Sringeri Sharada Peetham
Pancadasanga Yogaprakaranam
Front matter
WIVERSITY OF MYSORES
प्राच्यविद्यासंशोधनालय-प्रकाशनम्-११७
महीशूरपुरीय प्राच्यविद्या लघुग्रन्थमाला-२
THE MYSORE ORIENTAL SUPPLEMENT SERIES-2
THE MYSORE ORIENTAL RESEARCH INSTITUTE PUBLICATION No. 117
1969
THE MYSORE ORIENTAL SUPPLEMENT SERIES
EDITED
WITH THE KIND CO-OPERATION OF VARIOUS SCHOLARS
BY
Dr. G. MARULASIDDAIAH, M.A., Ph.D.
Professor and Head of the Department of P-G Studies and
Research in Sanskrit, University of Mysore and
Director, Oriental Research Institute
Mysore
ORIENTAL RESEARCH INSTITUTE, MYSORE
माया
OF MYSORE
श्रीमदप्पयदीक्षिताचार्यविरचितं
स्वोपज्ञव्याख्यासहितं
पञ्चदशाङ्गयोगप्रकरणम्
PANCADASĀNGAYOGAPRAKARANAM
OF
APPAYADIKŞITACARYA
(with his own Commentary)
CRITICALLY EDITED WITH INTRODUCTION AND NOTES
By
VIDVAN N. S. VENKATANATHACHARYA
Senior Research Assistant, Oriental Research Institute, Mysore
THE ORIENTAL RESEARCH INSTITUTE
UNIVERSITY OF MYSORE
MYSORE
1969
प्रथमं संस्करणम्-१९६९ First Edition - 1969 Copyright: The Oriental Research Institute, Mysore, 1969 Published by the Director, Oriental Research Institute, University of Mysore, Mysore-5 and Printed by the Deputy Director, University Printing Press, Manasagangotri, Mysore-6 FOREWORD .... "HE AUTHOR OF THIS work is Appayyadikșita related to the great Appayyadiksita of the 17th century. Hailing from Tirunelveli in Kerala, he contributed to Sanskrit Yoga cult in the 19th century. He is a disciple of Sundareśatātācārya, as it is clear from the colophon: इति श्री सुन्दरेश्वरताताचार्यशिष्येण श्रीमदप्पय- दीक्षितेन्द्रान्वयजेन अप्पयदीक्षिताचार्येण विरचिते In Tamil and Malayalam we have many independent works of his. Appayācārya or Appayaśivācārya or Appayadikşita are the various names we find in his Parisaradipiki, Adhyatmadarpana, Vardhaimarijissed, etc. The special contribution of our author to Indian Philosophy is his special introduction to Anubhavādvaita, based on the Sankhya and Yoga principles. To quote a few instances, he is upholding the vivartaviida (transmigration) in preference to the pariņāmavīda (transformation) in accounting for realization of parabrahma vs prapañca. He is a stranger to the philosophical controversies and speculations made much of by Saivites and Vaişņavites. However not related to the philosophy, he upholds trimūrtisāmyavāda. The terms like parokşadvaita and aparokşādvaita are old wine in new bottles. A cursory reference to these lines in his works will go to prove this. मूलाज्ञानविनाशं विना प्रपञ्चप्रतीतिराहित्यलक्षणोपमासंभवात्।” (पञ्चदशाङ्ग- योगप्रकरणे); “परिणामात्' 3; "परिणामात्" (अनुभूतिमीमांसा सूत्रभाष्यम्); (हरिहरब्रह्मसामरस्यम्); "एवं स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवति" (अनुभूतिमीमांसा ४.१.१४); जीवब्रह्मणोः परापरयोः अभेद एव (अनुभूतिमीमांसा ३.४.८); निर्गुणाद्वैतापरोक्षानु- भववादिभिः अस्मदीयैः (अनुभूतिमीमांसा ३.३.२५). His inclination is primarily towards Yoga than Philosophy. Even in Tejobindapanişat, the same is emphasised. The famous aparokşānubhūti (immediate realization of the Brahman) according to Adisankara is agreeing with our author depending upon the fifteen yogic aspects. Shri N. S. Venkatanathacharya, Senior Research Assistant in the Oriental Research Institute, Mysore, has taken commendable pains in editing this booklet for our supplement portion, which will be a part of the Oriental Research Institute publications. As a tiny treatise for a good introduction to Astāngayoga, I commend this to our esteemed readers as an important and illustrative book on the Indian Yoga. . Oriental Research Institute University of Mysore G. MARULASIDDAIAH Professor & Head of the Department of Post-graduate Studies & Research in Sanskrit & Director पञ्चदशाङ्गयोगप्रकरणम् प्रस्तावना "क्रियावानेषः ब्रह्मविदां वरिष्ठः।" इह चेदवेदीत् अथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचित्य धीरा: प्रेत्यास्माल्लोकादमृता भवन्ति ॥" इहैव तैर्जित: सर्ग: येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः॥" इत्यादिश्रुतिस्मृतिभिः यः आनुभविकोऽर्थः मानवेषु कर्मज्ञानभक्तियोगनिष्ठाः निष्ठापयन् उद्घोषितः, तमेव परमार्थ स्वानुभवेन संप्रज्ञातवन्तः परिपूर्णपरब्रह्मानुभवास्वादपरिपूरित- स्वान्ताः सरळोदारहृदया: श्रीशङ्करभगवत्पादाः सदृष्टान्तमेवं समदिशन् । यथा - "न गच्छति विना पानं व्याधिरौषधशब्दतः । विनाऽपरोक्षानुभवं ब्रह्मशब्दैन मुच्यते ॥” इति, एकं वेदान्तविज्ञानं स्वानुभूत्या प्रकाशते ॥” इति च ॥ अमुमेव राजमार्ग आचार्याणामाशयमनुसृत्य योगमार्गावलम्बनेन स्वानुभवगोचरतां नीत्वा उररीकृतवन्तः तदास्वादनवनवोन्मेषशालिन:, जन्मना तिरुनलवेलीदेशमलङ्कृतवन्तः सुप्रसिद्धाप्पयदीक्षितेन्द्रान्वयजाः अप्पयशिवाचार्यापरनाधेया: श्रीमदप्पयदीक्षिताचार्या अपीमे, केवलसिद्धान्तमार्गावलम्बनेनापद्यमानाः, प्रतिव्यक्ति मतिभेदेन भिनभिन्नतया भासमानयुक्त्यनुसारेण उपपाद्यमानविकृततर वाक्यार्थवैखरीपरम्परा: अनुभवपर्यन्तागोचरा: सर्वा अपि मनसि संविभाव्य, अध्यात्मशास्त्रमूलभूतयोगमार्गानुगं भगवत्पादहृदयङ्गमं तदीयमेव स्वकीयं पन्थानमिमं 'अपरोक्षाद्वैत-अनुभवाद्वैता 'दिसंज्ञाभिः उट्टङ्कयन्तः बहून् ग्रन्थान् विरचयामासुः। अतएवेमे शाङ्कराणां सैद्धान्तिकं अध्यासवाद, जग थ्यात्व- वाद, ज्ञेयात्मवादं, परोक्षाद्वैतवादं, एवमन्यदन्यच खण्डयन्तः, परिणामं, जगत्सत्यत्वं, ब्रह्मणो ध्येयत्वं, अनुभवाद्वैतादिकं च स्वकीयानुभूतिमीमांसायां साडम्बरं स्थापयन्ति । यद्यपि परिचितशब्दशक्तिस्वाभाव्यात् यथावद्भावचित्रणाशक्तेः साधनवैकल्यात् मानुषमतिसहजप्रमादात् अवस्थाविशेषानुभूतार्थस्मृतिवैकल्यात् उपपादनवैखरीसात- संभ्रमाविनाभूतस्रवालित्याद्वा तत्रतत्र कतिचनार्थाः त्यक्ता: अयथावदुपपादिता अपि स्युः । अथापि नेमं प्रायशोऽपरिहार्यं दोषमेव परिगणय्य गुणजालं महान्तं दूरीकर्तुं प्रभवामः, किन्तु "एको हि दोषो गुणसंनिपाते निमजतीन्दो: किरणेष्विवाङ्कः।" इत्येव भावयामः। यतः एते प्रतिपदं स्वत एव शब्दजालमहारण्यस्य बुद्धिभ्रमणकारणतां मन्वानाः, viii पञ्चदशाङ्गयोगप्रकरणप्रस्तावना .. अधीत्य चतुरो वेदान् सर्वशास्त्राण्यनेकशः। ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ "अनेकशतसंख्याभिः तर्कव्याकरणादिभिः । पतिता: शास्त्रजालेषु प्रज्ञया ते विमोहिताः॥" "ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः। विना योगेन देवोऽपि न मुक्तिं लभते क्वचित् ॥" "मथित्वा चतुरो वेदान् सर्वशात्राण्यथैव च । सारन्तु योगिभिः पीतं तक्रं पिबति पण्डितः ॥" इतीमान् सर्वसारोपनिषद्योगबीजज्ञानसङ्कलिनीतन्त्रेषु सिद्धान्तितान् सत्यार्थान् सदा मनसि संनिधायैव वक्तव्यविषयान् तत्त्वनिष्ठया निधुरमेवोपपादयन्ति इति अदसीयग्रन्थपर्यवेक्षकाणां अपरोक्षमेव ॥ एतदीयग्रन्थेषु च अष्टोत्तरशतोपनिषद्भाष्यं, ब्रह्मसूत्रभाष्यं, भगवद्गीताभाष्यं, श्रीमद्भागवतैकादश- स्कन्धव्याख्या, पराशरदीपिका च इत्यादयः प्राचीनग्रन्थव्याख्यारूपाः । अनुभूतिमीमांसाभाष्यादयः स्वतन्त्रसूत्रभाष्यरूपाः । षोडशमञ्जरी, पञ्चदशाङ्गयोगप्रकरणं, समाधिरत्नमञ्जूषा चेत्यादयः सस्वोपज्ञव्याख्या: प्रकरणग्रन्थाः। कैवल्यसाधनं, गुरुशिष्यसंवादः, तत्त्वसङ्ग्रहः, निष्ठानुभूतिः, पञ्चदीपिका, मन्त्रानुष्ठान- क्रमः, योगसारस्वतम्, स्वानुभूतिः, हरिहरब्रह्मसामरस्यं चेत्यादयः प्रकरणादिरूपाः । षट्त्रिंशद्भागविभक्ता वेदान्तव्यवहारमाला, बहुप्रकरणविभक्तं वेदान्तयुद्धप्रकरणं चेत्यादय: वादविवादनिर्णयात्मकाः। उपदेशतत्त्वं, द्राविडसूत्रं, जीवचिन्तामणिः पञ्चीकरणप्रक्रिया, भगवद्गीतानुवादः मुक्तिकामधेनुः, मुक्तिरत्नं, योगदर्पणं, वेदान्तप्रकरणं, शिवप्रकाशपद्धतिश्चेत्यादयः केरळ- द्राविडभाषामयाः ग्रन्थाः । एवं बहुप्रकारा: ग्रन्था: अदसीयाः समुपलभ्यन्ते । सम्यक् परिशील्यमाने तु इतोऽप्यन्ये अनेके ग्रन्थाः एतदीया: समुपलभ्येरन् इति भावयामः॥ एतदीयग्रन्थानां अवलोकने परिशीलने आस्वादने वा कुतूहलिनां सहृदयानां कर- कमलयोः प्रथमतः अद्वयतारकोपनिषद्भाष्यं'उपहृतवन्तो वयं, इदानीं द्वितीयतया पञ्चदशाङ्गयोगप्रकरणं' उपहरामः। यद्यपि योगप्रक्रिया: प्रायश: यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपैः प्रसिद्धैरष्टभिरेवाङ्गैः सर्वत्रोपपादिताः। क्वचिनु हठयोगः यमनियमावाद्यौ परित्यज्य आसनादिभिः षइभिरेवाङ्गैः पूर्णतया समर्थ्यते। पश्चदशाङ्गानि तु न तथा प्रसिद्धानि। तानि च ---- यमनियमी, तदुपाङ्गतया त्यागमौनदेशकाला:, आसनं, तदुपाङ्गतया मूलबन्धदेह- साम्यस्थितयः, प्राणायामप्रत्याहारधारणध्यानसमाधयश्चेति । अत्र अधिकतयोक्तादङ्ग- - + ix - पञ्चदशाङ्गयोगप्रकरणप्रस्तावना सप्तकादतिरिक्तानामष्टाङ्गानां योगशास्त्रोक्ताङ्गसमानसंज्ञकानामपि लक्षणं परं भिद्यत एव । अथापि नैषां परस्परं खण्डयखण्डकभावः, दूष्यदूषकभावो वा। अधिकारिभेदेन सर्वस्यापि समुपपन्नत्वात् । एवं पञ्चदशाङ्गोपपादनं प्रथमत: तेजोबिन्दूपनिषदि दृश्यते तामेव सरणिमनुसृत्य श्रीशङ्करभगवत्पादाः स्वीयापरोक्षानुभूतौ तान्येव व्याख्यन् । ततश्च क्रमशः अस्मिन् पञ्चदशाङ्गयोगप्रकरणे तान्येव विवृतानि पश्यामः । अत्रेदमवधेयम् श्रीशङ्करभगवत्पादविरचितापरोक्षानुभूते: विद्यारण्यकृतेति प्रसिद्धा काचन व्याख्या दृश्यते । तत्र शततमश्लोकव्याख्यानावसरे 'तु' शब्दस्वारस्यं वर्णयितुं प्रवृत्ता: व्याख्यातार: ‘अनेन अष्टाङ्गयोगप्रतिपादकं पातञ्जलं अवैदिकत्वादनादेय- मिति ध्वनितम् ।" इत्याहुः। तत्तु योगशास्त्रस्थानतत्त्वापरिशीलनमूला वाचोयुक्तिरेव न वस्तुतत्त्वस्पर्शि। अष्टाङ्गयोगस्यैव प्रधानतः श्रुतिशतोपपाद्यमानत्वात् । अन्येषां सप्ता- नामपि तत्रैवान्तर्भावस्याप्यदुरूहत्वाच्च । तुष्यतुन्यायेनावैदिकत्वं निमील्याङ्गीकृत्यापि ब्रमः--रूपकादिबहुविधालङ्कारपरिकर्मितेभ्यः वैदिकशास्त्रेभ्यः, सरळ्तराणि निर्दिष्टार्थ- बोधकानि अध्यात्मसुसंनिहितानि योगतन्त्रादिशास्त्राण्येव क्वचिद्विषये उत्कृष्टतराणीत्यपि अस्माभिर्न विस्मर्तव्यम् । यथोक्तं सनत्कुमारसंहितायां ब्रह्मरात्रे शास्त्रविभागप्रसङ्गे- लौकिकं वैदिकं चापि तथाऽऽध्यात्मिकमेव च । त्रिविधं तत् समुद्दिष्टं प्रधानं चोत्तरोत्तरम् ॥ लौकिकं त्वर्थशास्त्रं स्यात् वैदिकं वेदसंयुतम् । अन्यदध्यात्मविज्ञानं योगतन्त्रादि कथ्यते॥" इत्यादि। अस्मिन्नेव पञ्चदशाङ्गयोगप्रकरणे षष्ठश्लोकव्याख्यानावसरे "न ह्यनेन प्रकरणेन योगशास्त्रं दूष्यत इति स्वमेऽपि शक्यम्" इत्येवोक्त्वा योगशास्त्रेणास्याविरोध: सूचितः । यद्यपि क्वचित् क्वचित् लक्षणभेदः उपपादनभेदश्च दृश्यते। यथा - अष्टाङ्गेषु सप्तमं ध्यानमेव प्रकृतपञ्चदशाङ्गेषु द्वितीयस्य नियमस्य लक्षणं भजते, ध्यानस्वरूपं त्वन्यदेवेत्यादि। नैतावता अष्टाङ्गयोगस्य त्याज्यत्वमेवाभिप्रेतमिति वक्तुं शक्यते। तत्तद्र्वनुगृहीतसाधनो- युक्तानां तथाविधसोपानपर्वणोऽपि दर्शनसम्भवात् । यथाश्रुतभासमानविरोधस्य सुपरि- हरत्वात् इति ॥ स्वप्रकाशानन्दयतयस्तु हरिस्तुतिव्याख्यावसरे-अष्टाङ्गयोगमेव द्विविधं उपपादयन्त: अपरिपक्वचित्तानां पातञ्जलोऽष्टाङ्गयोग इति, परिपक्वचिक्तानां तु श्रौतोऽष्टाङ्गयोगः इति च विभजन्ते। श्रौतानां निर्गुणयोगाष्टाङ्गानां लक्षणान्येतैः प्रमाणैः विवृण्वन्ति च । यथा- देहाक्षादौ विरक्तः यम इह नियमः स्वात्मतत्त्वेऽनुरक्तिः बाह्यौदासीन्यमेवासनमसुनियतस्त्वक्षरार्थो मृषार्थात् प्रत्याहार: स्वबुद्धेः विषयविमुखता धारणा स्वात्मनिष्ठा ध्यानं ब्रह्माहमस्मीत्यगनहममोहात्मसंवित् समाधिः ॥” इति, देहेन्द्रियादिवैराग्यं यम इत्युच्यते बुधैः । अनुरक्तिः परे तत्त्वे नियम: परिकीर्तितः ॥
x पञ्चदशाङ्गयोगप्रकरणप्रस्तावना सर्ववस्तुषूदासीना वृत्तिरासनमात्मनः । जगत्सर्वमिदं मिथ्या प्रतीतिः प्राणसंयमः।। चित्तस्यान्तर्मुखीभावः प्रत्याहारस्स उच्यते। चित्तस्य निश्चलीभाव: धारणाऽसौ निगद्यते ॥ सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते । ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते ॥” इति च ॥ एवममुं विषयं सङ्ग्रहतः परिसमाप्य प्रकृतं मन्थमवलोकयामः प्रकृते च प्रकरणे पञ्चदशभिः श्लोकैः पञ्चदशाङ्गान्युपपादितानि । तत्तदङ्गसाधकानां च तत्रतत्र तदनुगुणा आख्या: च सूचिताः । तत्र-साधितयमाख्यप्रथमाङ्गः अग्रयोगी इति, नियमवान् आत्मयोगीति, ततः क्रमेण त्यागमौन-देश-कालयोगिन: इति, ततः सिद्धासनयोगी, मूलबन्धयोगी, देह साम्यंगतोयोगी, पूर्णदृष्टियोगी, प्राणायामयोगी, प्रत्याहारयोगी, नित्या- नन्दात्मयोगी, ध्यानयोगी इति, ततश्च पञ्चदशः समाधिसिद्धयोगी इति च पञ्चदशानां योगिनां संज्ञाः कृताः। अन्तरान्तरा प्रसङ्गतः योगस्यैव सर्वप्राधान्यं, पञ्चदशाङ्गयोगसम्बन्धिनां अङ्गानां अष्टाङ्गयोगसम्बन्ध्यङ्गापेक्षया उत्कृष्टतरत्वं, श्रवणमात्रस्य प्रपञ्चप्रतीतिराहित्यलक्षणोपमः हेतुत्वं, त्यागस्य निदिध्यासनाभ्यासकालीनस्य तदवसानकालीनस्य च भित्ररूपत्वं, शास्त्रीयमौनस्य दुस्सम्पादत्वं, योगसाधनानुकूलतया अन्यत्रोक्तस्य देशविशेषादेः प्राधान्या- भावः, कालस्यापि ब्रह्मरूपत्वं, योगशास्त्रेणास्याविरोधः, आसनजालपरिचयार्थपरिश्रमस्य वैयर्थ्य, सुषुप्तिसमाध्योः वैलक्षण्यं चेत्यादयः बहवो विषया: सम्यक् प्रतिपादिताः। एवं उपपाद्यानर्थान् समासत उपपाद्य परिमितप्रमाणोऽयं ग्रन्थः परिसमापितः ।। अस्मिश्च ग्रन्थे तत्रतत्रापेक्षितांशविशदीकरणाय काचन लघुटिप्पणी सङ्कलय्य संयोजिता। तत्र च प्रमाणतया उद्धृतानां श्रुतिवाक्यानां एतदीयोपनिषद्भाष्यादेवोद्धृत्य संयोजित: व्याख्याभागः। उपनिषद्ब्रह्मयोगीन्द्राणां विवरणं च तत्रतत्र संयोजितम् ॥ ग्रन्थस्यास्य च मातृकाद्वयं समुपलभ्यते। उभयमपि अस्मदीयकोशागारस्थमेव । एकं B 236 संख्यया अङ्गितम्, अपरं B 1019 संख्यया अङ्कितम् । प्रायशः उभयमपि शुद्धमेव। ग्रन्थोऽयं परिमितशरीरोऽपि स्वोपज्ञव्याख्यया, लघुटिप्पण्या चैवं समलतस्सन् साधकानां अध्यात्मतत्वजिज्ञासूनां च हृदये कामपि क्रियोन्मुखी प्रतिभा समादध्यादित्या- शास्महे । AN प्राच्यविद्यासंशोधनालयः मैसूरु इति सहृदयवशंवदः एन्. एस्. वेङ्कटनाथाचार्य:
विषयसूचनी संख्या विषयः पंक्तिः 1. प्रस्तावना पुट vii-x 14 16 20 23 26 1 .. 1. वेदान्तार्थानां अनुभवैकगम्यत्वम् vii 2. ग्रन्थकर्तृपरिचयः vii 3. सिद्धान्तमात्रावलम्बनस्य विषयवैरूप्य हेतुता vii 4. ग्रन्थकारेण खण्डिता: सिद्धान्ताधी: vii 5. ग्रन्थे दृश्यमानानां केषाञ्चन दोषाणां बीजानि vii 6. दोषसत्तामात्रेण ग्रन्थस्यात्याज्यता vii 7. एतदीयग्रन्थेषु दृश्यामानाः उत्तमगुणाः viii 8. ग्रन्थकर्तृरचिताः अन्ये ग्रन्थाः viii 9. अष्टाङ्ग-पञ्चदशाङ्गयोगयोः वैलक्षण्यम् viii 10. पञ्चदशाङ्गयोगमूलम् ix 11. योगशास्त्रोक्तार्थानां अवैदिकत्वप्रयुक्तानुपादेयत्वशङ्कानिरास: ix 12. अस्य योगशस्त्राविरोधिता ix 13. योगाङ्गानां लक्षणभेदनिर्वाह: ix 14. अष्टाङ्गयोगस्यैव अधिकारिभेदेन द्वैविध्योपपादकमतानुवाद: ix 15. तत्तदङ्गसाधकानां ग्रन्थोक्ता: संज्ञाः 16. ग्रन्थेऽस्मिन् विचारिता: अंशा: 17. संयोजितटिप्पणीपरिचयः 18. मातृकापरिचयः 19. प्रस्तावनोपसंहार: 12 30 4 7 20 22 27 X 8 X X 14 21 24 27 x x 1-21 1 5 1 8 13 16 2. पञ्चदशाङ्गयोगप्रकरणम् 1. मङ्गलं, प्रतिज्ञा च 2. मोक्षसाधनानि, तत्र योगस्य स्थानं च 3. प्रकृतप्रतिपाद्यमानतदङ्गानि तन्मूलं च 4. तत्र करणग्रामे ब्रह्मभावरूपयमोपपादनम् 5. पञ्चदशाङ्गानां निर्देशः 6. श्रौतं यमस्वरूपम् 7. अष्टाङ्गेभ्यः पञ्चदशानामङ्गानां भिन्नत्वोत्कृष्टत्वे 8. एवं संजैक्येऽपि संज्ञिनां भिन्नत्वोत्कृष्टत्वे 9. ब्रह्मात्मनोरैक्यानुसन्धानरूनियम: 10. श्रौतं तल्लक्षणम् 7 2. 2 2 3 14 18 1 3 6 4 xii पञ्चदशाङ्गयोगप्रकरणस्य विषयः पुट पंत्तिः 4 4 4 8 4 5 5 6 14 4 14 5 8 13 19 6 6 6 7 7 7 7 8 9 11. अस्यैव नियमस्य प्रकृते संप्रज्ञातसमाधिरूपता 12. मननवियुक्तात् नियमात् अस्य वैलक्षण्यम् 13. श्रवणज्ञानस्य असमर्थत्वानुपपत्तिशङ्का 14. श्रवणज्ञानात् केवलात् मूलाज्ञानानिवृत्त्युपपादनम् 15. बहुभावात्मकजगद्धात् दूरीभवनरूप: त्यागः 16. श्रौतं तल्लक्षणम् 17. प्रकृताङ्गसाधनीयार्थानां पूर्वोक्तार्थवैलक्षण्यम् 18. त्यागद्वैविध्यम् 19. जीवन्मुक्तस्यापि प्रारब्थदुःखस्यापरिहार्यता 20. तदर्थं लौकिकवाङ्मनसागोचरब्रह्मनिष्टारूप मौनाङ्गीकारविधिः 21. केवलमूकभावात् जडत्वसमानाधिकरणमूकभाव स्यैव उत्तमत्वम् 22. द्विविधस्यापि मौनस्य आत्मविद्योपकारिता 23. श्रौतं मौनलक्षणम् 24. योगाभ्यासानुवृत्त्यङ्गदेशविधिः 25. श्रौतं देशलक्षणम् 26. योगाभ्यासौपयिकदेशनिषेधस्य श्रुतिविरोधाशङ्का 27 तादृशदेशविशेषनैयत्यस्य श्रुत्यनभिप्रेतता 28. योगिन: स्वैरविहाराशङ्कापरिहारौ 29. योगाभ्यासपरिवर्धनानुगुणकालनिर्देशः 30. श्रौतं काललक्षणम् 31. ब्रह्मण: कालरूपत्वानुपपत्तिशङ्का 32. ब्रह्मात्मकस्य कालस्य योगाङ्गत्वानुपपत्तिशङ्का 33. उक्तसर्वब्रह्मवादस्य केवलयोगशास्त्रदूषणार्थत्वाशङ्का 34. उक्तांशस्य सर्वत्र ब्रह्मानुभवनिष्ठासम्पादना वश्यकतापरत्वम् 35. अरूढारुरुक्षुभेदेन विषयनिर्णयावश्यकता 36. ब्रह्मण: कालरूपत्वोपपत्तिः 37. सहजसिद्धासनस्य अप्रयोजकता 38. योगशास्त्रोक्तासनस्य अप्रयोजकता 39. ब्रह्मचिन्तनस्यैव सुखासनत्वं सिद्धासनत्वं च 40. श्रौतं आसनलक्षणम् 41. ब्रह्माकारपरिणामिचित्तसम्पादनरूपमूलबन्धोपपादनम् 42. श्रौतं मूलबन्धलक्षणम् 9 9 10 15 20 9 7 10 15 20 4 15 19 6 11 9 10 10 10 11 11 14 17 1 4 11 11 12 12 12 12 13 13 13 4 20 1 9 19 विषयसूचनी xiii पुट पंक्तिः 14 1 7 17 22 9 16 3 12 4 संख्या विषयः 43. हठयोगोक्तमूलबन्धस्य त्याज्यता 44. ब्रह्मसाम्यात्मकदेहसाम्योपपादनम् 45. श्रौतं तल्लक्षणम् 46. ब्रह्मदृष्टयात्मकस्थितिस्वरूपविवरणम् 41. श्रौतं तल्लक्षणम् 48. प्राणवृत्तिनैश्वल्यरूपप्राणायामस्वरूपम् 49. श्रौतं प्राणायामलक्षणम् 50. विषयेष्वप्यात्मभावेन चित्तरञ्जनरूपप्रत्याहारविवरणम् 51. श्रोतं तल्लक्षणम् 52. सर्वत्र मनसः स्वानुभवे धारणरूपधारणविवरणम् 53. श्रौतं तल्लक्षणम् 54. ध्यानस्वरूपम् 55. श्रोतं ध्यानलक्षणम् 56. सर्ववृत्तिविम्मरणात्मकसमाधिस्वरूपविवरणम् 57. श्रौतं समाधिलक्षणम् 58. समाधिलक्षणस्य सुषुप्तौ अतिव्याप्तिशङ्का 59. सकलनिष्कलत्वाभ्यां भेदोपपादनेन तत्परिहार: 60. सुषुप्तौ निष्कलब्रह्मत्वोक्ते: गौणत्वम् 61. सुषुप्तौ जीवस्य शरीरोत्थानाद्युपपादनम् 62. वचनेषु सामान्यविशेषभावव्यवस्थावश्याकता 63. सुषुप्तयपेक्षया समाधेर्भेदोपपादनेनोपसंहार: 8 18 14 14 14 15 15 16 16 17 17 17 18 18 18 19 19 19 19 19 20 20 1 11 15 1 5 12 15 20 4 11 }. अनुबन्धः 1. मूलश्लोकानुक्रमणी 2. उद्धतप्रमाणानुक्रमणी 3. उद्धतग्रन्थानुक्रमणी 22-29 22 23 -- -- 29 श्रीमदप्पय्यदीक्षिताचार्यविरचितं पञ्चदशाङ्गयोगप्रकरण म स्वोपज्ञव्याख्यासहितम् [मङ्गलं, प्रतिज्ञा च सद्गुरुं प्रणिपत्याहं सद्यो नुक्त्यैकसाधनम् । वक्ष्ये पञ्चदशाङ्गं तं योगं सव्याख्यमादरात् ।। [मोक्षसाधनानि, तत्र योगस्य स्थानं च] अत्र खलु श्रुतिस्मृतिपुराणादिप्रपश्चितेषु कर्मभक्तिज्ञानयोगाख्येषु मोक्षसाधनेषु चतुर्षु सद्योमुक्तिं प्रति योगस्यैव अव्यवहितसाधनत्वं शिष्टैः पूर्वकैः सर्वैरभ्युपगतं दृश्यते । स च योग: यमाद्यष्टाङ्गकः प्रसिद्धः दशोपनिषदादिषु पूर्वकैश्च बहुभिः विद्वद्भिः बहुषु प्रकरणेषु बहुधा प्रपञ्चितः। [प्रकृतप्रतिपाद्यमानानि तदनानि, तन्मूलं च] एवं सति इह अस्मत्प्रणीयमानेऽस्मिन् प्रकरणे पञ्चदशाङ्गकं योगं वक्ष्यामः। कानि पुनरेतानि पञ्चदशाङ्गानि ? इत्यपेक्षायां तेजोबिन्दूपनिषत्प्रमाणानुरोधेन सप्रपञ्चमुपन्यस्यते॥ [तत्र करणग्रामे ब्रह्मभावरूपयमोपादनम् श्रीमन्त पूर्वपुण्यैः शुरुवरमुपलभ्येश्वरस्य प्रसादात् सर्वं ब्रह्मेति बोवात प्रबलविषयसंसक्तमेतं चिरेण । 1. अत्र 'तपस्विभ्यो धिको योगी ज्ञानिभ्यो पि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥' ' स वै पुंसां परो धर्मों यद्योगेनात्मदर्शनम् ।' 'यविनिद्राः जितश्वासाः संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युजानाः तस्मै योगात्मने नमः।' 'योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ।' योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे । जन्मान्तरैश्च बहुभि: योगी ज्ञानेन लभ्यते । तस्माद्योगात्परतरो नास्ति मार्गस्तु मोक्षदः।' इत्यादीन्यनुसंधेयानि । ....: यद्यपि प्रसिद्वैः अष्टभिः अङ्गैस्साक, एतदतिय व अन्यानि च सप्ताङ्गानि तेजोबिष्टूपनिषदि प्रतिपादितानि, तथैव व्याख्यातानि च । अथापि अस्मिन प्रकरणे प्रसिद्धाष्टाङ्गापेक्षया अत्रोक्तानां पञ्चदशा- नाप्यनानां वैलक्षण्य श्रेष्ठ य च प्रतिपादितमिति शेयम् । ग्रन्यकारैरेव व्याख्यास: सेजोबिन्दूपनिषदाख्यान- भागश्च अत्रैव तत्ततस्थानेषु संयोजितः ॥ 3. आत्मश्रिया देवीसम्पदा च पूर्णम् । 4. अद्भयतारकोपनिषदि गुरुलक्षणमुक्त-" आचार्यों वेदसम्पन्न: विष्णुभक्तो विमत्सरः। योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचि: । गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः । एवं लक्षणसम्पनो गुरुरित्यभि- धीयते। गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तनिरोधकः। अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते। यस्मा- त्तदुपदेष्टासौ तस्माद्रुतरो गुरुः ।" इत्यादिना । 5. सर्वस्यापि जगतो ब्रह्ममूलत्वात्, बीजात्मरूढे वृक्षे सर्व था आच्छादितस्यापि बीजधर्मस्य विज्ञानदृष्ट्या अन्तःप्रविश्य दर्शनवत, मायया आच्छादितस्यापि ब्रह्मधर्मस्य ज्ञानदृष्ट या दर्शनेन, इन्द्रियाण मायाप्रवणत्वं निवाय ब्रह्मप्रवणताकरणं यमरूपेणारेन साधनीयमिति भावः ॥
2 प्रथमाझयमस्वरूपम् नानादु:खैकहेतुं मुहुरपि करणग्राममायम्य नित्यम् योऽहिंसाद्यैरुपेत:1 जयति सहजत: सोऽपयोगी यमी स्यात् ॥१॥ श्रीमन्तमिति ॥ पूर्वपुण्यैः प्रापणीयात् ईश्वरस्य प्रसादात् श्रीमन्तं गुरुवरं उपलभ्य तदुपदिष्टवाक्यार्थश्रवणजनितात् 'सर्वं ब्रह्मेति बोधात् करणग्रामं श्रोत्रादीन्द्रियसमूह आयम्य जयति । सः यमी प्रथमयोगी स्यात्। एवं द्वितीयतृतीयादिचतुर्दशयोगिनः द्वितीय- श्लोकादिभिः क्रमेण वक्ष्यामः। [पञ्चदशानां वक्ष्यमाणयोगाङ्गानां गणना] कानि पुनः पञ्चदशाङ्गानि ? इत्यत्राह तेजोबिन्दूपनिषदि- " यमो हि नियमस्त्याग: मौनं देशश्च कालतः । आसनं मूलबन्धश्च देहसाम्यं च दृस्थितिः ॥ प्राणसंयमनं चैव प्रत्याहारश्च धारणा। आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गामि वै क्रमात् ।।"3 इति ॥ एवं पञ्चदशाङ्गान्युक्त्वा पुन: तत्तल्लक्षणानि तत्रैवाह- [श्रुत्युक्तं यमस्वरूपम्] सर्वं ब्रह्मेति वै ज्ञानात् इन्द्रियग्नामसंयमः । यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥"5 इति । एवमितरेषामप्यङ्गानां लक्षणानि उपरितनश्लोकेषु प्रदर्शयिष्यामः । [अष्टाङ्गेभ्य: पञ्चदशानां अङ्गानां वैलक्षण्यम्] यथेदं यमाख्यं प्राथमिकमङ्गं अपाङ्गयोगशास्त्रप्रसिद्ध यमात् शतगुणं उत्कृष्टं भवति' एवमितरेषां चोत्कृष्टत्वात् अष्टाङ्गयोगिभिरपि इदं पञ्चदशाङ्गयोगशास्त्रं अवश्याभ्यसनीय- मित्यवगन्तव्यम् ॥ 1. आद्यशब्देन सत्यास्तेय ब्रह्मचय दयार्जवक्षमाधृतिमिताहारशौचानि ग्राह्याणि । 2. प्रथम योगसोपान अधिरूढवानित्यर्थः । अथ तेजोबिन्दूपनिषदि श्रुतौ ज्ञानयोगं प्रपञ्चयितुं प्रसिद्धार्थवैलक्षण्येन यमाद्यष्टानानि अवान्तराणि च सप्ताहान्याह-यम इत्यादिना। यमनियमासनानि त्रीण्यनानि प्रसिद्धानि, तदवान्तराणि तु सप्त-त्यागः, मौन, देशः, कालः, मूलबन्धः देहसाम्य, दृस्थितिः इति । उपानान्येतानि । उपरितनानि च पञ्च प्रसिद्धानि । (भा) अथ निष्प्रतियोगिकब्रह्मावगतिसाधनतया पञ्चदशाङ्गयोगः उच्यते यम इत्यादिना (उ). 4. तेजोबिन्दूपनिषद्येव । 5. जीवेश्वरादिकं सर्वमिदं जगत् ब्रह्मानन्यदेवेत्येवं वेदान्तश्रवणमननजनितज्ञानात् इन्द्रियसमूहस्य संयमः तत्तद्विषयेभ्यो निग्रहः यम इति संप्रोक्तः, अय मुमुक्षुभिः मुहुर्मुहुः पदेपदे अभ्यसनीयः। (भा) करणग्रामे ब्रह्मभाव एव यमः (उ)। 6. तेजोबिन्दूपनिषटुक्तानि इत्यर्थः। 7. योगशास्त्रप्रसिद्धस्य यमादेः केवलंविषयसंस्पृष्टेष्वेव वाङमनःकायेषु व्यवस्थाविशेषजनकत्वात तथा ब्रह्मासंस्पर्शाच्च एतदपेक्षया निकृष्टत्व बोध्यम् । 8.
पञ्चदशाङ्गयोगप्रकरणम् 3 [अष्टस्वप्यङ्गेषु संज्ञैक्यैऽपि संज्ञिनां भिन्नत्वं उत्कृष्टत्वं च ननु अष्टाङ्गेभ्योऽप्यधिकानां सप्ताङ्गानां आन्तराळिकत्वात् अस्य पञ्चदशाङ्गयोगशास्त्रस्य उत्कृष्टत्वानुपपत्तिः इति चेत् न, पूर्वापरेषामष्टाङ्गानामपि प्रकृतानां संज्ञैकत्वेऽपि विलक्षणत्वा- वगमात् । प्रदर्शितं प्रदर्शयिष्यमाणं च वैलक्षण्यं हि पञ्चदशाङ्गयोगशास्त्रस्य अष्टाङ्गयोग- शास्त्रस्य च भिन्नत्वमवगमयति । तस्मात् अष्टाङ्गयोगात् प्रकृतः पञ्चदशाङ्गयोगः उत्कृष्टतर: इति स्थितम् ॥ [ब्रह्मात्मनोरैक्यानुसन्धानरूपनियमविवरणम् तर्हि किं लक्षणो नियमः इत्यत्रोच्यते- पश्चात् निस्संशयस्सन् मननविहतया तद्विजातीयवृत्त्या साजात्यप्रत्ययं य: परमसुखनिधिं नित्यमावर्तयेत् सः। ध्यानाख्ये सप्तमाङ्गे वसतिमुपगत: तनिदिध्यासनाख्ये तस्मिन् शब्दानुविद्धे जयति च नियमी स्वात्मयोगी द्वितीयः ॥२॥ पश्चादिति ॥ पश्चात् पूर्वोक्तप्रकारकयमसिद्धयनन्तरं 'तत्त्वमसी'ति महावाक्यार्थ- श्रवणेन ब्रह्मज्ञानस्य विजातीयप्रत्ययोपमर्दासमर्थस्य जनितपूर्वत्वात् श्रवणानन्तरकालीन- मननेन विहतया निरस्तया तद्विजातीयवृत्त्या ब्रह्मविजातीयप्रपञ्चविषयकद्वैतवृत्त्या निःसंशयः ब्रह्मात्मैक्यप्रतिपादकश्रुत्याचार्यविषयकसंशयरहितः सन् साजात्यप्रत्ययं ब्रह्मात्मनो: सजातीयत्वात् तदैक्यानुसन्धानात्मकप्रत्ययप्रवाहं यो नित्यमावर्तयेत् अविच्छिन्न- तैलधारान्यायेन अभ्यसेत् सः निदिध्यासनाख्ये शब्दानुविद्धे समाध्याख्ये च, सप्तमाते अष्टाङ्गयोगशास्त्रोक्तध्यानसंज्ञके वसतिमुपगतस्सन्' जयति । सः नियमी प्रकृतनियमवान् द्वितीयः स्वात्मयोगी स्यात् । तथाचास्य लक्षणमाह तेजोबिन्दूपनिषदि- 1. केवलं उपाइलया प्रसिद्वाष्टापोषकत्वात् स्वतन्त्रत्वाभावादित्यर्थः । 2. संज्ञिना अर्थस्वरूपाणां योगशास्त्रोक्तार्थस्वरूपापेक्षया भिन्नत्वेन उपपाद्यमानत्वादित्यर्थः । 8. 'अत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुतेरभिप्राय: अत्र अनुसन्धयः । 4. तत्सम्पिपादयिषया तत्साधनानुष्ठानं अभ्यासः। 5. अत्र मातृकायां 'शुद्धानुविद्वे' इति पाठः दृश्यते । धारणा ध्यानं समाधिरिति क्रमविवक्षायामिति भावः । 7. वसति-नियतां वृत्तिमित्यर्थः । 8.. 'शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' इति योगसूत्रम् । विष्णुपुराणे च- ब्रह्मचर्य महिंसां च सत्यास्यतेयापरिग्रहान् । सेवेत योगी निष्कामः योग्यतां स्वमनो नयन् । स्वाध्याय- शौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः । एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्याः निष्कामाणां विमुक्तिदाः ॥' (8, 7, 38-38) इत्युक्तम् ।
4 द्वितीयाङ्गनियमस्वरूपम् [श्रौतं नियमलक्षणम् "सजातीयप्रवाहश्च विजातीयतिरस्कृति: नियमो हि परानन्दो नियमात् क्रियते बुधैः" इति। " [अस्यैव नियमस्य प्रकृते संप्रज्ञातसमाधिरूपता] ब्रह्माकारमनोवृत्तिप्रवाहोऽहति विना। संप्रज्ञातसमाधिः स्यात् ध्यानाभ्यासप्रकर्षतः॥"2 इति श्रुत्यन्तरोक्तस्य संप्रज्ञातसमाधेरप्यत्र समन्वितत्वमित्यवगन्तव्यम् । [मननवियुक्तात् नियमात् अस्य वैलक्षण्यम् तर्हि अष्टाङ्गयोगशास्त्रोक्तनियमस्याप्युक्तलक्षणत्वमास्तामिति चेत्र- तपः सन्तोषमास्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तश्रवणं चैव हीमतिश्च जपो व्रतम् ॥" इति तल्लक्षणस्य अभिहितत्वात् । तत्र वेदान्तसिद्धान्तयोः भेदाभावेऽपि तच्छ्रवणमात्रस्य अभिहितत्वेन निदिध्यासनाख्यब्रह्मप्रत्ययप्रवाहानभिधानात् एकवाक्यत्वमनुपपन्नम् ।। [श्रवणज्ञानस्य असमर्थत्वानुपपत्तिशङ्का] ननु वाक्यार्थश्रवणजनितस्य ब्रह्मज्ञानस्य विजातीयप्रत्ययोपमर्दनासमर्थत्वं यदुक्तं; तत् नोपपद्यते । कुतः? ज्ञात्वा देवं सर्वपाशापहानिः । " इत्याद्यनन्तश्रुतिभ्यः सर्वोपमर्दनसमर्थत्वावगमात् । ब्रह्मज्ञानोदये हि अज्ञानं निवर्तेत। 16 1. प्रत्यगात्मनो यः सजातीयः परमात्मा तद्विषयकाखण्डवृत्तिप्रवाहः, निदिध्यासनमित्यर्थः। विजातीयः जीवेश्वरादिप्रपञ्चः, तस्य तिरस्कृति: अपवादः, एवं उभयक्रियोपेत: नियमः बुधैः मननजनितविज्ञानवनिः नियमात प्रतिदिनं विधित एव क्रियते अब नियमः, परानन्दनिमित्तत्वात अतः न दुःबाय भवेत् (भा)। अखण्डचिन्मात्रादिवृत्तिः सजातीया। घटपटादिवृत्तिः विजातोया (उ)। 2. 'वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः' इति तु योगसूत्रम् (1-17) अत्र 'योगी युजीत सततं,' 'युज्याद्योगमात्मविशुद्धये, “युक्त आसीत मत्परः' इत्यादि च ध्येयम् । 3. मुक्तिकोपनिषत् , 2-53. 4. दर्शनोपनिषत् (2-1) 5. ततश्च योगशास्त्रोक्तनियमस्वरूपात अस्य भित्रत्वमेव सिद्धमिति भावः । 8. 'क्षीणैः शैः जन्ममृत्युप्रहाणिः। तस्याभिध्यानात् तृतीय देहभेदे विश्वैश्वय केवल आत्मकामः' इति तच्छेषः । (श्वे. 1-11)। 7. श्रौतज्ञानपदस्य परिनिष्ठितमर्थं अविभाव्य निमील्योक्तिरियम् । 8. अचाने मूलप्रतिबन्धविभागापरिशीलनेन समान्योक्तिरियम ।
