Osmania University
Draahmaayand-a Grxhma Suutravrxtti Grantha 74
Front matter
UNIVERSAL
LIBRARY
OU_184117
LIBRARY
UNIVERSAL
No text on this page.
OUP-43-30-1-7]-~-5,000
Call No.
OSMANIA UNIVERSITY LIBRARY
S294.538. AF
R$ 1 Ccession No.
S2314
रुद्र स्कन्द
द्राह्यायगगृह्यसूत्रवृति: 1914
Author
Title
This book should be returned on or before the date last marked below.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ७४
रुद्रस्कन्दप्रणीता
द्राह्यायणगृह्यसूत्रवृत्तिः।
आनन्दाश्रमस्थपण्डितैः वे० शा० सं० गोखले इत्युपाढे-
गणेशशास्त्रिभिः संशोधिता।
सा
हरि नारायण आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशिता ।
शालिवाहनशकाब्दाः १८३६
ख्रिस्ताब्दाः १९१४
(अस्याः सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः।)
मृत्यमेको रूपकः (रु०१)
No text on this page.
आदर्शपुस्तकाल्लेखपत्रिका। . अस्या रुइस्कन्दवगीतद्वारायणगृह्यसूत्रकृतेः पुस्तकं पर हितकपर- या यैर्दत्तं तेषां नाम प्रदर्य ते- रा० रा० दत्तात्रेय गणेश द्रवीड यवतमाळ हायस्कूलमास्तर इत्ये- तेषाम् । अस्य लेखनकालः संवत् १८४० समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।
No text on this page.
ॐ तत्सब्रह्मणे नमः। रुइस्कन्दप्रणीता द्राह्यायणगृह्यसूत्रवृत्तिः। तत्र प्रथमपटले प्रथमः खण्डः । अथातो गृह्या कर्माणि ॥१॥ थानन्तरम् । कस्मादनन्तरम् । देवसवितरित्यादिमन्त्रवच्छाखा ध्ययनात् । यतोऽनधीतवेदस्य मन्त्रापरिज्ञानाद्वक्ष्यमाणेषु वाक्येषु कर्मानुष्ठानयोग्यतया प्रतिपत्तुमशक्यमतस्तदनन्तरमिति गम्यते । नन मन्त्रमात्राध्ययनादपि शक्यः प्रतिशतुम् । सत्यम् । यदिमन्त्रमात्रेऽध्यय नविधिः स्यात् । विधा[यक]विध्यमावे को दोषः। इच्छानिवन्धनमध्य यनं स्यात् । तथा सत्यध्ययनस्य पुरुषप्रतिपत्त्युपायत्वात् । तस्मा तत्साध्यपुरुषार्थपरामर्शाक्षित्वात् । मन्त्राणां चीन्द्रिय पुरुषार्थसाधन कारोपकारिप्रकाशनं शक्तिसद्भावनिश्चयप्रमाणाम वेन तद्विवक्षासंमवा दवश्यमन्यविवक्षया भवितव्यम् । अन्यविवक्षया चोचारितस्याप्रामाण्य माहुर्मीमांसकाः । ग्रन्थगौरव याऽस्माभिर्न लिख्यते । अप्रमाणमूतस्य च साधनस्वायोगान्न तावन्मात्रमध्ययनस्य वृत्तत्वम् । वैधे त्वध्ययने स्वाध्यायोऽध्येतव्यः' इत्यक्षरप्रधानत्वानिर्देश्यस्य संस्क्रियमाणत्वा[द क्षरद्वारेण च पुरुषार्थावबोधनरूपप्रयोजनसिद्धिसंमवात्प्रामाण्यम् ।वैधत्वं स्वध्ययनस्य नियतकमत्वान्न तावन्मात्रस्य संभवति । एवंविधमिति (वमपि) तत्परस्य वृत्तत्वम् । एकत्वाद्विधरेन्तरतः स्थितो विधिविरो धात् । न हि प्रधानभूतामध्ययनक्रियां परिसमाप्य तदपेक्षितव्या पारान्तरे प्रवृत्तिः । अतःशब्दो वक्ष्यमाणं प्रति प्रवृत्तस्याध्ययनस्य पर्यवसानलक्षणं हेतुत्वमाह । अध्ययनविधिहर्थावबोधपर्यनोऽनुठान. योग्यमवबोधं विना न पर्यवस्यति । ‘देव सवितः प्रसुव' इत्यादि मन्त्रोत्पन्नस्य विनियोगो न गृह्यशास्त्रोपदेशं विनाऽनुष्ठानयोग्यो २ रुद्रस्कन्दप्रणीता- [१ प्रथमपटले- मवति । अत एष सूत्रार्थः-अध्ययनानन्तरं तदपर्यवसानादेव हेतो- गुंह्याणि कर्माण्युपदेक्ष्याम इति । औपासनाख्योऽमिर्गृह्यः । यस्मिन्नग्नौ पाणिं गृह्णीयास गृह्य इति वचनात्तत्साध्यानि कर्माणि लक्षणया गृह्याणीत्याह । अत औपासनहोमादिषु गृह्याग्निः । अत, एवाधिकार इत्युक्तं भवति । आहत्यविहितं वर्जयित्वा यथा पुनर्मामिति ब्रह्मचारि- णश्चौलादीनि बालसंस्कारार्थतया तच्छेषत्वेन यद्यपि बोध्यन्ते तथाऽपि पुत्रं संस्कुर्यादित्येवमादिवचनापितुरपि तानि कृत्यान्येव स्वकृत्यानि च सर्वाण्यग्निसाध्यान्यस्मिन्नेवाग्नौ कार्याणि । अस्य सर्वसाधारणत्वेनो- त्पन्नत्वादग्न्यन्तराक्षेपे प्रमाणान्तरामावाञ्च । बालकृत्यमपि प्रसङ्गसिद्ध. स्वान्नाग्न्यन्तरमाक्षिपति । यदा तु सर्वाधानेन पितुरग्न्यमावस्तदा बाल- कृत्येनाऽऽक्षिप्यते लौकिकानिः । सर्वहोमेषु समाचारतः सिद्धत्वा- लौकिकस्य । पिताऽपि तस्मिन्नेवानी संस्कुर्यात् । विद्यमाने हि गृह्य उपात्तस्य विद्यमानत्वादुपादानक्षमः । अत्र परसंस्कारार्थान्येकदेशं प्रणीय तस्मिन्नेव कार्याणि । समाप्तेषु तस्य लौकिकत्वमित्युपलब्धे देशे समाचारः । यद्येवमेव समाचारः सार्वत्रिकः स्यात्तथैव श्रुतिकल्प- नया प्रमाणं स्यात् । अथ तु देशान्तरे विमानं स्यात्कृत्स्न एव परार्था- न्यपि स्युः । नाप्यनरन्ते लौकिकत्वम् । यदाऽनग्निः पिता भार्यामरणा- दिना यदि शास्त्रान्तरेष्वनग्नेः संस्कारप्रतिषेधो विद्यते तदाऽन्येन कार- येत् । अयं तु न विद्यते स्वयमेव लौकिकेऽनौ कुर्यात् । नन्वन्यदीयेऽना. वन्यः किमिति न करोति । आहवनीयादिवत्पुरुषविशेष प्रति नियत- त्वाद्यस्य यो गृह्यस्तस्यैव संस्कारयोग्यः । य[अ]गृह्याणीति प्राप्ते छान्दसो लुक्कृतश्छन्दस्तुल्यत्वमस्य शास्त्रस्य गमयितुम् । तुल्यत्वं च वेदमूलत्वेन । मन्वादिवदतीन्द्रियार्थे प्रामाण्याद्वेदमूलत्वाञ्च । वेदमूलेषु स्मृतिशास्त्रेषु वेदाङ्गेषु च यद्यदस्य शास्त्रस्यापेक्षितं विद्यते तस्य तस्य संग्रहः सिद्धो भवति । सर्वेषामध्ययनविध्याक्षिप्ततयैकविज्ञानविषयत्वा- दपेक्षामावे त्वविरोधिना[२] विना समुच्चयः । परामर्शहेत्वभावेन वाक्यार्थस्य पर्यवसानाद्गृह्याणीति सिद्ध कर्माणीतिवचनमग्न्यन्तरसा. ध्यस्यान्वष्टक्यादेरनग्निसाध्यस्य च संग्रहार्थम् । तस्य च प्रयोजनं वक्ष्य. माणायां परिभाषायां साधारणत्वं सूचयितुम् । अत एष वाक्यार्थ:- गृह्याण्यगृह्याणि च कर्माण्युपदेश्याम इति । गृह्यसाहचर्यादगृह्याण्य- प्योपासनवत एवेति केचित् ॥१॥ ।
१ प्रथमः खण्डः] दाहायणगृह्यसूत्रवृत्तिः।
उदगयनपूर्वपक्षपुण्याहेषु प्रागावर्त-
नादह्नः कालोऽनोदश इति ॥ २॥
यस्मिन्क्षणे मकरं गच्छति सूर्यस्ततः प्रमृति षण्मासा उद्गयनम् ।
यस्मिन्क्षणे सूर्याचन्द्रमसौ सह वसतस्तत ऊवं यस्मिन्क्षणे तयोरेव
परमो विप्रकर्षस्ततः प्राक्पूर्वपक्षः । ज्योतिःशास्त्रे कर्मयोग्यं यदहरुक्तं
तत्पुण्यमहः । तेषां द्वन्द्वसमासः । अन्वये तेषामितरेतरयोगमाह
विभक्तिः । अतो येषु कर्मषु समुचितानामन्वयः संमवति तेषु समु.
चितानामेवाङ्गत्वम् । येषु सर्वसंभवस्तेषु यथासमवं द्वयोरेकस्मिन्वाऽ.
न्वयः । ननु सकृदुचारितस्य कथमनेकधाऽन्वयः । सर्वकर्मणामविकृत-
त्वादादावर्तते पदम् । इतरेतरयोगाविवक्षया च समुच्चयासमवेऽपि
यज्ज्योतिःशास्त्रे निषिद्धमहस्तद्वर्जनीयम् । उदगयनपुर्वपक्षावनादृत्य
दोषहेतुत्वान्मध्यंदिनादूर्ध्वमहरावर्तनादित्याहुः । ततः प्राग्गृहाणां वक्रा-
मावेऽप्यावृत्तिरस्ति । अह्न इति विशिनष्टि । ननु प्रातराहुति हुत्वा
हविनिर्षपेदित्यनेनैव सिद्धम् । न सिध्यति पूर्वकालनिषेधपरत्वात्तस्य ।
अपि च सर्वमहः प्रातराहुतेः स्थानमिति वचनादपराह्नेऽपि स्यात् ।
काल इति । यथाऽन्ये दर्शादयः काला अधिकारहेतवस्तथाऽयमप्युक्तः
कालोऽधिकारहेतुर्नाङ्गमात्रमिति गमयितुम् । अतोऽन्यकाले कृतमकृत.
मेव न विगुणमात्रम् । विशेषादेवास्य बलीयस्त्वे सिद्धेऽनादेश इति
शास्त्रान्तरादेशः संग्रहणार्थः । तत्र विरुद्धानां विकल्पो यथा विवाहे
सर्वकालत्वमुपनयने च पश्चमवर्षादि । अविरुद्धानां समुच्चयो यथोपन-
यने वसन्तादिसर्वेषु च मुहूर्तादि । एवं सर्वत्र ॥२॥
अथ वर्गे यथोत्साहं ब्राह्मणानाशयेदिति ॥ ३ ॥
अधिकारप्रयोगे समाप्ते यथाश्राद्धं व्यवरान्ब्राह्मणान्मोजयेत् ।
यज्ञोपवीतमिति ॥ ४॥
कर्माङ्ग स्यादिति शेषः । नित्ये विद्यमाने न यज्ञोपवीतान्तरं प्रसङ्गा-
सिद्धेः॥४॥
सौत्रमिति ॥ ५॥
तद्यज्ञोपवीतं कार्पाससूत्रकृतं रज्जुर्वासो वा स्मृत्यन्तगच्छेषाव-
मतिः॥५॥
॥ ४' रुद्रस्कन्दप्रणीता- [१ प्रथमपटले] कौशं वेति॥६॥ कुशविकृतं वा कुशविकारः ॥ ६॥ ग्रीवायां प्रतिमुच्य दक्षिणं बाहुमु- द्धृत्य यज्ञोपवीती भवतीति ॥ ७॥ सौत्रं कौशंवा पाशाकृतिं कृत्वा ग्रीवायामासज्ज्य दक्षिणं बाहुगुद्धृत्य तस्याधस्तादवलम्बनं कृत्वा यज्ञोपवीती भवति । विन्यासविशेषयु- केऽस्मिन्द्रव्ये यज्ञोपवीतशब्दो वर्तते तदर्थे द्रव्य उपचारात् ॥ ७ ॥ सव्यं प्राचीनावीतीति ॥८॥ ग्रीवायां प्रतिमुच्य सव्यं बाहुमुद्धृत्य प्राचीनावीती भवति । एत. स्पिध्ये । स्मृत्यन्तरात् ' उपासने गुरूणां वृद्धानामतिथीनां च होमे जयकर्मणि मोजन आचमने स्वाध्याये यज्ञोपवीती स्यादन्येष्वप्येवं. प्रकारेषु भवतीति । ०५ प्त्यर्थं गृह्यशास्त्रे विहितादन्यत्राप्येतद्दयमङ्ग- मिति निधीतिता नोक्ताऽस्मिशास्त्र निवीतिना कृत्यं नास्तीति। केचि. स्वायसान्वधकाम इत्यत्र निवीतित्वमिच्छन्ति वधकामे श्येनयागे दर्शनात् । तदर्थं च ग्रीवायां प्रतिमुच्येति सूत्रमवि[व]च्छिद्य निवीती मवतीत्यध्याहरन्ति ॥ ८॥ सर्वकर्मणामङ्गमाचमनमादी कर्तव्यं तदर्थं तदाह- त्रिराचम्यापो द्विः परिमृजीतेति ॥ ९॥ उदकं बिरडष्ठमूलतलेन पीत्वाऽङ्गुष्ठमूलतलेनालोमप्रदेशाद्वहिः परित ओष्ठौ सृजीताद्भिः ॥९॥ पादावत्युक्ष्य शिरोऽयुक्षेदिति ॥ १० ॥ पादी युगपदभिमुखं प्रोक्षेदद्भिः । पृथक्मूत्रकरणं पूर्वोत्तरसूत्राभ्यां लक्षण्यं गमयितुम् । वैलक्षण्यं च पादाद्यवयवविशेषानपेक्षत्वम् ॥१० इन्द्रियाण्यद्भिः संस्पृशेदिति ॥ ११ ॥ अङ्गुष्ठानामिकाभ्यां चक्षुषी अङ्गुष्ठप्रदेशिनीभ्यां नासिके अङ्गुष्ठक- निष्ठिकाभ्यां श्रोत्रे । अप इत्यधिकारासिद्धरद्भिरिति प्रत्यङ्गमवग्रहणा- र्थम् । इन्द्रियाणीति सामान्योक्तावपि पादयोः प्राक्पृथग्ग्रहणात्पावा.
१ प्रथमः खण्डः ] ब्राह्मायणगृह्यसूत्रवृत्तिः। ५ दीनामग्रहणमयोग्यत्वात् । मनसश्चाशक्यत्वात् । स्वचः सर्वगतत्वाव- (द)सिद्धे जिह्वायां चापाने पारिशेष्यात्रयाणामेव ॥ ११ ॥ अन्ततः प्रत्युपस्पृश्य शुचिर्भवतीति ॥ १२ ॥ प्रत्युपस्पृश्येत्युक्ते पूर्योक्तानां प्रत्येकं स्यादित्यन्तत इत्युक्तम् । उपस्पृ. श्येति सिद्धे प्रतीतिपूर्वमप्युपस्पर्शनमस्तीति सूचयितुम् । पूर्वमप्युपस्पर्शित- मपेक्ष्य प्रत्युपस्पर्शनं मवति। तच्च स्मृत्यन्तराद्गम्यते-आ मणिबन्धना. पाणी प्रक्षाल्येति। तत्परामर्शे च तत्सहचरितानां प्राङ्मुख उदङ्मुखो वा शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीती वाग्यतो हृदयस्पृर्शोऽनुष्णामिरफेनामिरद्भिस्तीर्थन पादौ प्रक्षाल्येत्येवमादीना- मपि परामर्शः सिद्धो मवतीति तैः समुच्चयः । पादप्रभृतिक्रियाविशे- षणान्निरपेक्षश्रवणान्मुखमार्जनादीनां न निवृत्तिः । शुचिरिति न केवलं कर्माङ्गमाव एव, आचमनार्हाय प्रायश्चित्ते सति शुद्धयर्थमपि मवती. त्येवमर्थो भवतीति यज्ञोपवीती भवतीतिवत् ॥ १२ ॥ आसनस्थानसंवेशनान्युदगग्रेषु दर्भेष्विति ॥ १३ ॥ कुर्यादिति शेषः । विध्युपदिष्टानि नार्थप्राप्तान्यासनादीनि वचनस्या- न्यथा वैयर्थ्यात् ॥१३॥ प्राङ्मुखस्य प्रतीयादिति ॥ १४ ॥ प्राङ्मुख इत्युक्ते कुर्यादित्यध्याहारकर्तुरेव प्राङ्मुखत्वं स्यादिति सर्व- स्यैव कर्मसंबन्धिनः प्राङ्मुखत्वं विधातुं संबन्धमात्रवाचिनी षष्ठीमाह । यथा चौले मातुः । वाक्यविशेषासिद्धे प्रतीयादिति मधुपर्के दातुश्चौले नापितस्य प्रत्यङ्मुखनियमार्थम् । प्राङ्मुखस्य प्रत्यङ्मुखक्रियार्थेऽभि- मुखमीयाद्गच्छेदितर इत्यर्थः ॥ १४ ॥ पश्चादग्नेर्यत्र होमः स्यादिति ॥ १५॥ यस्मिन्प्रदेशे होमो विद्यते तत्र प्रधानमङ्गानि च पश्चादनेरुपविश्य कुर्यात् । स्यादिति व्याप्त्यर्थं भवतिवत् ॥ १ ॥ सहशिरसं स्नानशब्द इति ॥ १६ ॥ प्रतीयादिति शेषः। 'साता महतेनाऽऽच्छाद्य' 'माप्य कुमारम्' इत्यादी मान इत्येव सिद्धे शब्द इति गृह्यात्मानमभिषिश्चेदित्यत्र शिरस्यभिषे.
१ प्रथमपटले- -- रुद्रस्कन्दप्रणीता- कार्थम् । इतरथा सेकमात्रमिदं मानमिति न शिरसि स्यात् । खाते मानं तुल्यवाचिनि च शब्द इति सूत्रार्थः ॥ १६ ॥ दक्षिणेन पाणिना कृत्यमनादेशे ॥ १७ ॥ कुर्यादित्यधिकारासिद्धे कृत्यमिति गृह्योक्तादन्यदपि यत्कृत्यं तदपि दक्षिणेनैव हस्तेन कुर्यादित्येवमर्थम् । आदेशबलीयस्त्वात्सिद्धेऽनादेश इति यदर्थस्वमावादेशाविनिवृत्त्यर्थं यथा परिदध्यादित्यादौ द्वयोः पाण्योः ॥ १७॥ मन्त्रान्तमव्यक्तं परस्याऽऽदिग्रहणेन विद्यात् ॥ १८॥ मन्त्रान्तमव्यक्तं च विनियोगतः परिमाणतश्च परस्येत्याकाङ्क्षाव. शाद्वावर्थावुत्तरस्य मन्त्रस्येत्येकः प्रधानस्य मन्त्रबोधस्यार्थस्येति द्वितीयः। आदिश्च ग्रहणं चाऽऽदिग्रहणम् । यथासंख्येनान्वयः। एष सूत्रार्थः। मन्त्रा- न्तमुत्तरस्याऽऽदिना विद्यात् । अव्यक्तं विनियोगतः परिमाणतश्चार्थवशेन विनियुक्तं परिमाणयुक्तं च विद्यादिति अविनियुक्तो हि मन्त्रोऽध्ययन- संस्कृतः कार्यविशेषसंबन्धाकाङ्क्षः कर्मविशेषार्थानां मन्त्राणां संनि- धावानायमानस्तद्धर्मविशेषमा प्रतिपद्यते संनिधिविशेषादपर्यवसा- नाच तस्मिन्नपि कर्मणि यत्पदार्थप्रकाशनसमर्थो यः स तस्यैव शेषः सामाविशेषात् । यस्त्वतत्प्रकाशकः स तत्क्रमेणैव जपतयाऽऽशीर्वाद- तया चोपयुज्यते । आकाङ्क्षादिवशाचेयत्तामात्रपरिच्छेदो मन्त्रस्य ननु परस्य ग्रहणेनेत्यनेनैव परिमाणस्याप्युक्तत्वादन्तमादिनत्यनेन किमुच्यते द्वयोर्मन्त्रयोर्मध्यगतस्य यस्य पदस्याऽऽभिधानिकोऽन्वयो न केनचि- दपि गम्यते तस्यावश्यमेकेनान्वयः कल्प्यः अन्यथा तस्याऽऽनर्थक्यात् । यस्य * द्वाभ्यामपि केनापि प्रकारेणान्वयो दृश्यते तस्याप्येकेनैवान्वय आकाक्षापूर्तरेकत्वाचावगम्यते । एतदुक्तं भवति उत्तरमन्त्रादेः प्राक्- पूर्वत एव मन्त्रो नान्वयी किंचित्पमित्येकोऽर्थः। उत्तरमन्त्रादेः प्रागेव पूर्वमन्त्रो नोत्तरादिसहित इति द्वितीयः । मध्यमं पदं किं पूर्वेणाभि- संबध्यत उतोत्तरेणेति संदेहे कल्पनालाघवाद्विशेष्याध्यवसायः । अस्या- र्थस्य न्यायसिद्धे न दोषो नैयायिकत्वात् । सूत्रस्य वाक्यशेषासिद्धे न स्वरुच्या कल्पयेत् । न्यायसिद्धमेव जानीयादित्येवमर्थः ॥१८॥ * वाचति पाठान्तरम् ।
१ प्रथमः खण्डः] दाहायणगृह्यसूत्रवृत्तिः।
स्वाहान्ता मन्त्रा होमेषु ॥ १९ ॥
ये पाठे न स्वाहान्तास्तेऽपि स्वाहान्ताः कार्याः स्वाहा सोमाय
पितृमते स्वाहाऽग्नये कव्यवाहनायेत्यत्र न स्वाहान्तताऽऽयेनैव कृतार्थ-
त्वात् । पुरस्तात्स्वाहाकृतयोऽन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये देवा
इति श्रुतेः । अधिकारासिद्धे मत्रान्त इत्यतिव्याप्त्यर्थः ॥ १९ ॥
पाकयज्ञ इत्यारव्या यः कश्चैकामौ ॥२०॥
संज्ञा व्यवहारार्था । एकाग्निर्गृह्योऽग्निः। एकामिग्रहणमन्याग्निसाध्याना
संज्ञानिवृत्त्यर्थम् । यः कति सप्त पाकयज्ञसंस्था इति दर्शनात्तद्यतिरे.
कार्थ शास्त्रान्तरोक्त संग्रहणाथं च ॥ २० ॥
तत्रविम्ब्रह्मा सायंप्रात:मवर्जम् ॥ २१ ॥
तत्र तस्मिन्नेव पाकयज्ञे नान्यत्र । अतो मथिते लौकिके वान ब्रह्म-
विगित्यायोऽनूचान इत्यात्विग्गुणनियमार्थम् ॥ २० ॥
स्वयं हौत्रम् ॥ २१ ॥
सायं प्रातोमवर्जमित्यनुवर्तते । इतरथा सूत्रानर्थक्यात् । तथाऽपि
सर्वहोमेषु स्वामिनो होमकर्तृत्वं न सिद्ध्यविधेयं नित्यप्राप्तत्वात् । सायं-
मातोंमे स्वामिनोऽन्यस्याकर्तृत्वाभ्यनुज्ञानार्थ सूत्रम् । तदधिकारार्थमेव
हि ब्रह्मासनमनुक्त्वेदमुक्तम् ॥ २१ ॥
दक्षिणोतेऽनेरुदङ्मुखस्तूष्णीमास्ते ब्रह्माहोमात्मागग्रेषु ॥ २२ ॥
अग्नेर्दक्षिणतो न होतुः । तूष्णीं वाग्यतः । आहोमात्प्रयोगसमाप्तेः।
प्रागग्रेषु स्पष्टम् ॥ २२ ॥
कामं त्वपि यज्ञियं व्याहरेत् ॥ २३ ॥
यज्ञोपकार्य तदितो ब्रह्मा ब्रूयात् । अत एव कर्मविदेव ब्रह्मा । कामं
विति लौकिकस्यापि कर्मोपकारिणो व्याहरणार्थम् ॥ २३ ॥
अयज्ञियां वा व्याहृत्य महाव्याहृतीपेत् ॥ २४ ॥
पाशब्दाद्यज्ञियामप्यन्यथासिद्धां जपेन्मनसा व्याहृतय एष महाव्या.
हृतयः ॥ २४ ॥
रुद्रस्कन्दप्रणीता-
[१ प्रथमपटले-
इदं विष्णुरिति वा ऋचम् ॥ २५ ॥
हौत्रब्रह्मत्वे स्वयं कुर्वन्ब्रह्मासनमुपविश्य च्छत्रमुत्तरा-
सङ्गं कमण्डलुं वा तत्र कृत्वाऽथान्यत्कुर्यात् ॥ २६ ॥
आपत्कल्पोऽयम् । उतरासङ्गमुत्तरीयं वासः । अथान्यदिति । ब्रह्मो-
पवेशनात्पूर्वनिवृत्तं यत्कर्म तदनन्तरविहितं यत्कर्मावशिष्टं तदित्यर्थः ।
अत एव न कर्मादौ ब्रह्मोपवेशनम् । क तर्हि । इदं भूमेरित्यस्या
नन्तरमेव वक्ष्यामः ॥ २६ ॥
अव्यावृत्तिं यज्ञाङ्गैरव्यवायं चेच्छेत् ॥ २७ ॥
होमाङ्गैः सहानेः पराङ्मुखो न भवेत् । अन्तरा च न गच्छेदित्यर्थः ।
कुर्यादित्यध्याहारात् । सिद्ध इच्छेदिति यदिप्रमादाच्यावृत्तिं व्यवायं
वा कुर्यात्तदा पुनः प्रतिमुखं स्यात्प्रत्यागच्छेदित्येवमर्थम् । पाकयज्ञसा-
धारणमिदं सूत्रम् । एवमुत्तरपरिभाषा ॥२७॥
इति श्रीरुद्रस्कन्दविरचितायां गृह्यवृत्तौ प्रथमपटले
प्रथमः खण्डः ॥१॥
अथ द्वितीयः खण्डः ॥२॥
पूर्वे भागे वेश्मनो गोमयेनोपलिप्य
तस्य मध्यदेशे लक्षणं कुर्यात् ॥ १ ॥
गृहस्यामिमुखे गृहस्यैकदेशे मागे पूर्वोपलिप्तेऽपि स्वयं गोशकृतो-
पलिप्योपलिप्तस्य मध्यदेशे लक्षणं कुर्यात् । लक्षणस्य स्वरूपमन्यतोऽव.
गन्तव्यम् । पांमुभिः स्थण्डिलं कुर्यादित्यर्थः ॥ १॥
दक्षिणतःपाची रेखामुल्लिख्य ॥ २ ॥
स्थण्डिलस्य दक्षिणापरात् । कोणादारभ्य प्रागपवां रेखां
लिखेत् ॥२॥
तदारम्भादुदीची तदवसानात्याची तिस्रो मध्ये प्राचीः॥ ३ ॥
पश्चिमरेखारम्मा उत्तरोत्तराः । कुतः। अपिश्यं सर्व प्रागपवर्गमुदग-
पवर्ग वा स्मरन्ति यतः। एवं सर्वत्रानादेशे ॥३॥
२ द्वितीयः खण्ड: ] दाह्यायणगृह्यसूत्रवृत्तिः। तदायुक्ष्य ॥४॥ उल्लिखितं स्थण्डिलमद्भिरभुक्ष्य ॥ ४ ॥ अनिमपसमाधाय ॥ ५॥ स्थण्डिलस्य मध्येऽग्निसंमुखमभिमुखं निधाय । उपेति । उपयोगी यत्र यत्र शास्त्रेण होमार्थोऽप्यग्निविधीयते तत्र तत्रोपलेपनायेवं निधा- नान्तं कुर्यादित्येवमर्थम् । यथा सर्पबलौ तथा सर्वतद्धोमेषु कुर्यादिति वचनादाहोमार्थे न स्यात् ॥ ५॥ इमं स्तोममिति परिसमूह्य तृचेन ॥ ६ ॥ निधीयमानस्याग्नेः प्रकीर्णाशकलान्समन्तत एकीमावं प्रापयित्वा प्रत्यूचं परिसमूहनं प्रागुपक्रममुद्गपवर्ग कुर्यान्निराकाङ्क्षत्वाचाम् । अस्य विनियोगमात्रपरत्वान्नार्थक्य कल्पनायां प्रभुत्वम् ॥ ६ ॥ पश्चादग्नेर्भूमौ न्यञ्चौ पाणी कृत्वेदं भूमेरिति ॥ ७ !! अग्नेरनन्तरमेव पश्चात्तृणादिभिः सहितौ भूमिगतावाङ्मुखी हस्ती कृत्वेदं भूमेरिति जपेत् 'अन्येषां विन्दते धनम् 'अन्येषां विन्दते वसु ' इत्यन्ततः । अनयोस्तुल्यार्थत्वाद्विकृल्पेन मन्त्रान्तत्वम् ॥ ७॥ तयोनियममाह- वस्वन्तं रात्रौ ॥ ८ ॥ रात्रिकाले विहितं यद्रात्री क्रियते तत्र वस्वन्तमेवानन्तरं ब्रह्मोप. वेशनम् । कुतः।अग्निनिधानात्पूर्व तावन्नोपवेशनं दक्षिणतोऽग्नेरिति वच- नात् । परतोऽप्युपसमाधाय परिसमूह्य न्यश्चौ पाणी कृत्वेदं भूमेरिति जपेदित्युक्त्वा प्रत्ययेन समानकर्तृकस्योक्तत्वात् । अवान्तरप्रयोगैक्यत्वा- वगते बोधादुपवेशनम् । इदानीं तु विरोधाभावाद्वक्ष्यमाणस्य ब्रह्मत्वा- पेक्षत्वादुपवेशनम् ।पूर्वोक्तानां सूत्रैक्ये सत्यपि सुखबोधार्थं सूत्रावच्छेदः कृतः ॥८॥ पश्चाद्दर्भानास्तीर्य दक्षिणतः प्राची प्रकर्षेदुत्तरतश्च ॥९॥ अग्नेः पश्चात्मागमान्दान्निरन्तराना स्थाण्डिल मुदगपवर्गाप्रकीर्य - १० रुद्रस्कन्दप्रणीता- [ १ प्रथमपटले दक्षिणतः प्रकीर्णानग्रेषु गृहीत्वा प्राची प्रकर्षचथोत्तरतश्च प्रकर्षेद्यथाः पुरस्तादग्राणि संगतानि स्युः ॥९॥ अपकृष्य वा ॥ १० ॥ । पश्चात्स्तरणमात्रमेवेत्येव कल्पः ॥ १०॥ पूर्वोपक्रमं प्रदक्षिणमग्निं स्तृणुयान्मूलान्य- ग्रैश्छादयनिवृतं पञ्चवृत्तं वा ॥ ११ ॥ अग्नेः पुरस्तात्पूर्व ततो दक्षिणतस्तत उत्तरतस्ततः पश्चान्न तूत्तरतः समापनीयं प्रदक्षिणमिति वचनान्मूलान्यग्रेश्छादयन्निति वचनात् । उदगपर्गे हि मूलेरग्राणि छादितानि न स्युः। नन्वग्राण्युत्क्षिय्य किमिति न स्तरणम् । छादयंस्तृणुयादिति स्तर्यमाणावस्थायामेव स्तर्यमाणश्छा- वनोपदेशात् । किं तहि मूलान्यप्रैश्छादयन्नित्यनेनैव सिद्धत्वात्पूर्वोप- क्रमं प्रदक्षिणमित्यनर्थकम् । न । अन्यदपि यत्पतिदिशं तत्पूर्वोपक्रम प्रदक्षिणमिति ज्ञापनार्थं यथा प्रतिदिशमुपलिम्पेदिति । अत्रापि स्फुटीकरणार्थत्वादत्रैवोक्तम् । अत्र तु प्रथमं दक्षिणतस्तत उत्तरत हत्यपि प्रदक्षिणाशम्दस्यार्थोऽवगन्तुं शक्यते । इदं स्तरणं त्रिः कृत्वा पञ्च कृत्यो वा । पूर्वसूत्राभ्यां विहिते सकृत्सकृदेव पितृयज्ञेष्वाधं स्तर- णमन्वष्टक्ये द्वितीयमितरत्र तृतीयमित्युपदेशः ॥ ११ ॥ उपविश्य दर्भाग्रे प्रादेशमात्र प्रच्छिनत्ति न नखेन पवित्रस्थो वैष्णव्यावितीति ॥१२॥ उपविश्येति । इतः प्रभृति दर्भासनार्थे प्रच्छिनत्ति न पाणिनौषधि- मन्तर्धायेति गृह्यान्तरे ॥ १२॥ अद्भिन्मृज्ज्य विष्णोर्मनसा पूते स्थ इतीति ॥ १३ ॥ उत् , ऊर्ध्वमुदगग्रे । अङ्गुष्ठाभ्यामनामिकाभ्यां च संगृह्य 'विराज्य- मुत्पुनातु देवस्त्वा सवितोत्पुनात्वच्छिदेण पवित्रेण वसोः सूर्यस्य रश्मिभिः' इति मन्त्रस्यापि त्रिरावृत्तिः । प्रदेशान्तरे द्विस्तूष्णीमिति पत्लान्तरादुत्पनाति । प्राचीमूवं क्षिपत्यच्छिद्रेण पवित्रेणेति संश्लिष्टयोः समुदायमाह ।। १३॥ ॥
२ द्वितीयः खण्डः ] ब्राह्मायणगृह्यसूत्रवृत्तिः। आयुक्ष्यामावनु प्रहरेत् ॥ १४ ॥ अद्भिरभ्युक्ष्य पवित्रे उदगग्रे अमो प्रक्षिपेत् । अन्विति । उत्पवने. अनुगते उदगग्रे इत्यर्थः ॥ १४ ॥ आज्यमधिश्रित्योत्तरतः कुर्यात् ॥ १५॥ अनेरुत्तरे मागे स्थाल्या सहाऽऽज्यमुपनिधाय कुर्यात् । किं कुर्यात् । शामान्तराद्गम्यते द्विरुल्मुकेनामिज्वाल्य द्वे दर्माग्रे प्रक्षिप्य त्रिरुल्म. केन प्रदक्षिणं परिहत्योत्तरतो बर्हिषि निद्धयादित्यर्थः ॥ १५॥ रक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽनुम- न्यस्वेत्युदकालिं प्रसिञ्चेत् ॥ १६ ॥ सदक्षिणेन जानुना भूमिगतो बह्माग्न्योरन्तर उदकपूर्णमञ्जलिमव. सिओत ।। १६ ॥ अनुमतेऽनुमन्यस्वेति पश्चात्सरस्व- तेऽनुमन्यस्वेत्युत्तरतः ॥ १७ ॥ होमानानामप्युत्तरतो लेखाववालिसेको दृष्टानुगुण्यात् ॥ १७ ॥ हटे कल्पना यतः- देवसवितः प्रसुवेति प्रदक्षिणमप्रिं पर्युक्षेदभिपरिहरन्हव्यम् ॥ १८ ॥ प्रसिश्चेरिति प्रकृते पर्युक्षेदित्येतावदेव पर्युक्षणसंज्ञार्थम् । पर्युक्षण- बर्जमित्यत्र होमाङ्ग सर्वमन्तर्भावयन्प्रागुपक्रममुदकाञ्जलिं पर्युक्षेत् ॥१८॥ सकत्रिर्वा ॥ १९॥ सकृन्मन्त्रमुक्त्वा बिर्वा पर्युक्षेत् ॥ १९ ॥ समिध आधाय ॥ २० ॥ औदुम्बरीः खादिगः पालाशीर्वा तदमावे याज्ञिकाः पञ्चदश समि- धोऽनावाधाय । एकामुत्तरतो बर्हिषि निदध्यादित्यध्याहारः शास्त्रा- न्तरात् । अनन्तरमनेरचनमाचरेत् ॥ २० ॥ - १२ रुद्रस्कन्दप्रणीता- [१ प्रथमपटले प्रपदं जपित्वोपताम्य कल्याणं ध्याय. न्यरूपाक्षमारण्योच्छ्सेत् ॥ २१ ॥ तपश्चेत्यारभ्य ब्रह्मणः पुत्राय नम इत्येवमन्तमन्त्रस्य प्रपदशब्दो वाचकः । जपित्वेति । जपन्नित्यर्थः । विरूपाक्षोऽसीत्यस्य प्रपदमध्यपाति- त्वात्पौर्वापर्यानुपपत्तेः । कल्याणशब्दोऽपवर्गवाचकः । निरुच्छासो भूत्वा प्रपदं जपन्भूर्भुवस्वरोमित्योंकारे परमात्मज्ञानं मे भूयादिति ध्यायन्नित्यर्थः । यथासामर्थ्यमोंकारं भावयित्वा विरूपाक्षोऽसि दन्ता. जिरित्युच्छ सेदित्यर्थः ।। २१ ॥ नित्येष्विव काम्येष्वाह प्रतिकामं काम्येषु ॥ २२॥ काम्यग्रहणमुपलक्षणम् । प्रज्ञानसाध्यविशेषवतां कर्मणां तेषु विशे- षमेव परामुश्येदमेव मे भूयादिति ध्यायन्नित्यर्थः ॥ २२ ॥ सर्वतद्धोमेषु कुर्यात् ॥ २३ ॥ सर्वत्रेति व्याप्त्यर्थम् । एतदुपलेपनादिप्रपदान्तं सर्व पदजातं सर्वत्र होमात्मके कर्मणि तत्तद्विशेषेभ्यः प्रागेव कुर्याद्यानि तु धृतेऽनौ तस्मिन्नेव देशे क्रियन्ते तेष्वर्थलोपादग्न्युपसमाधानान्तस्य निवृत्तिः ॥ २३ ॥ इति श्रीरुद्रस्कन्दविरचितायां गृह्यवृत्ती प्रथमपटले द्वितीयः खण्डः ॥२॥ अथ तृतीयः खण्डः॥२॥ ब्रह्मचारी वेदमधीत्योपन्याहृत्य गुर- वेऽनुज्ञातो दारान्कुर्वीत ॥ १ ॥ ब्रह्म वेदः । वेदाध्ययनार्थानि गोदानादीनि व्रतान्यनीन्धनादीनि च स्मृतिकारैरुक्तानि लक्षणया ब्रह्मेत्युच्यन्ते तान्यनुतिष्ठग्नेकां शाखामधी त्याध्ययनप्रयोगमर्थनिश्चयपर्यन्तं पडङ्गं परिसमाप्योप गुरुसमाएं निष्पाद्य स्वयं गुर्वभिलषितद्रव्यमर्जयित्वा तद्गुरुं तदर्थं वोपन्याहृत्य समीपमा
३ तृतीयः खण्डः ] दाहायणगृह्यसूत्रवृत्तिः।
१३
हृत्य गुरव आचार्याय दत्त्वा तेनैव गुरुणा त्वं स्नानं विवाहं च कुर्वित्यनु.
