ॥ २०१॥ - यथा- अनुपहतकुसुमरसतुल्यमिदमधरदल- ममृतमयवचनमिदमालि विफलयसि चल । १. 'जातातिथि' घ. २. 'विरह' ग; 'वितर' घ....
४८ काव्यमाला। यदपि यदुरमणपदमीशमुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥ २०२।। इति चन्द्रम् । द्विजवरगणतृ(त्रि)तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहृदि कलितमिति भुवि वलितम् ॥ २०३॥ यथा- उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधिसह पिब मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रमसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥ २०४ ॥ इति धवलम् । कुरु पाणि कङ्कणयुग्मालंकृतमग्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्ण प्राजत्ताटङ्कम् । रसनामायोजय मञ्जीरद्वयमेवं शंभु सद्वृत्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥ २०५॥ यथा- या- जय मायामानवमूर्ते दानववंशध्वंसव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्माशंसन गोगोपीगोपानन्दी वलिलक्ष्मीनाशन लीलावामन दैत्यश्रेणीनिष्क्रन्दी ॥ २०६॥ इति शंभुः। अथ विंशत्यक्षरच्छन्दः- वरपाणिशोभिसुवर्णकङ्कणरत्नरज्जुविभूषिता सुपयोधरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । १. 'राज' घ. २. 'धर्मा' घ. ३. 'शासन' घ.
२ परिच्छेदः ] वाणीभूषणम् । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुंदे नहि कस्य सा खलु गीतिका ॥ २०७॥ यथा- अलमीशपावकपाकशासनवारिजासनसेवया गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया । करुणापयोनिधिरेक एव सरोजपत्रविलोचनः स परं करिष्यति दुःखमोमशेषदुर्गतिमोचनः ॥ २०८ ॥ इति गीतिका तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विधेहि वर्णिता च पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डलीविनोदकारिणी सुमङ्गलेन ॥२०९॥ यथा- दृष्टमस्ति वासुदेव विश्वरूपमेतदेव शेषकं तु वाजिरत्नभृत्यदारसूनुगेहवित्तमादिव(म)न्नवं तु । त्वत्पदाजभक्तिरस्तु चित्तसीनि वस्तुतस्तु सर्वदैव शेषकाललुप्तकालदूतमीतिनाशिनीह हन्त सैव ॥ २१० ॥ इति गण्डका । अथैकविंशत्यक्षरच्छन्दः कर्णं ताटङ्कयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसना रूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात्स्रग्धरा कामिनीव ॥२११॥ यथा- अन्नप्रोतास्थिमालावलयितविलसद्वाहुदण्डप्रचण्डा वेगव्यालोलमुण्डावलिकलितरणत्कारकण्ठोपर्कण्ठाः । १. 'हिता' घ. २. “किल' घ. ३. 'दाम' ख-ग. ४. 'नाश' ख; 'शेष' ग. ५. 'वर्णितेह' घ. ६. 'मेतदेव नास्ति शेष' घ. ७. 'कण्ठा' क.
काव्यमाला। कुर्वन्त्यो गर्वमत्युद्गलगहनवलर्बरध्वानमुच्चै- रुत्कृत्तैरुत्तमाङ्गैर्विदधति च शिरःकन्दुकक्रीडैनानि ॥२१२ ।। इति स्रग्धरा । चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसंगतगन्धः । चौरुसुवर्णकुण्डलयुगलकृतरोचिरलंकृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥ २१३ ।। यथा- पङ्कजकोशपानपरमधुकरगीतमनोज्ञतडागः पञ्चमनादवादपरपरभृतकाननसत्परभागः । वल्लभविप्रयुक्तकुलवरंतनुजीवनदानदुरन्तः किं करवाणि वक्षि. मम सहचरि संनिधिमेति वसन्तः ॥ २१४ ॥ इति नरेन्द्रः। अथ द्वाविंशत्यक्षरच्छन्दः- यस्यामष्टौ पूर्वे दीर्घास्तदनु कमलमुखि दिनकरसंख्या ह्रखा वर्णाः पीनोत्तुङ्गस्तनभरविनमितसुभगशरीरे । दीर्घावन्त्यौ वर्णौ मुग्धे यतिरपि यदि वसुरस""कैः स्या- द्वाविंशत्या वर्णैः पूर्णा प्रभवति कुसुममृदुलतरहंसी ॥ २१५ ॥ यथा- श्रीकृष्णेन क्रीडन्तीनां कचिदपि वनभुवि मनसिजभाजां गोपालीनां चन्द्रज्योत्स्नाविशदरजनिगुरुजनितरतीनाम् । दीर्घभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां रासक्रीडायासध्वंसी मुदमुपनयति मलयगिरिवातः ॥२१६ ॥ इति हंसी १. 'कुर्वन्ती' का 'कुर्वन्तो' ख. २. 'रुत्कृष्टै' ग. ३. 'क्रीडितानि' ग. ४. 'चारुसु- न्दरसुवर्णकुण्डल' ग. ५: 'योग्य' ग. ६. 'लीलालोले यतिरिह विरमति कुलगिरिषदकैः' ख-ग. ७. 'रजनिजनितरतरतीनां' घ. ८. 'धर्मभ्रश्य' घ.
