Svi-ksri-chennai
Sriigand-eishaathavaashiishhii Sabhaashhyamuu
Front matter
K.S.R.I. LIBRARY
ACCESSION NUMBER
2''
.
PASIRI
RES- Alle IRCELjTE.
MA.CFRAS.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः १
श्री गणेशाथर्वशीर्ष सभाष्यम्।
पण्डित वामनशास्त्री इसलामपुरकर इत्येतैः
संशोधितम्
तच
महादेव चिमणाजी आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरमुद्रयित्वा
प्रकाशितम्।
शालिवाहनशकाब्दाः १८११
सन १८८९
द्वितीयेयमकानावृत्तिः।
(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यं ४६ आणकाः।
No text on this page.
THE KONS? SASTRI RF.SE.AN TITUTE ॐ तत्सब्रह्मणे नमः। अथ गणेशाथर्वशीर्षम् सभाष्यम्। प्रणम्य तं गणेशानं सिद्धि-बुद्धिप्रदं परम् । अथर्वशीर्षभाष्यं वै कुर्वे वेदान्तबंहितम् ॥ १॥ अथाथर्वणो ब्रह्मणां ब्रह्मणश्च स्वस्वोपाधिविरहात्मैक्यज्ञानप्राप्ययं गणे- शाथर्वशीर्षमवदत् । सर्ववेदोक्तकर्मोपासनेज्ञाननिष्ठ-निर्विघ्नसिद्धिबुद्धिप्रकाशक-त- तत्फलवेदान्तवेद्यैश्ययोगप्रद-तत्त्वमस्यात्मकदेहत्वात् । तत्त्वमसिप्रतिपाद्यब्रह्म- बाह्यान्तरकर्मज्ञानप्राप्त्यर्थापास्योपासकत्वाभावाच्च । ननु-तत्त्वमस्यादिमहा- वाक्यार्थानुभवयुक्ता योगिनो भवन्ति, किं गणेशोपासनेन ? सावयवब्रह्मणःए- कत्वाभावात्-इति चेन्न । महावाक्यप्रतिपाद्यब्रह्मसर्दभेदात्मकत्वादध्यारोपा- पवादसिद्धयर्थं गणेशोपासनं मुख्यं, बाह्यान्तरानात्मभावनाशकत्वाच्च । ननु- ब्रह्मैक्यभावचिन्तनादध्यारोपापवादसिद्धिर्भविष्यति । अभेदभावनायाभेदनाश- कत्वात्-इति चेन । ब्रह्मण ऐक्यभावचिन्तनाभावात् । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [ तै० उ० २।४ । २८ ] इति श्रुतेः गणे- शचिन्तनस्य सम्भवाच्च । "ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिसार्थकत्वात् । अत्र मले चतुर्वप्यादर्शपुस्तकेषु स्वस्वोपाधिविहारात्मैक्य.' इति वर्तते तदसङ्गतमिव भाति । “ उपाधिना क्रियते भेदरूपः” इत्यादिश्रुतिभ्यः ब्रह्मणां जावानां, ब्रह्मणश्च उपाधिकल्पित । भेदः वस्तुतस्त्वभेद एव । अतः जीव ब्रह्मणोः स्वस्वोपाधिभूतयोः विद्याविद्ययोः विरहेण भाग- त्यागलक्षणया पृथकरणेन यदात्मैक्यज्ञानं तस्य प्राप्त्यर्थमथर्वणो गणेशाथर्वशीर्षमवददित्येव साधीयः । स्व. स्वोपाधिविहारेणात्मैक्यज्ञानप्रापेरसम्भवात् तत्र प्रमाणाभावाञ्चति मुधियो विदाङकुर्वन्तु | + “ निष्कलं निष्क्रिय शान्तं" इत्युक्तत्वात् शुद्धस्य ब्रह्मणः “ यतो वाचा निवर्तन्ते अप्राप्य मनसा सह " इति श्रुन्या वाङ्मनसयोरगोचरस्य तस्योपासनं न घटेत । अतः “अध्यारोपापवादाभ्यां निष्पपश्चं प्रपश्यते” इति न्यायेन उपासनीसयर्थ सगुणस्य गणेशत्वस्य तत्रारोप इति भावः । + बाह्याः पाञ्चभौतिकशरीरतादात्म्यादयः, आभ्यन्तराः अहं सुखी, अहं दुःखी-इत्याभिनि- वेशादयो येऽनात्मभावाः तेषां नाशकवादित्यर्थः । साकारत्वात् गणेशचिन्तनस्य सम्भव इत्यवधेयम् । १ ख. 'ननिष्ट । २ ख. वौकाः । ३ क. ख. ग. घ. ङ. 'ब्रह्मक । ४ ख. 'सदात्म'। ५ क. ख. "दभावनाशकत्वाचेन्न । ..
२ गणेशाथर्वशीर्षम् अस्यायमर्थः । ब्रह्मणामनपाणादिप्रणवपर्यन्तानां शिव-विष्ण्वादिदेवात्मकानां च पतिर्गणेशः । सोपाधित्वेने नानात्मकत्वात्सदासमानत्वाभावाब्रह्मणामिति बहुवचनम् । अन्यच्च । ब्रह्मणो निरुपाधिसर्वकारणात्मनः पतिः । अनपवादनिर्वि- कल्पनात्मकत्वात् । एकवचनं जीवात्म-परमात्मनोरक्यत्वात् । तयोः पतिस्त- त्वमस्यात्मकत्वात् । ननु-ब्रह्मणःचिन्तनं सम्भवति, "श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यः "बृ० उ०४।४।५] इति श्रुतेः-इति चेत् । सत्यम् । तथापि चित्त- वृत्तिनिरोधभावना सुदुर्लभा । सातत्येन ध्यातृ-ध्यान-ध्येयाभावात् चित्तस्य च- ञ्चलत्वेन तत्स्थैर्याभावाच्च । वस्तुतस्तु गणेशचिन्तनं सर्वसिद्धिपदम् । तत्त्व- मस्यात्मकत्वात्मुलभार्थतदथर्वशीर्षतात्पर्यात् । ननु-नानाकामप्रदं गणे. शचिन्तनं, सिद्धिप्रदत्वात्-इति चेन्न । ब्रह्मभावसिद्धिप्रदत्वात् । “ कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति सिद्धानां कपिलो मुनिः इति । भविष्ये व्यासेन शुकस्योपदेशः कृतः प्राप्स्यसे सिद्धिमुत्तमाम् " इत्यादिनानास्मृतिभ्यः । ननु-शिवचिन्तनं सर्वसिद्धिपदम् । " ब्रह्माधिपतिब्रह्मणोऽधिपतिः " इति श्रुतेः-इति चेन्न । ईशानस्य विशेष्यत्वात् ब्रह्माधिपत्यादिपदानां तदङ्गवि- शेषणत्वात् । ननु-सर्वश्रेष्ठेशान-ब्रह्माधिपत्यादिपदानां विशेषणत्वमेव-इति चेन्न । ब्रह्मणः परश्रेष्ठाभावात् सर्वश्रुति-स्मृतिविरोधापत्तेश्च । " ब्रह्माधि- पतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा" इत्यस्यायमर्थः । तामसस्योङ्कारात्मकस्य विश्वे- श्वरादिद्वादशशिवावताराणामेकादशरुद्राणां कालभैरवादिशिवावताराणां च स्तवनं ब्रह्मात्मकतया कृतम्, अंशांशिनोरैक्यप्रतिपादनत्वात् । तेषां शिवावतारब्रह्मणामधिपतिरीशानः , तत्तद्रूपधारकत्वात् । अन्यच्च । सर्वा- वतारसत्तायाः पतिरीशानो ब्रह्मणोऽधिपतिः । सत्तासदैकजातिमत्त्वादेकव- चनम् । अन्यच्च । ब्रह्मा नानावतारसत्तास्रष्टेशानः, विशेष्यात्मकत्वात् । ननु-गणेशोऽपि तादृश एव, विशेष्यात्मकत्वात्-इति चेन्न । ब्रह्मण- स्पतिविशेष्यत्वाद्गणपत्यादिपदविशेषणत्वा क्यभावप्रदब्रह्मणस्पत्याख्याया मुख्यत्वाच्च । ननु-ब्रह्मणस्पतेरपि ब्रह्मोपासना मुख्या, पतिभावनाशकत्वात् महावाक्यस्य ब्रह्मपतिपादकत्वाच्च । “प्रज्ञानं ब्रह्म। सत्यं ज्ञानमनन्तं ब्रह्म । . . * अत्र सर्वेष्वादर्शपुस्तकेषु 'ब्रह्मभूतसिद्धि' ० इति प्रामादिकमिव प्रतिभाति । 'ब्रह्मभूयासद्धि': अथवा 'ब्रह्मभावामाद्रि,' इत्येव सुवयम् । १ ख. "न भेदात्मकत्वात्स। २ ख. क्यभावात | 3 स. स्वात् वाक्यव्यक्तादिसृष्टिप्रपञ्चेषु । - क. स्व. विशेष्यशानवान् ! '५ ग्व. शेषात्म' सभायमा सर्व खल्विदं ब्रह्म । अहं ब्रह्मास्मि । एकमवाद्वितीय वाम ! अयमात्मा बम इत्यादिश्रुतिभ्यश्च-इति चन्न । स्वम्वोपाधियक्तब्रह्मणां सबकारणब्रमणश्वापद- शार्थ पतिपदं, तदाराधनोपाधिकारणभावनागकत्वात् । पानपद न वास्तवम । उपाधिहीनब्रह्मणां कारणहीनब्रह्मणश्च पतिवाभावः, तदश्यत्यान् । पानत्वं कथनात्मकम्' इति स्मृतेः । नन-बाह्माज्ञाननाशका गणेश.. अवयव यतत्वान--इति चन्न । आन्त- राज्ञाननाशकोऽपि. बुद्धिपतित्वात् । अणारणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः' इति "सत्यं ज्ञानमनन्नं वम । या वंद निहितं गुहायाम ते ० उ० २ अ० १ ] इत्यादि निभ्यः, " यो बद्धः पर. तस्तु स" इति "आत्मा बुद्धेः पगं मतः" इत्यादिम्मृति यध ! नन-शिव- विष्ण-सूर्य-शक्निचिन्तनं ब्रह्मगावपदं, तसदीयं तन मनिपादकत्वान् --इति चन्न । अन्यान-भगवानन्दाशुपासनबदारण्यका कब्रह्मपतिपादक- खात्, गणेशायदेशीर्ष तत्त्वमम्यात्मकमहावाक्यप्रतिपाद्यब्रह्मक्यात, महावा- क्यात्परं वेदान्ते ब्रह्मप्रतिपादनाभावाच । न चैव ---- गजबदनाद्यवयवयुक्तगणेशस्य भिन्नता-वच्छेदकावच्छेद्यतया ब्रमणि महावाक्यप्रतिपाद्य ऐक्याभावादतिव्याप्तिः । सदा कार्य-कारणैक्यब- मणः मावयवगणेशेऽवच्छेदकावच्छेद्यहीनत्वादव्याप्तिश्च-इति वाच्यम् । त्वं तदसिपदम्बम्बोपाधिविहारसामर्यपद-संपूर्णतत्त्वमस्यात्मकदेहभृद्गणशोपासन- प्रयोजनत्यान, अनन्तकल्पविहारशाश्चतसन्तापम्बस्वोपाधिनाशकगणेशोपा- सनप्रयोजनन्यात्, उपास्योपासकोपासनायामहदज्ञाननाशकत्वात् , ब्रह्मण्युपा- स्यत्याभावात्, सामान्यानुमानतया गणेश ब्रह्मणोरक्यप्रतिपादकत्वाच्च । न चं-ब्रह्मोपासनं वेदान्तविरुद्धम्, ब्रह्मभूतस्य उपास्योपासकत्वाभा- वात् । " तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते " इति श्रुतेः-इति वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्रहार्थं गाणंशत्वात, देहरक्षणार्थं भोजनाच्छादनवत् कायिकवाचिक-मानसिक-सांसर्गिकगाणेशधर्म- त्वाचेति दिक । अथ प्रकृतमतुमरामः । ॐ नमस्ते गणपतये । अथर्वगः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । मुलभकर्मोपासन-ज्ञानयोग- * अब बस्योपाधिविहार' इत्यनेन शिव-पायाकामयोपाधिाम: लीनाकावन्यामत्यय! नगन्तव्यः । ११. घ. “पायाम। ग. प. शांत टपामा । । मकामा ।
