Banasthali University
Shrimachhamkaracharyakrita Vakyavriti
Front matter
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ८०
विश्वेश्वरविरचितटीकासमेता
श्रीमच्छंकराचार्यकृता
वाक्यवृत्तिः ।
वे
• शा० रा. वैद्योपाहै रंगनाथशास्त्रिभिः संशोधिता।
साच
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशिता ।
शालिवाहनशकान्दाः १८३७
खिस्ताब्दाः १९१५
( अस्याः सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यमाणकाष्टकम् (आ००८)
No text on this page.
आदर्शपुस्तकोल्लेखपनिका ।
अस्या विश्वेश्वरविरचितटीकासमेतश्रीमच्छंकराचार्यकृतवाक्यवृत्तेः
पुस्तकं यैः परहितैकपरतया दत्तं तेषां नाम लिख्यते-
पुण्यपत्तननिवासिनां रा०रा० रामचन्द्रगोविन्द केळकर इत्येतेषाम् ।
No text on this page.
ॐ तत्सद्गृह्मणे नमः। विश्वेश्वरविरचितटीकासमेता श्रीमच्छंकराचार्यकता वाक्यवृत्तिः। ब्रह्माहमेतन्मयि माति विश्वं श्रीमाधवप्राज्ञगुरोः प्रसादात् । अन्वर्थविश्वेश्वरपण्डिताख्यस्तस्याट्रिपमं प्रणतोऽस्मि नित्यम्॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादं शंकरं लोकशंकरम् ॥ २॥ परमकृपानिधिः श्रीमच्छंकराचार्यमगवत्पादस्तापत्रयार्कसंतप्तानामप- रिमितजननादिसंसाराध्वश्रमपरिपीडितानामात्मज्ञानशिशिरमधुरजला. कातिणां विदूरशारीरकमीमांसाजलाशयगमनासमर्थानां वाक्पवृत्ति- संज्ञकोपदेशप्रकरणप्रपापरिकल्पनेनान्तःशीतलतां विगतक्लेशतां [च ] संपादयंस्तवाऽऽदौ प्रकरणश्रवणे प्रवृत्तानामधिकारिणामविघ्नेन ब्रह्मप्र- तिपत्तितादात्म्यसिद्धयें प्रकरणपरिपाट्याऽद्वितीयबोधस्मरणपूर्वकं तन्न. मस्कारस्यावश्यकर्तव्यतां द्योतयन्स्वयं नमस्कुरुते- सर्गस्थितिप्रलयहेतुमचिन्त्यशक्ति विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तवन्धनमपारसुखाम्बुराशि श्रीवल्लभ विमलबोधघनं नमामि ॥१॥ विमलबोधधनं नमामीत्यन्वयः । विगतो मलो यस्मादसौ विमलो विमलश्चासौ बोधश्च विमलबोधः स एव घनं मूर्तिः स्वरूपमिति यावत्। परमात्मनोऽविद्यारहिततया तदविद्याकल्पितस्य घटादिदृश्यस्यामावेन तदालम्बनरूपो मलो न विद्यतेऽतो विमलो निर्विषयो निर्विकल्पोऽद्वि- तीयज्ञानमिति यावत् । नन्वद्वितीयबोधस्य मनसोऽप्यविषयत्वात्कथं नमस्कारविषयतेत्यत आह-विश्वेश्वरमिति । अद्वितीयबोधस्य विश्वस्त्रा २ विश्वेश्वरविरचितटीकासमेता- मित्वसंपादनाय शरीरस्वीकरणमेव नोपपद्यत इत्यत आह-अचि. नत्यशक्तिमिति । शक्तिशब्देनात्र मायाऽभिधीयते । सा च बोधात्मनो ब्रह्मणो भिन्नाभिन्नत्वादिरूपेण चिन्तितुं नाहतीत्यचिन्त्या । अचि- नत्यत्वं मायायाः कथमिति चेदुच्यते। इयं तु स्वप्रबोधबाध्यत्वात्स्वमसदृशी भवति । युक्तिभिहीनप्रकाशत्वादस्या मायेति संज्ञा। इयमसती न भवति दृश्यमानत्वात् । न हि शशविषाणादिकमसदृश्यते । सती च न भवति कुतो बाध्यमानत्वात् । न हि सन्नात्मा कदाचिराध्यते । आत्मनो न हि भिन्ना भवत्यधिका न सत्ताव्यतिरेकेण तस्या मायायाः पृथक्सत्तामा- वात् । न हि रज्ज्वामारोपितस्य सर्पस्य तद्भिन्नत्वं रज्ज्वायभावे तददर्श- नात् । न तदभिन्ना च भवति कुतो जडत्वात् । न हि जडाजड़योरेक- रूपत्वं वस्तुनो द्वैरूप्यासंभवात् । तन्नोभयात्मिका विरुद्धत्वात् । नेयं सावयवाऽनादित्वेन स्वकारणावयवाभावात् । न स्वकारणं ब्रह्म सावयवं भवति । नापि निरवयवा स्वकार्येषु सावयवत्वदर्शनात् । न ह्यकुरादिकारणं बीजं निरवयवं भवति । तस्मादविचाररमणीया विला. सिनीतुल्याऽसत्यभूतैः स्वकार्यविभ्रमैर्जीवं मोहयतीवातो मायाया अचिन्त्यत्वमिदं तु तस्या मायाया दूषणाय न मवति किं तु भूषणमेव । एवंभूताचिन्त्य शक्तिवशाद्विमलबोधस्य शरीरस्वीकारोऽभ्युपपद्यत इति भावः । अद्वितीयबोधस्याचिन्त्यशक्तिवशाच्छरीरस्वीकरणे किं प्रयो- जनमित्याकाक्षायां सार्वभौमस्येव विश्वस्वामित्वेन लीलाप्रयोजन सूचितमपि लक्ष्मीकान्तत्वेन क्रीडाप्रयोजनं ज्ञापयंस्तस्य विष्णुरू- पेणावस्थानमाह-श्रीवल्लममिति । लोके तस्याः सकलसुन्दरीज- नस्य दृष्टान्तभूतसौन्दर्यवत्या इन्दिरायाः प्रसादादेव सुकृतिनां योगि- नामाकाशगमनपरकायप्रवेशनवहुरूपस्वीकारादिक्रीडा संभवति । तथाच सति तस्या भर्तृबहुशरीरस्वीकारादिकीडा संभवतीत्यत्र किमु वक्तव्यमिति । शरीरस्वीकरणे क्रीडव प्रयोजनमिति श्रीवल्लभश- देनावगम्यते । ततो विमलबोधस्य श्रीवल्लभरूपेणावस्थानादपि नमस्कारविषयत्वप्नुपपद्यत एवेत्यर्थाल्लभ्यते । ननु विश्वसद्भावे विश्व. स्वामित्वं क्रीडा च संभवतः । अतो विश्वं कुत उत्पन्नमित्याका- इक्षायां विभलबोधादेव विश्वोत्पत्तिरिति वक्तुमचिन्त्यशक्तिवशात्तस्य निमित्तकारणब्रह्मरूपेणावस्थानमाह-विदितविश्वमिति । विदितं विश्वं सर्वं येन स तश्रोक्तः सर्वविदित्यर्थः । सर्वविदो जगन्निमित्तकारणत्वे
१
श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः ।
ध्रुतिः-" यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपस्तस्मादेतद्ब्रह्म
नाम रूपमन्नं च जायते" [मु. १ ख० १ म० ९] इति ।
अनुमानमपि, इदं विश्वं विशिष्टविज्ञानवत्पूर्वकं कुतो विचित्रकार्य-
स्वाचित्रादिवदिति । यदा विमलबोध एवाचिन्त्यशक्तिवशात्स्वयंभूर्भूत्वा
विविधाकाराकारितमायासाक्षी मवेत्तदा विश्वमुत्पन्नं स्यादिति बेदि-
तव्यम् । ननूपादानव्यतिरेकेण केवलं निमित्तं कार्योत्पादकं न भवत्यत्र
किमुपादानमित्यपेक्षायां विमल बोधस्यैवाचिन्त्यशक्तिवशाद्विश्वोपादा-
नत्वमाह-सर्गस्थितीति । यथा लोके कुड्यादिकार्यस्य मृदाशुपादाना-
दुत्पत्तिस्तत्रैव स्थितिस्तत्रैव प्रल यश्च दृश्यते । तथा-"जन्माद्यस्य
यतः "[व० सू०१।१।२] इति सूत्रे " यतो वा इमानि भूतानि
जायन्ते" [ तैत्ति० ३।१।१] इति तद्विपयवाक्ये च ब्रह्मण एव
सर्वभूतानामुत्पत्तिस्तत्रैव स्थितिस्तत्रैव लयश्च श्रूयते । अतो विमलबोध-
स्यैव विश्वोपादानत्वं सिद्धमित्येवमर्थोऽवगम्यते । अत्र यथोर्णनाभि.
जन्तुविशेषस्तन्तूत्पादने स्वयमेव निमित्तमुपादानं च भवति तथा विम-
लबोधश्चेति कृत्वैकस्यैव निमित्तत्वमुपादानत्वं च नोपपद्यत इति शङ्का
न करणीया । यतो विश्वोपादानं विमलबोधस्ततस्तस्य तत्कार्यविश्वरू-
पेणावस्थानमाह-अनन्तमूर्तिमिति । अनता मूर्तयो देहा यस्य स
तथोक्तः, विमलबोधस्य प्राणिरूपेणावस्थाने बन्धनप्रसक्तौ तां परिहर-
नाह-निर्मुक्तवन्धनमिति । " ममैवांशो जीवलोके जीवभूतः सना.
[नी० १५। ७] इति स्मृतेरात्मांशस्य मायामूढस्य जीवस्यै.
वाविद्यातो वन्धो भवति न तु मायिकस्याद्वितीयस्य विमलबोधस्या-
विद्यारहितस्य स्वमायया प्राणिरूपेणावस्थितस्य वन्धोऽस्तीत्यर्थः ।
एवं विमलबोधोऽचिन्त्यशक्तिवशाद्विश्वेश्वरायनेकरूपेण क्रीडमानोऽपि
निर्मुक्तबन्धनश्चेहि तस्यैवानेकरूपावस्थानमेव वरं तत्तत्सुखसमुद्भवा-
नतु केवलस्वरूपेणावस्थानमित्याशङ्कय तत्तत्सुखसद्भावस्य खण्डि-
तत्त्वान्न तथेत्याह-अपारसुखाम्बुराशिमिति । अम्बुराशिरिवाग्चु-
राशिः सुखमेवाम्बुराशिः सुखाम्बुराशिरपारश्चासौ सुखाम्बुराशि
श्चेति स तथोक्तः। "-आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते "
[तैत्ति. ३-६-१] इत्यादिश्रुतिभ्यः आत्मन आनन्दरूपत्वावगमादि-
मलबोधस्यापरिमितानन्दरूपेणावस्थानमेव वरं तथाऽप्यनिर्वचनीयमाया.
शक्तिवशास्वेच्छयैवानेकरूपेणावस्थानलक्षणा क्रीडा संभवत्येव ॥१॥
४ विश्वेश्वरविरचितटीकासमेता- एवं सर्वैर्वेदान्तै यत्वेनोपास्यत्वेन च निर्दिष्टं गुरूपदिष्टं सोपाधिकं निरुपाधि च ब्रह्मरूपमभिधाय नमस्कृत्य प्रतिपत्तिसिद्धये स्वगुरुनम- स्कारं कुरुते- यस्य प्रसादादहमेव विष्णु- मय्येव सर्वं परिकल्पितं च । इत्थं विजानामि सदाऽऽत्मरूपं तस्याधिपमं प्रणतोऽस्मि नित्यम् ॥ २॥ यस्य प्रसादादिति । आचार्यप्रसादादविद्यानिवृत्तौ तदविद्याप- रिकल्पितदेहेन्द्रियाद्युपाध्यवच्छेदापगमानुपाधिनिर्मुक्तघटाकाशवत्परिपू- र्णता प्रतिपद्य ज्ञात्वा स्वयमेव विष्णुत्वं विदित्वाऽऽह-अहमेवेति । तर्हि विश्वभ्रमाधिष्ठानत्वं तवास्ति किमस्त्येवेत्याह-मय्येवेति । ननु जीवस्य विष्णुत्वमनुपपन्नं प्रत्यक्षविरोधादतो मावनामात्रं तदित्याश- क्य नहि जीवो नाम कश्चित्परमार्थतो ब्रह्मव्यतिरेकेणास्त्यतो ब्रह्मैव स्वस्मिन्परिकल्पितमायया जीवरूपेण विवर्तते । तथाच सति तस्य जीवस्य वेदान्तवाक्य श्रवणादिना ब्रह्मापरोक्षज्ञाने सत्यज्ञाननिवृत्त्या तत्कार्यभूताब्रह्मत्वनिवृत्तौ सत्यां ब्रह्मत्वमुपपन्नं स्यादितीममर्थं मनसि निधायाऽऽह-इत्थं विजानामीति । आत्मस्वरूपमहमित्थमहं ब्रह्मेत्य- परोक्षतया जानामीत्यर्थः । नच ब्रह्मणोऽप्यवाङ्मनसगोचरत्वात्कथं ज्ञानविषयत्वमिति वाच्यं फलव्याप्तित्वेन विषयत्वामावेऽज्ञाननाशाय वृत्तिव्याप्तेरपेक्षितत्वेनाखण्डाकारान्तःकरणवृत्तिविषयत्वात् । न च जीवस्य ब्रह्मत्वे प्रत्यक्षविरोधः " अज्ञानेनाऽऽवृतं ज्ञानं-प्रकाशयति तत्परम् "[ गी० ५-१५-१६ ] इत्यन्तेन भगवद्गीतायामज्ञानावृताद- यानन्दादिरूपस्यात एव जीवत्वदुःखित्वादियुक्तस्य ब्रह्मत्वानुपपत्तिः स्यात् । यस्य जीवस्य पुनर्ज्ञानेनाज्ञानं निवृत्तं भवति तस्याद्वयानन्दा- दिब्रह्मरूपप्रकाशसद्भावेन ब्रह्मत्वोपपत्तिः स्यादिति कर्तृभेदेन ब्रह्मत्वानु- पपत्त्युपपत्त्योः प्रतिपादितत्वात् । न ह्येकस्याज्ञानिनो ब्रह्मत्वानुपपत्त्याऽ- न्यस्यापि तदनुपपत्त्या भवितव्यमिति नियमोऽस्ति । तथा चोक्तं वाशिष्ठे- अज्ञस्य दुःखौघमयं ज्ञस्याऽऽनन्दमयं जगत् । अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषः"॥ इति ।
श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । अस्यार्थ:-यथैकमेव जगदाधापेक्षया तमोरूपेणावमासते । अन- न्धापेक्षया प्रकाशरूपेणावमासते । एवमज्ञस्य दुःखराशिरूपेण जग- दासते, ज्ञस्य तु तदेव जगत्सच्चिदानन्दमयं प्रकाशत इत्यतोऽज्ञस्य दृष्ट्या ब्रह्मत्वमनुपपन्नमपि तत्त्वदृध्या ब्रह्मत्वमुपपन्नमिति मावः। तद्वि- ज्ञानस्य कादाचित्कत्वशां परिहरति-सदेति । मायिकदेहपातपर्यन्तं स्वरूपमनुमवामीत्यर्थः । अथ वा देहेन्द्रियादिपरिच्छिन्नत्वामिमानयु- तस्य जीवस्यापरिच्छिन्नब्रह्माकारत्वमनुपपन्नं स चामिमानो ब्रह्मापरो- क्षज्ञानदादेिव निवर्तते । तच्च ज्ञानदाचे " आवृत्तिरसकृदुपदेशात्" [व० सू० ४ । १ । १] इत्यधिकरणन्यायेन चिरकालकृतवेदान्तश्रवणम- नननिदिध्यासनाभ्यासादेव मवत्यतो देहादिपरिच्छिन्नत्वाभिमाननि- वर्तकब्रह्मापरोक्षज्ञानदााय सर्वदाऽऽत्मस्वरूपमनुभवामीत्याह-इत्थं विजानामि सदाऽऽत्मरूपमिति । सदा यावदज्ज्ञानदायमित्थमहं ब्रह्मवे- त्यात्मरूपं स्वस्वरूपं विजानाम्यपरोक्षतयाऽनुमवामि । एतेन यस्य कस्य. चिदपरोक्षज्ञाने जातेऽप्यपरिच्छिन्नस्य परिच्छिन्नत्वविषयासंभावनावि- परीतभावनानिरासकतया ज्ञानदाट्याय शमादियुक्तः सन्विजातीय- प्रत्ययनिराकरणपुरःसरमहं ब्रह्मवेति सर्वदाऽऽत्मचिन्तनं कुर्यादित्युक्तं मवति । अहमेव विष्णुर्मव्येव सर्व परिकल्पितमित्यनेनापरोक्षज्ञानसद्भावः सूचितः । इत्थं विजानामि सदाऽऽत्मरूपमित्यनेनासं मावनानिवर्तका- परोक्षज्ञानदाढ्यं चास्तीति सूचितमतोऽस्य श्लोकस्यायमर्थः-यस्य गुरोः प्रसादादपरोक्षज्ञानं नि:शेषदेहादिपरिच्छिन्नत्वामिमाननिवर्त- कज्ञानदाढयं च निरन्तरानुमवेन सिद्धं तस्याङ्ग्रिपनं प्रणतोऽस्मि नित्य- मिति । स्वस्य विष्णुत्वकथनं स्वकीयग्रन्थस्यानायासेन ब्रह्मापरोक्ष- ज्ञानजनकत्वप्रदर्शनार्थं गुरुत्कर्षार्थं च । नच स्तुत्यर्थं देहव्यतिरिक्तात्म- निष्ठस्य देहामिमानासंभवाद्देहनिबन्धनमूलकस्तुत्याद्यपेक्षानुपपत्तेः॥२॥ आचार्यवान्पुरुषो घेद [छा०६-१४-२] इत्यादिश्रुतिभ्य आचा- र्याच्छिप्यस्य विद्यालामदर्शनाच्छिप्याचार्यप्रश्नोत्तररूपेणैव तत्त्वं निरू- पयितुं प्रथमं तावच्छिष्यस्य लक्षणंमाह- तापत्रयार्कसंतप्तः कश्चिदुद्दिनमानसः । शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ तापत्रयेति । तापत्रयशब्देनाऽऽध्यात्मिकाधिमौतिकाधिदेविकस्ताप ६.. विश्वेश्वरविरचितीकासमेता: उच्यते । आत्मानं देहमधिकृत्य प्रवर्तत इत्यध्यात्मम् । अध्यात्मशब्देन श्रोत्रादिज्ञानेन्द्रियपश्चकं वागादिकर्मेन्द्रियपश्चकं प्राणादिवायुपश्चक मनआद्यन्त:करणचतुष्टयं चोच्यते । तत्संबन्धी ताप आध्यात्मिको व्याध्यादिः कामादयश्च । मूतानि पृथिव्यादीन्यधिकृत्य मवतीत्यधि- भूतमधिभूतशब्देनेन्द्रियगोचर उच्यते । प्राणिहिंसकाश्चोरव्याघनका- दयोऽभिप्रेतास्तत्संबन्धी तापः उपप्लक आधिभौतिकः । अधिदेवन शब्देन- "दिग्वातार्कप्रचेतोश्चिवह्नीन्द्रोपेन्द्रमित्रकाः। चन्द्रो विष्णुश्चतुर्वक्त्रः शंभुश्च करणाधिपाः"॥ इति निर्दिष्टा इन्द्रियाधिदेवता उच्यन्ते । तत्संबन्धी ताप उप० प्लव आधिदैविकोऽतिशीतोष्णवातवर्षादिः । अत्युग्रतापहेतुभूतग्रीष्मम- ध्यंदिनार्कवदसह्यत्वात्तापत्रयमेवार्कस्तेन संतप्तः । उद्विममानस इति । ध्याकुलितमना इहामुत्रार्थफलभोगाद्विरक्त इत्यर्थः । ननु विषयज- नितमुखस्यैव सर्वैः प्रार्थ्यमानत्वात्कथं तत्त्यागो घटत इतिचेन्न कर्म- साध्यस्य कुट्यादेरिवानित्यत्वेन विषयसुखानामपि साधनपारतन्त्र्यक्षः विष्णुत्वदर्शनादल्पसुखापेक्षया बहुतरदुःखसंभवाच्च विषयसुखाभासेभ्यो युक्तिमतां विरक्तिरेव स्यात् । नच मिक्षुमिया पचनकरणाभाववन्मृगमिः या शाल्यादिकृष्यनारम्मकरणवन्मत्स्यग्रहे केशकण्टकादिसहितमत्स्या- दिकं गृहीत्वा हेयांशत्यागेनोपादेयांशग्रहणवद्विषयसुखस्य दुःखमूय- स्त्वेऽपि दुःखांशपरिहारेण च सुखपरिग्रहणमिति वाच्यम् । विषमिश्रितम- ध्वादिवदुःखपरिहारेण सुखग्रहणासंभवात्तत्याग एव युक्तः । तत्रि विषयसुखस्यानित्यत्वेन दुःखमिश्रत्वेन च त्याज्यत्वेऽपि “ अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति"." अपाम सोमममृता अभूम [अथर्व०शि०३] इत्यादिश्रुत्या स्वर्गादिमोगस्य नित्यत्वप्रतिपादनात , यत्कृतकं तदनित्यमितियुक्त्यनुगृहीतदुःखमिश्रितत्वाभावाञ्च तत्त्यागः कथमितिचेन्न । " तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र. पुण्य जितो लोकः क्षीयते "(छा०८१६) इत्यायुक्त्यनुगृहीतश्रुत्या स्वर्गादि. भोगस्यानित्यत्वप्रतिपादनाक्षयिष्णुत्वानित्यत्वसातिशयत्वादिजनितदु:- खस्याप्यनिवार्यत्वात्तत्त्यागोऽपि युक्त एव। नित्यत्वप्रतिपादिकायाः श्रुतेः का गतिरिति चेत् "आभूतसंप्लवस्थानममृतत्वं हि माव्यते" इत्यापेक्षिक- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । नित्यत्वप्रतिपादनपरत्वात्तस्सादुमयविधसुखाद्विराग एव श्रेयान् । शमा- दिसाधनैर्युक्त इति । शमादिशब्देन शमदमक्षान्त्यार्जवसमचित्तत्वादयोऽ- भिप्रेताः । शमोऽन्तःकरणोपरमः । दमो बाह्यकरणस्याऽऽत्मज्ञानविरो- धिबहिर्यापारोपरमः।क्षान्तिः परापराधेऽप्यविक्रिया । आर्जवमृजमाव: कायवानसामेकरूपता । समचित्तत्वं प्रियाप्रियप्राप्तिपु हर्षविषादरा- हित्यम् । सद्गुरु सम्पन्दर्शनरूपसंपन्नं वेदान्तशास्त्रपरिज्ञानिनं मोक्षकामः सन्वेदान्तमहावाक्यतो विशेषतः स्वरूपजिज्ञासया परिपृच्छति । पृच्छ- तीति पदं प्रणिपातसेवयोरुपलक्षणम् । तद्विद्धि प्रणिपातेन [गी०४।३४] इति मगवचनेन गुरुशिष्यलक्षणयोदर्शितत्वात् । ननु मोक्षसिद्धयर्थ- मात्मविचाराय गुरुमुपमृत्य प्रष्टुं शिष्यः प्रवर्तत इत्युक्तमिदमनुपपन्नम् । अविप्रतिपन्ने निश्चिते वा न्यायो विचारो न प्रवर्तते किंतु विप्रतिपन्ने संदि- न्छ । अनाऽऽत्मनि विप्रतिपत्तिस्त्येिवाहं कर्ताऽहं मोक्ताऽहं गच्छाम्यहं तिष्ठामीति कर्तृत्वमोक्तृत्वाद्याकारणानवरतमनुभूयमानत्वात् । प्रयोजना- मावादपि न विचारमर्हति । न च तज्ज्ञानात्संसारनिवृत्तिः प्रयोजनमिति वाच्यम् । कर्तृत्वादिरूपात्मज्ञानेन सह संसारावस्थानस्य दृष्टत्वेनोमयो. विरोधामावात् । न चानध्यस्तात्मविज्ञानात्तत्राध्यस्तस्य संसारस्य निवृत्तिः स्यादिति वाच्यम् । अध्यास एव दुर्निरूपत्वेन तदसंमवात् । नहि कज्जलमुकुरयोरिव जडाजडयोरत्यन्तविलक्षणयोरात्मानात्मनोः परस्परं तादात्म्यं संमवति । तस्मादध्यासनिरूपणादात्मनि संदेहामावा- संसारनिवृत्तिरूपप्रयोजनामावाच्चाऽऽत्मविचाराय गुरूपसदनं न कर्तव्य. मिति चेन्न । वस्तुतस्त्वात्मानात्मनोः परस्परतादात्म्यामावेऽत्यन्तविल- क्षणयोर्दुर्घटकारिण्यचिन्त्यशक्त्यावृतत्वेन विवेकामावे सत्यन्यस्मिन्न- न्यारोपं कृत्वाऽहं मनुष्यो ब्राह्मणः क्षत्रियो ममायं पुत्रः पशुरित्याधना- दिमिथ्याव्यवहारः संभवतीदमेव प्रपश्चस्याध्यस्तत्वम् । [ अध्यस्तत्वं] नाम यदुतान्यस्मिन्नन्यबुद्धिता। "अध्यासो नामातस्मिंस्तबुद्धिरित्यबो- चाम" इति माष्यकारैरुक्तत्वाध्यासकारणभूतमायाया अनिर्वचनीयत्वेन तत्कार्य भूताहंकाराद्यध्यासस्याप्यनिर्वचनीयत्वं विस्तरमयादादीनामध्या- सान्तरचतुष्टयमत्रानूध न निरस्तमिति द्रष्टव्यम् । सर्वेषां मतेऽप्यन्य. स्यान्यधर्मावमासता न व्यभिचरति। नचान्यत्र सतः सादेरन्यत्राऽऽरोपो दृष्टोऽत्र त्वात्मव्यतिरिक्तस्य सर्वस्यासत्त्वेनान्यत्र सत्त्वाभावात्कथमध्यास इति वाच्यम् । पूर्वदृष्टावभासमात्रस्यैवाध्यारोपोपयोगित्वं न तत्सत्य.
विश्वेश्वरविरचितटीकासमेता- तायाः पूर्वदृष्टस्य सत्त्वाभावापराधेन भ्रमानुदयादर्शनात्स्मृतिरूपः परत्र पूर्वदृष्टावमास इत्यध्यासलक्षणं पूर्वदृष्टत्वमात्रस्यैवाध्यासोपयोगित्वे. नाङ्गीकारात्तस्मात्पूर्वभ्रमजनितसंस्कारस्योत्तरोत्तरभ्रमजनकत्वं स्यात् । पूर्वभ्रमस्यापि ततः पूर्वभ्रमसंस्कारजनिरित्यन्धपरम्परयाऽनाद्यनिर्वाच्यो- हंकाराद्यध्यासः संभवत्येव । मायिकस्याध्यासस्य दुर्निरूपत्वमलंकारा- यैव। किंच " सत्यं ज्ञाननमन्तं ब्रह्म'[तै० २।१।२]" आनन्दो ब्रह्म [ तै० ३।६।१] " एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व- भूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥"[ श्वे०६ । ११] "निष्कलो निरञ्जनो निर्विकल्पो निराख्यः असङ्गो ह्ययं पुरुषः [बृह० ४ । ३ । १५ ] इत्यादिश्रुतयः कर्तृत्वभोक्तृत्वविवर्जितमद्वितीयजातिगुणक्रियाषडूमिष- ड्मावादिदोषानुषगरहितं सत्यज्ञानानन्दस्वरूपं सर्वव्यापिनं सर्व. साक्षिणमात्मानं लक्षयन्त्यतस्ताहग्भूतात्मनः संदिग्धत्वात् । ब्रह्म वेद ब्रह्मैव भवति [मु. ३।२।९]" तरति शोकमात्मवित् ।" [छा० ७.१॥ ३] "भिद्यते हृदयग्रन्थिः" [मु०२।२।८]" इत्याद्यनेकरूपश्रुत्या तदप- रोक्षज्ञानाद्विधिना कल्पितस्य मिथ्याभूतस्य संसारस्य निवृत्तिसंभवात्सा- धनचतुष्टयसंपत्त्यनन्तरं वेदान्तवाक्यतः स्वात्मविचाराय गुरुमुपसृत्य तं परिपृच्छतीत्येतदुपपन्नमेव । संसारिणां विषयलुब्धानां विषयार्जनरक्षण- नाशेषु तापत्रयं संभवति । तेन तेन तापेन संतप्तानां तेषां मध्ये कश्चि- देतज्जन्मनि जन्मान्तरे वा काम्यनिषद्धवर्जनपुरःसरमीश्वरार्पणबुद्धयाs- नुष्ठितनित्यनैमित्तिकप्रायश्चित्तसगुणोपासनादिकर्मभिः प्रक्षालितान्त:- करणो विषयाणां सुखाधिकतरदुःखहेतुत्वदर्शनादनित्यत्वाञ्चोद्विग्नमान नसो भवति । ततः शमादिसाधनैर्युक्तः सन्बन्धनिवृत्त्यर्थमात्मविचाराय गुरुं पृच्छतीति भावः । तापत्रयोद्वेगशमादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुहेतुमद्भावो द्रष्टव्यः । तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानस इत्यनेन विरक्तिहेतुप्रतिपादकोऽतःशब्दार्थों निर्णीतः । शमादिसाधनैर्युक्त इत्यनेनाऽऽनन्तर्वार्थस्याथशब्दस्यार्थों निर्णीतः। सद्गुरु स्वरूपविचाराय परिपृच्छतीत्यनेन ब्रह्मज्ञानाय वेदान्तमहावाक्यार्थविचारकर्तव्यता दर्शि- श्रीमच्छंकराचार्य कृता वाक्यवृत्तिः । ९ ताऽतो ब्रह्मजिज्ञासाशब्दार्थों निर्णीतः । एवमनेन श्लोकेन " अथातो ब्रह्मजिज्ञासा"[ब० सू० १।१ । १] इति प्राथमिकाधिकरणन्यायो निरूपित इति द्रष्टव्यम् ॥ ३ ॥ सद्गुरुं परिपृच्छतीत्युक्तं किं परिपृच्छतीत्याकाङ्क्षायां बन्धनिवृत्ति- साधनं परिपृच्छतीत्याह- अनायासेन येनास्मान्मुच्येयं भवबन्धनात् । तन्मे संक्षिप्य भगवन्केवलं रूपया दद ॥ ४ ॥ अनायासेनेति । न विद्यत आयासो यस्मिंस्तत्तथोक्तं येन मुक्तिसा- धनेन । अस्मादितिपदेन भवबन्धनस्य प्रत्यक्षसिद्धं दुःखभूयस्त्वमुच्यते । मववन्धनाद्भवः संसारः स एव बन्धनमिव बन्धनं तस्मान्मुच्येयं मुक्तः स्यां तन्मुक्तिसाधनं संक्षिप्याविस्तीर्येदमिदमिति वदेत्यर्थः । येन संसा- रान्मुक्तः स्यां तदेत्युक्तं तत्र वक्तव्यं किं शुद्धात्मनः संसार आहोस्वि- दहकारात्मनः । नाऽऽद्यो द्वितीयामावात् । न द्वितीयो लिङ्गभूताहंकारस्य कुड्यादिवदचेतनत्वेन प्रवृत्त्यसंभवाच्च । तर्हि न कस्यापि संसार इति न वाच्यं प्रत्यक्षापलापासंभवात् । तस्मात्प्रतीयमानः संसारः किंनिष्ठ इति चेदुच्यते । वस्तुतस्त्वहंकारात्मनस्त्वदुक्तरीत्या संसारासमवेऽपि निर्विकारायस्कान्तसंनिधिवशादचेतनलोहप्रवृत्तिवत्केवल चैतन्यसांनि- ध्यवशादेव देहेन्द्रियादियुक्ताहंकारस्य चिदाभासानुप्रवेशबलात्प्रवृत्ति- रूपः संसारः संभवति। स च साभासाहंकारगतसंसारो मिथ्याज्ञानेनाss- माहंकारयोर्मेदस्याऽऽवृतत्वेन तदविवेकात्साक्षिचैतन्ये रोप्यते । याव- स्वरूपसाक्षात्कारादज्ञाननिवृत्त्या तदावरणापायो न स्यात्तवन्मिथ्या- भूतोऽपि संसारोऽज्ञानिनां सत्य इव भातः सत्पुत्रमार्यादिपु नष्टेषु पुष्टे- बहमेव नष्टः पुष्ट इति स्वस्मिन्बाह्यधर्माध्यासद्वारा सुखदुःखशोकमोहा- दिकं प्रयच्छत्येव । यथा मिथ्याभूतोऽपि रज्ज्वामारोपितः सर्पो धावनपादमञ्जनमयकम्पादिहेतुर्भवत्येवं मिथ्यासंसारस्याप्पनर्थकारि- त्वात्तन्निवृत्तिसाधनमन्वेषणीयमेवातः संसारस्यैवाभावाद्येन संसारान्मु- क्तः स्यां तद्वदेति प्रश्नाऽनुपपन्न इति शङ्का प्रत्युक्ता । एतत्सर्व देहेन्द्रियादयो मावा इत्यादिश्लोकत्रयेणाऽऽचार्यास्तु तत्पव्यक्ती करिष्यन्ति । बोधामासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः । स एव संसरेत्कर्मवशाल्लोकद्वये सदा ॥
१० विश्वेश्वरविरचितटीकासमेता- साक्षिणः पुरतो भातो लिङ्गं देहेन संयुतम् । चितिच्छायासमावेत्ता जीवः स्याद्यावहारिकः ।। अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते। अवृत्तौ तु विनष्टायां भेदे माति प्रयाति तत् ।। व्यापृतेष्विन्द्रियेप्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेशु धावत्सु धावन्निव यथा शशी ॥ आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥ सुप्तेऽहमि प्रहश्यन्ते दुःखदोषप्रवृत्तयः । अतस्तस्यैव संसारो न से संमृतिसाक्षिणः ॥ इत्यादिपूर्वाचार्यैः प्रतिपादित बहुग्रन्थस्तस्मिन्नर्थे प्रमाणमतः कल्पि- तसंसारनिवृत्त्यर्थं साधनप्रश्न उपपन्न एवेति सिद्धम् । अनेनापि जिज्ञा. साक्षेपसमाधानं द्रष्टव्यम् । मुक्तिसाधनस्याप्यनायासविशेषणेन यज्ञदान- तपआदि ज्ञानोत्पत्तिसाधनं समस्तं निरस्तं स्यात् । "सर्वापेक्षा च यज्ञा- दिश्रुतेरश्ववत् "[ब० सू०३ । ४ । २६ ] इत्यधिकरणन्यायेन यज्ञा- दीनामन्तःकरणशुद्धिद्वारा विविदिषोत्पादकत्वमन्तरेण साक्षान्मुक्ति- हेतुत्वासंभवाज्ज्ञानं त्वज्ञानविरोधित्वेन स्वतो मुक्तिसाधनमिति भावः । भगवच्छब्दप्रयोगेण "वेदान्तकृवेदविदेव चाहम् "[भगी०१५ । १५ इति वेदान्तार्थवित्पुरुषोऽहमेवेति भगवतोक्तत्वादाचार्यस्य भगवत्त्वं तात्त्विकमेवेति विदित्वाऽऽचार्य मुद्दिश्य हे भगवन्हे स्वामिन्हे महादेवेति परमेश्वरवाचकानि वचनानि शिष्येण वक्तव्यानीति ज्ञापयति । केवलं कृपया वदेत्यस्य गुरोः स्वरूपनिष्ठतया निरपेक्षत्वेन दृष्टप्रयोजनापेक्षा भावादुपदेशकारणं कृपैवेति मत्वा शिष्येणाऽऽचार्यकृपोत्पादकानि वचनानि वक्तव्यानीति ज्ञापयति ॥ ४ ॥ तुच्छसुखतत्साधनप्रश्नानपेक्षया संसारतापतप्तानां मुमुक्षूणां सर्वेषां परमानन्दप्राप्तिसाधनस्य पृष्टत्वात्तं प्रश्नमभिनन्दति- साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५॥ स्वाध्वीति । विस्पष्टं वदामीत्यनेन स्पष्टत्वादित्थमाचार्यधर्म इत्यु- तम् । “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् " [ ब्रह्मसू०] इति श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ११ तृतीयाध्यायचतुर्थपादत्थं पद्भविशं परमार्थं सूत्रम् । तदर्थश्चैवं यथाऽ- श्वस्य मङ्गलादावयोग्यत्वेऽपि रथादा विनियोगो योग्यत्वात्तथा ब्रह्मवि- द्याऽप्ययोग्यत्वात्स्वजन्य फले कर्मानपेक्षाऽपि स्वोत्पत्तौ तदपेक्षैव पापक्ष यादिद्वारा तदपेक्षया योग्यत्वात् । तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽनाशकेन [ बृह० ४ । ४ । २२] इति विविदिपां विद्यां चोद्दिश्य यज्ञाद्याश्रमधर्ममात्र विधानाच्च । कथ विधिरिति चेद्यज्ञादिनिष्ठविविदिपादिसाधनत्वस्यापूर्व त्वादिविदिपन्ती. त्यस्य लेडन्तत्वाच । वेदाध्ययनं वर्णिनो धर्मः । यज्ञदाने गृहस्थस्य । तपो वानप्रस्थस्य । यतिनोऽनामकं कर्तव्य तोत्तराविरोधि । यद्वाऽनाश- कमित्यत्रानुदरा कन्येतिवदल्पार्थको नन । तथाच हितमितमेध्याशन- मिति मिक्षुधर्मोऽयमित्येवं पूर्वैः क्षुण्णोऽयं पन्थाः । सावधानमनाः शृदित्यनेने काग्रचित्तत्वं शिप्यधर्भ इति सूचितम् । इदं तदिति । इदमेव मुक्तिसाधनमिति ॥ ५ ॥ तत्किमितिबुभुत्साभिमुखीभूताय शिप्याय तदेवाऽऽह- तत्त्वमस्यादिवास्योत्थं यजीवपरमात्मनोः । तादात्म्यविपयं ज्ञानं तदिदं मुक्तिसाधनम् ।।६।। तत्त्वमस्यादिवाक्योत्थं वाक्य श्रवणजन्य जीवब्रह्मतादात्म्यविषयमुम. योरपि स एवाऽऽत्मा जीवस्य य आत्मा स्वरूपं स एव परमात्मनः परमात्मनो य आत्मा स्वरूपं स एव जीवस्येति तदात्मा तस्य मावस्ता- दात्म्यमेकत्वमित्यर्थः । तदेव विपयो यस्य ज्ञानस्य तत्तथोक्तम् । तत्त्वम. ल्यादिवश्येन जीवब्रह्मतादात्म्ये प्रतिपादिते सति तत्प्रतिपादकवाक्य श्रव. णजन्यं जीवब्रह्मतादात्म्यविषयं यज्ञानमस्ति तदिदं मुक्तिसाधनमिति मावः । तदिदमिति तस्यैव वाक्यज्ञानस्यैकत्वकरणजन्यत्वमुक्तम् । तत्त्व- मस्यादिवाक्यस्यैव व्याख्यातत्वादस्य ग्रन्थस्य तयोरेकार्थत्वोपपत्तेः पूर्व- मुक्तं मवबन्धनादित्यनेन बन्धनिवृत्तिकामोऽधिकारी सूचितः । इदानी प्रकरणस्य जीवपरमात्मतादात्म्पविषयः । तादात्म्यप्रकरणयोः प्रतिपाद्य- प्रतिपादकमावः संबन्धः । मुक्तिः प्रयोजनमिति । अतो विषयप्रयो- जनसंबन्धाधिकारिसद्धावात्मकरणानारम्मशङ्काऽपास्ता ॥ ६ ॥ एवं शिष्येण पृष्टमायासरहितमुक्तिसाधनं जीवपरमात्मनोस्तादात्म्य- ॥
