Bharti Bhawan Library Allahabad

Vasant Tilkam Bhand

PDF Proofread

Front matter

वसन्ततिलकभाणः।
श्रीवरदाचार्य विरचितः
वि. ए. उयाधिधारिणा
श्री जीवानन्द विद्यासागर भट्टाचार्य
संख,तः
कलिकाताराजधान्याम् ।
वाल्मौकियन्त्र मुद्रितः
१८७२

No text on this page.

वसन्ततिलकम्। जयन्ति जगताम्मातुस्तनकुञ्जमविन्दवः । मुकुन्दाश्लेषसक्रान्तकौस्तुभश्रीविड़म्बिनः ॥ १ ॥ अपि च। कीड़ाभिन्नहिरण्यक्तिकुहरे रक्तात्मनावस्थितान् हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः । बीरश्रीकुचकुम्भसीमि लिखता वीरस्य पत्रावली- स्तत्कालोचितभावबन्धमधुरं मन्दस्मितं यातु नः ॥ २॥ नान्द्यन्ते सूत्रधारः। । सूत्र । सविनयानन्दम् । भो भोरममन्ततस्मन्ततमधुमदमुदित- मत्तकाशिनीविलासविवशापाङ्गटंखलितविहंखलविविधरमि- कजनविहारहारिणी हरिहरहिरण्यगर्भादिनिखिलसुरासर मणिमुकुटोपलालितशासनस्य भगवतो मकरध्वजम्य पूजोत् सवारम्भसम्भान्त-सकलवारविलासिनी-समादेश सम्पादनचटन- विटनिबिडनिबद्धसञ्चारा काञ्चीपुरी। समन्तादवलोक्य सान weet वसन्ततिलकम्। ? निरन्तरनिरवधिकमधुरविविधरसभरितनिरवद्यगद्य पद्य- मयभारतीभरितसङ्गीतसाङ्गानङ्गनिगमनिरतिशयपरिचचतर- तिनिखिलकलाकलापविलाराः सर्वे सभास्ताराः। ससम्भमम् आकाशे कर्णन्दत्त्वा । किन् ब्रूथ ? सकलजनहृदयानन्दकन्दली- विकशनविदग्धमुग्धमधुरगम्भीरनिबन्धबन्धुरं किमपि रूपक- मभिनेतव्यमिति? स्मरणमभिनीय । अतं हि मया निखिल- नगरातिशायिन्यां सकलकलाकलापविस्तारशालिन्यामुन चिन्याम् । यथा किल। काञ्चीपुरे कविरभूहरदाय॑नामा सुनुः सुद नकवर्घटिकापूतस्य । वेदान्ततर्कविविधार्थविचारधीरो बात्स्यो वसन्ततिलकं स बभाण भाणम् ॥ सभाग: सकल हृदयानुरजकः सुप्रयोग इति, अहमपि तमेव प्रयुचाना सामाजिकानुपतिष्ठे। अलङ्कारवती सूक्तिरभिनन्द्यगुणा सती। सभायां सरसर्वाक्यैः सन्तोषयति मे मनः ! किम् ब्रूथ ? तस्य तर्ककर्कशहृदयत्व कथमेतादृशमुक्ति माधुर्यमिति ? स्मृतिमभिनीय । भवन्त एव खल्वेवमादिशन्ति । तर्केषु कर्कशतराः स्युरथापि पुसां काले भवन्ति दवा कवितासु वाचः | दैत्येन्द्रशैलकुलिशं दयिताकपोले नाथस्य कोमलमुदाहरणं नखं नः ॥ पुनः कर्णन्दत्त्वा । किम्ब्रूथ ? साधु सम्यगुक्तम् ? "७ ?

वसन्ततिलकम्। समुल्लासो वाचां सरसमधुनिष्यन्दलहरी. समुन्मेषवेधी सकलरसपोधोपजनकः । न केवामाधत्ते मनसि परितोषनवनवै- विलासरुन्मीलदिकचितमधूलीपरिमलः ॥ यदि तस्य कव: प्रबन्धः, सत्वरेण भवताभिनेतव्यमिति ? सपरितोषम् । सोऽयं चेत्कविरत्र सुन्दरगिरः सन्त्ये व तेषामसो मध्ये कापि वयं च नायरचनायाण्डित्ययारङ्गताः । भाणश्चेद्दशरूपकेषु मधुरस्तत्सर्वमास्तामियं सारज्ञा हि सभा किमन्यदधुना वाञ्छानुकूलो विधिः ? परिक्रम्य दिपाठवलोक्य साश्चर्यम् । मधुकरपरिमक्तमाधवीनां मलयसमीरविलोलमञ्जरीणाम् । कथयति मधुमासवासराणामुपगतमुन्मदकोकिला वनश्रीः । अपि च । मन्दानिलेन मधुरं परिनलितायाः पर्यायतः प्रचलदङ्गुलिपल्लवायाः । मञ्जुखरैर्मधुकररुपगीयमानं नाश्यं मनोहरमिदं नवमल्लिकायाः ॥ नेपथ्ये। साधु भरतपुत्र ! साधु। प्रस्तुतानुकूलवर्णनेन वन्दनीयोऽसि । अपितु नवमल्लिकेतिस्थाने वासन्तिकेति वक्त- व्यम् । अथ खनु त्रिभुवनविजयिनो मकरध्वजस्य विजयवैजयन्ती वसन्तसेनायाः कनीयसी भरताचार्यशिक्षितनिखिलनृत्यविद्या- प्रथमरङ्गाऽधिरोहणमहोत्सवसम्भावितनिखिलकुशीलवनिक- रोपगीयमाना नृत्यति वासन्तिका। वयमपि तदवलोकनाय त्वरिताः समागच्छामः । ।

वसन्ततिलकम्।
सूत्र । श्रुत्वा सहवं । लयंतां त्वर्यताम् । अहमध्यमुना
भटङ्गारशेखरण
सम्भूय तथा महोत्सवमनुभवामि !
হনি নিষ্প্রান মালা।
।
ततः प्रविशति टङ्गारशेखरः ।
टङ्गारः। सवितकम्।
तालाबधौ तरलकुण्डलगण्डमूलं
दुवारधर्मजलधितपत्ररेखम् ।
तस्था मुखं तरललोचनचन्द्रिकाया
धन्यो विलोकयति तादृशमन्दहासम् ॥
समन्तादवलोक्य | अहो खल रमणीयता प्रभातवेलायाः ।
।
इदानी खल्लु।
मालिन्य परिदृश्यते हिमरची, मन्दश्रियस्तारकाः,
शीताः केचन सञ्चरन्ति कमलामादस्पृशो मारुताः |
आसीदन्ति च चक्रवाकमिथुनान्यन्योन्यमुत्कण्ठया
पादस्ताड़ितकैरवा मधुलिहो गच्छन्ति पद्माटवीम् ।
अपि च।
किञ्चिद्विश्लथकेशवान्तकुसुमाः, क्रीड़ाविलोलांशुका,
लुप्तालुप्त शरीरचन्दनतया लोकैकनेत्रोत्सवाः ।
सम्भोगश्रमविकलैरवयवैः सङ्केतशालान्तरा-
निद्राशंघकघायिताईनयना नियान्ति वाराङ्गना ॥

वसन्ततिलकम् । ५ पुरोटवलोक्य सकौतुकम् । एष खलु हेषारवपरिकुपितवन- महिषविषाणकोटीपाटनभयचकितरथतरगविषमितरथचरण- संघट्टनविघट्टितविकटकटकधातुधूलीपुञ्जरञ्जित व पिञ्जर- वपुरुदयादिशिखरमारुढो भगवानंहमाली । दूदानी खलु । आपाटलैः प्रथममङ्गुरितैर्मयूखैरहाम्पतिः प्रथमपोलविहारिणीनाम् । सोठयङ्करोति सुरपुङ्गवसुन्दरीणां कर्णधु कल्पतरुपल्लवभङ्गालक्ष्मीम् ॥ किञ्च । तरुणान्दिवाकरमयूखमञ्जरीमरुणामशोशिखरावलम्बिनीम् । कमनीयपुष्यमनसा समाश्रितां मधुपो विडम्बयति मञ्जुभाषिणीम् ॥ सौरभाघ्राणमभिनीय सलज्जम् । सत्यं मधुकर दूवाह- मपि वासन्तिकाऽनुरक्तहृदयः परिभ्रान्तोऽस्मि । सत्यमशोक- मञ्जरीमेव भजते मधुकरी। सवितर्कम् । अधुना निखिलकु सुमहेतुना वसन्तेन भवितव्यम् । समन्तादवलोक्य । उद्देलपञ्चममुदञ्चितबालचूतमुद्दामकेशरमुदारसमीरयोतम् । उन्निन्द्रपञ्चशरमुल्वणकर्णिकारमुच्चैरिदं हि मधुवासरमा विरासीत् ॥ अहो रमणीयता वसन्तस्य । मन्दम्मन्दं मलयपवना मल्लिकासूत्रधारः पायं पायं मधुपरिमलं पाटलीकुमलानाम् । मध्ये मध्ये विरचितगतिमाधवीमण्डयानां क्रीडाखेदं हरति शनकै क्रीड़या सुन्दरीणाम् । अहो सार्वत्रिकता प्रेमानुबन्धस्य । उद्दामगन्धकुसुमस्मितशालिनीनामुद्यानचूततरवो नवमालिकानाम् । यापूरयन्ति मकरन्दरसैः खकीयैराकल्पितं कुसमयांशुभिरालवालम् ॥

वसन्ततिलकम् । - अन्यताम्वलोक्य सकौतुकम् । अङ्गारश्रियमातनोति नितरामापाटलं पल्लवं धूमश्रेणिविड़म्बिनी पुनरसी नियाति भ्रङ्गावली । पुष्पाण्यत्र च संलुठन्ति कतिचित् स्पृष्टानि मन्दानिले शङ्क दग्ध मसी जगन्ति मदनः सन्तापयत्याभुगान् । अतिचिरस्थायी वैराग्नुबन्धः स्थावराणामपि । तथाहि, पादताड़नमशोकयादपाश्चिन्तयन्त इव हन्तुमङ्गनाः । मन्मथाय महनीयसौरभानप यन्ति खलु हन्त सायकान् । साश्चर्यम् । सर्वकषाणि कुसुमशरचापविजृम्भितानि । यतः, हालाखादकधायितैर्मधुलिहामालापवत्यः खरै- रन्तःपल्लवजम्भमाणसुमनःसन्दाहमन्दस्मिताः उन्मीलन्मकरन्दधर्मसलिलैरुत्कण्ठकाः केसर- राक्रीड़नववीरुधाक्षितिरहेराकोड़वाटी गताः । सर्वतोटवलोकयन् वसन्तातिशयमभिनीय !, निद्रितरसालगन्धेर्मुदितकलकण्ठमुग्धसंलापैः । किन्तः केवलमदनैः समयैरस्यन्दचन्दनसमीरैः ॥ पुरोटवलोक्य | कथमियमनवरतविहरमाणवरयुवतिचटुल- चरणमणिकटकरणितमुखरसौधवीथिका राजधानी। इयं हि । अनङ्गब्रह्मतन्त्राणामहराप णमेदिनी। कमलाकान्तशुद्धान्तकेलिचक्रमणस्थती । विभाव्य । शतमखनगरीमप्यतिशेते सकलगुणनिकरस- क्षेतशाला काञ्चीपुरी । जलनिधिसमाहतकतिपयजलमानुषी- मुखविकासवञ्चितचपलजनचित्तायास्तस्याः कियती गरीयस्ता । (HardPA वसन्ततिलकम्। अत्र हि! .. परिचविशुद्धवीणावेणमदङ्गादिवाद्यविस्ताराः। विख्यातरसिकविद्याः सर्वे खयमेव सिद्धसङ्गीताः ॥ अपि च । तत्रैको मधवानिह विजगणाः सर्वेऽपि रम्भापर मान्यास्तत्र परसहसमिह ताः कान्तरकाण्डर्जिताः । तत्रैको हि गुरुः कविश्च बहवस्तेटप्यत्र वर्हिर्मुखाः परिश्चन्द्रमुखैः किमत्र सदृशा मन्ये किमन्य गुणैः । सकलनगरसाधारणी किमस्या: सकलसुरनिकरतोषका- रिणी गुणश्रेणी। तथा हि, इह मखमतनिए पद्मयोनिः स च युनरत्र समुत्थिता मुकुन्दः । अमुमिह कलयन्ति केपि धन्याः पुनरयमत्र ददाति वाञ्छितानि ॥ पुरोठवलोक्य सकातुकोल्लासम् । सन्ततविरचितचटुलपवनेन वेपमानमकरध्वज-पटपल्लवसमुल्लसित-विटङ्कवाटिकाविशकर- मणिगण-खचित-वेदिकाविहरमाण-विविधक्टिनिचयविचार्य- माणसाङ्गानणतन्त्र विस्तारा बालकजनपरिचीयमानपरिवादिनी डमरम्मृदङ्गमुरजझझरीमुखरसुधाधौतविविधधवलमन्दिर-- निकुरुम्वनिर्जितनीहारहारहिमगिरिदिगम्बरसितरोचिरम्बर- सरिदम्बुकम्बुशरदखुदकुमुदकुन्दा वसन्तवीथी। सप्रत्यभिज्ञम् । घटङ्गारपद्यानिषद्या खल्वियं वीथी। इह खलु । कतिचन निवेश्य कामिनीनां मृगमदसौरभमेदुरे कपोले । मुकुलितनयनं मुखानि धन्या निधुवनसन्धिषु निर्विशन्ति निद्राम् ॥ सवितर्कम् । अत्र व खलु सुहृदनङ्गशेखरकललं चित्र-