गणेशाथर्वशीर्षम् प्राप्तिकारकत्वात् । ॐ इति मङ्गलाचरणार्थम् । ग्रन्थादौ मङ्गलाचरणस्य शि- ष्टसम्प्रदायप्रवर्तकत्वात् । वेदाध अङ्कारः सर्वमङ्गलमयो, वेदोक्तनानाकर्मोपा- सन-ज्ञानयोगफलमाप्तिकारकत्वाच्च । " यो वेदादौ स्वरः प्रोक्तः" इति श्रुतेः । स्वर इत्योङ्काराख्या छान्दोग्ये । "तस्यादिस्मरणावश्यकत्वात्" इति । न चैवं-सर्वश्रुति-स्मृति-पुराणेतिहासप्रोक्तं सर्वारम्भेष्वादौ गणेशपूजनं निरर्थकम् अत्रोङ्कारस्मरणात्-इति वाच्यम् | सगुणगणेशस्योङ्कारमयत्वात् । तदेव कथ्यते मौद्गले । २ गणेशस्यादिपूजनं चतुर्विधम्, चतुर्मतिधारकत्वात् । तत्र ब्रह्मणश्चतु. भ्यो मुखेभ्यः पुराण निःसृतं अष्टलक्षपरिमितम् । ततो द्वापरान्ते व्यासे- नाष्टादशपुराणान्युपपुराणानि च कृतानि । कलिमन्दमतिजनबोधप्रवेशार्थम् । तत्र अष्टादशपुराणेवाद्यं ब्राह्मं निर्गुणगणेशमाहात्म्ययुक्तं, बुद्धि-परात्मप्रति- पादकत्वात् । अन्त्यं ब्रह्माण्डाख्यं सगुणगणेशमाहात्म्ययुक्तं, प्रणवपतिपाद- कत्वात् । तद्वदुपपुराणेष्वाचं गाणेशं सगुणनिर्गुणैक्यभावयुक्त, गजवदना- द्यवयवमूर्तिधरमाहात्म्ययुक्तत्वात् । अन्त्यं मौद्गलं योगमयं गणेशमाहात्म्य- युक्तम्, सर्वपुराणोपनिषद्ब्रह्मैक्यभावप्रदत्वात् । पुराणोपपुराणेषु मध्यस्थषोडश पुराणानि शिव-विष्ण्वादिगणेशांशमाहात्म्ययुक्तानि । मध्ये नानांशविहारपति- पादकत्वात् । तत्र सर्ववेदायुक्तसदारम्भे गणेशस्मरणं चतुर्विधम् , आद्यन्तपु- अत्र सर्वेष्वादर्शपुस्तकेषु ओङ्कारस्य मङ्गलाचरणार्धत्वमुकं तन्न युक्तमिति प्रतिभाति । यद्यपि “ मङ्गलादीनि मङ्गलमध्यानि मालान्तानि च शास्त्राणि प्रथन्ते " इत्यादि वननैः निष्प्रत्य हपरि. समाप्तये ग्रन्यादौ मङ्गलाचरणस्य शिष्टसम्प्रदायप्रवर्तकत्वं स्पटम् तथापि मङ्गलाचरणस्य विनविघात. निवारणार्थमेवानुष्ठेयत्वात् अपौरुषेयेषु स्वत एव मङ्गलरूपेषु वेदेषु विघ्नविघात शङ्काया असम्भवात् अत्र ओङ्कारस्य मङ्गलाचरणार्थत्वं न युक्तम् । पौरुषेयेष्वेव प्रत्यूहशङ्का, न पुनरपौरुषेयेषु । अतस्तत्रैव मालाचरणस्य शिष्टसम्प्रदायः । न हि केषुचिद्वैदिकमन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किश्च । मर्वकर्मसु आदौ निर्विघ्नतासिद्धार्थ स्मरणीयस्य गणेशस्याप्यथर्वशीर्षारम्भे प्रत्यूहानेवारणार्थ मङ्गला.. चरणस्यावश्यक तस्यापि निर्विघ्नतासिद्धयर्थमन्यत् तस्याप्यन्यदित्यनवस्था केन वार्यत । तस्मात्सु. प्लकमत्र ओङ्कारस्य मालार्थत्वं नेति । अथ तस्य कोऽथ इति चेत् शृणु । " भोमित्येतद्ब्रह्म “ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इति स्म- तेष भगवता भाष्यकृता"ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्टम् । तस्मिन् हि प्रयुज्यमाने स प्रसी- दति प्रियनाममहण इव लोकः” इत्युक्तत्वात् “ तस्य वाचकः प्रणवः” इति श्रुतेश्च ओङ्कारस्य ब्रह्म - णः वाचकवं सिद्धमत ओङ्कार शब्दवाच्यं ब्रह्मैव गणेश इति वक्तुं प्रथममोङ्कारस्योपदेश इत्येव व्याख्यानं युकम् । नचैवं सात ओडारस्य आरम्भार्थकत्वं कुतो न स्वीक्रियत? इति वाच्यम् । “अनन्ता २ वेदाः" इत्यादिश्रुतिविरोधात् । अनाद्यनन्तस्य वेदस्यारम्भादिकल्पनाया असम्भवादि न्यलं पल्लवितेत । + छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयखण्डे " स्वर इतीममाचक्षते" इत्यादौ द्रष्टव्यमेतत् । - " इति श्रुतेः १ क.र. 'तमुटयारम्भे सभाष्यमा - राणोपपुराणेषु गणेशमाहात्म्यप्रकाशकन्वान् । तत्र कचिदादो बदम्यगणं- शस्मरणं कृत्वा सत्कर्माणि कुर्वन्ति । तद्वत्प्रणवस्मरण केचित् , केचिन्मर्निध स्मरणं, केचिद्योगमयस्मरणं च, तत्सिद्धिप्रदत्वात् । तत्र कथ्यते । " अष्टादशपुगणेषु दशभिर्गीयते शिवः । चतुर्भिर्गीयते विष्णुद्वाभ्यां शक्तिश्च विघ्नपः ।। इति स्मृतेः। ननु-उपपुगणेषु महावाक्यप्रतिपाद्यगणेशवर्णनमयक्तम् । उप- वेदवत्कनिष्ठमंज्ञामयत्वान-इति चेन्न । तत्रोपपदस्य श्रेष्ठत्वप्रतिपादकत्वात् । इन्द्रोपेन्द्रनिदर्शनत्वात् , उपदेशप्रकरणादौ कनिष्ठान्त श्रेष्ठत्वप्रतिपादकत्वान, पूर्वमीमांसोत्तरमीमांसावदरण्यवद्हणत्वाच्च । नधान गणेशगीतायाम् । अष्टादशपुराणोक्तममृतं पाशितं मया । ततोऽनिरमवत्पातुमिच्छाम्य मृतमुत्तमम् ॥ इत्यादिम्मृतिभ्यः । देवादिगणानां महत्तत्त्वादितत्त्वगणानां निर्गण-मगुणब्रह्मगणानां च पतिर्ग- णपतिः। सर्वादिपज्यमर्वपज्यत्वान् । गण-समूह इनि धात्वर्थात् । नचैवं-अशुभ- कर्मारम्भे गणेशपूजनं न दृष्टम् । प्राणप्रयाणसमय-पितृयज्ञादावप्रसिद्धत्वात्-इति वाच्यम् । गयास्थगणेशपादस्य पितृमुक्तिपदत्वात्, वेदोक्तसत्कारम्भे पितृय- ज्ञसिद्धिप्रदत्वात् , वेदोक्तपितृयज्ञारम्भ गणेशपूजननिषेधाभावात् , तद्वत्पाणप्रया- णसमये कथितत्वाच्च । " ज्येष्ठराजम्" इति श्रुतेः पितणामपि ज्येष्ठत्वात् । तथा च गाणेशे त्रिपुरवधकाले शिववाक्यम् । "शैवैस्त्वदीयैरुत वैष्णवैश्च शाक्तैश्च सौरैरपि सर्वकार्ये । शुभाशुभे लौकिक-वैदिके च त्वमर्चनीयः प्रथमं प्रयत्नात्" ।। इति । गणेशगीतायामपि । यः स्मृत्वा त्यजति पाणमन्ते मां श्रद्धयान्वितः । स यात्यपुनरावृत्ति प्रसादान्मम भूभुज" ॥ "ॐ गणेशो वै ब्रह्म । तद्विद्याद्यदिदं किंच। सर्व भूतं भव्यं जायमानं च । तत्समित्याचक्षते । अस्मानातः परं किंचित् । यो वेद स वेद ब्रह्म । ब्रह्मैवाप्नोति तत्सर्वमित्याचक्षते" * 'उप' पदसहित इन्द्रः उपेन्द्रो विगुः । स यथा उपोपसर्गमहिनेन्द्र शब्दवाच्याऽपि इन्द्रा- दुत्तमः, तथा उपपुराणं पुराणादुत्तममिति वाक्यार्थः । वस्तुतस्तु उपेन्द्र इत्यत्र उपोपसर्गस्य सामीप्यार्थ- त्वात् अन्यत्र कुत्रापि तम्योनमार्थाभिधायित्वप्रदर्शनाभावादिदं व्याख्यानममङ्गतमेवेति प्रतिभाति ६ गणेशाथर्वशीर्षम् ब्रह्म-विष्ण्वादिगणानामीशभूतमित्याह " तद्गणेश" इति तत्परमित्याह यमेतेनामुन्ति " इति गणेशतापिनिश्रुतेः । तथाचोक्तं मौद्गले । गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाहान्तरैक्यभावतः ।। अन्नानां सकलानां वै समूहेऽत्रमयं परम् । कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ।। तेषां स्वामी गणेशानस्तं ज्ञात्वा योगिनः पुरा। शान्ति प्राप्ता विशेषेण योगशान्तिमयं परम् ॥ इति । अन्यच्च । " कथितं सामवेदे यचट्टणु वेदरहस्यकम् । येन त्वं शान्तिसंगुक्तो भविष्यसि न संशयः ।। मनोवाणीमयं सर्व दृश्यादृश्यस्वरूपकम् । गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः ।। . मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ।। विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ।। णकाराच प्रसूतानि ब्रह्माणि तानि योगिभिः । निरोधात्मकरूपाणि कथितानि समन्ततः । गकारश्च णकारश्च नानि गणपतेः स्थितौ । तदा जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ।। तयोः स्वामी गणेशश्च योगरूपेण संस्थितः । तं भजस्व विधानेन शान्तिमार्गेण पुत्रक" ॥ ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्कारासम्भ- वाञ्चेति नाममन्त्रोऽयमादौ वर्णितः । सर्वजनोद्धारसुलभत्वात् ॥ ननु-गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्वात् । तदर्थं महा- वाक्यप्रतिपाद्यतामाह- खमेव प्रत्यक्षं तत्त्वमसि । त्वमिति । त्वमेवेति नान्यः निश्चयार्थ एवकारः । प्रत्यक्षमिति । ब्रह्म दृष्टि- गोचरम् । नर-गजभेदाभिन्नाकृतिमयत्वात् । तेनं च महान् हर्षः, साक्षाह्मदर्श- १. ख. ग. घ. इ. 'यार्थलादक र क. ख. ग. प. ङ. “भेदा । ३ क. ख. ग. घ. टन म°| सभाज्यम् । , नाभावात् । तत्त्वमसीति । जगत्कारण तत्पदसज्ञम निर्विकल्पकत्वान् । सन्मूलमन्विच्छ सन्मूला मोम्पेमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः [छां० उ०६।६ ] इति श्रुतेः । "भमानं भगवो विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यचट्टणाति नान्यद्विजानाति स भूमा। छां० उ. ७ । २४ ] इति । "ब्रह्मवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्ची- तरेणेति । स यथा सैन्धवघनाऽनन्तरो बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव" ० उ०६।९।१३ ] इति श्रुतिभ्यः । " सत्यं ज्ञानमनन्तमानन्दं ब्रह्म। मत्यमविनाशि नाम-देश-काल-वस्तुनिमित्तेषु विनश्यन्मु यन्न विनश्यति तदविनाशि- सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधी- यते । अनन्तं नाम मृद्विकारेषु मुदिव मुवर्णविकारषु मुवमिव, तन्तुकार्येषु तन्तुरिवाव्यक्तादिष्टिप्रपञ्चेषु सर्वव्यापकं चैतन्यं अनन्तमिन्युच्यते । आ- नन्दा नाम मुखचैनन्यस्वरूपापारमितानन्दसमुद्र अविशिष्टसुस्वरूपश्च आनन्द इत्युच्यते । एतद्वस्तुचतुष्टयं यस्य स्वरूपलक्षणं देश-काल-वस्तु-निमित्तष्वव्य- भिचारि स तत्पदार्थः । "परमात्मा परं ब्रह्मेन्युच्यत" इति सारोपनिषच्छतेः जगन्मयं त्वंपदसंज्ञं, नानाभेदप्रकाशकत्वात्। "अमित्येतदक्षरमुद्रीथमुपासीत । अमित्युद्गायति । तस्योपव्याख्यानं । एषां भूतानां पृथिवी रमः । पृथिव्या आपोरसः । अपामो- षधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाक् रसः । वाच ऋक् रसः। ऋचः साम रसः । तस्योगीथोरसः । सस एष रसानासतमः । परमः परा- र्योऽष्टमो यदुद्गीथः ३ । कतमा कतमा ऋक् ? कतमत् कतमत्साम ? कतमः कतम उद्गीथ ? इति विमृष्टं भवति ४। वागेव ऋक् । प्राणः साम । अमित्येत- दक्षरमुद्गीथः । तद्वा एतन्मिथुनं ओमिति । यद्वाक् च प्राणश्च च साम च । तदेतन्मिथुनमोमित्येतदस्मिन्नक्षरे स ५ सृज्यते । यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम्"। ६ । [छा० उ० ३ । १] यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपासकस्त- धर्मो भवति । आपयिता हवै कामानां तं यथायथोपासते तदेव भवतीति । "त्रय वा इदं नामरूपं कर्म" [बृ० उ० ३ । ६ । १] । “तदेतदमृत ५ सत्येन छन्नं । पाणो वा अमृतं । नामरूपे सत्यं । ताभ्याभयं प्राणश्छन्नः [बृ० उ० ३ । ६।