ज्ञातः स दारान्मायाँ कुर्वीत । यथा गुरवेऽनुज्ञात आत्मानं प्रति भार्या
भवति तथा कुमारी संस्कुर्यादित्यर्थः । दारानिति बहुत्वपुंस्त्वे अविष-
क्षिते आविष्टलिङ्गत्वात् । एवं वृत्त्यर्थेऽध्यापनेऽदृष्टार्थे तु गुरुदक्षिणा-
मदत्त्वाऽप्यनुज्ञामाबादेव विवाहः । सहस्रं श्वेतं चाश्वं प्रदायानुज्ञातो
घेतिश्रुतेः। तदर्थ चोपन्याहृत्य गुरवेऽनुज्ञातो वेति वाशब्दं केचिद्ध्यान
हरन्ति । दक्षिणां दत्त्वा नोदकपूर्वमिदानी पत्रिंशदाब्दिकं तदर्धक
पादादिकं वा ब्रह्मचारिवतम् । ब्रह्म तच्चरित्या वेदं सकलमनधीत्यापि
विवाहः। अथ वा व्रतमचरित्वाऽपि वेदं सकलमधीत्यापि विवाह इति ।
अस्मिन्टयाख्याने नार्थावबोधपर्यन्तमध्ययनं चेति केचिदाहुः । अपरा
व्याख्या वा शब्दाध्याहारेण ब्रह्मचारी वेदमधीत्य वेतिद्वादशवार्षिक-
मध्ययनं केचिदाहुः । 'पत्रिंशदाब्दिकं चयं गुरौ त्रैविधिकं व्रतम् ।
तदर्धकं पादिकं वा ग्रहणान्तिकम[वे]वेति । अस्मिन्ना(न्मा)नवे
श्लोके वेदत्रयार्थत्वेन पत्रिंशदादेरुक्तत्वावेदानधीत्य वेदी वा वेद
घाऽपीति चानेनैवोक्तत्वाविह्रासवशात्कालह्रासोऽप्युक्त एवेति वर्षादि.
चरणमप्यनुज्ञातमेवेति तद्युक्तमयुक्तं वेति विचारणीयम् । ब्रह्मचारीत्य.
स्यापरा व्याख्या वेदवतानि चत्वारि गोदानं वातिकमादित्यव्रतं महा-
नानिकमित्येतानि गोदानं वातिकमादित्यव्रतं महानान्निकमोपनिषद-
मिति वा ब्रह्म तच्चरित्वा विवाह इति । अस्यार्थस्य न्यायमूलत्वं केचि.
दाहुः । ब्रह्मचारिब्रतानि पुरुषसंस्कारार्थानि नाध्ययनाङ्गानि पुरुषोद्दे-
शेन विधानात् । अतस्तद्विधिपर्यवसान्निबन्धनोऽयं व्रतस्नानोपदेशः ।
अध्ययनविधिरपि न विचारपर्यन्तः । रागत एव तत्सिद्धेः । अतस्तन्नि.
बन्धनो वेदनानोपदेश इति । तदिदं मीमांसकैर्नेष्यते । वाक्यशेषात् ।
सिद्धे कुर्वीतेति नान्दीमुखादेरुपसंग्रहणार्थम् ॥ १ ॥
आप्लवनं च ॥२॥
उपन्याहृत्य गुरषेऽनुज्ञातः कुर्वीतेत्यस्यानु[प]कर्षणार्थश्चकारः ।
आप्लवनं स्नानं समावर्तनम् । दाराप्लवन इति वक्तव्ये पृथग्ग्रहणं
पृथक्प्रयोगार्थम् । अत एव कालोऽपि भिद्यते व्युत्क्रमस्तु दाराधिगन्तु-
रेव प्लावनं न नैष्ठिकस्येत्येवमर्थम् । इतरथाऽध्ययनपरिसमाप्तिनिमित्त-
माप्लवनमित्युपसंकेतः ॥ २॥
तयोराप्लवनं पूर्वम् ॥ ३॥
१४ रुद्रस्कन्दप्रणीता- [१ प्रथमपटले- । जायापत्योविवाहात्पूर्वमाप्लवनं कर्तध्यम् । तत्पुरुषस्य मन्त्रक्रमानु- सारेण पुरस्ताद्वक्ष्यते ॥ ३॥ आप्लवने पुरस्तादित्यारम्याऽऽह- मन्त्राभिवादात्तु पाणिग्रहणस्प पूर्व व्याख्यानम् ॥ ४ ॥ वध्वाः पाणिर्गृह्यतेऽस्मिन्निति पाणिग्रहणं विवाहः । वियाहस्य काले वध्वा आप्लवनं मन्त्रलिङ्गानुसारेण कर्तव्यमिति सूत्रार्थः । तुशब्दे विशेषणार्थः । यद्यप्याप्लवनं प्रसिद्धं तथाऽपि वध्वा उपस्था- प्लवनमात्र आप्लवनशब्दः । मन्त्राभिवादादिति पूर्वमिति । यत्पूर्व- माप्लवनं पूर्वमन्त्रद्योतितमुरासाधकं तदेवोत्तरमन्त्राभ्यामपि कर्तव्यमि- त्येवमर्थम् । अत एव मध्वाज्यशब्दाभ्यामपि सुरैव लक्षणयोच्यते । मुरेति चात्र पिष्टसंयुक्तमुदकं लक्षणया पैष्टिकसुरासादृश्यादुच्यते मुख्य- मुराया अस्पृश्यत्वादनाचाराच्च । वीति विवक्तवाचि विविक्तकर्तृकत्वम् । पाणिग्राहज्ञातिकर्तृकमिदमाप्लवनमित्यर्थः । अमुमिति मन्त्रे च पत्युः परोक्षवनिर्देशादप्ययमों विज्ञायते । अध्याहारासिद्ध आख्यातमि- यपि वृद्धैरन्यदारव्यातं तदप्यत्र कर्तव्यमिति किं तन्नान्दीमुखम् । कौतुकबन्धनं संकल्प इत्येवमादि एवं प्रयोगः-विवाहदिवसात्पूर्वद्यु- र्नान्दीमुखश्राद्धं कुर्यात् । युग्मान्ब्राह्मणान्दर्भेषूपवेश्य नान्दीमुखेभ्यः पितृभ्यः स्वाहा नान्दीमुखेभ्यः पितामहेभ्यः स्वाहा नान्दीमुखेभ्यः प्रपितामहेभ्यः स्वाहेति लौकिकानौ भोजनार्थं पक्केन हविष्येणान्नेन चरुतन्त्रेण परिचरणतन्त्रेण वा हुत्वा गन्धपुष्पधूपदीपवासोभिर्यथा- लामं यथाविभवमर्चयित्वा मोजयित्वोच्छिष्टसमीप उदगग्रेषु दर्भेषु दधि- बदराक्षतमिश्रान्पिण्डान्दद्याद्धोममन्त्रैरुदगपवर्गान्स्वाहास्थाने तृप्तिर- स्त्विति विकार एतन्नान्दीमुखश्राद्धम् । अत्र श्लोकः- पुंसि नामान्नचौलोपनानपाणिग्रहेषु च । अन्वाधाने तथा सोमे दशस्वभ्युदयं स्मृतम् । इति ॥ केचिन्नान्दीमुखश्राद्धमागामिनः श्राद्धस्य प्रत्याम्नायमाहुः । स्वधा- स्त्विति पिण्डदाने मन्त्रान्तमाहुः । ततः पत्युर्ज्ञातयो वध्वाः स्वामिन- मागत्य वरणं कुर्युः । मारद्वाजगोत्रायोमामहेश्वरशर्मणे काश्यपगौत्रजां मवानीनाम्नी धर्मप्रजार्थं वृणीमह इतिवद्यथागोत्रं यथानाम वरणं कुर्युः । दास्यामीति प्रतिवचनम् । तत आप्लवनम् । कामवेदत(?) इत्यादिमि- मन्त्रैः स्वाहाकारान्तः पिष्टसंयुक्तेनोदकेन पत्युज्ञातयः शिथिलीकृतव. बाया वध्वा उपस्थमालावयन्ति । प्रतिमन्नममुमित्यत्र पतिनाम यु- ३ तृतीयः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः। १५ विष्णुशर्माणमिति धत् । ततः पुण्याहवाचनम् । सर्वकर्मसु पुण्याह. वाचनं कर्तव्यमित्याचार्या आहुः । नान्दीमुखपुण्याहवाचनेऽनित्ये आचार्येण वचनात्करणे अभ्युदये विशेषः । ततो वध्वाः स्वामी वधू- मङमारोप्य मारद्वाजगोत्रायोमामहेश्वरशर्मणे काश्यपगोत्रजां मवानी- नाम्नी तुभ्यमिमा प्रजासहत्वकर्मभ्यः प्रतिपादयामीति यथागोत्रं यथानामोक्त्वा पाणिग्राहस्य पाणावुदकं सिश्चेत् । ततो ब्रह्मोपवे. शनान्तम् ॥४॥ तत आह- ब्राह्मणः सोदकुम्भः प्रावृतो वाग्यतोऽने- णाग्निं गत्वोदङ्मुखस्तिष्ठेत् ॥ ५ ॥ उत्तरवाससा सकर्ण प्रावृतशिरा उदकपूर्णकुम्मं शिरसा धारय मुदकम- देशात्पूर्वेणानिं गत्वा ब्राह्मणः पुरस्तादुद्गग्रेषु दर्भेषूदङ्मुखस्तिठेवामू- य॑वसेकाद्वाग्यतः ॥५॥ खातां सह तेनाऽऽच्छाय या अन्तन्नित्यानीयमा- नायां प्राणिग्राहो जपेत्सोमोऽदददिति ॥ ६॥ पाणिग्राहो वधूदेशं गत्वा पूर्वमेव सह शिरसं नातां षy नववस्त्र द्वयेन या अकृन्तन्परिधत्तेत्याभ्यां स्वयमेवाऽऽच्छाद्य ततो मजल्यसूत्रं वध्वाः पुनरनिदेशं गत्वा प्रदात्रा तद्देशं वध्वां प्राप्य प्राणायां तां वीक्ष्य पतिः सोमोऽदददिति जपेत् । या अकृन्तन्नित्यधरवस्त्रदानम् । ततः परिधत्तेत्युत्तरीयदानम् । प्रमे पतिर्यान इति वधूर्जपेत् । प्रास्याः पति- यान इति पतिर्जपेत् । मन्त्रलिङ्गात् ॥ ६ ॥ पाणिग्राहस्य दक्षिणत उपवेशयेत् ॥ ७ ॥ संनिधानासिद्धे पाणिग्राहस्येति पत्युरेवाऽऽसन उपवेशनार्थ दर्भेष. पवेशयेद्वधूमानीताम् । ततः परिस्तरणादि प्रपदान्तं कृत्वाऽऽज्यसंस्का- रानन्तरमाज्यं सुवमिध्मं शमीपलाशमिश्रं सलाजं च शूर्पमनेरुत्तरतो बर्हिषि निदध्यादृषत्पुत्रश्चाग्नेः । पश्चादृषत्पुत्रोदकुम्मयोः परिषेचने प्रति...॥
१६
रुद्रस्कन्दप्रणीता-
[१ प्रथमपटले
-
अहव्यत्वात्मपदजपानन्तरमाह-
अन्वारब्धायां सुवेणोपघातं महाव्या-
हृतिभिराज्यं जुहुयात् ॥ ८
अनुः सादृश्ये । उपवेशनवद्दक्षिणेन पाणिना दक्षिणं बाहुं संनिधा-
नात्स्पृष्टवत्यां कन्यायां बर्हिपि निहितेन सुवेणोपहत्य संस्कृतमाज्य
भूः स्वाहा भुवः स्वाहा स्वः स्वाहेति प्रतिमन्त्रमनौ जुहुयात्पतिः ।
झुवस्य स्वरूपमध्वरे प्रसिद्धम् । ननूपघातमित्यवाच्यमर्थसिद्धत्वात् ।
आज्यमितिचावाच्यमाज्यं जुहुयाद्धविषोऽनादेश इति वचनात् । जहुया-
दिति चावाच्यं वाक्यशेषात्सिद्धेः । इदं तर्हि प्रयोजनं यत्रोपघातमिति
वक्ष्यति तत्राऽऽज्यं प्रधानद्रव्यं यत्र वा मन्त्रमनुक्त्वा होमं विधास्यति
तत्र तत्र व्याहृतिभिर्जुहुयादित्याज्यमेव च द्रव्यं परिभाषितत्वात् ॥ ८॥
समस्ताभिश्चतुर्थी ॥९॥
भूर्भुवः स्वः स्वाहेति मन्त्रः । अन्वारब्धायामिति वर्तते । अयं होमो
नोपघातादिसूचितेप्वस्ति । समस्ताभिश्चेति सिद्धे चतुर्थीति यक्षरनि-
देशाविष्वपि विवाहहोमेषु कथम् । चतुर्थी स्यादित्यधिकवचनात् ।
चतुर्थी स्यादिति वीप्सार्थों गम्यते नातिप्रसङ्गः । संनिधिविशेपाच
तद्वीप्सासिद्धिः ॥९॥
एवं चौलोपनयनगोदानेषु ॥ १० ॥
चतुर्थीमावातिदेशः । ननु गोदानग्रहणमनर्थकं गोदाने चौलवकल्प
इत्यनेनैव सिद्धत्वात् । न । तत्र केशक्लप्तिमात्रस्यातिदेशात् ॥ १० ॥
अग्निरेतु प्रथम इति षड्भिश्च पाणिग्रहण इति ॥ ११ ॥
चशब्दोऽन्वारम्भानुकर्षणार्थः ॥ ११ ॥
नाऽऽज्यभागौ न स्विष्टकदाज्याहुतिष्वनादेशे ॥ १२ ॥
उपघातादिशब्दसूचितास्वाज्याहुतीषु सतीष्वाज्यभागौ स्विष्टकृञ्च
न स्युः । नाऽऽज्यभागी स्विष्टकृदिति वक्तव्ये पृथग्ग्रहणं यत्र न
स्विष्टकृत्तवाऽऽज्यभागौ न स्त इत्येवमर्थम् । यथा वास्तुहोमे सौविष्टकृ.
तीमष्टम्येति पशावादेशात्तत्र प्रतिषेधामावार्थमनादेश इत्युक्तम् ॥१२॥
३ तृतीयः खण्डः ] ब्राह्मायणगृह्यसूत्रवृत्तिः। १७ सर्वत्रोपरिष्टान्महाव्याहृतिभिः ॥ १३ ॥ सर्वत्रेति व्याप्त्यर्थम् । प्रतिकर्म विशेषविहितं कृत्वा भूः स्वाहा मुषः स्वाहा स्वः स्वाहेत्याज्यं जुहुयात् । प्रपदान्तवत्स्वेव प्रयुक्ताज्यलामाना. त्रान्वारम्भः॥ १३ ॥ प्राजापत्यया च ॥ १४॥ प्रजापते न त्वदेतानीति प्राजापत्यया । चशब्दः सर्वत्रीपरिष्वादिस्य- स्यानुकर्षणार्थः ॥ १४ ॥ प्रायश्चित्तं जुहुयात् ॥ १५॥ प्राजापत्ययेति वर्तते । यत्रान्तरितविपर्यासादौ प्रायश्चित्तापेक्षा तत्र पाजापत्यया मुवेणाऽऽज्यं जुहुयात्संधानार्थमिति सूत्रार्थः। अन्तरितेऽ- न्तरितं कृत्वा प्रायश्चित्तसंनिपत्योपकारकाङ्गान्तराय उपकार्ये निवृत्तप- योजने प्रायश्चितमेव नान्तरितस्य पुनः करणम् । पदार्थविपर्यासे प्रायश्चित्तमेव न क्रमाथं पुनरावृत्तिः । आज्यसंस्कारात्पूर्व चेनिमित्तं स्यात्संस्कृताज्येन प्रायश्चित्तं कुर्यात् । उत्तरकाले चेन्निमित्तं परिज्ञाना- नन्तरमेव । वाक्यशेषासिद्धे जुहुयादित्यग्न्यनुगतादावप्येतदेव पाय- श्चित्तमित्येवमर्थम् । इतरथा प्रकृतत्वात्प्रपदान्तवत्स्वकर्मस्वेव स्यात् । पहिस्तन्त्रे वाज्यतन्त्रेण परिचरणतन्त्रेण वा प्रायश्चित्तहोमः । तन्त्र- मध्ये तु तत्तत्रमेवोपजीवति । मन्त्रलिङ्गादपि सर्वत्र प्रायश्चित्तार्थता गम्यत एव । अयं मन्त्रार्थ:-हे प्रजापते यान्येतानि निमित्तानि प्रजा- तानि प्राजापत्यानि तानि न त्वदेतानि त्वदन्यो न कश्चिदपि प्रतिसमा- धानेन परिता बभूव न पदार्थी कतुं समर्थः । अतो यत्समाधानकामा वयं तुभ्यं जुहुमः । तदस्माकमस्तु । तत्समाधानाञ्च रयीणां धनतुल्यानां पुरुषार्थानां स्वयं स्वामिनो भूयास्मेति । स्वद्रव्यत्यागलक्षणानां कर्मणां कालात्यये यत्कुसीदमिति होमः प्रायश्चित्तं मन्त्रलिङ्गात् । प्रपदान्तवत्कर्मलोप आज्यतम्त्रमितरत्र परिचरणतन्त्रम् । अयं मन्त्रार्थ:- यत्कुसीवमृणनुल्यमवश्यं प्रदेयमप्रदत्तं मयेह जन्मनि येन प्रदत्तेन निधिना निधितुल्येन यमस्य सदने यथेष्टं चरामि तत्पदेयमिदमेवाऽऽज्यं तत्कार्यकरणं हेऽने जीवन्नेवाहं ते तुभ्यं तत्पति तत्पदेयं प्रति तत्समाधा- नाय ददामीत्यर्थः । सर्वत्राङ्गभ्रेषप्रयोगसमाप्त्युत्तरकालं यदि स्मरेत्तत्र न पुनः करणं नापि प्रायश्चित्तम् । प्रधानसंबन्धायोगाविगुणमेव तदस्तु । ३ १८ रुद्रस्कन्दप्रणीता- [ १ प्रथनाटले. प्रधानभ्रेषे तु साङ्गस्य पुनरावृत्तिः । बहुप्रधानमः ८५ मधानस्य साङ्गस्याऽऽवृत्ति भ्रष्टस्य । एवमकरणेऽपि शाट्यायानप्रोक्तं प्रायश्चि- तम् । प्राजापत्यया यत्कुसीदमित्येतेन च सवत्र विकल्प्यते । पूर्ववत्त- न्वनियमः । अनुगतेऽनावग्न्यन्तरसंसर्गे रजस्वलाभिगमने दिवामेथुने कुमारस्य संस्काराकरणे मेखलाधारणे संध्यालोपे च शाट्यायनिप्रोक्तं प्रायश्चित्तं स्यात् । अनुगतादौ दोषलघुत्वगुरुत्वापेक्षया चात्र नियमः । यथाल्पकालविच्छेदे परिचरणतन्त्रं बहु कालविच्छेद आज्यतन्त्रमिति । भूः स्वाहा भुवः स्वाहा स्वः स्वाहा पाहि नो अग्न एनसे स्वाहा पाहि नो विश्ववेदसे स्वाहा यज्ञे पाहि विभावसो स्वाहा सर्व पाहि शत- कतो स्वाहा पाहि नोऽग्न एकहर्य पुरुनेर्जा(?) निवर्तस्व सहरय्या निवर्त- स्वेति तिसृभिः पुनश्च व्याहृतिभिराज्यं जुहुयादिति शाट्यायनिविधानम् पुनराधाननिमिते तु पुनराधानमेव कुर्यात् । अगदशाहं विच्छेद द्वादशाहमेवोपासनहोमविच्छेदोऽग्नेः स्वेच्छया त्यागो जायाभोंः प्रवासः श्वकाकचण्डालरजस्वलादिस्पर्शः समिन्नाश इत्येतानि पुनराधाननिमि. तानि । तस्य विधिः-दिवा हविष्यमन्नमकभुक्तं भुक्त्वा ब्रह्मचारिणतोऽ- परेयुरुपवासं कुर्वस्तपश्च तेजश्चेत्यादि ब्रह्मणः पुत्राय नम इत्येवमन्तं शतकृत्वोष्टकृत्वश्चाऽऽरण्ये जपित्वा देवकृतस्येतीतिचाऽऽदौ तस्येत्यन्तः प्राक्तथा जपत् । ततः श्वोभूतेषु नमामीत्येताभ्यां जलमवगाह्य बाह्मण. स्यानूचानस्यानिमतो गृहात्तदलाभे यथासंभवं श्रौतस्मार्तपरस्य गृहा. दग्निमाहृत्य प्रपदान्तं कृत्वा व्याहृतिभिर्तुत्वा भूः स्वाहेति विर्जुहुयात् । ततो भुवः स्वाहेति त्रिः । ततः स्वः स्वाहेति त्रिः । ततश्च प्रतिमन्त्रं द्वादशकृत्वः । ततश्च प्रतिमन्त्रं त्रि:कृत्वः । तत उत्थाय नमस्काराञ्जलिं कृत्वाऽग्निं दूतमग्निर्मूर्धा निस्तिग्मेनाग्ने रक्षा ण इति चतुर्कचं जपेत् । अथोपविश्यान आयाहि वीतयेऽग्निं वो वृधं तं नमस्तेऽग्न ओजस उप- त्वाऽने दिवे दिव इति चतसृभिराज्यं जुहुयात् । सोमं राजानं सौविष्टकृतं च तत उपरिष्टाद्धोमादिः । नात्र वध्वा अन्वारम्भोऽग्निसंस्कारत्वात् । सर्वेषां प्रपदान्तानामन्ते वामदेव्यगानं तदृग्जपश्च सायं प्रातोमान्ते यथासंख्य गोसूक्ताश्वमूक्तगानम् । अग्निधारणासमवेऽयं ते योनिरिति समित्समारोपणं या तेऽन इत्यात्मसमारोपणमुमयत्र लौकिकामावुशाय- रोह इत्यवरोहणम् । इदं सर्वं पुनराधानविधावुक्तम् । दिवा हविष्यभोजना. दिदेवकृतजपान्तं स्मृत्युक्ताभ्यां कृच्चान्द्रायणाभ्यां विकल्प्यते तत्रैवं
३ तीय: :: बाह्यायणगृह्यसूत्रवृत्तिः।
१९
विनिवेश:-अकामकृते निमित्ते संधानसमवे सत्यनुपेक्षायामिदमुपेक्षायां
सु कृच्छ्रः । कामकृते चान्द्रायणम् । अत्रापरं मतम्-कृच्छ्चान्द्रायणे
त्रेताग्निविषय एव गृह्याग्निनाशे पुनराधानं विध्युक्तमेवेति गृह्यानेदशा-
हविच्छेदे पुनराधानमित्युक्तम् । पुनराधानविधेरबेव गृधे संगृह्योपदेशः।
गृह्याग्न्यनुगते मासाद्ध्वं पुनराधानम् । ततः प्राग्द्वादशाहादूवं शाट्याय.
निप्रोक्तमाज्यतन्त्रेण पाहि त्रयोदश होमः । तत प्राक्स एव पारचरणत-
न्त्रेणेति। आज्यतन्त्राणां प्रकृतिविवाहः । परिचरणतन्त्राणामोपासन-
होमः। चरुतन्त्राणां दर्शपूर्णमासी । पशुतन्त्राणामष्टकापशुः । आज्यतन्त्रे
वरणस्याऽऽवृत्तिस्तस्य प्रधानार्थत्वात् । अर्थलोपदाह्म(ह)वनस्यापि
समानयाऽमुमिति मन्त्रलिङ्गात् । भतृसंबन्धार्थ मार्गक्लप्तिपरत्वादम-
वृत्तिः । लेखाचतुर्थीहोमयोरपि न पुनः क्रिया होमत्रयात्मकस्य मार्ग-
स्यैकत्वात् । दृषत्पुत्रस्य चाऽऽक्रमणार्थत्वादप्रवृत्तिः । शूर्पलाजानां च
लाजहोमार्थत्वान्न निधानम् । आज्यतन्त्रेष्वन्वारम्भस्तु संस्कारकर्मसु
संस्कारकार्येण कर्तव्य एव संस्कारार्थत्वात् । नान्येषु होमानां प्रवृत्तिरु.
परिष्टाद्धोमान्वर्जयित्वा प्रधानत्वात् । मवतु वा व्याहृतिहोमानामङ्गत्वं
सथाऽपि दर्शपूर्णमासयोरप्येतत्प्रकृतित्वात्सर्वेषु प्राप्तानामुपघातादिसू-
चनम् । एवं चौलोपयनगोदानेष्विति च नियमार्थ भविष्यति । प्रयो.
गमध्येनाऽऽज्यभागावित्यादेः सर्वत्रार्थस्य विधानस्यैतत्प्रयोजनं कथं
नामैतत्प्रागुक्तानामेवेति कर्तव्यतात्वन नोपदेशान्तरे प्रवृत्तिः । न पुरस्ता.
दक्ष्यमाणानां हुत्वोपात्तिष्ठत इत्येवमादीनामिति ॥ १५ ॥
प्रकृतमनुसरामः-
हुत्वोपोत्तिष्ठतः ॥ १६ ॥
ध्याहृतिभिर्हत्वोपश्लिष्टौ जायापती सहोत्तिष्ठतः । पध्वा दक्षिण
पाणि दक्षिणेन पाणिना गृह्णन्पतिरुत्तिष्ठेत्तस्यास्वातम्यात् । हुत्वेति
समानकर्तृकत्यहोमेऽप्युपश्लेषार्थम् । अतोऽन्वारब्धायां होमः पूर्ववदेव
नान्वारम्मः । पतिपाणोंमे व्यावृतत्वात् ॥ १६ ॥
अनुपृष्ठं गत्वा दक्षिणतोऽवस्थाय
वध्वजलिं गृह्णीयात् ॥ १७ ॥
अनुः सादृश्ये । उत्थानवत्-पाणिं गृह्णन्नेव तस्याः पृष्ठदेशेन दक्षि-
गतो गत्वा दर्भेषु स्थित्वा कोशाञ्जलिकाभ्यां हस्ताभ्यामुपादाक्स्वयं(?)
कुर्यात् ॥ १७ ॥
[ १ प्रथमपटले-
-
२०
रद्रस्कन्दप्रणीता-
पूर्वा माता शमीपलाशमिश्राल्लाजा-
शूर्प कृत्वा पश्चात् ॥ १८ ॥
उद्वाहवचनाद्वधूगृहं गत्वा विवाह इति वधूमातुः संनिधानात्सा पूर्व-
मेष लामान्स्वयमुत्पाद्य शमीपलाशेन संस्पृष्टाशमीपलाशमिश्रास्तान्ब-
हिषि शूर्पे निधाय तिष्ठति तदानीं शूर्पणाऽऽदायानेः पुरस्ताद्वधूमाता
तिष्ठेत् । एवं सत्रयोजना-लाजान्कृत्वा शूर्प निहिताशमीपलाशमिश्री.
मादाय पूर्वपूर्वदिक्संबन्धिनी वधूमाता तिष्ठेदिति ॥ १८ ॥
पश्चादनेदृषत्पुत्रमाकमयेद्वधूं दक्षिणेन
प्रपदेनेममश्मानमिति ॥ १९ ॥
पमाद दृषत्पुत्रं सत्येन पाणिनाऽञ्जलिं गृह्णन्नेव दक्षिणेन पाणिनोरु
गृहीत्वोक्षिप्यालिमलेन स्वयं मन्त्रमुक्त्वाऽऽक्रमयेत् । संनिधाना-
सिद्धे दक्षिणेनेति प्रागुदीचीमुत्क्रमयेदित्यत्रापि दक्षिणनियमार्थम् ॥१९॥
सलद्गृहीतमअलि लाजानां वध्व-
अलावावपेचाता ॥ २० ॥
वधूम्राता । बवालाविति वध्वाः संनिधानात् । शमीपलाशमिश्रा-
णामचलिम् ॥२०॥
सुहृद्वा कश्चित् ॥ २१॥
भ्रातुरलामे वध्वा हितैषी कश्चित्पुरुष आवपेत् । सुहृद्वेति सिद्धे
कचिदिति पुरुषनियमार्थम् ॥ २१ ॥
तं सामौ जुहुयादविच्छियाअलिमियं नारीति ॥ २२ ॥
प्रकृतत्वात्सिद्धे तमिति तमेव लाजाञ्जलिं जुहुयादुपस्तरणाभिधार-
णेन कुर्यादित्येवमर्थम् । अन्यथा हि होमद्रव्येऽदर्शनाच्छङ्का स्यात् ।
सेति सा वधूर्जुहुयादेव न मन्त्रं बूयात्पतिरेव मन्त्रं ब्रूयादित्येवमर्थम् ।
अग्राविति प्रमतेऽनावित्येवमर्थम् । पाण्योरविच्छेदं कुर्वती वधूरहुल्य-
प्रेण जुहुयात् । हषत्पुत्राक्रमणाञ्जलिं गृह्णीयादेव पतिः ॥२२॥
अर्यमणं पूषणमित्युत्तरयोः ॥ २३ ॥
उत्तरयोलजिहोमयोरिमौ मन्त्री ॥ २३ ॥
३ तृतीयः खण] ब्राह्मायणगृह्यसूत्रवृत्तिः।
२१
हुते तेनैव गत्वा प्रदक्षिणमग्निं परिणये-
कन्यला(का)पितृश्य इति ॥ २४ ॥
इयं नारीति हुते येनैव प्रकारेण दक्षिणतो गतस्तेनैव प्रकारेण पाणिं
गृह्णन्ननुपृष्ठमुत्तरतो गत्वा पाणिं गृह्णन्नेवाग्निं प्रदक्षिणीकुर्वन्वधूमनुगम-
येत् । आज्यसुवदृषत्पुत्र शूर्पोदकुम्मानां प्रदक्षिणेऽन्तर्मावः । मातृब्रह्मौ.
दकाना बहिर्भावः । पतिर्मन्त्रं ब्रूयात् ॥ २४ ॥
अवस्थानप्रभृत्येवं त्रिः ॥ २५॥
मध्यमया व्यावृत्तावर्षमणमिति लाजहोममन्त्र उत्तमया पूषणमिति ।
उत्तरतः समानम् ॥ २५ ॥
शूर्पण शिष्टानग्नावोच्य प्रागुदीचीमु-
क्रमयेदेकमिष इति(?) ॥ २६ ॥
प्रकृतित्वात्सिद्धेऽनावित्यनौ यत्कृत्य तत्सर्व तत्रैव समापनीयम् ।
प्रागुदीचीमुत्क्रमयेदित्यस्य च गमनोपक्रमत्वान्न प्रत्यावृत्त्य समाप्तिरिति
केचित् । तदयुक्तम् । अनावित्यनुक्तेऽप्यन्यत्राथ होमत्वालाजप्रक्षपप्रसङ्गा.
दपरेणानिमौदक इति वचनादग्न्यर्थमवश्यंभावितत्वाच्च प्रत्यागमनस्य
वध्वाक्रमस्य द्योतितत्वात् । उत्क्रमणं दृषत्पुत्राक्रमणवत्प्रतिमन्त्रं सप्त
पदानि सखी सप्तपदीति वधूमीक्षजपेन्मन्त्रलिङ्गात् ॥ २६ ॥
ईक्षकावेक्षणरथारोहणदुर्गानुमन्त्रणान्यनिरूपाभिः ।। २७ ।।
वधूदष्टुमागताः सुमङ्गली: स्त्रियो वीक्षन्सुमङ्गलीरिति जपेत् । सुकिं.
शुकमिति वधूं रथमारोहयेत् । अध्वनि भयस्थाने मा विदन्निति जपेत् ।
सुमङ्गलीरित्यस्यानागताभ्यां सह निर्देशस्तत्साध्यार्थः । यथा महत्य-
ध्वनि रथारोहणबहुत्वे भयस्थानबहुत्वे च तयोरावृत्तिदृष्टार्थत्वात्तथाऽ-
स्यापि रूयागमादावा विवाहसमातेरावृत्तिरिति । ईक्षकावेक्षणान्तर-
माह-अपरेणाग्निमौदको गत्वा पाणिग्राहकं मूर्धन्यवसिश्चेत् । ब्रह्मा-
ग्न्योरन्तरेण गत्वा वधूं च समात्वित्यवसिक्तो जपेत् । पतिर्दक्षिणं
पाणिं सानुष्ठं गृह्णीयाद्धामित इति षभिः । उत्तरोत्तरेणोत्तरोत्तरम.
भिपीडनम् । अथ प्रदक्षिणमग्निं प्रत्यागम्योपरिष्टाद्धोमादिवामदेव्यमा.
नान्तं कुर्याद्यथा दर्शपूर्णमासयोर्वक्ष्यते नात्रान्वारम्मः ॥ २७ ॥
इति रुद्रस्कन्दविरचितायां गृह्यवृत्तौ प्रथमपटलस्य
तृतीयः खण्डः ॥ ३॥
२२
रुबस्कन्दरणीता-
[ १ प्रधारस्टले-
अधच .:४ ।।
प्रागुदीचीमुद्हेत् ॥ १ ॥
होमानन्तरमेव प्रागुदीची दिशं वधूमग्निं च प्रापयेत् । : ॥
पतिर्बाह्मणकुलेऽमिमुपसमाधाय पश्चादग्नेर्लोहितं चर्माऽऽ-
नडुहमुत्तरलोम प्राग्नीवमास्तीर्य वाग्यतामुपवेशयेत्॥२॥
विवाहगृहे गृहान्तरे वा यदि क्षत्रियादिगृहे विवाहस्तदा वन्यस्मि-
मेव ब्राह्मणकुलेऽनिमुपसंधानान्तं कृत्वा चर्मणि वधुमुपवेशयेत्पति-
रस्तमनकाले । नात्र वध्वा दभासनं तत्कार्यकरणत्वाञ्चमणः ॥ २ ॥
प्रोक्ते नक्षत्रेऽन्वारब्धायां सुवेणोपघातं जुहुयात्पति-
लेखाप्रभृतिभिः संपातानवनयन्मूर्धनि बध्वाः ॥ ३ ॥
अन्येनोदितानि नक्षत्राणीत्युक्त एवोपर्याच्छादिते देशे होमः ।
प्रशब्दः प्रथमोदयार्थः । परिसमूहनादीनि कृत्वा व्याहृतिभिः समस्ता-
न्ताभिर्तुत्वा लेखादिभिः स्वाहाकारान्तर्जुहुयात् । प्रकृतितः सिद्धेऽन्वा-
रब्धायामित्यतः प्रकृतिसादृश्यार्थत्वादुपवेशनवत्पत्युरेवाऽऽलम्मप्रयोक्त-
स्वार्थम् । इतरथा पित्रादेः स्यात् । सुवेणेति सुवेण संपातावनयना.
र्थम् । इतरथा हि दक्षिणेन पाणिना स्यात् । उपघातमिति प्रत्युपघातं
व्याहृप्तिहोमेष्वपि संपातावनयनार्थम् । उपघातमित्याभीक्ष्ण्ये णमुल् ।
एतत्रयमपि न्यायसूचनपरमेव । तथा ह्याद्ये होमे न पितृत्वमन्वारब्ध-
प्रयोक्तृत्वे कारणं किं तर्हि तस्याः पित्रधीनता । बाल्ये पितृवशे तिष्ठे-
दिति वचनात्पित्रधीनत्वम् । सा विदानी भबंधीना पाणिग्राहस्य
यौवन इति वचनन्यायपरत्वात् । सूत्रव्य न्यायस्य च तुल्यत्वात् । चतु:
होमेऽपि मर्तुरेव प्रयोक्तृत्वम् । उपनयनादिषु चाऽऽचार्यस्य च संपा-
तानपि सुवगतत्वेन साधनान्तरप्रयुक्तिक्षयात्तेनैवावनयनम् । अत एव
चतुर्थीहोमोऽपि तथैव । तथा दशानां होमानां संस्कारार्थत्वात् ।
संस्कारस्य संपातावनयनद्वारत्वादशस्वप्यवनयनम् । अत एव चतुर्थी.
होमेऽपि नवस्वाप्लवनद्वारत्वात्संस्कारस्य हुत्वा संपातावनयनम् । होम.
शिष्टसंपातपसिद्धेः ॥ ३ ॥
२३
४ चतुर्थ. ..] द्राह्यायणगृह्यसूत्रवृत्तिः।
क्षणमग्निं परिक्रम्य धुवं दर्शयति ध्रुवा द्यौरिति ॥४॥
पत्युमन्त्रः ॥ ४ ॥
अभिवाद्य गुरून्गोत्रेण विसृजेदाचम् ॥ ५॥
काश्यपगोत्रोऽहमभिवादयामीतिवत्स्वगोत्रमुक्त्वाऽमिवाद्य वधूवार-
नियमं त्यजेत् । नावश्यं वदेत् । अथोपरिष्टाद्धोमादि वामदेव्यगानान्तं
कुर्यात् ॥ ५॥
तत आह-
गौदक्षिणा ॥६॥
होमत्रयार्थमस्मिन्काले बह्मणे देया । अत एव विध्वपि होमेम्वेक
एष बह्मा ॥६॥
अत्राय॑म् ॥ ७॥
अस्मिन्काले विवाहकत्रे तज्ज्ञातिभ्यश्च वध्वाः प्रदाताऽध्य
पद्यात् । तस्य विधिमन्त्रक्रमानुसारेण मधुपर्क प्रतिग्रहीष्यन्त्रित्यारभ्य
वक्ष्यते ॥७॥
आगतेष्वित्येके ॥ ८॥
या विवाहाथं वध्वा गृहमागतास्तदेत्यर्थः ॥ ८॥
त्रिरात्रं क्षारलवणे दुग्धमिति वर्जयानौ
सह शय्यतां ब्रह्मचारिणी ।।
होमादूवं नियमः । तद्दिनप्रभृति त्रिरात्रं दुग्धमुद्धृतसारपिण्या.
