Rajasthan University

The Kiranavali Prakasa

Upadhyaya, Vardhamana · 2010/06

PDF Proofread

Front matter

No text on this page.

Introduction. No apology is needed at this late hour, I hope, for the publication of Vardhamāna's commentaryon Udayana's Kiraņāvali (Guņa section ), because the sub-commentary on Vardhámāna's work has already appeared in print in this series. The study of Prasastapādabhāșya can not be properly undertaken until all the late works which have a bearing, either direct as commentary or sub-commentary or indirect as an independent treatise affiliated to the main stock of the school, on Prasastapādā’s masterpiece have been published. The Sūkti, Setu, Vyomavati, Nyāyakandali & Kiraṇāvali have appeared already. If Śrīvatsa’s Nyāyalilāvati refers to Vallabha's famous work of the same name, it has also come out. The present commentary is on Kiraņāvali and is from the pen of Vardhamāna Upādhyāya, son of the great Gangeśa Upādhyāya of Mithilā, author of Tattvachintāmaņi in four sections and father of the so-called Neo-Logic of Bengal & Mithilā.* The age of Vardhamāna is not precisely determinable, but it is believed that he belonged to the fourteenth century of the Christian era. He is said to have been the author of the following works:- * This Vardhamāna is to be differentiated from an earlier author of the same name așsociated with the composition (.in 1140. A. D. ) of Gạnaratnamahodadhi and also from ammatèr jurist of the same name, son of Bhaveša and author of Daņdaviveka, Dharmapradīpa, etc.

ON A-In Nyāya. (1) Nyāyaparišiştaprakāśa, commentary Nyāyapariśişta of Udayana. ( 2 ) Nyāyanibandhaprakāśa, com. on Nyāya- Vārtikatātparyaparisuddhi of Udayana. (3) Nyayakusumāñjaliprakāśa, com, on Nyāyakusumāñjali of Udayana. ( 4 ) Tattvachintāmaņiprakāśa, com. his father's Tattvachintāmaņi. ( 5 ) Prameyatattvabodha. on B-In Vaisesika. ( 6 ) Kiraņā valſprakāśa, com, on Kiraṇāvali of Udayana. (7) Nyāyalilāvatīprakāśa, com. on Nyāyalīlāvati of Vallabha. C-In Vedanta. (8) Khaņdanakhaņdakhādyaprakāśa, com. Khandanakhaņdakhădya of Śri Harşa. It is unfortunate that the personal views of Vardhamāna are not available in the form of a separate treatise, but these can be easily gleaned from the numerous commentaries of which he was the author. It is hoped that students of Indian philosophy, especially those of the Vaišeşika System, will find the work highly useful and serviceable in the interpretation of many a knotty passage of Udayana's text. Lucknow University. } Badrinath Shastri.

किरणावली प्रकाशः १२१ णा जन्यतां तन्तुविभागेनैव वा स्वाव्यवहितोत्तरकाल एव तज्जननं स्यादित्यत आह-कारणे चेति(२) । उत्तरविभागस्तन्त्वाकाश- विभाग इत्यर्थः । स चेति । तन्तुविभाग इत्यर्थः । अपेक्षाकारणं द्वितन्तुकनाश इत्यर्थः(२) पूर्वसंयोगेति । पूर्वसंयोगस्य नन्ताकाशसंयोगस्येत्यर्थः । ननु परमाणुकर्मणा न घणुकप- रमाण्योविभागः तस्य संयोगपूर्वकत्वात् आरम्भकपरमाणुना सह ब्यणुकस्यासंयोगादित्यत आह-अनारम्भकादिति । अनारम्भकेन परमाणुना सह ध्यणुकस्य संयोगपूर्वको विभागः सम्भवत्येवेत्यर्थः । विनाशकारणामावादिति । थाश्रय- नाशविरोधिगुणान्तराभावादित्यर्थः । कर्मण इति । कर्मान- न्ये च विभागे तस्यासमवायिकारणत्वादित्यर्थः । अंश्वन्तर- विभागमिति । ट्रन्यारम्भकसंयोगाविरोधिनमारभ्यारम्भक- वादनिपेधादित्यर्थः। ननु यत्कर्म द्रव्यारम्भकसंयोगविरोषिविभागजनकं न तत्तदविरोधिविभागजनकमिति न व्यवस्था, किन्तु मूर्त- मात्रविभागजनकपमूर्तविभाग(३) न जनयतीति । एतावतापि विभागजविभागसिद्धि (४) । तथाच द्रव्यारम्भकस्यापि(५) (१) कारणविभागेन हीति-इति (क) (ज) पु०। (२) नाशमित्यर्थः-इति (ख) पु०। (३) अमूर्तवृत्तिविभाग:-इतिं (क) पु०। (४) सिद्धः-इति (क) पु०।.. (५) द्रव्यानारम्भकस्यापि इति (क) पु०।.. १ १२२ गुणनिरूपणम् तन्त्वंश्वन्तरतन्तुसंयोगस्य विरोधी विभागो द्रव्यारम्भकसं- योगविरोधिविभागजनकेन कर्मणा जन्यताम् मूर्तवृत्तित्वा- व(१) न त्वाकाशतन्तुविभागोऽमूर्तचित्वादित्याशयः नि- राकरोति-मूर्मासूति । प्रत्यक्षेण तथा सहचारानच- सायावयाप्तौ मानाभावादित्यर्थः । मूर्तेति(२) । यदि नैवं तदा पद्मपत्रकर्मणाप्याकाशविभागो न स्यादिति(३) । तत्रापि विभागजविभागोऽङ्गीक्रियेतेत्यर्थः(४) । आपरमाण्विति । साक्षात्परम्परासाधारणद्रव्यारम्भकसंयोगविरोधित्वमात्रस्य विव- क्षितत्वादित्यर्थः । तस्मादिति(५)। ननु द्वितन्तुकारम्भकांशुसंयोगस्य द्वितन्तुकपटे नासमवायि- कारणत्वं समवायिकारणहत्तेरेव तथात्वात् । नापि समंवायि- • तथा । आरभ्यारम्भकवादनिषेधेन पटं प्रत्यशूनामतत्त्वाद । नापि निमित्ततया । तन्तुत्वेनैवान्यथासिद्धत्वात् । तथाच द्रव्या- समवायिकारणतन्तुसंयोगविरोधिविभागजनककर्मणः वायिकारणेतरसंयोगविरोधिविभागजनकत्वं विरोधात । अत्राहुा । अंशुसंयोगः पदनिमित्तकारणम् । न च तत्र मानाभावः । अवयवावयवसंयोगविशेषादपि कार्यविशेषदर्शनात् । कथमसम. (१) मूर्तमात्रवृत्तित्वात्-इति (क) पु० । (२) मूर्तविभागजनकत्वेनेति-इति (क) पु०। (३) न जन्यतेति इति (क) पु०। (४) नाङ्गीक्रियेतेत्यर्थ:-इति (क) पु० । (५) तस्माद्व्यारम्भकेति-इति (क) पु० ।

किरणावली प्रकाश १२३ अकारणविशेषस्य च कार्यविशेषत्वात् । अतस्तदाश्रया अंशो- ऽपि तत्कारणानि संयोगमात्रस्याकारणतया संयोगिविशेपितस्प तस्य कारणत्वात् । अन्यथा संयोगेनान्यथासिद्धमिन्द्रियाद्यपि प्रत्यक्षादौ कारणं न स्यात् । द्रव्यारम्भसंयोगविरोधित्वेन च द्रव्यमात्रस्य निमित्तकारणसाधारणतया विवक्षितत्वाव । एतल्लभ्यत इति । क्रमेण तन्तोरंशुकम्माशुविभागारम्भकसंयोगनाशतन्तु- नाशाः । अंशुकर्मकाले वीरणे कर्म । ततो विभागस्ततः संयोग- नाशोऽयोत्तरदेशसंयोग इत्युभाभ्यां स्वाश्रयनाशोत्तरदेशसंयोगाभ्यां तन्तुबीरणविभागो नाश्यत इत्यर्थः । परत्वनिरूपणावसर एवापरत्वनिरूपणमुपपादयति । परस्परे- ति। परत्वापरत्वयोरन्योन्यमाश्रयमवधिमपेक्ष्पैवोत्पत्तेः। परस्परसा- मग्रीनयत्यात् । परस्परोत्पत्तित्ववव्यवहारविषयत्वज्ञापनमेव व्यु- त्पत्तिवैषम्यमित्यर्थः। मिलितस्यासम्भवं निराकुर्वन्नाइ-घथायथ- मिति । निमित्तत्वमदृष्टादिष्यतिव्याप्तं मत्वाइ-यविशिष्ट इति । लक्षणमिति । यद्यपि दिक्कृतकाळकृतपरत्वापरत्वयोः शब्दमात्र. साधारण्यात परापरव्यवहारयोर्नकत्वम् अपेक्षावुद्धिजन्यावि- भुत्तिमात्रत्तिगुणत्वव्याप्यजातिमत्त्वञ्च न लक्षणं परस्परलक्ष- णस्य परस्परस्मिन्नन्याप्तः । तथापि शृङ्गमाहिकया व्यक्तिविशेष निर्दिश्य एतत्तिगुणत्वव्याप्यजातिमत्वं लक्षणमेकैकस्य । न ताशजातो मानाभावः । सामग्रीवलक्षण्येन कार्यवैजात्यस्याबार- कत्वाव । दिकालकृतयोः परत्वयोरपरत्वयोश्चाल्सीयस्तर पेक्षावुद्धिजन्यमूर्त्तमात्रगुणत्वेनोपापिना एकगुणत्वम् । Fa ... गुणनिरूपणम्... ञ्चेति । उक्तमेव प्रत्यक्षमित्यर्थः । ननु किञ्चिदवध्यपेक्षसंयुक्त- संयोगभूयस्त्वाल्पीयस्त्वविषयापेक्षाबुद्धिजन्यत्वात परत्वापरत्वयोरा- वश्यकत्वाल्लाघवाच्च ताभ्यामेव परापरव्यवहारौ . स्तां किं गुणा- न्तरकल्पनयेत्याह-संयुक्तसंयोगेति । प्रभातर्यपीति । ननुं ताशसंयोगाश्रयत्वे यत् प्रतीयात् तत्र परापरव्यवहारो न तुं तदवधित्वेन प्रतीयमाने । प्रमातापि यदा तादृशसंयोगाश्रयत्वेन ज्ञायते न त्ववधित्वेन तदा प्रमातर्यपि वाराणसीतः परोऽहमिति व्यवहारो भवत्येव । अत एवान्यत्राप्यवधौ संयुक्तसंयोगा- विशेषऽपि न परत्वाद्युत्पत्तिः । तथाच यदेव परत्वाद्युत्पत्ती नियामकं तदेव व्यवहारनिमित्तमस्तु । अत्राहुः । प्रमातात्मा न शरीरामिति विभत्वात्तत्र व्यवहारा- नास्पदेऽपि ताशसंयोगाश्रयत्वेन परव्यवहारापत्तिः । न च मूर्त्तत्वमपि तद्व्यवहारनिमित्तमस्तु । संयोगस्य सावधित्वाभावात् । इदमस्मात संयुक्तमित्यप्रतीतेः । परत्वादेस्तु सावधित्वेन प्रतीतेः । परत्वादेरेकवृत्तितया प्रतीतेप्सज्यत्तिसंयोगान्दात् । संयोग- भेदापरिगणनेऽपि परव्यवहाराच्च । अन्ये तु संयुक्त संयोगाल्पीयस्त्वभूयस्त्वे नाकाशादिदेशा- पेक्षया, तेषामविशिष्टत्वादतीन्द्रियत्वाच । किन्त्वालोकादियध्यवर्त्य- पेक्षया । तथाचैकदिगवस्थितयोरेव द्वयोरेकस्य घनतरालोकचिना संयुक्तसंयोगस्य भूयस्त्वे यदपरत्वं विरलालोकमध्यवर्तिनः संयुक्त- संयोगाल्पीयस्त्वे यत् परत्वमुत्पद्यते. तन्न स्यादित्याहुः । ... ननु व्यवहारेति । अज्ञाताद कारणात् कार्योत्पत्तिनियमो किरणावली प्रकाशः १२५ भवति व्यवहारविशेपश्च व्यवहर्तव्यविशेष विना नेत्यर्थः। एवं सत्यनुमानमप्याहुः । घटः समानाधिकरणसंयोगासमवायिकारण- कैकरत्तिगुणवान् मूर्त्तत्वाद पार्थिवपरमाणुस्त् ।. दृष्टान्ते तादृशो गुणः पाकजो गन्धादिः। अयं पार्थिवः परमाणुरेतत्तिविशेषगुणभिन्नसंयोगासमवा- यिकारणकैकवृत्तिगुणाश्रयः पार्थिवत्शत् पार्थिवान्तरवदिति न युक्तम् । एकेनापरस्यान्यथासिद्धावुभयासिद्धेः । दिकालकृतत्वं कार्यपात्रस्येत्यतोऽन्यथा व्याचष्टे-दिक्संयोगेति । दिश एकत्वाद्विशेपासम्भव इत्यन्यथा व्याचष्टे-दिग्विशेष: कालादिति। दिशः स्वापेक्षया न विशेषः किन्तु कालापक्षयेत्यर्थः। एवमिति।कालस्यापिदिगपेक्षया विशेषो न स्वापेक्षयेत्यर्थः। दिशि विशेपो दिगुपाधिलक्षणः । ननूत्पत्त्यभिधानप्रतिज्ञा व्यर्था, उत्पत्तेरंवाभिधातुं युक्तत्वा- दित्यत आह-शिष्याणामिति । ननु परत्वाधार इत्ययुक्तमपेक्षा- बुद्धयनन्तरं परत्वाद्युत्पत्तेरित्यत आह-भविष्यदिति। तर्हि कारणाविशेष इति। दिक्तकारकृतपरत्वापरत्वयोः कार्ययोः कारणे विशेषाभावात् कयं विशेष इत्यर्थः । न हीति । दिक्कृतपरत्वाशिवताणपरत्वायनुनाद कालस्येत्यर्थः। अवर्तमानस्येति । परवाशमानस्य सवारिक पद- भावेऽपि. अवधित्वेन दोपामाइः, माजया वर्ग र शाई .. १२६ : गुणनिरूपणम् । व्यवहारात । तथापि परत्वापरत्वषोः परस्पराश्रयमवधीकृत्यै- वोत्पादादविद्यमानस्य समवायिकारणाभावेऽवधित्वस्याप्यभावात् । मृतापेक्षया च वर्तमाने परत्वादिव्यवहारस्तथाविधापेक्षाबुदिविषय- त्वगुणनिबन्धनः। ननु कालकृतपरत्वापरत्वयोर्मानाभावः । तथाहि परत्वापर- त्वाश्रयाभिमतावच्छेदकाद्यसूर्यक्रिया प्रागभावसमानफलत्वालम्वना वा (?) अपरत्वधीस्तु परत्वाबाधाभिमतपिण्डसमानकालपदार्थ- ध्वंसकालोत्पत्तिमत्त्वविषया तदुत्पत्तिकालाश्रयत्वे तदुत्तरकालत्व- विषया वास्तु किं ताभ्याम् । मैवम् । प्रागभावोत्पत्त्यास्तदानीमतीतत्वे परत्वापरत्वयो- वर्तमानताभावानुपपत्तेः । इदानीमयमेतस्मात् परे इति वर्तमान- तामानात् प्रागभावादेरवध्यनिरूप्यत्वेन परत्वादेश्च सावधित्वेन तद्भिन्नत्वात् । केचित्तु । प्रतियोग्यन्यूनानतिरिक्तकालीनावधिकसामवायि- कयावत्परत्वाश्रयसमानकालीनकादाचित्काभावत्वं प्रागभावत्वम् । अतः परत्वेनैव भागभावनिरूपणान तेनैवान्यथासिद्धिरित्याहुः । तन्न। गन्धानाधारकालानाधारत्वाभावेन प्रागभावनिर्वचनात् । बहुतरतपनेति । यत्मागभावावच्छेदकक्षणावच्छिन्नजन्म यदपेक्षया तद्विपकृष्टं यज्जन्मावच्छेदकक्षणध्वंसक्षणाधिकरणजन्म यदपेक्षया तत्सन्निकृष्टमित्यर्थः । अत्र केचिदाहुः । जन्मान्तर्भावो व्यर्थः । बहुतरतपनपरिस्प- न्दावच्छिन्नत्वबुद्धेरेव परत्वोत्पादकत्वात् । एवञ्चानित्यद्रव्यापेक्षया . ".

. किरणावली प्रकाशः १२७ नित्यद्रव्येऽपि तादृशापेक्षाबुद्धया परत्वमुत्पद्यते । ज्येष्ठेऽतीते चिरं जीवतः कनिष्ठस्य नपरत्वोत्पत्तिः । तत्मागभावकालावच्छिन्नत्व- बुद्धेरेव परत्वोत्पादकत्वादिति । विप्रकृष्टत्वेनेति । परत्वापरत्वयोरुत्पत्तिक्षणानव्यवहित- पाक्क्षणत्तिविमकृष्टत्वसनिकृष्टत्वाभ्यां माप्तत्वादित्यर्थः । तस्मादिति । द्रव्यनाशापेक्षाबुद्धिनाशयोरभावात् । पारि- शेष्येण संयोगनाश एव परत्वादिनाशक इत्यर्थः । यद्यपीति । एताभ्यां पर्यायशब्दाभ्यामभिधेया बुद्धिरित्यसा- धारणतया व्यवच्छेदकत्वात् पर्यायाभिधानमपि लक्षणम् । यद्यपि सङ्केतमात्राधीनमवृत्तयः शब्दाः सर्वत्र संभवन्ति तथापि प्रादेशि- कस्य सङ्केतस्यातयात्वेऽपि सर्वजनीन ऐश्वरः सडूनः शक्नोति बुद्धि व्यवच्छेत्तुम् । तेनापि करणव्युत्पत्त्या बुद्धिज्ञानशब्दो यद्यपि मनसि वर्तेते तथापि भावव्युत्पत्त्यात्र लक्षणम् । ननु बुद्धिज्ञानशब्दौ चैत्रादिपदवत् यत्र सङ्केत्येते तत्रातिव्याप्तिः । द्वादशेऽह्नि पिता नाम कुर्यादिति सामान्येन रूपेण तस्यापीश्वरसङ्केतविषयत्वादिति चेत् । बुद्धिज्ञानशब्दद्वयवाच्यत्वस्य विवक्षितत्वात् । द्वादशेहि पिता नाम कुर्यादित्यत्र विधेयगतसंख्यात्वेनैकत्वस्य विवक्षितत्वे नामद्वयस्यैका तात्पर्यागोचरत्वात । यद्वा । पर्यायशब्दाभिधानेन बुद्धिरिति लक्ष्यनिर्देशः । ज्ञानपदस्य स्वपत्तिज्ञानत्वनिषित्तज्ञानत्वजातो तात्पर्य तेन ज्ञानत्वं लक्षणम् । तत्सिद्धिश्चानुगतबुद्धेराश्रयासिद्धिं निवारयति । तस्मिन् सतीति । न च ज्ञानग्रहणसामग्र्यास्तद्ग्रहणोत्तर- .