पञ्चदशाङ्गयोगप्रकरणम् 5 अज्ञानस्यैव सर्वमूलत्वात् तनिवृत्तौ निवान्तरं यत्किञ्चित् स्यादित्यनुपपनम् । श्रवण- मननविधानं तु श्रवणमात्रेण अनुत्पनब्रह्मज्ञानं मन्दाधिकारिणं प्रतीत्यूह्यम् । अन्यथा ज्ञान- शास्त्रसामान्यवैयर्थ्यप्रसङ्गादिति । [श्रवणज्ञानात् केवलात् मूलाज्ञानानिवृत्त्युपपादनम्] अत्रोच्यते- न हि श्रवणजनितब्रह्मज्ञानेन कस्यचिदपि मूलाज्ञानं निवर्तेत । प्रतिबन्धाज्ञानस्य केवलं निवृत्तिसंभवात् । मननविधानं तु निवृत्ताज्ञानस्यापि संशयसंभवेन तनिवृत्यर्थं इत्यवधूतोपनिषदादिषु प्रसिद्धम् । न च कस्यचिदपि श्रवणमात्रेण ब्रह्मज्ञाना- नुत्पत्तिर्भवितुमर्हति । नापि निष्प्रतिबन्धज्ञानं कस्यचिदप्युद्भवेत् । न चैतेन ज्ञानशास्त्रस्य वैयर्थ्य प्रसज्येत । प्रकृतयोगाङ्गत्वेन सार्थक्यात्। 'सर्वपाशापहानिः' इति श्रुतिस्तु मनननिदिध्यासनाद्युत्तरसाधनापेक्षब्रह्मज्ञानविर्षायणी' इत्यदोषः । श्रवणमात्रेण ब्रह्मास्तित्व- लक्षणस्य परोक्षज्ञानस्योत्पत्तिसंभवेन10 प्रपञ्चमिथ्यात्वज्ञानोदयेऽपि प्रपञ्चप्रतीतिराहित्य- लक्षणो"पमर्दासंभवात् तेन ब्रह्मास्तित्वज्ञानस्य संशयसाहित्योपपत्त्या तनिवृत्यर्थक- मननोपपत्तिः इति सिद्धम् ॥ [बहुभावात्मकजगद्धर्मात् दूरीभवनरूपत्यागस्वरूपोपपादनम्] तर्हि तृतीयाङ्गं कीदृशमित्यत्रोच्यते-- ब्रह्मैवास्मीति नित्यं नियमनियमत: सच्चिदात्मावलोक: संजातो यस्य नानाविधनिजहृदयग्रन्थिभेदैकहेतुः । य: तत्याज प्रपञ्च निखिलमपि महान् कोटिविध्यण्डरूपं त्यागी योगी तृतीय: गुणरहितपरब्रह्मनिष्ठः स पूज्य: ।। ३ ॥ 1. सर्वमपि मायिक व्यवहारं प्रति मूलत्वात् इत्यर्थः । 2. तहिं उक्तश्रवणज्ञानेनैव सर्वसम्पत्तो 'श्रोतव्यो मन्तव्यः' इत्यादिना मननादिविधानं व्यर्थं स्यादित्यत आह-श्रवणेत्यादि । 3. जिज्ञासादिप्रतिबन्धकीभूतस्याज्ञानस्येत्यर्थः । 4. निश्चितानुभवमन्तरा कथमपि संशयबीजानिवृत्तेः । 5. 'तदेव कृतकृत्यत्वं प्रतियोगिपुरस्सरम् । अनुसन्दधदेवाय एवं तृप्यति नित्यशः ।। तृप्यने व स्वमनसा मन्यतेऽसौ निरन्तरम् ।' इत्यादिना इति भावः । 8. अतद्र पप्रतिष्ठस्य वस्तुशून्यस्य शब्दज्ञानानुपातिनः ज्ञानविशेषस्योत्पत्तौ प्रतिबन्ध काभावात् । 7. तत्वावलम्बन प्रतिबन्धकशतैरपि अवस्थाविशेषसहजैः अनिवयम् । 8. तथा च तस्य सोपानपर्वविशेषत्वमेव, न तु परमावधित्वम् । 8. 'द्रष्टव्यः' इत्युक्तदर्शनविषयिणीत्यर्थः । 10. हृदयासंस्पर्शिनः काल्पनिकज्ञानस्योदयेऽपीत्यर्थः । 11. ब्रह्मास्तित्वब्रह्ममूलत्वनिश्चयासह कृतप्रपंचप्रतीतिराहित्य लक्षणेति यावत ।
6 तृतीयाङ्गत्यागस्वरूपम् ब्रह्मेति ॥ यस्य नानाविधनिजहृदयग्रन्थिभेदैकहेतु: सच्चिदात्मावलोकः ब्रह्मैवास्मीति नित्यं नियमेन क्रियमाणात् पूर्वोक्तलक्षणात् नियमात् जायते, यो महान् अनेककोटि- ब्रह्माण्डरूपं निखिलमपि प्रपञ्च तत्याज प्रतीतिरहितमेवाकार्षीत्, स त्यागी त्यागाख्यक- तृतीयाङ्गवान् योगी निर्गुणपरब्रह्मनिष्ठत्वात् महद्भिः पूज्यः। तथाच श्रुतिः- [श्रुत्युक्तं त्यागलक्षणम् 'त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनात् । त्यागो हि महतां पूज्यः सद्यो मोक्षप्रदायकः॥” इति ॥ [प्रकृताङ्गसाधनीयार्थानां पूर्वोक्तार्थवैलक्षण्यम् ननु पूर्वश्लोकप्रपञ्चिते द्वितीयान एव विजातीयतिरस्काररूपस्य प्रपञ्चत्यागस्य अभिहितत्वात् इह पुनरुक्तिदोषप्रसङ्गः इति चेत् न। पूर्वत्र सजातीयप्रत्ययानुवृत्तिनिर्देशेन निदिध्यासनाभ्यासस्य अभिहिततया, इह सच्चिदात्मावलोकनशब्देन तदभ्यासावसान- कालीनानुभवनिष्ठाया: अभिहिततया च प्रपञ्चत्यागस्य पुनरुक्तत्वेऽपि अर्थभेद; अवगन्तव्यः । [त्यागद्वैविध्योपपादनम् कथमिति ? उच्यते । प्रपञ्चो हि स्थूलसूक्ष्मभेदेन द्विविधः प्रसिद्धः। तत्र स्थूलप्रपञ्च- त्यागस्य प्राक् निदिध्यासनाभ्यासात् कृतत्वेऽपि पश्चात् सच्चिदात्मावलोकनसमकाले सूक्ष्मप्रपञ्चत्यागस्य क्रियमाणत्वात्। सूक्ष्मप्रपञ्चस्य विजातीयत्वेऽपि तदभिमानिनो ब्रह्मतादात्म्यानुसन्धानात्मकसजातीयप्रत्ययावृत्तिविरोधाभावाच। कोटिविष्यण्डानां रूपमिव रूपं यस्य स इति व्युत्पत्त्या सूक्ष्मप्रपञ्चस्यापि विध्यण्डरूपत्वाविशेषेणाविरोधाच्चानवद्यमिति। [जीवन्मुक्तस्यापि प्रारब्धदुःखस्यापरिहायता नन्वस्य त्यागयोगिनः सच्चिदात्मावलोकनवत्त्वेन भिन्नहृदयग्रन्थिमत्तया जीवन्मुक्त- त्वेऽपि प्रारब्धदुःखाभ्युपगमात्तनिवर्तकोपरितनानन्दनिष्ठाया: सम्पादनीयत्वात् तत्साधनं किमित्यपेक्षायां चतुर्थश्लोकेनाभिधीयते- 1. अत्र 'भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन दृष्टे परावरे' इत्यादिक अनुसन्धेयम् । 2. निदिध्यासनात्मकनियमद्वारा सच्चिदानन्दात्मनः सम्यगवलोकनात् प्रपञ्चरूपस्य त्यागः । विजातीयात्यन्ततिरस्कार एवेत्यर्थः । सोऽय त्यागः सद्योमोक्षस्य जीवन्मुक्तेः प्रदायकः महतां महद्धि: पूज्य: अवश्यादरणीय इति (भा)। सच्चिदानन्ददृष्टिः अन तादिप्रपञ्चं असतीत्यर्थः (उ)। 3. अनेन निर्दिष्टात्मावलोकन अनुभवात्मकं पूर्वत्र न संभवतीति सूचितम् । 4. अवस्थाविशेषे इति यावत् । भित्रावस्थासु च भावानुवृत्तिः तत्तदनुभूतार्थस्मरणात्मिकेत्यव- गन्तव्यम् । 5. अत्र 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इत्यादीन्यनुसन्धेयानि । 6. 'आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् । स्वमात्मानं स्वय भुव स्वस्थो भव' इत्युक्तप्रकारेण आनन्दरूपे स्वात्मनि नितरां स्थितिरेव नित्युच्यते ।
पञ्चदशाङ्गयोगप्रकरणम् [तदर्थ लौकिकवाङ्मनसागोचरब्रह्मनिष्ठारूपमौनाङ्गीकारविधिः] जीवन्मुक्तस्य तस्याप्युपरितननिजानन्दानिष्ठोपलब्ध्यै । मौनं संप्रापणीयं व्यवहृतिरहितं योगिगम्यं जडस्थम् अन्यद्वा ब्रह्मवादान्यविषयकमुभेऽप्यात्मविद्योपकारि- ण्यैकार्थ्यात्तद्दुरापं सहजमुपगतो मौनयौगी तुरीयः ॥ ४ ॥ जीवन्मुक्तस्येति ॥ पूर्वीक्तस्य तस्य जीवन्मुक्तस्यापि प्रारब्धदु:ख नेवर्तकोपरितना- नन्दनिठाया: उपलब्ध्यै मौनं संप्रापणीयम् । किं लक्षणं तत् ? इत्यत उच्यते-व्यवहृति- रहितमिति । लौकिकवैदिकाशेषव्यवहारवर्जितं योगिगम्यं हठयोगिराजयोगिभ्यामन्यैः प्रकृतज्ञानयोगिभिः प्राप्यम् । किं च जडस्थं नैसर्गिकजाड्यवति जने अवस्थितम् । .. केवलमूकभावात् जडत्वसमानाधिकरणमूकभावस्यैव उत्तमत्वम् ननु-“अन्धवत् जडवच्चैव मूकवच्च महीं चरेत्” इति जडमूकयोः द्वयोरपि ब्रह्म- विटुपमानत्वमवगम्यते, तथापि मूकस्यैव मुख्यत्वात् तदनुक्तिदोषप्रसङ्गः इति चेत्- नायं दोषः। मूकस्य हि वाङ्मोने सत्यपि मानसिकसंरम्भो भवति । जडस्य तु तत्संरम्भस्य च अभावात् तदीयं मौनमेव मुख्यं प्रकृतोपमानमिति युक्तमुक्तम् ॥ [द्विविधस्यापि मौनस्य आत्मविद्योपकारिता] यद्वा ब्रह्मवादेभ्य: अन्ये विषया: यस्य तत् लौकिकव्यवहारमात्रवर्जितं, अन्यत् संप्रापणीयम् । कुतः ? द्वयोरपि मौनयो: आत्मविद्योपकारित्वसाम्येन एकप्रयोजनकत्वात् । तत् तस्मात् दुरापं दुःखेनाप्तुं योग्यं मौनं सहजमित्यनन्त रविशेषणम् तदुपगतो मौनयोगी तुरीय: चतुर्थाङ्गवानित्यवगन्तव्यम् । तथाहि श्रुतिः . [श्रोतं मौनलक्षणम् यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह । यन्मौनं योगिभिर्गम्यं तद्भवेत् सर्वदा जडेः ॥ वाचो यस्मानिवर्तन्ते तद्वक्तुं केन शक्यते । प्रपञ्चो यदि वक्तव्य: सोऽपि शब्दविवर्जितः॥" 1. अत्र 'न मौनान्मुनिरुच्यते' इत्यादिकमनुसन्धेयम् । 2. वाच: वेदान्तवचांस्यापि मनसा सुतरां शुद्धान्तःकरणेन सहाप्राप्य अनधिगम्य निवर्तन्ते अत्यन्तारूपत्वेन अवाच्यत्वात् अचिन्त्यत्वाच्च । यत् निष्प्रतिप्योगिकारूपब्रह्मविषयक मौनं योगिभि: सम्यग ज्ञानयोगविद्भिः लय काले गम्य तत् मूकसदृशैः जहै: गम्य भवेत् इति लौकिकदृष्टान्तः (भा)। 8. ननु उक्तं मौन अझै: वक्तुमशवयमपि तद ज्ञैः वक्तुं शक्य इत्यत आह-- वाच इति । वाचः . यस्मात मौनात निवर्तन्ते । नश्यन्तीम्यर्थः तत् केन वक्त, शक्यते ? तदृरपि प्रक्षीणवचस्त्वाते 8 चतुर्थपञ्चमयोर्मोनदेशयो:स्वरूपम् इति वा तद्भवेन्मौनं सर्वं सहजसंस्थितम् ।। गिरा मौनं तु बालानां अयुक्तं ब्रह्मवादिनाम् ॥ इति । नन्विह द्वितीयपक्षेऽपि अवाङ्मनसगोचरारूपब्रह्मपरत्वमेव मौनस्यावगम्यते, न तु वाचिकपरत्वं मानसिकपरत्वं वेति चेत्- नैष दोषः । लौकिकवाङ्मनसागोचरचिद्रूप ब्रह्म- निष्ठात्मकमौनस्यैवविवक्षितत्वेन वाचिकमानसिकपरत्वाविरोधात् । “गिरा मौनं तु बालानां इत्यनेन हि वामौनमात्रस्य निषेधः अभिप्रेयते । तस्मात् नारूपब्रह्मपरं इति युक्तम् ।। [उक्तयोगाभ्यासानुवृत्त्यङ्गदेशविधिः] ननु प्रतिपादितलक्षणमौनवत: जीवन्मुक्तत्वेनारूढत्वेऽपि उपरितनाभ्यासाभ्युपगमात् तदनुकूलो विजनदेशः अवश्याश्रयणीयः इत्याशङ्कायां इदमुच्यते- अभ्यासारम्भकाले तदवधिसमये मध्यकाले च यस्मिन् ब्रह्मण्यद्वैतबोधे न भवति हि जनः कोऽपि यद्याप्तमेतत् । तद्ब्रह्मैव प्रदेश: स्ववसतिविषय: संबभूवेह यस्या- रण्यं भूभृद्गुहा वा न नियमितमयं पञ्चमो देशयोगी ॥५॥ अभ्यासारम्भेति ॥ उपरितनाभ्यासो हि जीवन्मुक्तस्य निर्विकल्पसमाधिः, तस्या- रम्भकाले तत्समाप्तिसमये मध्यकाले च अनुभूयमाने अद्वैतबोधे यस्मिन् ब्रह्मणि कोपि जनो न भवति, यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजाति स भूमा।"4 नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता।"5 वक्तुमशक्यमिति । यद्यपि प्रपञ्च: वक्तव्यः वक्तु शक्यः। नामरूपवन्वात सो पि वेदशब्दविवर्जितस्सव वाच्यः । ननु सुषुप्तः उत्थितेनेव मौनात उक्तलक्षणात् उत्थितेन मौनलक्षणं वक्तुं शक्यमिति चेत् -न। सुषुप्तवचसामविनाशित्वेन उत्थितस्य 'सुखमहमस्वाप्सम' इति प्रत्ययशब्दौ उपपद्येते, न तु उक्तमौनात उत्थितस्य । पूर्ववचसां सरूपनष्टत्वादिति । (भा) प्रथमपक्षे जडैः वागादिकरणैः स्वस्वव्यापृत्युपरमणं मौनमित्युक्तम् । द्वितीय पक्षे तु स्वातिरिक्तयोः निष्प्रतियोगिकभावाभावरूपतया निर्वस्तुमशक्यत्वात् । प्रथमपर्यायगदितमौनं तु बालानां, न ब्रह्मविदामस्ति । (उ) 1. अथ मौनस्य पक्षान्तरमाह- इतीति । सप्रतियोगिकब्रह्मसहजबोधाख्य मौनमिति वा भवेत् । मनोवागादिविलय एव मौनमिति नियमाभावः इत्यभिप्रायः । वाचा केवलं मौनं तु बालानां अब्रह्मविदामेव युक्तम् । तत्तु ब्रह्मवादिनां अयुक्तम् । मनोमौनस्य व ब्रह्मवादिभिः सम्पादनीयत्वादिति । (भा) 2. अत्र- 'यतो निविषयस्यास्य मनसो मुक्तिरिष्यते। अतो निविषय नित्य मनः काय' मुमुक्षुणा । निरस्तविषयासहं संनिरुद्ध मनो यदि। यदि यात्यात्मनो भावं तदा तत्परमं पदम् । तावदेव निरोद्धव्य यावद्ध दि गतं क्षयम् । एतद, ज्ञानं च ध्यानं च शेषो न्यायस्य विस्तरः ॥' इति अमृत- बिन्दूपनिषदप्यनुसन्धेया। 8. निषेधवाक्यमिति शेषः । 4. यस्मिन् ब्रह्मणि अनुभूयमाने त५ व्यतिरिक्तं किमपि सुखत्वेन न पश्यति न शृणोति न च विजानाति स एव भूमा, अन्यच्च अल्पमित्यर्थः (छां 7-28)। 5. बृहदारण्यके (6-7-2). .
