Asr,melkote

Tarkambutam

Bhat't'achaar^ya , Jagadisha · 2004/12/26

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

तामृतम्। महामहोपाध्याय श्रीजगदीशभट्टाचार्यकृतम् । पण्डितकुलपतिना, वि, ए, उपाधिधारिणा प्रीमज्जीवानन्द-विद्यासागर-भट्टाचार्यकृत- सशिप्तटिप्पनीसमेतम् । तदात्मजाच्या पण्डित-श्रीमदाशुबोधविद्याभूषण- पण्डित-श्रीमन्नित्यबोधविद्यारनास्या सस्कृत प्रकाशित। तृतीय-सस्करणम्। कलिकातानगम्ि वाचस्पत्ययन्त्रे मुद्रितम । सर्व खत्व सरचितम् । मूल्य रीयकमादम्।

জাম এঘিনশীষ্মাজী-বিশ্বাস ঙিন স্বীলিলী-বিন্যা। সলিল { সামান- আপ হল, মানায় নাৰ ষ্ট্ৰীয় স্মাৎী এন্তু মুদ্ধি, লিজানা। সিম্ভব—বি, ভি, মুলী। ২ নং, বালাঘ হুসা দ্বী, কালিয়া। * কক্ষ तामृतम्। ब्रह्माद्या निखिलार्चितास्त्रिदशसन्दोहाः सदाऽभीष्टदा अज्ञानप्रशमाय यत्र मनसो वृत्ति समस्तां दधुः । श्रीविष्णोचरणाम्बुजं भवभयध्वंसैकबोजं परं हत्य विनिधाय तत्रिरुपमं तर्कामृतं तन्यते ॥१॥ अथ श्रुति: अयते,-"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य:-" (वृहउप० २अध्या० ४ ब्रा. प्रमन्तः) इति ; अस्यार्थः, मुमुक्षुणा आत्मा द्रष्टव्यः, मुमुक्षो- हात्मदर्शनमिष्टसावननिति यावत् । आत्मदर्शनोपायः कः? इत्यवाह-श्रोतव्यः' इत्यादि, तेन आक्रमेण शब्दक्रमत्यतो भवति (१), 'अग्निहोत्रं जुहोति' 'यवागं पचति' इत्यादि- वत् ; तथा च श्रवण-मनन निदिध्यासनानि तत्त्वज्ञानजनका- नौत्युक्तं भवति। अत्र श्रुतितः कृतात्मश्रवणस्य मनधिः कार:, मननञ्च आत्मन इतरभिन्नत्वेनानुमान (२), तच्च भेद- प्रतियोगीतरज्ञानसाध्यं (३), तथाचेतरदेव कियत् ? इत्ये. तदर्थ पदार्थनिरूपणम्। सयतः पदार्थों विविधः (8), भावोऽभावश्च ; भाव: (१) कार्यस्य कारणोत्तरभावित्वात् । (२) आत्मा इवरभ्यो भिद्यते आत्मत्ववत्त्वात्, यत् इतरेभ्यो न भिद्यते, न वत् आत्मत्ववत् यथा घटादि न चायं तथा। (३) अभावज्ञान प्रतियोगिज्ञानस्य हेतुत्वादिति भावः । (8) अवान्तरविभानकीपाधिदयविभिष्टः।

तारतम् । धय । षड्विधा,-ट्रव्य-गुण-कर्म सामान्य विशेष-समवायमेदात् । ट्रयत्व-गुणल्व कर्मवानि जातय (५), सामान्यत्वादीनि उपा द्रव्याण भव,-पृथिव्यतेजोवायाकाशकालदिगाम- मनासि। आकाशत्व-कालव-दिक्त्वानि उपाधय (६), अन्यानि जातयः। रूपरसगन्धस्पर्शसभापरिमाणपृथक्त्वसयोगविभाग- परत्वापरत्वगुरुत्वद्रवत्वसंस्काराचतुर्दश गुणा' पृथिव्याम्। ततेव गन्ध विहाय स्नेह विनियोज्य चतुर्दश गुणा' जलस्य । रूप-स्पर्श सङ्ख्या-परिमाणथक व सयोग विभाग-परत्वापरत्वद्रकल- सस्कारा एकादश गुणा' तेजस । स्पर्शसलगपरिमागापृथक्त्व- सयोगविभागपरत्वापरत्वसस्कारा नव गुणा, वायो । शब्द मञ्जयापरिमाणपृथक्त्वसयोगविभागा षड् गुणा' गडापरिमाणपृयक्त्वत योगविभागा' पच गुणा. कालदियो । मडया परिमाचा पृथक्त्व-सयोगविभाग बुद्धिसुख दुखेच्छादेवप्रयत्न- धर्माधर्मसस्कारा. चतुर्दश गुणा आत्मन । सञ्चापरिमाण- पृथक्त्वस योगविभागपरत्वापरत्वस स्कारा अष्टौ गुणा मनसः । ज्ञानेशा-कति सङ्घयादिपञ्चकम् अष्टौ गुग्गा' ईश्वरस्य । अाकाशस्वी আ 'वायोर्नवैकादश तेजसो गुणाः जलक्षितिप्राणभृता चतुर्दश। दिकालयोः पञ्च घडेव चाम्बरे महेखरेऽष्टौ मनसस्तथैव च।' तत्र पृथिवीजलतेजोवायवो हिविधा', परमाणव साव- यवाश्च । आकाशकालात्मदिशो विभुरूपा'। मन परमाणु- रूपम्। तव सावयवा अनित्या, इतराणि नित्यानि , साक- (५) द्रव्यत्व सधोगविभागसमवाविकारणताऽवच्छे स्कतया, मुखल मुखपदशकावा- ऽवच्छेदकलया, कर्मत्व चलतीत्यनुमतप्रत्यक्षविषयतया च सिद्धन् । (e) उपाय अथइधर्मा।

तामृतम्। [३] यवा अघि त्रिविधाः, शरौरीन्द्रियविषयभेदात्। मानुषं शरीरं पाथिर्व, जलोयं शरारं वरुणलोके प्रसिङ, तेजसं शरीर- भादिन्यलोके, वायवीयं शरीर वायुलोके। ब्राणेन्द्रियं पार्थिव, रसनेन्द्रियं जलीयं, चक्षुरिन्द्रियं तेजसं, त्वगिन्द्रियं वायवीय, धोत्रेन्द्रियं कर्णशष्व ल्यवच्छिन्ननमःप्रदेशः, एतानि पञ्च वहि- रिन्द्रियाणि ; मनोन्तरिन्द्रिय, तेन पड़िन्द्रियाणि । विषयाच शब्दादिरूपेण प्रसिद्धाः । आत्मा विविधः, जोवात्मा परमात्मा च ; तत्र जीवात्मानः प्रतिशरीरं भिन्नाः बन्धमोक्षयोग्याः। परमात्मा ईश्वरः । प्रत्यक्षाप्रत्यक्षद्रव्याणि,-परमाणु हाणु के अप्रत्यक्षे, भहदुद्भूतरूपवत्त्वं यत्र, तानि पृथिवीजलतजांसि प्रत्यक्षाणि, 'प्रात्मा प्रत्यक्ष: (७)। वायाकाशकालदिननांसि तु अप्रत्यक्षाणि । वहिर्द्रव्यप्रत्यक्ष प्रति महत्त्वे सत्युद्भूतरूपवत्त्वं अयोजकम् (८)। अथ द्रव्योत्पत्तिप्रक्रिया, तत्रोत्पत्तिः कारणवतः ; अनन्यथा- सिद्धनियतपूर्ति कारणं, तत्त्वं कारणत्वम् । विविधानि कारणानि,-समवायिकारणासमवायिकारण--निमित्तकारणानि । बेसमवेतं कार्यमुत्पद्यते तत् समवायिकारणं, परमाणु: हाणुकस्य, कपालं घटस्य। समवायिकारणे सम्बई कारणम् असमवायिकारणं, यथा-परमाणुइयसंयोगो झणु- कस्य, कपालरूपं घटरूपस्य। एतदुभयभिन्नं यत् कारणं तत् निमित्तकारणं, यथा-घणुकै ईश्वर, घटे दण्डः। एतत्कारणत्रयं यथा- . (७) प्रत्यक्षाणि वहिरिन्द्रियजन्यलौकिकप्रत्यचविषयाणि। प्रत्यक्ष प्रत्यक्षः, मानसप्रत्यर्थनिरूपितलौकिकविषयताश्रय इत्यर्थः । (८) महत्त्वं परमाणुगणुकवारणाय। उतलं प्राणादिवारणाय । बत्वं वायुवारणाय।