कादि सहैकस्यां शय्यायां रात्रीषु निवृत्तमैथुनौ परस्परमन्यतश्च ।
इतिशब्दोऽन्यस्यापि व्रतविरोधिनो वर्जनार्थः ॥ ९ ॥
हविष्यमन्नं परिजप्यानपाशेनेत्यसा-
विति वध्वा नाम ब्रूयात् ॥ १० ॥
त्रिरात्रं मोजनकालेष्वाहृतमन्नं भोजनकालेष्वमिमृश्य जपित्वा॥१०॥
भुक्तोच्छिष्टं वध्यै दयात् ॥
स चामीधाल्लेखाहोमं समाप्य वधूं सुकिंशुकमिति रथमारोप्यानिं च
गृहीत्वा मयस्थाने मा विदन्निति जपित्वा स्वगृहं प्रविश्येह गाव इति
जपित्या शय्यामुपविश्य वधूमीक्षमाण इह धृतिरिति जपेन्मन्त्रलिङ्गात् ।
तत्र त्रिरात्रं सह शयाताम् ॥ ११ ॥
२४
रुद्रस्कन्दप्रणीता-
[१ प्रथमपटले-
तत आह-
ऊर्ध्व त्रिरात्राच्चतमृभिराज्यं जुहुयादग्ने प्रायश्चित्ति-
रिति समस्य पञ्चमी संपातानवनयनुदपात्रे॥ १२॥
चतुर्थेऽहनि पूर्वाह्ने प्रपदान्तं कृत्वाऽन्वारब्धायां महाव्याहतिमिः
समस्तान्ताभिर्तुत्वाऽग्ने प्रायश्चित्तिरित्येवमादिभिः स्वाहाकारान्त त्वा
नव संपाता महत्यध्वन्यदुत्कर्षः । सहशयनस्य हविष्यमन्नमित्येतस्य
प्रकृतत्वात्तद्यज्ञार्थमाज्यमित्युक्तम् । उदकपूर्णपात्रं मानाय पर्याप्त
स्यात् ॥ १२॥
तेनेनां सकेशनखामाप्लावयेत् ॥ १३ ॥
सहशिरसं पतिः स्वयमेव नापयेत्ततो वामदेव्यगानान्तं कृत्वा ब्रह्माणं
मोजयेत् ॥ १३॥
ततो ययार्थ स्यात् ॥ १४ ॥
न प्रति होम साध्य मेदायत्तं पथार्थ किं त्वेकया साध्यमेवेदं होमत्रया-
स्मकमनुष्ठानमित्येवमर्थम् ॥ १४ ॥
ऋतुकाले दक्षिणेन पाणिनोपस्थमालभद्वि-
ष्णुर्योनि कल्पयत्विति समाप्तायाम् ॥ १५ ॥
दायादिरग्निरित्यस्यापि पक्षस्याभ्युपगमं दर्शयितुमौपासनहोममनु-
रत्वेदमुक्तम् । रजोदर्शनप्रभृतिषोडशराबमृतुकालः । यदि राज्यास्तृ-
तीये भागे रजः स्यात्तदोत्तरमेवाहविद्यात् । चतुर्थे भाग इति केचित् ।
समाप्तायामिति । सम्यगवस्थायां वध्वामित्यर्थः । का साऽवस्था ।
तासामाद्याश्चतस्रस्तु निन्या एकादशीति च ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ।।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
एवमादिसूचिता ॥ १५॥
संभवेद्गर्भ धेहीति ॥ १६॥
सम्यगालोच्य मुहूर्तादि मिथुनी मवेत् ॥ १६ ॥
इति रुद्रस्कन्दीयगृह्यवृत्ती प्रथमपटलस्य
चतुर्थः खण्डः ॥ ४॥
५ पञ्चमः खण्डः ]
द्राह्मायणगृह्यसूत्रवृत्तिः।
२५
मध पश्चमः खण्डः ।
यस्मिन्ननौ पाणिं गृह्णीयात्स गृह्यः ॥ १ ॥
पाणिं गृह्णीयादिति विवाहकरणं लक्ष्यते । व्यवहारार्थी हि संज्ञा ।
एवं चेद्विवाहादनु निष्पादितत्वाद्गृह्यस्य विवाहावस्थायां गृह्यत्वामावा-
ब्रह्मा न स्यान्न गौर्दक्षिणेति लिङ्गात् ॥ १॥
यस्मिन्वाऽन्त्यां समिधमादध्यात् ॥ २ ॥
यस्मिन्नेवाग्नौ ब्रह्मचार्यन्त्यां समिधमादध्यात्स गृह्यः । अस्मिन्पक्षे
तत्मभृति सायंप्रात:मादीनि स्युः । गृह्य एव विवाहः ॥ २ ॥
निर्मन्थ्यो वा पुण्यः सोऽनर्धकः ॥ ३ ॥
उक्तस्यैव प्रकारद्वयस्योत्पत्तिनियमो वाऽयं न गृह्यान्तरे । वाशब्दः
शास्त्रान्तरोक्तस्यापि श्रोत्रियागारादेः संग्रहणार्थः । पुण्यः परलोकहि-
तकरः । अनधुक इह जन्मन्वृद्धिभावकरः ॥ ३ ॥
अम्बरीपादाऽऽनयेत् ॥ ४॥
अपूपविक्रियार्थादनेर्वा ॥ ४ ॥
बहुयाजिनो वाऽगाराच्छूवर्जम् ॥ ५॥
बहुदेवपूजकस्य बहुदातुर्ग्रहादानयंदग्निं विवाहं कर्तुमन्त्यां समिधं
वाऽऽधातुम् ॥ ५॥
सायमाहुत्युपक्रमं परिचरणम् ॥ ६ ॥
चतुर्थीहोमानन्तरं यः सायंकालस्तमारभ्याऽऽ जीवसमाप्तेराश्रमपरि-
समाप्तेराधानकालाद्वा परिचरणमनुष्ठानं कुर्यात् । परीत्यधिकारक्यं
सूचितम् । अतोऽनन्तरं ब्राह्मणभोजनम् । अन्त्यां समिधं दायादित्य.
नयोरपि पक्षद्वययोः सायमाहुत्युपक्रममेव ॥ ६ ॥
प्रागस्तमयोदयाभ्यां प्रादुष्कृत्य ॥ ७ ॥
अस्तमयोदयात्माक्समीपकाले प्रज्वाल्य ॥ ७ ॥
अस्तमिते होमः ॥ ८॥
अस्तमयानन्तरमेव होमः ॥८॥
२६
रुद्रस्कन्दप्रणीता-
{१ प्रथमपटले
उदिते चानुदिते वा ॥ ९ ॥
संध्यायामेव ॥९॥
हविष्यस्पालतं चेत्यक्षाल्य जुहुयात्पाणिना ॥ १० ॥
हविष्यस्य माधवरककोवादिव्यतिरिक्तस्य लक्षणाद्यसंयुक्तस्प येषु
केषुचिद्धोमेषु साधनतयाऽऽभितस्यौदनस्य पष्ठीनिर्देशात्तदेकदेशस्य
साधनतयोपादानं न पक्वावस्थस्य कृत्स्नस्योपादानम् । अतः पाक-
धर्मा न स्युः । इतरथा शङ्का स्यादर्शपूर्णमासादी दर्शनात् । अकृ.
सपाकानुक्तजातीयानेव तण्डुलांविः प्रक्षाल्याङ्गुष्ठपर्वमात्रप्रमाणामाहु-
तिम् । होमसामान्यात्सुवस्य प्राप्तौ पाणेविधानम् ॥ १० ॥
दधि चेत्पयो वा कंसेनेति चेदिति ॥ ११ ॥
सिद्धवद्यपदेशः शास्त्रान्तरविहितस्यापि द्रव्यस्य संग्रहणार्थः ।
अत आज्यमपि द्रव्यम् । पृथग्ग्रहणमितरेतरसंयोगव्युदासार्थम् ॥ ११ ॥
चरुस्थाल्यां वा ॥ १२॥
कंसेन विकल्पः ॥ १२॥
अग्नये स्वाहेति मध्ये ॥ १३ ॥
अग्निमध्ये ॥१३॥
तूष्णीं पागुदीचीमुत्तराम् ॥ १४ ॥
मन्त्रमनुश्चरन्ननावेव प्रागुदीच्यां दिशि द्वितीयां जुहुयात् । सायं-
प्रातर्होमस्य साध्यत्वाद्यया कयाचित्याप्तौ तूष्णींधर्मस्य प्रजापता-
वसाधारण्यात्प्रजापतये स्वाहेति मनसा स्मरजुहुयात् । तस्मात्माजा-
पत्यां मनसा जुह्वतीति श्रुतेस्तूष्णीधर्मत्वं प्रजापतेः । याः प्रागुदीच्या-
हुतिर्दर्शपूर्णमासयोरमये स्विष्टकृतं इति तामत्र जुहुयादिति केचित् ।
तदयुक्तम् । वक्ष्यमाणस्य सिद्धवद्यपदेशायोगादसाधारणशब्दाभावाच ।
पश्चाद्विधानादेवोत्तरत्वे सिद्ध उत्तरामिति यत्र यत्रैकाहुतिश्चोयते तत्र
तत्रैष एवोत्तरा स्यादित्येवमर्थम् ॥ १४ ॥
सूर्यायेति प्रातः पूर्वा ॥ १५ ॥
सूर्याय स्वाहत्यग्निमध्ये ॥ १५॥
नात्र परिसमूहनादीनि पर्युक्षणवर्जम् ॥ १६ ॥
५ पञ्चमः खण्ड: द्राह्मायणगृह्यसूत्रवृत्तिः।
बहुवचनमुपरिटाद्धोमानां समिदाधानादेश्च निवृत्यर्थम् । समन्ता-
परिषेचनं पुरस्तादुपरिष्टाञ्च पर्युक्षणवर्जमुत्तराहुत्यनन्तरमुमयत्र समिधः-
माध्यादित्युपदेशः पूर्वाहुतेः पूर्वमिति केचित् ॥ १६ ।।
पत्नी जुहुयादित्येके ॥ १७ ॥
महाः पत्नी गृह्योऽग्निरेष इति सिद्धे सायंप्रात-
भूतमित्युक्त ओमित्युच्चैब्रूयात् ॥ १८ ॥
मोजनार्थमोदने सिद्धे भोजनस्य कालस्य परतन्त्रत्वानः पूर्वाह्ननि.
यमः । कालोपलक्षणत्वाचासत्यपि भोजनार्थ पाके पाकं कृत्वा भव-
स्येव तस्मिन्काले होमः । सायंप्रातरिति राबावहनि चेत्यर्थः । प्रक-
तितः सिद्धे वचनं परिचरणतन्त्रेप कालप्राप्तिनास्तीति द्योतनार्थम् ।
पचनकर्तरि भूतमित्युक्ते गृहपतिरोमिति ब्रूयात् ॥ १८ ॥
मा क्षा नमस्त इत्युपांशु ॥ १९ ॥
पादित्यनुवर्तते ॥ १९॥
हविष्यस्यानस्य जुहुयात्याजा-
पत्यं सौविष्टकृतं च ॥ २० ॥
प्रजापतये स्वाहेति मनसाऽग्निमध्ये परिचरणतन्त्रेण । प्रकृतितः सिद्धे
हयिष्यस्येति हविष्यमोजने मोज्यसंस्कारप्रयुक्तभ्रान्त्या तेनापि होम
आशयतेति तन्निवृत्त्यर्थम् । अन्नस्येति तण्डुलादिनिवृत्त्यर्थम् । प्राजा.
पस्यं सोविष्टकृतं च प्रजापतये स्वाहेति मनसाऽमिमध्येऽग्नये स्विष्टकृते.
स्वाहेति प्रागुदीच्यां जुहुयात् ॥ २० ॥
बलिं नयेद्वहिरन्तर्वा चतुर्निधाय ॥ २१ ॥
वक्ष्यमाणेषु देशेषु निदध्यात् । गृह एष गर्भगृहाइहिरन्तर्गृहे
वा चतुरितिग्रहणादलिचतुष्टयार्थमादावन्ते च सकृदेव परिपेचनम् ।
प्रत्येकमिति केचित् ॥ २१ ॥
मणिकदेशे ॥ २२ ॥
उदकधारणसमीपे ॥ २२ ॥
मध्ये ॥ २३ ॥
गर्भगृहस्य मध्ये ॥ २३ ॥
२८ रुद्रस्कन्दप्रणीता- [ १ प्रथमपटले- द्वारि ॥ २४ ॥ गर्भगृहस्यैव ॥ २४ ॥ शय्यामनु ॥२५॥ शयनसमीपे ॥२५॥ वचं वा॥ २६॥ अवस्करसमीपे । पुरीषोऽवस्करः । वाशब्दो विनिवेशार्थः । कथम् । शय्यामनु नक्तं वर्चमनु दिवा देशौचित्याद्देवतौचित्याच ॥ २६ ॥ अथ स्तूपम् ॥ २७॥ अन्विति वर्तते । अथेति वक्ष्यमाणानां सर्वेषां बलीनामेष एव देश इत्यर्थः। प्रथमस्थापितस्थूणः स स्तूपस्तत्समीपे तमनु समीप- देशे ॥ २७ ॥ एकैकमुभयतः परिषिश्चेत् ॥ २८ ॥ आदौ बलेरमावात्परिषेकशब्दानन्वयादभितः सेचनमानसिक्ते बलि निधाय प्रागुपक्रमं प्रदक्षिणं परिषिश्चेत् ॥ २८ ॥ शेषमद्भिः सार्ध दक्षिणां निनयेत् ॥ २९ ॥ पलिस्थाल्यां शिष्टमन्नमद्भिः सह स्तूपस्य दक्षिणतः प्राचीनावीती पियेण तीर्थेन निनयेत् ॥ २९ ॥ फलीकरणानामयमाचामस्वेति विश्राणिते ॥ ३० ॥ फलीकरणमुदकमोदनावप्रेसनं च मिश्री कृत्य विगतश्रमेऽतिथावग्रं ब्राह्मणाय दत्त्वेत्यस्यानन्तरमिवेत्यर्थः । तस्य स्तूपस्य प्रागुदीच्यां दिशि रौद्रत्वात् ॥ ३०॥ पृथिवी वायुः प्रजापतिर्विश्वे देवा आप ओषधि- वनस्पति(त)य आकाशः कामो मन्युर्वा रक्षो- गणः पितरो रुद्र इति बलिदैवतानि ॥ ३१ ॥ उक्तानां बलीनां यथासंख्यमेता देवताः कामो मन्युर्वेति पूर्ववद्विनिक वेशः ॥ ३१ ॥ तूष्णीं तु कुर्यात् ॥ ३२ ॥ नुशब्दोऽवधारणार्थः । बलिदैवतान्येव । तूष्णींहोम इति होमेऽपि प्राजापत्यं मनसैव तस्मात्माजापत्यां मनसा जुह्वति' इति श्रुतः ।
- ५ पञ्चमः खण्डः ] दाहायणगृह्यसूत्रवृत्तिः। २९ कुर्यादिति मनोव्यापारमात्रार्थम् । पृथिव्यै वायवे प्रजापतये विश्वेन्यो देवेभ्य ओषधिवनस्पतिभ्य आकाशाय कामाय मन्पवे रक्षोगणेभ्यः पितृभ्यो रुद्रायेति चतुर्यन्तं मनसा स्मरन्बलिं निध्यात् ॥ ३२॥ सर्वस्य त्वन्नस्यैतत्कुर्यात् ॥ ३३ ॥ सर्वस्येति शाकमांसादिपरिग्रहणार्थमितरथौदनस्यैव स्यात् । प्रकृता- यौपासनहोमे दर्शनात् । अन्नस्येति । अदनीयस्य । तुशब्द एवकारार्थे । मोजनार्थस्यैव दर्शपूर्णमासादिचरोः कृसरः स्थालीपाक इत्यादयश्चे- त्यर्थः । एतदिति सकलवैश्वदेवकर्मपरामर्शार्थे । इतरथा हि प्रकृतत्वा. द्वलीनामेव विशेषः स्यात् । कुर्यादित्यनग्नेरपि लौकिकेऽनो कर- णार्थम् ॥ ३३॥ असलदेकस्मिन्काले सिद्धे सलदेव कुर्यात् ॥ ३४ ॥ रात्रावहनि यदि पाकावृत्तिः स्यादेकदेव कुर्यात् ॥ ३४ ॥ बहुधा चेयद्गहपतेः॥ ३५॥ युगपत्क्रमण वा यदि बहवः पाकाः स्युस्तदा यगृहपतेर्मोजनार्थ तस्यैव कुर्यात् । यदा गृहपतेरपि बहवः पाकास्तदाऽप्ये कस्यैव ॥ ३५ ॥ सर्वस्य त्वन्नस्यामी ठत्वाऽयं ब्राह्मणाय दद्यात्स्व (त्त्वा स्व)यं कुर्यात् ॥ ३६ ॥ सर्वस्येत्यहविष्यस्यापि परिग्रहणार्थम् । अन्नस्येति पक्कोपलक्षणार्थ- मपक्वान्ननिवृत्तये । अनाविति लौकिकाग्न्यर्थम् । तुशब्दो विशेष- णार्थः । न पूर्ववदेकस्यैव किंतु सर्वेषामेव पक्वान्नानां किंचित्किंचिव- हीत्वैकीकृत्य तूष्णीं लौकिकाना हे आहुती निदध्यादित्यर्थः । भोज्यसंस्कारार्थमेतत् । अयं बाह्मणाय दत्वा स्वयं कुर्यात् । अग्रं प्रथमं ब्राह्मणाय ततो वर्णान्तरेभ्यो यथाक्रमेण । उपलक्ष[ण] वात्प्रति. वर्णमपि श्रेयसे पूर्व दद्यात् । अयं चार्थ:-सर्वान्वश्वदेवमागिनः कुर्वीतेत्येवमादीनि वाक्यान्यालोच्य न्याय उक्तः। अवश्यं कार्यमेतद्दानं पक्वस्य यथासंमवं भृत्या नात्र विरोधेन । चतुर्येव सिद्धे दत्त्वेति यथासंभवमात्रे निवृत्ते स्वभोजनाभ्यनुज्ञानाथं नावश्य तेषां भोजनप- रिसमाप्तिः प्रतीक्षणीयेति । दत्त्वेति समानकर्तृकत्वं स्वमोजने नित्यसं- बन्धार्थमसति स्वभोजने नावश्यं कार्यमेतद्दानमिति । असत्यपि स्वमो. .
रुद्रस्कन्दप्रणीता-
[२ द्वितीयपटले--
जने सर्वकालसाधारण्येन येम्योऽवश्यं दानमुक्तं सांतानिकं यक्ष्यमाण.
मित्यादिना तेभ्यो दद्यादेव । स्वयंग्रहणमात्मन एष नान्तर्यानियमेन
संमृत्यस्येति मृत्यानां त्वागतैः सहापि भोजनम् । तथा माया अपि
गर्भिण्या रोगिण्याश्च । स्वस्थायास्तु स्वमोजनानन्तरमेव । मुञ्जीतेति
वाक्यशेषात्सिद्धे कुर्यादिति वचनं सत्कारमपि तेषां कुर्यादित्येवमर्थम् ।
स्मृत्याचारसिद्धस्य सूचनमात्रमेतत्सूत्रम् ॥ ३६ ॥
बीहिप्रभृत्यायवेत्यो यवेत्यो वाऽऽ बीहि-
भ्यः स्वयं हरेत्स्वयं हरेत् ॥ ३७ ॥
सायंप्रातोमवज स्वयं हौत्रमिति कर्तुरनियमे प्राप्ते ब्रीहिसंपत्ति-
प्रभृति यवसंपत्तिप्रभृति वा षट्सु मासेषु स्वयंकर्तृत्वं नियम्यते । हरेदिति
सहोमस्प बलेरुपलक्षणार्थम् । द्विरुक्तिः पटलसमाप्तिद्योतिका ॥ ३७॥
इति श्रीरुद्रस्कन्दविरचितायां गृह्यवृत्ती प्रथमपटलस्य
पश्चमः खण्डः ।।५।।
पटलध समाप्तः।
अथ द्वितीयः पटलः ।
पौर्णमासोपक्रमौ दर्शपूर्णमासौ ॥ १ ॥
नित्यप्रकरणविधानादधिकारानुक्तेश्च सायंप्रातोमवन्नित्यावेतो ।
तदेवाधिकारक्यं च यावज्जीवं यावदाश्रमं यावदाधानम् । अतोऽ-
नन्तरं ब्राह्मणभोजनम् । सूर्याचन्द्रमसौ यस्मिन्क्षणे संभवतः स दर्शी
यस्मिन्क्षणे चन्द्रमाः पूर्यते स पूर्णमासस्तकालसंबन्धी प्रयोगी दर्श-
पूर्णमासाविति लक्ष्येते । न चैकस्मिन्क्षणे किं स्वपराह्न उपक्रम्यानन्तरे
पूर्वाह समाप्तिर्युक्तेति । तस्मान्मध्यविनादृर्वमागामिमध्यदिनाच्च पूर्व-
मसौ क्षणोऽस्ति असौ कालो लक्ष्यते । अत एव तत्कालवर्तिनौ प्रयोगौ
कुर्यादित्यर्थः । वक्ष्यमाणसूत्रद्वयेनैव सिद्धे पर्णिमासोपक्रमाविति मध्ये
मरणशङ्कायामपि दर्शनियमार्थमुपक्रमस्योपसंहारापेक्षत्वात् । एवं साय.
माहुत्युपक्रममित्यत्रापि द्रष्टव्यम् । समाप्तिप्रकार उक्तो निदाने तदप्य-
परपक्ष इत्यारम्य मृतेऽप्येवमेव समाप्य संस्कर्ता संस्कुर्यात् ॥ १॥
५ पञ्चमः खण्डः ] द्राह्मायणगृह्यसूत्रवृत्तिः । ३१ दाशं चेत्पूर्वमुपपयेत पौर्णमासेनेष्ट्वाऽथ तत्कुर्यात् ॥ २ ॥ चनुर्थीहोमानन्तरं यदि दर्शः पूर्वमागतश्चेत्तदा दर्शकालात्पूर्वमेष पौर्णमासं कृत्वा स्वकाले कुर्यात् ॥ २॥ अकुर्वन्पौर्णमासीमाकाङ्क्षदित्येके ॥ ३ ॥ स्पष्टम् ॥ ३॥ अपराहे स्नात्वौपचसथिकं दंपती भुञ्जीयाताम् ॥ ४ ॥ स्मानमपि मध्यंदिनादूर्ध्वमेव कर्माङ्गम् । तद्यजनीयात्पूर्वमहरुपव- सथस्तदहर्योग्यं यच्छास्त्रान्तरे दृष्टमशनीयं तदोपवसथिकम् । तदुक्तं मापमांसमाज्येनाश्नीयादिति ॥४॥ मानदन्तव्य उवाच श्रेयसी प्रजां विन्दते ॥६॥ मानदन्तव्य ऋषिविन्दते लभते ॥ ५॥ काम्यो भवत्यक्षोधुको य औपवसथिकं भुङ्क्ते ॥ ६ ॥ काम्यः प्रियदर्शनः । अक्षोधुकः क्षुत्पिपासारहितः ॥ ६ ॥ तस्माद्यत्कामयेत तद्भुञ्जीत ॥ ७ ॥ यदिच्छेत्प्रजादीनां तदोपवसथिकं भुञ्जीत नित्यादेवाऽऽनुपङ्गिक- फलं स्तुतिमात्रं वा । रात्रौ न भोजनमपराह्नग्रहणस्य सर्वाहनियमार्थ- त्वात् । यतो रागप्राप्तस्यायं नियमोऽत उपवासेऽपि न वैगुण्यम् ॥ ७ ॥ नाव्रत्यमाचरेत् ॥ ८॥ प्रतविरोधि मधुमांसभक्षणादि न कुर्यादा प्रयोगसमाप्तेः ॥ ८॥ प्रातराहुती हुत्वा ॥ ९ ॥ दर्शपूर्णमासौ कर्तव्याविति शेषः । अनयोः पूर्वेधुरुपक्रान्तत्वात् । प्रातराहुतेश्च सर्वमहः प्रातराहुतेः स्थानमित्यस्तमयात्कालाभ्यनुज्ञाना- त्यातराहुतिः पश्चात्स्यादिति तन्निवृत्तये पूर्ववनियम्यते ॥ ९ ॥ हविर्निर्वपेदमुष्मै त्वा जुष्टमिति देवताश्रयं सकृयजुषा द्विस्तूष्णीमिति ॥ १० ॥ यद्धविः शास्त्रान्तरे प्रतिज्ञातं व्रीहितण्डुला यवतण्डुला वा तत् पाणिना गृहीत्वा मुष्टिपूर्णमग्नये त्वा जुष्टं निर्वपामीति निर्वापवद्यथा- देवतं चरुस्थाल्यां सकृदावपेट्रिमन्त्रकम् । ब्रह्मोपवेशनान्तं कृत्वा निर्वापः । अस्यापि ब्रह्मापेक्षत्वात् ॥१०॥ ॥
३२ - रुद्रस्कन्दप्रणीता [२ द्वितीयपटले- त्रिदेवेभ्यः प्रक्षालयेत् ॥ ११ ॥ उदकेन प्रक्षालनम् । प्रकृतत्वात्सिद्धे देवेभ्य इत्यन्यत्रापि यद्देवेभ्यः 'प्रक्षालनं तत्रिरवेत्येवमर्थं यथोपासनहोमे ॥ ११ ॥ अथ प्रक्षालनप्रसङ्गादुच्यते- द्विर्मनुष्येभ्यः ॥ १२॥ भोजनार्थे पाके द्विः प्रक्षालनम् । असत्यपि पाके यत्र प्रक्षालनं विहितं तत्रापि द्विरेव ॥ १२ ॥ सरूपितृायः ॥ १३ ॥ श्राद्धार्थेऽन्वष्टक्यादी वाऽसत्यपि पाके पूर्ववत् ॥ १३ ॥ अथ प्रकृतमाह- मेक्षणेन प्रदक्षिणमुदायुवं अपयेत् ॥ १४ ॥ मेक्षणं दर्वी । यथा यन्नि(न्नी)चैपमुदकस्य वा बहिर्गमनं न मधे. त्तथोदायुवं अपयेत् । यदि बहिर्गच्छेद्ययोरोजस इत्यप आसिश्चेत् । तयज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजस इति श्रुतेः । अस्मि- न्काले परिस्तरणमाज्यसंस्कारं च[रश्च] संस्कारापेक्षत्वाच्छृतमभिघा- रस्य ॥ १४ ॥ तत आह- शृतमभिधार्योदगुदास्य प्रत्यभिधारयेत् ॥ १५ ॥ स्रवेणाऽऽज्येनाभिधारणम् ॥ १५ ॥ सर्वाण्येवं हवींषीति ॥ १६ ॥ सर्वाणीति व्याप्त्यर्थ्यमेवं निर्वापादि हवींपीति भोजनार्थे श्राद्धार्थे कृसरस्थालीपाक इत्यादौ च निवृत्त्यर्थम् । निहितेषु पाकावस्थायामह- विष्ट्वं देवतोद्देशाभावात् । औपासनवैश्वदेवहोमयोरप्येकदेशस्यैव देव- तोद्देशेनोपादानं तस्येति पष्ठीनिर्देशात् । अतस्तयोरपि पाकावस्थायां न हविष्ट्वम् ।। १६॥ बर्हिषि साय(या) ॥ १७ ॥ साद्यानीत्यर्थः । छान्दसः शेर्लुक् । बहुवचनात्सर्वाण्येव होमाङ्गानि साद्यानि, आज्यं चरुमुवी जुहूरिध्ममिति । बहिषीति सिद्धवनिर्देशात्स्त- रणावस्थायामेव तथा स्तरणं यथा तत्राऽऽसादनं संभवेत् । इतरेतरयो, - १ प्रथमः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः। ३३ गाच हविःसदनावस्थायामेवोत्तरतः सर्वेषां सादनम् । बहुवचनाच लुकृतोऽस्य बहुविषयत्वं गमयितुम् । अतो विवाहादिष्वपि होमागा. नामेव सादनम् । औपासनादिषु दर्माभावादुत्तरतोभूमावेव सादनं प्रापर्युक्षणात् । एवं प्रयोगक्रमः-प्रातराहुति हुत्वा ब्रह्मोपवेशनान्तं कृत्वा चरुं अपयित्वा परिस्तीर्य दर्भेषूपविश्याऽऽज्यं संस्कृत्याभिघा- योत्तरतः सर्वाणि सादयित्वा परिपेचनादिप्रपदान्तं कुर्यात् ॥ १७ ॥ तत आह- महाव्याहृतिभिर्हत्वाऽऽज्यभागौ जुहुयाचतुर्गृहीत- माज्यं गृहीत्वा पञ्चावत्तं भृगूणां जामदग्न्यानामग्ये स्वाहेत्युत्तरतः सोमायेति दक्षिणतः ॥ १८॥ आज्यमागाविति संज्ञा व्यवहारार्था । सुवेणाऽऽदाय जुह्वामा- सिच्य जुद्वैव चतुर्गृहीतं जुहुयात् । सुवेण सुच्याज्यं गृह्णीयादिति परि. भाषादर्शनात्, गृह्यान्तरदर्शनात् , सुवजुह्वोः प्राप्तिः । मुवस्य तु विवा. हप्रकृतित्वादपि प्राप्तिरस्त्येव । गृहीत्वेति प्रत्येकं चतुर्ग्रहणार्थ पौनःपुन्ये [ए]कत्वास्मरणात् ॥१८॥ विपरीतमितरे ॥१९॥ सोमाय स्वाहेति दक्षिणतो हुत्वाऽग्नये स्वाहेत्युत्तरत इत्यन्य आचार्या आहुः ॥ १९॥ आज्यमुपस्तीर्य हविष्यवोन्मेक्षणेन मध्यात्पुरस्तारिति॥ २० ॥ मुवेण जुह्वामुपस्तीर्य हविषोऽङ्गुष्ठपर्वमात्रमवखण्ड्य हस्तेन जुह्वां निध्यात् । इतिशब्दः पक्षसमाप्त्यर्थः ॥२०॥ पश्चाच पश्चावनी ॥ २१ ॥ मृगुजामदग्न्यः ॥ २१॥ अभिधार्य प्रत्यनक्त्यवदानस्थानानि ॥ २२ ॥ मुवेण जुहूस्थं हविरभिघार्याऽऽज्येनावदानस्थानानि यथाक्रममन- त्याज्येन ॥ २२॥ ५ रुद्रस्कन्दप्रणीता- [ २ द्वितीयपटले- न स्विष्टकृतः ॥ २३॥ स्विष्टकृतोऽवदायावदानस्थानं न प्रत्य[ न ]क्ति । प्रत्यञ्जनप्रतिपे. धादेवदं सर्व स्विष्टकृत्यपि तुल्यमिति गम्यते ॥ २३ ॥ अमुष्मै स्वाहेति जुहुयायदेवत्यं स्यात् ॥ २४ ॥ अग्नये स्वाहेतिवद्यथावदेवतमग्निमध्ये जुह्वां जुहुयात् । एतत्प्रधानम् । अत एव व्यतिरिक्तं सर्वं चरुतन्त्रेषु प्रवर्तते ॥ २४ ॥ स्विष्टकृतः सदुपस्तीर्य द्विगुणां सकद्धविषो द्विरभिघार्यानये स्विष्टकते स्वाहेति प्रागुदीच्या जुहुयात् ॥ २५॥ शोमनमिष्टं द्रव्यप्रतिपत्तिद्वारेण करोतीति रिवष्टकृयागः । अतोऽ- प्रधानमिदम् । सकृदुपस्तीर्येत्यनूद्यते । भृगूणां जामदग्न्यानां द्विरुपस्त- रणविशेषं विधातुं मध्यात्पुरस्तात्पश्चात्पुरस्तात्पश्चादित्येतेषां प्रत्या- नायः॥ २५ ॥ सरुद्धविष इति ॥ २६ ॥ उतरार्धादवदानम् । उत्तरार्धात्स्विष्टकृत इति श्रुतेः । गृह्यान्तरवि. धानाच्च । द्विरभिघार्येति सकृत्त्वात्याम्नायः । प्रागुदीच्यामिति मध्य- प्रत्यारायः ॥ २६ ॥ अथोपरिष्टाद्धोमादि ॥ २७ ॥ आज्वेन व्याहृतिभिश्चतसृभिः प्राजापत्यया वा ॥ २७ ॥ तत आह- समिधमाधाय ॥ २८ ॥ परिषिश्चेदित्यध्याहारः । समिधमाधायानु पर्युक्ष्येति गौतमीयानु. वादात् । पूर्वं निहितां समिधमनावाधायादितेऽन्वमंस्थाः सरस्वतेऽ- नवमंस्था देवसवितः प्रासावीरिति पूर्ववत्परिपिश्चेत् । गृह्यान्तरान्मन्त्र- प्राप्तिः ॥ २८॥ दर्भानाज्ये हविषि वा त्रिरवदायाग्रमध्यमूलान्यक्तं रिहाणाव्यं नु वय इत्यायुक्ष्यानावनुपहरेत् । यः
२ द्वितीयः खण्डः ] द्राह्यायणगृह्यसूत्रवृत्तिः।
३५
पशूनामधिपती रुदस्तन्तुचरो वृषा पशूनस्माकं
मा हिंसीरेतदस्तु हुतं तव स्वाहेति ॥ २९ ॥
प्रतिपत्तिकर्मेदं दर्भानिति द्वितीयानिर्देशात् । अत एव स्तृतान्सर्वदर्मा-
शिष्ट आज्य हविपि वा सकृन्मन्त्रमुक्त्वाऽग्राणि मध्यानि मूलानि
क्रमेण संमृज्य पुनश्चैवं द्विः संमृज्याद्भिरभ्युक्ष्यागपूर्व प्रक्षिपेत् ।। ६९ ।।
तयज्ञवास्तु ॥ ३० ॥
तत्पूर्वसूत्रोक्तं कर्म । यज्ञवास्तुसंज्ञा व्यवहारार्था ॥ ३० ॥
सर्वत्र कुर्यात् ॥ ३१ ॥
समिधाधानादि समिद्दर्भवत्सु कर्मसु सर्वत्र कुर्यात् । अध्याहारा-
सिद्ध कुर्यादिति वामदेव्यगानार्थम् ॥ ३१ ।।
हविरुच्छिष्टमुदगुदास्य ब्रह्मणे दद्यात् ॥ ३२ ॥
हविग्रहणमाज्यव्युदासार्थम् । उच्छिष्ट इति स्वयं किंचित्पाश्याव-
शिष्टस्य दानार्थम् । पूर्वमेवोदग्देशस्थिते सिद्ध उदग्ग्रहणमुदग्देशात्स्था.
ल्या सहोद्धासनार्थम् । अन्यथा हि स्थाल्यामोदनस्योद्वासनमाशङ्क्येत ।
चतुर्थैव सिद्धे दद्यादिति स्वयं ब्रह्मत्वेऽप्यन्यस्मै दानार्थम् ॥ ३२ ॥
पूर्णपात्रं दक्षिणा ॥ ३३॥
ओदनेन तण्डुलैर्वा तदलाभे फलैर्वा पूर्णपात्रं ब्रह्मणे दक्षिणार्थ
दद्यात्तूष्णीमोमिति वा प्रतिगृह्णीयात् ॥ ३३ ॥
यथोत्साहं वा ॥ ३४ ॥
यथा ब्रह्मोत्साही भवति तथा दद्यात् । तदभिलषितं दद्यादित्यर्थः ।
आज्यतन्त्रेष्वपि यथोत्साहमेव दक्षिणा ॥ ३४ ॥
इति श्रीरुद्रस्कन्दकृतायां गृह्यवृत्तौ द्वितीयपटलस्य
प्रथमः खण्डः ।। १ ।।
अथ द्वितीयः खण्डः ।
प्रकृतस्य प्रधानदेवता आह-
आग्नेयः स्थालीपाकोऽनाहितागेर्दर्शपूर्णमासयोः ॥ १ ॥
अनाहितागेर्दर्शपूर्णमासयाराग्नेय एव स्थालीपाकः । अग्नये त्वा जुष्टं
निर्वपामीति निर्वापः। अनये स्वाहेति होमः ॥ १ ॥
३६ रुद्रस्कन्दप्रणीता- [ २ द्वितीयपटले- ॥ अग्नीषोमीयः पौर्णमास्यामाहिताः ॥२॥ अग्नीषोमाभ्यां वा जुष्टं निर्वपामीति निर्वापः । अग्नीषोमाभ्यां स्वाहेति होमः ॥२॥ ऐन्द्रो माहेन्दो वैन्द्रानो वाऽमावास्यायाम् ॥ ३ ॥ आहिताग्नेरेवेष्टिवद्विनिवेशः । इन्द्राय त्वा जुटं निर्वपामि । महेन्द्राय त्वा जुष्टं निर्वपामि । इन्द्राग्निभ्यां त्वा जुष्टं निर्वपामीति निर्वापः । इन्द्राय स्वाहा महेन्द्राय स्वाहेन्द्रामिभ्यां स्वाहेति होमः ॥३॥ यथा वाऽनाहिताग्नेः ॥ ४ ॥ दर्श च पूर्णमासे चानाहितामेर्यथा वा तथेत्यर्थः ॥४॥ सर्वमहः प्रातराहुतेः स्थानम् ॥ ५॥ सर्वमिति पूर्वाहासंभवेऽपराह्नेऽपि होमार्थम् ॥ ५॥ रात्रिः सायमाहुतेः ॥ ६॥ स्पष्टम् ॥ ६॥ सर्वोऽपरपक्षः पूर्णमासस्य ॥ ७ ॥ सर्व इत्युपक्रान्तस्य पूर्वाह्नातिकमेऽपराह्ने समाप्त्यर्थम् । तदतिक- मेऽपि राबावनुपकान्तस्य तु स्वकालेऽपराह्ने स्नात्वेत्याद्यहरन्तेऽपि मवत्येव ॥७॥ पूर्वपक्षो दार्शस्य ॥ ८॥ सर्व इति वर्तते । आपत्काल एते । अन्यथाऽस्तमिते होम इत्यादेः- यर्यप्रसङ्गात् । उत्तरहोमोपक्रमकालात्मागेवैते कालाः। आपत्कालत्वाच्च यथासंमवं न कालोत्कर्षः कार्यः ॥८॥ अभोजनेन संतनुयादित्येके ॥९॥ स्वकालात्ययेऽमोजनेन तत्कार्यसिद्धिरित्यन्ये । आ स्वकालात्यया- दमोजनेन तत्कार्यसिद्धिरित्यर्थः । वाक्यशेषात्सिद्धे संतनुयादिति विच्छेदस्य विवक्षितत्वं दर्शयति । अतः कालात्ययेऽपि प्रायश्चित्तं कृत्वै- योत्तरस्य करणम् । अधिकारक्ये च सति संध्योपासनादिलोपेऽप्यमोज. नेनापि संतानं भवत्येव ।
२ द्वितीयः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः। वेदोदितानां नित्यानां कर्मणां समतिकमे । सातकवतलोपे च प्रायश्चित्तममोजनम् ।। इति मनुवचनाच्च ॥९॥ अविद्यमाने हव्ये यज्ञियानां फलानि जुहुयात् ॥ १० ॥ औपासनहोमेऽग्रिपक्वान्य नमिपक्वानि च वैश्वदेवे पक्कान्येव दर्श पूर्णमासयोनिर्वापादि कृत्वा ॥ १० ॥ पलाशानि वा ॥ ११ ॥ फलामावे यज्ञियानां पर्णानि वा जुहुयात् । पूर्ववत्पाकनियमः॥११॥ अपो वा ॥१२॥ सर्वत्रापां प्रक्षालनं श्रपणं च नास्त्यर्थलोपात् ॥१२॥ हुतं हि ॥ १३॥ हिशब्दो हेतौ । यस्मादापत्कालेऽलामनिमित्ते द्रव्येण च हुते हुतमेव मवत्यतो न तत्र वैगुण्यनिमित्तं प्रायश्चित्तमित्यर्थः ।। १३ ॥ संतनुयादित्युक्तं कथमहुतस्य संतानमित्यत आह- प्रायश्चित्तमहुतस्य ॥ १४ ॥ अतिपन्नकालस्य प्रायश्चित्तं संतानं भवतीत्यर्थः। प्रायश्चित्तं तु पाजा. पत्यायुक्तमेव सूत्रान्तरमतात्पतिहोमं वा कुर्यात् ॥ १४ ॥ आज्यं जुहुयाद्धविषोऽनादेशे ॥ १५॥ आज्यं जुहुयादनादेश इति सिद्ध हविष इति हविपः संस्कारमपि गृतममिघायैत्यादिष्वाज्यमेव स्यादित्येवमर्थम् ॥ १५॥ देवतामन्त्रानादेशे ॥ १६ ॥ यदेवत्यं हविरुक्तं तद्देवताहोममन्त्रः स्यादग्नये स्वाहेतिवत् ॥ १६ ॥ प्रथमगर्ने तृतीये मासि पुंसवनम्॥ १७ ॥ सर्वगर्मार्थोऽयं संस्कार आधारसंस्कारद्वारेण सकृदेव क्रियते । मार्या- न्तरे तु कर्तव्यमेव । प्रथमगर्भे दर्शादूर्ध्वमा दर्शादेको मासः । यत्र कुत्रचिद्दिनेऽप्याहिते गर्भ स एको मासो गणयितव्यः । संज्ञा व्यवहा- रार्था । कृत्सामावेव । मासीति मास इत्यर्थः । अत्र केचिदतिक्रान्तेऽपि मुख्यकाले प्रसवात्माकालातिक्रमप्रायश्चित्तं कृत्वा कर्तव्यमेवाऽऽहुरुपन-
३८
रुद्रस्कन्दप्रणीता-
[२ द्वितीयपटले-
यने दर्शनात् । तेन च स्मृतितुल्यवद्णनात् । कासुचित्स्मृतिषु काल-
निर्देशेन विधानादापत्कालाभ्यनुज्ञानं सर्वदा संस्करणमस्त्येवमाहुः ।
जननादूय तु द्वाराभावात्प्रायश्चित्तेनैव जातं संस्कुर्यात् । एकदेशऽयौ
गर्मान्तरार्थं तु द्वितीये गर्भे कुर्यादेव । अपरे तु कालात्ययेऽधिकारा-
भावात्प्रायश्चित्तमेवाऽऽहुः । पूर्व एव तु पक्षे(क्षः) श्रेयान् । अथापि
संशयेऽपि लोपालोपान्यायतर(?) इति निदानकारोऽप्याह ॥ १७ ॥
नातामहतेनाऽच्छाय हुत्वा
पतिः पृष्ठतस्तिष्ठेत् ॥ १८ ॥
अहतेनाधरीयेणोत्तरीयण च ब्रह्मोपवेशनान्तं कृत्वा वधूदक्षिणतो
दर्मेषूपवेश्य प्रपदान्तं कृत्वाऽन्वारब्धायां ध्याहृतिमिस्तिसृभिर्खत्वा पुनश्च
हुत्वा वध्वाः पश्चाद्दर्भेषु तिष्ठेत् । पतिरिति भर्तुरभावे पालनाधिकृतनि.
