Scl
The Krityasara Samuchchaya Of M M Pandit Sri Amritanatha Jha
Front matter
No text on this page.
॥ श्रीः॥ ** काशी-संस्कृत-प्रन्थमाला- १२९ (धर्मशास्त्रविभागे (४) चतुर्थं पुष्पम् ) *श्री: महामहोपाध्याय श्रीमदमृतनाथमाविरचितः कृत्यसारसमुच्चयः ज्यौतिषाचार्य-ज्यौतिषतीर्थ-ज्यौतिषरत्न-काव्यतीर्थ- पण्डित श्रीगङ्गाधरमिश्रशर्मणा यथास्थलोपयुक्तटिप्पणीभिः प्रयोजनीयविविध- परिशिष्टविषयैश्च समलङ्कृतः। व्याकरण-साहित्याचार्य- पण्डित श्रीकृष्णमोहन शास्त्रिणा संशोधितः । चौखम्बा-संस्कृत-सीरिज, बनारस-१ वि० सं० २००९] मूल्य ४॥) [ई० १९५३
प्रकाशक:-
जयकृष्णदास हरिदास गुप्ता,
चौखम्बा संस्कृत-सीरिज ग्राफिस,
पोवाक्ल नबनारस-१
पुनर्मुद्रणादिकाः सर्वेऽधिकाराः प्रकाशकाधीनाः
JAYA KRISHNA DAS HARI DAS GUPTA
The Chowkhamba Sanskrit Series Office,
P. O. Box 8, Bana.ra.s.
तृतीयं संस्करणम्
मुद्रका--
विद्याविलास प्रेस,
बनारस-१
THE
KASHI SANSKRIT SERIES
129
( Dharmas'āstra Section, No. 4)
THE
KRITYA SĀRA SAMUCHCHAYA
OF
M. M. PANDIT S'RĪ AMRITANATHA JHĀ
With Jotes, Introduction, Indices, Appendices etc.,
By
PANDIT S'RĪ GANGADHARA MIS'RA
Jyotis'āchārya, Jyotis'atirtha, Jyotis'aratna, Kāvgatirtha.
Edited by Pt. Krishna Mohan Thakar
Vyakarana and Sahitya Acharya.
PUBLISHED BY
JAYA KRISHNA DAS HARI DAS GUPTA
The Chorokhamba Sanskrit Series Office,
BANARAS
1953
॥ श्रीः॥ प्राकथनर अस्त्ययं सकलजनविदितः श्रौतस्मातचारुविचारसंग्रहात्मकः प्रचलितागणित- स्मृतिनिवन्धगणधुरीणः संसारसंक्षिप्तसरललेखसङ्केतकलितो निखिलविद्वज्जनपरमाहतोs- तितरां रमणीयः कृत्यसारसमुच्चयो नाम निवन्धः । अस्य तु वार्षिकव्रतवैधनिर्णय-सदाचारविचार-समयाशुद्धिविवेक-श्राद्धीयविषय- समीक्षाऽऽशौचनिर्णय-तीर्थविधान-संस्कारविधिप्रभृतिविविधविषयविभूषितत्वेन रचयितु- रत्युग्रतपःप्रभावेण चेतरप्रचलिताखिलस्मात्तनिवन्धेभ्योऽधिकः प्रचारो वर्तते । एतस्य रचयिता महीतलगतनिखिलप्रदेशशिरोमणिरूपायाः पुराणतन्त्रवणिता. गणितगुणाया अमरावत्यधिकसुखसाधनायाः प्रतिभवनमशेषशास्त्रसागरमथनमन्दरा- यमाणपण्डितमण्डलीमण्डिताया गङ्गोत्तरतटोपकण्ठवर्तमानाया मिथिलाया अवयवे भागलपुरमण्डलान्तर्गते धर्ममूला (धेमुडा) गिरिनदीपूर्वतटार्धकोशमात्रान्तरे वर्त- मानेऽत्युप्रश्रीमदुप्रतारापीठस्थलात् पूर्वदिशि क्रोशकान्तरिते चयनपुरग्रामे कुजौलि- मौलिकदुःखभजनठक्कुरदौहित्रस्य पगुलवाडमौलिकस्य सच्छाब्दिकस्य पण्डितमा- 'णिकशर्मणस्तनयस्तार्किककरीन्द्रवृन्दविद्रावणपारीन्द्रो विवादिवदननीरजवनतुहिनकिरणो महामहोपाध्यायपदवीकोऽमृतनाथमाशर्मा यावजीवनं स्ववासस्थलनिर्मितचतुष्पा- व्यामशेषशास्त्राण्यध्यापयन् निजगुणैः स्वदेशकुलप्रामानुज्ज्वलयन्नासीत् । अनेन प्रायश्चित्तव्यवस्थासारसमुषयः वादसारसमुचयः, कृत्यसारसमुच्चयश्चैते निबन्धा लोकोपकाराय निजकीर्तिमूर्तिसंस्थापनाय च निर्मिताः । अत्र प्रथमः कारयां मुद्रित उपलभ्यते, यदन्ते प्रामाद्युल्लेखोऽवलोक्यते- 'पूर्णे धीरेन्द्रवृन्दैर्वस्चयनपुरे वासवान् भूमिदेवः कीर्तिप्रख्यात आसीदमृतपदलसन्नाथनामा बुधेन्द्रः । तर्काव्धेः पारगन्ता सकलगुणयुतो निर्मिता तेन सम्यक् प्रायश्चित्तव्यवस्था सकल बुधजनस्वान्तसन्तोषदात्री ॥' इति । द्वितीयस्त्वद्यावधि अनुद्रित एव वर्तते, तद्ग्रहे तल्लिखित एवावलोकितो मया तत्प्रपौत्रानुग्रहेण, यस्गदौ मङ्गलाचरणम्- 'पिता पञ्चाननो यस्य भ्राता चापि षडाननः । स्वयं गजाननो विघ्नविषाताय विनायकः ॥' ततः स्वपरिचयस्तदुक्त एव- श्रीमन्माणिकशर्मणः सुकृतिनः सच्छान्दिकस्याखिले साहित्ये निपुणस्य यो हि तनयो ज्येष्ठस्तु सत्तार्किकः । , [ ५ ] साहित्यस्मृतिकोषतन न्त्रिकुशलः ख्यातोऽवनौ धार्मिक- स्तेनैव क्रियते विवादविषये कश्चित् प्रबन्धोत्तमः ॥ श्रीमताऽमृतनाथेन वादसारसमुच्चयः । क्रियते बालबोधाय तत्रास्तु शरणं शिवा ॥ तदन्ते तु- शाके वासरवेदवासरमही ( १७४७ ) संलक्षिते वत्सरे मार्गे मासि बलक्षपक्षवलितेऽष्टम्यां बुधे वासरे । नत्वाऽनेकपवक्त्रपादकमलं पुस्तं नवीनं परं श्रीयुक्तामृतनाथशर्मसुधियाऽलेखीदमाशु स्वकम् ।। चयनपुरग्रामे सन् १२३२ साल । यस्य वर्तमाने नवेषुधृतितुल्ये (१८५९ ) शालिवाहनशकान्दे १८५९-१७४७ = ११२ द्वादशाधिकशतपरिमितानि वर्षाणि गतानि । तेन सप्ततिवर्षासन्ने वय. स्यपि दृढगात्रेण तनिवन्धरत्नत्रयं निरमायीति निजपुरवासिप्राचीनजनजनश्रुत्या तज्जन्मसमयः शाके १७४७-७० = १६७७ शकाब्दाः, प्रचलितफसलीसंज्ञयवना- ब्दानुसारेण तु सन् ११६३ सालः सिद्धयति, यस्य साम्प्रतम् (शाके १८५९ फसली- सन् १३४५ साल ) द्वयशीत्यधिकशतमितवर्षाणि ( १८२ ) अतीतानि । एतस्य पं० हरिहरदत्तमाः, रोहिणीदत्तमाः, ततः कन्यकाद्वयम्, ततः पण्डित- रतिनायझाः, गोपीनाथमाः, शशिनाथमाः, एतान्यपत्यान्यभूवन् । तेषु प्रथमोऽनेक- शास्त्रीयगहनविषयाभिज्ञः परमविज्ञः स्वसमयेऽसदृशोऽसीमसुयशोविकाशेन तत्प्रान्त गौरवान्वितं चकार । अयं स्वपितुर्लब्धविद्य एव । तदनुजो रोहिणीदत्तोऽपि विद्वा- नेव । ततस्तृतीयस्तनयो रतिनाथमाः, तु यद्यपि सकलदर्शनपाण्डित्यपरिपूर्ण श्रासी त्तथाऽपि न्यायशास्त्रीयविवेचनाप्रपञ्चेऽद्वितीयचमत्कारवान् परमप्रतिभावान् निजप्राम एव चतुष्पाट्यां पाठयन् समये समये यतस्ततो यज्ञादी निमन्त्रितस्तत्रोपस्थिती भूत्वोद्धतविद्वद्वराखर्वगर्वपर्वतान् स्वीयोमतीव्रतममेधाभावितालौकिकशास्त्रार्थावेशवज्रेण चूर्णीकुर्वन् लव्धसर्वाधिकयोग्यतासूचकपूर्णपुरस्कारवित्तेन निजजीवनयोगक्षेमं साधयन् ७५ वर्षवयसि १८२० शकाब्दीयोर्जार्जुनपक्षीयद्वितीयायां संसारमसारं निश्चित्य शरीर जहौ । तदनुजावल्पवयस्यनपत्यावेव दिवाती। पं० हरिहरदत्तशर्मणः प्रथमः पुत्री वैयाकरणः चन्दामाः, काव्यसाहित्येऽतिनिपुणः परमयोग्यो सिद्धाननपत्य एव सुरपुरी प्रस्थितः। द्वितीयस्तस्य पुत्रोऽपि ५० बलदेवमाः, व्याकरणे साहित्ये स्मृतौ च निपुण आसीयस्यान्ववायोऽधुना विद्यते रतिनाथशर्मणोऽनेकपुत्रेष्वेकः श्रीमदनिरुद्धमाः (बूबूगोसाँई ) परममन्त्रतन्त्रप्रयोगकुशलः परमशिवभक्तः स्वमहिम्ना भूतप्रेतोप- द्रवविद्रावणे नितरां लब्धकीर्तिरद्यापि जीवत्येव । रतिनाथशर्मणोऽन्यतमपुत्रात्मजः श्रीमदर्जुनझाशर्मा लब्वव्याकरणाचार्यपदवीकः साम्प्रतं पाठयति पश्चिमप्रदेशे । एवमद्यापि प्रन्थकर्तुः कुले सरस्वतीनिवासो वर्तत एव । तवंशीयोऽत्वविद्योऽपि [] प्राचीनलेखव्यवस्थाभिरितरयोग्यविदुषामपेक्षयाऽधिकस्मातविषयनिपुणो निजजीवनयात्रां तद्वलेनाद्यापि यापयति । प्राचीनविविधशास्त्रीयपुस्तकानि तद्गृहेऽन्यतः प्रचुरतराणि वर्तन्ते । श्रास्ता ताव- देतत्सम्वन्विनी प्रवृत्तिः । अथ प्रकृतनिवन्धस्तु प्रथमं दरभङ्गामण्डलान्तर्गतटभकाग्रामवासिबटुकनाथशर्मणा अन्यकर्तपुत्रपण्डितरतिनायझाशर्मणः सकाशादासाद्य काश्यां मुद्रापितस्ततो मुम्बय्यां द्वितीयवारं मुहितोऽपि बहुत्राशुद्धिवृद्धि दधदेवास्ति । यथोपाकर्मप्रसङ्के-उपाकर्म- राजोपसंस्कार विशेषः, इति । तत्र उपाकर्म-यज्ञोपवीतसंस्कारविशेषः, इति युक्तः । व्यतीपातयोगलक्षणे 'यद्यमा' इत्यत्र 'चन्द्रमा' इति युक्तः पाठः । मन्वादिप्रसञ श्कोकद्वयं त्रुटितम् ! नवान्नप्रसङ्गे 'ब्रह्माविष्यवृहस्पती शशधरो मार्तण्डपौष्णादिति' इति श्लोकस्य चरमचरणं त्रुटितम् । भूकम्पवर्णनावसरे वारुणमण्डलफले चरणद्वयं त्रुटितम् । एवमनेकस्थले त्रुटिबाहुल्यमशुद्धिप्राचुर्य कतिपयविषयराहित्य प्रन्थकर्तृग्राम- कुलपरिचयहीनलवावलोक्य तद्नामाभिजनेन मया स्वपितामहमातुलात्मजपण्डित- चक्रधरशमलिखितादर्शपुस्तकस्यान्यजनलिखितापरपुस्तकस्य च साहाय्येन मूलग्रन्थ- पाठः संशोधितः। अत्र येषां व्रतपर्वणां निर्णयो नासीत्तेषां प्रसन्नात्तत्तत्स्थाने प्राचीनमान्यनिबन्धानुसा. रेण कृतैर्निर्णयर्वहुत्र निवेशितस्यापि सक्षिप्तस्य विषयस्य समर्थकैरन्यस्मृतिप्रमाणवच- नैष्टिप्पणीभिः संयोज्य वहतो विषयाः समधिकलेखतया पश्चादधिगतत्वेन च मूलग्रन्थान्ते परिशिष्टरूपेण निवेशिताः । एवमीदृशोऽयं सकलोपयोगिविषयसमहात्मको निबन्धः प्राचीनपुस्तकमालाप्रका- शकाय काशीवासिने श्रेष्टिने श्रीमते जयकृष्णदासगुप्तमहोदयाय मुद्रणार्थ समर्पितस्ततो यथामति सावधानतया काशीतो दूरदेशवर्ति श्री १०८ वैद्यनाथसंस्कृतविद्यालयेऽध्या- पयता मयाऽन्तिमप्रूफमात्रसंशोधनं कृतमपि सहजमनुजमनीषादोषेण निजबोधदौर्बल्येन प्रान्त्या त्रुटितकप्टकादिदोषेण चाशुद्धि यत्र तत्र विलोक्य खिन्ननिजमनोविनोदाय सह- जसदयहृयाणां विद्वज्जनमहोदयानां पुरतः पुनः पुनः साञ्जलि मया निवेद्यते यत्कृपया संशोधनीयमेतत् । अन्ते तु यदीदृशस्याप्यस्य दोषदर्शनमिषेणापि दोषज्ञानां दर्शनग्रह- णकारुण्यं नवेत्तदा ममायमायासः सफलः स्यादित्यहमाशासे-इति । सं० १९९४ ई० १९३८ नम्रनिवेदकः- श्रीगङ्गाधरमिश्रः . विज्ञप्तिः अयि निखिलविद्याददातमानसाः सहृदयधुरीणा महामहिमशालिनो विद्वांसः ! इह खलु सर्वेषां प्राणिनां सुखाय प्रवर्तमानानां तत्साधनानि प्रतिपित्सृनां दुःखसाधनानि जिहासूनां हितपरिणामेषु जोहावरऐन तत्त्वमनवगच्छतामालल्यादिना ततो निवृत्तानां पुनः पुनः दुःखार्णवे निमज्जतामपि असंविदानानां श्वातन्त्र्यमविगच्छतां नरकं पिपति- पूणामुद्धाराय परमकारुणिको ग्रन्थकारस्तेषां यथाधिकार कर्मकलापप्रवृत्तिप्रवणत्वं सम्पादयिष्यन् धर्मशास्त्रमिदं व्यवस्थापयामास । किन्तु यत्र तत्र गूढविषयल्य दुरवगम- तया मन्दमतीनामिदानीन्तनानां ततोऽनवबोधमालोच्य तत्वभुत्पूनामुपकाराय देवज्ञशिरोमणिः श्रीगङ्गाधनिक्षा टिप्पणी निर्मायाऽन्ते बहून् विषयानाकलय्य परि- शिष्टमपि निर्ममौ। परमोपादेयत्वादेवास्य स्दौरेय समयः प्रथम द्वितीयं च संस्करण सजातन् । कर्गलस्यायासशतेनाप्यनुपलभ्यमानत्वादतिविषमेऽपि समये परोपकारवद्ध- परिकरैः चौखम्वासंस्कृतयुस्तकालयाध्यक्षैः श्रीयुत जयकृष्णदासहरिदासगुप्तमहो. दयैरस्य तृतीयं संस्करणं च प्रकाशितन्तदर्थं ते धन्यवादाः। अहमप्येनं च यथामति संशोध्य यथास्थलमुपयुक्तटिप्पण्यादिभिः संयोजितवानस्मि । अत्र च 'दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते' इति न्यायानुसारेण परगुण- ग्रहणपरायणान्तःकरणा विद्वांसो दयोदयमधुरदशा पदप्रचाराप्रगल्भस्य वालकस्येव मम स्खलनेऽपि धृतकौतुका निरीक्ष्य संशोधयन्त्दिति सविनयं प्रार्थयेऽसकृदिति शम् । कण्टकाक्षरदोषेण भ्रमेण यदि वा मम । त्रुटिश्चेदिह संशोध्या धीरैः शास्त्रविचक्षणैः ॥ महाशिवरात्रिः "वि० सं० २००९ } श्रीमतामाश्रवः- श्रीकृष्णमोहनशास्त्री विषयानुक्रमणिका टि० ८ U टि० " " टि० ॥ २ " " " " टि० " 10 9 ३ " टि० " " विषयाः पृ० मङ्गलाचरणम् ग्रन्थकर्तृनाम, कर्तव्यं च मासनिरूपणम्, तद्भेदाच टिप्पणीकारमङ्गलम मङ्गलश्लोकार्थः मासानां स्वरूप कर्मभेदेन मासमेदः कर्मविशेषे मासविशेषः अथ चैत्रकृत्यम तत्र वारुण्यादिनिर्णयः चैत्रकृष्णप्रतिपदि चाण्डाल. स्पर्शनं सचैलस्नानं च वारुण्यादौ शतभिषायामपि स्त्रिया स्नानं कर्तव्यमेव चैत्रशुक्लाष्टम्यां ब्रह्मपुत्रस्नानम् तरसपल्प: अत्रैवाशोककलिकाप्राशनम् रामनवमीनिर्णयः अथ वैशाखकृत्यम तत्र कर्तव्यकर्माणि कूपादिखननफलम् दि० , अश्वत्थसेचनफलम् मेषसंक्रान्तौ सर्पभयनिवारणोपायःटि०५ वैशाखे त्याज्यपदार्थाः वारिपूर्णघटदानविधिः अषयतृतीयानिर्णयः वैशाखस्य मलमासत्वेऽपि तत्रैव रविव्रतम् टिक, अथ ज्येष्ठमासकृत्यम् तत्र तिथिवेधविचारः सोमवत्यमावास्याव्रतम् ज्यौषशुक्लतृतीयायां पश्चाप्रिव्रतम सोमवारप्रदोपविचारः दिनतिथिकोगेन योगान्तरम दशहराविचारः विषयाः पृ० ज्येष्ठस्य मलमासत्वेऽपि तत्रैव दशहरा अथाषाढकृत्यम् तत्र हरिशयननिर्णयः पुलिकमूलबन्धनम् अथ श्रावणकृत्यम सादिविषप्रशमनभेषजम् येषु नपत्रेषु सर्पदष्टो न जीवति " आर्दाऽऽद्यपादे वीरभोजनफलम् । अम्बुवाची नदीलक्षणम् रजोयोगेऽपि स्नानाहंनद्यः कर्मविशेषेऽपि रजोदोषाभावः मधुश्रावणीव्रतम् अशून्यशयननतम् गणेशचतुर्थीनिर्णयः नागपञ्चमी रक्षाबन्धनम् अथ भाद्रकृत्यम् तत्र कृष्णचतुर्थी बहुलापूजादि भाद्ने गोप्रसवे दोषस्तच्छान्तिश्च तत्र योनिव्यत्यासोत्पत्ताव- निष्टफलम टिक, सौरभाटे महिषीप्रसवेऽपि दोषः कृष्णजन्माष्टमीनिर्णयादि तथा मीनादिदशावतारतिथिः कृष्णाष्टमीनिर्णयः महालक्ष्मीपूजनादिविधिः कुशोत्पाटनम् कुशपर्युषितत्वे समयसीमा टिक स्थलविशेषेण निषिद्धकुशाः हरितालिकानिर्णयः भाद्रशुक्लचतुयां चन्द्रदर्शने दोषः तत्र पूजादिमन्त्राः टिक १ १ " १२ " " ६ छ " टि. A टि० ॥ १५ " ८ विषयानुक्रमणिका 8 पृ० टि० " प्र " टि० २६ R " - 8 -- " " " A . ३ " " विषयाः पृ० विषयाः भाद्रशुक्लषष्ठीनिर्णयः १६ खञ्जनदर्शने बृहत्संहितो. भाद्रशुक्लाष्टमी क्तविशेषविचार अनन्तबतम् कलशस्थापनम् (तन्त्रप्रतिपनिर्णयः )२५ अगस्त्यर्घदानम् संख्याभेदेन चण्डीपाठ- तत्र विशेषविधिः टिक विशेषफलम् अथ आश्विनकृत्यम् शतचण्डीविधानम् तत्र श्राद्धावश्यतया सामान्यपाठविधिः श्राद्धेनिषिद्धकालाः टि० १८ शूद्रस्वलिखितपुस्तकपाटे दोषः अमायां श्राद्धे फलाधिक्यकारणम् टिon ! वृद्धिपाठकमा सहमीनिर्णयः शस्त्रादिहतानां चतुर्दश्यां श्राद्धम् (नवरात्रे) षष्ठीनिर्णयः (नवरात्रे) टि० महालचमीपूजनम जीवत्पुत्रिकाष्टमी महाष्टमीनिर्णयः महानवमीनिर्णयः २९ अन्बष्टकाश्राद्ध मातृश्राद्धे विप्रालाभेऽष्टौ योपितो कुमारीवयोनिर्णयः टिक मोजयितव्याः टिक विजयादशमी पतिपिण्डेनैव पत्न्यास्तृप्ति- तत्र यात्राविधिः रतस्तासां पार्वगे पृथक शमीग्रहणम् , तन्मन्त्रश्च कोजागरा पिण्डदानं न टि० ३१ आवश्यकश्राद्धतिथयः अथ कार्तिककृत्यम् पितृणामग्राह्यपिण्डजनाः तन्त्रस्नानफलम् श्राद्धे शुक्लवस्त्र धार्यम् स्नानमन्त्रश्न श्राद्धे कुशनियमाः कार्तिके वयंपदार्थाः टि० श्राद्धे उपवेशननियमः तत्र धात्रीच्छायायां पिण्ड- 'पितृप्रदक्षिणनिषेधः दानादिफलम् श्रादविवाभावे'कर्तव्यता उपवासादिफलम गजच्छायायोगः धात्रीच्छायायां ब्राह्मणभोजनफलंटिक, गजच्छायायां भोजने प्रायश्चित्तम् २१ आकाशदीपदानफलम् टि० श्राद्धकालः पक्षभेदेन हविष्यविचारः ३२ मातृकपैतृकैकोदिष्टकर्मभेदेन कार्तिके वर्जन्यानादि टि० समयभेदः कार्तिके पनपत्रोपरि भोजने फलम् टिon मुहूर्तलक्षणम् आमिषविचार मुहर्तमानस्य चलत्वम् टि० कार्तिके मांसवर्जनम् वार्षिकश्राद्धनिर्णयः अमावास्यायां हलवाहने दोषः स्वधावाचनकालस्येयत्ता तत्र उल्कानामणम् ३४ जीवरिपतृ-गर्मिणीपत्योः उल्काग्रहणभ्रमणविसर्जनमन्त्राः श्राद्धाधकरणस्वम् २३ रात्रौ शूर्पवादनविधानम् श्राद्धे कृष्णा एव तिला देयाः " लक्ष्मीपूजानिर्णय- प्रातः कालसङ्गममध्याह्नादिलपणम् २३ । श्यामापूजानिर्णयः हस्तार्के खजनदर्शनम दीपमालिकादानफलम् " " " " " " " " A " २९ " B A R " टिक 8 " टि० ३५ . " टि." " " " " " " " " " " " " ४ " " विषयानुक्रमणिका विषया पृ० विषयाः पृ० गोपूजा (क्रीडा)निर्णयः माधीपूर्णिमानिर्णयः यमद्वितीया (प्रातृद्वितीया) महामाधीलक्षणम् सन्न चित्रगुप्तपूजनम् कुम्मयोगः (हरिद्वारे) कार्तिकशुकृषष्ठी (प्रतिहार- कुम्भयोगः (गोदावार्याम्) षष्ठी) निर्णयः टिक कुम्मयोगः (प्रयागे) एकादशीनिर्णयः अथ फाल्गुनकृत्यम् हरिशयनादौ फलाहारनिषेधः तत्र कृष्णाष्टम्यां जानकीजन्म ३९ एकादश्यां श्राद्धे, स्त्रियां फाल्गुनकृष्णचतुर्दश्यां शिवरात्रिव्रतम् शिवरात्रिप्रताराम्भप्रकारः ऋतुमत्याञ्चोपायाः ४० नकवतम् उपवासपूर्वदिने निषेधः टिल नकवताराम्भप्रकार गुरु-मातुल श्वशुराद्यन्नं अथ त्रयोदशीप्रदोषव्रतनिर्णयः नपरानम् सन्ध्यायां वयं कर्म प्रताशकदशायामुपाय: सन्ध्याकालनिर्णयः एकादश्यां विष्णूत्थापनमन्त्राः " अशको प्रतिनिधिद्वाराऽपि व्रतम् अथ इरिवासरनिर्णयः उपवासासमर्थस्योपायान्तरम् टि० " भीष्मपञ्चकवतविधिः गृहीतव्रतस्योद्यापनावश्यकत्वम् एकादशीपारणायां मासभेदेन गृहीतव्रतभने प्रायश्चित्तम् पारणावस्तुभेदाः स्त्रियाः स्वाम्याज्ञां विना व्रतं का० पूर्णिमायां कौशिकीस्नानम् अथाग्रहणकृत्यम् संकल्पितबतमशौचेऽपि कर्त्तव्यम् ५४ तन्त्र नवानभक्षणनिर्णयः संकल्पस्वरूपम् सूर्यव्रतम् स्त्रीणां रजोयोगेऽन्यद्वारा पूजादि अथ पोषकत्यम ४४ अथ रजोवत्यधिकार टि० " अथाकालवृष्टयादिविचार रजोदर्शनाप्राक स्त्रीप्रसङ्गे दोषः ग्रहणादौ समयाशुद्धिः रजोदर्शने चतुर्थेऽह्नि पत्यु- अर्धोदययोगः रथ देवार्थे पञ्चमेऽति शुद्धिः ४६ माघरजोदर्शनेऽनिष्टफलदा तन्त्र विशेषरमाणम् टिक मासादयः पौषीपूर्णिमायां कौशिकीस्नानम् दुष्टकाले रजप्रवृत्तौ शान्तिः अथ माघकृत्य रजस्वलावर्जितकर्माणि तंत्र प्रातःस्नानकाला अविवाहितायां रजोदर्शने दोषः " प्रातःस्नाने सौरो माघमासो ग्राह्यः जातरजस्काया विवाहे शान्तिः , विवाहे रजोयोगे तन्त्र शीतशान्त्य वहिप्रज्वा- तदुपाय: रोगा या रजोवत्याः शुद्धि- गणेशचतुर्थी प्रकार: रजस्वलामरणे विशेष श्रोदयचर्चा अथ गोविन्दद्वादशीयोगः माघशुक्लपञ्चमी (श्रीपञ्चमी) होलिकानिर्णयः माघशुक्लसप्तमी होलिकादहननिर्णयः अरुणोदयादिकालवेला होलिकादाहे वायुफलम मावाका (भीष्माष्टमी) इति द्वादशमासकृत्यम्। न कार्यम् A " टि० ४३ " " " R " ४७ .. " ४८ " " " " " विषयानुक्रमणिका ११ . " R . " शुभ फलम् " " " R " " " " " " " ७० " " " " "७१ " वेषयाः अथ ग्रहणादिविचारः चहणे श्राद्धमावश्यक्रम महणे पुण्यकाल पहणे श्राद्धफलम् महणे रानादावपि श्राद्धं कर्तव्यम् ग्रहणेऽशौचिना स्नानमात्रं कर्तव्यन् ग्रहणे मोजननिषेधः टिक भोजने विशेषः ग्रहणे श्राद्धकरणे पृथ्वीदानफलम् " ग्रहणे आमान्नेनैव श्राद्धविधानम् चन्द्रग्रहणे मन्त्रग्रहणे दोषः पित्रादिमन्त्रनिषेधः ग्रहणे संकल्पविचार: ग्रहगे चूडामणियोगविशेषः अथ ग्रहणादौ नक्षत्रशेन फलम् अथ मलमासः मलमासलक्षणम् कस्मादविमासात्कश्च मासोऽ. धिमासः अधिमाससम्भववर्षशकज्ञानम् अधिमासे क्षौरं न कार्यम् अथ क्षयमासः ६२ क्षयमासविशेषविचारः मलमासे कर्तव्याकर्तव्ये ६३ मलमासे गजच्छायायोगासम्भवः टि०६४ गजच्छायया ग्रहणमित्यर्थः- मलमाससम्भववर्षे मासिकवृद्धि. विचार ६५ तस्य युक्तिः टि०, प्रथमवार्षिक मलमासेऽपि कर्त्तव्यम् ," अशौचबाधितवार्षिकं मलमासेऽपि कर्तव्यम् ६७ अथ एकोद्दिष्टादिश्राद्धनिर्णयः रजोयोगबाधितवार्षिक रजः- प्रवृत्तिपञ्चमेऽहि कर्तव्यम् याहाज्ञानविस्मरणरूपप्रति- बन्धकेन क्षयाहे श्राद्धाकरणे श्राद्धकाला" पर्वाणि ६८ जन्मदिनकृस्यम् विषया पृ० जन्मतिथौ दुष्टदिनयोगेऽनिष्टफलम टि०६८ जन्मदिने वय॑म् जन्मदिने वय॑कर्तव्ये जन्मतिथौ जन्मनक्षत्रयोगे जन्मतिथानुभयदिने सत्यां निर्णयः, जन्समाले सौरादिकर्म वय॑म् अभ्यङ्गे वर्जिततैलम् , ६९ नित्यामङ्गे वर्जितदिनेऽपि तैलाभ्यङ्गो विहितः तैलाम्बङ्गे दुष्टदिनदोषप्रतिप्रसवः अभ्यङ्ग वय॑नतन्त्राणि अथ वास्तुविचारः वासस्थलसमीपे वय॑वृक्षाः भूमिलक्षणम् गृहारम्भे विहितमासाः कूपखननदिफलम् कूपचक्र रविभात् कूपचक्रं रोहिणीभाव कूपखनने विहितभानि वृक्षरोपणविहितभानि अथ संक्षेपत आह्निकम् तत्र मूलमलत्यागविधिः अनुदकमूत्रपुरीफे प्रायश्चितम् यज्ञोपवीतेन विना भोजने दोषः ॥ ७२ मृत्तिकालेपनम् आचमनम् पछिद्रस्पर्शकरणम् शयने स्वप्नदोषे कर्तव्यता पादप्रचालने विशेषः वर्णभेदेन दन्तधावनप्रमाणम् दिनियमः आचमनोच्छलजलबिन्दु पतने नोच्छिष्टदोषः विहितदन्तकाष्ठानि निषिद्धदन्तकाष्ठानि ७३ दन्तधावने निषिद्धतिथयः दन्तधावनमन्त्रः दन्तधावनप्रमाणम् 99 " R " " " " . " टि. " " " 990 " " १२ विषयानुक्रमणिका ७७ " "७४ " " R " " " R टि. " विषयाः पृ० जपक्रमः जपयज्ञस्य मुख्यत्वम् टि० जपभेदाः उच्चैर्जपकरणे दोषः आसनभेदेन फलम् माला कीदृशी कार्या मालासूननियमः मालासूत्रे अन्थिनियमः गोमुखादौ मालागोपननियमादि गोमुखीवस्त्रनियमः प्रमादान्मालापतने प्रतीकारः अशौचऽपि दशवारं जपः कार्य: मालानियमः एकमालायामनेकमन्त्रजपनिषेधः मालापदार्थभेदाः रुद्राक्षमालायां शक्तिमन्त्रजपे दोष" तत्रापि कालिकादिदेवीमन्त्रजपे न दोषः टि.. करजपे विशेषः गायत्र्याः संख्यामेदेन फलभेदः मालाशुद्धिविधानम् स्थानविशेषेण फलविशेषः " ७९ जपसम्पत्तिहेतवः जपसमये सुवर्णरजतादिधारणाव- श्यकत्वम् कर्मकाले नाभेरघास्पर्शे दोषः मालाभेदेन फलविशेषता खाधमालागुटिका संख्या मालागुटिकाप्रमाणम् करजपक्रमः . " विषयाः पृ० स्नानविधानन् ७३ जले कफमूत्रादिपातने दोषः टि० स्नानावश्यकता जलमध्ये वस्त्रनिष्पीडने दोषः अवस्थामेदेन स्नाननिषेधः आतुरस्नानविधानम् अङ्गप्रोधणनिषेधः तर्पणात्पूर्व वस्त्रगालने दोषः स्वयं धौतेन वस्त्रेण पूजादि कार्यम टिon स्यूत दग्ध-परकीय-सच्छिद्र-वस्त्रेण तत्परिहारच गालितवस्त्रप्रसारणे नियमः सम्यग्धौतपरिधानेन विना कर्मकरणे दोषः टि० आतुराणां कृते स्नानात्पूर्वमपि इक्षुपयोमूलादिमक्षणे न दोषः टि०७४ शिवगङ्गालक्षणम् महानद्यः विना यज्ञोपवीतेन न किमपि कर्म कार्यम् टिक एकवल-स्यूतवस्त्रेण स्नाने दोषः स्नानोत्तरमजघर्षणे दोषः उत्तरीयवसधारणे विधिः सायंसन्ध्यानिषिद्धतिथयः ऊर्ध्वपुण्डत्रिपुद्रादि सूदुभस्मादिभेदेन भस्मधारणविधिः टि० नयां प्रवाहाभिमुखं स्नानम् परखाते पञ्चपिण्डोद्धरणपूर्वकं नानम् " अर्ध्वपुण्ड्राकरणे दोषः गङ्गातीरमृत्तिकाधारणफलम् ७६ भस्माचभावे जलेनापि तिलकं कार्य, शूद्रस्य बिन्दुमात्रमेव तिलकम् गोपीचन्दनधारणफलम विष्णववतारचिहिततिलकफलम् सन्ध्याकरणाऽऽवश्यकरवम् सन्थ्योचितसमयः तर्पणस्थानम् गायत्रीजपकरणावश्यकत्वम् बले छन्दोगानां गायत्रीजपनिषेधः 2 " " " R टि०" " " अथ तर्पणम् " " " " " तपंगे रूप्यसुवर्णादिधारणावश्यकता ८० पितृतर्पणे मोटककुशधारणम् सपिण्डीकरणावधि सरलकुशन्नयेण तत्परं मोटकेन पितृक्रिया टि. तिलतर्पणनिषेधः एतत्पतिवादः तर्पणावश्यकता तर्पणेऽन्ये विशेषाः . टि० ८१ " . 8 टिक, " " " " " वि०॥ " " टि०॥ दोष " " " " " ८७ विषयानुक्रमणिका १३ विषयाः पृ० विषयाः पृ० कुशोपर्येव देवपितृतर्पणमुचितम् ८१ संकल्पितमौनभोजनस्य भ्रमानाषणे देवर्षिपितॄणामजलिसंख्याभेदः प्रायश्चित्तम् ८६ तर्पणमात्रकरणेन बलिवैश्वदेवताय- उपवेशनक्रमः करणे न दोषः जलपानपात्रविवेचना अथ देवपूजा स्वार्थभोजनसाधने दोपः आसनानि भोजनस्थाने मण्डलकरणावश्यकता" आसनभेदे फलभेदः कांस्यभाजने भोजनफलम् पञ्चोपचारः कांस्यभाजने यतिविधवयोर्भाजने षोडशोपचारः दोषः शिवपूजा सदैवोत्तरमुखेन कार्या भोजने पत्रनियमः पुष्पदानविधानम् भोजने दिनियमः धूपदीपदाने दिनियमः जीवपितृकस्य दक्षिणमुखभोजने गन्धपुष्पादि दाने विशेषः टिक" अपक-मुकुल कथितादिफलैर्न पूजा भोजनेऽननिन्दा गर्हिता कार्या उच्छिष्टं कस्मैचिन्न देयम् गर्भमन्दिरे जपादिनिषेधः भोजनं कियदुचितन् शालग्रामशिलायां तुलसीविच्छेदे. उच्छिष्टे घृतं न भक्षणीयम् दोषः हस्तदत्चान्नलवणादिभोजने दोषः तुलसीपत्रत्रोटने निषिद्धदिनानि वेष्टितशिरसा सोपानकेन च न स्त्रियाः शालग्रामपूजने दोषः भोकव्यम् स्त्रीशूदकरस्पर्श महान् दोषः भोजनान्ते श्वानद्वयबलि देवार्थ-पुष्पचौर्यमपि न दोषाय अतिथिभोजनादपि पूर्व भोज. कमलचम्पकादीनां न पर्युषितदोषः नीयाः स्वेनैव पुष्पाचाहरणम् भोजनव्यवस्था पुष्पादिवहतो नाभिवादनम् एकपंक्त्युपविष्टजनस्योत्थाने सर्वेषां असमर्पर्णीयपुष्पाणि भोजने दोषः मध्याह्नस्नानोत्तरं पुष्पचयने दोषः अथ दाहादिः हरिपूजाप्रशस्तपुष्पाणि अतिथिमदत्वा न किमपि भोक- व्यम् शिवपूजायामप्रशस्तपुष्पाणि परदेशे परिगृहे च भोजनार्थ नामगो- देवविशेषेण वयंपुष्पाणि ब्रकथने दोषः माघे चम्पकपुष्पेण विष्णुपूजाफलम् , त्रिपुष्करयोगे जननमरणहानिला- सेफालीबकुलपुष्पे भूमिस्थे अपि ग्राह्ये, भात्रिगुणा भवन्ति पद्मचम्पककलिकाभलेन दोषः त्रिपुष्करयोगः मटानादिप्रणामप्रकारः अग्राह्याग्निः कुलानुसारेण नैवेद्यसंख्या अस्थिमात्रलामे तदाहविधिः भोगने वयंसंयोगः शरीरास्थ्यलाभे पर्णनरदाहविधिः ताम्रपानस्थगव्यं मद्यसमम् पर्णनरदाहे मुहूर्तविचारः देवर्षिपूजनाकरणे भोजने दोषः नियतमरणरोगारम्भदिनतिथि- मौनभोजनफलम भानि २कृ० सा० " " " " " . " 10 " " ८४ " " " " ८७ ८८ A टिक " " " " 9 " " ९० " " " " विषयानुक्रमणिका विषयाः पृ० विषयाः पृ० तच्छान्तिदिग्दर्शनम् टि०८८ श्रादाधिकारिमिन्नेन दाहे कृते तदा पञ्चके मरणदाही निषिद्धौ धिकारिणा दश पिण्डा देयाः अन. पञ्चके मृतस्य पुत्तलकं विधाय दाह ८९ धिकारिकृतदाहेऽपि तेनापि स्वीया- नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्ती शौचान्त दशपिण्डा देया एव टि०९५ पुत्तलकविधिरेव टिक श्मशानगतस्य जीवितेऽनिष्टफलम् . " पञ्चके तृणकाष्टनां ग्रह दोषः शरीरे दग्धेऽपि पिण्डैदेह उत्पद्यते " अशौचाभ्यन्तरे पर्णनरदाहे पिण्डदानक्रमः ९६ शेषाशौचाहोमिः शुद्धिः येनैव प्रथमदिने तेनैव सर्वदिनेऽपि त्रिपक्षानन्तरं दाहे त्रिरात्रम् पिण्डा देयाः पर्णनरविधिदग्धस्य मरणतिथिज्ञाने पिप्पलपत्रपुटकेनैव प्रेतोदकक्रिया तस्यां तिथ्यज्ञाने पर्णनरदाहतिथौ त्र्यहाशौचे पिण्डदानक्रमः वार्षिकम् सचः शौचे युगपत्सर्वे पिण्डाः देय गतस्य द्वादशवर्षपूर्ती प्रेतावधारणम् , भस्थिसन्नयनकाला गंतस्य पञ्चदशवर्षपूतौ वा प्रेतावधा. गङ्गायामस्थिप्रक्षेपे मृतस्य फलम् रणम् शाहाभ्यन्तरे गङ्गायामस्थिोपे गतस्य द्वादशपञ्चदशवर्षपूत्तौं कदा गङ्गातटमरणफलसमं फलम् पर्णनरदाहा गङ्गायामस्थिप्रक्षेपे प्रक्षेपकस्य फलम् ॥ मरणान्या जीवितस्य दाहादौ अस्थिक्षेपविधानम् कृते यदि आयान्ति तदा तच्छा- अशौचे त्याज्यकर्माणि ९८ न्तिप्रकार: सङ्कल्पितवतमशौचेऽपि गतस्य तत्पत्रप्राप्तदिनाद् द्वादशवर्षो. शुभकर्मणि पितुरब्दं मातुरन्दा ध्व प्रेतत्वं तत्पत्राङ्कित तिथी मायामब्दपादमशौचम् oि" वार्षिकश्च भारब्धे सूतकमनारब्धे न ब्रह्मदण्डहतपतितानां दाहादिविधिर्न ९ तबारन्धलक्षणम् गोहतात्मघातिजनस्यानपातादि भशौचिगृहादपि प्राह्मवस्तूनि न कार्यम् सम्पूर्णशौचसङ्करः अग्न्युदकादिनारमघातिनामुदक मरणाशीचे मरणाशौस्यैव दानाशौचादि न कार्यम् सजातीयत्वम् प्रमादाइमिजलादौ मृतस्य दाहादि अशौचान्तिमदिनरात्रिशेषे कर्तव्यमेव मृतस्य व्यवस्था टिक अथ सतीविधानम् सपिण्डीकरणाभावे प्रेतत्वं गया- सतीभवनफलम गमनेनैव मुच्यते विधवास्नीधर्माः यहायसम्पूर्णाशौचे समानदिनन्या- सधवानीधर्माः पकाशौचपाते विचार मरणानन्तरे रोदनादिनिषेधः जननाशौचमरणाशौचयोः सङ्करे स्वल्प. दिने अवस्पर्शदाहे रात्री, रात्रौतु दिनब्यापकेन मरणाशौचेन शुद्धिः " सूर्योदयानन्तरं ग्रामप्रवेश सूतिकायाः स्वीयाशौचविचार: पिण्डदाननिषिद्धकालः एकादशाहेऽशौचान्तरपाते विचारः १०१ उसमानक्षवपतने शान्तिः एककाले मृतानां श्रादविचार: टि." " टि. 39 " 9 " टि० १०० ९४ टि" - " " टिका विषयानुक्रमणिका १५ पृ० १०९ विषयाः अनुमतिद्रव्यश्लेषाभावे पृथगेव श्राद्धम् अन्यथा प्रत्यक्षायररि. हारो न कलाचौरसदत्तकृत्रिमदौहित्रा एव " टि०॥ " पुत्राः कार्याः शूदादाधिकारिनिर्णयः टि." " " R 3 " विषयाः पृ० विप्रादीनां सपिण्डाशौचविचारः १०१ सापिण्ज्यलक्षणम् एकस्मिन्दिने दम्पत्योरुपस्थिते श्राद्ध विचार: अशौचादिविचारः गर्भस्रावाशौचविचार १०३ अशौचे गृहशुद्धिः उद्धशयोपघाते गृहशुद्धिः टि० उनद्विवर्षवालस्य भूमिगत्ते निधापनं१०४ तत्र वर्षपूर्तिकालविचारः टिक प्रामाभिमुखशवनिर्हारे दोपः ऊनद्विवर्षबालस्य भ्रमाबाहे निरानाशीच बालकमरणाशौचविचारस शूद्धजातीयाशौचविचारः १०९ वालकमरणाशौचस्य सारांश भिगोत्रे कृत्रिमादावशौचविचारः १०६ औरसभिन्नपुत्रमरणाशौचविचार: गुरुमरणाशौचविचारः आचार्यमरणाशौचविचारः गुरुलक्षणम् आचार्योपाध्यायपुत्रमरणे निरानम् ॥ मातामहमातुलमरणाशौचविचारः स्वगृहे कस्मिंश्चिन्मृते गृहस्थस्याशौचम्" अशौचे मांसमत्स्यादिन भक्षणीयम् १०७ जननाशौचे मत्स्यमांसदिभक्षणेन दोष अस्थिसञ्चयनोत्तरं तैलाभ्यङ्गादिफलम्" अशौचान्तिमदिनकर्त्तव्यम् अशौचान्तिमनिपिद्धदिनेऽपि तौरवश्यकता निषिद्धदिनपतितचौरदोषशमन- टि०, सौरकरणे दिनियमः विदेशगतमृताशौचविचारः मृतस्य क्रियामेदवर्णनम् अथाधिकारिपौर्वापर्यक्रमः १०६ तत्र द्वादशविधपुत्रलक्षणम् अनेकौरसपुत्राणां सर्वपुत्रानुमतो ज्येष्ठ एव श्रद्धाधिकारी "" टिक" ११० कृत्रिमपुत्रानन्तरमौरस उत्पन्चे कनि- टोपि औरस एवं श्राद्धाधिकारी औरसे श्राद्धकरणानहेऽति वाले कृत्रिमादयोऽपि कार्याः औरसपुत्रलक्षणम् पुत्रिकापुत्रः पौनर्भवपुत्रः दत्तकपुत्रः दत्तकपुत्रविचारः दत्तकपुत्रग्रहणविचारः कृत्रिमपुत्रः पुत्राभावे पौत्रः, पौत्राभावे प्रपौत्री- अधिकारी ११२ पित्रादित्रिषु जीवरसु श्राद्धं न कर्त्तः व्यम् खियाः श्राद्धाधिकारिणः ११३ पुत्रसपत्नीपुत्रपतिरहिताया अवीरा. कल्पेन श्राद्धम् अवीराकल्पश्राविधिः ११४ षोडशश्राद्धाकरणे मृतस्य प्रेतत्वम- धिकारिणः पातित्यम् एकादशाहदिनकृत्यम् विगोत्रका चतुर्थदिने शय्यादि देयम् वृषोत्सर्गफलम् ११५ नीलवृषलक्षणम् वर्णविशेषे वृषविशेषः शूदस्य वृषोत्सर्गे विचार वृषसङ्गवसतरीचतुष्टयदानम् वृषाक्तनप्रकार ११६ एकादशाहं श्राद्धं सांवत्सरिकन सिद्धानेनैव कर्तव्यम् भनुपनीतेनापि पाकेनैव तत्कार्यम् " " " " १०८ १६ विषयानुक्रमणिका 99 " " " विषयाः पृ० भासवानरमार्जारादिस्पर्श स्नान टि० १२१ मनुष्यास्थिस्पर्श शुद्धिविधान अजीर्णवान्तादौ स्नानम् चैत्यवृक्षादिस्पर्श सचैलस्नानम् काठपात्रशुद्धिप्रकारः १२२ परिधानवस्त्राणां प्रत्यहचालनम् चरुखक्नुवादिशुद्धिः चर्म-शुदिः, शाकमूलफलानां शुद्धिः तृणकाष्ठगृह-मृत्पात्रशुद्धिः भासनादिशुद्धिः कुसुम्भकासगुडादीनां शुद्धिः रजस्वलाशुदिः मक्षिकादंशमशकादयोऽवदोषकराः १२३ भाममांसादिशुद्धिः गोकुलादौ शौचविचारणीयम् घृततैलगोरसादिशुद्धिः टि० " शूदगृहकृतमपि दयादि शुद्धमेव " कारुहस्त-पण्यप्रसारितादि " " " . " नित्यमेव शुद्धम् " विषयाः पृ० सामान्जेन कालविशेषे श्राद्धविधानम११६ एकोहिष्टमविभक्कैः सदा, पार्वणं स्वविभक्केषु ज्येष्ठेनैव, विभक्कैः सरव कर्तव्यम् तानाधभावे नवे मृत्पात्रे पाक कुर्यात् टि० सस्यधान्यामाञ्चपरिभाषा श्राद्धे प्रशस्तद्गव्याणि श्रादेवखदानस्यात्यावश्यकस्वम्" वस्तुभेदेन तृप्तिकालमेदः ११७ वाणसलक्षणम् श्राद्धे निषिद्धद्रव्याणि श्राद्धोत्तरं त्याज्या: ११८ श्राद्धकरणानहता मासिकादिविचारः द्वादशाहे सपिण्डनावश्यकत्वम् सपिण्डीकरणावधि प्रेतत्वम् सपिण्डीकरणे पिण्डमेलनविचारस ११९ चतुर्थीहोमात् प्राकन्यामरणे तड्राइविचारः प्रथमद्वितीयतृतीयवार्षिकेष्वेव श्राद्धीयान्नभोजने दोष अथ जलादिशुद्धिः कूपे मृतपञ्चनखादी शुद्धिप्रकार टि० १२० मानुषास्थिपतने शुद्धिप्रकारः श्वभुगालादिदूपिते शुद्धिप्रकार: " उपानपछ्लेमविवाहादिपातेशुद्धि साधारणतया दूपितवाप्यादेः शुद्धिः । देशाचारशौचधर्मा माननीयाः भूमिशुद्धिप्रकारः धातुपात्रशुद्धिप्रकारः कांस्यभाजने गण्डूषपादशौचे दोषः १२१ गवोच्छिष्टभाण्डादिशुद्धिप्रकार: टि. " वखशुद्धिकरणप्रकारः शूद्रोच्छिष्टपात्रशुद्धिप्रकारः टिक, संहतानेकपात्राणामेकस्याशुद्धौ शुद्धिविधारः मलमूत्रादिदूषितवस्त्रशोधनप्रकार " शूद्रभाण्डस्थितमपि मधुतकादि शुद्धमेव " " " " श्वहतमांसशुद्धिः स्त्रीमुखादिशुद्धिः आसनादिशुद्धिः रेणुशुद्धिः १२४ मुखभिचगवानशुदिः अङ्गशुध्यशुद्धिः बलात्कारोपभुक्ताऽपि स्त्री न त्याज्या " व्यभिचारे शुद्धिविचारः स्वच्छन्दस्त्रीत्यागः स्थाविशेषानुसारिशौचादे रावश्यकत्वम् अस्पृश्यस्पर्शशुद्धिः मार्जारपालने दोषाधिक्यम् टि०॥ मिय उच्छिष्टविप्रस्पर्श शुद्धिः १२५ रजकाचस्पृश्यजातिस्पर्श शुद्धि श्वपाकादिस्पर्श शुद्धिः अजीर्णवान्तादौ शुद्धिः शिवनिर्माल्यस्पर्श शुद्धिः तीर्थविवाहसमामादौ स्पर्शदो- षाभाव: " " .
विषयानुक्रमणिका " 9 " . " " " टि० " " " "" विषयाः पृ० तहानप्रकार: १२९ देवकार्ये सुवर्णदक्षिणा, पितृकायें रजत- दक्षिणा कुटुम्बमरणानुर्वरितदाने दोषः १३० अन्यायार्जितधनकृतं श्राद्धमफलम् बहुभ्योऽदेयवस्तूनि देवगुरुमातृपितृभ्यः पुण्यं देयम् कन्यादानादौ विघ्नकृद् ब्रह्मघातका उभयमुखीगोप्रतिग्रहीतुर्दोषः उभयमुखीगोलक्षणम् उभयसुखीगोदानफलम एकादशाहे दत्तशय्याग्रहणे दोषः १३१ षोडशमहादानानि तुलादानद्रव्यं न रक्षणीयम् अथ दानदेशाः दान काला: द्रव्यभेदेन फलभेदाः टि० व्यतीपातयोगलक्षणम् अथ युगादिः मन्वन्तरादिः भूमिदानफलम गोचर्मप्रमाणम् भूमिहरणपापफलम १३३ भूमिदाने प्रतिग्रहणे च पुण्यम् दातुन विस्मरणे, प्रतिग्रहीतुनाया- R टि." " R " टिक, विषयाः पृ० अथ युगभेदेन कार्यप्राशस्त्यम् तत्र दानप्रशंसा अप्रतिग्राहालोकाः १२६ उत्तमादिदानानि पुस्तकदानफलस् टि० छात्रवृत्तिदानफल विद्यादानफलम "१२७ उपाध्यायाय वृतिं दत्वा छात्राध्यापने फलम् परकीयतड़ोगे चनाम्ना तड़ागखनने दोषः परकीयतड़ागे पङ्कोद्धारफलम् वापीकूपतड़ागानां पुनः संस्कारकर- णफलम् अयाचितदाने फलम् अन्यायाजितनपात्राय इत्त सद्गतिनाशाय यथार्थदानपात्रलक्षणम् न्यायार्जितशाकमपि पात्राय दत्तमत्यभ्युदयावहम् दानपात्रजना: मूर्खायाहाराधिकानदाने दुर्गतिःटि० १२८ दानानहजनाः अथ श्रोत्रियलक्षणम् व्यक्तियोग्यताभेदेन दानफलविशेषः " ब्राह्मणवलक्षणम् जातिगुणभेदेन दानफलाधिक्यम् मातृपितृभ्रातृप्वस्सुतादिष्वनन्तफलदं दानम् दीनानाथविशिष्टजनेभ्यो दत्तं सफलम्। दानपात्रेष्वपि दानानहंजनः टि० १२९ सदयहृदयेनापात्रायापि दत्तमनन्त फलदम् यशसे भयादुपकारिणे नृत्यगीतशीले. भ्यो न दानं देयम् शूद्राध्यापकान प्रतिग्रहयोग्याः नष्टशौचव्रतभ्रष्टवेदहीनजनदत्ताचं रोदिति हिरण्यविस्मरणे विस्मृतस्वर्णसमस्व. र्णदानम् " " " " " चने दुर्गतिः " गङ्गायां गोदानादि कोटिगुणं भवति अक्षयतृतीयायां गङ्गातटे घृतधेनुदान- "" " १३४ - गङ्गायां निवर्तनहयभूदानफलम् निवर्तन-गोचर्ममितभूमानम् गलातटे ग्रामदानफलम गङ्गातटे गोभूहिरण्यदानफलम् अथ दशविधधेनवः गुडधेन्वादौ गुदादिप्रमाणम् मुख्यकल्पशक्तस्य गौणकल्पकरने दोषः तहानप्रकार: उभयमुखीगोदानम् तस्फला " " विषयानुक्रमणिका टि०॥ " " " 8 A " " " " " " अथ तीर्थविधिः " " " विषयाः विषयाः पृ० कस्मै धौन देया टि०१३५ बालानां प्राथमिककेशकर्तनम् १४३ कस्मै गौर्दया कर्णवेधमुहूर्तः कीशी गौर्देया , १३६ जन्ममासलक्षणम् कीदृशीं गां न दद्यात् स्त्रीस्वभावः १४४ गोपालनप्रकार: कर्णवेधावश्यकता गोः पवित्रत्वम् स्त्रिया भत्तव बन्धुर्नान्यः गोपालदानफलम् स्त्रीणां भर्तृशुश्रूषैव धर्मः गोदोहनप्रकार: स्वीरक्षणावश्यकता गोबन्धनरज्जुविचारः कदाचिदपि स्त्रियाः स्वातन्त्र्यं न, याश्या गो रपेयं पयः कुण्डगोलकलक्षणन् अथ द्रव्यदेवतानि १४५ पञ्चगव्ये कीरश्याः किं ग्राहम् टि० १३७ सद्भावेन तीर्थगमनवासौ फलदौ पञ्चगव्यपदार्थपरिमाणभेदाः तीर्थयात्रायां पदयां गमनेनैव विशेष- तत्तत्पदार्थग्रहणे तत्तन्मन्त्राः फलम् १४६ गोभक्षितसस्यादौ क्षेत्रवते तीर्थयात्रायामशक्तस्योपानपरिधान वीजमेव देयम टिक, मनिन्दितम् गोभक्षितसस्यायन्यप्रतियाचकदोषः" " तीर्थप्राप्तौ तषिमित्तकश्राद्धं विधेयम् ॥ दानानहंगोलक्षणम् तीर्थे त्रिरात्रवासे विशेषफलम् अपात्राय दत्तायां गवि दोपः मुण्डनं प्रयागस्थगङ्गायामेव नान्यत्र महिषीदानफलम् टिक, गङ्गायाम् गवादिमूल्यनिर्णयः १३८ अथ प्रयागविधि.। अथ.संस्कारा: १३४ माघे प्रयागे सकलतीर्थागमनम् १४७ संस्कारावश्यकता माघस्नानमन्त्रः संस्कारभेदाः प्रयागप्रवेशेनैव पापनाशः उपनयनसंस्करसमयः तत्र कुण्डनयवर्णनम् मेखलाधारणस्थाननिर्णयः प्रयागादिषु तीर्थेषु कुन किं विशेष. जन्मनि दुष्टफलदतिथियोगादिटि० १४० ऊर्ध्वपत्तौ दन्तजनने सदन्तवालो प्रयागे ऋणमोचनतीर्थप्रदर्शनम् टि० ॥ स्पत्तोच दोषः टि. प्रयागे शिया अपि मुण्डनम् पुत्रोत्पचौ पितुः सचैलस्नानम् तत्र मुण्डनं तु स्नास्वा सङ्कल्प नामकरणम् कर्तब्यम् औपनायनिककालसीमा मुण्डन सङ्कल्पः १४८ विवाद्यकन्या ततः स्नात्वा श्राद्धाधिकारिणां तन्नि- अथकन्यादानाधिकारिणः १४२ मित्तकाई कसब्यम् षोडशाब्दगर्भधारणदोषः तदुत्तरदिने ऋणमोचनतीर्थ स्नानम तच्छान्तिप्रकारः तत्र माघस्नानसङ्कल्प: उपनवनादिमावलिककृत्येऽपि आभ्युः यमुनास्नानसङ्कल्प: दयिकावश्यक्त्वम् दशाश्वमेधिकतीर्थस्नानसङ्कल्पः तत्रिर्णयरच १४३ । ततः स्नानतर्पणानन्तरं गोदानविधिः । टिक, " " " " " A .. " " " " विषयानुक्रमणिका १९ - १४८ " " टि." " विषयाः पृ० तीर्थे प्रतिग्रहनिषधः अथ गयाविधिः। ज्येष्ठस्यैवाधिकार गयाश्राद्धे कालनियमः पिण्डपदार्थाः १४९ पतितानामसंस्कृतानां श्राद्धम् पतितानांस्वर्गकामनया वर्षानन्तरं श्राद्ध गयामाहात्म्यम् गयाश्राइन पुत्रोऽपि भवति १५० गयायां मासवासेन सप्त कुलोद्वार: गयायां मातृणां पृथक् श्राद्धम् १५१ फल्गुतीर्थस्य गणाधिक्यम् अथ वाराणसी काशीदिग्दर्शनम् काशीदेध्यविस्तरयोजनप्रमाणम् काश्यां माहात्म्यम् काशीवासफलम, काशीमरणफलम् १५२ मरणसमये तारकमन्त्रोपदेशः काश्यां व्यकिभेदेन मुक्तिभेदकथनम् तत्र गोदानेन भूमिदानफलम् कपिलहदवर्णनम् अथ पुरुषोत्तमक्षेत्रम् १५४ तत्क्षेत्रदिग्दर्शनम् विषयाः पृ० तत्क्षेत्रमाहात्म्यम् १५४ तत्र वटदर्शनफलम् इन्द्रधुम्नतीर्थवर्णनम् मार्कण्डेय हृदवर्णनम् पञ्चतीर्थवर्णन जगदीश्वरदर्शने कविंशतिकुलोद्ध रणम् अथ गङ्गामाहात्म्यम् १५६ श्वेतगङ्गावर्णनम् गङ्गाजले न रर्युपिनदोपः १५७ गङ्गाजलपानफलम् संक्रान्त्यादिपर्वसु स्नाने ब्रह्मलदन- प्राप्ति ग्रहणे स्नानफलम स्नानानामुत्तरोत्तप्राशस्यम् सन्ध्यातर्पणयोः फलन् श्राद्धादि जलोपकण्ठे कार्यम् गङ्गान्तर्जले मरणे फलम् १५९ अर्धोदकमरणफलम् गङ्गायां मरणफलम् अथ वाराहक्षेत्रमाहात्म्यम् नानातीर्थवर्णनम् हरिहरक्षेत्रवर्णनम् १६० ग्रन्थकर्तृपरिचयः " १५८ " " " " A १५३ " परिशिष्टविषयसूची विषयाः पृष्ठाझाः " " " ૨૩ " " मङ्गलाचरणम् १६१ रविव्रतविषयः अम्बुवाचीलक्षणम् रथयात्रोत्सवनिर्णयः उपाकर्मनिर्णयः अगस्त्यर्घदाने विशेषविधिः चान्द्रायणव्रतविधानम् हविष्यप्रतिपादकवचनाभिप्रायः आमिषप्रतिपादकवचनाभिप्रायः १७५ चन्द्रोदयसमयसाधनम् १७६ नवाचभोजनसमबनिर्णयः १७७ सक्रान्तिनिर्णयः १८३ शिवपूजनादिप्रकरणम् १६२ शयनविधिः १९४ श्राद्धप्रकरणम् १६७ गृहस्थाश्रमकरणावश्यकत्वम् २०४ पोध्यशनो लक्षणम् २०९ व्रतनियमः २१० अनुष्टानविधानम् २१३ हरिवंशनवाहपारायणविधिः २१६ भागवतसप्ताहपरायणविधिः २१८ वाल्मीकिनवाहपारायणविधिः २१९ देवीभागवतनवाहपारायणविधिः २२० कर्मप्रशंसा शान्तिप्रकरणम् २२. काकमैथुनाबलोकनस्पर्शशान्तिः गृहोपरि गृध्राद्युपवेशने शान्तिः . २२३ तीतरशान्तिः २२४ यमलजननशान्तिः विषयाः दृष्टाङ्का षोडशाब्दगर्भधारणशान्तिः २२५ गर्भिण्या आचारः २२६ गर्भपातनिवारणम् बालानां क्रन्दनशान्तिः द्वादशाब्दादूर्ध्वमाप्तजनावलोकने शान्तिः २२७ उलूककृतानिष्टशान्तिः २२८ गन्धर्वनगरम् २३० शिवारुते शान्तिः दिग्वशेन शिवास्तफलम् सतीस्त्रीजीवनम् गुरुलक्षणम् २३२ शिष्यलक्षणम् उपनयननिर्णयः २३३ हवनप्रकरणम् २३७ काम्यहोमेऽमिवासविचारः २४० व्यतिपातयोगस्तत्रदानफलं च २४१ मन्त्रोद्धारविधिः २४३ दीक्षाग्रहणे मुहूर्तः २४४ गुरुमाहात्म्यम् २४५ स्वप्नलब्धमन्त्रग्रहणविधिः २४६ अकथहचविचारः २४७ ऋणधनचक्रविचार: २४८ मन्त्रग्रहणप्रकारः कुलाकुलचक्रम् २४९ राशिचक्रम् नक्षत्रचक्रम् २५० श्रकथहचक्रम् अकडमचक्रम् कुलदेवतास्थापनम् २५४ हनुमद्ध्वजदानविधिः २५५ ग्रन्थकर्तपरिचयः २५७ तुलादानविधिः २५८ " ॥ श्रीः॥ महामहोपाध्याय श्री अमृतनाथमा विरचितः कृत्यसारसमुच्चयः वामानासक्तकान्ताकचकुसुममयो भालनेत्रादलार्चिः- पीनोष्मा मौलिचञ्चन्सुरनगरनदीनीररम्यः सदा नः । स्फीतोत्तंसेन्दुकान्तिरिददृतिहढच्छादनाव्यक्तशीतः शम्भुर्भस्मास्थिकुन्दप्रकरपरिवृतः पातु सर्वत्नु मूर्तिः॥१॥ तार्किकामृतनाथशर्मवुधो हि कृत्यसमुच्चयं व्यातनोति विलोक्य पूर्वनिबन्धग्रन्थचयानमुम् । मैथिलव्यवहारसिद्धसुकर्मकाण्डविराजितं धीधनादिमुदप्रदं सरलोक्तितो बहुयत्नतः॥२॥ अथ मासनिरूपणम् तत्र मासकृत्ये निरूपणीये मासानिरूपणे तत्कृत्यनिरूपणासम्भवान्मा- सस्तावदादौ निरूप्यते ! तत्र मासश्चतुर्विधः । तथाहि ज्योतिपे- 'सौरश्च सावनश्चैव चान्द्रो नाक्षत्र एव च' इति । तत्र एकसंक्रमणमारभ्यापरसंक्रमणपूर्व यावत् सौरः (१)। अनियत- त्रिंशदिवसात्मकः सावनः । दर्शानन्तरप्रतिपदादिमारभ्यामावस्यांतश्चान्द्रः । तथाहि ज्योतिषे- दर्शादर्शश्चान्द्रविंशदिवसस्तु सावनो मासः । रविसंक्रान्तिसुचिह्नः सौरोऽपि निगद्यते सद्भिः।। नत्वा भवानीतनयं कृत्यसारसमुच्चये । विशेषयोजनं यत्नास्क्रियते विन्मुदे मया ॥ नानास्मृतिनिबन्धास्तु दृष्ट्राऽधिकमितोऽस्ति यत् ।प्रयोजनीयंतन्न्यस्तं श्रीगङ्गाधरशर्मणा अत्र मालश्लोके वामाङ्गिसङ्गिन्या भवान्याः कुन्तलगुम्फितकुसुमसमूहेन वमन्तः । निटिल- तटवत्तिनेत्रानलशिखोष्मणा ग्रीष्मः । जटाजूटवेष्टितसुरधुनीधारया प्रावृट् । भाललग्नचञ्चञ्चन्द्रिकया शरत् । गजचर्मदृढाच्छादनेन हेमन्तः । भस्मास्थिकपालादिधवलधाम्ना हिमकुन्दादिनेव शिशिरः । एवं सर्वेषामृतूनां मूर्तिरिव मूतिर्यस्य स शिवः पात्विति । (१) एवं दिनमपि सौरसावननाक्षत्रचान्द्रभेदेन चतुर्विधं भवति । तथोक्तं ज्योतिषे-'सौरश्च सावनश्चैव चान्द्रो नाक्षत्र एव चेति' । तत्र यावता कालेनैकमंशं रवि नक्ति तावत्सौरदिनमेकम्, तन्मितैस्विंशद्भिदिनैरेकः सौरो मासः। तथा च सूर्योदयद्वयान्तरकालः सावनं दिनम् । त्रिंश- संख्यकस्तादृशैदिनैरेकः सावनमासोनियताधन्तदिनात्मकः । एवं त्वेकतिथिमोगकालश्चान्द्र दिनं, तत्रिशद्भिरेकश्चान्द्रमासः । यस्य स्त्रीया गतिर्न केवलं प्रवहवेगेन भ्रमणम् , तदुदयदयान्त- रकालो नाक्षत्रं दिनम् , तत्राश्विन्यादि रेवत्यन्तसप्तविंशतिनक्षत्रभोगकालो नाक्षत्रमास इति ।
२ - - - कृत्यसारसमुच्चये- दर्शादर्शमवधीकृत्य तेन दर्शानन्तरप्रतिपद इत्यर्थः। चान्द्रस्य शुक्ल- प्रतिपदारम्भकन्द वचनान्तरमपि । तथाहि- 'इन्द्रामी यत्र हूयेते मासादिः स प्रकीर्तितः' इति । एतद्वधाख्यानं मलमासप्रकरणे वक्ष्यते । कृष्णप्रतिपदमारभ्य पूर्णिमा- मान्तोऽपि चान्द्र एव, अत्र प्रमाणानि- 'अथ भाद्रपदे मासि कृणाष्टभ्यां कलौ युगे' इति स्मृतिः । 'अश्वयुककृष्णपक्षे तु श्राद्धं देयं दिने दिने। इति मनुवचनं, कृष्णादिरपि चान्द्र एवेति कृत्यमहार्णवलेखनं च । नाक्षत्रस्तुअश्विन्यादिरेवत्त्यंतः,'नाक्षत्रमिन्दोसंगणभ्रमाच' इति रत्नमालायाः। अथ कर्मविशेपे मासवि(१)शेपमाह । ज्यौतिपे- विवाहादी स्मृतः सौरो यज्ञादी सावनः स्मृतः ! शेपे कर्मणि चान्द्रः स्यादेष मासविधिः स्मृतः।। विवाहादावित्यादिपदादुपनयनादिसंस्कारराशिविशेषविहितस्नानादिनवा- नश्राद्धादिजन्ममासनिपिद्धतौरादिकर्मपरिग्रहः । यज्ञादिपदादशौचरिग्रहः। शेपे कर्मण्येकोद्दिष्टपार्वणाष्टकातिथिकृत्यादी, तथाहिं-'पार्वणे त्वष्टकाश्राद्ध चान्तमिष्टं तथाश्विकम् ।' इति वाक्येऽष्टका साहचर्येण कृष्णादिचान्द्र- स्यैवादिकनिमित्तकस्यावसायादिति मासमीमांसायां गोकुलनाथोपाध्यायाः । 'तिथिकृत्ये तु कृष्णादिवते शुक्लादिरेव च' इति ब्रह्मपुराणम् | संकल्पा- दावपि कृष्णादिरेव मासो ग्राह्यः तथैव शिष्टाचारात् । अत्र नाक्षत्रस्तु जातकविषये इति रत्नमाला । 'चित्रापूर्णमासे दीक्षेरन् मुखं वा एतत्संवत्स- रस्य' इत्यादि श्रुतेः ॥ अथ चैत्रकृत्यम् तत्र वारुण्यादिनिर्णयः । मासेषु चैत्रस्य (२) प्राथम्यादादौ चैत्रकृत्यमि- त्येव निरूप्यते । अथ चैत्रकृष्णत्रयोदशी शतभिषायुक्ता वारुणी वरुणदेवता शतभिषानक्षत्रयोगात् । अत्र गङ्गास्नाने फलमाह स्कान्दे- वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत शतसूर्यग्रहैः समा॥ इति शतभिपायुक्ता सा त्रयोदशी महावारुणी, तथाहि स्कान्दे- शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्यग्रहैः समा ॥ (१) तथाचोक्तं ज्यौतिषे-वर्षायन युगपूर्वकमत्रसौरान्मासास्तथा च तिथयस्तुहिनांशुमानात् । यत्कृच्छस्तकचिकित्सितवासराचं तत्तावनाच घटिकादिकमाळमानात् ॥ (२) पाने-चैत्रे मासि महापुण्या निर्मिता प्रतिपत्पुरा । तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यात्सचैलकम् ॥ न तस्य दुरितं किंचित्राधयो यायो न च । मान्ति कुरुशार्दूल ! तस्मात्सम्यक् समाचरेत् ।।
३ चैत्रमासकृत्यम् । सा चैत्रकृष्णा त्रयोदशी शतभिषायुक्ता, शतभिषाशुभयोगशनिवारयोगे महामहावारुणी । तदुक्तं स्कान्दे- शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ।। इति कुलं पुरुप इति याज्ञवल्क्यदीपकलिका, चैत्रकृष्णत्रयोदश्यामेदेताह- शयोगे महामहावारुणीति, तस्या उपक्रम एवैतल्लेखनात् । अत्र योगत्रये गङ्गायामेव फलमन्यत्रानुक्तेः इति तिथितत्वचिन्तामगौ महेशठक्कुराः । अत्र रात्रौ(१) वारुण्यादिनानं न कर्तव्यम्, राहुदर्शनादिप्रतिप्रसूतेतरसर्व- कर्मणि पर्युदस्तत्वादाचार्यचूडामणिः । अन्ये तु महाफलश्रुते रात्रावपि स्नानकर्तव्यमेव । महानिशा तु विज्ञेया मध्यभं प्रहरद्वयम् । तस्यां लानं न कुर्मत काम्यनैमित्तिकाहते ॥ इति देवलोक्तः । एतद्योगत्रय त्रिया अपि स्नानं कर्तव्यमेव | न च (२)- 'स्नानं कुर्वन्ति या नार्यश्चन्द्र शतभिपाजते । सप्त जन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम्' । इति प्रचेतोवचनात्तनिषेध इति वाच्यम् , तस्या रागप्राप्तस्नानवि- षयत्वेनैव महेशठक्कुरादिनिबन्धकृद्भिर्व्याख्यातत्वात् । चैत्रशुक्लप्रतिपदेवी- पूजादौ परयुतैव माया तच्चाश्विनकृत्त्ये वक्ष्यते । चैत्रशुक्लाष्टभ्यां ब्रह्मपुत्रस्नानम् । तथा हि स्कान्दे- चत्रे मासि सिताष्टभ्यां यो नरो नियतेन्द्रियः । स्नायाल्लौहित्यतोयेषु स याति ब्रह्मणः पदम् ।। लौहित्यो ब्रह्मपुत्रः । तत्र सङ्कल्पः । ओमद्येत्यादि सर्वपापक्षयपूर्वकब्रह्म- पद्गमनकामो ब्रह्मपुत्रस्नानमहङ्करिष्ये इति । ॐ ब्रह्मपुत्र ? महाभाग ? शन्तनोः कुलसम्भव ? | अमोघागर्भसम्भत ? पापं लौहित्य ? मे हर। इति पठित्वा स्नायात् । अत्राशोककलिकापानं,(३) तन्मन्त्रो यथा- 'त्वामशोककराभीष्टं मधुमाससमुद्भव ! (१) 'दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन' इति भारतोक्त्या दिने एव चेच्चैत्र कृष्णत्रयोदशीशतभिषाशुभयोगशनिदिनानां योगे योगो- ऽयम् । रात्रौ योगसम्भवेऽपि न योगविपयतेति विशेयम् । (२)शीतगौ वरुणदेवते यदि स्लानमाचरति वामलोचना। जन्म जन्म विधवाऽतिदुभंगा स्याद्ध्वं मुनिवरैरिति स्मृतम् ॥ इति वारुण्यादियोगभिन्नकालिकशतमिषानक्षत्रस्नानविषयपरम् । (३) अगस्तिसंहिता। लिङ्गपुराणे-अशोककलिकापानफलमुक्तम्- अशोककलिका ह्यष्टौ ये पिबन्ति पुनवसौ । चैत्रे मासि सिताष्टभ्यां न ते शोकमवाप्नुयुः ।। -- ।
४ - - ऋत्यसारसमुच्चये- पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ इति तिथितत्त्रचिन्तामनौ ठक्कुराः। तत्र सम्पूर्णचैत्रस्नाने- चैत्रं तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोच यः स्नायात्स कवल्यमवाप्नुयात् ॥ ओमधेत्यादि कैवल्यप्रालिकामश्चैत्रमासं व्याप्य ब्रह्मपुत्रस्नानमहङ्करिष्ये इति तत्र सङ्कल्पः॥ अथ रामनवमी-चैत्रशुक्लनवम्यां रामपूजा, तद्ब्रतं च ब्रह्मपुराणे- कृत्वैव ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् । बहुना किमिहोक्तेन मुक्तिस्तस्य करे स्थिता ॥ तस्य रामपृजात्रतकर्तुः। अकरणे दोषमाह स्मृतिः- यस्तु रामनवम्यां वै मोहामुक्त नराधमः । कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ।। इयं च नवमी मध्याह्नव्यापिनी ग्राह्या, तत्र स्मृतिः- चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि । सेव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥ उभयदिन मध्याह्नयोगे परैव ग्राह्या | अष्टमीविद्धा सनक्षत्राऽपि नोपोध्येति माधवः ।। गौडास्तु- 'नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः । इति वचनाद्वयवस्था- पयन्ति । स्कान्ड़े- जनकस्य महप॑स्तु कूपः परमधार्मिकः । तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते ॥ इति अथ वैशाखकृत्यम् ब्रह्मपुराणे-एकमुक्तमथो नक्तमयाचितमतन्द्रितः । माधव मासि यः कुर्याल्लभते सर्वभीप्सितम् ॥ स्कान्दे-प्रपा कार्या च वैशाखे(२) देवे देया गलन्तिका । स्कान्देपि-माने मधौ शुक्लपक्षे अशोक ख्या यथाष्टमी। पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि।। (१) कूतादिखननफलतुक्त नन्दिपुराणे- यो वापीमयत्रा कृष देशे तोयविवजिते । खानयेत् त दिवं याति बिन्दौ विन्दौ शतं समाः ॥ तथाऽऽदित्यपुराणे- अनुबन्धाता ये च तीर्थशौचरताश्च ये । तडागकूपकारी मुच्यन्ते तृषितो भयात् ॥ सेतुत्र जलधारणहेतुभूतो वन्धः । तीर्थशौचं घट्टपरिष्कारः, इति द्वैतनिर्णये। गलन्तिका तुलमर्माशिवलिङ्गयोपरि शनैः शनैः शश्वजलपतनाथ सकुशसूक्ष्माधश्च्छिद्रयुक्तवादि स्तम्भाधा- धारद्वारा यत्स्थाप्यते सा गन्तिकोच्यते ॥ तथा च तत्रैव- योऽश्वत्थनूलमासिन्चेत्तोयेन बहुना सदा । कुर्यात्प्रदक्षिणां तं च सर्वदेवमयं ततः ।। पितृदेवननुप्यांश्च तर्पयेत्सचराचरम् । योऽश्वत्थमर्चयेदेवमुदकेन समन्ततः ॥ - ५ वैशाखमासकृत्यम् । उपानद्वयजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥ जलपात्राणि देयानि तथा पुष्पगृहाणि च । पात्रकाणि च चित्राणि द्राक्षारम्भाफलान्यपि ।। तिथितत्त्वे ददाति यो हि मेषादौ सक्तुनम्बुघटान्वितान् । पितृनुद्दिश्य विप्रेभ्यः सर्वपापविमुच्यते ॥ तथा–वैशाखे यो घटं पूर्ण सभोज्यं वै द्विजन्मने । ददाति सुरराजेन्द्र ! स याति परमाङ्गतिम् ।। मेषादौ सक्तवो देया वारिपूर्णा च गर्गरी । इति अथात्र त्याज्यानाह- कांस्यम्मांसं मसूरान्नं चणकङ्कोद्रवन्तथा । शाकम्मधु परान्नं च पुनर्मोजनमैथुने । अत्र वारिपूर्णघटदानविधिः। ॐ वारिपूर्णघटाय नमः । ३ । कुशोपरि ॐ ब्राह्मणाय नमः । ३ । घटं सिक्त्वा ओमद्येत्यादि मेघार्कसंक्रमणप्रयुक्त- पुण्याहे पुण्यकाले वा अमुकगोत्रस्य श्री अमुकशर्मणो मम स्वर्गकामो मेषाक व्याप्य प्रत्यहं घटपरिमितजलं वरुणदेवतं यथानामगोत्राय ब्राह्मणायाऽहं ददे । ततो दक्षिणां दत्वा पठेत् । एष धर्मघटो नित्यं ब्रह्मविष्णुशिवात्मकः । अस्य प्रसादात्सफला मम सन्तु मनोरथाः ॥ इति । अथ अक्षयतृतीया । वैशाखशुक्लतृतीया अक्षयतृतीया, सा चतुर्थीयुक्ता तथाहि पक्षधरीयतिथिचन्द्रिकायां गोभिलः- 'वैशाखस्य तृतीयां तु पूर्वविद्धाङ्करोति यः। हव्यन्देवा न गृह्णन्ति कव्यश्च पितरस्तथा' ।। ब्रह्मवैवर्ते-रम्भाल्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ? | अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ इति । गणयुक्ता चतुर्थीयुक्ता, चतुर्थीयुताया अलाभे तु द्वितीयायुताऽपि ग्राह्या । एकादशी तृतीया च षष्ठी चैव त्रयोदशी। पूर्वविद्धाऽपि कर्तव्या यदि न स्यात् परेऽहनि ॥ इति ब्रह्मवैवर्तात् । इयं युगादिः, तत्र श्राद्धकरणे फलमाह मात्स्ये- कृतं श्राद्धविधानेन मन्वादिषु युगादिषु । कुलानामयुतं तेन तारितं स्यान्न संशयः । कण्डूय पृष्ठतो गान्तु स्नात्वा पिप्पलतर्पणम् । कृत्वा गोविन्दमभ्यर्च्य न दुर्गतिमवाप्नुयुः । कृत्यचिन्तामणी तु- मसूरं निम्बपत्रं च योऽत्ति मेषगते रवौ। अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥ वैशाखस्य मलमासत्वे, मलमासे एव रविव्रतं कर्त्तव्यम् । शुद्धवैशाखशुक्लपक्षे वृषादित्य- संभवात्तत्र दोषश्रवणात् । 'वृषादित्ये न कारयेत्' इति । तथा च नवयवाननिमित्तक पार्वणमपि वैशाखाधिकशुक्लपक्ष एव विधेयमिति सुश्विष्टपरिशिष्टम् । ग्राह्या, ६ यवा- कृत्यसारसमुञ्चये- हायनादिद्विलाहनं पितृगां तृप्तिदम्भवेत् ॥ अत्र श्राद्धं पूर्णह एक कर्तव्यमिति शूलपाणिः । अयमेव मैथिलस्मार्तपक्ष इति ठक्कुराः । एतत्तृतीयामभिधाय ब्रह्मपुराणे- तस्यां कार्यो यत्रैर्यज्ञो यविष्णु प्रपूजयेत् । यान्दवाद्विजातिभ्यः प्रयतः प्राशयेद्यवान् ।। पजादि विधायातिशयिताक्षययवदानजन्यफलप्राप्तिकामनया न्दद्यात् । तद्वास्यमेतत्फलानुसारेणोहयं (करणीयम् )। द्रव्यान्तरदानेऽपि अक्षयफलप्रातिकामनया इत्यादिवाक्यम् । नारदीये- वैशाख शुक्लपक्षे तु तृतीयायान्तथैव च । गङ्गातोरे नरः लात्वा मुच्यते सर्वकिल्बिषैः॥ ओमधेत्यादि सर्वकिल्बिपक्मुिक्तिकामो गङ्गायां स्नानमहं करिष्ये, इति गङ्गास्नानसङ्कपः । कौशिकीस्नानप्रकरणे, रामायणे आदिकाण्डे- वैशाखे मासि काकुस्थ ! तृतीया या भवेत्तिथिः । शुक्लपक्ष नरः स्नात्वा अश्वमेधफलं लभेत् ॥ कृत्तिका ऋक्षसंयुक्ता राका या कार्तिके भवेत् । कोकामुखे तु कौशिक्यां स्नात्वा स्वर्गे वसेन्नरः । ॐ अद्येत्यादि अश्वमेधफलप्ताप्तिकामः कौशिक्यां स्नानमहङ्करिष्ये इति तृतीयायां संकल्पः । वैशाखपूर्णिमामभिधाय विष्णुपुराणे- कृष्णाजिनन्तिलान् कृष्णान्हिरण्यम्मधुसर्पिषी । ददाति यत्तु विप्राय सर्व तरति दुष्कृतम् ॥ इति ॥ अस्यां गडास्नाने ओं अद्येत्यादि गङ्गास्नानजन्यफलसहस्रगुणाधि- कफलप्राप्तिकामो गङ्गायां स्नानमहङ्करिष्ये। अथ ज्येष्ठकृत्यम् ज्येष्ठामावस्यायां वटमूले सावित्रीपूजनम् । वटप्रदक्षिणं च स्त्रियः कुर्युः। इयममावस्या पूर्वयुतैव (१) प्राया। तथाहि- स्कान्हे-कृष्णाष्टमी चतुर्थी च सावित्री वटपैतृकी। शुक्ला त्रयोदशी रम्भा नोपोष्यास्स्युः परान्विताः॥ स्मृतिश्च-शिवा च शिवदुर्गा च दूर्वा चैव हुताशनी । - (१) तथा च तिथितत्वचिन्तामणौ म. म. महेशठक्कुराः भूतविद्धा न कर्तव्या अमावास्या चपूर्णिमा। वर्जयित्वा नरश्रेष्ठ ? सावित्रीव्रतमुत्तमम् ।। इति ब्रह्मवैवर्त । तथा- मूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । वर्जयित्वा तु सावित्रीव्रतं च शिखिवाइन । तथा च-प्रतिपत्पञ्चमी भूता सावित्री वटपूर्णिमा । नवमी दशमी चैव नोपोष्या परसंयुता ॥