[४] तर्कामृतम्। भावकायमात्रस्य। तव समवायिकारणं द्रव्यमेव। असम- वाधिकारणं. द्रव्ये गुणः, गुण गुणः कर्म च (८)। कार्यमा प्रति साधारणकारणानि,-ईखर:. तज्ज्ञानेच्छाकतयः, प्राग- भावकालदिगदृष्टानि। परमाणुदयसंयोगात् हाणुक- मुत्पद्यते. संयुक्ता हाणुकत्रयाचसरेणुः । एवं चतुरणकादि कपालान्तम् ; कपालयसंयोगेन घटो जायते %3 घटस्त्वन्त्या- तत्व वयवी। अथ द्रव्ये प्रमाणं कथ्यते-प्रत्यक्षद्रव्ये प्रत्यक्षमेव प्रमाणम् ; अतीन्द्रियेऽनुमानम्। तत् पक्षहेतुसाध्यदृष्टान्तज्ञानसाध्यम् । विशेषो वक्ष्यते। परमाणुहाणुकानुमानं यथा,-वसरणुः सावयवद्रव्यारब्धः वहिरिन्द्रियवेद्यद्रव्यत्वात्, वहिरिन्द्रियवेद्य- द्रव्यं यत्, तत् सावयवद्रव्यारब्ध, यथा घट: ; अन त्रसरेणुः पक्षः, सावयवद्रव्यारब्धवं साध्य, वहिरिन्द्रियवेद्यद्रव्यत्वादिति हेतुः (१०), घटो दृष्टान्तः, अनेन ह्याणकं परमाणुश्च सिध्यति । आकाश-वायू शब्देन स्पर्शन चानुमौयेते, शब्दो द्रव्याश्रितः, गुणत्वात्, यथा घटरूपम्, अनेन द्रव्यान्तरवाधात् शब्दाश्रय वेनाशार्श सिध्यति (११)। पृथिव्यादिवयात्तिरयं स्पर्श द्रव्याश्रितः, गुणवादित्य नुमानेन ट्रव्यान्तरबाधात् स्वर्गाश्य- त्वेन वायुः सिध्यति। काले प्रमाणं यथा,-परवापरत्वे हिविधे, कालिके दैशिके (९) गुणः अवयवसंयोगादिः। गुणे कार्यस्य गुणे शुलरूपादौ, गुणः सम- बायिकारणस्य गुणः भुलरूपादिः । कर्म क्रिया, संयोगविभामयीरसमयायिकारण- मित्यथः। (१०) मनोवेद्यात्मनि व्यभिचारवारणाय बहिःपदम् । रूपत्वादी व्यभिचार बारणाय द्रव्यपदम्। (१) अन्यवासम्भवन परिशेषात् सिद्धि।

तामृतम् । [] च। परत्वोत्पत्तिश्च बहुतररविक्रियाविशिष्टशरीरज्ञानात्, अघर- त्योत्पत्तिश्च खपतररविक्रियाविशिष्टशरीरज्ञानात् । तत् परत्वे ज्येष्ठत्वम्, अपरत्वं कनिष्ठत्वम् । तदनुमानं यथा,-परत्वजनक बहुतररविक्रियाविशिष्टशरीरज्ञानमिद (१२) परम्परासम्बन्ध घटकसापकं, साक्षासम्बन्धाभावे संति विशिष्टज्ञानत्वाला, लोहितः स्फटिक इति प्रत्ययवत्, परम्परासम्बन्धश्च स्वसम- वायिसंयुक्ततंयोगः (१३), तेन सम्बन्धघटकः कालः सिध्यति । ननु कालस्य भूतभविष्यवर्तमानभेदेन बहुत्वात् कुत एकलमिति चेन, उपाधिभेदेन भेदप्रत्ययात् कालोपाधको रविक्रियादिरूपा भिन्ना एव । एवं दैशिकपरत्वापरत्वाभ्यां दिशः सिद्धिः, ते च दूरत्व- अवधिसपिक्षबहुतरसंयोगविशिष्टशरीरज्ञानमिदं परत्वजनक परम्परासम्बन्धघटकसापेक्षमित्यादि तेन च दिश: सिद्धिः (१४)। न चाकाशमेव सम्बन्धघटक- समीपत्वे। पूर्ववत् ; (१२) शरीरविशेष्यकं दिनादिरूपरविक्रियाविशिष्टज्ञानं पचः। (१३) खा रविक्रिया, तत्समवायी रविः, तत्संयुक्तः कालः, तत्संयोगोऽस्मदादौ । (१४) अवधिसापेक्षेति ।-यथा प्रयागात् काशीतो गया परा। गयातः काशी अपरीति। श्रवादी अवधि: काशी, तदपेक्ष्या प्रयागावधिकबहुतरसंभोगवत्वं गयायाम्। द्वितीयेऽवधिर्गया, तपेक्षया प्रयागावधिकाल्पतरसंयोगवत्व कायाम् । न च प्रयागप्रतियोगिकबहुतरसंयोगा गयायां, न वा प्रयागसंयुकदेशीया:, किन्द प्रयागावधिकाः काश्यपेक्षया बहुतरा ये मध्यवर्तिदेशसंयोगास्तवत्वं, तच्च न साक्षात्. किन्तु तावामवायिसंयुक्तत्वरूपपरम्परयेति तावत्समवायिदि सिद्धिः । न च प्रयाग समीपवन्धिपि ताशयावसंवोमा श्रवदिक्सं योगस्य सत्त्वात् परत्वापत्तिः, प्रयामा वधिका ये काश्यपेक्षया बहुतरा: संधीगास्तदन्तःपाती तद्देशप्रतियोगिकसंयोगोऽपारित तत्प्रतियोमिकसयोमस्य तलिअन् साक्षात परम्परया चानडौकारात् ।

