Others
Bhat't'achintaamand-estar^kapaada
Front matter
No text on this page.
Published under the Esteemed Patronage of His Holiness Sri Kanchi Kamakoti
Peethadhipathi Jagath Guru Sri Sankaracharya Swamigal Avergal,
Kumbakonam.]
BHATTA CHINTAMANI
A COMMENTARY ON
KHANDA DEVA'S BHATTA DEEPIKA
BY
SRI VANCHESWARA YAJWAN
EDITED & PUBLISHED
BY
MAHAMAHOPADHYAYA T. VENKATASUBBA SASTRIGAL, AVL.,
(Sastra Ratnakara, Mimamsa Ratna, &c.)
late Principal, the lladras Sanskrit College, Mylapore.
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MAORAS.
THE KUPPUSWAMI SASTRI
RES24.7CHT!TITUTE
MADRAS-4.
MADRAS.
1928
All rights reserved.
PRINTED AT
THE MADRAS LAW JOURNAL PRESS,
MYLAPORE, MADRAS.
PUBLISHER'S NOTE. MYLAPORE, 6th August, 1928. GENTLEMEN, Khanda Deva's “Bhatia Deepika” is famous for its cryptic karikas and the need for an exhaustive commentary on it has been long and widely felt. " Bhatta (hintamani "written by Sri Van- CHESWARA admirably supplies this want. Being the only complete commentary available so far, its publication has been looked for with eagerness by those interested in the subject. Its special feature lies in the fact that the author has, in his own inimitable way, brought to bear upon the work, not only his erudition in other Sastras, but also his profound knowledge of Sroutha, so very essential for at proper understanding of the original text. The commentary has been completely examined in manuscript by its editor and publisher, the late MAHAMAJIOPADILYAYA T. VENKATASUBB. SASTRIGAL ( (Sastra Ratnakara, Mimamsa Ratna, etc.), Principal, the Madras Sanskrit College, Mylapore. The Mahamahopadhyaya is the grand-son, through his mother, of the great Vancheswara, and it is only in the fitness of things, that the book should appear in print under his auspices. Needless to say that he was pre-eminently qualified for the task by his passion for the Sastra, born of a lifelong devotion to it, his loving respect for the memory of his authorincestor as well as by his intimate knowledge of the difficulties of students, having been a teacher of Mimamsa, for over 30 years and as such the publication would be welcomed by students and scholars alike. Much to ou regret, he has left unfinished the work so very enthusiastically begun by liim. Having felt it almost al sacred duty we have decided to see through the publication and utilise the amounts that may be realised from the sales, towards a suitable memorial in his name. The work when published will be at sort of memorial edition both of the author and its editor. The high regard in which the editor is held by His Holiness the Jagathguru Sri Sankaracharya Swamigal of Kama Koti Peetam, Kumbakonam and His unbounded love for Mimamsa, as for the other Sastras, have secured for us the sympathy and patronage of His Holiness. As it is quite necessary that as many copies of ii. the book as possible should he sold out for our hopes being realised, may we request you to place an order with us, for as large a number of copies as possible! Please permit us to state that, by doing so, you will be lending your valuable support for the popularisation of the Mimamsa Sastra for which the Mahamahopadhyaya laboured hard for the major portion of his life time. Volume 1 of the publication will be issued in 33 parts each comprising of about 160 pages Roval. The price of each part is fixed at Rs. 2 payable in advance or by V.P.P--Postage extra. For those who order for Vol. 1 after the 3 parts has been published, the Vol. will be charged Rs. 8. Copies can be had of- The Publishers at No. 17, T, S. V. Koil Street, Mylapore, Madras.
श्रीः भादृचिन्तामणिकर्तुः वाञ्छेश्वरयज्वनः चरित्रसङ्ग्रहः । आर्यमिश्राः! विदितमेवैतत्तत्रभवतां यत्किल चोलदेशे कुम्भकोणमध्यार्जुनक्षेत्रयोर्मध्ये कावेर्युत्तरतटे विद्वद्वरेण्यानां निवासभूमिः, तञ्जानगरीस्थितैः महाराष्ट्रजातीयैः एकोजिप्रभृतिभिः राजभिः अतीवादृतः, विद्वन्मण्डलीपरिवृतः, तिरुविशलूर इत्यपराख्यया ख्यातः शहजीन्द्र- पुराभिधोऽग्रहारः; यः किल तञ्जापुरीमधितिष्ठता शहजिमहाराजेन विद्वद्भयः सर्वमान्यतया ८ प्रदत्तः। तामलङ्कुर्वतां विद्वन्महाशयानामन्यतमा इमे कुट्टिशास्त्रिण इति सर्वत्र प्रसिद्धनाम- धेयाः वान्छेश्वरयज्वानः होसलकर्णाटजातीयाः बाल्य एव तातपादेभ्यः श्रीयुत-नरसिम- शास्त्रिभ्य एवाधीतवेद-वेदाङ्ग-व्याकरण-श्रौत-स्मार्तप्रयोगाः अहोबल-श्रीनिवास-ईश्वरगुरूत्त- मेभ्यः अधीतवेदान्तन्यायमीमांसाशास्त्राः कश्चित्कालं तञ्जापुरीनायकेन शरभोजिनामकेन राज्ञा प्रार्थिताः ओरत्तनाड् इति प्रसिद्धमुक्ताम्बाग्रहारे शिष्यानध्यापयन्तः राजानं चानुगृह्ण- न्तोऽवात्सुः । पश्चाच, कारणान्तरेण उत्तरदेशयात्राभिलाषया प्रस्थाय, पुण्याख्य (पूना) पत्तन- मधिवसता महाराष्ट्रराज्याधीश्वरेण विद्वज्जीवातुना एतद्वैदुष्यपरितुष्टेन श्रीमाजिरावपेश्वे राज्ञा शिबिकादिभिस्सम्मानिताः तदीयप्रार्थनया तदीयविद्वदास्थानीमलमकुर्वन् । एवं स्थिते कदाचित् वाराणसीयात्राभिलाषया राजानमनुज्ञाप्य प्रस्थिता एते मध्यमार्ग तत्रत्यैर्हिरण्यकेशिसूत्रिभिः हिरण्यकेशिश्रौतसूत्रव्याख्याकरणाय प्रार्थिताः तदनुरोधेनाङ्गी- कृततत्कृत्याः तत्करणाय वाराणस्यां कश्चित्कालमुषित्वा तदानीं तत्रागतान् शिष्यान् वेदान्त- शास्त्रमध्यापयन्तः (१) हिरण्यकेशिसूत्रव्याख्यां, (२) तदीयसामान्यसूत्रव्याख्यां, (३) भाट- चिन्तामणिश्च भाट्टदीपिकाव्याख्या, (४) श्राद्धचिन्तामणिं, (५) दत्तचिन्तामणि, (६) अद्वैत- चिन्तामणिं, (७) धूर्गानचन्द्रिकां, (८) काकतालीयवादार्थ, स्वप्रपितामहनिर्मितेषु आशी- दिशतक-तुरगशतक-महिषशतकाख्यग्रन्थत्रितयेषु (९) महिषशतकव्याख्या, (१०)श्लेषार्थ- चन्द्रिका चारचयामासुः । तत्कृतग्रन्याश्च ग्रन्थप्रारम्भलिखितैः श्लोकैरवगन्तव्याः ।
अनन्तरं च वाराणसीतः प्रतिनिवर्तमानाः पुण्याख्य (पूना) पत्तने राज्ञो यशश्शररितया तन्मार्गेणैव महीशूरपुरीं प्राप्ताः तत्रत्येन राज्ञा श्रीकृष्णराजाभिधेन सादरं पुण्याख्यपत्तन- स्थराजनिर्विशेष शिबिकादिभिस्सम्भाविताः राज्ञः विद्वदास्थानीमलश्चक्रुः । तदानीं, "एते मुक्ताम्बाग्रहारात्प्रस्थानात्पूर्वमेव भार्यावियोगं प्राप्तवन्तोऽपि अनूढ- भार्या एवासन् ” इति तत्रत्यैः स्वबन्धुभिः प्रार्थिताः कन्यामुदूह्य तस्यां कुमारद्वितयं कुमारीमेकां चाजनयन् ; याऽस्मत्पितामही कामाक्षीनाम्नी । अत एवास्मत्तातपादानां मातामहनिर्मितग्रन्थप्रकाशनेऽतीव प्रयत्नो फलपर्यवसायी च । उदूढभार्याश्चैते क्रमेण कृष्ण- राजसाहाय्येन ज्योतिष्टोमादिकान् क्रतून् सर्वाश्च निरवर्तयन् । तेषां ज्येष्ठकुमारैः श्रीयुत- स्वामिशास्त्रिभिः तातपादनिर्मितायां भादृचिन्तामण्यभिधायां भाट्टदीपिकाव्याख्यायां बहवो विषयाः निर्वचनपूर्वक विचार्य विस्तारिताः । द्वितीयकुमाराश्च श्रीयुत-नरसिलशास्त्रिणः पञ्चदशसंवत्सरेभ्यः पूर्वकालपर्यन्तं महीशूरपूरे महाराजश्री-कृष्णराज-चामराज-कृष्णराजा- भिधैः त्रिभिरपि राजभिरतीव सम्भाविताः धर्माधिकारपदमलङ्कुर्वन्त आसन् । एते वाञ्छेश्वरयज्वानश्च स्वेच्छया कश्चित्कालं महीशूरपुरी, कश्चित्कालं शहजीन्द्रपुरे, कश्चित्कालं काञ्चीकामकोटिपीठाधिपतीनां जगद्गुरूणां शङ्कराचार्याणां विद्वदास्थानी चालश्चक्रुः । विस्तरश्चानुपदमेव मुद्रापयिष्यमाणग्रन्थकर्तृचरित्रतोऽवगन्तव्यः ॥ इति सज्जनविधेयः मैलापूर २०-८-२८. २) ति. वे. वेङ्कटरामशास्त्री प्रथमपण्डितः, अडैयार्-पुस्तकालयम् 731 ॥ महामहोपाध्याय-श्रीवेङ्कटसुब्बाशास्त्रिणः ॥ स्मरणम् हा हन्त कीदृशास्ते ते विलासालापाः ! कीदृश्यः सरसपरिहाससूक्तयः ! कियन्नैपुण्यं दुरूहकर्कशशास्त्रार्थशिक्षणे ! कियत्तत्त्वार्थनिर्णये स्वातन्त्र्यम् ! कियती प्रार्थना शिष्यलोकसमुन्नतौ ! कियती श्रद्धा सनातनधर्मेषु ! कियान् बहुमानः पण्डित- लोकेषु विद्याशीलवृद्धेषु ! कियानुद्योगः पूर्वोत्तरतन्त्रप्रचारणे ! कियती निर्डम्बरता दैन- न्दिनेषु परिकर्मसु ! समयेऽस्मिन् प्रबोधितानि श्रीमहामहोपाध्यायानां वेङ्कटसुब्रह्मण्य- शास्त्रिवर्याणां अपदानान्यस्मदन्तरङ्गरङ्गे क्रमेणापतन्ति वर्तमानानीव भासमानानि मृतान्यव- गम्यन्ते ! हाः कष्टम् शिष्यलोकस्य ! अहो दौर्भाग्यं सुहृजनानाम् ! हा दुष्कर्मपरिपाको बन्धुवर्गस्य ! का दुर्दशा पण्डितलोकस्य ! अहो दौरात्म्यम् दैवहतकस्य ! अहो कौटिल्यं कालस्य ! अथवा किमनेन वृत्तानुवर्णनेन । निस्संशयं असारः संसारः। कति यान्ति ; कति वाऽऽयान्ति दिने दिने । कति तेषु उदारचरिताः ? विरलाः खलु तादृशा महनीयचरिताः। हन्त, सर्वेप्येते क्षणात् संस्मरणीयेतिवृत्ता वृत्ताः। तेषु अस्मदाचार्यपाद इदानीं अन्यतमः स्मर्यते। पौषशुक्लद्वादशी किल अतिदारुणा अस्मल्लोकयात्रायां अविस्मरणीया या च, गाढान्धतमसावृता अस्मदन्तिकात् आचार्यवयं मुषित्वा मूर्धनि नः कुलिशपातं पातयाम्बभूव । तदा किल सर्वमिदं जगत् परिदृश्यमानमस्माकं, तत्त्वतः, शून्यमिवादृश्यत । अभवाम खलु तदा वयं निस्सीमनि दुःखसागरे लग्नाः विपथं गताः समुत्पन्नदिङ्मोहा नाविका इव इतिकर्तव्यता- मूढमानसाः । अथ कथञ्चिन्नो मनांसि समाश्वासयाम एवं यत् अस्मदाचार्यवर्यो विसृष्टभौतिक- शरीरोऽपि सूक्ष्मेण शरीरेणास्मासु भासमान अनुगृह्णीयाच्छिष्यलोकान् इति।क्षणेऽस्मिन् पुरतो न आयान्तीव भाति अस्मदाचार्यमुर्तिः तप्तकाञ्चनसन्निभदीप्तिः । अधमर्णाः खलु वयं-पण्डि- तलोकाः, तस्मै गुरुवर्याय यः खलु मन्दाकिनीमिव भगीरथो महता यत्नेन पूर्वमीमांसा- मानाय्य तत्प्रसारणमेवात्मनः कृत्यममनुत । परिमितप्रज्ञानामपि सुबोधाभिः सूक्तिभिरति- कर्कशशास्त्रार्थप्रबोधने शास्त्रिवर्यस्यानितरसाधारणी नैपुणी जानन्त्येव ते शिष्यलोकाः प्रियसुहृदो विद्वांसश्च, ये तदीयानतिमनोहरानुपन्यासान् श्रोतुं लब्धावसरा अभवन् । तदी- योपन्यासामृतपिपासयैव हि बहवोऽध्येतारः उच्चावचेभ्यः प्रान्तेभ्यस्समागच्छन् तदधिष्ठि- तायां कलाशालायाम् । ।
(२) तत्तादृशं पाण्डित्यमस्मच्छास्त्रिवर्यस्य, मन्ये, जानन्त्येव भवन्तः, वंशागतं पित्र्यं धनमिति । पिता किल शास्त्रिमहाशयस्य रायल वेङ्कटरामशस्त्रिनामालङ्कृतः अधीती साङ्गवेदे सुप्रथितश्च । स तु कुम्भकोणस्थ-श्रीकाश्चीकामकोटिपीठाधिपतीनामास्थाने पण्डितपदमलश्चकार । प्रपितामहोऽपि महापण्डितस्तत्रैव नगरे श्रीडबीर्वामिना कल्पितेषु गृह- दानेषु अन्यतमस्य प्रतिगृहीतृभावं प्रापितः पुरुषधौरेयोऽभूत् अस्मच्छास्त्रिवंशीयानामिदानीं कुम्भकोणे तत्परिसरे च वर्तिनां बान्धवानाम् । मातामहस्सुगृहीतनामधेयः श्रीवाञ्छे- श्वरबुधः कुट्टिशास्त्रीत्यपरनामकः प्रबन्धा बहूनां प्रबन्धानां, नियन्ता च सर्वतन्त्राणा- मप्रथत पण्डितकुलललामभूतः । एवं सुप्रथितानां पण्डितरत्नानां वंशादुत्पन्नं पण्डितरत्न- मेव किल समजनि। नन्वतिमहनीयानां रत्नानामाकरात् कौस्तुभस्समजनीति को वा विस्मयः ? समयेऽस्मिन् मम मनसि अद्यैव कथितानीव परिवर्तन्ते कानिचिद्वचनानि अस्मच्छास्त्रि- वर्येण स्वीयं विद्याभ्यसनमधिकृत्य कचित् प्रसङ्गात् प्रकटितानि । शास्त्रिपादो हि स्वपितु- स्सकाशे साङ्गं वेदमधीत्य बाल्ये, ततः पण्डित-श्रीरामचन्द्रशास्त्रिणः सकाशे काव्यादिकं, श्रीमहालिङ्गशास्त्रिणः सकाशे न्यायशास्त्रादिकं, महामहोपाध्याय श्रीरामसुब्रह्मण्यशास्त्रिणां सकाशे पूर्वोत्तरतन्त्रे विशिष्टाद्वैतञ्च अधीयानः प्राचीनया शैल्या तस्मिन् तस्मिन् काले तांस्तान् शुश्रूषादिना प्रीणयन् विद्यां अभिवर्धयति स्म । तत्र पूर्वमीमांसापठनपद्धतिमस्मदाचार्यवर्यस्य उपशृण्वन् को वा न विस्मयमावहेत् ? ते हि श्रीरामसुब्रह्मण्यशास्त्रिणः स्वस्य उत्तरमीमांसा- तन्त्रप्रवचने आदरातिशयमाविष्कुर्वन्तः तत्प्रवचनसमनन्तरमवसाने दिनस्य अत्यल्पमेव कालं यापयेयुः पूर्वतन्त्रप्रवचने । एवं अहरहः तस्मिन्नत्यल्पे काल एव कणशः कणशः पूर्वमीमांसामधीत्य अनल्पायासेन तच्छास्त्रस्य पारदृश्वा समजनि शास्त्रिवर्यः । सुहृदः! अवसरेऽस्मिन् भवतः संस्मारयामि यदस्मदाचार्यवर्यस्य अस्मद्भारतीये सनातने धर्मे कियान् श्रद्धातिशयः, एकविधा च मतिरभूदिति । विदितं वः समेषां यत् यदा बहवः पण्डितप्रकाण्डाः आधुनिकसङ्घसंस्करणपिशाचदूषिताः तद्वशानुवर्तितया शिरः कम्पयन्तः तस्थुः ; तदा अस्मच्छास्त्रिवर्यः तादृशस्य कोलाहलस्य निर्लेपः समभूदिति । तत्तादृशधीरभावस्य बाल्ये प्राचीनपद्धत्या विद्याभ्यास सदाचार्यसंसेवनश्च विहाय नान्यत्कि- श्चिन्निदानं प्रतिभाति नः। एवं निखिलतन्त्रेषुपदेशग्रहणसमनन्तरमस्मच्छास्त्रिवर्यः क्रमेण महीशूरपुर-पुदु- कोट्टाप्रभृतिराजसभासु मीमांसायामुत्तमां परीक्षां दत्वा अनुत्तमे विभागे समुत्तीर्णो बहमन्यत प्रशस्यतमैः सत्कारैः । तत्समनन्तरं हि श्रीकाश्चीकामकोटिपीठाधिपतीनामादेशतस्तन्निकटे (३) पण्डिताध्यक्षपदमलश्चकार । एवं स्थिते तदानीं मद्रमण्डलाधिपन्यायसचिवेन सुगृहीतनामधेयेन श्री. वि. कृष्णखाम्यार्यमहाभागेन स्वीयविद्यालये पाठनाय मार्गणपुरस्सरं सङ्ग्रहीतेषु पण्डितरत्नेषु अन्यतमभावेन परिगणितोऽस्मच्छास्त्रिवर्यो मद्रपुरीमानायि । ततःप्रभृति तद्विद्या- लये मीमांसाशास्त्रमनल्पेन कौतूहलेन शिष्यानध्यापयन् यशसा विरराज । एवं गते कस्मि- श्चित् काले शास्त्रिवर्यः श्रीकाञ्चीकामकोटिपीठाधिपैः समादृतासु कुम्भकोणादिनगरेषु प्रचलितासु अद्वैतसभासु, तथा, मद्रपुर-वारणसीविश्वविद्यापीठयोः प्राच्यविद्याविभागे, मही- शूरपुरराजसभायाञ्च परीक्षकपदमधिरुरोह । तथा लब्धावसरश्शास्त्रिवर्यो मद्रपुरसंस्कृत- विद्यालये अध्यक्षपदे अधिकृतो बभौ । अनन्तरं विविधानि बिरुदानि तदीयेन यशसा समाहूतानीव अस्मदध्यक्षं अलभन्त । श्रीकाञ्चीकामकोटिपीठमलङ्कुर्वाणा जगद्गुरुश्रीशङ्करा- चार्याः पाण्डित्यसोशील्यादिगरिमसंसूचिना शास्त्ररत्नाकरबिरुदेन शास्त्रिवयं भूषयन्ति स्म । तथा श्रीकाशीस्थभारतधर्ममहामण्डली मीमांसारत्नसमाख्यया तं सम्भावयामास । तदन- न्तरमस्मद्विश्वविद्यापीठाधिपः विदित्वा तत्पाण्डित्यगरिमाणं अस्यां पुर्या युवराजसमागममहो- त्सवे समुचितेन सत्कारेण शास्त्रिवर्यमभूषयत् । ततोऽस्मद्राजप्रतिनिधिना समर्पिता "महा- महोपाध्याया"ख्या स्वबुभूषयिषेव शास्त्रिवर्यमुपतस्थौ । तथा तथा भूषितः पूजितश्चास्मदाचार्य- वर्य इदानीं संस्मरणीयमूर्तिस्सन् विहाय अस्मदन्तिकं दिव्यसत्कारप्रतिजिघृक्षयेत्र हठा- ल्लोकान्तरं उपारूढ इत्यहो दौर्जन्यं कालस्य ! सुहृदः प्रेष्ठाः ! भवतां मतिगोचारमेवैतत् यदस्मदाचार्यवर्यः पूर्वतन्त्रप्रवचनप्रचारणादिकमेव आदिमं पुरुषार्थममन्यत । तत्र च निदानं, मन्ये, पूर्वतन्त्राध्ययनविषये खानुभूतः क्लेशः परान् मा संक्रमिष्ट इति दृढसङ्कल्प एव शास्त्रिवर्यस्य । अद्यापि तान् दिवसान् स्मरामः येषु अस्मदाचार्यवर्यः, न केवलं विद्यालये, यावद्गृहेऽपि अतिकौतूहलेन पूर्वतन्त्ररहस्यानि रात्रिन्दिवं अविगणय्य कालनियमं परिश्रमञ्च अध्यापयन् , सनातनधर्मोपदेशैकफलै- विविधशास्त्रार्थामर्शिभिः हृदयङ्गमैरुपन्यासैः श्रोतृजनेषु पीयूषमभिवर्षन् , तथा प्रवचनो- पन्यासाभ्यामन्यस्मिन्काले लब्धे चावकाशे श्रीवाल्मीकिरामायण-श्रीभागवतपठनेन निरति- शयभक्तिरसमास्वादयन् कालं यापयति स्म । एतच्च अस्मादृशाः केचित् अत्यन्तं तत्परिसरचारिण एव जानीयुः यत् शास्त्रिवर्यः श्रीमद्रामायणे श्रीमद्भागवते च भगवद्भक्ति- रससमुज्जीवनोपनिषन्मतिं निदधे ।
(४) त्रमणयः! शिष्येषु वात्सल्यं स्वपूर्वोत्तरतन्त्रगुरूणां सकाशात् अध्ययनात् सङ्कान्तमिव वर्ये । अपराधा अपि ये शिष्याः तदनुतापमनुपदमन्वभवनच्छलं, तेषु वात्सल्यभारं बभारास्मदाचार्यवर्यः । एतं हि अनुत्तमं स्वभावं मन्ये, यतः “प्रमादः [ धर्मः, तत्क्षमा च सज्जनसाधारणी" । - कदा वयमानण्याविश्चिकीर्षया यदा शुश्रूषादिकं कर्तुं अवसरं प्रतीक्षमाणाः अस्मत्परिश्रमासहिष्णुरिव स्वयमेव तत्कार्यचिकीर्षया यतेत । अन्यानि कार्याणि - कारयितुमस्माभिरुररीकुर्यात् ; न तु कदापि देवताराधनाय कुसुमान्याहर्तु- विना कादाचित्कीं अभ्यनुजानीयादन्यान् ; यतः इदमेवानुत्तमात्मलाभप्रापणचणं दां षष्टया महोत्सवे समयान्तरे च अस्मदानृण्यप्रकटनाय गुरुभक्ति- मुपहारं कश्चिदुपाहतुं कुतोद्यमा वयं तमङ्गीकर्तुं अस्मद्गुरुवर्य प्रार्थयामहे स्म । विद्यापरिपालनसुविनियोगप्रचारणादिना यावान्गुरुभक्तिभारः प्रकटितो भवेत् , नेतादृशेनोद्यमेनाविष्क्रियेत । अतो न मह्यं रोचतेऽयमुद्यम इति प्रत्यभाषत । तेवचनेन अस्मद्गुरुवर्यः आत्मीयगुरुभक्तिप्रकटनक्रममेव आत्मनानुष्ठीयमानं परमं जीवितमाविश्चकारेति मतिरस्माकम् । खलु परमं विषादस्थानं यत् प्रायेण विद्या स्मयदूषिता अप्रकाशमाना कुहचित् ति ; परन्तु एतादृशस्य प्रायोवादस्य गतिः क्वचित् पण्डितरत्नेषु कुण्ठिता दृश्यते । यित्वेन परिगणितोऽस्मदाचार्यवर्य इत्यत्र को वा विसंवदेत् ? निस्मयता, वव हि पण्डितानां परमं भूषणमित्यस्मच्छानिवर्यस्याशयः । शास्त्रिवर्योऽप्यनेन षेतो बभाविति नात्र विशयलेशोऽपि । कदाचित् अस्मच्छास्त्रिवर्ये कुम्भकोणं प्रति सीतः कश्चित् पण्डितवर्यस्तत्र आगत्य अस्मच्छास्त्रिमहोदयं द्रष्टुकामः कुत्र सन्ति इति मार्गमाणः अन्तत अस्मच्छास्त्रिपादान्तिकमेवागत्य "कुत्रास्ते वेङ्कटसुब्रह्मण्य- यः" इत्यपृच्छत् । ततः समीपतिना केनचित् शास्त्रिवयं मुखेन निर्दिश्य हति प्रत्युक्तः स पण्डितः “न इमं, अपि तु बडाशास्त्रिमहाशयं मद्रपुरीसंस्कृत- (५) कलाशालाप्रधानाध्यापकं द्रष्टुकामोऽस्मि' इति पुनरवादीत् । तदनन्तरं अस्मच्छास्त्रिमहाशयेन स्पष्ट ज्ञापितः स पण्डितः "भौतिकयशःकाययोः कियदन्तरम् एतेषु!" इत्याश्चर्याविष्टचित्तः सन् श्रद्धधे । ये ये शास्त्रिवर्यं द्रष्टुमागच्छन्ति-पण्डितः पामरो वा, बालः स्थविरो वा, धनिको दरिद्रो वा-तान् सर्वान् समुचितेन सरसालापेन तोषयित्वा चित्तमाकर्षतीतीदं स्वभाव- सिद्धमस्मच्छास्त्रिवर्यस्य । तस्य निर्वाणानन्तरमेकदा शोककथालापे केनचित्प्रियसुहृदा परि- देवितमेवं यत् झटिति प्रेमलतासमुज्जीवी प्रियालापः असाधारणो गुणः शास्त्रिवर्यस्य ; स चेदानी प्रायो विरलोऽभूत् । तस्मात् यो यः शास्त्रिपादस्यान्तिकं प्रथमपरिचयाय समायाति स सर्वः स्नेहपरिपोषयित्रा वचनेन आकृष्टचित्तः तदन्तिकं हातुं न शक्नुयात् इतीयमुक्तिः न लेशेनाप्यत्युक्तिगन्धं स्पृशति । समये चास्मिन् मम मानससरणिमधिरोहति कस्यचित्प्रियसुहृदो गुणग्राहि वचनं "To know him was to love him." इति । अन्यः कश्चित् असाधारणो गुणोऽस्मच्छास्त्रिवर्यस्य यत् निरुद्यमं यदृच्छया यत्प्राप्यते तेन तुष्यतीति । मद्रपुरेऽस्मिन् शाम्विर्यः द्वाविंशतिवर्षकालमधिवसन्नभूत् । एतं कालं यावत् , नादाक्ष्म, नतरां अश्रृणवाम, यत् शास्त्रिवर्यः स्वीयाकिञ्चन्यमहिम्ना सनातनधर्मादपेते पथि कदाचिदपि पदं न्यधत्त ; अथवा अपरिज्ञातस्वपाण्डित्यगौरवं अपरिचितं अविनीतमैक्षत कटाक्षणापि । एतादृशोऽतिश्लाधनीयो गुणोऽस्मच्छास्त्रिपादेन स्वपूर्वोत्तरतन्त्राचार्यादेवाधीत इति दृढमस्माकमाशयः । पण्डितलोकानां अनल्पगरिमोत्कर्ष पोषयन्तः एतादृशाः पण्डित- मणयः प्रायो विरलविरला अभूवन इत्यहो दौर्भाग्यमस्माकम् ! परं तु गुणाः पूजास्थानमेवेल्याशयश्शास्त्रिपादस्येति तर्कयितुं शक्नुमः । स हि अस्म दारतीयविद्याम्युदयस्य कृते कृतदृढसङ्कल्पानां कृतसङ्कल्पमनुष्ठितवतां स्वदेशसमुन्नतिमनवरत- मभिकाङ्क्षमाणानां च महापुरुषाणामग्रगण्यममनुत दिवंगतं वि. कृष्णस्वाम्यार्यमहाभागम् । अत एव शास्त्रिवर्यः तस्य महाभागस्य भारतीयविद्यायाः कृते कृतं त्यागं स्मारं स्मारं श्लाघयामास तस्यौदार्य सूक्ष्मदर्शित्वं च; यतः स धर्मस्य गुरुलाघवं, विद्याम्युदयस्य समीचीनमुपायं च विविच्य सूक्ष्मया दृष्टया धर्मरक्षणाद्यसाधनीभूतशरीररक्षणाय निखिलजनोपकारिवैद्यविद्यालय, तथा तुरीयपुरुषार्थसाधनीभूतात्मज्ञानपोषणाय पूर्वोत्तरतन्त्रविद्यालयं च प्रतिष्ठापयामास । मान्याः! विद्यालये चास्मिन्नाचार्यवर्यः द्वाविंशतिवर्षाणि विद्यामध्यापयामास । तत्र चोत्तरस्मिन् भागे वर्षाष्टकमध्यक्षपदमलश्चकारेत्यपरोक्षमेव भवताम् । स्वाध्यक्ष्यकाले विद्यालयाभ्युदय- (४) मित्रमणयः! खशिष्येषु वात्सल्यं स्वपूर्वोत्तरतन्त्रगुरूणां सकाशात् अध्ययनात् सङ्कान्तमिव बभौ शास्त्रिवर्ये । अापराधा अपि ये शिष्याः तदनुतापमनुपदमन्वभवन्नच्छलं, तेषु असाधारणं वात्सल्यभारं बभारास्मदाचार्यवर्यः । एतं हि अनुत्तमं स्वभावं मन्ये, यतः "प्रमादः किल मानुषो धर्मः, तत्क्षमा च सज्जनसाधारणी' । । " अनेकदा वयमानृण्याविश्चिकीर्षया यदा शुश्रूषादिकं कर्तुं अवसरं प्रतीक्षमाणाः स्याम तदा अस्मत्परिश्रमासहिष्णुरिव स्वयमेव तत्कार्यचिकीर्षया यतेत । अन्यानि कार्याणि यदाकदाचित् कारयितुमस्माभिरुररीकुर्यात् ; न तु कदापि देवताराधनाय कुसुमान्याहर्तु- मावश्यकतां विना कादाचित्कीं अभ्यनुजानीयादन्यान् ; यतः इदमेवानुत्तमात्मलाभप्रापणचणं श्रुतिभिर्गीयते । . शरदां षष्टया महोत्सवे समयान्तरे च अस्मदानृण्यप्रकटनाय गुरुभक्ति- भारसंसूचिनमुपहारं कश्चिदुपाहतुं कुतोद्यमा वयं तमङ्गीकर्तुं अस्मद्गुरुवर्य प्रार्थयामहे स्म । तदा अधीतविद्यापरिपालनसुविनियोगप्रचारणादिना यावान्गुरुभक्तिभारः प्रकटितो भवेत् , तदंशोऽपि नेतादृशेनोद्यमेनाविष्क्रियेत । अतो न मह्यं रोचतेऽयमुद्यम इति प्रत्यभाषत । अनेन प्रतिवचनेन अस्मद्गुरुवर्यः आत्मीयगुरुभक्तिप्रकटनक्रममेव आत्मनानुष्ठीयमानं स्वजन्मनः परमं जीवितमाविश्वकारेति मतिरस्माकम् । इदं खलु परमं विषादस्थानं यत् प्रायेण विद्या स्मयदूषिता अप्रकाशमाना कुहचित् विलीना भवति ; परन्तु एतादृशस्य प्रायोवादस्य गतिः क्वचित् पण्डितरत्नेषु कुण्ठिता दृश्यते । तेषां अग्रयायित्वेन परिगणितोऽस्मदाचार्यवर्य इत्यत्र को वा विसंवदेत् ? निस्मयता, निर्दम्भता चैव हि पण्डितानां परमं भूषणमित्यस्मच्छास्त्रिवर्यस्याशयः । शास्त्रिवर्योऽप्यनेन भूषणेन भूषितो बभाविति नात्र विशयलेशोऽपि । कदाचित् अस्मच्छास्त्रिवर्ये कुम्भकोणं प्रति याते वाराणसीतः कश्चित् पण्डितवर्यस्तत्र आगत्य अस्मच्छास्त्रिमहोदयं द्रष्टुकामः कुत्र सन्ति शास्त्रिपादा इति मार्गमाणः अन्तत अस्मच्छास्त्रिपादान्तिकमेवागल्य “कुत्रास्ते वेङ्कटसुब्रह्मण्य- शास्त्रिमहाशयः" इत्यपृच्छत् । ततः समीपर्तिना केनचित् शास्त्रिवयं मुखेन निर्दिश्य इत आस्ते इति प्रत्युक्तः स पण्डितः "न इमं, अपि तु बडाशास्त्रिमहाशयं मद्रपुरीसंस्कृत- (५) कलाशालाप्रधानाध्यापकं द्रष्टुकामोऽस्मि" इति पुनरवादीत् । तदनन्तरं अस्मच्छास्त्रिमहाशयेन स्पष्ट ज्ञापितः स पण्डितः "भौतिकयशःकाययोः कियदन्तरम् एतेषु !" इत्याश्चर्याविष्टचित्तः सन् श्रद्धधे । सुहृदः ! ये ये शास्त्रिवर्यं द्रष्टुमागच्छन्ति-पण्डितः पामरो वा, बालः स्थविरो वा, धनिको दरिद्रो वा-तान् सर्वान् समुचितेन सरसालापेन तोषयित्वा चित्तमाकर्षतीतीदं स्वभाव- सिद्धमस्मच्छास्त्रिवर्यस्य । तस्य निर्वाणानन्तरमेकदा शोककथालापे केनचित्प्रियसुहृदा परि- देवितमेवं यत् झटिति प्रेमलतासमुज्जीवी प्रियालापः असाधारणो गुणः शास्त्रिवर्यस्य ; स चेदानी प्रायो विरलोऽभूत् । तस्मात् यो यः शास्त्रिपादस्यान्तिकं प्रथमपरिचयाय समायाति स सर्वः स्नेहपरिपोषयित्रा वचनेन आकृष्टचित्तः तदन्तिकं हातुं न शक्नुयात् इतीयमुक्तिः न लेशेनाप्यत्युक्तिगन्धं स्पृशति । समये चास्मिन् मम मानससरणिमधिरोहति कस्यचित्प्रियसुहृदो गुणग्राहि वचनं "To know him was to love him." इति । अन्यः कश्चित् असाधारणो गुणोऽस्मच्छास्त्रिवर्यस्य यत् निरुद्यमं यदृच्छया यत्प्राप्यते तेन तुष्यतीति । मद्रपुरेऽस्मिन् शान्विर्यः द्वाविंशतिवर्षकालमधिवसन्नभूत् । एतं कालं यावत् , नादाम, नतरां अशृणवाम, यत् शास्त्रिवर्यः स्वीयाकिञ्चन्यमहिम्ना सनातनधर्मादपेते पथि कदाचिदपि पदं न्यधत्त ; अथवा अपरिज्ञातस्वपाण्डित्यगौरवं अपरिचितं अविनीतमैक्षत कटाक्षणापि । एतादृशोऽतिश्लाधनीयो गुणोऽस्मच्छास्त्रिपादेन स्वपूर्वोत्तरतन्त्राचार्यादेवाधीत इति दृढमस्माकमाशयः । पण्डितलोकानां अनल्पगरिमोत्कर्ष पोषयन्तः एतादृशाः पण्डित- मणयः प्रायो विरलविरला अभूवन् इत्यहो दौर्भाग्यमस्माकम् ! परं तु गुणाः पूजास्थानमेवेत्याशयश्शास्त्रिपादस्येति तर्कयितुं शक्नुमः । स हि अस्म दारतीयविद्याम्युदयस्य कृते कृतदृढसङ्कल्पानां कृतसङ्कल्पमनुष्ठितवतां स्वदेशसमुन्नतिमनवरत- मभिकाङ्क्षमाणानां च महापुरुषाणामग्रगण्यममनुत दिवंगतं वि. कृष्णस्वाम्यार्यमहाभागम् । अत एव शास्त्रिवर्यः तस्य महाभागस्य भारतीयविद्यायाः कृते कृतं त्यागं स्मारं स्मारं श्लाघयामास तस्यौदार्य सूक्ष्मदर्शित्वं च; यतः स धर्मस्य गुरुलाघवं, विद्याम्युदयस्य समीचीनमुपायं च विविच्य सूक्ष्मया दृष्टया धर्मरक्षणाद्यसाधनीभूतशरीररक्षणाय निखिलजनोपकारिवैद्यविद्यालय, तथा तुरीयपुरुषार्थसाधनीभूतात्मज्ञानपोषणाय पूर्वोत्तरतन्त्रविद्यालयं च प्रतिष्ठापयामास । मान्याः! विद्यालये चास्मिन्नाचार्यवर्यः द्वाविंशतिवर्षाणि विद्यामध्यापयामास ; तत्र चोत्तरस्मिन् भागे वर्षाष्टकमध्यक्षपदमलश्चकारेत्यपरोक्षमेव भवताम् । स्वाध्यक्ष्यकाले विद्यालयाभ्युदय- (६) निमित्तं शास्त्रिवर्येण बहुधा प्रयासोऽकारि इतीदं को वाऽपलपेत् ? विद्यार्थिसम्पदाना हि विद्यालयसमुन्नतिरिति मनसि कृत्वा उपन्यासनिमित्तं तं तं देशमलङ्कुर्वाणश्शास्त्रिवर्यः साधुसमर्थविद्यार्थिसहाय कृतोद्यमः स्वमनोरथमकृतार्थयत् । कस्मिंश्चिदवसरे शास्त्रिवर्यस्य उक्तिं श्रुतवन्तो जानीयुः तस्य कियती प्रत्याशाऽभूद्विद्यालयस्य विद्यार्थिनां च समुन्नतौ । शास्त्रिवर्यस्य महामहोपाध्यायविरुदवितरणसमये तदानीन्तनन्यायसचिवं Sir. C. P. रामस्खाम्यायवर्य अङ्गीकृत्याग्रिमासने प्रचलितायामभिनन्दनसभायां बहुधा बहुषु अभि- नन्दयत्सु दिवंगतः श्रीमान् M. O. पार्थसारथिमहोदयः एवमवादीत् :- Sometimes titles reflect honour upon men and sometimes men reflect honour upon titles. This is a case where man reflects honour upon title." .. सर्वानेतान् शास्त्रिवर्यः प्रत्यभाषतैवं यत् ममैतद्विरुददानेन तावान् हर्षो न जायते यावान् हर्षों बहुमानश्च मम जायेतैतद्विद्यालये गृहीतविद्यवरिष्ठानामेतद्विरुदवितरणेन ; अतस्तमेव कालं सम्प्रार्थये यत्र बहवोऽस्मच्छात्रास्तद्विरुदसम्मानिताः सम्माननीयाश्च स्युः । तदेतज्जानन्ति भवन्तः यत् शास्त्रिपादप्रार्थनासमनन्तरे हायन एव कल्कत्ताविश्वविद्यालये पूर्वोत्तरतन्त्राध्यापकः श्रीअनन्तकृष्णशास्त्रिवर्यः तद्विरुदमलभत । एवमुन्नत्याशासनैक- मनस्कः कलाशालामिमां दुहितरमिव वर्षाष्टकं पालयन् अस्मच्छास्त्रिवर्यः तामन्यस्मै प्रदाय निर्मुक्तभौतिकप्रपञ्चं प्रशान्तं पदं अभिरन्तुकाम इव हठात्तिरोभूदितीदं दुनोति नो मनांसि । - सुहृन्मणयः ! गते च वत्सरे मद्रपुरविश्वविद्यापीठः विद्वच्छिरोमणिपरीक्षकसमितावग्रिमासने नियम्य शास्त्रिपादं बह्वमन्यतेत्ययमुदन्तः प्रमोदावहो ननु सर्वेषाम् । शास्त्रिवर्यो हि अग्रयायी पण्डितानां अस्मिन्मद्रमण्डले तत्समितावग्रिमासनमलङ्कृत्य सत्कारमधिगन्तुम् । एतादृशं च सत्कारं प्रथमतोऽस्मच्छास्त्रिवर्याय उपाहृतवानस्मद्विश्वविद्यापीठः प्राचीनविद्वत्सु अमुमेव वरेण्यं अमनुतेव । मित्रमणयः! जानन्ति ननु भवन्तः यत् अस्मदाचार्यवर्यः स्वमातामहस्य श्रीवाञ्छेश्वरयज्वनः प्रबन्धान् भादृचिन्तामणिप्रभृतीन् मुद्राप्य स्वायुषि स्वपूर्ववंशीयान्य॒णान्यपाकर्तुं बहुधा कृतोद्यमोऽपि बहोः कालादागेव भादृचिन्तामणिप्रबन्धमुद्रणमारब्धुमपारयत् उदारमादरमव- लम्ब्य श्रीमत्यतीन्द्राणामिदानीं श्रीकाचीकामकोटिपीठमलकुर्वाणानां ; येषामुदारहृदयता (७) - .. । सनातनमर्धेकतानमनस्कता, हृदयङ्गमधोपदेशचातुरी, शिष्यजनतासमुन्नतिसम्पत्त्य स्वप्नेऽपि समादृतः साधुचारः, साधुसङ्कल्पः, वैदिकधर्मपुनरुज्जीवनपरायणा प्रवृत्तिरित्यादिभिरनन्तः कान्तैः यतीन्द्रगुणैरभिगम्यतामधृष्यतां च स्मारं स्मारमसकृच्छलाघापरवशो भवेदस्मदाचार्य- वर्यः । तादृशानां महनीयचरितानां, अस्मच्छास्त्रिवर्यस्य महनीयान् गुणान् निपुणं जानतां अस्मज्जगद्गरुवर्याणां, श्रीमद्यतीन्द्राणां सहाय्यतस्समारब्धं तत्प्रबन्धप्रकाशनं समग्रता- मसमानीय हठात् अन्यत्र कुतुकाविष्टचित्त इव कुहचित्तिरोदधे अस्मच्छास्त्रिवर्य इति मनसि कुर्वतां नः चित्तानि खदमावहन्तितमाम् । असंशयमस्मदाचार्यवर्यः तिरोदधे ; अथापि अस्मत्पूज्यपादैः प्रतिष्ठापितः विद्यावंशः छात्रवंशश्च न तिरोधत्तं, नतरां तिरोधास्यते । कि तु तद्विद्यावंशानुवृत्तिकाङ्क्षिणां नः अस्मत्प्राचीनविद्याप्रणयिनां सुहृदां च एतदवश्यकर्तव्यं यत् अस्मदाचार्यवर्यन समारब्धं कार्य सर्वथा समापनीयं, तदानुकूल्येण सर्वथा यतितव्यं चेति तथापीदं सम्प्रार्थये, जयतु जयतु चित्ते शास्त्रिवर्यः सदा नः, जयतु जयतु गोष्ठयां पण्डितानां यगोऽस्य जयतु जयतु विद्यावंश एपाऽस्मदीयः, जयतु जयतु लोके छात्रवृन्दं याम्बि ।। अय्यास्वामिनः शहजीन्द्रपुरापराभिधे तिरुविशालू रामे रुधिरोद्गारिवत्सरे (14-9-1954) शात्रि- चर्यो जनिमलभत । तस्य पिता रायल वेङ्कटरामशास्त्रिनामकः प्रथितः पण्डितः । माता कामाक्ष्यभिधा सर्वतन्त्रस्वतन्त्रश्रीवाञ्छश्वरयञ्चनो दुहिता । शास्त्रिवर्यः विधिवदुपनयनसम- नन्तरं स्वपित्रादीनां सकाशे वदं क्रमेण काव्यादिकञ्चाधीत्य महामहोपाध्यायश्रीराम- सुब्रह्मण्यशास्त्रिणां सकाशे पूर्वोत्तरतन्त्रे अध्यगीष्ट । सर्वधारिवत्सरे (1888) मद्रपुया पार्थसारथिस्वामिसन्निधिसम्प्रदाये सुप्रतिष्ठितायां श्रीमद्वेदवेदान्तवर्धनीसभायां मीमांसाशास्त्र परीक्षितः प्रथमपदे सम्भावितश्च । नन्दनवत्सरे (189:2 महीशूरपुरे राजसभायां मीमांसा- तन्त्रे परीक्षितः अत्युत्तमकक्ष्यायां निवेशितः, सम्भावितश्च अनुत्तमेन सत्कारेण । नन्दन- संवत्सरीयमहीशूरपुरसंस्कृतमहाकलाशालावृत्तान्तपत्रिका कर्नाटकभाषायां एवं लिखति :- :
(८) " "Over and above the Sambhavana in the shape of money Mr. Venkatasubrahmanya Sastrigal having scored record marks in Mimamsa, has become entitled to the honour of being presented with a pair of shawls in accordance with the usual practice प्रायः 1898 वत्सरे नवसालपुरीराजसभायां तस्मिन्नेव शास्त्र परीक्ष्य विद्वद्भिः बह्वमन्यत शामिवर्यः । ततः काञ्चीकामकोटिपीठाधिपतिजगद्गुरूणां यतीन्द्राणां आस्थाने पण्डिताध्यक्ष- पदे नियमितोऽभूत् । 1906 वत्सरे शास्त्रिवर्यः वि.कृष्णस्वाम्यार्यवर्येण खविद्यालये धर्म- शास्त्राध्यापकपदे नियुक्तः, 1907 वत्सरे मीमांसाध्यापकश्चाकारि । 1915 वत्सरे शास्त्रिवर्यः प्रधानाध्यापकपदे नियमितः तत्पदमाजन्मालमकरोत् । महीशूरपुरराजसभायाँ यदा परीक्षितोऽभूत् ततः प्रभृति यावदायुषं तस्यां सभायां परीक्षकवाभूत् । मद्रपुरविश्व- विद्यापीठे शिरोमणिपरीक्षाविभागे 1916 वत्सरादारभ्य प्रतिवत्सरं परीक्षकोऽभूत । एवं वारणसीविश्वविद्यापीठे नेकवर्षेषु परीक्षकः, कुम्भकोण-चिदम्बर-त्रिशिरःपुरांद्वतसभासु परीक्षकश्चाभूत् । 19:7 वत्सरे मद्रपुरीविश्वविद्यापीठे विद्वच्छिरोमणिपरीक्षकसमितावनि- मासने नियमितः। 1913 वत्सरे इदानीं श्रीकाञ्चीकामकोटिपीटं अलङ्कुर्वाणाः श्रीजग गुरवः यतीन्द्राः "शास्त्ररत्नाकर" बिरुदेन शास्त्रिवर्य अभूषयन् । 1923 वत्सरे वाराणसीस्थ- भारतधर्ममहामण्डलम् “मीमांसारत्नाख्यया तं सत्कारयति स्म । 192) वत्सरे अस्म- द्राजप्रतिनिधिः शास्त्रिवर्याय "महामहोपाध्याय" बिरुदं समार्पयत् । 1932 वत्सरे मद्रपुरे युवराजसमागममहोत्सवे शास्त्रिवर्यः ताटङ्क कटक (मेडल्-तोडा)प्रभृतिसत्कारेण सम्भावितोऽभूत् । 19:21. वत्सरे पष्टयब्दपूर्तिमहोत्सवे अन्तेवासिनः स्वगुरुभक्तिप्रक- टनमभिनन्दनपत्रं कश्चन राजतकुसुमपिटकञ्च समुपाहरन् । एवमेव 19.25 वत्सरे महामहो- पाध्यायविरुदसमर्पणसमये छात्राः अध्यपकाश्च स्वाभिन्दनप्रकटनक्षम प्रशस्तिपत्रं राजतपूजा- पेटिकाञ्च समर्पयामासुः । तस्मिन्नेव समये जगद्गुरुश्रीयतीन्द्राः श्रीकामकोटिपीठाधिपतयः अस्मत्पण्डितरत्नं रत्नखचिताङ्गुलीयकेन अनुग्रहपुरस्सरमभूषयन् ।* । * अत्र बहुत्र यथार्थविषयनिवेदनेन उपकृतवते निरन्तरपितृभक्तिभरिताय मत्प्रि- यसुहृदे वेङ्कटसुब्रह्मण्यशास्त्रिणः सूनवे ईश्वरशास्त्रिणे निरतिशयं कृतज्ञवादमाविष्करोमि ।
73 श्री: श्रीशिवाय नमः भाट्टदीपिका विश्वेश्वरं नमस्कृत्य खण्डदेवस्सतां मुदे । तनुते तत्प्रसादेन संक्षिप्तां भाट्टदीपिकाम् । ॥ भाट्टचिन्तामाणिः॥ वन्दे डुण्ढि महालिङ्गं विश्वेशं मणिकर्णिकाम् । ईश्वरश्रीनिवासार्याहोबलाख्यगुरूत्तमान् ॥ १ ॥ श्रीमत्कवेरजातीरं विद्वद्वन्दोपशोभितम् । अत्युत्तमशिवक्षेत्रविष्ण्वादिस्थानमस्ति हि ॥ २ ॥ श्रीशहराजेन्द्रपुरे श्रीशहराजेन्द्रविष्टपैः सदृशे । कृतवासो विमलमति)शनिकर्णाटकस्सुधीः श्रीमान् ॥ ३ । चक्रे माहिषशतकं धाटीशतकं तथाऽऽशिषां शतकम् । श्लेषकविसार्वभौमः श्रीमान्वाञ्छेश्वरः स्वतन्त्रोऽसौ ॥ ४ ॥ तस्य नप्ता माधवार्यपौत्रः श्रीनरसिंहतः । वेदवेदाङ्गतत्त्वज्ञात्सर्वशिष्टाप्रपूजितात् ॥ ५ ॥ लब्धजन्मऽधीतशास्त्रो वेदार्थकनिविष्टधीः । माहिषं शतकं येन प्रपितामहनिर्मितम् ॥ ६ ॥ व्याख्यातमतिगम्भीरं पितृप्रोक्तेन वर्त्मना । हिरण्यकेशिसूत्रं च व्याख्यातं कृत्स्नमेव हि ॥ ७ ॥ १ होसल इति पाठान्तरम् ।
२ भाट्टदीपिका [अ. १. दत्तचिन्तामणिं चैव श्राद्धचिन्तामणिं तथा । कृतवान्ब्रह्मसूत्रार्थचिन्तामणिमनुत्तमम् ॥ ८ ॥ काकताळीयवादार्थः कृतो येनाऽतिदुर्घटः । श्रीवाञ्छेश्वरनामाऽसौ तनुतेऽद्य यथामति ॥ ९ ॥ श्रीभाट्टदीपिकाव्याख्यां भादृचिन्तामणिं मुदा । दोषसत्त्वेऽपि कृपया गुणं गृह्णन्तु पण्डिताः ॥ १० ॥ प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थमनुष्ठितमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् चिकीर्पितं प्रतिजानीते-विश्वेश्वरमिति ॥ विश्वस्य प्रप. श्वस्य ईश्वरमन्तर्यामिरूपेण नियन्तारमित्यर्थः । 'सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्व- व्यापी च भगवान् तस्मात्सर्वगतः शिवः ॥' इत्यादिस्मृतेरिति भावः । अथवा विश्वस्य विष्णोरीश्वरो विश्वेश्वरः । पूज्यपूजकभावः षष्ठयर्थः । ततश्च विश्वेन विष्णुना पूज्य इत्यर्थः । तथाच महाभारते पारिजातापहरणे श्रीकृष्णं प्रतीश्वरवचनम् , 'पुरा मैनाकमाश्रित्य तपस्त्वम- करोर्यदा । तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ॥ अवध्यस्त्वमजय्यश्च मत्तश्शूरतर- स्तथा । भवितासीत्यवोचं यत्तत्तथा न तदन्यथा ॥' इति । एवं स्कान्देऽपि वैकुण्ठ चतुर्द- श्यामधरात्रे ईश्वरेण विष्णुपूजा कृता, प्रभाते विष्णुना शिवपूजा कृतेल्युक्तत्वादप्ययमर्थः स्पष्टः । यद्वा विश्वं चासावीश्वरश्चेति विग्रहः । विश्वं जगद्विष्णुर्वा तदभिन्न ईश्वर इत्यर्थः । त्वमे- वाहं जगच्चेदं सदेवासुरमानुषम्' इति विष्णुपुराणे ईश्वरं प्रति विष्णुवचनाद्विश्वाभेद ईश्वरस्य उपपन्न इति भावः । यद्यपि प्रथमव्याख्याने विश्वेश्वरपदेनैव स्वापेक्षयापि भगवतः उत्कर्ष- प्रतीतेनमस्कृत्येत्यस्य नातीव प्रयोजनं, तथापि कायिकादिनमस्कारप्रतीत्यर्थ तथोक्तमिति ध्येयम् । द्वितीयया कर्मत्वं बोध्यते । नच नमस्वस्तीत्यादिना चतुर्थी स्यादिति वाच्यम् ; उप- पदविभक्तयपेक्षया कारकविभक्तेर्बलीयस्त्वेन द्वितीयया चतुर्थीबाधात् । कर्मत्वं च धात्वर्थ- तावच्छेदकफलशालित्वम् । धात्वर्थतावच्छेदकत्वं च विशेषणतया धातुप्रतिपाद्यत्वम् । स्वाप- कर्षावधित्वप्रकारकबोधविषयता निपातार्थः । प्रयोजकव्यापारो धात्वर्थः । भावना उत्तर- कालीनत्वं च क्त्वाप्रत्ययार्थः । तथा च विश्वेश्वरकर्मकस्वापकर्षावधित्वप्रकारकबोधविषयता- प्रयोजकव्यापारकरणकभावनोत्तरकालीनेति क्त्वान्तार्थः । ततश्च धात्वर्थतावच्छेदकतादृश- विषयताश्रयत्वेन विश्वेश्वरस्य कर्मत्वात् द्वितीयोपपत्तिः । स्वयंभुवे नमस्कृत्येत्यादौ त्वपकर्षा- वधित्वमात्रविवक्षया चतुर्थी । न चावधित्वस्यापादानतारूपतया पश्चमीप्रसङ्ग इति वाच्यम् ; क्रियान्वय्यवधित्वस्यैवापादानतारूपत्वेन पञ्चमीप्रयोजकतया प्रकृते तदभावात् । केचित्तु नारायणं नमस्कृत्येत्यादौ धातोरेव लक्षणया नमस्कारानुकूलव्यापारोऽर्थः । नमःपदं तात्पर्य- पा. १. अधि. १.] भादृचिन्तामणिसहिता। । इह खलु निखिलपुमर्थानर्थसाधनौ धर्माधर्मों साङ्गोपाङ्गवेदाध्ययनसमाधिगम्यौ ग्राहकम् । तेन सार्थकनमःपदयोगाभावान्न चतुर्थी । 'स्वयंभुवे नमस्कृत्य ब्रह्मणेऽमिततेजसे' इत्यादौ तु नमःपदस्य अर्थविवक्षया नमःपदयोगसत्त्वाच्चतुर्थ्येव न द्वितीयेत्याहुः । अन्ये तु स्वयंभुवे नमस्कृत्येत्यादौ स्वयंभुवं अनुकूलयितुं इत्यर्थविवक्षायां क्रियार्थोपपदस्येत्यादिना चतुर्थी । न च तर्हि नमःस्वस्तीत्यादिसूत्रे नमःपदवैयर्थ्यमिति वाच्यम् : हरये नम इत्यादौ हरिमनुकूलयितुमित्यर्थाविवक्षायां संबन्धसामान्ये षष्ठीप्राप्तो तदपवादतया तस्य सार्थक्यादि- त्याहुः । यत्तु नारायणं नमस्कृत्येत्यादी नमःपदं नतिकर्मपरं, तथाच नारायणं नतिकर्मी- कृत्येत्यर्थविवक्षया घटं शुक्लं करोति घटं शुक्लीकरोति इत्यादौ घटादेवि नारायणादेः कृति- कर्मत्वात् द्वितीयानिर्वाह इति तन्न । नमःपदस्य धर्मिबोधकत्वेन हरिराविर्भवतीत्यादिवत् नमो भवतीति प्रयोगप्रसंगादिति दिक् । तत्प्रसादेन---विश्वेश्वरप्रसादेन । भक्ताभीष्टप्रदानेच्छया पूर्ववाक्येऽप्राधान्येन निर्दिष्टस्यापि विश्वेश्वरस्य पूर्वोपस्थितिमात्रेण सर्वनाम्ना ग्रहणम् । 'दशैते राजमातङ्गास्तस्यैवामी तुरंगमाः' इत्यादी तथा दर्शनात् । सताम्- -महताम् । मुदे---सन्तो- षाय । भाट्टानां सिद्धान्तानां दीपिकेव प्रकाशिका भाट्टदीपिका ताम् । खण्डदेवः खण्डदेवनामा । तनुते-विस्तारेण करोतीत्यर्थः । ननु बहुषु आकरग्रन्थेषु सत्सु किमनयेत्यत आह ---संक्षिप्तामिति । शब्दसंक्षेपयुक्तामित्यर्थः । ततश्च तेषां अतिविस्तृ- नत्वेन दुर्बोधत्वाल्लघूपायेन भट्टमतप्रक्रियाज्ञापनार्थमेतत्प्रबन्धारम्भ इति भावः । निखिलेति । निखिलाः सकलाः ये पुमाः पुरुषार्थाः धर्मार्थकाममोक्षाः, अनर्थाः नरकादयः तेषां साधने इत्यर्थः । “धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते । ज्ञानं कर्म च संयुक्तं मुक्त्यर्थ कल्पितं तथा ॥” इति वचनादुत्तरोत्तरधर्मानुष्ठानं प्रति पूर्वपूर्वजन्मार्जितस्य धर्मस्य हेतुत्वात् । 'विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥' इत्यादिवचनाच्चेति भावः । तथा श्रुतावप्यर्थो धर्मसाध्य इति स्पष्टं प्रतीयते । 'ऋद्धिकामाः सत्रमासीरन्' 'यं कामयेत वसीयान् स्यात्' इत्यादिवचनैः । तथा कामोऽपि पुत्रादिः वृष्टयादिश्च । 'पुत्रकामः पुत्रेष्टया यजेत' 'वृष्टिकामः कारीर्या यजेत' 'चित्रया यजेत पशु- कामः' इत्यादिवचनैः । तथा मोक्षोऽपि 'ब्रह्मसायुज्यकामो विश्वसृजामयनेन यजेत' इत्या- दिवचनैः । यद्यपि 'तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इत्यादि- श्रुतिभिः ज्ञानैकसाध्यो मोक्षः ; तथापि विविदिषावाक्येन सर्वकर्मणां ज्ञानोत्पत्तौ विनि- योगात् ज्ञानोत्पत्तिद्वारा मोक्षप्रयोजकत्वसत्त्वान्नानुपपत्तिः । 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इत्युत्तरमीमांसाधिकरणन्यायादिति भावः । साङ्गेति । चत्वारो वेदाः प्रधानानि । 'शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः ॥' इति वचनोक्तानि षडङ्गानि । 'स्मृतयश्च पुराणानि मीमांसा न्याय एव च' इति चत्वार्युपाङ्गा- T45 KIPPUSW HIS ISTRI ४ भादीपिका [अ. १. तच्च विचारमन्तरण न भाव्यायालमिति तत्प्रदर्शनाय परमकारुणिको भगवान् जैमि- निराचार्यः सकलविद्योपकारिधर्ममीमांसां 'अथातो धर्मजिज्ञासा' इत्यारभ्य 'विद्यते वाऽन्यकालत्वात् यथा याज्यासम्प्रेषः' इत्यन्तैस्सूत्रैः बधिकरणगर्भितां षोडशलक्षणी अभ्यहितां विद्यां प्रकटीचकार । अधिकरणं तु वेदवत् षडङ्गम् । यदाहुः- नीति चतुर्दशसंख्याकानि द्रष्टव्यानि । वेदाध्ययनैकसमधिगम्याविति--- अधीतवेदैक- समधिगम्यावित्यर्थः । धर्माधर्मयोरतीन्द्रियतया चक्षुरादिलौकिकप्रमाणाप्रवृत्तरिति भावः । तच---गुरूच्चारणानूच्चारणरूपमध्ययनं च । विचारं-मीमांसाशास्त्रसिद्धान्तज्ञानम् । अन्तरेण–विना। न भाव्यायालं---भाव्यं भावयितुं नालमसमर्थम् । धर्माधर्मरूपवेदार्थज्ञान- जननासमर्थमिति यावत् । तत्प्रदर्शनाय प्रकटीचकारेत्यप्रेणान्वयः । वेदार्थज्ञानोत्पत्तिद्वारा धर्माधर्मज्ञानमुत्पद्यत इत्यभिप्रायेणेदम् । “चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञान- मिति तद्विद्धि तेन धर्मो विवर्धते" इति कूर्मवचनादयमर्थः स्पष्टं प्रतीयत इति भावः ।। सक- लेति । सकलमखण्डं परिपूर्ण ब्रह्मेत्यर्थः । तस्य विद्या ब्रह्मज्ञानम् । तदुपकारिधर्ममीमां- साम्----तदुपजीव्यधर्ममीमांसामित्यर्थः । उत्तरमीमांसासूत्रेषु “औपसदवत्तदुक्तम् । प्रदानवदेव तदुक्तं" इत्यादिषु पूर्वतन्त्रोपजीवकतायाः स्पष्टत्वादिति भावः । एवं सकलविद्योपकारीत्यनेन सासययोगन्यायालङ्कारगान्धर्वधर्मशास्त्रादिसर्वशास्त्राणां वेदार्थविचाररूपमीमांसाशास्त्रमूल- कत्वमपि ध्वनितम् । तथाहि-"अजामेकां लोहितशुक्लकृष्णाम्" इति प्रतिपादितप्रकृतिपुरुष- विवेकस्य साङ्खयशास्त्रसिद्धतया वेदार्थविचारेण साङ्खयशास्त्रज्ञानसम्भवात् । तथा "शतं चैका च हृदयस्य नाड्यः।” , “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः" इति उक्तयोगस्य वेदार्थविचाररूपत्वात् । एवं षोडशपदार्थानां न्यायशास्त्रसिद्धानां प्रमाणप्रमेयेत्यादिसूत्रोक्तानां वेदार्थविचारेण प्रतीतिः स्फुटा । तत्र स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयमित्युक्त्या प्रमाणानां प्रतीतिः । स्मृति:--- अतिदेशवाक्यार्थ- स्मृतिः। तेनोपमानप्रमाणमुक्तं भवति । प्रत्यक्ष----प्रसिद्धम् । ऐतिह्य----शब्दः। अनुमानः---- अनुमानमित्यर्थः । लिङ्गव्यत्ययः छान्दसः। तथा च दशविधप्रमेयानामपि आत्मशरीरेन्द्रियादी- नां 'आत्मानं रथिनं विद्धि शरीरं रथमेव च' इत्यादौ प्रतीतिः स्फुटा । एवं संशयादीनामपि 'होतव्यमग्निहोत्रं न होतव्यं' इत्यादिश्रुत्या प्रसिद्धिर्द्रष्टव्येत्यस्मत्कृततर्कसंग्रहव्याख्याने विस्तरः । एवमलङ्कारशास्त्रप्रतिपाद्यनवरसानां 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दीभवति' इत्यादि- श्रुतिभिः, 'योषा जारमिव प्रियम्' इत्यादिभिश्चालङ्काराणां प्रतिपादनाद्वेदार्थज्ञानमूलकत्वं स्पष्टम् । एवं गान्धर्वशास्त्रप्रसिद्धषड्जादिस्वराणां "षड्ज मयूरो वदति" इत्यादिशिक्षोक्तरीत्या सामवेदार्थज्ञानपूर्वकत्वं प्रतीयते । एवमन्येषामपि धर्मशास्त्रप्रभृतीनां वेदमूलकत्वं द्रष्टव्यमिति संक्षेपः । अभ्यर्हितामिति । यद्यपि 'काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्' इत्यभि- पा. १. अधि, १.] भादृचिन्तामणिसहिता । विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । प्रयोजनं सङ्गतिश्च प्राञ्चोऽधिकरणं विदुः ॥ इति ॥ सङ्गतिस्तु प्रसङ्गादिभेदात् बहुविधा । तत्रेदमाद्यमधिकरणम्- (१)-अथातो धर्मजिज्ञासा ॥ १ ॥ अत्र 'स्वाध्यायोऽध्येतव्यः' * इत्यध्ययनविधिवाक्यं विषयः । वेदाध्ययना- नन्तरं वेदार्थविचारः कर्तव्यो वा न वति सन्देहः । युक्तोक्त्या न्यायस्यापि सर्वशास्त्रोपकारकत्वं प्रतीयते ; तथापि 'सात्त्विकं तत्र वेदान्तं मीमांसा राजसं स्मृतम् । तामसं न्यायशास्त्रं तु हेतुवादाभियन्त्रितम् ॥ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभी पुण्यकर्माणी पङ्क्तिपावनपावनी ॥ इति वचनादभ्यर्हितत्वमि- त्याशयः । विषय इत्यादि । विषयत्वं सिद्धान्तितार्थतात्पर्यकत्वं विषयवाक्यानां बोध्यम् । विशयः--संशयः। पूर्वपक्ष:--सिद्धान्तनिरसनीयः प्रथमोपपादनीयः पक्षः। उत्तरं----सिद्धान्तः । प्रयोजनम्-अनुष्ठानभेदः । पञ्चाङ्गमिति प्रामादिकः पाठः । प्रयोजनं सङ्गतिश्च प्राश्चोऽधिक- रणमित्येव पाठः । तेन न षडङ्गमिति पूर्वग्रन्थविरोधः । प्रसङ्गादीति । आदिना आक्षे- पादिसङ्गहः। पूर्वसिद्धान्ताक्षेपेणोत्तरप्रवृत्तावाक्षेपिकी संगतिः । पूर्वन्यायपरित्यागे प्रत्युदाह- रणसंगतिः । उपस्थितस्य उपेक्षानहत्वं प्रसंगसंगतिः । उपस्थितविषयनिष्ठोपेक्षानहतावच्छे- दकधर्मवत्त्वं प्रसङ्ग इति यावत् । अधिकाशङ्कानिराकरणार्थं पूर्वन्यायातिदेशः आतिदेशिकी संगतिः । पूर्वसिद्धान्तं पूर्वपक्षीकृत्य यत्रोत्तरसिद्धान्तप्रवृत्तिः तत्रापवादिकी सङ्गतिः । प्रकृत- सिद्धयर्थचिन्ता उपोद्घातसङ्गतिः। प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्ताववश्यवक्तव्यत्वमवसरः। पूर्वसिद्धान्तमुपजीव्योत्तरप्रवृत्तावुपजीव्योपजीवकभावसङ्गतिरिति पूर्वाचार्योक्तरीत्येत्यर्थः । एव- मेककार्यकारित्वादयोऽपि तन्त्रान्तरप्रसिद्धा द्रष्टव्याः । उक्तसङ्गतयोऽनन्तरसंगतिभेदाः । सामान्यसंगतित्रयं सर्वत्रापेक्षितम् । तद्यथा----शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगति- श्चेति । धर्मविचाररूपत्वे शास्त्रसंगतिः । अध्यायानिरूपणरूपत्वेऽध्यायसंगतिः । पादा- र्थविचाररूपत्वे पादसंगतिरित्यग्रे व्यक्तम् । तत्र----वक्ष्यमाणशास्त्रे । घटकत्वं सप्तम्यर्थः । आधमधिकरणमिति---प्रथमविचार इत्यर्थः । अथातो धर्मजिज्ञासा । अत्र---अधिकरणे । अध्ययनविधिवाक्यमिति-स्वाध्यायाद्देशेनाध्ययनविधायकं वाक्यमित्यर्थः । विषयमुक्त्वा विशयं दर्शयति----वेदाध्ययनानन्तरमिति ॥ वेदार्थविचारः कर्तव्यो न वेति सन्देहोक्तेरेककोटिक एव सर्वत्राधिकरणार्थसंशय इति न भ्रमितव्यम्। बहुकोटिकानामपि संशयानां पूर्वोत्तरमीमांसयोई- श्यमानत्वादिति द्रष्टव्यम् । वेदाध्ययनानन्तरमित्यनेन सूत्रस्थाथशब्दार्थस्सूचितः । कर्तव्यो तैत्तिरीयारण्यकम् २.१.. ।
६ भाट्टदीपिका [अ. १. तत्र पूर्वः पक्षः 'अधीत्य सायात्' इति स्मृत्याऽध्ययनानन्तरमेव गुरुकुला- त्परावर्तनविधानविरोधात् न कर्तव्यः । न चाध्ययनविधित एव अर्थज्ञानभाव्यकत्वा- वगमात् तत्सिद्धिः । अर्थज्ञानजनकत्वेन अध्ययनस्य लोकसिद्धत्वेन अविधेयत्वात् । तन्नियमस्य च अर्थज्ञाने अनुपयोगात् , अव्यभिचरितक्रतुसम्बन्धाभावेन क्रतुं याव- दुपयोगकल्पनानुपपत्तेश्च न विधेयत्वम् । अतः स्वर्गाद्यर्थमेव अध्ययनं विधीयते । लोकतः पूर्व प्रवृत्त्यङ्गीकारेण यथाश्रुतार्थज्ञानार्थं वा । अध्ययनमेव वा भावनाभाव्यमस्तु । न वेति सन्देहकरणात् जिज्ञासापदेन वाक्यलक्षणया विचारो लक्ष्यत इति सूचितम् ॥ पूर्वः पक्ष इति ॥ क्रियत इति शेषः । तमेवोपपादयति-अधीत्येति ॥ नन्व- धीत्य स्नायादित्यनेन विधीयमानं स्नानं वार्तिकरीत्या ब्रह्मचर्यनियमसमाप्तिर्वा, धर्मसूत्रोक्तरी- त्या माणवकसंस्कारकर्मविशेषो वा, कर्कभाष्योक्तरीत्या गृहस्थाश्रमप्रतिपत्तिर्वा । सर्वथा तद्वि- चारेण विरुध्यत इत्यत आह- गुरुकुलादिति ॥ तथाच स्नानशब्देन समावर्तनमेवोच्यते । तञ्च गुरुकुलान्मा समावर्तिष्टेति ब्रह्मचारिधर्मविधानेन गुरुकुलापादानकपरावर्तनरूपमिति गुरुसापेक्षविचारविरोधीति भावः । ननु स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिनाऽधीतेन खाध्या- येन फलवदर्थज्ञानं सम्पादयेदित्यर्थपर्यवसितेन विचारस्यावश्यकत्वमिति शङ्कते-नचेति ॥ न चाधीत्य स्नायादिति स्मृतिविरोध इति वाच्यं ; प्रत्यक्षस्वाध्यायविधिविरोधेन स्मृतेः सर्व- वेष्टनस्मृतिन्यायेन अप्रमाणत्वादिति भावः । लोकसिद्धत्वेनेति ॥ अर्थवच्छब्दज्ञानमात्रस्य लोके स्वार्थशाब्दबोधं प्रति कारणतायाः क्लप्तत्वेन तदंशे लोकप्राप्तानुवादमात्रत्वेन स्मृतिबा- धकत्वासंभवात् ; अप्राप्ते शास्त्रमर्थवदिति न्यायादिति भावः। ननु वेदसमानार्थकलौकिकवाक्य- स्यार्थज्ञाने पक्षप्राप्तत्वेन तन्निरासफलकत्वान्न विध्यानर्थक्यमित्यत आह-तन्नियमस्य चेति ॥ वेदेनैवार्थज्ञानं संपादयेदिति नियमस्येत्यर्थः । अनुपयोगादिति ॥ वेदवाक्यश्रव- णेन लौकिकवाक्यश्रवणेन वा अर्थज्ञाने जायमाने नियमस्य प्रयोजनाभावादित्यर्थः । नन्वनारभ्याधीतत्वेनाध्ययनविधेः प्रकरणेन क्रतूपस्थित्यभावेऽपि पर्णतान्यायेन क्रतू. पस्थित्या ऋतूपयोगोऽस्त्वित्यत आह-अव्यभिचरितेति ॥ जुह्लादीनां क्रत्वैकान्त्यात् युक्तं पर्णतादीनां क्रत्वर्थत्वम् । अर्थज्ञानं तु अध्यापनद्वारा द्रव्यार्जनसाधनत्वेनापि दृष्टमिति क्रत्वैका- न्याभावान क्रत्वपूर्वोपयोगीति भावः । नन्वर्थज्ञानजनकत्वस्य लोकसिद्धत्वेऽपि तन्नियमस्या- दृष्टार्थत्वमस्तु दृष्टार्थभोजनाश्रितप्राङ्मुखत्वादिनियमवदित्यत आह--अत इति ॥ आर्थि- कनियमस्यादृष्टार्थत्वकल्पनापेक्षया श्रुताध्ययनस्यैवादृष्टार्थत्वस्योचितत्वात्स्वर्गाद्यर्थमेवाध्ययनं वि- धीयत इति युक्तं विश्वजिन्यायादिति भावः । ननु स्वर्गकामपदाध्याहारापनेनं स्वर्गार्थत्वं युक्तम् । किंच दृष्टे संभवत्यदृष्टकल्पनासम्भवादपि न स्वर्गार्थत्वसम्भव इत्यत आह--यथाश्रु- तार्थज्ञानार्थमिति ॥ अध्ययनं विधीयत इति पूर्वणान्वयः । लोकतः पूर्व वेदप्रवृत्तेरिति तत्र पा..१. अधि. १ भादृचिन्तामणिसहिता । न चैवमिष्टभाव्यकत्वाभावात् प्रवृत्त्यनुपपत्तिः । 'अनधीयाना व्रात्या भवन्ति' इति वचनेन अकरणे प्रत्यवायबोधनेनापि प्रवृत्तिसिद्धेः । तस्मान्नार्थविचारार्थं गुरुकुलेऽव- स्थानमिति ॥ सिद्धान्तस्तु- न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते । दृष्टे सम्भव- त्यदृष्टस्यान्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम् । तथात्वे व्रात्यताबोधकवाक्येन अध्ययनस्यावश्यकत्वात् गृहीतपदपदार्थसङ्गतिकस्य 'स्थाणुरयं भारहारः किलाभूत अधीत्य वेदं न विजानाति योऽर्थम्' इत्यादिवचनाच्च ज्ञानस्याप्यावश्यकत्वेन यथाश्रुतार्थज्ञानस्य आनुषङ्गिकतयाऽपि सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेन--अध्ययनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैयर्थ्यपरिहारार्थ प्रयोजनवदर्थज्ञानाद्युद्देशेन स्वाध्यायाध्ययनं तव्यप्रत्ययेन हेतुः । अर्थज्ञानस्य कल्पितविधिगम्यत्वेन तदपेक्षयापि लाघवादाह--अध्ययनमेव वेति ॥ स्वाध्याय इति प्रथमया करणत्वं लक्षयित्वा सक्तुन्यायेन स्वाध्यायेनाध्ययनं भावयेदिति वाक्या- र्थाङ्गीकारान्न विध्यन्तरकल्पनमिति लाघवमित्यर्थः । व्रात्यताबोधकवाक्येनाध्ययनस्य प्राप्तत्वान्न भावार्थाधिकरणन्यायेन विधेयत्वमिति भावः । नन्वेवमध्ययनस्य सुखदुःखनिवृत्त्यन्यतररूप- त्वाभावेन पुरुषार्थरूपत्वाभावात्कस्यापि स्वाध्यायाध्ययने प्रवृत्तिर्न स्यादिति शङ्कते---न चैवमिति ॥ अनधीयाना इति अकरणे प्रत्यवायश्रवणेनैव प्रवृत्त्युपपत्ते ध्ययने इष्टत्वज्ञाना- पेक्षेत्यर्थः । योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ इति वचनाचेति भावः । पूर्वपक्षमुपसंहरति--तस्मादिति ॥ ततश्चार्थविचा- रस्यानावश्यकतया तदर्थ गुरुकुलावस्थानाप्रसक्तेर्वेदग्रहणानन्तरमेव समावर्तनमिति पूर्वपक्ष इत्यर्थः । तथा च वेदार्थस्य विचार्यत्वाभावाच्छास्त्रमनारम्भणीयमिति भावः ॥ स्थाणुरिति ॥ ज्ञानशून्य इत्यर्थः । 'यथा पशु रवाही न तस्य लभते फलम् ' 'यथा खरश्चन्दनभारवाही भारस्य वेत्ता नतु चन्दनस्य' इत्युपबृंहणात् । आदिपदेन, "वेदस्याध्ययनं सर्वं धर्मशास्त्रस्य चापि यत् । अजानतोऽथ तत्सर्वं तुषाणां खण्डनं यथा ॥ पाठमात्ररतान्नित्यं द्विजातींश्चार्थ- वर्जितान् । पशूनिव च तान् प्राज्ञो वाङ्मात्रेणापि नार्चयेत् ॥” इत्यादिपरिग्रहः।। वैयर्थ्य- प्रसङ्गादिति ॥ स्वाध्यायग्रहणस्य यथाश्रुतार्थज्ञानस्य च प्रकारान्तरेणावश्यकर्तव्यत्वेन स्वाध्यायविधेस्तत्रोपयोगाभावादित्यर्थः । एतेन-स्वाध्यायाध्ययनार्थज्ञानयोः प्रकारान्तरेण सिद्धत्वेन । प्रयोजनेति ॥ कचिद्यथाश्रुतार्थज्ञानं, कचिल्लक्षणाध्याहारविपरिणामव्यवधारणादि- लभ्यार्थज्ञानादि, साम्नामृगक्षराभिव्यक्तिः, स्तोभानां गीतिकालपरिपूरणं, मन्त्रब्राह्मणक्रमस्यानुष्ठा- " ८ भादीपिका [अ. १. लक्षणया विधीयते । प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाऽध्ययनमा- नक्रमः, विधिगतदेवतावाचिपदस्य त्यागवाक्यघटकत्वनियम इत्यादिप्रयोजनम् । तदुक्तं न्या- यरत्नमालायाम् , 'न केवलार्थविज्ञानसिद्धिरस्य प्रयोजनम् । दृष्टं यच्छक्यते कर्तुं तत्सर्वं फल- मिष्यते ॥' इति । न चैवमुद्देश्यानकत्वाद्वाक्यभेद इति वाच्यम् । उद्देश्यानामश्रुतत्वेन सर्वानुग- मकधर्मप्रवृत्तिनिमित्तकस्यैव पदस्याध्याहर्तव्यतया एकपदेनाद्देशेन सर्वेभ्यः कामेभ्य इतिवद- वाक्यभेदादिति भावः । स्वाध्यायाध्ययन----स्वशाखाप्रापकोच्चारणकरणकभावना । विधी- यते----तव्यप्रत्ययार्थैकदेशप्रवर्तनाविषयीक्रियते । “प्रेषातिसर्गप्राप्तकालेषु कृत्याश्च" इति स्मृत्या तव्यप्रत्ययस्य कृत्यप्रत्ययत्वेन प्रषे शक्तावपि प्राप्तार्थविषयकप्रवर्तनारूपप्रैषस्य प्रकृते अप्राप्तार्थे वाधात् प्रवर्तनाविषयप्रवृत्तिलक्षणया निर्वाह इत्याह---लक्षणयेति ॥ उक्तं चा- चार्यैः 'प्रवर्तनस्मृतिः प्राप्ते प्रैप इन्यभिधीयते । अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ।' इति । उपपदार्थस्य स्वाध्यायस्य तु न भावनाकर्मत्वम् । अपितु धात्वर्थेन भावनाभाव्ये जन- नीये द्वारत्वेनापेक्षिततया धात्वर्थीयप्राप्यकर्मत्वम् । अत एव सक्तुन्यायेन धात्वर्थ एव गुणत्वे- नान्वयः। "पार्वणौ होमी जुहोति' इत्यत्र पर्वपदोक्तयागानां होमसंस्कार्यत्वेऽपि देवतात्वेन गुण- त्वस्यापि सत्त्वेन पर्वदेवत्यहोमाभ्यामिष्टं भावयेदितिवत्स्वाध्यायवध्ययनेन वेदसाध्यदृष्टफल- जातं भावयेदिति वचनव्यक्त्याऽध्ययनस्य गुणकर्मत्वमुपादेयगतत्वात्स्वाध्यायैकत्वविवक्षापि वक्ष्य- माणोपपद्यत इति तान्त्रिकानुमतः पन्थाः । नन्वध्ययनस्यार्थज्ञानभाव्यकत्वे वाजपेयवाक्य इव विरुद्धत्रिकद्वयापत्तिः । अतः स्वाध्यायपदस्य वाजपेयन्यायेन नामधेयत्वं स्यात् । मध्यान्नीचा- दुच्चेत्यादिवाक्ये दकारनकारयोः इषे त्वोर्जे त्वेत्यादौ प्रथमत्वोपपदस्थानुदात्तस्वरस्य संहिताकाल एव लब्धस्वरूपाणामन्येपामप्येवंजातीयकानां बहूनां अर्थज्ञाने उपयोगाभावेनादृष्टार्थतया वैरूप्यं स्यात् । अतस्तत्परिहाराय धातोः पदाध्ययनमात्रपरत्वापत्त्या संहिताध्ययनोच्छेदापत्तिश्च इत्यत आह--प्रयोजनवदिति ।। स्वाध्यायोद्देशेनेति ॥ अयमर्थः । अध्ययनेन स्वाध्यायं भाव- येदित्येव प्रकृतविधेरर्थः । अर्थज्ञानार्थत्वं तु स्वाध्यायस्य वचनान्तरात् भवति । 'षडङ्गो वेदोऽध्येयो ज्ञेयश्च” इति महाभाष्ये विध्यन्तरदर्शनात् , स्थाणुरयमित्यादिश्रुतेश्च । अत एव स्वाध्यायस्यार्थज्ञानार्थता तु लिङ्गकल्प्यश्रुतित एव भविष्यतीति केषांचित् उक्तिरनादरणीया क्लप्तश्रुतेरेव सत्त्वात् । जपपारायणादिषु विनियोजकप्रत्यक्षविधिभिरेव विनियोगाकाङ्क्षाशान्त्या श्रुतिकल्पनानवकाशाच्च । अत एव "पुरोहितं वृणीत" इत्यत्र वृतेन पुरोहितेनेष्टं भावयेदिति- वदधीतेन स्वाध्यायेनेत्यर्थवर्णनं संगतमपि विशेषणविधिकल्पकं सत् विधिद्वयपर्यवसाय्येवेति च प्रकृतविधौ स्वाध्यायावाप्तेरेवोद्देश्यत्वान्न नामधेयत्वादिप्रसक्तिः। एवं अर्थज्ञा- नस्य कर्मसु विनियोजकवचनान्तरमपि दृश्यते । “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति श्रवणात् । ततश्च स्वर्गादिजनककर्मोपयुक्तार्थज्ञानादिसाधनत्वस्य द्रष्टव्यम् ।
पा. १. अधि. १.] भादृचिन्तामणिसहिता । त्रम् । तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वाभिधानात् । अतश्च गुरूपसदनाध्ययना- स्वाध्याये विशकलितैस्तैस्तविधिभिरेव बोधनान्न कस्यापि विधेरपुरुषार्थभाव्यकत्वासक्तिः । मूलेऽप्येतत्सूचनायैव प्रयोजनवदिल्यादिविशेषणम् । एतेन स्वाध्यायपदस्य लक्षणामाश्रित्यार्थ- ज्ञानादीनां भाव्यतावच्छेदकादिकोटी निवेशबोधनायैव तद्विशेषणमिति प्रत्युक्तम् । विधेः पुरुषार्थतदनुबन्ध्यन्यतरभाव्यकप्रवृत्तिविषयकत्वस्यैव नियतत्वात्तस्य स्वरूपसत एवोपयोगेन विधिवाक्यजन्यशाब्दबोधे तदन्यतरत्वस्य भाव्यतावच्छेदकतया विषयत्वनियमे प्रमाणाभावा- द्विधिस्वभावादेव तदाक्षेपादयोग्यतानिश्चयाभावेन शाब्दबोधे जाते अन्यलभ्यतत्प्रतीतये भाव्यवाचकपदे लक्षणाया अनुचितत्वाच्च । अनारभ्याधीतत्वेन प्रकरणाभावादव्यभिचरित- ऋतुसंबन्धाभावेन तत्प्रणाल्येतःपूर्वमनुपस्थितत्वाच्च । अत एव त्रीहीन् प्रोक्षतीत्यादी इतः पूर्वमेव प्रकरणादिना तण्डुलनिष्पत्तिद्वारकापूर्वसाधनत्वस्योपस्थितत्वात् ब्रीहिपदे लक्षणा । प्रत्युत ऋतूपकारार्थज्ञानजनकत्वस्य लक्षणया बोध त्रयीसाध्यकर्मनिर्वाहाय वेदत्रयगतेकेकशाखाज्ञान- स्यावश्यकतया प्रोक्षणादिसंस्कार्यताया यवसाधारण्यवदध्ययनप्राप्यतायाश्शाखान्तरसाधारण्या- पत्तिः । स्वशाखात्वविवक्षायां युगपद्वृत्तिद्वयविरोधापत्तिः । अतः स्वाध्यायत्वमात्रं भाव्यतावच्छे- दकमित्येव युक्तमिति दिक् ॥ अध्ययनमात्रमिति ॥ मात्रपदेन स्वाध्यायस्योपादेयकोटौ निवे- शव्यावृत्तिः । नन्वेवं तद्गतैकत्वविवक्षा न स्यादित्यत आह-तव्येति ॥ आख्यातजन्य- प्रतीतिविशेष्यव्यापाराश्रयपरिच्छेदद्वाराऽऽख्यातार्थसंख्यान्वयनियमात् कर्मार्थकतव्यप्रत्ययोक्तसं- ख्यायास्तदभिहितभावनाघटकप्रयोजकव्यापारोपसर्जनकप्रयोज्यव्यापारस्येव विशेष्यत्वेन तदाश्र- यकर्मपरिच्छेदकत्वेन भावनान्वयाद्विवक्षापपत्तिः। अत एव 'स्वर्गकामो यजेत' इति कर्थकलकारे भावनाघटकप्रयोज्यव्यापारोपसर्जनकप्रयोजकव्यापारस्यैव विशेष्यतया भानात् तदाश्रयकर्तृ- परिच्छेदकत्वेन लकारोपात्तसंख्यायाः भावनान्वयादेकत्वविवक्षा । तेन स्वर्गकामपदेनाभि- धानकाल इव स्वाध्यायपदेनाभिधानवेलायां उद्देश्यविशेषणतया भानं एकत्वस्याऽप्रयोजकमेव । ननु स्वर्गकामविशेषणपुंस्त्वस्येव अध्ययनविशेपणस्वत्वस्याप्यविवक्षापत्तिरिति चेन्न ; स्वेति पदान्तरोपात्तात्मीयत्वस्य समासेन परस्परान्वयात् ; अश्वाभिधान्यामश्वीयत्वस्येव वैयर्थ्यपरिहा- राय विवक्षितत्वात् । ननु तद्विवक्षयैवेष्टसिद्धेरेकत्वविवक्षायाः प्रयोजनं नास्तीति चेन्न; ये कुलपरम्परयैव द्विवेदिननिवेदिनो वा तेषामप्येकशाखाध्ययनं नित्यं, अन्यदभ्युदयार्थमैच्छिक- मिति द्योतनार्थत्वेन सार्थक्यात् । तेन वेदानधीत्य वेदौ वा वेदं वापि यथाक्रममिति स्मृते- रियमेव श्रुतिर्मूलमिति द्रष्टव्यम् । गुरूपसदनेति ॥ अष्टवर्षं ब्राह्मणमुपनयीत' इति विधौ आचा- र्यकरणस्यात्मनेपदेन बोधनादष्टवर्पो ब्राह्मणो गुरुमुपगच्छेदित्यर्थः । तद्विज्ञानार्थं गुरुमभिग- च्छेदितिवत् प्रायेण बालानां प्रवृत्तेः अयमेवाध्ययनविधिः । स चाविशेषाच्चतुर्दशविद्यापर एव । 'स्वाध्यायोऽध्येतव्य' इत्यस्य त्वर्थवादवैचित्र्यार्थ पुनःपुनराम्नानादनन्यपरत्वाभावेनाभ्यासा- १० भाट्टदीपिका [अ. १. । क्षरावाप्तितदर्थज्ञानसाधनीभूतस्वाध्यायधर्मानुष्ठानपुत्रस्वर्गविविदिषासु उत्तरोत्तरस्य पूर्व- पूर्वभाव्यतायाः श्रुत्यादिसिद्धत्वात् न यावदर्थज्ञानं गुरुकुलात्परावृत्तिः । अतः सिद्धोऽर्थविचारः । उक्तं च—"अतो नित्यः ऋतुविचारस्त्रैवर्णिकमात्रस्य” इति । स्मृतौ क्त्वाप्रत्ययस्तूत्तरकालमात्रपर इति ॥ उपोद्धातः सङ्गतिः । प्रयोजनं तु स्पष्टम् । वेदाध्ययनानन्तरं अर्थवि- भावात्कर्मभेदाप्रसक्तेः; 'अथातः स्वाध्यायप्रशंसा' इत्युपक्रमाच्च स सर्वोऽपि ग्रन्थ एतस्यैव विधेर- र्थवादः, यथासम्भवं फलाय पुनर्विधिः स्वस्वशाखोपसंहारकश्चेत्यपि बोध्यम् । पुत्रेत्यैहिकफल- सामान्यस्योपलक्षणम् ; स्वर्गेत्यामुष्मिकसामान्यस्य ; विविदिपेति ब्रह्मज्ञानस्य अर्थभावनाभा- व्यत्वेन सर्वेषामेकीकारः।। श्रुत्यादीति ॥ गुरूपसदनं-- -उपनयनं, तेन अध्ययनं-गुरूच्चारणा- नूच्चारणरूपं, तेन अक्षरावाप्तिः–वेदाक्षरग्रहणं, तेन वेदार्थज्ञानं, तेन यागादिधर्मानुष्ठानं, तेन पुत्रादिदृष्टफलस्य स्वर्गाद्यामुष्मिकस्य विविदिषायाश्चोत्पत्तेः । पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुत्वं श्रुत्यादिप्रमाणसिद्धमित्यर्थः । आदिना सामर्थ्यात्मकलिङ्गपरिग्रहः । ननूत्तरोत्तरस्य पूर्वपूर्व- भाव्यत्वे कथं तेषां करणत्वसम्भव इति चेन्न ; विधिभेदेनोभयोपपत्तेः । 'अग्निहोत्रं जुहोति' 'दना जुहोति' इतिवत् । नच लिप्सासूत्रे फलेविधिर्नास्तीति आकरोक्तत्वात् एतेषां करणत्वेन विधाने तद्विरोध इति वाच्यम् ; तस्यान्तिमभाव्यविविदिषापरत्वादितरेषां विधेयत्वे बांधका- भावात् । अत एव अर्थज्ञानस्य भाव्यत्वात् कृतिसाध्यात्वाभावाच्च न विधेयत्वसम्भव इति निरस्तम् । 'सूर्यं पश्येदाहुं न पश्येत्' इति विधिनिषेधदर्शनाच्चेति भावः ॥ उक्तं चेति ॥ पुरुषार्थानुशासनप्रवृत्तसूत्रकारेणेति शेषः । अत इति ॥ अर्थविचारः-स्वाध्यायार्थविचारः। स एव ऋतुविचारः त्रैवर्णिकानां नित्यः, तदभावे प्रत्यवायस्य श्रुतिसिद्धस्य पूर्वमेव उक्तत्वा- दित्यर्थः । नन्वध्ययनानन्तरमर्थविचारे क्रियमाणे 'अधीत्य स्नायात्' इति स्मृत्युक्ताध्ययनाव्य- वहितोत्तरत्वं स्नाने विधीयमानं विरुध्येतेत्याशङ्कां परिहरति-स्मृताविति ॥ क्त्वाप्रत्ययस्योत्तर- कालत्वमात्रमर्थः न त्वव्यवहितोत्तरकालत्वं, गौरवात् । भोजनानन्तरं निद्रां कृत्वा व्रजत्यपि पुरुषे भुक्त्वा व्रजतीति प्रयोगदर्शनाच्च । ततश्चाध्ययनानन्तरमर्थविचारं कृत्वा स्नाने कृतेऽपि न क्त्वाप्रत्ययविरोध इति मात्रचं प्रयुञ्जानस्याशयः। मुखं व्यादाय स्वपितीत्यादौ तु क्त्वाप्रत्ययो लाक्षणिक इति ध्येयम् । अस्य विचारस्य शास्त्रसङ्गतिमाह-उपोद्घात इति ॥ विचारकर्त- व्यत्वे सिद्धे हि धर्मविचारात्मकशास्त्रप्रवृत्तिरिति प्रकृतशास्त्रसिद्धयर्थविचाररूपत्वात् । 'चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं विदुर्बुधाः' इति प्राचीनोक्तलक्षणसत्त्वादुपोद्धातसङ्गतिरित्यर्थः ।। प्रयोजनमिति ॥ पूर्वपक्षे धर्मविचारो न कर्तव्यः; सिद्धान्ते कर्तव्य इति स्फुटमित्यर्थः । अनुबन्धचतुष्टयं सूत्र एव स्पष्टमित्यभिप्रायेण सूत्रार्थमाह-वेदाध्ययनानन्तरमिति ।। सूत्रे अथशब्द आनन्तर्यार्थकः । मङ्गलमधिकारश्चार्थिकौ । अतश्शब्दो हेत्यर्थः । अध्ययनस्य पा. १. अधि. २.] भादृचिन्तामणिसहिता। ११ चारो धर्माधर्मज्ञानाय उपनीतैः कर्तव्यः सहकारित्वादिति सूत्रार्थवशादनुबन्धचतु- ष्कसिद्धिः । एवं प्रत्यधिकरणमङ्गान्युन्नेयानि ॥ १ ॥ (२)-चोदनालक्षणोऽर्थो धर्मः ॥ २ ॥ विचिचारयिषितस्य धर्मस्यालौकिकत्वेन प्रत्यक्षविषयत्वायोगात् तन्मूलक- स्यानुमानादेस्तत्र सुतरामप्रवृत्तेः अत एवं' तलक्षणस्याप्यसम्भवान्न धर्मविचारो युक्त इति प्राप्ते-लौकिकप्रमाणानामप्रवृत्तावपि अलौकिकानामेकत्रिंशतस्तत्सहकृतविधेरेक- वृत्तत्वाद्धेतोर्विचारस्य सहकारित्वाद्वा धर्मस्य वक्ष्यमाणलक्षणस्य जिज्ञासा विचारः कर्तव्य इति शेषः इति सूत्रार्थ इति भावः । पार्थसारथिस्तु अथातो धर्मजिज्ञासेति सूत्रस्य आवृत्ति- मङ्गीकृत्याकारार्थप्रश्लेपेणाधर्मजिज्ञासेति च्छेदं कृत्वा परिहारायाऽधर्मोऽपि विचारयितव्य इति मूत्रार्थमाह । अत एव मूलेऽपि प्रथमफक्किकायां निखिलपुमर्थानर्थसाधनौ धर्माधर्मी वेदा- ध्ययनसमधिगम्यावित्युक्तम् । धर्मशब्दश्च प्रमाणादीनामप्युपलक्षकः । अत एवार्थवादाधि- करणे पार्थसारथिः प्रमाणस्वरूपसाधनफलैस्साभासैधर्मो जिज्ञास्यत्वेन प्रतिज्ञात इति वक्ष्यति ॥ अनुबन्धेति ॥ अत्र शास्त्रे धर्मादिविषयः, तदवबोधः प्रयोजनं, त्रैवर्णिकोऽधिकारी, विषयविष- यिभावादयः सम्बन्धा इति सूत्र एव सूचितमित्यर्थः। अत्र केचित् जिज्ञासासूत्रे नैव कश्चि- न्यायो वर्ण्यते, नवमे साम्नामृगक्षराभिव्यक्तिद्वारा दृष्टार्थत्वस्य साधयिष्यमाणत्वेन तेनैव न्याये- नाध्ययनस्य दृष्टार्थत्वसिद्धेः। अतस्तत्र सिद्धस्यैवात्रोपोद्घातार्थमनुवाद इत्याहुः। वस्तुतस्तु अत्रैव दृष्टे सम्भवतीति न्यायो व्युत्पाद्यत इति मन्त्राधिकरणे वक्ष्यते इति शिवम् ।। चोदनालक्षणोऽर्थो धर्मः ॥ प्रथमं तावत् का धर्मः, कथंलक्षणकः इत्येतद्वयमनेन श्रुत्यर्थाभ्यां सूत्रेण निरूप्यते । यो र्धमः स चोदनालक्षणः, चोदनैव तस्य लक्षणं प्रमाणं, चोदना च तस्य लक्षणमेवेति श्रुत्या प्रमाणविधौ अर्थात् चोदनागम्य एवाग्निहोत्रादिधर्मो नातल्लक्षणश्चेत्येवं दानादिर्धर्म इति स्वरूपमपि सिध्यति । तथा यः चोदनालक्षणः स धर्म इति स्वरूपविधावर्थात् प्रमाणसिद्धिरिति सूत्राशयः । धर्मो विचार्य इत्युक्तम् । तत्प्रकारमेवाह-विचिचारयिषित- स्येति ॥ धर्माधर्मयोः प्रमाणमस्ति न वेति सन्दिा पूर्वपक्षमाह- अलौकिकत्वेनेति ॥ प्रत्यक्षप्रमाणागम्यत्वेनेत्यर्थः । धर्माधर्मयोरतीन्द्रियत्वादिति भावः । तन्मूलकस्य-व्याप्तिप्र- त्यक्षादिमूलकस्य । अत एवमेयसिद्धेर्मानाधीनत्वादेव । तलक्षणस्येति ॥ धर्मस्व- रूपलक्षणस्येत्यर्थः । प्रमाणाभावेन धर्मस्वरूपासिद्धौ कस्य लक्षणं वक्तव्यमित्यर्थः । तथाच धर्माधर्मयोः प्रमाणाभावान्न विचार्यत्वमित्याक्षेपिकी सङ्गतिरिति द्रष्टव्यम् । धर्माधर्मयोरलौकि- कत्वेनातीन्द्रियतया चक्षुरादिप्रमाणाप्रसक्तावपि वेद एव धर्माधर्मयोः प्रमाणमित्याशयेन सिद्धा- न्तमाह-लौकिकेति ॥ एकत्रिंशत इति ॥ प्रमाणत्वसम्भवादित्यप्रेणान्वयः । विध्यर्थवादमन्त्र- १ लक्षणस्य इति पाठान्तरम् ।