ज्येष्ठमासकृत्यम् । गोपूजा च वटच्छाया कर्तव्या प्रथमे दिने ॥ (१) अथ नियोनां वेधविचारः-तत्र प्रातःकाले द्विमुहूर्तवेधः। 'द्विमुहूर्ताऽपि वेधः स्याद्या तिथिवृद्धिगामिनी इति दक्षोक्तेः । सायङ्काने निनुहूत्तवेधः । पक्षद्वयेऽपि तिथयः तिथिपूर्वान्तथोत्तराम् । त्रिभिमुहूर्तेर्विध्यन्ति सामान्योऽयं विधिः स्मृतः ॥ इति पैठीनसिवचनात् । यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः। सा तिथिस्तदिने प्रोक्ता त्रिमुहूत्र या भवेत् ।। इतिस्कान्दोक्तेश्च । इति तिथितत्त्वचिन्तामणी ठक्कुराः । ज्येष्टशुक्लतृतीयायां पञ्चाग्निव्रतं राजमार्तण्डे- भद्रे ! कुरु प्रयत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नाता नियमतत्परा ॥ एतद्ब्रतोद्यापनं पञ्चवर्ष समाचारः इयमेव रम्भाख्या तृतीया सा च द्वितीयायुतैव कार्या, युग्मा २ ग्नि ३ कतु ४ भूतानि ५ प ६ मुन्यो ७ वसु ८ रन्ध्रयोः ९ । रुद्रेण ११ द्वादशी १२ युक्ता चतुर्दश्य १४ ऽथ पूर्णिमा १५ ॥ प्रतिपदात्वमावस्या तिथ्योयुग्मं माहाफलम् । व्यस्तमेतन्महाघोरं हन्ति पुण्यं पुराकृतम्, इति निगमात् । रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम!। अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ इति ब्रह्मवैवर्त्तवचनाच्च ।। (१) अथ सोमवत्यमावास्याव्रतमुक्तं कृत्यशिरोमणितमारते यथा- अमावस्या यदा पार्थ ? सोमवारसमन्विता । तस्यामश्वत्थमागत्य पूजियित्वा जनार्दनम् । अष्टोत्तरशतं कृत्वा तस्मिन् वृक्षे प्रदक्षिणम् । तावत्संख्यानुपादाय रत्नशतुफलानि च । व्रतराजमिदं राजन् विष्णोः प्रीतिकरं परम् ।। तथा च स्मृत्यन्तरे- सोमवत्या अमायास्तु व्रतं कृत्वा सती भवेत् । पतिपुत्रधनैः पूर्ण जन्मजन्मनि निश्चितम् ॥ विधवा चेत्करोतीदं न पुनर्विधवा कचित् । तस्मात्स्त्रिया सुभगया कर्तव्यं खलु तव्रतम् ॥ अत्र मातनियमो नास्ति। यदा कदा सोमवारयुक्ताऽमा भवेत्तदैव सोमवतीयोगः । अयं दिना- न्तर्गत एव कर्तव्यः। केवलसोमवारव्रतमपि शिवप्रीतिकरमुक्तं मत्स्यपुराणादौ-तदिवाऽभोजन- पूर्वकरात्रिभोजनरूपम् । तथाच स्कान्दे- सोमवारे विशेषेण प्रदोषादिगुणैर्युते । केवलं वाऽपि ये कुर्युः सोमवारे शिवार्चनम् ।। न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम् । उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः॥ वैदिकैलौकिकैर्वापि विथिवत्पूजयेच्छिवम् । ब्रह्मचारी गृहस्थो वा कन्या वाऽपि सभर्तृका ॥ विभत्का वा सम्पूज्य लभते वरमीप्सितम् । एतब्रतकथाऽपि तत्रैव वर्तते ग्रन्थविस्तृतिभीत्याऽत्र न निवेशितेति । इदं विशेषतया पावणे मासि प्रशस्तमिति । शातातपस्तु योगान्तरमाह- अमावै सोमवारेण रविवारेण सप्तमी। चतुर्थी भौमवारण विपुवत्सदृशं फलम् ॥ अमावास्यां भवेद्वारो यदाभूमिसुतस्य वै । जाहवीत्नानमात्रेण गोसहस्रफलं लभेत् ।। - - कृत्यसारसमुचये- अथ दशहरा । राजमार्तण्डे- ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । हरते दश पापानि तस्माद्दशहरा (१) स्मृता ।। कुजहस्तयुतां दशमीमभिधाय तत्रैव 'पुण्यन्दद्यादपि दशगुणां वाजिमेधा- युतस्वेति, एतदशमीमभिधाय स्कान्दे- यां काञ्चित्सरितं प्राप्य दद्यार्थ्यतिलोदकम् । मुच्यते दशभिः पापैः स महापातकोपमैः॥ दद्यादिति पितृभ्यः । इत्यादि योगाधिक्ये फलाधिक्याद्यत्रैव योगबाहुल्यं तत्रैवेयं प्राझा, ज्येष्ठे मलमासे सत्यपि दशहराप्रशंसा न तु शुद्धसमय एवेति नियमो निबन्धनात्रे, तथा 'दशहराः शुभोत्कर्षाश्चतुर्वपि युगादिषु इति ऋष्यशृङ्गः । इति तिथितत्त्वचिन्तामणौ, महेशठक्कुरलिखनम् । दशपापा- न्याह राजमार्तण्डे- पारुष्यमनृतश्चैव पैशुन्यं चापि सर्वतः । असम्बद्धप्रलापञ्च वाङ्मयं स्याच्चतुर्विधम् ।। अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं मतम् ।। परद्रव्येध्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसन्त्रिविधं स्मृतम् ।। अस्यां गङ्गास्नाने सङ्कल्पः ॐ अद्येत्यादि दशविधपापक्षयकालो गङ्गायां स्नानमहङ्करिष्ये इति । अस्यामेव सेतुबन्धे रामेश्वरदर्शनम् । अस्यां स्थापि- तत्वात् । तथाहि- दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् । रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् ॥ अथाषाढकृत्यम् मैथिलस्मार्त्तमते एकादश्यामेव हरिशयनम् । दाक्षिणात्यमते द्वादश्याम् । गौडमते चोभयमिति बोध्यम् । तथा भारते- अषाढे तु सिते पक्ष एकादश्यामुपोषितः । चातुर्मास्यवतङ्कुर्याद्यत्किंचिदखिलो : नरः । नित्यमेतद्बतम् । देवादकरणे कार्तिकमात्रेऽपि कर्त्तव्यम् । तथाहि भारते- (२) स्कान्दे मेतुबन्धमाइत्म्ये- ज्येष्ठमासे सिते पक्षे दशमी बुधहस्तयोः।गरान्दे व्यतीपाते कन्याचन्द्र वृषे रवौ। दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् । रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् ।। अत्र वृषे रवावित्यनेन ज्येष्ठस्य मलमासे तत्रैव वृषादित्यसम्भवाच्छुद्धज्येष्ठशुक्लदशम्यां मिथुनादित्यनिश्चयान्मलमासशुक्लदशम्यामेव दशहरेति । - आपाढमासकृत्यम् ९ वार्षिक्याञ्चतुरो मासान्याहयेत्केनचिन्नरः । व्रतेन नो चेदाप्नोति किल्बिपं वत्सरोद्भवम् ।। असम्भव तुलार्केऽपि कर्त्तव्यं तत्प्रयत्नतः । आषाढशुक्लपक्षे रविवारे पुलिकमूलबन्धनमुक्तम् । ज्योतिःसारे- शुचिसितदिनकरवारे करमूले बद्धपुलिकमूलस्य । नागारेरिव नागाः प्रयान्ति किल दूरतस्तस्थ ।।(१) तन्मन्त्रोऽप्ययमेव । वृहवशिष्ठः- अकृत्वा पुलिकैर्वन्धं प्रायश्चित्तीयते नरः। चातुर्मास्ये व्यतीते तु मुक्तिस्तस्य कराद्भवेत् ।। अथ श्रावणकृत्यम् राजमार्तण्डे- सिंहकर्कटयोर्मध्ये ली नद्यो रजस्वलाः । तासु स्नानन्न कुर्वीत वजेयित्वा समुद्रगाः ।। सिंहो भाद्रः । कर्कट:-श्रावणमासः । मासश्चात्र सौरो ग्राह्यः। द्वैत- परिशिष्टे तथैवाभिधानात् । नद्यश्चाष्टसहस्रधनुःप्रमाणं यासां ताः। तन्न्यूनं गतः । तथाहि- धनुः सहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवाच्या गर्तास्ते परिकीर्तिताः॥ चतुर्हस्तदण्डो धनुः । तथाहि विष्णुधर्मोत्तरे-'द्वादशांगुलिकः शंकु स्तवयं तु शयः स्मृतः। तच्चतुष्कन्धनुः प्रोक्तं क्रोशो धनुः सहस्रिकः इति । शयो हस्तः । समुद्रगाः साक्षात्मत्यभिज्ञायमानसमुद्रगामिन्यः, तासु गङ्गा (१) तयाचोक्तं शब्दकल्पद्रुमे- अर्कस्य दुग्धेन शिरीषबीजं विर्भावितं पिप्पलीचूर्ण मिश्रम् । एषोऽगदो हन्ति विषाणि कीटभुजङ्गलूतोन्दुरुवृश्चिकानाम् ।। तूलद्रुपत्रस्य रसं सार्धद्वितोलसम्मितम् । पाययत्तासैलेपस्तत्पत्रैः सकवन्धनम् ।। रम्भास्तम्भरसं पीत्वा सर्पदष्टः सुखी भवेत् ।। मात्स्ये-पनगान् ये न हिंसन्ति तान्न हिंसन्ति पन्नगाः । येषु नक्षत्रेषु सर्पण दटो न जीवति तान्याह वसिष्ठः- मघाविशाखाऽनलसायान्यनैऋत्यरौद्रषु च सर्पदष्टः सुरक्षितो विष्पुरथेन सोऽपि प्राप्नोति कालस्य मुखं मनुष्यः ।। अत्र विष्णुरथेन गरुडेन 'नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः' इत्यमरः ॥ स्मृतिः-आर्द्रायाः प्रथमे पादे क्षीरमश्नाति यो नरः । अपि रोषयुतस्तस्य तक्षकः किं करिष्यति। क्षीरमत्र पायसं परमानम् । अथाद्रप्रथमचरणं यावदन्बुवाचीत्युच्यते-तत्र नवोदकश्राद्ध न करणीयमिति-रघुनन्दनीयाष्टाविंशतितत्त्वे लिखितम् । तत्र साधारणतया श्राद्धवयंतिथि- दिननक्षत्राणि त्याच्यानि । शातातप:- नवोदके नवान्ने च गृहप्रच्छादने तथा। पितरः सड्यन्त्यनमष्टकासु मघासु च ॥ २ कृ० सा० १० कृत्यसारसमुच्चये- महानदी, तापी, कृष्णा, वेणी, गोदावरी, तुङ्गभद्रा, ताम्रपर्णी, कावेरी, रेवा, सिन्धुर्गोमतीत्येकादशाहुस्त एव शिष्टाः । तपनाय सुता गङ्गा गोमती च सरिद्वरा । रजसा च न दुष्यन्ति ये चान्ये नदसंज्ञकाः। तपनस्य सुता यमुना, कालविशेपे रजोयोगेऽपि स्लाने दोषाभाव- माह देवलः- उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च । चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥ उपाकर्म यज्ञोपवीतसंस्कारविशेषः । स च दक्षिणदेशे प्रसिद्धः । नदीतीर- वासिनान्तु रजोयोगेऽपि सर्वदा नदीस्नाने दोपाभावमाह निगमः-'न दुष्ये- त्तीरवासिनाम्' इति । व्याघ्रपादोऽपि- अभावे कूपवापीनामन्येनापि समुद्धृते । रजोदृष्टेऽपि पयसि प्राम्यभोगो न दुष्यति ॥ इति । अन्येनेति कुम्भादिनेति स्मार्ताः । श्रावणशुक्लतृतीयायां (१)मधुश्रावणीव्रतम्- 'तृतीया नभसः शुक्ला मधुश्रावणिका स्मृता'। इति ठक्कुरधृतवचनात् । इदश्च परयुतायामेव कार्यमिति दिवोदासः । स्मृतिश्च-- आद्या मधुश्रावणिका कजली हरितालिका । चतुर्थीमिश्रिता स्त्रीभिर्दिवानक्के विधीयते ॥ इति । 'रम्भाख्यां वर्जयित्वा तु तृतीये' त्यादिवचनैः चतुर्थी युतेयं कार्या । अथ गणेशचतुर्थीनिर्णयः- श्रावशुक्लचतुर्थी गणेशचतुर्थी सा च पूर्वविद्धा ग्राह्या । तथाहि- तृतीयासंयुता या तु सा चतुर्थी फलप्रदा । कर्तव्या अतिभिस्तात ! गणनाथसुतोषिणी ॥ इति । गणनाथं सुतरां तोषयतीति गणेश्वरवते तृतीयायुता चतुर्थी विधेया । अन्यदेवताव्रते हि 'गणनाथसुतोषिणी' त्यसङ्गतं स्यात् । तस्माद्विनायकाते (१ 'अत्र श्रावणकृष्पद्वितीयायामशून्यशयनव्रतमुच्यते । न शून्यं शयनं पर्यको भवति येनाचरितेन वत्सा तु विद्धा चेन्नतिनचुतव ग्राहा । तथाचाह संवतः- कृष्णाष्टमी वृहत्तल्या सावित्री वटपैकी । कामत्रयोदशी रन्मा उपौष्याः पूर्वसंयुताः ॥ बृहतल्पा मशून्यशयनद्वितीया । एवमेव म० म० वाचस्पतिमिश्रकृततिथिनिर्णये। 'अन विष्णोः प्रार्थनायां पुरुषकर्तृकप्रतीत्या कीरहितपुरुषककमिदं व्रतमवगम्यते । स्थाचोक्तं मत्स्यपुराणे- यथा न लदम्या शयनं तव शून्यं जनाईन । शय्या ममाप्यशून्याऽस्तु कृष्ण ! जन्मनि जन्मनि ॥ इत्यादि साहचर्याद खियाऽपि क्रियते । इति । - श्रावणमासकृत्य or चतुर्थी तृतीयायुतैवोपच्या, वत्सपूजाधेनुपूजयोः पृथगुपादानादिति तिथिच- न्द्रिकायां पक्षधरमिश्राः । वृहस्पतिः-चतुर्थीगणनाथस्य मातृविद्धा प्रशस्यते' इति । एतच्चोभयदिने मध्याह्नव्याती उत्तरदिनमात्रे, मध्याह्नव्याप्तौ तु उत्तर- दिन एवं मध्याह्न.यापिनी चेत् स्यात् परतश्च परेऽहनि' इति बृहस्पतेः ।। अथ नागपञ्चमी-श्रावणयुक्लपञ्चमी नागपूजादौ पष्टीयुता । अन्यपञ्च- म्यस्तु चतुर्थीयुनाः कार्याः । तथाहि चनत्कारचिन्तामणौ स्मृतिः- पञ्चमीनागपूजायां कार्या पष्ठीसमन्विता । तस्यान्तु तुपिता नागा इतरासु चतुर्थिका ॥ इति । इतरासु एतद्भिन्नपञ्चमीषु चतुर्थिकेतियोगः प्रशस्त इति शेपः । स्मृतिः- श्रावणे पञ्चमी शुक्ला सम्प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहितः स्मृताः ।। इति । इयञ्च शुल्ला पञ्चमी(माण्डरसामगमावरज्या | शूरैरपि पूज्या । कृष्णा तु पञ्चमी सदसन्मान्याऽतिप्रशस्तेति सर्वस्मार्तराद्धान्त इति तिथि- तत्त्वचिन्तामणौ महेशठक्कुराः॥ अथ रक्षिकाबन्धनम् । श्रावणपूर्णिमायां भद्राशून्यायां (२)रक्षार्थ रक्षिका- बन्धनम् । भद्रायां तन्निषेधमाह स्मृतिः- भद्रायां द्वे न कर्तव्ये श्रावणी फागुनी तथा । श्रावणी नृपति हन्ति प्रामं हन्ति च फाल्गुनी ॥ इति । इयं तु पूर्वविद्धा प्राह्या- श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी । पूर्वविद्धा तु कर्तव्या शिवरात्रिबलेदिनम् ॥ इति बृहद्यमवचनात् । अथ भाद्रकृत्यम् भाद्रकृष्णचा बहूलापूजा । सा च तृतीयायुता प्राद्या, परयुक्ताया दोष- श्रवणात् । तथाहि दिवोदसः- गौरी चतुर्थी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च । गोवत्सपूजा शिवरात्रिरेताः परा विनिघ्नन्ति नृपं सराज्यम् ॥ इति । (१) तथाचोक्तं तिथितत्त्वचिन्तामणी- श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप ! द्वारस्योभयतो लेख्या गोमयेन विषोल्वणाः ।। पूजयेद्विधिवद्वीर दधिदूर्वाङ्कुरैः कुशैः। गन्धपुप्पोपहारैश्च ब्राह्मणानाञ्च तर्पणैः ये तस्यां पूजयन्तीह नागान्भक्तिपुरःसराः । न तेषां सर्पतो वीर ! भयं भवति कुत्रचित् ॥ (२) तहिने चन्द्रग्रहणेसति भद्रारहितसमयेरक्षिका बन्धनीया ग्रहणस्य बाधकत्वाभावात् । तथोक्तं निर्णयसिन्धौ- नित्ये नैमित्तिके जप्ये होमे यशक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहदोषो न विद्यते ॥ मत्र ग्रहदोषो ग्रहणदोषः । - - ॥
१२ कृत्यसारसमुच्चये- अथ बहुलापूजासङ्कल्पः--ओमधेत्यादि सर्वपापक्षयपर्वकधनधान्यसुता- न्वितगोसमृद्धिपूर्वकदिव्यविमानारोहणगोलोकप्राप्तिकानोऽद्यादि यावज्जीवम्प्र- तिभाद्रकृष्णचतुर्थ्याम्बहुलापूजनत्रताचरणमहङ्करिव्ये । इति प्रथमारम्भे स- कल्पः । (पूजा) तत्र पञ्चदेवता विष्णुगौरीकुलदेवतारोहितपर्वतचन्द्रसेन- सोमिलगोपकामरूपिव्याघ्रसवत्सबहुला एतेषां पूजां कृत्वा कथां श्रुत्वा गोग्रासं दत्वा श्राचाराद्यवान्नभक्षणं कुर्यादिति ।। अथ भाद्रे गोप्रसवे दोषमाह । नारदः-- भानौ सिंहगते चैव यस्य गौस्सम्प्रसूयते । मरणन्तस्य निर्दिष्टं पड्भिर्मासैन संशयः ॥ तत्र शान्तिम्प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय नापयेत् ततो होमम्प्रकुर्वीत घृताक्तै राजसप्पैः । आहुतीनां घृताक्वानामयुतं जुहुयात्ततः॥ सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् । वस्त्रयुग्मं यवं चैव समवर्ण प्रदापयेत् ॥ इष्टदेवतमन्त्रेण ततः शान्तिद्विज ॥ तथा-सिंह(१)राशौ गते सूर्ये गोप्रसूतिर्थदा भवेत् । पौषे च महिषी सुते दिववाश्वतरी तथा ।। तदाऽनिष्टम्भवेत्किचित्तच्छान्ती शान्तिकं चरेत् ।। अस्य 'वानेति' सूस्तेन तद्विष्णो' रिति मन्त्रतः । जुहुयाच तिलाज्येन शतमष्टोत्तराधिकम् ।। मृत्युञ्जयविधानेन जुहुयाच्च तथाऽयुतम् १०००० । श्रीसूक्तेन तथा स्नायाच्छान्तिसूक्तेन वा पुनः॥ मध्यरात्रे निशीथे वा यदा गौः क्रन्दते सदा॥ ग्रामे वा स्वगृहे वाऽपि शान्तिकं पूर्ववदिशेत् ।। गार्यपरिशिष्टे-माघे बुधे च महिषी श्रावणे वडवा दिवा | सिंहे गावः प्रसूयन्ते स्वामिनो मृत्युदायकः॥ तत्रापि शान्तिः कार्या। (१) अनेन कर्ककन्याऽर्कयुक्ते भाद्रे न दोषः । तथा च- जङ्गमे स्थावरं जातं स्थावरे वाऽथ जङ्गमम् । तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् ॥ त्यागो विवासो दानं वा कृत्वाऽप्याशु शुभं लभेद ।। तथा च-वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते । वैजात्यं विकृतं वाऽपि षड्भिर्मासैश्च प्रियते । विवोनिषु च गच्छन्ति मैथुने देशनाशनम् ॥
भाद्रमासकृत्यम् । १३ १ - अथ भाद्रकृष्णाष्टम्यां कृष्णजन्माह, तिथितत्त्वचिन्तामणौ- चैत्रे तु शुक्लपञ्चम्यां भगवान्मीनरूपधृक् । ज्येष्ठशुक्ले तु द्वादश्यां कूर्मरूपधरो हरिः ।। चैत्रकृष्णनवम्यान्त हरिर्वाराहरूपधृक् । नरसिंहश्चतुर्दश्यां वैशाख शुक्लपक्षकै ।। मासि भाद्रपद शुक्लद्वादश्यां वामनो हरिः । राधे कृष्णतृतीयायां रामो भार्मवरूपधृक् ।। चैत्रशुक्लनवम्यान्तु रामो दशरथात्मजः । नभस्ये तु द्वितीयायां बलभद्रोऽभवद्धरिः ।। श्रावणे बहुलेऽष्टम्यां कृष्णोऽभूल्लोकरक्षकः । ज्येष्ठशुक्लद्वितीयायां बौद्धः कल्की भविष्यति ॥ श्रावणोऽत्र शुक्लादिश्चान्द्रमासः तेन कृष्णादिरीत्या भाद्रएव इति । अथ भाद्रकृष्णाष्टम्यां कृष्णस्य पूजनं व्रतं च स्त्रीपुंससामान्याधिकारमिति समयप्रदीपः । एतच्च नित्यन् । अकुर्वन्निरयं याति यावदिन्द्राश्चतुर्दश । इति । नरो वा यदि वा नारी कृष्णजन्माष्टमीव्रतम् । न करोति तदा घोरा व्याली भवति कानने ॥ इति च भविष्यपुराणवचनाभ्यामकरणे दोषश्रवणात् । नित्यतया चात्र सङ्कल्पो नास्तीति व्रतपद्धतिः । वस्तुतस्तु-'अकुर्वन्निरयम्'इत्यादि 'यथेष्टं फलमाप्नुयात्' इति वचनाभ्यानित्यकाम्यमिदमिति कृत्यमहार्णवः । इयमष्टमी चन्द्रोदयव्यापिनी यदा तदा जयन्ती व्रतम् , उभयदिने चन्द्रोदयव्यापित्वे तूत्तरदिने । तथाहि-अग्निपुराणे- वजनीया प्रयत्नेन सप्तम्या संयुताऽष्टमी । सऋक्षाऽपि न कर्त्तव्या सप्तम्या संयुता यदि पद्मपुराणे-पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यदूषितम् । रविविधा(१)तथा त्याज्या रोहिण्याऽपि युताऽष्टमी ॥ इति । यद्युत्तरदिने चन्द्रोदयव्यापिनी नाष्टमी तदा सप्तमीसंयुता ग्राह्या । तदुक्तं विष्णुपुराणे कार्या विद्धाऽपि सप्तम्या रोहिणीसंयुताऽष्टमी । जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते ।। कृतोपवासस्तिथ्यन्ते तत्र कुर्यात्तु पारणम् इति । यदा चोदये किश्चिन्मात्रमष्टमी तदुपरि सकला नवमी, तदा जयन्ती व्रतेऽष्टमी स्वल्पाऽप्युपोष्या । तदुक्तं पद्मपुराणे- उदये चाष्टमी किञ्चिनवमी सकला यदि। (१) रविविद्धा रविदैवततिच्या सप्तम्या विद्धत्यर्थः । 4- - कृत्यसारसमुच्चये- भवेद्बुधेन संयुक्ता प्राजापत्यर्तसंयुता ।। अपि वप॑शतेनापि लभ्यते वा न वा विभो ? इति तिथिचन्द्रिकायां पक्षधरमिश्रलिखनम् ॥ पूर्वद्धिाऽष्टनी या तु उदये नवमी दिने ! मुहूर्तमपि संयुक्ता सम्पूर्णा साऽष्टमी भवेत् । कल्ला काष्ठा मुहूर्ताऽपि यदा कृष्णाष्टमी तिथिः। नवम्यां सैव ग्राह्या स्यात्सतमीसंयुता नहि ॥ इति पद्मपुराणाभिधानात् । एवमेव म० म० वाचस्पतिमिश्रद्वैतनिर्णये, रुद्रधरवर्पकृत्ये | गौडदाक्षिणात्यग्रन्थमात्रे वहुव्यवस्था बोध्येति शिवम् । तिथितत्त्वचिन्तामगौ महेशठक्कुरलिखनान्नवमीयुक्तायामेवाष्टम्याञ्जयन्तीव्रतम्।। अथमहालल्मीपूजनादिविधिः--एतदष्टमीमारभ्याखिलकृष्णाष्टमी यावप्रत्यहं महालल्मीपूजाव्रतं कथाश्रवणं च षोडशवर्षपर्यन्तम् । अथ कुशोत्पाटनम्(१) । भाद्रामावास्यायां कुशोत्पाटनमाह मरीचिः- मासे नमस्यमावास्या तस्यां दर्भश्च यो मतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः ॥ इति । नभसि पात्रणे । अत्रापि शुक्लादिश्चान्द्रमासः । तेन श्रावणी पूर्णिमो. त्तरामावास्यायां कुशोत्पाटनमायाति । कुशोत्पाटनमन्त्रस्तु- कुशाग्रे वसते रुद्रः कुशमध्ये तु केशवः । कुशनले वसेद्बया कुशान्मे देहि मेदिनि ! ॥ इति । कुशप्रतिनिधीनाह स्नानसूत्रभाष्य- कुशाः काशामया दूर्वा उशीराश्च सकुन्दराः। इति । कुशाः कुशका- यकारिण इति संख्यापरिमाणम् । निषिद्धकुशानाह लघुहारीतः- चितिदर्भाः पथिदर्भा ये दर्भा यज्ञभूमिषु । (१) भाद्रीयानावास्योधृताः कुशाः वर्षपर्यन्तं कर्मयोग्याः इति मूल एवोक्तम् । अन्यामा- वास्योदघृताः कुशाः एकमासपर्यन्तं कर्मयोन्याः । तथा चोक्तं पृथ्वीचन्द्रोदये यमः- मासि मास्युद्धृता दर्भा मासि मास्येव चोदिताः ।। तया षट्त्रिंशन्मते चास्ति- मासेन त्यादमावात्या दों ग्राझो नवः स्मृतः। तथा यस्मिन् कस्मिन्दिने उद्धृतास्तदिनमात्रकर्मयोग्या इति पुरोलिखितहारीतवचनवोधित- दैनिककृत्यत्वादिति। अथ कुशोत्पाटनेऽन्यस्मृतिलिखितमन्त्रः- *विरजिना सहोत्पन्न ! परमेष्ठिनिसर्गज ! । नुद सर्वाणि पापानि दर्भ ! स्वस्तिकरो भव ।। अन्यद्वारा शूद्रद्वारा च कुशग्रहणमनुचितमुक्तं हारीतेन- समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतः कर्म कुर्वन् पतत्यधः ॥ सधवायाः कुशस्पर्श दोष उक्तो ब्राह्मणसर्वस्वे-न स्मोतिलदर्भाश्च सधवा तु कथञ्चन ।।
- भाद्रमासकृत्यम् । १५ स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत् ।। पिण्डा) के स्तृता दी शैः कृतं पितृतर्पणम् | सूत्रोच्छिष्टे धृता ये च तेषां त्यागो विधीयते ॥ इति । अथ हरितालिका--भाद्रशुक्ल तृतीया हरितालिका । तथाहि दिवोदासीये- भाद्रस्य कजली कृष्णा शुक्ला च हरितालिका । सा च परयुता प्राडा तथाहि नापन:- मुहूर्त्तमात्रसत्वेऽपि दिने गौरोत्रतम्परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ।। स्कान्टे--कला काटा न्हूर्ताऽपि द्वितीया यदि दृश्यते । सा तृतीया न कर्तव्या कर्त्तव्या गणसंयुता ॥ इति । ब्रह्मवैवर्तेऽपि- "रस्माख्यां वर्जयित्वा तु तृतीयामि"त्यादि। पुराणसमुच्चयेऽपि- द्वितीयाशेषसंयुक्तां या करोति विमोहिता । सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति । संयुक्तामिति तृतीयामिति शेपः । अत्र पार्वतीशिवयोः पूजा ।। अथ चतुर्यो चन्द्रदर्शने दोषमाइमार्कण्डेय:- सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् । मिथ्याभिशापङ्कुरुते तरमात्पश्येन्न तं तदा ।।(१) तदेति चतुर्थ्यां न तच्चन्द्रं पश्येदित्यर्थः। तेन तवोदितस्य पञ्चम्यां दर्शने न दोष इति तात्पर्यम् । अन्न चतुर्थ्यामेव दर्शननिषेधस्तस्यामेव चन्द्रपूजनं दर्शनं च व्यवहारसिद्धमतो दोषशान्त्यर्थं (२) सिंहः प्रसेनमव- धीत्' इत्यादि धात्रेयिकावाक्यं प्राङ मुख उदङ मुखो वा पठेत् । 'पठेद्धात्रेयिकावाक्यं प्राङ्मुखो वाऽप्युदङ्मुखः' । इति । ( १ ) सिंहादित्य इत्यनेन सौरभाद्रशुक्लचतुर्थी चन्द्रदर्शनं दूषितम् । यदा भाद्रपदोऽ- धिमासस्तदा सिंहादित्यस्य मलमासे गवत्वाच्छुद्धभाद्रपदशुक्ले चतुल्चन्द्रदर्शननिषेधरतथाचोक्तं पराशरेण-कन्यादित्ये चतुर्थ्यान्तु शुक्ले चन्द्रस्य दर्शनम् । मिथ्याभिदूषणं कुर्यात्तस्मात्पश्यन्न तं तदा । इति तिथितत्त्वचिन्तामणौ द्रष्टव्यम् । (२) सिंहः प्रसेनमवधीसिहोजाम्बवता हतः। सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः॥ इति संपूर्णमन्त्रेण फलपुष्पपोलिकापक्कानपूरितवंशपात्रं समर्पयेत् । ततो नमो- दधिशङ्कतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं भक्त्या शम्भोर्मुकुटभूषणम् ।। इति मन्त्रेण दधिपात्रं समर्पयेत् । ततोऽन्ते- 'हपं देहि यशो देहि भाग्यं भगवन् ? प्रदेहि मे। पुत्रान्देहि धनं देहि सर्वान् कामान् प्रदेहि मे।। इत्यनेन वरं प्रार्थवेत् । - - पञ्चमी युक्ता कृत्यसारसमुच्चये- प्रदोपव्यापिनीयं ग्राहया उभयदिने प्रदोषव्याप्ती 'युग्माग्निक्रतुभूतानी'त्यादि निगमात्(१)। अथ भाद्रशुक्लषष्ठी सूर्यषष्ठी सा च सर्वमते स्कन्दव्रतातिरिक्ता परयुता ग्राह्या, युग्मात् । “नागविद्धान कर्तव्या पठी चैव कदाचन" इति स्कान्दाच्च । अत्रैव राधावतं, तच्च सप्तमीयोगेन कार्यम् । अथ भाद्रशुक्लाष्टमी-दूर्वाख्या । सा च पूर्वयुता ग्राहया तथाह बृहद्यमः- श्रावणी दुर्गनवमी दूर्वा चैव हुताशिनी । पूर्वविद्धा तु कर्तव्या शिवरात्रिर्बलेर्दिनम् ॥ इति । अथ भाद्रशुक्लचतुर्दश्यामनन्तव्रतम् । सा च त्रिभुहूर्ताऽप्यौदयिकी- पाहोति माधवाचार्यः । तथाहि- "उदये त्रिमुहूर्ताऽपि ग्राह्याऽनन्तव्रते तिथिः" इति घटिकामात्राऽप्यौ- दयिकी ग्राह्या, इति निर्णयामृतः । तथाह- 'पौर्णमास्या समायोगाद्ब्रतं चानन्तकं चरेत्' इति भविष्ये । द्वघहेऽप्यौदायिकत्वे पूर्णत्वात्पूर्वविधा ग्राह्येति स्मार्ताः(२)। (१)तिथियुग्मप्रतिपादकवचनस्यार्थ:- द्वितीयान्तीययोः । चतुर्थीपञ्चम्योः । षष्ठीसप्तम्योः । अष्टमीनवम्योः। एकादशीद्वादश्योः । चतुर्दशीपौर्णमास्योः । प्रदिपदर्शयोर्मेलनम् । अर्थाद्वितीयाव्रतन्तूभयदिने द्वितीयायां सत्यां तृती- यायुक्तायां कर्तव्यम् । तथा तृतीयात्रतं तु द्वितीयायुक्तायां तृतीयायां कर्तव्यम् । यत्र च विशेष- वचनं न युग्मत्वबाधक, तत्र तत्र नियमेन युग्मादरः। विशेषवचनस्य बाधकत्वे न युग्मादरः । यथा हरितालिका तृतीयानिर्णये- 'कला काष्ठा मुहूर्ताऽपि द्वितीया यदि दृश्यते।सा तृतीया न कर्तव्या कत्त व्या गणसंयुता'। इति स्कन्दपुराणाचनात्। (२) भविष्ये-तथा भाद्रपदस्यान्ते चतुईश्यां द्विजोत्तम ? । पूर्णिमायाः समायोगे व्रतं चानन्तक चरेत् । स्कान्दे-मुहूर्तमपि चेद्भाद्र पूर्णिमायां चतुर्दशी । सन्पूर्णा तां विजानीयात्पूजयेद्विष्णुमव्ययम् ।। इति तिथिचन्द्रिकायां पक्षधरमिश्राः लिलिखुः । पुनश्च तत्रैव-अनन्तस्य व्रते राजन् ? घटिकैका चतुर्दशी। उदये घटिकाध वा सैव पाहा महाफला ।। दिवोदास:-चतुर्दश्युदये किञ्चित्पूर्णिमा सकला यदि । तत्र कुर्यादनन्तस्य महाविष्णोः प्रपूजनम् ।। स्मृतिः-व्रतोपवासनियमे घटिकैका यदा भवेत् । सा तिथिस्तहिने पूज्या विपरीता तु पैतृके । अग्निपुराणे-वारुणेन समायुक्ता स्यादनन्तचतुर्दशी। तत्राक्षयकलं प्रोक्तमनन्तार्चनसम्मवम् ॥
१७ - - आश्विनमासकृत्यम् । अथ भाद्रशेषदिनत्रयेऽगस्त्यापदानम् (१) ! तत्र प्रमाणम् ब्रह्मवैवर्ते अप्राप्ते भास्करे कन्यां शेपभूतैत्रिभिर्दिनैः। अर्धन्दपुरगस्त्याय गौडदेशनिवासिनः ।। नारसिंहे-शङ्के तोयं विनिःक्षिप्य सितपुष्पाततैर्युतम् । मन्त्रेणानेन वै दयादक्षिणाभिमुखः स्थितः ।। अनेन 'शंखं पुष्पं फलं तोयम्' इत्यादि मन्त्रेण । अत्र दिनत्रये मन्त्र- त्रयं यथा- कुम्भयोनिसमुत्पन्न ! मुनीनां मुनिसत्तम!। उदयं ते लङ्काद्वारेऽर्घोऽयम्प्रतिगृयताम् ॥ १॥ शङ्ख पुष्पं फलं तोयं रत्नानि विविधानि च | उदयन्ते' इत्यादि ।।२।। काशपुष्पप्रतीकाश ! वह्निमारुतसम्भव ! | उदयन्ते लङ्केत्यादि ॥ ३ ॥ इति केचित् । रसमालायां तु प्रथमदिने तृतीयमन्त्रः, द्वितीये-प्रथम इति भेदः। अथाश्विनकृत्यम् तत्र मनु:-अश्वयुकृष्णपक्षे तु श्राद्धं देयन्दिने दिने । त्रिभागहीनं पक्ष वा त्रिभागं त्वद्ध मेव वा ।। दिने दिने प्रतिदिने, न तु तिथौ तिथौ मुख्यार्थत्यागापत्तेः । श्राद्धविवे कादयोऽप्येवम् । तथा च प्रतिपदाद्यमावास्यान्तः पार्वणकालो मुख्यः । तद- शक्तस्य पञ्चम्याद्यमावास्यान्तः । तत्राप्यशक्तस्य अष्टम्याद्यमावास्यान्तः । ततो- ऽप्यशक्तस्य दशम्याद्यमावास्यान्त इति चत्वारः कल्पा इति तात्पर्यम् । एतत्पक्षचतुष्टयाशक्तेनैकस्मिन्नपि दिने पार्वणं कर्तव्यम् । तथाहि- यो वै श्राद्ध नरः कुर्य्यादेकस्निन्नपि वासरे। तस्य संवत्सरं यावत्संतृप्ताः पितरो ध्रुवम् ॥ इति । अकरणे दोषमाह स्मृतिः- सूर्ये कन्यागते श्राद्ध यो न कुर्याद् गृहाश्रमी । धनं पुत्राः कुतस्तस्य पितृनिश्श्वासपीडनात् ।। तथाच-पूर्वाहो वै देवानां मध्यदिनं मनुष्याणामपराहुः पितृणाम् । इति अतिवाक्थवला. तथा च पूजनादेः प्रातःकालिककृत्यत्वादुदयव्यापिनी एव ग्राह्या । निर्णयसिन्धौ तु-'मध्याहे भोज्यवेलायाम्' इति कथान्तर्गतपद्यप्रमाणेन 'माध्याहिकी तिथि' रियं ग्राह्येति कमलाकरभट्टेन लिखितम् । तन्मैथिलस्मृतिविरुद्धमस्तीति । मध्याहव्यापिनी तिथिरेकोद्दिष्टविधौ भोजनविधी वोपयुक्ता भवति, न कापि पूजनादौ, तेन तन्मतं सम्यङ्नेति । (१) अनेन सौरभाद्रस्य शेषदिनत्रयेऽर्धदानविधिः सिद्धयति । व्यवहारस्तु-कृष्णादिचान्द्र- मासस्यान्विमदिनेऽर्धदानस्य दृश्यते। राजमाण्डेऽगस्त्यस्य काशपुष्पप्रतिमा विधायार्ष- दानविषिविशेषः प्रतिपादितः, स च द्रष्टव्यः परिशिष्टे। ३० सा० कृत्यसारसमुच्चये- अतो नित्यमिदम्पार्वणन् । 'नन्दा (१) यां भास्करदिने' इत्यादि नन्दादि- श्राद्धनिषेधवचनानि पक्षश्राद्धव्यतिरिक्तविषयाणि बोध्यानीति ठक्कुराः। सर्वेष्वप्येषु पक्षेषु चतुर्दशीत्यागः । यथा मनुः- कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रसिद्धास्तिथयो यर्थता न तथेतराः ।। अय शनादिहतानामेव चतुर्दश्यां श्राद्धम् । तथाहि देवीपुराणे । आहवेषु विपन्नानां जलाग्निभृगुपातिनाम् । (२) चतुर्दश्यां भवेत्पूजाऽमावास्यायान्तु कामिकी ।। इति । वायुपुराणेपि-युवानस्तु गृहे यस्य मृतास्तेषान्तु दापयेत् । शस्त्रेण वा हता ये वै तेषां दद्याच्चतुर्दशीम् ।। इति शस्त्रहतश्राद्धमेको- दिष्टविधिना कर्तव्यम् । तथाहि- चतुर्दश्यान्तु यच्छ्राद्ध सपिण्डीकरणे कृते । तदेकोदिष्टविधिना कर्त्तव्यं शस्त्रघातिनाम् ॥ इति । युवानः षोडशवर्षमारभ्य त्रिंशद्वर्षपर्यन्तवयस्का विवक्षिता इति रत्नाकरः। शस्त्रघातिनां शस्त्रेण हतानामित्यर्थः ।। अथ महालक्ष्मीपूजनं व्रतञ्च । भाद्रकृष्णाष्टमीमारभ्याश्विनकृष्णाष्टमी यावन्महालक्ष्मीपूजनं व्रतश्च । इयमष्टमी चन्द्रोदयव्यापिनी ग्राह्या, तत्रैव पूजोक्के । परदिने चन्द्रोदयादूर्व त्रिमुहूर्तव्यापित्वे परैब, अन्यथा पूर्वैव, तथा च स्मृतिः (१) तिथितत्वचिन्तामणौ वशिष्ठः- नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मनु । एषु पाद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ तथाच-मानौ भौमे त्रयोदश्यां नन्दासु च मघासु च । पिण्डदानं मृदा स्नानं न कुर्यातिलतर्पणम्।। तथा हेमाद्रौ पृद्धपराशर:- युगादिषु मघायां च विषुवत्ययने तथा । भरणीषु च कुर्वीत पिण्डनिर्वपणं नहि ।। वगर्ग-प्राजापत्ये च पौष्णे च पित्र्यः भार्गवे तथा। यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति॥ अत्राश्विनस्य मलमासे कन्यास्थसूर्यस्यावसरो मलमासान्तर्गत एव । तत्र शुद्धाश्विनकृष्णपक्षे सिंहादित्यसंभवादपि सकलस्मृतिसम्मत्या "कन्यां गच्छत वा न वा-" इत्यादिना च । श्रावं कर्तव्यमित्येवमेव मैथिलसम्प्रदायोऽपि । पितृणां चान्द्रमासमिताहोरात्रस्य कृष्णपक्षरूममेव दिनं भवत्यतो रात्रिभोजनापेक्षया दिनभोजनस्य प्राशस्त्यात्तेषां श्राद्धं कृष्णपक्षे सर्वसम्मतम् । तत्रापि तेषां दर्श दिनार्थसमयत्वात्तत्रातिप्रशस्तम् । “पश्यन्ति तेऽक निजमस्तकोचे दर्श 'यतोऽस्माद्यदलं च तेषाम्' इति सिद्धान्तशिरोमण्युक्त्वात् । (२) अत्र चतुईश्यां येऽपमृत्युमन्तस्तेषामेव श्राद्धमुक्तं मरीचिना- विषशखश्वापदाहितिर्यगब्राह्मणघातिनाम् । चतु ईश्या क्रिया कार्या चान्येषान्तु विगईितम् ।। वृक्षारोहणलाहाविषघालाविषानिमिः । नखीदंष्टीविपन्नानां तेषां शस्ता चतुर्दशी ।। तया ब्राह्मणापि युवानः पितरो यस्य मृताः शस्त्रेण चाहताः । तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता ॥
आश्विनमासकृत्यम् । १९ पूर्वा वा परविधा वा ग्राडा चन्द्रोदये सदा । त्रिमुहूर्तापि सम्पूज्या परतश्चोर्ध्वगामिनी ॥ इति । अथ जीवत्पुत्रिकाऽष्टमी- आश्विनकृष्णाष्टमी जीवत्युत्रिकाख्या । तथाहि भविष्ये- इपे मास्यसिते पक्षे चाष्टमी या तिथिर्भवत् । पुत्रसौभाग्यदा स्त्रीणां ख्याता सा जोवपुत्रिका ।। शालिवाहनराजस्य पुत्रो जीमूतवाहनः । तस्यां पुज्यः स नारीभिः पुत्रसौभाग्यलिप्सया ।। इयमष्टमी प्रदोषव्यापिन्युपोष्या । प्रदोष(१) समये स्त्रीभिः पृज्यो जीमूतवाहनः । पुष्करिणी विधायाथ प्राङ्गणे चतुरस्रिकाम् ।। इति भविष्यपुराणात् । यधुभयदिने प्रदोषव्याप्तिस्तदाऽपरेऽहन्येव प्रधान- कालानुरोधात् , नवम्यधिकरणकपारणानुरोधाच पूर्वदिने व्रते तु वक्ष्यमाणव- चनेन अष्टम्यां पारणे दोषत्रणेन तदन्ते निशिपारणनिपेधेन च उपवास- द्वयापत्तिः । यदि पूर्वेद्युः प्रदोषव्याप्तिर्न परेधुरिति तदा पूर्वेधुरेव प्रदोषा- नुरोधबोधकपूर्वोक्तवचनात् । पूर्वयुरपरेधुर्वा प्रदोपे यत्र चाष्टमी । तत्र पूज्यस्सदा स्त्रीभी राजा जीमूतवाहनः ।। इति विष्णुधर्मोत्तरीयाच्च । तिथिचन्द्रिकायां पक्षधरमिश्रोऽप्येवम् । यत्तु ठक्कुरैः सप्तमीयुताऽष्टमी कर्तव्येत्यभिहितं तदपि गुरुमिकवाक्यत्वा- नुरोधेन पूर्वदिनमात्रे प्रदोषव्यापिन्यष्टमीविषयकमेव विधेयम् । पारणन्तु परदिने तिथ्यन्ते(२)कार्यम् । आश्विनस्यासिताष्टम्यां याः खियोऽन्नञ्च भुञ्जते । मृतवत्सा भवेयुस्ता विधवा दुर्भगा ध्रुवम् ।। इति भविष्यात् । विष्णुधर्मोत्तरे नवम्यां पारणविधानाच्च । उभयदिने प्रदोषे तदव्याप्तौ (वा) उदयगामिन्यां (सूर्योदयगामिन्यां ) व्रतम् । लक्ष्मीव्रतश्चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विनकृष्णपक्षे । यत्रोदयं वै कुरुते दिनेशस्तदा भवेज्जीवितपुत्रिका सा॥ इति दामोदरमिश्रधृतवचनात् । दिनेशः सूर्यः । तथाचोभयदिने प्रदोषे- ऽष्टम्यलाभे सूर्योदयकालीना यहिनेऽष्टमी तदिने जीमूतवाहनव्रतमिति तात्पर्यम् । एषैव व्यवस्था परमानन्दठक्कुरकृतवर्षपद्धतावपि, इति तिथि- चन्द्रिकायां म०म० पक्षधरमिश्राः ।। (१) प्रदोषो रजनीमुखमित्यमरः। (२) अष्टम्यन्ते।
- - २० कृत्यसारसमुच्चये- अय अन्वष्टका १)श्राद्धम् । नवम्यामन्यष्टकाश्राद्धम् । तत्र कात्यायन:- अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादि मातृमध्यञ्च ततो मातामहान्तकम् ।। इति । (१)वृद्धवशिष्टः- मातृवाद्ध त विप्राणामलामे पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽष्टौ मुदाऽन्विताः। तिथितत्वचिन्तामणौ सूतः- अन्वष्टकासु वृद्धौ च गयायाञ्च क्षयेऽहनि । अत्र मातः पृथक् श्राद्धमन्यत्र पतिना सह ॥ वत्रैवापस्तम्बराजो- अन्वष्टका तथा मानाद्ध चैव मृताहनि । एकोद्दिष्टं तथा मुक्त्वा त्रियु नान्यत्पृथग्भवेत् ॥ तथा च शातातप:- अन्वष्टकातु वृद्धौ च प्रतिसंवत्सरं तथा । अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ।। एकमूत्तित्वमायाति सपिण्डीकरणे कृते । पत्नी पतिपितॄणां त तस्मादशेषु भागिनी ॥ वृहस्पतिरपि- स्वेन भ; समं श्राद्ध माता भुक्ते सुधासमम् । पितामही च स्वेनैव स्वेनैव प्रपितामही ॥ षटत्रिंशन्मतेऽपि- एकत्वं सा गता भर्तुः पिण्डे गोत्रेऽथ सूतके । न पृथक् पिण्डदानन्तु तस्मात्पत्नीपु विद्यते ॥ तथा चतुर्विशन्मतेऽपि- क्षयाहं वर्जयित्वक स्त्रीणां नास्ति पृथक्रिया । केचिदिच्छन्ति नारीणां पृथक् श्राद्धं महर्षयः ।। तथा कात्यायन:- न योषिद्भयः पृथग्दद्यादवसानदिनादृते । स्वभर्तृपिण्डमात्रेण तृप्तिरासां यतः स्मृता ।। भावश्यकं श्राद्धकरणमाह कात्यायन:- अमावास्याव्यतीगतमौर्णमास्यटकासु च । विद्वान् श्राद्धमकुर्वाणो नरकं प्रतिपद्यते ।। येषां पिण्डादिकं पितरो नाश्नन्ति तानाह यमः- नाश्नन्ति पिशुने देवा नाश्नन्त्यनृतवादिनि । भार्या जितस्य नाश्नन्ति यस्य चोपपतिहे। न खरैरुपयावस्य न रक्ताम्बरवाससः॥ इति । अत्र देवा रत्युपलक्षणम् , पितरोऽप्येवम् , स्मृत्यन्तरे दर्शनात् । मादसभये शुक्लवस्त्र धार्यमित्याह प्रचेताः-श्राद्धकृच्छुक्लवासाः स्यादिति । तत्र कुशनियममाह बृहस्पतिः- ऋजून सव्येन कृत्वा तु देवे दर्मान् प्रदक्षिणान् । द्विगुणानपसव्येन दद्यात्पित्र्येऽपसव्यवत् ॥ ऋजून् सरलान, द्विगुणान् मोटकान् । तत्रोपवेशनक्रममाह कात्यायन:- दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरद् जानु पितृन् परिचरन् सदा ॥ पितृप्रदक्षिणनिषेधमाह कात्यायन:- प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् । देवानां सयवा दर्भाः पितृणां द्विगुणास्तिलैः ॥ प्रादीपकरणाभावकालिककर्त्तव्यतामाह मार्कण्डेयपुराणे- सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति । न मेऽस्ति वितं न धनं न चान्यच्छ्राद्धोपयोगि स्वपितृन्नतोऽस्मि । तृप्यन्त भक्त्या पितरो मयतौ भुजौ कृतौ वर्मनि मारतस्य ।। इत्येवं पितमिगीतं भावाभावप्रयोजकम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव ! ॥ - २ २१ -- आश्विनमासकृत्यम् । ब्राह्माण्डपुराणे-पितृणाम्प्रथमन्दद्यान्मातृणान्तदनन्तरम् । ततो मातामहादीनामन्वष्टक इति क्रमः॥ तथाच प्रथमं पित्रादित्रयाणां ततो मात्रादितिसृणाम्, ततो मातामहादित्र- याणामेवं नवपुरुषश्राद्धमन्वष्टकायाम्भवतीति भावः । अथ गजच्छाया-कृष्णपक्षे त्रयोदश्यां मघायुक्तायां हस्तनक्षत्रगते सूर्ये गजच्छाया भवति । तथाहि वायुपुराणे- हर सूर्यस्थिते या तु मघायुक्ता त्रयोदशी । तिथिर्ववस्वती नाम सा छाया कुञ्जरस्य तु ॥ अन्यच्च- कृष्णपक्षे त्रयोदस्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया श्राद्ध पुण्यमवाप्यते । अत्र वारनियमो नास्ति प्रापकाभावात् , दिवस एवैताहशयोगे गजज्छाया, न तुरात्रौ । तथाहि महाभारते- 'दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन ।' इति । अत्र मधुघृतयुतपायसेन श्राद्धम् । तथाहि-- सोऽस्माकञ्च कुले जायाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्या वर्षासु च मघासु च ।। पितृणामुक्तिरियम् । ब्रह्मपुराणे- अश्वयुज्यां तु कृष्णायां त्रयोदश्यां मघासु च । प्रावृतौ यमः प्रेतान् पितृश्चापि यमालयात् ॥ विसर्जयति मानुष्ये कृत्वा शून्यं स्वकम्पुरम् । क्षुधार्ताः कीर्तयन्तश्च दुष्कृतन्तु स्वयं कृतम् । पायसं पुत्रपौत्रेभ्यः कांक्षन्तो मधुसंयुतम्। तस्मात्तत्र विधानेन तप्पयेत्पायसेन च । मध्वाज्यतिलमिश्रेण तथा शीतेन चाम्भसा । ग्रासमात्र परगृहाद्वयक्तं यः प्राप्नुयान्नरः । भिक्षामात्रेण यः प्राणान् सन्धारयति वा स्वयम् । यो वा संवर्द्धयेद्देहं प्रत्यहश्चात्मविक्रयात् । श्राद्धं तेनापि कर्त्तव्यं तैस्तैव्यैः स्वसञ्चितैः ॥ नास्मात्परतरः कालः श्राद्धेष्वन्यत्र विद्यते। यत्र साक्षाद्धि पितरो गृहन्त्यमृतमक्षयम् । ज्येष्ठपुत्रवता पिण्डरहितमेव श्राद्धमत्र कर्त्तव्यम् । मघायां पिण्डदानेन ब्येष्ठः पुत्रो विनश्यतीत्यनिष्टश्रवणात् । ज्येष्ठपदमत्र सर्वज्येष्ठपरमिति रस- इत्येवं पितृयशस्य यदा कर्तुं न शक्नुयात् । स तदा वाचद्विप्रान् शाकल्यासिद्धिरस्त्विति ॥ सति विमवे एवं कृते वंशधननाशोऽपरत्र दुर्गतिरिति ।
२२ कृत्यसारसमुच्चये- माला | अत्र मघाऽधिकरणकश्राद्धमात्रेण पिण्डदाननिषेधः। सपिण्डनदिने मघासत्र सपिएनपयुदासापत्तेः, किन्तु मघानिमित्तके । तथा च मघापु- रस्कारेण पार्वयं ज्येष्ठपुत्रिणा पिण्डरहितं कर्त्तव्यमिति शास्त्रार्थः, इति कृत्य- महार्गवः । ब्रह्मपुराणे- सूतके मृतके चैव प्रस्तयोश्चन्द्रसूर्ययोः । छायायां कुञ्जरस्याथ भुक्त्वा तु नरकं ब्रजेत् ।। प्रमादाब्राह्मणो भुक्त्वा चरेच्चान्द्रायणं व्रतम् । एतेन ब्राह्मणस्य तत्र भोजने चान्द्रायणम् , क्षत्रियादीनां पादहीनं तदेव । विप्रेतु सकलं देयं पादोनं क्षत्रिये मतम् । इति बृहद्विष्णुवचनात् । विशेषतो ब्राह्मणस्यैवोपादानाबाह्मणस्यैव- प्रायश्चित्तमिति केचित् । चान्द्रायणप्रकारो मत्कृतप्रायश्चित्तव्यवस्थायामव- लोकनीयः (२)। अथ श्राद्धकाल:- - शुक्लपक्षस्य पार्वणम्पूर्वाह कृष्णपक्षस्य चापराहे, तथा च मार्कण्डेयः- शुक्लपक्षस्य पूर्वाह्ने श्राद्धं कुर्याद्विचक्षणः । कृष्णपक्षेऽपराहे च रौहिणं न तु लवयेत् ॥ इति तिथितत्वचिन्तामणौ । अक्षयतृतीयाप्रकरणे रौहिणमित्येकोदिष्ट- परमिति श्राद्धरत्ने लक्ष्मीपतिः ।। अथ श्राद्धकालमाह-- पूर्वाहे मातृकं श्राद्धं पराहे तु पैतृकम् । एकोद्दिष्टन्तु मध्याह्ने प्रातद्धिनिमित्तकम् ।। पूर्वाह्ने इति सार्द्धप्रहरं यावत् । तच्च गोपूजाप्रकरणे वक्ष्यते । मातृक- मन्वष्टका पैतृकम्पार्वणम् , एकोदिष्टमाद्यश्राद्धादीति नाद्धरले लक्ष्मीपतिः । मध्याह्ने कुतुपे । कुतुपकालमाह- द्वौ यामौ घटिकान्यूनौ द्वौ यामौ घटिकाऽधिकौ । स कालः कुतुपो ज्ञेयः पितृणां दत्तमक्षयम् ॥ विशेषमाह रत्नमालायाम्- (२) दिनस्य यः पश्चदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमानम्' | इति (१) चान्द्रावणवनविधानं परिशिष्टप्रकरणे द्रष्टव्यम् । (२) म० म० नरहरिकृतद्वैतनिर्णये-"मुहूर्तमत्राहः पञ्चदशो भागस्तेन पञ्चदशधा- विमक्तस्याह अष्टमो मुहूर्त्तस्त्रिंशद्दण्डात्मकदिने चतुर्दशदण्डानन्तरं दण्डद्वयात्मकः कालः कुतुप- स्तत्रैकोद्दिष्टारम्मोऽनन्तफलद इत्यर्थः । तथा चोकं ब्रह्माण्डपुराणे- समाहनि तथा रात्रौ मूहा वै दिनाटिकाः । हासवृद्धी त्वहर्भागैदिवसानां यथाक्रमात् ।। सन्ध्या मुहूर्त्तमात्रा तु हासवृद्धिस्त सा स्मृता ॥ अ० २१ श्लो० ११७ एमिः प्रमाणे रिष्टदिनमानस्य पञ्चदशोऽशो मुहूर्तः, स च त्रिंशदषिके दिनमाने दण्डया- -- -- आश्विनमासकृत्यम् । २३ तथा च दिनमानस्य पञ्चदशमो विभागो दिनमुहूर्त एवं रात्रात्रपीत्यर्थः । तत्राष्टमो मुहूर्तः कुतुपः । नवमो रौहिणः । तथाहि- अहो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः सः कालः कुतुपः स्मृतः ।। प्रातःकालादिमाह- प्रातःकालो मुहूतौबीन सङ्गबत्तादेव हि । मध्याह्नस्त्रिमुहूर्तः स्यादपरास्ततः परम् ।। सायाह्नस्त्रिमुहूर्तः स्याच्छाद्धं तत्र न कारयेन् । ततः परमिति मुहूर्त्तत्रयमिति शेपः । उभयदिने कुतुपश्य लाभे, अथवा पूर्वविने रौहिणस्योत्तरदिने कुतुपस्तदोभयत्र पूर्वदिन एवैकोदिष्टं, विहितत्वा- विशेषात् कपालाधिकरणन्यायात् । यदि च कुतुपमुहूर्ते एकस्मिन्नपि दिने क्षयतिथिर्न लभ्यते तदा रौहिणे श्राद्धं रोहिणमुल्लच न कर्तव्यम् । "रौहिणन्तु न लङ्घयेन्" इति वचनादिति ।। अथ हस्ताऽके खञ्जनदर्शनम् । तत्र दर्शनमन्त्री- नीलकण्ठ ! शुभग्रीव ! सर्वकामफलप्रद !! पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते ॥ त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि शिखोद्गमेन । संदृश्यसे प्रावृषि निर्गतायां त्वङ्खञ्जनाश्वय्ये ? नमो नमस्ते ।। दर्शनफलमाह तिथितत्त्वे- अब्जेषु गोषु गजबाजिमहोरगेषु राज्यप्रदः कुशलदः शुचिशाद्वलेषु । भस्मास्थिकेशतुषलोमनखेषु दृष्टो दुःखं ददाति बहुशः खलु खञ्जरीटः ।। धिकः । त्रिंशदल्पे तु दण्डद्वयाल्पो न तन्मानमेकरूप दिनस्य न्यूनाधिकत्वात्। केवलं सायन- विषुवदिने दिनराज्योः समत्वाद्धटिकादयपरिमितो भवत्यन्यत्र नेति श्राद्धयात्रादौ एवमेव कर्तव्यमिति । यदि पूर्वदिने नवम ( रौहिण ) मुहूर्तानन्तरं क्षयतिथिः, परदिने कुतुप (अटम) मुहूर्ता- प्रागेव विरमति, तदोभयदिनेऽपि कुतु परौहिणमुहूर्त्तयोरपतनात्परदिने सङ्गमेऽपि कर्त्तव्यम् । 'रोहिणं न त लये दित्यनेन रौहिणान्तावध्येव मुख्यश्राद्धसमयकथनात्, तथा मुख्यस्य कुतपस्याला तत्पूर्वकाले गौणेऽपि कर्त्तव्यमेवेतिसकलस्मृतिसम्मतिः ॥ तथोक्त श्राद्धविवेके- ऊर्ध्व मुहूर्तात्कुतुपाद्यन्मुहूर्त्तचतुष्टयम् । मुहूर्तपञ्चकं चापि स्वधावाचनमिष्यते ॥ मुहर्तपञ्चकं कुतुपात्पूर्व कुतुपात्परं मुहूर्तचतुष्टयं कुतुपश्चेत्येवं दश मुहूर्ताः श्राद्धकालः। उभयदिने कर्मयोग्यकाललामे पूर्वदिन एव कार्यन्तथोक्तं स्मृतिसारे- दर्शञ्च पौर्णमासन्च पितुः सांवत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते । अथ निर्णयसिन्धूतदक्षवचनम्- मुण्डनं पिण्डदानं च प्रेतकर्म च संशयः। न जीवत्पितकः कुर्याद्गुर्विणीपतिरेव च ॥ श्राद्धे कृष्णतिला एव प्रशस्ता इत्युक्तं मात्स्ये- विष्णोदेहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा । श्राद्धस्य रक्षणायालमेतत्प्राइदिवौकसः ।। - २४ कृत्यसारसमुच्चये- वित्तं ब्रह्मणि कार्यसिद्धिरतुला शके हुताशे भयं याम्यामग्निभयं सुरारिकलहो लाभस्समुद्रालये । वायव्यां वरमन्नवस्त्रविभवं दिव्याङ्गना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥ ब्रह्मणि आकाशे 'खम्ब्रह्म' इति श्रुतेः, शक्रे पूर्वदिशि, दर्शने इति शेषः, हुताशेऽग्निकोणे, याम्यां दक्षिणे, सुरारिनैऋत्यकोणः, समुद्रालये पश्चिमे (१)॥ (१) अथ खानप्रथमदर्शने बृहत्संहितोक्कविशेषविचार:- खजनको नामाऽयं यो विहगस्तस्य दर्शने प्रथमे। प्रोतानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥१॥ तत्र खानस्य चत्वारो भेदा:-भद्रसम्पूर्णरिक्तगोपीतसंशकाः। तल्लक्षणम्-यः स्थूल उन्नतकण्टः कृष्णग्रीवः स भद्रसंज्ञः कल्याणं करोति । यस्य गलान्मूर्द्धपर्यन्तं कृष्णवर्णः स सम्पूर्णसंशो दृष्टः सैल्लोकस्याशां पूरयति । यस्य च गले कृष्णः कृष्णो विन्दुः, करटान्तौ सितौ स रिक्तसंशो रिक्तदसावशुभः । यः पीतवर्णः म गोपीसंशको दृष्टः सन्क्लेशकरः । अथ कुत्र दृष्टः श्रियं दिशति-मधुर-सुरभि-फल-कुसुम-तरु-जलाशय-करि-तुरग- भुजगानां शिरसि, देवप्रसादोधान-इन्र्येषु गो-गोष्ठ-सत्सङ्गस्थल-यशोत्सवभूपविप्रसमीपे गजा- श्वशालाच्छत्रध्वजचामरोपरि हेमतमीपसिताम्बरकमलोत्पलपूजितोपलिप्तभूमिपु दधिपात्रधान्य- राशिघु दृष्टो लक्ष्मी ददाति अथ स्थलभेदेन फलमेदाः-पके स्वादन्नप्राप्तिः गोमये दुग्धदधिलाभः । शादले वसा- प्तिः। शक्टोपरि दृष्टो देशभ्रंशकरः । गृहपटले धननाशः। चर्मतन्तौ बन्धनम् । अपवित्रस्थले रोगः । अजमेषपृष्ठे प्रियजनसङ्गः । महिषोष्ट्रखरोपरि, अस्थिश्मशानगृहकोणशर्कराहाकार- भस्मकेशेषु दृष्ये मरणरोगमयदो भवति । 'पक्षौ धुन्वन्नशुभः पिबन् वारि निम्नगानिकटे । सूर्योदये प्रशस्तो नेष्टफलः खजनोऽस्तमये ॥ यत्र स मैथुनं करोति, तत्र भूमितले निधिः । यत्र वमति, तत्र काचौस्ति । यत्र मलत्यागं करोति, तत्राकारम् । मृतखञ्जनदर्शने मरणम् । विकले पृष्टेऽङ्गवैकल्यम् । छिन्नशरीरे दृष्टेड-. गच्छेदः । रोगिते रोगः । आलयं प्रविशन् धनकृन् । वियत्युड्डीयमानेऽवलोकिते बन्धुसमागमो भवेत् । आदौ यस्मिन्दिने तद्दर्शनं जातं तत्फलं वर्षपर्यन्तम् । प्रतिदिनं यद्दर्शनफलं तत्तदिन- शेषसमय एव भवतीति कश्यपेनोक्तम् । "प्रथमे दर्शने पाकमावर्षात् प्रवदेवुधः । प्रतिदेवसिके वाच्यं दर्शनेऽस्तमये फलम् ॥ अथ दुष्टदिकस्थानाष्टखानस्य शान्ति:- 'अशुभमपि विलोक्य खजनं द्विजगुरुसाधुसुरार्चने रतः । न नृपतिरशुभं समाप्नुयान यदि दिनानि च सप्त मांसमुक्॥ नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिकुसुमधूपयुक्तम शुभममिनन्दति चैवमेति वृद्धिम् ॥' तथाचानिष्टखजनदर्शने कर्तव्यतोक्ता संख्यापरिमाणे- 'मांसं न मुञ्जीव शयीत भूमौ स्त्रियं न सेवेत दिनानि सप्त । स्लायाञ्जपेत्संजुहुयाच वसौ पैष्टं पुमान् खननमर्चयेच्च ॥ इति ।
२५ - आश्विनमासकृत्यम् । अथ श्राश्विनशुलप्रतिपदि कलशस्थापनम् । तच्च पूर्वाह्ने, उभयदिने पूर्वाहे प्रतिपल्लाभे द्वितीयायुक्तायामेव तत्कार्यम् । इत्यमावास्यायुक्तायां प्रतिपदि, तथाहि देवीपुराणे- यो मां पूजयते भक्त्या द्वितीयायां गुणान्विताम् । प्रतिपच्छारदीपूजां लोग्नुते सुखमव्ययम् ॥ यदि कुर्यादसायुक्तप्रतिपतस्थापचं मन । तस्मै शापायुतं दत्वा तस्य शेवं करोम्यहम् ।। आग्रहात्कुरुते यातु कलशस्थापनं मम । तस्य सम्पद्विनाशः स्याऽध्ये पुत्रो विनश्यति ।। इति । द्वितीयायां द्वितीयायुतायाम् । अमा अमावास्या । तिथितत्त्वचिन्तामणौ- अमायुक्ता न कर्तव्या प्रतिपञ्चण्डिकार्चने । मुहूर्त्तमात्रा कर्तव्या द्वितीयायां गुणन्विता ।। इति । द्वितीयायां द्वितीयायुक्तायां, मुहूर्त्तमात्रा मुहूतन्यूना, तत्रैव परदिने प्रति- पदोऽत्यन्तासत्त्वे दर्शयुक्ता पवैव ग्राह्या इति ठक्कुराः । अत्यन्तासत्त्वं मुहूर्तो- नत्वम् , मुहूर्तपर्यन्तमपि उत्तरदिने प्रतिपल्लाभे उत्तरदिने एव कार्यम्। जा तु तत्रसब्क्षेपतोऽपि कार्या। 'सम्यक्कल्पोदिता पूजा यदि कत्तुं न शक्यते । इत्यादि 'सरक्षेपपूजा कथिते त्यन्तकालिकापुराणात् । तिथिमले तु न कार्यम् । पष्टिदण्डात्मिकायाश्च तिथेनिष्क्रमणेऽपरे । अकर्मण्यं तिथिमलं विद्यादेकादशी विना ॥ इति वचनात् । अपरे परदिने, तथा च पूर्वदिने षष्टिदण्डात्मिका भूत्वा परदिने सैव तिथिः किश्चिदण्डात्मिका सैव द्वितीयदिने तिथिमलत्वात्त्याज्ये- ति भावः। द्वितीयायोगनिषेधकानि यानि यानि वचनानि पठन्ति तानि तानि मुहूर्त्तन्यूनप्रतिपद्विपाणि तिथिमलप्रतिपद्विषयाणि च बोध्यानि, मुहूर्त्तन्तु दिनमानस्य षञ्चदशो भाग इत्युक्तम्प्राक् ।। अथ चण्डीपाठकलमाह वाराहीतन्त्रे- ईश्वर उवाच-चण्डीपाठफलं देवि ! शृणुष्व गदतो मम । ग्रहोपशान्त्यै कर्तव्यं पञ्चावृत्तं वरानने !॥ महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् । अर्मवृत्तेः काम्यसिद्धिरिहानिश्च जायते ।। मन्त्रावृत्त्या रिपुर्वश्यस्तथा स्त्री वश्यतामियात् । सौख्यं पञ्चदशावृत्ताच्छियमाप्नोति मानवः ।। कलावृत्तात्पुत्रपौत्रधनधान्यादिकं विदुः । राज्ञां भीतिविमोक्षाय वैरस्योच्चाटनाय च ॥ कुर्यात्सप्तदशावृत्तं तथाष्टादशकं प्रिये । ४० सा० - २६ त्यसारसमुपये- महाव्रणविमोत्ताप विशावृत्तं पटेल्नरः॥ पञ्चविंशावर्त्तनाच्च अदेबन्धविमोक्षणम् । सङ्कटे समनुप्राते दुश्चिकित्सामो तथा ॥ जातिध्यसे कुलच्छेदे आयुषो नाश आगते । वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ॥ तथैव त्रिविधोत्पाते तथा चैवातिपातके । कुर्याद्यत्नाच्छ(१)तावृत्तं ततः सम्पद्यते शुभम् ।। विशेष, (१) अथ शतदण्डीविधानम्- तत्र दशसंख्यका अर्थज्ञविप्रा निमन्त्रयितव्याः। शिवालयनसीपे वा देवीमन्दिरनिकटे मण्डपं रचयित्वा तं पल्लवकदलीस्तमपनाकातोरणादिभिर्विभूम्य तथा प्रारम्भः कर्तव्यो यथा पक्षान्ते समाप्तिाऽष्टभ्यां नवम्यां भवेत् । तत्रादौ प्रत्येकद्वारेषु तदङ्ग-देवता जनं विधाय वस्त्रालङ्कर- णादिभिर्दशब्राह्मणान् वृणुयात्प्रथमदिने एकैकामावृत्तिम् । द्वितीयदिने सर्वे द्वे द्वे आवृत्ती, तृतीयदिने तिस्रस्तिस्रः। चतुर्थदिने चतस्त्र एवं दशभिविप्रैः शतावृत्तिपाठो भवति । तत्रायं पाठादौ पाठान्ते च सवैः शतं शतं नवार्णमन्त्रजपः कार्यः। एतद्भिन्नस्तन्मन्त्रस्या- युतसंख्यकजपोऽपि प्रतिदिनं कर्तव्य इत्युक्त मन्त्रमहोदधौ- शङ्करस्य भवान्या वा प्रासादनिकटे शुभम् । मण्डपं दारवैद्याइयं कुर्यात्सध्वजतोरणम् ॥ तत्र कुण्डं प्रकुर्वीत प्रतीच्या मध्यतोऽपि वा । स्नात्वा नित्यक्रियां कृत्वा वृणुयाइश वाडवान् ॥ जितेन्द्रियान् सदाचारान् कुलीनान् सत्यवादिनः । व्युत्पन्नांश्चण्डिकापाठरतान् लज्जादयावतः ।। मधुपर्कविधानेन स्वर्णवस्त्रादिदानतः । जपार्थमासनं मालां दद्यात्तेभ्योऽपि भोजनम् ।। ते हविष्यान्नमश्क्षन्तो मन्त्रार्थगतमानसाः । भूमौ शयानाः प्रत्येक जपेयुश्चण्डिकास्तवम् ।। मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः । नवार्ण चण्डिकामन्त्र जपेयुश्चायुनं पृथक् ।। अत्र बाडवा ब्राह्मणाः । पृथगिति सम्पुटीकरणादिति शेषः। अष्टमीनवमीचतुइशीपौर्णमासीयु यथा शतावृत्तिसमाप्तिर्भवति तथाऽऽरम्भः कर्तव्य इति साम्प्रदायिकाः। अपिचानाऽन्यकर्तव्यमाह- यजमानः पूजयेच्च कन्यानां नवकं शुभम् । द्विवर्षाचादशाब्दान्ताः कुमारीः परिपूजयेत् ।। इति । अथ साधारणतया पाठविधिः- न मानसं पठेत्स्तोत्रं वाचिकं तु प्रशस्यते । पुस्तके वाचनं शतं सहस्रादधिकं यदि ॥ ततो न्यूनस्य तु भवेद्वाचनं पुस्तकं विना । सकामैः सन्दुटो जाप्यो निष्कामैः सम्पुटं विना ।। चरितं मध्यमं चैव जपेदा चण्डिकाइयन् । एकेन वा मध्यमेन नैकेनेतरयोरिह ।। चरितार्थं न तु जपेज पेच्छिद्रमवाप्नुयात् । यावन्न पूर्यतेऽध्यायत्तावन्न विरमेत्सुधीः ।। यदि प्रमादादध्याये विरामो भवति प्रिये ? | पुनरध्यायमारभ्य पठेत्सर्वमुदारधीः ।। अनुक्रमावठेदेवं शिरः कन्यादिकं त्यजेत् । पठ्यमानाध्यायमध्ये विरामो यदि वा भवेत् ॥ पुनरध्यायमारभ्य पठेत्सर्वनुदारधीः । प्राधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः ॥ हस्ते संस्थापनादेवि ! इन्त्यर्थं हि फलं यतः । इति । भत्र नवार्णमन्त्रस्तु-ओं ऐं ह्रीं हीं चामुण्डायै विच्चे ॥ इति ॥ वत्र पाठक्रमस्तूक्तः शिक्षायाम- गीती शीत्री शिर कम्पी तथा लिखितपाठकः। अनर्थशोऽल्पकण्ठश्च षडेते पाठकाधमाः॥ माधुर्यमवरव्यक्तिः पदच्छेदस्तु मुस्वरः । धैर्य लयसमर्थश्च षडेते पाठकागुणाः ॥ इति ॥
आश्विनमासकृत्यम् । २७ झियो वृद्धिश्शजायलाद्राज्यवृद्धिस्तथा प्रिये !! मनसा चिन्तितं नि ! सिद्धयेदृष्टोत्तराच्छतात् ॥ शताश्वमेधयज्ञानां फलमाप्नोति सुनते !। सहस्रावर्तनालक्ष्मीरावृणोति स्वयं स्थिरा॥ शुक्त्वा मनोरथान् सन्नरो नोक्षनवाप्नुयात् ।। अर्कात्तिादशावृत्तिः । मनुचतुर्दश । कालः षट्। यथाऽश्वोधः ऋटुराङ्सेबानां च यथा हरिः । स्तथानामपि सर्वे तथा लाशतीस्तवः ।। अथा बहूने.क्वेन किमेतेन वरानने!। चण्ड्याः शलावृत्तिपाठात्साः सिद्धयन्ति सिद्धयः ।। अत्र पठनश्रवणवन् पाठनभावणेऽपि कार्ये प्रयोजयिता अनुमन्ता कर्ता चेति सर्वे स्वर्गनरकसोतारो यो सूर्य प्रारमते तस्मिन्फले विशेष इत्यापस्त- म्वेनाप्रवृत्तप्रवर्तकाक्षणप्रयोजकस्यापि फलश्रुतेः, इति तिथितत्त्वे स्मार्ताः । द्विजानां पठनश्रवणयोश्शूद्रस्य श्रव गमात्रेऽधिकारः इत्यपि तत्रैवेति । तिथित- त्वचिन्तामणौ प्रतिपदादिनवन्यन्तम्पाठक्रमस्त्वयन् । ऋपिच्छन्दोऽन्वितं न्यस्य पठेत्स्तोत्रं विचक्षणः । स्तोत्रं न दृश्यते यत्र प्रणवं तत्र विन्यसेत् ।। सर्वत्र पाठो विज्ञेयत्वन्यथा विफलं भवेत् । इति । अथ सप्तमीनिर्णयः । (२)उपवासादी सप्तमी उदयकालीना ग्राह्या, न तु युग्मवाक्यादरात्पूर्वा- पुस्तकविषये तु तिथितत्वचिन्तामणी- स्वयञ्च लिखितं यच्च शूद्रेण लिखितं भवत् । प्रवाहणेन लिखितं तचापि विफलं भवेत् ।। तत्परं देवीपुराणोक्तो वृद्धिपाठक्रमोऽप्यस्ति- यदाऽऽद्य दिवसे कुर्याचण्डिका पूजनादिकम् । द्विगुणं तद्वितीयेऽह्नि त्रिगुणं तत्परेऽहनि । नवमीतिथिपर्यन्तं वृद्धथा पूजाजपादिकम् ॥ कैः पठितव्यं कैनेंत्यप्याह तत्रैव- अध्येतव्यं न चान्येन ब्राह्मणक्षत्रियविना । श्रोतव्यमिह शूणि नाध्येतव्यं कदाचन ॥इति।। नवरात्रे पूजैवप्रधानमुपवानादि तुअणमात्रमिति मूदनरीत्या विवेकः, इति ति-त.चिन्तामणौ । सरस्वतीपूजनादौ तु विशेषस्तिथितत्त्वचिन्तामणौ । रुद्रयामले- मूल ऋक्षे सुराधीश ! पूजनीया सरस्वती । पूजयेत्प्रत्यहं देवी यावद्वैष्णवक्षकम् । नाध्यापयेन्न च लिखेन्नाध्ययीत कदाचन । पुस्तके स्थापिते देव ! विद्याकामो द्विजोत्तमः ।। मूलस्य प्रथमे पादे देव्या आवाहनमित्यत्र तिथिनियमो नास्ति यस्यां तिथौ मूलनक्षत्र सस्यां सरस्वतीमावाहयेत् । अत एव-'मूलेनावाहयेहवीं श्रवणेन विसर्जयेत्' इति स्मृता- बुक्तम् । परन्तु नक्षत्रापेक्षया तिथिरेव प्रशस्ता नक्षत्रयोगः प्रायिकः । (१) अथ षष्ठीतिथिनिर्णयः। आश्विन शुक्ला षष्ठी विल्वाभिमन्त्रणे सायन्तनी ग्राह्या । तथोकं भविष्ये- षष्ठयां विल्वतरौ बोधं सायं सन्ध्यासु कारयेत् ॥ तथा च ब्रह्माण्डपुराणे- पत्रीप्रवेशात्पूर्वेधुः साया विन्ध्यवासिनीम् । चण्डीमामन्त्रयेद्विद्वान्नात्र षष्ठी पुरस्क्रिया। - कृत्यतारसमुच्चये- युगाया वर्षद्धिश्च ततमी पार्वतीप्रिया । वरुदयमिच्छन्ति न तत्र तिथियुग्नता ।। इति कृत्यतत्त्वोक्तेः। भगवत्याः प्रवेशादिविसन्ताश्च याः क्रियाः । तिथावुयामिन्यां सस्ताः कारचक्षुधः ।। इति तिथितत्त्वोक्तश्च । दुर्गाभक्तितरङ्गिण्यां घटिकातो न्यूना परा न कार्या । 'व्रतोपवासनियमे घटिकैका यदा भवेत् । इति देवलोक्तेः । घटिकान्यूना मुहूर्त्तन्यूनेत्यर्थः । पूर्वंकवाक्यत्वात् । पत्रिका नवपत्रिकापूजा पूर्वाह्न एव, न तु मूलानुरोधान्मध्याह्नादाविति कृत्य- तत्त्रोक्तः। अथ महाष्टमीनिर्णयः । महाष्टमीत्रतेऽष्टमी नवमीयुता ग्राह्या । 'अष्टमी नवमीयुक्ता नवमी चाउमीयुता' । इति पाद्मोक्तेः । शरन्महाष्टमी पूज्या नवमीसंयुता सदा । सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ॥ जम्भेन सप्तमीविद्धा पृजिता तु महाष्टमी। इन्द्रेण निहतो जम्भस्तस्मादानवपुङ्गवः॥ इति स्मृतिसंग्रहोक्तेश्च ।। (१) तथा तिथितत्त्वे- सायं षष्ठयां तु कर्तव्यं पार्वत्या अधिवासनम् । पष्ठ यभावेऽपि कर्त्तव्यं सप्तम्यामपि मानद ! ॥ यदोभयदिने सायन्तनव्यापिनी षष्ठी, तदा युग्मादरेण सप्तमीयुक्तायां पष्ठयामर्थात्परदिने बिल्वाभिमन्त्रण कार्यम् । यदि पूर्वदिने सायकालादुपरि षष्ठयाः प्रवृत्तिः, परदिने सायकाला- पूर्वमेव विरामस्तदा षष्ठयभावेऽपीति, तिथितत्त्ववचनायुग्मादरेण च परदिने सप्तम्या सहिते सायङ्काले कार्यन् । तत्र सन्ध्यालक्षणम्-'अर्धादस्तमनात्सन्ध्या व्यक्तीभूता सतारका । यावदिति...."स्मृत्यन्तरे। अब देवीपुराणे तु- ज्येष्ठानक्षत्रयुत्तायां षष्ठयां बिल्वाभिमन्त्रणम् । सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ॥ पूर्वाषाढयुताष्टम्यां पूजाहोमाधपोषणम् । उत्तरेण नवन्यान्तु बलिभिः पूजयेच्छिवाम् ॥ श्रवणेन दशम्यां तु प्रणिपत्य विसर्जयेत् । अत्र तिथिनक्षत्रयोगेन मुख्यः कालः । तयोरसंयोग विथिरेव ग्राह्या, तथोक्तं स्मृत्यन्तरे- तिथिनक्षत्रयोोंगे द्वयोरेवानुपालनम् । योगाभावे तिथिमा॑ह्या देव्याः पूजनकर्मणि ॥ इति म० म० पं० राजनाथमिश्रकृतिथिनिर्णयात् ।। यदि दैवात्पूर्वदिने सायं नक्षत्रयोग- स्तदा विशेषयोगलाभासूदिन एव कर्तव्यमिति । (१) म० म०५०राजनाथकृततिथिनिर्णये तु-आश्विनशुक्लाऽष्टमी निशापूजायां महानि- शान्यापिनी ग्राहा । 'कम्यो यत्त्येत्या' दिस्मृतेः। उभयदिने महानिशव्याप्ती परा ग्राह्या । नवमीयोगप्राशस्त्यात् । यत्र पूर्वदिन एव महा- निशाव्यापिनी नोत्तरत्र तत्र पूर्वदिने सप्तनीयुजैव प्राधा । यदाह विश्वरूपनिबन्धे- महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्या संयुता कार्या मूनेन न विशेषतः ।। महाष्टम्यां भगवती भद्रायामपि पूजिता । ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी ।। कुलं पुत्रं धनं धान्यं राज्यमायुस्तथैव च । प्रथमा चाष्टमी पूज्या यः कांक्षति सदा शुभम् ।।
- - आश्विनमासकृत्यम् । अथ नवमीनिर्णयः । नवमी तु व्रतादौ पूर्वविधा ग्राह्या । 'अष्टी नवमीयुक्ता नवमी चाष्टमीयुता' । इति पाझोक्तः। 'युग्माग्निक्रतुभूतानिषण्मुन्योर्वसुरन्धयोः । इति निगमवचनाच्च । देवीपुराणे- भूमौ शयीत चामन्त्र्य कुमारी पूजयेन्मुदा । वस्त्रालङ्कारदानश्च सन्तोध्य प्रतिवासरम् ।। बलिं च प्रत्यहं दद्यादोदनं मांससंयुतम् ।। इत्यादि । (१) अथ विजयादशमी । दशम्यामपराजितापूजादेवीविसर्जनादि उदयगामिन्यां दशम्यामेकादशीयुतायामेव । तथाहिं नन्दिकेश्वरे- प्रातरावाहयेदेवीं प्रातरेव विसर्जयेत् । ततः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ।। प्रातरिति मुहूर्तान्न्यूनकाल इति शेषः । रत्नकोशे नारदः- इषस्य दशमी शुक्लां पूर्वविद्धां न कारयेत् । श्रवणेनापि संयुक्तां राज्ञां पट्टाभिपेचने ।। सूर्योदये यदा राजन् ! दृश्यते दशमी तिथिः । आश्विने मासि शुक्ले तु विजयां तां विदुर्बुधाः ।। नन्दिकेश्वरे 'भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः-'इत्यादि। तत्रापि यदि सम्यकपूजाद्ययोग्यमुहूर्त्तन्यूनदशमीप्राप्ताबाह कालिकापुराणे- उपवासवते तूदयव्यापिन्येव ग्राह्या, यदाह विष्णुधर्मोत्तरीये- अष्टम्यां नवमीयुक्ता नवम्यां चाष्टमीयुता । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ।। इति। 'सर्वेषु ववकार्येषु अष्टमी परतः शुमा।' इति स्मृतेश्च । (१) तथा भविष्ये- अश्वयुक्शुक्लपक्षे तु अष्टमी मूलसंयुता । सा महानवमी नान त्रैलोक्येऽपि सुदुर्लभा ।। नवमी पूर्वाहव्यापिनीचेदष्टमी विद्धा त्रिशूलिनीपूजादौ ग्राह्या। प्रभूततरबलिदानेतु देवीपुराणे- अश्वयुक् शुक्लनवमी मुहूर्त वा कला यदि । सा तिथिः सकला शेया लक्ष्मीविद्याजयार्थिभिः।। सौरधर्म- सूर्योदये परा रिक्ता पूर्ण स्यादपरा यदि । वलिदानं प्रकर्तव्यं तब देशे शुभं भवेत् ।। 'बलिदानं दशासु च इति निषेधो नवम्ययुक्तासु वेदितव्यम् । तथा-'वलिदाने कृतेऽष्टम्यां पुत्रभ्रंश भवेन्नृपेति' निषेधोऽपि प्रभूततर बलिदाने एव । पूजाऽजवलिदानमष्टम्यां भवत्येवानव- काशत्वात् । योगिनीतन्त्रे 'दुर्गागारे वंशिवाय मधुरी न च वादयेत्' इति ॥ द्विवर्षमारभ्य दशवर्षान्तं यावत कुमारीवयः शुभफलजनकम् । तथाचोक्तम्- एकवर्षा न कर्तव्या कन्या पूजाविधानतः । अशाता सा तु भोगानां गन्धादीनां तु वालिका ।। कुमारिका च सा प्रोक्ता द्विवर्षा या भवैदिह । त्रिमूर्तिनी त्रिवर्णं च कल्याणी चतुरब्दिका ।। रोहिणी पञ्चवर्षा च कन्यका षष्ठवार्षिकी । चण्डिका सप्तवां च अष्टवर्षा च शाम्भवी ॥ नववर्षा भवेदुर्गा सुभद्रा दशवार्षिकी । प्रतिपदादिनवभ्यन्तं क्रमात्ताश्च प्रपजयेत् ॥ अत ऊर्य न कर्त्तव्या कन्या ताश्च विगहिताः । एभिश्च नामभिः पूजा कर्तव्या विधिसंयुतैः ।। इत्यादि-विस्तृतिमीत्या न लिखितम् । द्रष्टव्यं कृत्यशिरोमणी विशेषविषय जिशासुभिः ।
३ कृत्यसारसमुच्चये- सन्यल्पोदिता पूजा यदि कर्तुं न शक्यते। उपचारांस्तथा दातुं पश्चतान्तिरेन्तदा ।। गन्धं पुत्पं च धूपञ्च नैवेचं दीपमेव च । अभावे पुटपतोयाकं तदारे तु भक्तितः ।। संक्षेपपूजा कथिता तथा शास्त्रादिकं पुनः । तथा चोदयगामिन्यां मुहूर्त्तन्यूनासामल्पकालव्यापिन्यामप्येकादशी युतायामेव संक्षेपपूजादिभिरपि विसर्जन कार्यमिति भावः । दिनमानस्य पञ्चदशो भागो मुहूर्त्तमित्यनुपदमेवाभिहितं प्राक् । मुहूर्त- न्यूनदशम्या उत्तरदिने उदयगामिन्या अलाभे तु नवमीयुतायामेवापराजिता पूजा देवी विसर्जनञ्च, तथाहि शिरहल्ये आश्विने शुक्लपक्षे तु दशन्यां पूजयेत्ततः । एकादश्यां न कुर्वीत पूजनं चापराजितम् ॥ इति । एकादश्यां एकादशी युतायां पूजनमत्र विसर्जनस्याप्युपलक्षकम् ।एतद्वच- नस्योत्तरदिन मुहूर्त्तन्यूनदशमीलाभे उत्तरदिनकर्तव्यतानिपेधकत्वेनैव स्मार्ता- दिभिस्तिथितत्त्वादिप्रन्थे व्याख्यातत्वात्तादृशार्थपर्यवसानम् । 'श्रवणेन विसर्जयेदिति श्रवणायोगस्तु रोहिणीयोगवदप्रयोजक इति ठक्कुराः । तेन श्रवणायोगो विसजने नावश्यकः । 'श्रवणेन विसर्जयेत्' इति वचनस्य श्रव- णाप्रशंसकत्वं प्रतीमः । अत्र सर्वत्र नक्षत्रादरान् मुख्यस्तदभावे तिथिरेव ग्राह्या युग्मात् । 'तिथिः शरीरं देवस्य तिथौ नक्षत्रमाश्रितम् | तस्मात्तिथि प्रशंसन्ति नक्षत्रं न तिथिं विना' ।। इति विद्यापतिठक्कुराः। अथ यात्राविजयदशमी । तत्र यात्रां कृत्वा सीमानं लङ्घयेत् । तथाहि व्रतकाण्डे काश्यपः- श्रवणर्ने तु पूर्णायां काकुत्स्थः प्रस्थितो यतः । उल्लङ्घयेयुः सीमान्तं तदिन“ ततो नराः ।। (पूर्णायां दशम्याम् ) अथ शमीग्रहणम् ! शमीमर्चयित्वा यात्राकरणन् । तत्र मन्त्रः- "शमी शमयते पापं शमी लोहितकण्टिका | धारिण्यज्जुनबाणानां रामस्य प्रियदायिनी ॥ करिष्यमाणा या यात्रा यथाकालं सुखं मया । तत्र निर्विनकी त्वं भव श्रीरामपूजिते !! शमी वृक्षविशेषः, लोहितकंटकयुक्तः प्रागुक्तवचनलिङ्गात् । गृहीत्वा साक्षतां मालां शमीमूलगतो मृदम् (भृशम् ) । गीववादित्रनिर्घोषैरानयेत्स्वगृहं प्रति॥ - कार्तिकमासकृत्यम् । ततो भूषणवस्त्रादि धारयेस्वजनैः सह । इति । (१) अथ कोजागरा। तिथित-- कौमुद्यां पूजयेल्लमीमिन्द्रमैरामस्थितम् । सुगन्धैर्निशि संदेशैश्चाक्षर्जागरणं चरेत् ॥ तथा-निशीथे वरदा लक्ष्मीको जागति भाषिणी । तस्मै वित्तं प्रदात्यानि अक्षः क्रीडं करोति यः॥ अत्रनिशीथ इत्यभिधानानात्रियमिदम् । यदिने प्रदोपनिशीथोभय- व्यापिनी पूर्णिमा तदिने कोजागराकृत्यम् । उभयव्याप्त्यनुरोधात् । यदा तु पूर्वदिने निशीथव्यातिः, परेवुन प्रदोपच्यातिस्तदा सुतरां पूर्वदिने तत्कृत्य मिति ॥ (२) अथ कार्तिककृत्यम् वायुपुराणे-तुलामकरमेषु प्रातः लानं विधीयते । हविध्यं ब्रह्मचर्यञ्च महापातकनाशनम् ।।(३) अत्र सौरमासक्रमो बोध्य इति ठक्कुराः । तथाहि- दुर्लभः कार्तिको मासो मथुरायां नृगामिह । यत्रार्चितो हरी रूपं भक्तेभ्यः स्वं प्रयच्छति ।। काकिस्नानमन्त्रस्तु-- कार्तिकेऽहं करिष्यामि प्रातः स्नानं जनार्दन!। (१) तिथितत्त्वचिन्तामणिधृतगोपथब्राह्मणे- अमङ्गलानांशमनी दुष्कृतस्य प्रणाशिनीम् । दुःस्वप्ननाशिनी धन्यां प्रपद्योऽहं शमी शुभाम् । (२) तथोक्तं भविध्ये- दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः। स्त्रीबालवृद्धमूखैश्च भोक्तव्यं पूजितैः सुरैः। तथा च प्राणतोषिणीतन्त्रे- नारिकेलोदकं पीत्वा अक्षजागरणं निशि । वद्विभूति प्रयच्छामि को जागन्ति महीतले ।। तथैव चोक्तं तिथितत्त्वचिन्तामणौ ठक्कुरैपि । (३) नारदाये- कात्तिके वर्जयेत्तैलं कात्तिके दजयेन्मधु । कात्तिके वर्जयेन्मांसं कात्तिके शुक्तसन्धितम् । शुक्तं पर्युषितम् । सन्धितं लवणं शाकम् । तथाच- एकभुक्तेन नक्तेन तथैवायाचितेन च । उपवासेन भैक्ष्येण बजते परम्पदम् ।। तथाऽऽकाशदीपविधिः स्कान्दे- तुलायां तिलतलेन सायंकाले समागते । आकाशदीपं यो दधान्मासमेकं हरि प्रति ॥ महतीं श्रियमाप्नोति रूपसौभाग्यसम्पदः । उच्चैः प्रदीपमाकाशे यो दद्यात्कात्तिके नरः। सर्व कुलं समुद्धृत्य विष्णुलोकमवाप्नुयात् ॥ इति । अस्योद्यापनन्तु वृश्चिकसंक्रान्ती शुद्धसमये सति कार्यम् । एकादशीव्रतोद्यापनन्त्वेकादश्यां शुद्धे सतीति विशेयम् । तथाच-धात्रीवृक्षच्छायायां ब्राह्मणभोजने फलमुक्तं कार्तिकमाहाल्ये- धात्रीच्छायां समाश्रित्य मुंक्त योऽन्नं हि मानवः । ब्राह्मणान् भोजयित्वा तुवार्षिक किल्विषं हरेत् ॥ - - ३२ कृत्यसारसमुच्चये- प्रीत्यर्थ तब देवेश दामोदर ! मया सह ॥ मया लम्या । रमपुराणे- धात्रीलायाम् यः कुर्यात्पिण्डदान महामुने!। मुक्तिम्प्रयान्ति पितरः प्रसादान्माधवस्य च ।। धात्री दलविलिप्साङ्गो धात्रीफलविभूषितः । धात्रीफलकृताहारो नरो नारायणो भवेत् ।। धात्रीच्छायां समाश्रित्य योऽचयेच्चक्रपाणिकम् । पुष्पे पुटपेऽश्वमेधस्य फलं प्राप्नोति मानवः ।। नारदीये-एकान्तरोपवासी वा त्रिरात्रोपोपितोऽपिवा । पड्वा द्वादश पक्ष वा मासं वा वरवणिनि ! ॥ एकनुक्तेन नक्केन तथैवायाचितेन च । उपवासेन भक्ष्येण बजते परमं पदम् ॥ अथ हविष्यविचारः(१)। हविष्याण्याह भविष्ये- हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायं कङ्गुनीवारा वास्तूकं हिलमोचिका ।। षष्टिका कालशाकं च मूलकं केमुकेतरत् । (१)तथाऽगस्स्यसंहितायाम्- नारिकेलफलं चैव कदली लवली तथा । आत्रमामलकी चैव पनसं च हरीतकीम् ।। व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधः ।। निर्णयनिबन्धे तु-"यत्नश्कमपि ग्राह्यं कदलीफलमुत्तमम्"। तथा चाहकात्यायन:- हविष्येपु यवा मुख्यास्त इनुब्रीहयो मताः। माषकोद्रवगौरादीन् सर्वाभावे विवर्जयेत् ।। यथोक्तवत्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिन गोधूमा ब्रीहीणामिव शालयः ॥ अलावू वसुलाकारं वार्ताकी कुन्दसन्निमान् । अन्नपाचितवार्ताकी खादन् गोमांसभक्षणम् कुन्दसन्निभां श्वेतामित्यर्थः । कुसुन्भं नालिकाशाकं वृन्ताकं पूतिका तया । भक्षयन् पतितः स स्यादपि वेदान्तगो दिनः ॥ कृत्यशिरोमणौ-- यः करोति नरो नित्यं कात्तिके पत्रभोजनन् । न दुर्गतिमवाप्नोति यावदिन्द्राश्चतुर्दश ।। भोजनं पनपत्रेषु महापातकनाशनन् । कात्तिके मुक्तिदं प्रोक्तं ब्रह्मपत्रेषु भोजनम् । ब्रह्मपत्रं पलाशपत्रन् । देवीपुराणे- 'कातिके ग्रहणं श्रेष्ठ गायमुनसंगमे। महाभारते--मांसवयंचनुक्तं यथा- मासि मास्यश्वमेधेन यो यजेत्तु शतं समाः । न खादति च यो मांसं सममेतद्युधिष्ठिर ! ॥ यस्तु बर्षशतं पूर्ण तपस्तप्येत्सुदारुणम् ।यश्च वै वर्जयेन्मांसं समौ तौ न चसंशयः॥ इत्यादि। तथा च-कात्तिके सकलं मासं नित्यस्नायी जितेन्द्रियः। जपन् इविष्यभुक् शान्तः सर्वपापैः प्रमुच्यते ॥ इत्यादि। कात्तिके तु राजमाष-पटोल-कदम्ब-शूरण-वृन्ताक-मूलक-श्वेतशिम्बि-मांस-मत्स्य-कोद- ब-नालिशाक-तुम्बीफल -उसुम्भ-पूतिकाः वाः।
