University Library,gurukul Kangri Vishwavidyalaya

साहित्य सुधासंग्रहस्य प्रथम बिन्दु

Vidyaalang-akaar Vaagiishvar · 2005/11/19

PDF Proofread

Front matter

* ओ३म् *
श्रीकांगड़ीगुरुकुल विश्वविद्यालयगीर्वाणवाणीग्रंथाम
साहित्य सुधासंग्रहः
प्रथम बिन्दुः
गुरुकुलाऽऽचार्यमहोदयस्याऽऽदेशात्
बिजनौरमंडलान्तर्गत हल्दौरग्रामवास्तव्येन
श्रीभवानीप्रसादेन
गुरुकुलसाहित्याध्यापकेन
श्रीवागीश्वर विद्यालङ्कारेण च
संगृहीतः
१६८३ श्रीवैक्रमादे
१०२ श्रीमद्वयानन्दादे
{
मूख्यम्
१॥६० मात्रम्

श्री खाला नन्दलालस्य प्रबन्धेन कांगड़ीगुरुकुलमुद्रणालये मुद्रितः प्रकाशितश्च पूर्वाभाषणम् मानुषवाङ्मयमा रसात्मिका हि वाणी मानवानां मनांसि बलाद्वशीकरोत्येव, परं सुरवाणीसाहित्यस्य सुमनांसि केनाप्यपूर्वेण सौरभेण सहृदयानां हृदयानि यथाहादयन्ति मदयन्ति च, न तथेत- रासां भाषाणां कविताकलापः । गीर्वाणवाणीसाहित्यसुधामास्वाद. माखादं यमानन्दं चेतो ऽनुविन्दते, तस्य शतांशमपि नोपलभ्यतेऽन्यत्रे- त्यत्र देववाणी विशारदा एव प्रमाणम् । संस्कृतवाण्या विविधभाव. प्रादुर्भावसमर्थानां शब्दानां कोशस्य विशालताऽत्र प्रथमो हेतुः। यथा नानार्थव्यञ्जकैरनन्तशब्दैः विविधाः परः संख्याः श्लेषादयोऽलंकाराः संस्कृतसाहित्ये निर्मीयन्ते, विविधरसानां परिपाकश्च जायते, तथा मितार्थशब्दकृच्छताक्षीणकलेघरासु परवाशु भवितुं नाईति । संस्कृत- साहित्य हि शब्दालङ्काराणामालङ्काराणाञ्च या संख्या दरीदृश्यते, तेषामवान्तरभेदानाञ्च यो विस्तरो व्रीवर्ति, नवानां दशानां वा रसानां यथाविध परिपोषश्च जायते, तदितरभाषाकवितायां लेशतो ऽपि न कुत्रापि प्राप्यते । इतरभाषासु वृत्तमयमेव वाङ्मयं कविता. पदभाग भवति, तत्रैव चमत्कृतेरुपलम्भात् , परं संस्कृतसाहित्ये गद्ये पद्ये च द्वयोः समाना कविताश्रीविराजते, उभयत्र रमणीयार्थः प्रतिपादकशब्दानां विलासात् ।

*२* संस्कृतसाहित्यस्य सर्वश्रेष्ठविशिष्टशोभाधायकत्वे वैदिकार्याणां परिस्थितिविशेषः आर्यभूमौ भारतवर्षे च तेषामादिमो निवासोऽपरं कारणम् | भारतीयाणामाद्यपूर्वपुरुषाणामेव विमलमानसमुकुरेषु पुराणपुरुषस्यानादिकवेस्तत्काव्यस्य ज्योतिरुदियाय यस्य विषये "पश्य देवस्य काव्यं न ममार न जीर्यतीति” श्रुतिर्जागर्तितराम् । अना- दिकवयितुस्तत् पुराणं काव्यमेव सततमधीयाना आर्यपुरुषोत्तमाः निसर्गत एव कविताप्रणयिनः काव्यरसिकाश्चसंबभूवुः । तेषां नित्यं व्यवहार्याणि वाश्यान्यपि कवितामयान्येव जातानि । तेनैव हेतुना संस्कृतस्यापदंराभूताया हिन्दीभाषाया वजभाषाया पापि माधुर्या कापि भाषा जगतीतले तुलां नाधिरोहति । एनमेव विषयमधिकृत्य दन्तकथा प्रचलिता-यदेकः पारसीकः कविजभाषाकविता संग्रहीतुं ब्रजमण्डलमाययौ । मध्येमार्ग कस्याश्चिग्रामटिकाया रथ्यामटन् कस्याश्चिज्जलघटवाहिकायाः कुर्मायाः "सांकरी गली मैं माय कांकरी गड़तु है।" (मातः संकीर्णपद्धत्यां शर्कराः पादौ पीडयन्ति ) इति मधुरालापमश्रौषीत् । स “सांकरी कांकरी" इत्यनुप्रासपुष्टया भणित्या विस्मितोऽवोचत्-अहो ! यस्य देशस्य जलवाहिका ग्रामीणाः कुमार्योऽपि साधारणालापेऽनुप्रासं प्रयुञ्जते तस्य कवीनां वाचः कैरपूर्वैमनोहरैरलङ्कारैर्भूषिताः स्युः। कस्यचिद्देशस्य प्राकृतिकशोभापि कधीनां प्रतिभाया विकासने प्रबला प्रेरिका भवति, पुण्यभारतभूममनोहरविशालगिरिकाननानि, निर्मलसलिलप्रवाहाः सरितः, प्रशस्यशस्यक्षेत्राणि, शाश्वतहरिच्छा. लाम्यपि भारतकवीनां वाचः प्रसभं सततं मुखरयन्ति स्म। संसारसा. रभूतस्य भूमण्डलललामस्य प्रकृतिदेव्याः लीलानिकेतस्य भारतवर्षस्य बसन्तवर्षाशरद्धेमन्तादयः पड़तयोऽपि भारतीयकवीनां प्रतिभामनि. शमुद्बोधयामासुः। वनवासविलाससुभगस्य प्रकृतिशोभानिरीक्षण.

निरतस्यैव पुण्यसलिलां वितमसां तमसामवगाहमानस्याऽऽदि. कवेर्महर्षेाल्मीकेाधवाणविद्धक्रोञ्चदर्शनेनोत्थितः शोकः श्लोकत्व. मापद्यत । तमेव श्लोकमादाय स मुनिसत्तमः सूर्यवंशावतंसस्य मर्यादापुरुषोत्तमस्य श्रीरामस्य सञ्चरितवर्णनपर रामायणरूपं तद. मरममूल्यग्रन्थरत्नमग्रथ्नाद्यदपरेषां कविकुलगुरुश्रीकालिदासादीनां सकलरामयशोविस्तारककवीनामुपजीव्यम्, निबिडान्धकाराच्छन्नेति. वृत्ते ऽज्ञानमये चास्मन्समये परपददलितेभ्यो भारतीयेभ्यः कश्चिदि- तिहासप्रकाशमर्पयति, यस्मादेव विरलश्रुतिप्रचारेऽपि कलिकाले- ऽधुना धर्मभीरवो भारताभिजनाः सदाचारसरणिं शिक्षन्ते, येनैवै. तद्देशीया दास्यदीना अपि जनाः समुन्नतानामपरेषां राष्ट्राणामने ख- मस्तकानि समुन्नमन्ति । ततो द्वापरे कालिन्दोकूलकमनीयकाननेऽतिवाहितकालः कृष्ण. द्वैपायनर्षिप्रवरः पाण्डवानां जयशापकं जयाभिधानं महाकाव्यं प्रणिनाय, यत्परस्ताजैमिनिसौतिप्रभृतिमुनिसत्तमैः प्रवर्धितो भार. ताख्यां लेभे, आर्याणाञ्च धर्मस्य, दर्शनस्य च समासेन सर्वविज्ञानानां विश्वकोशस्य पदवी प्रापत् , यदधिकृत्य “न तदस्ति हि लोकेऽस्मि- भारते यन्न दृश्यते” इति लोकोक्तिश्च भारतीयेषु प्रचरति, प्रशंसा. वादेन च यत्पञ्चमो वेदो जनैरुच्यते, महत्वाच महाभारतमभिधीयते। कालक्रमेण कथ्याभापारूपेण विरतदेववाणीप्रचारे विवृद्धविषयाभि- लाषे कलियुगेऽपि शरीरसुखमेव संसारसारं मन्यमानानां मानवेन्द्राणां परिषदामलङ्कारभूता भासकालिदासभारविभवभूतिभट्टबाणमाघश्री. हर्षादयः सिद्धसारखताः समये समये सुरवाणीकवितामातुः सेवापरा आसन् । तेषां मनोरमाणि काव्यानि संप्रत्यपि भारतगौर. ववर्धनानि । परमाश्रयदातणां विषयैषिणां विलासासक्तचेतसां घराधीशानां संगदोषाद्विलासवर्णनवचनीयता तेषां कमनीय.

कषितामपिसंकान्तवती, येनान्यान् रसान् विहाय श्रृंगार एव प्रायशस्ते. पां काव्यानां वर्णमीयविषयो बभूव । “व्यवहारविदे शिवेतर क्षतये सदुप- देशयुजे चोद्दिष्टा कविता "ध्यायतो विषयान् पुंसः संगस्तेषूप जायते संगात्संजायते कामः' इति भगवद्भणितिनिविष्टानिवार्यनियमा. विषयप्रावण्याय कामोद्दीपनाय च प्रबभूव । उक्तञ्च प्रबोधचन्द्रोदये। "सन्तु-विलोकन-भाषण विलास-परिहास-केलिपरिरम्भाः । स्मरणमपि-कामिनीनामल मिह - मनसो-विकाराय ॥ प्रणेतृभिराद्याश्रमसेविभ्यः स्वप्रेऽपि नोपकल्पितानि काव्यान्ये. तानि सुशब्दप्रयोगपाटवोपदेशाय मनोहरवाश्यविन्यालशिक्षणाय च परमोपयोगितया धर्णिनां पाठ्यपुस्तफरूपेण पाठशालास्वपि प्रसर प्रापुः, येनापरिपकमतयोऽपि बालाः स्वामूल्यं समयं सर्वङ्कषकाम. कथास्वतिवाहयामासुः। बाल्य एव शृङ्गारस्य श्रृंगेण मर्माहतानि मन्मथेनोन्मथ्यमानानि तेषां कोमलमनांसि विद्याविनयवर्धक ब्रह्मचर्य- प्रतपालन पराङ्मुखाण्यभूवन् । संलग्नसंस्काराणि नवभाजनानीष तेषां बालबुद्धयो बाल्यादेव कामकुसंस्कारोपहता विषयसेवां स्वीकृ. त्येन्द्रियग्राममुच्छृङ्खलयामासुः, यौवनोन्मेषकमनीयान्यपि तेषां शरी. राणीन्द्रियाणामनिग्रहादसंयमनाद्वा निस्तेजस्कानि हतश्रीकानि च समपद्यन्त। परिणामतः पाठप्रणाल्याऽनयाऽद्यापि काव्यपरिशील- नपरा नाना जघन्यरोगाकान्ता, विहतबुद्धयो, मंदमतयो, योषने एव जराजीर्णा, अपरजीवनं दुःखेन यापयन्तः, किमपि पराक्रमसाध्य कार्य नाचरन्तः, स्वल्पायुष्येव संसारादस्मात् प्रतिष्ठन्ते । किन्नु कष्टमतःपरं यद्भारतीयाः सभ्यताशिखरारूढेभ्यः सर्वापरदेशीयेभ्यः स्वल्पिष्ठमायुर्मानं दधते। सर्पविनाशकं काव्याश्ययनविधिमिमं धिगई. माणाः केचित् प्राक्तना विपश्चितः 'काव्यालापांश्च वर्जयेदित्यवादिषुः।

भारतस्य पतितावस्थयानया विदीर्णहदयो दयानित्तो. विषयवासनाप्रवणेऽप्यस्मिन् कलिकाले विलुप्तप्रायब्रह्मचर्यप्रथापुनरु- द्धारक आर्यसमाजसंस्थापक ऋषिप्रवरः श्रीदयानन्दोऽपि गुरुकुलानां पुनःस्थापनमुपदिशंस्तेषां पाठ्यक्रमञ्च निर्दिशन् शृगाररसप्रधानानि काव्यानि वर्जयामास, श्रीवाल्मीकिरामायणमहाभारतयोश्चोपादे. यांशान् काव्यत्वेन पाठ्यपुस्तकेषु निर्धारयामास । तत्स्वर्गारोहणानन्तरमाय्यसमाजेन स्थापितेषु गुरुकुलेषु तेषामन्तवासिनः सुकविप्रयुक्तपदालित्येन वरेण्यवचोविन्यासेन च वञ्चिता मा भवेयुरिति मनसि निधाय गुरुकुलपाठ्यप्रणाली प्रणेतारः केषां काव्यानां के केंऽशाः पाठ्यन्तामस्माभिरिति वितर्कयामासुः। यतःसुललितभाषाप्रयोगः सुकविप्रयुक्त शब्दैरेव शिक्ष्यते, सुकविप्रयु. क्तशब्दानां पठनमनिवार्यमेवेति कृत्वा मुख्य हरिद्वारसमीपस्थ कांगड़ी- गुरुकुलविश्वविद्यालये समये समये भिन्नाः भिन्नाः काव्यांशा अन्व- शील्यन्त । प्रायः प्रतिवर्ष पाठ्यपुस्तकपरिवर्तनेन समुद्वेजितास्तस्या धिकारिणः पुरुषाः सर्वेषां मुख्यकाव्यानां वर्णिनामुपयोगिनोऽशांने- कत्र संग्राहयितुं संकल्पयामासुः । कठिनकार्यमेतत्सकल संस्कृतसा. हित्यपाराधारीणेन केनापि परमविदुषैव सुसाध्यमासीत्, पर कांगड़ीगुरुकुलविश्वविद्यालयस्य कृतविद्यानां महोपाध्यायानामध्या. पनकार्यानवकाशवशादन्यसाधा कारणान्तरात्संग्रहकार्यमिदं संपाद- यितुमयोग्योऽप्यहं मत्परमानुग्राहकेणोगाचार्येण श्रीरामदेव महोदये. नाशप्तः । संग्रहसाधने सर्वथात्मन्यविश्वस्तोऽप्ययं जन "आशा प्रभूणां पविलंघनीयेत्यनुसृत्य विद्वद्वर्या विद्यावाचस्पतिवेदान्तसांख्यतीर्थो. पाधिकव्याकरणमहोपाध्याय श्री पंडितकन्हैयालालशालिभिर्दत्ता. घलंबो, मित्रवर्यैः साहित्यमहोपाध्याय श्री पंडित वागीश्वर विद्या. लकाध प्रतिश्रुतसाहाय्यो दुस्तरेऽपि कार्येऽस्मिन् प्रापर्तत ।

*६ - प्रशंसितानां महानुभावनां साहाय्येनानुमत्या च स्वस्वल्पसामर्थ्या- नुसारेणैवैतत्साहित्य संग्रहं कृतवानस्मिातदिदं सम्प्रति प्रथमम् पाण्डु. लिपिरूपेण विदुधामग्रे समुपाहियते, द्वितीयमुद्रणावसरे च तेषां परा मर्शा नादाय समुचितं संस्करणमेष्यति । विषयविषमपवाह्य वर्णिभ्यः संजीवनप्रापणप्रेप्सया संग्रहेऽस्मिन् सुधात्वारोपादस्य नाम साहित्य सुधासंग्रहः कृतः । स च कॉगड़ीगुरुकुलविश्वविद्यालये महाविद्या. लयविभागस्य चतुर्वर्पव्यापिश्रेणिचतुण्यात्मकत्वात् प्रत्येक श्रेणि- निमित्तं चतुर्यु बिन्दुषु विभज्यते । मंगलाचरणार्थं प्रत्येकं बिन्दुरा. ऽऽदिकाव्येन वेदेन प्रारभ्यते । प्रथमो बिन्दुः प्रथमश्रेण्यै उद्दिष्टः सुग- मतरैरथर्वसूक्तैरुद्धाट्यते, ततस्तस्मिन कालानुक्रमेण धरामिमामलं. कृतवताम् प्रातः स्मरणीयानां कविकुलगौरवाणां बाल्मीकिव्यासपत- अलिप्रभृतीनां वाग्विलासा: संगृहीताः । प्रत्येकविन्दोरन्तिमे भागे समाचातुर्योपयोगीनि मनोरंजकानि कतिचित् पद्यानि प्रदत्तानि । अवसाने चेदं पुनरुक्तवदेवयत्स्वक्षुद्रमत्यनुरूपं कृतोऽप्ययं संग्रहः परमकृपालूनां प्राक् प्रशंसितानां महाशयानामेव साहाय्येन प्रस्तुतं रूपं प्राप । माननीयमित्रमुपाचार्यो विद्वद्वरेण्यःश्रीरामदेवमहो. दयोऽप्यस्य क्रमविधौ प्रचुर साहाय्यं दत्तवानिति तस्यापि बहु कृतज्ञो. ऽस्मि । अस्य संग्रहस्य मुद्रणे ये दृष्टयादिदोषा दृश्यरंस्ते दयादाक्षि. ग्यायुदारगुणैः सुधोभिः समाधेयाः । सं० १९८३ वैक्रमान्दै कांगड़ी गुरुगुल विश्वविद्यालय पञ्चकुटीरे विदुयां घशवदो भवानीप्रसादः i अनुक्रमणिका. पृष्ठतः पृष्ठपर्यन्तम् । १ ६ । । १ २ २ २ । । । ४ विषयः भूमिका १. मंगलाचरणम् अथर्ववेदतः २. सौमनस्य सूक्तम् ३. ब्रह्मचर्य सूक्तम् ४. पृथिवी सूक्तम् शतपथ ब्राह्मणतः ५. दकार त्रयोपदेशः ऐतरेय ब्राह्मणतः ६. सत्य-महिमा गोपथब्राह्मणतः ७. सप्तविकार-विजय विधानम् बृहदारण्यकोपनिषद ८. आत्मज्ञानमहिमा कठोपनिषदः ६. आत्मज्ञानेन मोक्षाधिगमः ६ ८ ६ - 8 १० (2) पृष्ठपर्यन्तम् . १४ | | | १८ १६ विषयः पृष्ठतः श्रीवाल्मीकिरामायणतः १०. वर्षावर्णनम् ११. शरवर्णनम् १२. हेमन्त वर्णनम् १३. चन्द्रवर्णनम् १६ भगवद्गीतायाः १४. प्रथमोध्यायः १५. द्वितीयोध्यायः श्री पातञ्जलमहाभाष्यतः १६. सुशब्दप्रयोगमहिमा १७. कालविभागः चरकसंहितायाः १८. एषणात्रयव्याख्या ३३ २० २४ ३० ।। ३१ ३२ - ३५ ४३ ४४ ५० | | ।। ५० પર ६० रघुवशमहाकाव्यम् १६. प्रथमः सर्गः २०. द्वितीयः सर्गः २१. तृतीयः सर्गः २२. चतुर्थः सर्गः २३. पञ्चमः सर्गः २४. अष्टमः सर्गः २५. नवमः सर्गः २६. दशमः सर्गः २७. एकादशः सर्गः ६५ ६१ ६५ ६८ ७० ७४ ८१ पृष्ठपर्यन्तम्. ८६ ६० ६५ । । । । १०२ १३३ ( 3 ) विषयः पृष्ठतः २८. द्वादशः सर्गः ८१ २६. प्रयोदशः सर्गः ३०. चतुर्दशः सर्गः ६५ ३१. अभिज्ञानशाकुन्तलचम्पूः १०३ कुमारसंभवतः ३२. हिमाचलवर्णनम् ३३. पार्वतीतपस्या १३५ ३४. पार्वतीपरिणयः बद्धरितात् ३५. बुद्धवैराग्यम् १४६ ३६. श्रमणत्वनिश्चयः १४० ३७. सुभाषितानि १५२ । । । १३४ १४१ १४५ | | | १४६ १५१ १७०

No text on this page.

साहित्य-सुधा-संग्रहः प्रथमो विन्दुः आ ब्रह्मन् ! ब्राह्मणो ब्रह्मवर्चसी जायताम् । श्राराष्ट्र राजन्यः शूर इष- व्योऽतिव्याधी महारथो जायताम् । द्रोधी धेनु वोढानड्डानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् । निकामे निकामे न: प- जन्यो वर्षतु । फलवत्यो न पोषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ।। ( पजुबैदान् २२-२२) साहित्य-सुधा-संग्रह * सौमनस्यसूक्तम् * सहदयं सांमनस्य मविशेष कृणोमि पः। अन्यो अन्यमभि हर्यत वत्सं जातमियान्या ॥१॥ अनुवतः पितुः पुत्रो मात्रा भवतु संमनाः जाया पत्ये मधुमती पाचं वदतु शान्तिाम् ॥ २॥ मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुन स्वसा। सम्यक्षः सवता भूत्वा याचं वदत भद्रया ॥३॥ येन देवा न वियन्ति नो च विद्विपते मिथः । तत्कएमो ग्रह को गृहे संज्ञानं पुरुषेभ्यः ॥ ४ ॥ बायस्वन्तश्चितिनो मा वि यौष्ट संराधयन्तः सधुराचरन्तः। अन्योऽन्यस्मै वल्गु बदन्त पता सधीचीनान व समनसस्कृणोमि ॥ ५ ॥ समानि प्रपा सह वोऽनभागः, समाने योक्त सह वो युनज्मि । सम्यञ्चोऽनि सपर्यता- ऽऽ नाभि मिवाऽभितः ॥६॥ सध्रीचीनान् वःसंभन सस्कृणो. येफनधीसंवननेन सर्वान् ।। देवा इवाऽमृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥ ७ ॥ ( अथर्ववेदात् ३-३०) १ * ब्रह्मचर्य सूक्तम् * ब्रह्मचारीणश्वरति रोदसी उभे, तस्मिन् देवाः संमनसो भवन्ति । स दाधार पृथिवी दिवं च, स आचार्य तपसा पिपर्ति ॥१॥ .

प्रथमो बिन्
आचार्य उपनयमानों
बुह्मचारिणं कृणुते गर्भमन्तः।
तं रात्रीस्तित्र उवरे बिभर्ति
तं जातं द्रष्टुमभिसंयत्ति देवाः ॥ ३ ॥
इयं समित् पृथिवी चौद्धितीयो.
ताऽन्तरिक्ष समिधा पूणाति ।
बह्मचारी समिधा मेखलया
भ्रमेण लोकास्तपसा पिपर्ति ॥४॥
पूर्वी जातो बह्मणो ब्रह्मचारी
धर्म वसान स्तपसोदतिष्ठतः।
समाजातं बाह्मणं बल ज्येष्ठ
देवाश्च सर्व अमृतेन साकम् ॥ ५॥
इमां भूमि पृथिवीं ब्रह्मचारी
भिक्षामा जभार प्रथमो दिवंर ।
ते कृत्वा समिधावुपास्ते
तयोरार्पिता भुवमामि विश्वा ॥६॥
ब्रह्मचर्येण तपसा गजा राष्ट्र विरक्षति।
भावार्यो ब्रह्मचर्येण बह्मचारिणमिच्छते ॥७॥
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
अनजान बह्मचर्येणाऽश्वो घास जिगोर्षती ॥८॥
बुह्मचर्येण तपला देवा मृत्युमुपामत ।
इन्द्रोह बह्मचर्यण देवेभ्यः खराभरत् ॥ .
ओषधयो भूतभव्यमहोरात्रे घनस्पतिः ।
संवत्सरः सहर्तुमिस्ते जाता वझवारिणः ॥१०॥

(४)
साहित्य-सुधा-संग्रहः
बह्मचारी बल भ्राजद् विभर्ति
तलिन् देवा अधि विश्वे समोताः।
प्राणापानी
जनयवाद
व्यानं
वाचं मनो हृदयं बह्म मेधाम् ॥ ११ ॥
(अथर्ववेदात् ११-५)
-
है
* पृथिवीमुक्तम्
सत्यं बृहद्तमुग्रं दीक्षा तपो बल्ल यक्षः पृथिवीं धारयन्ति ।
सानो भूतस्य भव्यस्य पन्युरु लोकं पृथिवी नः कृणोतु ॥१॥
'असबा, मध्यतो मानवानां यस्या उद्युतः प्रवतः समं बहु ।
नानावार्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।।
यस्यामिदं जिन्वति प्राणदेजत् सा नो भूमिः पूर्वप्रेये दधातु ॥सा
यस्याश्चतस्त्रः प्रदिशः पृथिव्या यस्यामन्न कृष्टयः संबभूवुः ।
यो बिभर्ति बहुधा प्राणदेजत् सा नो भूमिगौष्वप्यन्ने दधातु ॥४॥
यस्यां पूर्षे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।।
गवामश्वानां वयस विष्टा भगं वर्चः पृथिवी नो दधातु ॥५॥
विश्वभरा वसुधानी प्रेतिष्ठा हिरण्यवक्षा जगतो:निवेशनी ।
वैश्वानर बिभ्रती भूमिग्निमिन्द्रऋषी द्रविणे नो दधातु ॥ ६ ॥
यार्णवेऽधि सलिलम आसीद्
यां मायाभिरवचरन मनीषिणः ।
यस्या हदयं परमे व्योमन
सत्येनाऽऽवृतममृतं पृथिव्याः।
सा नो भूमिस्त्विर्षि बलं राष्ट्र धातूतमे ॥ ७॥

प्रथमो बिन्दुः (५) xtarkar गिरय स्ते पर्वता हिमवन्तो. ऽरण्यं ते पृथिवि ! स्योनमस्तु। कृष्णां रोहिणी विश्वरूपां. ध्रुवां भूमि पृथिवीमिन्द्रगुप्ताम् । अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥८॥ यो नो द्वषत् पृथिवि ! यःपृतन्याद् योऽभिदासान्मनसा यो वधेन । तं नो भूमे ! रन्धय पूर्वकृत्वरि ॥६॥ त्वज्जातास्त्वयि चरन्ति मा. स्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । तवेमे पृथिवि! पञ्च मानवा. येभ्यो ज्योतिरमृतं मयेभ्य. उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१०॥ विश्वस्वं, मातरमोषधीनां, ध्रुवां, भूमि पृथिवीं धर्मणा धृताम् । शिवां स्योनामनु चरेम विश्वहा ॥ ११॥ महत् सधस्थं महती बभूविथ महान् वेग एजथु वेपथुष्ट। महारत्वेन्द्रो रक्षत्यप्रमादम् सा नोभूमे प्ररोचय, हिरण्यस्येष संदूशि, मा नो द्विक्षत कश्चन ॥१२॥ यस्यां वृक्षा वानस्पट्या ध्रुवास्तिष्ठन्ति विश्वाहा। पृथिवीं विश्वधायसं धृतामच्छाबदामसि ।। १३ ॥ यावत् तेऽभि विपश्यामि अमे सूर्येण मेदिना। ताबन्मे चतुर्मा मेष्टोत्तरामुत्तरी समाम् ॥१४॥ "सा नो भूमि रादिशतु यद्धनं कामयामहे । भगो अनुप्रयुकामिन्द्र एतु पुरोगवः ॥ १५ ॥ । Fw साहित्य-सुधा-संग्रहा यस्यामा प्रोहियो यस्पाइमा: पञ्चरुष्या। मन्यै पर्जन्यपल्यै नमोऽस्तु वर्षसेदसे ॥ १६॥ निधि विम्रती बहुधा गुहा बसु मणि हिरण्यं पृथिषी ददातु मे। वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥ १७ ॥ ये प्रामा यदरण्यं याः सभा अधि भूम्याम् । ये संग्रामाः समितयस्तेषु चार वदेम ते ॥१८॥ स्वमस्याऽऽपनी जनाना. मदितिः कामदुघा पश्थाना। यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥ १६ ॥ उपस्था स्ते अनमोया अयक्ष्मा अस्मभ्यं सन्तु पृथिवी ! प्रसूताः। दीर्घ न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहतः स्यामः ॥२०॥ भूमे ! मातर्निधेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियो मा धेहि भूत्याम् ॥२१॥ (अधर्ववेदात् १२-१) है * दकार-योपदेशः प्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः । उनिस्वा बुलचर्य देवा ऊचुः “ब्रवीतु नो भवानिति" तेभ्यो हएतदक्षरमुवाच "" इति । "व्यहासिष्ट ३ इति "ज्या.

प्रथमो बिन्दु (.) सिमेति" ऊचुः, "दाम्यतेति-न भात्य इति। "भोमिति उवाच, "व्यशासिष्टेति ॥१॥ अथ ह एनं मनुष्या ऊचुः "ब्रवीतु नो भवानिति । तेभ्यो ह एतदेवाक्षरमुवाच "द" इति । "व्यशासिष्टा ३५ इति । "ध्यक्षा- सिम्मेति ह ऊचुः । “दत्त" इति न आत्य इति"। "ओ मिति"ह उवाच, "व्यज्ञासिटेति ॥२॥ अथ ह एनमसुरा ऊचुः"ब्रवीतु नो भवानिति"। तेभ्योह पतदेवाक्षर मुवाच “द" इति । व्यज्ञालिष्टा इति" | "व्यज्ञासिष्म इति ह ऊचुः । “दयध्व मिति न आत्थ" | "ओम् इति" ह उवाच, "ज्यशालिष्टते"। तदेतदेवेषा दैवीवागनु वदति स्तनयित्नु "र्ददद इति ।" दाम्यत दत्त दयध्वमिति । तदेतत्त्रय ७ शिक्षेदमन्दान दयामिति । ३॥ (शतपथ ब्राह्मणात) * सत्यमहिमा * नाभानेदिष्ठं वै मानवं ब्रह्मचर्य वसन्तं भ्रातरो निरभजन् । सोऽब्रवीदत्य किं मह्यमभाक्तति । एतमेव निष्ठावमववदितारमित्य. ध्रुवन् । तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाचक्षते । स पितरमेत्यावधीत् त्वां ह वाव मह्यं ततामाक्षुरिति । तं पिताऽ. प्रवीत् । मा पुत्रक तदाद्याः। अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते। ते षष्ठं पष्ठमेवाहरागत्य मुह्यन्ति । सानेते सूके षष्ठेऽ हनि शंसय तेषां यत्सहस्रं सत्रपरिवेपणं तत्ते स्पर्धन्तोदास्यन्तीति । तथेति तानुपैत्प्रतिगृभ्णीत मानवं सुमेधस इति । तमब्रुवन् किंकामो पदसीति । इदमेय वः षष्ठमह प्रज्ञापयानीत्यबुवीदथ यह एतत्सहस्र लत्रपरिवेषणं तन्मे स्वर्यन्तोऽदति । तथेति । तानेते सूक्त षष्ठेऽहन्य. शंसयत् । ततो धै ते प्र यज्ञमजानन् प्रस्वर्ग लोकम् । तद्यदेते सूक्ते षष्ठेऽ हनि शंसति यक्षस्य प्रश्चात्यै स्वर्गस्य लोकस्यानुख्यात्यै । त स्वर्यन्तो - (८) साहित्य-सुधा-संग्रहः ऽब्रुवन् । एतत्ते ब्राह्मण सहस्रमिति । तदेनं समाकुर्वाण पुरुषः कृष्णशवास्युत्तरत उपोत्थायाव वीन्मम वा इदं मम वै धास्तु हमिति । सोऽधवीन्मह्यं वा इदमदुरिति । तमबवीत्तदै नौ तवैव पितरि प्रश्न इति । स पिारमैत् । तं पिताप्रवीत् । ननु ते पुत्रकादुरिति अदुरेव म इत्यव्वोत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपीदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति । तं पिताबवीत् । तस्यैव पुत्रक तत्तत्तुभ्यं दास्यतोति । स पुनरेत्याबवोत्सव ह वाव किल भगव इदमिति मे पिताहेति । सो ऽब्रवीत् । तदहं तुभ्यमेव ददामि य एवं सत्यमवादीरिति । तस्मादेवं विदुषा सत्यमेव वदितव्यम् ॥ (तरेय ब्राह्मणात् ५-२-१४) * सप्तविकार-विजय-विधानं * जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाएयभिजायन्ते, ब्रह्मवर्चसञ्च यशश्च स्वप्नश्च क्रोधश्च श्लाघाञ्च रूपञ्च पुण्यमेव गन्धं सप्तमम् । तानि हवा अस्यैतानि ब्रह्मचर्यमुपेतोपकामन्ति, मृगानस्य ब्रह्मवर्चस गच्छत्याचार्य यशोऽजगर स्खनो, वराहं क्रोधोऽपश्लाघं कुमारी रूप, मोपधिवषस्पतीन पुण्यो गन्धः। स यग्मृगाजिनानि वस्ते, तेन तद् ब्रह्मवर्चसमवरुन्धे, यदस्य मृगेषु भवति स ह स्नातो ब्रह्मवर्चसी भवति, स यदहरहराचार्याय कर्मकरोति तेन तधशोऽवरुन्धे यदस्या- चायें भवति, स ह स्नातो यशस्वी भवति, स यत्सुषुप्सुर्निद्राभिनयति तेन तं स्वममवरुन्धे, योऽस्याजगरे भवति । तं ह नातं स्वपन्तमाहुः खपितु मैनं धोबुधथेति, स खो वाचा न कञ्चन हिनस्ति । पुरुषात् पुरुषात् पापीयानिव मन्यमानस्तेन तं क्रोधमधरुन्धे, योऽस्य वराहे भवति तस्य हत्रातस्य कोधा श्लाघीयसं विशम्तेऽथाद्भिः श्लाप्य- मानो न स्नायासेन तं श्लाघामधन्धे, योऽस्याप्सु भवति सह खातः प्रथमो विन्दुः (६). श्लाघीयोऽन्नेभ्यः लाप्यतेऽथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्तानमा- मोदीक्षेइतिवेति मुखं विपरिधापयेतेन तद्वपमधरुन्धे, यदस्य कुमार्यों भवति तं हमातं कुमारीमिय निरीक्षन्तेऽथैतद्ब्रह्मचारिणः पुरयो गन्धो य ओषधिषनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रतेन तं पुण्यं गन्धमवरुन्धे, योऽस्योपधिवनस्पतीषु भवति स ह नातः पुण्यगन्धिर्भवति ॥१॥ ( गोपथब्राह्मणात् २-२) * आत्माम-महिमा * स वा एप महानज आत्मा योऽयं विज्ञानमयः प्राणेषु । य एषोऽन्त. हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयानो एव असाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एप सेतुर्विधरण एषां लोकानामसम्भे- दाय तमेत वेदानुवचनेन बाह्मणा विविदिषन्ति यज्ञेन दानेन तपसा- ऽनाशकेनैतमेव विदित्वा मुनिर्भवति एतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्ति एतद्ध सवै तत्पूर्वे विद्वासः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह म पुत्रैषणायाश्च विशेषणायाश्च लोकैषणायाश्च व्युत्थायाऽथ भिक्षाचयं चरन्ति या खेव पुत्रैषणा सा वित्तषणा या वित्तपणा सा लोकैपणोभे येते एपणे एव भवतः। स एष नेति नेत्यात्माऽगृयो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२॥ (वृहदारण्यकोपनिषदः ४-४-२२) साहित्य-सुधा-संग्रहः * आत्मज्ञानेन मोक्षाधिगम: * आत्मानं रथिनं विद्धि शरीर रथमेव तु। बुद्धिन्तु सारथि विद्धि मनः प्रप्रहमेव च ॥१॥ इन्द्रियाणि हयांनाहुर्विषयांस्तेषु गोचरान् । "आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः ॥२॥ यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इष सारथेः ॥३॥ यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा। तस्येन्द्रियाणि पश्यानि सदश्वा इव सारथेः॥४॥ यस्त्वविज्ञानवान् भवत्यममस्कः सदाऽशुचिः । a स तत्पदमाप्नोति संसारश्चाधिगच्छति ॥५॥ यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः। स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥६॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवानरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम्पदम् ॥७॥ - इन्द्रियेभ्यः परा ह्या अर्येभ्यश्च पर मनः । मनसस्तु परा वुद्धिर्बुर्धरात्मा महान् परः॥ ८॥" महतः परमव्यक्तमव्यकात् पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः॥६॥ एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । 'दृश्यते त्वप्रथया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥१०॥ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गम्पथस्तत्कवयो वदन्ति ॥ ११ ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसमित्यमगन्धवच यत् । अनाद्यनन्तम्महतः परन्ध्रुवं नित्राय्य तन्मृत्युमुखात्प्रमुच्यते ॥ १२ ॥ (कठोपनिषदः ३-1)

प्रथमो बिन्दु
.
* वर्षावर्णनम्
अयं स कालः संप्राप्तः समयोऽध जलागमः।
संपश्य त्वं नभी मेधैः संवृतं गिरिसंनिभैः ॥१॥
नवमासधृतं गर्भ भास्करस्य गभस्तिभिः ।
पीत्वा रसं समुद्राणां चौः प्रसूते रसायनम् ॥२॥
शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ।
कुटजाऽर्जुनमालाभिरलंक दिवाकरः ॥३॥
संध्यारागोत्यितैस्तानैरन्तेष्वपि च पाण्डुभिः ।
स्निग्धैरभ्रपटच्छेदैर्बद्धवणमिवाम्बरम् ॥ ४ ॥
मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः ।
शक्यमनलिभिः पातुं वाताः केतकगन्धिनः ॥ ५ ॥
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ।
मारुतापूरितगुहाः प्राधीता इव पर्वताः॥६॥
कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् ।
अन्तस्तनितनिर्घोषं सवेदनमियाऽम्बरम् ॥ ७॥
रजःप्रशान्तं सहिमोऽद्य वायु.
र्मिदाघदोषप्रसराः प्रशान्ताः ।
सिता हि यात्रा पसुधाधिपानां
प्रवासिनो यान्ति नराः खदेशान् ॥ ८॥
कवित्वकाश कचिदप्रकाशं नमः प्रकीर्णाम्बुधर विभाति ।
कचित्कचित्पर्वतसनिरुद्ध पं यथा शान्तसाहार्णवस्य ॥६॥
व्यामिश्रितं सर्जकदम्बपुष्पैनवं जल पर्वतधातुतानम् ।
मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वदन्ति ॥ २० ॥