१२ भाट्टदीपिका [अ. १. स्यैव वा प्रमाणत्वसम्भवात् अप्रामाण्यस्य परतस्त्वेऽपि प्रामाण्यस्य स्वतस्त्वात् सप्रमाणक एव धर्मः । नामधेयस्मृतिशिष्टाचाराः शब्दान्तराभ्याससंख्यासंज्ञागुणप्रकरणान्तराणि श्रुतिलिङ्गवाक्यप्रक- रणस्थानसमाख्याः श्रुत्यर्थपाठस्थानमुख्यप्रवृत्तयः षट् वचननामलिङ्गानि त्रीणि स्थानापत्तिरेका प्रत्याम्नानप्रतिषेधार्थलोपास्त्रय इति संख्यासंपत्तिर्द्रष्टव्या । नच श्रुतिनामादीनां पुनःपुनर्ग्रह- णान्न संख्यासंपत्तिरिति वाच्यम् ; प्रमेयभेदेन तत्प्रमेयविशिष्टश्रुत्यादेविशेषणभेदेन भेदोपपत्तेः। ननु चोदनालक्षणोऽर्थो धर्म इति सूत्रानुसारेण विधेरेव धर्मप्रमाणत्वस्य सूत्रकारानुमतत्वप्र- तीतेः कथमेतेषां धर्मप्रमाणत्वम् ! लिङ्गादीनां श्रुतिकल्पकतया प्रामाण्यस्य वक्ष्यमाणतया तस्या एव धर्माधर्मयोः प्रामाण्यं युक्तं, न त्वेकत्रिंशत इत्याह--तत्सहकृतेति ॥ उक्तश्रुत्या- दिसहकृतेत्यर्थः । तथाचालोकसंयोगमहत्त्वोद्भतरूपादीनां चक्षुस्सहकारित्वमिव श्रुत्यादीनां चोदनासहकारित्वात्तत्सहकृतविधिरेव धर्माधर्मयोः प्रमाणमित्यर्थः । ननु चोदनानां प्रामा- ण्यस्य तद्वति तत्प्रकारकज्ञानजनकत्वरूपस्य समर्थप्रवृत्तिजनकल्वरूपहेतुज्ञानाधीनतया हेतो दोषसन्देहेनानुमितावप्रामाण्यसंशयसम्भवात्कथं चोदनया धर्मप्रमितिरित्यत आह-अप्रामाण्य- स्येति ॥ अयमाशयः । शब्देन चक्षुरादिना वा जायमानं ज्ञानं प्रमात्मकमेव जायते । प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वाङ्गीकारात् । अप्रामाण्यं तु परत एवोत्पद्यते ज्ञायते च । भ्रमस्य दोषजन्यत्वाङ्गीकाराद्विसंवादिप्रवृत्तिजनकत्वरूपहेतुजन्यत्वाङ्गीकाराच्च । तस्माच्चोदनैव धर्माधर्मयोः प्रमाणमित्यर्थः। अप्रामाण्यस्य भ्रमत्वस्य परतस्त्वेऽपि ज्ञानसामान्यकारणभिन्नदो- षादिरूपहेतुजन्यत्वेऽपि, ज्ञानकारणसामान्यसामग्रीभिन्नदोषजन्यज्ञाननिष्ठत्वेऽपीति यावत् । ज्ञप्तौ परतस्त्वं च ज्ञानग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वम् । तच्च विसंवादिप्रवृत्तिजनकत्वरूप- लिङ्गजन्यत्वाद्युक्तमेव । प्रामाण्यस्य प्रमात्वस्य स्वतस्त्वात् ज्ञानसामान्यसामग्रीजन्यत्वात् ज्ञान- कारणसामान्यसामग्रीजन्यज्ञाननिष्ठत्वात् ज्ञानग्राहकसामग्रीग्राह्यत्वाच्चोत्पत्तौ ज्ञप्तौ च खत- स्त्वमित्यर्थः । अत्र केचित् प्रामाण्यस्य स्वतस्त्वे अनभ्यासदशायां प्रथमोत्पन्नजलादिज्ञाने प्रामाण्यसंशयो न स्यात् , तत्र प्रथमोत्पन्नज्ञानस्य ज्ञातत्वे प्रामाण्यस्यापि ज्ञातत्वात्संशयानुपपत्तिः । प्रथमज्ञानस्याज्ञातत्वे धर्मिज्ञानाभावात्संशयानुपपत्तिस्तदवस्थैवेति न प्रामाण्यस्य स्वतस्त्वं सम्भ- वतीत्याहुः । तच्चिन्त्यम् । प्रामाण्यस्य स्वतस्त्वेऽपि प्रथमोत्पन्नज्ञाने दुष्टकारणजन्यत्वसंशयेन प्रामाण्यसंशयोपपत्तेः । दृश्यते हि रजत एवेदं रजतमिति प्रयोगानन्तरं किमेवं वदसि ? सम्य- विमृश्य पश्येत्यादि विशेषदर्शिनां वाक्यम् । तस्मादवधारणात्मकज्ञानानन्तरमेव संशयानुत्पत्तिः। नहि वयं ज्ञानग्राहकसामथ्या प्रामाण्यमवधार्यत इति ब्रूमः; किन्तु ज्ञायत इत्येव । ततश्चा- नवधारणात्मकज्ञानस्य संशयाविरोधितया न संशयानुपपत्तिः । अवधारणत्वं चावधारयामी- त्यनुव्यवसायसिद्धविषयताविशेष इति न काचिदनुपपत्तिः । किंच प्रामाण्यस्य परतस्त्वमसं- 731 पा. १. अधि. २.] भादृचिन्तामणिसहिता । १३ अत एव वेदैकज्ञाप्येष्टानिष्टसाधनताकत्वे धर्माधर्मत्वे; तथात्वे सति बलव- भवदुक्तिकमपि । तथाहि-समर्थप्रवृत्तिजनकत्वहतुना प्रामाण्यमनुमीयत इति हि परे वदन्ति । नच तत्सम्भवति, प्रथमज्ञानप्रामाण्यानुमापकहेतुज्ञानादिप्रामाण्यस्यापि परतो ग्राह्यतया तत्रापि हेवन्तरापेक्षायामनवस्थापत्तेः।नहि सन्दिग्धप्रामाण्यकहेतुज्ञानादिना प्रथमज्ञानप्रामाण्यं सिद्धयति; अप्रामाण्यज्ञानानास्कन्दितहेवादिज्ञानस्यैवानुमितिजनकत्वात् , प्रामाण्यसंशयस्य प्रामाण्या- प्रामाण्योभयप्रकारकत्वेनाप्रामाण्यज्ञानरूपत्वात् । नचाप्रामाण्यस्य तदभाववति तत्प्रकारकत्वरूप- त्वेन प्रामाण्यसंशयस्य च तद्वतितत्प्रकारकत्वरूपप्रामाण्यतदभावोभयप्रकारकत्वेन पूर्वोक्ता- प्रामाण्याप्रकारकत्वात्प्रामाण्यसंशयकालेऽपि अप्रामाण्यज्ञानानास्कन्दितहेतुज्ञानादिकं भवत्येवेति वाच्यंअप्रामाण्यज्ञानानास्कन्दितेत्यत्र अप्रामाण्यपदेन प्रामाण्याभावस्याप्युपलक्षणीयत्वात् । अन्यथा हेतुज्ञानादौ प्रामाण्याभावज्ञानकालेऽप्यनुमित्यापत्तः । एवं प्रामाण्यस्य अनुमेयत्वेऽनु- मितिप्रामाण्यस्याप्यनुमेयत्वेन तत्रापि अनुमित्यन्तरापत्त्या पूर्ववदनुमित्यनवस्थापत्तिारा । तस्मात् प्रामाण्यस्य स्वतस्त्वमेव युक्तम् । नचैवमप्रामाण्यस्यापि स्वतस्त्वं किं न स्यादिति वाच्यं; तथा सति सर्वेषां ज्ञानानामप्रामाण्यापत्त्या सर्वसिद्धान्तासिद्धिप्रसङ्गन सर्वशास्त्रोल्लङ्घ- नापत्तेरिति प्रामाण्यस्यैव स्वतस्त्वसिद्धिः । ततश्च विधिजन्यज्ञानमेव धर्म प्रमाणमिति धर्मः सप्रमाण एवेत्यर्थः । धर्माधर्मयोर्लक्षणमाह---वेदेति ॥ एकशब्द: केवलार्थकः । ततश्च वेदमात्रजन्यज्ञानविषयीभूतेष्टसाधनताकत्वं धर्मत्वं, तजन्यज्ञानविषयीभूतानिष्टसाधनताक- त्वमधर्मत्वमित्यर्थः । स्वर्गादिसाधनेऽग्निहोत्रादौ, इन्द्रियादिसाधने दध्यादी, वृष्टिसाधने सदो- मानगतनीचैस्त्वे, ब्रह्मवर्चसफलके उपनयनाश्रितपञ्चवर्षरूपे काले च वेदबोध्येष्टसाधनतास- त्वाल्लक्षणसमन्वयः । “अग्निहोत्रं जुहुयात्स्वर्गकामः" इत्यादिविधिभिस्तदिष्टसाधनताबोध- नात् । ननु कलञ्जभक्षणादावनिष्टसाधनताबोधकश्रुत्यभावाद्वेदबोधितानिष्टसाधनताकत्व- रूपाधर्मलक्षणस्याव्याप्तिरिति चेन्न ; वेदप्रयोज्यानुमितिविपयानिष्टसाधनत्वस्य तत्रापि सत्त्वेन लक्षणसमन्वयसम्भवात् । अनुमानप्रकारो हिरण्यकशिसूत्रव्याख्याने विस्तरेण प्रतिपादितोऽ- स्माभिः । वेदैकगम्यस्वर्गनरकयोरतिव्याप्तिवारणाय तादृशेष्टानिष्टसाधनताकत्व इति । अन्नवि- षभक्षणयोरतिव्याप्तिवारणाय वेदैकज्ञाप्येति । तत्त्वं च वेदेतराप्रमितत्वे सति वेदप्रमितत्वम् । अग्नौ समुद्रजलपाने चातिव्याप्तिवारणाय सत्यन्तम् । तयोः “अग्निहिमस्य भेषजं" "समु- द्रस्य न पिबति" इति वचनाभ्यामिष्टानिष्टसाधनत्वबोधनेऽपि लोकेनापि प्रमितत्वात् । वेदेतरप- देन वेदानुपजीविप्रमाणग्रहणात्स्मार्तविधिनिषेधविषययो व्याप्तिः । वदत्वं चापौरुषेयवाक्य- त्वं, न तु मन्त्रब्राह्मणान्यतरत्वम् । अनाम्नातेष्वमन्त्रत्वमित्यत्र कल्पितविधेरुक्तान्यतरत्वाभा- वोक्तेः। अतो “धन्वन्निव प्रपा असि" इति मन्त्रलिङ्गकल्प्तेिन "मरौ प्रपां दद्यात्" इति विधिना बोध्येष्टसाधनताके प्रपादाने नाव्याप्तिः । इष्टसाधनत्वं च तत्तदिष्टनिरूपितासाधारणका- - १४ भाट्टदीपिका [अ. १. % 3B दनिष्टाननुबन्धित्वं वा धर्मलक्षणम् । बलवदनिष्टाननुबन्धित्वे सति यददृष्टद्वारा फल- करणं अदृष्टभिन्नं च स धर्म इति यावत् । वस्तुतो निषिध्यमानत्वमधर्मत्वं, विधी- रणत्वं, तेन जगत्कारणे ब्रह्मणि नातिव्याप्तिः । तस्य साधारणकारणत्वात् । ननु "तरति शोकमात्मवित्" "असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥" इत्यर्थवादकल्पितविधिनिषेधविषययोरात्मज्ञानद्वैतदर्शनयोरतिव्या- प्तिरिति चेन ; तयोरपि लक्ष्यत्वात् । “अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् " "किं तेन न कृतं पापं चोरेणात्मापहारिणा" इति पुराणादिव्यवहारदर्शनात् । नन्वस्य धर्म- लक्षणस्य वैरिमरणसाधनत्वेन विहिते श्येनादौ अतिव्याप्तिरित्यस्वरसादाह-तथात्वे सतीति ॥ वेदबोधितेष्टसाधनताकल्वे सतीत्यर्थः । तथा च वेदबोधितेष्टसाधनताकत्वे सति बलवदनि- ष्टाननुबन्धित्वं धर्मत्वमिति लक्षणार्थः । श्येनादौ वरिहिंसाया वेदबोध्यत्वेऽपि तस्याः क्रत्वङ्गत्वा- भावेन 'न हिंस्यात्' इति निषेधप्रवृत्तेः तजन्यनरकानुबन्धित्वान्नातिव्याप्तिरिति भावः । नन्वे. वमपि अपूर्वेऽतिव्याप्तिः; तस्यापि वेदबोधितेष्टसाधनताकत्वात् । तस्य साक्षादिवोधितेष्टसाध- नताकत्वाभावेऽपि यागकरणत्वान्यथानुपपत्त्या कल्पितत्वेन वेदबोधितेष्टसाधनताकत्वसंभवात् बलवदनिष्टाननुबन्धित्वाच्चेत्यता लक्षणनिष्कर्षमाह - बलवदिति ॥ तथा च बलवदनिष्टान- नुबन्धित्वे सति अदृष्टद्वारा फलकरणत्वे सति अपूर्वभिन्नत्वं धर्मलक्षणमिति पर्यवसितार्थः । अदृष्टस्यादृष्टभिन्नत्वाभावान्नातिव्याप्तिरिति भावः । भोजनादिनिरासायादृष्टद्वारेत्यादि । न चादृष्टस्यादृष्टद्वारा फलकरणत्वाभावादेव वारणसम्भवाददृष्टभिन्नत्वविशेषणवैयर्थ्यमिति वाच्यम् । उत्पत्यपूर्वे परमापूर्वद्वारा फलजनकेऽतिव्याप्तिवारकतया तत्सार्थक्यादिति भावः । ननु किमिदं अनिष्टे बलवत्त्वम् ? न तावत्स्वप्रयोज्येष्टकालाधिककालवृत्तित्वं, यत्र बहुदेवब्राह्मणविरोधिचण्डा- लादिनीचजातीयवैरिमरणोद्देशेन श्येनप्रवृत्तिः तादृशश्येनव्यक्तावतिव्याप्तेः । नाप्युत्कटद्वेषवि- षयत्वं तत् । द्वेषोत्कट्यस्य प्राचीनकर्माधीनत्वेन यस्य प्राचीनाशुभकर्मवशाद्बहुवित्तव्यया. यास एव उत्कटद्वेषः तादृशद्वेषविषयानिष्टानुबन्धिज्योतिष्टोमादाकव्याप्तेः । यस्य श्येन- जन्यनरके नोत्कटद्वेषः तत्कृतश्येनेऽतिव्याप्तेश्च । किञ्चानिष्टानुबन्धित्वस्यानिष्टजनकत्वरूपत्वे श्येनेऽतिव्याप्तिः । अनिष्टप्रयोजकत्वरूपत्वे आधानेऽव्याप्तिरिति अस्वरसादाह-वस्तुत इति ॥ वेदेनेति शेषः । न च नित्यकर्माकरणस्य निषिध्यमानत्वाभावादधर्मत्वं न स्यादिति वाच्यम् । 'विहितस्याननुष्ठानात्' इति पूर्वोक्तनिषेधदर्शनात् , 'न त्याज्यमिति चापरे' इति नि- षिद्धत्वाच्च नाव्याप्तिरित्याशयात् । न च "सर्वधर्मान्परित्यज्य" इति निषेधदर्शनाद्धर्मेऽतिव्या- प्तिरिति वाच्यम् । तस्य नहिनिन्दान्यायेन “मामेकं शरणं व्रज" इति भक्तिविध्यर्थवादत्वात् काम्यकर्मानावश्यकत्वपरत्वाद्वा, सर्वकर्मसु फलानभिसन्धिपरत्वाद्वा, अशक्तस्य ज्योतिष्टोमाधकर- णाभ्यनुज्ञापरत्वाद्वा, "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इति वाक्यशेषे धर्मत्याग- पा. १. अधि. २.] भादृचिन्तामणिसहिता । १५ " " यमानत्वमात्रं धर्मत्वम् । तच्च कृतिव्याप्यकरणेतिकर्तव्यताप्रभृतिषूपादेयतापरपर्याय- प्रेरणारूपविधिविषयताविशेषः । स चास्त्येवाग्नेयप्रयाजद्रव्यदेवतानीचैस्त्वादिषु । नास्ति च फलनिमित्तकर्तृकालादिषु । ‘पञ्चमे ब्रह्मवर्चसकामस्य' इत्यत्र फलाय विधीयमानस्य कालस्य धर्मत्वाभावेऽपि न क्षतिः, तदाश्रयस्योपनयनस्यैव धर्मत्वात् । जन्यपापनिरासकत्वेन भक्तेः कीर्तनात्तदकरणस्यानिष्टसाधनतानाक्षेपकत्वाद्वा अनिष्टसाध- नताक्षेपकविधिविषयत्वस्यैव निपिध्यमानरूपत्वादिति दिक् । विधीयमानत्वमात्रमिति मात्रचा- दृष्टद्वारकत्वादिविशेषणव्यवच्छेदः । यजेतेत्यादी स्वद्देिश्यकयागविधेयकप्रवृत्तेः विधिवि- पयता बुध्यते । तत्रार्थभावनांऽशत्रयेऽपि प्रवृत्तिनिरूपिता, प्रवर्तनानिरूपिता, शाब्दबोधनि- रूपिता च विषयतेति विषयतात्रयमस्ति । ताश्च करणेतिकर्तव्यतयोविधेयतोपादेयताप्रकार- तापदेन व्यवह्रियन्ते । तासु विषयतासु विधेयताप्रकारते फलविधिवाक्यादिषु फलकर्तृकाला- दिष्वपि बुध्यते । न पुनरुपादेयतेति सिद्धान्तस्थितिं सूचयन्नाह-- तच्चेति ॥ विधीयमानत्वं चेत्यर्थः । व्याप्यशब्दो विषयपरः । 'ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्यत्वमिष्यते' इति व्यवहा- रात् । ततश्चैतादृशविषयतारूपं धर्मत्वमिति पर्यवसितार्थः । अस्त्येवेति ॥ "यदाग्नेयोऽ- ष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति" "समिधो यजति" "दना जुहोति" “यदग्नये च प्रजापतये सायं जुहोति" "यदि कामयेत वर्षकः पर्जन्यः स्यादिति नीचेः सदो मिनुयात् " "मन्द्रं प्रायणीयायाम् ' इत्यादिविधिविहितेष्वित्यर्थः । लक्ष्ये लक्षणमुपंपा- द्यालक्ष्ये नास्तीत्याह---नास्ति चेति ॥ “अग्निहोत्रं जुहुयात्स्वर्गकामः” “यद्याहिताग्नेरग्नि- गृहान्दहेत् अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्” “राजा राजसूयेन यजेत' "सायं जुहोति" "प्राचीनप्रवणे वैश्वदेवेन यजेत" इत्यादिविध्युपात्तेष्वित्यर्थः । ननु “पश्चमे ब्रह्म- वर्चसकामस्य" इत्यादिषु कालस्य धर्मत्वं न स्यात् , तस्य कृतिविषयत्वाभावादित्यत आह-- पञ्चम इति ॥ न क्षतिरिति । तथाचेष्टापत्तिरिति भावः । ननु तत्रोपनयीतेति विधि- र्व्यर्थः स्यादित्यत आह—तदाश्रयेति ॥ फलाय विधीयमानगुणाश्रयस्योपनयनस्य धर्मत्वाद्वि- घिसार्थक्यमिति भावः । अनेन इदमपि सूचितं; विहितक्रियात्वं धर्मत्वं, निषिद्धक्रियात्वं चाध- मत्वम् । सिद्धद्रव्यादौ क्रियात्वघटितं धर्मत्वं नास्त्येव । “तानि धर्माणि प्रथमान्यासन्" "धर्म चर" "इज्याचारदमाहिंसादानस्वाध्यायकर्मणां" "अयं तु परमो धर्मः” इत्यादिषु क्रियाखेव धर्मत्वव्यवहारात् । एवं निषेधेष्वपि द्रष्टव्यमिति । बर्हिषि दीयमानस्य रजतस्य नाधर्मत्वम् । क्रियानाविष्टद्रव्येषु धर्माधर्मव्यवहाराभावात् । विहिताकरणेष्वपि नित्यकर्माभाव- समनियततात्कालिकक्रियाया एव भावरूपाया अधर्मत्वमित्येव युक्तम् । यद्यप्येवं सति कालादि- विधीनां धर्मप्रमाजनकत्वं न सम्भवति, तथापि प्राशस्त्यबोधकार्थवादानामिव गुणवाक्यैकवा- क्यतापनप्रधानविधिबोध्यधर्मप्रमितिविपयार्थबोधकत्वेन तदुपपत्तिरिति । ननु श्येने उक्तधर्म- " १६ भाट्टदीपिका [अ. १. " अभिचारार्थमुपादेयस्य श्येनादेस्तु धर्मत्वमिष्टमेव, तामसधर्मत्वेन पुराणादिषु तद्गणनात्। विवाहार्थानृतवदनस्य तु न विधिः । षोडशिग्रहणस्यातिरात्रे तु न निषेधः, तत्रत्य- लिङो दोषाभावक्रतुवैगुण्यानापादकत्वलक्षकत्वेन प्रवर्तनानिवर्तनयोः अबोधात् । बोधे वा शुभाशुभफलाक्षेपकविधिनिषेधविषयत्वे धर्माधर्मत्वे । शुभपदं क्रतूपकारस्व- र्गादिजनकादृष्टसाधारणम् । अशुभपदं दुःखजनकादृष्टक्रतुवैगुण्यसाधारणम् । अभ्य- नुज्ञाविधिविषयस्तु न धर्मो नाप्यधर्मः ॥ लक्षणसत्त्वादतिव्याप्तिरित्याशङ्कयेष्टापत्त्या समाधत्ते---- अभिचारेति ॥ तामसेति ॥ "परस्यो- सादनार्थं यत्तत्तामसमुदाहृतम्" इति वचनादिति भावः। न च "प्रातः प्रातरनृतं ते वदन्ति" इति अनुदिते होमनिन्दावन्नहिनिन्दान्यायेनार्थवादमात्रमेतदिति युक्तम् । प्रकृते त्रिविधकर्मो- पदेशोपक्रमविरोधेन स्तुत्यर्थत्वायोगात् । तथा श्येनस्याधर्मत्वमपि "अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु" इति निषेधात् । अत एव तामसत्वकथनेनापि निषेधोन्नयनमस्तीति गीताभाष्ये “आहारस्त्वपि सर्वस्य" इत्यत्रोक्तम् । ननु विवाहार्थानृतवचने धर्मत्वं न स्यात् , "नानृतं वदेत्" इति निषेधादित्यत आह---विवाहति ॥ न विधिरिति ॥ तथा चेष्टापत्तिरिति भावः। “पश्चानृतान्याहुरपातकानि" इति श्रीमहाभारते अपातकानीत्युक्त्या दोषा- भावप्रतिपादनेऽपि धर्मत्वाकथनादिति भावः । नन्वेवं "नातिराने षोडशिनं गृह्णाति" इति निषेधेन षोडशिग्रहणस्याधर्मत्वं स्यादित्यत आह---षोडशिग्रहणस्येति ॥ न निषेध इति ॥ तथा च निषेधाविषयत्वाद्धर्मत्वमेवेति भावः ॥ दोषाभावेति ॥ "देवान्पितॄन् समभ्य- धैं खादन्मांसं न दोषभाक्" इतिवद्विवाहार्थानृतवदने दोषाभावलक्षकत्वं षोडशिग्रहणा- भावे क्रतुवैगुण्यानापादकत्वलक्षकत्वमेव तत्तद्वाक्ययोरिति भावः । ननु लक्षणैव दोष इत्य- स्वरसादाह-बोधे वेति ॥ शुभेति ॥ शुभफलाक्षेपकविधिविषयत्वं धर्मत्वं, अशुभफलाक्षे- पकनिषेधविषयत्वमधर्मत्वमित्यर्थः । शुभपदार्थं दर्शयति —शुभपदमिति ॥ क्रतूपकारेति ॥ प्रयाजादिसंग्रहाय ॥ दुःखजनकेति ॥ सर्वधर्मपरित्यागव्यावृत्तये ॥ क्रतुवैगुण्येति ॥ षोड- शिग्रहणनिषेधनिरासाय ॥ अभ्यनुज्ञाविधिविषयस्त्विति । विवाहार्थानृतवदनादीत्यर्थः । न धर्मो नाप्यधर्म इति ॥ अत्र वदन्ति । विवाहार्थानृतवदनेऽपि नानृतं वदेदिति निषेध- प्रवृत्त्या पापलेशोऽस्त्येव, लोकप्रवृत्तिस्तु विवाहार्थानृतजन्यपापापेक्षयाभ्युदयस्य विवाहजन्यस्या- धिक्यं परिकल्प्योपपादनीया । अतः अपातकानीत्यादिनोऽल्पार्थकत्वमेव । नन्वेवं यागी- यपशुहिंसाया अप्यल्पपापजनकत्वापत्या सांख्यमतप्रवेशापत्तिरिति चेन्न । रागप्राप्तहिंसाया एव न हिंस्यादिति निषेधविषयत्वेन क्रत्वङ्गपश्वालम्भे निषेधाप्रवृत्तेः; तत्राल्पपापाङ्गीकारे माना- भावात् । अनृतवदनस्य विवाहाङ्गत्वाभावेन रागतः प्रवृत्तरेव वक्तव्यतया निषेधप्रवृत्त्या- ल्पंपांपाङ्गीकारसम्भवात् । निरूपितं चैतदुत्तरमीमांसायां "अशुद्भमिति चेन्न शब्दात्" इति पा. १. अधि. २.] भादृचिन्तामणिसहिता। १७ अत एव पूर्वसूत्रे धर्मपदेन यावत्षोडशलक्षणीगतविचारविषयो लक्ष्यते । अपौरुषेयवाक्यतात्पर्यविषयीभूतवाक्यान्वियित्वस्य लक्ष्यतावच्छेदकत्वात् । सगुण- निर्गुणोपासनाविधिशेषत्वादिना क्रतुविध्यपेक्षितसंसार्यात्मस्वरूपवदेव ब्रह्मणोऽपीह वि- चार्यत्वमिष्टमेव । लक्ष्यतावच्छेदककोटिनिविष्टवाक्यार्थे संसर्गात्मकत्वं वा विशेष- णीयम् ॥ २॥ केचित् । अन्ये त्वभ्यनुज्ञाविधिविषयो धर्म एव, नाधर्मः, तस्य पापजनकत्वाभावात् । न चाल्पपापजनकत्वमित्युक्तमिति वाच्यं; श्रीमहाभारते सत्यानृतव्यवस्थाप्रकरणे केषाश्चित्सल्या- नामनृतत्वं, केषाञ्चिदनृतानां सत्यत्वमिति व्यवस्थादर्शनेन तत्प्रकरणपठितविवाहानृतवदनस्य सत्यत्वातिदेशेन अतिदेशस्य फलाकाङ्क्षायां स्वर्गादिफलकत्वस्यैव कल्पयितुं युक्तत्वेन पापज- नकत्वासम्भवात् । किञ्च शास्त्रे धर्माधर्मों द्वावेव प्रतिपाद्यौ, न हि तदुभयविलक्षणं वेदप्र- सिद्धं किञ्चित्कर्मास्ति । तस्माद्वेदार्थे उभयविलक्षणं किञ्चिद्वक्तुमनुचितमिति न धर्मो नाप्य- धर्म इति प्रौढिवादमात्रमित्याहुः ॥ अत एवेति ॥ धर्माधर्मयोरिव साधनतदाभासादेरपि अत्रैव विचार्यत्वात्तत्सङ्ग्रहायावश्यं धर्मपदस्य लाक्षणिकत्वावश्यकतया उभयभिन्नस्यापि तत एव प्रतिज्ञासूत्रे सङ्ग्रह इत्यर्थः । तत्र सर्वसाधारणं लक्ष्यतावच्छेदकमाह-अपौरुषेयेति ॥ अपौरुषेयवाक्यस्य वेदवाक्यस्य तात्पर्यविषयभूतो यो वाक्यार्थः धर्मस्वरूपं तत्प्रमाणतदा- भासौ च तद्भिन्नं वेदान्तप्रतिपाद्यं ब्रह्म च तदन्वयित्वं सर्वेषामिति तत्सर्वं विचार्यमित्यर्थः ॥ सगुणेति ॥ उपकोसलादिविद्याः सगुणोपासनाः । 'अथ परा यया तदक्षरमधिगम्यते' इत्यादिना मुण्डके विहिता निर्गुणोपासनाः ॥ संसारीति । 'अविनाशी वारेऽयमात्मा' इत्यादिना नित्यत्वादिधर्मकात्मसद्भावकथनस्य क्रतुविधिशेषत्वाद्विचार्यत्वमित्यर्थः ॥ इष्टमेवेति ॥ तथा च विंशतिलक्षणमेकं शास्त्रम् । अत एव भगवानुपवर्षः अस्मिन्नेव पादे 'आत्मास्तित्वं शारीरके वक्ष्यामः' इत्याह । 'एक आत्मनः शरीरे भावात् ' इत्युत्तरमीमांसाधिकरणे भगवद्भाष्यकारै- रप्याशङ्कितं शास्त्रमुखत एव तर्कपादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्ति- त्वमुक्तमिति । तदिदमैकतन्त्र्यं वृत्तिकारपक्षाभिप्रायेणोक्तम् । अनुबन्धचतुष्कभेदात् श्रीमद्भा- ध्यकारपक्षाभिप्रायेण भिन्नतन्त्रत्वपक्षे ब्रह्मविचारस्य नैतत्तन्त्रप्रतिपाद्यत्वमिति तयावर्तनाय लक्ष्यतावच्छेदकं विशिनष्टि--लक्ष्यतावच्छेदकेति ॥ संसर्गेति ॥ उक्तलक्ष्यतावच्छेदक- घटकवाक्यार्थः संसर्गरूपो विवक्षित इत्यर्थः । उपनिषत्तात्पर्यविषयवाक्यार्थस्याखण्डत्वात्सं- सर्गात्मकत्वं नास्तीति नात्र विचार्यत्वमित्यर्थः । 'संसर्गसङ्गिसम्यग्धीहेतुता या गिरामियम्। उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥' इति पूर्वाचार्योक्तेरिति भावः । तथा च चोदना धर्मे प्रमाणमिति सिद्धम् । सूत्रं तु स्पष्टम् । अत्र 'को धर्मः, कथंलक्षणकः' इति भाष्यानु- साराद्धर्मप्रमाणनिरूपणमेवाध्यायार्थः । चोदनाप्रामाण्यनिरूपणं प्रथमपादार्थ इति बोध्यम् ॥ THE KUPPUSWAMI SASTO भादीपिका [अ. १. (३)-तस्य निमित्तपरीष्टिः॥ ३॥ सत्संप्रयोगे पुरुषस्येन्द्रि- याणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ॥ ४ ॥ साङ्खयमते वृत्तिविशेषरूपौ धर्माधौं । तार्किकमते तु अदृष्टरूपौ । अतस्तयो- श्वाक्षुषाद्यविषयत्वेऽपि अस्मन्मते दध्यादिद्रव्यगुणक्रियारूपत्वेन अलौकिकत्वाभावेन सम्भवति प्रत्यक्षादिप्रमाणविषयत्वमिति प्राप्ते-न तावद्दध्यादीनां स्वरूपेण धर्मत्वम् । तस्य निमित्तपरीष्टिः॥ तस्य--धर्मस्य, निमित्तपरीष्टि:-परीक्षा कर्तव्येत्यस्य मण्डू- कप्लुत्या लिङ्गविपरिणामेनानुवृत्त्या धर्मप्रमाणविचारः कर्तव्य इति प्रतिज्ञान्तरपरं सूत्रम् । अस्या- धिकरणान्तरत्वेन भाष्यादौ वर्णनेऽपि धर्मो न परीक्षणीय इति पूर्वपक्षस्योत्थाने युक्त्यभावान्ना- धिकरणान्तरत्वमित्यभिप्रायेण उत्तराधिकरणसूत्रमाह-सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धि- जन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ॥ पूर्वत्र चोदनैव धर्म प्रमाणं धर्मे चोदना प्रमाणमेवेति द्वौ नियमौ आकरोक्तौ । तयोरायः प्रदर्श्यते । नन्वाद्यनियमोऽनुपपन्नः, चोदनातिार- क्तप्रत्यक्षानुमानादेरपि धर्मप्रमाणत्वसम्भवादित्याक्षेप्तुं तन्त्रान्तरसिद्धं धर्मस्वरूपं दर्शयति- साथमत इति ॥ महत्तत्वांशभूताया बुद्धेरनेकविधवृत्तिशीलाया निश्चयात्मकवृत्तिमत्त्वमसाधा- रणलक्षणं अध्यवसायो बुद्धिः' इति साङ्ख्यसूत्रेण द्वितीयाध्यायस्थेनोक्त्वा 'तत्कार्य धर्मादि' इति तदुत्तरसूत्रेण धर्मज्ञानवैराग्यैश्वर्याणि विहितकर्मानुष्ठानजन्यानि सत्त्वगुणोपरक्ताया बुद्धेवृत्तिवि- शेषा इत्युक्त्वा 'महदुपरागाद्विपरीतम्' इति तदुत्तरसूत्रे तमोगुणोपरागादधर्माज्ञानावैराग्यानैश्वर्या- ज्यपि तद्धर्मावित्युक्तमित्यभिप्रायः। 'धर्मः क्षरति कीर्तनात्' इत्यादिशास्वधर्मस्य कीर्तनादिनाश्य- त्वप्रतीतेः तदनुसारेणाह-तार्किकेति ॥ तयोर्मतयोवृत्तिविशेषादृष्टरूपयोधर्माधर्मरूपयोर्वा ॥ चाक्षुषाद्यविषयत्वेऽपीति ॥ मतद्वयेऽपि धर्माधर्मयोरतीन्द्रियतया चक्षुरादिप्रमाणाप्रवृत्तेरिति भावः ॥ अस्मन्मते-मीमांसकमते ॥ दध्यादीति॥ आदिना ब्रीह्याज्यपयःप्रभृतीनां परिग्रहः । गुणः-आरुण्यादिः । अलौकिकत्वाभावेन-लोकप्रसिद्धत्वेनेत्यर्थः । तथा च प्रत्यक्षादीनामपि धर्मप्रमाणत्वसम्भवाचोदनैव धर्म प्रमाणमित्ययुक्तमिति पूर्वपक्ष इत्यर्थः । दध्यादीनां यदि लोकसिद्धदधित्वादिरूपेण धर्मत्वं स्यात्तदा तस्य प्रत्यक्षादिविषयत्वं स्यात् । न त्वेदस्ति । क्रयविक्रयभोजनाधुपयुक्तदध्यादौ धर्मशब्दप्रयोगादर्शनात् । किन्तु खर्गेन्द्रियादिकारणता- बच्छेदकाधेयशक्तिमत्त्वेन । सा च शक्तिर्दोहनातञ्चनप्रोक्षणादिसंस्कारैर्मन्त्रकरणकैरुत्पद्यत इति तादृशशक्तिविशिष्टत्वेनैव धर्मत्वं वक्तव्यम् । ततश्च तद्विशिष्टद्रव्यादेश्चक्षुराधगम्यत्वान्न चोदनातिरिक्तप्रमाणगम्यत्वं धर्मस्येत्यभिप्रायेण सिद्धान्तमाह-न तावदिति ॥ ननु शक्ति- विशिष्टदध्यादेर्धर्मपदार्थत्वं न सम्भवति; आकृत्यधिकरणन्यायेन विशेषणीभूतशक्तिरूपादृष्ट एव शक्तिसिद्धरिति चेन्न; आश्रयव्यक्तिभेदेन शक्तीनामानन्त्येन जातिन्यायेन लाघवाभावेन पा. १. अधि. ३.] भादृचिन्तामणिसहिता। १९ वाच्यम्; अपि तु फलजनकतावच्छेदकशक्तिमत्त्वेन । तादृशं च रूपं प्रत्यक्षाद्ययोग्यमेव, प्रत्यक्ष- स्येन्द्रियसन्निकृष्टवर्तमानार्थविषयकत्वनियमात् । अत एव–नानुमानादीनामपि तत्र प्रवृत्तिः; तेषां प्रत्यक्षपूर्वकत्वात् । नापि योगिनां प्रत्यक्षे तौ विषयौ, तेषामनङ्गीकारात् । एतेन ईश्वरप्रत्यक्षमपि व्याख्यातम् । इन्द्रियार्थसन्निकर्षाजन्यत्वेन भगवत्प्रमितेरलौ- क्रियासमर्थद्रव्यस्यैव फलकरणत्वस्य तृतीयादिश्रुत्युपात्तस्य युक्तत्वात् , विशिष्टस्य शब्दार्थ- त्वादिति भावः । न च सूत्रे धर्मपदस्य पुंलिङ्गनिर्देशेन अपूर्वपरत्वमेव, अर्धर्चगणपठितस्य तस्योभयलिङ्गत्वेऽपि अपूर्वे वाच्ये पुंस्त्वं, तत्साधने नपुंसकत्वमिति व्यवस्थायाः शाब्दिकोक्त- त्वादिति 'धर्मः श्रुतो वा दृष्टो वा' 'अयं तु परमो धर्मः' 'छिन्द्यादसूनपि ततो विसृजेत्स धर्मः' इति बहुतरप्रयोगाणां अपूर्वसाधने दर्शनेन व्यवस्थाकथनस्य प्रौढिवादमात्र- त्वादिति दिक् । तार्किकैः श्रुतित्वेन व्यवह्रियमाणं 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना' इति वार्तिकमर्थतोऽनुवदति--प्रत्यक्षस्येति॥प्रत्यक्षस्य-प्रत्यक्षप्रमितेः, इन्द्रियसन्निकृष्टः- इन्द्रियसंयोगादिमान् , वर्तमानः-वर्तमानकालसम्बन्धी, ज्ञानोत्पत्तिकालवृत्तिरिति यावत् । स विषयो यस्येति तादृशविषयग्राहकत्वनियमादित्यर्थः। तथा च प्रत्यक्षस्यादृष्टदध्यादावप्रवृत्तेर्न धर्माधर्मयोः प्रत्यक्षग्राह्यत्वमिति भावः।। अत एव-प्रत्यक्षाप्रवृत्तेरेव ॥ नानुमानादीनामिति ॥ अनुमानस्य व्याप्तिप्रत्यक्षादिसापेक्षतया प्रत्यक्षाप्रवृत्तौ तन्मूलकमनुमानमपि न प्रवर्तत इत्यर्थः। न चानुमानान्तरेण व्याप्तिग्रहसम्भव इति वाच्यम् ; अनवस्थापत्तरिति भावः । ननु लौकि- कप्रत्यक्षाप्रवृत्तावपि अतीन्द्रियसकलपदार्थविषयकप्रत्यक्षजनकयोगजधर्मसहकृतमनसां योगिनां प्रत्यक्षं प्रमाणमस्त्वित्यत आह---नापीति ॥ तेषां- योगिनाम् । तथा च तदपि न प्रमाणमि- त्यर्थः । न च पुराणादिप्रसिद्धानां योगिनां कथमनङ्गीकार इति वाच्यम् ; तेषामर्थवादत्वेन विधेयार्थस्तुतिमात्रतात्पर्यकतया न तद्वशेन योगिसिद्धिरिति भावः । एतेन-योगिप्रत्यक्षनि- राकरणेन । व्याख्यातमिति ॥ धर्माधर्मयोः प्रमाणत्वेन वक्तुमशक्यमित्यर्थः । अत्रेदं बोध्यम् । पुराणानामर्थवादत्वेऽपि स्वशक्यार्थबोधकत्वस्यावर्जनीयतया योगिनां सिद्धिरव्याहतैव । तेषां खार्थप्रामाण्याभावे अगस्त्य-वसिष्ठ-विश्वामित्र-व्यासप्रभृतीनां समुद्रपान-ब्रह्मास्त्रग्रसन-त्रिश- कुखर्गसृष्टि-भारतयुद्धहतपुनरागमनाद्यत्यन्ताशक्यार्थानुष्ठानस्यासिद्धिप्रसङ्गात् । किश्च, अर्थवा- दानां खार्थे प्रामाण्याभावे घृतेन शर्कराणामञ्जनं, उच्चैस्त्वादीनां वेदधर्मत्वं, अश्वप्रतिग्रहेष्टेः दातृकर्तृकत्वमित्याद्यनेकसिद्धान्तासिद्धिप्रसङ्गः । तस्माद्योगिनामङ्गीकार आवश्यकः । तत्सर्वज्ञत्वमवश्याभ्युपेयमेव । तस्यापि पुराणादिसिद्धत्वात् । एवं 'द्यावाभूमी जनयन्देव एकः' 'विश्वस्य कर्ता भुवनस्य गोप्ता' इत्यादिश्रुतिभिः, 'ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इत्यादि- स्मृतिभिः, 'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुः :खयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेवं वा ॥' इत्यादिपुराणवचनैः, क्षिल्यादिकं सकर्तृकमित्याधनुमानैश्च ईश्वराङ्गीकार आवश्यकः ।
२० भाट्टदीपिका [अ. १. । किकत्वाद्वा । तस्माच्चोदनैव धर्माधर्मयोः प्रमाणं, नान्यत् ॥ ३॥ (४)-औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुप- देशोऽन्यतिरेकश्वार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ॥५॥ देहान्तरकभोग्यफलकानां अग्निहोत्रादीनां करणत्वोपपादकस्यापूर्वस्य कल्पनेऽपि न चैतदनुमानस्य शरीराजन्यत्वादिप्रतिहेतुना सत्प्रतिपक्षितत्वं शङ्कयम् । प्रतिहेतोरप्रयोजक- त्वात् , कार्यत्वहेतोः कार्यकारणभावरूपानुकूलतर्कसाचिव्यस्य पूर्वनिबन्धनेषु स्पष्टत्वात् । तस्मान्मूलोक्तं प्रौढिवादमात्रमिति । वस्तुतस्तु मूलस्य प्रकारान्तरेण व्याख्यानानैतद्दो- षावकाशः । तथा हि- तेषामित्यस्य प्रत्यक्षस्यति शेषः । अनङ्गीकारादित्यस्य धर्माधर्मप्रमा- णस्येत्यादिः । तथा च योगिनां प्रत्यक्षस्य धर्माधर्मप्रामाण्यासम्भवादिति पर्यवसितार्थः । अयं भावः । योगिप्रत्यक्षेण न कोऽप्यर्थसिध्यति, प्रमाणान्तरसिद्धार्थदर्शित्वात्तेषाम् । इतरथा शश- शृङ्गादीनामपि सिद्धयापत्तेः। किञ्च योगिप्रत्यक्षेणापूर्वपदार्थसिद्धयङ्गीकारे सर्वतन्त्रेषु सर्वप्रमाण- सिद्धपदार्थानां तेनैव सिद्रिसम्भवादितरप्रमाणनिरूपणं श्रीमदक्षपादप्रभृतीनां निरर्थकमापयेत । तस्मात् धर्माधर्मयोः न तत्प्रमाणमिति । एतेन-योगिप्रत्यक्षस्य धर्माधर्मप्रमाणत्वाभावेन ॥ व्याख्यातमिति ॥ उक्तयुक्त्येति भावः । ननु सूत्रे लौकिकप्रत्यक्षस्यैव धर्माधर्मप्रमाणत्व- निराकरणेन अलौकिकप्रत्यक्षनिराकरणं सूत्रकाराननुमतमित्यतस्तथैवाह-इन्द्रियार्थेति ॥ भगवत्प्रमितेरिति । योगिप्रत्यक्षस्याप्युपलक्षणम् । तथा च लौकिकप्रमाणगम्यत्वाभावोऽक्षत एवेति भावः। उपसंहरति-तस्मादिति ॥ अत्रोत्तरोत्तरसूत्राणां पूर्वपूर्वार्थसाधनपरत्वेन सङ्गति- संशयादयः स्पष्टाः । सूत्रार्थस्तु इन्द्रियाणां सत्सम्प्रयोगे विषयसन्निकर्षे सति यत् पुरुषस्य बुद्धिजन्म प्रत्यक्षस्योत्पत्तिर्भवति, तत्प्रत्यक्षं धर्मस्यानिमित्तं खरूपनिश्चायकं न भवति । कुतः विद्यमानमात्रग्राहित्वात् । अनुमानादेरप्युपलक्षणमेतत् । तथा गौतमोऽपि 'इन्द्रियार्थ- सन्निकर्षोत्पन्नम्' इत्यादिनेदमेव लक्षणमाह ॥ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्वार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । अनेन सूत्रेण पूर्वप्रतिपादितद्वितीयनियमं साधयितुं चोदनाप्रामाण्यमाक्षिप्य समाधीयते । न तावच्चोदनानां प्रामाण्यं सम्भवति ; अग्निहोत्रादीनां प्रत्यक्षतः स्वर्गजनकत्वादर्शनात् । न चाग्निहोत्रादीनामामुष्मिकफलकत्वमेव, कर्मणामाशुतर- विनाशित्वेऽपि व्यापारस्यापूर्वस्य साधयिष्यमाणत्वेन करणत्वोपपत्तिरिति वाच्यम् ; आमुष्मिकफ- लानां तत्सम्भवेऽपि चित्रेष्टयादीनां दृष्टफलानामपूर्वानङ्गीकारेण साक्षादेव कारणताया वक्तव्यतया, यत्र चित्रेष्टयनन्तरं पशुलाभो नास्ति तत्र व्यभिचारेण इष्टेः कारणत्वासम्भवादित्याह-देहा- ।
पा. १. अधि. ४.] भादृचिन्तामणिसहिता । २१ पश्वादिदृष्टैकफलकानां चित्रादीनां घटजनकदण्डादीनामिव व्यापारत्वेन अपूर्वकल्पना- भावाद्यत्र चित्रेष्टयव्यवहितोत्तरक्षणे पश्वलाभः तत्र प्रबलप्रत्यक्षविसंवादेन चित्रेष्टिनि- ष्ठकारणतायाः व्यभिचारित्वेन तद्विधेरप्रामाण्यम् । न चौषधपानादेरिव कालान्तरभावि- फलजनकत्वान्न दोष इति वाच्यम् ; फले कालान्तरसम्बन्धस्य चित्राविधिप्रामाण्यसि- द्धयुत्तरकालिकत्वेन अन्योन्याश्रयात् । एवं ‘स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकमेति' इत्यनेन सशरीरस्वर्गप्राप्तिकथनमपि प्रत्यक्षविरोधादप्रमाणम् । ततश्च 'तत्सामान्यादितरेषु तथात्वम्' इति न्यायेन सर्वासां चोदनानामप्रामाण्यमिति प्राप्ते-यज्ञायुधशब्दस्य यज्ञात्मकसाधनपरतया शरीरपरत्वाभावेन यज्ञरूपसाधनसद्भा- वात् स्वर्ग प्राप्नोतीत्यर्थकेन वाक्येनापूर्वसहितात्मनः परलोकप्राप्त्यनुवादान्नाप्रामाण्यम् । चित्रेष्टयादेस्तु उत्तराङ्गसाचिव्योपपत्तयेऽपूर्वकल्पनावश्यम्भावादव्यवहितकालकालान्त- न्तरति ॥ चित्रादीनामिति ॥ 'चित्रया यजेत पशुकामः' इत्यादिविधिविहितानामित्यर्थः । आदिना 'वृष्टिकामः कारीर्या यजेत' इत्यादिसङ्ग्रहः । न च तत्र फलमुत्पद्यत एवेति वाच्यम् ; प्रत्यक्षप्रमाणेनेष्टयनन्तरं फलाभावस्य निश्चितत्वादिति भावः। प्रत्यक्षविसंवादेन-प्रत्यक्षविरोधेन । नन्वौषधपानेन कालान्तरारोग्यदर्शनात्तन्न्यायेन अत्रापि कालान्तरपशुलाभेऽपि न कारणत्वहा- निरिति शङ्कते-न चेति ॥ परिहरति-फल इति ॥ चित्राविधेः प्रामाण्यसिद्धौ कालान्तरे फलसिद्धिः । फलसिद्धौ प्रामाण्यसिद्धिरित्यन्योन्याश्रयादित्यर्थः । नन्वग्निहोत्रादिस्थले श्रुतकर- णत्वान्यथानुपपत्या अपूर्वकल्पनवदत्राप्यपूर्वकल्पनान्न व्यभिचार इत्यस्वरसादाह-एवमिति॥ यज्ञायुधीति ॥ यज्ञायुधं यज्ञसाधनं शरीरमस्यास्तीति यज्ञायुधी-यजमानः॥ सशरीरेति ॥ तथा च अनेन वचनेन यजमानस्य सशरीरस्वर्गप्रतिपादनेन तस्य प्रत्यक्षविरुद्धत्वेनाप्रामाण्यमेवे- त्यर्थः । ननु प्रत्यक्षविरोधस्थले प्रामाण्याभावेऽपि प्रत्यक्षाविरुद्धानां चोदनानां प्रामाण्यं किं न स्यादित्यत आह-तत्सामान्यादिति ॥ तत्र सामान्यतोदृष्टानुमानादित्यर्थः । अग्निहोत्रा- दिचोदना न प्रमाणं वेदत्वाच्चित्रादिवाक्यवदित्यनुमानादिति भावः । तथाचाशेषचोदनाना- मप्रामाण्यात् चोदनानामप्रामाण्यमेवेति पूर्वोक्तद्वितीयनियमोऽसिद्ध इति पूर्वपक्षः फलितः । यज्ञायुधवाक्ये प्रत्यक्षविरोधं परिहरति-यज्ञायुधशब्दस्येति ॥ यज्ञश्वासावायुधश्चेति कर्मधारय एव ; न तत्पुरुषः । निषादस्थपतिन्यायात् । ततश्च यज्ञरूपसाधनवान्यजमानः अपूर्वद्वारा स्वर्ग प्राप्नोति इत्यर्थाङ्गीकारेण सशरीरपरत्वाभावान्न प्रत्यक्षविरोध इत्यर्थः । न च 'न कर्मधारयान्मत्वर्थीयः' इति निषेधान्न कर्मधारय इति वाच्यम् ; तस्यानित्यत्वात् । अत एव 'कृष्णसर्पवान् वल्मीकः' इति महाभाष्यमपि तद्गमकमित्याशयात् । चित्रेष्टयादौ व्यभिचारं निरस्यति-चित्रेष्टयादेरिति । तत्रापूर्वकल्पनावश्यकत्वमाह-उत्तराङ्गेति ॥ साङ्ग- प्रधानेनैव फलसिद्धरुत्तराङ्गसाहित्यसिद्धयर्थं प्रधानापूर्वमावश्यकमिति तत्राप्यपूर्वद्वारा कालान्तरे ।
२२ भाट्टदीपिका [अ. १. रयोरन्यतरस्यापि न कार्यतावच्छेदककोटिप्रवेश इति न दोषः । न चान्योन्याश्रयः । अप्रामाण्यकारणाभावादेव स्वतः प्रमाणत्वात् । न च पदपदार्थसम्बन्धस्य पुरुषाधी- नत्वेन तज्ज्ञानसापेक्षस्य वेदवाक्यार्थज्ञानस्य प्रमात्वनियमो न सम्भवतीति वाच्यम् ; सम्बन्धस्याप्यनादित्वेन पौरुषेयत्वाभावात् । तस्य च स्वरूपसतो न वाक्यार्थज्ञानकार- णता, अपि तु ज्ञातस्यैवेति तदवगमाय व्याकरणादेवि क्वचिदाप्तपुरुषस्याप्युपयोग इति फलसम्भवान्न व्यभिचार इत्यर्थः । नन्वव्यवहितोत्तरजायमानस्यैव कार्यत्वात् कथं कालान्तरीयफलमादाय व्यभिचारपरिहारः इत्यत आह-अव्यवहितेति ॥ न हि चित्रेष्टयादि- दृष्टफलस्थले अव्यवहितफलं प्रति कारणत्वं श्रुत्या बोध्यते । किन्तु व्यवहिताव्यहितसाधार- ण्येन फलजनकत्वमात्रम् । ततश्च चित्रेष्टयादीनां अपूर्वद्वारा फलजनकत्वसम्भवान्नोक्तदोष इत्यर्थः । अन्योन्याश्रयं निरस्यति--न चेति ॥ अप्रामाण्यकारणाभावादिति ॥ वेदस्य पुरुषदोषसंस्पर्शाभावेन स्वतः प्रमाणतया तत्प्रामाण्यस्य फलसिद्भयनधीनत्वेन नान्योन्याश्रय इति भावः । अयमाशयः । अप्रामाण्यमधिगतार्थबोधकत्वेन वा, बाधितार्थबोधकत्वेन वा ? नाधः, धर्मे प्रत्यक्षादीनामप्रवृत्तेः। अर्थवादानामपि तात्पर्य विषयार्थस्यानधिगतत्वात् । नान्त्यः, स्वर्गादिजननस्यापूर्वद्वारा पश्वादरैहिकामुष्मिकसाधारणतया कालान्तरेऽपि जननसम्भवात् । कचित् फलानुत्पत्तेः अङ्गवैगुण्येन कर्मानन्तरोत्पन्नप्रतिबन्धेन वा सम्भवादिति । ततश्चापौरुषे- यवाक्ये पुरुषदोषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवादीनां असम्भवेन प्रामाण्यसिद्धिरिति भावः । ननु पदपदार्थसम्बन्धस्य शक्तिलक्षणादेः पुरुषकल्पितत्वात् , पुरुषस्य च भ्रमप्रमादा- दिदोषसम्भवान्न चोदनाजन्यज्ञानस्य प्रमात्वसम्भव इति न चोदनाप्रामाण्यसिद्धिरिति शङ्कते- न चेति।। पुरुषाधीनत्वेन-पुरुषकल्पितत्वेन । तज्ज्ञानसापेक्षस्य-पुरुषकल्पितसम्बन्धज्ञानापे- क्षस्य । हेतुगर्भ विशेषणमिदम् । प्रमात्वनियमः वेदजन्यं ज्ञानं सर्व प्रमैवेति नियमः । पुरुषबुद्धिपूर्वकत्वेन भ्रमत्वस्यापि सम्भवादित्यर्थः । सम्बन्धस्यापीति ॥ अपिशब्देन शब्दार्थ- योनित्यत्वं सूचितम् । शब्दानां नित्यत्वेन अर्थानामपि गोत्वाद्याकृतीनां नित्यत्वात् सम्बन्धस्यापि नित्यत्वम् । तत्राभिधायाः सम्बन्धत्वपक्षे लाघवेन तस्याः धर्मिग्राहकप्रमाणेन नित्यत्वसिद्धिः। ईश्वरेच्छारूपत्वे सुतरां नित्यत्वसिद्भिरिति भावः । न च शब्दार्थसम्बन्धानां नित्यत्वेन पुरुषदोषसम्बन्धाभावेऽपि व्यवहारादिना शक्तिग्रहदशायां पुरुषदोषसम्बन्धप्रसक्तिरस्तीति वाच्यम् ; व्यवहारादिना शक्तिग्रहस्य शाब्दबोधोपयोगेन शक्तिज्ञानस्य शाब्दबोधस्य च स्वतः प्रामाण्यसिद्धथापवादाभावेनाप्रामाण्यस्य परतस्त्वेन च वेदार्थज्ञानस्य प्रामाण्योपपत्तेरिति भावः। उक्तमेव प्रामाण्यमुपपादयति-तस्येति । सम्बन्धस्येत्यर्थः। स्वरूपसतःज्ञाननिरपेक्षस्य ॥ न वाक्यार्थज्ञानकारणतेति ॥ अगृहीतशक्तिकपदेन वाक्यार्थबोधाजननादित्यर्थः । ज्ञातस्यैव कारणतेत्यन्वयः । तदवगमाय-सम्बन्धज्ञानाय । व्याकरणादेरित्यादिना कोशादिपरिग्रहः ।।
पा. १. अधि. ४.] भादृचिन्तामणिसहिता। २३ न तावन्मात्रेण सर्वत्रानाश्वासो युक्तः । तस्माच्चोदना प्रमाणमेव । एतत्साधनायैव हि मूले—निरालम्बनवादमाहायानिकवादयोर्निरासौ, अनुमा- नशब्दोपमानार्थापत्त्यभावप्रमाणानां सपरिकरं निरूपणम् , स्वरूपनिरूपणाय स्फोटनि- रासः, नित्याकृतिसाधनम् , अपोहनिरासः, वनवादात्मवादौ चेत्यादिकं निरूपितम् ॥४॥ , क्वचिदिति ॥ आप्तपुरुषस्यापि सम्बन्धग्रहे कथकत्वेनैवोपयोगः न तु कल्पकत्वेनेत्यर्थः ॥न तावन्मात्रेणेति ॥ कचिदाप्तपुरुषस्य शक्तिग्रहोपयोगमात्रेण सर्वत्र-वेदे अनाश्वासः-अप्रामाण्य- निश्चयो न युक्त इति । पदपदार्थसम्बन्धानां नित्यत्वेन तत्र पुरुषसम्बन्धाभावेन तज्ज्ञानप्रामा- ण्यस्य स्वतस्त्वेनाप्रामाण्यकारणाभावेन चोदना धर्मे प्रमाणमेवेत्यधिकरणसिद्धान्तमुपसंहरति- चोदना प्रमाणमेवेति ।। अनेन द्वितीयनियमः सिद्ध इति द्रष्टव्यम् । मूले-भाष्यवार्तिकयोः।। निरालम्बनेति ॥ आलम्बनं-विषयः । स नास्ति ज्ञानानामिति निरालम्बनानि ज्ञानानि तेषां वादः । तथा स्वप्नज्ञानान्यसद्विषयकाणि स्वशिरश्छेदनादीनामसत्त्वात् । दृष्टान्तेन जागरज्ञानान्यपि तथैवेति बाह्यः पदार्थः कोऽपि नास्तीति निरालम्बनवादः । माहायानिकवा- दस्तु, बाह्यपदार्थास्सन्त्येव, परं तु ते ज्ञानस्यैवाकारभेदाः विचित्राः, ज्ञानाकारातिरिक्ताया विषयताया दुर्वचत्वादिति । तदुभयमप्ययुक्तम् । अबाधितनियतघटनीलादिप्रतीतिविरोधात् । निरूपितं चेदं ब्रह्मसूत्रार्थचिन्तामणौ 'नाभाव उपलब्धेः' इत्यधिकरणेऽस्माभिः। व्याप्यतावच्छे- दकप्रकारकपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः । तत्करणमनुमानम् । शब्दज्ञानजन्यं असन्नि- कृष्टार्थविषयकं यथार्थज्ञानं शाब्दप्रमा, तत्करणं शब्दः । अदृश्यमानगोनिरूपितसादृश्यप्रकारक- गवयविशेष्यकप्रमितिरुपमितिः, तत्करणं सादृश्यविशिष्टगवयदर्शनमुपमानम् । प्रत्यक्षेण शब्देन वा प्रमितार्थस्योपपादकार्थान्तरकल्पनं अर्थापत्तिप्रमा , तत्करणं दिवाभोजनाभावपीनत्व- योस्सामानाधिकरण्यसम्बन्धानुपपत्तिज्ञानं अर्थापत्तिः । घटाभावप्रमितेः करणं योग्यानुपलब्धिः। सपरिकर-व्याप्तिपक्षधर्मताकाङ्क्षायोग्यतानिरूपणसहितम् । कृष्णेहि इत्यादिवाक्ये,रामेणेत्यादि- पदे, रामेत्यादिप्रातिपदिके च अवयवविभागे मानाभावान्न तत्तदंशेषु शक्तिः । अपि त्वन्वयिना- मेव प्रतीयमानार्थे शक्तिः। त एव च वाक्यपदवर्णास्स्फोटाः। स्फुटत्यर्थोऽस्मादिति स्फोटो वाचक इत्यादिस्फोटवादः । सोऽप्ययुक्तः । पठ्यमानश्लोकाद्यर्थानवबोधे तदवयवपदसमासप्रकृतिप्रत्यया- दिप्रदर्शनोत्तरं जायमानश्लोकाद्यर्थानुभवविरोधात् । तुल्ययुक्तया वाक्यार्थादेरपि निर्भागत्वाप- त्याङ्गबाधादिलोपापत्तेश्च । नित्याकृतिः--गोत्वादिसामान्यम् । तच्चालीकं, व्यक्तिभिन्नत्वेनानुपल- भ्यमानत्वात् । नापि तदभिन्नं, नित्यत्वानित्यत्वाभ्यां विरोधात् । अत एव न भेदाभेद इति चार्वा- काः । तन्न । इयं गौरिति पदयोभिन्नप्रवृत्तिनिमित्तकयोस्सामानाधिकरण्येनानुगतव्यावृत्ताका- रबोधकत्वेन भेदाभेदसिद्धेः । खण्डमुण्डादिव्यक्तिष्वनुगतप्रतीत्या गोत्वादिसामान्यसिद्धेरिल्याकृ- २४ भाट्टदीपिका [अ. १. (५) कमैके तत्र दर्शनात् ॥ ६ ॥ अस्थानात् ॥ ७ ॥ करोतिशब्दात् ॥ ८ ॥ सत्त्वान्तरे च योगपद्यात् ॥ ९ ॥ प्रकृति- विकृत्योश्च ॥ १० ॥ वृद्धिश्च कर्तृभूम्नाऽस्य ॥ ११ ॥ समं तु तत्र दर्शनम् ॥ १२ ॥ सतः परमदर्शनं विषयानागमात् ॥ १३ ॥ प्रयो- गस्य परम् ॥ १४ ॥ आदित्यवद्योगपद्यम् ॥ १५ ॥ वर्णान्तरम- विकारः ॥ १६ ॥ नादवृद्धिपरा वा ॥ १७ ॥ नित्यस्तु स्यादर्श- तिसाधनम् । अतघ्यावृत्तिरपोहः । राज्ञः पुरुष इत्यादिषु अराजसम्बन्धिभिन्न इत्यादिरूपोऽपोह एव वाक्यार्थ इति केचित् । प्राचुर्येण तस्य भानाभावात्वचिदपि अपोहस्याप्रसिद्धेश्च तदयु- क्तमित्यपोहनिरासः । गुणसमुदाय एव पृथिव्यादिद्रव्यं नातिरिक्तं, अवयवसमुदाय एव अवयवि, वृक्षसमुदाय एव वनं न भिन्न इति गौतमाः । तन्न । पाकादिना पूर्वोत्तररूपयोः, पटस्य च नाशोत्पत्त्यानुभवविरोधादिति वनवादः। अहं गौतम इत्यादिवत् अहं जानामीत्यादिप्रत्ययस्य शरी- रैकविषयत्वान्न देहातिरिक्त आत्मेति बाह्याः । तन्न । प्राणवायोरूर्वाधोगमनानुकूलप्रयत्नस्य ज्ञान- सुखादीनां चाश्रयतया तत्सिद्धेः । तेषामयावदेहभावित्वेन देहधर्मत्वासम्भवात् । कार्यद्रव्य- वृत्तिविशेषगुणानां पाकेन विरोधिगुणान्तरोत्पत्त्या वा द्रव्यनाशेन वा नाश इति नियमेन मृता- वस्थायां नाशकाभावेन गुणानाशानुपपत्तेश्व, अवयविविशेषगुणानां अवयवगुणपूर्वकत्वनियमभ- ङ्गापत्तेश्च । तस्मात् 'अविनाशी वारेऽयमात्मा' इत्यादिश्रुतिभिः शरीरातिरिक्तविभुनित्यात्मसिद्धिः । निरूपितश्चायमर्थः 'एक आत्मनः शरीरे भावात्' इत्युत्तरमीमांसायाम् । 'स मानसीन आत्मा जनानाम्' इति श्रुत्या च । स मानसप्रत्यक्षवेद्य इत्यात्मवादः । अधिकमपूर्वाधिकरणे वक्ष्यामः । वेदान्तिमतनिरासो मोक्षस्वरूपनिरूपणं चाकरे द्रष्टव्यम् । चित्राक्षेपतत्परिहारौ च पूर्वमेवो- क्तावित्याकरोक्तषोडशवादसङ्गहः । सूत्रार्थस्तु शब्दस्यार्थेन सम्बन्धः प्रत्याय्यप्रत्यायकभावलक्षण औत्पत्तिको नित्यः। जातेः शब्दार्थत्वस्य वक्ष्यमाणत्वाजातेनित्यत्वाच्छब्दस्य च नित्यत्वात्सम्बन्ध- स्यापि नित्यत्वम् । तस्य सम्बन्धस्य शक्तेः ज्ञानमुपदेशो वेदवाक्यं जनयति । प्रसिद्धपदसमभि- व्याहारादिति शेषः । 'विकसितपने मधूनि मधुकरः पिबति' इत्यादी प्रसिद्धपमादिपदसमभि- व्याहारेण मधुकरशब्दे शक्तिग्रहवत् 'चित्रया यजेत' इत्यादावपि प्रसिद्धपशुपदसमभिव्याहारात्प- शुभाव्यकयागकरणकभाबनायामलौकिक्यां शक्तिं जानतः यागः पशुसाधनमिति बोधस्स- म्भवति । अनुपलब्धे प्रत्यक्षायगृहीतेऽर्थे विधिजन्यज्ञानस्याव्यतिरेकश्च व्यभिचारोऽपि नास्ति। तत् तस्मादगृहीतार्थविषयकभ्रमसंशयान्यज्ञानजनकत्वाचोदना प्रमाणमेव । अनपेक्षत्वात्- पुरुषान्तरे प्रत्ययान्तरे चापेक्षाराहित्यात् । बादरायणग्रहणमादरार्थमिति ॥ ।
पा. १. अधि. ५.] भादृचिन्तामणिसहिता। २५ नस्य परार्थत्वात् ॥ १८ ॥ सर्वत्र यौगपद्यात् ॥ १९ ॥ सङ्ख्या- भावात् ॥२०॥ अनपेक्षत्वात् ॥२१॥ प्रख्याभावाच्च योग्यस्य ॥ २२ ॥ लिङ्गदर्शनाच्च ॥ २३ ॥ शब्दस्य नित्यत्वे तद्गतः प्रत्यायकत्वात्मा सम्बन्धोऽनादिः स्यात् । तदेव न सम्भवति,ताल्वादिव्यापारपूर्वापरकालयोर्गकारादेरश्रवणेनोत्पादविनाशयोरङ्गीकर्तव्यत्वात् 'स एवायं गकारः' इति प्रत्यभिज्ञायास्सादृश्यविषयकत्वेन गौणत्वात् । न च ताल्वा- दिव्यापारस्य अभिव्यञ्जकत्वमात्रं सम्भवति । तच्च श्रोत्रशब्दान्यतरनिष्ठग्रहणयोग्यता- जनकसंस्कारोत्पादकत्वेन, तद्ग्रहणप्रतिबन्धकदोषनिरासेन वा स्यात् । उभयथाऽपि कमैके तत्र दर्शनात् ॥ आक्षेपिकी सङ्गतिमभिप्रेत्याह --शब्दस्येति ॥ तद्गत इति ॥ शब्दगत इत्यर्थः। प्रत्यायकत्वात्मा-प्रत्ययजननानुकूलशक्त्यादिसम्बन्धः। तदेव-नित्यत्वमेव तदेवोपपादयति----ताल्वादीति ॥ ताल्यादिव्यापारात्पूर्वकाले उत्तरकाले च शब्दप्रत्यक्षाभावेन ताल्वादिव्यापारकाले शब्दप्रत्यक्षेण चान्वयव्यतिरेकसहकृतप्रत्यक्षेण ताल्वादिव्यापारजन्यत्वा- वगमेन शब्दानां नित्यत्वासम्भवादित्यर्थः । अयमभिप्रायः । वर्णा अनित्याः यत्नानभिव्यङ्ग्यत्वे सति यत्नोत्तरमेवोपलभ्यमानत्वात् पटादिवत् इत्यनुमानेन उत्पन्नो गकार इत्यादिप्रतीत्या च अनित्यत्वसिद्धिरिति । तथा च पदपदार्थसम्बन्धस्य नित्यत्वमयुक्तं, पदानामनित्यत्वेन तदा- श्रितसम्बन्धानामनित्यत्वस्यैव युक्तल्वात् । ततश्च पुरुषसम्बन्धात्पूर्वोक्तमप्रामाण्यं दुरुद्धरमिति भावः । सादृश्यं व्यक्तिद्वयानुगतो धर्मः । जातिरिति यावत् । अत एव तज्जातीयोऽयमिति कदाचित् प्रत्यभिज्ञा जायते । अन्यथा एकव्यक्तिकजात्यभावात् तादृशप्रत्यभिज्ञानुपपत्तेः । अत्रायं विशेषः । स्वरूपेण जात्युपस्थितौ सोऽयमिति प्रत्यभिज्ञा । जातित्वेनोपस्थितौ तज्जा- तीयोऽयमिति । अनभिव्यङ्ग्यत्वरूपविशेषणासिद्ध्या हेवसिद्धिमाशङ्कय परिहरति--न चेति॥ तच्चेत्यादि । ताल्वादिव्यापारस्याभिव्यञ्जकत्वं शब्दश्रोत्रयोः ग्राह्यत्वग्राहकत्वयोग्यताजनकसं- स्कारोत्पादकतयेत्यर्थः । ताल्वादिव्यापाररूपोच्चारणे सति श्रोत्रे शब्दग्रहणयोग्यताजनकसामर्थ्य- रूपसंस्कार उत्पद्यते । तेनैव उच्चारणेन शब्दे ज्ञानविषयत्वयोग्यताजनकसंस्कार उत्पद्यत इति भावः । पक्षान्तरमाह-अन्यतरनिष्ठेति ॥ श्रोत्रशब्दान्यतरनिष्ठेत्यर्थः । श्रोत्रशब्दयोः नित्य- त्वेऽपि श्रोत्रेण सर्वदा शब्दग्रहणवारणाय ग्रहणप्रतिबन्धकदोषविशेषः श्रोत्रशब्दयोरन्यतरत्रा- स्तीत्यङ्गीकर्तव्यम् । तादृशदोषनिरास उच्चारणेन भवतीत्यभ्युपगन्तव्यमित्यर्थः । पक्षद्वयमपि न सम्भवति इत्याह---उभयथेति ॥ आकाशात्मकं श्रोत्रमिति नैयायिकाः ; पदार्थान्तरमिति नव्याः; अहङ्कारतत्त्वान्तरमिति साङ्ख्याः । 'दिशश्श्रोत्रम्' इति श्रुतेः दिगात्मकत्वमिति सि- 4 २६ भाट्टदीपिका [अ. १. दिगादिरूपश्रोत्रस्य नित्यव्यापकशब्दस्य वा संस्कृतत्वात्सर्वैर्ग्रहणापत्तिः । किञ्च-नि- त्यत्वपक्षे गकारादिव्यक्तरकैकत्वान्नानादेशेषूच्चारणेन देशभेदो नोपलभ्येत । तेन प्रतिदेशं भिन्ना एव शब्दा अनित्याश्चेति प्राप्त व्यक्तिबाहुल्यस्य तत्तत्प्रागभावध्वंसानां च कल्पने अतिगौरवापत्त्या उक्तप्रत्यभिज्ञायाः गौणत्वायोगेनावच्छेदककर्णशष्कुल्यामेव संस्कारोत्पत्त्यङ्गीकारेण चाभिव्यक्तरपि निर्दोषतया गकारादिद्रव्यव्यक्तय एकैका नित्या विश्व्यश्च । उत्पादविनाशप्रतीतिस्तु ध्वनिविषया । एकस्यैव नानादेशोपलम्भ' आदि- द्धान्तः । तदेवाह-दिगादीति ॥ दियो नित्यतया शब्दस्यापि तथात्वेन विभुत्वेन च एकत्र देशे शब्दोचारणे सति सर्वदेशस्थपुरुषैः ग्रहणापत्तिः । अभिव्यञ्जकोच्चारणस्य सत्त्वेन तत्प्रयोज्यसंस्कारस्य प्रतिबन्धकनिवृत्तेश्च सत्त्वादित्यर्थः । ननु दिशा विभुल्वेऽपि नदवच्छेदक- कर्णप्रदेशे संस्काराङ्गीकारान्न सर्वैर्ग्रहणापत्तिः । यथात्मनो विभुत्वेऽपि शरीरावच्छेदेनैव सुखा- ग्रुपलब्धिः तद्वदित्यस्वरसादाह---किञ्चेति ॥ नित्यत्वपक्ष इति ॥ शब्दानामिति शेषः । शब्दस्य नित्यत्वपक्षे एकस्या एव व्यक्तेरसर्वदेशसम्बन्धितया काशीस्थपुरुपेणोच्चारितो गकारः श्रुतः, प्रयागस्थपुरुषोच्चारिता गकारः श्रुत इति देशभेदेन गकारप्रतीतिर्न स्यादित्यर्थः ॥ उपसंह- रति-तेनेति।। गकारादिवर्णानामनित्यत्वे एकस्मिन्नेव क्षणे अनेककोटिगकाराणां सर्वदेशोपलम्भा- नुसारेण सर्वदेशस्थगकाराणामुत्पत्तिविनाशाङ्गीकारात्तत्प्रागभावध्वंसानां तेषां कार्यकारणभावानां च कल्पनीयतया अत्यन्तगौरवापत्तेर्वर्णानां नित्यत्वमेव युक्तमिति सिद्धान्तमाह-व्यक्तीति ॥ अतिगौरवेति॥अनेन ध्वनीनां मतद्वयेऽप्यनित्यत्वेन तत्प्रागभावादीनां सिद्धान्तेऽप्यावश्यकत्वेऽपि पूर्वपक्षे वर्णानामपि प्रागभावादिकल्पनमधिकमिति सूचितम् । प्रत्यभिज्ञाबलेनैकत्वसाधनाय पूर्वपक्षोक्तं गौणत्वं निरस्यति---उक्तेति ॥ ननु गकारे सजातीयसाक्षात्कारप्रतिबन्धकता- वच्छेदकतया सिद्धाभिर्गत्वव्याप्यजातिभिःतारत्वमन्द्रत्वादिनानाजातिभिः शुकशारिकादिजन्यता- वच्छेदकजातिभिश्च व्यक्तिभेदावश्यकत्वे प्रत्यभिज्ञाया जातिविषयकत्वमावश्यकमित्यत आह- गौणत्वेति ॥ 'मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्' इति शिक्षावचनेन तासां जातीनां ध्वनिगतत्वात् न वर्णभेदकत्वमित्याशयः । ननु वर्णाः अनित्याः अव्याप्यवृत्तित्वे सति गुणत्वात् संयोगादिवत् इत्यनुमानेन अनित्यत्वसिद्धिः । ईश्वरज्ञानस्य शरीरानवच्छिन्नत्वेन व्याप्यवृत्तेर्वा- रणायाधम् । संयोगाभावनिरासाय गुणत्वमित्यत आह-द्रव्येति ॥ द्रव्यत्वोपपादनाय विभ्व्य इति ॥ सर्वत्रोपलम्भादिति भावः । ननु सामान्यवत्त्वे सति मनोभिन्नेन्द्रियजन्यलौकिकात्य- क्षविषयत्वाद्गुणत्वं रूपादिवत्सिध्यतीति चेन्न ; आकाशकालदिशां षडिन्द्रियवेद्यत्वेन गुणत्वा- भावेन व्यभिचारात् । सम्भवति हि विशेषगुणसम्बन्धेनात्मन इव विषयसम्बन्धेनाकाशादेरपि प्रत्यक्षम् । इदानीमिह घटाकाशे ध्वनिरुत्पन्न इत्यनुभवात् । ततश्चानित्यत्वसाधकहेतुरसिद्ध इति भावः । ननु गकारस्यैकत्वे एकत्रैवोपलम्भः स्यात् नतु सर्वत्र । एकस्य देवदत्तस्य सर्वत्री- पा. १. अधि. ६.] भादृचिन्तामणिसहिता। २७ त्यस्येवाविरुद्धः । तस्मान्नित्यः शब्दो वर्णात्मकः । ध्वन्यात्मकोऽपि रथन्तरादिरूपो नित्य एव । अत एव 'सेयं गूर्जरी' इति प्रत्यभिज्ञाऽपि न गौणांत्यन्यत्र विस्तरः ॥५॥ (६)-उत्पत्ती वाऽवचनास्स्युरर्थस्यातन्निमित्तत्वात् ॥ २४ ॥ तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात् ॥ २५ ॥ लोके सन्नियमात् प्रयोगसन्निकर्षस्स्यात् ॥ २६ ॥ पदपदार्थसम्बन्धानां नित्यत्वेऽपि वाक्यार्थानां वाक्यैस्सह सम्बन्धस्य सङ्के- तितत्वेन तद्ग्रहसापेक्षतया वक्त्रिच्छाघटिततात्पर्यज्ञानसापेक्षतया च पुरुषसम्बन्धेन भूमप्रमादसम्भवान्न विधिवाक्यानामैकान्तिकं प्रामाण्यम् , अनन्तवाक्यार्थसाधारणप- दानां वाक्यार्थविशेषे सम्बन्धासम्भवाच्चेति प्राप्ते-पदैरभिहिता एव पदार्थाः स्वबो- पलम्भाभावादित्यत आह-एकस्यैवेति ॥ देवदत्तस्यात्यन्तपरिच्छिन्नत्वेन सवत्रोपलम्भाभावेऽपि विभोर्वर्णस्यादित्यस्येव सर्वत्रोपलब्धिः सम्भवतीत्यर्थः ।। तस्मादिति ।। वर्णाः नित्याः स्वाभि- व्यञ्जकध्वनिभिन्नत्वे सति श्रावणत्वात् शब्दत्वदिक्कालवदित्यनुमानमेव साधकमिति भावः । रथन्तरशब्दो गीतिसामान्यपरः। ततश्च गीत्यात्मकसर्वध्वनीनां नित्यत्वमिति द्रष्टव्यम् । गूर्जरी- रागविशेषः। तेन वर्णाभिव्यञ्जकध्वनीनामेवानित्यत्वमिति सिद्धम् । सूत्रार्थस्तु, क्रियत इति कर्म। कार्य शब्दः। तत्सम्बन्धोऽप्यनित्य इति केचिन्मन्यन्ते । कुतः तत्र दर्शनात् , तत्र प्रयत्नोत्त- रकाले दर्शनात्प्रयत्नजन्यत्वनिश्चयादिति ॥ उत्पत्तौ वाऽवचनाः स्युरर्थस्यातन्निमित्तत्वात्।। पदपदार्थसम्बन्धस्य नित्यत्वेन पुरुषस- म्बन्धप्रयुक्ताप्रामाण्याभावेऽपि वाक्यार्थसम्बन्धस्य पुरुपसम्बन्धाधीनतयाऽप्रामाण्यमिति शङ्का- निराकरणायैतद्विचारारम्भः। वाक्यवाक्यार्थयोः सम्बन्धः पुरुषाधीनो न वेति सन्दिह्य पूर्वपक्षमा- ह--पदपदार्थत्यादि ॥ सम्बन्धस्येति ॥ वैयाकरणाः वाक्यस्य वाक्यार्थे शक्तिरिति वदन्ति । अन्ये तु मुक्तशरन्यायन एकयैवाभिधया पदार्थस्मृतिः वाक्यार्थबोधश्च भवतीति वदन्ति । परे तु वाक्यस्य वाक्यार्थे तात्पर्यरूपं वृत्त्यन्तरमिति स्वीकुर्वन्ति । सर्वथा पुरुषसम्बन्धापेक्षासत्त्वाच्चो- दनानामप्रामाण्यमिति भावः । वक्त्रिच्छति ॥ तत्प्रतीतीच्छया वक्त्रोच्चार्यमाणत्वं तात्पर्य त- ज्ञानं सर्वत्र शाब्दबोधे कारणं ; नानार्थानुरोधात् यद्विषयोरिति व्याप्तेः । कथमन्यथा स्वाध्यायविधिस्तात्पर्यग्राहकः स्यात् ? अनुगतप्रकरणादिज्ञानानां हेतुत्वकल्पने गौरवादिति भावः । ननु वर्णानां नित्यत्वेन तत्समुदायरूपाणां पदानामपि नित्यतया वाक्यघटकपदानामेव सर्वत्र बोधजनकत्वसम्भवात् न पुरुषप्रयुक्ताप्रामाण्यमित्यत आह-अनन्तवाक्यार्थेति ॥ नाना- विधवाक्यार्थबोधजनकनानावाक्यघटकीभूतानामित्यर्थः ॥ सम्बन्धासम्भवादिति ॥ सम्बन्धन- २८ भाहदीपिका [अ. १. । ध्यसम्बन्धरूपया लक्षणया वाक्यार्थभूतां भावनां समभिव्याहारविशेषबलाद्विशिष्य बोधयन्ति । तथाच 'यजेत स्वर्गकामः' इत्यादौ स्वर्गकामनिष्ठा यागकरणिका स्व- भाव्यिका प्रवर्तनाविषयो भावनेत्यादिरीत्या भावनाविशेष्यकबोधस्य सर्वविधिष्वै- करूप्येण न तदानन्त्यप्रयुक्तसम्बन्धाग्रहः । तात्पर्य च शब्दगत एव धर्मविशेषः । तद्ग्राहकश्वाध्ययनविध्यादिरेवेति न पुरुषसम्बन्धप्रयुक्तं विधीनामप्रामाण्यम् ॥ हणासम्भवादित्यर्थः । अयं भावः । वाक्यघटकपदानां वाक्यार्थबोधकत्वं न सम्भवति । वाक्यार्था- नामानन्त्येन कालान्तरीयदेशान्तरीयभिन्नभिन्नवाक्याथैस्सह पदानां प्रत्येकं सम्बन्धस्य ग्रहीतुम- शक्यत्वात् । ततश्च वाक्यानामेव बोधकत्वं वक्तव्यम् । तेषां चानुपूर्वीविशेषविशिष्टानामनित्य- त्वेन पुरुषविशेषनियन्त्रिततया पूर्वोक्तरीत्याऽप्रामाण्यमिति भावः । शक्यादशक्योपस्थिति- लक्षणेति मतेनाह-पदैरित्यादि ॥ लक्षणायाः शब्दवृत्तित्वात्पदानामेव लक्षणा युक्तेति नव्य- मतेनाह—स्वबोध्येति ॥ पदानीत्यादिः। तथा च पदार्थाः वाक्यार्थं बोधयन्तीत्येकः पक्षः । पदान्येव वाक्यार्थ बोधयन्तीत्यपर इति पक्षद्वयाभिप्रायकमिदमिति केचित् । वस्तुतस्तु एक एव पक्षो मूलानुमतः । तथा हि-पदैरभिहितपदार्थानां स्वबोध्यवाक्यसम्बन्धस्य वाक्याथै सत्त्वाल्लक्षणयांऽशत्रयविशिष्टभावनाप्रतिपादनोपपत्तेर्न पुरुषसम्बन्धप्रयुक्तमप्रामाण्यमि- त्यर्थः । वाक्येन च वाक्यार्थे प्रतीयमाने न वृत्त्यपेक्षा। आकाङ्क्षायोग्यतादिरूपकारणवशा- देव वाक्यार्थबोधोपपत्तेः ॥ भावनामिति ॥ 'भावनैव हि वाक्यार्थः स्वकारकविशेषिता' इति वार्तिकोक्तेरिति भावः ॥ समभिव्याहारेति ॥ तत्तद्धातुकारकादिसमभिव्याहारादित्यर्थः। ननु पदैरुपस्थितानां पदार्थानां परस्परसमभिव्याहारादेवान्वयबोधोपपत्तेः किं लक्षणयेत्यत आह-विशिष्येति ॥ यागादिकरणकभावनात्वरूपेणेत्यर्थः । ज्ञानेच्छाकृतीनां समानप्रकार- कत्वेन कार्यकारणभावनिर्वाहाय उक्तरूपेण शाब्दबोधस्यावश्यकतया लक्षणाया आवश्यकत्वा- दिति भावः । तदेवोपपादयति-तथाचेति ॥ यागशब्दो धात्वर्थोपलक्षकः । स्वर्गकाम- शब्दस्तत्तत्फलकामरूपाधिकार्युपलक्षकः । स्वर्गभाव्यकेत्यत्र स्वर्गशब्दस्तत्तत्कार्यपर इति सर्व- त्रैकरूपत्वाद्वाक्यार्थस्य न तदानन्त्यप्रयुक्तसम्बन्धाग्रह इति न पूर्वोक्तदोष इति भावः । ननु तथापि तत्तद्वाक्यार्थे तात्पर्यज्ञानस्य कारणतया तात्पर्यस्य पुरुषेच्छाधीनत्वेन पुरुष- सम्बन्धो दुर्वार इत्यत आह-तात्पर्य चेति ॥ शब्दगत एव धर्म इति ॥ तत्तदर्थप्रतीति- जनकत्वमेव तात्पर्यम् । न विच्छाघटितमिति नोक्तानुपपत्तिरिति भावः । ननु तात्पर्य- ग्रहणार्थ प्रकरणादीनामपेक्षासत्त्वात्प्रकरणस्य भोजनप्रयाणादिरूपस्य पुरुषसम्बन्धानुप्रवेशो दुर्वार इत्यत आह-तबाहकश्चेति ॥ तात्पर्यग्राहकश्चेत्यर्थः ॥ अध्ययनविधिरिति ॥ 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिनाधीतस्वाध्यायेन यद्यत्फलं सम्पादयितुं शक्यं तत्सर्व सम्पादयेदिति बोधनात्सर्वेषां वेदानां फलवदर्थावबोधकत्वबोधनेन ततदर्थावबोधकतासिद्धे.
731 पा. १. अधि. ६.] भादृचिन्तामणिसहिता । २९ " स च विधिस्त्रिविधः-परिसङ्ख्याविधिनियमविधिरपूर्वविधिश्चति । शन्दतः फलतो वा यस्य शास्त्रस्यान्यनिवृत्तिर्विषयस्स परिसङ्ख्याविधिः। यथा--'नानृतं वदेत्' 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" इत्यादौ । अत्रानृतवदननिवृत्तेर्गर्दभर- शनारूपशेषितो मन्त्रनिवृत्तेश्च विधेयत्वात् । अत्र चैतद्विध्यभावे प्रायश औत्सर्गिकी तत्र चान्यत्र च प्राप्तिः। न तु सापि लक्षणघटिकेति ध्येयम् । अत एव एकस्मिन् कार्येऽनृतस्य सत्येन सह पाक्षिकप्राप्तावपि 'नानृतं वदेत्" इति परिसङ्खयैवेयं न तु नियमविधिः । अत एव–यस्य शब्दतः फलता वा पाक्षिकायोगव्यावृत्तिरूपो नियमश्शास्त्रविषयस्स नियमविधिः । यथा-"सत्यमेव वदेत्" 'ब्रीहीनवहन्ति' रित्यर्थः ॥ प्रसङ्गात् विधि विभजते--स चेति ॥ उच्यत इति शेषः । 'परिसङ्ख्या' 'नियमार्था पुनः श्रुतिः' 'विधिर्वा स्यादपूर्वत्वात्' इति सूत्रैः विधित्रयस्य प्रतिपादनानिविधो विधिरिति भावः। ननु निषेधानां अविभजनात् न्यूनत्वमिति चेन्नः सनिषेधानां परिसङ्खयाविध्यन्तर्भाव इति राणकपक्षमाश्रित्य विभागकरणादिति भावः । विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसङ्खयेति गीयते ॥' इति वार्तिकानुसारेण लक्षणान्याह--शब्दत इति ॥ शक्तिलक्षणान्यतरवृत्त्यर्थः । निवृत्तिनियमतदितरप्रापकाः क्रमेण परिसङ्ख्यादय इति दीक्षितोक्तनिष्कर्षमनुसृत्येदं लक्षणमुक्तमिति द्रष्टव्यम् ॥ फलत इति ॥ श्रुतार्थे विधि- वैयर्थ्यज्ञानेन निवृत्ती अर्थान्तरे यस्य विधेः तात्पर्यमवगम्यते सोऽपि विधिः परिसङ्खयैवेत्यर्थः क्रमेणोदाहरतियथेति ॥ अश्वाभिधानी- अश्वबन्धनरज्जुः । तत्राद्ये नञ्पदादेव निवृत्ति- र्बोध्यते । द्वितीये तात्पर्यगत्येत्याह-अनृतेति ॥ 'नानृतं वदेत्' इत्यादिना अनृतवदननि- वृत्तिर्विधीयते । 'इत्यश्वाभिधानीमादत्ते' इत्यादी गर्दभरशनारूपशेषितो मन्त्रनिवृत्तिर्विधी- यते । एतद्विध्यभावे तर्किते सत्येन सह अनृतस्य एकस्मिन्कार्ये प्राप्तत्वात् । मन्त्रस्य गर्द- भरशनायामपि लिङ्गप्राप्तत्वात् । एतद्विध्योः अनृतवदननिवृत्तंर्गदभरशनादानान्मन्त्रनिवृत्तेश्च तात्पर्यविषयत्वादित्यर्थः । ननु तत्र चान्यत्र चेति चकाराभ्यां उभयत्र समुच्चित्य प्राप्तिः प्रतिपादिता । सा च न सार्वत्रिकी । 'पञ्च पञ्चनखा भक्ष्याः' इत्यादौ विधिप्रवृत्तेः प्राक् शशमार्जारभक्षणयोः नित्यं समुच्चित्य प्राप्त्यभावादिति चेन्न; एतदभिप्रायेणैव प्रायश इत्यु- क्तत्वात् । न तु सापीति ॥ तथा च निवृत्तिबोधकविधित्वमात्रं लक्षणमिति भावः । अत एव-प्राप्तेः लक्षणघटकत्वाभावादेव । नियमविधिं लक्षयति-शब्दतः फलतो वेति ॥ पाक्षिकः-कादाचित्कः । अयोगः-प्राप्त्यभावः । तस्य व्यावृत्तिः व्यवच्छेद इत्यर्थः । द्वयो- रुदाहरणमाह-सत्यमेवेति ॥ अत्र वैयाकरणाः । अश्वाभिधानीमित्यत्रादानेऽश्वरशने- तराकर्मकत्वस्येवावहननेनैव वितुषीकुर्यादित्यादौ अवहननेतराकरणकत्वस्य विवरणवाक्यात् १. तै.सं. २-५-५. २. तै. सं. ५.-१--२. - ३० भादीपिका [अ. १. , इत्यादौ । अत्र नियमस्यैवायोगव्यावृत्त्यर्थकेनैवकारेण विधेयत्वात् , आक्षेपतः पूर्व- प्रवृत्तस्यावघातविधेनियमफलकत्वाच्च । नियमे पाक्षिकायोगश्च तन्मात्रविध्यप्रवृत्तिनि- मित्तको विध्यन्तराप्रवृत्तिसहितैतद्विध्यप्रवृत्तिनिमित्तकश्वेत्यादिप्रकारेण बोध्यः । 'नीही- नवहन्ति' 'उत्तरेऽहन्द्विरात्रस्य गृह्यते' इत्यादौ आयः, एतद्विध्यभावे आक्षेपेणाति- बोधोऽपि उभयोस्समानः । मन्त्रलिङ्गादाक्षेपतश्च पूर्वं प्रवृत्तयोरुभयोरत्यन्ताप्राप्तप्रापकत्वमप्य- विशिष्टम् । गर्दभरशनाविदलनयोनिवृत्तिरूपं फलमपि समानमेवेति न नियमपरिसङ्खयंयोर्भेद इति वदन्ति । तन्निरासायाह-नियमस्यैवेति ॥ अयमाशयः । नियमविधाववघाता- प्राप्यत्रीाशे तत्प्रापणं विना विदलनादेावर्तयितुमशक्यत्वात् नन्निवृत्तिप्रयोजकत्वेन प्रथमो- पस्थितत्वाद्विधेयगतत्वेन प्रत्यासन्नत्वाच्चावघाताभावरूपायोगव्यवच्छेद एव फलम् । उपा- यान्तरनिवृत्तिश्च चरमोपस्थितत्वादविधेयगतत्वेन विप्रकृष्टत्वाच्च तदनुनिष्पादिनी न फलम् । परिसङ्ख्याविधिषु तु अश्वगर्दभरशनयो: मन्त्रस्य नित्यप्राप्तत्वेन तदभावाभावस्य फलत्वायोगेनादा- ने तदन्यकर्मकान्यत्वरूपान्ययोगव्यवच्छेद एव फलमित्याश्रयणीयम् । ततश्च विवरणवाक्यगत एवकारोऽपि यथायोगमीदृशार्थपर एव । एवकारस्याभावत्वेनाभावद्वये पुष्पवन्तादिपदस्य ज्योति- (ये शक्तिवदेका शक्तिः । ती चाभावी क्रियासङ्गतैवकारस्थले अत्यन्ताभावरूपौ । उपपद- सजते तु तस्मिन्नन्योन्याभावरूपौ । तत्राद्येऽभावस्याभावान्तरे तस्य च क्रियायां प्रतियोगि- तासम्बन्धेन अन्वयादभावप्रतियोग्यभावप्रतियोग्यवहननकरणिका भावनेति बोधः । समान- सविसंवेद्यतयावघाताभावो नेति बोधः । निपातार्थस्य नामार्थ इव धात्वर्थेऽपि साक्षादन्वयस्य व्युत्पत्तिसिद्धत्वादवघाताभावाभाववती भावनेति वा प्राथमिको बोधोऽस्तु । अन्योपसर्जनत्वेना- न्विताया अपि क्रियायाः स्वप्रतियोगिकत्वसम्बन्धेनाभावेऽन्वयात् । ससम्बन्धिकार्थकपदस्थले चैत्रादन्यस्माच्च गृहाणेत्यादी तथा व्युत्पत्तेः । अन्त्ये तु यत्पदार्थान्वित एवकारः तत्पदगत- प्रकृत्यर्थविभक्त्यर्थप्रतियोगिकावेवान्योन्याभावौ। धर्मिणोऽप्येकस्य निरूढलक्षणयात्राधिको बोधः। व्युत्पत्तिवैचित्र्याच्च यथायोगं तेषामन्वये अश्वाभिधान्यन्याकर्मकमश्वाभिधानीकर्मकं चादान- मिति बोधः। 'अत्र वावपन्ति' इत्यत्र गायत्र्याद्यन्यानधिकरणको गायत्र्यधिकरणकश्चावाप इति बोध इति । अधिकं मन्त्राधिकरणे वक्ष्यते ॥ आक्षेपत इति ॥ त्रीहिभिर्यजेत' इति पुरोडाशसाध- नतयावगतानां वीहीणां तुषविमोकाकाङ्क्षायां तत्साधनत्वेन विदलनादेः कल्पनमाक्षेपः । ततः पूर्व प्रत्यक्षविधेः प्रवृत्तत्वेऽपि तद्वैयर्थ्यस्य नियमप्रापकत्वेनैव परिहरणीयत्वादिति भावः ॥ नियम इति ॥ नियमशरीरघटक इत्यर्थः । पाक्षिकायोगद्वैविध्येन नियमविधिद्वैविध्यमाह- तन्मात्रेति ॥तद्विधिमात्राप्रवृत्तिनिमित्तक इत्यर्थः। मात्रचा विध्यन्तराप्रवृत्तिसाहित्यव्यवच्छेदः । तत्राद्यमुदाहरति-नीहीनित्यादि ॥ 'नीहीनवहन्ति' इत्यादौ विधिमात्रप्रवृत्तौ आक्षेपेणावघात- स्येव विदलनादेरपि प्रसक्तावघातायोगप्रसक्त्या तद्वयवच्छेदेन नियमविधित्वमित्यर्थः ॥ उत्तरेऽ पा. १. अधि. ६.] भादृचिन्तामणिसहिता। ३१ देशेन वाऽवहननस्य षोडशिग्रहणस्य च पक्षप्राप्तत्वात् । ब्रीहिभिर्यजेत' इत्यादौ द्वितीयः, यवविध्यभावसहितैतद्विध्यभावे व्रीहीणामाक्षेपेण पक्षप्राप्तत्वात् । एवंविध- भेदसत्त्वेऽप्ययोगव्यावृत्तिमात्रस्य लक्षणे प्रवेशान्न कोऽपि दोषः । यत्तु-दृष्टार्थत्वं नि- यमविधिलक्षणं कैश्चिदुक्तं-तत् 'उत्तरेऽहन् ' इत्यादावव्याप्तत्वादुपक्षितं, षोडशि- ग्रहणाभ्यासस्यादृष्टार्थत्वात् । अत एव---नियमपरिसङ्ख्यातिरिक्तफलको विधिरपूर्व- विधिः । यथा---'नीहीन् प्रोक्षति' इत्यादौ । अत्र प्रोक्षणादिप्राप्तरेव फलत्वात् । एतेषां चोपाधीनां क्वचिदुदाहरणे साकयेऽपि न दोष इति न विधिरसायनोक्ततत्तल्ल- क्षणदूषणावकाशः । विस्तरेण चैतदस्मन्मीमांसाकौस्तुभे द्रष्टव्यम् । उत्पत्तिविध्याद- यस्तद्भेदास्तत्रतत्र विवेचयिष्यन्ते ॥६॥ हन्निति ॥ एतद्विध्यभावे पोडशिग्रहणस्य प्रकृतितश्चोदकेन विकल्पेन प्राप्ततया षोडाश- ग्रहणाभावपक्षे अयोगप्रसक्त्या नद्यवच्छेदेन पोडशिग्रहणनियमविधित्वमित्यर्थः । द्वितीयमुदा- हरति --ब्रीहिभिरिति ॥ यवविध्यभावसहितव्रीहिविध्यभावे व्रीहीणां यागविध्याक्षिप्तानां पक्षप्राप्त्या अयोगव्यावृत्तिसम्भवादित्यर्थः । अननुगमदापं परिहरति --एवंविधेति ॥ अयोगव्यावृत्तिमात्रस्येति ॥ मात्रचाऽयोगे पाक्षिकत्वस्य तन्मात्रविध्यप्रवृत्तिनिमित्तकाद्य- न्यतरत्वस्य च विशेषणस्य निरासः । तथा चायोगव्यावृत्तितात्पर्यकविधित्वस्यैव नियम- विधिलक्षणत्वान्नोक्ताननुगम इति भावः । कस्यचिन्मतं दूपयितुमुपन्यस्यति -यत्त्विति ॥ दृष्टार्थत्वमिति ॥ 'बीहिभिर्यजेत' इत्यादौ यागनिवृत्त्यादिरूपदृष्टप्रयोजनसत्त्वादिति भावः । अव्याप्तिमुपपादयति--षोडशीति ॥ अपूर्वविधि लक्षयति-नियमेत्यादि ॥ अभावत्वाव- च्छिन्नविषयताशून्यबोधतात्पर्यकाविधिरित्यर्थः। नियमपरिसङ्घययोः अभावविषयकबोधतात्पर्य- कत्वान्नातिव्याप्तिः। अदृष्टार्थत्वमपूर्वविधित्वमित्यपि केचित् । ननु 'सृष्टीरुपदधाति'इत्यत्र मन्त्रा- णां प्राकरणिकत्वेऽपि पुनर्विधानं मध्यमचितिसम्बन्धार्थम् इष्टकाग्रहणोपधानयोरङ्गत्वेन समुच्चि- त्य प्राप्तानां तेषां ग्रहणपरिसङ्खयार्थं च । इष्टकानामपि समुच्चयेन पार्थक्येन वा उपधानस्य पक्षतः प्राप्तेः सार्थक्यनियमार्थं चेत्यन्यतमविधिरूपत्वस्वीकारे इतरलक्षणयोरतिव्याप्तिरित्यत आह-एतेषां चेति ॥ उपधेयसङ्करेऽप्युपाधेरसङ्कर इति न्यायेन विधेरेकत्वेऽपि तन्निष्ठधर्माणां असङ्कीर्णत्वान्न दोष इति भावः। नन्वेवं 'दण्डी प्रैषानन्वाह' इत्यत्र एतद्विधिमात्राप्रवृत्तौ मैत्रावरु- णाय दत्तस्य दीक्षादण्डस्य प्रैपानुवचनरात्रिप्रचारादिकार्याणां समुच्चित्य प्राप्तौ कार्यपरिसङ्ख्या स्यात् । 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति' इति विध्यप्रवृत्तिसहितैतद्विध्यप्रवृत्तौ तु दीक्षा- दण्डस्य दाने मानाभावेन उक्तकार्याणामालम्बनसौकर्याय नियतोपायप्राप्तवुपायनियमश्च स्यात् । तेन देक्षादन्योऽपि दण्डः प्रकृतौ धार्यः स्यादित्यत आह-विस्तरेण चेति ॥ तर्किते क्रीते सोमे' इति विधेरभावेऽपि वस्तुतस्तत्सत्त्वान्नानुष्ठानविरोधः । विध्यन्तराप्रवृत्तिसाहित्यस्य ३२ my भाट्टदीपिका [अ. १. ॥ ॥ - (७)-वेदांश्चैके सन्निकर्ष पुरुषाख्याः ॥ २७ ॥ अनित्यद- र्शनाच्च ॥ २८ ॥ उक्तं तु शब्दपूर्वत्वम् ॥ २९ ॥ आख्या प्रवच- नात् ॥ ३० ॥ परन्तु श्रुतिसामान्यम् ॥ ३१ ॥ कृते वा विनियो- गस्स्यात्कर्मणस्सम्बन्धात् ॥ ३२ ॥ वेदानां भारतादिवाक्यवत्पौरुषेयत्वमेव वाक्यत्वाद्युक्तं, कर्तुरस्मरणस्य चिरका- लिककूपादाविवानादरेणोपपत्तेः; अन्यथा छन्दोगप्रसिद्धोहग्रन्थस्यापि तथात्वापत्तेः लक्षणे निवेशनाभावाद्वा 'दण्डी पान्' इति विधिविहितदण्डदानोत्तरकालमेव प्रवृत्तत्वेन तत्पूर्व- काले 'क्रीते सोमे' इति विधेः सत्त्वाच्चेति भावः ॥ उत्पत्तिविध्यादय इति ॥ आदिपदेन विनियोगविधिप्रयोगविध्यधिकारविधयो गृह्यन्ते । तत्र कर्मस्वरूपबोधको विधिरुत्पत्तिविधिः । अङ्गसम्बन्धबोधको विधिः विनियोगविधिः । कृतिसाध्यताबोधको विधिः प्रयोगविधिः । इष्टसाधनताबोधको विधिः अधिकारविधिरिति विधिभेदाः । एतेषां लक्षणान्यु- दाहरणानि च तत्र तत्र वक्ष्यन्त इत्यर्थः । मूत्रार्थस्तु, वाशब्दः प्रत्यवस्थाने । उत्पद्यते अधिगम्यत इत्युत्पत्तिः । वाक्यार्थो धर्मः ; अलौकिकश्रेयःसाधनयागादिभावनारूपः। तत्र विषये चोदना अवचनाः । करणे ल्युट् । अप्रमाणानि । कुतः? अर्थस्यातन्निमित्त- त्वात् । धर्मावबोधकार्थस्य चोदनाहेतुकत्वाभावात् । चोदनावाक्यस्य धर्मावबोधे सामर्थ्या- भावादिति ॥ वेदांश्चैके सन्निकर्ष पुरुषाख्याः ॥ वेदानां पौरुषेयत्वान्न चोदनानां धर्मप्रामाण्य- मित्युत्थानात्सङ्गतिः । वेदानां पौरुषेयत्वमपौरुषेयत्वं वेति सन्देहे पूर्वपक्षमाह-वेदाना- मिति ॥ वेदः पौरुषेयः वाक्यत्वात् भारतादिवाक्यवत् इत्यनुमानेन वेदानां पौरुषेयत्वमि- त्यर्थः । प्रलयकाले अध्येतृणामभावेन वेदोऽस्तीत्यत्र प्रमाणाभावात् सृष्टयादौ सम्प्रदायप्रवर्त- नाय पुनर्वेदनिर्मातास्तीत्यङ्गीकर्तव्यम् । अत एव तेन यत्प्रतीत्युद्देशेन यद्वाक्यं प्रयुक्तं तद्वाक्यं तत्तात्पर्यकमिति तात्पर्यनिश्चयोऽपि लोकसिद्धवाक्य इव पौरुषेयत्वपक्षे युज्यत इति ॥ युक्त- मिति ॥ प्रयुञानस्येति भावः । न चैवं स्मृतीनां वेदतुल्यप्रामाण्यं स्यात् । पौरुषेयत्वाविशे- पादिति वाच्यम् ; 'तद्विदां च स्मृतिशीले' इति वचनेनाग्न्यादिप्रणीतवेदाध्ययनशालिमन्वादि- प्रणीतत्वेन वैषम्यादिति भावः । ननु कर्तृस्मरणाभावात्कथं पौरुषेयत्वमित्यत आह—कर्तु- रिति ॥ चिरकालिककूपादौ कर्तृस्मरणाभावेऽपि यथा पौरुषेयत्वनिश्चयः तथाध्येतृणां अना- दरेण कर्तुरस्मरणोपपत्तेः न तद्वशेन अपौरुषेयत्वनिश्चय इत्यर्थः ॥ अन्यथा-कर्तृस्मरणाभा- वमात्रेणापौरुषेयत्वे ॥ छन्दोगेति ॥ सामवेदे ऊहाख्यग्रन्थविशेषो दृश्यते । स च पौरुषेय of १. अधि. ७.] भादृचिन्तामणिसहिता। ३३ . "तेभ्यस्तपानेभ्यस्त्रयो वेदा अजायन्त" इति श्रुतावेवोत्पत्तिकथनाच काठकादिसमा- ख्यावशादपि पौरुषेयत्वमेवेति प्राप्ते वाक्यत्वहेतुकानुमानस्याप्रयोजकत्वेन जन्यज्ञा- नमूलकत्वेन सोपाधिकत्वाच कर्तुरस्मरणाचापौरुषेयत्वम् । न चानादरात्कर्तुरस्मरणं ; अक्षरशो विस्मरणाभावाय शिक्षाच्छलाक्षरादीबचितवतामृषीणां तदधीनप्रामाण्यकस्मृ- तिकर्तृसामान्यमप्यविस्मरतां सर्वज्ञानां वेदकर्तनादरोक्तेरतिसाहसत्वात् । ऊहग्रन्थस्य पौरुषेयत्वं तु नवमे वक्ष्यते । समाख्या तु प्रवचननिमित्तैव । “तेभ्यस्तपानेभ्यः इति नवमे सिद्धान्तयिष्यते । कर्तृस्मरणाभावमात्रेणापौरुषेयत्वाङ्गीकारे तत्रापि तदापत्त्या तदधिकरणसिद्धान्तो विरुध्येतेत्यर्थः । कर्तृप्रतीतेः श्रुतिसिद्धत्वादपि पौरुषेयत्वमित्याह- तेभ्य इति ॥ अग्निवाय्वादित्येभ्य इत्यर्थः। तेपानेभ्यः तप्तवद्भ्यः । न चास्य 'उच्चैर्ऋचा क्रियते' इति विधित्रयार्थवादत्वेन स्तुत्यर्थत्वात् नेतद्वाक्येन वेदानामुत्पत्तिसिद्धिरिति वाच्य; अर्थवादत्वेऽपि मानान्तरसिद्धिविरोधयोरभावेन ‘यन्न दुःखेन सम्भिन्नम्' इत्यादिवत्वार्थे प्रामाण्यस्य अवर्जनीय- तया यथाश्रुतार्थपरत्वादिति भावः ॥ काठकादीत्यादिपदेन शाकल-बाष्कल-तैत्तरीयादि- समाख्यापरिग्रहः । अप्रयोजकत्वेनेति ॥ अनुकूलतर्काभावादिति भावः । नन्वनुकूलतर्का- भावेऽपि 'जातिमान् सत्त्वात्' इत्यादिवद्दोषाभावमात्रेण अनुमानोपपत्तिरित्यत आह-जन्यज्ञा- नेति ॥ 'यत्र पुरुषकृतिजन्यत्वं तत्र जन्यज्ञानमूलकत्वं, यथा घटादौ' इति साध्यव्यापकतायाः पक्षे साधनाव्यापकतायाश्च सत्त्वादित्यर्थः । शिक्षा-पाणिन्यादिकृतग्रन्थविशेषः । छलाक्षरं- सामगेषु प्रसिद्धं, रावणकृतम् । आदिना प्रातिशाख्यसङ्ग्रहः । तथा च वेदाक्षराविस्मरणाय बहुतरग्रन्थविशेषरचनापूर्वकवेदसंरक्षणेकव्यापाराणां सर्वज्ञानां महीणां वेदकर्तृविषयेऽनाद- रस्यायुक्तत्वात् अपोरुपेया एव वेदा इत्यर्थः । ऊहग्रन्थस्यापौरुषेयत्वं निरस्यति-ऊहा- न्थस्येति ॥ नवम इति ॥ योनिसाम्नामुत्तरासूहग्रन्थपाठादेव प्राप्ततया 'यद्योन्यां तदुत्तरयोः गायति' इति प्रापकवचनवैयादिनेति भावः । समाख्यया पौरुषेयत्वमुक्तं निरस्यति-समा- ख्या विति ॥ प्रवचनेति ।। 'तेन प्रोक्तम्' इत्यर्थेऽपि तद्धितविधानादिति भावः । न चैवं स्मृतिष्वपि समाख्यायाः प्रवचननिमित्तत्वेनोपपत्तिसम्भवात्तासामप्यपौरुषेयत्वापत्त्या वेदतुल्यं प्रामाण्यं स्यादिति वाच्यम् ; तत्तत्कर्तृकत्वेन ताखेव कथनात् , कर्तृ- स्मरणदायाच मानवादिसमाख्यायाः प्रवचननिमित्तत्वासम्भवात् । किञ्च वेदाध्ययनार्थमेवोपन- यनविधानाद्गायत्र्यादिवेदोपदेशेन ब्राह्मण्यप्राप्तेः स्मृत्यध्ययनादौ तदभावान वेदवत्स्मृतीनां प्रामाण्यम् । किन्तु तन्मूलकत्वमेवेति भावः। तेभ्यस्तेपानेभ्यः' इति श्रुत्युक्तं पौरुषेयत्वं निरस्यति- तेभ्य इति ॥ 'छन्दांसि जज्ञिरे' इति श्रुत्या ईश्वरसकाशाद्वेदाविर्भावप्रतिपादनेनाग्न्यादिभ्यस्त- दुत्पत्त्यङ्गीकारे तद्विरोधापत्या 'विरोधे गुणवादः स्यात्' इत्युक्तरीत्या 'केवलात्' इत्यादि प्रशंसार्थ- त्वमित्यर्थः । न च वैपरीत्यं किं न स्यादिति वाच्यम् ; मन्त्राणां स्वार्थप्रतिपादनैकप्रयोजनकत्वेन 5 भाट्टदीपिका [अ. १. इति श्रुतिस्तु “छन्दांसि जज्ञिरे तस्मात् '' इति मन्त्रवर्णविरोधादन्यार्थिकैव । अत एव--"अनादिनिधना वेदवागुत्सृष्टा स्वयम्भुवा” इत्यादिस्मृतय उपपद्यन्ते । सृष्टि- प्रलयेश्वराद्यङ्गीकारे तु कल्पादौ प्रवचननिमित्ता श्रुतिस्सम्भवतीत्यपौरुषेयां एव वेदा इति ॥ ७॥ इति खण्डदेवकृतायां भाट्टदीपिकायां प्रथमाध्यायस्य प्रथमः पादः. प्रयोजनान्तरसाधारणार्थवादापेक्षया प्राबल्यादिति भावः ॥ अत एव-नित्यत्वादेव । इत्या- दीति॥ आदिपदेन 'शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः' इत्यादिसङ्ग्रहः । सृष्टयादौ सम्प्रदायप्रवर्तनाथ पौरुषेयत्वमुक्तं निरस्यति--सृष्टीति ॥ ईश्वरस्यैव गतकल्पीयवेदप्रवचन- कर्तृत्वोपपत्तेर्वेदानां नित्यत्वमिति भावः । सूत्रार्थस्तु, एके-तार्किकाः, वेदान् सन्निकर्ष गमयन्ति-सन्निकृष्टकालान् वदन्ति । यतः ते वेदाः पुरुषाख्याः पैप्पलादं कालापं काठकमि- त्याधुनिकपुरुषैस्समाख्यायमाना भवन्ति । अनया हि समाख्यया पुरुषविशेषसम्बन्धो वेदा- नामवगम्यत इति । अत्र केचित् अनेनाधिकरणेनापौरुषेयत्वमात्रं साधितम् , प्रामाण्यं त्वर्थवादाधिकरण एव साधनीयमित्याहुः । तदर्थवादाधिकरणे निराकरिष्यत इति ध्येयम् । अत्र पादे " आक्षेपेष्वपवादेषु प्राप्तौ लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते' इत्यभियुक्तोक्तेः प्रायेण प्रयोजनं नोक्तमिति द्रष्टव्यम् । इति शिवम् । हीरः ओम् ॥ इति श्रीमच्चोळदेशाग्रपूज्यविद्वत्समाजविराजमानशहजीन्द्रपुरनिवासिकामकायन- विश्वामित्रगोत्रजलधिकौस्तुभ श्रीमन्नृसिंहसूरिवरसून्वाश्वलायनसूत्र- होशनिकर्नाटकजातीयवाञ्च्छेश्वरयज्वनः कृतिषु भाट्टदीपिका- व्याख्याने भादृचिन्तामणौ प्रथमस्याध्यायस्य प्रथमः पादः॥ श्रीशिवार्पणमस्तु ॥ श्रीकृष्णार्पणमस्तु । ॥ शिवाय नमः ॥ १. ते. आ. ३-१२.