वसन्ततिलकम्।
लेखा, तावदेनां विलोकयन्नमुनैव मार्गेण गमिष्यामीति ।
वीथों प्रविश्य पावताठवलोक्य सकौतुकम्, सफलमद्य मंजातञ्चक्षुः ।
पश्चात्पीठनिघस्सया नखमुखैः पर्यायतः कुञ्चितै-
विसस्तां विनिकीर्य के प्राकवरीमाबद्धसीमन्तया ।
सख्या साकमुदीरितखजननीसम्भोगवातीसुधा
बाला सौरभशेषचन्दनवती बालातयं सेवते ॥
निर्वर्ण्य ।
शायदमणिमालं चन्द्ररेखाभिरामं
ललितपुलकजाल नच्यविन्दुप्रबालम् ।
वपुरनधममुष्या वक्ति कस्यापि यूनः
सुरतकलहलीलासूामागाभियोगम् ॥
कुशला खल्वेषापि कुसुमशरगोष्ठीषु | साञ्चय॑म् ।
मधुकरपरिभवकातरमासीदरविन्दमाननं तन्व्याः ।
अह ह विधिदुर्विपाकस्तत्र च परिभूतमलकरूपेस्तैः ।।
तावदेनामनुसृत्य गच्छामः | उपसृत्य पदान्तरे स्थित्वा ।
प्रत्यग्रचन्द्रलेख परिमलघागरागरमणीयम् ।
अव्यवधानमनोहरमगन्तव जयतु मदनसर्वस्वम् ॥
किम्ब्रवीघि किमब्रवीषि? धन्यः खलु भवान्न वमा-
लिकासङ्गेन, तत्र चाटकरणेनेति ? रम्भोरु ! मैवं वादीः ।
अन्तःकूजदुदारकण्ठमसन्मुञ्चेति लोलेक्षणं
प्रायः स्मेरकयोलमूलमम्मतप्रस्यन्दि विम्बाधरम् ।
आधूताङ्गुलिपल्लवाग्रमलमित्यानतितभूलतं
पोतं येन सुखं त्वदीयमबले सोट्यं हि धन्यो युवा ।

वसन्ततिलकम्। है किंजवीषि? गच्छ गच्छ विदग्धः खलु भवान् व्यवहार- विद्यास्विति? गाठ्योड़ितपरस्पराधरं कण्ठगर्भितकपोलकूजितम् । अत्रपावरणमात्तसीत्कृतं विस्मरामि किमु ते रतोत्मतम् ? त्वयैव गन्तव्यमित्युक्त तावइच्छामि। पदान्तरङ्गत्वा साय॑म् । स्थित्वा विचित्रमणिशालिनि रत्नपीठे भाले गृहीतमुकुरा करपल्लवेन । कालेयपङ्कतिलकं परिकल्प यन्ती कैया समुन्भिवति काचन कातराक्षी? निर्वर्ण्य सप्रत्यभिज्ञम् | श्राः परिज्ञातम्, अनङ्गचन्द्रिकायाः कनीयसो कतिपयकालमस्मत्परिरम्भकलन तारावली । कथ- मियमचिरात् सम्यन्वयौवना जाता । तथा हि आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी सन्नाहः स्तनयोरयङ्कथयते सम्भोगयोग्यान्दपाम् । वैदग्धेन सहासिकां वितनुते वाचामियं प्रक्रियां मुग्धायाः पुनरैन्दवीन्न सहते मुख्यामभिख्यां मुखम् ॥ कथमियमस्यामेव वी.थकायामितस्ततः मञ्चरन्तमपि मामद्य विशेषतः सानुरागन्नालोकयति? भवतु एनामु प- सामि । उपसृत्य । अस्तु कुशलमाकल्परचनायाः ? लोके कलङ्कमयहातुमयं म्गाको जातो मुखन्तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्चि ! कलङ्करेखां नार्य : समाश्रितजनं हि कलङ्कयन्ति ।

वसन्ततिलकम् । ? ? । सादरम् । किंब्रवीघि ? कदाचिद्विशदमतयोऽपि भ्रमन्ति खलु घण्टापथेषु, यदस्मदावामदोघेण स्वप्नेऽप्यचिन्तनीयामि- माखीथीमागतोऽसीति ? सपरितोषम् । सफलमद्य संजातं श्रोत्र', यदमन्यक्षराणि श्रूयन्ते। कुतः पुनरियं शिक्षिता वैदग्धी ? यदात्मदोषमन्यत्र समारोपयसि ? किमेनन्न सम्भा- वयसि ? किन्न पश्यसि मामस्यामेव वीथिकायामनवरतसञ्चा- रिणम् । अथवा कुतस्ते दोषः प्रेमशालिन्याः ? अपितु यौवनमदमेदुराया दृष्टेः या पुनरग्रतः स्थितमपि वस्तु न विषयीकरोति। अपि च । कपटानुरागकौसीदिकः खल्लु वेश्याजनः । तथा हि! अालापैर्मधुरैश्च काञ्चिदपरानालोकितैः सस्मिते- रन्यान्विश्चम कल्पनाभिरितरानडैरनोज्ज्वलैः आचारैश्चतुरः परानभिनवैरन्यान् भुवःकम्पने- रित्य कांचन रञ्जयन्ति सुदृशो मन्य मनस्त्वन्यथा ॥ -- श्रुतिमभिनीय स्वगतम् | आः कष्टमनपराधिनमपि परि जनमतिनिष्ठुरनिर्भर्मयन्ती नीचवृद्धवर्द्धको समापतति । प्रकाशम् | यदि मनसि न रोचते, वयसेव गच्छामः । क्रद्ध- जरतीरूपेण कृत्यामुत्पाद्य किमस्मानु जयसि । सप्रणयकोयम् । किं नोघि ? किमात्य रे कितव ? साधु सम्यगुक्तम् । अय- स्कारवाटिकायां सूची विक्र यवत् किमस्माभिरूपालभि । गर्भदासवदलङ्कारमाऱ्या दाम्यमाचरन्तं भवन्तमस्यामेव वीथिकायां कथनाम न दृष्ट वती। किमेतेन गतमखिन्न- वसन्ततिलकम्। ११ तथाप्यस्याः । ! भास्तानाम | प्रलपतु जरती त्वां यत्किञ्चिदत्रै वाद्य त्वया स्थातव्यमिति । सोल्लासम् । परमनुगृहीतोऽस्मि । श्रमजलपरिपत्रलेखं श्रवणसमाकुलकुण्डलाभिरामम् । मुखमिदमुदितस्मितन्त्वदीयं मुजरभिवाञ्छति वीक्षितुम्मनो मे ॥ कामुकजनसुखकालरालेरग्रतः स्थातु- मशक्को, गामि गृयतामाशी:, अथवा किमाशीवादेन ते सर्वाशिषामुपरि वर्तमाना मानायाः ? पदान्तरे स्थित्वा । श्राः कष्ट- मग्रत एव जरती। सक्रोधम् । मामियं पिशाचमुखी तर्जन्या तर्जयन्ती किं प्रलपति। “रे रेधूर्तजनधौरेथ दरिद्रचूड़ामणे ! कृपणजन ! मूर्धन्य- वार्द्धकिनेयभगिनीभुजडुजीणष्ट्र ण निहत्य निष्काशितोऽपि शङ्काहीनः पुनरपि समागतोऽसि ? रे मानहीन ! किमित्वं सुलभा तारावली? किन्न पश्यसि जात्यन्धपण्यकलत्राणि विक्रीय पायकलत्राणि परिपालयतो भाग्यपुरुषान् ?” एतत् किं कुछटोपाध्यायशिक्षितकुटिलविद्यादशनस्थानम् ? "प्रति- श्रुतं धनमदत्त्वा न गन्तव्यम् ।” सो गस्मितम् । श्रुतानि श्रोत- व्यानि, यदि सन्त्वन्यानि कर्णाटतानि, तान्यपि कथय । सक्रोधसम्भमं क्षुरिकामुद्याय। अरे नीचवृद्धवर्द्धकि ! किमुपा ध्यायमपि स्पृशसि ? ताराबलीमुद्दिश्य । पञ्चषाणि परुषभाषि- तानि सोढ़ानि, इतः परं यदि ब्रूया अनया टपणखामिव कास्वा गच्छामि। “गच्छ गच्छ हीनजन!” देहि मे हारंजानासि मे हस्तमिति सधैर्युनिष्क्रम्य । साश्चर्य म्। कथमपि काल- सर्पमुखानिष्क्रान्तोऽस्मि । सखेदम् । अनङ्गवीरक्षेत्रमनयैव ?