[] तामृतम्। मास्तामिति वाचं, तस्य शब्दाश्रयत्वेनैव धर्मिग्राहकप्रमाण- सिद्धत्वात् न रविक्रियाद्यपनायकत्वसम्भवः (१५)। “अहं सुखी" इत्यादिप्रत्यक्षमात्मनि प्रमाणम् । ईश्वरे चानु- मानं यथा, क्षितिः सकतुका, कार्यत्वात्, घटवत् (१६) । तेने- खरस्य तवत्तिनित्यज्ञानाच्यावतीनां तत्सार्वज्ञास्य च सिद्धिः । मनसि प्रमाणं यथा,-मुखादिप्रत्यक्षमिन्द्रियजन्यं, जन्यप्रत्यक्ष- वात्, घटप्रत्यक्षवत्, तथा चेन्द्रियान्तरबाधे मनस: सिहिः। अथ द्रव्यनाशप्रक्रिया-द्रव्यनाशो हिविधः, क्वचिदसम- वायिकारणनाशात्, कचित् समवायिकारणनाशाच्च। तत्राद्यो यथा,-परमाणुइयसंयोगनाशात् हाणुकनाश: । द्वितीयो यथा,- कपालनाशाहटनाश:, घटनाश: उभयतः सम्भवति (१७)। आकाशकालदिगात्मपरमाणवोऽवृत्तयः, समवायश्च । पृथि- ब्यादिपञ्चानां भूतत्वं, पृथिवीजलतेजोवायुमनसां क्रियावत्व- मूर्तले (१८)। पृथिव्यप्तेजोवायवो द्रव्यसमवायिकारणानि । (१५३ धर्मिण आकाशस्य ग्राहक यत् प्रमाणं 'पूर्वोक्तशब्दपक्षकानुमितिः शब्दाश्रयत्वेन तुन्यवित्तिवेद्यतया तद्दिषयत्वादित्यर्थः। तेषां सम्बन्धघटकल्वे हिमवन्यपि विन्ध्यवत्त्वप्रतीत्यापत्तिः, कालदिशीस्तु यत्सम्बन्धघटकत्वेन सिद्धिस्तहिशिष्ट बुद्धिनाज- नियामकलेन अनतिप्रसङ्गात् । रविक्रियाद्युपनायकत्व रविक्रियोपनीतभान- विषयत्वम् । (१६) क्षिति: यणकमित्यर्थः, तेन चितित्वसामानाधिकरदन सक त्तकाव- साधने सिद्धसाधनम्, अवच्छेदकावच्छेदैन तत्साधने बाध: पंटादौ कुविन्दादि कनक- त्वस्य सिद्धेः. नित्ये परमाखादौ च सकर्तृकत्वस्य अभावादिति प्रत्युतम् । प्रागभाव प्रतियोगित्वे सति ध्वंसप्रतियं गित्वं कार्यत्वं, तेन वंस न व्यभिचारः।' (१७) उभयत: समवायिकारणनाशात् असमवाधिकारणनाशाच्च । ব্দ नाशन्तु न तथा तलमव विकारणस्य परमाणीनित्यान् । (१८) पहिरिन्द्रिय विशेषगुणवत्त्वं भूतत्वम् । क्रियासमवायिकारणता इवच्छेदकतया सिद्धी जाविषयों मूर्तत्वम् ।

सर्कामृतम्। [] মন कालस्य कालिकसम्बन्धेन सर्वाधिकरणत्वम्। दिशो दैशिक- सम्बन्धेन सर्वाधिकरणत्वम्। इति द्रव्यनिरूपणम् । गुणाः कथ्यन्ते,- रूपरसगन्धस्पर्श सङ्ख्यापरिमाण- पृथक् त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाहेषप्रयत्रगुरुत्व- द्रवत्वस्नेहसंस्कारधर्मावर्मशब्दाश्चतुर्विंशतिगुणाः । वादीनि सर्वा येव जातयः । रूपं पृथिवीजलतेजोत्ति, तच शुक्लकणरक्तपीतचित्र दिभेदेन * बहुविधं पृथिवीकृत्ति । अभाखरशुलरूपं जलवत्ति। शुक्लभाखरं तेजोवृत्ति। रमः ঘিৰীলবনি, मधुरलवणकटुतितालकषायभेदात् पविध: रस: पृथिव्याम् । जले मधुर एव रसः । गन्यो दिविधः,-सुरभिरसुरभिश्च पृथिवीमात्रवृत्तिः । स्पर्श: पृधिञ्चादि- चतुष्टयत्तिः, म च विविधः,-शीत: उष्णच. अनुष्णांशीतश्च । अनुषणांशौतस्पर्ण वायुपृथिव्यो:, जले शीतः, तेजसि उष्णतः । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागा नव दव्यबत्तयः॥ परत्वापरत्वे पृथिवीजलतजोवायुमनोवृत्तिनी। बुद्धिसुखदुःखेच्छा- इषप्रयत्नभावनाधर्माधर्मा आत्मवृत्तयः । गुरुत्वं पृथिवी- जलवत्ति। द्रवत्वं पृथिवीजलतजोवृत्ति ; तत् हिविधं, नैमि- तिकं सासिद्धिकञ्च ; आद्यं पृथिवीतजसोः, हितौयं जले। स्नेहो जलमात्रवृत्तिः। संस्कारः पृथिवीजलतेजोवायात्ममनो- कृत्तिः, स विविधः,-वेग: भावना स्थितिस्थापकश्च। तत्र वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः; द्वितीय आत्महत्ति: ; बतीयः पृथिव्यादिचतुष्टयवृत्तिः । * शुक्ला नौलपीत-रती-हरित कपिश-चित्रभेदात्. सप्तविधं पृथिव्याम् ति का संपु० पाठः। + स्वच्छशुक्नम् इति सोसाइटीपुस्तकपाठः । * पृथिव वायोः इति क० सं० पु० पाठः ।

सर्कामृतम्। शब्दो विविधः, ध्वन्यात्मकः वर्णात्मकच आकाशमाव. वृत्तिः। रूपरमगधया नेहसांसिद्धिकद्रवत्व शब्दबुद्धिसुखदुःखेच्छा- द्वेषप्रयत्नधर्माधर्मभावना विशेषगुणाः सयापरिमाण- पृथक्त्व-संयोग-विभाग-गुरुत्व नैमित्तिकद्रवत्व-वेगस्थितिस्थापकाः सामान्यगुणाः। अथ नित्य गुणाः, जलतजोवायुधरमाणनां विशेषगुणा: परमाणु वृत्तिस्थितिस्थापकश्च, विभूनां परमाणूमाञ्च एकत्वं परिमाणपृथक् वानि, ईश्वरेच्छाज्ञानकतयश्च नित्यगुणाः । अथा- प्रत्यक्षगुणाः,-गुरुत्वधर्माधर्मभावनास्थितिस्थापकाः, परमाणु- हाणुकहत्तिगुणाः, अतीन्द्रियत्तिसामान्यगुणाः, बमरणोः रूपं विहाय अन्धे गुणाः अतीन्द्रियाः । रूपरसगन्ध स्पर्श स्नेहप्रत्यो महदृत्तिवे सति उद्भूतत्वं प्रयोजकम् ; सामान्यगुणप्रत्यक्ष तु आश्रय प्रत्यक्षं, बुद्धिप्रत्यक्षे खत्तिविशिष्टज्ञानत्वं, सुखादिप्रत्या खबत्तिसुखत्वादिक- मेव (१८)। अन्त्याद्यशब्दो विहाय सर्वः शब्दः प्रत्यक्षः । अथ गुणोत्पत्तिप्रक्रिया,-अवयववृत्तिविशेषगुणाः अवय- विनि स्वसंमानजातीयगुणान् (२०) आरभन्ते। पृथिवीविशेष- गुणाः पाकजा:, ते विविधाः,-पाकप्रयोज्याः पाकजन्याश्च । कारगुरुग्रक्रामजन्या: पाकप्रयोज्या: अग्निसंयोगजन्याः तथा चोक्तम् ।-रूपं गन्धो रसः स्पश: लेहः सांसिद्धिकी द्रवः । बुद्धवादिर्भावनान्तश्च शब्दो वैशेषिको गुणः ॥ इति सोसाइटीपुस्तके अतिरिक्तः पाठः । (१६) प्रयोजकमित्यर्थः (२०) स्वात्तिरूपत्वादिव्याम्यजातिमतो गुणान् ।