॥ अथ द्वितीयः पादः॥ (१)-आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद- नित्यमुच्यते ॥ १॥ शास्त्रदृष्टविरोधाच्च ॥ २ ॥ तथा फलाभा- वात् ॥ ३ ॥ अन्यानर्थक्यात् ॥ ४ ॥ अभागिप्रतिषेधात् ॥ ५ ॥ अनित्यसंयोगात् ॥ ६॥ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥ ७ ॥ तुल्यं च साम्प्रदायिकम् ॥ ८ ॥ अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधस्स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत ॥ ९॥ गुणवादस्तु ॥ १०॥ रूपात्प्रायात् ॥ ११॥ दूरभूयत्स्वात् ॥ १२ ॥ स्त्र्यपराधात्कर्तुश्च पुत्रदर्शनम् ॥ १३ ॥ आकालिकेप्सा ॥ १४ ॥ विद्याप्रशंसा ॥ १५ ॥ सर्वत्वमाधिकारिकम् ॥ १६ ॥ फलस्य कर्म- निष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषस्स्यात् ॥ १७ ॥ अन्त्य- योर्यथोक्तम् ॥ १८ ॥ "वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूति गमयति'' इत्याद्यर्थवादानां विधिप्रतिषेधवदेव कर्तृस्मरणाभावादपौरुषेयत्वे पूर्वाधि- अथ प्रथमाध्यायस्य द्वितीयः पादः ॥ ॥ अथ द्वितीयः पादः ॥ ॥ ॥ ॥ आम्नायस्य क्रियार्थत्वात् आनर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ॥ अत्र धर्माधर्मप्रमाणनिरूपणात् लक्षणसङ्गतिः । विध्यतिरिक्तवेदवाक्यप्रामाण्यनिरूपणात् पाद- सङ्गतिः । अनन्तरसङ्गतिस्तु अनुपदं स्फुटीभविष्यति । तथा पूर्वस्मिन् पादे चोदना- प्रामाण्यं प्राधान्येन निरूपितम् । अधुना विहितार्थस्तावकत्वस्मारकत्वाभ्यां विधिशेष- भूतयोरर्थवादमन्त्रयोः प्रामाण्यं निरूप्यत इति पादान्तरत्वमानन्तर्यश्च । तत्राप्यर्थवादानां विधि- जन्यबोधोपयुक्तत्वेनान्तरङ्गत्वात् तद्विचारस्यैव प्राथम्यमित्यभिप्रेत्याह-वायुर्वा इत्यादि ॥ वायुरूपा देवता क्षेपिष्ठा वै क्षिप्रगामिनीति प्रसिद्धम् । यजमानस्तादृशं वायुमेव स्वेन भागधेयेन पशुरूपेण हविषोपधावति, तोषयति । अतस्स एव वायुरेवेतरानपेक्ष एनं यजमानं भूतिमैश्वर्य १. ते. सं. २-१-१.
३६ ६ भाट्टदीपिका [अ. १. करणेन सिद्धे सम्प्रति तद्वदेव धर्माधर्मयोः प्रामाण्यमस्ति न वेति विचार्यते । तत्र विधिप्रतिषेधवाक्याभ्यां स्वशक्त्या साध्यसाधनेतिकर्तव्यताविशिष्टभावनाविषयकवि- गमयति प्रापयतीत्यर्थः । आदिना निषेधार्थवादपरिग्रहः । ननु अर्थवादानां धर्माधर्मयोः प्रामाण्यमस्ति नवेति विचारोऽनुपपन्नः। तेषां पौरुषेयत्वशङ्कया पुरुषदोषसम्भवेनाप्रामाण्यशङ्का- स्पदत्वात् । ततश्च सामान्यतः प्रामाण्यस्यैवासिद्धौ, कुतः तद्विशेषविचारसम्भव इत्यत आह-विधिप्रतिषेधवदेवेति ॥ 'वायव्यं श्वेतमालभेत' इति विधिः, 'बर्हिषि रजतं न देयम्' इति निषेधः । तथाच पूर्वाधिकरणे वेदे कर्तृस्मरणाभावेन कृत्स्नस्य वेदस्य अपौरुषेयत्वं सिद्धान्तितम् । ततश्च पुरुषदोषाभावाद्विधिप्रतिषेधवदेव अर्थवादानामपि अपौरुषेयत्वस्य सिद्धत्वात् सामान्यतोऽर्थवादानामपि प्रामाण्यसिद्धया तद्विशेषविचारो युज्यत इति भावः ॥ अपौरुषेयत्वे पूर्वाधिकरणेन सिद्ध इति ॥ अपौरुषेयत्वेन सामान्यतः प्रामाण्ये सिद्ध इत्यर्थः । ननु पूर्वाधिकरणे वेदानामपौरुषेयत्वमात्रस्य साधितत्वात् न प्रामाण्यं, तत्र सिद्धम् इतीहैव तस्य साधनीयतया प्रामाण्ये सिद्ध इत्यर्थकथनमयुक्तमिति चेन्न; अपौरुषे- यत्वसाधनस्य प्रामाण्यसाधनपर्यन्तत्वात् । अन्यथा तन्मात्रसाधनस्य काकदन्तविचारत्वापत्तेः शास्त्रसङ्गत्यनापत्तेश्च । नहि चोदनामात्रप्रामाण्यसिद्धयर्थमपौरुषेयत्वसाधनमिति युक्तम् । 'सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः' इत्यत्रत्येन वार्तिकेन सर्ववेदप्रामाण्यस्यैव सिद्ध- त्वोक्तेः अपौरुषेयत्वसाधनस्य सर्ववेदप्रामाण्यपर्यवसितत्वावश्यम्भावात् । नच तर्हि 'विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते' इत्युत्तरार्थविरोध इति वाच्यम् ; 'उपयोग उच्यते' इत्यने- न वेदप्रामाण्यसिद्धयनन्तरं उपयोगस्यैव निरूपणीयत्वोक्तया प्रामाण्यस्यानुक्तत्वात् । उपयोग- श्व पुरुषप्रवृत्तिजननद्वारा । प्रवृत्तिश्च प्राशस्त्यादिज्ञानाधीना । प्राशस्त्यादिज्ञानश्चार्थवादाद्यधी- नमिति रीत्या भवतीति तात्पर्यात् । ततश्च सामान्यतः प्रामाण्यमपौरुषेयत्वहेतुना पूर्वमेव सिद्धमिति प्रामाण्ये सिद्ध इत्यर्थकथनं युक्तमेवेति द्रष्टव्यम् ॥ तद्वदेव-विधिप्रतिषेधवदेव । प्रामाण्यमस्ति न वेति ॥ सम्भवति न वेत्यर्थः । एतेन सिद्धमपि प्रामाण्यं द्वाराभावादाक्षिप्य समाधीयत इति आक्षेपिकी सङ्गतिरिति सूचितम् । ननु उक्तरीत्याऽपौरुषेयत्वेन विध्यादि- वदेव धर्माधर्मप्रामाण्यमर्थवादानां सिद्धमिति न पृथग्विचारावकाश इत्यतो विधिवैषम्यमुप- पादयति-तत्रेत्यादिना ।। स्वशक्तया-वाक्यसामर्थ्याभ्याम् । एतेन वाक्याभ्यां स्वशक्तये- त्यसङ्गतं, वाक्यशक्त्यभावात् , द्वयोर्वाक्ययोरेकशक्त्यभावाच्च, वाक्यपदस्य वाक्यघटकपदप- रत्वे घटादिपदानां एकैकार्थप्रतिपादकत्वेनांशत्रयविशिष्टभावनाप्रतिपादकत्वाभावेन उत्तरग्रन्था- सङ्गतेरिति निरस्तम् । शक्तिपदस्य विशिष्टबोधात्मककार्यानुकूलशक्तिरूपसामर्थ्यपरत्वात् , एकवचनस्य जात्यभिप्रायत्वात् । साध्यं-भूतिरूपम् । साधनं-श्वेतद्रव्यकयागः । द्रव्यदेव- तासम्बन्धस्य यागं विनानुपपत्तेरालभतिना यागलक्षणात् । इतिकर्तव्यता च प्रकृति- पा. २. अधि. १.] भादृचिन्तामणिसहिता । ३७ धिप्रतिषेधयोः प्रतिपादनात् अर्थाच विधिप्रतिषेधविषययागादेरिष्टानिष्टसाधनत्वाक्षेपा- द्युक्तं तयोरिष्टानिष्टसाधनरूपधर्माधर्मप्रमाजनकत्वम् । अर्थवादानां तु शक्त्या सद- सद्रूपसिद्धार्थबोधकत्वान्न धर्माधर्मयोः प्रामाण्यसम्भवः । न च शक्त्या तदसम्भवेऽपि लक्षणाध्याहारादिना तत्प्रतिपादनम् । यथाश्रुतार्थप्रतिपादनेनैव उपपत्तावन्वयानुपप- तः प्राप्ता । प्रवृत्तिनिवृत्तिश्चाख्यातार्थः । प्रवर्तना निवर्तना च लिङर्थः । तत्रायं क्रमः । प्रधानवाक्यस्याङ्गवाक्यैकवाक्यतया, साध्यसाधनेतिकर्तव्यताविशिष्टार्थभावनाविषयकशब्दभा- वनारूपविधिप्रतिपादनेन श्वेतद्रव्यकयागसाधनकभूतिभाव्यकप्राकृतेतिकर्तव्यताकभावना प्रव- तनाविषय इति बोध उत्पद्यते । एवं निषेधेष्वपि साध्यादिविशिष्टा भावना निवर्तनाविषय इति बोधः । तत्र भावनाप्रकारीभूतयागादेरपि प्रवर्तनादिविषयत्वात् प्रवर्तनादिविषयत्व- हेतुना यागादेरिष्टानिष्टसाधनत्वमनुमीयते । इष्टसाधनतादिज्ञानं विना पुरुषप्रवृत्त्यायसम्भवात् । ततश्च वेदबोधितेष्टानिष्टसाधनताकत्वरूपधर्मत्वाधर्मत्वप्रतीत्या चोदनासूत्रोक्तरीत्या धर्माधर्म- प्रामाण्यं सिद्धम् । अर्थवादानां तु निरुक्तधर्मत्वाधर्मत्वानुमापकहेत्वभावान्न धर्माधर्मयोः प्रामा- ण्यसम्भव इत्यखण्डार्थः ॥ विधिप्रतिषेधयोः-प्रवर्तनानिवर्तनयोः । अत्र पूर्वपक्षे प्रवर्तना नास्ति । अन्यथा प्रवर्तनांशत्रयान्तर्गतप्राशस्त्यप्रतिपादकत्वेनार्थवादप्रामाण्यस्यैव सिद्धयापत्त्या पूर्वपक्षानुन्मेषप्रसङ्गादिति कैश्चिदुक्तमयुक्तम् । शब्दभावनासत्त्वेऽप्यर्थवादानां सदसदर्थप्रतिपा- दकत्वेन प्राशस्त्याप्रतिपादकतया पूर्वपक्षसम्भवादित्यभिप्रायेण विधिप्रतिषेधयोरुक्तत्वात्॥विधि- प्रतिषेधविषययागादेरिति । 'अयमत्र प्रवर्ततां, अयमस्मान्निवर्तताम्' इत्याज्ञात्मकेश्वरेच्छारूप- प्रवर्तनानिवर्तनाविषयत्वविशिष्टयागरजतदानादेरित्यर्थः । आक्षेपात्-निरुक्तप्रवर्तनानिवर्तना- विषयत्वहेतुकानुमानात् । अत एव विधिवाक्ये लिङर्थप्रवर्तनायाः स्वज्ञानविशेषजन्यानु- मितिप्रयोज्यत्वसम्बन्धेन भावनायामन्वयः । निषेधस्थले च स्वज्ञानजन्यानुमितिप्रयोज्या- भावप्रतियोगित्वसंसर्गेणान्वय इति हिरण्यकेशिसूत्रव्याख्याने विस्तरेण प्रतिपादितमस्माभिः । अर्थवादानां वेदबोधितेष्टानिष्टसाधनरूपधर्माधर्मप्रतिपादकत्वाभावात् न धर्माधर्मयोः प्रामा- ण्यमिति पूर्वपक्षमुपपादयति-अर्थवादानान्त्विति ॥ धर्माधर्मप्रतिपादकत्वं शक्त्या वा, लक्षणया वा, अध्याहारादिना वेति विकल्प्याचं दूषयति--सदसद्रूपेति ॥ सत्-मानान्तराधिगतं वायुक्षेपिष्ठत्वादि । असत्-मानान्तरबाधितमात्मवपोत्खननादि । सिद्धः-सायेतरः, यन्न दुःखेन' इत्यादिगम्यस्वर्गादिः । 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिगम्यं ब्रह्म च । द्वितीयतृतीयौ निराचष्टे-- लक्षणेत्यादि॥ अध्याहारादीत्यादिना 'लक्षणा विपरिणामोऽनुषङ्गोऽध्याहृतिस्तथा । व्यवधारणमे- तेषु पूर्वाभावे परंपरम्' इति श्लोकोक्तानां सङ्ग्रहः । तत्र 'जातपुत्रः' इत्यादी लक्षणा, प्रतितिष्ठन्ति' इत्यादौ सन्नन्ततया विपरिणामः । 'क्षत्राय राजन्यम्' इत्यादौ पूर्वश्रुतलभतेरनुषङ्गः । 'विश्वजिता यजेत' इत्यादौ वर्गकामपदाध्याहारः । 'तमस्मै भक्षं प्रयच्छेत्' इत्यादौ 'तेन यजेत' इति व्यव- ३८ भाट्टदीपिका [अ. १. . त्यभावेन तदसम्भवात् । न च तात्पर्यानुपपत्त्या तत्कल्पनं, तात्पर्यग्राहकाभावेन तस्या अप्यसम्भवात् । न हि शब्दः प्रमाणमातं वा प्रयोजनवद्विषयमेवेत्येवन्नियमे प्रमाण- मस्ति, येन स एव तात्पर्यग्राहकश्शङ्कयेत । निष्प्रयोजनानामपि बहुशो दर्शनेन व्य- भिचारात् । न च "खाध्यायोऽध्येतव्यः "" इति स्वाध्यायविधिरेव अर्थज्ञानोद्देशेन अध्ययनं विदधत् निष्प्रयोजनस्यार्थज्ञानस्य भाव्यत्वानुपपत्तरर्थस्य प्रयोजनवत्त्वमा- क्षिपतीति वाच्यम् । अर्थज्ञानजनकत्वेनाध्ययनस्य लोकसिद्धत्वेनाविधेयत्वात् । तन्नि- धारणमित्यग्रे व्यक्तीभविष्यतीति ध्येयम् । अन्वयानुपपत्तिर्लक्षणादौ बीजं, ताप्तर्यानुपपत्तिति 'विकल्प्याद्यमाह—यथाश्रुतेति ॥ शक्यार्थविषयकविशिष्टवाक्यार्थबोधसम्भवेन 'गङ्गायां घोषः' इत्यादिवदन्वयानुपपत्त्यभावात् । न च 'ग्रावाणः प्लवन्ते' इत्यादावन्वयानुपपत्तिरस्तीति तत्र लक्ष- णादिकं सम्भवतीति वाच्यम् ; अन्वयानुपपत्तिसत्वेऽपि तद्वाक्यस्य लक्षणादिना 'नौकाः प्लवन्ते' इत्यादिरीत्यार्थान्तरपरत्वस्यापि सम्भवेन धर्माधर्मप्रमितिजनकत्वनिर्बन्धाभावात् । कचित्तत्स- त्वेऽपि सर्वत्र तदभावाच्च । द्वितीयं निरस्यति-नचेति ॥ तात्पर्येति ॥ तात्पर्यग्राहकप्रमाणाभावेन तात्पर्यज्ञानासिद्धौ तदनुपपत्त्या लक्षणादिकं दूरापास्तमित्यर्थः । ननु शब्दमात्रस्य सप्रयो- जनार्थबोधकत्वनियमादर्थवादानां निष्प्रयोजनार्थबोधकत्वे तन्नियमभङ्गस्स्यात् । अतः स नियम एवार्थवादानां सप्रयोजनार्थबोधकत्वे तात्पर्यग्राहक इत्यत आह—नहीति॥ प्रमाणमात्रं वेति ।। सामान्यतो नियमेनापि न सप्रयोजनार्थबोधकत्वमिति दर्शयितुं इदं उक्तम् । तथाच ताह- शनियमे प्रमाणाभावेन तात्पर्यग्रहासम्भवात् न तदनुपपत्त्या लक्षणादिसिद्धिरिति भावः ।। नियमासम्भवमेवोपपादयति--निष्प्रयोजनानामिति ॥ हरिश्चन्द्रोपाख्यानादीनां क्षेमेन्द्रादिनि- मिताख्यायिकानां चेत्यर्थः । ननु उक्तनियमाभावेऽपि 'स्वाध्यायोऽध्येतव्यः' इति विधिरेव तात्पर्यग्राहक इति शङ्कतेनचेति ॥ स्वाध्यायविधिरेवेति ॥ अयमर्थः । 'स्वाध्यायोऽध्ये- तव्यः' इति विधिः स्वाध्यायोद्देशेनाध्ययनं विधत्ते । तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वाभिधानात् । ततश्च अध्ययनेन स्वाध्यायं भावयेदित्यर्थः । तेन च निष्प्रयोजनस्याध्ययनानुपपत्तेरधीतेन स्वाध्यायेन फलवदर्थावबोधं भावयेदिति विधिः कल्प्यते । तथाच स्वाध्यायविध्यध्यापितानां अर्थवादानामपि फलवदर्थावबोधकत्वपर्यवसानात् फलवदर्थलक्षकत्वमर्थवादानां सिद्धयतीति शङ्कार्थः । अर्थज्ञानजनकत्वेनेति ॥ शब्दमात्रस्य ह्येष स्वभावो यदनधिगताबाधितार्थप्रति- पादकत्वं नाम । ततश्रार्थवादानामपि अर्थज्ञानजनकत्वस्य लोकसिद्धत्वेनाप्राप्तत्वाभावात् 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायेन न अर्थज्ञानोदेशेन स्वाध्यायविधिकल्पनसम्भवः, सुतरां फलवदर्थज्ञा- नोद्देशेनेति भावः । ननु अर्थज्ञानजनकत्वस्य लोकसिद्धत्वेऽपि अधीतस्वाध्यायेनैवार्थज्ञानं सम्पादयेत् इति नियमसिद्धयर्थं तद्विधिस्सार्थक इत्यत आह---तन्नियमस्येति ॥ अध्ययनसं- १. ते. आ. २. १५.
पा. २. अधि. १.] भादृचिन्तामणिसहिता। ३९ यमस्यार्थज्ञानेऽनुपयोगादव्यभिचरितक्रतुसम्बन्धाभावेन क्रतुं यावदुपयोगकल्पनानुप- पत्तेश्च न विधेयत्वम् । अतः स्वाध्यायविधिना स्वर्गाद्यर्थमेवाध्ययनं विधीयते । लो- कतः पूर्व प्रवृत्त्यङ्गीकारण यथाश्रुतार्थज्ञानार्थं वा । अध्ययनमेव वा भावनायां भाव्यमस्तु । न चैवमिष्टभाव्यकत्वाभावात्प्रवृत्त्यनुपपत्तिः । 'अनधीयाना व्रात्या भवन्ति' इति वचने- नाकरणे प्रत्यवायबाधनेनापि प्रवृत्तिसिद्धः । अतस्तस्य वेदत्वावच्छेदेन प्रयोजनवद्वि- षयकत्वानाक्षेपकत्वान्नार्थवादेषु तद्वलेन लक्षणादिसिद्धिरित्यप्रमाणमर्थवादा धर्माधर्मयो- रिति प्राप्ते- स्कृतस्वाध्यायनियमस्येत्यर्थः ॥ अनुपयोगादिति ॥ शब्दरर्थज्ञाने जायमान नियमकृतविशे- पाभावात् नियमनापायान्तरव्यावृत्तावपि ज्ञानविषयीभूतार्थस्य प्रयोजनवत्त्वं न सिद्धयतीत्याशयः। ननु अर्थवादाद्युक्तदेवतादीनां क्रतुसम्बन्धितया जुह्वादिवत् ऋत्वर्थतयार्थवत्वं सम्भवतीत्यत आह-अव्यभिचरितति ॥ जुह्वादयो हि बहिःक्रतु अप्रसिद्धाः क्रत्वकसम्बन्धिन इति युक्तं तपां क्रत्वर्थत्वम् । अग्न्यादिदेवतास्तु लकिऽपि प्रसिद्धा इति क्रतुव्यभिचरितत्वात् न क्रत्वर्थ- त्वमिति भावः ॥ अत इति ॥ स्वाध्यायविधः फलवदर्थावबोधपर्यन्तत्वाभावात् स्वर्गाद्यर्था- ध्ययनविधिपरत्वमेवेत्यर्थः । ननु दृष्टं सम्भवति अदृष्ट कल्पनायोगात् स्वर्गार्थत्वमनुपपन्नमित्यत आह–लोकत इति ॥ लोकप्रसिद्धभूतनतया लोकात् पूर्वमवानादेदस्य प्रवृत्तत्वेन यथाश्र- तार्थज्ञानार्थमेवाधीतस्वाध्यायो विधीयत इत्यर्थः । तव्यप्रत्ययानुसारणाह-अध्ययनमे- वेति ॥ स्वाध्याय एवेत्यर्थः । बाहुलकात् कर्मणि ल्युट । यद्वा सक्तुन्यायेन वा- ध्यायस्य करणत्वमिति राणकमतमाह -अध्ययनमेव वेति ॥ अत्र विधिकल्पनाभावात् लाघवमिति भावः । ननु यथाश्रुतार्थज्ञानस्य वा, स्वाध्यायस्य वा, अध्ययनस्य वा भाव्यत्वे इष्टसाधनत्वाभावात् प्रवृत्त्यनुपपत्तिरिति शङ्कते नचैवमिति ॥ 'अनधीयानाः' इत्यकरणे प्रत्यवायभियव स्वाध्याय प्रवृत्त्युपपत्तरित्यर्थः । पूर्वपक्षमुपसंहरति—अत इति ॥ स्वाध्याय- विधेस्तात्पर्यग्राहकत्वाभावात् न तद्वशेनार्थवादानां लक्षणादिसिद्धिरिति भावः । लक्षणादी- त्यादिनाध्याहारादिसङ्ग्रहः । एतेनार्थवादानां विध्यपेक्षितस्तुत्यादिसमर्पकत्वेन विध्येकवा- क्यतया प्रामाण्यमित्यपि निरस्तम् । अर्थवादैः स्तुतिबोधस्य लक्षणामूलकत्वेन तस्या नि- राकृतत्वात् । विध्यर्थवादयोः स्वखविशिष्टार्थबोधकतया निराकाङ्क्षत्वेनेकवाक्यत्वासम्भवाच्च । न च विधेः प्रवर्तकत्वानुरोधेन प्राशस्त्यापेक्षासत्वात् तदर्थमर्थवादापेक्षेति वाच्यं 'विधे- रेव द्वे शक्ती कल्पयिष्यामः' इति वार्तिकानुसारेण विधित एव प्राशस्त्यबोधस्यापि सम्भवेनार्थ- वादानपेक्षणादित्यन्यत्र विस्तरः ॥ धर्माधर्मयोरिति ॥ इदमुपलक्षणम् । स्वार्थेऽप्यप्रामा- ण्यसत्वात् । तथाहि-स्तेनं मनः' 'अनृतवादिनी वाक्' इत्यत्र ताच्छील्ये णिनिप्रत्ययेन मनसः प- रद्रव्यापहरणरूपस्तेयस्य, वाचश्चानृतवदनस्य प्रतीयमानस्य बाधितत्वात् ,लक्षणया 'मनसा स्तेयं भाट्टदीपिका [अ. १. न स्वाध्यायविधिः स्वर्गाद्यर्थमध्ययनं विधत्ते, दृष्टे सम्भवत्यदृष्टकल्पनाया अ- न्याय्यत्वात् । नापि यथाश्रुतार्थज्ञानार्थम् , तथात्वे व्रात्यत्वबोधकवाक्येन अध्ययन- स्यावश्यकत्वाद्गृहीतपदपदार्थसङ्गतिकस्य स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपाप्मा ॥ इत्यादिवचनाच्च ज्ञानस्याप्यावश्यकत्वेन यथाश्रुतार्थज्ञानस्यानुषङ्गिकतयापि सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेनाध्ययनभाव्यकत्वपक्षोऽपि निरस्तः । अतो वैय- र्थ्यपरिहारार्थ प्रयोजनवदर्थज्ञानाद्युद्देशेन स्वाध्यायाध्ययनं विधीयते प्रयोजनवदर्थ- ज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वाऽध्ययनमातं ; तव्यप्रत्ययेन स्वाध्यायस्य कर्म- वाभिधानात् । अतश्च जिज्ञासाधिकरणोक्तरीत्या स्वाध्यायार्थस्य प्रयोजनवत्त्वसिद्धौ चिन्तयेत्' 'वाचानृतं वदेत्' इति विधिकल्पने 'न चोरयेत्' 'नानृतं वदेत्' इति शास्त्रविरोधात् । 'धूम एवाग्नेर्दिवा ददृशे नाचिः' इत्यादी प्रत्यक्षविरोधात् । को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा न वा इत्यादो शास्त्रदृष्टकार्यकारणभावविरोधात् । 'शोभतेऽस्य मुखम्' इत्यादौ गर्गत्रिरात्रब्राह्मण- विदो मुखशोभारूपफलाभावात् । 'पूर्णाहुत्या सर्वान्कामानवाप्नोति' इत्यादौ पूर्णाहुत्या सर्वफल- सिद्धौ बह्वायाससाध्यज्योतिष्टोमाद्यानर्थक्यात्। 'नान्तरिक्ष न दिव्यग्निश्चेतव्यः' इत्यादी अप्रसक्त- प्रतिषेधात् । 'बबरः प्रावाहणिः' इत्यादी अनित्यसंयोगाच्च स्वार्थेऽप्यप्रामाण्यमित्याशयः । स्वा- ध्यायविधेस्तात्पर्यग्राहकत्वं वक्तुं पूर्वपक्षोक्तपक्षान् क्रमेण निराकरोति-न स्वाध्यायविधिरिति ।। दृष्ट इति ॥ पुरुषाणां प्रायेण दृष्टार्थलोलुपत्वादिति भावः । विश्वजिदादौ दृष्टासम्भवाददृष्टक- ल्पनेत्याशयः ॥ नापीति ॥ यथाश्रुतार्थज्ञानार्थमध्ययनं विधत्ते इत्यन्वयः । तदुपपादयति- तथात्व इति ॥व्रात्यता-कनिहता। तद्बोधकेन 'अनधीयाना व्रात्या भावन्ति' इति पूर्वोक्त- वाक्येनावश्यकत्वात् व्रात्यतापरिहारायावश्यं वेदस्याध्येतव्यत्वात् ।। गृहीतेति ।। गृहीतशक्तिकस्ये- त्यर्थः। ननु व्रात्यतापरिहारायाध्ययनस्यावश्यकत्वेऽपि यथाश्रुतार्थज्ञानं कथं सिद्धयतीत्यत आह- स्थाणुरिति ॥ अर्थज्ञानं विना केवलाध्ययनमात्रकर्ता केवलकाष्ठप्राय इति भावः। ततश्च यथा- श्रुतार्थज्ञानस्याप्यावश्यकतया न तदर्थमपि स्वाध्यायविधिः सम्भवतीत्याशयः । एतेन--स्वा- ध्यायतदर्थज्ञानयोः प्रकारान्तरेण सिद्भत्वेन ॥ अत इति ॥ स्वाध्यायविधिरेव खवैयर्थ्यपरिहारार्थ प्रयोजनवदर्थज्ञानोद्देशेनाधीतस्वाध्यायविधिकल्पक इति भावः । विधिकल्पनाभावात् लाघव- मित्यभिप्रायेणाह-प्रयोजनवदिति ॥ तथाच स्वाध्यायपदलक्षणयैव श्रुतविध्युपपत्तौ विधि- कल्पनाभावात् लाघवमिति भावः । वस्तुतस्तु लक्षणापि नास्तीति पूर्वमेवोक्तम् ॥ प्रयोजनव- त्वसिद्धाविति।। ननु अर्थवादानां 'वायुभजनेन भूतिं सम्पादयेत्' इत्यादिविधिकल्पनेनापि प्रयो- जनक्दर्थबोधकत्वसम्भवेन न प्राशस्त्यलक्षणासिद्धिः । न च जातेष्टिस्थलवत् 'भूतिकामो भूति पा. २. अधि. १.] भादृचिन्तामणिसहिता। ४१ तात्पर्यग्राहकवशेन लक्षणासिद्धिरर्थवादेषु । लक्षणीयश्वार्थस्सन्निहितविधिनिषेधापेक्षितत्वात् स्तुतिनिन्दास्वरूपः । तथा- हि-लिङाद्यर्थों लोके पुरुषाशयः । वेदे च तदभावालिडादिनिष्ठ एव कश्चिद्धर्मः । गमयति' इत्येकवाक्यानुसारेण प्राशस्त्यलक्षणेति वाच्यम् ; एवमपि 'हिरण्यं हस्ते भवति' इति वि- विशेषे 'स्तेनं मनः' इत्यर्थवाद कथञ्चिदप्येकवाक्यत्वाप्रतीत्या लक्षणाया असिद्रिप्रसङ्गात् । न च शक्यार्थस्य विध्यन्वयासम्भवेन विध्येकवाक्यत्वासम्भवात् लक्षणासिद्धिरिति वाच्यम् ; लक्षणा- सिद्धावेकवाक्यत्वम् , एकवाक्यत्वे च लक्षणा इत्यन्योन्याश्रयापत्तेरित्यत आह- तात्पर्येति ॥ तात्पर्यग्राहकवशेन स्वाध्यायविधिबलेन । तथाच स्तेयादीनां विध्यन्तरकल्पने शास्त्रान्तरविरो- धाद्यापत्त्या तात्पर्यग्राहकाध्ययनविधिबलेनैव लक्षणासिया नान्योन्याश्रय इति भावः । अर्थवादानां लक्षणया प्राशस्त्यपरत्वं सप्रपञ्चमुपपादयितुं उपक्रमते--तथाहीत्यादिना ॥ लिङाद्यर्थ इति ॥ आदिना लोट्-लेट्-तत्र्य-अनीयर्-अर्शजादीनां परिग्रहः । ‘स्वर्गकामो यजेत' 'सत्यं वद' 'समिधो यजति' 'अन्तराऽनूच्यं हिरण्यं भार्य' 'तानि सेवितव्यानि' इत्युदाहर- णानि । उदयनाचार्यमतेनाह-पुरुषाशय इति ॥ पुरुपेच्छेत्यर्थः । व्यवहारेण, 'विधिनिम- न्त्रण-'इत्याद्यनुशासनेन च तत्रैव शक्तिग्रहादिति भावः । अत्र लिङादिज्ञानमेव वेदे प्रवर्त- नेति केचित् । तच्छक्तिज्ञानमित्यन्ये । शक्तिविशिष्टलिङादिज्ञानमित्यपरे । अर्थभावनाभिधाना- नुकूला शक्तिरिति मिश्राः । इष्टसाधनत्वमिति मण्डनः । अलौकिको धर्म इति न्याय- सुधाकृतः । एवं विप्रतिपत्तौ स्वपक्षमाह-वेदेचेति ॥ चस्त्वर्थे । तदभावात्-निर्मात्पुरु- षाभावात् ॥ लिङादिनिष्ठ एवेति ॥ आदिना लिङ्घटितवाक्यस्य तदुच्चारयितृपुरुषस्य च परिग्रहः । अभिधादिसम्बन्धेन लिङादिनिष्ठ एव; न तु समवायेन पुरुपनिष्ठोऽपीत्येवकारार्थः । लोके 'गुरुर्मा प्रवर्तयति' इति व्यवहारवत् 'गुरुच्चरितलिङ् मां प्रवर्तयति' इत्यादिव्यवहारात् । गुरौ, लिङि, वाक्ये, गुरुवाक्यावेदकपुरुषान्तरे चानुगतं प्रवर्तकत्वं प्रवर्तनावत्त्वमेव वाच्यम् ; तत्र गुरोस्समवायेन प्रवर्तनावत्त्वं; इतरेषां तु क्रमेण तदभिधायकत्वतद्वाचकघटितत्वतद्वाचकोच्चारयि- तृत्वसम्बन्धैरिति सम्बन्धाननुगमो न दोषाय । एको घटः, एक रूपम् इति व्यवहारयोःसमवायि- सामानाधिकरण्याभ्यां निर्वाहस्य परैरप्यङ्गीकृतत्वात् रूपे रसः' इत्यादिव्यवहारापादनस्य सामाना- धिकरण्यविशेष एव वृत्तिनियामकताकल्पनेन परिहृतत्वात् । वेदे तु निर्मातुरभावात् समवायासम्भवेऽपि अभिधादिसम्बन्धान्तराणि उपपद्यन्त एव । “य एव लौकिकाः शब्दाः त एव वैदिकाः, त एवामीषामर्थाः' इति लोकवेदाधिकरणन्यायात् । यदि तु सर्वत्र पुरुषस्यैव प्रवर्तकत्वं मुख्यमितीश्वर एव वेदे प्रवर्तकः, तदा समवाय एव प्रवर्तनेश्वरयोः सम्बन्धः । श्रुतिस्मृती ममैवाशे' 'अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा' इत्यादिवचनेनेश्वरस्य प्रवक्तृतया निर्दोषत्वात् 'ईश्वरेच्छैव प्रवर्तना'इति सर्वसम्मतः पन्थाः। किंच वेदे 'आचार्यो- - 6 THE KUPPIJSWAMISASTRI ४२ भाट्टदीपिका [अ. १ वाच्यतावच्छेदकं चोभयसाधारणं व्यापारत्वम् । न तु प्रवृत्तिनिवृत्तिप्रयोजकत्वमपि, तस्यान्यलभ्यत्वात् । तत्र नमोऽभावे आख्यातार्थप्रवृत्तिप्रयोजकत्वं तत्सत्त्वे तु तदर्थ- प्रवृत्त्यभावप्रयोजकत्वं संसर्ग इति विशेषः । प्रयोजकत्वं चात्र प्रवृत्तितदभावकारणी- भूतेष्टानिष्टसाधनताज्ञानजनकज्ञानविषयत्वम् । अभावकारणता च योगक्षेमसाधारणी । ऽन्तेवासिनमनुशास्ति' इत्याज्ञारूपानुशासनं प्रकृतलोडादिघटितवाक्यैः प्रवर्तनानिवर्तनारूप- तयानुशासनं व्याख्याय, एतदनुशासनमित्युपसंहारोऽपीश्वरेच्छायाः प्रवर्तनात्वं गमयति । तथा 'ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा' इति वचनमपि द्रष्टव्यम् । नन्वेवं लोके पुरुषाशयः, वेदे लिङादिधर्मो लिङा वाच्य इति नानार्थकत्वापत्तिरत आह-वाच्यतावच्छेदकमिति॥ लोक- वेदसाधारणं विषयिताविशेषरूपं व्यापारत्वमेव शक्यतावच्छेदकमिति न नानार्थत्वमिति भावः । वस्तुतस्तु इच्छात्वस्यैव शक्यतावच्छेदकत्वान्न दोषः। शक्ततावच्छेदकस्तु श्रूयमाणप्रत्ययनिष्ठानु- पूर्वीविशेष एव, न तु लिङ्त्वादिकं, तेषां लुप्तत्वात् । स्थानिवद्भावेन लिङ्क्त्वं तु व्याकरणप्र- क्रियामात्रोपयुक्तत्वात् न पदार्थोपस्थापकतावच्छेदकमित्यन्यदेतत् । ननु प्रवृत्तिनिवृत्तिप्रयो- जकव्यापारप्रतीत्या प्रवृत्तिप्रयोजकत्वादिकमपि शक्यमिति गोरवं स्यादित्यत आह-- नत्विति ॥ अन्यलभ्यत्वादिति ॥ समभिव्याहारलभ्यत्वादिति भावः । तदेवाह--तत्रेत्या- दिना ॥ नञो अभाव इति ॥ आख्यातार्थेति ॥ आख्यातत्वं न जातिः । तिप्त्वादिना साङ्कर्यात् । किन्तु आदेशनिष्ठानुपूर्वी विशेष एव, अनुगमापेक्षायां त्वन्यतमत्वमेवेति ध्येयम् ॥ प्रयोजकत्वमिति ॥ संसर्ग इत्युत्तरेणान्वयः । तत्सत्वे-नसत्वे । 'न कलशं भक्षये- त्' इत्यादौ॥ तदर्थेति ॥ नार्थेत्यर्थः ॥ संसर्ग इति ॥ शब्दभावनार्थभावनयोः संसर्ग इत्यर्थः । प्रयोजकत्वमेवोपपादयति---प्रवृत्तितदभावेत्यादि ॥ प्रवृत्तिं प्रतीष्टसाधनताज्ञानस्य कारण- त्वात् । तस्य च प्रवर्तनाज्ञानजन्यत्वात् प्रयोजकत्वं सम्भवतीत्यर्थः । तथा निवृत्तिं प्रति अनि- ष्टसाधनताज्ञानस्य निवर्तनाज्ञानजन्यत्वात् निवृत्तिप्रयोजकत्वं सुलभम् ॥ योगक्षेमेति ॥ योगे सत्यनिष्टसाधनत्वानुमितौ । क्षेमः प्रवृत्त्यभावस्य सत्वमित्यर्थः । विधिस्थले लिङादिज्ञानेन प्रवर्तनाज्ञाने जाते प्रवर्तनाविषयत्वहेतुना इष्टसाधनताज्ञाने यागादावुत्पन्ने यागादौ प्रवृत्तिः । निषेधस्थले तु नसमभिव्याहृतलिडादिना निवर्तनाज्ञानोत्पत्तौ निवर्तनाविषयत्वहेतुना कल- अभक्षणादावनिष्टसाधनत्वानुमित्या तत्र द्वेषोत्पत्तौ इच्छानुत्पादेन प्रवृत्त्यभावसत्त्वात् प्रवृत्ति- सामग्रीविघटनेन प्रवृत्त्यभावः स्थिर इति योगक्षेमसाधारणकारणत्वं प्रवृत्तिसामग्रीविघटनमिति भावः । प्रवृत्त्यभावमादाय वाक्यार्थोपपत्तौ निवृत्त्याख्ययत्नान्तरं नास्तीति मूलाभिप्रायः । ननु निषेधस्थले निवर्ततामित्याप्तेच्छाविषयीभूतनिवृत्तेः सर्वानुभवसिद्धाया अपलापे निवृत्त्यभाव एव प्रवृत्तिरिति किं न स्यात् ? न च प्रवर्तयामीत्यनुभवात् तत्तत्सिद्धिः, अत्रापि निवर्तयामीत्य- पा. २. अधि. १.] भादृचिन्तामणिसहिता । ४३ 30 तत्त्वं च प्रवृत्तिसामग्रीविघटकत्वमित्यन्यत्र विस्तरः । स च लिङाद्यर्थो विधिवाक्ये प्रवर्तनाप्रेरणाविध्यपरपर्यायः । निषेधवाक्ये निवर्तनानिवारणानिषेधप्रतिषेधापरपर्यायः । इयं च द्विविधाऽपि शाब्दी भावना । तस्याश्च भाव्ये यथायोगं प्रवृत्तिनिवृत्ती । शब्द- भावनाजानं करणम् । करणत्वं चात्र भावनाभाव्यनिष्पादकत्वम् । इतिकर्तव्यता च नुभवस्य तुल्यत्वादित्यत आह--अन्यत्र विस्तर इति ॥ पाकादाविष्टसाधनताज्ञानात् प्रवृ- त्तिस्सर्वानुभवसिद्धा । विषभक्षणादावनिष्टसाधनताज्ञानात् निवृत्तिरपि सर्वानुभवसिद्धा । तथापि प्रवृत्त्यभावस्यैव स्फुटं प्रतीयमानतया तमादायैव व्यवहारोपपत्तिः । न च विनिगमनाविरहः । प्रवृत्तिस्थले निवृत्त्यभावस्य कुत्राप्यप्रतीतेरित्याशयः ॥ शाब्दी भावनेति॥ सम्बन्धार्थे तद्धितः । भावनाशब्दसम्बन्धात् भावनेत्युच्यत इत्यर्थः । माणवके सिंहशब्दवत् गौण इति यावत् । तत्र णिजन्तात् भवतेयुटि निष्पन्नस्य भावनाशब्दस्य प्रयोज्यनिष्ठभावनाख्यो व्यापारः प्रयोजकक- त्रादिनिष्ठा च व्यापारा मिळिता भावनापंदवाच्या । व्यापारसमूहे च भावनात्वं अखण्डो- पाधिः । सा च कारकान्विता वाक्यार्थः । तस्यां च साध्यत्वसिद्धत्वे द्वौ धर्मों; तौ च कार- कान्वयाकाङ्क्षोत्थापकतानुत्थापकतावच्छेदको प्रत्ययेन लुडन्तपदेन च क्रमेण बुध्येते । प्रवर्तनाविषयत्वमेव साध्यत्वं कारकान्वयप्रयोजकमिति प्राञ्चः । तत्र भावनापदोपस्थापिता, न कारकान्वययोग्या। लिङ्गानन्वयिभावनाया एव कारकान्वययोग्यत्वादित्यादिकं भावार्थाधिकरणे व्यक्तम् । तस्याः--शब्दभावनायाः । भाव्यं--फलमित्यर्थः । यथायोग-विधिनिषेधभेदेन । प्रवृत्तिः-विधिस्थले । निवृत्तिः-निषेधस्थले । शब्दभावनाज्ञानं-अभिधारूपाया ईश्वरेच्छारूपाया वा शब्दभावनाया ज्ञानं करणम् । लिङादेस्तत्र शक्तत्वात् । यद्वा शब्दभावनाया ज्ञानं यस्मा- दिति व्युत्पत्त्या शब्दभावनाज्ञानपदेन शक्तिज्ञानमभिधीयते । तदेव च करणम् । तथाचो- क्तम्-'लिङाऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः कर- णं तदीयं प्ररोचना चाङ्गतयोपयुज्यते' इति । अत्र सम्बन्धबोधशब्दस्य शक्तिज्ञानपरत्वात् । वस्तुतस्तु शब्देन भावनाज्ञानमिति व्युत्पत्त्या शब्दभावनाविषयकशाब्दबोध एव कारणम् । सम्बन्धबोधशब्दस्यापि शक्तिज्ञानजन्यशाब्दबोधपरत्वात् न वार्तिकविरोधोऽपि । युक्तं चैतत्। शाब्दबोधस्यैव भाव्यप्रत्यासन्नत्वात् । एतेन पदज्ञानशक्तिज्ञानपदार्थोपस्थितीनां मध्ये चरम- स्यैव प्रत्यासन्नत्वात् कारणत्वं युक्तं इत्याशयेनाह-शब्देति ॥ एतेन पदज्ञानशक्तिन- हयोः कारणत्ववादिनौ निरस्ताविति व्याख्यानमनादेयम् । शाब्दबोधस्य ततोऽपि प्रत्यासन्न- त्वात् । ननु शब्दभावनाज्ञानस्य भावनाजनकत्वाभावात् कथं करणत्वमित्यत आह—कर- णत्वं चेति ॥ शब्दभावनाभाव्यार्थभावनानिष्पादकत्वं पारिभाषिकं करणत्वमित्यर्थः । एवं अर्थ- भावनाकरणत्वमपि । यागादेरर्थभावनाभाव्यस्वर्गादिजनकल्वरूपं बोध्यम् ॥ इतिकर्तव्यतेति ॥ इतिशब्दः प्रकारवचनः । कर्तव्यता-क्रिया, क्रियाप्रकार इति यावदिति पार्थसारथिः। आख्या- ४४ भादीपिका [अ. १. यथायोगं स्तुतिनिन्दे । स्तुतिनिन्दाज्ञानस्य हि प्रवृत्तिनिवृत्तिप्रयोजकसहकारित्वं रुच्य- रुच्युत्पादनद्वारा लोकसिद्धम् । स्तुतिनिन्दापदवाच्ये प्राशस्त्याप्राशस्त्यापरपर्याये बलव- दनिष्टाननुबन्धित्वानुबन्धित्वयोग्यत्वरूपे । ते च यथायोगं विधिनिषेधापेक्षितत्वात्तत्त- त्समभिव्याहृतार्थवादैर्लक्षणया प्रतिपाद्यते । तत्र 'वायुर्वं क्षोपिष्ठा" इत्यादौ स्वश- क्यक्षेपिष्ठत्वादिगुणैरेव लक्षणा । 'यजमानः प्रस्तरः" इत्यादौ गौणीगम्यस्वकार्यकर- । तेन व्यापारसामान्यात्मना प्रतीताया भावनाया विशेषाकाङ्क्षायां प्रयाजादीनामन्वय इति तदर्थः । इतिकर्तव्यता सहकारिसमुदाय इत्यन्ये । यथायोगमिति ॥ विधिनिषेधयोरिति शेपः ॥ स्तुतिनिन्दे इति ॥ गुणिनिष्टगुणाभिधानं स्तुतिः; निन्द्यनिष्ठदोषाभिधानं निन्देत्यर्थः। तयो- रुपयोगमाह---स्तुतिनिन्दाज्ञानस्येत्यादिना ॥ प्रवृत्तिप्रयोजकप्रवर्तनासहकारित्वं रुच्युत्पा- दनद्वारा । रुचिरुत्कटेच्छा । तामुत्पाद्य तद्वारा प्रवर्तनया प्रवृत्तौ जननीयायां स्तुतिज्ञानमुप- युज्यते । एवं निषेधस्थले निन्दयोत्कटद्वषे जाते कलाभक्षणात् निवर्तत इति निवर्तनासह- कारित्वं निन्दाज्ञानस्येति भावः। स्तुतिनिन्दास्वरूपमाह---स्तुतिनिन्देति ।। बलवदिति ॥ बलव- दैनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यम्। बलवदनिष्टानुवन्धित्वयोग्यत्वं चाप्राशस्त्यमित्यर्थः।जन्मा- न्तरदुरितवशात् केषाञ्चिद्यागादौ बहुविधव्ययायामादिसाध्यत्वज्ञानात् बलवदनिष्टानुबन्धित्वभ्रा- न्तिसम्भवाद्यागादेः प्राशस्त्यं न स्यात् । अतो योग्येति ॥ तथाच भ्रान्त्या तत्र तज्ज्ञानेऽपि वस्तुतस्तस्य बलवदनिष्टाननुबन्धित्वान्न दोष इति भावः । ईदृशप्राशस्त्याप्राशस्त्यज्ञानयोः प्राचीनाशुभकर्मादिवशेन यागादिगतानिष्टसाधनत्वादिज्ञाने अप्रामाण्यज्ञापकतयोपयोगः । अप्रा- माण्यज्ञानानास्कन्दितस्यैवानिष्टसाधनताज्ञानादेः प्रवृत्त्यादिप्रतिबन्धकत्वादिति तत्त्वम् । ननु विधिनिषेधवाक्ययोविशिष्टार्थबोधकत्वेन निराकाङ्क्षत्वात् कथं अर्थवादापेक्षेत्यत आह विधिनिषेधापेक्षितत्वादिति ॥ विधिनिषेधवाक्याभ्यां प्रवृत्तिनिवृत्त्योर्जनयितव्ययोः स्वस्ख- सहकारित्वेनापक्षितत्वादित्यर्थः । 'विधेरेव द्वे शक्ती कल्पयिष्यामः' इति वार्तिकं त्वगति- कस्थलाभिप्रायकमिति भावः । तत्समभिव्याहृतार्थवादैः—विधिनिषेधसमभिव्याहृतार्थ- वादैः । लक्षणया प्रतिपाद्यते ॥ इत्यादाविति ॥ इत्यादि वाक्ये चेयं लक्षणा । अर्थवाद- वाक्यघटकक्षेपिष्ठादिपदवाच्यक्षेपिष्ठत्वादिगुणविशिष्टवायुदेवताकत्वसामानाधिकरण्यसम्बन्धो लक्षणा । क्षिप्रफलकारित्वबोधोत्तरं तत्सम्बन्धिबलवदनिष्टाननुबन्धित्वरूपप्राशस्त्यबोध इति भावः ॥ गौणीगम्येति ॥ 'यजमानः प्रस्तरः' इत्यादौ यजमानप्रस्तरयोरभेदबाधेन यजमान- पदेन खकार्यकारित्वसजातीयकार्यकारित्वसामानाधिकरण्यसम्बन्धेन प्रस्तरगतप्राशस्त्यलक्षणेति तसिद्धिपेटिकायां वक्ष्यत इत्यर्थः । तत्र च प्राशस्त्यस्य च स्वाश्रययागकरणत्वसम्बन्धेन १. तै. सं. २. १. १. २. तै. सं. १. ७. ४.
पा. २. अधि. १.] भादृचिन्तामणिसहिता । ४५ । त्वादिगुणैरिति वक्ष्यते । अतस्सिद्धं भावनान्वितस्तुतिनिन्दाविषयकप्रमाजनकत्वेन अर्थवादानां धर्माधर्मयोः प्रामाण्यमिति ॥ प्रयोजनं-पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादाप प्रवृत्तौ फलसिद्धिः । भावनायामेवान्वयः । न त्वन्यत्रेति सूचयन्नाह--भावनान्वितेति ॥ ततश्च भावनान्वित- स्तुतिनिन्दाविषयकप्रमाजननद्वारा विध्येकवाक्यतया धर्माधर्मयोः प्रमाणमर्थवादा इति सिद्ध- मित्यर्थः । इदमुपलक्षणम् । विधिवाक्यानामिवार्थवादानामप्यनादिऋषिपरम्परयानध्यायवर्ज- नादिनियमसाम्यादपि प्रामाण्यं बोध्यम् । न च 'स्तेनं मनः' इत्यादौ स्वार्थेऽप्यप्रामाण्यमुक्तमिति वाच्यम्; तेषां स्वशक्यार्थस्याविवक्षितत्वेन 'हिरण्यं हस्ते भवति' इत्यादिविध्यपेक्षितप्राशस्त्य- परत्वेन प्रामाण्याविघातात् । एवं 'धूम एवाग्नः' इत्यादेरसंसृष्टहोमस्तुतिपरत्वात् । 'नचैतद्विद्मः' इत्यादेः 'देवाः पितरः' इत्यादियाजमानमन्त्रविधिशेषतया स्तुतिपरत्वसम्भवात् । 'को हि नद्वेद'इत्यस्यातीकाशविधिशेषतया स्तुतिपरत्वात् । 'शोभतेऽस्य मुखम्' इत्यादेः गर्गत्रिरात्रा- नुष्ठानप्रशंसापरत्वात् । 'पूर्णाहुत्या सर्वान्कामानवाप्नोति' इत्यस्य तत्फलसाधनतत्क्रतुनिष्पाद- काहवनीयाद्युत्पादकाग्न्याधेयकपूर्णाहुतिस्तुतिपरत्वात् । 'नान्तरिक्षे' इत्यादेर्हिरण्यान्तर्हित- चयनविधिस्तुतितात्पर्यकत्वात् । 'बबरः प्रावाहाणिः' इत्यादेः प्रवाहानादितया सूर्यचन्द्रादि- प्रतिपादनवद्बबरादिप्रतिपादनस्यापि सर्वज्ञकल्पस्य वेदस्याप्रामाण्यानापादकत्वात्सर्वोऽप्यर्थ- वाद: धर्माधर्मयोः प्रमाणम् । तस्य च लोकवेदविरोधाभाव स्वार्थेऽपि प्रामाण्यं, तद्विरोधे स्तावकत्वमेव । 'विरोधे गुणवादस्स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥' इत्याचार्यैरुक्तत्वात् । ततश्च 'धाता यथापूर्वमकल्पयत्' इत्यादिश्रुतिप्रतिपाद्यसृष्टया- दिकमपि सिद्धमिति अचिन्त्यशक्तिकपरमेश्वरकर्तृकप्रपञ्चप्रतिपादकः सर्वोऽपि वेदः प्रमाण- मिति वार्तिकोक्तं सिद्धम् । 'यत्र च अर्थवादो नास्ति तत्रापि विधेरेव द्वे शक्ती' इत्यादिपूर्वोक्तवा- र्तिकानुसाराद्विधित एव लक्षणया प्राशस्त्यबोध इति द्रष्टव्यम् । ननु 'वायु क्षेपिष्ठा-' इत्या- दीनां 'वायव्यं श्वेतमालभेत भूतिकामः' इति विध्येकवाक्यतया प्रामाण्यं न सम्भवति । 'सैन- मीश्वराप्रदहे' इति निन्दितत्वेन तत्र कर्मविध्यसम्भवात् । 'एतमेव सन्तं वायवे नियुत्त्वत आलभेत' इति वाक्य एव तद्विधानात् । न च नियुत्त्वद्वाक्ये गुणमात्रविधानमस्त्विति वाच्यम् ; तथा सति सगुणस्यैव देवतात्वेन निर्गुणस्य वायोर्देवतात्वाभावादसामर्थेन वायव्यमिति तद्धिता- नुत्पत्तिप्रसङ्गादिति चेन्न ; 'सैनमीश्वराप्रदहे' इति निन्दाया नहिनिन्दान्यायेन नियुत्त्वद्वाक्य- विहितनियुत्त्वद्गुणकवायुदेवताकयागस्तुतिमात्रतात्पर्यकतया वायव्यवाक्येऽपि कर्मविधिसम्भवेन तदेकवाक्यतया प्रामाण्योपपत्तेः । यत्त्वत्र कश्चिदाह तृतीयकाण्डे चतुर्थप्रपाठके श्रुतं 'वाय- व्यमालभेत' इति विधिसन्निहित 'वायुर्वै क्षेपिष्ठा' इत्यादिवाक्यमेव विषयः । तत्र निन्दाश्र- वणाभावान्न काचिदनुपपत्तिारति; तच्चिन्त्यम् । तृतीयकाण्डस्थस्यैव विषयत्वे तन्मात्रस्य प्रामा- भाट्टदीपिका अ. १. सिद्धान्ते तु मन्त्रवदर्थवादानामेव प्ररोचकत्वनियमात्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ सेति द्रष्टव्यम् ॥ १॥ (२)-विधिर्वा स्यादपूर्ववाद्वादमात्रं ह्यनर्थकम् ॥ १९ ॥ लोकवदिति चेत् ॥ २० ॥ न पूर्वत्वात् ॥ २१ ॥ उक्तं तु वाक्य- शेषत्वम् ॥ २२ ॥ विधिश्वानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सा- मान्यादितरेषु तथात्वम् ॥ २३ ॥ प्रकरणे सम्भवन्नपकर्षों न ण्यसिद्धयापत्त्या पूर्वोक्तवाक्यप्रामाण्यस्य एतदधिकरणसिद्धान्तविषयत्वाभावप्रसङ्गादित्यन्यत्र वि- स्तरः ॥ मन्त्रवदिति ॥ यथा ‘मन्त्रैरेव तदर्थस्मरणं कर्तव्यम्' इति नियमः तथार्थवादानामेव प्ररोचकत्वनियम इत्यर्थः ॥ तदुपस्थितेति ॥ अर्थवादोपस्थितेत्यर्थः । सा-फलसिद्धिः। अत्रे वक्तव्यम् । मन्त्राणां हि स्वराक्षरविस्मरणविपर्यासादौ प्रायश्चित्तानि बहुशो विदधति मह- र्षयः; प्रयोगकालोच्चारणं च । ततश्चात्यन्तान्तरङ्गत्वान्मन्त्रजन्यस्मृतेरावश्यकतया तदभावे फलासिद्धिरिति युक्तम् । अर्थवादानां त्वनुष्ठानकाले उपयोगाभावात् पुरुषप्रवृत्तिजनन- मात्रोपक्षीणत्वादर्थवादजन्यप्राशस्त्यज्ञानाभावे प्रायश्चित्ताद्यविधानाच्च नात्यन्तावश्यकता । किं च निरर्थवादस्थले व्यभिचारादपि नार्थवादनियमः। न च 'विधेरेव द्वे शक्ती' इत्यादिवार्तिकानु- साराद्विधिरेव तत्रार्थवाद इति वाच्यम् ; तद्वार्तिकस्य शब्दभावनांशप्रतिपादनमात्रपरत्वेन विधे- रर्थवादत्वबोधनत्वाभावात् । अपि च बलवदनिष्टाननुबन्धित्वरूपं प्राशस्त्यमित्युक्तम् । तस्य च प्रवर्तनाविषयत्वहेतुनापि ज्ञानसम्भवायार्थवादानामावश्यकता । न च तर्हि तेषां धर्माधर्म- प्रामाण्यं न स्यादिति वाच्यम् ; न हि तस्योपयोग एव नास्ति इति वदामः । किन्तु मन्त्र- वन्नियमो न कल्पनीय इति । एवं प्राचीनशुभकर्मवशाद्यस्य वित्तव्ययादौ द्वेषो नास्ति तस्य प्राशस्त्यज्ञानं विनापि प्रवृत्तिदर्शनेन फलसिद्धेरावश्यकतया नैतत्प्रयोजनं युक्तम् । किञ्च यस्य प्राचीनदुरितबाहुल्यं तस्यार्थवादसहस्रेणापि प्रवर्तयितुं अशक्यत्वाद्वयर्थ एवार्थवादः स्यात् । तस्मात् पुरुषविशेषं प्रत्येवार्थवादानां सार्थक्यमिति उक्तप्रयोजनासम्भवः । अपि च फलसिद्धयसिद्धयोरनुष्ठाने विशेषाभावेन नैतत्प्रयोजनमित्यन्यदेव प्रयोजनं वक्तव्यम् । तद्यथा- 'अश्वप्रतिग्रहेष्टिः' पूर्वपक्षे प्रतिगृहीतुः,सिद्धान्ते दातुरिति वाक्यशेषादिना निर्णयसिद्धान्तस्सर्वो- ऽपि द्रष्टव्यः। सूत्रार्थस्तु, आम्नायस्य-वेदस्य । क्रियार्थत्वात्-अंशत्रयविशिष्टभावनाप्रतिपाद- कत्वेन प्रामाण्यस्य व्यवस्थापितत्वात् । अतदर्थानाम्-अतत्प्रतिपादकानाम् । आनर्थक्यम्- प्रयोजनवदर्थराहित्यम् । तस्मात् अनित्यं-- अप्रमाणम् , एवञ्जातीयकमर्थवादजातमिति ॥ विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम् ॥ अर्थवादानां स्तावकत्वेन प्रामाण्य- पा. २. अधि. २.] भादृचिन्तामणिसहिता। . । कल्प्येत विध्यानर्थक्यं हि तं प्रति ॥ २४ ॥ विधौ च वाक्यभेदः स्यात् ॥ २५ ॥ औदुम्बरो यूपो भवत्यूर्वा उदुम्बर ऊपशव ऊर्जेवास्मा ऊर्ज पशूनामोत्यू- |ऽवरुद्धथै'' इत्याद्यर्थवादेषु न स्तुतिलक्षणा, शक्त्यैव पशुरूपफलसम्बन्धविधाय- कत्वेन प्रामाण्योपपत्तेः । पशूनिति द्वितीयया 'ऊर्जाऽवरुद्धथै' 'इति चतुर्थ्या वा पशूनां साध्यत्वेऽवगते साधनापेक्षत्वादौदुम्बरत्वं साधनं सन्निधानादूर्जेति तृती- याश्रवणाच्च । भवतीत्याख्यातेन च लक्षणया शक्त्यैव वा भावनाभिधानात् भूधातोश्च मुक्तं क्वचिदाक्षिप्य समाधीयत इत्याक्षेपिकी सङ्गतिरित्यभिप्रायेण सोमापौष्णपशुसन्निधौ श्रूयमा- णवाक्यमुदाहरति-औदुम्बरो यूपो भवतीत्यादि ।। ऊर्गित्यन्नमुच्यते । उदुम्बरो निश्चितमन्नम् । पशवोऽप्यन्नम् । अतोऽन्नेनैव उदुम्बरेणान्नरूपान्पशूनस्मै यजमानाय प्रापयत्यध्वर्युः । अत ऊर्गवरोधायौदुम्बरो यूपो भवतीत्यर्थः । आदिना 'न स पापं श्लोकं शृणोति' इत्यादिसङ्ग्रहः । ऊर्वा इत्यादिः फलप्रतिपादकत्वेन प्रमाणं, प्राशस्त्यलक्षकत्वेन वेति सन्दिह्य पूर्वपक्षमुपपादयति न स्तुतिलक्षणेत्यादि । फलसम्बन्धविधायकत्वेन ---फलसम्बन्धबोधकत्वेन । यथाश्रुते फलस्य विधेयत्वं नास्तीति सिद्धान्तविरोधात् । ततश्चौदुम्बरत्वेन पशून् भावयेदिति वाक्यार्थ इति भावः ॥ द्वितीययेति ।। द्वितीयाया ईप्सितकर्मवाचित्वेन कामोपबन्धाभावेऽपि प्रकृत्यर्थस्य भाव्यत्वानुगमः । अत एव भावार्थाधिकरण वार्तिककृतः 'तच्च फलं प्रायेणैवञ्जातीयके का- मशब्देनोच्यते' इति प्रायपदं प्रयुक्तवन्त इति भावः । ननु द्वितीयया न फलत्वप्रतीतिर्यु- क्ता । 'तथायुक्तञ्चानीप्सितम्' इत्यनीप्सितेऽपि तदनुशासनादित्यत आह----चतुर्थ्या वेति ॥ 'सर्वेभ्यो ज्योतिष्टोमः' 'रन्धनाय स्थाली' इत्यादी चतुर्थ्या भाव्यत्वावगमादिति भावः । ज्योतिरादिपदोत्तरं तृतीयाद्यभावेऽपि साधनत्वेनान्वयदर्शनासिद्धसाध्यसमभिव्याहारन्यायेनौ- दुम्बरत्वं साधनत्वेनावगभ्यत इत्याशयेनाह-सन्निधानादिति ॥ बुद्धिविपरिवृत्तेरित्यर्थः । ननु यूपपदसमभिव्याहृतेनौदुम्बर इति विकारार्थतद्धितेन जन्ययूपप्रतीतेस्सन्निधानादपि बलीयस्या पदश्रुत्या प्रकृत्यर्थान्वयेन उदुम्बरत्वयूपयोरेव साध्यसाधनभावसिद्धेरित्यत आह-ऊर्जेति ।। तृतीयाश्रवणाचेति ।। अर्थवादेन विवृतत्वादुदुम्बरेणेत्यर्थः । समानपदश्रुत्यपेक्षयापि बली- यस्या उदुम्बरत्वजातेः फलसाधनत्वे बोधिते तन्निर्वाहाय तदाक्षिप्तपरिच्छेद्यानुवादकतया तद्वितोऽप्युपपन्न इति भावः । साध्यसाधनभावघटकक्रियालाभं द्वेधोपपादयति-भवतीति । ननु करोतीत्यत्रेव भवतीत्यादावाख्यातस्य साधुत्वार्थतया आख्यातेन भावनाप्रतीत्यभावात् कथं विधित्वमित्यत आह-लक्षणयेति ॥ करोतीत्यादौ साधुत्वेऽपि प्रकृते लक्षणया भावनाभिधायित्व- १. ते सं. २. १. १.
भाट्टदीपिका [अ. १. यूपोत्पादकच्छेदनानुवादकत्वादप्राप्तार्थकत्वेन च लेट्त्वनिश्चयादुभयविशिष्टभावनावि- धायकत्वोपपत्तिरित्याक्षेप प्राप्ते-- यूपकर्तृकभवनाक्षिप्तायां भावनायां यूपस्यैव भाव्यत्वौचित्यात्सन्निधानाच्च यूपा- देशेनैवौदुम्बरत्वविधिः; न तु फलोद्देशेन कामशब्दाद्यभावेन फलत्वस्य तथाऽनुप- स्थितेः । किञ्च भवन्मते गुणफलसम्बन्धोऽयम् । न चासौ सम्भवति, आश्रयाभावात् । मित्याशयः । यत्तु भवतीत्याख्यातेनेत्यस्य भूधातुनेत्यर्थ इति व्याख्यानं, तदसत् ; भूधातोश्चे- त्युत्तरग्रन्थविरोधात् । वस्तुतस्तु लक्षणापि नास्तीत्याह-शक्त्यैव वेति ॥ सर्वाख्यातानामाख्या- तत्वेन भावनावाचित्वात् जघन्यलक्षणाश्रयणं नेति भावः । तथाचोक्तं 'अस्त्यादावपि कशे भाव्येऽस्त्येव हि भावना' इति । भूधातोरुपपत्तिमाह-भूधातोश्चेति ॥ अनुवादकत्वादिति ॥ प्रत्ययसाधुत्वार्थमेव प्रयोग इति भावः । ननु तथापि विधायकलिङाद्यभावान्न विधिसम्भव इत्यत आह--अप्राप्तेति ॥ भवतीत्यस्य लट्लेट्साधारण्येनाप्राप्तार्थत्वेन लेट्वनि- श्चयाद्विधायकत्वं सम्भवतीत्यर्थः । अयं चार्थसिद्धान्तिनोऽपि सम्मत इति द्रष्टव्यम् । पूर्वपक्षमुपसंहरति-उभयविशिष्टभावनेति ॥ तत औदुम्बरत्वकरणकपशुभाव्यकभावनावि- धानोपपत्तिरित्यर्थः । पूर्वपक्षे भावनाक्षेपपक्षस्य स्वानुक्तत्वेऽपि प्राचीनोक्तत्वेन स्वारसिकत्वेन च प्रथमतस्तं निराकरोति---यूपकर्तृकभवनाक्षिप्तायामिति ॥ यूपस्यैवेति ॥ यद्भवनान्यथा- नुपपत्तिकाल्पितभावनात्वं यत्र तत्र तद्भाव्यकत्वमिति व्युत्पत्तेलॊकसिद्धत्वात् । यूपभवनाक्षि- प्तभावनायां यूपस्यैव भाव्यत्वमुचितमित्यूर्गवरोधस्य भाव्यत्वं न सम्भवतीत्यर्थः । स्वसिद्धान्त- माह-सन्निधानाचेति ॥ स्ववाक्योपस्थितत्वादित्यर्थः । यूपोद्देशेनेति ॥ तथा च औ- दुम्बरत्वेन यूपं भावयेदिति वाक्यार्थ इति भावः ॥ कामशब्दादीति ॥ आदिना सनादि- परिग्रहः । उक्तवार्तिके प्रायपदमपि विवक्षितार्थकमिति राणके प्रतिपादितत्वात् न विरोधः । ननु कामशब्दाद्यभावेऽपि ब्राह्मणाय दुग्धमित्यादिवत् प्राधान्यप्रतीतेः फलत्वं स्यादिति चेन्न प्राधान्यप्रतीतावपि भाव्यत्वाप्रतीतेः । सर्वेभ्य इत्यादौ तु एकस्मै कामायेति पूर्ववाक्यश्रुत- कामशब्दस्य वचनविपरिणामेनानुषङ्गेण लक्षणया वा भाव्यत्वप्रतीतिः । अत्रापि लक्षणा- ङ्गीकारे सैव दोष इत्याशयः । किंच आमोतीति वर्तमाननिर्देशः फलपरत्वे बाधितः । फलस्य वर्तमानत्वाभावात् । स्तुतिपरत्वे त्वनुगुणः । 'न हि भूते भाविनि वा तादृशी प्रीतिर्यादृशी वर्तमाने' इति न्यायादित्यभिप्रायेणाह—तथाऽनुपस्थितेरिति ॥ गुणफलसम्बन्धं दूषयति- किञ्चेति ॥ आश्रयेति ॥ यत्रहि गुणः कारकता प्रतिपद्यते स आश्रयः । यथा होमो द. ध्न इति पार्थसारथिः । फलाय विधीयमानो गुणो या क्रियामपेक्षते स आश्रय इति तन्नि- ष्कर्षः । कारकत्वं अविवक्षितम् । तेन 'ऐन्द्रवायवान् ग्रहान् गृह्णीयात्' 'यः कामयेत पा. २. अधि. २.] भादृचिन्तामणिसहिता। 'सोमापौष्णं त्रैतमालभेत पशुकामः '' इति प्रकृतस्य यागस्याश्रयत्वे हि यूपग्रहणा- नर्थक्यम् । यूपस्य त्वप्रकृतत्वादेवाश्रयत्वानुफ्पत्तिः । अतिदेशेन तस्योपस्थितिस्तु जुह्वा- दिपात्रान्तरसाधारणीति तेषामप्याश्रयत्वे तथैव यूपग्रहणानर्थक्यम् । वाक्येनाश्रयदाने च वाक्यभेदः । तस्मात् 'ऊव' इत्यादिरर्थवाद एवौदुम्बरत्वस्येति सिद्धम् ।। प्रयोजनं यागफलात्फलान्तरकामनायामौदुम्बरो यूपः इतरथा खादिरः पूर्वपक्षे । सिद्धान्ते तु औदुम्बर एवेति ॥ २ ॥ यथापूर्वं प्रजाः कल्परन् ' इत्यादौ ग्रहणमाश्रित्य प्रजारूपफलोद्देशन विधीयमानस्यैन्द्रवायवाग्र- त्वस्य ग्रहणं प्रति करणत्वाभावेऽपि न क्षतिः ॥ त्रैतमिति ।। युगपदकगर्भोत्पन्नतृतीयान्यतम- मित्यर्थः । 'द्वौ वा अजायै स्तनौ नानव द्वावभिजायते' 'ऊर्ज पुष्टिं तृतीय' इति वा- क्यशेषानुसारेण वेदभाष्ये तथोक्तेः । त्रयाणां समूहस्त्रिता। 'गजसहायाभ्यां च' इति चकारेण त्रि- शब्दसमुच्चयात् । तत्र भव इति व्युत्पत्तेः ॥ यागस्येति ॥ गुणस्य यागसम्बन्धस्साक्षाद्वा प्रदेयपरिच्छेदकत्वेन वा ? नाद्यः, जातेोगनिवर्तकत्वासम्भवात् । नचानर्थक्यतदङ्गन्याये- नाङ्गेष्ववतारः । क्रत्वनङ्गे फलाङ्गे काम्यगुणे तन्न्यायानवतारात् । प्रत्युत जुह्वादिष्ववावतारात् यूपग्रहणानर्थक्यम् । नान्त्यः, जात्याक्षिप्तवृक्षस्य विलक्षणपशुकामनायां त्रैतपशुबाधकत्वेन विधानेऽपि यूपपदसार्थक्याय तद्धर्मातिदेशार्थ लक्षणापत्तेरित्यभिप्रायः । ननु यागस्याश्रयत्वा- भावेऽपि दृष्टादृष्टक्रियासमुदायरूपस्य यूपस्याश्रयत्वमस्त्वित्यत आह—यूपस्यत्विति ॥ अप्र- कृतत्वादिति ॥ विकृतौ यूपविधानाभावेनानुपस्थितत्वादित्यर्थः । अतिदेशेनोपस्थितिमाश- ङ्कयाह-अतिदेशेनेति ॥ प्राकृतेत्थम्भावस्य चातिदेशेन तस्य जुह्वादिपात्रान्तरसाधारण्येन तेषामप्याश्रयत्वापत्तेरित्यर्थः । ननु जुह्वादीनामप्याश्रयत्वमस्त्वित्यत आह---तेषामिति ॥ यूपपदवैयर्थ्यान्नैतदपि युक्तमित्यर्थः ॥ वाक्येनेति ॥ वाक्येन गुणफलसम्बन्धस्याश्रयसम्बन्धस्य च विधौ वाक्यभेदः स्यादित्यर्थः । नन्वतिदेशेन जुह्वादीनां प्राप्तावपि यूपपदानुवादबलेन जुह्वादिपरिसङ्ख्यासम्भवान्नोक्तदोषः । गिरापदद्वयनिषेधानुवादबलेनेरापदेऽभ्यासप्राप्तेः, स्थान- नियमस्य च कल्पनवन्न्यायसाम्येन परिसङ्ख्याया अपि कल्पयितुं शक्यत्वादिति चेन्न ; अति- देशप्रवृत्त्युत्तरं परिसङ्ख्यायां त्रैदोष्यापत्तेः । ततः पूर्वं तत्कल्पने तु प्रापकान्तरविरहाचूपपदस- मभिव्याहारबलादेव यूपसम्बन्धकल्पनेन वाक्यभेदतादवस्थ्यमिति भावः ॥ अर्थवाद एवेति ॥ न फलसम्बन्धबोधक इत्यर्थः । ननु ऊर्वा उदुम्बरः' इत्यदावौदुम्बरत्वेन पशून् भावयेदिति वि- धिकल्पनेन फलपरत्वमस्त्विति चेन्न; प्रकृते तत्सम्भवेऽपि 'अप्सु योनिर्वा अश्वः कर्तव्यः' इति विधेः कल्पयितुं अशक्यत्वेन स्तावकत्वस्यैवाङ्गीकरणीयतया तदवैरूप्याय प्रकृतेऽपि स्तावक- त्वस्यैव युक्तत्वात् । न च तर्हि काप्यर्थवादतो विधिकल्पनं न स्यादिति वाच्यम् ; श्रुतवि- १. ते. स. २. १.१.
भाट्टदीपिका [अ. १. (३) हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ २६ ॥ स्तुतिस्तु शब्दपूर्वत्वादचोदना च तस्य ॥ २७ ॥ व्यर्थे स्तुतिरन्याय्यति चेत् ॥ २८ ॥ अर्थस्तु विधिशेषत्वाद्यथालोके ॥ २९॥ यदि च हेतुरवतिष्ठेत निर्देशात् ॥ ३० ॥ सामान्यादिति चेत् ॥ ३१ ॥ अव्यवस्था विधीनां स्यात् ॥ ३२ ॥ चातुर्मास्ये 'शूर्पण जुहोति" इति शूर्पकरणकहोमं विधाय श्रुते 'तेन ह्यन्नं क्रियते' इत्यर्थवादे न स्तुतिलक्षणा । अपि तु होमसाधनत्वे साध्ये अन्नकरणत्वस्य हेतुवं विधीयते । न ह्यत्र पूर्ववत् भाव्यत्व इव किञ्चित्कल्पनीयमस्ति, हिशब्दश्रुत्यैव हेतुत्वाभिधानात् । हेतुश्च व्याप्तिमन्तरेणानुपपन्नः यद्यदन्नकरणं तेनतेन होतव्यमिति ध्येकवाक्यत्वाभावस्थले स्वस्वविध्येकवाक्यत्वाय तत्कल्पनसम्भवात् । प्रकृते तु श्रुतविध्येकवा- क्यत्वोपपत्त्या विधिकल्पनाया असम्भवात् । एतेन उदुम्बरत्वप्रकृतिकयूपस्य फलाकाङ्क्षाया- मूर्गवरोधः फलमस्त्विति निरस्तम् । तथा सति औदुम्बरत्वेन यूपं भावयेत् , उदुम्बरत्वविशिष्ट- यूपेनोर्गवरोधं भावयेत्' इति वाक्यभेदापत्तेरिति ध्येयम् । प्रयोजनं मूले स्पष्टम् । सूत्रार्थस्तु, विधिर्वा स्यात्-वाशब्दः प्रत्यवस्थाने । औदुम्बरो यूपो भवतीति फलाय विधिस्स्यात् । अपूर्वत्वात्—लोकतः प्राप्तयभावात् । हि-यस्मात् । वादमात्रम्-अर्थवादम् । अनर्थ- कम्-अर्थवादाभावेऽपि विधिनैव स्तुतिसम्भवादिति भावः ॥ हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ।। चातुर्मास्य इति ॥ चतुर्षु चतुर्षु मासेषु कर्तव्या- नि चातुर्मास्यानि । वैश्वदेव-वरुणप्रघास-साकमेध-शुनाशीरीयाख्यानि । तेषां चतुर्णां पर्वणां चातुर्मास्यानीति नामधेयम् । द्वितीये पर्वणि वरुणप्रघासाख्ये द्वे वेदी द्वावाहवनीयौ । तत्र दक्षिणे आहवनीये यवपिष्टमयकरम्भपात्रहोमविधानानन्तरं 'शूर्पण जुहोति' 'तेन ह्यन्नं क्रियते' इति श्रूयते । तत्र 'तेन ह्यन्नं क्रियते' इति किं हेतुविधिः, उत अर्थवाद इति संशये हेतुविधिरिति पूर्वपक्षनिरूपणाय सिद्धान्त्यभिमतमर्थवादत्वं निराकरोति-न स्तुतिलक्षणेति ॥ शक्यार्थ- विधिसम्भवे लक्षणाया अयुक्तत्वादिति भावः ॥ होमसाधनत्व इति ॥ ‘शूर्पण जुहोति' इत्यनेन प्राप्त इति शेषः ॥ अन्नकरणत्वस्य हेतुत्वं विधीयते—अन्नकरणत्वं हेतुरित्युच्यत इत्यर्थः ॥ पूर्ववदिति ॥ 'ऊर्ज पशूनाप्नोति' इत्यत्र फलत्वप्रतिपादनाय कमिपदादिकल्प- नवदिह न किश्चित्कल्पनीयमित्यर्थः । अनेन प्रत्यवस्थानात्सङ्गतिरिति सूचितम् ॥ हिशब्द- श्रुत्येति ॥ 'हिहेतौ' इत्यभियुक्तोक्तेरिति भावः ॥ हेतुश्चेत्यादि ॥ हेतुत्वान्यथानुपपत्त्या - पा. २. अधि. ३.] भादृचिन्तामणिसहिता। ५१ व्याप्तिवचनं कल्पयति । ततश्च शूर्पादन्यस्यापि दीपिठरादेर्होमसाधनत्वप्रतीतेः विधौ शूर्पपदमुपलक्षणम् । अवयुल्यानुवादो वा । यद्वा-तच्छब्देन शूर्पस्यैव परामर्शात् तद्ग- तमेवान्नकरणत्वं हेतुः । तेन च विशिष्यैव व्याप्तिकल्पनात् अन्नकरणासमर्थशूर्पव्या- वृत्तावपि न विधिस्थं शूर्पपदमन्यथा नेयमिति पूर्वः पक्षः । सिद्धान्तस्तु---क्रियत इति लडन्तनिर्देशात् वर्तमानान्नककरणत्वस्य हेतुत्वं वाच्यम् । न च होमकाले अन्नकरणत्वं सम्भवति । अतो लटः भूतभविष्यकालान्त- व्याप्तिरस्तीति ज्ञायत इत्यर्थः । व्याप्तिकल्पनप्रयोजनमाह-शूर्पादन्यस्यापीति ॥ अन्नसा- धनस्य सर्वस्यापि होमसाधनत्वलाभात् हेतुविधिस्सार्थक इति भावः । पिठरः-स्थाली। ननु यद्यदन्नकरणमित्यनेनैव शूर्पस्यापि होमसाधनत्वसिद्धेः शूर्पणेति व्यर्थं स्यादित्यत आह-- उपलक्षणमिति ॥ तथा चान्नसाधनोपलक्षकत्वान्न वैयर्थ्यमित्यर्थः । नन्वेवं लक्षणाश्रयणं स्यादित्यत आह-अवयुत्येति ॥ पृथक्कृत्येत्यर्थः । ननु कल्पितवचनेन सर्वेषां होमसाधनत्वं विकल्पेन, समुच्चयेन वा ? नाद्यः, प्रत्यक्षश्रुतशूर्पस्य कल्पितवचनप्राप्तदादिभिः विकल्पे विषमशिष्टविकल्पापत्तेः । नान्त्यः, प्रमाणाभावात् । सोमक्रये हि सर्वेषां हिरण्यरूप्या- दीनां 'दशभिः क्रीणाति' इति वचनात् समुच्चय इति युक्तम् । अत्र तु प्रमाणाभावात् न तत्सम्भवः । किञ्च समुच्चयपक्षे शूर्पणेति तृतीयानुपपत्तिः । 'समर्थः पदविधिः' इति सूत्रेण पदसम्बन्धविधिमात्रे सामर्थ्यापेक्षणात् । तृतीयाविधेरपि पदसम्बन्धिविधित्वेन साम- र्थ्यस्यावश्यकतया दीपिठराद्यपेक्षणे सामर्थ्य विघातात् । न चास्य समासप्रकरणस्थत्वेन समासे तदपेक्षायामपि सुविधौ न प्रवृत्तिरिति वाच्यम् ; अस्य परिभाषारूपत्वेन सर्वत्र प्रवृत्ते- रनिवार्यत्वात् । अन्यथा तद्धितविधौ तत्प्रवृत्तिर्न स्यात् । नच तत्र 'समर्थानां प्रथमाद्वा' इति सूत्रान्तरेण सामर्थ्यविधानान्नास्य सूत्रस्य तत्र प्रवृत्तिरिति वाच्यम् ; समर्थानामित्यस्य परिनिष्ठि- तानामित्यर्थकत्वेन उक्तसामर्थ्याविधायकत्वात् , प्रथमाद्वा प्रत्ययोत्पत्तिरित्यर्थमात्रविधौ तात्प- र्यात् । पदविधिशब्दार्थस्तु महाभाष्ये प्रसिद्ध इत्यत आह-यद्वेति ॥ तच्छब्देन-'तेन ह्यन्नम्'इति वाक्यस्थतच्छब्देन । शूर्पस्य परामर्शादिति ॥ सर्वनाम्नां बुद्धिस्थपरामर्शित्वादिति भावः ॥ तद्गत- मेव-शूर्पगतमेव । तेन-शूर्पगतान्नकरणत्वहेतुना । अन्नकरणसमर्थशूर्पस्य होमसाधनत्वसिद्धया अन्नकरणासमर्थछिद्रादिशूर्पव्यावृत्तिः । प्रथमपूर्वपक्षे अस्वरसमाह-न विधिस्थमिति ॥ तथा च प्रथमपूर्वपक्षे विधिवाक्यस्थशूर्पपदस्य उपलक्षणत्वादिकं दोष इति भावः ॥ लडन्त- निर्देशादिति ॥ 'वर्तमाने लट्' इत्यनुशासनाद्वर्तमानान्नकरणत्वस्य हेतुत्वे तत्काले होम- साधनत्वासम्भव इत्यर्थः ।। अत इति। लटो भूतभविष्यकाललक्षणा विधौ प्रसज्येत । सा- च न युक्ता, 'न विधौ परः शब्दार्थः' इति न्यायादिति भावः । सिद्धान्तेऽपि लक्षणा- .