२२ वसन्ततिलकम् । दूषिता लारावली । सविमर्वम् । कथम स्यामुत्पन्नापि सकल- भुवन करत्न तारावली। यहा शम्बूकजातिरपि किन्न प्रसूते मुक्ताफलं शक्तिः । कर्णन्दत्त्वा । किमिह कल कल व श्रूयते पौराणाम् ? पुरोठवलोक्य । तावदेनामापतन्तीञ्चन्द्रसेनां गच्छामि । सखि चन्द्रसेने! कोऽयं कोलाहलः ? किं ब्रवीषि ? चित्रवति चत्वरे शूरसेनवीरसेनयोश्चरणायुधयोयुद्ध प्रवर्त्तत इति। परमसम्भमपरा भवन्ति पौरा इति । तहि अयमपि समागत्य पश्यामः। कथमुपक्रान्त एव ते क्रूर धारचरणशस्त्रयोश्चरणायुधयोः कलहः । सपिरकम्पम् । तुण्डेन खण्डयति तूर्णमुपेत्य वेगात् पादेन हन्ति परिहृत्य परप्रहारान् । पाव परिभ्रमति पश्यति चावकापूर- मुन्नम्म्रचूड़मुपसर्पति ताम्रचूड़ः ॥ पश्चान्न याति न च याति पुरः प्रमादात् पार्श्वन याति चरणायुधसावभौमः । वामेन केवलमसी चरणन पूत्रो- माला निहत्य मुङस्थितकण्ठनादः ॥ अपि च। अग्रे पक्ष्यलकेशरामभिमुखं ग्रीवां प्रसा-यतां लालत्तारकताम्रलोचनपुटा रोषाधिको कुक्का टौ। चूड़ाखण्डनतीर्णशोणितरणं दुर्वारपक्षारवं पर्यायेण कृतोत् ग्लति प्रहस्तः पादैनिबद्धक्षुरैः । ॥

वसन्ततिलकम्। तदनयोः परखरातिशायिनोजयपराजयौ पौरमुखा- देव जानीमः। तगन्तव्यमेवास्माभिरविलम्बितमिति। कति चित्पदानि गत्वा सकौतुकम् । सफलमद्य जातञ्चक्षः यदिदानीम्, मन्दस्मितम्मधुरकुङ्कमपत्रलेख माणिक्यकुण्डलमनोहरगण्डभागम् । मुक्ताकलापपरिचुम्बितकर्णमूलं मार्गे पुरःस्फुरति मन्मथभागधेयम् ॥ निवर्ण्य। कथमियमाकतिरस्यान्नगOमितःपूर्वन्न दृष्ट- चरी श्रुतचरी च । तथा हि । कर्णे त्सङ्गविसर्गिणी नयनयोः कान्तिर्वसन्तोत्पलं लाक्षासम्ममनिय॑ये क्षमधुरं लावण्यमेवाञ्चति । हारोठस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभाकञ्चुकी तन्वयाः केवलमङ्गहारमधुना मन्ये परं भूषणम् ॥ साश्चर्यम् | कथम व साक्षाभगवती मातङ्गी मतङ्गकुल- ललामभूता मङ्गीतजनाभूमिः सकलकलाकलापप्रवीणा वीणावती? वेशीवल्लितबालकेन कदलश्रेणीमनोहारिणी वीणा पर्व मीलिताईनयनं व्यापारयन्ती नखान् । मुक्तावेशितकर्ण पबवलयामुग्धस्मितालङ्कता सङ्गीतं वितनोति तत्परिसरे तालानुकारस्तनी ॥ तावदेनामायान्तों कान्तिमतों पृच्छामि । सखि कान्ति- मति ! कैषा वीणावत्या मह वीणामुपगीयमाना मीमन्तिनी? किं ब्रवीषि ? "भाव ! भवानपि किन्न जानाति ? अस्मिन्नगरे ।

वसन्ततिलकम्। बसन्तयाजी नाम कश्चिदिप्रो वर्त्तते । स कदाचित् पुत्रमव- लोक्यास्मिन्नगरे सत्यव्रतक्षेने पुण्यकोटिच्छायायां भवता यष्टव्यमित्यब्रवीत् । सोऽपि नाहमिष्ट्वा भवता सह सुरनगर- वेश्यावाटिकासु कलहमहापातकमनुभवितुमिच्छामि। केव- लमस्यामेव नगासेतासु वेश्यावाटिकासु पय्यटामीति यज्ञार्य सम्पादितार्थजातमादाय सत्वरमेतामेव वेश्यावाटिका संप्राप्त इति ।” साधु विप्रकुमार ! साधु ! सम्यङ निश्चितार्थो- रमि। वारसुन्दरीमुद्दिश्य वषट्कारपूर्वकं व्यत्यागमाचर- तस्ते यज्ञकलं सिद्धमेव। यूनामनङ्ग यजतां विशाला शाला च लीलाम्टहचन्द्रशाला । गात्राणि पात्राणि विज्ञासिनीनां, मध्यञ्च वेदी, भणितानि मन्त्राः ॥ ततस्ततः । किं ब्रवीघि ? "अथषा तस्य धर्मपत्नी पतिव्रतानां पत्युरनुसरणमेव परमो धर्म इति स्वयमप्येतां वेश्यावाटिकां प्रविश्य वसन्तकलिका नाम भूत्वा वेश्याधर्मेण वर्तत इति ।" सपरितोषम् तर्जनीमाघूर्णयन् । साधु बुद्धिमति ! साधु, सत्यं धर्मपत्न्येवामि। सद्य एव पत्युरनुसरण फल प्राप्तासि । यच्छोत्रियवेतालविधीयमानस्त्रानोपवासादिविविधदुःखभाज- नमात्मानमविधाय मनोरमान् भोगाननुभवन्ती सुखेन व- तसे । तावदेनासुपसर्पामि । सकौतुकमुपसर्यन् सविनयमुत्याय। वीणावति ! किं ब्र- वीषि ? “तिष्ठ तिष्ठ महाकुलीन ! तत्रैव स्थित्वा यदि कथय कथनीयम् । नाहमुत्सर्पणयोग्या दुष्कुलेति ।” सखीदझिं ब्रवीषि ? ब्रह्मसूत्रमवलोक्य खगतम् । “रे महापातकिन् ! किमत्राप्यस्मान ? ।

वसन्ततिलकम्। १५ । पिनयति?” प्रकाशम् । को नाम कुलदोषः स्त्रीरत्नस्य ? स्त्रीरत्न' दुष्कुलादपि। सखि वीणावति ! वसन्तकलिकामुखमवलोक्य भूयोऽपि कि ब्रवीषि! "न के वलसेतावत्, प्रियसखी पुष्पिणीच;" इति प- रित्याज्या किं मधुपवृत्तीनाम् ? इत्युपसृत्य । किम् ? “अस्माकम- प्य पालम्भः?" वसनपल्लवेन कुचकलसमाच्छाद्य सरभसमुत्तियन्ती वसन्तकलिकामुद्दिश्य । तिष्ठतिष्ठ तथैवास्तु । युस्मानुद्देजयित किमस्मदागमनम् ? निर्वये सोल्लासम् | नश्यहलित्रयनवीकृतरोमरेखं वक्षोजभारवहनासहमध्यभागम् । उच्छासि नीविहननन्तव तन्धि ! जीया- दुस्थानमुन्नतनितम्बनिरुद्धवेगम् । पुननिर्वण्य । पादइयञ्च तव पल्लवनिर्विशेवं वक्तञ्च वञ्चितम्टगाङ्कमिदं त्वदीयम् । कर्णातिलनियनं कमलाभिरामं त्रैलोक्यमोहनमिदन्तव रूपमेव ॥ साचीकृतस्मितम् । कलत्राचारो वा कामचारो वा यत्- किञ्चिदस्तु, त्वयाहं विहर्तुमिच्छामि । किं ब्रवीषि ? “भवतु यः कश्चिदाचारः, महापुरुष ! पुष्पिणीति जानन्नपि किमेव ब्रवीषौति?" सवितर्कम् । पण्यस्वीप परस्त्रीषु युष्पदोषो न विद्यते ।

१६ वसन्ततिलकम्। ? न तासु कुलदोवो वा, कुलस्त्रीणान्तु तावुभौ ॥ तत्पष्यिणीगमनं धर्म एव । किं ब्रवीषि ? “नत्तवैव धर्मों, नास्माकं, गच्छ गच्छ, सर्वतः मंचरन्ति राजपरुषा इति ।" खगतम् । सुब्राह्मणि ! किमद्यापि ते धर्मानुरोधः ? प्रकाशम् । किमस्मान् राजापुरुषव्यपदेशेन भीषयसि ? यथेष्टं कथ्यताम् यदि रहस्यं, क्यं साधयामः। वीणावति! वसन्तकलिकामयवार्य । किं ब्रवीषि ? “सुविदग्धजनमूर्धन्य ! पकिमन्यत्कथ्यने रहस्यं, भवन्तमेषा वद्धाञ्जलिविज्ञापयति, श्वः परश्वो वा मयि स्नाता- यामागन्तव्यमिति ।” सानन्दम्। यदि प्राणवन्तो वयमन- ङ्गव्यथां निस्तीर्य, सत्यमागच्छामः । सवितर्कम् । कामुककालभुजङ्गी कन्दोद्यानसारङ्गीम् । कमिह कनकनिभाजीमनामङ्गीकरोमि तन्वङ्गीम् वीथीमवतीयं परिक्रामन् पुरोठवलोक्य सकौतुकम् । विकट. पदविन्यासमुखरलोहनूपुरः कणलम्बमानधत्तूरकुसुम: कक्ष- निहितभुजङ्गपेटिकः करकलितकालायसवलयजातो विवि- धौषधरसकषायगन्धिकलेवरः साटोपरचितविविधदेशभाषा- मुखरः कश्चिदाहिण्डिक दूतएवाभिवर्तते । साश्चर्याम् । करण बौषधकवणेन कृताञ्जलिः सन् गुरवे नरेन्द्रः । विभावयन्नात्मनि वैनतेयं भुजङ्गमाकर्षति पेटिकायाः ॥ सभयकौतुकम् । फूत्कारमुद्रिति भूतलमेव हन्ति मूनी मुकुन्दपदपङ्कज मुद्रितेन । ।

वसन्ततिलकम् । are भोगे हतः पुनरुदञ्चितपूर्वकायः । करन पश्यति नरेन्द्रमहा भुजङ्गः भुजङ्गनिर्वर्ण्य । अयि भुजग ! महेशो भूधितस्त्वत्कुलीने- रपि वहसि धरित्रीमात्मनो मौलिभागे। किमपरमिह लक्ष्मीकामिनत्वं हि पौर सुरतकलहलीलासाक्षिणी केलिशय्या ।। तावदेनं मोचयामि । भो भो माहेश्वर भुजङ्गोपजीविन् ! कण्ठे हारो मणिविलसितः कङ्कणं च प्रकार मञ्जीरश्रीचरणकमले मालिका मोलिभागे। शाम्भोरिस्थ सकालमपि सङ्ग घणं पन्नगोव्यं भूयोऽप्यासीत् त्रिपुरविजये प्रस्तुते चायमाझे । तदेवं युस्मत्स्वामिनः परिकरभूतस्ततो मुच्यतामयं महानाग: । यत्किञ्चित्पारितोषिकन्ते दास्यामि । आका लक्ष्य बध्वा । किं ब्रूथ ? “न मोचनीयोव्यमस्मद्रोमावलीकान्ति- चौरो भुजङ्ग इति।" मोत्यासम् । स्वभावः खस्नु भवतीनां भुजङ्गनिरोधः, तबध्यतामयञ्चौरः। शैशवेऽपि साधारणस्त्री- णामसाधारणी खलु व्यवहारवेदग्धी । पदान्तरङ्गत्वा । कथम- व कन्द कविहारमातनोति तरलहारा हारावली? एषा । बनाति केशनिचयं लथमाल्यबन्ध स्थाने निवेशयति भूषणमन्तरन्तः ।