यमार्थम् । भर्तुरन्यः कुर्वन्प्रणीतेऽनौ लौकिके वा कुर्यात् ॥ १८॥
दक्षिणमंसमन्ववमृश्यानन्तर्हितान्नाभिदे-
शमभिमृशेत्पुमांसाविति ॥ १९ ॥
अन्विति । वधूमनुगतः प्रवीभूत इत्यर्थः । वध्वा अंसमन्ववसृश्य
वस्त्रादिनाऽनन्तर्हितमभिमुशन्नेव पाणिना नाभिं प्रापय्य सकलमेवोदर
मन्त्रेणाभिमृशेत् ॥ १९ ॥
अथापरं न्यग्रोधशुङ्गामुभयतःफलामस्रामामकि-
मिपरिसृप्तां त्रिःसप्तर्यवैः परिक्रीयोत्थापयेन्मा-
पैर्वा सर्वत्रौषधयः सुपनसो भूत्वाऽस्यां वीर्य
समाधत्तेऽयं कर्म करिष्यतीति ॥ २० ॥
अथेत्यानन्तर्यार्थन प्रयोगैक्यमाह । अतोऽनन्तरं ब्राह्मणभोजनम् ।
अपरमिति कर्मान्तरत्वमाह । अतो वामदेव्यगानान्तं कृत्वा ब्रह्मणे
दक्षिणां दत्त्वा वक्ष्यमाणं कुर्यात्कर्मद्वयात्मकम् । इदमेकं पुंसवनाख्यं
कर्म । अस्रामामशुष्कांन्यग्रोधाधिदेवताभ्यः परिक्रीणामीत्यनया बुद्ध्या
सप्तमिर्यवर्मूल्यतयैव कल्पितैः शुङ्गां परिलस्त्रिः प्रकीर्य शुङ्गामूर्धानां
मन्त्रेण विकर्षेद्यथा छियेत । यवाभावे माषैः ॥ २० ॥
२ द्वितीयः खण्डः ] द्राह्यायणगृह्यसूत्रवृत्तिः।
३९
आहृत्य वैहायसी कुर्यात् ॥ २१ ॥
गृहमागत्योपर्यनाच्छादिते देशे शुङ्गां निदध्यात् ॥ २१ ॥
कुमारी ब्रह्मचारी व्रतवती वा ब्राह्मणी
पेषयेदप्रत्याहरन्ती ॥ २२ ॥
ब्राह्मणी ब्रह्मचारी वा वाग्यतो भूत्वा प्राची दिशं प्रतिपेपयेत्॥२२॥
स्त्रातां संवेश्य दक्षिणे नासिकास्रोतस्या-
सिञ्चेत्पुमाननिरिति ॥ २३
पुनः नातामग्नेः पश्चात्याक्शिरसं दर्भेषु संवेश्य शुङ्गारसमासिश्चेत् ।
सा च रसमुदरस्थं कुर्यादथ ब्राह्मणभोजनम् ॥ २३ ॥
अथास्याश्चतुर्थे मासि षष्ठे वा सीमन्तोन्नयनम् ॥ २४ ॥
अथेत्यकृतेऽपि तृतीये मासि पुंसवनेऽस्मिन्काले पुंसवनं कृत्वा सीम-
न्तकरणार्थम् । अस्या इति प्रथमगर्मनियमार्थम् ॥ २४ ॥
स्त्रातामहतेनाऽऽच्छाद्य हुत्वा पतिः पृष्ठतस्ति-
ठन्ननपूर्वया फलवृक्षशाखया सकसीमन्तमुन्न-
येत्रिःश्वेतया च शलल्याऽयमूर्जावतो वृक्ष
इति ॥ २५॥
अनुपूर्वयेति । न्यग्रोधशुङ्गाधर्मयुक्तयेत्यर्थः । फलवृक्ष उदुम्बरः ।
अग्वादुम्बर इति श्रुतेः । अयमूर्जावतो वृक्ष इति मन्त्रवर्णनात्तद्वदेव
शाखामाहृत्य वैहायसी कृत्वा पुंसवनवत्पृष्ठतः स्थानान्तं कृत्वा तया
शाखया मूनि गतान्वध्वाः केशान्प्रत्यश्चमुन्नयेत्कृणोमीति मन्त्रान्तः ।
ततस्त्रिषु श्वेतया वराहमूच्या तद्वदेव शकामहमित्युन्नयेत् । रराणेति
मन्त्रान्तः ॥२५॥
कसरस्थालीपाकः ॥ २६ ॥
कृसरस्तिलमिश्रः पाकधर्मयुक्तो भवेत् । चौले वृथा पक्क इति विशे-
षणात् । निर्वापमन्त्रस्तु नास्ति देवताभावात् ॥ २६ ।।
उत्तरघृतमवेक्षन्तीं पृच्छेकि पश्यसीति ॥ २७ ॥
स्पष्टम् ॥ २७ ॥
४० रुद्रस्कन्दप्रणीता- [ २ द्वितीयपटले- प्रजामिति वाचयेत्पतिः ॥ २८ ॥ अथोपरिटाद्धोमादि ब्राह्मणभोजनान्तं कृत्वा स्थालीपाकमनीया- दिति गृह्यान्तर उक्तम् ॥ २८॥ प्रतिष्ठिते बस्ती सोष्यन्तीहोमः ॥ २९ ॥ बस्ती गर्ने प्रतिष्ठिते स्वस्थानात्मच्युते । प्रतिगर्भमेतज्जायमानार्थ- स्वात्। प्रणीतानाधेतत् । नात्रान्वारम्भोऽसंस्कारत्वात् । अकृते यदि जननं स्यान तत्र पुनः क्रिया जनिष्यत इति मन्त्रलिङ्गात् । तत्राऽऽशौचा- दूर्व प्रायश्चित्तेनैव संस्कारः ॥ २९ ॥ या तिरश्चीति द्वाायाम् ॥ ३० ॥ प्रपदान्तं कृत्वा व्याहृतिभिस्तिसृभिर्खत्वा या तिरश्चीति हुत्वा विप. श्चित्पुच्छमिति जुहुयात् ॥ ३० ॥ असाविति नाम दध्यात् ॥ ३१ ॥ यदि नामाभिलषितं विष्णुशर्मा नामेतिवन्मन्नस्थेऽसौशब्दे नाम निदध्यात् । युग्माक्षरं ब्राह्मणस्य द्यक्षरं चतुरक्षरम् । मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।। वैश्यस्य धनपुष्टिसंयुक्तं शूद्रस्य तु जुगुप्सितम् । शर्मवब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ॥ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । इति मनुवचनात् । युग्माक्षरं ब्राह्मणस्य मङ्गल्यं शर्मवत्स्यात् । बलर- क्षान्वितं क्षत्रियस्य धनपुष्टिसंयुक्तं वैश्यस्य । जुगुप्साप्रेष्य[संयुक्तं] शूदस्येति मनुवचनाच ॥ ३१॥ तद्गुह्यम् ॥३२॥ वैदिककर्मार्थमेतत् । व्यावहारिकं त्वन्यदेव । नामापरिज्ञान आभि- चारायसिद्धिः फलम् ॥ ३२॥ प्राङ्नाभिकन्तनात्स्तनदानाच्च बीहियवौ पेषयेत् ॥ ३३ ॥ विसमासः प्राङ्नाभिकृन्तनादसंभवे स्तन हानात्माकर्तुम् । द्विवचना. यक्तिद्वयं जात्यभिप्रायेणेति केचित् ॥ ३३ ।। ॥
२ द्वितीयः खण्डः ]
द्राहायणगृह्यसूत्रवृत्तिः।
शुङ्गावत् ॥ ३४ ॥
शुङ्गाप्रकारेण कुमारी ब्राह्मणी ब्रह्मचारी [वा] पेषयेदप्रत्याहरन्ती ॥३४॥
अङ्गुष्ठेनानामिकया चाऽऽदाय
कुमारं प्राशयेदियमाज्ञेति ॥३५॥
अङ्गुष्ठानामिकाभ्यामितिसिद्धे पृथग्ग्रहणं विषयद्वयसूचनार्थमन्नप्रा.
शनमप्याभ्यामेवेति । चशब्दोऽन्नप्राशनेऽप्येतन्मन्त्रप्रापणार्थः ॥ ३५ ॥
सर्पिश्च मेधांत इति ॥ ३६ ॥
चशब्दः पूर्ववन्मेधां ते मित्रावरुणाविति मन्त्रादिमन्त्रनियमार्थः ।
अन्नप्राशन आभ्यां मन्त्राभ्यामन्नमेव प्राशयेत् । कालस्तु षष्ठे मासेऽ.
नप्राशनमिति स्मृत्यन्तराद्गम्यते । केचिच्चशब्दो हिरण्यमधुसमुच्चयार्थ
इत्याहुः । तथा च मनु:-हिरण्यमधुसर्पिषामिति ॥ ३६ ।।
इति श्रीरुद्रस्कन्दविरचितायां गृह्यवृत्ती द्वितीयपटलस्य
द्वितीयः खण्डः ॥ २॥
अथ तृतीयः खण्डः ।
जननाज्ज्योत्स्ने तृतीये तृतीयायां प्रातः
स्त्राप्य कुमारमस्तमिते शान्तासु दिक्षु
पिता चन्द्रमसमुपतिष्ठेत्पाञ्जलिः ॥ १ ॥
मातुः पितुर्वा रुच्या यदा कदाचिच्छिशोनिष्क्रमणे प्राप्ते तदुपक्रम-
नियमोऽयम् । दैवान्मानुषाद्वा निष्क्रमणे कृतेऽपि संस्कारार्थमस्मिन्काले
कुर्यादेव । एवमुत्तरत्रापि कालात्यये तूक्त एव न्यायः सर्वेषु संस्कारेषु ।
ज्योत्स्ना चन्द्रप्रभा तद्योगात्पूर्वपक्षो ज्योत्सः । जननादूर्व ये ज्योत्स्ना.
स्तेषां तृतीये तृतीयायां तिथावित्यर्थः । यदि पूर्वपक्षे जननं स्यान्नासौ
गणयितव्यः । कृत्स्नस्य जननादूत्वामावात् ।
तथा च मनु:-
चतुर्थे मासि कर्तव्यं शिशोनिष्क्रमणं गृहात् ।
इति । उपस्थानकाले तृतीयानियमः । शान्तासूपरतादित्यरश्मिषु
दिक्षु । उपतिष्ठेदिति दर्भेषु तिष्ठेत् । चन्द्राभिमुखो वक्ष्यमाणप्रकारेण
कुमारमादाय मन्त्रैश्चन्द्रमसममिदध्यादित्यर्थः ॥ १॥
४२
रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले-
शुचिनाऽऽच्छाद्य माता प्रवच्छेदुदक्शिरसम् ॥ २॥
होणाऽऽच्छाध दक्षिणतः स्थित्वा कुमारं पित्रे प्रयच्छेन्माता ॥२॥
अनुपूर्व गत्वोत्तरतस्तिष्ठेत् ॥ ३ ॥
पूर्वशब्दो दिग्याची । अनुपृष्ठं गत्वा पितुरुत्तरतः प्रत्यङ्मुखी दर्भेषु
विष्ठेन्माता ॥३॥
यते सुशीम इति तिमृभिरुपस्थायोदश्चं मात्रे
प्रदाय यदद इत्यपामअलिमवसिञ्चेत् ॥ ४॥
उदश्चमुदक्शिरसं प्रातःकाले पारेण पूर्णा गृहीत्वाऽपस्ताभिर्मेषु
क्षिणतस्तिष्ठन्त्राह्मणोऽञ्जलिं पूरयेद्माववानं सिश्चेत् ॥ ४ ॥
द्विस्तूष्णीमिति ॥ ५॥
स्पष्टम् ॥ ५॥
जननादूवं दशराबाच्छतरात्रात्संवत्सराद्वा नाम कुर्यात् ॥६॥
जननदिवसादूर्व यो दशरात्रस्तस्मादूवं यदहस्तस्मिन्नित्यर्थः ।
द्वादशेऽहनीति यावत् । एकमुत्तरयोः पक्षयोः । नात्रोदगयनाचादरः
कचित्समवस्य नियमस्वात् (?) । असंभवविषयेऽपि तद्वशे कालविशेषो
वैकप्यप्रसङ्गात् () ॥६॥
स्त्राप्य कुमारं करिष्यत उपविष्टस्य शुचिनाऽऽ-
च्छाय माता प्रयच्छेदुदक्शिरसम् ॥ ७ ॥
होमारम्भात्पूर्वं दर्भेषूपविष्टस्य शुचिना वस्त्रेणाऽऽच्छाद्य दक्षिणत
उपविश्य प्रयच्छेदुदक्शिरसम् ॥ ७ ॥
अनुपृष्ठं गत्वोत्तरत उपविशेत् ॥ ८॥
दर्भेषु माता ॥ ८॥
हुत्वा कोऽसीत्यस्य मुख्यान्प्राणानभिमृशेत् ॥ ९ ॥
उदक्शिरसं कुमारं स्वाके धारयन्प्रपदान्तं कृत्वा द्विस्तिमृभियाह.
तिभिर्तुत्वा कुमारस्य चक्षुषी श्रोत्रे नासिके चाभिमृशेत् ॥९॥
असाविति नाम कुर्यात्तदेव मन्त्रान्ते ॥ १० ॥
यत्सोध्यन्तीहोमे तदेव परिददातु विष्णुशर्मन्नितिवत्कुर्यात् । मन्त्रा
न्तेऽसौशब्दो न मध्ये ॥ १० ॥
१ प्रथमः खण्डः] बाह्यायणगृह्यसूत्रवृत्तिः।
४२
मात्रे प्रथममाख्यायः ॥ १.१॥
मात्रे प्रयच्छेदुदक्शिरसमिति शेषः । प्रथममाख्याय । प्रथमशब्दस्य
द्वितीयापेक्षत्वात्प्रथमं गुह्यं नाम मातुरुक्त्वा द्वितीयमपि व्यावहारिक
नामेदानी ब्रूयादित्यर्थः । ततो भोजनान्तम् ॥ ११ ॥
विप्रोष्याङ्गादङ्गादिति पुत्रस्य मूर्धानं परि-
गृह्णीयात्पशूनां त्वेत्यभिजित् ।। १२ ॥
ग्रामान्तरे रात्रिमुषित्वा यदाऽऽगच्छति तदा पुत्रमायान्तमङ्कमारोप्य
दक्षिणेन पाणिनोभाभ्यां हस्ताभ्यां परितोऽङ्गादङ्गादित्यनेन मन्त्रेण
तस्य मूर्धानं परिगृह्य पशूनां त्वेत्यनेन मन्त्रेण मूर्धानमभिजियेत्ततोऽसौ.
शब्दे विष्णुशर्मन्नितिवढ्यात् ॥ १२ ॥
तूष्णी स्त्रियाः ॥ १३ ॥
जातकर्मादिचौलान्तं मन्त्रवण स्त्रियाः कुर्यात् । साङ्गस्तु होमों
निवर्तते मन्त्रादिलोपे देवतोद्देशस्यापि लोपात् । मानवेऽप्युक्तम्-
अमन्त्रिता तु कार्येयं स्त्रीणामावृतशेषतः।
संस्कारं तु शरीरस्य यथाकालं यथाक्रमम् ।।
इति । उपनयनं तु नास्ति तच्छ्रुतिवचनात् । उपनयनामावान्ना-
ध्ययनम् । तदमावात्तथा नियमाश्च जपा न सन्ति । आहत्य विहि-
तास्तु वचनबलाद्भवन्त्येवेति कालापन्नतया विवाहस्य करणात् ।
अतो विवाहात्यागनुपनीततुल्यमाचरेत् । ऊध्वं तु मर्तृतुल्यं सहधर्मश्चर्य-
तामिति ॥ १३॥
तृतीये वर्षे चौलम् ॥ १४ ॥
अत्र जननादिमासगणनया द्वादश मासाः संवत्सरो न चैत्रादिः ॥
तत्र नापित उष्णोदकमादर्शः क्षुर औदु.
म्बरः पिजूल्य इति दक्षिणतः ॥ १५ ॥
नापितो वपनकर्ता आयसक्षुरपाणिरायसेन. प्रच्छिद्येति वचनात् ।
उष्णोदकं कंसपात्रपूर्णम् । आदर्शो रक्तलोहमय औदुम्बरो वा विक.
ल्पते । क्षुरो दर्मः । पिजूल्य एकविंशतिः । एतान्योर्दक्षिणतः
स्युः॥ १५॥
४४
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले-
आनडुहो गोमयः कसरस्थाली-
पाको वृथापक्व इत्युत्तरतः॥१६॥
पुंगवशकृत्पाकधर्मरहितोऽग्न्यन्तरसिद्धस्तिलमिश्रः स्थालीपाकश्चा-
ग्रुत्तरतः स्याताम् ॥ १६ ॥
माता च कुमारमादाय ॥ १७ ॥
पृथनिर्देशः कर्तुरुत्तरत उपवेशनार्थः । मातुर्न दर्मासनम् । चकारः
कर्तुरुत्तरत इत्यस्यानुकर्षणार्थः। एतन्नापितादिस्थापनं ब्रह्मोपवेशना.
दूवं स्यात् । एतान्यहोमार्थान्यतः स्त्रिया अपि स्युः। अव्यावृत्तिरव्यवा.
यश्च तेषां नावश्यं स्याताम् । तथा परिषेचनेऽभिपरिहरणम् ॥ १७ ॥
हुत्वा यमगादिति नापितं प्रेक्षेत्सवितारं ध्यायन्निति ॥१८॥
प्रपदान्तं कृत्वा मातृप्रयुक्ते कुमारेऽन्वारब्धे व्याहृतिभिस्तिमृभिर्हत्वा
पुनः समस्तां ताभिश्च हुत्वा यमगादिति नापितं प्रेक्षेत्सवितारं
ध्यायन् ॥ १८॥
उष्णेनेत्युष्णोदकं प्रेक्षेद्वायुं ध्यायन् ॥ १९ ॥
वायुं मनसा ध्यायन् । स्पष्टम् ॥ १९ ॥
आप इत्युन्देत् ।। २० ॥
दक्षिणतः केशानुष्णोदकेन क्लेदयेत् ।। २० ॥
विष्णोरित्यादर्श प्रेक्षेदौदुम्बरं वेति॥ २१ ॥
गतमिति ॥ २१ ॥
ओषध इति दर्भपिजूलीः सप्तोर्वाग्रा अभिनिधाय केशः
संहत्य स्वधित इत्यादर्शन शुरेणौदुम्बरेण वा ॥ २२ ॥
दर्भाग्रसंयुक्तान्केशानन्यतरेण संयोजयेदित्यर्थः ॥ २२ ॥
येन पूति दक्षिणतस्त्रिः प्राञ्चं पोहेत् ॥ २३ ॥
आदर्शन क्षुरेणोदुम्बरेण वा केशान्दर्भाग्रयुक्तान्संमृज्यादित्यर्थः ।
मन्त्रस्यापि बिरावृत्तिः ॥ २३॥
सलदायसेन प्रच्छिद्याऽऽनडुहे गोमये केशान्कुर्यात् ॥२४॥
अमन्त्रकमेतत् ॥ २४ ॥
१ प्रथमः खण्डः ] द्वाह्यायणगृह्यसूत्रवृत्तिः। ४५ उन्दनप्रभृत्येवं पश्चादुत्तरतश्च ॥ २५ ॥ स्पष्टम् ॥ २५॥ व्यायुषमिति पुत्रस्य मूर्धनि परिगृह्य जपेत् ॥ २६ ॥ उमाभ्यां हस्ताभ्यां परितो गृहीत्वा ॥ २६ ॥ उदङ्डुत्सृप्य कुशली कारयेयथागोत्रकुलकल्पम् ॥ २७ ॥ वपनं कारयेन्नापितेन । गोत्रादिवशेन शिखाव्यवस्था स्मर्यते । तदनुसारेण नापितं संप्रेष्य होमं समापयेत् ॥ २७ ।। अरण्ये केशान्निखनेयुः ॥२८ ।। केशान्गोमयेन प्रच्छाद्य कर्मकारा निखनेयुः ।। २८॥ स्तम्बे निदधत्येके ॥ २९ ॥ दर्भस्तम्बे ॥ २९॥ गौर्दक्षिणा ॥३०॥ ब्रह्मणे देया। अनेदं चिन्त्यते-गर्माधानादयः संस्काराः शरीर संस्कुर्वन्तः सर्वेष्वदृष्टार्थेषु कर्मस्वत्र योग्यतातिशयं कुर्वन्ति फलं प्रति ग्रहणयोग्यतातिशयं च न पुनरयोग्यस्यैव योग्यतां कुर्वन्ति । संस्कार- वन्तमभिनिर्दिश्य पुरुषमात्रस्यैव कर्मणां विधानात्स्वत एव विद्यमान स्वाद्योग्यतायाः । नाप्यकिंचित्करा आनर्थक्यप्रसङ्गात् । नापि त(ते) स्वत एव पुरुषार्थः संस्कारश्रुतिविरोधात् । योग्यतातिशयित्वं संभवति यथा पानीयस्य गन्धादि क्षुरादेश्च तक्ष्ण्यादि। चौलपर्यन्ताः सर्वे संस्कारा अतिक्रान्ताः स्वकालमुपनयनात्मागेव कालातिपत्तिप्रायश्चित्तं कृत्वा कर्तव्याः । ऊर्ध्वं त्वकृतानां लोप एव तद्वितीयं जन्मेति जन्मा- न्तरव्यपदेशात् । संस्कारेषु द्विप्रकारं शास्त्रमस्ति । एकं पितुरुपदेशकं पुत्रमुत्पादयेत्संस्कुञ्चेिति, अपरं पुत्रस्यैते संस्कारा आत्मार्थतया कर्तव्या इति । नन्वस्य व्यापारे कथं प्रामाण्यम् । सत्यम् । यदि व्यापार- कर्तृताबोध: स्यात् । कर्मजन्यस्य हि पुरुषार्थस्य पुरुषविशेषतया जन्यताशब्देन बोध्यते । सा च कदाचित्स्वव्यापारः स्यात्कदाचित्पर. व्यापारः स्यात् । इयान्विशेषः । स्वव्यापारे तत्सिद्धे स्वयमेव प्रवर्तते परव्यापारे तु यदि स्वाधिकारादेव प्रवर्तनमन्यं लभते ततोदास्ते प्रसङ्गात्कार्यसिद्धेः । अलाभे तु स्वयमेव प्रयोजनमिति केनाप्युपायेन । .
४६
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले-
नन्वसो शिशुत्वात्पतिपतुं न शक्रोति मर्माधानाद्यवस्थायां तु सुतरां प्रति.
पत्त्यसंभवः । सत्यम् । यस्वैव फलं तस्यैव प्रतिपत्त्युत्पादकत्वेन शब्दस्य
प्रामाण्यं स्यात् । स्वर्गकामो यजेतेति स्वर्गकामिण इदं कर्तव्यमिति स्यात् ।
तस्यान्यस्य वाऽविशेषेण प्रमिति जनयत्ये(दे)व शास्त्रमुमयोरपि प्रमाण
मेव । इयान्विशेषः । स्वर्गकामधेन्ममैवेदं कर्तव्यमिति प्रतिपद्यतेऽन्यश्चे.
स्वर्गकामिण इदमिति प्रतिपद्यते न ममेदम् । कामसदसत्त्वोपाधिनिमि-
सोऽसौ हेतुर्न शब्दस्य व्यापारः। अतः पित्ता तस्य कर्तव्यं शास्त्रेण निश्चि-
त्याऽऽरमनश्चावश्यकर्तव्यतां प्रतिपद्य तत्करोति। पितुस्भावे. तद्रक्षणेऽधि-
कृतस्तदमावे यः परं परोपकारं कर्तुं प्रवृत्तो यो वा तं प्रत्यात्मनो गुरुत्व-
मिच्छति हितैषी वा कश्चित्कुर्यात्कारयेद्वा स्वाधिकारः प्रवृत्तश्चेत् ।
आत्मीयमेव द्रव्यं ब्रह्मणे दक्षिणां दद्यात् । तत्कार्षप्रवृत्तश्चेत्कुमारस्य
यत्स्वं तदेव ॥ ३०॥
इति रदस्कन्दकृतायां गृह्यवृत्तौ द्वितीयपटलस्य
तृतीयः खण्डः ।। ३॥
म चतुर्थः खण्डः।
अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥ १ ॥
अत्र गर्माधानादिवर्षगणनं गर्मादिः संख्या वर्षाणामिति स्मृतेः । एव.
मुत्तरत्रापि । वसन्ते ब्राह्मणमुपनीत ग्रीष्मे राजन्यमिति शास्त्रान्तरे
दर्शनात्ताभ्यामविरोधादुदगयनस्य समुच्चयः केचिदित्याहुः । शरदि
वैश्वमित्यनेन विरोधात्तेन च तुल्यश्रुतित्वाद्वसन्तादेविकल्प एवेति ॥१॥
तस्याऽऽषोडशादनतीतः काल इति ॥ २ ॥
आङभिविधौ । आपत्कालोऽयमत उच्च पतितो भवति । एवमुत्तर-
त्रापि ॥२॥
एकादशे क्षत्रियमिति ॥३॥
उपनयेदिति वर्तते ॥३॥
नस्याऽऽद्वाविंशादिति ॥ ४ ॥
अनतीतः काल इति वर्तते ॥४॥
द्वादशे वैश्यमिति ॥५॥
स्पष्टम् ॥ ५॥
१ प्रथमः खण्डः ]
द्राहायणगृह्यसूत्रवृत्तिः।
४७
॥
तस्वाऽऽचतुर्विशादिति ॥ ६ ॥
स्पष्टम् ॥६॥
कुशलीलतमलंकतमहतेनाऽऽच्छाय
हुत्वाऽने व्रतपत इति ॥ ७
कुशलीकृतरूपं चाङ्गं च वपनालंकारी । अतस्तो चावश्यमुपनयनमु.
हूतें कर्तव्यो लत्र कर्तव्यं वपनं कृत्वाऽलंकृत्य नान्दीमुखं कृत्वा कोतु.
कबन्धनं कृत्वा पुण्याहं वाचयित्वा कुमारं भोजयित्वाऽधरवाससा नवे-
नाऽऽच्छाद्य यज्ञोपवीतमजिनं चामन्त्रकं प्रतिमुच्याऽऽचमयित्वाऽऽत्मनो
दक्षिणत उदगग्रेषु दर्भेषूपवेश्य प्रपदान्तं कृत्वाऽन्वारब्धे माणवके व्याह-
तिभिस्तिमृभिर्तुत्वा पुनश्च समस्तान्ताभिश्चतसृभिर्तुत्वाऽने व्रतपत इत्या-
दिभिः पञ्चभिर्माणवकं हावयेन्मन्त्रलिङ्गात् । मन्त्रलिङ्गनिरीक्षणार्थ-
मेव हि पञ्चभिरित्यनेनोक्तम् ॥ ७॥
उत्तरतोऽनेः प्रत्यङ्मुखमवस्था-
प्याञ्जलिं कारयेत् ॥ ८ ॥
अग्न्यात्मनोरन्तरेण माणवकं गमयित्वा प्रदक्षिणावृतं दर्भेषु प्रत्य.
मुखभवस्थाप्य कोशाञ्जलिं कारयेन्माणवकमाचार्यः ॥ ८॥
स्वयं चोपरि कुर्यात् ॥ ९ ॥
प्रत्यङ्मुखदर्भेषु स्थितः ॥९॥
दक्षिणतस्तिष्ठन्मन्त्रवान्ब्राह्मण आचा-
योदकाअलिं पूरयेत् ॥ १० ॥
आचार्यस्य दक्षिणत उदगग्रेषु दर्भेषूदमुखस्तिष्ठन्ब्राह्मणो ब्रह्मच.
यमागामुपमानयस्वेत्येतन्मन्त्रवित् । अत एव कर्मविदेव ब्रह्मा । ऋत्वि-
क्त्वात्सिद्धे ब्राह्मण इत्यत्राप्यञ्जलिपूरणे ब्राह्मणनियमाथं यथा चन्द्रो-
पस्थाने ॥१०॥
आगन्त्रेति जपेत्प्रेक्षमाणे ॥११॥
अञ्जलिस्थमुदकं प्रेक्षमाणे माणवक आगन्त्रेति जपेदाचार्यः ।
ब्रह्मचर्यमागामुपमानयस्वेति ब्राह्मणो ब्रह्मचारिणं वाचयेन्मन्त्रलि.
ङ्गात् ॥११॥
रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले-
को नामासीत्युक्तो देवताश्रयं नक्षत्राश्रयं वाऽभि-
वादनीयं नाम ब्रूयादसावस्मीति ॥ १२ ॥
आचार्येणोक्तः स देवताश्रयं स्वजन्मनक्षत्रं यदेवत्यं यद्देवताश्रयं
नामाऽऽग्नेय इतिवन्नक्षत्राश्रयं वा स्वजम्मनक्षत्राश्रयमाश्वयुग्विष्णुशर्म-
नामाऽहमस्मीतिवत्प्रतिबूयान्माणवकोऽभिवादनीयं गुह्यम् । आश्व.
युग्मरणी कृत्तिका रोहिणी मृगशीर्ष आर्द्रा पुनर्वसू तिष्य आश्लेषा
मघा पूर्वा फल्गुन्युत्तरा फल्गुनी हस्तश्चित्रा स्वाती विशाखाऽनुराधा
ज्येष्ठा मूलं पूर्वाषाढोत्तराषाढा श्रवणं धनिष्ठा शतभिषपोष्ठपदोत्तरा
प्रोष्ठपदा रेवत्येतानि नक्षत्राणि । अश्विनौ यमोऽग्निः प्रजापतिः सोमो
रुद्रोऽदितिवृहस्पतिः सर्पाः पितर अर्यमा भगः सवितेन्द्रो वायुरिन्द्रामी
मित्र इन्द्रः प्रजापतिः पितरोवाऽऽपः विश्वे देवा विष्णुर्वसव इन्द्रोऽजैकपा-
दाहिर्बुध्न्यः पूषैतानि देवतानि ।आश्वयुजोऽपमरणीयः कार्तिकेयो रोहि-
णेयो मार्गशीर्ष आर्द्रकः पौनर्वसुः पौष आश्लेषो माघः फाल्गुन औत्त.
रफाल्गुनो हास्तश्चैत्रः स्वातिको वैशाख आनूराधो ज्येष्ठो मौल आषाढ
औत्तरषाढः श्रावणः श्रविष्ठः शतभिषजः प्रौष्ठपद औत्तरप्रोष्ठपदो रैवतो
नक्षत्राश्रयनिर्देशः । आश्विनो याम्य आग्नेयः प्राजापत्यः सौम्यो रौद्र
आदित्यो वाहस्पत्यः सार्यः पित्रिय आर्यमणो भागः सावित्र ऐन्द्रो
वायव्य ऐन्द्रानो मैत्र ऐन्द्रः पित्र्य आप्यो वैश्वदेवो वैष्णवो वासव
ऐन्द्रोऽजैकपादोऽहिर्बुध्न्यः पौष्यो देवताश्रयनिर्देशः॥१२॥
उत्सृज्यापो देवस्य त इति दक्षिणोत्तराभ्यां
हस्ताक्ष्यामअलि गृह्णीयादाचार्यः॥ १३ ॥
माणवकाञ्जलावुत्सृज्यासौशब्दे विष्णुशर्मन्निति बूयात् ॥ १३॥
सूर्यस्येति प्रदक्षिणमावर्तयेत् ॥ १४ ॥
अञ्जलिं गृह्णन्नेव यावत्माङ्मुखः स्यात्तावदार्वतयेत् । असाविति
पूर्ववत् ॥ १४ ॥
दक्षिणमंसमन्यवमृश्यानन्तर्हितां नाभि-
मालभेत्प्राणानामिति ॥ १५ ॥
स्पष्टम् ॥१५॥
४९ ४ चतुर्थः खण्डः ] दाह्मायणगृह्यसूत्रवृत्तिः। अथैनं परिदद्यादन्तकप्रभृतिभिः ॥ १६ ॥ अथशब्दो विशेषवाची।अनन्तर्हितमेव पाणिन्यां परितो गृह्णीयात् । अन्तक इदं ते परिददाम्युदरमित्युदरम् । अहुर इदं ते परिददाम्युर इत्युरः । कृशन इदं ते परिददामीति कण्ठम् ॥ १६ ॥ दक्षिणमंसं प्रजापतये वेति ॥ १७ ॥ दक्षिणेन पाणिना गृह्णीयादिति शेषः । इतः प्रभृत्यसोशब्दे विष्णु. शर्मन्नितिवन्माणवकनाम बूयादाचार्यः ॥ १७ ॥ सव्येन सव्यं देवाय स्वेति ॥ १८ ॥ सव्येन पाणिना सव्यांसं गृह्णीयादित्यर्थः ॥ १८ ॥ ब्रह्मचार्यसीति ॥ १९॥ विष्णुशर्मन्नितिवन्माणवकमुक्त्वा ॥१९॥ संप्रेष्योपविश्य दक्षिणजान्वक्तमालिकृतं प्रदक्षिणं मुञ्जमेखलामाबधन्वाचयेदियं दुरुक्तादिति ॥२०॥ समिधमाधेहीत्यादिमिश्चभिः संप्रेष्य दर्भेषपविष्टं नमस्काराञ्जलि. कृतं विवृत्कृतां मुञ्जमेखला प्रदक्षिणवृत्तां त्रिः परिवारयन्नाचार्यो माणवकं मन्त्रं वाचयेत् ॥ २० ॥ अधीहि भो इत्युपसीदेत् ॥ २१ ॥ अग्नेः पश्चात्स्वस्थान आचार्य उपविष्टे माणवकः पूर्ववत्प्रत्यागम्य दक्षिणेन पाणिना सव्यं पाणिमनङ्गुष्ठमुपसंगृह्याधीहि भो इति दक्षिणत उदगग्रेषु दर्भेषु प्राङ्मुख उपविशेदाचार्याभिमुखे चक्षुर्मनसि कृत्वा प्राग. ग्रेषु दर्भेपूदङ्मुखो वा । अयं विशेषः स्मृत्यन्तराद्गम्यते-प्राङ्मुखो दक्षि. णतः शिष्य उदङ्मुखो वेति । आचार्यश्च तं तथा कारयेत् । तदेतदा. चार्यस्य समीपनयनमुपनयनशब्दस्य प्रवृत्तिनिमित्तम् । अथोपरिष्टाद्धो- मादि समापयेत् । नन्वेवं सति सावित्र्याध्यापनादेोमप्रयोगान्त वो न स्यात् । नायं दोषः । उपनीतमध्यापयेदित्युपनयनोत्तरकालभावित्व- श्रवणाध्यापनस्य । ननु वेदाध्यापनं तत्रोक्तमिह तु सावित्र्याध्याप- नम् । नायं दोषः । सर्ववेदाध्यापनोपक्रमरूपत्वात्साविध्यध्यापनस्य ।
-
रुद्रस्कन्दप्रणीता-
[२ द्वितीयपटले-
तथा हि सर्वेभ्यो वेदेभ्यः सावित्री त्रिरुच्यत इति ब्राह्मणम् । अपि च
सर्ववेदात्मकत्वं सर्ववेदसारत्वं च सावित्र्यादीनां श्रुतिस्मृतिषु श्रूयत
एव । तथा हि-'त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ' इत्या.
दिभिः । अत उपरिष्टाद्धोमादि समाप्यैव सावित्र्यायध्यापनम् ॥२१॥
अत ऊध्वं सावित्र्यादेरध्यापनप्रकारमाह-
तस्मा अन्वाह सावित्रीं पच्छोऽर्धर्चशः सर्वामिति॥२२॥
पादे पादेऽवसायाध्यापयीत । ततः पादयेऽवसाय ततः सवा
संहृत्य ॥ २२॥
महाध्याहृतीश्चकेकशः॥ २३ ॥
भूर्भुवः स्वरिति प्रत्येकमवमाय ॥ २३ ॥
ओंकारं च ॥२४॥
ओमिति चाध्यापयीत ॥ २४ ॥
प्रयच्छत्यस्मै वाक्षं दण्डम्॥ २५ ॥
स्मृत्युक्तदण्डं प्रयच्छेदाचार्यः ॥२५ ॥
सुश्रुवस्सुश्रुवसं मेति ॥ २६ ॥
माणवकः प्रतिगृह्णीयादिति शेषः ॥ २६ ॥
समिधमादध्यादग्नये समिधमिति ॥ २७ ॥
यज्ञियां समिधं तस्मिन्नेवानावादध्यान्माणवकः । औपासनवदुमयतः
परिषेचनम् ॥ २७ ॥
भैक्षं चरेत् ॥ २८ ॥
भवति भिक्षां देहीति ब्राह्मणः । भिक्षा भवति देहीति क्षत्रियः ।
भिक्षां देहि भवतीति वश्यः । दण्डहस्त आदित्यमुपस्थायाग्निं प्रदक्षि-
णीकृत्य भैक्षं याचेत ॥२८॥
मातरमग्रे ॥ २९ ॥
प्रथमं मातरं याचेत ॥ २९॥
अथान्याः सुहृदः ॥ ३०॥
सुहृद इति स्त्रीपुंसोः साधारण्यास्त्रीनियमार्थमन्या इति विशि.