१२ विश्वेश्वरविरचितटीकासमेता. विषयं ज्ञानमित्युक्तमिदानीं तत्रानुपपत्तिं शिष्यश्चोदयति- को जीवः कः परश्चाऽऽत्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७ ॥ जीवं परमात्मानं च न जानाम्यज्ञानतस्तयोस्तादात्म्यं कथं ज्ञायते परस्परविलक्षणयोर्जीवेश्वरयोः कथमक्यं घटते । तत्त्वमस्यादिवाक्यं वा तदज्ञातपदार्थतादात्म्यं कथं प्रतिपादयेदित्यर्थः ॥ ७ ॥ एतानाक्षेपान्क्रमेण समाधातुमाचार्य आह- अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि कोऽहं मां ब्रह्मैवासि न संशयः ॥ ८ ॥ अत्र व्याक्षेपेषु प्राथमिकस्योत्तरत्वेन चैतन्यस्य जीवत्वं मत्वाऽऽह- अन्यो जीवः क इति चेञ्चेतनादन्यो जीवो नास्तीत्यर्थः। ननु तथाऽपि चेतनस्य ज्ञेयस्यामावादज्ञातत्वं तथैवावतिष्ठत इत्यत आह-त्वमेवेति।चेत- नस्य जीवत्वामावेऽपि स्वव्यतिरिक्तान्तःकरणादिसाक्षित्वेन स्वस्यैवानु- मवसिद्धत्वाज्ज्ञातत्वमस्तीति भावः । हिशब्दो हेत्वर्थे । वाच्ययोस्ता- दात्म्यं न संभवतीति यतस्ततः कारणाल्लक्ष्ययोस्तादात्म्यं संभवतीति कृत्वा नानुपपत्तिरित्यर्थः। तृतीयाक्षेपसमाधानेन चतुर्थाक्षेपस्यापि समा. धानं जातमिति द्रष्टव्यम् ।चेतनो जीव इत्युक्तं चेतनस्य जीवत्व उपपत्ति- माह-यस्त्वं पृच्छसीति ।अचेतनस्य पृष्टत्वानुपपत्तेर्जीवस्य चेतनत्वमुप. पन्नमित्यर्थः । देहेन्द्रियादीनामपि चेतनसांनिध्याचेतनववमासमान- त्वमेव नतु चेतनत्वमपि तु तत्साक्षिणः। “तत्वमसि'[छान्दो०६।८ ७] " अहं ब्रह्मास्मि" [बृह०१।४।१०]" अयमात्मा ब्रह्म [माण्ड० १४२] इत्यादिश्रुतिभ्यो ब्रह्मत्वाभ्युपगमाञ्चेतनत्वं सिद्धमि- त्येतदर्थ हदि निधायाऽऽचार्य आह-ब्रह्मैवासीति । प्रथमप्रश्ने जीव- परयोर्लक्षणस्य पृष्टत्वात्समाधानावसरे जीवस्यैव लक्षणमुक्तं न परस्येति न शङ्कनीयं ब्रह्मवासीत्यनेन देहेन्द्रियादिसाक्षिणश्चेतनस्य जीवस्य ब्रह्म- त्वामिधानात्सर्वसाक्षी चेतनः परमात्मेत्युक्तमेव ॥ ८॥ शिष्यो गुरुवाक्य श्रवणानन्तरं पदार्थद्वयं सामान्येन विदित्वा स्फुट विविदिषुराचार्यमाह- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १३ पदार्थमेव जानामि नायापि भगवन्स्फुटम् । अहं ब्रह्मेतिवाच्यार्थ प्रतिपद्ये कथं वद ॥ ९ ॥ अद्यापि भगवत्येवमुक्तवत्यपि स्फुटं पदार्थमेव न जानाम्यतो वाक्या कथं प्रतिपद्येऽतस्तदर्थं पदार्थ स्फुटं वदेत्यन्वयः । अहं ब्रह्मैवेतिवाक्याथ कथं प्रतिपद्येऽतः पदार्थ वदेत्यनेन पदार्थज्ञानादा- चीनकाले वाक्यार्थज्ञानस्यासंभवात्पदार्थज्ञानमेव दृढी क्रियतामित्यय- मर्थोऽवगम्यते ॥ ९॥ " मनुष्याणां सहस्रपु" [भ०मी० ७३] इति भगवद्वचनान्मुमुक्षो: पुरुषस्य दुर्ल मत्वात्पश्नानामात्मविषयत्वाच्च पुनः पुनः शिष्यप्रश्नैर्गुरोर्नो- देगः स्यास्किं त्वनुमोदनमेवातः शिष्यमात्मावगत्यथिनं बोधयितुं प्रथम तावच्छिप्यस्य प्रश्नमनुमोदते- सत्यमाह भवानत्र विगानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह।।१०॥ अत्रास्मिन्नर्थेऽविप्रतिपत्तिमाह । इह तत्त्वमस्यादिवाक्ये पदार्थ- ज्ञानस्य वाक्यार्थावगतिसाधनत्वमन्वयव्यतिरेकसिद्धमित्याह-हेतु: पदार्थेति । यत एवमतो विगानं नैव विद्यत इति योजना ॥ १० ॥ तस्मात्तत्त्वंपदार्थों निरूपयितुं प्रसिद्धानुवादेनाप्रसिद्धं निरूपणीय- मिति न्यायेन प्रसिद्धं त्वमर्थं तावन्निरूपयति- अन्तःकरणतवृत्तिसाक्षी चैतन्यविग्रहः । आनन्दरूपः सत्यः सन्कि नाऽऽत्मानं प्रपद्यते ॥ ११ ॥ अन्तःकरणेति । अन्तःकरणं बुद्धिस्तवृत्तिर्मनः । 'अगमन्मे मनोऽ. न्यत्र' इति तन मनसो धीवृत्तित्वप्रतिपादनादाचार्येण तवृत्तिग्रहणे- नान्तःकरणस्यैव स्ववृत्तिसाक्षित्वं परिहतम् । निरालम्बनज्ञानमेव तस्याविद्याकल्पितसाक्ष्यवलम्बनेनैव साक्षित्वं तथा सत्यादावेव निर्विक- ल्पकज्ञानरूपेणाऽऽत्मनि प्रतिपाद्यमाने न कस्यापि प्रतिपत्तिः स्यादतः स्थूलारुन्धतीदर्शनद्वारा मुख्यारुन्धतीदर्शनवदन्तःकरणसाक्षित्वेनाऽs- स्मानं प्रतिपाद्य तत्प्रतिपत्त्यनन्तरं साक्षित्वेनैव सिद्धमात्मानं निराल- म्बनतया दर्शयति-चैतन्यविग्रह इति । अथ वा देहेन्द्रियादिसाक्षीति १ ख. °यसे।
१४ विश्वेश्वरविरचितटीकासमेता- वक्तव्ये किमन्तःकरणतवृत्तिसाक्षीत्युक्तशङ्कायां बुद्धया सहैव देहेन्द्रि- यसाक्षी प्रत्यगात्मा बुद्धितद्वृत्तिसाक्षी तु स्वयमेवेत्यभिप्रेत्य शुद्धा- स्मानं दर्शयति-चैतन्यविग्रह इति । चैतन्यं ज्ञानं विग्रहः स्वरूपं यस्य स तथोक्तः स्वयंप्रकाश इत्यर्थः । इदानीं ज्ञानरूपत्वेनाऽऽत्मनो भोगसा. धनावयवाभावात्सुखामावशङ्कायामाह-आनन्दरूप इति । "को ह्येवा- न्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादेप ह्येवाऽऽनन्दयाति" [तैत्ति० ०२।७।२] सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः । स्वस्वरूपं महानन्दं भुत विश्वविवर्जितः [ कैवल्यो० १३] इति । " आनन्दो ब्रह्म "[तैत्ति०३।६ । १] इत्यादिश्रुतिभ्यश्च । सुषुप्तः पुरुषः प्रबोधकं दृष्टि । प्रबुद्धश्च सुखमहमस्वाप्समिति कथयति । अतो युक्त्यनुमवाभ्यां चाऽऽत्मन आनन्दरूपत्वं सिद्धमित्यर्थः । तर्हि लोके ज्ञानानन्दयोः क्षणिकत्वदर्शनादात्मनो ज्ञानानन्दरूपत्वे क्षणिक- खेनानित्यशङ्कायामाह-सत्य इति । अन्तःकरणवृत्तिप्रतिविम्बितज्ञाना- नन्दयोरेव क्षणिकत्वं न स्वरूपानन्दज्ञानस्य तस्यावस्थात्रयेऽपि सत्यत्वदर्शनात् । निरवयवत्वेन रूपरसादिरहितत्वाक्रियाश्रयत्वाभावात्ष- इमावविकाररहितत्वाच्च तस्य सत्यत्वं सिद्धमित्यर्थः ॥ ११ ॥ उक्तस्वरूपे निःसंशयज्ञानोपायमुपदिशति- सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् । चिन्तयाऽऽत्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥१२॥ सत्येति । विज्ञानरूपस्यैवाऽऽत्मनः सत्यत्वमानन्दत्वं साक्षित्वं चेत्ये- तत्प्रदर्शनार्थ पूर्वोक्तश्लोकोक्तान्येव पदान्यनयाऽपि रीत्या पुनरुच्यन्ते विशेषणविशेष्यरूपेणैव । यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धव्यमविकारितयाऽऽत्मनः"॥ इंति ज्ञानस्यैव त्वंपदार्थत्वं वक्ष्यते । एवं भूतमात्मानमात्मतया चिन्तया- हमिति चिन्तयेत्यर्थः । नित्यं चिरम् । 'नित्यं चिदनुसंधिनः शोको न बाध्यते ' इति वशिष्ठवचनाच्चिन्तनीयमिति भावः । त्यक्त्वा देहादिगां श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १५ धियमिति । देहादावात्मचुद्धिं त्यक्त्वेत्यर्थः । धीसाक्षिणमित्यत्र धीश- देन "कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिविधृतिहीं(मीरि- त्येतत्सर्वं मन एव " वृ० १ १ ५। ३] इति श्रुतेः कामादि सर्वमपि गृह्यते ॥ १२ ॥ आत्मचिन्तनस्य देहाद्यात्मबुद्धित्यागपूर्वकत्वमुक्तं देहादावात्मबुद्धे- श्चिरं निरूढत्वात्तत्त्यागो न घटत इति शिष्यस्याऽऽशयमाशङ्कय देहादे- रनात्मत्वदर्शनेन तदात्मत्वबुद्धित्यागो घटत इति मत्वा तत्त्यागाय देहादेरनात्मत्वं शिष्यस्य दर्शयति- रूपादिमान्यतः पिण्डस्ततोऽनात्मा घटादिवत् । वियदादिमहाभूतविकारित्वाच कुम्भवत् ॥ १३ ॥ रुपेति । पिण्डो देहोऽनात्मा रूपरसादिमत्त्वात् । रूपादिमत्त्वं सर्वेषां वस्तूनां प्रत्यक्षसिद्धमिति घटादिष्टान्तः । महाभूतविकारत्वं कुम्मस्यैव प्रत्यक्षसिद्धमित्ति कुम्मदृष्टान्तः ॥ १३ ॥ केवलपिण्डस्यानात्मत्वदर्शनमात्रेणाऽऽत्मचिन्तनं न घटते कि त्वात्मनः स्फुटपरिज्ञानेनापि भवितव्यमिति मत्वाऽऽत्मानं स्फुटं परिज्ञातुं तत्स्वरूपं वदेत्याचार्यमाह- अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः । करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४ ॥ अनात्मेति । अयमितीदंशब्देन पिण्डस्य दृश्यत्वेनाप्यनात्मत्वमुच्यते। अयं देहः पूर्वोक्तहेतुनाऽनात्मेति संमतश्चेद्भवतु नामानात्मत्वं देहस्य नैतावताऽऽत्मचिन्ता सिध्येत् । अतः करस्थामल कस्तु यथा प्रत्यक्षदृष्ट एवं साक्षाव्यवधानेनैवं मूतस्वरूपोऽहमित्य परोक्षतया ज्ञातुमात्मानं प्रति- पादयेत्यर्थः ॥ १४ ॥ एवमन्तःकरणतवृत्तिसाक्षीत्यादिश्लोकोक्तमेवेदानी स्फुटं प्रतिपि- पादयिपुरादौ साक्षित्वेनाऽऽत्मानं प्रतिपादयति- घटष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहदष्टा तथा देहो नाहमित्यवधारय ॥ १५॥ घटद्रष्टेति । घटद्रष्टा घटादिन्नः सन्सर्वप्रकारेण यथा घटो न भवति १ ख, पृथिव्यादि। - १६ विश्वेश्वरविरचितटीकासमेता- तथा घटद्रष्टवदेहद्रष्टाऽपि नाहं देहः किं तु स्वदृश्यावेहाद्भिन्न इत्यर्थः । अत्रायं प्रयोगः-देहदष्टा स्वदृश्यदेहाद्भिन्नो द्रष्मृत्वाद्घटद्रष्टुवदिति । श्रुतिरपि " स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अमिवदन्ति" [वृ० ३।८।८]" अदृष्टं द्रष्ट्र श्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ"[वृ० ३।८।११] इति ॥ १५ ॥ एवं घटद्रष्टवदेहद्रष्टुत्वेनाऽऽत्मानं दर्शयित्वेदानीमिन्द्रियस्य देहद्रदृत्वद- र्शनात्तस्यैवाऽऽत्मत्वशङ्कायामिन्द्रियस्य साक्षिण एवेन्द्रियद्वारा देहदृष्टुत्वं न साक्ष्यस्येन्द्रियस्येत्यमिप्रेत्य देहोक्तानुमानेन क्रमादिन्द्रियगट्टत्वेनाप्या- मानं दर्शयति- एवमिन्द्रियङ्नाहमिन्द्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥ एवमिति । इन्द्रियहगहं नेन्द्रियं किंतु स्वदृश्यादिन्द्रियाद्भिन्नः कुतो द्रष्मृत्वाद्देहद्रष्टवत् । एवं मनआदिषु व्याख्येयम् । स्वस्वार्थग्रहणस्फु- टाग्रहणादिरूपधर्माणामान्ध्यमान्यपटुत्वादीन्द्रियधर्माणां दृश्यत्वस्या- नुभवसिद्धत्वाद्धर्मिणोऽपि दृश्यत्वं सिद्धमिति भावः । तथाऽपि मनस एवेन्द्रियद्रष्टुत्वदर्शनात्तस्यैवाऽऽत्मत्वप्राप्तौ पूर्वामिप्रायेण मनसो द्रष्टत्वमा- मनो दर्शयति-मन इति । तस्य संकल्पविकल्पसंशयात्मत्वेन दृश्यत्व- मनुमवसिद्धमित्यर्थः । एवं चेन्निश्चयात्मकबुद्धेरात्मत्वं स्यादित्याश- क्याऽऽह-बुद्धिरिति । यथैक एव पुरुषः क्रियादिभेदेन पाचकादिसं- ज्ञक एवमन्तःकरणं संशयनिश्चयादिवृत्तिभेदान्मनोबुद्धिसंज्ञकं भवति । अतो बुद्धिसंज्ञक स्थान्तःकरणस्य निश्चयात्मकत्वेन क्षणिकत्वेन च दृश्यत्वं सिद्धमित्यर्थः । अन चेष्टायामित्यस्माद्धातोः प्राणशब्द उत्पन्नः। अतश्चेष्टायाश्चेतनधर्मत्वात्तस्यैव साक्षित्वोपपत्तौ स एवाऽऽत्मा स्थादि- त्यत आह-तथा प्राण इति । तथा देहेन्द्रियादिवदनात्मोच्छासात्म- कस्य दृश्यत्वेनानुभवसिद्धत्वात् । सुषुप्तौ प्राणे सत्यपि विज्ञानस्पा. भावादचेतनत्वमनुभवसिद्धमित्यर्थः ॥१६॥ ननु देहेन्द्रियादिसंघात एवैकैकस्य साक्षीत्यत आह- संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् । दृष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ संघात इति । तथा देहेन्द्रियादिवत्संघातोऽपि साक्षी न भवति ।
प्रीमच्छंकराचार्यकृता धाक्यवृत्तिः । १७ इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतयो क्षेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्वितः[भ० गी.१२१ इति स्मृतेः संघातसाक्षित्वेन क्षेत्रजस्र प्रतिपादितत्वात्संघातस्य दृश्यत्वं सिद्धमित्यर्थः । इत्थमुक्तम) Eढीकुर्वन्सप्रमाणमुपसंहरति- इतीति । अवेदमनुमानं देहादिसंघातः स्वव्यतिरिक्तद्रष्टुको भवितुमर्हति कुतो दृश्यत्वात् । यो यो दृश्योऽसावसौ स्वव्यतिरिक्तद्रष्टको दृष्टः । यथा घटस्तथा चायं संघातो हश्यस्तस्मात्स्वव्यतिरिक्तद्रष्टक एवेति। एवं देहेन्द्रियादिसाक्षित्वेनाऽऽत्मा दर्शितः। देहेन्द्रियादीनामपि दृश्यत्वेनाना- स्मत्वमर्थादुक्तम् ।। १७ ॥ इदानीं दृश्यत्वेनैवाचेतनत्ये सिद्धे सत्यपि देहेन्द्रियादीनां प्रकारा- न्तरत्वेनाचेततत्वं ज्ञापयंस्तद्विलक्षणतया चैतन्यविग्रहत्वेनाऽऽत्मानं प्रति- पादयति- देहेन्द्रियादयो भावा हानादिव्यावृतिक्षमाः। यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥ देहेति । अत्र मात्रशब्दोऽवधारणे । यस्य चैतन्यस्य संनिधिनैव देहादयो हानोपादानव्यापारक्षमाः समर्थाः स्युः सोऽहमित्यन्वयः। देहे- न्द्रियादीनां चैतन्य सांनिध्यादेव हानादिसंसारव्यापार इत्यनेन तेषां शकटाविदचेतनत्वं दर्शितम् ॥ १८ ॥ नन्वविकृतिचेतनसंनिधिमात्रेण बुद्धयादिप्रवृत्त्यनुपपत्तेरचेतनबुध्या- दिप्रवृत्त्यनुकूलोविकारो वक्तव्यः। तथा सति “अव्यक्तोऽयमचिन्त्योऽय- मविकार्योऽयमुच्यते "[भ० गी०-२५] इति स्मृतिविरोधः स्यादित्या- शक्याऽऽह- अनापन्नविकारः सन्नयस्कान्तवदेव यः । बुध्यादींचालयत्येव सोऽहमित्यवधारय ॥ १९ ॥ अनापन्नेति । प्रवृत्त्यनुकूलविकारान्तरशून्योऽपि यथाऽयस्कान्तोपल: स्वसंनिधिवशाल्लोहव्यापारहेतुस्तथा प्रत्यगात्माऽपि संनिधिवशाब- व्यापार एव सन्बुध्यादिचलन हेनुरित्यर्थः ।। १९ ॥ . : ३ १८ विश्वेश्वरविरचितंटीकासमेता-.. ननु शकटादेरचेतनत्वं चेतनस्य तद्भिन्नत्वं च दृष्टम् । कुतो देहादेरचे- तनत्वं चैतन्यस्य तद्भिन्नत्वं च दृष्टमित्याशक्याऽऽह- अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि । देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय ॥ २० ॥ सुषुप्तिसूर्छामरणावसरे देहादौ चैतन्यस्थ व्यभिचारित्वादृश्यत्वे- नाचेतनत्वानुमानाच्चाचेतनत्वं दृष्टमेव । तथाऽपि देहादयश्चेतनस्य मिध्यातादात्म्यापत्त्या चेतनवदाभान्ति । अतस्तयोश्चेतनाचेतनत्वं दृष्ट- मिति भावः ॥ २० ॥ स्वप्ने देहेन्द्रियादेतृत्वाभावाच्च दृश्यत्वेनाचेतनत्वं युक्तम् । कुतो मनसोऽचेतनत्वमित्याह- अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥ अगमदिति । एतावन्त कालं मे मनोऽन्यत्र गङ्गादौ गतं तत्स्मरणं त्यक्तम् । इदानी स्थिरीकृतम् । संनिहितवस्तु विषयी करोतीति गमना- गमनादिधर्मिणो मनसो दृष्टत्वस्यानुभवसिद्धत्वान्मनसोऽचेतनत्वं सिद्ध- मित्यर्थः ॥ २१ ॥ मनसो धीवृत्तित्वादेव दृश्यत्वे सिद्धे सत्यपि वृत्तिमत्या धियो दृश्यत्वं नोपपद्यत इत्यत आह- स्वमजागरिते सुप्तिं भावाभावौ धियां तथा । यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय ।। २२ ॥ स्वम इति । बुद्धिः स्वप्नजागरिते वेत्ति सुषुप्तिं तु न वेत्ति तत्र बुद्धे. रमावात् । आत्मा तु त्रयं च वेत्ति तथा स्वमजागरितयोपियां भावं सुषुप्तावभावं च वेत्ति । अतो बुद्धिदृक्सद्भावाबुद्धेदृश्यत्वं सिद्ध- मित्यर्थः । धियामिति बहुवचनेन बहुत्वात्तु बुद्धीनां साक्षिकत्ववि- कारित्वादिदमुच्यते (?) । नचाऽऽत्मनः सुषुप्तावभाव एव तदा स्वसत्तापरि- ज्ञानाभावादित्याशय संकल्पविचिकित्सायनेकविकारित्वादनित्याया बुद्धेस्तनाभावो युक्तस्तत्साक्षिणों निर्विकारत्वेन नित्यत्वादात्मनः सुषु. ..