३ कार्तिकमासकृत्यम् । ३३ कन्द सेन्धवसामुद्रे गव्ये च दधिसर्पिपी ॥ पयोऽनुद्धृतसारं च पनलाम्रहरीतकी । पिप्पली जीरकं चैव नागरं कञ्चु तिन्तिली॥ कदलीलवलीधानीफलान्यगुडमैक्षवम् । ऋतैलपक्वं सुनयो इतिष्मान् प्रचक्षते ॥ हैमन्तिकं माननीयोत्पन्न धान्यं तस्यैव विशेषणं सितास्विन्नमिति सितं श्वेतम् , स्विन्नम् उसिना इति प्रसिद्धन् , तद्भिन्नमस्दिन्नम् । कछुः काउनि इति प्रसिद्धा | नीवार अोइरी इति प्रतिद्धा । पष्टिका शाठी इति प्रसिद्धा । मूलकमित्यस्य विशेषणं 'केम्वुकेतरत्' इति केम्बुकम् केउवा इति प्रसिद्धम् , तद्भिनन् । सैन्धवसामुद्रे इति लवणे इतिशेषः । अगुडमिति ऐक्षवमित्यस्य विशे- षणम् , तेन इक्षुसम्बन्धिषु गुडभिन्नंसिताशर्करादिकं सर्वमेव हविष्यमित्यर्थः। अथ आमिषविचारः । आमिपाल्याह पाझे- प्राण्यङ्गचूर्ण चर्मान्बु जम्बीरं बीजपूरकम् । अयज्ञशिष्टं मापादि यद्विष्णोरनिवेदितम्।। दग्धमन्नं मसूरं च मांसं चेत्यष्टधाऽऽमिषम् । गोछागीमहिषीदुग्धादन्यदुग्धं तथाऽऽमिषम् ।। धान्ये मसूरिका प्रोक्ता अन्नं पर्युपितं तथा । द्विजक्रीता रसाः सर्वे लषणं भूमिजं तथा ।। ताम्रपानस्थितं गव्यं जलं पल्वलसंस्थितम् । आत्मार्थ पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥ इति । प्राण्यङ्गचूर्ण, शुक्तिकादिचूर्णम् । अथामावस्यादिकृत्यम्- वनस्पतिगते सोमेऽनड्वाही यस्तु वाहयेत् । नानन्ति पितरस्तस्य दशवर्षाणि पश्च च ॥ इति वचनादमावास्यायां वृषवाहने महादोषः । तस्येति पिण्डादिकमिति शेषः । स्मृतिः- येयं दीपान्विता राजन् ! ख्याता पञ्चदशी भुवि । तस्यां देयं न चेहत्तं पितृणां तु महालये ॥ इति । दीपान्विता पञ्चदशी कार्तिकामावास्या, पितॄणां महालये पितृपक्षे महा- लये, तथाच-पितृपक्षे येन श्राद्धं न कृतं, तेनात्र श्राद्ध कर्तव्यमिति तात्प- यम् । अन्यच- कन्याङ्गते सवितरि पितृराजानुशासनात् । तावत्प्रेतपुरी शून्या यावदृश्चिकदर्शनम् ।। ततो वृश्चिक आयाते निराशाः पितरो गताः । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम् ॥ इति । ५ कृ० सा० कृत्यसारसमुच्चये- तथा चामायास्यायामप्यकृते श्राद्धे पितरो निराशाः सन्तः शापं दत्वा यान्तीत्यतोऽपरपक्षे चेन पार्वणं न कृतं तेनात्रावश्यमेव कर्तव्य- मिति भावः॥ अथ उल्काश्रमणम् । स्कान ततः प्रदोषसमरे दीपान्दधान्मनोरमान् । ब्रह्मविष्णुशिवादीनां भवतेपु मठेषु च ॥ इति । ज्यौतिपे-तुलासंस्थे सहस्रांशौ प्रदोपे भतदर्शयोः । उल्काहस्ता नराः कुयुः पितृणां मार्गदर्शनम् । एतेन प्रदोषव्यापिन्याममातस्यायामुल्काभ्रमणमिति पर्यवसितम् । उभय- दिने प्रदोषव्यापिन्या अमावास्याया लामेऽलाले च परदिन एव । दण्डकरजनीयोगे दर्शः स्याचापरेऽहनि । तदा विहाय पूर्वेधुः परेऽह्रि सुखरात्रिका ॥ इति ज्योतिर्वचनात् । तथा च-दर्शश्राद्धं भवेदर्शऽपराह्ने प्रतिपद्यपि । प्रदीपोल्कादिकं कार्य तत्प्रदोपे न दुष्यति ।। इति म. म. शुभङ्करठक्कुरधृततिथिनिर्णये । भूताहे ये प्रकुर्वन्ति उल्काग्रहमचेतनाः । निराशाः पितरो यान्ति शापं दत्वा सुदारुणम् ॥ इति वचनाच्च । उत्तरदिने प्रदोपे दर्शाभावे, पूर्वदिने प्रदोषदर्शयोगे तु पूर्वदिन एव कर्मकालस्य मुख्यत्वात् । 'तुलासंस्थे सहस्रांशा विति प्रागुक्त- ज्योतिर्वचनाच्च । 'भूताहे ये प्रकुर्वन्ती-'त्यादिवचनस्योभयदिने प्रदोषेऽमावा- स्याया लाभेऽलाभे च पूर्वदिने कर्तव्यतानिषेधकत्वं, तिथितत्त्वे स्मार्तोऽप्येवम् । उल्काग्रहणमन्त्रस्तु- शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयोः । उज्वलज्योतिषा देहं निई हे व्योमवह्निना ॥ भ्रमणमन्त्रस्तु- अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । उज्ज्वलज्योतिषा दुग्धास्ते यान्तु परमां गतिम् ॥ इति । विसर्जनमन्त्रस्तु ब्रह्मपुराणे- यमलोकं परित्यज्य आगता ये महालये। उज्ज्वलज्योतिषा वम प्रपश्यन्तो व्रजन्तु ते ॥ इति (१) (१)मदनरत्ने भविष्ये-(ति० त० चिन्तामणौ) एवं गते निशीथे तु जने निद्रान्धलोचने । तावन्नगरनारोमिः शूर्पडिण्डिमवादनैः ॥ निष्काश्यते प्रहृष्यामिरलक्ष्मीः स्वगृहाङ्गणात् । म० म०पं० राजनाथमिश्रतराजमार्चण्डे- दण्डक रजनी प्रदोषसमये दर्श यदा संसशेत् । कर्तव्या सुखरात्रिकात्र विधिना दांद्यमावेतदा॥
- कार्तिकमासकृत्यम् । अथ दीपमालिकादानफलमाइ- यः कुर्यात्कात्तिके मासे शोभनां दीपमालिकाम् । घृतेन च चतुर्दश्याममायां च विशेषतः॥ यावद्दीपप्रसंख्या तु घृतेनापूर्य बोधिता। तावद्युगसहस्राणि स्वर्गलोके महीयते ॥ अथ गोक्रीडादौ प्रतिपदमावात्यायुदेव माझा । तथाहि नारदः- या कुहूः प्रतिपन्मित्रा तत्र गाः पूजयेन्नृप । पूजनास्त्रीणि वर्द्धन्ते प्रजा गावो महीपतिः ।। स्मृतिरपि-शिवा च शिदुर्गा च दुभंगा चहुताशिनी । गोपूजा च वटच्छाया कर्तव्या प्रथमे दिने । देवलोपि-प्रतिपदर्शसंयोगे गवां कीडनं भवेत् । परविद्धासु करणारपुत्रदारधनक्षयः ।। इति । स एव-प्रतिपद्यग्निकरणं द्वितीयायां गवार्चनम् । क्षत्रक्षयं करिष्येते वित्तनाशं कुलक्षयम् ॥ इति । पूच्या चाजधरा सदैव च तिथिःसैवाहनि प्राप्यते । कार्या भूतावेमिश्रिताजगुरिति व्यासादिगर्गादयः।। अब्जधरा लक्ष्मीः। अमावस्या यदा रात्री दिवाभाग चतुईशी । पूजनीया तदा लक्ष्मीविशेया सुखरात्रिका ।। अत्रैव निशीथ श्यामापूजामाह-कामाख्यातन्त्रे- शरत्काले च देवेशि ! दीपयात्रादिने तथा । अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ॥ मृन्मयी पुत्तली कृत्वा दीपादिभिरलङकृताम् । वलिं नानाविधं दद्याद्वाद्यभाण्डसमन्वितम् ।। नृत्यं गीतं कौतुकानि यावत्सूर्योदयं चरत् । प्रातःकाले शुद्धतीये स्थापयेदविनाशिनीम् ।। अत्र मध्यरात्रिश्रवणानिशीथव्यापिनी श्यामापूजायां ग्राला । तथा च भविष्येऽपि- प्रतिसंवत्सरं कुर्यात्कालिकाया महोत्सवम् । कात्तिके तु विशेषेण अमावास्यानिशाके ।। तस्यां संपूजयेद्देवीं भोगमोक्षप्रदायिनीन् । उभयदिने निशीथव्याप्तौ यत्र प्रदोषे भवेत्तदैव । तथोक्तं कुलसर्वस्वे- प्रदोषव्यापिनी यत्र महानिशि च सा भवेत् । तदैव कालिका पूज्या दक्षिणा मोक्षदायिनी॥ यदोभयदिने तदा चतुईशीयुता ग्राह्या- अर्धरात्रे महेशानि ! अमावास्या यदा भवेत् । चतुर्दशीयुता ग्राह्या चामुण्डापूजने सदा ॥ रत्यागमात् । तथा यत्रोमयदिने भूतयुक्तकुह्वां महानिशि । इमां यात्रां कारयित्या चक्रवत्ती नृपो भवेत् ॥ शनिभौमदिनानुरोधात्प्रदोषाच्यापिन्यपि निशीथन्यापिनी ग्राह्या । चतुर्दशी प्रदोषे तु अमावास्या महानिशि । शनिभौमदिने देवि ! निशायां सर्वथा यजेत् ॥ तदतिरिक्तदिने यदि पूर्वदिने प्रदोषन्यापिनी उत्तरदिने प्रदोषनिशीथोभयव्यापिनी तदोत्त- रैव ग्राह्या । तथा च कुलसर्वस्वे- महानिशादिने देवि ! प्रतिपच्च यदा भवेत् । कालीकैवल्ययोगोऽयं तदिने कालिकाऽर्चनम्॥इति।
- ३६ कृत्यसारसमुच्चये- नारदोपि--'भद्रायां गोकुलक्रीडा स देशो वै विनश्यति । भद्रायां द्वितीयायुतायाम् । एतच्च द्वितीयदिने चन्द्रदर्शनसम्भावनायाम् । अत एव पुराणसमुच्चयेऽपि । गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः । सोमो राजा पशून हन्ति सुरभीपूजकांस्तथा ॥ इति । प्रतिपदुत्तरं सूर्यास्तमनकालपर्यन्तं षण्मुहूर्तीन्यूना (१) यदि द्वितीया तदा चन्द्रदर्शनसम्भावना सर्वसम्मता, अत्र यदा प्रतिपदि षण्मुहूर्त्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावना (२) गोक्रीडनं न कार्यमिति तिथिनिर्णयः । ठक्कुरैरपि 'या कुहू'रित्यादि पूर्ववचनान्यभिधाय एते विधिप्रतिषेधाः पूर्वदिने प्रतिपदः सायाह्नव्यापित्वे द्वितीयदिने चन्द्रदर्शनसम्भवे च ज्ञेयाः । दिनद्वये सायाह्नव्यापित्वे परैव प्राह्येत्यभिहितम् । एवं च द्वितीयदिने यदि प्रति- पदुत्तरं सूर्यास्तमनकालपर्यन्तं षण्मुहूर्तन्यूनैव द्वितीया तदा चन्द्रदर्शनसम्भा- वनाया अभावात् द्वितीयायुतैव ग्राह्या । तत्रैव पुराणसमुच्चयः- वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका | द्वितीया वृद्धगामित्वादुत्तरा तत्र बोध्यते ।। इति । चन्द्रादर्शने तु द्वितीयायुतैव प्रालेति तिथिनिर्णयः । सायाह्ने होलिकां कुर्यात्पूर्वा क्रीडनं गवाम' ।। इति । पूर्वाः साईप्रहरं यावत् । तथाहि तिथिचन्द्रिकायां-- पूर्वाहः प्रहरं सार्द्ध मध्याह्नः प्रहरं तथा । तत्तृतीयोऽपराहः स्यात्सायाह्नश्च ततः परम्॥ इति । कुहूः प्रतिपद्युता यत्र गावस्तत्र न पूजयेत् । इत्यादि स्मृतयोऽपि । (१) अधिकेति भावः। (२) कात्तिकस्य सिते पक्षे प्रतिपच्छुभवासरे । हस्तस्वातौ च एतेषु गोपूजा शुभदा सदा ॥ शनी वारे तथाऽङ्गारे सूर्यवारे तथैव च । अन्यवृक्षगते वापि गोपूजां न च कारयेत् ।। यदि मोहात्कृता पूजाप्रायश्चित्तं भवेत्तदा। गवांनाशोऽर्थनाशश्च प्रजानाशो भवेद्भुवम्॥ पापाहे च विशाखायां गोपूजां नैव कारयेत् ॥ इति । अत एव तिथितत्त्वचिन्तामणौ म० महेशठक्कुरवृतवचनम्- प्रतिपत्त त्रियामा त्यान्मत्रः बुधवासरे । तद्दिने पूर्वयामे तु गोपूजा परमा शुभा ॥ स्वातौ तु मध्यमा प्रोक्ता अनुराधा शुभप्रदा। प्रातर्गोवर्द्धनः पूज्यो चूतञ्चापि समाचरेत् ॥ पूजनीयास्तदा गावस्त्याज्या दोहनवाहने । गोमयेन गोवर्द्धनमूर्ति विधाय पीतपुष्पाक्षतादिमिः सम्पूजयेत् । तन्मन्त्रो यथा- गोवर्द्धन ! धराधार ! गोकुल्त्राणकारक ! । कृष्णवाहुकृतच्छाय ! गवां कोटिप्रदो भव ।। गोपूजामन्त्रस्तु निर्णयामृते- लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । धृतं वहति यशार्थ सा मे पापं व्यपोहतु ॥ अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गा मध्ये वसाम्यहम् ।। अथ तहिने छ तक्रीड़ायां यस्य जयस्तस्य पूर्ण वर्ष यावत्सर्वत्र जय इतिस्मृत्यन्तरे लिखितम्, - . कार्तिकमासकृत्यम् । द्वितीयदिने द्वितीयायाः षण्मुहूर्तान्न्यूनत्वे पूर्वयुक्तायाः कर्तव्यतानिपेधकत्वेन व्याख्येया इति सर्व सुस्थम् । विशाखायां गोपूजानिपेधमाइ राजमार्तण्डे-- विशाखायाममावास्या विशाखा प्रतिपद्युता । आयुः पुत्रं धनं हन्ति सुरभीपूजकांस्तथा सुरभी गौः। अथ कार्तिकशुक्लद्वितीया यमद्वितीयाख्या, तस्यां कर्तव्यं स्कन्दपुराणे- कार्तिक शुक्लपक्षे तु द्वितीयायां युधितिर !! यमो यमुनया पूर्वम्भोजितः स्वगृहेऽर्चितः ॥ अतो यमद्वितीयेयं त्रिपु लोकेषु विश्रुता । अस्यां निजगृहे विप्र ! भोक्तव्यं न ततो नरैः। स्नेहेन भगिनीहस्ताभोक्तव्यं पुष्टिवर्धनम् । वस्त्रालङ्करणादीनि ताभ्यो देयानि यत्नतः ॥ भगिन्या पठनीयो मन्त्रो यथा-- भ्रातस्तवानुजाताऽहं भुक्ष्व भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेपतः ।। ज्येष्ठभगिन्यास्तु-'भ्रातयेष्ठाऽनुजाताऽहम्' इति शेपः । अन्यत्समानमि- ति स्मार्ताः। तत्र हे भ्रातरनुजाता वा ज्येष्ठाऽहमित्यन्वयः । ब्रह्माण्डपुराणे- या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्चयेञ्चापि ताम्बूलन सा वैधव्यमाप्नुयात् ।। भ्रातुरायुः क्षयो राजन्न भवेत्तत्र कहिंचित् ।। युग्मके द्वितीयातिथौ । यमद्वितीया प्रतिपद्युता ग्राह्येति निर्णयामृतः । हेमाद्रौ तु द्वितीया मध्याह्नव्यापिनी पूर्वद्धिा चेति विशेषः ।। अथात्र चित्रगुप्तपूजनमाह गौडः- यमं च चित्रगुप्तं च यमदूताँश्च पूजयेत् । अय॑श्चात्र प्रदातव्यो यमाय सहजद्वयैः ।। इयं पूजा अपराहे आह स्कान्दे- ऊर्जशुक्ल द्वितीयायामपराहऽचयेद्यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ॥ भानुजायां यमुनायाम् । व्रतादौ दिवैवैकभुक्तम् । तथाहि तिथिचन्द्रि- कायाम्- दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकमुक्तमिति प्रोक्तं मतं स्यात्तदिवैव हि ।। (१) (१) अथ कार्तिकशुक्लषष्टीनिर्णयः। तदुक्तं तिथितत्त्वचिन्तामणौ-पष्ठी तु सर्वेषु उपवासादिषु स्कन्दव्रतातिरिक्ता सप्तमी युतैव ग्राथा 'षणमुन्यो रिति युग्मवाक्यात् । तथा माध- वीये स्कान्हे- नागविद्धा न कर्तव्या षष्ठी चैव कदाचन । सप्तमीसंयुता कार्या षष्ठी सर्वार्थचिन्तकः॥
- ३८ कृत्यसारसमुच्चये- अथ एकादशीनिर्णयः एकादशी(१) द्वादशीयुतव ग्राह्या । 'रुद्रेण द्वादशी युक्ते ति निगमात् । तिथिमलरूपाया अपि द्वादशीयुक्तायाः प्राप्तौ सैव ग्राह्या । तथा च-तिथिचन्द्रिकायां विष्णुधर्मोत्तरे- एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी। अमावास्या तृतीया च समुपोष्याः परान्विताः॥ तथाच-नागविद्धा तु या षष्ठी सप्तम्या च तथाऽष्टमी। दशम्येकादशीविद्धा न ग्राह्या मुनिपुङ्गवः।। तथाच-नागविद्वां तु ये षष्ठीमुपोष्यन्तीह मानवाः । वृद्धिः श्रेयश्च कल्याणं तेषां नश्यन्ति पूर्वजम् ।। सगरेण कृता पूर्व पञ्चम्या सह भारत । हतं पुत्रसहस्रन्तु तस्माद्विद्वान कारयेत् ॥ तथाच-नाग ५ विद्धा तु या षष्ठी रुद्र ११ विद्धो दिवाकरः १२। काम १३ विद्धो भवेद्विष्णुन ग्राह्यास्ते तु वासराः ।। इत्यायनेकनिबन्धधृतवचनवजात्षष्ठी सूर्यव्रते सप्तमीयुतैवोपोध्येति सिद्धम् । तत्रोदयकाले- ल्पाऽपि षष्ठी भवेत्तदुपरि सप्तमी तदा सैव ग्राह्या । तदुक्कं तिथिचन्द्रिकायाम्- कला काठा निमेषोऽपि यदि स्यादपरेऽहनि । षष्ठयाः कथंचिद्विप्रेन्द्र सैवोपोया प्रयत्नतः ॥ अनेन सायं सप्तम्यामपि प्रथमोऽधों विहितः । द्वितीयस्तूत्तरदिने सूर्योदये सप्तम्यां सिद्ध एव । अत्र द्वितीयार्घस्य सप्तमीयुक्तमूर्योदये मुख्यतोक्ता । म० म० पं० राजनाथमिश्रकृततिथिनिर्णये- "पूर्वदिने सायमर्यादिना पूजने षष्ठी वा सप्तमी ग्राह्येति न नियमः। प्रधानीभूतोत्तरत्रार्घदा- नस्य तदङ्गोपवासस्य वाऽङ्गत्तयैव तदाचरणात् ।" इति । अतएव सप्तम्याः क्षयावसरे उक्त- पुराणान्तरे- षष्ठयाश्चैका कला यत्र तत्र सन्निहितो रविः । तत्र क्रतुशतं पुण्यमष्टम्यां पारणेन तु ॥ षष्ठी च सप्तमी चैव रात्रिशेषे यदाऽष्टमी । त्रिशा नाम सा प्रोक्ता तथा चैकादशी पुनः ।। शुद्धैव सप्तमी शेया उपोच्या फलकांक्षिभिः। अष्टम्यां पारणं कुर्याद्ब्रतमेतन्नराधिप ! ॥ तथाचोकं द्वैतनिर्णये- षष्ठीसमेता कर्त्तन्या सप्तमी नाष्टमीयुता । पतझोपासनायाथ षष्ठ यामाहुरुपोषणम् ।। एवं कृत्यशिरोमणौ- उदयकाले यद्दिने षष्ठी तस्य सायं काले षष्ठ थामसत्यामपि तत्रैव कार्य सप्तम्यनुरोधात् । अथ यदा पञ्चन्या वृद्धिस्तत्परं षष्ठ था दैवात् क्षयस्तत्रापि यदिने षष्ठीक्षयस्तदिने एव व्रतम् । तथा सायं प्रथमोऽर्घः द्वितीयदिने सप्तम्यां द्वितीयोऽधः । इति स्पष्टम् । यत्र तु षष्ठया वृद्धिस्तत्र परदिने सप्तमीविद्धायास्तस्या विहितत्वादपि एकादशीतिथिभिन्नति- थिमलस्य व्रतादौ वर्जनीयत्वात्पष्टिदण्डात्मकषष्ठ यां व्रतं सायन्तनोऽर्घश्च तदग्रिमोदयानन्तरं षष्ठयन्ते द्वितीयोऽधों देय इति । अत्र कला-काष्ठा-निमेष-इत्यादिवचनं तिथिमलरूपषष्ठीशेषभिन्न- परं बोद्धव्यम् । अस्य कथा वर्षकृत्ये द्रष्टव्येति । अथ कार्तिकशुक्लाष्टम्यां गोपूजनमुक्तं शब्दकल्पद्मे- शुक्लाष्टमी कात्तिकस्य स्मृता गोपाष्टमी बुधैः। तदिने वासुदेवोऽभूद्गोपः पूर्वन्तु वत्सपः ।। वत्र कुर्याद्गा पूजां गोग्रासं गाः प्रदक्षिणम् । गवानुगमनं कुर्यात्सर्वकामानमीप्सता ॥ (१) अथैकादश्यां विशेषो मात्स्ये- विद्धाऽप्येकादशी कार्या परतो द्वादशी न चेत् । कौम-मुहूर्ता द्वादशी न स्यात् त्रयोदश्यां महामुने । उपोष्या दशमीविद्धा सदैवेकादशी तदा।। नौकाधिरपि-एकादशी दशाविद्धां वर्धमाने विवर्जयेत् । क्षयमार्गस्थिते सोमे कुवात दशमीयुताम् ।। m- - कार्तिकमासकृत्यन् । षष्टिदण्डात्मिकायाश्च तिथेनिक्रमणे परे । अकर्मण्यन्तिथिमलं विद्यादेशादशी बिना !! इति वचनात् । दशमीयुक्ताया ग्रहणे दोपमाह स्मृतिः-- एकादशी दशारिद्धा गान्धार्या समुपःपिता। तरयाः पुत्रशतं नटं तलात परिवर्जयेत् ।। इति । एतच्चोभयदिने एकादशीलाने । यदि दशमीमात्युलैर सा, न द्वादशीयुक्ता, तदा दशमीयुता कर्तव्या स्थाहि तिः- एकादशी न लभ्येत सकला द्वादशी भवेत् । उपोच्या दशमीषिद्धा ऋपिरुषालकोऽब्रवीत् ।। इति ! न लभ्येतेति द्वादशीयुक्तेति शेपः। द्वैतनिर्णयद्वतपरिशिष्टत्रतपद्धति- पक्षधरीयतिथिचन्द्रिकादिमैथिलप्रथेष्वप्वेताशस्थले दशमीयुतायानेच कर्त- व्यत्वं सिद्धान्तितं, न तु द्वादशीव्रतमिति । यहस्पर्शमाह स्मृतिः एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। यहस्पृशमहोरात्रं तत्र साहसिकं फलम्।। इति । साहनिकं सहस्रगुणम् । हरिशयनादौ फलादिभक्षणनिषेधमाह भगवान्- "मच्छयने मदुत्थाने मत्पार्श्वपरिवर्तने । फलमूलपयोहारी हृदि शल्यं ममार्पति ॥ मच्छयने हरिशयने, मदुत्थाने देवोत्थाने पार्श्वपरिवर्त्तने भाद्रशुक्लै- कादश्याम् । स्मृतिः- एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । सूतके मृतके चैव अन्यस्मिन्नप्यशौचके ।। सर्वथा न परित्याज्या इच्छता श्रेय आत्मनः । इति । अशक्तौ त्वाह वायुपुराणे- फलं मूलं पयस्तोयमुपभोग्यम्भवेच्छुभम् । नत्वेवं भोजनकश्चिदेकादश्यां प्रकीर्तितम् ।। प्रमादादितो व्रताकरणे व्रतभङ्गाभावमाह छागलेयः- सर्वभूतभयं (१) व्याधिः प्रमादो गुरुशासनम् । अवतन्नानि कीय॑न्ते सकृदेतानि शास्त्रतः ॥ प्रमादो विस्मरणम् । सकृदेकवारम् , वारं वारं तद्वेतुभिरप्यकरणे भङ्ग एव सकृदित्युक्तः। - - एकादशी दशाविद्धा परतो न च वर्धते । यतिभिहिभिश्चैव सैवोपोप्या सदा तिथिः ।। ऋष्यशृङ्गः-एकादशौं न लभते सकला द्वादशी भवेत् । उपोष्या दशमी विद्धा यतिमिर्गृहिभिस्तदा।। (१) राशा युद्धे महामार्यो देशनाशे जनाये । नगरग्रामदाहे च सर्वभूतभयं मतम् ॥ स्त्रीणां रजोदर्शने तु प्रतिनिधिद्वारा व्रतं कार्य, स्वयन्तु प्राणत्राणार्थ फलदुग्धादि सेवनीयम् ।
५० -- कृत्यसारसमुच्चये- स्मृतिः-एकाइशीदिने यत्र भार्या ऋतुमती भवेत् । पित्राद्धं च तत्रैव उपायस्तत्र कथ्यते ॥ एकादशीव्रतं कुात्पिण्डाघ्राणं च श्राद्धकृत् । अर्द्धरात्रे व्यतीते तु ऋतुन्दद्यान्न दोषभाक ।। ब्रह्मपुराणे- एकादश्यान्तु शुक्लायां कार्तिके मासि केशयम् । सुनं प्रबोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः॥ इति(१)। अथ विष्णूत्यापनमन्त्राः- ब्रह्मेन्द्ररुद्रेभिवन्धमानो अपानृपिर्वन्दितवन्दनीयः । प्राप्ता तयाङ्कल कौमुदाख्या जागृव्व जागृथ्व च लोकनाथ !॥ मेघा गता निर्मलपूर्णचन्द्रः शारद्यपुष्पाणि मनोहराणि । अहन्ददानीति च पुण्यहेतोर्जागृष्व जागृष्व च लोकनाथ !॥ उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज्य निद्रां जगत्पते !! त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम्। (१) उपवासपूर्वदिने निषेधमाह तिथितत्त्वचिन्तामणी- कांस्यं मांतं मजूरान्नं चएक कोद्रवं तथा । शाकं मधु परान्नं च त्यजेदुपवसन् स्त्रियम् ॥ एवं यत्र तत्र परान्नभोजननिषेधो दृश्यते, किन्तु- गुर्वन्न मातुलान्नं च श्वशुरान्नं तथैव च । पितुः पुत्रस्य चैवान्नं न परान्नमिति स्मृतिः ॥ इति शब्दकल्पद्रुमोक्तवचनेनै तेषामन्नभोजने न दोषः। व्रताशक्तिदशायां जीवनरक्षणार्थ- मुपायो वायुपुराणे-नवं हविष्यान्नमनोदनं वा घृतं तिलाः क्षीरमथाम्बुपानम् । यत्पञ्चगव्यं यदिवाऽथ वायुः प्रशस्वमत्रोत्तरमुत्तरञ्च ॥ नक्तं दिनोपवासपूर्वकरात्रिभोजनरूपम् । भक्तरहितं हविष्यान्नम् । तेन रोटिकाचिपिटा- नभोजने न दोषः । शेषं स्पष्टम् । तथा चैकादशीव्रतं सूतकादिष्वपि न त्याज्यम् , तदुक्तं ति० त० चि० वायुपुराणे- एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि । सूतके मृतके चैव अन्यत्किमप्यशौचके । तत्र दुर्दिनयोगेनापि कर्तव्यतोक्ता विष्णुधर्मोत्तरे- भूगुभानुदिनोपेता सूर्यसंक्रान्तिसंयुता । एकादशी सदोपोष्या पुत्रपौत्रप्रवर्धिनी॥ तथा च भृगुभानुवासरे संक्रान्ती तु पुत्रवनां तत्र ये व्रतनिषेधं कुर्वन्ति ते भ्रान्ता राक्षसा बोध्या इति महेशठक्कुरा माहुः । भविष्यपुराणे त्रयोदश्यां तिथावेकादशीव्रतस्य पारण- निषेधो यथा- पारणां तु त्रयोदश्यां यः करोति नराधमः। द्वादश दादशीर्हन्ति नात्र कार्या विचारणा ॥ इदन्तूदयसमये द्वादशीसत्त्वे पारणोचितवेलालामेऽपि कार्यान्तरवशात्तामतिक्रम्य त्रयोदश्यां पारणे कृते विशेयम् । द्वादश्याः क्षयावसरे तु नियतमेकादशीव्रतोत्तरदिने सूर्योदयात् पूर्वत एव विद्यमानायां त्रयोदश्यां पारणविधानम् । तस्यां स्थितौ न दोषस्त्रयोदश्यां पारणे विशेषव- चनसामर्थ्यात् । यथोकं वायुपुराणे- कलाऽप्येकादशी यत्र पत्तो द्वादशी न चेत् । पुण्यं ऋतुशतं प्रोक्तं त्रयोदश्यां तु पारणे ॥ इति ।
oC कार्तिकमासकृत्यम् । (१)अथ हरिवासरमाह मत्स्यपुराणे- द्वादशीशुक्लपक्षे तु नभस्ये श्रवणं यदि । उपोप्यैकादशीन्तत्र द्वादशीमप्युपोपयेत् ।। ब्रह्माण्डे-द्वादश्यान्तु दिने भाद्रे हृषीकेशर्तसंयुते । उपवासद्वयं कुर्याद्विष्णुप्रीणनतत्परः ॥ द्वादृश्येकादशी सौन्यः श्रवणं च चतुष्टयम् । देवदुन्दुभियोगोऽयं शतमन्युफलप्रदः ॥ नभस्ये भाद्रे, श्रवणा, सौम्यो वुधः । मन्युर्यज्ञः। वराहपुराणे- एकादशीमुपोष्यैव द्वादशीमप्युपोपयेत् । न चात्र विधिलोपः स्यादुभयोर्देवता हरिः। अत्र तिथिचन्द्रिकायां-'पारणान्तं व्रतं ज्ञेयं समाप्तौ द्विजभोजनम् ।' इति । समाप्तिश्च पारणेन, तदभावे उपवासद्वये क्रियमाणे पूर्वतस्यास- माप्तेविधिलोपः प्राप्नोति सोऽप्येकदेवत्वेन न विधिलोप इति पक्षधरमिश्राः पठन्ति । हृषीकेश (१) हरिवासरसन्भवेषु आपाढभाद्रकार्तिकमासेषु बुधवासरयुक्तायामपि द्वादश्यां सूर्यो- दयसमये क्रमेणानुराधाश्रवणारेवतीनक्षत्राणां योगाभावे पूर्वदिनैकादश्या व्रतस्य पारणोचित- समयलाभात् प्राचीनमतेन नहि हरिवासरयोगः सम्भवति । तथाचोकं सारसंग्रहे-म०म० उमापत्युपाध्यायेन 'उदयकाले नक्षत्रयोगे हरिवासरपदं पारिभाषिकम् ।' इति । तिथितत्वचिन्तामणौ म०म० महेशठक्कुरास्तु देवोत्थानकादशीप्रसङ्गे लिखितवन्त:- कार्तिकशुक्लद्वादश्या रेवतीनक्षत्रयोगरहितायां पारणं कुर्यात् । तदुक्तम्- "आमाकासितपक्षेपु मैत्रश्रवणरेवती । सङ्गमे नहि भोक्तव्यं द्वादश द्वादशीहरेत् ।। यदि तु रेवतीरहिता द्वादशी न लभ्यते तदा रेवत्याश्चतुर्थपाई वर्जयेदिति"। अनेन हरि- वासरयोगे घटितेऽपि पारणविधानमार्तजनवाणकारणमेवोक्तम् । अथैकाशीव्रतपारणं द्वादश्या: प्रथमचरणमतिक्रम्य कर्तव्यमित्युक्तं शब्दकल्पद्मे- द्वादश्याः प्रथमः पादो हरिवासरसंशितः । तमतिक्रम्य कुवात पारणं हरिभक्तिमान् ।। तिथितत्त्वचिन्तामणौ कात्तिकशुक्लैकादश्यां भीष्मपञ्चकत्रतारम्भ उक्तो नारदेन- अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्मपञ्चकम् । कात्तिकस्यामले पक्षे स्नात्वा सम्यक् यतव्रतः॥ एकादश्यान्तु गृह्णीयाव्रतं पञ्चदिनात्मकम् । भीष्मपञ्चकविधिर्यथा-मौनी दृढव्रतः सन् प्रथमं गोमयेन ततः पञ्चामृतेन पञ्चगव्यर्विष्णु संस्नाप्य सम्पूज्य पायसं निवेध द्वादशाक्षरमष्टोत्तरशतं जप्त्वा 'ॐ नमो विष्णवे' इति षडक्षरेण घृतातान् यवान् ब्रीहीश्चाष्टोत्तरशतं हुत्वा भूमौ स्वपेत् । एवं पञ्चसु दिनेषु कुर्यात् । विशेषस्तु-तत्र प्रथमेऽह्नि कमलहरेः पादौ सम्पूज्य त्रिर्गोमयं प्राश्य, द्वितीये बिल्वपत्र- र्जानुनी सम्पूज्य गोमूत्रं प्राश्य, त्रयोदश्यां भृङ्गराजेन नामि सम्पूज्य क्षीरं प्राश्य, चतुर्दश्या करवीरैः स्कन्धं सम्पूज्य दधि प्राश्य, चतुर्दश्यां हिमान्ते लोहमयी पापप्रतिमां शङ्खचक्रहस्ता कृष्णवस्त्रवेष्टितां प्रस्थमिततिलोपरि स्थितां कृत्वा धर्मराजनाममिः करवीरः सम्पूज्य- यदन्यजन्मनि कृतमिह जन्मनि वा पुनः । वत्सर्व प्रशमं यातु मत्पापं तव पूजनात् ॥ अनेन पुष्पाञ्जलिं दत्त्वा द्विजान् भोजयेत् । तस्मै प्रतिमां दधादिति शिष्टाचारः। ६० सा० - - कृत्यसारसमुच्चये- आभाकासितपक्षे च मैत्रश्रवणरेवती। द्वादशी वुधवारेण हरेर्वासिर उच्यते ।। तथा चाषाढशुक्लद्वादशी बुधवारानुराधायुता, भाद्रशुक्लद्वादशी बुध- श्रवणायुता, कार्तिकशुक्लद्वादशी बुधरेवतीयुता हरिवासर इत्यर्थः पर्यवसितः॥ अथकादशीपारणायां मासमैदेन वस्तुभेदमाह- गोमूत्रेण च गोमयेन पयसा दध्ना गवां सर्पिषा सदर्भोदककार्तवीर्ययवजैश्चूर्णैस्तथा दूर्वया । कुष्माण्डेन गुडेन बिल्वतुलसीपत्रेण वा पारणं द्वादश्यां गदितं क्रमान्मुनिवरैर्मार्गादितस्तत्फलम् ।। पयसा दुग्वेन, कार्तवीर्यस्तिलः । बिल्वतुलसीपत्रयोर्विकल्पः । मार्गादि- द्वादशमासेषु क्रमेण द्वादशवस्तुभिः पारणमिति । पद्मपुराणे क्रियायोगे- दशम्यां विप्रशार्दूल ! द्वादश्यां चैव वैष्णवः । सम्यग्नतफलं प्रेप्सुन कुर्यान्निशि भोजनम् ।। दशम्यामेवमादीनि निपिद्धानि द्विजोत्तमः । द्वादश्यामपि तान्येव निषिद्धानि न संशयः। तथाच दशमीविहितानि सर्वाण्येव मांसभक्षणाकरणादीनि द्वादश्यामपि कुर्यादिति भावः ॥ कार्तिकीपूर्णिमायां (१) कौशिकीस्नाने फलमाह-रामायणे- कृत्तिकाऋक्षसंयुक्ता राका या कार्तिके भवेत् । कोकामुखे तु कौशिक्यां स्नात्वा स्वर्गे वसेन्नरः॥ ओमद्येत्यादि कौशिकीस्नानमहं करिष्ये । इतिसंकल्पः । स्नानमन्त्रस्तु- गाधिराजसुते ! देवि ! विश्वामित्रमुनेः खसः!। ऋचीकमार्थे ! सत्तोये ! पापं मे हर कौशिकि! ॥ अथाग्रहणकृत्यम् । तत्र नवान्नभक्षणम् (२) । वृश्चिकत्रयोदशांशाभ्यन्तरे नवान्नभक्षणम् । वृश्चिके पूर्वभागे तु नवान्नं शस्थते बुधैः । अपरे क्रियमाणे तु धनुष्येव कृतं भवेत् ॥ धनुषि यत्कृतं श्राद्धं मृगनेत्रासुरात्रिषु । पितरस्तन्न गृह्णन्ति नवान्नामृतकांक्षिणः । इति वचनात् । (१)कार्तिकीपूर्णिमायां पद्मयोग उक्को ब्रह्मपुराणे- "विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः। स योगः पनको नाम पुष्करेष्वतिदुर्लभः॥" इति । यदा कार्तिकशुक्लप्रतिपदूर्ध्व विशाखायां सूर्यस्य सञ्चारस्तदा कार्तिकीपूर्णिमायां प्रायः कृत्तिकानक्षत्रसंयोगादयं योगस्तस्मिन् वर्षे भवेदिति । (२) अप्रत्यविशेषः परिशिष्टे द्रष्टव्यः ।
अग्रहणमासकृत्यम्। ४३ पूर्वभागे त्रयोदशांशाभ्यन्तरे । अपरे च चतुर्दशांशादौ, तत्राविहित- तिथ्यादीन्याह ज्यौतिपे- सूर्ये चैव विशाखये स्मरतिथौ तारे त्रिजन्मान्विते नन्दामन्दमहीजकाव्यदिवसे पौपे मधौ कार्तिके। भेषु पाहिशिवेषु विष्णुशयने छःणे शशिन्यष्टमे श्राद्ध भोजन मानविहितं पुत्रार्थनाशप्रदम् ।। स्मरतिथिः त्रयोदशी, नन्दा प्रतिपत् ष्ठकादश्यः, मन्दः शनिः, महीजो मङ्गलः, काव्यः शुक्रः, मधौ चैत्रे, भेषु नक्षत्रेषु, उग्रः पूर्वात्रयमघाभरण्यः, अहिरश्लेषा, शिव आर्दा एतानि निपितानि । आश्लेपाकृत्तिकाज्येष्धमूलाजपदभेषु च । भूगुभौमदिने रितातिथौ नाद्यान्नवोदनम् ॥ इति श्राद्धशेषाभोजिमात्रपरम् । अजपदं पूर्वभाद्रपदमिति । तिथितत्त्वे विहितानि नक्षत्रादीन्याह भोजराजः- ब्रह्मा विष्णुबृहस्पती शशधरो मार्तण्डपौष्णादिति- मैत्रे चित्रविशाखवायुधनभे भूलाश्विवह्नौ तथा | शक्र वारुणऋक्षके शुभदिने श्राद्ध नवं शस्यते नन्दाभार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नोद्भवम् । ब्रह्मा रोहिणी, विष्णुः श्रवणः, वृहत्पतिः पुप्यः, शशधरो मृगशिराः, मार्तण्डो हस्तः, पौष्णो रेवती, अदितिः पुनर्वसू, मैत्रमनुराधा, चित्रं चित्रा। अन्यच्च-हरियुगलेऽदितियुगले पूषायुगले विरञ्चियुगले च । करपञ्चकोत्तरेषु च नवान्नफलभक्षणं शस्तम्॥ तथा च रोहिण्यादिद्वयम्पुनर्वस्वादिद्वयम् , उत्तरत्रयं, हस्तादिपञ्चकम् , श्रवणाद्वयं रेवत्यादिद्वयं, एतानि नक्षत्राणि, शुक्रशनिमङ्गलभिन्नवाराः । नन्दारिक्तात्रयोदशीभिन्नतिथयः। तृतीयजन्मभिन्नताराः । अष्टमभिन्न- विशाखाभिन्ननक्षत्रस्थसूर्यः। पौषचैत्रकार्तिकभिन्नमासाः । शुक्लपक्षः। हरिशयनभिन्नकालः प्रशस्तः(१)। (१) अथ सौरव्रतं सूर्याजाहस्करे- मार्गे मासि तथा माघे वैशाखाषाढयोरपि । शुक्लपक्ष व्रतं कुर्यात्सम्यग्देवस्य भास्वतः । तथा च विष्णुधर्मोत्तरे- ये त्वादित्यदिनं प्राप्य नक्तं कुर्वन्ति मानवाः । सप्तजन्मनि ते प्राप्य सम्भवन्त्यवियोगिनः ।। तन्त्र सौरनतपरिभाषाऽन्यनकभिन्ना, यथा नरसिंहपुराणे- आत्मनो द्विगुणच्छायां यदा सन्तिष्ठते रविः। सौरं नक्तं विजानीयान्न नक्तं निशि भोजनम् ॥ अत्र द्विगुणच्छाया पूर्वापराहे च भवति, तत्र मुहूर्त्तानं दिनमिति भविष्यपुराणवचना- तथा 'भन्दीभूते दिवाकरे' इत्यपि दर्शनान्मध्याहोत्तरसमये यदाऽऽत्मन उत्थितदण्डाकार- शरीरस्य द्विगुणा छाया पूर्वमुखी भवेत्तदा सौरं नक्तं शेयम् । तथोक्तं भविष्ये- चन्द्रमाः। - , - कृत्यसारसमुच्चये- अथ पौषकृत्यम् अथाकालवृष्टयादिविचारः । स्मृतिः- पौषादिचतुरो मासान् ज्ञेया वृष्टिरकालजा | व्रतयात्राविवाहादि वर्जयेत्सप्तवासरान् ॥ एतच्च निरन्तरदिनत्रयवृष्टयां, तृतीयेन तु सप्ताहमिति वक्ष्यमाणवचनैक वाक्यत्वाद् । विशेषमाह- एकेनैकदिनन्त्याज्यं द्वितीयेन दिनत्रयम् । ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः। दिनान्ते ते तु भुञ्जीरन्निषेधो रात्रिभोजने ॥ अपरार्के–यदा तु प्राङ्मुखी छाया पुरुषाद्विगुणा भवेत् । तदा नक्तं विजानीयादनक्तं वन्यथा भवेत् ॥ निर्णयसिन्धौ मार्गादिमासेषु रविव्रतभच्याण्युक्तानि- पत्रत्रित्वं तुलस्यात्रिपलमथ घृतं मार्गशीर्षादिभक्ष्यं मुष्टीनां त्रिस्तिलानां त्रिपलदधि तथा दुग्धकं गोमयं च । त्रित्वं तोयाजलीनां त्रिमरिचकमथो त्रिःपलाः शक्तवः स्युः गोमूत्रं शर्करा सद्धविरिति विधिना भानुवारे क्रमेण ।। तत्र मार्गमासे शुक्लपक्षीयप्रथमरविवासराठी रविव्रतारन्मः। वैशाखमासे तच्छुक्लपक्षी- यान्तिमरविवासरे तज्ञतविराम इति स्मृतिप्रमागम् । तथा च- आदौ वृश्चिकमेषान्ते रविवारो यदा भवेत् । तदा रविव्रतारम्भविसौं शारुसम्मतौ ।। तथा साम्बपुराणे- अलिमेषगते भानौ भगवत्यर्कवासरे । शुक्लपक्षे स विधिवद्वतं शाम्ब ! समाचरेत् ।। धनुर्वृषगते मानी यः कुर्यात्सवितुव्रतन् । सप्तजन्मनि कुष्ठी स्यादरिद्रश्चौपजायते ।। देवोत्थानात्परं प्राचं व्रतं देवत्य भास्वतः । कदाचिदलिमेषा कृष्णपने न कारयेत् ॥ अत्र धनुर्वृषगते भानावित्यनेन दोषश्रवणात्कदाचिदैशाखमासस्य मलमासत्वे तच्छुद्धकृष्ण- पक्षस्य मीनार्कत्वात्तच्छुद्धवैशाखशुक्लपक्षस्य वृपादित्यत्वान्मलमासीयशुक्लपक्षे एव मेषार्के रविव्रतं, वेरुचराशिकत्वात् । तथैवोकं ज्योतिपे- सूर्यव्रतं च वैशाखे मलमासो यदा भवेत् । तदा तत्रैव कर्तव्यं वृपादित्ये न कारयेत् ।। एवं भाद्रस्य मलमासत्वे मलमास एव सिंहादित्यसंभवात्सोरं व्रतं तत्रैव कार्यमिति । तत्र रविवारे वानाह सर्वसारसंग्रहे- क्षौरं तैलं जलं चोष्णमामिषं निशि मोजनम् । रतिः स्नानञ्च मध्याह्ने रवौ सप्त विवर्जयेत् ॥ प्रामिषं निम्बकाष्ठं च तप्तवारि हरीतकी। तैलमामलकीस्नानं वर्जयेद्रविवासरे ॥ किन्तु लाभ्यङ्गो न दोषाय प्रत्यहं क्रियते यदि । उत्सवे वातरोगे वा यत्र वाचनिकोऽपि वा ।। मन्त्रितं कथितं तैलं सापं पुष्पवासितम् । द्रव्यान्तरयुतं वाऽपि नैव दुष्येत्कदाचन ।। रविव्रते वाणि-पद्मपुराणे सृष्टिखण्डे १० ७७ श्लो०६९- वर्जयेच्च शिलाघष्टं शृङ्गवरं च शाककम् । कोरदूषकपत्रं च रम्भां छागीतं तथा ॥ केशकीटादिकं वयंमुष्णोदकस्नानमेव च । अल्पवीजादिकं सर्व व्रते सूरस्य वर्जयेत् ॥ शिलष्टं गोधूमादिचूर्ण, शृङ्गवेरमादकम् , कोरदूषकपत्रं कोद्रवानपत्रं रम्भां कदली, छागीतं तथेत्यनेन दुग्धध्यायपि । केशकोटसंकुलमन्नं, उष्णजलेन स्नानं च अल्पवीबादिकं फलं बीजपूरक मेतानि सरस्य सूर्यस्य व्रते वर्जयेत् । - - - पौषमासकृत्यम् । तृतीयेन तु सप्ताहन्त्यजेदाकालवर्षणे ॥ एकेनैकदिनस्पृशा वृष्ट्या द्वितीयेन दिनद्वयस्पृशा, एवमग्रेऽपि एक- दिनमिति तदनिमदिनमित्यर्थः । एवं दिनत्रयमित्यत्रापि वृष्टिदिनानन्तर- दिनत्रयमित्यर्थः । एवमग्रेऽपि वृष्टिदिनत्यागो दण्डापूपन्यायात् । तथा च वृष्ट्यधिकरणदिनं तदुत्तरमेकत्रिसप्तदिनानि च त्याज्यानि, एवं निरन्तर- दिनचतुष्टयादिवृष्ट्या वृष्ट्यधिकरणदिनचतुष्टयादिकम् , तदनन्तरं सप्तदि- नानि च त्याज्यानि, तत्रापि तृतीयेन तु सप्ताहमेतद्विषयत्वात् , “अधिक तु प्रविष्टन्न तु तद्धानिरिति न्यायेन" दिनचतुष्टयादिवृष्टौ अवश्यं दिनत्रयवृष्टि- सत्वात् । अत्र द्वैतपरिशिष्टे एकेनैकदिनस्पृशा वृष्ट्या एकं दिनं, तदनिमं च दिनं त्याज्यम् । द्वितीयेनाव्यवहितदिनद्वयस्पृशा वृष्ट्या तदुत्तरं यहः । वृष्ट्यधिकरणदिनस्याशुद्धत्वं तु, न शुद्धिं निर्दिशेत्तावदिति यावत्तावत्पदस- मभिव्याहारात् । वृष्टिदिनमादाय एकद्वित्रिगणने तृतीयार्थकारणत्वानुपपत्तिः । द्वितीयेन दिनत्रयमित्यत्र दिनकमित्येव ब्रूयादिति केशवमिश्राः । नाडीजवस्तु पौषादि चतुरो मासानित्यत्र मासपदं पक्षपरमाह तथाहि- मासान् मार्गप्रभृति मुनयो व्यासवाल्मीकिगर्गा- श्चैत्रं यावद्वर्षणविधौ नेति कालं वदन्ति । नाडीजचः सुरगुरुमुनिः प्राह वृष्टरकालं मासावेतावशुभफलदौ पौषमाधौ न शेषौ ।। इति पठित्वा “पोषादिचतुरो मासा' "नित्यत्र पक्षा मासा इति वदन्ति । अकालवृष्टयाऽपि यदि नरपशुचरणचिह्न भुवि सम्पद्यते तदा- ऽशुद्धिर्नान्यथा, तथाहि- वृत्तेऽप्यकालवर्षे नाशुद्धिन्निदिशेत्तावत् । यावन्न भवति याने नरपशुचरणाङ्किता वसुधा ।। इति । अत्र नरपशुर्वानर इति मेधातिथिः । श्रथ ग्रहणादावशुद्धिमाह- एकरात्रं परित्यज्य कुर्यात्पाणिग्रहं ग्रहे । प्रयाणे सप्तरात्राणि त्रिरात्रं व्रतबन्धने ।। पाणिग्रहो विवाहः । ग्रहे ग्रहणे, व्रतबन्धने उपनयने, एतच्च प्रौढकन्याप्रौ- ढमाणवकविवाहोपनयनविषयमतो वक्ष्यमाणवचनाद्विरोधः । दिग्दाहे दिनमेकं स्याद् ग्रहे सप्तदिनानि च । भूकम्पे च समुत्पन्ने त्रिरात्रं परिवर्जयेत् । दृश्यते सिंहिकासूनुरुदितो गगने यदि । यत्रादौ मङ्गले कार्ये सप्तरात्रं विवर्जयेत् ।। अरिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । सप्तरात्रं न कुर्वीत यज्ञोद्वाहादिमङ्गलम् ॥ वै -- ४६ कृत्यसारसमुच्चये- दर्शनादर्शनाद्राहोः केतोः सप्तदिनन्त्यजेत् । यावत्केतूदयस्तावदशुद्धः समयो भवेत् ॥ धूमकेतौ समुत्पन्ने ग्रहणे सूर्यचन्द्रयोः । ग्रहाणां सङ्गरे चैव न कुर्यान्मङ्गलक्रियाम् ॥ यदाऽम्वुवृष्टिः कुलिशं पतत्यधो धराप्रकम्पोऽसुरकेतुदर्शनम् । तदा विवाहव्रतबन्धनेषु विवर्जयेत्सप्तदिनानि शास्त्रतः ॥ अम्बुवृष्टिः दिनत्रयमकालवृष्टिः । आहे रवीन्द्वोरवनीप्रकम्पे केतूदयोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्जास्त्रयोदशाहानि वदन्ति केचित् ॥ अत्रादिपदेन करकावज्रपातादेरुपग्रह इति द्वैतनिर्णयप्रदीपे गोकुल- नाथोपाध्यायाः। ग्रहणभूकम्पोल्कापातकरकापातादिसमाहारे त्रयोदशाहम- शुद्धम् । किञ्चिदूनसमाहारे दशाहम् । ग्रहणाचेकैकोपग्रहे व्यहमिति द्वैत- निर्णयः । एतत्समुदायार्थपर्यालोचनया अयमर्थः पर्यवसितः, ग्रहणेऽत्यन्त- प्रौढकन्याविवाहे तदिनमात्रमशुद्धम् । प्रौढमाणवकोपनयने ग्रहणदिनमारभ्य दिनत्रयम् , प्रौढभिन्नकन्याविवाहे तादृशमाणवकोपनयनादिमङ्गलकर्मसु ग्रहणानन्तरं सप्तदिनमशुद्धम् । दिग्दाहे च मङ्गलकर्ममात्रे एकदिनमशुद्धम् । भमिकम्पे दिनत्रयम् । तद्दिनमारभ्य ग्रहणभूकम्पोल्कापातवनकरकापाता- दिसमुदाये एकस्मिन्दिने जाते उपनयने योदशदिनमशुद्धम् , किञ्चिन्न्यू- नतत्समुदाये जाते दशाहमशुद्धम् , अन्यत्सुगमम् । भूमिदारणे वभ्रमात्रपाते वा मङ्गलकर्ममात्रे तदिनानन्तरन्दिनमेकमशुद्धमिति द्वैतपरिशिष्टाद्यनु- सारीयः पन्थाः। बताह्नि पूर्वसन्ध्यायां वारिदो यदि गर्जति । तदिनं स्यादनध्यायं व्रतं तत्र न कारयेत् ॥ व्रतमुपनयनम् । पूर्वसन्ध्या प्रातः सन्ध्या । अत्र प्रमाणं विष्णुपुराणम्- ततोऽखिलजगत्पद्मबोधायाच्युतभानुना | देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ।। इति । "प्रभातसन्ध्यासमये च गर्जिते तदा ह्यनध्यायमुशन्ति सूरयः ।" इति रत्नसारशतकं च । तथा च उपनयर्नादने प्रातः सन्ध्यागर्ने तहिन- मुपनयनेऽशुद्धमित्यर्थः पर्यवसितः । पक्षधरमिश्रीयमानबोधसारसंग्रहेऽप्येव- मेव । तथाहि-"व्रताह्नि पूर्वसन्ध्यायाम्" इत्यादिवाक्यस्य उक्तत्वात् । अथ श्रद्धोदयः (१)। महाभारते- अमाऽर्कपातश्रवणैर्युता चेत्पौषमाघयोः । अर्होदयस्सविज्ञेयः कोटिसूर्यग्रहैस्समः । (१) तथा च स्मृतिकौस्तुमे वशिष्ठः- सूर्यस्यापोंदये काले होते योगाः प्रकीर्तिताः । अर्धोदय इति ख्यातः कोटिसूर्यग्रहैः समः ।। .
पौषमासकृत्यम् । अमा अमावास्या, पौषमाघयोरित्यनेनान्वयः, अको रविवारः पातो व्यतीपातयोगः। श्रवणान्यतीपातरमा चेत्पौपमाघयोः। अोदयः स विज्ञेयः किञ्चिन्न्यूने महोदयः ।। योगोऽयं दिवैव शस्तः । तथाहि तिथितत्त्वचिन्तामणिधृतवचनम्- "दिवैव योगशस्तोऽयं न तु रानौ कदाचन ।" इति । फलमाह-अर्होदये तु सम्प्राने सर्व गङ्गासनं जलम् ॥ शुद्धात्मानो द्विजास्सर्वे भवेयुर्ब्रह्मसन्निभाः। यत्किञ्चिदीयते दानं तदानं भेरुसन्निभम् ।। अत्र सङ्कल्पः-ओमद्य पौपे मासि कृष्णे पक्षे आमावास्यायां तिथाव- मुकगोत्रस्यामुकशर्मणो मम सूर्यग्रहणकालीनगङ्गास्नानजन्यफलकोटिगुण- प्राप्तिकामोऽर्होदये गङ्गायां स्नानमहं करिष्ये । एवं मारेऽपि, तत्र पोषस्थाने माघे मासीत्येव विशेषः । एतन्मासे महिपीप्रसवे दोपशान्तिभांद्रेऽभिहिता । वैशाखादौ तु कौशिकीनाने प्रमाणमभिहितं प्राक् । पौषीपूर्णिमायां तत्स्नाने प्रमाणाभावेऽपि शिष्टाचारात्स्नानं कर्त्तव्यम् । तत्र सङ्कल्पमाह सङ्कल्पावली- 'ओमद्येत्यादि पृथिव्यधिकरणकसकलतीर्थस्नानजन्यफलप्राप्तिकामः कौशिक्यां स्नानमहङ्करिष्ये' इति सङ्कल्प्य- दिवैव योगः शस्तोऽयं न तु रात्री कदाचन ॥ तथा जयसिंहकल्पद्रुमे- पातस्यान्तः पूर्वभागस्त्वमायाः श्रोणामध्यभास्करस्योदये च। भानोबारे पुण्यमषोंदयः स्यात् किञ्चिन्ल्यूने तं महत्पूर्वमाहुः ।। योगतिथिनक्षत्राणां मानानि त्रिधा विभज्य पातयोगत्य तृतीयो भागः तिथेरमावास्यायाः पूर्वभागः । अवणनक्षत्रस्य मध्यभागः । एतेषां यश संयोगः सूर्योदयसमये भवेत्तदाऽर्थोदययोगो भवतीति युक्तं लक्षणं चिरकालघटनयोग्यमिति । अथ तिथितत्त्वचिन्तामणितस्कन्दपुराण. वचनम्- माधीयामाव्यतीपाते आदित्ये विष्णुदैवते । अर्थोदयं तदित्याहुः सहस्रार्कग्रहः समम् ।। तथा च-माघमा कृष्णपक्षे पञ्चदश्यां रवेर्दिने । वैष्णवेन तु ऋक्षेण व्यतीपाते सुदुर्लभे ॥ व्रतं कुर्यादिति शेषः । अत्र मैथिलनिवन्थेषूदयव्यापित्वे एव योगोऽयमिति न दृश्यते । केवलं स्मृतिकौस्तुभादौ दृश्यते । तच्चिन्त्यमिति । जयसिंहकल्पद्रुमोक्तलक्षणेना|दययोगस्वरूपमेवम्- रविवासरे-उदयसमयः । योगः १भाग २ भाग ३ भाग नक्षत्रम् १ भाग २ भाग ३ भाग तिथि: १ भाग २भाग ३ भाग -- - - कृत्यसारसमुच्चये- ॐ गाधिराजसुते ! देवि ! विश्वामित्रमुनेस्वसः । ऋचीकमार्थे ! सत्यार्ये ! पापं मे हर कौशिकि ! ॥ इति पठित्वा स्लायात् ॥ अथ माघकृत्यम् । तत्र प्रातःस्नानकालमाह तिथितत्त्वचिन्तामणौ स्मृतिः- उत्तमन्तु सनक्षत्रं लुप्ततारन्तु मध्यमम् । सवितयुदिते भूप ! ततो हीनं प्रकीर्तितम् ॥ अरुणोदयवेलास्नानफलमाह- यो माघमास्युषसि सूर्यकराभिताने स्नानं समाचरति चारु नदीप्रवाहे । उद्धृत्य सप्त पुरुषान् पितृमातृवंश्यान् स्वर्ग प्रयात्यमरदेहधरो नरोऽसौ ॥ अत्र मासः सौरः । तेन मकरसंक्रमदिनमारभ्य प्रातःस्नाननियमः (१) । जलमात्रे तु पद्मपुराणे- स्वर्गलोके चिरं वासो येषां मनसि वर्तते । यत्र कापि जले तैस्तु स्नातव्यं मृगभास्करे ॥ मृगभास्करे मकरस्थे रवौ । स्नानमन्त्रस्तु- मकरस्थे रवौ मावे गोविन्दाच्युत ! माधव !। स्नानेनानेन मे देव ! यथोक्तफलदो भव ।। इति । नरसिंहपुराणे- शीतकाले महावह्नि प्रज्वालयति यो नरः । सर्वसत्त्वहितार्थाय स्वर्गे चाप्सरसं लभेत्॥ हितार्थाय शीतनिवारणायेत्यर्थः । अथ मावकृष्णचतुर्थी गणेशचतुर्थी । अस्यां गणेशोत्पत्तिमाह शिवधर्म- सर्वदेवमयः साक्षात् सर्वमङ्गलकारकः । माघकृष्णचतुर्थ्यान्तु प्रादुर्भूतो गणाधिपः ।। इयं चतुर्थी तृतीयायुता ग्राह्या । गणेशगौरीबहुलाव्यतिरिक्ता प्रकीर्तिता । चतुर्थी पञ्चमीविवेत्यादिवचनात् गणेशचतुर्थीव्यतिरिक्तचतुर्थ्या एव पञ्चमीयोगप्राशस्त्याभिधानात् । मातृविद्धो गणेश्वर" इति वचनात् । चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते । इति बृहस्पतेश्च । एतच्चोभयदिने मध्याह्नव्याप्तौ उत्तरदिनमात्रे मध्याह्न- व्याप्ती वा उत्तरदिने एव- (१) शब्दकल्पद्रुमे- मकरे मूलकं चैव सिंहे चालानुभक्षणम् । कार्तिके शूरणं चैव सद्यो गोमांसभक्षणम् ।। आला तुम्बीफलं सजमनीति प्रसिद्धम् । शरणम् ओलः । संक्रान्तिनिर्णयः परिशिष्टे द्रष्टव्यः । -- - माघमासकृत्यम् । ४९ मध्याह्नव्या पिनी चेत्त्यात् परतश्च परेऽहनि । इति बृहस्पतेः । माघे मासि गणेशदेवताका चतुर्थीति(१)निवन्धमात्रेऽपि प्रसिद्देति, ठक्कुराः । अमावास्यायामोदयः स पापकृत्ये द्रष्टव्यः । अथ माघशुक्लपञ्चमी श्रीपञ्चमी सा च पूर्वयुतेति माधवाचार्यः । दियो- दासोऽपि 'माघशुक्ला पनी या पूर्वविद्धा प्रशस्यते । इति मैथिलगौंड- सम्मतम् । हेमाद्रिमते परेति दाक्षिणात्याः । अय माघशुक्लसप्तमी(२)अरुणोदयव्यापिनी ग्राह्या, तथा च विष्णुः- सूर्यग्रहणतुल्या हिशुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।। अरुणोदयवेलायां शुक्ला माघस्य सप्तमी । प्रयागे यदि लभ्येत कोटिसूर्यग्रहः समा । (गङ्गायां यदि लभ्येत शतसूर्यग्रहः समा । ) इति कचित्पाठः। तत्र सप्तार्कपत्राणि, वदरीपत्राणि शिरसि निधाय वक्ष्यमाणमन्त्रेण स्नायात्-- यद्यजन्मकृतं पापं मया सप्सु जन्मसु तन्मे रोगच्च शोकं च माकरी हन्तु सप्तमी ।। ॐ एतजन्मकृतं पापं यच्च जन्मान्तरार्जितम्। मनोवाकायजं यच्च ज्ञाताज्ञातञ्च यत्पुनः ।। इति सप्तविधम्पापं स्नानान्मे सप्तसप्तिके। सर्वव्याधिसमायुक्तं हर माकरि सप्तमि ! ॥ इति मन्त्रं पठेत् । रोकं च शोकं चेति तिथितत्त्वे पाठः, रोक छिद्रमिति व्याख्यानञ्च । उभयदिने अरुणोदयकाले सप्तमीलाभे पूर्वदिने एव स्नानमधिककाल- व्यापित्वात् | अरुणोदयवेलामाह देवीभागवते. (१) म० म०प० श्रीपक्षधरमिनरचिततिथिचन्द्रिकायां तु- तृतीया संयुता या तु सा चतुर्थों फलप्रदा । कर्त्तव्या तिभिस्तात ! गणनाथसुतोषिणी ।। गणनाथं सुतरां तोषयतीति गणेश्वरव्रते तृतीयायुक्ता चतुर्थी विधया। अन्यदेवतावते तु 'गणनाथमुतोषिणी' इत्यसङ्गतं स्यात् । तस्माद्विनायकत्रते चतुर्थी तृतीयायुतबोपोण्या । वत्सपूजा- धेनुपूजयोः पृथगुपादानाबहुलाचतुथों तृतीयोपेता मान्या । अतो गणेश्वरगौरीबहुलाचतुर्थीव्यति- रिक्ता देवतान्तरसम्बन्धिन्यश्चतुर्थ्यः पञ्चम्या विद्धा एव मान्याः। पञ्चमीयुक्तव युग्मवाक्यात् । अन्यच्च-एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।। इति यदि पूर्वदिने चन्द्रोदयकालमतिक्रम्य प्रवृत्ता चतुर्थी नोत्तरदिने चन्द्रोदयकालं व्याप्नुया- तत्र पूर्ववैवि राजनाथकृततिथिनिर्णये । (२) शुक्लपक्षस्य सप्तम्यां सूर्यवारो यदा मवेत् । सप्तमी विजया नाम तत्र दत्तं महाफलम् ।। तथा भास्करपुराणे- शुक्लपक्षस्य सप्तम्यां यदा संक्रमते रविः । तदा महाजया प्रोक्ता सप्तमी भास्करप्रिया ।। स्नानं दानं तपो होमः पितृदेवामिपूजनम् । सर्वं कोटिगुणं प्रोक्तं भास्करस्य वचो यथा ॥ कृ० सा० कृत्यसारसमुच्चये- चतस्रो घटिकाः प्रातररुणोदय उच्यते । इति । पञ्च पञ्च उषः कालः सप्तपश्चारुणोदयः । अष्टपञ्च भवेत् प्रातः शेषः सूर्योदयो मतः । इति । अय मावशुक्लाटमी भीष्माख्या, तस्यां भीष्मतर्पणान्याह पाझे- माघे मासि सिताष्टम्यां सतिलैीष्मतर्पणम् । श्राद्ध च ये नराः कुर्युस्तेस्युः सन्ततिभागिनः ॥ भारते-शुक्लाष्टम्यान्तु माघस्य दद्याद्भीष्माय यो जलम् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥ एतत्तपणे सर्ववर्णानामधिकारः, इयानेव विशेषः । ब्राह्मणः पितृतर्पणानन्तरम् , क्षत्रियादयस्तु प्रथममेव भीष्मतर्पणं कुर्यु- रिति समाचारः । तर्पणमन्त्रो यथा-- वैयाघ्रपादगोत्राय सांकृतिप्रवराय च । अपुत्राय ददाम्येतत्सलिलं भीष्मवर्मणे ॥ वसूनामवताराय सांकृतिप्रवराय च । अर्घ ददामि भीष्माय आबालब्रह्मचारिणे ॥ इति मन्त्राभ्यां सलिलाञ्जलिं दत्वा पठेत् । ओं भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः। आभिरभिरवाप्नोतु पुत्रपौत्रोचितां क्रियाम् ।। इति(१) । अथ माधोपूर्णिमा परयुता ग्राह्या, यथोक्तं ब्रह्मवैवर्ते- भूतविद्धे न कर्तव्ये दर्शपूर्णे कदाचन ॥ इति । (२) - (१) भीष्मतर्पणाकरणे दोषमाह ति० त० चिन्तामणितमारते- ब्राह्मणाद्याश्च ये वर्णा दद्युभीष्माय नो जलम् । संवत्सरकृतं तेषां पुण्यं नश्यति सप्तम १ ॥ ( २ ) माघी पूर्णिमा क्वचिन्महामाधी भवति, तदुक्कं तिथितत्त्वचिन्तामणौ ज्यौतिषे- मेषराशौ यदा सौरिः सिंहे गुरुविधू तथा । भास्करः श्रवणः च महामाधीति सा स्मृता ।। अत्र शनेत्रिंशद्वर्षेण भगणमोगदर्शनाद्गुरोदशाब्दकालेन मध्यगत्या भगणभोगादस्य योगस्य षष्टिषष्टिवर्षेषु सम्भवो युक्त्या सिद्ध थति, तत्रयदा स च योगस्तस्मादयं समयनियमति। एवं महाफाल्गुनी फल्गुनॊनक्षत्रयुक्तपूर्णिमायामपि सिंहस्थिते गुरौ, महाचैत्री तु चैत्रीपूर्णि- मायां चित्रास्थचन्द्रगुरुयोगयुक्ता भवत्येवमेव सर्वेषु मासेपु, तथाचोक्तं राजमार्तण्डे- माससंशे यदा ऋो चन्द्रः सन्पूर्णमण्डलः । गुरुणा याति संयोग सा तिथिमहती स्मृता॥ अत एव विष्णुना-"तस्यां स्नानोपवासादि चाक्षयं प्रोक्तम्" इत्युक्तम् । परन्तूक्तवचने शनेमेषादिस्थत्वं न वर्तते ॥ महामाधीयोगे तिथितत्वचिन्तामणिधृतज्यौतिषवचने मेषस्थशनि ग्रहोलखो दृश्यते, यदि च चन्द्रगुरू एव योगकारको स्याता,तदा प्रतिवर्ष गुरुमहाधिष्ठितराशियुक्त पूर्णिमायां प्रायस्तस्य सम्भवः। अथ हरिदारतीर्थे कुम्मयोग उक्तः कृत्यमार्याम्- पद्मिनीनायके मेषे कुम्मराशिगते गुरौ । गङ्गाद्वारे भवेद्योगः कुम्भनामा तदोत्तमः ।। - फाल्गुनमासकृत्यम् । - अथ फल्गुनकृत्यम् । स्मृतिः-फाल्गुनस्य च मासस्य कृष्णाष्टम्यां महीसुता । जाता दाशरथेः पत्नी तस्मिन्नहनि जानकी ।। उपोपितो रघुपतिरसमुद्रस्य तटे तदा । रामपत्नी च सम्पूज्या सीता जनकनन्दिनी ।। इति ।। अथ फाल्गुनकृष्णचतुर्दश्यां शिवरात्रिवतम् । तच्च प्रदोषनिशीथोभयन्या- पिन्यां चतुर्दश्याम् । तथाहि स्कान्दे-- त्रयोदशी यदा देवि ! दिनुभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यानिशि पूर्णा चतुर्दशी ॥ इति । दिनुभुक्तिरस्तमनकालः । निशीथमाह-- 'महानिशी द्वे घटिके रात्रेमभ्यमयामयोः ।' इति । तथा च द्वितीयप्रहर- रात्रिशेषदण्डः तृतीयप्रहररात्रिप्रथमदण्ड इति दण्डद्वयनिशीथ इति भावः। यदि पूर्वदिने निशीथव्यापिनी, परदिने प्रदोषमात्रव्यापिनी, तदा पूर्वदिने व्रतम्, "निशीथव्यापिनी प्राया शिवरात्रिचतुर्दशी ।" इति वचनात् । यदि तु पूर्वदिने निशीथानन्तरं परदिने निशीथपूर्वकालपर्यन्तं चतुर्दशी, तदा परदिने व्रतम्, प्रदोषव्यापिनी ग्राह्येति वचनात् । प्रदोषमाह ठक्कुरः- प्रदोषो घटिकाचतुष्टयरूप इति, एतत्पारणन्तु चतुर्दश्यन्ते, तथाहि- कृष्णाष्टमी स्कन्दषष्टी शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणम्भवेत् ॥ इति ॥ पारणकाले चतुर्दश्यन्तासम्भवे चतुर्दश्यामपि पारणमाह पाझे- उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः सुकृतलतैस्तु लभ्यते वा नवा नरैः।। अथ शिवरात्रिनतारम्भप्रकारः। फाल्गुनकृष्णचतुई श्यां प्रातःस्नानादि- राचान्त उत्तराभिमुखो वारिपूर्णताम्रपात्रमादाय भगवनसूर्यभगवत्योदेवता अद्यादि चतुर्दशवर्ष यावत् प्रतिफाल्गुनकृष्णचतुर्दश्यां शिवरात्रिव्रतमहङ्क- रिष्ये, इति निवेद्य कुशादिकमादायामुकगोत्रस्यामुकशर्मणो ममान्तकालीन- शिवानुचरत्वशिवलोकसहितत्वदेवसाहित्यसुरालयभ्रमणभूपालत्वसार्वदिकशि- वभक्तिरूपबुद्धिविवेकाऽनाहताशत्वलक्ष्मीगोधनप्राप्तिकामोऽद्यादिचतुई वर्ष या- यदा बृहस्पतिः कुम्भराशौ भवेत्तस्मिन् वर्षे मेषसंक्रान्तौ त्वयं योगः। अथ गोदावरीतीर्थ कुम्भयोगः- कर्के गुरुस्तथा भानुश्चन्द्रश्चन्द्रक्षयस्तथा । गोदावयों तदा कुम्मो जायतेऽवनिमण्डले ॥ अयं योगस्तदा यदा गुरुः कर्कराशौ मवेत्तस्मिन् वर्षे श्रावणामावास्यायां सम्भवति ।। अथ प्रयागतीर्थे कुम्भयोग:- माघामायां मृगे भानौ मेषराशिगते गुरौ । कुम्भयोगो भवेत्तत्र प्रयागे त्वतिदुर्लभः ।। - कृत्यसारसमुच्चये- वत् प्रतिफाल्गुनकृष्णचतुर्दश्यां शिवरात्रिव्रतमहङ्करिव्ये इति सङ्कल्प्य व्रता- रम्भः । चतुर्दशवर्षपर्यन्तं व्रतं समाप्य उद्यापनं गोदानं कुर्यात् । उद्यापना- शक्ती गोदानं कृत्वा यथाशक्ति ब्राह्मणान् भोजयेत् । अथ नक्तवतन्तु–दिनोपवासपूर्वकरात्रिभोजनरूपम् । तत्र दिवारान्यु- भयव्यापिन्यां चतुर्दश्याम, उभयव्यातघसम्भवे प्रदोषव्यापिन्यां, तथाहि स्कान्दे-दिवारात्रिव्रतं यच्च एक एव तिथौ स्मृतम् । तस्यामुभयन्यापिन्यां कुर्यादेव व्रतं ब्रती ।। व्यासः-प्रदोपव्यापिनी ग्राह्या सदा नक्तवते तिथिः । यदि चोभयदिने प्रदोषव्यापिनी चतुर्दशी तदा परदिने- यदि स्यादुभयोरहोः प्रदोपव्यापिनी तिथिः। तत्रोत्तरत्र नक्तं त्यादुभयत्रैव सा यतः । इति जाबालवचनात् । उभयत्र दिवसे रात्रौ च । प्रदोषोऽत्र त्रिमूहूर्तः । 'त्रिमुहूर्तः प्रदोपः स्याद्भानावस्तङ्गते सति' | इति व्यासोक्तरिति ठक्कुराः । प्रदोषोऽस्तमयादूचं घटिकाद्वयमिप्यते । इत्युक्त्वा अन घटिका दण्डद्वयरूपेति गौडाः । (१) अथ नक्तवतारम्भप्रकारमाह व्रतपद्धतौ-अोमद्य भगवन्सूर्यभगवत्यो देवता अद्यादिवर्ष यावत् प्रतिकृष्णचतुर्दशीषु नक्तरभोजननिवृत्तव्रतमहङ्करिष्ये । फाल्गुनकृष्णचतुर्दश्यामेतत्वतारम्भः । एवं द्वित्रिवर्षादि व्याप्य करणे सङ्कल्प ऊहेन करणीयः। सन्ध्यामतीत्य भोजनमाह मार्कण्डेयः- चत्वारि यानि कर्माणि सन्ध्यायां परिवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ।। इति । अत्र सन्ध्या प्राक् प्रातरेव हि । तिष्टेदासूर्यदर्शनात् ।।' इति किञ्चिदाल- क्ष्य तारकाकालात् सूर्यदर्शनविधिः सन्ध्याकाल इति अस्तमयादूर्व सन्ध्या, - (१) अथ त्रयोदशीव्रतनिर्णयः। पक्षधरोयतिथिचन्द्रिका लिखितो विलिख्यते- कृष्णपक्षे या त्रयोदशी सा परोपोप्या- पष्ठयष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी । एताः परयुताः कार्याः पराः पूर्वेण संयुताः॥ इति निगमवाक्यात् परिशेषाच्छुक्ला द्वादश्युपेता मान्या, अत्र यधुभयदिने प्रदोषव्यापिनी त्रयोदशी भवत्तदा कृष्ण चतुर्दशीविद्वाऽर्थात्परदिने, 'शुक्छे तु द्वादशीविद्धा'ऽर्थात्पूर्वदिने त्रयोद- शीप्रदोषव्रतमाचरणीयम् । अत्र प्रदोषमानमाह व्यास:- त्रिमुहूर्तः प्रदोषः स्याद्भानावस्तगते सति । नक्तं तत्र प्रकर्तव्यमिति शास्त्रविनिश्चयः । तत्र मुहूर्तमानन्तु रात्रिमानस्य पञ्चदशांशपरिमितं विशेयम् । यदि च पूर्वदिने प्रदोषानन्तरं त्रयोदशी, परदिनेऽस्तमयात्प्रागेव वा ऽस्तमयावधि मवेत्तदा नक्तव्रतस्य दिवाऽनशनपूर्वकरात्रि- भोजनरूपस्य पूर्वदिने घटितत्वाच परदिने तब्रतम् ।
-- फाल्गुनमासकृत्यम्। सा च नक्षत्रदर्शनविधेः पूर्वमिति सन्व्यायाश्चात्यल्पत्वात् घटिकात्रयात्मकः सन्ध्याकालस्तडिद्गजितादिनिमित्तयोविविप्रतिषेधयोः स एव गृह्यते इति सन्ध्याद्वयप्रमाणमुक्तवन्तस्तिथिचन्द्रिकायां भक्षधरमिश्राः ॥ अथ अशक्त्यादिना स्वयं व्रताधकरणे (१) प्रतिनिधिद्वाराऽपि कारयित- व्यमाह पराशर:- उपवासं व्रतं होम तीर्थयात्राजपादिकम् । विप्रैः सम्पादितं यस्य सम्पन्न तस्य तत्फलम् ।। स्कन्दपुराणे-असामर्थ्य शरीरस्य व्रते च समुपस्थिते कारयेद्धर्मपत्नी वा पुत्रं वा विनयान्वितम् ॥ भ्रातरं भगिनी शिष्यं ब्राह्मणं दक्षिणादिभिः ।। कात्यायनः-पितृमातृपतिभ्रातूगुर्वर्थे च विशेषतः । उपवासं प्रकुर्वाणः पुण्यं शतगुणं लभेत् । भार्या भतुव्रतं कुर्याद्भार्यायाश्च पतिस्तथा । असामर्थ्य तयोरेवं व्रतभङ्गो न जायते ।। राज्ञश्च क्षत्रियस्यार्थे एकादश्यामुपोषितः । पुरोधाः क्षत्रिणा सार्द्ध फलमाप्नोति निश्चितम् ।। उपवासपलं ताभ्यां सममेवमवाप्यते । अथ स्त्रीणां तु स्वाम्याज्ञां विना व्रतादि न कार्यम् । तथाहि- नारी या त्वननुज्ञाता पित्रा भर्ना सुतेन वा। निष्फलन्तु भवेत्तस्या यत्करोति व्रतादिकम् ।। (१) उपवासासमर्थस्योपायः पुराणान्तरे- उपवासासमर्थश्चेदेकं प्रिं तु भोजयेत् । तावद्धनादि दा दद्याद् भुक्तस्य दिगुणं तथा ॥ सहस्रसंमितां देवीं ( गायत्रीं ) जपेद्वा प्राणसंयमान् । कुर्याद् द्वादशसंख्याकान्यथाशक्त्याऽऽतुरो नरः ।। मात्स्ये-उपवासेप्वशक्तानां नक्तं भोजनमिष्यते । वायवीये-द्रव्यदातोपदासस्य फलं प्राप्नोत्यसंशयम् ।। देवल:-ब्रह्मचर्य तथा शौचं सत्यमामिषवर्जनम् । व्रतेप्येतानि चत्वारि वरिठानीति निश्चयः ॥ नन्दिपुराणे-व्रतस्योद्यापनावश्यकत्वम्- कुर्यादुद्यापनं तस्य समाप्तौ यदुदीरितम् । उद्यापनं विना यत्तु तत्त्रतं निप्फलं भवेत् ।। यदि वोधापनं नोक्तं व्रतानुगुणतश्चरेत् । वित्तानुसारतो दधादनुक्तोधापने कृते ॥ गाश्चैव काञ्चनं दद्याव्रतस्य परिपूर्तये ॥ अपराऽपि- यो गृहीत्वा व्रतं मोहादेकादश्यादिकं नरः । न समापयेत् तस्य गतिः पापीयसी मवेत् ॥ अथ गृहीतबतभङ्गे प्रायश्चित्तमुक्तं वायुपुराणे- लोमान्मोहात्प्रमादादा व्रतभङ्गो यदा भवेत् । उपवासत्रयं कुर्यात्कुर्यादा केशमुण्डनम् । प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ।। प्रा० म० । - कृत्यसारसमुच्चय- सङ्कल्पितत्रतमाशौचेऽपि कर्तव्यम् । तथा च विष्णुः "न तिनां व्रते" इति ब्रतीनामारब्धव्रतानां न व्रते इत्याशौचमित्यशौचप्रतिरोधक इति शेपः । विष्णु:-- व्रतयज्ञविवाहेपु श्राद्धे होमार्चने जपे । आरब्धे सूतकन्न स्यादनारव्धे तु सूतकम् ।। अरन्म उक्तो हारीतेन- आरम्भो वरणं यज्ञे सङ्कल्पे प्रतजापयोः । नान्दीश्राद्ध विवाहादौ श्राद्धे पाकपरिक्रिया ।। इति । श्राद्धे दर्शश्राद्धविषयमिति स्मार्ताः । सङ्कल्पमाह हारीतः-- "मनसा सङ्कल्प्येति वाचा अभिलपति कर्मणा चोपपादयतीति । भविष्ये-सङ्कल्पेन विना राजन् ! यत् किञ्चित् कुरुते नरः । फलं चाल्पाल्पकं तस्य धर्मस्यार्धक्षयो भवेत् ॥ इति । भविष्ये-शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा । सङ्कल्पो न च कर्तव्यो मृन्मयेन कदाचन ॥ गृहीत्वोदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः । दर्भत्रयं साग्रमूलं फलं पुष्पं तिलान्वितम् ।। इति । अथ व्रते प्रारब्वे स्त्रिया रजोयोगे (१) अन्यद्वारा पूजां कारयेत् , तथा मात्स्ये 'यदात्वशुद्धा तदान्येन कारयेत् ।' इति । १) अथ रजोवत्यधिकारः । तत्राघरजोदर्शनतः प्राक् स्त्रीसंगोन विधेयस्तदुक्तं भविष्ये- रजोदर्शनतः पूर्वं न स्त्रीसंसर्गमाचरेत् । संसर्ग यदि कुबींव नरकं परिपच्यते॥ अथ रजोधर्म शुद्धिसमय उको भारद्वाजेन- प्रथमेऽहनि चाण्डाली द्वितीय ब्रह्मघातिनी। तृतीय रजकी प्रोका चतुर्येऽहनि शुद्धयति ।। मतुः स्पृश्या चतुर्थेऽहि स्नानेन स्त्री रजस्वला । पञ्चमेऽहनि योग्या स्याइवे पित्र्येचकर्मणि॥ भथ प्रथमरजोदर्शनेऽनिष्टफलदा मासादयः-चैत्रज्येष्ठाषाढभाद्राश्विनपौषमासाः। कृष्ण- पक्षः। रविकुजशनिवासराः । रात्रिः मेषवृषकर्कमकरकुम्भलग्नानि, तथा धनुषः पूर्वभागः। भरणीकृत्तिकाऽऽ ऽश्लेषामघापूर्वफल्गुनीज्येष्ठापूर्वाषाढपूर्वभाद्र नक्षत्राणि । जीर्णरक्तनीलमलिन- वस्त्राणि, संमार्जनीकाष्ठतृणाग्निशूर्पस्पर्शावसरः । विष्टिः, निद्रा, संक्रमणम् । दर्शः। चतुर्थी- नवमीचतुर्दशीषष्ठीद्वादश्यष्टमीवि तिथयः । रविचन्द्रग्रहणम् । व्यतीपातवैधृतिकरणे। सायम् । बहिमपरप्रामपरगृहाणि । एतेषु प्रथमरजोदर्शने जाते अशुभफलमुक्तं मुनिभिस्तत्र तेषां पृथक फलानि पीयूषधारायां शान्तिमयूखादौ द्रष्टव्यानि । अथात्र शान्तिरुक्ता वशिष्ठेन- तदोषं यदि दृश्यते तत्पुप्पं क्तः शान्तिककर्म का म् । विवर्जयेदेव तदेकशय्यां यावद्रजोदर्शनमन्यघस्र॥ ईशानतो गोमयमण्डलेन परिसनेऽग्नौ जुहुयात्सर्वाम् । युग्मां घृताक्तां च समित्प्रमाणां गायत्रिकां साटसहस्रसंख्याम् ।। शतप्रमाणामथवाऽपहन्त्री शुभैर्यवाहृतभिस्तिलश्च ॥ ततः सुरान् भूमिसुरान् पित श्च सन्तर्पयेदनसुवर्णवस्त्रैः। भूमिसुरान् ब्राह्मणान्। - - ५५ फाल्गुनमासकृत्यम् अथ गोविन्दद्वादशीयोगमाह (१)- फाल्गुनश्य सिते पक्षे कुम्भस्थे दिवसाधिपे। जीव धनुषि संस्थे च शोभने रविवासरे।। पुष्यर्वेण च संयुक्ता गोविन्दद्वादशी मता। , अथरजस्वलावर्जितकर्माह लिङ्गपुराणे- स्नानं शौचं तथा गानं रोदनं हसनं तथा । याननन्यानं नारी चूतं चैवानुलेपनन् ।। दिवास्वापं विशेषण तथा वै दन्तपावनन् । मैथुनं मानस वाऽपि चिकं देवताऽर्चनन् । वर्जयेत्सर्वयत्नेन नमत्कारं रजत्वला । चेदविवाहितैव रजोयुक्ता भवेत्तदा पित्रादीनां दोपमाहापरार्के संवतः- माता चैव पिता चैव ज्येष्ठो जाता तथैव च ! त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलान् ।। हारीत:-पितृगेहे च या कन्या रजः पश्यत्यसंस्कृता। सा कन्या वृपली शेवा तत्पतिवृषलीपतिः ॥ एवं देवलात्रिकश्यपा अप्याहुः । अत एव शान्ति कृत्वा तादृशी कन्यामुदहेद , तथाहि आश्वलायन:- कन्यायां ऋतुमती शुद्धां कृत्वा निष्कृतिमात्मनः। शुद्धिं च कारयित्वा तामुवहेदनृशंस्यधीः ।। पिता ऋतून स्वपुत्र्यास्तु गणयेदादितः सुधीः। दानावधि गृहे यत्नात्पालयेच्च रजोवतीम् ॥ दद्यात्ततुसंख्या गाः शक्तः कन्यापिता यदि । दातव्यकाऽपि निम्त्वेन दाने तस्या यथाविधि ।। दद्यादा ब्राह्मणेष्वभ्रमतिनिस्वः सदक्षि एम् । अत एव साधारणतया प्रचलितव्यवहारेण वराय नियतं गोरकं वा गोयुगलं कन्यापित्रा दीयते । तथा च चतुर्थीदिने भोव्यमपि क्रियते । इति मैथिलानां व्यवहारः। यदि विवाहसमये एव देवारकन्या ऋतुमती भवेत्तदोपायो मदनपारिजाते- विवाहे वितते यशे होमकाले घुपस्थिते । कन्यामृतमती दृष्ट्वा कथं कुर्वन्ति याशिकाः १ ॥ स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युनानामाहुति हुत्वा ततस्तन्त्र प्रवर्तयेत् ।। भातुरे शुद्धिमाह पराश:-(शुद्धिमयूखे)- आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्धयेत्स आतुरः ।। उशना:- ज्वराभिभूता या नारी रजसा चप रिप्लुता । कथं तस्या भवेच्छौचं शुद्धिः स्याच्छौचकर्मणि । चतुर्थेऽहनि सम्प्राप्त स्पृशेदन्या तु तां स्त्रियम्।सा सचैलावगाडापः स्नात्वा स्नात्वा पुनः स्पृशेत् ।। दश द्वादश कृत्वो वा आचामेच्च पुनः पुनः । अन्ते च वाससा त्यागस्ततः शुद्धा भवेत्तु सा ॥ रजस्वलाया मरणे विशेषः स्मृत्यन्तरे- पञ्चभिः स्नापयित्वा तु गव्यैः प्रेता रजस्वलाम् । वरूान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥ इति । यदि एकोदिष्ट उपस्थिते स्त्री रजोवती, तदामान्नेन तत्कर्त्तव्यमिति स्मृतिभावः स्वीकृतपा- कपः एव । तत्रापि स्वयंकृतपान पितृकार्यकरणे न कोऽपि दोषो लक्ष्यते। १) ग्रन्थान्तरोक्तं च तवक्षणम् । (ति० त० चिन्तामणौ) कार्मुकीये यदा जीवे कुम्भस्थे च दिवाकरे । फाल्गुनस्य सिते पक्षे द्वादश्यां रविवासरे ॥ पुष्पशोमनसंयुक्ता गोविन्दद्वादशी स्मृता। तस्यां स्नानं च दानं च महापातकनाशनम् ॥ अत्र तावत् “कुम्भस्थे दिवसाधिपे” इत्यनेन प्रतिवर्षे सम्भवः। "जीवे धनुषि संस्थेच, इत्यनेन द्वादशवर्षे तत्संभवः । परन्तु तत्रापि रविवारपुष्यनक्षत्रशोमनयोगानां संयोगः प्रायि- कोऽत एव चिरकालसम्भवोऽयं योगः। - , ५६ कृत्यसारसमुच्चये- दिवसाधिपे सूर्य, जीने वृहस्पती, पुच्यते पुष्यनक्षत्रे । अस्यां कर्तव्य- माह-- गोविन्दवादशीं प्राप्य गच्छेच्छीपुरुषोत्तमम् | विष्णुलोकमवाप्नोति मोक्षङ्गङ्गाम्बुमजनात् ॥ पुरुषोत्तमं जगन्नाथक्षेत्रम् । पूर्ववचनस्थलमुच्चार्य सङ्कल्प्य पठेत् । महापातकसङ्घानि यानि पापानि सन्ति मे । गोविन्दद्वादशीं प्राप्य तानि से हर जाह्रवि ! ॥ इति (पद्मपुराणोक्तं ) पठित्वा गङ्गायां स्नायात् । अथ होलिका । सायाहव्यापिन्यां चतुर्दशीविद्धायां पूर्णिमायां भद्राशू- न्यायां होलिकादाहः । तथाहि-- सायाहे होलिकां कुर्यात् पूर्वाह्न क्रीडनङ्गवाम् । इति । श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी ॥ पूर्वविधैव कर्तव्या परविद्धा न कुत्रचित् । भद्रायां दीपिता होली राष्ट्रभङ्गकरोति वै॥ इति । भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा॥ इति । यदि च पूर्वदिने सायाह्न भद्रादून्या सा न लभ्यते तदा परदिने । तथाहि ब्रह्मवैवर्ते- होलिका पौर्णमासी तु सायाह्नव्यापिनी मता। भूतविद्धे न कर्तव्ये दर्शपूर्णे कदाचन ।। इति । यत्तु-प्रतिपद्यग्निकरणं द्वितीयायां गवार्चनम् क्षत्रच्छेदकरिष्येते वित्तनाशं कुलक्षयम् ।। इत्यादिवचनमुत्तरदिने होलिकानिषेधक, तच्च पूर्वदिने सायाह्न भद्रा- शून्यपूर्णिमालाभे वेदितव्यम् । अत्र तिथितत्वचिन्तामणौ तु दिनद्वये प्रदोष- व्याप्तौ परैवेति । यदि च पूर्वदिने चतुर्दशी प्रदोषव्यापिनी, परदिने पूर्णिमा सायाह्नात् प्रागेव समाप्यते, तदा पूर्वदिने संपूर्णरात्रौ भद्रासत्वात्तनिषेधा- परेऽहनि प्रतिपद्येव कुर्यादिति ठक्कुराः । (१) -- (१)तथोकंभविष्ये- पूर्णापूर्वदलं यावत्तावनीवति वत्सरः । मृते परदले नक्तं दाहस्तस्य विधीयते ॥ भद्राया दीपिता होली राज्यभङ्ग करोति च । नगरस्य च नैवेष्टा तस्मात्ता परिवर्जयेत् ॥ एवं स्मृस्यन्तरेऽपि- दिनार्धात्परतोऽपि स्यात्फाल्गुनी पूर्णिमा यदि । रात्रौ भद्राऽवसाने तु होलिका दीप्यते तदा ॥ त्यादिवचन द्रायुक्तपूर्णिमायां होलिकादहनमनिष्टफलननकम् । एवं पूर्णिमोत्तरसमये प्रतिपद्यपि तविषेध उक्तस्तिथिचन्द्रिकायाम्- नन्दायां होलिकापूजा भदायां गोऽर्चनादिकम् । न कदापि हि कर्त्तव्यं मनुराह प्रजापतिः ।। तथाच-प्रतिपत्पलमेकं चेद्धोलिदादो विधीयते। हाहाभूतं जगत्सर्व रुण्डमुण्डं च जायते ॥