३] । * अत्र ‘जगन्मयं त्वम्पदसझं, नानाभेदप्रकाशकत्वात्' इत्युक्त्वा "ओमिसेतदक्षरमुद्गीथ इन्या द्याः श्रुतय उदाहताः । परं न जानीमः प्रकृते तासां कोपयोग ? इति । ? । " . गणेशाथर्वशीर्षम् "यथोर्णनाभिस्तन्तुनोचरेत् । स यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युञ्चरन्त्ये- वमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि *सर्व एव आत्मानो व्युञ्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषा- मेष सत्यम्" [वृ० उ० ४।१।२० ] । अथ यत्रान्यत्पश्यत्यन्यद्विजानाति तदल्पमिति"। - मनआदिश्च प्राणादिश्च सत्त्वादिश्च इच्छादिश्च पुण्यादिश्चैते पञ्च वर्गा इत्येषां पञ्चानां वर्गाणां धर्मीभूतात्मज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन प्रती- यमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते । तत्र यत्मकाशते चैतन्य स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञान-ज्ञेयानामाविर्भाव-तिरोभावज्ञाता स्वयमेवमाविर्भाव- तिरोभावहीनः स्वयं ज्योतिःस साक्षीत्युच्यते। ब्रह्मादिपिपीलिकापर्यन्तं सर्वपा- णिबुद्धिष्वविशिष्टतयोपलभ्यमानः सर्वपाणिबुद्धिस्थो यदा तदा कटस्थ इत्युच्यते कुटस्थाद्युपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूत- वेन यदा प्रकाशत आत्मा तदाऽन्तर्यामीत्युच्यते । सर्वोपाधिविनिर्मुक्तः सुवर्णघन- वद्विज्ञानघनश्चिन्मात्रस्वभाव आत्मा यदाऽवभासते तदा त्वंपदार्थः प्रत्यगात्मेत्यु- च्यते इति श्रुतिभ्यः । त्वंपद-तत्पदयोरभेदेऽसिपदं, सोपाधि-निरुपाधिही- नसदात्मत्वात् । “भूय एव मा भगवान्विज्ञापयतु यद्वै मनसा ध्यायति स तद्वाचा वदति । स य एषोऽणिमा एतदात्ममिद ५ सर्वं तत्सत्य ५ स आत्मा। तत्त्वमसि श्वेतकेतो" [छां० उ०६। ८] । इति क्रमेण नवधोपदेशस्त- त्वमस्यात्मकमहावाक्यस्य ग्रन्थबाहुल्यभयान लिख्यत इति । त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत्सूक्ष्म एव केव- लसत्तामात्रोऽसिपदार्थः । " स्वयंज्योतिरात्मेत्युच्यते । त्वंपदार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः । अधुना तत्त्वमस्यात्मकगणेशस्वरूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्वमसी- ति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो गजात्मकश्च तयोरभेदेऽसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसीति प्रत्यक्षवाक्य- प्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाधिब्रह्मात्मकत्वात् । स एव त्वंपदार्थः । प्रणवपरसोपाध्यभावात् । " ओमित्येकाक्षरं ब्रह्मेदं सर्व तस्योपव्याख्यानं सर्व भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव इति श्रुतेः । “ सोपाधिकः स्यात्सर्वत्र " इति स्मृतेः । * 'सर्व एव आत्मानो' इत्येतत्कालकातामुद्रित बृहदारण्यकपुस्तके नास्ति । १ ग. 'ति गणेशतागिन्यां ।
सभाष्यमा १ "भापो नारा इति प्राक्ता आपा ने नमूनवः इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वदभाष्ये शस्रा. चार्यवचनात् । " नराज्जातानि नवानि '' इतिस्मृतः । प्रणवात्तवोत्पनिः । सर्वशास्त्रसम्मतत्वात् । नारायणोपनिषदि नारायणनामार्थमतिपादने नराजाता नाराः ता एवायनं यस्येति नारायणः । प्रणवमयत्वान । प्रणवापामकमन्या- मिनां नारायणमंशात्मकत्वान । ' दण्डग्रहणमात्रेण नगे नारायणो भवेत् । इति स्मृतेः । गाणश " यस्मादोङ्कारसम्भतियंता वदा यता जगत् । इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैक्यसनामयत्वात् । अथ गजश- दार्थः कथ्यते । तत्पदैक्यसत्तापनिपादनार्थत्वात् । समाधिना योगिनो यत्र गच्छन्तीति गः । यस्माद्विम्बप्रतिबिम्बवत्तया प्रणवात्मकं जगजायत इनि जः । गश्वासी जश्च गजः। विश्वकारणत्वात् । " जन्माद्यस्य यतः " अ०१ पा०१ सू०२] इति न्यामसूत्रान् । यस्मादोङ्कारसम्भतिर्यता वेदो यतो जगत्। इति गाणेशात् । न चैवं-विपरीतो गजपदार्थ आदौ लयः पश्चात्सृष्टिः गकारजकारमयत्वात्-इति वाच्यम् । आदावेव समाधिना योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चात्तत्स्वरूपद- र्शनार्थं तस्मात्सृष्टिरुक्ता शिष्यबोधार्थम् । न चैव-अन्नं ब्रह्म, गजशब्दाख्यं "अमं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते" [ते. उ० अ० ३ अ० २ ० ३६ ] इतिश्रुतिप्रतिपादितब्रह्मणामपि सर्व- भूतोत्पसिलयकारकत्वात् इति वाच्यम् । पाणब्रह्मणि अन्नस्पोत्पत्तिलपदर्श- नात् । तद्वन्नानारण्यकप्रतिपादितबह्मणामप्युत्पत्तिलयकथनान्महावाक्यपतिपा- घबह्मजगत्कारणनिर्गुणेकसम्भवत्वात्, तस्मात्परकारणाभावाच । तदेव गणे- शतापिन्याम् । “अमाप्यं चापाप्यं च, अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्स- शक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे" इति श्रुतेः । अस्यायमर्थः । अमा- प्यं चापाप्यं मनोगतिशून्यं पद्यत्माप्यते तत्तन्मनोगतियुक्तत्त्वात् । अत्र वीप्सा हि आग्रहमदर्शिनी । कदापि पाप्यत्वाभावात् । अज्ञेयं चाज्ञेयं च वाण्या व वक्तु- मशक्पं वाण्याकथितम्, मनोध्येयत्वात् । पूर्ववद्वीप्सा ज्ञातव्येति । विकल्पा- १ क. स्व. ग. घ... मेवात् ।
गणेशाथर्वशीर्षम् महिष्णु विकल्पशून्यम्, निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात्। "त्वंपदार्थादोपाधिकात्तत्पदार्थादौपाधिकात्' इति श्रुतेस्तत्पदार्थसशक्तिकात्म- कत्वसम्भवात् । गजवक्त्रं तत्पदार्थमयगणेशवक्त्रमात्रत्वाद्गज इव वक्त्रमिति व्युत्पत्तिसम्भवाच्च । गजाकारं जगत् ओङ्कारात्मकं जगत्सोपाधि ब्रह्म जगन्म- यत्वात् । तदेव गणेशतापिन्याम् | “ ततश्चोमिति ध्वनिरभूत्तत्स वै गजाकार अनिर्वचनीया सैव माया जगदीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधान- मिति च माया शबलमिति च"इति श्रुतेः । गजाकारोबारप्रतिपादनात्तदेव जग- न्मयत्वादिम्बप्रतिबिम्बवद्गजशब्दाख्यब्रह्मणो गजाकारोङ्कारोत्पत्तिदर्शनाद्गज- स्याकार इवाकारो यस्येति व्युत्पत्तिसम्भवात्साक्षाद्गजमयाभावात् गजाकारश्रु- तिप्रतिपादनाच्च । एवावरुन्धे गजाकारं जगद्यदुत्पन्नमादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोधनार्थसम्भवात् । इतिगजशब्दाख्यतत्पदायक्यप्रतिपादन नम्, श्रुतिप्रमाणत्वात्। नर-गजयोरभेदेऽसिपदात्मको गणेशदेहः । संपूर्णस्तत्त- मस्यात्मकः, प्रत्यक्षमधुनापि सावयवत्वात् । सोपाधिनरस्त्वंपदार्थात्मको गणेन- देहः, पादादिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात्। सोपाधिनिकृष्टत्वादधमाङ्ग- मित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तकपर्यन्तगजा- कृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः । तयोर्योगेऽ- सिपदार्थमयो गणेशदेहः, सम्पूर्णपादादिमस्तकपर्यन्तप्रतिपादनत्वात् । ब्रह्मगणे- शयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासम्भवः, सामान्यानुमानसम्भवगत् । तद्वत्सर्वदोषनिराकरणसामादत्र ग्रन्थै सर्वत्रैव दोषासम्भवात् । अत्र सिद्धि- बुद्धियुक्तोऽपि प्रतिपादितः पञ्चचित्तवृत्तिमयी बुद्धिस्तद्धर्षविषादादिमोहप्रदा सिद्धिः, "योगश्चित्तवृत्तिनिरोधः" [पा० १ सू० २] इति पातञ्जलसूत्रात् । एवं सम्पूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपद-तत्पदासि. पदभिन्नभावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह- त्वमेव केवलं कर्तासि । त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्तामधारकः, प्रणवांशमयत्वात् । केवलं कर्तासि । केवलं यथातथाऽव्यक्तादिस्थूलदेहपर्यन्तं जगनिर्माणकारकः, ओकारातत्त्वोत्पत्तिदर्शनात् । तथापि तद्भावशून्यो बिम्ब- प्रतिबिम्बवदोङ्कारमयः, केवलपदग्रहणात् । तद्वत्- १ कर ग० २० १० हणत्वात् ।