१८ वसन्ततिलकम् । ? कालयपततिलकच करोति भाल चित्राण्यथापि मणिकन्दुकताड़नानि ।। गोमुत्रिकासु कुरुते भुजगस्य लक्षी चक्राकृतिं भजति मण्डनकल्पनेषु । रेखाकृति ब्रजति संप्रति वीथिकासु चित्राणि हन्त मणिकन्दुकचेषितानि । तावदनया संलपामि अनवरतम् । हारावलि ! मुखकमल- मानात मुत्यतन्तङ्कन्दुकम् किन्ताड़यसि ? किं ब्रवीधि ? "भवादृशोचितं वदनकमलमाघ्रात कोऽसौ पतित इति?" साधु हारावलि ! साधु ! चिरं निर्वर्ण्य । संवीक्ष्य कन्दुकविहारसमाकुलाया धन्यान्यमूनि मणिकुण्डलताण्डवानि । तानि स्मरामि तरलाक्षि ! निराशानि भोग्यानि ते सुकृतिभिः पुरुषायितानि ॥ किं ब्रवीषि? "नायमवसरस्ते नमालापस्य, गच्छ गच्छ कन्दुकविहारस्थ किमन्तरायोऽसीति ?” तर्हि गमिष्यामि । पुरोठवलोक्य सपरिहासम् । कक्षे वहन् किमपि पुस्तकमात्तदण्डः प्रत्यङ्गुलीविवरभासुरदर्भजालः । कोटप्येष जीर्णवसनः कुटिलोईपुगडो वेश्याग्रह विशति निस्त्रयमग्रजन्मा ॥ सपरिहासम् । समस्तपौरजनखस्तिवाचको दाक्षिणात्यो देव राजभट्टोऽयमुत्तमदानार्थं परिभ्रमति। सखेदम् । प्रय- वसन्ततिलकम्। १८ मित्यं संचिनोति, अस्य भाऱ्या तु सर्वमन्यस्य दत्त्वा व्यभिचरति । श्रुतिमभिनीय । हांग्रेष्वनुकलघट्टितो ग्रहाणा- मास्कन्दनिव हरिताच सन्धिबन्धान् । निलः कथमपि निर्गत गवाक्षा- दीथीघु प्रसरति पौरघोष एषः । परितोऽवलोक्य । श्राः कष्टम् । पलायन्ते केचित्यथि शिथिलधम्मिल्लवसना: प्रलीयन्ते केचिद्वनवलभीभित्तिनिकटे। पतत्यन्ये भूमा भयपरवगैरडि भिरमी मनः कम्य धत्ते मम च तव कश्चिदनतिकरः । किनिमित्तमिति तत्त्वतो न कश्चिज्जानाति । केवलं सर्वे धावन्तमनुधावन्ति। समभमम् करसंज्ञया कलकलन्नि- वार्य तोत्रमादाय त्वरितमाधावन्नाधोरण: क्रुद्धः किं ब्रवीति? “रेरे पौराः पलायध्वं गन्धदिपो गन्धदिप इति ।” सभयकौतु- कमग्रतारवलोक्य । मन्द प्रयाति मदविहलमीक्षमाणो मार्ग परिवमति याति नित्य भूयः । वेगेन धावति विलोक्य जनं पुरस्ता हावन् परिभमति गर्जति गन्धहस्ती। याकाशे सभयकौतुकम् व्यग्रताठवलोक्य लक्ष्यं बवा। मदन- मचरि! किं ब्रवीषि? “सोऽयं कुञ्जरापसदः किमस्मानुप- धावतीति ।” सात्यासम् ।

वसन्ततिलकम्। कुचकलशविलासैः कुम्भलोलां वहन्ती विरचितकर शङ्कामूरुणा मन्थरेण । मदपरवधामस्मिश्चत्वरे सञ्चरन्ती- मनुसरति गजवामात्मनो हस्तिनीति ॥ सोद्धगम् । सन्निग्टय चरणेषु नोदनात्ताड़यन भुवि पलायितयौरान् । कन्धराकघणकम्पितसौधो मत्समीपमुपसर्पति हस्ती ॥ --- ततः स्थातुमयुक्तमस्माकम् । .. कुपितं च महीपालं कुञ्जरं च मदालसम् । अतिदूरे परित्याज्यमामनन्ति मनीषिणः ॥ साश्चर्य्यम् । अन्य निरङ्कशविहारिणः पुरतः स्थित्वा कि- मपि भावयन्नाधोरणवृद्धः किं ब्रवीति ? “रे रे निषादिनः ! सिंहपटङखलसिंहमुद्या तावदेन स्थिरीकरोमि, निय- हीतमागत्य दन्तयोः सिंहपटं सङ्कलय्य टङ्खलया चरणयो- निबध्य च निःशङ्कमारुह्य कारागृहं नीयतामयं दुष्ट-गज इति” साधु यान्त्रिक साधु। कुम्भेन कुचसौभाग्यचोरमेनं म्टगीदृशाम् । यक्त काराग्टहन्नेतु कृत्वा निर्गलबन्धनम् ॥ कतिचित्पदानि गत्वा श्रुतिमभिनीय, सादरं शिरस्यञ्जलि । घटयन् । दृप्यदानवदोर्विवर्तितमहामन्थानशैलस्थली- घोराघातविघूर्णदर्शवपयःकल्लोलकोजाइलः ।

वसन्ततिलकम् । २१ ? श्रीमत्कुञ्जरौलशेखरमणेवस्य काञ्चीपते- मन्दं मन्दमुदञ्चितोटयमधुना मध्याह्नशंखारवः । सरभसमुत्य चरणमूर्डञ्चावलोक्य । कथमयमवलम्बित- मम्बरतलमध्यवर्ती सम्वृत्तो विकतनरथः ? अद्य खनु ! विदलयति शिरो मे भानुरूद मयूखे- दहति पदमधस्तान्मेदिनीपांशुजालैः । यमिदमतिशीतं दृश्यते दुनिवार मनसि यदयमुच्चैज म्भते मन्मथाग्निः ॥ पुरोटवलोक्य । महानयमुत्सवो लोचनयुगलस्य । यदि- दानीम, बलान्पुरमञ्जुनादमुखरं निर्गत्य लीलाग्दहा- दुषणस्यन्दिकुरङ्गनाभितिलकैरुट्रासिफालस्थलाः । क्रोडाक्लप्तनवातपत्रमतुलं चेलाञ्चलैच्छिते- मन्दं मन्दमिमाः प्रगन्ति सुदृशो मध्याहसेवोत्सकोः । सनिर्वदम् । अम्भोजबन्धुरिति भानुमिमाच्च भूमि सर्वसहति कथयन्ति मवैव लोकाः । वक्ताम्बुजं ग्लपयति प्रथमो बधूना- मासां परा न सहते चरणार्यणञ्च ॥ कथमस्मत्प्राणापहारिणी हारिणी? किं ब्रवीषि ? “धूर्त ! बमातपेतावनच्छ, विश्राम्यतां गृह एवेति ।” सोत्प्रासम् । त्वदर्थ मनुभूतकामानलस्य मे कोऽयमातपो नाम ? | श्रुतिमभिनीय ।

२२ वसन्ततिलकम्। ? ? व्याकुर्वन्नुपाध्याय व श्रूयते रेवती चन्द्रशालायां, तदयुक्तम्- पाध्यायमतिक्रम्य गन्तम् । एवमुपसंगृह्य यावदावर्त्तते वासरो गच्छामि। एकहस्तमुत्तंसयन् । उपाध्याय ! नमस्ते। किं ब्र- वीघि ? “अनङ्ग विद्यापारङ्गतो भूयाः, क्षणमिहास्वतां। विहितो भवान् समीचीन एवावसर इति।” यदाज्ञापयन्ति गुरव इत्युपविश्य कोव्यमवसरो व्याख्यानस्य? व्याख्याताः किं जाति- भेदाः, व्याख्याता किमर्द्धचन्द्रादिवैचित्री? किं विन्दु विन्दुमाल- योरन्तरमालोचितं ? किमुक्तान्युत्तानकरणादीनि ? दत्ता किं क्षीरनीरयोस्ति लतण्डुलयोविवेके दृष्टिः ? दृष्टं किमविधमौ परिष्टकं ? किं ब्रवीषि? "शेखरः खलु भवान् श्टङ्गारविद्यायाः । तात ! व्यतीतः खल्ववसरस्तेषां, पट चूर्णीकृतं तत्सर्वमेतैहिज- मर्द्धन्यैः । इदानों सकलसुखसाक्षात्कारक्षमलक्ष्मीशप्रभृतिभि- रिदमेव सेव्यते” इत्यस्यैव सर्वातिशायित्वात्तन्मोचे परमं सुखं निर्वाणं हि महत्सुखमित्यादिभिरभिनवयौवनमदललितका- मिनीनितम्बविम्बसुदुकुलमोक्षभाविसौख्यमेवाभिधीयत इत्य- स्यैव स्वसंवेद्यपरमानन्दस्वरूपसुरतसौख्यस्य मोक्षसुखत्वं प्रतिपाद्य तदनगोपासनमन्तरेण न घटत इति वादा: क्रियन्त दूति । सानन्दं शिरः कम्पयन् । शतमप्यतु कर्णानां सहस वास्तु चेतसाम् । तथापि त्वदुपन्यासं कः पुमानवधारयेत् ॥ तहि शान्त वायमातपः, साधयामि । मन्नाखेन वसन्तसेना भवन्तं विज्ञापयति “भवद्भिरप्यु पागन्तव्यं वासन्तिकारथोत्सवा- येति" नाटितकेन सौधादवतीर्य। परिक्रम्य पुरोटवलोक्य ।