(१२) साहित्य-सुधा-संग्रहः रसाकुलं पट्पदसंनिकाशं प्रमुज्यते जम्बुफलं प्रकामम् । अनेकवर्ण पवनावधूतं भूमौ पतत्याम्रफलं विपक्कम् ॥ ११ ॥ विद्युत्पनाकाः सबलाकमाला शैलेन्द्रकूटाकृतिसंगिकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगल्या वर्षादकाऽऽप्यायितशावलानि प्रवृत्तनृतोत्सवाहिणानि । धनानि निर्वृष्टबलाहकानि पश्याऽपरावधिक विभान्ति ॥ १३ ॥ समुद्रहुन्तः सलिलातिमारं बलाकिनो वारिधरा नदन्तः । महत्सुङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ॥१४॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपंक्तिः। वातावधूनाधरपौण्डरोको लम्बेवमाला रुचिराऽम्बरस्य ॥१५॥ बालेन्दगोपान्तरचित्रितेन विभाति भूमिर्नवशावलेन । गात्रानुक्तेन शुकप्रभेण नारीव लाक्षाक्षितकम्बलेन ॥ १६ ॥/ जाता बनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः। जाता वृषा गोषु समानकामा जाता मही संस्यवनाभिरामा ॥ १७ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । । नद्यो घना मत्सगजा बनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥१८॥ प्रहर्षिताः केतकिपुष्पगन्ध माघ्राय मत्ता वननिझरेषु । प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ १६ ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः । क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २० ॥ अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृधैः । जम्बूद्माणां प्रविभान्ति शाखा निपीर्थमाना इव षट्पदीधैः ॥ २१ ॥ तडि त्यताकाभिरलताना मुदीर्णगम्मीरमहारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोत्सुकालामिव वानराणाम।। २२ ॥

प्रथमो बिन्दुः water (१३) मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य । युद्धाभिकामः प्रतिनादशङ्की मत्ती गजेन्द्रः प्रतिसनिवृत्तः ॥ २३॥ कचित्प्रगीता इव षट्पदौधेः कचित्पनृत्ताइव नीलकण्ठः। कचित्प्रमत्ता इव वारणेन्द्र धिभात्यनेकाश्रयिणो बनान्ताः ॥२४॥ मुक्तासमाभं सलिलं पतबै सुनिर्मलं पत्रपुटेषु लग्नम् । दृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिवन्ति ॥ २५ ॥ षट्पादतन्त्रीमधुराभिधार प्लवंगमोदीरितकण्ठतालम् । आविष्कृत मेघमृदङ्गनादै वनेषु संगीतमिव प्रवृत्तम् ॥ २६ ॥ कचित्प्रनृत्तः कचिदुन्नदद्भिः क्वचिश्च वृक्षाग्रनिषण्णकायैः । व्यालस्वबर्हाभरणैर्मयूरै वनेषु संगीतमिव प्रवृत्तम् ॥ २७ ॥ . खनैर्घनानां पूषगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ २८ ॥ नीलेषु नीला नवारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः। दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥ २६ ॥ प्रमत्तसनादितबहिणानि सुशागोपाकुलशाहलानि । चरन्ति नोपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥३०॥ नवाम्बुधाराहतकेसराणि ध्रुवं परित्यज्य सरोकहाणि । कदम्बपुष्पाणि सकेसराणि नवानि दृष्टा भ्रमराः पिधन्ति ॥३१॥ मत्ता गजेन्द्रा मुदिता गवेन्द्रा धनेषु विक्रान्ततरा मृगेन्द्राः । रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रोडितो बारिधः सुरेन्द्रः ॥ ३२॥ मेघाः समुद्धृतसमुद्रनादा महाजलौधैर्गगनावलम्बाः । मदीस्तटाकानि सरांसि वापीमही च कृत्स्नामपवारयन्ति ॥ ३३ ॥ वर्षप्रवेगा विपलाः पतन्ति प्रवान्ति पाता। समुदीर्णवेगाः। प्रनष्टकूला: प्रवहन्ति शीघ्र नयो जलं विप्रतिपक्षमार्गाः॥ ३४ Marwmom

(१४)
साहित्य-सुधा-संग्रहः
नरैनरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रनीतैः पवनोपनीतः।
घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ३५ ॥
घनोपगूढ गगनं न तारा न भास्करो दर्शनमभ्युपैति ।
नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥३६ ॥
महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति ।
महाप्रमाणैर्षिपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥ ३० ॥
शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः।
गुहासु संनादितबहिणासु हारा विकीर्यन्त इवावभान्ति ॥ ३८ ॥
शीघ्रं प्रवेगा पिपुलाः प्रपाताः निर्धातशृङ्गोपतला गिरीणाम् ।
मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्संगतलैधि यन्ते ॥ ३६ ॥
(श्री वाल्मीकि रामायणस्य
किष्किन्धाकारह-२८-सात )
* शरद्वर्णनम् *
शाखोसु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ।
लीलासु चैवोत्तमवारणानां श्रियं विभज्याऽध शरत्प्रवृत्ता ॥१॥
संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपना।
सूर्याऽप्रहस्तप्रतिबोधितेषु पद्माकरेवभ्यधिक विभाति ॥२॥
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः ।
मत्त द्विपानां पवनानुसारी दर्प विनेष्यन्त्रधिकं विभाति ॥३॥
अभ्यागतैश्चारुविशालपी सरप्रियः परजीवकीर्णैः ।
महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥४॥
मदप्रगल्भेषु च धारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निन्नगासु विभाति लक्ष्मीबहुधा षिमता ॥५॥

प्रथमो बिन्दुः
(१५)
नमः समीक्ष्याम्बुधरैर्विमुक्त विमुक्तबर्हाभरणा बनेषु ।
प्रियासरता विनिवृत्तशामा गतोत्सवा ध्यानपरा मयूराः ॥ ६॥
मनोक्षगन्धैः प्रियकैरनल्पैःपुष्पाप्रभाराऽवनताऽग्रशाखैः ।
सुवर्णगोरैर्नयनाभिरामैख्योतितानीव वनान्तराणि ॥७॥
प्रियान्वितानां नलिनीप्रियाणां घनप्रियाणां कुसुमोक्तानाम्।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽध मन्दाः ॥८॥
व्यक्त नमः शस्त्रविधीतवसं कशप्रवाहानि नदीजलानि ।
कारशीताः पयनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ||
सूर्याऽऽतपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवरेण समायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ १० ॥
शरद्गाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः
मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ११ ॥
त्यक्त्वा घराण्यात्मविभूषितानि बर्हाणि तोरोपगता नदीनाम् ।
निर्भय॑माना इव सारसोधैः प्रयान्ति दीना विमना मयूराः ॥१२॥
वित्रास्य कारण्डवचक्रयाकान्महारवैर्भिपाटा गजेन्द्राः ।
सरःसु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिवन्ति ॥ १३ ॥
व्यपेतपंकासु सबालुकासु प्रसन्नतीयासु सगोकुलासु ।
ससारसाऽऽरावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः ॥ १४ ॥
नदीधनप्रनवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः संप्रति संप्रनष्टाः ॥ १५ ॥
अनेकवर्णाः सुधिनष्टकाया नघोदितेष्वम्बुधरेषु नष्टाः ।
सुधार्दिता घोरधिषा बिलेभ्यश्चिरोपिता विप्रसरन्ति सर्पाः ॥ १६ ॥
विपक्कशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसवारुपंक्तिः।
नभः समाक्रामति शीघ्रवेगा वातावधूता प्रथितेष माला ॥ १७ ॥
सुप्तकहंस कुमुदैरुपेतं महादस्थं सलिलं विभाति ।
धनैर्विमुक्तं निशि पूर्णचन्द्र तारागणाकीर्णमिवाऽन्तरिक्षम् ॥ १८ ॥

साहित्य-मुधा-संग्रहः
प्रकोणहंसाकुलमेखलानां प्रबुद्धपोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वरांगनानामिव भूषितानाम् ॥ १६ ॥
वेणुस्वरव्यजिततर्यमिश्रः प्रत्यूषकालेऽनिलसंप्रवृत्तः।
संमूर्छितो गहरगोवृषाणामन्योन्यमापूरयतीध शब्दः ॥२०॥
नवैनंदीनां कुसुमप्रहासै ाधूयमानैर्मृदुमारुतेन ।
धौताऽमलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥ २१ ॥
वनप्रचण्डा मधुपानशील्डाः प्रियान्विताः पट चरणाः प्रहष्टाः ।
वनेषु मत्ताः पबनानुयात्रां कुर्वन्ति पन्नासनरेणुगौराः ॥२२॥
जलं प्रसन्नं कुसुमप्रहास क्रौञ्चस्वनं शालिवनं विपक्कम् ।
मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ॥ २३ ॥
लोकं सुवृष्टया परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पनसस्यां घसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥२४॥
प्रसन्नसलिला: सौम्य कुरराऽभिविनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाऽऽशयाः॥२५॥
अन्योन्यबद्धवैराणां जिगीषूर्णा नृपात्मज ।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ २६ ॥
(थो वाल्मिीकि रामायणस्य
किष्विन्धिाकार ३० सात )
* हेमन्तवर्णनम् *
घसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्ध्यपाये हेमन्त ऋतुरिष्टः प्रवर्तत ॥१॥
स कदाचित्प्रभातायां शर्वी रघुनन्दनः ।
प्रययाऽवभिषेकार्थ रम्यां गोदावरी नदीम् ॥२॥

प्रथमो बिन्दुः
(१७)
प्रहः कलशहस्तस्तु सोतया सह वीर्यवान् ।
पृष्ठतोऽनुवजन्भ्राता सौमित्रिरिदमब्रवीत् ॥३॥
अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद !।
अलंकृत इवाऽऽभाति येन संवत्सरः शुभः ॥ ४ ॥
नीहारपरुषो लोकः पृथिवी सस्यमालिनी ।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥५॥
नवाऽऽग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।
कृताऽऽग्रयणकाः काले सन्तो विगतकल्मषाः॥ ६ ॥
प्राज्यकामा जनपदाः संपन्नतरगोरसाः।
विचरन्ति महीपाला यात्रार्थ विजिगीषवः ॥७॥
सेवमाने दृढ़ सूर्य दिशमन्तकसेविताम् ।
विहीनतिलकेव खो नोत्तरा दिक्प्रकाशते ॥ ८॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम् ।
यथार्थनामा सुव्यक्त हिमवान्हिमवागिरिः ॥ ६ ॥
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।
दिवसाः सुभगादित्या श्छायासलिलदुर्भगाः ।। १० ।।
मृदुसूर्याः सुनीहारा: पटुशीताः समाहिताः ।
शून्यारण्या हिमध्वस्ता दिवसा भान्ति सांप्रतम् ।। ११ ।।
निवृत्ताऽऽकाशशयनाः पुष्यनीता हिमारुणाः।
शीतवृद्धतराऽऽयामा खियामा यान्ति सांप्रतम् ॥ १२॥
रविसंक्रान्त सौभाग्य स्तुषाराऽरुणमण्डलः।
निःश्वासाऽन्ध इवाऽऽदर्शश्चन्द्रमा न प्रकाशते ॥ १३
ज्योत्स्नातुषारमलिना पौर्णमास्यां न राजते।
सीतेव चातऽऽपश्यामा लक्ष्यते न च शोभते ॥ १४ ॥

(१८) साहित्य-सुधा-संग्रहः प्रकृत्या शीतलस्पर्शी हिमविद्धश्च सांप्रतम् । प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५ ॥ वाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥१६॥ खजूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः। शोभन्ते किंचिदालम्बा: शालयः कनकप्रभाः॥१७॥ मयूखैरुपसपद्भि हिमनीहारसंवृतः । दुरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते ।। १८ ।। आग्राह्यवीर्यः पूर्वाह्न मध्याले स्पर्शतः सुखः । संसक्तः किंचिदापाण्डु रातपः शोभते क्षितौ ॥ १६ ॥ अवश्यायनिपातेन किंचित्प्रक्लन्नशाला। वनानां शोभते भूमि निविष्टतरुणातपा ॥ २० ॥ स्पृशन्सुविपुलं शीत मुदकं द्विरदः सुखम् । अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ २१ ॥ पते हि समुपासीना विहगा जलचारिणः । नाऽवगाहन्ति सलिल मप्रगल्भा इयाऽऽहवम् ॥२२॥ अवश्यायतमोनद्धा नीहारतमसाऽऽवृताः । प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥२३॥ वापसंछन्नसलिला रुतविशेयसारसाः। हिमायालुकास्तरः सरितो भान्ति सांप्रतम् ॥ २४ ॥ श्री वाल्मीकि रामायणस्य) (अरण्यकाण्ड १६ सात ) प्रथमो बिन्दु १६) * चन्द्रवर्णनम् * ततः स मध्यंगतमंशुमन्तं ज्योत्स्ना वितानं मुष्ठुरुद्वमन्तम् । ददर्श धीमान्भुवि भानुमन्तं गोष्ठे वृष मत्तमिव भ्रमन्तम् ॥१॥ लोकस्य पापानि विनाशयन्तं महोदधि चाऽपि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशु मथाऽभियान्तम् ।।२।। या भांति लक्ष्मो वि मन्दरस्था यथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था राज सा चारुनिशाकरस्था ॥३॥ हंसो यथा राजतपञ्जरस्थः सिंहो, यथा मन्दरकंदरस्थः । वोरो यथा गर्वितकुअरस्थ श्चन्द्रोऽपि बभ्राज तथाऽम्बरस्थः ॥ ४ ॥ स्थितः ककुमानिव तीक्ष्णशृङ्गो महाऽचलः श्वेत वार्ध्वशृङ्गः । हस्तीव जाम्बूनदबद्धश्चङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः ॥ ५ ॥ विनष्टशीताऽम्बुतुषारपङ्को महाग्रहमाहविनष्ट पङ्कः । प्रकाशलक्ष्म्याश्रयनिर्मलांङ्को रराज चन्द्रो भगवाञ्छशाङ्कः ॥६॥ शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः । राज्यं समासाद्य यथा नरेन्द्र स्तथा प्रकाशो विरराज चन्द्रः ॥७॥ . श्री पाल्मीकि रामायणस्य), सुन्दरकाण्ड ५म सात् M

* श्रीकृष्णार्जुनसंवादः *
प्रथमोऽध्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पांडवाश्चैव किमकुर्वत संजयः॥१॥
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं न्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥
पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्चद्रुपदश्व महारथः ॥ ४ ॥
धृष्टकेतुश्चेकितानः कशिराजश्च वीर्यवान् ।
पुरुजित्कुंतिभोजश्च शैब्यश्चनर पुंगवः ॥५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्ववीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एष महारथाः ॥६॥
अस्माकं तु विशिष्टा ये ताग्निबोध द्विजोत्तम !।
नायका मम सैन्यस्य संज्ञार्थं तान्बधीमि ते ॥ ७ ॥
भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः।
भश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८॥

:
प्रथमो विन्दुः
( २१ )
अन्ये च बहवः सग मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ६ ॥
अपर्याप्तं तदस्माकं बलं भीष्माऽभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाऽभिरक्षितम् ॥ १०॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षतु भवंतः सर्व एव हि ॥ ११॥
तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान् ॥ १२॥
ततः शम्वाश्चभेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यंत स शब्द स्तुमुलोऽभवत् ॥ १३ ॥
ततः श्वेते हयै र्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यो शंखौ प्रदध्मतुः॥१४॥
पाँचजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौंड दध्मौ महाशंख भीमकर्मा वृकोदरः॥१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युमो विराटश्च सात्यकि श्चापराजितः ॥ १७ ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते !।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ॥१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवों चैव तुमुलो ध्यनुनादयन् ॥ १६ ॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः ॥ २० ॥

( २२)
साहित्य-सुधा-संग्रहः
अर्जुन उवाच
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत! ॥ २१ ॥
यावदेतानिरीक्षेऽहं योद्ध कामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥ २२॥
योत्स्यमानानवेक्षेऽहं य एते ऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धे युद्ध प्रियचिकीर्षवः ॥ २३ ॥
संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत !।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ! पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
तत्राऽपश्यत्स्थितान्पार्थः पितृनथ पितामहान् ।
आचार्यान् मातुलान्भ्रातृन्पुत्रान्पौत्रान्सस्त्रींस्तथा ॥ २६ ॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान् ॥ २७ ॥
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं वजनं कृष्ण ! युयुत्सुं समुपस्थितम् ॥ २८ ॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्व जायते ॥ २६ ॥
गाँडोवं संसते हस्तारवक्चैव परिदह्यते ।
न च शक्रोम्यवस्थातुं श्रमतीव च मे मनः ॥ ३० ॥

!
प्रथमो बिन्दुः
(२३)
निमित्तानि च पश्यामि विपरीतानि केशव!।
न च श्रेयोऽनुपश्यामि हत्वा खजनमाहवे ॥३१॥
नकांक्षे विजयं कृष्ण न च राज्यं सुखानि च।
कि नो राज्येन गोविन्द ! कि भोगै वितेन वा ॥ ३२ ॥
येषाम) कांक्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्ध प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥३४॥
एतान्न हंतुमिच्छामि नतोऽपि मधुसूदन !।
अपि त्रैलोक्यराज्यस्य हेतोः किनु महीकृते ॥३५ ।।
निहत्य धार्तराष्ट्रानः का प्रीतिः स्याजनार्दन !।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ।।
तस्मानार्हा वयं हतुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम् ।
कुलक्षयकृतं दोपं प्रपश्यद्भिर्जनार्दन ॥ ३ ॥
कुलक्षये प्रणश्यति कुलधर्माः सनातनाः ।
धर्मे नष्टे फुलं कृत्स्न मधर्मोऽभिमवत्युत ॥ ४०॥
अधर्माऽभिभवात्कृष्ण ! प्रदुष्यति कुललियः।
स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसंकरः ॥ ४१ ॥
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं चासो भवतीत्यनुशुश्रुम ॥४३॥

( २४ )
साहित्य-सुधा-संग्रहः
अहो बत महत्पापं कतुं व्यवसिता वयम् ।
यद्रा पसु बलोभेन हेतुं स्वजन मुद्यताः ॥ ४४ ॥
यदि मामप्रतीकारमशखं शलपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥
संजय उवाच
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसज्य सशरं चापं शोकसंविग्नमानसः॥ ४६॥
॥ इति प्रथमोऽध्यायः॥
द्वितीयोऽध्यायः
संजय उवाच
.
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेऽऽक्षणम् ।
विपीदंतमिदं वाक्य मुवाच मधुसूदनः ॥१॥
श्री भगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वय॑ मकीर्तिकरमर्जुन !॥२॥
क्लेव्यमा स्म गमः पार्थ ! नैतत्वय्युपपद्यते ।
सुदं हृदयदौर्बल्य त्यक्त्वोत्तिष्ठ परंतप ॥३॥
अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजाऱ्यावरिसूदन ! ॥ ४ ॥

प्रथमो विन्दु
( २५)
गुरूनहत्वा हि महानुभावाञ्छेयो भोक्तुं भैश्यमपीह लोके ।
हत्वाऽर्थकामांस्तु गुरूनिहष भुंजीय भोगाधिरप्रदिग्धाम् ॥ ५ ॥
न चैतद्विनः कतरनो गरीयो गठ्ठा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषामस्ते ऽवस्थिताः संमुखे धार्तराष्ट्राः ॥६॥
कार्पण्यदोषोपहतखभाषः पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्थानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥
न हि प्रपश्यामि ममाऽपनुद्याद्यच्छोकमुच्छोषणमिद्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्ध राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥
संजय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णों बभूव ह ॥ ६ ॥
नमुवाच हृषीकेशः प्रहसन्निव भारत !
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥
श्री भगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रशावादांश्च भाषसे।
गतासूनगतातूंच नानुशोचंति पंडिताः ॥ ११ ॥
न त्वेवाऽहं जातु नाऽऽसं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहांतरप्राप्तिर्षीरस्तत्र न मुह्यति ॥१३॥
मावास्यास्तु कौंतेय ! शीतोष्ण सुखदुःस्वदाः ।
आगमापाथिनो नित्यास्तांस्तितिक्षस्व भारत ! ॥१४॥
यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ!।
समदुःखसुखं धोरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

(२६) साहित्य-सुधा-संग्रहः माऽसतो विद्यते भाषो नाS भाषो विद्यते सतः। उभयोरपि दृष्टोन्तस्वनयोस्तश्ववर्शिभिः ।। १६ ॥ अविनाशितु तद्विद्धि येन सर्व मिदं ततम् । विनाशमव्ययस्याऽस्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्साघुद्धधस्व भारत ॥ १८॥ य एनं वेत्ति हतार यश् मन्यते हतम् । उमौतौन विजानीतो नायं हन्ति न हन्यते ॥ १६॥ न जायते म्रियते वा कदाचि- सायं भूत्वा भविता धा न भूयः ।। अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे ॥२०॥ घेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थक घातर्यात हंति कम् ।। २१ ॥ वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा. न्यन्यानि संयाति नवानि देही ॥२२॥ नैनं छिदंति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयंत्यापो न शोषयति मारतः॥२३॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४॥ अव्यक्तोऽयमचित्योऽयमधिकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि ।। २६ ॥

प्रथमो बिन्दु (२७) जातस्य हि ध्रुवो मृत्यु ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥ भव्यकादीनि भूतानि व्यक्तमध्यानि भारत ! भव्यक्तनिधनान्येक तत्र का परिदेवना ॥२८॥ आश्चर्यवत्पश्यति कश्चिदेन. माश्चर्यवद्वदति तथैव चाम्यः । आश्चर्यषचैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २६ ॥ देही नित्यमबध्योऽयं देहे सर्वस्य भारत ! तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ।। ३० ॥ स्वधर्ममपि चावेक्ष्य न विपितुमर्हसि । धाद्धि युद्धाच्छयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥ यद्गुच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ॥ सुखिनः क्षत्रियाः पार्थ! लभन्ते युद्धमीदृशम् ॥ ३२ ॥ अधचेचमिमं धयं संग्राम न करिष्यसि। ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ॥३३॥ अकीर्ति चापि भूतानि कथयिष्यति तेऽव्ययाम् । संभावितस्य चाकीर्ति मरणादतिरिच्यते ॥ ३४ ॥ भयाद्रणादुपरतं मंस्यंते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ।। ३५ ॥ अवाच्यवादांश्च बहू न्वदिष्यति तवाहिताः । निदंतस्तव सामथ्यं ततो दुःखतरं नु किम् ॥ ३६॥ हतो वा प्राप्स्यसि खर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौंतेय ! युद्धाय कृतनिश्चयः ॥ ३७॥ सुखदुःखे समे कृत्वा लाभालामौ जयाजयो। ततो युद्धाय युज्यख नैवं पापमवाप्स्यसि ॥ ३८ ॥ * (२८) साहित्य-सुधा-संग्रहः- एषा ते ऽमिहिला सांस बुखियोंगविमांशृणु। बुद्धया युक्तो क्या पार्थ! कर्मबन्ध प्रहास्यसि ।। ३६ ।। नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात॥ ४०॥ व्यवसायात्मिका बुद्धिरकेह कुरुनन्दन! बहुशाखा घनन्ताश्च.बुद्धयोऽव्यवसायिनाम् ।। ४१ ।। यामिमां पुष्पितां धाचं प्रयदंत्यविपश्चितः । वेदवादरताः पार्थ! मान्यदस्तीतिवादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति ॥ ४३ ॥ भोगैश्वर्यप्रसक्तानां तयाऽपहतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥४४॥ त्रैगुण्यविषया वेदा निस्त्रगण्यो भवाऽर्जुन ! निद्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥ यावानर्थ उदयाने सर्वतः संप्लुतोक्के। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥ ४ ॥ योगस्थः कुरु कर्माणि संगं त्यक्त्वा धर्मजय। सिद्धयोसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥४८॥ दूरेण वर कर्म बुद्धियोगाद्धनंजय ! बुद्धो शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४ ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यख योगः कर्मसु कौशलम् ॥ ५० ॥ कर्म बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबंधविनिमुंकाः पदं गच्छंत्यनामयम्॥ ५१ ॥ HA

प्रथमो बिन्दुः
(२६)
यदा ते मोहकलिल बुद्धिय॑तितरिष्यति।
तदा गतासि निवेदं श्रोतव्यस्य श्रुतस्य च ।। ५२ ।।
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५३ ।।
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्पस्य केशव
स्थितधीः किं प्रभाषेत किमासीत ब्रजेत किम् ॥ ५४॥
श्री भगवानुवाच
प्रजहाति यदा कामा न्सर्वान्पार्थ ! मनोगतान् ।
आत्मन्यैवात्मना तुष्टः स्थितप्रशस्तदोच्यते ॥ ५५ ॥
दुःखेष्वनुविनमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थिती मुंनिरुच्यते ॥ ५६ ॥
यः सर्वत्रानभिस्नेह स्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनंदति न द्वष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७ ।।
यदा संहरते चायं कूमोऽगानीव सर्वशः ।
इन्द्रियांणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ ॥
विषया विनिवर्तते निराहारस्य देहिनः ।
रसव रसोप्यस्य परं दृष्ट्वा निवर्तते ॥ ५६ ॥
यततो यपि कोंतेय ! पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरति प्रसभं मनः ॥ ५० ।।
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
घशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।। ६१ ।।
ध्यायतो विषयान्पुंसासँगस्तेषूपजायतें ।
संगात्संजायते कामः कामाक्रोधोऽभिजायते।। ६२॥
क्रोधाद्भवतिसंमोहः संमोहात्स्मृतिविम्रमः ।
स्मृतिभ्रंशावुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥१३॥

(३०) साहित्य-सुधा-संग्रहः रागद्वेषवियुक्तस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४॥ प्रसाई सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो बाशु बुद्धिः पर्यवतिष्ठते ।। ६५ ।। नास्ति बुद्धिरयुक्तस्य न चाऽयुक्तस्य भावना । न चाऽभावयतः शांति रशांतस्य कुतः सुखम् ।। ६६ ।। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवांऽभसि ॥ ६७ ॥ तस्माद्यस्य महाबाहो ! निगृहीतानि सर्वशः । इन्द्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाप्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६६ ।। आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशति यद्वत् । तत्कामा यं प्रविशंति स स शांतिमाप्नोतिनकामकामी॥७॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शांनिमधिगच्छति ॥ ७१ ॥ एषा ब्राह्मी स्थितिः पार्थ! नैनां प्राप्य विमुह्यति। खित्वाऽस्यामंतकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ७२ ।। (इति भगवद्गीतायाः द्वितीयोऽध्यायः श्री व्यासकृतमहाभारतात्) * सुशब्द-प्रयोग-महिमा * यस्तु प्रयुक्त कुशलो विशेष, शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र, चाग्योगविद दुष्यति चाऽपशब्दैः ।।

प्रथमो बिन्दुः ( ३१ ) कःवाग्योगविदेव । कुत एतत्। यो हि शब्दान् जानाति अप. शब्दानप्यसो जानाति । यथैव हि शब्दशाने धर्मः । एषमप- शब्दज्ञानेऽप्यधर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसोऽपशब्दाः। अल्पीयांसः शब्दः । एकैकस्यशब्दस्य बहवोऽपभ्रंशाः। तद्यथा । गौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयो ऽपभ्रशाः । अथ योऽवाग्योगधित् । अशानं तस्य शरणम् । विषम उपन्यासः । नाऽत्यन्त याऽशानं शरणं भवितुमर्हति । यो ह्याजानन् वै ब्राह्मण हम्यात् सुरां वा पिवेत् सोऽपि मन्ये पतितः स्यात् । एवं तर्हि सो. नन्समाप्नोति जयं परत्र वाग्योगविद् । दुथति चाऽपशब्दैः । कः । अवाग्योगविदेव । अथ यो धाग्योगविद् । विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् । भ्राजा नाम श्लोकाः । किं च भोः श्लोका अपि प्रमाणम् । कि नाऽतः ? । यदि श्लोका अपि प्रमाणम् । अयमणि प्रमाणं भवितुमर्हति । यदुदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत् स्वर्ग किं तत् ऋतुगतं नयेत् । इति । प्रमत्तगीत एषः तत्र भषतः । यस्त्वप्रमत्तगीतस्तत् प्रमाणम् । (श्रो पाताल महाभाष्यात् १-१-१) * काल विभागः सन्ति च खल्वरिकालविभागाः । तिष्ठन्ति पर्वताः सास्यन्ति पर्वतास्तस्थुः पर्वता इति । किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतः सन्ति कालविभागाः । नाऽवश्य प्रयोगादेव । इह हि भूतभविष्यवर्त.

(३२) साहित्य-सुधा-संग्रहः मानानां राक्षां याः क्रियास्ता तिष्ठतेरधिकरणम् । इह तावत्तिष्ठन्ति पर्वता इति संप्रति ये राजानस्तेषां याः 'क्रियास्तासु धर्तमानासु । स्थास्यन्ति पर्वता इति इन उत्तरं ये राजानो भविष्यन्ति तेषां थाः कियास्तासु भविष्यतीषु । तस्थुः पर्वता इति इह हि ये राजानो बभूवुस्तेषां याः क्रियास्तास्वतिक्रांतासु । अपर आहुः । नास्ति वर्तमानः काल इति । अपि चात्र श्लोकानुदाहरन्ति । न वर्तते चक्रमिपुर्न पात्यते. नस्यन्दते सरितः सागराय । कूटस्थोयं लोको न विचेष्टिताऽस्ति, यो ह्येवं पश्यति सोऽप्यनन्धः ।। मीमांसको मन्यमानो युधा मेधाविसंमतः काकं स्मेहानु- पृच्छति किं ते पतितलक्षणम् । अनागतेन पतसि, अतिक्रान्ते च काक न । यदि संप्रति पतसि सर्वो लोकः पतत्ययम् । हिमवानपि गच्छति। अनागतमतिक्रांतं वर्तमानमिति त्रयम् । सर्वत्र च गतिर्नास्ति गच्छतीति किमुच्यते ॥ क्रियामवृत्ती यो हेतुस्तदर्थ यद्विचेष्टितम् । तत्समीक्ष्य प्रयुञ्जीत गच्छतीत्यविचारयन् ॥ अपर आह । अस्ति वर्तमानः काल इति । आदित्यगतिवन्नोप- लभ्यत इति । अपि चाऽत्रश्लोकमुदाहरन्ति । विसस्य बाला इव दह्यमाना न लक्ष्यते विकृतिः सन्निपाते । अस्तीति तां वेदयन्ते त्रिभावाः मूक्ष्मो हि भावोऽनुमितेन गम्यः । (श्री पाताल महाभाष्यस्य म० ३-पा०२-आ० २ वर्तमाने लट् सूत्रात्) प्रथमोबिन्दुः (३३) ऐषणात्रय-व्याख्या - । "इह खलु पुरुषेणाऽनुपहतसत्वबुद्धिपौरुषपराक्रमेण हितमिह चाऽमुनिश्च लोके समनुपश्यता तिन एषणाः पर्येष्टव्या भवन्ति॥१॥ तद्यथा । प्राणैषणा धनेषणा परलोकैपणेति । आसां तु खल्वेषणानां प्राणैपणां तावत्पूर्वतरमापद्येत । कस्मात्प्राणपरित्यागे हि सर्वत्यागः । तस्यानुपालनं स्वस्थस्य स्वस्य स्वस्थवृत्तिरातुरस्य विकारप्रशमनेऽप्रमादम्तदुभयमेतदुक्तं वक्ष्यते च । तद्यथोक्तमनु- वर्तमानः प्राणानुपालनादीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति॥२॥ अथ द्वितीयां धनैषणामापद्यत। प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति । न ह्यतः पापात्पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येषु यतेत । तत्रोपकरणोपायामनु. व्याख्यास्यामः॥३॥ तद्यथा । कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि । यानि चाऽन्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्ता- न्यारभेत कर्तुम् । तथा कुर्वन्दीर्घजीवितमनुभवन्पुरुषां भवतीति द्वितीया धनैषणा व्याख्याता भवति ॥४॥ अथ तृतीयां परलोकैषणामापद्येत । संशयश्चात्र, कथं ? भवि- ष्याम इतश्च्युता नवेति । कुतः पुनः संशय इति । उच्यते । सन्तिा के प्रत्यक्षपराः । परोक्षत्वात् पुनर्भवस्य नास्तिसमाश्रिताः। सन्ति चापरे ये त्वाऽऽगमप्रत्ययादेव पुनर्भवमिच्छन्तिश्रुतिभेदाच । "मातरं पितरं चैके मन्यन्ते जन्मकारणम् । खभावं परनिर्माणं यहच्छांचाऽपरे जनाः" ॥

(३४) साहित्य-सुधा-संग्रहः इत्यतः संशयः। किं नु खल्वस्ति पुनर्भवो न वेति ॥ ५॥ तत्र बुद्धिमानास्तिक्यबुद्धिं जह्याद्विचिकित्सां च । कस्मात् ? प्रत्यक्ष घल्प मनल्पमप्रत्यश्नमस्ति यदागमानुमानयुक्ति भिरुपलभ्यते । पैरेव तापदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येष सन्ति चाऽप्रत्यक्षाणि ॥६॥ सतां च रूपाणामतिसंनिकर्षादतिविप्रकर्षावावरणात्करण- दौर्बल्यान्मनोऽनवस्थानात्समानाभिहारादभिभवादतिसौक्षम्याच प्र. त्यक्षानुपलब्धिः । तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति नान्यद- स्तीति ॥७॥ तत्राप्तागमस्तानद्वेदो यश्चान्योऽपि कश्चिद्देदार्थादविपरीतः परीक्षकः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शानवादः स चाऽऽप्तागमः । आप्ताऽऽगमादुपलभ्यते दानं तपो यज्ञः सत्यमहिंसा ब्रह्मचर्यमित्यभ्युदयनिःश्रेयसकराणि । न चानतिवृत्तसत्त्वदोषाणाम- होषैरपुनर्भयो धर्मद्वारेषूपदिष्यते, धर्मद्वारावहितैश्च व्यपगतभयराग. द्वेषलोममोहमानैब्रह्मपरैराप्तः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वतरैमहर्षिभिर्दिव्यचक्षुभिष्वोपदिष्टः पुनर्भव इति व्यवस्येदेवं पुनर्भवः प्रत्यक्षमपि चोपलभ्यते ॥ २८ ॥ मातापित्रोर्विसदृशान्यपस्यानि तुल्यसंभवानां वर्णस्वराकृति. सस्वबुद्धिभाग्यविशेषाः । प्रवरावरकुलजन्म, दास्यैश्वर्य, सुखासुख- मायुः, आयुषो वैषम्यम् , इहाकृतस्यावाप्तिः, अशिक्षितानां च रुदितस्त- नपानहासत्रासादीनां च प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसामान्ये फल- विशेषो, मेधा कचित् , कचित्कर्मण्यमेधा, जातिस्मरणम्, इहागमन- मितश्च्युतानां च भूतानां, समदर्शने पियापियत्वम् ॥२६॥ अत एवानुमीयते यत्स्वकृतमपरिहार्यमविनाशि पौर्वदेहिक दैवसंज्ञकमानुबन्धिक कर्म, तस्यैतत्फलम् इतश्चान्यद्भविष्यतीति, फलादोजममुमीयते, फलं च बीजात् ॥ ३०॥ ।

प्रथमो बिन्दु (." युक्तिश्चैषा पधातुसमुदयाद जन्म आरमा' व परलोक- सम्बन्ध एवेति कर्तृकरणसंयोगाक्रिया । कृतस्य कर्मणः फलं ना- कृतस्य । नाङ्करोत्पत्तिरवीजात। कर्मसदृशं फलम् । नान्यसाद्वीजाद- न्यस्योत्पत्तिरिति युक्तिः ॥ ३१ ।। एवं प्रमाणैश्चतुर्भिरुपदिष्टः पुनर्भवो धर्मद्वारेखनविधीयते॥३AR तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्यो. त्पादने भुत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां, देहवाङ्मनसे कर्मण्यक्लिष्ट देहेन्द्रियमनोऽर्थबुद्धयात्मपरीक्षायां मनः समाधाविति । यानि चान्यान्यप्येवंविधानि कर्माणि सतामधिगर्हि तानि स्वाणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुम् । तथा कुर्वनिह चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया परलोकैषणा' व्याख्याता भवति ॥३३॥ (श्रीचरकसूत्रस्थानस्य एकादशाध्यायात्). ।

कवि-कुल-गुरु
श्री कालिदास कृतं
रघुवंश महाकाव्यम्।
प्रथमः सर्गः
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरी ॥१॥
क सूर्यप्रभवो वंशः क चाल्पविषया मतिः।
तितीर्घ र्दुस्तरं मोहादुडुपेनालि सागरम् ॥ २॥
मंदः कवियशःप्रार्थी गमिष्याम्युपहाल्यताम् ।
प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः॥ ३॥
अथवा कृतवारद्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ बज्रसमुत्कीर्ण सूत्रस्येवास्ति मे गतिः॥४॥
सोऽहमाजन्मशुद्धाना माफलोदयकर्मणाम् ।
आसमुद्रक्षितीशाना मानाकरथवर्त्मनाम् ॥५॥
यथाविधिहुताऽग्नीनां यथाकामाऽर्चितार्थिनाम् ।
यथाऽपराधदण्डानां यथाकालप्रबोधिनाम् ॥६॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥७॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्ध के मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ ८॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ ६॥ कुलकम् ॥
तं सन्तः श्रीतुमर्हन्ति सदसवयकिहेतवः।
हेसः संलक्ष्यते यानी विशुद्धिः श्यामिकाऽपि वा ॥१०॥