श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १९ पमानाबवि सत्त्वं सिद्धमित्यभिप्रेत्याऽऽह-अविक्रियेति । अविक्रियपदे. ने बुधुप्तादात्मनः सन्द प्रतिपादनालाक्षात्पदं किमर्थमिति नाऽऽशक- नीयम् । एतेनाबिक्रिय पदेनाऽऽत्मनोऽवस्थान से प्रतिपादितेऽपि सु- पुतीम्बलत्तापरिज्ञानामावप्रयुक्तासन्धमनिराकृतमितिकृत्वा तनिवारणा- साक्षात्यहम् । साक्षातकाशते स्वयमेव प्रकाशत इत्यर्थः । अयमाशय:- सुपुती धीवृ त्तेर मायेऽप्यात्मनः स्यय प्रकाशकत्येन वृत्त्वन्तरनिरपेक्षतया तस्य प्रकाशसनावात्पुप्तो स्वसत्तामा: सिद्ध इति । अथवा तत्र धीवृत्तेरमायेऽपि सुसमहमस्याप्त न किंचिददिपमित्युत्थितस्य सुपुप्ति- गतमुखादिम्मरणदर्शनादननु गते स्मरणामायात् । कैवल्योपनिषदि मं० १३-सुप्तिकाले सकले विलीने तमोमिभूतः सुखरूपमेति, इति । देदान्तसारे "एतावीश्वरमाज्ञी चैतन्यदीप्तामिरतिसूक्ष्मामिरज्ञानवृत्तिमि- मानन्दननु मयतः" इति च । विवरणम्-सुप्तावज्ञानं तु स्वसत्ता- कारेण सुसाकारण साक्षात्कारेण च परिणम त इति च स्यानुभवा. स्तित्व प्रतिपादनाप तावज्ञानं मुख साक्षात्कारेण परिणताज्ञानवृत्ति- प्रतिविम्बितस्तन्यविषयत्वेनाऽऽत्मनः स्वसत्तासाक्षात्कारस्य विद्यमान- सातव स्वसत्तापरिज्ञानामावोऽसिद्ध इति वा साक्षात्कारपदार्थः। अथवा साक्षादित्यस्यायमर्थः । आत्मा त्रयं च येत्तीत्युक्तमिदमनुपपन्नं जाग्रत्त्व- नयोबाह्याभ्यन्तरकरणवेद्यत्वादित्याशङ्क्याऽऽह-साक्षादिति । इन्द्रिया- णां जडत्येन स्वतःप्रकाशकत्वासंमदादात्मेव चाह्येन्द्रिपान्तरिन्द्रियसा- पेक्षः सजाग्रदयस्थां वेत्ति । स्वप्नमन्त करणवृत्तिद्वारा येत्ति । सुपुप्तिमन्य- निरपेक्षतया साक्षाहत्ति । तस्मादात्मैवावस्थात्रयेऽपि साक्षीति ।। २२ ।। पई देहादेरचेतनत्ये नानात्मत्वमर्थादुक्तम् । तद्विलक्षणत्वेनाच्चित- न्यविग्रहमात्मानं प्रतिपद्य देहादेविलक्षणत्वेन सिद्धं चेतनत्वं सदृष्टान्त- मुद्दाहरति- घटावभासको दीपो घटादन्यो यथेष्यते । देहावभासको देही तथाऽहं बोधविग्रहः ॥२३ ॥ घटेति । अयमाशयः-यथादीप: स्वप्रकाशरूपत्वात्स्वावमास्याघटाद्वि- लक्षणत्वेन प्रकाशरूपो मवति एवं स्वावभास्यादचेतनाहाद्विलक्षणत्वे- नाऽऽत्मा बोधविग्रहश्चैतन्यस्वरूप इति यावत् । एते नानुमानद्वयं सूचितम् । विमतो देही स्वावमास्या देहाद्विलक्षण रतदव भासकरवाहीपनत् । आत्मा २० विश्वेश्वरविरचितटीकासमेता- " चैतन्यविग्रहो देहादिविलक्षणत्वाद्घटद्रवदिति । आत्मनश्चैतन्यवि- ग्रहत्वे श्रुतिरप्यस्ति । " सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति०२।१।१] " विज्ञानमानन्दं ब्रह्म [बृह० ३।९।६८] "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च , [श्वेता०६।११] इत्याद्याः श्रुतयः । एतेन देहादेरचेतनत्वं चेतनस्य तद्भिन्नत्वं च कुतो दृष्टमित्येतदपि निरस्तम् । आत्मनो देहादिविलक्षणत्व प्रतिपादनात्।।२३॥ इदानी क्रमप्राप्तानन्दरूपत्वेनाऽऽत्मा प्रतिपाद्यते- पुत्रमित्रादयो भावा यस्य शेषतया प्रियाः। दृष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥ पुत्रेति । “आत्मनस्तु कामाय सर्व प्रियं भवति" [बृह० २।४५] इतिश्रुतिन्यायेन पुत्रवित्तादयो भावाः पदार्था यस्य द्रष्टुः शेषतया संबन्धितयाऽनुकूलत्वेन प्रियाः स द्रष्टा सर्वप्रियतमः । सर्वेभ्यः पुत्रादिभ्य उत्कृष्टप्रेमास्पदः । अत आत्मनो निरुपाधिकतयाऽऽनन्दस्वरूपत्वमनुम- वसिद्धमित्यर्थः । द्रष्टा सर्वप्रियतम इति द्रष्टुः परप्रेमास्पदत्वेनाऽऽनन्दरूप- त्वमुक्तम् ॥ २४ ॥ इदानीं तस्यैव कालत्रयेऽपि परप्रेमास्पदत्वेनैव हेतुनाऽऽत्मनः क्रमप्राप्त सत्यत्वं दर्शयति- परप्रेमास्पदतया मा न भूवमहं सदा । भयासमिति यो दृष्टा सोऽहमित्यवधारय ॥ २५ ॥ परेति । अहं मूतकाले मा भूवमिति न किंववश्यमभूवम् । कथं मम भूतेऽवस्थानं नास्त्यनादित्वादात्मनस्तत्राप्यवस्थानमस्तीत्यर्थः । न केवलं भूतकाल एव परप्रेमास्पदत्वं किंतु सदा भूयासमिति । सदेति कालत्रये विवक्षितमपि भूतकालावस्थानस्य प्रतिपादितत्वात्सदेत्यनेन वर्तमानभविष्यकालयोग्रहणम् । वर्तमानमविष्यत्कालयोरहं स्यां काल- द्वयेऽपि ममावस्थानेन भवितव्यमित्यर्थः । देहादेरनित्यत्वेन सर्वदाव- स्थानाभावेऽप्यात्मनो नित्यत्वेन कदाचिदपि नाशासंभवादाद्यन्तशून्यस्य मम सर्वदावस्थानं भवतीत्यर्थः । एवं कालत्रयेऽपिः परप्रेमास्पदतया.
BVCL 52939 891.2 A14A- . श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । प्रसिद्धो यो द्रष्टा सोऽहमित्यवधारयेत्यर्थः । असतः प्रपञ्चस्थ परप्रेमा- स्पदत्वामावात्तस्य कादाचिकप्रतिभानमन्तरेण कालत्रयेऽप्यवस्थाना. संभवादात्मनः परप्रेमास्पदत्वात्कालवयेऽप्यवस्थानसंमवात्सत्यत्वं सिद्ध- मित्यर्थः । आत्मसत्तानुप्रवेशेन तत्कल्पितानां सर्वेषां सत्ताप्रतीतिश्च भवति न स्वत इत्यमिप्रायः । मा न मूवमित्यत्र मायोगादडागमप्रति- षेधः ॥ २५॥ एवमन्तःकरणतवृत्तिसाक्षीतिश्लोकोक्तमेवैतदन्तः श्लोकैः क्रमा- साक्षित्वेन चैतन्यविग्रहत्वेनाऽऽनन्दत्वेन सत्यत्वेन च करामलकवत्स्फुटं प्रतिपायेदानी फलितार्थस्य साक्षिणो बोधस्य तत्त्वमस्यादिवाक्ये स्वमर्थमाह- यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः ॥ २६ ॥ य इति । साक्षितया लक्ष्यत इति साक्षिलक्षणः। उच्यत इति । तत्त्व- मस्यादिवाक्य इति शेषः । नन्वविकारिण आत्मनः साक्षित्वामावाद्वि. कारं प्राप्तस्यैव तस्य साक्षित्वमित्याशक्याऽऽह--साक्षित्वमपीति । स्वाध्यस्तं सर्व साक्षादन्यानपेक्षयेक्षते प्रकाशयतीति साक्षी । अधिष्ठान- भूतस्याऽऽत्मनः स्वयंप्रकाशत्वेन तत्र कल्पितानां तत्प्रकाशेनैव प्रकाशः सिद्धः। तदर्थमीक्षण क्रियाश्रयत्वप्रयासामावादीपवनिर्विकारित्वेनैवाऽs- त्मनः साक्षित्वं ज्ञानरूपत्वाबोद्धृत्वं च घटत इत्यर्थः ॥ २६ ॥ उक्तमर्थमुपसंहरति- देहेन्द्रियमनःप्राणाहंकृतिश्यो विलक्षणः । प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥ देहेति । त्वंपदेनाभिधीयत इति त्वं पदाभिधो यः साक्षिलक्षणो बोधः सोऽनृतजडदुःखात्मकेभ्यो देहेन्द्रियादिभ्यो विलक्षणो विसदृशोऽत एव प्रोज्झिताशेषषड्भावविकारः परित्यक्तो जायतेऽस्तीत्यादिषडूमाववि. कारः। अन्तःकरणद्वयविवक्षायां बुद्धिरेवाहंकारो मन एव चित्तम् । अ- तोऽत्राहंकृतिशब्देन बुद्धिरुच्यते । मनःशब्देन चित्तमुच्यते ॥ २७ ॥ यद्यपि सत्यानन्दस्वप्रकाशत्वंपदार्थप्रतिपत्त्यैव पुरुषार्थसिद्धिस्तथाऽ- प्युमयपदार्थज्ञानस्य परमपुरुषार्थसाधनवाक्यार्थावगतिहेतुत्वात्क्रमप्राप्त तत्पदार्थ प्रतिपादयति- - २२ विश्वेश्वरविरचितटीकासमेता- - . । त्वमर्थमेवं निश्चित्य तदर्थ चिन्तयेत्पुनः । अतव्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥ त्वमिति । एवं निश्चित्येत्यन्तःकरणतद्वत्तीत्यादिर्वोक्तत्वंपदार्थप्रति- पादकवाक्यश्रवणमननाभ्यासवशात्त्वमर्थ निःसंशयं ज्ञात्वेत्यर्थः। तदर्थ . चिन्तयेदित्युक्त्वा पुनश्चिन्तयेदित्यत्रापि निःसंशयज्ञानपर्यन्तं पुनः पुन- स्तत्पदार्थप्रतिपादकवाक्यश्रवणमननाभ्यासं कुर्यादित्युक्तं भवति । ननु " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [तैत्ति० २ । ४ । १ ] इति श्रुत्या वाड्मनसयोरप्यविषयत्वश्रवणात्कथं चिन्तयेदित्यत आह-अतद्यावृत्तीति। तन्न भवतीत्यतदततो व्यावृत्तिरतद्वयावृत्तिस्तदू- पेण । अयमाशयः-इदं ब्रह्मेति शृङ्गाग्राहिकया विषयीकृत्य चिन्तितुम. शक्यत्वेऽपि “अथात आदेशो नेति नेति" [बृह० २।३।९] इति श्रुत्या ब्रह्मणः कार्यकारणत्वादेः प्रतिषिद्धत्वाकार्यकारणोपाधिप्रयुक्तं जीवत्वमीश्वरत्वं सर्वज्ञत्वादिकं पारमार्थिकं न भवति किंतु मायिकमेवेति विदित्वा कार्यत्वकारणत्वाहीह्रस्वादिपरित्यागेन निषेधावधिभूतं स्वरूपं चिन्तयेदिति । केवलमतद्यावृत्त्या स्वरूपपरिज्ञानासंमवात्तदर्थचिन्ता ने घटत इत्यत आह-साक्षाद्विधिमुखेनेति । " सत्यं ज्ञानमनन्तं ब्रह्म [ तैत्ति० २।१।१] इत्यादिब्रह्मस्वरूपप्रतिपादकवाक्येनेत्यर्थः । अयमभिप्राय:-" सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति० २।१।१] "आनन्दो ब्रह्म [तैत्ति० ३।६।१]" इत्युक्ते ज्ञानानन्दादीनां गुणत्वेन साक्षिकत्वेन प्रसिद्धत्वाद्ब्रह्मण एकरूपत्वात्कथं तेषां बहूनां गुणानां निर्गुणस्वरूपब्रह्मत्वमित्यनुपपत्तौ सत्यां लोके वृत्तिज्ञानानन्दा- दीनां गुणत्वेन क्षणिकत्वेन च ब्रह्मत्वानुपपत्तावपि निर्विकल्पकज्ञान- कस्वरूपब्रह्मणोऽनृतजडदुःखात्मकशाव्यावर्तकत्वेन सत्यत्वानन्द त्वयो- रपि ब्रह्मस्वरूपेणैकीभूनत्वात्सत्यज्ञानानन्दस्वरूपं वस्तु ब्रह्मेति जहद- जहलक्षणया वाऽनृतजडदुःखत्वादिविलक्षणं ब्रह्मेति वा । सत्यादिपद- वाच्यत्वाभावेऽपि लक्ष्यत्वोपपत्तेः "सत्यं ज्ञानमनन्तं. ब्रह्म ति २।१।१] इत्यादि ब्रह्मस्वरूपलक्षणवाक्यैर्विधिमुखेनेतरविषयत्वम- न्तरेणापि तदर्थं चिन्तयेदिति ॥ २८ ॥ एवं तदर्थचिन्तायामुपायद्वय मुक्तमिदानीमतद्यावृत्त्या चिन्तनार्थम- ततो व्यावर्तयरतदर्थ निरूपयति- - श्रीमच्छंकराचार्यकृता पाक्यवृत्तिः। २३ निरस्ताशेपसंसारदापोऽस्थूलादिलक्षणः । अदृश्यत्यादिगुणतः पराततमोमलः ।। २९ ॥ निरस्तेति । अविद्यमानमूततमोमल इति यावत् । तम इव तमोऽ. ज्ञान प्रकाशविरोधित्त्वात्तदपनोद्यत्वाच गुणतस्तमस्त्वमज्ञानस्य तदेव मल आदादिगतमलबदाश्रयमलिनीकरणात्तद्द्घर्षणापनोद्यत्वाच्च गुण- तो मलः पराकृतस्तमोमलो यस्मिन्स तथोक्तः। अत एव निरस्ताशेपसंसा- रदोषः । संसारः प्रवृत्तिः । दोपशब्देन रागादय उच्यन्ते 'दोषा रागादयः स्मृताः' इति वचनान्निरस्तोऽशेपः संसारो दोषश्च यस्मिन्स तथोक्तः। एतेन जीवाश्रयमिथ्याज्ञानतत्कार्यदोपप्रवृत्तिजन्मदुःखानि च ब्रह्मणो न सन्तीत्युक्तम् । किंचतेन जीवस्यापि तदेकत्वज्ञाना- मियाज्ञानापाये ॥ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति गौतमबचनावागाद्यपायस्तस्मिन्सति प्रवृत्त्यपायस्तस्मिन्सति जन्मापायस्तस्मिन्सति दुःखापाय: स्यादित्यर्था- सूचितं मवति । इदानीं प्रपञ्चान्तर्गतसर्ववस्तुवैलक्षण्येन निरूपयति- अग्थूलादिलक्षण इति । स्थूलसूक्ष्मत्वलक्षणह्रस्वत्वदीर्घत्वादिलक्षणानि लोके सर्ववस्तून्ययं तु न तथा अस्थूलमनण्वह्रस्वमदीर्यम् "[ बृह० ३।८।८] इत्यादिश्रुतेः । पुनस्तमेव प्रपञ्चवैलक्षण्येन निरूपयति- अदृश्यत्वादिगुणक इति । दृश्यत्वपरिच्छिन्नत्वादिगुणकः कार्यप्रपञ्चोऽयं तु तद्रहित इत्यर्थः। अष्टं ट" [बृह० ३।८।११ ] इत्यादि- श्रुतेः ॥ २९ ॥ एबमततो व्यावृत्त्या तदर्थ निरूप्येदानी विधिमुखेन चिन्तनाय श्रुति- निर्दिष्ट विधिस्वरूपं निरूपयति- निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ निरस्तेति । निरस्ता मनुष्यायुत्तरोत्तरशतगुणातिशया आनन्दा यस्मिन्स तथोक्तोऽपरिमितानन्द इत्यर्थः । लोक आनन्दस्यानित्यत्वदर्श. नादात्मन आनन्दरूपत्वेनानित्यत्वशङ्कायामन्तःकरणवृत्त्यभिव्यक्तानन्द- स्यैवानित्यत्वं न स्वरूपानन्दस्येत्याह-सत्य इति नन्वानन्दस्य वेद्यत्वा. कथं सत्यतेत्यत आह-प्रज्ञानविग्रह इति । स्वरूपानन्दस्य ज्ञानरूप. वाज्ज्ञेयत्वानुपपत्तेः सत्यत्वं सिद्धमित्यर्थः । लोके ज्ञानस्यानित्यत्वद- -
२४
विश्वेश्वरविरचितटीकासमेता-
र्शनादात्मनो ज्ञानरूपत्वेऽनित्यत्वं स्यादित्याशङ्कायामाह-सत्तास्वलक्षण
इति । सत्तास्वलक्षणः सन्मात्रस्वरूपः । आत्मसत्ताया अपि घटादिव.