सभाध्यम। - खमेव केवलं धामि । जगत्पालकोऽमि, नाम-रूप-कर्मभेदतया स्वस्वकर्मानमागकतिभागप्रद त्वात् । तद्वत्- त्वमेव केवलं हर्तामि। प्राकृतलयमवर्तकत्वात । एवं त्वंपदार्थ केवलमिति पदेन नपाधिहीननया शांर्धायन्वा तत्पदार्थशो धनार्थमाह- त्वमेव सर्व खल्विदं ब्रह्मामि । सन् तत्पदार्थव्यवहारमत्तामधारकः, सर्वोपाधिवर्जितांगमयत्वान् । सर्व खल्विदं ब्रह्मामीति । सर्वमिदमोङ्कारमयं जगत् खल नानोपाधिसंशयहीनम् । समिति त्वमेव तत्वासमयः, सदैव ब्रह्मैक्यभावप्रतिपादनत्वात् । ब्रह्मासि सत्पदार्थमयत्वात् । "सर्वं खल्विदं ब्रह्म । तजलानिति शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीतेति सर्वोपाधिभावमनाइत्प ब्रह्मक्यभावप्रतिपादन- त्वात् । तत्पदार्थप्रतिपादकमिदं महाकाव्यं, तजलानिति सर्वकारणपतिपाद- कत्वात् । एवं तत्पदार्थ ब्रह्मासीति वचनसामर्थ्याच्छोधयित्वाऽसिपदशोधना- थंमाह वं साक्षादात्माऽसि नित्यम् । त्वमिति । साक्षादात्मासि नित्यमिति कार्यकारणक्यभावत्वादात्मनः सातत्य. गमनं नित्यम् , सर्वाभेदमयत्वात् । त्वंपदार्थान्मा, तदभिन्नत्वात् । तत्पदार्थात्मा, तदभिन्नत्वात् । एवं यद्यन्मनोवाणीमयं तद्धीनं च तत्र तत्तदभिन्नतया तदात्मा तदापि तत्तदुपाधिभावहीनत्वानित्यमिति पदं न कार्य न कारणम्, आत्मनि सर्वाख्याभावात् ॥ इति अधिदैवतप्रतिपादकः प्रथमः खण्डः ॥ १ ॥ एवं त्वंपदार्थ तत्पदार्थमसिपदार्थं च शोधयित्वा तत्तत्पदार्थमयं गणेशं प्रतिपाद्य एतत्प्रमाणार्थ स्वप्रतिज्ञा प्रदर्शयन्नाह । ऋतं वच्मि । सत्यं वच्मि ॥२॥ ऋतमिति । ऋतममृतात्मकासुरभावाभिमानशून्यं, यथार्थगणेशभक्त्यभिमान- हीनभाषणत्वात् यथावेदानुभवपतिपादनत्वाच्च । वच्मीति कथयामीति । सत्य- मिति । सदा देश-काल-वस्तु-निमित्तेषु विनश्यत्म यदविनाशि तत्सत्यम् गणेशाथर्वशीर्षम् सर्वबाघहीनत्वात् । शिव-विष्ण्वादिनानाब्रह्मप्रतिपादनात्मकदेहेषु गणेशदेहः सम्पूर्णब्रक्पभावमयः, महावाक्यमयनर-गजाभेदाकृतिधारकत्वात् । इदं सत्य- मविनाशीति वच्मि कथयामि ॥ इति स्वप्रतिज्ञात्मकः द्वितीयः खण्डः ॥ २॥ एवं स्वप्रतिज्ञा सत्यभाषणात्मिकां प्रदर्य ऋत-सत्यभाषिणं गणेशोरक्षति सदा. पथार्थस्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटयन्नाह । अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥३॥ अवेति । त्वं साक्षात्प्रत्यक्षं तत्त्वमस्यात्मकः, अतो मामव । ऋत-सत्यभा- षिणं धर्मार्थ-काम-मोक्ष-ब्रह्मभोवार्थिने मां नानाविघ्नसमुदायाद्रक्षेति स्वप्रति- ज्ञापालको भव, भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम् अव वक्तारम् इत्यादिपदेषु सन्धिराषः । एवं सर्वत्र ज्ञातव्यम् । वेदेच्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं च यथार्थप्रदो भव, मदीयकृ- तफलश्रुतिभोगपदत्वात् । श्रोतारं मां मत्कृताथर्वशीर्षादित्वत्स्तुतियथार्थपाठ- कनानाजनपरीक्षार्थ तच्छ्रवणकर्तारमव, यथार्थश्रोतृप्रियत्वात् । दातारं अथर्व- शीर्षादित्वदुपासनदातारं मामव, यथाऽथर्वशीर्षपरम्परासम्मदायप्रवर्तकप्रिय- त्वात् । धातार त्वत्मियकर्मोपासन-ज्ञानयोगसाधनस्रष्टारं मामव, यथार्थसाधन- मियत्वात् । अनूचानं त्वत्प्रियान्यर्षिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संश- ययुक्तं तत्संशयनाशकारक मामव, स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम्, मद्धद्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यमियत्वात् । पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविघ्नेभ्यो मत्पृष्ठभागदिस्थितेभ्यो मामव, स्वभक्तासातविननाशकत्वात् । तद्वत्पुरस्ताद्विनेभ्यो मामव इति तद्वदुत्तरदक्षि- णोधिरा ज्ञातव्याः। दशदिग्रक्षणमार्थनामतिपादकत्वादेकार्थः । सर्वतो विदि- गान्तरबाबादिनानास्थानस्थितविघ्नेभ्यो मां पाहि पाहि । आदराद्वीप्सा । सम- न्ताहमाण्डान्तरगतभयात्पाहीति भावः ॥ इति तृतीयः खण्डः ॥ ३ ॥ १ ख० पुस्तके पश्चात् ' मूले पाठान्तरं दृश्यते परं नैतरसाधु । २ सर्वेष्वादर्शपुस्तके पु 'भूताधिनं ' इति वर्तते तत्पामादकमेवोत प्रतिभाति ।
सभाष्यम् । एवं ऋत-सत्यशीलरक्षणात्मकमार्थनां विधाय हादस्थ बुद्धि पर बुद्धिचालक नानासिद्धिपदायकं च गणेश प्रार्थयत्राह- त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं मच्चिदानन्दाद्वितीयोऽसि । वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा- नमयो विज्ञानमयोऽसि ॥४॥ स्वमिति । अत्र 'सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्" 1 ते २० २ ० १] इति महावाक्यप्रतिपादकश्रुत्यर्थ पनिपादयति । निहिन गुहायामिति, हृद्यवस्थितब्रह्मत्वात् ! वाङ्मयः. वाणीकथितनामरूपमयत्वात्। "एषां पृथिवी रसः। पृथिव्या आपोऽपामोषधयस्ता पुरुषस्तस्य वाक्" इति श्रुतेः । त्वं चिन्मयः नामरूपाहतियुक्ता जीवः, तद्भोगकृतत्वात् । “म एव इह प्रविष्ट आनखाग्रेभ्यो यथाऽपुरः क्षुरेऽवहितः स्याद्विश्वम्भगे वा विश्वम्भरकुलाये। तं न पश्यत्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षु: शृण्वभड़ोत्रं मन्वानों मनस्तान्यस्यैतानि कर्मनामान्येव म योऽत एकेकमुपास्ते न स वेदाकृत्स्नो होषोऽत एकैकेन भवति आत्मेत्येवोपासीत । अत्र येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्व वंद यथाह वै पदे- नानुविन्देदेवं कीर्तिः श्लोकं विन्दते य एवं वेद इति "तत्सृष्ट्वा तदेवानुमाविशत्" इत्यादिश्रुतिभ्यः त्वमानन्दमय-वाङ्मय-प्रकृतिमय-चिन्मय-पुरुषमयस्ताभ्यां सृष्ट आनन्दः मुषुप्त्यवस्थात्मकरन्वन्मयः, पञ्चकोशबीजत्वात् । "आनन्दो अमेति व्यजानात्" [ ० व० ३ अ० ६ ] इति श्रुतेः । त्वं ब्रह्ममयः, वाङ्मय-चिन्मयानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थक्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह-वं सच्चिदानन्दाद्वि- तीयोऽसि इति । सत् प्रकृतिभावदोषहीनत्वात, चित्चैतन्यात्मकत्वात्, आनन्द भासमन्ताश्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्यत्वादिति । ६ महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वारि महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्तसीमाभूतत्वात् । अ. नन्तं अमेति प्रतिपादयन्नाह । त्वमिति । देहलोदीपन्यायवत्सत्यनानोमया- भेदमयमुभयप्रकाशकतन्मध्यप्रतिपादनत्वात् । त्वं प्रत्यक्षं ब्रह्मासि, वि. न्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृद्यवस्थितं त्वां पश्यामीति स्वानु- " १२. ग. घ.. शयनं च। २५०० भवन्ति गणेशाथर्वशीर्षम् " भवप्रदर्शनात् । “चिति स्मृतौ " इति धातुपाठात् । " इदितो नुम् ” इति पाणिनिसूत्राचिन्तायां स्मृत्यां मणिरिव तत्प्रकाशकः । सर्वहृद्यवस्थितं ब्रह्म त्वमेवेवि भावः । एवं सत्यं ब्रह्म गुहायां निहितं प्रतिपादितम् । “ द्वे वाव ब- ह्मणो रूपे मूतं चैवामूतं च मयं चामृतं च स्थितं च यश्च सञ्च त्यच्च" इति श्रुतेः। "सञ्च त्यच्च तयोर्योगे सत्त्यं ब्रह्म" इति श्रुतेः। एवं ज्ञानं ब्रह्मेति प्रतिपादयन्नाह । त्वं ज्ञानमयः। सच्चिदानन्दाद्वितीयात्मकसत्यब्रह्मणोऽभिन्नः सदा निर्विकल्पात्मक- त्वात्संदेकमयत्वात्सत्यब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्वरूपज्ञानपदत्वात् । 'ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्य ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्व ज्ञानं केन न ज्ञायते ज्ञानात्परज्ञानाभावादिति । विज्ञानमयोऽसि सर्वज्ञभावं त्यक्त्वा स्वमहिनि स्थितोऽसि, केवलज्ञानब्रह्ममयत्वात् । न हि विज्ञातुर्विज्ञाते- विपरिलोपो विद्यते, अविनाशित्वात् । “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमि- दं विभाति" इति श्रुतेः । अनन्तं ब्रह्म । सत्यज्ञानक्यात्मकमात्मस्वरूपं हदि तत्त्वमस्यात्मकार्थप्रतिपादकमहावाक्यात्सत्यं, त्वम्पदार्थमयत्वात् तज्ज्ञानं त- पदार्थमयत्वादनन्तमसिपदार्थमयस्त्रिविधपदार्थैक्यात्मकब्रह्मपतिपादनार्थत्वात्। निहितं गुहायां गुहा बुद्धिस्तस्यां निहितम्, हृद्यवस्थितबुद्धिपतित्वात् । पञ्च- चित्तव्यापारहर्षविषादसमभावयुक्ततत्तद्यापारसिद्धिपदसिद्धिपतित्वाद्गणेशो हृद्य- वस्थितः । “सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्यनुभवैक्यात्मगणेशत्वात् । परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते । “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्ड- रीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञा- सितव्यं स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अ- स्मिन्द्यावापृथिवी अन्तरेव समाहिते "एष आत्मा अपहतपाप्मा विजरो विमृत्यु- विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः स वा अयं पुरुषः सर्वा- मु पूर्षु पुरिशयः " इत्यादिश्रुतिभ्यः स्वहृद्याकाशस्थितत्वात् । अत्रत्वं प्रत्यक्ष ब्रह्मासीति प्रतिपादनात् हृद्यस्थितगणेशो ग्राह्यः । प्रत्यक्षं तत्त्वमसीति प्रथम प्रतिपाच पुनः प्रत्यक्षं ब्रह्मासीति पुनरुक्तिनिवारणत्वात् ।नच-एवं सब्रह्मादि- वर्णनं पूर्णब्रह्ममतिपादकं " सदेव सौम्येदमन आसीत् ” इत्यादिश्रुतिमामा- ण्यात-इति वाच्यम् । प्रत्यक्षं तत्त्वमसीत्यत्र मयट्मत्ययाभावात्संपूर्ण ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वाङ्मयादिमयट्प्रत्यययुक्तत्वाद्रोणब्रह्मवर्णनमत्रैव मयड्डीनयु- क्तमतिपादनत्वात् ॥ इत्यध्यात्मप्रतिपादकश्चतुर्थः खण्डः ॥ ४ ॥ १ ख. सदैक्यम° २ स्व० ग० घ० ० ० ज्ञानं । : ग० इ० सर्वब्रह्मा सभायम एवं हृद्यवस्थित गणेशं प्रतिपाद्याव्याकृतब्रह्मात्मक प्रतिपादयन्नाह । सर्वं जगदिदं त्वत्तो जायते । मर्व जगदिदं त्वत्तस्तिष्ठ- ति। सर्वं जगदिदं खयि लयमेष्यति । मर्व जगदिदं त्वयि प्रत्येति । वं अमिरापोऽनलोऽनिलो नभः। वं चत्वारि वाक्पदानि ॥५॥ सर्वमिति । सर्व जगदिदं त्वत्तो जायत इति । त्वनाऽन्याकतात्मन इद ज- गजायते । व्यवस्थामयव्याक्तत्वात् । तदेवोङ्कारात्मकगणेशप्रतिपादनत्वात् । गणेशतापिन्याम् । “ ततश्चोमिति ध्वनिरभूत् स वै गजाकारी निर्वचनीया सैव माया जगदीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशब- लमिति च " इति श्रुतेः । "ओमिन्यकाक्षर ब्रह्मेदं सर्वं ब्रह्म" इति श्रुतेः। गा- णेशे पार्वत्या तपः कृतं तस्यै वरदानार्थमागतो गणेशश्चोड़ागन्मकः नपधा- रकत्वात् । तद्यथा। मन्ये नारायणमन्या दक्षिण च शिवाननः । वामे ब्रह्ममुखोऽनन्ते पद्मासनगतो विभुः " इति स्मृतेः । ब्रह्म-विष्णु-रुद्रात्मानोऽकारोकारमकाराः कण्ठाधस्तदैक्यभावमयत्वात्।शै- वे शिवेन शिरश्च्छेदः कृतःशक्तिपुत्रस्य, जीवात्मकत्वात् गणेशाविर्भावहीनत्वाच्च। तत्र पुनर्गजमस्तकमानीय सजीवकरणे ब्रह्मविष्णुमहेशैरोङ्कारावाहनं यदा कृतं त- दा गणेशाविर्भावदर्शनात् । देवीभागवतेऽप्येवं वर्णनत्वाद्गणेशस्य ओङ्कारजगदा- त्मकत्वात् । शिवपुराणेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिवैक्यपतिपाद- नपुराणप्रतिज्ञारक्षणाच्च । न चैवं शिव-विष्ण्वादय ओङ्कारात्मकास्तत्तन्माहात्म्य- श्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामस-सात्त्विकादिस्वस्वैकगुणमयदेहप- चुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते, ग्रन्थबाहुल्यभ- यात् । तद्वत्सर्वं जगदिदं त्वत्तस्तिष्ठति, स्वस्वकर्मानुकूलपालनभावधारकत्वात् । तद्वत्सलये त्वयि लयमेष्यति, कल्पान्तमयत्वात् । तद्वत्सर्वं जगदिदं त्वपि प्रत्येति, माकृतलये गुणसाम्यमयत्वात् । " त्वय्येत्य सदेव अग्र आसीत्" इति श्रुतिमामाण्यात् । त्वं भूमिरापोऽनलोऽनिलो नभः, स्थूल-सूक्ष्म-समपञ्चभूतमयप- गवत्वात् । “अस्यात्मन आकाशः संभूतः " इति श्रुतेः। प्रणवविशिष्टात्मनः पञ्चभूतोत्पत्तिपतिपादनत्वात् । त्वं चत्वारि वाक्पदानि । परा-पश्यन्ती-मध्यमा- ख. ग. घ. ड० सर्वमिति २ ख ग घ टु, वणित आ01 गणेशाथर्वशीर्षम् वैखर्यश्चतस्रो वाचस्त्वच्छाससंभवधर्माधर्मसमज्ञानबोधमयत्वात् । “ सयाद्र- भामेरम्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व- सितमेतचदृग्वेदो यजुर्वेदः सामवेदोऽर्वाङ्गिरस इतिहासः पुराणं विद्या उपनि- षदः श्लोकाः सूत्राण्यनुव्याख्यातान्यस्यैवैतानि सर्वाणि निःश्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । " ओङ्कारमभवा वेदाः" इति स्मृतः ॥ इत्यधिदैवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५ ॥ एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थिति प्रतिपादयन्नाह । वं गुणत्रयातीतः। त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । लं ब्रह्मा वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमनिस्त्वं वायुस्त्वं मूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ॥ ६॥ त्वमिति ॥ त्वं गुणत्रयातीतो नानाजनदेहमूलाधारः स्थितः संस्त्रिगुणदोष. प्रवृत्तिप्रकाशाज्ञानवर्जितोलिङ्गचक्रस्थराजस-नाभिचक्रस्थसात्त्विक-हक्वकस्थ तामसभावहीनत्वात्रिगुणमूलाधारमयः, प्रणवमयत्वात् । त्वमवस्थात्रयातीत जाग्रत्स्वप्नसुषुप्त्यवस्थाभावहीनत्वात् । त्वं देहत्रयातीतः, स्थूल-सूक्ष्मानन्ददेह षड्भावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्ति-स्थिति-लयकालभावहीनत्वात् त्वं मूलाधारस्थितोऽसि नित्यम् । गुदचक्रं प्रणवमयं तत्र स्थितः, सर्वचक मूलाधारमयत्वात् । मूलाधारसंज्ञाख्यं, सदाखण्डस्वानन्दघनत्वात् नित्यं त्रिगु णभाववर्जितत्वाच्च । त्वं शक्तित्रयात्मकः । जगदुत्पत्ति-स्थिति-लयत्रिविधश तयाधारात्मकत्वात् । त्वां योगिनो ध्यायन्ति नित्यम् । स्वात्मानन्दब्रह्मैक्स समाधिना कृत्वा जीवन्मुक्ततया देहमारब्धभोगप्रतीक्षका योगिनबैगुण्या त्मकं त्वां नित्यममृतात्मकत्वान्यायन्ति, स्वदेहमूलाधारचक्रस्थध्यानमुलभ त्वात् । त्वं ब्रह्मा जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टभवणत्वात् । त्वं विष्णु न्मत्पालकः, सस्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात त्वमिन्द्रबिभुवनेश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता १ख. ग. प. उ. कहक००. ख. ग. घ. १० ०त्मानं द्र० सभाष्यम्। सर्वदेवमुखतृप्तिकारकविशिष्टत्वान । त्वं वायुः सर्वप्राणभूतसवंजनशाणप्रदेश-स्था पनोत्कमणविशिष्टत्वात् । त्वं सूर्य उदयाम्न-दिवस-गत्रिप्रकाशकः, सर्वजनकम प्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वौषधिजीवनात्मकः, जमदनमविशिष्ट- त्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां स्वस्वव्यापार प्रवर्तकात्मकः । श्रुतयों न लिख्यन्त, सर्वप्रसिद्धत्वात ! एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या, अष्टविशिष्टगणेश- प्रतिपादनत्वाद्विचारतदन्तर्गतसम्भवाच्च । त्वं ब्रह्म सर्वजनबुद्धिस्थजीवमयो, ना- नास्वभावप्रकृतिभाकृविशिष्टत्वात । भः भूलॊकस्त्वमेव. द्विशिष्टत्वात् । भुवः भुवोकम्त्वमेव, तद्विशिष्टत्वात् । म्वः स्वलॊकस्त्वमेव, तद्विशिष्टत्वात् । ॐ प्रणवत्वमेव, सर्वमलाधारचक्रस्थित विश्वचालकत्वात् ।। इन्यध्यात्मप्रकाशक: षष्ठः खण्डः॥६॥ एवं साधिदैवताध्यात्मप्रकारयुक्ततन्वमम्यात्मक प्रणवात्मक व गणेश पति- पाच तदनुभवप्रकाशकगणेशविद्यां प्रकटयन्नाह --- गणादि पूर्वमुच्चार्य वर्णादीस्तदनन्तरम । अनुग्वारः परतरः । अर्धेन्दुलमितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः मन्धानम् । स हिता सन्धिः । मैषा गणेशविद्या । गणक ऋषिः । निद्रायत्रीछन्दः । गणपतिर्देवता । ॐ गं ॥७॥ गणादिमिति । पूर्व प्रथमं गणादिं गकारं. गणशब्दादिभतत्वात् । उचा- र्य स्वमुखेनोचारणं कृत्वति । तदनन्तरं वर्णादिः । वर्णा अक्षराणि सदादिरका- रः, तस्य आदौ कथितत्वात् । तस्मादकारात्परतरोऽनुस्वारः । गकार आदिस्त- स्मात्परोऽकारस्तस्मात्परोऽनुस्वारः परतरः । कीदृशोऽनुस्वारः अर्धेन्दुलमितः, सानुनासिकत्वात् । एवमेकाक्षरमनात्मिका विद्या प्रतिपाच सशक्तिकमत्रं प्र- * अत्र 'वी अक्षरास्तदादिग्कारोकामंदिवर्णकथित्वात नप्रामााटकामात प्रतिभाति । डात मवैवादशपुत्रका रायते र ग. वान्तरु०॥
१८ गणेशाथर्वशीर्षम् कटयबाह । तारेणेति । तारेण प्रणवेन *ऋद्धं युक्तम् । प्रणवयुक्तैकाक्षरमन्त्र- त्वात् । तत्रादौ प्रणवमुच्चार्य पश्चादेकाक्षरोच्चारणम् । " आदौ प्रकृतिमुच्चार्य पश्चात्पुरुष उच्यते " इति स्मृतेः । रुद्रयामले एकाक्षरगणेशकवचे मनोद्धा- रः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपादनात् । तद्यथा । " गं बीजं शक्तिरो- कारः सर्वकामार्थसिद्धये" । इति । तव गणेशस्य मनुस्वरूपं मनस्वरूपमेतत्, सर्वसिद्धिषदगणेशानुभवप्रकाशकसामर्थ्ययुक्तत्वात् । एवं 'गणादिं पूर्वमुच्चार्य' इत्यादि-'तारेण ऋद्धं' इत्यन्तेन सङ्केत श्रुतिवाक्यप्रतिपादितमत्रं जना न ज्ञास्यन्ति , मन्दबुद्धित्वात् । तदर्थ स्वयमेव सुलभतया तदेवाह । गकार इति । पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपं अकारः , अन्त्यरूपं अनुस्वारः,उत्त- ररूपं अनुस्वारोत्तररूपं बिन्दुः, सानुनासिकात्मकत्वात् । तारशब्दस्तु न वर्ण्यते, स्फुटत्वात् । एतेषां भिन्नानां गकारादिचतुर्णा सन्धानमेकीकर- पसाधनं नादः, नादप्रेरितैकभावोच्चारणयोग्यसामर्थ्यात् । एतेषां नादरिता- नां सन्धिः सम्मीलनं संहिता, यथाक्रमोच्चारणैक्यभावप्रकाशकत्वात् । या 'ग- णादि पूर्वमुच्चार्य' इत्यादि-' तारेण ऋद्धं ' इत्यन्तेन पूर्व प्रतिपादिता सै- षाऽधुना-' गकारः पूर्वरूपं ' इत्यादि-' संहिता सन्धिः' इत्यन्तेन प्रतिपादित- त्वात् । गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणेशमूर्तिमयजपस्य गणेशसन्तु- ष्टिकारकत्वात् । विद् ज्ञाने इति धातुसामर्थ्यात् एकाक्षरमन्त्रस्तत्त्वमस्यात्मक- गणेशमयः प्रतिपादितः । यत्रस्थमत्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्रप्रतिपादितत्वाच्च । तत्रोङ्कारयुक्त ओङ्कारशक्तिविहारजगन्मयप्रतिपादि- तत्त्वात् पूर्वोक्ततत्त्वमस्यात्मकोऽङ्कारात्मकद्विविधसामर्थ्य युक्तत्वं मन्त्रस्य प्र- तिपादितम्, तदुपासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रादिन्या- सा मन्त्रशास्त्रोक्ता प्राथाः, तस्य वेदोपाङ्गत्वात् । तद्यथा । ॐ अस्यैकाक्षरगणप- तिमन्त्रस्य, गणक ऋषिः, निवृद्गायत्री छन्दः, गणपतिर्देवता, गं बीजम्, ॐ शक्तिः, गणपतिपीत्यर्थे सकलाभीष्टसिद्धयर्थे च जपे विनियोगः । गणकऋषये नमः शिरसि । निद्रायत्रीछन्दसे नमो मुखे। गणपतिदेवतायै नमो हृदये । गं- बीजाय नमः गुझे । ॐ शक्तये नमः पादयोः । अथ षडङ्गन्यासः । ॐ गां अङ्गुष्ठाभ्यां नमः । ॐ गी तर्जनीभ्यां नमः । ॐ गूं मध्यमाभ्यां नमः । ॐ मैं अनामिकाभ्यां नमः। ॐ गौं कनिष्ठिकाभ्यां नमः। ॐगः करतलकरपृष्ठाभ्यां . अत्र सवेत्रापि 'रुद्धम् ' इति इदानींतनानां केषांचित् वैदिकानां पाठः । अर्थस्त्वक एव । १ ग. 3. मिकला।