२ परिच्छेदः] वाणीभूषणम् । अथ त्रयोविंशत्यक्षरच्छन्दः- करसङ्गिसुवर्णद्वयवलया ताटङ्कमनोहरशङ्खधरा कुसुमत्रयराजच्छ्रवणविलोलत्कुण्डलमण्डितरत्नवरा । भुजसंगतकेयूरजसुविलासा पिङ्गलनागसमालपिता किलसुन्दरिका सा भवति तदा पद्मावतिका कविराजहिता ॥२१७॥ यथा- - शरदिन्दुसमानं व्यपगतमानं गायति दिक्षु तवैव यशः खरसामुनिदेवी विगलितनीवी कामकलाविकला बहुशः। पृथुवेपथुयुक्ता खगृहवियुक्ता स्वेदकणावलिमुग्धमुखी धरणीरमणेन्दो विकसदमन्दोदारसमा शेरदिन्दुमुखी ॥ २१८ ।। इति सुन्दरी। अथ चतुर्विशत्यक्षरच्छन्दः- विनिधाय करं कुरु रत्नमनोहरबाहुयुगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुर्मिलका फणिनायकसंरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥२१९ ॥ यथा- कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ता रतिकेलिकलारसलालसमानसमागतमुज्झितमानरसम् । वनमालिनमालि नमस्य नमस्य नमस्यमुदस्य चिरस्य वृथा भविता परितापवती भवती युवतीजनसंसदि हासकथा ॥२२० ।। इति दुर्मिला । पादयुगं कुरु नूपुरसंयुतमत्र करं वररत्नमनोहर- वज्रयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय- पिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥ २२१ ॥ १. 'सहवर्तिमुखी' ग. २. 'वर' घ. ३. 'कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरु सकर' घ.
काव्यमाला। - यथा- मल्लिलते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघट्टितकुमलकोटिविनिर्गतसौरभसंपदि न त्वयि कोऽपि विधास्यति सादरमन्तरमुत्तरनागरसंसदि ॥ २२२ ॥ इति किरीटम् । अथ पञ्चविंशत्यक्षरच्छन्दः- कर्णद्विजवरगणतृ(त्रि.)तयनगणमिह रचय ललितमिति कुसुमगणं नारीगणनगणकलितशरकुसुमसुकनककुसुमवरकृतरसनम् । नागाधिपनिगदितमिति च परिमुषितसकलकविनृकुलमतिरुचिरै शालूरममलमिह कलय कमलमुखि मुषितविबुधजनहृदयवरम् ।।२२३॥ यथा- गोवर्धनगिरिधरमुपचितदितिसुतपरमहृदयमदशमनकरं व्यर्थीकृतजलधरगुरुवरष(र्ष)णभरगतभयनिजकुलदुरितहरम् । नन्दालयनिवसनकृतवनविलसनविहितविविधरसरभसपरं संवीतवसनधरमरुणकरचरणमनुसर सरसिजनयनधरम् ।। २२४ ॥ इति शालूरम् । मात्रावृत्तमिह प्रोक्तं चत्वारिंशत्रैयाधिका । त्रयोदशाधिकशतं वर्णवृत्तमिहोदितम् ॥ इति मैथिलदीर्घघोषकुलोद्भूतदामोदरमिश्रविरचितवाणीभूषणं समाप्तम् । १. 'मधि' घ. २. 'त्रयाधिकम्' क-ख; 'च्छताधिकम्' ग.