' - १२८ गुणानिरूपणम् . मपि सत्त्वादेकज्ञानधीपरम्परया विषयान्तरसञ्चारो न स्यात् । विषयान्तरधीसामठ्याः प्रतिबन्धकत्वात् । कार्यदर्शनेन तथा कल्पनात् । सांख्या हीति । प्रथमः परिणाम आधा विकृतिः । सत्त्वरजस्तमासाम्यरूपायाः परिणामिन्याः सत्वभेदः : प्रथमः परिणामो बुद्धिरन्तःकरणभेदः । सांख्यानां बुद्धिमनोऽङ्कार- भेदेन तत्रैविध्याद । बुद्धेरिति । बुद्धस्त्रयोंऽशाः पुरुषोपरागविषयोपरागल्यापारा- वेशभेदात् । मयेदं कर्तव्यमित्यध्यवसायात् । तत्र मयेत्यतात्त्विको महच्चेतनयो दाग्रहादेकत्वाभिमानः पुरुषोपरागः। नीलादिष्विन्द्रियसनिकर्षाव तत्स्वभावस्य महत्तत्त्वस्य नीला- द्याकारपरिणतिभेदात्पादो मलदर्पणसम्बन्धवत पारमार्थिको विषयोपरागः । पुरुषोपरागविषयोपरागाभ्यां कर्तव्यविषयस्य प्रतिभासात्तदधीन करोमीत्यध्यवसायो व्यापारावेशः। तत्राद्योऽशो बुद्धिर्द्वितीयो ज्ञानं तृतीयश्चोपलब्धिरित्यर्थः । धुद्धिस्थामिति । बुद्धर्भावाष्टकसम्पन्नत्वात् मुखादिकं भावनान्तं तद्धर्म इत्यर्थः। यदीति । करणव्युत्पन्नस्यान्तःकरणवांचितयास्माभिरुप- गमादित्यर्थः । तद्भिन्नान्तःकरणे बुद्धिर्नास्ति मानाभावादित्याह-ततोऽ पीति । भावव्युत्पन्नस्य बुद्धिशब्दस्य नान्त:करणवाचिता, करण- फलयो दादित्याह-बोध इति । अन्तःकरणस्यातीन्द्रियत्वात प्रत्यक्षाया बुद्धर्भेदमाह-स चेति । ननु फलमपि महदन्तःकरणस्य किरणावली प्रकाशः १२९ धर्मो धर्मधर्मिणोश्चाभेदादन्तःकरणाभिन्नं स्यादित्यत आह-अत एवेति । अहं बुद्ध इत्यनुभवस्य सर्वजनीनत्वादित्यर्थः । स चायमनुभवो भ्रम इत्याह-न चेति । ननु बुद्धरात्पधर्मत्वे- ऽनित्यधर्मानाश्रयत्वं कौटस्थाश्रुतिसिद्धं विरुध्यत इत्यत आई- न चैवमिति । नित्यत्वं कौटस्थ्यमनुक्तरूपम् । तच्च धर्मधर्मि- णो दाद्धर्मानित्यत्वेऽपि न विरुद्धमित्यर्थः । एतेनेति । बुद्धरात्मधर्मत्वव्युत्पादनेन तद्वदभिमान आत्मनि ज्ञानाभिमानः । ज्ञानाभिन्नाया बुद्धेरात्मधर्मत्वे सिद्ध ज्ञानमप्यात्म- वृत्तीति सिद्धमित्यर्थः। अधिकमिति।बुद्धेरिति शेषः। परिभाषैवेति। "शब्दमात्र न त्वर्थोऽधिक " इत्यादिना तस्याः समानतन्त्रनिरासादित्यर्थः । स्वरूपकृत इति । साक्षात्कारित्वादित्यर्थः। वैयाधिकरण्यं परिहरति-अनन्तार्थत्वादिति । व्यासो विस्तारः। यथार्थमिति । ननु यथार्थज्ञानत्वं स्मृतावतिव्याप्तं यथार्थानुभवत्वञ्च संशय- विशेषेऽतिव्यापकम्, अन्यतरत्वस्य दाशब्दार्थत्वात, तस्य क्वचित् सत्त्वात् । न यथार्थनिश्चयत्वम् । यथार्थस्तथा ज्ञानमित्यर्थे यथा. शब्दार्थसादृश्यस्य सर्वथैकदेशाभ्यामव्याप्यतिव्याप्तिभ्यामनुपपत्तेः । नापि विशेष्यत्तिमकारत्वं निर्विकल्पकाव्याप्तेः। नापि विशेष्यात्त्यमकारकत्वम् । एकैकविशेष्यात्तिनाना- २ गुणनिरूपणम् .. प्रकारकसमूहालम्बनाव्याप्तेः । न च.प्रकारस्यैकविशेष्यत्तितया न विशेष्यात्तित्वम् । प्रमाऽपमारूपसमूहालम्बनाव्याप्त। न च यावद्विशेष्यात्तित्वं विवक्षितम् । एकैकविशेष्यवृत्ते- विद्विशेष्यात्तित्वेन समूहालम्बनाव्याप्तः । नाप्यबाधितानुभवत्वम् । वाधस्य प्रमात्वात् । नापि जाति- विशेषः । योग्यत्तितया तत्संशयानापत्तेः। प्रमात्वस्य नित्यानुमेयत्वात् । प्रत्यक्षत्वादिना. सङ्करप्रसङ्गाच्च । उच्यते । यत्र यदस्ति तत्र तस्यानुभव प्रमा । यद्यत्रं नास्ति तत्र तस्यानुभवोऽप्रमा । अत एव रजतमिदमिति ज्ञानमिदन्त्ववति तदनु- भवात् प्रमा। रजतत्वाभाववति तदनुभवादप्रमा . । न. चाव्याप्य- त्तिप्रमायामव्याप्तिः। भिन्नावच्छेदेन हि तत्र भावाभावयोतिः। तथाच यत्र पस्य , भावो न तत्र तस्याभावः । अविद्यायाः पश्चादनुमाने विद्यापूर्वकत्वादिति हेतुः अविद्यायाः प्रथमविभागे लघुपतिपत्तिकत्वादिति हेतुः । धम्मीशे सर्वधियां यथार्थतया सकल- ज्ञानव्यापकत्वेन विद्याया गुरुप्रतिपत्तिकज्ञानत्वात् । सूचीकटाह- न्यायेनाविद्यायाः प्रथम विभाग इत्यर्थः । अथेति । तस्यायथार्थज्ञानत्वादविद्यायां तद्विभागो । युक्त इत्यर्थः। संशयात्प्रच्युता इति । संशयो हि दोलायितानेकको- टिकः। तर्कस्तु नियतां कोटिमालम्बत इत्यर्थः । प्रमाकरणनिष्ठः प्रमाणसहकारी न तु तत्समवेतः। अविज्ञात- तत्त्व इति । न विज्ञातं विशेषतो ज्ञातं तत्त्वं वास्तवं रूपं यस्यार्थ- किरणावली प्रकाशः १३१ स्यति विशेपनिपेधात् सामान्यज्ञानला धर्मिज्ञानं संशायकं कभ्यते। कारणोपपत्तिरिति । कारणं व्याप्य तदुपपत्तिराहार्यारोपरूपा । परेणाभ्युपगतस्य हेतोर्निहित्वस्य. व्याप्यस्य य आरोपस्ततो- ऽनिष्टस्य निर्द्धमत्वस्यामसञ्जनं तर्क इत्यर्थः । यद्यपि संशयजिज्ञासे अप्यविज्ञाततच्चे प्रवर्त्तते । तथापि प्रमा- णोपपत्तित इति तद्वयवच्छेदः । अनियतजिज्ञासाविच्छेदेनेति. साध्यतदभावविषयक- समकोटिकजिज्ञासा निवृत्तेत्यर्थः । संशयस्य स्वनियतजिज्ञासात एव निहत्तेः । संशयो हि वि- रोधिविपयकतया स्वसमानविषयामनुमिति प्रतिबध्नाति । न हि वि- रोधिनो ज्ञानस्य निश्चयत्वं तन्त्रं किन्तु ज्ञानत्वमात्रं लाघवात । एवं तजनिताऽनियतकोटिका जिज्ञासापि तत्पतिवन्धिका । तत्पतिबन्ध- कत्वे विरोधिविषयत्वमात्रस्यैव प्रयोजकत्वाल्लाघवादिति । तन्नित्ति- स्तोदित्यर्थः। ननु विरोधिविपयत्वेऽपि संशयस्याव्यवस्थितकोटिकृतया हीन- बलत्वान्न प्रतिवन्धकत्वंम् । अन्यथा तेन प्रतिबन्धादतुमान- वत्तोऽपि न प्रवर्तेत । न वा तात् संशयनिवृत्तिः। वैषयिको हि विरोधस्तत्र तन्त्रम् । न च निवर्त्तनीयनिर्वह्नित्वादिकोटिविरुद्ध- विषयो यद्ययं निर्वाह्नः स्यानि मा स्यादिति तर्कः । अत एवं साध्यविरोधिजिज्ञासापि नानुमितिप्रतिवन्धिका । तस्या भपि संश- यवद्धीनबलत्वात् । तृतीयलिङ्गपरामर्शानन्तरं विरोधिजिज्ञासया नुमितिविलम्बे मानाभावाच्च । न च , साध्यैककोटिका जिज्ञासा- -- १३२ ..गुणनिरूपणम् .. नुमितिहेतुः । सा तर्केण कोट्यन्तरेऽनिष्टमुपनयता जन्यते, तद्व्यतिरेकेऽप्यनुमित्युत्पत्तेः। मैवम् । कामिनीजिज्ञासोः धूमपरामर्शेऽप्यन्यननुमितेजि- ज्ञासाविशेषस्यानुमितिप्रतिबन्धकत्वे विरोधिविषयस्यैव तन्त्रत्वादः। एवं विरोधिनानाविषयस्य जिज्ञासा । तद्बोधकजिज्ञासानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थि । तत्र कोठ्यन्तरे तणा- निष्टमुपनयता सा जिज्ञासापनीयते । इदमेव वक्ष्यति "न हि कुर्यामित्यादि ।" : इह भूतल इति । ननु तर्कस्य न प्रत्यक्षानुग्राहकत्वम् । तक बिनाप्युन्मीलिताक्षस्याभावधीदर्शनात तत्मामाण्यानुग्राहकानु- मानानुग्राहकत्वे तु अनुमान एव तत्त्वम् । मैवम् । प्रत्यक्षस्य घाभाववति भूतले वर्तमानस्य विरोधि- धीनिरासरूपोऽनुग्रहः क्रियत इति विरोधिधीपूर्वकप्रत्यक्ष सावधार- णप्रत्यक्षविशेषे च तापेक्षणात् । ननु यद्यपि नियतकोटिकजिज्ञासा , ज्ञानेष्टसाधनताज्ञानेन जन्यते । तथाप्यन्वयव्यतिरेकाभ्यां तोऽपि तद्धेतुः । यद्यपि. च यथोक्ततर्क विनाप्यनुमितिदर्शनाद्वयभिचारेण तर्कस्तत्र न. कारणम् । तथापि पुरुषप्रयनसाध्या यत्रानुमानम- त्तिस्तत्रैताहशस्तकः कारणम् । अनियतकोटीति । तस्यारोपिता, व्यवस्थितसत्त्वौपाधि- कसत्त्वविषयत्वेनानिश्चायकतया प्रयारूपत्वाभावादित्यर्थः । .प्रमितहानिरिति । प्रमितस्य धूमस्य हानिरप्रमितस्य निर्दू- किरणावली प्रकाशः १३३ मत्वस्योपगम इत्यर्थः । एवमन्यत्रापि । न्यायाङ्गतयेति । संशयव- दिति शेषः । विरोधिनानार्थावमर्ष इति । नन्वेतत् स्थाणुः पुरुषश्चेति भ्रमेऽतिव्याप्तम् । विरोधे भासमान इति विशेपणेऽपि धूमाभाववानयं यदि धूमवान् स्यात् वह्नयभाववानपि वह्निमान स्यादित्यत्र तोऽतिव्याप्तिः । न च तत्र वयभावविशिष्टे वह्निवैशिष्टयं विषयः । संशये तु तुल्य. वदुभयवैशिष्टयं विषयः। तथापि विरोध्युभयविशिष्टमिति शब्द- जन्यज्ञानेऽतिव्याप्तिः । न च जिज्ञासाजनकं ज्ञानं संशयः । उपेक्षणीयसंशयाव्याप्तेः । योग्यतायाश्च तदवच्छेदकधर्मप्रतीता- वातीतेः । अनुव्यवसायेऽतिव्याप्तेश्च । नापि स्थाणुर्वा पुरुषो वेति स्मरणाभावात् संस्काराजनकं ज्ञानं संशयः। तथाविध- निश्चयेऽतिव्याप्तेः। तस्यापि किञ्चिदवच्छिन्ने ग्रहः । उच्यते । एकस्मिन धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशयः। न चैतनिरुक्तजन्यज्ञान तिव्याप्तिः । तत्र विरोधिनानामकारकत्वस्य प्रकारत्वात् । संशये च विरोधिनोरेव प्रकारत्वाद । विरोध्युभय- विशिष्टमितिशब्दस्यायोग्यतया ज्ञानाजनकत्वात्तजनकत्वज्ञानेऽति- व्यात्यभावात्तदेव वा लक्षणम् । ननु समानधर्मदर्शनात्तद्भिन्ने धर्मिणि कथं संशय इत्यत आह-उलयोति । संशयस्य चेति । ननु कस्यचित संशयस्य मुखमात्रजनकत्वाद्धर्मजन्यत्त्वमपि । अत्राहुः । संशयो न संसारविरोधी । किन्तु य आत्म- गोचरः । संसारविरोधीति दर्शयितुं दुःखपदं संसारे उपचर्य १३४ : गुणनिरूपणम् संसारहेतुत्वेन धर्मस्याप्यधर्मत्वेनाभिधानम् । ज्ञातृधर्मेति । ज्ञातुरपि ज्ञेयत्वात् गोपन्यायेन विभागः।भ्रान्तोऽहमिति। यद्यप्ययमात्म- धर्मिकः संशयस्तथापि ज्ञानधर्मिक एवोचितः । तथैवोपक्रमात् । ननु समानधर्मज एव न संशयः। उपलब्ध्यनुपलब्धिविपति- पत्तीनामपि संशायकत्वादित्यत आह-एतदुक्तमिति । तद्विषयेऽपि समानधर्मसद्भावं दृष्टान्तेनाह-यथाहीति। व्याहतेति । ननु विप्रतिपत्तिविरुद्धधर्मविषयका शब्दप्रयोगः । कारणेन कार्यस्य लक्षणात् । वादिगतायास्तस्याः परोक्षत्वात् । स च समान- धर्मवद्धर्मिनिष्ठत्वेनापतिसन्धीयमान एव संशयहेतुः। न । तस्यापि विषयविषयिभावेन सम्बन्धेन धर्मिनिष्ठतया प्रतिसंहितस्यैव संशाय. कत्वात् । अन्यथातिप्रसङ्गात् । ननु समानधर्मो न संशयमात्रे हेतुः । व्यभिचाराव । न । तद्विशेषे जातिकृतस्य तस्यासिः । कारणत्वग्रहात्तत्कल्पनेऽन्योन्याश्रयात् । किञ्च । न तस्य स्वरूपतः संशायकत्वं किन्तु तत्सह- चरितकोटिस्मारकतयोत तत्रैवान्यथासिद्धिः । न च कोटिस्मरणं तद्वयापारः । केवलाददृष्टादपि कोटिस्मृतेः। अत एव स्मर्यमाण- कोटिके संशये तत्कारणत्वमपास्तम् । तस्मात् कोट्युपस्थितिम्मि- ज्ञानविशेषादर्शनान्येव संशयकारणानि । मैवम् । उत्कटकोटिकसंशयस्यान्यथासिद्धेः । यत्र कोटी भूयःसहचरितधर्मग्रहस्तत्रैवोत्कटत्वात् । तथाच तत्र विशेषे तत्कारणत्वादन्यत्रापि । यद्वा वेगेन गच्छत- स्तत्तत्कोटिस्मृतौ । विशेषादर्शने'. च . च . समानधर्मज्ञानाज्ञानयोः 4 तत्र तथा किरणावली प्रकाशः १३५ संशयतदभावाभ्यां तत्कारणत्वम् । केवलादृष्टस्मारितकोटिकश्च संशयो नास्त्येव येन तस्य वहिर्भावः स्यात् । सर्वत्र समानधर्मस्या- न्वयादिदर्शनात् । ननु समानधर्मेषु समानशब्दो न सादृश्यार्थः । किन्तु साधारणार्थ इति स्थाणुपुरुषसंशयो न स्यात् । तयोः परिमाण. स्यासाधारणत्वात् । तज्जातेश्चाद्रव्यत्तित्वात् । न । जातरपि परम्परासम्बन्धेन द्रव्यवृत्तेः। सारूप्यज्ञानादिति । स्थाणुपुरुपसदृशोऽयमिति ज्ञानात् विरुद्धनानाप्रकारकज्ञानस्यैकस्मिन धर्मिमण्यनुभवसिद्धत्वादित्यर्थः । वाकारार्थश्च विरोधः। परस्परेति । आरोप्यारोपविषययोम्मिथो भेदार्थ वैधर्म्य- मुक्तम् । सामर्थ्यानुपलब्धाविति । तोयजातीयस्य पिपासो- पशमनसामर्थ्यानुपलब्धावित्यर्थः । तडेतुत्वासम्भवेनेति । इष्टानिष्टसामर्थ्यानुपळम्भसम्भवे- नेत्यर्थः । अनुपलब्ध इति । आरोपणीय इत्यर्थः। आरोप्पज्ञानस्यारोपप्रयोजकत्वमुक्त्वारोपविषयज्ञानस्य तत्म- योजकत्वमाह-आरोपविषयेति । आरोप्यज्ञानेति । ननु सारूप्यं न सरूपसम्भ्रमहेतुर्मानाभावादिति, ज्ञातस्य तस्य हेतुत्वे तस्य भेदाधिष्ठानतया भेदग्रहाचदनुपपत्तिः । न साधारणधर्म- मात्रग्रहस्यारोप्यस्मारकतया प्रत्यक्षभ्रमे . तन्त्रत्वात् । अन्यथा तद्विषयनियमानुपपत्तेः। -- , १३६ ...गुणनिरूपणम् ... न च विशेषाग्रहमात्रं. तन्नियामकम् । अगृहीतावशेषेऽप्य- सरूपे भ्रमादर्शनात् । अत. एवं सारूप्यस्यैकदेशकात्स्न्ये विक- ल्पोऽप्यपास्तः । आरोप्योपस्थापकत्वमात्रस्य प्रयोजकत्वात् । एवञ्च स्मर्यमाणारोपे सारूप्यग्रहः कारणम् । पतिः शङ्ख इत्यादौ च नयनादिसम्मिन्नपित्तपीतिमानमनुभूय शङ्ख तदारोपः । किञ्च । नात्र शखे पीतगुण आरोप्यते । किन्तु शङ्खपीतगुणावा- रोपविषयौ संसृष्टत्वमारोप्यम् । संसृष्टत्वमारोप्यम् । तथाच . संसृष्टस्वभावाभ्यां गुणगुणिभ्यां सारूप्ययारोपभयोजकम् । तचासम्बन्धानहरूपमत्रा- स्त्येवेत्याह-नं च पीतिमतिक्तत्वे इति । संपृष्ठत्वस्यारोपे तस्य केवलान्वयितया तत्र विशेषादर्शनादित्यर्थः । न चैवं प्रतीतेभ्रंमत्वानुपपत्तिः केवलान्वयिधम्मिविषयज्ञानस्य यथार्थत्वस्य नियमादिति वाच्यम् । संसृष्टविषयत्वे तथात्वे धर्मद्वय. प्रकारत्वांशे भ्रमत्वात् । नन्वेवं शङ्खपीतगुणौ संसृष्टाविति धीं स्यात् । मैवम् । संसर्गस्य ससम्बन्धिकतया तन्निरूप्यत्वेनोपस्थिसपदार्थेनैव तन्निरूपणात । तथाप्यसंसर्गाग्रहस्य स्वरूपसत एवारापहेतुत्वादाराप्यारोपविषयसा- रूप्यस्य च ज्ञातस्योपयोगात् । अत्राहुः । यत्र तादात्म्यारोपः तत्र सारूप्यं ज्ञातमुप- युच्यते संसर्गारोपे तु स्वरूपसदेव प्रयोजकमिति. भवत्यसंसर्गा- ग्रहः सारूप्यम् । यद्वा । यत्र सारूप्यमेत्र./ दोपस्तत्रारोप्योपस्था- पकतया सारूप्यमुपयुज्यते .. न . तु यत्र. ,पित्तादिदोपः । तत्रा- रोप्योपस्थितरनुभवरूपायाः सम्भवात् । ननु दोपानसर्गिककार्य- किरणावली प्रकाशः १३७ प्रतिवन्धका न त्वागन्तुककार्यजनका इति । ततो यथार्थज्ञानं मा जनिष्टायथार्थज्ञानन्तु, कुत इत्यत आह-न च दोषा इति । स्वच्छत्वमभास्वररूपविरहः । व्यूहनं वाजीकरणम् । विष्टम्भनं गतिप्रतिबन्धः । ननु चक्षुत्रिग्राह्यत्वं पीतादौ तत्सामान्ये चास्ती- ति तदपि सारूप्यादागेप्यतेत्यत आह-नियमादृष्टवशादिति । यथा मण्डूकवसाअनाद्दोपाद्वंश एवोरगभ्रमो नान्यत्रेति नियमस्तथा नियमादृष्टवशादत्राप्यारोपनियम इत्यर्थः। पारलौकिकपथदर्शनानुपायत्वात् पाखण्डदर्शनानामाइ-दर्श नप्रतिरूपकन्विति । तेष्वेव वेदद्धष्वेव । ननु नित्यद्रव्याविषयको भ्रमः केवलान्वय्यत्यन्ताभावप्रति- योगिमात्रविषयको न वेति विपतिपत्तृभ्रमः प्रमाविषयाविषयक भ्रमान्यज्ञानान्यत्वात् आकाशवत् । न चाप्रयोजकत्वम् । तथाहि पुरोवर्तिनि रजते च न भ्रमत्वं तयोः सत्वात् किन्त्वेतयो:- शिष्टये । तच्चासदेव । नेदं रजतमिति च कस्यापि न पुरोवर्तिरजते वाध्यते । अपि तु तयोर्वैशिष्टयं वाध्यमतो भ्रमे तदुपस्थितिरेव युक्ता । न हि कारणत्वं विषयत्वम् । अतीतत्वादेरपि तत्त्वात् । किन्तु स्वकारणाधीनः स्वभावविशेषः। स चासत्यपि विरुध्यत इत्यत आह-इह विभ्रम इति। भ्रमत्वञ्च नासद्विषयत्वं किन्तु सद्विषयत्वे- ऽपि । विशेष्यात्तिप्रकारकत्वात् । किञ्चासदिति। नाभावः तत्म- तियोगिवा प्रमासाधारणत्वात् । नाप्यत्यन्तासदखण्डम् । तद्भगाने कार- णामावाद । इन्द्रियाणां सन्निकृष्टार्थबोधकत्वात् । तदभावे व्याप्त्या- धग्रहेऽनुमानाचप्रहत्तेः । ननु सविषयकोऽयं भ्रमः ज्ञानान्यविषयको ३ १३८ : गुणनिरूपणम् न बति विप्रतिपद्य भ्रमो ज्ञानान्याविषयको भ्रमान्यज्ञानान्यत्वात व्योमवत् । न चापयोजकत्वम् । तथाहि । यद्यपि रजतादेानाकारत्वं नानुभवाब्यवस्थाप्यम् । स हीदमनहङ्कारास्पदं रजतमादर्शयति न त्व रजतमिति । तथापि नेदं रजतमिति बाधकप्रत्ययापनीते बाह्यस्य रजतत्वे ज्ञानस्यैवाकार इति निश्चीयते पारिशेष्यात् । आकारश्चा- कारिणोऽभिन्न भिन्नस्य विषयत्वेऽतिप्रसङ्गात् इत्यत आह-एव ज्ञानाकारेति । न च परिशेष: । नेदं रजतं न वा ज्ञानं रजतमिति वाधकस्याविशेषात् । यथा च ज्ञानभिन्नस्य विषयत्वं तथा च समान- तन्त्र व्यवस्थापितम् । ननु विवादाध्यासितानि भ्रमविषयविषयक- वाक्यानि वचनपणाक्रान्तानि न वेति विप्रतिपद्य तानि तथा तद्विषयकवाक्यत्वात संपतिपन्नवदित्यनिर्वचनीयख्यातिरेवास्त्वित्यत आइ-विचारसहति । सद्विषयकवे बाधकादसद्विषयत्वे चामत्तेः सत्यासत्त्वाभ्यामनिर्वाच्यतैव विचारासहत्वम् । तथेति । इहापि प्रवृत्त्यनुपपत्तिर्दूषिकेत्यर्थः । अनिर्वचनीयत्वश्च न तावनिरुक्ति- विरहः । इदं रजतं नेदं रजतमित्यादिनिरुक्तेरनुभूयमानत्वात् । नापि सम्यनिरुक्तिविरहः । एतन्निरुक्तरेव सम्यक्त्तासम्यक्त्वयो- विरोधादिति भावः। अस्तु तख्यिातिः । तथाहि । ज्ञानत्वं व्यधिकरणपकागव- च्छिन्नत्ति न वा, तत्प्रसिद्धिश्च भेदाग्रहप्रसज्जितायां रजतत्व- प्रकारकशक्तीच्छायामिति विप्रतिपद्य ज्ञानतं न विशेष्यावृत्तिप्रका- रकत्ति ज्ञानमात्रवृत्तित्वात प्रमात्ववत् । न चेदमप्रयोजकम् । अन्यथाख्यातो बाधकात् साधकाभावाच्च । तथाहि । प्रत्यक्षणेद- किरणावली प्रकाशः १३९ मिति शुक्तिीने, दोपात्तस्य शुक्तित्वं न गृाने । दोपान तद्ग- तविगेपायदान । नन्मात्रभ गृहीतं साम्यग्रहान् गम्कागेदवोधा- जनस्मृनि जनयनि । मा च दोपवमान दुएननांशा नन एवं ज्ञानदयामती रजनार्थी प्रवचन हत्यवमुपपत्ती विशिष्टज्ञानो- पनी मानाभावान । न चेयं शुक्तिस्नजनजिन भेदाग्रह प्रवृत्तिः । स्वरूपतो विषयतश्च नयाभदाग्रहम्यापि प्रवर्तकन्धान । लायवाच- बाप्पागेपनियमाय नस्योपयत यावश्यकत्वाच । न च रजते प्रति पनि विशिष्टतानस्य हेतुत्वादिसापि नसिद्धिः । प्रवृत्तिमात्रे भेदाग्रहे मनीटपुरावानिशानस्य हेतुत्वात लायवान विशिष्टज्ञानस्य सतोऽपि गौरवणामवकत्वादित्यन भाद-अन्यज्ञानादिति । अयमभि- मन्धिः । र जनज्ञानस्य शक्तिविषयनां पिना न नद्विपयकात्ति- जनकत्वं मरवायमनी लायवादुपस्थितत्वाच्च ज्ञानं स्वविपये प्रवर्गकमित्यनन्यथासिद्ध कारणताग्राहकमानेनावधृतत्वात् । सर्वेरेव प्रथमं गृहीतत्वेन तस्य बलवत्त्वादिनि । अतिमसङ्गं नियामकं शङ्कते- प्रवर्तकजानति । अतिप्रमद्रास्थले भेदग्रहान्न प्रत्तिरित्यर्थः । तहिं निवर्नकस्याभेदाग्रहस्य सत्त्वान्नित्तिरपि स्यादिति युगपत् प्रवृत्तिनियती स्यातापिति परिहरति-निवर्तकेति । अभे दग्रहो न प्रवर्तको येन तदभावान्नित्तिः स्यात् । किन्विष्टभेदा- ग्रहः सत्यरजतेऽपि प्रवर्तकः । इयांस्तु विशपः। क्वचिदसत्वादे- चेष्टभेदस्याग्रहः क्वचित् सतोऽपि भेदस्याग्रह इनि नानियतहेतु- कत्वम् । न चेष्टस्थले इष्टभेदामसिद्धेर्न तदभावः। पुरोवर्तिनीट- भिन्नत्वमकारकज्ञानविपयत्वाभावस्य प्रवनकवादित्याह-न दय- .. १४,०, गुणनिरूपणम् मिति । प्रतिस्थले प्रवर्तकेष्टभेदाग्रहवनिवर्त्तकालिष्टभेदाग्रहस्य. सत्वानिवृत्तिरपि स्यादित्याह-अस्मन्नयः इति । यदि चानिष्टा- भेदग्रहस्तदानिष्टः एवानिष्टभेदग्रहादन्यथाख्यातिः: स्यादित्याह- अन्यथेति । अथानिष्टाभेदग्रहो निवर्तकः इति प्रवृत्तिस्थले तदभा- वान्न, निवृत्तिः तदा इष्टाभेदग्रहस्य प्रवर्चकस्याभावान प्रवत्तापीति शङ्कोत्तराभ्यामाह-तथापीति । न च स्वातन्त्र्योपस्थितानिष्टभेदाग्रहो निवर्त्तको न चानिष्टस्याभावविशेषणत्वोपस्थितेन तदभेदाग्रहो निवर्तक इति वाच्यम् । अभावविशेषणत्वेनोपस्थितेः प्राक् तत्रापि स्वातन्त्र्येणानिष्टोपस्थितेः । यदि च भेदाग्रहात् प्रवृत्तिस्तदा क्वचि. दपि विशिष्टज्ञानं न सिध्येत्तत एव सर्वव्यवहारसिद्धरित्याह-न च सर्वत्रेति।अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे तात्पर्यपरिशुद्धिप्रकाशे चास्माभिः कृत-इति नेह प्रतायते । विशेष इति । उपलब्धे धम्मिणि विशेषतोऽनुपलब्धकोटि- कमित्यन्वयः। यद्यपि घटोऽयमिति निश्चयोऽप्युपलव्धे धम्मिणि घटे भवति, विशेषतश्च नीलः पीत इत्यनुपलब्धकोटिकः। तथा- 'प्यनध्यवसायस्य,सामान्यतो विरोध्युभयकोटिकत्वम् । घटोऽय- मित्यत्र न तथा । अत एवायमिति । विरुद्धनानाप्रकारकमेकध- म्मिकं ज्ञानं संशयः। अनुल्लिखितनानामकारकमेकधम्भिकं ज्ञान- मध्यवसाय:। यद्वा । सामान्यतो विरोधिनानाकोटिकं. ज्ञानमनध्यवसायः । ननु पनसः स्विदयमिति ज्ञान न संशयः। विशेषतो विरोधिको- टयनुल्लखात । नानध्यवसायः । अनुल्लिखितनानाप्रकारकाव- . किरणावली प्रकाश १४१ रोध्युल्लेखे हि सः । अत्रच पनसस्य तदन्यस्य च किञ्चित्वेन कोटयुल्लेखात् ॥ अत्राहुः । विशेपनोऽनुल्लिखितनानाकोटिकं ज्ञानमनध्यव- सायः। अत्रापि विशेषतः कोटयुल्लेखो नास्ति । किञ्चित्वस्य सामान्य- रूपत्वाद । किंस्विदित्यत्रापि तथा, विशिष्टस्योभयत्रापि सत्वात् । तत्र निश्चयसंशयभिन्ने तादृशज्ञाने किं मानम् । उच्यते । न तावन्जि- ज्ञासा निर्णयजन्या । अनुच्छेद्यापत्तेः । नापि संशयजन्या । विशिष्टकोटिद्वयानुल्लेखे तदभावात् । ततः संशयभिन्नजिज्ञासा- जनकं ज्ञानमपितव्यं तदेवानध्यवसायः । व्यासङ्गशब्देनेति। कारणवाचकशब्दस्य तत्कार्ये लाक्षणिक- वादित्यर्थः। तस्य प्रयोजनवमाह-घटेति।नन्वेतद्विशेपनिश्चये सत्यपि भवतीत्यत आह-विशेषनिश्चयाभाव इति। मात्रशब्देनेति । मात्रशब्दस्य सामान्यवाचित्वादित्यर्थः । ननु सामान्येन रूपेण विशेपोऽपि निश्चीयत एवेत्यत आह-विनिश्चय इति। तर्हि निश्चया- भावो ज्ञानसामान्याभावेऽप्यस्तीत्यत आइ-निश्चयनिषेधेनेति। एतदेव विशदयति सामान्येन हीति । तनिध्यवसायः कुत्रत्यत आह का पुनरिति । यद्यपीदं ज्ञानं न भ्रमस्तथाप्यानिश्चयमात्रेणा- विद्यात्वम्-अनुमानविषयेऽपीतीति । ननु पनसवत् सास्नापि प्रत्यक्षैव प्राणिविशेषसम्बन्धित्वं पनसवत् पदवाच्यत्वं वोभयत्राप्य- प्रत्यक्षमेव । न । चेष्टमानावयवस्य यत्रांप्रत्यक्षत्वं तस्य विवक्षितत्वाद। उपरतशब्दस्य विनष्टमर्थं निवारयति-स्वकार्यादिति । तत्र हेतुमाह-प्रलीनेति । मनसः प्रलयाभावादाह-निरिन्द्रियति ।

१४२ गुणनिरूपणम् इन्द्रियद्वारेणैवेति। यथेन्द्रियव्यापारजे ज्ञाने चक्षुरादिनाजानामीति तथेन्द्रियव्यापाराभावेऽपि चक्षुषा पश्यामीति ज्ञानमित्यर्थः । इवश- ब्दार्थ सादृश्यमाह-पूर्वज्ञानेति । क्वचिदिन्द्रियद्वारेणैवेति पाठः । तत्र ह्यपरतेन्द्रियवर्गस्य स्वप्नः कथमिन्द्रियद्वारेणैवेत्यत आह- पूर्वज्ञानेति । पूर्वज्ञानप्रत्यवेक्षकत्वमिन्द्रियद्वारकतानुव्यवसायः । तेनेन्द्रियद्वारेण यदनुभवनमित्यस्य व्याख्येयग्रन्थस्यायमर्थः । इन्द्रिय- द्वारेणैव योऽनुभवोऽनुव्यवसीयत इत्यध्याहारात । एतदेव स्पष्ट- यति-यत्रासत्यपीति।संविष्टः मुप्तः-तथापीन्द्रियद्वारकतेति। यद्यप्येतावता स्वप्नानुव्यवसायस्यायथार्थत्वसिद्धौ शय्यायां संवि- ष्टस्तिष्ठामीत्यनुव्यवसायात्मकस्वप्नस्य नायथार्थत्वं सिध्यति । तथापि स्वप्नत्वेन तत्रापि बाधितविषयत्वमनुमेयम् बुद्धिर्न साक्षात प्रयत्नजननीत्यत आह-इच्छेति।वातादिजन्यशरीरस्पन्दव्यावर्तना- र्थमाह-चेष्टेति । हृदयान्तर्मनःप्राप्तिं विना मनो न हृदयान्तनिश्चलं तिष्ठति माप्तिपूर्वकत्वादवस्थानस्येत्यर्थः । पूरयति-अन्तर्हदयं प्राप्येति । ननु निश्चलत्वं स्पन्दशून्यत्वं तिष्ठत्यर्थोऽपि सएवति पौनरुक्तयमित्यत आह-सहसैवेति। पूर्वग्रन्थेन सम्बद्धीकर्तुमुक्तं- पुनः सहसैव न चलति । तदेतीति । अत्राप्यदृष्ट- कारितेति। ननु शरीरतदवयवक्रियैव प्रयत्नवदात्मसंयोगासमवायिकार- णिका प्राणक्रिया तत्माणवहनाडयभिघातादेव । तत्र हि प्रयत्न- वदात्मसंयोगासमवायिकारणत्वेऽपि प्राणवहनाडीक्रियायाः प्रयत्न- चदात्मसंयोगोऽसमवायिकारणं वाच्यः तस्याश्चेष्टात्वात् । तथा च किरणावली प्रकाश १४३ तदभिघातादेव प्राणक्रियोपपत्ती तत्र प्रयत्नवदात्मसंयोगस्थामम- वायिकारणत्वे प्रमाणाभावः । अत्राहुः । प्राणक्रियायां प्रयत्नवदात्मसंयोगस्य नासमवायि- कारणत्वं किन्तु कारणत्वमात्रं तच्च परम्परया कारणत्वेऽप्युपपद्यते । एवञ्चात्मप्राणसंयोग इति व्याख्येयग्रन्थस्यायमर्थः । प्राणवहनाडया सममात्मसंयोगः प्राणक्रियायां परम्पराकारणं नाडीमाणसंयोगोड- भिघाताख्यः प्राणक्रियायामसमवायिकारणमिति । एतेनेति। शयनं ज्ञानविशेषः । तत्पदार्थः निरिन्द्रयप्रदेशाव- स्थितमनःसंयोगासमवायिकारणकं ज्ञानमित्यर्थः । यद्वा । स्वप्नवहनाडीविशेपसंयुक्तमनोजन्यं ज्ञानमित्यर्थः । यानान्हिकानिति । आह्निकत्वेन दिनभवत्वेन यानर्थान् पश्यती- त्यर्थः । न च ते तथेति । न ते आह्निका इत्यर्थः । वाराणस्यामिति। वाराणस्यधिकरणकः पुरुषः पाटलिपुत्रे पश्यति, पाटलिपुत्राधिकरणोऽहम, एते च पाटलिपुत्रीयाः पदार्थाः वाराणसेया इति पश्यतीत्यर्थः । तेनातनग्रन्थसामञ्जस्यं भवति । अयमेवमाहेति । यद्यपि लिङ्गोदाहरणप्रस्तावे शब्दोदाहरणं न युक्तं तथापि वैशेषिकाणां शब्दस्यानुमानान्तर्भावात् तथोक्तम् । यद्यपि सर्वत्रेति। धातुदोषस्य सकलस्वमकारणत्वं वैद्यकादवगन्तव्यम् । ननु स्वयमनुभूनेषु प्रसिद्धेष्वित्यत्र पौनरुक्त्यम् अनुभवपसिद्धिशब्द- योरेकार्थत्वादित्यत आह–स्वयमनुभूतेषु प्राप्तेष्विति । सम्ब- देवित्यर्थः।

१४४ गुणनिरूपणम् भू प्राप्तावित्यस्यानित्यण्यन्तत्वेन रूपम् । ननु संस्कारध- आभ्यामित्ययुक्तम् एतज्जन्माननुभूतविषयत्वेन एतज्जन्मसंस्का. राभावात् । जन्मान्तरीयसंस्कारस्य च नियतविषये बालस्तनपा- नादावेव ज्ञानजनकत्वादन्यथातिप्रसङ्गादित्यत आह-यदि पूर्वेति । एवञ्च एतज्जन्मन्यननुभूतस्येत्यस्य एतजन्मन्यसाक्षात्कृत- स्येत्यर्थः सम्पद्यते । एवमग्रेऽपि व्याख्येयम् । अत्यन्तार्थ व्या. चष्टे-आरोपतोऽपीति । ननु स्वप्नमात्रे संस्कारस्य कारणवाद- त्यन्तापसिद्धे कथं स्वप्न इत्यत आह-संसर्गविषयश्चेति । संसृ- ज्यमानस्य प्रत्येकमनुभवोऽस्त्येवेत्यर्थः । अत एवेति । संसर्गस्याननुभूतत्वेन स्मृतेरसम्भवात् । पटी- यसी बहुतरविशेषावगाहिनीत्यर्थः। स्वप्नस्य प्रत्यक्षयाम्यनुभवा- मीत्यायनुभवादलाधकाभावाच्चानुभवत्वमेवेति भावः। सामान्यज्ञानं विना न विभागावतार इति सामान्यलक्षणं स्मारयति--यथार्थेति । चतुर्विधेत्यनेनैव विभागस्य दर्शितत्वात प्रत्यक्षेत्यादि पुनरुक्तमित्यत आह-किंनामधेया इति । प्रत्यक्षा- दिविद्याया नेतरव्यावर्तकत्वमिति व्याचष्टे-लक्ष्यत इति । अक्षा- णाममतीतानामेव प्रत्यायकत्वाद्याचष्टे-प्रतीत्य प्राप्येति । अर्थेन सहेन्द्रियमाप्त्या यज्ज्ञानं जायत इत्यर्थः । नन्वेवमव्ययीभावसमासे नपुंसकलिङ्गत्वात प्रत्यक्षशब्दस्या- भिधेयलिङ्गता न स्यादित्यत आह-तदेतदर्थकथनमिति । कथं तर्हि समास इत्यत आह-प्रतिगतमिति । तेन प्रादिसमासे प्रा- तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषधादभिधेयलिङ्गता सि- किरणावली प्रकाशः ध्यतीत्यर्थः। अन्ये तु । अक्षं प्रतीति विग्रहे समाससूत्राभाव इत्यत आह-तदेतदिति । अक्षपदवत् प्रत्यक्षपदे बहुव्रीहौ सक्थ्य- क्ष्णोः स्वाङ्गात्पजिति षच्यत्ययान्तस्याक्षिशब्दस्य प्रयोगस्तथा च वासनादिप्रत्यक्षाव्याप्तिरिति शङ्का निराकर्तुमाह-अक्षशब्दस्यति । पडित्यस्य तात्पर्यमाह-न त्विति । सांख्यानां कर्मेन्द्रियैः पञ्चभिः सममेकादशेन्द्रियाणि बौद्धानां मनोऽनङ्गीकारात पञ्चैव तानि, तन्निरासार्थ षटकीर्तनमित्यर्थः । तत्रेन्द्रियलक्षणं सांख्यानां दुपयति- उत्कटति । यत्तु लक्षणमिन्द्रियाणां तन्न पायवादावित्यत आह- शरीरसंयुक्तमिति । एतच्च यद्यपि घटादौ शरीरे चातिव्याप्त, शरीरसंयुक्तत्वस्य शरीरवृत्तिसंयोगाश्रयत्वस्य शरीरे सत्त्वात् । तथापि शब्दव्यतिरिक्तोदभूतविशेषगुणशून्याकाशसंयुक्तमिन्द्रियल- क्षणम् । तदेतदिति । प्रतिगतमक्षमित्यादि । स्मृतीति । स्मृतिरपिमनोलक्षणमिन्द्रियं प्रतिगता,संशयोऽपि चक्षुरादिकं प्रतिगत- स्तज्जन्यत्वात् । आदिशब्देनात्मानुमित्यात्मस्मृतीनामप्यात्ममनोलक्ष- णेन्द्रियार्थसनिकर्षजत्वात्प्रत्यक्षत्वप्रसङ्ग इत्यर्थः । ईश्वरप्रत्यक्षाव्या- प्तिश्चेत्यपि द्रष्टव्यम् । न च साक्षात्कारित्वे जातौ मानाभावः । चाक्षुषादिबुद्धौ साक्षात्करोमीत्यनुगतप्रत्ययात् । नापि व्यञ्जकाभावः । गोलकज- स्वादेरेव तत्त्वात् । योगीश्वरबुद्धौ च धर्मिग्राहकं मानमेव तद्वय- अकम् । गोत्वादाविव व्यञ्जकेऽननुगमस्यादोषत्वात् । प्रत्युत व्यञ्जकस्यानुगमे तत एवानुगतबुद्धथुपपत्तौ जाती मानाभावः । यत्त्वग्रे एतदस्मदादीनां संयोगिनां त्वित्यादि वक्ष्यति तज्ज- ४ : १४६ गुणनिरूपणम् न्यमस्मदादीनां योगिनां प्रत्यक्षमभिप्रेत्य । ननु प्रतिगतमक्षमिति केन सम्बन्धेन साक्षात्वस्य लक्षणत्व- मित्यनुपपत्तावेकप्रकरणाम्नातत्वमेव सम्बन्धोऽस्तीत्याह-तत्र बु- ब्यधिकारेणेति । महतीत्यत्र महत्त्वं नोपलक्षणं किन्तु विशेषण- मित्यभिप्रेत्याह-तेनेति । ननु बहिरिन्द्रियजद्रव्यप्रत्यक्ष प्रति मह- वोदभूतरूपवत्तयोः स्वरूपयोग्यतावच्छेदकत्वात् दण्डत्ववन्न सह- कारित्वमित्यत आह-अकारणत्व इति । वस्तुतस्तादृशयोरपि विषयतया सहकारित्वादननुगतत्वेनावच्छेदकत्वादुभयरूपत्वेऽपि न विरोध इति भावः । तथापि यत्र तदुत्कर्षानुबिधानं तत्र कारणत्वेऽपि बहिरिन्द्रियजद्रव्यसाक्षात्कारमात्रे तस्य कारणत्वे किं मानम् । अत्राहुः । यद्विशेषो यद्विशेषप्रयोजकस्तत्सामान्यमसात बाधके तत्सामान्ये प्रयोजकमिति व्याप्तः अनेकद्रव्यवत्वस्य तत्वे मान- माह-न च परिमाणेति । तथा च परस्पराविनाभूतयोः द्वयोरप्य- न्वयव्यतिरेकाभ्यां तुल्यत्वादुभयमपि कारणमित्यर्थः । वस्तुतो महत्त्वमेव कारणं लाघवात् । अनेकद्रव्यवत्वात कार्य विनापि तूलकादौ प्रचयस्योत्कृष्टमहत्त्वात प्रत्यक्षोत्कर्पदर्श- नाच । दूरस्थकेशादौ राशीभूते द्रव्यान्तरानुत्पादेन महत्त्वाभावेऽ- प्येककेशस्य सजातीयसंयोगेनानेकद्रव्यवत्वं तद्धेतुरिति चेत् । न । समवायेन तस्य प्रयोजकतया संयोगेनातत्त्वात् । दूरस्थग्रहे तस्य सजातीयसंयोगः सहकारीति चेत् । न । महत्त्व एव तथास्तु क्लुप्त- त्वाद्विपयस्यं च रूपमुद्भूतं सहकारीत्याह-रूपं चोद्भुतस्वभाव मिति । उदभूनत्वं च रूपत्तिर्जातिविशेषः ।