५२ भाट्टदीपिका [अ. १. रलक्षणा विधौ तवाप्यावश्यकी । यद्यपि चेयं प्राशस्त्यलक्षणोपयोगिगुणघटकतया ममाप्यावश्यकी तथाऽप्यनुवादस्थत्वात् प्राशस्त्योपपादकत्वाच न दोषः, वर्तमाननि- देशं विना तदप्रतीतेः । किञ्च---अपेक्षितप्राशस्त्यपरत्वे सम्भवति नानपेक्षितहेतुपरत्वा- ङ्गीकारो युक्तः । अतस्सिद्धं सर्वेषामर्थवादानां स्तावकत्वेन प्रामाण्यम् ॥ ३ ॥ स्तीति शङ्कतें--यद्यपीति ॥ प्राशस्त्यलक्षणोपयोगीति ।। वर्तमानान्नकरणत्वेन प्राशस्त्यस्य लक्षणीयत्वादित्यर्थः । अनुवादस्थत्वादिति ॥ यथाप्राप्त्यनुवादार्थ लक्षणा न दुष्यतीति भावः । प्राशस्त्योपपादकत्वादिति ॥ 'न हि भूते भाविनि वा तादृशी प्रीतिर्यादृशी वर्त- माने' इति न्यायेन वर्तमानत्वनिर्देशं विना बहुक्षीरादिवाक्येष्विव प्राशस्त्याप्रतीतेरित्याशयः । ननु लक्षणाभिया 'तेन ह्यन्नं क्रियते' इत्यस्य हेतुपरत्वं परित्यज्य केवलार्थवादत्वाङ्गीकारे 'न ह्यत्रानूयाजान् यक्ष्यन्भवति' इत्यत्रापि हेतुपरत्वं न स्यादित्यत आह-किञ्चेति ॥ अपेक्षि- तेति ॥ तथाच तत्र हेतुपरत्वस्याप्यपेक्षितत्वेन सम्भवेऽपि प्रकृते प्रवर्तनार्थं प्राशस्त्यमात्रा- पेक्षणादिति भावः । अनेन वेदविहितेऽर्थे हेत्वपेक्षा नास्तीति पार्थसारथिप्रतिपादितानपे- क्षितत्वं हेतुवादस्येति सूचितम् । उक्तञ्च 'न हि वेदेनोच्यमानं हेतुमपेक्षते' इति । किञ्च हेतु- त्वान्यथानुपपत्त्या व्याप्तिवचनं कल्प्यत इति पूर्वपक्षोक्तसप्यत्यन्तासङ्गतम् । न हि लोके धूमादेर्हेतुत्वसिद्धयनन्तरं व्याप्तिवचनं कल्पयन्ति तान्त्रिकाः । किन्तु व्याप्तिपक्षधर्मतात्वेन प्रमितस्यैव हेतुत्वं वर्णयन्ति । अतोऽपि न हेतुपरत्वम् । एवं हेतुत्वसिद्धौ व्याप्तिकल्पनं, व्या- प्तिसिद्धौ हेतुत्वकल्पनमित्यन्योन्याश्रय इत्यपि द्रष्टव्यम् । उपसंहरति-अतस्सिद्धमिति ॥ सर्वेषां विधिसमभिव्याहृतार्थवादानां प्राशस्त्यलक्षकत्वमित्यर्थः । ननु सर्वेषां अर्थवादानां प्राश- स्त्यलक्षकत्वमिति न युक्तम् ; 'अनाहुतिर्वै जर्तिलाश्च गवीधुकाश्च' इत्याद्यर्थवादानां प्राश- स्त्यलक्षकत्वे निन्दाप्रतीत्यनापत्तेः । न हि तेन बलवदनिष्टाननुबन्धित्वरूपप्राशस्त्यं बोध- यितुं शक्यम् । जर्तिलयवाग्वादेविधानापत्तेः । न चैवं सम्भवति पयसो विकल्पापत्त्याष्टदो- पापत्तेरिति चेन्न; तत्र निन्दायां तात्पर्याभावात्पयोहोमस्तुत्यर्थत्वात् । 'न हि निन्दा निन्दितुं प्रवृत्ता; किन्तु स्तुत्यं स्तोतुं प्रवृत्ता' इति दशमे वक्ष्यमाणत्वान्न कोऽपि दोषः । अत्र भाष्योदाहृता ये अर्थवादभेदा आशी:प्रलापादयो राणके च सत्यज्ञानादिवाक्योपलक्षक- त्वेन व्याख्याताः, ये च द्रव्यगुणनिमित्तकर्तृकालदेशविधिरूपास्तादृशविधिनिषेधसरूपाश्च तेषामपि प्राशस्त्यलक्षकत्वेन प्रामाण्यं द्रष्टव्यम् । सूत्रार्थस्तु, वा शब्दः प्रत्यवस्थाने । 'ऊोंड वरुध्यै' इत्यर्थवादोऽस्तु । अत्र त्वन्नकरणत्वं होमसाधनत्वे हेतुः प्रतिपाद्यःस्यात् । कुतः! अर्थवत्त्वोपपत्तिभ्याम् । अर्थशब्दात् भूम्नि मंतुप् । ततश्च येन येनान्नं क्रियते तेन तेन होत- व्यमिति व्याप्त्या दीपिठरादीनामपि होमसाधनत्वसिद्धया प्रयोजनसत्त्वात् । हि शब्दो ।
पा. २. अधि. ४.] भादृचिन्तामणिसहिता। ५३ (४) तदर्थशास्त्राद्वाक्यनियमाद्बुद्धशास्त्रादविद्यमानवचना- दचेतनेऽर्थबन्धनादर्थविप्रतिषेधात्स्वाध्यायवदवचनादविज्ञेयादनित्यसं- योगान्मन्त्रानर्थक्यम् ॥ ३३ ॥ अविशिष्टस्तु वाक्यार्थः॥ ३४ ॥ गुणार्था वा पुनश्श्रुतिः ॥ ३५ ॥ परिसङ्ख्या ॥ ३६ ॥ अर्थवादो वा ॥ ३७ ॥ अविरुद्धं परम् ॥ ३८॥ संप्रेषे कर्मगर्हानुपालम्भस्सं- स्कारत्वात् ॥ ३९ ॥ अभिधानेऽर्थवादः ॥ ४० ॥ गुणादविप्रतिषेधः स्यात् ॥ ४१ ॥ विद्यावचनमसंयोगात् ॥ ४२ ॥ सतः परमवि- ज्ञानम् ॥ ४३ ॥ उक्तश्चानित्यसंयोगः ॥ ४४ ॥ लिङ्गोपदेशश्च तदर्थवत् ॥ ४५ ॥ ऊहः ॥ ४६ ॥ विधिशब्दाश्च ॥ ४७ ॥ मन्त्राणां धर्माधर्मयोः प्रामाण्यमस्ति न वेति चिन्तायां न तावद्विधित्वेन प्रा- माण्यं, तस्य द्वितीये निराकरिष्यमाणत्वात् । नापि स्तावकत्वेन अर्थवादवत् , तेषां हि सन्निहितेन विधिना पदैकवाक्यत्वात् युक्तं स्वसमर्पितप्राशस्त्यान्वितभावनाविषय- हेत्वर्थे । 'काकेभ्यो दधि रक्ष्यताम् , ते हि दध्युपघातकाः,' इत्यादौ लोके, 'न ह्यत्रा- नूयाजान्' इत्यादौ वेदे च प्रसिद्धत्वादिति ॥ तदर्थशास्त्राद्वाक्यनियमाबुद्धशास्त्रादविद्यमानवचनादचेतनेऽर्थबन्धनादर्थविप्र- तिषेधात्स्वाध्यायवदवचनादविज्ञेयादनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ पादाद्याधिकरणे 'वा- युर्वै' इत्याद्यर्थवादानां प्रामाण्यं विचारितम् । द्वितीयाधिकरणे फलविधिसरूपाणां 'ऊर्जाऽ- वरुध्यै' इत्यादीनां स्तावकत्वमुक्तम् । तृतीये हेतुविधिसरूपाणां 'तेन ह्यन्नं क्रियते' इत्या- दीनां अर्थवादत्वमुक्तमिति विधिसमभिव्याहृतानां अर्थवादानां प्रामाण्ये सिद्धे अधुना विध्य- समभिव्याहृतानां मन्त्राणां प्रामण्यमस्तीति प्रतिपाद्यत इत्यवसरसङ्गतिं प्रसङ्गसङ्गतिं चाभि- सन्धायाह--मन्त्राणामिति ।। किं मन्त्राणां विधायकत्वेन प्रामाण्यम् , उत स्तावकत्वेन, अथवा स्मारकत्वेनेति विकल्प्य नाद्य इत्याह न तावदिति ॥ द्वितीय इति ॥ 'विधिश- ब्दस्य मन्त्रत्वे' इत्यत्रेत्यर्थः । 'वसन्ताय' इत्यत्र अप्राप्तार्थत्वेन विधित्वेऽपि सर्वत्राप्राप्तार्थ- त्वाभावादिति भावः । न द्वितीय इत्याह-नापीति ॥ तेषां- 'वायुर्वै ' इत्यादीनाम् । सन्निहिते- न विधिना-'वायव्यं श्वेतमालभेत' इत्यादिविधिना । पदैकवाक्यत्वात्—प्राशस्त्यरूपप- दार्थप्रतिपादनद्वारा एकवाक्यत्वात् । स्वं--अर्थवादः । तेन समर्पितं यत्प्राशस्त्यं लक्षणया १. 'मन्त्रानर्थक्यमित्यन्तस्यैकसूत्रत्वेऽपि व्याख्यासौकर्यार्थ खण्डशः प्रत्येकं पञ्चम्यन्तसूत्रावयवोपन्यासः' इति कौस्तुभानुसारादेकसूत्रमेवेदमिह कृतम् ।
५४ भाट्टदीपिका [अ. १. कशाब्दज्ञानजनकत्वम् । मन्त्राणां तु दूरस्थत्वेन पदैकवाक्यत्वानुपपत्तेः न तद्विधया प्रामाण्यसम्भवः । नापि प्राशस्त्यं स्वातन्त्र्येण वाक्यार्थः, पदार्थविधयोपस्थितत्वात् । नाप्यर्थस्मारकत्वेन प्रामाण्यं, अनधिगतार्थबोधकत्वाभावेन तदसम्भवात् । साममन्त्रा- णामर्थाभावेन याथार्थ्यस्याप्यनुपपत्तेश्च । न च प्रामाण्याभावेऽपि स्मारकत्वादिना प्रयोजनवत्त्वमात्राङ्गीकारः, ध्यानाधुपायान्तरेणापि स्मृतिसिद्धौ नियतमन्त्राम्नानवैय- र्थ्यात् । प्रयोगासमवेतार्थस्मारकेषु स्मृतिवैयर्थ्याच्च । अतोऽधिकाराख्यप्रकरणादिनाऽव- तदन्वितशब्दभावनाविषयकशाब्दप्रमाजनकत्वात् तत्र विशेषणीभूतप्राशस्त्यप्रतिपादकत्वात् प्रामाण्यं युक्तम् । मन्त्राणां दूरस्थत्वेन विधिवाक्यसन्निहितत्वाभावान्न पदैकवाक्यतेति न स्ताव- कत्वेन प्रामाण्यसम्भव इत्यर्थः । ननु पदैकवाक्यत्वाभावेऽपि वाक्यैकवाक्यतया विध्यन्व- योऽस्त्वित्यत आह–नापीति ॥ 'तण्डुलैर्जुहोति' इत्यादिविधिशेषे 'वसूनां वा एतद्रूपम्' इत्यादौ 'यत्तण्डुलैर्जुहोति' इति पुनरनुवादेन स्वातन्त्र्येण प्राशस्त्यं वाक्यार्थ इति युक्तम् । अक्ताधिकरणवार्तिके प्रतिपादितरीत्या विध्यर्थवादयोः स्वस्वविशिष्टार्थबोधपरिसमाप्तयोरपि पुनराकाङ्क्षोत्पादनेन वाक्यैकवाक्यत्वम् । मन्त्राणां तु प्रदेशान्तरपठितत्वेन विधिसन्निध्यनुवा- दयोरभावेन वाक्यार्थत्वासम्भवेन तदेकवाक्यता न सम्भवतीत्यर्थः ॥ पदार्थविधयेति ॥ प्रा- शस्त्यस्य बलवदनिष्टाननुबन्धित्वरूपतया पदार्थत्वेन वाक्यार्थत्वासम्भवादिति भावः । यद्यपि 'चत्वारि शृङ्गाः' इत्यादीनां यागस्तावकत्वं भाष्ये उक्तम् । देवतास्तावकत्वं वार्तिके प्रतिपा- दितम् । तथापि सर्वत्र न तद्भवतीत्याशयः । न तृतीय इत्याह-नाप्यर्थस्मारकत्वेनेति ॥ सम्भवदपि प्रामाण्यम् अनधिगतार्थगन्तृत्वं वा, अबाधितार्थकत्वं वा? नाय इत्याह-अन- धिगतेति ॥ 'बर्हिर्देवसदनं दामि' इति मन्त्रप्रतिपाद्यलवनस्य 'बर्हिर्जुनाति' इति वचनेन प्राप्तत्वादिति भावः । न द्वितीय इत्याह—साममन्त्राणामिति ॥ गीतिषु सामाख्या' इति सानो गीतिरूपत्वेन गीतेर्ध्वनिरूपतया अर्थाभावादित्यर्थः । 'सृण्येव जभरी' इत्यादीनां निरुक्तादिवशेनाथसम्भवात्सामपर्यन्तानुधावनम् । स्तोभानां स्तोभभाष्योक्तरीत्यार्थवत्त्वसम्भवेऽपि नावमिकाधिकरणविरोधापत्त्यार्थीपस्थापकत्वं नास्तीति भावः । नन्वनधिगतार्थगन्तृत्वा- दिरूपप्रामाण्याभावेऽपि अर्थस्मारकत्वसत्त्वेन प्रयोजनवत्त्वात् स्वाध्यायविधिपरिग्रहान्नानर्थक्य- मित्याशङ्कते--नचेति ॥ स्मारकत्वादीत्यादिना प्रोत्साहनादिपरिग्रहः । स्मृतिः स्वार्थ- मात्रस्य वा, अनुष्ठेयार्थस्य वा, कर्मसमवेतस्य वा ? नाद्यः, ऐशप्रलापाद्यर्थस्य स्मरणेनोपयोगाभा- वात् । त द्वितीय इत्याह--ध्यानेति ॥ अनुष्ठेयार्थस्मृतेानेनापि सिद्ध्या नियतमन्त्राना- नमनर्थकमित्यर्थः । आदिनोपदेष्ट्रवचनादेः परिग्रहः । 'मन्त्रै रेवानुष्ठेयार्थस्स्मर्तव्यः' इति नि- यमकल्पने तु वाचकशब्दस्मरणस्यार्थस्मरणाधीनतयान्योन्याश्रयापत्तेरिति भावः । 'अगन्म सुवः' इत्यादिप्रोत्साहनमन्त्रेषुक्तनियमव्यभिचारं सूचयन्न तृतीय इत्याह-प्रयोगासमवेतेतिः , पा. २. अधि. ४.] भादृचिन्तामणिसहिता। ५५ गतक्रत्वङ्गभावानां मन्त्राणामुच्चारणमात्रमदृष्टार्थ विधीयते । स्वाध्यायविधिश्वोच्चा- रणोपयोगिप्रयोगप्राशुभावफलकतयैव अध्ययनं विधत्त इति न कश्चिद्दोषः । इति प्राप्ते- अभिधीयते-दृष्टे सम्भवत्यदृष्टकल्पनाऽनुपपत्तेः प्रयोगसमवेतार्थस्मृतिरेव सम्भ- वतां मन्त्राणां प्रयोजनम् । असम्भवतां तु कामं भवत्वदृष्टं प्रयोजनम् । शक्यते तु तत्रापि प्रयोगमध्येऽननुष्ठय इत्यर्थः ॥ स्मृतिवैयादिति ॥ स्वर्गादेः कर्मजन्यत्वेऽप्यनुष्ठेयत्वाभावेन स्मृतेरनुपयोगादिति भावः। प्रकरणाधीतानां मन्त्राणां सिद्धरूपत्वेन क्रियामात्रग्राह्युभयाकाङ्क्षा- लक्षणप्रकरणग्राह्यत्वाभावात् । अधिकारेति ॥ अधिकारः-आरम्भः । आदिनानारभ्या- धीतमन्त्रविनियोजकश्रुतिवाक्यादिसङ्ग्रहः । अङ्गत्वनिर्वाहाय प्रयोगमध्ये मन्त्राणामुपादानमु- च्चारणमेव नान्यत्सम्भवतीत्याह – उच्चारणमात्रमिति ॥ मात्रशब्देन मन्त्रस्मरणस्य मन्त्रार्थस्मरणस्य च निरासः ॥अदृष्टार्थमिति ॥ मन्त्राणामुच्चारणं दृष्टमेव प्रयोजनम् । उच्चारणस्य त्वदृष्टमेव । सिद्धान्तेऽपि मन्त्रनियमांशस्या दृष्टार्थत्वादिति भावः । 'उच्चैः ऋचा क्रियते' इत्यादिभिर्विधिभिः कर्माङ्गत्वेन विधीयमानोच्चैष्ट्रवादीनामानर्थक्यतदङ्गन्यायेन योग्यतया च मन्त्रस्वरूपेष्वेव निवेश इत्याशयेनाह-विधीयत इति ॥ अध्ययनविधेरदृष्टार्थतां निरस्य- ति-उच्चारणेति ॥ उच्चारणं उपयोगि यस्येत्यर्थः । उच्चारणस्योपयोगीत्यध्ययनविशेषणं वा तत्पुरुषसमासेन ॥ प्राशुभावेति ॥ प्राशुभावोऽविच्छिन्नप्रयोगः । शीघ्रप्रयोग इत्यन्ये । स एव मन्त्रांशे अध्ययनविधेः प्रयोजनमिति भावः । सिद्धान्तमाह--दृष्टेति ॥ जिज्ञासा- विकरण एवायं न्यायः प्रपञ्चित इति भावः । स्मृतिरेव प्रयोजनमित्यन्वयः ॥ सम्भवता- मिति ॥ सम्भवदृष्टप्रयोजनकानामित्यर्थः । 'बहिर्देव-' इति मन्त्रार्थलवनस्य 'बहिर्जुनाति' इति विधिप्राप्तत्वेऽपि संशयनिवृत्त्यर्थं पुनः स्मरणम् । 'इषे त्वा' इत्यादौ शाखाच्छेदनस्य स्पष्ट- प्रतीत्यभावेऽपि 'छिनद्मि' इत्यध्याहोरण च्छेदनप्रकाशकत्वम् । 'चतु!त्रा पौर्णमासी' इत्यादौ ऐन्द्रीन्यायेन लक्षणयाभिमर्शप्रतीतिः । अभ्रयादाने प्रथमेन सिद्धावपि द्वितीयादीनां स्मृतिदा- ढाथ प्रयोग इति द्वादशे वक्ष्यते । एवं क्रियमाणानुवादिनां 'युवा सुवासाः' इत्यादीनामपि द्रष्टव्यम् । प्रोत्साहनमन्त्राणां श्रद्धाजननार्थं प्रयोग इति कर्मफलप्रकाशकतया दृष्टार्थतैवेति नवमभाष्ये स्पष्टम् । उपस्थानमन्त्राणां देवताभिधानार्थत्वं सप्तमे वक्ष्यत इति भावः ॥ असम्भवतामिति ॥ जपस्तोत्रादिमन्त्राणामित्यर्थः । एवं क्रियोत्तरं प्रयुज्यमानानामेको ममे- त्याद्यनुमन्त्रणमन्त्राणां अदृष्टार्थत्वमेव । कथञ्चिदपि तत्र कर्मस्मृत्यसम्भवादिति तन्त्रान्तरकृतः । यत्त्वत्रानुमन्त्रणमन्त्राणामकृतत्वशङ्कानिरासद्वारा स्मृतिदाढयर्थित्वमेव । अत एव, ' मन्त्रमुच्चा- रयन्नेव मन्त्रार्थत्वेन शेषिणम् । संस्मरेत्तन्मना भूत्वा स्यादेतदनुमन्त्रणम् ॥' इति लक्षणमपि सङ्गच्छत इति कश्चिदाह-तन्न; एको ममेत्यादिभिः कर्मणः तत्सम्बन्धिद्रव्यादेर्वा कथञ्चिदपि स्मर- भाट्टदीपिका [अ. १. मन्त्रा अर्थप्रकाशनार्थाः प्रकाशनं परमदृष्टार्थमिति वक्तुम् । साम्नां तु-ऋगक्षराभि- व्यक्तिरेव दृष्टं प्रयोजनमर्थाभावेऽप्यव्याहतम् । अनुक्साम्नां त्वदृष्टार्थत्वमेवेत्यन्यत्र विस्तरः । न त्वेतावता सर्वत्रैवादृष्टार्थत्वम् । न च मन्त्राणां नियमेन पाठवैयर्थ्य, तद्बलेन मन्त्रैरेव स्मर्तव्यमिति नियमकल्पनात् । तस्य चादृष्टफलकत्वेऽपि न दोषः । न चैवं सामर्थ्यादेव तत्र तत्र मन्त्राणां विनियोगसिद्धौ पुनस्तेषां क्वचिद्विनियोगकरणं णासम्भवात् । लक्षणस्य 'अग्नेरहम्' इत्याद्यनुमन्त्रविषयत्वात् । ऐन्द्रीमनोतावदत्र लक्षणायां प्रमा- णाभावाच । वस्तुतस्तु तेऽपि दृष्टा एव । 'वैष्णवीमृचमनूच्य' इति विधौ वचेराभिधा- नपरस्य स्तुत्यादिविधिषु गुणकीर्तनपरस्य धातोः प्रयोगात्तेषामप्यर्थाभिधानार्थत्वात् । अत एव 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह' इति लिङ्गदर्शनमप्युपपद्यत इत्यभिप्रेत्याह-शक्यते त्विति ॥ तत्रापि-जपस्तोत्रादिष्वपि । मन्त्राणामर्थप्रकाशकत्वे विवादा- भावादिति भावः । ननु स्तोत्रादेरारादुपकारकत्वमिति द्वितीये, जपमन्त्राणामदृष्टार्थत्वमिति द्वादशे च सिद्धान्तितं विरुध्येतेत्यत आह-प्रकाशनमिति ॥ अभिधानस्यैव स्तोत्रादिपद- वाच्यत्वाजपमन्त्रार्थाभिधानस्यैव द्वादशे विचार्यत्वान्न तद्विरोध इति भावः । हुंफडादीनामपि 'हुं वितर्के परिप्रश्ने' इत्यादिकोशैरर्थवत्त्वनिश्चयात् ध्वनिष्वाशङ्कानिरासाय नावमिकाधिकरणं प्रवृत्तमित्याह-सानान्त्विति॥अक्षराणां-सन्ध्यक्षरादीनां, अभिव्यक्तिः-अवयवशो विभागः ॥ अनुक्सानान्विति ॥ प्रजापतये हृदयादीनामिळांदादीनां चेत्यर्थः । न्यूङ्खादीनां स्वातन्त्र्येण मन्त्रत्वाभावेऽपि निर्वापाद्यन्वितसवित्रादिपदानामिव दृष्टार्थतेत्याशयेनाह--अन्यत्र विस्तर इति ॥ तद्बलेन—पाठवलेन । उपदेष्ट्रवचनादीन् व्यावर्तयति--मन्त्रैरेवेति ॥ उपदेष्ट्रवचन- जन्यस्मृतेस्तददृष्टजनकत्वे मानाभावादिति भावः ॥ नियमकल्पनादिति ॥ मन्त्रनिष्ठस्मारक- तावच्छेदकधर्मविशेषो नियमः । एकस्मिन्कर्मणि बहुमन्त्रविनियोगस्थले च तत्तन्मन्त्राव्यव- हितोत्तरार्थस्मृतित्वस्य कार्यतावच्छेदकत्वान्न व्यभिचार इति द्रष्टव्यम् ॥न दोष इति ॥ केवलदृष्टस्यादृष्टसंवलितदृष्टस्य वा सर्वत्र फलत्वसम्भवान्न केवलादृष्टार्थत्वमिति भावः । अत्र केचित् यागापूर्व प्रति तत्तन्मन्त्रजन्यार्थस्मृतिपूर्वकतण्डुलनिष्पत्तिद्वारकपुरोडा- शजन्ययागत्वेन कारणत्वं कल्पयित्वा सर्वेषां नियमानां तत्तत्कारणतावच्छेदककोटि- निवेशेनैव सार्थक्योपपत्तेर्नातिरिक्तनियमादृष्टं कल्पनीयमित्याहुः । यत्तु 'प्राङ्मुखोऽन्ना- नि भुञ्जीत' इत्यादावुक्तरीत्यसम्भवादतिरिक्तनियमादृष्टकल्पनमावश्यकमिति तन्न ; यागस- म्बन्धिनियमादृष्टस्येवान्यथासिद्धेरुक्तत्वात् , भोजनादौ नियमादृष्टकल्पनेऽपि प्रकृते तत्साम्या- भावेनान्यथासिद्धेदृढत्वात् । पूर्वपक्षसूत्रोक्ततदर्थशास्त्रादीनामुपपत्तिं वक्तुं शङ्कते-नचेति ॥ सामर्थ्यादेवेति ॥ अर्थप्रकाशनसामर्थ्यरूपलिङ्गादेवेत्यर्थः ॥ कचिदिति ॥ तां चतुर्भिरभ्रि- पा. २. अधि. ४.] भादृचिन्तामणिसहिता। ५७ । व्यर्थमिति वाच्यम् । गुणपरिसङ्ख्याद्यर्थकत्वेन सार्थक्यात् । तथा हि-अर्थप्राप्ते अभ्रयादाने विकल्पेन चतुर्णा मन्त्राणां लिङ्गेन प्राप्स्यमानानां प्रापकप्रमाणात् पूर्वमेव प्रवृत्तेन 'तां चतुर्भिरभ्रिमादत्ते" इति वचनेन मन्त्रसङ्खयोभयविशिष्टादानभावनायां विहितायां एतद्वचनाभावेऽपि मन्त्राणां आदानस्य च प्राप्तिसम्भवे एतद्वचनप्रवृत्तिफल- जिज्ञासायां समुच्चयफलकचतुस्सङ्खयारूपगुणप्राप्तिरिति निश्चीयते । तथा लिङ्गादेवा- मादत्ते इत्यश्वाभिधानीमादत्ते' इत्यादावित्यर्थः ॥ गुणेति ॥ कचित् गुणार्थत्वेन कचित्परिस- वयार्थत्वेनेत्यर्थः । ननु 'तां चतुर्भिः' इत्यत्र न तावदादानविधिः, तस्यार्थप्राप्तत्वात् । नापि सङ्ख्याविधिः, पाठादेव मन्त्रचतुष्टयसिद्धौ तद्विधिवैयर्थ्यात् । नाप्यादानोद्देशेन चतुः- सङ्ख्याविधिः, सकृदुपात्ताया अभ्रेः त्यागकल्पने मानाभावेन पुनरादानासम्भवात् । नापि मन्त्रादानयोरेकविशिष्टान्योदेशेन तद्विधिः, वाक्यभेदापत्तेः । नापि सङ्ख्यामन्त्रोभयविशिष्टा- दानविधिः, त्रयाणामप्यन्यलभ्यत्वात् । नापि मन्त्राणां विकल्पनिरासफलकः समुच्चयविधिः, तद्वाचकशब्दाभावात् । अत एव 'इत्यश्वाभिधानीमादत्ते' इत्यत्र गर्दभरशनातो मन्त्रनिवृत्तेन विधिः । नाप्यादानविधिः, उखासम्भरणोपयोग्यश्वाचनपक्रमणाय तद्बन्धनरज्वादानस्यार्थप्राप्त- त्वात् । नाप्यश्वरशनोद्देशेन मन्त्रविशिष्टादानविधिः, विशिष्टोद्देशे वाक्यभेदात् । रशनायामश्वीयत्वस्य ग्रहैकत्ववदविवक्षया अश्वाभिधानीपदे अपूर्वसाधनत्वलक्षणया वा गर्दभ- रशनायामपि मन्त्रप्राप्तेरनिवार्यत्वाच्च । तस्माद्वचनवैयर्थ्यमित्यतः सार्थक्यं क्रमेणोपपादयति- तथा हीत्यादिना ॥ अर्थप्राप्त इति ॥ अग्निचयनप्रकरणे श्रूयते 'तां चतुर्भिरभ्रिमादत्ते' इति । अम्रिः-खनित्रमिति कपर्दी । 'अधिः-स्त्री काष्ठकुद्दालः' इत्यमरः । ब्राह्मणानुसारा- द्वैणवी वा । तया मृदं खात्वा तया मृदोखा कार्या । तत्रादानं विना मृत्खननासम्भवादादानमर्थ- प्राप्तम् । तत्र च वचनं 'तां चतुर्भिः' इति । 'देवस्य त्वा' इत्यारभ्य 'अङ्गिरस्वत्' इत्यन्त एकः। 'अभिरसि नारिरसि' इत्यारभ्य 'त्रैष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वत्' इत्यन्तो द्वितीयः । 'बभिरसि नारिरसि' इत्यारभ्य 'अङ्गिरस्वत्' इत्यन्तस्तृतीयः । 'हस्त आदाय' इत्यारभ्य 'अङ्गिर- स्वत्' इत्यन्तः चतुर्थः इति मन्त्रचतुष्टयेनेति तदर्थः॥ विकल्पेनेति ॥ 'एकार्थास्तु विकल्पेरन्' इति न्यायादिति भावः ॥ पूर्वमेवेति ॥ लिङ्गापेक्षया श्रुतेः पूर्वं प्रवृत्तेस्तृतीये वक्ष्यमाणत्वा- दिति भावः । एवमाक्षेपाद्यपेक्षयापि वचनस्य शीघ्रप्रवृत्तिर्द्रष्टव्या ॥ मन्त्रसङ्खयोभयविशि- ऐति ॥ 'देवस्य त्वा' इत्यादिमन्त्राः, चतुष्वसङ्ख्या । तदुभयविशिष्टादानभावनाया विधिरि- त्यर्थः ॥ समुच्चयफलकेति ॥ मन्त्रसङ्ख्योभयविशिष्टादानविधौ त्रयाणामन्यलभ्यत्वेऽपि मन्त्राणां विकल्पनिरासद्वारा समुच्चयरूपफलसिद्धयर्थ विधेरावश्यकत्वात्सार्थक्यमिति भावः । 'यदग्नये च प्रजापतये च' इत्यादाविव समुच्चयस्य वाक्यार्थत्वे वाचकापेक्षायामपि तत्फलकत्वे १. तै. सं. ५. १. १. - 8 ५८ भाट्टदीपिका [अ. १ मिचयनाङ्गभूताश्वरशनादाने प्राप्स्यमानस्य मन्त्रस्य ततः पूर्वप्रवृत्तेन 'इमामगृभ्णन् रश- नामृतस्येत्यश्वाभिधानीमादत्ते" इत्यनेन वचनेन मन्त्रविशिष्टादाने अश्वरशनाङ्गत्वेन तदपेक्षाभावादित्याशयः । यत्तु मन्त्रसङ्ख्योभयमात्रविधानेऽपि समुच्चयसिद्धिरित्याशङ्कय समा- हितं, चतुःपदस्यारुणापदवत् गुणमात्रपरतया मन्त्रेरित्यध्याहृत्य द्वयोः कारकयोमिथोऽन्वयायोगे- नादानभावनाविधानमावश्यकमिति तन्न; उभयविधानस्य शङ्कितुमयोग्यत्वादिति ध्येयम् । 'इत्य- श्वाभिधानीमादत्ते' इति वचनसार्थक्यमुपपादयति-तथेत्यादिना ॥ अस्ति महाग्निचयनप्रक- रणे उख्याग्निः प्रत्यहं यजमानेन कर्तव्यविष्णुक्रमणाङ्गतया विहितः 'संवत्सरमुख्यं बिभर्ति' इति । उखायां भव उख्य इति व्युत्पत्तिः। सा चोखा मृण्मयी कार्या । तत्र मृदाहरणायारण्यं गच्छेद- ध्वर्युः । तत्र मृत्संस्कारार्थोऽश्वः, मृदाहरणार्थो गर्दभश्च नेतव्यः । तत्र अश्वबन्धनार्था रज्जुर- श्वाभिधानीत्यभिधीयते । बध्यतेऽनयेति व्युत्पत्तेः । करणे ल्युट् । 'टिट्ठाणञ्' इत्यादिना डीप् । एवं गर्दभरशना । तत्र वचनम् 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति । 'हृगृहोर्भश्छन्दसि' इति शास्त्रादगृभ्णन्निति वस्तुस्थितिः ॥ ततः पूर्वप्रवृत्तेनेति ॥ लिङ्गस्य मन्थरप्रवृत्तिकत्वेन तदपेक्षया वचनस्य शीघ्रप्रवृत्तत्वादिति भावः ॥ अश्वरशनाङ्गत्वे- नेति ॥ अश्वरशनोद्देशेनेत्यर्थः । न च विशिष्टोद्देशे वाक्यभेद इति वाच्यम् ; समासघटकप- दार्थयोः कारकत्वे हि तयोः क्रियान्वयनियमात् प्रत्येक क्रियान्वये वाक्यभेदो विध्यावृत्तिल- क्षणो भवेत् । समासस्थले 'समर्थः पदविधिः' इति परिभाषया एकार्थीभावलक्षणसामर्थ्या- नुसारेण परस्परान्वयस्य व्युत्पन्नतया विशिष्टस्यैवान्वयोपपत्तेर्न विध्यपेक्षेति वाक्यभेदाप्रसक्तेः। उक्तश्वार्थोऽष्टमे भाष्यकारैः ‘शताग्निष्टोममित्यपि समास उभयविशेषणविशिष्टं गणमाह-स एवैकार्थो विधीयते । यथा लोहितोष्णीषाः' इति । अत एव चित्राधिकरणे ‘पञ्चदशान्या- ज्यानि' इत्यत्र समासाभावात् वैशिष्टयासिद्धया वाक्यभेद इति पार्थसारथिः । 'विष्णवे शिपिविष्टाय' इत्यत्र तु समासाभावेऽपि मन्त्रार्थवादादिप्रसिद्ध सम्बन्धमादाय विशिष्टककारक- विधानसम्भव इति 'विश्वेभ्यो देवेभ्यः सोमाय वनस्पतये' इत्यादिवन्न वाक्यभेद इत्युक्तं षष्ठे । प्रकृते वाक्यभेदाभावादेव च न विशेषणाविवक्षा । न च वाक्यभेदाभावेऽप्यश्वाभिधानीपदे अपूर्वसाधनलक्षणाया आवश्यकत्वात् गर्दभरशनायामपि मन्त्रप्राप्तिरनिवार्यवेति वाच्यम् ; अश्वा- भिधानीपदे अश्वाभिधानीमात्रद्वारकापूर्वसाधनविशेषस्यैव लक्षणीयतया उक्तदोषाभावात् । अन्यथा वाक्यवैयर्थ्यापत्तेः। यत्त्वत्र कौस्तुभे 'युञ्जाथां रासभं युवम्' इति गर्दभमिति प्रतिनिय- तनिर्देशान्यथानुपपत्त्याश्वाभिधानीपद एव लक्षणेत्युक्तम् , तत् 'आम्रान् पृष्टः कोविदारान् ब्रूते' इति न्यायमनुकरोति । 'अश्वमभिदधाति' इति विधाय युञ्जाथामिति विधेः श्रवणेन बन्धनविधौ तत्सत्त्वेऽपि आदानविधौ तदभावात् । यत्तु कैश्चिन्मूलकारस्याश्वरशनाङ्गमन्त्र- १. तै. सं. ५. १. २.
पा. २. अधि. ४.] भादृचिन्तामणिसहिता । , विहिते पूर्ववत् फलजिज्ञासायां गर्दभरशनानिवृत्तिरूपशेषिपरिसङ्ख्या फलम् । न च फलतः परिसङ्घयायां स्वार्थहानिः परार्थकल्पनं प्राप्तबाध इति त्रैदोष्यम् । अश्वामि- धानीसम्बन्धरूपस्वार्थस्यैव विधेयत्वात् , अन्यनिवृत्तिरूपपरार्थस्यार्थसिद्धत्वेन अक- ल्पनीयत्वात् , प्रापकप्रमाणस्याप्रवृत्ततया प्राप्तबाधाभावाच्च । अत एव यत्र प्रापकप्रमा- णप्रवृत्त्युत्तरमेव परिसङ्ख्याशास्त्रस्य प्रवृत्तिः यथा— 'पञ्च पञ्चनखा भक्ष्याः' इत्यादौ रागतः प्राप्तपञ्चनखभक्षणे पञ्चातिरिक्तपरिसङ्ख्याकरणं तत्रैव तत् । यत्रापि च श्रौती विशिष्टादानविधेरेवाभिमतत्वात् नापूर्वसाधनलक्षणायाः प्रसक्तिरिति व्याख्यातम् ,तत्मन्त्रविशि- ष्टादाने अश्वरशनाङ्गत्वेन विहित इति मूलाननुगुणत्वादुपेक्ष्यमिति दिक् । पूर्ववत्-अभ्रयादान- मन्त्रविधिवत् । फलजिज्ञासायां-लिङ्गात्पूर्व चयनप्रवृत्तिप्रयोजनाकाङ्क्षायाम् । गर्दभरशना- निवृत्तिः-गर्दभरशनातो मन्त्रनिवृत्तिः । 'गर्दभ आसादयति' इति वचनेन मृदो गर्दभोपर्या- नयनस्य विहितत्वात् तद्रशनाया अपि रशनात्वेन मन्त्रप्रतिपाद्यत्वात्तत्र मन्त्रप्राप्तौ तन्निवृत्ति- रूपपरिसङ्खयैव वचनप्रवृत्तेः फलमित्यर्थः । त्रैदोष्यमुपपादयति-स्वार्थेति ॥ स्वार्थस्य-स्व- प्रतिपाद्यस्य । हानिः-त्यागः । परार्थकल्पनं परस्य-निषेधवाक्यस्य, यो अर्थः तत्परत्वम् । प्राप्तबाधः-प्राप्तस्य-प्रापकप्रमाणेन प्राप्तस्य, बाधः--अननुष्ठानम् । वैदोष्यमिति-अर्थ- गत एको दोषः, द्वौ शब्दगताविति त्रयो दोषाः। चातुर्वर्णादित्वात् प्यङ् ।। अश्वाभिधानीति- अश्वाभिधान्युद्देशेन मन्त्रविशिष्टादानस्यावश्यकत्वात्स्वार्थहानिर्नास्तीत्यर्थः।। अन्यनिवृत्तिरूपेति -गर्दभरशनातो निवृत्तिरूपवाक्यान्तरार्थस्यार्थप्राप्तत्वेन एतद्वाक्यप्रतिपाद्यत्वाभावात्परार्थकल्पना नास्तीत्यर्थः ॥ प्रापकप्रमाणस्येति-लिङ्गरूपस्य तस्याप्रवृत्तत्वेन प्राप्तबाधोऽपि नास्तीत्यर्थः। परिसङ्ख्यायां त्रैदोप्योदाहरणमाह-अत एवेति ॥ यत्र-'पञ्च पञ्चनखा भक्ष्याः' इत्यादौ । प्रापकप्रमाणप्रवृत्त्युत्तरमव-पञ्चातिरिक्तपञ्चनखभक्षणप्रापकेप्टसाधनताज्ञानाद्युत्पत्त्यनन्तरमेव । परिसङ्ख्याशास्त्रस्य-'पञ्च पञ्चनखा भक्ष्याः' इति शास्त्रस्य ॥ रागत इति ॥ अनेन दोषास्त्रयोऽपि सूचिताः । तत्रैव-'पञ्च पञ्चनखा भक्ष्याः' इत्यादिष्वेव । तत्-त्रैदोप्यम् । अयं भावः । रागप्राप्तपञ्चातिरिक्तपञ्चनखनिषेधपरत्वाद्वाक्यस्य विधिरूपस्य निषेधपरत्वाच्च स्वार्थ- त्यागादयो दोषाः प्रसज्यन्त इति । 'शशकः शल्यको गोधा खड्गः कर्मस्तु पञ्चमः' इति पश्चनखा भक्ष्याः । 'सृगालः पुरुषो हस्ती मर्कटाश्वबिडालकाः' इत्यादिपञ्चनखा अभक्ष्या बोध्याः । अत्र सृगालादयः ऐहिकानिष्टाजनकत्वे सति क्षुण्णिवर्तकभक्षणयोग्या इति इष्ट- साधनताज्ञानेन लोकानां प्रवृत्तिरनुभवसिद्धा । तत्र लोकतः पूर्व वचनप्रवृत्तावपूर्वविधित्वेन फलकल्पनं स्यात् , अभक्ष्यमध्यपरिगणनविरोधश्च स्यात् । अत एव न नियमविधिः, पक्षप्राप्त्यभावात् । निषिद्धपरिग्राह्यपश्चनखानां समुच्चयेन भक्षणान्वयसम्भवात् । अत एव नियमविधौ समुच्चयो न भवतीति वक्ष्यते । अतः परिसङ्खथैवेयम् । सा च रागप्राप्त्युत्तर- ६० भाट्टदीपिका [अ. १. परिसङ्ख्या यथा—'नानृतं वदेत् " इत्यादौ तत्रापि न तत् । अत एव शब्दतः फलतो वा यस्य शास्त्रस्यान्यनिवृत्तिर्विषयः स परिसङ्ख्याविधिः । अत्र चैतद्विध्य- भावे प्रायश औत्सर्गिको तत्र चान्यत्र च प्राप्तिन तु सापि लक्षणघटिकेति ध्येयम् । मेवेति त्रैदोष्यमवर्जनीयमिति भावः । नन्वेवं 'पञ्च पञ्चनखा भक्ष्याः' इत्यादावपि 'इमाम- गृभ्णरशनामृतस्य' इत्यत्र लिङ्गात्पूर्व वचनप्रवृत्तिवत् रागात्पूर्वं वचनप्रवृत्तिसम्भवेनाप्राप्तपरि- सङ्ख्यापत्तेर्न त्रैदोप्यं युक्तमिति चेन्न ; वैषम्यात् । तत्र हि लिङ्गवचनयोश्शास्त्रत्वेन शास्त्राधीनेष्टसाधनताज्ञानजन्यप्रवृत्तित्वाल्लिङ्गेन श्रुत्यनुमानद्वारा इष्टसाधनताज्ञानापेक्षया शीघ्र- प्रवृत्तश्रुत्यधीनेष्टसाधनताज्ञानजन्यप्रवृत्तेः प्रबलत्वेन अश्वरशनादाने मन्त्रस्य विनियोगेन निराकाङ्क्षतया गर्दभरशनायां विनियोगाभावादप्राप्तपरिसङ्ख्यात्वं युक्तम् । प्रकृते तु पश्चनखानां सर्वेषामेव रागप्राप्तप्रवृत्तिविषयत्वेन प्रवृत्तिकृतविलम्बाभावादागस्यालौकिक- प्रमाणापेक्षया शीघ्रप्रवृत्तिकत्वादिति ध्येयम् । एवं निषेधस्थलेष्वपि न दोष्यमित्याह-ना- नृतमिति ॥ तत्रानृतवदननिषेधस्यैव शास्त्रतात्पर्यविषयत्वेन खार्थत्यागपरार्थस्वीकारयोरभावान्न त्रैदोष्यमिति भावः । शब्दतः परिसङ्ख्यायाः फलतः परिसङ्घयायाश्चानुगतं रूपमाह-अत एवेति ॥ अन्यनिवृत्तितात्पर्यकविधित्वं परिसङ्ख्याविधित्वमिति लक्षणमिति भावः । अन्यनिवृत्ति- र्द्विविधा । अन्यस्मानिवृत्तिः, अन्यस्य निवृत्तिरिति च । ' इत्यश्वाभिधानीमादत्ते' इत्यादावाद्यः । अन्यस्मात् गर्दभरशनादानान्मन्त्रनिवृत्तेः। गृहमेधीये 'आज्यभागौ यजति' इत्यादौ द्वितीयः । अन्यस्य प्रयाजादेः निवृत्तेः । न च 'नानृतं वदेत् ' इत्यादौ अन्यनिवृत्त्यप्रतीतेः कथं परि- सङ्ख्यात्वमिति वाच्यम् ; अन्यशब्दस्य स्पष्टार्थमुपादानान्निवृत्तितात्पर्यकविधित्वस्यैव लक्षणत्वोप- पत्तेः । एवं 'तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या' इति वार्तिके तत्र चान्यत्र चेति स्पष्टार्थ- मेवोपात्तम् । न तु तस्य लक्षणघटकत्वमित्याह-अत्र चेत्यादिना ॥ प्रायश इति ॥ सत्यव- चनमात्रेण कार्यसिद्धिस्थले अनृताग्रसक्तेरिति भावः ॥ सापि-प्राप्तिरपि ॥ लक्षणघटिकेति ॥ प्रयोजनाभावान्न लक्षणघटकत्वमिति भावः । एतेन तत्रान्यत्रेति पदाभ्यां शेषिणोः शेषयोर- न्यतरयोर्वा निमित्तयोराश्रययोर्वा विवक्षायां तदितरपरिसङ्ख्याखव्याप्तिः । शय्वन्ता प्रायणीया सन्तिष्ठते' इत्यत्र शंयूत्तराङ्गानां, दण्डी प्रैषानन्वाह' इत्यत्र रात्रिप्रचारादिशेषिणां, 'सायं जुहोति' इत्यत्र यावज्जीववाक्यावगतकालान्तरावच्छिन्नजीवनरूपनिमित्तानां, 'यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते' इत्यत्र शुक्राग्रतादिकाम्यगुणाश्रयत्वेनाधाराग्रहाणां व्यावर्तनीयत्वात् । नापि विध्यु- पात्तत्वानुपात्तत्वाभ्यामनुगमः । 'यदि रथन्तरसामा सोमस्स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्' इत्यत्राव्याप्तेः, रथन्तरसामकानामरथन्तरसामकानां च विकृतीनामुभयासामपि प्रकृतविध्यनुपात्त- त्वात् । नापि ग्राह्यत्वव्यावर्त्यत्वाभ्यां, 'अत्र ह्येवावपन्ति' इत्यत्राव्याप्तेः । अत्र गायत्री-बृहती- १. तै. सं. २. ५. ५.
731 पा. २. अधि. ४.] भादृचिन्तामणिसहिता। अत एवैकस्मिन् कार्ये नृतस्य सत्येन सह पाक्षिकप्राप्तावपि नानृतं वदेदिति परिस- जथैवेयम् । न तु नियमविधिः । अत एव यस्य शब्दतः फलतो वा पाक्षिकायोग- व्यावृत्तिरूपो नियमः शास्त्रस्य विषयः स नियमविधिः । यथा सत्यमेव वदेत् व्रीहीन- वहन्तीत्यादौ । अत्र नियमस्यैवायोगव्यावृत्त्यर्थ केन एवकारेण विधेयत्वात् । आक्षेपतः पूर्वप्रवृत्तस्यावघातविधेर्नियमफलकत्वाच्च । नियम पाक्षिकायोगश्च तन्मात्रविध्यप्रवृत्ति- निमित्तको विध्यन्तराप्रवृत्तिसहितैतद्विध्यप्रवृत्तिनिमित्तकश्चेत्यादिप्रकारेण बोध्यः । व्रीहीनवहन्ति उत्तरेऽहन्द्विरात्रस्य गृह्यते इत्यादावाद्यः । एतद्विध्यभावे आक्षेपेणाति- देशेन चावघातस्य षोडशिग्रहणस्य च पक्षप्राप्तत्वात् । व्रीहिभिर्यजेतेत्यादौ द्वितीयः । अनुष्टुप्सु ग्राह्याखावापाप्रसक्तेः । विवृद्धस्तोमकेषु ऋतुषु ऋचामागमेनैव सङ्ख्यायाः पूर्यतया ऋचामृवावापासम्भवात् । विकृतिसन्निधिपठितानां अप्राकृतसाम्नां तु योन्युत्तर नाम- पाठेनावापप्रसक्तावपि 'अन्ते तु बादरायणः' इति न्यायेन माध्यन्दिनार्भवपवमानान्त्यतृचयो- स्त्रैष्टुभजागतयोरेव तत्प्रसक्तेरिति निरस्तम् । निवृत्तिबोधकत्वमात्रस्य सर्वेष्वविशेषणाव्याप्ते- रभावादित्यभिप्रायः । अत एव-प्राप्तेर्लक्षणघटकत्वाभावादेव ॥ परिसङ्खयैवेति ॥ 'ना- नृतं वदेत्' इत्यादौ अनृतस्य सत्येन सह पाक्षिकप्राप्तावपि निवृत्तिफलकविधित्वसत्त्वेन परि- सङ्ख्यात्वमेव । न तु पाक्षिकप्रवृत्तिमादाय नियमविधित्वमित्यर्थः । नियमविधिमाह-अत एवेति ॥ शब्दतः फलतो वेति ॥ नियमो नामायोगव्यवच्छेदः । यत्र शब्दत एवायोगव्यावृ- त्तिर्बोध्यते स एको नियमविधिः । यत्र च फलतोऽयोगव्यावृत्ति. सोऽपरो नियमविधिः । तत्राद्यमुदाहरति-सत्यमेवेति ॥ एवकारेणायोगव्यावृत्तिबोधनाद्विशेष्यसङ्गतैवकारस्या- योगाव्यवच्छेदार्थकतयानृतेन सहैकस्मिन् कार्ये सत्यस्य प्राप्तौ सत्यामयोगव्यवच्छेदे सति नि- यमविधित्वमित्यर्थः । द्वितीयमुदाहरति—बीहीनिति ॥ आक्षेपात्पूर्वमवघातविधेः प्रवृत्त्यङ्गी- कारण पूर्वप्रवृत्तेः फलजिज्ञासायामाक्षेपप्राप्तावघातायोगव्यावृत्तेर्नियमरूपायाः फलत्वाङ्गी- कारादित्यर्थः । ततश्च पाक्षिकायोगतात्पर्यकविधित्वं नियमविधित्वमिति फलितार्थः । तत्र पाक्षिकायोगद्वैविध्येन नियमविधिद्वैविध्यमाह-पाक्षिकायोगश्चेति ॥ तन्मात्रेति ॥ तद्वि- धिमात्राप्रवृत्तिनिमित्तक इत्यर्थः । मात्रचा विध्यन्तराप्रवृत्तिसाहित्यव्यवच्छेदः । तत्राद्यमुदा- हरति-व्रीहीनवहन्तीति ॥'वीहीनवहन्ति' इत्यादिविधिमात्राप्रवृत्तौ आक्षेपेणावघातस्य प्रा- प्तिवत् विदलनादीनामपि प्राप्तौ अवघातायोगप्रसक्त्या तद्व्यवच्छेदेन नियमविधित्वमित्यर्थः ॥ उत्तरेऽहन्निति ॥ एतद्विध्यभावे षोडशिग्रहणस्य प्रकृतितश्चोदकेन विकल्पेन प्राप्ततया षोड- शिग्रहणाभावपक्षेऽयोगप्रसक्त्या तद्वयवच्छेदेन षोडशिग्रहनियमविधित्वमित्यर्थः । द्वितीय- मुदाहरति बीहिभिरिति ॥ यवविध्यभावसहितव्रीहिविध्यभावे ब्रीहीणां यागविध्याक्षिप्तानां पक्षप्राप्त्याऽयोगव्यावृत्तिसम्भवादित्यर्थः । विध्यन्तराप्रवृत्तिसाहित्यविशेषणादाने व्रीहिविध्यप्र- - THE KUPPJSWIMS1ST31 ६२ भाट्टदीपिका [अ. १. यवविध्यभावसाहतैतद्विध्यभावे व्रीहीणामाक्षेपेण पक्षप्राप्तत्वात् । एवंविधभेदसत्त्वेऽपि चायोगव्यावृत्तिमात्रस्यैव लक्षणे प्रवेशान्न कोऽपि दोषः ॥ यत्तु दृष्टार्थत्वं नियमविधिलक्षणं कैश्चिदुक्तम् , तदुत्तरेऽहन्द्विरात्रस्य गृह्यत इत्यादावव्याप्तत्वादुपेक्षितम् । षोडशिग्रहयागाभ्यासस्यादृष्टार्थत्वात् । अत एव नियम- परिसङ्ख्यातिरिक्तफलकविधित्वमपूर्वविधित्वमिति तलक्षणमाप सुस्थम् । एतेषाञ्चो- वृत्तावप्याक्षेपानवताराद्यवविधिनैवानियादीनां चरितार्थत्वान्नियमविधित्वं न स्यात् । अतस्तद्विशे- षणमुपात्तम् । तत्राननुगमदोपं परिहरति— एवंविधेति ॥ उक्तरीत्या नियमविधेरेकरूप- त्वाभावेऽपोत्यर्थः । अयोगव्यावृत्तीति ॥ अयोगव्यावृत्तितात्पर्यकविधित्वस्य नियमविधि- लक्षणत्वात्तस्य चानुगतत्वादिति भावः । एतेन पाक्षिकत्वं नोद्देश्यविधेयान्यतरस्य विवक्षितम् । 'रथन्तरे प्रस्तूयमाने सम्मीलयेत्' इत्यपूर्वविधौ रथन्तरस्य बृहता सह ज्योतिष्टोमे पाक्षिक- तया 'तमुक्थ्येन' इति वैकृताग्निविधौ च विधेयस्याग्नेरुत्तरवेद्या सह पाक्षिकतया अतिव्याप्तेः। यदि रथन्तरसामेति परिसङ्ख्याविधी रथन्तरसामत्वेन्द्रवायवाग्रत्वयोः पाक्षिकत्वादतिव्याप्तेश्चेति निरस्तम् । पाक्षिकत्वस्य लक्षणाघटकत्वादयोगव्यावृत्तरेव लक्षणघटकतया सम्मीलनादे रथन्तरायोगव्यवच्छेदकत्वाद्यभावेनातिव्याप्त्यसम्भवादित्याशयः । केषाञ्चिन्मतं दूषयितुं उपन्यस्यति-यत्त्विति ॥ दृष्टार्थत्वमिति ॥ 'व्रीहिभिर्यजेत' 'नाहीनवहन्ति' इत्यादौ यागनिर्वृत्तिवैतुष्यरूपदृष्टप्रयोजनसत्त्वादिति भावः ॥ अदृष्टार्थत्वादिति ॥ दृष्टार्थत्वा- भावादित्यर्थः । अत्र केचित् उत्तरेऽहन्निति वाक्ये यागाभ्यासो न विधीयते । तस्य प्रकृतित एव प्राप्तत्वादश्रुतत्वाच्च । किन्तु ग्रहणमेव विधीयते । तस्य च याग- निर्वृत्तिरूपदृष्टप्रयोजनसत्त्वान्न दोषः । न च ग्रहणस्यापि प्राप्तत्वान्न विधेयत्वमिति वाच्यम् ; विकल्पेन प्राप्तस्य नियमार्थं विधिसम्भवादित्याहुः। अपूर्वविधिमाह-अत एवेति ॥ नियमपरि- सङ्ख्यातिरिक्तेति परिचायकमेव, नतु लक्षणघटकम् । अप्राप्तप्राप्तितात्पर्यकविधित्वमपूर्व- विधित्वमित्येव लक्षणसम्भवात् । एतेन नियमपरिसङ्ख्यातिरिक्तत्वं यदि नियमपरिसङ्घयो- भयभिन्नत्वं तदा नियमविध्यादावतिव्याप्तिः,प्रत्येकमुभयभिन्नत्वसत्त्वात् । यद्यन्यतरप्रतियोगिकभे- दवत्त्वं, तदा तथैवातिव्याप्तिः। यद्यन्यतरत्त्वावच्छिन्नप्रतियोगिताकभेदवत्त्वं तदातीव गौरव- मिति निरस्तम् । नियमपरिसङ्ख्यातिरिक्तत्वस्य लक्षणाघटकत्वादत्र चापूर्वविधेरप्राप्तप्राप्तिरेव फलम् । यथा 'ब्रीहीन् प्रोक्षति' इति विध्यभावे व्रीहिषु प्रोक्षणाप्राप्त्या तत्प्राप्तेर्नियमरूपत्वाभा- वात्परिसङ्घयारूपत्वाभावाच्च तद्विधिरपूर्वविधिरिति भावः । नन्वेवं 'नीहीनवहन्ति' इति नियमविधौ वैतुष्यकार्ये दलनादिनिवृत्तेः फलतः पर्यवसानात् परिसङ्ख्याविधिलक्षणस्यातिव्या- प्तिरेव । 'त्रीहीन् प्रोक्षति' इत्यपूर्व विधावप्रोक्षणनिवृत्तेः फलतस्सत्त्वादपूर्वविधावपि तथेत्यत अह- एतेषामिति ॥ एतेषां-उक्तोपाधीनाम् । क्वचित्-उक्तनियमविध्यादिषु । सङ्कार्येजप-समावेशे- पा. २. अधि. ४.] भादृचिन्तामणिसहिता । ६३ पाधीनां क्वचिदुदाहरणे साङ्कर्येऽपि न दोष इति न विधिरसायनोक्तलक्षणदूषणाव- काशः । विस्तरेण चैतदस्मत्कृते मीमांसाकौस्तुभे द्रष्टव्यम् । तदेवं मन्त्राणामर्थस्मा- ऽपि ॥ न दोष इति ॥ तत्तत्तात्पर्यघटितलक्षणानामेवोक्तत्वादुक्तनियमविध्यादिषु निवृत्तेः फलतस्सत्त्वेऽपि विधितात्पर्यस्य तत्राभावान्नातिव्याप्तिरिति भावः ॥ विधिरसायनोक्तेति ॥ तद्विधिमात्राप्रवृत्तिनिमित्तकेत्यादिनोक्तद्वैविध्यप्रयुक्ताननुगमादिदोषाणामनवकाश इत्यर्थः । पूर्वोक्तरीत्या निवृत्तितात्पर्यकविधित्वस्य सर्वत्र सत्त्वादिति भावः । नन्वेवं 'बीहीन् प्रोक्षति' इत्यपूर्वविधौ व्रीहिप्रोक्षणस्य प्रोक्षणाभावाभावरूपस्य शास्त्रतात्पर्यविषयतयाऽयोगव्यवच्छेदसत्त्वा- नियमविधिलक्षणस्यातिव्याप्तिरिति चेन्न; द्वितीयाभावरूपस्य प्रतियोगिरूपत्वानङ्गीकारात् । न च तर्हि अनवस्था स्यादिति वाच्यम् ; तृतीयाभावस्य प्रथमाभावरूपत्वाङ्गीकारेण तद- भावात् । न च तथापि द्वितीयाभावस्यापि तात्पर्यविषयत्वादुक्तातिव्याप्तिरपरिहार्येति वाच्यम् ; तस्य विधितात्पर्यविषयत्वाभावात् । न हि दण्डाभावाभावो घटकारणमिति लोके व्यवहारोऽस्ति । न च द्वितीयाभावस्य प्रतियोगिरूपत्वपक्षेऽतिव्याप्तितादवस्थ्यमिति वाच्यम् ; तात्पर्यविषय- तावच्छेदकविवक्षया तत्परिहारसम्भवात् । तथाहि-यावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्न- प्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकता पर्याप्त्यधिकरणं तस्य शास्त्रस्य तद्धर्मवन्नियमविधित्वम् । 'नीहीनवहन्ति' इत्यादावयवातत्वावच्छिन्नप्रतियोगिता- काभावाभावत्वस्य तात्पर्यविषयतावच्छेदकता पर्याप्त्यधिकरणत्वाल्लक्षणसमन्वयः । एवं च वीहीन् प्रोक्षति' इति शास्त्रस्य तात्पर्यविषयतावच्छेदकं प्राक्षणत्वंमव, लाघवात् । न तु प्रोक्षणाभावाभावत्वं, गौरवात् , इत्यभिप्रायात् । पर्याप्तिनिवेशात् 'इत्यश्वाभिधानीम्' इत्यादौ मन्त्रत्वावच्छिन्नाभावाभावत्वस्य मन्त्रत्वस्य तात्पर्यविषयतावच्छेदककोटिनिविष्टतयावच्छे- दकत्वेऽपि नातिव्याप्तिः। एतेन पर्याप्तिनिवेशी न कार्य इति कौस्तुभक्तिं निरस्तम् । एवं यद्ध- मविच्छिन्नप्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकता पर्याप्त्यधिकरणं तस्य तद्धर्मवत्परिसङ्ख्यात्वमिति विवक्षणीयम् । 'इत्यश्वाभिधानीमादत्ते' इत्यादी शेपित्वसम्बन्धेन 'इमाम्' इति मन्त्रत्वावछिन्नप्रतियोगिताकाभावत्वस्य तात्पर्यविषयतावच्छेदकत्वाल्लक्षणसमन्वयः। 'बाहीनवहन्ति' इति नियमविधी अवघाताभावत्वस्याप्यवच्छेदकोटिप्रविष्टत्वेन तात्पर्यविषयता- वच्छेदकत्वात् अतिव्याप्तिवारणाय पार्याप्तिनिवेशः । एवं अभावत्वावच्छिन्नविषयताशून्यतात्पर्यक- विधित्वमपूर्वविवित्वमिति तल्लक्षणनिष्कर्षः । 'ब्रीहीन् प्रोक्षति' इत्यपूर्वविधितापर्यस्याभावावि- षयकत्वेन लक्षणसमन्वयः । नियमपरिसङ्ख्याविध्योः अभावतात्पर्यकत्वान्नातिव्याप्तिः। यत्त्वत्रा- भावत्वानवच्छिन्नविषयताकतात्पर्यकविधित्वमपूर्वविधित्वमिति तत् 'ब्रीहीनवहन्ति' इत्यादौ अवघातादिविषयताया अभावत्वानवच्छिन्नत्वेनातिव्याप्तेरुपेक्षितमित्यादिकमभिसन्धायाह विस्तरेण चेति॥ प्राञ्चस्तु इतरनिवृत्तेरार्थिकत्वं यत्र तत्र नियमविधिः, 'व्रीहीनवहन्ति' इत्यादौ - ६४ भाट्टदीपिका [अ. १. रकत्वेऽपि न क्वचिद्विनियोगवैयर्थ्यम् । न चैवमपि प्रामाण्यायोगः । याथार्थ्यलणस्य दलनादिनिवृत्तेरार्थिकत्वात् । यत्र चेतरनिवृत्तेः शाब्दत्वं तत्र परिसङ्ख्याविधिः। 'पञ्च पञ्चन- खा भक्ष्याः' इत्यादौ पञ्चनखपदस्य पञ्चातिरिक्तपञ्चनखपरतया भक्ष्या इत्यस्य विरोधि- लक्षणया न भक्ष्या इत्यर्थकतया इतरनिवृत्तेः शाब्दत्वात् । तथा चेतरनिवृत्तेरार्थिकत्वशा- ब्दत्वाभ्यामनयोर्भेद इत्याहुः । मिश्रास्तु क्रियायां विकल्पेन कारकान्वये नियमविधिः । यथा 'वीहीनवहन्ति' इत्यादौ एकस्मिन्वितुषीकरणेऽवघातनखविदलनयोः विकल्पेनैवान्वयात् । समुच्च- येन कारकान्वयस्थले परिसङ्घयाविधिः। यथा 'पञ्च पञ्चनखा भक्ष्याः' इत्यादौ । तत्र शश- कादिमांसनिर्मितस्य पञ्चातिरिक्तपञ्चनखमांससहितस्य पिण्डस्य भक्षणक्रियायामन्वयसम्भवेन समुच्चयेनैवान्वयात् । तथाच कारकविकल्पसमुच्चयाभ्यामनयोर्भेद इत्याहुः । विस्तरेण चैतत्प्र- तिपादितं हिरण्यकेशिसूत्रव्याख्यानेऽस्माभिः । अत्र विधित्रयलक्षणादिकं पूर्वमुक्तमपि शिष्य- बुद्धिवेशद्यार्थ प्रसङ्गात्पुनरुपन्यस्तमिति द्रष्टव्यम् । स्मारितविनियोगविधिवैयर्थ्यपरिहारमुप- संहरति—तदेवमिति ।। अर्थस्मारकत्व इति ।। न च ‘सृण्येव जभरी' इत्यादौ कथमर्थ- प्रतीतिरिति वाच्यम् ; निरुक्तव्याकरणादिवशेनार्थज्ञानसम्भवात् । तथाहि-'उभा उनूनम् ' इति सूक्तं आश्विनम् । 'अश्विनोः काममप्राः' इति सूक्तान्त उपसंहारात् । तत्रायं मन्त्रः आ- नायते–'सृण्येव जभरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरु ता मे जराय्वजरं मरायु ॥' इति । अयमर्थः । सृणिः-अङ्कुशः। तत्र साधुस्सृण्यौ गजौ । प्रथमाद्वि- वचनस्याकारश्चान्दसः । ताविव बलवन्तौ । जर्भरी-भतीरौ । भृजो यदन्तात्पचाद्यच् । यदो लुक् छान्दसः । अभ्यासस्य जकारः । विभक्तेरिकारश्च । तुर्फरीतू-शत्रूणां हिंसितारौ । तुर्फरी हिंसायामौणादिकम् । नैतोशेव, तोशतिर्वधार्थः। ततःपचाद्यजन्तात् खार्थेऽण् । प्रथमाद्विवच- नम् । योधाविव तुर्फरी-त्वरमाणौ । फर्फरीका-शोभमानौ । फर्फरौणादिकं रूपम् । उदन्यजा- उदन्या पिपासा, चातकस्य विवक्षिता, तया वर्षाकालो लक्ष्यते । जेमना-जेमानौ, उदकला- भेन पिपासाया जेतारौ । मदेरु-मनचातकाविव स्थितौ । ता-तौ, प्रसिद्धौ । युवां, मे-मम । जरायु-जराधर्मकम् । मरायु-मरणधर्मकं शरीरम् । अजरं- जरामरणरहितं कुरुतमित्यर्थसम्भ- वादर्थप्रतीत्युपपत्तिरिति ध्येयम् ॥ न कचिदिति ॥ नन्वेवं 'उरुप्रथस्वेति पुरोडाशं प्रथयति' इत्यादौ लिङ्गादेव मन्त्रविनियोगसिद्धेवचनवैयर्थं दुर्वारमिति चेन्न; अर्थवादार्थत्वेन सार्थक्यात् । यज्ञपतिमेव प्रजया पशुभिश्च प्रथयतीत्यर्थवादालम्बनाय विधानस्य भाष्योक्तत्वात् , अर्ध्वर्युकर्तृ- कत्वसिद्धयर्थत्वाच्च तस्यापि न वैयर्थ्यमित्यभिप्रायात् । तथा च पार्थसारथिः, 'गुणार्थ- वादपरिसङ्घयार्थत्वात्' इति भावः । नन्वेवं मन्त्राणामर्थप्रकाशनार्थत्वे मन्त्रप्रतिपाद्यदेवता- दीनां विधिवाक्यादेवावगततयाऽनधिगतार्थगन्तृत्वरूपं वेदस्य खभावसिद्ध प्रामाण्यं न स्यादित्याशङ्कतेन चेति ॥ प्रामाण्यायोगः-अनधिगतार्थबोधकत्वरूपप्रामाण्यायोगः ।
पा. २. अधि. ४.] भादृचिन्तामणिसहिता। ६५ तस्याविघातात् । सामादिसर्वमन्त्रसाधारण्येन तु पदार्थविधया । यथा हि शाब्दबोधं प्रति कारणीभूतज्ञानविषयत्वाच्छब्दः प्रमाणमिति सर्वदर्शनसम्मतम् , तथा पदार्थज्ञानस्यापि कारणत्वात् पदार्थोऽपि तथेति शक्यते वक्तुम् । अतश्च मन्त्र- विनियोगविधौ मन्त्राणामपि पदार्थत्वाद्युक्तं प्रामाण्यमिति । अस्तु वा प्रामाण्याभावेऽपि प्रयोजनवत्त्वमात्रम् । तावतैवाध्ययनविधेरुपपत्तेः । प्रयोजनमर्थवादवदेव स्सष्टम् ॥४॥ इति श्रीखण्डदेवकृतायां भाट्टदीपिकायां प्रथमस्या- ध्यायस्य द्वितीयः पादः ॥ अनधिगतार्थगन्तृत्वं हि न प्रामाण्यशरीरप्रविष्टं, प्रयोजनाभावात् । किन्तु तद्वति तत्प्रकार- कप्रमाजनकत्वमेव । तच्च मन्त्राणामप्यस्तीति परिहरति-याथार्थ्यलक्षणस्येति ॥ नन्वेवं सामादिमन्त्राणामर्थाभावेन याथार्थ्यलक्षणमपि प्रामाण्यं न सम्भवतीत्याशङ्कय परिहरति- सामादीति ॥ यथा हीत्यादि ॥ 'पदानि हि खं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथे- दानी पदार्था अवगतास्सन्तो वाक्यार्थं बोधयन्ति' इति तद्भूताधिकरणे 'अर्थस्य तन्निमित्त- त्वात्' इति सूत्रे भाष्योक्तेः, ‘पदार्थमूलको ह्येषः न भ्रान्तिरिति गम्यते' इति वार्तिकोक्तेश्च, 'पदार्थमूलको हि वाक्यार्थबोधो न निर्मूलत्वेन भ्रान्तितया शङ्कितुं शक्यः' इति न्यायरत्नाकरे पार्थसारथिमित्रैः व्याख्यातत्वाच, न्यायरत्नावल्यां गोडैरप्येवमुक्तत्वाच्च, पदार्थानामपि शाब्दबोधकारणत्वं युक्तमिति भावः । न चातीतानागतपदार्थानां कारणत्वासम्भव इति वाच्यम् ; ज्ञानीयविषयताया इव कारणताया अप्यतीतादिपदार्थवृत्तित्वे बाधकाभावा- त्सत्कार्यवादस्यैव कर्मसंयोगादिति पञ्चदशाध्यायाधिकरणे भाष्यकारैः समर्थनात् । अतीतानागतयोरप्यतिक्रान्तदिवसादिगतसङ्ख्यावत् ज्ञाततायामपि कारणत्वोपपत्तेरिति राणको- तेश्चेति ध्येयम् । तथा-प्रमाणम् ॥ मन्त्रविनियोगविधाविति ॥ 'अनेन मन्त्रेणेदं कार्य कुर्यात्' इति विधा मन्त्राणां पदार्थत्वात्स्वज्ञानद्वारा करणत्वात् प्रामाण्यं सिद्धमित्यर्थः । ननु पदज्ञानस्य शाब्दप्रामाजनकत्वस्य सर्वमतसिद्धत्वाद्युक्तं शब्दप्रामाण्यम् । अर्थज्ञानस्य शाब्दबो- धहेतुल्वे मानाभावान्नोक्तरीत्या प्रामाण्यसम्भव इत्यत आह--अस्तु वेति ॥ प्रामाण्यामा- वेऽपि-अनधिगतार्थगन्तृत्वरूपप्रामाण्याभावेऽपि । प्रयोजनवत्त्वमात्रं-स्मरणादिना सफ- लत्वमात्रम् । तावतैव-प्रयोजनवत्त्वमात्रेणैव । अध्ययनविधेरुपपत्तेः-स्वाध्यायविधिना मन्त्रा- णामपि ग्रहणोपपत्तेः । सप्रयोजनवमात्रेणाध्ययनविधिमन्त्रानपि गृह्णातीति भावः । नन्वेवं तानिद्वैधाधिकरणेनास्य गतार्थत्वम् । तथा हि-'तानि द्वैधं गुणप्रधानभूतानि' इत्यत्र 'नीही- नवहन्ति' इत्यादी व्रीहिविशिष्टावघातः फलोद्देशेन विधीयते इति पूर्वपक्षे, दृष्टे सम्भवत्यदृष्ट- कल्पनायोगाद्वैतुष्यरूपदृष्टप्रयोजनार्थत्वमिति सिद्धान्तितम् । ततश्च तेन गतार्थमेतदधिकरण- 9 ६६ ६ भाट्टदीपिका [अ. १. . मिति चेत् अत्र केचित् तानिद्वैधाधिकरणसिद्धस्यैवास्य न्यायस्यात्राधिकाशङ्कानिराकरणार्थमनु- वादः । मन्त्राणामर्थप्रकाशनार्थत्वे हि तदर्थशास्त्रादयोऽनुपपन्नाः स्युरित्यधिकाशङ्कायां तदर्थशा- स्नादीनां गुणाद्यर्थत्वान्मन्त्राणामर्थप्रकाशनरूपदृष्टार्थत्वं युज्यत इति न गतार्थतेत्याहुः । अन्ये तु अत्रेवायं न्यायो व्युत्पाद्यः; अत्रसिद्धस्यैव न्यायस्य जिज्ञासाधिकरणे तानिद्वैधाधिकरणा- दधिकाशङ्कानिराकरणार्थत्वेन स्मारणमित्याहुः । परे तु नावमिकाधिकरणे साम्नां दृष्टार्थ- त्वस्य साधयिष्यमाणत्वेन तत्र सिद्धस्येव सर्वत्र शङ्कानिराकरणार्थत्वेन कथनमित्याहुः । वस्तुतस्तु जिज्ञासाधिकरण एवायं न्यायो व्युत्पाद्य इति युक्तम् । न च विनिगमनाविरहः । तस्य प्राथम्यात् । किञ्च तत्र 'स्वाध्यायोऽध्येतव्यः' इति विधिवाक्यमुदाहृत्य तस्य दृष्टार्थत्वं साधितम् । तेनैव दृष्टे सम्भवतीति न्यायेनार्थवादमन्त्रादीनां दृष्टार्थत्वं सिद्धयत्येव । विधिर्हि धर्मेऽभ्यर्हितं प्रमाणम् । अत एव तस्य प्रथमं विचारः कृतः। मन्त्रास्तु विहितार्थस्मरणार्थास्सन्तः तच्छेषभूताः । न हि प्रधानभूते अङ्गार्थविचारातिदेशस्सम्भवति । तस्मात्तत्रैवायं न्यायो व्युत्पाद्यः । न चैवं तेन गतार्थत्वं ; पदोत्तरत्वेन समाहितत्वात् इत्यास्तां विस्तरः ॥ अर्थ- वादवदेवेति ॥ यथार्थवादोपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ फलसिद्धिः, एवं मन्त्रस्मृतद्रव्यदे- वताककर्मानुष्ठानादेव फलसिद्धिरित्यर्थः । वस्तुतस्तु अर्थवादमन्त्रयोर्वैषम्यस्य पूर्वमेवोक्तत्वान्नेदं प्रयोजनमित्यन्यदेव प्रयोजनं वक्तव्यम् । यथा, पूर्वपक्षे विकृतो 'अग्नये जुष्टम्' इत्यादी- नामविकृत एव प्रयोगः । सिद्धान्ते तूहसिद्धिरित्यादिकं द्रष्टव्यम् । सूत्रार्थस्तु, पञ्चम्यन्तानां मन्त्रानर्थक्यमित्यनेन सम्बन्धः । तदर्थशास्त्रात्-मन्त्रविनियोजकशास्त्रान्तरसत्त्वात् । तञ्चोक्तमेव । वाक्यनियमात्-वाक्यानुपूर्वीनियमात् । मन्त्राणां दृष्टार्थत्वे 'अग्निमूर्धा' इत्यादौ पदानां व्युत्क्रमेण प्रयोगेऽप्यर्थप्रतीतिसम्भवेनानुपूर्वीनियमानर्थक्यात्तत्सार्थक्याय मन्त्राणां अदृष्टार्थत्वमिति । बुद्धशास्त्रात् बुद्धेषु ज्ञातेषु शास्त्रं, तस्मादित्यर्थः । 'अग्नीदग्नीन्विहर' इति मन्त्रः अध्ययनकाले ज्ञाताग्निविहरणप्रकाशकस्सन् मन्त्राणामदृष्टार्थत्वं गमयतीति । अचेतने- थबन्धनात्-अचेतनानाम् ओषधिग्रावादीनाम् , 'ओषधे त्रायखेन' 'श्रुणोत ग्रावाणः'इत्यादौ सम्बोधनदर्शनेन तेषामाभिमुख्यासम्भवात् अदृष्टार्थत्वमिति । अर्थविप्रतिषेधात्-अर्थस्य - प्रतिपाद्यस्य, विप्रतिषेधः-प्रत्यक्षविरोधः, तस्मादिति । 'अदितिर्योः' इत्यादौ देवतारूपाया अदितेर्तुत्वं प्रत्यक्षविरुद्धमिति अदृष्टार्थत्वमिति। स्वाध्यायवदवचनात्-स्वाध्यायवदिति षष्टयन्ता- द्वतिः। अध्ययनस्येवावचनात् दृष्टार्थत्वे पुनर्वचनप्रयोजनाभावादिति । अविज्ञेयात्-सृण्येवेत्यादौ विज्ञेयाभावादिति । अनित्यसंयोगात्-अनित्यानाम्-आधुनिकानाम् ,संयोगात्-प्रतिपादनात् । .
पा. ३. अधि. १.] भादृचिन्तामणिसहिता। ६७ अथ प्रथमाध्यायस्य तृतीयः पादः ॥ (१)-धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १ ॥ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ॥ २ ॥ शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिस्मृतीनां धर्माधर्मयोः प्रामाण्यमस्ति न वेति सन्देहे सन्मूलकत्वनिश्चायकाभावात् अप्रामाण्यम् । न ह्यत्र प्रत्यक्षादि मूलं; तेषां 'नमो वयं वैश्रवणाय कुर्महे' इत्यादावनित्यसंयोगात् । मन्त्रानर्थक्यम्-अर्थप्रकाशनरूपं दृष्टप्रयोजनराहित्यमिति शिवम् ॥ इति श्रीचोलदेशाग्रपूज्यविद्वत्समाजविराजमानशहजीन्द्रपुरनिवासिकामकायन- विश्वामित्रगोत्रजलधिकौस्तुभश्रीमन्नृसिह्मसूरिवरसून्वाश्वलायन- सूत्रहोशनिकर्नाटकजातीयवाञ्च्छेश्वरयज्वनः कृतिषु . भाट्टदीपिकाव्याख्याने भादृचिन्तामणौ प्रथमस्याध्यायस्य द्वितीयः पादः॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥ धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ स्मृत्याचारकल्पसूत्रादिविचारस्य धर्मविचाररूपत्वात् शास्त्रसङ्गतिः । कथंलक्षणो धर्म इति भाष्यानुसारेण धर्मप्रमाणनि- निरूपणस्य अध्यायार्थत्वात् अध्यायसङ्गतिः । किं धर्मे प्रमाणं, कथं च तस्य प्रामाण्यमिति भाष्यार्थः। वेदातिरिक्तधर्मप्रमाणनिरूपणात् पादसङ्गतिः। अत एव पादान्तरत्वम् । विध्यर्थवाद- मन्त्रमूलकस्मृतिप्रामाण्यस्य विध्यादिप्रामाण्योपजीव्यत्वादुपजीव्योपजीवकभावोऽनन्तरसङ्गतिः। अत एव आनन्तर्यमपि । नामधेयमूलकस्मृतेरभावात् , नामधेयविचारस्य स्मार्तनामधेयसाधार- णत्वाच्च तस्य स्मृतिविचारानन्तर्यमित्यभिसन्धायाह--शिष्टेति ॥ शिष्टैः-वेदा एव धर्म प्रमाणमिति निश्चितधीभिः । परिगृहीतानां-धर्मप्रमाणत्वेन निश्चितानाम् । अनेन शाक्यादि- ग्रन्थानामत्र विषयत्वं नास्तीति सूचितम् । त्रैवर्णिका एव शिष्टा इति ज्ञापयितु-त्रैवर्णिकेति ॥ मन्वादीति ॥ आदिना याज्ञवल्क्यादिपरिग्रहः । यत्त्वत्र कौस्तुभे आचाराणामपि विषयत्वमुक्तं तदाचाराधिकरणवैयर्थ्यापत्तेः अर्थवादाधिकरणे मन्त्रादेविषयत्वे तत्तदधिकरणवैयर्थ्यस्य स्वेनैवोक्तत्वात्तद्रीत्या आचाराधिकरणवैयर्थ्यस्य जागरूकत्वेन स्वोक्तिविरोधापत्तेश्वोपेक्षणीयमिति सूचयन्नाह-स्मृतीनामिति ॥ पूर्वपक्षमुपपादयति-सन्मूलकत्वेत्यादि॥ सन्मूलकत्वनिश्चाय- काभावात्-प्रमाणमूलकत्वनिश्चायकाभावात् । भ्रान्त्यादिमूलकत्वसम्भवादिति भावः । अप्रा- भादीपिका [अ. १ । धर्माधर्मयोः अप्रवृत्तेः । वेदस्य च प्रत्यक्षपठितस्यानुपलम्भात् । उपलम्भे वा स्मृति- प्रणयनवैयर्थ्यात् । इदानीमुच्छेदस्य च वैदिकैर्यथापरिगणनं शाखानां मात्रामात्रापरि- त्यागेन पाल्यमानतया कल्पयितुमशक्तेः । न च नित्यानुमेयो वेदो मूलम् । स्मृतेर्मू- लसामान्यव्याप्तत्वेऽपि वेदव्याप्तत्वाभावेन अनुमानानुपपत्तेः । मनोरप्यनुमेयत्वक- ल्पने अन्धपरम्परापत्तेश्च । अतश्च सन्मूलत्वासम्भवात् भ्रान्त्यादिमूलत्वेन अप्रामा- ण्यमिति प्राप्ते- शिष्टानामद्य यावदविगीतपरम्परया ज्योतिष्टोमादिष्विव अष्टकाकळञ्जभक्षणा- माण्यमिति-धर्माधर्मयोरिति शेषः। ननु स्मृतिप्रतिपाद्याष्टकास्वर्गकार्यकारणभावस्य प्रत्यक्षमेव मूलमस्त्वित्यत आह—न ह्यतेति ॥ उक्तकार्यकारणभाव इत्यर्थः ॥ तेषां-प्रत्यक्षादीनाम् ।। अप्रवृत्तेरिति ॥ अतीन्द्रियेऽर्थे प्रत्यक्षाप्रसरादित्यर्थः । अत एव व्याप्तिग्रहासम्भवान्नानुमा- नमपीति सूचयितुमादिपदम् । वेदमूलत्वं निराकरोति---वेदस्येति ॥ वेदस्य-स्मृतिमूलभूत- वेदस्य । प्रत्यक्षपठितस्थेति अनुपलम्भस्य योग्यतासूचनाय । तथा च योग्यानुपलब्ध्या मूलभूत- वेदाभावनिश्चयान्न वेदमूलकत्वमिति भावः । ननु क्वचिदग्निहोत्रादिषु उपलम्भोऽस्त्येवेत्यत आह-उपलम्भे वेति ॥ स्मृतिप्रणयनेति ॥ तथा च स्मृतिमूलवेदस्य प्रत्यक्षत्वे तत एव लोकानां प्रवृत्तिसम्भवात् स्मृतिप्रणयनं व्यर्थं स्यादित्यर्थः । ननु स्मृतिमूलवेद इदानीमुच्छि- न्न इति कल्पनेन स्मृतिप्रणयनसार्थक्यमित्यत आह-इदानीमिति।। शाखानामिति ॥ एकविंश- त्यध्वयुक्तमृग्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेकशताधिकम् ॥ नवाध्वाथर्वणोऽन्ये तु प्राहुः पञ्चदशाध्वकम् ॥' इति रीत्या चरणव्यूहादिषु निर्णीतानामित्यर्थः ॥ मात्रामात्रेति ॥ मात्राक्षरादिपरिगणनेन शिष्टैः पाल्यमानत्वेन उच्छेदस्य वक्तुमयुक्तत्वादित्यर्थः । ननु प्रत्यक्ष- मूलाभावेऽपि अनुमितवेदो मूलमस्त्वित्याशङ्कते-न चेति ॥ अष्टकादिस्मृतिर्वेदमूला स्मृतित्वात् इत्यनुमानगम्य इत्यर्थः । परिहरति-स्मृतेरिति ॥ स्मृतेः पौरुषेयत्वेन आचारमूलकत्वं वा, स्मृत्यन्तरमूलकत्वं वा, भ्रान्त्यादिमूलकत्वं वेति सन्देहान्न वेदमूलकत्वनिश्चय इत्यर्थः । ननु अष्टकादीनां धर्मत्वाद्वेदस्यैव धर्मप्रमाणतयाष्टकास्मृतेर्वेदमूलकत्वनिश्चयोऽस्विति चेन्न; अन्योन्याश्रयात् अष्टकादीनां धर्मत्वे मूलवेदसिद्धिः, वेदसिद्धावष्टकादीनां धर्मत्वमिति । पूर्वपक्षे- ऽष्टकादीनां धर्मत्वानङ्गीकारात् । ननु मनुना वृद्धमनुस्मृतिं दृष्ट्वा तन्मूलवेदमनुमाय तदर्थो निबद्ध इति वेदमूलमस्त्वित्यत आह—मनोरिति ॥ अनुमेयत्वकल्पने-वृद्धमनुस्मृति- मूलवेदस्यानुमेयत्वकल्पने ॥ अन्धपरम्परेति ॥ वृद्धमनुस्मृतावपि प्रामाण्यसन्देहान्न वेद- मूलत्वनिश्चय इत्यर्थः । पूर्वपक्षमुपसंहरति—अत इति ॥ सिद्धान्तमाह-शिष्टेति ॥ शिष्टानामेतावत्कालपर्यन्तमविरोधेन मन्वादिस्मृत्युक्ताष्टकादिषु धर्मत्वेन परिग्रहाद्वेदविहित- ज्योतिष्टोमादिवत् धर्मत्वनिश्चयाद्वेदनिषिद्धानृतवदनादिवत्कलाभक्षणादिष्वधर्मत्वनिश्चयाच , पा. ३. अधि. १.] भादृचिन्तामणिसहिता । ६९ दिष्वपि धर्मत्वेनाधर्मत्वेन च परिग्रहात् मन्वादीनां त्रैवर्णिकत्वेन वेददर्शनसम्भवाच तन्मूलकत्वमेव युक्तं, न तु भ्रान्त्यादिमूलकत्वम् । तत्कारणस्य अद्य यावत्तदज्ञानस्य च कल्पने गौरवाच्च । श्रुतिश्च प्रत्यक्षपठितैव मूलम् । न च स्मृतिप्रणयनवैयर्थ्यम् । शाखान्तरोपसंहारेण अर्थवादार्थोद्धारेण न्यायसिद्धार्थकथनेन च स्मृतिप्रणयनसार्थ- वेदमूलत्वमेव स्मृतीनामित्यर्थः । यदि मन्वादयो वेदमदृष्ट्वैव स्वोत्प्रेक्षया स्मृतिं कुर्युस्तर्हि मन्वादिभिस्समानप्रज्ञा महर्षयः किमिति तत्प्रणीतस्मृत्यर्थमनुतिष्ठेयुः? अतस्तत्परिग्रह- दााद्वेदमूलकत्वमेव स्मृतीनामित्याशयः । भ्रान्त्यादिमूलकत्वं निराकरोति--मन्वा- दीनामिति ॥ त्रैवर्णिकानां वेदाध्ययनस्य नित्यतया सर्वज्ञस्य मनोर्वेददर्शनं सम्भ- वतीत्यर्थः । यद्वै किञ्च मनुरवदत्तद्भेषजं' इति सर्वपुरुषप्रत्यक्षश्रुत्यैव मनुस्मृत्युक्तं सर्व पुरुषाणामत्यन्तं हिततममिति प्रतिपादनादप्ययमर्थः स्पष्ट इति भावः । तन्मूलकत्वमेव-वेद- मूलकत्वमेव । तथा च स्मृतयो वेदमूलिकाः वेदप्रामाण्यवादिकर्तृकत्वात् यन्नैवं तन्नैवं यथा शाक्यग्रन्थः इत्यनेन वेदमूलकत्वे सिद्धे, स्मृतयो धर्मे प्रमाणं वेदमूलकत्वात् यन्नैवं तन्नैवं इत्य- नुमानेन स्मृतीनां धर्मप्रामाण्यसिद्धिः । यत्त्वर्थकामानुसारिस्मृतिषु प्रथमस्यानेकान्तिकत्वं, द्वि- तीयस्यापौरुषेयवाक्यत्वेन सोपाधिकत्वमिति कैश्चिदुक्तं तन्न; अर्थकामादिस्मृतिष्वपि 'ऋद्धि- कामाः सत्रमासीरन् , यं कामयेत वसीयान् स्यात्' इत्यादिश्रुतिमूलकत्वसत्त्वेन व्यभिचारानव- काशात् धर्मबोधकगुरुवाक्यादौ धर्मप्रमाणत्वसत्त्वेनापौरुषेयवाक्यत्वस्य तत्राभावेन साध्यव्याप- कत्वाभावादुपाधेरसम्भवाचेति ध्येयम् । गौरवादपि भ्रान्त्यादिमूलकत्वं न सम्भवतीत्याह-त- कारणस्येति ॥ तत्कारणस्य-भ्रान्त्यादिकारणस्य । दोषस्य इतरेषां पुरुषाणां तदज्ञानस्य दोषा- ज्ञानस्य कल्पने गौरवान्न भ्रान्तिमूलकत्वमित्यर्थः। योग्यानुपलब्ध्या श्रुत्यभावनिश्चय इति शङ्का परिहरति-श्रुतिश्चेति ॥ प्रत्यक्षपठितैवेति ॥ एवकारेण उत्सन्नत्वव्यवच्छेदः। कात्यायनादयस्तु बहुशाखोत्सादनमङ्गीकुर्वन्ति । आपस्तम्बोऽपि 'तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते' इत्याह । स्मृतिप्रणयनवैयर्थ्यमुक्तं निरस्यति-न चेति॥शाखान्तरेति ॥ 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययन- विधौ ‘अध्वर्यु वृणीते'इतिवदेकत्वस्य विवक्षितत्वादेकशाखाध्ययनस्य नित्यत्वेनेतरशाखागतार्थस्य तेनावगन्तुमशक्यत्वात्तं प्रति स्मृतिप्रणयनं सार्थकमिति भावः ॥ अर्थवादेति मन्त्रस्याप्युपलक्ष- णम् । 'स्थलयोदकं परिगृह्णन्ति'इत्यर्थवादः तटाकस्मृतेर्मूलम् । स्थलया कृत्रिमस्थलेन । अकृत्रि- मार्थे 'जानपद-' इत्यादिना ङीषो विधानात् , कृत्रिमार्थ एवापः प्राप्तत्वात् । एवं 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति स्मृतेः 'तद्यथैवादौ मनुष्यराजः' इत्याद्यर्थवादमूलकत्वम्। 'धन्वन्नि- व' इति मन्त्रः प्रपास्मृतेर्मूलम् । धन्वन्-मरौ । 'समानो मरुधन्वानौ' इत्यमरः। 'सुपां सुलुक्' इति डेलक् । 'न डिसम्बुद्धयोः' इति नलोपाभावः। “यां जनाः प्रतिनन्दन्ति' इति मन्त्रः, 'एषा वै संवत्सरस्य पत्नी यदेकाष्टका' इत्यर्थवादश्चाष्टकास्मृतेर्मूलम् ॥ न्यायसिद्धेति ॥ परप्रक- ७० भाट्टदीपिका [अ. १. क्यात् । अतो मूलश्रुत्युपस्थापकतयैव धर्माधर्मप्रमाप्रयोजकत्वं स्मृतीनामिति सिद्धम् ॥१॥ (२) विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ॥ ३ ॥ हेतुदर्शनाच्च ॥ ४॥ श्रुतिविरुद्धानामपि 'औदुम्बरी सर्वा वेष्टयितव्या' इत्यादिस्मृतीनां श्रुति- रणपठितस्य 'मलवद्वाससा न संवदेत' इत्यादेः क्रत्वर्थतायाः मीमांसान्यायेनैव साधनीयत्वादिति भावः । अत्र भाष्ये प्रपादिस्मृतीनां परोपकारादिरूपदृष्टार्थत्वेन प्रामाण्यमुक्तं, तदुपलक्षणपर- मित्याशयेन वार्तिके निरस्तम् । उपसंहरति-अत इति ॥ प्रयोजकत्वमिति ॥ तथा च श्रुतिद्वारा लिङ्गस्येव धर्मप्रमित्युपयोग इति भावः । वस्तुतस्तु वेदवाक्यादिवत्स्मृतिवाक्यादपि जायमाने शाब्दबोधे वैलक्षण्याननुभवात्तद्विषयस्य च बाधाभावाद्धर्मप्रमाजनकत्वमेव युक्तम् । अनाश्वासस्तु केषाञ्चिदेव भवति । स च वेदेऽपि तुल्यः । तन्निरासो वेदाधिकरण इव स्मृत्यधिकरणेऽपि कृतस्तुल्यः । इयांस्तु विशेषः । वैदिकार्थो वेदमन्तरेण सर्वेषामनधिगतः । स्मृत्यर्थस्तु मूलवाक्यद्रष्टुणामधिगत इति । नन्वेवमप्यनधिगतार्थगन्तृत्वाभावादप्रामाण्यमिति चेन्न ; यत्पुरुषोद्देशेन स्मृतिप्रवृत्तिः तदनधिगतविषयकत्वस्य तत्तच्छाखागताग्निहोत्रादिवाक्ये- विवोपपत्तेः । कथमन्यथा स्मार्ताष्टकादिविधीनामत्यन्ताप्राप्तप्रापकत्वरूपापूर्वविधित्वमिति । प्रयोजनं स्पष्टम् । सूत्रार्थस्तु, धर्मस्य शब्दमूलत्वात्—'चोदनालक्षणोऽर्थो धर्मः' इति वेदैकप्रमाणगम्यत्वात् । अशब्द-वेदेतरविहितमष्टकास्मृत्यादिकम् । अनपेक्षं-धर्मप्रमाणत्वे- नानादर्तव्यमिति । 'अपि वा कर्तृसामान्याप्रमाणमनुमानं स्यात् इति सिद्धान्तसूत्रम् । अपि वेति पक्षव्यावृत्तौ । कर्तृसामान्यात्—वेदप्रमाणवादिमन्वादिकर्तृकत्वात् । अनुमानं- स्मृतिः । प्रमाणं स्यात्--धर्माधर्मयोः प्रमाणमित्यर्थः । यत्त्वत्रानुमानपदं केवलव्यतिरेक्यनु- मानपरमिति केनचिदुक्तं तत्प्रामादिकमेवेति मन्तव्यम् ॥ विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ॥ पूर्वापवादेन प्रवृत्तेरापवादिकी सङ्गतिः । श्रुतिविरुद्धानां स्मृतीनां प्रमाण्यं न वेति संशयः । श्रुतिविरुद्धानामिति ॥ प्रत्यक्षश्रुतिवि- रुद्धानामित्यर्थः ॥ औदुम्बरीति ॥ यजमानसम्मित उदुम्बरवृक्षप्रकृतिकः सदसि मध्ये निखातः स्थूणाविशेषः । औदुम्बरी ताम्रमयी प्रतिमेति वेदशास्त्रानभिज्ञा गौडा आहुः । सा सर्वापि वाससा आच्छादयितव्येति स्मृत्यर्थः । 'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुत्या स्पर्शनविधानेन सर्ववेष्टने सति स्पर्शनासम्भवात् श्रुतिस्मृत्योर्विरोधो बोध्यः । अत्र स्पर्शनं त्वक्संयोगमात्रं, नत्वौदुम्बरीगतस्पर्शविषयकत्वाचप्रत्यक्षम् । तथा सति 'कर्मनाशाजलस्पर्शात्' इत्यादौ रोगविशेषेण कर्मनाशगतशीतस्पर्शविषयकप्रत्यक्षानुत्पत्तौ पुनस्संस्कारानापत्तेः ।
पा. ३. अधि. २.] भादृचिन्तामणिसहिता। ७१ मूलकत्वाविशेषात् प्रामाण्यम् । न च 'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति प्रत्यक्षश्रुतिविरो- धात् तदनुपपत्तिः । परस्परविरुद्धार्थकानामपि ग्रहणाग्रहणादिश्रुतीनां बहुशो दर्शनेन विरोधे सत्यपि तत्कल्पने बाधकाभावात् ; तद्वदेव विकल्पेन विरोधस्य परिहर्तुं शक्य- त्वाच । न ह्यत्र प्रत्यक्षश्रुत्या स्मृतेर्मूलाकाङ्क्षा निवर्तते, येन कल्पनामूलोच्छेदात् विरुद्धप्रत्यक्षश्रुत्या लिङ्गस्येव स्मृतेर्बाधः स्यात् । न वा शैत्योष्णत्वयोरिखात्र विषय- योरत्यन्तविरोधः, येनौष्ण्यप्रत्यक्षेणेव शैत्यानुमानस्य प्रकृते प्रमेयापहारलक्षणो बाधः स्यात् । न त्वेतदस्ति, विकल्पेन द्वयोस्सम्भवात् इति प्राप्ते--- एतेन त्वगिन्द्रियजन्यस्पर्शविपयकज्ञानं स्पृशिधात्वर्थः' इति कोस्तुभोक्तं निरस्तमिति बोध्यम् । आदिना 'जातपुत्रः कृष्णकेशोऽग्रीनादधीत' इति श्रुतिविरुद्धाया 'अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य चरेत्' इति स्मृतेः, 'अग्नीषोमीये संस्थित यजमानस्य गृहेऽशितव्यम्' इति श्रुतिविरुद्धायाः ‘क्रीतराजको भोज्यान्नः' इति स्मृतेश्च सङ्ग्रहः ॥ श्रुतिमूलकत्वा- विशेषादिति ॥ पूर्वाधिकरणन्यायादिति भावः । पूर्वाधिकरणवैषम्यं शङ्कते—न चेति ।। स्पर्शनश्रुतिविरोधेन वेष्टनस्मृतेर्मूलश्रुत्यनुमानासम्भवान्न प्रामाण्यसम्भव इत्यर्थः ॥ अनुपपत्तिः-- स्मृतिमूलश्रुत्यनुमानानुपपत्तिः । परिहरति-परस्परेति ॥ 'अतिरात्रे पोडशिनं गृह्णाति' 'नातिरात्रे षोडशिनं गृह्णाति' इति विरुद्धार्थकश्रुतीनां बहुशो दर्शनेन प्रकृते तद्वद्विरुद्धा- र्थकश्रुतिद्वयसम्भवात् स्मृतिमूलश्रुतिकल्पनं युज्यत इत्यर्थः । स्पर्शनश्रुतिवेष्टनस्मृतिमूलश्रुत्योः परस्परविरहरूपत्वाभावाद्विरोध एव नास्तीत्यपिशब्दार्थः । वेष्टनस्पर्शनयोरेकदानुष्ठानासम्भ- वात् अनुष्ठानकृतविरोधस्फूर्तावपि ग्रहणाग्रहणश्रुतिवदुपपत्तिरित्याशयः ॥ तत्कल्पने-. स्मृतिमूलश्रुतिकल्पने । कथं तर्हि विरोधप्रतीकार इत्यत आह--विकल्पेनेति ॥ प्रयोगभेदेन ग्रहणाग्रहणयोरिवानुष्ठानोपपत्तेः नानुष्ठानकृतोऽपि विरोध इत्यर्थः ॥ शक्यत्वादिति ॥ ननु ग्रहणाग्रहणयोर्द्वयोरपि प्रत्यक्षविधिविहितत्वेन तुल्यबलत्वात्प्रयोगभेदन विरोधपरिहारसम्भवेऽपि स्पर्शनवेष्टनयोर्विषमशिष्टयोः कथं विकल्पेन विरोधपरिहार इति चेन्न; पशावतिदेशेन प्राप्त- योरानुमानिकत्वेऽपि 'न तौ पशौ करोति'इति प्रत्यक्षश्रुत्युक्ततदभावाभ्यां सह विकल्पस्य दृष्टत्वेन प्रकृतेऽपि तत्सम्भवादिति भावः । नन्वेवमपि 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इत्यत्र श्रुत्या लिङ्गस्य बाधदर्शनात्तन्न्यायेन प्रत्यक्षश्रुत्या स्मृतेर्बाधः किं न स्यादित्यत आह-न पत्रेति ॥ तत्र हि श्रुत्या मन्त्रविनियोगेन मन्त्रस्य प्रयोजनाकाङ्क्षाशान्त्या आकाङ्क्षाभावात् न लिङ्गेन श्रुतिः कल्प्यत इति युक्तम् । प्रकृते तु प्रत्यक्षश्रुत्या स्मृतेर्मूलाकाङ्क्षानिवृत्त्यभावान्न स्मृतिमूलकल्पना- नुपपत्तिरिति भावः। ननु कल्पनामूलोच्छेदात् बाधाभावेऽपि वही औष्ण्यप्रत्यक्षेण शैत्यानुमान- स्येव प्रमेयापहारात् बाधस्स्यात् इत्यत आह----न वेति ॥ परस्परविरहरूपत्वविरोधः, परस्परविरहव्याप्यत्वरूपविरोधो वा नास्तीत्यर्थः । शत्यानुमानस्थले औण्यप्रत्यक्षस्य ७२ भाट्टदीपिका [अ. १. भाष्यकारैरेवं सिद्धान्तितम्-सर्वत्रानुमाने अनुमेयजिज्ञासायाः कारणत्वात् प्रत्य- क्षश्रुत्या च स्पर्शविधानेनावेष्टितत्वरूपेण औदुम्बर्याः परिच्छिन्नत्वात् जिज्ञासाभावेन नौदुम्बरीवेष्टनविषयकश्रुत्यनुमानसम्भवः । तथा प्रत्यक्षश्रुतिविरोधाभावेऽपि यत्र लो- भादिदर्शनं यथा 'वैसर्जनहोमीयं वासोऽध्वयुः परिगृह्णाति' इत्यादौ तत्रापि न श्रुति- कल्पनम् , क्लप्तहेतोव मूलतोपपत्तेरिति ॥ । प्रबलत्वेन वह्नौ शेत्यं नास्तीति निश्चयो भवति । प्रकृते तु स्पर्शनेन वेष्टन- श्रुत्यभावादरविषयीकरणान्न प्रमेयापहारात्मको बाध इत्यभिमानः। तदुपपादयति-विकल्पेनेति ॥ एवं पूर्वपक्षे प्राप्ते भाष्यकारसिद्धान्तमाह-सर्वत्रेति ॥ अनुमाने—अनुमितौ । भावे ल्युट् । अनुमेयजिज्ञासाया इति ॥ साध्यसन्देहस्येत्यर्थः । साध्यसन्देहः पक्षतेति प्राचीनमताभि- प्रायेणेदं द्रष्टव्यम् । औदुम्बरी केनचिद्विशेषणेन परिच्छिन्ना न वेति सन्देहः । प्रकृते अनु- मित्यङ्गमित्याशयः । प्रकृते जिज्ञासाभावमुपपादयति-प्रत्यक्षश्रुत्येति ॥ स्पर्शविधानेन वेष्टिताया स्पर्शनासम्भवादवेष्टितत्वेन निश्चितत्वात्सन्देहाभावान्न वेष्टनस्मृतिमूलश्रुत्यनुमा- नप्रसक्तिः। तथा च प्रमेयापहाराद्बाध इति भावः । यद्वा जिज्ञासायाः कल्पनामूलतया क- ल्पनामूलोच्छेदाद्बाध इति भावः। न च विकल्पेन विरोधपरिहार इति वाच्यम् ; तस्याष्टदोष- दुष्टत्वात् । उक्तं च प्राचीनैः 'प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनम् । प्रत्युज्जीवनहानाभ्यामेवं स्यादष्टदोषता।। इति । विस्तरेण चैतत्सन्तर्दनाधिकरणे वक्ष्यामः। विकल्पे द्वयोरपि बाधप्रसङ्गेना- तिजघन्यत्वाच्च । उक्तं चात्रेवाधिकरणे मुरारिमिश्रेः, 'विकल्पो ह्युभयेकदेशबाधात्मकः। न च बाधे. विरोधादन्यो हेतुस्सम्भवति' इति । अतो न कालभेदाद्वयवस्था । नापि देशभेदाद्वयवस्था, सर्व- पदवैयर्थ्यात् । नापि कर्तृभेदाव्यवस्था, 'वासिष्ठानां नाराशंसो द्वितीयः प्रयाजस्तनूनपादन्ये- पाम्' इतिवदश्रुतत्वात् । तस्मादत्र श्रुत्या स्मृतेर्बाध एवेत्यभिप्रायः । एवं प्रत्यक्षश्रुतिविरोधाद- प्रामाण्यमुपन्यस्य तदभावेऽपि यत्र हेत्वन्तरदर्शनं तत्रापि स्मृतेरप्रामाण्यमुपपादयति-तथेति ॥ तदुदाहरति-वैसर्जनीयमिति ॥ अवान्तरदीक्षाविसर्जनार्था होमा वैसर्जनहोमाः 'वं सोम तनूकृद्भयः' इत्यादिभिर्मन्त्रैः कर्तव्यतया विहिताः । ते च यजमानपत्नीपुत्रभ्रातृषु समन्वारब्धे- वहतेन वाससा सम्प्रच्छादितेषु वासोऽन्तेस्रुग्दण्डमुपसङ्ग्रह्य शालामुखीयादौ चतुर्गृहीतेना- ज्येन प्रचरण्या कर्तव्याः तत्सम्प्रच्छादनवस्त्रमित्यर्थः। आदिना 'यूपहस्तिनो दानमाचरन्ति' इत्या- दिसङ्ग्रहः । यूपो हत्यते वेष्टयतेऽनेनेति यूपहस्ती वस्त्रविशेषः । जातायेकवचनम् । वाजपेये 'सप्तदशभिर्वासोभियूपं वेष्टयति' इति विधानात् ॥ तत्रापि वैसर्जनादिस्थलेऽपि। न श्रुतिकल्प- नम् , कुसहेतोः-लोभादेः। मूलतोपपत्तेरिति ॥ दृष्टलोभमूलसम्भवे अदृष्टश्रुतिकल्पनस्यान्या- य्यत्वादिति भावः । एवं भाष्यकारीयमधिकरणमुपपाद्य वार्तिककारसिद्धान्तकथनाय तदीयमधि- पा. ३. अधि. २.] भादृचिन्तामणिसहिता । वार्तिककारस्तु-न जिज्ञासाया अनुमित्यङ्गत्वं अग्न्याद्यजिज्ञासायामपि तदुदयात् ; सत्यपि वा तस्याः कारणत्वे अनुमितिविषयश्रुतेर्जिज्ञासितत्वाच । प्रत्यक्षश्रुति- विरोधाभावेऽपि लाभादिमूलकत्वाङ्गीकारे च अष्टकादिस्मृतेरपि तदापत्तेः । अतश्च प्रत्यक्षश्रुतिविरोधेऽपि स्मृतेः शिष्टत्रैवर्णिकपरिग्रहाविशेषेण श्रुतिमूलकत्वकल्पनोपपत्तेः युक्तमेव प्रामाण्यम् । परन्तु यावच्छ्रुतिदर्शनं वेष्टनं नानुष्ठेयं, अर्थवादाधुन्नीतविधि- मूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृतेऽपि तन्मूलकत्वस्य सम्भावितत्वात् । तस्य चो- करणभङ्गमुपपादयति-वार्तिककारास्त्विति ॥ प्रथमविचारं दूपयति-न जिज्ञासाया इति ॥ अग्न्यायनुमित्यङ्गत्वमिति क्वचित्पाठः। आदिना मेघादिपारग्रहः ॥ अजिज्ञासायामपीति ॥ तथा च सन्देहाभावेऽपि सिपाधयिषया अनुमितिदर्शनात् , घनगर्जितेन मेघानुमितिदर्शनाच्च न सन्देहोऽनुमित्यङ्गमित्यर्थः। इदमुपलक्षणम् । श्रुत्यादिना देहादिव्यतिरिक्तात्मनिश्चयऽपि मननादौ प्रवृत्तिदर्शनात्सन्देहो नानुमित्यङ्गमित्यपि बोध्यम् । ननूक्तस्थलषु सन्देहं परिकल्प्यैवानु- मितिः स्वीक्रियत इति वदन्तं प्रत्याह-सत्यपि वेति॥अनुमितिविषयेति ॥ स्मृतिमूलश्रुते- रित्यर्थः । द्वितीयसिद्धान्तं दूषयति—प्रत्यक्षश्रुतीति ॥ यदि श्रुतिविरोधाभावेऽपि लोभमूलं कल्प्येत तदाष्टकादिस्मृतीनामपि लोभमूलकत्वसम्भवादप्रामाण्यं स्यादित्यर्थः । इदमुपलक्षणम् । दृष्टहेतुसम्भवमात्रेणाप्रामाण्यक्तिी ज्योतिष्टामाद। दक्षिणादिश्रुतीनामपि लोभमूलकत्वसम्भवेन वेदस्याप्यप्रामाण्यं स्यादित्यपि बोध्यम् । आदिपदेन महादानादिसङ्ग्रहः । स्मृतेः-वेष्टनस्मृतेः शिष्टत्रैवर्णिकपरिग्रहाविशेषेण-स्मृत्यधिकरणाक्तसर्वस्मृतिप्रामाण्यसाधकहेतोस्सत्त्वेन ॥ युक्त- मेवेति ॥ शाट्यायनीयब्राह्मणे 'तामूर्धदरोन वेष्टयति' इति प्रत्यक्षव श्रुतिरुपलभ्यते । जैमिनिना छान्दोग्यानुपदग्रन्थे 'वैष्टतं वै वासः' इत्यादिन। 'तामूदशेनेत्युभयत्र वाससी दर्शयति' इत्यन्तेन चेयं श्रुतिरुदाहृता। क्रीतराजकस्मृतिमूलमपि गोपथब्राह्मणे श्रूयते, 'तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यमन्नं भवति' इति । एवमन्यत्रापि । तस्मादस्मदादीनामप्रत्यक्षत्वेऽपि सर्व- शाखाद्रष्टुमन्वादीनां दर्शनसम्भवात् सर्वाः स्मृतयः श्रुतिमूला एवेति युक्तं वेष्टनादिस्मृतीनामपि प्रामाण्यमिति भावः । भाप्यविरोधं परिहरति--परन्त्विति ॥ वेष्टनमिति प्रत्यक्षश्रुति- विरुद्धादृष्टमूलस्मृतिविहितार्थोपलक्षणम् । नानुष्ठेयमिति ॥ मूलश्रुतिदर्शनाभाववतेति शेषः । तथा च भाष्यक्तिमप्रामाण्यमननुष्ठापकत्वरूपभेव, न तु धर्मप्रमाजनकत्वाभावरूपमिति न भाष्य. विरोध इति भावः । अननुष्ठाननिमित्तमाह-अर्थवादति ।। आदिना मन्त्रपरिग्रहः । लोके ह्यर्थवादोन्नीतविधिमूलिका वह्वयः स्मृतय उपलभ्यन्ते । तत्र प्रत्यक्षश्रुतिविरोधाभावे यथाश्रुतमे- वानुष्ठानम् , तद्विरोधे तु तदुन्नयनं भ्रमप्रमादिमूलका भवेदिति सम्भावनया न निष्कम्पप्रवृत्ति- 10 भाट्टदीपिका [अ. १. बयनस्य प्रत्यक्षश्रुतिविरोधे आभासत्वसम्भवात् । अतश्च यावच्छतिदर्शनं अननुष्ठान- लक्षणमप्रामाण्यमित्यभिप्रायं सूत्रमिति प्राह ॥ यद्वा---शाक्यादीनामपि क्षत्रियत्वप्रसिद्धर्वेददर्शनसम्भवेन तत्प्रणीतस्मृतीना- मपि वेदमूलकत्वं, तन्मूलभूतवेदश्चेदानी प्रलीन इति प्राप्ते-शिष्टत्रैवर्णिकानां धर्मत्वेन परिग्रहस्य पूर्वाधिकरणमुख्यहेतोरभावात् , प्रत्युताप्रमाणत्वेनैव तेषां स्मरणात् वेदा- रिति भावः । उपसंहरति-अतश्चेति ॥ तथा च मूलश्रुतिदर्शनपर्यन्तमननुष्ठानमिति सूत्राशयः । न तु सर्वथाऽप्रामाण्ये तात्पर्यमिति भावः । अथैवं नाननुष्ठानमप्यप्रामाण्यं वेष्टनस्मृतेर्युक्तं, स्पर्शनदेशं परित्यज्य वेष्टनेनोभयोरपि प्रामाण्योपपत्तेः। न च 'सर्वा वेष्टयितव्या' इत्युक्ते यमर्थ- स्सम्भवतीति वाच्यम् ; खातमूलप्रदेशे वेष्टनाभावेन सर्वशब्दसङ्कोचस्य त्वत्पक्षेऽप्यावश्यकतया स्पर्शनशास्त्रेणापि सङ्कोचस्य न्याय्यत्वात् । उक्तं हि जातेष्टयधिकरणे अन्यथानुपपत्तिबाधितस्य निमित्तानन्तरक्षणकर्तव्यताबोधकस्य 'पुत्रे जाते' इति विधेराशौचशास्त्रेणापि सङ्कोचादाशौचा- पगमानन्तरं शुद्धे पर्वण्यनुष्ठानमिति । तद्वत् प्रकृतेऽपि सर्वशब्दसङ्कोचोपपत्तेः । किञ्च 'सर्वा वेष्टयितव्या' इत्यत्र न सर्वावयवावच्छेदेन वेष्टनं बोध्यते । 'सर्वो ब्राह्मणः पूज्यः' इत्यादी सर्वा- वयवावच्छेदेन ब्राह्मणः पूज्य इत्यर्थाप्रतीतः। किन्तु ब्राह्मणत्वव्यापकं पूज्यत्वमित्येव प्रतीत्युदयात्। ततश्चौदुम्बरीत्वव्यापकं वेष्टनकर्मत्वमिति प्रतीत्या नानाप्रयोगगतोदुम्बरीवेष्टनमेव प्रतीयत इति यत्किञ्चित्प्रदेशपरित्यागेऽपि न सर्वशब्दविरोधः । अपि च वेष्टनस्मृतेरप्रामाण्ये भ्रान्त्यादिमूलकत्वं स्मृतेर्वक्तव्यम् । न हि सर्वज्ञानां परित्यक्तारिषर्गाणां योगसिद्वैश्वर्याणां मन्वादीनां भ्रान्तिोभा- दिकं वा सम्भवति । अन्यथा मन्वादिसमानमहर्षिभिः तत्परिग्रहानुपपत्तेः। तस्माच्छाखान्त- रीयविधिं दृष्ट्वैव सा स्मृतिः प्रणीतेति स्मृतिमूलश्रुतेरस्मदादिमिरदृष्टत्वेऽपि मन्वादिप्रत्यक्षत्वात् प्रामाण्योपपत्तिः । उक्तं हि वार्तिक एव 'आत्मीयात्परकीयस्य दौर्बल्यं न हि किश्चन । प्रत्यक्षत्वाविशेषेण खप्रत्यक्षसमं हि तत् ॥' इति । एवमविच्छिन्नशिष्टपरम्परयानुष्ठीयमानस्य वेष्टनस्य निरर्थकत्वस्य तद्बोधकस्मृतेरप्रामा- ग्यस्य तन्मूलभ्रान्त्यादेर्लोभादेश्च कल्पनामपेक्ष्य एकस्य सर्वशब्दस्य सङ्कोच एव युक्ततरः । तस्मान्नोक्तरीत्या नानुष्ठापकत्वलक्षणाप्रामाण्यमित्यतो वार्तिककारीयवर्णकान्तरं दर्शयति- यद्वेति । क्षत्रियत्वेति । वेददर्शनसम्भवार्थ क्षत्रियत्वकीर्तनम् । ततश्च मनोरिव तस्यापि प्रवचनकर्तृत्वोपपत्तेस्साऽपि वेदमूलकत्वात्प्रमाणमिति भावः ॥ वेदमूलकत्वमिति ॥ तद्न्थेऽप्यहिंसासत्यास्तेयशमदमदानसर्वभूतदयादिविधायकवाक्यदृष्टान्तेन चैत्यवन्दनादि- विधीनां वेदमूलकत्वसम्भवादित्यर्थः । तन्मूलश्रुतिवाक्यादर्शने हेतुमाह-तन्मूलेति ॥ शा- क्यादिप्रन्थमूलेल्यर्थः । धर्मत्वेन परिग्रहस्य-धर्मबोधकत्वेन परिग्रहस्य ।। पूर्वाधिकस्मेति ।।
75i पा. ३. अधि. ३.] भादृचिन्तामणिसहिता । क्यामि प्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकारात् वेदमूलकत्वकल्पनानुपपत्तरप्रामाण्यमिति सूत्रार्थः ॥ २॥ (३)-शिष्टाकोऽरुिद्धमिति चेन्न शास्त्र मिाणतात :.५: अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयान् ॥ ६ ॥ स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोध श्रौतत्वात् क्रमादी स्मृत्यधिकरणमुख्यहतोरित्यर्थः । अभावात् क्यिादिग्रन्थावभाव.त, अ. म णत्वन शिष्टानां स्मरणात् ॥ वेदाप्रामाण्येति ॥ वदं नाधीयात. वद प्रम णग तदीयग्रन्थेष्वेव द नेिन वेदमूलकत्वासम्भवात् भ्रान्त्यादिमूलकत्वं वेति न तीनां धर्मप्रमाणत्वमिति भावः । यत्तु शाक्यग्रन्थे तटाकारामदान मदमादिप्रतिप दन्न वदथ प्रतिपादनाद्वेदमूलत्वमिति, तन्न, वेदे हि शान्त्यादीनामात्मज्ञ नसाधनत्वं 'न्तिो दान्त उपर- तस्तितिक्षुस्समाहितो भूत्वात्मन्येव त्मानं पश्येत्' इत्यादिभिः प्रतिपादितम् । तच्च नित्यकर्मानुष्ठा- नेन फलत्यागपूर्वकेण भवति 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाश् केन' इति श्रुतितः । तच्च वेदार्थानुष्ठातृणामेव सम्भवति । क्यग्रन्थप्रतिपादित- दानादिकं तु न वैदिकयज्ञादिसहितमिति न वेदार्थत्वसम्भवः । प्रत्युत निरर्थकचैत्यव-दना- दिसहितमिति न वेदमूलत्वसम्भावनापि । ततश्च 'न हिंस्यात्सर्व भूतानि' इति वेदं क्तमेव अहिं- सादिकं फलायालम् , न तु 'अहिंसा परमो धर्मः' इति - क्योक्तमिति न क्यान्थानां धर्म- प्रामाण्यमिति वार्तिकन्यायसुधादिषु स्पष्टम् । अत्राप्यग्रे स्पष्टम् , सूत्रार्थस्तु विराध प्रत्यक्षश्र- तिविरोधे । अनपेक्षं-प्रमाणत्वेन असङ्गाह्यम् स्यात् , असति हि विराधे, अनुमानं श्रुत्यनु- मानम् । हेतुदर्शनाच-लोभादिहेतुदर्शनाच्च न श्रुत्यनुमानमिति । वार्तिकपक्ष अनपक्ष यावच्छ- तिदर्शनमननुष्ठापकमिति । एवं वर्णकान्तरेऽपि योज्यम् ॥ शिष्टाकोपेऽविरुद्धमिति चेन्न शास्त्रपरिमाणत्वात् । प्रत्यक्षः वि. द न,मप्रामाण्ये पूर्वाधिकरणे सिद्धे विरोधः कास्ति क नेति विचारात्प्रसङ्गसङ्गतिः । ननु खन्तराधि- करणे स्वशाखोक्तक्रमकालादिविरोधे शाखान्तरीयाङ्गोपसंहारो न कार्य इ. 'अपि वा क्रमसंयोगात्' इति सूत्रेणाङ्कय तेषां पदार्थत्वात्क्रमादिबाधकल्वं युक्तमिति 'विरेधिः : ' इति- सूत्रेण सिद्धान्तितमिति तेन गतार्थमेतदधिकरणमिति चेन्न ; श्रौतपदार्थानां श्रीनब - लिव- त्वेऽपि स्मार्तपदार्थानां श्रौतक्रमादुर्वलत्वेन न तद्बाधकत्वमिति शङ्कापरिहारार्थत्व..: अत्रत्यस्यैव प्रमेयबलाबलीयरत्वस्य तत्र युत्त.यन्तरः सह समुचित्य स्मारणात् .. गर्भितेति ध्येयम् ॥ स्मार्तानामिति ॥ स्मृत्या क्रत्वङ्गत्वेन विहितानामित्यर्थः ॥ आचमनादीनामिति ।। आदिना दक्षिणकर्णस्पर्शशिखाबन्धनोपवीतदक्षिणहस्तादीनां सङ्गहः । अत्र भोजनादिनि- . %3 . अथवा ७६ भट्टदीपिका [अ. १. मित्तकाचमनादेः पुरुषार्थस्य व्यावृत्त्यर्थं क्रत्वङ्गेति विशेषणम् । अतश्च 'आचान्तेन कम कर्त- व्यम्' इति स्मृतिरुदाहरणमिति प्राञ्चः । नव्यास्तु अत्रापि कर्मसामान्योद्देशेनादावाचमन- विधानात्क्रत्वङ्गत्वेऽपि पदार्थानां मध्ये तदविधानेन विरोधाभावात् 'क्षुते आचामेत्' इत्यादि- कमेवोदाहरणं, तस्य मध्येऽपि प्रसक्तेरित्याहुः । वस्तुतस्तु 'क्षुते निष्ठीवने चैव परिधानेऽ- श्रुपातने । न तु कर्मस्थ आचामेदक्षिणं श्रवणं स्पृशेत् ॥' इति वचनेन कर्ममध्ये आचमन- परिहारपूर्वकं दक्षिणकर्णस्पर्शी विहित इत्युदाहरणम् । इदमपि विततैकपदार्थमध्यप्रसक्तक्षु- तादावेव । पदार्थद्वयसन्धौ त्वाचमनमेव । तत्र वितत्या सह विरोधाद्विचारो युज्यते । शिखा- बन्धनमुपवीतं च पुरुषार्थ क्रत्वर्थं च । 'सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतं च यत्करोति न तत्कृतम् ॥' इति वचनेन तथात्वसिद्धेः । अत्रत्यमुपवीतमैष्टिकपा- शुकेतरकर्मस्वेव । तेषु तु प्रकृतावेव 'उपव्ययते' इति विधानादिति केचित् । तदयुक्तम् । श्रौतो- पवीतस्य 'अजिनं वासो वा दक्षिणत उपवीय' इति वाक्यशेषानुसारेण वासोविन्यासरूपत्वात् 'यज्ञोपवीतिना कर्तव्यम्' इति स्मार्तस्य ब्रह्मसूत्ररूपत्वेन अत्यन्तभेदात् । ततश्च ईदृशोपवीतस्य स्रंसनादौ स्मार्तप्रायश्चित्ताद्यनुष्ठाने श्रौतक्रमादिविरोधादुदाहरणत्वम् । दक्षिणाचारेण कर्तव्यम्' इत्यत्र लोहितोष्णीषादिव दक्षिणपाणेरेवाप्राप्तत्वेन भोजनादौ पुरुषार्थस्यापि तस्य सर्वकर्मा- ङ्गत्वेन विधिः । 'सव्यैः पाणिभिस्तृणानि निरस्यन्ति' इति छन्दोगसूत्रं त्वेतस्यापवादः । दक्षिण- हस्तानां बहिष्पवमानीयसर्पणान्वारम्भे व्यापृतत्वेनासम्भवादेव दक्षिणपाणिपरिहारेण सव्यहस्त- प्राप्तेरनुवादमात्रं वा । अत एव तत्कालक्रियमाणप्रवृत्तहोमोऽपि सव्यपाणिनैवेति छन्दोगानुष्ठानं सङ्गच्छत इति केचित् । वस्तुतस्तु 'सव्यैः' इत्यादिसूत्रस्य सव्यपाणिविधायकत्वमेव । न चान्वा- रम्भान्यथानुपपत्त्या सव्यप्राप्तिः । हस्तद्वयेनैवान्वारभ्य सर्पणे क्रियमाणे तृणनिरसने सामान्यप- रिभाषया दक्षिणहस्तप्राप्तौ तन्निरासाय विधित्वसम्भवात् । अत एव प्रवृत्तहोमोऽपि सव्ये- नान्वारम्भे स्थित एव दक्षिणपाणिनैव कर्तुं युक्तः । न च हस्तद्वयेनान्वारम्भे प्रयोजना- भावः । अपच्छेदे गुरुतरप्रायश्चित्तविधानेन तद्भियान्वारम्भदाार्थं हस्तद्वयान्वारम्भसम्भ- वात् । न च तथापि होमार्थमेकहस्तविच्छेदेऽप्यपच्छेदशङ्का स्यादिति वाच्यम् ; अपच्छेद- शब्दस्य संयोगनाशकविभागरूपगुणपरतया एकहस्तान्वारम्भसत्त्वे संयोगनाशाभावेन तदप्र- सक्तेः । न चैवमपि तद्धस्तविभागोत्पत्या तद्दोषतादवस्थ्यमिति वाच्यम् ; तद्धस्तविभागमात्रस्या- पच्छेदशास्त्रार्थत्वाभावात्। 'अध्वर्यु प्रस्तोतान्वारभते' इत्यादिष्वध्वर्युप्रस्तोत्रादिशरीरसम्बन्धस्यै- वान्वारम्भशब्दार्थतया तच्छरीरद्वयविभागस्यैवापच्छेदशब्दार्थतया च एकहस्तसंयोगसत्त्वे कारणा- कारणसंयोगजन्यकार्याकार्यसंयोगरूपशरीरद्वयसंयोगात्मकान्वारम्भस्यैव सत्त्वेनापच्छेदाप्रसक्तेः । न हि कश्चिदपि एकहस्तान्वारम्भकाले शरीरद्वयं विभक्तमिति प्रत्येति । किन्तु हस्तो विभक्त इत्येवेति हिरण्यकेशिसूत्रव्याख्याने प्रतिपादितमस्माभिः । ततश्च हस्तद्वयेनापि प्रयोगकरणे पा. ३. अधि. ३.] भादृचिन्तामणिसहिता। ७७ नामेव प्राबल्यात् तद्विषयस्मृतीनामप्रामाण्यम् । न हि 'क्षुते आचामेत् ' इति विहि- तस्य स्मार्ताचमनस्य वेदवेदिकरणमध्येऽनुष्ठाने 'वेदं कृत्वा वेदिं करोति' इति श्रुति- विहितः क्रमः अनुष्ठातुं शक्यते । स्मार्तपदार्थानां च बहुत्वात् पूर्वाह्लादिकालः प्रयो- गविद्धयवगतं च परिमाणं न शक्यते अनुगृहीतुम् । न च श्रौतत्वेऽपि क्रमादेः पदार्थधर्मत्वात् पदार्थभूतेभ्य आचमनादिभ्यो दौर्बल्यम् । प्रमाणपूर्वकत्वात् प्रमेया- वगमस्य प्रथमावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्यादिति प्राप्ते- पदार्थप्राप्त्यपेक्षत्वात् क्रमादरौत्तरकालिकस्य यावत्प्रमाणगम्यपदार्थाविरोधेनैव कल्पनीयत्वात् न तावत्पदार्थविरोधित्वम् । परिमाणं तु न कस्यचिच्छास्त्रस्यार्थ इति न तस्य श्रौतत्वम् । विरोधेऽप्याचमनादीनां पदार्थत्वात् प्राबल्यमेव । प्रमाणानां हि प्रयोगप्राशुभावसिद्धिः । दक्षिणहस्तमात्रेण तत्करणे तदसिद्धिरिति विरोधादुदाहरणत्वम् ॥ क्रमेत्यादि । क्रमः-पौर्वापर्यादिः। कालः--प्राशुभावादिः, पूर्वाह्लादिश्च । परिमाणं-पदार्थयत्ता । आदिना वैतत्यपरिग्रहः । अत्र उक्तस्मृतीनामप्रामाण्यं प्रामाण्यं वेति संशयः । तदर्थ चेदं चिन्तनीयं श्रुतिविरोधोऽस्ति वा न वेत्यभिसन्धाय पूर्वपक्षमुपपादयति-विरोध इति ॥ औतत्वादिति ॥ स्मृत्यपेक्षया श्रुतेः प्रबलत्वेन तत्प्रतिपादितक्रमस्यापि प्रबलतया तद्विरो- धात् दुर्बलस्मृतिप्राप्ताचमनादिपदार्थबाधे तद्बोधकस्मृतीनामप्रामाण्यमित्यर्थः । विरोधमेवोपपा- दयति-न हीति ॥ सङ्कल्पात्पूर्व क्रियमाणमाचमनं नोदाहरणमिति दर्शयितुं प्रयोगमध्यप्रस- क्तमाचमनमुदाहरति-क्षुते आचामेदिति । अनेन वचनेन विहितस्याचमनस्य क्षुतनिमित्तकाशु- चित्वपरिहाराय मध्येऽनुष्टाने 'वेदं कृत्वा वेदिं करोति' इति श्रुतिस्थक्त्वाप्रत्ययोक्तवेदकरणान- न्तर्यरूपक्रमबाधस्स्यादित्यर्थः । वेदो-दर्भमुष्टिविशेषः । वेदिः-हविरासादनार्था । वैदिकका- लादिविरोधमुपपादयति-स्मातेति ॥ प्रयोगविधिप्राप्तानां पदार्थानामनुष्ठाने मध्ये नैमित्तिका- नेकाचमनादिपदार्थानुष्ठाने पूर्वाह्लादिकालविरोधः प्रयोगविष्यवगतपदार्थेयत्ताबाधश्च स्यादि- त्यर्थः ॥ पूर्वाह्लादीति ॥ आदिना प्रधानप्रत्यासत्यादेः परिग्रहः । श्रुतेः स्मृत्यपेक्षया प्राब- ल्याच्छ्रुत्युक्तक्रमस्य दुर्बलस्मृतिप्राप्ताचमनाद्यपेक्षया प्राबल्येऽपि क्रमादेः पदार्थधर्मत्वेन पदार्थ- रूपाचमनाद्यपेक्षया दौर्बल्यमेव युक्तम् । 'धर्मधर्मिविरोधे तु धर्मिणो बलवत्तराः' इति न्यायादि- त्याशङ्कते-न चेति ॥ प्रमाणपूर्वकत्वात्प्रमेयावगमस्य प्रथमप्रवृत्तप्रबलप्रमाणेन क्रमस्यापि प्रथ- मप्रतीत्या तत्प्राबल्यस्य निश्चितत्वात् दुर्बलप्रमाणप्राप्तपदार्थानां बाधो युक्त इति परिहरति-प्रमा- णेति ॥ सिद्धान्तमाह-पदार्थेति ।। औत्तरकालिकस्येति ॥ क्रमो ह्यानन्तर्यादिरूपः । स चैकपदार्थानुष्ठानोत्तरमपरपदार्थानुष्ठानेन भवतीति पदार्थप्राप्तयुत्तरमेवानुष्ठानाय क्रमापे- क्षायां क्रमबोधकशास्त्राणां प्रवृत्त्या न विरोध इत्यभिप्रायः ॥ यावत्प्रमाणेति ॥ अनेन प्रब- लदुर्बलप्रमाणकसर्वपदार्थप्राप्तयुत्तरमेव क्रमकल्पनेति दर्शितम् । क्रमस्य पदार्थधर्मत्वमुपपा भादृदीपिका [अ. १. न स्वरूपतो विरोधः । अपि तु प्रमेयविरोधनिबन्धनः । तद्यदैव प्रमेयविरोध आलो- च्यते तदैव तद्गतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकत्वमिति प्रमाणमेव स्मृतिः ॥ यद्वा-यच्छाक्यग्रन्थेषु वेदाविरुद्धं दानादिवचनं तस्य भवतु प्रामाण्यमिति प्राप्ते- 'खाध्यायोऽध्येतव्यः'२ 'वेदोऽखिलो धर्ममूलम् । तद्विदां च स्मृतिशीले परिमाणविरोधं परिहरति --परिमाणन्त्विति ॥ तस्य-परिमाणस्य ॥ न श्रौतत्वमिति ॥ परिमाणविधायकशास्त्रादर्शनादित्यभिमानः । ननु बहूनां पदार्थानामेकेन कर्ता युगपदनुष्ठाना- सम्भवात् क्रमापेक्षायां ततदानन्तर्यबोधकवाक्यैः अर्थात् पाठादेश्च क्रमोऽवगन्तव्य इति पञ्चमे वक्ष्यते । एवं पदार्थप्राप्तयनन्तरं तत्परिमाणमपि ज्ञात्वैवानुष्ठाने प्रवृत्तिः । अन्यथा कृता- कृतसन्देहेन यथोक्तानुष्ठानसन्देहात् फलसन्देहेऽनुष्ठानमेव न स्यात् । अत्र परिमाणे लिङ्ग- दर्शनमपि भवति । 'एकशतं प्रयाजानूयाजाः' 'चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते' 'त्रयोदशा- मावास्यायां' 'षष्टिस्त्रिष्टुभो माध्यन्दिनं सवनम्' इत्यादि । तथा च प्रयोगविधिना तत्तन्निमित्त. शास्त्रैकवाक्यतया नित्यनैमित्तिकपदार्थप्राप्तयनन्तरमेव प्रयोगकल्पनेन क्रमस्येव परिमाणस्यापि शास्त्रार्थत्वात् तस्याशास्त्रार्थत्वोक्तिरसङ्गता । किञ्च कल्प्यप्रयोगविधिगम्यक्रमस्याविरोधेऽपि 'वेदं कृत्वा वेदिं' इति क्त्वाप्रत्ययोक्तक्रमविरोधो दुरुधर एवेत्यखरसादाह----विरोधेऽपीति ॥ पदार्थप्राबल्यमुपपादयति---प्रमाणानां हीति ॥ स्वरूपतो हि विरोधः परस्पराभावरूपतया, परस्पराभावव्याप्यतया वा स्यात् । न च प्रकृते तादृशविरोधोऽस्ति । तेन पदार्थानुष्ठानद्वारक एव विरोधो वाच्यः । स च पदार्थप्राप्तयनन्तरं सम्भवतीति पदार्थप्राप्तिकाल एव पदार्थ- प्राबल्येन शास्त्रार्थस्य निर्णीतत्वान्न श्रौतक्रमादीनां पदार्थगुणज्ञातानां प्राबल्यमिति तेषां बाध एवेत्याशयः । ननु श्रुत्यर्थक्रमस्य बाधाङ्गीकारे श्रुतिरपि स्मृत्या बाधिता स्यात् । न चेदं युक्तम् । किञ्च 'अग्निं चित्वा सौत्रामण्या यजेत' इत्यादाविव व्यवहितोत्तरकालमादायापि क्त्वाप्रत्ययोपपत्तेर्न बाधो युक्तः । एवं परिमाणेऽपि लिङ्गदर्शनस्य सर्वप्रयोगसाधारणनित्य- पदार्थविषयतयाप्युपपत्तेर्न तद्बाधोऽपि युक्तः ।। एवं कालस्यापीत्यखरसाद्वार्तिककारीयवर्णकान्तरमाह----यद्वेति ॥ शाक्यादिग्रन्थेषु वेदविरुद्धांशस्याप्रामाण्येऽपि वेदाविरुद्धानामहिंसादिवचनानां प्रामाण्यमस्त्वित्याशङ्कापरिहारार्थ- मिदं सूत्रमित्याशयेनाह----शाक्यग्रन्येष्विति ॥ सिद्धान्तमाह---स्वाध्यायेति ॥ अधीतेन खाध्यायेन फलवदर्थावबोधं भावयेदिति वाक्यार्थस्य पूर्वमुक्तत्वेन फलवदर्थस्य धर्मत्वात् । वेदो, धर्ममूलं-धर्मप्रमाणमित्यर्थः । तद्विदां----वेदविदाम् । शीलं-सदाचारः । १. तस्मृतिः इति पाठान्तरम् । २. तै. आ. २-१५. ३. गौतमधर्मसूत्रम्. १.