सभाष्यम। । एवं हृदयादिन्याम कन०इति । वस्यमाण पान वा मानसेः पञ्चोपचार: पजयत । तद्यथा। लं पृथिव्या-मने गणेशाय गन्धं समर्पयामि । ॐ आकाशात्मने गणशाय पुष्पं स य वावा- स्मने गणेशाय धूपं स० । ॐर तेजात्मने गणेशाय दीपम व अमृता कमने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभतबीजात्मकपञ्चापचारार्पण मानसी पूजा कथ्यते इति संक्षेपः । सर्व मन्त्रशास्त्रोक्तविधिवत्कार्यम्, शीसि- द्विपदत्वात ॥ इनि गणेशविद्यात्मकार्थप्रतिपादकः सप्तमः खण्डः ॥ ७॥ एवं गणेशविद्या प्रतिपाद्य गणेशगायत्रीमनं प्रकटयन्नाह -- एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तबो दन्ती प्रचोदयात् ॥ ८॥ एकदन्तायेति । एकदन्ताय एकशब्दाच्या माया। दन्न शब्दाग्यो माथि- कः तयोर्योग एकदन्तः तस्मै । विबहे जानीमहे । मदा ममदत्वात । तदेव मौद्गले । " एकशब्दात्मिका माया तम्याः म ममुद्रम । भ्रान्तिदं मोहदं पर्ण नानावलात्मकं किल ।। दन्तः मत्ताधास्तत्र माया चालक उच्यते । बिम्बेन मोहयुक्तश्च स्वयं स्वानन्दगा भवेत् ।। माया भ्रान्तिमयी प्रांना सत्ता चालक उच्यते । तयोर्योग गणेशोऽयमेकदन्तः प्रकीर्तितः ॥" इति । वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तस्माद्वकमात्मरूपं गोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मयंकण्ठाध आत्मान्मक- स्तकत्वात्तस्मै । तद्यथा मौद्रले । अत्र कल्पयामीति यनमिति प्रातभाति । ममर्पणं तु प्रत्यक्षतया अपमाणस्योपचारस्यैव विति न मानमस्य अत: कल्पयामीगेन यतम ! अन्यत्रापि मानसपजागां “ल पाचव्यात्मने गन्धं ल्पियामि इति रश्यत इति दिक। अत्र जात्मने 'हात पाठ: माधोयानिति भाति । १ ग म सर्वात्मने गणेशाय सर्वोपचारान् ताम्बू र दक्षिणा मन्त्र पुष्पं समर्पयामि ' हात धिर सापयागनिति नास्ति.. स. ग. ५. डा. ofणवान्मान क... घ. ० दन्ति: १०. ४ स. ०:मयः क० गणेशाथर्वशीर्षम् "विम्ब मायायुतं वकं मोहितं सिद्धि-बुद्धिगम् । नद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥ माया सुखं मोहयुतं तस्माद्वक्रमिति स्मृतम् । परं ब्रह्म तयोर्योगे वक्रतुण्डोऽयमुच्यते ।। कण्ठाधी मायया युक्तो मस्तकं ब्रह्मवाचकम् । वकाख्यं तस्य विमेश तेनायं वक्रतुण्डकः ॥” इति धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रह्मात्मको दन्ती द. न्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धिपति- त्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं त्रायतीति व्युत्पत्तिबलात् ॥ इति गायत्रीमत्रप्रतिपादनात्मकोऽष्टमः खण्डः ॥ ८ ॥ एवमादौ नाममनं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमनं च इति त्रिविधं मनं प्रतिपाद्य तयानार्थमाह- एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानलिप्साङ्गं रक्तपुष्पैः मुपूजितम् ।। भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादी प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥९॥ एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । “भग्नवामरदे" इति स्मृतेः । चतुर्हस्तं. चतुर्भुजयुक्तत्वात् । " स्वर्गेष, देवताश्चायं पृथ्व्यां नरांस्तथाऽतले । असुरानागमुख्यांश्च स्थापयिष्यति बालकः ॥ तत्त्वानि चालयन्विप्रास्तस्मानाम्ना चतुर्भुजः । चतुणी विविधानां च स्थापकोऽयं प्रकीर्तितः " ॥ इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशाङ्कुश-दन्त- वरदानि धारयति, स्वभक्तरक्षणार्थत्वात् । म. ग. घ. ड. ध्यायामः। क. स्व. ग. प. म. ख.९०१ सभामा पाशं मोहमयं तम्य म्वभक्तमाह नाशनम । नियत्राख्यं तथा ब्रह्म अडशश्च महात्मनः ।। दुष्टनाशकरं ब्रह्म दन्तः मरिनाशकन् । वरं सकामिकानां च कामदं ब्रह्म नत्म्मनम इति स्मृतेः । मूषकध्वजम् ! सर्वान्नामी मर्वजन्तुहद्वान मन् सर्वजन्तुक दोगभोक्ता चोरो जन्त्वज्ञातमर्वम्वहारकत्वात् जन्नतपाप-पुण्यविवर्जितत्वात् । स एव गणेशसेवार्थ मूषको बभव । मप म्नेये उनि गावान् । तद्यथा " मुषकं व्यापकाख्यं च पश्यन्ति वाहनं परम ! तेन मूषकवाहोऽयं वेदेषु कथिताऽभवन : मुस्तये तथा धातु नव्यम्तेयब्रह्मक । नाम-रूपात्मकं सर्वं तत्रामा वर्तते ॥ नाम-रूपेषु ये भोगाम्नेषां भोक्तृतया स्थितः । भोगेषु भागभोक्ता च बनाकारण वर्नते ।। अहंकारयताम्तं वे न जानन्ति विमाहिता : वयं भोक्तार एवं ते मानर्यान्न विशयन । ईश्वरः सर्वभोक्ता च चोरवत्तत्र मंस्थितः । तदेवं मूषकः प्रोक्तो मनुजानां प्रचालकः ।। मायया गूढरूपः स भोगान्भुते हि चोरवत् ।। इति स्मृतिभ्यः । रक्तम्, रक्तवर्णशरीरत्वात् । लम्बोदरम्, स्वोदरे सर्वस्या- पि प्रतिष्ठितत्वात् स्वस्य न कस्याप्युदरस्थत्वात्, स्वोदरोद्भवसर्वजगत्वान् स्वस्य न कस्याप्युदरभवत्वाच्च । तथा च । " लम्बोदरोऽयमेकश्च वेदे संकथितोऽभवत् । न वयं तादृशा वेदे लम्बोदरप्रवाचकाः ॥ तस्योदरात्समुत्पनं नानाविश्वं न संशयः । नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ।। मध्ये कलांशरूपेण क्रीडते गणनायकः । अतः सर्वादिपूज्यश्च सर्वपज्यो बभूव ह ।। सर्वेषां जनको माता तथा सर्वप्रदायकः । तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ" || इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगिमुखोद्गतजनकर्णमागंहद्गतः सन् शूर्पवत्पापपुण्यरजो दुरीकरोति, ब्रह्मप्राप्तिकारकत्वात् । तद्यथा ।
२२ गणेशाथर्वशीर्षम् " रजोयुक्तं यथा धान्यं रजोहीनं करोति च । शूपं सर्वनराणां वै योग्यं भोजनकाम्यया ॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य मुन्दरि ॥ शूर्पकर्ण समाश्रित्य त्यक्त्वा मलविकारकम् । ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ।। तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ।। इति स्मृतिभ्यः । रक्तवाससम्, सदा रक्तवस्त्रमियत्वात् । रक्तगन्धानुलि- माझं रक्तपुष्पैः सुपूजितमिति, रक्तवर्णप्रियत्वात् । मौद्गले पश्चवर्णवरपदो गणेशो बभूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः सदा कृतः, स्ववरदानरक्ष- गार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्पिनम् । तत्र भक्तिर्गणेशैकतत्परा इहलोक-परलोकविषयेच्छाहीनात्मिका, कायिक-वाचिक-मानसिक-सांसर्गिक- तदेकरसयुक्तत्वात् । तद्यथा सरूपतः । " इत्येवं नवधा भक्ती रसयुक्ता कृता मयि । क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ।। तंदा सम्पूर्णभक्तश्च जातो वै नात्र संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा"। इति स्मृतेः । देवम् , सर्वत्र तत्तद्रूपेण क्रीडाकारकत्वात् । दिवु क्रीडायां इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वपूज्यादिपूज्यत्वात् । “ज्येष्ठराजम्"इति श्रुतेस्तज्ज्येष्ठाभावात् । न चैवं-नानावेदशाखापाठेषु कुत्रान्यदेवो ज्येष्ठराजस्तत्पर- ज्येष्ठाभावादिति वाच्यम्, सर्वपूज्यादिपूज्यगणेशान्यहीनत्वात् ज्येष्ठादिपूज्यसर्व- पूज्यसम्पदायदर्शनात् अन्यत्र लिङ्ग-दैवतवद्गौणत्वाच । अच्युतम्, स्वानन्दवा- सित्वात्कैलास-चैकुण्ठादिलोकगुणमयनाशात्मकत्वाच । सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये कथितमत्र न लिख्यते, ग्रन्थबाहुल्यभयात् ।आविर्भूतं च सृष्टयादौ प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयी, प्रकृष्टसर्वाकृतित्वात् । पुरुषः सदेकः । प्रकृतिमयपुरिशयत्वासाभ्यां परं, प्रकृति-पुरुषैकात्मकत्वात् । सृष्टयादौ प्रकृति- पुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्मकशरीरस्वात् । एवं नर-गजाभेदैकदन्तादि- १०म्पतम् । २ का सदा । ३ ख. संयुकभत्ता ।