किरणावली प्रकाशः १४७ न च तत्र मानाभावः । इन्द्रियालोकादिप्रत्यासन्नस्यावयविनो वायूपनीतस्य सुरभिद्रव्यस्याप्रत्यक्षत्वेनं तिमिरस्थघटवत् साक्षा- कारकारणकिञ्चित्समवधानशून्यत्वानुमानात् । तच लाघवात सा- मान्यरूपं न द्रव्यदृत्ति । ऊष्मप्रभयो। स्पर्शरूपग्रहे रूपस्पर्शग्रहापत्ते तदेकार्थसमवायाविशेषात् । रूपस्पर्शयोश्च तभेदः । एकस्य ग्रहेऽ- प्यन्यस्याग्रहात् । न च रूपत्वादिना जातिसंकरः । तारत्वादिवन्नानात्वात् । रूपादिप्रत्यक्षतायामेकैकोद्भवत्वस्यैव तन्त्रत्वात् । आलोक इति । एतच्चाक्षुषप्रत्यक्षमात्रे द्रष्टव्यम् । अन्धकारेऽपि त्वचा द्रव्यग्रहात् । सारूप्यज्ञानं भ्रमोऽपीति व्याचष्टे-अविपरीतस्येति । अनारो- पितस्येत्यर्थः । निर्विकल्पकं प्रत्यक्षमिति । ननु तत्र प्रत्यक्ष न मानमसिद्धरनभ्युपगमाच्च न व्यवहारः । तस्य सविकल्पकजन्य- स्वात् । अथ गौरिति प्रत्यक्षं विशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वा- दनुमितिवत् । न च परोक्षत्वमुपाधिः । प्रत्यभिज्ञाने साध्याव्यापक- त्वात् । नापि विशिष्टविशेषणकत्वम् । पक्षेतरत्वात् । न च प्रतिबन्धा- सिद्धिः । साध्यादीनां विशेषणतया विशिष्टधीमात्रे विशेषणज्ञान- मात्रस्य हेतुत्वात् । न । स्मृतिवत् प्रागनुभवस्य संस्कारद्वारा जन- कत्वात् । न चाव्यवहितविशेषणधीजन्यत्वं साध्यम् । प्रत्यभिज्ञाने व्यभिचारात् । अथ जागराधविशिष्टज्ञाने संस्कारोबोधकमन्यत्र दृष्ट ज्ञान- मेव कल्प्यते । न च तद्विशिष्टज्ञानमेव । तत्रापि विशेषणज्ञानापे- क्षायामनवस्थानात् । न संस्कारोबोधत्वेन नियतो हेतुरिति ।

- 1- . १४८ गुणनिरूपणम् . जागराहेतोरेव तथात्वकल्पनाव ! मैवम् । प्राथमिकगौरितिप्रत्यक्षस्य जन्यविशिष्टज्ञानत्वात् विशेष- णज्ञानजन्यत्वानुमानात् । तज्जन्मनि गोत्वाननुभवेन संस्काराभावात् भाग्भवीयसंस्कारोबोधको गोत्वेन्द्रियसंनिकर्षः कल्प्यते । आद्य- प्रवृत्तिवत् सबलादिवदिति चेत् । तर्हि ततो गोत्वानुभव एव स्यात् । अन्यत्र तस्य हेतुत्वकल्पनात् । पूर्व च विशेषणज्ञानाभावादर्थात्तन्नि- विकल्पकम् । तत्रापि ज्ञानत्वात्तद्विशिष्टज्ञानत्वानुमितिः स्यादिति चेत् । न । कारणबाधेन बाधादनवस्थानाच्च । विशिष्टज्ञानत्वादि- स्यत्र व्यावर्त्यस्याविशिष्टज्ञानस्याप्रसिद्धिः। ज्ञानत्वं च स्वतोऽसिद्ध- व्याप्तिकामति चेत् । न । येन विशेषणेन विना व्याप्तिर्ग्रहीतुं न शक्यते तद्विशिष्ट एव व्याप्तः । व्यभिचारवारकाविशेषणस्यापि -सार्थकत्वे तस्यैव तन्त्रत्वात् । अत्रापि विशेषणं विनाऽनवस्था- नावाप्रग्रहात् । विशेष्यज्ञानमिति । विशिष्टज्ञानमित्यर्थः । सहकारिवि- शेषमिति विशेषणज्ञानं विशिष्टज्ञाने इन्द्रियार्थयोः सहकारीत्यर्थः । तुच्छत्वादिति । व्यावृत्तिमनोऽन्याया इत्यर्थः । अत एवेति । वस्तुविषयत्वादेवं न निर्विकल्पकोपाधिकं साक्षात्वमित्यर्थः । देशकालेति । आकार: स्वरूपम् । तेनाग्रे स्वरूपविपर्यासनिपेधः संगच्छते । कुञ्चिका कपाटोद्घाटको लोहविकारविशेषः । तस्य विवरं तस्य कपाटमध्यमुषिरमित्यर्थः । अस्थिरस्य. स्थिरत्वेनेत्यादौ यथासंख्यं क्षणभङ्गस्य भङ्गादित्यादि योजनीयम् । विभ्रमादन्यत्रेति । इन्द्रियाणां किरणावली प्रकाशः १४९ विषयप्रतिनियमो हि ममामात्र व्यवस्थितिः। अत एव मनसो बहिःस्वप्न- जनकत्वं स्मृतिजनकत्वं चेत्यर्थः । कर्मत्वमैन्द्रियकत्ति न वेति विप्रतिपत्तावाह-कर्म प्रत्यक्षमिति। यदि कर्म न प्रत्यक्षं तदा कथं तत् प्रत्येतव्यमित्यत्राह-संयोगविभागपरम्परैवेति । तथा च तत्रैवेन्द्रियव्यापार उपक्षीण इत्यर्थः । युक्तं चैतत् । न हि संयोग- विभागावजानन् कर्म प्रत्येति । रथस्य देशान्तरमाप्ति प्रतिसंदधानस्य रथिनोरथो मे गच्छतीति प्रतीतेः। सारथेस्तु देशान्तरमाप्त्यमत्याकलने स्थिरत्वेनैव प्रतीतेः । न च चलतीति प्रत्यक्षात् कर्मविपयेत्याह । यः पुनरिति । न च तस्यानुमितित्वमसिद्धम् । कर्मप्रत्यक्षत्वेऽपि पूर्व- देशविभागोत्तरदेशसंयोगाभ्यां तव्यजनीयम् । अत एव संयोग- विभागौ न प्रत्यक्षी । तत्र कर्मापि न प्रत्यक्ष भूकम्पादौ । तथा चोत्तरदेशसंयोगे सति कर्म नष्टमेव प्रत्यक्षं च वर्तमानविषयम् । किञ्च संयोगोऽपिज्ञातो व्यजकः, संयोगे चोत्पन्ने तत्साक्षात्कारः, तदनन्तरं च कर्मसाक्षात्कारदशायामव्यवहितमाक्कालीनमपि कर्म नास्ति । संयोगसाक्षात्कारकाल एव कर्मणो नष्टत्वात् कर्म कथं प्रत्यक्षमिति भावः। व्यभिचारादिति । सुखादिनेत्यर्थः । समनन्तरसंयोग- व्यवहितत्वादिति । उत्तरदेशसंयोगनिवर्तनीयत्वादित्यर्थः । व्यभिचारादिति । विभागेत्यनुषजनीयम् । उत्तरदेशसंयोगव्य- ङ्ग्यं न कर्म किन्तु पूर्वदेशविभागव्यङ्गयमिति नोक्तदूषणावकाशः । विभागसाक्षात्कारस्तदुत्पत्त्यव्यवहितोत्तरक्षणे तत्काले च कर्मणः सत्त्वादिति भावः। परमाणुमात्रविवरत्तित्वादिति को- . १५० गुणनिरूपणम् ऽर्थः । किं परमाणुमात्रमेव विवरमवकाशो येषां जलस्यन्दानुमि- तसूक्ष्मावकाशानाम् अथवा परमाण्वाश्रयाणामित्यर्थः । आये तत एवं विभागेन व्यभिचारादेव । द्वितीयेऽसिद्धेश्चेति । संयोगविभा- गयोरपीति । एकस्यामपि कर्मव्यक्तौ संयोगविभागयोरुत्पन्नयोः संयोगविभागप्रत्ययः कुतो न भवतीति तुल्यमित्यर्थः । आश्रयामहत्त्वमेवेति। ननु कालादिगुणेषु साध्याध्यापक- मेतत् । न च कार्यमहत्त्वानधिकरणत्वं तदर्थः । गुरुत्वादौ साध्या- व्यापकत्वात् । न च वाधोनीतस्य पक्षेतरत्वस्य विवक्षितत्वात् गतिरनुमीयत इत्यस्यानन्तरम् अनुमाय चलतीति शेषः। एवं तर्हि यथादित्यस्य देशान्तरप्राप्यनुमानेऽपि न चलनीति धीस्तथा चैत्रेऽपि न स्यादित्यत आह-आदित्यादाविवति । न तहीति । तत्रापि देशान्तरस्थाकाशादेरतीन्द्रियतया तत्माप्रज्ञाने तया गत्यननुमानात खद्योतश्चलतीति धीन स्यादित्यर्थः। तस्य भागैरिति। खद्योतालोकभागैरित्यर्थः । एवं तर्हि सूर्या लोकसंयो- गविभागाभ्यां गतिमनुमायादित्यश्चलतीत्यपि धीः स्यादित्याह- गभस्तिमालिन इति । अव्यापकेनापीति । खद्योततदालो- कयोर्युगपत्सञ्चारितया नुद्यनोदकयोरिवाव्यापकेनापि खद्योतालोके- नापि खद्योतसंयोगविभागौन प्रतीयते इति । तत्रापि चलतीति प्रतीतिर्न स्यादित्यर्थः । किश्च खद्योतवत् खद्योतालोकोऽपि गच्छतीति प्रतीति- रस्ति। नच खद्योतालोकस्य स्वावयवेन संयोगविभागौ स्त इत्याह- अवयवावयवितयेति। अपि च कर्मानुमितौन संयोगमात्र विभाग- मात्र वा लिङ्गम् । तस्य श्येनवत् स्थाणावपि सत्त्वात् ! नापि किरणावली प्रकाशः १५१ मिलिंतादुत्प्रेक्ष्य निपतिते श्येने स्थाणौ चलतीति प्रतीत्यापत्तेः । तवापि संयोगविभागयोर्गत्यनुमानलिङ्गयोः स्थाणौ. दर्शनाद्गत्यनु- मानं स्यादिति चेत् । न । मम योग्यस्य कर्मणोऽनुपलम्भनाभा- वनिश्चयेन बाधितविषयत्वात् । न तर्हि सूर्ये ताभ्यां गत्यनुमानम् स्थाणुनानकान्तिकमिति चेत् । न । यो विभक्तः संयोगव्यभिचारी स कर्मवानिति व्याप्तिः। स्थाणुस्तु नैवम् । किञ्च । कर्मातीन्द्रि- यत्वेन कहेतोरेव संयोगविभागौ कृतं कर्मणा। चलतीति धीरपि -तत एव भविष्यतीति भावः आत्मसमवेतानामिति । परबुद्धेः परं प्रत्ययोग्यत्वादित्यर्थः। माभाकरः स्वप्रकाशपक्षसाधकमाह-बुद्धिः स्वव्यवहार इति । तत्र वर्तमानज्ञानव्यवहारो व्यवहर्तव्यभिन्नज्ञानसाध्यो न वा, उभयसिद्धप्रत्यक्षविषयो ज्ञानं मानसप्रत्यक्षविषयो न वति संशयः । अत्र सपक्षाभावान्नासाधारण्यम् । युक्तं चैतत् । वर्तमानज्ञानं स्वयमेव व्यवहारं करोति । स्वस्मिन सत्येव स्वव्यवहारात । न ज्ञानान्तरमपेक्षते । तदन्वयव्यतिरेकानुविधानाभावात् । ज्ञानान्त- राभावदशायां स्वविरहादेव स्वव्यवहारविरहात् । स्वत एव व्यव- हारोपपत्तौ ज्ञानान्तराकल्पनाच । इच्छादिकं तु नतथा । व्यवहारस्य ज्ञानजन्यत्वनियमेन इच्छादिव्यवहारे ज्ञानापेक्षणात् । अथ ज्ञानमात्रं न व्यवहारहेतुरतिप्रसङ्गाव, किन्तु व्यवहर्तव्यविषयपिति ज्ञानव्य- चहारोऽपि तद्विषयकज्ञानाभवेदिति चेत् । न । स्वस्यैव स्वविषय- घात । यध्यवहारानुकूलशक्तियोगि यज्ज्ञातं तस्य तद्विषयत्वात । न च व्यवहारस्य स्वाभिन्नज्ञानसाध्यत्वम् । गौरवादिति भावः ।

१५२ गुणनिरूपणम्: परेणेति । परवेदनेत्युपलक्षणम् । स्वीयमप्यतीतमनागतं च स्वव्यवहार ज्ञानान्तरमपेक्षते । व्यवहारकाले तेषामभावात । ज्ञाना- न्तरान्वयव्यतिरेकानुभवाच्च । अथ स्वकीयं वेदनं वर्तमानं पक्षोऽतो न वाधक इत्यत आह-तत्परिहरिणति । विपक्षगामितयेति। स्वकीयातीतानागतज्ञानपरकीयज्ञानागतत्वाद्वेदनत्वस्येत्यर्थः । एतेनेति । बाधेन विरुद्धत्वेन वेत्यर्थः । ज्ञानं च न स्वविषयं स्वजनकेन्द्रियप्रत्यासत्त्यनाश्रयत्वात् । विषयत्वनियामकेन्द्रियसन्नि- कर्षाभावे तु विषयत्वानुपपत्तेः । मनःसंनिकर्षाश्रयत्वे च मानसत्वं युक्तम् । विवादपदम् इन्द्रियजन्यं ज्ञानं नैतज्ज्ञानविषयः एत- ज्जनकेन्द्रियपत्यासत्त्यनाश्रयत्वात् असंनिकृष्टत्ववत: । चाक्षुवं ज्ञानं न चक्षुर्जन्यज्ञानविषयः चक्षुरसनिकृष्टत्वात् व्यवहितघटवत् । ननु परपूकाशकज्ञानमेव न सिध्येत् इन्द्रियसंनिकर्षादेः सर्वदा सत्वेन ज्ञानधारायामनवस्थानात विषयान्तरसञ्चारश्च न स्यादित्यत आह- अनवस्थाप्रसङ्गस्त्विति। ननु संयुक्तसमवायेन मनोवेद्यत्वादपेक्ष- णीयान्तराभावाच कुतो वित्तिविश्यवेद्या। मुखादितज्ज्ञानादिसाम- ग्रीप्रतिबन्धात् । विषयान्तरसंचारदर्शनेन तस्या वलवत्त्वात् । अनु- भवात् किञ्चिज्ज्ञानमयोग्यमित्यन्ये । अथ : यथा तद्गुणसंवि- ज्ञानसिद्धं कूटादिपदमशक्यमपि कूटं गुणमादायैव पूधानमन्यपदार्थ वोधयति तथा ज्ञानमविषयमात्मानमादाय स्वविपयव्यवहारं करोति संस्कारं च । स्वजन्यव्यवहारविषये ज्ञानस्य संस्कारजनकत्वात् स्वजन्यव्यवहारविषयश्चात्माविषयश्चेति । न । अन्यत्र लाघवेन ज्ञानस्य स्वविषयव्यवहारसंस्काराजनकत्वात् व्यवहारसंस्कारयोः किरणावली प्रकाशः १५३ स्वविषयज्ञानसाध्यत्वेन स्वविषयकज्ञानासाध्यत्वात् । सजातीयत्वा- नपेक्षते साध्ये यदि प्रकाशकत्वं ज्ञानत्वमेव हेतुस्ता साधारण्यम् । अथालोकज्ञानसाधारणत्वं प्रकाशत्वं तहसिद्धिरित्याह:-प्रकाशक- त्वादिति । बुद्धः प्राकट्यानुमेयत्वं दुपयति--कालिङ्गेति । नन्वपेक्षावुद्धिभिन्ना घटबुद्धिर्घनिष्ठधर्मचरमकारणं घटवुद्धित्वात अपेक्षाबुद्धिवत् । न च भट्टरपेक्षावुद्धदित्वाभिव्यभकत्वाङ्गीकाराद्- दृष्टान्तासिद्धिः । अस्माभिरपेक्षाबुद्देदित्वादिजनकत्वेन तैश्च प्राकट्यजनकत्वेन व्याप्त्यङ्गीकारात । एवं च घटविषयकवुद्धः प्राकट्यजनकत्वे सिद्धे तदृष्टान्तेनापेक्षाबुद्धरात्मविषयकबुद्धश्च प्राकटयजनकत्वमनुमेयम् । न । आद्यानुमानेऽपेक्षाबुद्धित्वस्योपा- धित्वात् । ननु जातो घट इति विशिष्टमतीतेतिताख्यः संबन्धः सिध्येत् वर्तमानविषये वाधकाभावात । न । अतीतानागतादेस्त- दभावे ज्ञातव्यवहारानापत्तेः । तस्य तस्य ज्ञातताजन्यत्वात् । न च ज्ञानविषयावेव तद्धीविषयौ । वर्तमानेऽपि तथापत्तेः । प्रतीत्यो- विषयवैलक्षण्याननुभवात् । वस्तुतोजानामीति। मानसानुव्यवसायगम्यं ज्ञानं प्रत्यक्षम् अन्यथा मुखादिप्रत्यक्षत्वे का समाश्वासः। क्षणिकात्मविशेषगुणत्वाच मुखवन्मानसपत्यक्षत्वमनुमेयम् । अन्यथा परमाण्वादिष्विति। ननु परमाणुवृत्तिः सत्तादिर्घगदौ प्रतीयत एव परमाणुवृत्तितया च तद्ग्रहः परमाणोरतीन्द्रियत्वेन तदप्रतीत्येव न स्यात् । नः । परमाण्वघटितसंनिकर्षण स्वयोग्यतामात्रात् सत्तादिः, प्रतीयेते- त्यर्थात् । ५ १५४ .. गुणनिरूपणम् अन्ये तु। आश्रयाग्रहणेन सत्ता गृह्यतेत्यर्थः । परमाणुष्वपी- ति तु सत्ताया इन्द्रियसंनिकर्षनिर्वाहार्थमित्याहुः।रूपत्वादाविति। रूपत्वादिसिद्धिश्चान्वीक्षातत्त्वबोधे न्यायनिवन्धप्रकाशे चनिपुणतर- मुपपादिता । शब्दत्वादीत्यादिशब्दात कत्वादिपरिग्रहः ।। ननु संयुक्तसमवायो न प्रत्यासात्तिः, आश्रयसंयोगादेव रूपादिग्रहोपपत्तेः, तथाश्रयाश्रयसंयोगाद्रूपत्वादिग्रहसंभवात् संयु- तसमवेतसमवायोऽपि न प्रत्यासत्तिरित्याह-किमनेनेति । वयं हीति । यद्यपि शब्द इन्द्रियसमवेत एवं गृह्यते न विन्द्रियसंवद्धस- मवेतस्तथापि प्रायिकत्वेनाभिधानम् । वस्तुतो रूपसमवायिसंयोगे रूपसमवायस्य विशेषणत्वे हेतुत्वादुपलक्षणत्वे च संयुक्तद्रव्यमात्र- स्योपलक्ष्यत्वे घटसंयोगात् पटरूपग्रहापत्तेरिति भावः । ननूक्तरूपा पञ्चैव चेत्मत्यासत्तिम्तीभावः कथं प्रत्यक्ष इत्यत आह- अभावस्य त्विति । विशेषणता च द्विविधा । इन्द्रियविशेषणता इन्द्रियसंबद्धविशेषणता च । तत्राद्या शब्दाभावग्रहे अन्त्याऽभावग्रहे हेतुः। सा चेन्द्रियसंयुक्तविशेषणत्वादिभेदात् पञ्चविधा । ज्ञानसामा- न्यलक्षणे अपि प्रत्यासत्तीतत्रैवान्तर्भूते। योगजधर्मः प्रत्यासत्यन्तरम् । पोढा परिगणनं तु तदजन्यजन्यप्रत्यक्षाभिप्रायेण । तदव्युत्पादनं चास्माभिस्तत्रैव निपुणतरं कृतमिति नेह प्रतायते । अस्मदादीत्य- त्रादिशब्दस्य प्रकारवाचित्वादेक प्रकारमाह- अयोगिनामिति।न प्रत्यक्षकहेतुतेति। न प्रमारूपप्रत्यक्षकहेतुत्वेनेत्यर्थः । तस्य प्रमाण- हीतार्थविषयत्वात् । तेषामिति । यथा कर्मणामांशुविनाशित्वाव कालान्तरीयफलानुकूलो धर्मः कल्प्यते । तथा योगानुष्ठानस्यापी- किरणावली प्रकाशः १५५ त्यर्थः। स्वस्यात्मनि ततोऽन्यस्मिन्निति नन्वात्मनि श्रवण- मननश्रवणाञ्चिन्तासन्ततेश्च. साक्षात्कारजननस्य. दृष्टवादात्मनि साक्षात्कारसंभवेऽप्याकाशगोचरश्चिन्तासन्तानेन साक्षात्कारो जन्यत इत्यत्र मानाभावः । तत्र श्रवणमनननिदिध्यासनाश्रवणात् ।। अथात्मसाक्षात्कारणात्मन्यनात्मभ्रमे निवृत्तेऽप्यनात्मन्यात्मभ्रमस्ता- वन्न निवर्तते, यावत्तत्र साक्षात्कारो न जायत इति चेत् । न । आत्मनि विशेषदर्शनेन यथात्मनि नानात्मारोपस्तथानात्मन्यात्मा- रोपो न संभवति । विशेषदर्शनाविशेषात् । अथात्मा चिन्त्यमान इतरभिन्नत्वेन चिन्तनीय इतीतरष्वपि. साक्षात्कारो जायते । न- श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति सामानाधिकरण्यात् । यथा श्रवणं तथा मननं तथात्मा चिन्तनीयः । श्रवणादि चेतरभि- न्नत्वेनेत्यत्र न मानम् ।। .... अत्राहुः। श्रोतव्यः श्रुतिवाक्येभ्य इत्यसङ्कुचितस्वरसाद्या- वदात्मगोचरश्रुतिवाक्येभ्य आत्मश्रवणे श्रुतौ चेतरभिन्नत्वेनात्म- प्रत्यायनात्तथैव श्रवणमननादिकमपि तथोपस्थितामति । तथैव निदिध्यासनसाक्षात्कारोऽपीतरेष्वा ( का? ) शादिषु वाच्यः ।। यद्यपीति तथा चास्मदादिप्रत्यक्षप्रस्तावे विषयतयात्मा किमिति नोक्त इत्यर्थः।चतुष्टयसंनिकर्षादित्यनेनेति । यदि चतुष्टयसंनि- कर्पोऽत्र विवक्षितः स्यातदेन्द्रियसंनिकर्षाभावे. योगिनामात्मसाक्षा- कारोन स्यादित्यर्थः । कस्य चिदिति योग्यानुपलम्भनिराकरणा- र्थम् । योगजस्यापि धर्मस्यति । ननु योगविषयकत्वेन योगजो धर्म आत्मसाक्षात्कारहेतुरस्तु परमाण्वादिसाक्षात्कारे कथं हेतुः ।

. :. .गुणनिरूपणम् अत्राहुः । शब्दानेव शृणोति योजनशतादिति योगजधर्मः विशेषफलादन्यत्रापि.योगजधर्मस्य साक्षात्कारजनकत्वम् । स्वर्गादीनामिति। यद्यपि स्वर्गिणां स्वर्गः प्रत्यक्ष एव तथापि मर्त्यलोकस्थातीन्द्रियत्वमभिप्रेत्योक्तम् । जन्यसविकल्पकाजन्यजन्य- साक्षात्कारविषयत्वमत्र साध्यमतो नोपनीतसाक्षात्कारेण सिद्धसाध- नम् । यद्यप्यनेन विमुक्तमात्रस्य सिद्धिर्न मुक्तस्य, मुक्तसाक्षात्कारस्य जन्यसविकल्पकजन्यत्वात् । तथाप्यागमात्तस्यापि सिद्धिः। धर्मिग्राहकमानबाधमङ्गीकृत्याह-मीमांसका गुरव इति । उत्तरप्रबन्धोपयोगार्थमाह-नान्विति।स्वरूपालोचनमात्रमिति। मात्रपदाद्विशिष्टविषयकत्वव्यवच्छेदः । यदि प्रत्यक्ष फलमात्र विवक्ष्येत तदा तस्य पूर्वमुक्तत्वात् पौनरुक्त्यं स्यादिति विशिनष्टि- प्रत्यक्षं प्रमाणामिति । सामान्यविशेषज्ञानमपीति । निर्वि- कल्पकमपीत्यर्थः। दृषणं निरस्यति-आलोक्यतेऽनेनेति । तत्र मात्रपदव्यव- च्छेद्यं नास्तीत्यन्यथा व्याचष्टे-स एवेति । संनिकोऽपि योगजा फलं भवत्येवेत्यत आह-प्रमारूपामिति । ननु कार्यस्य कारणसाध्यत्वे कारणस्यापि कार्यतया कार- णान्तरसाध्यत्वेऽनवस्था स्यादित्यत आह-न चैवमनवस्थेति । संशयविपर्ययरहितमिति। यद्यपि संशयविपर्ययात्यन्ताभाववाद्वि- शिष्टज्ञानमपि भवति तथापि संशयविपर्ययभिन्नमित्यर्थः । तथापि सत्यं विशिष्टज्ञानमपि तथा भवत्येवेत्यत आह-अव्यपदेश्यमिति। तस्य विवरणं शब्दाजन्यमिति । ननु व्यपदिश्यतेऽनेनेति • .