पा. ३. अधि. ३.] भादृचिन्तामणिसहिता। 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥" इत्यादिवचनैर्नियतप्रमाणप्रतिपाद्यानामेव धर्मत्वप्रतीतेः अन्यतः प्रमितस्य फलसाध- नत्वाभावात् तेषामप्रामाण्यमिति ॥ पुराण-प्रसिद्धम्। न्यायो-न्यायशास्त्रम् । तेन यागादरपूर्वद्वारा वर्गादिसाधनत्वसाधनात्। मीमां- सा-पूर्वोत्तरमीमांसाद्वयम् । उत्तरमीमांसायां देहादिव्यतिरिक्तयागादिकात्मप्रतिपादनात् । धर्मशास्त्राणि-मन्वादिप्रणीतानि । अङ्गानि -शिक्षाव्याकरणादीनि । एतैस्सहिता वेदा धर्मे प्रमाणमित्यर्थः ॥ नियतप्रमाणप्रतिपाद्यानामेवेति ॥ अत एव 'चोदनालक्षणोऽर्थों धर्मः' इति सूत्रेण चोदनाबोधितश्रेयस्साधनताकत्वं धर्मत्वमिति भाष्ये स्पष्टम् । तत्रत्यचोदनाश- ब्दस्य चोदनामूलकस्मृतिपुराणाचारादिपरत्वान्न विरोधः । न च वेदोक्ताहिंसादेरेव शाक्यग्र- न्थेऽपि प्रतिपादनात् तदंशे धर्मत्वं युक्तमिति वाच्यम् ; तत्रत्याहिंसाशब्दस्य वेदस्थाहिं- साशब्दार्थभिन्नार्थकत्वात् । तथाहि-वेदे हि 'न हिंस्यात्सर्वा भूतानि' इति श्रुयते । सर्वाणि भूतानीत्यर्थः । छान्दसो लुक् । ततश्च तत्र हिंसाशब्दस्याग्नीषोमीयादिवेदविहितहिंसाति- रिक्तहिंसापरतया सेव निषिध्यते । तथा च विहितातिरिक्तरागादिप्राप्तहिंसात्वं वेदस्थले निषेध्यतावच्छेदकम् । शाक्यादिग्रन्थस्थस्य 'अहिंसा परमो धर्मः' इति वाक्यस्थाहिंसापदस्य वैदिकावेदिकसाधारण्येन हिंसामात्रपरतया केवलहिंसात्वमेव तत्र निषेध्यतावच्छेदकमिति वाक्यार्थभेदेन वेदार्थविरुद्धार्थप्रतिपादकशाक्यादिग्रन्थस्य न प्रामाण्यमिति वार्तिककाराशय इत्यभिप्रायात् । ततश्च वेदादिनियतप्रमाणप्रतिपाद्यस्यैव फलसाधनत्वेन धर्मत्वात्तेषामेव धर्मप्रमाणत्वम् । शाक्यादिग्रन्थस्य च भ्रान्तिमूलकत्वेन नियतप्रमाणानन्तर्भावात्तत्प्रतिपाद्यस्य फलसाधनत्वाभावेन धर्मत्वासम्भवान्न शाक्यादिग्रन्थानां धर्मप्रामाण्यमित्युपसंहरति-अन्यतः प्रमितस्येति ॥ प्रयोजनं पूर्वपक्षे वेदकरणोत्तरं क्षुतनिमित्तकाशुचित्वप्राप्तौ नाचमनानुष्ठानम् । सिद्धान्ते तु आचमनं कृत्वैव वेदिकरणमिति द्रष्टव्यम् । सूत्रार्थस्तु, शिष्टस्य-श्रुतिविहितस्य । अकोपे -स्मार्तपदारनुष्ठीयमानेरबाधे सति । अविरुद्धम्---आचमनादिकं कार्यमिति सि- द्धान्तेनोपक्रमः । एवं सिद्धान्ती मन्यते चेत्, तन्न; कुतः । शास्त्रपरिमाणत्वात् । परिमीयते इति परिमाणम् । कर्मणि ल्युट् । श्रुत्यवगतत्वादित्यर्थः । तथा च श्रुतेः प्राबल्यात्स्मृत्युक्तं नानुष्ठेयमिति । वार्तिकरीत्या तु शिष्टानाम्-अहिंसादिविधीनाम् । अकोपे-बाधाभावे सति, शाक्यवाक्यम् । अविरुद्धं--प्रमाणमिति चेन्न; शास्त्राणां--प्रमाणानाम् । परिमाणत्वात्- परिमितत्वात् । पुराणादिभिरेव धर्मः प्रमितव्य इति नियमनादिति ॥ १. यावल्क्यस्मृतिः. १.३.
भादीपिका [अ. १ .. अनिबद्धानां वसन्तोत्सवाद्याचाराणां प्रामाण्यमप्रामाण्यं वेति सन्देहे एतेषां वेदमूलकत्वे अष्टकादिवत् मन्वादिभिर्निबन्धनापत्तेः सामान्यतः 'तद्विदां च स्मृतिशीले' इत्यादिना निबन्धनेऽपि विशेषतोऽनिबन्धनेन तेषां श्रुतिदर्शनाभावादप्रामाण्यमिति प्राप्ते- धर्मबुद्धया वैदिकैरनुष्ठीयमानत्वात् स्मृतिवदेव वैदिकत्वम् । विशेषतोऽनिबन्धनं तु गौरवभीत्या न दोष इति । व्यतिक्रमसाहसदर्शनं तु धर्मबुद्धया वैदिकैरननुष्ठी- अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ शाक्यादिग्रन्थानामप्रामाण्ये तद्वदे- वाचाराणामपि अप्रामाण्यं स्यादिति उत्थानात्सङ्गतिरित्यभिप्रेत्याह-अनिबद्धानामिति ॥ प्रा- तिस्विकरूपेणाविहितानामित्यर्थः । अनेनाष्टकादिव्यावृत्तिः ॥ वसन्तोत्सवादीति ॥ वसन्त- पञ्चम्यामौत्तरैः क्रियमाणोत्सवविशेषः वसन्तोत्सव इति केचित् । फाल्गुनकृष्णप्रतिपदि क्रि- यमाणपरस्परजलसेको वसन्तोत्सव इत्यन्ये । आदिना कार्तिक शुक्लप्रतिपदि क्रियमाणदीपोत्सवादेः ग्रहणम् । आदिशब्देनात्मतुष्टेः परिग्रह इति केचित् । तन्न; तस्याचाररूपत्वाभावेनाचारपदा- नन्वयप्रसङ्गात् । ‘भोजनं विना जलं न पिबामि' इत्यादिरूपश्रुतिस्मृत्यविरुद्धसङ्कल्प आत्मतुष्टिशब्दार्थः । आचाराणामिति ॥ सदाचाराणामित्यर्थः। अनेन शाक्याद्याचारल्यावृत्तिः ।। प्रामाण्यमप्रामाण्यं वेति ॥ धर्माधर्मयोरिति शेषः । ननु आचाराणां वेदमूलकत्वेनाष्टकादि- स्मृतिवत्प्रामाण्यं स्यादित्यत आह-निबन्धनापत्तेरिति ॥ ततश्च निबन्धनाभावान वेदमूलकत्वम् , किन्तु भ्रान्त्यादिमूलकत्वमेवेति अप्रामाण्यमेव तेषामित्यर्थः । ननु प्रातिस्विकरूपेण नि- बन्धनाभावेऽपि तद्विदां च स्मृतिशीले ' इति सामान्यतो निबन्धनाद्वेदविदनुष्ठितत्वेन रूपेण स्मृतिप्रतिपाद्यत्वाद्वेदमूलत्वं सम्भवतीत्यत आह-सामान्यत इति ॥ आदिना 'आचारश्चैव साधूनाम्' इत्यादेर्ग्रहणम् । तदनुष्ठितत्वमात्रेण वेदमूलत्वे भोजननिद्रादीनामपि वेदमूलत्वापत्त्या सामान्यतो निबन्धनं न वेदमूलत्वनिश्चायकमिति भावः । न च तद्वचनं व्यर्थं स्यादिति वाच्यम् ; श्रुतिस्मृत्युक्तानुष्ठानानुवादकत्वादनुवादस्य प्रामाण्यदाार्थकत्वात् । ततश्चाचारस्य वेदमूलत्वनिश्चयाभावादप्रामाण्यमित्यर्थः । आचाराणां प्रत्यक्षेण वेदमूलत्वनिश्चयाभावेऽपि अनुमानमेव तेषां वैदिकत्वे प्रमाणमिति सिद्धान्तमाह-धर्मबुध्येति ॥ वसन्तोत्सवाद्याचारा वेदमूलकाः धर्मबुद्ध्या वैदिकैरनुष्ठीयमानत्वात् अष्टकादिवत् इत्यनुमानेन तेषां वेदमूलत्वसिद्धि- रित्यर्थः । स्मृतिवदेव-स्मृत्युक्ताष्टकादिवदेव । विशेषतो निबन्धनाभावान्न वेदमूलकत्वमिति पूर्वपक्षोक्तं निरस्यति-विशेषत इति ॥ गौरवभीत्या ---ग्रन्थगौरवभिया । न दोषः-न वेदमूलकत्वाभावनिधायकः । अयमाशयः । देशभेदेन कुलभेदेन ग्रामजनपदादिभेदेनाचाराणां बहुविधत्वात् तेषां सर्वज्ञमन्वादिवेद्यत्वेऽपि प्रातिखिकरूपेण निबन्धे ग्रन्थगौरवं स्यात् । अतो नानिबन्धनकृतमवैदिकत्वमित्यर्थः । तदाह आश्वलायनः, 'अथ खलूच्चावचा जनपदधर्मा प्रामधर्माच, तान् दिवाहे प्रतीयात् , यत्तु समानं तद्वक्ष्यामः' इति । अत्र जनपदग्रामधर्माणां । ।
पा. ३. अधि. ४.] भादृचिन्तामणिसहिता । ८१ यमानत्वान्न वैदिकम् । न चैतावता सर्वस्याप्यवैदिकत्वम् । अत आचाराणामपि धर्मा- धर्मयोः प्रामाण्यमिति ॥ ३॥ (४) तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिस्स्यात् ॥ ७ ॥ शास्त्रस्था वा तन्निमित्तत्वात् ॥ ८ ॥ शब्दप्रयोगरूपाचारस्य यत्रार्यम्लेच्छयोः परस्परमर्थविप्रतिपत्तिः यथा पीलुश- ब्दस्य वृक्षविशेष आर्याणां अन्येषां हस्तिनि तत्र तुल्यबलत्वम् , व्यवहारे आर्या- णामिव म्लेच्छानामप्यभियुक्तत्वाविशेषात् । अवध्यस्मरणस्योभयत्रापि समानत्वादिति तत्तद्देशीयजनैरेव व्यवस्थयानुष्ठेयानामनेकत्वात् ते धर्मा आचारादेवावगन्तव्या इत्यभिप्रायेण तानपेक्ष्यैव सर्वदेशीयजनानुष्ठेयमेव विहितवान् भगवानाचार्यः । धर्मबुद्धया वैदिकैरनुष्ठी- यमानत्वाभावान्न भोजनादौ पूर्वोक्तदोष इति भावः । धर्मबुद्धयेत्यस्य प्रयोजनमाह-व्यति- क्रमेति ॥ तदनुपादाने वसिष्ठस्य पुत्रशोकनिमित्तभृगुपतनेन प्राणत्यागोद्योगस्य, विश्वामित्रस्य चण्डालयाजनादेश्च वेदमूलकत्वं स्यात् । धर्मबुद्धयेत्यस्य हेतौ प्रवेशे तु व्यतिक्रमादीनां रागद्वेषशोकादिमूलकप्रवृत्तिविषयत्वेन धर्मबुद्ध्यानुष्ठीयमानत्वाभावान्न व्यभिचार इत्यर्थः । व्यतिक्रमः -धर्मविरुद्धानुष्ठानम् । साहसं----दुष्करानुष्ठानम् । उपसंहरति- अत इति ॥ प्रयोजनं स्पष्टम् । सूत्रार्थस्तु, अपि वेति पक्षव्यावृत्तौ । कारणस्य- कामक्रोधादिरूपस्य । अग्रहणे--अभावनिश्चये सति । प्रयुक्तानि-निबन्धनमन्तरेणा- नुष्ठितान्यपि । प्रतीयेरन्-धर्म प्रत्याययेयुरिति ॥ तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिस्स्यात् ॥ पूर्वाधिकरणेन प्रासङ्गिकी सङ्गति सूचयन्नाह—शब्दप्रयोगरूपाचारस्येति ॥ आर्यम्लेच्छयोरिति ॥ वैदिकभाषैकनिरता अर्यावर्तनिवासिनत्रैवर्णिका आर्याः। कुमारिकाखण्डबहिर्वासिनोऽपभ्रंशभाषाप्रवीणा म्लेच्छाः । 'म्लेच्छ अव्यक्ते शब्दें' इति धातुपाठे अव्यक्तशब्दस्यापभ्रंशपरत्वात् । पीलुशब्दमुपलक्षणम् । देहशब्दस्य आर्याणां शरीरे प्रयोगः; ग्रामे म्लेच्छानामित्यपि द्रष्टव्यम् । एतेन पीलुशब्द- स्यार्याणामेव 'पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति कोशादावुभयत्र प्रयोगेऽपि नं क्षतिरिति ध्येयम् । यस्मिन् शब्दे आर्यम्लेच्छयोरर्थविप्रतिपत्तिः तत्र प्रयोगानुसारेणो- भावप्यर्थी ग्राह्यौ, उत आर्यप्रसिद्धार्थों ग्राह्य इति संशये पूर्वपक्षमाह-तत्रेत्यादिना ॥ तुल्यबलत्वमिति ॥ आर्यम्लेच्छप्रयोगयोस्तुल्यबलत्वमेव । अर्थप्रत्यायनार्थशब्दप्रयोगे उभ- योरपि समानत्वेन उभयत्र शक्तेर्युक्तत्वात् । ततश्चोभावप्यौँ ग्राह्यावित्यर्थः । ननु आर्येषु प्रयोगस्यानादितया म्लेच्छेष्विदानींतनैः कल्पिततया आर्यप्रसिद्धार्थ एव शक्तिरिति स एव ग्राह्यः न तु म्लेच्छप्रसिद्ध इत्यत आह--अवध्यस्मरणस्येति ॥ किश्चित्पुरुषप्रभृत्ये- 11 ८२ भाट्टदीपिका [अ. १. प्राप्ते-अभिधीयते-शक्यतावच्छेदकभेदेनानेकशक्तिकल्पनाप्रसङ्गात् एकत्रैव शक्तिः नो- भयत्र । न च विनिगमनाविरहः ; आर्यप्रसिद्धरेव नियामकत्वात् । आर्या हि शब्दै- कसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्त्वं विविच्य परिपालयन्ति न म्लेच्छाः । दृष्टार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धेः । अतस्तत्प्रसिद्धया वृक्षविशेष एव शक्तिः । गजप्रतीतिस्तु लक्षणया शक्तिभ्रमाद्वा यत्र तु नियामकाभावः तत्रागत्या अक्षादिशब्देषु उभयत्रापि शक्तिः, आर्याणामेवोभयत्रापि प्रयोगात् । तत्रापि. क्वचि- द्वाक्यशेषस्य नियामकता । 'यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवो- तत्प्रयोग इति प्रयोगावधिपुरुषाप्रतीतेरित्यर्थः । तदुक्तं हरिणा-'अनिदंप्रथमाश्शब्दाः साधवः परिकीर्तिताः' इति । ततश्च ईदृशावध्यस्मरणस्य म्लेच्छेष्वप्यविशेषेण तत्प्रयो- गस्याप्यनादित्वात्समबलत्वमिति भावः । सिद्धान्तमाह-शक्यतेति ॥ अर्थद्वये शक्त्यङ्गीकारे शक्यतावच्छेदकत्वस्य अनेकधर्मेषु कल्पनीयतया गौरवं स्यात् । तत्तच्छक्तिज्ञानस्य शाब्दबुद्धिप्रयोजकत्वकल्पनादपि गौरवम् । तथा 'अन्याय्यश्चानेकार्थत्वम्' इति न्यायविरो- धश्च स्यादित्यर्थः । विकल्पश्चाष्टदोषदुष्ट इति भावः । ननु एकत्रैव यदि शक्तिः तदा म्लेच्छप्रसिद्धार्थे शक्तिर्वा, आर्यप्रसिद्धार्थे वेति विनिगनाविरह इत्याशङ्कय निराकरोति- न चेति ॥ आर्यप्रसिद्धराधिक्यमुपपादयति-आर्या हीति ॥ तेषां धर्मलोपभीरुत्वाच्छब्दार्थ- तत्त्वं सम्यग्विविच्य शब्दान् प्रयुञ्जते । म्लेच्छानां शब्दप्रयोगस्यार्थज्ञानैकप्रयोजनत्वात् धर्मवि- प्लतिभयाभावात्स्वेच्छया शब्दप्रयोगं कुवन्तीत्यर्थः। तत्प्रसिद्धया-आर्यप्रसिद्धया ।। वृक्षविशेष एव शक्तिरिति ॥ ततश्च स एवार्थो ग्राह्य इति भावः ॥ लक्षणयेति ॥ ननु लक्षणाङ्गीकारे आर्याणामपि क्वचिद्गङ्गादिपादानां लाक्षणिकप्रयोगदर्शनेन समबलत्वं स्यादित्यत आह- शक्तिभ्रमाद्वेति ॥ ननु एवं सति अक्षादिशब्दानां नानार्थकत्वं न स्यादित्यत आह- यत्र विति ॥ 'अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः' इत्यादिरीत्या अनेकार्थेषु आर्याणामेव प्रयोगाद्विनिगमनाविरहादनेकशक्तिकल्पनमावश्यकमित्यर्थः ॥ अक्षादीति ॥ आदिना हर्यादि- परिग्रहः । अत्र भाष्ये 'यवमयश्वरुर्भवति' इत्यादौ यवशब्देन दीर्घशूकविशेषाणां वा ग्रहणं, प्रियङ्ग्णां वेति सन्देहे वाक्यशेषान्निर्णय इति सिद्धान्तितं तदक्ताधिकरणेन गतार्थमिति ध्वन- यन्नाह-तत्रापीत्यादिना ॥ आर्यप्रयोगेत्यर्थः । क्वचित्-यवशब्दादौ । नियामकता-शक्ति- व्यवस्थापकता । वाक्यशेषं दर्शयति-यत्रान्या इति । वसन्ते अन्या ग्लानिं प्राप्नुवन्ति एते यवा मोदन्त इवेत्यर्थः। इदमुपलक्षणम् । 'वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाच तिष्ठन्ति यवाः कणिशशालिनः॥' इत्यपि बोध्यम् । ततश्च वसन्ते दीर्घशूकानामेव मोदमानत्वा- ॥ १.. कदाचिदिति पठान्तरम् ।
पा. ३. अधि. ४.] भादृचिन्तामणिसहिता। ८३ त्तिष्ठन्ति' इत्यनेनैव यवशब्दस्य दीर्घशूकविशिष्टे शक्तिः, प्रियङ्गुषु तु लक्षणया प्रयोगः॥ एवं वा-यत्र मातुलकन्यापरिणयनादौ स्मृत्याचारयोविरोधः तत्रोभयोरपि श्रुति कल्पकत्वात् तुल्यबलत्वमिति प्राप्ते-स्मृतीनां सप्रत्ययप्रणीतत्वात् स्मृतिषु कर्तव्यता त्तत्रैव शक्तिरित्यर्थः । ननु प्रियङ्गौ कथमार्याणां प्रयोग इत्यत आह-प्रियङ्गुष्विति ॥ वार्तिके तु गोधूमानामपि वसन्ते मोदमानत्वाविशेषत्वात् प्रियङ्गौ केषामपि यवपदप्रयोगा- भावाच्च सन्देहस्यैवाभावान्नैतद्युक्तमित्युक्तम् । अत्र केचित् पैलवौदुम्बरौ दण्डौ वैश्यस्य'इति स्मृतौ पैलवपदेन गजदन्तमयो दण्डः पूर्वपक्षे, सिद्धान्ते तु वार्भ इति प्रयोजनमाहुः, तच्चिन्त्यम् ; पालाशाश्वत्थादिप्रायपाठवशेनैव औदुम्बरपदस्य ताम्रमयत्वनिरासपूर्वकं वार्थिकत्वस्य निर्णे- तव्यतया तेनैव पैलवपदस्यापि वार्थिकत्वसिद्धेः । वस्तुतस्तु पालुशब्दस्य पूर्वोक्तरीत्या उदाहरणत्वासम्भवात् देहशब्दादिकमेव उदाहरणमिति तत्रैव प्रयोजनं वक्तव्यम् । तद्यथा देहशब्दस्य ग्रामे प्रयोगकरणे पूर्वपक्षे न सारखतीष्टिः, सिद्धान्ते तु सेति द्रष्टव्यम् । सूत्रार्थ- स्तु, ये शब्दा आयैरेकस्मिन्नर्थे प्रयुक्ताः तेषु, विप्रतिपत्तिः-अर्थाभिधायिता । समा- तुल्यबला । स्यात् , विरोधस्य अदर्शनादिति ॥ 'स्मृत्याचारविरोधे वा साम्यवैषम्यसंशये । समा विप्रतिपत्तिस्स्यान्मूलसाम्यात् द्वयो- रपि ॥' इति वार्तिकेन प्रपञ्चितं वर्णकान्तरं दर्शयति-एवं वेति ॥ मातुलकन्येति ॥ पैतृष्वस्रया अप्युपलक्षणम् । सोऽयमाचारः आन्ध्र-कर्णाटक-महाराष्ट्रदेशीयशिष्टपारगृहीतोऽपि स्मृतिविरुद्धः। मातुलस्य सुतामूढा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत् ॥' इति शातातपस्मृतेः, 'पैतृष्वत्रेयी भगिनी खस्त्रीयां मातुरेव च । मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्॥इति मनूक्तेश्च । आदिना पर्युषितभोजन-अनुपनीतसहभोजनादिसङ्ग्रहः। अत्र स्मृत्याचारयोः श्रुतिकल्पकत्वाविशेषात् तुल्यबलत्वमिति पूर्वपक्षमाह-उभयोरपीति ॥ अत्रे- दमनुमानं भवति । मातुलकन्यापरिणयः श्रुतिविहितः शिष्टत्रैवर्णिकाचारपरम्पराप्राप्तत्वात् वसन्तोत्सवादिवदिति । न चोक्तपरिणयः श्रुतिविहितो न भवति स्मृतिनिषिद्धत्वात् कळञ्ज- भक्षणादिवत् इति सत्प्रतिपक्ष इति वाच्यम् ; पोडशिग्रहणादौ विहितत्वनिषिद्धत्वयोर्दर्शनेना प्रयो- जकत्वात् । तत्र प्रयोगभेदेनेवात्रापि पूर्वोक्तशिष्टव्यतिरिक्ताशिष्टविषयत्वेन निषिद्धस्मृतेरुक्तशिष्ट- विषयत्वेनाचारस्य च प्रामाण्योपपत्तेः। अत एव एकस्यैव धर्मत्वमधर्मत्वं च कथमुपपद्यते वस्तुनि विकल्पासम्भवादिति निरस्तम् । देशभेदेन परिणयव्यक्तीनामनेकत्वेन व्यक्तिभेदेन तयोस्सम्भ- वात् । 'विन्ध्यस्य दक्षिणे देशे मांसभुक् पतितो भवेत् । विन्ध्यस्योत्तरदेशे तु मांसभुनैव दुष्यति ॥' इति वचनेन व्यवस्थापि न, मांसभक्षणे तथाऽदर्शनात् । ततश्चोभयोरपि प्रामाण्य- मित्याशयेनाह-तुल्यबलत्वमिति ॥ सप्रत्ययाः-विश्वासविषयाः । तैः प्रणीतत्वात्-उक्त- त्वाद्बलीयस्त्वमित्यन्वयः । ननु आचारेऽपि सप्रत्ययप्रणीतत्वमस्तीति कथं स्मृतेर्बलवत्त्वमित्यत .८४ भाट्टदीपिका [अ. १. वाचिविधिप्रत्ययश्रवणाञ्च बलीयस्त्वम् । आचारेषु तु आचरितॄणां जनानां मन्वायपे- क्षया तथा प्रत्ययितृतरत्वाभावात् इतस्ततो विप्रकीर्णपरप्रकरणादिगतश्रुत्यवगमस्याश- क्यत्वात् परकीयाचारमात्रदर्शनेन कर्तव्यतावाचिविधिप्रत्ययस्यावश्यकल्पनीयत्वाच दौर्बल्यम् । अत एवेदानींतनाचारदर्शनेन श्रुतिद्रष्टुः स्मृतिकारस्य स्मृति तदुपदेशं वा कल्पयित्वा श्रुतिकल्पनं ; स्मृतीनां तु साक्षादेवेति विशेषः । अतश्च स्मृतिविरोधे आचा- रस्य यावच्छ्रुतिदर्शनं स्मृतिदर्शनं वा अननुष्ठानम् ॥ आह--कर्तव्यतावाचीति ॥ स्मृतिषु प्रर्वतनावाचकलिडादिश्रवणेन झटिति कर्तव्यताबोधा- द्बलवत्त्वमित्यर्थः । आचारेषु दुर्बलत्वमुपपादयति-आचारेष्विति ॥ आचरितॄणां प्रत्यय- विषयत्वेऽपि मन्वादिवत्प्रत्ययिततरत्वाभावाद्दौर्बल्यमित्यन्वयः । तदेवोपपादयति – इतस्तत इति ॥ अशक्यत्वादिति ॥ ततश्चाचरितॄणां न प्रत्ययिततरत्वमिति भावः ॥ ननु कल्पादावाचरितुस्सर्वज्ञत्वसम्भवेन परप्रकरणादिगतश्रुत्यवगमस्सम्भवतीत्यत आह - परकी- येति ॥ शिष्टाचारमात्रस्य प्रत्यक्षत्वेन तस्य क्रियारूपतया कर्तव्यताबोधानुदयात्तदर्थं कर्त- व्यतावाचिलिङादेः कल्पनीयतया दौर्बल्यमित्यर्थः । आचारेषु व्यतिक्रमादिदर्शनेन विहि- तत्वानुमापकहेतोः सन्दिग्धव्यभिचारकत्वेन न निर्दोषस्मृतिसाम्यं युज्यत इत्याशयः । आचारस्य दौर्बल्यं साधयितुं आचारेण श्रुतिकल्पनप्रकारमाह-अत एवेति॥ आचारं दृष्ट्वा श्रुति साक्षात्पश्यतः स्मृतिप्रणेतुः स्मृतिः स्मृत्युपदेशो वास्तीति कल्पयित्वा कल्पितया स्मृत्या श्रुतिः कल्पनीयेति द्वयन्तरितप्रामाण्यादाचारो दुर्बलः । स्मृतीनां साक्षादेव श्रुतिकल्पकत्वमित्येकान्त- रितप्रामाण्यात् प्राबल्यमित्यर्थः । प्रयोजनं दर्शयन्नुपसंहरति -- अत इति ॥ अत्र राणकका- रादयः, मातुलकन्यापरिणयोऽत्र नोदाहरणं प्रत्यक्षश्रुतिविरोधेन स्मृतिमूलश्रुतेर्दोबल्यात्। वक्ष्यति हि बलाबलाधिकरणे वार्तिककारः।भवति च प्रत्यक्षश्रुतिविरुद्धा मातुलकन्यापरिणयनिषेधस्मृतिः। दृश्यते च 'गर्भे नु नौ जनिता दाम्पतीकः' इति यमं प्रति यमुनावाक्यमिदम् । आवयोर्गर्भे जातौ स्त्रीपुंसौ दम्पती भवतः इति ब्रह्मा विधास्यतीति । तथा 'आयाहीन्द्र पथिभिरीळितभिः' इत्यपि प्रत्यक्षश्रुतिर्भवति । तत्र च 'तृप्तां जहुर्मातुलस्येव योषा भागः ते पैतृष्वनेयीवपामिव' इति पठ्यते । तच्च इन्द्रं प्रति वपायागकर्तृवाक्यम् । जहरित्यपत्यवाचकम् । यथा मातुलस्य ज्य- पत्यं यथा तद्भागिनेयस्य भागरूपा योषा पैतृष्वस्रेयी च । तद्भातृजस्य भागः योषा तथा वपापि तव भाग इति तां त्वं जुषस्वेति । भागात्मकयोषा च पल्येव । श्रूयते हि 'अर्धो वा एष आत्मनो यत्पत्नी' इति । किञ्च 'तृतीये सङ्गच्छावहै' 'चतुर्थे सङ्गच्छावहै' इति च श्रूयते । एकस्मादेव पुरुषाज्जायमानौ तृतीयौ वा चतुर्थी वा स्त्रीपुंसौ भोग्यभोक्ताराविति । एवं बहुभिर्मन्त्रार्थवादैः भ्रात्रोः पुत्रयोर्नित्यवदनूद्यमानं दाम्पत्यं वैधप्राप्तिमन्तरेणानुपपद्यमानं तयोर्दाम्पत्यावेदकविधिमनुमापयतीति । दृश्यते हि विधिनित्यवदनुवादेन कल्पितः 'उपरि । ।
पा. ३. अधि. ४.] भादृचिन्तामणिसहिता। ८५ -- । एवं वा -त्रिवृचर्वश्ववालादिशब्देषु यत्र लोकवाक्यशेषयोरर्थविप्रतिपत्तिः तत्र हि देवेभ्यो धारयति' इति । ततश्च श्रुतिविरोधात्स्मार्तनिषेधः सङ्कोचमर्हति । निर्णीतश्च 'न हिंस्यात्' इति निषधोऽग्नीषोमीयविधिना । न च तर्हि 'न ब्राह्मणं हन्यान्नात्रेयं हन्यात्' इत्यत्रापि न निषेधसङ्कोचापत्तिर्दोषाय । निषेधेन निषेधसङ्कोचायोगात्प्रकृतेऽपि विधिनैव निषेधसङ्कोचात् । न च तर्हि निषेधस्मृतिर्था स्यात् । तस्यास्सपिण्डेषु सावकाशत्वात् । तथाहि-द्विविधे हि मातुलकन्ये, सपिण्डे असपिण्डे च । यत्र मातुः पितुस्स्वसुर्वा ब्राह्मादि- त्रिविधान्यतमविवाहः तत्र दुहितुर्दानविधानेन स्वत्वस्येव गोत्रसापिण्ड्ययोरपि दानेन निवृत्तेर- सपिण्डे । आसुरादिविवाहेषु दुहितुर्दानाभावेन सापिण्ड्यगोत्रयोरनिवृत्तेः ते सपिण्डे । ततश्चासुरादिपरिणयेषु पुत्रिकाकरणे च सापिण्ड्यनिवृत्तिभ्रमेण मातुलादिकन्यया विवाह- प्रसक्तौ स्मार्तनिषेधस्सावकाश इति भवति शिष्टत्रैवर्णिकानां मातुलादिविवाहश्शास्त्रीय इति । अत एव बोधायनः, दाक्षिणात्यानाचारेषु पर्युषितभोजनमातुलकन्यापरिणयादीन् गणयित्वा 'अन्यत्र देशे तत्कुर्वाणः प्रत्यवैति' इति वदन् तत्रत्यानां दोषाभावमभ्यनुजानाति । अत एव वधूवरयो डीकूटादिविचाराधिकारे मातुलदुहितुः पैतृष्वनेय्याश्च परिणये च न विचारः। एते हि ‘जामात्रे पत्नीत्वेनोदिते ऋषिणा' इति ज्योतिर्विदामुक्तिस्सङ्गच्छते । एवं च चन्द्रिका निर्णयसिन्धु-पराशर माधवीयादावप्ययमर्थः स्पष्टं प्रतिपादित इति दिक् ।। 'त्रिवृच्चर्वश्ववालादे.के याऽर्थः प्रतीयते । वेदे तदभियुक्तैश्च तस्मादन्यो विलक्षणः ॥' इति वार्तिकप्रपञ्चितवर्णकान्तरं परिष्कृत्य दर्शयति--एवं वेति ॥ अश्ववालादीति ॥ आदिना श्येनाग्निविमोकादिपदपरिग्रहः । 'यथा वै श्येनो निपत्यादत्ते' 'एष वा अग्नेर्विमोकः' इति वाक्यशेषाभ्यां यागविशेषे तयोश्शक्तत्वावधारणात् । ऐक्षवीस्तोमपदयोः परिग्रह इति केचित् । तत्र शक्तिग्राहकवाक्यशेषस्य मृग्यत्वादुपेक्ष्यम् । विप्रतिपत्तिः। 'त्रिवृद्रज्जुत्रिवृद्गन्थिः' इत्यादौ त्रिवृच्छब्दो लोके त्रैगुण्यवाची, वेदे तु 'त्रिवृद्बहिष्पवमानम्' इत्यादौ स्तोत्रीयानवकवाची । 'उपदवीपव' इति तृचत्रयमनुक्रम्य 'नवभिस्तुवन्ति' इति वाक्यशेषात् 'उप' इत्यनेन 'उपास्मै गायता नरः' इति तृचस्य, 'दवी' इत्यनेन 'दविद्युतत्या ऋचा' इति तृचस्य, 'पव' इत्यनेन 'पवमानस्य ते कवे' इति तृचस्य च सङ्ग्रहात् स्तोत्रीयानवकयुक्तं बहिप्पवमा- नाख्यस्तोत्रमिति तदर्थः । 'चरौ सूपं पचति' इति लोके चरुशब्दः स्थालीवचनः । वेदे त्वो- दनवचनः । 'आदित्यः प्रायणीयः पयसि चरुः' इति विधौ ‘आदित्य-'इति ण्यप्रत्ययान्तः । किं अदितिशब्दात् , उत आदित्यशब्दादिति सन्देहे 'आज्यस्यैनमभिपूर्य' इत्यारभ्य 'अदिति- मोदनेन' इत्यन्तेन क्रमविधिपरेण वाक्यशेषेण निर्णयवदसन्दिग्धस्यापि चरुशब्दस्य तेनैव वाक्यशेषेणैकवाक्यतया अदनीयौदनपरत्वनिर्णयात् । अश्ववालशब्दो लोके यौगिकवृत्त्या अश्वकेशपरः । वेदे तु 'आश्ववालः प्रस्तरः' इति विधौ काशपरः । 'यज्ञो वै देवेभ्योऽश्यो , ८६ भादीपिका [अ. १. पदपदार्थसम्बन्धे लोकाद्वेदस्याधिक्ये प्रमाणाभावात् तुल्यबलत्वमिति प्राप्ते-विषयैक्या- भावे विधिस्तुत्योरेकवाक्यताऽनुपपत्तेः विधिर्वाक्यशेषस्यैव शक्तिग्राहकत्वमनुमन्यते । अतश्च लौकिकप्रमाणावगतेऽर्थे अनेकशक्तिकल्पनाभिया न शक्तिः, अपि तु लक्षणा- दिनैव बोधः । अत एव यत्र वाक्यशेषो नास्ति तत्रापि त्रिवृदादिपदार्थों वैदिक एव ग्रहीतव्य इति वक्ष्यते । अतश्च त्रिवृच्छब्दस्य स्तोत्रगतऋङ्नवकं शक्यं, न तु वैगु- ण्यम् । चरुशब्दस्यौदनः, न तु स्थाली । अश्ववालशब्दस्य काशाः, नाश्वकेशाः । वाक्यशेषास्तु कौस्तुभे द्रष्टव्याः ॥ ४ ॥ भूत्वापक्रामत् , सोऽपः प्राविशत् , स वालधौ गृहीतः, स वालान् मुक्त्वा विवेश, ते वालाः काशतां प्राप्ताः' इति वाक्यशेषात् । अतः कतरोऽर्थो ग्राह्य इति भवति विचार इति भावः । अत्र लोकवाक्यशेषयोः परस्परमर्थविरोधे तयोस्समबलत्वं वा, उत वाक्यशेषस्य प्राबल्यं वेति सन्देहे पूर्वपक्षमाह-पदपदार्थेति ॥ धर्मस्वरूपनिश्चये हि लोकाद्वेदस्याधिक्य, शब्दार्थसम्बन्धे तु उभयोरपि साम्यमिति तुल्यबलत्वमेव लोकवेदयोरित्यर्थः । विधिर्हि स्तुत्यर्थमर्थवादमाकाङ्क्षन् वाक्यशेषेणैकवाक्यमिति निर्णीतं 'विधिनात्वेकवाक्यत्वात्' इत्यत्र । ततश्च विध्यर्थवादयोरेकार्थ- परत्वमेव युक्तमिति त्रिवृदादिशब्दानां वाक्यशेषप्रसिद्धस्तोत्रीयानवकादिपरत्वमेव युक्तमिति सिद्धान्तमाह-विषयैक्याभाव इति ॥ विधिस्तुत्योरिति॥ विध्यर्थवादयोरित्यर्थः।। अतश्चेति॥ वाक्यशेषेण शब्दार्थस्य निर्णीतत्वादित्यर्थः ॥ अनेकेति ॥ 'अन्याय्यश्चानेकार्थत्वम्' इति न्या- यादिति भावः । कथं तर्हि लोकप्रसिद्धार्थस्य त्रिवृदादिशब्दैर्बोध इत्यत आह-लक्षणादिनेति ॥ ननु वाक्यशेषशून्यस्थले कथं निर्णय इत्यत आह-यत्रेति ॥ त्रिवृदग्निष्टुयागादावित्यर्थः । तत्र वाक्यशषाभावेऽपि एकत्र विधौ वाक्यशेषेणार्थे निर्णीते अन्यत्रापि वैदिकत्वसामान्यात् स एवार्थो गृहीतव्यः । श्रौतसौर्यादिविकृतिषु श्रौतदार्शपूर्णमासिकविध्यन्त एव प्रवर्तते, न तु स्मार्तस्थालीपाकादिविध्यन्त इति सिद्धान्तदर्शनेन प्रकृतेऽपि वाक्यशेषसिद्धार्थ एव ग्राह्य इति भावः ॥ वक्ष्यत इति ॥ दशम इति शेषः । उपसंहरति-अत इति ॥ अत्रेदं बोध्यम् । त्रिवृच्छब्दस्य त्रैगुण्ये शक्तिग्राहककोशदर्शनात्रैगुण्यवाचकत्वमावश्यकम्। कथमन्यथा 'त्रिवृद्दर्भ- मयी रशना भवति' इत्यत्र वैदिकनिर्देशस्सङ्गच्छते । नापि बहिष्पवमाने तदनुपपत्तिः, तत्रापि तृचत्रगुण्यमादायोपपत्तेः । मनुरपि 'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्' इति तन्तु- त्रैगुण्याभिप्रायेण त्रिवृत्पदं प्रायुत । चरुशब्दो हि 'चरुमुपदधाति' इति वेदे स्थालीवचनो दृश्यते, स्थाल्या एवोपधानात् । लोके तु हविर्वचनो दृश्यते । कोशोऽप्युभयत्र शक्ति- ग्राहकः। 'चरुर्भाण्डे च हव्यान्ने' इति विश्वाद्युक्तेः। केवलवाक्यशेषेण निर्णये स्थूलभाण्डे पक्त्वा अवस्रावितौदनेऽपि शक्तयापत्तेः । याज्ञिकप्रसिद्धयानवस्रावितान्तरूष्मपक्कौदनपरत्वे किं वाक्य- शेषेण, किन्तरामधिकरणेन ? अश्ववालशब्दोऽपि वाजिदन्तसिमास्यव्याघ्रनखादिशब्दानां वृक्ष- ।
पा. ३. अधि. ५.] भादृचिन्तामणिसहिता । ८७ . (५)-चोदितं तु प्रतीयेताविरोधात्प्रमाणेन ॥ ९ ॥ यत्र पिकनेमसततामरसादिशब्दानां नार्याणामर्थविशेषे प्रसिद्धिः, म्लेच्छेषु तु पिकः कोकिलः, नेम अर्ध, सतं बृहत् परिमण्डलं शतच्छिद्रं दारुपात्रं, तामरसं कमलमि- येवं प्रसिद्धिः तत्र तत्प्रसिद्धार्थस्यैव ग्रहणं; न तु निगमनिरुक्तादिना तत्कल्पनम् । न च म्लेच्छेषु शब्दार्थयोर्विप्लुतिदर्शनात् तत्प्रसिद्धरविस्रम्भणीयता ; पिकादिशब्दानां वेद एव दृश्यमानत्वेन अविप्लुतत्वात् । अतश्च तेषां वाच्याकाङ्क्षायां तत्प्रसिद्धरपि कृप्त- तया शक्तिग्राहकत्वम् । अत एव निगमादिप्रसिद्धरप्यार्यप्रसिद्धित्वेन प्राबल्येऽपि कल्प्यत्वेन दौर्बल्यम् , म्लेच्छप्रसिद्धेश्च म्लेच्छप्रसिद्धित्वेन दौर्बल्येऽपि कृप्तत्वेन प्राबल्यं; प्रमाणबलाबलापेक्षया प्रमेयबलाबलबलीयस्त्वस्य स्थापितत्वात् । अत एव नात्र विशे- षेण पूर्वः पक्षः कथितः ॥ ५॥ विशेषेष्ववयवसादृश्येन गौणीवत् काशेष्वपि याज्ञिकप्रसिद्धयैव गोण्या वर्तते । वाक्यशेषोऽप्यत्रैव तात्पर्यग्राहक इति । परन्तु शास्त्रे कण्ठरवेण परिभाषितानामपि शाब्दिकप्रसिद्धानां कतिपयानां एकदेशज्ञापकेन सर्वप्रामाण्यावधारणवत् वाक्यशेषाणां कतिपययाज्ञिकव्यवहारानुगुणानां दर्शनादितरांशेऽपि तत्सम्मतोऽर्थः प्रमाणमिति बोधयितुमिदमधिकरणम् । वैदिकलौकिक- प्रतिपत्त्योस्साम्यमाशङ्कय 'शास्त्रस्था वा तन्निमित्तत्वात्' इति सूत्रेण वैदिकप्रसिद्धरेव ग्राह्यतोच्यते । वेदार्थनिर्णये तद्वयवहारस्य निमित्तत्वादित्युक्तत्वात् वाक्यशेषादेव चेनिर्णयः, तदाक्ताधिकरणेन गतार्थत्वं स्यादिति दिक् । सूत्रं तूक्तार्थम् ॥ चोदितं तु प्रतीयेताविरोधात्प्रमाणेन ॥ म्लेच्छप्रसिद्धेरग्राह्यत्वे पिकादिष्वपि तदग्राह्यत्वं स्यादित्युत्थितेस्सङ्गतिरित्यभिप्रेत्याह--यत्रेति ॥ तामरसादीति॥ आदिना पश्ववयवविशेषार्थक- क्लोमपदादेस्सङ्ग्रहः। पिकादिशब्देषु म्लेच्छप्रसिद्धिाह्या न वेति संशये पूर्वपक्षं स्पष्टत्वादुपेक्ष्य सिद्धान्तमाह--तत्प्रसिद्धार्थस्यैवेति ॥ म्लेच्छप्रसिद्धार्थस्यैवेत्यर्थः । एवकारल्याव-माह- न त्विति ॥ निगमनिरुक्तादीति ॥ नितरां गम्यतेऽर्थोऽनेनेति निगमः । व्युत्पत्तिपक्षे सर्वेषां शब्दानामनिर्णयसम्भवादिति भावः । ततश्च कल्प्यत्वात्तस्याग्राह्यत्वमित्याशयः । ननु म्लेच्छप्रसिद्धेः विप्लुतिदर्शनेनाग्राह्यत्वस्य पूर्वमुक्तत्वात् तद्विरोध इति शङ्कते-न चेति ॥ परिहरति-पिकादिशब्दानामिति ॥ वेद एवेति ॥ पिकमालभेत, सोमापौष्णं चरुं निर्वपे- न्नेमपिष्टं पशुकामः, सत्ते हिरण्यं निधाय' इत्यादौ वेदे प्रयोगादित्यर्थः । तेषां-पिकादिशब्दा- नाम् । तत्प्रसिद्धेः-मेलच्छप्रसिद्धेः । अत एव-म्लेच्छप्रसिद्धेः कृप्तत्वादेव । अत एव- प्रमेयबलाबलबलीयस्त्वस्य पूर्व सिद्धत्वादेव । शिष्टाकोपाधिकरणेन गतार्थत्वादेवेति यावत् । नन्विदमनुपपन्नं ; पिकादिशब्दानां शिष्टत्रैवर्णिकरचितकोशादिभिश्शक्तिनिर्णयसम्भवात् । न च कोशानां त्रैवर्णिकरचितत्वेऽपि धर्मप्रमितेः पुराणादिप्रामाण्यजनयितव्यत्वेन तबहिर्भूत- ८८ भाट्टदीपिका [अ. १. (६)-प्रयोगशास्त्रमिति चेत् ॥१०॥नासन्नियमात्॥११॥ अवाक्यशेषाच्च ॥ १२ ॥ सर्वत्र प्रयोगात्सन्निधानशास्त्राच्च ॥ १३ ॥ 'सर्वस्मृतीनां कल्पसूत्राणां वा षडङ्गानामेव वा शाक्यादिग्रन्थानांवा वेदत्वं वेद- कोशप्रतिपाद्यानां न धर्मत्वं युक्तमिति वाच्यम् ; तेषामपि प्रामाण्यहेतोः वैदिकस्मर्य- माणस्य तत्परिग्रहदाय॑स्य स्मृतिवद्धर्मप्रमाणत्वाविरोधात् । न च कोशानामेतदधिकरणसि- द्धार्थसङ्ग्रहेणापि प्रवृत्तिसम्भवात् न स्मृतिसाम्यमिति वाच्यं ; तथापि प्रत्यन्तवासिवेदविद्विषि म्लेच्छप्रसिद्धया वैदिकार्थनिर्णयमपेक्ष्य वेदवत् त्रैवर्णिकरचितकोशेनार्थनिर्णयस्योचितत्वात् । किञ्च अमरस्याग्निपुराणमूलकत्वेन चतुर्दशान्तर्गतत्वान्नेमशब्दस्य सर्वनामगणपाठाच्च वैदिकत्व- मेव । आर्थिकसंवादाविरोधोऽपि न प्रामाण्यप्रयोजकः । 'अहिंसा परमो धर्मः' इति शाक्यग्रन्थस्यापि तदापत्तेः । तस्मान्नायं सिद्धान्तो युक्त इति चेत् , अत्र केचित् अत्रत्यम्ले- च्छशब्दो न प्रत्यन्तवासियवनहूणादिपरः, किन्तु केवलकाव्यमात्रज्ञवेदार्थानभिज्ञपरः इति न विरोध इत्याहुः । प्रयोजनं स्पष्टम् । सूत्रार्थस्तु, चोदितं-शिष्टैरर्थविशेष प्रयुक्तं, शब्दजातम् । प्रतीयेत म्लेच्छप्रसिद्धार्थकं स्यात् । प्रमाणेनाविरोधात्-आर्यप्रसिद्धि- विरोधाभावादिति ॥ प्रयोगशास्त्रमिति चेत् ॥ नासन्नियमात् । अत्र कल्पसूत्रादीनां स्मृत्यधिकरणन्यायेन वेदमूलकत्वेन प्रामाण्ये सिद्धेऽप्यधुना तेषां वेदत्वेनैव प्रामाण्यमस्त्वित्युत्थानात्सङ्गतिः ॥ सर्वस्मृतीनामिति ॥ अस्य विचारस्य ताखपि सम्भवादिति भावः । एकशाखास्थवाक्याना- मीषदानुपूर्वीभेदाभेदाभ्यां शाखान्तरेषूपलम्भवत् स्मृतिषु तानि नोपलभ्यन्त इत्यत आह- कल्पसूत्राणामिति ॥ कल्पञ्च सूत्राणि च तेषामित्यर्थः । ततश्च पदार्थतावच्छेदकभेदात् द्वन्द्व एवायं न कर्मधारयः, अन्यतरपदवैयापत्तेः । तदुक्तं 'सिद्धरूपः प्रयोगो यैः कर्म- णामनुगम्यते । ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ॥' इति । ततश्च प्रयोगं कल्पयन्तीति कल्पाः, बौधायनीयादयः। संज्ञापरिभाषाभ्यां प्रयोग सूचयन्तीति सूत्राणि, आश्वलायनीयादीनि । 'एतत्तीर्थमित्याचक्षते ऋचं पादग्रहणे' इति परिभाषया प्रयोगसूचनात् । 'वर्गकामो ज्योतिष्टोमेन यजेत' इति वेदवाक्यमात्रदृश्यमानत्वाद्वेदत्वं सम्भवतीत्याशयः । ननु गौतम- व्यवहारस्याङ्गान्तरेष्वपि समानत्वान्न कल्पादीनामेव वेदत्वमित्यत आह—पडङ्गानामिति ॥ नन्वङ्गानामपि वेदत्वे शाखान्तराणामिवाध्येतूपुरुषभेदाभावादभ्यासात् ज्योतिष्टोमादिकर्मभेद- स्स्यादित्यत आह-शाक्यादीति ॥ सर्वेषामत्रोदाहरणत्वात् शब्दत्रयमनास्थायामित्यप्याहुः । ऐतषां वेदत्वेन धर्माधर्मयोः प्रामाण्यमस्ति न वेति सन्देहे पूर्वपक्षमाह-वेदत्वमिति ॥ १. स्मृतीनामिति पाठान्तरम् । - पा. ३. अधि. ६.] भादृचिन्तामणिसहिता । तुल्यत्वं वा भवतु । न श्रुत्यादिमूलकत्वं गौरवात् , नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेश्च । अङ्गानां तु 'षडङ्गमेके' इति स्मृतेरपि वेदत्वम् । बुद्धबौधायनशाक्यादिसमाख्या तु काठकादिवत् प्रवचननिमित्तत्वेनाप्युपपद्यत इति प्राप्ते- दृढकर्तृस्मरणात् काठकादिवत् प्रवचननिमित्तत्वानुपपत्तेः नैषां वेदत्वं वेद- तुल्यत्वं वा । प्रतिमन्वन्तरं च एवंविधानां ग्रन्थानां सत्त्वान्नित्यब्रह्मयज्ञविधिविषयत्वो- पपत्तिः । 'षडङ्गमेके' इति तु परमतोपन्यासः, एकपदश्रवणात् । तस्मादेतेषां स्मृत्य- धिकरणन्यायेन वेदमूलकत्वमेव । शाक्यादिग्रन्थानां तु तदसम्भवादाभासत्वमेव ।। प्रयोजनं—पूर्वपक्षे कल्पसूत्रादीनां वेदत्वे वेदतुल्यत्वे वा यत्र प्रत्यक्षश्रुति विरोधः तत्र विकल्पः, यत्र वा प्रत्यक्षश्रुतिविरोधाभावेऽपि न्यायामासोपन्यासपूर्वकं ननु शाक्यादिग्रन्थानां वेदत्वेन प्रामाण्यं न सम्भवति तेषां वेदविद्वेषिप्रणीतत्वात् , वेदत्वेन व्यवहाराभावाचेत्यत आह-वेदतुल्यत्वं वेति ॥ गौरवादिति ॥ श्रुत्यर्थं पर्यालोच्य रचितानीति कल्पने श्रुतिज्ञानतदर्थोपस्थितितजन्यजनकभावादीनां कल्पनीयतया गौरवादित्यर्थः ॥ नित्ये- ति ॥ 'अहरहस्स्वाध्यायमधीयीत' इति विहितब्रह्मयज्ञे वेदवत् कल्पादीनामपि पाठविधानेन वेदत्वमेवैतेषामिति भावः । वेदाङ्गेषु विशेषमाह-अङ्गनामिति ॥ शिक्षादिषडङ्गानामित्यर्थः । ननु वेदत्वाङ्गीकारे अपौरुषेयत्वमप्यङ्गीकार्यमिति सामाख्यानुपपत्तिरित्यत आह—बुद्धेति ॥ वेदे काठकादिसमाख्याया इव तेषां प्रवचननिमित्तकत्वादुपपत्तिरित्यर्थः । तस्मादेतेषां वेदत्वादिनैव धर्माधर्मयोः प्रामाण्यमिति पूर्वपक्षाशयः ॥ दृढेति ॥ वेदे हि कर्तृस्मरणा- भावादपौरुषेयत्वं साधितमिति युक्तं समाख्यायाः प्रवचननिमित्तत्वम् , कल्पादौ तु दृढकर्तृ- स्मरणात्पौरुषेयत्वनिश्चयेन न प्रवचननिमित्तत्वं तस्या इति वेदत्वं वेदतुल्यत्वं वा न सम्भव- तीत्यर्थः । ततश्च कल्पादयो न वेदाः बोधायनादिकर्तृकत्वादित्यनुमानाद्वेदभिन्नत्वं सिध्य- तीति भावः । ननु वेदत्वानङ्गीकारे नित्यब्रह्मयज्ञविधिविषयत्वं न स्यादित्यत आह-प्रति- मन्वन्तरमिति ॥ ननु 'षडङ्गमेके' इति स्मरणात् तेषां वेदत्वमित्यत आह-पडङ्गमिति ।। षडवयवकमङ्गमित्यर्थः । तेन 'द्विगोः' इति न डीपः प्रसक्तिः ॥ परमतेति ॥ तेन एकशब्दोऽ- न्यपरः, न मुख्यपर इति भावः । उपसंहरति-तस्मादिति ॥ वार्तिकरीत्याह-शाक्यादीति ॥ वेदविरुद्धहिंसादिप्रतिपादनादप्रामाण्यमिति पूर्वमेवोक्तत्वादिति भावः । विचारप्रयोजनमाह- पूर्वपक्ष इति ॥ प्रत्यक्षश्रुतीति ॥ ' सर्वाणि हवींषि पर्यग्निकरोति' इति सूत्रस्य 'पुरोडाशं पर्यग्निकरोति' इति प्रत्यक्षश्रुतिविरोधेऽपि तुल्यबलत्वात्तदर्थयोर्विकल्प इत्यर्थः । यद्वा सर्ववेष्टनस्मृतेः स्पर्शनश्रुतेश्च समबलत्वाद्वेष्टनस्पर्शनयोर्विकल्प इत्यर्थः ॥ न्यायाभासेति ॥ प्रकृतावग्नीषोमीये पशौ क्रियमाणः अग्नीषोमीयः पुरोडाशः छिद्रापिधानार्थः; 'सुषिरो वा एतर्हि पशुर्हि वपामुखिदति, यत् व्रीहिमयः पुरोडाशो भवति अपिधानाय' इति श्रुतेः । 12 ९० भाट्टदीपिका [अ. १. वचनं तत्रापि वचनत्वादेव तदनुष्ठानम् । न्यायोपन्यासस्तु हेत्वधिकरणन्यायेनार्थवादः। सिद्धान्ते तु-प्रत्यक्षश्रुतिविरोधे 'सन्यायविरोधे च यावन्मूलश्रुतिदर्शनमननुष्ठानलक्षण- मप्रामाण्यम् । श्रुतिदर्शनोत्तरं तु विकल्पादि । यत्र तु न्यायोपन्यासरहितं मीमांसा- न्यायविरुद्धं च स्मृतिवचनं तत्र श्रुतिमूलत्वसम्भवेन वचनविरोधे न्यायस्यैव आभा- सत्वात् तदर्थ एवानुष्ठेय इति । अत्र सर्वत्रोदाहरणानि मूलोक्तोदाहरणदूषणानि चास्मत्कृतकौस्तुभे द्रष्टव्यानि ॥ ६ ॥ (७) अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥ १४ ॥ अपि वा सर्वधर्मस्स्यात्तन्न्यायवाद्विधानस्य ॥ १५ ॥ दर्शनाद्विनि- योगस्यात् ॥ १६ ॥ लिङ्गाभावाच्च नित्यस्य ॥ १७ ॥ आख्या हि स च सवनीये पशो चोदकप्राप्तोऽपि न कर्तव्यः । 'अनुसवनं सवनीयाः पुरोडाशा निरु- प्यन्ते अपिहित्या अच्छिद्रताये' इति प्रत्यक्षविहितपुरोडाशान्तररेव तत्कार्यसिद्धेरिति न्याया- भासरूपः । पशुपुरोडाशस्य देवतासंस्कारार्थताया दशमे वक्ष्यमाणत्वात् । च्छिद्रापिधानस्य प्रत्यक्षविरुद्धस्य कथनं पर्णतान्यायेनार्थवादमात्रमिति दशमे द्वादशे च साधनात् । उपन्यास इति ॥ 'अक्रियामेके, अन्यत्र तदर्थवाददर्शनात्' इत्याश्वलायनसूत्रमित्यर्थः । तदनुष्ठानं-क्रिया- नुष्ठानम् ॥प्रत्यक्षश्रुतिविरोध इति ॥ यावन्मूलश्रुतिदर्शनमननुष्टानलक्षणमप्रामाण्यमित्यन्वयः । वेष्टनादिस्मृतेः मूलश्रुतिदर्शनपर्यन्तं अननुष्टानमित्यर्थः । एवं 'आकालाद्धोमकालः' इत्यादि- सूत्रकारवचनानि 'सायं जुहोति, पौर्णमास्यां पौर्णमास्या यजेत' इति श्रुतिविरोधाद्यावन्मूल- श्रुतिदर्शनमननुष्ठापकानि ॥ सन्यायेति ॥ दाशमिकन्यायविरोधात् पशुपुरोडाशक्रियावचनं यावच्छ्रतिदर्शनमननुष्ठापकमित्यर्थः । एवं 'यावद्यूपं वेदिमुद्धान्ति' इत्यापस्तम्बवचनं 'तथा यूपस्य वेदिः' इति तार्तीयाधिकरणसिद्धान्तविरुद्धम् ; 'अर्धमन्तर्वेदि मिनोत्यर्थं बहिर्वेदि' इत्यत्र अन्तर्वेदिबहिर्वेदिशब्दाभ्यां देशविशिष्टलक्षणायाः सिद्धान्तितत्वात् ॥ मीमांसान्यायेति ॥ 'जाघनीभिः पत्नीसंयाजयन्ति' इति वचनं द्वादशाध्यायीयजाघन्यधिकरणविरुद्धमित्यर्थः ॥ श्रुति- मूलत्वसम्भवेनेति ॥ यदि श्रुतिर्मूलं सम्भवति तदेत्यर्थः । प्रकृते तु श्रुतेरनुमातुमशक्यत्वान्न स्मृत्यर्थानुष्ठानमिति कश्चित् । तत् मूलानारूढत्वादुपेक्ष्यम् । सूत्रार्थस्तु, प्रयोगशास्त्रम्- कल्पादिकं, स्वतः प्रमाणमिति चेन्नासन्नियमात्--पूर्वमसद्भिरविद्यमानैर्जनिमद्भिः बोधायना- दिभिः नियमात् निबन्धनात् , पौरुषेयत्वादिति ॥ अनुमानव्यवस्थानात्तसंयुक्तं प्रमाणं स्यात् ॥ इह विषयपरिशोधनेनोक्तप्रामाण्यस्य १. वा न्यायविरोध वा यावच्छृति-इति पाठान्तरम् । ।
पा. ३. अधि. ७.] भादृचिन्तामणिसहिता । । देशसंयोगात् ॥ १८ ॥ न स्यादेशान्तरेष्विति चेत् ॥ १९ ॥ स्याद्योगाख्या हि माधुरवत् ॥ २० ॥ कर्म धर्मो वा प्रवणवत् ॥ २१ ॥ तुल्यं तु कर्तृधर्मेण ॥ २२ ॥ अथ यत्र स्मृतिषु पाठव्यवस्था यथा गौतमीयाः छन्दोगैरेव तथा आचारेषु कर्तृव्यवस्था यथा होळाकादि प्राच्याद्यभिमानिभिरेव तत्र तदनुमेयश्रुतिरप्यनुमापकस्य नियतविषयत्वात् नियताधिकारिकैवेति नान्यैस्तदनुष्ठेयमिति प्राप्ते- यद्यप्यनुमापकं नियतविषयकं तथाऽपि नानुमेयश्रुतौ विशेषणं प्राच्यत्वादि दातुं शक्यम् । न हि प्राच्यत्वं नाम सर्वाचरित्रनुगतं जातिव्यक्तिगुणसंस्थानादिभि- स्थिरीकरणात् सङ्गतिः । स्मृतिषु--गौतमादिधर्मेषु । पाठव्यवस्था-गौतमधर्मश्छन्दोगैरेव पठ्यते नेतरः' इति व्यवस्था दृश्यत इति शेपः ॥ छन्दागैरेवेति ॥ पठ्यत इति शेषः । तत्र गौतमस्मृतिश्छन्दोगैरेवाध्येतव्या, उत सर्वरिति संशयः ॥ कर्तृव्यवस्थेति ॥ दृश्यत इति शेषः । प्राच्याघभिमानिभिरेवेति ॥ अनुष्ठीयत इति शेषः । तत्रापि किं होलाकादिः प्राच्याद्य- भिमानिभिरेवानुष्ठेयः, उत संवैरिति संशयः । होलाका नाम राक्षसी, तस्याः पूजनपूर्वकं तत् मन्मथस्य दाहोत्सवः फाल्गुनपौर्णमास्यां प्राच्यैर्महाराष्ट्रः क्रियते । पूर्वपक्षमाह-तत्रेति ॥ तद- नुमेयश्रुतिः-गौतमधर्माद्यनुमेयश्रुतिः । अनुमापकस्य-लिङ्गस्य । नियतविषयत्वात्-व्यवस्थित- विषयत्वात् ॥ नियताधिकारिकैवेति ॥ तथा च गौतमधर्ममूलकश्रुतिश्छन्दोगमात्रविपया च्छन्दो- गमात्रपठ्यमानस्मृतिमूलत्वादित्यनुमानेन व्यवस्थेत्यर्थः । तथा होलाकाद्याचारमूलश्रुतिः प्राच्यादि- मात्रविषया प्राच्यादिमात्रानुष्ठीयमानाचारमूलत्वादिल्यनुमानेन तन्मात्रविषयत्वमित्यर्थः । सिद्धान्त- माह-यद्यपीति ।। अनुमापकं-लिङ्गम् । नियतविषयकं-पुरुपविशेपैरेवाधीयमानमनुष्ठीयमान- मिति व्यवस्थितविषयकम् । तथापि -अनुमापकस्य व्यवस्थितविषयकत्वे, अनुमेयश्रुतौ प्राच्यत्वा- दिविशेषणं न दातुं शक्यमित्यन्वयः । प्राच्यादिमात्रविषयत्वकल्पनं न सम्भवतीत्यर्थः । तदेवो- पपादयति—न हीति ॥ प्राच्यशब्दो रूढो वा यौगिको वेति विकल्प्य आधे दूषयति-सर्वेति ॥ जात्यादिचतुष्टयप्रवृत्तिनिमित्ताभावान्न रूढत्वमित्यर्थः । 'ब्राह्मणा ऋत्विजः' इति हि ब्राह्मणत्व- जातिः, 'भार्गवो होता' इति व्यक्तिः, 'शुक्लो होता' इति गुणः, 'अविकलाङ्गाः' इति संस्थानविशेषः । प्रकृते तादृशं किञ्चिदपि नास्तीति न रूढत्वं, 'चतुष्टयी शब्दानां प्रवृत्तिः' इत्यभियुक्तोक्तेरिति भावः । तदुपपादयति—जातीति ॥ घटत्वादिवत्प्राच्यत्वस्य जातित्वाभावा- दित्यर्थः ॥ व्यक्तीति ॥ सास्नादिव्यक्तिनिमित्तकगोशब्दवद्वयक्तिलक्षकावयवविशेषाभावादि- त्यर्थः । गुणेति ॥ नीलादिशब्दवद्गुणनिमित्तकत्वाभावादित्यर्थः ॥ संस्थानेति ॥ कम्बु- ग्रीवादिवदाकृतिनिमित्तकत्वाभावादित्यर्थः । तथा च न रूढत्वमिति भावः । द्वितीयेऽपि किं । १ , ९२ भट्टदीपिका [अ. १. निर्वक्तुं शक्यम् । तत्र तत्तद्देशगतानामप्यनाचरणात् चिरनिर्गतपुत्रपौत्राणामप्याचर- णाच । अतो विशेषणाभावात्सर्वविषयत्वम् । गौतमीयादिस्मृतेस्तु न छन्दोगाधिकार- स्मरणं, येन श्रुतावपि तत्सम्भाव्येत । पाठमात्रं तु तेषां स्मृतिकर्तुस्तच्छाखीयत्वादुप- पन्नम् । कर्ता हि छन्दोगः स्खशिष्यान् छन्दोगान् स्वग्रन्थमध्यापयामास । तेऽप्य- न्यानित्येवं पाठः तन्मात्रे व्यवस्थित इति तत्रापि सर्वविषयत्वमेव ॥ ७॥ (८)-प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥२३॥ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥२४॥अन्यायश्चानेकशब्द- त्वम् ॥ २५ ॥ तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ २६ ॥ तदशक्तिश्च तदनुरूपत्वात् ॥ २७॥ एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥२८॥ स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यमाक्षिप्यते । नियमद्वयार्थ हि प्राग्देशसत्त्वं वा प्राच्यत्वं, प्राग्देशोत्पन्नत्वं वेति विकल्प्य आद्य निराकरोति-तत्तद्देशेति ॥ देशान्तरादागत्य तदेशे वासं कुर्वतामनाचरणात् न तद्देशवासित्वं प्राच्यत्वमित्यर्थः । द्वितीयं निरस्यति-चिरेति ॥ प्राग्देशान्निर्गत्य देशान्तरेषु वासं कुर्वतां पुत्रपौत्रादीनां प्राग्देशो- त्पन्नत्वाभावेन तेषां प्राच्यत्वानापत्तेः तेषामनुष्ठानं न स्यादित्यर्थः । उपसंहरति अत इति ॥ विशेषणाभावादिति ॥ ततश्च साध्याप्रसिद्धेः पूर्वोक्तानुमानं न सम्भवतीति भावः । गौत- मस्मृतेरपि छन्दोगमात्रविषयत्वं निराकरोति—गौतमीयेति ॥ छन्दोगमात्रपाठस्यान्यथासिद्धि- माह-पाठमात्रं त्विति ॥ तत्स्मृतिकर्तुः-गौतमस्य, तच्छाखीयत्वात्खशिष्यान् स्वग्रन्थमध्या- पयामासेत्येवं पाठव्ययस्थाया अन्यथासिद्धत्वात् न तन्मात्रेण व्यवस्था युक्ता । तस्मात्सर्वा- धिकारिकैव गौतमस्मृतिरिति न तन्मूलश्रुतिः तन्मात्रविषया । अतः सर्वाधिकारिकैव सेति भावः । सूत्रार्थस्तु, अनुमानस्य-होतोः । करणे ल्युट् । व्यवस्थानात्-व्यवस्थितविषयत्वात् । तत्संयुक्तमेव श्रुतिरूपं प्रमाणं अनुमेयं स्यादिति ॥ प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥ स्मृत्यधिकरणेन अस्याक्षेपिकी सङ्गतिमभिसन्धायाह—स्मृत्यधिकरणेति ॥ वैदिकपारग्रहदाादितः तत्र श्रुतिमूलत्वेन प्रामाण्यसिद्धावपि इह मूलासम्भवान्न प्रामाण्यमित्याक्षिप्यत इत्यर्थः । व्याकरणस्य प्रयोग- सङ्ग्रहैकफलकत्वेन प्रयोगरूपाचारानुमानद्वारा स्मृतिकल्पकतया द्वयन्तरितप्रामाण्येन मन्वादि- स्मृतिवैलक्षण्यादाक्षेपावसर इति भावः ॥ नियमद्वयेति ॥ प्रयोगनियमः साधुखरूपनियम- श्वेत्यर्थः । तदुभयमपि व्याकरणैकसाध्यम् । तत्राद्यस्य क्रत्वर्थपुरुषार्थोभयरूपत्वस्य व्याकरणे- नैवानुमेयत्वात् साधुखरूपस्यालौकिकत्वेन व्यूढद्वादशाहादेरिव शास्त्रैकसमधिगम्यत्वात् । वस्तुतस्तु, प्राथमिको नियमविधिः । द्वितीयस्तु तदपेक्षितार्थसमर्पकः। 'यन्नदुःखेन सम्भिन्नम्' पा. ३. अधि. ८.] भादृचिन्तामणिसहिता। ९३ । तत् । साधूनेव प्रयुञ्जीत नासाधूनित्येकः । गवादय एव साधवः न गाव्यादय इत्यपरः। न च नियमद्वयस्य मूलं सम्भवतिः प्रतिगवादिशब्दमनेकश्रुतिवाक्यपाठासम्भवात् , साधुत्वस्य पूर्ववन्निर्वचनासम्भवेन अनुगतैकश्रुतिकल्पनानुपपत्तेश्च । न हि साधुत्वं नाम अर्थप्रत्यायकत्वं, अनादित्वे सति वाचकत्वं वा । गाव्यादिष्वपशब्देष्वपि सत्त्वात् । अपशब्दानां क्वचित् वाचकत्वाभावे गान्मादिषु गौणत्वस्याप्यसम्भवाच्च । अतो वाचक- इत्यादिवत्पूर्ववाक्यशेषो न नियमविध्यन्तरमिति भ्रमितव्यमित्याह-तदिति ॥ व्याकरण- मित्यर्थः । नियमविधिफलमाह-साधूनिति ॥ यद्वा एकस्मिन्नर्थे द्वयोः पक्षप्राप्तत्वेऽपि एकस्मिन्वाक्ये सुशब्दापशब्दयोः समुच्चित्यापि प्राप्तिसम्भवेनास्य विधेः 'पञ्च पञ्चनखा भक्ष्याः' इत्यस्येव परिसङ्ख्याविधित्वावश्यकत्वेन तत्र स्वार्थहान्यादिकल्पनामपेक्ष्य परार्थवाचकपदघटित- विधिरेव कल्पयितुं युक्त इति निषेधवाक्यमुदाहरति--नासाधूनिति ।। मूलमिति ॥ उपपत्ति- रित्यर्थः । सा च नियमस्वरूपे कार्ये वोपयोगाद्वक्तव्या । कार्य च दृष्टमदृष्टं वा । अदृष्टमपि क्रतुसम्बन्धि स्वतन्त्रं वा । नाद्यः, असाधूनामपि प्रयोगसम्भवात्स्वरूपासिद्धेः । न द्वितीयः, तैरर्थाभिधानसम्भवात् । न तृतीयः, व्याकरणस्य ऋतुप्रकरणपाठाभावेनानारभ्याधीतत्वाभावेन च तत्कल्पितविधेः क्रतुविशेषगामितायाः प्रकृतिगामिताया वाष्टकादिविधेरिवासम्भवात् । न चतुर्थः, आचारानुमापकत्वेन ततोऽप्यधस्तनीं कक्ष्यामारूढाद्वयाकरणात्कल्पितस्य वाक्यस्य स्मृतिकल्पितभोजनाश्रितदिनियमविधितुल्यत्वायोगेन तद्वत् खतन्त्रापूर्वजनकत्वे मानाभावा- दिति भावः । नन्वाचारस्मृतिद्वारा आत्मतुष्टयानुमितश्रुतिरिव व्याकरणेनाप्यनुमितश्रुतिः किं न स्यादित्यत आह--प्रतिगवेति ॥ गोशब्दं प्रयुञ्जीत' 'घटशब्दं प्रयुञ्जीत' इति रीत्या अनन्त- श्रुतिकल्पने गौरवापत्तेः, प्रतिपदार्थमसाधुशब्दानामत्यन्तानन्त्येन प्रतिपदार्थ निषेधकल्पनेऽ- त्यन्तगौरवापत्तेश्चेत्यर्थः । ननु 'साधुशब्दान् प्रयुञ्जीत नासाधुशब्दान्' इत्येकश्रुतिकल्पने न तदानन्त्यप्रयुक्तं गौरवमित्यत आह–साधुत्वस्येति ॥ पूर्ववदिति ।। प्राच्यत्वादिवदित्यर्थः । अनेनानुगतप्राच्यत्वाद्यभावेन यथा होलाकादीनां न व्यवस्था तथा गवादिशब्दानां प्रयोगेऽपि न व्यवस्थेति प्रत्यवस्थानात्सङ्गतिरित्यपि सूचितम् । एवमसाधुत्वस्यापि साधुत्ववदेव निर्वचनासम्भ- वेन निषेधकल्पनं न सम्भवतीति भावः । करचेष्टास्वधुनातनसङ्केतेषु चातिव्याप्तेराह- अनादीति॥ वाचकत्वं नाम शक्तिः। सा च सङ्केतत्वाविशेषादिदानीन्तनसङ्केतेष्वपीत्यतिव्याप्तेः सत्यन्तम् ॥ गाव्यादिष्विति ॥ तत्राप्यनादिवाचकत्वसत्त्वादतिव्याप्तिरिति भावः । ननु शक्तत्व- रूपवाचकत्वानङ्गीकारान्न गाव्यादिशब्देष्वतिव्याप्तिः। न च तर्हि गाव्यादिशब्दप्रयोगः, ततः अर्थप्रत्ययश्च कथं स्यादिति वाच्यम् ; गौणत्वेन तदुभयोपपत्तेरित्यत आह—वाचकत्वाभाव इति ॥गौणत्वस्येति ॥ स्ववाच्यनिष्ठगुणसदृशगुणवद्बोधकत्वरूपस्य गौणत्वस्य वाचकत्वघटित- त्वादिति भावः । स्वोक्तं निर्मूलवं पूर्वपक्षबीजमुपसंहरति-अत इति ॥अत्र पार्थसारथिः, 'निर्मूल- भाट्टदीपिका [अ. १. त्वाविशेषात् न व्याकरणेन नियमस्सम्भवतीति प्राप्ते- त्वाद्विगीतत्वात् नेप्फल्याद्वेदबाधनात् । पूर्वापरविरोधाच्च नास्य प्रामाण्यसम्भवः ॥ तस्मादेतेन शब्दानां प्रयोगो न नियम्यते । तैरर्थप्रत्ययात्सर्वे प्रयोज्या न व्यवस्थया ॥' इति । अयमभिप्रायः। निर्मूलत्वमुपपादितम् । विगीतत्वादित्यस्य विरोधादित्यर्थः । सूत्रकारो हि सुशब्दनिष्पत्तिरेव व्याकरणस्य प्रयोजनं मनुते । वार्तिककारस्तु व्याकरणसंस्कृतपदज्ञानपूर्वकप्रयोगात्पारलौकिक- फलसिद्धिं ब्रूते । भाष्यकारस्तु व्याकरणसंस्कृतपदज्ञानात्स्वर्गमाचष्ट इति त्रयाणां व्याकरणप्रवर्त- कानां परस्परविरोधान्न व्याकरणं प्रमाणम् । उपलक्षणमिदम् । भाष्ये बहुशो वार्तिक- निराकरणेन विरोधस्य स्पष्टत्वात् । तथा निष्फलत्वादपि न व्याकरणं प्रमाणम् । अथ 'रक्षो- हागमलध्वसन्देहाः प्रयोजनम्' इति वैयाकरणोक्तप्रयोजनसम्भवान्न दोषः । तथा हि 'उद्गाभं च निग्राभञ्च' इत्यादी भाषायामविद्यमानाक्षराणि पश्यन्ते । तत्र दृश्यन्ते च लोपागम- विकाराः । तान् वैयाकरणो निश्चित्य वेदं रक्षति । ततो वेदरक्षा एक प्रयोजनम् । तथा सौर्यादौ 'सूर्याय जुष्टं निर्वपामि' इत्यूहः । अत एव 'ब्राह्मणेन निष्कारणं षडङ्गो वेदोऽध्येतव्यः' इत्यागमोऽपि व्याकरणस्य प्रयोजनम् । प्रयोजनशब्दः प्रयोजकपरः । लध्वित्यस्य, लाघवमि- त्यर्थः । प्रतिपदसंस्कारापेक्षया संज्ञापरिभाषाभ्यां लघूपायेन बहुशब्दस्वरूपज्ञानात् व्याकर- णस्य लाघवमपि प्रयोजनम् । एवमसन्देहोऽपि । 'स्थूलपृषतीमनड्वाहीमालभेत' इत्यादौ कर्म- धारयबहुव्रीहिसन्देहे पूर्वपदप्रकृतिस्वरेण बहुव्रीहिनिश्चयो व्याकरणाद्भवतीत्यादिरीत्या व्याकरणं सार्थकमिति चेन्न; तेषामन्यथासिद्धत्वात् । तथा हि-वेदतदर्थाभिज्ञतदर्थानुष्ठाननिरतशिष्टत्रैवर्णि- कपरम्परोपदिष्टस्य एकाक्षरविपर्यासेऽपि प्रत्यवायभीतगुरुपरम्परोपदिष्टपदाक्षरगणनापूर्वकं धार्य- माणस्य वेदस्य व्याकरणेन रक्षापेक्षाभावात् । सौर्यादा 'सूर्याय'इत्याहस्यापि न व्याकरणापेक्षा । पण्डितस्याध्वर्योः प्रकृतिविकृतियागकुशलस्यातिदेशप्राप्त 'अग्नये' इति मन्त्रस्य, विकृतिसमवे- तार्थत्वाय सूर्यपदप्रक्षेपरूपोहस्य खतस्सिद्धत्वात् । उदाहृतागमस्य स्मृतित्वेन तत्रत्यषडङ्ग- शब्दस्य श्रुतिलिङ्गादिपटप्रमाणपरत्वेन व्याकरणादिषडङ्गपरत्वाभावात् । अनेकोत्सर्गापवाद- जटिलस्य व्याकरणस्य लघूपायत्वं कुतस्त्यम् ; 'स्थूलपृषती' इत्यत्रापि पूर्वपदप्रकृतिस्वररूपत्वम- ध्यापकसम्प्रदायसिद्धमिति तत्रैकार्थविशेषस्याप्यवगन्तुं शक्यत्वान्न व्याकरणस्योपयोगं पश्यामः। एवं वेदबाधादपि न व्याकरणं प्रमाणम् । व्याकरणे हि 'दृष्टं साम' इत्यधिकृत्य 'कलेर्डक्' इति कलिना दृष्टमित्यर्थे कालेयशब्दो व्युत्पादितः । तथा वामदेवेन दृष्टं साम इत्यर्थे 'वामदेवाड्डयड्डयौ' इति वामदेव्यादिशब्दो निष्पादितः। वेदे तु 'यदकालयत् , तत्कालेयस्य कालेयत्वं' इति कालन- क्रिया निमित्तीकृत्य कालेयशब्दो व्युत्पादितः । तथा 'आपो वा ऋत्वियमार्छस्तासां वायुपृष्ठे व्या- वर्तत,ततो वामं वसु समभवत्तस्माद्वामदेव्यम्'इति रजो धर्म प्राप्ताभिरद्भिः वायोस्सङ्गमे सति उत्तम वसुजातम्। तच्च देवतासम्बन्धिजातमिति वामदेवाख्यं सामेति व्युत्पादितम् । ततश्च वेदविरोधाद- पा. ३. अधि. ८.] भादृचिन्तामणिसहिता । २५ प्रयोगप्रत्यययोस्साधुशब्दापभ्रंशजानां गाव्यादिशब्दानां साधुशब्दोपस्थापन- द्वारा उपपत्तेः न वाचकत्वकल्पकता, अनेकशक्तिकल्पनापत्तेः । इदानींतनानां च शक्तिभ्रमात्तौ प्रयोगप्रत्ययौ । न च घटकलशादिपदवद्विनिगमनाविरहः; पाणिन्यादि- प्रणीतव्याकरणस्यैव नियामकत्वात् । न चामूलत्वम् ; प्रयोगनियम साधूनेव प्रयु- जीतेत्येवंविधाया एकस्या एव श्रुतेर्मूलत्वात् । साधुत्वं चानादिवाचकत्वम् , अनप- प्रमाणंम् । एवं पूर्वापरविरोधादप्यप्रमाणं व्याकरणम् । अर्थप्रतीत्यर्थत्वात् वाक्यप्रयोगस्य अर्थप्रती- तेश्च वाक्यनैव जायमानतया वाक्यमेव व्याकरणेन संस्कर्तव्यतया प्रतिज्ञातम् । 'सिद्धे शब्दार्थ- सम्बन्धे' इति वार्तिक तथा प्रतिज्ञानात् । ततश्च यथाप्रतिज्ञ वाक्याव्याकरणात् पदव्याकरणाच्च पूर्वापरविरोधः स्पष्टः। न चार्थप्रयुक्तशब्दव्याकरणस्यैव प्रतिज्ञाततया वाक्यघटकीभूतशब्दानाम- प्यर्थवत्त्वात्पदव्याकरणमपि प्रतिज्ञातमवेति वाच्यम् :वाक्यघटकीभूतशब्दानामनर्थकत्वात् । तदुक्तं हरिणा 'ब्राह्मणार्थो यथा नास्ति कश्चिद्बामणकम्बल । देवदत्तादयो वाक्ये तथैव स्युरनर्थ- काः ॥' इति । न च तथापि पदानां वाक्यावयवत्वात्पदसंस्कारद्वारा वाक्ये संस्कारो युज्यत इति वाच्यम् ; न पदसमुदायो वाक्यं, किं तु अखण्डमन्यदेव स्फोटरूपमिति वाक्येषु पदा- भावन तत्संस्कारद्वारा वाक्यसंस्कारासम्भवात् । तस्मान्न व्याकरणं प्रमाणमिति । अधिकं वार्तिक एव प्रपञ्चितमिति पूर्वः पक्षः। यदुक्तं पूर्वपक्ष साधुशब्दवदसाधुशब्दस्यापि लोके प्रयोगात्तजन्य- शाब्दबोधस्यापि सर्वानुभवसिद्धत्वाच्च तेषामपि वाचकत्याविरोपान्न व्याकरणन नियमः सम्भ- वतीति तत्परिहरति-प्रयोगप्रत्यययोरिति ॥ साधुशब्दापभ्रंशजानां साधुशब्दोच्चारणाशक्ति- जानाम् । तच्छब्दोपस्थापनद्वारा-साधुशब्दापस्थापनद्वारा। तथा चापशब्दस्साधुशब्दोपस्थिती सत्यामुपस्थितसाधुशब्दरेवार्थोपस्थितिद्वारा शाब्दबोधोपपत्तः नापशब्दस्य बोधजनकत्वं, सुतरां वाचकत्वं नास्तीत्यर्थः । तत्र हेतुमाह--अनेकेति ॥ 'अन्यायश्चानेकार्थत्वम्' इति न्यायादिति भावः । साधुशब्दज्ञानाभाववतः कथं प्रयोगप्रत्ययावित्यत आह ---इदानींतनानामिति ॥ आधुनिकानामित्यर्थः। तौमप्रयोगप्रत्ययौ। विनिगमनाविरहं निरस्यति न चेति ॥ पाणिन्या- दीति ॥ आदिना पतञ्जलि-कात्यायनयोः परिग्रहः, न तु चाक्रवर्मणादीनाम् । तेषां शिष्टत्रै- वर्णिब्रह्मयज्ञादिष्वनध्ययनेन वेदाङ्गत्वाभावनिश्रयात् । तेन द्वय शब्दस्य व्याकरणान्तरेण सर्वनामसंज्ञासिद्धावपि पाणिनीयव्याकरणविरोधात् द्वयपामित्यस्यापशब्दत्वेनाहिताग्नेस्तदुच्चारणे भवेदेव सारस्वतीष्टिः । पूर्वोक्तं निर्मूलत्वं निरस्यति न चेति ॥ प्रयोगनियमे-'साधूनेव प्रयु- जीत' इति नियमे । साधुत्वस्य अपभ्रंशसाधारण्यनिरासायाह साधुत्वं चति ॥ अनादि- वाचकत्वमिति ॥ अनादीति भावप्रधाना निर्देशः । गगनादावतिव्याप्तिवारणाय शब्दत्वमपि निवेश्यम् । अपभ्रंशेष्वतिव्याप्तिवारणायानादित्वनिवेशः। तेषां सादित्वान्न दोपः। तथा च हरदत्तः 'अनिदंप्रथमाश्शब्दाः साधवः परिकीर्तिताः' इति । हरिरपि 'अनपभ्रष्टताऽनादि यद्वाभ्यु- भाट्टदीपिका [अ. १. , भ्रष्टत्वं वा, व्याकरणाभ्यासजनितसंस्कारव्यङ्गया जातिवी, प्रमितवृत्त्या अर्थप्रत्याय- दययोग्यता । व्याक्रिया व्यञ्जनीया वा जातिः कापीह साधुता ॥' इति । ननु नामकरणसङ्कोतित- डित्यादिपदेष्वव्याप्तिः, तेषामनादित्वाभावात् । किञ्च रथन्तरादिगीतिषु स्तोभेषु चातिव्याप्तिः, तत्राप्युक्तलक्षणसत्त्वादित्यत आह-वाचकत्वं वेति ॥ पुत्रादिनामकरणे गृह्येषु नियम- श्रुतेः अनादिशब्दता संज्ञास्वपि नैव विरुध्यत इति हरिकारिकोक्तरीत्याधुनिकनाम्नामपि वाच- कत्वान्नाव्याप्तिः। न वा गीत्यादिष्वतिव्याप्तिः। तेषामर्थशून्यत्वेन वाचकत्वाभावात् । तथा च अना- दित्वे सति शब्दत्वमेकं लक्षणं, वाचकत्वमित्यपरमिति लक्षणद्वये तात्पर्य बोध्यम् । वस्तुतस्तु अनादिवाचकत्वमित्येकमेवेदं लक्षणं मूलानुगुणम्। न चानादिपदवैयर्थ्य, आधुनिकसङ्केतितानां साधुत्वं नास्तीति पक्षे तत्रातिव्याप्तिवारकतया तत्सार्थक्यात् । तत्साधुत्वे तु उक्तरीत्या लक्षण द्वयमेवेति ध्येयम् । नन्वेवं स्तोभानां वाचकत्वरूपसाधुत्वाभावेनासाधुत्वमेव स्यात् । न चेष्टा- पत्तिः, स्तोत्रकारिणां स्तोभप्रयोगे सारस्वतीप्टिप्रसङ्गादिति चेन; 'योकं यूपमुपस्पृशेदेष ते वायो इति ब्रूयात्' इति विहितस्य प्रायश्चित्तस्य क्रत्वर्थयूपोच्छ्यणादिप्रयुक्तस्पर्शादावप्रवृत्तिवत् प्रकृतेऽपि क्रत्वर्थविधिना तदुच्चारणे असाधुशब्दप्रयोगनिषेधाप्रवृत्तेः । यद्वा, न केवलं साधु- त्वाभाव एवासाधुत्वं, घटादावतिव्याप्तेः । नापि शब्दत्वविशेषितः, सामस्खतिव्याप्तेः । नापि वर्णत्वविशेषितः, 'जबगडदश्' इत्यादावतिव्याप्तेः । नाप्यर्थप्रत्यायकत्वविशेषितः, टिघुभादि- ष्वतिव्याप्तेः । तेषां साध्वसाधुबहिर्भूतत्वात् । तदाह हरदत्तः ‘यास्त्वेताः खेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां साधुत्वं नैव तास्साधवो मताः ॥ अनपभ्रंशरूपत्वान्ना- प्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः ॥ नासां प्रयोगेऽभ्युदयः प्रत्य- वायोऽपि वा भवेत् ।' इति । ततश्चापभ्रष्टत्वमेवासाधुत्वमिति न स्तोभानामपशब्दत्वम् । अतो न सारखतीष्टिः । नन्वेवमपि 'देवाद्याः संस्कृतं ब्रूयुः प्राकृतं किन्नरादयः । पैशाच्यादि पिशा- चाद्याः मागधं हीनजातयः ॥ इति स्मरणेन किन्नरादिव्यवह्रियमाणभाषाणामपि कात्यायनादि- व्याकरणसंस्कृतत्वेन तेषामपि वाचकत्वस्वीकारात् तत्रातिव्याप्तिरित्यत आह–अनपभ्र- तृत्वं वेति ॥ 'हरिद्रादीनां रो लः' इत्यादिसूत्रः कात्यायनेनैव तेषां संस्कृतापभ्रंशजत्वप्रदर्श- नान्नातिव्याप्तिरिति भावः । हुमायनर्थकवर्णेष्वव्याप्तेराहेति केचित् ; तन्न, तेषामपि तर्जनादि- वाचकत्वस्य कोशप्रसिद्धत्वादनर्थकत्वव्यवहारस्य तद्वंटितवाक्यार्थानन्वयितामात्रेणोपपत्तेः । नन्वस्य लक्षणस्य स्तोभेष्वतिव्याप्तिः, अर्थप्रत्यायकत्वविशेषणे टिधुभादिसंज्ञाखतिव्याप्तिः । तासां लक्ष्यत्वखीकारेऽपि पचन्तीत्यादावतिव्याप्तिः, वैयाकरणसम्मतत्वादत आह--व्याकरणेति ॥ वज्रत्वमाणिक्यत्वादिरत्नत्वव्याप्यजातीनां, षड्जत्वऋषभत्वादिध्वनि- त्वव्याप्यजातीनां च चक्षुश्श्रोत्रसन्निकर्षमात्रेणाग्रहणेऽपि तत्तदभ्यासजनितसंस्कारसाचिव्येन ग्रहणदर्शनात् , प्रकृतेऽपि साधुत्वजातेश्शास्त्राभ्यासजनितदृढसंस्कारसध्रीचीनश्रोत्रग्राह्यत्वात् । तेषामसाधुताया .