वसन्ततिलकम । . कक्षाबद्धकृशोदरेण वयुषा खड्गं मुजः कम्पय- छिक्षामेघ गतागतैः प्रकटयन् शस्त्रग्रहे भूयसीम् । व्याकुर्वन्ति च वीरवादमधिकं विस्तीर्णवक्षस्थलो वीरः कश्चिदलङ्करोति विशिषां वीरैरनेकैतः ॥ ससम्भमम् कलकलानुसारी पृष्ठताठवलोक्य । कथमत्रापि । बलान्मुहुर्जय जयेति वदशिरच्चैः परिर्वता विजयडिण्डिमचण्डनादः । मोहत्तिकेन निरतश्चरणात्कञ्चित् । खड्गी समालपति कश्चिदुदारवेशः ॥ कथमेतज्जानीमः | तावदेनं पृच्छामः | सखे रङ्गनाथ ! किनिमित्तमेतयोयतिकरः ? किं ब्रवीषि? “किमन्यनिमि- तोऽयं गणिकामन्तरेणेति ।” सबहुमानम् । तहि युक्तमेव सा ख- त्वेषा भवता दृष्टस्य प्रातिवेशिकस्य कुवेरनाम्नो वणिक्- श्रेष्ठस्य कनिष्ठदारा तारावली वशीकता। किं ब्रवीषि ? “विदग्धः खलु भवान् वशीकरणविद्यासु, त्वदुक्नोपायेन वशी- कृतैव, तथापि मा किं करोतु वराको, गुरवः खलु निगडंकुल- स्त्रीणाम् । तथा हि। काणापि विडम्बनं पररहे श्वश्रून सम्मन्यते शङ्कामारचयन्ति यूनि भवनं प्राप्ते मिथो यातरः । वीथीनिर्गमनेपि तर्जयति च क्रुद्धा ननान्दा पुनः कर हन्त गीदृशां पविग्रहं प्रायेण कारागृहम् । किन्नाम दुष्करंदैवस्य । सा कदाचिदभिनवजलदसम्भार गम्भीरे सायं परिभवति भुवनमन्धकारे मयि च भक्का गृहीत- वसन्ततिलकम् । साम्बूले पर्यङ्कमारोहति सा वरारोहा हि कक्ष्यायां वसन्ती प्रद्यामिदं पठितवती। नाथो मे विपणिंगतो न गणयत्येषा सपत्नी च मां व्यक्ता नामाह पुष्पिणीति गुरवः प्राप्ताग्रहाभ्यन्तरम् । शय्यामात्रसहायिनी परिजनः श्रान्तो न मां सेवते स्वामिनागमलालनीयरजनी लक्ष्मीपते ! रक्षमाम् ॥ इति श्रुत्वा लब्धावकाशा मामेव प्रार्थयते, चिरकालप्रा- र्थिता वरवर्णिनी इत्युत्तरीयमुत्सृज्य समुल्लवितप्राकारे मथि विशति गृहाभ्यन्तरम् । हस्तेनाकुल फङ्कणे न ललितं केशेषु मां ग्टहती शाय्यायां विनिपात्य रेशठ ! चिराल्लब्धोऽसि दैवान्मया। त्वामद्यैव निहन्मि धूत ! चिकुरं मुञ्चेति संलापिनी- चेठाभिश्चलकुण्डलाभिरुपरि क्रीड़ां वितेने बधुः । पायेण पराक्रमं विदधती प-कुलैः कुन्तलैः श्रान्ता वक्षसि मालिकेव परिता सम्मीलिता क्षणाः । मा मा मुञ्च म्टतास्मि मईय समारोति दीनाक्षर जल्यन्ती भ्शमाकुला रसवती भुक्ता मया कामिनी । सबहुमानं तर्जनीमापूर्ण यन् । सखे ! साधु सृङ्गारशेखरस्य मित्रमसि, श्टणु तावदेनामपि कथां, कति वा न सन्ति भवि कामिनीरूपाणि रत्नानि । कदाचिदहं रङ्गराजाभिवन्दनाय रङ्ग नगरीङ्गतवान् तत्र कदाचिदम्बरललविहरदमरपुर- युवतिकरकमलगलितमन्दाकिनीकरकारविन्दसन्दोहकातर-- मधकरनिकरावलोकिते क्षीणनेजसि चरमगिरिशिखरमव- HARATPATRA वसन्ततिलकम् । । ૨૫ .. तरति बन्धूकबन्धुरे कमलबन्धौ, मन्दमन्दमपहतयुवतिमाने मदनकृतब हुमाने वहमाने मलयगिरिपवमाने, पायवीथि- कायां जातिचम्यकादिपुष्पाणि तरुण केतकीदलद्राधीयांसि ताम्बूली दन्नानि च समादाय चमत्कारिभिरुदारवेषैरशेषभा- पागीतिनीतिचतुरैः साट्टहासमन्योऽन्यमाकलितकरतला- स्फालनैः पीठमर्दक्टिचेटविदूषकप्रायः कतिपयैः सवयोभिः महायमपि चरति वेश्यावीथ्याम् । सोधस्थले चरन्ती चरणसमालोलचारमञ्जीरा। काघि कमनीयमूर्तिः कनकशलाकेव कामिनी दृष्टा । सपुलकोत्कम्पम् । तत्स्मरणभद्यापि मां व्यामोहयति । तिष्ठन्तु सर्वे यि तदावयास्तन्मुडम खालोकनबइटष्णाः । मुहर्तमन्तःकलहायमानाः परस्परं सम्मीलिताः कटाक्षाः ॥ वयस्य : किं तवापि गोप्यमस्ति ? ततः कथकथञ्चिनिवास- मागत्य ताव लादपि विषतरुपल्लवानि बहु मानयन्, श्राहा- रादपि हालाहालमात्मानुरूपमाकलयन, निष्ठरप्राणभारा- क्रान्ततया शरीरमपि धारयितुमक्षमः, प्रतिक्षणमतिविकल:- कनामात्रमपि कल्पकोटि वदतिवाहयितुम्, अभिनिवेशेन तेषु तेषु मनोहरेषु दीर्घिकास्थानेषु धारादृष्टिगतधन दूव पिशा- चाविष्ट व तिरश्चामपि दयनीयावस्थः परिभ्रमन्, वीणावादेन गोष्ठिकाम विम्टशन् वाणीम्मधुस्यन्दिनीं क्रीड़ासौधगतानि तानि कलयन दृष्ट्वा च हंसीकुलम् । कोकबन्दविलोकनेन कुचयोर्य म्मञ्च तस्याः स्मरन न क्वापि स्थितिमन्वभूवमिति तचिन्ताकुलः सर्वदा । ३ ६ वसन्ततिलकम्। एमतिकामति काले, कदाचित् किल विरहिजनमीन- ग्रहणार्थमुन्ष्टकनकसूत्रानुकारि संहरति धीवर इव सवि- तरि किरणजालमपरपक्षक्षपाकर दूव दिने दिने क्षीयमाणो विरहवेदनानिवेदनोचितं कमपि जनमनालोकयन्नपारशो- कसागरनिपतितो निस्तारमपश्यन्, तस्या गूढ़पातकिन्या वा- "श्रवणोपायमप्यजानन मरणमन्तरेण का गतिरस्माकमिति निश्चित्य हृदयगतप्रेयसीस्तनभरनिःसह इव भङ्गरमात्मानं कथङ्कथमपि धारयन्, विरहविसंठुलैः पदे दीयसि निर्जने जीर्णमालगृहे कर्पूरलिकुचपाणिरवतस्थुषम् । अत्रान्तरे कापि कापालिकलिङ्गधारिणी “क: कोऽत्र देवीगृहे ?” इति ससम्भममधिक्षिपन्ती प्रविश्य देव्या वामभागे करतलगलित- कर्पूरलिकुचफलमवनितल-पतितमज्ञातकेशावसनमतिकमले महति वाव्यपूरे प्लवमानमवलोक्य ता दारुणामवस्थां स्वयम- प्यनुभवन्तीव कराभ्यामुत्थाप्यमान स्तैस्तैरुपायैराश्वास्य, “कुतः को भवान्? किमर्थमेतादृशीमवस्थामनुभवमोति” मामप्राचीत् ततः कथङ्कथमपि निरुद्ध्य कण्ठरोधि वाष्यम्, “अम्ब ! निम्- कारणवत्सले ! तदिदं परीवाहः खल्लु कूलभेदिनो महातटा- क य, यदन्यस्म निजदुःखनिवेदनं श्रूयतान्तावत्, सोऽहं काञ्चीपुरनिवासी गर्भश्वय्यदुर्ललित: पित्रा सह कलहायमानो वात्सल्य न पदपतितां रुदन्तीं मातरमप्यवधूय श्रीरङ्ग- राजदर्शनार्थमिमानगरौं प्रविष्टः । कदाचिदस्ताचलशिखर- चुम्बिनि रविविम्ब विम्बत्विाष, सोऽपि कश्चित् सवयोभिः सह वेश्यावीथिकामापतन्त्रहमेव क त्याश्चिद्गूढ़पातकिन्याः कटाक्ष- !

वसन्ततिलकम्। २७ वागरिकावलयपतितः फलमेतादृशमनुभवामि, नाद्यापि निस्तारञ्च पश्यामीति" मयि वदति सा कार्पटिका किमपि रत्नमादाय “सा महापातकिनी मन्मुखेन भवन्तं विज्ञापयति, 'नेदं शिलाशकलमिति मन्तव्य, किन्त युभद्गुणगण क्रीतम- स्मञ्चेतः इति अर्पितवती।" तदहमारचिताञ्जलिः कराभ्या- मादाय रागपेशलं प्रेयसीहृदयमित्र मदाकारगर्भ सुचिरमा- लोकयन् आनन्दविस्फारितेन चक्षुषा तामवोचम् । “अब ! किमित्यपदीयते ? महामूल्यमेतद्रत्न अस्तु वा सन्दिष्टं निरङ्कुशः खलु महतामुदारगुणः । तथा हि, ताम्बूलं वा, दुकूल वा कुसुम वानुलेपनम् । भुक्तपूर्वमिदं सर्वं सन्दिशन्ति म्रगीदृशः ॥ जानाति खल्ल सम्यगस्य दासजनस्य सेवाचातुर्य, कथय तावत् कथं वर्तते प्रेयसीति ? मयि वदति, मावादीत् । “किमुच्यते तात! यदा खनु मा भवन्तं दृष्टवती, ततः प्रति, न क्रीड़ासु कुतूहलं वितन ते, नालङ्कृती सादरा, नाहारपि च सस्पहा, न गणयत्यालापलोलां सखीम् । बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले ध्यायन्ती किल किञ्चिदन्तरधुना निस्पन्दमास्ते सदा ॥ किञ्च । शोकामिदग्धे हृदि वल्लभो मे वसन् किमासीत् ? इति दुःखितायाः । विलोचनैः स्यन्दिभिरश्रुपूर्ण विश्वनदीमाटकतामयासीत् । न केवलमेतस्या: तापं ब्रवीमि | २८ वसन्ततिलकम्। सन्तायस्फुटितोत्यितैस्तनतटान्मुक्ताफलैरन्वितं भस्मीभूतनवप्रबालशयनं पाकुलैरङ्गकैः निश्वासन्तपितप्रसूनकलिकानिर्विसटङ्गीकुलं तस्यास्तापमनक्षरं कथयते तन्वता लतामण्डपम् ॥ किञ्चैषा त्वय्यनागतेऽपि सम्पर्णकामैव । तथा हि, माले सत्यपि चुम्बने, न च पुनः लिहा कपोलस्थली, न कापि क्षतिरीच्यते बहुतरं दरपि दन्तच्छदे । आलेघेटपि न पत्रभङ्गरचना वक्षाजयो_यते भुन्त वञ्चितबन्धुवर्गमिति सा खप्नोपभोगोत्सवम् ॥ एवं क्रमेण दिवसेषु कतिपयेषु गच्छत्स, कदाचिदहं भिक्षा- र्थमटन्ती सायन्तनसमये मलयमरुदुद्भुतमाधवीमकरन्दस्य- न्दिन्यङ्गनकदलीमण्डपे विरहविसंठुलैरङ्गैरनङ्गवेदनारसमनुः भावयन्तीव कामपि कदलीमालिङ्गन स्थितां दृष्ट्वा झटिति सञ्जातकरुणा गृहस्य विजनताञ्च विज्ञाय ताम्पृष्टवती । “जा- नामि खलु सर्वदा मान्ते विस्रम्भपात्रमिति । तत् किं मुग्धे! ममापि गोपयन्ती हृदयमेवमुत्ताम्यसि ? क्षामं गावम्, अतीवपाण्डु वदनं, लिया कपोलस्थली, काठसा चेतसि वर्त्तते तव युवा लोकमान्याक्चतिः । त्यक्ता किञ्चिदपत्रपा कथय मे खिन्नासि किं त्वं रथा घोरः पञ्चशरो यदि त्वमवला, वक्ष्यामि नातः परम् । इति सा तु कथङ्कथञ्चिददनमुन्नमय्य शकतुण्ड कुटिल- काटिभिनखायैरमनकल्लुघान्विरहानिधूमशकस्लान बाष्पविन्द नादाय विचिपन्ती मामुक्तवती। "मात! स्तवापि किन्त्राम ? !