नष्टि ॥ ३०॥
५ पञ्चमः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः। आचार्याय भैक्षं निवेदयेत् ॥ ३१ ॥ मैक्षमितीवमुपयुज्यतामिति ब्रूयात् । आचार्योऽपि गृह्णी यात्पतिप्रय- छेद्वा यथारुचि । उपनयनं वेदाध्ययनाङ्गं पुरुषसंस्कारद्वारेण तदर्थमेव क्रियमाणमपेक्षते । अध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहो द्विजातीनामित्यधिकृत्य विधानादुपनयनाच द्विजातित्वसिद्धेः । अत उपनयनरहितानां तेष्वधिकारे न केवलमवैधत्वं किंतु निषेधात्म- त्यवायश्च ॥३१॥ तिष्ठेदाऽस्तमयातूष्णीं त्रिरात्रम् ॥ ३२ ॥ क्षारलवणे दुग्धमिति वर्जयेत् ॥ ३३ ॥ स्पष्टे सूत्रे ॥३२॥ ३३॥ इति रुद्रस्कन्दकृतायां गृह्यवृत्ती द्वितीयपटलस्य चतुर्थः खण्डः ॥ ४॥ मथ पक्षपः सण्डः । गोदाने चौलवकल्पः ॥ १॥ अष्टौ ब्रतानि स्मर्यन्ते छन्दोगानाम् । उपनयनं गोदानं बातिकमा- दित्यवतं महानानिकमोपनिषदं भौतिकं ब्रह्मसामवतमिति । तेषामुपाक- रणविसर्गौ च स्मर्यते । तत्रोपनयनं कृत्स्नाध्ययनार्थमपि सद्वतान्तरनिर- पेक्षं साविध्यध्ययने तत्सामाध्ययने चोपकरोतीति व्रतान्तरत्वेन व्यप- दिश्यते निरपेक्षाकारस्य च विसर्गः क्रियते । उपनीतं वक्ष्यमाणान्यधः- शय्यादीनि स्मृत्युक्तानि च नियमादीनि समाचरन्तं सावित्री तत्साम चाध्याप्य यथाद्ध काले गते विसर्ग कुर्यात् । हविष्यमेकमुक्तं मोज. यित्वा प्रागुदयात्प्राग्योदग्या ग्रामाग्निष्क्रम्य कमण्डलुनोदकं गृहीत्वा प्रागुदपवणे देशे गोमयेनोपलिप्य कुशैः प्रदक्षिणं मण्डलं कृत्वोदिते तेनोदकेनाऽऽयम्य दर्भमुष्टिं गृहीत्वा महीभूतो वामदेव्येन मण्डलं प्रवि- शेदाचार्यः । शिष्यश्च तमन्वारभ्य तथा प्रविशेरपुनराचम्य प्रपदान्तं कृत्वाऽन्वारब्धे व्याहृतिभिर्हस्वेन्द्राय बृहद्भानवे स्वाहा प्रजापतये मनये स्वाहेत्याचारावाचार्याऽऽज्यभागी च हुत्वाऽनवं स्वाहा सोमाय स्वाहा रुद्राय स्वाहेन्द्राय स्वाहा ब्रह्मणे स्वाहा प्रजापतये स्वाहा
५२
रुद्रस्कन्दप्रणीता-
[२ द्वितीयपटले-
विश्वेभ्यो देवेभ्यः स्वाहा ऋषिभ्यः स्वाहा ऋग्भ्यः स्वाहा यजुर्व्यः
स्वाहा सामभ्य: स्वाहा श्रद्धायै स्वाहा प्रज्ञायै स्वाहा मेधायै स्वाहा
सावित्र्यै स्वाहा सदसस्पतये स्वाहाऽनुमतये स्वाहेति च हुत्वा होम
समाप्य कुशेष्वासीनो दक्षिणेन पाणिना कुशमुष्टिं धारयन्यथाविधं
यक्ष्यमाणस्तथाविधं श्रावयेत् । पूर्वा व्याहृतीः सावित्री च चतुरनु-
द्रुत्य मनसा साम सावित्रं च सोमं राजानं ब्रह्म जज्ञानमिति द्वे पञ्चनि.
धनं वामदेव्यवैरूपवाचोवतानि च भद्रश्रेयसी च पूर्व गीत्वा गायत्रं
श्रावयेत् । अथोपरिष्टात्सप्त ह महासामकल्माषवामदेव्यानि गीत्वा
पुनरेकदेशं प्रणीयाथानुप्रवचनीयहोमः । प्रपदान्तं कृत्वाऽन्वारब्धे
व्याहृतिभिस्तिमृभिर्तुत्वा पुनश्च समस्तान्ताभिश्चतसृभिर्हत्वाऽने व्रतपत
इत्यादिभिः पञ्चभिब्रह्मचारिणं हावयेत् । उपनयनवतमचारिषं तत्ते
प्रावोचं तदशकं तेनाराद्धमिदमहमनृतात्सत्यमुपागामिति मन्त्रवि.
कारः । ऋचं साम सदसस्पतिमिति चाऽऽज्यं जुहुयात् । उपरिष्टा-
द्धोमादि दक्षिणान्तं कृत्वा तस्मिन्नेवाग्मावग्निकार्य कारयेत् । ततो
वामदेव्येन क्रमशो निष्क्रमणं ततो ब्राह्मणभोजनम् । अथ गोदानोपा.
करणम् । तत्र चौलवकेशक्लप्तिर्वपनमित्यर्थः । वपनाङ्गत्वान्नापितादि-
रप्यतिदिश्यते । कृसरस्थालीपाको माता व्यायुपमिति च त्रयं निवर्तते।
अतदर्थत्वाद्धोमस्त्वस्ति । एवं चौलोपनयनगोदानेष्विति वचनात्सम-
स्तान्ताभिव्याहृतिभिर्होमः कर्तव्यः ॥ १ ॥
सलोमं वापयेत् ॥ २॥
स्पष्टम् ॥ २॥
गोअश्वाविमिथुनानि दक्षिणाः पृथग्वर्णानाम् ॥ ३ ॥
गोमिथुनमश्चमिथुनमविमिथुनं च यथाक्रमं ब्राह्मणादीनां गोः
स्थाले स्यात् ॥३॥
सर्वेषां वा गौः ॥ ४ ॥
स्पष्टम् ॥४॥
अजः केशप्रतिग्रहाय ॥ ५॥
यः केशान्निखनेत्तस्म देयः ॥५॥
५ पञ्चमः खण्डः ]
दाह्यायणगृह्यसूत्रवृत्तिः ।
उक्तमुपनयनम् ॥ ६ ॥
चौलवद्वपनान्तं कृत्वा पुनरेकदेशं प्रणीयोपनयनवत्कृत्स्नं कुर्यात् ।
गोदानवतं चरिण्यामीति मन्त्रविकारः । समीपनयनस्याध्यापनार्थत्वा.
सावित्र्याद्यध्यापनमपि तद्वदेव कुर्यात् । यदुपनयनं गोदानेऽपि तदेवो-
क्तमिति सूत्रयोजना ॥ ६ ॥
आचरिष्यन्तं संवत्सरम् ॥ ७ ॥
यस्य संवत्सरं चरिष्यामीति बुद्धिस्तमेवेदं व्रतं ग्राहयेत् । यस्य तु न
चरिष्यामीति बुद्धिस्तं न ग्राहयेदित्यर्थः । तमपि केनाप्युपायेन तथा
बुद्धिमुत्पाद्य ग्राहयदव ॥ ७ ॥
अनियुक्तं त्वहतम् ॥ ८॥
अनियुक्तमनियतम् । तुशब्दोऽवधारणार्थोऽहतमेवानियतमेव । सूत्र-
चर्ममेखलादण्डा नियता एव । असत्यवधारणे कृतकार्यतया तेषामपि
निवृत्तिराशङ्कयेतातः पुराणानि त्यक्त्वा नवानि गृह्णीयादित्यर्थः ॥ ८॥
तथाऽलंकारः॥९॥
अनियतः॥९॥
अथ वतिनो नियमा उच्यन्ते-
अधः संवेशी ॥१०॥
खट्वादिनिषेधः ॥१०॥
अमधुमांसाशी स्यात् ॥ ११ ॥
स्पष्टम् ॥ ११॥
मैथुनक्षुरकत्यस्नानावलेखनदन्तधावन-
पादधावनानि वर्जयेत् ॥ १२ ॥
क्षुरकृत्यनिषेधो नोपरिच्छेदनस्य । दृष्टार्थस्य मानस्य निषेधो न
विहितस्य । अवलेखनं स्पृश्यमलापकर्षणम् । पादधावनं नखकृन्त-
नादि ।। १२॥
नारय कामे रेतः स्कन्देत् ॥ १३ ॥
कामे निमित्ते रेतःस्कन्दनं न कुर्यात् । अनेनैव निषिद्धे मैथुननिषेधो
दोषभूयस्त्वसूचनार्थः ॥ १३ ॥
५४ रुद्रस्कन्दप्रणीता- [२ द्वितीयपटले- - न गोयुक्तमारोहयेत् ॥ १४ ॥ गवा युक्तं रथादि ॥ १४ ॥ न ग्रामोपानहौ ॥ १५॥ उपानही ग्रामे वर्जयेन बहिनिषेधः । एषु सूत्रेष्वधिकारवचनानि सजातीयस्मृत्युक्तोपसंग्रहार्थानि ॥ १५ ॥ मेखलाधारणक्षचर्यदण्डसमिदाधानोपस्प- र्शनपातरभिवादा नित्यम् ॥ १६ ॥ धारणग्रहणं वस्त्रसूत्रचर्मणामुपसंग्रहणार्थम् । मैक्षचर्यमुक्तेन प्रकारेण । चर्यग्रहणं सायंप्रातर्भक्षभोजनार्थम् । दण्डस्यानन्तरं धारणशब्दोऽध्याह- तव्यः। विनष्टानप्मु प्रवेश्यान्यान्मन्त्रेण गृह्णीयात् । मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृहीतान्यानि मन्त्रषत् ॥ इति मनुवचनाच । समिदाधानं देव सवितः प्रसुति लौकिकेऽनौ परिचरणतन्त्रेण सायं पातश्च । आधानग्रहणं ध्याहृतिभिश्च समस्ता- ताभिः समिदाधानार्थम् । यज्ञिया एव समिधः । उपस्पर्शनं मानम् । प्रातरभिवादो गुरुणां कण्ठसमौ बाहू उद्धृत्य व्यस्तेन पाणिना इक्षिणेन दक्षिणं पादं गृह्णीयात्सव्येन च सव्यमभिवादयेद्विष्णुशर्मा नामाहमस्मि मो इतिवद्यथानाम । नित्यमिति समाप्तेष्वपि व्रतेष्वा माना. दनुवृत्त्यर्थम् । एते सर्ववतसाधारणा अनियुक्तमित्यारभ्योक्ताः ।। १६ । गोदानवातिकादित्यव्रतोपनिषज्ज्थे- ठसामिकाः संवत्सराः ॥ १७ ॥ संवत्सरं च कर्तव्या इत्यर्थः ॥ १७ ॥ नाऽऽदित्यव्रतमेकेषाम् ॥ १८ ॥ एकेषां शाखिनामादित्यव्रतं नास्ति येषां शुक्रियपाठो न विद्यत इत्यर्थः । अपरा व्याख्या-एकेषामाचार्याणां मतेन सर्वेषामेव शाखिना- मादित्यव्रतं नास्तीति ॥ १८॥ ये चरन्त्येकवाससो भवन्ति ॥ १९ ॥ न वाससा परिवर्तनं कुर्यात् ॥ १९ ।।
५ पञ्चमः खण्डः ] वाह्यायणगृह्यसूत्रवृत्तिः। ५५ - न चापोऽभ्युपयन्ति ॥ २१॥ मानार्थमपि नावगाहनं कुर्युः ॥ २१ ॥ शक्वरीणां द्वादश नव षट् त्रय इति विकल्पाः ॥ २२ संवत्सरा इति वर्तन्ते । विकल्पा इति । विविधा एते कल्पा न तुल्या इत्यर्थः । अनेन कालमयस्त्वेन फलमयस्त्वं द्योत्यते ॥ २२ ॥ अथ महानानिकवतिनो नियममाह- कृष्णवरः॥ २३ ॥ कृष्णस्तु वर्णविशेष आर्द्रवस्त्रता वा ॥ २३ ॥ कृष्णभक्षः ॥ २४॥ नीरसाहारोऽपक्वाहारो वा ॥ २४ ॥ आचार्याधीनः ॥ २५॥ असत्यप्यध्ययने तषियहितकारी स्यात् ॥ २५ ॥ तपस्वी तिष्ठेहिवेति ॥ २६ ॥ आसीत नक्तम् ॥ २७ ॥ स्पष्टे ॥ २६ ॥ २७ ॥ संवत्सरमेकेषां पूः श्रुताश्चेत् ॥ २८ ॥ यस्य पित्रादिभिस्थ्यवरैः शक्वर्योऽधीताः संवत्सरमेव चरेदित्येके मन्यन्ते ॥२८॥ उपोषिताय परिणद्धाक्षायानुगापयेत् ॥ २९ ॥ व्यत्ययो बहुलमिति द्वितीयास्थाने तादर्थवाची चतुर्थी कृता तद- र्थानां धर्माणां बाहुल्यं सूचयितुम् । ते च धर्मा निदानकारेणोक्ता आचारसिद्धाश्च वेदितव्यास्तान्वक्ष्यामः-महानाम्न्यध्ययनकाल आ. चार्यशिष्ययोर्हस्तेनोदकधारणम्, एको वा द्वो वा गायेतां न बहवः, सकृ. दृचमुक्त्वा साम च सकृदेव पुरीषपदमुक्त्वा पुनः पादशः सकृङ्ख्या. नाऽऽवर्तयेत्, एकस्मिन्दिने व्रतचरणकाले सायं प्रातः स्नान, वर्षति शरणं . ५६ रुद्रस्कन्दप्रणीता [ २ द्वितीयपटले- नातीयात्, नात्रोपेक्षा कर्तव्या कृत्स्नवेदतुल्यत्वादस्य सानः, व्रतचरण- काले पूर्णेऽहोरात्रे वाग्यत उपवसेत, प्रागस्तमयादहतेन वाससा चक्षुषी पिधाय राम्रावासीत। अथापरेयुरुपोषितं परिणद्धाक्षं वाग्यतमुपनयन. वच्छ्रेयःपर्यन्तं गीत्वा शक्वरीपयेत् । श्रावयेद्वा श्रवणविधिवचनात् । अनुः सादृश्यार्थः । अध्ययनकालवदुदकधारणमृग्जपश्चेत्यर्थः । प्रतिस्तो. श्रीयं पुरीषपदाभ्यासो विशेषः ॥ २९ ॥ यथा मा न प्रधक्ष्यन्तीति तं प्रातरभिवी- क्षयन्ति यान्यप्रवक्ष्यन्तं मन्यन्तेऽपोऽग्निं वत्समादित्यम् ॥ ३० ॥ शक्वरीगानानन्तरं यथा वीक्षणे कृते मां दग्धुं न शक्ष्यति माणवक इत्याचार्या मन्यन्ते तथा तं वीक्षयेत्प्रातःकाले। अभीत्यामत्य(?) वीक्षणा- र्थम् । बहुवचनं गुरुत्वात्पूजनार्थम् । यानि दग्धुमशक्यं मन्यन्ते तानि वीक्षयेत् । कानि पुनस्तानि । अबादीनि ॥ ३० ॥ तेषां वीक्षणमन्त्रान्क्रमश आह- ज्योतिरभिव्यख्यमित्यप्रिं पशूनभि- व्यख्यमिति वत्सं सुरभि व्यख्य- मित्यादित्यं विसृजेदाचम् ।। ३३ ॥ वानियमं त्यजेन्नावश्यं माषेत ॥ ३१ ॥ गौर्दक्षिणा ॥ ३२ ॥ वीक्षिता गौराचार्याय देया माणवकेन ॥ ३२ ॥ कंसो वासो रुक्मं च ॥ ३३ ॥ कसपूर्णा आपस्तत्र रुक्म निधाय वीक्षेत कंसरुक्मयोश्चापिधानार्थ वस्त्रमाचार्याय दद्यात् ॥ ३३ ॥ अनुप्रवचनीयेष्वृचं साम सदसस्पति- मिति चाऽऽस्यं जुहुयात् ॥ ३४ ॥ प्रवचनात्पश्चाकियत इत्यनुप्रवचनीयहोमः। चकारः समुच्चयार्थ उप- नयनविसर्गेऽस्मामिरुक्तानाम् । आज्यमिति प्रतिनिधिवर्जनार्थमलामेऽपि कालोत्कर्ष एवेति । सविताश्रावणरहस्यविधयो गृह्यशेषे द्रष्टव्याः ।
५ पञ्चमः खण्डः] दाह्यायणगृह्यसूत्रवृत्तिः। सर्वानुसारेणास्माभिरुवनयनमुक्तम् । अथोक्तेन प्रकारेण गोदानवतमु. पाकृत्य तस्मिन्संवत्सरेऽन आयाहीत्यादिवर्मीव धृष्ण वा रुजेत्यन्त सूच मध्याप्य 'ओग्नायि' इत्यादीनि चाऽऽग्नेयेन्द्रपावमानानि पर्वाण्यध्याप. यीत । पूर्ण संवत्सर उपनयनविसर्गवद्विसगं कुर्यात् । नात्र प्रागुदयाद्- गमननियमः।वामदेव्येन प्रवेशनिष्क्रमणे । वामदेव्यादिश्रेयोन्तं सप्त(प्ता). हादिकल्माषान्तानि निवर्तन्ते । गायत्रस्य स्थान आग्नेयैन्द्रपावमानानि पर्वाणि श्रावयेत् । अशक्तश्चेपर्वाद्यन्तानि सामानि ' सोमं राजानमित एत उदारुहन्सपूर्यो महोनाम्' इति 'अभि त्रिपृष्ठम्' इति च भावयेत् । अनुप्रवचनीये गोदानवतमचारिषमिति मन्त्रविकारः ॥ ३४ ॥ अथ बातिकमुपनयनवत्सर्व कुर्यात् ॥ ३५॥ तस्मिन्संवत्सर इन्द्रज्येष्ठं न आ भरेत्यादिसुप्रपाणा इह स्तेत्यन्तमच. मध्याप्यार्कद्वन्द्वब्रतानि च्छान्दसानि त्रीणि पर्वाण्यध्यापयीत । आदि- त्यव्रतामावपक्षे शुक्रियमपि श्रावयेत् । पूर्णे संवत्सर उपनयनविसर्ग- वत्सव कुर्यात् । गायत्रस्थाने छान्दसानि पर्वाणि भावयेत् । अशक्ती गोदानवतवद्वातिकवतमिति मन्त्रविकारः । वातिकादित्यवतमहानाम्नि- कोपनिषदेषु नास्ति संहिताहोम इति केचिच्छ्रवणात्पूर्वो होमः । संहिताध्ययनार्थत्वारसंहिताहोम इत्युच्यते । इमं होमं कृत्वाऽऽग्नेया. दीनां पर्वणां छान्दसानां शक्वरीणां चाध्ययनं संहिताध्ययनमि- त्युच्यते ॥ ३५॥ बातिकवतानन्तरमादित्यवतम् ॥ ३६॥ तस्य वातिकवदुपाकरणम् । तस्मिन्संवत्सरे शुक्रियाध्यापनम् । तमु(दृ)ग्मिः सहोपनयनविसर्गवत्कुर्यात् । गायत्रस्थाने शुक्रियाणि । अशक्ती पूर्ववदादित्यवतमिति मन्त्रविकारः ॥ ३६॥ अथ महानाग्निकम् ॥ ३७॥ अस्योपनयनवदुपाकरणविसर्गौ महानाम्निकवतमिति मन्त्रविकारो गापत्रस्थाने शक्कर्यः । शेषगुक्तम् ॥ ३७ ॥ अथोपनयनवदौपनिषदम् ॥ ३८ ॥ उपनिषदतमिति मन्त्राधिकारः। गायत्रस्थाने देव सवितरित्यादि न
रुद्रस्कन्दप्रणीता-
[ २ द्वितीयपटले-
च पुनरावर्तत इत्येवमन्तं स्यात् । कृत्नश्रावणाशक्तौ यजुरोंकारादिभ्यः
प्राणानामाद्यन्तानि वाक्यानि सोमं राजादीनि च श्रावयेत् ॥ ३८॥
अथ ज्येष्ठसामव्रतम् ॥ ३९ ॥
उपनयनवत्सर्वमिति ज्येष्ठसामवतमिति मन्त्रविकारः ॥ ३९॥
भौतिकव्रतमिति वा ॥ ४०॥
गायत्रस्थान आज्यदोहादित्रयम् ॥४०॥
अथ ब्रह्मसामव्रतमेवं कुर्यात् ॥ ४१ ॥
रुच्या( ज्या)चरणं कालनियमो ब्रह्मसामवतमिति मन्त्रविकारः ।
गायत्रस्थाने तव श्यावीयम् । ऊर्गि, इत्याद्यवमन्तं तव श्यावीयमिति
केचित् । इलांदपश्चानुगानमिति केचित् । शास्त्रान्तरस्थमित्यन्ये ।
गोदानादिचत्वारि वेदवतादीनीति गौतमवचनादादित्यवताभावपक्ष
औपनिषदसंहितानि चत्वारि स्युः । व्रतचतुष्टयपक्षे तूपनयनं सर्वार्थ-
त्वान्न गण्यते व्रतत्वेन । व्रतापेक्षाणां वेदभागानां व्रतकालेऽध्ययनाशक्ती
वतकालोत्कर्षः कार्यः । समाप्य वाव्रतमनियतकालमधीयीत । इतरस्य
तु वेदमागस्य न कालनियमो वेदाङ्गानाम् ॥ ४१ ॥
अथ प्रकृतमनुसरामः-
चित्ययूपोपस्पर्शनकर्णकोशाक्षिवेपनेषु सूर्यास्यु-
दितः सूर्याभिनिर्मुक्त इन्द्रियैश्च पापस्पर्शः
पुनर्मामित्येतायामाहुतीर्जुहुयात् ॥ ४२ ॥
यूपाग्निचयनयोः कर्मापवर्गादूर्ध्वमुपस्पर्शने दोषोऽस्ति तन्निर्हरणार्थ-
मिदम् । श्रोत्रे शब्दिते वामचक्षुःकम्पने च दुनिमित्तत्वात्तन्निर्हरणार्थम् ।
स्वपन्तं सूर्योऽभ्युदियादस्तमियाद्वा तत्र दोषनिहरणार्थम् । मनसा
निषिद्धे चिन्तिते चक्षुषा निषिद्धे दृष्टे श्रोत्रेण निषिद्धे श्रुते घ्राणेन
निषिद्ध आघाते वाचा निषिद्धे भाषित एवमिन्द्रियैः पापकृद्भिर्युक्त-
स्तद्दोपनिहरणार्थं जुहुयादाज्यतन्त्रेण परिचरणतन्त्रेण वा । पुनर्मामिति
पुनर्मन इति च मन्त्रादिः ॥ ४२ ॥
आज्यलिप्ते वा समिधौ ॥४३॥
समित्तन्त्रेण ॥४३॥
५९
५ पञ्चमः खण्डः ] दाहायणगृह्यसूत्रवृत्तिः।
जपेदा लघुषु जपेद्दा लघुषु ॥ ४४ ।।
अल्पेषु पापेषु । द्विरुक्तिः पटलसमाप्त्यर्था ॥ ४४ ॥
इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ द्वितीयपटलस्य
पश्चमः खण्डः ॥५॥
अथ तृतीयः पटलः ।
तन्त्र प्रथमः खण्डः।
आप्लवने पुरस्तादाचार्यकुलस्य परिव्रत आस्ते ॥ १ ॥
तयोराप्लावनं पूर्वमित्युक्तं तदिदानी पुरुषस्योच्यते । आप्लवनं
स्नानम् । तत्र कत्रन्तरा निर्देशे स्वयमेव सर्वं कुर्यात् । आचार्यगृह-
स्याग्रे मागे प्रावृते देश उद्गग्रेषु दर्भेषूपविशेत् ॥ १ ॥
उदङ्मुख आचार्यः प्रागग्रेष्विति ॥ २ ॥
तस्य दक्षिणत उपविशेत् ॥२॥
एवं ब्रह्मवर्चसकामः ॥ ३॥
नित्ये कामोपबन्धोऽयम् ॥ ३॥
गोष्ठे पशुकामः ॥ ४ ॥
स्पष्टम् ॥४॥
सभायां यशस्कामः ॥ ५॥
ब्रह्मस्थाने ॥५॥
सर्वोषधेनापः फाणयेत् ॥ ६ ॥
सर्वरोषधिफलैर्यथालामं संयोज्योदकमग्निनाऽपः फाणयेत्तापयेथः
कश्चित् ॥६॥
सुरभिभिश्च ॥ ७ ॥
सुरमिगन्धिभिश्च संयोजयेदपः ॥७॥
ताभिः शीतोष्णाभिराचार्योऽभिषिञ्चेत् ॥ ८॥
तप्तामिः शीतोदकसंयुक्तामिः शिष्यमूर्धन्यवसिश्चेद्वक्ष्ययाणप्र.
कारण ॥८॥
६०
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले-
स्वयं वा मन्त्राभिवादात् ॥ ९ ॥
मामिति मन्त्रलिङ्गात् ॥९॥
उावित्येके ॥ १०॥
तेनेममित्याचार्यो ब्रूयात् ॥ ११ ॥
तेनाहं माममिषिश्चामीत्यम तेनेममभिषिञ्चामीति ॥ ११ ॥
ये अप्स्वित्यपामअलिमवसिञ्चेत् ॥ १२ ॥
उपनयनवदन्यः पूरयेत् । मूमाववाचं सिश्चेदाभषेक्ता ॥ १२॥
यदपामिति चेति ॥ १३॥
तूष्णीं वेति ॥ १४ ॥
स्पष्टे ॥ १३ ॥१४॥
गोरोचन इति गृह्याऽऽत्मानमभिषिञ्चेत् ॥ १५ ॥
पूर्ववदञ्जलिना पूर्ण गृहीत्वा । गृह्येत्यसमासेऽपि बहुलषचनाल्ल्य-
प्कृतोऽस्य बहुविषयं द्योतयितुम् । अतो गृहीत्वाऽभिषेकः । आत्मान-
मिति शिष्योपलक्षणार्थम् । अत्राऽऽचार्योऽपि शिष्यमेवाभिषि-
वेत् ॥१५॥
येन स्त्रियमिति चेति ॥ १६ ॥
तूष्णीं वेति ॥ १७ ॥
स्पष्टे ॥ १६ ॥१७॥
उद्यनित्यादित्यमुपतिष्ठेत् ॥ १८ ॥
अनाण वस्त्रेण परिधायाऽऽचम्बोदगग्रेषु दर्भेषु स्थित उपति -
च्छिष्यः ॥१८॥
समस्ये द्वेति ॥ १९ ॥
प्रातर्यावमिरस्थात्सांतपनेभिरस्थात्सायं यावमिरस्थाद्दशसनिरसि
शतसनिरसि सहस्रसनिरसीति दशसनिं मा कुरु शतसनि मा कुरु सह-
ससनिं मा कुर्विति समासः ॥१९॥
१ प्रथमः खण्डः ] दाह्यायणगृह्यमूत्रवृत्तिः। ६१ विहरन्ननुसंहरेच्चक्षुरसीतीति ॥ २० ॥ यथापाठं ब्रुवन्नाविशेत्यस्यानन्तरं चक्षुरसीत्यादि बिरनुषज्ज्य ब्रूयात् ॥ २०॥ उदुत्तममिति मेखलामवमुश्चेत् ॥ २३ ॥ समासः॥ २१ ॥ प्राश्य वापयेच्छिखावज केशश्मश्रुलोमनखानि ॥ २२ ॥ स्पष्टम् ॥ २२॥ अलंकतोऽहतवाससा श्रीरिति सज प्रतिमुश्चेत् ॥ २३ ॥ द्वे नवे वने परिधाय मजं वलयाकृतिं कृत्वा शिरसि प्रति- मुश्चेत् ॥ २३॥ नेयौ स्थ इत्युपानहौ ॥ २४ ॥ पादयोः प्रतिमुवेत् ॥ २४ ॥ वैदशाच( णव )दण्डमादद्याद्गन्धर्वोऽसीति ॥ २५ ॥ स्मृत्युक्तलक्षणं दण्डं गृह्णीयादित्यर्थः ॥ २५ ॥ उपेत्याऽऽचार्य परिषदं प्रेक्षेत्पक्षमिवेति ॥ २६ ॥ आचार्यसमीपं गत्वा संसदं पश्येन्मन्त्रेण ॥ २६ ॥ उपविश्यौष्ठापिधानेति मुख्यान्प्राणानभिमृशेत् ॥ २७ ॥ दर्भेषूपविश्य चक्षुषी श्रोत्रे नासिके चामिमृशेन्मन्त्रेण ॥ २७ ॥ गोयुक्तं रथमालभेद्वनस्पतय इति ॥ २८ ॥ आस्थाता त इत्यारोहेदिति ॥ २९ ॥ प्राची प्रयायोदीची वा प्रदक्षिणमावर्तयेत् ॥ ३० ॥ स्पष्टानि ॥ २८॥ २९ ॥ ३० ॥ प्रत्यायातायार्ध्यमित्येके ॥ ३१ ॥ प्रत्यागताय मधुपर्क दद्यादाचार्यः ॥ ३१ ॥ उक्तमापूवनम् । अत ऊवं सातकस्य कृतविवाहस्य च साधारणा- न्धानाह-
६२
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले-.
वृद्धशीली स्यादत ऊर्ध्वम् ॥ ३२ ॥
दर्यादिपरिवर्जक इत्यर्थः ॥ ३२॥
नाजातलोम्न्योपहासमिच्छेत् ॥ ३३ ॥
विवाहादूर्व मैथुनप्रसक्तावसमर्थया मैथुनं तदा च चेष्टां न कुर्या.
दित्यर्थः ॥ ३३॥
नायुग्वा ॥ ३४॥
अस्वास्थ्येनाशक्यादिनाऽयोग्ययोपहासं नेच्छेत्पीडाहेतुत्वात्तस्याः॥३४॥
न रजस्वलया ॥ ३५॥
रजस्वलया स्वमार्ययाऽऽस्नानात् ॥ ३५ ॥
न समाना ॥ ३६॥
समानार्षेयया । अर्थाद्विवाहस्यापि प्रतिषेधः ॥ ३६ ॥
अपरया द्वारा प्रपन्नविःपक्कपर्युषितानि नाश्नीयात् ॥३७॥
कुद्वारप्रवेशनं यच्च योग्यमेव द्रव्यं पक्वमेव पुनः पच्यते ब्रीहिमूल-
फलादेस्तु संस्कारार्थ द्विःपक्कस्य न प्रतिषेधो यच्च पक्कमुषःकालमत्येति
तन्न भुञ्जीत ।। ३७ ॥
अन्यत्र शाकमांसयवपिष्टविकारेश्यः ॥ ३८ ॥
द्विःपक्कपर्युषितयोरभ्यनुज्ञा ॥ ३८ ॥
पायसाच ॥ ३९ ॥
अन्यत्रेति वर्तते । चकारः पयोविकाराणां च संग्रहार्थः ॥३९॥
फलपचयनोदपानावेक्षणवर्षतिधावनो-
पानत्स्वयंहरणानि न कुर्यात् ॥४०॥
उत्पत्तिस्थाने प्रकीर्णानां फलानां संघीकरणं प्रचयनं कूपादाववा.
मुखवेक्षणं वर्षति सति तद्देशोद्धावनं स्वयोरुपानहोर्हस्तादिना धार-
णम् । रज्ज्वादिष्यवधाने न दोषः ॥४०॥
नागन्धां सज धारयेन्न चेद्धिरण्यत्रकू ॥४१॥
स्पष्टम् ॥४१॥
भदमिति न वृथा व्याहरेत् ॥ ४२ ॥
मद्रामत्यकारणं न वदेत् । उक्ता नियमाः॥४२॥
६३ १ प्रथमः खण्डः ] द्राह्मायणगृह्यसूत्रवृत्तिः। पुष्टिकामो गाः प्रकालयेतेमा म इति ॥ ४३ ।। पशुवृद्धिकामो गाः प्रातर्गृहानिर्गमयेत् ।। ४३ ॥ प्रत्यागता इमां मधुमतीरिति ॥ ४४ ॥ सायं प्रत्यागता अमिमन्त्रयेत् । अयमेकः कल्पः ॥४४॥ अथापर:- पुष्टिकाम एव प्रथमजातस्य वत्सस्य प्राङ्मातुः प्रलेहनाल्ललाटमुल्लिह्य निगिरेगवामितीति ॥४५॥ संवत्सरे पूणे जातस्य ।। ४५ ॥ संप्रजातासु गोष्ठे निशायां विलपनं न जुहुयात्संग्रहणेति ॥ ४६ ॥ सर्वासु संप्रजातासु सायमाहुत्यनन्तरमाज्यतन्त्रेण । अयमप्येकः॥४६॥ अथापरं पुष्टिकामस्यैव- अथापरं वत्समिथुनयोः कर्णे लक्षणं कुर्या वनमिति ॥ पुंसः स्त्रियाश्च कर्णेषु विन्दार्थ छेदनं कुर्यात्स्वधितिना ॥ ४७ ॥ पुंसोऽग्रे ॥४८॥ प्रथममित्यर्थः ॥४८॥ लोहितेनेत्यनुमन्त्रयेत ॥ ४९ ॥ तूष्णीमन्यासामपि लक्षणं कृत्वा सर्वा एवानुमन्त्रयेत ॥ ४९ ॥ ततीं प्रसारिताभिपतन्तीम् ॥ ५० ॥ निर्गतासु गोष्ठे बन्धनार्थरज्जुमभिमन्त्रयेत । अयमेकः कल्पः । एते कल्पा अहरहः फलसिद्धेः कार्याः ॥ ५० ॥ इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ तृतीयपटलस्य प्रथमः खण्डः॥१॥ अथ द्वितीयः खण्डः। २ श्रावण्यां पौर्णमास्यां गृह्यादमिमतिप्रणीय प्रतिदिशमुपलिम्पेदधिके प्रक्रमे ॥ १ ॥ श्रावण्यामित्येव सिद्धे पौर्णमास्यामित्यन्यत्रापि श्रावणीग्रहणे पौर्ण- ॥ रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले- मास्यर्थ श्रावणीमित्येक इत्यत्र । इतरथा हि हस्ते स्यात् । प्रकृतत्वादु. पवसथ्येऽहनि पूर्वाह्ने पश्चदश्यामेतत्कुर्यात् । यदि पूर्वाह्ने पञ्चदशी न विद्यते यजनीयेऽहनीदं कृत्वा पौर्णमासं कुर्यात् । एवमुत्तरेष्वपि कर्मसु निर्वापशून्यं तण्डुलान्गृह्यानौ मर्जितान्कृत्वा तान्निधायाधैं सक्तून्कृत्वोप्य शूर्पणाग्नेरुत्तरतो दर्भेषु शूर्पमुदकपूर्ण पात्रमन्यच्चोदकपात्रं दवी दर्म- स्तम्बं च निधाय गृह्यानेः पुरस्ताद्विपदमतीत्यागेर्दक्षिणतो गत्वाऽम्यु- क्षणान्तं कृत्वा गृह्यामेरेकदेशं प्रणीय तत्र निधाय तस्याः प्रतिदिशमे- कपदमतीत्य प्रागुपक्रमं प्रदक्षिणं गोमयेनोपलिम्पेत् ॥१॥ सद्गृहीतान्सक्तून्दव्यां कृत्वा पूर्वोपलिप्ते निनी- यापोऽपः प्राच्यामिति बलिं निर्वपेत् ॥ २ ॥ दक्षिणपश्चिमयोरुपलिप्तस्थानयोरन्तरुपविश्य पूर्णपात्रात्पात्रान्तरे किंचिदुदकं निनीय तदधं पूर्वस्मिन्नुपलिप्तस्थाने पाणिनाऽऽसिच्य तेनैव पाणिना व्या सक्तन्निधायोपलिप्तस्थाने दा सक्तून्निध्यात् ॥२॥ निनयेदपां शेषम् ॥ ३॥ शिष्टमर्थम् ॥३॥ अप उपस्पृश्यैवं प्रतिदिशं यथालिङ्गम् ॥ ४॥ पाणी प्रक्षाल्य यथालिङ्गं मन्त्राः ॥ ४ ॥ दक्षिणपश्चिमोत्तरेणामिं च संचरः ॥ ५॥ दक्षिणस्योपलिप्तस्याश्चान्तरेण पाणिं प्रसार्य पूर्ववत्कुर्यात् । पश्चि- मस्याग्नेश्चान्तरेणोत्तरेण । अनतिषणीतस्योत्तर एव द्रव्याणि स्युः । तद्देशाद्यावदवदानार्थमेवोपादायोपादाय बलिकर्म ॥५॥ शूर्पण शिष्टानमावोप्यातिप्रणीतादनतिषणी- तस्योवं न्यश्चौ पाणी कृत्वा नमः पृथिव्या इति जपेत् ॥ ६॥ निनात्यन्तमपस्त्वात्मानं तथा तेषामेव यावस्तदर्थों विधीयत इति युक्तममिधातुं सर्वान्सक्तूनतिप्रणीतामावोप्यानतिप्रणीतस्य पश्चात्स्व. स्थानं गत्वोपविश्यावाचौ पाणी भूमौ निधाय जपेत् । तत उत्थाय २ द्वितीयः खण्डः ] बाह्यायणगृह्यसूत्रवृत्तिः। ६५ सोमो राजेति दर्भस्तम्बमुपस्थाय स्तम्बस्थानात्सर्वात्मना साध्या सायं संध्यामिति नमस्कुर्यान्मन्त्रलिङ्गात् । अतः परं प्रणीतस्य लौकिक- खम् ॥ ६॥ अक्षतानादाय प्राङ्वोदवा ग्रामानिष्कम्य जुहुयात् । अञ्जलिना हये राक इति चतसृभिरिति निहितान्गृह्यं च गृहीत्वाऽयुक्षणान्तं कृत्वाऽप्रिं निधाय परिचरणतन्त्रेणाविच्छियामुल्योर्जुहुया- दाहुतिमन्त्रं प्रागुपकम्य जपेद्वसुवन एधीति त्रिस्त्रिः प्रतिदिशमवान्तरदेशेषु च ॥ ७ ॥ होम समाप्योत्तरतोऽग्रेः प्राची गत्वा प्रागुपक्रमप्रदक्षिणमनेरटासु दिक्षु तिष्ठन्नग्न्यभिमुखस्त्रिस्त्रियात् ॥ ७ ॥ ऊर्ध्व प्रेक्षन्देवजनेभ्यः ॥ ८॥ बूयात् ॥८॥ तिर्यङितरजनेभ्यः ॥९॥ तिर्यप्रेक्षन्देवजनशिष्टेभ्पस्नियात् ॥ ९ ॥ अवाफेक्षन्प्रत्येत्यानवेक्षनक्षतान्याश्नीयात् ॥ १० ॥ होमशिष्टाननिं च गृहीत्वा तान्यवचित्तो गृहं प्रत्यागम्य मक्ष. येत् ॥ १०॥ श्वोभूतेऽक्षतसक्तून्कृत्वा नवे पात्रे निधाया- स्तमिते बलिं हरेदाग्रहायण्याः॥ ११ ॥ पूर्ववत्मातःसक्तूकरणं ना, निधानं सायं होमानन्तरं पूर्ववदेव प्रति. दिशं बलिनिधानं शूविनपर्यन्तमा मार्गशीर्षपौर्णमास्याः ॥११॥ पोष्ठपदी हस्तेनाध्यायानुपाकुर्युः ॥ १२ ॥ प्रोष्ठपदे मासे हस्तेन युक्ते कालेऽध्यायान्वेदभागांस्तदङ्गानि चोप- विष्टाः संहता आचार्यः शिष्याश्च । नोपनयनादिवत्प्रत्येकम् । आङा. धर्थे । तत्राऽऽदावादौ कुर्युरधीयीरन्निति वक्ष्यमाणेन प्रकारेण । पोष्ठपदे हस्त इति वक्तव्ये] बह्वन्यथोक्तमन्यदपि बहुस्मृतिसमाचारसिद्धमानं वसुवन एधीति ६६ रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले- कर्तव्यमिति सूचयितुम् । तदुच्यते-यद्यस्मिन्मासि हस्तद्वयसंभवे पूर्व- स्मिन्हस्ते कुर्यात् । नात्र पूर्वाह्ननियमः । प्रोष्ठपदीमिति सप्तम्यर्थे द्वितीया । तस्याः कृत्स्नसंयोगार्थत्वात् । अर्धपश्चमासानधीत्य पौषीमु- त्सर्ग इति वचनात्पूर्वपक्षसंभवाच्च । पूर्वपक्षस्य प्रोष्ठपद्याः पौर्णमास्याः संनिकृष्टत्वाञ्च पूर्वस्मिन्हस्त इति । पञ्चगव्यमपामार्ग संपूर्ण दुर्वास्तैल. मामलकपिष्टं हरिद्राकल्कं तिलानक्षतान्पत्राणि पुष्पाणि फलानि मूलानि वन्यानि धूपं दीपं गन्धमनिं यज्ञोपवीतं दांश्चाऽऽदाय नदी गत्वा तदलामे यथालाभं महोदकं शुद्धजलतटाकं गत्वा शिष्यैः सह हर्षमाणा नामिमात्रे सकृत्प्रगाह्याप आचम्य पञ्चगव्यं प्राश्य बिरेवं प्रगाड नैत्यं कर्म समाप्योत्सर्जनं कर्म करिष्य इति संकल्प्य तीर्थ प्रक्षा- ल्पार्कपत्रेपूदगग्रेषु दर्भेषु वसिष्ठादीनां सप्तर्षीणामेका पति पांसुपिण्डैः प्रकल्प्य तत्पुरस्तात्तथैव राणायन्यादीनाचास्त्रियोदश शाट्यादीन्प्रवच- नकतूंश्च दश पतिद्वयं प्रकल्प्य गङ्गादिषु वसन्तीनां देवतानां नवाना- मेको पति प्रकल्प्य ब्रह्माणं वायु मृत्युं वैश्रवणं काश्यपमग्निमिन्द्रं प्रजा- पतिमेको पति वंशानुसारेणैकां पति प्रकल्प्य साध्यानां मरुतां विश्वेषां देवानामष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्याः प्रजापतिश्च वषट्- कारश्च त्रयस्त्रिंश इत्येतेषां चतुर्णा गणानामर्थे प्रतिगणं त्रीस्त्रीन्सर्वा- नेकां पक्तिं प्रकल्प्य मध्यमयोः पङ्क्त्योदक्षिणाग्रेषु दर्भेषु पात्रेषु दक्षिणापवांस्त्रीन्पित्रादीनेकां पक्तिं प्रकल्प्य सन्विसिष्ठादीस्तत्राऽऽ. वाह्य संनिहितान्ध्यात्वा तेभ्यः स्वेषु स्वेषु पत्रेषु पवित्रमासनार्थ निधायाभ्यञ्जनाय तैलं निधाय शरीरपरिमार्जनार्थमपामार्गपिष्टं दत्त्वा केशप्रक्षालनार्थमामलकपिष्टं दत्त्वा आपस्तरत्स यः पावमानीः शुद्ध- वत्यः सोमं राजा यत इन्द्र ब्रह्मजज्ञा पवित्रं त इत्युक्सामभिश्च मापनं कृत्वाऽऽचमनार्थमुदकं दत्त्वा वस्त्र प्रदाय पुनराचमनं दत्त्वा यज्ञोपवीतं दत्त्वाऽक्षतपुष्पमुदकं दत्त्वा पितृभ्यस्तु तिलमिभं दद्यात् । गन्धद्वारामिति हरिद्राकल्कयुक्तं गन्धं दत्त्वेष्वेति धूपं पावमान इति दीपमर्चन्त्यर्चताऽर्चन्ति गायन्ति त्वा प्रगायेति पुष्पाणि दाः । तत आचमनार्थमुदकं दत्त्वा भोजनार्थं फलानि मूलानि वन्यानि दद्युः । पुनश्चोदकम् । अतो दर्भाक्षतान्पात्रेषु कृत्वा देवान्यथापूर्वमित्यादिवशं च बुवन्तस्तैस्तैस्तीर्थरमुष्मा अमुष्मायिदमुदकं तृप्तयेऽस्त्विति ध्यायन्त. स्तर्पयेयुः प्रतिनाम । पितॄणां चाक्षतस्थाने तिलाः । पित्र्यं सर्व २ द्वितीयः खण्डः] द्राह्यायणगृह्यसूत्रवृत्तिः। प्राचीनावीतिनः कुर्युः । एवमृषीणां (देवादीनां) सवं कृत्वा पश्चापितॄणां संमार्जनादिभोजनपर्यन्तं सर्व मन्त्रवदेव कृत्वा पश्चा- तर्पणं कर्तव्यम् । देवं सर्व यज्ञोपवीतिनः कुर्युः। आषं सर्व निवीतिनः । पित्र्यं सर्व प्राचीनावीतिनः । ततो देवर्षिपितॄणामुद्वासनं कृत्वा ताना- लोड्यावभृथसाम गायन्तः पांसुभिरात्मानमभ्युक्ष्यापोऽभ्युपेयुः। एतदु- त्सर्जनं नाम । ततो गृहं गत्वा यथासंभवमलं कुर्युः । तथाऽऽचार्य उपाकर्म करिष्य इति संकल्प्य कृत्नेऽग्नौ ब्रह्मोपवेशनान्तं कृत्वा सप्तर्वा(?)न्सप्त. न्सिंकल्प्योदकपूर्ण कलशे सादयेत् । चतुरो वेदानेके सादयन्ति सर्वे मानाद्यर्चनपर्यन्तं पूर्ववत्कुर्यः ॥ १२ ॥ अथ प्रकृतमनुसरामः- श्रावणीमित्येके ॥ १३ ॥ श्रावण्यां पौर्णमास्याम् ॥ १३ ॥ हुत्वोपनयनवत् ॥ १४ ॥ स्तरणादि कृत्वा समस्तान्ताभि)मः । नात्राग्ने बतपत इत्यादीन्यर्थ. लोपात् । शिष्यास्तु संनिहिता एव भवेयुः । नात्रान्वारम्मः । अत- संस्कारत्वात् । अथ होमसमापनम् । ततो यज्ञोपवीतमेखले नवे ग्राह्ये शिष्यैः ॥ १४ ॥ तत आह- सावित्रीमनुवाचयेत् ॥ १५ ॥ पाचयेदिति सिद्धेऽन्विति सावित्र्याः पश्चादध्ययनवाचनार्थम् । किं तदनुवाच्यमित्याकाङ्क्षाबलादुपनयनवदित्यस्यापि सूत्रस्य शेष इति विज्ञायते । अत: पच्छोऽर्धर्चशः सर्वामकैकशो व्याहृतीनामों- कारस्य च वाचनं शिष्याणाम् ॥ १५ ॥ सोमं राजानं पर्वादींश्च ॥ १६ ॥ ऋक्सामनी नियमतो यत्राध्येतारो निरुच्छासमुक्त्वा घिरमन्ति । चिरकालं तावदेकं पर्वाग्न आयाहि तद्वो उच्चात इन्द्रज्येष्ठमुपास्मा इत्ये कैकासृचं वाचयेत् । 'ओऽनाइ तद्वौ हो व उच्चा' इत्येकैकं साम यद्यावप्राणवाचोवतशुक्रियाद्यशक्वरीसामानि पश्चोहे सप्त स्तोत्रियाः । तथा रहस्ये ब्राह्मणे पर्वाद्यानि वाक्यानि यावदेकार्था[नि षड्वंश- सामविधावाये देवताध्याये वाऽऽद्यानि वाक्यानि देवसवितरोमित्येत- .