प्रथमा बिन्दुः
( ३७)
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ ११ ॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दु रिन्दुः क्षीरनिधाविव ॥ १२॥
व्यूढोरस्को वृषस्कन्धः शालप्रांशु महाभुजः।
आत्मकर्मक्षम देहं क्षात्री धर्म इवाऽऽश्रितः ॥१३॥
सर्वाऽतिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोत्रतेनो क्रान्त्वा मेरुरिवाऽऽत्मना ॥१४॥
आकारसदृशप्रक्षः प्रक्षया सदृशाऽऽगमः।
आगमैः सदशाऽऽरम्भ आरम्भ सदशोदयः॥१५॥
भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाऽभिगम्यश्च यादोरत्नैरिवाऽर्णवः ॥१६॥
रेखामात्रमपि
क्षुण्णा
दामनोर्वमनः
परम्।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः॥१७॥
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टु मादत्ते हि रसं रविः॥१८॥
सेनापरिच्छदस्तस्य छयमेवाऽर्थसाधनम् ।
शास्त्रष्वकुण्ठिता बुद्धि मौर्वी धनुषि चाऽऽतता ॥ १६ ॥
तस्य संवृतमन्त्रस्य गूढाऽऽकारैङ्गितस्य च ।
फलाऽनुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ २० ॥
जुगोपाऽऽत्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थ मसक्तः सुखमन्वभूत् ॥ २१ ॥
शाने मौनं क्षमा शक्ती त्यागेश्लाघाविपर्ययः।
गुणा गुणाऽनुबन्धित्वा तस्य सप्रसवा इव ॥ २२ ॥

.
(३८)
साहित्य-सुधा-संग्रहः
'अनाकृष्टस्य विषय विधानां पारदश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ।। २३ ।।
प्रजानां विनयाधाना द्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ।। २४ ॥
स्थित्यै दण्डयतो दण्डधान्परिणेतुःप्रसूतये।
अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः ॥२५॥
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ २६ ॥
न किलाऽनुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता खिता॥२७ ।।
द्वेष्योऽपि संमतः शिष्ट स्तस्याऽऽर्तस्य यथौषधम् ।
त्याज्यी दुष्टः प्रियोप्यासी दंगुलीवोरगक्षता ॥ २८ ॥
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथाहि सर्वे तस्याऽऽसन्परार्थकफला गुणाः॥२६॥
स.वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वी शशासैकपुरीमिव ॥ ३० ॥
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासी दध्वरस्येव दक्षिणा ॥ ३१ ॥
कलत्रवन्तमात्मान मवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥३२॥
तस्थामात्मानुरूपाया मात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः ॥ ३३ ॥
संतानाऽर्थाय विधये स्वभुजादवतारिता।
तेन धूर्जगतो गुवर्षी सविधेषु निचिक्षिपे ॥ ३४ ॥
अथाऽभ्यर्च्य विधातार प्रयतौ पुत्रकाम्यया। तो
तौ दंपती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ ३५ ॥

प्रथमो बिन्दुः
(३६)
.
स्निग्धगम्भीरनिर्घोष,मेकं स्यन्दनमास्थिती।
प्रावृषेण्यं पयोवाहं विधुदैरावताविव ॥ ३६ ॥,
मा भूदाऽऽश्रमपीडेति परिमेयपुरः सरौ।
अनुभावविशेषात्तु सेनापरिवृताविव ॥३७॥
सेव्यमानौ सुखस्पर्शः शालनिर्यासगन्धिभिः ।
पुष्परेणूकिरैर्वात राधूतवनराजिभिः ॥ ३८॥
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ ३६॥
परस्पराऽक्षिसादृश्य मदूरोज्झितवर्मसु ।
मृगद्वन्द्वषु पश्यन्तौ स्यन्दनाऽऽबद्धदृष्टिषु ॥४०॥
श्रेणीबन्धाद्वितन्वद्भि रस्तम्भां तोरणस्त्रजम् ।
सारसैः कलनिहादैः क्वचिदुनमिताऽऽननौ ।। ४१ ॥
पवनस्याऽनुकूलत्वा त्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णं रस्पृष्टाऽलकवेष्टनी॥४२॥
सरसीवरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ ४३ ॥
ग्रामेष्यात्मविसृष्टेषु यूपचिहेषु यज्वनाम् ।
अमोघाः प्रतिगृहन्ता वाऽनुपदमाशिषः ॥४४॥
हैयंगवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥कुलकम्॥
काऽप्यभिख्या तयोरासीद् ब्रजतोः शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ४६ ॥
तत्तद्भूमिपतिः पल्य दर्शयन्प्रियदर्शनः ।
अपि लवितमध्वानं बुबुधे न बुधोपमः ॥४७॥
स दुष्प्रापयशाः मापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षे हिपीसखः ॥४८॥

(४०)
साहित्य-सुधा-संग्रहः
वनान्तरादुपावृत्तः समित्कुशफलाऽऽहरैः ।
पूर्यमाणमदृश्याग्नि-प्रत्युधातैस्तपखिभिः ॥ ४६॥
आकीर्णभूषिपनोना मुटजद्वाररोधिभिः।
अपत्यरिव नीवार-भागधेयोचितै मृगैः ॥ ५० ॥
सेकान्ते मुनिकन्याभि स्तरक्षणोज्झितवृक्षकम् ।
विश्वासाय विहंगाना मालवालाम्बुपाथिनाम् ॥५१॥
आतपाऽत्ययसंक्षिप्त-नीवारासु निषादिभिः ।
मृगैर्वतितरोमन्थ मुटजाऽङ्गनभूमिषु ॥५२॥
अभ्यु त्यताऽग्निपिशुनै रतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्भूत धूमैराहुतिगन्धिभिः ॥ ५३ ॥ कुलकम् ॥
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः।
तामवाऽऽरोहयत्पत्नी रथादयततार च ॥ ५४॥
तस्मै सभ्याः सभार्याय गोप्ने गुप्ततमेन्द्रियाः।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षषे ॥ ५५॥
विधेः सायंतनस्याऽन्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेष हविर्भुजम् ॥ ५६ ॥
तयोर्जगृहतुः पादा नराजा राज्ञी च मागधी।
तौ गुरुगुरुपत्नी च प्रोत्या प्रतिननन्दतुः॥ ५७ ॥
तमातिथ्यक्रियाशान्त-रथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याऽऽश्रममुनि मुनिः ॥५८ ॥
अथाऽथर्वनिधेस्तस्य विजिताऽरिपुरः पुरः।
अामर्थपतिर्वाच माददे वदतां वरः॥ ५६ ॥
उपपन्नं ननु शिवं सप्तखङ्गेषु यस्य मे।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥६० ॥
तव मंत्रकृतो मन्त्र रात्प्रशमिताऽरिभिः।
प्रत्याऽऽदिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥६१ ॥

प्रथमो बिन्दुः (४१) हविरावर्जितं होत स्त्वया विधिवदग्निषु । वृष्टिर्भवति सस्याना मषग्रहविशोषिणाम् ॥ ६२ ॥ पुरुषाऽऽयुषजीविन्यो निरातङ्का निरीतयः । यन्मदोवाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम्॥ ६३॥. त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिमा । साऽनुबन्धाः कथ न स्युः संपदो मे निरापदः ॥ ६४ ॥ किंतु वध्यां तवैतस्या मदृष्टसदृशप्रजम् । न मामवति सद्वीपा रनसूरपि मेदिनी ॥ ६५॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्ध स्वधासंग्रहतत्पराः ॥६६॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वः खनिःश्वासैः कवोष्णमुपभुज्यते ॥६७ ॥ सोऽहमिज्याविशुद्धाऽऽरमा प्रजालोपनिमीलितः। प्रकाशश्चाऽप्रकाशश्च लोकाऽऽलोक इवाऽचलः॥६८॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परह च शर्मणे ॥ ६ ॥ तया हीनं विधातर्मा कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहा द्वन्ध्यमाश्रमवृक्षकम् ॥ ७० ॥ असपीई भगवन् ! ऋणमन्त्यमवेहि मे। अरुंतुदमिवालान मनिर्वाणस्य दन्तिनः ॥ ७१ ॥ तस्मान्मुच्ये यथा तात ! संविधातुं तथाहसि। इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ ७२॥ इतिविज्ञापितो रामा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ ७३ ।। सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् । भाविताऽऽत्मा भुवो भर्तु रथैनं प्रत्यबोधयत् ॥ ७४ ।।

(४२)
साहित्य-सुधा-संग्रहः
पुरा शक्रमुपस्थाय तवोवी प्रति यास्यतः ।
आसीत्कल्पतरुच्छाया माश्रिता सुरभिः पथि ।। ७५ ॥
धर्मलोपभयाद्राशी मृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियाह्नयां तस्यां त्वं साधु नाऽऽचरः॥ ७६ ॥
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ ७७ ॥
स शापो न त्वया राजन च सारथिना ध्रुवः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ।। ७८ ॥
ईप्सितं तत्वज्ञाना द्विद्धि साऽर्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाध्यतिक्रमः ॥ ७६ ||
हविषे दीर्घसस्य सा चेदानी प्रचेतसः ।
भुजंगपिहितद्वारं पातालमधितिष्ठति ॥ ८ ॥
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधि शुचिः ।
आराधय सपत्नीकः प्रीता कामदुधा हि सा ।। ८१ ।।
इति वादिन एवाऽस्य होतुसहुतिसाधनम् ।।
अनिन्द्या नन्दिनी नाम धेनुराववृते धनात् ।।२।।
ललाटोदयमाभुग्न पल्लवस्निग्धपाटला।
बिभ्रती श्वत्तरोमाऽ संध्येव शशिनं नवम् ॥ ८३ !!
भुवं कोष्णेन कुण्डोनी मेध्येनाऽवभृथादपि ।
प्रस्रवणाभिवर्षन्ती वत्साऽऽलोकप्रवर्तिना ॥ ८४ ॥
रजःकणैः खुरोद्भूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥८५ ॥
तां पुण्यदर्शनां दृष्ट्वा निमित्तशस्तपोनिधिः।
याज्यमाशसितावन्ध्य-प्रार्थनं पुनरब्रवीत ॥ ८६ ॥

प्रथमो बिन्दु ६४३) अदूरवर्तिनी सिद्धि राजन्धिगणयात्मनः । उपस्थितेयं कल्याणी नानि कीर्तित एव यत् ।। ८७ ॥ वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥८॥ प्रस्थितायां प्रतिष्ठेथाःस्थितायां स्थितिमाचरेः। निषण्णायां निषीदाऽस्यां पीताम्भसि पिवेरपः ॥ ६ ॥ घधूभक्तिमती चैनामर्चितामातपोवनात् । प्रयता प्रातरम्वेतु सायं प्रत्युद्वजेदपि ॥१०॥ इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अधिनमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ ११ ॥ तथेति प्रतिजग्राह प्रीतिमान्लपरिग्रहः । आदेश देशकालः शिष्यः शासितुरानतः ॥ १२ ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम् । सूनुः सूनृतवाक्लष्टुर्विससोदितश्रियम् ।। ६३ ॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः। कल्पविकल्पयामास वन्यामेधाऽस्य संविधाम् ॥ ४॥ निर्दिष्टां कुलपतिना स पर्णशाला- मध्यास्यप्रयतपरिग्रहद्वितीयः। तच्छिष्याध्ययनानिधेदितावखानां संषिष्टः कुशप्रयने नियां निनाय ॥ ६५ ।। इति प्रथमः सर्गः

(४४)
साहित्य-सुधा-संग्रहः
अथ द्वितीयः सर्गः।
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेमुंमोच ॥१॥
तस्याः खुरन्यासपवित्रपांसु मपांसुलानां धुरि कीर्तनीया।
मागं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थ स्मृतिरन्वगच्छत् ॥२॥
निवर्य राजा दयितां दयालुस्तां सोरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोऊम् ॥३॥
व्रताय तेनानुचरेण धेनोन्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा खवीर्यगुप्ता हि मनोः प्रसूतिः ॥४॥
आखादवद्भिः कवलैस्तुणानां कण्डूयनैर्दशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥५॥
स्थितः स्थितामुश्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भपतिरन्वगच्छत् ॥ ६॥
स न्यस्तचिहामपि राजलक्ष्मों तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजरन्तर्मदावस्थ इव द्विपेन्द्रः॥७॥
लताप्रतानोन्नथितैः स केशैरधिज्यधन्या विचचार दावम् ।
रक्षाऽपदेशान्मुनिहोमधेनो न्यान्विनेष्यनिष पुष्टसत्वान् ॥ ८॥
विसृष्टपार्वाऽनुचरस्य तस्य पाश्चंद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिषोन्मदानामालोकशब्दं वयसां घिरावैः॥६॥
मरुत्प्रयुक्ताध मरुत्सखामं तमय॑मारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनै राचारलाजैरिव पौरकन्याः॥१०॥
धनुर्भृतोऽप्यस्य दयाद्रभाव माख्यातमन्तःकरणैर्विशङ्कः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिएयः॥११॥

प्रथमो बिन्दुः
(४५)
स कीचकर्मारुतपूर्णरन्ध्रः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जषु यशः स्वमुच्चै रुवोयमानं धनदेवताभिः ॥१२॥
पृतस्तुषारैगिरिनिर्भराणा मनोकहाऽऽकम्पितपुष्पगन्धी।
तमातपक्लान्तमनातपत्र माचारपूतं पवनः सिषेवे ॥१३॥
शशाम वृष्टयाऽपि विना दवाग्नि रासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥१४॥
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ १५ ॥
तां देवतापितिथिक्रियार्था मन्यग्ययो मध्यमलोकपालः।
बभौ च सा तेन सतां मतेन श्रद्धव साक्षाद्विधिनोपपन्ना ॥१६॥
स पल्वलोत्तीर्णवराहयूथा न्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ १७ ॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १८ ॥
वसिष्ठधेनोरनुयायिनं त मावर्तमानं घनिता वनान्तात् ।
पपौ निमेषाऽलसपक्ष्मपङ्क्ति रुपोषिताभ्यामिव लोचनाभ्याम् ॥ १६ ॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिव धर्मपत्न्या ।
तदन्तरे सा विररोज धेनु दिनक्षपामध्यगतेव संध्या ॥२०॥
प्रदक्षिणोकृत्य पयस्विनी तां सुदक्षिणा साऽक्षतपात्रहस्ता।
प्रणम्य चाऽऽनर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धः॥ २१ ॥
वत्लोत्सुकाऽपि स्तिमिता सपर्या प्रत्यग्रहीत्सेति ननन्दतुस्तौ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिहानि पुरःफलानि ॥ २२ ॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधि दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ २३ ॥
तामन्तिकन्यस्तबलिप्रदीपा मन्वास्य गोप्ता गृहणीसहायः ।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ २४ ॥

(४६)
साहित्य-सुधा-संग्रहः
इत्थं व्रतं धारयतः प्रजार्थं सम महिप्या महवीयकीतः।
सप्त व्यतीयुत्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥
अन्येधुरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरुद्धशष्पं गौरीगुरोर्गहरमाविवेश ॥ २६ ॥
सा दुष्प्रधर्षा मनसापि हिने रियाद्रशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ २७ ॥
तदीयमाक्रन्दितमार्तसाधो गुंहानिबद्धप्रतिशम्ददीर्घम् ।
रश्मिविवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥ २८ ॥
स पाटलायां गघि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ २६ ॥
ततो मृगेन्द्रस्य मृगेन्द्रगामो वधाय वध्यस्य शरं शरण्यः ।
जाताभिपङ्गो नृपतिर्निषंगा दुद्धर्तुमैच्छत्प्रसभोद्ध तारिः ॥ ३० ॥
पामेतर स्तस्य करः प्रहर्तुनखप्रभाभूषितकंकपत्रे ।
सक्तांऽगुलिः सायकपुर एव चित्रार्पिताऽऽरम्भ इवावतस्थे ॥ ३१ ॥
बाहुप्रतिष्टम्भविवृद्धमन्यु रभ्यर्णमागस्कृतमस्पृशद्भिः।
राजा स्वतेजोभि रदह्यतान्त भोंगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥
तमार्यगृह्यं निगृहीतधेनु मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययविस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ ३३ ॥
अलं महीपाल तव श्रमेण प्रयुक्तमप्यत्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रहः शिलोश्चये मूर्छति मारुतस्य ॥ ३४ ॥
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमधमूर्तः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ३५ ॥
अमुंपुरः पश्यसि देवदारुं पुतीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिस्तानां स्कन्दस्य मातुः पयसां रसाः ॥३६॥

प्रथमो बिन्दुः
(४७)
करडूयमानेन कटं कदाचि द्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमनेस्तनया शुशोच सेनान्यमालीढमियासुराः ॥ ३७ ॥
तदाप्रभृत्येव पनधिपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसरववृत्ति ॥ ३८ ॥
तस्याऽलमेषा अधिनस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुहपश्चान्द्रमसी सुधेव ॥ ३९ ॥
स त्वं निवर्तस्व विहाय लजां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशश्वरसं न तद्यशः शस्त्रभृतां क्षिणोति ॥१०॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवशां शिथिलीचकार ॥४१॥
प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभौं वितथप्रयत्नः ।
जडोकृतस्त्र्यम्बकवीक्षणेन वन मुमुक्षत्रिय बज्रपाणिः॥४२॥
संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षः।
अन्तर्गत प्राणभृतां हि वेद सव भवान्भावम्ताऽभिधास्॥४३॥
मान्यः स से स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्ने नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥
स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ ४५ ॥
अथान्धकार गिरिगह्वराणां दंनामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किनिद्विहस्यार्थपति बभाषे ॥ ४६ ॥
एकातपत्रं जगतः प्रभुत्वं नवं चयः कान्तमिदं वपुश्च ।
अल्पस्य हेतार्षहु हातुमिच्छ विचारमूढः प्रतिभासि मे त्वम् ॥ ४७ ॥
भूतानुकम्पा तव चेदियं गी रेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥४॥

(४८)
साहित्य-सुधा-संग्रहः
अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद्विभेषि।
शक्योऽस्य मन्युभवताविनेतुंगाः कोटिशःस्पर्शयता घटोध्नीः॥ ४६ ॥
तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जखलमात्मदेहम् ।
महीनलस्पर्शनमात्रभिन्न मृद्धं हि राज्यं पदमैन्द्रमाहुः ॥५०॥
एतावदुक्त्वा विरते मृगेन्द्र प्रतिस्वनेनास्य गुहागतेन ।
शिलाञ्चयोऽपि क्षितिपालमुचैः प्रीत्या तमेवार्थमभापतेव । ५१ ॥
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥५२॥
क्षताकिल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूहः।
राज्येन किं तद्विपरीतवृत्तः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३॥
कथं नु शक्योऽनुनयो महर्षे विश्राणनाश्चान्यपयविनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ ५४॥
सेयं खदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ ५५ ॥
भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारी।
स्थातुं नियोक्तुन हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥
किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥५०॥
सम्बन्धमाभाषणपूर्वमाहु वृत्तः स नी संगतयोबनान्ते ।
तद्भूतनाथानुग! नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥
तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेह मुपानयत्पिण्डमिवामियस्य ॥ ५६ ॥
तस्मिन्क्षणे पालयितुः प्रजाना मुत्पश्यतः सिंहनिपातमुग्रम् ।
अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥६॥

प्रथमो बिन्दु
(४९)
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
ददर्श राजा जननीमिव खां गामग्रतः प्रत्रविणी न सिंहम् ॥ ११ ॥
तं विस्मितं धेनुरुवाच साधो !मायां मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मथि नान्तकोऽपि प्रभुः प्रहां किमुतान्यहिनाः ॥ ६ ॥
भक्त्या गुरौ मय्यनुकम्पया च प्रीतासि ते पुत्र ! वरं वृणीप्य ।
न केवलानां पयसां प्रसूति मवेहि मां कामदुधां प्रसन्नाम् ॥ ६३ ॥
ततः समानीय स मानितार्थी एस्ती स्वहस्ताऽर्जितवीरशब्दः ।
वंशस्य कर्तारमनन्तकोति सुदक्षिणायां तनयं ययाचे ॥ ६४ ॥
संतानकामाय तथेति कामं राशे प्रतिश्रुत्य पयस्विनी सा।
दुग्ध्या पयः पत्रपुटे मदीयं पुत्रोपभुवात तमादिदेश ॥ ६५ ॥
वत्सस्य होमार्थविधेश्व शेष मृपेरनुज्ञामधिगम्य मातः!
ऊधस्यमिच्छामि तवोपभोक्तुं पष्ठांश मुाइव रक्षितायाः ॥६६ ॥
इत्थं क्षितीशेन वशिष्ठधेनु विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच कुळे प्रत्याययावाश्रममश्रमेण ॥ ६७ ॥
तस्याः प्रसन्नेन्दमुग्वः प्रसाद गुरुनृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्त येव ॥ ६८ ॥
स नन्दिनीस्तन्यमनिन्दितात्मा सत्सलो वत्सहुतावशेषम् ।
पपी वसिष्ठेन कृताभ्यनुक्षः शुभ्रं यशो मूर्तमिवातितृष्णः ॥ ६६ ॥
प्रात यथोक्तवतपारणान्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य ।
ती दंपती स्वां प्रति राजधानी प्रस्थापयामास पशी वसिष्ठः ॥७॥
प्रदक्षिणीकृत्य हुतं हुताश मनन्तरं भत्तुंररुन्धती च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्नङ्गलोदप्रतरप्रभावः ॥ १॥
श्रोत्राभिरामध्यनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययाषनुदातसुखेन मार्ग स्वेनैव पूर्णेन मनोरथेन ॥ ७२ ॥

(५०)
साहित्य-सुधा-संग्रहः
तमाहितीत्सुक्समदर्शनेन प्रजाः प्रजाऽर्थवतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिमनामवद्भिनवोदयं नाथमिचौपधीनाम् ॥ ३ ॥
पुरदरधीः पुरमुत्पताकं प्रविश्य परिरभिनन्द्यमानः ।
भुजे भुजगेन्द्रसमानसारे भूयः स भूमेधुरमाससञ्ज ॥ ७४ ॥
अथ नयनसमुत्थं ज्योतिरनेरिव चौ.
सुरसरिदिय तेजो घहिनिष्ठय तमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राशी
गुरुभिरभिनिविष्ट लोकपालानुभावैः॥७॥
इति द्वितीयः पः
तृतीयः सर्गः
अथेप्सितं भतुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौह दलक्षणं दधौ ॥१॥
शरीरसादादसमप्रभूषणा मुखेग सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥२॥
दियं मरुत्वानिव भोल्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः ।
अतोऽमिलापे प्रथम तथाविधे मनो बबन्यान्यरलाविलय सा॥३॥
न मे हिया शंसति किंचिदप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स पृच्छत्यनुवेलमाइतः प्रियालखीरत्तरकोसलेश्वरः॥४॥
उपेत्य सा दोहददुःखशीलतां यदेव पत्रे तदपश्यदाहृतम् ।
न होष्टमस्य त्रिदिवेऽपि भूपते रभूदनासाद्यमधिज्यधन्वनः ॥५॥
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानाऽयवा रराज सा।
पुराणपत्राऽपगमादनन्तरं लतेष संनद्धमनोडपल्लवा॥६॥

प्रथमो बिन्दुः
(५१)
निधानगामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपायकाम् ।
नदीमिवान्तःसलिलां सरस्वती नृपः ससत्त्वां महिषीममन्यत ॥ ७॥
प्रियानुरागस्य मनःसमुन्नते (जाऽर्जितानां च दिगन्तसम्पदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धोरः सदृशीय॑धत्त सः ॥८॥
सुरेन्द्रमात्राश्रितगर्भगोरवात् प्रयत्नमुक्तासनया गृहाऽऽगतः।
तयोपचाराअलिखिनहस्तयो ननन्द पारिप्लवनेत्रया नृपः ॥६॥
कुमारभृत्याकुशलै रनुष्ठिते भिषम्भिराप्नैरथ गभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥१॥
प्रहैस्ततः पञ्चभिरुषसंश्रयै रसूर्यगैः सूचितभाग्यसंपदम् ।
असून पुत्र समये शचीसमा त्रिसाधना शक्तिरियार्थमक्षयम् ॥ ११ ॥
दिशः प्रसे दुर्मरुतो वपुः सुखाः प्रदक्षिणार्चि हवि रनिरादने ।
बभूव सवं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥१२॥
अरिष्टशय्यां परितो घिसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ १३ ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्माऽमृतसंमिताक्षरम् ।
अदेयमासीत्रयमेव भूपतेः शशिप्रभ छत्रमुभे च चामरे ॥ १४ ॥
निवातपश्नस्तिमितेन चक्षुषा नृपस्य कान्तं पिवतः सुनानगम् ।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव गात्मनि ॥ १५ ॥
स जातकर्मण्यखिले तपखिना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ १६ ॥
सुखश्रवा मङ्गलतूर्यनिखनाः प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सपनि मागधीपतेः पथि व्यज़म्भन्त दिवौकसामपि ॥ १७ ॥
न संयतस्तस्य षभूष रक्षितु विसर्जयेद्यं सुतजन्महर्षितः।
शृणाभिधानात्त्यमेव केवलं तदा पितणां मुमुचेस बन्धनात् ॥१८॥

- (५२) साहित्य-सुथा-संग्रहः श्रुतस्य यायोदयमन्तम कस्तथा परेषां युधि चैति पार्थियः । अवेक्ष्य धातोर्गमनार्थमर्थविधकार नामा रघुमात्मसंभवम् ॥ १६ ॥ पितुः प्रयत्नात्स समप्रसंपदः शुभैः शरीराऽवयवैर्दिने दिने । पुपोष वृद्धि हरिदश्वदीधिते रनुप्रवेशादिय बालचन्द्रमाः॥२०॥ उमावृषाङ्को शरजन्मना यथा यथा जयन्तेन शचीपुरंदगै। तथा नृपः सा च सुतेन मागधी ननन्दतुत्तत्सदृशेन तत्समौ ॥२१॥ रथाङ्गनामोरिय भाषपन्धनं यभूय यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ २२ ॥ उवाच धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्व्यचागुलिम् । अभूश्व नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ २३ ॥ तमकुमारोप्य शरीरयोगजैः सुनिपिश्चन्तमिवामृतं त्वचि । उपान्तसमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥२४॥ अमस्त चानेन पराय॑जन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । खमूर्तिभेदेन गुणाग्यवर्तिना पतिः प्रजानामिय सर्गमात्मनः ॥ २५ ॥ स वृत्तचूल श्चलकाकपक्षकै रमात्यपुत्रैः सवयोभिरन्वितः। लिपेर्यथावद् ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥ २६ ॥ अथोपनीत विधियद्विपश्चितो चिनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययनाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ २७ ॥ धियः समप्रैः स गुणैरुदारधीः क्रमाश्चतस्रश्चतुरर्णवोपमाः। ततार विद्या पवनातिपातिमि दिशोहरिनिहरितामिवेश्वरः ॥२८॥ त्वचं स मेध्यां परिघाय रौरवी मशिक्षताऽवं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ २६ ॥ महोसतां वत्सतरः स्पृशशिष द्विपेन्द्रभावं कलमः श्रयमिव । एषुः क्रमाधौवनमिनाव: पुपोष गाम्भीर्यमनोहर १४॥ .

प्रथमो बिन्दुः
(५३)
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद् गुरुः।
नरेन्द्र कन्यास्तमवाप्य सत्पति तमोनुदं दक्षसुता इवाऽऽबभुः ॥ ३१ ॥
युवा युगव्यायतबाहु रसलः कपाटवक्षाः परिणद्धकंधरः।
घपुःप्रकर्षादजयद्गुरु रघु स्तथापि नीचैर्विनयाददृश्यत ॥३२॥
ततः प्रजानां चिरमात्मना धृतां नितान्त गुर्षी लघयिष्यता धुरम् ।
निसर्गसंस्कारधिनीत इत्यसौ नृपेण चके युवराजशब्दभाक् ॥ ३३ ॥
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्री युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाधिणी नयावतारं कमलादिवोत्पलम् ॥ ३४॥
विभावसुः सारथिनेय वायुना घनध्यपायेन गभस्तिमानिव ।
पभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ ३५ ॥
अथ स विषयव्यावृत्तात्मा यथाविधि सून
नृपतिककुदं दच्या यूने सितातपवारणम् ।
मुनिवनतरच्छायां दण्या तया सह शिथिये
गलितपयसामिक्ष्वाकूणामिदं हि कुलवतम् ॥ ३६ ॥
रति तृतीयः सर्गः
चतुर्थः सर्गः।
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभी।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥१॥
दिलीपानन्तरं राज्थे तं निशम्य प्रतिष्ठितम् ।
पूर्व प्रधूमितो राज्ञां हदयेऽग्निरिवोत्थितः ॥२॥
पुरुहूतध्वजस्येच तस्योभयनपतयः ।
मवाभ्युत्थामदर्शिन्यो .नमन्दुः सप्रजाः मजाः ॥३॥

साहित्य-सुधा संग्रह
सममेष समाकांत द्वयं द्विरदगामिना।
तेन सिंहासनं पित्र्य मखिलं चाऽरिमण्डलम् ॥४॥
छायामण्डलक्ष्येण तमश्या किल स्खयम् ।
पमा माऽऽतपत्रण भेजे साम्राज्यदीक्षितम् ॥५॥
परिकाल्पतसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरभि रुपतस्थे सरस्वती ॥ ६॥
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभखानिव दक्षिणः॥७॥
मंदोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ८ ॥
नयविद्भिर्नवे राज्ञि सदसचोपदर्शितम्।
पूर्व एवाऽभवत्पक्ष स्तस्मिन्नाऽभवदुत्तरः ॥६॥
पञ्चानामपि भूताना मुत्कर्ष पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्व नवमिवाऽभवत् ॥ १०॥
यथा प्रहादनाश्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थों राजा प्रकृतिरञ्जनात् ॥ ११ ॥
कामं कर्णान्तविधान्ते विशाले तस्य लोचने ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना॥ १२॥
लब्धप्रशमनस्वस्थ मथैनं समुपस्थिता।
पार्थिवश्री द्वितोयेष शरत्पङ्कजलक्षणा॥ १३ ॥
निवृष्टलघुभि मेंधै मुंतवमा सुदुल्लहः ।
प्रताप स्तस्य भानोश्च युगपपानशे दिशः ॥१४॥
धार्षिकं संजहारेन्द्रो धनुर्जे रघुर्दधी।
प्रजार्थसाधने तो हि पर्यायोचतकामुकौ ॥ १५ ॥

प्रथमो विन्दु पुण्डरीकाऽऽतपत्रस्तं विकसत्काशचामरः। ऋतुर्थिडम्बयामास न पुनः प्राप तच्छियम् ॥ १६ ॥ प्रसादसुमुखे तस्मि श्चन्द्र च विशदप्रभे। तदा चक्षुष्मतां प्रीति रासीत्समरसा द्वयोः ॥ १७ ॥ हंसश्रेणीषु तारासु कुमुत्सु च बारिषु । विभूनय स्तदीयानां पर्यस्ता यशलामिव ॥१८॥ इक्षुच्छायानिपादिन्य स्तस्य गोप्तुगुणोदयम् । आकुमारकथोद्धानं शालिगोप्यो अमुर्यशः॥ १६ ॥ प्रससादोदयादम्भः कुम्भयोनमहौजसः। . रघो रमिभवाऽऽङ्क चुक्षुभे द्विषतां मनः ॥ २० ॥ मदोग्राः ककुमन्तः सरिता कूलमुद्रुजाः। लोलाखेल मनप्रापु महोक्षा स्तस्य विक्रमम् ॥ २१ ॥ प्रसवैः सप्तपर्णानां मदगन्धिभि राहताः। असूययेव तन्नागाः सप्तधैव प्रसुनुवुः ॥२२॥ सरितः कुर्वती गाधाः पथश्वाऽऽश्यानकर्दमान । यात्रायै चोदयामास तं शक्तः प्रथमं शरत् ॥ २३ ॥ तस्मै सम्यग्घुतो वह्नि र्वाजिनीराजनाविधी। प्रदक्षिणाािजेन हस्तेनेव जयं ददौ ॥ २४ ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ण रयान्वितः । पविध पलमादाय प्रतस्थे दिग्जिगीपया ॥२५॥ अबाकिरन्धयोवृद्धा स्तं लाजेः पौरयोषितः। पृरतैर्मन्दरोद्ध तैः क्षीरोमय इघाऽच्युतम् ॥ २६ ॥ स ययो प्रथम प्राची तुल्यः प्राचीनयहिषा। अहिताननिलोद्ध ते स्तजयन्निव केतुभिः ॥ २७ ॥ रजोभिः स्पन्दनोद्ध तै गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्थ्योमेव भूतलम् ॥ २८ ॥ युग्मम

(५६)
साहित्य-सुधा-संग्रह
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्वाद्रथादीति चतु:स्कन्धेव सा चमूः ॥ २६ ॥
मरुपृठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शकिमयाश्च कार सः॥३०॥
स सेनां महती कर्षन् पूर्वसागरगामिनीम् ।
बभी हरजटाभ्रष्टां गंगामिव भगीरथः॥ ३१ ॥
त्याजितैः फल मुत्तातै भग्नेश्च पहुधा नृपः।
तस्याऽऽसीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ ३२॥
पौरस्त्यानेवमाकाम स्तास्ताजनपदायी ।
प्राप तालीयनश्याम मुपफएट महोदधेः ॥ ३३ ॥
अनम्राणां समुद्धर्नु स्तस्मात्सिाधुग्यादिव।
आत्मा संरक्षितः सुह्म वृत्तमाश्रित्यवतमीम् ॥ ३४ ॥
बङ्गानुत्याय तरसा नेता नौसाधनोद्यताम् ।
निचखान जयस्तम्मान गङ्गास्रोतोऽन्तरेषु सः॥ ३५ ॥
आपादपत्रणता कलमा इव ते रघुम् ।
फलैः संवर्धयामासु रुत्वातप्रतिरो.पताः ॥ ३६ ॥
सता कपिशां सेन्यै बद्धद्विरदसेतुभिः ।
उत्कलादर्शितपथः, कलिङ्गाभिमुखो ययौ ॥ ३७॥
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्षां न्यवेशयत् ।
अङ्कुशं द्विरदत्येव यन्ता गम्भीरवेदिनः ॥ ३८ ॥
प्रतिजग्राह कालिङ्ग स्तमौजसाधनः ।
पक्षच्छेदोधतं शक्रं शिलावर्षीव पर्वतः ॥ ३९ ॥
द्विपां विषा काकुत्स्थ स्तत्र नारोवदुर्दिनम् ।
सन्मङ्गलनात इय प्रतिपेदे जयश्रियम् ॥४०॥
ताम्बूलीनां दलैस्तत्र रचिताऽऽपानभूमयः ।
नालिकेसाऽऽसर्व योधा शात्रयं च पपुर्यशः ॥४१॥

प्रथमो बिन्दु
(५७)
गृहीतप्रतिमुकस्य स धर्मविजयी नृपः।
श्रियं महेन्द्रनाथस्य अहार न तु मेदिनीम् ॥ ४२ ॥
ततो घेलातटेने फलवत्पूगमालिना।
अगस्त्याचरितामाशा मनाशास्यजयो ययो॥४३॥
बलै रध्युषिता स्तस्य विजिगीषोर्गताध्वनः।
मागचोभ्रान्तहारीता मलयाऽदुरुपत्यकाः ॥४४॥
ससञ्जुरश्वक्षुण्णाना मेलाना मुत्पतिष्णवः।
तुल्यगन्धिषु मत्तेम-कटेषु फलरेणवः ॥ ४५ ॥
भोगिवेएनमार्गेषु चन्दनानां समर्पितम् ।
नाऽस्रसत्करिणां प्रैवं त्रिपदीछेदिनामपि ॥ ४६॥
दिशि मन्दायते तेजो दक्षिणस्यां रवे रपि।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ १७ ॥
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ ४८.॥
तस्यानीकै र्विसर्पद्भि रपरान्तजयोचतैः ।
रामाऽस्त्रोत्सारितोऽप्यासीत् सह्यलग्न इवार्णवः ॥४६॥
भयोत्सरविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणु श्चूर्णप्रतिनिधीकृतः ॥५०॥
मुरलामारुतोषूत मगमत्कैतकं रजः।
तद्योधवारबाणाना मयनपटपासताम ॥ ५५ ॥
अभ्यभूयत चाहानां चरतां गात्रशिञ्जितः ।
धर्मभिः पवनोद्धृत-राजतालीवनध्वनिः ।। ५२॥
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः नागेभ्यः शिलीमुखाः ॥५॥

(e)
साहित्य-सुधा-संग्रहः
भवकाश किलोदवान् रामायाऽभ्यर्थितो ददी ।
अपरान्तमहीपाल-व्याजेन रघवे करम् ॥ ५४॥
मसेभरदुनोत्कीर्ण-व्यक्तविकमलक्षणम् ।
त्रिकूटमेवतो जयस्तम्भ चकार सः ॥५५॥
पारसोकांस्ततो जेतुं प्रतस्थे खलवर्त्मना।
इन्द्रियाख्यानिव रिपू स्तस्यशानेन संयमी ॥१६॥
पवनीमुखपमानां सेहे मधुमदं न सः।
बालाऽतपमिवाऽजाना मकालजलदोदयः ॥ ५७॥
संग्राम स्तुमुल स्तस्य पाश्चात्यै रश्वसाधनैः।
शाजितविशेय-प्रातयोधे रजस्यभूत् ॥ ५८ ॥
भलाऽपवर्जितै स्तेषां शिरोभिः श्मश्रुलैमहीम् ।
तस्तार सरघाव्याप्तः स क्षौद्रपटलै रिच ॥५६॥
अपनीशिरस्त्राणाः शेयास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्मो हि महात्मनाम् ॥६०॥
विनयन्ते स्म तद्योवा मधुभि पिजयश्रमम् ।
भास्तीर्णाऽजिनरलासु द्राक्षायलयभूमिषु ।। ६१ ॥
ततः प्रतसे कौबेरी भाखानिव रघु विशम् ।
शरै रुनं रिवोदोच्यान् उद्धरिष्यरसानिव ॥ ६ ॥
विनीताऽध्वश्रमा स्तस्य सिन्धुतीरविचेष्टनैः।
दुधुवुर्वाजिनः स्कन्धान् लमकुमकेसरान ॥ ६३ ॥
सत्र हूणावरोधानां भर्तृषु व्यक्तधिक्रमम् ।
कपोलपाटलाऽऽदेशि बभूव रघुचेष्टितम् ॥ ६४ ॥
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजाऽऽलाममरिक्ति रक्षाः सार्धमानताः॥६५॥