ग्रहणादिविचारः! श्रम होलिकादाहे वायुफलमाह- पूर्वे वारी होलिकायां प्रजाभूपालयोः सुखम् । पलायनं च दुर्भिक्ष दक्षिणे जायते ध्रुवम् ।। पश्चिमे तृणसम्पत्तिरुत्तरे धान्यसम्भवः । यदीशानेऽप्यनावृष्टिस्य राजा समाश्रयेन् ।। इति द्वादशमासकृत्यम् - अथ ग्रहणादिविचारः। तच्च यज्जन्मगश्यादौ ग्रहणं तस्य ग्रहणदशने दोषमाह-- धीधर्मनैधनमव्ययशर्मकर्मजन्मोपगं रविशशिग्रहणं नराणाम् पुत्रायुरर्थपरिनाशकमीक्षितं स्याद्रोगं वपुःक्षयमनाक्लममातनोति ॥ तथा च पञ्चनरमाष्टमसतमहादशचतुर्थदशमजन्मराशा ग्रहणे तद्- ग्रहणदर्शने रोगादिकं भवतीत्यतो नावलोकनीयमिति भावः ॥ (१) तथा चोक्तं विद्याविनोदे- नन्दायां नरकं घोरं भद्रायां देशनाशनम् । दुर्भिक्षं च चतुर्दश्यां करोत्येव हुताशनः ।। तथाच नारदः- प्रतिपद्धृतमद्रासु याऽचिंता होलिका दिवा संवत्तरे च तद्राष्ट्रं पुरं दहति साऽदभुतम् ।। एमिर्वचनैः पूर्णिमोत्तरप्रतिपदि होलिकादहनं निषिद्धयते । परं यदि पूर्वदिने भद्राशून्य- पूर्णिमावकाशो न भवेत्परदिनेऽस्तमयात्पूर्वमेव पूर्णिमाविरामस्तदोभयत्र दोषदर्शनाद्विशेषविचा- रावसरः । तत्र मैथिलस्मार्तकाराणां मतेन परदिने प्रदोषे प्रतिपयव होलिकादहनम् । तथा चोक्तं भविष्योत्तरे- सार्धयामत्रयं चेत्स्याद् द्वितीयदिक्ते यदि । प्रतिपर्धमाना तु तदा सा होलिका मता ॥ तथा च-असत्यामपि पूर्णायां वृद्धित्वे होलिकाऽर्चनम् । क्रियमाणं च नन्दायां शान्तिर्भवति नो क्षयः ।। तथाचो राजमार्तण्डे- मद्रस्य पुच्छं शुमहेतुल्ये बदन्ति केचिन्नतु युक्तमेतत् । शु-केन्धनौतहुताशनत्य सिमग्रभागेऽपि हि शातता स्यात् ? ॥ इत्यनेन मैथिलर्भद्रापुच्छे होलिकादहनं न क्रियते। परन्तु निर्णयसिन्धुकाराः परदिने रात्रौ पूर्णिमाया अलाभात्पूर्वदिने भद्रापुच्छे होलिकादहनमादिशन्ति । तत्र पूर्णिमातिथिमाने षष्टिदण्डात्मके साधकोनविंशतिदण्डादनन्तरं सार्धद्वाविंशतिदण्डावधिकं दण्डवयपरिमितं तत्पुच्छ- मानं वेद्यम् । षष्ट्यधिकाल्पमाने तु तत्र परिणाम्यमिति । तत्रामिमन्त्रमुच्चार्य दीपयेद्धोलिका शुभाम् । भगलिङ्गाङ्कितै क्या क्रीडितव्यं पिशाचवत् ।। तत्र दीपमन्त्रस्तु-दीपयाम्यत्र ते घोरां चिति राक्षसि ! ते नमः । हिताय सर्वजगतां प्रीतये पार्वतीपतेः ॥ वन्दिताऽसि सुरेन्द्रण ब्रह्माच्युतशिवादिभिः । अतस्त्वं पाहि नो भीत्या भूषिता भूतिदा भव ॥ (१)तथाचोक्तं ज्यौतिषे- जन्मा निधनं ग्रहे जनिभतो घातः क्षतिः श्रीयंथा कृ० सा० -- - कृत्यसारसमुच्चये- अथ ग्रहणे श्राद्धमावश्यकम् । तथाहि शातातपः- सर्वत्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने । अकुर्वाणस्तु तच्छ्राद्धं पके गौरिव सीदति ॥ इति । अथ यावत्पर्यन्तं दर्शनयोग्य उपरागस्तावानेव पुण्यकालः । तथा हि जापालिः-"चन्द्रसूर्योपरागे तु यावद्दर्शनगोचरः।" उपरक्तदर्शनानन्तरं यावदर्शनयोग्य उपरागस्तावानेव पुण्यकालो न संक्रान्तिवदधिकोऽपि । द्वैतपरिशिष्टे अत्र शातातपवचने राहुदर्शने इति देवलवचने च 'दर्शनगोचर, इति दर्शनपदाभ्यां चाक्षुषज्ञानविषयस्यैव निमित्तता, चाक्षुपज्ञान एव दर्शनपदस्य शक्तत्वात् । तच्च ज्ञानं स्नानादि- कर्तुरेव लाघवात् । एवं च स्पृष्टेऽपि प्रासमपश्यतो नाधिकारः। नचैवं मज्जनकाल एव पुण्यकालो न स्यादिति वाच्यम् । गोचरपदस्य तद्योग्य- तालक्षकत्वात् । सा च योग्यता दर्शनबाधकमानाभावरूपा, सा च मेघ- गुल्मादिव्यवहितेऽप्यस्ति, मेघाद्यपगमे तदर्शस्यापि सम्भवात् । अन्यदृष्टे प्रासेऽन्यस्य स्नानाधिकार इति केचित् , तन्न, लाघवेन सामानाधिकरण्य- स्यैव प्रयोजकत्वात् । राहुदर्शनसंक्रान्तीत्यादि अन्यस्यातिप्रसक्तत्वाच्च इति- केशवमिश्राः।। (१)। अयात्र श्राद्ध फलमाह- स्लानं दानं तपः श्राद्धमनन्तं राहुदर्शने । राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।। गुणवत्सर्वकामीयं पितृणामुपतिष्ठते । मनुः-रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्त्तिता हि सा! सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ एतट्टीकायामचिरोदित इत्यत्र कालपेक्षायां त्रिमुहूर्तः प्रातःकालो ग्राह्यः । विष्णुपुराणे यथोक्तं- रेखाप्रभृत्यथादित्ये त्रिमुहूर्त गते खौ । प्रातस्तत्र स्मृतः कालो भागः सोऽन्तस्तु पञ्चमः ।। इतिकुल्लूकभट्टः । अथ राहुदर्शने तु रात्रादावपि श्राद्ध कर्तव्यमेव । तथाहि विष्णु:- सन्ध्यारात्र्योन कर्तव्यं श्राद्धं खलु विचक्षणैः । चिन्तालोख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशाः सुखम् । लाभोऽपाय इति क्रमाचदशुभध्वस्त्यै बपः स्वर्णगो- दानं शान्तिरथो ग्रहं खशुभदं नो वीक्ष्यमाहुः परे ॥ मु० चि०। (१) वराहसंहितायाम्- यकस्मिन् मासे ग्रहणं रविसोमणेस्तदा क्षितिपाः । स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपञ्च ॥ अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः। नैकऋतुफलमानो भवन्ति मुदिताः प्रजाश्चैव। सोमयई निवृत्ते पधान्ते यदि भवेदग्रहोऽकस्य । तत्रामयः प्रजानां दम्पत्योवमनस्यमन्योऽन्यम् ।।
५६ ग्रहणादिविचारः। तयोरपि च कर्तव्यं यदि त्याद्राहुदर्शनम् ।। देवलः-राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥ इति ! अत्र स्नानदानादीत्यादिपदं तर्पणाद्युपलक्षकम् । संवत्सरप्रदीपधृतस्मृतिश्च- सूतके मृतके चैव न दोपो राहुदर्शने ! स्नानमात्रं तु कर्तव्यं दानश्राद्धविवजितम् ।। इति । तथा चाशौचिना ग्रहणे स्नानमात्रं कर्तव्यं न तु दानादिकमिति भावः । अथ नाद्यात्सूर्यग्रहात्पूर्वमह्नि सायं शशिग्रहात् । ग्रहकाले च नाश्नीयात् (१) स्नात्वाऽश्नीयाच्च मुक्तयोः ।। - ( १ ) ग्रहणपूर्वभोजननिषेधमाह वृद्धगौतमः- सूर्यग्रहे तु नाश्नीयात्पूर्व यानचतुष्टयन् । चन्द्रग्रहे तु यामास्त्रीन् बालवृद्धातु विना ।। प्रस्तोदये विशेषमाह वृद्धवशिष्टः-ग्रस्तोदये विधोः पूर्व नाहभोजनमाचरेत् । बालवृद्धातुरविषये वाचस्पतिमिश्रतमार्कण्डेयपुराणवचनम्- सायाहृ ग्रहणं चेत्स्यादपराहे न भोजनम् । अपराहे न मध्याह्न, मध्याहे चन्न सङ्गवे। सङ्गवे ग्रहणं चेत्स्वान्न पूर्वी भोजनक्रियाम् ॥ अत्र व्यास:- सर्व मूमिसमं दानं सर्वे ब्रह्मसमा द्विजाः । सर्व गङ्गासमं तोयं ग्रहणे नात्र संशयः ॥ इन्द्रोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं स्मृतम् । गङ्गातीरे तु सम्प्राप्त इन्दोः कोटी रवेश ।। अत्र श्राद्धे विशेषफलमाह शातातप:- चन्द्रसूर्यग्रहे यस्तु श्राद्धं विधिवदाचरेत् । तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे । अत्र श्राइममानेणैव कर्तव्यमित्युक्तं प्रचेतसा- आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं द्विजैः कार्य शूद्रेण तु सदैव हि ॥ अत्र आमान्नं वितुषमानमेव धान्यम् । तदक्षालितमेव देयं यथोक्तं तेनैव- निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत्कचित् । वृद्धौ तु क्षालयेन्नित्यं संक्रमे ग्रहणेषु च ॥ अथ चन्द्रग्रहे मन्त्रग्रहणनिषेधो यथानिर्णयसिन्धौ- चन्द्रग्रहे तु या दीक्षा या दीक्षा तचारिणाम् । बनस्थस्य च या दीक्षा दारिद्रयं सप्तजन्मसु ।। पुराणान्तरे- पितुर्मन्त्रं न गृह्णीयात्तथा मातामहस्य च । सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ।। तथा च-पत्युमन्त्रं पितुर्मन्त्रं न गृह्णीयाद कदाचन । अनेन गुरुजनरहिताया अपि स्त्रियाः स्वामिनो मन्त्रग्रहणे दोषः । तत्र कलशे गुरुजन- प्राणान् संस्थाप्य सम्पूज्य वस्त्रादिभिस्ततः पात्र ग्राधमन्त्रं लेखयित्वा समर्पणम् । पश्चासतो ग्रहणमुक्तं तन्त्रान्तरे स्वपलब्धमन्त्रप्रकरणे- स्वप्नलब्धे तु कलशे गुरोः प्राणान् निवेशयेत् । सम्पूज्य विधिना तस्मान्मन्त्री ग्राह्यः स्मृतो वुधैः। अथ ग्रहणे संकल्पविचार:-"मध्यग्रहः पर्वविरामकाले" इति सिद्धान्तशिरोमणिवचनात् स्पर्शकालमारभ्य दर्शान्तं पूर्णिमान्तं वा पूर्वतिर्थरुल्लेखः। तदुत्तरं प्रतिपद उल्लेखः कार्यः । तिथ्युल्लेखं विना संकल्पस्याङ्गवैकल्यात्फलबाधकता विशेयेति । - - ६० कृत्यसारसमुच्चये- मुक्तयारिति चन्द्रसूर्ययोरिति शेषः । अत्रार्द्धरामानन्तरग्रहणे दिन- भोजने न दोपः । किन्तु श्राद्धादिकरणे भोजनजन्यमशौचं भवत्येवेति व्रत- पद्धतिः । तथा च श्राद्धकरणेच्छारता ताशचन्द्रग्रासे दिनेऽपि भोजनं न कर्तव्यमिति तात्पर्य्यम् । 'मुक्त शशिनि भुञ्जीत" इति वचनाद् ग्रहणमुक्त्य- नन्तरं भोक्तव्यम् । तत्रापि यचुपाधिवशान्मुक्तिर्न दृश्यते तदा मुक्तिकाल- मनुमीय भोक्तव्यम् । तथाहि- मेघमालादिदोयेन मुक्तियत्र न दृश्यते । आकलय्य तु तत्कालं भुञ्जीताथादिशङ्कतः ।। स्मृतिः-सूर्यवारे रविग्रासश्चन्द्रवारे शशिप्रहः । चूडामणिरिति.ख्यातस्तत्रानन्तफलं स्मृतम् ।। इन्दोलतगुणं प्रोक्तं रवेर्दशगुणं स्मृतम् । गङ्गातीरे तु सम्प्राप्ते इन्दोः कोटी रवेर्दश ।। अथ ग्रहणादौ फलमाह, व्यवहाररत्नावल्यान्- कृत्तिका भरणी पुष्यं पूर्वभाद्रस्तथा मघा । विशाखा फाल्गुनी पूर्वा श्राग्नेयं मण्डलं विदुः।। अस्मिनक्षत्रयोगे यदि चलति मही चन्द्रसूर्यग्रहो वा निर्घातोल्काऽशनीनां कथमपि पतने दर्शने चापि केतोः । दह्यन्ते काननानि प्रबलपुरगृहास्तीव्रतेजाः पतङ्गो- रोगैः पित्तज्वराद्यैर्निखिलतनुगतैः पीड्यते जीवलोकः ।। स्वाती हस्ताश्विनी चित्रा मृगशीर्षम्पुनर्वसु । उत्तरा फाल्गुनी चैव वायव्यं मण्डलं विदुः ।। प्राकाराट्टालचैत्याः पृथुगृहतरवो गोपुरा भूधराश्च आमूलं शीर्यमाणाः पवनजववशाधान्ति भूभागमाशु । नारीगोगर्भपातास्तदनु च नियवं मन्दसस्या धरित्री दुर्भिक्षं चातिकष्टं भवति च महती व्याधिपीडा जनानाम् ।। चैत्यो ग्रामोपलक्षकवृक्षः, पृथुः स्थूलः । गोपुरन्तु बहिरमितिकोशः । जवो वेगः। ज्येष्ठाऽनुराधारोहिण्यः श्रवणाऽभिजितं तथा । उत्तरा च धनिष्ठा च माहेन्द्र मण्डलं विदुः ॥ लोको नित्यप्रमोदी विनययुतमना नष्टरोगावकाशो- दाने भोगेऽनुरक्तः सकलगुणयुतः सर्वदुःखैविमुक्तः । कीर्ति विस्तीर्य रम्यां त्रिभुवनफलके वर्द्धयन् धर्मवृद्धं कोषैः पूर्णों नरेन्द्रो जनपदसहितो वर्धते श्रीसमेतः । शतभिषा चोत्तराभाद्रः पूर्वाषाढश्व रेवती ।
मलमासविचारः। ६१ आर्द्रा मूलं तथाऽश्लेषा वारुणं मण्डलंविदुः ।। गर्जन्ते(१)वारिवाहा जलभरनमिताः क्षीरगर्भाश्च गावः सस्यैः पूर्णा धरित्री ज्वरभयरहिता जन्तवः सर्वदेव ।। अथ मलमासविचारः मलमासस्तु(२) शुक्ल प्रतिपदादिः । तथाहि- इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः । अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ ।। अस्यार्थः-इन्द्राग्नियागः शुक्ल प्रतिपदादिः स मासादिः । अग्नीषोम- योर्यागः पूर्णिमायाम् , सा मध्यं पितृसोमयोर्यागः अमावास्यायां स मासान्त इति । ज्यौतिपे- गतेऽन्दद्वितये सार्द्ध पञ्चपने दिनत्रये । दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥ तथा च द्वात्रिंशन्मासमष्टादशदिनं चातीत्य मलमासो भवतीति पर्यवसि- तम् । “चैत्रादयः सप्त सदाऽधिमासाः" इति वचनाच्चैत्रादिसप्तमासेष्वेव मलमास इति केचित्, इदमुपलक्षणम्, कार्तिकादिमासस्यापि मलमासत्व- स्योक्तत्वात् । तथाहि ज्योतिषे-- दशानां फाल्गुनादीनां प्रायो माघस्य च क्वचित् । नपुंसकत्वं भवति न तु पौपस्य तु क्वचित् ।। (१) श्लोकोऽयमत्रापूर्णोऽस्ति,किञ्चिदन्यादृशोऽयमेवाद्भुतसागरादुद्धत्य पूर्णो विलिख्यते- गर्जन्ते वारिवाहा जलभरनमिताः पूर्यमाणाः क्षणेन क्रीडन्ते मीनहसाः पयसि जनपदा हर्षिणः काममाः। वृक्षाः पुप्पैः समेताः फलभरनमिताः क्षीरवत्यश्च गावः सस्यैः पूर्णा धरित्री सुखभरनमिता जन्तवः सर्वदैव । (२) अधिको मासोऽधिमासोऽर्थात् मौरमाससंख्याभ्यो यावन्तोऽधिकाश्चान्द्रमामालावन्ती अधिमासाः प्रोच्यन्ते । तल्लक्षणमाह गायः- अमावास्यादयं यत्र रविसंक्रान्तिवजितम् । मलमासः स विशेयो मासः शुद्धाख्य उत्तरः।। एवमाह भृगुः-एकराशिस्थिते सूर्ये यदा दशद्वयं भवेत् । हव्यकव्यक्रियाहन्ता तदा शेयोऽधिमासकः ।। कस्मादधिमासात् कश्च मासोऽधिमास इत्युक्तं ज्यौतिषे- चैत्रात्परं भाद्रपदोऽधिमासस्ततः शुचिस्तत्परतस्तु माधवः । इषस्ततः श्रावणसंशकस्ततो ज्येष्ठो भवेत्तत्परतस्तु चैत्रः॥ एष नियमो मध्यममानेन संभावनार्थमेव न तु निश्चयार्थम् । तथेष्टशकादधिमासज्ञानाय गणितकरणार्थ कस्यचित्पद्यम्- शाके खरामतिथ्यूने गोभूमिस्तष्टते क्रमात । मेषात् षट्शक्रवनखाएशेषेऽधिको भवेत् ।। अधिमासे चौरं न कार्यमित्युक्त राजमार्तण्डे- अधिमासे च यत क्षौरं जन्ममासे चजन्मभे ।न भवेत्तत्र कल्याणं शुभकृनहि संस्कृतम् ।।
कृत्यसारसमुच्चये- नपुंसकत्वं मलमासत्वम् । कदाचित् कातिकादिमासत्रये संक्रान्तिद्वययुक्तः शुक्लादिचान्द्रः क्षयाख्यो भवति । तत्क्ष्याख्यात् पूर्व परतश्च मलमासप्रसक्तिर्भवति तथाहि ज्योतिषे- असंक्रांतिमासोऽधिमासः सुटः त्याद् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादिनये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं स्यात् ॥ इति । क्षयाख्यः क्षयनासकः, न तु वस्तुगत्या लुप्तमासः। अत एव मासयोः सङ्कर एव चयो--, न तु कस्यापि लोप इति मासमीमांसायां गोकुल- नाथोपाध्यायाः। तथा च यत्र कात्तिके तयाख्यः (१) तत्र कार्तिककृष्ण- (१) बदानान्तःयान्तः संक्रान्दियं भवेत् तदा शुक्लादिकः क्षयाख्यश्चान्द्रमासः सुटनानेन भवति । स्थात्रोक्तं भास्कराचार्यः "दिवसंक्रान्तिमासः क्षयाख्यः कदाचित्" । एवमेवोतं स्मृतौ- 'आद्यन्तदर्शयोर्मध्ये भानोरेव तयोर्यदि । संक्रान्तिद्वितयं स्याच्चेन्न्यूनमासः स उच्यते ॥' यथा मार्गशीर्पामावास्यामुल्लङय धनुःसंक्रान्तिस्ततोऽग्रिमान्तात्यागेव मकरसंक्रान्तिरभू- तत्र 'मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्रायः स शेयः । इति शुक्लादिचान्द्र- मासलक्षणेन मार्गशीर्षामावास्याऽवसाने वृश्चिकाकत्वान्मार्गमासपूतिर्जाता। तथाऽग्रिमाऽमावा- त्यान्ते मकराचान्मावमासपूर्तिजाता। तत्र धनराशिस्थितेऽर्केऽमान्तपतनाभावात्पृथक् पौषमास- स्यानवकाशात्पूर्तिमासगणनया मार्गानन्तरं माघस्य प्राप्त्या पौषस्य क्षयः। वस्तुतस्तु तत्र माघे एव पौपस्यापि प्रविष्टचादेकस्मिन्नेव तस्मिन् क्षयाख्ये मासे तिथिपूर्वार्धपरार्धविभागवशेन पूर्वा- परौ मासी भवतस्तथाचोक्तं मुहूर्तचिन्तामणौ-"क्षयमासकस्तु। द्विसंक्रमंस्तत्र विभागयोः स्तस्तिथेहि मासौ प्रथमान्त्यसंज्ञौ” ॥ तथाच तट्टीकायां (पीयूषधारायाम्)- "तिथ्यधै प्रथमे पूर्वोऽपरस्मिन्नपरसथा। मासाविति वुधैश्चिन्त्यौ क्षयमासस्य मध्यगौ ॥" तत्र क्षयमासे कस्पा अपि तिथेः सन्पूर्णमानं प्रसाध्य, तत्पूर्वार्ध पूर्वमासस्य तत्परार्धमग्रि- मनासस्य तिथिर्भवति । तत्र पूर्ववपीयपौषमासीयकृष्णाष्टम्यां मृतस्य क्षयपोषमासीयकृष्णाष्टम्याः पूर्वभागे वार्षिकम् । तथा पूर्ववर्षीयमाघकृष्णाष्टम्यां मृतस्य क्षयपौषकृष्णाष्टम्याः परमागे (माघांश) वार्षिकम् । एवं क्षयमासीयायाः कस्याश्चित्तिथैः पूर्वमागे मृतस्याग्रिमवर्षे पूर्वमासे, परभागे मृत- स्याग्रिमवर्षे परमासे वार्षिकं भवति । यदि कस्या अपि तिथेः पूर्वार्थ दिनव्यापि न परार्धम् , वदा परनासीयतत्तिथ्यं शत्य रात्रिगतत्वाद्रात्री तु श्राद्धनिषेधाच्छाद्धलोपापत्तिसंभवात्पूर्वमासीयत- तिथिभागे दिवेव कर्तव्यम् । तत्र संकल्पवाक्यमेवं प्रयोज्यम्- "ॐ अद्यामुके मामि अमुके पक्षेऽमुकतिधावमुकगोत्रस्य पितुरमुकशर्मणोऽमुकमासीयामुकप- क्षीयामुकतिथिप्राप्तवार्षिकश्राद्धमहं करिष्य इति । अतः पूर्ववर्षे एकमासान्तरितयोगिपौषशु- क्लाष्टम्योप॑तयोः क्षयमाने एकस्मिन् दिने वार्षिकम् । तत्र पूर्वमासमृतस्य पूर्व पश्चान्मासमृतस्य पश्चादितिक्रमोऽर्थसिद्ध एव । यदि मध्याह्न तिय्यारम्भः परदिने मध्याहासन्नसमये तत्तिथ्यन्त- स्तदा पूर्वदिने पूर्वमासमृतस्य वार्षिकम् । एवं क्षयमासे तिथिपूर्वार्धपरार्धमागयोम॒तयोरग्रिमवर्षे एकमासान्तरितयोः पूर्वपरमासीयत- क्षयतिव्योर्षिकम् । तथा च क्षयमासस्य मलमासबच्छुक्लादिकत्वात्तत्पूर्वापरपक्षमृतयोरग्रिम- वर्षे व्युत्क्रमेणार्थात्पूर्वपक्षमृतस्य पश्चात् परपक्षमृतस्य पूर्वमेवाब्दिकम् । अथ मलमासवदचिरसमयसम्भवो नाम क्षयमासः । बहुमिवरस्य संभवो भवतीत्युक्तं 'क्षयाख्यः कदाचित् 'तादृशोऽपि काप्तिकादित्रयमासे एव । कात्तिक आदिर्यस्य स मार्गशीर्ष- - ६ - मलमासविचारः। मार्गशुक्लपक्षयो रविकृतत्वमेव, कार्तिक शुक्लमार्गकृष्णपक्षयोः क्षयकार्तिक- शुक्लक्षयमार्गकृष्णंत्वेनाभिधानमात्रं न तु शुक्लादिकार्तिकलोपः । एवं मार्गा- दावपि ज्ञेयमिति भावः । न च मासालोपे मलमासद्वयप्रसक्तौ च सत्यां संवत्सरस्य चतुर्दशमासात्मकत्वापत्तिरिष्टापत्तो, "द्वादशमासाः संवत्सर स्त्रयोदशमासाः संवत्सर" इति श्रुतेः। 'त्रयोदशस्तु श्रुतिराह मासश्चतुर्दशः कापि न चास्ति दृष्टः' इति भीमपराक्रमघृतस्मृतेश्च विरोध प्रापयेत इति वाच्यम् । मलमासद्वयप्रसक्तिसत्वेऽपि- एकस्मिन्नप्यढ़े यत्रैतल्लक्ष्म मासयोरुभयोः । तत्रोत्तरोऽधिमासः स्फुटगत्या भवति चार्केन्द्रोः ।। एकत्र मासद्वितयं यदि स्याद्वर्षेऽधिकन्तत्र परोऽधिमासः। मासद्वयस्य मध्ये तु संक्रान्तिन्न यदा भवेत् । प्रकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः ॥ इत्यादि भीमपराक्रमहेमाद्रिकृत्यमहार्णवद्वैतपरिशिष्टदैवज्ञबान्धवादिग्रन्थ- धृतार्षविशेषवचनेभ्यः क्षयाख्यमासोत्तरयथोक्तलक्षणवतो मासस्यैव मलमासत्वे क्षयाख्यपूर्वमासस्य च प्रकृतत्वे सिद्ध क्षयाख्यपूर्वमासस्य मलमासत्वप्रति- षेधात् । एतल्लक्ष्म असंक्रान्तत्वरूपमलमासचिह्नमुत्तरः क्षयाख्योत्तरः । एकत्रेति वर्ष इत्यन्वयि मासद्वितयमिति, अधिकमित्यन्वयः । तथा च क्षया- ख्यपूर्वस्य न मलमासता, किन्तु क्षयाख्योत्तरमासस्यैवेति भावः । मैथिल- व्यवहारोऽप्येवमेवेति । अत्र यदाऽनेकमासानां यथोक्तमलमासलक्षणं तदा पूर्वमासानां मलमासता तावन्नास्ति किन्तु चरमस्यैव यथोक्तलक्षणवत इति । क्षयमासः कार्ह एव अपवादकाभावात् , इति च कृत्यमहार्णवे वाचस्पति- मिश्राः प्राहुरिति न किश्चिदनुपपन्नम् । अथ मलमासे कर्तव्याऽकर्तव्ये । तत्र बृहस्पतिः- नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे । मासस्तदादित्रये मार्गपोषमाघेषु । न तु कात्तिकमार्गपोषेतु । मिथुनाष्टादशांशे रव्युञ्चत्याधुनातन- स्थित्या धनुरष्टादशांशे तन्नीचावस्थानान्नीचासन्ने गत्यधिकसंभवाद्गत्यधिकत्वेन स्वल्पकालेन राशिमोगकरणात्स्पष्टचान्द्रमासान्तःपातीयमावनदिनेभ्यः स्पष्टसौरमासान्तःपाविसावनदिनाना- मल्पत्वात्क्षयमाससंभवः । तत्र धनुपः पूर्वापरयोवृश्चिकमकरयोरेव विशेषसंभवात्तलाया- स्तदपेक्षया दूरगत्वादूरगतत्वेऽपि तुलावत्कुम्भस्याप्यन्तरितत्वात्कात्तिकचतुष्टये, एवन्तदोचितः पाठ स भवेन्न कार्तिकादित्रये । अयं मासनियमस्तु रव्युचं द्वन्द्वाष्टादशांशे स्थिरं मत्वाss. चार्यैरुक्तस्तद्गतेश्चिरकालेनाप्यनुलम्मात् । वस्तुतस्तु बहुभिर्वर्षसहस्ररन्तरं पतत्येवातो भास्करा- चार्यमाक्षिपन् कमलाकर आह-- इदानीन्तनार्थ न शास्त्र प्रवृत्तं न सत् कात्तिकादित्रयोत्थं तदुत्तन् । अतोऽयं क्षयः सर्वचान्द्रेष्वपीत्थं न जानन्ति सदासनाशानशून्याः। सयुक्ता नमुन्युक्तिरप्यत्र शास्त्रे भवेत कार्यवर्यस्य या दृग्विरद्धा ॥ इति ॥ - -- - ६४ कृत्यसारसमुच्चये- तीर्थस्नानं गज(१)च्छायां प्रेतस्नानं तथैव च ।। गर्ने वाधुषिकृत्ये च मृतानां पिण्डकर्मसु । सपिण्डीकरणे चैव नाधिमासं विदुषुधाः॥ नित्यं सन्ध्यावन्दनादि, नैमित्तिकं ग्रहणशान्त्यादिनिमित्तकस्नानादि, तीर्थस्नानं द्वितीयाद्यावृत्ति, प्रथमावृत्तिस्नानाकरणस्याग्रेऽनुपदमेव वक्ष्यमाण- त्वात् । (९)गजच्छायेति तन्निमित्तकश्राद्धमित्यर्थः प्रेतस्नानं मरणनिमित्तक- स्नानम् । गर्भे गर्भाधाननिमित्तककर्मणि । वार्द्धषिकृत्ये ऋणादौ, मृतानां पिण्डकर्मसु पूरकादिपिण्डेपु, एकादशाहश्राद्धादौ च नाधिमासं विदुरिति । प्रतिरोधकमित्यादि तथा चैतत्सर्व मलमासेऽपि कर्तव्यमिति भावः । बृहस्पतिः- मलिम्लुचे त्वनावृत्तं तीर्थस्नानमपि त्यजेत् । अनावृत्तं प्रथमावृत्तम् । ज्यौतिषे- अग्न्याधेयं प्रतिष्ठाश्च यज्ञदानव्रतानि च । देवव्रतवृपोत्सर्गचूडाकरणमेखलाः माङ्गल्यमभिपेकञ्च मलमासे विवर्जयेत् ॥ वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च । प्रतिष्ठा उद्यापनं, शिवादिप्रतिष्ठा वा । मेखला उपनयनं, महादानं तुला पुरुषादिदानम् । स्मृतिः- सपिण्डीकरणादूद्धवं यत् किश्चिच्छाद्धिकं भवेत् । इष्टं वाऽप्यथवा पूर्त तन्न कुर्यान्मलिम्लुचे । श्राद्धिकं श्राद्धम , इष्टं पूतं चाह रत्नाकरे जातूकर्णः- अग्निहोत्रं तपस्सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ।। (१) गजच्दायां रविचन्द्रग्रहणनिमित्तकश्राद्धम् । तथाचोकं म०म० वाचस्पतिमिश्र- कृतद्वैतनिर्णये - "गजच्छाया तु हस्तादित्ये मघाचन्द्र कृष्णपक्षे त्रयोदश्यां भवति । तथा च यद्याश्विनो मलमासस्तदा तदुत्तर चतुर्दश्यां (द्वि० आ० कृ० १३) कन्यारविसंक्रान्तौ कथं ततः प्राक् गजच्छाया, यदि च भाद्रपदो मलमासस्तदा द्वितीयभाद्रामावास्यामुल्लङव्य कन्यासंक्रान्तेः क मलमासे गजच्छाया । तस्मात्कल्पतरुपमृतौ निबन्धे या गजच्छाया परिभाषिता सेह न संभवतीति श्राद्धाध्याये हलायुधधर्माधिकरणिकरन्यैव गजच्छायोक्ता । तद्यथा 'राहु, हस्ती भूत्वा चन्द्रमसं असतीति श्रुत्या राहुणा यश्चन्द्रमसो ग्रासः सा गजच्छाया सूर्यग्रासेऽपि चन्द्रस्यैव ग्रसनीयत्वेन प्रसङ्गादविग्रसनं, तेन गजच्छाया मूर्यचन्द्रोपरागश्राद्धं तदपि मलमासे क्रियते इति सिद्धम् ॥' अर्थात् मलमासाश्विनकृष्णत्रयोदश्यां चित्रायां रवेः स्थितत्वान्मधानक्षत्रयुक्तत्वेऽपि हस्तार्काभावात् न गजच्छायेति स्पष्टाशय इति । एवमेवोकं कृत्यशिरोमणी- सैहिकेयो यदा भानु असते पर्वसन्धिषु । गजच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥ इति वराहवचनम्। (२) गजच्छायेत्यनेन ग्रहणनिमित्तकश्राद्धम् । नहि योगविशेषनिमित्तकश्राद्धम्।
मलमासकृत्यम् । ६५ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्तमित्यभिधीयते ॥ मरणदिनमारभ्य एकादशमासिककालाभ्यन्तरे यदि मलमासस्तदा मासिकमेकं बर्द्धयेत् । तथाहि विष्णुसूत्रम्-"संवत्सराभ्यन्तरे यद्यधि- मासपातो भवति तदा मासिकाथ दिनमेकं वर्धयेत्” इति । (१) संवत्सरा- भ्यन्तरे एकादशमासिककालाभ्यन्तरे, एकादशमासिककालश्च एकादश- मासपूर्तिदिनाव्यवहितोत्तरक्षयातिथिः । तथाच तदभ्यन्तरे मलमासपाते सप्तदशश्राद्धसङ्कल्पः । त्रयोदशे मासि पूर्णे क्षयाहे वार्षिकमिति तात्पर्यम् । अत्र संवत्सरशन्द एकादशमासपः ऋष्यशृङ्गवचनैकवाक्यताबलादिति द्वैतनिर्णयः ! मरणदिनमारभ्य द्वादशमासस्य मलमासत्वे न मासिकवृद्धिः, तेन मल- मास एव क्षयाहे प्रथमवार्षिकम् । तथाहि ज्यौतिपे- जातकर्मगि यच्छाद्धं नवश्राद्धं तथैव च । प्रतिसंवत्सरश्राद्धं मलमासेऽपि तत् स्मृतम् ॥ इति । नवश्राद्धं चतुर्थपञ्चमनवमैकादशदिनश्राद्ध, प्रतिसंवत्सरश्राद्धं प्रथम- वार्पिकम् । स्मृतिः-"असंक्रान्तेऽपि कर्तव्यमाब्दिकं प्रथमं बुधैः ।" असंक्रान्ते संक्रान्तिशून्ये मलमास इति यावत् । लघुहारीतःः प्रत्यन्दं द्वादशे मासि कार्या पिएडक्रिया वुधैः। क्वचित्त्रयोदशेऽपि स्यादाचं मुक्त्वा तु वत्सरम् ॥ प्रत्यन्दं प्रतिव, पिण्डक्रिया सांवत्सरिकं कचित् एकादशमासिक- कालाभ्यन्तरे मलमासपाते, "आद्यं मुक्त्वा तु वत्सर-" मिति मरणदिन- मारभ्य द्वादशमासस्य मलमासत्वे मलमास एव द्वादशे मासि क्षयाहे प्रथम- वापिकमिति तात्पर्यम् । न चैवं सति आश्विनकृष्णामावास्यायां मृतस्याग्रिम- भाद्रस्य मलमासत्वे द्वितीयभाद्रकृष्णामावास्यायामेवोक्तरीत्या प्रथमवार्षिक - (१) यथा श्रावणशुक्लैकादश्यां कश्चिन्मृतस्तदाऽग्रिमवर्षीयाषाढान्तावधिकमासेषु कस्यचन- मासस्य मलमासत्वे एकमासिकवृद्धिः कार्या। कथमन्यथाऽयिमश्रावणशुक्लकादश्यां तदार्षिक सङ्गच्छते । मृतमासीयक्षयपक्षीयक्षयतिथौ वार्षिकसिद्धयर्थमेवैकमासिकवृद्धिकरणम् । तथोकं व्यासेन वार्षिकतिथिलक्षणम्- मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रत्यन्दं तु तथाभूतं क्षयाहं तस्य तदिदुः ।। तथा च स्मृती- यन्मासि यइले यस्यां तिथौ यो हि मृतो भवेत् । तन्मासि तहले तस्यां तिथौ तदार्षिक स्मृतम् ।। एकादशमासिकपूतिस्तु मृतमासाद् द्वादशे मासि भवति, द्वादशमासपूर्तिस्तु मृतमासाद प्रयोदशेऽग्रिमवीयमृतमासे क्षयतिथौ भवति । तत्राग्रिमाब्दीयमृतमासस्य मलमासत्वे मासिक- वृद्धिकरणेन मृतमासादग्रिममासीयक्षयतिथौ वार्षिकं चाल्यते तेन प्रथमवार्षिकं मलमासे एवेति युक्तियुक्तम् । ९कृ० सा० तस्थाश्विासात, माइल्सावादिनोश्लेखासहतिरिति भ्रमितव्यम् । शुल्लादिरीत्या मरण तेथेः कृणादिरीत्या मलमासीयामावास्यासा साद्रीयामाना- त्याला मातोल्हे खासङ्गारिति । आश्विदलप्रतिपन्तस्यात्रिमभाद्रस्य सलमासले तु एकादशमालिकालाभ्रल मलमापालास्त्र मासिकवृद्धचा. वश्यकत्वादने आश्विनलप्रतिपद्यक प्रथमाकिन् । एमाश्विन शुक्ल द्विती- यादिपर्णियान्ते मृते अप्रियाद्रस्य मलसासत्वेऽपि एकादशमासिककाला- भ्यन्तर एक मलमासपातात्, तत्रापि मासिकवृद्धथा आश्विनशुलद्वितीयादि- मरणतिथादेव वार्षिकमित्य गन्तव्यमिति सर्व सुस्थान् ! सलमासे यो म्रियते तस्यापि पञ्चदशमासिकानि भवन्तीति तद्रधरः। तेन तदापि सप्तदशनाद्धमेव भवति, त्रयोदश सालि मरणपक्षतिथौ वार्षिकम् । एतावत्समुदायार्थपर्या- लोचनयाऽयमर्थः पर्यवसित-एकादशमासिककालाभ्यन्तरे मलमासे सम्भा- व्यमाने सप्तदशश्राद्धं सङ्कल्प्य कर्तव्यम् । त्रयोदशे मासि शुद्धेऽग्रिमवर्षीय- तन्मासे मरणतिथौ वार्षिकम् । द्वादशमासस्य मलमासत्वे तु न मासिकवृद्धिः, तेन पोडशश्राद्धमेव, तन प्रथमचार्षिकं मलमास एव क्षयाहे द्वादशे मासि, तत्र शुक्लादिमासपरिग्रहेण उत्तरमासीयकृष्णपक्षस्य पूर्वमासीयकृष्णपक्षत्वान्मा- सोल्लेखासङ्घतिरपि नास्ति द्वितीयादिवार्षिकन्तु मलमारूपाते सर्वदैव त्रयो- दशे मासि क्षयाहे | प्रथमवैशाखशुक्लपक्षमृताहितीयवैशाखकृष्णपक्षमृतयोमा- सिकवृद्धयावश्यकत्वात्तत्तन्मरणपक्ष एव वार्षिक, व्युत्क्रमेण वार्षिकमकिंचि- करमिति व्रतपद्धत्यादिसम्मतो व्यवहारसिद्धश्व पन्थाः। गोकुलनाथोपाध्या- यास्तु-"संवत्सराभ्यन्तरे यद्यधिमालपातः स्यात्तदा मासिकाथ दिनमेकं पर्द्धयेदिति विष्णुसूत्रेऽधिमासपातशब्देन पौर्णमास्यन्तक्षणप्रतिपदाद्यक्षणो- भयघटितलवेन सह मध्यमचिह्नसम्बन्धो विपक्षणीयः । तथा सत्येवाधिमास- सम्बन्धो व्यवहारणीयो न तु पूर्वापरचिह्नमात्रेण, अन्यथा विष्णुसूत्रस्थ- पातपदोपादानवैयर्यप्रसङ्गात्, अत एव 'इन्द्राग्नी यत्र हूयेते' इत्यादिलघु- हारीतवचने व्यावर्तकस्य मध्यमचिह्नस्याभिधानमपि सङ्गच्छते। एतेनैषमो द्वितीयभाद्रकृष्णपक्षे मृतस्याप्रिमवर्षे आश्विनकृष्णपक्षे प्रथमान्दिकं प्रसज्येत इति मासोल्लेखासङ्गतिरिति परास्तम्, कृष्णपक्षस्य तस्य संवत्सराभ्यन्तरे निरुक्तमध्यमचिह्नसम्बन्धात्मकाधिमासपाताभावात् । अत एव (१)मलमास- शुक्लपक्षमृतानामेव मासिकवृद्धिः । न तु मलमासकृष्णपक्षमृतानासपीति | एवं चाश्विन कृष्णपक्षमृतस्याप्रिमभाद्रस्य मलमासत्वे संवत्सराभ्यन्तरे निरुकाधिमासपातादाश्विनकृष्णपक्ष एवं प्रथमाव्दिकं, न तु द्वितीयभाद्रकृष्ण- पक्षे इति न मासोल्लेखासंगतिर्न वा विष्णुसूत्रस्थसंवत्सरपदस्यैकादश- (१) मलमासमृतस्य पुनस्तन्मासस्य मलमासले वार्षिकं मलमासीयतत्क्षयपक्षीयक्षयतिथौ कर्तव्यम् । न तु शुद्धमासीयक्षयतिथौ । तथाऽऽह पैठीनसिः- 'मलमासमृतानां तु श्राद्धं यत् प्रतिवार्षिकम् । मलमासे तु कत्तव्यं नान्येषां तु कदाचन ॥'
. एकोटिदिनाद्धनिर्णरः : ६७ मालिकदासोपसका सिनेमा रित्तेलद्विषविरतारो गोकुल लाथे.पाध्याय- कृतमासमीमांसा द्रष्टयः। ज्योति-प्रतिसंवत्तरं श्राद्धशौचात् पतितं च यत् । मलमासेऽपि कर्तव्यमिति मागुरिस्नोत् ।। तथा चाशचेन सांवत्सरिकाद्धप्रतिरोधेऽशौचान्ते मलमासेऽपि कर्तव्य- मिति भावः अथ एकोदिशादिश्राइनिर्णयः ऋष्यशृङ्गः-देये पितॄणां श्राद्धे 4 अशौचञ्जयते यहि । अशीचे तु व्यतीते वै तेयां श्राद्धप्रदीयते ।। अशेचं प्रयत्नानपनेयम् , अन्यस्य श्राद्धदिनेऽशौचनिधना निरासा- दिति पितृभक्तिः । यद्यपि पितृणामिति बहुवचनं तथापि कृताहश्राद्धवि- षयमिति सम्प्रदायः ! अशौचान्ते कुन्न कर्तव्यमित्याकांक्षायामाह श्रीदत्तः- शूचीभूतेन दातव्यं या तिथिः प्रतिपद्यते । सा तिथिस्तत्र कर्तव्या न त्वन्या वै कदाचन ।। तथा चाशौचान्तद्वतीयदिने श्राद्ध कर्तव्यम् । एकभुक्तादिनियमस्तु अशौचान्तिमदिन एव, तत्राशौचस्यातन्त्रत्वाकादशाहश्राद्धमत्, एवञ्चा- शौचान्तद्वितीयदिने या तिथिः प्राप्यते तदुल्लेख एक सङ्कल्पवाक्ये कर्तव्यो न तु क्षयाहतिथेः । 'या तिथिः प्रतिपचते' इति प्रागुतात् । अत्र सङ्कल्पमाह द्वैतपरिशिष्टे-ॐ अद्येत्यादि क्षयाहे प्रतिबन्धकाशौचव्यपगमे अमुकगोत्रस्य पितुरमुकशर्मण इत्यादि ! रजोयोगेन श्राद्धप्रतिरोधे रजोयोगात् पञ्चमदिने स्त्रिया श्राद्ध कर्तव्यम् । "देवे कर्मणि पिश्ये च पञ्चमेऽहनि शुद्ध्यति ।" इति वचनात् । सङ्कल्पस्तत्रापि पूर्ववत् । क्षयाहाज्ञानविस्मरणरूपप्रतिबन्धेन क्षयाहे श्राद्घाकरणे श्राद्धकालमाह लघुहारीतः- आद्धनिघ्ने समुत्पन्ने क्षयाहेऽविदिते तथा ! एकादश्यां प्रकुर्भात कृष्णपक्षे विशेषतः।। मृताहाज्ञान आह प्रचेता:-अविज्ञाते मृताहे अमावास्यायां श्रवणदिवसे वा श्राद्ध कर्तव्यमिति शेषः। पितृभक्तौ श्रीदत्तस्तु मृताहविशेष जानत एवाच मृताह इति विस्मरणं श्राद्धविघ्नमेव बोद्धव्यम् । अयमर्थः विस्मृत- श्राद्वमेकादश्यामेव कतव्यम् । अज्ञातमृताहश्राद्धं त्वेकादश्याममावास्यायां श्रवणदिवसे वेति विशेषः । प्रागुक्तहारीतप्रचेतो वचने अभिधाय श्राद्ध- चिन्तामणिः 'चस्मिन्दिने देशान्तरमृतः श्रूयते स एव श्रवणदिवसः, अत्र एकादश्यमावास्ये चित्रनिमित्तव्यवहिते पाले। मालज्ञाने तु सांवत्सरिके कर्तव्ये तन्मात्यैव एकादश्यादौ । भारुपक्षयोरज्ञाने स्त्र मासि श्रूयते कृत्यसारसमुच्चये- तस्यैव । एवं च मृताहविस्मरणेऽप्येकादश्यामेव क्षयाहस्याविदितत्वादिति । तयं संक्षेपः-श्राद्धविन एकादश्याम् (आसन्नानिमायामित्यर्थः) । तिथ्यज्ञाने तत्पशज्ञाने तत्पक्षकादश्यां तिथिपक्षयोरज्ञाने तन्मासस्यैकादश्याममावास्यायां वा, एषामज्ञाने यस्यां तिथौ मृतः श्रूयते तस्यामेव, तत्तिथेरपि विस्मरणे तन्मासस्यैकादश्याममावास्यायां वा एकोद्दिष्टम् । श्रव(१)णमासस्यापि विस्मरणे न कार्य मानाभावादिति | शुद्धिचन्द्रिकायां रघुपतिमिश्रस्तु श्राद्धविघ्ने क्षयाहे देवादकरणे क्षयाहाज्ञाने च एकादश्यां कर्त्तव्यं, पक्षाज्ञाने कृष्णपक्षे कर्तव्य- मित्यर्थः । मासाज्ञाने चैत्रे, इदन्तु एकोद्दिष्टश्राद्धपरमन्यथा आद्यश्राद्धाकरण एकादश्यान्तत्कृत्वा पूतः स्यात् , कथमन्यथा गयाश्राद्धं विना तस्य पातित्य- मिति । प्रागुक्तहारीतप्रचेतोवचने अभिधाय स्मृतिसारे तु अत्र च मृताहा- ज्ञानमद्यमृताह इति विस्मरणं श्राद्धविघ्नमेव वोद्धव्यम् । अविदित इति विस्म- रणमपि गृहीतन्तस्याप्यज्ञानरूपत्वात् । प्रचेतो वाक्ये तु 'श्रवण'-इत्यभिधाना- तिथिविशेषाज्ञानमेव विवक्षितमिति । विष्णुपुराणे तु- चतुई श्यष्टमी षष्ठी अमावास्याऽथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ।। तैलनीमांससम्भोगी पर्वस्वेतेपु वै पुमान् । विएमूत्रभोजनं नाम प्रयाति नरके मृतः॥ अत्र तैलं तिलभवं, तेन सार्षपादितले पक्कतैले च न दोष इति व्रत- पद्धतौ रुद्रधरः। अथ जन्मदिनकृत्यम् अत्र(२)भोजराजः- यो जन्ममासे क्षुरकर्म यात्रां कर्णस्य वेधं कुरुते हि मोहात् । (१) मरणमासस्येति वा पाठः। (२) दीपिकायाम्- कृतान्तकुजयोरि यस्य जन्मतिथिर्मवेत् । अनुक्षयोगसम्प्राप्तौ विध्नस्तस्य पदे पदे ॥ स्कान्दे-खण्डनं नखकेशानां मैथुनाध्वगमौ तथा । आमिषं कलह हिंसां वर्षवृद्धी विवर्जयेत् ।। इदमनु:-मृते जन्मनि संक्रान्तौ श्राद्ध जन्मदिने तथा। अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ।। स्नात्वा जन्मदिने स्त्रियं परिहरन् प्राप्नोत्यभीष्टां श्रियं मत्स्यान् मोचयतो द्विजाय ददतश्चायुश्चिरं वर्धते । सक्तून् खादति तश्च तस्य रिपवो मृत्यु प्रयान्ति ध्रुवं मुंक्ते यस्तु निरामिषं स हि भवेजन्मान्तरे पण्डितः ।। दीपिकायान्तु-जन्मर्वयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिभवेदै। भवन्ति तद्वत्सरमेव तावनरुज्यसम्मानसुखानि तस्य ।। तिथितत्वे-घसावे जन्मतिथिर्यदि स्यात्पूज्या तदा जन्म संयुता च । असंयुता भेन दिनदयेऽपि पूज्या परा भवतीह यत्नात् ॥
वास्तुविचारः । ६६ नूनं स रोगं घनपुत्रनाशं प्राप्नोति मूढो वधबन्धनानि ।। क्षुरकर्म न कुर्वीत जन्मासे च जन्मभे । जन्ममासे उपनयनविधानात्तदङ्गसशिखवपने न दोष इति स्मार्ताः । श्रीपतिव्यवहारसमुच्चये- स्नानं दानं तपो विद्या सर्वमङ्गल्यवर्द्धनम् । उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते ॥ मङ्गल्यवर्धनमुपनयनादि । जन्मदिनकर्त्तव्यमाह- तिलोद्वर्ती तिलस्नायी तिलहोता तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति । तथा च जन्मदिने तिलोद्वर्तनादि षट् करणीयम् । तत्राश्वत्थामाबलिव्यासहनुमद्विभीषणकृपपरशुरामजन्मनक्षत्रप्रजापतिमा- कण्डेयाः क्रमेण पूज्याः । ततो वरं प्रार्थयेत्- ओं मार्कण्डेय ! महाभाग! सप्तकल्पान्तजीवन !। चिरजीवी यथा त्वं भो भविष्यामि तथामुने ! इति । ततः समधुरदुग्धपानमनेन- ॐ सतिलं गुडसंमिश्रमाल्यर्द्धमितं पयः। मार्कण्डेयवरं लब्ध्वा पिबाभ्यायुषहेवते ॥ इति । अस्मिन् दिने आमिषभोजनं मैथुनं क्षौराध्वगमनहिंसादिकं विवर्जयेत् । अथ वास्तुविचारः तञ्च व्रतपद्धतौ यथा-कार्तिकाग्रहणफाल्गुनवैशाखश्रावणाः (मासा:)। शुक्लपक्षः । रिक्ताऽमावास्याभिन्नतिथयः, रोहिणीमृगशिरः पुनर्वसूपुष्यो- त्तरफल्गुनीहस्तादित्रयमनुराधाज्येष्ठामूलोत्तराषाढश्रवणादित्रयोत्तरभाद्ररेवत्यो नक्षत्राणि, सोमबुधगुरुशनिशुक्रवाराः प्रशस्ताः । तत्र गृहे हस्तमात्रं खातं खनित्वा जलेनापूर्य तज्जले गणपतिवास्तोष्पत्यष्टनागधरित्रीः पूजयेत् । तत्र धरियर्घदानमन्त्रः- ॐ हिरण्यगर्भे वसुधे शेषस्योपरि शायिनि तस्या उभयदिनप्राप्तौ यस्मिन्नहनि पूर्वाहे जन्मनत्रक्षयोगस्तहिने कृत्यम् । षटत्रिंशन्मते- दीपोच्छिष्टं तु यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यशाचैव यच्छिष्टं भुक्त्वा नक्तेन शुद्धथति ॥ तैलग्रहणाद् धृते न दोष इति प्रायश्चित्तमयूखे । स्मृतिः-(कृत्यशिरोमणी)- घृतं च सापं तलं यत्तैलं पुष्पवासितम् । अदुष्टं पकलं च स्नानाभ्यनेषु नित्यता ।। प्रचेता:-तैलाभ्यङ्गनिषेधे तु तिलं तैलं विवर्जयेत् ॥ सत्र वारदोषे प्रतिप्रसवमाह स्मृतिः- रवी पुष्पं गुरौ दूर्वा भौमवारे च मृत्तिकाम् । भार्गवे गोमयं दद्यात्तैलदोषोपशान्तये ॥ नपत्रेऽपि वान्याह-चित्राऽधिनीहस्तश्रवणा निषिद्धाः ।
कृत्यसारसमुच्चये- यसानि दोऽहं गृहाणायं परिनि ! मे ॥ इति । ततो दधिमतान्त्रपल्लवबहुवारपल्लवान गर्ने प्रक्षिप्य मृत्तिकाभिः पूर- येत् (१)॥ (१) वासस्थलसमीपे बज्यवृक्षा:-ति० पु० ६ अ० । दारिद्रयं प्रतिवचनानि- यत्र कष्टकिनो वृक्षाः यत्र निपाववल्लरी । ब्रह्मवृक्षश्च यत्रास्ति समार्यस्त्वं समाविश ॥ अगस्त्याकदियो वापि वन्धुजीवो गृहेषु वै। करवीरो विशेषेण नन्द्यावतमथापि वा। मल्लिका वा गृहे येषां सभार्यस्त्वं समाविश । कन्या च यत्र के वली द्रोही वा च जटी गृहे ॥ बहुला कदली यत्र सभार्यस्त्वं समाविश । न्यग्रोधं वा गृहे येषामश्वत्थं चूतमेव च । उदुम्बरं वा पनसं सभार्यस्त्वं समाविश । यस्य काकगृहं निम्बे आरामे वा गृहेऽपि वा ॥ एका दासी गृहे यत्र त्रिगवं पञ्चमाहिषन् । षडश्वं सप्तमातङ्गं समार्यस्त्व समाविश ॥ भूमिलक्षणम्-पूर्वप्लवो वृद्धिकरो धनदश्चोत्तरप्लवः । वंता विप्रस्य, पीता क्षत्रियस्य, रक्ता वैश्वस्य, कृष्णा शूद्रस्य हिता इत्यादि वास्तुराजवश्व- भादौ द्रष्टव्यम् । अथ गृहारम्भे विहितमासा उता राजमार्तण्डे- मासाः श्रावणवैशाखमाधकात्तिकफाल्गुनाः । प्रशस्तास्ते गृहारम्भे पत्नीपुत्रसमृद्धिदाः ॥ नाशो भाद्राश्विने मासि मार्गे चैव धनक्षयः । ज्येष्ठे तु द्रव्यहानिः स्यादापाढे मरणं पशोः॥ पौषे मासि भवेन्मृत्युश्चैत्रे चैव रिपोर्मयम् । धनं स्याच्छेषमासेषु सर्वकामफलं भवेत् ॥ शिलेष्टकादिगेहानि न कुर्यान्नासि गर्हिते । तृणकाष्ठादिगेहानां मासदोषो न विद्यते ॥ अथ कूपखननदिफलमुक्त मुहूर्त्तचिन्तामणौ- कूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वेशन्यादौ पुष्टिरेश्वरांवृद्धिः। सूनोनाशः तीविनाशो मृतिश्च संपत्पीडा शत्रुतः स्याच्च सौख्यम् ।। एतदनुसारिचक्रम्- , - धनवृद्धिः पुष्टिः पुत्रनाशः सौख्यम् मध्यम् जीनाशः धननाशः वा शत्रुपीड़ा मृतिः सम्पत् आहिककृत्यम् । अथ संक्षेपत आह्निकम् । तत्र मनुः-सूत्रोच्चारसमुत्सर्ग दिया कुदुदङ्मुखः ! दक्षिणास्मुिखो रानौ सन्ध्ययश्च यथा दिवा ।। छायासामन्यनारे का सत्रावनि द्विजः। यथासुखसुखः कुर्या-प्राव बेच उच्चारो विष्ठा, सपुत्लर्गल्या.: । बाया ये कामानिनश्चिासमयेषु । पराशरः–'नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ।। लेनेपवित्रं दक्षिणे कृत्वा दिएनूत्रं च समुन्मृजेन् । पवित्रं यज्ञोपवीतमिति महेशादयः । दक्षिणे इति दक्षिणकर्णे इति शेषः । विट् विष्ठा । मिताक्षरायां- गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृवैर्जलैः ! गन्धलेपक्षयकरं शौचं छुर्यादतन्द्रितः (१) !! - - - - रविभात्कूपचक्रम- अथ रोहिणीनक्षत्रात् कूपचक्रम् । दिशा न० सं० फन्दानि । বিয়া न० सं. फलनि। मध्ये ३-स्वादुजलम् । मध्ये ३-शीत्रसादु! पूर्व ३-खण्डितजलम् । ३-निर्जलम् । आग्नेयाम्-३-स्वादुजलम् । अमि० ३-शुलन् । दक्षिणे ३-जलहानिः । दक्षिणे- नैऋत्ये- ३-स्वादुजलम् । नैऋत्ये०- ३-अमृतजलम् । पश्चिमे ३-क्षीरोदकम् । पश्चिमे ३-निर्मलजलम् । वायुको- ३-ःि तजलम् । वायव्ये- ३-जनहानिः। उत्तरे ३-मिष्टजलम् । उत्तरे ३-मधुरजलम् । ईशाने ३-क्षारबलम् । ईशाने- ३-क्षीरजलन् । मृ.रे.चि. अनु. ह. अश्वि. पुष्य. पुन. स्वा. अ. एतानि भानि चन्द्रशुक्रगुरुबुधवाराः। रिक्ताभिन्नतिथयः शुभाः॥ अथ कूपखनने विहितनक्षत्राण्युक्तानि तत्रैव- 'हस्तमैत्रमघापुष्यनिष्ठोत्तरवारणैः । प्राजापत्येऽथ कूपानां खननं मुनिभिः स्मृतम् । अथ तत्रैव वृक्षरोपणविहितनपत्राण्युक्तानि- 'शतभिषगुत्तरकमलजमूलन्द्रामिहरिमेयु शुभेषु । वामतिसितशिदिवसोदयेषु तरुरोपणं शस्तम्।। तत्र वृक्षरोपणमन्त्रः- ॐ वसुधेति च शीतेवि पुण्यदेति धरैति च । नमस्ते सुभगे ! देवि ! दुमोऽयं वधतामिति ।। १) अनुदकमूत्रपुरीषकरणे प्रायश्चित्तमाहागिरा:- कृते मूत्रे पुरीप वा यदा नवोदकं भवत् । स्नात्वा लब्ध्वोदकं पश्चात्सचैलस्तु विशुद्धयति । तथा चोकं प्रायश्चित्तमयूखे- अटव्यामटमानस्य ब्राह्मणस्य विशेषतः। प्रणष्टसलिले देशे कथ शुद्धिविधीयते। अपां दृष्ट्वैव विप्रस्तु कुर्याच्चैव सचैलकम् । गायत्र्यष्टशतं जप्यं स्नानमेतत्समाचरेत् ।। - ७२ कृत्यसारसमुच्चये- अतन्द्रितोऽनलसः । अभ्युद्धृतरित्यनेन जलान्तः शौचनिषेध इति । शौचेमनुः-एका लिङ्गे गुदे तिम्रस्तथैकत्र करे दश । उभयोः सप्त दातव्याः मृदः शुद्धिमभीप्सता ॥ एकत्र करे वामकरे इत्यर्थः । उभयोरिति हस्तयोरिति शेषः । बृहन्नार- दीये-'तिसस्तिस्रः प्रदातव्याः पा(१)दयोमृत्तिकाः पृथक् ।' यदा तूक्तशौचेनापि गन्धलेपक्षयो न भवति तदा 'यावदपैत्यमेध्याक्तात्' इति वचनादधिकसंख्याऽपि मृद् दातव्या इति कुल्लुकभट्टः । मृत्तिकालेपक्षय- पर्यन्तं जलं दद्यात् । प्रयोगपारिजाते-- कुर्याद्वादश गण्डूषान् पुरीषोत्सर्जने द्विजः । मूत्रे चत्वार एवोक्ता भोजनान्ते च षोडश ।। पुरीषं विष्ठा | आचमने मनुः- हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः॥ अद्भिः जलैः । मनुटीकायां पट छिद्राणि जलेन स्पृशेत् । तानि शिरः- स्थानि घाणचक्षुःश्रोत्रादीनि गृहीतव्यानि | शुद्धिविवेके यमः- प्रयान्त्याचमतां यास्तु शरीरे विप्लुषो नृणाम् । उच्छिष्टदोषो नास्त्यत्र भूमितुल्यास्तु ताः स्मृताः॥ विप्लुषो जलबिन्दवः (२) दन्तकाष्ठे मिताक्षरायाम्-- ॥ कण्टकीक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम् । कनिष्ठिकाग्रवत्थूलं पूर्वाद्धकृतकूर्चकम् ।। भय विना यज्ञोपवीतेन भोजनकरणे तत्रैव बृद्धपराशर:- यज्ञोपवीतेन विना भोजनं कुरुते द्विजः । अथ मूत्रपुरीषा रेतः सेचनमेव वा ॥ त्रिरात्रोपोषितो विप्रः पादकृच्छ्तु भूमिपः । अहोरात्रोषितो वैश्यः शुद्धिरेषा पुरातनी ॥ रात्री दिवा वा स्वप्नदोषे जाते कर्तव्यमाह मनुः- स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा त्रिः पुनमामित्यूचं जपेत् ॥ १० ॥१८॥ 'ओं पुनर्मामैत्विन्द्रियं सूर्यः । इत्येतामृचं वारत्रयं पठेदित्यर्थः । (.) अथ पादप्रचालने विशेषः- ऊर्ध्वजवेषु विप्रेषु प्रक्षाल्य चरणद्वयम् । तावद्भवति चाण्डालो यावद्गङ्गां न मज्जति ॥ अनेनोपविश्य पादप्रक्षालन विधेयं न तूत्यितेनेति । (३) अब वर्णभेदेन दन्तधावनप्रमाणभेदमाह गर्ग:- दादशाङ्गुलं विप्राणां क्षत्रियाणां नवाङ्गुलम् । अष्टाङ्गुलं तु वैश्यानां शूद्राणां सप्तसम्मितम् ।। चतुरडुलमानं तु नारीणां नात्र संशयः। तब दिक् फलम्- प्रामुखस्य धृतिः सौख्यं शरीरारोग्यमेव च ॥ दक्षिणेन तथा कुष्ठं पश्चिमेन पराजयः ।। उत्तरेण गवां नाशः स्त्रीयां परिजनस्य च ॥
यस्तु भक्षयेत् । आह्निकविचारः। ७३ दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा । वृक्षोत्थमित्यनेन लोष्टतृणाकुल्यादिनिषेधः । नारसिंहे- अपामार्गश्च बिल्वं च अश्वोदुम्बरस्तथा । वदरीतिन्दुकास्त्वेते प्रशस्ता दन्तधावने ॥ अपामार्गः चिचिरी इति प्रसिद्धः । स्कान्दे- आनातकधात्रीणामेकोनखदिरोद्भवम् । क्षीरवृक्षोद्भवं चापि प्रशस्तं दन्तधावने ॥ विष्णु-'न पलाशं दन्तधावनं स्यान्न श्लेष्मातकारिष्टबिभीतकधरको विदारशमीपिलुपिप्पलेंगुदगुग्गुलम् ।' श्लेष्मातकः बहुआर इति ख्यातः । अरिष्टं हरिड इति प्रसिद्धन् । कोविदारः कोइार इति ख्यातः । बिभीतकं बहेड़ा इति प्रसिद्धम् । 'इङ्गुदस्तापसतरु'रित्यमरः । गर्गः- कुशङ्काशम्पलाशञ्च शिंशपां तावद्भवति चाण्डालो याबद्गङ्गां न पश्यति ॥ उशना:-कासिन्दन्तकाष्ठश्च विष्णोरपि हरेच्छियम् । प्रतिपदर्शषष्ठीषु नवम्यां श्राद्धवासरे ॥ दन्तानाकाष्ठसंयोगो दहत्यासप्तमङ्कुलम् ।। अन्यच्च-समिधा क्षीरवृक्षस्य क्षयाहोपोषणं विनां ।. दन्तकाष्ठं कुर्यादिति शेषः । क्षयाहपदं श्राद्धमात्रदिनोपलतकम् । उपोषण- पदमुपवासदिनस्य तदुषसोऽप्युपलक्षकम् । विष्णुः 'उदङ्मुखः प्रामुखो वा दद्याद्वै दन्तकाष्टक' मित्यादि । दन्तधावनमन्त्रस्तु स्मृतिसारे- आयुर्बलं यशो वर्चः प्रजापशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते !॥ दन्तकाष्ठप्रमाणमाह द्वैतपरिशिष्टे- वितस्तिः प्रथमः कल्पः । प्रादेशप्रामाणं मध्यमः। अष्टांगुलमपकृष्टः । चतुरंगुलमत्यन्तापकृष्टः । जाबालः- द्वादशांगुलं विप्राणां क्षत्रियाणां नवांगुलम् । सप्तागुलं च वैश्यानां शूद्राणां च षडंगुलम् ॥ इति । ततस्नान छन्दोगपरिशिष्टे- यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः। अनातुर इति विशेषणादातुरस्य ज्वराघभिभूतस्य स्नानाकरणे न दोषः (१)। - (१)जले मूत्रकफपुरीषपातने दोषमाह वामनपुराणे- मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि । ते पात्यन्ते च विण्मूत्रे दुन्धि पूयपूरिते ॥ जले मूत्रधरीषं वा वाप्यादौ क्षालयन्गुदम् । स गच्छेद्रौरवं मत्यो गुदरोगी भवेत्परम् ॥ १००सा० - कृत्यसारसमुच्चये- मनुः-शिवलिङ्गसमीपस्थं यत्तोयं पुरतः स्थितम् । शिवगङ्गति तत्प्रोक्तं तत्र स्नात्वा दिवं ब्रजेत् ॥ स्नानावश्यकत्वमुक्तं विष्णुना, पराशरः- स्नातोऽधिकारी भवति देवे पित्र्ये च कर्मणि। पवित्राणां तथा जाप्ये दाने च विधिदैविके ॥ जलमध्ये तु यः कश्चिद्विजातिनिदुर्बलः । निष्वीडयति तवस्त्रं स्नानं तस्य वृथा भवेत् ॥ अत्र तद्वस्त्रं स्नानवस्त्रम् । अतो जलाशयादुपर्येत्य स्नानवस्त्रपीडनमुचितमिति । हारीत:-'नातुरो न मुक्त्वा न जीर्णवासा न नग्नो नारनन् नावशक्थिको नाल- कृतो नाजस्र नाशते जले नाकुले नाशुचौ न प्रभूतजले न नाभेरल्पे न चत्वरे नोपद्वारे न संध्यायां न निशायां स्नायात् ।' मेधातिथिः-न जलं ताइयेत्यद्भया न जले तु मलं त्यजेत् ॥ भविष्ये-स्नानानामथ सर्वेषां वारुणेन च मानवः । कर्तुमर्हति कर्माणि विधिवत्सर्वथा द्विजः ।। असामर्थ्याच्छरीरस्य कालशक्तिन्यपेक्षया । मन्त्रस्नानादयः पञ्च एक इच्छन्ति सूरयः॥ अशिरस्कं भवेत्स्नानं स्नानाशत्तौ हि कर्मिणाम् । आइँण वाससा वाऽपि मार्जनं दैहिकं स्मृतम् ॥ इति कृत्यमहार्णवे लिखितम् । तन्त्र स्नानानन्तरमङ्गप्रोक्षणं किञ्चित्कालपर्यन्तं निषिद्धमित्युक्तं शातातपेन- तिस्रः कोट्योऽर्धकोटी च यावद्रोमाणि मानवे । स्रवन्ति सर्वतीर्थानि तस्मान्न परिमार्जयेत् ॥ तथाच देवलेनाप्युक्तम्-देवा पिबन्ति शिरसो मुखस्य पितरस्तथा। वक्षसोऽपि च गन्धर्वा अधस्तात्सर्वजन्तवः ।। अतस्त्वङ्गानि वस्त्रेण पाणिना न च मर्जयेत् ।। अत्र वस्त्रेण परिधान वस्त्रेण निषेधः । तद्भिन्नेन अङ्गप्रोक्षणवस्त्रेण न दोष इति शिष्टाचारः। अथोकं विष्णुना-नाप्रक्षालितं पूर्वधृतं वा वासो विभ्रियात्' । तथा च याज्ञवल्क्येनोक्तम्- यावद्देवानृषीश्चैव पितश्चैव न तर्पयेत् । तावन्न पीडयेद्वस्त्रं येन स्नातो न चोदके ।। निष्पीडयति यः पूर्व स्नानवस्त्रं तु तर्पणात् । निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥ वस्त्रपरिधाने प्रचेता:- स्वयं धौतेन कर्तव्या क्रिया धा विपश्चिता । न च रानकौतेन नाधौतेन भवेत् कचित् ॥ पुत्रमित्रकलत्रेण स्वातिबान्धवेन च । दासबर्गेण यद्धोतं तत्पवित्रमिति स्थितिः॥ तथाच भारते-न स्यूतेन न दग्धेन पारक्येन विशेषतः । मूषिकोत्कीर्णजीर्णेन कर्म कुर्याविचक्षणः।। अत्र भिन्नभिन्नवस्त्रखण्डयोः सीवनेनैकत्वं यत्सम्पाद्यते, तल्सीवनं दोषकरम् । एकस्मिन् वस्त्रे विदीर्णे यत्तस्य दाढाथ छिद्रनिरासार्थ सीवन, तन्न पूजादौ दूषित मिति म० म० न्यायपञ्चानन 'देवनाथठक्कुरैः स्मृतिकौमुद्यां लिखितम् । अथ गालितवस्त्रप्रसारणे स्मृतिः- प्रागप्रमुद्गग्रं वा धौतं चैव प्रसारयेत् । दक्षिणायं पश्चिमा पुनः प्रक्षालनाच्छुचिः ॥ विना धौतपरिधानेन किमपि कर्म न कर्त्तव्यमित्याह- विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रोतं स्मार्त तथा कर्म न नग्नश्चिन्तयेदपि ॥ अत्र विकक्षः परिवानासंवृतकक्षः। स्नानदीपिकायाम्- हदुरापः पयो मूलं ताम्बूलं फलमौषधम् । मक्षयित्वाऽपि कुर्वीत स्नानदानादिकाः क्रियाः॥ इत्यातुरपरं, न शक्तजनविषयकम् । ३ ४५ ह्रिकविचारः। दिवं स्वर्गमुक्तम् । रोटियाजकल्यः- नयां स्नानाति पुरशनि तडागे मध्यमानि च । बापीकूपे जघन्यानि गृहे प्रत्यवराणि च ।। नद्यामपि प्रथम महानवान्नदसमवेऽल्पनद्यान् । महानवस्तु ब्रह्म- पुराणोक्ताः- गोदावरी भीमरथी तुङ्गमता च वैशिका | तापी पयोगी निन्यस्य दक्षिणे च प्रकीर्तिताः ।। भागीरथी नर्मदा च यमुना च सरस्वती । विशोका च वितस्ता च विन्ध्यस्ये.त्तरतस्थिताः॥ द्वादशैला महानधो देवर्पिक्षत्रसंभवाः ।। नदीलक्षणं तु श्रायणकावेऽभिहितन् । सप्रवाहजले प्रवाहाभिमुखेन, तदन्यजले सूर्य भिमुखेन स्नानम् ! जाहि नारसिंह- नवां सवत्सु च स्नाया प्रतिस्ने तास्थितो द्विजः । तडामादिए तोयेषु प्रत्य स्नानमाचरेत् ।। परखानितखाते पंचपिण्डमृत्तिकासुद्धृत्य स्नायात् । तथाहि- योगियाज्ञवलक्यः- पञ्चपिएडाननुद्धृत्य न स्नायापरवारिणि । मनुः--स्मृत्वोंकारं च गायत्री निवनीयाच्छिखां ततः ॥ इति । स्नानानन्तरं ब्राह:-- योगो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । भस्मीभवति तत्सर्वद्ध पुडूं विना कृतम् ।। भारते-जाह्नवीतीरसम्भृतां मृद मूर्ना विभर्ति यः । विभर्ति रूपमर्कस्य तमो नाशाय केवलम् ।। ब्राझे-उर्द्ध पुण्ड्रं मृदा कुर्यान्त्रिपुण्ड्रम्भस्मना(१) सदा । यज्ञोपवीतेन बिना न किमपि कर्म कर्त्तव्यमित्युक्तं कृत्यमहाग वे-- सदोपवीतिना भान्यं सदा वशिखेन च । विशिखो व्युपवीतो च यत्करोति न तत्कृतम् ।। पिवतो मुअतश्चापि महतोऽनु वीतिनः । प्रलयामं त्रिषटकं वा नक्तत्रिकयुतं क्रमाव ।। गोभिलगृह्यसूत्रे- एकवस्त्रेण यत् स्नानं सूच्याविद्धन चैव हि । स्नानेन न भवेच्छुद्धिः श्रिया च परिहीयते ॥ विष्णुपुराणे-स्नातो नाङ्गानि मृज्यात स्नानशाट्या न पाणिना ।। अथोत्तरीयवस्त्रधारणे स्मृत्यन्तरम्-- यथा यज्ञोपवीतन्तु धार्यते च द्विजोत्तमैः । तथा सन्धार्यते यत्नादुत्तराच्छादनं शुभम् । अथ कालविशेषेण सायंसन्ध्यानिषेध उक्तस्तथााह- संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे। सायं सन्ध्यां न कृते कुत च ब्रह्महा भवेत् । (१)अथ भस्मधारणं देवीभागवते- मध्याहात् प्राक् जलातं तु परतो जलवनितम् । तर्जन्यनामिकाङ्गुखिपुष्डूच समाचरेत् ।।
७ कृत्यसारसमुच्चय- तिलकं वै द्विजः जुञ्चन्दनेन यहच्छया ।। मृदा गङ्गामृदा | पाझे-- अभावे उदकेनापि पौडूञ्चैतत्समाचरेत् । द्विज इत्यभिधानाच्छूद्रस्य नोर्चपुडूं किन्तु बिन्दुमात्रम् । तथा हि बृहद्धर्मसंहितायां व्यासः- 'तिलकं बिन्दुमात्रन्तु शूद्रजातिपु शस्यते ॥ इति । गोपीचन्दनमुद्राश्च कृत्वा भ्रमति भूतले । सोऽपि देशो भवेत्ततः किं पुनर्यत्र संस्थितः। पाझे-कृष्णनामाक्षरैर्गात्रङ्कल्पयेच्चन्दनादिना | स लोकपावनो भत्वा तस्य लोकमवाप्नुयात् ।। वस्य कृष्णस्य । श्रीभगवानुवाच-- ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे । मयों न मयो विज्ञेयस्तन्नूनं मामकीतनुः ।। विग्रहं शरीरम् 'शरीरं वर्म विग्रहः' -इत्यमरकोषात् ।। अथ सन्ध्या- - सा च नित्या, तत्र मनु:- नानुतिष्ठति यः पूर्वा नोपास्ते यश्च पश्चिमाम् । स शूद्रवद्वहिष्कार्यः सर्वस्माद्विजकर्मणः ॥ पूर्वी प्रातःसन्ध्या, पश्चिमां सायं सन्ध्याम् । योगियाज्ञवल्क्यः-- सन्ध्यात्रयं प्रकर्तव्यं द्विजेनात्मविदा सदा । संवतः--प्रातःसध्यां सनक्षत्रामुपासीत यथाविधि । सादित्यां पश्चिमा सन्ध्याम स्तमितभास्कराम् ।। 'उत्तीर्य वाससी परिधायेति' कात्यायनवचनाद् वाजसनेयिभिः स्थले सन्ध्या प्रकर्तच्या । स्थलाशुचित्वपक्षे जलेऽपि । यत्राशुचि स्थलं वा स्यादुदके देवताः पितृन् । तर्पयेत्त यथाकाममप्सु सर्व प्रतिष्ठितम् ।। इति वचनात् । उदीच्यस्य तर्पणस्य जलेऽभिधानादिति केशवमिश्राः। छन्दोगानामनियमः | गायत्रीजपे मनुः-- गायत्री यो न जानाति ज्ञात्वा नैव उपासते । अथवा-मध्यमानामिकाङ्गुष्ठुरनुलोमविलोमतः । नेत्रयुग्मप्रमाणन्तु त्रिपुण्डं धारयेद्विजः ।। षडङ्गुलप्रमाणं तु ब्राह्मणानां त्रिपुण्द्रकम् । मध्यमानामिकाभ्यां माले वामतो दक्षिणपर्यन्तमकुष्ठेन तु दक्षतो वामपर्यन्तं नेत्रदयव्या- यामपरिमितं भस्मत्रिपुट्ट धार्यमिति मावः । तदपि सान्तरालं कर्तव्यम्, तदुक्तं पद्मपुराणे- 'निरन्तरालं यः कुर्यात् त्रिपुण्ड्रंस नराधमः।' भस्मधारणस्य विशेषमाहात्म्यं देवीभागवते ११ स्कन्धे द्रष्टव्यम् ।