६८
रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले-
सो वाऽऽदित्यो यो ह वै ज्येष्ठमित्युपनिषदि संहिते वंशे चाऽऽये
वाक्ये । चकारावेदाङ्गानि लक्षणानि यथागमम् ॥ १६ ॥
धाना दधि च प्राश्नीयुरभिरूपान्याम् ॥ १७ ॥
धानावन्तमिति धाना आचम्य दधि काव्ण इति दधीनि चकारास्पा-
पसमुत्तरघृतमश्रीयुः । अत्र पूर्वाह्ने नास्तीत्युपदेशः ॥ १७ ॥
इत्युपाकर्म ।
श्वोभूते प्रातरधीयीरशिष्यायः ॥ १८ ॥
श्वोमूते पूर्वाह्न एव स्नात्वाऽलंकुर्यः । पूर्ववदृषीणां नानाद्यर्चनप-
र्यन्तं कृत्वा सावित्र्यादीनि पूर्वोक्तानि बूयादाचार्यः शिष्येभ्यः। पूजार्थ
बहुवचनम् ॥ १८॥
अनुवाक्याः कुर्युगादिभिः प्रस्तावैश्च ॥ १९ ॥
ऋक्षु पादमात्रैः प्रस्तारमात्रैः सामसु सावित्रीं सोमं राजानं कृता
एव । चकारादनर्धार्थवाक्यमात्रै ह्मणादिषु यथानुवचनीयशिष्यास्तथा
कुर्यराचार्यः[श्च] ॥ १९॥
अनुगायनं रहस्यानाम् ॥ २० ॥
इतः प्रत्यारण्पानामध्ययनानिवृत्तिरोत्सर्जनात् ॥ २० ॥
विद्युत्स्तनयित्नुवर्जम् ॥ २१ ॥
उपाकर्मप्रमृति प्रागुत्सर्जनास्पातःसंध्यायां विद्युत्स्तनयिली दिवाऽन.
ध्यायः सायंसंध्यायां रात्री । तथाऽऽह मनु:-
पादुष्कृतेष्वनिषु तु विद्युत्स्तनितनिःस्वने ।
सज्योतिः स्यादनध्यायः शेषं रात्रौ यथा दिवा । इति ।
पावच्छम्या प्राप्तं रोहितादिरोहितादिवर्णा वा गतिर्यावती विद्यते
मवति तदाऽनध्याय इत्यापस्तम्ब इति ॥ २१ ॥
अर्धपञ्चममासानधीत्य पौषीमुत्सर्गः ॥ २२ ॥
अर्धः पश्चमो मासो येषां तेऽर्धपश्चममासाः । अर्धाधिकाश्चतुरः ।
पुष्येण युक्तायां पौर्णमास्यां पूर्वोक्तमुत्सर्जनं कुर्युः । अर्धपञ्चममासा-
नितिवचनात् । पोष्ठपदे मासे हस्तद्वयसंभवे पूर्वहस्त उपाकरणम् ।
भावण्यामप्युपाकरणे पौष्यामेवोत्सर्गः ॥२२॥
६९
२ द्वितीयः खण्डः ] बाह्यायणगृह्यसूत्रवृत्तिः।
तत ऊर्ध्वमन्नानध्यायः ॥ २३ ॥
वर्षसमर्था मेघा यदा दृश्यन्ते तदाऽनध्यायो मवति ॥ २३ ॥
विद्युत्स्तनयित्नुपृषितेषु च ॥ २४ ॥
संध्थायामेतेष्वाकालिकमनध्यायः । तथाऽऽह गौतमः-स्तनपिस्नुष-
विद्युतश्च प्रादुष्कृतानिष्विति । पृषितो वर्षः । चकारः स्मृत्यन्तरो.
कानध्यायसंग्रहार्थः ॥ २४ ॥
त्रिसंनिपाते त्रिसंध्यम् ॥ २५ ॥
प्रातःध्यायां त्रयाणां संनिपाते तदहोरात्रमुत्सरं चाहरनम्पायः ।
सायंसंध्यायां सा रात्रिरत्तरवाहोरात्रः॥२५॥
अष्टकाममावास्यायां चातुर्मासीरुदगयने
च पक्षिणी रात्रिम् ॥ २६ ॥
माघमासे कृष्णाष्टम्यष्टकाश्चतुर्पु मासेषु मवाः पौर्णमास्यमातुर्मास्या
वर्षासु शरत्मु च याः। चकाराद्दक्षिणायने चाष्टका अमावास्याः ।
चातुर्मासीष्वेकमहोरात्रमुत्तरं चाहरनध्यायः । अपनयोस्तु दिवा
घेसंक्रमणमहरुमयतश्चाहनी। रात्रिग्रहणमष्टकादिषु पूर्वराजवर्जनार्थम् ।
केचिदिवासंक्रमणे च यद्रात्रिसंनिधौ संक्रमणं तामुमयतोऽह सहिता-
माहू रात्रिग्रहणात् ॥ २६ ॥
सब्रह्मचारिणि च प्रेत इति ॥ २७ ॥
स्वाचार्येणोपनीते प्रेते मृते ततःप्रमृतिकालत्रयमनध्यायः । चकारा.
न्मातुलादिषु ॥ २७ ॥
उल्कापाते भूमिचाले ज्योतिषोश्वोपसर्ग
एतेष्वाकालिकं विद्यात् ॥ २८ ॥
ज्योतिषोः सूर्याचन्द्रमसोहणे चकाराट्यक्ते च ध्वनौ । विद्या-
दिति स्मृत्यन्तरोक्तसंग्रहार्थम् ॥ २८ ॥
कार्वा तु कठकौथुमाः ॥ २९ ॥
श्वभ्रेषु यावति वर्ष उदकं तिष्ठति तावति संध्यायां वर्षे सति कठाः
कोथुमाश्चानध्यायमाहुर्न वर्षमात्रेण ॥ २९ ॥
इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ तृतीयपटलस्य
द्वितीयः खण्डः ॥२॥
७०
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले.
मथ तृतीयः खण्डः।
आश्वयुजी रुद्राय पायसः ॥ १ ॥
आश्वयुज्यां पौर्णमास्यां रुद्राय त्वा जुष्टं निर्वपामीति निर्धापः ।
चरुतन्त्रमेतत् ॥१॥
मा नस्तोक इति जुहुयात् ॥ २ ॥
प्रधानाहुतिः॥२॥
पयस्यवनयेदाज्यं तत्पृषोदकम् ॥ ३॥
समाप्य होममवनयेत् । आज्यसंयुक्तस्य पयसः पृषोदकमिति
नाम ॥३॥
तेनाल्यागता गा उक्षेदा नो मित्रावरुणेति ॥४॥
सायमागताः॥४॥
वत्सांश्च मातृभिः सह वासयेत् ॥ ५॥
तां रात्रिम् ॥ ५॥
नवयज्ञे पायस ऐन्द्रामः ॥६॥
तत्कालपक्कैः सस्यैः साध्यो होमो नवयज्ञः । अहुत्वा तु नवैर्न मोक्त.
व्यम् । शाकादीनां तु न निषेधः । शास्त्रान्तरात्कालद्रव्यावगतिः ।
शरदि पौर्णमास्याममावास्यायां वा श्रीहिभिर्वसन्ते यवैः । इन्द्राग्निभ्यां
त्वा जुष्टं निर्वपामीति निर्वापः । इन्द्राग्निभ्यां स्वाहेति प्रधानाहुतिः ।
चरुतन्त्रमेतत् ॥६॥
शतायुधायेति चतसृभिराज्यं जुहुयादुपरिष्टात् ॥ ७ ॥
प्रधानाहुतेरुपरिष्टात् ॥ ७ ॥
अग्निः प्राश्नावितीति ॥८॥
अनेनाप्याज्यं जुहुयात् ॥ ८॥
अथ स्विष्टकृदादि-
तस्य शेष प्राश्नीयुर्यावन्त उपेताः ॥ ९ ॥
यज्ञवास्त्वनन्तरं तस्य पायसस्योपेता उपनीताः स्वमृत्याः स्वयं
च ॥९॥
३ तृतीयः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः।
७१
उपस्तीर्यापो द्विर्नवस्यावयेत् ॥ १० ॥
मोजनार्थे पात्रे ॥ १० ॥
त्रिभृगूणाम् ॥ ११॥
पञ्चावत्तीनाम् ॥११॥
अपां चोपरिष्टात् ॥१२॥
अपस्तस्यैवोपर्यवानिनयेत् ॥ १२ ॥
भदान्न इत्यसंख्यायप्रगिरेत्रिनिरिति (?) ॥ १३ ॥
पाणिना प्राशनम् । मन्त्रस्यापि त्रिरावृत्तिः । नान्तराचमनम् ।
अविवक्षितमेकवचनम् ॥ १३ ॥
एतमु त्यमिति वा यवानाम् ॥ १४ ॥
अयं वा यवानां प्राशनमन्त्रः पूर्वो वा ॥ १४ ॥
अमोऽसीति मुख्यान्प्राणानभिमृशेत् ॥ १५॥
आचम्य चक्षुषी नासिके श्रोत्रे चाभिमृशेत् । अथ शिष्टमुदगुदास्य
ब्रह्मणे दत्त्वा दक्षिणां दद्यात् ॥ १५॥
आग्रहायणं कर्म श्रावणेनैव व्याख्यातम् ॥ १६ ॥
मार्गशीर्षपौर्णमास्यां मर्जनादिप्राशनान्तं पूर्वाह्न कुर्यात् । उपवसथ्यै-
वाहनि ॥ १६ ॥
नमः पृथिव्या इति जपेत् ॥ १७ ॥
मन्त्रत्रयस्य प्रतिषेधः ॥ १७ ॥
प्रदोषे पायसस्य जुहुयात्पथमेति ॥ १८ ॥
तस्मिन्नेव दिने राज्यामाद्ययामे हव्यवाहाय त्वा जुष्टं निर्वपामीति
निर्वापः । सर्वत्र केवलमन्त्रनिर्देशे तूष्णीं निर्धाप इति केचित् । मन्त्रेण
प्रधानाहुतिः । चरुतन्त्रमेतत् ॥ १८ ॥
न्यञ्चौ पाणी कृत्वा प्रतिक्षत्र इति जपेत् ॥ १९ ॥
होमं समाप्य जपेद्भूमिगताववाश्चौ पाणी कृत्वा ॥ १९ ॥
पश्चादनेः स्वस्तरमुदगोस्तृणरुदक्प्रवणमास्तीर्य
तस्मिन्नास्तरणे गृहपतिरास्ते ॥ २० ॥
स्वस्तरमिति कर्मनाम ॥ २० ॥
७२
रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले-
अनुपूर्वमितरे ॥ २१ ॥
सर्वे मृत्पाः क्रमेणोत्तरतः स्वस्तरेण वाऽऽसते ॥ २१ ॥
अनन्तरा भार्या पुत्राश्च ॥ २२ ॥
मार्याऽनन्तराः पुत्राः । चकारात्पुत्रानन्तरमितर इत्येके ॥२२॥
न्यञ्चौ पाणी ठत्वा स्योनेति गृहपतिर्जपेत् ॥ २३ ॥
भूमिगतौ कृत्वा ॥ २३॥
समाप्तायां दक्षिणैः पार्थेः संवि-
शेयुनिस्विरध्यात्ममावृत्य ॥ २४ ॥
स्यौनेत्युचि समाप्तायां प्राशिरसः संषिशेयुः ॥ २४ ॥
स्वस्त्ययनानि कुर्युः ॥ २५ ॥
आशीर्वाद आशीर्वचनानि ॥ २५ ॥
ततो यथार्थ स्यात् ॥ २६ ॥
तत एव यथार्थं न पूर्वम् । आग्रहायणमित्यारभ्यक एवासी प्रयोग
इत्यर्थः ॥२६॥
ऊर्ध्वमाग्रहायण्यास्तिस्रस्तामिस्राष्ट-
म्योऽष्टका इत्याचक्षते ॥ २७ ॥
अपरपक्षाष्टम्यः ॥२७॥
तासु स्थालीपाकाः ॥ २८॥
एकस्यामेकः ॥२८॥
अष्टौ चापूपाः प्रथमायाम् ॥ २९ ॥
स्पष्टम् ॥ २९॥
तानि परिवर्तयन्कपाले श्रपयेत् ॥ ३० ॥
अष्टकायै त्वा जुष्टं निर्वपामीति निरुप्य विभज्याधं स्थालीपाकाथ
चरुस्थाल्यां निधायापरं चार्धमष्टावपूपान्कृत्वैकस्मिन्कपाले युगपर.
पयेत् ॥ ३०॥
उत्तमायां शाकमन्बाहार्य ॥ ३१ ॥
उपदंशार्थं ब्राह्मणमोजने न(?) दद्यात् ॥ ३१ ॥
४ चतुर्थः खण्डः ] दाहायणगृह्यसूत्रवृत्तिः। ७३ अष्टकायै स्वाहेति जुहुयात् ॥ ३२ ॥ प्रधानाहुतिश्चरुतन्त्रमेतत् । चरोरपूपेभ्यश्च किंचित्किंचिदादाय स्विष्टकृदयं संहतमेकैकमवदानम् । उत्तमायां चरुरेव हविः । समान. मितरत् । मध्यमायां तु विशेषं वक्ष्यति ॥ ३२ ॥ इति रुद्रस्कन्वकृतायां गृह्यवृत्तौ तृतीयपटलस्य तृतीयः खण्डः ॥ ३॥ अथ चतुर्थः खण्डः । मध्यमायां गौः ॥ १ ॥ स्थालीपाकेन समुच्चयः । चरुश्रपणवर्जमाज्यसंस्कारान्तं कुर्यात्॥१॥ तत आह- तां पुरस्तादमेः प्रत्यङ्मुखीमवस्थाप्य जुहुयायः पशव इति ॥ २ ॥ स्पष्टम् ॥२॥ हुत्वा वाऽनुमन्त्रयेतानु त्वेति ॥ ३ ॥ व्याहृतिमिश्च हुत्वा पशुमनुमन्त्रयेत ॥३॥ यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टं प्रोक्षामीति ॥ ४ ॥ स्पष्टम् ॥४॥ प्रोक्ष्योल्मुकेन परिहृत्य प्रोक्षणीं पाययेत् ॥ ५॥ तूष्णीं च प्रोक्ष्य गृह्याग्न्युल्मुकेन पशुं प्रदक्षिणं परिवार्य प्रोक्षणशेष पाययेत् पशुमुल्मुकमनौ विसृजेत् ॥ ५॥ उदकुत्सृप्य प्रत्यशिरसीमुदक्पादी संज्ञपयेत् ॥ ६ ॥ शमिता ॥६॥ संज्ञप्तायां जुहुयायत्पशुरितीति ॥७॥ गृहपतिः ॥ ७॥ तस्याः पत्नी स्रोतांसि प्रक्षालयेत् ॥८॥ स्पष्टम् ॥८॥ १०
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले-
पवित्रे अन्तर्धायोत्कृत्य वपामुद्धारयेदिति ॥९॥
शमिता ॥९॥
यज्ञियस्य वृक्षस्य विशाखाशाखाभ्यां परिगृह्यानौ अपयेत् ॥१०॥
गृहपतिः ॥ १०॥
प्रस्तायां विशसेच्छमिता ॥ ११ ॥
यदा अपणापायां प्रस्रवेद्वारि तस्मिन्काले शमिता ॥ ११ ॥
उक्तमुपस्तरणाभिधारणं यथा स्विष्टकृतः ॥१२॥
स्पष्टम् ॥ १२॥
अष्टकायै स्वाहेति जुहुयात् ॥ १३ ॥
स्पष्टम् ॥ १३॥
सर्वाङ्गेभ्योऽवदानान्युद्धारयेत् ॥ १४ ॥
हृदयजिह्वावक्षःशकृत्पक्षद्वयसव्यबाहुपार्श्वद्वयदक्षिणश्रोणिगुह्येभ्य
एकादशाङ्गेभ्य आहुतिमात्रमुद्धारयेच्छमिता ॥ १४ ॥
न सव्यासक्टनो न क्लोनः सव्यं सक्थि निधाय ॥१५॥
अन्वष्टक्यार्थम् ॥ १५॥
पृथङ्मेक्षणान्यवदानानि स्थालीपाकं च अपयित्वा ॥ १६ ॥
अवदानानां कुम्भ्यां श्रपणं चरोस्तूष्णीं निर्वापः । श्रपयित्वाऽवदा-
नानि स्थालीपाकं चाभिघार्योदगुद्वास्य प्रत्यभिधार्य बर्हिषि कंसप्लक्ष.
शाखाथैकादश सादयेत् ॥ १६ ॥
तत आह-
कंसे रसं प्रस्राव्य ॥ १७॥
अवदानरसम् ॥ १७ ॥
प्लक्षशाखास्ववदानानि कृत्वा ॥ १८ ॥
हृदयाघेकादशाङ्गानि निधाय ॥१८॥
एकैकस्मात्कंसेऽवयेदिति ॥ १९॥
कंसस्थे रसे प्रत्येकं मध्यात्पुरस्ताञ्च ॥ १९ ॥
स्थालीपाकाच ॥२०॥
स्पष्टम् ॥२०॥
४ चतुर्थःखण्डः] दाह्यायणगृह्यसूत्रवृत्तिः। ७५ अथ परिषेकाद्याज्यमागान्तं तत आह- चतुर्गृहीतमष्टगृहीतं वाऽत्र जुहुयादनावितीति ॥२१॥ द्वाविंशतिः पश्ववदानानि तेषां चत्वार्यष्टौ वा चर्ववदानरसमिश्राणि गृहीत्वा जुहुयात् । अत्रेत्युपस्तरणाभिधारणप्रतिषेधार्थमत्रैव गृहीत्वा जुहुयान्नान्यत इति ॥ २१ ॥ कंसात्पराभित्यां द्वाभ्यामेकैकामाहुतिम् ॥ २२ ॥ कंसादेव गृहीत्वा पराभिर्कम्भिरौलूखला इत्यादिभिः षड्भिभ्यिामे- कैकामाहुतिं पश्ववदानाभ्यां चर्ववदानमिश्राभ्यां जुह्ना जुहुयात्।। २२॥ सौविष्टकृतीमष्टम्या ॥ २३ ॥ कसे यच्छिष्टं तेनान्विमं नो अनुमतिस्विष्टकृत्स्थानापन्नं जुहुयात् । अतो न स्विष्टकृदनन्तरमुपरिष्टाद्धोमादि ॥ २३ ॥ वह वपामिति पित्र्ये वपाहोम इति ॥ २४ ॥ पितृदेवत्ये ॥ २४ ॥ जातवेद इति देवत्ये तदादेशमना- ज्ञाते यथाऽष्टकाया इति ॥ २५ ॥ स्पष्टम् ॥ २५॥ पशुरेव पशोदक्षिणा ॥ २६ ॥ एवकार उपलब्धतुल्यार्थः ॥ २६ ॥ स्थालीपाकस्य पूर्णपात्रम् ॥ २७ ॥ अत्र यथोत्साहनिवृत्त्यर्थ चरुतम्त्रप्र[कृतिरयं होमः ॥ २७ ।। इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ तृतीयपटलस्य चतुर्थः खण्डः ॥ ४ ॥ अथ पञ्चमः हः । - नवमी दशमी वाऽन्वष्टक्यम् ॥ १ ॥ द्वितीयाऽत्यन्तसंयोगार्था पूर्वाह्नव्यतिरेकायानादृते च । पूर्वाह्नेऽपि- ध्यत्वादपराह्ननियमः । पित्र्यं च पिण्डदानप्रधानत्वात्माचीनावीती
७६
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयफ्टले-
कुर्यात् । अत्रापि होमे तदङ्गेषु च यज्ञोपवीतित्वमेव । मध्यंदिनादूर्ध्व-
मपराह्नमहः । पञ्चधा विमज्य चतुर्थोऽह गः । अह्नस्तृतीयो विभाग
इति केचित् । अष्टकामनुक्रियत इत्यन्वष्टक्यं कर्म ॥ १ ॥
दक्षिणपूर्वे भागे परिवार्य तत्रोत-
राधे मथित्वाऽग्निं प्रणयेत् ॥ २ ॥
गृहस्य दक्षिणपूर्व गृह्याग्नेरिति केचित् । प्रोक्षणान्तं कृत्वा प्रणये.
निदध्यादित्यर्थः । अस्य श्रपणार्थत्वात्प्राचीनावीती ॥२॥
सद्गृहीतान्त्रीहीन्सलत्कलीकृतान्यसव्यमुदायुवं अपयेत्॥३॥
सकृद्गृहीतान्सकृत्फलीकृतानिति सिद्धवद्यपदेशान्न स्वयंकर्तृकत्व-
नियमः । भूतकालनिर्देशाच्च नापराह्णनियमः । सकृदेव तूष्णीं स्थाल्यो
निरुप्य सकृत्प्रक्षाल्य मेक्षणेनोदायुवं अपयेन्मथितेऽनौ गृह्ये वा ॥३॥
अमुष्माच सक्थ्नो मांसमिति ॥४॥
अन्वष्टक्या निहितं सक्थ्नो मांसमवदाय भोजनार्थवच्छकली-
कृत्य स्थाल्यन्तरे मेक्षणान्तरेणोदायुवं युगपच्छ्रपयेत् । इतिश्चेदर्थे ।
सक्भि चेद्विद्यते तदेवं प्रथमोत्तमयोरष्टकयोरन्वष्टक्ययोः स्थालीपाक
एवेत्यपरं मतम् । अष्टकायै स्वाहेति जुहुयादिति तिसृष्वप्यष्टका-
स्वविशेषेण वचनान्मध्यमायां पश्वसंमवे केवलस्थालीपाकहोमोऽप्य-
नुज्ञात एवेति तस्मिन्पक्षेऽन्वष्टक्येऽपि स्थालीपाकपणमेव ॥४॥
दक्षिणोद्वास्य न प्रत्यभिधारयेत् ॥ ५ ॥
मांसां घरं च शृतमभिघार्य ॥५॥
पश्चादग्नेर्दक्षिणतस्तिस्रः कः खन्या-
चतुरङ्गलमधस्तिर्यक् ॥ ६ ॥
पवादग्रुपविष्ट आत्मनो दक्षिणतो दक्षिणापवर्गाः कः खन्यात् ।
अपणात्पूर्वमेवास्मिन्देश उपवेशने सिद्धे पश्चादगरिति वचनं वक्ष्यमाणं
सर्वमस्मिन्नेव देश उपविश्य कुर्यादित्येवमर्थम् ॥ ६ ॥
तासां पुरस्तादमि प्रणयेत् ॥ ७ ॥
मध्यमकाः पुरस्तादृजुदेशे द्विपदमानं स्वस्तरदेशमतीत्य तत्रोपले.
पनादिप्रोक्षपान्तं कृत्वा मथितं सर्व, निदध्यात् । यज्ञोपवीती सर्वत्र
यदा प्राचीनावीती भूत्वा यज्ञोपवीती भवति तदोपस्पृशेत् ॥ ७ ॥
७७ १ चतुर्थः खण्डः ] द्वाह्यायणगृह्यसूत्रवृत्तिः। स्तृणुयादिति ॥ ८ ॥ स्तरणान्तं यज्ञोपवीती कुर्यात् । नात्र ब्रह्मा । अत्र पश्चात्स्तरण- पक्षः॥८॥ कर्पूश्च ॥ ९॥ कर्पूणामुपरि दक्षिणायैः प्राचीनावीती छादयेन प्रति । कर्पु दर्म- भेदः ॥९॥ पश्चादनेः स्वस्तरं दक्षिणांग्रेस्तृणर्दक्षिणा- प्रवणमास्तीर्य बृसीमुपनिदध्यात् ॥१०॥ स्वस्तरमिति कर्मनाम। बृसी कर्मफलकं कटकमिति केचित् । स्वस्त- रोपरि निधानम् ॥१०॥ तस्मिन्नेकैकमाहरेत् ॥ ११ ॥ तस्मिन्वृसीसंज्ञक उदकपूर्णानि त्रीणि पात्राणि तिस्रो दर्मपिञ्जू. लीश्वरमानं तैलं गन्धं सूत्रतन्तूंश्चैकैकशः क्रमशो निध्यात् । एता. न्येव प्राचीनावीती कृत्वा यज्ञोपवीती दर्मोपवेशनादिप्रपदान्तं कुर्यात् । बर्हिषि सादनकाले कंसं च सादयेत् ॥ ११ ॥ कसे समवदाय मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितमते स्वाहाऽनये कव्यवाहनायेति ॥ १२ ॥ घरं मांसं च सहावदाय सादनं च सादयेत् । कंसे समवे [२] यदि मांसं विद्यते । मेक्षणेन सुवजुह्वोनिवृत्तिः प्रधानहोमयो त्रीपस्तरणा- भिधारणे । उपघातशब्दः पूर्व व्याहृतिहोमार्थः । अत एवाऽऽज्यभाग- स्विष्टकृतः कृत्स्नमन्त्रोच्चारणमेतन्मन्त्रान्ते स्वाहाकारनिवृत्तये । अथ गानान्तं समापयेत् । अत ऊध्वं प्राचीनावीती ॥१२॥ सव्येनोल्मुकं दक्षिणतः कर्तेषु निद- ध्यादपहता इति ॥ १३ ॥ सव्येन हस्तेन कर्पः प्रज्वाल्य तासां दक्षिणतो निध्यादुल्म पक्षासमाप्तेर्नानुगच्छेत् । अस्मादिति मन्त्रान्तः ॥ १३ ॥ पूर्वस्यां कष्वां पितुः ॥ १४ ॥ प्रथमखातायां वक्ष्यमाणं पित्र्यं यत्कृत्यं तत्कुर्यात् ।
रुद्रस्कन्दप्रणीता-
[ ३ तृतीयपटले.
मध्यमायां पितामहस्योत्तमायां प्रपितामहस्य ॥ १५ ॥
धक्ष्यमाणं सर्व पितृतीर्थन दक्षिणापवर्ग क्रमेण पितृपितामहपपिता-
महानुदिश्य दक्षिणेन पाणिना कुर्यात् । एत पितर इति पित्रादीनावा-
हयेन्मन्त्रलिङ्गात् ॥१५॥
उदपात्राण्यवसलवि कर्षषु निनयेदेकैकस्य
नामोक्त्वाऽसाववनेनिश्च ये चात्र त्वाऽनु
याश्च त्वामनु तस्मै ते स्वधेति ॥ १६ ॥
अवसलवि पितृतीर्थन । प्रदेशिन्यनुष्ठयोरन्तरा पितृतीर्थम् । विष्णु-
शर्मपितरवनेनिक्ष्वेति पित्रादीनां निर्देशः । यदि नामानि न विद्या-
पितः पितामह प्रपितामहेत्येवं ब्रूयात् । पुत्रिकाजातस्तु मात्रे माता-
महाय तत्पित्रे च दद्यात् । अथवा मातामहाय तत्पित्रे तत्पित्रे च
दद्यात् । यदि जनयितुः पुत्रान्तरं न विद्यते द्वौ द्वावेकस्मिपिण्डे
निर्दिशेत् । पुत्रिकापुत्रस्तथा दत्तपुत्रो जनयितुः पुत्रान्तराभावे । एव-
मन्योऽपि द्वयोः पुत्रः स्यात् ॥ १६ ॥
तथैव पिण्डान्निधाय जपेदत्र पितरो माद-
यध्वं यथाभागमावृषायध्वमिति ॥ १७॥
कंसाद्गृहीत्वाऽवनेनिट्वेत्येतस्य स्थाने भुक्ष्वेत्यूहः ॥ १७ ॥
उक्त्वोदङ्ङावर्तेत सव्यं बाहुमु-
पसंहृत्य प्रसव्यमावृत्य ॥ १८ ॥
व्याहृतिपूर्वा सावित्रीं तस्यां चैव गायत्रम् । यद्वा ऊ विश्पतिरित्या-
दीनि पियाणि सामान्युक्त्वा सव्यं बाहुमुपसंहृत्य दक्षिण बाहुं प्रसार्य
प्रसव्यमावृत्योदङ्मुखः स्यात् ॥ १८ ॥
उपताम्य कल्याणं ध्यायन्नभिपर्यावर्तमानो जपेदमी-
मदन्त पितरो यथाभागमावृषायिषतेति ॥ १९ ॥
यथाशक्ति निरुच्छास आसीन उच्छ्वास्य यदाऽऽत्मनोऽभिलषितं
मेऽस्त्विति ध्यायञ्जपेत् । अमिलषितं तृप्ताः पितरः प्रयच्छन्ति [इति]
हि स्मरन्ति ॥ १९॥
४ चतुर्थः खण्डः ] द्राथायणगृह्यसूत्रवृत्तिः।
७९
तिस्रो दर्शपिजूलीरअने निघृष्य
कर्षषु निदध्यायथापिण्डम् ॥२०॥
अक्ष्वेत्यूहः ॥२०॥
तैलं सुरभि च ॥ २१ ॥
सुरभि गन्धः । अभ्यक्ष्वानुलिम्पेत्यूहः ॥ २१ ॥
पिण्डप्रभृति यथार्थमूहेत् ॥ २२ ॥
स्पष्टम् ॥ २२॥
अथ निवनम् ॥ २३ ॥
अथानन्तरदेशे कर्पूणां पश्चात्पाणी निधाय निवनमिति वक्ष्यमाण.