सभायम . चिह्नयुक्तं यो नित्यं ध्यायति म योगी.ब्रह्मक्यात्मकत्वात : पागावत्तििनगम [पायो०१सू०२] चित्तं पञ्चविधम् । सिमं महं विक्षिप्रमकानमिति चिन स्य भूमयः, व्यासकृतभाष्य प्रतिपादितन्वात् । तत्र नरेण पत्र चिन क्षिप्त नत्र तदनुभवयुक्तं भवति तत्क्षिप्तम् , मवमायामोहयुक्तजनहत्यत्वात : यत्र नरण दिन क्षिप्तं तज्ज्ञानतया नानाज्ञानामधारकन्वान्मटम् पिशानतुल्यनाम्यवान् । मुमुक्षूणां चित्तं विक्षिप्तं संसारविषयास्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीन, विषयासक्तत्वाब्रह्मानुभवमुखहीनत्वानानातपः परत्वाच । अन्न-प्राणाचव्याकृत पर्यन्तानुभवयुक्तमेकाग्र चित्तं, सवैक्यसमाधिमुस्वयुक्तत्वात : सन्यं ज्ञानमनन्त ब्रह्मानुभवसुखयुक्तं निरुद्धाख्यं. मक्यभावहीनत्वा अपरन्चार मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः । असंप्रज्ञातनामाऽसौ समाधिरभिधीयते ॥ इति स्मृतेः । ततस्तत्त्वमस्यनुभवसुरवयुक्तं निराधमिहीनन्नाचिनवृत्तिनि- रोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् । त्वंपद-तत्पदामिपदविभा- गशून्यत्वाच । एवं चिनं जित्वा योगी भवतीति, बौक्यान्मकत्वात् । योगिनां शुक-वामदेवादीनां वरोगणेशभक्तिपरायणत्वान् प्रत्यक्षतत्त्वमसिशरीरभृत्रवधा- चित्तमवेशकायिक-वाचिक-मानसिक-सांसर्गिकसदाबह्मतत्परचष्टात्मकत्वात् वे- दादिद्तज्ञानजनोद्धारकत्वाश्च । न चैवम् योगीदर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षयब्रह्मैक्यत्वात् श्रेष्ठतम इति वाच्यम् । नवधा चिनशन्यवद्धारकत्वा- द्वेदादिहृद्गतनानोपदेशदीनत्वात्मारब्धक्षये स्वयमेव ब्रह्मैक्यत्वाबनोद्धारकृत- त्वाद्योगी श्रेष्ठः । गाणेशयोगी तु श्रेष्ठतमः, पूर्वोक्तब्रह्मचेष्टापरत्वाजनांद्वारक- वाच । न चैवं शिव-विष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपरायण- स्वादिति वाच्यम् । तेषामथर्वशिरःमु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा- द्योगिपदाभावाच। तत्र परमहंसा योगिनो गाणेशा भवन्ति, योगिपदस्य पर- महंसपरत्वात् एकगणेशाथर्वशीर्षप्रतिपादनत्वात् अन्यदेवाधिकारशून्यत्वाच । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दाभिधम् , नारायणात्मकभा वात् । " दण्डग्रहणमात्रेण नरो नारायणी भवेत् " इति स्मृतेः । गाणेशया- गिवन्दनं गणेशशब्दाभिधं च, परमहंसाना वरत्वात् ॥ इति ध्यानात्मका नवमः खण्डः ॥९॥ एवं ध्यानं प्रतिपाच स्तुत्यर्थमाह- * पातमालयोगसूत्रषु प्रथमपादस्य प्रथममूत्रमध्ये द्रष्टव्यमेतत् । १ क. रतवा ० । २ ग. चित्तं प्रवेश्य कायिक०, ३गपड, ना वंदनं नम. बंदन नम:
२४ गणेशाथर्वशीर्षम् नमो व्रातपतये नमो गणपतये नमः प्रथमप- तये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नना- शिने शिवसुताय वरदमूर्तये नमः॥ १० ॥ नमः इति । व्रातपतये देवादिबातानां जीवानां पतित्वात्ते तुभ्यं नमः । गण- पतये ब्रह्म-विष्णु-महेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः । "ब्रह्मविष्ण्वा-' दिगणानामीशभूतमित्याह । तद्गुणेश इति । तत्परमित्याह । यमेतेनाप्नुवन्तीति" इति श्रुतेः । प्रथमपतये वर्णानां ब्राह्मणः प्रथमो मुख्यत्रिवर्णगुरुत्वात् । बाम- णेषु योगी प्रथमो, महावाक्यानुभवयुक्तत्वात् । एवं जनानामीश्वराणां ब्राह्मणा- नां च प्रथमाः श्रेष्ठास्तेषां पतिस्तदादिपज्यतत्पूज्यत्वात्तै नमः । लम्बोदराय ते नमोऽस्तु । एकदन्ताय नमः । विघ्ननाशिने कालात्मकभयहारिणे नमः, अमृता- त्मकपदप्रदत्वात् । तदेव कथ्यते । अभिनन्दनराजेन्द्रभागहीनयज्ञारम्भः कृतः। तज्ज्ञात्वा कुपितेनेन्द्रेण कालमावाह्य तद्यज्ञभनायाऽऽज्ञापितः। स कालपुरुषस्त- धर्म ज्ञात्वा विघ्नासुरो बभूव । जन्ममृत्युमयं जगत्कालाधीनं, त्रिलोकभ्रमणत्वात् । ब्रह्मानुभवयुक्तजनैः कालं जित्वाऽमृतमयो भवति तज्ज्ञानकारणं सत्कर्मसाधनेना- न्तःकरणशुद्धिस्ततो ब्रह्मानुभवपात्रत्वात्तद्धर्म ज्ञात्वा सत्कर्मनाशनार्थ विघ्नो ब- भूव । सत्कर्महीनं जगत् कालाधीनं सदा मलिनान्तःकरणयुक्तत्वात् । ततोऽभिन- न्दनं हत्वा यत्र तत्र दृश्यादृश्यस्वरूपधृक्कालः सत्कर्मखण्डनं चकार । कालाज्ञान- भावात्ततो भ्रान्ता वसिष्ठादयो ब्रह्माणं शरणं ययुः । तेनाज्ञप्ताः पार्चपुत्रं गणेशं तुष्टुवुः, गणेशान्यदेवस्य कालनाशसामर्थ्याभावात् । ततो गणेशेन विनामुरः प- राजितः । स शरणं ययौ । तदा स्वाज्ञावशवर्तिनं विघ्नं चकार । विभेन प्रार्थि- तो विनराजाख्यो बभूव । तदादि गणेशादिपूजनहींनं तत्स्मरणहीनं यत्सत्कर्म तत्र विभमादुर्भावः । एवं नियमं कृत्वा तं स्वसमीपे स्थापयामास । एवं स्कान्दे वि- नायकमाहात्म्ये मौद्गले च प्रतिपादितत्वात् । वेदादिषु विप्रो भगवानिति कथ्यते, * अत्र 'प्रमथपतये' इति इदानीन्तनानां सर्वेषां वैदिकानां पाठः । अयमपि साधीयानेव | प्रमना. तीति प्रमथः । शम्भोः पारिषदाः प्रमथसंज्ञकाः । तदुक्तं कालिकापुराणे एकोनत्रिंशाध्याये । ध्यानस्थ परिचर्यन्ति मलिलादिभिरीश्वरम् । नानाशस्त्रधराः शम्भोर्गणास्तु प्रमथा: स्मृताः ।। प्रमनन्ति च यजेषु युध्यमानान्महाबलान् । ते वै महाक्लाः शुगः संख्याता वसुकोटयः ॥ १ ॥ इति शिवसुतत्वात् प्रमथसंज्ञकामो शिवगणानां पतिः इति यथासम्भव योजनोयम् । १ ग. घ. 3. ब्रह्मणां च. २ क ख ग घ .. जनोऽकालमितिपाठः. ३ क. ख. ग. घ. दु. तदादिमारभ्य गणेशादि.
सभाग्यम: कालमपत्वात् कालाधीनमुष्टि-म्थिनि-लयत्वाच । ब्रह्म-विष्णु-महशा वयं बहाण इति मदयुक्ताः सन्तो वेदमागं त्यक्त्वा स्वच्छाविहारिणो यदा भवन्ति, नया सविना असुरैः पराजिताः म्वेच्छाविहारभङ्गा भवन्ति । पुनमाभिमानं त्य क्त्वा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात, एवं ज्ञात्वा शरणं मच्छ- न्ति तदा स्वस्वसामर्थ्ययुक्ता अमुराविजित्य म्वपदम्या उंचग भवन्ति वि. प्राधीनस्वात् । विशेषेण जगत्सामथ्यं हन्तीति विघ्न इति व्युत्पत्तिबलाद्विपसमे न किंचिदिति संक्षेपार्थः । नद्यया । भगवन्ती विधविनायकौ पीयताम" इति पुण्याहवाचनवचनत्वात् । स्कान्दे । उक्त्वैवमाह्वयत्स्कन्दः शकरतं कालरूपिणम् । य इदं मायया मांश कलययखिलं जगन " इति।। विघ्नरूपेण घोरण म कालपुरुषा भुवि । गर्जनादखिलाल्लोकान्कम्पयामास वेगवान" || इति ॥ योगवासिष्ठे भृगु प्रति कालवाक्यम् । तथा। मा तपः भपयानुढे कल्पकालमहानलैः । यो न दग्धोऽस्मि मे तम्य किं त्वं शापेन धक्ष्यसि ।। ब्रह्माण्डावलयो प्रस्ता निगीर्णा रुद्रकोटयः । भुक्तानि विष्णुवृन्दानि क न शक्ता वयं मुने " ॥ इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः । “अथ । भात्मा स सेतुर्वितिरेषां लोकानामसम्भेदाय एष सेवेश्वर एष भूताधिपतिरेष भूतपाङ एष सेतुर्विधारण एषां लोकानामसम्भेदाय" इति श्रुतेः । लोकानामसम्भेदाप विनभयस्वमर्यादायुक्तलोकत्वात् । शिवसुताय । तद्यथा । गणेशेन सष्ठाः शि. वादयस्तपश्चक्रुः । तत्रादौ शिवहदि ब्रह्मानुभवो बभूव, समाधिक्रियाधिक्या. त् । ततो हृदि गणेशं ददर्श संस्तुत्य प्रार्थनां चकार । त्वं मे पुत्रो भव' त्वरिपत्र तारकत्वात् । 'तदहं माया-मोह-भयहीनश्चरामि' गणेशजनकत्वादिति । तदेव विनायकसंहितायां मयूरेशक्षेत्रमाहात्म्ये । " ध्याने मनसि मे जातः पुत्रत्वं पालय प्रमो। मम पुत्र इति ख्यातो लोकेऽस्मिन्भगवन्भव"॥ इत्यादिस्मृतिभ्यः । त्रिगुणावतारैब्रह्म-विष्णु-शिवारुपैरवध्यारनाशनार्य कलांशगणेशावतरणं सर्वत्र प्रसिद्धम् । तदवतारचरित्रबापनार्थत्वादन शि. बसत इति कथितः, वेदमामाण्येषु पुराणेषु नानावतारमतिपादनात् । न १ गते विमासुरैः.
२६ गणेशापवंशीर्षम् खेवम् तपःमार्थितगणेशः शिवसतः, तत्र शिवः श्रेष्ठो गणेशजनकस्वादिति पाच्यम् । एवं शिव-विष्ण्वाचवतारचरित्रत्वादनादिसम्प्रदायत्वाचा विष्ण्वथर्व- शीर्षे " ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः" इति श्रुतेः । देवकीपु- भत्वेन विष्णोर्न कनिष्ठत्वापत्तिः, भक्तवाञ्छितकृतत्वागताधीनदेवेशत्वाच । ते नमः वरदमूर्तये, सर्वेश्वरजनवरदत्वात् प्रत्यक्षं वरदमूर्तिः स्ववरदाभावाच । म चैवं शिव-विष्ण्वादयो वरदमूर्तयः, स्वस्वभक्तवरदत्वादिति वाच्यम् । शिव- विष्ण्वादिवरदगणेशत्वाद्गणेशवरदाभावात् । ननु शिवपुराणे गणेशवरदः शिवः कथितः, 'सर्वादिपूज्यो भव' इति वचनादिति चेन्न । शिवपुत्रभावरक्षणार्थत्वात्, पितृदत्ताधिकारपरायणपुत्रत्वात् दशरथदत्तयुवराजाधिकारयुक्तरामचन्द्रवत्पु- रातनसंप्रदायत्वात् ते नमः। बातपतय' इत्यारभ्य 'वरदमूर्तये नम' इतिपर्यन्त- मष्टनामनमनम् , तदन्तर्गतसर्वनामत्वात् । नाममत्रतत्त्वमस्यात्मकसत्यवादिभ- करक्षणात्मकोडारात्मकैकाक्षरविद्यागायत्रीध्यानस्तुतिप्रतिपादकमष्टमार्गमका- शकत्वादष्टाङ्गमिति ॥ इतिस्तुतिप्रतिपादको दशमः खण्डः ॥ १० ॥ इति अथर्वणऋषिप्रोक्तं गणेशाथर्वशीर्ष समाप्तम् । ॥ अथ फलश्रुतिः ॥ एवं स्तुति प्रतिपाद्य गणेशाथर्वशीर्षफलश्रुतिं प्रतिपादयन् ग्रन्थमाह । तत्रादौ गणेशाथर्वशीर्षाध्ययनफलपतिपादनार्थमाह- एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते। सर्वविघ्नैर्न बाध्यते। स सर्वत्रे मुखमेधते।स पञ्चमहापापात्प्रमुच्यते। सायमधीयानो दिवस- कृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायम्प्रातःप्रयुञ्जानो अपापो भवति।सर्वत्राधीयानोऽपविघ्नो भवति।धर्ममर्थ कामं मोक्षं च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाहास्यति स पापी- यान्भवति।सहस्रावर्तनाचं यं काममधीतेतं त- मनेन साधयेत् ॥ ११॥ - सर्वतः इति लोके पाठः.२ धर्मार्थकाम-मोक्षं च इति लोके पाठः साधयति इति लोके पाठः.