पा. ३. अधि. ८.] भादृचिन्तामणिसहिता । कत्वं वेति कौस्तुभ एवातिक्षुण्णम् । तदभावश्चासाधुत्वम् । प्रत्यक्षैव श्रुतिः 'न म्लेच्छित वै नापभाषित वै म्लेच्छो ह वा एष यदपशब्दः' इत्यादिमूलम् । अयं च निषेधः प्रकरणात् ज्योतिष्टोमाङ्गम् । यज्ञमात्रेऽपि च निषेधः, 'याज्ञे कर्मणि नियमोऽन्यत्रानि- 'न हि वचिरन्तिपरः प्रयुज्यते' इति कात्यायनवचनान्न वचन्त्यादावतिव्याप्तिरिति भावः । नन्वेवमपि न गोणीशब्दनिरासः; 'जानपदकुण्डगोण-' इत्यादिना गोणशब्दात् ङीषो विधानेन तादृशजातिमत्त्वावश्यम्भावादित्यत आह-प्रमितेति ॥ यत्पदार्थोपस्थितिजनकवृत्तिजातीय- विषयताविशेषो यस्मिन् शब्दे तस्मिन्नर्थे तस्य साधुत्वमित्यर्थः । आवपने शक्तो गोणीशब्द इत्याकारकवृत्तिज्ञानस्य आवपनपदार्थोपस्थितिं प्रत्येव कारणत्वादावपने साधुरेव गोणीशब्दः, न गवादाविति भावः । वर्णशब्दः ककारादो शक्त इति ज्ञानीयविषयताशालिनां ककारादि- शब्दानां खकारादिषु साधुत्ववारणाय विषयताविशेष इति । शक्तत्वनिष्ठप्रकारतानिरूपित- विशेष्यतारूप इत्यर्थः ॥ कौस्तुभ इति ॥ शब्दकौस्तुभ इत्यर्थः । 'अनपभ्रष्टतानादिः यद्वाभ्युदययोग्यता । व्याक्रिया व्यञ्जनीया वा जाति: कापीह साधुता ॥' इति वाक्यपदीय- कारिकाव्याख्यानावसरे सर्वेषां पक्षाणां शब्दकौस्तुभे पस्पशाह्निके प्रतिपादनात् ॥ तदभावः- अनपभ्रष्टत्वाभावः, अपभ्रष्टत्वमिति यावत् ॥ प्रत्यक्षैवेति ॥ एवकारेण पूर्वोक्तप्रयोगनियमो न व्याकरणेनानुमेय इति सूचितम् । न म्लेच्छित वै-म्लेच्छशब्दं न प्रयुञ्ज्यात् । नापभाषित वै-अपभाषितं-अपशब्दं, न प्रयुञ्जयादित्यर्थः। म्लेच्छशब्दार्थ श्रुतिरेवाह-म्लेच्छो ह वा इति ॥ प्रकरणादिति । अनेन क्रत्वर्थत्वं न सम्भवतीति पूर्वोक्तं निरस्तम् ॥ ज्योतिष्टो- माङ्गमिति ॥ दर्शपूर्णमासयोस्तु 'नानृतं वदेत् ' इति प्राकरणिकवचनादपशब्दवर्जनस्य कत्वर्थत्वसिद्धिः । ततश्च तद्विकृतावपि चोदकेन तत्प्राप्तिरिति भावः । अयमाशयः । अनृतं द्विविधं; शब्दानृतं अर्थानृतं चेति; तथा वार्तिके प्रतिपादनात् । 'तव वाक्यमिदं सत्यम् , असत्यं त्वद्वचः' इत्यादी शब्दे, 'सत्यं ज्ञानमनन्तं ब्रह्म' 'यत्र निसर्गो मृषा' इत्यादावर्थे च सत्या- नृतशब्दप्रयोगात् । तदुभयानुगतमबाधितत्वं सत्यत्वं, बाधितत्वमनृतत्वम् । व्याकरणेन गाव्यादि- शब्दबाधनात्तेषामनृतत्वं, गवादेरबाधितत्वं च । अतो न सकृदुच्चरितव्युत्पत्तिविरोधः । शिलोञ्छवाणिज्यादिवृत्तिषु 'सल्यानृताभ्यां जीवत' इति प्रयोगो मन्वादीनां गौणो वा, पारिभाषिको वेति द्रष्टव्यम् । नन्वेवमग्निहोत्रे गृहमेधीयादौ चानृतवर्जनं न स्यादित्यत आह ....यज्ञमात्र इति ॥ तत्र महाभाष्यसम्मतिमाह-याज्ञ कर्मणीति ॥ स एष यज्ञः पञ्चविधः, अग्निहोत्रं दर्शपूर्णमासो'इत्यादिवचनादग्निहोत्रस्यापि यज्ञत्वात् 'यज्ञानां जपयज्ञोऽस्मि' इति वचनेन जपस्यापि तथात्वात् गृहमेधीयादेरपि यज्ञसम्बन्ध्यङ्गघटितत्वेन 'याज्ञे' इत्यण्णन्त- यज्ञशब्देन सङ्गहाच सर्वत्र प्रतिषेधो भवतीति भावः । न चैवं तत्तत्प्रकरणपठितवचन- वैयर्थ्यम् । प्रत्युत मित्रविन्दादिसाप्तदश्यन्यायनोपसंहारेऽग्निहोत्रादौ निषेधाप्रवृत्तितादवस्थ्यमिति 13 ९८ भाट्टदीपिका [अ. १. यमः'इति महाभाष्याद्यनुसारात्। साधुप्रयोगनियमात् परं फलोदय इत्यपि 'एकश्शब्दस्स- म्यग्ज्ञातस्सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति वचनात् । अत्र हि प्रयोगा- श्रितः साधुनियमः फलोद्देशेन विधीयते । रागप्राप्तस्यापि साधुप्रयोगस्य 'तस्मादियं व्याकृता वागुद्यते' इति वचनादाश्रयत्वसिद्धिरिति स्पष्टं कौस्तुभे । गवादय एव साधवः न गाव्यादय इति साधुस्वरूपनियमस्य तु अनादिप्रयोगपरम्परैव मूलम् । अतः प्रमाणं व्याकरणम् । यत्तु-न्यायमूलकं स्फोटादि तत्रोच्यते श्रुतिविरुद्धं च तन्न्यायश्रुतिविरोधे कामं भवत्वप्रमाणम् ॥ ८ ॥ वाच्यम् ; 'याज्ञे कर्मणि' इति स्मृतिसार्थक्यायाग्निहोत्रादिप्रकरणपठितत्वेनेव कतिपयवाक्यानां मूलत्वेनानुमानात् । स्मृत्या श्रुतिवैयर्थ्यस्य श्रुत्या स्मृत्युपसंहारस्य चान्याय्यत्वात् ॥ अन्यत्र- यज्ञाद्बहिः। अनियमः--'नासाधून् प्रयुञ्जीत'इति प्राकरणिकनिषेधस्याभावः। म्लेच्छभाषानिषेधः स्मार्तस्तु प्रवर्तत एव । देशभाषानिषेधोऽपि प्रवर्तत इति केश्चिदुक्तं निरस्यति—महा- भाष्यादीति ॥ आदिना शिष्टाचारपरिग्रहः । 'नानृतं वदेत्' इति पुरुषार्थनिषेधस्तूक्तमहा- भाष्यानुसारात् अर्थानृतैकपरः । अत एव 'न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नापार्थकं वदेत् । सङ्कीर्णानभिजातेषु नाप्रबुद्धेषु संस्कृतम् ॥' इति नियमविधिरुपपद्यते । तस्माद्यज्ञाद्वहिरपि भाषानिषेधो न प्रवर्तत एव । महाभाष्यशिष्टाचारविरोधादिति भावः । म्लेच्छभाषादिकं तु 'नोच्चरेद्यावनी भाषां प्राणेः कण्ठगतैरपि' म्लेच्छभाषां न शिक्षेत' इत्यादिवचनाद्यावज्जीवं नानुमतमेवेति सर्वशास्त्रसम्मतः पन्थाः । संयोगपृथक्त्वन्यायेन पुरुषार्थत्वमपीत्याह-साधु- प्रयोगेति ॥ तत्र प्रमाणमाह-एकश्शब्द इति॥ एकः-एकोऽपि । शब्दः, सम्यग्ज्ञातः- प्रकृतिप्रत्ययादिविभागज्ञानद्वारा ज्ञातः । सुष्ठु प्रयुक्तः-क्रियाकारकादियोजनया प्रयुक्तः, स्वर्गे लोके कामधेनुरिव फलानि ददातीत्यर्थः । अत्र-वाक्ये । प्रयोगाश्रित इति ॥ ज्ञानपूर्वकप्रयोगाश्रित इत्यर्थः । तथा चानेन वचनेन ज्ञानपूर्वकप्रयोगमाश्रित्य फलोद्देशेन साधुनियमो विधीयते । प्रयोगस्य ज्ञानमन्तरेणासम्भवात् । 'सम्यक् ज्ञातः' इत्यनुवादः । ज्ञानादेव फलमिति तु भाष्याशयः; 'य एवं वेद' इति प्रायेण सर्वत्र श्रवणात् । कर्मणां ज्ञानादनुष्ठानाच्च फलमिति तु श्रुतिखरसः । आश्रयत्वमुपपादयति-तस्मादिति ॥ परम्परै- वेति॥ एवकारेण वरूपनियमोऽपि न व्याकरणाधीन इतिध्वनितम् । तर्हि कथं व्याकरणप्रामा- ण्यम् ; अत आह-अत इति ॥ परम्परानुमापकतयेत्यर्थः । स्फोटादीति ॥ आदिना व्यक्ति- वादपरिग्रहः ॥ श्रुतिविरुद्धं चेति ॥ 'यदकालयत्तत्कालेयस्य कालेयत्वम्' इति श्रुति- विरुद्धम् 'कलेढक्' इत्यादिकमित्यर्थः । स्फोटनिरासः चोदनापादे आकरे द्रष्टव्यः । यत्तु पूर्वपक्षे विगानादप्रामाण्यमुक्तं, तन्न; पाणिनिना सर्वज्ञेन शब्दापशब्दनिरूपणेन लोको- १. त. सं. ६. ४. ७.
पा. ३. अधि. ८.] भादृचिन्तामणिसहिता। ९९ पकारार्थ शास्त्रं प्रणयता फलस्यानुक्तत्वेऽपि विश्वजिन्यायेन खर्गार्थत्वं सम्भवतीत्यभिप्रायेण भाष्योक्तरीत्या स्वर्गार्थत्वसम्भवेन विरोधाभावात् । वार्तिककारेणापि तमेवार्थमभिप्रेत्य व्याकरणस्य उपयोगाय ज्ञानपूर्वकसु शब्दप्रयोगात् फलसिद्धिरित्युक्तावपि सर्वेषां स्वर्गार्थित्वे एकवाक्यत्वस्य स्पष्टत्वात् । अत एव न नैष्फल्यमपि, साधुनियमस्य स्वर्गार्थत्वात् । तत्र च प्रमाणमुक्तमेव 'एकश्शब्दः' इत्यादि । एवं रक्षोहादिकमपि प्रयोजनं सम्भवत्येव । न चाध्येतृपरम्परया रक्षा- दिसिद्धिः । अध्यापकानां प्रायेणार्थानभिज्ञतया क्वचित् 'अहोरात्राणि विदधत्' इत्यत्र निदध- दिति पाठस्यैव दर्शनेन 'यथाभागमावृषा ईषते' इत्यत्र ईषते इत्यपपाठ इति सूत्रव्याख्यानेषु स्पष्टमुक्तत्वेन च पाठस्याविश्वसनीयतया पाठवशेन रक्षादिनिर्णयासम्भवात् । पण्डितानामध्ये- तृणां सन्देहनिवर्तकत्वसम्भवेऽपि तैयाख्याकरणानुसारेणैव निर्णयकरणान्न दोषः । एतेन कुशलाध्वर्युकर्तृकत्वेन यागे ऊहाद्युपपत्तन व्याकरणापेक्षा इति निरस्तम् । कुशलत्वस्य व्याकरणाभिज्ञत्वरूपत्वात् । एवं 'स्थूलपृषतीम्' इत्यत्र पूर्वपदप्रकृतिस्वरस्य सम्प्रदायसिद्धत्वेऽपि बहुव्रीहिनिर्णयस्य व्याकरणैकसाध्यत्वात् व्याकरणस्यावश्यकता । यदपि लाघवं नास्तीत्युक्तं, तदपि न; सुप्तिडायेकजातीयप्रत्ययकल्पनेन कोटिशब्दानुगमदर्शनेन लाघवानपायात् । यदपि सूत्रवार्तिकयोर्भाष्ये प्रत्याख्यानेन विरोध उक्तः, सोऽपि नाप्रामाण्यमापादयति; प्रकारान्तरेण तत्प्रयोजनसम्भवेन सूत्रवार्तिकयोनीतीव प्रयोजनमित्यत्रैव भाष्यतात्पर्यात् । यदपि पूर्वा- परविरोधादप्रामाण्यमुक्तं, तदपि न; वाक्यस्य पदसमूहरूपत्वाङ्गीकारेण पदद्वारा वाक्यस्यैव संस्कृतत्वेन विरोधाभावात् । अन्यथा अगृहीतशक्तिकपदघटितवाक्यादपि शाब्दबोधा- पत्तेः । एवं · बभूव' इति रूपस्य प्रथममध्यमोत्तमेषु रूपेषु त्रिष्वपि साधुत्वेन व्याकरणं विना पाण्डित्यं व्यर्थमेव । एवं पङ्कजशब्दात् पद्मं बुध्यन्ति जनाः । कथं पङ्कजत्वमिति विचारे व्याकरणमेव शरणम् । तस्मात् व्याकरणं विना जगदान्ध्यमेव । तत्र श्रुतिरपि 'उत त्वः पश्यन्न ददर्श वाचं उत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसने जायेव पत्य उशती सुवासाः ॥' इति । अयमर्थः । त्वः-कश्चित् , वाचं, पश्यन्नपि न ददर्श । उत-अपि तु, शुण्वन्नपि न शुणोति एनां वाचम् । त्वस्मै--- कस्मैचित् । तन्वं-तनूम् । उशती कामयमाना जाया । सुवासाः-शोभनवस्त्रवती । वस्त्रशब्दोऽलङ्कारसामान्यपरः, छत्रिन्यायात् । पत्य इव, विसस्रे प्रकाशयतीत्यर्थः । 'सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत । अत्रा सखायः सख्यानि जानते भट्टैषां लक्ष्मीनिहिताधिवाचि ॥' अयमर्थः । तितउना- चालिन्या । 'चालिनी तितउः पुमान्' इत्यमरः । पुनन्तः--संस्कुर्वन्तः, ये पुरुषाः । धीराः---पण्डिताः । वाचं, अकृत--कृतवन्तः । अत्र-तेषु पुरुषेषु । सखायः-सर्वप्राणि- हितकराः, देवाः । सख्यानि - प्रीतिविशेषान् । जानते--प्रीतिं कुर्वन्तीत्यर्थः । भद्रा- शोभना । लक्ष्मीः, अधिवाचि---तेषां वाचि, तैर्देवैर्निहितेत्यर्थः । एतौ मन्त्रौ ऋग्वेदाष्टमाष्टके १०० भाट्टदीपिका [अ. १. (९-१०)-प्रयोगचोदनाभावादर्थैकत्वमविभागात्स्यात् ॥२९॥ अद्रव्यशब्दत्वात् ॥ ३० ॥ अन्यदर्शनाच्च ॥ ३१ ॥ आकृतिस्तु क्रियार्थत्वात् ॥ ३२ ॥ न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ॥ ३३ ॥ तदर्थत्वात्प्रयोगस्याविभागः ॥ ३४ ॥ । द्वितीयाध्याये पठ्येते । तत्र प्रथममन्त्रे साधुशब्दाभिज्ञप्रशंसयापशब्दप्रयोक्तृनिन्दया च साधूनेव प्रयुञ्जीत नासाधूनिति नियमः स्पष्टं प्रतीयते । द्वितीयमन्त्रेण व्याकरणाभिज्ञस्यैव देवताप्रीतिशुभवाक्यादिप्रतिपादनात् व्याकरणज्ञानावश्यकता प्रतीयते । एवं स्मृतिरपि 'यस्तु व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पङ्क्तिपावनपावनौ ॥ इति । ततश्च बहुश्रुतिस्मृतिभिः व्याकरणस्यावश्यकता द्रष्टव्या । किश्च 'षडङ्गो वेदोऽध्येयः' इति विधिना वेदवत् अङ्गानामप्यध्येतव्यत्वप्रतिपादनात् नित्यत्वं व्याकरणाध्ययनस्य । न च श्रुतिलिङ्गादिषट्प्रमाणपरत्वं, विनिगमनाविरहेण शब्दान्तरादिप्रमाणपरत्वापत्तेः, पाश्चमिक- श्रुत्यादिपरत्वापत्तेश्च, 'शिक्षा व्याकरणं छन्दः' इत्यादिकोशविरोधापत्तेश्च । तस्मात् व्याकरणं धर्माधर्मयोः प्रमाणमिति सिद्धम् । अधिकमाकरे द्रष्टव्यम् । अत्रायं निष्कर्षः । भाषाशब्दानामपि प्रमितवृत्त्या अर्थप्रमापकत्वात्साधुत्वमेव, नासाधुत्वम् । अत एव सर्वदेश- स्थशिष्टैस्तत्तद्देशीयभाषया श्रुतिस्मृतिपुराणाद्यर्थप्रतिपादनं सङ्गच्छते । अत एव च सर्व- भाषास्वपि भाषामन्त्रा भगवतागस्त्येन दृष्टाः सर्वलोकप्रसिद्धा दृश्यन्ते । यद्यपि प्रत्यन्तदेशीय- भाषायामपि भाषामन्त्रा दृश्यन्ते, तद्भाषायां प्रमितवृत्त्या अर्थप्रमापकत्वमप्यस्ति । तथापि 'नोच्चरेद्यावनीम्' इति, म्लेच्छभाषां न शिक्षेत' इति, 'यदङ्गं यवनस्पृष्टं तदङ्गं परिवर्जयेत्' इति च श्रुतिस्मृतिपुराणादिषु बहुशो निन्दितत्वात् शिष्टापरिग्रहाच्चासाधुत्वमेव । ततश्च भाषा- शब्देषु प्रत्यन्तदेशीयभाषोच्चारण एव सारस्वतीष्टिः, नान्यत्र । अत एव संस्कृतभाषानभिज्ञास्त्रे- वर्णिका बहुशः श्रौतस्मार्तकर्मानुष्ठाननिरताः : साधवः सर्वदेशेषूपलभ्यन्ते । तस्माद्देशभाषो- च्चारणे न कोऽपि दोषः । यवनभाषानिषेधः शिष्टत्रैवर्णिकापरिगृहीतहूणकिरातादिभाषास्वपि द्रष्टव्य इत्यलमधिकेन । मूत्रार्थस्तु, प्रयोगस्य-साधुशब्दप्रयोगस्य । उत्पत्तेः, अशास्त्रत्वात्- शास्त्रविहितत्वाभावात् । शब्देषु व्यवस्था न स्यात् साधुशब्द एव प्रयोक्तव्यो नापशब्द इति व्यवस्था न स्यात् ॥ प्रयोगचोदनाभावादथैकत्वमविभागात्स्यात् ॥ व्याकरणाधिकरणेन लोकवेदा- धिकरणस्य न सङ्गतिः, किन्तु आकृत्यधिकरणस्यैव । अत एव व्याकरणाधिकरणानन्तरं तत्सङ्गतत्वादाकृत्यधिकरणाङ्गसन्देहमुपन्यस्य पश्चात् लोकवेदाधिकरणं भाष्यादौ प्रवर्तित- पा. ३. अधि. ९-१०. भादृचिन्तामणिसहिता । १०१ वाचकशब्दप्रसङ्गाद्वाच्यं किं घटत्वादिजातिः उत व्यक्तिरिति चिन्ता । तदर्थ च लोकवेदयोश्शब्दानामन्यत्वं उत नेति चिन्तनीयम् । अन्यत्वे हयुपायाभावेन वैदिक- शब्दशक्तिग्रहस्यासम्भवात् नाद्या चिन्ता आरम्भणीया । एकत्वे तु लोके वृद्धव्यव- हारानुसारेण गृहीता शक्तिवेदेऽपि फलिष्यतीति युक्ता आद्या चिन्ता । तत्र वर्णाभेदेऽपि खरच्छान्दसवर्णागमलोपविकारानध्यायादिधर्मभेदात् सरो रस इत्यादिपदयोरिव लोक- मित्याशयेन आकृत्यधिकरणस्यैव सङ्गतिमाह-वाचकशब्दप्रसङ्गादिति ॥शब्दनिरूपितप्रसङ्ग- सङ्गतेरित्यर्थः ॥ वाच्यमिति ॥ घटादिशब्दवाच्यमित्यर्थः । अत्र जातिगुणक्रियायदृच्छाद्रव्य- सर्वनामनिपातोपसर्गाख्यातभेदात् नवविधाः शब्दाः । तत्र जातिशब्दा एवोदाहरणमिति प्राश्चः । शुक्लादिव्यक्तीनामेकत्वेऽपि शुक्लशुक्लतरशुक्लतमादिव्यक्तीनां भेदात्तत्रापि शुक्लत्वजातेः स्वीकर्तुं शक्यत्वात् , तुल्ययुक्त्या क्रियाख्यातवाच्ययोरपि जातिमत्त्वाच्चतुष्टयी शब्दानामुदा- हरणमिति नव्याः । अन्ये शब्दा गुणारुणाधिकरणादिषु विचारयिष्यन्त इत्याशयेनाह ---- घटत्वादीति ॥ आदिना शुक्लत्वज्योति टोमत्वादिपरिग्रहः । अत्र यद्यपि वार्तिके 'नियोगेन विकल्पेन द्वे वा सह समुच्चिते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥' इति पूर्व- पक्षमुपक्षिप्य 'गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः । जातिय॑क्तिश्च सम्बन्धः समूहो लिङ्गकारके । सङ्ख्या च सप्तमी तेषामष्टौ पक्षा द्वयोर्द्वयोः ॥' इत्यादिना बहवः पक्षा उक्ताः । अत्र वस्तुशब्देन जात्यादीनां सप्तानां ग्रहणम् ; अनुक्तसमुच्चायकेन चकारेण शब्दस्या- पि ग्रहणं इति जातिव्याक्तिलिङ्गसङ्ख्याकारकसम्बन्धाः समूहः शब्दश्चेति अष्टानां गोशब्देन प्रतीयमानानां मध्ये एकमेव वाच्यं, द्वौ वाच्यौ, जातिर्व्यक्तिर्वा विकल्पेन वाच्यौ, द्वौ समुच्चितौ वाच्यौ,त्रयः समच्चिता वाच्याः,द्वयोः सम्बन्धो वाच्यः, द्वयोः समुदायो वाच्यः,त्रयणां वा सम्बन्धः समुदायो वा वाच्यः, एकविशिष्टमन्यद्वाच्यमित्यादिरीत्या सप्तविंशतिसहस्राणि षट्छतानि चतुः षष्टिश्च पक्षाः कल्पिताः । तथापि तेषां प्रस्तारज्ञानसाध्यत्वादनुपयोगाच्च द्वावेव पक्षी भाष्यसम्मती इत्याशयेनाह-उत व्यक्तिरिति ॥ पदशक्तिविचारस्य धर्मविचाररूपत्वाभावात् कथं शास्त्र- सङ्गतिरित्यतः शास्त्रसङ्गतिं दर्शयितुं तदर्थसंशयमाह-तदर्थ चेति ॥ शब्दानामिति ॥ यद्यपि सूत्रे अर्थेकत्वमेवोक्तम् । तथापि तस्योपलक्षणतया शब्दैकत्वमपि विचार्यमित्यभिप्रायेण शब्दा- नामित्युक्तम् । फलफलिभावमुपपादयति-अन्यत्व इत्यादिना ॥ ततश्च लोकवेदयोइशब्दै- कत्वे वैदिकशब्दार्थविचाररूपत्वाच्छास्त्रसङ्गतिरिति भावः । तदर्थसंशयकथनेन लोकवेदाधि- करणस्योपाद्धातसङ्गतिरिति मूचितम् । ननु लोकवेदयोइशब्देक्यस्य दृढतरप्रत्यभिज्ञानान्न भेदसम्भव इत्याशङ्कय विरुद्धधर्मसमवायात् घटपटादिवत् भेदो युक्त इति पूर्वपक्षमुपपादयति-- तत्रेत्यादिना ॥ स्वरेति ॥ नियतस्वरेत्यर्थः । यद्यपि चोदात्तादयो लोकेऽपि स्वरास्सम्भवन्ति, तथापि नियतस्वरत्वं लोके नास्ति, वेदे तु नियतस्वरसत्त्वात् पदभेद इत्याशय ।
१०२ भादीपिका [अ. १. वेदयोः पदानामन्यत्वमिति प्राप्ते- यत्रार्थभेदप्रतीत्यनुकूलो' धर्मभेदस्तत्र पदभेदः; यथा सरो रस इत्यादौ क्रमात् । ब्रह्मब्राह्मणेति न्यूनातिरिक्तत्वात् । स्थूलपृषतीमित्यत्र कर्मधारयबहुव्रीयोस्वरात् अन्तो- दात्तायुदात्तत्वरूपात् । पचते दक्षिणां देहि, भोजनार्थ पचत इत्यत्र व्यधिकरणपद- सन्निधिरूपात् वाक्यात् । यातः पुनरायाति यातौ देवदत्तयज्ञदत्तावित्यत्र समानाधि- करणपदसन्निधिरूपया श्रुत्या । अश्व इत्यगम इत्यर्थे व्याकरणस्मृत्या, तदभिज्ञस्य पद- छान्दसवर्णागमाः-छन्दसि साधवो वर्णागमाः, 'देवासः पूषरातयः' इत्यादौ 'आजसेरसुक्' इत्यसुगागमादयः । लोपाः-'त्मना देवेषु प्रोवाच' इत्यादौ । अत्र मन्त्रेषु 'अद्यादेरात्मन्' इत्याकारलोप इत्यादयः । विकाराः-'उद्गाभं च निग्राभं च' इत्यादौ ‘ग्रहेर्भश्छन्दसि' इति हकारस्य भकारादेशः । 'अग्निमीळे पुरोहितम्' इत्यादौ 'द्वयोश्चास्य स्वरयोः मध्यमेत्य सम्पद्यत सडकारो ळकारः' इति शौनकसूत्रेण डकारस्य ळकारादेशः । 'अबरुद्रा यशसो हन्त नावधः' इत्यत्र 'दशमं चैतयोरेवम्' इति नञो दीर्घ इत्यादयः । अनध्यायाः प्रसिद्धाः । आदिना त्रिणाचिकेतमन्त्राध्ययनधर्मा गृह्यन्ते ॥ धर्मभेदादिति ॥ वाक्याधिकरणवार्तिकरीत्या स्वरा- दीनां पदभेदकत्वसम्भवादित्यर्थः ॥ सरो रस इत्यादीति ॥ आदिना कारा-राका, रमण- मरणादेः परिग्रहः । न्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीनां पदभेदकत्वमिति वार्तिकोक्ताः षडपि हेतवो भिन्नार्थकत्वविशेषिता एव भेदं साधयन्तीत्यभिप्रायेण सिद्धान्तमाह-योति ॥ अर्थभेदप्रत्यायकधर्मभेद एव पदभेदसाधकः, न तु केवलधर्मभेद इत्यर्थः । सर इति । सरोरसयोरर्थयोर्भेदस्य स्पष्टत्वादित्याशयः । क्रमात्-क्रमभेदात् , पदभेद इत्यनुषङ्गः ॥ ब्रह्मब्राह्मणेति ॥ अत्राप्यर्थभेदः स्पष्टः । न्यूनातिरिक्तत्वात्- न्यूनातिरिक्तवर्णकत्वात् , पदभेद इति पूर्ववत् ॥ स्थूलेति ॥ अत्र अन्तोदात्तत्वाद्युदात्तत्वरूपखरभेदात् भेद इत्यर्थः । अयमाशयः । 'स्थूलपृषतीमनड्डाहीमालभेत' इत्यत्र स्थूला च सा पृषती चेति विग्रहे पृषतीपदस्य हरिण्या रूढस्यापि अनड्डाहीपदसामानाधिकरण्येन मत्वर्थलक्षणया 'पृषन्ति बिन्दुपृषताः पुमांसो विग्रुषः स्त्रियाम् ।' इत्यभिधानानुसारेण बिन्दुमतीपरत्वमेव वक्तव्यमिति स्थूलता गव्येवान्वेति । तत्र 'समासस्य' इत्यन्तोदात्तत्वे 'अनुदात्तं पदमेकवर्जम्' इति पूर्व- निघातः । स्थूलानि पृषन्ति यस्यास्सेति विग्रहे बिन्दुष्वेव स्थौल्यमन्वेति । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' इत्याद्युदात्तत्वे शेषनिघाते 'उदात्तादनुदात्तस्य स्वरितः' इति लकारस्य स्वरितः, शेषाणां प्रचय इति । मिश्रोक्तश्रुतिवाक्यपदव्याख्यानमनुसृत्याह-पचत इति ॥ शत्रन्तस्य चतुर्थीयम् । स्वरितेत्त्वात् पचतेरात्मनेपदं कर्तृगामिनि क्रियाफले भवतीत्याशयेनाह--भोज- नेति ॥ स्वयं भोक्तुमित्यर्थः । यात इति ॥ एको निष्ठान्तः । अन्यः तिङन्तः । अश्व इति ।। १. प्रतीत्यनुगुण इति पाठान्तरम् ।
पा, ३. अधि. ९-१०.] भादृचिन्तामणिसहिता । १०३ भेदानुभवात् । यत्र तु नार्थभेदप्रतीतिः तत्र सत्यपि धर्मभेदे दृढतरप्रत्यभिज्ञाबलेन एक- त्वावधारणात् न पदान्यत्वं लोकवेदयोरिति युक्ता आद्या चिन्ता ॥९॥ तत्रावघातादिक्रियाणां लिङ्गकारकसङ्ख्यादीनां च जातावयोग्यत्वात् गौः शुक्ले-' गत्यर्थकात् श्वयते ङि सिपि च्लेरङि ‘श्वयतरः' इत्यकारादेशे अडागमे च रूपमेकं अन्यद्वाजिनि प्रसिद्धम् । उपलक्षणमिदम् अधानीत्यादेः । तत्र हन्तेश्चिणि रूपमेकं, पापवाचकमपरमिति भेदसत्त्वात् । अस्मिन् पक्षे 'इष्टिांगेच्छयोः' इत्यमरोक्तमिष्टिपदस्य नानार्थ- कत्वं चिन्त्यम् । तत्र यजतेः क्तिनि सम्प्रसारणे 'ब्रश्च-' इति षत्वे रूपमेकम् । अपरं इषि- धातोरिति पदभेदात् । अर्थभेदप्रतीत्यनुकूलत्वरूपविशेषणव्यावर्त्यमाह--यत्र त्विति ॥ कर्णेभिः- कर्णैः; निर्जरा निर्जरस इत्यादावित्यर्थः । अत्र सुषिसुषिरपदयोः रन्ध्रवाचकयोरभेद एवा- भिमतः । विशेष्यांशव्यावर्त्य तु स्वर्गेषुपशुवाग्वज्राद्यनेकार्थकं गवादिपदभवेति स्पष्टत्वानोक्तम् । उपसंहरति-न पदान्यत्वमिति ॥ अर्थभेदप्रतीत्यभावे शब्देक्यस्य सिद्धत्वात् लोके प्रयुज्य- मानानाभेव गवादिपदानां वेदे प्रयुज्यमानत्वाद्वेदमूलकमेव लोकोच्चारणमिति निर्णेतुं शक्य- त्वाल्लोके क्रियमाणशक्तिनिरूपणस्य वेदार्थविचाररूपत्वान्नासङ्गतिरिति भावः । सूत्रार्थस्तु, प्रयोगचोदनानां--विधिवाक्यानाम् । अभावात्--अप्रामाण्यापत्तेः । अथैकत्वं-लोकवेदयो- रक्यम् । अविभागात-वलक्षण्याभावात् , शब्दकत्वमिति । एवं लोकवेदयोश्शब्दार्थाभेदे सिद्ध लोके गृहीतशक्तिकानां वेदे अर्थज्ञानस्य सुलभत्वात्तत्र विचारो युज्यत इत्याशयेनाह- युक्तेति ॥ आद्या चिन्तेति ॥ गवादिपदानां व्यक्तो शक्तिः, उत जाताविति चिन्तेत्यर्थः ।। पूर्वपक्षमाह --तत्रेति ॥ आदिना पेषणसंयवनपिण्डीकरणादिपारग्रहः ॥ लिनेति ॥ लिङ्गं च सर्ववस्तुसाधारणं गुणत्रयोपचयापचयसाम्यरूपम् । तत्र सत्वरजस्तमोगुणानां तत्परिणामशब्दस्पर्शरूपरसगन्धानां चाविर्भावः पुंल्लिङ्गम् , तेषां तिरोभावः स्त्रीलिङ्गम् , तेषां साम्यं नपुंसकमिति इदमेव लिङ्गं केवलान्वयि । अत एव अयमर्थः, इयं व्यक्तिः, इदं वस्त्विति सर्वत्र व्यवहारो दृश्यते । तथा 'तटं त्रिषु' इति तटादिषु लिङ्ग- त्रयव्यवहारोऽपि । महाभाष्येऽप्येवमेव 'संस्त्यानप्रसवौ लिङ्गमास्थयो स्वकृतान्ततः' इत्यादिना निर्णीतम् । 'स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः' इत्याद्युक्तं तु लिङ्गं 'हस्तिन्यां बडबायां च स्त्रीति बुद्धस्समन्वयः । अतस्तां जातिमिच्छन्ति' इत्यभियुक्तवचनानुसारेण स्तनकेशाद्यभिव्यक्तजातिविशेषरूपं प्राणिविशेषनिष्ठम् । ततश्चोभयविधस्त्रीत्वसत्त्व एवाजादि- पदेभ्यष्टाबादयो विधीयन्त इति सिद्धान्तः । एवं च 'पशुना यजेत' इत्यत्र 'छागस्य वपायाः' इति मन्त्रवर्णात्पशुपदस्य छागत्वजातिपरतायां पुंस्त्वस्यानन्वयः । 'सारस्वती मेपी' इत्यत्र जातेः गुणत्रयतिरोभावस्यान्वयसम्भवेऽपि उभयविधलिङ्गस्यैव ङीबर्थतया तदन्वयासम्भव इत्याशयः। १. गौरशुक्ल इति पाठान्तरम् ।
१०४ भाट्टदीपिका [अ. १. .. त्यादिसामानाधिकरण्यनिर्देशाच व्यक्तिवाचित्वमेव । न चैवं जातिबोधानापत्तिः; लक्षणादिना तद्बोधोपपत्तेः । व्यक्तिशक्तिग्रहस्यैव वा कार्यतावच्छेदकं जातिविशिष्ट- शाब्दबोधत्वम् । अतो न दोषः । न च विनिगमनाविरहः। लाघवस्यैव नियामकत्वात् । तथा हि-न शक्तिग्रहस्य खातन्त्रयेण कारणत्वं; अपि तु, लाघवात् शक्यत्वादि- सम्बन्धेन घटपदवत्ताज्ञानस्यैव । अतश्चास्मन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्व- स्तनकेशादिलिङ्गस्य जाताविव व्यक्तावप्यसम्भवस्तुल्य इति लिङ्गानुपपत्तिरभ्युच्चयमात्रमिति केचित् ॥ कारकेति ॥ गोत्वादिजातेद्रव्यपरिच्छेदद्वारा आरुण्यस्येव करणत्वसम्भवेऽपि विका- यत्वादिरूपविशसनकर्मत्वासम्भव इति भावः ॥ सङ्ख्यादीनामिति ॥ पश्वेकत्वविवक्षा- फलस्य अनेकपशुकरणकत्वनिरासस्यासम्भवादित्यर्थः । अनेकपशुकरणकैकयागकरणेऽपि क्रतुवैगुण्याप्रसक्तेरिति भावः । यद्वा, 'कपिञ्जलानालभेत' 'सप्तदश प्राजापत्यान्' इत्यादौ वेदे, 'षड्गावो देयाः' इत्यादौ लोके च कपिञ्जलत्वादिजातिषु त्रित्वाद्यन्वयासम्भवादित्यर्थः । आदिना 'घटो नष्टः' इत्यादौ प्रतीयमाननाशप्रतियोगित्वादेः परिग्रहः । एवं 'घटे द्रव्यत्वं, घटपटौ संयुक्तौ' इत्यादिवाक्यानामप्रामाण्यापत्तिः; घटत्वे द्रव्यत्वाधारतायाः, घटत्व- पटत्वयोः संयोगस्य च बाधितत्वादित्यपि बोध्यम् ॥ शुक्लेत्यादीति ॥ आदिना चलती- त्यादेः सङ्ग्रहः ॥ सामानाधिकरण्येति ॥ व्यक्तिशक्तो ‘गुणवचनेभ्यो मतुपो लुगिष्टः' इति वार्तिकेन शुक्लपदस्य गुणिपरत्वेनाभिन्नार्थत्वात्सामानाधिकरण्यमुपपद्यते । जातिशक्तो तु तदनुपपत्तिरित्यर्थः । इदमुपलक्षणम् । 'यदि पशुरुपाकृतः पलायेतान्य तद्वर्णं तद्वयसमाल- भेत' इत्यादावन्यशब्दनिर्देशाद्वयक्तिवाचित्वमेव, जातेरन्यत्वासम्भवादित्यपि द्रष्टव्यम् । ननु व्यक्तौ शक्तयङ्गीकारे जातिबोधो न स्यात् , अशक्यत्वात् , अन्यथा घटपदात्पटादेरपि बोधापत्तरित्याशङ्कते-न चेति ॥ परिहरति-लक्षणादिनेति ॥ आदिना अर्थापत्ति- परिग्रहः । ननु जातो लक्षणाङ्गीकारे युगपद्वृत्तिद्वयविरोध इत्यत आह-व्यक्ति- शक्तिग्रहस्येति ॥ घटत्वप्रकारकघटविशेष्यकशाब्दत्वावच्छिन्नं प्रति घटशक्तिज्ञानस्य हेतुतया घटशक्तिज्ञानादेव घटत्वबोधोपपत्तोंक्तदोषः । घटशक्तिज्ञानस्य पटबोधं प्रत्यकारणत्वान्ना- नुपपत्तिरिति भावः ॥ विनिगमनाविरह इति ॥ जातिशक्तिग्रहस्य जातिविशिष्टव्यक्तिविष- यकशाब्दकारणत्वमादाय विनिगमनाविरह इत्यर्थः।। स्वातन्त्र्येण-पदज्ञानकारणत्वातिरेकेण ॥ शक्यत्वादीति ॥ आदिना स्वज्ञानजन्यज्ञानविषयत्वसङ्ग्रहः ॥ शक्यत्वसम्बन्धेनेति ॥ ईश्वरेच्छायाः शक्तित्वे तस्या एतत्पदज्ञानादेतर्थज्ञानं भवत्वित्याकारकत्वेन स्वविषयकविषयत्वे- नेत्यर्थः । सम्बम्धगौरवस्यादोषत्वादिति भावः । शक्तेः पदार्थान्तरत्वे तु तस्यास्समवायवत् अखण्डाया एकस्या एव सम्बन्धत्वान्न गौरवमित्याशयः । वस्तुतस्तु, अत्र वैयाकरणानां पूर्व- पक्षित्वात् तद्रीत्या शब्दार्थयोस्तादात्म्यमेव शक्तिरिति महाभाष्यपक्षस्यैव मञ्जूषादौ समर्थितत्वा- / पा. ३. अधि. ९-१०.] भादृचिन्तामणिसहिता। १०५ सम्बन्धेन घटपदप्रकारकस्य घटो घटपदवानित्याकारकस्य विशेष्यतासम्बन्धेन विशिष्टशाब्दबुद्धित्वावच्छिन्नं प्रति कारणत्वम् । भवन्मते तु, घटत्वत्वं धर्मिता- वच्छेदकीकृत्य तत् वाच्यम् । अतश्च घटत्वत्वस्य घटेतरावृत्तित्वादिरूपस्यानेकपदार्थघटि- तस्य प्रवेशात् तव कार्यकारणभावे गौरवम् ; न मम । न च शक्त्यानन्त्यादिदोषः; तस्य फलमुखत्वात् । अतश्च लाघवात् व्यक्तावेव शक्तिः, जातिविशिष्टव्यक्तौ वा; न तु जातावेवेति प्राप्त घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसम्बन्धेन घटपदवत्ताज्ञानस्य कारणत्वं, पदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटवत्ताज्ञानस्य वा घटपदं घटवदित्या- कारकस्य कारणत्वमित्यत्र विनिगमनाविरहेण अनन्तकार्यकारणभावप्रसङ्गात् । अस्म- न्मते तु, घटपदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटत्ववत्तानिश्चयस्यैव घट- पदं घटत्ववदित्याकारकस्य कारणत्वकल्पनालाघवम् । न च ममापि विपरीतमापादयितुं शक्यम् । तथा सति घटत्वस्य धर्मित्वे स्वरूपेण तस्य धर्मित्वायोगात् घटत्वत्वेन तस्य प्रवेशे गौरवस्य त्वयैवोक्तत्वात् । अतो न घटत्वत्वावच्छिन्नं घटत्वं शक्यत्व- सम्बन्धेन घटपदवदित्याकारकं ज्ञानं कारणं, अपि तु घटपदं शक्तत्वसम्बन्धेन घटत्व- त्तादात्म्येनेत्येवार्थः । विशेष्यतासम्बन्धेनेति ॥ इदं च काकाक्षिवदुभयत्रान्वेति । तथा च विशेष्यतासम्बन्धेन घटत्वविशिष्ट विषयकशाब्दत्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन घटत्व- धर्मितावच्छेदककशक्यत्वसंसर्गकघटपदप्रकारकज्ञानस्य कारणत्वमित्यर्थः ॥ तत् वाच्यं- घटपदप्रकारकज्ञानस्य कारणत्वं वाच्यम् ॥ घटेतरावृत्तित्वादीति ॥ आदिना सकलघट- वृत्तित्वरूपविशेष्यांशपरिग्रहः ॥ शक्त्यानन्त्यादीति ॥ व्यक्तीनां बहुत्वाच्छक्तिबहुत्वं स्यादि- त्यर्थः । व्यक्त्यानन्त्येऽपि शक्तयेकत्वस्वीकार तत्सम्बन्ध्यानन्त्यमवर्जनीयमित्यभिप्रायेणादि- पदम् । तस्य--शक्त्यानन्त्यस्य ॥ फलमुखत्वादिति । तथा च फलमुखगौरवं न दोषाय । अन्यथा निषादस्थपत्यधिकरणविरोधापत्तेरिति भावः । लाघवात-कार्यकारणभावलाघवात् । 'य एवमाकृतिकः स गौः' इति भाष्यस्वारस्यात् आकृतिविशिष्टव्यक्तावेव शक्तिर्युक्तेल्याशयेनाह- जातिविशिष्टेति ॥ एतेन अननुगमदोपोऽपि निरस्तो बोध्यः। सिद्धान्तमाह-घटत्वमित्यादिना ॥ शक्यत्वसम्बन्धेन घटपदप्रकारकघटविशष्यकज्ञानस्य कारणत्वं, शक्तत्वसम्बन्धेन घट- प्रकारकपदविशेष्यकनिश्चयस्य वा कारणत्वमिति विनिगमनाविरहात् कार्यकारणभावद्वयं व्यक्तिशक्तौ कल्पनीयम् । जातिशक्तौ तु पदविशेष्यकार्थप्रकारकनिश्चयस्यैव कारणत्वं, न त्वर्थविशेष्यकपदप्रकारकज्ञानस्य; घटत्वत्वादेर्धर्मितावच्छेदकत्वे गौरवस्योक्तत्वादित्यर्थः । न च निर्धर्मितावच्छेदककज्ञानस्य कारणत्वान्नोक्तदोष इति वाच्यम् ; तस्य विपरीतज्ञानाप्रतिबध्यत्वेन घटोन घटपदवान् इति ज्ञानकालेऽपि शाब्दवोधापत्तेरिति भावः। ननु घटपदं घटत्ववदिति ज्ञाने- 14 - १०६ भाट्टदीपिका [अ. १. वदित्याकारकमेव; जातेस्स्वरूपेणैव प्रकारत्वोपपत्तौ घटत्वत्वस्याप्रवेशात्। न च समवा- येनान्यप्रकारत्व एव जातेः स्वरूपेण प्रकारता, न सम्बन्धान्तरेणेत्यत्र प्रमाणमस्ति । परैरपि तथाऽनभ्युपगमाच्च । अतश्च कार्यकारणभावेऽपि लाघवात् घटत्व एव शक्तिः । शक्त्यानन्त्यादि च नास्त्यस्मन्मते । अतः प्रथमोपस्थितत्वात् जातादेव शक्तिः । एवं अरुणादिशब्दानामपि गुण एव, गुणत्वे वा; न तद्विशिष्टद्रव्ये । कथं तर्हि व्यक्तिबोधः; अभेदात् । उक्तविधकारणस्य जातिगुणविशिष्टव्यक्तिशाब्दत्व एव कार्यतावच्छेदकत्व- अपि घटत्वत्वेनैव घटत्वस्य प्रकारतया प्रकारतावच्छेदकतया घटत्वत्वभानात् गौरवसाम्यमित्यत आह-जातेरिति ॥ जात्यतिरिक्तपदार्थानामेव किञ्चिद्धर्मपुरस्कारेण भाननियमात् न जातेः स्वरू- पतो भानानुपपत्तिरिति भावः । ननु तथापि समवायेनैव जातेः स्वरूपतो भान- नियमात् शक्तत्वप्रकारतायां किञ्चिद्धर्मपुरस्कारेण भानमावश्यकमित्यत आह-न चेति ॥ सर्वत्रैव जातेः स्वरूपतो भानसम्भवेन तादृशनियमे प्रमाणाभावान्न घटत्वत्वस्य प्रकारता- वच्छेदकतया प्रवेश इति न गौरवमिति भावः । परैः-नेयायिकादिभिः ॥ लाघवादिति ॥ ततश्च पूर्वपक्षोक्तफलमुखत्वं गौरवस्य निरस्तम् । पूर्वपक्ष एव कार्यकारणभावगौरवसत्त्वादिति सूचितम् ॥ शक्त्यानन्त्यादीति ॥ आदिना अननुगमपरिग्रहः । उपस्थितिकृतलाघवादपि जातादेव शक्तिरित्याह–प्रथमेति ॥ अनेन जातिविशिष्टव्यक्तौ शक्तिरिति पक्षोऽप्ययुक्त इति सूचितम् । नागृहीतविशेषणान्यायेन जातेः प्रथमोपस्थितेरावश्यकत्वेन तत्रैव शक्तयुक्तत्वात् । तदुक्तं 'विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशषणे ।' इति ॥ गुण एवेति ॥ जगतीतलवृत्त्यरुणादिव्यक्तीनामेकत्वादिति भावः । ननु अरुणा अरुणतरा इत्यादौ अरुणतरादिव्यक्तेभिन्नत्वेनैव प्रतीतेः शक्तिनानात्वमवर्जनीयमित्यत आह- गुणत्वे वेति ॥ अरुणत्वादावित्यर्थः । तद्विशिष्टद्रव्ये---अरुणगुणविशिष्टद्रव्ये, गौरवस्य उक्तत्वादिति भावः । शक्त्यभावे कथं घटादिव्यक्तिबोध इत्याक्षिपति-कथमिति ॥ समा- धत्ते अभेदादिति ॥ तादात्म्यादित्यर्थः । तथा च लिङ्गसङ्ख्यादीनां प्रकृत्यर्थव्यक्तावन्वयस्य पूर्वपक्ष इव सिद्धान्तेऽपि सम्भवान्न कश्चिद्दोष इति भावः । ननु अभेदाङ्गीकारे उक्तगौरव- मस्त्येवेत्यतः पक्षान्तरमाह-उक्तविधेति ॥ पदविशेष्यकजात्यादिप्रकारकशक्तत्वसंसर्गक- ज्ञानरूपकारणस्येत्यर्थः ॥ जातिगुणविशिष्टेति ॥ जातिविशिष्टव्यक्तिशाब्दत्वे गुणविशिष्ट- व्यक्तिशाब्दत्वे चेत्यर्थः । एवमग्रेऽपि । ततश्च जात्यादिविशिष्टव्यक्तिविषयकशाब्दं प्रति निरुक्त- ज्ञानस्य कारणत्वस्वीकारात् जायमानशाब्दबोधः जात्यादिविशिष्टव्यक्तिविषयक एवोत्पद्यत इति न तत्र शक्त्यपेक्षेति भावः। तद्बोधोपपत्तेः--व्यक्तिबोधोपपत्तेः । ननु एवंरीत्या लिङ्गसङ्ख्या- कारकाणामपि बोधसम्भवात्तेषां प्रत्ययार्थत्वं न स्यात् । तत्रापि लिङ्गसङ्ख्याकारकविशिष्ट- व्यक्तिबोधं प्रति जातिज्ञानस्य कारणत्वसम्भवात् । न चेष्टापत्तिः सम्भवति । ग्रहैकत्वाधि- पा. ३. अधि. ९-१०.] भादृचिन्तामणिसहिता। १०७ स्वीकाराद्वा । वस्तुतस्तु-जातिगुणशाब्दत्वमेव लाघवेन कार्यतावच्छेदकम् । व्यक्तिस्तु तृतीयादिस्थले 'पशुना यजेत' 'अरुणया पिङ्गाक्ष्या क्रीणाति" इत्यादौ नैव पदाद्भा- सते; जातिगुणयोरेव व्यक्तिपरिच्छेदद्वारा कारणत्वोपपत्तेः । लिङ्गसङ्ख्ययोरपि पाशा- धिकरणन्यायेन सामानाधिकरण्येन पाठिको जातिगुणसम्बन्धः । अतः सम्बन्धविध- यैव तत्र व्यक्तिबोधः । द्वितीयादिस्थले तु जातिगुणयोः कर्मत्वाद्यन्वयायोग्यत्वात् व्यक्तेलक्षणया बोधः । तस्या एव कर्मत्वाद्यन्वयः लिङ्गसङ्खयान्वयश्च साक्षा- त्सम्बन्धेनैव । सामानाधिकरण्यं च व्यक्तिद्वारकमिति सर्वं सुस्थम् । प्रयोजनं पूर्वपक्षे रथन्तरादिशब्दानामृग्वाचित्वात् 'रथन्तरमुत्तरयोर्गायति' इत्यादौ उत्तरापदोपलक्ष्योत्तराकार्ययोः ऋग्विधानम् । सिद्धान्ते तु गीत्यतिदेश उत्तरा- स्विति वक्ष्यते ॥१०॥ इति भाट्टदीपिकायां प्रथमस्याध्या- यस्य तृतीयः पादः ॥ करणपश्वेकत्वाधिकरणपाशाधिकरणादिविरोधापत्तेः । तत्र लिङ्गसङ्ख्यादीनां प्रत्ययार्थत्वं सिद्धवत्कृत्य विचारः कृतः । तस्मान्नायं पक्षो युक्त इत्यत आह-वस्तुतस्त्विति ॥ जाति- गुणशाब्दत्वमेवेति ॥ एवकारेण व्यक्तिशाब्दत्वव्यवच्छेदः । व्यक्तिस्तु नैव पदात् भासत इत्यर्थः । 'पशुना' 'अरुणया' इति तृतीयास्थले तृतीयोपात्तं करणत्वं जातिगुणनिष्ठमेव । तच्च द्रव्यपरिच्छेदद्वारकमिति न द्रव्यस्य शब्दाद्भानमावमश्यकमिति भावः। नन्वेवमपि लिङ्गसङ्ख्ययोः जात्यादावन्वयासम्भवात् व्यक्तावेवान्वयो वाच्यः । ततश्च व्यक्तेः शब्दात् भानमावश्यकमित्यत आह-लिङ्गसङ्ख्ययोरपीति ॥ पाशेति ॥ 'अदितिः पाशान्' इत्यत्र गुणभूतबहुत्वस्य एकस्यां प्रकृतपाशव्यक्तौ असम्भवतोऽप्यवयवेषु सम्भवतः सामानाधिकरण्येन व्यक्त्यन्वयो- पपत्तेः साक्षात्तदन्वयानुरोधेन मुख्यभूतपाशप्रातिपदिकस्य विकृतावुत्कर्षस्य नवमेऽनङ्गीकारा- तन्न्यायेन लिङ्गसङ्ख्ययोरपि सामानाधिकरण्यन जातिगुणयोरेवान्वय इति व्यक्तरशाब्दत्वेऽपि न क्षतिरिति भावः । लिङ्गसङ्ख्ययोः प्राथमिकबोधे भावनान्वयेऽपि द्वितीयबोधादी जाति- गुणसम्बन्ध इत्यभिप्रायेणाह-पाठिक इति । पाश्चात्य इत्यर्थः । सम्बन्धविधयैवेति ॥ सामानाधिकरण्यरूपसम्बन्धघटकतयेत्यर्थः ; न तु विशेष्यतया प्रकारतया वेत्यवधारणार्थः ॥ द्वितीयेति ॥ 'त्रीहीनवहन्ति' 'बभ्रुमालभेत' इत्यादावित्यर्थः । जातिगुणयोः-व्रीहित्वादि- जातिबभ्रुत्वादिगुणयोः । कर्मत्वाद्यन्वयासम्भवात् -- अवहननालम्भनकर्मत्वाद्यन्वयासम्भ- वात् । तस्या एव--व्यक्तेरेव । साक्षात्सम्बन्धेन--आश्रयत्वादिसम्बन्धेन ॥सामानाधिकरण्य- १. तै. सं. ६. १. ६. २. उत्तरापदलक्ष्य इति पाठान्तरम् । THE KUPAUSWA SASTRI १०८ भाट्टदीपिका [अ. १. , । मिति ॥ लिङ्गसङ्ख्ययोः कारकसामानाधिकरण्यमित्यर्थः ॥ व्यक्तिद्वारकं--व्यक्तिघटितम् । वक्ष्यत इति ॥द्वैतीयीकसाप्तमिकनावमिकाधिकरणानि तु एतदधिकरणप्रयोजनककथनफलक- त्वान्न पुनरुक्तानीत्यभिप्रायः। अत्र आकृतिशब्देन जातिरेवोच्यत इति प्राञ्चः । अन्ये तु नाकृतिरेव जातिः, 'आकृतिग्रहणा जातिः' इति वयाकरणप्रयोगात् , 'जात्याकृतिव्यक्तयः पदार्थः' इति गौतमसूत्राच्च आकृतिजात्योर्भेदप्रतीतेः । किन्तु आकृतिः अवयवसंस्थानविशेष एव, 'जाति- य॑क्तिश्च' इत्यादिवार्तिकं तु जात्याकृत्योरभेदाभिप्रायेण कथञ्चिन्नेयमित्याहुः । अत्रेदं बोध्यम् । पूर्वपक्षावसरे शाब्दबोधं प्रति व्यक्तिविशेष्यकपदप्रकारकज्ञानस्य कारणत्वमुक्तम् । तथा सति व्यक्तिज्ञानस्य शाब्दबोधकारणत्वकल्पनमधिकम् । न च पदजन्यपदार्थोपस्थितेः कारणत्वं सिद्धं नाधिक्यमिति वाच्यम् ; न हीदृशं ज्ञानं पदार्थोपस्थितिरूपम् , पदार्थोपस्थितेः घटत्वप्रका- रकघटविशेष्यकज्ञानरूपत्वात् , अस्य च पदप्रकारकत्वात् । न च घटत्वमपि घटे प्रकारतया भासत इति घटत्वप्रकारकत्वसम्भव इति वाच्यम् ; तथा सति तस्य पदज्ञानत्वमेव न स्यात् , पदार्थोपस्थितिरूपत्वात् । न च तंदव ज्ञानं पदज्ञानमपि भवतीति वाच्यम् ; शास्त्रप्रक्रियाविरोधात् । पदज्ञानं हि श्रावणप्रत्यक्षरूपं, घटशब्दश्रवणे हि 'एकसम्बन्धिज्ञान- मपरसम्बन्धिस्मारकम्' इति रीत्या घटादिस्मरणं जनयति । ततश्च क्रियाकर्मभावेन पदार्थानां परस्परान्वय इति हि शास्त्रमर्यादा । सा च पदज्ञानस्य पदजन्यपदार्थोपस्थितेश्चैकत्वे विरुध्ये- तैव । किञ्च घटपदशक्तिज्ञानस्य सम्बन्धज्ञानविधया पदार्थे उपयोगः । 'अत्रैव शक्तिज्ञानस्यो- पयोगः' इति तान्त्रिकोक्तेः । ततश्च शक्तिज्ञानपदज्ञानपदार्थोपस्थितीनामेकत्वमङ्गीकृत्य शाब्द- बोधकारणत्वोक्तिरसङ्गतैव । एवं सिद्धान्तेऽपि शक्तिज्ञानपदजन्यपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वस्य समानविशेष्यकत्वस्य च नियतत्वात् घटविशेष्यकपदार्थोपस्थितिशाब्द- बोधयोर्निर्वाहाय घटविशेष्यकमेव वृत्तिज्ञानं वक्तव्यमिति पदविशेष्यकवृत्तिज्ञानमशुद्धमेव । न च तादृशनियमे मानाभाव इति वाच्यम् ;अन्यविशेष्यकशक्तिज्ञानादन्यविशेष्यकशाब्दबोधापत्तेः। एवं शक्तिज्ञानस्य पदविशेष्यकत्वे पदविशेष्यकशाब्दबोधापत्तिः । न चेष्टापत्तिः, अनुभव- विरोधात् । जातिगुणशाब्दत्वमेव शक्तिज्ञानकार्यतावच्छेदकमित्युक्तमपि चिन्त्यम् ; प्रत्ययोपात्त- लिङ्गसङ्खययोरनन्वयापत्तेः । पाठिकजात्यन्वयाङ्गीकारे जातिवाचकशब्दस्य स्त्रीलिङ्गतया सर्वत्र स्त्रीलिङ्गशब्दस्यैव प्रयोगप्रसङ्गात् । न च जातेः स्त्रीत्वेऽपि घटत्वाद्यभिप्रायेण लिङ्गान्तरोपपत्ति- रिति सम्भवति, तर्हि नपुंसकलिङ्गस्यैव प्रयोगापत्तेः । तस्माद्वयक्तेश्शाब्दधीविषयत्वं विना कथं लिङ्गवचनाद्युपपत्तिः न च सामानाधिकरण्यघटकतया व्यक्ते नमस्तीति वाच्यम् ; संसर्गप्रविष्ट- व्यक्त्या पदार्थान्तरान्वयासम्भवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायात् । अन्यथा स्वाश्रयसंयुक्तसमवायादिना पटत्वादेरपि घटे सत्त्वेन घटः पट इत्यस्यापत्तेः । एवं द्वितीयास्थले लक्षणापि न युक्ता, वैरूप्यापत्तेः । तस्मान्नोक्तरीत्या अधिकरणविचारो युक्त इति भाष्य- पा. ४. अधि. १.] भादृचिन्तामणिसहिता । १०९ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ (१)-उक्तं समाम्नायैदमर्थ्य तस्मात्सर्वं तदर्थं स्यात् ॥ १॥ इह गुणविधित्वेन नामधेयत्वेन वा सम्मतानां सर्वेषामेव फलपदातिरिक्त- वार्तिकरीत्या पार्थसारथिकृतविचार एवादरणीय इति । सूत्रार्थस्तु, अवघातादि प्रयोगचोदना- भावात् , व्यक्तेरेवाभिधेयता । एवमपि ‘गोस्तिष्ठति, गां पश्य' इत्यादी जातेरभिधेयत्वं किं न स्यादित्यत उक्तं-अथैकत्वमिति ॥ अर्थकत्वं हि सर्वत्र व्यक्त्यभिधाने सिध्यति । अन्यथा क्वचिद्वयक्तिः क्वचिजातिरिति नानार्थत्वं स्यात् । कथं तर्हि जातेः प्रतीतिरित्यत उक्तं-अविभागादिति ॥ जातेर्व्यक्तितादात्म्यात् प्रतीतिरिति शिवम् ।। इति चोळदेशाग्रपूज्यविद्वत्समाजविराजमानशहजीन्द्रपुरनिवासिकामकायन- विश्वामित्रगोत्रजलधिकौस्तुभश्रीमन्नृसिह्मसूरिवरसून्वाश्वलायन- मूत्रहोशनिकर्नाटजातीयवाञ्छेश्वरयज्वनः कृतिषु भाट्टदीपिकाव्याख्याने भादृचिन्तामणी प्रथमस्याध्यायस्य तृतीयः पादः ॥ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ उक्तं समाम्नायैदमर्थ्य तस्मात्सर्वं तदर्थ स्यात् ॥ अत्र नामधेयादिरूपधर्मप्रमाण- निरूपणाल्लक्षणसङ्गतिः । पदप्रामाण्यनिरूपणस्य पादार्थत्वात्पादसङ्गतिः, पादान्तरत्वञ्च । अनन्तरसङ्गतिस्तु पूर्वत्र अवघातादिक्रियान्वयस्य यथासम्भवं जातिव्यक्त्योः सम्भवे उपपादिते उद्भिदादिशब्दार्थस्य क्रियान्वयो न उभयथापि सम्भवतीत्याक्षपादाक्षेपिकी । नामधेयविचारस्य स्मार्तनामधेयसाधारणत्वात् स्मृतिविचारानन्तर्यमित्यभिसन्धायाह--इहेति ॥ अत्र वार्तिककारेण प्रथमसूत्रं गुणविधिनामधेयविचारोपोद्धाततया विचारितम् । प्रामाण्यविचारमकृत्वा गुणविधि- नामधेयविचारे तस्य स्वातन्त्र्यापत्त्याऽध्यायासङ्गतिस्स्यात् । प्रामाण्यविचारानन्तरं तद्विचारे तु विचारितप्रामाण्यप्रतिष्ठार्थत्वात् गुणविधिनामधेयविचारोऽध्यायस्सङ्गत इत्यभिप्रायेण रचितमधि- करणं दर्शयति--गुणविधित्वेनेति ॥ सम्मतानामित्यनेन तेषामेव प्रामाण्यनिरूपणं सङ्ग- त्यर्थ क्रियत इति सूचितम् । सर्वेषामित्यनेन राजा राजसूयेन यजेत, सक्तून् जुहोति, अग्निहोत्रं जुहोति, सोमेन यजेत, उद्भिदा यजेत, यदग्नये च प्रजापतये च सायं जुहोति, शेषात् स्विष्टकृते समवद्यति, अतिराने ब्राह्मणस्य गृह्णीयात् , समे दर्शपूर्णमासाभ्यां यजेत, पौर्णमास्यां पौर्णमास्या यजेत इत्यादौ श्रुतानि षडपि कारकाणि इह विषय इति भाव आविष्कृतः । भाव्यवाचकपदं निरस्यति---फलपदेति ॥ इदं च निमित्तसंस्कार्ययोः उप- ११० भाट्टदीपिका [अ. १. सुबन्तानां उद्भित्सोमादिपदानां प्रामाण्यमप्रामाण्यं वेति संशये-प्रकारासम्भवात् अप्रामा- ण्यम् । तथाहि-'उद्भिदा यजेत पशुकामः' 'सोमेन यजेत' इत्यादौ उद्भिदादिपदेभ्यः स्तुतिबुद्धेरनुत्पत्तेन तावदर्थवादत्वम् । मन्त्रत्वप्रसिद्ध्यभावाच्च न तत् । एतेषां प्रयोग- काले उच्चारणे च एतत्प्रतिपाद्यार्थस्य यागाङ्गताबोधकप्रमाणाभावेन एतेषां प्रयोग- समवेतार्थस्मारकत्वानुपपत्तेश्च । न च विध्यन्तर्भावः । कामशब्दाद्यभावेन साध्यायन- भिधायकत्वात् । एकपदगतयजिनैव करणप्रतिपादने सत्येतेषां तत्प्रतिपादकत्वायो- गात् । सिद्धरूपाणां सोमादीनां व्यापारमन्तरेण भावनेतिकर्तव्यतात्वानुपपत्तेश्च । नामधेयत्वे तु अभिन्नत्वादेव करणानुग्राहकत्वाभावादितिकर्तव्यतात्वानुपपत्तेः । न च कथमपि भावनान्वयासम्भवेऽपि याग एव करणत्वेनान्वयो भवत्विति वाच्यम् ; लक्षणम् । तयोरपि भावनेतिकर्तव्यतात्वासम्भवेनानुदाहरणत्वादिति केचित् । करणं व्या- वर्तयति--सुबन्तानामिति ॥ उद्भिदादिपदानां. भावनाकरणवाचिनामपि गुणविधिप्रत्युदाहर- णत्वेन विचारस्सङ्गत इत्याह--उद्भिदिति ॥ अध्ययनविधिना प्रामाण्यसिद्धावपि द्वारासम्भ- वादप्रामाण्यमिति पूर्वपक्षमाह-प्रकारासम्भवादिति ॥ 'दीर्घसोमे सन्तृये धृत्यै' इत्यादौ एकस्यैव धृतिपदस्य विध्येकवाक्यत्वेनार्थवादत्वदर्शनेऽप्यत्र विधिवाक्याबहिः पाठाभावादर्थ- वादत्वमयुक्तमित्याशयेन निरस्यति--उद्भिदादीति ॥ आदिना राजसूय-वाजपेयपदपरिग्रहः । यद्यपि उद्भेदनकर्तृत्वादिगुणोपस्थित्या स्तावकत्वं कथञ्चित्सम्भवति ; तथापि न सर्वोदाहर- णेषु तत्सम्भव इति भावः । यत्तु कश्चित् कथञ्चित् स्तुतिबुद्ध्युत्पत्तावपि 'वायु।' इत्यादि- वत् प्रथमापत्तेर्नार्थवादत्वमित्युक्तम् , तत् 'विश्वसृजामयनं सहस्रसंवत्सरम्' इत्यादावनिर्वा- हकत्वादुपेक्ष्यम् । अर्थवादत्वं निराकृत्य मन्त्रत्वं निराकरोति—मन्त्रत्वेति ॥ न तत्-न मन्त्रत्वम् । ऊहप्रवरनामधेयानाममन्त्रत्वेऽपि मन्त्रकार्यकरत्वमात्रेण प्रामाण्यदर्शनादाह -एतेषा- मिति ॥ प्रमाणाभावेनेति ॥ ततश्च एतदर्थस्याङ्गत्वे प्रमाणाभावान्नैतेषामुच्चारणं युक्तमित्यर्थः। विधित्वेन प्रामाण्यमाशङ्कय निराचष्टे-न चेति ॥ फलपरतया विध्यन्त वो वा, करणपरतया वा, इतिकर्तव्यतापरतया वा ? नाद्य इत्याह-कामशब्दायभावेनेति ॥ आदिना सनादि- सङ्ग्रहः । ततश्च फलत्वाप्रतीतेरित्यर्थः । द्वितीयं निराकरोति-एकेति ॥ समानपदो- पात्तधात्वर्थस्यैव करणत्वस्य वक्ष्यमाणतया भिन्नपदोपात्तोद्भिदादेः करणत्वासम्भवादित्यर्थः । नामत्वाङ्गीकारेऽपि यजिनैव करणप्रतिपादकत्वोपपत्तेर्नोद्भिदादिपदानां तत्प्रतिपादकत्वसम्भव इति भावः । तृतीयं निरस्यति ---सिद्धरूपाणामिति ॥ 'नावान्तरक्रियायोगादृते वाक्योप- कल्पितात् । गुणद्रव्ये कथंभावैः गृह्णन्ति प्रकृताः क्रियाः ॥' इति वार्तिकानुसारेण क्रियायोगं विना सिद्धस्य इतिकर्तव्यतात्वासम्भवादिति भावः । नामत्वपक्षे तदर्थस्य धात्वर्थाभिन्नतया करणत्वेन करणानुप्राहकत्वरूपेतिकर्तव्यतात्वं सुतरां न सम्भवतीत्याह-नामधेयत्व इति ॥
पा. ४. अधि. २.] भादृचिन्तामणिसहिता। १११ ८ कारकाणां परस्परसम्बन्धाभावात् । अतः कथमपि भावनान्वयासम्भवात् अनाख्या- तत्वेन विधिभावनयोरनभिधानात् अन्यस्य च प्रकारस्य वक्तुमशक्यत्वादप्रामाण्य- मिति प्राप्ते- अध्ययनविध्यध्यापितस्य अप्रामाण्यासम्भवात् प्रकारान्तरासम्भवेअपि विध्य- न्तर्भावस्य स्पष्टत्वेन तत्रैव गुणविधित्वेन नामधेयत्वेन वा वक्ष्यमाणरीत्या सर्वानुपपत्ति- परिहारेण प्रामाण्यमिति सिद्धम् ॥ १॥ (२)-अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् ॥२॥ अतः परं क गुणविधित्वं क्व नामधेयत्वमिति कोष्ठशाधनिकार्थमारम्भः । तदिह गुणे कर्मणि च तुल्यवद्वत्तिकानामुद्भिदादिपदानां विधेयगुणसमर्पकत्वं कर्मनामधेयत्वं कारकाणामिति ॥ धात्वर्थस्य करणत्वेन कारकतया उद्भिदादीनामपि तृतीयान्तोपात्ततया कारकत्वेन भावनारूपक्रियान्वयस्यैव व्युत्पन्नतया धात्वर्थान्वयासम्भवादित्यर्थः ।। अनाख्या- तत्वेनेति ॥ अतिङन्तत्वेनत्यर्थः । ततश्च लिङन्तत्वे विधिप्रतिपादकता, लिभिन्नाख्यातत्वे भावनाप्रतिपादकता ; उद्भिदादिपदानां चातथात्वान्नाभयप्रतिपादकतया प्रामाण्यमित्यर्थः । ननु नामधेयतया विधेयवात्वर्थपरिच्छेदकतया प्रामाण्यं स्यादित्यत आह–अन्यस्य चति ॥ विधेयधात्वर्थपरिच्छेदस्यानाकाङ्कितत्वेन धर्मप्रमित्युपयोगस्य वक्तुं अशक्यत्वात् सोमादिपदानां तदसम्भवाच्चेत्यर्थः । अध्ययनविध्यध्यापितस्य - स्वाध्यायविधिप्राप्तस्य । प्रकारान्तरा- सम्भवेऽपि---विध्यर्थवादमन्त्रादिवत् द्वारविशेषासम्भवेऽपि ॥ विध्यन्तर्भावस्य स्पष्टत्वेनेति ॥ विधिवाक्ये श्रूयमाणत्वेनेत्यर्थः । तत्रैव--विधेययागादावेव । गुणविधित्वेन सोमादिपदानां, नामधेयत्वेन उद्भिदग्निहोत्रादिपदानां, वक्ष्यमाणरीत्या----तत्तदधिकरणेषु वक्ष्यमाणरीत्या, प्रामाण्यं--धर्मप्रभित्युपयोगः । सूत्रार्थस्तु, 'तद्भतानां क्रियार्थेन समाम्नायः' 'आम्नायस्य क्रियार्थत्वात्' इत्यादिसूत्रैः समानायस्य--वेदस्य; ऐदमर्थ्यम्----अंशत्रयविशिष्टभावना- प्रतिपादनार्थत्वम् , पूर्वमेव उक्तम् । भावना हि बहुविधकारकव्यापारघटितमूर्तित्वात्तत्तदन्वया- नुगुणाकाङ्क्षाशालिनी । तस्मात् , मुख्यभूतायां भावनायां साक्षाद्वा परम्परया वान्वयिनः कारकभूतगुणाः । एतत्पदबोधकपदजातं नामधेयपदमपि भावनायां साक्षात्करणस्य सङ्कल्पादि- व्यवहारोपयोगियोगरूढशब्दरूपं सर्वं अपि तदर्थ- भावनाथ, स्यात् इति ॥ अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् ॥ उक्तरीत्योद्भित्सोमादि- पदानां धर्मप्रामाण्ये सिद्ध अधुना द्वारविशेषचिन्ता क्रियत इत्याह-अतः परमिति ।। प्रामाण्य- सिद्धयनन्तरमित्यर्थः । अनेनोपजीव्योपजीवकभावस्सङ्गतिरिति सूचितम् । कोष्ठशोध- निका--विषयविवेचनम् ॥ तुल्यवद्वत्तिकानामिति ॥ यागे गुणे च योगरुढेस्तुल्यत्वा- - ११२ भाट्टदीपिका [अ. १. । वेति चिन्तायां-'भिदिर विदारणे' इति स्मृत्या विदारणसमर्थखनित्रादिवचनत्वप्रसिद्धेः नामधेयत्वे वैयर्थ्यप्रसङ्गाच्च गुणविधित्वमेव युक्तम् । तत्र गुणविशिष्टं कर्मैव फलोद्देशेन विधीयत इत्येकः पक्षः । अथ वा प्रकृतसोमयागानुवादेन गुणमात्रविधानमित्यपरः । न च विनिगमनाविरहः । इतिकर्तव्यतासन्निधिविशेषस्यैव कर्मविधिनियामकत्वात् । न चैवं फलपदानर्थक्यम् । 'सर्वेभ्यो ज्योतिष्टोमः' इति वचनेन तस्य सर्वफलार्थत्वा- वगतेः यजिपदस्य पशुफलोपधायकयागलक्षणायां तात्पर्यग्राहकत्वात् । अत एव न विशिष्टोद्देशे वाक्यभेदः । न चोत्पत्तिशिष्टसोमप्राबल्यम् । पशुकामप्रयोगपुरस्कारेण विहितस्य च खनित्रादेः सामान्यविहितसोमादिबाधकत्वात् । वस्तुतस्तु--प्रकृत- दिति भावः । तुल्यवदित्यनेन पूर्वपक्षे शुद्धयौगिकत्वस्वीकारोऽत्यन्ताप्रसिद्धयोगरुढिकल्पना- पेक्षया श्रेयानिति ध्वनितम् । वस्तुतः सिद्धान्तेऽपि यौगिक एवोद्भिच्छब्द इत्यग्रे व्यक्तम् ।। स्मृत्येति ॥ उदुपसृष्टाद्भिदादेः कर्तरि किपेत्यर्थः ॥ खनित्रादीति ॥ आदिपदेन 'उद्भिदः तरुगुल्माद्या उद्भिदुद्भिजमुद्भिदम्' इति कोशोक्तगुणपरिग्रहः । यागे फलोद्भेदनकर्तृ- त्वाङ्गीकारेऽपि भावनायाः तद्विपयाकाङ्क्षाभावेन तदन्वयायोगात् 'भक्षितेऽपि लशुने न शान्तो व्याधिः' इत्याह ---नामधेयत्व इति ॥ वैयर्थ्यति ॥ द्रव्यदेवतादिप्रकाशकत्वा- भावेन प्रवृत्तिविशेषकरत्वाभावात् व्यर्थत्वापत्तेरित्यर्थः । गुणविधिप्रकारानाह-तत्रेत्यादिना ॥ गुणविशिष्टमिति ॥ न च मत्वर्थलक्षणा दोषः, तस्य सिद्धान्ते निरसिष्यमाणत्वात् । ननु पाठिकबोधे मत्वर्थलक्षणा सिद्धान्तेऽप्यस्त्येवेत्यस्वरसादाह--अथ वेति ॥ प्रकृतेति ॥ प्रकरणेन सोमयागस्य उपस्थितत्वादिति भावः । अत्र सोमवाक्ये यागविधिः, उद्भि- द्वाक्ये गुणविधिः; उत उद्भिद्वाक्ये यागविधिः, सोमवाक्ये गुणविधिरिति विनिगमना- विरह इत्याशङ्कयाहन चेति ॥ इतिकर्तव्यतेति ॥ एकस्य कर्मणो बहुशाखासु श्रवणे सति कुत्र कर्मविधिरित्याकाङ्क्षायां यत्राङ्गभूयस्त्वं दृश्यते तत्रैव कर्मविधिरिति 'भूयस्त्वेनोभयश्रुति' इति तृतीये वक्ष्यते । ततश्च प्रकृतेऽपि सोमयागसन्निधौ दीक्ष- णीयादीनां बहूनामङ्गानां आम्नानात् सोमवाक्यमेव यागविधायकमित्यर्थः ॥ फल- पदेति ॥ यागोदेशेन गुणविधाने यागस्यैव भाव्यतया तेनैव भाव्याकाङ्क्षाशान्तेः फल- पदानर्थक्यमिति भावः । परिहरति-सर्वेति ॥ फलपदस्य यजिधातोः पशुफलोपधायक- यागलक्षणातात्पर्यनिर्णायकत्वेन सार्थक्यादित्यर्थः । पशुसाधनयागोद्देशेन उद्भिद्गुणविधाने विशिष्टोद्देशेन वाक्यभेद इत्याशङ्का निराकरोति—अत एवेति ॥ एकपदोपादानादित्यर्थः । ननु तथापि यागस्योत्पत्तिशिष्टसोमावरुद्धत्वात् न तत्र गुणविधिरित्याशङ्कयाह-न वेति ॥ सोमस्य स्वर्गादिफलकज्योतिष्टोमादौ सावकाशत्वात् अस्य निरवकाशत्वेन प्राबल्यमित्या- शयेनाह-पशुकामेति ॥ ननु धातोर्लक्षणैवास्मिन्पक्षे दोष इत्यस्वरसादाह-वस्तुतस्त्विति ॥
पा. ४. अधि. २.] भादृचिन्तामणिसहिता । ११३ सोमयागाश्रितः खनित्रादिगुण एव फलोद्देशेन विधीयत इति तृतीयः पक्षः । काम्यत्वादेव च नित्यसोमबाध इति प्राप्ते-- नायं गुणविधिः, गौरवात् । तथा हि-सर्वत्रैव तावत् शुद्धधात्वर्थकरणक- भावनाविधानात् आयो विधिप्रकारः । यथा--'अग्निहोत्रं जुहोति" इति । अन्योद्देशेन तद्विधिरपरः । यथा-'अग्निहोत्रं जुहुयात् स्वर्गकामः' इति । एतस्य चोद्देश्यवाचक- पदान्तरसापेक्षत्वाद्दौर्बल्यम् । धात्वर्थोद्देशेन अन्यकरणकभावनाविधिस्तृतीयः । यथा- 'दना जुहोति' इति । अत्र विधेयताया धात्वर्थवृत्तित्वाभावात् , पदान्तरार्थवृत्तित्वाच ततोऽपि दौर्बल्यम् । धातोस्साधुत्वार्थकत्वमङ्गीकृत्य अन्योद्देशेन अन्यकरणकभावना- विधिश्चतुर्थः । यथा-'दन्नेन्द्रियकामस्य जुहुयात्' इति । अत्र धात्वर्थस्योद्देश्यत्वेना- प्यसम्बन्धात् ततोऽपि दौर्बल्यम् । गुणविशिष्टधात्वर्थकरणकभावनाविधानं पञ्चमः । यथा-'सोमेन यजेत' इति । अत्र विशेषणविधिकल्पनादेराधिक्यात् ततोजप दौर्बल्यम् । धातूपात्तसोमयागमाश्रित्य पशूद्देशेन खनित्रादिगुणविधिरित्यर्थः । पूर्वस्मिन्पक्षे उद्भि- स्करणकज्योतिष्टोमे पशुः फलम् । अस्मिन्पक्षे तु गुणस्य पशुफलकत्वेऽपि यागस्य फलान्तर- मस्त्येवेति भावः । अस्मिन्पक्षे काम्यत्वाद्गुणस्य नित्यबाधकत्वं युक्तम् । 'पुरुषार्थसमापत्तेः काम्यं नित्यस्य बाधकं' इति न्यायादित्याह-काम्यत्वादेव चेति ॥ सिद्धान्तमाह-नाय- मिति ॥ गौरवोपपादनार्थं विधिप्रकारान् स्पष्टमुपपादयति-तथा हीति ॥ आघाराग्निहोत्रा- धिकरणे वार्तिकन्यायसुधोक्तं विधिषाड़िध्यं सङ्गृह्णाति-सर्वत्रैवेति ॥ उदाहरति- अग्निहोत्रं जुहोतीति । अत्र धात्वातिरिक्तविधेयाभावात् शुद्धधात्वर्थस्य विधेयत्वमित्यर्थः । शुद्धत्वं धात्वर्थस्य फलसम्बन्धशून्यत्वमित्यभिप्रायः ॥ अन्योद्देशेन—फलोद्देशेन । तद्विधिः- धात्वर्थविधिः । अपरः--द्वितीयः । आद्यापेक्षया द्वितीयस्य दौर्बल्यमुपपादयति-एतस्येति ॥ दौर्बल्यमिति॥आद्यापेक्षयेत्यर्थः । अन्यकरणकभावनाविधिः-दध्यादिकरणकभावनाविधिः। 'दना जुहोति' इत्यत्र पदद्वयस्याविशेषेऽपि भावार्थाधिकरणन्यायविरोधप्रतिसन्धानसापेक्ष- त्वाद्विलम्बितोपस्थितिरित्याशयेनाह-विधेयताया इति ॥ पदान्तरार्थवृत्तित्वात्-दध्यादि- पदार्थवृत्तित्वात् । ततोऽपि-द्वितीयविधेरपि । साधुत्वार्थ-प्रत्ययसाधुत्वार्थम् । 'न केवला प्रकृतिः प्रयोक्तव्या' इति न्यायादिति भावः । अन्योद्देशेन-फलोदेशेन ; अन्यकरणक- भावनाविधिः ॥ दनेन्द्रियकामस्येति॥अत्र धात्वर्थस्य उद्देश्यत्वेन विधेयत्वेन वा सम्बन्धा- भावात् , एकपदोपादानश्रुतिलभ्यतः पदान्तरलभ्योद्देश्यस्य विलम्बितोपस्थितिकत्वाच्च तृती- यादपि दौर्बल्यमित्यर्थः ॥ विशेषणविधीति ॥ सोमेन यजेत' इत्यत्र सोमविशिष्टयागकरणक- भावनाविधानेन विशेषणविधि विना विशिष्टविध्यसम्भवात् विशेषणविधेः कल्पनीयतया चतुर्था- १. ते. सं. १. ५. ९. २. तै. ब्रा. २. १. ५. ३. विशेषणविधिकल्पनाधिक्यात् इति पाठान्तरम् । ४. पदार्थान्तरवृत्तित्वाच्च इति पाठान्तरम् ॥ 15 ११४ भाट्टदीपिका [अ. १ अन्योद्देशेन पूर्वोक्तष्षष्ठः । यथा-'सौर्य चळं निर्वपेत् ब्रह्मवर्चसकामः' इति । अयं तु सर्वदुर्बलः । तदेवमुद्भिद्गुणविशिष्टस्य यागस्य फलोद्देशेन विधाने षष्ठविधिप्रकाराश्रय- पेक्षया च दौर्बल्यमित्यर्थः । आदिना मत्वर्थलक्षणापरिग्रहः ॥ अन्योद्देशेन---फलोद्देशेन । पूर्वोक्तः-गुणविशिष्टधात्वर्थकरणकभावनाविधिः । सर्वदुर्बलः-पूर्वोक्तविधिपञ्चकापेक्षया च दुर्बलः, दौर्बल्यप्रयोजकदोषाणां सत्त्वादिति भावः ॥ षष्ठविधीति ॥ सौर्य चरुं' इत्यादौ तु गत्यन्तरासम्भवात् जघन्यविध्याश्रयणेऽपि प्रकृते गत्यन्तरसम्भवात् न जघन्यविधिस्वीकारो युक्त इति भावः । अत्र वदन्ति । पूर्वपूर्वेण उत्तरोत्तरस्य न बाधसम्भवः । तथा सति ज्योतिष्टोमवाक्ये स्वर्गपदस्य सार्वकाम्यवाक्यप्राप्तानुवादकत्वं स्वीकृत्य प्रथमविधिस्वीकारापत्तेः, सोमवाक्ये तृतीयविधिप्रकारापत्तेश्च । न च स्वर्गकामपदानर्थक्यप्रतिहतत्वाद्विपरीतं बला- बलमिति वाच्यम् ; तथात्वे पदान्तराघटितद्वितीयविधिप्रकारस्य काप्यभावन प्रथमेन द्वितीय- बाधोदाहरणस्य दुर्लभत्वापत्तेः । किं बहुना । एतेषु समानामेव विषमाणामेव च परस्पर- समवायेन समविषमयोरेकत्र समावेशोऽपि प्रायेण दुर्लभः । किञ्च प्रथमविधिप्रकारे धात्वर्थ- करणकभावनाविधिरूपे इष्टसामान्यस्य, स्वर्गकामवाक्योपस्थितस्वर्गस्य वा भाव्यत्वात् अन्यो- देशेनेति द्वितीयप्रकारेऽन्तर्भावस्य स्पष्टत्वान्न तयोः प्राबल्यदौर्बल्ये सम्भवतः । न च स्ववाक्ये तदुपस्थित्यभावात् प्रथमस्य लघुत्वमिति वाच्यम् ; तथा सति भावनायाः प्रथमं फलाकाङ्क्षा- नियमेन तदुपस्थित्यभावे प्रवृत्त्यनुपपत्त्या प्रवर्तनात्वरूपविधित्वस्यैवानुपपत्तेः । तदुपस्थितौ द्वयोरेकत्वध्रौव्यात् । न च श्रुतपदसमभिव्याहाराभावेन धात्वर्थमात्रसङ्कमात् प्रथमस्य लघु- त्वमिति वाच्यम् ; तथा सति धात्वर्थस्य करणत्वप्रतीत्यनुपपत्तेः। फलान्वये जाते हि करणा- काङ्क्षा । अन्यथा धात्वर्थस्य भाव्यत्वापत्तेः । किञ्च शुद्धधात्वर्थकरणकभावनाविधिरित्यत्र धात्वर्थस्य शुद्धत्वं नाम न तावत्फलान्वयरहितत्वम् ; तस्योक्तरीत्या आवश्यकत्वात् । नापि स्वेतरविशेषणशून्यत्वं, अग्निहोत्रनामसत्त्वेन तस्याप्यसम्भवात् । नापि स्वेतरविशेषणीभूतार्थ- शून्यत्वं, अग्निहोत्रपदस्य संज्ञात्वेन विशेषणीभूतार्थत्वाभावादिति युक्तम् । तस्य प्राचीनमते सम्भवेऽपि ग्रन्थकारपक्षे संज्ञाप्रतिपाद्यार्थस्य विशेषणतायाः कौस्तुभोक्तत्वात् । किञ्च प्रथमे स्ववाक्यानुपस्थितफलबोधः; द्वितीये तु स्ववाक्योपस्थितफलबोध इति प्रथमस्यैव द्विती- यापेक्षया दौर्बल्यम् ; द्वितीयस्य प्राबल्यमित्येव युक्तम् । अपि च उक्तप्रथमविधिप्रकारापेक्ष- यापि लघुविधिदृश्यते । नामधेयमन्तरेण श्रूयमाणो विधिः 'उपव्ययते, स्नाति' इत्यादि- रेकः । करणखरूपमात्रस्याज्ञातज्ञापनरूपो विधिः 'ज्योतिर्गौरायुरथैष ज्योतिः' इत्यादिः । ततोऽपि पूर्वोऽन्य इति तस्मान्न षडिधिप्रकारनियमः सम्भवति । एवं हविर्विशेषणदेवताविशे- षणनिमित्तभावनाविशिष्टभावनान्तरबोधकानामुत्तरोत्तरगौरवाधिक्यशालिनां वाक्यानामसङ्खथे- १, ते. सं. २. ३. २.
पा. ४. अधि. २.) भादृचिन्तामणिसहिता। ११५ णात् अतिगौरवम् । गुणस्य यागेऽनन्वयात् मत्वर्थलक्षणा च । न हि भावनायां समानपदोपात्तधात्वर्थकरणत्वावरुद्धायां गुणस्य करणत्वं सम्भवति । अतस्तस्य यागा- न्वयावश्यकत्वेन यागस्य कारकत्वात् , कारकाणां च परस्परसम्बन्धानुपपत्तेः 'सोमेन यजेत' इतिवत् उद्भिद्वता यागेनेति मत्वर्थलक्षणा आवश्यकीति प्राञ्चः । वस्तुतस्तु- दृष्टान्तेऽपि सोमस्य करणत्वेनैव भावनायामन्वयस्तत्र तत्र वक्ष्यते ; युक्तश्च । एक- करणत्वावरुद्धेऽपि करणत्वान्तरस्य भिन्ननिरूपितस्य प्रकारतया भावनान्वयोपपत्तेः । न हि यागकरणत्वं भावनानिरूपितं, अपि तु स्वर्गनिरूपितम् ।अतश्च यथैवान्यनिरूपित- मपि तत्करणत्वं प्रकारतया भावनायामन्वेति, तथैव सोमकरणत्वमपि यागनिरू- यतया बहुप्रकारत्वमेव विधेः स्यादिति न पड्डिध इति नियन्तुं शक्यम् । एवं य इष्टयादि- वाक्ये धात्वर्थोद्देशेन विकल्पविशिष्टकालस्य कालविशिष्टविकल्पस्य वा विधिरूपः प्रकारोऽपि पूर्वाचार्यैः तर्कपादे उक्तः । तथा 'प्राकाशावध्वर्यवे ददाति' इति धात्वर्थोद्देशेनान्ययोः सम्बन्धमात्रविधिरप्टम इति प्राचीनरुक्तम् । तस्माद्विधेः बहुप्रकारत्वान्न षड्डिधिप्रकारनियम इति प्रौढिवाद एवायम् । वार्तिके तु षडापे प्रकारास्सम्भवन्ति । एवमन्येऽपि प्रकारा ऊह्या इत्यभिप्रायेण कथञ्चिन्नेयमिति सङ्केपः ॥ गुणस्येति ॥ कारकाणां परस्परसम्बन्धाभावेन यागेऽन्वयासम्भवात् गुणपदेऽनुगुणवद्धात्वर्थस्य लक्षणीयत्वादपि गौरवमित्यर्थः। लक्षणामेवोपपा- दयति-न हीति ॥ सोमेनेति ॥ 'सोमेन यजेत' इत्यत्र हि सोमस्य तृतीयान्तपदोपात्तस्य भावनायां न करणत्वेनान्वयः, भावनायाः समानपदोपात्तधात्वर्थकरणत्वावरुद्धत्वात् । नापि धात्वर्थे, धात्वर्थस्य कारकतया कारकाणां परस्परसम्बन्धाभावात् । अतस्सोमपदस्य सोमवता यागेनेति मत्वर्थलक्षणाया आवश्यकत्वमित्यर्थः । मत्वर्थलक्षणां निरस्यति-वस्तुत- स्त्विति ॥ सोमयागयोः परस्परान्वये हि मत्वर्थलक्षणा भवति । स एव नास्तीत्याह-सोम- स्येति ॥ तत्र तत्रेति ॥ भाष्ये, सप्तमनवमाध्याययोर्वार्तिके, आघाराग्निहोत्राधिकरणे शास्त्र- दीपिकायां 'भावनान्वयतः पश्चादंशयोः पार्टिकोऽन्वयः' इति सप्तमे, तन्त्ररत्नेऽप्येकद्रव्य- संस्काराणां व्याख्यातमित्येकादशचतुर्थाधिकरणे, अन्यत्राप्याकर एवोक्तोऽर्थोऽस्माभिरपि वक्ष्यत इत्यर्थः । ननु समानपदोपात्तधात्वर्थकरणत्वावरुद्धत्वात् भावनाया आकाङ्क्षाभावेन कथं सोमादेः करणत्वेनान्वय इत्याशङ्कय परिहरति--एककरणेति ॥ भिन्ननिरूपितस्येति ॥ भावनायाः स्वभाव्यनिर्वर्तकस्येव करणनिर्वर्तकस्याप्याकाङ्कितत्वेन तयोश्च द्वारभेदेनैव तत्रा- एकान्वयेन इतराकाङ्क्षाशान्तेरभावादिति भावः ॥ न हीत्यादि । यागकरणत्वस्य फलनिरूपितस्यापि यथा भावनायां अन्वयः, तथा सोमकरणत्वस्य यागनिरूपितस्यापि भाव- नायामेवान्वयः । कारकाणां क्रिययैव अन्वयनियमादिति भावः । अत्र च योऽयं निरूपित- करणकत्ववान् स तद्भाव्यकभावनायामन्तीति नियमात् स्वर्गभाव्यकभावनायां कथं सोम- न्वयात्, ११६ भाट्टदीपिका (अ. १. पितम् । उभयत्र तत्तन्निरूपकत्वस्य पाठिकबोधलभ्यत्वाच न कोऽपि विरोध इति । नास्मिन् पक्षे यद्यपि मत्वर्थलक्षणा ; तथाजप विशेषणविधिकल्पनादिकृतं गुणयागो- भयविशिष्टभावनाविधेौरवमापाद्यमानं नापह्नोतुं शक्यम् । यथा च प्राथमिकभावना- सम्बन्धाङ्गीकारेऽपि द्वितीयबोधवेळायां मत्वर्थलक्षणा तथोक्तं कौस्तुभे । एवं द्वितीय- तृतीयपूर्वपक्षयोरपि जघन्यविधिप्रकाराङ्गीकरणं दोषाय । अगत्या च दधिसोमादावेव तदङ्गीकृतम् । तेषां तत्र अर्थान्तरे रूढत्वेन नामवासम्भवात् । प्रकृते तु येनैव योगेन खनित्रे प्रवृत्तिः तेनैव योगेन उद्भिद्यते उत्पाद्यते फलमिति व्युत्पत्त्या कर्मण्यपीति नामत्वसम्भवेन द्वितीयविधिप्रकाराङ्गीकरणालाघवम् । न च भिदो विदारण एव स्मृतेः शक्तिः ; भिदिर इत्येव धातुपाठात् । विदारण इत्यस्य शक्यार्थमात्रोपलक्षणत्वस्य वैयाकरणसिद्धान्तसिद्धत्वात् । अतो विदारण इवोत्पादनेऽपि प्रयोगात्तुल्यवद्वृत्तिकता । स्यान्वयः । यागभाव्यकभावनायाश्च प्रत्ययेनानुपस्थितत्वात् । अतश्च प्रधानभावनाया एंव सम्बन्धवैलक्षण्येन करणद्वयाकाङ्क्षायां एकस्य साक्षादन्वयः, अन्यस्य स्वकरणकभावना- भाव्यकरणकत्वेनेत्येव वक्तव्यम् । तत्तत्सम्बन्धविशेषावधारणं च पाठिकमेवेत्याशयेनाह उभयत्रेति ॥ स स निरूपको यस्य सम्बन्धस्येति विग्रहः ॥ अस्मिन्नपि पक्षे - विशिष्ट- विधिपक्षेऽपि । ननु एवं पूर्वपक्ष एवाङ्गीकार्यस्स्यादित्यत आह-तथापीति । विशिष्ट- विधौ विशेषणविधिकल्पने गौरवात् पूर्वपक्षो न युक्त इति भावः । ननु एवं मत्वर्थ- लक्षणाप्रतिपादकवार्तिकादिविरोध इत्यत आह --यथा चेति ॥ द्वितीयबोधवेलायां मत्वर्थ- लक्षणाया आवश्यकत्वात् तदभिप्रायेण वार्तिकाद्युपपत्तिरिति भावः । सोमकरणिका याग- करणिका फलभाव्यिका भावना प्रवर्तनाविषय इति प्रथमबोधः । भाव्यत्वादिनिरूपका- काङ्क्षायां यागेन फलं भावयेदित्याकारको द्वितीयः। ततो 'नासाधितम्' इति न्यायेन आक्षिप्त- कर्मनिरूपकाकाङ्क्षायां सोमेन यागं भावयेदिति तृतीयः । प्रथमबोधे विषयस्य सोमस्य, द्वितीयबोधे विषयत्वस्यावश्यकतया योग्यतया च सोमवता यागेनेत्याकारकत्वं तस्याङ्गीकार्यमि- त्याशयः । द्वितीयतृतीयपूर्वपक्षयोर्दुर्बलविधिप्रकाराङ्गीकरणमेव दोष इत्याह - एवमिति ॥ तर्हि 'दना जुहोति' 'सोमेन यजेत' इत्यादावपि दुर्बलविध्यङ्गीकारो न स्यादित्यत आह- अगत्येति ॥ दधिसोमपदयोर्लोकेऽत्यन्तनिरूढत्वेन यागनामत्वासम्भवादित्यर्थः । उद्भित्पदे यागनामत्वसम्भवमाह-प्रकृत इति ॥ येनैवेति ॥ यथा उद्भिनत्तीति व्युत्पत्त्या ऊर्ध्वविदारण- कर्तृखनित्रादिपरत्वं, तथा योगेन यागनामत्वमपि सम्भवतीत्यर्थः ॥ उद्भिद्यत इति ॥ उद्भिनत्तीत्यर्थः । यथाश्रुते कर्मणि विपोऽसाधुत्वात् ॥ द्वितीयविधीति ॥ अन्योद्देशेन धात्वर्थविधानादिति भावः । ननु पूर्वोक्तस्मृत्या कोशादिना च भिदिर्धातोर्विदारण एव शक्तत्वात् उत्पादनार्थत्वेन नामत्वमयुक्तमित्याशयेन शङ्कते-न चेति ॥ वैयाकरणेति ॥
पा. ४. अधि. २.) भादृचिन्तामणिसहिता। ११७ न च नामधेयानर्थक्यम् ;सङ्कल्पादौ सार्थकत्वात् । क्वचित्फलोपसम्बन्धश्च, यथा-'दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत' इति । क्वचिद्गुणोपसम्बन्धश्च, यथा-'संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति' इति । प्रकृते च संज्ञया भेदसिद्धिरेव प्रयोजनम् । इतरथा हि प्रकृत एव कर्मणि गुणफलोपबन्धापत्तेर्न कर्मान्तरत्वम् । न च योगस्य फलोद्भेदन- कारित्वस्यातिप्रसक्तत्वात् अपूर्व कर्मणि रूढिकल्पने सोमादिपदानामपि तदापत्तिः। सर्वत्र योगरूढिस्थले प्राचीनप्रयोगस्यैव कारणतायाः कुप्तत्वेन प्रकृते तदकल्पनात् । प्रयोजनं स्पष्टम् ॥ २॥ 'कुर्द-खुर्द-गुदक्रीडायामेव' इत्येवकारात् , 'तनूकरणे तक्षः' इति सूत्रे तनूकरणपदाच ज्ञापकात् प्रसिद्धसर्वार्थोपलक्षकत्वं विदारण इत्यस्येति भावः ॥ तुल्यवद्वृत्तिकतेति ॥ तथा च योगेन गुणपरत्वमिव नामधेयत्वमपि सम्भवतीति लाघवेन नामत्वमेव युक्तम् । 'असुराणां वै वलं तमसा प्रावृतः' इत्यारभ्य 'स उद्भिदैव बलं व्यच्यावयत्' इत्यन्तेन वाक्य- शेषेण यागे अवयवव्युत्पत्तेः प्रदर्शनादुद्भिच्छब्दस्य नामत्वं युक्तमित्याशयः । ननु गुणविधिपक्षे प्रवृत्तिविशेषकरत्वं सम्भवति, गुणवशात्कर्मविशेषप्रतीतेः । नामधेयत्वे तु यजिनैव विधिसह- कृतेनान्यत्राविहितोऽयं यागविशेष इत्यवगमसम्भवादानर्थक्यमित्युक्तम् । अत आह - न चेति ॥ सङ्कल्पादाविति ॥ 'उद्भिदा यक्ष्ये' इति सङ्कल्पे ऋत्विग्वरणादौ च सार्थक्यादित्यर्थः । फलोपसम्बन्धः-फलसम्बन्धः ॥ दर्शेति ॥ दर्शपूर्णमासपदयोः संज्ञात्व एव त्रिकद्वयस्य फलसम्बन्धसिद्धिः । इतरथा यजिना त्रिकद्वयस्य प्रयाजादीनां च ग्रहणात् राजसूयवत् सर्वेषां फलसम्बन्धापत्तेरित्यर्थः ॥ गुणोपसम्बन्धः ---गुणसम्बन्धः ॥ संस्थाप्येति ॥ पौर्णमासीसंज्ञया यागत्रयानुवादाद्वाक्यात् वैमृधस्य तन्मात्राङ्गत्वसिद्धिरिति । अन्यथा प्रकरणात् दर्शपूर्णमासाङ्गत्वापत्तेरित्यर्थः ॥ प्रकृते-उद्भिच्छब्दस्थले । संज्ञया-उद्भित्संज्ञया । भेद- सिद्धिः-ज्योतिष्टोमयागाद्भेदसिद्धिः । 'अथैष ज्योतिः' इत्यादिवदित्यर्थः । एवकारोऽप्यर्थकः । तेनोक्तसङ्कल्पादिसङ्ग्रहः ॥ इतरथा-संज्ञाभावे । प्रकृते --- सोमयागे ॥ गुणेत्यादि । यागोद्देशेन उद्भिच्छब्दवाच्यखनित्रादिविधिः, यागमाश्रित्य पशूद्देशेन खनित्रादिविधिर्वा स्यान्न यागभेद इत्यर्थः । ननु उद्भिच्छब्दस्य फलोद्भेदनकारित्वप्रवृत्तिनिमित्तकनामत्वे पशूद्भेदन- कारित्वस्य चित्रादियागेष्वपि सत्त्वात् तत्रापि उद्भिच्छब्दप्रयोगापत्तिरिति शङ्कते-न चेति ॥ अपूर्व कर्मणि—विजातीययागे । रूढिकल्पने-रूढिं परिकल्प्यातिप्रसङ्गवारणे ॥ सोमादीति ॥ आदिना दध्यादिपदपरिग्रहः । तदापत्तिः---रूढिकल्पनापत्तिः । तथा च रूढेरसम्भवादतिप्रसङ्गो दुर्वार इत्याशयः । परिहरति -सर्वत्रेति ॥ पङ्कजादिपदेष्वपि योगरूढिन स्वीक्रियते । पङ्कजनिकर्तृत्वस्य योगार्थस्य कुमुदादिसाधारण्येऽपि तत्र प्राचीन- १. फलोपबन्ध इति पाठान्तरम् । २. गुणोपबन्ध इति पाठान्तरम् ।
११८ भाट्टदीपिका (अ. १. प्रयोगाभावादेव व्यवहारापत्तिवारणसम्भवान्न कुत्रापि योगरूढिरङ्गीक्रियत इत्याशयः । अत्रेदं बोध्यम् । योगरूढ्यनङ्गीकारे बहुतरपूर्वाचार्योक्तिविरोधः, शक्तिग्राहकव्याकरणादीना- मानर्थक्यं, कुत्रापि शक्त्यप्रसिद्ध्यापत्तिश्चेति बहुशास्त्रव्याकुलीभावप्रसङ्गश्च स्यादिति । तथा हि योगरूढिस्थले योगेन पङ्कजशब्दस्य कुमुदादौ प्रयोगवारणाय अवयवार्थविषयक- शाब्दबोधं प्रति रूढिज्ञानस्य प्रतिबन्धकत्वं कल्पनीयमिति प्राश्चः । नव्यास्तु व्यक्ति- वचनानां सन्निहितविशेषपरत्वमिति न्यायेन रूढिशक्त्योपस्थितपद्म एवावयवार्थान्वयान्न कुमुदादौ प्रयोगप्रसङ्गः । तस्य रूढिशक्त्यनुपस्थितत्वादिति न प्रतिबन्धकलं कल्प- नीयम् । तादृशन्यायानङ्गीकारे 'आग्नेय्याग्नीध्रमुपतिष्ठते' इत्यत्र ययाकयाचिदाग्नेय्यानी- ध्रोपस्थानं स्यादित्याग्नेय्यधिकरणविरोध इत्यादिकं बहुतरमुपपादितं श्रीमद्गङ्गेशमिश्रोपाध्यायै- रिति तान्त्रिकविरोधस्स्पष्टः । तथा 'पङ्केरुहं तामरसं' इत्यादिकोशानां योगरूढ्यनङ्गीकारे वैयर्थ्यमेव । न च केवलरूढिशक्तिग्राहकत्वमेव कोशादीनामिति वाच्यम् ; पङ्केरुहादि- शब्दानां अवयवार्थबोधं जनयतां यौगिकत्वस्यापि सर्वमतसिद्धतया तत्र केवलरूढिकल्प- नाया अन्याय्यत्वात् । किञ्च गाायणादिशब्दानां अवयवव्युत्पत्ति प्रतिपादयतां महर्षिपाणिन्या- दीनां रूढिशक्तिप्रतिपादनतात्पर्य अवयवव्युत्पत्तिकथनासाङ्गत्यापत्तिः । एवं अवयवव्युत्पत्ति- प्रतिपादककोशेष्वप्ययमतिप्रसङ्गो द्रष्टव्यः । किञ्च रूढिशक्तिरेव लोके गगनकुसुमप्रायस्स्यात् । घटशब्दस्य पटे प्राचीनप्रयोगाभावादेव वारणे घटशब्दस्य पटे शक्ति व कल्प्या स्यात् । ननु घटशब्दस्य घटे प्रयोगं कुर्वतो बहुतरप्राचीनप्रयोगज्ञानस्य पूर्वमकृप्तस्य कल्पनापेक्षया एकस्या एव शक्तेः कल्पने लाघवमिति चेत् तत् योगरूढिस्थलेऽपि समानमिति केनाभिप्रायेण योगरूढिर्नास्तीत्युक्तमिति न विद्मः । किञ्च प्राचीनप्रयोगो वृद्धव्यवहार- रूपः । स च शक्तिग्राहक इति सिद्धान्तः । ततश्च शक्तिग्राहकव्यवहारस्यैव शाब्दबोधोपयोगित्वे शक्तिरेव न सिध्येत् । ततश्च शक्तेरपलापे शक्तिलक्षणादिव्यवस्था- भावात्सर्वतन्त्रव्याकुलता स्पष्टैवेत्यादिकं सुधीभिर्विभावनीयम् । नन्वत्र ‘उद्भिदा यजेत' इत्यादौ गुणविधिरेव सम्भवति । 'सर्वेभ्यो ज्योतिष्टोमः' इति वाक्येन प्रकृतस्य सोमयागस्य सर्वफलार्थतया पशुरूपफले निमित्ते उद्भिद्गुणविधानसम्भवात् । यथा 'यो वृष्टिकामः, यो अन्नाधकामः,यस्स्वर्गकामस्स सांभरेण स्तुवीत' इत्यत्र वृष्टयादिफलार्थत्वेन विहितस्य सौभरसाम्नः तत्तत्फलावरोधनिमित्तं 'हीषिति वृष्टिकामाय निधनं कुर्यात् , ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय' इति निधनविधेर्नियमविधानं तद्वदिति चेन्न; कामशब्दस्य निमित्तपरत्वं नार- तीत्येकादशे भाष्यकारादिभिरुक्तत्वेन निमित्तपरत्वासम्प्रतिपत्तेः । 'हीषिति वृष्टिकामाय' इत्या- दावपि वृष्टिकामादिशब्दैः वृष्टयादिसाधनसौभरं लक्षयित्वा तदर्थत्वेन हीषादयो नियम्यन्ते । हीषादयः सौभराङ्गभूतास्तद्वारेण वृष्टिकामादिपुरुषाणामनियमेन शेषभूताः प्राप्ता नियम्य- पा. ४. अधि. ३.) भादृचिन्तामणिसहिता । ११९ (३) यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः ॥६॥ अत्र गुण एव रूढानां 'चित्रया यजेत पशुकामः'' 'पञ्चदशान्याज्यानि' 'सप्त- दशानि पृष्ठानि' 'त्रिवृद्वहिष्पवमानं' इत्यादौ चित्राज्यपृष्ठत्रिवृद्धहिष्पवमानशब्दानां न्त इति द्वितीये वक्ष्यमाणत्वात् । तस्मान्नामधेयत्वमेव युक्तमिति भावः । अत उद्भित्पदं उद्भित्पदेनानुक्तमपि प्रत्यक्षश्रुतत्वमात्रेण स्ववाच्यकर्मविशेषमन्यस्माद्वयावर्तयद्विशेपणतां भजते। शब्दोपस्थितस्यैव अन्वयबोधविषयत्वमिति नियमः । संज्ञाशब्दातिरिक्तविषय इति केचित् । अन्ये तु संज्ञाशब्दानां स्वरूपप्रवृत्तिनिमित्तकत्वं 'स्वं रूपं शब्दस्याशब्द- संज्ञा' इत्यनुशासनादिति । अतश्ोद्भिच्छब्दस्य उद्भित्पदनोपस्थितत्वाच्छन्दापस्थितानामेव शाब्दबोधविषयत्वमिति नियमस्याप्युपपत्तिरित्याहुः । यत्तु कौस्तुभे उद्भिच्छब्दार्थफलोद्भेदन- कारिणोऽभेदेन धात्वर्थेऽन्वय इत्युक्तं, तच्चिन्त्यम्; धातूपात्तयागकरणत्वस्य फलनिरूपित- त्वेन तृतीयोपात्तनामार्थनिष्ठकरणत्वस्यापि फलनिरूपितत्वेन फलनिरूपितकरणत्वद्वय- प्रतीत्यापत्तेः । पदस्यैव वाच्यतासम्बन्धेन विशेपणत्वे तु नामनिष्ठकरणताया धात्वर्थपरिच्छेद- निरूपितत्वेन द्वारभेदान्न फलनिरूपितकरणत्वद्वयप्रतीतिप्रसक्तिः । न च धात्वर्थस्य विशेषणत्वेऽप्येकस्यानुवादकत्वाङ्गीकारान्न करणत्वद्वयप्रतीतिरिति वाच्यम् ; तथा सति धात्वर्थ- करणत्वस्यानुवादो वा, तृतीयार्थकरणत्वस्यानुवादो वा ? नाद्यः, समानपदोपात्तधात्वर्थकरणत्वा- नुवादायोगाद्धात्वर्थस्य करणत्वेनैव विधेयत्वस्यावश्यम्भावात् । न द्वितीयः, नामार्थनिष्ठकरण- त्वस्यानुशासनसिद्धस्य विधेयत्वावश्यकत्वेनानुवादस्य प्रयोजनाभावात् । न च सोमादिवत् करणत्वद्वयस्यापि उक्तरीत्या भावनान्वयस्सम्भवति एकनिरूपितकरणत्वद्वयबोधासम्भवा- दित्युक्तत्वात् । नाम्न एव करणत्वेनान्वये तद्दोपाभावादिति दिक् । सूत्रार्थस्तु, अपि वेति पक्षव्यावृत्तौ । नायं गुणविधिः, किं तु कर्मण एव । उद्भिदादिपदं नामधेयं स्यात् । यदुत्पत्तौ प्रथमत एव पदार्थान्तरवाचकत्वेन रूढं न सम्भवति तत् नामधेयं, गुणविधाय- कासम्भवात् इति ॥ यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः ॥ उद्भिदादिपदस्य कर्मण्यपि सम्भव- दृत्तिकत्वान्नामत्वसम्भवेऽपि चित्रादिपदानां गुणादावेव प्रसिद्धत्वात् न दध्यादिपदवत् नामत्व- सम्भव इत्युत्थानात्सङ्गतिरित्याशयेनाह–अत्रेति ॥ गुण एवेति ॥ तत्प्रख्यादिन्याया- विषयाणां नामताखीकारैकपरिहार्यवाक्यभेदप्रसक्तिकानां गुणजातिक्रियायोगान्यतमनिमित्त- कानामित्यर्थः । चित्राशब्दश्शबळरूपे, आज्यशब्दो घृतत्वजाती, पृष्ठशब्दो शरीरावयवे, पवमानशब्दः पवनक्रियाकर्तरि द्रव्ये च निरूढः । 'सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते' १. ते. सं. २. ४. ६. ..