संज्ञा व्यवहारार्था ॥ २३ ॥
पूर्वस्या को दक्षिणोत्तानौ पाणी
कृत्वा नमो वः पितरो जीवाय
नमो वः पितरः शूपायेति ॥२४॥
पूर्वस्याः काः पश्चात्समीपे दक्षिणं पाणिं प्रागग्राङ्गुलिमुत्तानं भूमौ
निधाय तदुपरि तथैव सव्यं न्यञ्चं पाणिं कृत्वा जपेत् ॥ २४ ॥
सव्येनोत्तानौ मध्यमायां नमो वः पितरो
घोराय नमो वः पितरो रसायेति ॥२५॥
सव्यस्योपरि दक्षिणं वञ्चं कृत्वा ॥२५॥
दक्षिणोत्तानो पश्चिमायां नमो
वः पितरः स्वधायै नमो वः
पितरो मन्यव इति ॥ २६ ॥
गतम् ॥ २६ ॥
अञ्जलिं कृत्वा नमो व इति ॥ २७ ॥
नमस्काराञ्जलिं कृत्वा पितृनुपतिष्ठते ॥ २७ ॥
सूत्रतन्तून्कर्षषु निदध्यात्पथां पिण्डमेतद् इति ॥ २८ ॥
क्रमेण ॥२८॥
रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटले- ऊर्ज कृत्वा नमो व इति नमस्काराअलिं वहन्तीरिति कर्पूरनुमन्त्रयेत ॥ २९ ॥ सकृत् ॥ २९॥ मध्यमं पिण्डं पुत्रकामा प्राशयेत् ॥ ३० ॥ [स्पष्टम् ] ॥३०॥ आधत्तेति पत्नी मन्त्रं ब्रूयादानो हत इत्युल्मुकमनी प्रक्षिपेत् ॥ ३१ ॥ यदक्षिणतो विहितं मन्त्रलिङ्गात् ॥३१॥ द्वन्द्वपात्राण्यतिहरेयुः ॥ ३२ ॥ निहितानि परिचारका उद्वासयेयुः ॥ ३२॥ एष एव पिण्डपितृयज्ञकल्प इति ॥ ३३ ॥ प्रयोगक्लूप्तिरेवातिदिश्यते न कालः । स त्वन्यतो विज्ञायते । यस्मि- नहोरात्रेऽमावास्याक्षणस्तस्मिन्नेवापराहे कुर्यात् ॥ ३३ ॥ विशेषस्तुच्यते- गृह्येऽनौ हविः श्रपयेत् ॥ ३४ ॥ चरुरे(मे)व न मांसम् ॥ ३४ ॥ तत एवातिप्रणयेत् ॥ ३५ ॥ गृह्यागेरेकदेशं प्रणीतस्य कर्मापवर्गे लौकिकत्वं चात्र ब्रह्माऽस्ति दक्षिणा च हविरुच्छिष्टदानम् ॥ ३५ ॥ एका कर्षः ॥ ३६॥ एकस्यामेव पित्रादीनां त्रयाणामपि सर्व यथाक्रमं कुर्यात् ॥ ३६ ॥ न स्वस्तरः ॥ ३७ ॥ स्वस्तरदेशे द्रव्याणां न निधानम् ॥ ३७॥ मधुपर्क प्रतिग्रहीष्यन्निदमहमि- मामिति तिष्ठजपेत् ॥ ३८ ॥ मधुपर्कप्रदातुः परिचारकैः प्रतिग्रहीतुः पुरस्ताद्गोमयेन गोमुखं कारयित्वा तत्र विष्टरादिषु पूजासाधनेषु समाहृतेषु तान्मधुपर्काथी- ५ पञ्चमः खण्डः] द्राहायणगृह्यसूत्रवृत्तिः। ८१ न्ध्यायन्मधुपर्क प्रतिग्रहीष्यन् । अथ पैतृकप्रसङ्गादहनविधिरुच्यते- आहितानेमरणसंशयेऽग्नीन्विहृत्याजस्रं कुर्यादा। दहनादा व्याधिमोक्षाद्वा पद्यपरपक्षे मरणं शङ्केत यावत्योऽपरपक्षस्यातिशिष्टाः सांयंप्रातराहुत- यस्ताः सर्वास्तदानीमेव क्रमेण हुत्वाऽमावास्येष्ट्या यजेत । केचिस्पक्ष. होमतन्त्रेण होममिच्छन्ति । इष्टयमावे चतुर्गृहीतान्याज्यानि तस्यै तस्यै प्रधानदेवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् । प्रक्रान्ताया- मिष्टयां हविष्क्लुप्त्यसंमवे चतुर्ग्रहीतैरेवाऽऽज्यैर्यजते । हविषः कृप्तेषु यदि म्रियेत सर्वेभ्यः प्रधानहविर्यः समवदाय सर्वाः प्रधानदेवताश्च- तुर्था विमक्त्याऽनुद्रुत्य स्वाहाकारेण जुहुयात् । मरणादूर्ध्व शिष्टस्य लोप एव । यद्यहुतास्वेवातिशिष्टाहुतिष्वन्वारब्धायां चेष्टयां म्रियेत तदा द्वादशगृहीतेन सुचं पूरयित्वा प्रजापति मनसाध्यायन्नाहवनीये जुहोति। योऽस्याग्निरजुह्वतो मांसकामः संकल्पयते यजमानमांसं जानाति । ते हविषे सादिताय स्वर्ग लोकमिमं प्रेतं नयत्विति सर्वस्य समाप्त्यर्थम् । चातुर्मास्यादिष्वारब्धेष्वनयैव दिशा समाप्तिः । यदि पूर्वपक्षे रात्री मरणं शङ्केत तदानीमेवाऽऽगामिनी प्रातराहुतिं जुहुयात् । यद्यविहृते- ध्वग्निषु म्रियेत तदानीमेव विहृत्यातिशिष्टसमाप्तिं च कृत्वोपक्रमः । मरणसमीपकाले दक्षिणामेः पुरस्तासिकताः प्रकीर्य दक्षिणाग्रेषु दर्भेषु दक्षिणाशिरसं संवेश्य ' अग्न आयाहि वीतये'' एष स्य धारया सुत इति वर्गद्वयं त्रीण्याज्यदोहानि 'आदित्प्रत्नस्य रेतसः ' 'उद्वयं तमस- स्परि '' उन्नयामि' इति सामानि प्राक्स्मृतिवियोगात्संस्कर्ता श्राव- येत् । तवश्यावीयानि च श्रावयेद्यदि श्राव्यस्तवश्यावीयाद्यधीतवान् । केचिदूर्गित्यादियमन्तं तवश्यावीयान्याहुः । शाखान्तरस्थानीत्यपरे । मरणकाले ' अभिप्रना अप्सु दक्षाः सेतुषाम च ' [ इति ] दक्षिणे कर्णे जपति । स्मृतिभ्रेषे तवश्यावीयानां निवृत्तिः । मृतश्चेत्सेतुषामा- न्तानां निवृत्तिः । उत्क्रान्ते प्रजापतेर्हृदयं मनसा ध्यायेत् । स्नापयित्वा शवमलंकृत्य बद्ध्वाऽदशेनाङ्गुष्ठे पाण्योः पादयोश्चौदुम्बर्यामासन्यां दक्षि- णाशिरसमुत्तानं संवेश्योदग्दशेनाहतेन वाससा प्रच्छाद्य ज्ञात्यादयो निर्हरन्त्यग्नींचाऽऽहितानेरोपासनं च । यदि सर्वमाहितोऽनाहिताग्निमौ- पासनेन ब्रह्मचारिणं कपालसंतपनाग्निनोत्तपनीयेनेतरानलेन स्त्रियों यात्सृष्टानिविच्छिन्नाग्निर्विधुराग्निर्वा प्रमीयेत द्वादशगृहीतेन सुचं पूर- यित्वा लौकिकेऽनौ प्रजापति मनसा ध्यायजुहोति । क्षीरधिमधु.
८२ रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटले- घृततिलतण्डुलोदकुम्मदर्मपरशुयज्ञपात्राणि पुरस्तादमीन्संस्कर्ता मुक्त. शिखो मध्यतः शवं पश्चात्संभारानितरे श्मशाने निहितेषु संकल्प्योत्मृ. ज्यान्ते गच्छा ( त्वाऽ) ग्रमध्वनः पूर्वमेष वः सुहृदो दिवं परं व्योम नयध्वं गछन्तं स्थानमुत्तममिति प्रागुदीच्यां दिशि पञ्चदश प्रक्रमा- न्यक्रम्य प्रकान्तदेशं दक्षिणाप्रत्यक्प्रवणममगुरमनिरिणमसुषिरं समं वाऽऽया शमीशाखया पलाशशाखया वारुणशाखया वाऽपसर्पत प्रेता ये केचिदिह पूर्वजा इति दहनदेशं संमृज्याद्भिरवोक्ष्य तिस्रः कर्पूदक्षि- णापवर्गाः परशुना खात्वोद्धृत्य मृत्तिकां पलाशपत्रपुटे कृत्वा याम्यां दिशि निधायाप उपस्पृश्य तिलतण्डुलाना मुष्टिं पूरयित्वा यमाय दह- नाधिपतये प्रेताय स्वधा नम इति प्रथमखातायां निवपति । कालाय दहनाधिपतये प्रेताय स्वधा नम इति मध्यमायाम् । मृत्यवे दहनाधि- पतये प्रेताय स्वधा नम इत्युत्तमायाम् । आयेन वा मन्त्रेणावशिष्टान्स- तः प्रसव्यं प्रकीर्य मध्यमायां कां हिरण्यशकलमुपरि निधाय तत्र दर्मानास्तीर्य तेषु यज्ञियैः काष्ठैर्दक्षिणायै रुचितिं चित्वा प्रेतस्य कंशश्मश्रुलोमनखानि वापयित्वा दक्षिणतो वितस्तिमात्रमवटं खनित्वा तत्र तानि निदधाति । स्नापयित्वा शवं चितिं चाद्भिरवोक्ष्य शवमुत्तानं दक्षिणाशिरसं संवेश्य शवं परिस्तीर्य दक्षिणाय्रदक्षिणाग्रेषु दर्भेषु पश्चात्पात्राण्यासाद्य पश्चाद्गार्हपत्यमवसादयति । दक्षिणतो दक्षिणाग्निं पुरस्तादाहवनीयं सभ्यावसथ्यौ च वायव्यामोपासनं पुरस्तादास्ये चक्षु. पोर्नासिकयोः श्रोत्रयोश्च सप्त हिरण्यशकलानाज्यबिदून्वा सप्त व्याहृतीर्मनसा ध्यायनिरस्यत्याज्यं मुखे निनीय पादप्रभृत्या. मुखान्तात्संततं शेषं निनीय दक्षिणतः पात्रं निरस्यति एवं दधिमधुतिलतण्डुलांश्च । आहिताग्निश्चेत्पात्राणि सादयेत् । यानि बिलवन्ति तानि पृषदाज्येन पूरयित्वोत्तानानि सादयेत् । शिरसि कपालानि चरुस्थाली च बहुपशुके कर्मणि समवदानाथं चम- सोत्थितं च शिरम्येव सादयेत् । इडापात्रमित्यन्ये । ललाटे प्राशि- बाहरणं नासिकयोः सुवी कर्णयोश्चाऽऽस्ये हिरण्यशकलमवधायानुस्तर. णिक्या गोर्वपया मुखं प्रच्छाद्य तत्राग्निहोत्रहवीं प्रागग्रां दक्षिणे पाणी जुहूं सव्य उपभृतं पार्श्वयोः स्फ्योपवेशावनुस्तरणिक्या गोर्बक्यौ नाम मांसपिण्डौ वर्तुलाकारौ तयोर्दक्षिणं दक्षिणे पार्श्वे सव्यं सव्य उरसि ध्रुवामुदरे पात्रीमुपस्थे कृष्णाजिनं दक्षिणस्य कटिप्रदेशस्य ८३ ५ पञ्चमः खण्डः ] द्राह्यायणगृह्यसूत्रवृत्तिः। दक्षिणत उलूखलं दक्षिणसक्थ्यनु मुसलानि पादयोः शकटशूर्प इतरत्सर्व कृष्णाजिनानन्तरेण सक्थनि सादयेत् । क्रमस्तु कृष्णाजिनानन्तरस्य । अथ सपिण्डाःस्त्रीप्रथमाः कनिष्ठपूर्वा आऽयं गारिति यामतृचस्य प्रथमां स्तोत्रीयां सपदस्तोमामुक्त्वाऽगन्म ज्योतिरिति सत्रस्यद्धि गीत्वा सव्यतः केशान्प्रकीर्य दक्षिणानुरूनानानाः पाणिभिः सिग्भिरभिधू- न्वन्तो प्रदक्षिणं मृतं त्रिः परीयुः । वातास्ते वान्तु पथि पुण्यगन्धा मनःशुभा गात्रशुभा अनुलोमास्त्वचः सुखा मांससुखा अस्थिसौख्या वहन्तु त्वां मरुतः सुकृतां यत्र लोका इति मृतमनुमन्य दक्षिणतः केशान्प्रकीर्य सव्यानूरूनानाना अभिधून्वन्तस्त्रिः प्रदक्षिणं परीयुः । एवं द्वितीयां स्तोत्रीयामुक्त्वा सत्रस्यर्द्धि अप्रदक्षिणानुमन्त्रणं पूर्ववत्तृतीया. मुक्त्वाऽपि तथैव कुर्यः । त्रिषु स्थानेषु सिग्वाता भवन्ति ग्रामे पथि चितायां सर्वे चितायां वा । अथ पत्नी संस्कर्ता वा शिरसि दर्भेषु पूर्णकुम्भं निधाय मृतं त्रिः प्रदक्षिणं पर्येति । प्रथमे प्रदक्षिणेऽश्मना परशुना वाऽधस्तात्किंचित्प्रहरति उदकुम्भं तां धारामनुमन्त्रयेत- 'इमा आपो मधुमत्योऽस्मिस्ते लोकमुपदुह्यन्तामक्षीयमाणाः स्वधा नम:' इति । एवं द्वितीये तृतीये चोपर्युपरि प्रहरणमन्तरिक्षे स्वर्ग इति मन्त्रविकारस्तिष्ठन्नेवोदककुम्मं विसृजेत् । प्रास्येत्कपालस्थमुदकं प्रेतस्य प्राणस्थानेष्वाप्यायस्वेति निनयति । कृष्णतिलैर्मृतमवकीर्याङ्गुष्ठपादौ छित्त्वाऽऽज्येन पराङ्मुखो हस्ताभ्यां सुरभि कपृष्ठं स्वधा नम इति प्रेतस्य पादावभ्यज्याऽऽर्दानोषधिवनस्पतीनालभ्योत्तिष्ठति । हस्तौ प्रक्षाल्याऽऽदित्यं पश्यति । ब्राह्मणं गां च दृष्ट्वा सुवर्णमालभ्य कुशैर्मृतं छादयित्वा सर्वेभ्योऽनिभ्य उलपराजी स्तृणुयात्तत्र यथाऽस्मि- नमयः समवेयुः। आहवनीयश्चेत्प्रथममेयाद्ब्रह्मलोकमेष्यतीति विद्याद्गार्ह- पत्यादेवं लोकं दक्षिणाग्नेः पितृलोकम् । तस्मात्त्वमधिजातोऽसि त्वयं जायतां पुनरसौ स्वर्गाय लोकाय स्वाहेत्यग्नीशरीरेण संयोजयेत् । असाविति प्रेतनाम बूयाद्विष्णुशर्मन्नितिवत् । अथ नाके सुपर्णमिति ग्रामे गेयेनोपतिष्ठेत धूम उदिते त्वेषस्ते धूम ऋण्वतीति प्रज्वलितेऽने मृडा. महार असीत्येतयोरन्यतरेण वाऽन्तेऽगन्म ज्योतिरिति च त्रिस्त्रिरेतानि सामानि गायेत् । दहनमन्त्रेणाऽऽज्याहुतिं च हुत्वा वामदेव्यं तृचे गीत्वा नमो वः पितर इत्युपांशु जपित्वा तूष्णीं प्रदक्षिणं कुर्यात् । पत्नी गां दक्षिणां संस्करें दद्यात् । तदभावे दायादः । अथ सपिण्डा अधोमुखा पयसा रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटले- उदकं वजन्ति । राजपुरुपः स्वगोत्रबान्धवो वा कण्टकिनी शाखामादाय माऽवतरतेति तानिवारयेन्न पुनरवतरिष्याम इति प्रतिबूयुः । केशान्प्र. कीर्य पांसूनोप्यकैकवाससो दक्षिणामुखाः सकृदुपमज्ज्योत्तीर्याऽऽचम्यामु प्राप्नोत्वमुं प्राप्नोत्विति वासः पीडयन्ति । केशान्प्रकीर्येत्यादिरेवं विरा- चम्यासावेतत्त उदकमित्युदकाञ्जलिं तिलमिश्रं दयुर्वत्सगोत्राय कृष्ण- शर्मणे प्रेतायैतत्तिलोदकं ददामीतिवन्मन्त्रोऽथोदकवासांसि गृहीत्वा ग्रामं प्रविश्य गृहद्वारपाचे वटे शरावं तदुपर्यश्मानं च निधाय स्त्रीप्रथमाः कनिष्ठपूर्वा उदकदानमन्त्रेण तत्र वासं ( सांसि ) पीडयन्ति । वत्सं च दीपं च पुरः प्रविश्य मरणदेशं गोमयेनोपलिप्य प्रदीप प्रज्वलिते दूर्वातण्डुलानुदकमिश्रान्विकिरन्ति । स्वस्त्यस्तु वो गृहाणां शेषे शिवं वोऽस्त्विति । अथ सायंकाले प्रेतोद्देशेनैकं ब्राह्मणमामय कंसवस्त्रा. दिना यथासंभवं तर्पयेयुः । द्वितीयादिप्वहःसु दशाञ्जलिवृद्धोदकक्रिया। प्रथमतृतीयपश्चमसप्तमनवमेषु वाऽहःस्वासंचयनाद्वारिवासः पीडयन्ति । यावदाशौचं सर्वे सपिण्डा अधःशय्यासनिनो ब्रह्मचारिणः सर्वे न मायीरन्न दानप्रतिग्रही यज्ञस्वाध्यायौ च तेषां निवर्तते । नित्यं वैतानि वानि । एकोद्दिष्टान्मांसं न भक्षयेयुः । संस्कर्ता भोजनात्पूर्व द्वितीयादिष्वहःसु गृहद्वारपार्श्वे दक्षिणाग्रेषु दर्भेषु बलिं दद्यादेव ते बलि- रिति मन्त्रविकारः। एप ते पिण्ड इति पिण्डाकृति वा दद्यात् ।दशाहमध्ये यदि दर्शो मवति मातापितृव्यतिरिक्तानां तत्रैव पिण्डोदकसमापनम् । एवं पत्नी पूर्वमारणी संस्कुर्यात् । अस्याः केशश्मश्रुलोमनखच्छेदवर्ज वपनानन्तरं स्नानं च निवर्तते। सहप्रवासे दंपत्योः सहैव पितृमेधः कार्यः पृथपिण्डोदकक्रिया। रजस्वला प्रसूता वा मृता चेदुद्धृतै लैः। नापयित्वा च तां पावमानीभिः सापयेत्पुनः॥ आच्छाद्यान्यन वस्त्रेण कुर्यादाहादिकं ततः । यद्युत्सृष्टानिविच्छिन्नाग्निविधुराग्निर्वा प्रमीयेतोद्धृत्यावोक्ष्य विकारं कल्पयित्वा गार्हपत्यायतनेऽग्निं मथित्वा तूष्णीं विहृत्य द्वादशगृही. तेन मुचं पूरयित्वा प्रजापतिं मनसा ध्यायन्नाहवनीये जुहुयात् । औपासनाग्निविच्छेदादी लौकिकानो द्वादशगृहीतं हुत्वा तत उपक्रमते । यद्यात्मरूढोऽ(ढा)मिनियेत तस्य दक्षिणं पाणिं लौकिकेऽनावभित. प्योपावरोहेत्यवरोहेत् । यद्यरण्यारूढोऽ(ढा )निम्रियेत तस्य दक्षिणेन ५ पञ्चमः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः। पाणिनाऽरणिं संस्पृश्य मथित्वाऽवरोहयेत् । यदि देशान्तरे नियेता. संस्काराग्निहोत्रं हुजुयात् । अनिरक्षणार्थ तस्य मृतिश्रवणानन्तरं पाथिकृतीमिष्टिं कृत्वा तदर्थ विहृतानेवाग्नीनजस्रान्कुर्यात् । या मृत- वत्सा वत्सान्तरेण दुह्यते तां प्राचीनावीती दोहयति । परिस्तरणदर्भानु- दगडान्दक्षिणाग्रान्कृत्वा दक्षिणार्धे गार्हपत्यस्य शीते तस्मिन्नधिश्रित्य दक्षिणोद्वास्य सकृदेव सर्व तप्णीमुन्नीयाधस्तात्समिधं धारयन्दक्षिणेन विहारमुद्धृत्य सकृदेव सर्वं तूष्णीं जुहुयात् । प्राशनोत्सेचनपरिपेचनानि न स्युरितरत्सर्वममन्त्रकं कुर्यात् । प्रेतं तैलद्रोण्यामवधाय शकटेन ग्राम- सीमानमाहरेदग्ध्वाऽस्थीनि कृष्णाजिनेनोपना ब्रह्मचारी मृन्मयभो. ज्यधः शय्यां हरेत् । तत्रामीनीत्वा दहेत् । एवमेवोपासनेनाऽऽहिताग्नि (निं) दहेद्यज्ञपात्रवर्जम् । ब्रह्मचारिणं कपालसंतपनाग्निनोत्तपनीये- नेतराननेन । स्त्रियोऽनुपनीतानां कुमाराणां च संमार्जनदहने समन्त्रके स्यातामितरत्सर्वं तूष्णीं कुर्यादुदकक्रियाऽपि मन्त्रेण वा । अस्थिसंचय. नादीनि वर्तन्ते । यावदाशौचमेवोदकक्रिया । चूडाकरणात्पाङन भूसं- स्कारो नोदकक्रिया । प्रासङ्गिकमुक्तम् । दहनशेष उच्यते । यदि शरीरं नश्येत्पलाशपत्रैः समूलः कृष्णाजिनेन पुरुषाकृतिं कुर्यात् । चत्वारिं- शता शिरो दशभिर्गीवां विंशत्योरस्त्रिंशतोदरं पश्चाशता पश्चाशता बाहू तयोरेव पञ्चभिः पञ्चभिरमुग्ली: सप्तत्या सप्तत्या पादौ तथैवाङ्गुलीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैष्टयित्वा प्रेतं संकल्प्य पूर्ववहहेत् । अग्निशरीरास्थ्नामन्यतमस्य वा सद्भावे वा संस्कारः । द्वितीये तृतीये पश्चमे सप्तमे वाऽहन्यस्थिसं- चयनं कुर्यात् । स्नात्वोदकक्रियां कृत्वा द्वारि वासः पीड. यित्वा शरावाश्मानावुद्धृत्यावटं पूरयित्वा पिण्डं दत्त्वा चरुस्थाली तण्डुलशरावकुम्भक्षीरदृधिमधुघृतोदकहिरण्यशकलनारिकेलापूपपुष्पफ- लशैवलवीरणस्तम्बोदुम्बरशाखासंदंशेधमकर्दमादीन्गृहीत्वा श्मशानं गत्वा दहनानेरुल्मुकं दक्षिणाऽपोह्य तदभावे मथित्वा प्राजापत्यान्तप. श्चकं विधाय गृह्योक्तेन विधानेन ब्रह्मपपदाज्यमागस्विष्टकृच्छुबलि- वज यमाय त्वा जुष्टं निर्वपामीति निरुप्य जीवतण्डुलं श्रपयित्वा दक्षिणोद्वास्य नाभिधारयेत् । व्याहृतिभिराज्यं हुत्वोपस्तरणाभिधार- वर्ज दया चरोः सकृत्सकृद्गृहीत्वा सप्ताऽऽहुतीर्जुहोति स्वाहा सोमाय पितृमते स्वाहाऽनये पितृमते स्वाहाऽग्नये व्यादे स्वाहाऽग्नये कन्यवा.
रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटले- हनाय स्वाहा यमाय स्वाहा यमायमीयां स्वाहा विवस्वत इति । यज्ञवास्त्वन्तं कृत्वा तन्त्रं समाप्य क्षीरोदकेनौदुम्बरशाखयाऽस्थीन्यवो- क्ष्याऽऽर्द्राणि कृत्वा पलाशसंदंशेनौदुम्बरसंदंशेन वा शिरस्युरसि पाययोः पादयोः पाण्योश्चास्थीन्यप्रदक्षिणानि गृहीत्वा दक्षिणतः पलाशपत्रपुटे कृत्वा वहेमं मनं प्रच्छाद्य धौति माति मानुनेति कुम्भे समोप्य क्षीरदधिमधुघृतोदकैः पूरयित्वा हिरण्यशकलमुपरि निधाय प्राग्वाहिनीं सरस्वती संकल्प्य प्राचीं रेखामुल्लिख्य तत्रोदकं निनीय तस्मिन्नुदकेऽस्थिकुम्भं प्लावयित्वा वृक्षमूलेऽस्थिकुम्भं निदधाति । निख. नेद्वा यावदस्थीनि सुरक्षितानि भवन्ति तावत्स्वर्गे लाके वसति मृतः । अनड्वान्( डुहं ) कंसो(सं) वासो दक्षिणा( णां) संस्कर्वे दद्यात् । पत्नी दायादो वा यदीच्छेज्जीवन्नेव संस्क। दद्यात् । ऊर्ध्व- रेताः प्रजनासमर्था स्त्री वाऽस्थीनि दध्यादिति केचित् । अथ मस्म समुह्य भस्मराशि कर्दमेन प्रच्छाद्य शैवलेन च्छादयित्वा वीरणस्तम्बं तत्र प्रतिष्ठाप्य पुष्पपत्रैः प्रच्छाद्य पुष्पमयी प्रतिकृतिं कृत्वा पुष्पफल. मक्षान्प्रकीर्य तं चरुशेषं प्रेतराजाय नमः प्रेतायेति दत्त्वोदपात्रं तत्र निन· येत् । संचित्योदकक्रियास्थानं तदहर्न गच्छेयुः। अथ दशमेऽहनि केश- श्मश्रुलोमनखानि वापयित्वा नात्वा दशाञ्जलिमुदकं दत्त्वा पूर्ववद्वेदिका. पूजां कृत्वा च पुनः स्वात्वाऽग्न आयूषीत्यादित्यमुपस्थाय पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्रबवाम शरदः शतमजीताः स्याम शरदः शतं ज्योक्च सूर्य दृशेयमिति सर्वे सपिण्डा जपेयुः । अथ ग्रामश्मशा- नयोर्मध्ये महापथे वृक्षमूले वा गोचर्मण्युपविश्य गृह्योक्तविधानेन लौकिकेऽनौ चरुमन्त्रैः सप्ताऽऽहुतीर्हत्वा तन्वं समाप्य पुण्याहं वाचयेत् । नात्र ब्रह्मणा भवितव्यम् । गृहागताः सगोत्रा उदकदातारः पुत्राः पौत्राः प्रपौत्राश्च जीवन्तु शरदः शतमिति जपेयुः । अथैकोद्दिष्टम् । दशमेऽहनि रात्रौ प्रेतोद्देशेनैकं ब्राह्मणमामन्त्र्य प्रभाते गृहं गोमयेनो- पलिप्य मध्यंदिन एकोद्दिष्टं कुर्यात् । प्राणायामं कृत्वा प्राचीनावीती मूत्वैका कयूँ खात्वा तत्र दक्षिणायान्दर्भान्निधाय ततः पश्चात्पाङमुखं ब्राह्मणमुपवेश्य तिलमिर्जलस्तस्य पादौ प्रक्षाल्य दक्षिणाग्रेषु दर्भेषूद- मुखमुपवेश्य तस्य दक्षिणं पाणिं दक्षिणेन पाणिना संस्पृश्य वत्सगो. त्राय विष्णुशर्मणे प्रेताय प्रथमैकोद्दिष्टश्राद्धे भवता क्षणः कर्तव्य इति- ८७ ५ पञ्चमः खण्डः ] वाह्यायणगृह्यसूत्रवृत्तिः। वत्तस्य गोत्रनामनिर्देशेन वरणं कुर्यात् । ॐ तथेति मोक्ता । प्राप्नोतु मवानिति प्रदाता । प्राप्तवानीति मोक्ता । ततस्ताम्बूलादि प्रदायाभ्यङ्गं कुर्यात् । स्नातवति प्रादप्रक्षालनवरणे पूर्ववत्कृत्वा पवित्रान्तर्हिते पात्रे शं नो देवीरिति गन्धोदकं गृहीत्वा तिलोऽसीति तिलानावपेत् । सर्वत्र पितृशब्दस्थाने प्रेतशब्दं ब्रूयात् । अत्र स्वधानमःशब्दौ न स्याताम् । ततो भोजनपात्रं दत्त्वाऽयपात्रस्थं पवित्रं तस्य दक्षिणहस्ते दक्षिणायं निधायार्थ्यपात्राकिंचिदुदकमादाय या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्या हिरण्यवर्णा यज्ञियास्ता न आपः शं स्यो. ना सुहवा भवन्त्वित्यनेन मन्त्रेण यज्ञशर्मन्नेतत्तेऽयमितिवत्प्रेतनामोक्त्वा सपवित्रे हस्ते निनयेत् । भोक्ताऽस्त्वiमित्युक्त्वा तज्जलं शिरस्यवन- येत् । दाता पुनः पवित्रमादायार्घ्यपात्रे प्रक्षिप्य गन्धवस्त्रधनादिकं प्रदाय सर्वव्यञ्जनसहितमन्नं पात्रे निधाय पृथिवी ते पात्रं द्यौरपिधानं बाह्म- णस्य मुखेऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहो- म्यक्षितमसि मैषा क्षेठा अमुत्रामुष्मिलोक इत्यनेन भोजनपात्रमालभ्य भोक्त्तुरङ्गुष्ठमिदं विष्णुर्विचक्रम इत्यनेन मन्त्रेणान्नेऽवधायापहता इत्य- नेन मन्त्रेणाप्रदक्षिणं परिषिच्य भोजनकाले भूर्भुवः स्वरिति जपित्वा सावित्री तत्साम च यद्वा उ विश्पतिरित्यादि कनिक्रन्तीत्यन्तं पियवर्ग चोक्त्वा भुक्तवति तृप्तोऽसीति पृष्ट्वा तृप्तोऽस्मीत्यनुज्ञातस्ते प्रेत जीवाय ते प्रेत शूषाय ते प्रेत घोराय ते प्रेत रसाय ते प्रेत मन्यव इति ते प्रेत प्रेत गृहान्नः प्रेत देहि सदस्ते प्रेत देष्मेति मन्त्रमूहेन जपेत् । ये त्वग्निदग्धा जीवा ये अप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् । इत्यनेन मन्त्रेणोच्छिष्टसमीपेऽन्नं प्रकीर्य सकृदाचान्ते शेषमन्नमनशेषैः किं क्रियतामिति पृष्ट्वेष्टैः सहोपभुज्यतामित्यनुज्ञात उच्छिष्टसमीप एकां कऽ खात्वा कामुल्मुकं प्रज्वाल्यापहता इत्यनेन मन्त्रेणोल्मुकं दक्षिणतो निदध्यात् । अथोदकपात्राज्जलमादाय यज्ञ- शर्मन्नितिवत्प्रेतनामोक्त्वाऽवनेनिश्व ये चात्र त्वाऽनु यांश्च त्वमनु तस्मै ते नम इति पितृतीर्थेन निनयेत् । जलपात्रं का दक्षिणतोऽवाङ्. मुखं प्रक्षिपेत् । अथ कंसपात्रे चरुं मर्दयित्वा तिलव्यञ्जनादिभिर्मिश्री. कृत्य कुकुटाण्डप्रमाणमेकं पिण्डं देवदत्तशर्मन्मुक्ष्व ये चात्र त्वाऽनु यांश्च त्वमनु तस्मै ते पिण्डमित्यनेन मन्त्रेण कष्वा निदध्यात् । अत्र प्रेत मादयस्व यथामागमावृषायस्वेत्युक्त्वा भूर्भुवः स्वः सावित्री तत्साम ..
रुद्रस्कन्दप्रणीता- [ ३ तृतीयपटले-- च यद्वा उ विश्पतिरित्यादिपित्र्याणि सामानि गीत्वोदङ्मुखमावर्तेत । सव्यं बाहुमुपसंहृत्य प्रसव्यमावृत्य यथाशक्ति निरुच्छासो भूत्वाऽ. भिलषितं मेऽस्त्विति ध्यायन्नभिपर्यावर्तमानः पिण्डं प्रति जपेत् । असौ मदन्त प्रेत यथाऽसौ भागमावृषायटेति । ततोऽञ्जनपात्राद- अनमादायैकां दर्भपिजूलीमञ्जनेन मर्दयित्वाऽश्व ये चात्र त्वाऽनु यांश्च त्वमनु तस्मै तेऽञ्जनमित्यनेन मन्त्रेण कप्वाँ दर्भपि- जूलीं निदध्यादञ्जनपात्रं च पूर्ववत्कुर्यात् । एवं तैलगन्धयोर्दा- नमभ्यक्ष्वानुलिम्पेति मन्त्रविकारः । काः पश्चान्निह्नवनं दक्षिणं पाणिं पूर्वाग्रमुत्तानं भूमौ निधाय तस्योपरि पूर्वाग्रमेव सव्यं पाणि- मवाङ्मुखं निधाय ते प्रेत जीवाय ते प्रेत शूषायेति मन्त्रतः सव्य. मुत्तानं तस्योपरि दक्षिणमवाङ्मुखं निधाय ते प्रेत घोराय ते प्रेत रसायेति द्वितीयम् । प्रथमनिह्नवनवत्पाणी कृत्वा ते प्रेत स्वधाय ते प्रेत मन्यव इति तृतीयम् । ते प्रेत प्रेत ते गृहान्नः प्रेत देहि सदस्ते प्रेत देष्मे. त्यनेन मन्त्रेण प्रेतमुपतिठेत । एतत्ते प्रेत वास इति वासोदानम् । ऊजं वहन्तीरिति विवरणेनाप्रदक्षिणं पिण्डं परिषिच्याऽऽचान्तेषु पुष्पाण्यक्षतांश्च दत्त्वोत्तिष्ठतामिति वाचयित्वा दातारो नोऽभिवर्धन्ता- मित्युक्त्वा कर्ता दातारो व इति वाचयित्वा तं प्रदक्षिणीकृत्य छत्री- पानत्कुण्डलपवित्राङ्गुलीयकाञ्चनादि दत्त्वा प्रणिपत्य प्रसादयेत् । तम. भिरभतामिति विसृज्यानुव्रज्य प्रदक्षिणीकृत्य गृहं प्रविश्य वामदेव्यं तृचं गीत्वा पिण्डमप्सु प्रक्षिपेत् । गां विप्रमजं वा पिण्डं प्राशयेत् । वयो. भिर्वा खादयेत् । स्नात्वा शेषं भुञ्जीत । अस्तमयानोच्छिष्टमार्जनम् । ग्रामादहिरुदकसमीपे पिण्डदानं केचित्कुर्वन्ति । अथ पयोव्रतः पाव- नाथं समुद्रमवगाहेदशसहस्रं वा गायत्री जपेत् । तिस्रो वाऽनश्नन्संहिता- मधीयीत पायसेन वा ब्राह्मणान्भोजयेत् । ततः पुण्याहं वाचयित्वा पूतो भवति । अस्मिन्नेकोद्दिष्टे न दैवं नाऽऽवाहनं न धूपो न दीपो नोदकपिण्डसंसर्गः । एतदेकोद्दिष्टान्तं तत्पुत्राभावे प्रत्यासन्नः सपिण्डः कुर्यात् । तदभावे मातृसपिण्डः शिष्यत्विंगाचार्या वा । एतदेकोद्दिष्टं प्राक्सपिण्डीकरणान्मासि मासि यस्यां तिथौ मृतस्तस्यां कुर्यादू, तु प्रतिसंवत्सरम् । मरणादूध तृतीय पक्षे षष्ठे मासि चेत्येके। संवत्सरा. दर्वाक्सपिण्डीकरणम् । प्रतिवर्षे (?) ततः पूर्वाणि मासिकादीन्यपि प्रति- कृष्य कर्तव्यानि । सोदकुम्भमन्नमहरहर्दद्यात् । अथ द्वादशेऽहनि तृतीये ६ पञ्चमः खण्डः] ब्राह्मायणगृह्यसूत्रवृत्तिः। पक्षे तृतीये मासि चतुर्थे षष्ठ एकादशे संवत्सरे वा सपिण्डीकरणम् । पूर्वेरनिन्दितान्गुणवच्छीलसंपन्नापब्राह्मणानामन्त्रयेत । द्वौ देवे श्रीन्पिध्ये प्रेतायकम् । आमन्त्रितादन्यं न प्रतिगृह्णीयुः। परेाः स्माताना. हूय प्रक्षालितपाणिपादानाचान्तान्प्राङ्मुखानुपवेश्य स्वयं च प्रक्षालित. पाणिपाद आचान्तः पवित्रपाणिः प्राङ्मुख उपविश्य प्राणायाम कृत्वा प्राचीनावीती भूत्वा प्रेतस्य गोत्रनामनी चोक्त्वा सपिण्डीश्राद्धं करिष्य इति संकल्प्योदगग्रेषु दर्भेषु प्राङ्मुखो द्वौ विश्वेभ्यो देवेभ्य उपवेश्य प्राचीनावीती भूत्वा दक्षिणापूदङ्मुखान्पितृपितामहप्रपितामहेभ्य- स्त्रीन्विप्रानुपवेश्य दक्षिणाग्रेषु प्रेतायेकं प्रत्यङ्मुखमुपवैश्य यज्ञोप- वीती देवं सवं होमं च प्राचीनावीती पित्र्यं प्रेतार्थं च सर्व कुर्यात् । द्वौ दौं विश्वदेवहस्ते दत्वा प्रेतस्य गोत्रनामनी चोक्त्वाऽमुष्य सपि. ण्डीकरणश्राद्धे विश्वेभ्यो देवेभ्यः क्षणः कर्तव्य इति पृच्छति । ॐ तथेति प्रतिवचनम् । प्राप्नोतु भवानिति पृच्छति । प्रामवानीत्यनुज्ञात- स्ततो यवानादायोंकारं कृत्वा विश्वान्देवानावाहयिष्य इति पृच्छति । ओमावाहयेत्यनुज्ञातो 'विश्वे देवास आगत शृणुताम इमं हवम् । एवं बर्हिनिषीदत' इत्यनयाऽऽवाह्य यवैरवकीर्य 'विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्ब. हिषि मादयध्वम्' इति जपित्वा पित्र्ये द्विगुणभुग्नांस्तु दर्भान्दत्त्वा पूर्वव- पितृपितामहप्रपितामहेभ्यः क्षणः कर्तव्य इति प्रत्येकं पृच्छति । पूर्व. वत्पतिवचनम् । तिलानादायोंकारं कृत्वा पितृनावाहयिष्य इति पृच्छति ओमाधाहयेत्यनुज्ञात 'एत पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेमिः । दत्तास्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं नियच्छत इस्यनयाऽऽवाह्य तिलैरवकीर्यापहता इति 'आयन्तु नः पितरः सोम्या- सोऽमिष्वात्ताः पथिभिर्देवयानः। अस्मिन्यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ' इति जपित्वैवमेव प्रेतस्य वरणं कृत्वा प्राङ्गणे तिस्रः कर्पूर्द- क्षिणापवर्गाः खात्वाऽक्षतैः प्रथमकमलंकृत्येतरे च तिलैरलंकृत्य प्रथम- कवा देवपादौ प्रक्षाल्य मध्यमायां पित्रादीनामुत्तमायां प्रेतस्यैते सुर- मिभिर्वारिभिः प्रक्षालितपादाः पूर्ववदुपविशेयुः । तत उपविष्टेभ्यो गन्धपुष्पताम्बूलाभ्यञ्जनादि दद्यात् । ततोऽभ्यङ्गं कृत्वाऽऽगताञ्ची- न्पूर्ववत्कर्तेषु पादौ प्रक्षाल्याऽऽसनेषूपवेश्य पूर्ववद्वरणं कुर्यात् । सपवि- त्राणि पात्राणि दक्षिणाग्रेषु दर्भेषु दक्षिणापवर्ग सादयित्वो. , । १२ , रुद्रस्कन्दप्रणीता [ ३ तृतीयपटले- दगग्रेषु दर्भेष्वेकं पात्रं ततः पश्चिमतः सादयेत् । दक्षिणाये दर्भ प्रेतपात्रं पुरस्तात्सादयेत् । तानि पात्राणि गन्धोदकैः पूरयित्वा शं नो देवीरिति पश्चिमतो निहिते विश्वदेवपात्रे तण्डुलानोप्य ' यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदः सर्वपा. पानां पवित्र मृषिभिः स्मृतम्' । इति पितृपात्रेष्वेकैकस्मिन्नेव तिला- नावपति । 'तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्नस्वधया पितनिमाल्लोकान्प्रीणयाहि नः स्वधा नमः । इत्यन्तं मन्त्रं पितामहादिषु यथार्थमूहेत् । सपवित्रेषु पात्रेषु प्रत्येकं पलाशपत्र. पुटं निदध्यात् । विश्वदेवकरेषु शुद्धोदकं निनीय तत्पात्रगतं कूर्चमुदगग्रं प्रदाय पत्रपुटेनार्यमादाय ' या दिव्या आपः पयसा संबभूवुर्या अन्त. रिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योनाः मुहवा मवन्तु ' इत्यध्यं दद्यात् । अस्त्वय॑मिति प्रतिवचनम् । ततः शुद्धोदकं प्रदाय कर्चमादाय पूर्ववत्प्रात्रे निदध्यात् । एवमेव पित्रादीनां नामभिरर्यदानं तत्तत्पात्रेभ्योऽयजलमादायानेनैव मन्त्रेणास्मिन्नेवाव. सरे गन्धपुष्पधूपदीपवासोहिरण्यादिदानं देवेभ्यः पित्रादिभ्यश्च । अनन्तरमेव कृत्स्नेऽनो परिसमूहनादिप्रपदान्तं कृत्वा व्याहृतिभिस्तिम- भिर्तुत्वा पुनश्च व्याहृतिभिर्तुत्वा घृताक्तमन्नमुद्धृत्य प्राचीनावीती भूत्वा पित्रादीनां पुरः स्थित्वाऽनो करिष्य इति पृष्ट्वा कुर्वित्यनुज्ञात: प्रत्यागत्य पश्चादुपविश्य यज्ञोपवीती भूत्वा स्वाहा सोमाय पितृमते स्वाहाऽग्नये कव्यवाहनायेत्येताभ्यामाहुती जुहुयात् । तत उपरिष्टाद्धो- मादिवामदेव्यगानान्तं कृत्वा हुतशेषमन्नं तेषां भोजनपात्रेषु दद्यात् । तदनन्तरमपूपव्यञ्जनसहितमन्नं प्रदाय मोजनपात्रमालभ्य 'पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतं जुहोमि बाह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिलोके इति जपित्वा सर्वमन्नमभिसृश्येदं विष्णुरिति भोक्तुरङ्गुष्ठमन्नेऽवधाय हव्यमिति देवे कव्यमिति पित्र्ये सकृदपः प्रदक्षिणं तूष्णीं देवेऽपहता इत्यप्रदक्षिणं पित्र्ये परिषिश्चेत् । बहिस्तिलैरवकीर्य ततः प्रविश्य तेषां पुरतः स्थित्वा प्रवीभूतो नमस्काराञ्जलिं कृत्वेदमन्नमुपतिष्ठस्व दत्तं दास्यमानं चाऽऽ तृप्तेरिदमन्नमिति बूयात् । ततः प्रसन्नचेता उपविश्य व्याहृतिपूर्वा सावित्री तस्यां चैव गायत्रमिदं ह्यन्नौजस इति देवसंहिता जपेत् । यद्वा उ विश्पतिरित्यादिपितृवर्ग जपेत् । भुक्तवत्सु पित्रादिषु ५ पञ्चमः खण्डः ] द्राह्मायणगृह्यसूत्रवृत्तिः। ९१ वृप्ताः स्थेति पृष्ट्वा तृप्ताः स्म इत्यनुज्ञातो नमो वः पितर इति जपित्वा विश्वदेवानां पुरतोऽन्नं प्रकीर्य 'असोमपाश्च ये देवा यज्ञमागविवर्जिताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम् ' इति जपेत् । पितॄणामु- च्छिष्टसमीपे 'ये त्वग्निदग्धा ये जीवा येऽप्य दग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ।' इति । सकृदाचान्तेषु दक्षि- णाग्रेषु पवित्रेषु त्रीपिण्डान्दद्यात् । प्रेतायैकम् । वक्ष्यमाणक्रमेण पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः स्वधोच्यतामित्यस्तु स्वधेति प्रत्युक्तो दक्षि- णायान्दर्मानास्तीर्य पितृपात्रात्किंचिदुदकमादाय यज्ञशर्मन्मम पितरव- नेनिक्ष्व ये चात्र त्वाऽनु यांश्च त्वमनु तस्मै ते स्वधेति निनयेत् । ततः पितामहपात्रात्मपितामहपात्रास्किंचिदुदकमादायावनेनिवेति निन- येत् । स्त्रियश्चेद्देवकिप्रेतेऽवनेनिवेति यथार्थमूहेत् । भुक्तशेषमन्नमु- द्धत्य चतुरः पिण्डान्कृत्वैकं पिण्डमादाय क्रमेण तत्तत्स्थानेषु देवदत्त. शर्मन्मम पितर्भुक्ष्व ये चात्र त्वाऽनु यांश्च त्वमनु तस्मै ते पिण्ड इति पित्र्येण तीर्थेन निदध्यात् । एवं द्वितीयं तृतीयं च पितामहप्रपिताम- हेति मन्त्रविकारः । ततः प्रेतपिण्डमादाय यज्ञशर्मन्प्रेत भुक्ष्व ये चात्र त्वेत्यादिनैतेषां पुरस्तानिनि(णि)क्तदेशे निदध्यात् । एवं निहि- तेषु पिण्डेष्वत्र पितरो मादयध्वमिति जपित्वा पूर्ववद्याहृतिपूर्वाणि सामानि जपित्वोदङ्मुखमावर्तेत । सव्यं बाहमुपसंहृत्य प्रसव्यमावृत्य निरुच्छासो भूत्वा कल्याणं ध्यायन्नभिपर्यावर्तमानो जपेदमीमदन्त पितरो यथाभागमावृषायिषतेति । ततश्चतस्रो दर्मपिजूलीरञ्जनेन निघृष्य कर्पूषु निध्याद्यथापिण्डं तैलं सुरभि च । एतेषामझ्वाम्य. क्ष्वानुलिम्पेति मन्त्रविकारः । अनन्तरं पितृपिण्डस्य पश्चिमदेशे दक्षिणं पाणिमुत्तानं कृत्वा भूमी निधाय तस्योपरि सव्यं न्यञ्चं निधाय नमो वः पितरो जीवाय नमो वः पितरः शूपायेति जपेत् । सव्योत्तानी मध्यमायां नमो वः पितामहो घोराय नमो वः पितामहो रसायेति दक्षिणोत्तानो पश्चिमायां नमो वः प्रपितामह स्वधायै नमो वः प्रपि. तामहो मन्यव इति प्रेतपिण्डस्य पश्चादेवं कुर्यात् । ते प्रेत जीवायति मन्त्रमूहेत् । उत्थाय कृताञ्जलिनमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सदोवः पितरो देष्म इत्युपरि वासस्तन्तूनादायैतद्वः पितरो वास एतद्वः पितामहो वास एतद्वःप्रपितामहो वास एतत्ते प्रेत वास इति पिण्डेषु निधाय प्रेतपात्रमादाय पित्रादिभिरनुज्ञातो ये समानाः समनसः पितरो ९२ रुद्रस्कन्दप्रणीता- [४ चतुर्थपटले- यमराज्ये तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतामित्यनेन मन्त्रेण पित्रादीनां पिण्डेषु क्रमेण योजयेत् । तत उत्थाय नमस्काराञ्जलि कृत्वा 'समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहा सति' इत्यनेनोपस्थाय पितृपात्रमादायोज वहन्तीरिति पितृपिण्डमप्रदक्षिणं परिपिश्चेत् । पात्रं पिण्डानां दक्षि- णतोऽवाङ्मुखं निधाय पितामहपात्रमादायानेनैव मन्त्रेण पितामह- पिण्डं परिषिच्य तत्पात्रं दक्षिणतोऽवाङ्मुखं निदध्यात् । प्रपितामह. पात्रेण प्रपितामहपिण्डं परिषिच्य तदपि पूर्ववन्निध्यात् । आचान्तेषु गन्धपुष्पोदकाक्षतांश्च दत्त्वा यथाशक्ति दक्षिणां च दत्त्वाऽक्षय्यमस्त्विति वाचयित्वा दातारो नोऽभिवर्धन्तामिति मन्त्रं ब्रूयात् । दातारो वोऽभि- वर्द्धन्तामित्यनेनाऽऽशिषः प्रतिगृह्य वाजे वाज इति सर्वान्विसृज्यानुवज्य पश्चादेवं विसर्जयेत् । प्रविश्यागारं वामदेव्यं गायेत् । आऽस्तमयान्नो. च्छिष्टं मार्जयेत् । एवमेव मातुः सपिण्डीकरणं म; पुत्रादिभिर्वा कुर्यात् । अथ वा मातामह्यादिभिर्वा । सपिण्डीकरणादूवं मासि मास्य- परपक्षस्य पञ्चम्या (मीमा) रभ्य मासि श्राद्धं कुर्यात् ॥३८॥ अथ प्रकृतमनुसरामः- इन्दाण्याः स्थालीपाकस्यैकाष्टकेति जुहु- यादेकाष्टकेति जुहुयादिति ॥ ३९ ॥ इन्द्राणी त्वा जुष्टं निर्वपामीति निर्वापः । एकाष्टकेति प्रधानाहुतिः। परतन्त्रमेतत् । चैत्री पौर्णमासी कालश्चैव्याश्वयुजीति गौतमवच. नात् ॥ ३९॥ इति श्रीरुद्रस्कन्दकृतायां गृह्यवृत्तौ तृतीयपटले पञ्चमः खण्डः ॥५॥ तृतीयपटलश्च समाप्तः ॥३॥ अथ चतुर्थः पटलः । उक्तानि नित्यानि पुष्टिकामार्थानि च वक्ष्यमाणमोजननियमेन सापेक्षाणि मन्त्रक्रमानुसारेणोक्तानि । इदानीं वक्ष्यमाणमोजननियम- माह-
..प्रथमः खण्डः ] द्राह्मायणगृह्यसूत्रवृत्तिः।
९३
काम्येषु षड्भक्तानि त्रीणि वा नाभीयादिति ॥ १ ॥
काम्यग्रहणाद्यत्र कामप्रतिपादनपरः कामशब्द इच्छाशब्दो वा
नास्ति तत्रायं [न] नियमः । चतुर्था पञ्चम्या चाऽऽदित्योपस्थाने
मूर्भुवः स्वरोमित्यादित्यनावं वास्तोष्पत इत्येतेषु कम्बूकपण्योपतापिहोमेषु
ग्रन्थीकरणे हरितगोमयप्रमृतिषु चाऽऽ परिसमाप्तेनियमामावः । बीहि-
यवाक्षततण्डुलांस्तिलतण्डुलान्कणान्कम्बूकान्पुरीषं हरितगोमयं च परि-
चरणतन्त्रण जुहुयात् । शङ्कुशतं जुहुयात्समित्तन्त्रेण । वास्तूपतापि-
होमी चरुतन्त्रेण । शिष्टान्होमानाज्यतन्त्रेण । षड्मक्तानि व्यहम् ॥१॥
नित्यप्रयुक्तानामादित इति ॥ २ ॥
नियमानन्तरं नियमेन प्रयोक्तुं शक्यानामादौ मोजनम् ॥२॥
उपरिष्टात्सांनिपातिक इति ॥ ३ ॥
नि(नैमित्तिकोतकर्म कृत्वाऽमोजनम् ॥ ३॥
एवं यजनीयप्रयोग इति ॥ ४ ॥
यजनीय इति निर्दिश्य विहिते कर्मणि ॥४॥
अर्धमासवतीति ॥५॥
अर्धमासवती पौर्णमास्यां रावावित्यादावर्धमासममोजनम् ॥ ५॥
अशक्तौ पेयमेकं कालमिति ॥ ६ ॥
अर्धमासवते पेयं क्षीरादि ॥६॥
अरण्ये प्रपदं जपेदासीनः प्रागग्रेविति ॥ ७ ॥
अत्राऽऽसननियमादन्यत्र जपे दा(नाss)सननियमः॥ ७ ॥
एवं ब्रह्मवर्चसकामो यथोक्तं पशुकाम इति ॥ ८ ॥
गोठे पशुकाम उदगग्रेषु ॥८॥
सहस्रबाहुरिति पशुस्वस्त्ययनकामो
व्रीहियवौ जुहुयादिति ॥ ९ ॥
पशूनां शोमनाविच्छेदकामो मिश्रीकृत्य त्रिः प्रक्षाल्य स्वाहेति च
द्वितीया ॥९॥
रुद्रस्कन्दप्रणीता-
[ ४ चतुर्षपटले-.