प्रथमो बिन्दु
(९)
तेषां सदश्वभूयिष्ठात्तुङ्गा द्रविणराशयः।
अदा विविशुः शश्व बोत्सेकाः कोसलेश्वरम् ॥ ६६
ततो गौरीगुरु शैल मारुरोहाऽश्वसाधनः ।
पर्धयन्निव तस्कूटान् उफ़्तै र्धातुरेणुभिः ।। ६७ ॥
शशंस तुल्यसरवानां सैन्यघोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृश्यावलोकितम् ॥६॥
मुजेषु मर्मरीभूतः कीचकध्वनिहेतवः ।
गंगाशीकरिणो मागें मरुतस्तं सिषेविरे ॥६६॥
विशश्रम नमेरूणां छायास्यध्यास्य सैनिकाः ।
दूषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥ ७० ॥.
सरलासक्तमातङ्ग-4वेयस्फुरितत्विषः ।
आसनोषधयो नेतु नतमस्नेहदोपिकाः ॥ ५ ॥
तस्योत्सृष्टनिवासेषु कण्ठरजुक्षतत्वचः ।
गजवर्म किरातेभ्यः शर्शसु देवदारवः ॥७२॥
तत्र जन्यं रघो?र पर्वतीय गण रभूत्।
नाराचक्षेपणीयाश्म-निष्पेपोत्पतिनानलम् ॥ ३
शरै रुत्सवसंकेतान् स कृत्वा घिरतोत्सवान् ।
जयोदाहरणं पाहो र्गापयामास किनरान् ॥ ४॥
परस्परेण विज्ञात स्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राब: सारो हिमाद्रिणा ॥ ५ ॥
तत्राऽक्षोभ्यं यशोराशि निवेश्याऽवरुरोह सः।
पौलस्त्यतुलितस्याऽद्रे रावधान इव ह्रियम् ॥ ७६ ॥
चकम्पे तीर्णलौहित्ये तस्मिन्प्राम्ज्योतिषेश्वरः।
सद्गजालाऽऽनतां प्राप्तः सह कालाऽगुरुमैः ॥ ७ ॥

(६०) साहिर य-1-संग्रहः न प्रसेहे स रुद्धार्क मधारावर्षदुर्दिनम् । इनि रथवमरजोऽप्यस्य कुत एव पताकिनीम् ॥ ८ ॥ तमीशः कामरूपाणा मत्याखण्डलविक्रमम् । भेजे भिन्नकटै गै रन्यानुपरुरोध येः ॥ ७ ॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥ ८ ॥ इति जित्वा दिशो जिष्णु य॑वर्तत रथोद्धतम् । रजो विश्रामयनराशा छत्रशून्येषु मौलिषु ॥ ८१ ॥ स विश्वजितमाजहे यहं सर्वखदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिय ॥ ८२ ॥ सत्रान्ते सचिषसखः पुरस्क्रियाभि- गुर्थीभिः शमितपराजयव्यलीकान् । " काकुत्स्थ चिरविरहोत्सुकाघरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८३ ॥ ते रेखाध्वजकुलिशाऽऽतपत्रचिह्न सम्राजश्चरणयुग प्रसादलभ्यम्। प्रस्थानप्रणतिभि रंगुलोषु चक्रु. मौलित्रक्च्युतमकरन्दरेणुगोरम ॥ ८४ ॥ इति चतुर्थः सर्गः

प्रथमो बिन्दु
(११)
पञ्चम
सर्गः
तमध्वरे विश्वजिति क्षितोश निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे बरतन्तुशिष्यः ॥१॥
स मृण्मये चीतहिरण्मयत्वात् पात्रे निधायाऽर्थ्यमनघंशोलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युजगामातिथिमातिथेयः ॥२॥
तमर्चयित्वा चिधिवद्विधिज्ञ स्तपोधनं मानधनाऽप्रयायी।
विशापति विष्टरमाजमारात् कृतालिः कृत्यविदित्युवाच ॥३॥
भप्यग्रणी मन्त्रकता मृषीणां कुशाग्रबुद्धे ! कुशली गुरुस्ते।
यतस्त्वया ज्ञानमशेषमाप्त लोकेन चैतन्यमियोष्णरश्मेः ॥४॥
कायेन वाचा मनसाऽपि शश्वद् यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमंतरायः कचिन्महर्षेत्रिविध तपस्तत् ॥ ५॥
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । TH.'
कधिन्न वाय्यादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥६॥
क्रियानिमित्तेवपि घत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कधिन्मृगीणामनधा प्रसूतिः ॥७॥
निर्वय॑ते ये नियमाभिषेको येभ्यो निषापाञ्जलयः पितृणाम् ।
तान्युज्छषष्ठाङ्कितसैकतानि शियानि वस्तीर्थजलानि कथित् ॥ ८॥
नीवारपाकादि कगरीयैरामृश्यते जानपदै कश्चित् ।
कालोपपन्नाऽतिथिकल्प्यमार्ग धन्यं शरीरस्थितिसाधनं वः॥६॥
अपि प्रसन्न महर्षिणा स्वं सम्यग्विनीयाऽनुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीय सर्वोपकारक्षममाश्रमं ते ॥ १० ॥
तवाऽहतो नाऽभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अप्याशयाशासितु रात्मना वा प्राप्तोऽसि संभावयितुं धनान्माम् ॥११॥
इत्यर्यपात्राऽनुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
सार्थोपपतिं प्रति दुईलाश स्तमित्यवोचद् धरतन्तुशिष्यः ॥ १२ ॥

, (२) साहित्य-सुधा-संग्रहः सर्वत्र नो वा मवेहि राजन् ! नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टः कल्पेत लोकस्य कथं तमिस्रा ॥१३॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेये। . ध्यतीतकाल स्त्वहमभ्युपेत स्त्वामर्थिभावादिनि मे विपादः ॥ १४ ॥ शरीरमात्रण नरेन्द्र ! तिष्ठन् मामासि तीर्थप्रतिपादितः। भारण्यकोपात्तफलप्रसूतिः स्तम्वेन नोवार इवावशिष्टः ॥ १५ ॥ स्थाने भवानेकनराधिपः सन्नचिनत्वं मखजं व्यक्ति। पर्यायपीतस्य सुरैहिमांशोः कलाक्षयः श्लाध्यतो हि वृद्धः ॥ १६ ॥ तदन्यतस्तावदनन्य कार्यों गुर्वर्थमाहर्तुमहं यतिष्ये । खस्त्यत्तु ते, निर्गलिनाम्बुगर्भ शरद्धनं नाईति चातकोऽपि ॥१७॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महनूरतिनिपिध्य । किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियति तमन्ययुक्त ॥ १८॥ ततो यथावद्विहिताध्यराय तस्मै स्मरावेशविवर्जिनाय । घर्णाश्रमाणां गुरवे सवर्णी विचक्षणः प्रस्तुतमावक्षे ॥ १६ ॥ समाप्तविधेन मया महर्षि विज्ञापितोऽभूद् गुरुदक्षिणाये । स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २०॥ निर्बन्धसंजातरुपाऽर्थकार्य मचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१ ॥ सोऽहं सपर्याविधिभाजनेन मत्था भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे संप्रति नोपरोदधु मन्पेतरत्वाच्छुतनिकायस्य ॥ ७ ॥ इत्यं द्विजेन द्विजराजकान्ति रावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ २३ ॥ गुर्वर्थमीं श्रुतपारदृश्वा रघोः सकाशादनवाप्प कामम् । गतो वदान्यान्तरमित्ययं मे मा भूत्परोधादनावतारः ॥ २४ ॥ 123 .

प्रथमो बिन्दु (६३) स त्वं प्रशस्त महिते मदीये घसंश्चतुर्थोऽग्निरिधाग्न्यगारे । द्वित्रापयहान्यहसि सोदुमर्हन ! यावद्यते साधयितु त्वदर्थम् ॥२५॥ तथेति तस्यावितथ प्रतीतः प्रत्यग्रहीत्संगरमप्रजन्मा। गामात्तसारां रघुरप्यवेक्ष्य निष्कटमर्थ चश्मे कुवेरात् ॥ २६ ॥ पसिष्ठमन्त्रोक्षणजात्प्रभावाद् उदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिविज ने न हि तद्रथस्य ॥ २७ ॥ भवाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलाशनाथं तरसा जिगोषुः ॥ २८ ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः । हिरण्मयों कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नमस्तः ॥ २६ ॥ तं भूपति र्भासुरहेमराशि लब्ध कुवेरा दभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव घनभित्रम् ॥ ३०॥ जनस्य साकेतनिवासिनस्तो द्वावप्पभूताभिनन्धसत्यौ। गुरुपदयाधिकनिःस्पृहोऽर्थी नृतोऽर्थिकामादधिकप्रदश्च ॥ ३१ ॥ अथोष्ट्रवामीशतवाहितार्थ प्रजेश्वरं प्रीतमना महर्षिः। स्पृशन्करणानतपूर्वकार्य संप्रस्थितो याचमुवाच कौत्सः ॥ ३२ ॥ किमत्र चित्रं यदि कामसू भू वृत्ते स्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तु तव प्रभावो मनीपितं धौरपि येन दुग्धा ॥ ३३ ॥ आशास्थमन्यत्पुनरुक्तर्भूतं श्रेयांसि सर्वाण्यधिजग्मुपस्ते । पुत्र लभस्वात्मगुणानुरूपं भवन्तमीड्य भवतः पितेव ॥ ३४॥ इत्थं प्रयुज्याशिषमग्रजन्मा राक्षे प्रतीयाय गुरोः सकाशम् । राजाऽपि लेभे सुनमाशु तस्माद् आलोकमदिव जीवलोकः॥३॥ ब्राही मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एवं माना तमात्मजन्मानमर्ज चकार ॥३६॥ Ladana सार (६४) साहित्य-सुधा-संग्रहः रूपं तदोजखि तदेव वीर्य तदेव नैसर्गिकमुषतत्वम् । न कारणात्स्वादिभि कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७॥ उपात्तषिय विधिबद्गुरुभ्य स्तं यौवनोद्भवषिशेषकान्तम् । श्रीः साभिलापापि गुरोरनुशां धीरेष कन्या पितुराचकांक्ष ॥ ३८ ॥ anna अथेश्वरेण क्रयकैशिकानां स्वयंवराथं स्वसुरिन्दुमत्याः। आप्तः कुमारानयनोत्सुकेन भोजेन दूता रघवे विसष्ठः ॥ ३६॥ तं श्लाध्यसंबन्धमसौ विचित्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेन मृद्धां विदर्भाऽधिपराजधानीम् ॥४०॥ अतः परं संग्रहे ऽगृहीतयोः षष्ठसप्तमसर्गयो विषयः कथाप्रसंग- भंगभपादधस्तासमासेनवविन्यस्पते- MP ततः स राजसूनुरजः कतिपयसुहृत्सैनिकानुगतः सरणी श्वापद- कुलशरण्याम्यरण्यानि, विकचराजीवराजिविराजितपयस्विनी: स्रोत- स्विनीः, सरससारसरसितरमणीयपरिसरान् सरोवरान् , सटिनीतटत्रोटन- परिणतकरिणःशिखरिणश्च पश्यन् , पटमण्डपोपचारचारषु, जानपदोपदा- सम्पादितप्रमोदेषु प्रमोदकाननानूनविनोदेषु निवसंश्च निवासेषु परम्परया सुरभिसमीरसमीरिततरुततिनितान्तकान्तं सामसुतासरिदुपान्तप्रान्तं प्रतिपेदे। नाम तत्र च मतंगमुनिश्चनप्रतिपन्नमतंगजभावेन, तछापप्राकार- कारणीभूतस्वशरप्रहारप्रत्यर्पितपूर्व प्रकृतिना, भूयोपि गन्धर्वभूयमनुभूयभूयः प्रसेदुषा, प्रियदर्शनतनुजनुषा, प्रियंवदायगन्धर्वेण सह साप्तपदीन- महीनं विधाय तेन च प्रत्युपचिकर्षिया निवेद्यमानमनवर्य संमोहनाखं सदीयमुरीचकार ।

प्रथमो बिन्दुः
.
(६५)
क्रमेण च नानानदनदीनगनगरनिगमग्रामगहननिवेशान् देशान्
विलंघयन् भोजभूमिभुजा भुनाऽभिरक्षितं, विपक्षक्षिातदितां तीक्ष्णकटाक्ष-
रप्यलक्षितं, सुरस्पृहणीयसम्पत्तिगर्भ विदर्भ समाससाद ।
ततोऽनेकनृपतिकुला ऽलंकारैः कुमारः पग्विारितायामपि, परिभूत-
पुरुहूतपरिपत्प्रभायां, स्वयंवरसभायां, प्रचुरनक्षत्रमण्डलीमण्डितायां
दिवि चद्रिकयेव चन्द्रो नृचन्द्रः पर्तिवरयेन्दुमत्या गुणानुरागवत्या स
एव वरो वने।
अथ स्वकीयस्त्रसु विवाहमहामहं तेन सह निवर्य भोज स्तं
विससर्ज । पथिप्रयान्तंच तं महनीयमहसमहमहमिकया किलाऽऽचक्राम
पराजितराजचक्र कतिपयप्रयाण काऽनन्तरमीय॑या राजकुमारीजिहीर्षया
च । रघुनन्दनोपि प्रियंवदप्रदत्तदिव्याऽस्त्रसाचिव्येन द्रागेव निद्राधीनं
विधायं तं विरोधिवर्गमनर्गलमिन्दुमत्या सह सहर्ष निजनगरीमबाजीत् ।
( श्री वागीश्वर विद्यालंकार-
विरचिता चूर्णिकेयम् )
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाध्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न हि सति कुलधुर्य सूर्यवंश्या गृहाय ॥४१॥
सर्गः
दति सप्तमः
अष्टमः सर्गः
अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः ।
घसुधामपि हस्तगामिनीम् अकरोदिन्दुमतीमियाऽपराम् ॥ १ ॥

www
साहित्य-सुधा-संग्रहः
दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदः पितुराहोति म भोगतष्यया ॥२॥
अनुभूय वसिष्ठसंभूतः सलिलैस्तेन सहाऽभिषेवनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३॥
स बभूव दुरासदः पर गुरुणाऽधर्व विदा कृतक्रियः
पवनाऽनिसमागमो वयं सहित प्रायदखतेजसा ॥४॥
रघुमेव निवृत्तयौवनं तममन्यन्त मवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रिये प्रतिपेदे सकलान्गुणानपि ॥५॥
अधिक शुशुभे शुभंयुना द्वितयेन वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनाऽस्य नवं च यौवनम् ॥ ६ ॥
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नषपाणिग्रहणां वधूमिव ॥ ७॥
महमेव मतो महीपते रिति सर्वः प्रकृतिष्वचिन्तयत् ।
उधेरिव निमगाशते वभवनाऽस्य विमानना कचित् ॥ ८॥
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन ॥8॥
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्यात्मजमात्मवत्तया।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्यपि निःस्पृहोऽभवत् ॥ १० ॥
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससा प्रयताः संयमिनां प्रपेदिरे ॥११॥
प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् । " .
नभसा निभृतेन्दुना तुलाम् उदिताऽर्केण समारोह तत् ॥ १२ ॥
यतिपार्थिवलिङ्गधारिणौ ददशाते रघुराघवौ जनैः।
अपवर्गमहोदयाऽथयो र्भुषमंशाषिव धर्मयोर्गतौ॥१३॥

प्रथमो बिन्दुः (६७) अजिताऽधिगमाय मन्त्रिभिर्ययुजे नीतिविशारदै रजः। अनपायिपदोपलब्धये रघुराप्तः समियाय योगिभिः॥१४॥ नृपतिः प्रकृतोरवेक्षितुं व्यवहाराऽऽसनमाददे युवा। परिचेतुमुपांशु धारणां कुशपूर्त प्रवेयास्तु विष्टरम् ॥१५॥ अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्राणिधानयोग्यया मरुतः पश्च शरीरगोचगन ॥१६॥ अकरोदचिरेश्वरः क्षितो द्विपदारम्भफलानि भलसात् । इतरो दहने स्वकर्मणां धवृते ज्ञानमयेन वहिना ॥ १७ ॥ पणबन्धमुखान्गुणानजः षडुपायुक्त समीक्ष्य तत्फलम। रघुरप्यजयद्गुणत्रयं प्रकृतिस्थ समलोष्टकाञ्चनः ॥१८॥ 'न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः । न च योगविधेर्नवेतरः स्थिरधी रापरमात्मदर्शनात् ॥ १६ ॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ । प्रसिताबुदयाऽपवर्गयो रुभयीं सिद्धिमुभाववापतुः ॥ २० ॥ अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः। तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥२१॥ श्रुतदेहविसर्जनः पितु श्चिरमणि विमुच्य राघवः । विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित् ॥ २२ ॥ स पराय॑गतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । समिताऽधि रधिज्यकार्मुकः कृतवानप्रतिशासन जगत् ॥ २३ ॥ क्षितिरिन्दुमती च भामिनी पतिमासोद्य तमध्यपौरुषम् । प्रथमा बहुरत्नसूरभूदू अपरा वीरमजीजनसुतम् ॥ २४ ॥ दशरश्मिशतोपमद्युति यशला विसु दशस्खपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकंठारिगुरुं विदुर्बुधाः ॥ २५ ॥ ऋषिदेवगणवधाभुजां श्रुतयागपसबैः स पार्थिवः। अनृणत्वमुपेयिवान्बभौ परिधेर्मुर्कइयोपदीधितिः ॥ २६ ॥ -

.
(६८)
साहित्य-सुधा-संग्रहः
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥२७॥
ततः कदाचिदसौ चिसौख्यनिवृत्तय शरदिन्दुकान्तिकान्तया
कान्तयेन्दुमत्या समं परमाभिरामं नगराऽऽराम कमपि जगाम । तत्र
वियति यतों यतिपतेनारदस्य वीणाम्राज्जवनपवनवशनिपतितपारि-
जात प्रसूनस्रजोरसि तरसा ताडिता तडितेव मालतीलता, मरुतेव दीप-
दशा, पयोभृतेव कौमुदी निमिमील किल राजमहिषी ।
अथ तथाविधप्रियजनविप्रयोगजन्येनाऽन्यूनमन्युनाऽनभ्रवज्रपातेनेव
शतधाविदीर्णहृदयो गुरुणा संसारसारा ऽसारताप्रदर्शनपर रुपदेशवचनैः
सिद्धाश्नरिव पुनः पुनरुन्मील्यमानलोचनोऽपि दूयमानमानसः कथंकथ-
मपि प्रकृष्टकष्टादतिवाहितहायनाष्टकोऽवतीर्णतारुण्यं तनयं नयविनय-
विशषशोभिन मप्रतिहतरथं दशरथं नियुज्य राज्यचिन्तायां प्रायोपवेशन-
कृतमतिर्गतधृति नृपतिः सुरसरित्सरखोहृदयङ्गमे संगमे नश्वरशरीरव्ययेना-
व्यय मियाय पदमित्यत्रत्यावशिष्ठ कथांश संक्षपः ।
("श्री वागीश्वर विद्यालंकार
विरनिता चूर्णिकेयम् )
रत्यष्टमः सर्गः
नवमः
सर्ग:
पितुरनन्तरमुत्तरकोसलान् समधिगम्य समाधिजितेन्द्रियः।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥१॥
अधिगतं विधिवद्यदपालयत् प्रकृतिमण्डलमात्मकुलोचितम्।
अभवदस्य ततो गुणवत्सरं सनगर नग-रन्ध्रकरौजसः ॥ २ ॥

१प्रार प्रथमो विन्दुः (६६) उभयमेव वदन्ति मनीषिणः समयवर्षिया कृतकर्मणाम् ।। बलेनिष्टनमर्थपतिं च तं श्रृंम-नुदं मनु-दण्ड-धराऽन्वयम् ॥ ३ । जनपदे न गदः पदमादधा वभिभवः कुत एव सपत्नजः। क्षितिरभूत्फुलवत्यजनन्दने शम-रतेऽमर-तेजसि पार्थिवे ॥४॥ दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीन-पराक्रमम् ॥५॥ समतया वसुवृष्टिविसर्जनै नियमनादसतां च नराधिपः । अनुययौ यमैपुण्यजनेश्वरी संवरुणावरुणांग्रसर रुचा ॥३॥ न मृगयाऽभिरतिर्न दुरोदरं न च शाशप्रतिमाऽऽभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥७॥ न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथावपि । न च सपत्नजनेष्वपि तेन वाग् अपरपा परुषाऽक्षरमीरिता ॥ ८ ॥ उदयमस्तमयं च रघूद्रहाद् उभयमानशिरे वसुधाधिपाः । स हि निदेशमलंघयतामभूत् सुहृदयो-हृदयः प्रतिगर्जताम् ॥ ६ ॥ अजयदेकरथेन स मेदिनी मुदधिनेमि मधिज्यशरासनः । जयमघोपयदस्य तु केवलं गजवती जव-तीव-हया चमूः ॥१०॥ अवनि मेकरथेन वरूथिनो जितवतः किल तस्य धनुर्भृतः । क विजयदुन्दुभितां ययुरणवा घन-रवा नरवाहनसंपदः॥ ११ ॥ शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः। स शरवृष्टिमुचा धनुषा द्विषांखनवता नव-तामरसाऽऽननः ॥१२॥ चरणयो नखरागसमृद्धिभि मुकुटरनमरीचिभि रस्पृशन् । नृपतयः शतशो मरुतो यथा शतमख तमखण्डितपौरुषम् ॥ १३ ॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताऽञ्जलीन् । समनुकम्प्य सपनपरिग्रहान अनलकानलकाऽनवमांपुरीम् ॥१४॥ . .

(७०)
साहित्य-सुधा-संग्रहः
उपगतोऽपि च मण्डलनाभिताम् अनुदिताऽन्यसिताऽऽतपवारणः ।
श्रियमवेक्ष्य स रत्नचलामभूद अनलसोऽनल-सोम-समद्युतिः ॥१५॥
तमपहाय ककुत्स्वकुलोबुभवं पुरुषमात्मभवं च पतिव्रता।
नृपतिमन्वमसेवत देवता स-क्रमला कमलाघवमर्थिषु ॥ १६ ॥
तमलभन्त पति पतिदेवताः शिखरिणामिव सागरमापगाः।
मगधकोसलकेकयशासिनां दुहितरोऽहित-रोपित-मार्गणम् ।। १७ ॥
हप्रियतमाभिरसौ तिसभि र्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो धिनिनीषुरिव प्रजा हरि-हयोऽरिह-योग-विचक्षणः ॥१८॥
सकिल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
खभुजबीर्यमगापयच्छितं सुर-वधूरवधूत-भयाः शरैः ॥ १६ ॥
कतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्पसुना कृताः ।
'कनकयूपसमुच्छयशोभिनो वितमसा तमसा-सरबूतटाः ॥२०॥
अजिनदण्डभूतं कुशमेखला यंतगिरं मृगशृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमवरदीक्षिताम् असमभासमभासयदीश्वरः ॥ २१ ॥
अवभृथप्रयतो नियतेन्द्रियः सुर-समाज-समाक्रमणोचितः।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२॥
असकृदेकरथेन तरविना हरिहयाग्रसरेण धनुभृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे धिरेण सुरद्विषाम् ॥ २३ ॥
इति नवमः सर्गः
दशमः सर्गः
'पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धः शरदामयुतं ययौ ॥१॥
न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम् ।
सुताऽभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥२॥

प्रथमो बिन्दुः
(७१)
अतिष्ठत्प्रत्ययापेक्ष-संततिः स चिरं नृपः।
प्राङ्मन्थादनभिव्यक्त-रत्नोत्पत्तिरिवार्णकः ॥३॥
ऋष्यशृङ्गादयस्तस्य सन्तः संतानकांक्षिणः।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृस्विजः॥४॥
अथ तस्य विशांपत्यु रन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूवाऽग्ने विस्मयेन सहर्विजाम् ॥ ५॥
हेमपात्रगत दोाम् आदधानः पयश्चरम् ।
अनुप्रवेशादाधस्य पुंसस्तेनापि दुर्घहम् ॥ ६ ॥
प्राजापत्योपनीतं तद् अन्न प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारम् आविष्कृतमुदन्वता ॥ ७॥
अनेन कथिता राज्ञो गुणास्तस्यान्य दुर्लभाः।
प्रसूति चकमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत् ॥ ८॥
स तेजो वेष्णवं पत्न्यो विभेजे चरुसंशितम् ।
द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिरिवाऽऽतपम् ॥ ६ ॥
अर्चिता तस्य कौसल्या, प्रिया केकयवंशजा।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ १० ॥
ते बहुशस्य चित्तने पत्न्यो पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ११॥
सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येच मदनिस्यन्दरेखयोः ॥१२॥
ताभिर्भः प्रजाभूत्यै वनं देवांशसंभवः ।
सौरीभिरिव नाडीभि रमृताख्याभिरम्मयः॥१३॥
सममापनसस्वास्ता रेजुरापाण्डुरत्विपः।
अन्तर्गतफलारम्भाः सत्यानामिव संपदः ॥ १४ ॥

(७२)
साहित्य-सुधा-संग्रहः
--
१
अथाध्यमहिषी राज्ञः प्रसूतिसमये सति ।
पुत्र तमोऽपहं लेभे न ज्योतिरिवौषधिः ॥ १५॥
राम इभिरामेण वपुषा तस्य चोदितः।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥१६॥
रघुवंशप्रदीपेन तेनाऽप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाऽभवन् ॥ १७ ॥
शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥१८॥
कैकेय्या स्तनयो जज्ञ भरतो नाम शीलवान् ।
जनयित्रीमलंचके यः 'प्रश्रय इव श्रियम् ॥ १६॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुपुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ २०॥
निर्दोषमभवत्सर्व माविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम्॥ २१ ॥
तस्योदये चतुर्मतः पौलस्त्यचकितेश्वराः ।
विरजस्कैनभवद्भिर्दिश उच्छ्वसिता इष ॥ २२ ॥
कृशानुरपधूमत्वात् प्रसन्नत्वात्प्रभाकरः।
रक्षोविप्रकृतावास्ताम् अपविद्धशुचाविव ॥ २३ ॥
दशाननकिरीटेभ्य स्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ २४ ॥
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रु देवदुन्दुभयो दिवि ॥ २५ ॥
संतानकमयी वृष्टि भवने चाऽस्य पेतुपी। -- hr"
सन्मङ्गलोपचाराणां सैवाऽऽदिरचनाऽभवत् ॥ २६ ॥

प्रथमो बिन्दु (७३) कुमाराः कृतसंस्कारा स्ते धात्रीस्तन्यपायिनः । आनन्देनाऽग्रजेनेव समं ववृधिरे पितुः ॥ २७ ॥ स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्छ सहजं तेजो हविषेत्र हविर्भुजाम् ॥ २८ ॥ परस्पराऽविरुद्धास्ते तद्रघोरनघं कुलम् । अलमुन्द्योतयामासु देवाऽरण्यमिवर्तवः ॥ २६ ॥ समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।. तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥ ३० ॥ तेषां द्वयोयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वो र्यथा चन्द्रसमुद्रयोः ॥ ३१ ॥ ते प्रजानां प्रजानाथा स्तेजसा प्रश्रयेण च । मनो जलर्निदाघाऽन्ते श्यामाऽभ्रा दिवसा इव ॥ ३२॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणाम् अवतार इवाऽङ्गवान् ॥ ३३ ॥ गुणैराराधयामासु स्ते गुरु गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नरिव महार्णवाः ॥ ३४ ॥ सुरगज इव दन्तैर्भग्नदैत्याऽसिधारै नयइव पणबन्धव्यक्तयोगै रुपायैः । हरिरिव युगदीधैं यॊभिरशैस्तदीयः पतिरवनिपतीनां तैश्वकाशे चतुर्भिः॥ ३५ ॥ इति दशमः सर्गः

(७४)
साहित्य-सुधा-संग्रहः
एकादशः सर्गः।
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचित स्तेजसा हि न वयः समीक्ष्यते ॥१॥
कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रायनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥२॥
यावदादिशति पार्थिवस्तयो निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशुविदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्धनैः ॥ ३ ॥
तौ निदेशकरणोद्यतौ पितु र्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतो न योरुपरि वाष्पाबन्दवः ॥ ४॥
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ।
धन्विनौ तमूपिमन्वगच्छतां पीरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥
लक्ष्मणाऽनुचरमेष राघवं नेतुमैच्छदृषिरित्यसौ नृपः।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणषिधौ तयोः क्षमा ॥६॥
मातृवर्गचरणस्पृशौ मुने स्तौ प्रपद्य पदवीं महौजसः ।
रेजतुर्गतिवशात्मवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥
वीचिलोलभुजयोस्तयोर्गतं शैशवाञ्चपलमप्यशोभत ।
तोयदाऽऽगम इवोद्धयभिथयो नामधेयसदृशं विचेष्टितम् ॥ ८॥
तौ बलातिवलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविध ॥६॥
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः।
उद्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥१०॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितः श्रुतिसुखैः पुतत्रिणः ।
वायवः सुरभिपुष्परेणुभि श्छायया च जलदाः सिषेविरे ॥ ११ ॥
नाऽम्मसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपखिनः ॥ १२॥

प्रथमो बिन्दुः
--
(७५)
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथि रातकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि।
निन्यतुः स्थलनिवेशिताऽटनी लोलयैव धनुषी अधिज्यताम् ॥१४॥
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ॥
ताडका चलकपालकुण्डला कालिके निबिडा बलाकिनी ॥ १५ ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा खनोग्रया।
अभ्यभावि भरताऽग्रजस्तया वात्ययेव पितृकाननास्थया ॥१६॥
उद्यतैकभुजयष्टिमायती श्रोणिलम्बिपुरुषाऽन्त्रंमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥
यञ्चकार विवरं शिलाधने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥
(Raza
बाणभिन्नहृदया निपेतुपी सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १६ ॥
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। 'हामी
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ॥२०॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पिताऽहणम् ।
बद्धपल्लवपुटाऽञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥२१॥
तत्र दीक्षितमृपि ररक्षतु विघ्नतो दशरथात्मजी शरैः।
लोकमन्धतमसात्क्रमोदिती रश्मिभिः शशिदिवाकराविव ॥ २२ ॥
वीक्ष्य वेदिमथ रक्तबिन्दुभि बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणाम् ऋत्विजां च्युतविकतनुचाम् ॥ २३ ॥
उन्मुखः सपदि लक्ष्मणाऽग्रजो बाणमायमुखात्समुद्धरन्।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २४ ॥

(७६) साहित्य-मुधा-संग्रहः तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । कि महोरगविसर्पिविक्रमो रोजिलेषु गरुडः प्रवर्तते ॥ २५ ॥ सोऽस्त्रमुग्रजवमनकोविदः संदधे धनुपि वायुदैवतम् । तेन शैलगुरुमप्यपातयत् पाण्डुपत्रमिव ताडकासुतम् ॥ २६॥र यः सुबाहुरिति राक्षसोऽपर स्तत्र तत्र विससर्प मायया। तं पुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमादहिः॥ २७ ॥ इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् । ऋत्विजः कुलपते यथाक्रमं धाम्यतस्य निरवर्तयन्क्रियाः ॥ २८ ॥ तौ प्रणामचलकाकपक्षको भ्रातराववभृथाऽऽप्लुतो मुनिः । आशियामनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥ २६ ॥ त न्यमन्त्रयत संभृतक्रतु मैथिलः स मिथिलां वजन्वशी । राघवावपि निनाय बिभ्रतौ तद्धनुः- श्रवण कुतूहलम् ॥ ३०॥ राघवाऽन्वितमुपस्थितं मुनि तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३१ ॥ तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू । मन्यते स पिछुतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ ३२॥ यूपवत्यवसिते क्रियाविधौ कालचित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांयभूव सः ॥ ३३ ॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया॥ ३४ ॥ अब्रवीच भगवन् ! मतंगजै यबृहद्भिरपि कर्म दुष्करम् । तत्र नाऽहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ३५ ॥ हैपिता हि बहवो नरेश्वरा स्तेन . तात! धनुषा धनुर्भृतः । ज्यानिधातकठिनत्वचो भुजान् स्वान्विधूय धिगिति प्रतस्थिरे ॥ ३६ ।।

प्रथमो बिन्दुः (७७) प्रत्युवाच तमृपिनिशम्यतां सारतोऽयम्-अथवा, गिरा कृतम् । चाप एव भवतो भविष्यति व्यक्तशक्तिरनिर्गिराविव ॥ ३७ । एषमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे । श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवम न ॥ ३८ ॥ व्यादिदेश गणशोऽथ पार्श्वगान कार्मुकाऽभिहरणाय मैथिलः । तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ३६॥ तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः । विदुतक्रतुमृगाऽनुसारिणं येन बाणमसृजदृषध्वजः ॥ ४० ॥ आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः। शैलसारमपि नाऽतियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ४१ ॥ भज्यमानमतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४२ ॥ दृष्टसारमथ रुद्रकामुके वीर्यशुल्कमभिनन्ध मैथिलः । राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ४३ ।। । मैथिलः सपदि सत्य संगरी राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधे रग्निसाक्षिक इवाऽतिसृष्टवान् ॥ ४४ ॥ प्राहिणोश महितं महाद्युतिः कोसलाऽधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलमिदं निमेरिति ॥ ४५ ॥ अन्धियेष सदशी स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृता हि पच्यते कल्पवृक्षफलधर्मि कांक्षितम् ॥ ४६॥ तस्य कल्पितपुरस्क्रियाविधेः सुश्रुवान्वचनमग्रजन्मनः । उच्चचाल बलीभत्सखो वशी सैन्यरेणुमुषिताऽर्कदीधितिः ॥ ४७ ॥ तौ समेत्य समये स्थिता वुभौ भूपतो वरुणवासवोपमा । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ४८ ॥ EAR Imat 1 331 (७८) साहित्य-सुधा-संग्रहः पर्थिवीमुदवहद्धूद्रहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजी वरोजसी तौ कुशध्वजसुते सुमध्यमे ॥ ४६ ॥ ते चतुर्थसहितात्रयो बभुः सूनवो नववधूपरिग्रहाः। सामदानविधिभेदलिग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५०॥ ता नराधिपसुता नृपात्मजै स्ते च ताभिरगमकृतार्थताम् । सोऽभववरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥ ५१ ॥ एवमात्तरतिरात्मसंभवांन तानिवेश्य चतुरोऽपि तत्र संः। "अध्वसु त्रिषु विसृष्टमैथिलः खां पुरी दशरथो न्यवर्तत ॥५२॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः। चिक्लिशुभृशतया वरूथिनीम् उत्तटी इव नदीरयाः स्थलीम् ॥ ५३॥ लक्ष्यते स तदनन्तरं रवि बंद्धभीमपरिवेशमण्डलः। वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५४ ॥ श्येनपक्षपरिधूसराऽलकाः सांध्यमेघरुधिराऽऽवाससः। अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥५५ ॥ भास्करश्च दिशमध्युवास यां तां श्रिताः प्रांतभयं वोशिरे। , शत्रशोणितपितृक्रियोचित चोदयन्त्य इव भार्गवं शिवाः ॥५६॥ तत्प्रतीपपवनाऽऽदि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् । अन्धयुङ्क्तगुरुमीश्वरः क्षितेः स्वन्त मित्यलघयत्स तव्येथाम् ॥ ५७ ॥ तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे । यः प्रमृज्य नयनानि सैनिकै लक्षणीयपुरुषाऽऽकृतिश्चिरात् ॥ ५८ ॥ पित्र्यमंशमुपवीतलक्षणं मातुकें च धनुरूर्जितं दधत् । el यः ससोम इव धर्मदीधितिः सद्विजिल इव चन्दनद्रुमः॥५६ येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा । वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ६॥ अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः। क्षत्रियाऽन्तकरणकविशते ाजपूर्वगणनामिवोद्वहन ॥ ६१ ॥ Me

प्रथमो बिन्दुः
(७६)
त पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ६२ ॥
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
हृद्यमस्य भयदायि चाऽभवद् रत्नजातमिव हारसर्पयोः ।। ६३ ॥
अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताऽप्रजो यतः ।
क्षत्रकोपदहनाऽर्चिएं
चिषं ततः संदधे दशमुदग्रतारकाम् ॥ ६४ ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुली विवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ।। ६५ ।।
क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डघट्टना रोषितोऽस्मि तव विक्रमवात् ॥६६॥
मैथिलस्य धनुरन्यपार्थिवै स्त्वं किलाऽनमितपूर्वमक्षणोः । १.
जो
तनिशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥ ६७ ॥
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् ।
ब्रीडमाघहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ६८ ॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ।
धेनुवत्सहरणाश्च हैहय स्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ६६ ॥
क्षत्रियाऽन्तकरणोऽपि विक्रम स्तेन मामवति नाऽजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥ ७० ॥
विद्धि चाऽऽत्तबलमोजसा हरेः ऐश्वर धनुरभाजि यत्यया।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटदुमम् ॥ ७१ ॥
तन्मदोयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ७२ ॥
कातरोऽसि यदि वोद्गताऽर्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनांगुलि वृथा बध्यतामभययाचनाऽञ्जलिः ॥ ७३ ॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताऽधरः ।
तद्धनुर्ग्रहणमेष राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ७४ ॥