१२० भाट्टदीपिका (अ. १. -- गुणविधित्वं, कर्मनामधेयत्वं वेति चिन्तायां दध्यादिवत् रूढेषु कर्मनामधेयत्वासम्भ- वात् गुणविधित्वमेषाम् । तत्र चित्रापदे तावत् प्रातिपदिकेन चित्रत्वं, स्त्रीप्रत्ययेन च स्त्रीत्वं विधीयते । विधेययोः परस्परसाहित्यावगतः विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यक- यागस्यैवोद्देश्यत्वावगतेः प्रकृतानां 'दधि मधु घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यं' इत्येतद्वाक्यविहितानां यागानामुद्देश्यत्वासम्भवेऽपि सर्वप्रकृतिभूताग्नीषोमीय- इति न्यायात् । न तु स्तोत्रे सम्भवद्वृत्तिकः । अतो न पूर्वाधिकरणविषयत्वम् । सोमादेरनुदा- हरणत्वाय वाक्यभेदेत्यादि । इन्द्रियकामवाक्यनिरासाय नामतेत्यादीति ध्येयम् । चित्रया' इत्यादि- दध्यादियागसप्तकवाचकचित्राशब्दः ज्योतिष्टोमे पञ्चदशस्तोमकानि चत्वार्याज्यनामकस्तोत्राणि सप्तदशस्तोमकानि षट् पृष्ठनामकानि स्तोत्राणि स्तोत्रीयानवकयुक्तं बहिष्पवमाननामक- स्तोत्रमित्यर्थः । सर्वोदाहरणसाधारण्येन पूर्वपक्षमाह-दध्यादिवदिति ॥ उद्भिदादिवत् गुणे कर्मणि च तुल्यवद्वृत्तिकत्वाभावादिति भावः । तत्र चित्रापदे पूर्वपक्षमुपपादयति-- चित्रापद इति ॥ स्त्रीत्वमिति ॥ खट्रादिपदे गुणत्रयापचयात्मकं स्त्रीत्वं, जातिपदे तु स्तन- केशादिमत्त्वरूपं टाप्प्रत्ययेन बोध्यते । तत्राद्यस्य केवलान्वयित्वेन गौणत्वान्मुख्यमेवेह विधेय- त्वमित्यर्थः । विधेययोः -- चित्रात्वस्त्रीत्वयोः ॥ परस्परेति ।। प्रत्ययानां प्रकृत्यान्वितस्वार्थ- बोधकत्वव्युत्पत्तेरिति भावः ॥ विधेयसामर्थ्येति ॥ यस्योभावग्नी अभिनिम्लोचेदभ्युदयाद्वा पुनराधेयं तस्य प्रायश्चित्तिः' इत्यत्राह । द्विरात्रन्यायेन निमित्तविशेषणोभयत्वाविवक्षायामपि विधेयस्य पुनराधेयस्य अग्निद्वयोत्पादकसामादेव अग्निद्वयानुगमस्य निमित्तत्वकल्पनमिति षष्ठे प्रतिपादनात् । इहापि विधेययोः चित्रत्वस्त्रीत्वयोः आरुण्यादिवदेकद्रव्यवृत्तित्वा- वगतेः प्राणिद्रव्यकयागस्य उद्देश्यत्वासम्भवादित्यर्थः ॥ उद्देश्यत्वासम्भवेऽपि- अप्राणिद्रव्यकतया स्त्रीत्वान्वययोग्यत्वासम्भवेऽपि ॥ सर्वप्रकृतीति ॥ 'दैक्षस्य चेतरेषु इति न्यायादिति भावः । अनारभ्याधीतानां 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति न्यायेन प्रकृतिगामित्वात् । प्रकृतौ च कृष्णसारङ्गलोहितसारङ्गत्वविधिभ्यां चित्रत्वस्योपसंहारा- द्वाचनिकस्त्रीत्वसत्त्वे 'छागस्य वपायाः' इति मान्त्रवर्णिकपुंस्त्वस्य कल्पनानुपपत्तेः । पुल्लिङ्गपशुशब्दस्य केवलान्वयिपुंस्त्वानुवादकत्वमिति न विरोध इत्याशयः । अत्र चित्रत्वेन स्त्रीत्वेन च विजातीयप्राणिद्रव्यकयागं भावयेदिति वचनव्यक्तिः । प्राणिद्रव्यकत्व- स्योद्देश्यविशेषणतया अविवक्षायामपि विधेयसामर्थ्यानुसारेण प्राप्तत्वेन न वाक्यभेदः। न च तथापि फलस्याप्युद्देश्यत्वात् उद्देश्यानेकत्वप्रयुक्तो वाक्यभेदोऽस्त्येवेति वाच्यम् ; पशुकामपदस्य यागीयद्रव्यपश्चार्जनकामनानुवादकत्वात् । अस्ति हि पशुयागं कुर्वतः पशु- कामना ; अतो नोद्देश्यानेकत्वमित्यभिप्रायात् । न च तथापि गुणफलसम्बन्धविधिरस्त्विति वाच्यम् ; आश्रयालाभात्प्रकृतस्य दध्यादियागस्य चित्रत्वस्नीत्वाश्रयत्वासम्भवात् । यत्र हि पा. ४. अधि. ३.] भाट्टचिन्तामणिसहिता । १२१ - यागोद्देशेन सर्वपशुयागोद्देशेन वा विधीयते । न चानेकगुणविधाने वाक्यभेदः । 'धेनुर्दक्षिणा' इतिवत् उभयविशिष्टैककारकविधानेनावाक्यभेदात् । एवं आज्यपदेन घृतं, पृष्ठपदेन शरीरावयवः । स च सङ्खयाविशिष्टः प्रकरणात् 'आज्यैस्स्तुवते, पृष्ठैः स्तुवते' इत्येतद्वाक्यविहितस्तोत्राङ्गतया यथाक्रमं विधीयते । एवं त्रिवृच्छब्दवाच्यं । गुणः कारकतां प्रतिपद्यते स आश्रयः । न च चित्रत्वस्त्रीत्वे दध्यादियागे कारकी- भवितुमर्हतः । यजिना विजातीययागं लक्षयित्वा तत्सम्बन्धे फलसम्बन्धे च वाक्येन विधीयमाने वाक्यभेदस्यावर्जनीयत्वात् । नन्वनारभ्यन्यायेनाग्नीषोमीयपशौ निवेश इत्ययुक्तम् । पर्णतादौ द्विरुक्तत्वाद्धि प्रकृतिगामित्वमुक्तम् । विकृतौ पर्णताविधौ जुहूप्राप्त्यर्थं विकृतिषु चोदकापेक्षणात् चोदकेन पर्णतासहितजहूप्राप्तेः द्विरुक्तत्वं युक्तम् । प्रकृते च विकृतिष्वपि पशुविधानसत्त्वेन चोदकापेक्षाभावान्न द्विरुक्तत्वमिति न अनारभ्याधीतन्यायेन प्रकृतिगामित्वसम्भव इत्यत आह ----सर्वपश्चिति ॥ प्रकृतौ विकृती च पशावित्यर्थः । ततश्च सर्वत्र वाचनिकमेव चित्रत्वस्त्रीत्वयारङ्गत्वम् । तेन च 'य इष्टया' इति वाक्यविहितसद्यस्काल- त्वस्य प्रकृतेर्द्वयहकालावरुद्भत्वेन विकृतिषु निवेश इव कृप्तोपकारातिदेशिकपाञ्चदश्यावरोधेन विकृती निवेश इव साप्तदश्यस्य नेह किञ्चित्कल्प्यम् । प्रकृते विरुद्धगुणावरुद्धत्वात्तत्र 'सव- नीयं पशुमुपाकरोति' इत्यादावुभयार्निवेशः। 'वायव्यं श्वेतमालभेत' इत्यादौ बाधः । यत्रान्यतरस्य पुनः प्रत्यक्षोपदेशः तत्र तदितरप्राप्तिः । यथा मेषीयागादौ ; तत्र पुनर्विधानेनाभ्युदयशिर- स्कत्वं वा फलं कल्प्यमित्यागृह्यम् । ननु प्राप्तकर्मानुवादेन अनेकगुणविधाने वाक्यभेदः स्या- दिल्याशङ्कथ परिहरति-न चेति ॥ धेनुरिति॥ प्राप्तदक्षिणानुवादेन धेनुत्वैकत्वविशिष्टकरणत्व- स्यैकस्यैव एकपदोपात्तस्य विधानवदित्यर्थः । आज्यपदपृष्ठपदयोर्गुणविधित्वमुपपादयति- एवमिति ॥ सङ्खयाविशिष्ट इति ॥ यद्यपि 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इत्यनुशासनेन पञ्चदशशब्दस्य डप्रत्ययान्तस्य सङ्ख्यापूरकत्ववचनं युक्तम् । तथापि सर्वेषामपि सङ्खयेयाना सङ्ख्यापूरकत्वं सम्भवति । यथा 'षष्ठो भ्राता' इत्यादौ मध्यमेऽपि पटपूर्वकत्वव्यवहारात् , 'पदं त्रेधा विभज्य तृतीयं गार्हपत्यस्य भस्मन्युपवपति, तृतीयमाहवनीयस्य, द्वितीयं पल्यै प्रयच्छति' इत्यादिश्रौतसूत्रकारीयव्यवहारानुसाराच्च सर्वत्र पञ्चदशोपपत्तिरिति सङ्ख्यावाचकत्वे पर्यव- सानमिति भावः। केचित्तु 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इत्यनुशासनगतस्तोमपदस्य स्तोत्रसाधन- गतसङ्ख्यावाचित्वमभ्युपगम्य पूर्वपक्ष इति वदन्ति । प्रकरणात्-स्तोत्रावान्तरप्रकरणात् । स्तोत्राङ्गतया विधाने स्तोत्रप्राप्तयपेक्षायामाह-आज्यरित्यादिना ॥ एतद्वाक्यप्राप्तस्तोत्रोद्देशेन सङ्ख्यायुक्तान्याज्यानि सङ्ख्यायुक्तशरीरावयवश्च विधीयत इत्यर्थः । बहिप्पवमानपदे पूर्वपक्ष- १. ते. सं. १. ८. ७. 16 १२२ भाट्टदीपिका [अ. १. त्रिभण्डिद्रव्यं पवनक्रियाविशिष्टं तथैव तद्वाक्येन विधीयते । सर्वत्र द्रव्याणां स्तोत्र- समीपदेशेऽदृष्टार्थं स्थापनेनैव स्तोत्रोपकारकता । उत्पत्तिवाक्येषु तु आज्यादिपदं गुण- वाक्यप्राप्तत्वादनुवादः । स्तोत्रमात्रं तु विधीयत इति प्राप्ते- प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वरूपानेकगुणविधाने वाक्यभेदात् करणत्वस्यापि पशुगतस्य प्राप्तत्वेन अविधेयतया उभयविशिष्टैककारकविध्ययोगात् । अतश्च 'अजो- ऽग्नीषोमीयः' इति भाकरणिकवचनेन विहितप्राकरणिकपुंस्त्वावरोधे स्त्रीत्वस्य विध्य- मुपपादयति-एवमिति ॥ पवनक्रियाविशिष्टं-निष्पीडनक्रियाविशिष्टम् । तथैव- स्तेत्राङ्गत्वेनैव । आज्यादीनां स्तोत्रकरणत्वासम्भवेऽप्यङ्गत्वं सम्भवतीत्याह—सर्वत्रेति ॥ स्तोत्रसमीपदेश इति ॥ यथा 'अग्निमुपनिधाय स्तुवीत' इत्यत्र समीपस्थापनेनैवाङ्गत्वं तथा प्रकृतेऽपि समीपस्थापनेनैवाङ्गत्वं उपपद्यत इत्यर्थः । अयमाशयः । पञ्चदशपात्रेषु पञ्चदशगृहीतं वाऽऽज्यं स्तोत्रसमीपे स्थापनीयं, तथा सप्तदशपुरुषाः पृष्ठभागं प्रदर्य स्थिताश्चेत् सप्तदशपृष्ठानि भवन्ति, तथा त्रिकटादिद्रव्यं चूर्णीकृतं जलसिक्तं सदो बहिः वस्त्रेण निष्पीड्यमानं भवतीति । अत्र पृष्ठशब्दो योन्यवयववाचीति कश्चित् ; तन्न, 'हन्तुः पृष्ठं ददाति' इति लोके 'पृष्ठवाहिनं अनड्राहं' इति वेदे च प्रयोगदर्शनेन पृष्ठशब्दस्य शरीरपश्चाद्भाव्यवयववाचित्वात् । ननु आज्यादीनां उत्पत्तिवाक्यादेव प्राप्त- त्वान्नात्र सङ्खयाविशिष्टाज्यादिविधिस्सम्भवतीत्यत आह-उत्पत्तिवाक्येष्विति ॥ उत्पत्ति- वाक्ये आज्यविध्यङ्गीकारे विधेयस्य करणत्वात् आज्यस्य तृतीयया करणत्वं वक्तव्यम् ; तस्यासम्भवग्रस्ततयानुवादकत्वमित्याशयः । सिद्धान्तमाह–प्राप्त इति ॥ ननु उभय- विशिष्टकरणत्वविधानादवाक्यभेद इत्युक्तम् । अत आह-करणत्वस्यापीति ॥ पशुकरण- त्वस्याप्युत्पत्तिवाक्यप्राप्तत्वादित्यर्थः । ननु द्रव्यगतं करणत्वमपेक्ष्य चित्रत्वस्त्रीत्वगतकरणत्वयोः खरूपसम्बन्धरूपविशेषयोर्विलक्षणत्वात् परस्परविलक्षणयोरपि 'अरुणया' इत्येतदन्तेनै- कया तृतीययोपादानसम्भवान्न विशिष्टकारकविधौ वाक्यभेद इति चेन्न; 'अजोऽग्नी- षोमीयः' इति वचनेन लिङ्निरूपितकरणताया अपि प्राप्तत्वेन तृतीयया तामुद्दिश्य टाप्प्रत्ययांशेन स्त्रीत्वविधिः, प्रातिपदिकयुक्तया च तया चित्रत्वविशिष्टकरणत्वविधिरिति विधे- याना एकाभिधानप्रतिपाद्यत्वाभावात् अनिवार्यो वाक्यभेद इति । अन्ये तु कृष्णसारङ्गादिवाक्येन वर्णनिरूपितकरणताया अपि प्राप्तत्वात् । वस्तुतः चित्रत्वस्यापि तत एव प्राप्तेः पशुकाम- पदानुवादानुरोधेन फलोद्देशेन चित्रत्वविधानस्य वक्तव्यतया यजिना आश्रयसमर्पणे वाक्यभेदो दुर्वार इत्याहुः ॥ प्राकरणिकेति ॥ प्राकरणिकविधेरुत्पत्तिविधिविवरणरूपतया एकवाक्यत्वेन पुंस्त्वस्योत्पत्तिशिष्टतया तदवरुद्धे स्त्रीत्वविध्यसम्भवादित्यर्थः । सिद्धान्ते रूढिकल्पनादोषं पा. ४. अधि. ३.] भादृचिन्तामणिसहिता । १२३ योगाच्च न गुणविधिः । अतः प्रकृतानामेव यागानां विचित्रद्रव्यकत्वेन लक्षणात् चित्रा- पदं नामधेयम् । इष्टयभिप्रायेण च स्त्रीप्रत्ययः । एवमाज्यादिपदेष्वपि । असमस्तत्वेन विशिष्टस्याव्युत्पन्नत्वात् प्राप्तस्तोत्रानुवादेन द्रव्यसङ्ख्याद्यनेकगुणविधौ वाक्यभेदः । न चोत्पत्तिवाक्य एव द्रव्यविशिष्टस्तोत्रविधिः, अत्र तु सङ्ख्यामात्रविधिरस्त्विति वाच्यम् ; घृतादीनां स्तात्रे करणत्वासम्भवेन विशिष्टविध्ययोगात् , पञ्चदशानीत्यादिस्तुतिगत- सङ्ख्यारूपस्तोमवाचिडप्रत्ययस्य गुणविधित्वे अनुपपत्तेश्च । अत आज्यादिपदं वाक्य- द्वयेऽपि शक्त्यैव स्तोत्रनामधेयम् । आज्यादिपदाभिधेयस्तोत्रानुवादेन गुणवाक्ये परिहरति-अत इत्यादिना ॥ दध्यादिविहितयागानां चित्रद्रव्यकत्वेन चित्रत्वाच्चित्रापदं नामधेयं गौण्येति न दोष इति भावः ॥ इष्टीति ॥ 'चित्रेष्टया यजेत' इति वाक्यकल्पनया स्त्रीलिङ्गे- ष्टिपदसामानाधिकरण्यसूचनार्थोऽयं स्त्रीलिङ्गनिर्देश इत्यर्थः ॥ एवमिति ॥ 'पञ्चदशान्याज्यानि' इत्यत्र समासाभावेन परस्परान्वयसम्भवात् द्वयोरपि क्रियान्वयस्यैव वक्तव्यतया द्वयोरपि विधाने वाक्यभेदस्स्यादित्यर्थः । असमस्तत्वेनेत्यनेन समासस्थले 'समर्थः पदविधिः' इति सूत्रानुसारेणैकार्थीभावलक्षणसामर्थ्यस्य आवश्यकतया विधिव्यापार विना परस्परसम्बन्धो- पपत्तेन वाक्यभेद इति सूचितम् । यद्यपि 'अग्नये. दात्रे' इत्यादी विशेषणविशेष्यभावेन उभयविशिष्टैककारकविधानवत् प्रकृतऽपि सामानाधिकरण्येन विशेषणविशेष्यभावात् उभयविशिष्टेककारकविधानात् वाक्यभेदः परिहर्तुं शक्यः ; तथापि डप्रत्ययविरोधादेव नामत्वं द्रष्टव्यमित्याशयः ॥ करणत्वासम्भवनेति ॥ गुणाभिधानरूपस्तात्रे शब्दस्यैव करणत्वात् । न च रथघोषादिवत्करणत्वं सम्भवतीति वाच्यम् ; आज्ञापनरूपोपाकरणे नेत्रादि- व्यापाराणामिव तत्सम्भवेऽप्यभिधानस्य वृत्त्यैकसाध्यतया शब्दं विनाऽर्थाभिधानासम्भवात् । 'घृतं मिमिक्षे' इत्यादिमन्त्रलक्षणायां तु प्राकरणिकमन्त्रबाधस्स्यादिति भावः ॥ पञ्चदशा- नीति ॥ स्तोमपदार्थतावच्छेदककोटौ ऋचामपि प्रवेशस्य याज्ञिकव्यवहारसिद्धतया तद्गत- सङ्ख्यावाचित्वेन न आज्यादिद्रव्यगतसङ्ख्यावाचित्वमित्यर्थः ॥ वाक्यद्वयेऽपि ---उत्पत्तिवाक्ये गुणवाक्येऽपि ॥ शक्त्यैवेति ॥ मन्त्रेष्वाज्यसम्बन्धरूपलक्षणाया असम्भवादित्यर्थः । वस्तुतः यद्यपि कुर्यादित्यध्याहृत्य सङ्ख्याद्रव्योभयविशिष्टभावनान्तरविधानान्न वाक्यभेदः । तथापि 'यदाजिमीयुस्तदाज्यानामाव्यत्वं' 'पञ्चदशं होतुराज्यं' इत्यादिवैदिकव्यवहारानुरोधेन स्तोत्र- विशेषे त्रिवृच्चर्वश्ववालादिशब्दवत् रूढिसिद्धिः। एवं चित्रादिपदेष्वपि 'इयं वै चित्रा' इत्यादि- वाक्यशेष एव निर्णायकः । अधिकरणन्तु न्यायव्युत्पादनमात्रमिति द्रष्टव्यम् ॥ आज्यो- त्पत्तिवाक्य इति ॥ 'आज्यैः स्तुवते' इति वाक्ये बहुवचनश्रवणात् 'तिस्र आहुतीर्जुहोति' इतिवत् सङ्घयया कर्मभेद इति भावः । 'अग्न आयाहि वीतये' 'आ बो मित्रावरुणा' १२४ भाट्टदीपिका [अ. १. सर्वत्र सङ्ख्यामात्रविधिः । आज्योत्पत्तिवाक्ये च तत्संज्ञकानि चत्वारि स्तोत्राणि गमकसहकृतबहुवचनेन तावत्त्वावगमात् । एवं पृष्ठोत्पत्तिवाक्येऽपि षट् । अनुष्ठेयानि तु नियतानि चत्वारि । आद्ययोर्द्वयोवृहद्रथन्तरयोः, अन्त्ययोः नौवसश्यैतयोर्वचनेन विकल्पविधानात् । यथा चात्र ततदूषणानां निरासो मतान्तरदूषणानि च तानि कौस्तुभे द्रष्टव्यानि ॥ ३॥ (४) तत्प्रख्यं चान्यशास्त्रम् ॥ ४ इह रूढानां यौगिकानां का सम्भवत्प्राप्तिकानां 'अग्निहोत्रं जुहोति' 'आधार- माघारयति 'समिधो यजति” इत्यादौ अग्निहोत्रादिपदानां गुणविधित्वं, कर्मनाम- 'आयाहि सुषुमा हि ते' 'इन्द्राग्नी आगतं' इति तृचचतुष्टयस्य उत्तराग्रन्थपाठादाह-चत्वा- रीति ॥ कपिञ्जलन्यायापवादोत्तरादोहाधिकरणं स्मारयति-गमकेति ॥ ऋक्त्रयस्यैव प्रत्याज्यं पञ्चदशत्वं विष्टुतिब्राह्मणोक्ताभ्यासप्रकारभेदेन बोध्यम् ॥ षडिति ॥ 'अभित्वा, त्वामिद्धि, कया नः, तं वो दस्म, अभिप्रवः, तरोभिर्वः' इति तृचषट्केऽस्य पाठात् । ननु कथं चत्वारि पृष्ठानीत्यत आह-अनुष्ठेयानीति ॥ रथन्तरबृहद्वामदेव्यनौधसयत- कालेयानां षण्णां मध्ये बृहद्रथन्तरयोर्विकल्पस्य बृहत्पक्षे श्यैतं, रथन्तरपक्षे नौधसमिति व्यवस्थितविकल्पस्य च वचनान्तरसिद्धत्वादिति भावः ॥ पृष्ठस्तुवत इत्यनेनैकमेव माहेन्द्रस्तोत्रं पृष्ठनामकं विधीयते । बहुवचनन्तु ‘समिधो यजति' इतिवन्न कर्मभेदकम् । लिङ्गसमवायात्तु पुरोडाशानलङ्कुर्वितिवत् पृष्ठापृष्ठसमुदाये गौणम् । एकस्मिन्नेव पृष्ठस्तोत्रे बृहद्रथन्तरयोर्विकल्प इति न्यायसुधाकाराः । माहेन्द्रस्तोत्रे द्वैते एव पृष्ठापृष्ठपदवाच्ये । 'बृह- त्पृष्ठं भवति' इत्यादिवाक्यद्वयेन उत्पन्ने मुख्यः । 'बृहद्रथन्तरं वा पृष्ठं भवति' इति वचनेन स्तोत्रयोरेव विकल्प इति पार्थसारथिमिश्राः । तत्र प्रकृतौ पृष्ठबहुत्वाङ्गीकारे नावमिकाधिकरण- विरोधः परिहर्तव्य इत्याशयेनाह—यथा चात्रेति ॥ सूत्रार्थस्तु, यस्मिन् --वाक्ये । गुणोप- देशः वाक्यभेदापादकगुणप्रतीतिः । तत्र, प्रधानतोऽभिसम्बन्धः--प्रधानस्य कर्मणो नामधेयं स्यादिति ॥ तत्प्रख्यं चान्यशास्त्रम् ॥ पूर्वाधिकरणोक्तभेदाभावेन अग्निहोत्रादिपदानां गुणविधित्वं अस्त्वित्युत्थानात् सङ्गतिः । पूर्वाधिकरणद्वयविषयीभूताश्शब्दा इह मिलित्वा विषया इत्याह- रूढानामिति ॥ ताभ्यामस्य गतार्थतां परिहरति--सम्भवदिति ॥ अत्रासम्भवत्प्राप्तिका- नामिति मूलं धृत्वा असम्भवन्ती पूर्वाधिकरणाभ्यामसिध्यन्ती नामधेयत्वप्राप्तिर्येषामित्यर्थ इति केनचिद्वयाख्यातं; तन्नोपादेयम् , पूर्वाधिकरणाभ्यामित्यध्याहारापत्तेः । तस्मात्सम्भवत्प्राप्ति- कानामित्येव छेदो युक्तः ॥ सम्भवत्प्राप्तिकानां--सम्भवत्प्राप्तिकगुणनिमित्तकानां, अग्नि- १. ते. सं. १. ५. ९. २. तै. ब्रा. ३. ३. ७. ३. ते. सं. २.६.१. .
पा. ४. अधि. ४.] भादृचिन्तामणिसहिता । १२५ धेयत्वं वेति चिन्तायां प्रसिद्धेर्गुणविधित्वमेव युक्तम् । न च वाक्यभेदः ; विधेया- नेकत्वाभावात् । अग्निहोत्रपदे अग्नये होत्रमस्मिन्निति व्युत्पत्त्या उपसर्जनार्थोऽग्निर्देवता विधीयते । न च 'यदग्नये च प्रजापतये च सायं जुहोति' इत्यनेन तस्याः प्राप्तत्वाद- विधानम् । तत्र अनेकगुणोपादानेन विशिष्टकर्मान्तरविधरावश्यकत्वात् एतद्वाक्यविहिते: कर्मणि तत्प्राप्तेरभावात् । अतो यत्र दींहोमादौ आग्नेयो मन्त्रः पठितः तादृशदी- होत्रादिपदानामित्यर्थः ॥ प्रसिद्धेरिति ॥ अग्निशब्दस्य अग्निरूपगुणे प्रसिद्धत्वादिति भावः ।। गुणविधित्वमिति ॥ 'यत्साय प्रातश्च जुहोति' इति वाक्यविहितकालद्वयविशिष्टहोमो- देशेनेति भावः । आघारवाक्ये गुणवाचकत्वमित्येव पूर्वः पक्षः । तस्य संस्कारविधित्वात् समिद्वाक्ये सक्तुन्यायेन विनियोगभङ्गः 'विष्णुं यजति' इतिवद्देवताविधिवेत्याशयः । हात- शब्देन औणादिकतन्प्रत्ययान्तेन हयमानद्रव्याभिधानात् , तस्य देवतावाचकाग्निपदेन समाहार- द्वन्द्वे सत्युभयविधानाद्वाक्यभेदं शङ्कते-न च वाक्यभेद इति ॥ परिहरति-विधे- येति ॥ होत्रशब्दस्य होमसाधनद्रव्यसामान्यपरत्वेन विपाकाङ्क्षायां दध्यादिवाक्यैर्विशेष- समर्पणे तैरेव विशेषविपयेव्यप्राप्तिसम्भवेन सामान्यविधर्व्यर्थत्वान्न द्रव्यविधिः, किन्तु देवतामात्रविधिरिति न वाक्यभेद इति भावः ॥ अग्नय इति ॥ प्रकृतिविकारभावाभावेन चतुर्थीसमासस्यासम्भवात् , सम्बन्धिविशेषापरिज्ञानेन षष्ठीसमासानुपपत्तेः, शौण्डादिगणपाठा- भावेन सप्तमीसमासायोगात् , 'यदाहवनीये जुहाति' इति वाक्येनैव प्राप्तार्थत्वात् , अग्नौ होत्रमस्मिन्निति समासस्यायोग्यत्वाच्च अगत्या छान्दससमास एवायमिति कश्चित् ; तन्न, बहुव्रीहि. सम्भवात् । अत एव अग्नये होत्रमस्मिन्निति मूले व्युत्पत्तिरुक्ता । ननु 'अनेकमन्यपदार्थे' इति सूत्रेण समानाधिकरणानामेव बहुव्रीहिविधानादग्नय हात्रमस्मिन्निति व्यधिकरणबहुव्रीहिर्न युक्त इति चेन्न; 'सप्तमीविशेषणे बहुव्रीहा' इति सप्तमीगर्भव्यधिकरणबहुव्रीहिश्शास्त्रसम्मततया तेनैव सामान्यप्रापकेन चतुर्थीगर्भव्यधिकरणबहुव्रीह्यङ्गीकारात् । अत एव 'सच्छास्त्रजन्यो हि विवेकलाभः' इत्यत्रावयॊ जन्माद्युत्तरपदो व्यधिकरणबहुव्रीहिरिति वामनः । एवञ्च बहुव्रीहिणैव मत्वर्थस्योक्तत्वान्न मत्वर्थलक्षणेत्याह पार्थसारथिः ॥ उपसर्जनार्थ इति ॥ 'लोहितोष्णीषाः' इत्यादी लोहित्यवदित्यर्थः । अग्नेर्वचनान्तरेण प्राप्तत्वान्न विधानमित्याशङ्कय परिहरति-न चेत्यादिना ॥ अनेकगुणेति ॥ 'यदग्नये च' इत्यत्राग्नेः प्रजापतेः सायङ्का- लस्य च श्रवणेनानेकगुणविधाने वाक्यभेदापत्त्या विशिष्टकर्मान्तरविध्यवयम्भावेन तेनाग्नि- प्राप्त्यसम्भवादित्यर्थः । न च सायं प्रातर्वाक्यविहितकमीदशेन 'यदग्नये च ' इत्यनेनाग्नि- प्रजापत्युभयविशिष्टैककारकविधानान्नोक्तदोप इति वाच्यम् ; विभक्तिभेदेन कारकनानात्वादिति भावः ॥ एतद्वाक्यविहिते अग्निहोत्रोत्पत्तिवाक्यविहिते । गुणविधानायानुवाद्यप्राप्तिमाह- यत्रेति ॥ सायं प्रातर्वाक्यविहितहोमादावित्यर्थः ॥आग्नेयो मन्त्र इति॥ अनेन देवतान्तरावरोधो १२६ भाट्टदीपिका [अ. १. होमानुवादेन देवतामात्रमनेन विधीयते विशिष्टकर्मान्तरं वा । न च तेन तत्प्राप्तिसम्भवः मान्त्रवार्णिकविधेरकल्पनीयत्वात् । आधारवाक्यजपि द्वितीयान्ताघारपदेन क्षरणसाधना- ज्यादिद्रवद्रव्यमभिधीयते । धातुना च क्षरणाख्यसंस्कारः तदुद्देशेन विधीयते, अविनियुक्तस्य संस्कारायोगात् । प्रकरणकल्पितवाक्येन उपांशुयाजाङ्गतया द्रवद्रव्यं विधीयते । 'चतुर्ग्रहीतं वा एतदभूत् । तस्याघारमाघार्य' इत्यनेन प्रयाजाङ्गभूत- चतुर्गृहीतविशेषसमर्पणम् । सर्वथा आधारपदं द्रव्यपरं न नामधेयमिति प्राप्ते- नास्तीति सूचितम् । ननु ' यदग्नये च' इति वाक्यविहितकर्मण एव अग्निहोत्रनामसिद्ध्यर्थं अग्निहोत्रवाक्यं विद्वद्वाक्यवदनुवादोऽस्त्वित्यत्राह --विशिष्टेति ॥ ‘अग्निहोत्रं जुहोति' इत्यत्राग्निदेवताविशिष्टं कर्म विधीयते । 'यत्सायं प्रातश्च' इति वाक्ये तस्यैवाभ्यासविधिः । मन्त्रद्वयविधिरभ्यासाभिप्रायेण प्रातःकालिकाभ्यासमन्त्रस्थसूर्यपदस्यैन्द्रीन्यायेनाग्निलक्षणा । 'यदग्नये च' इति वाक्यद्वयं तु पूर्ववदेव व्यवस्थितकर्मद्वयविषयमिति सर्वेषां विधायकत्व- सम्भवे अनुवादकत्वस्यायुक्तत्वादिति भावः । ननु 'अग्निर्कोतिर्योतिरग्निस्वाहा इति सायं जुहोति' इति वचनविहितमन्त्रवर्णादेव सिद्धान्त इवाग्निहोत्रवाक्यविहितकर्मणि देवता- प्राप्तिसम्भवान्न गौरवापादकविशिष्टविधित्वं युक्तमित्याशयेन शङ्कते-न चेति ॥ परिहरति-मान्त्र- वर्णिकेति ॥ मन्त्रवर्णो न विधायकः ; लिङाद्यभावात् । अतो मन्त्रवर्णेन विधिः कल्प्यः । स च कल्पनागौरवात्प्रत्यक्षवचनादेव प्राप्तिसम्भवाच्चायुक्त इति भावः । आधारवाक्ये गुण- वाचकत्वमुपपादयति-आधारवाक्य इति ॥ आडुपसृष्टात् घारयतेः ' अकर्तरि च कारके संज्ञायां' इत्येरचि कृते घार्यतेऽयमित्याघारो द्रवद्रव्यं, न तु भावव्युत्पत्त्या कर्मनामधेयमित्यर्थः। आदिना दधिपयस्सोमादीनां परिग्रहः । ततश्च द्वितीयान्ताघारपदेन क्षरणसमर्थद्रवद्रव्य- मनूद्य तदुद्देशेन क्षरणाख्यसंस्कारविधिः । यथा पात्रस्थपानीयस्य क्षरणेन संस्कारः, एवं आज्यादीनामपीत्याघारपदं द्रव्यपरमिति भावः । संस्कारस्योपयोगमाह-अविनियुक्तस्येति ॥ भूतभाव्युपयोगविधुरस्येत्यर्थः। ततश्च संस्कारविध्यन्यथानुपपत्त्या क्षरणसंस्कृतद्रव्येण उपांशुयाज भावयेदिति प्रकरणकल्पितविधिनोपांशुयाजाङ्गत्वमित्यर्थः। न च संस्कारविध्यनुपपत्त्या विनियोग- कल्पने सक्तुष्वपि तदापत्तिरिति वाच्यम् ; सक्तूनां पूर्वमुपयोगाभावनोपयुक्तसंस्कारासम्भवात् , होमेन भस्मीभूतानामुपयोक्ष्यमाणत्वासम्भवाच्च तत्र तदकल्पनमित्याशयात् । ननूपांशुयाजाज्य- संस्कारकत्वं न युक्तम् । जौहवाज्यस्य प्रयाजार्थतया तस्य क्षरणेन उपांशुयाजाज्यसंस्कारा- सम्भवादित्यस्वरसात् चतुर्गृहीतवाक्यप्राप्तजौहवाज्योद्देशेन संस्कारविधिरित्याह-चतुरिति ॥ ततश्च प्रयाजाङ्गजौहवचतुर्ग्रहीतोद्देशेन संस्कारविधिरित्यर्थः । सर्वधा-पक्षद्वयेऽपि ॥न नाम- धेयमिति ॥ कर्मण इति शेषः । 'सायं जुहोति' इत्यादिवाक्यप्राप्तहोमानुवादेन गुणविधिर्न --- १. आधारपदेऽपि इति पाठान्तरम् ।
पा. ४. अधि. ४.] भादृचिन्तामणिसहिता । १२७ । मन्त्रवर्णकल्प्यविधिनैव प्राप्तिसम्भवेऽस्य पूर्वप्रवृत्तविधिवैफल्यापत्तेः, अभ्युदय- शिरस्कत्वस्य च सम्भवति प्रथमविध्यापादकधात्वर्थविधौ अन्याय्यत्वात् न तावद्दवी- होमानुवादेन देवताविधिः । नापि विशिष्टकर्मान्तरविधिः ; 'अग्निोतियोतिरग्नि- सम्भवति, तद्वाक्यस्य कालविधित्वोपपत्ता विशिष्टविधिगौरवस्यानुचितत्वादग्निहोत्रवाक्य- स्याग्निहोत्रनामककर्मविधित्वे 'सायं जुहोति' इत्यस्य कालविधायकत्वेन वाक्यद्वयेऽपि विशिष्टविध्यभावाल्लाघवमित्यमुमर्थं हृदि निधाय दहिभानुवादेन गुणविधिरिति पक्षं दूषयति- मन्त्रवर्णकल्प्येति ॥ विधिहि स्वलाघवाय प्रमाणान्तरमालोच्य प्रकारान्तरेणाप्राप्तमर्थं विधत्ते । प्रकारान्तरेण प्राप्तिसम्भवे तदंशेऽनुवादमामित्युत्सर्गः । प्रकृतं च मन्त्रवर्णकल्प्यविधि- नैव गुणप्राप्तिसम्भवान्न तद्विषये विधिव्यापार इति न गुणविधित्वमित्यर्थः । ननु मन्त्रवर्ण- कल्पितविध्यपेक्षयास्य पूर्वप्रवृत्त्यङ्गीकारण गुणविधित्वसम्भव इत्यत आहविधिवैफल्या- पत्तेरिति ॥ फलसत्त्वे हि मन्त्रवर्णात्पूर्वं वचनप्रवृत्तिः, न विह । फलाभावादित्यर्थः । ननु मित्रविन्दादिसाप्तदश्यवत् उभाभ्यां विहिता गुण इति ज्ञानपूर्वकानुष्ठानेनाभ्युदय इति कल्प्यत इत्यत आह -अभ्युदयेति ॥ विधिसन्निहितधात्वर्थविधिसम्भवे तत्कल्पन- स्यान्याय्यत्वात् । अभ्युदशिरस्कत्वस्यागतिकविषयत्वादिति भावः । देवताविशिष्टकर्म- विधिरिति पक्षं दूषयति-नापीति ॥ वचनेन मन्त्रविनियोगानुसारेण मान्त्रवर्णिकदेवताविधे- रवश्यकल्पनीयतया तत एवाग्निप्राप्तया अग्निहोत्रवाक्यस्य धात्वर्थमात्र विधानेन लाघवादिति भावः । अग्निहोत्रपदस्यान्तोदात्तत्वेन उक्तव्यधिकरणबहुव्रीहेवाचनिकत्वाभावेन च देवता- प्रापकप्रमाणत्वं न सम्भवतीत्येवकारेण ध्वन्योऽर्थः । तथा चायमर्थः । अग्निहोत्रवाक्ये परिशेषात्कर्ममात्रविधिः । तस्यैव सायम्प्रातर्वाक्येन कालभेदेनाभ्यासः । तद्भेदेन मन्त्रव्यव- स्थया सायमग्निः प्रातस्सूर्यः इति देवताव्यवस्था । ' यदग्नये च' इति वाक्यद्वयं तु तत्रेव देवतान्तरं विधत्ते । न च कालद्वयेऽपि 'यदग्नये च' इति वाक्याभ्यां प्रजापतिविधानेन वचनप्राप्तप्रजापतिना मान्त्रवर्णिकाग्निसूर्यबाधापत्तिरिति वाच्यम् ; चशब्दश्रुत्याग्निसूर्यसमुच्चित- प्रजापतिविधानेन बाधायोगात् । अन्यथा 'प्रजापतये जुहोति' इत्येतावदेव वचनं स्यान्नाधिकं, वैयर्थ्यापत्तः । ततश्चैतादृशवाक्यानर्थक्यप्रतिहतत्वेनोत्पत्तिशिष्टप्रायमान्त्रवर्णिकदेवताविधि- तुल्यबलत्वमस्य विधेस्सिध्यति । एतेन मान्त्रवर्णिकविधेरुत्पत्तिशिष्टप्रायत्वेन न तत्रोत्पन्न- शिष्टप्रजापतिनिवेशः । प्रत्युताग्नेः प्रजापतिं प्रति विशेषणत्वेन शेषत्वापत्तिश्चेति वरदराजोक्तं निरस्तम् । मन्त्रवर्णेन कवलाग्ने)माङ्गत्वे निश्चिते तत्काले अग्निः प्रजापतिश्च देवताद्वयमिति देवतयोस्सायङ्काले समुच्चय इत्यस्यैव सिद्ध्या समुच्चयविशिष्टत्वेन विधानेऽपि प्रजापतिं प्रति शेषत्वायोगात् । अन्यतः प्राप्तहोमाभिपवसमानकर्तृकत्वविधिना होमाभिपवयोः भक्षणाङ्गत्व- सिद्धयभावात् । न च मन्त्रवर्णाज्ज्योतिष्वगुणविशिष्टाग्निरेव देवतान्तरं स्यादिति वाच्यम् ; 'अग्नेः १२८ भाट्टदीपिका [अ. १. स्वाहा” इति वचनेन विनियुक्तमन्त्रवर्णेनैव देवताप्राप्तेः । 'यदग्नये च प्रजापतये च सायं जुहोति । यत्सूर्याय च प्रजापतये च प्रातः' इत्यत्र सायम्प्रातःकालीनदेवतासमु- चयविशिष्टप्रजापतिमात्रविधानम् । अत एव यथैव केवलदेवत्यमन्त्रलिङ्गेन केवलयो- देवतात्वं तथा 'अग्निज्योतिर्योतिरसूर्यस्स्वाहेति सायं जुहोति । सूर्यो ज्योतिर्योति- रग्निस्स्वाहेति प्रातः" इति मिश्रलिङ्गकमन्त्रवर्णात् मिश्रयोरपि तत् । ततश्च 'यदग्नये च' इति वाक्यस्थाग्निसूर्यपदं सायम्प्रातःकालीनदेवतालक्षकम् । सायम्प्रातःकालपदं तात्पर्यग्राहकम् । चशब्दोपस्थितसमुच्चयस्य प्रजापतावन्वयस्य निपातोपसर्गार्थत्वेन व्युत्पन्नत्वात् न विधेयानेकता । अतश्चाग्नेर्देवतात्वादिना अग्निहोत्रहोमे प्राप्तत्वात् पूर्वाहुतिः, प्रजापतेरुत्तरा, यदग्नये च' इत्यादिषु केवलाग्नेरेव निर्देशेन केवलस्यैव देवतात्वोचि- त्यान्मन्त्राग्नातस्यापि गुणस्य तत्राप्रवेशात् । नन्वेवमपि केवलाग्नेर्देवतात्वमनुपपन्नं 'अग्निोति- ज्योतिस्सूर्यस्वाहेति सायं जुहोति, सूर्यो ज्योतिर्योतिरग्निस्स्वाहेति प्रातः' इति वचनाभ्यां मन्त्र- द्वयविधानेन सूर्यसहिताग्न्यादेर्देवतात्वावश्यम्भावादिल्यत आह–अत एवेति ॥ मिश्रयोरपीति ॥ सूर्यसमुच्चिताग्नेः अग्निसमुच्चितसूर्यस्य चेत्यर्थः । तत्-देवतात्वम् । नन्वेवं 'यदग्नये च' इति वाक्येन केवलाग्न्योर्देवतात्वं प्रतीयमानं विरुध्येतेत्यतः पर्यवसितार्थमाह-ततश्चेति ॥ देवता- लक्षकमिति ॥ तथा च शुद्धमिश्रयोर्देवतात्वे न कश्चिद्दोष इति भावः । अत्र मन्त्रवर्णस्यैव दाशमिकन्यायेन शब्दविशेष इव तत्क्रयेऽपि व्यवस्थापकत्वात् अग्नये सूर्याय इति सायं प्रयोगः, सूर्यायाग्नय इति प्रातः ; न त्वग्निसूर्याभ्यामिति भिन्नविभक्तिस्थले देवतात्वस्य व्यासज्य- वृत्तित्वाभावादेकविभक्त्युपात्तयोः प्रत्येकतद्धितान्ततया त्वष्ट्रपत्नीवतोरिव भिन्नविभक्तिभ्यां प्रत्येकदेवतात्यावश्यम्भावात् । 'यदग्नये च इति चतुर्था देवतात्वबोध इति न्यायसुधापक्षेऽपि न मान्त्रवर्णिकमिश्रदेवताबाधः । यस्य वै द्वौ पुण्यो ग्रहे वस्तः' इत्युपक्रम्य मिश्रलिङ्गमन्त्री विधाय 'उभाभ्यां हूयते' इत्युपसंहारेण ईदृशसन्दर्भानर्थक्यप्रतिहतिसहकृतमन्त्रवर्णस्य चतुझं तुल्य- बलत्वेन केवलमिश्रयोर्विकल्पसिद्धिसम्भवात् । मन्त्रविधिचतुष्टयं त्वव्यवस्थया प्राप्तयोर्द्वयोर्द्वयो- मन्त्रयोस्तत्तत्कालिकप्रयोगभेदेन व्यवस्थार्थमिति भावः । ननु चशब्दोपात्तसमुच्चयस्य कथं प्रजापतावन्वयः । नामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वादित्यत आह—चशब्देति ॥ चन्द्र इव मुखं, घटो नास्तीत्यादी इवार्थनअर्थयोर्भेदेनान्वयानुरोधेनाव्ययनिपातातिरिक्तनामार्थयोरेव भेदेनान्वयस्याव्युत्पन्नतया प्रकृते समुच्चयस्य निपातार्थतया नानुपपत्तिरिति भावः । गौश्चा- श्वश्चेत्यादौ तथा व्युत्पत्तेरावश्यकत्वादित्याशयः ॥ न विधेयानेकतेति ॥ ततश्च विधेया- नेकत्वाभावेन वाक्यभेदप्रसक्त्यभावान्न विशिष्टकर्मान्तरविधिपरत्वमिति भावः ।। देवतात्वादि- नेति ॥ आदिना देवताशरीरघटकत्वपरिग्रहः । अत्राहवनीये होमद्वयमेवाग्निहोत्रं नापरयो- १. ते. बा. २. १. ९. २. ते. बा. २. १. २. ३. मिश्राणां इति पाठान्तरम् ।
पा. ४. अधि. ४.] भादृचिन्तामणिसहिता । १२९ अग्निहोत्रहोमे अग्नेर्होम इति व्युत्पत्त्या नामधेयम् । एवं आधारेऽप्युपांशुयाजे 'सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्बुवायामाज्यम् ” इत्यनेनैव द्रवद्रव्यस्य प्राप्तत्वात् प्रयाजा- ज्योद्देशेन संस्कारविधाने द्वितीयविधिप्रकारापत्तेः लाघवाद्भावव्युत्पन्नमाधारपदं नाम- धेयं, विधेयश्च धातुलक्ष्यो होम एव । 'इन्द्र ऊोऽध्वर इत्याघारमाघारयति' इति मान्त्रवर्णिकेन्द्रदेवतायाः 'चतुर्गृहीतं वा' इत्यनेन द्रव्यस्य च लाभात् । एवं समिदा- दिष्वपि वक्ष्यते । सर्वत्र द्वितीया करणत्वलक्षणार्थेति न विरोधः ॥ ४॥ रित्येकः पक्षः । द्वे आहवनीये, द्वे गार्हपत्ये, द्वेऽन्वाहार्यपचन इति षडाहुतिपक्षो द्वितीयः । द्वे आहवनीये, चतस्रो गार्हपत्ये, चतस्रोऽन्वाहार्यपचन इति दशाहुतिस्तृतीयः । आद्यपक्षे प्रात)मे अग्न्यभावेऽपि एकस्यैव कर्मणः कालभेदेनाभ्यासात् सायङ्कालिकप्रयोगे अग्नि- देवताकत्वमात्रेण एकदेशप्रवृत्तिनिमित्तेन वैश्वदेवाधिकरणरीत्या तत्प्रख्यन्यायेन नामता । पक्षे- तरयोः प्रातामेऽपि 'अग्नये गृहपतयेऽग्नये संवेशपतयेऽग्नयेऽन्नादायानपतये' इति वाऽ- पराग्निकहोमे देवताघटकतयाऽग्नेः सत्त्वान्नामत्वोपपत्तिरित्यर्थः । होत्रशब्दो भावे व्युत्पन्न इत्यभिप्रायेणान्तोदात्तानुगुणं समासमाह-अग्नेर्होम इति ॥ योगरूढिवशादतिप्रसङ्गनिरास इति भावः । आधारवाक्ये सिद्धान्तमाह-एवमिति ॥ उपांशुयाजे द्रव्यविनियोगं दूषयति—सर्वस्मै वेति ॥ प्राप्तत्वादिति ॥ ततश्च संस्कृताज्यस्य नोपांशुयाजे विनियोग इति भावः । ननूपांशुयाजे विनियोगासम्भवेऽपि प्रयाजे विनियोगः सम्भवतीत्यत आह-प्रयाजेति ॥ द्रव्योद्देशेन धात्वर्थविधानेन विधेः पदान्तरसापेक्षत्वादुर्बलविधिप्रकारा- श्रयणमेव दोष इत्यर्थः ॥ भावेति ॥ भावव्युत्पत्त्याऽऽघारपदं यागनामधेयमित्यर्थः । याग- प्राप्तिमाह-धातुलक्ष्य इति ॥ लक्षणया धातुप्रतिपाद्य इत्यर्थः । एवं च होमे प्रक्षेपांशस्य क्षरणस्यान्यतो लाभादाघारशब्दो भावघअन्तः । तत्प्रख्यन्यायेन नामधेयमिति भावः । धातु- लक्ष्ययागस्य द्रव्यदेवते उपपादयति–इन्द्र इति ॥ चतुर्गृहीतं वेति ॥ ततश्च मान्त्रवर्णिक- देवतायाश्चतुर्गृहीतद्रव्यस्य च सत्त्वादाघारशब्दस्य यागबोधकत्वमिति भावः । अत्रायं विशेषः । 'चतुर्ग्रहीतं वा एतत्' इति वाक्ये तस्येति कर्मणि षष्ठया प्रयाजीयद्व्यसंस्कार- कत्वात्त्यागांशेनारादुपकारकः,प्रक्षेपांशेन सन्निपत्योपकारकः स्विष्टकृद्वत्संस्कारकर्मणामप्यंश्वदा- भ्यवन्नामत्वसम्भवाद्विकृतिषु 'द्वावाघारो' इत्यादिव्यवहारोपयोगाच आज्यस्य यजनित्यादाविव गुणपरैव षष्ठी । अतः परप्रयुक्तद्रव्योपजीव्यत्वेऽपि न संस्कारकर्मत्वमिति केचित् ॥ एव- मिति ॥ समिद्वाक्येऽपि चतुर्ग्रहीतद्रव्यमान्त्रवर्णिकदेवतयोश्च प्राप्तत्वात्तत्प्रख्यन्यायेन नामत्व- मित्यभ्यासाधिकरणादौ वक्ष्यत इत्यर्थः । नन्वेवं नामत्वे धात्वर्थस्यैव विधेयतया करणत्वेन द्वितीयानुपपत्तिरित्यत आह-सर्वत्रेति ॥ अग्निहोत्राघारवाक्यादावित्यर्थः ॥ द्वितीयेति ॥ १. ते. ब्रा. ३. ३. ५. 17 १३० भाट्टदीपिका [अ. १ (५)-तद्वयपदेशं च ॥ ५॥ 'श्येनेनाभिचरन् यजेत' इत्यादौ पूर्वोक्तबाधकाभावात् प्रसिद्धेः श्येनादिपदानां. गुणविधित्वमेव । प्रकृतसोमयागाश्रितो गुणः फलोद्देशेन विधीयते, विशिष्टकर्मान्तरं वा । न चैवं 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते' इत्यर्थ- वादे स्वस्यैव स्वोपमानत्वानुपपत्तिः । उपक्रमनिर्णीतविध्यनुरोधेन उपसंहारस्थार्थ- अर्थाक्षिप्तसाध्यत्वानुवादिनी एकार्थसमवायेन करणत्वलक्षिकेत्यर्थः । सूत्रार्थस्तु, तत्प्रख्यं विधित्सितगुणप्रापकं; अन्यशास्त्र-शास्त्रान्तरं यत्र तदप्यग्निहोत्रादिपदं नामधेयं स्यादिति ॥ तद्वयपदेशश्च ॥ ताण्डिशाखायां ज्योतिष्टोमप्रकरणे 'अथैषश्श्येनेनाभिचरन्यजेत, अथैष गवाभिचर्यमाणो यजेत' इति श्रूयते । अभिचरन्-वैरिणं मारयन् , वैरिमरणकाम इति यावत् । 'भ्रातृव्यं निपत्यादत्ते' इति वाक्यशेषात् । अभिचर्यमाणः-वैरिणा मार्यमाणः; वैरिकृत- खमरणकर्ममोघीकरणेन खसंरक्षणकाम इति यावत् । 'यथा गावो गोपायन्ति' इति वाक्यशेषात्। इत्यादाविति ॥ आदिना 'सन्दशेनाभिचरन्यजेत' इत्यादिपरिग्रहः । पूर्वपक्षमाह-पूर्वोक्तेत्या- दिना ॥ न चात्रोद्भिन्न्यायः, श्येनादिपदानां दध्यादिवद्गुण एव प्रसिद्धत्वेन तेषां फले विधाने इन्द्रियकामवाक्यवत् मत्वर्थलक्षणाभावेन तदप्रवृत्तेः । नापि चित्राधिकरणन्यायः, वाक्यभेदाभावेन तस्याप्यप्रवृत्तेः । नापि पूर्वाधिकरणन्यायः, तत्प्रापकशास्त्राभावेन तस्याप्य- सम्भवादिति भावः । एतेन प्रत्युदाहरणरूपेण पूर्वपक्षोत्थानात्सङ्गतिरिति सूचितम् ॥प्रकृतेति॥ प्रकरणात्सोमयाग आश्रय इत्यर्थः । अत्र सिद्धान्ते श्येनपदस्य गौण्या यागपरत्वं वाच्यम् । गौणी च लक्षणातो निकृष्टैव । तस्या गुणगुण्युभयलक्षणात्मकत्वात् । तदुक्तं वार्तिके 'अभि- धेयाविनाभूतप्रवृत्तिलक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥' इति । श्रौतार्थस्य वाक्यार्थेऽन्वयानन्वयाभ्यां लक्षणातो गोण्या निकृष्टत्वम् । उक्तं चाचार्यैः 'वृत्त्यर्थोपादानेन कर्मणि प्रवृत्तावत्यन्तविप्रकृष्टगौणता स्यात्ततो वरं मत्वर्थलक्षणा' इति । अतो मत्वर्थलक्षणा- ङ्गीकारेण पक्षान्तरमाह-विशिष्टेति ॥ न चैवं अस्मिन् पक्षेऽपि श्येनस्यैव यागीयद्रव्यत्वादु- भयोः को विशेष इति वाच्यम् ; सोमयागमाश्रित्य फलोद्देशेन गुणविधिपक्षे सौमिक- विध्यन्तप्राप्तिः, विशिष्टविधिपक्षेऽग्रीषोमीयविध्यन्त इति भेदात् । केवलगुणविधिपक्षे उपमानानुपपत्तिं शङ्कतेन चैवमिति ॥ विधेयस्यैव प्राशस्त्यापेक्षयार्थवादान्वयो वक्तव्यः । ततश्च गुणविधौ श्येनरूपगुणस्यैव तथात्वेन तत्र श्येनसादृश्यान्वयो न सम्भवति सादृश्यस्य भेदघटितत्वादिति भावः । परिहरति--उपक्रमेति ॥ श्येनशब्दे दधि- सोमादिशब्दवदत्यन्तनिरूढत्वेन गुणविधित्वे निर्णीते उपक्रमन्यायेनोपसंहारस्थार्थवादस्य द्वारविशेषाविवक्षया प्राशस्त्यलक्षकत्वोपपत्तेरित्याशयः । यद्वा श्येनस्यैवोपाकृतानुपाकृतभेदेना- वस्थाभेदमाश्रित्य यथानुपाकृतःश्येनो निपत्य मत्स्यादीनादत्ते एवमुपाकृतोऽपि श्येनः शत्रू- ..
पा. ४. अधि. ५.] भादृचिन्तामणिसहिता । १३१ वादस्य अन्यथा नेयत्वात् । 'ते तद्विलासा इव तद्विलासाः' इत्यादिवदनन्वयालङ्कार- स्याभेदे अनुगुणत्वात् इति प्राप्ते- नायमनन्वयालङ्कारः । तथात्वे सर्वेषामर्थवादपदानां उपमानान्तराभावलक्षक- त्वापत्तेः । तद्वरं भूयोऽनुग्रहस्यैव न्याय्यत्वात् उपक्रमस्थ एवैकस्मिन् पदे रूपक- निपत्य आदत्त इति स्तुतिस्सम्भवतीत्याशयः । उपमालङ्कारासम्भवेऽप्यलङ्कारान्तरेण वाक्य- शेषोपपत्तिः सम्भवतीत्याह-ते तद्विलासा इति ॥ 'न केवलं भाति नितान्तकान्तिर्नित- म्बिनी सैव नितम्बिनीव । यावद्विलासायुधलास्यभासा' इति पूर्वचरणत्रयं बोध्यम् । आदिना 'गगनं गगनाकारं' इत्यादेः परिग्रहः । सादृश्यं हि भेदघटितं, अनन्वयस्तु न भेदघटितः 'उपमानोपमेयत्वं यदेकस्यैव वस्तुनः' इति तल्लक्षणात् । ततश्च वाक्यशेषस्य द्वितीयसदृशव्यवछेदद्वारा प्राशस्त्यलक्षकतया. नानुपपत्तिरित्यर्थः । तत्रायमनन्वयलक्ष- णार्थः । द्वितीयसदृशव्यवछेदफलकत्वे सति एकोपमानोपमेयकसदृशत्वमनन्वयत्वम् । तत्र ‘लोहितपीतैः कुसुमैरावृतमाभाति भूभृतश्शिखरम् । दावज्वलनज्वालैः कदा- चिदाकीर्णमिव समये ॥' इत्यत्रैकस्यैव कालभेदेनोपमानोपमेयत्वदर्शनादतिव्याप्तिवारणाय सत्यन्तम् । चन्द्र इव मुखमित्यादावतिव्याप्तिवारणाय विशेष्यम् । एकोपमानोपमेयता- वच्छेदकवत्सादृश्यमिति फलितोऽर्थः ॥ नायमिति ॥ श्येनोऽयमिति पदयोर्वाक्यद्वये व्यवस्थया विशेष्यवाचकत्वेन श्रूयमाणयोः तथैवार्थवर्णने एकस्यैव धर्मिणो धर्मभेदेनोप- स्थिततयोपमानोपमेयतावच्छेदकभेदात् । अयं श्येनः यथा मत्स्यादीनादत्ते तथा भ्रातृव्य- मादत्त इत्यर्थवर्णने 'धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्ति' इत्यादाविव एक- कर्तृकक्रिययोरेवोपमानोपमेयभावप्रतीतेर्यथायं श्येन आदत्ते तथा अयं श्येन आदत्त इति वर्णने तु मत्स्यभ्रातृव्ययोर्बिम्बप्रतिबिम्बभावेनैकीकरणात् साधारणधर्मत्वेऽपि आवृत्ति- दूरान्वयाद्यापत्ते नन्वयालङ्कारस्सम्भवतीति भावः । ननु अवस्थाभेदेन भेदकल्पनयोपमालङ्कार एवास्त्वित्यत आह-तथात्व इति ॥ तत्सादृश्य इत्यर्थः ॥ सर्वेषां-बहूनाम् । उपमानान्तरा- भावः-उपमानान्तरं च अभावश्चेति द्वन्द्वः । अनुपाकृतो हि श्येन उपमानम् । तदनन्तरं तद्भेद उपाकृतत्वं तदभावो अनुपाकृतत्वं तयोरर्थयोः लक्षणापत्तेरित्यर्थः । श्येनपदस्य अनुपाकृते जीवति वा लक्षणा, अयमित्यस्योपाकृते मृते वा लक्षणा, आदत्त इति लटो भूते लक्षणेति पदत्रये लक्षणापत्तरिति भावः । एतेनानन्वयालङ्कारे निरुपमत्वबोधस्य व्यञ्जना- मूलत्वेन तत्र लक्षणोक्तिरयुक्तेल्यपास्तम् । उक्तरीत्या तदुपपत्तेरुपक्रमोपसंहारस्थपदानां समसङ्ख्यत्वे मुख्यानुग्रहः; विषमसङ्ख्यत्वे भूयसामनुग्रह इति द्वादशे वक्ष्यमाणमनुसृत्याह- तद्वरमिति ॥ रूपकविधयेति ॥ उपमेयतावच्छेदकरूपेणोपस्थितोपमेये उपमानतादात्म्यं शब्दात्प्रतीयमानं रूपकं "विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्" इति लक्षणात् । प्रकृतयाग- THF KIIDDITru....
१३२ भाट्टदीपिका [अ. १. विधया लुप्तोपमानविधया वा गौणी वृत्तिमङ्गीकृत्य नामधेयत्वं द्वितीयविधिप्रकारापादकं युक्तमाश्रयितुम् । अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थस्सन् विनैव लक्षणां पूर्णोपमानविधया विधेययागस्तुत्यर्थो न विरुध्यते । तत्सिद्धं चतुभिरेव प्रकारैः सर्वत्र नामत्वमिति ॥ ५॥ त्वावच्छिन्ने भावार्थाधिकरणन्यायेन करणत्वेनोपस्थिते श्येनेनेति सामानाधिकरण्येन तादा- त्म्यनिश्चयादिति भावः । रूपके सादृश्यस्य गम्यत्वेन वाक्यशेषस्य गम्यसादृश्योपपादक- त्वापेक्षया वाच्यसादृश्योपपादकत्वमेव युक्तमित्याशयेनाह-लुप्तोपमेति ॥ केचित्तु 'दधिमधु- घृतमापोधानास्तण्डुलास्तत्संसृष्टं' इत्यादाविव भिन्नार्थानां सामानाधिकरण्यमात्रेण तादात्म्य- नियमासम्भवात् श्येनाभिन्ने लक्षणैव वाच्या । तस्य च संसर्गमर्यादया भेदान्तरभाने बोधका- र्था सा स्यात् । अतः सदृशे एव लक्षणेत्यभिप्रायेण लुप्तोपमानुसरणमित्याहुः । यत्तु वेदे कापि रूपकाभावात् कुप्तोपमानुसरणमिति कैश्चिदुक्तं तत् 'योषा वाव गोतमाग्निः' इत्यादौ तदर्शनादुपेक्ष्यम् । उपमानोपमेयतासाधारणधर्मसादृश्यबोधकपदघटिता पूर्णा । सा च षड्डिधा । तेषां अन्यतमलोपे लुप्तोपमा । सा च अष्टविधेति प्राञ्चः । एकोनविंशतिविधेत्यन्ये । तत्रैषा धर्मवाचकलुप्ता । श्येनपदेनैव श्येनसदृशलक्षणया सादृश्यवाचकपदाभावादित्यर्थः । ननु विधेयमेव स्तोतव्यमिति नियमे मानाभावः, अविधेयस्यापि स्तुतेर्विधेयानुगुणत्वमात्रेणार्थ- वादत्वसम्भवात् ; वेतसावकाविध्यर्थवादे तज्जनकानां स्तुतिदर्शनात् । ततश्च गुणविधिपक्षे- ऽपि अयमिति शब्दः यागपर एवास्त्वित्यत आह-द्वितीयेति ॥ अन्योद्देशेन धात्वर्थकरणक- भावनाविधिरित्यर्थः । चतुर्थविधेः जघन्यत्वादयमिति सर्वनाम्नोऽसति बाधके पूर्वोपात्तविशेष- परामर्शित्वस्यौत्सर्गिकत्वान्नैतद्युक्तम् । विशिष्टविधिपक्षस्तु षष्ठविधित्वादतिजघन्यः । विधेय- गुणवाचकपदे मत्वर्थलक्षणापेक्षया धात्वर्थानुवादकनामधेयस्य गोण्या एव युक्तत्वादिति भावः ॥ विनैव लक्षणां-उपाकृतानुपाकृतलक्षणां प्राशस्त्यलक्षणां वा विना ॥ पूर्णोपमेति ॥ वै निश्चितार्थकः । प्रसिद्धःश्येन उपमानम् । अयमिति श्येननामकयाग उपमेयः । यथैवमि- त्युपमावाचकः । निपत्यादानं साधारणो धर्म इति चतुर्भिः पूर्णत्वात् पूर्णोपमेत्यर्थः । यागे निपत्यादानासम्भवेऽपि बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावान्यतररीत्या आशङ्कितोपस्थितमृ- तिजनकत्वध्वननेन धर्मैक्यमुन्नेयमिति तात्पर्यार्थः । अधिकमस्मत्कृतकाकताळीयवादार्थे द्रष्ट- व्यम् ॥ चतुभिरेवेति ॥ न च यौगिकरूढलाक्षणिकभेदेन त्रिप्रकारत्वमेव नामधेयस्येति वाच्यम् ; निर्णायकन्यायचतुष्ट्राभिप्रायेण चतुर्भिरित्युक्तत्वात् । यद्यपि वैश्वदेवपदस्य नामत्वं पश्चमन्यायादिति प्राचीनरुक्तम् । तथापि तत्पदस्य तत्प्रख्यन्यायेन नामत्वस्य वक्ष्यमाणत्वा- तदनादरणीयमित्याशयेनैवकारः । सूत्रार्थस्तु, तस्य-गुणस्य । व्यपदेशं सादृश्यं, यस्मिन् श्येनादिपदे तदपि नामधेयं स्यादिति ॥ ।
पा. ४. अधि. ६.] भादृचिन्तामणिसहिता। १३३ । (६)-नामधेये गुणश्रुतेम्स्याद्विधानमिति चेत् ; तुल्यत्वा- क्रिययोन ॥ ७ ॥ ऐकशब्द्ये परार्थवत् ॥ ८ ॥ एवं' यत्र यत्र विशिष्टविधिपूर्वपक्षे यानि यानि दूषणानि मत्वर्थलक्षणादीनि तानि तानीहाक्षिप्यन्ते । यदीह यागस्य कारकत्वं स्यात् तदा सोमादीनां कारकान्त- राणां तदन्वयानुपपत्तेः मत्वर्थलक्षणा भवेत् ; उभयविशिष्टभावनाविधानं वा । न ह्येतदभ्युपगमे प्रमाणमस्ति । यागस्य क्रियारूपत्वाङ्गीकारात् । अतश्च तस्मिन् सर्व- कारकाणां भावनावदेव विनैव मत्वर्थलक्षणां विनैव च वैरूप्यं सम्बन्धोपपत्तिः । यागस्य च क्रियारूपत्वेऽपि सम्बन्धसामान्येन भावनान्वयो न विरुद्धः । भावना व नामधेये गुणश्रुतेस्स्याद्विधानमिति चेत्तुल्यत्वात्क्रिययोर्न ॥ 'उद्भिदाद्यधिकरण- चतुष्टयोक्तमत्वर्थलक्षणादिदोपाणां आक्षेपिकी सङ्गतिरित्यभिप्रेत्याह-एवमिति ॥ अधिकरण- चतुष्टयोक्तरीत्येत्यर्थः । मत्वर्थलक्षणादिविरहमुपपादयति—यदीहेत्यादिना ॥ यागस्येति ।। 'सोमेन यजेत' इत्यादाविति शेषः ॥ तदन्वयानुपपत्तेः-----यागान्वयानुपपत्तेः, कारकाणां परस्परसम्बन्धाभावादित्यर्थः ॥ उभयेति ॥ उभयविशिष्टभावनाविधिप्रयुक्तगौरवं वा स्या- दित्यर्थः ॥ न हीति ॥ धातूत्तरं करणादिविभक्त्यश्रवणादिति भावः । क्रियारूपत्वाङ्गीकारा- दिति ॥ 'भूवादयो धातवः' इत्यत्र वाशब्देन क्रियावाचकत्व एव धातुसंज्ञाविधानात् , क्रियात्वस्य च 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रिये- त्यभिधीयते' इति हरिणा निखिलकारकसाध्यव्यापारसमूहत्वेन लक्षिततया 'क्रियां कुर्वद्धि कारकं' इति लक्षिततजनकत्वस्य क्रियायामसम्भवादिति भावः । तस्मिन्-यागे ॥ भावना- वदेवेति ॥ सिद्धान्तरीत्या दृष्टान्तोपन्यासः । यत्नरूपायां तस्यां कारकाजन्यायां कारका- न्वयायोग्यत्वादपि न कारकान्वय इति भावः । ननु यागस्य कारकत्वाभावे भावनान्वयो न स्यात् ; कारकाणामेव क्रियान्वयनियमादित्यत आह—यागस्येति ॥ सम्बन्धेति ॥ रेवत्यधिकरणे भावनाया अपि भावनान्वयस्य व्युत्पादनात् । सम्बन्धसामान्येन क्रियारूप- यागस्य भावनान्वये न किञ्चिद्बाधकम् । कारकाणां क्रिययैवान्वय इत्येव नियमो न कारकाणा- मेव क्रियान्वय इति ; षष्ठयन्तानां भावनान्वयानापत्तेः । 'गुरुविप्रतपखिदुर्गतानां प्रति- कुर्वीत भिषक् स्वभेषजैः' इत्यादौ षष्ठयन्तार्थस्य क्रियान्वयानापत्तेरिति भावः । नन्वेवमाख्या- तार्थस्य धात्वर्थेऽन्वयो वा, धात्वर्थस्य आख्यातार्थे वेति विनिगमनाविरहेण क्रियाद्वयविशेष्यक- बोधद्वयाङ्गीकारापत्तिः । नापि प्रत्ययार्थप्राधान्यात् प्रत्ययार्थे धात्वर्थस्यान्वयः । क्रियारूपा- ख्यातार्थस्य कारकाकाङ्क्षानुरोधेन कारकान्वयस्यैव युक्ततयाऽनाकाङ्क्षितस्य सम्बन्धसामान्येना- न्वयायोगादित्यत आह—भावना चेति ॥ तन्मते धात्वर्थस्यैव क्रियारूपत्वाङ्गीकारेण १. पूर्व इति पाठान्तरम् ।
१३४ भाट्टदीपिका [अ. १. वैयाकरणवदतिरिक्ता नैवाङ्गीक्रियते । अतश्च उद्भिदादिष्वपि सर्वत्र गुणविधित्वमेव युक्तम् । वाजपेयोदाहरणं तु मूले गुणसूत्रानुरोधेनेति प्राप्ते- पचतीत्यस्य पाकं करोतीति विवरणात् धात्वर्थस्य कर्मत्वकरणत्वान्यतरकारक- वेनैव भावनान्वयः । भावना च यथाऽतिरिक्ता तथा वक्ष्यते । अतश्चेतरकारकाणां धात्वर्थान्वयानुपपत्तेः अगत्योभयविशिष्टभावनाविधानं सोमादावङ्गीकृतम् । प्राचीन- रीत्या वा मत्वर्थलक्षणा । अन्यथा श्रुत्यैव फलगुणयोः यागान्वये फलान्वयार्थ तत्रैव सकलकारकान्वयसम्भवे किमतिरिक्तभावनाङ्गीकारेणेति भावः । पूर्वपक्षमुपसंहरति अतश्चेति ॥ ननूद्भिदादीनां चतुर्णा अत्रोदाहरणत्वे भाष्ये वाजपेयोदाहरणं किमर्थमित्यत आह-मूल इति ॥ गुणसूत्रेति ॥ वाज-अन्नं, पेयं-सोमरूपं अस्मिन्निति बहुव्रीहिणैव मत्वर्थ- लाभेन लक्षणाभावाद्गुणविधित्वमेवेत्याक्षेपपरिहाराय 'तुल्यत्वात्क्रिययोर्न' इति गुणसूत्रम् । तथात्वे द्रव्यसादृश्यस्य बलवत्त्वेन ऐष्टिकविध्यन्तप्राप्तेः 'सप्तदशदीक्षो वाजपेयः' इत्यादिलिङ्गदर्शनानुप- पत्तिरिति तदर्थानुगुण्याय वाजपेयोदाहरणं भाष्यकारस्योपपद्यत इति भावः । सम्बन्धसामान्येन भावनान्वयं निराकरोति-पचतीत्यादिना ॥ कारकत्वेनैवेति ॥ न तु सम्बन्धसामान्येने- त्यवधारणार्थः । तथा सति गुणफलयोः अनन्वयापत्तेः, यागं भावयेदिति बोधोत्तरमेव केनेति गुणात्मककरणाकाङ्क्षोत्पत्तेः, यागेन भावयेदिति बोधानन्तरमेव किमिति भाव्या- काङ्क्षादर्शनात् यागसम्बन्धिभावनेति बोधे आकाङ्क्षाया अननुभवात् । भावनायाः प्रवर्तना- विषयत्वबोधे धात्वर्थस्य पुरुषार्थत्वाभावात् न भाव्यत्वमिति करणत्वेनैव धात्वर्थस्या- न्वयः । पुरुषार्थत्वावगमानन्तरन्तु कर्मत्वेनान्वय इति नाव्यवस्थेत्याशयः । धात्वाति- रिक्तभावना नाङ्गीक्रियत इत्युक्तं निरस्यति-भावना चेति ॥ वक्ष्यत इति ॥ भावार्थाधिकरण इति शेषः । धात्वर्थस्य करणत्वेनान्वये जाते पाठिकबोधवेळायां करणफलयोः सिद्धत्व- साध्यत्वाभ्यामुपस्थित्या भूतभाव्यसमुच्चारणन्यायेन परस्पराकाङ्क्षया करणेन फलस्यैव सम्बन्धः; न गुणस्य । 'नासाधितं करणं' इति न्यायेन करणस्य साध्यत्वेनोपस्थित्यनन्तरं तु गुणस्यैव सम्बन्धः; न फलस्य । ततश्च सिद्धत्वसाध्यत्वयोः परस्परविरुद्धयोर्युगपन्नैकस्मिन् धात्वर्थेऽन्वय- बोधसम्भवः । क्रमेण द्विविधबोधाङ्गीकारे त्वावृत्तिलक्षणो वाक्यभेद इत्यभिप्रायेणाह- इतरकारकाणामिति ॥ साध्यत्वसाधनत्वयोर्विरोधमेवोपपादयति-अन्यथेत्यादिना ॥ विरुद्ध- त्रिकद्वयेति परस्परविरुद्धद्विकानां त्रयमित्यर्थः । भावनायाः केन कथं किमित्यंशत्रयाकाङ्क्षा- पूरणाय ज्ञानकृतीच्छाविषयतात्रयस्यैकस्मिन् वस्तुनि क्रमेण बोधकास्त्रयो विधयः; उत्पत्ति- विधिः, विनियोगविधिः, प्रयोगविधिरिति । तत्र यागेनेष्टं भवतीति केवलोत्पत्तिविधिः; यत्रान्यतः प्राप्त स्वर्गमनूद्य तजनकत्वेन यागो विधीयते । एतद्वाक्यजन्यज्ञानीयविषयताविशेषौ अनु- वाद्यत्वविधेयत्वे ज्ञातज्ञापनविषयत्वं अज्ञातज्ञापनविषयत्वं चेति तयोः स्वरूपम् । एकस्मिन् पा. ४. अधि. ६.] भादृचिन्तामणिसहिता । १३५ , यागस्य उपादेयत्वविधेयत्वगुणत्वानि गुणान्वये चोद्देश्यत्वानुवाद्यत्वप्रधानत्वानीति विरुद्धत्रिकद्वयापत्तेः । उपादेयत्वादिनिरुक्त्यादिकं च कौस्तुभे द्रष्टव्यम् । अतो मत्वर्थ- लक्षणाभिया विशिष्टविध्यनुपपत्तेः नामधेयत्वमेवोद्भिदादीनाम् ॥ ६॥ पदार्थे भावाभावघटितत्वाद्विरुद्धमेकं द्विकम् । यागेनेत्थमिष्टं भावयेदिति प्रयोगविधिः । कृति- रूपभावनाया इह भानाधिक्यादत्र स्वर्गोदेशेन याग उपादीयते । तेन तदीयविषयताविशेषा- वेवोद्देश्यत्वोपादेयत्वे इत्युच्यते । ते चैककृतिनिरूपिते, परस्पराभावव्याप्ये, 'दना जुहोति' इति 'अग्निहोत्रं जुहोति' इति विधिभेदेनैकस्यैव यागस्योद्देश्यत्वोपादेयत्वसम्भवेऽप्येकेनैव विधिना एकस्मिन्नेव पदार्थे उभयोरबोधात् । अवैरूप्येऽप्यग्निहोत्रविधिना याग एव प्रयुक्तिविषयीक्रियते, न स्वर्गः । तस्य विषयसौन्दर्यमहिम्नैवेप्सितत्वादधिविधिना दध्येव प्रयोज्यते, न यागः; तस्य विध्यन्तरप्रयुक्तत्वात् । ततश्च प्रकृतविध्यप्रयोज्यत्वप्रयोज्यत्वरूपं विरुद्धं द्विकं द्वितीयम् । यागेन स्वर्ग भावयेदिति विनियोगविधिः । अत्र प्रवर्तनात्मकविधेर्भानाधिक्यात् विनियोगः अङ्गाङ्गि- भावः । स च विध्येकसमधिगम्यः । तदीयविषयताविशेषौ प्रधानत्वगुणत्वे । कृत्युद्देश्यत्वावच्छिन्न- प्रवर्तनाविषयताकत्वं कृत्युपादेयत्वावच्छिन्नप्रवर्तनाविषयताकत्वमिति तत्खरूपयोविधिविषय- तावच्छेदकांशे परस्पराभावव्याप्यत्वादेकत्र विरुद्धं द्विकं तृतीयम् । एवञ्च ज्ञानकृतीच्छाविषयत्व- रूपाणां द्विकानां विधिभेदेन व्यवस्थितानामप्युत्तरोत्तरविधेः पूर्वपूर्वविधिस्वरूपव्याप्यत्वेनाग्नि- होत्रादिषु क्वचिद्विषयेपूत्पत्त्यादिविधीनां भेदेनाम्नानेऽपि उद्भिदादिविषये तदभावादेकस्मिन्नेव वाक्ये धात्वर्थे गुणफलयोः तन्त्रेणान्वयखीकारे तस्यैव वाक्यस्य यागांशे च उत्पत्त्यादिविधित्रय- स्वरूपत्वाद्धात्वर्थे विरुद्धत्रिकद्वयं अनिवार्यमिति । यश्च देशकालादेरनुपादेयत्वव्यवहारः स लौकिककृत्यसाध्यत्वप्रयुक्तः प्रकृतविधिना कृत्युपादेयत्वप्रकारकबोधेऽपि न विरुध्यते । यागो दे- शेन मन्त्रादिस्वरविधानेऽप्यानर्थक्यतदङ्गन्यायेन पार्टिकसमाधानवत् काले कर्मैवोपादीयते, न कर्मणि काल इत्यादिकं समाधानमात्रमिति न कोऽपि दोषः । अत एव 'चैत्र्यां पौर्णमास्यां' इत्यादौ कालविशेषणचैत्रत्वादीनां विवक्षा सङ्गच्छते । प्रतीक्षाविषयत्वेन कालस्याप्युपादेयतेति सङ्कर्षभाष्येऽप्ययमर्थः स्पष्टः॥ उपादेयत्वादिनिरुक्त्यादिकमिति ॥ देशकालादिव्यावृत्तापा- देयत्वादिनिरुक्त्यादिकमित्यर्थः ॥ कौस्तुभ इति ॥ कृतिसमवायाघटितसम्बन्धेन प्रकृतभाव- नान्वयित्वे सति प्रकृतविधिप्रयुक्त्यविषयत्वमुद्देश्यत्वं, तदभावश्चोपादेयत्वम् । अस्ति चेदमुद्देश्यत्वं स्वर्गादिरूपफले प्रातरादिरूपकाले सरस्वतीदक्षिणादिरूपदेशे राहूपरागादिरूपे निमित्ते । तेषां यथोक्तकर्मतादिसम्बन्धेन भावनासम्बन्धिनां कृतिविषयत्वाभावेन प्रकृतविध्यप्रयुक्तत्वादित्या- दिना कौस्तुभे द्रष्टव्यमित्यभिप्रायः । उपसंहरति-अत इति ॥ सूत्रार्थस्तु, नामधेये-नामधे- यत्वेन सम्भाविते वाजपेयादौ गुणस्य श्रुतेः तस्यैव विधानं स्यादिति चेन्न तुल्यत्वात्क्रिय- योः वाजपेयशब्दलभ्ययवाग्वादिद्रव्यकस्य कर्मणो दर्शपूर्णमासकर्मणश्चौषधद्रव्यकत्वेन तुल्य- १३६ भाट्टदीपिका [अ. १. त्वापातात्। ततश्च दार्शपौर्णमासिकविध्यन्तापत्तौ 'सप्तदश दीक्षाः' इत्यादिदीक्षासङ्ख्याविधिर्नोप- पद्येत । तस्मान्न गुणविधिरिति वृत्तिकाराः । वासुदेवदीक्षितास्तु वाजपेये गुणश्रुतोरिति सूत्र- पाठं धृत्वा वाजपेयवाक्य इति व्याचख्युः । अत्र वाजं च तत् पेयं चेति व्युत्पत्त्या वाजपेय- शब्दे अन्तोदात्तत्वनिर्वाह: कार्यः । वाजरूपं पेयं सोम एव । 'सोमबहान् गृह्णाति' इति वाक्यप्राप्तत्वेन तत्प्रख्यन्यायसम्भवादिति वेदभाष्ये विद्यारण्यश्रीचरणाः । अयं च वाजपेयो नित्यः । तत्र मण्डनः, 'चातुर्मास्यानि दर्शश्च पौर्णमास्यग्निहोत्रकम् । वाजपेय इतीमे स्युर्नित्याः काम्या इति द्विधा ॥' इति । तथा गौतमोऽपि चत्वारिंशत्संस्काराणां नित्यत्वं वदन् सप्तसंस्थान्तर्गतवाजपेयस्य नित्यत्वं स्पष्टमाह । यत्त्वत्र निर्णयसिन्धौ कलिवर्ण्यप्रकरणे कमला- करेणोक्तं, "सुराग्रहस्योद्देश्यस्य सौत्रामणीविशेषणाविवक्षया वाजपेयेऽपि निषेधः । 'सौत्रामण्यां तु पयोमहा वा स्युः' इत्यापस्तम्घोक्तेः वैकल्पिकपयोग्रहैरप्याधिकारः । वाजपेये तु तत्प्राप्तौ मानाभावात्सोमसुरयोः सहत्यागेनांशे सुराद्रव्यकत्वात्तत्प्रख्यतया यागनामत्वेन तां विना संज्ञायोगात्कलौ नाधिकार इति युक्तं प्रतीमः । त्रिकाण्ड- मण्डनादिलिखनं तु निर्मूलमनाकरं चेति" तद्वेदभाष्यादिविरुद्धत्वाद्बहुतरन्यायविरुद्धत्वाच्चो- पेक्ष्यम् । तथा हि-सौत्रामण्यामपि सुराग्रहणमित्यादौ सौत्रामणीविशेषणाविवक्षायां 'मधुपर्के पशोर्वधः' इत्यादिनिषेधष्वपि मधुपर्कादिविशेषणाविवक्षापत्त्याग्नीषोमीयादिपशुवध- स्यापि निषेधविषयत्वापत्तेः; सात्रामण्यादिपदवैयर्थ्यापत्तेश्च । ततश्च यः सौत्रामण्यां स न कार्य इति वाक्यकल्पनया निषेधो वाच्यः । तत्र चैकपदेनोद्देशान्न वाक्यभेद इति परिहारः स्पष्टः । सौत्रामण्यादिपदानामपि सार्थक्यम् । यदपि सौत्रामण्यां 'पयोगहा वा स्युः' इत्यापस्त- म्बवचनात्पयोगहेरप्यधिकारी वाजपेये तत्प्राप्त। मानाभाव इत्युक्तं, तदपि चिन्त्यम् । सौत्रा- मणीप्रकरणे 'यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीणाति' इत्यादिभिः सुरोत्पत्तेराम्नानेन वाजपेये 'सुरायाः कल्पेन सुरां कल्पयति' इति सुराकल्पातिदेशेन सुराग्रहविषये वाजपेयस्थ- सुराग्रहस्य सौत्रामणीस्थसुराग्रहप्रकृतिकत्वावश्यम्भावेन वाजपेयेऽपि व्रीहिभिर्विकल्पित- यवानां विकृताविव सुराग्रहविकल्पितपयोग्रहाणां प्राप्तिसम्भवान्मानाभावासिद्धेः । यदपि सोम- सुरयोः सहत्यागेनांशे सुराद्रव्यकत्वात्सुराद्रव्यप्राप्तिं निमित्तीकृत्य वाजपेयशब्दो यागनामेत्युक्तं, तदप्यत्यन्तासङ्गतम् ; सुराया यागद्रव्यत्वाभावात् । 'एतद्वै देवानां परममन्नं यत्सोमः, एतन्मनुष्याणां यत्सुरा' इति ब्राह्मणे महता प्रबन्धेन सोमस्यैव देवतासम्बन्धप्रतीतेः 'वाज- सृग्भ्यः सुराग्रहान् हरन्ति' इति वचनेन सुराया वैश्यसम्प्रदानकदानस्य स्पष्टं प्रतीयमानतया देवतासम्बन्धप्रसक्त्यभावात् । किञ्च 'सोमो वै वाजपेयः, यो वै सोमं वाजपेयं वेद' इत्यादि- वचनैः सोमस्यैव वाजपेयपदार्थत्वप्रतिपादनेन न सुराया यागसम्बन्धप्रसक्तिः । अपि च 'अन्नस्य वा एतच्छमलं यत्सुरा' इति 'अनृतेनैव विशं संसृजति' इति च निन्दितत्वात् पा. ४. अधि. ६.] भादृचिन्तामणिसहिता। १३७ 'निन्दितां सुरां देवताय न दद्यात्' इति निषेधविधिकल्पनस्य स्पष्टतया न सुराया देवतासम्बन्धप्रसक्तिः । एवं 'सम्पृचस्स्थ सम्मा भद्रेण पृलेल्याह' इति विपृचस्स्थ वि मा पाप्मना पृतेत्याह' इति च वचनद्वयेन सोमसुरयोः मन्त्रद्वयविनियोगात्प्रथममन्त्रेण सोमस्यैव देवता- सम्बन्धप्रतीतेः, द्वितीयेन सुराया देवतासम्बन्धनिषेधप्रतीतेश्च न सुराया देवतासम्बन्धप्रसक्तिः। अयमनयोरर्थः । सम्पृचस्स्थ-देवतया संयुक्ता भवत । भद्रेण-पुण्येन । मां सम्पृत-संयुक्तं कुरुत । विपृचस्स्थ-देवतया वियुक्ता भवत । मां पाप्मना वियुक्तं कुरुतेति । अपि च भगवता बोधायनेन सुराग्रहाणां माध्यन्दिनसवने दानविधानेन तृतीयसवने वाजपेयशस्त्र- याज्यायां सोमबहाणां होमविधानेन न सुराया देवतासम्बन्धप्रसक्तिः । प्रत्युत सुराग्रहण- मन्त्रेणैव 'जुष्टं न योनि' इति निषेधाद्देवतासम्बन्धो नास्तीति कण्ठरवेणैवोक्तम् । एवं कात्या- यनेन ब्रह्मणे देयहिरण्यपात्रनिष्क्रयार्थत्वं सुराग्रहस्योक्तम् । सुराग्रहं गृहीत्वा सादयित्वा दक्षिणा- काले वाजसृद्भयः सुराग्रहं दत्वा मधुग्रहं सौवर्णं क्रीत्वा ब्रह्मणे दद्यादिति तद्वयाख्या- तारः । तस्मिन् पक्षे सुतरां सुराग्रहाणां न देवतासम्बन्धः । किञ्च 'तुल्यत्वात्क्रिययोर्न' इति एतदधिकरणसिद्धान्तसूत्रभाष्यवार्तिकेषु वाजपेययागस्य सोमद्रव्यकत्वमेव न सुराद्रव्यकत्वमिति सिद्धान्तदर्शनान्न सुराया देवतासम्बन्धप्रसक्तवाजपेयानधिकारो युक्तः । सूत्रार्थः पूर्वमेवोक्तः । न च तर्हि सुराग्रहणमन्त्रे 'प्रजापतये त्वा' इति चतुर्थ्या देवतात्वप्रतीतिविरोध इति वाच्यम् ; चतुर्थ्या सम्बन्धमात्रप्रतीतेः सम्बन्धश्च सुराग्रहघटितप्रयोगविषयत्वमात्रमिति विरोधाभावात् । तच्च सुराग्रहणं मन्त्रैकदेशकरणकग्रहणसंस्कृतं वाजसृद्भयो दीयमानमदृष्ट- मुत्पादयतीत्यभिप्रायेण तद्विधानोपपत्तेः । न च प्राचीनग्रन्थेषु सुराप्राप्तिं निमित्तीकृत्य वाजपेयशब्दो नामधेयमित्युक्तिविरोध इति वाच्यम् ; यागीयदेवतासम्बन्धाभावेऽपि यागप्रयोग- सम्बन्धित्वमात्रेण तत्प्रख्यन्यायसम्भव इत्यभिप्रायेण तदुपपत्तेः । दृश्यते हि विश्वेदेव- देवताया अष्टयागसम्बन्धाभावेऽपि सप्तमयागस्य विश्वेदेवदेवताकतया तद्धटितसमुदायस्य वैश्वदेवसंज्ञा । न च भगवता आपस्तम्बेन यागकाले 'सुराग्रहाननुप्रकम्पयन्ति' इति विधानेन नाराशंसन्यायेन यागरूपत्वमिति वाच्यम् ; तत्र हि ऊमोर्वकाव्यदेवतास्सन्तीति द्रव्यदेवता- सम्बन्धात् नाराशंसस्य यागरूपत्वं युक्तम् । प्रकृते देवतासम्बन्धस्यातिनिन्दितत्वेन निषिद्ध- त्वाद्देवतासम्बन्धाभावेन यागरूपत्वासम्भवादनुप्रकम्पनस्य वाजसद्भयो दानार्थं नयनरूप- त्वात् । किञ्च 'वाजपेयेन खाराज्यकामो यजेत' इति फलवाक्ये सूत्रभाष्यवार्तिकवेदभाष्य- रीत्या सोमयागस्यैव फलसम्बन्धात् 'फलवत्सन्निधावफलं तदङ्ग' इति न्यायेन सुराग्रहस्य तदङ्गतया 'गुणलोपेऽपि मुख्यस्य क्रिया स्यात्' इति न्यायेन सोमयागानुष्ठानसम्भवादनधि- कारोक्तिरसङ्गता। मण्डनवचनाद्यनुसारेण वाजपेयस्य नित्यतया नित्येऽशक्याङ्गत्यागाभ्युप- गमात् । न च मण्डनाधुक्तिनिर्मूलेति वाच्यम् ; गौतमस्मृतेर्मूलत्वात् । न च वाजपेय- 18 १३८ भाट्टदीपिका [अ. १. (७) तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः ॥९॥ , 'यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति" इत्यादौ आग्नेयशब्दो गुणविधिः, कर्मनामधेयं वेति चिन्तायां-अग्नेर्मन्त्रवर्णाल्लाभात् आग्नेय- पदं नामधेयमिति प्राप्ते- पुरोडाशकर्मिकायाः भावनायाः मन्त्रापेक्षाऽभावात् मन्त्रस्य च तत्रायोग्य- त्वात् नोपांशुयाज इव मन्त्रस्य देवताकल्पकत्वम् । न चाघारवद्वाचनिको विनियोगो मन्त्रस्य येन तत्कल्पकत्वं सम्भाव्येत । न च मन्त्रस्याष्टाकपालकर्मकभावनाङ्गत्वे प्रमाणमस्ति ; प्रकरणस्य च उपांशुयाजादिषु अविशिष्टत्वात् । नापि क्रमः ; ब्राह्मण- शब्दस्य पेयप्राप्ति निमित्तीकृत्य नामत्वाङ्गीकारे अतिप्रसङ्ग इति वाच्यम् ; योगरूढ्यङ्गीकारेण तत्परिहारात् । अपि च 'गौरनूबन्ध्य' इति विधानेऽपि कलौ गवालम्भस्य निषिद्धत्वात्परि- त्यागेऽपि ज्योतिष्टोमादिप्रयोगदर्शनात्तन्न्यायेन वाजपेयानुष्ठाने न कोऽपि दोषः । किञ्च 'ब्राह्मणो न सुरां पिबेन्न सुरां स्पृशेत्' इत्यादिनिषेधस्य सर्वयुगसाधारण्यात्सर्वदा वाजपेया- ननुष्ठानापत्त्या वाजपेयशास्त्रमननुष्ठापकमेव स्यादिति सुधीभिर्विभावनीयम् । अधिकं हिरण्य- केशिसूत्रव्याख्यायां प्रतिपादितमस्माभिरिति सङ्केपः ॥ तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः ॥ वाजपेयशब्दस्य तत्प्रख्यन्यायेन नामत्वे साधिते तन्न्यायेनाग्नेयशब्दस्यापि नामत्वं स्यादित्युत्थानात्सङ्गतिरित्य- भिप्रेत्याह-यदाग्नेय इति ॥ आदिनाग्नीषोमीयादिवाक्यपरिग्रहः ॥ गुणविधिरिति ॥ अग्निदेवता- विशिष्टाष्टाकपालरूपद्रव्यविधिरित्यर्थः ॥कर्मनामधेयमिति ॥ अग्निदेवताकयागनामधेयमि- त्यर्थः । तत्प्रख्यशास्त्रं दर्शयति-मन्त्रवर्णादिति ॥ 'अग्निमूर्धा' इत्यादियाज्यानुवाक्याभ्यामि- त्यर्थः । ततश्च तत्प्रख्यन्यायेन नामधेयमाग्नेयशब्द इति पूर्वपक्षाशयः । नात्र अग्निहोत्रपद इव तत्प्रख्यन्यायः । तत्र ह्यग्निहोत्रवाक्योत्पन्नहोमानुवादेन 'अग्निोतिः' इति मन्त्रविधानाद्युक्ता मन्त्रवर्णात्प्राप्तिः । प्रकृते त्वष्टाकपालकर्मकभावनायां अष्टाकपालकर्तृकभवनाक्षिप्तायां मन्त्रा- काङ्क्षारहितायां न मन्त्रान्वयः । नापि वाचनिको मन्त्रः । तस्मान्न मान्त्रवर्णिकदेवताप्राप्तिरिति तत्प्रख्यन्यायाभावान्न नामधेयत्वमिति सिद्धान्तमाह ----पुरोडाशेत्यादिना ॥ योग्यताभावादपि न मन्त्रवर्णप्राप्तिरित्याह-तत्रेति ॥ अष्टाकपालकर्तृकभवने मन्त्रस्य देवताप्रतिपादकस्यासमवे- तार्थकत्वादित्यर्थः । नन्वाकाङ्क्षायोग्यतयोरभावेऽपि आधारादाविव मन्त्रवर्णादेवताप्राप्तिरस्त्वित्यत आह-न चेति ॥ तद्वदत्र वचनाभावान्न मन्त्रप्रवृत्तिरिति भावः । प्रकरणान्मन्त्रस्याङ्गत्वं १. तै. सं. २. ६. ३.