वसन्ततिलकम् । २८ गोप्यमस्ति ? कदाचिदहं नगरावलोकनकौवहलेन सौधस्थले चरन्ती केनापि कमनीयवेषेण विलासिना कनकम्मगेण जानकीव हृतचित्तास्मि । नाहं नाम जानामि नापि कुल देशौ, अपि तु एतावदेव जानामि । नवयौवनकुञ्जरस्य मन्ये मदलेखेव मदालसस्य यूनः । मुखचन्द्रमसः कलङ्करखा भवति श्मश्रुपरम्परा कयोले । न्यरूपि चास्य भावोऽपि, सोऽयमस्मिन्नगर एव स्यात् । येन हि, । । परिवत्य मुर्विलोकयन मां प्रणयस्पन्दिभिरुत्सुकैरयाङ्गैः । चरणैरगमत् कथं कथञ्चिदिरहेविस्मितमार्गसन्निवेशैः ॥ यदि शक्नोषि तमन्विव्यानेतुं, मम प्राणास्तिष्ठन्तीति" वद- न्य वं पादावग्रहीत् । सा च "कामिनीनां सन्देशमन्तरेण कामिनो न विश्वमन्ति” इत्युका "सकलपुरुषमौलिरत्नाय तस्मै किमन्यत् सन्देष्टव्यम्” इत्युत्तमाङ्गान्मौलिरत्नमादाय "तमेनमेवं ब्रहि" इति दत्त्वा मां प्राहिणोत् । तदहं दिया भवन्तमिवोपलववती। सा चेत् यता कालेन नूनमुन्मा- दिनी स्यात् ? तद्यथा तद्गुरवो न जानन्ति, तथैव तत्प्राणान प्रतिष्ठापयितु भवाने व प्रमाणमिति।" तदहमाकर्ण्य क्षणं विचार्य कर्णे ताम् “एवमेवम्” इत्युक्त्वा प्राहिणवम् । वयस्य ! किं नाम दुष्करं प्रज्ञाया:? तज्जनकेन लक्षेश्वरेण विरहवेदना- वशेनोन्मादिनों तामविज्ञाय "महाभूतग्रहग्रस्ता" इति पा- कुले न “मत्कन्याश्रितं महाभूतं यो निवारयियति, तस्मै धनार्द्ध प्रयच्छामि" इति प्रदर्शितेषु विविधमन्त्रतन्त्रेषु मा न ३० वसन्ततिलकम्। किञ्चिदूचे, केवल रोषदहनगर्भया दृशा दहन्तीव तानैशिष्ट अनन्नरन्तु। मय्यागत्य ग्टहीतमान्त्रिकपदे वक्षस्थले गण्डया- विश्रब्धच या प्रवृत्य विहरत्याकरके शान्तया। तस्यास्तत्क्षणहासरोषघुलकखेदादिक केवलं मत्वा तद्ग्रहविक्रियामपि जनमाहात्मप्रमङ्गीकृतम् । किञ्च "यन्वं संहरयामि, यामि भगवन् ! यक्षोठहमक्षानतो बालामद्य समागतास्मि सवादप्येका ममैवा निशि। शून्य माटग्टहे प्रयच्छतु बलि कन्य ति" कामग्रह- यस्ता कृत्रिममन्लवादिनि मयि प्रोवाच सा सुन्दरी, तदाहम् म्टषा कल्पितयन्त्रजालको, “गच्छ गच्छ किं तव यक्षाधमेति” तं मिथ्यायक्ष निवार्य “विविधभोगदक्षा खनु यक्ष जातिः, तस्मै नमस्कृत्यानमृता सकलानि भोग्यवस्तुनि भमो- दाकाकिनी बलिं दत्त्वा यक्षाय शून्ये माटगृहे समाधातु । तावता सर्व समाहितं भवति" इत्युक्ता प्रीतेन लक्षेश्वरे गा दत्तं धनमादाय सन्ध्याममये मागृहं प्रविश्य क्वचित्तिरोहितो- ऽस्मि । सपुलकोट्टेदम् । किम् ब्रवीधि ? “ततस्तत दति” ततो वयस्य ! किमन्यत्कथ्यते? फलितं श्टणु । सापि तथैव मात्गृहं प्रविश्य, बलितकङ्कणेन करेण कण्ठे मां सलील गृहीतक्ती। तन्मयः किमयं ? बाला मन्मयी? किमुभावयि ? किमानन्दमयो वेति ? न विज्ञातं तया मया । ! ।

वसन्ततिलकम्। -- .. अतिचिरकालपार्थितम् अनियतकथनीयमात्मसंवेद्यम् । सुरतसुखमन्वभूतं विस्मृतसकलान्यवेदनः सुतनोः ॥ तत एवं ब्रवीमि परदारसम्भोगपुलकयोचितमावयोः स्ख्यमिति । किं ब्रवीषि ? “साधु मन्त्रकुशल साधु! कनिष्ठा- झालौ भवान् प्रतिष्ठावान् पटुतरगणनासु ।” वयस्य : पर- योषितस्तु मदनज्वरन्निर्वापयन्यो भूयोऽपि संधुच्यन्ति । सद्यो रागिणि सूचयन्ति हृदयं सायनर्वीक्षण: सन्तस्य न शक्नुवन्ति मनसा सङ्कल्यमाना अपि । कृच्छ्रात्सङ्गममभ्युपेत्य गमनं संप्रार्थयन्ति क्षणात्- साशङ्काञ्चलिते टणे यि सहसा मु लोयभागोत्सवाः । इति । “वयस्य ! तत्तथैव, दिगन्तान् पश्यन्ती दिशति न मुखे चक्षुरम्मतं, न विश्रब्ध किञ्चित् कथयति, न वाकर्णति च । रतारम्भ भूयो जिगमिवति, साशापि मुरते, तथाप्येवा भावस्तरलयति चेतः परबधूः ॥" तदेवमद्धावशेषितमदनमनोरथस्यापि मुहुर्मुहुरुत्तजित- बहुलानुरागस्य परयुवतिसम्भोगसौख्यस्य षोडशीमपि कलां सुरतान्तराणि न स्पृशन्ति । किं ब्रवीषि? “एतयो:रवर- योईन्दयुद्धविलोकनार्थं गच्छामीति।” तहि गच्छ । सर्वदा न विस्मरणीयोऽयञ्जनः । ससम्भमकातुकम् । सङ्गतावपि परस्परमतो दूर एव भवतोद्भूत-खड़ गौ । मङ्गलानि चरतः कृतशिक्षो मर्मणि प्रहरता विहरन्ती ॥ RAN २ वसन्ततिलकम् । ? । किमस्माकमेतेन मलयङ्गच्छतां मन्दरपथोपवर्णनेन ? विशिखान्तरं प्रविश्य । महानय मल्लसंरम्भः। तथा हि । शिक्षा भूमिरुजोरुणां परिदधत्कक्षां भुजे कल्पयन् आस्फोटं द्विगुणीकृते विरचयन्नने मरिछां गदाम् । मनी तत्क्षणमुण्डितेन कपिशां विभ्रञ्च तन्वी शिखां मल्लः कश्चन मांसलो विजयते युद्धाय बद्धोत्सवः ॥ दक्षिणतोटवलोक्य । साश्चर्याम् । अयमेव भवेत्तस्य परि पन्थी। यदिदानीम् । द्विगुणितभुजाक्षेपक्ष्वेडारवैर्दलयनभः करतलमहीएलो निश्च तनिष्ठुरगर्जितः। सुदृमवनी सृष्ट्वा मुलिं विधाय पदाहत- क्षुभितवसुधो रङ्ग रिङ्गन्नलक्षत मल्लराट ॥ सौतुकम् । कथमेतौ निरुद्धत एव । पादनाक्रम्य पादं भुजवलितभुजी तस्थिवांसा स्थिरांशो भ्राम्यन्ता भ्रामयन्ता वितपरिकरी पातयन्तो पतन्तौ । भूमेरुत्याय भूमौ रणमिह कुरुतो मुष्टिमादाय मुयो गर्जन्तौ निश्वसन्तौ धनतरतिभिर्भिन्नगल्ली च मल्लौ। वामतोऽवलोक्य । कथमुत्तरोत्तराण्याश्चर्याणि? यदि दानीम्। केलिकम्पिविषाणचामराः किङ्किणीमुखरपीनकन्धराः । वक्रभासुरवराटमालिका न्सत्यमत्र रचयन्ति घुनवाः ॥ घोरो नास्ति भुजङ्गमादपि जनैः सोध्यं समं वर्तते बन्यालेपि मजादयो विदधते वातानुरूपां क्रियाम् ।

वसन्ततिलकम्। ३३ सकल सार्वभौम- । वीणा काष्ठमयी च वक्ति मधुरं वाणी मनोहारिणी पाघासाच फलन्ति काशितमहो किं वा न साध्यान्तरः ॥ वीथ्यन्तरमवलोक्य । महानत्र समरमरम्भः । कम्पतवि- घमवेल्लितविकटतिरश्चीनविषाणभूषायितविविधनोहवल्य छ- लखलत्कारसुखरमुखानां श्रतिनिशितखुरोत् खातभूतना- नाम् अनवरतपहरणपरिणतकिणकठिनकण्डरूमस्तकानाम् असोढ़परबलमधःशीर्षाणाम् अगाधरोषाणामेषां मेषा- गाम् । तथा हि। पश्चात्यरित्त्यावलोक्य । पदमनुभवति चिराय टङ्गारः । यदिदानीम् । दोषणा चन्दनधूसरेण ललितान् धुन्वन्ति चित्राङ्गादा पश्यन् तत्क्षणजायमानयुलकः पाव मुहुः प्रेयसीम्। उष्णीषप्रतिविम्वितैश्च कुसुमैरुट्रासिम्मिल्लवान उद्गायनुययाति कोटपि विशिघामुल्लोलवेघो यवा । किञ्च । कलुषितकयोलपाली वस्तुऱ्या काप्युपैति नेपाली। सोत्कण्ठम् । कस्येयमईपाली सास्यति पुलकैरपास्तनीमालीम् । तावदेनामुपसर्पामि । इत्युपसर्ग्य सलीलम् । तरुणि ! तव कर्णपत्र शासनपत्र मनोभवः शङ्ख्यम् । कम्प्रसूनमुखरान् कलये तल खवाचकान् भमरान । सलील हस्ते सहीत्वा कराङ्गुलिपस्सनाभ्यां वदनमुममथ्य । कथमियं यथावत्कलभाषिणी? S ३४ वसन्ततिलकम्। मुदितः कदा शयिव्ये मुखमिदमाघाय मुकुलितापाङ्गम् । मुग्धस्मितं च रतान्ते मुक्तातङ्क मुद्रितकयोलम् ॥ “किं ब्रवीधि ? कितव ! किमेतेन धूर्त्तालापेन ? न श्रुता किं किम्बदन्ती च ? “वेश्यामपि वसन्तरेखामसूर्यमयू खा- मकरोदर्थपाज दति। तदलमेतेन कुकुटाचारेण । नहि नेपालिकाजातिर्दाक्षिणात्यवदनाचारा, मुञ्च पाणिमिति ? साट्टहासम् | जानामि ते पातिव्रत्यमर्थपालशौर्यञ्च । पुरोऽव लोक्य । सानन्दम् । कल्हाररचितचूली केलीगमनेन महितमराली। कापि नगरप्रतालीमालिभिः साकमागता चोली ।। स्मरणममिनीय । सखि मन्दारमालिके! सह कुशलिनी त्वं रागबर्द्धनेन ? किं ब्रवीषि ? "भाव! किमेतेन निर्धनराग- बर्द्धनेन ? मातङ्ग दवागत्य मार्जार व निर्गतोभूत् इति?" तर्जनीमार्गा यन्। साधु मन्दारमालिके! साधु ! कुशलामि खल कुबेरमपि कौपिनं परिधापयितुम् । सख्यः ममाह- यन्ति, गम्यतां प्रकृतकार्य्याय । पाच मुद्दिश्य सानन्दम् । वलयिनि मणिबन्धे वर्तमान सलील शुकमुचितवचोभिः खैरमालाययन्ति। मदहसितमनोज्ञा मन्मथाडेतविद्या- मुपदिशति विलोलैरुत्पलाक्षी कटाक्षः॥ किमियं पाणिपल्लवेन पराम्ट गन्ती लीलाशुकमाला- पयति? ।

वसन्ततिलकम्। ३५ "राग मुखे वइसि, रञ्जयितुच वाचा दक्षासि, दर्शयसि मय्यपि पक्षपातम् । जाने तथापि चपलं प्रियदर्शन ! त्वां बनामि मत्करगतमणिपञ्जरस्मिन् ॥” इति। विम्ग्य मदुद्देश एवायमालापो, नूनमेषा न केवलमर्थपरा, कामपरा च प्रतिभाति। भवतु गत्वा जानीमः। पदान्तरं गत्वा स्वस्ति ते कविनोदनाय कथय, कलालापिनि! कस्य कामिनो भागधेयमुल्लासयति ? “सप्रणयकोयम् ।” अपवार्य करभोरु ! यथार्थवादिनं लीलाएकं कात्यलेन किन्ताड़. यमि? किं ब्रवीघि ? "गणिकाजनगर्हितमध्वानमाश्रयन्ती न कस्याहमुपालम्भपात्रमिति?' मधुरभाषिणि ! मैकमवोचः । मान्या त्वमेव हि मनोहररूपवेस्तारुण्यमद्य तरुणचरितार्थयन्ती। अन्यैः किमर्थकृपणेजड़जीर्णभोग्यतारुण्यसंयदुदयैः सुदृशां समूहः ॥ किं ब्रवीषि? “स्तुवन्तु निन्दन्तु वा, सर्व कुलक्रमागतम- खिलधनं सकलविदग्ध भ्यो दत्त्वापि महति राजपथे मकरध्व- जमभिषेच्यामि । तद्विदग्धजनमूर्द्धन्य ! निर्लज्जया निबद्धोऽ- धमञ्जलिः, सकृदपि त्वया समागन्तव्य मति ।” सानुरामम् । चारुहासिनि ! निदेशवत्तिनि दासजने किमत्यादरेण ? मंडियतामयमञ्जलिः । सत्यमागच्छामि, शपामि ते पादय- जेन, क इव करतललग्न मुच्चेत माणिक्यम् । गच्छामि रङ्गोत्सवाय । पुरोऽवलोक्य । परिहितपट्टदुकूलाः पवनसमुद्भूतयाण्डरोणीयाः । करतलकम्पितखड़माञ्चित्रममीयान्ति कामिनः पौराः ।