स्तुसत्तावत्परिच्छिन्नतेत्यत आहे-पूर्ण इति । घटादीनां स्वतः सत्त्व
नास्ति कित्वात्मसत्तासमवायात्सत्त्वमतः सर्वाधिष्ठानमूतायाः सत्ताया
अपरिच्छिन्नत्वान्न तस्मिन्मायाकल्पितघटादिसमतेत्यर्थः । न सत्या-
नन्दस्वरूपिणं धीसाक्षिणं ज्ञानविग्रहमित्यत्रं सत्यानन्दस्वरूपस्य
प्रतिपादितत्वास्किमर्थं निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रह इत्यनेनापि
पुनः पुनः प्रतिपाद्यत इति न पौनरुक्त्यं शनीयं ममोभयत्र कथनस्य
प्रयोजनत्वात् । जीवपरयोरैक्यं तूमयोरेकरूपत्वे संभवत्यतस्तयोरेकरूप-
प्रतिपत्त्यर्थं पूर्व स्वंपदलक्ष्यत्वेन प्रतिपादितमिदानीं तत्पदलक्ष्यत्वेनेति
न दोषः ॥ ३० ॥
एवं कमाच्छोकद्वयेनातद्यावृत्त्या विधिमुखत्वेन च चिन्त्यत्वेन निरु-
पाधिकं ब्रह्म निरूप्य तन्निःसंशयज्ञानाय मायोपाधिकमेव षडभिः
श्लोकदर्शयति । तत्रोपादानात्सर्वज्ञस्य विचित्रकार्यजगन्निमित्तकारण-
स्वानुपपत्तेः सर्वज्ञत्वादिलक्षणकथनेन तस्यैव जगन्निमित्तकारणत्वमर्था-
ज्ज्ञापयति-
सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता ।
वेदैः समर्थ्यते यस्य तद्लेत्यवधारय ॥ ३१ ॥
सर्वज्ञत्वमिति ।" यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेत.
ब्रह्म नाम रूपमन्नं च जायते "
[मु. १ । १।९] इत्यादिभिः
पराऽस्य शक्तिविविधैव श्रूयते" [श्वेता०६।८] इत्यादिभिर्वे-
दैश्च यस्य सर्वज्ञत्वं परेशत्वं पूर्णशक्तित्वं च समर्थ्यते तद्ब्रह्मेत्यवधारयेत्य.
न्वयः ॥ ३१ ॥
ब्रह्मणो निमित्तकारणत्व उपादानकारणं किमित्यपेक्षायां सर्वकार्या-
नुगतस्यैवोपादानत्वमिति दर्शयितुमात्मविज्ञानात्सर्वविज्ञानप्रतिपादने-
नाऽऽत्मनः सर्वकार्यानुगममदाह-
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदायनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥
२५ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । यदिति । " उत तमादेशमनाक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमवि- ज्ञातं विज्ञातमिति "[छा०६।११३] इत्येकविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते " कथं नु मगवः स आदेशो ममति "..[छा०६।१।३] इत्याक्षेपमवतार्य " चथा सौम्यकैन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं ल्यावाचारम्भणं विकारो नामधेयं सृत्तिकेत्येव सत्यम्" | छा० ६।११४] "मैत्रंच्यात्मनि खल्बरे इष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" (बृह० ४ । ५।६) इत्यादिश्रुतौ । यहिज्ञानात्सर्वविज्ञानं मृदाद्यनेकदृष्टान्तैः प्रतिपादितं तद्लेत्यवधारयेत्यन्वयः । अयममिप्रायः-श्रुत्युक्तमात्मज्ञा. नात्सर्वविज्ञानमात्मनः सर्वानुस्यूतत्वमावेन संभवति । अतः सर्वविज्ञा. नान्यथानुपपत्त्याऽऽत्मनः सर्वानुस्यूतत्वं सिद्धम् । तच्चानुस्यूतत्वमुपादा- नत्वमन्तरेण न संमवतीत्युपादानत्वं ब्रह्मण आक्षिपतीति । तथा सत्येवं प्रयोगो विमतं कार्य स्वानुगतोपादानजन्यं भवितुमर्हति कुतः कार्य- वायवदित्यनुमानेन प्रपञ्चस्य ब्रह्मोपादानत्वमुक्तं भवति । “यतो वा इमानि भूतानि जायन्ते" (तेत्ति०३।१।१) इत्यादिश्रुतिरपि प्रपञ्चस्य ब्रह्मोपादानत्वे प्रमाणम् ॥ ३२ ॥ एवं प्रपञ्चब्रह्मणोः श्रुत्या कार्यकारणमाव उक्तः। किमर्थं तदुक्तमि- त्याकाङ्क्षायां तावत्प्रपश्चस्य ब्रह्मकार्यत्वोक्ती प्रयोजनमाह- यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ । तत्कार्यत्वं प्रपञ्चस्य तद्लेत्यवधारय ॥ ३३ ॥ यदिति । परमार्थतो देशकालाद्यमावे विकल्पितदेशकालवस्तुपरि- च्छेदान्न ब्रह्मण आनन्त्यम्। ब्रह्मण आनन्त्यं नाम सर्वत्र सर्वदा सर्ववस्तु- ध्वधिष्ठानरूपेणानुस्यूतत्वमथवा ब्रह्मण आनन्त्यं नाम सजातीयविजा- तीयस्वगतनानात्वशून्यत्वम् । इदं जगत्प्रतीतिकालेऽपि विमुक्ताविव संभवति । जगतां मायामयत्वेन परमार्थतः कदाचिदप्यमावात् । एक- मेवाद्वितीयमित्यानन्त्यं प्रतिज्ञाय तस्याद्वितीयत्वसिद्धये प्रपञ्चस्य ब्रह्म- कार्यत्वं श्रुतिर्जगौ तद्द्वानं कृतवती । प्रपञ्चस्य ब्रह्मकार्यत्वे श्रुतिसिद्धे सत्युपादानकारणकार्ययोर्मेंदामावाद्ब्रह्मण आनन्त्यं सिद्धमित्यर्थः । एतेन प्रपञ्चस्य ब्रह्मकार्यत्वकथनं ब्रह्मण आनन्त्यसिद्ध्यर्थमितिप्रयोजन- मुक्तं नतु ब्रह्मज्ञानात्प्रपञ्चे नष्टे सति स्वयमेव ब्रह्मण आनन्त्यं सिद्धू भवति । तथाच सति प्रपञ्चस्य ब्रह्मकार्यत्वोक्ल्या. किं नियत इति न २६ विश्वेश्वरविरचितटीकासमेता- - शङ्कनीयम् । यद्यस्य प्रपञ्चस्य ब्रह्मणि कल्पित्तत्वेन रज्जुसर्पवदधिष्ठान- ज्ञानापनोद्यत्वात्प्रपश्चामावे ब्रह्मण आनन्त्यं सिद्धमेव तथाऽपि प्रप- श्वाधिष्ठानब्रह्मविचारासमर्थान्मुमुक्षून्ददृष्टीनुद्दिश्य भेदसूचके प्रपञ्चे प्रत्यक्षसिद्धे सत्यपि ब्रह्मण आनन्त्यं सिद्धं भवति । श्रुत्या तयोः कार्य- कारणभावस्य प्रतिपादितत्वात् । कार्यस्य कारणनित्यत्वादिति ब्रह्मा- नन्त्यस्य श्रुतिसिद्धस्य सिद्धत्वज्ञापनार्थत्वात्कार्यकारणत्वोक्तः । एवं ज्ञापिते प्रपञ्चे सत्यपि ब्रह्मण आनन्त्यसिद्धौ सत्यां ब्रह्मणः सर्वाकार- स्वान्मुमुक्षूणां ब्रह्मानन्यत्वेन स्वेषामेव सर्वाकारब्रह्मत्वं ज्ञातं स्यात् । सतस्तेषां प्रपश्चाधिष्ठानब्रह्मविचारसामथ्यं भवेत् । ततो विचारोत्पन्ना- परोक्षज्ञानेनाज्ञाततत्वार्थभूते देहादिप्रपञ्चे नष्टे सति मुमुक्षूणामपरि- च्छिन्नब्रह्माकारत्वसिद्धिः प्रयोजनमित्यर्थाज्ज्ञायते ॥ ३३ ॥ इदानीं प्रपश्चाधिष्ठानब्रह्मविचारासमर्थान्मुमुक्षूनुद्दिश्य प्रपञ्चोपादा- नस्य ब्रह्मणो विचार्यत्वं श्रुतिमूलं दर्शयति- विजिज्ञास्यतया यत्र वेदान्तेषु मुमुक्षुभिः । समीतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥ विजिज्ञेति । “यतो वा इमानि भूतानि जायन्ते " [तै०३।१।१] इत्यादिवेदान्तवाक्येषु मुसुक्षुभिरतियत्नेन विचार्यत्वेन समर्थ्यते ब्रह्म विचारयितव्यमिति तद्द्वोत्यवधारयेत्यन्वयः । अथ जगत्कारणं ब्रह्म तद्विचारयितव्यमिति तटस्थलक्षणकथनार्थत्वेनापि कार्यकारणत्वोक्तः प्रयोजनमुक्तमिति द्रष्टव्यम् ॥ ३४ ॥ यद्यपि कार्यत्वदृश्यत्वादिहेतुना वाऽधिष्ठानज्ञानापनोद्यत्वेन वा अप- चस्यासत्त्वे सति विजातीयभेदो ब्रह्मणि निरस्तः । तथापि जीवानां प्रपञ्चविलक्षणत्वेन सजातीयत्वे सति तद्भेदनिरासः कथमित्यत आह- जीवात्मना प्रवेशश्च नियन्तृत्वं च तान्प्रति । श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥ जीवेति। तत्सृष्ट्वा तदेवानुपाविशत् ," [तै०२। [ तै०२।६ । १] इत्यादिवेदान्तवाक्येषु ब्रह्मण एव जीवरूपेण कार्यकारणानुप्रवेशः श्रयते । तत्तदुपाधिभेदात्कल्पितमेदमन्तरेण स्वाभाविकभेदाभावात्स: " २७ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । जातीय मेनो नास्तीति सावः । आत्मनः स्वामाविकभेदोऽस्तीति वद- बाबी देवानांप्रियः प्राव्य आत्ममेवः किं दृश्यो वाऽदृश्यो वा । आचे किमात्मना दृश्योऽन्येन बाऽन्यस्याचेतनत्वेन द्रदृत्वानुपपत्तेरा. त्मनेति वक्तव्यं तथाच सत्यात्मश्यस्य श्वेतपीतत्वादेरात्मधर्मत्वम- न्तरेण तदृश्यभृतपटादिधर्मवदात्मदृश्यस्य भेदस्याप्यात्मदृश्यभूतदेहादि- धर्मत्वं वक्तव्यम् । नादृश्यात्मधर्मत्वमदृश्याश्रय धर्मस्तु द्रष्टुबोधव दृश्य एक स्यात् । बोधस्यापि दृश्यत्वाङ्गीकारे द्रष्टुष्टत्वमेव न स्यात् । इदं तु स्मर्तुमपि न शक्यम् । नोकल्य तृत्वं दृश्यत्वं च संभवति । वस्तुनो देवप्यासंमवात्तस्मान्नाद्यः । तात्मभेदस्त्वदृश्य इति चेद्रूषे, अस्मत्सखो भवसि । आत्मभेदस्यादृश्यत्वे स एव नास्तीत्युक्तं भवति । ननु परं नदुर्भेदो दृश्यते तथाऽपि न प्रतीयत इति चेन्न । तत्सद्धावे प्रमाणामावादात्मभेद एवासत्यः स्यात् । तस्मान्न द्वितीयः किं चाऽऽत्म- भेदः किमात्मनोऽभिन्नो भिन्नो वा। अमिन्नश्चेदात्मव्यतिरेकेण पृथनि- रूपणासंमवादात्मन एकत्वमेघ स्पान्नानेकत्वं भेदस्याऽऽत्मस्वरूपत्वात् । मिन्न इति चेत्तर्हि तदिन्नस्तत्त्वादिवदन्यधर्म एव स्यात् । न तद्रष्टभूता- मधर्मत्वं तस्मादात्मनि भेदगन्धो नास्त्येव । तथाऽपि निरवयवस्य निवि- कारस्य निर्मूलस्याऽऽकाशस्यैकत्वेऽपि घटमठायुपाधिभेदेन यथा घटा- काशो मठाकाश इत्यादिभेदभ्रान्तिः स्यादेवमुपाधिभेदाजीव ईश्वर इत्यादिमेदव्यवहारो भवतीत्यलं विस्तरेण । नच तस्याऽऽत्मन एकत्वे दाडिमादिफल वत्स्वान्तर्गतभेदः स्यादिति वाच्यम् । “स यथा सैन्धवछ- नोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृततः प्रज्ञानघन एव । बृह० ४।५।१३ ] " एकमेवाद्वितीय ब्रह्म" [छा० ६ । २।१] " नेह नानाऽस्ति किंचन" [वृह० ४ । ४ । १९] इत्यादिश्रुत्या सैन्धव घनशार्करखण्डादिवदेकरसत्वप्रतिपाद- नान्निरवयवत्वाच्च स्वगतनानात्वमात्मनो नास्तीत्यर्थः । ननु तर्हि ब्रह्मण एव कार्यकारणानुप्रवेशाज्जीवरूपेणावस्थानेन तादात्म्याबहुत्वं स्यादि- त्याशङ्कय कार्यकारणोपाधिसंहतस्यांशवत्प्रतीयमानस्य जीवस्यैवाऽऽवि- द्यको बन्धो भवति नासंहतस्येश्वरस्य " भीषाऽस्माद्वातः पवते" [ तैत्ति० २।८।१] इत्यादिना जीवनियन्तृत्वश्रवणादित्यभिप्रे- त्याऽऽह-नियन्तृत्वं चेति । अयमाशयः-यथा शरावादिप्रतिबिम्बितस्य २८ विश्वेश्वरविरचितटीकासमेता- सूर्यस्य व्योमस्थस्य च भेदाभावेऽपि प्रतिबिम्बगतचलनादिकं बिम्बे नाऽऽयाति एवं बुद्धिस्थचिदाभासरूपजीवगतरागद्वेषसुखदुःखात्मकं बन्धनं बिम्बभूते ब्रह्माणि नाऽऽरोहति। एवं शरावादिषु प्रतिबिम्बितेषु सूर्येषु मध्य एकस्य चलनमन्यस्य यथा न संमवति तद्वज्जीवानामप्येकस्य बन्धनमन्यस्य नाऽऽयातीति । किं च बुद्धिस्थचिदामासस्य रागद्वेपसुख- दुःखात्मकबन्धनं स्वाभाविकं न भवति किंतु ततायःपिण्डे दग्धृत्वारो- पवबुद्धिगतमेव रागद्वेषादिकमविवेकाच्चिदाभासे त्वारोप्यते। तथा सति केवलात्मनो नास्तीत्यत्र किम वक्तव्यम् । न च नीरूपस्याऽऽत्मनः कथं प्रतिविम्वमिति वाच्यम् । नीरूपस्याऽऽकाशस्य सनक्षत्रस्य जले प्रतिबि- म्वभावदर्शनादिति । अथवा ब्रह्मण एव जीवत्वे स्वस्यैव स्वयं नियन्तृ- त्वमनुपपन्नमतः को नियन्तेत्याकाक्षायां सर्वज्ञत्वपरमेश्वरत्वादिलक्षण- रहितस्य जीवस्य नियन्तृत्वानुपपत्तेब्रह्मण एवोपाधिभेदान्नियन्तृत्वमुप- पद्यत इत्याह-नियन्तृत्वं चेति ॥ ३५ ॥ यत एवमतो जीवकृतपुण्यापुण्य मिश्रकर्मणां फलदातृत्वमपि तस्यै- वेति श्रुतिषु श्रूयत इत्याह- कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तब्रह्मेत्यवधारय ॥ ३६ ॥ कर्मणामिति । फलमत उपपत्तेः । [ब० सू० ३।२। ३८] इत्य. स्मिन्नधिकरणे कर्मण एव फलदातृत्वं कर्मणा पूजितस्य परमेश्वरस्य वेति संशयेऽपूर्वावान्तरद्वारा कर्मणः फल दातृत्वमिति पूर्वपक्षं कृत्वाऽचे- तनत्वादपूर्वस्य फलदातृत्वानुपपत्तेः कर्मणा पूजितस्य परमेश्वरस्य कालान्तरदेशान्तरदेहान्तरभाविफलदातृत्वोपपत्तेरपूर्वकल्पनं मुधेति रा- द्धान्तितम् । एवमेतदधिकरणे तद्विषयवाक्ये च तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । मवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ [म० मी०१२।७] " तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजसमशुमानासुरीष्वेव योनिषु ॥” [म०गी०१६।१९] इत्यादिस्मृती चाद्वयस्य परमेश्वरस्य कर्मफलदातृत्वं श्रूयते तद्ब्रह्मेत्य- वधारयेत्यर्थः । न केवलं जीवानां कर्मफलदातृत्वं ब्रह्मणः किंतु कारयि- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । २९ दृत्तं च तस्यैवेत्याह-जीवानां हेतु कर्तृत्वमिति । हेतुकर्तृत्वं कारयितृत्वं तत्र श्रुतिः-"एप ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनी- पत एए एबासाधु कर्म क्षारयति तं यमधो निनीपते " [ कौषी० ३८] इति । उन्निनीपत जर्व नेतुमिच्छति अधो निनीपतेऽधो नेतुमिच्छ- तीत्यादिश्रुत्या कारयितृत्वं श्रूयते तद्ब्रह्मेत्यवधारयेत्यर्थः । ननूपाधिभेदा- कारयितृत्वे सत्यपि ब्रह्मणः स्वांशजीवविषयोन्निनीपाऽधोनिनीपा च कथमुपपद्यत इत्याशङ्कय यथा पितुः स्वाज्ञामनुवर्तमाने तामुल्लय- वर्तमाने पुने पुरत्वे समाने सत्यपि तयोर्व्यवहारतः प्रीतिपश्च संभवति तथाऽत्रापि परमेश्वरस्य स्वाज्ञारूपश्रुतिस्मृत्युक्तमार्गे श्रद्धावति द्वेपवति च जीवे व्यावहारिकी प्रीति पश्च संभवति । ततस्तत्प्रीतिपमूला जीव- विपयोन्निनीपाऽधोनिनीपा च ब्रह्मण्युपपद्यत इति वेदितव्यम् । एवं मायोपाधिकबह्मणः सर्वज्ञत्वपरमेश्वरत्वादिलक्षणकथनेन निर्विकल्प- ब्रह्मणः परमेश्वरस्य वौपाधिको भेदो विद्यत इति गम्यते । किंचैतच्छ्र- वणलक्षणब्रह्मतादात्म्यज्ञानाजीवस्यापि ब्रह्मत्वे सर्वज्ञत्वादिलक्षणं स्यादिति सूचितम् ।। ३६ ।। इदानीमुमय पदार्थप्रतिपादकवाक्यबलात्तत्त्वंपदार्थों चिन्तयित्वा तत्र संशयादिराहित्यमवाप्प ततो वाच्यार्थं चिन्तयेदितीममर्थ ज्ञापय- नाह- तत्त्वंपदार्थी निणीती वाक्यार्थश्चिन्त्यतेऽधुना। तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७ ॥ तत्त्वमिति । संसृष्टविशिष्टतादात्म्यवाक्यार्थेपु मध्ये निश्चितमर्थमाह- तादात्म्यमत्रेति ॥ ३७॥ अत्र वाक्ये तादात्म्यमेवेति निश्चितत्वं कुत इत्यत आह- संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥ संसर्ग इति । अत्रास्मिन्वावयवृत्तिग्रन्थे तत्त्वमसिवाक्ये च नीलोत्प- लमिति वाक्य इव मुख्यार्थस्वीकारेण विशेषणविशेष्यरूपसंसर्गवाक्या- र्थोऽन्यतररूपविशिष्टवाक्यार्थो वा न संमत इप्टो भवति तत्र तु नील- गुणस्योत्पल पदार्थोत्पलद्रव्यस्य शुक्लपटादिव्यावर्तकतयाऽन्योन्यविशे- विश्वेश्वरविरचितटीकासमेता- घणविशेष्यमावसंसर्गार्थस्य वाऽन्यतरस्वरूपविशिष्टार्थस्य वाक्यार्थत्वा- ङ्गीकारे प्रमाणान्तराविरोधान्मुख्यार्थयोरेव वाक्यार्थत्वं संगच्छत एक वस्तुनिष्ठत्वादुमयोरत्र तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्था- परोक्षत्वादिविशिष्टचैतन्यस्य वाऽन्योन्यभेदव्यावर्तकतया विशेषणवि- शेष्यमावसंसर्गस्य वा विशिष्टैक्यस्य वाक्यार्थत्वाङ्गीकारे प्रत्य- क्षादिप्रमाणविरोधाद्वाच्यार्थयोरैक्यं न संगच्छत इति तदुभयं न संमतमित्यर्थः । एतेनेष हेतुनाऽहं ब्रह्मास्मीति प्रतिपत्ति- वाक्येऽपि वाच्ययोरहं ब्रह्मास्मीत्यर्थयोरन्योन्यभेदव्यावर्तकतया विशे- घणविशेष्यमावसंसर्गवाल्यार्थों न संमतो विरुद्धत्वात् । किंच ब्रह्मणः सर्वगतत्वात्तदंशस्य जीवस्य तदन्तर्भूतत्वादपरोक्षत्वकिंचिज्ज्ञ- त्वादियुक्तोऽहं परोक्षत्वसर्वज्ञत्वादियुक्तं ब्रह्मास्मीति ब्रह्मान्तःपातित्वेन भावनायां ब्रह्मविशिष्टो जीव इति विशिष्टैक्यब्रह्मस्वरूपत्वमिदमपि " त्वं सर्वत्र स्थितो यस्मादहं पूर्णे त्वयि स्थितः" इतिवदौपचारिकमेव स्यात् । अतो विशिष्टलक्षणवाक्यार्थाङ्गीकारेऽपि तत्त्वंपदार्थयोर्मेद एव प्रतीयते नैकत्वं कथं यथा तटाकस्थमहाजलपातितघटस्थाल्पजलस्य तटाकजलान्तर्भूतत्वेन तद्विशिष्टत्वेऽपि तटाकस्थत्वाद्याकारेण भेद एव प्रतीयते नैकत्वं तद्वदित्यर्थः । संसर्गविशिष्टयोः को मेद इति चेद्यदा नीलमुत्पलमित्युक्त उत्पलद्रव्यं श्वेतपीतादिभ्यो व्यावर्तयन्नीलपव्या- वर्तकत्वाद्विशेषणत्वेन संसृज्यते विशेष्येणोत्पलेन सह तद्वन्नीलगुणमपि वस्त्रादिभ्यो व्यावर्त यदुत्पल पदं विशेष्यं नीलपदेन विशेषणेन सह संस- ज्यते तदा विशेषणविशेष्यमावः संसर्गः। यदाऽन्योन्यव्यावृत्तिमनपेक्ष्यैव संसृष्टपदार्थः प्राधान्येन नीलविशिष्टमुत्पलं दण्डविशिष्टो देवदत्त इत्यन्य- तरविशिष्टोऽन्यतरार्थस्वीकारस्तदा विशिष्ट इति विशिष्टानुगुण्येन संसृष्टविशिष्टवाक्यार्थयोर्भेदः । तदुभयमत्र विरुद्धत्वान्न संमतमित्यु- क्तम् । किं च तदर्थस्वीकारे- "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे "[मुण्ड० २।२।८] इति । स वा अयमात्मा ब्रह्म" [बृह० ४।४।५] " ब्रह्म वेद ब्रह्मैव भवति" [मुण्ड०३।२।९] " तरति शोकमात्मवित् [छा०७॥
श्रीमच्छंकराचार्यकृता वाल्यवृत्तिः । ३] इत्यादिश्रुतयो नोपपोरन् । तस्माद्वी विदुपां न संमती किंतु विरुद्धांशत्यागपुरःसरमविरुवस्तुतादात्म्यरूपवाश्यार्थः संमत इत्याह- अखण्डलरसत्वेनेति। अखण्डेकरसत्वं नामाहं ब्रह्मास्मि ब्रह्मैवाहमस्मीति व्यतिहारेणाखण्डकरसवस्तुत्वप्रतिपक्तिः । अत्र श्रुतिः " त्वं वाऽहमस्मि मगवो देवते, अहं दा त्वमसि ” इति वाशब्दद्वयमेवकारार्थे । कैवल्योपनिपदि "सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत्" [कै० १६] इति श्रुतिः। अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नाऽऽवयोः । दिघ्या मत्तामसि प्राप्तो दिष्टया त्वत्तामहं गतः ।। तुभ्यं मह्यमनन्ताय मां तुभ्यं शिवात्मने । नमो देवादिदेवाय पराय परमात्मने । इति वाशिष्ठे प्रह्लादवचनम् । पदयोः सामानाधिकरण्यं पदार्थयो- विशेषणविशेष्यमावः प्रत्यगात्मलक्षणयोर्लक्ष्यलक्षणमाव इति संबन्ध- नयेणासण्डाथै वोधनीये किमिति विशेषणविशेष्यमावो निषिध्यत इति न शङ्कनीयम् । परम्परयाऽखण्डार्थोपकारत्वेनाङ्गीकारात् । कथं समाना- धिकरणविशेषणविशेष्याम्यामेकत्वे प्रतिपादिते सति तस्मिन्नर्थेऽनुपपत्तिं दृष्ट्वा पश्चाविरुद्धांशत्यागेनोमयानुगताविरुद्धचैतन्यमात्रांशस्वीकारे- णाखण्डेकरसवाक्यार्थस्वीकारात्संसर्गस्योपकारकत्वम् । नच तहह ब्रह्मास्मि ब्रह्मैवाहमस्मीत्यखण्डार्थेऽङ्गीकृतेऽप्यहंशब्दार्थत्वेन च युष्मत्प- क्षेऽपि नेदः प्रतीयत इति मन्तव्यम् । शिरोव्यतिरेकेण राहोरमावेऽपि राहोः शिर इत्यत्र पठ्या स्वस्वामिमावप्रतीतिद्वारा यथा भेदः प्रतीयते घटः कलशः कुम्म इत्यतो भेदाभावेऽपि शब्दमात्रेण भेदभ्रम इति संतोष्टव्यम् । विद्वच्छब्देनोपकामोपसंहारादिमिः पविधतात्पर्यलिङ्गैः । *उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये" वेदान्तानां सजातीयविजातीयस्वगतभेदरहितस्वमानपरत्वं ज्ञात्वे- दृशावलोकमन्तरेण स्वानुभवमाननिष्ठा न संभवत्यत एवोच्यते तेपाम- खण्डार्थ एव संमतो नान्य इत्यर्थः।अथवा संसर्गो वेति श्लोकस्यैवमर्थः- वर्णानां समूहः पदमिति हि पदलक्षणमाकाक्षासंनिधियोग्यतावतां ॥
विश्वेश्वरविरचितटीकासमेता- समूहो वा वाक्यमिति हि वाक्यलक्षणम् । तथा च सत्याभिहितान्वय- वादिनां वेदान्तिनां मते देवदत्त गामानय शुक्लदण्डेन पुत्रस्ते जात इति वाक्यात " तत्त्वमसि" (छा०६।८।७)" अहं ब्रह्मास्मि "[बृ०१।- ४।१०]"अयमात्मा ब्रह्म' (बृह० २।५।१०) इत्यादिमहावाक्येष्वपि स्वस्ववाचकपदैरभिहितार्थानां पदार्थानामन्योन्याकाङ्क्षापूरणयोगत्वेन संसर्गो वाक्यार्थों वर्णनीयः । अतः कथं तादात्म्यमत्र वाक्यार्थ इत्युक्तमि- त्याशङ्कय तत्त्वमस्यादिपदानामखण्डैकरसचैतन्यपर्यवसायित्वेन पदार्थ- भेदाभावात्संसों वाक्यार्थो न संभवति । संसर्गस्य पदार्थद्वयनिष्ठत्वात् । अतोऽन्यत्र वाक्यान्तरे पदार्थबाहुल्यसंमवात्संसर्गः संभवति । अत्र त्वे- कार्थपर्यवसानात्तादात्म्यमेव बाक्यार्थः संमतो विदुषां नान्यदित्यर्थाभि- प्रायेणोत्तरमाह-संसों वेति श्लोकस्यावतारिकाव्याजेन श्लोकार्थः स्पष्टीकृतः । नच पदार्थानां संसर्गस्य वाश्यार्थत्वात्पदार्थभेदाभावे वाक्यार्थों न स्यादिति शङ्खनीयम् । किंचिज्ज्ञत्वसर्वज्ञत्वादिलक्षणवा., क्यार्थापेक्षया कल्पितभेदोपपत्तेः । तस्माद्धान्त्या संसर्गे प्रतीयमानेऽपि विरुद्धांशपरित्यागेनोमयानुगतचैतन्यमात्रपर्यवसानात्परमार्थतस्तादा- स्यसेव वाक्यार्थस्तथैव विशिष्टार्थोऽपि न संभवति पदार्थभेदाभावात् । दण्डी देवदत्तः शुक्लः पट इत्यादौ दण्डिदेवदत्तादिपदार्थभेदस्य विद्य- मानत्वादन्यतरविशिष्टान्यतरार्थस्वरूपविशिष्टवाक्यार्थः संभवति । अत्र तु न तथेत्याह-विशिष्टो वेति । अतः संसर्गविशिष्टवाक्यार्थयोर- न्यतरन्न संभवति । किंतु तादात्म्यमेव वाक्यार्थ इत्यभिप्रायः । एकमेवाद्वितीयं ब्रह्म" [छा०.६।२।१] “ मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति" (बृह० ४।४।१९) “यदा ह्येवैष एतस्मिन्नुद- रमन्तरं कुरुते अथ तस्य भयं भवति".[तैत्ति० २।७।३]" शिवमद्वैतं चतुर्थं मन्यन्ते " [माण्डू० १ । ७] " द्वितीयाद्वै भयं भवति" [वृ० १।४।२]" तत्र को मोहः कः शोकः "[ ईशा०७ ] " एक एव हि भूतात्मा भूते भूते व्यवस्थितः "[ ब्रह्मबिन्दू० १२] " एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवास: साक्षी चेता केवलो निर्गुणश्च" [श्वेता०६।११] इत्यायनन्तश्रुतयः सत्याखण्डैकरसवाक्यार्थ एवोपपद्येरन् । अत इदमेव विदुषां मतम्॥३८॥ इदानीं विद्वत्संमतत्वेनोक्तमेव स्पष्टी करोति- ..