तामृतम्। द्वितीयाः। "श्यामघटे अग्निसंयोगेन श्यामरूपनाशानन्तरं घटे रक्तं रूपसुत्पद्यते” इति नैयायिकमतम् । “अग्निसंयोगन घरमाणौ पाके सति परमाणुषु रक्तरूपमुत्पद्यते, पुनर्घटोत्पत्ती सत्यां कारण गुणप्रक्रमेण घटे रतरूपमुत्पद्यते” इति वैशेषिक मतम्। कपालं नीलमेकम्, एक पोतं यदि, तदा घटे चित्ररूपमुत्पद्यते। रसादावेवं सति अवयविनि रसो न जायते, चित्ररसाखौकारात्। गुरुत्वस्थितिस्थापकयो कारणगुणप्रक्रमजन्यता। हित्वादयोऽपक्षावुद्धिजन्याः (२१)। परिमाणां चतुर्विधम्,- अणु, महत्. इखं, दीर्वच । कारण- गुणप्रक्रमजन्यं खावयवबहुत्वं महत्त्वजनकं, यथा नसरेणू- नाम् ; अवयवानां शिथिलः (२२) संयोगः प्रचयोऽपि तज्जनकः यथा तूलस्य परिमाणम्। पृथक्त्वं कारणगुणप्रक्रमजन्यम्। ननु तत्र कि प्रमाणम् ? घटात् पटः पृथगिति प्रत्यक्षं, तस्यान्योऽन्याभावविषयकत्वमिति चेन्न, अन्योऽन्याभावप्रत्यये प्रतियाग्यनुयोगिनो: समानविभक्ति- कवनियमात्, यथा घटो न पट इति। अन्योऽन्याभावस्थ पृथक्त्वरूपत्वे घटात् पटो नेत्यपि प्रयोगापत्तेः। घटादन्यः पट इत्यत्र कथमन्योऽन्याभावप्रतीतिरिति वाच्यम्, अन्यत्वस्यापि पृथकल्वरूपत्वात् । संयोगस्त्रिविधः (२३),-अन्यतरकर्मजः, उभयकर्मजः, संयोगजस । आद्यो यथा,-मनःकर्मणा प्रात्ममनसोः संयोगः । (२१), मानकत्वावगाहिनी बुद्धिरपेक्षाबुद्धिः । (२२) किञ्चिस्वयवानवच्छिन्नत्व शिथिलत्वम् । शिधिखलं जातिक- (२३) संयोगवि गयोरनपेक्षकारणं कर्मवि सूत्रम् ।

[१०] तर्कासतम्। ~A । न - हितीयो यथा, -मेषयोः कमणा तयोः संयोगः । तीयो यथा,- कारणाकारणसंयोगात् का कार्यसंयोगः, यथा, हस्ततर- संयोगात् कायतरसंयोगः । विभागोऽपि विविधः,-अन्यतरकर्मजः, उभयकर्मनः, विभागजश्च । आयो यथा -मनःकमणा आत्ममनसोविभागः । हितोयो यथा,-मेषयोः कर्मणा तयोविभागः। विभागजविभागी विविधः, कारणमात्रविभागजः, कारणाकारणविभागजय। आद्यो यथा, कपालकर्मणा कपालद्दयविभागः, ततः कपाल- हयसयोगनाश:, ततो घटनाशः, ततः कपालस्याकाशादि- देशाविभागजो विभागः च विभाग: खात्पत्त्य- नन्तरमेव विभागजविभागं जनयत्विति वाच्यं, द्रव्यनाशसह- तस्यैव तस्य तज्जनकत्वात्, तत्र द्रव्यस्य प्रतिबन्धकत्वेन सति द्रव्ये तदसम्भवात् (२४)। नं च कर्मैव एकदा कपालद्दय- विभागमाकाशकपालविभागञ्च जनयत्विंति वाच्यं, यत् द्रव्यानारम्भकतंयोगविरोधिनं विभागमारभते, न तत् द्रव्या- रम्भकसंयोगविरोधिनम्, अन्यथा विकसत्कमलकुद्मलदलकर्म- स्थतिव्याप्ति: (२५)। न च संयोगेऽप्येवमस्तु, तत्र अवि- रोधात् । हितीयस्तु कारणाकारणविभागात् कार्याकार्य- विभागः, यथा,-करतरुविभागात् कायतरुविभागः। परत्वा- परत्वोत्पत्तिः कालप्रकरणे उता। (२४) विभागजविभागासम्भवात् । (२५) विकसत्कमलकुमलभङ्ग एवं विपक्षबाधकस्तर्कः। दच वैशेषिकमतम् । नैयायिकनये तु कर्मणी बैलचखेन दलकर्मणोऽतथात्वेऽपि कपालकमणस्तथावे बाधकाभावात् कारणमावविभागजविभागखौकारात् । कपालकम ट्रव्यानारम्भक- संयोमविरोधिविभागाअनकं ट्रव्यारम्भकसंयोगविरोधिविभागमनकत्वादिति व्यतिरक्यनं. माने च वैआत्यमुपाधिरिति रहस्यम् ।

तारतम् । [११] बुद्धिर्ज्ञानम् ; तद्विविधं,-स्मरणमनुभवश्च । स्मरणमपि दिविध,-यथायमयथार्थच। तहति ताकारकत्वं यथार्थत्वं (२६), तदभाववति तनकारकत्वमयथार्थत्वम्। पूर्वानुभव: संस्कारहारा स्मरणं जनयति, तत्र पूर्वानुभवस्य यथार्थत्वायथा- थत्वाभ्यां स्मरणमपि उभवरूपं भवात । अनुभवो हिविधः,-प्रमा अयथार्थश्च। तत्र प्रमा चतुर्विधा, सा वक्ष्यते। अयथार्थ ज्ञानं चतुर्विध-संशयः, विपर्ययः, खना, अनध्यवसायश्चेति। संचयो यथा,-समानधर्मवर्मिज्ञानविशेषादर्शनकोटिहयार- जयं स्थाणुर्वा पुरुषोवैति ज्ञानं जन्यते, स एव संशयः। विपर्ययस्तु --समानधर्मवहर्मिज्ञानविशेषादर्शनंककोटिस्मरणैः शुक्ताविद रजतमिति जान जन्यते। तत्र गुरुमते इदमित्यनुभवात्मकं ज्ञानं, रजतमिति स्मरणात्मकम् ; तेन ग्रहणस्मरणात्मक ज्ञानदयं, न तु रजतत्वविशिष्टज्ञानमिदन, अन्यस्यान्यथाभानसामग्रा- भावात्। प्रहत्तिच खतन्नोपस्थितेष्टमेदाग्रहात्। नैयायिक- मत प्रवर्तक * विशिष्टज्ञान, तेन भ्रम. सिध्यति। खप्रस्तु अनु- भूतपदार्थस्मरणैरदृष्टेन धातुदोषण च जन्यते । सायञ्च किञ्चिदिति ज्ञानं विशेषादर्शनाद्भवति। अत्र, 'यदि अयं निङ्गिः स्यात्तदा निर्धूमः स्यात्' इति तर्को विपर्ययमध्ये तत्र नैयायिकमले समानध्यवसायौ विपर्ययमध्ये प्रविधी; तेन तमते अयधार्यज्ञान हिविध,-संशयो विपर्याय- अनध्यव- बोध्यः। क्षेति। सुखं धर्मजन्यम् । दुःखमधर्मजन्यम् । इच्छा इष्टसाधनता- , (२८) विध्यत्य सप्तम्यर्थ, वस्य च निरूपितत्वससगैस तत्प्रकारकोऽन्वय', বিনালিছঘিনমিক্সালিঙ্কন্তু घानेच्छातिनिष्ठ यथार्थत्वम् । प्रवर्चकम् एकम् इति ए० सी० पु० पाठः।