आह्निकविचारः। नामधारकविप्रोऽसौ न विप्रो वृपलो हि सः॥ वृषलः शूद्रः॥ जपस्तु शुक्लवस्त्रेण स्थले, न जले। तथाहि गोभिलः- कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायत्र्यग्निमुखी प्रोक्ता तस्मादुत्थाय तां जपेत् ॥ उत्थाय सूर्याभिमुखो जपेदिति छन्दोगाह्निकम् । अथ जपक्रममाह (१) योगियाज्ञवल्क्यः-- प्रणवं पूर्वमुच्चार्य भूर्भुवःस्वस्ततः परम् । (१) अथ जपयज्ञस्य मुख्यत्वमुक्तं मनुना- ये पाकयज्ञाश्चत्तारो विधियज्ञसमन्विताः। सर्वे ते जपयइत्य कला नाहन्ति पोडशीन् ।। अन्यत्र द्रव्योपकरणजनसमयादीनां साधनानां वहुत्गदविधियत्याऽनिष्टफलजनकत्वासर्वेषां जपयशः सुलभः फलाधिक्यजनकश्चात एवभगवद्गीतायां यज्ञानां जायज्ञोऽनयुक्तं श्रीकृप्गेन अथ तभेदा:-विशुदेश्वरतन्त्रे- निजकर्णागोचरो यो मानसः स जमः स्मृतः ! उनांशुनिजनत्य मेचरः परिकीर्तितः ॥ वाचिकस्तु जनैवैद्यस्त्रिविधी जप ईरितः । उच्चैर्जगद्विशिष्टः स्यादुनांशुशभिर्गुणैः ।। जिहाजपाच्छतगुणः सहस्रो माननः स्मृतः ।। एवं मनुयाज्ञवल्क्यस्मृत्यादिपु बत्र वत्तते । यथा चोक्तं तत्रान्तरे- मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् । उभयं निष्फलं याति मिन्नभाण्डोदकं यथा ॥ अथासननियमः काम्या कन्वलं चैव श्रेष्ठं तद्रक्तकन्वलम् । कृष्णाजिने ज्ञानत्तिद्धिमोक्षत्रीर्याचमणि ॥ कुशसने मन्त्रसिद्धिश्चात्र कार्या विचारणा । धरण्यां दुःखसंभूतिदौर्भाग्य दारुजतने ॥ वंशासने तु दारिद्रयं पापाणे व्याधिपीडनम् । तृणासने यशोहानिः पल्लवे चित्तविभ्रमः ।। जपध्यानतपोहानिर्वासनमितीरितन् ।। इति । अथ माला कीदृशी कार्ययुक्तं देवीभागवते- वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । भेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकन् । एवं संग्रथिता माला मन्त्रसिद्धिप्रदायिनी॥ अथ तत्सूत्रमुक्तं तत्रैव- रक्तवर्णैः सितैमिः कृतरन्धविदर्मितः । अक्षत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ।। अत्र मालां गोपुच्छाकारामुत्तरोत्तरन्यूनप्रमाएकगुटिकात्मकां कुर्यात् । सूत्रं कुतो ग्राह्यं तदाह- कन्याकर्तृकसूत्रेण त्रिवृता त्रिगुणेन तु । सितेन ग्रन्थिहीनेन शुद्ध नैव तु कारयेत् ।। 'गायत्र्या ग्रन्थिकृत्ये'त्यादिना तद्ग्रन्थिदानं गायत्र्या कर्त्तव्यम् । आकाशभैरवे-मालासूत्रे- प्रन्थिविधिरुक्तो यथा- सार्धग्रन्धित्रयं देवि ! ब्रह्मग्रन्थिः प्रकीर्तिताः । सार्धग्रन्थद्वयं देवि ! नागपाशः प्रकीर्तितः ॥ संमोहनतन्त्र- गोमुखादौ ततो मालां गीपयेन्मातृजारवत् । कौशेयं रक्तवर्णं च पीतवस्त्रं सुरेश्वरि ॥ अथ कासिवस्त्रेण यन्त्रतो गोपयेत्सुधीः । वाससाऽऽच्छादयेन्मालां सर्वमन्त्र महेश्वरि ॥ न कुर्यात्कृष्णवर्णन्तु न कुर्याद्वहुवर्णकन् । न कुर्याद्रोमज वसमुक्तवस्त्रेण गोपयेत् ।। तर्जन्या न स्पृशेत्सूत्रं कम्पयन्न विधूनयेत् । न सशेदामहस्तेन करभ्रष्टां न कारयेत् । जीणे सूत्र पुनः सूत्रं प्रथयित्वा तु कारयेत् । प्रमादापतिता हस्तान्छवमष्टोत्तरं जपेत् ।। :- . - -- त्यसारसमुच्चये- गायत्री प्रधान्ते जपरस्मेवमुदाहृतः ॥ प्रगतम्, कारन् , तथाच प्रगवं व्यावृतिः गायत्री पुनः प्रणवमन्ते, एवं क्रमो जपे, तो दशरजपोऽशोऽपि कर्तव्यः। तत्राश्वलायनः- 'बापन्न अाशुचिः काले तिटन्नपि जपेदश' ॥ इति । जात्रहीनो यथा देह सबकमनु न क्षमः । पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः ।। तथ मालानियता- वामेन त स्पृशेन्मालां न स्तृशेत्तानदीक्षि: । भूमौ न विन्यसेन्मालां नान्यमन्त्र जपेत्तया ॥ अनानांमुष्टमान्य जपं कुर्वादुमांशुकन् । यन्मन्त्रजपो यन्यांकृतस्तद्भिननन्त्रजस्तयां न कार्यः। भिन्नभिन्नमन्त्रजपाथै भिन्ना मालाविधेया तत्र मालाभेदा:- स्फटिगेन्द्राक्ष द्राक्ष उत्तलीवत उद्भः । अक्षनाग हि कर्त-या उत्तना युत्तरोत्तरा ॥ तत्र रुद्राक्षमालायां शक्तिमन्त्रजपकरणे दोपः- रुद्राक्षः शक्तिमन्त्रं च नन्त्रो यः प्रजपेत् प्रिये ! । म दुर्गनिमवाप्नोति निष्फलस्तस्य तज्जपः ।। इति कौमारतन्त्रे । तत्रापि कालिकादिकतिपयदेवीमन्त्रजपे दोपाभावः। तत्रैव- कालिका छिन्नमस्ता च त्रिनुमा तारिणी तथा । एताः सर्वा न दुःयन्ति जपे रुद्राक्षमालया । अथ करजपे विशेषः देवीभागते- अनामामध्यमारभ्य अधोवामक्रमेण च । तर्जनीमूलपर्यन्तं जपस्यैवं विलित करे ॥ इति । परन्त्वनेन मध्यनया अग्राव गत्वा तत एवाधनामेण तर्जनीमूलपर्यन्तं वा मध्यमाग्रपर्वत- स्तर्जन्यग्रं गत्वा ततोऽभः क्रमेण तर्जनोनूलपर्यन्तमिति निश्चयो न जातः । तत्र शक्तिमन्त्रजप- विपये तु तर्जन्या मध्यापर्वयात्मको मेनस्तदर्थमाह श्रीक्रमे- अनामिकात्रयं पर्व कनिादित्रिविका । मध्यमायाञ्च त्रितयं तर्जनीमूलपर्वणि ।। नर्जन्यग्रे तथा नध्ये योजपेत्स दुपारकृत् ।। अथ कुमारसंहितायां वैदिकमन्त्रजपविषये तु- तर्जनी मध्यमाऽनामा कनिष्ठा चेति ताः क्रमात् । तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका ॥ पर्वयं मध्यमावा मेरुत्वेनोपकल्पयेत् । तथाच-अंगुष्ठाण यम्मतं यजप्तमेजलं धितम् । असंख्यातं च यज्जप्तं तत्सर्व निष्फलं भवेत् ।। अथैवं दशवारजपनियमस्तेन दानहत्तपर्वसु दशसु वा गुटिकादिपु दशदशवारजपकरणेन शतसंख्या सिद्धा, परन्तु जपसंख्यायानष्ट प्तरशतसंख्याविधानाद् अष्टपूर्तिः कथं तत्तावदाह तत्रैव- मनामामूलमारध्य कनिष्ठादित एव च । तर्जनीमध्यपर्यन्तमष्टपर्वसु संजपेत् ।। इति वैदिकमन्त्रजपविषयपरम् । शक्तिविषये तु- अनामामूलमारभ्य प्राक्षि क्रमेण तु । मध्यमामूलपर्यन्तमष्टपर्वसु संजपेत् ।। इत्यादिविशेषविषया नित्यकृत्याणवे द्रष्टव्याः। अथ जपसंख्याविषये- सकृजपश्व गायन्याः पापं दिनभवं हरेत् । दशवरं जपेनैव नश्येत्पापं दिवानिशम् ॥ शतवारं जपश्चैव पापं मानार्जितं हरेत् । सहस्रधा जपश्चैव कल्मपं वत्सरार्जितम् ।। लक्षो जन्मकृतं पापं दशलक्षाउन्यजन्मजम् । सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ।। करोति मुक्ति विप्राणां जपो दशगुणस्ततः॥ भथ मालाशुद्धिस्तत्रैव- संस्थाप्य मालामन्चथपत्रे पद्म च संयनः । कृत्वा गोरोचनातां च गायत्र्या स्नापयेत्सुधीः ॥ गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् । अयवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् ।। - ७३ - - आह्निकविचारः। अशुचिरेवाशुचिः। तिष्ठन्नुत्तिष्टन् | नित्यत्वान्मल मासेऽपि दशवारजपः मात्स्ये-गृहे त्वेकगुणञ्जप्यन्नद्यां तु त्रिगुणं स्मृतम् । तीर्थेषु शतसाहस्रमनन्तं शिवसन्निधौ ॥ जपे गुटिफामाह पाद्मे- शतधा शङ्खपद्माभ्यां मणिभिरतु सहस्रधा । पुत्रजीवेन शतधा फलं स्यान्मन्त्रजापिनाम् ।। पुत्रञ्जीवः 'पितौझिया' इति प्रसिद्धः । शङ्कः- शतं स्याच्छङ्खमणिभिः सहस्रन्तु प्रवालकैः । स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ पद्माआर्दशलक्षन्तु सौवणः कोटिरुच्यते । कुशग्रन्थ्या च रुद्राक्षरनन्तं फलमुच्यते ।। प्रवालो 'मूंगा' इति प्रसिद्धः । शिवपुराणे- अष्टोत्तरशतं चैव पञ्च पञ्चाशदुत्तरम् । अष्टाविंशतिभिर्वाऽपि कार्या रुद्राक्षमालिका ॥ गुटिकाप्रमाणमाह-- जातीफलप्रमाणेन जप्यं महदुदाहृतम् । बदरास्थिप्रमाणेन स्वल्पकन्तदुदाहृतम् ॥ जातीफलं 'जायफर' इति प्रसिद्धम् । करजपोऽष्टोत्तरशतपर्यन्तमेव, न तु तदधिकं जप्यम् । अथ करजपक्रममाह अगस्त्यसंहितायाम्-- आरभ्यानामिकामध्यात्प्रादाक्षिण्येन वैक्रमात् । तर्जनीमूलपर्यन्तं जपेदशसु पर्वसु ॥ अथ तर्पणम्-- तत्र मृतपितृकस्याधिकारः। जीवत्पितृकस्य मृतमातृकस्य च देवर्षि- तर्पणे(१) मातृतपणे चाधिकारः। पितुः संन्यासादिना, पातित्येन वा तर्प- -- अथ गङ्गोदकेनैव स्नात्वा वाऽतिसुसंस्कृताम् ।। कुर्यादिति शेषः । अथ जपस्थानविशेषा उत्तरोत्तरविशेषफलदाः- गृहे जपः समं विद्यागोष्ठे शतगुणं भवेत् । नद्यां सतसहस्र तु अनन्तं शिवसन्निधौ॥ समुद्रतीरे देवहदे गिरौ देवालयेषु च । पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥ शिवस्य सन्निधाने च सूर्यस्यायेगुरोरपि । दीपस्य गोर्जलस्यापि जपकर्म प्रशस्यते ॥ . बृहस्पतिः-मनः संहरणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्त्वमनिर्वेदो जपसम्पत्तिहेतवः।। लघुहारीतः-जपें होमे तथा दाने स्वाध्याये पितृतर्पणे । अशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशः॥ सरोजसुन्दरे-विना दर्भण या सन्ध्या यच्च दानं विनोइकैः असंख्यातं च यज्जप्तं तत्सर्व निष्फलं भवेत्॥ बौधायनः-कर्मयुक्तो नरो नाभेरषः स्पर्श विवर्जयेत् ॥ (.) व्यास:- तर्पणादीनि कार्याणि पितृणां यानि कानिचित् । तानि स्युर्द्विगुणैर्दर्भः सप्तपत्रैविशेषतः ॥ इति ।
-- कृत्यसारसमुच्चये- जानहन्त्रे जीवपितृकोऽपि पितामहादितर्पणं कुर्यात् । तथाहि याज्ञवल्क्यः- यदि स्पाजीवपितृक एतान्दिव्यान् पितृ स्तथा। रेभ्यो वाऽपि पिता दद्यात्तेभ्यो वाऽपि च दापयेत् ।। ब्राह्मणादिहते ताते पतिते सङ्गजिते । व्युत्क्रमा मृते देयं येभ्य एव ददात्यसौ ॥ इति कात्यायनेनापि तस्य पितामहोपक्रमप्रतिपादनात् पितुरसत्वे च सुतरामिति द्वैतपरिशिष्टम् । तर्पणमुपक्रम्य वर्धमानः-- 'रिना रूप्यसुवर्णाभ्यां विना ताम्रतिलैस्तथा । बिना दर्भश्च मन्त्रैश्च पितृणां नोपतिष्ठते ॥' इति । द्वैतनिर्णय-जपे होमे तथा दाने स्वाध्याये पितृतपणे। अशून्यन्तु कर छुर्याद्धिरण्यरजतैः कुशैः।। इति वचनात् । दक्षिणहस्तानामिकायां हिरण्यरजतकुशा धार्याः । देवीपुराणे-अनामिकायान्तद्धार्य दक्षिणस्य करस्य च ॥ इति । तर्जन्यां रजतन्धार्यमिति प्रवादो निर्मूल एव । स्मृतिः-- तर्पयदेवतानाञ्च लव्यं कृत्वा समाहितः । अधिकारी भवेत्पश्चापितृणां तर्पणे द्विजाः॥ अन्यारब्धेन सव्येन पाणिना दक्षिणेन तु | तृप्यतामिति सेक्तव्यन्नामगोत्रेण वाग्युतैः॥ सव्येन वामेन, तथा च वामहस्तयुतदक्षिणहस्तेन तर्पयेदिति भावः । स्मृतिः-(१) कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् । तर्पितास्तेन पितरस्त्वग्मांसरुधिरास्थिभिः॥ : । शालकायन:- सपिण्डीकरणं यावदृजुदर्भः पितृक्रिया । सपिण्डीकरणादूर्व द्विगुणे विधिवद्भवेत् ॥ इति । अत्र ऋजुदर्भः सरलकुशत्रयरूपैः। द्विगुणेमोंटकैः । (१) सप्तम्यां भानुवारे च गृहे जन्मदिने तथा । मृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम् ॥ एतप्रतिवादोऽपि कात्यायनेनोक्ता- उपराने पितुः श्राद्ध पातेऽमायां च संक्रमे । निषेवेऽपि हि सर्वत्र तिलस्तर्पणमाचरेत् ॥ तपंणकरणकरणस्यावश्यकत्वमुक्कं पुराणसमुच्चये- देवताश्च मुनींश्चैव पितृभ्यो नहि तर्पयेत् । देवादीनामृणी भूत्वा नरकं स व्रजेब्रुवम् ॥ न वैष्टिवशिराः कृष्णरक्तकापायवरूधृक् । न कन्चुका न नग्नश्च पितृन् सन्तर्पयेत्कचित् ॥ तर्पणन्तु इस्तौ अन्तनानुगतौ कृत्वा कर्तव्यं तदुक्तं नित्यकृत्यमालायाम- तत्सर्व निष्फलं याति बहिर्जानु च यत्कृतमिति । यमा-हस्तौ कृत्वा तु संयुक्तौ पूरयित्वा जलेन च । गोशृङ्गमात्रमुदधृत्य जलमध्ये जलं क्षिपेत् ॥ अनेन स्थले निराधारे नहि तर्पणं विहितम् । तत् हस्तद्वयमिलितेनैव, तदप्याह यम एव श्राद्धे हवनकाले च दद्यादेकेन पाणिना। उमाभ्यां तर्पणे कुर्यादेष धर्मों व्यवस्थितः ॥
आह्निके आसनतर्पणविचारः। ८१. कायस्थैः अङ्गस्यैः। अङ्गस्थैर्न तिलैः कुर्यादेवतापितृतर्पणम्! रुधिरन्तु भवेत्तोयं प्रदाता किल्विपी भवेत् ॥ इति वचनैकवाक्यत्वात्तर्पणं स्थने एव, न जने, तथाहि कत्यायनः उत्तीर्घ्य वाससी परिधायेति' | अन्यच्च- उदके नोदकं कुर्यालितृभ्यश्च कदाचन । उत्तीयं च शुचौ देशे कुर्यादुदकतर्पगम् ।। इति स्थलाशुचित्वे जल्लेऽपि इत्यनुपदमुक्तं प्राक, वाजसनेयिनामिदम् । छन्दोगानामनियमः । कुशेपरि तर, न तु भूमौ, तथा च तीर्थचिन्तामणौ- आस्तीयं च कुशान् सामान् तानावाह्य च मन्त्रतः । प्राचीनाग्रेषु देवांस्तु दक्षिणाय वै पितृन् ।। देवान् पितृ स्तथा चान्यान सन्तप्र्याचन्य वाग्यतः । भूम्यां यदीयते तोयं नाता चैव कुने स्थितः ।। वृथा तन्मुनिशार्दूल ! नोपतित्रति कस्यचित् ! स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकन्नरः ! नोपतिष्ठेपितृणान्तु सलिलं तन्निरर्थक्रम् ।। पामे-तर्पयेत्तिलतोयाभ्यां सन्यगञ्जलिसंख्या । एकैकमञ्जलिन्देवा द्वौ द्वौ च सनकादयः । अर्हन्ति पितरस्तुत न लियकैवमञ्जलिम्।। इति । एतेन पित्रादिषद्पुरुपेपु प्रत्येकमञ्जलित्रयम्। तद्भिन्नामेकैकमञ्जलि- मिति । अमुकगोत्रः पिता अमुकशर्मा तृप्यतामिति वाक्यम् । तथाहि गोभिल:- शर्मन्नर्घादिके कार्ये शर्मा तर्पणकर्मणि । शर्मणोऽक्षय्यकाले स्यादेवं कुर्वन्न मुह्यति ।। इति । अक्षय्यकालेऽक्षय्योदके । अन्यच्च- 'तृप्यतामिति सेक्वव्यं नामगोत्रेण वाग्युतैः' । अत्र पुरुपषटकनीषट्कयोनित्यन्तर्पणमिति द्वैतनिणेयः । स्मृतिः- नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । गोशृङ्ग वितस्तिमात्रमित्यर्थः। तर्पणे विशेषमाह हारीत:- आवासा जले कुर्यात्तर्पणाचमनादिकम् । शुष्कवासाः स्थले कुर्यात्तपणाचमनं जपम् ।। एतदप्रतिकूलकरणे दोषमाह विष्णु:- स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः । नोपतिष्ठति तद्वारि पितॄणां तन्निरर्थकम् ॥ अथ तिलेन कदा न तर्पणं कार्यमित्युक्तं मात्स्ये- संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिने तथा । जन्मनि श्राद्धदिवसे न कुचिलतर्पणम् ॥ तथाच-रविशुक्रदिन चैव द्वादश्यां श्राद्धवासरे । सप्तम्यां जन्मदिवसे न कुर्याचिलवर्पणम् ॥ निषिद्धदिनमासाद्य यः कुर्यात्तिलतर्पणम् । रुधिरं तद्भवेत्तीयं दाता च नरकं ब्रजेत् ।। ११ कृ० सा० -- - -- -- २ कृत्यसारसमुच्चये- नोपतिष्ठति तत्तोयं यद्भूमौ न प्रदीयते ॥ भूमाविति भूमिस्थितकुश इत्यर्थः । अतो न पूर्ववचनविरोधः । गौतमः- नित्यं स्वाध्यायः पितृभ्यश्चोदकदानश्च यथोत्साहमन्यत् । मनुः-- यदेव तर्पवेद्भिः पितॄन स्नात्वा द्विजोत्तमः । तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् । इति वचनाभ्यामशक्तादिना(क)वैश्वदेवाद्यकरणे न दोषः,(ख)काम्यत्वात् । अथ देवपूजा- तत्र विहितासनमाह व्यास:- कौशेयं कम्बलञ्चैव अजिनं पटमेव च दारुजं तालपत्रं वा आसनं परिकल्पयेत् । कौशेयं कुशासनम् , अजिनं मृगादिचर्म । दारज काष्ठसम्बन्धि । शारदातिलके- 'वस्त्रासने रोगनाशं चित्रकं विष्टरं शिवे !| व्यासः-वंशासने तु दारिद्रथं पापाणे व्याधिजं भयम् । घरिण्यां दुःखसम्भूतिदौर्भाग्यं छिद्रदारुके । तृणे धनयशो हानिः पल्लवे चित्तविभ्रमः॥ पञ्चोपचारमाह, आचारचन्द्रोदये- सपर्या विविधा प्रोक्ता तासामेकां समाश्रयेत् । गन्धादिकान्ता नैवेद्या पूजा पञ्चोपचारिकी । सपर्या पूजा, गन्धादिकेति गन्धपुष्पधूपदीपनैवेद्यैः पञ्चोपचारिकेत्यर्थः । पुनश्च तत्रैव-- आसनं स्वागतं चाय पाद्यमाचमनं तथा । मधुपर्काचमनस्नानवसनाभरणानि च । गन्धपुष्पधूपदीपनैवेद्यं चन्दनन्तथा ।। इति । तथा च आसनादिषोडशभिः पूजा षोडशोपचार इति भावः। पराशरभाष्ये- 'शिवार्चनं सदाऽप्येवं शुचिः कुर्यादुदङ्मुख' । (क) दं वैश्वदेवाख्यं कर्म देवपूजानन्तरं विधेयं तथा हि, नृसिंहपुराणे-- पौरुषेण तु सूक्तेन तत्र विष्णुं समर्चयेत् : वैश्वदेवं ततः कुर्याद्वलिकर्म 'ततः परम् ॥ इति । (ख) वस्तुतस्तु बहुवचनविरोधादिदं नित्यम् । तथाहि-श्रा० गृह्यसूत्र (३ अ० प्र०पादे) 'अथातः पञ्च महायशः' इत्युपक्रम्य, तानेतान् यज्ञानहरहः कुर्वीत इत्युक्तम् । एवं पा० गृह्य- सऽपि प्रतिपादितम् । तथाच याज्ञवल्क्येऽपि-'बलिकर्म स्वधे' त्यादिव्याख्यानावसरे मिता- पराकारा-ते पञ्च महायशा अहरहः कर्तव्या नित्यत्वादिति प्राः । केचितु-अनग्निवतामिदं वैश्वदेवाख्यं कर्म नावश्यकमित्याहुस्तन- इत्या व्यातिमिा पूर्व ततो मन्त्रैश्च शाकली। मतेभ्यश्च बलिन्दत्वा ततोऽश्नीयादनग्निमान्॥ इति बन्दोगपरिशिष्टवचनस्य जागरूकत्वादिवि संशोधकः।
-- आहिके देवपूजनविचारः। सदेति दिवसे रात्रौ चेत्यर्थः । शिवभिन्नसर्वदेवकार्य दिवसे प्राङ मुखः । रात्रावुत्तरमुखः । द्वैतपरिशिष्टे-प्रातः प्राङ्मुखेनेति ! पराशरभाष्ये- 'रात्रावुङ नुखः कुर्यादेवकार्य सदैव हि । इति ।। अथ पुष्पे (१) विशेषमाह-- याचितन्निष्फलं पुष्पं क्रयक्रीतन्तु निष्फलम् । स्मृतिः-'परकीयारामजातैः कुसुमैरर्चचेत्सुसन्' तेन पापेन लिप्येऽमिति बहुलाकथायाम् । आरामः पुष्पवाटिका । एतन्निपेधः काम्यपूजायामेव, नित्यपूजायान्तु चौर्येगापि पुष्पग्रहणे न दोषः । 'देवतार्थन्तु कुसुममस्तेयम्मनुरब्रवीदिति वचनात् । पारिजाते-जलं पर्युषितन्त्याज्यम्पत्राणि कुसुमानि च । तुलस्यगस्तिबिल्वानां गाङ्गं वारि न दुष्यति ॥ (१) लिङ्गार्चनचन्द्रिकायां पुप्पादिदानक्रमः-'पुष्पञ्चायोमुखं नेटं पत्रमूर्ध्वमुखं तथा ।' वाराहे युष्पञ्चाधोमुखं नेष्टं तुलसीपत्रवर्जितन् । तत्लादधोमुखं देयं विल्वपत्रं च शङ्करे ।। पुष्पमूर्ध्वमुखं योज्यं पत्रं योयनानुखम् । फलन्तु संनुखं योज्यं यथोत्सन्न तथाऽर्पयेत् ॥इति। धूपदीपनैवेद्यदाने कालिकापुराणम्- नैवेधं दक्षिणे वामे, पुरतो न च पृष्ठतः। दीपं दक्षिणतो दद्यात्पुरतो न च वामतः ॥ वामतस्तु तथा धूपमये वा न तु दक्षिणे। निवेदयेत्रो भाग गन्धं पुष्पं च भूषणन् । प्रतिमादिषु यद्योग्यं गात्र दानुञ्च तत्तनी । दद्यादयोन्यं पुरतो नैवद्यं भोजनादिकम् ॥इति। अयं दिक्क्रमस्तु पूजकाभिमुखस्यदेवस्येति शेयन् । पुष्पादौ विशेषः कालिकापुराणे- गन्धं पुष्पञ्च धूपञ्च उपचारांस्तथाऽपरान् । जिवन्निवेद्य देवेभ्यो नरो नरकमाप्नुयात् ।। न भूमौ वितरेलूपं नासने न घटे तथा । यथा तथाऽऽधारगतं कृत्वा तं विनिवेदयेत् ॥ नैवेद्य तु देवीपुराणम्- निवेदयेदपक न मुकुलैनर्चियेत्सुरम् । फलं कथितविद्धं च कालापकमपि त्यजेत् ।। निर्णयनिबन्धे तु-'यतपकमपि ग्राह्यं कदलीफलमुत्तमम् । ब्रह्मवैवर्त जपादिकरणे- अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे। जपहोमनमस्कारान्न कुर्याद्देवतालये ॥ अग्रे मृत्युमवाप्नोति पृष्ठे त्वपचयः स्मृतः । वामभाग भन्नाशो दक्षिणे सर्वकामदः ।। शालग्रामशिलायां तुलसीपत्रविच्छेदो न कार्य इत्युक्तं तत्रैव- तुलसीपत्रविच्छेदं शालग्रामे करोति यः। तस्य जन्मान्तरे कान्ते ! स्त्रीविच्छेदो भविष्यति ॥ तुलसीपत्रविच्छेदं शंखे योहि करोति च । भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मम् ॥ तुलसीपत्रनोटने निषिद्धदिनानि तत्रैव- पूर्णिमायाममायाञ्च द्वादश्यां रविसंक्रमे । तैलाभ्यङ्गञ्च कृत्वा तु मध्याहे निशि सन्ध्ययोः । अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः।तुलनी ये विचिन्वन्ति ते च्छिन्दन्ति हरेःशिरमा पाने-न कदाचिस्त्रिया कार्य शालग्रामस्य पूजनन् । भर्तृहीनाऽथ सुभगा सर्वलोकहितैषया ।। मोहात स्पृशेत् महिला जन्मशीलगुणान्विता । हित्वा पुण्यसहस्रन्तु सत्वरं नरकं व्रजेत् । बाराहे-स्त्रीशूदकरसंस्पशों वज्रस्पाधिको मतः। मोहायः संमृशेच्छूद्रो योषितापि कदाचन।। स पतेन्नरके घोरे यावदाहूतसंप्लवम् ।।
२४ कृत्यसारसमुच्चये- - - ज्ञानमालायाम्-- न पर्युपितदोषोऽस्ति जलजोत्पलचम्पके । तुलस्यगस्तिवकुले बिल्के गङ्गाजले तथा ।। न पर्युपितदापोऽस्ति मालकारगृहेषु च । स्कान्दे-पालाशन्दिनमेकं च पंकजं च दिनत्रयम् । पंचाहं बिल्वपत्रं च दशाहं तुलसीदलम् ।। पालाशमित्यादौ पर्युषितत्वेन न दुष्टमिति सर्वत्र योज्यम् । अन्यच्च- एकाहन्तिष्ठते जाती करवीरमहर्निशम् । जलजं सप्तरान्नाणि षण्मासन्तुलसीदलम् ॥ पूर्वदिने नोटितमुत्तरदिने पर्युषितपदयाच्यम् । भविष्ये-- समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ।। विष्णुधर्मोत्तरे- 'समित्पुष्पकुशादीनि वहतो नाभिवादयेत् । वहतः उद्वहतः, अभिवादनं प्रणामादि, कुशादीनीत्यादिपदान्जलादिपरि- ग्रहः। तथा-- देवोपरि धृतं यच्च वामहरतेन यद्धृतम् । अधोवस्त्रधृतं यच्च जलाऽन्तःचालितञ्च यत् ॥ देवतास्तन्न गृह्णन्ति पुष्पं निर्माल्यताङ्गतम् । अधोवस्त्र परिधानवरूपम्, यति पुष्पमिति शेषः । (१)स्मृतिः- स्नानं कृत्वा तु तत्किंचित्पुष्पश्चिन्वन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मी भवति दारुवत् ।। इदन्त्वहस्नानविषयम् (२) । प्रातः स्नानानन्तरं दक्षेण पुष्पाहरावधा- नादिति द्वैतपरिशिष्टे । नारदीये- भृङ्गराजशमीबिल्वतुलस्यामलकी तथा । तमालञ्च हरौ पूज्ये पत्रषटकं प्रशस्यते । हरी विष्णौ । पुष्पमालायाम्- अपामार्ग शमी दूर्वा शिंशपा तुलसीदलम् । बिल्वपत्रं मरबकं शस्तञ्च खदिरं हरेः॥ अपामार्ग चिरचिरी', मरुबकं 'मडुबा' इति प्रसिद्धम् । पुनश्च तत्रैव- कुन्दं कुजककर्णिकारतिलकं सेवन्तिका यूथिका पुन्नागङ्करवीरनागवकुलं द्रोणं यवा पाटला । द्वे जात्यौ खदिरं कुसुम्भकमलनीपङ्करण्टोत्पलम् मल्लीचम्पकमाधवीवकमिदं पुष्पं हरौ शस्यते ॥ (१) हारीतवचनमिदम् । (३) अष्टाविंशतितत्त्वे तु द्वितीयस्नानाभिप्रायमिति रत्नाकरः। - भोजनविचारः। कुब्जकं कुआ । कर्णिकारः कनैलः । सेवन्तिका सेउती, यूथिका जूही, पुन्नागं नागकेशर, नीपं कदम्ब, द्रोणं दुनूफ, यवा उडहुल, पाटला पाँडरि, कुरुएटः पीत पिअरी, उत्पलं कोका इति प्रसिद्धम् । ज्ञानमालायाम्-- नाक्षतैरर्चयेद्विष्णुन तुलस्या गणाधिपम् । गणाधिपो गणेशः। यवाकुन्दशिरीपैश्च यूथिकामालतीभवैः । केतकीभवपुष्पैश्च नैवार्यः शङ्करः सदा ।। तथा-गणेशन्तुलसीपत्रैदुर्गा नैव च दूर्वया । मुनिपुष्पैरतथा सूर्य लक्ष्मीकामो न चाऽर्चचेत् । मुनिपुष्पैः अस्तिपुष्पैः । पद्मपुराणे- माघे चम्पकपुष्पेण योऽर्चयेत्कमलापतिम् । समच्छेत्परमं धाम विमुक्तः सर्वपातकैः ।। स्मृतिः-भूमिस्पृष्टं न गृह्णीयात्शेफाली बकुलं विना । शेफाली शृङ्गरहार इति, बकुलं मौलसरीति प्रसिद्धम् । तथा च शेफाली बकुलं च भूमिस्थितमपि त्राशम् ! अन्यत्पुष्पं न भूमिस्थं ग्राह्यमित्यर्थः । न दोषः कलिकाभङ्गे पद्मचम्पकयोरपि । इति वचनात्कमलचम्पकयोः कलिकात्रोटने न दोपः ॥ अथ अष्टाङ्गादिप्रणाममाह हलायुधीये- अष्टाङ्ग उत्तमः प्रोक्तः पश्चाङ्गो मध्यमः स्मृतः । दोभ्या पद्भयाञ्च जानुभ्यामुरसा शिरसा तथा ।। मनसा वचसा दृष्टया प्रणामोऽष्टाङ्ग ईरितः ।। दोामिति बाहुभ्यामित्यर्थः । अन्यच्च- 'पद्धयां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता' । इति । स्त्रीणामयमाचारो वर्जितः॥ अथ भोजन व्यवस्था- तत्र कुलानुसारेण सप्तनवद्वादशादिनैवेद्यं दत्त्वा भोजनं कुर्यात् । बृहद्धर्मसंहितायां व्यासः- न क्षीरे लवणन्दद्यान्न चाने गुडमेव च | क्षीरं तथाऽऽमिषं मुक्त्वा न भुञ्जीत कदाचन ॥ अमिषं मांसं पठन्ति । वर्द्धमानः-हारिद्रमांसं हरिद्राजलावसिक्कं हरिद्रा- नलपाचितमात्मानं व्यापादयति । हारिद्रं मांसं 'हरिअल' पक्षिमांस व्यापा- दयति नाशयति । 'गव्यश्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ।' विष्णुपुराणे-अनभ्यर्च्य ऋषीन्देवान् पितृभूतातिथींस्तथा ।
८६ कृत्यसारसमुच्चये- यो भुङ क्त तस्य सम्भाषात्पतन्ति नरके नराः । अन्यच्च-मौनेनैव तु यो मुङक्ते संयमेन दृढव्रतः । एकविंशतिगोत्राणि तारयेन्नरकार्णवात् ॥ संवतः- भुञ्जानश्च यदा याद्गायत्र्यष्टशतं जपेत् । बृहद्धर्मसंहितायां (१)व्यासः- पङ्क्तिमध्ये न भोक्तव्यम्पडितन्नैव विलङ्घयेत् । पञ्चाङ्गुलीभिभोक्तव्यं नाङ्गुलीपृष्ठमालिहेत् ॥ पडितमध्ये पक्तिद्वयाभ्यन्तरे । (१) नोत्क्षिप्तवाहुजङ्घश्च प्राशस्तिष्ठेत्कदाचन । न चापि विक्षिपेत्पादौ पादं पादेन नाक्रमेत् ॥ इति ब्रह्मपुराणम् । जलपानाथं पात्रविवेचना कालिकापुराणे-प्र० ९१ । ६३ कांस्यराजतपात्रस्थं तोयं नगश्च वर्धनम् । मूत्रवृद्धिकरं वीर्यक्षयकारि विवर्जयेत् ।। ताम्रायःस्वर्णशीशानां पात्रस्थं फलचर्मणोः। शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः । पद्मपुराणे- आत्मार्थ भोजनं यस्य रत्यर्थ यस्य मैथुनम् । वृत्त्यर्थ यस्य चाधीतं निष्फलं तस्य जीवनम् ।। तन्त्र भोजनस्थाने मण्डलकरणावश्यकता- यातुधानाः पिशाचाश्च धतुरा राक्षसास्तथा । धनन्ति ते बलमन्नस्य मण्डलेन विवर्जितम् ॥ कांस्यपात्रे भोकन्यमाह- एक एव तु यो मुक्त विमले कास्यभाजने। चत्वारि तस्य वर्धन्ते आयुः प्रशा यशो बलम् ॥ परमयं विधिहस्थानामेव । विधवाब्रह्मचारिणां तु कांस्यपात्र भोजनं न प्रशस्तम् । तदाह प्रचेता:- ताम्बूलाभ्यजनं चैव कांस्यरात्र च भोजनम् । यतिश्च विधवा चैव ब्रह्मचारी विवर्जयेत् ।। अथ पत्रविषये तु- रम्भाकुटजमध्वाम्रजम्बूपनसचम्पकाः। पद्मोदुम्बरपालाशब्रह्मपत्रकमेव च ॥ एतानि प्रशस्तानीत्यर्थः । अप्रशस्तपत्राण्यपि तत्रैव- वटाश्वत्थार्कपणेषु कुम्भतिन्दुकपर्णयोः । कोविदारकदम्बानां भुक्त्वा चान्द्रायणं चरेत् ॥ करे कटके चैव शिलायां त्वद्रिमाजने। भिन्नकांस्ये स वस्त्र च मुक्त्वा चान्द्रावणं चरेत् । अथ भोजने दिनियम उको मनुना- आयुष्यं प्राङ्मुखो भुक्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुंक्त ऋतं भुक्ते युदंमुखः । पारिजाते तु-'पितरौ बीवमानौ चेन्नाश्नीयाइक्षिणामुख । अत एव स्मृत्यन्तरे- अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्यात्कृते च पितृहा भवेत् । भन्न निन्दन न भुञ्जीतेति मनुः- पूजितं अशनं नित्यं बलमूर्ज च यच्छति । अपूजितं तु व मुक्तमुभयं नाशयेदिदम् । मुक्तावशेष कस्मैचिन्न दयादित्याह मनुः- नौच्छिष्टं कस्यचिद्दधान्नावद्याच्चैव तथाऽन्तरा। न चैत्रात्यशनं कुर्यान्न चोच्छिष्टः कचिब्रजेत् । अनारोग्यमनायुष्यमस्वयं चातिमोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ तत्र कियोजनमुचितं तदुकमायुर्वेदे- कुर्भागद्वयं मोज्वस्तृतीये वारि पूरयेत् । वायोः संचारणार्थाय चतुर्थमवशेषयेत् ।। ।
- दाहादिविचारः। ज्योतिषे--अमृतं सिद्धियोगश्च यद्यकस्मिन्दिने भवेत् | तदिनन्तु भवेन्नष्टं मधुसर्षियथा विषम् ॥ इति । मधुघृतमेकीभूतं विषमित्यायाति, तञ्च द्वयोः समानत्वे, न्यूनाधिकत्वे तु न विषं वैद्यशास्त्रे तथैव लिखनात् । शूलपाणिधृतशङ्कः-- एकपड्कृत्युपविष्टानां विप्राणां सहभोजिनाम् । योकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत् ।। मोहमुखीत यः पङ्कयामुच्छिष्टं सहभोजनम् ।। प्रायश्चित्तश्चरेद्विप्रः कृच्छ्रसान्तपनं तथा ।। इत्याह्निकम् । अथ दाहादिविचारः। मृतस्य(१)दाहः श्राद्धाधिकारिणा तदनधिकारिणाऽपि कर्त्तव्यस्तथैव शिष्टा- चारात् । अग्राह्याननीनाह- चाण्डालाग्नश्चिताऽमश्च सूतिकाऽग्नश्च कर्हिचित् । पतिताग्नेरमेध्याग्नेन्नै शिष्टैर्ग्रहणं स्मृतम् ।। तनोच्छिष्टे घृतं न भक्षणीयमतो भोजनादादेव, तदुक्तं स्मृतिसारे- ताम्रपाने पयः पानं नोच्छिष्टे घृतभोजनम् । दुग्धे च लवणं दद्यात्सद्यो गोनांसभक्षणम् । तथाशातातपः- इस्तदन्तानि चान्नानि प्रत्यक्ष लवणं तथा । मृत्तिकाभक्षणे चैव गोमांसाशनवत् स्मृतन् । प्रत्यक्षमपि लवण हस्तदत्तमेव निषिद्धम् । तथा पैठीनसिः- लवणं न्यानं चैव घृतं तैलं तथैव च । लेह्यपेयं च विविध हस्तदन्तं न भक्षयेत् । तथा कूर्मपुराणे- यो भुंक्ते वेष्टितशिरा यश्च मुंक्ते विदिङ्मुखः । सोपान कश्च यो मुंक्ते सर्व विद्यात्तदासुरम् ॥ भोजनान्ते तु- श्वानी द्वौ श्यावशवलो वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रयच्छामि स्यातामेतावहिंसकौ ।। अनेन दो बली देयौ । आदावेवता भोजनीया:-(मनुः) सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः। अतिथिभ्योऽध एवैतान्भोजयेदविचारयन् । मदत्त्वा तु य एतेभ्यः पूर्व भुक्ते विचक्षणः । स भुजानो न जानाति श्वगृर्जग्धिमात्मनः॥ अतिथिमदत्वा न किमपि भोकव्यम्- न वै स्वयं तदश्नीयादविणि यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वयं वाऽतिथिपूजनम् ।। परदेशे परगृहे च भोजनार्थ स्वनामगोत्रे न कथयेत्-- न भोजनार्थ स्वे विप्रः कुलगोत्र निवेदयेत्। भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ (१) अथ त्रिपुष्करयोगे जननमरणहानिलाभास्त्रिगुणा भवन्ति द्विपुष्करे च ते द्विगुणाः संजायन्ते । तत्र जननलामयोः पुनः पुनः संभवः सुखाय एव भवति 'श्रेय स केन तृप्यते' इति लोकप्रसिद्धः। किन्तु मरणहान्योरनिष्टरूपत्वाच्छान्तिरवश्यं कर्तव्या, योगयोनियतटितत्वात् । तत्र तावत् त्रिदिपुष्करयोगलक्षणं महुर्त्तचिन्तामणौ- भद्रातिथी रविजभूतनयाकेवारे द्वीशार्यमाऽजचरणादितिवहिवैश्वे। पुष्करो भवति मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकृद्रतक्षचान्द्रे ।। अरयार्थस्तु-शनिमगलरविवारान्यतमदिने विशाखोचरफल्गुनीपूर्वभाद्रपुनर्वस्कृतिकोत्तरा. - पस कृत्यसारसमुच्चये- दाहशरीरलामे तस्य, तदलासे तदस्थ्नां दाहः, तेषामप्यलाभे पर्णनर- दाहः । आदिपुराणे- अनाहिताग्नेर्देहस्तु दाहो गृह्याग्निना पुनः तदलाभे पलाशोत्थैः पत्रैः कार्यः पुमानपि ॥ शतैत्रिभिस्तथा षष्ठया ३६० शरव्रतैविधानतः॥ श्राद्धरत्ने-दाशशरीरालाभे तदस्थि घृतेनाभ्युक्ष्य वस्त्रेणाच्छाद्य पूर्ववद् दहेत्। पूर्ववत् शरीरदाहवत् । (१)पर्णनरविन्यासप्रकारमाह गृअपरिशिष्टे आश्वलायन:- पाढान्यतमनक्षत्रे यदि द्वितीयासप्तमीद्वादश्यन्यतमतिथिर्भवेत्तदा त्रिपुष्करयोगो भवति । स च मृत्युक्षति-वृद्धिपु त्रिगुणकृत् । अथ तेष्वपि दिनेषु धनिष्ठाचित्रामृगशिरोऽन्यतमनक्षत्र तत्तियित्र- यान्यतमतिथिभवेत्तदा तत्कलद्विगुणकरो द्विपुष्करसंज्ञकगेगो भवति । अत्र योगदये दिन- तिथ्योरभेदः । नक्षत्रेषु राशिपतित त्रिचरणानि भानि त्रिपुष्करे, राशिपतितद्विचरणानि भानि द्विपुष्करे सन्ति । इति तद्योगसंज्ञा करणवत्तम् । तथा चोकमपरा- विषमचरणं विष्ण्यं भद्रातिथिर्यदि जायते शनिरविगुरुक्ष्मापुत्राणां कथंचन वासरे । मुनिभिरुदितः सोऽयं योगस्निपुष्करसंशकस्त्रिगुणफलदो लब्धे नष्टे हृतेऽपि मृतेऽपि वा ।। अत्र शान्तिस्तु नारदेनोका यथा- दद्यात्तद्दोषनाशाय गोत्रय मूल्यमेव वा । द्विपुष्करे द्वयं दद्यान्न दोषस्त्वर्तमात्रतः । एवमेव वसिष्टोऽप्याह- त्रितयं गवां हि दद्याद्दोषस्यापनुत्तये विद्वान् । द्वितीयं द्विपुष्करेऽपि च तिलपिष्टैविप्रमुख्येभ्यः । (१) अन्न शवप्रतिकृतिदाहे वय॑समय उको रामाचार्येण-- शुक्राराकिंधु दर्शभूतमदने नन्दातु तीक्ष्णोग्रमे पौधणे वारुणमे त्रिपुष्कर दिने न्यूनाधिमासेऽयने । याम्येऽब्दात् परतश्च पातपरिवे देवेज्यशुक्रास्तके भद्रावैधृतयोः बावप्रतिकृदाहो न पक्षे सिते। जन्मप्रत्यरितारयोतिसुखान्त्येऽब्जे च कर्तुनै सन्- मध्यो मैत्रभगादितित्रु वविशाखाघध्रिमे शेऽपि च । श्रेष्ठोऽज्यविधोदिने प्रतिकरस्वात्यश्विपुष्ये तथा स्वाशौचात्परतोविचार्यमखिलं मध्ये यथा संभवम् ।। येषु तिथिवारनक्षत्रेषु रोगारम्भे सति नियतं मरणं भवति तदाह वसिष्ठः- आश्लेषाऽऽद्रां त्रिपूर्वा यमवरुणमरुच्छक्रतारानलाः स्यु- द्वादश्यां स्कन्दरिक्तातिथिषु च रावजाकारवारेपु येषाम् रोग: संजायते ते यमपुरमचिरात्प्राप्नुवन्त्येव चन्द्रे जन्मन्यष्टाख्यवन्धुव्ययभत्रनगते मृत्युलग्ने च राशौ ।। अन्नत्या शान्तिः शान्तिमयूखादौ द्रष्टव्येति । पत्रके तु मरणं दाहश्चेति इयमपि निषिद्धम् । उकं च ब्रह्मपुराणे - कुम्ममीनस्थिते चन्द्रे मरणं यस्य जायते । तस्योर्ध्वगतिथा सन्ततौ न शुभं भवेत् । न तस्य दाहः कर्तव्यो विनाशः स्वेपु जन्तुषु । वञ्चकानन्तरं कार्य कार्य दाहादिकं खलु ॥ अथवा तद्दिने कार्यों दाहस्तु शान्तिपूर्वकम् । दाहृदेशे शवं नीत्वा स्नापयेच्च प्रयत्नतः । दर्माणां प्रतिमाः कार्याः पञ्चोमत्रवेष्टिताः । यात्रपिष्टेनानुलिप्तास्ताभिः सह शगं दहेत् । प्रेतवाहः प्रेतसखः प्रेवपः प्रेतभूमिपः । प्रेतहर्तापञ्चमञ्च नामान्येवानि च क्रमात ॥
पर्णतरदाहादिविचारः। ८९ दद्याच्छिरस्यशीत्यर्द्ध ४० ग्रीवायान्तु दशैर तु । बाड्डोश्चैव शतन्दवादलीपु तथा दश ।। उरसि त्रिंशतं दद्यादिशति जठरे तथा । अष्टाद्धं शिश्ने दद्याद् द्वादशार्द्ध वृपणयोः ।। जर्गेश्चर शतं दद्यात् त्रिंशतिं जानुजंघयोः । पादाङ्गुतीपु दश दद्दा तत्पत्रविकल्पनम् ।। बेष्टितव्यस्तथा यत्नाकृष्णसारस्य चममा ! ऊसूत्रेण बद्ध्वा तु प्रजेतव्यस्तथायवैः । सुपि-टैजल मिश्रेस्तु दग्धव्यश्च तथाऽग्निना ।। इति । बृपणयोः अण्डकोशयोः ऊर्वाजघयोः। द्वैतपरिशिष्टे केनापि प्रकारेण मृतानां सजातीयविजातीयानां विशीर्णावयवानां सन्निपातेन सर्वेषां दाहः कार्यो मानाभावात् , नापि पितुरेव परिचायकाभावात् , अा एक तवस्थायां पितु- रपि पर्णनरदाह एवेति ! पर्णनरदाहरतु अशौचाभ्यन्तरे तत्रापि अष्टमदशम- त्रयोदशाष्टाविंशतिदिने क्रमेण ब्राह्मणादिचतुर्वर्णानां पर्णनरदाहः, शिष्टाचरात् । तदसंभवे नश्मादिदिने अशौचाभ्यन्तरे, तत्राप्यसंभवे पक्षत्रयान्तरममावा- स्यादो कर्तव्यः । तथाहि- 'अशौचमध्ये यत्नेन दाहयेदुक्तया हतम् !' दीपकालिकायां सुमन्तुः- पणं नरं दहेन्नैव विना दर्श कथंचन | अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेत् ॥ एवं पर्ण दहेन्नैव प्राक् त्रिपक्षात्कथंचन । पितृहा माहा यस्मान्न दर्शन दहेद्यदि ।। कृष्णपक्षे पञ्चदश्यामष्टभ्यां वा समाहितः । एकादश्यां विशेषेण ततः प्रभृति सूतकम् । त्रिरात्रं सर्ववर्णानामेष धर्मों व्यवस्थितः ।। अत एव पञ्चके मृतत्य पुत्रकविधानं कृत्वा दाहः कार्यः। ततः सूतकान्ते पुत्रादिभिः शान्तिकं च विधेयन् ।उकं च गरुडपुराणे- ततो दाहः प्रकर्त्तव्यस्तैश्च पुत्तलकैः सह । सूतकान्ते तदा पुत्रैः कार्य शान्तिकपौष्टिकम् ॥ पञ्चके तु मृतो योऽसौ न गति लमते नरः । तिलाश्चैव हिरण्यं च तमुद्दिश्य घृतं दहेत ॥ अतो नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्तौ पुत्तलकविधिरेव भवति । ततः सूतकान्ते शान्तिकं च । एवं पञ्चकान्तम॒तस्याश्चिन्यां दाहप्राप्तौ पुत्तलकविधिन । किन्तु सूतकान्ते शान्तिकमेव विधे- यम् , इत्यलं विस्तरेणेति । तथा नारद:- वस्वन्त्यार्धादिपञ्चरों संग्रहं तृणकाष्ठयोः । याम्यदिग्गमनं शय्यां न कुर्याद् गृहगोपनम् ।। राजमार्तण्डेऽपि- न गच्छेद्दक्षिणामाशां भपट केन श्रवणादिना । मृतिकामो न कुर्वीत तृणकाष्ठादिसंग्रहम् । अग्निदाहो भयं रोगो राजपीडा धनक्षयः । संग्रहे तृणकाष्ठानां कृते वस्वादिपन्चके। १२ कृ० सा० - - - कृत्यसारसमुच्चये- अत्राशौचाभ्यन्तरे दाहे शेषाशौचाहोमिः शुद्धिः । पर्णनरदाहप्रयुक्तव्यहाशौचापेक्षया मरणप्रयुक्तदशाहाद्यशौचस्य गुरुत्वात् त्रिपक्षानन्तरं दाहे त्रिरात्रम् | चतुर्थीदने श्राद्धम् । 'एवं पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदि' ति ब्रह्मपुराणात् । तुल्यन्यायतया अस्थिदाहेऽपि त्रिरात्राशौचम् | यज्ञपार्श्व:- पुत्राश्चेदुपलभ्येरन्तदस्थीनि कदाचन । तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥ हि यस्मात्तदलाभे अस्थन्यलाभे तस्माद्यदि पुनरप्यस्थीनि प्राप्यन्ते तदा पुनहि त्रिरात्राशौचे कर्तव्यं पुनः पिण्डदानादिकमिति शुद्धिनिर्णये गोभि. लः-'मरणतिथिनिश्चये तस्यां वार्षिकम् । तदनिश्चये पर्णनरदाहतिथौ' इति विभावनीयम्। शतानन्दरत्नमालायां यमः-- गतस्य न भवेद्वार्ता यस्य द्वादशवार्षिकी । प्रेतावधारणं तस्य कर्तव्यं सुतबान्धवैः॥ (१)हेमाद्रिनिबन्धे जातूकर्ण:- पितरि प्रोषिते यस्य वार्ता न गृहमागता । ऊर्ध्वम्पश्च दशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् । कुर्यात्तस्य च संस्कारं यथोक्तविधिना पुनः॥ गतस्येत्यत्र पुंस्त्वन्न विवक्षितम् । अन्यथा स्त्रियास्ताहशस्थले व्यवस्था न स्याद्वचनान्तराभावात् । यथोक्तविधिना प्रागुक्तपर्णनरदाहविधिना | अत्र द्वादशवर्षानन्तरं मुख्यकाले तदसम्भवे पञ्चदशवर्षानन्तरं गौणकालेऽपि कर्तः व्यमिति तात्पर्यम् । पर्णदाहः कदा कर्तव्य इत्यत्राह स्मृतिः- यन्मासि यदर्यातस्तन्मासि तदहः क्रिया । दिनाज्ञाने कुहूस्तस्य आषाढस्याथवा कुहूः।। तस्येति गमनमासस्येत्यर्थः। तथा च यन्मासि यत्तिथौ पूर्व गृहाद्देशान्तर- गतस्तन्मासि तत्तिथौ द्वादशवर्षाद्यनन्तरं पर्णनरदाहः । तत्तिथैरज्ञाने तन्मासा- मावास्यायाम् , तन्मासाज्ञाने तस्मिन्नेव वर्षे आषाढामावास्यायां दाहः। तत्तवी- यदिने क्षौरं चतुर्थदिने आद्यश्राद्धम् , पञ्चमदिने सपिण्डनमिति भावः। यम- जातूकर्णवचने प्रागुक्त अभिधाय अत्र देशापेक्षया विकल्प इति द्वैतपरिशिष्टे केशवमिश्राः । अत्र पर्णनरदाहतिथौ वार्षिकम् । मरणभ्रान्त्या कस्यचिद्(जीवितस्य प्रोषितस्य पर्णनरदाहविधिना) दाहादौ - (१) अत्र दादशवर्षाभ्यन्तरे यदि गतस्य पत्रादिकमायाति तदा पुनस्तहिनावादशवर्षा- भ्यन्तरे तस्य वार्चा न जायते, तर्हि तत्पत्रादिलब्धदिनमेव तत्वयाहः कल्प्यमिति ।
- पर्णनरदाहादिविचारः। कृते यदि समायाति तदा निरग्निश्चेत् रुद्रस्नपनं प्राजापत्यत्रतं च कृत्वा, साग्निस्तु आयुपोमिष्टिं कृत्वा स पूतो भवति । तथाहि वृहच्छाद्धपणे- प्रेतकार्यं कृतं यस्य स चेदायाति मानवः । प्राजापत्यव्रतं कुर्याच्छान्ति रुद्रसमुद्भवाम् ।। इति ॥ एवं कृते मृतभ्रान्त्या यद्यागच्छेत्पुमान् कचित् । कुर्यात्तदायुपीमिष्टिं पुनराधाय पावकम् ।। इति च । रुद्रसमुद्भवां रुद्राध्यायादिना शिवस्नपनरूपां प्राजापत्यानुकल्पो धेनु- दानम् । तस्याप्यनुकल्पः कापगत्रयलभ्यहिरण्यदानन्, अन्न पूर्ववचनं निर- ग्निविषयकमुत्तरवचनमग्निहोत्रिविषयकम् , तथा चाग्निहोत्रिभिन्नस्य मरण- भ्रान्त्या दाहे कृते यदि समायाति तदा प्राजापत्यं प्रायश्चित्तं, रुद्रस्नपनरूपां शान्ति च कुर्यात्, अग्निहोत्रिणस्तादृशस्थले आयुषीष्टिः। अत एव श्राद्ध- विवेके- एवंकृते मृतभ्रान्त्या यद्यागच्छेत्पुमान् कचित् । कुर्यात्तदाऽऽयुपीन्त्विष्टिं पुनराधाय पावकम् ॥ साग्नेरियमिष्टिः । निरग्नेस्तु 'शान्तिस्वस्त्ययनमन्यत्' इति रुद्रघरः श्राद्धविवेके । इति सकलमैथिलव्यवहारसिद्धोऽयं पन्थाः । (१)ब्रह्मपुराणे-- ब्रह्मदण्डहता ये च ये चापि ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥ पतितानां न दाहरस्यानान्त्येष्टि स्थिसंचयः । नाश्रुपातश्च पिण्डो वा कार्य श्राद्धादिकं कचित् ॥ एतानि पतितानान्तु यः करोति विमोहितः। कण्ठोदकक्रियां कृत्वा ततकृच्छ्रेण शुष्यति ॥ कण्ठोदकक्रिया वपनादिका उदकक्रिया | प्रमादतो दाहादिकरणे प्राय- श्चित्तं मत्कृतप्रायश्चित्तव्यवस्थायामवलोकनीयम् । गोभिलः- गोभिर्विप्रैहते चैव तथा चैवात्मघातके। नैवाश्रुपातनं कायं सद्भिः श्रेयोऽभिकांक्षिभिः ।। गोभिहतं क्रीडादिभिर्गवा हतमिति शूलपाणिः। अश्रुपातपदं दाहादी- नामप्युपलक्षकम् । तथा च प्रमादतो गवा हतस्य श्राद्धं कार्यमेव, क्रीडादिभिरिति शूलपाणि- लिखनात् , 'प्रमादादपि निश्शङ्क-'इत्यादिवक्ष्यमाणब्रह्मपुराणाञ्च अङ्गिराः- .)वृद्धमनु:- जीवन्यदि समागच्छेद् घृतकुण्डे निमज्ज्य तम् । उद्धृत्य स्नापयित्वाऽस्य जातकर्मादि कारयेत् ।। व्रतचर्या द्वादशाहं त्रिरात्रमथ वाऽस्य तु, स्नाखोरहेत तां भार्यामन्यां वा तदभावतः ।। अग्नीनाधाय विधिवनात्यस्तोमेन वा यजेत् । तथैन्द्राग्नेयपशुना गिरि गत्वा स तत्र तु ॥ इष्टिमायुष्मती कुर्यादीप्सिताश्च क्रतूंस्ततः ।। - कृत्यसारसमुच्चये- व्यापादचेदधात्मानं स्वयं योऽन्युदका दिना । विहितं तस्य नाशौचं नाग्नि प्युदकक्रिया ।। यस्तु रोपादिना हेतुनाऽग्न्यादिभिरात्मानं घातयति, तस्याग्निदानाशौच- क्रिया न कर्तव्येति रुद्रधरः। यदि मरणेच्छां बिना प्रमादादितो जलादौ म्रियते तदा दाहादिसर्वाः क्रियाः कर्त्तव्याः, तथाहि अङ्गिरा:-- अथ कश्चित्प्रमादेन म्रियेतान्युकादिषु । तस्याशौचं विधातव्यं कार्य्या चास्योदकक्रिया ।। प्रमादोऽनवधानता । ब्रह्मपुराणे- प्रमादादपि निश्शंकस्त्वकस्माद्विधिदेशितः । शृङ्गिदष्ट्रिनखिव्यालविपविद्युजलादिभिः ।। चाण्डालेनाथवा चौरैनिहतो यत्र कुत्रचित् । तस्य दाहादिकं कायं यस्मान्न पतितस्तु सः॥ इति । अथ सतीविधानम् । यत्र सहमरणम् , अनुमरणम् , द्विविधं सतीमरणं, तत्रापि ब्राह्मण्याः सहमरणमेव नानुमरणम्, तथाहि गौतमः-- पृथञ्चितिं समारुह्य न विप्रा गन्तुमर्हति । अन्यासामेव नारीणां स्त्रीधर्मोऽयं व्यवस्थितः ।। अन्यासां क्षत्रियाण्यादीनां स्त्रीधर्मोऽयं पृथक् पश्चाञ्चितारोहणरूपः । तथा च सहमरणं सर्वासामनुमरणं च क्षत्रियाण्यादीनामेवेति भावः । ब्रह्मपुराणे- देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम् । निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् । ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी ॥ तत्पादुकाद्वयं पतिपादुकाद्वयम् । जातवेदसं वह्निम् । पादुकाद्वयमिति तदीयवस्त्रादीनामप्युपलक्षकम् । मृतेन पत्या सह वह्निप्रवेशः सहमरणम् । पतिदाहानन्तरं तदीयपादुकादिग्रहणपूर्वकवहिप्रवेशोऽनुमरणमिति पर्यव- सितम् । नारदीये- बालापत्याश्च गर्मिण्यो यदृष्टऋतवस्तथा । रजस्वला राजसुते ! नारोहन्ति चितां शुभे !॥ अदृष्टऋतवः शंकितगर्भाः। तेनाप्राप्तऋतुकाऽपि गच्छतीति शिष्टाचारः। राजसुते इति सगरमातुः संवोधनम् । बालसंवर्द्धनं त्यक्त्वा बालापत्या न गच्छति । इति वचनात् । बालसंवर्द्धनश्रुतेरन्यतो बालसंवर्द्धनं चेत्तदा तस्या अप्यधिकारः। एकां चितां समासाद्य भर्तारं याऽनुगच्छति ।
सतीविधानविचारः। ६३ तद्भर्तुर्यः क्रियां कर्ता स तस्याश्च क्रियां चरेत् ॥ इति तु पिण्डदानपर्यन्तविषयम् । श्राद्धस्य स्वस्वाधिकारिकर्त्तव्यत्वात् । सतीभवनफलमाहाङ्गिराः- मृते भर्तरि या नारी समारोहेडुताशनम् । साऽरुन्धतीसमाचार स्वर्गलोके महीयते ॥ तिनः कोव्योऽर्द्धकोटी च यानि रोमाणि मानवे ! तावन्त्यदानि सा स्वर्ने भर्तारं याऽनुगच्छति ।। सा स्वर्ग इत्यस्य महीयते इति पूर्वेगान्वयः । व्यालग्राही यथा व्यालं बलादुद्धरते विलात् । तद्वद्भर्तारमादाय तेनैव सह मोदते ॥ मातृकं पैतृकं चैव यत्र कन्या प्रदीयते ! पुनाति त्रिकुलं नारी भर्तारं याऽनुगच्छति ।। ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वाऽपि मानवः । तं वै पुनाति सा नारी इत्यङ्गिरसभापितम् ॥ त्रिकुलं मातृपितृपतिकुलम् । तं तादृशपतिमित्यर्थः । विष्णुः-मृते भरि ब्रह्मचर्य तदन्वारोहणं वेति। अत्र प्रयोगमाह शुद्धिनिर्णये गोभिलः- "पुत्रादिना स्वगृह्योक्तविधिनाऽग्नौ दत्ते ज्वलद्भर्नुचितायां सह गन्त्री साध्वी स्नाता वाससी परिधाय कुशहस्ता प्राङ मुखी उदङ्मुखी वा ॐ तत्सदिति ब्राह्मणैरुचरिते नारायणं संस्मृत्य नमोऽद्यामुके मास्यमुके पक्षेऽमुकतिथाव- मुकगोत्रा श्रीअमुकी देवी अरुन्धतीसमाचारत्वपूर्वकस्वर्गलोकमहीयमानत्व- पतिसहितक्रीडमानत्वब्रह्मघ्नकृतघ्नपतिपतत्वकामा भर्तृ ज्वलच्चितारोहणमहं करिष्ये इति सङ्कल्पः सह मरणे। अनुमरणे-भर्तृ ज्वलच्चितारोहणमित्यत्र ज्वलदग्निप्रवेशनमात्रमिति सङ्कल्पे विशेषः । अष्टौ लोकपाला आदित्यचन्द्रानिलानलाकाशभूमिजलहृदयावस्थितान्त- मिपुरुषदिनरात्रिसन्ध्या यूयं साक्षिणो भवथ ज्वलद्भत चितासमारोहणे भत्रनुमरणे वा इत्युच्चार्य चिताग्नि त्रिः प्रदक्षिणीकृत्य "इमा नारीरविधवा सपत्नीवाञ्छने सपिंषा संविशन्त्वनस्रवाऽमसावासुरत्ना आरोहन्तु जलयो- निमग्ने" इति। इमाः पतिव्रताः पुण्याः स्त्रियो जायाः सुशोभनाः। सह भर्तु शरीरेण संविशन्तु विभावसुम् ॥ इति ब्राह्मणे पठितेन 'नमो नमः' इत्युच्चार्य ज्वलचितां समारोहेत् । सहमरणानुमरणे मलमासादावपि कार्ये निरवकाशनिमित्तकत्वात् निमित्त- कानीतिवचनादिति। .
कृत्यसारसमुच्चये- अथ विधवास्त्रीधाः। तत्र(१) विष्णुः--ब्रह्मचर्य मैथुनताम्बूलचूडादिवर्जनं विधवाकर्तव्य- मिति शेषः । तथा- ताम्बूलाभ्यंजनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा परिवर्जयेत् ।। स्मृतिः-एकाहारः सदा कार्यो न द्वितीयः कदाचन । पर्यवशायिनी नारी विधवा पातयेत्पतिम् ।। (१)विधवाधर्माः काशीखण्डे उक्ता:- विधवाकबरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात्कार्यं विधवया सदा ।। एकाहारः सदा कार्यों न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षस्यार्धमथापि वा ।। मासोपवासं कुर्याद्वा चान्द्रायणमथापि वा । कृच्छ् पराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ।। यवान्नैर्वा फलाहारैः शाकाहारैः पयोवतैः । प्राणयात्रा प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ॥ पर्यवशायिनी नारी विधवा पातयेत्पतिम् । तस्माद्भशयनं कार्य पतिसौख्यसमीहया ॥ नैवानोदर्तनं कार्य स्त्रिया विधवया कचित् । गन्धद्रव्यस्य संभोगो नैव कार्यस्तया पुनः ॥ नेवाझोदर्तनं कार्य ताम्बूलस्य च भक्षणम् । गन्धद्रव्यस्य सम्भोगो नैव कार्यस्तया कचित् ।। श्वेतवस्त्रं सदा धार्यमन्यथा रौरवं ब्रजेत् । उपवासव्रतादौ तु नित्यं कार्य यथोदितम् ॥ इत्येवं नियमैर्युक्ता कर्म कुर्यादतन्द्रिता । नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि ॥ कन्चुकं न परिदध्यावासो न विकृतं न्यसेत् । अपृष्टा तु सुतान् किञ्चिन्न कुर्याद्भतत्परा॥ एवं चर्यापरा नित्यं विधवाऽपि पतिव्रता । पतिलोकमवाप्नोति न भवेत्क्वापि दुःखभाक् ॥ न गङ्गाया तया भेदो या नारी पतिदेवता । उमाशिवसमा साक्षातस्मात्तां पूजयेद्बुधः ।। शातातप:- मृता याऽनुगता नार्थ सा तेन सहपिण्डताम् । अईति स्वर्गवासं च यावदाभूमिसंप्लवम् ।। अत्र प्रसन्नात् सधवास्त्रीधर्मानाह विष्णुः- मनुः समानववचारित्वं श्वश्रूश्वशुरगुरुदेवताऽतिथीनांपूजनम् । सुसंयतोपत्करताऽमुक्तहस्तता। मुगुप्तभाण्डता । मूलक्रियास्वनभिरविः । मङ्गलाचारतत्परता । मूलक्रियासु वशीकरणादिक्रियासु । शङ्क:-नानुक्त्वा गृहान्निगच्छेत् । नानुत्तरीया॥ न त्वरितं व्रजेत् । न परपुरुषमभिभाषे- तान्यन्न वणिक्वजितवृद्धवैद्यभ्यः । न नामि दर्शयेत् । आगुल्फादासः परिदध्यात् । न स्तनो विकृतौ कुर्यात् । न हसैदनावृतं न भर्तारं न तबन्धून् वा विद्विषेत् । न गणिकाधूर्ताव्यभिचा- रिणीप्रव्रजितेक्षणिकामायामूलकुहिकाकारिणीदुःशीलादिभिः सबैकत्र तिष्ठेत् । न्यास:- - दारोपवेशनं नित्यं गवाक्षावेक्षणं तथा । असत्प्रलापो हास्यं च दूषणं कुलयोषिताम् ।। पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नेऽप्यन्यगृहे वासो नारीणां दूषणानि षट् ।। याज्ञवल्क्य:- क्रोडां शरीरसंस्कार समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्रोषितमर्तृका ।। रक्षेत कन्या पिता विन्नां पतिः पुत्रास्त वार्धके । अमावे शातयस्तेषां स्वातन्त्र्यं न कचित लिया।
पिण्डदानविचारः। तर्पणं प्रत्यहकार्य भर्तुस्तिलकुशोदकैः । स्नानं दानं तीर्थयात्रा विष्णोर्नामग्रहं तथा ।। इति । अथ मृत्यूत्तररोदनादिनिषेधः। मरणानन्तरं रोदनादिनिपेधमाह-कात्यायनः-- श्लेष्माश्रुबान्धवमुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतोन रोदितव्यं तु क्रिया कार्या प्रयत्नतः॥ रामायणे-शोचमानास्तु सस्नेहा बान्धवास्सुहृदस्तथा । पातयन्ति गतं स्वर्गमश्रुपातेन राघव ! ।। इति ॥ दिवसे शवस्पर्श दाहाकरणे रात्री ग्रामप्रवेशः । रात्रौ(१)शवस्पर्शादिक- रणे च सूर्योदयानन्तरं, तथा हि पारस्करः-प्रेतस्पर्शिनो न प्रामं प्रविशेयुरा- नक्षत्रादात्री चेदादित्यस्य' । प्रेतस्पर्शिन इति अजहत्स्वार्थलक्षणया दाहकतुर- प्युपलनकम्। अथ पिण्डदानविचारः। पिण्डदानं(२)न रात्रौ, न वा भोजनानन्तरं दिवसेऽपि, रात्रौ मरणे जाते ज्ञाते वा निषिद्धकाले रात्रौ पिण्डा न देया इति स्मृतिसारलिखनात् , भोजन- जन्याशौचम्भवत्येवेति रुद्रधरलिखनाच्च । श्राद्धाधिकारिभिन्नेन दाहे कृतेऽपि तदधिकारिणा दश पिण्डा देया एवेति सम्प्रदायः । अधिकारिभिन्नेन दाहक ऽपि स्वीयं यावदशौचं दश पिण्डा देयाः। असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् ॥ (१)अद्भुतसागरे (गार्गीये) उामानः शवोऽकस्मात् क्षितावभिपतेद्यदा । यत्कुलेऽसौ शवस्तेषां विनाशो भवति ध्रुवन् । नारद-शबस्तु नीयमानस्तु भूमौ निपतते यदि । कुटुम्वरमणं तत्र धनधान्यपरिक्षयः ।। हमा रुद्रेति मन्त्रेण जुहुयात्सर्पिषाऽऽहुतिम् । आहुती द्वे सहस्र च होमश्च कथितो भवेत् । वृषभं दक्षिणां दद्यात्ततः सम्पद्यते शुभम् ॥ मयूरचिने- मृतः श्मशानं नीतो यः प्रत्युज्जीवति मानवः । स्वस्थो वा भवति क्षिप्रं पुनरायाति मन्दिरन् । स देशः क्षीयते क्षिप्रं परचक्रेण हन्यते । यमदृष्टया ततः शान्तिः सक्षीराः समिधः शतम् ।। बुवाका जुहुयाद्विप्रो हुतान्ते भूरिदक्षिणाम् । सावित्र्याऽष्टसहस्रण क्षीरशान्ति च कारयेत् । कपिला गौस्तिलं कौस्य देयं यममतं यथा ॥ पराशर:-मृतो वा व्याहरेद्गच्छेद्यत्र तत्र भयं वदेत् । अत्र सावित्रीमन्त्रदशलक्षहोमादिका सामान्या शान्तिः कर्तव्या। (२)गरुवपुराणे- दग्धे देहे पुनर्देहः पिण्डरुत्पद्यते खग! । हस्तमात्रः पुमान् येन पथि भुक्ते शुभाशुभम् । बहुभातिपुरे गत्वा हस्तमात्रं समुत्सृजेत् । अङ्गुष्ठमात्रो वायुश्च कर्मभोगाय खेचरः। यातनादेहमासाद्य सह याम्यः प्रयान्ति च । - ३ ३ कृत्यसारसमुच्चये- इत्याश्वलायनात् दाहानन्तरं श्राद्धाधिकारिण्यायाते श्रवणदिने अतीतपि- एडं दत्वाऽवशिष्टपिण्डानशौचान्तिमदिनं यावत्प्रतिदिनन्दद्यादिति मुख्यपक्षः 'यावदशौचं प्रेतस्योदकं पिण्डमेकं च दद्यु-'रिति विष्णुवचनात्-अशौचान्ति- मदिन एव सर्वपिण्डदानमिति गौणः । तत्र मुख्यपक्षः सांप्रदायिकव्यवहार- सिद्धः । द्वितीयस्तु काचित्कः । सर्ववर्णनवमदिने नवमं पिण्डं दत्वाऽशौचा- न्तिमदिन एव दशमः पिएडो देयः । 'दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु ।' इत्युपक्रम्य- देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि । वैश्यानां च पञ्चदशे देयस्तु दशमस्तथा ॥ शूद्वैस्तु दशमः पिण्डो मासे पूर्णेऽह्नि दीयते । इति ब्रह्मपुराणात् । विगोत्रेण श्राद्धाधिकारिणा सपिण्डने कृतेऽपि दाह- का सगोत्रेण प्रेतपदेनैव यावदशौचं पिण्डा देयाः । पूरकपिण्डदानस्य प्रेतो- द्देश्यकत्वनियमात् । शुनःपुच्छः- फलमूलैश्च पयसा पायसेन गुडेन च । शालिना सक्तुभिर्वाऽपि शाकैरप्यथ निपेत् ॥ इति । पिण्डानिति शेषः । इयांस्तु विशेषः । येन द्रव्येण प्रथमदिने पिण्डदानं तेनैव सर्वस्मिन्दिने। 'प्रथमेऽहनि यद्व्यं तदेव स्यादृशाहिकम् । इति शुनःपुच्छवचनात् । अत्रोदकक्रिया तु पिप्पलपत्रपुटकेनैव कर्तव्या- आनयेङ्गुदिपिण्याकं पत्रं बोधिद्रमस्य च । मन्दाकिनी पुरस्कृत्य करिष्ये उदकक्रियाः॥ इति रामायणात् । इड्दः-फलविशेषः । (१) 'इङ्गुदी तापसतरु' रित्यमरः। तपस्विजनो- पयुक्तफलयुतत्वेन तापसतरुत्वमिति रायमुकुटः । जीयापूता इति ख्यात इति रायमुकुटादयः । पिण्याकः पिडार इति प्रसिद्धः । एतत्फलद्वयं पिण्डाथकम् । 'बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः' इत्यमरः । अथ व्यहाशौचादौ पिण्डदानक्रममाह पारस्करः-- प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितः। द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात् तृतीयेऽह्नि वनादिक्षालनं तथा । . ऋष्यशृङ्गः-'सद्यश्शांचे प्रदातव्याः सर्वेऽपि युगपत्तथा । सर्वेऽपीति पिण्डाः । युगपदेकदा। अधिकारिणा सद्यश्शौचप्रयोजक- मरणवार्ताऽनुदिते सूर्य एव दातव्या । सूर्योदयानन्तरमधिकारिणा सूर्य उदिते स्नात्वा दश पिण्डान दत्वा आद्यश्राद्धं कृत्वा नखलोमच्छेदनं कुर्यादिति सद्यःशौचविधिः सम्प्रदायसिद्धः समाचारः । (१) पितौमिया मिथिलामाषायाम् ।
अस्थिसश्चयनविचारः। - - अथास्थिसञ्चयः। त्रास्थिसञ्चयकालमाह-अस्थिसंचयमित्युपक्रम्य ब्रह्मपुराणे- चतुर्थे ब्राह्मणानान्तु पञ्चमेऽहनि भभुजाम् । सामे वैश्यजातीनां शूद्राणां दशमेऽहनि । कतंयन्तु नरैः श्राद्धं देशकालाविरोधतः । तथा च देशकालानुसारेगास्थिसंचयः कार्य इत्यर्थः, इति संपूर्णाशौचेऽ- स्थिसञ्चयस्य मुख्यकालः । अल्पाशीचे आह । छन्दोगपरिशिष्टे- यहाशौचे द्वितीयेऽह्नि कर्तव्यस्त्वस्थिसंचयः। सद्यश्शौचे तत्क्षणन्तु कर्त्तव्य इति निश्चयः ।। म्यहाशौचे तृतीयेऽह्नि इति गौणः । अस्थिसंरक्षणाशक्तौ तु गौणकाल- माह रत्नाकरे संवतः- प्रथमेऽह्नि तृतीये का सप्तमे नवमेऽथवा ! अस्थिसंचयनं कार्यं निजैस्तद्गोत्र मृते ।। इति श्राद्धयोग्यस्य बालादेदाहेऽशोचान्तिमदिन एवास्थिसञ्चयस्तदुत्तर- दिने ब्राह्मणभोजनमिति सम्प्रदायसिद्धव्यवहारः। गङ्गास्थिप्रक्षेपे फलमाह यमः- गङ्गातोयेषु यस्यास्थि प्लबते शुभकर्मणः । न तस्य पुनरावृत्तिब्रह्मलोकात्कदाचन ।। दशाहाभ्यन्तरे तस्य गङ्गातोयेऽस्थि मजति । गडायां मरणे यादृक्ताहक्फलमवाप्नुयात् ।। ब्रह्मपुराणे- अस्थीनि मातापितृपूर्वजानां नयन्ति गङ्गामपि ये मनुष्याः । सद्भक्तिका वाऽपि दयाभिभूतास्तेषान्तु तीर्थानि फलप्रदानि ।। मातुः कुलं पितृकुलं वर्जयित्वा नराधमः । अस्थीन्यन्यकुलोत्थानि नीत्वा चान्द्रायणं चरेत् ।। अत्र मात्रादिवंशद्वयं विहायान्यवंशानां दृष्टप्रयोजनार्थितयाऽस्थिनयने दोष इति वाचस्पतिमिश्राः । दृष्टप्रयोजनं द्रव्यलाभादिः, एतेन पुण्यरूपादृष्ट- प्रयोजनार्थितया पित्रादिवंशद्वयतिरिक्तस्यापि समानजातीयस्यास्थिनयने न दोष इति पर्यवसितम् । अस्थिप्रक्षेपे विधानमाह श्राद्धविवेके-स्नात्वाऽस्थीनि पञ्चगव्येन संप्रोक्ष्य हिरण्यमध्वाज्यतिले संयोज्य सृपिण्डके निधाय दक्षिणां दिशं पश्यन् ॐनमो धर्माय' इति वदन् जलं प्रविश्य प्रेतगतस्त्रर्गकामो दक्षिणाभिमुखः 'स मे प्रीयताम् इत्युत्वा गङ्गायामस्थि निःक्षिपेत् । ततो दक्षिणां दद्यात् । तीर्थचिन्तामणौ- 'एवं कृते प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्तु महेन्द्रतुल्या' इति । १३ कृ० सा० कृत्यसारसमुच्चये- अधाशाचे त्याज्यात्याज्य-विचारः आश्वलायनः-'नैवारयां रात्रावन्नं पचेयुनिरात्रमक्षारलवणाशिनश्च स्युादशरात्रं महागुरुध्विति' महागुरचो माता पिता आचार्यश्चेति । तथा चाशौचिनामशौचाधिकरणरात्री पाकनिषेधः । अशौचभागिनां त्रिरात्रं क्षारलवणनिपेधः । नहागुरुपु मृतेषु द्वादशरानं क्षारलवणभक्षणनिषेधः । तेन सैन्धवलवणभक्षणे न दोषः, इति पर्यवसितम् । अग्निहोतृणां दाहदिनमारभ्य तद्भिन्नानां च मरणदिनमारभ्याशौच- मुत्पद्यते, तथाहि-- 'मरणादेव कर्तव्यः संयोगो यस्य नाग्निना । दाहादूध्वमशौचं स्याचश्य वैतानिको विधिः ॥ इति शङ्कवचनात् । यातेऽप्यशीचेऽज्ञाते न श्राद्धादिकर्मप्रतिरोधः किन्तु ज्ञाते एवाशौचे तत्प्रतिरोधः । तथाहिं ब्रह्मपुराणे- अपि दातृगृहीत्रोश्च सूतके मृतके तथा । अविज्ञाते न दोषः स्याच्छाद्धादिपु कथंचन ॥ विज्ञाते भोक्तुरेव स्यात्प्रायश्चित्तं क्रमादिति ।। विज्ञानं विशेषतो ज्ञानं निश्चयात्मकमिति यावत् , तथा च निश्चयात्मक- ज्ञानविषयेऽशौचे कर्मप्रतिरोध इति पर्यवसितम् | अशौचे त्याज्यानाह जाबाला- सन्ध्यां पञ्च महायज्ञान् नैत्यकं स्मृतिकर्म च | तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥ इति । तन्मध्ये स्वस्वाशौचमध्ये हापयेत्त्यजेत् । दशाहान्तपदं स्वस्वाशौचान्त- द्वितीयदिनोपलक्षकम् । पुनः पुनः क्रियेति कर्तव्येति शेषः । पञ्चमहायज्ञानाह छन्दोगपरिशिष्टे-पञ्चैव महायज्ञा भूतयज्ञो मनुष्य- यज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति । अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलिभौंतो नृयज्ञोऽतिथिपूजनम् ॥ श्राद्घ वा पितृयज्ञः स्यात्पित्रोर्बलिरथापि वा। सङ्कल्पितव्रतमशौचेऽपि कर्त्तव्यम् । तथा च विष्णुः न व्रतिनां व्रते' इति जतिनामारब्धव्रतानां न व्रते इति अशौचं प्रतिरोधकमिति शेषः। तिथि- तत्त्वे विष्णुः- व्रतयज्ञविवाहेषु(१) श्राद्ध होमेऽर्चने जपे । आरज्वे सूतकं न स्यादनारब्धे तु सूतकम् ।। (१) पितुरब्दमशौचं स्यात् षण्मासं मातुरेव च । त्रैमासिकं तु भार्यायास्तदर्ध प्रातपुत्रयोः॥ अनेन पितृमरणदिनादेकवर्षपर्यन्तं पुत्रस्योपनयनादि मानलिकं कर्म न कर्तव्यम् । एवं मातु:
अशोचे त्याच्यात्यायविचारः। १६ आरम्भो वरणं यज्ञे सङ्कल्पो ऋतजापयोः। नान्दीश्राद्ध विवाहादौ श्राद्ध पाकपरिक्रिया। निमन्त्रणं तु वा श्राद्धे प्रारम्भः स्यादिति स्मृतिः ॥ सूतकपदमशौचमानोपलक्षकं, नान्दीश्राद्धमाभ्युदायिकं, विवाहादावित्या- दिपदादुपनयनादिपरिग्रहः । अपवादमाह, यमः- देवे भये समुत्पन्ने प्रधानाङ्गे विनाशिते । पूर्वसङ्कल्पिते चार्थे तस्मिन्नाशौचनिष्यने ।। ब्रह्मपुराणे-गृहीतमधुपर्कस्य यजमानाच्च ऋत्विज्ञः । पश्चादशौचे पतिते न भवेदिति निश्चयः ।। अशौचप्रयुक्तकर्मप्रतिरोध इति शेषः । मरीचिः-लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाप्ठतृणेध्वेवं दधिलपिःपया !! तेलौपध्यजिने चैव पक्कापक्के हयं गृहे । पण्येषु चैव सर्वेषु नाशौचं मृतसूके ।। सर्पिश्रुतम् । पयोऽत्र दुग्धम् । पक्वं सक्तुमोदकादि, अपक्वं तण्डु- लादि, तथा च लवणादीनामुक्तानामशौचिनोऽपि ग्रहणे न दोषः। पक्वा- पक्वयोस्त्वशौचिसम्बन्धिनोः स्वयं ग्रहणे न दोषः अशौचिहस्ताग्रहणे तु दोष एवेति भावः(१)। सम्पूर्णाशौचसङ्करमाह ब्रह्मपुराणे- आद्यं भागद्वयं यावत्सूतकरय तु सूतके । द्वितीये पतिते चाद्यात् सूतकाच्छुद्धिरिष्यते । अत ऊर्ध्वं द्वितीयात्तु सूतकान्ताच्छुचिः स्मृता(२) । षण्मासपर्यन्तम् । सियास्त्रैमासिकमशौचम् । भानूपुत्रयोः सधैकमासनशौचम् । अत्र कालः सौरो ग्रायः । 'वर्षायन युगपूर्वकमत्र सौरादिति' सिद्धान्तशिरोमण्युकत्वात् । (१) 'एवमेव विचार्य स्यान्मृतके मृतकान्तरे ॥इति । (२) षट्त्रिंशन्मते- शावाशौंचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्धयते मूतिर्न सूतिः शावशोधिनी ।। प्रजापतिः- यथा त्रिरात्रे प्रक्रान्ते दशाहं प्रविशेद्यदि । अशौच पुनरागच्छेत्तत्समाप्त्या विशुद्धथति ॥ अघानां योगपय तु शुद्धि या गरीयसी । मरणोत्पत्तिसंयोगे गरीयो मरणं भवेत् ॥ अशौचान्तिमदिनस्य रात्रिशेषेऽशौचान्तरपाते द्वाभ्यां, प्रभाते तिसभिः । अत्र रात्रिरेव शेषो यस्याशौचस्येति विग्रहः । प्रभाते तस्यांरात्रौ व्युष्टायां मूर्योदयात्पूर्वमशौचान्तरपाते त्रिमि- रहोभिः शुद्धिः । तथाचोकं सूर्यब्जाहस्करे- सूर्योदयानन्तरमेकादशाहे पूर्वमृतश्राद्धाधिकारिणो मुहूर्तद्वयाभ्यन्तरे सम्पूर्णाद्यशौचपातेऽ- ग्रिमाशौचव्यपगमेन शुद्धिः। तत्रैव श्राद्धकर्माधिकारश्च । तहिने द्विमुहूत्र्ताय श्राद्धसंकल्प वृत्तेऽशौचान्तरोपनिपाते आधश्रादन प्रतिबद्ध यते संकल्पस्यानिवृत्तः। मासिकसपिण्डीकरणानि कृत्यसारसमुच्चये- विष्णु:-'रात्रिशेपे दिनद्वयेन, प्रभाते दिनत्रयेण' इति | अशौचान्त- द्वितीयदिनेऽशौचान्तरपातेतदशौचान्तेश्राद्धकर्तव्यत्वावासकमनुपदं वक्ष्यते । एतेन सर्ववर्णानां सम्पूर्णाशौचपूर्वार्द्ध लजातीयसमानदिनव्यापकद्वितीया- शौचपाते पूर्वाशौचेऽतीते शुद्धिः । उत्तरार्द्ध उपान्त्यदिनपर्यन्ते द्वितीय- तादृशाशौचपाते उत्तराशीचेऽतीते शुद्धिः । साजात्यन्तुमरणाशौचत्वादिना तेन मरणाशौचे मरणाशौचस्यैव सजातीयत्वं, जननाशोचे जननाशौचस्यैवेति बोध्यम् । अशौचान्तिमाहोरात्रे ताशद्वितीयपाते अशौचान्तिमद्वितीयदिनं तप्रिमदिनद्वयं चाशौचम्, अशौचान्तिमादनप्रभातकाले ताशद्वितीयाशौच- पाते तत्प्रभातानन्तरं दिनत्रयेण शुद्धिरिति पर्यवसितन् । 'अरुणोदयानन्तरं सूर्योदयं यावत्प्रभात' इति रत्नाकरः। पञ्च पञ्च उषः कालः सप्तपश्चारुणोदयः। अष्टपञ्च भवेत् प्रातः शेषं सूर्योदयो मतः ॥ इति । अरुणोदयकालमाह स्कान्दे-- 'उदयात्प्राक् चतस्रस्तु नाडिका अरुणोदयः ॥ इति । नाडिका दण्डः । यहाद्यल्पाशौचे सजातीयसमानदिनव्यापकाशौचा- न्तरनिपाते उत्तराशौचव्यपगमेन शुद्धिः । 'अघवृद्धावशौचन्तु परेण तु समापयेत्' । इति यमवचनात् । अत्र व्यहाद्यसंपूर्णाशौचे समानदिनव्यापकाशौचान्त- रपातेऽग्रिमाशौचव्यपगमेन शुद्धिरिति शुद्धिविवेकः । सजातीययोरल्पदिना- धिकदिनव्यापकयोरशौचयोः सङ्करेऽधिकदिनव्यापकाशौचान्तेन शुद्धिः । जननमरणाशौचयोः सङ्करे त्वल्पदिनव्यापकेनापि मरणाशौचनातीतेनैव शुद्धिः । तदाह कूर्मपुराणे- अघानां योगपद्ये तु ज्ञेया शुद्धिगरीयसी। मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ।। इति । पैठीनसिः 'सूतिकां पुत्रजननीं विंशतिरात्रेण लातां सर्वकर्माणि कार- येत् । मासेन स्त्रीजननीमिति' । पुत्रीमज्जनतोऽथ सर्व(१)वर्णजननीस्पर्श दशाहाच्छुचिः कर्मार्हा द्विदशाहतः पुरुषसूर्मासात्परं स्त्रीप्रसूः । इति च । पुत्रोषिता मजनतः स्नायात् । शुचिस्तत्कालकर्त्तव्यदानादिकस्ययोग्यः स्पर्शयोग्यश्च । एतेन प्रसूतीनां कन्याजन्मनि मासं पुत्रजन्मनि विंशतिदिनम- दाइशेऽहनि न भवेयुः । यदि तु एकादशाहे मुहूर्त्तद्वयादूज़ षोडशश्राद्धसंकल्पात्यागेवाशौचा- न्तरमुत्पद्यते वदामाद्धपातदोपो दुरि एव, तदा गयायांश्राद्धकरणादेव कर्तुः पातित्यनिवृत्तिः। सपिण्डीकरणान्तानि प्रेतश्राद्धानि षोडश । यथा कालेन कार्याणि नान्यथा मुच्यते हि सः॥ गयायां पिण्डदानेन प्रेतत्वं मुच्यते ध्रुवम् । अन्यथा पतितो शेयः सर्वधर्मबहिष्कृतः ॥ इति । (१) वचनेऽस्मिन्नक्षरद्वयमधिकम् । .