किरणावली प्रकाशः १५७ तथा च व्यपदेशो नाम जात्यादि तत्कर्म व्यपदेश्यं तद्वन्न भवति तदव्यपदेश्यं वैशिष्टचानवगाहीत्यर्थः प्रतीयते । सविकल्पकं व्यवच्छियेतेत्यत आह-शब्दाजन्यमिति चेति । तद्व्यवच्छेदार्थमिति । ननु व्युत्पन्नस्य शब्दश्रवणानन्तरं यद्गौरिति ज्ञानं तद्यदि शान्दं तदा नेन्द्रियार्थसंनिकर्पजम् । अथ तजन्यं तदा न शान्दम् । उभयजन्यत्वे जातिसंकरापत्तिः । अत्राहुः । प्रत्यक्षोपस्थिते धर्मिणि यत्र शब्दादितरधर्मवैशिष्टचं प्रतीयते तत्र परम्परेन्द्रियसंनिकर्पस्प भयोजकत्वेन प्रत्यक्षत्वं मा भूदित्येवपरमर्थव्यपदेश्यमित्युक्तम् । यद्यपि तदिति तद्गुणदोषमाध्यस्थ्यं, तस्य चेति तज्जातीयलिङ्ग- दर्शनस्य, तदिति प्रत्यक्षफलत्वमिति । यद्यपीति । ननु बुद्धरत्र विभागः सा च फलमेव न तु करणं तत्कथं करणव्युत्पादनमत्र प्रसक्तम् । उच्यते । करणस्यापि बुद्धिरूपत्वसंभवात करणव्युत्पत्त्याऽनेन च बुद्धेर्युत्पादनमेवात्र । शब्दादीनामप्यनुमानेऽन्तर्भाव एतत्सुनिश्चितार्थमनुमानमित्यादि भा- ज्यदर्शनाद्भावव्युत्पत्तिमुपजीव्य करणव्युत्पत्तावपि तात्पर्य वा। लिङ्गजन्यं तत्प्रत्यक्षमपि संभवत्यत उक्तम्-अनुमितिरूपमिति। ननु लिङ्गदर्शनात्संजायमानमिति लक्षणं संस्कारेऽतिव्यापक- मित्यत आइ-बुद्धयधिकारादिति। संशयविपर्ययेति । ननु लिङ्गदर्शनस्य परामर्शस्थानुमितिचरमकारणत्वान्न ततः संशयः । न च सत्पतिपक्षस्थलेऽनुमित्यनुत्पादनात. ततः संशयः । तंत्रापि संशयस्य साधारणधर्मदर्शनजतया लिङ्गदर्शनादनुत्पत्तेः ।

-. १५८ गुणनिरूपणम् मैवम् । लिङ्गदर्शनविषयस्य साक्षात्कारिणः संशयस्य लिङ्गदर्शन: जतया तस्य व्यवच्छेद्यत्वाव। ननु स्मृतियथार्था नासम्यगर्थेत्यत आह-स्मृतिरपीति। रज्जु सर्पतयानुभूय पलायितस्य तथैव स्मृतरित्यर्थः। अत्र व्याप्तस्य पक्षधर्मतावैशिष्टयं लिङ्गत्वं, तद्विषयं ज्ञानं तृतीयलिङ्गपरामर्शः, तज्जन्योऽसाक्षात्कार्यनुभवोऽनुमितिः । अनुमिनोमीत्यनुगतानुव्य- वसायाद्वानुमितित्वं जातिः । : ननु संजायमानमिति वर्तमानतानिर्देशाद्वर्तमानज्ञानस्यानुमा- नता नत्वतीतस्यानागतस्य वेत्यत आह-वर्तमानापदेशस्योति। निरुपाधीति । अत्र पक्षधर्मत्वे सतीति द्रष्टव्यम् । इतिकर्तव्य तेति । इतिकर्तव्यता व्यापारः तद्वत एव करणत्वात् । एतेनेति । प्रमाणं त्वत्र धूमवानयमाग्नमानित्यनुमिति: ज्ञाय- मानविशेषणजन्या विशेषणसमानकालाशाब्दविशिष्टज्ञानत्वात् दण्डी पुरुष इति प्रत्यक्षवत् । युक्तं चैतत् । लिङ्गज्ञानस्य प्रमात्वं विद्य- मानलिङ्गविषयकत्वमतः परामृश्यमानस्यैव लिङ्गत्वम् । यत्र चातीता- नागतयोलिङ्गत्वं तत्र यद्यपि कारणविशेषो लिङ्गं न सम्भवति । तथापि धूमप्रागभावध्वंसावेव तत्र लिने तयोरपि धूमवद्वहिव्याप्य- वाव। यच्छब्दसापेक्षत्वादिति। यच्छब्दस्योद्देश्याभिधायित्वात् तच्छब्दस्य विधयाभिधायित्वादुद्देश्यविधेययोश्च मिथः साकाङ्क्ष- वादित्यर्थः। ननूद्देश्यविधययोस्तथात्वेऽपि तद्वाचकपदयोंः कथ- माकाङ्क्षा, आकाङ्क्षायामपि तवाचकपदार्थमात्राकाङ्क्षास्तु, नि- यमेन तत्पदाकाङ्क्षा कथम् । उच्यते । तयोरेकस्मिन् शब्दादु- किरणावली प्रकाश १५९ पंस्थितेऽपरस्यापि पदादेवोपस्थितिरन्वयबोधाङ्गमित्यन्यत्र व्यवः स्थापितमिति पदजन्यपदार्थोपस्थितयोरुद्देश्यविधेययोः साकाक्ष- स्वमिति तदुपस्थापकयोरपि साकाङ्क्षत्वम् । तत्रापि . व्युत्पत्ति- सिद्धोऽयमों यद्यपदार्थोपस्थितमेवोद्देश्यमादाय तत्पदार्थस्य वि- धेयस्यान्वयः । एवं यत्पदार्थस्यापि तत्पदोपस्थापितमादायोत । पक्षधमतेति।सिपाधयिपाविरहसहकृतसाधकप्रमाणाभाववान धर्मीः पक्षः । व्यापकतावच्छेदकप्रकारानुमितिप्रतियोगिकविषयताश्रयः पक्ष इत्यन्ये । एवं च सतीति । यद्यपि पक्षकदेशत्तिरपि पक्ष- वृत्तिर्भवत्येवेति न ततो भागासिद्धिनिरासस्तथापि . बद्धमित्यनेन सम्बन्धमात्रलाभे संशब्देन सम्यक्त्वं पक्षव्यापकत्वं लभ्यते । ननु सिद्धमित्यत एव सपक्षत्तिवे प्रशब्दात् प्रकर्पवाचिन: सपक्षव्याप- कतारूप: प्रकर्पोऽवगम्यते, तथा च पक्षैकदेशतिर्हेतुर्न स्यादित्यत आह-चशब्द इति । सपक्षेति । निश्चितसाध्यवान् सपक्ष इत्यर्थः। तच्छन्दनानु- मेयधर्मिपरामर्शेऽनन्वयादाह-तच्छदेनेति । ननु विशेषसंज्ञायाः किं फलमित्यत आइ--एतेनेति । उक्तलक्षणहीनत्वं वाधितसत्प- तिपक्षितयार प्यस्तीति तयोरपि लिङ्गत्वं स्यादिति विशिनष्टि- कालात्ययति । ननु यत्र द्वितयत्रितयलिङ्गलक्षणव्यतिरेकस्तत्राप्येकल- क्षणव्यतिरेक आवश्यक इति तावन्मात्रमेव लिङ्गाभासलक्षणमस्तु कृतं द्वितीयादिव्यतिरेकोद्भावनेनेत्यत आह-एतेनैतदुक्तमिति । सिद्धे हेतुस्वरूप इति । ननु सिद्धत्वं व्याप्तस्य पक्षधर्मत्वं तद्वय- , .

१६० गुणनिरूपणम् तिरेकश्चासिद्धत्वं तथा सिद्धे हेतुस्वरूपे विरुद्धादिदोषाणामवकाश इति व्याहतम् , न हि व्याप्तस्य पक्षधर्मत्वे विरुद्धादिसंभवः । मैवम् । असिद्धिरनुमितिकारणाभावरूपतया साक्षाषणं विरुद्धा- दयस्त्वसिद्ध्युपजीवकत्वेन । परम्परादुषणानामुपजीव्यत्वात समानतन्त्रे प्रथममसिद्धिरुद्भावितेत्याशयः । स्फुटप्रतिभास मिति । उभयवादिसंप्रतिपन्नमित्यर्थः । बलवदिति । उपजीव्यमित्यर्थः । ननु संदिग्ध इत्यत्र संदिग्धपदं नानैकान्तिकवाचकमित्यपदार्थव्याख्यानामित्यत आह । संदिग्ध इति । यद्वस्तु यत्काले यत्कोटिकत्वेन संदिग्धं भवति न तत्काले तद्वस्तु तत्कोटावनैकान्तिकत्वेन निश्चिनोतीति संदिग्धपदं लक्षणयानकान्तिकं ब्रूत इत्यर्थः । लक्षणमुदाहरणेन स्फुटयि- तुमाह-स हि धर्मद्वयेत्यादिनापि विपक्षाच्यावृत्तिरित्य- न्तेन । नन्वनैकान्तिकं द्वाभ्यामपि लिङ्गलक्षणाभ्यां हीनं भवति तत्किं नोदाहृतं यथा जलहदो धूमवान् वह्निमत्त्वादित्यादि । इदं हि पक्षावृत्ति सपक्षविपक्षवृत्ति चेति । न । स्वरूपासिद्धयसंकीर्णान- कान्तिकस्योदाहियमाणत्वात् । विरुडास्त्विति । यद्यपि विरुद्ध- स्त्रिभिरपि धर्मविपरीतो भवति, यथाऽनित्यः शब्दोऽकृतकत्वा- दिति । अयं हि पक्षसपक्षासत्तिर्विपक्षवृत्तिश्चेति । तथाप्यसिद्धा- संकीर्णो विरुद्धोऽत्रोदाहियत इति नोक्तः । द्वाभ्यां चेति । ननु चाप्रमेयस्याप्रसिद्धथा कुत्रासिद्धिनि- रूप्या । अत्राहुः । अप्रमेयत्वादित्यनेनारतिराकाशादितुत्वेन विवक्षितः ..

किरणावली प्रकाशः १६१ यद्यपि चेति । नन्वनुमेयः पक्षः कचिद्देशे काळे च भवतीति देशकालनैयत्यमेवानुमाने, । अत्राहुः । सर्वत्रानुमाने तयोः स्वरूपस- तोरेव प्रयोजकत्वं ज्ञायमानयोः क्वचित्तत्वमित्यभिमेत्योक्तम्- तथापि क्वचिदिति । यत्र देशविशेषकालविशेषविशिष्ट एव पक्ष इत्यर्थः । एतच्चेति । क्वचिद्देशकालप्रयोजकत्वम् । भूयो भूय इति । ननु भूयोदर्शनगम्या व्याप्तिर्न तु व्याप्ते योदर्शनमनुमानो- पयोगि । मैवम् । संवादेन यत्र व्याप्तिग्रहस्य प्रामाण्यं गृह्यते तदभिप्रायेणोक्तत्वात् । च्यातिरकदृष्टान्तस्यापीति । एतचात्रा- प्रमाणत इत्यनुपङ्गाल्लभ्यते। अन्यथोति। हेत्वाभासस्यापि काल्पनि- कव्यतिरेकदृष्टान्तसंभवादित्यर्थः । इति व्युत्पत्त्येति सपक्षेऽम- सिद्धोऽगृहीतव्याप्तिक इति व्युत्पत्त्येति योजनीयम् । किन्तु पक्षेऽसन्निति । न चैवं स्वरूपासिद्धस्यैव संग्रहे व्याप्यत्वासिद्धस्या- संग्रहः । तस्य पूर्वोक्तव्युत्पत्त्यैव लब्धत्वात् । चकारादिति । न च चकारादेवान्यहेत्वाभाससंग्रहाव कृतमनपदेशपदात्योति वाच्यम् । आवृत्तेनानपदेशपदेन लक्ष्याभिधानाच्चकारेण च कालात्ययापदिष्टः प्रकरणसमयोर्लक्षणाभिधानात् । अप्रसिद्धपदेनेति । चकारेणेत्य- थः। नन्वेवं हेत्वाभासलक्षणे तयोरुपग्रहेऽपि हेतुलक्षणपरसंग्रहश्लोके कथं तयोनिराकरणमित्यत आह-प्रसिद्धं चेति । तयोः कालात्य- यापदिष्टप्रकरणसमयोरित्यर्थः। आपातत इति वाधसत्पतिपक्षानु- पजीवने । व्याख्यान इति वाधसत्पतिपक्षोपजीवने । ननु सत्प्रतिपक्षे व्याप्यत्वासिद्धिरपक्षधर्मता च नावश्यकी, सदनुमानस्यापि कदाचित्सत्पतिपक्षत्वात् । . ६ . गुणनिरूपणम्. 2. अत्राहुः । प्रसिद्धं च तदन्वित इत्यत्र प्रकर्षण सिद्धं प्रसिद्ध- मित्युच्यते । प्रकर्षश्चायमेव यदसत्मतिपक्षितत्वमाधितत्वं च । सर्वमसिद्ध एवेति । सर्वत्र हेत्वाभासे. व्याप्तिपक्षधर्मताममित्य- भावादित्यर्थः। अधिकस्यति । अबाधितस्य चासत्मतिपक्षितस्य चेत्यर्थः । नवाच्यति । नौदाहर्तव्येत्यर्थः । निराश्रयस्य हेतोरिति । ननु वन्ही धूमो गमको न, गमकं च ममेयत्वमिति निरा- अयोऽपि हेतुरुपन्यस्यते. विधीयते प्रतिषिध्यते च । अथ पक्षता विना न हेतोर्गमकत्वं तर्हि बाधकत्वादिज्ञानव्यतिरेकेणापि न तोगमकत्वमिति तुल्यम् । प्रबाहुः ।, बाधसत्प्रतिपक्षत्वज्ञानाभावमात्रमनुमितिहेतुर्न बाधि- तत्वादिज्ञानमपि । पर्वधर्मताज्ञानं च सर्वत्रानुमितौ हेतुरिति.विभाव- यितुं पक्षधर्मतोदाहृतेति.। तत्रानुमेयेनेति । यद्यप्येतदन्वयव्यतिरेकिण्यतिव्यापकम् । तथाप्यनेनोपाधिनाऽन्वयव्यतिरेक्यप्यन्वय्येव । लक्षणं तु अत्यन्ता- भावाप्रतियोग्यत्यन्ताभावाप्रतियोगित्वम् । एतावन्मात्रमनैकान्ति- केऽप्यस्तीति हेतुत्वेन विशेष्यम् । पदमेव चेति-अनुमेयेन सम्ब- दमित्येतावन्मात्रमेव चेत्यर्थः। एतदसाधारणानकान्तिकेंऽप्यस्तीति हेतुत्वेन विशेष्यम् । लक्षणन्तु पक्षत्तित्वे विपक्षव्यात्तत्वे च सति असत्प्रतिपक्षत्वमेव । समस्तन्विति । प्रसिद्धं च तदन्विते तदभावे च नास्त्येवति द्वयविशिष्टमित्यर्थः । यद्वा । उभयव्याप्ति- रनेन साध्यसाधकत्वं तल्लक्षणम् । अबाधितसत्पतिपक्षितत्वश्व .

किरणावली प्रकाशः १९३ समानम्। अन्वयव्यतिरेकाविति। सहचारदर्शनं व्यभिचाराद- र्शनञ्चेत्यर्थः। यद्यप्येतत् केवलव्यतिरेकणि केवलान्यायनि च न सम्भवति । तथाप्यन्वयव्यतिरेकिणि तत्सम्भव इति तदभिमायेणेत- स्याभिधानम् । ननु न भूयोदर्शनगम्या व्याप्तिः। तथाहि न भूयांसि दर्शनानि व्याप्तिग्राहकाणि । एकत्रैव धारावाहिकेन तद्ग्रहापः । नापि भूयःसु स्थानेषु दर्शनम् । एकाश्रयाधिनरुपरसयोस्तद- भावात् । नापि भूयसां दर्शनं गोवद्रव्यत्वयोस्तदभावात । भूयो दर्शनेऽपि पार्थिवत्वलोहलेख्यत्वयोयभिचारे व्यायग्रहात् । अतः पारिशेष्यात सकृद्दर्शनगम्यैव व्याप्तिः । उपाध्यभावस्य व्याप्ति- स्वाद । तस्य च केवलाधिकरणरूपतया चक्षुरादिना प्रथमदर्शन- गम्यत्रादित्यत आइ-अन्ययव्यतिरेकाभ्यामिति । व्यापका- न्वयव्यतिरेकप्रयुक्तव्याप्यान्वयव्यतिरेकाभ्यामित्यर्थः । नन्वेवं प्रथमदर्शन एवं व्याप्तैनिश्चयादग्रे संशयानुपपत्तिरित्यत आह- शङ्कामात्रन्त्विति । व्याप्तिज्ञानेऽपि कि सन्नप्युपाधिर्मयोपाधित्वेन न ज्ञातः किं वोपाधिरेवात्र नास्तीति संशयात्तदुपपत्तेः । न हाग्रिम- संशयानुरोधात् पूर्व व्याप्तिनिश्चयसामग्र्यामपि न तन्निश्चय इति युज्यते । घटसामच्यामपि तथा कल्पनापत्तेः। न चैवं प्रथमदर्शना- नन्तरमेवानुमितिः । उपाधिस्मरणसहकृतस्य योग्योपाध्यनुपलम्भ- स्यानुमितावुपाध्यभावव्यवहारे च कर्तव्ये व्याप्तिज्ञानसहकारित्वा- दिति भावः । नन्वेतावतापि. सकदर्शनगम्यत्वं न च्याप्ननिरागसगि- त्यत आइ-इदमनेति । यथा वहिरिति । आन्धनगरमगुपाधि- मादाय वह्निर्धूमेन सह.. व्याप्त इति तदभावेऽयं धूगवान पदिगखा- १६४ :. गुणनिरूपणम् दित्यत्र वहिर्न धूमस्य गमक इत्यर्थः । यथाहारेति। मनुष्यश्यामत्वे शाकपाकजत्वस्यैव गमकत्वं न तु तद्विशिष्टस्य मैत्रतनयत्वस्य व्यर्थविशेष्यत्वादित्यर्थः। ननु भूयांसि दर्शनानि. प्रत्येकं न गमयन्ति । सकृद्दर्शनग- म्यत्वापत्तेः । नापि मिलितानि । आशुविनाशिनां क्रमभाविना मेलकासंभवादित्यत आह-भूयोदर्शनं हीति । यथा प्रत्यभिज्ञायां संस्कारसहितमिन्द्रियं हेतुस्तथा तावदर्शनजन्यसंस्कारसहितमत्रापि तथेत्यर्थः । : तथाहीति । विशेषैरवान्तरजात्यादिभिर्मणिः पद्मरागादि- च्यवहारविषयो धारकस्य शुभाशुभजनकश्चानुमीयत इत्यर्थः । अनौपाधिकत्वज्ञानस्य व्याप्तिज्ञानहेतुतया साध्यसहचरितानामनुपा- धित्वनिश्चयस्य साध्याव्यापकत्वसाधनव्यापकत्वनिश्चयसाध्यत्वा- त्तस्य भूयोदर्शनसांध्यत्वादित्याइ-ततश्चेति । ननु भूयो दर्शनं त्रिचतुरादिरूपतयाऽननुगतं न हेतुरित्यत आह-न चात्रेति। इदमत्राभिसंहितम् । उपाध्यभावो नानौपाधिकः । यत्कि- ञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वस्य धूपेऽप्यसत्वात् । व्यभिचारिण्यपि गतत्वाच्च । प्रकृतसाध्यव्यापकसाधनाव्यापकंधर्म- शून्यत्वस्य च सिद्धयसिद्धिभ्यां व्याहतत्वात् । किन्तु यावत्स्वव्य- भिचारिव्यभिचारिसामानाधिकरण्यम् । तच्च न सकृद्दर्शनगम्यम् । किन्तु वस्तुगत्या या व्याप्तिस्तज्ज्ञानं नानुमितिहेतुरतिप्रसङ्गात् । किन्तु · व्याप्तित्वेन । तच्चोपाधेरेव झाने तथात्वेन ज्ञानं संभवति । च किरणावली प्रकाशः विशेषणज्ञानं विना विशिष्टज्ञानानुत्पवेरिति । ननु तथाप्यनौपाधि- कत्वं . भूयोभिरपि दर्शनैतुिमशक्यम् । योग्यानामुषाधीनां योग्यानुपलब्ध्याऽभावनिश्चयेऽप्ययोग्यानामुपाधीनाममावस्य ग्रही- तुमशक्यत्वात् । अनुमानात्तद्ग्रहे तत्राप्यनौपाधिकत्वग्रहायानुमा- नान्तरापेक्षायामनवस्थानात् । तथा च भूयोदर्शनस्यापि संशाय- कत्वाचतोऽपि न व्याप्तिग्रहः । इह समव्याप्तस्यैवोपाधित्वपक्षमाश्रित्य समाधिराचार्येणैव रक्ष्यते । विषमव्याप्तस्याप्युपाधित्वपक्षे.व्यभिचारा- भावज्ञानसहकृतं सहचारज्ञानं व्यामिग्राहकम् । न च सर्वेषां व्यभि- चाराभावज्ञानं ज्ञातुमशक्यं स्वीयतया ज्ञानाभावज्ञानं च व्यभिचारि- साधारणमिति वाच्यम्। न हि व्यभिचारज्ञानाभावो ज्ञात उपयुज्यते । किन्तु स्वरूपसन्नेवोन्द्रियसहकारी । व्यभिचारज्ञानं च तन्निश्चयस्त- च्छङ्काशङ्का च क्वचिदुपाधिसंदेहात क्वचिद्विशेषादर्शनसहकृतसाधा- रणधर्मदर्शनात् । तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात क्वचित स्वत: सिद्ध एव । न च तर्कव्याप्तिमूलत्वेऽनवस्था । यावदाशङ्क तर्कानुसर- णात् । यत्र व्याघातेन शदैव नावतरति तत्र तर्क विनैव व्याप्तिग्रहः । -तथाहि । धूमो यदि वन्ासमवहितसामग्र्यजन्यत्वे सति वन्हिसमव- हिततदजन्यः स्यान्नोत्पन्नः स्यादित्यत्र किं धूमो वन्हेरेव भविष्यति, क्वचिद्वन्हि विनापि स्यादकारणक एवोत्पन्नः स्यादेवाशका स्यात् । सर्वतस्तु क्रियाव्याघातः । यदि गृहीतान्वयव्यतिरेक हेतुं विना कार्योत्पत्ति शङ्केत कथं नियमेन धूमार्थं वन्हिमुपाददीत । न हि यद्व्यतिरेके यस्योत्पत्तिराशक्यते तदर्थ नियमतस्तदुपादीयत इति संभवति । न च केवळान्वायनि व्यभिचारशङ्काया असम्भवः ।

A .. गुणनिरूपणम् . अत्रापि साधनसमानाधिकरणात्यन्ताभावप्रतियोगि साध्यं न वेति तस्याः सम्भवात् । व्यापकतागोचरत्वेऽपि तस्याः समानसंवित्स- वेद्यतया व्याप्यतागोचरत्वात् । अन्ये तु । काश्चिव्याप्तयः सर्वप्राणिसाधारणा अनादिसिद्धा एव । यथा कार्यकारणभावविरोधादिः । कथमन्यथा जातमात्रस्य स्तनपानादौ प्रवृत्तिः अहिते निवृत्तिश्चेत्याहुः । तथाविधामति । यदृपावच्छिन्ने व्याप्यत्वं तद्रूपोपस्थितादनु- मितिः । तथा च धूमपदेन तादृग्धूमाभिधानं लक्षणंया स्यात् । न च वादिवाक्ये लक्षणायां प्रमाणमस्ति । न हि तेनं समीचीनमेव वक्तव्यम् । अज्ञानस्यापि संभवात् । अन्यथा हेत्वाभासेऽप्युक्त सद्धतुलक्षणया वादिभङ्गो न स्यादित्यर्थः । प्रथमत एकामिति । व्याप्तिग्रहणरूपमित्यर्थः। दूरादिति। यत्र धूमविषयक एव दूरावस्तुत्वेन परामर्शः, दैवाच धूमो वन्हिव्याप्य इति स्मृतस्तत्र वस्तुगत्या. यल्लिङ्गं तस्य ज्ञान व्याप्तिस्मृतिश्चेत्येतावतोऽनुमितिहेतोः सत्त्वेनानुमित्यापत्तेरित्यर्थः । द्वितीयस्त्विति । तस्य पक्षधर्मताविषयत्वेऽपि व्याप्तिवै- शिष्टयविषयत्वादित्यर्थः। लिङ्गत्वोल्लेखीति । व्याप्तिविशिष्टपक्षधर्मस्य लिङ्गपरामर्श- स्तृतीय इत्यर्थः । तथा च व्याप्तिस्मृतिः करणं तृतीयलिङ्गपरामों व्यापार इत्युक्तम् । अन्ये तु । क्रियया अयोगव्यवच्छेदेन संबन्धित्वस्य करणत्वाव्यापाराभावेऽपि तृतीयलिङ्गपरामर्शः करणमित्याहुः ।

किरणावली प्रकाशः १६७ ननु व्याप्तिस्मृतिः व्याप्यतावच्छेदकरूपेण, पक्षधर्मताज्ञान- मित्येवानुमितिहेतुर्लाघवावतृतीयलिङगपरामर्श हेतुत्वेनावश्यकत्वाच। तथा च धूमो वन्हिव्याप्पो धूपवांश्चायामति ज्ञानद्यादेवानुमिति- रस्तु । न. चैवं गोत्वादेरनुमितिनं स्यात् । तत्रापि तदितरावृत्तित्वे सति तद्वृत्तित्वस्य धर्मान्तरस्य व्याप्यतावच्छेदकत्वात् पर्वतीयधूमे धूपत्वेन ज्ञाते वन्दिव्याप्योऽयं न बोत संशये तद्विपर्यये वानुमितिः स्यादिति चेत् । न । धूमो चन्हिव्याप्य इति स्मरतो धूमज्ञानस्य विशेषदर्शनत्वेन तयोरसिद्धेः । अन्यथा परामर्शस्याप्यापत्तेः । अथ सामग्येव तत्र मानम् इन्द्रियसंनिकृष्टे धूमे व्याप्तिस्मृतिसत्त्वा- दिति चेत् । न । तत्र व्याप्याभेदप्रत्यक्षसामग्रीतोऽनुमितिसामठ्या बलवत्वेनानुमितेरेवोत्पत्तेः। अन्यथा तवापि परामर्शान्तरापत्तेः । इन्द्रियसनिकृष्टेऽतीन्द्रिये च. लिङ्ग तत्सामध्यभावाद्वयभिचारः । न चानुमानाचत्र लिङ्गपरामर्शः। तत्रापि तदपेक्षायामनवस्थापत्तेः। उच्यते । पक्षधर्मस्य व्याप्यत्वज्ञानमनुमितिहेतुः लाघवादुपजीव्य- स्वाच्च । न तु तस्य व्याप्यतावच्छेदकपकारकज्ञानम् । गौरवात् । न च तस्यानुमितिः पूर्वमसिद्धौ युगपदुपस्थित्यभावान्न लाघ- चावतारः । यत्र व्याप्तिधूमत्वयोवैशिष्टयं प्रथममेव प्रत्यक्षण युगपत पक्षधर्मे भासते शब्दाद्वा तत्र उभयोयुगपदुपस्थितः । न चैवमतिरिक्तविशिष्टधीकल्पनायां गौरवम् । सिद्ध्यसिद्धयोा- घातेन फलमुखगौरवस्यादोषत्वात् । किञ्च वन्हिव्याप्यवानिति शाब्दसाने व्याप्यतावच्छेदकधूमत्वाद्यज्ञानाद्वयाप्यत्वज्ञानसत्त्वात्त- देवानुमितिकारणम् । न च वन्हिव्याप्यमपि.. व्याप्यतावच्छेदक . . १६८ गुणनिरूपणम् वन्हिनिरूपितधूमाघेकैकवृत्तिव्याप्तेः सकलधूमादिव्याप्यतावच्छेद- कत्वादाश्रयभेदेन व्याप्तिभेदादिति वाच्यम् । सकळधूमादिवृत्ति- व्याप्ती मानाभावात् । यत्र वन्हिव्याप्यस्तत्र वन्हिरिति व्याप्तिबुद्धा- कैकत्तिव्यात्याश्रयस्यैव विषयत्वात् । अतीन्द्रियेऽसंनिकृष्टे लिने व्याप्तिस्मरणधूमत्वज्ञानसहितेन मनसा तदुत्पादनमिति । ननु व्याख्येयग्रन्थेऽग्न्यध्यवसायो भवतीत्यभिधानात्तद्विरोध इत्यत आह-अग्निरध्यवसीयत इति । भावव्युत्पत्तिपरित्यागे हेतुमाह-तत्परमिति । अविज्ञान परम् । तद्भवति परामर्शज्ञानं भवतीत्यर्थः । ननु तत्परत्वमेवास्य कथमित्यत आह-प्रमाणमिति। ननु द्वितीयलिङ्गदर्शनस्यानुमित्य- व्यवहितमाकालतयानुमितिजनकत्वे को दोष इत्यत आह-यद्य- पीति।जिज्ञासावशादिति । ननु धूमनिवृत्तौ परामर्शो न प्रत्यक्षे. णेन्द्रियासन्निकर्षात । नाप्यनुमानेन । तस्य परामर्शजन्यत्वेन सोऽपि परामर्शो धूमविषयक एव केन जननीयः । नानुमानेनैव । अनवस्था- नात् । न च व्याप्तिपक्षधर्मताबुद्धिभ्यामेव तज्जननम् । प्रमाणान्तर- त्वापत्तेः । नापि तत्सहकृतेन मनसैव । तस्य वहिरस्वातन्त्र्यात् | अत्राहुः । प्रमेयत्वादावतीन्द्रिये ज्ञानोपनीतत्वेन व्याप्तिग्रहः तत्रापिलिङ्गपरामर्शः। तेन वाक्यस्यति । तस्य परामर्शोत्थापक- वादित्यर्थः । हेतुवाक्यस्य पक्षधर्मतारहितलिङ्गन्मात्रोपस्थाकत्वा- द्वादिवाक्यस्य सिद्धत्वेनोपपत्त्यनाक्षेपकत्वात् । परार्थानुमाने उपन- यस्य पक्षधर्मताप्रतिपादनमेव व्यापारः । स्वार्थानुमाने तु द्वितीय- लिङ्गदर्शनादेव तल्लाभान्न परामर्शोपयोग इत्याइ-पक्षधर्मतेति ।

किरणावलीप्रकाशः १६९ न च तदनुमानेति । यो धूपवान सोऽग्निमानिति केवलव्याप्तिज्ञाना- दनुमित्यनुत्पत्तेरित्यर्थः। ... उपनयार्थ इति।व्याप्तिविशिष्टस्य पक्षधर्मत्वमित्यर्थः । अनौ- पाधिकः सम्बन्ध इति । यद्यप्यनौपाधिकत्वस्य साध्यव्यापकमाध- नाव्यापकधर्मशून्यत्वज्ञाने व्यापकज्ञानस्य व्याप्यज्ञानसापेक्षतया न परम्पराश्रयः । तद्वन्निष्ठात्यन्ताभावापतियोगित्वस्य व्यापकत्वात् । नापि प्रतियोगित्वस्य विरोधित्वात्तस्य च सहानवस्थाननियम- रूपत्वादात्माश्रयः। न हि प्रतियोगित्वं विरोधित्तम् । गोत्वाश्व- त्वंयोर्विरोधेऽपि प्रतियोगित्वाभावात् । किन्तु भावविरहात्मकत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं व्यभि- चारिण्यपि । नापि प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं तव । तादृशधर्मज्ञानं विना तदभावानिरूपणे सिध्यसिद्धिव्याघा- तात् । यावद्वन्दिमत्वव्यापके धूमवत्त्वाच्यापकत्वं यावद्भूमंवत्त्वा- व्यापके वाहिमत्त्वव्यापकत्वमिष्यत इति चेत् । न.1 तादृशधर्मनिपे- धस्य व्यधिकरणतया धूमत्वेऽनुपयोगात् । साध्यव्यापकव्याप्यत्वे चात्माश्रयात् । साध्यं यावदव्यभिचारिः तदव्यभिचारित्वं तदिति चेत् । न । साध्याव्यभिचारित्वस्यैव प्रयोजकत्वे शेपवैय- र्थ्यात् । न चेष्टापत्तिः । साध्यवद्भिन्नसाध्यात्यन्ताभाववदत्तित्वस्य केवलान्वयिन्यसंभवात् । नापि स्वसमानाधिकरणात्यन्ताभावाप्रति- योगिसामानाधिकरण्यं व्याप्तिः । यत्किञ्चिद्वन्यत्यन्ताभाववति धूमस्य वृत्ते, संयोगादेव्याप्यवृत्तव्यत्वाचव्याप्यतापत्तेः । न च संयोगित्वं द्रव्यव्याप्यम् । संयोगस्येव तत्सम्बन्धस्याव्याप्य- १७० गुणनिरूपणम् वृत्तित्वात । नापि साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्क- त्वम्। सांधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्त्वस्येति षष्ठयोंन व्याप्यव्यापकभावः । व्याप्यत्वस्याव्याप्यनिरुक्तेः । नापि नाप्य- ज्ञापकमावस्तदर्थः । व्यभिचारिसाधारण्यात् । अथ संबन्धमा व्याप्तिः । व्यभिचारिसंबन्धस्यापि केन- चिद् व्याप्तित्वात् । धूमादिव्याप्तिस्तु विशिष्यैव निर्वक्तव्येति चेत् । इदं व्याप्तिस्वरूपं निरुच्यते व्याप्तिपदप्रतिनिमित्तं वा ? नायः। तृतीयीलङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्तावे- ऽस्यार्थान्तरत्वात् । सम्बन्धमात्रज्ञानादनुमित्यनुत्पत्तेः । नापरः । संबन्धज्ञानेऽपि व्याप्तिपदामयोगात । नाप्यविनाभावः । केवला- न्वयिन्यभावात् । नापि कात्य॑संवन्धः । न हि कृत्स्नस्य साधनस्य साध्येन संबन्धः। कस्या अप्यग्निव्यक्तः सकलधूमसंवन्धाभा- वात् । नापि कृत्स्नस्य साध्यस्य साधनेन संबन्ध: । कस्यापि धूमस्य कृत्स्नवाह्निसंबन्धाभावात् । उच्यते । यावत्स्वव्यभिचारि- व्यभिचारिसामानाधिकरण्यमनौपाधिकत्वम् । वस्तुतो यत्संवन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः । धूमस्य वन्हिसंबन्धित्वे धूमत्वमेवावच्छेदकम् । धूपमात्रस्य वन्हिसंवन्धात । वन्हेस्तु धूमसंवन्धिवे न वन्हित्वमवच्छेदकम् धूमासंबन्धिनि गतत्वात् । किन्वान्यनप्रभववन्दित्वम् । तादृशं व्याप्यमेव । अधिकस्तु पल्लवोऽन्वीक्षातत्त्वबोधे न्यायनिवन्धन- काशे चास्माभिः प्रदर्शित. इति तत एवाधिगन्तव्यः। अयमपीति। अनौपाधिका संबन्ध इत्यर्थः। तन्निदानीभू- १७१ . किरणावलीप्रकाशः तेति । अव्यभिचारज्ञाननिदानीभूनेत्यर्थः । नन्वनीपाधिकत्वमुपा- ध्यभाव इति कयं तेनैव तन्निश्चयः । मैवम् । अनौपाधिकत्वविशिष्टः संबन्धो व्याप्तिरिति विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वात् । आकस्मिकत्वेति। यदीदं कार्यमकारणकं स्यात् कादाचित्कं नस्यादित्यर्थः। निःस्वभावत्वेति। एतद्वयतिरिक्तरत्तिधर्मशून्यो- ऽयं यद्येतद्वयभिचारी स्यात् एतद्धर्मवान् न स्यादित्यर्थः । ताभ्या- मिति। येनोपायेन तादात्म्यतदुत्पत्ती गृह्यने तेनैव प्रतिवन्धोऽपि गृह्यत इत्यर्थः । तयोरेवति । तादात्म्यतदुत्पत्तिव्याप्यत्वं प्रतिव- न्धस्येत्यर्थः। ते एवेति। तादात्म्यतदुत्पत्ती एवेत्यर्थः । तयोर्व्याप्य- व्यापकाभिमतयोरित्यर्थः । उपाधिदर्शनादेति । यथोपाधिनिश्च- येऽपि व्यभिचारसंशयस्तथा वक्ष्यामः । भूयो भूयः सहचरितयोः पार्थिवत्वलोहलेख्यत्वयोरित्यर्थः। चतुर्थविकल्पस्यायं विकल्पं दूपयति-तत्रेति । व्यभिचार- शङ्काप्युपाधिदर्शनादिति दूषयति-व्याभिचारशङ्कापीति। तच्छ- या वेति पक्षं दूषयति-अतीन्द्रियाणामिति।प्रमाणपथेति। तादृशशङ्कया तदुत्पत्तेरप्यनिश्चयान ततः प्रतिबन्धनिश्चय इत्यर्थः । भूयो भूयः इति चरमं पक्षं दूषयति-सहचरितयोरिति । सिद्धौ, सिद्धयर्थमित्यर्थः । तादात्म्यतदुत्पत्ती एव भतिबन्ध इति दुपयति-विशेषस्त्विति। अवश्यं हि प्रथमपक्षनिराकरणपरत्वमस्य चाच्यम् । अन्यथा प्रतिबन्धग्राहकतादात्म्यादेरननुगमस्य तद्गाहक- चक्षुर्लिङ्गादिवददोपत्वात् । तादात्म्यस्य गमकत्वं. दूषयति- - तादात्म्यं चेति। नियामकमाशक्य दूषयति-संयोगित्वेति । .