-musman (८०) साहित्य-सुधा-संग्रहः पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाऽम्बुदः किं पुनस्त्रिदशवापलाञ्छितः ॥ ७ ॥ तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाऽधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ७६ ॥ तावुभावपि परस्पर स्थितौ वर्धमान-परिहीनतेजसौ। पश्यति स्म जनता दिनाऽत्यये पार्वणी शशिदिवाकराविव ॥ ७७॥ तं कृपामृदुरवेक्ष्य भार्गवं राघवः म्खलितवीर्यमात्मनि । . स्वं च संहितममोघमाशुगं, व्याजहार हरसूनुसंनिभः ॥ ७८ ॥ न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि । शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखाऽर्जितम् ॥ ७६ ॥ प्रत्युवाच तमृपिन तत्त्वत स्त्वां न वेनि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिद्वक्षुणा ॥ ८० ॥ भस्मसात्कृतवतः पितृद्विपः पात्रसाश्च वसुधां ससागराम् । आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ८१ ॥ तद्गति मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे । पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८२ ॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् । भार्गवस्य सुकृतोऽपि सोऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥ ८ ॥ राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदनसमस्पृशत् । निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८४ ॥ राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा। नन्वनिन्दुितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ८५ ॥ साधयाम्यह मविघ्नमस्तुते देवकार्य मुपपादयिष्यतः। ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाऽग्रजमृपिस्तिरोदधे ॥ ८६ ॥ *

(८१)
प्रथमो बिन्दु: .
तस्मिन्गते बिजपिनं परिरभ्य राम,
स्नेहाइमन्यत पिता पुनरेव जातम् ।
तस्याऽभवत्क्षणशुषः परितोषलामः,
कक्षाऽग्निलंधिततरोरिव वृष्टिपातः ॥७॥
अथ पथि गमयित्वा क्लप्तरम्योपकायें,
कतिचिदवनिपालः शर्वरीः शर्वकल्पः।
पुरमविशदयोध्यां मैथिलीदर्शनीनां,
कुषलयितगवाक्षां लोचनैरगनानाम् ॥ ८८ ॥
रत्येकादशः सर्गः
IN-
द्वादशः सर्गः।
.
निर्विष्ट विषयस्नेहः स दशान्त मुपेयिवान् ।
आसीदासननिर्वाणः प्रदीपाऽर्चिरिघोषसि ॥१॥
तं कर्णमूलमागत्य रामे श्रीय॑स्यतामिति ।
कैकेयीशङ्कयेवाऽऽह पलितच्छाना जरा ॥२॥
सा पौरापौर-कान्सस्य रामस्याऽभ्युदयश्रुतिः।
प्रत्येकं हादयांचके कुल्य बोधानपादपान् ॥३॥
तस्याऽभिषेकसभारं कल्पित क्रूरनिश्चया।
दूषयामास कैकेयी शोकोष्णः पार्थिवाश्रुभिः ॥४॥
सा किलाऽऽश्वासिता चण्डी भ; तत्संश्रुतौ वरौ ।
उद्वषामेन्द्रसिताभू लिमनाविवोरगौ ॥५॥
तयोश्चतुर्दशैकेन रामं प्राऽवाजयत्समाः।
द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥ ६ ॥

(८२)
साहित्य-सुधा-संग्रहः
पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
पश्चादनाय गच्छेति तदाऽऽशा मुदितोऽप्रहीत् ॥ ७॥
दधतो मङ्गलक्षौमे वसानस्य च वल्कले।
दक्षु विस्मितास्तस्य मुखरागं समं जनाः ॥ ८॥
स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥६॥
राजाऽपि तद्वियोगाऽऽर्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥
विप्रोषितकुमारं तद् राज्यमस्तमितेश्वरम् ।
रम्ध्राऽन्वेषणदक्षाणां द्विषामामिषतां ययौ॥११॥ ओर
अथाऽनाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरामाययामासु भरतं स्तम्भिताऽश्रुभिः ॥ १२ ॥
श्रुत्वा तथाविधं मृत्यु कैकेयोतनयः पितुः ।
मातुन केवल स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥१३॥
ससैन्यश्चाऽन्वगाहामं दर्शितानाश्रमाऽऽलयैः ।
तस्य पश्यन्ससौमित्रे रुदश्रु वसतिद्धमान् ॥ १४ ॥
चित्रकूटवनस्थं च कथितवर्गति गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥ १५ ॥
स हि प्रथमजे तस्मिन् अकृतश्रीपरिग्रहे।
परिवेत्तारमात्मानं मेने स्वीकरणामुवः ॥ १६ ॥
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः।
ययाचे पादुके पश्चात् कतुं राज्याऽधिदेवते ॥ १७ ॥
स घिसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाऽविशत्पुरीम् ।
नन्दिग्रामगत स्तस्य राज्यं न्यासमिवाभुनक् ॥१८॥

प्रथमो बिन्दुः (३ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः। मातुः पापस्य भरतः प्रायश्चित्तमिवाऽकरोत् ॥ १६ ॥ रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार साऽनुजः शान्तो वृद्ध्क्ष्वाकुव्रतं युवा ॥२०॥ रामस्त्वाऽऽलनदेशत्वाद् भरताऽऽगमनं पुनः । ओशङ्कयोत्सुकसारङ्गां चित्रकूटस्थली जहौ ॥ २१ ॥ प्रययावातिथेयेषु घसन्नृधिकुलेषु सः। दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ २२ ॥ । बभौ तमनुगच्छन्ती विदेहाऽधिपतेः सुता। प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिष गुणोन्मुखी ॥ २३ ॥ अनसूयाऽतिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराऽङ्गरागेण पुष्पोचलितषट्पदम् ॥ २४ ॥ संध्याऽभ्रकपिशस्तस्य विराधो नाम राक्षसः। अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥२५॥ स जहार तयोर्मध्ये मैथिली लोकशोषणः । नभोनभस्ययोवृष्टिम् अवग्रह इवाऽन्तरे ॥ २६ ॥. तं विनिष्पिष्यकाकुत्स्थौ पुरा दूषयति खलीम् । गन्धेनाऽशुचिना चोते वसुधायां निचख्नतुः ॥ २७ ।। पञ्चवट्यां ततो रामः शासनात्कुम्भज़न्मनः। अनपोढस्थितिस्तस्थौ विन्ध्याऽद्रिः प्रकृताधिव ॥ २८॥ २, रावणाऽवरजा तत्र राघवं मदनाऽऽतुरा। अभिपेदे निदाघाऽऽर्ता व्यालीव मलयद्रुमम् ॥ २६ ॥ सा सीतांसंनिधावेष तं वने कथिताऽन्वया। अत्याऽऽरूढो हि नारीणाम् अकाललो मनोभवः ॥ ३०

(८४)
1
साहित्य-सुधा-संग्रहः
कलत्रवानहं बाले! कनीयांसं भजस्व मे।
इति रामो वृषल्यन्तीं वृषस्कन्धः शशाल ताम् ॥ ३१ ॥
ज्येष्ठाऽभिगमनात्पूर्व तेनाऽप्यनभिनन्दिता।
साऽभूद्रामाऽऽश्रया भूयो नदीवोभयकूलभाक् ॥३२॥
संरम्भ मैथिलीहासः क्षणसौम्यां निनाय ताम्।
निवास्तिमितां वेला चन्द्रोदय इवोधेः॥ ३३ ॥
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्याम् इत्यधेहि त्वया कृतम् ॥ ३४ ॥
इत्युक्त्वा मैथिली भर्तु रडू निविशती भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपधत ॥ ३५॥
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वना पश्चाद् बुबुधे विकृतेति ताम् ॥ ३६॥"
पर्णशालामथ क्षिप्रं विकृष्टाऽसिः प्रविश्य सः।
वैरूप्यपौनरुक्स्येन भीषणां तामयोजयत् ॥३७॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अडशाऽऽकारयाऽङ्गल्या तावतर्जयदम्बरे ॥ ३८॥
प्राप्य चाऽऽशु जनस्थानं खराऽऽदिभ्यस्तथाविधम् ।
रामोपक्रममाचल्यौ रक्षःपरिभ नवम् ॥ ३९ ॥
मुखाऽवयवलूनां तां नैर्ऋता यत्पुरो दधुः।
रामाऽभियायिनां तेषां तदेवाऽभूवमङ्गलम् ॥४०॥
उदाऽऽयुधानाऽऽपतत स्तान्द्रप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाऽऽशंसां चापे सीतां च लक्ष्मणे ॥ ४१ ॥
एको दाशरथिः कामं यातुधानाः सहस्रशः।
ते तु यावन्त एवाऽऽजी तावांश्च ददृशे स तैः ॥४२॥

प्रथमो बिन्दु:
(८५)
असजनेन काकुत्स्थः प्रयुक्तमथ दुषणम् । सही अर
न चक्षमे शुभाऽऽचारः स दुषणमिवाऽऽत्मनः ॥४३॥
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥४४॥
ते त्रयाणां शितैर्बाणै र्यथापूर्वविशुद्धिभिः ।
आयु देहाऽतिगैः पीतं रुधिरं तु पतत्रिभिः ॥४५॥
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददशेऽन्यच कबन्धेभ्यो न किंचन ॥४६॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥४७॥
राघवाऽस्त्रविदीर्णानां रावर्ण प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ४८ ॥
निग्रहात्स्वसु राप्तानां बधाश्च धनदाऽनुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥४६॥
रक्षसा मृगरूपेण पञ्चयित्वा स राघवी।
जहार सीतां पक्षीन्द्रप्रयासक्षणविनितः ॥५०॥
तौ सीताऽन्वेषिणौ गृध्र लूनपक्षमपश्यताम् ।
प्राणै दशरथप्रीते रनृणं कण्ठवर्तिभिः ॥५१॥
स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैराऽऽवेद्य संस्थितः ॥५२॥
तयोस्तस्मिन्नवीभूत-पितृव्यापतिशोकयोः ।
पितरीवाग्निसंस्कारात् परा षवृतिर क्रियाः॥॥५३॥'
वधनि—तशापस्य कबन्धस्योपदेशतः।
मुमूर्छ सख्यं रा य समानव्यसने हरौ॥ ५४॥

(८६)
साहित्य-सुधा-संग्रहः
स हत्वा बालिनं वीर स्तत्पदे चिरकांक्षिते ।
धातोः स्थान इवाऽऽदेश सुग्रीवं संन्यवेशयत् ॥ ५५॥
इतस्ततश्च वैदेही मन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरातस्य रामस्येव मनोरथाः ॥ ५६ ॥
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
मारुतिः सागर तीर्णः संसारमिव निर्ममः॥ ५७ ॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसोवृता।
जानकी विषवल्लीभिः परीतेव महौषधिः॥ ५८॥
तस्यै भतुरभिज्ञानम् अङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवाऽनुष्णे स्तदाऽऽनन्दाऽश्रुबिन्दुभिः ॥ ५६ ॥
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः।
स ददाह पुरी लङ्कां क्षणसोढाऽरिनिग्रहः ॥६॥
प्रत्यभिज्ञानरत्नं च रामायाऽदर्शयत्कृती।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ ६१ ॥
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः ।
महाऽर्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६२॥
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः।
न केवलं भुवः पृष्ठे व्योनि संबाधवर्तिभिः ॥ ६३ ॥ -
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६४ ॥
तस्मै निशाचरैश्वर्यं प्रतिशुधाव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ ५ ॥
स सेतुं बन्धयामास प्लवगैलवणाऽम्भसि ।
रसातलादिवोन्मग्नं शेषं खपाय शार्जिणः ॥६६॥

प्रथमो बिन्दु
(८७)
तेनोत्तीर्य पथा लङ्को रोधयामास पिङ्गलैः ।
द्वितीयं हैमप्राकारं कुर्वद्भिरिव वानरैः ॥ ६७ ॥
रण प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विजम्भितकाकुत्स्थ-पौलस्त्यजयघोषणः ॥ ६८ ॥
पादपाऽऽविद्धपरिघः शिलानिष्पिष्टमुद्रः।
अतिशस्त्रनखन्यासः शैलरुग्णमतगजः ॥ ६ ॥
अथ रामशिरश्छेद-दर्शनोभ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७० ॥
काम, जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्याऽन्तं जीधिताऽस्मीति लजिता ॥१॥
गरुडाऽपातविश्लिष्ट मेघनादाऽनबन्धनः ।
दाशरथ्योः क्षणक्लेशः वनवृत्त इवाऽभवत् ॥ ७२॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद् विदीर्णहृदयः शुचा ॥ ७३ ॥
समारुतिसमानीत-महौषधिहतव्यथः।
लङ्कास्त्रीणां पुनश्चके विलापाऽऽचार्यकं शरैः ॥ ४ ॥
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥ ७५ ॥
कुम्भकर्णः कपीन्द्रेण तुल्याऽवस्थः स्वसुः कृतः ।
रुरोध गमं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ७६॥
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवाऽसौ दीर्घनिद्रां प्रवेशितः ॥ ७ ॥
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ७७॥

(20) । साहित्य-सुधा-संग्रहः निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् । अरावण मरामं वा जगदद्योति निश्चितः॥७॥ रामं पदातिमालोक्य लङ्कशं च वरूथिनम् । हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः ॥ ८०॥ . तमाऽऽधूतध्वजपट व्योमगङ्गोर्मि वायुभिः । देवसूतभुजाऽऽलंबी जैत्रमध्वाऽऽस्त राघवः ॥ ८१ ॥ मातलिस्तस्य माहेन्दम् भामुमोच तनुच्छदम् । यत्रोत्पलदलक्लव्यम् अत्रापयापुः सुरद्विषाम् ॥ ८२ ॥ अन्योन्यदर्शनप्राप्त-विक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरिताऽर्थमिवाऽभवत् ॥ ८३ ॥ भुजमू?रुबाहुल्याद् एकोऽपि धनदाऽनुजः । ददशे हयथापूर्वो मातृवंश इव स्थितः ॥ ८४॥ जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् । राम स्तुलितकैलासम् अराति बहूमन्यत ।। ८५॥ रावणस्याऽपि रामाऽस्तो भित्वा हृदयमाशुगः । धिवेश भुवमाख्यातुम् उरगेभ्य इव प्रियम् ॥८६॥ घचसैष तयोर्वाक्यम् , अस्नमस्त्रेण निघ्नतोः। अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ८७ ॥ विक्रमव्यतिहारेण सामान्याऽभूद् द्वयोरपि । जयश्रीरन्तरा वेदि मत्तवारणयोरिव ॥८॥ कृतप्रतिकृतप्रीतै स्तयोर्मुक्तां सुराऽसुरैः । परस्परशरवाताः पुष्पवृष्टि न सेहिरे ॥ ८ ॥ अय शंकुचितां रक्षः शतम्तीमथ शत्रवे। हुतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ १०॥ ।

प्रथमोविन्दु (१) राघवो रथमप्राप्त तामाशां व सुरद्विषाम् । अर्धचन्द्रमुखैर्बाणै चिच्छेद कदलीसुखम् ॥६१ ॥ अमोघं संदधे चाऽस्मै धनुष्येकधनुर्धर । " ब्राझमस्त्रं प्रियाशोक-शल्यनिष्कर्षणौषधम् ॥ ३२॥ तयोम्नि शतधा भिन्तं ददशे दीप्तिमन्मुखम् । वपुर्महोरगख्येव करालफणमएडलम् ॥ ३ ॥ तेन मन्त्रप्रयुक्तन निमेषाऽर्धादपातयत् । स रावणशिरःपंक्तिम् अज्ञातवणवेदनाम् ॥१४॥ बालाऽर्कप्रतिमेवाऽप्सु वीचिभिता पतिष्यतः। रराज रक्षाकायस्य करउच्छे परम्परा ॥y nay मरुतां पश्यतां तस्य शिरांसि पतितान्यपि। मनो नाऽतिविशश्वास पुनः संधानशकिनाम् ॥ १६ ॥ अथ मदगुरुपर्लोकपालद्विपाना- मनुगत मलिवृन्दैर्गण्डभित्तीर्विहाय । । उपननमणिबन्धे मूर्ध्नि पौलस्त्यशोः सुरभि सुरविमुक्तं पुष्पवर्ष पपात ॥ १७ ॥ यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छय राघवमनुष्ठितदेवकार्यम् । नामाऽङ्करावणशराऽङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ १८ ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां, प्रियमुहदि विभीषणे संगमय्य धियं वैरिणः । रविसुतसहिनेन तेनाऽनुयातः ससौमित्रिणा भुजविजितविमानरताऽधिरूढः प्रतस्थे पुरीम् ॥६६ || इति द्वादशः सर्गः

२०)
साहित्य-सुधा-संग्रहः
प्रयोदशः सर्गः।
अथाऽऽत्मनः शब्दगुण गुणः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाऽभिधानो हरिरित्युवाच ॥१॥
वैदेहि ! पश्याऽमलयाद्विभक्त मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नम् आकाशमाविष्कृतचारुतारम् ॥ २॥
गुरोठियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे ।
तदर्थमुवीमवदारयद्भिः पूर्वैः किलाऽयं परिवर्धितो नः ॥३॥
गर्भ दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुते वसूनि ।
अबिन्धनं वह्निमसी बिभर्ति प्रहादन ज्योतिरजन्यनेन ॥४॥
तो तामवस्थां प्रतिपद्यमानं स्थित दश व्याप्य दिशो महिम्ना ।
विष्णोरिवाऽस्यानवधारणीयम् ईद्वक्तया रूपमियत्तया वा ॥५॥
लाभिप्ररूढाऽम्बुरुहाऽऽसनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥६॥
प्राच्छिदा गोत्रभिदाऽऽत्तगन्धाः शरण्यमेन शतशो महीधाः।
नृपा इवोपप्लषिनः परेभ्यो धर्मोत्तर मध्यममाश्रयन्ते ॥७॥
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहन क्रियायाः ।
अस्याऽच्छमम्भः प्रलयप्रवृद्ध मुहूर्तवक्त्राऽऽभरणं बभूव ॥ ८ ॥
स-सत्वमादाय नदीमुखाऽम्भः संमोलयन्तो विवृताऽऽननत्वात् ।
अमी शिरीभिस्तिमयः सरन्ध्र ऊवं वितन्वन्ति जलप्रवाहान् 1810
मातङ्गनः सहसोत्पतद्भिः भिन्नान्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ १० ॥
वेलाऽनिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः ।।
सूर्याऽशुसंपर्क समृद्धरागैः व्यज्यन्त एते मणिभिः फणस्थैः ॥ ११ ॥

* 1. प्रथमो बिन्दुः प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन । आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥१२॥ दूरादयश्चक्रनिभस्य तन्धी तमालतालीवनराजिनीला। आभाति वेला लवणाम्बुराशेः धारानिबद्धेव कलङ्करेखा ॥ ३॥ एते वयं सैकतभित्रशुक्ति-पर्यस्तमुक्कापटलं पयोधेः ।, प्राप्ता मुहूर्तेन विमानवेगात् कूलं फलाऽऽवर्जितपूगमालम् ॥१४॥ कुरुष्व तावत्करभोरु ! पश्चान् मार्गे मृगप्रेक्षिणि ! दृष्टिपातम्। एषा विदूरीभवतः समुद्रात् सकानना निष्पततीच भूमिः ॥१५॥ कचित्पथा संचरते सुराणां क्वचिद्धनानां पततां कचिच्च। यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ १६ ॥ असो महेन्द्र द्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः। आकाशवायुर्दिनयौवनोत्थान आचामनि स्वेदलवान्मुखे ते ॥१७॥ अमी जनस्थानमपोढविघ्न मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ १८ ॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अदृश्यत त्वच्चरणारविंद-विश्लेषदुःखादिव बद्धमौनम् ॥१६॥ त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे। अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिराऽऽवर्जितपल्लवाभिः ॥२०॥ मृग्यश्चदर्भाङ्करनिर्व्यपेक्षाः तवाऽगतिझं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि ॥२१॥ एतद्विरेमौल्यवतः पुरस्ताद आविर्भवत्यम्बरलेखि शृङ्गम् । नवं पयो यत्र धनैर्मया च त्वद्विप्रयोगात्रु समं विसृष्टम् ॥ २२ ॥ गन्धश्च धाराऽऽहतपल्वलानां कादम्बमोद्तकेसरं च । स्निग्धाश्च केकाः शिखिना बभूवुः यस्मिन्नसह्यानि विना त्वया मे ॥२३

1
(१२)
साहित्य-सुधा-संग्रहः
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लषसारसानि ।
दूरावतीर्णा पिवतीष खेदावमूनि पम्पासलिलानि दृष्टिः॥२४॥
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिंकिणीनाम् ।
प्रत्युद्वजन्तीव खमुत्पतन्त्यो गोदावरीसारसपंक्तयस्त्वाम् ॥ २५ ॥
एषा त्वया पेशलमध्ययाऽपि घटाऽम्बुसंवर्धितबालचूता।
आनन्दयस्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ २६॥
भ्रूमेदमात्रण पदान्मधोना प्रमशयां यो नहुषं चकार ।
तस्याऽपिलाम्मः परिशुद्धिहेतोः भौमो मुनेः स्थानपरिग्रहोऽयम् ॥२७॥
त्रेताऽग्निधूमाप्रमनिन्द्यकीतः तस्येवमाऽऽक्रान्तविमानमार्गम् ।
घ्रात्वा हविन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ २८ ॥
हविर्भुजामधघतां चतुर्णा मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाना सुतीक्ष्णश्चरितेन दान्तः ॥२६॥
धारास्वनोदारिदरीमुखोऽसौ शृंगाऽअलग्नाऽम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि! चक्षुः दृप्तः ककुमानिव चित्रकूटः॥३०॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदुरान्तरभावतन्वी।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ ३१ ॥
अयं सुजातोऽनुगिरं तमाल: प्रवालमादाय सुगन्धि यस्य ।
यवाऽङ्कुराऽऽपाण्डुकपोलशोभी मयाऽवतंसः परिकल्पितस्ते ॥ ३२ ॥
अनिग्रहत्रासविनीतसत्वम् अपुष्पलिंगात्फलबन्धिवृक्षम् ।
वनं तपःसाधनमेतदत्र: आविष्कृतोदनतरप्रभावम् ॥ ३३ ॥
अत्राऽभिषेकाय तपोधनाना सप्तर्षिहस्तोद्धृतहेमपनाम् ।
प्रवर्तयामास किलाऽनसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ ३४ ॥
वीरासनानजुषामृषीणाम् अमी समध्यासितवेदिमध्याः।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा व शाखिनोऽपि ॥३५॥

प्रथमो विग्ः
(६३)
कचित्प्रभालेपिभिरिन्द्रनीलै मुक्तामयी यष्टिरिवाजुविधा।
अन्यत्र माला सितपमानाम् इन्दीवरैरुस्खचितान्तरेव ॥ ३६॥
कचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पंक्तिः।
अन्यत्र कालागुरुवत्तपत्रा मक्तिर्भुवश्चन्दनकल्पितेव ॥ ३७॥
कचित्प्रभा चान्द्रमसी तमोभिः छायाविलीनःशवलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रष्विवाऽऽलक्ष्यनभः प्रदेशा ॥ ३ ॥
क्वचिच्च कृष्णोरगभूषणेव भस्माऽऽङ्गरागा तनुरीश्वरस्य ।
पश्याऽनवद्याङ्गि ! विभाति गङ्गा मिनप्रवाहा यमुनातरङ्गैः ॥३६ ॥
जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधाऽवभृथाऽक्तीर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि ॥ ४० ॥
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानस मे संभावयत्युत्तरकोसलानाम् ॥४१॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयू वियुक्ता।
दूरे वसन्तं शिशिराऽनिलैर्मा तरङ्गहस्तैरुपगृहतीव ॥ ४२ ॥
विरक्तसंध्याकपिर्श
पुरस्ताद्
यतो रजः पार्थिवमुज्जिहीते।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्तो मां भरतः संसैन्यः ॥ ४३॥
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे Bel
मसौ पुरस्कृत्य गुरु पदातिः पश्चादवस्थापितवाहिनीकः ।
वृधैरमात्यैः सह चीरवासा मामयंपाणि भरतोऽभ्युपैति ॥४५॥
एतावदुक्तवति दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथादवततार सविस्मयाभि-
नदीक्षित प्रकृतिभिर्भरताऽनुगामिः ॥४६॥

(६४)
साहित्य-सुधा-संग्रहः
तस्मात्पुरःसरविभीषणदर्शितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः।।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥४७॥
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य.
स भ्रातरं भरतमग्रंपरिग्रहाऽन्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
तद्भक्त्यपोढपितृराज्यमहाऽभिषेके ॥४८॥
श्मश्रुप्रवृद्धिजनिताऽऽननविक्रियांश्च
प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपाते.
धर्तािऽनुयोगमधुराऽक्षरया च वाचा ॥ ४ ॥
दुर्जातबन्धुरयमृक्षहरीश्वरो मे,
पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
इत्याऽऽदतेन कथितौ रघुनन्दनेन,
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥५०॥
सौमित्रिणा तदनु संससृजे स चैन-
मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग।
रूढेन्द्रजित्प्रहरणत्रणकर्कशेन.
क्लिश्यनिवाऽस्य भुजमध्य मुर:स्थलेन ॥५१॥
भूयस्ततो रघुपतिर्विलसत्यताक-
मध्यास्त कामगति साऽवरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदश्य-
स्तारापति स्तरलविधु दिवाऽभ्रवृन्दमः ॥ ५२.॥

प्रथमो बिन्दुः
(६५)
तत्रेश्वरेण जगतां प्रलयादिवो/-
वर्षात्ययेन रुचमभ्रधनादिवेन्दोः।
रामेण मैथिलमुतां दशकण्ठकृच्छा.
त्प्रत्युद्धतां धृतिमती भरतो ववन्दे ॥ ५३॥
लङ्केश्वरप्रणतिभङ्गदढव्रतं तद्
वन्धं युगं चरणयोर्जनकाऽऽत्मजायाः ।
ज्येष्ठाऽनुवृत्तिजटिलं च शिरोऽस्य साधो.
रन्योन्यपावनमभूदुभयं समेत्य ॥ ५४॥
क्रोशाऽर्धं प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमित-जवेन पुष्पकेण ।
शत्रुघ्रप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास ॥ ५५ ॥
रति त्रयोदशः सर्गः।
चतुदर्शः सर्गः।
भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र सम प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपनतरो प्रतत्यौ ॥१॥
उभावुभाभ्यां प्रणतो हतारी यथाक्रम विक्रमशोमिनी तौ।
विस्पष्टमसान्धतया न दृष्टौ शातौ सुतस्पर्शसुखोपलम्भात् ॥२॥
ओनन्दजः शोकजमश्रु बाष्प स्तयोरशीतं शिशिरो विभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाऽद्रिनिस्यन्द इवाऽवतीर्णः ॥३॥

(६)
साहित्य-सुधा-संग्रहः
ते पुत्रयोनैर्ऋतशस्त्रमार्यान् आद्रनिवाऽरु सवयं स्पृशन्त्यौ ।
अपोप्सितं क्षत्रकुलाऽङ्गनानां न वीरसूशष्टमकामयेताम् ॥ ४॥
क्लेशाऽऽवहा भर्तुरलक्षणाऽहं सीतेति नाम स्वमुदीरयन्ती ।
खर्गप्रतिष्ठस्य गुरोर्महिष्यो अभक्तिभेदेव वधू वारे ॥५॥
उत्तिष्ठ वत्से ! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
कृच्छं महत्तीर्ण इति प्रियाऽहाँ तामूबतु स्ते प्रियमप्यमिथ्या ॥६॥
अथाऽभिषेक रघुवंशकेतोः प्रारब्धमानन्दजलै जनन्योः ।
निवर्तयामासुरमात्यवृद्धाः तीर्थाऽऽहतैः काञ्चनकुम्भतोयैः॥७॥
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्ररुपपादितानि ।
तस्याऽऽपतन्मूर्ध्नि जलानि जिष्णोः विन्ध्यस्य मेघप्रभवा इवाऽऽपः॥८॥
तपखिवेशक्रिययाऽपि तावद् यःप्रेक्षणीयः सुतरां बभूव ।
राजेन्द्रनेपथ्यविधानशोभा तस्योदिताऽऽसीत्पुनरुक्तदोषा॥ ६ ॥
स मौलरक्षोहरिभिः ससैन्यः तूर्यखनाऽऽनन्दितपौरवर्गः ।
विवेश सौधोद्गतलाजवर्षाम् उत्तोरणामन्वयराजधानीम् ॥१०॥
सौमित्रिणा साऽवरजेन मन्दम् आधूतबालग्यजनो रथस्थः ।
धृताऽऽतपत्रो भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः ॥ ११ ॥
प्रासादकालागुरुधूमराजिः तस्याः पुरोवायुषशेन भिन्ना।
वनानिवृत्तेन रघूत्तमेन मुक्ता स्वयं घेणिरिवाऽऽवभासे ॥१२॥
श्वश्रूजनाऽनुष्ठितचारुवेषां कीरथस्या रघुवीरपत्नीम् ।
प्रासादवातायनश्यबन्धैः साकेतनार्योऽअलिभिः प्रणेमुः ॥१३॥
स्फुरतमालामण्डलमानसूयं सा बिभ्रती शाश्वतमङ्गरागम् ।
रराज शुद्धति पुनः स्वपुर्यै संवर्शिता पहिगतेष भर्ना ॥ १४ ॥
धेश्मानि रासः परिवईवन्ति विश्वाण्य सौहार्दनिधिः सुहद्भयः।
पापायमाणो बलिमनिकेतम् आलेल्यशेपस्य पितु विवेश ॥ १५ ॥

ne प्रथमो बिन्दु (१७) कृतालिस्तत्र-यदम्ब ! सत्यानाघ्रश्यत स्वर्गफलाद्गुरुनः। तश्चिन्त्यमान सुकृतं तवेति जहारलजा भरतस्य मातुः ।। १६ ।। तथैव सुग्रीव विभीषणादीन् उपाचरकृत्रिमसंविधाभिः । aiimgnifica संकल्पमात्रोदित सिद्धयस्तै क्रान्ता यथा चेतसि विस्मयेन ॥१७॥ सभाजनायोपगतान्स दिव्यान मुनीन्पुरस्कृत्य हतस्य शत्रोः । शुश्राव तेभ्यः प्रभवादि वृत्तं वधिकमे गौरवमादधानम् ॥ १८ ॥ प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् । सीतासहस्तोपहृतात्र्यपूजारक्षाकपीन्द्रान्विससर्ज रामः ॥१६॥ तश्चात्मचिंतासुलभं विमानं हतं सुरारेः सह जीवितेन । कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्धमस्त ॥ २० ॥ m पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्न राज्यः । mms धर्माऽर्थकामेषु समां प्रपेदे यथा तथैवाऽपरजेषु वृत्तिमरिता सर्वासु मातृष्वपि वत्सलत्वात् स निर्विशेषप्रतिपत्तिरासीत् । षडाननाऽऽपीतपयोधरासु नेता चमूनामिष कृत्तिकासु ॥ २२ ॥ तेनार्थवाँलोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् । तेनाऽऽस लोकः पितृमान्विनेत्रा तेनैव शोकाऽपनुदेन पुत्री ॥ २३ ॥ अथाऽधिकस्निग्यविलोचनेन मुखेन सीता शरपाण्डुरेण । आनन्दयित्री परिणेतुरासीद् अनक्षरव्यञ्जितदोहदेन ॥ २४ ॥ सा दष्टनीवारबलीनि हिौः संबद्धवैखानसकन्यकानि । इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ २५ ॥ तस्यै प्रतिश्रुत्य रघुवीरः तदीप्सितं पार्श्वचराऽनुयातः। आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारोह ॥ २६ ॥ ऋद्धाऽऽपर्ण राजपथं स पश्यन् विगाह्यमानां सरयूं च मौभिः । विलासिभिश्चाध्युषितानि पौरः पुरोपकण्ठोपवनानि रेमे ।। २७ ।।

म (६८) साहित्य-सुधा-संग्रहः मा किंवदन्तीं पदतां पुरोगः खवृत्तमुद्दिश्य विशुद्धवृत्तः। सोऽधिराजोरुभुजोऽपसपं पप्रच्छ भद्र विजिताऽरिभद्रुः ॥ २८ ॥ निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् । अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव ! देव्याः ॥ २६ ॥ कुलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण। अयो-घनेनाऽय इवाऽभितप्तं वैदेहिबन्धोहदयं विदद्रे ॥३०॥ किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि । इत्येकपक्षाऽऽश्रयविक्लवत्वाद् आसात्स दोलाचलचित्तवृत्तिः ॥३१॥ "निश्चित्य चाऽनन्य निवृत्तिवाच्यं त्यागेन पत्न्याः परिमाटुंमैच्छत् । अपि स्वदेहाकिमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ ३२॥ स संनिपात्याऽवरजान्हतौजा स्तद्रिक्रियादर्शनलुमहर्षान् । कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाश्यम् ॥ ३३॥ राजर्षिवंशस्य रविप्रसूतेः उपस्थितः पश्यत कीदृशोऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोड़वातादिव दर्पणस्य ॥ ३४ ॥ पौरेषु सोऽहं बहुलीभवन्तम् अपां तरङ्गेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिक स्थाणुमिव द्विपेन्द्रः ॥ ३५ ॥ तस्याऽपनोदाय फलप्रवृत्ती उपस्थितायामपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमि पितुराशयेव ॥३६॥grat अवैमि चैनामनघेति किंतु लोकापवादो बलवान् मतो मे। छाया हि भूमेः शशिनो मलत्वेनाऽऽ रोपिता शुद्धिमतःप्रजाभिः ॥३॥ रक्षोवधाऽन्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय। ला अमर्षणः शोणितकांक्षया किं पदा स्पृशन्त दशति द्विजिहुः ॥३८॥ तदेष सर्गः करुणाचित्तै नं मे भवद्भिः प्रतिषेधनीयः । यद्यर्थिता निहतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः ॥३६॥ Carl Arun प्रथमो बिन्दुः (88) इत्युक्तवन्तं जनकात्मजायां नितान्तरुक्षाऽभिनिवेशमीशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेधुमासीदनुमोदितुं वा ॥ ४० ॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः। सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥४१॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव । स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ ४२ ॥ स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विपद्वत् । प्रत्यग्रहीदग्रजशासनं तद् आशा गुरूणां ह्यविचारणीया ॥४३॥ अथाऽनुकूलश्रवणप्रतिीम् अत्रस्नुभियुक्तधुरं तुरङ्गः। समान रथं सुमन्त्रप्रतिपन्न रश्मिम् आरोप्य वैदेहसुतां प्रतस्थे ॥४४॥ सा नीयमाना रुचिरान्प्रदेशान् प्रियंकरो मे प्रिय इत्यनन्दत् । नाऽबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ ४५ ॥ जुगूह तस्याः पथि लक्ष्मणों यत् सव्येतरेण स्फुरता तदक्ष्णो। आख्यातमस्यै गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन ॥ ४६ ॥ ra सा निमित्तोपगताद्विषादात् सद्यः परिम्लानमुखाऽरविन्दा । राज्ञः शिवं साऽवरजस्य भूयाद् इत्याशशंसे करणैरवाहीः ॥४७॥ गुरोनियोगाद्वनितां बनान्ते साध्वीं सुमित्रातनयो विहास्यन् । अवार्यतेवोस्थितवीचिहस्तै होहित्रा स्थितया पुरस्तात् ॥ ४८ ॥ रथात्स यन्त्रा निगृहीतवाहात् तां भ्रातृजायां पुलिनेऽवतार्य। गङ्गो निषादाहृतनौविशेषः ततार संधामिव सत्यसंधः ॥४६॥ अथ व्यवस्थापितवाक्कथंचित सौमित्रि रन्तर्गतवाष्पकण्ठः। औत्पातिक मेघ इवाऽश्मवर्षं महीपतेः शासनमुजगार ॥ ५० ॥ ततोऽमिषङ्गाऽनिलविविधा प्रभ्रश्यमानाऽऽभरणप्रसूना । समूर्तिलाभप्रकृति धरित्रीं लतेव सीता सहसा जगाम ॥ ५१ ।। (mfam

मोहाभूतात
का प्रबांधः॥५३॥
(१००)
साहित्य-सुधा-संग्रहः
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेश जननी न तावत् ॥ ५२ ।।
सा लुतसंशा न विवेद दुःखं प्रत्यागतासुः समतप्यताऽन्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो
न चाऽवदद्भर्तुरवर्णमार्या निराकार प्णोर्वृजिनाइतेऽपि ।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनटुकृतिनं निनिन्द ॥ ५४॥
भाश्चास्य रामावरजः सतीं ताम् आख्यातवाल्मीकिनिकेतमार्गः।
'निनस्य मे भर्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव नम्रः ॥ ५५ ॥
सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य ! चिराय जीव ।
विडोजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ ५६ ॥
श्वश्रृजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेक मयि धर्तमानं सूनोरनुध्यायत चेतसेति ॥५७ ॥
घाच्यस्त्वया मद्वचनात्स राजा वही विशुद्धामपि यत्समक्षम् ।
श्रमा लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदशं कुलस्य ॥ ५८ ॥
कल्याणबुद्धेरथवा तवाऽयं न कामचाग्ने मयि शङ्कनीयः।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ ५ ॥
उपस्थितां पूर्वमपास्य लक्ष्मों वनं मया सार्धमसि प्रपत्रः।
.तदास्पदं प्राप्य तयाऽतिरोषात् सोढाऽसि नत्वद्भवने वसन्ती॥६०॥
म
निराबरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥ ६१ ॥
किं वा तवाऽत्यन्तवियोगमोघे कुर्यामुपेक्षा हतजीवितेऽस्मिन् ।
स्याद्रक्षणीयं यदि मेन तेजः त्वदीयमन्तर्गतमन्तरायः॥ ६ ॥
साऽहं तपः सूर्यनिविष्टदृष्टिः ऊध्वं प्रसूतेश्चरितुं यतिये ।
भूयो यथा मे जननाऽऽन्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ ६३ ॥