सभाष्यम् । 20 पतदिति । एतदथर्वशीर्ष योऽधीते स ब्रह्मभूयाय कल्पते, देहमुदापि बोवा. सस्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विधासयुक्तत्वात् । अन्ययोऽनुभवक- स्सोऽप्यधीत इति कथ्यते । स देहभृदव, योगित्वाच । स साधिनैर्न बाध्य. ते । धर्मार्थकाम-मोक्षसाधनान्तरापात्मकविघ्नैर्न बाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र मुखमेधते, नानालोकस्थाधीनत्वान्नानाकार्य मुखयुक्तत्वाच्च । स पश्च महापापात्ममुच्यते । पापं पञ्चविधम् । हिंसा-ऽभक्ष्यभक्षण-परस्त्रीगमन-स्ते. प-तत्संसर्गात्मकत्वात् । तत्र पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्म- हत्या-सुरापान-गुरुतल्पगमन-सुवर्णस्तेय-तत्संसर्गयुक्तत्वात् । आदावेव साय- मधीयान इति, गुरुमुखोद्गतं स्वकण्ठगं कृत्वाऽध्पयनकाल आदौ सायंकालमा. सत्वात् । तद्वत्मातरेव । सायंपातरधीयानः सर्वदिवस-रात्रिपापवर्जितत्वादपापो भवतीति । सर्वत्राधीयानोऽपवित्रो भवति । नानाकार्यकृततत्कार्यावधीतत्त्वा. स् । धर्ममर्थं काम मोक्षं च विन्दतीति । इहलोकमनाहत्य परलोकार्यसत्क- परायणत्वात् धर्मार्थी । इहलोकश्रेष्ठार्थसत्कर्मपरायणत्वात् अर्थार्थी । इहलोक- परलोकोद्भवभोगार्थसत्कर्मपरायणत्वान् कामार्थी । इहलोक-परलोकविरागयु. तात्मप्राप्त्यर्थसत्कर्मपरायणत्वात् मोक्षार्थी च । एकैकपुरुषार्थी चतुष्पुरुषार्थी वा य इदमधीते स तत्तल्लभते, गणेशस्य इच्छापूरकत्वात् । अशिष्याय पथा. थर्वशीर्षशिक्षाहीनाय न देयमिदं, ऋत-सत्यवादिरक्षकगणेशत्वात् । यो यदि मोहादास्पति । द्रव्यलोभाच्छुश्रूषालोमाद्विद्याविनिमयलोमादित्यादिना नामो- हादिति सोऽतिपापी, ययाऽथर्वशीर्ष शुश्रूष गा मुरभावगगेशपीडितत्वात् । अस्य सहस्रावर्तनाचं यं काममिच्छति तं तं पानपात् । वीप्साया भावार्थ- स्वात् ॥ इत्यध्ययनफलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥ एवं अध्ययनफलश्रुति प्रतिपाद्य मानाप्रयोगार्थमाह- अनेन गणपतिमभिषिञ्चति स वाग्ग्मी भवति। चतुर्थ्यामनश्रञ्जपति स विद्यावान्भवति । इत्य- थर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान विभेति कदाचनेति ॥ १२॥ अनेनेति । प्रशस्तवागर्थ्यभिषेकं कुर्यादिति । चतुर्थ्यामनश्नपति। यः स वि. धावान्भवति, प्रातरारभ्य सायंपर्यन्तं जपानुष्ठानपरत्वात् । इत्यपर्वणवबनवा- १० तत्वात २८ गणेशाथर्वशीर्षम् बयाफल्याधिरिति ।पमादीनां मायावरणं विद्यात् अत एवम बिभेति,मावाव. रन-चन्मोहहीनत्वात् ।। इति नानामयोगफलश्रुत्यात्मको द्वादशः खण्डः॥१२॥ एवं भयहीनता प्रतिपाद्य यजनार्थमाह- यो दूर्वारैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स यशोवान्भवति स मेधावान्भव- ति।यो मोदकसहस्रेण यजति ।स वाञ्छितेमवा- प्रोति । यः साज्यसमिद्भिर्यजति स सर्व लभते स सर्व लभते ॥ १३॥ य इति । दूर्वाकुरैर्यजति स कुबेरसमो भवति, कनकमियत्वात् । साजे- होमो यशःपदो मेधापदश्च, तत्तत्प्रयोगप्रमाणत्वात्। यो मोदकसहस्रेण यजति, प्रतिखण्डं जुहुयात्मत्यर्चवत्प्रमाणत्वात्, स वाञ्छितैफलमवाप्नोति, नानाकार्य- सिद्धिपदत्वात् । यः साज्यसमिद्भिर्यजति मन्त्रशास्त्रोक्तनानाकार्यपदमानासमि- होमप्रमाणत्वात्, स सर्वं लभते स सर्व लभते । अत्र वीप्साऽऽदरमदर्शिनी । नानासमिद्धोमप्रियत्वात् । अत्र कुण्ड-वेदि-देवतास्थापनादिकं वैदिकतात्रिक- मार्गोक्तवग्राह्यम् । आहुतिगणनानियमः सर्वसाधारणत्वात् । अत्र जपानुष्ठानं मुख्यम् । यं यं काममधीते तं तमनेन साधयेत्, एकानुष्ठानस्य सर्वकार्यपदत्वा- द्वीप्साया आदरार्थत्वाच्च । न चैवं मोदकसहस्रहोम-साज्यसमिद्धोमो मुख्यो, वाञ्छितपद ' सर्व लभत ' इति वीप्साऽऽदरप्रमाणत्वादिति वाच्यम् । मोद- कहोमस्य वीप्साहीनत्वात् । साज्यसमिद्धोमः वीप्साऽऽदरयुक्तोऽपि नानाकार्य- पदनानासमिद्धोमानुष्ठानपरत्वात् । अत्र सहस्त्रावर्तनात्मकं पुरश्चरणम् । सहस्त्रावर्तनाचं यं काममधीत इति मोदकसहस्त्रेण पजतीति प्रमाणात् ॥ इति होमात्मकत्रयोदशः खण्डः ॥१३ ॥ अथान्यमयोगार्थमाह- अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादो- - १२०० तफलमवा०. २ ख.घ. ततमममा.
सभापमा पात्प्रमुच्यते । महापत्यवायात्प्रमुच्यते । म सर्ववि- द्भवति स सर्वविद्भवति य एवं वेदं ॥१४॥ इत्यथर्व- णवेदोपनिषत्सु गणेशाथर्वशीर्ष समाप्तम् ॥ अष्टाविति । सम्यक् ग्राहयित्वा, यथार्थाथर्वशीर्षगणेशैकतत्परकारयि- तृत्वात् । सूर्यवर्चस्वी भवति, सूर्यवत्सर्वज्ञानप्रकाशयुक्तत्वात् गणेशज्ञाना- न्तर्गतनानावेदान्तपतिपाद्यज्ञानत्वाच्च । सूर्यग्रहे महानद्या ब्रह्मकमण्डलु-भागी- रथी-यमुना-सरस्वती-नर्मदादीनां कस्याश्चिन्नद्यारतीरे महाघनाशकत्वादन-त- गुणाधिकसत्कर्मफलप्राप्तिकारकत्वात् । प्रतिमासनिधौ मयूरेश्वगदिमहाक्षेत्रस्थ- गणेशप्रतिमासन्निधौ वा जप्त्वा सिद्धमत्रो भवति । मन्त्रोक्तसिद्धिसाम- ययुक्तत्वात् । अथर्वशीर्षात्मकमन्त्रजपो मालामत्रपामाण्यत्वात् तज्जप्त्वाऽ- थर्वशीर्षोक्तज्ञानवानेकाक्षरविद्यारिद्धसामर्थ्यवान्भवतीति । महाविघ्नात्कालभया- त्ममुच्यते, अथर्वशीर्षापासनाया अमृतमयत्वात् । महादोषान्मापाविकारात्म- कदोषात्, मायाविकारपरदोषाभावात् । महाप्रत्यवायाज्जीवन्मुक्त विषयासक्तयुक्त- प्रत्यवायात, योगस्थित्यभावात् । स सर्वविद्भवति, गंणेशज्ञानान्तर्गतसर्वज्ञान- त्वात् । “आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेद सर्व वि. दितं भवति" इति श्रुतेः । अथर्वशीर्षसमाप्तिज्ञापनाथं वीप्सा वेदसम्प्रदाय- त्वात् । य एवं वेद पूर्वोक्तयथार्थज्ञानयुक्तत्वात् ॥ इत्यथर्वणवेदोपनिषत्स भन्यप्रयोगात्मकश्चतुर्दशः खण्डः ॥ १४ ॥ ॥ इति गणेशाथर्वशीर्षभाष्यं समाप्तम् ॥ १ इत्युपनिषत् इति लोकपाठऽधिकम. २ ख ग घ० इ० गाणेश०. 3 ग. घ. दु. गाणेश. ॥ श्रीगजाननार्पणमस्तु ॥
No text on this page.
॥ ॐ नमः परमात्मने ॥ मो भोः सहृदयाः आर्यदेशीयमाचीनविद्यावैभवमुररीकुर्वन्तो महाशयाः विदित- मस्तु तत्र भवतां भवताम् । यत्किल पुण्याख्यपत्तने देव्याः सरस्वत्याः विलासस्थान- मिव बहुसाहस्त्रिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवनं निर्मापयता महोदयेन महादेव चिमणाजी आप्टे इति सुगृहीतनामधेयेन-न केवलं भारतवर्षीयाणामेव भ- पितु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञापन- पत्रद्वारा सर्वान् प्रत्यावेदितम् । बहुना परिश्रमेग सङ्ग्रहीतानि सङ्ग्रहिष्यन्ते च बहू- नि प्राचीन संस्कृतग्रन्थपुस्तकानि । मुद्रायत्रमसि तत्रैव संस्थापितम् । अप्रसिद्धग्रन्था- वल्याः मुदणमप्यारब्धम् । क्रमशः प्रचयगमना भविष्यन्ति च बहवो ग्रन्थाः ॥ तत्र तावत् "आनन्दाश्रमग्रन्थावल्याः" प्रारम्भे अस्य महतः कार्यस्य विनवि. घातोपशमनार्थ गणपतिपूजनमिवेदं गणेशाथर्वशीर्ष सभाष्यं निवेशितम् । अस्य अन्य- स्य संशोधनं पुण्यपत्तनस्बहुभिर्विद्वद्वररारभ्य निःसारमिदं भाष्यमिति कृत्वोपेक्षितम् । तदनन्तरं मत्सुहृद्वरेणानन्दाश्रमाविपतिनाऽभ्यथिर्तेन कार्यान्तरव्यापृतत्वादलब्धबहु- लावकाशेनापि मया श्लाघनीयस्यास्य लोकोपकारिकार्यस्य यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृत्वास्य ग्रन्थस्य संशोधनं कथंकथमपि आरब्धम् । तत्र च पञ्च आद- पुस्तकान्युपलब्धानि । तानि यथा--- क. संज्ञितं-शालिवाहनशके १७३८ धातृनामसंवत्सरे मार्गबहुल ५ म्या लिखितं महादेव चिमणाजी आप्टे इत्येतैः संगृहीतमेकम् । ख. संज्ञितं-इंदूरनिवासिभिः भाऊसाहेब किबे इत्येतैः प्रेषितम् । नास्योपरि शकादिकं किञ्चित् । ग. संज्ञितं-उम्बरगांवनिवासिभिः विनायक भिकाजी पिम्पूटकर इत्यभिधे प्रेषितम् । संवत् १९३८ वृषनाम संवत्सरे कार्तिक शु० द्विती यायां लिखितम् । घ. संज्ञितं-वटोदरनिवासिभिः बाप्पासाहेब मैराळ इत्येतैः प्रेषितं शक हीनं च। 6. संज्ञित-चिंचवडनिवासिनो चिंतामणभट्ट कोशे इत्येतेषामेकं शके १७९ ईश्वरनामसंवत्सरे चैत्र शु० प्रतिपदि लिखितम् | [ २ ] एतत्पुस्तकपञ्चकमाकलय्य यथामा यथाविज्ञानं संशोधितं मयेदं गणेशापर्व- शीर्षभाष्यम् । सर्वेष्वप्यादर्शपुस्तकेषु भाष्यकर्तुर्नामादिकं कुत्रापि नोपलब्धम् । भनेनैव भाष्यकृता सर्व पारनिर्णयाख्योऽन्यो ग्रन्थः कृत इति जायते [ अस्यैव २१ पृष्ठे २६ पङ्को द्रष्टव्यमेतत् ] । सोऽस्माभिर्न दृष्टः । अत्र बहूनि प्रमादस्थला- नीवोपलब्धानि | भाष्यमिदं नातिसमीचीनं तथाप्यन्यस्य समीचीनस्योपलन्यमावा. त्याचीनत्वाचेदमेव संगृहीतम् | अनतिसमीचीनोप्ययं- प्रेम्णा सद्भिग्रन्थः सेव्यः शब्दार्थतः सदोषोऽपि । संशोध्य वापि हरिणा सुदाममुनिसतुषपृथुकमुष्टिरिव ॥ १॥ मुद्रणकर्मणि नियुक्तानामनवधानेन च यदत्र स्खलितं तत् गच्छतः स्खलन न दोषाय" इति न्यायेन क्षन्तुमर्हति मुधिय इति साञ्जलिबन्धं प्रार्थयते- - भवदीयः वामनशाखिशर्मा।
No text on this page.