१७२ ....गुणनिरूपणम् द्वितीयं पक्षं निराकर्तुमाइन चं समानेति । प्रतिबन्धा- निश्चयोऽपीति । प्रतिवन्धकवादात्म्यतदुत्पत्तीनामेकोपायनिश्चय- त्वेन प्रतिवन्धनिश्चये तदुत्पत्यायनिश्चयो न स्यात् । तंनिश्चये च प्रतिबन्धानिश्चयो न स्यान्न चैवमित्यर्थः । यद्नतीतमिति । वर्तमानसाथ्यावभासितानुमितेः । अन्यथा : तदर्थिनः .. प्रवृत्तिन स्यादिति भावः : तृतीयं पक्षं दूषयति-न च तयोरेवेति । न च भेदे सतीति तादात्म्यव्यावर्तनायोक्तम् । तथा च रसापानुमानेऽपि तदुत्पत्ति- रस्त्येव । तल्लक्षणसत्वादिति भावः । स चेदिति । स कार्यकारणभावस्तद्रूपो व्याप्यव्यापकभा- वरूप इत्यर्थः। अन्यथाभ्युपायमाहेति। यादृशेन पूर्वरूपेण जनितो रसस्तादृशमेव पूर्वरूपमनुमापयति । स च रसः । समानकालीन यद्रूपं तज्जनकेन जनिते तादृशे कारणे रूपेऽनुमीयमाने विशेषणतया रससमानकालं रूपं सिध्यति । प्रयोगस्तु । रसो रससमानकाल- । रूपजनकरूपजन्यो रसत्वादित्यर्थः । यद्यप्यायः पक्षः पूर्वमेव निराकृतस्तथापि दुषणान्तरमाह- न च तेएवेति।अभिन्नाध्यवसेयेति। अध्यवसयशिशपाक्षरू- ‘पमेकं स्वलक्षणमित्यर्थः । स यदीति । स्वलक्षणभेदे तद्वृत्तिव्या- वृत्त्योरभेदेतिप्रसङ्गादित्यर्थः । ननु यदा स्वाभाविकत्वावधारण- मनौपाधिकत्वेन तदा तयतिरेकोऽप्युपाध्युद्भावननियतः स्यान्न चैवमित्यत आइ-यद्यपि चेति ।। . : ननु सोपाधाववश्यं व्यभिचार इति नास्ति । साधनाच्याप- ८ किरणावलीप्रकाश कसाध्यव्यापकोपाधौ पक्षधर्मतामात्रव्यातिरेकात् । यथा ताँतातित (क?) दिशा नित्यः अद्रव्यद्रव्यत्वादित्यत्र बहिरिन्द्रियाग्राह्यत्वमुपाधिः । मैवम् । : साध्यव्यापकसाधनाव्यापकोपाधिमादाय विचारात । व्यभिचारे चावश्यामिति । ननु व्यभिचारादेवागमकत्वे व्यभि- चारादुपाध्यनुपानं व्यर्थम् । अत्र व्यभिचारिण्येकत्र साधने साध्यतदभावसंबन्धोऽवच्छेदभेदं विना नेति साध्यसंबन्धितावच्छ- दकमेकमवश्यामिति तदेवोपाधिरित्यस्मपितृ चरणाः । तथापीति । यद्यपि यद्यव्यभिचरितः सवन्धो व्याप्तिः स्यात् तदा व्यभिचारस्यैव व्याप्त्यभावत्वे तन्निश्चयार्थमुपाध्युद्भावनमनुप- युक्तं स्यात् । न चैवम् । किन्तु निरुपाधिः संवन्धो व्याप्ति- रित्युक्तम् । तथापि निश्चितेऽपि व्यभिचारे व्याप्तिभङ्गायोपा- घिरवश्यमनुमर्तव्यः । तथा च व्यभिचारऽवश्यमुपाधिसत्त्वादयति- रेकांनिश्चयेन सामान्यत उपाधी निश्चिते विशिष्य तदनुसरणं व्यर्थम् । तस्य व्यभिचारस्य तदर्थत्वादुपाधिनिश्चयादित्यर्थः । वस्तुतस्त्वव्यभिचरितः संवन्धो व्याप्तिलाघवाद । अनौपाधिकत्वं तुः तल्लक्षणमिति. . व्यभिचारस्य साक्षान्निश्चये : उपाध्यनुसरणं व्यर्थमित्येवंपरो ग्रन्थः । न चैवमव्यभिचारस्य व्याप्तित्वे व्यभि- चारस्तदभावत्वेनासिद्धः स्यान्न त्वधिक इति वाच्यम् । साध्या- भावंवद्गामित्वं हि व्यभिचारस्तदभावश्च नाव्यभिचारः । केवला- न्वयिन्यभावात् । किन्तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगि- साध्यसामानाधिकरण्यम् । न चानयोः परस्पराभावरूपत्वम् । :: "नन्वेवमुपाधिरासिद्धधुपजीव्यत्वेन :: सव्यभिचारवद्धत्वाभा- . १७४. गुणनिरूपणम्.... सान्तरं स्यात् । न तु व्याप्त्यभावत्वेनासिद्धिः।" .. मैवम् । उपजीव्यत्वेऽपि स्वतो दूषकत्वाभावात् । न यन्यस्य साध्यव्यापकसाधनाव्यापक़ताज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने स्वतःप्रतिवन्धकम् । व्यभिचाराज्ञानस्य तद्धेतुतया तज्ज्ञानस्य तथात्वात् । तथा च व्यभिचारज्ञानजनकतया स दृषक इति दृषकतायां परमुखनिरीक्षणत्वादसिद्धयुपजीव्योऽप्युपाधिः : सिद्ध- साधनवन्न पृथक् हेत्वाभासः। अस्फुटश्चेति । यथोपाधेय॑भिचारोन्नायकत्वेन दुषकत्वं न तु स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया तथा वक्ष्यामः । ननु तदभाव एवेति । योग्यानामुपाधीनां योग्यानुपलब्ध्याऽभावनि- श्चयेऽप्ययोग्यानां तेषां कथमभावः प्रत्येतव्यः। अनुमानान्तरण तदवगमेऽनवस्थानादित्यर्थः। प्रमाणपदवीमिति । यद्यप्युपाध्यभावः कथं निश्चय इति प्रश्ने नैतदुत्तरं प्रमाणपथावतीर्णस्योपाधेः शङ्कनीयत्वेऽप्युपाध्य- भावानिश्चयस्य तादवस्थ्यात् । तथाप्युपाध्यभावनिश्चयाभावः किमुपाधिशङ्काया दुष्परिहरत्वेन तद्गाहकमानाभावेन वा । द्वितीय- मग्रे दुषगीयम् । आद्यं दूषयति-प्रमाणपदवीमिति । ननु प्रमाणपथावतीर्ण एवोपाधिः शयतां तथाप्यवान्तरविशेषो नास्ति व्यभिचारशङ्का- याम, तथा च कथं व्यभिचारशङ्कयानुमानमित्यत आह-तदयमि- ति । व्यभिचार एवेति । व्यभिचारे साध्याभाववद्वृत्तित्व इत्य: यः न त्वनैकान्तिके। तेन बाधविरुद्धयोरपि व्यायभावः सिद्धयति ।

. 'किरणावलीप्रकाशः १७५ यद्वा-उपाध्यभावोः व्यासलक्षणमित्युक्तं व्याप्तिस्त्वन्यभिचरितः संबन्धः। तथा च व्याभिचार इति प्रथमान्तमेव । साधने सोपा- धिरिति । ननु साध्ये सोपाधिरप्युपाधिर्भवत्येव यथा पर्यवसित- साध्यव्यापकः, तत्र यद्यपि पर्यवसितं साध्यमप्रसिद्धं तथापि साध्ये यत्पर्वतीयत्वादिकं पर्यवस्थति तयापक: स्यात् तद्वयति- रेकाच्च पर्वतीयत्वव्यतिरेक उन्नतुं शक्यते । मैवम् । व्यभिचारोन्नायकस्योपाधेरत्र लक्षणीयत्वात् । व्यापकानामाकाशादीनामुपाधित्वे समव्याप्तिकोपाधिपक्षमाश्रित्य दुषणमाह-वन्हे सार्वत्रिकत्वेति। एवमग्रेऽपि । विषमव्याप्तिको- पाधिपक्षे साधनव्यापकत्वं तेषामिति भावः।नित्यानामिति । पर- मावादीनामित्यर्थः । अत्रापि विषमोपाधिपक्षे साधनव्यापकत्वमेव दोषोऽभिमेतः । उभयेति। साधनं साध्यं चेत्युभयम् । उभय- व्याता इत्यर्थः । यधप्युभयाव्यभिचार्यनित्यः प्रमाणपरिदृष्टो नैया- यिकानामप्रसिद्धः महानसादीनामुभयव्यभिचारित्वात वह्निमत्त्वस्य चोपानित्यत्वात् । तथापि बहिरेव वहिव्यापकस्तयाभूतः प्रसिद्धः। अभेदेऽपि व्याप्यव्यापकभावादिति भावः । तत्रेति । प्रथमे साधनव्यापकत्वात् । द्वितीये साध्याव्याप- कत्वादित्यर्थः । धूममात्रति । मात्रशब्दोऽत्र सामान्यार्थों 'न तु व्यवच्छेदार्थः । वहिधूपयोाप्त्यभागपत्तेः । पूर्व इति । साधन- व्यापकत्वादित्ययः। व्याप्यमात्रेति । मात्रपदेन वहिव्यापकत्व- निषेधः । तथा च साध्याव्यापकत्वमित्याह-पूर्व इति । उभयरूपा इति । साध्यव्याप्यत्वे सति साध्यव्यापक इत्यर्थः। सा चेति ।

तत्र १७६ गुणनिरूपणम् . यद्यपि स श्यामो मैत्रतनयत्वादित्यत्र शाकपाकजत्वं सामग्यवो. पाधिः । तथापि यत्र साध्यसामग्र्या सह साधनव्याप्तिस्तत्र साधनव्यापकत्वात् सामग्री नोपाधिः। यत्र. तु तन्नास्ति. सामग्र्युपाधिरेव । न च तेनैव हेतुना शाकपाकजत्वमपि साध्यम् । तत्र श्यामत्वस्योपाधित्वात् । उभयस्यापि साधने चार्थान्तर- त्वम् । श्यामत्वमात्र एवं विप्रतिपत्तावुभयत्राप्यविप्रतिपत्तेः । ग्रन्थस्तु सामग्री कचिन्नोपाधिर्यत्र साधनव्यापिकाऽन्यत्र तूपाधि- रेवति योजनीयः। - धूमस्यति । धूपान्ह्यनुमाने न वहिसामग्र्युपाधिः । वाहिनेव तत्सापछ्यापि सह धूमस्यानौपाधिकत्वनिश्चयेन साधनव्यापकत्व- निश्चयात् । मंत्रतनयत्वं व्याप्य स्थातव्यं श्यामसामग्येत्यत्र च कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावादित्यर्थः । वहिजननेतिः। तथा च वह्निसामठ्या उपाधित्वे वह्निरेवी- पाविरुक्तः स्यात् । सामत्र्यास्तावकारणात्मकवाद । वढेरपि च कारणत्वादित्यर्थः । यद्यपि वहिद्यणुक न वह्निजन्य वह्नित्वस्य परमाणाववृत्त्यावयविमात्रवृत्तित्वात् । तथापि यदा प्रत्यक्षवह्निसामग्र्युपाधिरुच्यते तदा वह्निरेवोपाधिः स्यात् । साध्य च नोपाधिः। व्यभिचारिसाधने साध्यावैशिष्टयपसनादनुमान- मात्रोच्छेदप्रसगांचेति भावः । ननु वहिरनुष्णः :कृतकत्वादित्यत्र बाधोनीतपक्षेतरत्ववत् : पर्वतेतरत्वमुपाधिः स्यादित्यत आह-न चेति । तत्र : वावुर्मजीव्यप्रत्यक्षेण साध्याभावप्रमया साधनस्य साध्यव्यभिचारनिश्चयायभिचारे : चावश्यमुपाधिसद्भावादन्यस्य . किरणावलीप्रकाश चोपाधेरभावात् पेक्षतरत्वमुपाधिः। प्रकृते च.न तथा । अनुमान- • मात्रोच्छदादित्यर्थः । यद्यपि सर्वत्र वाधे नोपाधिः, धूमन जल- हृदेऽग्निसाधने तदभावात् । तथापि साधनवति पक्षाभिमते. बाधे सत्युपाधिरस्त्येव । .: अत एवेति । यद्यपि बाधितत्वज्ञानाभावस्यानुमितिप्रयो- मकतया विरोधिप्रमाणाभावनिश्चयोऽप्रयोजकस्तथापि · विरोधि- प्रमाणसंशयस्यानुमितिप्रतिवन्धकतया तदभावनिश्चयोऽपेक्षणीय इति भावः। नन्वतावता प्रत्यक्षोपाध्यभावनिश्चयेऽप्यतीन्द्रियतदभावः कथं निश्चयः, कथं वा साध्यव्यापकोऽयं साधनव्यापको न वेति संशयस्य देशान्तरकालान्तरयोर्व्यभिचार संशयस्य च : निवृत्ति- रित्यत' आह-तर्कश्चेति । यथा च तर्कस्य शङ्कानिवारकत्वं तथोक्तपधस्तात् । :: : साधनाव्यापकत्व इति । नन्वेतत् साधनावच्छिन्नपक्षधर्मा- वच्छिन्नसाध्यव्यापकोपाध्योरच्यापकम् । न च तयोरनुपाधि- त्वंम् । पकताबीजसाम्यात् । बाधानुनीतपक्षतरत्वेऽतिव्या- तेश्च । न च यत्र पक्षे साध्यं नास्ति तत्र बाधोनीतः पक्षेतर- खमुपाधिरिष्यत :एव । यत्र च पक्षे तदस्ति तत्र साध्यात्याप- कत्वान्न तस्योपाधित्वमिति युक्तम् । पक्षातिरिक्तसाध्यव्यापक- त्वनिश्चयेनवोपाधित्वात् तस्य च तत्र सत्त्वात् । अन्यथोपाधि- मात्रोच्छेदापत्तेः। .....अथोपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षीभूय. दृषकत्वात पक्षे- १७८ .. गुणनिरूपणम्. तरत्वव्यतिरेकस्य चातन्त्रत्वात् । केवलान्वयिनि साध्यात्यन्ता- भावाप्रसिद्धेः केवलव्यतिरेकिणि विरुद्धत्वात् । अन्वयन्यतिरेकिणि चासाधारणत्वात्। मैवम् । तथा सति सत्पतिपक्षे तदनुद्भावनापत्तेः । एकैनैव भूयसामाप प्रतिबन्धात् । संदिग्धोपाधेरदूषकतापत्तेश्च । पक्षे तदभावस्य संदिग्धत्वात् । वाधोनीतस्यापि तस्यानुपाधितापत्चेश्च । अथोपाधिलक्षणे विपक्षाव्यावर्तकविशेषणशून्यत्वं विशेषणं पक्षेतरे च विशेषणस्य पक्षमात्रे व्यावर्तकतया विपक्षाव्यावर्तकत्वात् आन्धन- वत्त्वादेश्च विशेषणस्य विपक्षततायःपिण्डादिव्यावर्तकत्वात् । एतच्च विशिष्टव्यतिरेकेऽप्यस्ति । वाधोनीते च नाव्याप्तिः । तस्य पक्षा- भिमनस्यापि विपक्षत्वादित्युच्यते । तत्क व्यभिचारावारकविश- पणवत्तया दृषकत्वमेवास्य नास्ति । ओमिति चेत् । न. साध्य व्यापकसाधनाव्यापकत्वमात्रस्यैव तद्वीजत्वात् । न च व्यभिचारा- वारकविशेषणशून्य एव व्याप्तिग्रहः । न हि वस्तु व्यभिचारावा- रकविशेषणशून्यं भवति । प्रमेयत्वादेः सर्वत्र सत्त्वाद । नापि तत्रो- पात्तविशेषणशून्यत्वं विवक्षितम् । न हि तत्रोपात्तं तेन शून्यं चेति संभवति । तस्मात्साध्यव्यापकत्वं साधनाव्यापकत्वं पक्षेतगत्वेऽप्य- स्तीति तदभावाद साध्याभावः स्यादेवेति हेतोयभिचार एव । व्यभिचारे चावश्यमुपाधिरित पक्षतरत्वमेवापोधिः स्यात् । अत एवासापकमिदं सोपाधित्वादित्यत्रापि पक्षतरत्वोपाधेः संभवादन- मानमात्रीच्छेदकतया न तदुपाधिरित्यपास्तम् । साध्यव्यापकतया तयतिरेकस्य दपणसंबन्धवेन जातिवामावाद । नापि पक्षधर्मा- किरणावलीप्रकाशः १७९ वच्छिन्नसाध्यव्यापकत्वे साधनाव्यापक उपाधिरार्दैन्धनप्रभववह्नि- मत्त्वादेः कैवलसाध्यव्यापकस्योपाधेरसंग्रहात् । को हि पक्ष- वृत्तिधर्मस्तदवच्छेदकः । शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावण- त्वस्योपधित्वप्रसङ्गाच्च । भवति हि शब्दत्वादिजातौ साध्याव्याप- कमपि शब्दत्तिगुणत्वावच्छिन्नाभिधेयत्वस्याश्रावणात्वं व्यापकम् । एतेन साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमि- त्यपास्तम् । आन्धनप्रभवत्वादेरुपाधेरव्यापनात् । जलं प्रमेयं रसवत्त्वादित्यत्र रसवत्त्वावच्छिन्नपमेयत्वव्यापकस्य पृथिवीत्वस्यो- पाधित्वापाताच । नापि पक्षात्तित्वे सति साध्यव्यापकत्वम् । अन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वस्यानु- पाधित्वापत्तेः। पक्षवृत्तित्वात् । नापि साध्यसाधनसंवन्धव्यापक- वे सति साधनाव्यापकत्वमुपाधित्वम् । उपाधिना साध्यव्यभि- चारानुमाने साध्यव्यापकव्यभिचारित्वस्यैव गमकत्वे व्यर्थविशे- पणत्वात् । नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपा- धित्वम् । विषमव्याप्तस्यानुपाधितापत्तेः। श्यभिचारोनायकत्वस्य दृषकताबीजस्य तत्रापि सत्त्वाद । इदं साधनमेतत्साध्यात्यन्ताभाव. बद्वृत्ति एतत्साध्यव्यापकाव्याप्यत्वादिति प्रयोक्तुं शक्यत्वादिति । उच्यते । पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक- त्वमुपाधित्वम् । यद्धर्मावच्छेदेन साध्यं मसिद्धं तदवच्छिन्नं पर्य- वसितं साध्यम् । तत्रार्दैन्धनवयाापाचौ महानसत्वायेव ताशो धर्मः । तदवच्छेदेन साध्यस्य धूमस्य प्रसिद्धः । पक्षधर्मावच्छिन्न- साध्यव्यापकोपाधी द्रव्यत्वं, साधनावच्छिन्नसाध्यग्यापकोपाधी १८० गुणनिरूपणम् साधनमेव तथा । तथा च तदवच्छिन्नसाध्यव्यापकोपाधिव्यभिचा- रेण साधनस्य साध्यव्यभिचारः स्यादेव । व्यापकयभिचारिण- स्तस्याप्यव्यभिचारित्वनियमात् न च पक्षधर्मावच्छिन्नसाधना: वच्छिन्नोपाधिव्याभिचारेण 'साधनस्य :साध्यव्यभिचारोन्नयनेऽ- र्थान्तरम् । विशेषणाव्यभिचारित्वेन निश्चित साधने. विशिष्टव्यभि- चारस्य सिध्यतो विशेष्यसाध्यव्यभिचारमादाय सिद्धः । पक्षधर्म- ताबलात् । अन्यथा प्रतीतेरपर्यवसानात् । न च पक्षधर्मताबल- लभ्यसाध्यसिद्धावर्थान्तरत्वम् । अतिप्रसङ्गात् । नापि स्वव्याघातक- स्वेनानुपाधौ पक्षेतरत्वेऽतिव्याप्तिः । अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिश्चयात् । वाघोन्नीते च पक्षेतरत्वें साध्यव्याप- कताग्राहकस्यांनुकूलतकस्य सत्त्वात् । उपाधिश्च न स्वव्यतिरेकद्वारा सत्प्रतिपक्षतया दृषकः । संदिग्धोपाधेरदृषकतापत्तेः । नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया । साध्यव्याप्य- साधनाभिमताव्यापकत्वेनोपाधेरेव साध्यव्यापकत्वसाधनात नापि व्यभिचारोन्नायकत्वेन. । साध्यव्याप्यव्यभिचारित्वेनोपाधे- रेव.. साध्यव्यभिचारानुपानात् । तस्माद्विपक्षबाधकेन यावन्नो- पाधे, "" साध्यव्यापकत्वं निश्चीयते .. तावदुपाधित्वाभावेन दूषणतैवास्य नास्तीति न दूपकतावीजचिन्ता- 1 तन्निश्चये च साधनाभिमतस्य साध्यव्यापकत्वानिश्चयान्न तयभिचारित्वेन, त: दव्यापकत्वेनोपाधेः साध्यव्यभिचारित्वं . साध्याव्यापकत्वं वानु- मीयत इति संक्षेपः। . दर्शनादर्शनेति । बाह्यस्य व्यातिरूपस्य.ग्रहणे सहकारि किरणावलीमकाशा बाह्यसहकारि दर्शनादर्शनरूपं बाह्यसहकारिरूपं यस्य मनसस्तत्त- थोक्तम् ) दर्शनादर्शनयोरसाधारणतया मनःसहकारित्वं साधा- रणतयां वा ?: आधे. असाधारणनिमित्तेति । द्वितीये । किश्चेति । तस्मादिति । ननु यत्र बहिरिन्द्रियोपरमे भूयोदर्श- नजसंस्कारात कारणान्तरेण व्याप्तिग्रहः तत्र बहिरिन्द्रिय- जन्यः सः। तस्मान्मनःसहकारी संस्कारः । न चैवं शब्दादे- रिव संस्कारस्य मानान्तरत्वापत्तिः । तर्कावतारे तस्य प्रयो- - जकत्वात्तस्य चाप्रमात्वादतो निद्रादिवदप्रमाजनकत्वान्न. माना- न्तरत्वम्). ननु सर्वेषामेव संविकल्पकानां संज्ञास्मरणान्तरकालीनत्व- नियमः । तटस्थस्यैव वाचकस्य वाच्यत्वोपलक्षकत्वात् । तच शब्दस्मरणों निर्विकल्पकेन कर्तव्यमिति व्यासावपि निर्विकल्पका- पत्तिरित्यत आह-संज्ञास्मरणस्येति । कचिदिति । यथा .यत्र सादृश्येन रूपेण सादृश्यं न ज्ञायते तत्र सादृश्ये निर्विकल्पकमेव . यत्र व्याप्तित्वेन रूपेण व्याप्तिज्ञानं तत्र व्याप्ती न निर्विकल्पकम् । यत्र तु व्याप्तित्वेन ज्ञानं तव सविकल्पकवेद्यत्वमेव । व्याप्तित्वस्य केवलसविकल्पकवेद्यत्वात् । :: विस्फूर्जन्तमिति । यद्यपि हि विस्फुरणं नकुलकार्य- मिति न विरोध्युदाहरणम् । तथाप्यहिनकुलयोर्विरोधेन तथात्वंम् । पञ्चम्या हेतुत्वपस्तानिसकरणाय व्याचष्टे-कथमेतदितिः । न चैवं सतीति। एतेन संबन्धिनामतिप्रसक्ति निवारयति न-तु : संबंन्धानामित्यर्थः । तस्यैवेति। संबन्धामात्रस्येत्यर्थः। एतस्येति।

१८२ गुणनिरूपणम् कार्यास्वाभिधानस्येत्यर्थः । ननु कथमों श्रावयन्नध्वर्युहातुर्लिङ्गम् । होतारं । विनाप्यध्वयोंरोंशब्दकर्तृकत्वादित्यत आह-होतुरित्य- नेनेति । तेन होतृमन्निहितायां यागभूमावों श्रावयन्नध्वर्युहातृ- लिङ्गमिति वाक्यार्थ इत्यर्थः । ननु लिङ्गाविशेषणत्वेन होतुः मागेव ज्ञानात् किमनुमेयमित्यत आह । प्रयोगस्त्विति । तेनाध्वयोंहोतृ- सवन्धे साध्ये न सिद्धसाधनम् । होतुः सन्निहितयागभूमा- वित्यन्वयः। तदनन्तरभावित्वेति। अभ्युपगमवादोऽयम् । वस्तुनश्चन्द्रो- दयसमुद्रद्धयोः समयभावित्वमेव । पूर्वरूपनिवृत्ताविति। यद्यपि जलपरमाणौ रूपं नित्यमेव जलावयविनि कारणगुणमक्रमेणैवोत्प- द्यते । तथापि पूर्वरूपनिवृत्ताविति पूर्वरूपवतः पार्थिवस्य निवृत्ती रूपादीत्यतद्गुणसंविज्ञानबहुव्रीहिणा स्वच्छतां लक्षयति । सा चौपाधिकसंसर्गाभाव एव । सर्वमेवानुमानमिति । अनुमानमत्र लिङ्ग न तु फलम् । तस्य सर्वत्रादृष्टत्वात् । सर्वमेवेति । सामान्येन रूपेण व्याप्तिग्रह- 'विषयतया सर्वमेवानुमान सामान्यतो दृष्टं भवतीत्यर्थः । समानतन्त्रेति । तत्रोक्तस्य पारिभाषिकरूपान्तरस्यानाभ- धानादित्यर्थः । नाति । तत्र सामान्यतो दृष्टपदस्य नबन्ति- भर्भावेन व्याख्यातत्त्रादित्यर्थः । एकस्य हीति । एकस्य पक्षस्य ! व्याप्त्या व्याप्तिज्ञानेनं । सामान्यलक्षणप्रत्यासत्त्या सामान्येन पक्षविषयकमापि साध्यज्ञानं वृत्तमित्यर्थः । यथागव्येवेति । आध- दर्शनादौ गोत्वमनुपलभ्यापि सानोपलव्या । भूयोदर्शनादी १८३ .. किरणावलीप्रकाशा तु गोलसास्नात्वयोाप्तिमुपलभ्य पूर्वदृष्टे : गवि गोत्वानुमितिर्भव- तीत्यर्थः । पक्षसपक्षयोर्जात्यभेदमभिधाय पक्षसपक्षवृत्तिसाध्ययो- स्तदाह-अथवेति । येनैव साध्येन सह व्याप्तिदृह्यते तस्यैव यदनुमानं तदृष्टम् । यच्च सामान्यतो गृहीतव्याच्या तज्जातीयधर्मा- न्तरसाधकं तव सामान्यतो दृष्टमिति संक्षेपः। पूर्व हीति । गोव्यक्तौ गोत्वजातिवैशिष्टयमनुमितामिति पक्षसपक्षात्मकजातीयौ । संप्रत्यपीति । (सास्नादिमत्त्वे ?) गोव्यक्तिसंबन्धस्य साध्यत्वे भवति । साध्यस्यैकजात्यमित्यर्थः । पूर्ववदिति। प्रसिद्धं यत्पूर्व लिङ्गेन सह दृष्ट साध्य फलवक्त्व- रूपं यच्च संमति फलानुमानं तयोरत्यन्तं जातिभेद इत्यर्थः । न तु पक्षसपक्षयोरत्यन्तं जातिभेदः । प्रयत्नत्वेनैकजात्यात् । फले चै स्वर्गापवर्गादावैकजात्यभाव एव । अत एवाग्रे साध्यमात्र- साजात्यं वक्ष्यति। अन्न सस्यादिकमित्यादि । ननु हेयत्वोपादेयत्वमन्तरेण ज्ञानत्वमेव न संभवतीत्याह-उपेक्षेति । ननु स्वनिश्चितमात्मनि निश्चितं घटादिकं. तदर्थ नानुमानं तस्य ज्ञानार्थत्वादित्यत आह- भावे क्त इति । नन्वनुमाने प्रमाणे शब्दान्तर्भावस्तदा संभाव्येत यदि शब्दः प्रमाणं स्यान्न तु तत्सिद्धमिति कुतस्तस्यानुमानान्तर्भावचिन्तेत्यत "भाई-इह खल्विति। न च शब्दः प्रमाणं न वेति न वा कोटेरससिद्धिःपरामण्यमाणलिङ्गकरणतावादिमते चरमध्वंसे प्रमा- करणत्वाभावप्रसिद्धीभेदतं इति। शब्दोऽनुमानभिन्नोन वेत्यर्थः। .