प्रथमो बिन्दुः (१.१) नृपस्य वर्णाऽऽश्रमपालन यत् स एव धर्मों मनुना प्रणीतः। निर्वासिताऽप्येवमतस्त्वयाऽहं तपखिसामान्यमवेक्षणीया ॥ ६४ ॥ तथेति तस्याः प्रतिगृह्य वाचं रामाऽनुजे दृष्टिपथ व्यतीते । पिन सा मुक्तकण्ठं व्यसनाऽतिभारात् चक्रन्द विना कुररीव भूयः॥६५॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपातान्विजहु हरिण्यः । तस्याः प्रपन्ने समदुःखभावम् अत्यन्तमासीद्रुदितं वनेऽपि ॥ ६ ॥ तामभ्यगच्छद्रुदिताऽनुसारी कविः कुशेध्माऽऽहरणाय यातः। निपादविद्धाऽण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥६॥ तमच नेत्राऽऽवरणं प्रमृज्य सीता विलापाद्विरता धवन्दे । तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्चान्सुपुत्राऽऽशिषमित्युवाच ॥ ६८॥ जाने विसृष्टां प्रणिधानतस्त्वां मिथ्याऽपवादक्षुभितेन भ; । तन्मा व्यथिष्ठा विषयाऽन्तरस्थं प्राप्ताऽसि वैदेहि ! पितुर्मिकेतम् ॥६६॥ उत्खातलोकत्रयकएटकेऽपि सत्यप्रतिक्षेऽप्यविकत्थनेऽपि । त्वां प्रत्यकस्मात्कलुषप्रवृत्ती अस्त्येव मन्युभरतानजे मे ॥ ७० ॥ तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते। धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनाऽसि ममाऽनुकम्प्या ॥७॥ तपस्विसंसर्गविनीतसत्वे तपोवने वीतभया वसाऽस्मिन् । इतो भविष्यत्यनघप्रसूतेः अपत्यसंस्कारमयो विधिस्ते॥७२॥ अशून्यतीरां मुनिसंनिवेशैः तमोपहन्त्री तमसा वगाह्य । तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ।। ७३ ।। पुष्पं फलं चाऽऽर्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि । विनोदयिष्यन्ति नवाऽभिषंगाम् उदारवाचो मुनिकन्यकास्त्वाम् ॥४॥ पयोटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलाऽनुरूपैः । असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ ७५ ॥ nam (१०२) साहित्य-सुधा-संग्रहः अनुग्रहप्रत्यभिनन्दिनी तां वाल्मीकिरादाय दयाऽऽर्द्रचेताः। सायं मृगाऽध्यासितवेदिपार्श्व स्वमाश्रम शान्तमृगं निनाय ॥ ७६ ॥ तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिहिमांशोः अन्त्यां कलां दर्श इवौषधीषु ॥ ७७ ॥ ता गुदीस्कृतप्रदीपम् आस्तीर्णमेध्याऽजिनतल्पमन्तः । तस्यै सपर्याऽनुपदं दिनान्ते निवासहेतोरुटज वितेरुः ॥ ७८ ॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनाऽतिथिभ्यः। वन्येन सा वल्कलिनी शरीर पत्युः प्रजासंततये बभार ॥ ७६ ॥ अपि प्रभुः सानुशयोऽधुना स्यात् किमुत्सुकः शकजितोऽपि हन्ता। शशंस सीतापरिदेवनान्तम् भनुष्ठितं शासनमग्रजाय ॥ ८॥ बभूव रामः सहसा सवाष्पः तुपारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहानिरस्ता न तेन वैदेहसुता मनस्तः ॥ ८१ ॥ निगृह्य शोकं खयमेव धीमान् वर्णाश्रमाऽवेक्षणजागरूकः। स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥ ८२ ॥ सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ ८३ ॥ (रघुवंश महाकाव्यात्) इति चतुर्दशसर्गः

अभिज्ञान शाकुन्तलचम्पू:
या सृष्टिःस्रष्टुराया, वहति विधिहुतं या हवि, र्या च होत्री,
ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वभूतप्रकृतिरिति, यया पाणिनः पाणवन्तः
प्रत्यक्षाभिः पूपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १ ॥
एकदा दुष्यन्तो नाम राजा मृगयां कर्तुं वनं जगाम । एके-
नातिरंहसा मृगेण सुदूरमाकृष्टः सारथिमुवाच-"सूत ! कथमनुपतत
एव मे मृगोऽयं प्रयत्नप्रेक्षणीयः संवृत्तः । अयमिदानीमपि-
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः,
पश्चार्धेन पूविष्टः शरपतनभयाद्भयसा पूर्वकायम् ।
दभैरर्धाऽवलीः श्रमविवृतमुखभ्र शिभिः कीर्णवा,
पश्योदनप्लुतत्वाद्वियति बहुतरं स्तोकमुया पूयाति ॥ २॥
सूतोऽब्रवीत्- “आयुष्मन् ! उद्घातिनी भूमिरिति मया रश्मि-
संयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एप विप्रकृष्टान्तरः
संवृत्तः । संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यतीति" ,
ततो दुष्यन्ताऽऽक्षया मुक्तेष्वभीषुषु धावतोऽश्वान्वीक्ष्य राजोवाच-
"मुक्तेषु रश्मिषु निरायतपूर्वकाया,
निष्कम्पचामरशिखा निभृतोलकर्णाः
आत्मोद्धतैरपि रजोभिरलकनीया,
धावन्त्यमी मृगजवाऽतमयेव रथ्याः ॥३॥

- (१०४) साहित्य-सुधा-संग्रहः सत्यमतीत्य हरितो हरीन् वर्तन्ते वाजिनः । तथाहि- यदालोके सूक्ष्मं ब्रजति सहसा तद्विपुलताम् , यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो. न मे दूरे किंचित्क्षणमपि न पार्वे रथजवात्" ॥ ४ ॥ एवमुक्त्वा मृगं व्यापादयितुं यावच्छरसंधानमकरोत्तावद्- "भो राजन् ! आश्रममृगोऽयं न हन्तव्यः न हन्तव्य" इत्युच्चै ाहरन् वैखानसःसह द्वाभ्यामन्याभ्यां तपस्विभ्यां बाणपातवर्तिनः कृष्णसार- स्थान्तर उपस्थितोऽवोचच-“तूलराशौ वहिरिवास्मिन्मृदुनि मृगशरीरे बाणो नैव सन्निपात्यः । क पत हरिणकानामति लोल जीवित कच तत्र निशिननिपाता वज्रसारा: शराः । तत्साधुकृतसंधानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि" इति ॥ ५ ॥ ततोष्यदुन्तेन प्रतिसंहते शरे वैखानसा पुनरुषाच-"पुरुवंश- प्रदीपस्य भवतः सदृशमेवैतत्- जन्म यस्य पुरोर्वशे युक्तरूपमिदं तव । पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ ६ ॥ "वयं समिदाहरणाय प्रस्थिताः, एष खलु कण्वस्य कुलपतेरनु मालिनीतीरमाश्रमो दृश्यते । नचदन्यकार्यातिपातः, प्रविश्य प्रतिगृह्य- तामातिथेयः सत्कारः । कुलपतिः कण्वो दुहितरं शकुन्तलामतिथि- सत्काराय नियुज्य दैवमस्याः प्रतिकूल शमयितुं सोमतीर्थ मिदा. नीमेवगतः। तत्र गत्वा- .

प्रथमो बिन्दुः (१०५) रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुनो मे रक्षति मौर्वीकिरणाऽ इति ॥७॥ वयमपि साधयामोऽधुनाइति । राजा बभाषे-"सूत!चोदयाश्वान् । पुण्याऽऽश्रम दर्शनेन तावदात्मानं पुनीमहे । शकुन्तलांद्रक्ष्यामि । सा खलु विदितभक्ति माँ महर्षेः कथयिष्यति। ततः कतिचित्पदानि गत्वा समन्तादवलोक्य च राजा सूतमुवाच- “सूत ! अकथितोपि ज्ञायत- एव यथायमाश्रमभोगस्तपोवनस्य । किन्न पश्यति भवान् । इह हि- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, पस्निग्धाः कचिदिदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा. स्तोयाऽऽधारपथाश्च वल्कलशिखानिष्यन्दरेखाऽङ्किताः ॥८॥ तपोवननिवासिनामुपरोधो मा भूदिति दूर एवाऽऽश्रमस्य रथ स्थापयित्वा राजाऽवातरत् । “विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम” इत्युक्त्वा दुष्यन्तः सूतायाभरणानि धनुश्चोपनीयार्पयत्, आज्ञापयामास च- "सूत! यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदाईपृष्टाः क्रियन्तां वाजिनः" इति । यदा दुष्यन्त आश्रमं प्रविवेश तदाऽस्य शुभाऽऽशंसी दक्षिणो बाहुः पस्पन्दे ।सुशकुनस्यास्य सूचनया चकित स आत्मगतं चिंतयामास- "शान्तमिदमाश्रमपदं स्फुरति च वाहुः कुतः फलमिहाऽत्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥8॥ तस्मिन्नेवक्षणे दक्षिणेन वृक्षवाटिकाम् "रत इतः संख्योणत्या- लापमणोत् । तदा शकुन्तला सह प्रियंवदाऽनसूयाभिधानाभ्यां (१०६) साहित्य-सुधा-संग्रहः सखीभ्यां स्वप्रमाणानुरूपैः सेवनघटेर्वालपादपेभ्यः पयो दातु तत्रैवागता। ता निपुणं निरूप्य तासां मधुरयाऽऽकृत्या विस्मितो दुश्यन्त. श्छाया माश्रित्य प्रतिपालयस्थितः । अनसूयोवाच- "शकुन्तले ! त्वत्तोपि तातकाश्यपस्याऽऽश्रमवृक्षकाः प्रियतरा इति तर्कयामि, येन नवमालिकाकुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता” इति । शकुन्तला प्रत्यवदत्- “न केवलं तानियोग एव, अस्ति मे सोदरस्नेह एतेषु" इति । अनेन संवादेन शकुन्तलां कण्वदुहितरं राजाऽजानात् । सलिलसेकसंभ्रमोद्गतो मधुकरो नवमालिकामुज्झित्वा शकुन्तलाया वदनमभ्यवर्तत। भीता शकुन्तला- "परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरणाऽभिभूयमानाम्" इति व्याजहार । सख्यौ सस्मितं प्रोचतुः “के आवां परित्रातुम् ? राजरक्षितव्यानि तपोधनानि नाम । तस्माद्दुष्यन्तमाक्रन्द" इति । “अवसरोऽयमा. त्मानंदर्शयितुम" इति मत्वा दुष्यन्तः सत्वरमुपसृत्य ध्याजहार- "न भेतव्यं न भेतव्यम्- कः पौरवे वसुमती शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यामु॥१०॥ सर्वा राजानं दृष्ट्वा किंचिदिव संभ्रांताः। ततोऽनसूयोवाच- "आर्य! न किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता" इति । अनसूया पुनरपि दुष्यन्तं बभाषे-"आर्यस्य मधुरा- लापजनितो विश्रम्भो मा मन्त्रयते । कतम आर्येण राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किन्निमित्तं वा सुकुमार- तरोऽपि तपोवनागमनपरिश्रमस्याऽऽत्मा पदमुगनीतः इति। आत्मापहार कर्तुमिच्छन्, राजा प्रत्यवदत्-"यः पौरवेण राजा धर्माधिकार नियुक्तः । प्रथमो बिन्दुः (१७) सोऽहमविघ्न क्रियोपलम्भाय धर्मारण्यमिदमायातः । अपि तपो वर्धते" ? शकुन्तला सायसमदवचनाऽतिष्ठत् । अनसूयातं प्रत्युवाच-"इदानीमतिथिविशेपलाभेन धन्या वयम्। हला शकुन्तले ! गच्छोटजम् । फलमिश्रमय॑मुपहर । इदं पादोदकं भविष्यति” । राजोवाच-"भवतीनां सूनृतयैव गिरा कृतमातिथ्यम्। प्रियंवदाऽवदत्"तेनह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायांमुहूर्तमुप- विश्य परिश्रमविनोदं करोत्वार्यः । हलाशकुन्तले ! उचितं नः पर्युपास- नमतिथीनाम् । अत्रोपविशामः” । ततः सर्वे वृक्षच्छायायामुपविष्टाः । अत्रान्तरे, "भोस्तपस्विनः ! सन्निहितास्तपोवनरक्षाये भवत, प्रत्यासमा किल मृगयाविहारी पार्थिवो दुष्यन्तः । तुरगखुरहतस्तथाहि रेणु- विटपविपक्तजलावल्कलेषु । पतति परिणताऽरुणप्रकाशः, शलभसमूह इवाऽऽश्रमद्रुमेषु ॥ ११ ॥ अपिच- तीवाऽऽघातप्रतिहततरुः स्कन्धलग्नैकदन्तः पादाकृष्टत्रततिवलयाऽऽसंगसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो. धर्मारण्यं प्रविशति गजः स्यन्दनाऽऽलोकभीतः" ॥ १२ ॥ इत्युच्चैराश्रमवासिनां वैखानसानामुक्तिः कर्णपथाऽतिथीकृता। तच्छुत्वा राजात्मगतमूचे। “अहो धिक, पौरा अस्मदन्वेषिणस्तपोवन- मुपरुन्धन्ति। भवतु प्रतिगमिष्यामस्तावत्, इति । आरण्यकवृत्तान्तेन पर्याकुला अनसूया यदोटजगमनायानुशा. मयाचत तदा राजा- - .. (१०८) साहित्य-सुधा-संग्रहः । “वयमपि, यथाऽऽश्रमपीड़ा न भविष्यति तथा प्रयतिष्यामहे" इत्युक्त्वा प्रतिनिवृत्तः । शकुन्तलाव्यापारादात्मानं !निवर्तयितुम- क्षमश्च मंदौत्सुक्यो नगरगमन प्रति- "समेत्यानुयात्रिकान्नाति- दूरे तपोवनस्य निवेशयेयम्" इति विचार्य च तत्रैवाव स्थितः । ततो मृगयाशीलस्यराज्ञः प्रियवयस्यो विदुषको ग्रीष्मविरलपादपच्छा. यासु धनराजिष्वाहिण्ड्य, निर्वेदमापन्नो राजानमुवाच- "प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां गात्राणामनीशोऽस्मि संवृत्तः। तत्प्रसीद, मामेकाहमपि विश्रमितुं विसृजेति"। राजापि शकुन्तलामनुस्मृत्य मृगयायां मन्दाऽऽदरः सेनापतिमाहूय निजगाद- "सेनापते ! मन्दोत्साहः कृतोऽस्मि मृगयापवादिना प्रियवयस्येन" इति । सेनापतिरब्रवीत्- “कोऽपरी मृगयासदृशो विनोदः । ननु प्रभुरेष निदर्शनम् । मेदश्छेदकशोदरं लघु भवत्युत्थानयोग्यं वपुः, सत्वानामपि लक्ष्यते विकृतिमच्चिसंभयक्रोधयोः । उत्कर्षः स च धन्विना यदिषवः सिध्यन्ति लक्ष्ये चले, मिथ्यैव व्यसनं वदन्ति मृगयामीविनोदः कुतः। ॥१३॥ आश्रमस्यात्यन्तनिकृष्टतया, राजा सेनापतेर्वचो नाभ्यनन्दत् उवाचच- "शमधानेषु तपोधनेषु- गूढं हि दाहात्मकमस्ति तेजः। स्पर्शानुकूला इव सूर्यकान्ता- स्तदन्यतेनो ऽभिभवाद्वमन्ति ॥ १४॥ तेन हि निवर्तय पूर्वगतान्वनग्राहिणः। यथा न मे सैनिका- स्तपोवनमुपरुन्धन्ति तथा निषेद्धव्या इति । अथ तावत्- प्रथमो बिन्दुः (१०६) गाहा महिषा निपानसलिलं श्रृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं क्रियतां वराहपतिभि मुस्ताक्षतिः पन्चले विश्रामं लभता मिदश्च शिथिलज्यावन्धमस्मद्धनुः” ॥१॥ तस्मिन्नेव क्षणे दर्शनार्थ मागतौ द्वावृषिकुमारौ राज्ञो दीप्ति- मतोऽपि वपुषो विश्वसनीयता प्रेक्ष्य विस्मितो परस्परमूचतुः- "अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रसायोगादयमपि तपः प्रत्यहं सचिनोति । अस्याऽपि द्या स्मृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १६ ॥ नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम् एकः कृत्स्ना नगरपरिधांशुबाहु नक्ति । आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्यै- रस्याऽधिज्ये धनुषि विजयं पौरुहूते च वज्र" ॥ १७ ॥ ततो राक्षे फलान्युपहारीकृत्य तं विज्ञापयामासतुः- "विदितो भवानाश्रमवासिनामिहस्थः । तेच-तत्र भवतः कण्वस्य महर्षे रसान्निध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति, तत्कतिपयरात्रं सारथि द्वितीयेन भवता सनाथीक्रियतामाश्रम इति भवन्तं प्रार्थयन्ते" इति। राजा ऋषीणामभ्यर्थना मानयित्वा सबाणकार्मुकं रथमारुह्य तपोवन मुपेयिवान् । प्रविष्टमात्र एव दुष्यन्ते निरुपप्लवानि तापसानां कर्माणि संवृत्तानि । तपोवनवासावसर एव शकुन्तला.

(११०) साहित्य-सुधा-संग्रहः दुष्यन्तयोरनुरागः परस्परं पर्यचीयत । राजा च तस्याः पाणि गान्धर्वविधिना जग्राह । कदाचिदनसूया प्रियंवदामवादीत्-"इज्यारक्षां परिसमाप्य ऋषिभि- विसर्जितो दुष्यन्त आत्मनोनगरं प्रविश्यान्तःपुरसमागतः शकुन्तलागतं वृत्तान्तं स्मरति वा न वेति सा तां प्रत्यवदत्- “सखि ! विश्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तातकाश्यपः पुनरिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति मे चिन्ता ! अनसूयया ऽभ्यधायि-“गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्र. थमः तस्य संकल्पः। तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो- गुरुजनः। तस्मात्तातस्याऽनुमतंभवेदेतदित्यहं पश्यामीति" । तस्मि- न्नेव क्षणे दुर्वासा ऋषिरात्मानमतिथित्वेन न्यवेदयत् । यद्यपि एकाकि- न्येव शकुन्तलोटजसंनिहितासीत्तथाऽपिदुष्यन्त मेवध्यायन्ती अभ्या- गतमृर्षि प्रमादादतिथिसपर्यया न पर्यचरत् । सुलभकोपोऽसौ महर्षि- स्तामशपत्- "विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति खां न स बोधितोऽपि सन् कथांप्रमत्तः पृथमं कृतामिव ॥१८ रोषाऽतिशयवशादुरुचरत रत्प्रलयघनघनगर्जितमिव तर्जितोत्तरं तत् शापवचनं दूरादेवाऽऽकर्ण्य महौशकुन्तला मपराद्धां विज्ञाय. विज्ञापितोऽनसूयया दुवांसा:- यद्, “भगवन् ! प्रथम इति प्रेक्ष्याऽवि- शाततपःप्रभावस्य दुहितृजनस्य भगवतैको ऽपराधो मर्पितव्य इति । ततो "न मे वचनमन्यथा भवितुमर्हति कित्वभिमानाभरणदर्शनेन शापो निवर्तिष्यते” इति मन्त्रयित्वा दुर्वासा अन्तर्हितः। यदा दुष्यन्तो राजधानी प्रस्थितस्तदा तेन स्वनामधेयाऽङ्कित- मङ्गलीयकं स्मरणीयमिति शकुन्तलाया हस्ते स्वयमेवापिनद्धमासीत् प्रथमो बिन्तुः ( १११) तत्संस्मृत्य संजातकिञ्चिदाश्वासाभ्यां तत्सखीभ्यांनिश्चयः कृतो. यद्-"द्वयोरेवाऽवयोर्मुखे शापवृत्तान्त एष तिष्ठतु यतो रक्षि- तव्या प्रकृतिपेलवा प्रियसखीति” । अथ गते बहुतिथे कालेऽपि यदा दुष्यन्तो लेखमात्रमपि न व्यसृजत् तदोद्विग्ना ऽनसूया प्रियंवदया सहा ऽचिन्तयत्-"अभिज्ञानमङ्गुलीयक राज्ञे प्रेषयामः । दुःखशीले- तपस्विजने कोऽभ्यथ्यताम् । ननु सखीगामी दोष. इति व्यवसिताऽपिन पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्पन्तपरिणीतामा- पन्नसत्वां शकुन्तला निवेदयितुमिति । इत्थंगतेऽस्माभिः किं नु खलु करणीयमिति। यदा करवः प्रवासा निवृत्याग्निशरणं प्रविष्टस्तदा ऽशरीरिण्या वाण्या शकुन्तलागतो वृत्तान्तस्तस्मै कथितः । ततो लजावनतमुखी शकुन्तलां परिष्वज्य कण्वेनैवभिनन्दितं-"वत्से ! सुशिष्यपरिदत्तेव विद्याऽशोचनीयाऽसि मे संवृत्ता । अद्यैव ऋषिपरिरक्षितत्वां भर्तुः- सकाशं विसर्जयामीति" । यावच्छ कुन्तलाया अङ्गेष्वाभरणविनियोगं सख्यावकुरुतां तावत्स्नानोत्थितः करवोऽचिन्तयत्- "यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृत्तिकलुपश्चिन्ताजडं दर्शनम् । वैलव्यं मम तावदीदृशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेपदुखैर्नवैः। ॥१६॥ ततोऽग्नोन् प्रदक्षिणीकृत्य प्रस्थितां शकुन्तलामवलोक्य तात- कएवः स्नेहगद्गदकण्ठेन समोपवर्तिनस्तरून प्रोवाच-"भोः भोः संनिहितास्तपोवनतरवः ! पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नाऽऽदत्ते प्रियमएडनापि भवतां स्नेहेन या पल्लवम् ।

- (११२) साहित्य-सुधा-संग्रहः आये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्" ॥२०॥ ततो लताभगिनी वनज्योत्स्ना समामन्त्र्य द्वित्राणि पदानि प्रचलिता शकुन्तला केनचित् स्पर्शन गतिभंगमनुभूय परावृत्याऽवलो. क्याऽकथयत्-“को नु खल्वेष निवसने मे सजति" | तातः प्रत्यूचे- "वत्से! यस्य खया व्रणविरोपणमिङ्गुदीनां तैलं न्यपिच्यतमुखे कुशसूचिविद्ध । श्यामाकमुष्टिपरिवर्द्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्त" ॥ २१ ॥ शकुन्तलाऽवोचत्-"वत्स! कि सहवासपरित्यागिनी मामनु- सरसि । अचिरप्रसूतया जनन्या विना विवद्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । तन्निवर्तस्व" इति रुदती प्रस्थिता । ततः कण्वोऽवादीत्-"वत्से ! अलं रुदितेन, स्थिरा भव, इतः पन्थानमवलोकय- उत्पक्षमणोनयनयोरुपवृत्ति वाष्पं कुरु स्थिरतया विरतानुबन्धम् । अस्मिन्बलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ २२ ॥ ततः सा सह पित्रा, शारिवादिभिः शिष्यैश्च, अग्रिमं पन्था- नमगच्छत् । यदा कण्वः शकुन्तलां दूरमनुससार तदा शाङ्गरव उवाच-"भगवन् ! ओदकान्तात्स्निग्धो जनोऽनुगन्तव्य इति श्रूयते, प्रथमो बिन्दुः (१३) तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसीति । यावत्कएवो. दुष्यन्तस्याऽनुरूपं सन्देशमचिन्तयत्तापनलिनीपत्रान्तरितविग्रहमपि सहचरमदृष्ट्वा रटन्तीं चक्रवाकी प्रेक्ष्य शकुन्तला दुर्निमित्तमिति मत्वा दुःखिता बभूव । करव उवाच-“शारिव ! त्वया मचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः- अस्मान् साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनः त्वय्यस्याः कथमप्यबान्धवकृर्ता स्नेहप्रवृत्तिं च साम् । सामान्यपूतिपत्तिपूर्वकमियं दारेषु दृश्या खया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥२३॥ - ततः करायः शकुन्तलामनुशशास-“सा स्वमितः पतिकुल प्राप्य- - शुश्रूषख गुरुन् , कुरु प्रियसखीत्तिं सपनीजने, भर्तु विप्रकृतापि रोषणतया मास्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः" इति ॥२४॥ ततः प्रस्थिता शकुन्तला "यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्येदमात्म नामधेयांकितमंगुलीयकं दर्शय” इति सखीभ्या मुक्ता साऽऽशङ्कमुवाच- "अनेन वां सन्देहेनाकम्पितास्मीति"। सख्या वूचतुः-"मा बिभेहिण। स्नेहःपापशंकीति"। शकुन्तलासगद्गदमुषाच- "कथमिदानीं तातस्याऽङ्कात् परिभ्रष्टा मलयतरूम्मूलिता चन्दनलता इव देशान्तरे जीवितं धारयिष्यामि। करवो नगाद "वत्से ! किमेवं कातरासि- - (११४) साहित्य-सुधा-संग्रहः अभिजनवतो भतुः श्लाध्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला। तनयमचिरात् प्राचीवार्क प्रस्य च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ २५ ॥ -शकुन्तला पितुः पादयोः पतित्वा तं वन्दे । कण्वो-"वत्से! यदहमिच्छामि ते तदस्तु" इति तमाशिषाऽयुक्त । शकुन्तलाऽऽश्रमा. भिमुखी भूत्वा पप्रच्छ-"तात ! कदा नु भूयस्तपोवन प्रेक्षिष्ये" इति । कण्व उवाच-"श्रूयताम- भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भ; तदर्पितकुटुम्बभरेण साई शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्। ॥२६॥ शकुन्तला भूयः पितरमाश्लिष्य प्रार्थयामास- “तपश्चरण- पीडितं तातशरीरम् तदल मम कृतेऽतिमात्रमुत्कण्ठितुम् । काश्यपः सनिःश्वासमुवाच- "शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् । उटजद्वारि विरुढं नीवारबलि विलोकयतः ॥२७॥ गच्छ शिवास्तेपन्थानः सन्तु"। ततः शकुन्तला शारिवादिभिः सह प्रस्थिता । करावश्च सह प्रियंवदाऽनसूयाभ्यामाश्रमं प्रतिनिववृते, प्रतिनिवर्तमानश्च मेने- "स्नेहप्रवृत्तिरेवंदर्शिनी । हन्त भोः शकुन्तलां पतिगृहं विसृज्य लब्धमिदानी खास्थ्यम् । कुतः- - प्रथमो बिन्दु (११५) अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः। जातो ममाऽयं विशदः प्रकामं प्रत्यर्पितन्यास इवाऽन्तरात्मा ॥२८॥ - अथैकदा राजाऽधिकारखेदं निरूप्य विवारयामास-"सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते जन्तुः, राक्षान्तु चरितार्थतार दुःखोत्तरैव । कुतः- औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नाऽतिश्रमाऽपनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदएडमिवाऽऽतपत्रम् ॥ २६ ॥ तदैव वैतालिकौ-"जयति जयति देवः- खसुखनिरभिलाषः खिघसे. लोकहेतो. प्रतिदिनमथवा ते दृत्तिरेवंविधैव । अनुभवति हि मूी पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥३०॥ नियमयसि कुमार्गपस्थितानारदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम. त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्" ।। ३१ ।। इति तुष्टुवतुः । राजाः तदाऽऽकोऽवोचत्-"एतेन कार्या- ऽनुशासनपरिश्रान्ताः पुनर्नवीकृताः स्मः" तत्क्षणमेव. शकुन्तलया (११६) साहित्य-सुधा-संग्रहः सह शाङ्गरवादयो राजकुलमागच्छन् । अथकञ्चुकी-भोः कामं धर्मकार्यमनतिपात्यं देवस्य, तथापीदानीमेव धर्माऽऽसनादुत्थि- ताय पुनरुपरोधकारि कएपशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथवाऽविश्रमो लोकतन्त्राधिकारः । कुतः- - भानुः सकृद् युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाऽऽहित भूमिभारः षष्ठांशहत्तेरपि धर्म एषः ॥ ३२ ॥ इति चिन्तयित्वा राजनं विज्ञापयामास-"एते खलु हिमवतो गिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्री- कास्तपखिनः संप्राप्ताः। श्रुत्वा देवः प्रमाणमिति"। अथ दुष्यन्तः- "अमूनाश्रमवासिनः श्रोतेन विधिनासत्कृत्य खयमेव प्रवेशयितुमर्हसि" इति सोमरातमुपाध्यायं सन्दिश्य तपखिदर्शनोचित संनिहितहोम- धेनुमग्निशरणाऽलिन्दमारुह्य प्रतिपालयस्थितः । प्रतिहारीञ्चो. वाच-"वेत्रषति ! किमुद्दिश्य तत्रभवता कएवेन मत्सकाषमृपयः प्रेषिताः? कितावद्ध तिनामुपोढ़तपसां विघ्नैस्तपो दूषितम् धारण्यचरेषु केनचिदुत पाणिष्वसच्चेष्टितम् । आहोस्वित् पूसवो ममाऽपचरितैर्विम्भितो वीरुधा- मित्यारूढ़बहुपूतर्कमपरिच्छेदाकुलं मे मनः ॥ ३३ ॥ वेत्रवती · प्रतिवभाषे-"देवस्य भुजदण्डनिर्वृते आश्रमपदे कुत एवम; किन्तु सुचरिताभिनन्दिन ऋषयः देवं सभाजयितु. मागता इति तर्कयामि। ततः शकुन्तलां पुरस्कृत्य गौतमोसहिताः (११७) प्रथमो बिन्दुः शाङ्गरवादयो मुनयस्तत्र प्राप्ताः । जनसंबाध शाङ्गरवः सखायं शारद्वतमुवाच- राजकुलं दृष्ट्वा - "महाभागः कामं नरपतिरमिनस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथाऽऽपीदं शश्वत् परिचितविविक्तेन मनसा जनाकीर्ण मन्ये हुतवहपरीतं गृहमिव" ॥ ३४ ॥ शारद्वतः प्रत्यूचे- “शारिव ! स्थाने खलु पुरप्रवेशात्तवे. द्वशः संवेगः । अहंतु- अभ्यक्तमिव स्नातः, शुचिरशुचिमिव प्रबुद्ध इव मुप्तम् । बद्धमिव स्वैरगतिर्जन मिह सुखसङ्गिनमवैमि" ॥ ३५ ॥ राजा मुनीन् पप्रच्छ- "अपि निर्विघ्नतपसो मुनय इति" । ते ऊचुः- "कुतोधर्मक्रियाविना सतां रक्षितरि त्वयि । तमस्तपति घमाशो कथमाविर्भविष्यति ॥ ३६ ॥ शारवः कण्वसन्देशं राक्षे कथयामास- "मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम्- त्वमहतामग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतःप्रजापति ॥ ३७॥ तदिदानीमापनसत्वेयं प्रतिगृह्यतां सहधर्मचरणायेति"। दुर्वासःशापदोषाविस्मृतसर्ववृत्तान्तो राजा- "किमिदमुपन्यस्तम्" (११८) साहित्य-सुधा-संग्रहः। इत्युवाच । इमं वचनोपन्यासं पावकममस्त शकुन्तला। शाङ्गरव- उवाच- "कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्त- निष्णाता:- सतीमपिज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृ मतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥३८॥ राजाऽब्रवीत्- "किंवाऽत्रभवती मया परिणीतपूर्वा इति ।। शारिवोऽपृच्छत्- “किं कृतकार्यद्वपाद्धर्म प्रति विमुखतोचिता राज्ञः" इति । राजेमाम् भभिजानीयादिति गौतमी ततः शकुन्तलाया अव- गुण्ठनमपाऽऽनयत् । शकुन्तला निर्वर्ण्य राजा तथोपनतमक्लिष्टकान्ति- रूपं प्रथमपरिगृहीतं स्यान्नवेति व्यवस्यन् जोपमास्त । शारवेण पृष्टः प्रत्युवाच- "भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्वलक्षणां प्रतिपत्स्ये” इति । शार- द्वतो नामाऽपरः करवशिष्यः प्रोवाच-"शकुन्तले ! वक्तव्यमुक्तमस्माभिः सोऽयमत्रभवान्दुष्यन्त एव माह । दीयतामस्मै प्रत्ययप्रतिवचनम्॥ इति । “इदमवस्थान्तरंगते तादृशेऽनुरागे किं वा स्मारितेन, आत्मेदानी मे शोचनीय इति व्यवसितमेतत्" इत्यात्मगतमभिधाय शकुन्तला प्रकाशमुवाच-"पौरव! न युक्तं नाम ते तथा पुराधमपदे स्वभावोत्तान- हृदयमिमं जनं समयपूर्व प्रतायेंदशैरक्षरैः प्रत्याख्यातुम् । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिशानेनाऽनेन तवा- ऽऽशङ्कामपनेष्यामीति । एवमुक्त्वा मुद्रास्थानं परामृश्य यदा ऽङ्गुली. यकशून्यामङ्गुलि मुपलेभे तदा सविषादं गौतमीमुंखे दृष्टिं विक्षेप । गौतम्युवाच-"नूनं ते शकाऽवताराभ्यन्तरे शचीतीर्थशलिलं वन्दमा. नायाः प्रभ्रष्टमङ्गुलीयकम्" इति । राजोवाच- "इदं तत्प्रत्युत्पन्नमति - - प्रथमो बिन्दुः (११६) बैणमिति यदुच्यते” इति । शकुन्तलोवाच-"अत्र तावद्विधिना दर्शितं प्रभुत्वम्। अपरं ते कथयिष्यामि। नन्वेकस्मिन्दिवसे नवमालिका. मण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहित मासीत् । तत्क्षणं स से पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः। त्वया, अयं ताक्प्रथम पिवत्वित्यनुकम्पिनोपच्छन्दित उदकेन । स न पुनस्ते ऽ परिचयाद्धस्ताभ्याशमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिले, तेन कृत प्रणयः। तदा त्वमित्य प्रहसितोऽसि- सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति" । राजोवाच- “एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतवाङ्मधुभिराकृष्यन्ते विष. यिणः" | गौतमी जगाद- "महाभाग ! नाहस्येवं मन्त्रयितुम् । तपोवनसंवद्धि तोऽनभिज्ञोऽयं जनः कैतवस्य" । राजा प्राह- "तापसवृद्धे ! स्त्रीणामशिक्षितपटुखममानुपीषु, संदृश्यते किमुत पाः प्रतिबोधवत्यः । पागन्तरिक्षगमनात् स्वमपत्यजातम् , अन्यैद्विजैः परभृताः खलु पोषयन्ति" ॥ ३९ ॥ इति राज्ञोक्ते शकुन्तला सरोपमभिदधे- "अनार्य! आत्म- नो हृदयानुमानेन पश्यति । क इदानीमन्यो धर्मकञ्चुक प्रवेशिनः तृणच्छन्नकूपोपमस्य तवानुकृति प्रतिपत्स्यते” इति । ततःशारद्वतः- "तदेषा भवतः कान्ता त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी” ॥ ४०॥ इति राजनमुक्त्वा प्रस्थितः । शकुन्तलापि तमन्वगच्छत् । तदा शारिवः सरोष निवृत्य तां जगाद- "शकुन्तले !