पा. ४. अधि, ७. भादृचिन्तामणिसहिता। १३९ पाठक्रमापेक्षया मन्त्रपाठक्रमवैपरीत्यस्य पञ्चमे वक्ष्यमाणत्वात् । अतः तत्प्रख्यन्याया- भावात् नामत्वानुपपत्तेः द्रव्यदेवतोभयविशिष्टभावनाविधिप्रतीतेः तस्य च याग- मन्तरेणानुपपत्तेः भूधातुना तलक्षणात् सकलविशेषणविशिष्टयागभावनाविधानेनार्थात् विशेषणानामपि विधिकल्पनात् गुणविधिरेव आग्नेयशब्दः ॥ प्रयोजनं 'आग्नेयं पयः' इत्यादौ नामातिदेशेन आग्नेयविध्यन्तः पूर्वपक्षे । सिद्धान्ते सान्नाय्यविध्यन्तः ॥ ७ ॥ स्यादित्याशङ्कय निराकरोति-प्रकरणस्येति ॥ इतिकर्तव्यताकाङ्क्षालक्षणप्रकरणस्योपांशु- याजादिसाधारण्येन अष्टाकपालकर्मकभावनामात्राङ्गत्वे नियामकत्वाभावादित्यर्थः । ननु तथापि क्रमान्मन्त्रस्याङ्गत्वमस्त्वित्याशङ्कां परिहरति—नापीति ॥ ब्राह्मणपाठक्रमस्य मन्त्रपाठक्रम- वैपरीत्यं पञ्चमे वक्ष्यत इति क्रमोऽपि न मन्त्रस्याङ्गत्वे प्रमाणमित्यर्थः । अतो मान्त्रवर्णिकदेवता- प्राप्त्यसम्भवादष्टाकपालद्रव्याग्निदेवतोभयविशिष्टा भावनैव विधीयते । तत्र द्रव्यदेवतासम्बन्धस्य यागघटितमूर्तिकत्वात् भूधातुना यागं लक्षयित्वा श्रूयमाणसर्वकारकविशिष्टयागभावना- विधानादाग्नेयशब्दो गुणविधिरेवेत्यर्थः । अनेकगुणविधाने विध्यावृत्तिस्स्यादित्यत आह- अर्थादिति । अन्यथानुपपत्त्येत्यर्थः । ततश्च विशेषणानामापत्तिकल्पितविधिभिरेव प्राप्ति- सम्भवान्न श्रूयमाणविधेरावृत्तिरिति भावः । नन्वेवं 'ज्योतिर्गौरायुः' इत्यादौ द्रव्यदेवतयोर- श्रवणेन भावनामात्रविधिप्रतीतेः तेषां कथं यागरूपत्वनिश्चय इति चेन्न ; तत्राप्राप्तिबलेन भवन्तीत्यनेन भावनामात्रविधिप्रतीतो अवच्छेदकधात्वर्थापेक्षायामनिर्धारितधात्वर्थविशेषस्यै- वावच्छेदकत्वकल्पनात् । न चाव्यक्तत्वात्सौमिकधर्मातिदेशसम्भवात्किमित्यनिर्धारितधात्वर्थ- कल्पनमिति वाच्यम् ; भावनाक्षिप्तानिर्धारितधात्वर्थविशेषस्य ज्योतिर्नामकत्वसिद्धयुत्तरमेव सौमिकधर्मातिदेशात् । प्रकृते च द्रव्यदेवतासम्बन्धकल्पितयागस्यैव करणत्वेन भावनान्व- योपपत्तेर्विशिष्टविधित्वमङ्गीकृत्य गुणपरत्वमेवाग्नेयशब्दस्येति भावः । तत्रायं वाक्यार्थः । आग्नेयपदेन ढक्प्रत्ययान्तेनाग्निनिष्ठदेवतात्वनिरूपकमष्टाकपालद्रव्यमभिधीयते । अष्टाकपाल- पदेन अष्टसु कपालेषु संस्कृतपुरोडाशद्रव्यमभिधीयते । तच्च तद्धितस्य देवतायुक्ताष्टाकपाल- द्रव्यपरत्वे तात्पर्यग्राहकम् । भवतिना यागो लक्ष्यते । ततश्चाग्निदेवताविशिष्टाष्टाकपाल- द्रव्यवती यागकरणिका पौर्णमास्यमावास्याकालवती भावना प्रवर्तनाविषय इति बोधः । अधिकं पूर्वमेवोक्तम् ॥ नामातिदेशेनेति ॥ देवतासामान्याव्यसामान्यं बलीयः, तदपेक्षयापि नामातिदेशो बलवानिति सप्तमे वक्ष्यमाणत्वादिति भावः । सूत्रार्थस्तु, स च गुणाश्च तद्गुणाः । उभयेऽपि विधीयेरन् । विधानार्थे अविभागात्—विधिविषयभावनायां वैशिष्टयात् । न चेदन्येन शिष्टाः-वचनान्तरैरप्राप्ताश्चेत् , वचनान्तरेण प्राप्तिसम्भवे तु न विधेयाः । 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायादिति ॥ ..
१४० भाट्टदीपिका [अ. १. (८)-बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥ १० ॥ बर्हिराज्यपुरोडाशादिशब्दानां संस्कृतेषु शास्त्रस्थैः प्रयुज्यमानत्वाघ्पादिशब्दवत् संस्कारमात्रवाचित्वे, संस्कारविशिष्टकुशादिवाचित्वे वा प्राप्ते- जातिं विहाय कैरप्यप्रयुज्यमानत्वात् संस्कारं विनाऽपि लोके 'बर्हिरादाय गावो गताः' 'आज्यं क्रय्यं' 'पुरोडाशेन मे माता प्रहेळकं ददाति' इत्यादौ प्रयुज्य- मानत्वात् अव्यभिचारालाघवाच कुशादिजातिवाचित्वमेव । प्रयोजनं यूपावटास्तरणार्थबर्हिरादौ पूर्वपक्षे संस्कारकरणं ; सिद्धान्ते नेति ॥८॥ बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥ कर्मनामप्रसङ्गाद्दव्यनामविचार इति सङ्गतिः । पूर्वत्र पुरोडाशविषयाग्नेयशब्दस्य विचारितत्वात्तत्प्रसङ्गेन पुरोडाशशब्दस्य तत्तुल्य- तया बर्हिराज्यशब्दयोरपि बुद्धयुपारूढत्वात्तद्विचारस्यापि प्रसङ्गसङ्गतिः । : बर्हिर्जुनाति, आज्यमुत्पुनाति, पुरोडाशं प्रथयति' इत्यादिषु श्रुतानां बर्हिरादिशब्दानां संस्कारवाचित्वं जाति- वाचित्वं वेति सन्दिह्य पूर्वपक्षमाह-बर्हिराज्येत्यादि । शास्त्रस्थैरिति ॥ अनेन पील्वधिकरणाश्व- वालाधिकरणन्यायाभ्यां याज्ञिकप्रसिद्धया तदितरप्रसिद्धेबर्बाधात्संस्कार एव प्रवृत्तिनिमित्तमिति योतितम् ॥ यूपादिशब्दवदिति ॥ ननु 'यूपं छिनत्ति, बर्हिर्जुनाति' इत्यादौ यूपादिपदानां संस्कारवाचित्वे तद्विशिष्टकाष्ठोद्देशेन संस्कारविधाबुद्देश्यतावच्छेदकविधेययोरैक्याच्छाब्दबोधा- नुपपत्तिः । अन्यथा 'घटो घटः' इत्यादिप्रयोगापत्तेरिति चेन्न ; 'यूपं तक्षति, बर्हिर्जुनाति' इत्यादौ यूपं कर्तुं पलाशं तक्षति, बर्हिः कर्तुं कुशान् लुनातीति वचनव्यक्त्यङ्गीकारेणादो- षात् । एतेन संस्कारविधिज्ञानार्थं यूपशब्दार्थज्ञानापेक्षा, यूपशब्दार्थज्ञानार्थं संस्कारविध्यपेक्षे- त्यन्योन्याश्रय इति निरस्तमित्यभिप्रायः । ननु संस्काराणामननुगतत्वान्न प्रवृत्तिनिमित्तत्व- 'मित्यत आह-संस्कारविशिष्टेति ॥ अन्वयव्यतिरेकाभ्यां जातिवाचित्वमिति सिद्धान्तमाह- जातिं विहायेति ॥ व्यभिचारान्न संस्कारवाचित्वमित्याह-संस्कारं विनेति ॥ प्रहलकं- क्रीडार्थ भक्ष्यम् ॥ जातिवाचित्वमेवेति ॥ न च पील्वादिन्यायेन शास्त्रस्थप्रसिद्धेः प्राबल्य- मिति वाच्यम्; विरोधाभावेन तन्न्यायाप्रवृत्तेरिति भावः ॥ यूपावटेति ॥ संस्कृत- बर्हिषैवास्तरणं कर्तव्यम् । अन्यथा बर्हिशब्दाप्रवृत्तेरित्यर्थः ॥ सिद्धान्त इति ॥ जाति- वाचित्वात् येनकेनचिद्दर्भेणास्तरणमित्यर्थः । उत्तरत्र यूपावटास्तरणबर्हिषि बर्हिधर्मनिराकरण- मेतदधिकरणप्रयोजनकथनमेवेति ध्येयम् । बर्हिरादौ इत्यादिना यूपाञ्जनार्थाज्यस्य रौहिणपुरो- डाशादेश्च सङ्ग्रहः । सूत्रार्थस्तु, असंस्कारे - संस्काराभावेऽपि । शब्दलाभात् –बर्हि- रादिशब्दप्रयोगदर्शनात् । अतच्छब्दः-संस्कारशब्दो न भवति । किन्तु जातिवाचीति ॥ .. १ पा. ४. अधि. ९.] भादृचिन्तामणिसहिता। १४१ । (९)-प्रोक्षणीष्वर्थसंयोगात् ॥ ११ ॥ प्रोक्षणीशब्दस्यापि पूर्ववत्संस्कारवाचित्वे 'प्रोक्षणीभिरुद्वेजिताः स्मः' इति लोके संस्कारं विहाय जातिमात्रे प्रयोगदर्शनात् रूढ्या जलत्वजातिवाचित्वे प्राप्ते- कुप्तावयवयोगेनोपपत्तौ रूढिकल्पने प्रमाणाभावः । अत एवाश्वकर्णादिशब्दे योगबाध एव तत्कल्पनम् । न चाधामौदासीन्यावस्थायां प्रकृष्टोक्षणसाधनत्वरूप- योगाभावः । फलोपधानासम्भवेऽपि उक्षणस्वरूपयोग्यत्वसम्भवात् । न चैवं रथकारपदेऽपि रथकर्तृत्वयोग्यत्वरूपयोगसम्भवेन जातिविशेषे शक्तिकल्पनानुपपत्तिः ; अनुशासनबलेन तत्कल्पनात् । कर्तृत्वस्वरूपयोग्यत्वस्याव्यावर्तकत्वेन 'वर्षासु रथकारः' प्रोक्षणीष्वर्थसंयोगात् ॥ प्रोक्षणीशब्दस्यापि पूर्ववजलत्ववाचित्वं स्यादित्युत्था- नात्सङ्गतिः । ईकारबहुवचनान्तस्त्रीलिङ्गप्रोक्षणीशब्द एवात्रोदाहरणम् ; न तु प्रोक्षणशब्द इति सूचयन्नाह-प्रोक्षणीशब्दस्येति ॥ 'प्रोक्षणीरासादय' इत्यादौ श्रुतस्येति शेषः । किमयं प्रोक्षणीशब्दः संस्कारवाची, उत जातिवाची, अथवा यौगिक इति सन्दिह्याह- पूर्ववदिति ॥ बहिरादिवदित्यर्थः । प्रथमपक्षोपमर्दैन द्वितीयपक्षमुपपादयति-प्रोक्षणीभि- रित्यादिना ॥ जातिमात्र इति ॥ प्रकृष्टोक्षणसाधनत्वस्य तैलादौ सत्त्वेऽप्यप्रयोगादवयवार्था- भावदशायामपि प्रयोगादन्वयव्यतिरेकाभ्यां व्यभिचारणाश्वकर्णादिशब्दवगृढ एव प्रोक्षणी- शब्दः । तथा च रथकाराधिकरणन्यायेन रूढया यौगिकार्थबाध इति भावः । कुप्तया रूढ्या योगबाधेऽपि न कल्प्यया तया योगबाध इत्यभिप्रायेण सिद्धान्तमाह ----कृप्तेति ॥ प्रमाणा- भाव इति ॥ अन्यथा यौगिकमात्रोच्छेदापत्तेस्तुल्यन्यायेन वाक्येऽपि शक्त्यापत्तरिति भावः ।। तत्कल्पनम्-रूढिकल्पनम् । नियतबहुवचनस्त्रीलिङ्गविरोधेन तैलादावप्रयोगान्नान्वय- व्यभिचारः । नापि व्यतिरेकव्यभिचार इत्याह -न चासामिति ॥ औदासीन्यावस्थायां-- सेचनफलानुपधानदशायाम् । स्वरूपयोग्यत्वसम्भवात् उक्षणसाधनतावच्छेदकजलत्वजाति- मत्त्वसम्भवात् । अन्यथा अरण्यस्थदण्डसाधारण्येन दण्डो घटकारणमिति व्यवहारो न स्यादिति भावः । ननु रथकारपदेऽपि स्वरूपयोग्यतामादायोपपत्ते रूढिन स्यादिति शङ्कते-न चेति ॥ जातिविशेषे--सौधन्वनाख्ये ॥ अनुशासनेति ।। 'रथकारस्तु माहिष्यात्करण्यां • यस्य सम्भवः' इति कोशात् 'ऋभूणां त्वा' इति मन्त्रवर्णाचेति भावः ॥ अव्यावर्तकत्वे- नेति ॥ रथकर्तृत्वखरूपयोग्यत्वस्य सर्वपुरुषसाधारण्यात् 'वर्षासु रथकार आदधीत' इति वचनमव्यावर्तकं स्यात् । न चेष्टापत्तिः । वसन्ते ब्राह्मण आदधीत, ग्रीष्मे राजन्यः' इत्याधुप- क्रमानुसारेण 'वर्षासु रथकारः' इत्यस्य व्यवस्थितविषयत्वावश्यम्भावादित्याशयः । विकृती- १. न चापां इति इति पाठान्तरम् ।
१४२ भाट्टदीपिका [अ. १. इत्यस्य वैयर्थ्यांपत्तेश्च । प्रोक्षणीशब्दे तु रूढिकल्पने प्रमाणाभावात् यौगिकत्वमेव । प्रयोजनं तु विकृतौ 'घृतं प्रोक्षणं' इत्यादौ 'प्रोक्षणीरासादय" इत्यविकृतः प्रयोगः संस्कारवाचित्वपक्षे ; 'घृतमासादय' इति जातिवाचित्वे; 'प्रोक्षणमासादय' इति यौगिकत्वे द्रष्टव्यम् ॥ ९॥ (१०) तथा निर्मन्थ्ये ॥ १२ ॥ 'निर्मन्थ्येनेष्टकाः पचन्ति' इत्यत्र निर्मन्थ्यशब्दस्य पूर्ववत्संस्कारवाचित्वे 'निर्मन्थ्यमानय पक्ष्यामः' इति लौकिकप्रयोगेन निरस्ते मथनकर्मत्वस्य पाकसाधनी- भूतेऽग्नावभावेन मथनप्रयोज्यत्वस्य पाकनवनीतादावपि सत्त्वेन अतिप्रसङ्गात् सोमारौद्रचरौ, अविकृत ईकारबहुवचनान्त एव । एतत्पक्षे 'घृतं प्रोक्षणं' इत्यस्य घृतेन प्रोक्षती- त्यर्थः ; न तु संस्कारवचनः प्रोक्षणशब्दः । घृतस्यौपदेशिकत्वादपां बाधः । द्वितीयपक्षे घृतस्य अप्कार्यापन्नत्वादप्त्ववाचकप्रोक्षणीपदनिवृत्तौ घृतत्ववाचकपदप्रक्षेपरूप ऊहः । सिद्धान्ते त्वीकारबहुवचनयोर्विशेष्यनिघ्नताप्रयुक्तत्वानिवृत्तावपि न प्रातिपदिकनिवृत्तिः । निगमे वैधपदनियमस्य देवतामात्रपरताया दशमे वक्ष्यमाणत्वादिति भावः । सूत्रार्थस्तु, प्रोक्षणीषु-प्रोक्षण्यादिशब्देषु । अर्थसंयोगात् , प्रोक्ष्यते आभिरित्येवमवयवार्थसम्भवाद्यौ- गिक एव प्रोक्षणीशब्दो न तु रूढ इति ॥ तथा निर्मन्थ्ये ॥ आतिदेशिकी सङ्गतिमभिप्रेत्याह-निर्मन्थ्येनेति ॥ नामधेयत्व- गुणविधित्वयोः समुच्चयरूपविशेषप्रदर्शनायेदमधिकरणमित्याशयः । अग्नौ श्रूयते 'निर्म- न्थ्येनेष्टकाः पचन्ति' इति । तत्र किमयं निर्मन्थ्यशब्दः संस्कारनिमित्तकः, उत जाति- निमित्तकः, अथवा यौगिक इति संशये पूर्वपक्षमाह-निर्मन्थ्यशब्दस्येति ॥ संस्कारेति ॥ स च संस्कारो नाधानप्रसिद्धः । चातुर्मास्यातिथ्यादौ 'पशुवन्निर्मन्थ्येन प्रचर्य' इति सूत्र- कारप्रयोगदर्शनात्पाशुक एव आधिमन्थनशकलनिधानरूपो 'धनञ्जयो रणे रणे' इति मन्त्रप्रयो- गान्तः । संस्कार विहायापि लोके निर्मन्थ्यमानाय पक्ष्यामः' इति प्रयोगदर्शनान्न संस्कार- निमित्तकत्वमित्याह-निर्मन्थ्यमिति ॥ 'तयोरेव कृत्यक्तखलाः' इति कर्मार्थकण्यप्रत्ययान्तनिर्म- न्थ्यशब्दस्य मथनजन्यत्वं यौगिकोऽर्थः । स च प्रकृते न सम्भवतीति न प्रोक्षणीन्यायेन गतार्थत्वमपीति ध्वनयन्नाह-पाकसाधनीभूत इति ॥ अग्नेः अवयवोपचयापचयाभ्यां प्रतिक्षणं भिन्नत्वात्साक्षान्मथनजन्याग्नेस्तदानीं नाशादिति भावः । ननु मथनजन्यत्वाभावेऽपि मथनप्रयोज्यत्वमादाय यौगिकत्वमस्त्वित्यत आह-मथनप्रयोज्यत्वस्येति ॥ पाकेति ॥ तण्डुलादिपाकेत्यर्थः ॥ नवनीतादाविति ॥ तत्रापि दधिमथनप्रयोज्यत्वसत्त्वादित्यर्थः ॥ अति- १. तै. ब्रा. ३. २. ९. .
पा. ४. अधि. १०-११.] भादृचिन्तामणिसहिता। १४३ अरणिप्रयोज्यौग्नित्वावान्तरधर्मव्याप्यजातिवाचित्वे प्राप्ते- मथनप्रयोज्यत्वयोगेनैवोपपत्तौ रूढिकल्पने प्रमाणाभावात् अतिप्रसङ्गस्य पाका- दावपि प्राचीनप्रयोगाभावेनैवाबोधकत्वोपपत्तेनिराकर्तुं शक्यत्वात् नवनीते च वाच्यत्व- स्यापि वक्तुं शक्यत्वाच्च यौगिक एव निर्मन्थ्यशब्दः । एवं च निर्मन्थ्येनेष्टकाः पचन्ति' इत्यग्नेः पाकसामर्थ्यादेव प्राप्तत्वात् मथन- मात्रविधिरिति तस्यापि प्रयोगमध्ये करणं सिद्धान्ते प्रयोजनम् ॥ १० ॥ (११)—वैश्वदेवे विकल्प इति चेत् ॥ १३ ॥ न प्रकरणात् प्रत्यक्षविधानाच न हि प्रकरणं द्रव्यस्य ॥ १४ ॥ भिथश्वानर्थसम्ब- न्धः ॥ १५ ॥ परार्थत्वाद्गुणानाम् ॥ १६ ॥ प्रसङ्गादिति ॥ तथा च मथनप्रयोज्यत्वस्याप्यसम्भवान्न यौगिकत्वमिति भावः । तृणफूत्कारादि- जन्याग्निव्यावृत्त्यर्थमाह-अरणिप्रयोज्येति ॥ अरणिसंयोगादिव्यावृत्त्यर्थ-अग्नित्वावान्तर- धर्मव्याप्येति ॥ अग्नित्वावान्तरेति सम्पातायातम् । ततश्च मथनजन्याग्निमात्रनिष्ठवैजाल्य- निमित्तक इत्यर्थः । यौगिक एव निर्भन्थ्यशब्द इति सिद्धान्तमाह-मथनेति ॥ अतिप्रसङ्गं निराकरोति-प्राचीनेति ॥ वस्तुतस्तु पाकादावतिप्रसङ्गस्यारणीमथनप्रयोज्यत्वविवक्षया वारणं सम्भवतीति ध्येयम् ॥ नवनीते चेति ॥ लौकिकप्रयोगोऽस्तीत्यभिप्रायेण । अन्यथा पुनः अरणिप्रयोज्यत्वाभावान्न वाच्यत्वमिति बोध्यम् ॥ एवं चेति ॥ निर्मन्थ्यशब्दस्य योगि- कत्वसिद्धी चेत्यर्थः । निर्मन्थ्येनेप्टकाः' इत्यत्र नाग्निविधानम् ; पाकान्यथानुपपत्त्यैव अग्नेः प्राप्तत्वात्। किन्तु मथिताग्निविधानेऽपि 'लोहितोष्णीपाः' इत्यादिवद्विशंपण एव विधेः पर्य- वसानमिति प्रयोगमध्ये मथनस्यानुष्ठानमेव प्रयोजनं सिध्यतीत्याशयेनाह-पाकसामर्थ्या- दिति ॥ मथनमात्रविधिरिति ॥ ननु पाकोशेन मथनविधाने लौकिकंऽपि तत्प्रसङ्गः । इष्टकापाकोद्देशेन तद्विधाने विशिष्टोद्देशप्रसङ्ग इति चन्न; पाकेटकासम्बन्धस्य अवान्तर- प्रकरणप्राप्तत्वेन पाकोद्देशेनैव मथनविधानान्न दोप इत्याशयात् । अङ्गप्रधानयोः एकदेश- कालकर्तृकत्वलाभार्थं प्रयोगमध्य इत्युक्तम् । यत्त्वत्र साक्षान्मथनजन्य एव मुख्या वृत्तिः, तत्सन्ततो तु गौणी; जन्यप्रयोज्योभयसाधारण्येनेकस्यानुगतधर्मस्य निर्वक्तुमशक्यत्वान्मुख्यार्थ- सम्भवे गौणग्रहणस्यान्याय्यत्वात्प्रयोगमध्ये मथनसिद्धिरिति कैश्चिद्वयाख्यातं तत् 'जातमनु- प्राणिति' इति विहितप्राणनदशायामेव अग्न्यन्तरोत्पत्त्या मुख्यार्थस्य कापि पाकजनकत्वासम्भ- वात् मथनजन्यस्यापि धारावाहिकमथनान्तर्गतपूर्वपूर्वमथनप्रयोज्यत्वेन प्रयोज्यत्वस्येव सर्वानु- गतत्वाच्च मथनप्रयोज्यत्वयोगेनैवेति मूलविरोधापत्तेश्चोपेक्षितम् । सूत्रं तु स्पष्टार्थम् ॥ वैश्वदेवे विकल्प इति चेत्। न प्रकरणात्प्रत्यक्षविधानाच न हि प्रकरणं द्रव्यस्य । १. अग्नित्वव्याप्य इति पाठान्तरम् ।
भाट्टदीपिका [अ. १. चातुर्मास्येषु वैश्वदेवे प्रथमे पर्वणि आग्नेयादीनष्टौ यागान्विधाय 'वैश्वदेवेन यजेत' इति श्रुतम् । तत्र वैश्वदेवशब्दः गुणविधिः कर्मनामधेयं वेति चिन्तायां नाम- धेयत्वे समस्तवाक्यस्य वैयर्थ्यप्रसङ्गात् अगत्या आग्नेयादिषु सप्तसु देवताविधिः । आमिक्षायागे विश्वेदेवदेवतायाः प्राप्तत्वात् देवताविशिष्टयागान्तरविधानं वा गुणात् । निर्मन्थ्यशब्दे यथोपसर्जनीभूतमन्थनविधिः एवमिहाप्युपसर्जनदेवताविधिरिति प्रत्यवस्थाना- त्सङ्गतिरित्यभिप्रेत्याह-चातुर्मास्येष्विति ॥ चतुषु चतुर्षु कर्तव्यानि चातुर्मास्यसंज्ञकानि चत्वारि पर्वाणि, वैश्वदेव-वरुणप्रघास--साकमेध-शुनाशीरीयाख्यानि । तत्र-वैश्वदेवाख्ये प्रथमे पर्वणीत्यर्थः ॥ अष्टौ यागानिति ॥ 'आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुं, सावित्रं द्वादश- कपालं, सारस्वतं चरुं, पौष्णं चरुं, मारुतं सप्तकपालं, वैश्वदेवीमामिक्षां, द्यावापृथिव्यमेक- कपालं' इति वाक्यैर्विहितानीत्यर्थः । तत्र द्वितीयतृतीयचतुर्थपञ्चमाश्चरवः । सप्तमी आमिक्षा । अन्ये पुरोडाशा इति स्थितिः । यद्यपि चातुर्मास्यानि राजसूये विहितानि तदन्तर्गतान्येव । तथापि तत्रत्यानामेव अवेष्टिवत् 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' 'चातुर्मा- स्यैस्वर्गकामो यजेत' इत्यादिवाक्येन स्वतन्त्रफलसम्बन्धाबहिःक्रतु प्रयोगः । स एव सप्तहविर्यज्ञसंस्थान्तर्गततया नित्यत्वेन गौतमोक्त इति बोध्यम् ॥ वैश्वदेवेनेति ॥ न च वैश्वदेवशब्दस्य देवतातद्धितान्तस्य यजिसामानाधिकरण्यमनुपपन्नं, देवतातद्धितस्य 'सूक्त- हविषोः' इति वार्तिककारेण नियमितत्वादिति वाच्यम् ; तस्य प्रायिकत्वात् । अत एव 'वृधन्वत्याग्नेयस्य आज्यभागस्य पुरोनुवाक्या भवति' इति श्रौतप्रयोगोपपत्ति- रिति भावः ॥ समस्तेति ॥ नाम्नो विध्यनहत्वात् अर्हत्वेऽप्यर्थवाचकस्य शब्दपरत्वे लक्षणाप्रसङ्गात् 'अष्टौ हवींषि' इति लिङ्गदर्शनेन यागविधित्वासम्भवाच्च समस्तवाक्यं व्यर्थ स्यादित्यर्थः ॥ अगत्येति ॥ उत्पत्तिशिष्टदेवतावरुद्धेषु देवतान्तरविधानं न युक्त- मित्यभिप्रायेणागत्येतिवचनम् ; तथापि वाक्यानर्थक्यात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलं' इति न्यायेन उत्पन्नशिष्टस्यैव गुणस्य प्राबल्यादुत्पत्तिशिष्टगुणबाधेन गुणविधित्वं सम्भवतीति भावः । यत्तु उत्पत्तिशिष्टदेवताभिस्साकमानर्थक्यप्रतिहतविधिप्राप्तदेवताया विकल्प इति कैश्चिदुक्तम् , तन्न; आनर्थक्यप्रतिहतन्यायेन बलाबलवैपरीत्यस्य सिद्धतया उत्पन्नशिष्ट- स्यैव प्राबल्येन तुल्यबलत्वाभावाद्विकल्पोक्त्ययोगात् ॥ देवताविधिरिति ॥ यजिना प्रकृत- यागाननूद्य तत्र वैश्वदेवपदेन विश्वेदेवदेवताविधिः । वैश्वदेवपदस्य देवताविशिष्टद्रव्यवाचक- त्वेऽपि द्रव्याणां विशिष्य प्राप्तत्वात् अप्राप्तदेवतामात्रविधायकत्वोपपत्तरिति भावः । ननु उत्पत्तिशिष्टगुणावरुद्धेषु गुणान्तरविधिर्न सम्भवत्येव । न चानर्थक्यप्रतिहतन्यायः; विशिष्ट- विधित्वेन वाक्यसार्थक्यसम्भवादित्यतस्तथैवाह-देवताविशिष्टेति ॥ गुणादिति ।। वाजिन- पा. ४. अधि. १०-११.] भादृचिन्तामणिसहिता। १४५ एतस्मिन्नेव वा कर्मणि आमिक्षावाक्येन द्रव्यमात्रविधानम् । एवं च 'अष्टौ हवींषि" इति लिङ्गदर्शनस्याप्युपपत्तिरिति प्राप्ते- नाग्नेयादिषु गुणविधिः; उत्पत्तिशिष्टदेवतावरोधात् । नापि यागान्तरविधिः; न्यायेन गुणात्कर्मभेद इत्यर्थः । ननु गुणात्कर्मभेद इत्ययुक्तं, भेदकगुणाभावात् । सप्तमयागे विश्वेदेवदेवतासत्त्वेन देवताभेदाभावाव्यविशेषस्याश्रवणान्न द्रव्यभेदात्कर्मभेद- सम्भव इति चेन्न; तद्धितेन देवताविशिष्टद्रव्यप्रतिपादनेन द्रव्यभेदादेव कर्मभेदसम्भवाद्दव्य- विशेषाश्रवणेऽपि बहुदेवताकत्वेन अग्नीषोमीयप्रकृतिकतयातिदेशेन पुरोडाशप्राप्तिसम्भवात् 'सर्वस्मै' इति वाक्येन ध्रौवाज्यप्राप्तिसम्भवाच्च सर्वनामार्थकतद्धितेनोपस्थितप्रथमोपात्तप्राकर- णिकाग्नेयाष्टाकपालप्राप्तिसम्भवाच्च । न च 'अप्टी हवींषि' इति लिङ्गविरोध इति वाच्यम् ; तस्य प्रधानपरत्वादस्य च वाजिनयागवदङ्गत्वेन विरोधाभावात् । अन्यथा वाजिनयागाधि- क्येन लिङ्गविरोधस्यापरिहार्यत्वादित्याशयात् । तस्माद्विश्वेदेवदेवताविशिष्टाज्यादिद्रव्यक- यागविधिरिति गुणाद्यागान्तरविधिपक्षस्सम्भवत्येवेति भावः । ननु विशिष्टविधिपक्षे गौरव- मित्यत आह---एतस्मिन्नेव वेति ॥ वैश्वदेवेन यजेत' इति वाक्यविहित इत्यर्थः ॥ आमिक्षावाक्येन-सप्तमवाक्येन ॥ द्रव्यमानविधानमिति ॥ आमिक्षावाक्ये द्रव्यदेवता- सम्बन्धकल्पितयागविधावपि वैश्वदेववाक्येन यागदेवतयोः प्राप्तत्वादप्राप्तामिक्षाविधाने पर्यव- सानादुभयोस्सार्थक्यमिति भावः । न च आमिक्षावाक्य एव विशिष्टयागविधिः, वैश्वदेववाक्ये तु गुणमात्रविधिरित्येवं किं न स्यादिति वाच्यम् ; वैश्वदेववाक्ये यजिश्रवणेन तत्रेव याग- विधेर्युक्तत्वादामिक्षावाक्ये च यज्यश्रवणेन गुणमात्रविधानोपपत्तरित्याशयः । अस्मिन्पक्षे लिङ्गदर्शनस्याप्युपपत्तिरित्याह-एवं चेति ॥ न च पूर्वस्मिन्पक्षेऽपि वैश्वदेववाक्यविहित- यागस्य सप्तमवाक्यविहितयागस्य च सम्प्रतिपन्नदेवताकतया सह प्रक्षेपात् 'त्रयोदशामावा- स्यायां' इत्यस्येव 'अष्टौ हवींषि' इति लिङ्गदर्शनस्याप्युपपत्तिस्सम्भत्येव । अथवा लिङ्गदर्शनस्य प्रधानमात्रपरताया वैश्वदेववाक्यविहितयागस्याङ्गत्वस्य च पूर्वमेवोक्तत्वान्नानुपपत्तिरिति वाच्यम् ; 'अष्टी हवींषि' इति वाक्यस्य यागाष्टत्वाभिप्रायकत्वे तदसम्भवात् , 'त्रयोदशामावास्यायां' इत्यस्याहुतिपरत्वेन वैषम्यात् , वैश्वदेववाक्यविहितयागस्याङ्गत्वे प्रमाणाभावाच्च इत्यभिप्रायेण सिद्धान्तमाह-नाग्नेयादिष्विति ॥ आग्नेयादिवाक्येषु अग्न्यादिदेवताश्रवणेनाग्न्यादिदेवता- विशिष्टाष्टाकपालादिद्रव्यकयागविधेरावश्यकतया देवताकाङ्क्षाभावान्न वैश्वदेववाक्ये गुणवि- धिसम्भव इत्यर्थः । ननु 'इन्द्राय हरिवते धाना निर्वपेत् , इन्द्राय पूषण्वते करम्भ, सरखत्यै भारत्यै परिवापं, इन्द्राय पुरोडाशं, मित्रावरुणाभ्यां पयस्यां' इति वचनान्न देवतोद्देशेन निर्वापश्श्रुतः । १. ते. बा. १. ६. ३. 19 १४६ भाट्टदीपिका [अ. १. भेदबोधकप्रमाणानां नामत्वेनोपपत्तौ विधिगौरवापादकभेदबोधकत्वानुपपत्तेः । अत एव नामिक्षावाक्येऽपि द्रव्यमात्रविधानम् ; 'आग्नेयमष्टाकपालं निर्वपेत्' इत्याग्नेयादिवाक्य- तत्रापि निर्वपतेर्यागलक्षकतयोत्पत्तिशिष्टदेवतावरुद्धेऽपि कर्मणि 'एतेषां हविषामिन्द्रमेव यजन्ति' इति वचनेन इन्द्रस्येव देवतात्ववत्प्रकृतेऽप्यग्न्याद्यवरुद्धेषु यागेषु वैश्वदेववाक्येन विश्वेदेव- देवताविधिसम्भवान्नोत्पत्तिशिष्टप्राबल्येन गुणविधित्वानुपपत्तिरिति चेन्न; तत्र 'इन्द्राय हरिवते' इत्यादौ निर्वपतिना यागलक्षणाभावाच्चोदकप्राप्तनिर्वापानुवादेन यावल्लक्षणया याग उपस्था- प्यते तावज्झटिति प्रवृत्तेन एतेषामिति वचनेनेन्द्रविधानात्तस्यैव देवतात्वेन इन्दविशिष्ट- यागविधिपर्यवसानेन द्रव्यदेवतासम्बन्धान्यथानुपपत्त्या यागकल्पनाभावान्नोत्पत्तिशिष्टत्वं देव- तायाः । प्रकृते तु 'आग्नेयमष्टाकपालं निर्वपति' इत्यादौ निर्वापो न विधेयः, तस्य चोदकप्राप्तत्वात् । नापि निर्वापे देवताविधिः, तद्धितोपात्तदेवताया निर्वापेऽन्वयासम्भवात् , निर्वापार्थतया देवताविधाने यागविधानाभावेन अष्टाकपालादीनामनन्वयापत्तेश्च 'इन्द्राय हरिवते' इत्यादावष्टाकपालादिपदाभावात् निर्वापमात्रे देवताविधिर्युक्त इति वैषम्यात् । एवं तत्रैतेषामिति बहुवचनश्रवणेन युक्त इन्द्रस्य सर्वहविस्सम्बन्धः । प्रकृते तु वैश्वदेवेरिति बहुवचनाश्रवणान्न विश्वेदेवदेवतायास्सर्वहविस्सम्बन्ध इति वैषम्याच्च । ततश्च आग्नेयादि- वाक्येषु यागस्यैव विधेयत्वादुत्पत्तिशिष्टाग्न्यादिरूपदेवतावरोवेन तत्र गुणविधिर्न सम्भवत्येवे- त्याशयः । नन्वेवं गुणाधिकरणे उत्पत्तिशिष्टप्राबल्याद्गुणविधित्वं नास्तीति व्युत्पादनात्तेन गतार्थमेतत् । न चात्रोत्पत्तिशिष्टप्राबल्यं व्युत्पाद्य, गुणाधिकरणे तद्धितचतुर्थीबलाबलमिति न पोनरुक्त्यमिति वाच्यम् ; उत्पत्तिशिष्टप्राबल्यस्यात्र व्युत्पाद्यत्वे गुणाधिकरणपूर्वपक्षस्यैवा- नुन्मेषापत्तेः । पूर्वयागस्यामिक्षावरुद्धतया तत्र वाजिननिवेशासम्भवादिति चेन्न ; उत्पत्ति- शिष्टप्राबल्यस्येतदधिकरणसिद्धत्वेऽपि वाजिनवाक्ये विशिष्टविधिगौरवपरिजिहीर्षया आमिक्षा- यागं निष्कृष्य यागस्वरूपमात्रानुवादेन वाजिनविधिरस्विति शङ्कानिराकरणार्थं तदधि- करणप्रवृत्तेस्सुवचत्वात् । अधिकमाकरे व्यक्तम् । द्वितीयपूर्वपक्षं निराकरोति-नापीति ॥ भेदबोधकेति ॥ देवतायाः चोदकप्राप्तद्रव्यस्यानर्थक्यस्य च यागनामत्वेन वैश्वदेवशब्दो- पपत्तेर्न कर्मभेदबोधकत्वम् । भेदबोधकत्वे हि स्वतन्त्रं कर्म, तज्जन्यमपूर्वं, तयोर्जन्यजनक- भावादिविशेषणविध्यादिकं च कल्पनीयमिति गौरवापत्तरिति भावः ॥ अत एव–नामत्वे- नोपपत्तरेव ॥ नामिक्षावाक्य इति ॥ आमिक्षावाक्ये द्रव्यविधिरिति पक्षे विधेर्धात्वर्थविष- यित्वाभावेन धातुपारार्थ्यमपि दोष इति भावः । दोषान्तरमप्याह-आग्नेयमिति ॥ आग्नेयवाक्यस्थस्य निर्वपतेर्रव्यदेवताविशिष्टयागविधायकस्यामिक्षावाक्येऽनुषङ्गेणान्वितस्य द्रव्यमात्रविधिपरत्वे वैरूप्यम् । धात्वर्थविषयस्य विधेर्गुणविषयत्वात् एकोच्चारणेन विशिष्टप्रतीते- पा. ४. अधि. १०-११.] भादृचिन्तामणिसहिता। १४७ स्थस्य निर्वपेदित्यस्य विशिष्टविधायकस्य आमिक्षावाक्येऽनुषक्तस्य द्रव्यमान विधाय- कत्वे वैरूप्यापत्तेश्च । अत आग्नेयादीनामष्टानामपि यागानां नामधेयं वैश्वदेवशब्दः; उत्पत्तिशिष्टदेवतावरोधसहकृततत्प्रख्यन्यायात् । प्रवृत्तिनिमित्तं च विश्वेदवदेवता- कयागघटितसमुदायाश्रयत्वम् । वाक्यं च समुदायसिद्धयर्थं समुदायिनामनु- वादकम् । तत्प्रयोजनं च अष्टानामपि यागानां 'वसन्ते वैश्वदेवेन यजेत' इति वसन्ता- गुणमात्रप्रतीतेश्चासम्भवेन विध्यावृत्तेर्वक्तव्यत्वादिति भावः । आमिक्षावाक्ये द्रव्यमात्रस्य देव- तोद्देशेन विधाने द्रव्यस्य देवताङ्गत्वापत्तिः चशब्देन सूचिता । नामधेयत्वमुपपादयति- उत्पत्तीति ।। तत्प्रख्यन्यायमात्रेण नामत्वं न सम्भवति ; तन्न्यायस्यामिक्षायागमात्रविषयत्वेन यागाष्टकनामत्वासाधकत्वात् । “यद्विश्वेदेवास्समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वं" इत्यर्थ- वादस्य स्तुतिमात्रपरत्वेन नामत्वासाधकत्वादित्यभिप्रायेणोत्पत्तिशिष्टेत्याद्युक्तम् । अत्र वैश्व- देवपदस्य वैश्वदेवावैश्वदेवसमुदाये छत्रिन्यायेन लक्षणेति कश्चिदुक्तम् । तदसहमानस्सर्वयाग- साधारणं प्रवृत्तिनिमित्तमाह --प्रवृत्तिनिमित्तं चेति ॥ न च 'यद्विश्वेदेवाः' इति वाक्यशेष- वशाद्विश्वेदेवकर्तृकत्वमेव प्रवृत्तिनिमित्तं वक्तुं शक्यम् । अर्थवादत्वेऽपि 'त्रिवृत्पञ्चदश' इत्यादिवाक्यशेषवशेन ज्योतिष्टोमादिपदस्य नामधेयत्वसिद्धान्तदर्शनादिति वाच्यम् ; 'त्रिवृ- त्पञ्चदश' इत्यादिवाक्यशेपस्य स्तावकत्वेऽपि शक्यार्थप्रतीतिमादाय नामत्वनिर्वाहकत्व- सम्भवात् । प्रकृते च देवताचैतन्यस्य सिद्धान्तेऽनङ्गीकारेण विश्वेदेवकर्तृकत्वस्य यागेषु विरुद्ध- तया 'विरोधे गुणवादः स्यात्' इति न्यायेन गुणवादमात्रत्वेन शक्यार्थबोधासम्भवान्मूलोक्त- प्रवृत्तिनिमित्तस्यैव युक्तत्वात् ।। विश्वदेवदेवताकेति ॥ ननु विश्वेदेवदेवताकयागघटितसमुदा- यत्वं वैश्वदेवपर्वस्थस्य सङ्कल्पप्रभृति ब्राह्मणतर्पणान्तसमुदायस्यास्तीति सर्वेषां तेषां वैश्वदेव- पदार्थत्वापत्तिः । न चेष्टापत्तिः ; प्रयाजादीनां सर्वेषामपि वसन्तकालसम्बन्धेन चातुर्मास्य- संज्ञापत्त्या फलसम्बन्धेन समप्राधान्यापत्तेः । न च महासमुदायघटकावान्तरसमुदायाश्रयत्वं प्रवृत्तिनिमित्तमस्त्विति वाच्यम् ; अवान्तरसमुदायसिद्धी नामवसिद्धिः, नामवसिद्धाववान्तर- समुदायसिद्धिरित्यन्योन्याश्रयापत्तरिति चेन्न; विश्वेदेवदेवताकयागघटितनिर्वपतिलक्ष्ययागमात्र- प्रवृत्तिसमुदायाश्रयत्वविवक्षायामतिप्रसङ्गाभावान्निर्बपतिलक्ष्यत्वस्य समुदायिषु विवक्षितत्वेन प्रयाजादिषु तदभावात् । अत एव वाजिनयागघटितसमुदायमादाय नातिप्रसङ्ग इति दिक् । वाक्यानर्थक्यं परिहरति-वाक्यं चेति ॥ वैश्वदेवेन यजेत' इति वाक्यं चेत्यर्थः समुदायादीनां--आग्नेयादीनाम् ॥ अनुवादकमिति ॥ एकसंज्ञाकानामेकेन यजिनोपादाना- देकसमुदायसिद्धिरनुवादफलमित्यर्थः । समुदायसिद्धेः किं प्रयोजनमित्याकाङ्क्षायामाह-तत्त्र- ॥ १. विश्वेदेवदेवताजयामिक्षा० इति पाठान्तरम् ।
१४८ भाट्टदीपिका [अ. १ दिसम्बन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फलसम्बन्धसिद्धिः । इतरथा आमिक्षा- यागस्यैव विश्वदेवदेवताकत्वात् वसन्तादिसम्बन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फल- सम्बन्धापत्तेः इतरेषामङ्गत्वापत्तिरिति कौस्तुभे स्पष्टम् ॥ ११ ॥ (१२)-पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ॥ १७ ॥ गुणस्य तु विधानार्थेऽतद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थ- वत्ताऽस्ति ॥ १८ ॥ तच्छेषो नोपपद्यत इति चेत् ॥ १९ ॥ अवि- भागाद्विधानार्थे स्तुत्यर्थे नोपपद्येरन् ॥ २० ॥ कारणं स्यादिति चेत् ॥ २१ ॥ आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थे योजनं चेति ॥ समुदायसिद्धिप्रयोजनं चेत्यर्थः । 'वसन्ते वैश्वदेवेन यजेत' इति वाक्येन वैश्वदेवसंज्ञिकसमुदायस्य वसन्तसम्बन्धसिद्धिः प्रयोजनमित्यर्थः । आदिना 'प्राचीनप्रवणे वैश्वदेवेन यजेत' इति वाक्योक्तदेशसम्बन्धपरिग्रहः । तस्यापि प्रयोजनमाह-चातुर्मास्येति ॥ वैश्वदेवपदबोध्यानामष्टानामपि यागानां फलसम्बन्धसिद्धिर्विद्वद्वाक्यवत्प्रयोजनमित्यर्थः ॥ इतरथा-अनुवादाभावे ॥ आमिक्षायागस्येति ॥ सप्तमयागस्येत्यर्थः ॥ वसन्तेति ॥ वसन्तवाक्ये वैश्वदेवपदेन तस्यैव ग्रहणादिति भावः ॥ अङ्गत्वापत्तिरिति ॥ 'फलवत्सन्नि- धावफलं तदङ्ग' इति न्यायादिति भावः । नन्वेवमपि त्रिंशदाहुतिसम्पत्तिविरोधः । एवं हि श्रूयते 'नव प्रयाजा: इज्यन्ते, नवानूयाजाः, अष्टौ हवींषि, द्वावाघारौ, द्वावाज्यभागौ' इति । तत्र वाजिनस्विष्टकृदादीनां पत्नीसंयाजादीनां चाधिक्यादिति चेन ; प्रतिपत्त्यतिरिक्ताहव- नीयाधिकरणकहोमसङ्ख्यामादाय त्रिंशत्वोपपत्तेः । स्विष्टकृद्वाजिनयोः प्रतिपत्तित्वात्पत्नी- संयाजादीनामाहवनीयाधिकरणकत्वाभावाच्च तद्वयुदासात् । प्रयोजनं प्रथमपूर्वपक्षेऽष्टानामपि विश्वेदेवदेवताकत्वात्सम्प्रतिपन्नदेवताकतया सहप्रक्षेपः । द्वितीये सप्तमनवमयोः सम्प्रति- पन्नदेवताकत्वात्सहप्रक्षेपः । तृतीये विधिपाठक्रमस्यापि अनुष्ठानक्रमनियामकतया एककपाल- विध्यनन्तरमेव वैश्वदेववाक्यश्रवणात् एककपालानुष्ठानानन्तरमेव वैश्वदेवयागानुष्ठानम् । सिद्धान्ते तु न सहप्रक्षेपो न वा क्रमवैपरीत्यमिति । सूत्रार्थस्तु,वैश्वदेवे-वैश्वदेवशब्दे, विश्वे- देवदेवताविधानादग्न्यादिभिर्विकल्प इति चेत्तन्न, प्रकरणात्प्रत्यक्षविधानाच्च । विश्वेषां देवानां यजिना यागसामान्यबोधने विशेषाश्रवणात्प्रकरणाद्विश्वेदेवदेवताविधिर्वाच्यः । अग्न्यादीनाम- ष्टाकपालादियागेषु श्रुत्या विधानादुर्बलप्रमाणप्राप्तानां विश्वेषां देवानां न विकल्पो युक्तः ; विषमशिष्टविकल्पापत्तेः ॥ न हि प्रकरणं द्रव्यस्यअग्न्यादिगुणस्य न प्रकरणं, किन्तु श्रुतिरिति।। पूर्ववन्तोऽविधानास्तित्सामर्थ्य समानाये ॥ पूर्वाधिकरणोक्तनामत्वापवादादाप- पा. ४. अधि. १२.] भादृचिन्तामणिसहिता । १४९ विधीयन्ते ॥ २२ ॥ 'वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" इत्यनेन यागं विधाय 'यदष्टा- कपालो भवति, गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति" इत्यादिनाऽष्टाकपालनवकपालदश- कपालैकादशकपालद्वादशकपालाननूद्य 'यस्मिन् जात एतामिष्टिं निर्वपति, पूत एव तेज- स्त्यन्नाद इन्द्रियावी पशुमान् भवति" इति श्रुतम् । तत्र द्वादशत्वे अठत्वादेः प्राप्त- त्वादष्टांकपालशब्दो वैश्वानरयागनामधेयमित्येकः पक्षः । स्वरूपेण प्राप्तावपि परिच्छेद- वादकी सङ्गतिमभिप्रेत्याह-वैश्वानरमिति ॥ यागं विधायेति ॥ 'वैश्वानरेण द्वादश- कपालेन यजेत' इति वाक्यविपरिणामस्य आग्नेयाधिकरणन्यायसिद्धत्वादिति भावः । आदि- ना ' यन्नवकपालस्त्रिवृतवास्मिन् तेजो दधाति । यद्दशकपालो विराजेवास्मिन्नन्नायं दधाति । यदेकादशकपालस्त्रिष्टुभवास्मिन् इन्द्रियं दधाति । यहादशकपालो जगत्यैवास्मिन्पशून्दधाति' इत्येतदन्तपरिग्रहः । अत्र वैश्वानरमित्यारभ्य पशुमान् भवतीत्यन्तमेकं वाक्यं, उत नाना- वाक्यानि ? तत्राप्यष्टाकपालादिशब्दा नामधेयानि, उत गुणविधय इति वाक्यैकत्वपक्षे संशयः । वाक्यनानात्वपक्षेऽपि किं केवलगुणविधय एते, उत फलार्थगुणविधय इति । अथ वा 'यदष्टा- कपालो भवति' इत्यारभ्य 'सर्वोऽयमर्थवादः' इति संशयनिष्कर्षमभिसन्धाय पूर्वपक्षमाह- तोति ॥ द्वादशत्व इति ॥ शतं ब्राह्मणास्सोमान् भक्षयन्तीत्यत्राधिकसङ्ख्यान्तर्गतोऽल्प- सङ्खयेव । 'दश दश एकैकं चमसमनुसर्पन्ति' इत्यत्र यथा निर्दिश्यते तद्वद्दादशकपालेष्वष्टादि- द्वादशान्तानां प्राप्तत्वात्तत्प्रख्यन्यायेनाप्टाकपालादिशब्दा नामधेयानि । न चैकस्य वैश्वानर- यागस्य पञ्चनामधेयाङ्गीकारे संज्ञया कर्मभेदापत्तिरिति वाच्यम् ; पाचकपाठकादिवदेकस्यै- वानेकसंज्ञासम्भवेन कर्मभेदाभावात् । न च तथाप्येकस्यानेकसंज्ञाकत्वे प्रयोजनासम्भव इति वाच्यम् ; अर्थवादे पूतत्वादिफलपञ्चकस्य संज्ञाभेदेन प्रतिनियतनिर्देशवलात्तत्फलकामना- प्रयोगे तत्तन्नाम्नैव सङ्कल्प इति नियमकल्पनेन बहुसंज्ञानर्थक्याभावात् । अत एव नाष्टदोष- दुष्टविकल्पोऽपि । न चैकस्मिन्प्रयोगेऽनेकफलकामनायां सर्वसंज्ञाप्रवृत्त्यापनिरिति वाच्यम् ; योगसिद्धयधिकरणन्यायेनैकस्मिन् प्रयोगेऽनेकफलकामनाऽसम्भवात् ॥ परिच्छेदकत्वेनेति ॥ श्रपणाधिकरणव्यावर्तकत्वेनेत्यर्थः । द्वादशस्वष्टत्वादीनां स्वरूपेण सत्त्वेऽपि समासस्य सामर्थ्या- श्रितत्वान्निरपेक्षत्वरूपसामर्थ्यस्य चतुस्सापेक्षेष्वष्टस्वभावादिति भावः । अष्टत्वमिति ॥ औपदेशिकद्वादशत्वेन बाधनिरासायातिदेशप्राप्तमपि पुनर्विधीयत इत्याशयः । नन्वष्टत्व- मात्रविधाने कपालपदवेयर्थ्यापत्तिः कपालाद्देशेन तद्विधावेकप्रसरताभङ्गश्वेत्यत आह-- १. तै. सं. २. २. ५.
१५० भाट्टदीपिका [अ. १. कत्वेन प्राप्त्यभावात् गुणविधय एव एते । अष्टत्वमष्टाकपालं द्रव्यं वा पूर्वयागे विधीयते । उपक्रमोपसंहारैक्येन चैकवाक्यत्वप्रतीतेन द्वादशकपालस्योत्पत्ति- शिष्टता ॥ अथवा-अस्तु वाक्यनानात्वम् । तथाऽपि 'यहादशकपालो भवति" इत्यनेनैव तद्विधिः । वैश्वानरवाक्ये तत्पदमनुवाद एवेति द्वितीयः पक्षः । ब्रह्मवर्चसादिरूपफलो- देशेन प्रकृतयागाश्रिता गुणा एव अष्टाकपालादयो विधीयन्त इति तृतीयः सिद्धान्ते तु-सम्भवत्येकवाक्यत्वे तद्भेदस्यान्याय्यत्वात् प्रकृतयागस्यैवेयं सर्वा अष्टाकपालं द्रव्यं वेति ॥ पूर्वयागे-वैश्वानरयागे । ननु वैश्वानरवाक्ये द्वादशकपालस्योत्पत्ति- शिष्टस्य श्रुतत्वान्नोत्पन्नशिष्टाष्टाकपालादिद्रव्यविधिसम्भव इत्यत आह-उपक्रमेति ॥ 'पुत्रे जाते' इत्युपक्रम्य 'जात एतां इष्टिं निर्वपति' इत्युपसंहारादिदमेकमेव महावाक्यं, आख्यातभेदस्यावान्तरवाक्यभेदेनोपपत्तेः । तत्रैकं द्वादशकपालपदं वैश्वदेवपदवन्नामधेयं, वैश्वानरपदं तद्धितान्तं देवतावाचकम् । ततश्च वैश्वानरदेवताकपञ्चद्रव्यकयागो विधीयते । देवतासम्बन्धिहविःपञ्चकस्यैकस्मिन् करणत्वेनान्वयः । न च प्राजापत्यन्यायः, बहुवचनाभावात् । अष्टाकपालादिवाक्यानि द्रव्यविशेषसमर्पकाणि । एवं च सर्वेषामुत्पत्ति- शिष्टत्वान्नोक्तदोष इति भावः । द्वितीयपूर्वपक्षमाह----अथवेति ॥वाक्यनानात्वं-आख्यातभेदेन महावाक्यभेदः । 'यस्मिन् जाते' इत्यस्य प्रत्येकं सम्बन्धः । 'यदष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्च- सेन पुनाति, यस्मिन् जात एतामिष्टिं निर्वपति, स पूत एव भवति' इत्यादि- रीत्या सार्थवादकवाक्यानेकत्वमित्यर्थः । तद्विधिः-द्वादशकपालविधिः ॥ तत्पदं-द्वादश- कपालपदम् । अनुवाद एवेति ॥ एवं च सर्वेषां द्रव्याणामुत्पन्नशिष्टत्वान्नोक्तदोषावकाश इति भावः । केचित्त्वस्मिन्पक्षे तत्तद्वाक्यैस्तत्तद्रव्यकयागा एव विधीयन्ते, पुत्रजनननिमित्तकानां यागानां निमित्तैक्यादेकः प्रयोग इत्यप्याहुः। नन्वेवं द्वादशकपालवैयर्थ्यापत्तिरित्यतः पक्षन्तर- माह-ब्रह्मवर्चसेति ॥ वैश्वानरयागमाश्रित्याष्टाकपालादिद्रव्याणि ब्रह्मवर्चसादिफलोद्देशेन विधीयन्त इत्यर्थः । अस्मिन् पक्षे वैश्वानरवाक्यमेव यागविधायकम् । द्वादशकपालस्तु संयोगपृथक्त्वन्यायेन दध्यादिवदुभयार्थ इति भावः । सिद्धान्तमाह-सम्भवतीति ॥ एक- वाक्यसम्भवे भिन्नवाक्यत्वस्यान्याय्यत्वादुपक्रमोपसंहाराभ्यामेकवाक्यत्वस्य स्पष्टं प्रतीयमान- त्वाद्विधेः प्राशस्त्यापेक्षत्वाच्च 'यदष्टाकपालो भवति' इत्यादिः, 'भवति' इत्यन्तस्सर्वोऽप्यर्थवाद इत्यर्थः। न चाख्यातभेदाद्वाक्यभेदः, यस्योभयमित्यादाविवाख्यातभेदसत्वेऽपि यत्तच्छब्दबलादे- १. तै. बा. २. २. ५. ।
पा. ४. अधि. १२.] भादृचिन्तामणिसहिता । १५१ स्तुतिः । तदङ्गभूतद्वादशकपालावयवोऽष्टाकपालादिरप्येकैकफलसाधनं तत्र सर्वावय- वोपेतद्वादशकपालस्य सर्वफलप्रयोजकत्वे कस्सन्देह इति यागस्तुतिः । अष्टाकपालपदं चाग्नेयाष्टाकपाले शक्तं गोण्या वृत्त्याऽष्टत्वाश्रयकपालश्रपितत्वसादृश्येन द्वादश- कपालावयवे गौणम् । तेन च अवयवद्वारा अवयवी द्वादशकपालो लक्ष्यते । तेन लक्ष- समासस्य कवाक्यत्वसम्भवादिति भावः । ननु द्वादशकपालस्येव विधेयत्वे अष्टाकपालादेरविधेयत्वात्त- स्तुतिर्नोपयुज्यत इत्यतः तत्स्तुतीनामपि द्वादशकपालस्तुत्युपयोगित्वमाह--तदङ्गभूतेति ॥ वैश्वानरयागाङ्गभूतेत्यर्थः । मुखाद्यवयवस्तुतिद्वारा अवयविशरीरस्तुतिदर्शनादिति भावः ॥ सर्वफलप्रयोजकत्व इति । अनेन एकस्मादेव प्रयोगात्फलपञ्चकोत्पत्तिः, न तु दर्शा- दिवत् प्रयोगभेदेन । न च योगसिद्धयधिकरणविरोधः । तस्यावयवजन्यफलपरत्वा- भावादिति दर्शितम् । स्तुतिलक्षणाप्रकारमाह--अष्टाकपालपदमित्यादि ॥ गौण्यति॥ सामथ्याश्रितत्वानिरपेक्षत्वरूपसामर्थ्यस्य चतुस्सापेक्षेप्वष्टस्वभावेन मुख्य- प्रवृत्त्यसम्भवादिति भावः । अत्रेदं विर्चायते । अस्या इष्टेनैमित्तिकतया निमित्त- स्थलेऽकरणे प्रत्यवायबोधनात्प्रत्यवायपरिहारोऽत्र फलं, उतार्थवादिकं पूतत्वादि- कमिति । उभयोरुद्देश्यत्वे तूद्देश्यानेकत्वाद्वाक्यभेदः स्पष्टः । न च रात्रिसत्रन्यायेनार्थ- वादिकपूतत्वादिकमेव फलमुपस्थितत्वान्न प्रत्यवायपरिहार इति वाच्यम् ; निमित्तस्वाभाव्येन तस्यापि पदान्तरकल्पनयोपस्थितेरावश्यकत्वात् । अन्यथा तदकरणे प्रत्यवायानापत्तेः । किंचार्थवादिकफलकल्पनेऽपि पूतत्वादिप्रत्येकफलोद्देशन यागविधानेऽनेकोद्देश्यत्वाद्वाक्यभेदाप- तेरपि न तत्सम्भवः । सर्वेभ्य इतिवदेकपदेनोद्देशाभावात् । न चार्थवादस्य स्तुतिमात्रे तात्पर्यम् । निमित्तशास्त्रप्राप्तपापक्षय एव फलमिति वाच्यम् ; स्तुत्युपपादकत्वेनार्थवादिकपूत- त्वादीनामपि फलत्वप्रतीतेरावश्यकत्वात् । अन्यथा सर्वार्थवादानां प्राशस्त्यलक्षकतया कुत्रापि शक्यार्थबोधानापत्त्या वाक्यरोपान्निर्णय इति बहुतरसिद्धान्तासिद्धयापत्तेः । उच्चैस्त्वादीनां वेदधर्मत्वानापत्तेश्च । तथा च प्रत्यवायपरिहारस्य पूतत्वादीनां च पञ्चानां फलत्वावश्यकतया वाक्यभेदो दुरुद्धर इति चेदत्राहुः ; निमित्तायुक्तप्रत्यवायपरिहारस्य पूतत्वादेश्च विजातीयत्वेन एकान्वयेऽपीतरान्वयनैराकाङ्क्षयाभावात्पूतत्वादीनामीप्सितत्वानिमित्तस्यानुष्ठापकत्वरूपोद्देश्यत्वा- निमित्तस्थले एतादृशोद्देश्यानेकत्वस्य सर्वत्राङ्गीकार्यत्वान्नोक्तदोषः । अन्यथा यावजीववाक्य- स्वर्गकामवाक्याभ्यामुद्देश्यानेकत्वप्रयुक्तवाक्यभेदस्य स्पष्टतया तत्राप्यन्यतरपरित्यागापत्तेः । तस्मादुभयमपि फलं विवक्षितमेव । यदपि पूतत्वादीनामनेकेषामुद्देश्यत्वादुद्देशानेकत्वप्रयुक्तो वाक्यभेद इति तदपि न ; पूतत्वादिषु यागजन्यतावच्छेदकवेजात्यकल्पनेन उद्देश्यतावच्छेदके- १. यदङ्ग इति पाठान्तरम् ।
१५२ भाट्टदीपिका [अ. १. णया यागस्तुतिरिति । इदं चाधिकरणं औदुम्बराधिकरणन्यायेन पुनरुक्तमपि शिष्य- शिक्षार्थमुक्तमिति ध्येयम् ॥ १२ ॥ (१३-१८)-तत्सिद्धि-जाति-सारूप्य-प्रशंसा-भूम-लिङ्गसमवाया इति गुणाश्रयः ॥ २३ ॥ तत्सिद्धिः 'यजमानः प्रस्तरः' इत्यादावपि सामानाधिकरण्यात् एकमितरस्य नामधेयम् । रूढत्वेन तदसम्भवाद्वा जघन्यप्रस्तरपदलक्षितप्रस्तरकार्यमुग्धारणोद्देशेन यजमानोऽधि- करणत्वेन विधीयत इति प्राप्ते- क्यात् । अन्यथा 'सर्वेभ्यः कामेभ्यः' इत्यादावपि वाक्यभेदापत्तेः । तस्य वैजात्यस्य व्यासज्य- वृत्तित्वान्नानेकोद्देश्यता । न च तद्वैजात्यकल्पने प्रमाणाभाव इति वाच्यम् ; भवतीत्याख्याते- नैकेन सर्वफलसमुच्चयप्रतीतेरेव प्रमाणत्वादिति कृतं विस्तरेण । अधिकरणवैयर्थ्यमाशङ्कय परिहरति-शिष्येति ।। अयं भावः । रात्रिसत्राधिकरणे अर्थवादत्वाविरोधेन फलसमर्पकत्वां- शस्याधिकसाधनवदिह तदुभयाविरोधेनैव संवलितत्वांशस्य ततोऽप्यधिकस्य साधनेनास्य सार्थक्यमिति शिष्यान् बोधयितुमिदमधिकरणमिति । सूत्रार्थस्तु, पूर्ववन्तः-प्रापकप्रमा- णवन्तोऽग्निहोत्रेऽग्न्यादयः । अविधानार्थाः मन्त्रवर्णप्राप्तत्वात् । इह तु समानाये-अष्टा- कपालादिपदसमूहे । तत्सामर्थ्य-गुणविधानार्थत्वमस्त्विति ॥ तत्सिद्धि-जाति-सारूप्य-प्रशंसा-भूम-लिङ्गसमवाया इति गुणाश्रयः॥ कृत्स्नस्यास्य एकसूत्रत्वेऽपि व्याख्यासोकर्याय सूत्रावयवोपादानं पूर्ववदत्रावयवद्वारा अवयविस्तुत्यसम्भवा- देकं इतरस्य नामधेयमित्युत्थानात्सङ्गतिमभिप्रेत्याह-यजमान इति । दर्शपूर्णमासयोः श्रूयते 'प्रस्तरमुत्तरं बर्हिषस्सादयति' इति । तत्सन्निधौ श्रूयते 'प्रजा वै बर्हिः, यजमानः प्रस्तरः' इति वेद्यां बर्हिरुपरि प्रस्तरं सादयतीति विध्यर्थः । एवं ज्योतिष्टोमे ताण्डिब्राह्मणेऽपि श्रूयते 'अध्वर्युः प्रस्तरं हरति । यजनमानो वे प्रस्तरः । यजमानमेव तत्स्वर्ग लोकं हरति' इति बहिष्पवमानादि- सर्पणकाले अध्वर्युः प्रस्तरं गृहीत्वा गच्छेदिति विध्यर्थः । प्रस्तरो दर्भमुष्टिविशेषः । अत्र ताण्डिवाक्ये दार्शपौर्णमासिकस्यातिदेशप्राप्तप्रस्तरस्य नोदाहरणत्वं सम्भवंति । तस्याज्याधार- मुग्धारणे व्यापृतत्वात् । किन्तु ज्योतिष्टोमे प्रस्तरद्वयं, एकोऽतिदेशेन प्राप्तस्रुग्धारणे विनियुक्तः, इतरं अध्वर्युर्गृहीत्वा बहिष्पवमानाद्यर्थसर्पणं कुर्यात् । सार्थवादकप्रयोगविध्यन्य- थानुपपत्त्या तथाकल्पनात् । न चासादिताज्यानां अन्यत्र निधानं कृत्वा प्रस्तरमहणं किं न गुणाश्रय इत्यन्तस्यैकसूत्रत्वेऽपि मन्त्राधिकरणपूर्वपक्षसूत्रवत् प्रत्यकं प्रथमान्तसूत्रोपन्यासो व्या- ख्यासौकर्यार्थो न विरुध्यत इति भाकौस्तुभे । २. तै. सं. २. ६. ५.
पा. ४. अधि. १३.] भादृचिन्तामणिसहिता । १५३ प्रत्यक्षविध्यश्रवणात् 'प्रस्तरमुत्तरं वर्हिषस्सादयति" इति विध्यन्तरैकवाक्य- त्वाच तदर्थवादत्वमौदुम्बराधिकरणसिद्धमेव । यजमानपदं तु गौण्या वृत्त्या प्रस्तर- स्तावकम् ॥ नन्वध्यारोपितार्थवृत्तित्वं गौणत्वं लोके प्रसिद्धम् , सिंहत्वस्य देवदत्ते आहार्या- स्यादिति वाच्यम् ; तस्य मन्त्रेणासादितस्य "घृतवतीशब्दे जुहूपभृतावादत्ते" इति वचनविहिता- दानं विना ग्रहणासम्भवात् , मन्त्रेणासादितस्याज्यस्य मन्त्रेणैव गृहीतव्यस्य तूष्णीमध्वर्युणा ग्रहणासम्भवात् , स्तोत्रोपाकरणकाले उद्गात्रे दत्तस्य प्रस्तरस्य पुनर्ग्रहणे प्रमाणाभावाच्च । तस्मात्प्रत्यक्षश्रुतिबलेन द्वितीयं प्रस्तरं कल्पयित्वा तस्यैव स्तोत्रोपाकरणे विनियोगस्ताण्डि- ब्राह्मणोक्तः । तस्य च दार्शपौर्णमासिकप्रस्तरे प्रस्तरशब्दो मुख्यः ; ज्यौतिष्टौमिके गौणः । अत एव 'दर्भमुष्टया स्तोत्रमुपाकरोति, दर्भाभ्यामुपाकरोति' इत्यादिः सूत्रकाराणां व्यवहार इति केचित् । अन्ये तु ताण्डिवाक्येऽपि दार्शपौर्णमासिकस्यैवातिदेशप्राप्तप्रस्तरस्य विषयत्वं युक्तम् । द्वितीयप्रस्तरं परिकल्प्य तस्य विषयत्वाभ्युपगम 'हविषो स्कन्दायते नास्य हविरस्कन्नं भवति' इति वाक्यशेषानुपपत्तेः, द्वितीयप्रस्तरस्य हविरासादनार्थत्वाभावेनाध्वर्युः तद्हणेऽपि हविस्कन्दनशङ्काया अभावान्मन्त्रेणासादितस्याप्याज्यसहितस्य वचनवलाद्हणे बाधकाभावा- दुद्गात्रे दत्तस्यापि साज्यस्य प्रस्तरस्य यागार्थं पुनः स्वीकारसम्भवात् । तस्माद्दार्शपौर्णमासिक एव प्रस्तरोऽत्र विषय इति न द्वितीयप्रस्तरकल्पनं युक्तमित्याहुः । अत्र यजमानशब्दः प्रस्तरशब्दो वा, नामधेयं वा, गुणविधिर्वा, अर्थवादो वेति सन्दिह्याह-एकमिति ॥ एक- यजमानपदं प्रस्तरपदं वा । इतरस्य-प्रस्तरस्य यजमानस्य वा। नामधेयं; विनिगमनाविरहादि- त्यर्थः । यद्वा, एकं-मुख्यं, यजमानपदमित्यर्थः । एतेन प्रस्तरपदं न विचामिति ध्वनितम् । पक्षान्तरमाहरूढत्वेनेति ॥ यजमानपदस्य यागजन्यफलभोक्तयैव निरूढत्वेन प्रस्तर- नामत्वासम्भवादित्यर्थः । सङ्खयामुष्टयधिकरणन्यायेन मुख्यस्य यजमानशब्दस्य लक्षणाया अयोगादाह--जघन्येति ॥ यो होता सोऽध्वयुरितिवत्प्रस्तरशब्दन प्रस्तरकार्य लक्षयित्वा तदुद्देशेन यजमाना विधीयत इत्यर्थः । प्रत्यक्षविधीति ॥ लिङाद्यश्रवणादित्यर्थः । विध्य- न्तरैकवाक्यत्वात्-विध्यन्तरापेक्षितप्राशस्त्यसमर्पकल्वेन तदेकवाक्यत्वसम्भवात् । अत्र भाष्ये गुणविधिरर्थवादो वेति द्विकोटिकसंशयप्रदर्शनेनाविकरणं रचितं, तत् औदुम्बराधिकरणेन गता- थमिति सूचयन्नाह-औदुम्बरेति ॥ तथापि नामधेयत्वशङ्कानिराकरणार्थत्वान्न पोनरुक्त्यमिति भावः । अर्थवादत्वमेवोपपादयति---यजमानपदमिति ॥ अत्र गौणीवृत्तिर्न सम्भवतीत्या. शङ्कते–नन्विति ॥ अध्यारोपितो यो अर्थः तद्वृत्तित्वं तत्प्रतिपादकत्वं गौणत्वमित्यर्थः १. तै. सं. २. ६. ५. 20 १५४ भाट्टदीपिका [अ. १. - रोपात् । न च तद्वेदे सम्भवति । आरोपकपुरुषाभावादिति चेन्न; विनाऽप्यारोपं सिंह- शब्दस्य सादृश्यमात्रविवक्षया देवदत्ते काव्यलोकयोः प्रयोगदर्शनात् । अतः स्वशक्य- गुणसमानजातीयगुणयोगनिमित्तत्वं गौणत्वम् । सिंहनिष्ठक्रूरत्वसमानजातीयक्रूरत्वयो- गाच सिंहपदस्य देवदत्ते प्रवृत्तेः 'सिंहो देवदत्तः' इत्यत्र लक्षणसमन्वयः । खपुष्पादौ' खसम्बन्धित्वाद्ध्यारोपेण चारोपितं खपुष्पशब्दार्थमङ्गीकृत्य तदृत्तिगुणानामसत्त्वादीनां सिद्धान्ते सत्त्वाच न 'खपुष्पं भवसिद्धान्तः' इत्यादावव्याप्तिः । अतश्चैतादृशगौणत्वस्य वेदेऽप्यस्त्येव सम्भवः । यद्यपि च रूपकादिस्थले 'सौन्दर्यस्य तरङ्गिणी' इत्यादौ आरोपेणापि गौणी दृष्टा । तथापि सादृश्यमात्रेणापि उपमालङ्कारस्थले सानुभूयमाना सिमो देवत्तः, मुखं चन्द्र इत्यादी देवदत्ते, मुखादी च सिमत्वस्य चन्द्रत्वादेश्चारोपदर्शनाल्ल- क्षणसङ्गतिरिति भावः । तत् एतादृशं गौणत्वम् ॥ आरोपकेति ॥ आहार्यान्यथाख्यातिरारोपः । स च पदात्प्रयोक्त्रा तादृशज्ञानजननेच्छया प्रयुक्तमिति ज्ञानसहितादेव भवति । यथार्थस्मृ- तिजनकत्वस्यैव पदस्वभावत्वात् , वेदे च प्रयोक्तुरभावान्न तत्सम्भवतीत्याशयः । समाधत्ते- विनेति ॥ सादृश्यमात्रविवक्षया ----सादृश्यमात्रतात्पर्येण । तात्पर्य च न ववित्रच्छारूपं; किन्तु शब्दनिष्ठो धर्म इति पूर्वमेवोक्तमिति भावः ॥ प्रयोगदर्शनादिति ॥ ततश्चेच्छां विनापि प्रयोगदर्शनान्नाध्यारोपितार्थवृत्तिलं गौणत्वं,किन्त्वन्यदेव वक्तव्यम् । तच्चेहापि सम्भवतीत्याशयः। तदेवाह-स्वशक्येति ॥ स्वं--सिंहादिपदम् ; तच्छक्यं-सिंहादिः; तस्य गुणः-पराक्रमादिः; तत्सजातीयो गुणः--पराक्रमादिदेवदत्ते वर्तत इति भवति सिंहपदं देवदत्ते गौणमित्यर्थः । नन्वेवं स्वशक्यगुणसजातीयगुणवत्त्वस्य गौणीत्वे खपुष्पं भवत्सिद्धान्त इति गौणप्रयोगानु- पपत्तिः । तत्र स्वशक्यार्थस्याग्रसिद्धतया सुतरां तद्घटितगोण्या अप्रसिद्धत्वादित्यत आह- खपुष्पादावित्यादि ॥ अङ्गीकृत्येति ॥ ततश्चारोपितखपुष्पस्यैव स्वशक्यार्थत्वात् तत्समवेता- सत्त्वगुणसजातीयासत्त्वस्य सिद्धान्ते सत्त्वात्तत्रापि गौणत्वोपपत्तिरित्यर्थः । तथा च गौतमसूत्रम्-- "बुद्धिसिद्धं तदसत्' इति । अत एवालीकादिशब्दानां शक्तिग्रहो युज्यत इति तदाशयः । तथा योगसूत्रमपि--"शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः' इति । शब्दश्रवणमात्रेण वस्तु- प्रसिद्धि विना जायमानवृत्तिविशेषो विकल्प इति तदर्थः । खण्डनकारोऽपि “अत्यन्तास- त्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति । ततश्चारोपितशब्दार्थस्य पूर्वाचार्यसम्मतत्वादु- क्तगौणीवृत्तिरुपपन्नेत्याशयः ॥ एतादृशेति ॥ सादृश्यघटितगौणीवृत्तेर्वेदेऽपि वक्तुं शक्यत्वा- द्वेदे आरोपकपुरुषाभावेऽपि गौणत्वमुपपद्यत इत्यर्थः । ननु "सौन्दर्यस्य तरङ्गिणी' इत्यादि- रूपकस्थले आहार्यारोपदर्शनादारोपापह्नवोऽनुभवविरुद्ध इति शङ्कते--यद्यपीति ॥ तत्रारोपमादायापि गौणीवृत्तेर्निरूपणसम्भवान्नानुभवविरोध इति परिहरति--तथापीति ॥ उपमालङ्कारस्थले--मुखपद्ममित्यादौ । ततश्च सादृश्यारोपोभयघटिता गौणी वृत्तिरिति १. पुष्पादौ इति पाठान्तरम् ।
पा. ४. अधि. १३. भादृचिन्तामणिसहिता । १५५ .. , नापह्नोतुं शक्या । अतश्चोभयसाधारण्येन स्वशक्यसमवेतवत्ता गौणी वृत्तिः । समवे- तवत्त्वं च क्वचिदारोपितत्वसम्बन्धेन, क्वचिच्च स्वसमानजातीयगुणवत्तासम्बन्धेनेति भेदः । अत्र सिंहपदेन शक्त्या सिंहोपस्थित्यनन्तरं लक्षणया क्रूरत्वोपस्थितिरिति प्राञ्चः । वस्तुतस्तु-एकसम्बन्धिस्मरणेन अपरसम्बन्धिस्मारकविधयैव तदुपस्थितिः । गौणीज्ञानकार्यतावच्छेदकं च निरुक्तोभयविधसम्बन्धान्यतरसम्बन्धेन स्वशक्यसम- वेतधर्मप्रकारकदेवदत्तविशेष्यकशाब्दत्वमिति न क्रूरत्वादीनामशाब्दत्वप्रसङ्गः । न च नान्यतरपरित्याग इति भावः । नन्वेवं सादृश्यघटितगाणीवृत्तेरारोपघटितगौणीवृत्तेश्च परस्परं व्यभिचार इत्यत आह--उभयसाधारण्येनेति ॥ स्व-सिह्मादिपदम् ; तच्छक्यं-सिलादि; तत्समवेतं--क्रूरत्वादि; तद्वत्त्वमित्यर्थः ॥ क्वचित्-रूपकस्थले ; सौन्दर्यस्य तरङ्गिणीत्यादौ ॥ आरोपितत्वेति ॥ स्वप्रकारकारोपविशेष्यत्वेत्यर्थः ॥ क्वचित्-सिंहो देवदत्त इत्यादौ । तत- श्वारोपितत्वस्वसजातीयगुणवत्वान्यतरसम्बन्धेन स्वशक्यसमवेतवती गौणीवृत्तिरिति न काप्य- नुपपत्तिरिति भावः । अत्र- सिंहो देवदत्त इत्यादौ ॥ लक्षणयेति ॥ यद्यपि युगपद्वृत्तिद्वय- विरोधान्नायं पक्षो युक्तः । तथापि गङ्गायां घोषमत्स्यौ स्त इति वृद्धव्यवहाराद्युगपद्वृत्तिद्वय- विरोधो न दोषः । अन्यथा गवादिपदानां जातौ शक्तिः, व्यक्तौ लक्षणेति पक्षस्यासङ्गतत्वापत्तेः । अत एव "लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता" इति वार्तिकमपि सङ्गच्छते । न च लक्ष्यमाणस्य धर्मिणो गुणैर्योगादिति समासेन न कर्मधारय इति कैश्चिदुक्तम् । कर्मधारय- सम्भवे तत्पुरुषस्यान्याय्यत्वात् । अन्यथा निषादस्थपत्यधिकरणविरोधापत्तेः । तस्मात्कर्म- धारय एवायमित्यभिप्रायः । नन्वेवं विरम्य व्यापारापत्तिरित्यस्वरसादाह---वस्तुतस्त्विति ॥ शक्तिलक्षणावत् सिमपदेनैव स्वशक्यसमवेतक्रौर्यसदृशौर्यवत्त्वसम्बन्धेन देवदत्तोपस्थिति- सम्भवान्न विरम्य व्यापार इत्याशयः । नन्वेवं क्रूरत्वादीनां सम्बन्धघटकल्वे क्रूरत्वप्रकारकशाब्द- बोधो न स्यादित्यत आह-गौणीज्ञानेति ॥ निरुक्तेति ॥ आरोपितत्वस्वसजातीयगुण- वत्त्वान्यतरसम्बन्धेन स्वशक्यसमवेतधर्मप्रकारकदेवदत्तविशेष्यकशाब्दत्वावच्छिन्नं प्रति निरुक्त- गौणीज्ञानस्य कारणत्वाभ्युपगमेन प्रकारतया करत्वादीनां भानान्न शाब्दत्वानुपपत्तिरित्यर्थः । नन्वेवं गङ्गायां घोष इत्यादावपि ईदृशरीत्या प्रवाहसम्बन्धप्रकारकतीरविशेष्यकशाब्दं प्रति लक्षणाज्ञानस्य कारणत्वापत्त्या प्रवाहसम्बन्धस्यापि शाब्दत्वापत्तिः । एवं शक्ति- स्थलेऽपीति । सर्वत्र वृत्तेश्शाब्दत्वापत्या गोपदशक्तिमती गौरित्यादिबोधः स्यात् । वृत्तिज्ञानस्य पदजन्यपदार्थोपस्थितावेवोपयोग इति सर्वतन्त्रसिद्धान्तो विरुध्यतेति चेन्न ; वृत्तिज्ञानस्य पदजन्यपदार्थोपस्थितिमात्रोपयोगिताया प्रचीनाक्तायादशक्तिलक्षणाविषयत्वाङ्गीकारेण गौण्या- मप्रवृत्तेः । गौणीस्थले संसर्गतया उपस्थितिमात्रेण प्रकारत्वसम्भव इत्यभिप्रायात् । नैयायिकश्शङ्कतेन चेति ॥ शक्यसम्बन्धरूपलक्षणयैवोपपत्तौ वृत्त्यन्तरकल्पनमनु- .
१५६ भाट्टदीपिका [अ. १. ॥ गौण्या लक्षणातो न भेदः । स्वशक्यवृत्तिगुणानामेव यत्र सम्बन्धत्वेन रूपेण बोधः तत्र लक्षणा, क्रूरत्वत्वादिना बोधे तु गौणीति तयोर्भेदात् । ते च गुणाषड्विधाः कचित्तत्सिद्धिः तत्कार्यकारित्वम् । यथा यजमानपदे । यजमानो यथा स्वकार्यकर्ता तथा प्रस्तरोऽपीति । एवं च गौणीगर्भलक्षणया प्रस्तरस्तुतिः । एवमन्येऽपि पञ्च गुणा अग्रिमसूत्रैर्द्रष्टव्याः ॥ १३ ॥ जातिः 'अग्निवै ब्राह्मणः” इत्यत्र पूर्ववदेवाग्निशब्दो ब्राह्मणे गौणः, द्वयोरप्यग्निब्राह्मण- योरेकब्रह्ममुखप्रभवत्वात् । अग्निजननसमानजातीयजननमेवात्र गुणः ॥ १४ ॥ चितमिति भावः । परिहरति---स्वशक्येति ॥ सम्बन्धत्वेनेति ॥ सांसर्गिकविषय- तयेत्यर्थः । प्रवाहसम्बन्धस्य संसर्गतयैव भानात्तत्र लक्षणा । गौणीस्थले क्रूरत्वादीनां प्रकार- त्वेन भानाङ्गीकारात्क्रूरत्वत्वादिना भाने गौणीवृत्तिरिति तयोर्भेद इत्यर्थः । ते च–सादृश्य- घटकाः ॥ क्वचित्-यजमानः प्रस्तर इत्यादी । तत्सिद्धिशब्दार्थमाह-तत्कार्यकारित्व- मिति ॥ यजमानगतस्वकार्यकारित्वसदृशस्वकार्यस्रुग्धारणादिकर्तृत्वगुण इत्यर्थः । तदुपपा- दयति---यथेति ॥ गौणीगर्भलक्षणयेति ॥ गोण्या गुणोपस्थितिद्वारा प्रस्तरप्राशस्त्यं लक्षणया बोध्यत इत्यर्थः ॥ सूत्रः-सूत्रावयवैः । अत्र व्युत्पादितगोण्या एवार्थवादाधिकरणे प्रतिपादनान्न पुनरुक्तत्वमपीति द्रष्टव्यम् ॥ जातिः ॥ जननमित्यर्थः । 'अग्निर्वे ब्राह्मणः' इत्यत्राग्निशब्दा ब्राह्मणे गोण्या प्रयु- ज्यते । गौणीनिमित्तं च जननघटितम् , अग्निजननदेशजनितत्वाद्ब्राह्मणस्य । 'मुखादिन्द्र- श्वाग्निश्च' इति, 'ब्राह्मणोऽस्य मुखमासीत्' इति च श्रुतिभ्यामग्निब्राह्मणयोरीश्वरमुखजातत्व- प्रतिपादनादग्निजननसदृशजननत्वनिमित्तकोऽग्निशब्दो ब्राह्मणे प्रयुज्यत इत्याह-अग्नि इत्यादि । अत्र देशस्यैकत्वाद्देशसाजात्यं न विवक्षितम् । किन्तु जननयोरेव सादृश्यम् तथेत्याह-अग्निजननसमानजातीयेति ॥ अत्र केचित् । श्राद्धे पाणिहोमेऽग्निकार्यकारि- त्वसत्त्वात् 'यजमानः प्रस्तरः' इतिवत्तत्सिद्धिसूत्रेणैव गौणत्वमित्याहुः, तन्न; 'अग्निमुखा वै देवाः, पाणिमुखाः पितरः' इति ब्राह्मणानुसारेण विप्रपाणे.माधारत्वश्रवणेनाग्नित्वेन पाणि- ग्रहणाभावात् । अग्नित्वेन ग्रहणेऽपि ब्राह्मणस्याग्निजननसदृशजनननिमित्तस्यापि सम्भवेन जातिसूत्रेण ग्रहणस्य युक्तत्वाच्च । १. तै. सं ५. २. ८. २. 'प्रजापतिरकामयत प्रजायेंयति, स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वसृज्यत, गायत्री छन्दः, स्थन्तरं साम, ब्राह्मणो मनुष्याणां, अजः पशूनाम् ' (तै. सं. ७. १. १.) इत्यादिकमिह द्रष्टव्यम् ।
7SI पा. ४. अधि. १५.] भाचिन्तामणिसहिता। १५७ सारूप्यम् 'आदित्यो यूपः' इत्यादौ तु सारूप्यं गौणीनिमित्तम् । न च सर्वत्र तदेव निमित्तं, कोऽत्र विशेषः ? चक्षुह्यं तेजस्वित्वाद्यत्र निमित्तमिति प्राञ्चः । वस्तुतस्तु, अन्यत्र शक्यनिष्ठगुणस्यैव स्वसमानजातीयगुणवत्तासंसर्गेण प्रकारत्वान्निमित्तता, न तु सारूप्यस्य तस्य संसर्गत्वात् । इह तु शक्यनिष्ठगुणसजातीयगुणवत्त्वरूपस्य सारूप्य- स्यैव समवायादिसंसर्गेण प्रकारत्वात्तदेव निमित्तमिति विशेषः ॥ १५ ॥ सारूप्यम् ॥ सारूप्यं समानरूपवत्त्वम् । 'आदित्यो यूपः' इत्यत्रादित्यगततेजस्वित्व- समानतेजस्तित्वमञ्जनाद्यलङ्करणादिसंस्कार!पे दृश्यत इत्यादित्यशब्दो यूपे गाण इत्यर्थः । ननु सादृश्यस्य सर्वत्र गौणांवृत्तौ सत्त्वाद्विशिष्योपादानं व्यर्थमिति शङ्कते—न चेति ॥ परि- हरति--चक्षुरिति ॥ उक्तसंस्कार!पस्योञ्ज्वलत्वदर्शनादित्यर्थः । अयं भावः । 'यजमानः प्रस्तरः' इत्यादिषु सादृश्यसत्त्वेऽपि प्रस्तरादिप्रत्यक्षदशायां यजमानादिसादृश्यं न चक्षुषा प्रतीयते । तादृशवाक्यप्रयोगकाल एव सादृश्यस्य शाब्दबोधविषयत्वात् । 'आदित्यो यूपः' इत्यादौ तु यूपप्रत्यक्षकाल एव यूपगतोज्ज्वलत्वस्य प्रतीयमानत्वाद्विशिष्य सूत्रेण पृथगुपन्यस्त- मिति चक्षुर्ग्राह्यतेजस्वित्वस्य सर्वत्र वक्तुं शक्यत्वात् अयं पक्षाऽस्वरसग्रस्त इत्यभिप्रायण पक्षान्तरमाह-वस्तुतम्त्विति ॥ अन्यत्र-सिंहो देवदत्त इत्यादौ । शक्यनिष्ठगुणस्यैव- सिंहनिष्टक्रूरत्वादरेव; प्रकारत्वात् , देवदत्तादौ प्रकारतया भानाङ्गीकारात् ; तस्य-सारूप्यस्य; संसर्गत्वात् --संसर्गतया भानाङ्गीकारात् । इह तु-'आदित्यो यूपः' इत्यादौ तु । तदेव-शक्यगुणसजातीयगुणवत्त्वमेव; निमित्तं—गौणीनिमित्तम् , विशेषः- -इतरस्मा- द्भेद इत्यर्थः । अयमभिप्रायः । आरोपितत्वस्वसमानजातीयगुणवत्त्वसमवायादिसम्बन्धा- न्यतमसम्बन्धेन स्वशक्यसमवेतगुणसजातीयगुणान्यतरप्रकारकदेवदत्तादिविशेप्यकशाब्दत्वा- वच्छिन्नं प्रति एतादृशगौणीज्ञानस्य कारणत्वं स्वीक्रियते । एवं च सारूप्यस्थले स्वशक्य- निष्टगुणसजातीयगुणप्रकारकस्य तदतिरिक्तस्थले स्वशक्यनिष्टगुणप्रकारकस्य च शाब्दबोधस्य जननेऽपि न क्षतिः । निरुक्तकार्यतावच्छेदकस्य सर्वत्र सत्त्वात् । एतेन सारूप्यस्थले स्वशक्य- निष्ठगुणसजातीयगुणवत्त्वस्य समवायादिसम्बन्धनाङ्गीकारे तस्य गौणीनिमित्तत्वं न स्यात् । निरुक्तोभयसम्बन्धेन शक्यनिष्ठगुणवत्त्वस्यैव गाणीनिमित्ततायाः पूर्वमुक्तत्वात् । न चेष्टापत्तिः; गौणीनिमित्तप्रतिपादकमूत्रमध्यपाठासङ्गतेः । एवं शक्यनिष्टगुणसजातीयगुणप्रकारक- बोधाभ्युपगमे तस्य पूर्वोक्तकार्यतावच्छेदकानाक्रान्तत्वात् स्वतन्त्र कार्यकारणभावकल्पनावश्य- कत्वेन गौरवापत्तिश्चेति निरस्तम् । शक्यगुणसजातीयगुणान्यतरत्वस्यैव गौणीनिमित्तताया १. ते. ना. २. १. ५.
१५८ भाट्टदीपिका [अ. १. प्रशंसा 'अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः' इत्यत्र अजादीनां तत्र तत्र विहितत्वात् पशुकार्ये प्रतिषेधस्य पर्युदासस्य वा अनुपपत्तेरर्थवादत्वम् । अपशुशब्दो घटादौ मुख्यो गवाश्वगतप्राशस्त्याभावरूपगुणयोगादजादौ गौणस्सन् लक्षणया गवाश्व- स्तुत्यर्थः । प्राचां मते तु नसमासान्तर्गतपशुपदेन गवाश्वगतप्राशस्त्यं लक्षयित्वा नञा तदभावरूपो गुण उपस्थाप्यत इति विशेषः । सर्वथा प्रशंसा गौणीनिमित्तघटि- केति सिद्धम् ॥ १६॥ मूलाभिप्रायविषयत्वेन सूत्रमध्यपाठोपपत्तेः; उक्तरीत्या एककार्यकारणभावोपपत्तेश्च । न च तथापि साजात्यादीनां प्रकारतावच्छेदककोटी निवेशाधिक्यागौरवमिति वाच्यम् ; तस्य पृथक्सूत्रप्रणयनसार्थक्यायाङ्गीकार्यत्वात् । समवायादिसम्बन्धस्तूभयत्रापि समानः । आरो- पितत्वस्वसजातीयगुणवत्त्वान्यतरसंसर्गेणेत्यत्रापि गुणवत्तायाः समवायादिसम्बन्धेनैव निवे- शनीयत्वादिति । वस्तुतस्तु, चक्षुर्ग्राह्यतेजस्वित्वरूपविशेषमादाय सूत्रसार्थक्योपपत्तेः । गौणीज्ञानकार्यतावच्छेदककोटौ अन्यतरसम्बन्धनिवेशेनैवोपपत्तेः । समवायादिसम्बन्धस्य शक्यगुणसजातीयगुणवत्त्वस्य चानिवेशेन लाघवाच्च प्राचीनमतमेव सम्यक् । न च समवायादिसम्बन्धनिवेशो मतद्वयेऽप्यविशिष्ट इति वाच्यम् ; अस्मिन् मते एकधैव तन्निवेशेन लाघवानपायात् । त्वत्पक्षे गुणवत्ताघटकतया स्वातन्त्र्येण च द्विधा तन्निवेशापत्त्या गौरव- स्यापरिहार्यत्वादिति ध्येयम् ॥ प्रशंसा ।। 'अग्नौ पञ्चशीर्षोपधाने पुरस्तात्प्रतीचीनमश्वस्योपदधाति, पश्चात्प्रतीची- नमृषभस्य' इति विध्योः शेषः । 'अपशवो वा' इत्यर्थवादः । गवाश्वातिरिक्ताः पशवो अज- मेषादयः अपशव एवेत्यन्वयः ।। तत्र-'अजोऽग्नीषोमीयः, सारस्वतीं मेषीं' इत्यादौ ॥ विहि- तत्वादिति ॥ पशुकार्ये विहितानां तेषां पशुकार्ये यागादौ अजादिना यागं न कुर्यादिति प्रतिषेधस्य, अनादिभिन्नेन यागं कुर्यादिति पर्युदासस्य वा असम्भवादर्थवादत्वमेव वक्तव्यमि- त्यर्थः । अत्र न पशुरपशुरिति व्युत्पत्त्या घटादयोऽपशुशब्दवाच्याः । ततश्च घटादिनिष्ठ- गवाश्वगतप्राशस्त्याभावसदृशप्राशस्त्याभावरूपगुणस्याजादौ सत्त्वाद्गाण्याऽपशुशब्देनाजादयो अभिधीयन्ते । न च गवाश्वगतप्राशस्त्याभावस्यैकत्वाद्भेदघटितसादृश्यानुपपत्तिरिति वाच्यम् ; अधिकरणभेदेनाभावभेदाङ्गीकारादभावस्याधिकरणात्मकत्वाङ्गीकारेण दोषाभावादित्याशयेनाह- अपशुशब्द इत्यादिना ॥ स्तुत्यर्थ इति ॥ अपशुशब्दलक्षणायामपि 'अपशवो वा अन्ये गो- अश्वेभ्यः, पशवो गोअश्वाः' इति महावाक्यस्यैव प्राशस्त्यलक्षकत्वान्नकस्यैव लक्षणाप्रसक्तिरिति १. तै. सं. ५. २. ९.
पा. ४. अधि. १७.] भाट्टचिन्तामणिसहिता । १५९ भूमा 'सृष्टीरुपदधाति" इत्यत्र विध्यन्तरैकवाक्यत्वाभावात् प्रत्यक्षविधिश्रवणाच्च विधित्वम् । तत्र चोपधानमेवेष्टकासंस्कारार्थत्वेन विधीयते । यद्यपि चेष्टकानां चयना- ङ्गत्वान्यथानुपपत्त्यैव उपधानं प्राप्येत; तथापि ततः पूर्वमेव प्रत्यक्षविधिना विधीयते । तत्फलं च प्रत्येकोपधानसिद्धिः चयनसमानकर्तृकत्वसिद्धिश्च । अन्यथा समु- तत्र पक्षभेदमाह-प्राचामिति ॥ सूत्रे प्रशंसादयः प्राशस्त्याभावपरा इति सूचयन्नाह- सर्वथेति ॥ मतद्वयेऽपीत्यर्थः ॥ भूमा ॥ 'बहोर्लोपो भू च बहोः' इतीमानेचि इकारलोपः । बहो वो भूमा, बाहुल्यमित्यर्थः । पूर्ववेषम्येण प्रत्यवस्थानात्सङ्गतिमभिप्रत्याह- सृष्टीरिति ॥ अग्नौ ‘सृष्टी- रुपदधाति' इत्युपक्रम्य 'एकया स्तुवते, प्रजा अधीयन्त, प्रजापतिरधिपतिरासीत् , तिसृभि- स्तुवन्ते, ब्रह्मासृजत' इत्यादिना सप्तदशमन्त्रानाम्नाय 'यत्सप्तदशेष्टका उपदधाति' इत्युप- संहृतम् । तत्र प्रथमचतुर्दशान्तिमा मन्त्रा न सृजिधातुघटिताः । अन्ये सर्वेऽपि असृज्यन्तेति सृष्टिलिङ्गकाः । ते सप्तदशापि निरूढलक्षणया सृष्टिशब्देनोच्यन्ते । सृष्टिशब्दो हि 'तद्वा- नासामुपधानो मन्त्रः' इतीष्टकासु 'लुङ् च मतोः' इति सूत्रेण सृष्टिमानासामिष्टकानामुप- धानः । 'उपधानार्थो मन्त्रः' इत्यस्मिन्नर्थे यत्प्रत्यये मतुष्प्रत्ययलोप च सति छान्दसत्वेन यत्प्रत्ययलोपान्निष्पन्नः । सृजशब्दवन्मन्त्रोपधेयेष्टकावचनः । उपधानं तु स्थापनमिति स्थितिः । तत्रार्थवादत्वं निराकरोति-विध्यन्तरति ॥ विध्यन्तरशेषत्वे हि विधिना त्वेकवाक्यत्वात्' इति न्यायेनार्थवादत्वं स्यात् । तत्र तदभावान्नार्थवादत्वमित्यर्थः । अर्थवादत्वं निराकृत्य विधित्वमुपपादयति--प्रत्यक्षेति ॥ 'यथासृष्टमेवावरुद्धः' इत्यर्थवादस्यैतच्छे- षत्वेनाम्नानबलेन विधित्वस्यावश्यकतया लेट्त्वनिश्चयादिति भावः ॥ इष्टकासंस्का- रार्थत्वेनेति ॥ इष्टकोदेशेन तत्संस्कारकतया उपधानं विधीयत इत्यर्थः । ननु 'इष्टकाभिरग्निं चिनुते' इति वचनेनेष्टकानां चयनाङ्गत्वबोधनेनोपधानं विना तदनुपपत्तेरापत्त्यैवोपधा- नस्य प्राप्तिस्सम्भवतीति तद्विधियर्थ इति शङ्कते-यद्यपीत्यादिना ॥ समाधत्ते-तथापीति ॥ चयनाङ्गत्वान्यथानुपपत्त्या उपधानप्राप्तावपि अन्यथानुपपत्त्यपेक्षया वचनस्य शीघ्रप्रवृत्तत्वे- नान्यथानुपपत्तेःपूर्वप्रवृत्तेन वचनेनोपधानं विधीयत इत्यर्थः । ननु 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायेन प्रकारान्तरेण सिध्यत्यर्थे कथं शास्त्रप्रवृत्तिरित्यत आह-तत्फलं चेति ॥ ततश्च पूर्वप्रवृत्तेः फलसत्त्वात्प्रकारान्तरेण प्राप्त्यङ्गीकारे तत्फलासम्भवाद्वचनस्य पूर्वप्रवृत्त्या उपधान- विधिस्सम्भवतीत्यर्थः । फलमेवाह—प्रत्येकेत्यादिना ॥ अन्यथानुपपत्त्या तत्प्राप्तौ फला- । १. तै. सं. ५. ३. ४.
१६० भाट्टदीपिका [अ. १. दितोपधानमपि कदाचित्प्राप्नुयात् । आर्थिकत्वाच्च चयनभिन्नकर्तृकत्वमपि । सति त्वस्मिन्निष्टकासंस्कारद्वारा चयनाङ्गताबोधकविधौ प्रतिप्रधानावृत्तिन्यायात् अङ्गप्रधान- योरेककर्तृकत्वाच्च फलद्वयसिद्धिः । सृष्टिपदं तु लिङ्गप्रकरणप्राप्तसृष्टयसृष्टिमन्त्रमात्रस्य गौण्यानुवाद इति भाष्यकारः ॥ वार्तिककारस्तु नोपधानमात्रविधिः, तथा सति 'प्राणभृत उपदधाति" इत्या- सिद्धिमुपपादयति-अन्यथेति ॥ चयनस्यैव विहितत्वेन उपधानस्यार्थिकतया बह्वीनामिष्ट- कानां द्वाभ्यां पाणिभ्यां ग्रहणसम्भवेन समुदितोपधानेऽपि चयनसिद्धरित्यर्थः ॥ चयन- भिन्नति ॥ चेतृभिन्नेत्यर्थः । येन केनचित्पुरुषेणोपधानेऽपि चयनसिद्धेरिति भावः । वचनेन विधाने समुदितोपधानाध्वर्युभिन्नकर्तृकत्वे न सिध्यत इत्याह-सति त्विति ॥ इष्टकासंस्कारकोपधानविधौ इष्टकानां संस्कार्यत्वेन प्रधानतया प्रतिप्रधानं गुणावृत्ते- न्यायादुपधानस्याध्वर्युशाखाविहितत्वेनाङ्गप्रधानयोरेककर्तृकत्वेन चाध्वर्युकर्तृकत्वावश्यम्भावाच्च फलद्वयसिद्धिरित्यर्थः । इष्टकासंस्कारेत्यनेन प्रतिप्रधानं गुणावृत्तिरुपपादिता । चयनाङ्ग- तेत्यनेन एककर्तृकत्वसिद्धिरुपपादिता । प्रधानदेशकालकर्तृकत्वमङ्गानामिति सिद्धान्तादि- बाहुः । ननु चयनस्याध्वर्युकर्तृकत्वादेवोपधानेऽपि तत्सिद्धिः किं न स्यादिति चेन्न अन्यसहायन सन्धुक्षणादौ कृतेऽपि चैत्रेण पाकः कृत इति व्यवहारदर्शनेनान्यसहायेनो- पधाने कृतेऽपि चयनस्याध्वर्युकर्तृकत्वाविरोध इति सहायान्तरव्यावृत्त्यर्थं तद्विधेरावश्य- कत्वात् । न चानेनैव न्यायेन 'व्युष्टीरुपदधाति, चित्रिणीरुपदधाति, वज्रिणीरुपदधाति' इत्यादिष्वपि उपधानमाविधिवक्तव्य इति एकेनैवोपधानविधिना प्रत्येकोपधानाध्वर्युकर्तृ- कत्वयोस्सिद्धावितरवैयर्थ्यमिति वाच्यम् ; एकस्मिन् वाक्ये इष्टकासामान्योद्देशेनोपधान- विधावेवं स्यात् । इह तत्तद्वाक्येषु सृष्ट्यादितत्तदिष्टकोद्देशेनोपधानविधानेन तत्तदिष्टको- पधानस्योक्तफलद्वयसिद्धावपि तदितरेष्टकोपधानस्यक्तिफलद्वयासिद्धेः सर्ववाक्यानां विधाय- कत्वस्यावश्यकत्वात् । सृष्टयादिशब्दानामिष्टकाविशेपमात्रवाचित्वादिति भावः । कथं तर्हि भाष्येऽर्थवादत्वकथनमित्यत आह---सृष्टिपदं विति ॥ सृष्टिपदमेव छत्रिन्यायेन लिङ्ग- प्रकरणाभ्यां प्राप्तसृष्टयसृष्टिमन्त्रगणस्य गौण्यानुवादकं; न तु कृस्नं वाक्यम् । उपधान- विध्यङ्गीकारादिति भाष्याशयः । एवं यथाभाष्यमधिकरणं वर्णयित्वा वार्तिककारीयविचार दर्शयति-वार्तिककारस्त्विति ॥ 'सृष्टीरुपदधाति' इत्यत्र नोपधानमात्रविधानं युक्तम् । तथा सति 'प्राणभृत उपदधाति' इत्यादिष्वपि प्राणभृदादिशब्दानां अनयैव रीत्यानुवादत्वेनो- पधानमात्रस्य विधेयतया तस्यैवैकेनैव विधिनोपपत्तेरनेकोपधानविधिवैयर्थ्यापत्तिः । न चाभ्यासात् कर्मभेदोऽस्त्विति वाच्यम् ; प्रकरणादिष्टकामात्रोपदेशकत्वप्रतीत्या, तस्य च १. तै. सं. ५. २. १०.
No text on this page.