श्रीमच्छंकराचार्य कृता वाक्यवृत्तिः । ३३ प्रत्ययोथो व आमाति सोऽयानन्दलक्षणः । अध्यानन्दरूपश्च प्रन्यबोधकलक्षणः ॥ ३९ ॥ प्रत्यगिति। अन्तःकरणावच्छिन्नत्वेन प्रत्यक्त्वं प्राप्तो यो बोधस्त्वंपदल- क्ष्यत्वेनाऽऽमाति स्वयं प्रकाशते सोऽदयानन्दलक्षणोऽद्वयानन्दरूपस्तथाऽ. दयानन्दरूपश्च तत्पदलक्ष्यत्वेन स्वयंप्रकाशमानोऽदयानन्दरूपः परमात्मा च प्रत्यबोधैकलक्षणः । प्रत्ययोधेनकमभिन्नं लक्षणं स्वरूपं यस्य स तथोक्तः । नन्वानन्दवोधयोः कथं तादात्म्यमुपपद्यत इति चेन्न विरोधः । आत्मनो बोधानन्दस्वरूपत्वात् । अस्तु तयद्यानन्दबोधः प्रत्यगानन्दवोध इति झिमिति नोच्यत इति । तत्रायमभिप्रायः-बोधनरूप आत्माऽन्तःक. रणावच्छिन्न आत्माद्वितीयत्वेन दुःखमयाद्य मायावृत्त्यन्तरामावेन बोध- स्फुरणामाचे सत्यानन्दरूपेणावतिष्ठत इत्यत उभयोरेकरूपत्वादयं- तैलो न कदाचिदनुपपत्तिः(?)। संसर्गविशिष्टपक्षे प्रत्यक्षविरोधाद्वाच्ययो- ल्यमापचारिकमेव स्यात्तच श्रुतिविरुद्धमित्युक्तम् ॥ ३९ ॥ एवं लक्ष्यार्थयोरत्यन्तैक्यज्ञाने सति किं स्थादित्यत आह- इत्यमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावतेत तदैव हि ॥ ४० ॥ इत्थमिति । अन्योन्यतादात्म्यं परस्परतादात्म्यं द्वयोरपि स आत्मा तदात्मा तत्पदार्थस्य चाऽऽत्मा स्वरूपं स एव त्वंपदार्थस्य । एवं त्वंप. दार्थस्य य आत्मा स्वरूपं स एव तत्पदार्थस्य तस्य मावस्तादात्म्य तस्य प्रतिपत्तिानं तद्यदा मवेत्तदैवाब्रह्मत्वमहं मनुष्य इति सद्विती- यत्वेन कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वं त्वमर्थस्य प्रत्यगात्मनो व्यावर्तेत । हिशब्दो हेत्वर्थे ॥ ४० ॥ वन तु स्वस्य स्वयं परोक्षं न भवति किंवब्रह्मत्वविशिष्टप्रत्यगात्मन एवेति यतोऽतस्तस्याब्रह्मत्वव्यावृत्ती ब्रह्म परोक्षमपि व्यावतेतेत्याह- तदर्थस्य च पारोक्ष्यं ययेवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४ ॥ ५ विश्वेश्वरविरचितटीकासमेता- तदर्थस्येति । तत्त्वमर्थयोरेकत्वज्ञानात्तदज्ञानसंमूतपारोक्ष्याब्रह्मत्वयो- वृित्तिः स्यादित्यर्थः । किं तत इति । ततः परं किंरूपेणावतिष्ठत इति शिष्यप्रश्नः । पारोक्ष्याब्रह्मत्वव्यावृत्त्यनन्तरं पूर्णत्वं प्रत्यक्त्वं चोभयमपि व्यावर्तेत वा नो वेति प्रश्नाभिप्रायः । आचार्यस्तु शिष्या- भिप्रायं ज्ञात्वोत्तरं वक्तुमाह-ण्विति । स्वभावत एव पूर्णस्याऽऽत्मनः स्वाविद्ययैव प्रत्यक्तमतः स्वविद्यया प्रत्यक्त्वस्यैव व्यावृत्तिर्न पूर्णत्व स्येत्याह-पूर्णानन्देक रूपेणेति । पूर्णानन्देनैकममिन्नं रूपं यस्य स तथोक्तः प्रत्यग्बोध एष प्रत्यग्व्यावृत्तौ पूर्णानन्देनावतिष्ठत इत्यर्थः ॥४१॥ एवं स्वकीयग्रन्थस्य तत्त्वमर्थयोरेकत्वलक्षणो वाक्यार्थी निर्णीतः । इदानी तत्त्वमस्यादिवाक्यं कथं प्रवर्तत इत्याशक्यैवमस्मदुक्तप्रका- रेण वर्तत इत्याह- तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थों द्वावुपादाय प्रवर्तते ॥ ४२ ॥ तत्त्वमस्येति । तस्वमस्यादिवाक्यमपि तदर्थप्रतिपादने तादात्म्यप्र. तिपादनार्थं लक्ष्यो लक्षणविषयौ द्वौ तत्त्वंपदार्थावद्वयानन्दप्रत्यग्बो- धावुपादायैश्ययोगत्वेन स्वीकृत्य प्रवर्तते । उभयोरेकत्वलक्षणवाक्यार्थ प्रतिपादयति लक्ष्यावुपादायेति । अनेन परोक्षत्वप्रत्यक्त्वविशिष्टवाक्या- नहीं वाच्यार्थी त्यक्त्वेत्यर्थालभ्यते ।। ४२ ।। तत्त्वमस्यादिवाक्यं वाच्यार्थपरित्यागेन प्रवर्तमानं प्रत्यग्बोधो य आभातीत्यादिश्लोकेन स्फुटीकृतमित्याह- हित्वा द्वौ शवलौ वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३ ॥ हित्येति । वाक्यं तत्त्वमस्यादिवाक्यं शबली विशिष्टावत एव वाच्या वाग्विषयौ हित्वा परित्यज्य वाक्यार्थबोधने यथा प्रवर्तते तथाऽस्माभिः प्रत्यग्बोध इत्यनेन व्याख्यातमित्यर्थः । शवलौ हित्वेत्यनेन लक्ष्यापर: दायेत्याल्भ्यते । वाक्यं यथा प्रवर्तते तथाऽस्माभिर्व्याख्यातमित्यनेन व्याख्यानव्याख्येययोरेकस्वरूपत्वेनान्योन्यविरोधामावादस्मत्मणीतो ग्र- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ३५ न्थो विद्वद्भिोंपेक्षणीय इत्यर्थादुक्तं भवति । आदरादेव व्याकृत एतच्छ्रोतणां मुमुक्षूणां निःसंशयस्वरूपसाक्षात्कारो भविष्यतीति तात्पर्य नतु विजिगीपुत्वेन ॥ ४३ ॥ एवं वाच्यार्थं परित्यज्य लक्ष्योपादानेन वाक्यं प्रवर्तत इत्युक्तमि- दमनुपपन्नं शब्दस्य वाच्यार्थ एव मुख्यार्थः। वाक्यस्य पदयोमुख्यार्थपरि- ग्रहे विरोधे सति लक्ष्यार्थोपादानं युक्तं तत्र को विरोध इत्याकाङ्क्षायां विरोध दर्शयित्या लक्षणावृत्तिं वक्तुं तत्त्वपयोर्मुख्याथ संक्षेपतो दर्शयति- आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाधिधः ॥ ४४ ॥ आलम्बनतयेति । योऽन्तःकरणसंभिन्नो बोधोऽस्मत्प्रत्ययशब्दयोराल- म्बनतया माति स त्वंपदाभिध इत्यन्वयः । आलम्बनतया विषयतयाऽ- न्तःकरणसंमिन्नबोधोऽन्तःकरणेनायच्छिन्नबोधस्त्वंपदेनाभिधीयते त्वंप. दाभिधः । त्वंपदनाच्यो जीव इत्यर्थः ।। ४४ ।। एतेनान्तःकरणावच्छिन्नत्वेन त्वंपदवाच्यत्वेन च प्रयुक्तं सद्वितीयत्वं चोक्तं परोक्षत्दपूर्णत्वप्रदर्शनार्थ तत्पदवाच्यार्थमाह- मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्यायात्मकस्तत्पदाभिधः ॥ ४५ ॥ मायोपाधिरिति । मायोपाधिर्यलाश्रयाद्दर्पणवत्समष्टयज्ञानाश्रयत्वेन मायोपहिताविद्याकल्पितमीयागोचरस्वेनाऽऽवृताहत्यानन्द इति या वत् । अतो जगद्योनिर्जगद्विक्षेपाधिष्ठानं विशेषांशावृतियुक्तस्य रज्ज्वादेः सादिभ्रमाधिष्ठानत्वदर्शनात् । सर्वज्ञत्वादिलक्षण इति । अत एव निमित्तकारणं स एवेतीत्युक्तं " यः सर्वज्ञः सर्ववित्" (मुण्ड० १ । १।९) इति श्रुतेः । पारोक्ष्यशषल आवृतत्वाज्जीवापेक्षया परोक्षवि- शिष्टः सत्याद्यात्मकोऽपरिच्छिन्नज्ञानानन्दस्वरूप एवमुक्तलक्षणो यः स तत्पदाभिधस्तत्पदवाच्य ईश्वर इत्यर्थः । मायोपहितत्वादस्य परोक्षता सर्वजगदधिष्ठानत्वेन पूर्णता ॥ ४५ ॥ एवं वाच्यार्थावमिधाय तयोरभेदप्रतिपादने विरोध दर्शयन्लक्षणा-' वृत्तिमाह- ३ ६ विश्वेश्वरविरचितटीकासमेता- . 'प्रत्यारोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ४६॥ प्रत्यगिति । वाच्ययोरेवाभेदे प्रतिपाद्यमान एकस्यैव प्रत्यक्त्वं परो- क्षत्वं द्वितीयत्वं पूर्णत्वं च विरुध्यत इति यतोऽतो लक्षणा प्रवर्तत इत्यन्वयः । विरुध्यत इत्यत्र मायोपाधिकत्वकार्योपाधिकत्वकिंचि- ज्ज्ञत्वसर्वज्ञत्वादिविरोधो द्रष्टव्यः ॥ ४६ ॥ अस्मिन्वाक्य इयं लक्षणा संभवतीति वक्तुं लक्षणासामान्यल- क्षणमाह- मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७ ।। मानान्तरेति । मुख्यार्थस्य वाच्यार्थस्यापरिग्रहे प्रत्यक्षादिप्रमाणवि. रोधे सति मुख्यार्थेनाविनाभूतेऽर्थान्तरे प्रतीतिर्लक्षणोच्यते । अत्र प्रतीतिहेतु मूतशब्दप्रवृत्तिराल्लभ्यते । सा च त्रिविधा । जहल्लनणाऽज- लक्षणा जहदजहल्लक्षणा चेति । तासु गङ्गायां घोषः प्रतिवसतीत्यस्मि. वाक्ये 'गङ्गायां घोषवासानुपपत्तेर्गङ्गाशब्दस्य मुख्यार्थं प्रवाहं परि- त्यज्य तहिनाभूतेऽर्थान्तरे' तीरे वर्तमानता जहल्लक्षणा । एवं मनो ब्रह्मेत्यस्मिन्वाक्ये दृश्यत्वेनाचेतनस्य मनसश्चैतन्यैकरसब्रह्मत्वानुपपत्ते- मनःशब्दस्य मुख्या) धीवृत्तिमानं परित्यज्य तत्साक्षिचैतन्येऽर्थान्तरे वर्तमानता जहलक्षणा । श्वेतो धावतीत्यत्र श्वेतगुणमात्रस्य धावनानु पपत्तेः श्वेतशब्दमुख्यार्थं श्वेतगुणमपरित्यज्य तदाश्रयभूतेऽर्थान्तरे श्वेतोऽश्वो धावतीति श्वेतशब्दस्य वर्तमानताऽजहल्लक्षणा । एवं " सत्यं ज्ञानमनन्तं ब्रह्म " [ तैत्ति० २।१।१] इति । “आनन्दो. ब्रह्म [ तै० ३।६।१] इत्युक्त लोके ज्ञानानन्दादीनां धर्मत्वेन प्रसिद्धत्वा- त्तेषां ब्रह्मत्वानुपपत्ती सविषयज्ञानादीनां गुणत्वेन ब्रह्मत्वानुपपत्ता- वपि निर्विषयज्ञानानन्दादेरात्मरूपत्वेन गुणत्वाभावात्सत्यज्ञानानन्दादि- शब्दस्य मुख्यार्थमपरित्यज्य तत्स्वरूपत्वेऽपि तदाश्रयवत्प्रतीयमाने ब्रह्मव. स्तुनि सत्यज्ञानानन्दस्वरूपं वस्तु ब्रह्मेति। तत्र सत्यज्ञानानन्दादिशब्दस्य वर्तमानताऽजहलक्षणा । सोऽयं देवदत्त इत्युक्ते तत्कालतद्देशविशिष्टस्य : - श्रीमच्छंकराचार्यकृता वाक्य वृत्तिः । देवदत्तस्यैतत्कालतद्देशविशिष्टस्य देवदत्तस्य चोमयोरेकत्वानुपपत्ती तद्देशतत्कालैतद्देशतत्कालविशिष्टमेकमशं त्यक्त्वोमयत्रानुगतदेवदत्तमा- ब्रांशे शब्दस्य वर्तमानता भागलक्षणा सैव जहदजहल्लक्षणोच्यते॥४७॥ एवं सति तत्त्वमस्यादिवास्येपु का लक्षणेत्यत आह- तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥४८॥ तत्त्वमस्येति । सोऽयं देवदत्त इत्यस्मिन्बाक्ये सोऽयंशब्दयोर्मुख्यार्थ- परिग्रहे तद्देशतत्कालविशिष्टस्यैतद्देशैतत्कालविशिष्टत्वाभावामुख्यार्थ- योरेकत्वासंमोऽपि सोऽयंपदे उमयत्र वैशिष्टयांशं त्यक्त्वा यथा देवदत्त- मात्रे प्रवर्तते । तथा तत्त्वमस्यादिवाक्येऽपि तत्त्वंपदयोर्मुख्यार्थपरिग्रहे रोक्षस्य प्रत्यक्त्वामावादपरिच्छिन्नत्वेन पूर्णस्य द्वितीयत्वाभावाच वाक्यार्थयोरेकत्वासमवे सति तत्त्वंपदे उमयत्र परोक्षत्वादिसद्वितीयत्वा- दिवशिष्टयांशं त्यक्त्वा क्रमात्पूर्णानन्दे प्रत्यक्बोधे च प्रवर्तेते। ननु तथाऽपि पूर्णानन्दप्रत्यम्बोधयोः कथं तादात्म्यमितिचेदसीतिपदेन प्रत्यग्बोधस्यैव ब्रह्मरूपत्वेन पूर्णानन्दैकत्वे कथिते सति वक्ष्यमाणोपायेन पूर्णानन्दत्वे प्राप्ते प्रत्यग्व्यावृत्तिः स्यात् । बोधस्यैवाऽऽनन्दरूपत्वं पूर्वमेवोक्तं प्रत्य- ग्बोधो य आमातीत्यस्य ध्याख्यानावसरे । एवं तत्त्वंपदयोर्मागलक्षणयैव तादात्म्यं स्वीकर्तव्यं न लक्षणान्तरेण तयोरत्रासंभवात् । केचिन्माया- मोहितधियः प्रकारान्तरेण वाक्याथ कल्पयन्ति । कथमिति चेत्त्वं तदसि तदंशोऽसि तद्विकारोऽसीति वा तत्स्मर्तुमपि न योग्यम् । कथमितिचेत्त- त्वमसिवाक्ये परस्यांशो जीव इति विकार इति वा नोच्यते तत्सृष्ट्वा तदेवानुप्राविशत् "[ तैत्ति० २ । ६।१] इत्यादि " अनेन जीवेन" [छा०६।३।२] इत्यादिश्रुत्या स्वमायासृष्ट- जगति परमात्मन एव जीवरूपेणावस्थितत्वात् । यथा घटाकाशो महा- काशस्यांशो वा विकारो वान भवत्येवमात्मनो निरवयवत्वेन. निरंशत्वा- नोभयम् “आदित्यो यूपो यजमानः प्रस्तर इतिवत्प्रशंसापरं न. भवति यूपादेरादित्यस्वरूपासंभवात्प्रशंसापरत्वमत्र तु लक्ष्यार्थयोरत्य- न्तैक्ये विरोधाभावान्नार्थवादता । अग्निर्माणवक इत्यादिवन्न गौणार्थ- प्रतिपादकमात्मनो निर्गुणत्वात् । नापि तत्त्वतोऽस्य परमात्मनः कार्यत्व- “ विश्वेश्वरविरचितटीकासमेतां- प्रतिपादकं वाक्यं मृद्घटः, बीजं वृक्ष इतिवदात्मनोऽनादित्वेन जन्मा- यभावात्तत्कार्यत्वानुपपत्तेः । नापि वाक्यं जातिव्यक्तिप्रतिपादकं दीर्घोs- श्वो ह्रस्वोऽश्वः स्थूलो मनुष्यः कृशो मनुष्य इतिवदात्मन एकत्वेन व्यक्तिभेदाभावात् । नच नीलोत्पलं शुक्लः पट इत्यादिवाक्यवद्गुणगुण्या. स्मकत्वप्रतिपादकं निर्गुणत्वादात्मनः । नापि वैशिष्ट्यप्रतिपादकमात्मस्व- रूपनिर्विकल्पकज्ञानकरसत्वाद्वैशिष्ट्यानुपपत्तेः । नाप्युपासनापरं वाक्य "वाचं धेनुमुपासीत [बृह० ५। ८।१] "" आदित्यो ब्रह्मेत्युपा- सीत" [ मैन्यु० ६ । १५] इत्यादिवाक्यवदत्यन्तैक्यज्ञानार्थमेव तत्त्व- मसीति नवकृत्व उपदिष्टत्वात् । एतज्ज्ञानशेषत्वात्सर्वोपासनाया एतत्सर्व वैशिष्ट्यनिराकरणेनैव निराकृतप्रायं तथाऽपि स्पष्टार्थमनूद्य निरस्तम् । एवमात्मभेदाभावात्तदैक्यमेव वाक्यार्थ इति सिद्धम् । अतः सर्वेषां वेदान्तानां यथासंभवं लक्षणावृत्त्यैव ब्रह्मस्वरूपप्रतिपादकत्वम् । केषां. चिद्यावृत्त्या स्वरूपपर्यवसानम् । न गुणवृत्त्याऽऽत्मनो निर्गुणत्वात् । नापि मुख्यवृत्त्या स्वरूपप्रतिपादकत्वम् " यतो वाचो निवर्तन्ते " [ तै० २ । ४ । १] इति वाच्यत्वनिषेधात् । ननु तर्हि "ब्रह्मैक्यविषयां वाचं वदेत्संततमास्तिकः" " अन्या वाचो विमुश्चथ" [मुण्ड० २।२। ५] इत्यत्र ब्रह्मणो बाविषयत्वं कथं श्रूयत इति चेन्न । मुख्यवृत्तिगुण- वृत्तिविषयत्वाभावेऽपि लक्षणावृत्तिविषयत्वमानपरत्वात् । अतो “मनो ब्रह्म "[छा० ३।१८।१] इत्यादि सहशानां वाक्यानां जहल्लक्ष णया वृत्तिः । सत्यं ज्ञानमनन्तं ब्रह्म [ तै०२।१।१ इत्यादि सह- शानां वाक्यानामजहलक्षणया वृत्तिः । " तत्त्वमसि " [ छा०६।८।७] इत्यादिवाक्यानां जहदजहल्लक्षणा वृत्तिः। “अस्थूलमनण्वह्रस्वम् [बृह०३।८।८]इत्यादिसहशानामतन्निरसनद्वारा प्रवृत्तिः। कर्मकाण्डोपा- सनाकाण्डयोब्रह्मज्ञानार्थमन्तःकरणशुद्धिहेतुभूतशुद्धयाऽनुष्ठानप्रतिपा. दकत्वेन ब्रह्मपरत्वं “सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते"[म. गी०४।३३] इति स्मृतेः । एवं यथासंभवं योजनीयम् । न यत्र कुत्रापि मुख्यतो गुणतो वा वृत्तिब्रह्मणः सर्वविषयत्वादिति सर्वमवदातं शोधि- तमित्यर्थः ॥४८॥ पूर्व पूर्णानन्दैकरूपेणेत्यनेन जीवस्यैव ब्रह्मरूपत्वं वाक्या प्रतिपाद्य तं प्रतिपादितमर्थ " तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने इत्या- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः। ३९ विमिसिभिर्गन्धस्तत्त्वमस्यादिवाक्यस्याप्ययमेवार्थ इति स्पष्टीकृत्य तदन परोक्षदाळय चोपायमाह- अहं ब्रह्मेति वाक्यार्थबोधो याबद्दढी भवेत् । शमादिसहितस्तावदायसेच्छ्रवणादिकम् ॥ ४९ ॥ अहमिति । अहं ब्रह्मेति स्वस्य ब्रह्मापरोक्षज्ञानं यावद्यस्मिन्काले- निःशेपासंभावनाविपरीतमावनाराहित्यं यथा मवति तथा दृढी मवेत्त- हाब्यस्य दुर्लभत्वसूचनार्थ प्रयोगः । तावत्कालपर्यन्तं शमादिसाधनयुक्तः सन् “ आवृत्तिरसकृवुपदेशात् [ब०सू०४।१११] इत्यधिकरणन्यायेन पुनःपुनर्मनननिदिध्यासनाभ्यासं कुर्यादित्यर्थः । ब्रह्मापरोक्षज्ञानदााय शमादिसाधनानुष्ठानेन सहासकृच्छ्रवणास्यासस्य विधानादुक्तसाधना- नुष्ठानपुरःसरं द्वित्रिवाई अषणादिकरणस्य ब्रह्मापरोक्षज्ञानहेतुत्वमर्था- दुक्तं भवति । एवं विनिषारं अधणाविनाऽपरोक्षज्ञाने समुत्पन्नेऽप्यति- दाामावाहहुकालरूषितसंसारकासनालेशेन पुन:पुनश्चित्तविक्षेपसंम- वादष्टाङ्गयोगसद्वासनाभ्यासाभाषाद्धेतोमनोवासनाया निःशेपनाशा- भावाच ज्ञानदायाय मनोवासनाया निःशेषनाशाय च बहुकृत्वः श्रवणाद्यभ्यासमष्टानयोगतहासनाभ्यासं च कुर्यादित्युक्तं भवति । एवं कृते विदेहमुक्तता स्यात् । अन्यथा शमादियुक्तस्य द्विविवारं श्रवणा- दिजनितापरोक्षज्ञानमात्रेण जीवन्मुक्तता न स्यात् । " इत्थमन्योन्यतादास्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावतेत तदेव हि ॥ तदर्थस्य च पारोक्ष्यं यथेषमित्यनापरोक्षज्ञानेनाब्रह्मत्वनिवृत्तेः प्रति- पादितत्वात् । इदमेव शकोत्तरत्वेन समयते । ननु ब्रह्मापरोक्षज्ञा- नार्थं शमादिसाधनयुक्तस्य श्रवणादिकरणं युक्तं ततः परं किं प्रयोजन- मितिचेन्न " अहं ब्रह्म" इत्यपरोक्षज्ञाने समुत्पन्नेऽपि संसारवासनाया निःशेषं नाशो न स्यादपरोक्षज्ञानिनोऽपि संसारवासनानिवृत्तेः क्वचि- हष्टत्वात् । संसारवासनादाढ्य बन्ध इत्यभिधीयते । वासनातानवं राम मोक्ष इत्यभिधीयते " इति वाशिष्ठे निर्वासनस्पैव विदेहमुक्त्यभिधानात् । तस्माज्ज्ञानदा.