(१२०) साहित्य-सुधा-संग्रहः यदि यथा वदति तितिपस्तथा खमसि, किं पितुरुत्कुलया बया। अथ तु वेत्सि शुचि व्रतमात्मनः' पतिकुले तव दास्यमपि तमम् ॥ ४१ ॥ तत् तिष्ठ, साधयामो वयम्" इति । राजा पुरोहितमन्वयुङ्क्त- "भवन्तमेवाऽत्रगुरुलाघवं पृच्छामि- मूढः स्यामहमेषा वा वदेन्मिथ्येतिसंशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ ४२ ॥ पुरोहितः प्रत्यूचे- "अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु। कुत इदमुच्यते इति चेत् , त्वं साधुभिरादिष्टपूर्वः-प्रथममेव चक्र- वर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तलक्षणोपपन्नो- भविष्यत्यभिनन्ध शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितु- रस्याः समीपगमनमुपस्थितमेव" इति । “यथा गुरुभ्यो रोचते" इत्युक्त्वा राजा पुरोहितस्य वचो ऽनुमेने"। "भगवति वसुधे! देहि मे विवरम्॥ इति रुदती शकुन्तला सह पुरोधसा तपखिभिश्च निष्क्रान्ता। यावद्राजा पर्याकुलः शकुन्तलागतमेवाचिन्तयत्तावत् पुरोहितः प्रतिनिवृत्योवाच- "देव ! परावृत्तेषु करवशिष्येषु- सा निन्दन्ती खानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता। स्त्रीसंस्थानं चाऽप्सरस्तीर्थमारा- दुत्क्षिप्यैना ज्योतिरेकं जगाम" ॥ ४३ ॥ राजोवाच- "भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । - प्रथमो बिन्दुः (१२१) किं वृथा तणान्विष्यते । विश्राम्यतु भवानिति” | ततः पुरोहितो. निष्कान्तः । राजा पर्याकुलमानस:- "कामं प्रत्यादिष्टा स्मरामि न परिग्रहं मुनेस्तनयम् । बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम्" ॥ ४४ ॥ इति वदन शयनभूमि जगाम । शकाऽवताराभ्यन्तरवासी कश्चिद्धीवरो जालोद्गालादिभि- मत्स्यबंधनोपायैः कुटुम्बभरणमकरोत् । एकस्मिन्दिवसे तेन रोहित. मत्स्यः खण्डशः कल्पितः । तदा तस्योदराभ्यन्तरे रत्नभासुर- मङ्गुलीयकं तेन दृष्टम् । पश्चाद्विक्रयाय तद् दर्शयन् नागरिकेण राज- श्यालेन चौर्याऽपराधे निगृहीतः स यथायथ मङ्गुलीयकाऽऽगमं तस्मै न्यवेदयत् । श्यालोऽपि तस्याङ्गुलीयकस्य विनगन्धमाघ्राय मत्स्योदरसंस्थितमेव तदिति निश्चित्य धीवरं निरोथुरक्षिणावादिश्य राजकुलं जगाम । तत्र राज्ञे यथागमनमङ्गुलीयकं निवेद्य राजशासन- मादायप्रतिनिवृत्तः- "मुच्यतामेप जालोपजीवी, उपपन्नः किलाऽ. गुलीयकस्याऽऽगमः, एष भाङ्गुलीयकमूल्यसंमितो दापितः प्रसादः" इत्युक्त्वा पुरुष बन्धनादुन्मुच्यार्थं तस्मै प्रायच्छत् । ततः "सत्यमूढ- पूर्वा मया तत्रभवती रहसि शकुन्तला मोहाच प्रत्यादिष्टा" इति स्वाङ्गुलीयकदर्शनादनुस्मृत्य पश्चात्तापमुपगतो दुष्यन्तः कुत्रापि निर्वृतिमलभमानः शिशिरातपच्छेदरमणीये प्रमदवनोद्देशे आत्मानं विनोदयितुं सह विदूषकेणगतः । तदैव प्रतीहारी पत्रहस्ता प्रविवेश विज्ञापयामास च- "देव! अमात्यो विज्ञापयति- अर्थजातस्य गणनाबहुलतया एकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षी. करोतु” इति। ततो राजा पत्रिकां गृहीत्वावाचयत्- "समुद्रव्यव- हारी सार्थवाहो धनमित्रो नाम नौव्यवसने विपन्नः। अनपत्यश्च किल तपस्वी | राजगामी तस्यार्थसञ्चयः" इति। अनन्तरमुवाच

-
११२)
साहित्य-सुधा-संग्रहः
राजा- “एतदमात्येन लिखितम् | कष्टं खल्वनपत्यता। वेत्रवति !
महाधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि
काचिदापनसत्वा तस्य भार्याषुस्यादिप्ति" । प्रतीहारी प्रत्युवाच-
"इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निवृत्तपुंसवना जायाऽस्य
श्रूयते” इति । दुष्यन्तः प्रतीहारीमुवाच- "ननु गर्भः पित्र्य रिक्थ-
मर्हति । गच्छ । एवममात्यं ब्रूहि । अन्यच्च-
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापाहते तासां दुष्यन्त इति घुष्यताम्" ॥ ४५ ॥
राजा दीर्घमुष्णं च निश्वस्याऽऽत्मगतं प्राह स्म- “एवं भोः
सन्ततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः पर-
मुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः। धिङ्.
मामुपस्थितश्रेयोऽवमानिनम्-
संरोपितेऽप्यत्मनि धर्मपत्नी
त्यक्ता मया नाम कुलपतिष्ठा ।
कल्पिष्यमाणा महते फलाय
वसुंधरा काल इवोप्तवीजा" ॥ ४६ ॥
सार्थवाहवृत्तान्तेन विमनायमानं राजानं दृष्ट्वा चतुरिका प्रतीहारीम्
उवाच- “देवमाश्वासयितुं मेघप्रतिच्छन्दादाऽऽर्यमाढव्यं गृहीत्वा
ऽऽगच्छ” इति। राजोवाच- "अहो दुष्यन्तस्य संशयमारूढाः
पिएडभाजः। कुतः-
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूति विकलेन मया प्रसिक्तं
धौताऽश्रुशेष मुदकं पितरः पिबन्ति" ॥ ४७ ॥

प्रथमो बिन्दुः (१२३" एवमुक्त्वा मोहमुपगतः । तस्मिन्न व क्षणे-"अब्रह्मण्यम् अब- ह्मण्यम्” इति माढव्यस्यार्तखरेण दुष्यन्तः पुनश्चेतना लेभे । प्रतीहारी ससंभ्रमं प्रविश्योवाच- "परित्रायतां देवः संशयगतं वयस्य, योऽदृष्टरूपेण केनापि सत्त्वेनाक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्या ऽग्रभूमिमारोपितः” इति । ततो राजा सशरं धनुरादाय सोपान- मार्गमागत्य सर्वं शून्यं दृष्ट्वोवाच- “भोस्तिरस्करिणीगर्वित ! मद्रीय- मस्त्रं त्वां द्रक्ष्यति। एप तमिषू संदधे- यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । हंसो हि तीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥४८॥ एवमुक्त्वाऽस्त्रं समधत्त। तदा विदूषकमुत्सृज्य मातलि.. रिन्द्रसारथिः प्रादुर्भयोवाच- "कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सहजने पतन्ति चतूंषि न दारुणाः शराः ॥ ४६ ॥ राजा मातलिं दृष्ट्वाऽस्त्रमुपसंहृत्य स्वागतं व्याजहार । विदूषकः सविस्मयं उवाच- "अहं येनेष्टिपशुमारं मारितः सोऽनेन खाग. तेनाऽभिनन्द्यते” इति। मातलिनोक्तम्- "अस्ति कालनेमिप्रसूति-. दुर्जयो नाम दानवगणः- सख्युस्ते स किल शतक्रतोरजय्य- स्तस्य त्वं रणशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन सप्तसप्ति- स्तनैशं तिमिरमपाकरोति चन्द्रः ।। ५० -

(१२४)
साहित्य-सुधा-संग्रहः
तस्मादात्तशस्त्रो भवानिदानीमैन्द्रं रथमारुह्य विजयाय प्रति.
ष्ठतामिति"। राजोवाच- "अनुगृहीतोऽहमनया मघवतः संभाव-
नया। अथ वयस्यं प्रति भवता किमेवं प्रयुक्तमिति"। मातलि:
प्रत्यवदत्- "कुतश्चिदपि मनःसन्तापादायुष्मान्मया विक्लवो दृष्टः ।
पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः-
ज्वलति चलितेन्धनोऽनिर्विप्रकृतः पन्नगः फणां कुरुते ।
भायः स्वं महिमानं शोभात् प्रतिपद्यते हि जनः" ॥५१॥
राजा विदूषकमुवाच- "वयस्य ! अनतिक्रमणीया दिवस्पते.
राज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं घूहि-
सन्मतिः केवला तावत् परिपालयतु पूजाः ।
अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥ ५२ ।।
तथेत्युक्त्वा विदुषको निष्क्रान्तः। राजाऽपि रथमारुह्य मात-
लिना सह जगाम । मघोनो नियोगमनुष्ठाय तेन सविशेष सत्कृतो.
दुष्यन्तो मातलिना सहाऽऽकाशयानेन स्वर्गान्महीमभिप्रतस्थे । मार्गे
दुष्यन्तो मातलिमुवाच- “स खलु मम मनोरथानामप्यभूमि विस-
जनाऽवसरसत्कारः। मम हि दिवौकसां समक्ष मर्धाऽऽसनोपवे.
शितस्य
-
अन्तर्गतप्रार्थनमन्तिकस्थं
जयन्तमुद्दीच्य कृतस्पितेन ।
आमष्टवक्षाहरिचन्दनाऽङ्का
न्दारमाला हरिणा पिनद्धा" ॥५३॥

प्रथमो बिन्दुः (१२५) मातलिरुवाच "किमिव नामाऽऽयुष्मान् अमरेश्वरानार्हति । सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेशरिणश्च पुरा नखैः। ॥ ५४ ॥ राजा सविनयमभिदधे-“अत्र खलु शतकोरेव महिमा स्तुत्यः- सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः संभावनागुणमवेहि तमीश्वराणाम् । किं वा भविष्यदरुणस्तमसां विभेत्ता तंचेत् सहस्रकिरणो धुरि नाऽकरिष्यत्" ॥ ५५ ॥ राजा मातलिं पप्रच्छ -"मातले ! असुरसंप्रहारोत्सुकेन मया पूर्वेधुर्दिवमधिरोहता न लक्षितः स्वर्गमार्गः। तत् कतरस्मिन्मरुतां पथि वर्तामहे"। मातलिना प्रत्युक्तम्- "त्रिस्रोतसं वहति यो गगनमतिष्ठां ज्योतीपि वर्त्तयति च पविभक्तरश्मिः । तस्य द्वितीय हरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ५६ ॥ राजा रथाऽङ्गमवलोभ्योवाच- "मेघपदवीमवतीर्णौ स्वः। यतः - अयमरविवरेभ्यश्चातकनिष्पतद्भि- हरिभिरचिरभासा तेजसा चाऽनुलिसः ।

(१२६)
साहित्य-सुधा-संग्रहः
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिननेमिः॥ ॥ ५७ ।।
मातलिरुवाच- "क्षणादायुष्मान्वाधिकारभूमौ वर्तिष्यते”।
राजाऽधोऽवलोक्योवाच- "वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः, तथाहि-
शैलानामवरोहतीव शिखरादुन्मजा मेदिनी
पर्णाऽभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः ।
सन्तानैस्तनुभावनष्टलिला व्यक्ति भजन्त्यापगाः
केनाप्युत्तिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ ५८ ॥
ततो हेमकूटं नाम
पर्वतं
दृष्ट्वा
तस्मिश्च तपस्यन्तं वायंभुवा-
न्मरीचेर्जातं प्रजापति मातलेरुपश्रुत्य- "प्रदक्षिणीकृत्य भगवन्तं
गन्तुमिच्छामि” इति दुष्यन्त उवाच। ततो मातलिमारीचाऽऽश्रमस्य
समीपे रथमस्थापयत् । राजा रथादवतोर्याऽत्रभवतामृषीणां तपोवन-
भूमि सविस्मयमवलोक्योवाच-
"प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माऽभिषेकक्रिया।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो-
यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी" ॥ ५९॥
ततो राजा भगवते मारीचायाऽऽत्मानं निवेदयितुं मातलिं
प्रेषयामास । दक्षिणं बाहुं स्पन्दमानमुपलभ्य यावद्राजाऽब्रवीत्-
"मनोरथाय नाऽशंसे कि बाहो ! स्पन्दसे वृथा ।
पूर्वाऽवधीरितं श्रेयो दुःखं हि परिवर्त्तते” । इति ॥ ६० ॥

- - प्रथमो बिन्दुः (१२७) तावत्सोऽ र्धपीतस्तनं सिंहशिशुं प्रक्रीडितुं बलात्कारेण कर्पन्त मबालसत्त्वं कञ्चिद्वालं तपस्विनीभ्यामनुबध्यमानं ददर्श । तस्य बलाधिक्यं दृष्ट्वा राजोवाच- "महतस्तेजसो बीजं बालोऽयं पूतिभाति मे । स्फुलिङ्गाऽवस्थया वह्नि रेधापेक्ष इव स्थितः" । इति ॥६१॥ ततस्तपस्विनी बालमुवाच- "वत्स! एनं बालमृगेन्द्रं मुश्च । अपरं ते कोडनकं दास्यामीति” । बाले क्रीडनकमादातुं हस्तं प्रसार. यति सति-तद्धस्तमवलोक्य राजोवाच- "कथं चक्रवर्तिलक्षणम- प्यनेन धार्यते। तथा हस्य- प्रलोभ्यवस्तुपूणयपूसारितो- विभाति जालग्रथितांगुलिः करः। अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपंकजम्" ॥ ६२ ॥ बालकाय वर्णचित्रितं मृत्तिकामयूरं आनेतुमेका तापसी गता। बाल उवाच- "अनेनैव तावत्कोडिष्यामि। राजोवाच- "स्पृहयामि खलु दुर्ललितायास्मै- आलक्ष्यदन्तमुकुलाननिमित्तहासै- रव्यक्तवर्णरमणीयवचःपूवृत्तीन् अङ्काऽऽश्रयपूणयिन स्तनयान वहन्तो- धन्यास्तदङ्गरजसा मलिनीभवन्ति" ॥ ६३ ॥ यदा ल दुर्ललितो बालोऽ परां तापसी नाऽगणयत्तदा सा राजानं दृष्ट्वोवाच- "भद्रमुख ! एहि तावत् । मोचयानेन दुर्मोक- हस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम्"| राजा बालं निवारयन्नुवाच- "अयि भो महर्षिपुत्र ! - (१२८) साहित्य-सुधा-संग्रहः एवमाऽऽश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्वया। सत्त्वसंश्रयसुखोऽपि दृष्यते कृष्णसर्पशिशुनेव चन्दनम्” ॥ ६४ ॥ बालस्पर्शमुपलभ्य चाऽऽत्मगतं विचारयामास- अनेन कस्याऽपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निति चेतसि तस्य कुर्याद यस्याऽयमङ्कात् कृतिनः पूरूढः ॥ ६५ ॥ तापसी बालं दुष्यन्तं च निर्वण्याऽऽश्चर्यमाश्चर्यमिति व्याहृत्य राजानमुवाच - "अस्य बालस्य रूपसंवादिनी त आकृतिरिति विस्मापितास्मि । अपरिचितस्यापि च ते 5 प्रतिलोमः संवृत्तः" इति । “को ऽस्य व्यपदेशः” इति राज्ञा पृष्ट तापसी जगाद- "पुरुवंशः”। एतच्छ्रुत्वा राजात्मगतमुवाच- "कथमेकान्वयो. नाम | अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पी- रवाणामन्त्यं कुलव्रतम्- भवनेषु रसाधिकेषु पूर्व क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकपतिव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम्" ॥६६॥ तापसीञ्चाऽवदत्-"न पुनरात्मगत्या मानुपाणामेप विषयः" । सा प्रत्यूचे- "अप्सरः संबन्धेनाऽस्य जनन्यत्र देवगुरोस्तपोवने प्रथमो बिन्दुः (१२६) प्रसूता । इति । ततो राजा- "बालस्याऽस्य माता किमाख्यस्य राजपैः पत्नी इति पप्रच्छ। तापसी प्रत्युवाच- "कस्तस्य धर्मदारपरि- त्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति” इति । दुष्यन्तोऽ चिन्त. यत्- “इयं कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशो- र्मातरं नामतः पृच्छेयम् ? अथवाऽन्याय्यः परदारव्यवहारः" इति । तस्मिन्नेव क्षणे मृण्मयूरहस्ता तापसी तत्राऽऽगत्य- "सर्व- दमन ! शकुन्तलावण्यं पश्य” इति बालमुवाच । नामसादृश्येन वञ्चितः स बालः प्रोवाच- "कुत्र मे माता" इति । सतो दुष्यन्तो. ऽचिन्तयत्- "किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति पुनर्नामधेयसादृश्यानि। अपि नाम मृगतृष्णिकेच नाममात्रप्रस्तावो. मे विपादाय कल्पते” इति | सिंहशावविमर्दैन बालस्य मणि- बन्धात्परिभ्रष्ट रक्षाकरण्डकं तापसीभ्यां प्रतिषिध्यमानोऽपि राजाss ददौ । प्रतिषेधकारणं पृष्टा तापसी जगाद- "एपाऽ पराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति, अथ गृह्णाति ? ततस्तं सर्पो भूत्वा दशति” इति। तापस्यौ तं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयितु निष्क्रान्ते । 'पुत्रक!, इत्युक्त्वा बालं यदा राजा परिषखजे तदा तेनोक्तं- "मम खलु तातो दुष्यन्तो न त्वम्" इति । तापसीमुखाच्छुतवृत्तान्ताशकुन्तला राजानमुपाजगाम | तां दृष्ट्वा राजा ऽवदत्- "अये सेयमत्रभवती शकुन्तला । यैषा- वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घ विरहव्रतं बिभर्शित ॥ ६७ ।।

(१३०) साहित्य-सुधा-संग्रहः शकुन्तलायां राक्षे जयशब्दमुखारयंत्यांसवाष्पकराठत्वादोंके विरमन्त्यां राजा जगाद- "वाष्पेण प्रतिषिद्धोऽपि जयशब्दे जितं मया । यत्त दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ ६८ ॥ दुष्यन्तः शकुन्तलायाः पादयोः प्रणिपत्याऽऽह स्म- "मुतनु हदयात्मत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंपायाः शुभेषु प्रवृत्तयः स्रजमपि शिरस्यन्धः निप्तां धुनोत्यहिशङ्कया" ॥६॥ शकुन्तलोवाच-"उत्तिष्ठत्वाऽऽर्यपुत्रः; नूनं मे सुचरितप्रतिबन्ध पुराकृतं तेषु दिवसेषु परिणाममुखमासीयेन सानुक्रोशोऽप्याऽऽर्य- पुत्रो मयि विरसः संवृत्तः" इति । तदा निवृत्य मातलिदुष्यन्त. मुवाच- "दिष्टया धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते । भगवान् मारीचस्ते दर्शनं वितरति । तदेह्यायुष्मन् !” इति । राजा सह शकुन्तलया पुत्रेण च, अदित्या सार्धमासनस्थं मारीचमुपगम्य प्रणनाम | राजानं दृष्ट्वा मारीचः स्वधर्मपनोमुवाच- "दाक्षायणि ! पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । यापेन यस्य विनिवर्तितकर्म 'जातं तत्कोटिमत्कुलिशमाभरणं मघोनः" ॥ ७० ॥ मातलि प्रत्युवाच- "प्राहुादशधास्थितस्य मुनयो यत्तेजसः कारणं भर्तार भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । राजाच प्रथमों बिन्दुः (१३१) यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायाऽऽस्पदं द्वन्द्वं दतमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम्" ।। ७१ ॥ सर्वे मारीचमभित उपाऽविशन् । मारीच एकैकं निर्दिश्योवाच- "दिष्टया शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वि विधिश्चेति त्रितयं तत्समागतम्" ॥ ७२ ॥ राजोवाच-"भगवन् ! प्रागभिप्रेतसिद्धिः। पश्चाद् वो दर्शनम् । अतोऽपूर्वः खलु घोऽनुग्रहः । कुतः- उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः। निमित्तनैमित्तिकयोरयं क्रम- स्तव प्रसादस्य पुरस्तु संपदः॥७३॥ शकुन्तलामिमामाज्ञाकरी वो गान्धर्वेण विवाहेनोपयम्य स्मृतिशैथिल्यात्प्रत्यादिशश्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य करवस्य । पश्चादङ्गुलीयकदर्शनात् तद्दुहितरमवगतोऽहम् । तदेत- पित्रमिव मे प्रतिभाति- - यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । पदानि. दृष्ट्वा तु भवेत्यतीति- स्तथाविधो मे मनसो विकारः। ॥ ७४॥ "वत्स ! अलमात्माऽपराधशंकया, संमोहस्त्वय्यनुपपन्नः इत्युक्त्वा मारीचस्तस्मै दुर्वासःशापादिकं.सर्वं कथयाञ्चकार ।

(१३२) साहित्य-सुथा-संग्रहः । तच्छ्रुत्वा- “एष वचनीयान्मुक्तोऽस्मि इति राजाब्रवीत् । मारीच: शकुन्तलामुवाच- "क्त्से ! चरितार्थाऽसि। सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः। पश्य- । शापादसि पूतिहता स्मृतिरोधरूक्षे भर्तर्यपेततससि पूभुता तवैव । छाया न मूर्छवि मलोपहतपूसादे शुद्धे तु दर्पणतले सुलभाऽवकाशा ॥ ७५ ॥ मारीचस्ततो दुष्यन्तमब्रवीत्- “अस्माभिरनुष्ठितजात- कर्माणमेनं पुत्रं भाविन चक्रवर्तिनमवगच्छतु भवान् । रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः । इहाऽयं सत्यानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां 'भरत' इति लोकस्य भरणात्" ॥७६।। भगवते करवाय प्रियमिदमावेदयितुं मारीचेन शिष्यः प्रहितः। ततोमारीचोदुष्यन्तमुवाच- "वत्स! त्वमपि स्वाऽपत्यदारसहितः सख्युराखण्डलस्य रथमारुहा राजधानी प्रतिष्ठव । अपि च- तव भवतु बिडौनाः प्राज्यवृष्टिः पूजासु खमपि विततयज्ञः स्वर्गिणः पीणयाऽलम् । युगशतपरिवर्त्तानेवमन्योन्यकृत्यै- नयतमुभयलोकानुग्रहश्लाघनीयैः ।। ७७ ।।

प्रथमो बिन्दुः (१३३) अथ किन्ते भूयःप्रियमुपहरामि” इति। राजा प्रत्यब्रवीत्- "अतः परमपि प्रियमस्ति । यदि भगवान् प्रसन्नःप्रियं कर्तु- मिच्छति; तहीदमस्तु- पवर्ता पकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् । ममाऽपि च तपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ ७ ॥ ततो दुष्यन्तः सपुत्रकलत्रो राजधानी जगाम । इति अभिज्ञानशाकुन्तलम् ।

(१३४) साहित्य-सुधा-संग्रहः हिमालय वर्णनम् अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। पूर्वापरौ तोयनिधो वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥१॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषोगुणसंनिपाते निमजतीन्दोः किरणेष्विवाऽङ्कः ॥ ३॥ आमेखलं संचरतां घनानां छायामधासानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्याऽऽतपवन्ति सिद्धाः॥४॥ पदं तुषारसुतिधौतरक्कं यस्मिन्नदृष्ट्वाऽपिहतद्विपानाम् । विदन्ति मार्ग नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः॥५॥ यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उदास्यतामिच्छति किनराणां लानप्रदायित्वमिवोपगन्तुम् ॥ ६॥ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलदुमाणाम् । यत्र सुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥७॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवाऽन्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैः शिरसां सतीव ॥ ८॥ लाङ्ग लविक्षेपविसपिंशोभैरितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्चमर्यः ॥६॥ भागीरथीनिर्भरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥ १० ॥ सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ ११ ॥ यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयशभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥१२॥ ( कुमार संभव प्रथमः सर्गात् ) प्रथमो बिन्दुः (१३५) "पार्वती तपस्या" तथा समतं दहता मनोभवं पिनाकिना भग्नमनोरथा सती। निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च ताब्दशः॥ निशम्य चैनां तपसे कृतोद्यमा सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीपपुष्पं न पुनः पतत्रिणः॥ इति ध्र वेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कदाचिदासन्नसखीमुखेन सा मनोरथज्ञपितरं मनस्विनी । अयाचताऽरण्यनिवासमात्मनः फलोदयान्ताय तपासमाधये ॥ अथाऽनुरूपाऽभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा। प्रजासु पश्चात्यथितं तदाख्यया जगाम गौरीशिखरं शिखरिडमत् ॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ यथा प्रसिद्ध मधुरं शिरोरुहर्जटाभिरप्येवमभृत्तदाननम् । न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौओं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ विस्थरागाधराभिवर्तितः तदङ्गरागारुणिताच कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।। महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥

(१३६) साहित्य-सुधा-संग्रहः पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्ट हरिणाङ्गनासु च ॥ अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ अरण्यबीजाञ्जलिदानलालिताः तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ कृताभिषेका हुतजातवेदसं त्वगुत्तरासगवतीमधीतिनीम् । दिदृक्षवस्तामृपयोऽभ्युपागमन धर्मवृद्धषु वयः समीक्ष्यते ॥ विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैरभोष्टप्रसवार्चितातिथि। नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥ यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममस्त कांक्षितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगायत । ध्रुवं वपुः काञ्चनपद्म नेर्मितं मृदु प्रकृत्या च ससारमेव च ॥ शुचौ चतुर्णा ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा। विजित्य नेत्रप्रतिघातिनी प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ। अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः। बभूव तस्याः किल पारणा विधिन वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा। तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोप्माणममुञ्चदूर्ध्वगम् ॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपात चूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः॥

प्रथमो बिन्दुः (१३७) शिलाशयां ताममिकेतवासिनी निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ निनाय सात्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीरुदवासतत्परा। परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्त मिथुने छपावती । मुखेन सा पासुगन्धिना निशि प्रवेपमानाऽधरपत्रशोभिना । तुपारवृष्टिक्षतपनसंपदा सरोजसंधानमिवाऽकरोदपाम् ॥ स्वयं विशीर्णदुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः। तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपणेति च तां पुराविदः॥ मृणालिकापेलवमेषमादिभिर्वतैः स्वमङ्ग ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा॥ अथाऽजिनाऽऽषाढधरः प्रगल्भवाग्ज्वलनिव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाऽऽश्रमो यथा ॥ तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥ विधिप्रयुक्तां परिगृह्य सत्कियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुपा प्रचक्रमे धतुमनुज्झितक्रमः ॥ अपि कियाथं सुलभं समित्कुश जलान्यपि स्नानविधिक्षमाणि ते। अपि स्वशक्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । विरोज्झितालतकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ मपि प्रसन्न हरिणेषु ते मनः करस्पद प्रणयापहारिषु । य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाऽक्षिसादृश्यमिव प्रयुञ्जते॥ यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् ॥ विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ् सलिलैर्दिवश्च्युतैः । यथा त्वदीयैश्चरितैरनाविलमहीधरः पापित एष सान्वयः॥

११३८) साहित्य-सुधा-संग्रहः अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि! त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ प्रयुक्तमत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि । यतः सतां संनतगात्रि! संगतं मनीषिभिः साप्तपदीनमुच्यते । अतोऽत्र किंचिद्भवती बहुक्षमा द्विजातिभावादुपपश्चचापलः। अयं जमा प्रष्टु मनास्लपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ कुले प्रसूतिः प्रथमस्य वेधसः, त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं, नवं वयः, तपःफलं स्यात्किमतः परं वद ॥ भवत्यनिष्टादपि नाम दुःसहान्मनखिनीनां प्रतिपत्तिरीदशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तश्च कृशोदर ! त्वयि ॥ अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्र ! कुतः पितुर्गुहे। पराभिमझे न तवाऽस्ति, कः कर प्रसारयेत्पन्नगरत्नसूचये ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ मुनिव्रतस्त्वामतिमात्रकर्शितां दिवाकराऽऽप्लुष्टविभूषणास्पदाम्। शशाङ्कलेखामिध पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ कियश्चिरं श्राम्यासे गौरि ! विद्यते.ममाऽपि पूर्वाऽऽश्रमसंचितं तपः। तदर्धभागेन लभस्व कांक्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ इति प्रषिश्याभिहिता द्विजन्ममा मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनी विवर्तिताऽनञ्जननेत्रमैक्षत ॥ सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥

प्रथमो बिन्दुः (१३६ इयं महेन्द्रप्रभृतीनधिधियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य मदनस्य निग्रहात्पिनाकपाणिपतिमाप्तुमिच्छति ॥ यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधि विचिन्वती। तदा सहाऽस्माभिरनुज्ञया गुरोरियं प्रपन्ना तपस तपोवनम् ॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेण्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः अगूढसद्भावमितीङ्गितशया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ।। अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ यथा श्रुतं वेद विदांवर ! त्वया जनीयमुच्चैःपदलनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ।। अथाह वर्णी-विदितो महेश्वरः, तदर्थिनी त्वं पुनरेव वर्तसे । अमङ्गलाभ्यासरति विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ अवस्तुनिबन्धपरे ! कथं नु ते करोऽयमामुक्तविकाहकौतुकः। करेण शंभोवलयीकृताऽहिना सहिष्यते तत्प्रथमावलम्बनम् ।। त्वमेव तावत्परिचिन्तया स्वयं कदाचिदेते यदि योगमहतः। वधूदुकूलं कलहंसलक्षणं गजाऽजिनं शोणितबिन्दुवर्षि च ॥ चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाऽङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया। विलोक्पवृद्धोक्षमधिष्ठितं त्वया महाजनःस्मेरमुखो भविष्यति । द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। बरेषु यद्बालमृगाक्षि! मृग्यते तदस्तिक व्यस्तमफि त्रिलोचने ॥..

(१४०) साहित्य-सुधा-संग्रहः निवर्तयाऽस्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क च पुण्यलक्षणा। अपेक्ष्यते साधुजनेन वैदिको श्मशामशूलस्य न यूपसत्क्रिया ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया। विकुञ्चितभूलतमाहिते तया पिलोचने तिर्यगुपान्तलोहिते ॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत पवमात्थ माम् । जगच्छरपयस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः॥ अकिञ्चनः सन्प्रभवः स संपदा त्रिलोकनाथः पितृसमगोचरः। स भीमरूपः शिव इत्पुदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ विभूषणोद्रासि पिनद्धभोगि वा गजाऽजिनाऽऽलम्बि दुकूलधारि वा। पालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ सदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजोऽपि शुद्धये । तथाहि नृत्याभिनक्रियाच्युत घिलिप्यते मौलिभिरम्बरौकसाम् ॥ असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥ विवक्षता दोषमपि व्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रमको भविष्यति ॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः। ममाऽत्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराऽधरः। न केवलं यो महतोऽपभापते शृणोति तस्मादपि यः स पापभाक्॥ इतो गमिष्याम्यथवेति वादिनी चचाल बाला रयभिन्नवल्कला। खरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजतनः ॥ तं वीक्ष्य वेपथुमती सरसायष्टि- निक्षेपणाय पदमुद्धृतमुद्वहन्ती। मार्गाऽचलव्यतिकराऽऽकुलितेव सिन्धुः शैलाऽधिराजतनया न ययौ न तस्थौ ।

प्रथमो विन्दुः
(१४१)
अध प्रभृत्यधनताङ्गि! तवास्मि दासः
क्रोसस्तपोभिरिति वादिनि चन्द्रमौली।
अहाय सा
नियम
क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥
(कुमारसंभवस्य पञ्चम सर्गात् )
क्लममुत्ससर्ज
पार्वती परिणयः
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥१॥
वैवाहिकैः कौतुकसंविधानैहे गृहे व्यग्रपुरंध्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥२॥
संतानकाऽऽकीर्णमहापथं तञ्चीनांशुकैः कल्पितकेतुमालम् ।
भासोज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाऽऽबभासे ॥३॥
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेष मृतोत्थितेव ।
आसन्मपाणिग्रहणेति पित्रोरमा विशेषोच्छ्वसितं बभूव ॥ ४ ॥
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मएडनमन्वभुङ्क्त ।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥५॥
मैत्रेमुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुः बन्धुत्रियो याः पतिपुत्रवत्यः ॥६॥
सा गौरसिद्धार्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
बिर्नाभि कौशेयमुपात्तबाणम् अभ्यङ्गनेपथ्यमलंचकार ॥७॥
बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
करेण भानोबदुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ ८ ॥
तां लोध्रकल्केन हताङ्गतैलामाश्यानकालेयकृतांगरागाम् ।
वासो बसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुख व्यनैषुः ॥४॥

(१४२)
साहित्य-मुधा-संग्रहः
विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे ।
आवर्जिताऽष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ १० ॥
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा।
निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ११ ॥
तस्मात्प्रदेशाश्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये क्लप्ताऽऽसनं कौतुकवेदिमध्यम् ॥ १२ ॥
तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
प्रसाधनं मातृभिरागृताभिर्व्यस्तं पुरस्तात्पुरशासनस्य ॥ १३ ॥
तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
स एव वेषः परिणेतुरिष्ट भावान्तरं तस्य विभोः प्रपेदे ॥ १४ ॥
बभूव भस्मैव सिताङ्गरागः कपालमेवाऽमलशेखरश्रीः ।
उपान्तभागेषु च रोचनांको गजाजिनस्यैव दुकूलभावः ॥ १५ ॥
शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गनारम् ।
सांनिध्यपक्षे हरितालमय्याः तदेव जातं तिलकक्रियायाः ॥१६॥
यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
शरीरमा विकृति प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥ १७ ॥
दिवापि निष्ठ्यूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ १८ ॥
इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खड्ने निषक्तप्रतिम ददर्श ॥ १६ ॥
स गोपति नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥२०॥
तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः।
मुखेः प्रभामण्डलरेणुगौरैः पद्माकरं चरिवान्तरीक्षम् ॥ २१ ॥
तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे।
बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतहदेव ॥ २२॥

प्रथमो बिन्दुः
(१४३)
ततो गणैः शूलभृतः पुरोगैरुदीरितो मंगलतूर्यघोषः ।
विमानश्टङ्गाण्यवगाहमानः शशंस सेवाऽवसरं सुरेभ्यः ॥ २३ ॥
उपाददे तस्य सहस्ररश्मिस्त्वष्टा नवं निर्मिनमातपत्रम् ।
स तद्दुलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्ग ॥ २४ ॥
मूर्ते च गङ्गायमुने तदानी सचामरे देवमसेविपाताम् ।
समुद्गारूपविपर्ययेऽपि सहसपाते इव लक्ष्यमाणे ॥ २५ ॥
तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्तो हविषेव वह्निम् ॥ २६ ॥
एव मूर्तिबिभिदे त्रिधासा सामान्यमेषां प्रथमाऽवरत्वम् ।
विष्णोहरस्तस्य हरिः कदाचिद्वधास्तयोस्तावपि धातुराद्यौ ॥२७॥
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेपाः।
दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ २८ ॥
कम्पेन मूर्ध्नः शतपत्रयोनि वाचा हरिं वृत्रहण स्मितेन ।
आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ २६ ॥
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ ३० ॥
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलंध्यस्ततारताराऽधिपखण्डधारी ॥३१॥
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रतिघने विषाणे ॥३२॥
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्त नगरं मुहूर्तात् ।
पुरोविलग्नहरदृष्टिपातैः सुवर्णसूत्ररिव कृष्यमाणः॥ ३३ ॥
तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिहादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ ३४ ॥

.
(१४४)
साहित्य-सुधा-संग्रहः
तमृद्धिमद्वन्धुजनाधिरुदैर्वृन्दैगजानां गिरिचक्रवर्ती।
प्रत्युजगामाऽऽगमनप्रतीतः प्रफुल्लवृक्षः कटकैरिव स्वैः॥ ३५॥
धर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्धटितापिधाने ।
समीयतु(रविसर्पिघोषौ भिन्नैकसेतू पयसामिवौधौ ॥ ३६ ॥
ह्रोमानभूभूमिधरो हरेण त्रैलोक्यवन्धेन कृतप्रणामः ।
पूर्व महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद ॥ ३७॥
स प्रोतियोगाद्विकसन्मुखश्रीः जामातुरग्रसरतामुपेत्य ।
प्रावेशयन्मन्दिरमृद्धमेनम् आगुल्फकीर्णापणमार्गपुष्पम् ॥ ३८ ॥
सत्राऽवतीर्या:च्युतदत्तहस्तः.शरद्धनाहीधितिमानियोक्ष्णः ।
क्रान्तानि पूर्व कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ ३ ॥
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः॥४०॥
तत्रेश्वरी विष्टरभाग्यथावत्सरत्नमध्यं मधुमश्च गव्यम् ।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥ ४१ ॥
दुकूलवासाः स वधूसमीपं निन्ये विनोतैरवरोधदक्षैः ।
वेलासमोपं स्फुटफेनराजिनवैरुदन्वानिव चन्द्रपादैः ॥ ४२ ॥
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः॥४३॥
प्रयुक्तपाणिग्रहणं यदन्यवधूवरं पुष्यति कान्तिमग्र्याम् ।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥४४॥
प्रदक्षिणप्रक्रमणाकृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ४५ ॥
तौ दंपती त्रिः परिणीय पहिमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ ४६ ।
सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥४७॥

प्रथमो विन्दुः (१४५) तदोषदारुणगण्डलेखमुच्छ्वासि कालाजनरागमक्ष्णोः । वधूमुखं क्लान्तयवावर्तसमाचारधूमग्रहणादभूव ॥ ४८ ॥ वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाह प्रति कर्मसाक्षी। शिवेन भत्री सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥ ४६ ॥ आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या । निदाघकालोल्यणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥५०॥ ध्रु वेण भर्ना ध्रु वदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य होसनकराठी कथमप्युवाच ॥ ५१ ॥ इत्थं विधिशेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ। प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥५२॥ वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसघा भवेति । वाचस्पतिः सन्नपि सोऽष्टमूर्ती त्वाशास्य चिन्तास्तिमितो बभूव ॥५३॥ क्लप्तोपचारां चतुरस्रवेदी तावत्य पश्चात्कनकासनस्थौ। जायापती लौकिकमेषणीयमार्दाऽक्षतारोपणमन्वभूताम् ॥५४॥ पत्रान्तलग्नर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् । तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ ५५ ॥ द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्य निबन्धनेन ॥ ५६ ॥ तौ संधिषु व्यजितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसा मुहूर्त प्रयोगमा ललिताङ्गहारम् ॥५७ ॥ एवं पार्वती परिणीय, समस्तपुरसमाजं विसृज्य, सगणोगणेशगुरुस्वावासं कैलासमयासीत् । (कुमारसंभवस्य सप्तमवर्गात् )

(१४६)
साहित्य-सुधा-संग्रहा
बुद्धवैराग्यम्
ततः कदाचिन्मृदुशावलानि पुंस्कोकिलोनादितपादपानि ।
शुश्राव पद्माकरमण्डितानि शीते निबद्धानि स काननानि ॥१॥
श्रुत्वा ततः स्त्रीजनवल्लभानां मनोभावं पुरकाननानाम् ।
बहिः प्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः ॥२॥
ततो नृपस्तस्य निशम्य भावं पुत्राऽभिधानस्य मनोरथस्य ।
स्नेहस्य लक्ष्म्या वयसश्च योग्याम् आशापयामास विहारयात्राम् ॥३॥
निवर्तयामास च राजमार्ग संपातमार्तस्य पृथाजनस्य ।
मा भूत्कुमारः सुकुमारचित्तः संविनचेता इति मन्यमानः॥४॥
प्रत्यंगहीनान् विकलेन्द्रियाँश्च जीर्णाऽतुरादीन कृपणांश्च भिक्षून् ।
ततः समुत्सार्य परेण साना शोभा परां राजपथस्य चक्रुः॥५॥
सता कृते श्रीमति राजमार्गे श्रीमान् विनीताऽनुचरः कुमारः।
प्रासादपृष्ठादवतीर्य काले कृताऽभ्यनुशो नृपमभ्यगच्छत् ॥ ६॥
अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य ।
गच्छेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ॥७॥
। ततः स जाम्बूनदाएडभृद्भिः युक्तं चतुर्भिनिभृतैस्तुरङ्गैः।
अक्लीवविद्युच्छुचिरश्मिधारं हिरण्मयं स्यन्दनमारोह ॥८॥
तत्तः प्रकीर्णोज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् ।
मार्ग प्रपेदे सदृशाऽनुयात्रः चन्द्रः सनक्षत्र इवान्तरिक्षम् ॥६॥
कौतूहलात्स्फीततरैश्च नेत्रैः नीलोत्पलाभैरिव कीर्यमाणः ।
शनैः शनैः राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः॥१०॥
पुरंतु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः ।
जीणं नरं निर्ममिरे प्रयातुं संचोदनाथं क्षितिपाऽऽत्मनस्य ॥ ११ ॥
ततः कुमारो जरयाऽभिभूतं दृष्ट्वा नरेभ्यः पृथगाति तम् ।
उवाच संग्राहकमागतास्थः तत्रैव निष्फम्पनिविष्टदृष्टिः ॥ १२ ॥