येनेच्छेत्सहकारं कौतोमतेनास्य महावृ-
क्षफलानि परिजप्य दद्यादिति ॥ १०॥
येन सस्यमिच्छेत्तस्मा उदुम्बरफलानि कौतोमतमित्यभिमन्य
दद्यात् ॥ १०॥
अर्धमासवती पौर्णमास्यां रात्रौ नाभिमात्रं
प्रगाह्याविदासिनि ह्रदेऽक्षततण्डुलानास्येन जुहुया-
दुदकवृक्ष इवेति पञ्चभिः पार्थिवं कर्मेति॥ ११॥
अविदासिन्यशोष्ये तिष्ठन्नेवाखण्डनार्थलोपान्न समित् । अग्निस्थाप-
नमुदकम् । पृथिवीपतित्वप्राप्त्यर्थमिदं कर्म ॥ ११ ॥
प्रथमयाऽऽदित्यमुपतिष्ठेद्भोगकामोऽ-
र्थपतौ प्रेक्षमाण इति ॥१२॥
वृक्ष इत्यादीनामेव प्रत्येकं कर्मोच्यते । कामनाभेदेनैषु नार्धमासब.
तित्वम् । द्रव्यानुमवकामो द्रव्यं तमात्मानं पश्यति सति ॥ १२ ॥
द्वितीययाऽक्षततण्डुलानादित्यो(त्यः) परिविष्य-
माणे बृहत्यत्र स्वस्ती(स्त्य)यनकाम इति ॥१३॥
स्वाहेति द्वितीयाऽऽहुतिः । यात्रागमनसाधनं महता( तां) मखा-
दीनां शोमनाविच्छेदं य इच्छति ॥ १३॥
तृतीयया चन्द्रमसि तिलतण्डुलान्क्षु-
दपशुस्वत्ययनकाम इति ॥ १४ ॥
परिविष्यमाणे चन्द्रमसि मिश्रित्यहोमः । स्वाहेति द्वितीयाऽऽहुतिः ।
क्षुद्रपशवोऽजाविकादयः ॥ १४ ॥
चतुर्थ्याऽऽदित्यमुपस्थाय गुर्वर्थमायुत्तिष्ठेदिति ॥ १५॥
महार्यद्रव्यं प्राप्नुमुद्योगं कुर्यात् । एवं कृते फलातिशयो भवति॥१५॥
पञ्चम्याऽऽदित्यमुपस्थाय गृहानेयादिति ॥ १६ ॥
वेश्म प्रविशेदुत्तिष्ठेत्फलातिशयो भवति ॥ १६ ॥
अन्नकाममारण्ये नित्यं जपेद्धरितीति॥ १७ ॥
अहरहरामरणाद्यो जपेत्काममरणं स लमते । अन्नकामो न म्रियत
इत्यर्थः ॥ १७ ॥
१ प्रथमः खण्डः ] दाह्यायणगृह्यसूत्रवृत्तिः।
९५
यजनीये जुहुयान्मूर्भोऽधि म इति षड्-
भिर्वामदेव्याभिर्महाव्याहृतिभिः प्राजाप-
त्यया चालक्ष्मीनिर्णोद इति ॥ १८ ॥
नित्यादूर्घमलक्ष्म्यपगमः फलम् । अक्षेमे पथ्यपेहीत्व(?)तिजपेन्मन्त्र.
लिङ्गात् । क्षेमो भवति ॥ १८॥
यशोऽहमित्यादित्यमुपतिष्ठेद्यशस्कामः पूर्वाह्नमध्यंदि-
नापराह्नेषु प्रातरहस्येति यथार्थमूहेदिति ॥ १९ ॥
मध्याह्नस्य सायमलस्येति ॥ १९ ॥
आदित्यनावमिति संध्योपस्थानं स्वस्त्ययनमिति ॥ २० ॥
शुभप्राप्तिसाधनमेतत्कर्म । अहरहरुपस्थानम् ॥ २० ॥
उद्यन्तं त्वेति पूर्वा प्रतितिष्ठन्तं त्वेति पश्चिमामिति ॥ २१ ॥
स्पष्टम् ॥ २१॥
अर्धमासव्रती तामिस्रादौ ब्राह्मणाना-
शयेव्रीहिकंसौदनमिति ॥ २२ ॥
अपरपक्षप्रतिपदि ब्रह्योदनं कंसेन भोजयेत् ॥ २२ ॥
तस्य कणानपरासु संध्यासु प्रत्यग्ग्रामान्निष्क्रम्य
भलायेति जुहुयानल्लायेति चेति ॥ २३ ॥
उक्तवाहिकणान्सायंसंध्यास्वारभ्याऽऽगामितामिस्रादेर्भलाय स्वाहा
मल्लाय स्वाहेति च ॥ २३॥
एवमेवापरस्मिस्तामिस्रादौ ॥ २४ ॥
बीहिकंसौदनं ब्राह्मणान्मोजयेत् ॥ २४ ॥
ब्रह्मचर्यमा समाप्तेराचरितशतं भवतीति ॥ २५ ॥
यावति द्रव्यसंचितवानिति व्यपदिशति तच्छतगुणितमस्य फलं
भवति ॥२५॥
इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ चतुर्थपटलस्य
प्रथमः खण्डः ॥१॥
रुद्रस्कन्दप्रणीता-
[ ४ चतुर्थपटले-
भय द्वितीयः सह
गौरे भूमिभागे ब्राह्मणो लोहिते क्षत्रियः कृष्णे
वैश्योऽवसानं जोषयेत्समं न लोमशमनिरिणमशु-
कमिति ॥ १ ॥
वासस्थान सेवेत श्वभ्रादिरहितं तृणबहुलमनूषरमार्दीभूतम् ॥१॥
यत्रोदकं प्रत्यनुदीची प्रवर्तत इति ॥ २ ॥
प्रत्यगुदवप्रवणः ॥२॥
क्षीराः कण्टकिनः कटुकाश्चात्रौषधयो न स्युरिति ॥ ३ ॥
क्षीरिणः कण्टकिनः कटुकरसाश्च वृक्षा यत्र पूर्वमपि स्युस्तमपि
वर्जयेत् ॥३॥
दर्भसंमितं ब्रह्मवर्चस्पमिति ॥ ४ ॥
स्पष्टम् ॥४॥
बृहत्तृणैर्बल्यमिति ॥ ५ ॥
स्थूलतृणैर्युक्तं बलार्थम् ॥५॥
मृदुतृणैः पशव्यमिति ॥ ६ ॥
स्पष्टम् ॥६॥
स्यादर्भमण्डलद्दीपिभिर्वति ॥ ७ ॥
दीर्घस्थालीभिर्युक्तं पश्वर्थम् ॥ ७॥
यत्र वा स्वयंकृताः श्वधाः सर्वतोऽभिमुखाः स्युरिति ॥ ८॥
प्रयत्नजाः कर्व ऊर्ध्वमुखोदका यत्र तदपि पशव्यम् । वासमू-
मिरुता ॥८॥
अथ गृहमाह-
प्रारद्वारं धन्यं पशव्यं चेति ॥९॥
स्पष्टम् ॥९॥
उदग्द्वारं पुत्र्यं पशव्यं चेति ॥ १० ॥
स्पष्टम् ॥१०॥
२ द्वितीयः खण्डः ] दाह्मायणगृह्यसूत्रवृत्तिः।
दक्षिणद्वारे सर्वे कामा इति ॥ ११ ॥
स्पष्टम् ॥ ११ ॥
अनुद्वारं गेहद्वारमिति ॥ १२ ॥
यस्यां दिशि बहिरं तस्यामेवान्तर्गृहद्वारं स्यात् ॥ १२॥
असंलोकी स्यादिति ॥ १३ ॥
गृहमध्ये द्वारद्वयं न स्यात् । द्वारद्वयं परस्परमृजु न स्यादिति
केचित् ॥१३॥
अथ तद्गृहवासिनामभ्युदयसाधनं होममाह-
पायसं हविरिति ॥ १४ ॥
वास्तोपते त्वा जुष्टं निर्वपामीति निर्वापः ॥ १४ ॥
कृष्णा गौरिति ॥ १५॥
वसार्था ॥ १५॥
अजो वा श्वेत इति ॥ १६ ॥
स्पष्टम् ॥ १६ ॥
पायस एव वेति ॥१७॥
पायस एषैको हविः स्यात् । पशोनिवृत्तिः । अस्मिन्पक्षे वसाया
निवृत्तिरेव ॥ १७ ॥
मध्ये वेश्मनो वसां पायसं चाऽऽज्येन मिश्रमष्ट-
गृहीतेन जुहुयादास्तोष्पत इतीति ॥ १८ ॥
यावदन्तर्गृहायामं दर्भरज्जुचतुष्टयं कृत्वा प्रतिदिशं मध्ये प्रतिकोणं च
नियम्यान्तर्गृहे मध्ये रज्जुसंगमदेशे रज्ज्वन्तेषु च प्रागुपक्रमं प्रदक्षिणं
गोमयेनोपलिप्य शमीपलाशश्रीपर्णीनां पत्रैस्तण्डुलैः पुष्पैश्च गृहं सर्वतः
प्रकीर्य मध्यमोपलिप्ते प्रपदान्तं कृत्वा कृत्स्नगृह्येऽनौ व्याहृतिभिराज्यं
हुत्वा वसां पायसं चाऽऽज्येन मिश्रीकृत्य मिश्रितान्यष्टाववदानानि
जुह्वा गृहीत्वोपस्तरणाभिधारणवर्ज धानावन्तं गीत्वा वास्तोष्पत इति
जुहुयात् ॥१८॥
याश्च परा इति ॥ १९॥
परा या ऋचो हये राक इत्याद्याश्चतस्रस्ताभिश्च जुहुयात् ॥ १९ ॥
रुद्रस्कन्दप्रणीता-
[ ४ चतुर्थपटले
सप्तालक्ष्मीनिर्णोदे ताभिश्चेति ॥ २० ॥
ताभिरिति प्रकृतापेक्षत्वाद्याः परा इत्यनुकृष्यन्ते । अलक्ष्मीनिर्णोदे
याः परा वामदेव्यग्मिर्महाव्याहृतिमिः प्राजापत्यया चेति सप्त ताभिश्च
जुहुयात् । चशब्दः पूर्ववत् ॥ २०॥
हुत्वा दिशां बलीनयेदिति ॥ २१ ॥
हुत्वेति स्विष्टकृत्पतिषेधार्थः । उक्तान्येव हवींषि हुत्वेति तत्पतिषेधा-
नाऽऽज्यभागौ स्तस्तेषाममावात्पुरस्ताद्याहृतिहोमाः स्युः । गानान्तं
समाप्य बलिहरणम् । नात्र हविरुच्छिष्टप्राशनम् । नापि तस्य ब्रह्मणे
दानं तस्य बलिहरणे विनियोगात् । उक्ता मन्त्रा: सामविधौ । अथातो
वास्तुशमनमित्यादिना सर्वत्र शेषत्वेन परिगृह्यते । कथमेतदवगम्यते ।
पायसं हविरिति वक्तव्ये बहुवचनात् । विभक्तिव्यत्ययः कृतो बह्व(हु).
त्वा( त्वम ) नुक्तमपि विद्यत इति सूचयितुम् । अत एव दिग्ग्रहणं
मध्यमस्याप्युपलक्षणम् । उपलिप्तस्थानेषु पलाशमध्यपत्राणि स्थाप-
यित्वा तेषु बलिं निदध्यात् । प्रजापतये स्वाहेति मध्यमे । इन्द्राय
स्वाहेति पूर्वे । वायवे स्वाहेति दक्षिणपूर्वे । यमाय स्वाहेति दक्षिणे ।
पितृभ्यः स्वाहेति प्राचीनावीती पितृतीर्थन दक्षिणपश्चिमे । अप उप-
स्पृश्य वरुणाय स्वाहेति पश्चिमे । महाराजाय स्वाहेत्युत्तरपश्चिमे।
सोमाय स्वाहेत्युत्तरे । महेन्द्रायेत्युत्तरपूर्वे । वासुकये स्वाहेति भूमौ यत्र
कुत्रचित् । नमो ब्रह्मण इत्युपरि । एष एव बलिक्रमः । सर्वेषां वैश्व.
देववदुमयतः परिषेकः ॥ २१
अवान्तरदिशां च ॥ २२ ॥
ऊर्ध्ववाचिायां चेति ॥ २३ ॥
स्पष्टे । एतत्पूर्वप्रोष्ठपदे नक्षत्रे कार्यम् । एवं कृते बहुपशुधनधान्यहिरण्य-
मायुष्मत्पुरुषं वीरसूसुमगाविधवास्त्रीकं शिवं पुण्यं वास्तु भवति
॥ २२॥ २३ ॥
एवं संवत्सरे संवत्सर इति ॥ २४ ॥
स्पष्टम् ॥ २४ ॥
नवयज्ञयोर्वेति ॥ २५॥
घमु घट्सु वा मासेषु प्रोष्ठपद एव चतुर्पु मासेषु गृतेर्बहुत्वकरणे
फलभूयस्त्वम् ॥ २५॥
३ तृतीयः खण्डः ] द्राह्मायणगृह्यसूत्रवृत्तिः।
वशंगमावित्येतान्यामाहुतीर्जुहुयायमिच्छेदशमायान्तं तस्य
नाम गृहीत्वाऽसाविति वशी हास्य भवतीति ॥ २६ ॥
मम विष्णुशर्माऽयं वशमेवितिवन्नाम गृहीत्वा ॥ २६ ॥
इति रुद्रस्कन्दकृतायां गृह्यवृत्तौ चतुर्थपटलस्य
द्वितीयः खण्डः ॥ २॥
अथ तृतीयः खण्डः।
अर्धमासवती पौर्णमास्यां रात्री शङ्कुशतं
जुहुयादेकाक्षर्यवायसान्वधकाम इति(?)॥ १ ॥
आकूतिमिति मन्त्रः । वध्यमानतया शबून्ध्यायजुहोति । यज्ञिय-
वृक्षस्य शङ्कवः । प्रत्येकं होमः ॥१॥
खादिरानायुष्काम इति ॥ २ ॥
स्पष्टम् ॥२॥
अथापरं पाङ्वोदवा ग्रामानिष्क्रम्य स्थण्डि-
लमुपलिप्य वर्तत(?) वाऽऽरण्यगोमयैः नापयि-
त्वाऽङ्गारानपोह्याऽऽस्येन जुहुयादिति ॥ ३ ॥
अथेति प्रकृत्यपेक्षत्वादर्धमासवती । अपरमिति । खादिरैरैवाऽऽकूति-
मित्यपरं कर्म कुर्यादित्यर्थः । आरण्यैर्गोमयैः शुष्कैः स्थण्डिलमतिश-
येन दग्ध्वाऽग्निमपोह्य तप्तायां भूमी वक्त्रेण शङ्कुशतं जुहुयात् ॥ ३ ।।
द्वादश ग्रामा ज्वलित इति ॥ ४॥
खादिरात्तप्तभूमिसंयोगाद्यदि ज्वलनः स्याहादश ग्रामास्तस्य फलं
मवेयः॥४॥
चवरा धूम इति ॥ ५॥
धूममाने जाते ॥५॥
कम्बूकान्सायं प्रातर्जुहुयानास्य वृत्तिः क्षीयत इति ॥६॥
शङ्खपलयानाकूतिमित्यहरहर्जुहुयादिति । स्वाहेति द्वितीयाम् ॥ ६ ॥
१००
रुद्रस्कन्दप्रणीता-
[ ४ चतुर्थपटले-
इदमहमिति पण्यहोमं जुहुयादिति ॥७॥
येन येन पणते तेन तेन होमः । हुत्वा व्यवहरतो द्रव्यवृद्धिर्भवति ।
द्रव्यानुसारं च तन्वं परिचरणमेतत् । स्वाहेति द्वितीयाहुतिः ॥ ७ ॥
पूर्णहोमं यजनीये जुहुयादिति ॥ ८॥
पूर्णहोममिति मन्त्रादिः । इतिशब्दामावो मन्त्रलिङ्गानुसरणार्थः ।
अतो यशः फलम् ॥ ८॥
इन्द्रमवदादिति सहायकामोऽष्टरात्रोपोषितः
प्राङ्बोदवा ग्रामाच्चतुष्पथे समिद्धानिमी-
दुम्बर इध्मः स्यात्नुवचमसौ जुहुया-
दन्नं वा इति श्रीर्वा इतीति ॥ ९ ॥
सुवचमसौ चौदुम्बरौ । चमस आज्यधारणार्थः । अन्नं वेति ।
द्वाभ्यामिति सिद्धे पृथग्ग्रहणं विषयबहुत्वार्थम् । उपतापिहोमे क्षेमे
पथीत्यत्र चानयोरपि निवृत्तिः सिद्धा भवति । अन्यथाऽऽनन्तर्यादन्न-
स्येत्यस्यैव स्यात् ॥९॥
ग्रामे तृतीयाद(म)न्नस्येत्याधिपत्यं प्रामोतीति॥ १० ॥
तृतीयामिति पूरणनिर्देशात्सवं जुहुयात् ॥ १० ॥
उपतापिनीषु गोष्ठे पायसं जुहुयादिति ॥ ११ ॥
व्याधितासु गोषु व्याधिनिर्हरणार्थमिदं कर्म कुर्यात् । गोठे तृतीया-
निर्देशात्सर्वं जुहुयात्पूर्वोक्तस्त्रिभिर्मन्त्रैः । अतो न स्विष्टकृत्तदमावान्ना-
ज्यभागी तेषाममावाद्याहृतिहोमा न स्युः ॥ ११ ॥
अक्षेमे पथि वस्त्रदशानां ग्रन्थिं कुर्या-
सहायानां च स्वस्त्ययनीति ॥ १२ ॥
प्रकृतैरेव मन्त्रैः । क्षेमगमनार्थान्येतानि ॥ १२ ॥
क्षुधे स्वाहेत्येतायामाहुतिसहस्रं जुहुया.
दाचितसहस्रकाम इति ॥ १३ ॥
यावति द्रव्यसंचये सति द्रव्यसंचयवानयमिति लौकिका आहुस्तसह-
सगुणितमस्य फलम् ॥ १३ ॥
४ चतुर्थः खण्डः] वाह्यायणगृह्यसूत्रवृत्तिः। १०१ वत्समिथुनयोः पुरीषेण पशुकाम इति ॥ १४ ॥ स्पष्टम् ॥ १४ ॥ अविमिथुनयोः क्षुद्रपशुकाम इति ॥ १५ ॥ पुरीषेण क्षुधे स्वाहेत्येताभ्यामाहुतिसहस्रम् ॥ १५ ॥ हरितगोमयेन सायं प्रातर्जुहुयानास्य वृत्तिः क्षीयत इति ॥ १६ ॥ आईगोमयेण क्षुधे स्वाहेत्येताभ्यामेव होमः । जुहुयादिति प्रकृतेः पुनर्वचनमाहुतिसहस्र निवृत्त्यर्थम् । वृत्तिक्षयामावः फलम् । अहर- होमः ॥१६॥ इति रुद्रस्कन्दकृतायां गृह्यवृत्ती चतुर्थपटलस्य तृतीयः खण्डः ॥३॥ अथ चतुर्थः खण्डः। विषवता दष्टमद्भिरण्युक्षञ्जपेन्मा भैषीरितीति ॥ १ ॥ विषनाशः फलम् ॥१॥ स्नातकः संविशन्वैणवं दण्डमुपनिदध्या- तुरगोपायेति स्वस्त्ययनमिति ॥ २ ॥ समीपे निदध्यात् । उपद्रवरक्षाफलम् ॥२॥ हत स्त इति कृमिमन्तं देशम- द्भित्युक्षअपेदिति ॥ ३ ॥ कृमिनाशः फलम् ॥३॥ पशूनां चेदपराहे सीतालोष्टमाहृत्य तस्य प्रातः पांसुभिः प्रतिष्किरअपेदिति ॥ ४ ॥ कृष्णमृत्तिकामाहृत्य वैहायसी कृत्वा हत स्त इत्यादिभिर्मन्त्रैः ॥४॥ इत ऊवं काम्यानां निवृत्तिः- १०२ रुद्रस्कन्दप्रणीता- [ ४ चतुर्थफ्टले- मधुपर्क प्रतिग्रहीष्यन्निदमहमिमा- मिति प्रतितिष्ठअपेदिति ॥५॥ मधुपर्कप्रदातुः परिचारकैः प्रतिग्रहीतुः पुरस्तागोमयेनोपलिप्य गोमुखं प कारयित्वा तत्र विष्टरादिषु पूजासाधनेषु समाहृतेषु तान्मधुपर्का- र्थान्गां च ध्यायन्मन्त्रलिङ्गादहणेति जपित्वा दर्भेषु तिष्ठनिदमहमिमा. मिति जपेत् ॥५॥ अर्हयत्सु वा ॥ ६ ॥ मधुपर्कदानकाले वा ॥६॥ विष्टरपायाचिमनीयमधुपर्काणामे- कैकं त्रिवेदयन्त इति ॥ ७ ॥ पञ्चविंशतिदर्भमयौ कूर्ची विष्टरौ । पादप्रक्षालनार्थमुदकं पाद्यम् । पुष्पसंयुक्तमुदकमय॑म् । पानार्थमुदकमाचमनीयम् । दधिमधुघृतसंयुक्तो मधुपर्कः । तेषामेकैकमादाय तस्य तस्य प्रदानकाले त्रिस्त्रियात् । प्रदाता विष्टरौ युगपत् ॥ ७ ॥ विष्टरौ पायाचिमनीयमधुपर्का इति ॥ ८॥ बहुवचनं पूजार्थम् । दातुरभ्युदयसूचनमेव ॥ ८॥ गां चेति ॥ ९॥ गोदानकाले ॥९॥ गामानीय ॥ १० ॥ गौरिति विर्भूयात् । पृथक्सूत्रकरणं गोस्तत्कालहरणार्थम् ॥ १०॥ उदञ्चं विष्टरमास्तीर्य या ओषधीरित्यध्यासीत ॥ ११ ॥ विष्टराविति धिरित्युक्ते तावादाय तयोरेकगुदगग्रमास्तीर्य तस्मिन्या ओषधीरिति पूर्वेणासीत ॥ ११ ॥ पादयोईितीयया द्वौ चेत् ॥ १२ ॥ वक्ष्यमाणैमन्त्रैः पादौ प्रक्षाल्य द्वितीयं विष्टरमुद्गग्रमधस्तात्पादयोर्या ओषधीरिति द्वितीययर्चा स्तृणुयात् । चेच्छब्दात्पादयोरनित्यो विष्टरः। तदा विष्टर इति विर्वचनम् ॥१२॥ प ४ चतुर्थः खण्डः ] वाह्यायणगृह्यसूत्रवृत्तिः। १०३ अपः पश्येय(द)तो देवारि(इ)ति ॥ १३ ॥ पायमित्युक्त तूष्णीमादाय मन्त्रेण पश्येत् ॥ १३ ॥ सव्यं पादमवसिश्चेत्सव्यमिति ॥ १४ ॥ दक्षिणं दक्षिणमिति ॥ १५ ॥ स्पष्टे ॥ १४ ॥१५॥ उौ शेषेण ॥ १६ ॥ पूर्वमन्यमिति मन्त्रेणोमी पादाववसिश्चेत् ॥ १६ ॥ अन्नस्य राष्ट्रिरसीत्यध्य प्रतिगृह्णीयात् ॥ १७ ॥ अर्ध्यमिति त्रिरुक्त मन्त्रेण प्रतिगृह्य तूष्णीमात्मानमभ्युक्षेत् । अथ वस्त्रादीनां दानम् ॥ १७॥ यशोऽसीत्याचमनीयम् ॥ १८ ॥ आचमनीयामत्युक्त यशोऽसीति प्रतिगृह्य तूष्णीं पीत्वाऽऽचा. मेत् ॥ १८॥ यशसो यशोऽसीति मधुपर्कम् ॥ १९ ॥ मधुपर्क इत्युक्त मन्त्रेण प्रतिग्रहः ॥ १९ ॥ त्रिः पिबेयशसो महसः श्रिय इति ॥ २० ॥ यशसो मक्षोऽसि यशो मयि धेहि स्वाहा । महसो मक्षोऽसि महो मयि धेहि स्वाहा । श्रियो मक्षोऽसि श्रियं मयि धेहि स्वाहा। स्वाहांका. रान्ताः सूत्रकारवचनात् ॥ २०॥ तूणी चतुर्थम् ॥ २१ ॥ स्पष्टम् ॥ २१॥ भूयोऽभिवाद्य ब्राह्मणायोच्छिष्टं दद्यात् ॥ २२ ॥ अन्ते सकृदाचमनम् । वाक्यशेषासिद्धे दद्यादिति ब्राह्मणालाभेऽद्भिः संप्रोक्ष्यान्यस्मै दानार्थम् ॥ २२॥ गां बेदिताऽनुमन्त्रयेत मुश्च गामिति ॥ २३ ॥ स्पदम् ॥ २३॥ अमुष्य चेत्यर्हयितुर्नाम बूयात् ॥ २४ ॥ विष्णुशर्माणं चोमयोरिति दातुर्नाम ब्रूयात् । विष्णुशर्मणे गृहमचम्स..
रुद्रस्कन्दप्रणीता द्रायणगृह्यसूत्रवृत्तिः। मायुषे वर्धयामो घृतेनेत्यादि घृतं हुत्वा स्वायुष्याममयामशश्वदित्यन्तं जपित्वा विष्णुशर्मणश्चोमयोरितिवद्दातुर्नाम ब्रूयात् ॥ २४ ॥ एवमयज्ञे ॥ २५॥ यज्ञव्यतिरिक्तेषु मधुपर्कप्रतिग्रह एवमुक्त एवंप्रकारः ॥२५॥ कुरुत इति यज्ञे ॥ २६ ॥ यज्ञवेलायां तु गवि नि[वेदन] वेलायाम(?) ॥ २६ ॥ कुरुत इति(?) ॥ २७ ॥ स्पष्टम् । यजमाननामान्यत्पतिबूयात(?) ॥२७॥ आचार्य ऋत्विक्लातको राजा विवाह्यः प्रिय इति षडाः प्रतिसंवत्सरानहयेत् ॥ २८ ॥ आचार्यः शिष्यस्य । ऋत्विग्यजमानस्य । सातक आप्लवनान्त आचार्यस्य विवाहे कन्यादानार्थम् । राजाऽभिषिक्तः सर्वेषाम् । विवाह्यः श्वशुरः कन्याप्रतिग्रहीतुः। प्रियः प्रियस्य । प्रतिसंवत्सरानह येदिति संवत्सरमतीत्याऽऽगतान् ॥२८॥ पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च ॥ २९ ॥ प्रागपि संवत्सरादागतानह येत् । द्विरुक्तिः शास्त्रसमाप्तिद्योतिका॥२९॥ इति खादिराचार्यकृतस्य गृह्यशास्त्रस्य रुद्रस्कन्दाचार्यकृतं व्याख्यानं समाप्तम् । चतुर्थपटलस्य चतुर्थः खण्डः ॥४॥ इति रुद्रस्कन्दप्रणीता दाह्यायणगृह्यसूत्रवृत्तिः समाप्ता । अथाग्निद्वयसं सर्ववर्णानां पुनराधिपत्यं च भार्याद्वयसर्ववर्णविषये पूर्वाग्निं प्रणीय तयोः संयोगार्थ चतुर्थस्याह्नः सायमुपक्रम्पकादशेऽहनि यजमानः पूर्वानिमवरोहणं कृत्वा तत्र स्थण्डिलं कुर्वन्ननिं वोवृधन्त- मिति तृचेन प्रतिष्ठाप्य परिस्तरणादिप्रपदान्तं कृत्वाऽनन्तरमाया अग्निं पात्रेणाऽऽदायेमं स्तोममिति तृचेन संयोज्य प्रत्यूचमन्ते चतुरक्षरमु- पांशु जपित्वा ततोऽग्निरेविति षड्भिराज्यं हुत्वोपरिष्टात्तन्वं समाप्य प्राणायाम कृत्वा संकल्पपरिचरणेनान्तेऽग्नये स्वाहा प्रजापतये स्वाहेति हुत्वा पुनः परिषिच्य गोसूक्तमाश्वसूक्तं गीत्वा ततः समारोपयेत् ।
१०५
एकोद्दिष्टे तु संप्राप्त विप्रामावे कथंचन ।
लौकिकाग्निं प्रतिष्ठाप्य पूजयेत्तं यथाविधि ॥१॥
पायसं घृतसंमिश्र हस्तेन ग्राससंमितम् ।
अध्वर्युर्वाग्यतः स्थित्वा प्रसव्यं दक्षिणामुखः ॥२॥
प्रेतस्य गोत्रनामानि चतुर्थ्यन्तमुदीरयेत् ।
यमाय चेति मन्त्रेण हुत्वा हस्तेन पायसम् ॥ ३॥
यमाय सोममन्त्रेण द्वात्रिंशन्मुष्टिना चरुम् ।
एवं कृते श्राद्धहोमे प्रेतप्रीतिकरं भवेत् ॥
पिण्डं यथाविधं दत्त्वा पुण्याहं च समाचरेत् ॥ ४ ॥
नारायणस्य पुत्रेण मखवादनिवासिना ।
रुद्रस्कन्देन संक्षेपायाख्यातं गृह्यशासनम् ॥१॥
आत्माविस्मरणायेदं स्वशिष्याणां हिताय च ।
कृतं न गर्वितेनापि प्राज्ञोऽहमिति निश्चयात् ॥ २॥
अनुक्तं च दुरुक्तं च शोद्धव्यं तच्च पण्डितैः ।
न टेकस्य क्षमा प्रज्ञा तत्त्वार्थपरिनिश्चये ॥३॥
No text on this page.
No text on this page.
No text on this page.
No text on this page.