वसन्ततिलकम् । किच्च। आच्छाद्य स्तनमण्डलीमभिनवज्योत्सानिभैरंशुकै- भूयस्तत्प्रतिविम्बितेरवयवै सम्मोहयन्त्यो जगत् । रम्याभोगनितम्बगौरववशान् मन्दायमानैः पदैः पायाकुलहारनूपुरमिमा गच्छन्ति पौराङ्गनाः । समन्तादवलोक्य सकौतुकाचर्यम् । क्रीड़ा ले मददालमा चञ्चलेर चन्द्रः के कारावं रचयति मुदा कोलिलोलः शिखण्डी। मन्दं मन्दं मदनतरल सैकते सञ्चरन्ती दीनारावं दिशति गगने दीर्घिकाराजहंसी। किन्नाम निमित्त मेतस्य ? किञ्चिदम्भोदशकां पश्यामि । अतिमभिनीय । सर्वथा समारब्ध एव रङ्गोत्सव: तथा हि । नवाम्बुवाहस्तनितानुकारी विजम्भते दिक्ष पदनिरन्धन् । महोत्सवारम्भविशेषशंसी मनोहरो मङ्गलतूर्यनादः । तदविलम्बितमेव गन्तव्यम् । वामतोटवलोक्य । मनोहरो- ऽयं समवायः। परस्पराकर्णिविनोदानां विलोलविलासिनी- नाम् । सप्रणयकौतुकम् । कथमनव मे सखा विलासवीरो विलासवत्या सह महामरम्भेण द्यतकलहमातनोति? किञ्चि- दुपसृत्य । सखे विलासवीर ! केन जनेन प्रवत्तते बां द्यूत- विनोदः ? किं ब्रवीधि ? “यद्यहं पराजित: स्याम्, अस्थै दास्यामि हस्तकटकम्, एकवारमधःशयनं च। यद्यषा, स्व- कण्ठादवमुच्य मह्यमर्पयिष्यत्येकावलीम्, एकवारमधरपलव- ।

वसन्ततिलकम्। ३७ चेति ?” साधु रे साधु ! माननीयः खलु भवान् पणबन्ध- चातुर्येण । सीत्कारगर्भमुदरं खयमेव दत्तं जेता यदि त्वमनुभव मदालसायाः । आलोलहारमणिकुण्डलमन्यथा चेत् अस्या लभख पुरुषायितमायताच्याः । पदान्तरं गत्वा पुरोठवलोक्य । अहो! रमणीयता नयनपि- धाने कौतुकस्य, यदेष चतुरङ्गविहारिणीम् । मूकीभूतमुखी विधाय नयनस्पन्देन दूरात्मखीं पञ्चान्मन्दमुपेत्य पाणियुगलेनाच्छादयन्त्या दृशौ । अगस्तत्क्षणजायमानयुलकीननपि प्रेयसी- मस्याः सस्पहमाम्टशनवयवान् ब्याख्यासि नाख्यां यवा ॥ पुरोटवलोक्य । कथममौ वसन्तसेनायास्ताम्बूलकरण्डवा- हकस्ताण्डवमसत्वरमायाति। किं ब्रवीषि ? “त्वय्यतां त्वयंतां स्वामिन् ! किमद्यापि विलम्बेनवं समाहितविशेषोपकरणा देवी भवन्तमेव प्रतिपालयतीत्यहमागतोऽस्मीति ।” कथय रे का वा विशेषो रङ्गस्य ? किं ब्रवीषि? “कोऽयमतः परं विशेषो नाम? मोऽपि षोड़शसहस्रान्त:पुरविहारधूर्तों वरदराजः करिगिरिशिखरादवतीर्य स्खयमेव कल्पितलीला- विलासवेषः सकलरसिकजनधौरेयतामवलम्बर माल्यादिभि- रागतान् सम्भावयन् विलासमण्डपमध्यास्त इति?" तह्य- 8 Payal raisane: 0 HIROIN ३८ वसन्ततिलकम्। । 1 यमितः प्राप्तोऽस्मि । पुरस्तावलोक्य । अहो ! रमणीयता मण्ड- यस्थ, यदिदानीम्। सम्भावित सपदि हऱ्यातलं विमान- दौरं निखातकदलीयुगलाभिरामम् । स्तम्भावली च चिरा विमलैर्दुकूलै- बत त हन्त वचसा कथमस्य लक्ष्मीः । वामतावलोक्य साश्चर्यम् गण्डस्थलस्फुरितकाञ्चनकर्ण पत्र नासाविलीननवमौक्तिकलोभनीयम् । आबद्धकञ्चकमलक्षितमध्यभागमायाति वृन्दमिदमान्धविलासिनीनाम् । किं ब्रवीषि ? "स्वामिन् ! न केवलमेकस्मादन्येभ्योऽपि देशभ्यः समागता: विलासिन्यः पश्य | केशान्तरालगतकेतकपत्रजावं कस्तूरिकाकलितकोमलगण्डमूलम् । विन्यस्तकुवामविशेषकमुत्पलाक्षं काटयौवतमिदं कमनीयवेधम् ॥ स्वामिन् ! दूतो दीयताम् दृष्टिः । मुक्ताकञ्चकसंछन्नाः याण्डयनारीपयोधराः । मेरुमन्दरविन्यादीन हसन्तीव महागिरीन् ।” किमिदं परं कौतुक रङ्गमण्डपस्य ? “पश्चिमभागमवलो- कयतु स्वामी। জন্ধ লালিনিহৰ জীন मात्रप्रभास कनकाभरणं निमग्रम् ।

वसन्ततिलकम्। ३८ विम्बाधरस्व रुचिभिः पिहिता च लाक्षा- लाटीषु हन्त लघुभूषणमेवमासीत् ॥ एवमनेकदेशादागता विलामिन्यो वर्णयितुं न शक्या इति” साधु सखे ! पटीयानमि | पश्य । कल्पितचन्दनतिलकं कर्णपरिस्फुरितकनकताटकम् । कवलधति मानसं में कान्तं कर्णाटकामिनीवदनम् ॥ नेपालीगण्डयालीषु कस्तूरीपकविन्दवः । वदन्ति मदनेभस्य मदनियन्दिनों दृशम् ॥ सखे ! सहैव समागच्छ, समाज प्रविशावः । 'पुरोटवलोक्य । शिरस्यञ्जलिकटयन् । पश्य । य एष सभानायकत्वेन सिंहास- नस्थोऽस्ति गिरीशो भगवान् । भुवनानि विमोहयन् पुरस्ताइपुषा सोम्यमुपाविडिलासी। मदनोपनिषद्रहस्थविद्यां यमुनासीमनि वल्लवाङ्गमानाम् ॥ ससम्भमं पश्चादवलोक्य । सखे ! किमर्थं विलम्बितोऽसि ? तत्रभवता वरदराजेन सबहुमानमाहय स्वकण्ठा- दवमुच्य मृगमदस्थन्दिनी सौगन्धिकमालां स्वाङ्गोपला- लितमङ्गरागञ्च दत्त्वा मम्भावितोऽस्मि | समन्तादवलोक्य । पक्षहये कल्पितपक्तिरेषासभा हरिनायकमुदहन्ती । विराजते मौक्तिकर्याधरस्थारश्रियः कण्ठगतेव रम्या ॥ पश्य। किं ब्रवीषि? “सा दृष्टा वसन्तमहोत्सवव्याप्टता वसन्त- सेनेति" सखे ! किन पश्यसि ।

वसन्ततिलकम् । । समीक्ष्य मां सस्मितमक्षिकम्पैः समीपनिर्दियनिवासभूमिः । करोल्लसत्काशनवेत्रयधिः करोति रङ्गस्थितिमायताक्षी॥ तत्रैवोपविशामः। किं ब्रवीषि? "गच्छामि कार्यान्तर करणाय, गृह्यतामयं ते प्रणयसुहृत्सङ्गीतशेखर ति:" तहि गच्छ मङ्गीतशेखर! अनुनीय शयनं सकृदपि पारोपिता किमभिनवयौवनारम्भकन्दलित मन्दाक्षमन्दायमानमहोत्सवा- नन्दा मन्दाकिनी। किं ब्रवीषि? "कुऱ्या प्रसाधनविधिं कुचयोः सलील किञ्चिन्नखैरधिकमुत्युलका च वाला। सीत्कारमातनुत हन्त स एव नान्दी कन्दर्यकेलिकलहातनाटिकायाः ॥" सखे ! मम्प्रति किं वयं तेऽस्या रतिरहस्यसौभाग्यम् । पश्यन्ती परिणामकेन्निधु मुनिशङ्कमालिज्य तां प्रोत्कूजत्कलमग्रहीयमधरं स्पावती साप्यभूत् । नाहं वेद्मिन वेत्ति सा च दयिता तत्रावयोधित शय्या वेत्ति न वेत्ति वा स तु कुतः संग्रामलोलः स्मरः । इति सकौतुकम् । पश्य सखे ! वामभागं वसन्तसेनायाः । कैघा का च म योधा भूधामणिकिरणभूवितैरङ्गैः । सन्धारागविम्मष्ठा संदृष्टा भवति चन्द्ररेखेव । किं प्रवीषि ? “किमद्यापि न जानासि मा खन विनाम- पुरादागतविशालादी सकललोक नोचनानन्दचन्द्ररेखेति ।

वसन्ततिलकम् । ४१ स्मरणमभिनीय तर्हि श्रमः । नृत्यगीतवाद्यादिषु महाविद- ग्धति निरतिशयनिखिलसम्भोगदाथि गम्भीरमथास्तारुण्यम् । यानगीमधिगन्तुमिच्छति दशामस्थाविलग्नं क्रमा- दालायो विरसीकरोति मरुतामाहारवार्तामधि सन्नाहः स्तनयोरयं न सहते चायोन्ननि शाम्भवी व्यापारी नयनस्य वाञ्छति हरेराद्यावतारश्रियम् । कथं साम्प्रदायिकैरङ्गनेपथ्यमुपक्रान्तमेव । तन्त्रों केचन बोधयन्ति नखरमअखरोदारिणी मायूरौं रचयन्ति मई लमुखे माला परे मूर्च्छनाम् । शङ्ख के चन पूरयन्ति कतिचित्संप्राप्तमौनव्रता बंशी केचन वादन्ति च परे कोचितां माधुरीम् ॥ ससम्भमम् । साधु विनयातिशय ! निधिञ्चदम्टतद्रव्यैः श्रवणमाशु तन्त्रीरवैः प्रपञ्चपरिमोहनं किमपि गीतमुज्जम्भते । ऊद्ध मवलोक्य । । । साधु। अयञ्च पुनरश्चलं पुनरमुष्य सम्भावय- बुदञ्चति शनैश्शनैरुपरि कापि युष्पाञ्जलिः ॥ नेपथ्याभिमुखमवलोक्य । चिराय चरितार्थञ्चक्षुः । उत्क्षिप्तां विरचय्य बालतिकामुच्चैः कणत्वयं पादौ नूपुरमञ्जुनादमुखरौ पायतस्तन्वती । :