प्रथमो बिन्दुः
(१४७)
क एष भोः सूत! नरोऽभ्युपेतः केशैः सितैर्यष्टिविषाक्तहस्तः।
भूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा ? ॥१३॥
इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय ।
संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ १४ ॥
रूपस्य हों, व्यसनं बलस्य, शोकस्य योनि, निधनं रतीनाम् ।।
नाशः स्मृतीनां, रिपुरिन्द्रियाणाम् , एषा जरा नाम ययैष भग्नः ॥१५॥
पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुाम् ।
क्रमेण भूत्वा च युधा घपुष्मान् क्रमेण तेनैव जरामुपेतः ॥ १६ ॥
इत्येवमुक्त चलितः स किंचित् राजाऽऽत्मजः सूतमिदं बभाषे ।
किमेष दोषो भविता ममापीत्यस्मै ततः सारथिग्भ्युवाच ॥ १७ ॥
आयुष्मतोऽप्येष वयः प्रकर्षात् निःसंशयं कालवशेन भावी ।
एवं जरां रूपविनायित्रीं जानाति चैवेच्छति चैपलोकः ॥ १८ ॥
ततः स पूर्वाऽऽशयशुद्धबुद्धिः विस्तीर्णकल्पाऽर्जितपुण्यकर्मा ।
श्रुत्वा
जरां संविधिजे महात्मा महाशने?षमिवान्तिके गौः ॥ १६ ॥
निःश्वस्य दीर्ष स शिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः ।
तां चैव दृष्ट्वा जनतां सहर्षी वाक्यं स संविग्नमिदं जगाद ॥ २० ॥
एवं जरा हन्ति च निर्विशेष स्मृति च रूपं च पराक्रमं च ।
न चैव संवेगमुपैतेि लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ २१ ॥
एवं गते सूत ! निवर्तयाऽश्वान् शीघ्रं गृहाण्येव भवान् प्रयातु ।
उद्यानभूमौ हि कुतो रतिमें जराभये चेतसि वर्तमाने ॥ २२ ॥
अथाऽक्षया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता।
ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ २३ ॥
यदा तु तवैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः।
ततो मरेन्द्राऽनुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥२४॥
अथाऽपरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् ।
दृष्ट्वा च तं सारथिमाबभाषे शोधोदनिस्तद्गतगृष्टिरेव ॥ २५॥

(१४८)
साहित्य-सुधा-संग्रहः
स्थूलोदरः श्वासचलच्छरीरः स्वस्तांऽसबाहुः कृशपाण्डुगात्रः।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एपः ॥ २६ ॥
ततोऽब्रवीत्सारथिरस्य सौम्य ! धातुप्रकोपप्रभवः प्रवृद्धः ।
रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैष कृतोऽस्वतन्त्रः ॥ २७ ॥
इत्यूचिवान राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः ।
अस्यैव जातः पृथगेप दोपः सामान्यतो रोगभयं प्रजानाम् ॥ २८ ॥
ततो बभाषे स रथप्रणेता कुमार! साधारण एष दोषः ।
एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ २६ ॥
इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्वृर्मिगतः शशीव ।
इदं च धाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना खरेण ॥ ३०॥
इदं च रोगव्यसन प्रजानां पश्यश्च विश्रम्भमुपैति लोकः ।
विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ ३१ ॥
निवर्त्यतां सूत ! पहिःप्रयाणानरेन्द्रसव रथः प्रयातु।
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः ॥ ३२ ॥
ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सम्म ।
तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं पुर्यागमं भूमिपतिश्चकार ॥ ३३ ॥
श्रुत्वा
निमित्तं तु निवर्तनस्य संत्यक्तमात्मानमनेन मेने ।
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ ३४॥
भूयश्च तस्मै विधे सुताय विशेषयुक्तं विषयप्रकारम् ।
चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजह्यादिति नाथमानः ॥ ३५ ॥
यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे ।
ततो बहिर्ष्यादिशतिस्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ ३६ ॥
ततो विशेषेण नरेन्द्रमार्गे स्वलकृते चैव परीक्षिते च ।
व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ ३७॥
ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः ।
तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नाऽन्यः ॥ ३८ ॥

प्रथमो बिन्दुः
(१४६)
अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिह्रियते क एषः ।
दीनैर्मनुष्यैरनुगम्यमानो यो भूपितोऽश्वास्यवरुद्यते च ॥३६ ॥
ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः ।
अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय ॥४०॥
बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंशस्तृणकाष्ठभूतः ।
संबध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एष कोऽपि ॥४१॥
इनि प्रणेतुः स निशम्य वाक्यं संचुर्भे किञ्चिदुवाच चैनम् ।
कि केवलस्यैव जनस्य धर्मः ? सर्वप्रजानामयमीदशोऽन्तः १ ॥ ४२ ॥
ततः प्रणेता गदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा ।
हीनस्य मध्यस्य महात्मनो वा, सर्वस्य लोके नियतो विनाशः॥४३॥
ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्यु विषसाद सद्यः ।
असेन संश्लिष्य च कूवराग्रं प्रोवाच निहादवता खरेण ।। ४४ ॥
इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः ।
मनांसि शङ्के कठिनानि नणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ॥ ४५ ॥
तस्माद्रथं सूत ! निवर्त्यतां नो विहारभूमौ न हि देशकालः ।
जानन् विनाशं कथमालिकाले सचेतनः स्यादिह हि प्रमत्तः॥४६॥
इति वैराग्योदयः
बुद्धपरितस्य तृतीय सर्गात
अथ श्रमणखनिश्चयः
अथ मन्त्रिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः।
वनभूमिदिनुक्षया शमेप्सुर्नरदेवानुमतो बहिः प्रतस्थे ॥१॥
नवरुक्मखलीनकिंकिणीकं प्रचलच्चामरचारुहेमभाण्डम् ।
अभिरुह्य सकण्ठकं सदश्वं प्रययौ केतुमिव दुमाजकेतुः ॥२॥
स निकृष्टतरां वनान्तभूमि वनलोभाच्च ययौ महीगुणेच्छुः ।
सलिलोमिविकारसीरमााँ घसुधां चैव ददर्श कृष्यमाणाम् ॥ ३॥

(१५०)
साहित्य-सुधा-संग्रहः
हलभिन्नविकीर्णशष्यदर्भा हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम् ।
समवेदच रसां तथाविधां तां स्वजनस्येव वधे भृशं शुशोच ॥४॥
कृषतः पुरुषांश्च वीक्षमाणः पवनार्काऽशुरजोविभिन्नवर्णान् ।
वहनक्लमविक्लवांश्चधुर्यान् परमार्यः परमां कृपां चकार ॥ ५॥
अवतीर्य ततस्तुरङ्गपृष्ठाच्छनकैर्गा व्यचरच्छुचा परीतः ।
जगतो जननव्ययं विचिन्वन कृपणं खल्विदमित्युवाच चातः ॥ ६ ॥
मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुपायिनो निवार्य।
अभितश्चलचारुपर्णवत्या विजने मूलमुपेयिवान् सजम्ब्याः ॥७॥
निषसाद च तत्र शौचधत्यां भुवि वैदूर्यनिकाशशाद्वलायाम् ।
जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे ॥ ८॥
समवाप्तमनःस्थितिश्च सद्यो विषयेच्छादिभिराधिश्च मुक्तः
सवितर्कविचरमाप शान्तं प्रथमं ध्यानमूनावप्रकारम् ॥६॥
अधिगम्य ततो विवेकजं तु परमप्रीतिसुख समाधिगम्यम् ।
इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक् ॥१०॥
कृपणं बत यजनः स्वयं सन्नरसो व्याधिजराविनाशधर्मा ।
जरयादितमातुरं मृत वा परमज्ञो विजुगुप्सते मदान्धः ॥११॥
इह चेदहमीदृशः स्वयं सन् विजुगुप्लेय परं तथास्वभावम् ।
न भवेत्सदर्श हि तत्क्षम वा परमं धर्मनिम विजानतो मे ॥१२॥
इति तस्य विपश्यतो यथावजगतो व्याधिजराविपत्तिदोषान् ।
बलयौवनजीवितप्रवृत्तौ विजगामाऽऽत्मगतो मदः क्षणेन ॥ १३ ॥
न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे ।
न च कामगुणेषु संररले न च दिद्वेष परं न चावमेने ॥१४॥
इसि बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा ।
पुरुषैरपरैरदृश्यमानः पुरुषोश्चोयससर्प भिक्षुवेशः ॥ १५ ॥

प्रथमो बिन्दुः (१५१) नरदेवसुतस्तमभ्यपृच्छदद कोऽसीति शशंस सोऽथ तस्मै । नरपुङ्गव ! जन्ममृत्युभीतः श्रमणः प्रवृजितोऽस्मि मोक्षहेतोः ॥१६॥ जगति क्षयधर्मके मुमुक्षुर्घगयेऽहं शिवमक्षयं पदं तत् । अजनोऽन्यजनैरतुल्यबुद्धि विषयेभ्यो विनिवृत्तरागदोषः ॥ १७ ॥ निवसन कचिदेव वृक्षमूले विजने वाऽऽयतने गिरौ वने वा। विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्न भिक्षुः॥१८॥ इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात । स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥१६॥ गगनं खगवद्गते च तस्मिन् नृवरः संजहषे विसिस्मिये च। उपलभ्य ततश्च धर्मसंहामभिनिर्याणविधौ मतिं चकार ॥२०॥ तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारुरोह । परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ २१ ॥ स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय । प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥२२॥ ( इति श्रमणत्वनिश्चयः) श्री अश्वघोष विरचितस्य चरितस्य पञ्चम सर्गात (१५२) साहित्य-सुधा-संग्रहा *सुभाषितानि* अथ सुभाषितप्रशंसा संसदि तदेव भूषण भुपकारक मवसरे धनं मुख्यम् । सूक्तं दधति सुवर्ण कल्याणमनमिह धन्याः॥१॥ स्वnिam ( कस्यापि याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥२॥ (श्री अनन्तदेवानाम्) अधिदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् ।faud अनधिगतपरिमलापि हि हरति द्वशं मालतीमाला ॥३॥ (सुबन्धोः) ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशधियः साक्षाश्च ये श्रोत्रियाः। ये वा द्वेषमपीमलोमसधियस्तान् प्राशगोष्ठीरस- प्रौढप्रावृडवग्रहान् परिहरन् वाचां पसारं कुरु ॥४॥ कस्यापि) अथ सहृदयकविप्रशंसा अपि मुदमुपयान्तोवाग्विलासैः स्वकीयः परभणितिषु तोपं यान्ति सान्त कियन्तः। निजघनमकरन्दस्यन्दपूर्णाऽऽलवालः काला कलशसलिलसेक नेहते कि रसालः॥५॥ (जयदेवस्य) -

प्रथमो बिन्दुः
(१५३)
सुजन प्रशंसा
वदनं प्रसादसदनं
सयं हृदयं सुधामुचो वाचः।
करणं परोपकरणं
येषां, केषां न ते वन्याः॥६॥
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः।
संवृणुतेऽ द्रीनुदधिनिदाघनद्यो न भेकमपि ॥७॥
(गोवर्धनाचार्यस्य)
न भवति भवति च न चिरं
भवति चिरं चेत् फले विसंवादी।
कोपः सत्पुरुषाणां
तुल्यःस्नेहन नीचानाम् ॥ ८॥
आदिमध्यनिधनेषु सौहृद सजने भवति नेतरे जने ।
छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनम् ॥ ६ ॥
सन्तोऽपि सन्तः क किरन्तु तेजः मान
क नु ज्वलन्तु व ननु प्रथन्ताम् ।
विधाय रुद्धा ननु
वेधसैव तम्मानि
ब्रह्माण्डकोषे घटदीपकल्पाः॥१०॥
क्षारो वारिनिधिः कलङ्ककलुपश्चन्द्रो रविस्तापकृत्
पर्जन्यश्चपलाश्रयोऽ भ्रपटलादृश्यःसुवर्णाचलः।
शून्य व्योम रसा द्विजह्वविधृता खर्धामधेनुः पशुः
काष्ठं कल्पतरुपत् सुरमणिस्तत्केन साम्यं सताम्॥ ११ ॥
कस्मादिन्दुरसौ धिनोति जगतों पीयूषगर्भः करैः
कस्माद्वा जलधारयैव धरणि धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात् त्रिलोकी रविः
साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ १२ ॥

- (१५४) साहित्य-सुधा-संग्रहः नही ये जाते व्यसने निराकुलधियः, संपत्सु नाऽभ्युनताः प्राप्ते नैव पराङ्मुखार, प्रयिनि प्राणोपयोगैरपि । होमन्तः स्वगुणप्रकाशनविधाघन्यस्तुतौ पण्डिता- स्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥१३॥ अथ महतां प्रशंसा गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि । क्षीरोदधेस्तु नाधापि महतां विकृतिः कुतः ॥१४॥ ( कस्यापि) ये दीनेषु दयालवः स्पृशति यानल्योऽपि न श्रीमदो- व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः। खस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता धरा धार्यते ॥१५॥ (कस्यापि) अङ्गनवेदी वसुधा, कुल्या जलधिः, स्थली च पातालम् । वल्मीकश्च सुमेरुः, कृतप्रतिशस्य वीरस्य ॥१६॥ (बाणभट्टस्य) पादाहतं यदुत्याय मूर्धानमधिरोहति । वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥१७॥ समूलघातमनन्तः परामोद्यन्ति मानिनः। प्रध्वंसिताऽन्धतमसस्तत्रोदाहरणं रविः ॥१८॥ (माघस्य) अथ मनस्विप्रशंसा ब्रह्माण्ड कियदस्ति तत्र वसुधापिण्ड किमाचक्ष्महे तत्राप्येकतरं तु खण्डममितास्तसिन्नृपाः केचन । तेभ्यो दैन्यशमोपनीतविभवा दृष्टानुकम्पास्तु वे मे धिङ्मूढाः स्पृहयन्ति हन्त किमपि स्वार्थेन तेभ्योऽपि ये ॥१६॥ (श्री देवगणदेवानाम् ) प्रथमो बिन्दुः (१५५) अथोदारप्रशंसा कर्णस्त्वच शिविर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ २० ॥ द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान् । द्विर्ददाति न चार्थिभ्यो रामोद्विर्नाभिभाषते ॥ २१ ॥ अथ गुणप्रशंसा गुणिनि गुणको रमते नाऽगुणशीलस्य गुणिनि परितोषः। अलिरेति धनात्कमलं न दर्दुरस्त्वेकवासोऽपि ॥ २२ ॥ कौशेयं कृमिजं सुवर्णमुपलाइ पि गोरोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवर गोमयात् । काष्ठादग्निरहेः फणादपि मणिोपित्ततो रोचना प्राकाश्यं खगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ २३ ॥ अथ सन्तोष प्रशंसा वयमिह परितुष्टा वल्कलैस्त्वंदुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥ २४ ॥ ( भर्तृहरे) अथ संसर्ग प्रशंसा अश्वः शस्त्र शास्त्र वीणा वाणी नरश्च नारी च। पुरुषविशेषं प्राप्य भवन्ति योग्या अयोग्याश्च ॥ २५ ॥ (विष्णुशर्मा) (१५६) साहित्य-सुधा-संग्रहः दुर्जन निन्दा यद्वीक्ष्यते खलानां माहात्म्यं वापि दैवयोगेन । काकानामिव शौक्ल्यं तदपि हि नचिरादनाय ॥ २६ ॥ ( गोवर्धनाचार्य्यस्य) रविरपि न दहति तादृक् यादृक् संदहति बालुकानिकरः । अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥ २७ ॥ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वान्सः। यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ २८ ॥ (सुबन्धोः) अति मलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ २६॥ ।' (सुबन्धोः) विषमा मलिनात्मनो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥३०॥ (हरिगणस्य) अथ कृपणनिन्दा यत्करोत्यरति क्लेशं तृष्णां मोहं प्रजागरम् । न तद्धनं कदर्याणां हृदयव्याधिरेव सः॥ ३१ ॥ (क्षेमेन्द्रस्य) मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरा। दुश्चारिणी च हसति स्वपति पुत्रवत्सलम् ॥ ३२॥ (बाणभट्टस्य) A प्रथमो बिन्दुः (१५७) त्यागभोगविहीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ३३॥ (कस्यापि) कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ ३४॥ (व्यासस्य ) दृढतरनिबद्धमुष्टः कोपनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारता भेदः ॥ ३५ ॥ विद्यावतः कुलीनस्य धनं याचितुमिच्छतः। कण्ठे पारावतस्येव वाकरोति गतागतम् ॥ ३६॥ दक्षिणाऽऽशाप्रवृत्तस्य प्रसारितकरस्य च । तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥ ३७॥ अथ याचकनिन्दा उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः पर्यास्ताः परितो यशास्तबकिताः संपल्लतापल्लवाः। प्रागेवापवृतः प्रमोदहरिण श्छायाकथाऽन्तं गता दैन्यारण्यमतंगजेन महता भग्नेऽभिमानद्रुमे ॥ ३८॥ अथ दरिद्रनिन्दा अर्था न सन्ति न च मुश्चति मां दुराशा • त्यागान्न संकुचति दुर्ललितं मनो मे। याचाच लाघवकरी खवधे च पाप प्राणाः स्वयं व्रजत किं प्रविलम्बितेन ॥ ३१ ॥ (माघकवेः) (१५८) साहित्य-सुधा-संग्रहः वासःखण्डमिदं प्रयच्छ यदि वा स्वाऽङ्के गृहाणार्भक रिक्तं भूतलमत्र नाथ ! भवतः पृष्ठे पलालोञ्चयः । दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्ध कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदनिर्गतः॥४०॥ अथ मूर्खनिन्दा वितरति गुरू प्राज्ञ विद्यां यथैव तथा जडे न तु खलु तयोर्शाने शक्तिं करोत्यपहन्ति वा । भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः॥ ४१ ॥ पार्शमणे पतिfree/ 1 (भवभूते) लभेत सिकतासु तेलमपि यत्नतः.पीडय- पिवेश्व मृगतृष्णिकासु सलिलं पिपासादितः। कदाचिदपि पर्यटञ्छशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४२ ॥ ( मर्तृहरे) अथ तृष्णानिन्दा भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता मुक्तं मानविवर्जितं परगृहे वाशङ्कया काकवत् । साक्षेपं भृकुटीकटाक्षकुटिलं दृष्ट खलानां मुखं तृष्णे देवि!यदन्यदिच्छसि पुनस्तत्रापि सजा षयम्॥ ४३ ॥ (कस्यापि) अन्योक्तिः (चन्द्रः) प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः सच सकलकलाभिः पूर्णचन्द्रो न वन्द्यः।

- प्रथमो बिन्दु (१५६) अतिपरिचयदोषात् कस्य नो मानहानिः नव नव गुणरागी प्रायशः सर्वलोकः॥४४॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपति- युतिस्तादृग्नूना जनिरूपि च रत्नाकरकुले। बहु ब्रूमः किं वा पुरहरशिरोमण्डनमसि त्वदीयं तत्सर्वं शशधर ! कलङ्काद्विफलितम् ॥ ४५ ॥ Tany उच्चैः स्थानकृतोदयैर्बहुविधैयोतिर्मिरुद्यत्प्रभैः शुक्राः किममीभिरत्र वितथा प्रौढिं दधानैरपि । यावल्लोकतमोपहेन भवता लक्ष्मीन विस्तार्यते तावश्चन्द्र ! कथं प्रयाति परमां वृद्धि स रत्नाकरः॥४६॥ (त्रिलोचनस्य) अन्योक्तिः (बालाः) ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः। चिकुरा इव ते बाला एव, जडाः पाण्डुभावेऽपि ॥४७॥ (गोवर्धनाचार्य्यस्य ) अन्योक्तिः ( कूपजलम् ) कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये । याः शक्यन्त लब्धं न पार्थिवेनापि विगुणेन ॥४८॥ ( गोवर्धनाचार्य्यस्य) (१६०) साहित्य-सुधा-संग्रहः । अन्योक्तिः (चन्दनम् ) यदि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना। निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ ४६॥ अन्योक्तिः ( गजः) यूथपते ! तव कश्चिन्न हि मानस्यानुरूप इह विटपी। प्रेरय दिनं निदाघद्राधीयः क खलु ते छाया ॥५०॥ निना मालीrammy अन्योक्तिः ( मेघः) शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च श्रीखण्डेषु विभौतकेषु च तथा पूर्णेषु रिक्तेषु च । स्निग्धेन ध्वनिनाऽखिलेऽपि जगतीचके समं वर्षतो- वन्दे वारिदसार्वभौम ! भवतो विश्वोपकारि व्रतम् ॥५१॥ सनरले पamma ( कस्यापि ) अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं वद जलद ! मोघं वितरसि । समन्तादुत्तालज्वलदनलकोलाकवलन- क्लमोपेतानेतानुपचरपयोभिर्विटपिनः ॥ ५२॥ सेमरस्थ (बिल्हणस्य) अन्योक्तिः (तमाः) आजन्मसिद्ध कौटिल्यं खलस्य च हलस्य च सोढुं तयोर्मुखाक्षेपमलमेकैच सा क्षमा ॥ ५३॥ ( कस्यापि) अन्योक्तिः ( गुरुपदम् ) यन्नोपकारकं यन्न भूपणं यत्पकोपमातनुते । गुरुणाऽपि तेन कार्य पदेन किं श्लोपदेनेव ॥५४॥ 3myan ( गोवर्धनाचार्य्यस्य ) । मतता राओमी नदेव प्रथमो बिन्दुः (१६) अथ दैवाख्यानम् खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके धाञ्छन्दशमनातपं विधिवशाद्विल्यस्य मूलं गतः। तत्राऽप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥५५॥ ( भर्तृहरेः)। प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता । अवलम्बनाय दिनभतुरभूत् न पतिष्यतः करसहस्रमपि ॥५६॥ M-14 माघकवेः) अथ प्रकीर्णाख्यानम् निष्कलङ्ककलयैकयाऽपि यः संयुनः स खलु पूज्यते जनैः । भद्र ! पश्य जलजोपि धार्यते शंकरण शिरसा निशाकरः॥५७ ॥ ( शार्ङ्गधरस्य) एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये। तेऽमी मानुषराक्षसाः परहित स्वार्थाय निघ्नन्ति ये ये तु नन्ति निरर्थकं परहितं ते के न जानीमहे ॥५८ ॥ (भर्तृहरेः).. भक्ते द्वेषो जडे प्रीतिररुचिर्गुरुलङ्घनम् । मुखे च कटुता नित्यं धनिनां ज्वरिणामिव ॥ ५६ ।। (कस्यापि) जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना। शौर्य वैरिणि वनमाशु निपतत्वर्थोस्तु नः केवलं येनैकेन धिना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ६० ॥ ( भर्तृहरेः) - साहित्य-सुधा-संग्रहः गेहं दुर्गतबन्धुभि गुरुगृहं छात्रैरहङ्कारिभिः हट्ट पत्तनवञ्चकैमुनिजनैः शापोन्मुखैराश्रमान् । सिंहाद्यैश्च धनं, खलैर्नृपसभां, चौरैर्दिगन्तानपि संकीर्णानवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥ ६१ ॥ अथ समस्या विजेतव्या लङ्का चरणतरणीयो जलनिधि- विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ॥ ६२॥ उत्सरे सामु (कस्यापि) समस्या मायने भवति हृदयहारी कोऽपि कस्यापि हेतुः रेले दिली वे लिये न खलु गुणविशेषः प्रेमबन्धप्रयोगे। प्रेमवन्ततो किसलयितवनान्ते कोकिलारावरम्य विकसति न वसन्ते मालति कोऽत्र हेतुः॥६३॥ भाजति यानि अथ जातिः ( महोतः) अत्युच्च Both 1727 गर्जित्वा मेघधीरं प्रथमम शनैर्मण्डलीकृत्य देहं राहत, शृङ्गाभ्यां भीषयन्ताभिमुखमवनिं दारयन्तौ खुराप्रैः । मन्द मन्द समेत्य'स्थिरनिहतपदं दत्तघातौ सरोष युध्येते चालयन्तौ कुटिलितमसंकृत्युच्छमेतौ महोक्षौ ॥६४॥ (कस्यापि प्रथमो बिन्दु (१३) धेनुः आहत्याऽऽहत्य मूर्धा द्रुतमनुपिवतः प्रस्तुतं मातुरुधः किश्चित्कुब्जैकजानोरनवरतचलचारुपुच्छस्य धेनुः । उत्तीर्णा तर्णकस्य प्रियतनयतया दत्तहुँकारमुद्रा घिस्रसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ॥ ५ ॥ ( मयूरस्य) नैयायिका कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदा घोपं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किका । प्रत्यक्षं न पुनाति नापहरते पापामि पीलुच्छटा थाप्ति वति भैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ६६ ॥ नम्ति पन्त अथ नीतिः लक्ष्म्या परिपूर्णोहं न भयं मोहनिद्रेया । परिपूर्णस्यैवेन्दोर्भवति भय सिंहिकासूनोः ॥ ६७ ॥ (कस्याऽपि) एत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते । छन्दः शास्त्र इवास्मिल्लोके सरलः सखे ! किमसि ।। ६८ ॥ (गोवर्धनाचार्य्यस्य ) विदपि धैर्यमथाऽभ्युदयेक्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि चाऽभिरुचि र्व्यसनं श्रुतौ प्रकृति सिद्धमिदं हि महात्मनाम् ॥ ६६ ।। धावत् स्वस्थमिदं शरीरमरुज यावजरा दूरतो- यावश्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः।

(१६४) साहित्य-सुधा-संग्रहः आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥ ७० ॥ ( भर्तृहरो) वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं वाक्पारुष्याञ्चोपकारोपि नेष्टः । किं तद्रव्यं कोकिलेनोपनीतं को वा लोके गर्दभस्यापराधः॥७॥ (कस्यापि) यात्येकतोऽस्तशिखरं पतिरोषधीना- माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां 3 लोको नियम्यत इवाऽऽत्मदशान्तरेषु ॥७२॥ रम्याणि वीक्ष्य मधुराँश्च निशम्यशब्दा- पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तश्चेतसा स्मरति नूनमबोधपूर्व सोय भाव स्थिराणि जननान्तरसौहृदानि ॥ ७३ ॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा पदप्राप्ति लिभाति लब्धपरिपालनवृत्तिरेव । व्यापार नाऽतिश्रमापनयनाय यथा श्रमाय राम राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ७४ ॥ ज्वलति चलितेन्धनो ऽग्निर्विप्रकृतः पन्नगः फणां कुरुते। प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥ ७५ ॥ सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः संभावनागुणमवेहि तमीश्वराणाम् । किंवा भविण्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७६ ॥ .

एक न
प्रथमो बिन्दुः
(१६५)
घल्लकमानि.दन्तकलिका
आलक्ष्यदन्तमुकुलाननिमित्तहासा-
नव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
वाणिपयोग
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो.
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७७॥
.
.....
......
सर्वः कल्ये वयसि यतते भोक्तुमर्थान् कुटुम्बी।
पश्चात् पुरैरपहतभरः कल्पते विश्रमाय ॥ ७८ ॥
यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् ।
निर्वाणाय तरच्छाया तप्तस्य हि विशेषतः ॥ ७९ ॥
पुराणमित्येव न साधु सर्वम् न चापि सर्व नवमित्यखद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढःपरप्रत्ययनेय बुद्धिः ॥ ८०॥
पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ८१ ॥
अधिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८२ ॥
अर्थ सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ८३ ॥
अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ८४ ॥
श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ।। ८५ ॥
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाऽऽविलं पयः ॥ ८६ ॥
उपदेशं घिदुः शुद्ध सन्तस्तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ८७ ॥

(१६६) साहित्य-सुधा-संग्रहः छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् । एतानि दष्टमात्राणामायुष्या प्रतिपत्तयः ॥ ८८ ॥ न हि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलक्ष्यते ॥ ८६ ॥ प्रतिपक्षेणापि पति सेवन्ते भर्तृवत्सलाः साध्व्यः । अन्यसरितां शतानि हि समुद्रगाः प्रापयन्स्यब्धिम् ॥ ६ ॥ ( एते कालिदासस्य) सर्वथा व्यवहर्त्तव्य कुतो ह्यवचनीयता । यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥११॥ लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ १२॥ नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्धिस्थिनिन चरणै रवताडनानि ॥ १३॥ प्रियप्राया वृत्तिनियमसूणो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्ध विजयते ॥ ६४ ॥ वज्रादपि कठोराणि मृदुनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ १५ ॥ न किञ्चिदपि कुर्वाणः सौख्यदु:खान्यपोहति । तत्तस्य किमपि द्रव्य यो हि यस्य प्रियो जनः॥१६॥ अन्तःकरणतत्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमितिकथ्यते ॥ १७ ॥ पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया। शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥१८॥ " , . प्रथमो बिन्दुः (१६७) संन्तानवाहीन्यपिमानुपाणां दुःखानि सद्वन्धुवियोगजानि । । दृष्ट जने प्रेयसि दुःसहानि स्रोतःसहस्तैरिव संप्लवन्ते ॥ ६ ॥ सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्। पुनरकाण्डविवर्तनदारुणो विधिरहाविशिनष्टि मनोरुजम् ॥१०॥ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् । भद्रा ह्येषां वाचि लक्ष्मोनिषिता नैते वाच विप्लुतां व्याहरन्ति ॥ १०१।। अहेतुः पक्षपातो यस्तस्पनास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्दुरन्तर्मर्माणि सीव्यति ॥ १०२ ॥ ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्ववैराणां साहि लोकस्य निष्कृतिः ॥१०३॥ कामं दुग्धे विप्रकर्पत्यलक्ष्मी कीर्तिसूने दुहृ दो निप्रहन्ति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥१०४॥ व्यतिपति पदार्थानान्तरः कोऽपिहेतु- न खलुबहिरुपाधीन् प्रीतयः संश्रयन्ते । विकसति हि पतंगस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १०५ ॥ न तेजस्तेजस्वी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥१०६॥ ते श्रोत्रियास्तत्वविनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते । इष्टाय पूर्ताय च कर्मणेऽर्थान्दारानपत्याय तपोऽर्थमायुः ॥ १०७ ॥ ये नाम केचिदिह नः प्रथयन्त्यवहां जानन्तु ते किमपि तान् प्रतिनैप यत्नः ।

(१६८)
साहित्य-सुधा-संग्रहः
उत्पत्स्यतेऽस्ति मम कोपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ १०८॥
यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च
शानं तत्कथनेन किं नहि ततः कश्चिद्गुणो नाटके ।
यत्प्रौढत्वमुदारता च वचसां यश्चार्थतो गौरवं
तश्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः॥१०॥
बहिः सर्वाकारप्रगुणरमणीयं व्यवहर-
पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वानकः सकलमतिसंधाय कपटै-
43
र
स्तटस्थः स्वानान्घटयति च मौनं च भजते ॥११०॥
शास्त्रे प्रतिष्ठा सहजश्व बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्वमेते गुणाः कामदुघाः क्रियासु ॥११॥
शान्तिः कुतस्तस्य भुजङ्गशत्रो यस्मिन्निबद्धानुशया सदैव । कोय
जागर्ति दंशाय निशातदंष्ट्राकोटिर्विपोद्गारगुरुर्भुजङ्गी ॥ ११२ ॥
हरेरतुलविक्रमप्रणयलालसः साहसे
स एव भवति कणकररुहप्रचण्डः सखा।
स्फुरत्करटकोटरस्खलितदानसिक्तानन-
द्विपेश्वरशिरःस्थिरास्थिदलनैकवीरः करः ॥ ११३ ॥
कुमुदाकरण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता ।
सुकृतं तदस्तु कतमस्त्वयं विधिर्यदकालमेघविततिळयूयुजत् ॥११४॥
जोदि
तमांसि ध्वंसन्ते परिणमति भूयानुपशमः
सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम् ।
अथ प्रत्यासङ्गः कमपि महिमानं वितरति
पनि प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ॥ ११५ ॥
अमोघशस्त्र क्षत्रस्य ब्राह्मणानामनुग्रहः ।
दुरासदं च तत्तेजः क्षत्रं यद्ब्रह्मसंयुतम् ॥ ११६ ॥

प्रथमो बिन्दुः
(१६६)
निस्सन्देहविपर्यये सति पुन ने विरुद्धक्रियं ।
राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः॥ ११७॥
असाध्यमन्यथा दोपं परिच्छिद्य शरीरिणः ।
यथा वैद्यस्तथा राजा शस्त्रपाणिर्भविष्यति ॥ ११८ ॥
अन्योन्यमाहात्म्य विदोरन्यैरविदितात्मनोः ।
विभ्राजते विरोधोऽपि नाम स्नेहे तु का कथा ॥११६ ॥
प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् ।
आत्मनीव प्रियाधानमेतन्मैत्रीमहावतम् ॥ १२० ॥
न कम्पन्ते झंझामरुति किल वाति प्रतिदिशं
समुन्मूर्च्छत्साराःकुलशिखरिणः किञ्चिदपि ते ।
न मर्यादां तेऽपि प्रतिजहति गाम्भीर्यगरिम-
स्फुरद्वाग्ब्रह्माणोऽकलितमहिमानोऽम्बुनिधयः ॥ १२१॥ -
( भवभूतेः)
अन्योन्यप्रीतिकृतां समानरूपानुरागकुलवयसाम् ।
केपाश्चिदेव मन्ये समागमो भवति पुण्यवताम् ॥ १२२ ॥
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ १२३ ॥
कोडीकरोति प्रथमं यदा जातमनित्यता ।
धात्रीव जननी पश्चात्तदा शोकस्यकः क्रमः॥ १२४॥
यैरत्यन्तदयापरैर्न विहिता वन्ध्याऽर्थिनां प्रार्थना
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति ।
ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता
मातः संहर वाष्पवेगमधुना कस्याग्रतो रुद्यते ॥ १२५ ॥
मेदोस्थिमजासृङ्मात्रसंघातेऽमिस्त्वचावृते ।
शरीरे खलु का शोभा सदा बीभत्सदर्शने ॥ १२६ ॥

(१७०) साहित्य-सुधा-संग्रहः द्वीपादन्यस्मादपि मध्यादपिजलनिधेर्दिशोऽप्यन्तात् । आनीयझटिति घटयति विधिरभिमतमभिमुखीभूतः ॥१२७॥ (हर्षवर्धनस्य) तत्क्षणमपि निष्क्रान्ताः कृतदोपा इव विनापिदोषेण । प्रविशन्ति शङ्कमाना राजकुलं प्रायशोभृत्याः ॥ १२८ ॥ प्रायो यत्किञ्चिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः । मोभकुम्भतटगतमेति हि शृंगारतां भस्म ॥ १२६ ॥ (प्रियदर्शनिकातः) शून्यमपुत्रस्य गृहं चिरशून्यं यस्यनास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वशून्य दरिद्रस्य ॥ १३०॥ सुखं हि दुःखान्यनुभूयशोभते घनान्धकारेष्विष दीपदर्शनम् । सुखात्तु यो यातिनरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥१३१॥ दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् । अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥ १३२॥ सत्यं न मे विभवनाशकृताऽस्ति चिन्ता भाग्यक्रमेण हि धनानि भवन्ति यान्ति । एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवन्ति ॥१३३ ॥ दारिद्रयाद्धि य्मेति हो परिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवानिर्वेदमापद्यते । निर्विरणः शुधमेति शोकपिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १३४ ॥ तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः । तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ १३५ ॥ दारिद्रयात्पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः ।

प्रथमो बिन्दुः (१७१) सत्वं हासमुपैति शीलशशितः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥१३६ ॥ सङ्ग नैव हि कश्चिदस्य कुरुते संभाषते नादरा- त्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेवमहाजनस्य विहरत्यल्पच्छदो लजया मन्ये निर्धनता प्रकाममपरं पष्ठं महापातकम् ॥ १३७ ॥ सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनद्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ १३८ ॥ (शूद्रकस्य) इति प्रथमो-बिन्दु समाप्तः XXXXX-4-*-

No text on this page.

No text on this page.

साहित्य सुधासंग्रहस्य प्रथम बिन्दु

Author
Vidyaalang-akaar Vaagiishvar
Title
Saahitya Sudhaasangrahasya Pratham Bindu
File name
साहित्य सुधासंग्रहस्य प्रथम बिन्दु
Text
OCR done
Citation
1926
Published
2005/11/19
Publisher
Nandlaal Gurukul Kaagarii Vishvavidhaalay Haridvaar
Language
Sanskrit
Pages
185
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477131
Barcode
99999990172959.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
ujMelXkE6TR
Download PDF

साहित्य सुधासंग्रहस्य प्रथम बिन्दु