अशौचशङ्करविचारः। १०१ शौचं, यत्स्वप्रसवनिमित्तकं तन्मरणाशौचेन बाध्यते तस्यास्ताशप्रसवनिमि- तकजननाशौचमेव बलीयः । तेन प्रसूतीनां पतिमरणेऽपि विंशतिदिनाघशौ- चान्तेनैव शुद्धिरिति पर्यवसितम् । (१)अशौचान्तद्वितीयदिनेऽशौचपाते तु तदशौचे व्यतीते शुद्धिः, तदशौचान्तद्वितीयदिने आद्यश्राद्ध च । एकादशा- होत्पन्नाशौचेन याद्यश्राद्धप्रतिरोधस्तदा तदशौचान्ते श्राद्धकरणे शय्या- दानादि न भवतीति द्वैतनिर्णये वाचस्पतिमिलिखनस्वरसात् । देये पितॄणां श्राद्ध वै अशौचं जायते यदि । अशाचे तु व्यतीते वै तेपां श्राद्ध प्रदीयते ।। इति ऋष्यशृङ्गवचने सामान्यत एव श्राद्धपदोपादानाच्च । ब्राह्मणादिचतुर्वर्णानां सपिण्डाशौचमाह मनुः- शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति ।। चतुर्वर्णानामपि सकुल्ये मृते जाते वा त्रिरात्रमेवाशौच, गोत्रजे स्नान- पर्यन्तमेव । 'त्रिरात्रेण सकुल्यास्तु स्नात्वा शुद्धधन्ति गोत्रजाः'। इति बृहस्पतिवचनात् । सापिण्ड्यमाहतुः शंखलिखितौ- 'सपिण्डता तु सर्वेषां गोत्रतः सातपौरुपी' । इति । मनुः-'सपिण्डता तु पुरुपे सप्तमे विनिवर्तते । इति । अत्र गोत्रपदं सन्ततिः, तेन बीजिनमारभ्य सप्तपुरुषमभिव्याप्य सर्वेषां सन्तानानां सन्तानिनां च परस्परं सापिण्ड्यम् । एकस्यापि सप्राधिकत्वेन समं सप्तान्तर्गतस्यापि सापिएज्यन्निवतते, संयोगवदुभयनिरूप्यत्वादिति दैतनिर्णये वाचस्पतिमिश्राः, द्वैतपरिशिष्टे केशवमित्राश्च । सप्तमे इति सप्तमे सति अनन्तरम् अष्टमे सपिण्डता निवर्तत इत्यर्थः। अत्र परस्परं सापि. एड्यमपि । एतेन पूर्वषट्केनोत्तरपटकेन च मध्यसापिण्ड्यमुक्त भवति संयोग- वदिति । यद्यप्यत्र मानाभावः, तथाऽपि 'सर्वेषामिति' पदात् परस्परप्रतियो- गिता लभ्यते इत्याशय इति जीर्णोद्धारे ठक्कुरोपाहमधुसूदनः । हारीत:- 'अष्टमनवमदशमास्सकुल्या' इति । ज्ञायमानजन्मनां दशमपुरुषाधिकानां (१) श्राद्धमायाँ विशेषमाह भृगुः-- एककाले गतासूनां बहूनामथवा द्वयोः । तन्त्रेण श्रपणं कृत्वा कुर्याच्छ्राद्धं पृथक् पृथक् ॥ आश्वलायन:- नकस्मिन् दिवसे श्राद्धं त्रयाणां कुत्रचिद्विजः । एकः कुर्यात्तथा प्राप्त अन्यो भ्राता समाचरेत् ॥ भ्रातर्यविद्यमाने तु तत्परेऽहि समाचरेत् । अन्यथा श्रादहन्ता स्याच्छाद्धं सङ्करकृद्भवेत् ।। एकस्मिन् दिवसे दम्पत्योराधश्राद्ध उपस्थिते पूर्व पत्युः कृत्वा पश्चात्पल्याः कार्यम् । पति- पितरि मृते पत्युः पित्रा पिण्डसंमेलनं स्वतः सिद्धमेव । जीवत्यपि पितरि पत्युः पितामहेन पिण्ड- मेलनम् । परल्यास्तु पतिना सह पिण्डमेलनमुचितम् , पत्युःपूर्वमेव सपिण्डीकरणसम्पन्नत्वादिति।
१०२ कृत्यसारसमुच्चये- मरणजन्मनोः पक्षिणीति शुद्धिविवेके | दशपुरुषानन्तरं जन्मनाम्नोरवि- ज्ञानेऽस्मत्कुलजा इत्येवमाकारकज्ञानगोचरा गोत्रजा इत्यपि तत्रैव । स्मृत्य- निर्णय केनचित्क्षत्रियेण दशाहाशौचमभ्युपेतम् , तदपत्येनापि तदेवाभ्युपेतं 'सर्वे वा स्युर्द शाहिनः' इति वचनात् । तदा तेपां ब्राह्मणवदेवाशौचं जनन- मरणयोरजुसन्येयम् । ये तु पत्रितय (खत्री) पदाभिधानेन क्षत्रियत्वा- भिधायिनो वैश्याः पारम्पर्येण द्वादशाहाशौचमभ्युपगच्छन्ति, ये तु राजपुत्र- पदाभिधानेन पारम्पर्येग द्वादशाहाशौचमङ्गीकुर्वन्ति, ये च देशविशेषनियत- तया द्वादशाहाशौचमेव शूद्रा मन्यन्ते, तेषां क्षत्रियजात्युक्ताशौचमेव सुधी- भिरुपदेष्टव्यम् । पारम्पयसिद्धतया तस्यापि शास्त्रार्थत्वादिति गोकुलनाथो- पाध्यायचरणाः । तथा चाशौचसङ्करादिकमपि ताशस्थले ब्राह्मणादिरीत्यैव शक्षत्रियादीनामपि अवगन्तव्यमिति भावः । अथ कन्यामरणायशौचम् (१)। तत्र यद्यपि कन्याबालकयोः सपिण्डत्व- सत्त्वात् प्रागुक्तमनुवचनेन तयोरपि दशाहाद्यशौचमेव प्राप्यते तथापि 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदि' त्यनेन विशेषवचने बलव- त्वात्तयोरल्पाशौचमेव । विशेषवचनमाह ब्रह्मपुराणे-- आजन्मनस्तु चूडान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ।। ततो वाग्दानपर्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः ।। वाक्प्रदाने कृते तत्र जातश्चोभयतस्थ्यहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि । स्वजात्युक्तमशौचं स्यात्सूके मृतके तथा ॥ इति । अयं भावार्थः। जन्मतो द्वितीयवर्षपर्यन्तं कन्यामरणे सर्ववर्णानां सद्यः शौचम् । द्वितीयवादूर्ध्वन्तुभ्यमेषा कन्या दातव्या इति वाक्प्रयोगपर्यन्त- मेकाहोरात्रमशौचम् | तादृशवाक्यप्रयोगानन्तरं विवाहपर्यन्तं पितृकुले पतिकुले च त्रिरात्रम् । यत्र वाग्दानं नास्ति तत्र द्वितीयवर्षानन्तरं विवाह- पर्यन्तमेकाहोरात्रम् । एतद्विषयकमेव 'अहः स्त्वदत्तकन्यासु'-इति याज्ञ- वल्क्यवचनम् । दाहकत॒स्तत्रापि त्रिरात्राशौचमेव । 'दहित्वा च वहित्वा च त्रिरात्रमशुचिर्भवेत् । इति वचनात् । असम्बन्धिद्विजान्दहित्वा वहित्वा च सद्यः शौचम् । सम्बन्धे सति त्रिरात्रमिति पैठीनसिवचनात् । अत्र दहित्वा वहित्वा इति तु आपत्वादेव सुष्टु, लोके तादृशप्रयोगासम्भवात् । तथा हि दवहधातुभ्यां (१)मनुः-स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्धयन्ति बान्धवाः । यथोक्तेनैव करपेन शुद्धयन्ति च सनाभयः॥
- कन्यामरणाघशौचविचारः। १०३ क्त्वा प्रत्यये इटि च कृते एव दहित्वेत्यादि सिद्धथति, तच्चानिट्वातुत्वानि- डागमो न भवतीति दग्ध्वा वोग इत्येव लोके । विवाहानन्तरं कन्याग्रसत्रम- रणयोर्मातापित्रोत्रिरात्रं, बन्धुवर्गाणां सद्यः । तथाहि ब्रह्मपुराणे- दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा । स्त्रमशौचं चरैत्सम्यक् पृथस्थाने व्यवस्थिता ।। तद्वन्धुबर्मत्वन शुध्येत्तजनकत्रिभिः ।। इति : अत्र दत्ता नारी पृथस्थाने व्यवस्थिताऽपि प्रसूता मृता या तत्पतिस- पिण्डाः स्वमशौचं चरेयुः । 'दत्तानां भर्तुरेव हि इत्येकवाक्यतबलात् इति मध्यमखण्डार्थ इति द्वैतपरिशिष्टम् ! स्वातन्त्र्यात्पतिभिन्नं यमाश्रिता स्त्री भवति तस्य त्रिरात्रमशौचम् । तथाऽऽह स्मृतिः- पित्रा दत्ता तु या कन्या स्वातन्त्र्यादन्यमाश्रिता । यं यं श्रितवती भूयस्तस्याशौचं यहं श्यहम् ।। मृतायां वा प्रसूतायां नान्येषामिति निश्चयः । कामादत्ततयोनिश्चेदान्यं गत्वा व्यवस्थिता ।। तस्यान्यस्य सगोत्रा सा यन्त्वाश्रितवती स्वयम् । इति ।। तस्याशौचमिति यमाश्रिता तस्यैवाशीचं यहमित्यर्थः । नान्येपामिति तत्सपिण्डानां नाशौचमित्यर्थः (१) । अथ गर्भस्रावाशौचमाह ब्रह्मपुराणे- पएमासाभ्यन्तरं यावद्गर्भस्रावो भवेद्यदि । तदा माससमस्तासां दिवसः शुद्धिरिष्यते ।। अत अवं स्वजात्युक्तमशौचं तासु विद्यते । सद्यः शौचं सपिण्डानां गर्भस्य पतने सति ॥ इति । षएमासाभ्यन्तरे तृतीयमासस्योपरीति शेषः । मासत्रयाभ्यन्तरे सर्वा- सामधिकाशौचस्य वक्ष्यमाणत्वात्तेन मासत्रयोपरि परमासं यावत् व्यतीत- माससमसञ्जयदिनान्यशौचं सर्ववर्णसाधारणम् , तासां स्त्रीणाम् , तासु स्त्रीषु । मासत्रयाभ्यन्तरे आह मरीचिः- गर्भश्र त्यां यथामासमचिरे तूत्तमे व्यहम् ! राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च ।। अष्टाहेन तु शूद्रायाः शुद्धिरेषा प्रकीर्तिता ।। इति. अचिरे मासत्रयाभ्यन्तरे, उत्तमे-उत्तमजातीये ब्राह्मण्यामित्यर्थः। पुंस्त्वमत्राविवक्षितम, अन्यथा सद्यश्शौचं सपिण्डानामिति प्रागुक्तब्रह्म- (१) प्रसङ्गाद्गृहशुद्धिमाह, संवतः- गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते । प्रोत्सृज्य मृन्मयं भाण्डं सिद्धमन्नं तथैव च ॥ गृहादपास्य वत्सर्व गोमयेनोपलेपयेत् । बौधायनः- उद्धशयोपघाते वेश्मनो भित्तिरक्षणम् । सूर्यररम्यप्रवेशोऽग्निज्वालामिरमिमर्शनम्॥ इति । - - , - १०४ ऋत्यसारसमुच्चये- पुराणविरोधः स्यात् । तथा च ब्राह्मण्यादीनां प्रसूतीनां प्रागुक्तमशौचं तत्पति- पुत्रादीनां तु सपिण्डानां स्नानलोमनखवापनपर्यन्तमेव गर्भस्रावेऽशौचमिति भावः । द्विव(१)भ्यन्तरे बालस्य कन्यायाश्च भूमिखननं, न तु दाहः ! तदूर्ध्व दाह एव सर्ववर्णानां तथा हि- ऊनद्विवार्पिक बालं भूमावेव निधापयेत् । न द्विवर्पस्य कर्तव्याः बान्धवैरुदकक्रिया ॥ इति । प्रमादादिना दाहे कृते विशेषमाह तहाहमभिधाय ब्रह्मपुराणे- अनतीतद्विवर्पस्तु प्रेतो यत्रापि दह्यने । अतिमोहाभिभूतैश्च देशसाधर्म्यमादरात् ॥ अशौचं ब्राह्मणानान्तु त्रिरात्रं तत्र विद्यते । राज्ञामेकादशाहन्तु वंश्यानां द्वादशाह्निकम् ॥ अपि विंशतिरात्रन्तु शूद्राणां भवति क्रमात् । इति । तत्रेति द्विवर्षाभ्यन्तरबालदाहे इत्यर्थः । अथ बालकमरणाशौचमाह याज्ञवल्क्यः-- आदन्तजननात्सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ आदन्तजननाद् दन्तजननकालपर्यन्तम् , स कालः सप्तमो मासः 'दन्त' जन्म सप्तमे मासि' इत्युपनिषदः । सरोजकलिकायां मर्यादायामत्राङ्तेन सप्तममासात्प्राक् षण्मासपर्यन्तं बालमरणे सद्यःशौचं चतुर्वर्णस्य | अतः परं ब्राह्मणमात्रविषयकं वचनमिति सप्तममासात्प्राक्सद्यश्शौचमिति शुद्धिविवेकः । आचूडात् चूडाकरणकालपर्यन्तं स च तृतीयवर्षः, 'तृतीये वा प्रतिहत' इति वचनात् । श्राव्रतादेशादुपनयनकालपर्यन्तं स च षड्वर्षान्तः । तथा हि ब्रह्मपुराणे- 'द्विजन्मनामयं कालत्रयाणां तु षडाब्दिकः । इति । एवमग्रेऽपि व्रतमुपनयनकालः स च षड्वर्षान्तः । अङ्गिराः- विप्रे न्यूने त्रिभिवषमते शुद्धिस्तु नैशिकी । द्वचहेन क्षत्रिये शुद्धिस्त्रिभिवेश्ये मृते सति ॥ निवृत्ते क्षत्रिये षड्भिर्वैश्ये नवभिरेव च ॥ इति । (१) मनुः-नद्विवार्षिक प्रेतं निदध्युन्धिवा वहिः । अलंकृत्य शुचौ भूमावस्थिसञ्चयनादृते । नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया । अरण्ये काठवत्त्यक्त्वा क्षिपेयुस्त्यहमेव च ॥ इति । एवमेवाह याज्ञवल्क्यः-ऊनद्विवर्षेनिखनेन्न कुर्यादुदकं ततः ॥ इति । अन्न वर्षगणनं सौरमानेन यथा यस्य सौरमासस्य यस्मिन्नंशात्मकदिने जन्म, द्वितीयवर्षे तन्मासि तदंशे तवर्षपूचिरिति शेयम् । वर्षायनतुंयुगपूर्वकमत्र सौरात्' इत्यनेन सौरमानेनव वर्षगणनौचित्यात् । तत्र प्रामाभिमुखशवनिहारे दोषः सम्भवति । मृतं द्विजं न शूद्रेण निरि- येत् न शूद्रं द्विजेन पितरं मातरं च पुत्रा निहरेयुन द्विजं पितरमपि शूद्र इति विष्णुः ।।
बालकमरणाशौचविचारः । 'अनुपनीतो विप्रस्त्वित्यादि' ब्रह्मपुराणवचने क्षत्रियवैश्ययोः पडदा- भ्यन्तरे त्रिरात्राभिधानं वेदाग्निमतोरेव, अन्येषां पडहनवाही पूर्वोक्ता वेति शुद्धिविवो स्पष्टम् । शूद्रविषये हि- शुद्रे त्रिवर्षामन्यूने तु मृते शुद्धिस्तु पञ्चभिः । अत अर्ध्वं नृते शुद्ध द्वादशाहो विधीयते !! शङ्क:-अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्परम् । मृत्युं समधिगच्छन्ति मासं तस्यापि वान्धवाः ।। शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा ।। अनूढभार्यः, नोडा विवाहिता भार्या येन सः, अविवाहित इति यावत् । विवाहित शूद्रे मृते आह अङ्गिराः- पबन्तिमतीतन्तु शूद्रः संम्रियते यदि । मासिकं तु भवेच्छौचमित्याङ्गिरसभापितम् ।। अत्र 'पड्वान्तमतीत' इत्यस्य पड्बर्षोऽन्ते यस्य इति व्युत्पत्त्या पञ्चवर्प- मतीतः प्राम इत्यर्थः । पञ्चवर्षादधो विवाहः स्त्रियाः शूद्रस्य वा न प्रशस्तः । यत्र तयोस्तृतीये चतुर्थे वा विवाहो जातस्तत्र तयोमरणे सम्पूर्णाशौचं शास्त्रान्न सिद्धयति, देशाचारादेव तत्र व्यवस्था बोध्या । 'यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ इति देशकुलाचारस्य व्यवस्थापकत्वादिति स्मृत्यर्थनिर्णये गोकुलनाथो- पाध्यायाः । एतावद्ग्रन्थपर्यालोचनया अयमर्थः पर्यवसितः-ब्राह्मणवाले सप्तमासात्प्राक् मृते ब्राह्मणानां सद्यशौचम् , तत्र केशनखच्छेदन स्नान- श्च । सप्तमासमारभ्य जन्मतो द्वितीयवर्षपर्यन्तमेकाहोरात्रमशौचम् , उभ- यत्र भूमिखननं श्मवादिच्छेदनञ्च । तदूचं षड्वर्यं यावत्रिरात्रं, तत्र दाहं कृत्वा पिण्डदानं द्वितीयदिनेऽस्थिसञ्चयनं तदसम्भवे तृतीयदिने पिण्डदानमस्थिसञ्चयनं नखकेशच्छेदनञ्च, चतुर्थदिने ब्राह्मणभोजनमिति । सांप्रदायिकव्यवहारः। क्षत्रियाणां सप्तममासपर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं द्वथहम् । तदूर्व षड्वर्षपर्यन्तं षड्दिनमशौचम् । वैश्यानां सप्तममासपर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं व्यह, तदूवं पड्वर्षपर्यन्तं नवरात्रं, षड्वानन्तरं ब्राह्मण- क्षत्रियविशां सम्पूर्णाशौचम् , एकादशाहादिक्रियाश्च । शूद्राणां सप्तममास- पर्यन्तं सद्यः, तदनन्तरं द्विवर्षपर्यन्तं पञ्चाहम्, भूमिनिखननं च । तदूर्व षोडशवर्षपर्यन्तम् अविवाहिते मृते द्वादशदिनम् , षोडशवर्षानन्तरं मासम- शौचं श्राद्धादिक्रियाश्च । विवाहिते तु पञ्चवर्षानन्तरं 'षड्वर्षान्तमतीत' १४ कृ० सा० १०६ कृत्यसारसमुच्ये- इति प्रागुताङ्गिरोवचनात् पञ्चवर्षाभ्यन्तरे च देशकुलाचारान्मासमशौचं श्राद्धादिक्रियाश्च । भिन्नगोत्रे कृत्रिमादावशौचमाह - दत्तककृत्रिमादिपुत्रानभिधाच ब्रह्मपुराणे- भिन्नगोत्राः पृथक् पिएडाः पृथक् गोत्रकरास्तथा । सूतके मृतके चैव व्यहाशौचस्य भागिनः ।। औरसभिन्नपुत्रेषु मृतेष्वशौचमाह शुद्धयेदित्यनुवृत्तौ विष्णुः-आचार्ये मातामहे अतीते त्रिरात्रेण । 'अनौरसेपु पुत्रेषु जातेषु च मृतेषु च। परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ इति । एतच्च सर्ववर्णविषयम् , विशेपानभिधानात् ॥ मनुः- गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यति ॥ अस्यार्थः शुद्घिविवेके । यथा हि-यश्शिष्यो वेदाध्येता गुरुकुले तिष्ठन् गुरोः संस्कारं करोति तस्य त्रिरात्रम् । तत्र मनुः- 'त्रिरानमाहुराशौचमाचार्य संस्थिते सति ।' संस्थिते मृते इति । गुरुलक्षणमाह- अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । वमपीह गुरुं विद्यादिति । बौधायनः-त्रिरात्रमहोरात्रमेकरात्रमिति कुर्वीत आचार्योपाध्यायतत्पुत्रे- विति । अत्र मृतेष्विति शेषः । मातामहेमृते त्रिरात्रमाह बृहस्पतिः-- म्यहम्मातामहाचार्यश्रोत्रियेषु शुचिर्नरः । मातुले पक्षिणी रात्रिः शिष्यत्विग्बान्धवेषु च ॥ पक्षिणी तु दिनद्वयसहिता रात्रिः 'आगामिवर्तमानाहयुवायां निशि पक्षिणी'--इत्यमरकोषात् । तुल्यन्यायात् रात्रिद्वयसहितं दिनमपि पक्षि- एयेव । गौतमः-पक्षिण्यसपिण्डे योनिसम्बन्धे सहाध्यायिनि च । मृत इति शेषः । योनिसम्बन्धाश्च-मातृष्वमृपितृष्वसमातुलमातुलानीमातुलपुत्रमातृष्व- सेयपितृष्वस्रयदौहित्रभगिनीभागिनेयाः श्वश्रश्वशुरौ चेति । स्वगृहे मृते मातुले श्वशुरे गुरौ, स्वगृहमृतायां मातृवसरि श्वश्वां च त्रिरात्रमिति शुद्धिविवेकः । अत्र योनिसंबन्धाश्च मातुलमातृष्वनयपितृध्वस्रया इति मिताक्षरा। तत्रैव यम इत्यनुवर्त्य- मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च । अशौचम्पक्षिणी रात्रिमृता मातामहो यदि ॥ इति । तथा-'संस्थिते पक्षिणी रात्रि दौहित्रे भगिनीसुते ।' संस्थिते मृते | अथ स्वगृहे कस्मिंश्चिन्मृते गृहस्थस्याशौचमाहाङ्गिराः-- - - मातुलाद्यशौचविचारः! १०७ गृहे यस्य मृतः कश्चिदसपिण्डः कथञ्चन । तस्याप्यशौचं विज्ञेयन्त्रिरात्रमिति निश्चयः ।। गौतमः-मत्स्यमांसादि न भक्षेयुराप्रदानान् । प्रदानमाद्यश्राद्धम् । तेन मांसादिभक्षणनिपेधोऽशौचाभ्यन्तरे सर्वसाधारण इति शुद्धिनिर्णयः । आप्रदानाच्छाद्धे मांसप्रदानादित्यर्थ इनि रत्नाकरः । अशौचप्रकरणे- मनुः 'मांसाशनं च नाश्नीयुः शचीरंच पृथक क्षितौ ।' आप्रदानादिति स्वरसात् मृतकाशोचे एव मांसादिभक्षगनिपेधो न तु जनना- शौचे । मार्कण्डेयपुराणे- तैलाभ्यङ्गो वान्धवानामङ्गसंवाहनं च यत् । तेन वाऽऽप्यायते जन्तुर्यच्चाश्नन्ति मुबान्धवाः ॥ इति । अयश्चाभ्यङ्गोऽस्थिसञ्चयनानन्तरमिति वाचस्पतिमिश्राः । अथाशौचान्तिमदिनकर्तव्यमाह वृहस्पतिः-- 'नवमे वाससा त्यागो नखलोम्नां तदन्तिके।' नवम इति अशौचोपान्त्यदिनोपलक्षकम् । ब्रह्मपुराणे-- यस्य यस्य तु वर्णस्य यद्यत्स्यात्पश्चिमन्त्वहः । स तत्र वस्त्रशुद्धिं च गृहशुद्धिङ्करोत्यपि ॥ समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम्। प्रामाहिस्ततो गत्वा प्रेतस्पृष्टे च वाससी ।। अन्त्यानामाश्रितानां च त्यक्त्वा स्नानङ्करोति च । (१) श्मश्रु केशनखानां च यत्त्याज्यं तजहात्यपि ।। पश्चिमम् अशौचान्तिमम् , वस्त्रशुद्धिः वनप्रक्षालनम्, गृहशुद्धिरुपलेप- नादिः, पिण्डदानानन्तरं श्राद्धकतुर्नखकेशच्छेदनं समाप्य 'दशमम्पिएडमि- त्यादि' स्वरसात्साम्प्रदायिकव्यवहाराच्च, त्याज्यं जहात्यनेनात्याज्यानाङ्कता- क्षिकेशानां शिखानां च न त्याग इत्यवगम्यते । अत एव वशिष्ठः-स्मश्रुके- शनखान् वापयेदशिलोमशिखावर्जम्' इति । वपनं केपामित्याहापस्तम्बः-एषु चोदकदानन्तावन्तकालमनुभाविनां च परिवापनम्।' अनुभवन्तीत्यनुभाविनः, अनुभवशालिन इति यावत् | अनुभवस्तु सपिण्डादिमरणस्य तेन सपिण्डा- (१) इदं च चौरं निषिद्धकालेऽपि कार्यम् । और नैमित्तिक कार्य निषेधे सत्यपि ध्रुवम् । पित्रादिमृतियात्रासु प्रायश्चित्ते च तीर्थके ।। इति । तत्र निषिद्धकालस्तु- 'रव्यारसौरवारेषु रात्रौ पाते व्रताहनि । श्राद्धाहः प्रतिपद्रिक्ता भद्राःौरेषु वर्जयेत् ॥ इति । केचन निषिद्धसमये चौरस्यावश्यककर्तव्ये मन्त्रमिमं पठन्ति- 'केशवमानर्तपुरं पाटलिपुत्रपुरीमहिच्छत्राम् । दितिमदिति च स्मरतां क्षौरकर्मसु भत्रति कल्याणम् ॥' इति । तत्र-'उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत् धीः । इत्यपरार्के।
कृत्यसारसमुच्चये- दिमरणानुभाशालिनां सर्वेपालेव बापनमिति पर्यवसितम् । यत्तु अनु पश्चा- द्रावि इत्यनुमानिनः कनिधाः, तेन प्रेतकनिष्ठानामेव वपनमिति वाचस्पति- मिश्राख्यातं तच्च व्यवहारविरोधात्त्याज्यमेव, व्यवहारविरोधानुरोधेन रत्ना- करलिखितमप्युपेक्षितम् । यत्र व्यवहारविरोधो नापतितः, तत्र 'यथारनाकर- नेव व्यवस्थेति प्रन्थेन शुद्धिविवेकका व्यवहारबलवत्त्वस्योक्तत्वात् । मनुः- विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्देशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पष्टवैचापो विशुध्यति । गौतमः-'श्रुत्वा चोय दशम्याः पक्षिणी' इति । देवलः-ऊर्ध्व संवत्सरार्धात्तु श्रूयते चेन्मृतः स्वकैः । भवेदेकाहसेवात्र तञ्च संन्यासिनां न तु ।। एषां वचनानामयं भावः-अशौचाभ्यन्तरे मरणश्रवणेऽवशिष्टाऽशौच- दिनं यावदशुद्धिः। अशौचान्तिमदिनानन्तरं षएमासाभ्यन्तरं मरणश्रवणे त्रिरात्रम् । एमासानन्तरं नवममासपर्यन्तं पक्षिणी | तदनन्तरं वर्प याव- देकाहोरात्रम् । वर्षानन्तरं स्नानोदकदानपर्यन्तमेवाशौंचमिति सर्ववर्णानां सम्पूर्णाशौचविपयम्। असम्पूर्णत्र्यहाद्यशौचे तु अशौचाभ्यन्तरे मरणश्रवणेऽवशिष्टाशौच- कालेन, वादृशाशौचकाले व्यतीते तु स्नानोदकदानमात्रेण शुद्धिः । तथा हि याज्ञवल्क्यः- 'प्रोपिते कालशेषः स्यात्पूर्णे दत्वोदकं शुचिः' इति । त्रिरात्रादावशौचकाले व्यतीतेऽशौचाभाव एव इति शुद्धिविवेकः । जननाशौचाभ्यन्तरे जननश्रवणेऽवशिष्टाशौचकाले व्यतीते शुद्धिः। तदशौचा- नन्तरे जननश्रवणेऽशौचाभावः। 'नाशौचं प्रसवस्यास्ति व्यतीतेपु दिनेष्वपि ।' इति देवलात् । षष्टियोज- नानन्तरदेशो देशान्तरम् । षष्टियोजनाभ्यन्तरेऽपि भाषाभेदगिरिमहानद्येता- वत्समुदायव्यवहितदेशो देशान्तर एव, तादृशदेशान्तरयोम्मते सपिण्डाना- मपि सद्यः शौचमेव । तदाह पैठीनसिः-'देशान्तरमृतस्य सद्यः शौचं सपिण्डस्यापि' इति शेषः । अत्र रुद्रधरोपाध्यायाः-गिर्यादिव्यवधानाभावेऽपि शास्त्रीयषष्टियोजनानन्तरे प्रयागे मृतस्य तीरभुक्तिदेशस्थितं प्रति देशान्तरमृत- त्वव्यवहारः। प्रामाणिकास्तु--त्रिंशद्योजनानन्तरे काश्यां मृतस्य गिर्यादि- समुदायव्यरधानाभावात्तीरमुक्तिदेशस्थितं प्रति न देशान्तरमृतत्व्यवहार इति प्राहुः । एतञ्च दिक् प्रदर्शितम् । तेन यत्रैतादृशानन्तर्यमेतादृशसमुदाया- व्यवधानं वा तहे शे देशान्तरत्वाद्देशान्तरत्वमिति पर्यवसितम् । मृतस्य त्रिविधा क्रिया पूर्वा मध्यमा उत्तरा चेति । तत्र दाहमारभ्याशौचा- - श्राद्धाधिकारनिर्णयः। १०६ न्तिमदिनपर्यन्तकर्तव्यक्रिया पूर्वा, एकादशाहसपिण्डनान्तक्रिया मध्यमा, तदुत्तरकोद्दिष्टादिरूपोत्तरा, तत्र पितृमातृसपिण्डादयः पूर्ण क्रियां कुर्युः । मध्यमायामनियमः । उत्तरां च न कुर्युः । पुत्रपत्नीसोदरभ्रातापिताभ्रातृपुत्राः, एते चोत्तरक्रियायामप्यधिकारिणः । पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । तत्सङ्घातान्तर्गतैर्वाऽपि राज्ञा वा धनहारिणा ॥ अथ श्राद्धाधिकारनिर्णयः। पूर्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तरा। इति विष्णुपुराणात् । तत्राधिकारिपौर्षापर्यक्रमः । तत्र प्रथममौरसः, तदभावे पुत्रिकापुत्रः (दौहित्रः) । तयोरभाव क्षेत्रजादिदशपुत्रा मनूक्तक्रमेणाधिकारिणः, तथाहि- मनु --औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च । कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च ।। पौनर्भोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा । स्त्यं चोपन्तः पुत्रा द्वादशैते प्रकीर्तिताः ।। औरसेष्वपि बहुषु सत्सु सर्वपुत्रानुमतो ज्येष्ठ एव श्राद्धाधिकारी | तदाह, मरीचिः---मृते पितरि पुत्रेण क्रिया कार्या प्रयत्नतः । बहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः ।। सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैकेन यत्कृतम् । द्रव्येण चाविभक्तेन सर्वेरेव कृतं भवेत् ।। इति । अत्र सर्वेषामेवानुमतिद्रव्यार्पणद्वारा श्राद्धनिष्पादने प्रत्यवायपरिहारा- दिति फलसिद्धिः । सत्यप्यधिकारे न पृथगनुष्ठानं वचनाभावादित्यर्थः । एवं च यत्र देशान्तरादौ अनुमतिद्रव्यश्लेषयोरभावस्तत्र पृथगेव श्राद्धम् । अन्यथा प्रत्यवायपरिहारो न स्यादिति शुद्धिविदेकः । यत्तु- 'पृथक् नैव सुताः कुयुः पृथग्दव्या अपि कचित् ।' इति लघुहारीतवचनं तत्सर्वेपामनुमतौ द्रव्यसंश्तेपे च पृथक्करणनि- षेधकम् । बृहस्पतिः- अनेकधा कृताः पुत्रा ऋपिभियः पुरातनैः । न शक्यतेऽधुना कत्तुं शक्तिहीनैरिदन्तनैः ॥ इति । इदन्तनैः कलियुगस्थैः । कलिधर्मप्रस्तावे पराशरः-- 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिमिकः सुतः।' कर्तव्य इति शेषः । अत्र क्षेत्रजपदमौरसविशेषणमिति पुत्रमीमांसायां नन्दपण्डितः। तथा च कलौ औरसदत्तककृत्रिमपुत्राः कर्तव्याः । पुत्रिका- पुत्रोऽपि कर्तव्यः औरससमत्वात् । औरससमत्वमाह याज्ञवल्क्यः तत्समः - ११० कृत्यसारसमुच्चये- पुत्रिकापुत्रः' इति तत्पदनौरसपरम् । एतच्चतुष्टयभिन्नाः पुत्रा न कर्तव्या द्विजैः कलौं । शूद्वैस्तु पौन वा अपि पुत्राः कर्तव्याः । अत एव शूद्रस्य त्वनू- ढमाजातस्य पुत्रस्य पितृश्राद्धे पौनर्भवत्याधिकार इति । अनुढशूद्रा- जातस्य पुत्रस्य जनकशूद्रश्राद्धादावतितरामधिकारः। यत्र च शूद्रस्य विवाहिता भार्या, तथाविधः पुत्रश्च तत्रापि स पुत्र एवाधिकारीति शुद्धि- विवेककारा लिखन्ति स्म । स पुत्र एवानूढभार्याजातपुत्र एव इत्यर्थः । शूद्र- स्यानूढभार्याऽविवाहितेव, अत एव 'शूद्रस्य द्वे भार्ये ऊढानूढे' इति स्मृति- सारेऽभिहितम् । पुत्रसामान्याभाव एवौरसभिन्नपुत्रकरणम् - अपुत्रेण सुतः कार्यों यादृक्ताहक प्रयत्नतः । पिण्डोदकक्रियाहेतो मसङ्कीर्तनस्य च ॥ इति वचनात् । अपुत्रेण द्वादशविधपुत्ररहितेन इति रत्नाकरः । नन्वेवं तर्हि विद्यमान एव युधिष्ठिरपुत्रे पाण्डुर्भीमसेनादीन क्षेत्रजान् कथमकरोदिति चेत् ? ते देव- कल्पास्तेषामाचारो नादरणीयो न वा निन्दनीयः । कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥ इति पुत्रमीमांसाधृतवचनात् । कृत्रिमपुत्रानन्तरमौरस उत्पन्ने कनि- छोऽपि औरस एव ज्येष्ठः स एव श्राद्धाधिकारी ज्येष्ठत्वात् । 'औरसे पुनरुत्पन्ने ज्येष्ठ यन्तेषान्निवर्तते ।' इति वचनात् तेषां कृत्रिमादीनामित्यर्थः । अत्र क्रोडपत्रम्-'अपुत्रेण सुतः कार्य' इति प्रागुक्तवचनस्य योग्यपुत्राभाववता सुतः कार्य इति व्याख्या- मभिप्रेत्य श्राद्धकरणायोग्येऽतिबालपुत्रादौ सत्वेऽपि कृत्रिमादयो भवन्तीति रामेश्वरोपाध्यायचरणाः । अपुत्रेणेति विद्यमानपुत्राभाववतेति व्याख्यामभि- प्रेत्य पुनः गर्भस्थसन्देहेऽपि न कृत्रिमादिकरणमिति वंशधरोपाध्यायाः। व्यवहारस्तु तत्तन्मतानुयायिनां तत्तन्मतव्याख्यानुसारेणेति । अत्र पुत्रलक्षणमाह, मनु:- संस्कृतायां तु भार्यायां स्वयमुत्पादयेत्तु यम् । तमौरसं विजानीयात्पुत्त्रं प्रथमकल्पितम्।। इति । तथा च स्वविवाहितपाणिगृहीतायां खोत्पादितः पुत्र औरसः इत्यर्थः । पुत्रिकापुत्रमाह, वशिष्ठः- अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम् ।। इति । स्वधाकरं श्राद्धकरमित्यर्थः । तथा च कन्यादानकालेऽस्यां यः पुत्रो भवि- यति स मम पुत्रो भविष्यतीति व्यवस्थाऽनन्तरं तस्यां यः पुत्रो भवति स पितृमातामहयोद्वयोरपि श्राद्धाधिकारी | तदाह- - - पुत्रग्रहणप्रकारः। १११ देवलः-तत्तुल्यः पुत्रिकापुत्रो दायादस्सोऽथवा भवेत् । पितुर्मातामहस्यापि निरपत्यस्य पुत्रवदिति ।। अथ पौनर्भवमा विष्णु:- या तु पित्रा परित्यक्ता विधवा स्वेच्छयाऽथवा । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥ इति । पुनर्भूत्वा पुनः पुरुषान्तरेग सवर्णनात्मानं विधाय यं पुत्रमुत्पादयति स पौनर्भवः । कात्यायनः- क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्याम्पौनर्भो जातो व्यक्तमुत्पादकस्य सः ।। इति । अथ दत्तकपुत्रानाह, मनु:- माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तौ स ज्ञेयो दत्तकः सुतः ।। इति । अद्भिः जलैः। जलपदं तिलकुशादीनामप्युपलक्षकम् । आपदि पुत्रा- सत्त्वे, सदृशं समानजातीयम्, प्रीतिसंयुक्तावित्यनेन भयलोभादिना कृतो न दत्तकः, किन्तु प्रीत्या कृतो दत्तक इति पर्यवसितम्। तथापि सति पत्यौ तदाज्ञया, असति पत्यौ तदाज्ञाविरहेऽपि स्त्रिया दानाधिकारः । 'न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः।' इति वशिष्ठवचनात् ॥ 'असति पत्यौ अनुज्ञां विनाऽपि' इति वाचस्पतिलिखनाच्च । एवं शूद्रस्यापि दानेऽधि- कारो न ग्रहणे । 'स्त्रीशूद्राश्च सधर्माणः' इति वचनात् । स्त्रीशूद्रग्रहणयोर्निपे- धस्तु पुत्रग्रहणाङ्गभूतवैदिकमन्त्रसाध्यव्याहृतिहोमे तयोरनधिकारादेवपुत्रवतां पुत्रदानेऽनधिकारः । 'नत्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वे- षाम् इति वाशिष्ठात् । अत्र पुत्रग्रहणप्रकारः। प्रथमं नित्यकर्म विधायाग्निस्थापनं कृत्वाऽऽधारा- वाज्यभागौ हुत्वा महाव्याहृतिहोमं पञ्चवारुगहोमं सर्वप्रायश्चित्तप्राजापत्य- स्विष्टकृद्धोमञ्च कृत्वा व्याहृतिहोमं कुर्यात् । होमानन्तरं पूर्णाहुतिं दत्त्वा पुत्रं गृह्णीयात् । दत्तकस्य जनकगोत्रन्तत्पिण्डदातृत्वं वा तद्धनहारित्वं न तिष्ठति, तथाहि-मनुः-- ऋक्थगोत्रे जनयितुर्न हरेत्कृत्रिमः सुतः । ऋक्थगोत्रानुगः पिण्डो व्यपैति ददतः स्वधाम् ।। इति । किन्तु येन गृहीतः तस्यैव गोत्र पिण्डदुत्वं धनहारित्वं च दत्तकस्य । अथ कृत्रिमपुत्रमाह मनुः-- सदृशं यं प्रकुर्वीत गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स ज्ञेयः कृत्रिमः सुतः । इति । सहशः समानवर्णः, कृत्रिमः सवर्ण इति विवादचन्द्रात् ।
११२ कृत्यसारसमुच्चये- कृत्रिमस्तु-मत्पुत्रत्वकरस्य पिण्डप्रदो निजपित्रादीनाञ्च पिण्डप्रद इति व्यामुख्यायनः । तद्विधिस्तु पुत्रकर्ता त्वम्मम पुत्रो भवेति वदेत् । तव पुत्री- भूतोऽस्मीति कृतो वदेत् । वस्तुदानमत्राचारप्राप्तं न त्वावश्यकं, पुत्रकरणे उभयोरनुमतिरेव प्रयोजिका, तेन वाक्यविशेषस्य न पुरस्कारः इति रुद्रधरः । भ्रातॄणां मध्ये ज्येष्ठः सोदरभ्रातरहितोऽपि कृत्रिमो भवत्येव अपवादका- भावात् । पुत्राभावे पौत्रस्तु तदभावे प्रपौत्रोऽधिकारी । तथाहि विष्णुः- 'पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृसन्ततिः ।' इति । प्रपौत्राभावे पत्नी, तदभावे सहोदरः । तथाहि, शङ्ख:- पुत्राभावे तु पत्नी स्यात्पल्यभावे सहोदरः । इति पुत्रपदमत्र पौत्रप्रपौत्रपदयोरप्युपलक्षकमिति स्मृतिसमुच्चये हरि- नाथोपाध्यायाः, अतो न विष्णुक्रमविरोधः। सहोदरेष्वपि प्रथमं कनिष्ठः, कनिष्ठाभावे ज्येष्ठः। (१)न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽप्रजः ।' इति कनिष्ठभ्रातृसद्भावे ज्येष्ठस्यानधिकारवोधकच्छन्दोगपरिशिष्टवचनात् । तत्राप्यव्यवहितावेव ज्ये- ष्ठकनिष्ठी प्रथमत्यागे मानाभावादिति न्यायात् । सोदराभावे पिता 'पुत्रो भ्राता पिता वाऽपि' इति प्रचेतोवचनात्, पुत्रपदमत्र पत्नीपर्यन्तोपलक्षक- मतो न विष्णुपुराणादिविरोधः । पितुरभावे सोदरभ्रातपुत्रः । 'पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृसन्ततिः ।' इति प्रागुक्तविष्णुपुराणाभ्रातृसन्ततिः । सोदरभ्रातृपुत्रः, तदभावे स्नुषा इति वाचस्पतिमिश्राः । तदभावे सपिएडा अधिकारिणः, 'पुत्राभावे सपिण्डा' इति गौतमवचनात् । पुत्रपदमत्र स्नुषापर्यन्तोपलक्षकम् । सपिण्डेष्वपि सन्नि- हितज्येष्ठसपिण्डोऽधिकारी सपिण्डाभावे दुहिताऽधिकारिणी । 'अपुत्रस्य च या पुत्री साऽपि पिण्डप्रदा भवेत् ।' इति वचनात् । दुहितुर- (1) अथ प्रसङ्गाजीवपितृकश्नाद्धम् । तत्र पारस्करः- 'पित्रादित्रिपु जीवत्सु श्राद्धं न कर्तव्यम्, अत्र दण्णां पुरुषाणां मध्ये यो यो जीवति, तं तं विहाय पुरुषान्तरमादाय श्राद्ध कर्तव्यम् । मातामहादित्रिषु जीवत्सु पित्रादित्रिकमात्रश्राद्ध' कर्तव्यम् । इति । तथा च विष्णुः-'पितरि जीवति यः श्राद्धं कुर्याद, पिता येषां कुर्यात् तेषां कुर्यात, पितरि पितामहे च जोवति पितामहो येषां कुर्यात्तेपां कुत्पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् । यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् । यस्य पिता पितामहश्च प्रेतौ स्यातां, स ताभ्यां पिण्डौ दत्त्वा पितामहप्रपितामहाय दद्यात् । यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात् । यस्य पिता प्रपितामहश्च प्रेतौ स्यावां स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दधात। मातामहानामप्येवं श्राद्ध कुर्याद्विचक्षणः।' इति । अतएव पित्रादित्रिषु जीवत्सु वृद्धिश्राद्धमपि न भवति ।
११३ अवीराकल्पश्राद्धप्रयोगः । भावेऽष्टमपुरुषादिसमानोदकसन्ततिः । सपिण्डसन्तत्यन्तमभिधाय एपाम- भावे सर्वेषां समानोदकसन्ततिरिति विष्णुपुराणान् । मनुः-- 'समानोदकभावस्तु निवर्नेताचतुर्दशात् ।' इति! समानोदकभावे मातृसपिएडास्तेपामभावे मातृलमानोदकाः। तथाहि विष्णुपराणम्-'मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन च इति पिण्डेन सम्बन्धः सपिण्डः । जलेन सम्बन्धः समानोदक इत्यर्थः । उभयकुला- भावे माताऽधिकारिणी। 'स्वमाता कुरुते तेपां तेऽपि तस्याश्च कुर्वते !' इति वचनात्तेषां पुत्राणाम् । मातुरभावे यथा कथञ्चित्परिगृहीता स्त्री। 'कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्या क्रिया नृप ! इति वचनान् । स्त्रीभि- रिति अयथापरिगृहीतस्त्रीभिः, इति पुरुषश्राद्धाधिकारिणः । स्त्रियास्तु प्रथ- मम् औरसपुत्रोऽधिकारी, तदभावे सपत्नीपुत्रः, तदभावे कृत्रिमादयः । 'विद्ध्यादौरतः पुत्रो जन-या औज़ हिकम् । तभावे सपत्नीजः कृत्रिमाद्यास्तु तावृते ।' इति वामदेवोपाध्यायधृतस्मृतेः । औरससपत्नीपुत्राभ्यां विनेत्यर्थः । तद्- भावे पतिः, पत्युरभाव स्नुषा। तदभावे पौत्रप्रपौत्रो क्रमेण, तयोरभावे सपिण्डाः तथाहि, शङ्खः- भार्यापिण्डं पतिर्दद्यात्पत्यु र्भार्या तथैव च । श्वश्चादेश्च स्नुषा चैव तदभावे सपिएडकाः ॥ इति । श्वश्चादेरित्यादिपदात् । श्वशुरपरिग्रहः तेनैतद्वचनबलादेव भ्रातृसत्त्वे पल्या देवरादिसत्त्वे श्वश्रूश्राद्धे सपिण्डसत्त्वे च श्वशुरश्राद्धे स्नुषाया अधिकारः सिद्ध इति श्राद्धचिन्तामणौ वाचस्पतिमिश्राः । सपिण्डाभावे सकुल्याः, तदभावे पितृसपिण्डा इति । शुद्धिविवेके तु पुत्राभावे पतिस्तदभावे सपत्नीपुत्र इति लिखनं सम्प्रति मिथिलाव्यवहारविरुद्धमतस्तदुपेत्यम् । शुद्धिविवेककृताऽपि 'व्यवहारविरोधाद्रत्नाकरलिखनस्योपलक्षणात्' (इत्युक्तम् )। पुत्रसपत्नीपुत्ररहितायास्सपिण्डनन्नास्ति | किन्तु वक्ष्यमाणावीराकल्प- विधानेन चतुर्थादिदिनक्रमेणैव श्राद्धमधिकिारिणा कर्त्तव्यम् । तथा हि सरोज- कलिकायां गोमिल:- अपुत्रायां मृतायान्तु पतिः कुर्यात्सपिण्डनम् । अभावे पत्युरेवास्याः पुत्राभावे तु योषितः ।। सपिण्डीकरणन्नास्ति नारदो मुनिरब्रवीत् । अन्यच्च- पुत्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः । पुरुषस्य पुनस्त्वन्ये भावपुत्रादयोऽपि ये ।। १५ कु० सा० , ११४ कृत्यसारसमुच्चये- पुत्राभावे पतिः कुर्यात्पत्यभावे चे नेष्यते । पत्रपदमौरसादिपुत्रसपत्नीपुत्रोभयपरम् । बबीनामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण पुत्रिण्यो मनुरब्रवीत् ॥ इति मनुवचनात्तस्यापि पुत्रत्वात् । एकपत्नीनामिति एकः पतिर्यासान्ताः एकपल्ल्यः तासामित्यर्थः । मार्कण्डेयपुराणे- 'सपिण्डीकरणं तासां पुत्राभावे न विद्यते । इति तासां स्त्रीणां, पुत्र पदमत्राजहत्स्वार्थलक्षणया पतिसपत्नी पुत्रयोरप्युप- लक्षणम् , अतो न पूर्वस्माद्विरोधः। पुत्रसपत्नीपुत्रपतिशून्यस्त्रिया अवीराकल्पश्राद्धमाह, ब्रह्मपुराणे- चतुर्थे पञ्चमे चैत्र नवमैकादशे तथा । ततो द्वादशभिर्मासैः श्राद्धाद्द्वादशसंख्यया ॥ इति । तथा च चतुर्थपञ्चमनवमैकादशदिनेषु तत्तदिनं श्राद्धं कृत्वा द्वादशमा- सेषु प्रतिमासक्षयाहेपु द्वादशमासिकानि कार्याणीत्यर्थः । चतुर्थादिदिनम- तीत्य मरणश्रवणदिन एवातीतश्राद्ध विद्यमानदिनश्राद्धं च कृत्वा अधिकारी भाविदिनश्राद्धं भावितत्तच्छाद्धदिने कुर्यात् । अथ तच्छ्राद्धप्रयोगः । चतुर्थदिनेऽस्थसञ्चयनं कृत्वा ॐ अपवित्रः पवित्रो वेत्यादिना अन्नादीन् सिक्त्वा कुशादिकमादाय ॐ अमुकगोत्रायास्सपि- ण्डाया अमुकप्रेतायाः प्रेतत्वविमुक्तिकामोऽद्यादि यथाकालं षोडशश्राद्धान्यह करिष्ये इति सङ्कल्त्य पोडशश्राद्धान्तर्गतचतुर्थदिनश्राद्धसङ्कल्पः । ततो गायत्री, देवताभ्यः इति त्रिर्जपेत् । तत ॐ अद्यामुकगोने सपिण्डे अमुक- प्रेते चतुर्थदिनश्राद्धे इदमासनं ते मया दीयते तवोपतिष्ठताम् , एवं क्रमेण चतुर्थादिदिनेषु उहेनैकोदिष्टं श्राद्धं कृत्वा एकादशदिने शय्याकाञ्चनपुरुष- द्विजदम्पतीपूजनकपिलादानवृपोत्सर्गान् कृत्वा एकादशाहश्राद्धं कुर्यात् । ततो द्वादशमासेषु क्षयतिथी द्वादशमासिकानि कुर्यादिति श्राद्धविवेकाद्यनुसा- रीयः पन्थाः। अथ मृतस्य षोडशश्राद्धाकरणेऽधिकारिणः पातित्यं, मृतस्य च प्रेतत्वम् । तथा हि सरोजकलिकायाम्- न करोति च यः श्राद्धं पित्रादीनां विशेषतः । पातित्यं जायते तस्य सर्वकर्मविगर्हितम् ।। अन्यच- यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोडश । प्रेतत्वं हि स्थिरन्तस्य दत्तैः श्राद्धशतैरपि ।। इति ।
- एकोदिष्टपार्णरविचारः। ११५ एतच्चाधिकारिणः शौचे विहितकालजीवित्वे च सति बोध्यम् । अशौचे विहिते कालेऽजीवनेत्राधिकाराभाशत् नैताहशदोपप्राप्तिः स्मृतिः- अशौचान्तद्वितीयेऽह्नि शय्यान्दद्याद्विलक्षणाम् । कांचनं पुरुपं तद्वत्फलवस्त्रसमन्वितम् ।। सम्पूज्य द्विजदाम्पत्यान्नानाभरणमपितन् । वृपोत्सर्गस्तु कर्तव्यो देया च कपिला शुभा ॥ इति । अथ विगोत्रो यदि श्राद्धकर्ता तदा चतुर्थदिने शश्यकांचनपुरुषकपिलादान- दम्पतीपूजनवृषोत्सर्गाश्च कुर्यात् , तस्याशौचान्तद्वितीयदिनत्वादिनि श्राद्ध- विवेकः । द्वैतनिर्णये तु एकादशाहोत्पन्नाशौचन यद्याद्यश्राद्धप्रतिरोधस्तदा तदशौचान्ते श्राद्धकरणे शय्यादानादिवृपोत्सर्गश्च न भवति तदिने प्रापका- भावात्, प्रकृताशौचमुपक्रम्याशौचान्तद्वितीयेहीति श्रवणात् । यत्र तु सङ्क- रेणाशौचवृद्धिस्तत्र द्वितीयसन्निपाते प्रताशौचस्याभिवृद्धिरिति लिद्धा- न्तात् तत्र शय्यादिकं भवतीति वाचस्पतिमिश्राः । वृषोत्सर्गफलमाह, सरोजकलिकाधृतस्मृतिः- वृपभस्य तु शनेन पिनरः सपितामहाः वर्तमानाः प्रहश्यन्ते स्वर्गलोके न संशयः ।। जलं प्रविश्य लागुलैर्यत्तोयं वहते वृधः । दशवर्षसहस्राणि पितरस्तेन तपिताः ।। इति । तत्र नीलवृयोऽतिश्रेष्ठः । तल्लक्षणमाह स्मृतिः- चरणानि मुखम्पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्णश्च तन्नीलमिति निर्दिशेत् ।। इति । गोपतेवृपभस्य । लाक्षा लाहीति प्रसिद्धा । वर्णविशेपे वृपविशेषमाह स्मृतिः-वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते । स्निग्धरक्तन वर्णेन क्षत्रियस्य प्रशस्यते ।। काञ्चनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः । इति । अन्त्यजन्मनः शूद्रस्य, एतेन शूद्रस्य वृषविशेषोपदेशाद् वृपोत्सर्गाधि- कारे सिद्धेऽत्र वैदिकमन्त्रा अपि तेन पठनीयाः, वृषोत्सर्गान्यथानुपपत्तेः, तयैवोत्सृजेरनिति वचनाच्च ! तयैव वैदिकऋचैव । तवृपोत्सर्गान्यथानुप- पत्त्याऽत्र शूद्रस्य वृषोत्सर्गवाक्ये एव वैदिकमन्त्रपाठो नान्यत्रेति श्राद्धविवेकः । शूद्रवत् स्त्रिया अधिकारबोधने प्रमाणाभावान्न वृषोत्सर्गेऽधिकारः। एवमनु- पनीतत्रैवर्णिकस्य वेदशून्यतया न वृषोत्सर्गेऽधिकार इत्यपि स एव । व्यव- हारस्तु ब्राह्मगद्वारा रुद्राध्यायादिवैदिकमन्त्रपाठ इत्येव शूद्रस्य । वृपश्चान तरुणः वत्सतर्यश्च त्रिहायन्यः । 'एतं युवानं पति वो ददानि' इति ऋचः । अष्टाभिर्द्धनुभिर्युक्तश्चतुर्भिरथवा क्रमात् । त्रिहायनीभिर्द्धन्याभिः स्वरूपाभिः सुशोभिता || -- ११६ कृत्यसारसमुच्चये- इति द्वैतनिर्णयधृतवचनाच्च । विहायनी त्रिवर्षा । अग्रिमपाददक्षिणपायें चक्रेण, पश्चिमपादवामपायें त्रिशूलेन वृषमङ्कयेदिति श्राद्धरत्नाकरादयः । एकादशाहश्राद्धं सांवत्सरिकञ्च सिद्धान्नेनैव कर्तव्यम् । तथा हि- एकोद्दिष्टन्तु कर्तव्यं पाकेनैव सदा स्वयम् । अभावे(१)पाकपात्राणान्तदहः समुपोषणम् ।। इति हारीतवचनात् । एकोद्दिष्टमेकपुरुषोद्देश्यं कर्म, अनुपनीतेनापि आद्यश्राद्धं सांवत्सरिक च सिद्धान्नेनैव कर्त्तव्यं प्रागुक्तत्वात्, तदन्नन्तु 'गोभ्यो दद्याजलेऽपि वा । मासिकस्यैकोदेश्यकत्वेऽपि व्यवहारादपूपेनापि कर्त्तव्यत्वम् । जाबालः- आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं (२) द्विजैः कार्य शूद्रेण तु सदैव हि ॥ इति । आपदि श्राद्धकर्तुदेशकालयोचोपप्लवे । तेन स्वाशक्तौ देशे काले च पाकक्रियया श्राद्धासंभावनायामामेन श्राद्धमिति श्राद्धविवेकः । आमश्राद्धम- सिद्धान्नेन श्राद्धम् | अनग्नौ पाकयोग्याग्न्यभावे आमश्राद्धे पिण्डादिकमप्या- मान्नेनैव, 'तेनाग्नौ करणं कुर्यात् पिण्डाँस्तेनैव निर्वपेत् । इति जाबालवच- नात् । अमावास्यादिकाम्यश्राद्धमामान्नेनैव । श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ॥ इति लघुहारीतवच- नात् । आमश्राद्धे मांसादिव्यञ्जनानि आमान्येव देयानि इति श्राद्धपल्लपः । सांवत्सरिकैकोदिष्टमविभक्तैरपि सर्वेरेव भ्रातृभिः कर्त्तव्यम् , पार्वणन्तु अविभक्तेषु ज्येष्ठेनैव । विभक्तैः सर्वैरेव कर्त्तव्यम् । तथा हि- विभक्ता अविभक्ता वा कुयुः श्राद्धमदैविकम् । मघासु च तथाऽन्यत्र नाधिकारः पृथग्विना ॥ इति । अदैविकं विश्वेदेवकर्मरहितम् एकोद्दिष्टमिति यावत् । मघासु मघानि- मित्तकाद्धेषु । अन्यत्र तद्भिनषावणे पृथग्विना विभागं विना सर्वेषां नाधि- कार इत्यन्वयः। अथ श्राद्धे प्रशस्तद्रव्याण्याह (३) मत्स्यपुराणे- उच्छिष्टं शिवनिर्माल्यं वान्तं च मृतकर्पटम् । (१) निर्णयसिन्धूतवायुपुराणवचनम्- 'पचमानस्तु भाण्डेषु भक्त्या तात्रमयेपु च । समुद्धरति वै वोरात् पितॄन् दुःखमहार्णवाद ॥ तेजसानाममावे तु पिठरे मृन्मयेऽपि च । नवे शुचौ प्रकुर्वीत पाकं पित्रमादरात् ॥ इति । (२) सस्य क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते। आमं वितुषमित्युक्तं सिद्धमन्त्रमुदाहृतम् । इति शब्दकल्पद्रुमे ॥ (३) अन्न वस्त्रदानस्यात्यावश्यकत्वमुक्कं ब्रह्माण्डपुराणे अ० १६ श्लो० ३८ वासोहि सर्वदेवत्यं सर्वदेवेरमिष्टतम् । वस्त्राभावे क्रिया नास्ति यशदानतपांसि च । तस्मादूत्राणि देयानि भाइकाले तु नित्यशः ॥ इति ।
श्राद्धकरणानहताविचारः। श्राद्धे सप्त पवित्राणि दौहित्रः कुतुपस्तिलाः॥ उच्छिष्टं गव्यदुग्धादि, शिवनिर्माल्यं गङ्गाजलम् , वान्तं मधु, मृतकर्पट पट्टवस्त्रम् , दौहित्रः खड्गपात्रं, कुतुपो मध्याह्नवेला, अथवा दौहित्रो दुहित- सुतः, कुतुपो नेपालकम्बलः । तथा हि स्मृतिः-- व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । कुतुपश्चासनन्दद्यात्तिलेश्च विकिरेन्महीम् ।। इति । मिताक्षरायां याज्ञवल्क्यः-- हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्वतैः ।। ऐणरौरववाराहशाशमांसैर्यथाक्रमम् । मासवृद्धयाऽभितृप्यन्ति दत्तैरिह पितामहाः ।। खड्गामिपमहाशल्कं मधु मुन्यन्नमेव च । लौहामिपं महाशाकं मांसं वा (१) (णसस्य च ।। यददाति गयास्थश्च सर्वमानन्त्यमश्नुते । इति हविष्यान्नं हविर्योग्यतिलब्रीह्यादि, मासं मासपर्यन्तम् । अस्य च पितामहाः पितरः तृप्यन्तीति परेणान्वयः । एवं वत्सरेणेत्यादावप्यन्वयः । मात्स्यं मत्स्यसम्बन्धि, अस्य मांसैरिति परेणान्वयः । हरिणस्ताम्रमृगः । 'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते ।' इत्यायुर्वेदस्मरणात् । उरभ्रो मेषः, शाकुनं भक्ष्यपक्षिसंबन्धि, पृषञ्चि- मृगः, तत्संबन्धि पार्षतम् । रुरुः साबर इति प्रसिद्धः । शशस्येदं शाशं, खड्ग गण्डकः (गेंडा)। महाशल्को मत्स्यभेदः । मुन्यन्नं नीवारादिः । नी- वार ओइरी इति प्रसिद्धः । लोहो रक्तच्छागः । महाशाकं कालशाकम् । वाघीणसो वृद्धः श्वेत इन्द्रियक्षीणश्छागः । तथा हि-- त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्धाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मणि ।। इति । पिबतः कर्णो जिह्वा च यस्य स्पृशति स त्रिभिः पिबतीति त्रिपिनः । अन्यत्सुगमम् । श्राद्धनिषिद्धद्रव्याण्याह- कूष्माण्डं महिषीक्षीरं बिल्वपत्रमगद्विजाः । श्राद्धकाले समुत्पन्ने पितरो यान्ति निराश्रयाः(२) ।। इति । मगद्विजाः शाकद्वीपिब्राह्मणाः बिल्वपत्रमगद्विजा इति पाठस्य प्रमादिकत्वे तु अगद्विजाः (३) पर्वतीयव्राह्मणा इत्यर्थः । (१) कृष्णप्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वाधीयसः प्रोक्त इत्येषानेगमी श्रुतिः (२)वण कोऽधिकः पाठ इति स०। (३) पद्मपुराणे-'ये चान्ये पर्वतीयाश्च श्राद्ध नाहन्ति केतनम् ।' इति केतन-निमन्त्रणम् -- - ११८ कृत्यसारसमुच्चये- श्राद्धदिने प्राप्ते तु श्राद्धकरणानन्तरं त्याज्यानाह- पुनर्भोजनसंचार निद्राऽध्ययनमैथुनम् । होम प्रतिग्रहं संध्या आद्धं कृत्वाऽष्ट संत्यजेत् ।। इति । पुनर्मोजनमत्र गलकवलसंयोगरूपम् , संचारं क्रोशादूचं गमनमिति रसमालायाः, अध्वगमने क्रोशपूरणमिति हारीतवचनाच्च । श्राद्धे तदूर्ध्वगमने दोष इति संख्यापरिमाणे केशवमिश्राः । अथ श्राद्धकरणानहतामाह-- सवणः सूतकी सूयी (पूयी) मत्तोन्मत्तरजस्वलाः । मृतवन्धुरबन्धुश्च वान्यष्टौ स्वकालतः ॥ इति वचनात् सक्षतस्य श्राद्धनिपेधः । 'व्रणसत्त्वे एव स्वकालत' इति श्रते। 'तदिने निर्बणीभावे' इति वचनाच्च व्रणान्ते व्रणाधिकरणदिनेऽपि श्राद्धकरणे न दोष इत्यायाति । अथ मासिकादि द्वादशमासे क्षयतिौ-- द्वादशमासिकानि, दिनैकोनषष्ठमासे ऊनपाण्मासिकम् । दिनकोनवा- दशमासे ऊनवार्षिकमिति गौडदेशीयसमुदायः । मुख्य श्राद्धं मासि मासीति वचनात् । मैथिलसमुदायस्तु द्वादशदिने एव सर्वमासिकानि सपिण्डनं च | आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ।। इति व्याघ्रपादवचनात् तस्यापि प्रशस्तत्वात् । द्वादशाहपदमत्राशौचान्त- तृतीयदिनपरम् । नातस्थ्यहाद्यशौचिनः पञ्चमादिदिने सर्वमासिककरणेऽप्रा- शस्त्यम् । अत्र द्वितीयपक्षे पञ्चममासिकानन्तरम् ऊनषाएमासिकम् , एकादश- मासिकानन्तरमूनवार्षिकं कर्त्तव्यम् । मृतसम्बन्धिपित्रादित्रयपिण्डे मृतपिण्डमेलनं सपिण्डने कर्तव्यंत थाहि- 'पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥ इति । तत्र पुत्रेण सपिण्डीकरणे क्रियमाणे पितरमुकप्रेतपितामहप्रपितामह- वृद्धप्रपितामहामुकामुकशर्मन्निति वाक्यम् । भ्रातृभ्रातृजादिभिः क्रियमाणे तु भ्रातुरमुकप्रेत पितृव्यामुक्रप्रेत इत्यादिवाक्येन तत्तत्सम्बन्धमुच्चार्य पिण्डमेलनम् । कृत्रिमपुत्रंण क्रियमाणे तु मत्पुत्रत्वकर पितर मुकशमन इत्यादिवाक्येन तत्तत्सम्बन्धमुञ्चार्य पिण्डमेलनं कुर्यात् । सपिण्डीकरण- पर्यन्तमेव प्रेतपदप्रयोगः। तथाहि- सपिण्डीकरणं यावत् प्रेत प्रेत इति स्मृतः । सपिण्डीकरणादूर्ध्वं शर्मवर्मादिभाग्भवेत् ॥ इति ।
जलादिशुद्धिविचारः। स्त्रिया(१)स्तु जीवति पत्यौ मृतस्त्रीश्वभूप्रश्ववृद्धप्रश्वश्र पिण्डेपु स्त्रीपिण्ड- मेलनम् । तथा हि गोभिल:- अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । श्वरचादिभिः सहवास्याः सपिण्डीकरणम्भवेत् ।। इति । पत्यौ मृते तु पतिश्वशुरप्रश्वशुरपिण्डेपु स्त्रीपिण्डमेलनमिति समाचारः । अथ चतुर्थोहोमात्प्रागेव स्त्रिया मरणे सपिण्डीकरणान्तानि तस्याः श्राद्धानि पत्या तद्गोत्रेणैव कार्याणि, सांवत्सरिकानि तु स्वगोत्रेणैव ! संस्थितायान्तु भार्यायां सपिण्डीकरणान्तिकम् । पैतृकं भजते गोत्रमूर्ध्वन्तु पतिपैतृकम् ।। इति श्रुतेरिति । एवन्तदानीम्पतिप्रयाणेऽपि न्यायतौल्यात् विगोत्रयाऽपि भार्यया श्राद्धानि कार्याणोति दिगिति द्वैतपरिशिष्टम् । 'सपिण्डीकरणादूवं यावदन्दत्रयं भवेत् । तावदेव न भोक्तव्यं श्राद्धीयान्नं क्षयेऽहनि ॥ प्रथमाव्द तु मांसानि द्वितीयेऽस्थीनि चैव हि । तृयीये रुधिरं मुक्त चतुर्थेऽन्नं विशुधयति ।।' इति वचनाद्वात्रिय एव श्राद्धीयोत्स्टान्नभक्षणे दोपः । चतुर्थवत्स- रीयक्षयाहश्राद्धानभवणे दोषश्च मैथिलव्यवहारावेति न किंचिदनुपपन्नम् ।। मनुः-आपः शुद्धा भूमिगता वितृष्णा यत्र गौर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः॥ दिवा सूर्याशुभिः शुद्धं रात्रौ नक्षत्रमारुतैः । सन्ध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ।। इति । देवलः-'एकरात्रोषितास्तास्तु त्यजेदापः समुद्धृताः । इति ! उषिताः पर्युषिताः । स्कान्दे- वयं पर्युषितं तोयं वयं पर्युषिवं दलम् । अवज्यं जाह्रवीतोयमवयं तुलसीदलम् ।। तोयं जलं, पर्युषितं (वासी) इति प्रसिद्धम् । 'दलं पत्रं छदः पुमान्' इत्यमरकोषात् , दुलं पत्रम्। यमः- प्रपामरण्ये घटकञ्च कूपे द्रोणीजलकोशगतास्तथाऽऽपः । ऋतेऽपि शूद्राचदपेयमाहुरापद्गता भूमिगताः पिवेत्ताः ॥ इति । (१) सपुत्राया विषयेऽपि यमस्तथैवाह- जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम् । प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः ॥ इति लौगाधिरप्येवमाह- पितामह्यादिभिः सार्थ मातरं तु सपिण्डयेत् । पितरि म्रियमाणे तु तेनैवोपरते सति ।। पत्या चैकेन कर्त्तव्यं सपिण्डीकरणं लिया। सा मृताऽपि हि तेनैक्यं गता मन्त्राहुतिव्रता ॥ वि।
१२० कृत्यसारसमुच्चये- अपा-पनिशाला इति प्रसिद्धा । द्रोणी काष्ठाम्वुवाहिनीति कोष; । कोशश्चर्मपुटः । बृहस्पतिः (१)- वापीकूपतडागेषु दूषितेषु विशोधनम् । घटानां शतमुद्धृत्य पञ्चगव्यन्ततः क्षिपेत् ।। इति । वापी सोपानयुक्तः कूपः । यत्र शतघटन्यूनमेव जलम् , तत्र सर्वोद्धार- मात्रम् । मरीचिः-- येषु स्थानेषु यच्छौचं धर्माचारश्च यादृशः । तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः। येषु देशेषु ये देवा येषु देशेषु ये द्विजाः। येषु स्थानेषु यत्तोयं या च यत्रैव मृत्तिका ॥ इति मृत्तिकेत्यस्य तत्र तन्नावमन्येत इति पूर्वेणान्वयः । यमः-- अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका । दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥ याज्ञवल्क्यः-भूशुद्धिर्मार्जनाहाहात्कालाद्गोभ्रमणादपि । सेकनोल्लेखनाल्लेपाद् गृहं मार्जनजेपनात् ।। कालादिति अपवित्रताप्रयोजककारणक्षयो यावत्कालेन भवति तावत्का- लादित्यर्थः । सेकः प्रक्षालनम् । उल्लेखनं तत्क्षणम् । मनुः- सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च । गवां च परिवासेन भूमिः शुद्धयति पञ्चभिः॥ अञ्जनं गोमयोपलेपनम् । वौधायन:-'घनाया भूमेरुपलेपनम् । शुषिरायाः कर्षणम् , क्लिन्नाया अमेध्यमाहृत्य प्रच्छादनम् ।' घना अविषमा, समेति यावत् । शुषिरा विवरयुक्ता, 'सुषिरं विवरं बिलम्' इत्यमरकोषात् । क्लिान्ना अमेध्या, तस्या अमेध्यमाहृत्य मृदन्तरेण पूरणे शुद्धिः ।। ब्रह्मपुराणे- सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च । (१) तत्र विशेषमाह बृहस्पतिः- मृतपन्चनखात्कूपादन्त्यजोपहतास्तथा । अपः समुद्धरेत्सर्वाः शेष वस्त्रेण शोधयेत् ॥ वहिप्रज्वालनं कृत्वा कूपे पक्वेष्टकाचिते । पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥ इति । हारीता-वापीकूपतडागेषु मानुषं यदि शीर्यति । अस्थिचर्मविनिर्मुक्तं दूषितं श्वखरादिभिः ।। उद्धृत्य तज्जलं सर्वं शोधनं परिमार्जनम् । इति ।। देवलोऽपि-वगालखरोष्ट्रश्च कम्याद्भिश्च जुगुप्सितम् । उद्धरेदुदकं सर्व पन्चपिण्डान् मृदस्तथा।। मापस्तम्बोऽप्याह- उपानच्छलेष्मविण्वस्वीरजी मद्यमेव च । एभिर्विदूषिते कूपे कुम्भानां पष्टिमुद्धरेत ।। अथ यधुच्छिष्टभक्तद्विदलादि कूपे पतिवम् , तदा षष्टिघटाम्बु वा शतपटजलं कूपादुघृतमपि चेतद्वयक्तमेव वर्तते तदा न शुद्धिः । तत्र सर्वं जलं निःसाधिोभूमिन्च संशोध्य, पन्चगव्ये तत्र दत्ते शुद्धिरिति।
द्रव्यादिशुद्धिविचारः। १२१ कांस्यायस्ताम्ररैत्यानि पुशीशमयानि च ।। निर्लेपानि च शुध्यन्ति केवलेनोदकेन तु । शूद्रोच्छिष्टानि शोध्यानि त्रिधा क्षाराम्लवारिभिः।। सूतिकाशवविएमूत्ररजस्वलाहतानि च । प्रक्षेप्तन्यानि तान्यग्नौ यच्च यावत्सहेदपि ॥ इति । अश्म प्रस्तरम्, अयो लौहम् , रीतिः पित्तलम् , तद्धटितपात्रं रैत्यम् , त्रपु रङ्गम् , निर्लेपम् अनुपहतम्, उच्छिशनि उच्छिष्टस्पृष्टानि, उच्छिष्ट शङ्ख- वचनेन शुद्ध्यन्तरस्य वक्ष्यमाणत्वात् । क्षारो भस्म अम्लवारिभिः जम्बी- रादिरसैः । तत्र क्षारं कांस्यादौ, अम्लोदकम् ताम्रादौ । अत एव शङ्खः- उष्णोदकेन ताम्रस्य शीशस्य त्रपुणस्तथा। क्षारेण शुद्धिः कांस्यस्य लौहस्य च विनिर्दिशेत् ।। इति । बौधायनः-तैजसानां तु पात्राणामुच्छिष्टोपहतानां त्रिसप्तकृत्वः परि- मार्जनम् , परिमार्जनं मृद्गोमयभस्मभिरिति । मूत्रपुरीषरेतःप्रभृत्युप- हतानां पुनः करणं गोमूत्रे वा सप्तरात्रं संस्थाप्य पूर्ववन्माजनम् । शातातपः- (१)गवाघ्रातेषु कांस्येषु शूद्रोच्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शुद्धिः श्वकाकोपहतेषु च ॥ अङ्गिराः-गण्डूषं पादशौचं च यः कुर्यात्कांस्यभाजने । भूमौ निःक्षिप्य षण्मासान् पुनराकरमादिशेत् ॥ इति । आकरमादिशेद्वह्नौ क्षिपेत् ।(२)शङ्ख:- सूतिकोच्छिष्टभाण्डस्य सुरामघहतस्य च । (१) स्मृतिः-गोभिर्जुष्टेषु भाण्डेषु वस्तुमात्रेषु नित्यशः । अश्वच्छागमुखोच्छिष्टान् कृत्वा पूतानाहुर्मनीषिणः ॥ अवाक्षरद्वयमधिकम् । (२) शङ्ख-सूतिकोच्छिष्टभाण्डस्य सुरामद्यहतस्य च । त्रिसप्तमार्जनाच्छुद्धिर्न तु कांस्यस्य तर्पणम्।। आदिपुराणे-'शूद्रोच्छिष्टानि शुद्धयन्ति त्रिधा क्षाराम्लवारिभिः ।' हारीतः-संहतानां तु पात्राणां यद्य कमुपहन्यते । तथैव शोधनं प्रोक्तं न तु तत्स्पर्शिनामपि ॥ यमः-यदि मूत्रपुरीषाभ्यां रेतसा रुधिरेण वा । चैलं समुपहन्येत अद्भिः प्रक्षालयेत्तु तत् ॥ यद्यम्भसा न शुद्धयत्तु वस्त्रं चोपहतं दृढम् । छेदनं तस्य दाहो वा यावन्मात्रमुपहन्यते ।। शङ्खः-घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः । शूद्रभाण्डस्थितं तकं तथा मधु न दुष्यति ॥ व्यासः-भासवानरमार्जारखरोष्ट्राणां शुनां तथा । स्कराणाममेध्यं वै स्पृष्ट्वा स्नायात्सवैलकम् । अमेध्यं विष्ठाऽस्थिचर्माणि । मनुः-नारं स्पृष्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्धयति । आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥ देवला-मानुषास्थिवसां विष्ठामावं मूत्ररेतसी । मज्जानं शोणितं स्पृष्ट्वा परस्य स्नानमाचरेत् ॥ श्वपाकं पतितं व्यङ्गमुन्मत्तं शवदाहकम् । सूतिका सूयिकां नारी रजसाऽभिपरिप्लुताम् ॥ यमः-अजीर्णेऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने । दुःस्वप्ने दुर्जनस्पर्शे स्नानमित्यभिधीयते।। पराशरः-चैत्यवृक्षश्चिति_पश्चाण्डालः सोमविक्रयी । एताँश्च ब्राह्मणः स्पृष्ट्वा सचैलो जलमाविशे॥ १६ कृ०सा. - - १२२ कृत्यसारसमुच्चये- त्रिःसप्तमार्जनैः शुद्धिन तु कांस्यस्य भाजने ॥ देवल:-काष्ठानां तत्क्षणाच्छुद्धिम गोमयजलैरपि । मृण्मयानां तु पात्राणां दहनाच्छुद्धिरिष्यते ॥ इदमत्यन्तोपहते । देवल:-- तान्तवम्मलिनं पूर्वमद्भिः क्षारैश्च शोधयेत् । अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ।। ऊर्णापट्टांशुकक्षौमदुकूलाविकचर्मणाम् । अल्पाशौचं भवेच्छुद्धिः शोषणप्रोक्षणादिमिः ॥ अल्पोपघात इदम् । ब्रह्मपुराणे- प्रत्यहं क्षालयेद्वस्त्रं दैवे पैञ्ये च कर्मणि । सर्व विएमूत्रशुक्रैश्च दृषितं तु मृदम्बुभिः । शुभ्यतीति शेषेण पूरणीयम् । शुक्र वीर्य्यम् । मनुः- चरूणां सुनुवाणां च शुद्धिरुष्णेन वारिणा । स्फथशूर्पशकटानां च मुसलोलूखलस्य च ।। अद्भिस्तु प्रोक्षणं शौचं वहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ।। इति । स्फयः खादिरः खड्गः । बहूनामिति बहुत्वं च पुरुषमारहार्याधिकत्व- मिति । स एव- चैलवञ्चर्मणां शुद्धिदलानां तथैव च । शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ चर्मणामिति स्पृश्यपशुचर्मणामित्यर्थः । वैदलानां वंशादिदलनिर्मिताना- मिति मनुटीकायां कुल्लूकभट्टः । मनुः- प्रोक्षणात् तृणकाष्ठं च पलाशश्च विशुध्यति । मार्जनोपाजनैवेश्म पुनः पाकेन मृन्मयम् ॥ उपाञ्जनं लेपनम् । बौधायनः आसनं शयनं यानं नावः पन्थास्तुणानि च । मरुताऽर्केण शुध्यन्ति पक्केष्टकचितानि च ।। आसनादिकं स्वीयमेवात्र बोध्यम् | बौधायन:-'बहूनां कुसुम्भकार्पास- गुडलवणानां सर्पिषां कठिनाभूतानां श्वचाण्डालस्पर्श प्रोक्षणेन शुद्धिः । मनुः- शुद्धा भर्तुश्चतुर्थेऽहि स्नानेन स्त्री रजस्वला। देवे कर्मणि पिश्ये च पंचमेऽहनि शुद्ध्यति ॥ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी। तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुन्यति ।। प्रथमेऽहनि रजोयोगारम्भदिने चाण्डालीति चाण्डालीवदस्पृश्या न तु वस्तुगल्या चाण्डालीति। - । द्रव्यादिशुद्धिविचारः। १२३ ब्रह्मपुराणे-मक्षिका दंशमशका घुणाः सूक्ष्मपिपीलिकाः । आमिपाऽमेध्यसेवी चन ने कोटा विपत्तये॥ दंश (उडश) इति प्रसिद्धः। आभिषामध्यसेवी शरीरमांसोद्भवकीटा, विपत्तये अन्नदोषाय॥ आममांस(१) घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छमाण्डस्थिता घ्या निष्कलाः शुचयः स्मृताः । आमम् असिद्धम् , क्षौद्रं मधुशातातः-- गोकुले कन्दुशालायां तैलबन्नेनुयन्त्रयोः । अमीमांस्यानि शौचानि स्त्रीपु वालातुरेषु च । मीमांसा अत्र विचारः । अमीमांस्यानि अविचारितानि, तेषु शौचाशौच. विचारो न कत्र्तव्यः । अविचारितान्येव शौचानीति भावः । वालः पञ्चवर्ष- वयस्कः । मनुः- नित्यं शुद्धः कारुहस्तः परये यच प्रसारितम् । ब्रह्मचारिंगतं भैक्ष्यं नित्यं नेध्यमिति स्थितिः ।। कारः शिल्पी, पण्यं पगग्राह्यम्, प्रसारितं हट्टायाम् । तथा च एतत्सर्व- ममेध्यानुपहतं सर्वस्मिन् काले शुद्धमित्यर्थः । श्वभिहतस्य यन्मांसं शुचिस्तन्मनुब्रवीत् । क्रव्याद्भिश्च हतस्यान्यश्चण्डालाद्यैश्च दस्युभिः ।। श्वभिः कुक्कुरैर्हतस्य खाचमगादेयंन्नांसं तच्छुचिरित्यन्वयः । कन्या- द्भिर्व्याघ्रादिभिः । मनुविष्णू- नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने। प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ।। स्त्रीणां स्वस्त्रोण्यम् , आत्यं मुखम् । प्रस्रवे गोस्तनपाने वत्सः, शुचि- रित्यन्वयः । यमः- वालकैर्यत्परिकान्तं स्त्रीभिराचरितं च यत् । मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते ॥ निलीनम् आक्रान्तम् । आसनं शयनं यानं स्त्रीमुखं कुतुपं क्षुरम् । न दूषयति विद्वांसं यज्ञषु चसमंतथा । शयनं शय्या, क्षुरं अन्यशिरोमुण्डकादिः । देवलः- 'गोशकृच्छुद्धदेशस्थं श्मशानानुद्धृतं शवम् ।।' इति । (१) आंत्र:-मक्षिकाः सन्तताधारा भूमिस्तोयं हुताशनः । मारिश्चापि दी च मारुतश्च सदा शुचिः ॥ अथ तैलादीनां शुद्धिकरणमुक्कं तत्रैव- तापनं धृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्धयेत्कठिनं तु पयोदधि ।। शब्दकल्पद्रुमे केन्दुपकानि लेन पायसंदधि सक्तवः। द्विजैरेतानि भोव्यानि शूद्रोहकृतान्यपि।। - १२४ कृत्यसारसमुच्चये- शातातपः-रेणवः शुचयः सर्व वायुना समुदीरिताः । अन्यन रासमाजाविश्वसमूहनीवाससाम् ।। रेणवो धूलयः, रालभः गईभः, अविर्मेषः, श्वा कुक्कुरः, समूहनी माजनी, तथा च रासभादोनां षण्णां वातोद्धृतधूलयोऽशुचयः वदम्याः शुचय इति भावः । शङ्क: 'मुखवर्जच गौः शुद्धा माजारः क्रमणे शुचिः।' मनुः-ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः॥ खानि छिद्राणि, मेध्यानि पवित्राणि, अधः नाभेरधः । यमः-बलात्कारोपभुक्ता वा गैरहस्तगताऽपि वा । स्वयं विप्रतिपन्ना वा अथवा विप्रमादिता ॥ अत्यन्तदूपिताऽपि स्त्री न परित्यागमर्हति । याज्ञवल्क्यः-व्यभिचाराहतौ शुद्धिर्गर्भ त्यागो विधीयते । गर्भभर्तृ वधादौ च तथा महति पातके ॥ व्यभिचारोऽत्र समानजातिकृत उत्तमजातिकृतमदमोहबलात्कारादिप्र- मादजन्यः । ऋतौ रजोयोगे गर्भे व्यभिचारजातगर्भे त्याग इति तासामित्य- नेनान्वयः । स एवाह- स्वछन्दगा च या नारी तस्यास्त्यागो विधीयते । न चैवं स्त्रीवधं कुर्यान्न चैवाङ्गविकतनम् ॥ वसिष्ठः--चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुड़ितोपगता च या ।। जुङ्गितोपगता शूद्रान्त्यजादिगमनकर्ती। मरीचिः-- येपु स्थानेषु यच्छौचं धर्माचारश्च यादृशः। तत्र तन्नावमन्येत धर्मस्तत्रैव तादृशः ।। येपु देशेषु ये देवा येषु देशेषु ये द्विजाः । येषु स्थानेषु यत्तोयं या च यत्रैव मृत्तिका ॥ अथास्पृश्यस्पर्शशुद्धिः। मार्कण्डेयपुराणे-- अभोज्यसूतिकापण्ढमार्जाराखुश्वकुक्कुटान् । संस्पृश्य शुध्यति सावादुदक्या पालशुकरौ ।। पएडो नपुंसकः, मार्जारो विडालः आखुः मूषकः, एतच्च मार्जारक- मकस्पर्श । मार्जारकर्तृ कस्पर्शे तु न दोषः । मार्जारस्तु 'सदाशुचिरिति' वचनात् ।। (१) ब्राह्मपुराणे- (१) अत्र लिङ्गपुराणे विशेषः-श्लो० ८५ अ०७४ मार्जारस्तु गृहे यस्य सोऽप्यन्त्यजसमो नरः । मोजयेद्यस्तु विप्रेन्द्रो मार्जारान् सन्निधौ यदि ॥ तचाण्डालसमं शेयं नात्र कार्या विचारणा ॥ स्फिम्वातं शूर्पवातं च वातं प्राणमुखानिलम् । सुकृतानि हरन्त्येते संस्पृष्टाः पुरुषस्य तु ॥ -- . -- १ -- बाह देवलः-- दानग्रहणविचारः। उच्छिष्टेनाथ विप्रेण विप्रः स्पृष्टस्तु तादृशः । उभौ स्नानं प्रकुरुतः सद्य एव विशुध्यति ॥ ताहशः, उच्छिष्टः । शातातपः-- रजकश्चमकृच्चैव व्याधनालोपजीविनौ । चेलनिणेजकश्चैव नरः शैलूपकस्तथा !! मुखे भगस्तथा श्वा च वनिता सर्ववर्णगा। चक्री ध्वजी अध्यघाती प्रामकुक्कुट शूकरौ । एभिर्यदनसंस्पृष्टं शिरोवज द्विजातिपु। तोयेन क्षालनं कृत्वा आचान्तः शुचितामियात् ।। इति । नटा नर्तकः, शैलूपो नाटकाद्यभिनेता, मुखे भगो मुखयोनिरिति प्रसिद्धः । चक्री तैलिकः, ध्वजो शौण्डिकः, वध्यघाती चौरादिवघे नियुक्तः । अत्राजहत्स्वार्थलक्षणया शिरःपड़े नाभेरूलनुपलक्ष्यते । तेन नाभेरधो रजकादिस्पर्श प्रक्षालनमाचमनं च पर्यवसितं, नाभेरुध्वं श्वपाकादिस्पर्श श्वपाकं पतितं व्यङ्गमुन्मत् शवहारकम् । सूतिका सूयिकां नीरजसा च परिप्लुताम् ।। श्वकुक्कुटवराहांश्च ग्राम्यान संस्पृश्य मानवः । सचैलं सशिरः स्नात्वा तदानीमेव शुद्ध्यति ।। मनुः-अजीर्णेऽभ्युदित वान्ते श्मनु कर्मणि मैथुन । दुःस्वप्ने दुर्जनस्पर्श स्नानमात्रं विधीयते ॥ तथा च पर्युपितवान्ते स्नानमित्यर्थः, इति शुद्धिविवेकः । कालिकापुराणे- 'स्पृष्ट्वा रुद्रस्य निर्माल्यं सवासा आप्लुतः शुचिः ।' निर्माल्यमत्रापनीतनिति रुद्रधरः। बृहस्पतिः तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरपामदाहे च स्पृष्टास्पृष्टिर्न दुष्यति अथ दानम् । मनु:- तपः परं कृतपुगे त्रेतायां ज्ञानमुत्तमम् । द्वापरे यज्ञमेवाहुहानमेकं कलौ युगे॥ परितुष्टेन भावेन पात्रमासाद्य शक्तितः। यत्किञ्चिदपि दातव्यं याचते नानुसूयया ॥ परं श्रेष्ठं, कृतयुगे सत्ययुगे, शक्तितो वित्तानुसारेण, अनुसूयया परगुण- सहिष्णुतया । व्यास:- यद्ददासि विशिष्टेभ्यो यचाश्नासि दिने दिने । तत्ते वित्तमहं मन्ये घृतं कस्यापि रक्षसि ।। आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः। एकैव गतिरथस्य दानमन्या विपत्तयः ।। - -- १२६ कृत्यतारसमुच्चये- गरीयसः अधिकस्य, अर्थस्य धनस्य । प्रासादमपि प्रासमर्थिभ्यः किन्न दीयते । इच्छाऽनुरूपो विभवः कदा कस्य भविष्यति ॥ अर्थिभ्यः याचकेभ्यः। दातारं कृपणं मन्ये मृतोऽप्यथं न मुञ्चति । अदाता पुरुपत्यागी सर्व सन्त्यज्य गच्छति ॥ गच्छतीत्यस्य परलोकमिति शेषः । अनाहूतेषु यदानं यच्च दत्तमयाचितम् । भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥ तस्य अयाचितदानस्य । [अष्टमश्रुते दानमुक्त्वा दानं न दृश्यते॥ पुनरागमनन्नास्ति पुननिमनर्थकम् ॥] अदृष्टं कुत्रापि स्मृतौ न दृष्टम् , अश्रु ते विद्याशून्ये । देवलः-- नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् । श्रद्धा शक्तिश्च दानानां वृद्धिक्षयकरे हि ते ॥ पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् । केवलं धर्मवुद्धया यत्तश्च धर्म प्रचक्षते ॥ प्रयोजनं पुण्यातिरिक्तम् अप्रतिमाह्यानाह। सुमन्तुः-शौकाविकव्याधनिषादरजकबुरुडचर्मकाराः अभोज्यान्ना अप्रतिमाह्याः यमः-- नटनर्तकतक्षाणश्चचर्मकारः सुवर्णकृत् । शौण्डिकाः कण्डिकाः षण्ढा अभोज्यान्नाः प्रकीर्तिताः ।। गन्धर्वो लौहकारश्च सूचिकस्तन्तुवायकः । चक्रोपजीवी रजकः कितवस्तस्करस्तथा ॥ ध्वजी मालोपजीवी च शूद्राध्यापकयाजको । कुलालश्च कुकर्मा च वाघुषिश्चर्मविक्रयी॥ अप्रतिमाह्या इत्यनेनेषां सम्बन्छः । (१)उत्तमादिदानान्याह- अन्नं मधु दधि त्राणं गोभूरत्नाश्वहस्तिनः । (३) अथ प्रसङ्गात् पुस्तकदानफलमुक्कमपरार्के- यत्फलं तीर्थयात्रायां यत् पुण्यं यशयायिनान् । कपिलानां सहत्रण सम्यग्दत्तेन यत्फलम् ॥ यत्फलं समवाप्नोति पुस्तककप्रदानतः । अथ छात्रवृत्चिदानफलं तत्रैव- छात्राणां भोजनाभ्यङ्ग वस्त्रं भिक्षामथापि वा । दत्वा प्राप्नोति पुरुषः सर्वकामानसंशयः॥ विवेको नीवितं दी सर्वकामार्थसम्पदः । सर्वं तेन भवेद्दतं छात्राणां भोजने कृते॥ तथा च भारते- कुक्षौ तिष्ठवि यस्यान्न विद्याभ्यासेन जीर्यति । स तारयत्येकविंशं दशपूर्वान् दशापरान् ॥ - - दानपात्रविचारः। १२७ दानान्युत्तमदानानि उत्तमद्रव्यदानतः । त्राणं रक्षणम् । विद्यासंच्छादनावासपरिभोगौषधानि च । दानानि मध्यमानीति मध्यमद्रव्यदानतः ।। उपानत्प्रेङ्खयानानि क्षत्रपात्रासनानि च । दीपकाष्ठफलादीनि चरमं बहुवार्षिकम् ॥ चरमम् अधमम् | ब्रह्मवैवर्त प्रकृतिखण्डे, परकीयतडागे च तडागं यः करोति वै। उत्सृजेद् देवदोषेण मूत्रकुण्डं प्रयाति सः ॥ तत्रैव-यत्फलं च तडागेन पकोद्धारेण तत्फलम् । पङ्कोद्धारेण वाप्याश्च वापीतुल्यफलं लभेत् ।। मत्स्यपुराणे-वापीकूपतडागेषु देवतायतनेषु च | पुनः संस्कारकर्ता च लभते मौक्तिकं फलम् ।। शातातपः-अभिगत्य तु यदानं यच्च दानमयाचितम् । विद्यते सागरस्यान्तस्तस्यान्तो नैव विद्यते॥ अभिगत्येति सम्प्रदानसमीपं स्वयमेव गत्वेत्यर्थः । अन्यायाधिगताङ्गत्वा सकलां पृथवीमपि । श्रद्धावर्जमपात्राय न किश्चिद्गतिमाप्नुयात् ।। अधिगतामुपार्जिताम् । प्रदाय मुष्टिशाकं वा श्रद्धाभक्तिसमन्वितः। महते पात्रभूताय सर्वाभ्युदयमाप्नुयात् ।। याज्ञवल्क्यः-गोभूतिलहिरण्यादि पात्रे(१) दातव्यमर्चितम् । तथा विद्यादानफलं तत्रैव- वाजपेयसहस्रस्य सम्यगिष्टस्य यत् फलम् । तत्फलं समवाप्नोति विद्यादानान्न संशयः। धर्माधमौं न जानाति विद्याविरहितः पुमान् । तस्मात् सर्वत्र धर्मात्मा विद्यादानरतो भवेत् ॥ त्रैलोक्यं चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् । द्या देवताः सर्वा विद्यादाने प्रतिष्ठिताः॥ चतुर्युगानि राजेन्द्र ! एकसप्ततिसंख्यया। कल्पं विष्णुपुरे तिष्ठन् पूज्यमानः सुरोत्तमैः ।। क्षितिं चागत्य कल्पान्ते राजा भवति धार्मिकः । हत्यश्वरथयानब्योदाता भोक्ता विमत्सरी रूपसौभाग्यसम्पन्नो दीर्घायुनोरजो भवेत् । पुत्रपौत्रैः परिवृतो जीवेच्च शरदां शतम् ॥ दानं विशेषफलदं जगतीह नान्यद्वियां विहाय वदनाब्जकृताधिवासाम् । गोभहिरण्यगजवाजिरथादि सर्व तां यच्छता किमिह पार्थ ! भवेन्न दत्तम् ।। तथा चोक नन्दिपुराणे- यावच्च पातकं तेन कृतं जन्मशतैरपि । तत्सर्व नश्यते तस्य विद्यादानेन देहिनः ॥ यो जन उपाध्यायस्य जीविकां दत्त्वा विप्रानध्यापयति तस्य फलमुक्तं तत्रैव- उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते दिजान् । किं न दत्तं भवेत्तेन धर्मकामार्थदर्शिना।। इति । १) बथार्थपानलमणमाह याज्ञवल्क्या- न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् । - -- १२८ कृत्यतारसमुच्चये- नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ॥(१) विद्यावन्तश्च ये विप्राः सुव्रताश्च तपस्विनः । सत्यसंयमसंयुक्ता ध्यानयुक्ता जितेन्द्रियाः ॥ दानपात्रा इति शेषः । संवतः-- श्रोत्रियाय दरिद्राय अधिने च विशेषतः । यहानं दीयते तस्मै तहानं शुभकारकम् ।। श्रोत्रियलदखमाह,यमः-- ओङ्कारपर्विकास्तिस्रः सावित्री यश्च विन्दति । चरति ब्रह्मचर्यश्च स वै श्रोत्रिय उच्यते ॥ अव्रता एनधीयाना यत्र मिक्षाचरा द्विजाः ! तं ग्रामं दण्डयेद्राजा चौरभक्तप्रदो हि-सः ॥ व्यासः-सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे। अब्राह्मणो राजसेवकादिः । ब्राह्मणब्रुवमाह, व्यासः- गर्भाधानादिभिर्युक्तः तथोपनयनेन च । कर्मकृच्च न चाधीते स भवेद् ब्राह्मणब्रुवः ॥ बृहस्पतिः--शूद्रे समगुणं दानं वैश्ये च द्विगुणं स्मृतम् । क्षत्रिये त्रिगुणं प्राहुब्राह्मणे षड्गुणं स्मृतम् ॥ श्रोत्रिये चैव साहस्रमाचार्येण द्विगुणन्ततः । आत्मज्ञे शतसाहस्रमनन्तन्त्वग्निहोत्रिणे ।। अल्पविद्यस्याल्पं बहुविद्यस्य बहु देयमिति चण्डेश्वरः। दाने व्यासः- मातापितॄषु यदानं भ्रातृस्वसृसुतादिषु । जायात्मजेषु यहानं सोऽनन्तः स्वर्गसंक्रमः ।। असाधारणधनदाने फलमिदम् । दक्षः- 'दीनानाथविशिष्टेभ्यो दत्तं च सफलं भवेत् ।' दीनः क्षीणनिर्वाहोपायः । अनाथः पोषकहीनः । (१) आहारादधिकं नान्नं देयं मूखांय कहिचित् । दाता नरकमाप्नोति दचवित्तार्जितावतः ॥ इति स्मृतिः। अथ दानानहजनानाहं दक्षः- धूर्ते छमनि मल्ले च कुविद्ये कितवे शठे। चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥ व्यास:-ऊपरे वापित वीजं यच्च भस्मनि हूयते। क्रियाहीनेषु यदत्तं न च तत्प्रत्य नो इह ॥ पात्रेऽपि विशेषनिन्धमाह वृद्धमनुः- पात्रभूतोऽपि यो विप्रः प्रतिगृह्य प्रतिग्रहम् । असत्सु विनियुञ्जीत तस्मै देयं न किंचन ॥ सञ्चयं कुरुते यश्च प्रतिगृह्य समन्ततः । धर्मार्थ नोपयुक्त च न तं तस्करमर्चयेत् ।। मतः सर्वथा विचार्य दान देयमित्यर्थः ।
- - दानपात्रविचारः। १२६ व्यासः-दयामुद्दिश्य यदानमपात्रेभ्योऽपि दीयते । दीनान्धकृपणेभ्यश्च तदानन्त्याय कल्प्यते ॥ कृपणो विकलः। विष्णुः-- न दानं यशसे दद्यान्न भयानोपकारिणे । न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चयः ॥ उपकारिणे इति प्रत्युपकारेण धर्मार्थमित्यर्थः । शातातपः- ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ब्राह्मणातिक्रम इति दोषायेति शेषः । (१) यमः- न प्रतिग्रहमहन्ति वृषलाध्यापका द्विजाः । शूद्रस्याध्यापनाद्विप्रः पतत्येव न संशयः ।। वृषलः शूद्रः। व्यासः- नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते । रोदित्यन्नं दीयमानं मया दुष्कर्म किं कृतम् ।। हिरण्यविस्मरणे विस्मृततुल्यहिरण्यदानमाह, द्वैतपरिशिष्टे- प्रमादतस्तु यन्नष्टं तावन्मानं नियोजयेत् । अन्यथा स्तेयभागी स्याम्न्यिदत्ते विनाशिनि । उत्सृष्टाप्रतिपादितपर इति रत्नाकरः। साम्प्रदायिकास्तु-सर्वत्र सङ्कोचात्प्रायश्चित्तमाचरन्ति चौर्यादिना केनापि हृतसुवर्णेन हृततुल्यहिरण्यदानं प्रमादत इत्यभिधानादित्यवगम्यते, किन्तु विस्मरणादिना हिरण्यविनाशे विनष्टहिरण्यतुल्यहिरण्यदानं तस्यादाने हिरण्यचौर्यदोषभागित्वम् । तदानप्रकारस्तु ॐप्रमादनष्टहिरण्यतुल्यहिरण्याय- नमः ३ इति देयहिरण्योपरि अक्षतान्विकीयं, कुशोपरि ३ ओं ब्राह्मणाय नमः ३ देयहिरण्यं सिक्त्वा कुशादिकमादाय ओं अद्य मत्प्रमादनष्टहिरण्य- तुल्यपरिमाणं हिरण्याप्रदानहेतुकहिरण्यस्तेयजन्यपापानुत्पत्तिकाम इदं प्रमा- दनष्टहिरण्यतुल्यपरिमाणं हिरण्यमग्निदेवतं यथानामगोत्राय ब्राह्मणायाहन्ददे। तदशांशं षोडशांशं वा दक्षिणान्दद्यात् । हारीतः-'तस्मादवोक्ष्य दद्यादाल- भ्य च' । इति अवोक्ष्य सिक्त्वा, आलभ्य स्पृष्ट्वा दद्यादित्यर्थः । स्मृतिः-- दद्यात्पूर्वमुखन्दानं गृह्णीयादुत्तरामुखः । नामगोत्रे समुच्चार्य प्राङ्मुखो देवकीर्तनात् ।। उदमुखाय विप्राय दत्त्वाऽन्ते स्वस्ति वाचयेत् ।। नन्दिपुराणे-'तस्मात्सर्वप्रयत्नेन दद्यात्कनकदक्षिणाम् ।' (१) विप्रोऽल्पशोऽपि संपूज्यो न हि वेदविदन्त्यजः । बन्च्याऽपि गौर्यथापूज्या न तु दुग्धवती खरी॥ इति नीतिः १७ कृ० सा० - - १३० कृत्यसारसमुच्चये- एतच्च पितृकार्यातिरिक्ते, पितृकार्ये तु रजतमेव दक्षिणेति बोध्यम् । बृहस्पतिः-कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते । मध्वाश्वादो विपं पश्चाद् दातुर्वर्मोऽन्यथा भवेत् ।। तथा च पोप्यपोषणयोग्यं धृत्वा तदतिरिक्षमेव डेयम्, न तु पोध्यपोषण- योग्यमपीति तात्पर्यम् । वृद्धशातातपः- द्रव्येणान्यायलब्धेन यः करोत्यौदहिकम् । न तत्फलमाप्नोति तस्यार्थस्य दुरामात् ।। औ दैहिक श्राद्धादि । अङ्गिराः- बहुभ्यो न प्रदीयन्ते गौगृहं शयनं स्त्रियः । विभक्तदक्षिणा होता दातारं तारयन्ति हि ॥ जोर्णोद्धारे 'यत्र चैकोऽश्वो गौर्या द्वयोर्देयत्वेन विहितस्तत्र मूल्यद्वारेण तद्विभागः संप्रदानेनैव कर्तव्यः' इति | महार्णवे तु-एका गौरनेकस्मै मूल्य- द्वारेणैव दातव्या, न तु स्वरूपेण । एका एकस्य दातव्या न बहूभ्यः कदाचन । सा विभक्का च विक्रीता दहत्यासप्तमं कुलम् ॥ इति निषेधादिति यदुक्तं तद्विहितेतरबहुसंप्रदानकगोस्वरूपदानपरमिति सिद्धान्तवागीशः । अङ्गिराः-- देवतानां गुरूणाञ्च मातापित्रोस्तथैव च | पुण्यं देयं प्रयत्नेन नापुण्यं देशितं कचित् ।। अपुण्यं पापम् , देशितङ्कथितम् । नन्दिपुराणे-- पापदः पापमाप्नोति नरो लक्ष्गुणं सदा । पुण्यदः पुण्यमाप्नोति शतशोऽथ सहस्रशः।। यम:-कन्याप्रदाने यज्ञे वा अन्यस्मिन्धर्मसङ्कटे। विघ्नमाचरते यस्तु माहुर्ब्रह्मघातकम् ।। आशान्दत्त्वा प्रदातारन्दानकाले निपेधकम् । दत्त्वा सन्तप्यते यस्तु तमाहुर्ब्रह्मघातकम् ॥ दानकाले इत्युपलक्षणम् । तेन तत्पूर्वमपि दानप्रतिरोधकवाक्यादिक- थनेऽपि दोष एव । आदित्यपुराणे- किङ्करिष्यत्यसौ मूढो गृहन्नुभयतोमुखीम् । सहस्रं वारुणाः पाशाः क्षरधारासिसयुताः ॥ उभयतोमुखी निःसृतवत्समुखमात्रा। तदानकर्तुभूमिदानसमं फलं भवतीत्युक्तम्(१) । एकादशाहे शय्यादानप्रकरणे-- -- (१) यावद्वत्त्सो योनिगतो यावदर्भ न मुञ्चति । तावद्गौः पृथिवी शेया सर्शलवनकानना ।। चतुरा भवेदत्ता पृथिवी नात्र संशयः।
महादानादिविचारः। ६३१ गृहीतायां तु तस्यां स पुनः संस्कारमर्हति । वेदेषु च पुराणेषु शन्या सर्वत्र गर्हिता ॥ तस्यां शव्यायां, पुनः संस्कारं पुनरुपनयनम् । (१)घोडशमहादानान्याह- आधन्तु सर्वदानानान्तुलापुरुषसंज्ञितम् । हिरण्यगर्भज्ञानञ्च ब्रह्माण्डं तदनन्तरम् ।। कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमन् । हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव हि ।। हिरण्याश्वरथस्तबद्ध महस्तिरथस्तथा । पञ्चलाङ्गलक तद्वद्धरादानन्तथैव च ॥ द्वादशं विश्वचक्रञ्च ततः कल्पलतात्मकम् । सप्तसागरदानञ्च रत्नधेनुस्तथैव च । महाभूतघटस्तद्वत्पोडशः परिकीर्तितः ॥ इति । अथ दानदेशानाह- तीर्थे चायतने गोठे कूपारामसरस्सु च । गृहे वाऽपि वने वाऽपि तडागे रुचिरे तथा ।। महादानानि देयानि संसारभयभीरुणा । अनित्यं जीवनं यस्मासु चातीय चञ्चलन् । केशेत्रिय गृहीतस्तु मृत्युना धर्ममाचरेत ।। तडागे इत्यादी सामीप्ये सप्तमी, तेन तडागादिसमीप इत्यर्थः । वटे गावः सुशेरत इति वत् । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये। युगादौ वोपरागे च तथा मन्वन्तरादिषु ।। संक्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीपु च । सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च ।। याज्ञवल्क्यस्मृतावप्युचम्- सवत्सारोमतुल्यानि युगान्युभयतो नुखीन् । दाताऽत्याः त्वर्गमाप्नोति पूर्वण विधिना ददत् ।। यावद्वत्सत्य पादौ द्वौ मुखं योन्यां प्रदृश्यते। तावगौः पृथिवी शेया यावद्गम न मुन्वति ।। (१) तुलापुरुषदानं तुलापुरुषस्य तुलोन्मिनपुरुषभारसमपरिमितिद्रव्यस्य दानम्, वा तुलापुरुषविधिना दानम् । तदानधनं न चिरं स्वगृहे रचेत् । तदुक्तं यथा- दीनानाथविशिष्टादीन् पूजयेद् ब्राह्मणैः सह । न चिरं धारयेद गेहे हेम सम्प्रोशितं वुधः । तिष्ठद् भयावहं यस्माच्छोकव्याधिकरं नृणाम् । शीघ्र परस्त्रीकरणाच्छ्यः प्राप्नोति पुष्कलम् ।। तत्र द्रव्यभेदेन फलमेदा:- अष्टानामपि धातूनां यस्तुलां कुरुते नरः । सर्वपापैः प्रमुच्येत मनोवाकायसम्भवः ।। एवं कामभेदेन पदार्थभेदा उक्ताः शब्दकल्पद्रुमे, तेऽत्र विस्तृतिमीत्या न लक्षिताः। जिशामुभिर्दानशब्दे द्रष्टव्या इत्यलन् । - -- १३२ कृत्यसारखलुच्चये- यज्ञात्मके विवाहे दुःस्वप्नाद्भुतदर्शने । द्रव्यत्राह्मणलाले च श्रद्धा वा यत्र जायते ।। अन्न गुरुशुक्रवाल्यार्द्धक्यास्तमयसिंहादित्यगुर्वादित्यपौषादिमासचतु- ष्टयान्यतमैकद्वित्रितधिकान्यतनदिनकृष्टकुत्तरैकद्वित्रिसतान्यतमादिनिषिद्धस- मयादन्यस्मिशिति दानरत्नाकरः । श्रवणाश्विधनिष्ठाा नागदेवतमस्तके । यमा रविवारेण व्यतीपातः स उच्यते ।। (१)अथ युगादिः-ब्रह्मपुराणे-- वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् कार्तिके शुक्लपक्षे च त्रेता तु नवमेऽहनि ।। अथ भाद्रपदे कृष्णचतुई श्यान्तु द्वापरम् । माघे तु पौर्णमास्यान्तु घोरं कलियुगन्तथा । युगारम्भास्तु तिथयो युगाद्यास्तेन कीर्तिताः॥ अथ मन्वन्तरादिमाह मत्स्यपुराणे- अश्वयुकशुक्लनवमी कार्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ श्रावणस्य त्वमावस्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी । श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता। मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारकाः॥ भूमिदाने जाबालः- महापातकयुक्तो वा युक्तो वा सर्वपातकैः । दशहस्तां महीं दत्त्वा मुच्यते सकिल्विषैः ।। यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः । अपि गोचर्ममात्रेण भूमिदानेन शुद्धयति ॥ (२)अथ गोचर्मप्रमाणमाह- दशहस्तेन दण्डेन त्रिंशद्दण्डैस्तथाऽऽयतम् । (१) अनोळयुगादिसमैयादन्यस्मृतौ भिश्चक्रमो दृश्यते-यथाऽऽह नारदः- कार्तिक शुक्लनवमी चादिः कृतयुगस्य सा । त्रेतादिधिवे शुक्ला तृतीया पुण्यसम्मिता ॥ कृष्णा पञ्चदशी (३०) मावे द्वापरादिरारिता ! कल्यादिः स्यात्कृष्णपक्षे नमस्ये च त्रयोदशी। अत्र कृष्णा पश्चदशी अमावास्यैत्यर्थः । एवमेव ज्योतिषेऽपि 'युगाथाः सिते गोनी वाइल- राधयोर्मदनदशौं भाद्रमाघासिते।' मु० चि० ॥ (२) ब्रह्ममतेन गोचर्मपरिभाषितभूमिमानम्=:०४३०=३०० । प्रजापतिमतेन तु २०४२०४००, इदं त्रिभागोनम् ३०० इदमपि तत्सम, किन्तु वंशप्रमाणयोर्मेदादिन्नं बातम् ।
गोभूमिदानफलम् । १३३ दश तान्येव विस्तारो ब्राह्म गोचर्मलक्षणम् ॥ बृहस्पतिः--पष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः । आक्षेप्ता चानुमन्ता च तान्येव नरकं व्रजेत् ।। आक्षेप्ता हरणकर्ता, तान्येव पष्टिवर्षसहस्राण्येव । संख्यापरिमाणम्- मात्स्ये-तबागानां सहस्रग अश्वमेधशतेन च । गवाकोटिप्रदानेन भूमिहर्ता न शुद्धयति ।। स्वदत्ताम्परदत्तां च योऽहरद्वै वसुन्धराम् । षष्टिवर्षसहस्राणि विष्ठायाञ्जायते कृमिः ।। भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणों नियतं स्वर्गगामिनौ । दाता दानं स्मरेन्नेव प्रतिग्राही न याचते। उभौ तौ नरकं यातो यावच्चन्द्रार्कमेदिनी । ब्रह्माण्डे--यद्गोदानं तपो जप्यं श्राद्धं च मुरपूजनम् । गङ्गायां यत्कृतं सर्व कोटिकोटिगुणम्भवेत् ॥ भविष्ये-यश्चाक्षयतृतीयायाङ्गङ्गातीरे ददाति वै । घृतधेनुं विधानेन तस्य पुण्यफलं शृगु ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । सहस्रादित्यसंकाशः सर्वकामसमन्वितः ।। तथैव गोप्रदानञ्च विधिना कुरुते तु य.। गोलोमसंख्यया तावत्कल्पान्यव॒ दसङ्ख्या ।। गोलोके शिवलोके वा कामधेनुप्रजाऽन्वितः । सुजानः सर्वकामांस्तु दिव्यान्नानाविधान् बहून् ।। गङ्गायां निवर्तनद्वयभूमिदानमभिधाय तीर्थचिन्तामणौ ब्रह्माण्डे-- तद्भूमिपरमाणूनां संख्या याऽयुतसंख्यया । सोमेन्द्रब्रह्मलोकेपु विष्णुलोके तथैव च ॥ शिवलोके तथा श्रीमान्भोगं भुङ्क्ते तथाविधम्॥ (१) निवनलक्षणमाह-मात्स्ये- 'सप्तहस्तेन दण्डेन विशदएडान्निवर्त्तनम् । त्रिभागहीनङ्गोचर्ममानमाह प्रजापतिः॥ तथा--ग्रामं गङ्गातटे याऽसो विप्रेभ्यस्संप्रयच्छति । ब्रह्मविष्णुशिवेभ्यश्च दुर्गायै भास्कराय च ॥ सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । (१) लीलावत्यां निवर्त्तनलक्षणम्- 'निवर्तनं विंशतिवंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैनिबद्धम् ।'
. १३४ कृत्यसारसमुच्चये- सर्वतीर्थेषु यत्पुण्यं सर्वव्रततपम्सु च ॥ सहलगुणितं तत्र फलं स्याद् प्रामदानतः । तन्नेति गङ्गायामित्यर्थः । तथा- यावत्तु प्रामभूमेव परमाणुपु संख्यया । भोमान् भुक्त्वा तथा लोके जायते योगिनां कुले ॥ अणिमादिगुणयुक्तः स्वयम्भोगी भवत्यपि । देहान्ते निर्मले नित्ये परे ब्रह्मणि लीयते ।। --गोभूहिरण्यदानेन भक्त्या गङ्गातटे सकृत् । नरोन जायते भूयः संसारे दुःखसङ्कटे॥ दीर्घायुष्ट्वं च वासोभिरन्नदानेन सम्पदः । अथ दशवेनूगह, मारये-- प्रथमा गुडधेनुः स्याद् घृतधेनुस्तथाऽपरा । तिलधेनुत्तृतीया तु चतुर्थी जलसंज्ञिका ॥ क्षीरधेनुश्च विख्याता मधुधेनुस्तथाऽपरा । सप्तमी शर्कराधेनुर्दधिधनुस्तथाऽष्टमी ॥ रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः। स्वरूपधेनुमन्यत्र केचिदिच्छन्ति मानवाः ॥ गुडधेन्वादौ गुजादिप्रमाणमाह, मात्स्ये-- उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयम्। वत्सं भावेन कुर्वीत भाराभ्यां मध्यमा स्मृता ॥ अर्द्धभारेण वत्सः स्यात्कपिला भारकेण तु । चतुर्थाशेन वत्सः स्याद् गृहवृत्तानुसारतः॥ मुख्यकल्पशक्तस्य गौणकल्पकरणे दोषमाह कात्यायनः-- प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्॥ सांपरायिकं पारलौकिकम् । एतदेव घृतादिनवधेनुघृतादिप्रमाणमपि । 'विधानमेतद्धेनूनां सर्वासामिह पठ्यते' इति सामान्येनातिदेशात् । तत्र दानप्रकार गोमयोपलिप्तायां भूमौ कुशानास्तीर्य तत्र प्राग्नीवं चतुर्हस्तं कृष्णाजिनं धेन्वर्थ पातयित्वा तत्समीपे लघुकृष्णाजिनं प्राग्नीवमेव वत्सार्थ धृत्वा तदुपरि शक्त्यनुसारेण भारचतुष्टयादिना घृतादिना घेनुस्थापितेन धेनुं शक्त्यनुसारेणैकभारादिना घृतादिना घटे स्थापितेन च वत्सं परिकल्प्यो- भावपि शुक्लवस्त्रेण वेष्टितौ शुक्तिमयकर्णी इक्षुमयपादचतुष्टयौ सुवर्णशृङ्गौ रूपखुरौ सुरभिद्रव्यनिर्मितवाणी धेनुवत्सौ निर्मायाक्षतपुष्पाभ्यां ॐ सोप- - गुडधेन्वायुभयमुखीगोदानप्रकारः ! करणसवत्सधेनवे नमः ३ ॐ ब्राह्मणाय नमः ३.इमां सोएकरणां लगता घृतधेनुं ददानीति द्विजकरे जलं दत्त्वा, ददति तेनोक्ने हेर्नु संप्रोन्य ओं या लक्ष्मीरित्यादिपञ्चश्लोकं पठित्वा ओं अशाक्षयस्तीयाय कल्पकोटि- सहस्रबहुकल्पकोटिशतावच्छिन्नहेमरत्नमयहंसभूषितविमानाधिकरणकलही- यपितृगणसहितसहस्रादित्यसङ्काशसर्वकामसमन्वितस्त्रकीयरलोकसाहितत्व तदुत्तरगङ्गाधिकरणान्वितविप्रत्वभवनान्तकालिकब्रह्मविष्णुभवनानन्तरमोक्ष- प्राप्तिकाम इमां गोमयोपलिप्तास्तृतकुशस्थितां घृतधेनुं सवत्सां तत्तदुपकरण- युक्तामित्यादि । ततः सुवर्णदक्षिणां दद्यात् । एवं गुडधेन्वादारपीति श्राद्ध- चिन्तामणौ गुडधेन्वादीनां प्रकारः। अथोभयमुखीगोदानम् मात्स्ये-रुक्मशृङ्गी रोष्यखुरां मुक्तालाङ्गलभूपिताम् । कास्योपदोहनां राजन् ? सवत्सां द्विजपुङ्गले ॥ प्रसूयमानां यो दद्याद्धेनुं द्रविणसंयुताम् । यावद्वत्सो योनिगतो यावद्गर्भ न मुञ्चति ।। तावद्गौः पृथिवी ज्ञेया सशैलवनकानना । चतुरर्णा भवेद्दत्ता पृथिवी नात्र संशयः ।। यावन्ति धेनुरोमाणि वत्सस्य च नराधिप !! तावत्संख्ययुगानेव देवलोके महीयते ।। पितॄन् पितामहांश्चैव तथैव प्रपितामहान् । उद्धरिष्यत्यसंदेहो नरकाद् भूरिदक्षिणः । इत्यादि । द्रविणसंयुतां दक्षिगाद्रव्यसंयुक्ताम् । भूरिदक्षिण इत्यग्रेऽभिधानादिति लक्ष्मीधरः । सोपकरणप्रसूयमानोभयमुखीगो जादिकं विधाय ओं अद्य सप्त- समुद्रसशैलवनकाननचतुरणपृथिवीदानजन्यसमफलैतद्धेनुवत्सरोमसमसंख्य- युगगणावच्छिन्नदेवलोकमहितत्त्वपितृपितामहप्रपितामहनरकोद्धरणकृतक्षीरव- हकुल्याकदविपायसकर्दमकदेशाधिकरणकेप्सितकामदात्मगोलोकसुलभत्वन ह्मलोकसुप्रापत्वाजस्रचन्द्रवक्त्रसुतप्तजाम्वूनदतुल्यवर्णमहानितम्बस्तनुवृतमध्य नलिनाभनेत्रानेकदेशाधिकरणकेप्सितन्त्रीसेव्यमानत्वकाम इमां रुक्मशृङ्गीं- रौप्यखुरां मुक्तालाङ्ग लभूषितां कांस्योपदोहना सवत्सां प्रसूयमानामुभयतो- मुखीं गां रुद्रदैवतामित्यादि । ततो दक्षिणां दत्त्वा पुच्छग्रहणं कारयित्वा कामस्तुति पाठयेदिति दानवाक्यावली (१)। - (१) अथ कस्मै गौन देयेत्युक्तं भारते- असदवृत्ताय पापाय लुब्धायानृतवादिने । हव्यकव्यव्यपेवाय न देया गौः कथञ्चन ॥ कस्मै देयेत्युक्त तत्रैव- हवे बहुपुत्राय श्रोत्रियायाहिताग्नये । दत्त्वा दश गवां दाता लोकानाप्नोत्यनुत्तमान् ॥
१३६ कृत्यसारसमुच्चये- अथ द्रव्यदेवतानि-विष्णुधर्मोत्तरे- अभयं सर्वदेवत्यं भूमिः विष्णुदेवता । कन्या दासस्तथा दासी प्राजापत्या:प्रकीर्तिताः॥ कीदृशी गौड़येत्यपि तत्रैवोक्तम्- वत्सलां गुणसन्पन्नां तरुणी वरूसंयुतान् । दत्वेदशौं गां विप्राय सर्वपापैः प्रमुच्यते ।। कोहशीं न दधादित्यपि तन्नैव- पीतोदकां जग्धतृणां तष्टशोरां निरिन्द्रियान् । जरारोगोपसंपन्नां जीणी वापीमिवाजलाम् ।। दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ।। दत्त्वा दुष्टा व्याधिता दुर्वला वा नो दातव्या याश्च मूल्यैरदस्तैः । क्लेशैवित्तं वोऽफलैः संयुनक्ति तत्यावीर्याश्चाकलाश्चैत्र लोकाः ।। अथ गोपालनप्रकारमाह तत्रैव- प्रचार वा निवाते वा बुधो नोजयेत गाः । तृषिता ह्यभित्रीक्षन्ते नरं हन्युः तवान्धवम् ॥ आत्मनो यदि वाऽन्येषां गृहे क्षेत्र तथा खले। भक्षयन्ती न कथयत्पाययन्ती च वत्सकन् । अथ गोः पवित्रत्वमाह- पितृसद्मनि सततंदेवतायतनानि च । पूयन्ते शकृता यासां पूतं किमधिकं ततः ।। अथ गोग्रासदानफलमाह- घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः। अकृत्वा स्वयमाहारं व्रतं तं सार्वकामिकम् ॥ स हि पुत्रान् यशोऽर्थ च श्रियं चाप्यधिगच्छति । नाशयत्यशुमं चैत्र दुःस्वप्नं चाप्यपोहति ॥ अथ गोदोहनप्रकार:- द्वौ मातौ पाययेद्वत्सं द्वौमासौ द्वौ स्तनौ दुहेत् । द्वौ मासौ वेकवेलायां शेषकालं यथारचि ॥ अथ गोवन्धनरज्जुविचार:- न नारिकेलैनच शणवालेन वाऽपि मौजैन वज्रशृङ्गलैः । एतैस्तु गावो न निवन्धनीया बद्ध्वा तु तिष्ठेत्परशुं गृहीत्वा । आपस्तम्बः-'कुशः काशैस्तु बध्नीयात् स्थानेऽपायविवर्जिते.' तथा गोबन्धने विशेषमुक्तं स्कान्दे- देवरध्यासितां तान्तु सर्वइस्तद्वयेन तु । मूदुबन्धेन बनीयादन्तः श्लक्ष्णेन रज्जुना। अथ यादृश्याः पयो न पेयं ता माह याज्ञवल्क्या- सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । औष्टमेकशर्फ स्त्रैणमारण्यकमथाविकम् ।। सन्धिनी साण्डसङ्गिनी वा अन्यवत्सपायिनी, अनिर्देश प्रसवोत्तरदशदिनान्तर्गता। अवत्सा मृतवत्सा वाऽनातवत्सा वा एतासां पयो न ग्राछन् । सथोष्ट्रोदुग्धम् । घोट्याधेकशफदुग्धम् जाङ्गलिकजन्तुदुग्धं मेपीदुग्धश्चाजादुग्धं च न गृह्णीयादिति । अत एव देवल आह- अजा विमहिषीणान्तु पयः श्राद्धेषु वर्जयेत् । विकारान् पयसश्चैव माहिषं च घृतं हितमिति ॥ एवं वह्नयो गावः सन्ति यासां गोमयस्यापि ग्रहणं न कर्तव्यम्, तदुक्तं शब्दकल्पद्रुमे- अत्यन्तजीर्णदेहाया वन्ध्यायाश्च विशेषतः। रोगानवसूताया न गो गोमयमाहरेत् ॥ अमेध्यभोजिनी या गौस्तस्या दुग्धं परित्यजेत् । स्तननणायाः खिन्नायाः क्षतयोन्याश्च सन्त्यजेत् ।
- द्रव्यदेवतनिर्णयः । १३७ प्राजापत्यो गजः प्रोक्तस्तुरगो यमदेवतः । तथा चैकशफं सर्व कथितं यमदेवतम् ।। अथ पञ्चगन्ये क्रियमाणे कस्याः किं प्राथं तदाह- पराशरः-गोमूत्रं कृष्णवरलांयाः वेदायाश्चैव गोमवन् । पयश्च तात्रवर्गाया रक्ताया गृझते दधि । कपिलाया पाझं सर्व स्तापिलमेव वा! अथैतेषां परिमाणाभेदोऽपि तत्रैव- मूत्रनेकपलं दद्यादङ्गुटानु गोनयन् । क्षरं सारं घाइकिलनुच्यते ।। धृतमेकपलं दद्यापहनकं कुशोदकद: अथ तत्तत्पदार्थग्रहणे तत्तन्मन्त्रमाह तत्रैव- गायन्याऽऽदाय गोमूत्रं गन्धद्वारेत गोमयन् । अन्यायवेति च क्षरं इधिकाव्येति वै दधि ।। तेजोसीति घृतं तद्वद्देवत्यत्वेति चोदकन् । कुशमिनं जपेद्विद्वान् पञ्चगव्यं भवेतनः । इति ! अथ गोमक्षिवसस्यादौ क्षेत्रवते बीजमात्रमेव धान्यं देयम् । तदाह नारदः- गोभिस्तु भक्षितं सत्यं यो नर प्रतियाचते । सानन्तानुनते देयं धान्यं यत्र तु वापितम् ।। गोजग्धं गोमिना देयं धान्यं यत्र तु बापितन् । एवं हि विनयः प्रोको गवां सस्यावमदने ।। उशना:- गोभिर्विनाशित धान्यं यो नरः प्रतियाचते । पितरस्तस्य नाश्नन्ति नाश्नन्ति त्रिदिवौकसः ।। एतत्स्त्रींगवीविषयम् । तथापालकावसरिकन् । यदि गोचारानुमत्या सस्यचारणं भवेत्तदा स च दोषो नेति । याज्ञवल्क्य:- पथि ग्रामवित्रीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरपदण्डमहति ।। भारते दानानहंगोलवणमाह न्यासः- न कृशामपवत्सां वा बन्ध्यां रोगान्वितां तथा । न व्यङ्गा न परिश्रान्नां दद्यागोब्राह्मणाय वै ।। उन्मत्तामगहीनां च मृतवत्सां महाशनाम् । केश-चैल-पुरीपास्थिक्रव्यादां स्यन्दिनी खलाम् ।। पुनर्नवां यमलसूं नित्यं प्रगलितस्तनीम् । न दद्याद् ब्राह्मणेभ्यश्च सदोकं दृषमं तथा । नन्दिपुराणेऽपात्राय दत्तायां गवि दोष उक्को यथा- अपात्रे सा तु गौर्दचा दावारं नरकं मजेत् । कुलकविंशत्या युक्तं ग्रहीत.रंच पातयेत् ॥ इति। पात्रायैव दचा श्रेयसे भवति । तथोकं भारते- न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप !। गौर्हि न्याय गता दत्ता सा हि तारयते कुलम् । याज्ञवल्क्य:- यावदत्सस्य दो पादौ मुखं योन्यां प्रदृश्यते । तावद्गौः पृथिवी शेया यावदर्भ न मुञ्चति ।। अगिरा:-बहुभ्यो न प्रदेयानि गौहं शवनं स्त्रियः। विभक्तदक्षिणा ह्यता दातारं तारयन्ति हि॥ एका एकस्य दातव्या न बहुभ्यः कथंचन । सा तु विक्रयमापना दहत्यासप्तमं कुलम् ।। प्रसमान्महिषीदानफलमुक्कं कृत्यशिरोमणी- या बी ददाति महिषी सा राजमहिषी भवेत् । महाराजश्व पुरुषो व्यासस्य वचनं यथा ॥ यशराट् च भवेद्विप्रः क्षत्रियो विजयो भवेत् । वैश्यस्त धान्यधनवान् शुद्धः सर्वार्थसयुतः ।। तत्मात्सर्वेण दातव्या महिषी विभवे सति । पुत्रपौत्रप्रपौत्राणामात्मनः शुभमिच्छता ॥ दशधेनुसमानां यन्माहिषी नारदोऽब्रवीत् । त्रिंशनुसमा व्यासः सर्वदानोत्तम कविः ।। सगरेण ककुत्स्थेन बनकेन च गाधिना । दत्ताः सविद्यविप्रेभ्यो महिष्यः सर्वकामदाः ।। १८ कृ० सा० - AW 15 कृत्यसारसमुच्चये- महिषश्च तथा याम्य उष्ट्रो नैऋतकस्तथा । रौद्री धेनुर्विनिर्दिष्टा छाग आग्नेय उच्यते ॥ मेषन्तु वारुणं विद्याद्वराहो वैष्णवः स्मृतः । आरण्याः पशवः सर्वे कथिता वायुदेवताः॥ जलाशयानि सर्वाणि विविधानि कमण्डलुः । कुम्भं च करकञ्चैव वारुणानि विनिर्दिशेत् ।। समुद्रजानि रत्नानि समुद्राणि तथैव च । आग्नेयं काञ्चनं प्रोक्तं सर्वलोहानि वाऽप्यथ ॥ प्राजापत्यानि शस्यानि पक्कान्नमपि च द्विजाः!! ज्ञेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणः ॥ बार्हस्पत्यं स्मृतं वासः सौमान्यथ रसानि च । पक्षिणश्च तथा सर्वे वायव्याः परिकीर्तिताः॥ विद्या ब्राह्मी विनिर्दिष्टा विद्योपस्करणानि च । सारस्वतानि ज्ञेयानि पुस्तकादीनि पण्डितैः॥ सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु देवता । द्रुमाणामथ पुष्पाणां शाकस्य हरितस्य च ॥ फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः । मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च ॥ छत्रं कृष्णाजिनं शय्यां रथमासनमेव च । उपानहौ तथा यानं यच्चान्यत्प्राणवर्जितम् ।। उत्तानाङ्गिरसं त्वेतत्प्रतिगृहीत मानवः । शूरोपयोगि यत् सर्व शस्त्रवर्मध्वजादिकम् ।। रणोपकरणं सर्व कथितं शक्रदैवतम् । गृहं तु शुक्रवत्यं यदनुक्तं द्विजोत्तमाः!॥ तज्ज्ञेयं विष्णुदैवत्यं सर्व वा विष्णुदैवतम् । इति । द्विजोत्तमा इति सम्बोधनम् । अथ गवादिमूल्यम् छन्दोगपरिशिष्टे-- द्वात्रिंशत्पणिका गावः ।।) चतुः कार्षापणो वरः १)(१) वृषे षटकार्षापणकः ॥) चाष्टावनडुहि स्मृतः२)। दश कार्षापणं २) धेनोरश्वे पश्चदशैव तु ३॥)। हिरण्ये कार्षापणकः -1) पणा नव तथाऽधिकाः ।। (१) धेनुः पञ्चमिरान्यानां मध्यानां त्रिपुराणिका। कार्षापर्णक्मूल्या हि दरिद्राणां प्रकीर्तिता ॥ इति प्रा० प्र० ।
मूल्यनिर्णयः संस्कारकालनिर्णयश्च । वस्त्रे ) कापिणच्छारोऽष्टौ पणा) द्वादशाविके)। वृपल्यामथ पञ्चशन्मूल्यं कापीपणाः स्मृताः१ना)। निष्के पश्चाशदेव पा) स्यद्गजे पञ्चशतानि – १२५)। पञ्च कार्पापणाः प्रोक्ता दोलायां ११) पड्थे ।) तथा ।। गृहेऽष्टकापगकः २) ताम्रकर्षः पणः स्मृतः । कापिणः पोडश ते इति मृत्यप्रकल्पना ।। अधिकं प्रकल्पयेन्मूल्यं न्यूनं वित्तानुसारतः। पञ्च कार्षापणा दासी ११) दासः स्यात्पश्चमापकः ५) ।। महिपी वृषवदिति । अथ संस्काराः । (१) गौतमः- गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।' (१) तत्र संस्कारकरणावश्यकतामाह-नदुः- गाभैहोमैतिकर्मचौडमा निवन्धनैः । वैजिकं गाभिकं चैनो द्विजानामपन्ज्यते ।। तत्र तावत्संस्कारभेदा उक्ता याज्ञवल्क्यस्मृतौ- गर्माधानमृती पुंसः सवनं स्यन्दनात्पुरा । षष्ठेऽटने वा सीमन्तो मास्येने जातकर्म च ॥ अहन्येकादझे नान चूडा कार्या यथाकुलन् । एवमेनः शमं याति बीजगर्भसमुद्भदाः ।। तत्रोपनयनादिसंस्कारसमयमाह, व्यास:- औपनायनिकः कालः परः षोडशवार्षिकः । द्वाविंशतिः परोऽन्यस्य त्याचतुर्विशतिः परः।। ब्राह्मणक्षत्रियविशां कालश्चेदत्यगादयन् । सावित्रीपतिता नात्या भवन्त्यार्यविगहिताः॥ अथ मेखलानिर्णयः । मनुः- मौजी त्रिवृत् समालक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौवींज्या वैश्यस्य शणतान्तवी।। एवमुकंगोमिलगृह्यसूत्रे 'मुञ्ज काशताम्बल्यो रशनाः । तत्र पारस्करगृह्यसूत्रे 'मेखलां बन्नीते। अस्य हरिहरभाष्यन्-ततो मेखलां मौम्ब्यादिकां वक्ष्यमाएलक्षणां बनीतीते कटि- प्रदेशे त्रिवृतां प्रवरग्रन्थियुतां प्रादक्षिण्येन परिवेष्टयति । एवं गदाधरभाष्यम्-तत प्राचार्यों माणवककट्या मेखला रशनां बध्नीते, अत्रैवं वन्धनन् 'भाचार्यत्रिगुणा मेखलामादाय बटोः कटिप्रदेश प्रादक्षिण्येन त्रिर्वेष्टयति, तृतीये वेष्टने ग्रन्थयरूयः सत वा कार्याः ॥' विश्वनाथ- भाज्यन्तु “बध्नीते परिधापयति परिवेष्टनं च कटिवेष्टनं वहिर्वासवत् !" इति । एवमेव गोभिलगृह्मसूत्रभाष्यकर्ता सत्यदेवोऽप्याह-'एषां रशनाः कटिबन्धनरज्जवो मुद्ध- काशतान्वल्यः कार्याः।' इति । अथैवं वाचस्पत्याभिधाने-'मेखला......उपनयनकाले ब्रह्मचरिषायें मौज्यादौ कटिसूत्र। इति । एमिराप्तवाक्य मेंखला कटिप्रदेशे एव धार्या, न हि यशोपवीतवदिति स्पष्टम् । तमोत्तररामचरिते भवभूतिरपि-मोा मेखलया नियन्त्रितमधोवासश्च माअिष्टकम् ।' तथा माघकाव्ये-पिशङ्गमौजीयुतमर्जुनच्छविं वसानमेणा जिनमञ्चनथुति । सुवर्णसूत्राकलिताधाराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।। एवं कुमारसंभवे १ स०५ श्लोकः 'आमेखलं सञ्चरतां धनानामित्यस्य टीकायां महिनाथ: 'श्रामेखलं नितम्बपर्यन्वम् ।' एवं कुमारसंभवशिशुपालवधमेघदूतरघुवंशकाव्येषु बहुशो मेखलायाः कटिप्रदेशधारित्वमेवोक्तं महाकविमिः पद्धतौ तु 'त्रिकं वेष्टयेत्' त्रिकं नितम्बोर्ध्वम् । 'पृष्ठवंशावरे - कृत्यसारसमुच्चये- 'जातकर्म नामकरणमन्नप्राशनं चूडोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः' । सहधर्मचारिणीसंयोगो विवाहः । सुमन्तुः-'ब्राह्मण- क्षत्रियविशां वृत्तिः गर्भाधानसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राश- नचूडोपनयनबतचरणाध्ययनसमावर्तनविवाहश्लोष्यन्तीयज्ञदानादि ।' श्लो- प्यन्ती सुखप्रसवार्थ कर्म प्रसवशूलहरम् । याज्ञवल्क्यः- 'गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्पुरा पुसः सवनं पुंसवनं, स्यन्दनाद् गर्भचलनात् , बैजवापः-सप्तमे मासि प्रथमे वा गर्ने सीमन्तोन्नयनम् । स्मृतिः- एतस्मान्नाधिकारोऽस्य न वेदे न स्मृताविति । विवाहमात्रसंस्कारं शूद्रोऽपि लभतां स्वयम् ॥ अस्य शूद्रस्य, मात्रपदं विशेपविहितविवाहान्यसंस्कारव्यवच्छेदकम् । विष्णुपुराणे-सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म ततः कुर्याच्छाद्धमाभ्युदये च यत् ॥ गौतमः-'जननाद्दशरात्रे व्युष्टे शतरात्रे सव्वत्सरे वा नामकरणम्' व्युष्टे व्यतीते, दशरात्रं स्वस्वाशौचान्तिमदिनपरम् , 'अशौचव्यपगमे नामधेयम्' इति विष्णुवचनात् । गृह्यपरिशिष्टे-'द्वयक्षरं चतुक्षरं वा घोषवदाभ्यन्तरस्थ- मध्यं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितान्तम् ।' वर्गाणां तृतीयचतुर्थपंचमा त्रिकमित्यमरकोषात् । श्रीमद्भागवतेऽपि-कदम्बकिंजल्कपिशङ्गवाससा हलंकृतं मेखलया नितम्बे ।' इत्यादि । अत्र जातस्य जन्मन्यनिष्टफलदान्याह रामाचार्य:- गण्डान्तेन्द्रमशूलपातपरिवव्याघातगण्डावमे, संक्रान्तिव्यतिपातवैधृतिसिनीवालीकूहूदर्शके। वजे कृष्णचतुर्दशीषु यमघण्टे दग्धयोगे मृतो, विष्टौ सौदरमे जनिन पितृमे शस्ता शुभा शान्तितः ।। आये पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये । धनं चतुर्थोऽस्य शुमोऽथ शान्त्या सर्वत्र सत्स्यादहिमे विलोमम् ॥ स्वर्गे शुचिपौष्ठपदेपु माघे भूमौ नमः कार्तिकचैत्रपौषे । मूलं बधस्तात्तु वपस्यमार्गवैशाखशुक्रष्वशुमं च तत्र ॥ अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठाऽन्त्यमूलादिमनं हि नारदः। वशिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेकवटी प्रमाणकम् ॥ अथोचुरन्ये प्रथमाष्टवट्यो मूलस्य शाक्रान्तिमपञ्चनाख्यः । जातं शिशुं तत्र परित्यजेदा मुखं पिताऽस्याष्टसमा न पश्येत् ।। अथ प्रसङ्गतो बावस्योध्यपंक्तौ प्रथमदन्तजनने वा सदन्तबालोत्पत्तौ दोष उक्तो विष्णुधमोत्तरे- उपरि प्रथमं यस्य जायन्ते च शिशोदिजाः । दन्तैर्वा सह यस्य स्याजन्म भार्गवसत्तम ! ॥ मातरं पितरं वाऽथ खादेदात्मानमेव वा । अस्य शान्तिः शान्तिमयूखादौ द्रष्टव्येति । तत्र प्रथममासे दन्तजनने स्वस्य नाशः। द्वितीये कनिष्ठस्य । तृतीये भगिन्याः। चतुर्थे मातुः । पञ्चमेऽग्रजस्य । षष्ठेऽतुलमोगः । सप्तमे पितुः मुखम् । अष्टमें पुष्टत्वम् । नवमे लक्ष्मीलाभः। दशमे सौख्यलाम इति । - -- जातकनामकरणोपनयनादिविचारः । १४१ यरलवा हकारश्च घोषवन्तस्ते नाम्न आदौ देयाः। यरलवा अन्तस्थास्ते नाम्नो मध्ये, कृतं कृदन्तम् । शङ्खलिखितौ-'कुलदेवतानक्षत्रादिसंबद्धम्' इति । नाम कुर्यादिति शेषः । कुलसंबद्धं वशिष्ठ इति, देवसंनद्धं केशव इति,नक्षत्रसम्बद्धं चैत्र इति । यमः-'ततोऽन्नप्राशनं मासि षष्ठे कुर्याद्यथाविधि ।' देवलः--गर्भाष्टमे उपनयना: भवति इति ब्राह्मणस्य मुख्यकालः। गौणस्तु पंचदशवर्षपर्यन्तः । तथा हि, याज्ञवल्क्यः- (१)आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात्। ब्रह्मक्षत्रविशां काल यौपनायनिकः स्मृताः। अत ऊवं पतन्त्येते सर्वधर्मबहिष्कृतः । आषोड्शादिति पंचदशवर्षपर्यन्तमित्यर्थः। एवमाद्वात्रिंशादित्यादावपि । तथा च ब्राह्मणादित्रयाणां क्रमेण पंचदशैकशितित्रयोविंशतिवर्षमुपनयनस्य गौणः कालः । अत ऊर्ध्वमुपनयनं व्रात्यप्रायश्चित्तं कृत्या कर्तव्यम् । क्षत्रियवैश्य- योर्मुख्योपनयनकालमाइ, याज्ञवल्क्यः- 'राज्ञामेकादशे सैके विशामेके यथाकुलम् ।' सैके एकसहिते, तथा च राज्ञां द्वादशवर्षो मुख्यः कालः। मनुः-- असपिण्डा च या मातुरसमोत्रा च या पितुः । सा न्याच्या द्विजजातीनां वारकर्मणि मैथुने ।। दारकर्मणि विवाहे, मैथुने रतौ । याज्ञवल्क्यः-- पंचमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । सपिण्डता निवर्तेत सर्ववर्णेश्वयं विधिः ।। इति । पितृतः सप्तमी वर्जयेन् मातृतः पंचमीन्त्यजेत् । विवाह इति शेषः । व्यवहारापितृतः सप्तम्यपि विवाह्या, व्यवहारे बल- वत्त्वस्य प्रागुक्तत्वात् । सुमन्तुः सर्वाः पितृपल्यो मातरस्तद्भातरो मातुला- स्तदुहितरो भगिन्यस्तदपत्यानि भागिनेयानि ताश्च न परिणेतव्याः।' ताः परिणीताः सङ्करकारिण्यस्तथाऽव्यापयितुरेतदेव । एतेन सपत्नीमातु- ओतपुत्री तत्पुत्री न विवायेति पर्यवसितम् । सपत्नीमातुर्भगिनीपरिणयने न दोषःप्रापकाभावात्। (१) आषोडशादित्यस्य षोडशवर्षान्तपर्यन्त इत्यों बोध्यः । उपनयनविहितवर्षस्य द्विगुणे वर्षेऽतीते गौणत्वप्रतिपादनात् । तथोक्तं ज्योतिषे मुहूर्त्तचिन्तामणौ संस्कारप्रकरगे- विप्राणां व्रतबन्धनं निगदितं गर्माजनेऽष्टमे । वर्षे वाऽप्यथ पञ्चमे क्षितिभुजा षष्ठे तथैकादशे। वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद् द्वादशे वत्सरे कालेऽथ द्विगुणे गते निगदिते गौणं तदादुर्बुधाः।। राजमाण्डे नवमवर्षेऽपि व्रतबन्धनस्य विधानमुक्तम्- प्रायः संस्करणं प्राप्ते पञ्चमे हायने हितम् । व्रतं गर्माष्टमे कार्यमष्टमे नवमेऽपि वा ।। -- ----Dane.......