पञ्चदशाङ्गयोगप्रकरणम् 9 सः " इति चैवंजातीयकश्रुतिभ्यो ब्रह्मेतरस्य सर्वस्य निषिद्धत्वात् । एतत् । परिदृश्यमानं सर्वं जगच यत् व्याप्तं तत् सत्यज्ञानानन्तलक्षणं ब्रह्मैव प्रदेशः। विजातीयतिरस्कारमात्रेण ब्रह्मव्यतिरिक्तभूप्रदेशानुपलम्भात् विविक्तदेशश्रुतिः' गौणी मन्तव्येत्यभिप्रायः॥ ब्रह्मप्रदेश एव यस्य स्ववसतिविषयः स्वस्य कूटस्थस्य तादात्म्येन वसतेर्विषयः संबभूव । यस्य जीवन्मुक्तिपदारूढत्वेन सहजाभ्यासयोग्यतया स्वैकान्ताभ्यासार्थकं विजनस्थलभूत- मरण्यं भूभृद् गुहा वा न नियमित स्ववसतिविषयत्वेन न विहितम्, अयं देशयोगी पञ्चमः ।। [श्रौतं देशलक्षणम् आदावन्ते च मध्ये च जनो यस्मिन् न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥” इति । [योगाभ्यासौपयिकदेशविशेषनिषेधस्य श्रुतिविरोधाशङ्का] ननु अन्नपूर्णोपनिषदि माण्डव्याख्यो महर्षिः कौण्डिन्याख्यात् महर्षेः जीवन्मुक्तिपदं प्राप्यापि प्रारब्धदुखासहिष्णुः सुमेरो: वसुधापीठे बद्धपद्मासनः सन् समाध्यभ्यासेन शिशु- ज्ञानसदृशीं विदेहमुक्तिं प्राप्तवानित्यवगम्यते । तत्रैवं सति कथं अरण्यादिविजनस्थलप्रतिषेधः उपपद्यते? - [तादृशदेशविशेषनैयत्यस्य श्रुत्यनभिप्रेतता] अत्रोच्यते-न हि अरण्यादिस्थलान्येव विजनानि स्युः इति नियमोऽस्ति । ग्रामपत्त- नादिस्थलेष्वपि विजनानां गृहादीनां विद्यमानत्वात् । न च माण्डव्यवत् सुमेरुवसुधापीठ- मेवान्यैरपि विदेहमुमुक्षुभिराश्रयणीयमिति नियमोऽस्ति । वृक्षमूलकुलालशालाऽग्निहोत्र- शालाऽऽदीनामपि स्थलान्तराणां श्रुत्यैव विहितत्वात् । [योगिनः स्वैरविहाराशङ्कापरिहारौ] ननु ब्रह्मण एव प्रदेशस्य स्ववसतिविषयत्वाभ्युपगमेन विविक्तदेशश्रुते: गौणीत्व- कल्पनेन च जीवन्मुक्तस्य स्वैरविहार एव प्रसज्येत । इति चेत्-न । समाध्यभ्यासकालेषु 1. तत्समानधर्मणः इत्यर्थः । 2. अत्र- 'योगी युजीत सततं आत्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निरशीरपरिग्रहः । शुचौ देशे प्रतिाप्य स्थिरमासनमात्मनः । नात्त्युच्छितं नातिनीचं चैलाजिनकुशोत्तरम् । तत्रैकामं मनः कृत्वा यतचित्तेन्द्रिय क्रियः । उपविश्यासने युज्यात योगमात्मविशुद्धये' इत्यादिकं, विविक्तदेशमास्थाय सर्वसम्बन्धवर्जितः । योगाबद्रव्यसम्पूर्ण तत्र दारुमये शुभे ।' (त्रि. ना. 89) इत्यादिकं च अनुसन्धेयम् । 3. यस्मिन सच्चिदानन्दब्रह्मप्रदेशे आद्यन्तमध्येषु च जनो न विद्यते, येन च ब्रह्मप्रदेशेन इदं सर्व जगत व्याप्त सः निर्गुणब्रह्मप्रदेश एव विजनः देशः स्मृतः (भा) तादृशदेशो ब्रह्मवेत्यर्थः (उ)। 4. अत्र- "सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः । कौण्डिन्यात् तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ । जीवन्मुक्तिदशां प्राप्य कदाचित् ब्रह्मवित्तमः । सर्वेन्द्रियाणि संहतुं मनश्चक्रे महामुनिः । बद्धपद्मासनस्तिष्धन अर्धान्मीलितलोचनः । बाह्यानाभ्यन्तरांश्चैव स्पर्शान परिहरन शनैः ।।" इत्यादिकं अनुसन्धेयम् । 5. बाह्यतो यस्य कस्यापि नियमस्य तिरस्कारे सति स्वरविहार एव पर्यवसानादिति भावः ।
10 षष्टाङ्गस्य कालस्य स्वरूपम् - यत्रकुत्रापि भूप्रदेशे विविक्तऽवस्थितस्यापि जीवन्मुक्तदेहस्य व्यवहारकालेषु अपरि मुतब्रह्म- प्रज्ञावत्तया निरन्तरात्मबोधवत्त्वेन सहजबोधवशात् भृप्रदेशोपवेशनैदंपर्यवर्जनमात्रा- भिप्रायत्वात् । तस्मात् न जीवन्मुक्तस्य स्वैरविहारोऽदोषायेति मन्तव्यम् ॥ [योगाभ्यासपरिवर्धनानुगुणकालनिर्देशः] तर्हि अस्मात् पञ्चमयोगिनोऽन्यः षष्ठः किंलक्षण: ? इत्यपेक्षायां इदमुच्यते- ब्रह्मादीनां अहन्तानिलयभववतां कल्पनाऽभृनिमेषात् भृतानां यत्सकाशात् कुटिलगतिमतां तारतम्यं गतानाम् । यच्च ज्योतिस्स्वरूपं श्रुतिशतगदितं निष्कळानन्दमेकं कालाख्यं ब्रह्म तत्र प्रकृतिमुपगत: कालयोगी तु षष्ठः ॥ ६॥ ब्रह्मेति ।। अहन्ताया: आस्पदं भव: संसार: एषां अस्तीति तद्वतां कुटिलगतिमतां वक्रचरित्राणां उत्तमाधमभावेन तारतम्य गतानां चतुर्मुखब्रह्मादीनां प्राणिनां कल्पना सृष्टि: निमेषात् झटिति यत्सकाशात् यस्य समीपात् अभूत् यच्च ज्योतिस्वरूपत्वायुक्तलक्षणं कालसंज्ञं ब्रह्म प्रसिद्धं तत्र ब्रह्मणि प्रकृतिं स्वभावमुपगत: निर्गुणब्रह्मतादात्म्यं प्राप्त: कालयोगी षष्ठः॥ [श्रौतं काललक्षणम् -अत्र श्रुतिः कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः। कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥" इति ॥ [ब्रह्मणः कालरूपत्वानुपपत्तिशङ्का] ननु- 'काल: स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावात् आत्माऽप्यनीशः सुखदु:खहेतोः॥" 1. अत्र स्वैरविहारो न दोषायेत्यपि भाव्यम् । लौकिकदृष्टया स्वैरत्वे पि तादृशव्यक्तिदृष्टया स्वैरत्वाभावात् । ब्रह्मभावाच्च्यवनप्रसङ्गादर्शनात् । अत्र- 'जानामि धर्म न च मे प्रवृत्तिः जानाम्य धर्म न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि' "स्वैरं स्वैरविहरण तत्संसरणम् । साम्बरा दिगम्बरा वा, न तेषां धर्माधम न मेध्यामध्यौ" (अव. 5) इत्यादिक- मप्यनुसन्धेयम् । 2. चतुर्मुखब्रह्मादीनां सर्वप्राणिनां कल्पना यस्मात् भवति तत् अखण्डानन्दं ब्रह्मैव कालशब्देन निर्दिष्टम् (भा) यदज्ञाननिमैषविकल्पितं निखिलं तदधिकरणं ब्रह्म कालशब्दवाच्यम (उ)। 3. सर्वस्यापि कारणं किमिति प्रश्नः-कालज्ञाः कालं, लोकायतिकाः स्वभाव, मीमांसकाः नियति लक्षणं कर्मेव, केचित अहेतुकत्वलक्षणं यादृच्छिकत्वं, अपरे पञ्चभूतानि, केचन प्रकृति, केचन पुरुषं च सर्व कारणमाहुः । तत सर्व चिन्त्यमेव, अचेतनानां चेतनस्य च प्रत्येकं कारणत्वासंम्भवात् । ननु प्रत्येकस्य कारणत्वासम्भवेऽपि एषां संयोग एव कारणं भवतु, संयोजकस्य आत्मनः सद्भावात् , इति चेन्न । अनिच्छया पि सुखदुःखभोक्तुः आत्मनः अत्र स्वातन्त्र्येणेशितृत्वानुपपत्तेः इति मुनयः समालोचया- मासुरित्यर्थः । (श्वेताश्व 1-2.)
पञ्चदशाङ्गयोगप्रकरणम् 11 इति श्वेताश्वतरोपनिषदि कालादीनां कारणत्वं प्रतिषिध्य 'ते ध्यानयोगानुगता: अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥1 इति देवात्मशक्तेः कारणत्वं प्रतिपादितम्। एतेन ब्रह्मण: कालातीतत्वमेव अवगम्यते, न तु कालाख्यत्वम् । [ब्रह्मात्मकस्य कालस्य योगाङ्गत्वानुपपत्तिशङ्का न च उक्तलक्षणस्य कालस्य योगाङ्गत्वमुपपद्यते। योगाभ्यासास्य सन्ध्ययोरुभयोरपि नियमेन कर्तव्यत्वविधानात्। उक्तपूर्वाणां यमादीनां अङ्गानामिव प्रकृताङ्गस्य च ब्रह्म- परत्वादनेन योगशास्त्रप्रसिद्वाङ्गप्रतिषेधवशात् मुमुक्षूणों अभ्यासप्रवृत्तिवैमुख्यं तेन स्वेच्छा- चारश्च निरङ्कुशौ प्रसज्येयाताम् । [उक्तसर्वब्रह्मवादस्य केवलयोगशास्त्रदूषणार्थत्वाशङ्का] न च “ सर्वं ब्रह्म" इति वादे: अवगतिभिर्वा कश्चित् कृतार्थो भवितुमर्हति । तस्मात् योगशास्त्रदूषणार्थमेवेदं प्रकरणं प्रवृत्तं इति प्राप्ते, इदमुच्यते- [उक्तांशस्य सर्वत्र ब्रह्मानुभवनिष्ठासम्पादनावश्यकतापरत्वम् ] न ह्यनेन प्रकरणेन योगशास्त्रं दूष्यते इति स्वमेऽपि शङ्कयम् । यथाशास्त्रं सन्ध्याया- भ्यासद्वारा निर्गुणपरब्रह्मानुभूतिनिष्ठत्वेन ब्रह्मवादावगतिमात्रनिष्ठत्वाशकाऽनुपपत्ते । न च प्रकृतकालयोगिन: यमादिपूर्वोक्ताङ्गिनां वा स्वेच्छाचारगन्धोऽपि भवितुमर्हति । [आरूढारुरुक्षुभेदेन विषयनिर्णयावश्यकता यद्यपि प्रकृताङ्गानां ब्रह्मपरत्वापादनेन योगशास्त्रप्रसिद्धाङ्गप्रतिषेधो भवति । तथापि जीवन्मुक्तपरत्वात् जीवन्मुमुक्षूणां न तत्राभ्यासप्रवृत्तिवैमुख्यं भवितुमर्हति । यथा चावधूतोपनिषदि- शृण्वन्त्वज्ञाततत्त्वास्ते जानन् कस्मात् शृणोम्यहम् ॥"7 इत्यादिवचनैः श्रवणादीनां ब्रह्मविद्यासाधनानां आरूढपरत्वेन प्रतिषिद्धत्वेऽपि आरुरुक्षुपरत्वेन अप्रतिषेधो भवति, तथा अत्रापि इत्यवगन्तव्यम् ॥ 1. एवं ध्यानयोगयुक्ताः मुनयः अन्ततः- यः उक्तकालात्मयुक्तानि निखिलानि कारणानि अधितिष्ठति एकः, तादृशं महाशक्तिसंवलितंज्योतीरूपं परमात्मानं दृष्टवन्तः इत्यर्थः । 2. हृदयानारुढविषय प्रतिपादनेन प्रयोजनाभावादिति भावः । 3. योगशास्त्रे तु अभ्याससौलभ्यपरिपूर्णान्येवाझानि प्रतिपादितानीति भावः । 4. योगशास्त्राण्याधारीकृत्य वास्य प्रकरणस्य प्रवृत्तत्वादिति यावत् । 5. यथावस्थितानुभवजनकक्रियाणामैवात्र निर्देशात् । 6. तथा च योगशास्त्रस्य जीवन्मुमुक्षुविषयत्वमिति ध्येयम् । 7. साङकृतिहि दत्तात्रेय परिसमेत्य अवधूत लक्षणं प्रपच्छ । तदा भगवान दत्तात्रेय:-'अक्षरत्वात वरेण्यत्वात् धूतसंसारबन्धनात् , तत्त्वमस्यादिलक्ष्याच्च अवधूत इतीयते । यो विल याश्रमान वर्णान आत्मन्येव स्थितः सदा । अतिवर्णाश्रमी योगी अवधूतः स कथ्यते।' इति अवधूतलक्षणं प्रतिपाद्य, तदीयां कृतकृत्यतां तदीय भावसौंदय च वर्ण यन एवमाह-शृण्वन्त्वित्यादि । अवधूतस्य धन्यस्य कर्तव्य किमपि नास्तीति यावत ।