[१२] तामृतम् ज्ञानजन्या। देषोऽनिष्टसाधनत्वज्ञानजन्यः। अतिस्त्रिविधा,- जीवनयोनियत्नरूपा, प्रकृत्तिः, नितिश्च । आद्या जीवना- दृष्टजन्या, हितीया इच्छाजन्या, हतीया द्वेषजन्या। धर्मः अतिविहितकर्मजन्यः । अधर्म: श्रुतिविरुवाचरणजन्यः । वेगाख्यः संस्कारः आद्यक्रियाजन्यः हितोयादिक्रियाजनकः, यथा,-वेगेन वाणश्चलतीति । भावनाख्यः संस्कारो विशिष्ट- ज्ञानजन्यः । स्थितिस्थापकाख्यः संस्कारः कारणगुणप्रक्रमजन्यः । गुरुत्वं कारणगुणप्रक्रमजन्यम् । नैमित्तिक द्रवत्वं जतुत- द्रुतसुवर्णादीनामग्निसंयोगजन्यम्। स्नेहः कारणगुणप्रक्रम- जन्यः। शब्दस्त्रिविधः,-संयोगजः, विभागजः, शब्दजश्च ; आद्यो भरीदण्ड संयोगजन्यः, द्वितीयो वंशादिदलद्दयविभाग- जन्यः, टतोयस्तु संयोगन विभागेन च आये शब्दे जनिते तेन शब्देन निमित्तवायुसहकृतेन वोचितरङ्गन्यायेन कदम्बगोलक- न्यायेन वा जन्यते इति गुणनिरूपणम् । उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । उत्क्षेपणवादोनि पृथिवी-जल तेजो वायु-मनो- वृत्तीनि कर्माणि सर्वाणि अनित्यानि ; अतीन्द्रियहत्तौनि अतीन्द्रियाशि, प्रत्यक्षवृत्तीनि प्रत्यक्षाणि । अथ कर्मप्रक्रिया,- संयागन नोदनाख्येनाद्यं कर्म जन्यते, हितोयादि वेगजन्यम् । क्रियातो विभागः, विभागात् पूर्वसंयोगनाशः, ततः उत्तरदेश- संयोगोत्पत्तिः, ततः कर्मविभागयो श: इति कर्मनिरूपणम ॥ सामान्यं विविध,-व्यापक, व्याप्यं, व्याप्यव्यापकञ्च। व्यापकं सत्ता, व्याप्यं घटत्वादि, द्रव्यत्वादि व्याप्यव्यायकम् । *व्यक्तरभेदस्तुल्यत्व सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्गहः ।" नित्यत्वे सत्यनकसमवेतत्वमिति सामान्धलक्षणम्। जातयः। 3B तामृतम्। [१३] सामान्यानि नित्यान्येव, अतीन्द्रियवृत्तीनि अतीन्द्रियाणि, प्रत्यक्षवृत्तीनि प्रत्यक्षाणि॥ नित्यद्रव्यवत्तयोऽन्त्या विशेषाः। ते च बहवो नित्या अतीन्द्रियाश्च। प्रलये परमाणनां भेदाय ते खौक्रियन्ते, तेषां वैधर्म्यव्याप्यत्वादिति। खसम्बन्धिभिन्नो नित्यः सवन्धः समवायः, तेन स्वरूप- सम्बन्धस्य संयोगस्य च निरासः। 'इह घटे घटत्वम्' इति प्रतीतिस्तत्र प्रमाणम्। नैयायिकमत समवायः प्रत्यक्षा, स च एको नित्यश्च । ननु अन्यान्यपि अन्धकारसुवर्णादीनि द्रव्याणि सन्ति, आलस्यादयो गुणा अपि सन्ति, कथं नवैवेत्यादि ? मैवम्, अन्धकारो न द्रव्यं, किन्तु तेजोऽभावः। सुवर्णं तेज एव । आलस्यं कल्यभाव एव । एवमन्यदपि बोध्यम् । अभावो विविधः,-संसर्गाभावोऽन्योऽन्याभावश्च । स्विविधः,-प्रागभावः, ध्वंस:, अत्यन्ताभावश्च । प्रागभावो विनाशी अजन्यः। ध्वंसो जन्यः अविनाशी च। भावान्योऽन्याभावी त्वजन्यौ अविनाशिनी। योग्यानुपलब्धया अभाव: प्रत्यक्षः; अन्यत्र तु अतीन्द्रियः। अथ प्रमा कथ्यते, सा चतुर्विधा,-प्रत्यक्षानुमित्युपमिति- शाब्दभेदात् ; तत्करणानि प्रमाणानि चत्वारि,-प्रत्यक्षानु- मानापमानशब्दभेदात्। तत्र प्रत्यक्षं हिविश्वं,-निर्विकल्पक, सविकल्पकच। प्रत्यक्ष करणानि षडिन्ट्रियाणि,-प्राण-रसन- चक्षुल्लक-बोत्न-मनांसि। एतानि सन्निकर्षसहितानि प्रत्यक्षं जनयन्ति। सभिलपश्च लौकिकोऽलोकिकञ्च, अलौकिक स्विविधः, --ज्ञानलक्षणा, सामान्यलक्षणा, योगजश। लौकिक: बवित्रः,-संयोगः, संयुक्तसमवायः, संयुता समवेतसमवायः, प्राय- अत्यन्ता- NP तामृतम्। WvA समवायः, समवेतसमवायः, विशेषणता चेति। संयोगेन द्रव्य- ग्रहः, मंयुक्तसमवायेन शब्दान्यगुणकर्मद्रव्यवत्तिजातीनां प्रत्यक्ष, संयुक्त समवेतसमवायन शब्दमात्रवृत्तिजातीतर-गुणवृत्तिकर्म- वृत्तिजातीना प्रत्यक्षं, समवायेन शब्दस्य, समवेतसमवायेन शब्द- वृत्तिजातीनां, विशेषणतया अमावस्य, समवायस्य च प्रत्यक्षम् । अलौकिक: स यथा,-ज्ञानलक्षणया 'सुरभि चन्दनम्' इति चाक्षुषं ज्ञानम् , सामान्यलक्षणया घटलेन रूपेण यावश्वटज्ञानम्, योनजधर्मेण या गिनां सर्वज्ञानम् । तत्र निर्विकल्पक विशेष्य- प्रकारादिसहितं वस्तुखरूपमात्रज्ञानं, सविकल्पकं सप्रकार- कम्। भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्वं, यथा,-'अयं घटः' इत्यत्र अय विशेष्यः, घटत्वं प्रकारः भासमानवैशिध्यं, तयोः ममवायः, तस्य प्रतियोगि घटलम्। सविकल्पकमेव विशिष्टवैशिष्ट्यज्ञानम् , यथा,–'अयं दण्डो' इत्यत्र दण्डत्व- विशिष्टस्य वैशिट्यं पुरुष भासते। अथ प्रक्रिया, प्रादौ इन्द्रिय- सन्त्रिकर्षात् 'घट-घटत्वे' इति निर्विकल्पक, ततः 'अयं घटः' इनि विशिष्टज्ञानम्। तत्र ‘परतः प्रामाण्यग्रहः' इति नैयायिका, यथा,-आदौ 'घटः' इति व्यवमायः, ततः 'घटमहं जानामि' इत्यनुव्यवसाय:, ततः 'प्रामाण्याप्रामाण्ये' इति कोटिहयस्मरणम् ; अथ चतुर्थे 'इदं ज्ञानं प्रमा १ न वा ?' इति प्रामाण्यसंशयः, ततो विशेष- दर्शनानन्तरं प्रामाण्य ग्रहः - इदं ज्ञान प्रमा, समर्थ प्रवृत्तिजनक- त्वात् ज्ञानान्तरवत्। स्वतः प्रामाण्य ग्रहः इति त्रयो मौमां- सकाः, तत्र गुरुमते,–'अयं घटः' इति ज्ञानं विषयम्, आत्मानं, ज्ञानप्रामाण्यञ्च ग्रहाति। मुरारिमिश्रमते, –'अय घट.' इति ज्ञानानन्तरं घटमह जानासोत्यनुव्यवसाय:, तेनैव अड्. । भट्टमते, ज्ञानस्यातीन्द्रियत्वेन जानमनुमेय यथा, प्रासाण्य- तर्कामृतम्। [१५] तथा तइत्ति प्रामाण्यञ्च, तथा हि 'अयं घटः' इति ज्ञानानन्तरं घटे ज्ञातता उत्पद्यते, ततो 'ज्ञातो मैयाँ घटः' इति ज्ञातता- प्रत्यक्षं ततो व्याप्यादिप्रत्यक्षानन्तरं ज्ञानानुमानम् ; यथा,- अहं घटत्वप्रकारकज्ञानवान् घटत्वंप्रकारकज्ञाततावत्त्वात्, तावतैव तस्य धर्मधर्मिविषर्यकत्वेन प्रामाण्यानुमानम् इति प्रत्यक्षनिरूपणम्। अनुमितिकरणमनुमानम्, अनुमितिलं जाति, व्यापारवत् कारणं करणं, व्यापारश्च तज्जन्यत्वे सति तजन्यजनकः । हेतुज्ञानादि करणं, परामर्शो व्यापारः। परामर्शश्च व्याप्ति- विशिष्टपक्षधर्मताज्ञान, बथा, 'वनियाप्य मवानयम' इति । आदौ महानसादौ धूमे वह्निसामानाधिकरण्यग्रहे सति 'धूमो वहिव्याप्यः' इत्यनुभवो जायते, ततः कालान्तरे पर्वते धूम दृष्टे सति व्याप्तिस्मरणं, ततश्च व्याप्तिविशिष्टवैशिष्ट्यज्ञानं 'वहिव्याप्यधूमवानयेम्' इति तीलिङ्गपरामर्शः सहितेन तेन 'पर्वतो वह्निमान्' इत्यनुमितिर्जन्यते। व्याप्तिश्च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्य- सामानाधिकरण्यम्। न च 'अयं संयोगवान् द्रव्यत्वात्' इत्यवं अव्याप्तिा, प्रतियोगिधधिकरणहेतुसमानाधिकरणात्यन्ताभावा- प्रतियोगिसाध्यसामानाधिकरण्यमित्यर्थात् * । पक्षता च सिषाध- यिषाविरहसहकतसिद्धाभावः । अनुमानं विविध,-खा) परार्थच। तत्र पराध पञ्चावयव- साध्यम्, अवयवाश्च प्रतिज्ञा हेतूदाहरणोपनयनिगमनानि यथा,-अयं वह्निमान् (१), धूमात् (२), यो यो धूमवान् स स वह्निमान्, यथा महानसम् (३), वहिव्याप्यधूमवान् अयम् (8) पक्षता- * 'नच इत्यादि इत्यर्थात्' इत्यन्त, पाठः क० स० पुस्तके नास्ति ।