- १४२ कृत्यसारसमुच्चये- अथ कन्यादानाधिकारिण श्राह, कात्यायन:- स्वयमेवौरसी दद्यात्पित्रभावे स्वबान्धवाः । दीर्घप्रवाससक्तेषु (१) पौगएडेषु च बन्धुषु ।। माता तु समये दद्यादौरसीमपि कन्यकाम् । बान्धवाः पितामहपितृव्यभ्रात्रादयः । दीर्घप्रवाससक्तेषु अतिदूरविदेश- स्थितेषु । पौगण्डेषु व्यवहारासमर्थेषु । स्मृतिः- पिता पितामहो भ्राता सकुल्यो जननी तथा । एते कन्याप्रदातारः पूर्वाभावे परः परः॥ राजमार्तण्डे-षोडशाव्दे गर्भधराऽष्टमे मासि प्रसूतिका । उभयोरपि मरणं स्यात्सत्याचार्य प्रभाषते ।। अब्दे पञ्चदशे गर्ने प्रसवः षोडशेऽपि वा । दम्पत्योश्चैव नाशः स्यादेकस्मिन्नेकनाशनम् ॥ -षोडशाब्दगवा नारी भवेद्गर्भसमन्विता। अग्रतो म्रियते माता पश्चात्पुत्रो विनश्यति ॥ अथ तच्छान्तिः-दद्याद्गर्भवतीं छागी वस्त्रालङ्कारभूषिताम् । पुंसवेन विधानेन संक्रमे शिवसन्निधौ ॥ गौरी तु सम्यक् सम्पूज्य काश्चनीं कांस्यभाजने । दासी गर्भवतीं दद्यादेवज्ञाय च गोयुताम्॥ उपनयनविवाहादिसंस्कारे आभ्युदयिकाद्धमावश्यकम्। तथाहि स्मृतिः 'नानिष्ट्वा तु पितॄन् श्राद्धे कर्म वैदिकमाचरेत् ।' इति । तच्च पित्रा तदन्येन वा कर्त्तव्यमिति । तथाहि- 'पिता कुर्यात्तदन्यो वा तस्याभावे तत्क्रमात् ।' इति । तत्र क्रममाह | कात्यायन:- स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मणि । पिण्डानोद्वाहनात्तेषान्तस्याभावे तु तत्क्रमात् ॥ इति । पिण्डानिति पिण्डपदं श्राद्धोपलक्षकम् । आभ्युदयिके पिण्डरहितत्वा- पिण्डान् आ उद्वाहनाद् इत्यत्र गुणे कृते पिण्डानोद्वाहनादिति सिद्धचति, उद्वाहनं विवाहः आविवाहाद्विवाहपर्यन्तमिति यावत्, तस्याभावे माणवकपितु- रभावे, अभावोऽत्र विनाशरूपः । तत्क्रमात् माणवकादिसंस्कार्यक्रमादित्यर्थः । तथा च पितृकत के आभ्युदयिके जीवति पितरि तत्प्रतिनिधिकृत वा संस्का- यपितामह्यादि तिसृणां पितामहादित्रयाणां पितृमातामहादित्रयाणामेव श्राद्धम् । संस्कार्यपितरि मृते तु आभ्युदयिक संस्कार्यमाणवकादिमात्रादीनां पित्रा- दीनां संस्कार्यमाणवकादिमातामहादीनां श्राद्धमिति पर्यवसितम्। तत्रापि यो (१) पौगण्ड दशमावधि । इति । - - आभ्युदयिकाद्धप्राथमिककेशकर्तनमुहूर्तयोश्च विचारः । १४३ यो जीवति तं तं परित्यज्य तदूध्वन्तेन श्राद्ध कर्तव्यम् । अत्र तस्याभावे संस्कार्यपितुरभाव, न तु तस्मिन्प्रमीते तद्वत्र कामिति द्वैतपरिशिष्टे । तस्मिन्प्रमीते पितरि प्रमीते, तद्वन्द्व पितृवदेव, अस्य न त्विति पूर्वेगान्वयः । स्मृतिः- मातृश्राद्धं तु पूर्व स्थापितृगान्तदनन्तरम् । ततो मातामहादीनां वृद्धौ श्राद्धत्रयं स्मृतम् ।। मातृश्राद्धं मात्रादित्रयनाद्धम् , एवमप्रेऽपि । तथा च प्रथमं मातृपिता- महीप्रपितामहीनां, ततः पित्रादित्रयागां, ततो मातामहादित्रयागामिति क्रमेण श्राद्धं कर्तव्यमिति भावः। अर्धे गन्धादिदाने च अवनेजनपिण्डयोः। प्रत्यवनेजने सूत्रे ये चात्रं पसु योजयेत् ।। इति वचनात्सामगानां ये चात्रेति पाठः श्राद्धे विहितः, स चाभ्युदयि- कादौ नास्ति । तथाहि स्मृतिः- प्रेतश्राद्ध त्रियः श्राद्धे वृद्धिश्राद्धे तथैव च । तथा स्त्रीकत के श्राद्धे ये चानं नाभियोजयेत् ॥ इति । प्रेतश्राद्ध प्रेतोद्देश्यकैकादशाहादिश्राद्ध, वृद्धिश्राद्ध आभ्युदयिके अय बलानां प्राथमिककेशकर्तनम् । राजमार्तण्डे- जन्मादौ सममासि पुत्रविषये स्त्रीणान्तु तद्वचत्यये कायं चादिमकेशखण्डनमिदं सूर्ये च सौम्यायने । आदित्यद्वयदस्रपौष्णशशमृद्विष्णुत्रयार्कत्रये पूर्वाहे शुभवासरे जयतिथौ यष्टम्यमावर्जिते ।। इति । आदित्यद्वये पुनर्वसूपुष्ये, दस्र अश्विनी, पौष्णं रेवती, शशभृन्मृगशिरा, विष्णुत्रयं श्रवणादित्रयम् , (अधश०)। अर्कत्रये हस्तत्रये (हरूचिस्वा०)। अमा अमावास्या, यु(१)ग्मवर्षत्याग इति समाचारात् । (१) अथ प्रसङ्गात् कर्णवेधमुहूर्च:- हित्वैतांश्चैत्रपौषावमहरिशयनं जन्ममासं च रिक्तां, युग्माब्दं जन्मवारामृतुमुनिवसुमिः संमिते मास्यथो वा। जन्माहात्सूर्यभूपैः परिमितसमये शेज्यशुक्रन्दुवारे- ऽयोजान्दे विष्णुयुग्मादितिमृदुलधुमैः कर्णवेधः प्रशस्तः ।। सारार्थः-चैत्रपौषजन्ममासमिन्नमासेष्वपि हरिशयनभिन्नसमयः। तिथिक्षयच नवमी- चतुर्दशीमिन्नतिथयः । प्रथमतृतीयपञ्चमप्रभृतिवर्षाणि जन्ममासमारभ्य ततः षष्ठसप्ताष्टममासाः। जन्मदिनाद्वादशषोडशदिने । बुधगुरुशुक्रचन्द्रवासराः । श्रवणधनिष्ठापुनर्वसूमृगशिरोरेवतीचित्रा:- नुराधाहस्ताश्विनीपुष्यामिनिन्नक्षत्राणि । एतानि जन्मनक्षत्रवर्जितानि कर्णवेधे शुभानि । तत्र जन्ममासलपणमकं पीयूषधारायाम- 'भारभ्य जन्मदिवसं यावत् त्रिंशदिनं भवेत् । जन्ममासः स विशेयो गर्हितः सर्वकर्मसु ।'..
कृत्यसारसमुच्चये- अथ(१)स्त्रीस्वभावः । तत्र मनुः- अस्वतन्त्राः त्रिय कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च संसक्त्यः संस्थाप्यात्मानमात्मना ।। संसक्त्यःप्रसक्ताभवन्त्यः । नारदः- स्वातन्त्र्याद्धि प्रणश्यन्ति कुले जाता अपि स्त्रियः । अस्वातन्त्र्यं यतस्तासां प्रजापतिरकल्पयत् ॥ स्वातन्त्र्यं स्वेच्छया गमनाचारादिकर्तृत्वं, कुने सत्कुले । मनुः-- सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या प्रयत्नतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः॥ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भायाँ भतरो दुर्बला अपि ।। मनुः-स्वां प्रसूति चरित्रं च कुलमात्मानमेव च । स्वधर्मेण प्रयत्नेन जायां रक्षन् हि रक्षति ॥ स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते ॥ याज्ञवल्क्या-रक्षेत्कन्यां पिता विन्नां पतिः पुत्राश्च वार्द्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं कचित् स्त्रियः॥ कन्या कुमारी, विनां विवाहितां, तेषां पुत्रादीनामभावे इत्यनेनास्य सम्बन्धः । हारीत:- जीविते जारजः कुण्डो मृते भर्तरि गोलकः । तस्माद्रेतोपघाताच जायां रक्षेत्प्रयत्नतः॥ जीविते इत्यस्य भत्तरीत्यग्रिमेणान्वयः । जारः पतिभिन्नः। 'जारस्तूप- पतिः समौ'इत्यमरः । मृते भतरीति जारज इति पूर्वेणान्वयः, रेतोपघातात् , परपुरुषवीर्यजनितवर्णसंकरदोषात् । अय कर्णवेधावश्यकतोका तत्रैव- कर्णरन् रवैश्च्छाया न विशेदप्रजन्मनः । तं दृ । विलयं यान्ति पुण्यौपाश्च पुरातनाः ॥ तथावशालकायन:- अविद्धकर्णेयमुक्तं लम्बकणस्तथैव च । दग्धकर्णेश्च यद्भुक्तं तदै रक्षांसि गच्छति ॥ (१)लिङ्गपुराणे-पिता माता च पुत्राश्च पौत्राः श्वसुर एव च । एते न बान्धवाः स्त्रीणां भर्ता बन्धुः परा गतिः ।। खीणां माता पिता पन्धुः सखा मित्रं च वान्धवाः । मर्चा एव न सन्देहस्तथाऽप्यासहमायया। कृत्वाऽपि सुमहत्पापं या भत्तुः प्रेमसंयुता । प्राप्नुयात्परमं स्वर्ग नरकं च विपर्ययात् ।। स्वामिसेवां परित्यज्य कृतं देवार्चनव्रतम् । सकलं क्षयमेत्याशु चान्ते च नरकं ध्र वम् ॥ शिवपुराने स्त्रीणां तु भर्तृशुश्रूषण धर्मो नान्यः कदाचन । ममार्चनं च कल्याणि ! नियोगो भर्तुरस्ति चेत् ।। या नारी मशभूषां विहाय व्रततत्परा । सा नारी मरकं याति नात्र कार्या विचारणा ॥ - तीर्थविधिः। १४५ । - बृहस्पतिः-अप्रयच्छन् पिता काले पतिश्चानुपयन्नृतौ । पुत्रश्चाभक्तदो मातुर्गमुदण्डयाश्च धर्मतः । अप्रयच्छन् कन्यादानमकुर्वन् , काले दशवर्षाभ्यन्तरे, अनुपयन् मैथुनम- कुर्वन् , ऋतौ रजोयोगानन्तरचतुर्थादिदिने, अभक्तदः भरणमकुर्वन् । नैता रूपं प्रतीच्छन्ते नैता वयसि संस्थितिम् । न रूपं रूपवन्तं वा पुमांसञ्चापि भुञ्जते । रामायणे-नैवाङ्गनानान्दयितो नापि द्वेष्योऽस्ति कश्चन | सर्वमेवावलम्बन्ते लता गहनजा इव ।। अङ्गनानां स्त्रीणां, दयितः प्रियः । तथा च वयोरूपाद्यपेक्षा नास्त्येव स्त्रियाः। किन्तु पुरुषमात्रस्यापेक्षेति भावः । दक्षः- साशका बालभावे तु यौवनेऽभिमुखी भवेत् । तृणवन्मन्यते नारी वृद्धभावे स्वकं पतिम् ।। वृद्धभावे वार्द्धकावस्थायाम् । स्वकाम्ये वर्तमाना सा स्नेहान्न च निवारिता । अपथ्याऽभिभवेत्पश्चाद्यथा व्याधिरुपेक्षितः ॥ स्वकाम्ये स्वेच्छायां, सा स्त्री, अपथ्या दुःखदायिनी । तथा च प्रथमं स्वच्छन्दचारिणी चेत्तदा पश्चादुःखदायिनी भवतीति तात्पर्यम् । महाभारते- कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु न तिष्ठन्ति दोषश्च स्त्रीषु नारद ! ॥ नारदेति सम्बोधनम् । अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ अलाभात्पुरुषाणां च भयात्परिजनस्य च । वधबन्धभयात् , नैव स्वयं गुप्त्या (ता.) भवन्ति ताः ॥ भयादिभिरेव रक्षिता भवन्ति, न स्वभावाद् इति भावः । तथा च- नाग्निस्तृष्यति काष्ठानां नापगानां महोदधिः। नान्तकस्सर्वभूतानां न पुंसां वामलोचना ॥ आपगा नद्यः, अन्तको यमः, वामलोचना स्त्री । मनुः- एवं स्वभावं ज्ञात्वाऽऽसां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ स्त्रिया इति शेषः । तस्मात् स्त्री अस्वतन्त्रैव कर्त्तव्या, स्वातन्त्र्ये बहुदोषस्य पूर्वमभिहितत्वात्। अथ तीर्थ विधिः, महाभारते- बहुपकरणा यज्ञा नानासम्भारविस्तराः। प्राप्यन्ते पार्थिवैरेव समृद्ध नरैः कचित् ॥ १६ कृ० सा० -- १४६ कृत्यसारसमुच्चये- नार्थन्यूनैरवगणैरेकात्मभिरसंहतैः॥ अवगणैः सहायशून्यैः । एकात्मभिः स्त्रीरहितः । तथा च पत्नीरहितेन न वशिष्टफलं प्राप्यत इति आवः । तत्रैव तीर्थाभिगमनात्पुण्यं यज्ञैरपि विशेष्यम्। ब्रह्मपुराणे- गङ्गादितीर्थेषु वसन्ति मत्स्या देवालये पक्षिगणाश्च सन्ति । भावोज्झितास्ते न फलं लभन्ते तीर्थाच्च देवायतनाच्च मुख्यात् ।। भावन्ततो हृत्कमले निधाय तीर्थानि सेवेत समाहितात्मा । गङ्गादौ भावनयैव फलमिति तात्पर्यम् । गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् । नरयाने तदद्धं स्यात्पद्यां तच्च चतुर्गुणम् ।। पद्भयामिति उपानहादिव्यतिरेकेण सातिशयं तीर्थफलं भवति, न तु तत्परिधाने दोषो निषेधाश्रवणात् । मिताक्षरास्वरसोऽप्येवम् । यत्त्वद्धं हरति पादुकेति पठन्ति तन्निबन्धकृद्भिरनादरणादनाकरमिति निर्णीयते, एवं च- वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामस्तु सोपानकः सदा ब्रजेत् ॥ इति विष्णुपुराणीयवचनेन तीर्थयात्रायामपि उपानपरिधानमनिषि- दमावश्यकमिति । तीर्थचिन्तामणौ तीर्थप्राप्तौ तन्निमित्तकश्राद्धमीजाहन- वजितं कर्तव्यमाह देवीपुराणे- 'श्राद्धं च तत्र कर्त्तव्यमर्घावाहनवर्जिम् ।' तथा-अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ॥ प्राप्तैरेव सदा कायं कर्त्तव्यं पितृतर्पणम् ।। इति । तत्रेति निमित्तसप्तमी तन्निमित्तकश्राद्धमित्यर्थः । अकालेऽपि निषिद्धका- लेऽपि । तथा च तीर्थप्राप्तौ विहिततिथ्यादिविचारो न कर्त्तव्य इति भावः । सायाह्नादौ तीर्थप्राप्तौ उत्तरदिने तीर्थश्राद्धं कुर्यात् , प्राप्त्युत्तरविहितमुहूर्ते एव तीर्थप्राद्धविधानात् । तीर्थोपवासः काम्यः, न त्वावश्यकः 'त्रिरात्रमुषित्वा सर्वपापेभ्यो मुच्यते' इति देवलवचनात्फलश्रवणात् । मुण्डनश्च प्रयागावच्छि- भगङ्गायामेव नान्यत्र 'गङ्गायां भास्करक्षेत्रे' इत्यादि वर्जयित्वा 'गयाङ्गजाम्' इत्यादि वचनानामविगीतशिष्टाचारविषयत्वात् । अथ प्रवागविधिः, पद्मपुराणे- पश्चिमाभिमुखी गङ्गा कालिंद्या सह सङ्गता । हन्ति कल्पशतं पापं सा माघे नृप ! दुर्लभा । अमृतं कथ्यते राजन ! सा वेणी भुवि कीर्त्तिता । तस्यां माचे मुहूर्त्तन्तु देवानामपि दुर्लभम् । - - प्रयागविधिः। पश्चिमाभिमुखी प्रयागे वटशाखादौ, कचिन् कालिन्द्या सह सङ्गता तु प्रयागे, तत्रैव- पृथिव्यां यानि तीर्थानि पुर्यः सन्तीह याः पुनः । स्नातुमायान्ति ता वेण्या माघे मासि नराधिप !॥ सर्वतीर्थानि कृष्णानि पापिनां सङ्गदोपतः भवन्ति शुक्लवर्णानि प्रयाग भावमन्जनात् । माघस्नानमन्त्रस्तु मकरस्थे रवौ माघे गोविन्दाच्युत ! माधव ! । स्नानेनानेन देवेश ! यथोक्तफलदो भव ।। इति । तथा-त्रीणि कुण्डानि राजेन्द्र ! तेषां मध्ये तु जाह्नवी । प्रयागस्य प्रवेशेन पापं नश्यति तत्क्षणात् ।। त्रीणीति एक प्रयागनगरे, द्वितीयं प्रतिष्ठाननगरे ( मैं सीति भाषया प्रसिद्धम् ) तृतीयं यमुनादक्षिणे (१)। प्रयागे वपनं कुर्याद् गयायां पिण्डपातनम् । दानं दद्याकुरुक्षेत्रे वाराणस्यां तनुं त्यजेत् ।। किं गयापिण्डदानेन काश्यां वा मरणेन किम् । किं कुरुक्षेत्रदानेन प्रयागे मुण्डनं यदि ।। इति ॥ केशानां यावती संख्या छिन्नानां जाह्नवीजले। तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। यावन्ति नखलोमानि वायुना प्रेरितानि वै। पतन्ति जाह्नवीतोये नराणां पुण्यकर्मणाम् ।। तावद्वर्षसहस्राणि ब्रह्मलोके महीयते । अत्र (२) स्त्रिया अपि समूलसर्वकेशमुण्डनमेव । न च- सर्वान्केशान् समुद्धत्य च्छेदयेदङ्गुलिद्वयम् । एवमेव हि नारीणां मुण्डमुण्डनमादिशेत् ।। इति प्रायश्चित्तप्रकरणे श्रुतस्य आकांक्षातौल्यात्तद्वयङ्गुलकेशकर्तनमेव प्रयोगेऽप्युचितमिति वाच्यम् ? केशमूलान्युपाश्रित्य सर्वपापानि देहिनाम् । तिष्ठन्ति तीर्थस्नानेन तस्मात्तां वापयेत्तु वै ।। इत्यादिना तीर्थे समूलकेशवपनस्यैव विशिष्य विहितत्वात् । एतच्च मुण्डनं स्नाननित्यकर्मादि कृत्वा सङ्कल्प्य कर्त्तव्यम् । (१) कूर्मपुराणे- उत्तरे यमुनातीरे प्रयागस्य च दक्षिणे । ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम् ।। १) साधवाया-इत्यर्थः । विधवानां केशच्छेदनमतीर्थेऽपि समये कर्तव्यमेवैति विधवा भद्रष्टव्यम् ।
१४८ कृत्यसारसमुच्चये- सङ्कल्पस्तु ओं अधेत्यादि छेदनीययावल्लोमसमसंख्यबहुवर्षसहस्राव- च्छिन्नस्वर्गलोकमहितत्वकामो नङ्गायां वपनमहं करिष्ये इति सङ्कल्प्य वपेत् । ततः श्राद्धाधिकारिणा तीर्थप्राप्तिनिमित्तकपार्वणं कार्यम् । तदसम्पत्तौ षट्पुरुषपिण्डदानमपि कर्तव्यम् । तदुत्तरदिने ऋणमोचनतीर्थे स्लायात् । ओं अद्येत्यादि सकलर्णविमुक्तिस्वर्गलोकावाप्त्यमृतत्वकामः ऋणमोचतीर्थे स्नानमहं करिष्ये। ओं अधेत्यादि सर्वपापविमुक्तिपूर्वकस्वर्गगमनकामोऽ- द्यादिमाघे त्र्यहं प्रातःस्नानमहं करिष्ये । प्रयागपश्चिमे कम्बलाश्वतरसमीपे यमुनोत्तरकूले यमुनास्नाने- ओं अद्येत्यादि सर्वपापविमुक्तिकामः कम्बलाश्वतरसमीपे यमुनायां स्ना- नमहङ्करिष्ये इति सङ्कल्पः । स्नानानन्तरं तर्पणं तत्रापि, अत्र जलपानेऽप्ये- तदेव फलम् । अत्रैव महादेवदर्शनम् । ततो दशाश्वमेधिकस्थलं गच्छेत् । ओं अद्येत्यादि अश्वमेधजन्यफल- समफलप्राप्त्याढयत्वरूपवत्वदक्षत्वदातृत्वधार्मिकत्वभवनकामो दशाश्वमेधिक- तीर्थस्नानमहङ्करिष्ये इति सङ्कल्पः । ततः स्नानतर्पणे कुर्यात् । प्रयागे हेमशृङ्गिसवत्सगोदाने गोब्राह्मणौ सम्पूज्य ओं अद्येत्यादि गङ्गायमुनासङ्गमे एतद्गोवत्सोभयरोमसमसंख्य- कवर्षसहस्रावच्छिन्नस्वर्गलोकमहितत्वनरकादर्शनोत्तराक्षयसकलहर्षबहुदारपु- भृत्यवर्गबहुविधघोरमहापातकसंक्रमपरित्राणकाम इमां स्वर्णशृङ्गी रौप्यखुरां चेलकएठी पयस्विनी कपिलां गां रुद्रदेवतामित्यादि । ततो दक्षिणा । तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो भवेद्विजः।। निमिचेषु संक्रान्त्यादिषु अप्रमत्तः प्रमादशून्यः । जिह्वा दुग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । परस्त्रीमिमनो दग्धं कथं सिद्धिवरानने !॥ अतो जिह्वाहस्तमनश्चक्षुषां शुद्धौ तीर्थफलमन्यथा नेति । अथ गयाविधिः (१) । तत्राविभक्तानां मध्ये ज्येष्ठस्य तदाज्ञया कनिष्ठस्या- पि श्राद्धेऽधिकारः । विभक्तानान्तु सर्वेषामेवाधिकारः। (१) गरुडपुराणे-तीर्थवाद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् । अब्दमध्ये न कुर्वीत मातागुरुविपत्तिषु ॥ तथा च भविष्ये-'गयाश्राद्धं पितृणान्तु पूर्णे त्वब्दे प्रशस्यते ।' किन्तु द्वादशाहे सपिण्डीकरणे कृतेवाभ्यन्तरेऽपि गयाश्राद्धकरणे न दोषः। पूर्व वर्षान्त बहुधा सपिण्डीकरणकरणादुपर्युक्तवचने तन्निषेधकथनं शेयम् । तत्र यद्यपि सदैव श्रादधं प्रशस्तमेव तथाऽपि विशेषफलजनकसमय उक्तो वायुपुराणे- मीने मेषे स्थिते सूर्ये कन्यायां कामुके घटे। नारद ! त्रिपु लोकेषु गयाश्रादधे सुदुर्लभम् ।।
१४९ गयाविधिः। तत्र नारदः-भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ इति । एवमेव पावणेऽपि । एकोद्दिष्टे तु सर्वेषामेव पृथगधिकारः। द्वैतपरिशिष्टे तु- एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां वै समदेतानां योकोऽपि गयां ब्रजेत् ॥ इति वचने समवेतानामविभक्तानामिति व्याख्याय गयाश्राद्धे अविभ- क्वानामपि पृथगधिकारमाहुस्ते भ्रान्ताः । 'भ्रातृणामविभक्तानाम्' इत्यादि नारदवाक्यबलाद्वाधसापेक्ष्यविध्यापत्तेः । किश्च समवेतानामित्यस्य तदर्थकत्वे मानाभावान्मिलितानामित्यत्यैव तदर्थकत्वाल्लिखितवचनादेव संसर्गानन्तरं न पृथगधिकारो द्रष्टव्य इति गयाश्राद्धे कालानियमः | तथा हि वायव्ये- गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ।। न त्यजेच्च गयाश्राद्धं सिंहस्थे च वृहस्पती॥ अत्रार्घावाहनवर्जितं श्राद्धम् । तथाहि-- पायसेन गयायां च सक्तुना पिएडकेन का। चरुणा तण्डुलाद्यैर्वा पिण्डदानं विधीयते ॥ श्राद्धासम्पत्तौ पिण्डमात्रमपि दद्यात् । पिण्डदानं ततः शस्तं पितृणाञ्चातिदुर्लभम् । विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत् ॥ इति स्मृतः । अत्र पतितानामसंस्कृतानामपि श्राद्धन् । तथा हि गारुडे-- ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमः । पापं तत्संगम सर्व गयाश्राद्धाद्विनश्यति ।। असंस्कृता मृता ये च पशुचौरहताश्च ये! सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्ग व्रजन्ति ते ॥ अत्र ब्रह्महत्येत्यादेर्यमुद्दिश्य नयाश्राद्धं क्रियते तस्य महापातकमपि नश्यति इति तात्पर्यम् । असंस्कृता इति ते हि गयाश्राद्धात्सुगतयो भवन्तीति तात्पर्यमिति तीचिन्तामणिः । सम्वत्सरानन्तरं पतितस्वर्गकामनया गया- श्राद्धम् । तथा हि ब्रह्मपुराणे- क्रियते पतितानान्तु गते सव्वत्सरे कचित् । देशधर्मप्रमाणत्वाद् गयाकूपेषु बन्धुभिः ।। पितृतीथं गया नाम सर्वतीर्थवरं स्मृतम् । तथा पिण्डदानन्याणि- पायसेनाथ चरुणा सक्तुना पिटकेन वा । तम्डुलैः फलमूलाधैर्गयायां पिण्डपातनम् ।। तिलकल्केन खण्डेन गुड़ेन सघृतेन च । केवलेनैव दध्ना वा अन्नेन मधुनाऽथ वा । पिण्याकं सवृतं खण्डं पितृभ्योऽक्षयमित्युत ।। फलमाह मात्स्ये- कृत्यसारसमुच्चये- यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।। यत्रैषा पितृभिगीता गाथा भागमभीप्सुभिः । 'एष्टव्या बहवः पुत्रा योकोऽपि गयां ब्रजेत् ॥ यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ।' गारुडे-ब्रह्मज्ञानं गयाश्राद्धं गोप्रहे मरणं तथा । वासः पुंसां कुरुक्षेत्रे मुक्तिरेपा चतुर्विधा ।। सकृद्गयाऽभिगमनं सकृत्पिण्डप्रपातनम् । दुर्लभं किम्पुनर्नित्यमस्मिन्नेव व्यवस्थितः । इति । अपुत्रं विशालराजानं प्रत्याह वाराहे- राजन(१)पितृ स्तर्पय पुत्रहेतोगत्वा गयायां विधिवञ्च पिण्डैः । ध्रुवं सुतस्ते भविता नृवीर ! सहस्रदाता सकलक्षितीशः ॥ अत्र महापातकिनोऽपि श्राद्धोद्देश्यस्य गयाश्राद्धेन सद्गतिर्भवति कर्तृ पुत्र- कामत्वे तस्य पुत्रोऽपि भवतीत्यर्थ इति तीर्थचिन्तामणिः । गारुडे- गयायां पिण्डदानेन यत्फलं लभते नरः। न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ इति ब्रह्मवाक्या। बृहस्पतिः-काक्षन्ति पितरः पुत्रान्नरकाद् भयभीरवः । गयां यास्यति यः पुत्रः सोऽस्मान्संतारयिष्यति ।। गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा । गयाशीर्षोऽक्षयवटे पितृदत्तमथाक्षयम् ।। ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च । दृष्ट्वैतानि पितृ श्चात्र वंशान् विंशतिमुद्धरेत् । वायव्ये--'महाकल्पकृतं पापं गयायां च विनश्यति । महाभारते पुलस्त्ययात्रायाम्- ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः । अश्वमेधमवाप्नोति गमनादेव भारत !॥ यत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः । यत्र दत्तं पितृभ्यस्तु भवत्यक्षयमित्युत ॥ तथा--शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नृप!। पुनात्यासप्तमं तत्र कुलान्यत्र न संशयः ॥ एष्टव्या बहवः पुत्रा योकोऽपि गयां ब्रजेत् । तत्तारयति सन्तप्तान दशपूर्वान् दशावरान् ।। अवरान् अधास्थान् पुरुषानिति शेषः । अत्र पितुः पृथगेव मात्रादिना- द्वम् । तथा हि वायव्ये- (१) मत्स्यपुराणे१५ अ०४० श्लो० पितन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम्। यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् ॥ देवकार्यादपि पुनः पितृकार्य विशिष्यते ॥
वाराणसीमाहात्म्यम् १५१ अष्टकासु च वृद्धौ च गयायां च क्षयाहनि । मातुः श्राद्धं पृथक् कुर्य्यादन्यत्र पतिना सह ॥ वृद्धौ आभ्युदयिके, क्षयाहनि वार्षिके । तथा चैतञ्चतुष्टये पृथगेव,एतद्भिन्ने सर्वकर्मणि पार्वणादौ न मातॄणां पृथक् श्राद्धकरणम् । पितृश्राद्धेनैव तच्छाद्ध- सिद्धेरिति भावः । स्मृतिः- ब्रह्मणा प्रथितो विष्णुः फल्गुको ह्यभवत्पुरा । दक्षिणाग्नौ हुतं नूनं तद्भवं फल्गुतीर्थकम् ।। तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि । तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ।। गङ्गा पादोदकं विष्णोः फल्गुर्यदि गदाधरः। इयं हि रुद्ररूपेण तस्माद् गङ्गाऽधिकं विदुः॥ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्यते ।। फल्गुतीर्थे विष्णुजले करोति स्नानमाहतः । पितृणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये ॥ तथा--फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । आत्मानं पितृभिः सार्धं यन्नयेद्वैष्णवं पदम्। अथ वाराणसी। ब्रह्मपुराणे--वरणा चाप्यसिश्चैव द्वे नद्यौ सुरवल्लभे । अन्तराले तयोः क्षेत्रं भूमावपि विशेन्न तत् ॥ पञ्चकोशप्रमाणन्तक्षेत्रं दत्तं मया तव ।। एतेन असीवरणयोर्मध्यं वाराणसीक्षेत्रमिति नियमः । असीबाह्यस्य वाराणसीक्षेत्रत्वाभावः सिद्धः। (१) द्वियोजनन्तु तत्क्षेत्र पूर्वपश्चिमतः स्थितम् । अर्द्धयोजनविस्तीर्ण दक्षिणोत्तरतः स्मृतम् ।। योजनं चतुःक्रोशम् । स्कान्दे- ब्रह्मनगोनगुरुतल्पगभिन्नवृत्तन्यासापहारिकुहकादिनिषिद्धवृत्तिः । संसारभूतदृढपाशविमुक्तदेहो वाराणसीञ्च समुपैति हि योऽपि लोकः ।। मात्स्ये-प्रयागादपि तीर्थाश्यादिदमेव महत्तरम् । अल्पायासेन चैवात्र मोक्षप्राप्तिः प्रजायते ॥ इदं वाराणसीक्षेत्रम् । लैङ्गे- ब्रह्महा योऽभिगच्छेत्तु अविमुक्त कदाचन । तस्य क्षेत्रस्य माहात्म्याद् ब्रह्महत्या निवर्तते ॥ अविमुक्तं वाराणसी। तथा हि मात्स्ये- (१) स्यायोजनं क्रोशचतुष्टयेन इति पाटीगणितोचत्वात् ।
१५२ - कृत्यसारसमुच्चये- विमुक्तन्न मया यत्मान्मोक्ष्यते न कदाचन । महत्क्षेत्रमिदं तस्मादत्रिसुक्तमिदं स्मृतम् ।। तथा--अज्ञानाज ज्ञानतो वाऽपि लिया वा पुरुपेण वा । यत्किंचिदशुभं कर्म कृतं मानुषवुद्धिना ।। अविमुक्तं प्रविष्टस्य तत्क्षणं भस्मसाद्भवेत् । अत्र वासफलमाह लेने- सदा जयति यज्ञेन सदा दानं प्रयच्छति । सदा तपस्वी भवति बविमुक्त स्थितो नरः॥ न सा गतिः कुरुक्षेत्रे गङ्गाद्वारे न पुष्करे । या गतिर्विहिता पुंसामविमुक्तनिवासिनाम् ॥ सर्वात्मता तपः सत्यं प्राणिनां नात्र संशयः । अविमुक्त वसेद्यस्तु मम तुल्यो भवेन्नरः ।। अविमुक्त स्थितो नित्यं पांशुभिर्भस्मनेरितैः । स्पृष्ट्वा दुष्कृतकर्माणो यास्यन्ति परमां गतिम् ।। स्वर्गापवर्गयोहेतुरेतत्तीर्थवरं भुवि । यस्त्वत्र पश्चतां याति मोक्षं याति न संशयः॥ जन्मान्तरसहस्रेग मुश्चन्योगी यदाप्नुयात् । तमिहैव परं मोक्षं मरणादधिगच्छति ।। पञ्चतां मरणम् , इहैव इह जन्मन्येव । अन्यच्च- प्राणांस्त्यजन्ति ते त्वत्र प्राणिनस्तत्त्वतस्तथा । रुद्रत्वं ते समासाद्य मोदन्ते भवता सह ।। अकामो वा सकामो वा अपि तिर्यग्गतोऽपि वा । अविमुक्के त्यजन् प्राणान् मम लोके महीयते । इतीश्वरोक्तिः । लैङ्गे--अविमुक्त स्थिता रुद्रा भक्तानां प्रतिदायकाः । कर्णजापं प्रयच्छन्ति तिमिचण्डेश्वरादयः ॥ कर्णजापस्तारकब्रह्मोपदेशः । अन मरणस्य यद्यपि परममुक्तिसायुज्य- सारूप्यसालोक्यानि फलत्वेन श्रूयन्ते । तथाऽपि शुचीनां परमात्मभक्तानां तदर्पितकर्मणां परममुक्तिस्तथा अपकृष्टानाम् अग्निप्रविष्टानां सायुज्यं, तिर्यक्- प्रभृतीनामत्यन्तपापीयसां च सारूप्यम् , ततोऽप्यधमानां पतितादीनां सालोक्यमिति द्रष्टव्यमिति तीर्थचिन्तामणिः । लैङ्गे- नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी । ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ।। तत्रैव-दशानामश्वमेधानां यज्ञानां यत्फलं स्मृतम् । तवाप्नोति धर्मात्मा स्नात्वा तत्र वरानने ! ।। तत्रैव स्वल्पमप्यत्र दद्यात् ब्राह्मणे वेदपारगे।
वाराणसीमाहात्म्यम् शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते ॥ दशसौवर्णिकं पुष्पं यो विमुक्त प्रयच्छति । अग्निहोत्रफलं धूपगन्धदाने शृणु प्रिये ! ॥ भूमिदानेन तुल्यं च गोप्रदानफलं स्मृतम् । दशसौवर्णिकेत्यादि एकपुष्पप्रदाने दशसुवर्णदानजन्यफलमित्यर्थः । तथा--किमर्थं बहुनोक्तेन यहानं क्रियते नरैः । धर्मकामार्थमुद्दिश्य तदनन्तफलं लभेत् ।। उपवासं तु यः कृत्वा विप्रान् सन्तर्पयेन्नरः। स सौत्रामणियज्ञस्य फलमाप्नोति निश्चितम् ।। ब्राह्म-तत्र दीपप्रदानेन ज्ञानवत्स्फुरतीन्द्रियम् । तत्रेति काश्यामित्यर्थः । तथा- एकाहमुपवासं ये करिष्यन्ति यशस्विनि !। फलं वर्षशतस्येह लभते तत्परायणः ।। वर्षशतस्योपोषितस्येत्यर्थः। अविमुक्त महादेवमर्चयन्ति स्मरन्ति ये । सर्वपापविमुक्तास्ते सन्तिष्ठन्त्यजरामराः॥ अविमुक्तं समासाद्य लिङ्गमर्चयते नरः । कल्पकोटिशतैश्चापि तस्य नास्ति पुनर्भवः॥ पुनर्भवः पुनर्जन्म | कापिलमुपक्रम्य ईश्वर आह-- तत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः। कपिला हृदतीर्थेऽस्मिन् स्नात्वा संयतमानसः॥ वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् । स्वर्लोकतां मृतश्चापि अर्चयित्वा तु मामिह ।। लभते देहभेदेन गणत्वञ्चापि दुर्लभम् । कापिलह्रदः काश्यामुत्तरे पञ्चक्रोशपथि, पञ्चक्रोशेऽनेके देवा अनन्तफल- दायिनो विस्तरभयान्नेह तेषां फलान्यभिहितानि, पञ्चक्रोशस्तु त्रिपञ्चसप्त- दिनेन वा यथाशक्ति कुर्यात् । गङ्गास्नाने विष्णुपुराणे- स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यावाप्तिस्तु सद्यो मैत्रेय ! जायते । भारते-स्नातानां शुचिभिस्तोयैर्गाजेयैः ! प्रयवात्मनाम् ।। व्युष्टिर्भवति या पुंसां न सा ऋतुशतैरपि ॥ व्युष्टिः पुण्योपचयः। अपहत्य तमस्तीब्र यथा भात्युदये रविः। तथाऽपहत्य पापानि भाति गङ्गाजलोचितः॥ अनेकजन्मसम्भतं पुंसां पापं प्रणश्यति । २० कृ० सा० - , . कृत्यसारसमुचये- स्नानमात्रण गङ्गायाः स्यः स्यात्पुण्यभाजनम् ॥ महापातकसंयुक्तो युक्तो वा सर्वपातकः । गङ्गास्नानेन विधिन मुच्यते सर्वपातकः ।। महापातकं जन्मान्तरीयम् । न त्वैहिका, अन्यथा अनधिकारापत्तिः । आग्नेये-यो गृहे वर्तमानोऽपि त्वां स्नाने कीर्तयिष्यति । स यास्यति दिवं नित्यमित्याह वरुणस्त्विह(१) । अप पुरुषोत्तमक्षेत्रम् । तत्रास्ते भारते वर्षे दक्षिणोदधिसंस्थितः औड्रदेश इति ख्यातः स्वर्गमोक्षदायकः ॥ समुद्रस्योत्तरे तीरे तस्मिन् शे द्विजोत्तमाः । आस्ते गुयं परं क्षेत्रं मुक्तिदं पापनाशनम् ॥ सर्वत्र बालुकाकीर्णं पवित्रं सर्वकामदम् । दशयोजनविस्तीर्ण क्षेत्रं परमदुर्लभम् ॥ वर्णानां ब्राह्मणो यद्वैनतेयस्तु पक्षिणाम् । तथा समस्ततीर्थानां वरिष्टं पुरुषोत्तमम् । सत्यं सत्यं पुनः सत्यं क्षेत्रं तत्परमं महत् ।। पुरुषाख्यं सकृद् दृष्ट्वा सागरामः सकृन्मतम्। ब्रह्मविद्यां सकृज ज्ञात्वा गर्भवासो न विद्यते॥ पुरुषाख्यं पुरुषोत्तमं जगन्नाथमिति यावत् । धन्यास्ते विबुधप्रख्या ये वसन्त्युत्कले वराः। तीर्थराजजले स्नात्वा पश्यन्ति पुरुषोत्तमम् ॥ स्वर्गे वसन्ति ते मां न तु ते राजसालये ॥ तीर्थराजः समुद्रः, राजसालये मनुष्यलोके । तथा- दक्षिणस्योदघेस्तीरे न्यग्रोधो यत्र तिष्टति । यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ॥ विमाशनवमस्येति स्वयं तत्रवमास्थितः । (१) सनरकुमारसंहितायाम्- रथ्यान्तरे मूत्रपुरीषमध्ये चाण्डालवेश्मन्यथवा इमशाने। कृतप्रयत्नोऽप्यकृतप्रयत्नो देहावसाने लभतेऽत्र मोक्षम् ।। तीर्यान्तरे अन्तरिक्षादिमरणदोषोऽस्ति सोऽप्यत्र नात्रि । तदुक्तं पाने भूमौ जलेऽन्तरिक्ष वा यत्र क्वापि मृतो द्विजः। ब्रोकत्वमवाप्नोति काशीशक्तिरुपाहिता नाप्यत्र दुर्मणदोषोऽस्ति, तदुक्तं पद्मपुराणे- सूच्यामात्रमपि नास्ति ममास्पदेऽस्मिन् स्थाने सुरैश्च विमृतस्य न यत्र मुक्तिः॥ भूमौ बले वियति वा भुवि भध्यतो वा। साग्निदस्युपविमिनिहतस्य जन्तोः ।। इति शिववाक्यम् ।
- पुरुषोत्तमक्षेत्रमाहात्म्यम्। दृष्टमात्रे वटे तस्मिन् छायामाक्रम्य वा सकृत् ।। ब्रह्महत्या प्रमुच्येत पापेष्वन्नेषु का कथा । प्रदक्षिणं कृतं यैस्तु नमस्कारन्तु जन्तुभिः ।। सर्वे विधूतपापास्ते गताः स्युः केशवालयम् । न्यग्रोधो वटः(१) भगवद्वचः- इन्द्रद्यम्नसरो नाम तीर्थ यज्ञाङ्गसम्भवम् । यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्यते । दापयिष्यति यः पिण्डांस्तटे तस्मिन् सरः शुभे॥ कुलैकविंशमुद्धृत्य शकलोकं गमिष्यति । इति । तीर्थचिन्तामणौ- माकण्डेयहृदं गत्वा स्नात्वा चोदङ्मुखः शुचिः । निमज्जयेत् त्रीस्तु वारान् इमं मन्त्रमुदीरयेत् ॥ संसारसागरे मग्नं पापग्रस्तमचेतसम् । त्राहि मां भगनेत्रघ्न ! त्रिपुरारे ! नमोऽस्तु ते॥ नमः शिशय शान्ताय सर्वपापहराय च । स्नानं करोमि देवेश! मम नश्यतु पातकम् ॥ नाभिमात्रे जले स्थित्वा विधिवद्देवताऋषीन् । तिलोदकेन मतिमान् पितॄनन्यांञ्च तर्पयेत् ।। मार्कण्डेयहदे चैव स्नात्वा दृष्ट्वा च शङ्करम् । दशानामश्वमेधानां फलं प्राप्नोति मानवः। दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् । सङ्कर्षणं सुभद्रां च स याति परमां गतिम् ।। मार्कण्डेयवटं कृष्णं रौहिणेयं महोदधिम् । इन्द्रद्युम्नसरश्चैव पञ्चतीर्थविधिः स्मृतः ।। यत्फलं सर्वदेवेषु सर्वयज्ञेषु यत्फलम् । तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च । किश्चात्र बहुनोक्तेन महात्म्यं तस्य भो द्विजाः ?। दृष्ट्वा कृष्णं नरो भक्तया मोक्ष प्राप्नेति दुर्लभम् । पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ।। श्रिया परमया युक्तः सर्वैः समुदितो गुणैः । सर्वकामसमृद्धेन विमानेन सुवर्चसा ॥ त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् । ततः कल्पशतं यावद् भुक्तभोगान्मनोरमान् ।। गन्धर्वाप्सरसैः साद्ध यथा विष्णुश्चतुर्भुजः। (१) 'न्यग्रोधो बहुपावरः' इत्यमरः।
१५६ कृत्यसारसमुच्ये- तत्रैव-श्वेतगङ्गा नरः स्नात्वा यः पश्येच्छदेतमाधवम् ।। मत्स्याख्यं माधवं चैत्र खेतद्वीपं स गच्छति । श्वेतोनाम राजा । तथा- देवानृपीन्मनुष्यांश्च पितृन सन्तर्प्य यत्नतः ! तिलोदकेन विधिना नामगोत्रविधानवित् ।। स्नात्वैवं विधिवतत्र सोऽश्वमेधफलं लभेत् । श्रथ गङ्गामाहात्म्यम् । तत्र भारते-(१)ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः । येषां भागीरथीगङ्गा मध्ये याति सरिद्वरा ।। पूर्वे वयसि कर्माणि छत्वा पापानि ये नराः । शेपे गङ्गां निपेक्न्ते तेऽपि यान्त्युत्तमां गतिम् ।। तिष्ठेयुगसहस्रन्तु पादेनैकेन यः पुमान् । मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ गजायामिति तिष्ठेदिति शेषः । भविष्ये- कृते तु सर्वतीर्थानि त्रेतायां पुष्करं वरम् । द्वापरे यज्ञमेवाहुर्दानमेकं कालौयुगे ।। वरमिति सर्वत्र सम्बध्यते । ब्रह्मपुराणे- कलौ तु सर्वतीर्थानि स्वं स्वं वीय स्वभावतः । गङ्गायां प्रतिमुश्चन्ति सा तु देवी न कुत्रचित् ॥ सा देवी गङ्गेत्यर्थः । स्कान्दे- योऽसौ सर्वगतो विष्णुश्चित्स्वरूपो जनार्दनः । स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः ॥ (१) तिथितत्त्वे- गङ्गां प्राप्य सरिच्छ्रेष्ठां कम्पन्ते पापलञ्चराः । केशानाश्रित्य तिष्ठन्ति तस्मात्तास्तत्र वापयेत् ॥ गहां प्राप्य सरिच्छेष्ठां मुण्डनं यो न कारयेत् । क्रिया तस्याक्रिया सर्वा तीर्थद्रोही भवेन्नरः॥ भविष्ये-गच्छस्तिष्ठन् स्वपन् ध्यायन् जाग्रद् भुञ्जन् वसन् वदन् । यः स्मरेत् सततं गङ्गां स च मुच्येत बन्धनात् ।। तत्र त्रयोदशक्रियावर्जनं ब्रह्माण्डपुराण- गङ्गां पुण्यजलां प्राप्य त्रयोदश विवर्जयेत् । शौचमाचमनं सेकं निर्माल्यं मलघर्षणम् ॥ गात्रसंवाहनं क्रीडां प्रतिग्रहमथो रतिम् । अन्यतीर्थरतिं चैव अन्यतीर्थप्रशंसनम् ॥ वत्रत्यागमथाघातं सन्तारं च विशेषतः ॥ मय गर्भतीरयोर्लक्षणम्- भाद्रकृष्णचतुर्दश्यां यावदाक्रमते जलम् । तावद्गर्भ विजानीयात्तदू तीरमुच्यते । साधहस्तशतं यावद्गर्भतस्तीरमुच्यते ॥
गङ्गामाहात्म्यम्। गङ्गाम्भो जलम् । वयं पर्युपितं तोयं वयं पर्युषितं दलम् । अवयं जाह्नवीतोयमवयं तुलसीदलम् ।। पूर्वदिनोद्धृतमुत्तरदिने पर्युपितं तोयं जलम् , दलं पत्रम् , अवय॑म- त्याज्यम् । तथा च गङ्गाजले पर्युयितत्वदोपो नास्तीति भावः ! मात्स्ये- तीर्थयात्राविधिं कृत्स्नमकुर्वाणोऽपि यो नरः। गङ्गातोयत्य माहाल्ल्यात्तोऽप्यन्त्र फलमाप्नुयात् ।। भविष्ये सर्वयज्ञतपोदानयोगस्वाध्यायकमभिः । यत्फलं लभते भक्या गङ्गातीर निवासतः ।। समातृपितृवारागां कुलकोटिमनन्तकम् । गङ्गाभक्तिस्तारयति संसारार्णवतो ध्रुवम् ।। भविष्ये-कन्यादानस्तथाऽन्यत्र भूमिदानैश्च भक्तिनः . अन्नदानश्च गोदानावणदानादिभिन्तथा।। वराश्वगजदानश्च यत्पुण्यं परिकीर्तितम् । ततः शतगुणं पुण्यं गङ्गागण्डूपतो भवेत् चान्द्राय सहस्त्रागां यत्फलं परिकीर्तितम् ! ततोऽधिकफलं गङ्गातोयपानाइयाप्यते ।। स्कान्दे-गण्डूपमात्रपानेन अश्यनेधफलं लभेत् । स्वच्छन्न चः विदन्नलत्य मुक्ति कर स्थिता ! त्रिभिस्सारस्वतं तोयं सतभिस्त्वथ यामुनम् । नार्मदं दशभिर्मासगङ्गा वर्षेण जीति ।। त्रिभिरित्यादिस्तृतीयान्तत्रयं मासैीर्यतीत्यनेनान्वेति । महाभारते- वाङ्मनःकर्मजैस्तः पापैरपि पुनानिह । वीक्ष्य गमां भवेत्पृतस्तत्र मे नास्ति संशयः ।। सप्तावरान् सप्तपरान् पितृ श्वापि यमालयात् । पुमाँस्तारयते गङ्गा सम्यग्हवाऽवगाह्य च ।। दर्शनात्पर्शनात्पानात्तथा गङ्गति कीर्तनात् । पुण्यात्पुनाति पुरुषान् शतशोऽथ सहस्रशः ॥ भविष्ये-सहस्रयोजनस्थाश्च गङ्गां भक्तया स्मरन्ति ये। गङ्गां गङ्गेति च त्रूयुमुच्यन्तेऽपि च पातकात् ।। ये स्मरन्ति च वै गङ्गा गङ्गाभक्तिपराश्च ये। तेप्यशेषश्च पापश्च मुच्यन्ते नात्र संशयः ।। ब्रह्माण्डे-एकेन स्नानमात्रेण विधिना भक्तिमानरः । अश्वमेधफलं सद्यो गङ्गायां प्राप्नुयाध्रुवम् ॥
१५८ त्यसारसमुच्चये- तथा--अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति । गङ्गास्थानकृतं पापं गङ्गास्नाने न नश्यति ॥ अत्र स्नाने इत्यनन्तरं नाञ् पदं, न तु स्नानेनेति तृतीयान्तम् । भविष्ये- संक्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः । गङ्गास्नातो नरः कामात् ब्रह्मस्सदनं ब्रजेत् ।। ब्रह्माण्डे-- चन्द्रसूर्यग्रहे चैव योऽवगाहेत जाह्नवीम् । स स्नातः सर्वतीर्थेषु किमर्थमटते महीम् ।। गवाङ्कोटिसहस्रस्य सम्यग्दत्तत्य यत्फलम् । तत्फलं जाह्नवीस्नाने राहुप्रस्ते निशाकरे ॥ मात्स्ये-- कुरुक्षेत्रसमा गङ्गा यत्र कुत्रावगाहिता। कुरुक्षेत्रादशगुणा यत्र विन्ध्येन सङ्गता ।। विन्ध्याच्छतगुणा प्रोक्ता काशीपुर्यान्तु जाह्नवो। विव्यसंगता तु विन्ध्यवासिनीसमीपे। कर्णतीर्थे । तथा- न विन्ध्याच्छतगुणा प्रोक्ता यत्र पश्चिमवाहिनी । तस्मात्सहस्रगुणिता यत्र चोत्तरवाहिनी ।। पश्चिमोत्तरवाहिनी तु प्रयागे वटेशादौ च । भविष्ये- गंगाद्वारे कुशावर्ते स्नाने पुण्यफलं शृणु । सप्तानां राजसूयानां फलं स्यादश्वमेधजम् ।। गङ्गायां सन्ध्यातर्पणयोः फलमाह-गङ्गायां शतसाहस्रीति गङ्गायामिति सन्ध्यादिकरणे इति शेषः, शतसाहस्रीति, तथा चान्यत्र सन्ध्यादिकरणफलं लक्षगुणफलं गङ्गायामित्यर्थः। विष्णुपुराणे- दत्ताः पितृभ्यो यत्रापस्तनयः श्रद्धयाऽन्वितैः। अक्षयन्तु प्रयच्छन्ति वृप्ति मैत्रेय ! दुर्लभाम् ।। यावन्तश्च तिला मत्यगृहीताः पितृकर्मणि। तावद्वर्पसहस्राणि पितरः स्वर्गवासिनः ॥ पितरः पितृलोकवासिनः इति तीर्थचिन्तामणिः । भविष्ये-गङ्गातर्पणसुप्रीताः श्राद्ध पिण्डसुतर्पिताः। आरुह्य सहसा यान्ति ब्रह्मलोकं सनातनम् ।।
१५९ - नानातीर्थमाहात्म्यम् । श्राद्धादिकं जलोपकएठे कर्त्तव्यम् । गङ्गान्तर्जले मरणे फलमाह, आग्नेये विष्णुवाक्यम्- ये मुञ्चन्ति नराः प्रणान तिष्ठन्तः सन्निधौ तत्र । ते मे लोकं गमिष्यन्ति पूज्यना दिवौकसाः ॥ तथा- अोदके तु जाह्नव्या नियतेऽनशनेन यः । स न चैति पुनर्जन्म ब्रह्मसायुज्यमेति च ।। अर्बोदकं चरणान्नामिपर्यन्तमुदकम् । ब्रह्माण्डे- या गतियोंगयुक्तस्य सत्त्वस्य सुमनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायान्तु शरीरिणः । अनशनं गृहीत्वा यो गङ्गातीरे नरः। सद्य एवं परं मोक्षं प्राप्नोति पितृभिः सह ।। अत्र दूरे समीपे च सहशं योजनद्वयम् । गङ्गायां मरणेनेह नानं कार्या विचारणा ।। ज्ञानतोऽज्ञानतो वाऽपि कामतोऽकामतोऽपि वा। गङ्गायान्तु मृतो मर्त्यः स्वर्ग नोक्षं च विन्दति ।। महाभारते- तोर्थं च शौकरनाम महापुण्यं मुने ! शृणु । यस्मिन्नाविरभूत्पूर्व वराहाकृतिरच्युतः ।। शतमग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च । अग्निष्टोमसहस्रस्य फलमत्रानुयान्नरः।। अत्र निवासदिनदर्शनादिलघुगुरुत्वादिभेदेन फलभेदः । तथा- तत्रैव ब्रह्मणस्तीथ ज्योतिष्टोमायुतस्य च अश्वमेधत्रयस्यापि स्नातस्तत्र फलं लभेत् ।। तथा- गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते । तीर्थे कनखले स्नात्वा धूतपापो दिवं ब्रजेत् ॥ काशीमभिधाय तत्रैव- पवित्राख्यं ततस्तीर्थ सर्वतीर्थात्पवित्रकम् । द्वयोर्विश्वजितस्तत्र स्नानात्पुण्यं लभेन्नरः ।। वेणीवाह्यन्ततस्तीर्थ सरयू यत्र संगता। सुपुण्या च महापुण्या स्वसा स्वद्रव संगता॥
१६० कृत्यस्तारसमुखये- हरेर्दक्षिणपादाब्जक्षालन्त्वपाप ह । वामपादोदकं विद्धि सरयूं मान लोद्भवाम् ।। तीर्थे तबार्चयन् उद्रं विष्णुर्विष्णुत्वमाप्नुयात् । पंचाश्वमेधफलदं स्नानन्तलिनघापहम् ।। वेणीबाह्यं दर्दीति प्रसिद्धम् । तत्रैव गाण्डकतीर्थ गण्डकी यत्र सकता। गोसहस्रस्य दानं च तत्र स्नानेन सम्मतम् ॥ रामतीर्थ ततः पुण्यं वैकुण्ठो यत्र सन्निधौ । सोमतीर्थ ततः पुण्यं यत्राऽसौ मुगलो मुनिः।। चंपकाख्यं ततस्तीर्थ यत्र गङ्गोत्तरायणी ।। तथा- गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे। स्नात्वैव ब्रह्मणो विष्णोः शिवस्य च पुरं ब्रजेत् ॥ महाभारते- गङ्गायास्त्वथ राजेन्द्र ! सागरस्य च सङ्गमे । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ।। अश्वमेघ दशगुणं फलमिति शेष ॥ इति 'मिथिला' देशावयव 'भागलपुर' मण्डलान्तर्गत 'चयनपुर' ग्रामनिवासिपगुलवाडमूलोत्पन्नसच्छाब्दिकश्रीमानिकशर्मात्मज- सत्तार्किकमहामहोपाध्याय श्रीमदमृतनाथशर्मकृत- सारसमुच्चयाणवे कृत्यसारसमुच्चयः समाप्तः ॥ ॥ इति शम्॥
श्रीगणेशाय नमः। परिशिष्टम् । श्यामामुदारहृदयां सदयां प्रणम्य लम्बोदरं गुरुपदद्वयमादरेण । संगृह्य भरिविषयानिह कृत्यसारे संयोज्यतेऽलसमुद्दे परिशिष्टरूपम् ॥ (१) वैशाखस्य मलमासत्वे रविव्रतं तत्रैव कत्तव्यं न तु शुद्धमासे, (पृ० ५ टिप्प- ण्याम् ।) तथोक्तं सूर्यजाहस्करे- सूर्यव्रतं तु वैशाखे मलमासो यदा भवेत् । तदा तत्रैव कर्त्तव्यं वृषादित्ये न कारयेत् ॥ साम्बपुराणेऽपि- अलिमेषगते भानौ भगवत्यकासरे । शुक्लपक्षे सविधिवद् व्रतं साम्ब ! समाचरेत् ॥ धनुर्वृषगते भानौ यः कुर्यात् सवितुव्रतम् । सप्तजन्मनि कुष्ठी स्यादरिद्रश्चोपजायते ॥ मेषराशिः सूर्यस्योच्चभं, तत्र ग्रहस्यातिप्रसन्नचिचत्वादविव्रतमतिप्रशस्तम् । वृश्चि- कस्य मित्रगृहत्वाचत्र स्थितस्यापि सूर्यस्य मुदितत्वात्सौरमार्गशीर्षेऽपि प्रशस्तमेवो- तम् । वृषराश्यधिपस्य शुक्रस्य सूर्यशत्रुभाच्छत्रुगृहे ग्रहस्व खिन्नत्वात् , खिन्नदशायां विशेषफलदातृत्वाभावाद् 'वृषादित्ये न कारयेत्' इत्युक्तम् । पौषचैत्रयोः स्वरूपेणैव शुभकर्मसु निन्दितत्वाद्धनुष्वपि निषेधः। सिंहराशेः सूर्यक्षेत्रत्वात्तत्रापि विशेषफलप्रदं रविव्रतमिति । (२) आषाढकृत्येऽम्बुवाचीलक्षणमुक्त (पृ० ९, टि. ) राजमार्चण्डे- मृगशिरसि निवृत्ते रौद्रपादोऽम्बुवाची यदि भवति च पृथ्वी वर्जयेत् त्रीण्यहानि । यदि वपति कृषीकः क्षेत्रमासानु बीजं न भवति फलभागी दर्शिते कामयोगे ॥ रंवौ रौद्राद्यपादस्थे भूमेः सञ्जायते रजः। तस्माद्दिनत्रयं यावद्वीजाधानं न कारयेत् ॥ इति । (३) आषाढशुक्लद्वितीयायां श्रीजगन्नाथरथयात्रोत्सवो भवति । तत्र यद्युभव- दिने द्वितीया तदा यस्मिन् दिने पुष्यनक्षत्रयोगस्तद्दिने, तथोक्तं निर्णयसिन्धौ- आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं वै भद्रया सह ॥ उभयदिने नक्षत्रयोगस्य भावेऽभावे वा उदयव्यापिन्याम् उदये द्वितीया यदि मुहू- चोल्पा तदा तहिने कानईत्वात्पूर्वदिने एव रथयात्रोत्सवः कर्तव्य इति । (४) श्रावणपूर्णिमायां (पृ० ११ मूले ) ग्रहणसंक्रान्ती समुपस्थिते उपा- कर्म श्रावखशुक्लपञ्चम्यामेव कर्त्तव्यम् । तथा चोक्तं राजमार्तण्डे- यदि स्याच्छ्रवणं पर्व ग्रहसंक्रान्तिदूषितम् । स्वादुपाकरणं शुक्लपञ्चम्यां भावणस्य च ॥ तथा च स्मृतिमहार्णवे- संक्रान्तिग्रहणं वाऽपि पौर्णमास्यां यदा भवेत् । उपाकृतिस्त पञ्चम्यां कार्या वाजसनेयिभिः ।। अत्र वाजसनेयिमिरित्यनेन सामवेदिभिः श्रावणशुक्लपञ्चम्बामुपाकर्म न कर्त- २१ कृ० सा०
१६२
कुत्यसारसमुच्चयपरिशष्टे-
व्यम् , किन्तु भाद्रकृष्णतृतीयायामेव । 'भाद्रकृष्णतृतीयायां कर्तव्यं सामवेदिभिः'
इति वचनात् । यजुर्वेदिविषये वचनान्तरमपि तत्रैव दृश्यते-
संक्रान्तिर्ग्रहणं वाऽपि यदि पर्वणि जायते ।
तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते || इति ।
(५) अगत्यर्घदाने (१७ पृ० मूले ) विशेषविधिरुको राजमार्तण्डे-
काशपुष्पमयीं रम्यां कृत्वा मूर्ति तु वारणे । प्रदोषे विन्यसेत्तां तु पूर्णकुम्भेऽप्यलकृते॥
कुम्भस्थं पूजयेत् तु पुष्पधूपविलेपनैः । दध्यक्षतर्बलिं दद्याद्रात्रौ कुर्यात्प्रजागरम् ॥
प्रभाते तां समादाय यायात्पुण्यं जलाशयम् । निशान्ते तां तु विन्यस्य जलांशे प्रतिमा मुनेः।।
अर्धे दद्यादगल्याय भक्त्या सम्यगुपोषितः । पुष्पैर्मूलैः फलैर्मध्यः शारदैश्च सुगन्धिभिः॥
द्राक्षाखजूरकर्कन्धूनारिकेलादिभिः शुभैः । पञ्चरत्नसमायुक्त हेमरूप्यसमन्वितम् ।।
सप्तधान्यसमायुक्तं दधिचन्दनमिश्रितम् । अर्धपात्रं समादाय अर्धे दद्युर्द्विजातयः ॥ इति
(६)अथ चान्द्रायशव्रतविधानम् । (पृ० २२ मूले पं० ११)
त्रैलोक्यकल्याएकरी दया काली प्रणम्यापि गुरोः पदाब्जम् ।
निरीक्ष्य नानास्मृतिमादरेण चा द्रायणस्यात्र विलिख्यते विधिः ॥
तत्र चन्द्रस्य कलाक्रमोपचयापचयवद् ग्रासस्य क्रमवृद्धिहासाभ्यामयनं चरणं
यस्मिन् तच्चान्द्रायणं व्रतम् । तद्भेदप्रतिपादकानि प्रायश्चित्तमयूखधृतयमव-
चनानि
वर्द्धयेपिण्डमेकैकं शुक्ले, कृष्णे च ह्रासयेत् । एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम्।।
एकक हासयेत्कृष्णे पिण्ड, शुक्ले च वर्द्धयेत् । एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम्।।
त्रींनीन् पिण्डान् समश्नीयानियतात्मा दृढव्रतः ।
हविष्यानस्य वैमासमृषिचान्द्रायणं स्मृतम् ॥
चतुरः प्रातरश्नीयाचतुरः सायमेव च । पिण्डानेतद्धि वालानां शिशुचान्द्रायणं स्मृतम् ॥
पिण्डानधौ समभीयान्मासं मध्यन्दिने रवौ। यतिचान्द्रायणं ह्येतत्सर्वकल्मषनाशनम् ॥
यथा कथञ्चित्पिण्डानां तिस्रोऽशीतीः समाहितः।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥
एभिवचनस्तस्य षड्विधत्वम् , यवमध्य-पिपीलिकामध्य-ऋषिचान्द्रायण-शिशु-
चान्द्रायण-यतिचान्द्रायण-सामान्यचान्द्रायणभेदात् ।
तथा तद्भेदा उक्ता मनुना-
एक हासयेत्पिण्डं कृष्णे शुक्ले च वर्द्धयेत् । उपस्पृत्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्राययं व्रतम् ॥ २॥
अष्टावधै समश्नीयात् पिण्डान् मध्यन्दिने गते ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरेत् ॥३॥
चतुरः प्रातरश्नीयापिण्डान् मध्यन्दिने गते ।
चतरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ४॥
चान्द्रायणव्रतविधानम् । १६३ यथा कथञ्चित्पिण्डानां तिस्रोशीतीः समाहितः। मासेनाश्नन् हविष्यत्व चन्द्रस्यैति सलोकताम् ॥ ५॥ अत्रादितश्चतुर्मिः श्लोकः क्रमेण पिपीलिकामध्य-यवमध्य-यतिचान्द्रा- यणशिशुचान्द्रायणेति चत्वारो भेदाः स्पष्टतयोपर्युक्तयनस्मृतिप्रतिपादिता इव सन्ति वरन्त्वन्तिम ( पञ्चम ) श्लोकस्य 'यया कथञ्चिपिण्डाना'-मित्यादियोगियाज्ञवल्क्य- वचनस्यानुसारेण सामान्यचान्द्रायणमित्यर्थः स्यात्तदा मनुमतेन पञ्चमेदाः सिद्धाः । एतद्भाष्यका कुल्लूकभट्टेनापि पञ्चमश्लोकस्यावतरणिकायां 'चान्द्रायणान्तरमाहे'-ति लिखितम् । परन्तु प्रायश्चित्तविवेककृता पञ्चमश्लोकविषयश्चत्वारिंशदधिकशतद्वय- मिति सकलग्रासयोगरूपः सर्वेषु पिपीलिकायवमध्यकल्पादिषु संयोजितः। तेन च यवकल्पे शुक्लप्रतिपदादितो व्रतारम्भे ग्राससंख्या पञ्चविंशत्यधिकशतद्वयमितामेवा- गम्यते शङ्खलिखितवचनबलाद् व्रतारम्भपूर्वामावास्यायां पञ्चदशग्रासभोजननियमा- देशात्तत्रापि चत्वारिंशदधकदिशती ग्राससंख्या सामान्यशिशुचान्द्रायणवत् साषिता । परन्त्वत्र द्वितीयश्लोकेन प्रतिपादिते यवमध्यलक्षणे 'शुक्लपक्षादिनियतः' इति दर्शना- प्रायश्चित्तविवेकस्य युक्तिरन्यस्मृतिभिन्नैव, यथोक्तं मिताक्षरायाम् 'श्रतस्तयोावं ग्राससंख्यानियमः। किन्तु पञ्चविंशत्यधिकशतद्वयसंख्येवेति-दर्शनात् सामान्यचान्द्रा- वणवत्तयोाससंख्यानियमो नास्तीति सूच्यते। तिथिक्षयवृद्धिसम्भवे तत्तचिथिक्रम- प्रोक्तपाससंख्यालोपवृद्धिविधानाच न सकलग्रासंयागो नियत इति । तथा जाबालेन तस्य पञ्चविधत्वमुक्तं यथा- पिपीलिक यवमध्यञ्च यतिचान्द्रायणं तथा । चान्द्रायणं तथा शेयं चतुर्थ सर्वतोमुखम् ॥ पञ्चमं शिशुसंज्ञञ्च तुल्यपुण्यफलोदयम् । अत्र सर्वतोमुखं पूर्वोकसामान्यचान्द्रायणसमानम् । ऋषिचान्द्रायणं नात्र विद्यते तथा योगियाज्ञवल्क्येन तद्भेदा उक्ताः- 'तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् || १ ॥ यथा कथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायएमथापरम् ॥ २ ॥ अत्र प्रथमश्लोकेन शुक्लकम्णयोः पक्षयोासोपचयापचयक्शोक्त्योः क्रमिक योगेन यवमध्यं, तदुत्क्रमवशात् पिपीलिकामध्यलक्षणमप्यर्थसिद्धम् । द्वितीयश्लोकेन सामान्यचान्द्रायणशक्षणमुक्तम् । शिशुयतिचान्द्रावणयोरपि ग्राससंख्यानां चत्वारिं- शदधिकशतद्ववपरिमितत्वात्सामान्यचान्द्रायणलक्षणान्तर्गतमेव योगिना गणितम् । ऋषिचान्द्रायणमत्रापि नास्ति । तथा वशिष्ठोकास्तभेदाः- एकैकंवद्धयेत्पिण्डं शुक्ले कृष्णे च हासयेत् । इन्दुक्षये न भुजीत एष चान्द्राययो विधिः मासस्य कृष्णपक्षादौ ग्रासानद्याचतुहश । ग्रासोपचयभोजी सन् पक्षशेष समापयेत् ॥ तथैव शुक्लपक्षादौ ग्रास भुञ्जीत चापरम् । प्रासोपचरभोजी सन् पक्षशेष समापयेत् ॥ - -- १६४ कृत्यसारसमुचयपरिशिष्टे- अनेन यवमध्यपिपीलिकामध्यभेदायुक्तौ । एवं गौतमेन तभेदा उक्ताः- 'पौर्णमास्यं पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्नीयात् । अमावास्यायामुपोष्य एकैको रचयेन पूर्वपदं विपरीतमेकेषाम् ।' अनेन पिपीलिकामध्यरल्पो मुख्यत्वेन, यवमध्यकल्पोऽपि तद्वैपरीत्येन, अत्र पूर्णिमायां व्रतारम्भोऽन्यत्मृतिभ्यो विलक्षणविषयः। अनेनैकत्रिंशदिनसाध्योऽयमेत- न्मते भवति । परन्तु सन्ततं पौनःपुन्येन यः कश्चिदेतत् कतुमिच्छेत्तस्य पूर्वापरकृष्णा- दिमासवतयोर्मध्ये पूर्णिमायाः पतनादुमयमासेऽपि तद्ग्रहणानाय युक्तियुक्तो नियमः। तर्हि कथमेवमुक्त गौतमेनेत्युच्यते यः सकृतद्वतं कत्तु मिच्छेत्तेन तु पूर्णिमायामेव तदारम्भो विधेयः । यः सन्ततं पुनः पुनः कत्तु 'मिछेरोनापि प्रथममासवतारम्भः पूर्णि- मायां कर्तव्यस्तदनन्तरं कृष्णप्रतिपदादितो द्वितीयादिपिपीलिकाकल्पस्य चान्द्रायण- स्यारम्भो विज्ञेय इति न कश्चिद्विरोधः। पिपीलिकाया मुखापेक्षया पश्चाद्भागस्य किञ्चिल्लघुत्वकर्शनाकृष्णप्रतिपद्यारम्भस्तदुचरपूर्णिमायां तत्पूर्तिरुचिता । तथास्वेऽन्ति- मपूर्णिमातिथिप्राप्तपञ्चदशग्रासापेक्षया तत्पूर्व कृष्णपक्षीयप्रतिपचिःिप्राप्तचतुर्दशग्रास- संख्यायाः किञ्चिन्यूनता सिद्धयति । एवं लिखितस्मृतौ- ग्रास चन्द्रकलावृद्ध्या प्राश्नीयाद्वर्द्धयन् सदा। ह्रासयेच्च कलाहानी व्रतं चान्द्रायणं स्मृतम् ॥ शुक्लपक्षे सदा चन्द्रकलावृद्ध्या प्रासं वर्धयन् प्राश्नीयात् । कलाहानौ कृष्णपक्ष प्रासं ह्रासयेदित्यनेन यवमध्यकल्पः। पिपीलिकामध्यकल्पोऽप्युत्क्रमत उक्तो भवति । एवं पराशरस्मृतौ- एकैकं ह्रासयेद् प्रासं कृष्णे शुक्ले च वर्द्धयेत् । अमावास्यां न भुञ्जीत ह्यो चान्द्रायणो विविः॥ अनेन पिपीलिकामध्यकल्प उकः । एतदुत्क्रमेण यवमध्यकल्पोऽपि । एवमत्रिणाऽपि उक्तम- एकैकं वद्धयेन्नित्यं शुक्ले कृष्णे च हासयेत् । श्रमावास्यां न भुञ्जीत एष चादाययो विधिः ।। शुक्ले यवकल्पपूर्वा पिपीलिकाकल्पोत्तरार्केपि तिथिवृद्ध्या एकैकं ग्रास वर्द्धयेत् कृष्णे यवकल्पापराद्धे पिपीलिकापूर्वार्द्धऽपि एककं ग्रास ह्रासयेत् । उभयत्र अमायां न भुञ्जीत। एवं भेदद्वयमुक्तं भवति । तथा चाग्निपुराणे- 'अष्टामिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतम् । प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ॥ तथा कथञ्चित्पिण्डानो चत्वारिंशच्छतद्वयम् । मासेन भक्षयेदेतत्सुरचान्द्रायणं चरेत् ॥' तथा चोक्तं देवीभागवते- एकैकं तु हसेत् पिण्ड कृष्णे शुक्ले च वर्षयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिः॥ - चान्द्रायणव्रतविधानम् । १६५ उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् । चतुरः प्रातरश्नीयाद्विप्रः पिण्डान् कृताहिकः ।। चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम ! अष्टावष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।। नियतात्मा हविष्यत्य यतिचान्द्रायएं व्रतम् ॥ इति । एवञ्चोक्तं बौधायनधर्मसूत्रे- एकवृद्धथा सिते पक्षे एकहान्याऽसिते ततः। पक्षयोरुपवासौ द्वौ तद्धि चान्द्रायणं स्मृतम् ।। चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ अष्टावष्टौ मासमेकं पिण्डान् मध्यन्दिने स्थिते । नियतात्मा हविष्यत्य यतिचान्द्रायः चरेत् । यथाकथञ्चित्पिण्डानां द्विजस्तितत्त्वशीतयः। मासेनाश्नन् हविष्यस्य चन्द्रस्येति सलोकताम् ।। यथोद्यचन्द्रमा हन्ति जगतस्तमसो भयन् । तया पापाद्भयं हन्ति द्विजश्चान्द्रायणं चरन् ।। तथा तत्रैव-अतोऽन्यच्चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच्छुद्धो भवति । कामाय कामायैतदहायमित्याचक्षते । यं कामं कामयते तमेतेनाप्नोति । एतेन वा ऋषयः आत्मानं शोधयित्वा पुरा कर्माण्वसाधयन् । तदेतद्धन्यं पुण्यं पौत्र्यं पशव्यमायुष्यं स्वयं यशस्य सार्वकामिक नक्षत्राणां द्युति सूर्याचन्द्रमसोः सायुज्यं सलोकतामा- प्नोति ।। इति । अथैवं प्रायश्चित्तविवेके--(शङ्खलिखितौ 'श्रमावास्यां व्रतोपायनं यवमध्यमन् । अमावास्यायां पञ्चदश पिण्डानश्नीयात् ।' अत्रोपायनमारम्भः। युक्तं चेदम । अमायामपि पञ्चदशकलात्मकस्य चन्द्रस्य सूर्ये प्रविष्टत्वात् । अत्र एकककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्दत्वात् ।' एवं शूलपाणिमहामहोपाध्यायलिखितशङ्खलिखितवाक्याशय उच्यते 'कृष्णप्रति- पदि एककलायाः सूयें प्रविष्टत्वादेकग्रासहानिः । एवं कृष्णद्वितीयायां चन्द्रस्य कलाद्वयं वतो निर्गत्य सूर्ये प्रविष्टत्वाद्मासन्यहानिः' तहिं कृष्णपक्षान्तेऽमायां सकलकलायाः सूर्य प्रविष्टत्वात् कथं न सकलग्रासहान्योपवासः सिद्धयति इति त एव जानन्ति । एवं यद्यपि यवमध्यकल्पेऽन्तिमायाममायामुपवासे न विवादलेशः (द्रष्टव्यं पराशरस्यात्रेश्च वचनम्)। किन्तु पूर्वस्याममावात्यायां पञ्चदशनासग्रसनानीकारे सा चामावास्या यत्पक्षस्य चरमति- थितपक्षादितः केनाप्यनुष्ठिते पिपीलिकाकल्पे तस्याममायामुत्तरोचरणासहान्योपवासः स्वतः सिद्धः । अथवा तद्यवकल्पाद्यमावास्यायन्मासान्तिमतिथिस्तन्मासादितो विधीयमाने यवकल्पे तस्यामेवोपवासः सिद्धयति । कथं तेन तस्यां पञ्चदशग्रासग्रसनमुक्तम् । तथा च तत्र पञ्चदशग्रासभोजनेन यवाकृतेर्विकृतत्वाचन्मतं युक्तथासातमिव न मातीति, १६६ कृत्यसारसमुच्चयपरिशिष्टे- अत एव गौतमेनोक्तम् 'परदिनेऽमा चेचत्राप्युपोष्येति' तथा च 'पक्षयोरुपवासौ द्वौ' इति बौधायनवचनादमायामभोजने न विवादलेशोऽपि । अथ ते मध्ये सुखबोधाय यवमध्यजस्पलक्षणम् । शुक्लप्रतिपदादिपञ्चदश्यन्तपञ्चदशतिथिषु चन्द्रकलानामेकैकोपचयक्रमेण, प्रासाना- मपि क्रमिकोपचयः कार्यः । अर्थाच्छुक्ल प्रतिपदि एको ग्रासः, तदुत्तरद्वितीयायां द्वौ ग्रासौ तत्ततीयायां त्रयश्चतुर्थ्यां चत्वार एवं प्रत्येकतिथौ तचतिथिसंख्यका पासा अतः पूर्णिमायां पञ्चदश प्रासाः सम्भवन्ति । ततोऽग्रिमदिने कृष्णप्रतिपदि पूर्णचन्द्रकलाभ्यः एकापचयादेकोनाः पञ्चदश अर्थाच्चतुर्दश ग्रासाः । तथा चोक्तं वशिष्ठेन मा सत्य कृष्णपदादौ ग्रासानद्याच्चतुर्दश ।' इति । तत्र यथा कृष्णप्रतिपदि चतुर्दश, तथैव शुक्लचतुर्दश्यां चतुर्दश, पूर्णिमाप्राप्तपूर्ण (पञ्चदश) त्रासदिनादेकदिनपूर्वपरयोदिन- योस्तुल्यहासत्वात् । एवं कृष्ण द्वितीयायां शुक्लत्रयोदश्यां च त्रयोदश । तथा कृष्ण- तृतीयायां शुक्लद्वादश्यां च द्वादश । एवं कृष्णचतुर्थ्यामेकादश, ततः पञ्चम्यां दर्शवं क्रमहासात्कृष्णपक्षेऽमायां ग्राससंख्याशून्यत्वेन भोजनाभावः । अत्र शुक्लादिमुख्यचान्द्रमासे आद्यान्त्ययोासक्रमःण्यान्मध्ये पूर्णिमायां ग्रास- पुष्टत्वेन स्पष्टतया यवाकारकत्वादेतादृशकल्पस्य यवमध्यचान्द्रायणमिति युक्तं लाक्षणिक नाम | अत्र शुक्लपक्षे तिथिवृद्धौ तत्तिथिसंख्यका ग्रासास्तदुभयदिने भोज्याः । तिथिक्षये तत्तिविक्रमप्राप्तप्राससंख्याया लोपः कार्यः। यथा षष्ठ्याः क्षयाव- सरे पूर्वदिने चतुर्थी चत्वारः। तदुत्तरदिने पञ्चम्यामुदयव्यापिन्यां पञ्च । तदुत्तरदिने सप्तम्यां सप्तव न षट , एवं कृष्णेऽपि यस्याः क्षयवृद्धी भवेतां तत्तिथिप्राप्तमाससंख्याया लोपवृद्धी विधेये, कथमन्यथा पक्षान्ते यथा पूर्णिमायां पश्चदश ग्रासा भविष्यन्ति, अर्थात् शुक्लपक्षे षष्ठ्याः क्षयावसरे प्रतिपदादितियिषु एकापचयेत पूर्णिमायां चतु- ईशैव ग्रासाः सम्भवेयुस्तत्र तत्पक्षतिथीनां चतुर्दशसंख्यकत्वात् । एवं सप्तम्या वृद्धि- स्थले उभयदिने सप्त सप्त-प्रासकल्पनाभावे तत्पचतिथिसंख्यानां षोडशसंख्यकत्वात्यू- थिमायां षोडशनासाः सम्भवेयुः। अथ कृष्णपने तिथिक्ष्यसम्भवे तचियिक्रमप्राप्त- ग्रासलोपकरणाभावेऽमायामेको ग्रासः सम्भवेदिति वा तत्र तिथिवृद्धौ ग्रासद्धिविधाना- भावे चतुर्दश्यामेव प्रासाभावः सिद्ध्यति इत्थमनर्थः सम्भवति, अत एवोक्तं तिथि- वृद्धया चरेत् पिण्डान्' इत्यादि । अथ पिपीलिकाकल्पलक्षणम् । कृष्णप्रतिपदि चतुर्दश, तदुचरद्वितीयायां त्रयोदश, तृतीयायां द्वादश एवं यव- मध्यकल्पोचरावत्पिपीलिकाकल्पे पूर्वार्धे चन्द्रकलाऽपचयक्रमानुरोधेन प्रासानामेकै- कापचयेनामावास्यायां प्रासशून्यत्वेनोपवासः सिद्धस्तदुचरदिने शुक्लप्रतिपदि एकग्रासः। द्वितीयायां द्वौ, तृप्तीयायां त्रय एवं चन्द्रकलोपचयवशाचत्ततियौ तत्तत्तिथिसंख्यका प्रासः, पक्षान्ते (पूर्णिमायां ) पञ्चदश ग्रासा भवन्ति । अत्राद्यन्तयोः प्रान्तदिनयो- सिसंख्याऽऽधिक्यात् , प्रान्ताभ्यां मध्याभिमुखं क्रमदेण्यादमान्ते ग्रासाभावेन पिपी- चान्द्रायणव्रतविधानम् । १६७ लिकाऽऽकृतिवत्सकलग्रासयोजनयेति युक्तमस्य पिपीलिकातनुमध्यत्वम् । यदि पक्ष- योरपि तिथिह्रासवृद्धी न स्तस्तदा कृष्णप्रतिपदादितोऽग्रिमपूर्णिमावसानावधिकत्रिंश- चान्द्रदिनसाध्यम् । तिथिक्षयवृद्धिवशात्कदाचिदूनत्रिंशदेकत्रिंशदिनसाध्य | योक- स्मिन् पक्षे तिथिक्षयो द्वितीयपचे तु तिथिवृद्धिस्तदाऽपि त्रिंशद्दिनसाध्यमेव, तस्य दिनानां तिथिक्षयवृद्धिवशाहासवृद्धी विज्ञेये। एवं तिथिक्षयवृद्ध्यभावे सकलग्रास- संख्यासंकलनया पञ्चविंशत्यधिकशतद्वयी सिद्धयति । तिथिक्षयवृद्धिसम्भवे तु सकल- ग्राससंख्यासङ्कलनेनानियतसंख्यासंभवान्नात्र यवपिपीलिकाकल्पयोः संख्यानियमः । संख्यानियमस्तु तत्रैव यत्र तिथिक्रमेण ग्रासस्यापचयोपचयौ न भवतः, यथा यतिशिशु- साधारणकल्पास्तेषु प्रतिदिनं ग्रासैकरूपसंख्यकत्वात् । परन्तु विवेककारेणास्य कल्पस्य गौतमवचनानुसारेण पूर्णिमायामारम्भविधि वदताऽत्रापि पञ्चदश्यां पञ्चदशग्राससंयोगेन पूर्णिमामारभ्य पूर्णिमाऽन्तपर्यन्तैकत्रिंश- दिनसाध्यं पिपीलिकाकल्पं मत्वा सकलपाससंख्या चत्वारिंशदधिकशतद्यपरिमिता साधिता। तिथिक्षयवृद्ध्यवसरे तु चन्द्रकलाक्रमःण्यवृद्ध्यननुरोधेनैव ग्रासग्रसननियमः स्वकल्पितः प्रदर्शितः । वस्तुतः 'प्रासं चन्द्रकलावृद्धया' इति वचनाद्यासानां क्रमि- कहासवृद्धिविधानोचितत्वात्तादृशोऽर्थो युक्तियुक्त इव न लक्ष्यते । तथा च नैरन्तर्येण प्रतिमासं चान्द्राणवतं कुर्वतां पूर्वमासीयव्रतविरामतिथिर्या पञ्चदशी सैवाग्रिममासीयचान्द्रायणस्य प्रारम्भतिथिरतः पूर्वमासे पूर्णिमाप्राप्तपञ्चदश- प्राससंख्यानां योजनाभावेन कथं ग्राससंख्यापूरणोपायः स्यादत एतद् व्रतं न हि पञ्च- दश्यादिकमपितु कृष्ण तिपदादिकमेवेति मिताक्षरासम्मतम् । अस्मिन् कल्पेऽपि तिथिक्षयवृद्धिवशाद् ग्राससंख्याक्षयवृद्धी वेदितव्ये । यथा कल्प्यते-शुक्लपक्षे सप्तम्या वृद्धिस्तदा दिनद्वयं सप्त सप्त ग्रासा ग्रसनीयाः । यदि तस्मि- न्नेव पक्षे नवम्याः क्षयस्तदाऽष्टम्यामष्टौ ग्रासान् भुक्त्वा तदुत्तरदिने क्रमप्राप्तान नव प्रासान् त्यक्त्वा दशग्रासानेव भुञ्जीत, कथमन्यथा कृष्णपक्षेऽमायां प्रासाभावेन भोज- नाभावः सम्पद्यते । तथा च शुक्ल पूर्णिमायां पञ्चदश ग्रासाः सिद्ध्यन्ति । अय यद्यक- स्मिन्नेव पक्षे कस्याश्चितिथेः क्षयः कस्याश्चिद्धृद्धिस्तत्रापि क्षयतिथिप्राप्तग्राससंख्या- लोपः। वृद्धितिथिप्राप्तसंख्योभवदिनगता भवति । यत्र च त्रयोदशदिनपने तिथिद्य- स्यैकस्मिन्नेव पक्षे यस्तत्रापि तत्तत्क्षयतिविप्रातसंख्या तत्तचियो लुप्ता भवति । यथा द्वितीयावाश्चतुइंश्वाश्च यस्तदा तत्र प्रतिपदि एकः तदुत्तरदिने तृतीयायां त्रयः। एवं त्रयोदश्यां त्रयोदश, तदुचरदिने पूर्णिमायां पञ्चदशैव ग्रासस्य चन्द्रकला- ऽनुसरणात् । यथा च कस्मिन्नेव पक्ष तिथिद्वयस्य वृद्धिस्तदा तवचिथिप्राप्तसंख्यायाः वारद्वयं वृद्धिः। तथा चोक्तं मिताक्षरायाम्-'यदा स्वेकस्मिन् पक्षे तिथिवृद्धिहासवशात् षोड: शदिनानि भवन्ति चतुर्दश वा तदा प्रासानामपि वृद्धिहासौ वेदितव्यौ । तिथिवृद्ध्या पिण्डगंधरेदिति नियमात्' इति ।