विश्वेश्वरविरचितटीकासमेता- - ढयाय निर्वासनत्वसिद्धये चासकृच्छवणाभ्यासः कर्तव्यः । ननु एतावता वासनालेशेन ब्रह्मापरोक्षज्ञानिनो जीवन्मुक्तस्य रागद्वेषात्मकः संसारवा- सनासद्भावो नोपपद्यत इतिचेन्न । अतिदायहीनस्य कोमलकण्ट- कस्य दाढ्यात्पूर्वं यथा सम्यकूचोदनकार्यक्षमता नास्ति ब्रह्मापरो- क्षज्ञानदाढदिर्वाचीनकाले निरस्ताशेषसंसारनिदानत्वासंभवाजीव- न्मुक्तस्यापि दशाभेदेन संसारवासनासंमवोपपत्तेः । " रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तोमवदच्छः स्यात्त जीवन्मुक्त उच्यते । वाशिष्ठे जीवन्मु- तस्य संसारवासनासद्भावदर्शनाञ्च । किंच विदेहमुक्तिसमये जीवन्मु- तस्य वीतिहव्यस्य वचनम्- राग नीरागतां गच्छ द्वेष निःशेषतां बज । भवद्भ्यां शुचिरं कालमिह प्रक्रीडितं मया इत्यतो ज्ञानदाढर्याय निःशेषसंसारवासनानिवृत्त्यर्थं च वेदान्तमहा- वाक्यश्रवणमनननिदिध्यासनाभ्यासमष्टाङ्गयोगसद्वासनाभ्यासं च बोध- दाढयपर्यन्तं पुनः पुनः कुर्यादित्यर्थः ॥ ४९ ॥ इदानी ब्रह्मापरोक्षज्ञानदाढायोपायान्तरमाह- श्रुत्याऽऽचार्यप्रसादेन दृढो बोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥ श्रुत्येति । श्रुत्या गुरूपदिष्टवाक्यश्रवणादिनाऽऽचार्यप्रसादेन प्रणि- पातादिसंपादिताचार्यप्रसादेन च यदा बोधो दृढो मवेत्तत्कालपर्यन्तं गुरुक्तमहावाक्यश्रवणादिकं गुरुप्रसादं च संपादयोदित्यर्थः । तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः। [म० गी० १३ । २५ ]. इति स्मृतेर्वेदान्तमहावाक्यश्रवणादिनैव मृत्योरतिक्रमणश्रवणायमर्थोऽवग- म्यते । तार्ह वेदान्तवाक्यश्रवणाद्यभ्यासाद्वा गुरूपदिष्टमहावाक्यश्रवणा- भ्यासाद्वाऽपरोक्षज्ञानदाढये सति तदा पुरुषः कथंभूतः स्यादित्या- काङ्क्षायामतिहढकण्टकन्यायेन हढापरोक्षज्ञानस्य संसारवासनया सह निःशेषमज्ञानतत्कार्यनिवर्तकसामयें. सति तदा पुरुषो निरस्ताखिलो- पाधिर्मवतीत्याह-निरस्ताशेषेति । कर्मणोऽपि संसारकारणत्वात् । तत्किं निदानशब्देनोच्यते तथाऽसति अज्ञाननिरासमन्तरेण कथं तत्कार्यस्य कर्मणो निरासः स्थादिति निदानशब्देनानादिकारणमवि- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः। ४१ घोच्यते । तस्याः संसारनिदानत्वं संसारादिकारणत्वं संसारकारणक- मणः कारणत्वमात्रमिति वाच्यम् । संसारस्य निदानं संसारनिदानमशेषं च तत्संसारनिदानं चाशेषसंसारनिदानं निरस्तमशेषसंसारनिदानं सपरि- करमज्ञानं येन स तथोक्तः ॥ ५० ॥ इदानीं निरस्ताशेषसंसारनिदानत्वे सति किं स्यादित्याकाङ्क्षायां तस्व विदेहमुक्तिरित्युच्यते- विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥ ५१ ॥ विशीर्णेति । विशीर्णकार्यकरणः कार्य शरीरं करणानीन्द्रियाणि विशीर्णानि शिथिलीभूतानि कार्यकरणानि यस्य स तथोक्तः । ननु देहेन्द्रियादौ विद्यमाने तस्य विशीर्णत्वं कथमितिचेत्तस्यापरिच्छिन्नब- झाकारभावनया देहेन्द्रियादिपरिच्छिन्नत्वामावान्मुक्तदृष्ट्या विशी- र्णत्वमत एव भूतसूक्ष्मैरनावृतः शब्दादिभिरनावृत इन्द्रियाविशीर्णत्वा- विषयसंनिधावप्यविकृतचित्त इत्यर्थः । अत एव विमुक्तकर्मनिगड इति विशेषणम् । संचितप्रारब्धागामिरूपं निगडं यस्य स तथोक्तः । अतः सद्य एव विमुच्यते तदेव निरस्ताशेषसंसारनिदानत्वसमय एव विदेहमुक्तो भवतीत्यर्थः । कथं देहे स्थिते विदेहमुक्तिः स्यादिति न शकनीयं लोकदृष्टया देहे सत्यपि निरस्ताशेषाज्ञानस्याज्ञानपरिकल्पि- तदेहामावाद्विमुक्तिरेव भवति । अत्र श्रुति:-" अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः " [छा०८ । १२ । १ ] इति । नन्वेवं सति प्रवर्तकाभावाच्छरीरं कथं प्रवर्तत इति चेद्यत्र क्वापि चिन्तायुक्तस्य हस्तादिकं स्वतो यथा स्वकार्ये प्रवर्तते तथा वासनाधीनं चक्षुरादीन्द्रियं स्वतः प्रवर्तत एवं पथिगततृणादौ चक्षुरादिर्न रागतः पतति । मुक्तदेह- श्चापि पूर्ववद्भोजनादौ प्रवर्तते । यथाऽध्वगन पथा प्राप्तगिरिनदीविपि- नादिकं विलोक्यते तद्वन्मुक्तदेहेनापि भोजनादिकमनुभूयतेऽतः पूर्व- संस्कारवशात्कुलाल चक्रन्यायेन ऋषमजडभरतादिदेहवत्पुरावत्प्रवर्तत एवेति वेदितव्यम् । तस्य लोकदृष्ट्यैव शरीरपतनं तत्समये । श्रुतिः- " तद्यथाऽहिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव" [बृ० ४।४।७] ६ ४२ विश्वेश्वरविरचितटीकासमेता- इति । एवं ब्रह्मापरोक्षज्ञानदायान्निरस्ताशेषाज्ञानस्य पुरुषस्य वासना- लेशेन सहाज्ञानतत्कार्यसर्वकर्मक्षये विदेहमुक्तिरुक्ता । एवंभूतस्यापि लोकदृष्ट्या देहावस्थानमात्रेण जीवन्मुक्तत्वाङ्गीकारें ब्रह्मादीनामप्यन्य- दृष्ट्या देहसंमवाज्जीवन्मुक्तत्वमेव स्यात् । तच्चानिष्टं तेषामध्यपरिच्छिन्न- ब्रह्मस्वरूपत्वेन प्रसिद्धत्वात् ॥ ५१ ॥ एवं विदेहमुक्तिनिष्ठामुक्त्वेदानी ब्रह्मापरोक्षज्ञानमात्रात्पुरुषस्य निर- स्ताशेषाज्ञानत्वासंभवात्संचितकर्मण एव क्षये जीवन्मुक्तिमाह- प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् कंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥५२॥: प्रारब्धेति । पुरुषो यदाऽनारब्धकर्मबन्धस्य संक्षये जीवन्मुक्तो मवें. त्वदाप्रभृति प्रारब्धकर्मवेगेण सह प्रारब्धकर्मफलहेतुभोगहेतुभूतरोगादि- संसारवासनालेशेन सह कंचित्कालमवतिष्ठत इत्यन्वयः । एतदुक्तं भवति ब्रह्मापरोक्षज्ञानादनारब्धकर्मबन्धस्य संचितकर्मणः क्षये सति जीवन्मुक्तस्य पुनः शमादिसाधनानुष्ठानेन सह वेदान्तश्रवणमनननिदि ध्यासनाभ्यासस्य पौनःपुन्येन कृतत्वाद्वोधदायें सति निरस्ताशेषाज्ञान- त्वात्प्रारब्धकर्मवासनालेशानुवृत्तेरपि क्षये देहाद्यभिमानाभावात्स तु विदेहमुक्तो भवति । यस्य त्वज्ञानमात्रमेव स्यात्तस्यापरोक्षज्ञानमात्राद- नारब्धस्य संक्षये सति बोधदायहेतुभूतश्रवणाद्यभ्यासाकरणाबोधदा- या मावे प्रारब्धकर्मवासनालेशानुवृत्त्या सह कंचित्कालं स तु जीवन्मु- क्तरूपेणावतिष्ठते । तस्यापि कालान्तरे शमाद्यनुष्ठानेन सह श्रवणाय: भ्यासकारणज्ञानदाढ्यं संभवति चेत्प्रारब्धकर्मवासनानिवृत्तिद्वारा देहा- यभिमानाभावाद्विदेहमुक्तिः संभवति । यदि ज्ञानदाढ्यं न स्यात्तर्हि प्रा- रब्धकर्मवासनाभ्यासनिवृत्त्यमावादेहपातपर्यन्तं जीवन्मुक्तरूपेणावतिष्ठते प्रारब्धं नामेदानी प्रतीयमानदेहोत्पत्तिनाशादिहेतुभूतं कर्म । अनारब्धं नाम विष्वग्देहान्तरोत्पादकं संचितं. कर्म । ज्ञानोत्पत्त्यनन्तरं देहावसान- समये कर्तृत्वमोक्तृत्वाद्यभिमानमन्तरेण क्रियमाणमागामि .कर्म । तत्र प्रारब्धं त्रिविधम् । ऐच्छिकसनैच्छिक परैच्छिकं चेति । तत्रानच्छिक- परैच्छिकयोः स्वकीयप्रयत्नो नास्ति । ऐच्छिके स्वप्रयत्नं कृत्वा स्वाभी- '४३ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः। धाननुभुङ्क्ते । किं चाऽऽकाशगमनादिसिद्धिजालानि वाञ्छन्ति वेत्तान्यपि कमात्साधयन्ति । तदुक्तम्- यस्तु वा बालिशोऽल्पोऽपि सिद्धिजालानि वाञ्छति । स तु तत्साधनद्रव्यैस्तानि साधयति क्रमात् ।। इति वाशिष्ठवचनम् ।। ५२ ॥ इदानी संसारवासनानुवृत्तिवशात्कर्तृत्वमोक्तृत्वाभिमानमन्तरेण प्रार- ब्धकर्मफलमोगानुसवसमये हि क्रियमाणानामागामिकर्मणां बन्धहेतु. त्वशङ्कामवता( पसा )रयन्प्रारब्धकर्मान्ते विदेहमुक्तिमाह- निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं तकैवल्यं प्रतिपद्यते ॥ ५३ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यशंकराचार्यकृता वाक्यवृत्तिः समाप्ता। निरस्तेति । वैष्णवं परमं पदं प्रतिपद्यत इत्यन्वयः। विष्ल व्याप्तावि- त्यस्माद्धातोविष्णुशब्द उत्पन्नो विष्णोस्तदिदं वैष्णवम् । अतः सर्वदेश- बालवस्तुव्यापकत्वादेव परममुत्कृष्टं पद्यत इति पदं स्वरूपमित्यर्थः । वैष्णवमित्यनेनाङ्गाङ्गिन्मावो नाङ्गीकृतः शिलायाः पुत्रिका राहोः शिर इतिवत् । विष्णोरेव वैष्णवं पदं सर्वव्याप्तं पदं स्वरूपं प्रतिपद्यते प्राप्त इव मवति । कण्ठामरणस्येव नित्यं प्राप्तस्य स्वरूपस्याविद्ययाऽप्राप्ति- रिव विद्यया प्राप्तिरिवेत्यर्थः । तत्प्राप्तौ परमपुरुषार्थं ज्ञापयंस्तत्स्वरूप- मेवाऽऽह-निरस्तातिशयानन्द इति । एतत्पदं पूर्व व्याख्यातमपरिमिता- नन्दमित्यर्थः । लोके संयोगानां वियोगाना(?) तत्त्वदर्शनात्तत्माप्ती कालान्तरे तद्वियोगेन पुनरावृत्तिशङ्कायाम् । “ अनावृत्तिः शब्दादना- वृत्तिः शब्दात् "[ ब्रह्मसू० ४ । ४ । २२ ] इत्यधिकरणन्यायेन पुन- जीवत्वप्राप्तिं वारयति-पुनरावृत्तिरहितमिति । अन्यस्यान्यप्राप्तावेव वियोगः । :अनं तु " तत्सृष्ट्वा तदेवानुप्राविशत् " [ते. २।६।१] इति । अहमात्मा गुडाकेश सर्वभूताशयस्थितः [भ० गी० १०॥ २०] परमात्माऽद्वयानन्दः पूर्णः पूर्व स्वमायया । स्वयमेव जगभूत्वा प्राविशन्जीवरूपतः ॥
४४ विश्वेश्वरविरचिंतटीकासमेता- त्वाद्यमावाच । तत्त्वमसि [छा०६।८।७] इत्यादिवचनाजीवपरयोर्वस्तुतो भेदा. मावाद्वियोगो नास्तीत्यर्थः। तथा चोक्तम्" यद्वा न निवर्तन्ते तद्धाम परमं मम"[म०गी०१५।६] इति । ननु ताकाशवत्सर्वगतेन परमेश्वरेण तद्भिन्नस्य जीवस्य तत्प्राप्तिरयुक्तेत्याशक्य साक्षात्प्राप्त्यभावेऽप्युपाधि- निवृत्त्या तद्भावापत्तिरेव तत्प्राप्तिरित्याह-कैवल्यमिति । उपाधिवि- निर्मुक्तौ स्वयमखण्डः सच्चिदानन्दरूपेणावतिष्ठत इत्यर्थः । अयमाशय:- अपरोक्षज्ञानेनाज्ञाननिवृत्तिद्वारा संचितकर्मनाशे सति रागादिसंसार- वासनालेशानुवृत्त्या कर्तृत्वाधभिमानमन्तरेण प्रारब्धकर्मफलानुमवस- मय आभासरूपेण क्रियमाणेनाऽऽगामिकर्मणा सह जीवन्मुक्तस्य " तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्यपदेशात् । [ब्रह्मसू०४। १।१३] इत्यधिकरणन्यायेन कर्तृत्वाद्यभिमानामावाद्वस्तुगत्या कर्तृ- “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं- विदि पापं कर्म न श्लिष्यते "[ छा० ४ । १४ । ३ ] इत्यादिश्रुत्या च संश्लेषो न स्यात् । प्रारब्धकर्मवेगस्यापि मुक्तेषोरिव वेगक्षया- निवृत्तिरतः संचितकर्मणो ज्ञानेन नष्टत्वादागामिकर्मणा संबन्धामावा- प्रारब्धकर्मणो मोगेन नष्टत्वात्कारणाभावात्कार्याभाव इति न्यायेन देहान्तरमाप्त्यमावात्मारब्धकर्ममोगान्ते न तस्य प्राणा उत्क्रामंन्त्य- व समवलीयन्ते" [ नृसिं० उ० ख०५] इत्यादिश्रुत्या तप्ता यस्थ- जलपन्मुक्तदेहे प्राणानां विलयः स्यात् । अत्र प्राणशब्देन ज्ञानेन्द्रिय- पञ्चकं कर्मेन्द्रियपश्चकं प्राणादिपञ्चकं मनआद्यन्तःकरणचतुष्टयं लिङ्गश- रीरात्मकं सवं गृह्यते । प्राणादेरुत्क्रमणामावाद्देहान्तरसंमवोऽपि. न स्यात् । अत्र देहे प्राणोऽस्य लीनः स्यात् । जीवस्य शरीरत्वमपि न स्यात् । यदा मुक्तस्य शरीरं मृतं सत्सद्यः पतति तदोपाधिविनिर्मुक्तघ- टाकाशमहाकाशवत्परिपूर्णचिदानन्दस्वरूपो भवतीति । अत्र श्रुति:- तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" इति [छा०- ६।१४।२]" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" [मु.२ । २८ । ]" ज्ञा- नाानः सर्वकर्माणि भस्मसात्कुरुते तथा [ गी०. ४ । ३७ ] ज्ञानं लब्ध्या परां शान्तिमचिरेणाधिगच्छति" [गी० ४।३९] तत्र को मोहः कः शोक एकत्वमनुपश्यतः । [ईशा० ७]. " । [ ते श्रीमच्छंकराचार्यकृता वाल्यवृत्तिः । ४५ तरति शोकमात्मवित् । [छा० ७।१।३ ]" ब्रह्म वेद बझैद भवति" [मु०३-२-९]" ब्रह्मविदाप्नोति परम् त्ति०२।१ । ५] इत्यादिश्रुतिस्मृतीतिहासपुराणेभ्योऽयमर्थोऽध्यव- सीयते ॥ ५३॥ नमो ब्रह्मविद्भ्यो नमो ब्रह्मविद्धयः । इति श्रीविश्वेश्वरपण्डितविरचिता वाक्यवृत्तिः समाप्ता ।
No text on this page.