12 सप्तमाङ्गस्य आसनस्य स्वरूपम् .. [ब्रह्मणः कालरूपतोपपत्तिः] कालातीतस्यापि ब्रह्मणः कालाख्या तु, आकाशातीतस्यपि ब्रह्मण: आकाशाख्येव अनवद्या॥ 1 [सहजसिद्धासनस्वरूपम्, योगशास्त्रोक्तासनस्य अप्रयोजकता च] तर्हि सप्तमयोगी कः? इत्यत: उच्यते- पद्मादीन्यासनानि श्रुतिषु निगदितान्यप्यनावश्यकानि ब्रह्मात्मैकत्वनिष्ठावत इह तु यतो ब्रह्मणोऽजस्रचिन्ता । सिध्यत्यायासलेशं क्वचिदपि च विना जारचिन्तेव नार्या: संप्रोक्तं ह्यासनं तचरणविरहितं सप्तमरतत्र योगी ॥ ७ ॥ 172 पद्मेति ॥ "स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।" इत्यादिश्रुतिषु निगदितानि प्रोक्तान्यपि पद्मादीन्यासनानि ब्रह्मात्मैकत्वनिष्ठावत: ज्ञानयोगारूढस्य अनावश्यकानि । कुतः ? यतः इह देहे विद्यमानस्यापि तस्य क्वचिदपि आयासलेशमपि विना अजस्रब्रह्मचिन्ता सिध्यति । सहजानुभूतिमत्त्वेन सार्वकालिकब्रह्म- स्मरणवत्तया आसननैरपेक्ष्यादिति भावः । कथं अजनचिन्ता ? इत्यत्र सदृष्टान्तमुच्यते- नार्याः चोरभर्तृभ्यानमिवेति । तदिदं अजनब्रह्मचिन्तात्मकं आसनं- जानूऊरन्तरे कृत्वा सम्यक् पादतले उभे ॥" इत्यादिश्रुत्युक्तचरणविरहितं अनुष्ठानविहीनं संप्रोक्तं हि । तत्रासने योगी युक्तः सप्तमः ॥ [ब्रह्मचिन्तनस्यैव सुखासनत्वं सिद्धासनत्वं च] ब्रह्मणः सुखरूपत्वात् तच्चिन्तात्मकं आसनमेव सुखासनमिति तस्मिन् ब्रह्मणि सिद्धि गतत्वात् सिद्धासनमिति चावगन्तव्यम्। 1. अत्र 'अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं परमा फार्श' इत्यादिक अनुसन्धेयम (मं. बा. 4-8) 2. 'भद्रं मुक्तासन चैव मयूरासनमेव च । सुखासन समास्य च नवमं मुनिपुङ्गव' इति तच्छेषः (दर्शनो. 3-1) 8. समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ' इति तदुत्तरार्धम् (दर्शनो. 8-8) एवमेवात्र नवानामपि आसनानां लक्षण प्रतिपादितम् । 4. योगशास्त्रे तु–'स्थिरसुखमासनम् । तद्यथा पन्यासन वीरासनं भद्रासनमित्यादि। प्रयनो- परमात् सिध्यत्यासनम् , येन नानमेजयो भवति, अनन्ते वा समापन्नचित्तं आसन निर्वर्तयतीति । शोतोष्णादिभिः द्वन्द्वैः आसनजयात नाभिभूयते । सत्यासनजये प्राणायामसिद्धिः' इत्यायुक्तम् ।
13 - पञ्चदशाङ्गयोगप्रकरणम् [श्रौतं एतदासनलक्षणम् तथा च श्रुतिः 'सुखेनैव भवेद्यस्मिन् अजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयात् अन्यत् सुखविनाशनम् ॥1 इति । सिद्धये सर्वभूतादिविश्वाधिष्ठानमद्वयम् । यस्मिन् सिद्धिं गताः सिद्धाः तत् सिद्धासनमुच्यते ॥" इति च ॥ [ब्रह्माकारपरिणामिचित्तसम्पादनरूपमूलबन्धोपपादनम्] तर्हि अष्टमयोगी कः ? इत्यत्रोच्यते- 'मूले यस्मिन् परस्मिन् त्रिगुणविरहिते बध्यते ब्रह्मणि द्राक् ब्रह्माकारं विशुद्ध प्रबलपरिचयात् चित्तमेकान्तदृष्टया। सेव्योऽयं मूलबन्धः सततमपि परब्रह्मविद्भिर्महद्भिः श्रद्धामन्यत्र हित्वा हठविषय इमं योऽभ्यसेदष्टम: स्यात् ॥८॥ मूलइति ॥ सकलजगत्कारणीभूते निर्गुणे यस्मिन् परब्रह्मणि ब्रह्माकारं अत एव विशुद्धं चित्तं प्रबलपरिचयात् दृढतराखण्डैकरसाभ्यासात् बध्यते ब्रह्माकारपरिणामवशात् विषयव्यापारहीनं भवतीति भावः । अयं मूलबन्धः परब्रह्मविद्धिः जीवन्मुक्तै: महद्भिः सततं अनवरतमपि एकान्तदृष्टया निर्विकल्पादिसमाध्यात्मकरहस्यावलोकनेन सेव्य: अभ्यसनीयः। [श्रौतं मूलबन्धलक्षणम्] तथा च श्रुतिः "यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् । मूलबन्धः सदा सेव्य: योग्योऽसौ ब्रह्मवादिनाम् ।। इति ॥ 13 1. एवं यमनियमौ अङ्गभूतौ उपानभूतान त्यागादींश्च उक्त्वा अथासनलक्षणमाह-सुखेनेति । यस्मिन आसने स्थितस्य अजसं सर्वदा ब्रह्मचिन्तन परब्रह्माभिध्यान सुखेन अनायासेनैव भवेत् तदेवासन- मिति विजानीयात् । अन्यत्तु स्वस्तिकाद्यासनं सुखविनाशनमेव स्यात् । (भा) 2. ननु सिद्धासनस्य सुखनिमित्तत्वात अवश्यसम्पादनीयमित्यतः सिद्धासनं च वैलक्षण्येनाह- सिद्धये इति । सर्वभूतादेः विश्वस्य प्रपञ्चस्य अधिष्ठान, अद्वयमिति षष्ठयर्थे द्वितीया, तस्य ब्रह्मणः सिद्धये प्राप्त्य तस्मिन ब्रह्मणि सिद्धाः सम्यग्दर्शिनः सिद्धि प्राप्तिं गताः इति यत् तत् सिद्धासनमित्युच्यते । अतः इह अणिमादिसिद्धितदासनाद्यनवकाशः इति भावः। (भा) ध्यानानुकूलं सुखासन, सिद्धसिद्धिदं ब्रह्म सिद्धासनं च न झुक्त लक्षणम् । (उ) 8. हठयोगभिः यः मूलबन्धः क्रियते तद्रिलक्षणं मूलबन्धमाह- यदिति । यत् सर्वलोकानां मूलं कारणं, चित्तबन्धनम् यन्मूलं, यत्कारणकम् , यदा चित्तबन्धनस्य यन्मूलमिति तद ब्रह्मैव मूलबन्धः । योग्यः असावेव ब्रह्मवादिभिः सदा सेव्यः। नतु अपानादिबन्धः । अत्र राजयोगिनामिति पाठान्तरम् । (भा) सर्वकारणं ब्रह्मैव मूलबन्धः नत्वाकुचनादिः । अय च राजयोगिनां, न तु हठयोगिनाम् । (उ) 14 अष्टमनवमदशमानां मूलबन्धदेशसाम्यस्थितीनां स्वरूपम् [हठयोगोक्तमूलबन्धस्य त्याज्यता] योऽन्यत्र हठयोगविषये मूलबन्धे-- "गुदं पाया तु संपीड्य वायुमाकुश्चयेत् बलात् । वारंवारं यथा चोवं समायाति समीरणः ।।"1 इति योगशिखोपनिषत्प्रोक्ते लक्षणे श्रद्धां हित्वा इमं ज्ञानयोगविषयं मूलबन्धं उक्त- लक्षणमभ्यसेत्, अयं अष्टमः मूलबन्धाख्यकाष्टमानवान् स्यात् ।। [ब्रह्मसाम्यात्मकदेहसाम्योपपादनम् तर्हि नवमानवान् योगी किंलक्षण:? इत्यपेक्षायां इदमुच्यते साम्यं ब्रह्मण्यखण्डे रसवति परमे भूम्नि नैसर्गिक हि प्रामोत्यत्रैवविद्वान् नियतपरिचयात् नीयमानोऽङ्गसाम्यम् । ग्रीवादीनां समत्वं न कृतमितरथा शुष्कवृक्षार्जवं वा योऽजस्राभ्यासयोगी नवम इह महान् देहसाम्यं गतोऽयं ॥९॥ साम्यमिति ॥ नियतपरिचयात् अङ्गसाम्यं नीयमानः विद्वान् अखण्डे रसवति परमे भूग्नि ब्रह्मणि नैसर्गिकं साम्यं अत्रैव प्रामोति हि । इतरथा शुष्कवृक्षार्जवमिव ग्रीवादीनां समत्वं न कृतं स्यात् । यः इह अजस्रं ब्रह्माभ्यासयोगी नवमः देहसाम्यं गतोऽयं महान् इत्यन्वयः। [तस्य श्रीतं लक्षणम् अत्र श्रुतिः अङ्गानां समतां विद्यात् समे ब्रह्मणि नीयते (लीयते)। नो चेत् नैव समानत्वं ऋजुत्वं शुष्कवृक्षवत् ॥" स्पष्टोऽर्थः॥ [ब्रह्मदृष्टयात्मकक्स्थितिस्वरूपविवरणम्] तर्हि दशमाङ्गवान् कः ? इत्यत्रोच्यते- पूर्वोक्तब्रह्मष्टिं सहजरसमयीं दुर्लभामेव कृत्वा पश्येत् सर्वं जगच्च क्षरमसदखिलप्राणिमब्रह्मरूपम् । सोदारा दृष्टिरेका त्रिपुटिविरहिता स्वानुभूत्यैकगम्या नासाग्रालोकनी न प्रभवति दशमः पूर्णदृष्टिर्हि योगी ।।१०।। 1. योगशिखोपनिषत् (1-104) पायुमाकुञ्चयेदिति पाठान्तरम् । एतदनुगुणमेव 'अपानमूर्ध्व- माकृष्य' इति योगचूडामण्यादिः । 2. ऋजुकायशिरोग्रावः इत्यादियोगशास्त्रोक्तार्थविलक्षणमाह- अनानामिति । अनानां अन्तरङ्गा- दीनां समतां समे ब्रह्मणि विद्यात् । तत्र नो विद्याच्चेत् तदा नैवानानां समानत्वं नीयते । ब्रह्मव्यतिरिक्तस्य सर्वस्य च असमत्वात् । तत्र दृष्टान्तमाह- यथा शुष्कस्य वक्रस्य वृक्षस्य ऋजुत्वं न कथञ्चन नीयते तंद्वदिति । (भा) स्थूलादिदेहानां समे ब्रह्मणि विलयभावः समता न हि स्तम्भवत् ऋजुतेत्यर्थः (उ) अत्र लीयते इति पाठान्तरम।
पञ्चदशाङ्गयोप्रगकरणम् 15 पूर्वोक्तति ।। सहजरसमयीं अखण्डैकरससहजानुभवस्वरूपिणीं मनुष्यसहस्रेषु केनचिल्लभ्यत्वेन दुर्लभां च पूर्वोक्तनिर्गुणब्रह्मदृष्टिं कृत्वा क्षरं विनाशि असत् अनृतं अखिल- प्राणिमत् सर्वजीववत् सर्वं जगत् कर्मभूतं ब्रह्मरूपमित्यनन्तरविशेषणं पश्येत् । सा दृष्टि: उदारा गम्भीरा एका सर्वदृष्ट्युत्तमत्वेन मुख्या अद्वितीया वा त्रिपुटिविरहिता दृष्टिदर्शन- दृश्यादि भेदविहीना स्वानुभूत्येकगम्या परमात्मानुभवैकप्राप्या प्रभवति । न तु नासाग्रालोकनी, नासाग्रदर्शनस्य भ्रूमध्यगतखण्डज्योतिराविष्कारमात्रहेतुत्वेन अखण्ड- ज्योतिरनुभवहेतुत्वानुपपत्तेः । सोऽयं पूर्णदृष्टिः सर्वगतपरमात्मदर्शनवान् योगी दशमः इति। [श्रौतं दृस्थितिलक्षणम् अत्र श्रुतिः दृष्टिं ज्ञानमयीं कृत्वा पश्येत् ब्रह्ममयं जगत् । सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ दृष्टिदर्शनश्यानां विरामो यत्र वा भवेत् । दृष्टिः तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥" इति ॥1 अनेन राजयोगोऽपि पूर्वपक्षे अभिप्रेतः इति मन्तव्यम् ॥ - [प्राणवृत्तिनैश्चल्यरूपप्राणायामस्वरूपम्] तर्हि एकादशतमो योगी कः ? इत्यपेक्षायां उच्यते आभासानां निषेधं मुहुरपि जगतां रेचकं प्राहुरेके --- ब्रह्मैवास्मीति चिन्तां सहजमनुसृतां पूरकं कुम्भकं तु । ... वृत्तीनां निश्चलत्वं स्वयमनुभवत: प्राणचित्ताश्रयाणां प्राणायामोऽयमेकादशतम इह न घ्राणपीडात्मयोगे ॥११॥ आभासानामिति ॥ प्रातिभासिकजगतां निषेधः रेचकः । ब्रह्मात्मैक्यसहजचिन्तन पूरकः। वृत्तिनैश्चल्यं कुम्भकः । एते त्रयोऽपि परमात्मानुभवात् स्वयमेव भवन्तीति 1. ननु योगिभिः नासा दृष्टि: क्रियतें। सैंव इहापि ज्ञानयोगे स्यात् इत्यत आह-दृष्टिमितिः । ब्रह्माकारमनोवृत्तिज्ञानमयीं दृष्टिं कृत्वा संवं जगत् ब्रह्ममय एकरसब्रह्मस्वरूपं पश्येत् सा दृष्टि: परमोदारा अतिगम्भीरा स्यात् । न तु नासामावलोकिनी । अनया हि दृष्टया चैतन्यांशस्फूतिः केवलं भवेत् । न तु अखण्डचैतन्यस्फूर्तिः इत्यतः इह ज्ञानयोगे नासाग्रावलोकिनी अनुपयुक्तैवेति ।। पक्षान्तरमाह द्रष्टिति । द्रष्टा प्रत्यगात्मा, दर्शन बुद्धिवृत्तिविशेषः, दृश्य परब्रह्म । त्रयाणामेषां विरामः यत्र भवेत् तत्र निष्प्रति- योगिकब्रह्मणि सप्रतियोगिकब्रह्मद्वारेणैव दृष्टि: कर्तव्या, न तु नासाग्रावलोकानी। पूर्ण फलजनकत्वात् । (भा) स्वाज्ञदृष्टि: स्वातिरिक्तं जगत् पश्यति, सर्वाधिकरणदृष्टि: स्वज्ञः परमार्थदृष्टि: ब्रह्ममात्रवित् । तेन दृश्यादित्रिपुट्यपहवसिद्धे ब्रह्मणि स्वमात्रदृष्टि: कात्यर्थः (उ) 2. दर्शनोपनिषदादिषु तु- 'बाह्यादापूरणं वायोः उदरे पूरको हि सः। सम्पूर्णकुम्भवद्वायोः धारणं कुम्भको भवेत्। बहिविरोचनं वायोः उदरानेचकः स्मृतः' इत्याद्युक्तम् । (6-18) 16 एकादशद्वादशयोः प्राणायामप्रत्याहारयोः स्वरूपम महान्त आहुः । अयं रेचकादित्रयलक्षण: प्राणायामः एकादशतमः । इहात्मयोगे घ्राणपीडा न। नाणपीडानपेक्षमेव प्राणवृत्तीनां चित्तवृत्तीनां च समकालनैश्चल्यं सिध्यतीत्यभिप्रायः । " [श्रौतं प्राणायामलक्षणम् अत्र श्रुतिः चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते । निषेधनं प्रपञ्चस्य रेचकाव्यः समीरितः। ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते । तयोः तदत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चापि प्रबुद्धानां, अज्ञानां घ्राणपीडनम् ।" इति ॥ [विषयेष्वप्यात्मभावेन चित्तरञ्जनरूपप्रत्याहारविवरणम् तर्हि द्वादशतमो योगी कः ? इत्यतः उच्यते दृष्ट्वा यो दग्धवस्त्रादिकमिव विषयेष्वात्मतां जायमानां चित्तस्यात्मैक्यविष्फूर्त्यनुसरणवशात् रञ्जनं साधु कुर्वन् । किंचित् किंचिच मध्ये विषयरत इव व्यापृतो निर्विकार: प्रत्याहारैकनिष्ठो जयति सुधिवरो द्वादशाङ्गयेव योगी ॥ १२ ॥ यः विषयेषु देहेन्द्रियादिषु दग्धवस्त्रादिकमिव प्रातिभासिकतया जायमानां, आत्मगतां दृष्ट्वा आत्मैक्यविष्फूर्त्यनुसरणवशात् ब्रह्मात्मैकत्वस्फूरणानुसरण- पारवश्येन चित्तस्य रजनं मनोलालनं साधु सम्यक् कुर्वन् सन् मध्ये कदाचित् 1. अमृतनादोपनिषदि उक्तार्थेन साकं 'सव्याहृति सप्रणवां गायत्रीं शिरसा सह । त्रि: पठेदायतप्राण: प्राणायामः स उच्यते' इत्यप्युक्तम् । श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः इति योगसूत्रम् । (2-49) 2. अथ प्राणायामलक्षण.माह चित्तादीति। चित्तादिषु सर्वविकारेषु ब्रह्मत्वेन सप्रतियोगिक- ब्रह्मत्वेनैव भावनात् नामरूपपरित्यागद्वारा सच्चिदानन्दस्वरूपावधारणात् इत्यर्थः । बाह्याभ्यन्तर- सर्वेन्द्रियवृत्तीनां निरोध एव प्राणायामः इत्युच्यते। (भा) विद्वत्प्राणायामस्वरूपमाचष्टे-चित्तादिति । सर्व ब्रह्मेति भावनमेव प्राणायाम इत्यर्थः। (उ) 8. रेचकपूरककुम्भकाव्यत्रिविधप्राणायामस्य लक्षणं, प्राणपीडनस्य अज्ञविषयत्वं च द्वाभ्यामाह- निषेधनमिति । जीवेश्वरादेः विजातीयप्रपञ्चस्य निषेधनं तिरस्कार: रेचकाव्यः। 'सच्चिदानन्दलक्षणं ब्रह्मैवास्मोति सजातीयप्रत्ययापिणी या चित्तवृत्तिः सा पूरको वायुरुच्यते। या चित्तवृत्तिः उक्ता तस्याः चित्तवृत्तेः निश्चलत्वं प्रवाहस्पेण अप्रच्युतिः इत्यर्थः। यदा भवेत् तदा कुम्भकाख्य: प्राणसंयमः स्यात् । ईदृशः प्राणायामश्च प्रबुद्धानां ब्रह्मज्ञानिनामेव स्यात् । अज्ञानां तु तदितरेषां प्राणपीडनम् । नासापीडन- कारिणां हठयोगिनां, अज्ञत्वप्रसिद्धः। (भा) 'स्वातिरिक्तं जगत् ने'त्यनुसन्धानं रेचकवृत्तिः। तदेवास्मीति पूरकवृत्तिः । तद वृत्तिस्थैय कुम्भकवृत्तिः । स्वज्ञानामेवम् । स्वाज्ञानां तु प्राणपीडनमेंव फलमित्यर्थः (उ) - पञ्चदशाङ्गयोगप्रकरणम् 17 स्वस्फूरणतिरोभावे सति किंचित् किंचित् विषयसंसक्त इव तदनुकूलव्यापारं कुर्वन् निर्विकार: तनिमित्तविक्रियारहितः प्रत्याहारे मुख्यनिष्ठावान् बुद्धिमतां वरः एष योगी द्वादशाङ्गी जयति ॥ [श्रौत प्रत्याहारलक्षणम्] तथाच श्रुतिः 'विषयेष्वात्मतां दृष्ट्वा मनसः चित्र (त्त)रञ्जनम् । प्रत्याहार: स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ।।" इति ॥ [सर्वत्र मनसः स्वानुभवे धारणरूपधारणविवरणम्] तर्हि त्रयोदशतमाङ्गी कः ? इत्यत्रोच्यते ब्रह्मात्मैक्यानुभूतिं सुदृढमधिगतं वासनामात्रहेतोः चित्तं यत्र प्रयाति प्रभवति विमलब्रह्मदृष्टिस्तु तत्र। तद्वच्चैवाप्रयत्नात् प्रभवति मनसो धारणं स्वानुभूतौ नित्यानन्दात्मयोगी त्रयपरदशमं प्राप्तवान् धारणाङ्गम् ।।१३॥ ब्रह्मति ॥ ब्रह्मात्मनोरेकत्वानुभवं सुदृढं यथा भवति तथा अधिगतं चित्तं वासना- मात्र कारणात् यत्र प्रयाति तत्र विषयेऽपि विमलब्रह्मदर्शनं प्रभवति । तद्वत् अप्रयत्नात् स्वानुभवे मनसो धारणं च प्रभवति । एवंभूतं धारणाख्यं त्रयोदशतममङ्गं प्राप्तवान् पुरुषः नित्यानन्दात्मयोगी सहजयोगीति भावः। [धारणस्य श्रौत लक्षणम् अत्र श्रुतिः “यत्र यत्र मनो याति ब्रह्मणः तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता ॥2 इति । 1. शब्दादिविषयेषु मनसः आत्मतां तादात्म्य' विवेकेन दृष्ट्वा यत् चित्तरञ्जन विषयसुखप्रदानेन आत्यन्तिकविषयसुखाप्रदानेन च स्यात् स एव प्रत्याहार इति विज्ञेयः । एषः सद्योमुमुक्षुभिः मुहुर्मुहुरभ्यस- नीयः । विषयव्यापारविमुखीकरणार्थत्वात् प्रत्याहारस्येति ॥ (भा) विषय सामान्ये ब्रह्मदृष्टिः प्रत्याहार: (उ) स्वविषयासम्प्रयोगे चित्तस्यस्वरूपानुकार इव इन्द्रियाणां प्रत्याहार इति योगसूत्रम् (2-64). 2. यत्र यत्र विषयेषु स्वाभाव्येन मनो याति, श्रोनेन्द्रियद्वारेण शब्द, त्वगिन्द्रियद्वारेण स्पर्श मित्येवं सर्वत्र गच्छति, तत्र तत्र विषयेषु सच्चिदानन्दलक्षणस्य ब्रह्मणः दर्शनात मनस: धारण विषयेभ्यो व्यावृत्त्य ब्रह्मणि यदवधारण, सैव धारणेति मतम् । स्वस्वगोळ्कावधारण तु यद्यपि धारणा स्यात् , तथापि सा न परा स्यात् । अस्याः उक्तलक्षणायाः एव सर्वोत्कृष्टत्वात : (भा) मनः प्रचाराधिकरणं ब्रह्मेत्यर्थः । (उ) 'नाभिचक्रे हृदयपुण्डरीके मूर्भिज्योतिषि, नासिकाग्रे जिताने इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध: धारणा' इति योगभाष्यम् (8-1) अत्र-विष्णुपुराणवचनमेवं वर्तते- “प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्यात् चित्तस्थानं शुभाश्रये । मूर्त भगवतो रूपं सर्वोपाश्रयनिस्पृहम् । एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्यते । तच्च मूतं हरे रूपं यद्विचिन्त्य नराधिप। तच्छ यतामनाधारा धारणा नोपपद्यते ।" इत्यादि ॥ (6-7-45, 77, 78) 18 त्रयोदशचतुर्दशपञ्चदशानां धारणध्यानसमाधीनां स्वरूपम् [ध्यानस्वरूपविवरणम्] तर्हि चतुर्दशाङ्गयोगी कः? इत्यत्रोच्यते देहाद्यालम्बनं यत् प्रविततमभवत् सन्ततं प्रागहन्त्वं तद ब्रह्म ह्यद्वितीयं नयति नियमिताभ्यासयोगेन धीरः। ब्रह्माकारात्मवृत्तावपि भवति जडालम्बनं किञ्चिदस्मिन् नित्यानन्दे रसे नो चतुरधिकदशध्यानयोगी महात्मा॥१४ ।। देहेति ॥ तत् अहन्त्वं कर्मभूतं नियमिताभ्यासयोगेन नियमेनाभ्यस्तनिदिध्यासन- योगेन ब्रह्म नयति । अथ जीवन्मुक्तिवशात् ब्रह्माकारवृत्तौ प्राप्तायामपि किंचित् जडालम्बनं तदहन्त्वं भवति पश्चात् विदेहमुक्तिसिद्धे अस्मिन् नित्यानन्दरसे तु किञ्चिदपि तनो। अयं चतुर्दशाङ्गवान् ध्यानयोगी महात्मा ॥ [श्रौतं ध्यानलक्षणम्] अत्र श्रुतिः "ब्रह्मैवास्मीति सवृत्त्या निरालम्बतया स्थितिः। ध्यानशब्देन विख्याता परमानन्ददायिनी ॥” इति ॥1 [सर्ववृत्तिविस्मरणात्मकसमाधिस्वरूपविवरणम् तर्हि पञ्चदशाङ्गयोगी कः ? इत्यपेक्षायामुच्यते-- वृत्तीनां विस्मृतिर्या प्रकृतिविकृतिजाशेषमोहास्पदानां चित्तप्राणाद्यरूपाप्ययसुखजननी सर्वतत्त्वैरपेता। विद्याशक्तिस्वरूपा जयति सुखमयी ब्रह्मविच्छेष्ठलभ्या सेयं यत्रास्ति पञ्चाधिकदशचरमाणे समाधौ समाप्तम् ।।१५।। वृत्तीनामिति ॥ प्रकृतिविकृतिजाशेषमोहास्पदानां प्रकृतिः अविद्या विकृति: तत्कार्यभृतः प्रपञ्चः ताभ्यामुत्पनसमस्तमोहनिलयानां वृत्तीनां विस्मृतिः यत्र समाधौ अस्ति तत्र योगशास्त्रं समाप्तम् । 1. सच्चिदानन्दलक्षणं ब्रह्मैवास्मीति सद वृत्त्या अखण्डाकारवृत्त्या निर्गतः आलम्बो तस्य भाव: तत्ता, तया या स्थितिः परमानन्ददायिनी सा स्थितिः ध्यानशब्देन विख्याता प्रसिद्धी भवति । न तु ध्यानं नाम प्रकृते सजातीयप्रत्ययप्रवाहरूपम् । तस्य नियमरूपत्वस्य अभिहितत्वात् । (भा) निरालम्बनब्रह्मभावनं ध्यानम् (उ) 'तत्र प्रत्यय कतानता ध्यान 'मिति योगसूत्रम् (3-2) " तद रूप प्रत्यय काग्य सन्ततिश्चान्यनिःस्पृहा। तव्यानं प्रधमैरङ्गैः षभिनिष्पाद्यते नृप ॥' इति विष्णुपुराणम् । (6-7-89) पञ्चदशाङ्गयोगप्रकरणम् 19 i [श्रौतं समाधिस्वरूपम्] अत्र श्रुतिः "निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते ॥” इति । [समाधिलक्षणस्य सुषुप्तौ अतिव्याप्तिशङ्का] ननु समाधावेव वृत्तिविस्मरणमिति न नियमोऽस्ति । सुषुप्तावपि सर्वेषां वृत्तिविस्मरण- दर्शनात् । सुषुप्तिकाले सकले विलीने तमोऽभिभूत: सुखरूपमेति ॥": इत्याद्यनन्तश्रुतिभिः सुषुप्तौ सर्वविकारलयसुखाविर्भावयोः प्रतिपाद्यमानत्वात्, चित्ताद्यरूपनाशसुखजनकत्वं प्रकृतचरमाङ्गभूतसमाधिव्यतिरिक्तसुषुप्तेरप्युपपद्यते इति । [सकलनिष्कलत्वाभ्यां भेदोपपादनेन तत्परिहार:] अत्रोच्यते न हि सुषुतौ कस्यापि चित्ताद्यरूपनाश: निष्कलसुखाविर्भावो वा भवितुमर्हत: तमोऽभिभूतत्वश्रवणेन तात्कालिकवृत्तिमात्रलोपसंभवात् । सकलानन्दसंभवाच्च । [सुषुप्तौ निष्कलब्रह्मत्वोक्तेः गौणत्वम् श्रुत्यन्तराणि तु बहूनि सुषुप्तस्य परब्रह्मत्वनिष्कलानन्दत्वादिलक्षणापादकानि श्रूयमाणान्यपि तुरीयतत्त्वप्रतिष्ठापनपर माण्डूक्याद्यनेकश्रुत्यविरोधेन सर्वश्रुति समन्वय- कारणौचित्यात् गौणानि मन्तव्यानि । - [सुषुप्तौ जीवस्य शरीरोत्थानाद्युपपादनम् एष सम्प्रसादः अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते।" इति श्रुते, 1. निर्विकारेव निर्विकारता। ब्रह्माकारैव ब्रह्माकारता । तया वृत्त्या पुनरुत्पद्यमनानां सङ्कल्पादिवृत्तीनां सम्यक् विस्मरणं समाधिरित्यर्थः। अतः ध्यान समाध्योः अखण्डाकारवृत्तिरूपत्वा- विशेषे.पि वृतीनां पुनरुत्पत्यनु त्पत्तिरूपविशेषदर्शनात न अभेदशा ॥ (भा) अखण्डाकारवृत्ति: सविकल्पः, तद त्यस्मरणं निर्विकल्पसमाधिरित्यर्थः ।। (उ) 'तदेवार्थमात्रनिर्सि स्वरूपशून्यमिव समाधिः' इति योगसूत्रम् (3-8) “तस्य व कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्य समाधि: सोऽभिधीयते।" इति विष्णुपुराणवचनम् । (8-7-90) 2. कैवल्योपनिषत् 1.13. 8.. अत्र- 'सुषुप्तिसमाध्योः मनोलयाविशेषे ,पि महदस्त्युभयोर्भेदः, तमसि लीनत्वात.मुक्तिहेतुत्वा- भावाच्च। समाधो मृदिततमोविकारस्य तदाकाराकारिताखण्डाका रवृत्त्यात्म कसाक्षिचैतन्ये प्रपञ्चलयः सम्पद्यते । प्रपञ्चस्य मनःकल्पितत्वात' इति मण्डलब्राह्मणोपनिषदप्यत्रानुसन्धेया (2-3-4) 4. 'अशरीगे वायुरभ्रं विद्युत् स्तनयि त्रु शरीराण्येतानि तद्यथै तान्यमुष्मादाकाशात्सुमुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते एवमेव' इति एतद्वाक्यपूर्वभाग: । (छां. 8-12-2) 20 पञ्चदशाङ्गयोगप्रकरणम् “सम्पद्याविर्भाव: स्वेन शब्दात् ।"1 इति सूत्राच, संप्रसादशब्दोदितस्य सुषुप्तस्य जीवस्य शरीरोत्थानपूर्वकपरंज्योति- स्सम्पत्त्यवगमात सुपुप्तौ निष्कळ्ब्रह्मत्वावधारणं सतां सुतरामपहासार्ह स्यात् । " 12 [वचनेषु सामान्यविशेषभावव्यवस्थावश्यकता सुषुप्तब्रह्मवादी तु- इमाः सर्वाः प्रजा: अहरह: ब्रह्म गच्छन्त्यः इत्यादिछान्दोग्यश्रुत्यविरोधेन सर्वेषां वेदान्तानां सुपुप्ते समन्वयमकार्षीत । तेन विशेषवचनानां सामान्यवचनैः बाधः निरङ्कुशः समजनि। सामान्यवचनानां तु सुषुप्त- ब्रह्मपराणां विशेषवचनैः तुर्यब्रह्मपरैः बाधः उपपद्यत इति सर्वेषामभिमतम् । [सुषुस्यपेक्षया समाधेर्भेदोपपादनम् तर्हि सुषुप्तौ स्थूलसूक्ष्मविकाराभावेऽपि बीजविकारसदावात् निर्विशेषत्वाभाव इव प्रकृत निर्विकल्पसमाधावपि वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः। स्मरणादनुमीयन्ते व्युस्थितस्य समुत्थिताः ॥"3 इति श्रुत्या वृत्तिसद्भावावगमात् वृत्तिविस्मरणवचनं अनुपपनमिति चेत् अत्रोच्यते. न हि निर्विकल्पसमाधिः प्रकृतः, ब्रह्मविच्छ्रेष्ठलभ्यत्वेन षष्ठस्य निर्वासनाख्यस्य - 1. अब जीव एवं सम्पद्य, देवलोकायुपभोगस्थानेष्विव आगन्तुकेन केनचिद्विशेषेणाभिनिष्पद्यते उतात्ममात्रेणेति संशये, अय' केवलेनैवात्मना आविर्भवति न धर्मान्तरेणेत्युक्तम् । स्वेनेति श्रुतौ स्वशब्दोक्तेरिति तत्र हेतुः। (ब.सू. 4-4.1) 2. इदं च पूर्ण वाक्यम् - अथ ये चास्येह जीवाः ये च प्रेताः यच्चान्यदिच्छन्न लभते स्वं तदत्र गत्वा विन्दते अत्र ह्यस्य ते सत्याः कामाः अनृतापिथानाः तद्यथा हिरण्यनिधिं निहितं अक्षेत्रज्ञाः उपर्युपरि सञ्चरन्तो न विन्दते एवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोक न विन्दन्ति, अनतेन हि प्रत्यूढाः" इति (छ. 8-3-2). 3. अध्यात्मोपनिषत 38. ":