१८४ :. गुणनिरूपणम्... लक्षणत इति ।शब्दः प्रत्यक्षानुमानचिधर्मवान्न वेत्यर्थः । . . तत्प्रामाण्यामिति । बादिना शब्दाप्रामाण्यसाधनार्य यत्म- माणशब्देनोपस्थाप्यं कुतस्ततः शब्दापामाण्यं सिध्येदित्यर्थः । ननु शब्दापामाण्येऽपि शब्दोपस्थापितैरगृहीतैः शब्दापामाण्यवोधक- मनुमानमुपस्थाप्यते नं तु शब्देन · तत् साध्यते । वादि- नोऽनाप्तत्वात । अत्राहः । वादिवाक्यं स्वसमानविषयकप्रमाणोत्थापनद्वारा शब्दापामाण्यं बोधयति नं वा ? न चेदतिप्रसङ्गः । आये। शब्दाप्रामाण्य प्रमाणान्तरस्यापि न तत्समानविषयकत्वेन प्रामाण्य- सिद्धिरिति कुतस्तदिष्टसिद्धिारति भावः । ननु पुजात्पुजोत्पत्ति- रिति न्यायेन चक्षुरपि रूपकार्य, तथा च तदुत्पत्तिलक्षणतत्रा- स्तीत्यत आह-न च चक्षुरपीति । ननु चक्षुः कथं रसादिकार्य- मित्यत आह-रूपरसादीति । तव दर्शने तेनैव न्यायेन रूप- रसादिपुञ्जजन्यत्वं चक्षुष इति रसादिजन्यताप्यस्तीति रसादीनपि गमयेदित्यर्थः । यदि चाविनाभावाचक्षू रूपं गमयति तदा यत्रा- विनाभावस्य प्रयोजकत्वं तत्र ज्ञायमानस्यैवति न चक्षुग्ज्ञाने तद- विनाभावज्ञानमिति कथमज्ञायमानाच्चक्षुषों रूपज्ञानमित्याह-अवि- नेति । ज्ञानसमसमय इति।ज्ञानोत्पत्तिकालोत्पत्तिक इत्यर्थः । अनन्तरेति । अव्यवहितमाक्कालीनो वेत्यर्थः । प्रत्यक्षज्ञानस्य संबद्धवर्तमानमात्रविषयकत्वनियमात् क्षणभङ्गनयेन च पूर्वोत्तर- क्षणोत्पत्तिकयोरभावनियमादतितुच्छत्वेनायं पक्षः पृथङ् न दुषितः। : आद्य इति । तुल्यकालोत्पत्तिकयोः कार्यकारणभावादि- किरणावलीप्रकाशः त्यर्थः। संबन्धमात्राभावादिति पक्षमुपसंहरन्नेव निराकरोति तस्मादिति। ...... ... ..... ननु वैशेषिकाणामविनामावलेन . शब्दोऽर्थ. ...वोधयंतानि चक्षुरादिवत् स्वभावसंबन्धन . शब्दस्यार्थप्रतिपादकत्वस्वीकारेप- सिद्धान्तः स्यात् ।.. अत्राहः । नायं शब्दार्थयाविनामावनिराकरणपरी ग्रन्थः। किन्तु ये शब्दस्यार्थप्रतिपादकधान्यथानुपपत्याविनामात्रयादृप्त- न्मतमनेन निगक्रियते।

गुणनिरूपणम् साध्य मागुक्तमनुवर्तते । विशेषासिद्धिः संसृज्यमानः प्रत्येकपदार्थ इत्यस्य विशेषस्यासिद्धिरित्यर्थः। संसर्गस्येति । पदार्थविशिष्टस्यैव संसर्गस्य ज्ञानविषयत्वादित्यर्थः । ननु मिथः संसर्गसिद्धावप्येक- ज्ञानविषयत्वादिरेव संसगोऽस्तु । यद्वा । गवा दण्डमभ्याजेत्येवा- न्वयोऽस्तु । न । वक्तृतात्पर्यविषयत्वेन संसर्गस्य विशेषणात् । योग्य- तया लिङ्गविशेषणान्नानापुंवक्तृकपदस्मारिते व्यभिचार इति भावः । यद्वैतानीति । ज्ञानविशेषणत्वेनात्रापि पदार्थसंसर्गसिद्धिः। भ्रान्तप्रतारकवाक्येन न व्यभिचारः। तस्याप्याहार्यसंसर्गज्ञानोपग- माव । तथापि शुकोदीरिते संवादिवाक्ये व्यभिचारः । तत्रापीश्वर- · स्यैव वेद इच संसर्गज्ञानात् । न चैवं भ्रान्तभ्रान्तिज्ञसंकरापतिः । भ्रान्तिज्ञज्ञानस्य भ्रान्तिविषयविषयकत्वेन व्यधिकरणमकारकत्वा- भावात् । व्यधिकरणप्रकारकत्वस्य भ्रमज्ञानस्य भ्रमे सत्त्वात् । संसृष्टा एवेति । यद्यपि संसृष्टा इति साध्यं न तु नियमोऽपि । तथापि संभावनासाध्यत्वव्यवच्छेदपरमेतत् । तदु- क्तरपीति । अविलम्भकेन भ्रान्तेन यदुक्तं पदजातं तदर्थानां संसर्गाभावादित्यर्थः । प्रागेवेति । योग्यतयैव हेतुविशेषणे- नेत्यर्थः । न तावदिति । विशेषणविशेष्यभावस्य संसर्गरूप- तया प्रागसिद्धरित्यर्थः । नापि यद्योग्यतेति । योग्यतयैव गतार्थत्वादित्यर्थः । नाप्यविनति । नीलं घटमानयेत्यादौ तद- भावादित्यर्थः । नापि विशेषेति । नीकेन विशेपेण व्याप्येन सामान्यगुणमात्रं व्यापकमाक्षिप्तं तथा सरोजेन तथैव द्रव्यमानं तदनयोरविनाभावोऽस्त्येवेत्यर्थः । एतच्च न । घटो भवतीत्यत्र किरणावलीप्रकाशा घटेन गुणिसामान्यस्याक्षिप्तस्याविनाभावेन साकाङ्क्षतया - पर्य- वसानप्रसङ्गात् । नापि प्रतिपत्तुरिति । घटो भवतीत्यत्र प्रति- पत्तुर्गुणादिजिज्ञासायां पर्यवसानप्रसङ्गादित्यर्थः। किं तहीति । घटो भवतीत्यत्र तु गुणादिजिज्ञासा न पदस्मारितविशिष्टविषयेति न साकाड्झत्वमित्यर्थः । सत्तामात्रेणेति । तथा चाकाङ्क्षायां सत्यामेव शब्दस्य ज्ञानजनने संभृतसामग्रीकत्वाद्वेत्तुरेव विलम्बित इति भावः । तर्हि माभूदाकाङ्क्षा लिङ्गविशेषणमित्यत आह- आसत्तियोग्यतेति । व्यभिचारादिति । राजपदार्थ- पुरुषपदार्थयोः परस्परमन्वये वक्तृज्ञानाभावादित्यर्थः । न त्वेतदस्तीति । यद्यपि प्रतिपदार्थमुत्थिताकाङ्क्षा तत एव विनष्टा कथं कालान्तरे स्वरूपसती वाक्यार्थप्रत्ययजननी । तज्ज्ञानकारणत्वे तु ज्ञानस्यापि पूर्व नाशे संस्कारादुपयोगस्त- स्याः संभवति । तथापि समूहविषयकैव जिज्ञासा स्वरूपसती वाक्यार्थबुद्धौ हेतुः संभवति । भवतु वाकाङ्क्षा ज्ञातैव कार- णम् । तथापि तद्विशिष्टो हेतुरनैकान्तिक इत्याह-न वाकाङ्क्षाया- मिति । सा च स्मारितेति । कचिद्वह्निरस्तु इत्यादौ शब्दस्मारि- तयोरेवाविनाभावः । कचित्तदाक्षिप्तयोनीलं सरोजमित्यादौ । एता- वतैव कृते अहो विमलं जलं नद्यास्तीरे महिषश्चरतीत्यादावाका- झासत्त्वादेव वाक्यता स्यादित्यत आह-श्रोतरि तदुत्पाद्यति। तेन वक्त्रानुत्पादितः स्मारितः इत्यादि तु प्रायिकत्वादुक्तम् । श्रोत- निष्ठवक्तृविवक्षितसंसर्गावगमप्रागभाव इत्यर्थः । प्रतियोगीति । अयं मागभावो याद ज्ञात उपयुज्यते तदा प्रतियोगिन्यवग़मे ज्ञाते १८८ गुणनिरूपणम् . ज्ञातव्यः। स च स्वविपयसंसर्गे ज्ञाते निरूप्य इति संसर्गस्य पूर्वमेव ज्ञानाद्वाक्यमनुवादकं स्यादित्यर्थः। नियम एवेति । यद्यपि नियमस्य न साध्यता। न हि वाक्यान्नियमः प्रतीयते । तथापि संभावनासाध्यतानिराकरणपरमिदम् ।' शब्दमात्रादिति । आप्तोक्तानातोक्तसांधारणादित्यर्थः । विवक्षितार्थेति । वक्तृतात्पर्यविषयवाक्यार्थप्रतीतिरित्यर्थः । ननु तत्रापीति । योग्यतादिज्ञानमात्रस्य प्रमाऽममासाधारणस्य शाब्द: ज्ञानमात्रकारणत्वादित्यर्थः । प्रवृत्तिसंकल्प इति । प्रवृत्तिजनक संकल्प इच्छा । तदानीमिति । आप्तोक्तत्वानिश्चयदशायामित्यर्थः। न हीति । व्याप्तत्वेनापतिसंहृतमित्यर्थः । अवांधितविषय- त्वति । यद्यपि बाधाभावः स्वरूपसन्नेव प्रयोजको न तु ज्ञातस्त- थापि वाधस्य हेत्वाभासतया ज्ञातस्यानुमितिप्रतिबन्धकत्वान्न ह्यज्ञाने यन्न भवति तत्तदभावज्ञानसाध्यं यथोपाध्यभावज्ञानाधीनानु- मितिरिति । व्याप्तरिति । बाधाभावज्ञानमनुमितिहेतुः। प्रामा- पयेति। विशेषदर्शने सति शङ्काया अनुदयादित्यर्थः । शब्द- मात्रमिति । संकेतज्ञानानपेक्षामित्यर्थः । शब्दापशब्दति । अर्थप्रतिपादकत्वस्यार्थस्मारकत्वस्यापशब्देऽपभ्रंशेऽपि सत्यादिः त्यर्थः । किन्तु यः शब्द इति । :: नन्वेतावता पदार्थमाने आतत्वमायाति न तु वाक्यार्थे । पदार्थमात्रे चासत्वमनातवाक्येऽप्यस्ति । अत्राहुः । तत्रापि मुग्रहमेवा- सत्वम् । तथा हि । वेदै तावदीश्वरस्य धर्मिग्राहकमानेनैव दोपाभावः मुंग्रहः । लोकेऽपि भ्रमाभावोऽत्यन्ताभ्यस्तकाननानां काननविभाग- .

ना नानि । ननु गायनादिशब्दवाने भवत्येव सर्वत्र आसावल्ययः । स्यने । गद्याकाक्षा स्वरूपसती वाक्यार्थज्ञाने शक्षामनाविपर्ययोग्यधामावाचनिश्चयस्त तुः ! नन्दा- शासगांवगममागभावः प्रतियोगिज्ञाननिरूप्या ज्ञानं च संसर्ग- मानाया आकाक्षायाः मयोजकत्वे मागेव संसर्ग- मन याटियन बार-स्मारितति । तेन स्मारितसंसर्मा- किरणावलीमकाशः परवाक्यत्वात्मृग्रहः । चिमलिएराप्रभावोऽपि प्रकरणादिना ज्ञायते । अन्ययाप्तत्वज्ञानं विना लक्षणा न स्यात् । अनमा गत्वेनाप्युपपत्तेः । अध शाब्दप्रनीती यधामा जाने प्रयोग स्यात्तदा तेन लिङ्गं विशेष्येन । न वेवम । आमन्यानामन्यनगयेऽपि वाक्याज्ञानद- नाव | अन्यथा वेदादपारपेयवाभिमानिनां वाक्यार्थप्रत्ययो न स्वादिनि चैन । न | अनाप्तानामनिधये वास्यार्थप्रनीत्यनुदयात् । सद्यनिरे कनिश्चय गन्दमानातवन्ध सम्मानिश्चयः शादज्ञानज- नमः । यथा योन्यनाद ! नया नामानान्मानमवश्यं शाब्दज्ञान- भयोजकम । न न दृष्टान्नामिद्धिः । मादामासोच्छेदापत्तेः । अन्यथा विनि मायामानामारपनिश्चयमेवेत्यर्थः । दु. परिहरमिनि । आमाननिय वाययार्थप्रत्ययः वाक्यार्थप्रत्यये वनवासन नियमिन्यर्थः । शिरसानि । अन्योन्याश्रयस्य दुष्परित्तादिन्यः । नाति । गव्हस्ानुमानान्तर्भावान- नांववादिनारियर्थः । कनिदिनि । योग्यतादिशून्य इत्यर्थः । में चायमानि । येना समायानुन विशेषणीय इति शेषः । हेतुमद्रावासाम्रमादनाकारोऽन्वयबोधो न स्यात् । किञ्चा- इति १९० गुणनिरूपणम् वगमप्रागभावस्तदाक्षिप्तसंसर्गावगममागभावो वाकाङ्क्षा सामान्येनैव रूपेण तनिरूपणमिति न मागेव संसर्गविशेषसिद्धि- दोष इत्यर्थः । आकाङ्क्षायोग्यतासत्तीनां च निर्वचनमन्वीक्षातत्व- बोधे तात्पर्यपरिशुद्धिपकाशे च सम्यनिरूपितमिति विस्तरभया- नेह प्रतायते ॥ संदिग्धेति । वक्तुः संदेहादयमाप्तोक्तत्वसंदेहो द्रष्टव्यो न तु वक्तुरातत्वसंदेहः धर्मिग्राहकमानेनैव तन्निश्चयात् । आप्तोक्ता वेदा इति । आप्तोक्तत्वं च वेदसमानविषयानित्यज्ञानातिरिक्तकारणीभू- तयथार्थज्ञानसमानविषयत्वम् । ननु महाजनपरिगृहीतत्वादिति हेतु: साध्यसाधनयोरगृहीतव्याप्तिकतया नान्वयी न वा व्यतिरेकी प्रा- माण्ये साध्येऽसाधारणः। मैवम् । अन्वयेन दृष्टान्तस्यायुर्वेदस्य सत्त्वात् । व्यतिरेकिण्यपि महाजनपरिगृहीतान्यलौकिकार्थानि वा- क्यानि स्वार्थे प्रमाणानि एतादृग्वाक्यत्वादित्यत्रासाधारण्या- भावात् । न चाप्रयोजकत्वम् । महाजनपरिगृहीतत्वस्यैव विपक्ष- वाधकत्वात्। स्वतन्त्रेति । आनुपूर्वीक्षानजन्यानुपूर्वीज्ञानविषयत्वमेव स्व- तन्त्रपुरुषप्रणीतत्वम् । सर्वदर्शनेति । अत्रान्वये व्याकरणवैद्यका- दिदृष्टान्तः । ननु वैद्यके कर्मण्यनुष्ठीयमानेऽपि फलाभावादपामाण्यमापि स्यादित्यत आह-सिद्धे चेति। ननु नास्माकं महाजनपरिग्रहाव प्रामाण्यं, किन्तु नित्यत्वेनापौरुषेयत्वादित्यत आह-तदेवमिति । अन्यथापीति । नित्यत्वग्राहकं प्रत्यमिज्ञानं तज्जातीयत्वविषयत्वे. नाप्युपपद्यत इत्यर्थः। ननु चास्मर्यमाणकर्तृकत्वाद्वेदानामपौरुषेयत्वं , किरणावलीप्रकाशः साध्यमित्यत आह-अस्मर्यमाणेति । न हि वयमस्येति । ननु मौनिश्लोकवत् कण्ठाद्यभिघाताभावेऽपि वेदकर्तृत्वं भविष्यति । अत्राहुः । तथापि मौनी यथा लिप्यादिना परं श्लोकं बोध- यति .तथेश्वरोऽपि परं बोधयिष्यतीत्यायातमीश्वरस्य शरीरम् । न च मन्वादिभिः सर्गाद्यकालीनैरतीन्द्रियदर्शित्वेन स्वयमेव तज्ज्ञा- नम् । तेषामतीन्द्रियार्थदर्शित्वे मानाभावात् । यद्वा । शब्दकर्तावश्यं शरीरीति नियमः । आयतनत- येति । तेन भोक्तु गायतनं शरीरमिति लक्षणं शरीरविशेषस्यति द्रष्टव्यम् । ददातिशब्दो हीति । ननु संप्रदानमनभिधायापि रजकस्य वस्त्रं ददातीत्यादौ ददातिशब्दप्रयोगादिदमयुक्तम् । ददातिकर्मणा चाभिमेतो न वक्ता । ददातिशब्दाप्रयोगे संपदानाभावापत्तेः । नापि कर्ता । वक्तरि तदापत्तेः । मैवम् । वेदे ब्राह्मणाय गां दद्यादित्यादौ संपदानसमभिव्या- हृतो ददातिशब्द: संपदानबुद्धिं विना न भवतीत्येवंपरत्वात् । तथा हीति । ननु प्रमेयाज्ञानत्वेन तद्धत्वतिरिक्तहेतुजन्यतया साध्यबाधः, ज्ञानाजनकजन्यत्वे विरोधः, अप्रमायां तदसिद्धिश्च । किं च । यत्किञ्चिज्ज्ञानहेत्वपेक्षया सर्वतद्धत्वपेक्षया वातिरिक्तत्वे इन्द्रियादिभिः सिद्धसाधनम् । न च ज्ञानत्वावच्छिन्नकार्यत्वान्य- कार्यत्वप्रतियोगिककारणजन्यति साध्यम् । ज्ञानत्वस्य नित्यत्ति- तया कार्यतानवच्छेदकत्वात् । अनित्यज्ञानत्वेतिकरणे इन्द्रियादिभि- यथायथं सिद्धसाधनम् । तेषां प्रत्येकं ज्ञानमात्राहेतुत्वाद ।

. गुणनिरूपणम् एतेन प्रमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणाभिन्न- कारणताप्रतियोगिककार्यतावच्छेदकं ज्ञानत्वं साक्षायाप्यधर्मत्वाद- भमात्ववदिति निरस्तम् । प्रमावस्यं नित्यत्तित्वात् । अनित्य- प्रमात्वं तथा कार्यवित्तित्वादित्यपि नीलघटत्वादिना व्यभिचारि । अनित्यममा प्रमाऽममीभयहेतुभिन्नहतुजन्या जन्यत्वादप्रमावदिति चेत् । न । दोषस्य पित्तादेः स्वविषयममाहेतुत्वेनाप्रमायां तदसिद्धेः ॥ ": . .. उच्यते । यत्कार्य यत्कार्यविजातीय तत तत्कारणविजातीय- कारणजन्यं यथा घटविजातीयः परः । अन्यथा कार्यवैचित्र्यस्याः कस्मिकतापत्तेः । घंटज्ञानजातीयमपि.काय तद्विजातीयकार्यकारण- विजातीयघटेन्द्रियसत्रिकर्षादिजन्यमिति । एवञ्च प्रमाऽप्रमाकारण- विजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात् घट्चत् । किश्चा- नित्यप्रमात्वं कार्यतावच्छेदक, वाधकं विना कार्यमात्रवृत्तिधर्मत्वाद- प्रमात्ववत् । नीलघटत्वं तु विशिष्टंन कार्यतावच्छेदकम् । प्रत्येक- मनुगतद्वयादेव विशिष्टबुद्धरार्थः समाज इति भावः । यदि त्विति । यावती प्रमासामग्री तावन्मत्रिप्रयोज्या यद्य- प्रमा स्यावे प्रमा स्यादित्यर्थः । असिद्धमात्रापादकमप्रमायाः प्रमि- त्यजनकदोषजन्यत्वादित्याह-ज्ञानत्वेऽपीति । एवं तहीति। तथाच ज्ञानसामग्रीमात्रजन्यत्वरूप प्रामाण्यस्य न स्वतस्त्वमित्यर्थः । ननु चास्तुं प्रमायां दोपाभावो हेतुः। तथाचागन्तुकभावानपेक्षज्ञान- सामग्रीजन्यत्वमेव स्वतस्त्वं दोपाभावस्य तदनुविधानादित्याह- अस्तु दोषाभाव इति। विशेषादर्शनादेव भावस्यापि दोपत्वे किरणावलीप्रकाशः १९३ तदमावे विशेषदर्शनं भावस्तद्धतुः स्यादिति नोक्तरूपं स्वतस्त्वं- मित्याह-भवेदप्येवमिति । किञ्च । दीपाभावस्येव भूयोऽवयवे- न्द्रियसंनिकर्षविशेपदर्शनादिसमवधाने प्रमा, तंदभावे त्वप्रमति गुण- स्याप्यन्वयव्यतिरेकयोः सत्त्वादगुणोऽपि तद्धेतुरित्याह-प्रामाण्यं प्रतीति । अन्वयव्यतिरेकतुल्यत्वेन . प्रमायां प्रमायां गुणोऽप्रमायौं तदभावो हेतुरिति वैपरीत्यमेव किं न स्यादिति भावः। प्रमामात्रे च नानुगतो गुणः, किन्तु तत्तत्समायां भूयोऽवयवेन्द्रियसंनिकर्ष- यथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां प्रत्येकमेव गुणत्वमन्वयव्यति- रेकात् । प्रत्यक्षविशेपदर्शनमपि गुणस्तर्दनुविधानात् । यद्यपि स्थाणुत्वव्याप्यवक्रकोटराद्यारोपविशेषगुणदर्शनेऽपि 'स्थाणुत्वभ्रमो भवत्येव । तथापि विशेषदर्शनं प्रमारूपं गुणो विवक्षितः । एवं प्रामाण्यमिति । प्रामाण्यस्य स्वतो आहेऽनभ्यासदशों- त्पन्नज्ञाने तत्संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनि- श्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे चं धर्मिज्ञानाभावान संशय इत्यर्थः । ननु स्वग्राहात्वेऽपि परग्राह्यत्वाव स्वस्याप्यन्यापेक्षया परत्वात्, भटमते परग्राह्यत्वाच सिद्धसाधनम् । न च ग्राह्यप्रामाण्या- पेक्षया परत्वं ग्राहकस्यापि । ग्राह्यप्रामाण्यत्वेन तदपेक्षया परवा- भावात् । अग्राह्यप्रामाण्यापेक्षयाऽप्रमाणत्वप्रसङ्गात् । अर्थेऽनका- न्तिकञ्च । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राई स्वाश्रयातिरिक्तग्राह्यं वा । आश्रये सत्यपि तदुत्तरतृतीयक्षणवार्नि- संशयविपयत्वात् । अप्रामाण्यसंशयाजन्यसंशयविषयवान ! :- माण्यवत् । अर्थे : निश्चितेऽपि न निश्चयानन्दादीमाणे- ।

१९४ गुणानरूपणम् संशयो न वाऽपामाण्यसंशयं विनति नार्थेन व्यभिचारः । ज्ञानत्वसंशयवदिति । यथा ज्ञानत्वे निश्चिते तत्र संशयो न भवति तथा प्रामाण्येऽपि निश्चित इत्यर्थः । अथ प्रामाण्यवदिति । प्रामाण्यज्ञानमात्रं न संशयविरोधक किन्तु प्रामाण्यमेवेति साधारणं ज्ञानमिति शडितुरभिमायः । तात्कामिति । प्रामाण्यस्य ज्ञान प्रामाण्याश्रयो ज्ञानमित्यर्थः । प्रमाणज्ञानमिति पाठे प्रमाणरूपं ज्ञानमित्यर्थः । निश्चयमात्रमेव संशयप्रतिबन्धकं न तु तद्विशेष इत्याशयेन परिहारः । तदप्रती- तेरिति । प्रामाण्याप्रतीतेरित्यर्थः। झटितीति । लिङ्गज्ञानापेक्षायां विलम्बः स्यादित्यर्थः । प्रहत्तौ न प्रामाण्यग्रहस्य सर्वत्रोपयोगः । तथात्वेऽपि झटित्यभ्यासापन- लिङ्गानुसंधानादप्युपपत्तिरित्याह-अन्यथैवेति । ननु पक्षलिङ्ग- व्यापारज्ञानानां प्रामाण्यानवधारणे स्वाश्रयायसिद्धिरवधारणे चानवस्था । न च लिङ्गादिज्ञानं स्वविषयनिश्चये कर्तव्ये स्त्रप्रामाण्य- ज्ञानं नापेक्षते, प्रामाण्यसंशये लिङ्गस्य संदिग्धत्वादित्यत आह-न चानवस्थेति । चरमप्रामाण्यज्ञानस्य ज्ञानाभावेन कोटिस्मरणभा- वेन विषयान्तरसंचारेण वा प्रामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथा भट्टपक्षेऽपि मामाण्यस्य ज्ञानानुमितिग्राह्यत्वेऽनवस्था स्यादि- त्याह-तथात्वे वेति । प्रामाकरेऽपि मते प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम् । स्वरूपप्रामाण्यवहिर्भूतत्वात । किन्तु परग्राह्यत्वेऽनव- स्थानात् परिशेषानुमानेन मानान्तरेण वा ग्राह्यम् । तथाच तत्मामा- ण्यस्यापि स्वग्राह्यत्वमन्येनैवेत्यनवस्येति भावः । प्रामाण्यानुमानं च किरणावलीप्रकाशः १९५ प्रथमं व्यतिरेकिणा । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वप्रकारका गन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिश्चयत्वात य- नैवं तनवं यथा पृथिवीभ्रमः । तथाच पृथिवीभ्रमे पृथिवीत्वाभावव- ति. पृथिवीत्वमकारकत्वगन्धवद्विशेष्यकपृथिवीत्वप्रकारकत्वाभावयो- याप्तिग्रहादमामाण्यव्यापकहेत्वभावाभावरूपादेतोरपामाण्याभावाभा- वरूपं प्रामाण्यं सिध्यति । यदव्यापकतया हेत्वभावो गृहीतस्तदभाव- स्यैव हेतुना साध्यमानत्वात । व्यतिरेक्यनन्तरं तज्जातीयत्वेनान्व- यिना प्रामाण्यानुमानम् । यथेदं पृथिवीज्ञानं प्रमा गन्धवद्विशेष्यक- पृथिवीज्ञानत्वात् । तत्त्वेन मतवत् । अधिकस्तु पल्लवोऽन्वीक्षा- तत्त्ववोधे प्रदर्शित इति नेह प्रतायते ॥ समयवलति । अर्थविशेपे चेष्टाविशेषस्य संकेते गृह्यमाण एव ततोऽर्थप्रतीतिः । सङ्कतज्ञानपुरस्सरं प्रवृत्तप्रमाणस्यैव च शब्दत्वा- चेष्टाया अपि तथात्वात्तत्रान्तर्भावश्चेष्टाया इत्यर्थः । एवं सति चेष्टायां शब्दव्यवहारमुपपादयति-शब्द एव त्विति । न ह्यनेति । पुमभिप्रायस्यानियतत्वादित्यर्थः । नापीति । ऐश्वरस्याधुनिकस्य वा नियतस्य संकेतस्याभावादित्यर्थः । अतः ल्कृप्तप्रमाणवैधा चेष्टा मानान्तरमेवेति भावः। द्विविधति । यद्यपि सर्वा चेष्टा कृतसम- यैव । इयांस्तु विशेषः। स्वनियतोऽपि कचिद्देवदत्तादिपदवदाधुनिको यथा हटादौ तर्जनीस्पर्शे । कचिद्धयादिपदवदेश्वरः । पटादिपदवच्चे- ष्टाविशेपस्याप्यनादित्वाविशेषात् । यथाङ्गुलीपञ्चकवुद्धिभावे पञ्चेति । तथाप्याधुनिकसंकेतमाश्रित्य कृतसमयत्वाकृतसमयत्वव्यवहारः । तत्र कृतसमयेति । नन्वभिप्रायस्थः शब्दो न तावत् सम- गुणनिरूपणम्... यग्राहकादन्यो वाच्यः, तस्य नियमेनोपस्थितौ मानाभावात् । नापि समयग्राहक एवं शब्दः । स हि तदा स्याद्यदि चेष्टायां शब्दादेव परं. समयग्रहः स्यात् । न चैवं चेष्टान्तरेणैव व्यवहारश्चेष्टायामपि समयग्रहाव । मैवम् । यत्र शब्देनार्थविशेषे चेष्टाविशेषस्य : संकेतग्रह: स्तदभिप्रेत्योक्तम् । तत्रेति । तत्रं चेष्टांतः शब्दः एव स्पर्यते । स एव स्मृतः संसर्गवोधको न चेष्टेत्यर्थः । लिपिवदिति । यद्यपि लिपे शब्द- सड़तो नार्थेऽर्थविशेषमजानतोऽपि लेखकादेः शब्दस्वरूपज्ञाना- दिति वैषम्यम् । तथापि यथा वाक्यार्थसङ्केतितानां पदानां चाक्यार्थस्मारकत्वं तथा. यत्र विशिष्टेऽर्थे चेष्टायाः सङ्केतो . गृहीत- स्तत्र विशिष्टार्थस्य ततः स्मृतिरेव. नानुभव इति कुतः स्मृतिमात्री- पयोगिन्याश्चेष्टायाः प्रमाणत्वमित्यभिप्रेत्योक्तम्-न चेति । स्मृतिश्च नं प्रमेति भावः। : यदि हाति। यं जनयित्वैव यं प्रति . यस्य नियतपूर्वभाव: स्तस्यैव तद्व्यापारत्वादिति भावः । न चैवमिति । चेष्टां विना- प्याकाङ्क्षादिमतः शब्दादयुत्पन्नस्यार्थपत्ययावयभिचार इत्यर्थः । नन्वेवमिति । तथाच व्यभिचारान्न सर्वत्र चेष्टायाः, शब्दो- पंजीवनमिति भावः । अत एवेति । शब्दव्युत्पत्त्यभावादित्यर्थः । तथाच त्वदीयं लक्षणं चेष्टासाधारणं न तत्रास्तीति चेष्टापि तत्र प्रमाणःन स्यात् । मानान्तरं च तत्र संकेतग्राहक नास्त्येवेति भावः। व्यवहारश्चेति । न च शब्देऽप्येवमभिपायानुमानांदेव किरणावलीप्रकाशा २९७ प्रवृत्तिरस्त्विति वाच्यम् । शब्दादिदं निश्चिनोमीत्यनुव्यवसा: यात्तस्यानुभवजनकत्वे स्थिते तदनुकूलकल्पनादिति भावः ।. अकृतेति । यत्र हट्टादावाधुनिक एव. संकेतः क्रियत इत्यर्थः । अविनाभावेति । व्याप्तिं विना. चान्यनान्यस्य स्मरणे- ऽतिप्रसङ्ग इत्यर्थः । तस्मात् कचिच्छन्दस्मृत्या कचिदभिप्राया- नुमानेनान्यथासिद्धा न पदार्थस्मारिकेति न चेष्टा विशिष्टानुभवे प्रमाणमिति भावः । ननु यथा घटादिपदानां. शक्तिग्रहे. प्रयोज- कवाक्योचारणानन्तरंः प्रयोज्यस्य प्रवृत्तिदर्शनाद्वाक्यार्थज्ञाने वाक्यस्य कारणतां गृहीत्वा पश्चादावापोद्वापाभ्यां तत्तत्पदानां तत्तदर्थज्ञाने शक्तिद्यते तथा चेष्टासमूहस्य विशिष्टार्थज्ञाने हेतुत्वं ग्रहीप्यत इति चेष्टा प्रमाणं स्यादित्यत आह-स्मारयतु वेति । प्रकारभेदमाह-कृत्यन्वयिनीति । यस्यां सङ्केतयितुः कृताव- भिप्रायः सा कृत्यन्वयिनी । यथा शङ्खध्वनौ यास्यसीति । यस्यां ज्ञाने तस्याभिप्रायः सा ज्ञप्त्यन्वयिनी । यथा तर्जनीकरणे दश संख्या ज्ञास्यसीति । कारकेष्विति । प्रातिपदिकार्थमात्र स्मयते ने स्वन्वयप्रकारः कर्मत्वाद्यपीत्यर्थः। वर्तमानेति । क्रियास्वरूपप्रधा- नेत्यर्थः । ननु चेष्टाया अभिप्रायमात्रद्योतनेऽन्वयप्रकारेषु कर्मत्वा- दिपु सुकरः सङ्केतः । न च पूर्वैरत्वयप्रकारेषुः काचिचेष्टा सङ्केति- तेति वाच्यम् । इदानीमपि तत्करणसंभवात् । कथं वडिपभ्रंशे. .ऽन्वयप्रकारोपस्थापकविभक्तचभावेऽन्वयबोध। मैवम् । गामान- येत्यत्रेव गौ कर्मानयनमित्यत्र वाक्यार्थप्रेत्ययाभीवादन्वयव्यतिरे. क्रांभ्यां विभक्त्युपस्थापितकर्मत्वादेरेवान्वयबोधकत्वात् । अपभ्रंशे ..