[१६] तर्कामृतम् । इति। तस्मात् वगिमान् (५) इति । खार्थञ्च खोयव्यात्यादिज्ञान- साध्यं, न तत्र परप्रतिपत्त्यर्थमेवम् आह शब्दप्रयोगम् । तच्चानुमानं विविधं, केवलान्वयि-केवलव्यतिरकि-अन्वय व्यतिरेकिभेदात्। यत्र साध्यव्यतिरेको न कुत्राप्यस्ति, स केवला- न्बयो, यथा,-'घटोऽभिधेयः प्रमेयत्वात्' इत्यत्र अभिधेयत्वस्य साध्यस्य व्यतिरको न कुत्राप्यस्ति * । यत्र साध्यप्रसिद्धिः पक्षातिरिक्त नास्ति, स केवलव्यतिरको, यथा,-'पृथिवी इत- रेभ्यो भिद्यते पृथिवीत्वात्, यत्र इतरभेदाभावः तत्र पृथिवी- वाभावः, यथा जलादौ। व्यतिरेकव्याप्तौ तु साध्याभावो व्याप्यः, हेत्वभावो व्यापकः । यत्र साध्यं साध्याभावश्चान्यत्र प्रसिद्धः, सोऽन्वयव्यतिरेको, यथा-'पर्वतो वह्निमान् धूमात्' अन्वयव्यतिरकिणि हतौ अवश्यं पञ्चरूपोपपन्नता अपेक्षणीया,-पक्षपत्तित्वं, सपक्षसत्त्वं, विपक्षव्यात्तत्वम्, अबाधि- तत्वम्, असत्प्रतिपक्षितत्वञ्चेति पञ्च रूपाणि । केवलान्वयिनि विपक्षव्याहत्तत्वरहितं, केवलव्यतिरकिणि सपक्षसत्त्वरहित चतूरूपमेवापेक्षितम्। यत्र साध्यसन्देहः स पक्ष: ; यत्र साध्य- निश्चयः स सपक्षः; यत्र साध्याभावनिश्चयः स विपक्षः; साध्या- भाववान् पक्षो बाधः ; साध्यविरोधिसाधको हेतुः सत्प्रतिपक्षः । सोपाधौ पक्षसपक्षसत्त्वाद्यन्यतमभङ्ग आवश्यकः; सोपा धिश्च स्वव्यभिचारितासम्बन्धन उपाधिविशिष्टः। उपाधि त्रिविधः,-साधनाव्यापकत्वे सति शुद्धसाध्यव्यापकः (१), साधना- व्यापकले सति पक्षधर्मावच्छिन्नसाध्यव्यापकः (२), साधना- व्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकश्च (३)। आद्यो यथा, -'अयोगोलकं धूमवदहे.' अत्र आन्धनप्रभववह्निमत्त्वमुपाधिः Catement * व्यतिरीकाप्रसिडेः इति ए० सी० पु० पाठः।