पञ्चदशाङ्गयोगप्रकरणम् 21 समाधेरेव प्रकृतत्वात् । तृतीयो हि निर्विकल्पाख्यः समाधिः ब्रह्मविल्लभ्यः प्रसिद्धः। तत्रापि प्रारब्धबीजसद्भावेऽपि सञ्चितागामिबीजाभावात् सुषुप्तिवैलक्षण्यं अवगन्तव्यम् ॥1 इति श्रीमदप्पयदीक्षितेन्द्रान्वयजेन अप्पयदीक्षिताचार्येण विरचितेषु पञ्चदशाङ्गयोगप्रकरणं समाप्तम् ॥ 1. एतद ग्रन्थमूलभूततेजोबिन्दूपनिषदि इम पञ्चदशाङ्गयोगमुपपाद्य, एवं उपसंहारः कृतः, यथा- " इदं चाकृत्रिमानन्दं तावत् साधु समभ्यसेत् । लक्ष्ये यावत् क्षणात् पुंसः प्रत्यक्त्वं संम्भवेत् स्वयम् ।। ततः साधननिर्मुक्त: सिद्धो भवति योगिराट् । समाधौ क्रियमाणे तु विनान्यायान्ति वै बलात् ।। अनुसन्धानराहित्य आलस्य भोगलालसम् । लयस्तमश्च विक्षेप: तेजः स्वेदश्च शून्यता ।। एवं हि विघ्नबाहुल्य त्याज्य ब्रह्मविशारदैः । कुशलाः ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।। ते ह्यज्ञानतया नूनं पुनरायान्ति यान्ति च । ये तु वृत्ति विजानन्ति ज्ञात्वा वै वर्धयन्ति ते ॥ निमिषाधं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।। विद्वानेव सुखे तिठेत धिया चिद्रसपूर्ण या ॥" इत्यादि । 2. भगवत्पादशङ्कराचार्यैरपि स्वविरचितायां अपरोक्षानुभूतौ सविस्तरं पञ्चदशाङ्गयोग एवोपपादितः । अधिकं तु अस्मदीयप्रस्तावनायां द्रष्टव्यमिति शम् ।।
- -- मूलश्लोकानुक्रमणी श्लोकाः पुटम इलो.स 8 5 15 11 7 4 16 12 18 14 12 7 3 2 14 10 अभ्यासारभ्भकाले आभासानां निषेधं जीवन्मुक्तस्य तस्या दृष्ट्वा यो दग्धवस्त्रा देहाद्यालम्बन यत् पद्मादीन्यासनानि पश्चात्रिःसंशयस्सन् पूर्वोक्तब्रह्मदृष्टिं ब्रह्मात्मैक्यानुभूति ब्रह्मादीनामहन्ता ब्रह्मेवास्मीति नित्यं मूले यस्मिन् परस्मिन् वृत्तीनां विस्मृतिर्या श्रीमन्तं पूर्वपुण्यैः सदगुरुं प्रणिपत्याहं साम्यं ब्रह्मण्यखण्डे 17 13 10 6 5 3 13 8 18 15 1 -- 1 1 14 9 उद्धृतप्रमाणानुक्रमणिका प्रमाणानि आकरः पुट पंक्तिः 11 32 19 20 -- अ अक्षरत्वाद्वरेण्यत्वातू* अङ्गानां समतां विद्यात् अथ ये चास्येह अधीत्य चतुरो अनिर्वचनीयज्योतिः अनुरक्ति: परे अनुसन्धानराहित्यं अनेकशतसंख्या अनेन अष्टाङ्ग अन्धवजड अपानमूर्ध्व अव-5 तेजो 1-28 छां 8-3-2 मुक्ति 2-65 मण्ड 4-3 त्रिशि 2-28 तेजो 1-40 मुक्ति 2-66 अप 100 नार 4-36 ध्यान 75 छां 8-12-2 14 20 VIII 12 IX 21 VIII IX 7 14 19 23 32 11 3 9 11 28 32 अशरीरो वायु आ अद्ध 8 तेजो 4-80 आचार्यो वेद आत्मानमेव आत्मा वा अरे आदावन्ते च 11 6 3 28 32 22 बृ. 2-4-5 तेजो 1-23 9 ०० her 1 इति वा तद्भवेत् इदं चाकृत्रिमानन्द इमाः सर्वाः प्रजाः इह चेदवेदीत् इहैव तैर्जितः तेजो 1-22 तेजो 1-38 छां 8-3-2 केनो 2-5 गीता 5-19 8 21 20 VII VII 6 3 5 ए (सदा) VII एकं वेदान्तविज्ञानं एको हि दोषो 11 26 कुमा 1-3 VII * सूचना : एवं किश्चिदन्तनिवेशितानि प्रस्तावनांटिप्पण्योरुध्दतानि प्रमाणानि। :
24 उद्धृतप्रमाणानुक्रमणिका आकरः पक्तिः प्रमाणानि एते यमाः सनियमाः एवं हि विघ्न एष सम्प्रसादो विष्णु 6-7-38 तेजो 1-41 छां 8-12-2 पुट 3 21 19 30 13 19 क कल्पना सर्वभूतानां काल: स्वभावो कुशलाः ब्रह्म क्रियावानेषः क्षीणः क्लेशः जन्म तेजो 1-24 श्वेता 1-2 तेजो 1-46 10 10 21 VII 4 17 21 14 2 29 मुण्ड 3-1-4 श्वेता 1-11 ग तेजो 1-22 यो. शि. 1-104 8 14 गिरा मौनं तु गुदं पाया तु गुरुभक्तिसमायुक्तः गुशब्दस्त्वन्धकारः 6 3 29 30 अद्र 9 अद्ध 10 1 1 चित्तस्य निश्चलीभावः चित्तस्यान्तर्मुखी चित्तादिसवभावेषु त्रिशि 2-30 त्रिशिं 2-30. तेजो 1-31 X X 16 4 3 5 ज X. 2 त्रिशि 2-29 यो. शिं 1-52 जगत्सर्वमिदं जन्मान्तरैश्च बहुभिः जानामि धर्म जानूर्वोरन्तरे जीवन्मुक्तिदशां ज्ञात्वा देवं सर्व ज्ञाननिष्ठो विरक्तो दर्श 3-3 10.... 12 9 22 24. 17 31 17 5 अन 3-3 4 श्वेता 1-11 यो. शि 1-24 VIII त तच्च मूर्त हरे: ततः 'साधननिर्मुक्तः विष्णु 6-7-78 तेजो 1-39 17 21. 34 9 उद्धृतप्रमाणानुक्रमणिका 25 प्रमाणानि आकरः पुट पंक्ति सू. .. यो. 3-2 गीता 6-42 छां. 6-8-7 अव 10 18 9 3 5 19 18 4 तत्र प्रत्ययैक तत्रैकाग्रं मनः तत्त्वमसि तदेव कृतकृत्यत्वं तदेवार्थमात्र तद्पप्रत्यय तपस्सन्तोष तपस्विभ्योऽधिको तयोस्तवृत्ति तस्माद्योगात् तस्यैव कल्पना तावदेव निरोद्धव्यं ते ध्यानयोगानुगताः ते ह्यज्ञानतया नूनं त्यागः प्रपश्चरूपस्य 26 25 12 25 25 26 10 18 9 21 25 31 1 यो. सू. 3-3 विष्णु. 6-7-89 दर्श 2-1 गीता 6-46 तेजो 1-33 यो. शि. 1-53 विष्णु 6-7-90 त्रिपु 5-5 श्वेता 1-3 तेजो 1-46 तेजो 1-19 16 1 19 8 11 21 6 2 15 6 द तेजो 1-29 दृष्टिं ज्ञानमयीं देहाक्षादौ विरक्तिः देहेन्द्रियादि द्रष्टव्यः दृष्टदर्शन त्रिशि2-28 15 IX IX 5 15 11 30 34 30 13 बृ2-4-5 तेजो 1-30 ध ध्यानस्य विस्मृतिः : त्रिशि 2-31 X 6 महा 8-14 विवे 64 31 9 न कर्मणा न प्रजया न गच्छति विना पानं न मौनान्मुनि न ह्यनेन प्रकरणेन नान्योऽतोऽस्ति नाभिचक्रे हृदय निमिषार्धं न पश्च 97-14 बृ. 5-7-2 यो. भा 3-1 तेजो 1-47 6 VII 7 IX 8 17 21 25 20 20 31 17 26 उद्धृतप्रमाणानुक्रमणिका आकरः पुट पंक्तिः प्रमाणानि निरस्तविषया निर्विकारतया निषेधनं प्रपञ्चस्य त्रिपु. 5,4 तेजो 1-37 तेजो 1-32 8 19 16 31 3 7 प प्राणायामेन पवनं विष्णु 6-7-45 17 33 ब अन्न 3-4 बद्धपद्मासनः बाह्यादापूरणं ब्रह्मचर्यमहिंसा ब्रह्माकारमनो ब्रह्मवास्मीति दर्श 6-13 विष्णु 6-7-36 मुक्ति 2-53 तेजो 1-36 9 15 3 4 18 32 32 29 5 12 भ दर्श 3-1 भद्रं मुक्तासनं भिद्यते हृदय 12 6 25 23 मुण्ड 2-2-8 म 7 मथित्वा चतुरो मूर्त भगवतो (ज्ञानस) विष्णु 6-7-77 VIII 17 33 य स्मृतिः यं विनिद्राः जित यतो निर्विषयस्य यत्र नान्यत् यत्र यत्र मनो त्रिपु 5-1 8 8 यन्मूलं सर्व 17 13 2 19 30 19 20 21 9 21 25 25 16 छां.7-23 तेजो 1-35 तेजो 1-27 तेजो 1-15 तेजो 1-20 गीता 6-14 गीता 6-12 तेजो 1-44 यमो हि नियमः यस्माद्वाचो निव 7 युक्त आसीत युज्याद्योगं ये तु वृत्तिं विना 4 4 21 उद्धृतप्रमाणानुक्रमणिका 27 आकरः पुट पंक्तिः प्रमाणानि योगिनस्त योगी युञ्जीत 1 20 गीता 6-10 241 4 9 24 योगेन रहितं यो. शि 1-51 । 21 ल लयस्तमश्च लक्ष्ये तावत् लौकिकं त्वर्थ लौकिकं वैदिक तेजो 1-41 तेजो 1-38 सन 10-52 सन 10-51 21 21 IX IX 12 8 18 16 व वाचो यस्मात् वितर्कविचारा विद्वानेवं सुखे विविक्तदेशं विषयेष्वात्मतां तेजो 1-21 यो. सू. 1-17 तेजो. 1-51 त्रिशि. 89 तेजो 1-34 अध्या.36 7 4 21 9 17 20 23 24 18 26 6 13 वृत्तयस्तु तदानी गीता 6-41 श शुचौ देशे प्रति शृण्वन्त्वज्ञात शौचसन्तोष श्रोतव्यो मन्तव्यो श्वासप्रश्वासयोः अव 16 यो. सू. 2-32 9 11 3 5 16 25 22 28 21 22 बृ. 2-4-5 यो. सू. 2-49 स सजातीयप्रवाह समग्रीवशिर: समाधौ क्रियमाणे सम्पद्याविर्भावः सर्वपाशापहानिः 2 27 10 तेजो. 1-18 दर्श. 3-3 तेजो 1-40 ब्रह्म.4-4-1 श्वेता 1-11 महो 5-113 तेजो 1-17 4 12 21 20 5 11 2 सर्वं ब्रह्म 9 12 सर्वं ब्रह्मेति वै 15 28 उद्धृतप्रमाणानुक्रमणिका पंक्ति: आकरः पुट X त्रिशि. 2-29 1 20 21 6 अमृ-ना. 11 3 प्रमाणानि सर्ववस्तुषूदासीना स वै पुंसां पर: सव्याहृति सप्रणवां सिद्धये सर्वभूता सुखेनैव भवेत् सुमेरोर्वसुधा सुषुप्तिकाले सुषुप्तिसमाध्योः सोऽहं चिन्मात्र स्थिरसुखमासनं स्वविषयासंप्र स्वस्तिकं गोमुखं स्वाध्यायशौच स्वैरं स्वैराविहरणम् 16 13 13 9 19 19 X 12 17 12 तेजो 1-26 तेजो 1-25 अन्न 3-2 कैव. 1-13 मण्ड 2-3-4 त्रिशि. 2-31 यो. सू. 2-46 यो. सू. 2-54 दर्श. 3-1 विष्णु. 6-7-37 अव.5 30 7 29 5 29 22 10 29 24 3 10 -------- उद्धृताः ग्रन्थाः ग्रन्थनाम सङ्केतः ग्रन्थनाम सङ्कतः अद्व अध्या बृ ब्र.सू. गीता अन्न अप मण्ड महा महो मुक्ति मुण्ड यो-चू अद्वयतारकोपनिषत् अध्यात्मोपनिषत् अन्नपूर्णोपनिषत् अपरोक्षानुभूतिः अमृतनादोपनिषत् अमृतबिन्दूपनिषत् अवधूतोपनिषत् कुमारसम्भवः केनोपनिषत् कैवल्योपनिषत् छान्दोग्योपनिषत् ज्ञानसकलिनीतन्त्रम् तेजोबिन्दूपनिषत् त्रिपुरातापिन्युपनिषत् त्रिशिखिब्राह्मणोपनिषत् दर्शनोपनिषत् ध्यानबिन्दूपनिषत् नारदपरिव्राजकोपनिषत् पञ्चदशाङ्गयोगप्रकरणम् अमृ-ना अमृ-बि अव कुमा केनो कैव छां ज्ञान तेजो त्रिपु त्रिशि दर्श ध्यान बृहदारण्यकोपनिषत् ब्रह्मसूत्रम् भगवद्गीता मण्डलब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् मुक्तिकोपनिषत् मुण्डकोपनिषत् योगचूडामण्युपनिषत् योगभाष्यं (वाचस्पत्यम्) योगशिखोपनिषत् योगसूत्रं (पातञ्जलम्) विवेकचूडामणि: विष्णुपुराणम् श्वेताश्वतरोपनिषत् सदाचारस्तोत्रम् सनत्कुमारसंहिता सर्वसारोपनिषत् यो-भा यो-शि योग विवे विष्णु श्वेता सदा सन सर्व नार पञ्च wo7035-~~-MUPM-1,000 copies-21-7-70