गुणनिरूपणम् तु विभक्तिसंकेवारोपादेव संसर्गबोध इति स्वतन्त्रपदार्योपस्थिती गौरव इति बन्नान्वयबोधः स्यादिति भावः। प्रकरणादयस्त्विति । नानार्यादी सामान्यशब्दस्य विशेष- परत्वमात्र प्रकरणादिवः स्यान्न तु कारकविशेषान्वयप्रकारोपस्थिति- रपि । क्यावे वा स्वतन्त्रपदार्थोपस्थितावपि प्रकरणादिनान्वय- प्रकारोपस्यापकविमक्तयुन्नयनादन्वयबोषः स्यादेत्ययः । कथं तहीति । व्यवहारस्य संसर्गज्ञानसाध्यवादित्ययः । स्वरूपत इति । असाधारणप्रमाकरणत्वेनेत्यर्थः । ननु सादृश्यमेवोप- मानस्य विषयत्वेन परिच्छेद्यं भविष्यतीत्यत आह-तथाहीति । सामान्यं च ययाययं प्रत्यक्षादिपरिच्छेद्यमेवेति न तदग्रहे मानान्तरापेक्षेत्यर्थः। यद्यपि सादृश्यं समतियोगि न तु निष्पतियोगि सामान्य- मेकं तथापि तद्भिन्नत्वे सति तद्गतभूयःसामान्यवत्वं सादृश्यम् । तत्र च भेदः सप्रतियोगिक इति तदयाटितस्य सादृश्यस्यापि सम- तियोगिकत्वम् । यद्यपि चेकमेव सामान्यं न सादृश्यं मूयःसामान्यात्मक- तयाङ्गीकारे च सादृश्यमनकं स्यात् । क्यापि तावत्सु भूयःसामान्ये- प्वेकत्वमौपाविकम् । ननु गोसहशो गवय इति प्रत्यक्षानन्तरमेतत्स- दृशो गौरीति ज्ञानमुपमानफलं स्यात, नस्येन्द्रियासनिकृष्टविषयत्वेना- प्रत्यक्षत्वादेतत्सदृशत्वेन पूर्वमननुभूनविषयत्वेनास्मृतित्वादित्याह-न चैतदिति । एवं च सति तद्विवयं व्यक्तिरित्यवगते एतद्वियर्मा सा व्यक्तिरित्याप ज्ञानमुपमानफळं स्यादुक्तयुक्तरित्याह-तथा सतीति।

किरणावलीप्रकाश १९९ अथैतदिति । ननु नैयायिकानामापत्तिरनुमानम् । न चात्र तत्सम्भवति । सा व्यक्तिरेतत्सदृशी एतन्निष्ठसादृश्यप्रतियोगित्वादि- त्यस्यागमकत्वात् । तत्पतियोगिकैतनिष्ठसादृश्यग्रहे तद्विशेष्यकस्य तृतीयलिङ्गपरामर्शस्याभावात् । विशेष्यस्येन्द्रियासनिकर्षात् । न च तत्मतियोगिकसादृश्ये गृहीते तस्यैव तत्प्रतियोगिले संशया- भावात् समानसंविसंवेद्यत्वेनैतत्सादृश्यमतियोगित्वमपि भातमेवेति वाच्यम् । इन्द्रियसंनिकर्षाभावेन समानसंविसंवेद्यत्वाभावात् । अत्राहुः । प्रत्यक्षज्ञानस्येन्द्रियार्थसंनिकर्षजवे नियमो न तु यावन्तोऽर्थास्तद्विपयास्तावन्तः सर्वेन्द्रियसंनिकृष्टाः । अयं स इति विपरीतमत्यभिज्ञायां व्यभिचारात । न च विशेष्ये तथा नियम एवेति वाच्यम् । तथापि मनसैव परामर्शजननात् । अथ गवयशब्दः कस्यचिद्वाचकः शिष्टैः प्रयुज्यमानत्वादिति नागरकेण निश्चिते विशेष जिज्ञासमानेन कीदृग्गवय इत्यारण्यके पृष्टे तेन च गोसदृशो गवय इत्युक्ते यदा नागरको वनं गतः पिण्डं तादृशमनुभवन वाक्यार्थस्मरणसहकृताव सादृश्यज्ञानादयं गवयशब्दवाच्य इति प्रमिणोति तदा संज्ञासंज्ञिसंबन्धपरिच्छेद उपमानफलमित्याह-संज्ञासंज्ञिसंबन्धेति। नैवं वाक्यादेव नाग- रकेण यो गोसदृशः स गवय इति प्रतीतेन तदुपमानफलमित्याह- वाक्यादेवेति । केवलमिति । य एवाप्तवाक्यागोसदृशो धर्मी गवयपदवाच्यतयावधृतस्तमिदानीं पश्यामीति प्रत्यभिज्ञानमात्रं दृष्टे गवये भवतीत्यर्थः। गवयपदे गवयत्वं प्रवृत्तिनिमित्तं तन्न पूर्व प्रमितम् । प्रमितं च गोसादृश्यं तन्न प्रवृत्तिनिमित्तमतः प्रवृत्ति- :- २०० गुणनिरूपणम्.... निमित्ताज्ञानान. शब्दालत्फलांमत्याह-भवेदेवमिति। तदुपपाद- यंतितथासतीति । गोरज्ञाने तन्निरूपितसादृश्याज्ञानादित्यर्थः । वस्तुतो गोसादृश्यापेक्षया गवयत्वस्य लघुत्वादिति भावः । स्वयं प्रतीतेति। यस्मिन् प्रवृत्तिनिमित्ते स्वयं व्युत्पन्नस्तव परस्य वोध नीयम् आवश्यकश्च गवयंत्व एव- गवयपदप्रवृत्तिनिमित्ततया व्युत्प- नस्ततस्तदेव तत्पदप्रवृत्तिनिमित्तं बोधयेदित्यर्थः । तथाप्यापा- तत-इति । गोसादृश्यं वा प्रवृत्तिनिमित्तं तदुपलक्षितधर्मान्तरमिति संशये क प्रवृत्तिनिमित्तनिश्चय इत्यर्थः । अफलमिति। प्रवृत्तिनि- मित्तविशेषानिश्चायकमित्यर्थः। फलिष्यतीति।प्रवृत्तिनिमित्तंबोध यिष्यतीत्यर्थः । तात्पर्यसंदेहादिति । यदापि सादृश्यस्यैव श- ब्दोपस्थितस्य प्रतिनिमित्तत्वनिश्चयस्तदापि न वाक्यपर्यवसानम् । तात्पर्य विषयाज्ञानात् । न हि भ्रान्त्यान्यादृशान्वयवोधे वाक्यं पर्य- वस्थतीत्यर्थः । उपलक्षणतायामिति । गवयत्वे. प्रतिनिमित्ते तात्पर्यविधारणाल्लक्षणया शब्दस्तबोधक इत्यर्थः । यथाश्रुतपदार्था- न्वयेनैव वाक्ये फलिते लक्षणा न कल्प्यते । यत्र-तु गङ्गायां घोष इति वदन्वयः एव मुख्यार्थे न संभवति तत्र तत्कल्पनम् । इह तु गोसादृश्यसमानाधिकरणं गवयपदवाच्यत्वमिति शब्दा- दवगतस्याग्रेऽपि न बाध इत्याह-मन्वेचमिति । विशेषसंदेहः प्रतिनिमित्तसंदेहः । अन्यथेति । यदि मानान्तरोपनीतरक्त- वाद्यपेक्षं पटो भवतीति वाक्यं पर्यवसन्नं तदा पटभवनरक्तस्त्रयों- 'विधेयत्वेऽर्थभेदाद्वाक्यमैदः स्यादित्यर्थः। ": "शाब्दं समानविभक्तिकतामात्रम् । आथ वक्तृतात्पर्यविषयीं- ... १ किरणावलीप्रकाशः २०१ भूतार्थप्रतिपादकत्वम् । परस्परापेक्षामात्रेणेत्यत्रान्वयोपपत्तिरित्य- नुषज्यते । तस्माद्धास्तवति । ननु यत्र गोसादृश्यगवयपदवाच्यतयोः सामानाधिकरण्य- मात्र एव तात्पर्य न तु गवयत्वप्रतिनिमित्तकतायामपि तत्र शब्दस्य पर्यवसन्नत्वात् प्रमाणान्तरं गवयत्वप्रतिनिमित्तता- ग्राहकं वाच्यम् । अथ गौरवाख्यतणेतराप्रवृत्तिनिमित्तकत्वेऽव- धृतं गवयपदं गवयत्वप्रतिनिमित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रतिनिमित्तकत्वात् यन्नैवं तन्नैवमिति व्यतिरेकी स्यात् । न । इतराप्रवृत्तिनिमित्तकत्वस्य केवलतर्कस्यानिश्चायकत्वेनासिद्धेः। तस्माद्यस्य तर्कः सहकारी तन्मानान्तरं वाच्यम् । अत्राहुः । सपत्तिनिमित्तकताग्राहकसामान्यतो दृष्टमेव गौरवाख्यतर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वे गवयत्व- प्रवृत्तिनिमित्तकतां परिच्छिनत्ति क्लुप्तमान एव तर्कस्य सहकारित्वे संभवति कल्पनीयप्रमाणे तथावस्यान्याय्यत्वागौरवादिति ॥ दृढतरप्रमाणेति । योग्यानुपलम्भसहकृतेन्द्रियग्राह्यत्वेन गृहा- सत्त्वस्य निश्चितत्वमुक्तम् । एवं जीवनमपि ज्योति शास्त्रात्म- मितमिति मरणं न कल्प्यते । अन्यथेति । बहिः सत्त्वं विना गृहासतो जीवित्वमनुपपद्यमानमर्थापत्तिफलमित्यर्थः । विरोध्येवेत्य- नेन प्रकृतोपयुक्तं नोक्तमित्यत आह-विरोधीति । तथापीति । यद्यपि जीवनवहिःसत्त्वयोर्मिथो विरोधे तदुभयमेकत्र देवदत्ते न वर्तत इति केन बहिःसत्त्वं साध्यम् । तथापि जीवता कापि स्थातव्यमिति यदि गृहविषयकं स्यात्तदा विरोधः स्यादिति .

२०२ गुणनिरूपणम् तर्कितेन विरोधेनानयोविरोधित्वम् । अत एव यथाश्रुतापरितो- पात्तात्पर्यार्थमाह-इदमत्रेति । न तावदिति । अनियम्या- नियामकयोरव्याप्यव्यापकभूतयोर्न परस्परमुपपाद्योपपादकभावः । न ह्यव्याप्यमव्यापकं विनानुपपन्नम् अपि तु व्याप्यं व्यापकं विनानुपपन्नमित्यनुपपत्तौ व्याप्तिरस्त्येवेति तत्पति- संधानात्कल्पनमनुमानमेवेत्यर्थः । व्यतिरकोति । वहि:- सत्त्वेन विना जीवतो गृहाभाव एव न भवतीति व्यतिरेकव्या. प्तिरेवेत्यर्थः। कृतमिति । अर्थापत्तिरूपप्रमाणस्य कृतमनुमाना- दर्थान्तरत्वग्रहेणेत्यर्थः । यथानुमानं व्याप्तिज्ञानाद्भवति, अन्यथानु- पपत्तिस्तु कल्प्यकल्पकयोाप्तावपि तज्ज्ञानं विनैव प्रवर्तत इति नेयमनुमानमित्याशङ्कय निराकरोति-न चेति। अन्यथेति। अनु- पपत्तिज्ञानं विनापि कल्पना स्यादित्यर्थः । अर्थापत्याभासति । सत्तावस्थितव्याप्त्यैव कल्पने वस्तुतो यदुपपादकं तत्कल्पनैव परं स्यादित्यर्थः । अन्वयव्यतिरेकाभ्यां व्याप्तिग्रहोपायमाह-यदाह- मिहेति। ननु जीवतो गृहासत्वेन बहिःसत्त्वे साध्ये वहिःसत्त्वं व्यापकं गृहासत्त्वं व्याप्यमिति व्यतिरकव्याप्तौ वहिरसत्त्वं व्याप्यं जीवतो गृहसत्त्वं व्यापकमिति यद्योगप्राथम्याभ्यां व्याप्यस्य निर्देशाद्यदाहं नान्यत्र तदाहामहति वक्तुं युज्यते । एवमन्वय- व्याप्तावपि यदाहमिह तदा नान्यत्रति वक्तुमर्हति । सत्यम् । यदाई नान्यत्र तदाहमिहति व्यतिरेकव्याप्ती यदा नाहमिह तदान्यत्रेत्य- न्वयव्याप्तौ यत्तदोर्व्यत्यासेन योजनात् । समच्याप्तिकत्वस्फोरणार्थ- मेवमुक्तमित्यन्ये ।

किरणावलीप्रकाशः २०.३ ननु देशान्तरस्येन्द्रियासंनिकृष्टत्वात्कथं तत्र स्वव्यतिरेको ग्राह्यः । न । स्वात्मन्येव देशान्तरसंसर्गाभावग्रहात । ननु व्याप्ति- सत्त्वेऽपि गृहासत्त्वस्य देवदत्तावृत्तित्वादपक्षधर्मतया नानुमानमित्यत आह-न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गस्य पक्षधर्मत्वा- दित्यर्थः । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि .यदा तदति कालगभँव व्याप्तिर्गृह्यते । भूमेरुपरि संनिहितसवितृकत्वं वा साध्यम् । ननु व्याप्तस्य पक्षधर्मत्वमनुमानत्वम्, व्यतिरेकिणि तु व्यतिरेकयोाप्तिरन्वयस्य च पक्षधर्मत्वमतो नानुमानत्वम् । अत्राहुः । व्याप्तिपक्षधर्मतोपजीवनेन यद्बोधकं तदनुमानम् । व्यतिरोकिणोऽपि साध्याभावव्यापकाभावप्रतियोगिनः पक्षधर्मतया तद्विशेषत्वं स्यात् । व्यतिरेकव्याप्त्या वान्वयव्याप्तिरनुमीयते । यथा च विशेष्यासंनिक तृतीयलिङ्गपरामर्शस्तथा तृतीयलिङ्गपरामर्शस्थल एव व्युत्पादितमधस्तात् । न चात्रेति। जीवी देवदत्तः काप्यस्ती- त्येकं प्रमाणं गेहे नास्तीत्यपरमनयोर्विरोधज्ञानं करणमविरोधज्ञानं फलमापि नेत्यर्थः। तथाचेति । एकस्मिन्धर्मिणि मिथो विरुद्धार्थ- ग्राहिणोरेकस्य मिथ्यात्वावश्यकत्वाचयोर्मानत्वमसिद्धमित्यर्थः । विभिन्नति । प्रमाणत्वे वा भिन्नविषयत्वमावश्यकमित्यर्थः । ननु क्वचिदस्तीत्यस्य क्वचित्त्वेन गृहस्यापि विषयीकरणाद्गेहेऽस्ति- नास्तीतिवदेकविषयतया विरोधः स्यादित्याह-सामान्यत इति । विभिन्नदेशतयति । विषयभेदेन यदुपपादनं तत्पमाणयोर्वैषयिक- भेदप्रतिसन्धानात् । तच्च भावाभावयोभिन्नदेशतयैवोपलम्भात् । तथाच व्याप्तिज्ञानमावश्यकमित्यर्थः । प्रसिडानुमानेति । धूमा- २०४ गुणनिरूपणम् द्वह्निसत्वेऽनुपलब्धेश्च तदसत्त्वे भावाभावग्राहकयोर्विरोधेऽग्भिाग- परभागयोस्तयवस्थापनमापत्तिफलमेव स्यादिति नानुमानं स्यादि- त्यर्थः। अनुमानाभाव इति। धूमावह्निना भाव्यमित्यनेन समम- नुपलब्धेविरोधस्तदा यदि धूमो वढेरनुमापकः स्यात् । तथाच सिद्धम- नुमानमित्यर्थः। व्याप्तिग्राहकेणेति। अनुमानेन समं विरोधोनोक्तः किन्तु धूमवाह्निव्याप्तिग्राहकमानेन सहेत्यर्थः । अथ सामान्यग्राहक- मानस्य विशेषतोऽनुपलब्धिर्वाधिकैव तदा क्वचिदस्तीत्यस्यापि गेहे नास्तीत्यनेन सहन विरोध इति तुल्यमिति भावः। केवलव्यतिरेक्या- दिवदिति । यथा केवलव्यतिरेक्यनुमानान्तरात्केनापि वैधम्ण पृथक् तथा श्रुतार्यापत्तिरपि दृष्टार्थापत्तेः पृथगस्त्वित्यर्थः । एकस्ये- ति। पीनो देवदत्तो दिवा न भुक्त इत्यत्राप्रसिद्धरात्रिभोजनस्य भोजनसाध्यपीनत्वज्ञापनमनुपपन्नं रात्रिभोजनमादाय सिध्यति । तथाहि । यथाऽभोजी पीन इत्यत्र न योग्यताज्ञान तथा पानो देव- दत्तो दिवा न भुङ्क्त इत्यत्रापि दिवाभोजनस्य योग्यताघटकरा- त्रिभोजनस्याप्रतीतेः । अतो योग्यताघटकोपस्थितिं विनान्वयमलभ. मानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं रात्रौ भुक्त इति वाक्यं कल्पयित्वा तेन सहान्वयबोधं जनयति । एवञ्च श्रूय- माणस्यान्वयवोधजनकत्वं योग्यताघटकोपस्थापकेन शब्देन विनानु- पपद्यमानं तं कल्पयित्वा यत्रान्वयत्रोधं जनयति तत्र श्रुतार्थापत्तिरि- त्यर्थः । ननु लाघवाद्रात्रिभोजनमेव कल्पयितुं युक्तं, शब्दस्यापि तदुपस्थापनद्वारा योग्यताघटकत्वादित्यत आह-शाब्दी हीति । तथाच शब्दोपस्थापितयेव पदार्थमादायान्वयवोधकत्वमिति शब्द किरणावलीप्रकाशः २०५ एवं कल्प्यत इत्यर्थः । तदुपपादयति-न हीति । ननु यत्र किं पचतीत्युक्ते कलायं दर्शयति तत्र शब्दं विनापि भवत्येवान्वयबोध इत्यत आह-कचिदिति । अन्यत्र तथा कल्पनादित्यर्थः । ननु पचतीत्युक्तं स्वयं स्मृतेनान्योदीरितेन वा कलायमिति शब्देनापि नान्वयबोधः । अथ तस्य पचतीत्यन्वयपरत्वं न ज्ञातमि- त्यन्वयबोधस्तर्वार्थकल्पनेऽपि तदर्थान्वयपरोपस्थितिरन्वयवोधाङ्गमि- त्यस्तु । एवं द्वारामित्यत्रापि लाघवात्पिधानमेव कल्प्यते न तु पिधेहिशब्दः। अबाहुः । द्वारमित्यत्र पिधेहिशब्दाध्याहारं विना द्वितीया न स्यात् । क्रियावाचकसमभिव्याहारं विना तत्साधुत्वाभावात् । किञ्च । यद्यन्यथोपस्थितेरेवान्वयवोधस्तदा घटमानयेत्यत्रेव घटः कर्मत्वमानयनं कृतिरित्यत्र कुतो नान्वयवोधः । अथ तथाविधपदो- पस्थापितपदार्थ परस्परमाकाङ्क्षच नास्ति तर्हि पदार्थोपस्थिति- मात्रं नान्वयवोधाङ्गम् । किन्तु पदावशेषोपस्थितः पदार्थः शब्दो- पस्थापितपदार्थनान्वयप्रतियोगीति सिद्धम् । एवञ्च तत्र शब्दकल्प- नात्पीनो देवदत्तो दिवा न भुक्त इत्यत्रापि रात्रौ भुङ्क्त इति शब्द एव कल्प्यते । अनुमितेनेति । यद्यपि पीनत्वं पदार्थतया नानुमेयम् । तथापि दिवसाभोजनविशिष्टं पानत्वं वाक्यार्थतयानुमेयमेव । ननु वाक्यार्थस्यानुमेयत्वेऽपि योग्यतादिकं लिङ्गविशेषण- मिति भाविनः कथं पदार्थसंसर्गोऽनुमेयः। उच्यते । वाधकमानाभावो योग्यता। अतो दिवा भोजन- ६ , २०६ गुणनिरूपणम् वायेऽपि भोजनसामान्यं बाधितं नास्ति । यावद्विशेषवाध हि सामान्यवायो, न चेह रात्रिभोजनमपि बाधितम् । एवञ्च भोजन- सामान्यमादाय योग्यताज्ञानं भविष्यति रात्रिभोजनाज्ञानेऽपि । यत्पुनरिति । यथाभूतस्य यस्य गमकत्वं तथाभृतस्यैव लिङ्गत्वं स्यादिति भावः । न हि कार्यमिति । यद्यपि शतसंख्या कार्या न सहस्रसंख्या । तथापि शतारम्भकैकवारभ्यत्वं सहस्रस्यास्तीति शतसहस्रसंख्ययोः कार्यकारणभाव उक्तः ।। कचित्प्रत्यक्षामिति । इन्द्रियव्यापारान्वयाद्यनुविधानादि- त्यर्थः । ननु चाभावो न प्रत्यक्षः। इन्द्रियेण संनिकर्षाभावात् । न च विशेषणताप्राप्तिः। समवायानभ्युपगमेनात्र तदकल्पनात् । नाप्य- भावोऽनुमानम् । तस्याप्रत्यक्षस्याज्ञायमानतयाऽलिङ्गत्वादित्याह- नन्वभावस्येति। तस्याभावस्येत्यर्थः सचाभाव इति। अभाव- प्रतीतेः साक्षात्कारित्वेने देव प्रत्यासत्त्यन्तराभावेन विशेषणतायाः प्रत्यासत्तेः कल्पनादित्यर्थः । न त्विहेति । तथाच साक्षात्कारि- वासिद्धौ न ततो विशेषणताकल्पनमित्यर्थः । वैजात्यादिति । प्राग्नास्तितायामभावधारानुमानिकी न प्रत्यक्षा । तथाच प्रत्यक्षा- भावप्रतीतो नेन्द्रियव्यभिचार इत्यर्थः । अन्यथातिप्रसङ्गमाह-तथा व्यभिचार इति । एकजातीयत्वाभावेऽपि व्यभिचार्यवेत्यर्थः । तस्येति । तस्येन्द्रियस्य । वज्रलेपायमानत्वादव्यभिचारित्वादि- त्यर्थः । एकज्ञानेति । चैत्रेण समपेकग्रहणयोग्यस्य ज्ञायमानत्वेऽ- पीत्यर्थः । संयुक्तविशेषणतया मनःसंनिकण स्मरणाईस्य चैत्रस्य स्मरणाभावं गृहीत्वा तेन लिङ्गेन भूतले तदानीं चैत्राभावय किरणावलीप्रकाशः २०७ नमिति भावः । नन्वेकग्रहणज्ञानयोग्यतायामपि संस्कारोबोधकवशाकिञ्चिदेव स्मथने न सर्वमित्यस्मरणमन्यथासिद्धम् । अत्राहुः । यदभूत घटादितुल्यपरिमाणबद्रव्यवत्तत्काले भवति तद्रव्यवतया तदभूतलं मया स्मर्यत एव परमिति व्याप्तिः । तथाच स चत्रो न तत्काले भूनलवर्ती घटादितुल्यपरिमाणत्वे सति तत्काले नभुनलवर्तितया मयेदानीमस्मर्यमाणत्वात् मैत्रवत् । न चाप्रयोजकत्वम् । यदि स चैत्रो घटादितुल्यपरिमाणत्वे सति तत्काल तदभूनलवर्ती स्यात्तदेदानीं तदभूतलवर्तितया घटवत स्मये- तेति तर्कसदभावान् । न चैवमिति । भूतलस्य पक्षत्वे ज्ञानाभावो व्यधिकरणो न लिङ्गम् । तस्य प्रतियोगिसमानदेशत्वे नानात्मवृत्तित्वादिति शङ्कार्थः । भृतलेति । ययप्यभावस्य सविपयकत्वं नास्ति । तथापि भूतल. विपयकज्ञाननिरूप्यत्वमेव भूनलज्ञानाभावयोः सम्बन्धः । परस्य त्विति । तन्मते त्वनुपलब्धिलिङ्गतया न प्रमाणं येन व्यधिकरणि- का न गमिका । किन्त्वात्मन्येव वर्तमाना स्वातन्त्र्येण प्रमायां करण- मित्यर्थः । वस्तुगत्येति। नाभाववत्तया ज्ञायमानेन । येनोक्तदोषः स्यादित्यर्थः । तदेव विशदयति-न चेति । वस्तुतो घटवद्धतलं घटा- भावाभावादित्यर्थः । सत्तामात्रेणेति । अभावस्येति शेषः । ननु घटाभाववता भूतलेनानुपलब्धिनिरूप्यतां नाभाव इत्यत आह-यदि त्विति । तच्च जात्युत्तरमेवेति । अनुपलब्ध्यैव घटसवप्रसङ्गो- ऽनुपलब्धिसमा जाति: स्यादित्यर्थः। न चेदेवमिति। अनुपलब्धि- २०८ गुणनिरूपणम् प्रमाणत्वपक्षेऽपि कीदृशेन भूतलेन सा निरूप्यतेत्यर्थः । नन्व- भावधीन प्रत्यक्षा येन वैजात्यान व्यभिचारः। न चेन्द्रियान्वय- व्यतिरेकानुविधानात्तथा। इन्द्रियेण पायभावात्तयोराश्रयग्रहोपक्षीण- त्वमनुमिताविवेत्याह-स्यादेतदिति । एवं तर्हि रूपादिधीरपीन्द्रि- यजन्या न स्यादाश्रयग्रह एवेन्द्रियोपयोगात् । अथ साक्षात्करो- मीत्यनुव्यवसायात्तत्र तथा तुल्यमिहापीत्याह-भवेदेवमिति। अत एव नेन्द्रियायोग्यत्वमपीत्याह-न च योग्यताया इति । तथा सतीति। योग्यताव्यतिरेके सति साक्षात्कारव्यतिरेका तस्मिंश्च सति योग्यताव्यतिरेक इत्यन्योन्याश्रय इत्यर्थः । तर्हि यत्रेति । अमावेनापि सहेन्द्रियाव्यवधानात् सोऽपि साक्षात्कारविषय इत्यर्थः। ननूक्तमिन्द्रियेण प्राप्तिर्नास्ति । न चेन्द्रियं प्राप्तविशेपणममाप्तमपि गृह्णाति । न च विशेषणताप्राप्तिः । समवायानभ्युपगमेनान्यत्र तदकल्पनात् । न चाभावस्यैन्द्रियकत्वादिहैव तत्कल्पनम् । अन्यो- न्याश्रयात् । विशेषणताकल्पनायां तत्सिद्धेस्तसिद्धौ च विशेषण- ताकल्पनमिति । तस्मादिन्द्रियमाश्रयग्रह एवान्यथासिद्धम् । योग्यानुपलब्धिधीरेवाभावधीकरणम् । त्वयापीन्द्रियसहकारित्वे तस्या हेतुत्वोपगमात् । तदुपलम्भे तदभावाग्रहादित्यत आह- यदि चेति । इन्द्रियस्याश्रयग्रहेणान्यथासिद्धावर्थस्य नीले पटे रक्ताभावोपलम्भः स्यात् । आश्रयग्रहणप्रतियोगिस्मरणयोग्या- नुपलब्धीनां सत्त्वादित्याह-अर्थस्यापीति । ममापीति । अर्थस्य तु रूपग्राहकेण चक्षुपा न पटस्योपलब्धिरिति नातिप्रसङ्ग इत्यर्थः। - किरणावलीप्रकाशः २०१ यायाविना पनियोगिग्राहकोण नक्षुपा वायोरग्रहात । किन्तु नाना सभी नदारः । वार्य रूपाभाव इति धीरनुपलब्धेर्न पादिः । नन यथा नीम्पो वायर्शिन धीर्वाविशीप्यका भवनामानुमा- निजी विमान्यनामाश्रिन्येन्द्रियाणां मटनेः नया वायुविशेषण- सामावनिमयकमपि सानमन पर चिनिनमतः साक्षात्कारित्वाभि- मनानावनानानि मापनीनि नोक्तदोपः । । नागी स्याभार निधीः नाक्षात्कारिण्येव । या हि अनिचोगिमतविधिनी मारनपब्धिः । सा योग्यानुपलब्धिर- मानवाधिका । मा नक्षमनिट महान मायावस्त्येवोति यायावपि नागिन मानावनीनिः । युक्तं नदम । अज्ञानयोग्यानुपलब्धि- महिनादन्यसाधनविधायिन सन्द्रियादव भूनले घटाभावप्रनीतिबद्भायौ पामारमनानिमम्भवान । अन्यथा घटादायपि गन्धरसविशेषा- भावना निरपि यांग्यानुपलब्धिनितादेव स्यात् । विनिगमकाभा- बान । यन्तुनी वागी रूपाभावधीनानुपलब्धिलिङ्गजन्या । आप्त- चावपादनदोषकाम्याभावात् । न नानानेव रूपापलब्धेरनुपलब्धि- स्नदोधिका । ननी (बी) पलव्धरतीन्द्रियतया योग्यानुपलव्ध्या नदभावम्याग्रहात । अनुपलब्धिमात्रस्य चाभावाग्राहकत्वात् । किय । वस्तुनो घटवत्युपलब्धिप्रासालेऽनुपलब्ध्या घटस्मृतिः कुनो नाभावधीः । घटाभावाभावादिति चेत् । तहभावबुद्धेरर्थ- जत्वात साक्षात्कारितयेन्द्रियजत्वमेव । इन्द्रियं च नामाप्तग्राहक- मिति तस्माप्तिरपि विशेषणता कार्यदर्शनात्कल्प्या संयोगवत् ।