४२ वसन्ततिलकम्। दूरोट्रासितकोतुकस्य सहसो दुर्लक्षशेघाकृति- नपल्यान्तरितैव निश्चलयते नेत्राणि शातोदरी ॥ कथमपनीतमेव नेपथ्यम् । पश्य तावत् । कल्हारपत्रीज्वलके भयाशं गाठावबद्धस्तनकञ्चलीकम् । अङ्ग नवाोरुकलोभनीयमाभाति रङ्गचितमङ्गनायाः । सङ्गीतशेखर । सकृदपि सम्भावयते मित्रसौभाग्य यदि- दानीम् । चित्रलिखितेक बाला रेखासौभाग्यनिश्चलेरङ्गैः । कलयति हि मानसम्मे सस्मितमनुरागसिभिः पुलकः । निकषोपलः खलु भवान्नृत्यविद्यायाः। मूतानुदिरवीव लोचनमिदं हावान् जगन्मोहना वाख्याताविव लालनूपुरतया पादा च तालक्रमात् । अध्यक्षानिव कल्पयन्त्यभिनयैरङ्गानि चार्थानवान् कण्ठ नोद्विरतीव कामपि सुधां कर्णे पभोगोत्सुकाम् ॥ सकौतुकम् । कथमेषा विविधकलोचिता? दर्मितबहुप्रयोगा स्थित्वा रङ्ग कलाचिता तन्वी। पश्यति हि मां कटाक्षः पुलकितकन्दर्पवीरभुजदण्डैः । चन्द्र कलङ्करहितं, शफरदयञ्च निस्तोयमन्धतमसञ्च सुगन्धि तन्वयाः । वक्तच्छलेन भुवि सृष्टवतो विधातुर्वर्ण्यत, केन करकौशलमतन्तत् ? ॥ साश्चर्यम् । किं ब्रवीषि? “सम्भावयति भगवान् ! वरद- राजो दृष्टदिव्यनृत्यगीतोऽप्यनेन नृत्यगीतादिना सन्तुष्टः । । bar वसन्ततिलकम्। त्वया स्वदेवीभोगलालितैर्दिव्याभरणादिभिर्वासन्तिकामिति ?” । तर्हि गच्छामि। अयसेवावसरः प्रेयसी सम्भावथितम् । सलीलमुपसृत्य । अस्तु कुशलं प्रेयस्यै वासन्तिकारी। न परं रूपलावण्यैस्वया मनिं म्टगोदृशाम् । विद्ययापि विशालाक्षि ! विन्यस्ता वामपादुका । किं ब्रवीषि? “पण्डित: खल भवान् हणमपि स्थूणी कर्तुम् । भवादृशां बहुमानमन्तरेण नास्ति मे विद्याकणि- केति?" | सशिर कम्पम् । विनयः खलु भूषणं विद्यायाः । वर्णनीयं किमेतहामन्तिकायाः तथापि ब्रवीमि। चोल-केर- लनेपाल-मालव-मगध-कलिङ्गकर्णाटकप्रतिविविधदेशागत- विटनिकरसङ्कीर्ण सकलविद्यारसिकजनाभूमिरपि दासीकृतैव रङ्गस्थली । अपवार्य । सखि ! वसन्तसेने ! दिल्या वर्द्धसे वासन्तिकामहोत्सवेन। सस्मितं हस्त ग्टहीत्वा । किं ब्र. वीषि ? "भवति स्थिते का नामाहं वासन्तिकामहोत्सवस्य ?" विदितसकलवेदितव्यस्य, न किञ्चिदतव्यमस्ति । तथापि ब्रवीमि, सर्वे शासनपूर्वमेव वारसुन्दरीरभिनयकुर्वन्ति त्वयापि वास- न्तिकाय नटनर्तकक्टिविदूषकसमाजेऽस्मिन् किमपि शासनं दातव्यमिति विभाव्य सस्मितं तथा करोमि । समन्तादवलोक्य । कयं लिखितमेव सामाजिकैः । किञ्चिदवधारय । स्वस्ति समस्त- भुवनकवीरहरिहरहिरण्यगर्भवशीकरण वामाङ्गनावक्षःस्थल-- स्थापितजयस्तम्भशम्बरभिदि सार्वभौमपदमनुभवति मधुरध- बुषि मकरध्वजे मधुमासपौर्णमास्यां काञ्चीपुरीवास्तव्यः घटङ्गारशेखरो वासन्तिकायै कलनपत्रमर्षयति । ।

४४
वसन्ततिलकम् ।
!
मासान् सप्त ममेयमस्तु दयिता दास्यामि चास्यै शतं
दीनारान् प्रतिमासमम्बरयुगं नित्य शतं वीटिकाः ।
आमोद कुसुमं च वाञ्छितमसो मध्येन्यमोक्षेत चे-
हत्त्वा तद्दिगुणं कलत्र ! तु पुनर्मासानिथं सप्त च ॥
दुत्वं कृतं टङ्गारशेखरण | इत्यमवगतं रागवर्द्धनेन ।
एवमनुमितं कुमुमसौरभेण । एवमवबोधितं रतिबल्लभेन !
एवमुभयेच्छा लिखितमिदं चित्रलेखेन निरवद्यमिदं सम्यक्-
परिपाल्यताम् । इदमपि लिखितं पुरा मे वल्लभाया वासन्ति-
काया: किमपि लौकिकमेव ।
श्रास्तामपरं कलासु
वैलक्षण्यम् । जनान्तिकम् । द्यूते चौर्य निष्प्रतिद्वन्दोऽस्मि
पञ्चषपक्षैरेव पुरमशेषं पुराणखर्वशेषं विधाय कनकवर्धे या
भवनं ते पूरयिष्यामि । पत्रञ्चैतत्परिपालय । किं ब्रवीषि ?
"भाव ! किमन्यदाशास्यम् ।
यौवराज्यमनङ्गस्य युवयोनवयौवनम् ।
इदानीमस्तु साम्राज्यमिदमव्यायतेप्सितम् ।
तगच्छ यथेष्टं विहर वामन्तिकया सहेति।" सानन्दम् ।
परमनुगृहीतोटस्मि । परिवृत्य वासन्तिकमाश्लिष्य । अद्य खन्नु
निष्कण्ठमनङ्गसाम्राज्य निर्वर्ण्य । सेोत्यासम् । सुगात्रि!
सम्पति हि।
पूर्वन्नाभीसरसि पतिता पूरिता कान्तितायैः
पश्चान्मध्ये त्रिबलिविधमे प्रखलन्ती क्रमेण ।
.

वसन्ततिलकम् । ४५ प्राप्ता भूयस्तनभरमितः प्राप्तकामा मुखन्ते कण्ठेलना गमदमिलत्कर्दमें दृषिरास्ते ॥ सस्मितम् । सुभु! किमेतेन साचोकृतविलोकनेन । सत्यमा- गच्छामि । शपामि ते कुचकलशेन । परिश्रान्तोऽस्मि । परि- णतो वासरश्च। पश्य पश्य । सोऽयमवलम्बितमम्बिकारमणपटु तरनटनहस्तविस्वस्तकनकडमरुकविड़लो गगनतलविहरदम- रपुरवारयुवतिकरकमलगल्तिरामणीयकमणिकटककान्ति-- मन्दाकिनीविकटतटविलसदुटजविबुधगुरुवितीर्ण सायन्तनस- मयनियमाञ्जलिसलिलसहपतित्रतपनीयारविन्दसन्देहवाहि- नीनिरवधिकतरङ्गितनिखिलमङ्गलारम्भभवदीयरङ्गोत्मवदर्श-- नकुतुहलागमनवेगविभ्रष्टविद्याधरवरवर्णिनीवर्णनीयसुवर्ण-- वर्णपत्रानुकारी परिसरचरहरुणपुरवरतनुचटलचरणम- णिकटकविस्मरकिरणकदम्बचुम्बित दुव समापतदपरिमि- तरजनीचरसुभटनिशितशरविदलितनिजतनुगलित रुधिरनि- कुरुम्बकरम्बित व रुणकठोरकलाभिघातपरिकुपितजवन- निजतुरगखुरधूलीपालीकवलित व सरभमपतितकटकतट- धनरवरथचरणघनरवनिशमनसुखनिष्कम्मशवरकुलमक्तरति चरमगिरिवरनितम्बमम्बरतलादंशुमाली। तव नृत्यमहोत्सवं विवक्षुर्वरुणान्तःपुरवामलोचनानाम् । मणिदर्पग महलानकारी भजते पश्चिमशेलमंशुमालो ॥ सन्ध्याताण्डवचण्डचण्ड्यरथुप्रारब्धभीमचमी बगसस्तकपर्दवासुकिफणामाणिक्यप्राशावहम् ।

वसन्ततिलकम्।
.
मग्नपासि पश्चिमस्य जलधेमार्तण्डविम्ब ततो-
ध्वान्तर्भूतगौरगाहि भुवनं मन्ये तदन्वेषिभिः ।
समन्तादवलोक्य। नतोदरि! तव वृत्तान्तमनुकरोति
वासवीयं पश्य ।
यानीताङ्करपल्लवैरपनयनच्छान्तमाकञ्च ली
माशां सम्प्रति वासवीमनुभवनक्षीणरागः शशी।
अस्थाश्च स्तनसङ्गिनीमिव वहत्यङ्गेन कस्तूरिका-
मालिङ्गत्ययमादरेण रजनीमोन्मिघत्तारकाम् ।
शशाङ्क सन्नद्ध भरत इव सन्ध्यायवनिका
तिरोभूत्वा पुष्याञ्जलिमिव विकीर्योडनिकरान् ।
कलं गायन्तीभिः कुमुदवनङ्गीभिरधुना
नभोरङ्ग प्राप्ता विहरति निशाबासिकबधूः ॥
तदहं भुक्त्वा गृहीतताम्बूलश्च भवनमेवागच्छामि
तन्वति ! तरलापाङ्ग तव रागतरङ्गितम् ।
आलोकनमिदं जीयादनकुलदैवतम् ॥
किं ब्रवीषि? “वसन्तसेनायास्तत्तदभिमतवस्तुभिः सर्व
विलासिनः सम्भाविताः। तेषामग्रे सम्भावनीयस्य भवतः किं
वा प्रियमिति?"
घटङ्गारशेखरा । कलभाषिणि ! एतदेव प्रियम् । यतः ।

वसन्ततिलकम्।
कृत्वैव वामचरण कृतमत्सराणां
चूड़ायदे सकलवारविलासिनीनाम् ।
सम्भावितासि वरदेन महासभायां
चिरनन्यसुलभैः सितचामराद्यः
किच!
कटकेषु जयन्तु भूपतीनां कवयः काशितकल्पयादपानाम् ।
वचसा रसपानदिव्यगन्धैर्मधुनिष्यन्दमनोहरैर्निगुम्यो ।
तथाप्येतदस्तु भरतवाक्यम्।
अनपेक्ष्य चरित्रमङ्गनानामधुना कामुकचित्तहारिणीनाम् ॥
अनुरागमऋत्रिमं वहन्ती चिरमुखोलपचित्तजन्मलल्लीम् ॥
काञ्चीपुरीमधिवसन् कमनीयभूमा
कामीड्य एष वरदः कमलालयायाः।
याकल्पयवसमतीमनु कल्पमेनां
कल्पगुमो भवतु कश्चन मानवानाम् ॥
इति निष्कान्तः।
इति वसन्ततिलकमाणः समाप्तः ।

ជើង

Vasant Tilkam Bhand

Title
Vasant Tilkam Bhand
File name
Vasant Tilkam Bhand
Text
OCR done
Citation
1872
Publisher
Null
Language
Sanskrit
Pages
50
Library
Bharti Bhawan Library Allahabad
DLI number
273929
Barcode
5990010894530.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
vT1xCSabyXo
Download PDF

Vasant Tilkam Bhand