तर्कामृतम् । साधनाव्यापकत्वे सति शुद्धसाध्यव्यापकः । द्वितीयो यथा,- 'वायुः प्रत्यक्षः, प्रत्यक्षस्याश्रयत्वात्' अत्र वहिव्यत्वाव- च्छिन्नस्य प्रत्यक्षत्वस्य माध्यस्य व्यापकम् उद्भूतरूपवत्त्वमुपाधिः । हतीयो यथा,-'ध्वंसो विनाशी, जन्यत्वात् अत्र जन्यत्वाव- च्छिन्नविनाशित्वव्यापकं भावत्वमुपाधिः । हेवाभासाः कथ्यन्ते,-सव्यभिचार-विरुद्ध-सत्प्रति- पक्षासिद्ध-बाधिताः पञ्च हेलाभासाः। सव्यभिचारस्विविधः, साधारणासाधारणानुपसंहारिभदात; साध्याभाववदृत्तित्वं साधारणत्वं, यथा,-'धूमवान् वड़े'। -'धूमवान् वङ्गे'। सकलसपक्षव्यात्तत्वम् असाधारणत्वं, * यथा,-'पर्वतो वह्निमान्, पर्वतत्वात्। सर्व- पक्षकत्वम् अनुपसंहारित्वं, यथा,-'सर्व प्रमेयम्, अभिधेयत्वात् । साध्याभावव्याप्तो हेतुविरुद्धः, यथा,-'घटो नित्यः, सावयव त्वात्' । सत्प्रतिपक्षो यथा,-'पर्वतो वह्निमान् धूमात्' 'पर्वतो वाभाववान् महानसान्यत्वात्। असिद्धस्त्रिविध:,-आश्रया- सिद्धः, स्वरूपासिद्धः, व्याप्यत्वासितश्च । यत्र पक्षोऽसन् सिद्ध साधन वा, स आश्रयासिद्धः, यथा,-"शश विषाणं नित्यम्, अजन्यत्वात्' 'शरीरं हस्तादिवत्, हस्तादिमत्तया प्रतीयमानत्वात् । यक्षाहत्तिहेतुः स वरूपासिहः, यथा,-'पर्वतो वह्निमान्, महा- नसत्वात्। स च विशेषणासिद्ध-विशेष्यासिद्ध-भागासिद्धभेदाइहु- विधः। श्राद्यो यथा,-'शब्दोऽनित्यः, चाक्षुषत्वे सति जन्य- त्वात् । हितोयो यथा,-'शब्दोऽनित्यः, गुणले सति परमाणु- वृत्तित्वात्। टतीयो यथा.--'एतानि द्रव्याणि, निरवयवत्वात् । सोपार्थािप्यत्वासिद्धः, यथा,-'धूमवान् वङ्गेः'। बाधो यथा,-- 'जलदो वह्निमान्, द्रव्यत्वात् । तेन एतद्दोषरहितो हेतुः सद्धेतुः। इत्यनुमानं व्याख्यातम् । १ * सकलसपक्षविपक्षव्याहत्तत्वमिति ए० सी० पु० पाठः ।

[१८] तको मृतम्। - उपमितिकरणमुपमानम् । 'कोदृशो गवयः ?' इति प्रश्ने 'गोसदृशो गवः' इत्यत्तरिते यंदा गोसशं प्राणिनं पश्यति, तदा पूर्वोक्तं वाक्याथ स्मरति, अनन्तरम् ‘अयं गवयपदवाच्यः' इति शक्ति ग्रहः, सेयमुपमितिः । इत्युपमानं व्याख्यातम् । आप्तोतः शब्दः प्रमाणं, प्रतवाक्यार्थगोचरयथार्थज्ञान- वान् प्राप्तः। पदज्ञानं करणं, पदार्थोपस्थितिापारः। आकाङ्गा-योग्यताऽऽसत्ति-तात्य यज्ञानानि सहकारीणि, फन्न शाब्दबोधः । खरूपयोग्य वे सति अजनितान्वयबोधकत्वम् आकाङ्गा, तेन 'घटः, कर्मलम्. आनयनं, कृतिः' इत्यत्र नान्वय- बोध:, स्वंरूपायोग्यत्वात्। 'अयमेति पुत्रो राज्ञः, पुरुषोऽष- सार्यताम्' इत्यत्र 'राज्ञः पुरुषः' इति नान्वयबाध:, पुत्रेण जनितान्वयबोधकत्वात् । बाधकप्रमाविरहो योग्यता, तेन 'वङ्गिना सिञ्चति' इत्यत्र नान्वयबोधः, अयोग्य वात्। अव्यव- धानेनान्वयप्रतियोग्युपस्थितिरासत्तिः, तेन 'गिरि क्तं वह्निमान् देवदत्तेन' इत्यत्र नान्वयबोधः। तत्तदर्थप्रतीतीच्छयोच्चरितत्वं तात्य यं, तेन भोजनप्रकरणादौ 'सैन्धवमानय' इत्युक्ते अश्वा- न्वयबोधो न भवति । वृत्त्या विना शब्देन नान्वयबोधो जन्यते। वृत्तिर्हि विधा;-- शक्तिलक्षणा च। शक्तिः घटादिपदस्य घटादौ ;, लक्षणा यथा,-'गङ्गायां घोषः प्रतिवसति' इत्यत्र गङ्गापदार्थे प्रवाहे घोषान्वयानुपपत्त्या गङ्गापदस्य तौर लक्षणा कल्पाते; तया वृत्त्या उपस्थित तौर घोषः प्रतिवसतीत्यन्वयबोधो भवति । गोणी वृत्तिरपि लक्षणेव, यथा,-'अग्निर्माणवकः', 'गो- होकः' अत्न लक्षणयां अग्न्यादिसादृश्यं प्रतीयते । शक्तं पदं चतुर्विधं,-यौगिक, रूढ़, योगरूद, यौगिक आद्यं यथा,-पाचकादिपदं योगार्थे पाककर्तरि .

तांस्तम्। [१] प्राद्या लभ्यः। शक्तम् । द्वितीयं यथा,-विप्रादिपदं रूच्या ब्राह्मणवाचकम् । कृतीयं यथा, पङ्कजादियदं योगरूळ्या पङ्कजनिकर्तृत्वेन पद्मत्वेन च पद्मवाचकम्। चतुर्थं यथा,-उद्भिदादिपदं यौगिक तकूगुल्मादेः, रूढ़ यागविशेषस्य वाचकम् । लक्षणा हिविधा,-जहत्खार्थाऽजहत्खा च। यथा,-'गङ्गायां घोषः' इत्यादी। द्वितीया यथा,-'सर्वे छत्रिणो यान्ति' इत्यादी ; अत्र छत्रिण: तदितरस्यापि गमनान्वयः । अथ शाब्दबोधप्रक्रिया,-'देवदत्तो ग्रामं गच्छति' इत्यत्र ग्रामकर्मक-गमनजनक वर्तमानकतिमानित्यन्वयबोधः। हितो- याया अर्थ: कर्मवं, धातोगमनं, जनकत्वं संसर्गमर्यादालभ्यं, लदो वर्तमानत्वम्, आख्यातस्य कतिः, तत्सम्बन्धः संसर्गमादा- यत्र कर्तरि कृतेर्बाधः, तत्र आख्यातस्य व्यापारादौ लक्षणा, यथा,-'रथो गच्छति' इत्यत्र गमनजनकवर्तमान- व्यापारवान् रथः। 'दधि पश्यति' इत्यादौ हितीयालोपस्थले दधिशब्द एव अजहत्वार्थलक्षणया दधिकर्मवं बोधयति । एकवचनाद्युपस्थितमेकत्वादि सर्वत्र प्रथमादिपदमुप- स्थापयति । 'देवदत्तेन गम्यते ग्रामः' इत्यस्य देवदत्तत्तिति- जन्य गमनजन्य-फलशाली ग्राम इत्यर्थः । वृत्तित्वं संसर्ग- बललभ्यं, हतीयार्थश्च कतिः, जन्यत्वं संसर्गः, गमनं धात्वर्थः, जन्यत्वं संसर्गः, पलं कर्मात्मनेपदार्थः, शालिवं संसर्गः । भावप्रत्यये तु 'देवदत्तेन सुष्यते' इत्यस्य देवदत्तहत्तिकतिजन्यः खाय इत्यर्थः। भावप्रत्ययस्थले फलाभावात् आत्मनेपदार्थों न भासते। भविष्यत्त्वं लटोऽर्थः, तच विद्यमान-प्रागभाव- प्रतियोग्युत्पत्तिकलं, तेन गमिष्यति' इत्यत्र विद्यनानप्राग- तेन 'दधि पश्यति' इत्यादौ का पदाभावेऽपि एकवचनेन तिङा कर्तृ- पदनुण्याप्यते इति भावः। प्रथमादिपद प्रथमान्तपमित्यर्थः ।