२१० गुणनिरूपणम् तथापीति। तदिन्द्रियम् । तत्र रूपाभावानुभवे । संनिकृष्टमित्यर्थः । प्रामाकरं समुत्थापयति-यत्पुनरिति । व्यभिचारमेवाह- पटद्वितीय इति। यद्यप्यद्वितीयत्वं द्वितीयामावस्तथाचाभावः सिद्ध एव । यद्यपि च पटज्ञानभूतलस्वरूपज्ञानाभ्यां पटाभावव्यवहारः क्रियते तत्र भूतले ज्ञातेऽपि पटो न ज्ञात इति न भवंति पटाभाव- व्यवहारः। तथाप्येतस्मिन् वाधके सत्येव वाधकान्तरमुक्तम् । न च केवलं भूतलं तदालम्बनम् । घटविरोधिनोऽतिरिक्तकैवल्य- स्यानङ्गीकारात् । अङ्गीकारे वा स एवाभावः । प्रतियोगित्वं विरो- धित्वम् । विरोधश्च सहानवस्थाननियमो वा वध्यघातकत्वं वा । आये।न तावदिति। द्वितीये। परस्परमिति। नाप्यभावति। व्यवहर्तव्यस्याधिकस्याभावे तस्य भाववत्यपि प्रसज्जितत्वेनानि- रासकवादित्यर्थः । नन्वतिरिक्ताभाववादिनाप्यभावः साश्रयो वाच्यः, देशादिनियमेन व्यवहारात । तथाचाश्रयो भूतलविशेपो वाच्य इति स एवाभावव्यवहारहेतुरित्याह-यत्पुनरिति । यद्घ- टाश्रयस्येव विशेषस्यैवाभावाश्रयत्वम् । अन्यथा गोत्वादिकमपि स्यात् । तदाश्रयविशेषादेव तद्यवहारोपपत्तेरित्याशयेनाह-भाव- व्यवहारस्यापीति । व्यवस्थेति । येन केनापि द्वितीयेन घटव- व्यवहारापत्तेरित्यर्थः। ननु घटबद्भूतलबुद्धिभिन्ना भूनलवुद्धिरभावव्यवहारहेतुः । न चैवं घटवति घटवत्त्वाज्ञाने भूतलवुद्धिरभावः । वस्तुतो घटवतो भूतलस्य ज्ञानाद्भिन्नस्य भूतलज्ञानस्याभावत्वात ! बुद्धयोश्च भेदः स्वरूपविशेषावेव । घटवद्भूतलभिन्नभूतलमेव वाऽभावव्यवहारोतुः ।

किरणावलीप्रकाशः .. मैवम । भूनलबुद्धयोनिप्पनियोगिकत्वेन सप्रतियोगिकामा- वस्वभावत्वाभावात् । न चाभावो न सप्रतियोगिकः किन्वभाव- व्यवहार इनि युक्तम् । इह घटो नति प्रतीत्या नर्थस्यैव सप्रति- योगिकनया विषयीकरणात । न त्वभावज्ञानोत्तरकालभाविनस्तद्वय- वहारस्य । तस्याभावतानकालेऽतीतेः व्यवहर्तव्यज्ञानस्य सत्या- मिन्द्रायां व्यवहारेऽधिकापेक्षाया अदृष्टचरत्वात् । किन । ज्ञाना- भावस्याचाापत्वादभावश्चाक्षुपो न स्यात् । अपि चाधिकरणज्ञान- योरभावत्वे आधागधेयमनीत्यनुपपत्तिः । स च यस्मिन्कालवि- शेप भनन्दादावभावः स्वीक्रियते तत्कालविशेपयोग एवं भूतलस्या- भाव इति तदुपपत्तिः, तत्कालयोग्यस्य भतलत्तित्वादिति वाच्यम । इदानीं भूतले घाभाव इति प्रतीत्यनुपपत्तेः । तत्काल- विशेपे तत्कालविशेषयोगाभावात् । संसृज्यमानेति।संसर्गावच्छि- नपनियोगिकोऽभावः संसर्गाभावः। तादात्म्यावच्छिन्नमतियोगिको- ऽभावस्तादात्म्याभावः । प्रतियोगिनमारोप्य यत्र निषेधधीः स संसर्गाभावः । प्रतियोगितावच्छेदकमारोप्य यत्र निषेधज्ञानं स तादात्म्याभाव इत्यस्मपितृचरणाः । चरमसामग्रीमागभावग्राहक रूपमुपन्यस्तम् । लक्षणं स्पन्दवत् । कालमात्रत्त्यभावत्वं प्रागभा- वत्वम् । प्रागभावप्रतियोग्यभावः प्रध्वंमः । एतयातिरिक्तः संस- र्गाभावोऽत्यन्ताभावः । घटवत्संसर्गति । घटस्य तत्समवायस्य चात्यन्ताभावो यदि विषयः स्यात् घटवत्यपि भूतले प्रसङ्ग इत्यर्थः । संसर्गविशेषेति । संसर्गविशेषः संयोगलक्षणः। तदत्यन्तामावा- लम्बनत्वमित्यर्थः ।

२ २१२ गुणनिरूपणम् नन्विह घटो नास्तीति बुद्धेर्यदि संयोगात्यन्ताभावो विषयस्त- दा घटसंयोगो नास्तीति प्रतीतेराकारः स्यात् । मैवम् । यथा हि भूतले घटास्तित्वव्यवहारस्तत्संयोगेन तथा तदभावेन घटाभावव्यवहृतिः। यत्पुरस्कारेण यत्र यगावव्यवहारः, तत्संबन्धाभावात्तत्र नास्तिताव्यवहारात । केचित्तु । घटात्यन्ताभाव एव तद्विषयः । उत्पादविनाशप्रत्य- यस्तु तत्संवन्धतथात्वप्रयुक्तः । स च संयोगध्वंसरूपः । न चैव घटात्यन्ताभावसंवन्धस्य संयोगध्वंसरूपतया नित्यत्वात्तत्र घटधी: कदापि न स्यादिति वाच्यम् । न हि घटसंयोगोऽस्ति तत्र तत्सं- योगध्वंसः। सामान्यध्वंसस्य यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तिरित्याहुः । अन्ये तु । यथा प्रतियोगिभेदेनाभावभेदस्तथा तदवच्छेदक- भेदेनापीति । तत्र संयुक्तघटस्याभावः । स चान्यविशिष्टभाववदु- त्पादविनाशशीलोऽन्य एवेति वदन्ति । यथानादिसंसर्गाभाववैधयेऽपि प्रतीतेरनन्यथासिद्धत्वादुत्पाद- नशीलो ध्वंसः स्वीकृतस्तथा तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यप्याहुरेके । स चायमिति । संसर्गाभावश्चा- यमित्यर्थः॥ अबाधिताकारमित्यनेन प्रमाणत्वमुक्तम् । आचाराचेति । वटे वटे यक्षः प्रतिवसतीत्यैतिह्याद सतां पूजनाचारः । तस्मात स्मृतिः । ततश्च श्रुतिरनुमीयत इत्यर्थः । आप्तोपदेश एवेति । यद्यपि विशिष्य वक्तृज्ञानं नास्ति तथापि महाजनपरिग्रहात प्रामा- किरणावलीप्रकाशः २१३. ण्ये आप्तोक्तत्वमनुमीयते ।। ननु विपर्यस्ताव्युत्पन्नयोरनिज्ञामुत्वात् कथं व्युत्पाद्यत्वमित्यत आद-प्रकृतामति । तदनेनेति। तथाच परार्थानुमाने पञ्चावयव- वाक्यं विना न समस्तरूपोपेतलिङ्गप्रतिपादनमिति न व्यभिचार इति भावः । ननु पक्षावयववाक्यं स्वार्थानुमितौ न यदि प्रयोजक तत्कथं परार्यानुमिती तथेत्यत आह-न हीति। पदानि पुनरिति। व्यवहारान्छक्तिग्रहे तत्कारणतयोपस्थिते इतरान्विते स्वार्थे पदानां शक्तिग्रहादितरान्वितं स्वार्थ स्मारयन्ति पदानि वाक्यार्थज्ञाने लिङ्गम् । यदा पदार्थमात्रज्ञानशक्तिग्रहात्तन्मात्रं स्मारयन्तीति विचा- रोऽस्माकं निप्प्रयोजनो न निराक्रियत इत्यर्थः । यद्यपि शब्दस्या- स्वातन्त्र्येण प्रामाण्यानभ्युपगमेऽपीतरान्वितानन्वितपदार्थयोः शक्ति- रस्त्येव । तथापि स्वातन्त्र्येण प्रामाण्यानभ्युपगम आईकवणिक्त्वे हेतुः । अन्यधापीति । इतरानन्वितपदार्थमात्रशक्तयापीत्यर्थः । पदार्थशक्तत्वेन ज्ञातानि पदान्याकाङ्क्षादिसाचिव्यादन्वितं स्वार्थ बोधयन्तीति नान्वये शक्तिः । किश्चान्विते शक्तिरित्यस्य . यत्र शक्तिस्तत्पदार्थान्वितमित्यर्थः । तदास्मत्पक्षेऽपि तत्संभव इत्याह-यत्र व्युत्पत्तिरिति । व्युत्पत्तिः शक्तिः । न हि सामान्यत इति। न च पदादन्यदन्वितसामान्योपस्थापकमस्तीति भावः। आक्षेपतोऽ- पीति । क्रियाकारकयोमियो व्याप्यत्वादेकेनापरस्यानुमानात् सा- मान्यतोऽन्वितज्ञानमस्तीति तद्विशेपे जिज्ञासा स्यादित्यर्थः । अपि च पदानां स्वार्यान्वये वा शक्तिरन्वितस्वार्थे वा । आधे सर्वपदार्थाना- २१४ गुणनिरूपणम् मुपसर्जनापत्तिर्विशेष्यालाभश्च । द्वितीये स्वार्थविशेष्यकमतीत्यजन- नाद्वाक्यभेदापत्तिः। किञ्चान्वये पदानां शक्तियदि वोधकतामात्र तदा सिद्धसाधनम् । अथान्वितत्वेनैव शक्तिः। तन्न । आकाङ्क्षाधु- पेतपदार्थान्तरापसंदानत एवान्वयज्ञानोपपत्तावन्यलभ्यत्वात् । अन- न्यलभ्यपदार्थमात्रे शक्तिकल्पनात् । इदं च त्वयापि वाच्यम् । पदादन्वयमात्रोपस्थितावपि तद्विशेषज्ञानार्थं तदपेक्षणात् । अवश्य चान्वयवोधे आकाङ्क्षादीनामसाधारणी निमित्तता वाच्या। वाक्य- कवाक्यतादौ प्रतीयमानान्वये पदशक्तेरभावात् । एवञ्चावश्यकपदा- र्थशक्तेरेवान्वयविषयतापपत्तौ प्रतिवाक्यार्थमन्वयशक्तिभेदस्वीकारे गौरवामित्यन्यत्र विस्तरः । ननु यदि पदानामन्विते शक्ति स्ति किन्तु पदार्थ एव (परम् )। तथाच यतः कुतश्चिदुपस्थितेषु पदार्थे- वन्वयबोधः स्यादिति पदानामेवान्वयवोधे शक्तिरास्थेयेत्याह शब्दमहिमानामिति। भट्टमतेन परिहरति-आधुनिकेति । शब्दव्यतिरेकेऽपि संस्कारादुपस्थितानां पदार्थानामन्वयवोधादन्वयवोधे पदार्था एव ज्ञाताः करणम् । पदानि पुनः स्वार्थोपस्थितावेवान्यथासिद्धानीत्यु- पेयम् । अन्यथा नवकाव्यसंसर्गवोधात्पदरचना न स्यादित्यर्थः । न चावश्यकपदशक्तरेव पदार्थवदन्वयोऽपि विपयोऽस्तु न तत्र शक्त्यन्तरमुचितमिति वाच्यम् । श्रुतेऽपि पदे यावन्न पदार्थ उपति- प्ठते तावदन्वयाप्रतीतरुपस्थितेषु पदार्थेष्वन्वयावगमादवश्य पदार्था- नां कारणत्वेन शक्तत्वात् । ननु पदार्थानामतीतानागतत्वाबोधकतैव नास्ति । दुरे ज्ञाता किरणावलीप्रकाश २१५ । शक्तिः । तज्ज्ञानानां कारणत्वेऽपि न तत्राभिधाशक्तिकल्पनम् । तस्याज्ञातस्यैव हेतुत्वात् । मैवम । लिप्यादिस्मृतानामप्यतीतानागतत्वादवोधकत्वापत्तेः। स्वमतेन चोधकमाह-नच येनेति गौरवस्येति। यथाभिहितान्व- यवादिनां शक्तिस्वीकारे गौरवं तथान्विताभिधानवादिनां वाक्यार्थे संसर्गविशेपे पदानां शक्तचन्तर स्वीकारे गौरवमित्यर्थः । ज्ञातानां पदार्थानापकारणत्वे तु बीज व्युत्पत्तिकाल एव प्रयोजकवाक्यश्रवणा- नन्तरं प्रयोज्यव्यापारदर्शनादर्थादन्वितज्ञानोपपत्यर्थमन्वितबोधकत्वं शब्दस्यत्र गृहाने । तदर्थ तन्निर्वाहार्थमर्थोपस्थितिरपि सहकारिणी कल्प्यन इति न तथैव शब्दस्यान्यथासिद्धिः । शब्दतदर्थयोरुप- स्थित योरन्ययवोधकत्वात् । कुत्र करणत्वमिति संशये प्रथमोपस्थि- तत्वादन्वितस्त्रार्थप्रतिपादनपरत्वात्पदानामन्वयबोधकत्वम् । पदार्थ- स्मृतिस्तद्वयापारः कल्प्यत इति । अर्थप्रतिपादकत्वं शब्दत्वं न पञ्चावयववाक्यस्य, किन्तु तदभिव्यक्तस्य स्फोटस्येति पञ्चावयववोधकमिति मतमुत्थापयति- स्यादेतदिति। तत्र चतुर्णां प्रत्येकं मिळितानां चा नान्वयबोधकत्व- मित्यर्थापत्तिर्न मानमन्योन्याश्रयादित्याह-यद्यपीति। तथापीति। गोपदमेकमित्यनुभवः पदैकगोचरो न नानावर्णविषयक इति तद्भि- ममेकं स्फोटाख्यं पदं बोधयति । अभिन्नार्थमभिन्नमेकमर्थं साधय- सीत्यर्थः ।अत एवेति।[अर्थः ?] पदार्थस्तस्य संबन्धः संकेतस्तस्या- ख्यानं वोधनमप्युपाधिर्नास्त्यत एव परस्पराश्रयस्यानुपूर्वीविशेषवि- शिष्टस्य पदत्वात् । तस्याश्चाननुभवत्वादित्यत आह-एकार्थेति ।

गुणनिरूपणम् प्रत्येकमानुपूर्वीविशेषविशिष्टस्य पदत्वात् तस्याश्चाननुभववादित्यत आह-एकार्थेति। प्रत्येकमानुपूर्वी विशेषविशिष्टवर्णानुभवजनितसंस्का- रेभ्यस्तादृशवर्णगोचरायाः समूहालम्बनैकस्मृतेः संभवात् । पदार्थप्र- त्ययस्यान्यथानुपपत्तस्तावत्संस्काराणां युगपद्बोधकल्पनात् । पदत्व- प्रतिसन्धान विनैकवर्णमात्रग्रहात् संकेतस्मृतेरभावाचां विना पदार्थ- स्मृतेरभावात् । न च वर्णानुभवेऽपि तत्तदानुपूर्व्यनुभवान्न पदत्व- प्रतिसंधानम् पूर्ववर्णध्वंसविशिष्टापरवर्णस्यानुपूर्वीत्वात्तस्यापरवर्णानु- भवकाल एवानुभवात् । वाक्यार्थज्ञाने च पदार्थानामानुपूर्वी न कारणमित्यर्थः । अन्यथा स्फोटस्य वर्णाभिव्यक्तत्वपक्षे किमेकै वर्णानां स्फोटाभिव्यजकत्वमथवा मिलितानामिति विकल्प यथोक्तदोषापत्त्यानन्यगत्या त्वयाप्येपैव रीतिरनुगन्तव्येत्याह- अन्यथा विति । एवं वाक्यमपि पदान्येकस्मृतिसमारूढानि जन- यन्तीत्यनन्यगत्या स्त्रीकर्तव्यं नानापदानामेकपदत्वानुभवादित्याह- पूर्वपूर्वेति । तत्र प्रकारान्तरेणापि प्रतीत्युपपत्तिमुपन्यस्य निराचष्टे- तथाचेत्यादि । लब्धति । श्रोत्रसंस्काराभ्यां सदसणांवगाही स्मृत्यनुभवो विचित्रप्रत्यय एवार्थप्रत्ययहेतुरित्यर्थः । समान- । तन्त्रादीति । अयमर्थः । स्मृतिनिचयसहितस्यान्त्यवर्णानुभव- स्यैककालासंभवात् अन्त्योपान्त्यवर्णस्मृत्यनुभवयोरेकदा न संभवः । अन्त्यवर्णानुभव एवोपान्त्यस्मृतिरुत्पद्यते । एवं विनश्यदवस्थोपा- न्त्यवर्णानुभवाद्विनश्यदवस्थान्त्यवर्णानुभवयोरपि नार्थप्रतीतिहेतु- त्वम् । अन्त्यवर्णानुभवकाले पूर्ववर्णानुभवाभावात् । स्मृत्यनुभवरूप- मेकं ज्ञानं जातिसाडूदेव नास्तीति ॥

किरणावलीप्रकाशः २१७ तेन चेति। वर्णज्ञानेन यद्यप्युत्पद्यमानतोत्पत्तिकारणसानिध्यं विनश्यत्ता च विनाशकारणसान्निध्यं द्वितीयज्ञानमेवेति न कार्यका- रणभावस्तस्या (था?) प्युत्पादविनाशौ । कारणत्वमाविष्कत तृतीया- निर्देशः। एवमुत्तरत्रापि । स्मरणानुभवयोरिति । अन्त्यवर्णानुभव- स्य पदस्मरणादिः सर्वोऽयं व्यापार इति न व्यापारेण व्यापारिणो व्यवधानामति न विरोध इत्यर्थः। तच्छून्यं साधनशून्यमित्यर्थः । असाधनाङ्गत्वादिति। लिङ्गव्याप्तिपक्षधर्मतानुपदर्शकत्वादित्यर्थः। अथेति । हेतुप्रयोगार्यमेव प्रतिज्ञार्थ उपयुक्तोऽन्यथा किमुद्दिश्य हेतुः प्रयुज्यतेत्यर्थः । आद्य इति । प्रतिज्ञार्थानुपयोगे विप्रतिपत्ते- रनुपयोगः । तस्याः प्रतिज्ञासमानार्थत्वात् । अथ पक्षप्रतिपक्षपरि- ग्रहं विना कथकत्वाभावाद्विप्रतिपत्तेरुपयोगो न प्रतिज्ञार्थस्येत्युच्यते तहि साध्यानुपयुक्तवे हेतोरप्यनुपयोग इति प्रतिपत्तिमात्रपर्यवसितैव कथा स्यात् । यदि च विप्रतिपत्तेरेव --- मेव हेत्वाद्युपयुक्तं तर्हि प्रतिज्ञार्थ उपयुक्त एवेति भावः । विवादाद्वेत्यस्यैव विकल्पद्वये विवादादपि व्यवहिताद्वेति विकल्पं दूषयति-न तावदिति । आसत्तेरिति । अनासन्नेन विवादवाक्येन हेत्वादिवाक्यस्यैकवा- क्यतानापत्तेरित्यर्थः । अनिग्रहे वेति । निग्रहानुद्गावने वेत्यर्थः । अवयवान्तरैकवाक्यतापनाद्वेत्यत्राह-द्वितीये विति । नन्वेवमपि शब्दो ऽनित्य इति विप्रतिपत्त्यनन्तरं पुनः शब्दोऽनित्य इति कोट्युपनयो व्यर्थ एव । विप्रतिपत्तेरेव तथाभूतत्वात् । मैवम् । हेत्वाकाङ्क्षा हि न वस्तुस्वरूपे किन्तु तत्पमितौ । ६ २१८ : गुणनिरूपणम् . विप्रतिपत्तिश्च स्वरूपाविषयव । अत एव शब्दोऽनित्यतया प्रति- पत्तव्य इत्येव प्रतिज्ञार्थो लक्षणया शब्दोऽनित्य इत्यनेनोच्यते । तथाच वस्तुस्वरूपाद्विवादार्थादन्यः प्रतिज्ञार्थः पुनरभिधेय एवार्थ- भेदात् । अवयवान्तरादपि साक्षाद्वति पक्ष प्रतिक्षिपति-तृतीय इति । आक्षेपतो वेति पक्षं निरस्यति-नापीति । अपेक्षाकाले आकाङ्क्षाकाले । अन्यस्येति। तत्कल्पने आक्षेपकस्यावयवान्तर- स्यैवाभावादित्यर्थः । ननु साध्यमप्रतिज्ञायापि साध्यमतिपत्त्यनु- कूलहेत्वाद्यभिधानेऽपेक्षितसिद्धिः स्यादित्यत आह-अपेक्षित- करणेऽपीति। यदि च प्रतिपाद्याकाङ्क्षाक्रममनपेक्ष्याभिधानं तदा- न्यत्रापि तदपेक्षा न स्यादित्याह-वाक्यसामग्रीति । पक्षमुद्दिश्य साध्यविधानात् पक्षं प्रथम निर्दिशति--वायुर्द्रव्यामिति । अनुमानादेवेति । अनुमानमन्वयि साध्यप्रसिद्धौ स्यात् । व्यतिरेक्यपि यदि वन्हि पक्षीकृत्य क्रियते तदा सिद्धसाधनमन्यस्य पक्षत्वे बाध इत्यन्धपरम्परार्थः । अत एव हीति । अनेकान्तिकापक्षधर्मवोपजीव्यत्वादेव सर्वत्र यदुपजीव्यं स्वतो दृषकं च तदेव पृथक् हेत्वाभास इत्यर्थः । ननूपजीव्यत्वं न वाधमवगम्यवावगमः । तमनवगम्यापि शब्दानुमानाभ्यां तद्ग्रहात् । वस्तुत एकत्र धर्मिणि साधनसाध्या- भावाविति समूहालम्बनरूपैकैव प्रतीतिः साधनसाध्याभावयोः सामानाधिकरण्योल्लेखिनी। अन्यथा धर्मिणि साध्याभावप्रमादशायां यदि साधनस्य ज्ञानं तसिद्धिः स्यादित्येकवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि वाघमुपजीव्यैवोद्भावनं तत् । असिद्धेः ।

किरणावलीप्रकाश २१९ न हीदमनकान्तिकमित्युक्तेः परस्य कयन्तावश्यकी। अथ प्रत्यक्षादी प्रमामात्र प्रति स्वातन्त्र्येण बाधकस्य दपणत्वेन कप्तत्वादनुमितावपि स एव दोपः । मैवम् । तथा सति वाधस्य हेत्वाभासत्वव्याघातः। अनुमि- त्यसाधारणदोषस्यैव तत्त्वात् । अथ पक्षाभिमते साध्याभावग्रहवत साध्याभावव्याप्यग्रहोऽपि दपकः विरोधित्वाविशेषात् । एवञ्च साध्याभावसामानाधिकरण्य- मनकान्तिकत्वम् । साध्याभावव्याप्यसामानाधिकरण्यं वाधः । मैवम् । पक्षाभिमते साध्याभावग्रहस्य दृषकत्वासिद्धौ दृष्टा- न्तानुपपत्तेः । सिद्धौ वा तस्योक्तरूपवाधानन्तर्भावे पष्ठहेत्वा- मासापत्तेः । उक्तरूपश्च वाधः पक्षाभिमतविषयकसाध्याभावबुद्धौ सत्या- मसत्यां वा । आद्येऽनैकान्तिकत्वमेव । साध्याभावसामानाधिकर- ण्यग्रहात् । अन्त्ये लिङ्गत्वाभिमतसाध्याभावव्याप्ययोरगृह्यमाण- विशेषतया सत्प्रतिपक्ष एव दोपो न वाधः । उच्यते । पक्षत्वाभिमते धर्मिणि साध्याभावज्ञानस्य प्रमात्वम- निश्चित्य व्यभिचारादि ज्ञातुमुद्भावयितुं च न शक्यमित्युपजीव्य- त्वाद्वाधः पृथक् । तथाहि । साध्याभाववत्तित्वनिश्चयः साध्या- भावनिश्चयाधीनः । तन्निश्चयश्च न साध्याभावज्ञानमात्रात् । विशे- पदर्शनेऽपि भ्रमादर्थनिश्चयापत्तैः प्रामाण्यानुसरणवैयापत्तेश्च । किन्तु साध्याभावज्ञानस्य प्रमात्वनिश्चयात् । न चैवमसिद्ध्युपजी- व्यत्वेन सिद्धसाधनमपि पृथक् स्यादिति वाच्यम्। उपजीव्यत्वेऽपि ...

२२० गुणनिरूपणम् स्वतो दृषकत्वाभावात् । पक्षत्वविघटनद्वारा तस्य दूपकत्वात् । एवमसिद्धरपि वाध एवोपजीव्यः। साध्याभावज्ञानप्रमात्वानश्चयादेव संदेहघटितपक्षत्वपरिघटनात् । अधिकं तु न्यायनिवन्धनकाशे तत्त्व. बोधे च विपश्चितमस्माभिः । घनमिति । निविडमित्यर्थः । धर्मिग्राहकानुमानानामपि विरोधित्वमुपपादयति-आकाशमिति । अभ्युपगतविरुद्धत्वमुप- पादयति-क्षीरेति । ननु वैशेषिकशास्त्रविशेषोऽचेतनं तस्य चेतन- धर्माभ्युपगमो न सम्भवतीति व्याचष्टे-विशेष इति । ननु सत्का- र्यपक्षे मानाभावात् कथं तेन विरोध इत्यत आह-विवादेति । ननु दुषणान्तरदुष्टत्वादत्र व्याघातः कथं दूपणमुच्यत इत्या- शयेन दूषणान्तरमुद्धर्तुमाह-यद्यपीति । कृतिविषयत्वं कार्यत्वं न सतः, असत एव . कार्यत्वादिति न दूषणम् । क्रियाविषयत्वस्य कार्यत्वात् । क्रियात्वस्य चोत्पत्तिसाधारणत्वात् । करणेति । कर- णव्यापारात्मागपीति साध्यविशेषणेन विशिष्टस्य साध्यत्वात सप- क्षाभावान्न ततो व्यात्तिरिति नासाधारण्यमित्यर्थः । नापीति । घटो जायत इत्यस्य जनिक्रियां प्रति कर्ता भवतीत्यर्थादसतश्चा- कर्तृत्वात् कारकव्यापारात्माक् सत्वमवश्यवाच्यमिति नाप्रयोज- कत्वमित्यर्थः। एतचोपलक्षणम् । असच्चेत् कारणब्यापारात्पूर्व कार्य, न तर्हि तस्य सत्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पातं कर्तुं शक्यम् । असत्त्वं चेत्कार्यधर्मस्तथाप्यसति धर्मिणि न तस्य धर्म इति कार्यस्य सत्त्वं लब्धमित्यपि विपक्षबाधकं द्रष्टव्यम् ।

किरणावलीप्रकाशा २२१ न चेदमिति । जनिक्रियां प्रति कर्तृत्वमित्यर्थः । अन्यो- न्याश्रयादिति । सत्कार्यदुषणे सति जनिक्रियामतीतिर्धान्ता । तस्याश्च भ्रान्तत्वे सत्कार्यदोषा इत्यर्थः । तस्मात् कारणव्यापारा. दुर्ध्वमिव प्रागपि ततः सदेव कार्यम् । करणं चास्य सतोऽभि- व्यक्तिरेव । यथा यत्र निष्पीडनेन तिलेषु तैलस्येति भावः । तथापीति। सत्त्वकारकव्यापारविषयत्वयोरेकत्रासंभवेन मिथो विरोधात प्रतिज्ञापदयोाघात इत्यर्थः । न हीति। कार्यस्व- रूपस्य प्रागपि सत्त्वादित्यर्थः। असत्यपीति । असत्यपि व्यापार- विषयत्वं न संभवतीत्यर्थः । स चेति । कारणव्यापारेणासत आद्यकालयोग एवं क्रियत इत्यर्थः । तक्रियति । उत्पत्तिक्रिया: विषय इत्यर्थः। अतिप्रसक्तिरिति। असत्त्वाविशेषाव सर्व सर्वेण जन्येतेतिवत् सत्वपक्षेऽपि सत्त्वाविशेषात् सर्व सर्वेणाभिव्यज्यतेति तुल्यमित्यर्थः । कारणेति । कारणस्वभावनियमानियमस्तुल्य इत्यर्थः। कर्तव्येति। कर्तव्यरूपं वस्तु घटादि तत्कालाविद्यमानम् । तत्साधकत्वे क्रियानिमित्तविरहात् । क्रिया घटरूपा कारक- पदप्रवृत्तिनिमित्तं तद्विरहात कारकाभावेऽकारककार्योत्पत्तिः स्यादित्यर्थः । कृतीति । घटस्यासत्त्वकाले घटानुकूलकृतिविषय- स्यापि ज्वालनादेः क्रियात्वम् । तदादाय च कारकत्वमित्यर्थः । धात्वर्थेति। धात्वर्थ एव क्रिया । धात्वर्थस्य च सार्वत्रिकत्वाद्भवति क्रियायाः कारणत्वम् । अन्यथेति । सत्कार्यवादेऽभिव्यक्तिमादाय कारकत्वम् । सा यद्यसती कथं तस्याः प्राकारकत्वं निरूप्यमथ सती तर्हि कुत्र कारकत्वमित्यर्थः । उपादानेति। घटार्थी हि घटोपादाने ' २२२ गुणनिरूपणम् प्रवर्तते । तत्र घटस्योपलक्षणत्वेऽतिमसक्तिः। विशेषणत्वे च प्रागपि घटसत्त्वं प्रसक्तमित्यर्थः। सर्वसंभवेति। असत्त्वाविशेषेण घटसाम- ग्रीतो घटवत् पटस्यापि सत्त्वमसङ्गादित्यर्थः। शक्तस्येति। शक्तत्वं शक्यनिरूप्यमिति शक्यस्य कार्यस्य प्रागपि सत्वप्रसङ्गादित्यर्थः । कारणभावादिति । कारणत्वं कार्यनिरूप्यमिति कार्यस्य प्राक्- सत्वं सिद्धमित्यर्थः ।। यस्तर्कतन्त्रशतपत्रसहस्ररश्मि- गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिगहनां किरणावली तां पाकाशयत्कृतिमुदे बुधवर्धमानः ।। इति महामहोपाध्यायश्रीवर्द्धमानकृतो गुणकिरणावलीप्रकाशः संपूर्णः ।।

No text on this page.

The Kiranavali Prakasa

Author
Upadhyaya, Vardhamana
Title
The Kiranavali Prakasa
File name
The Kiranavali Prakasa
Text
OCR done
Citation
1936
Published
2010/06
Publisher
Xxxx
Language
Sanskrit
Pages
106
Library
Rajasthan University
DLI number
325584
Barcode
99999990003472.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
v7yQZBoe8TA
Download PDF

The Kiranavali Prakasa