[२०] सामृतम्। भावप्रतियोग्यत्पत्तिकगमनानुकूलकतिमानित्यर्थः । लुटोऽर्थः अनद्यतनत्वमपि। लुडोऽर्थः उत्पत्तिर्भूतत्वञ्च ; भूतत्वमती- तत्वं, तच्चोत्पत्तौ अन्वेति, तथा च विद्यमानध्वंसप्रतियोग्युत्पत्ति- कत्वं लब्धम्। लिटोऽनद्यतनत्वं, परोक्षवम्, अतीतत्वञ्चार्थः, तदन्वयः पूर्ववदुत्पत्तो। लडोऽनद्यतनत्वमतीतत्वञ्चार्थः । विधिलिडोऽर्थः कतिसाध्यत्वे सति बलवदनिष्टाजनकेष्ट- साधनत्वम् ; 'स्वर्गकामो यजेत' इत्यादी कृतिसाध्य-बलवद- निष्टाजनकष्टसाधनयागकर्ता वर्गकाम इत्यर्थः। आशीलिङ- लोटोरर्थः वनिच्छाविषयत्वम् ; तेन 'घटमानय' इत्यत्र घट- कर्मक-मदिच्छाविषयानयनानुकूलकतिमान् त्वमित्यन्वयबोधः । व्याप्यक्रियया व्यापकक्रियाया आपादनं लुडोऽर्थः ; तात्पर्य वशात् काचित् भूतत्वं. काचिद्भविष्यत्त्वञ्च टङा बोध्यते । सनः कर्तुरिच्छा अर्थः, सन्नुत्तराख्यातस्याश्रयत्वे लक्षणा, सविषयकार्थकप्रक्रतिकाख्यातस्य आश्रयत्वे लक्षणाया 'वटं जानाति' इत्यादो लप्तत्वात्। यङोऽर्थः पोन:पुन्यं, तत्वञ्च तदानीन्तनप्रात्य सजातीयक्रियान्तरध्वंसकालीनल्वे सति वर्त- मानादितिविषयलं, 'पापचते' इत्यादी तादृशकालीन- त्वमेव या प्रत्याय्यत, आख्यातस्य चरमदलवाचकत्वात् न विशिष्टवाचकत्वं यङः, तदानीन्तनत्वञ्च स्थूलकालमादाय । पूर्वकालीनत्वं कर्ता च क्वार्थः, पूर्वत्वञ्च सन्निहितक्रिया- ऽपेक्षया बोध्यम् ; तत्पूर्वकालीनत्वं तत्रागभावकालवृत्तित्वं, तदुत्पत्तिकालौनध्वंसप्रतियोगिकालवृत्तित्वं वा, तन मुबा ब्रजति' इत्यत्र गमनागभावावच्छिन्नकालहसिओजनकर्ब- मिन्द्रो व्रजलौत्यर्थः, समानविभक्तिकृताम् अभेदेन धर्मि- वाचकत्वात्, अव्ययत्वेन बायरविभक्तिनापात् । तात्पर्यवशात् ब्यवहिताव्यवहितसाधारणो बौद्धन्यः, सेन - .

तोता। 'पूर्वस्मिन् अब्दे गत्वाऽस्मिन्नन्दे समागतः' इत्येतादृशप्रयोग- सङ्गतिः। इच्छावान् तुमुनोऽर्थः ; 'भोक्तुं ब्रजति' इत्यस्य भोजनेच्छावान्. ब्रजतीत्यर्थः । 'भोक्तुमिच्छति' इत्यत्र तु कर्तरि लक्षणा, भोजनकर्तारमात्मानमिझतीत्वधः । 'सविशेषणे हि' इति न्यायात् विशेषणे कताविच्छान्वयः। प्रकृतधात्वर्थ कर्ता शशानचोः, धात्वर्थजन्यफलवान् कर्म शानचोऽर्थः। शत्रादीनां कर्ता वाच्यः; सविषयार्थकप्रकृति- लक्षणा। एवं कर्तृकर्मलतां तेन तेन रूपेण कर्ता कर्म च वाच्यम्। भावकतास्तु नवादीनां प्रयोगसाधुत्वमानं, धावतिरिक्तस्य भावकता अनुषस्थापना- कानाम आश्रयत्वे दिति। ननु 'नील घटमानय' इत्यादौ हितोयाइयश्रवणात् कर्म- इयबोधापत्तिः, न तु विशिष्टस्य कर्मत्वमिति चेत् ? न, अब विशेषणविभक्तिः साधुत्वार्य, अथवा विशेषणविभक्तरभेदोऽर्थः अनायं विशेषः,-द्वितीयपक्षे वाक्यसमासयोः पायता न घटते, वाक्ये 'नौलं घटम्' इत्यादी अभेदस्य पदार्थलेन प्रकारत्वात् न संसर्गत्वं, 'नोलघटम्' इत्यादौ कर्मधारये लक्षणाया अस्वीकारणाभदस्यापदार्थत्वेन संसर्गत्वात् ; तथा च वाक्यसमासयोः पर्यायानुरोधेन षष्ठीसमाक्षे 'राजपुरुषः' इत्यादौ षष्ठार्थसम्बन्धे लक्षणा न घटते, सम्बन्धस्व संसर्ग- मर्यादालभ्यत्वात्। वस्तुतस्तु विरुद्धविभक्त्यनवरुवस्व अभेद- बोधकत्वव्यत्यत्तेः मुख्यार्थराजाभेदस्य बाधेन राजषदस्य राज- सम्बन्धिनि लक्षणा। एवं बहुव्रीही चरमपदस्यान्यपदार्थ लक्षणा ; तथा च इन्दकर्मधारयान्यसमासे सर्वत्र तत्तदर्थे लवणा। एवं नअर्थोऽभावः, 'अघट भूतलम्' इत्यादी घटभिन्ने [२२] तामृतम् । Vvvvv 'न कलर्ज भक्षयेत्' इत्यादी बलवदनिष्टजनके लक्षणा। क्रियासङ्गतस्य एवकारस्यात्यन्तायोगव्यवच्छेदोऽर्थः, यथा.-'नौल सरोज भवत्येव'। विशेषणसङ्गतस्य अयोगव्यव- च्छेदः, यथा,-'शङ्ख' पाण्डर एव' इति । विशष्यसङ्गतस्य अन्य- योगव्यवच्छेदः, यथा,-'पार्थ एव धनुईर.' इत्यादौ। एवं दिशा सर्वत्र बोध्यम् । इति श्रीजगदीशभट्टाचार्यविरचितं तर्कामृतम् । समाप्तोऽय अन्य।

No text on this page.

Tarkambutam

Author
Bhat't'achaar^ya , Jagadisha
Other authors
Jeeevanandavidya Sagara Bhattacharya
Title
Tar^kaamrxtama~-
File name
Tarkambutam
Text
OCR done
Citation
1807
Published
2004/12/26
Publisher
Ashubodha Vidya Bhushana And Nitya Bodha, Vachaspatya Press, Calcutta
Language
Sanskrit
Pages
28
Library
Asr,melkote
Classification
Logic. Epistemology
Keywords
Treatise on Tarka Sangraha
DLI number
383279
Barcode
1990020047561.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
uzNBKv69SOa
Download PDF

Tarkambutam