१६८ कृत्यसारसमुच्चयपरिशिष्ट- अथ यवमध्यकल्पचान्द्रायणचक्रम् । तिथिसंख्या शुक्ले |१२||४५/६/७१८१९१०१११२१३२१४/१५ ग्राससंख्या १/२/३/४/५६.७/८/९१०११/१२/१३/१४/१५॥ तियिसंख्या कृष्ण १२३४५६/७/८/९१०११/१२/१३/१४/३० ग्राससंख्या १४/१३. २११/१०९/८/७/६/५/४/३/२/१ अथ पिपीलिकाकल्पचक्रम् । तिथिसंख्या कृष्णे १/२/३/४१५/६७८/९/१०११/१२/१३/१४३ ग्राससंख्या १३/१२/११/१ ९/८/७/६/५/४/३/२/१/० तिथिसंख्या शुक्ले १२३४५६/७/८/९/१०१११२/१३/१४१५॥ ग्राससंख्या १/२/३ ४/५/६/७/८/९/१०/११/१२/१३/१४/१५ . तथा यवमध्यकल्पस्वरूपम् । ३० ३० पिपीलिकामध्यकल्पस्वरूपम् । १५ १५ अथ शिशुचान्द्रायणलक्षणम् । दिवा चतुरो रात्रौ चतुर एवं प्रतिदिनं नियमेनाष्टौ ग्रासान् मासं यावदश्नीयात् नात्र शुक्लादितः कृष्णादितो वा प्रारम्भस्य निश्चयः । तथोक्तं मयूखे- 'पिपीलिकायवमध्यमिन्नचान्द्रायणेषु दिनान्तरेऽप्यारम्भो न प्रतिपद्येव ।' इति । त्रिंथदिनसाध्यमिदमतः ८४३० = २४० = सकलपाससंख्या। नैतच्छिशुमात्रकर्च- - चान्द्रायणव्रतविधानम् १६९ व्यम् । अत्र बालोचितोभयसमयविहितस्वल्पभोजननियमेन शिशुचान्द्रायणमिति संज्ञा । एतदन्यापेक्षया सुखसाध्यम् । नात्र व्रतान्तरविधानम् । अत्र पूर्वदिनकर्तव्य- तादि अन्यकल्पवदेवेति । अथ यतिचान्द्रायणम् । एकमासं यावत्प्रतिदिनमेकवारमेव मध्याह्नसमये नियमेनाष्टौ प्रासान् भुञ्जीत । अत्रापि सकलग्राससंख्या ८.३० = २४० यमवचनेनारिमन्नेव कल्पे मध्याह्ने भोजनविधिरिति स्पष्टतया प्रतिपादितम् । विवेककारेण सकलचान्द्रायणकल्पेषु मध्याहे ग्रासग्रसनविधिरक्तः । मयूखकारेण मदनपारिजातकृता च चन्द्रोदये प्रासनसनमुक्तम् । एवमपराकटीकायामपि । तथा हारीतस्मृतावपि । तत्र वस्तुतो ग्रासग्रसनात्पूर्व सर्वत्र स्मृतिषु चन्द्रोपस्थान विधानदर्शनाचन्द्रोदयकालिक- कर्त्तव्यमेव ग्रासग्रसनम् । नात्रापि व्रतान्तरविधानम् । दैनिकनिश्चितग्रासग्रसनोच्छेदेन ब्रतभनापत्तिसम्भवात् । तत्र सङ्कल्पितनित्यकाम्यव्रताकरणे प्रत्यवायदर्शनात्पूर्वारब्ध- मपि व्रतान्तरमन्यद्वारा कारयेत् । अथ सामान्यचान्द्रायणम् । इदमपि त्रिंशद्दिनसाध्यम् । अत्र इयानेव विशेषः । प्रतिदिनं ग्राससंख्यानियमो न, केनापि विधिना मासे सकलग्राससंख्यासंकलनेन चत्वारिंशदधिकशतद्वयं भवेदेष- एव नियमः । यथा दिने दिनेऽष्टौ ग्रासान् भुञ्जीत, अथवा नकं चतुरो दिवा चतुरः। अथवैकस्मिन् दिने चतुरोऽपरस्मिन् द्वादश, तत्रैकरात्रमुपोष्यापरस्मिन् दिने षोडश । यदा दिनद्वयमुपोष्य तृतीयदिने चतुर्विंशतिर्वा द्वात्रिंशदित्यादि प्रकाराणां मध्ये शक्त्य- पेक्षया भुञ्जीत । अत्र तिथ्यपेक्षया ग्रासनियमो नास्तीति । नात्रोपवासान्तरबाधः। नात्र भोजनसमयनियमः । इदमेव विवेके सर्वतोमुखसंज्ञया प्रतिपादितम् । अन्यकल्पा- पेक्षयाऽत्र विशेषस्वाच्छन्द्यमस्ति । अत्रैतन्मध्यप्राप्तमेकादशीव्रतादिकमपि कत्तुं शक्यते। अथ ऋषिचान्द्रायणम् । इदमपि त्रिंशदिनसाध्यम् । तत्र शुक्लप्रतिपादितो वा कृष्णप्रतिपदादितो. मस्मात्कस्माचिदिनास्त्रिंशदिनपर्यन्तं प्रतिदिनं त्रीन् त्रीन् ग्रासान् अश्नीयात् । अत्र व्रतान्तरकर्चव्यता न प्रतिदिननिश्चितग्रासत्रयग्रसनात् । अत्र प्राससंख्या-३४३० = ९०। दैनिकग्राससंख्याल्पत्वात्कष्टसाध्यत्वेन विशेषतया ऋषिकाव्यत्वेन ऋषि- चान्द्रायणमिति संज्ञा । नैतदृषिमात्रकर्तव्यम् अन्येनाऽपि साहसिना कर्तव्यमेव । एते सर्वे अपि कल्पाः समानफलदा एवेत्युक्तं जाबालेन 'तुल्यपुण्यफलोदयम् । अथ प्रासप्रमाणनिर्णयः। योगियाज्ञवल्क्येनोक्तम् 'शिख्यण्डसंमितान् ।' इति । शिखी मयूरस्तदण्ड- परिमितानित्यर्थः। तथा पराशरेण 'कुक्कुटाण्डप्रमाणं तु ग्रास वै परिकल्पयेत् ॥ अत्र कुक्कुटश्चरणायुधः। यवनपक्षी (मुरगा) इति भाषा । शङ्खन तु- 'श्रामलकमात्रास्तु प्रासा इन्दुव्रते स्मृताः।' आर्द्रमशुष्कं सरसमिति एतेषां च परिमाणानां शक्तया विकल्पः । विष्णुना तु २२ क०सा० कृत्यसारसमुच्चयपरिशिष्टे- 'प्रास्थाविकारमश्नीयात् ।' इत्युक्तम् , यादृशग्रासेन प्रास्यस्य मुखस्य विकारो न भवति, अर्थादधिकबुभुक्षादोभशान्त्यै महत्परिमाणकग्रासग्रसनेन गल्लोत्फुल्लादिवि- कारो भवति तथा न प्रसनीयम् इत्यर्थः । मिताक्षरायां तु 'पासप्रमाणमास्याविका- रेण यदुक्तं तद्वालाभिप्रायेण, तेषां शिल्यण्डपरिमितपञ्चदशनासभोजनाशक्तः। क्षीरा- दिहविष्षु शिख्यण्डसमितत्वं तु पर्णपुटकादिना सम्पादनीयम् । तथा कुक्कुटाण्डाा- मलकानि शक्तिविषयकाणि शिख्यण्डपरिमाणान्नघुत्वात्तेषाम् । यमेन तू मयूखे- 'श्रगुल्यग्रस्थितं प्रासं सावित्र्या चाभिमन्वयेत् ।' अनेन गायन्या प्रासमभिमन्त्र्य भदयेदिति। अथ भोजनसाधनाग्राह्यपात्रप्रमाणमुक्तं यमेन- 'प्रायसं तैजस पात्रं चक्रोत्पन्नं विवर्जयेत् । असुराणां हि तत्पात्रं देवपात्रमचक्रकम् ॥' आयसं लोहधातुनिष्पन्नपात्रम् । तैजसं कांस्यपित्तलादिकं वा मणिखचितम् । चक्रोत्पन्नं कुलालचक्रघटित घट-कटाह-शरावादिमृत्पात्रम् । एतत्सर्व राक्षसपात्रम् , 'देवे कर्मणि वर्जयेत् । यदचक्रकं चक्रनमणेन न निर्मितं तद्देवपात्रम् । तद्गृह्णीयादित्यर्थः। तथा कात्यायनेनोक्तम्- 'कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्याल्यादि दैविकं भवेत् ॥' तदेव मृन्मयं हस्तनिर्मितं दैविकम् । केवलचक्रोत्पन्नत्वेनैव पात्रदोषः । अथ चान्द्रायणमध्येऽन्यव्रतादावुपस्थिते विचारः। प्रायश्चित्तमयूखे- 'एकादश्यादौ नित्यप्राप्त उपवासस्तावच्चान्द्रायणविधिना बाध्यते । 'धर्मार्थञ्च चरेदेतचन्द्रस्येति सलोकतामिति काम्यत्वाल्लशुनभक्षणादिनिमित्ते विहि- तत्वेन नैमित्तिकत्वाच्च । काम्यस्त्वेकादश्याधुपवासोऽन्यद्वारा करणीयः प्रतिनिधिना कृतेऽपि फलप्राप्तः, कात्यायनादिमिरुक्तत्वात् । वचनानि त्वस्मत्कृते समयमयूखे द्रष्टव्यानि । अयञ्चैकादश्याधुपवासबाधः सामान्यचान्द्रायणभिन्नेष्वेव, तत्र प्रतिदिन- ग्रासग्रसननियमात् ।' अथोपस्थानविधिः। (प्रायश्चित्तमयूखे ) तत्र प्रतिदिनमुदिते चन्द्रे- ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजत्य सङ्गथे ॥१॥ ॐ सन्ते पयांसि समुयन्तु वाजाः संवृष्ण्यान्यमिमातिषाहः । प्राप्यायमानो अमृताय सोमदिवि श्रवांस्युत्तमानिधिष्णु ॥ २॥ नव नवो भवति.जायमानोऽहां केतुरुषसामेत्यग्रम् । भागं देवेभ्यो विदधात्थायं प्रचन्द्रमास्तिरते दीर्घमायुः ॥ ३ ॥ एतर्मन्त्रः क्रमेण सोमं तर्पयामि । चन्द्रं तर्पयामि । चन्द्रमसं तर्पयामि । इति तर्पवित्वाऽऽज्येन एतैरेव मन्त्रलौकिकेऽग्नौ हुत्वा एतैरेव पात्रस्यं हविरनुमन्व्य एतै- रेख मन्त्रैश्चन्द्रमुपस्थाप्य श्रों यद्देवा देवहेडनं देवासश्चकमा वयम् । अग्नि तस्मादे- नसोविश्वाम् मुश्चत्वंहसः॥ एतस्य - चान्द्रायणव्रतविधानम् । अथ गौतमोक्तचान्द्रायणव्रतविधिः। 'अथातश्चान्द्रायणं, तस्योक्तो विधिः-कृच्छ्र पवनं व्रतं च चरेत् । श्वोभृतां पौर्णमासीमुपवसेत् । अप्यायस्व, सन्ते पयांसि, नवो नव इति चैताभिस्तर्पणमाज्य- होमो हविषश्वानुमन्त्रणमुपस्थानं चन्द्रमसो यद्देवा देवहेहन' मिति चासुभिराज्य जुहुयात् । देवकृतस्येति चान्ते समिद्भिः। ॐ भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूपं गिरोजस्तेजः पुरुषो धर्मः शिव इत्येतै सानुमन्त्रणं, प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वग्रासप्रमाणमात्याविकारेण, चरुभक्ष्य-सक्तु-कण-यावकपयोदषिघृतमूलफलो- दकानि हवींषि उत्तरोतरं प्रशस्तानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकापचयेना- परपक्षमश्नीयात् । अमायामुपोज्यैकोपचयेन पूर्वपक्षम् । विपरीतमेकेषाम् । एष चान्द्रायणो मासो मासमेतमाप्स्वा विपापो, विपाप्मा सर्वमेनो हन्ति । द्वितीयमाप्त्वा दश पूर्वान् दशापरानात्मानं चैकविंशं पङ्क्तीश्च पुनाति । संवत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोति । इति गौतमीये धर्मशास्त्रेऽष्टाविंशोऽध्यायः ।' अस्यार्थः-कृच्छ्रवते, व्रतपूर्वदिने यथा वपन = नखकृन्तनोपवासादिनियमस्तथा त्रापि चरेत् कुर्यात् । तदुक्तं हारीतेन राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ।। श्वो भूतां श्वस्तनदिने भूता पौर्णमासी यस्याः सा. तां चतुर्दशीम् । अत्र यवकल्पे करिष्यमाणे पौर्णमासी अमावास्या । पिपीलिकाकल्पे तु पूर्णिमैव। ततो मन्त्राणां पूर्वावयवैः परिचयः । चरुमध्येति चरुः (हव्यान्नं 'चरुर्भाण्डे च हन्यान्ने' इत्यनेकार्थकोषः। 'चरुहव्यानभाण्डयो रिति मेदिनी। भक्ष्यं भिक्षया सम्पादितं हविष्यान्नम् । सक्तवो भृष्टयवचूर्णानि चपकादिचूर्णशून्यानि चएकस्यामिषत्वात्, अन्ने हविरुपादानात् । कणाः कुट्टित- हैमन्तिकधान्यानां तण्डुलसूक्ष्मावयवाः (कणोऽतिसूक्ष्मे धान्यांशे इत्यमरः) । यावकः कुल्माषोऽस्विन्नयवः । ( स्याद्यावकस्तु कुल्माष इत्यमरः)। वा यवसम्ब- न्धिमोदकपदार्थः । पयो गोदुग्धम् । दघि = अनुद्धृतगोदुग्धजनितम् । घृतं गोघृतम् । मूलं कन्दं केमुकगृञ्जनलशुनपलाण्डमूलप्रभृतिवय॑कन्दभिन्नम् । उदकं स्वोद्धृतं जलं वा विप्रशिष्यस्वजातीयस्त्रीभिरुद्धृतम् । एतानि इवींषि उत्तरोत्तरं प्रशस्तानि । चरुतो मैक्षम् । भैक्षात् सक्तवः । सक्तुतः कणाः, ततो यावक एवमुत्तरोत्तरं विशेषफ- लजनकानि । अत्र दोरादिहविषां शिखण्डपरिमितत्वं पर्णपुटकादिना सम्पादनीय- मिति मिताक्षरा । अपरपक्षः कृष्णपक्षः। पूर्वपदः शुक्लपक्षः। सुष्ट्यादौ शुक्ल- पक्षस्य प्रथमभूतत्वाद। अथ तद्विधिः (मयूखे)- 'कृष्णचतुर्दश्यां केशश्मश्रुनखलोमानि श्मश्रूण्यैव वा वापयित्वा दिनमुपोष्य सायं संकल्पं कुर्यात् । तत्र सङ्कल्पः-त्रों अद्येत्यादि अमुकगोत्राया (वा अमुकगो त्रस्य ) मम श्री अमुकीदेव्याः (श्री अमुकशर्मणः) जन्मजन्मान्तरार्जितागम्यागमना- भक्ष्यभक्षणासंसर्ग्यसंसर्गलीबालविप्रगोहत्यादेवद्विजविचहरणप्रभृतिसकलपावकोपपातक- १७२ कृत्यसारसमुच्चयपरिशिष्टे- महापातकमारितिसनलव्यापूर्वक-दशपूर्वदशापर कात्मेत्येकविंशकुलोद्धरण-चन्द्रसालो- क्यप्राप्तिकामनयाऽमुककल्पवान्द्रायणव्रतमहं करिष्यते इति । तत इतरप्रायश्चित्तव्रतपूर्वदिनकर्तव्यवदत्रापि नक्षत्रोदये पञ्चगव्यं प्राश्यानाहार- स्तद्वितीयदिनेऽमाया-पि व्रती तिष्ठेत् । तद्वितीयदिने शुक्ल प्रतिपदि एकत्तत एकवृद्ध्या शुक्लपक्षे तत्पश्चादेकापचयेन कृष्णपक्षं चातीत्यामायामुपवासः । गोदा- नब्राह्मणभोजनं च कर्त्तव्यम् । एवं पिपीलिकाकल्पे श्रादौ पञ्चदश्यां पञ्चदश तत एकापचयेन, कृष्णपक्ष, तत एकोपचयेन शुक्लपक्षं व्यतीय पूर्णिमाया व्रतपूर्तिः । यः कश्चिदेकवार व्रतं कृत्वा मासं मासद्वयं वा शरीरं पाल यित्वा पुनः कर्तुमिच्छेत्तत्र तस्य नरन्तर्याभावात्पुनश्चतुर्दश्यामेव संयमादि समुचितम् । ओं यदि दिवा यदि नक्तमेनांसि चकमा वयम् । वायुर्मा तस्मादेनसो विश्वान्मु- चत्वंहसः ॥ओं यदि जाग्रद्यदित्वप्न एनासि चकमा वयम् । सूर्योमा तस्मादेनसोवि- श्वान् मुञ्चत्वंहसः॥ ओं यद्नामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्थे यदेनश्चक्रमा वयम् । यदेकल्याधिर्मिणि तस्या वैयजनमसि । देवकृतस्य मनसोऽवयजनमसि । मनुष्यकृत- स्यैनसोऽवयजनमास । पितृकृतस्यैनसोऽवयजनमसि । श्रात्मकृतस्यैनसोऽवयजनमसि एनस एनसोऽवयजनमसि । यच्चाहमेनो विद्वांश्चकार । यश्चाविद्वान्तस्य सर्वस्यैनसोs- वयजनमसि ॥४॥ इति । चतसृभिश्च प्रत्र्यचमाज्यं जुहुयात् । सर्वत्र (अन्ते ) अभये, न मम इति त्यागः । ततो- देवकृतस्येति' त्रिभिः समित्वयं हुत्वा-ओं भूः। भुवः । स्वः । तपः । सत्यम् । यशः। श्रीः । उक् । ईट् । ओजः । तेजः । पुरुषः । धर्मः । शिवः । इत्येतेः पञ्चद- शभिरेकैकक्रमेण पात्रस्थं प्रासमनुमन्त्र्य मनसा नमः स्वाहेत्युक्त्वा सर्वाननुमन्यकै कमङ्गुल्यौहीत्वा सावित्र्याऽनुमन्य भक्षयेत् । (अत्र उक् । ईट ) इति स्थले मिता- परायाम् , क्रमेण ऊकः । इन्द्रः । इति वर्तते, तथा मूलगौतमसंहितायाम् 'रूपं गिः' इति दृश्यते । तत्र मूलग्रन्थस्य प्राधान्यात् तदेव ग्राह्यम् । अथ ग्रासप्रसनविधिः। तत्र यवकल्पे प्रयमदिने एकग्रासभक्षणे 'ओं प्राणाय स्वाहा, श्रओं अपानाय ओं समानाय स्वाहा, श्रओं उदानाय स्वाहा, ओं व्यानाय स्वाहा, इति पञ्चभिर्म- सिमभिमन्य भक्षयेत् । द्वयोग्रासयोः (मक्षणे ) आद्यैत्रिमिमन्त्रैः (ों प्राणाय स्वाहा, अों अपरानाय स्वाहा, ओं समानाय स्वाहा, एतैः) एकं (प्रासं), द्वाभ्यो (ों उदानाय स्वाहा, अओं व्यानाय स्वाहा इति मन्त्राभ्याम् ) अपरं (द्वितीवम् ), भदयेत् । त्रिषु ग्रासेषु द्वाभ्या द्वाभ्या द्वौ (प्रथमद्वितीयमन्त्राभ्या ओं प्राणाय स्वाहा, ओं अपानाय स्वाहा, २ एताभ्या प्रथमप्रासं, तृतीयचतुभ्यो (ओं समानाय स्वाहा २, ओं उदानाय स्वाहा २ एताभ्याम् ) द्वितीयप्रासं, एकेन (ों व्यानाय स्वाहा इत्य- नेन) अन्त्यम् (तृतीयम् )।
चान्द्रायणव्रतविधानम् । १७३ चतुषु ( ग्रासेषु ) द्वाभ्या) प्रथमद्वितीयाभ्या ओं प्राणाय स्वाहा, ओं अपानाय स्वाहा, एतान्या ) पूर्वग्रासम् । एकैकेनान्यान् ( ततः शेषैस्तृतीयचतुर्थपञ्चमैमन्त्रैः क्रमेण त्रयः शेषा पासा भक्षणीयाः । पञ्चसु प्रासेषु क्रमेण पञ्चभिर्मन्त्रैः पञ्च प्रासा असनीयाः।) पञ्चभ्योऽधिका ग्रासास्तूष्णीमेव भक्षणीयाः (षटसु श्रादितः पञ्च पञ्च- भिर्मन्त्रैः क्रमेण, शेषमेकं तूष्णीम् । सप्तसु आदितः पञ्च पञ्चभिर्मन्त्रैः, शेषौ द्वावम- न्त्रकावेवाश्नीयात् । एवं पञ्चाधिकमासाः कृष्णनवमी यावत् । कृष्णदशभ्यां पञ्च- पञ्चभिर्मन्त्रैः। कृष्णकादश्या चत्वारस्तत्र द्वाभ्यां पूर्व शेषत्रिभिः क्रमेण त्रय एवं पूर्ववद्योज्यम् )। जलपानं सकृदेव कर्त्तव्यमन्यथा दोषमाह- असकृजलपानाच सकृताम्बूलचर्वणात् । उपवासः प्रणश्येत दिवास्वापाञ्च मैथुनात् ॥ यद्येकवारं पीत्वाऽपि द्वितीयक्षणे पिपासया नियमाणस्तदा प्राणरक्षणार्थं पुन- जलपानेऽपि न दोष उक्तोऽत्रिणा-'अत्यये चाम्बुपानेन नोपवासः प्रणश्यतीति । अन्यथा दोषो भवत्येव । समातौ त्र्यवरान् (त्र्यधिकान् ) विप्रान् भोजयित्वा गो दक्षिणा दद्यात् । आसमाप्ति प्रत्यहं त्रिषवणस्नानम् । (त्रिकालस्नानम् ) सौरमन्त्रः (ों उद्वयन्तमसस्परिस्वः पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्मज्ज्योतिरुत्तमम् । ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ।। श्रों चित्रन्देवा- नामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । पापाद्या वा पृथिवी अन्तरिक्ष ढ० सूर्य श्रात्मा जगतस्तस्थुषश्च । ओं तच्चतुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥ इत्येतैः।) कृताञ्जलिरादित्योपस्थानं गायत्र्या व्याह- तिमिः कूष्माण्डैर्वाऽज्यहोमः । दिवा स्थितिः । रात्रावुपवेशनम् । अशक्तौ शयनम् यथाशक्ति आपोहिष्ठेति सूक्तम् । एतोन्विन्द्रम् । ऋतञ्चेति चम् । शन्न इन्द्राग्नी, स्वस्तिनो मिमीताम् । पुनन्तु मा देवजानः । ऋषभं विरजम् । रौरवयोधा जपे सामनी च पठेत् ॥ (तत्र नियम उक्तो लिखितस्मृतौ-- मुण्डस्त्रिषवएनायी अधःशायी जितेन्द्रियः । स्त्रीशूद्रपतिताना च वर्जयेत् परिभाषणम् ॥ पवित्राणि जपेच्छन्त्या जुहुयाच्चैव शक्तितः । एवं यमेनापि-- श्रावासाश्चरेत्कृच्छ्र स्नात्वा वस्त्रं न पीडयेत् । अमुल्यग्रस्थितग्रास गायन्या चाभिमन्त्रयेत् ।। प्राशयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत् । तथा तेनैव वाण्युक्तानि- गात्राभ्यङ्गशिरोऽभ्यङ्गताम्बूलमनुलेपनम् । व्रतस्थो वर्जयेत्सर्व यच्चान्यबलरागकृत् ॥) । -- - ॥ - - कृत्यसारसमुच्चयपरिशिष्ट- तत्र पूर्वोक्तमन्त्राणामसम्भवे गायत्री व्याहृतीः प्रणवं वा जपेत् । एतच्च विप्र- भोजनदक्षिणादानादिजपान्तं सर्वेष्वपि प्राजापत्यादिवतेषु तुल्यम् । तदुक्तं पराशरेण- प्रायश्चित्ते ततश्चीसें कुर्याद्ब्राह्मणभोजनम् । गोद्वयं वस्त्रयुग्मञ्च दद्याद्विप्रेषु दक्षिणाम् ।। तत्र चान्द्रायणप्रयोजनम् । नोकं भवति यावत्तु यस्य कस्य प्रयोजनम् । न हि तावत् प्रवृत्तिः स्यादप्यातस्य जनस्य वै तत्र याज्ञवल्क्य आह- अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु । धर्मार्थ यश्चरेदेतच्चन्द्रस्यति सलोकताम् ।। उशना अप्याह- दुरिताना दुरिष्टानां पापाना महतामपि । कृच्छ्र चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ हारीतोऽप्याह- चान्द्रायणं यावकश्च तुलापुरुष एव च । गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥ अत्रिराह-रजकः शैलुषश्चैव वेणुकोपजीविनः । एतेषां यस्तु मुक्त वै द्विजश्चान्द्रायणं चरेत् आरूढो नैष्ठिके धर्मे यस्तु प्रच्यक्ते पुनः । चान्द्रायणं चरेन्मासमिति शातातपोऽब्रवीत् ।। संवत्त:--श्वबिडालखरोष्ट्राणां कपेर्गोमायुकाकयोः । प्राश्य मूत्रतुरीषे वा चरेच्चान्द्रायणव्रतम् ॥ आपस्तम्बः--अगम्यागमनं कृत्वा अभक्ष्यस्य च भक्षणम् । शुद्धिं चान्द्रायणं कृत्वा अथवान्ते तयैव च ॥ अग्निहोत्रं त्यजेद्यस्तु स नरो वीरहा भवेत् । तस्य शुद्धिर्विधातव्या नान्याच्चान्द्रायणाहते ॥ चान्द्रायणं पराको वा द्विजातीनां विशोधनम् । प्राजापत्यं तु शुदस्य शेषं तदनुसारतः ॥ इत्यादि । वौधायनधर्मसूत्रे- यथोश्चन्द्रमा हन्ति जगतस्तमसो भयम् । तथा पापाद्यं हन्ति द्विजश्चान्द्रायणं चरन् ।। तथा च तत्रैव-'अतोऽन्यतरच्चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच्छुद्धो भवति । कामाय कामायतदाहार्यमित्याचक्षते । यं कामं कामयते तमेतेनाप्नोति । एतेन वा ऋषयः प्रात्मानं शोषयित्वा पुरा कर्माण्यसाधयन् । तदेतद्धन्यं पुण्यं पौत्र्यं पशव्य- मायुष्यं वय यशस्यं सर्वकामिकम् । नक्षत्राणां द्युतिं सूर्याचन्द्रमसोः सायुज्यं सलो- कतामाप्नोति ॥ इति चान्द्रायणविधानम् । अथ हविष्यप्रतिपादकवचनस्यार्थः (३२ पृ० मूले)- हैमन्तिकं मार्गपोषोत्पन्नं, सितास्विन्न स्वच्छषामधान्यं हविष्यमित्यर्थः । अनेन स्विन्तं वहिसंयोगेन सस्वेदं (उशिना) धान्यं, तत्तण्डुला आमिषमिति हविष्यामिषतिपादकवचनार्थः । १७५ शेषः । धान्यं त्रिधा भवति, केषांचित्तषतण्डुला अपि स्वच्छास्ते हविष्योत्तमाः। केषांचित्तषमात्रमेव स्वच्छं तण्डुला रक्तास्ते साधारणहविष्यरूपाः । येषां तुषतण्डुला अपि रक्तास्ते न हि इविष्यात्मका इत्यर्थः । मुद्राः, तिलाः, यवाः प्रसिद्धाः । कलायं (करावो )। कङ्कः ( काउनि) निवारो मुन्यन्नं (श्रोइरी) यदनुप्तमेव बहुधा जीर्णजलाशये नद्यादौ जायते यच्छस्य- मर्धपक्कमेव शीर्यते । वास्तूकं ( बथुआ) हिलमोचिका ( सरहोंची) षष्ठिका (शाठी गम्हडी) कालशाकं कालिकाशाकं (प्रायः करमो साग भाषा) मूलक स्थूलशिफा- रूपं शतावर्यादि, केमुकं (केउप्रां) कन्दम् तद्भिन्न कन्द, (आरु खम्हार आदि)। मूलकमित्यनेन (मूर वा मूली) इति न बोध्यं तत् सामान्यभोजनेऽपि निषिद्धम् । द्रष्टव्यं विश्वकोषे-'पितृणां देवतानां च मूलकं नैवदापयेत् । ब्राह्मणो मूलक भुक्त्वा चरेच्चान्द्रायणव्रतम् । वर्जनीयं प्रयत्नेन मूलकं मदिरोपमम्।।' कन्देषु 'बालू' भाषाभाषितम् , न हविष्यम् इदं पादोनशतद्वयवर्षादेव भारते अमेरिकादेशादागतं वस्तु । पुदीनासंज्ञकशाकमपि ईरानदेशादागतम् । सैन्धवं सामुद्रे लवणे हविष्ये । गव्ये गोसम्बन्धिनौ दधिसर्पिषो । दघि प्रसिद्धम् , सर्पिघृतम् । तेन माहिषे दधिघृते नहि इविष्ये । स्मृतौ गव्यधृताभावे तिलतैलेन दोपदानमुक्तं, न तु माहिषतेन । अनुद्धृ- तसारं पयः । गोदुग्धमपि तावदेव हविष्यं, यावचस्मान्नवनीतादिसारं न गृह्यते । पनसो मृदङ्गफलम् (कटहर ) । अाम्रः प्रसिद्धः । हरीतकी (हरीड) । पिप्पली (पीपरि)। जीरकम् ( जीर)। चकाराद् ( धनी ) नागरं शुण्ठीति प्रसिद्धम् । कञ्चु (अणिकोंछ) । तिन्तणी ( तेतरि इमली) कदली रम्भा ( केरा)। लवली (हरफा)। धात्री (अोरा ) एतानि फलानि । अगुडं गुडभिन्नम् , ऐक्षवमित्रस- जनितं वस्तु ( मिसरी चीनी) हविष्यम् । गुडमामिषम् । अतैलपक्वं, तैलपक्वं हविष्यमप्यामिषम् अतैलपक्वं गव्यधृतदुग्धजलसिद्धं पायसमक्तादिकं हविष्यम् , चणक (चना वा बूट) अाढकी (राहड़ि) । माष (उड़ीद)। (बोड़ा, कुरथी, कोद्रव, मडा, अाँसु धान ) इति सर्वमामिषम् । गोधूमं न हविष्यं न चामिषम् उभय- त्रानुल्लेखात् । परन्तु यवाभावे गोधूमग्रहणमिति स्मृतिषु दर्शनात्, सत्यदेवकथायां 'योधूमस्य च चूर्णकम्' इति च लेखप्रामाण्याद् दैवे कर्मणि बहुधा प्रयुज्यते । इवि. ध्यान्नेषु यवा एव मुख्याः। तदनु षष्ठिकाधान्यं, ततो हैमन्तिकमेवं क्रमः। कार्तिकेतु बहूनि हविष्याण्यप्यभक्ष्याणि उक्तानि । मरीचं न हविष्यः । इति । आमिषप्रतिपादकवचनाभिप्रायः (पृ०३३ मूले)- प्राण्यङ्गचूर्ण शुण्डा (संडा) दिकृमिजीवायववमिश्रितं हविष्यमप्यामिषम् ॥ अनेन शुक्तिशब्बूकास्थिसिद्धं चूर्णमप्यामिषं, यत्तमालपत्रे ताम्बूले च प्रायो बहुत्रोपयु- ज्यते चाम्बु चर्मनिर्मितपात्रगतजलं (मरुदेशे बहुधाऽस्य व्यवहारः) जम्बोरं जम्बीरजातिकं बीजपूरकं नेवो' इति प्रसिद्धम् । एतद्भिन्न बीजपूरकम् । (कमला, कागजी श्रादि) इविष्यमित्यर्थः । वा बीजपूरकं 'वेदाना' प्रसिद्धम् अयज्ञशिष्टं देवपितृ- यागशेषभिन्न माषादि माषजातिकमामिषम् । अनेन यज्ञोर्वरितं तदपि हविष्यदेव ।
-- , १७६ कृत्यसारसमुच्चयपरिशिष्टे- त्यर्थः । पद्धविष्यमपि विष्फोरनिवेदितमसमर्पितं तदप्यामिषम् । यदामिषमपि विष्णवे समर्पितं तद्धविष्यनेवति शेषः । दग्ध मर्जितं होरिकादिकं, धानादिकं वा हविष्यजाति- कमप्यन्नमामिषम् । यथा कलायो हविष्यं तल्लताफलपत्रं शुष्कतृणमिश्रितं कृत्वा यद- ग्निज्वालया प्रज्वाल्यते, तत्र तच्छेषं दग्धप्रायमेवान्नं होरिका कथ्यते । एवं यवभजनेन धाना उत्पद्यन्ते । मसूरं स्वरूपेणैवामिषम् । इत्यष्टघाऽष्टप्रकारकमामिषम् । तथाऽग्रे वचनान्तरे पुनर्मसूरिकाया उक्तत्वात् । गोलागीमहिषीदुग्धादिति, गोच्छागी अप्रसूता गौः, महिषी गोमहिषी मृतवत्सा गौः, अनयोदुग्धादन्यदन्यतरं दुग्धं तु आमिषम् । महिष्या दुग्धमामिश्म् ! दुग्धमेव केवलं न हि तद्दधिघृतादिकमपि । सर्वमामिष- मित्यर्थः । एवमजायाः मेध्याश्च दुग्घमामिषम् । एवं गोमिन्नसकलपशुदुग्धादिकमामि- षम् । गोष्वपि या स्वस्तनपायिनी, अमेध्या (विष्ठादि) भोजिनी, अन्यवत्सपायिनी, स्तनरोगिणी, तासां दुग्धादिकं न भक्ष्यमिति ! मानुष्या अपि दुग्धमभक्ष्यम् । (८ अथ चन्द्रोदयसमयसाधनम् , (पृ० ३६ मूले )। तत्र 'दर्शः सूर्यन्दुसङ्गमः' इत्युक्तलक्षणेऽमान्ते रविचन्द्रयोर्योगाद् द्रव्यपेक्षया चन्द्रगतेरधिकत्वात्तदुत्तरक्षणे सूर्यात् पूर्वाभिमुखगत्यन्तरेण चन्द्रस्य पुरतो गतत्वात्स्- योदयानन्तरं प्रवहवायुगत्याक्षिप्तस्य चन्द्रस्योदय एवं सूर्यास्तात्परस्ताच्चन्द्रस्यास्तोऽत एव सूर्यास्तापूर्वमेवोदयश्चन्द्रस्य शुक्लपक्षे भवति । एवं सूर्याद्गत्यन्तरकलामिरन्तरित- चन्द्रः पूर्णान्ते षड्भान्तरेऽतो यदा सूर्योऽस्तक्षितिजे, तदा चन्द्र उदयक्षितिजे भवति । एवं पूर्णिमाऽन्तोत्तरक्षणे सूर्यात्पृष्ठतः षड्मान्तरे चन्द्रस्य वर्तमान- त्वाद्रवावस्तक्षितिजस्थे चन्द्रस्य क्षितिजाधोवर्तमानत्वात्कियद्भिः कालैस्तस्योदयो भविता इति जिज्ञासा। अर्थाच्छुक्लपक्षे सूर्यास्तात्परं चन्द्रास्तः । कृष्णपक्षे तु सूर्यास्तात् परं चन्द्रोदयो भवति । स च कियता कालेन तदर्थ प्राचीनवचनमिदम्- तिथिगुणितं रजनीपरिमाणं यमरहितं, सहितं सितपचे। विषयशशाङ्कविभाजितलब्धं भवति विधूदयमस्तमयं च ॥ यथा कृष्णपञ्चम्यां तियौ रात्रिमानम् = ३०००, तिथिसंख्या ५ अनया गुणि- वम् = १५०००, कृष्णपक्षत्वाद् द्वाभ्यां रहितम् = १४३०० पञ्चदशभिर्मक्तम् = १४८०० =९ +९५२ लब्धं चन्द्रोदयमानम् । शुक्लपञ्चम्यां तु तदेव रात्रिमानं कल्पितम् ३००० इदं तिथि ५ गुपितम् = १५२।० १५०००, शुक्लपक्षत्वाद् द्वाभ्या युक्तम् = १५२।०० पञ्चदशभिर्भक्तम् = १५ १००८ लब्धमिदं चन्द्रास्तमानम् । एवमेवान्यस्यामपि तिथौ चन्द्रोदयास्तसमय- मानं साधनीयम् । यद्यपीदं महत्स्थूल तथाऽपि सूक्ष्मरीत्या तदुदयास्तकालसाप- नस्य प्रचुरप्रयाससाध्यत्वात् सकलसाधारणजमानामतीव दुर्घटत्वादयमेव स्थूलोऽजी- क्रियते।
- ११६६४००००-८४१ अत्रापि चन्द्रोदयसमयसाधननवान्नभोजननिर्णयः। १७७ अथवा शुक्लपक्षे सूर्यास्तसमये वर्तमानतिर्गतघटिकाः षष्टिघ्नगततिथुषु युक्तास्ताश्च स्वषडामगुणितास्तदा तदानीं रविचन्द्रयोरन्तरकलाः सिद्धा अर्थाचाभि- रस्तक्षितिजनिष्ठरवेः सकाशात्पूर्वस्याम् पुरतः क्षितिजोर्ध्वप्रदेशे चन्द्रोऽन्तरितो दृश्यते, स च तदन्तरकलोत्पन्नकालेनास्तं गमिष्यति । एवं कृष्ण साधिततदनन्तरकलोनखाष्टे- न्दुकलाभिरस्तक्षितिजनिष्ठरवेः पृष्ठतः पश्चिमस्याम् क्षितिजाधःप्रदेशेचन्द्रोन्तरितो भवति। सूर्यास्तानन्तरं कियता कालेन चन्द्र उदयक्षितिजे यास्यतीति जिज्ञासायाम् सषड्भसू- यस्य चन्द्रस्य चान्तरकलाः साध्याः । अर्थाद्यदा सूर्यस्यास्तस्तदैव सषड्भसूर्यस्योदयो भवति । तत्र सषड्भसूर्योदयात्कियता कालेन चन्द्रोदय इति साध्यमस्ति । अत्रोभयत्र स्थितौ कालज्ञानार्थमनुपात:--चन्द्रगतिकलोत्पन्नासुयुतषष्टियटिकाभिः षष्टिघटिका- स्तदा साधितान्तरकलाभिः का इत्यनुपातेन कालज्ञानं भवति । अत्र गतिकलोत्पन्ना- सु स्थाने सुखार्थ गतिकलातुल्यासव एव गृहीतास्तत्र यथा शुक्लपञ्चम्यन्तेऽन्तरकलाः ६०४३६०० २१६००० -५४१२४६०-३६००ाभ्यः काल:- २१६०००४(७९०३५) २२३९०३५ =८४१ अत्रापि स्थूलता वर्चते एव यतश्चन्द्रस्यैकपरिवर्तनं स्वसा- १३४३४३५ वनदिने भवति गतिकलोत्पन्नासुयुतषष्टिघटिका तु रविसावनदिनेऽतस्त्रैराशिकविधानं न साधु तथाऽपि पूर्वप्रकारापेक्षया स्वल्पान्तरेति । (९) अथ नवान्नभोजननिर्णयः, (पृ० ४४ मूले) अथ नवान्नभोजनमित्यनेन विहितसमये देवपितृसमर्पणपूर्वकं नूतनानस्य प्रथम- भोजनम् । तदुक्तं स्मृतिसारे--व्रीहिशालियवाम्बूनि देवेभ्यो नूतनानि च । पितृभ्योऽप्यसमाथ न भुञ्जीत शुभेच्छुकः॥ तस्माच्छुमे दिने देवान् पितृन् भक्त्या निवेद्य वै। स्वयं च मुदितो भूत्वा भुञ्जीत स्वजनैः सह ।। तथा च शब्दकल्पद्रुमे-- अदत्वा यस्तु भुञ्जीत नवान्नानि कथंचन | न तस्य धमों विद्यत एवमेव न संशयः॥ तथा च शातातपः-- नवोदके नवान्ने च गृहप्रच्छादने तथा । पितरः स्पृहयन्त्यनमष्टकासु मधासु च ॥ तथाचोक्वं वायुपुराणे-- अकृताग्रयणं चैव धान्यजातं द्विजोतम ! । राजमावानणूंचैव मसूरांश्च विवर्जयेत् ॥ येन नवजातान्नेन यावत्पावणं नाचरितं तत्वावदकृताग्रयर्ण हविष्यानमप्यामिषव- ब्यवहर्त्तव्यम् , तन्न पूर्व स्वयं भक्षणीयमित्यथः । राजमाषा (बोड़ा) अण्वः (अकटामिसिया), अनेन नितराम् तदावश्यकत्वं प्रतिपादितम् । अथ ये पार्वणानधिकारिणो बालकाः त्रियश्र तेषाम् कृते अभिनववर्धमान- निबन्धधृतस्मृतिरेवम्-- २३ कृ० सा० -- , । -- १७८ कृत्यसारसमुश्यपरिशिष्टे "देवताभ्यो द्विजायाथ दत्त्वान्नं प्राशयेनबम् ।" पार्वणासमर्थस्यायमेवान्नसंस्कारप्रकारः । अथ तनवान्नं त्रिविधं, शरदि (कार्तिकस्यादिहितवादाश्विनशुक्लपक्षे) नीहिधान्येन, हेमन्ते (पौषस्याविहितत्वान्मार्गशुक्लपक्षे) हैप्रन्तिकान्नेन, वसन्ते चैत्रत्याविहितत्वाद्वैशाखशुक्लपक्षे) यवेन पार्वणं कर्त्तव्यम् । तत्र हैमन्तिकनवान्नविषये समयनियम उक्तो वराहपुराणे- वृश्चिके पूर्वभागे तु नवान्नं शस्यते बुधैः । अपरे क्रियमाणे तु धनुष्येव कृतं भवेत् ॥ धनुषि यत कृतं श्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन्न गृह्णन्ति नवान्नामृत (मिष ) काक्षिणः॥ अत्र वृश्चिके पूर्वभाने त्रयोदशांशाभ्यन्तरे,--अयमेवायों बहुभिः स्मृतिनिबन्ध- बन्धकः किल कृतो वचनान्तरप्रामाण्यात् । तथा चोक्तं ज्योतिःसारसमुच्चये-- त्रयोदशांशपर्यन्तं वृश्चिके च यदा रवौ । स्वच्छे पक्षे च चन्द्रे च वारे ज्ञगुरसंज्ञके ॥ नवान्नं तत्र कुर्वीत शुभे चन्द्रे च ऋदके ॥ तथा च कविवरपण्डितविद्यापतिठक्कुरकृतज्योतिः सारसमुच्चये- वृश्चिकस्थे खौ त्यक्त्वा वासराणि त्रयोदश । नवान्नै विहितं श्राद्ध धनुष्येव कृतं भवेत्॥ परन्तु राशेस्त्रिंशदंशात्मकत्वात्पूर्वभावे पञ्चदशांशाभ्यन्तरे इत्येवार्थस्तावत्साधारणो- पस्थित्याऽऽयाति । कथं तर्हि त्रयोदशांशाम्यन्तर इति पूर्वभागस्यार्थोऽनेकनिबन्धेषूप- लभ्यते, तत्र हेतुस्तु म. म. पं० वाचस्पतिसिश्रमहोदयः स्वकीयद्वैतनिणये व्यक्ती- कृत:--'त्रयोदशांशानन्तरं धनुरतिदेशः । सायनराश्यभिप्रायेणेति । अर्थात्सायननिरयणमेदाभ्यां द्विविधा गणना भवति । तत्र यद्यपि निरयणगण- नाऽपेक्षया सायनगणनैव शीतोष्एयदिनह्रासवृद्धिफलजलसस्योत्पत्तिपाकनिदानीभूतत्वेन प्रधाना, तथाऽप्येतद्द शे निरयणगणनानुरोधेनैव पञ्चाङ्गप्रचलनादुभयगणनाऽनुरोधे- नात्र मार्गशोमासो गृहीतः । यथाऽधुना धनायनाम्शावसरे धनुषो निरयणसंक्रम- पात्पूर्वमेवायनांशसमसौरदिनैः सायनधनुः संक्रमणं भवति । तत्त निरयणवृश्चिक- संक्रमणात्पश्चादयनांशोनत्रिंशदशैर्भवति, इति प्रदर्शितयुक्त्या तदानीन्तनसप्तदशमि- तायनांशत्वेन सप्तदशोनत्रिंशदंशानाम् त्रयोदशसमत्वाद् वृश्चिके निरयणमानेन अयो- दशांशान्वे सायनमतेन वयंपौषमासारम्भत्वात् सचार्थस्तत्समये एव युक्ताऽस्ति । अय- नांशानाम् चलत्वात्सार्वत्रिकस्तादृशोऽथों न करणीयोऽर्थादधुना सावयवैकविंशतिमि- तायनांशे सावयवाष्टानामंशानामभ्यन्तरे एवोभयगणनाऽनुरोधेन मार्गस्य शुद्धविहित- समयलाभाचदन्तरे एव नवान्नश्राद्धादि विहितं सिद्ध्यति न हि त्रयोदशांशाभ्यन्तरे । फिञ्च पूर्वे चतुर्दशांशादौ सायनपौषमासपातेन यो दोषः स चाधुना सावयवाष्टांशो- तरसमये एवापतति । एवमृणायनांशसमये सप्तदशेऽयनांशे निरयणवृश्चिकसंक्रमात्प- रमेव सायनवृश्चिकसंक्रान्तिसम्भवः । तत्रोभयगणनानुरोधेन सायनवृश्चिकसंक्रमणा- नवान्नभोजननिर्णयः। १७९ त्परं निरयणधनुःसंक्रमणपर्यन्तं शुद्धमार्गमासः । अन्निरयणवृश्चिकसंक्रान्तितः परमयनांशाभ्यन्तरे सायनगणनया कार्चिकत्वात् तत्य वय॑त्वात् । अयनांशसंख्यकां- शान्तरे मृगनेत्रारात्रीवर्जयित्वा कार्यम् । अत्र 'अपरे क्रियमाणे तु धनुष्येव कृतं भवेत्' इत्यपि सायनगणनाऽनुरोधं प्रकटयति पोषयति च । अथैवं सप्तविंशत्ययनांशे पूर्वभागस्य त्रिमितांशाभ्यन्तरे इत्यर्थः स्यात् परन्तु विंशतिकलाधिकत्रिमितांशान्तं यावद्विशाखा- स्थरवित्वेन वयंमतस्तस्मिन् समये मार्गेऽनवकाशाद् नवान्नभोजनादिकं न भविष्यति, तदानीं तु मावे कर्त्तव्यम् । वृश्चिके नवान्नभक्षणासंभवे माघादौ श्राद्धपूर्वकं नवान्न- भक्षणं युज्यते एवेति श्राद्धविवेकः । अस्तु तावदियं नवीना पद्धतिः। अथ 'मृगनेत्रासु रात्रिषु' इत्यत्र मृगनेत्राप्रमाणम्- वृश्चिकस्थरवेः शेषदशसंख्यदिनेषु च । दिनानि दश मावस्य पौषत्य सकलं दिनम् ॥ मृगनेत्रा समाख्याता नवान्नं तत्र वर्जयेत् । अनेन वृश्चिकस्य विंशत्यशपर्यन्तं नवान्नयोग्यसमयः । तथा चान्यमतेन मृगने- त्राप्रमाणम्- वृश्चिके सप्त रात्राणि त्रिंशद्रात्राणि कार्मुके। मकरे सप्तरात्राणि मृगनेत्राः प्रकीर्तिताः। अत्र वृश्चिकान्तिमसप्तरात्राणि। धनुषः सर्वाः। मकरे सप्त, एता मृगनेत्राः। अनेन तु वृश्चिकस्य त्रयोविंशत्यंशपर्यन्तसमयो नवान्ने विहित इत्यायाति । तथा च गौडीयवर्षकृत्ये- दिनत्रयाधिके विंशे दिने मार्गस्य वै गते । मृगनेत्रा स्मृता रात्रिनवान्नं तत्र वर्जयेत् । तथा च कृष्णपक्ष भृगुदिनेविशाखास्थे विवस्वति। एकविंशांशकादूर्ध्वं नवान्नं परिवर्जयेत्।। इत्यस्यायमाशयः-श्रादितो दिनत्रयं विशाखास्थसूर्येण प्रतिषिद्धम् । अन्ते च सप्तदिनानि मृगनेत्रात्वेन वर्जितानि | मध्येऽवशिष्टा विंशत्तिवासरा एकविंशत्यासन्नाः । तथा चोक्तं तिथितत्त्वे- ज्येष्ठाशेषागे सूर्ये मृगनेत्रानिशांत्मके । नवान्नविहितं श्राद्ध जन्मचन्द्रतिथौ न च ॥ आश्लेषा कृत्तिकाज्येष्ठामूलाजपदभेषु च । भृगुभौमदिने रिक्तातिथौ नाद्यान्नवौदनम् ।। अत्र ज्येष्ठाशेषार्धगे सूयें दोषदर्शनात्तत्पूर्वाद्धं नवान्नस्य विहितत्वं सिद्ध्यति । तत्र ज्येष्ठाऽन्ते वृश्चिकान्तत्वात्प्रत्येकचरणप्रमितनवांशवाज्ज्येष्ठा यावत्सप्तनवांशा विंशति कलाधिकत्रयोविंशत्यंशसमाः स्युः । तेन तस्याभ्यन्तरे विहितत्वं सिद्धम् । एवं केषां चिन्मतेन त्रयोदशांशाभ्यन्तरे केषांचिन्मतेन 'त्रयोविंशत्यंशाभ्यन्तरें कस्यचिन्मतेन पञ्चदशांशाभ्यन्तरे कस्वचिन्मतेन विंशत्यंशाभ्यन्तरे विहितसमयः सिद्ध्यति तत्र कस्य मतं ग्राह्यमित्यत्र विचार:-तत्र सायनगणनानुरोधेनाष्टांशाभ्यन्तरे। तदुपेक्षाया त्रयो- दशांशाभ्यन्तरे वा पञ्चदशांशाभ्यन्तरे विहिततिथ्यादौ विधेयम् । तत्रापि दोषैरनवकाशे मृगनेत्रातः प्राक्कर्तव्यमिति द्वितीयः पक्षः । तत्र विद्वद्वरैरपूछशर्ममहोदयैनिर्णयार्के त्वेवं विलिखितम् । तथा च पञ्चदशोऽश के मिथिलायाम् व्यवहारो वृत्चस्तयाहि, प्राचीनपद्यम्- १८० कृत्यसारसमुच्चयपरिशिष्टे- "शास्त्रोदितो वृश्चिकपूर्वभागे विद्वन्मते पञ्चदशे तदंशे । श्री भैरवेन्द्रो नृपमौलिरत्नं व्यधाबुधख्यातयशा नवान्नम् ।' इति श्राद्धदर्पणकृतोक्तम् । ननु वृश्चिके परभागे नवान्न निषेधमुक्त्वा पुनर्मूग- नेत्रारात्रिनिषेधो व्यर्थ एव वृश्चिकान्ते मृगनेत्राणां परभागान्तभूतत्वादितिचेत् १ उच्यते तर्हि शृणूत्तरम् - यदि त्रयोदशाशाभ्यन्तरे शुक्लपक्षाद्यलामस्तदा तदनन्तरमपि मृग- नेत्रारात्रिप्रारम्भात् पूर्व चतुर्दशांशादौ च वृश्चिके नवान्नं कार्यमित्यर्थलामायात्यन्त- निषेधपरत्वेन सार्थकत्वमिति वामदेवोपाध्यायादीनां सम्मतम तत्रोक्तं ज्योतिषे- सूर्ये चैव विशाखगे स्मरतिथौ तारे त्रिजन्मान्विते नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्तिके। भेषग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धं भोजनकं नवान्नविहितं पुत्रार्थनाशप्रदम् ।। विशाखगे सूर्येऽर्थावृश्चिकसंक्रमादिशतिकलाधिकांशत्रये । विशाखान्तिमचर- पस्यैव वृश्चिकराश्यान्तर्गतत्वात् । तथा प्रतिपयव्येकादशात्रयोदशीतिथिषु प्रथमतृतीय पञ्चमसप्तमतारासु शनिमंगलशुक्रदिनेषु पौषचैत्रकार्तिकमासेषु पूर्वफल्गुनीपूर्वाषाढ़पूर्व- भाद्रभरणीमघाऽश्लेषाऽऽनक्षत्रेषु हरिशयने (अत्र सौरमानेन मासग्रहणायदा कार्तिकशुक्लप्रतिपद्वितीयादौ वृश्चिकसंक्रान्तिसम्भवेऽपि हरिशयनात्पूर्वसमयस्य विशेषनिषेधत्वेन कार्तिकस्य पूर्वोक्तत्वादपि शुक्लकादश्यन्तसमये ) । ब्रीहिपाक- निमित्तकस्य नवान्नस्याश्विनशुक्लपक्षे विधानाचस्य हरिशयनान्तर्गतत्वादपि न दोषः । दोषस्तु हैमन्तिकनवान्ननिमित्तक एव । कृष्णे कृष्णपक्षेऽष्टमचन्द्रे नवान्नकतु रिति शेषः । तस्यैव पुरतोऽनिष्टफलदर्शनात् । एषु कृतं नवान्नविहितं पार्वणश्राद्ध- नवान्नभोजनञ्च पुत्रधनक्षयकरम् । अत्रायनांशाना धनत्वात्सायनानुरोधेनाशसीमा न कृतेति मन्ये । अत्र शुक्रवारनिषेधस्तु नवान्ननिमित्तकश्राद्धकरणपक्षेऽस्ति । यतः- नन्दाया भार्गवदिने त्रयोदश्या त्रिजन्मनि । एषु श्राद्धं न कुर्वीत पुत्रदारधनच- यात् ॥ इति रत्नावल्यादिलिखितत्वात् । तथा च नवान्नमधिकृत्य पक्षधरीयसु- बोधे–नन्दा त्रयोदशी रिक्तास्तिथयः श्रादकर्मणि । वर्जनीयास्तथा शुक्रः सर्वदा सूरिभिः पुनः॥ इति वचनेन च नवान्ननिमित्तकश्राद्धे शुक्रस्याविहितत्वात् , तथा च 'वारे गुरु- शभृगुशीतगुभास्कराणा नव्यान्नभोजनमभीष्टकर नराणाम्' इति कृत्यचिन्तामणि- वचनाद्यस्य नवान्ननिमित्तकं पार्वणश्राद्धं न तेन, शुक्रवारे नवान्नभक्षणं कार्यमिति तत्त्वनिर्णयोक्तेश्च शुक्रवासरो नवानमक्षणे प्रशस्तस्तथापि 'सूर्ये चैव विशाखगे स्मर- तियो' इत्यादिसर्वदेशस्मृतिकाराहतवचनेन स च वारो वज्य एव विज्ञेयः। तद्वच- नान्ते पुत्रार्थनाशप्रदमिति नवान्नमोजनविघानेऽपि दर्शनात् । अत्र कृष्णपदः सम्पूर्णो निषिद्ध इति रुद्रधरोपाध्यायवाचस्पतिमिश्रपक्ष- नवान्नभोजननिर्णयः। १८१ धरमिश्रकेशवमिश्रा आहुः । वामदेवोपाध्यायैस्तु-कृष्णपक्षनिषेधः पञ्चम्यू- वमेव 'शुक्लपक्षे विशेषेण कृष्णेऽप्यापञ्चमन्दिनम्' इतिवचनाद् विहितः । तथा च व्यवहाररत्ने 'पञ्चम्यन्ते सितेतरे इति । यदि हरिशयन-शुक्रकुजशनि-नन्दा- रिक्तात्रयोदशी-विशाखात्थसूर्यवय॑नक्षत्रादिदोदैः कार्चिक्शुक्लपक्षो वृश्चिकार्कयु- कोऽपि सङ्कुलो भवेचदा मागकृष्णपक्षीयपञ्चम्यवधिकसमवेऽपि कर्जन्यमेव । यस्तु सकलः कृष्णपक्षो निषिध्यते देवान् नते शुक्लपक्षे शुद्धदिनलामे सति तनिषेषो बोध्यः । तथा भोजराजः-- चैत्रे पौषे कृष्णपक्षे नवान्नं नाचरेद्बुधः । भवेजन्नान्तरे रोगी पिणः नापतिष्टते ।। इति वचनत्य चैत्रे यत्रपाकनिनित्तकस्य, पौषे हैनन्तिकत्य, कृष्णपक्षे ब्रीहिपा- कनिमित्तकस्य क्रमेण निषेध उत्तोऽत एव कृष्णपक्ष हैमन्तिकनवान्नत्य विहितत्व- मुक्तं द्वैतनिर्णये म. म. नरहरिमितद्वहुसम्मनत्वाव्यवहारविरोधाच्चोपेक्षणीयमेव । तथा चोक्तं रत्नाकरण-- शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् । नुतिथौ तुमुत्तं च नवान्न कलकाक्षिणः ।। नवान्नश्राद्धं कुर्युरिति शेषः । तथैवोक्तं ज्यौनिपे-- नवान्नं नैव नन्दायां न प्रसुन्ने जनाईने । न कृष्णपक्षे धनुषि तुलायां नैव कारयेत् ।। तथा च कामधेनुः-- कृष्णपद नवान्नन्तु न कुर्यान्मानवो यतः । पितरस्तन्न गृहन्ति नवान्नामिषगर्दिनः ।। तथा च-- कृष्णपक्षे नवान्नं तु न कुयान्नानको क्तः । पितरस्तन गृहन्ति दाता तु नरकं व्रजेत् ।। एषु वचनेषु कृष्णपक्षस्य स्पष्टतया निषेधदर्शनाद्भोजराजवचनत्य क्रमगतार्थकल्पनं नरहरिमिश्राणां न सर्वसम्मतमिति । तथा च जन्मनक्षत्रमपि वयमुक्तं भारते- 'जन्मनक्षत्रे न कुर्वांत नवान्नं कर्न कुत्रचित् ।' तथाच रत्नकलापे- वेन्द्रपैत्राहिशतायाम्यजन्मान्यऋक्षेनु कुनार्किभिन्नाः । वाराः प्रशस्तास्तिथयो नवान्ने गोमीनकन्यामिथुनं च लग्नम् || तथा च-नन्दायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि । नवान्नं नैव कर्त्तव्यं सर्वथा हानिमाप्नुयात् । तथा च-- आश्लेषाकृत्तिकाज्येष्ठामूलाजपदभेषु च । भृगुभौमदिने रिक्तातियो नाद्यान्नवौदनम् ।। तथा चोक्तं भुजबलभीमेन- नवान्नभोजनं नृणां मृदुक्षिप्रचरैः शुभम् । शुमेक्षितयुते लग्ने विषनाडीविवर्जिवे ॥ नवान्नं नैव नन्दाया मासे पौषे मघौ तथा। एवं मुहूर्त्तचिन्तामणौ- नवानं त्याच्चरक्षिप्रमृदुमे सचनौ शुभम् । विना नन्दाविषघटीमधुपौषार्किभूमिजान् ॥ अत्र चरसंज्ञकाः स्वातीपुनर्वसू श्रवणनिधाशतभिषाः। क्षिप्रसंशकाः हस्ताधि- १८२ कृत्यसारसमुच्चयपरिशिष्ट- नोपुण्याभिजितः । मृदुसंज्ञकाः भृगशिरोरेवतीचित्राऽनुराधाः । एतेषु नक्षत्रेषु शुभ- लग्ने प्रतिपदेकादशीषष्ठीतिथिविषघटीचैत्रपौषशनिकुजान् विहाय नवान्नं सदित्यर्थः । अत्र रिक्तात्रयोदशीतिथयः । शुक्रवासरः । कृष्णपक्षश्च । कार्चिकोमासः। विष्णुश- यनम् । विशाखाथसर्यश्चैतेऽन्यत्र वर्जिता अप्यस्मिन् वचने वय॑त्वेन नोक्ताः तथा चाश्लेषावृत्तिकेत्यादौ नन्दाग्रहणं न कृतम् । अतोऽत्र सकलवचन.पादितवयंति- थिनक्षत्रदिनपक्षमासाने कत्र सङ्कलव्य तेषु न कर्त्तव्यम् । न ह्येकदेशिवचनबलावलम्वे- नान्यवचनविरोधेन च केनापि व्यवहर्त्तव्यम् । सकलवचनानां मान्यत्वात् । विषष्टी तु-तत्तन्नदत्रे भिन्नभिन्नदण्डमानात्परं चतस्रो घटिका भवन्ति । ता अन्ते प्रतिपादयिष्ये। अथ भोजराजः- ब्रह्माविष्णुवृहस्पतीशशधरो मार्तण्डपौष्णादिती मैत्रे चित्रविशाखवायुधनभे मुताश्विवह्नौ तथा। शाके वारुण्ऋक्षके शुभदिने भाई नवं शस्यते नन्दा भार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नोद्भवम् ॥ ब्रह्मा रोहिणी, विष्णुः श्रवणम् , वृहस्पतिः पुष्यम् । शशवरो भृगशिरः, मार्च-. एडो हस्तः, पौष्णं रेवती । अदितिः पुनर्वसू, मैत्रमनुराधा, चित्रा, विशाखा, वायुः स्वाती, धनभं धनिष्ठा, मूलम् , अश्विनी वह्निः कृत्तिका, शक्रो ज्येष्ठा, वारुणं शतभिषा, एतेषु नक्षत्रेषु शुभदिने पूर्णबलचन्द्रबुधगुरूणाम् दिने नवान्ननिमित्तकश्राद्धं शस्यते । शेषं स्पष्टम् । तथा च कृत्यचिन्तामणौ-- हस्तियुगलेऽदितियुगले पूषायुगले विरञ्चियुगले च । करपञ्चकोचरेषु च नवानफलभक्षणं शस्तम् ।। हरियुगले श्रवणधनिष्ठे, अदितियुगले पुष्यपुनर्वसू , पूषायुगले रेवत्यश्विन्यौ, विरञ्चियुगले रोहिणीमृगशिरसी, करपञ्चकोचरेषु इस्तचित्रास्वातीविशाखाऽनुराधोत्त- रफल्गुन्युत्तराषाढोचरभाद्रेषु । शेषं स्पटम् । तथा च रत्नकलापे-- पौषणाश्वितिष्यपवनादितिमित्रचित्रामूलानलाश्रवणशीतगभस्तिशकाः । ताराऽनुकूलदिवसे शशिनि प्रशस्ते धन्या नृणामभिनवौदनभोजनेषु ।। अत्र मूलस्य विहितत्वमन्यत्राविहितत्वं चेत्यत्राय भावः-श्राद्धशेषानभोजन मूल- नक्षत्रे नवान्ने कृतेऽप्रशस्तम् । अत्र सर्वसम्मतनक्षत्राणि- अश्विनी, रोहिणी, मृगशिरा पुनर्वस् , पुष्यम, हस्तः, चित्रा, स्वाती, विशाखा, अनुराधा, श्रवणा, धनिष्ठा, रेवती, एतान्युत्तमोचमानि । मतत्रयविहितानि- उसरफल्गुनी, ज्येष्ठा, उत्तराषाढा, शतभिषा, उत्तरभाद्रम्, एतानि उत्तमानि । मतद्वयविहिते कृत्तिकामूले साधारणे (मध्यमे) तत्र कृते नवान्नश्राद्धे शेषान्नं न भक्षणीयम् । शेषाणि भानि वाणीति । तत्र वृश्चिकत्रयोदशांशाभ्यन्तरसमयः कृष्णपक्षहरिशयनरितानन्दात्रयोदशी शुक्रशनिकुज-वासरवय॑नक्षत्रविशाखास्थसूर्यादिदोषैः सङ्कुलो लभ्यते, तदा पञ्चद- । -- -- - संक्रान्तिनिर्णयः । शांशान्तरे विंशत्वंशान्तरेऽपि कर्त्तव्यमेव; तथा प्रमाणदर्शनात् । यदि तत्राप्यनवका- शस्तदा माघे कार्यन्न तत्रांरासीमानियमः फाल्गुनत्य विहितत्वात् । केवलं पक्षतिथि- नक्षत्रदिनानामेव । तत्पार्वणन्तु 'पाक विनैवामान्नेन कर्तव्य द्विजैरपि ।' तथा चाह हारीतः-श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ॥ इति । मासिकं सांवत्सरिकञ्च श्राद्धं वर्जयित्वा अमावास्याश्राद्धमादिशब्दान्नवान्नादि. नियतश्राद्धमामान्नेनैव द्विजैरपि विधेयमित्यपराकः । अत्र आमलक्षणं तु वशिष्ठेनोक्तम् सस्य क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । श्रामं वितुषमित्युक्तं सिद्धमन्नमुदाहृतम् ॥ अग्निजलसंपर्करहितमेव धान्यं तुषनिमुक्त सदामान्नमुच्यते । तंत्तु पूर्वाह्न एव विधेयम् । तथा चोक्तं शातातपेन-- अामश्राद्धन्तु पूर्वाणे एकोद्दिष्टन्तु मध्यतः । पार्वणञ्चापराणे तु प्रातवृद्धिनिमित्तकम् ।। अत एवास्माकं देशे पूर्वाङ्गसमय एव नवान्नश्राद्धमाचरन्ति जनाः। अथ विषघटिकाः कश्यपोक्ताः-- विपद्वाणा ५० वेददलाः २४ खरामा ३० ब्योमसागराः ४० । वेदचन्द्राः १४ चन्द्रदत्राः २१ खरामाः ३० व्योमबाहवः २० ॥ नेत्राग्नयो ३२ व्योमगुणाः ३० शून्यदनाः २० गजेन्दवः १८ । क्ष्माबाहवो २१ वियद्दनाः २० शकाः १४ चन्द्राः १ खभूमयः १॥ वेदचन्द्रा-१४ स्तर्कबाणाः ५६ वेददलाः २४ खबाहवः २० ॥ व्योमेन्दवो १० व्योमचन्द्राः १० धृतय-१८ स्तर्कभूमयः । वेदाश्विनः २४ खरामाः ३० स्युनिद् िघटिकाः क्रमात् ।। आभ्यः पुरस्तात् क्रमशश्चतस्रो विषनाडिकाः । ऋक्षाद्यन्तषटीनिघ्नाः षष्टिभकाः स्फुटाः स्मृताः॥ विषनाडीदोषदुष्टं लग्नं सर्वगुणान्वितम् । शुभैः सर्वेश्च संयुक्तमपि पञ्चेष्टकं त्यजेत् ॥ इति नवान्नभोजननिर्णयः समाप्तः। अथ संक्रान्तिनिर्णयः। तत्र पूर्वराशितोऽपरराशौ रविबिम्बकेन्द्रस्य यत् क्रमणमाक्रमणं सदेव संक्रमण संक्रान्तिर्वेत्युच्यते । परन्तु पूर्वापरराशिसन्धिबिन्दुगतसूर्यबिम्बकेन्द्रकालस्यातिसूक्ष्म- त्वात् तदानीं स्नानदानादिविधानानहत्वाचद्विम्वपूर्वप्रान्तस्पृष्टराशिसन्धिसमयाचदप- रप्रान्तस्पृष्टराशिसन्धिसमयावधिकः कर्मयोग्यः कालः पुण्यजनकत्वेनोक्तः । तथोक्तं देवलेन- संक्रान्तिसमयः सूक्ष्मो दुर्जेयः पिशितेषणैः । मुख्यालामे तु गौणेऽपि कार्या दानादिका क्रिया।
- १८४ मृत्यवारसमुच्चयपरिशिष्टे- अत एव तत्र सूक्ष्मसंक्रान्तिकालादुभयतः षोडश पोडश घटिकाः साधारण्यैन पुण्यकालस्तथाऽऽह वशिष्ठः- दिनपतिसंक्रमणात् प्रा षोडश नाड्यश्च पुण्यकालः स्यात् । परतः षोडशः नाड्यः सर्वत्र स्नानहोमदानेषु ।। तथोक्तं ज्यौतिषे–'पूर्वतोऽपि परतोऽपि संक्रमात्पुण्यकालपटिकातु षोडश ।' एवमेव रामाचार्य आह- "संक्रान्तिकालादुभयत्र नाडिकाः पुण्या मताः षोडश षोडशोष्णगोः" ।। अथ राशिभेदेन संक्रमणात् पूर्वापरसमययोर्विशेषपुण्यकाल उक्तो यथा-याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः॥ याम्यायने कर्कसंक्रान्ती, विष्णुपदे, सिंहवृश्चिकवृषकुम्भराशिसंक्रमे च श्राद्याः सूक्ष्मसंक्रान्तिकालात् पूर्वगताः यथा पुण्यास्तथा परगता न। तुलाजयोस्तुलामेषयो- मध्याः उभयतः षोडश घटिकाः, अथवाऽष्टौ पूर्वगता अष्टौ परगता घटिकाः । क्वचिदेतद्भिन्ना दृश्यन्ते | यथाऽह गार्ग्य:- "ककटे विंशतिः पूर्वी मकरे विंशतिः पराः॥ वर्तमाने तुलामषे नाब्यस्तुभयतो दश" ॥ इति । षडशोत्यानने = मिथुनकन्याधनुर्मीनसंक्रान्तिषु, सौम्यायने मकरसंक्रान्तौ च पराः सक्ष्मसंक्रान्तिकालादुत्तराः षोडशघटिकाः अतिपुण्यदाः । अर्थात्पूर्वगतकालापेक्षया पराः विशेषपुण्या इत्यर्थः । अयनसंक्रान्तौ विशेषमाह वृद्धवशिष्ठः । हेमाद्रिमते तु-मकरसंक्रमे 'परतश्चत्वारिंशद्घटिकाः तदुक्तं यथा- "त्रिंशत्कर्कटके नाज्यो मकरे तु दशाधिकाः ॥" दशाधिकास्त्रिंशदाचत्वारिंशद्धटिकाः पराः पुण्या इत्यर्थः । अतोऽत्रायं निर्गलितार्थः- मेषसंक्रमणे प्रागपराः दश दश घटिकाः पुण्याः । वृषसंक्रमणे पूर्वाः षोडश घटिकाः पुण्याः ।। मिथुनसंक्रमणे पराः षोडश घटिकाः । कर्कसंक्रमणे पूर्वास्त्रिंशद्धटिकाः । सिंहसंक्रमणे पूर्वाः षोडश घटिकाः । कन्यासंक्रमणे पराः षोडश घटिकाः । तुलासंक्रमणे प्रागपराः दश दश घटिकाः । वृश्चिकसंक्रमणे पूर्वाः षोडश घटिकाः। धनुःसंक्रमणे पराः षोडश षटिकाः । मकरसंक्रमणे पराश्चत्वारिंश घटिकाः । कुम्भसंक्रमणे पूर्वाः षोडश घटिकाः । मीनसंक्रमणे पराः षोडश घटिकाः पुण्याः । इति सर्व दिवा संक्रमणविषयकम् । रात्रिसंक्रमणे पूर्वमध्यपरभागवशेन पुण्यकालव्यवस्था त्रिविधा, यद्यर्धरात्रात् पूर्व संक्रान्तिस्तदा तदिनाघर्घोत्तरकालः पुण्यकालः। यद्यर्धरात्रात् परं संक्रान्तिस्तदाऽ- प्रिमदिनपूर्वार्धमेव पुण्यम् । यद्यर्धरात्रे एवं संक्रान्तिस्तदा पूर्वदिनोचरा परदिनपूर्षाध चेयुभयदिनगतः पुण्यकालः । इति सामान्यत उक्तं ब्रह्मसिद्धान्ते- .
- सकलसंक्रान्तिनिर्णयः। १८५ भवनान्तं बिम्बमध्यं राज्यर्धात् प्रागुदेति चेत् । स्नानदानादि मध्याह्नादूर्व कुर्याद्गते दिने । राज्य_दुपरि क्षेत्रं याति चेदन्यथाऽयमा । अन्यगामिनि मध्याह्वात्पूर्व स्नानादि पुण्यदम् ।। भवनान्तं राश्यन्तम् । वा राश्यादि, य एव पूर्वराश्यन्तः स एव परराशेरादिः । बिम्बमध्यं रविबिम्बकेन्द्रम् । क्षेत्रं राश्यादि । अर्यमा सूर्यः । एवमेवोक्तं वृद्धवशिष्ठन- अहि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्रमणे भानोदिनार्ध नानदानयोः ॥ अर्धरात्रादधस्तस्मिन् मध्याह्नत्योपरि क्रिया । ऊवं संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ मध्याह्नस्य पूर्वदिनार्धस्य । उदयादूर्ध्वमग्रिमोदयादूर्ध्वमर्थात्परदिनपूर्वार्धमिति भावः । तथा चोक्तं तेनैव- पूर्णे चेदर्धरात्रे तु यदा संक्रमते रविः। प्राहुनिद्वयं पुण्यं मुक्त्वा मकरकर्कौ ॥ तथा चोक्तं तेनैव- यद्यर्धरात्र एव स्यात्सम्पूर्णे संक्रमो रवः। तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥ एवमेव रामाचार्याः-निशीथतोऽगिपरत्र संक्रमे पूर्वापराहणान्तिमपूर्वभागयोः । निशीथतो मध्यरात्रात् । अकि पूर्व संक्रमणे सति पूर्वदिनान्तिमभागः । परत्र = पश्चात् संक्रमणे परदिनपूर्वभागश्च पुण्यः इति क्रमेण योज्यम् । तथा च 'पूर्णे निशीथे यदि संक्रमः स्यादिनद्वयं पुण्यमिति' । एवमेव देवीपुराणेऽपि- मीनार्धं भास्करे पुण्यमपूर्णे शर्वरीदले । सम्पूर्णे तूभयोर्देयमतिरेके परेऽहनि ॥ परन्तु मकरकर्कटसंक्रान्त्योर्नेहशी नियता संस्था, तत्र तु 'मुक्त्वा मकरकर्कटौ' इत्यनेन भिन्नो नियमः सूचितः । तथाऽऽह वृद्धगायः- यदाऽऽस्तमनवेलायां मकरं याति भास्करः । प्रदोषे चाधरात्रे वा स्नानं दानं परेऽहनि ।। अर्घरात्रे तदूर्व वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिन ग्राह्यं यावन्नोदयते रविः ।। अर्थात्कसंक्रान्ती रात्रः कस्मिन्नप्यंशे भवति तदा तत्पुण्यकालः पूर्वदिने एव मध्याह्नोत्तरकालः। रात्रः कस्मिन्नंशेऽपि मकरसंक्रमे परदिने एव पुण्यकालः। एवमेव भविंध्येऽपि- 'यद्यस्तमनवेलायां मकरं याति भास्करः । प्रदोषे चाधरात्रे वा लानं दानं परेऽहनि ॥ परमयं सम्प्रदायो द्राविडदेशीयविशेषतयाऽऽद्रियते। तीरभुक्त्यादिदेशे तु- म. म. महेशठक्कुरैः, म. म. वामदेवोपाध्यायैश्चैवं व्यवस्थोक्ता- धनुर्मीनावतिक्रम्य कन्यां च मिथुनं तथा । पूर्वापरविभागेन रात्री संक्रमणं वदा ।। दिनान्ते पञ्चनाड्यस्तु तदा पुण्यतमाः स्मृताः। उदयेऽपि तथा पञ्च दैवे पित्र्ये च कर्मणि इति तु मकरकर्कटाभिन्नेऽपि-पुण्यकालव्यवस्था पूर्वोकवचनस्वरसाद । 'षड- शीतिमुखेऽतीते व्यतीते चोत्तरायणे इत्यादिविरोधात्पूर्वकवाक्यतवाऽयमर्थः- २४ कृ०सा० -- - १८६ ऋत्यसारसमुचयपरिशिष्ट- रात्रौ पूर्वमागे मकरसंक्रमे परेऽहनि उदये पञ्चनाड्यः पुण्याः रात्रः परभागेऽपि कर्कसंक्रमणे पूर्वदिनान्ते पञ्च नाड्यः पुण्याः। तथा च तिथिवशेनाऽपि मकरसंक्रमे भिन्ना पुण्यकालव्यवस्या दृश्यते देवीपुरणे- श्रादौ पुण्यं विजानीयात् यद्यभिन्ना तिथिर्भवेत् । अर्धरात्रे व्यतीते तु विज्ञेयमपरेऽहनि ।। अर्थाद्रात्रौ निशीथात्पूर्वसमये वा निशोथेऽपि मकरसंक्रमणे तत्काले या तिथिः सा यदि पूर्वदिने एव, न हि परदिने, तदा तत्तिथ्यनुरोधेन पूर्वदिनस्य मध्याह्नोत्तरकालः पुण्यकालः । यदि संक्रान्तिकालिकतिथिः पूर्वदिने सूर्यास्तापूर्व न, किन्तु परदिने भवेत्तदा परदिने एव पुण्यकालः । अथ निशीथात् परस्मिन् समये मकरसंक्रमे संक्रम- णकालिकतिथिर्यदि परदिनेनापि भवेत्तथाऽपि परदिने एव पुण्यकालः तत्र सामान्य- वचनेनैव निर्णयः। वस्तुतस्तूपपचिदृष्ट्या मकरसंक्रमणात्सरं सौम्यायनप्रवृत्तेर्याम्यायनापेक्षया सौम्यायनस्य पुण्यसमयस्पष्टतया सर्वास्ववस्थासु मकरसंक्रमे परा एव घटिकाः पुण्याः । कर्कसंक्रान्तौ तु पूर्वा एवेति युक्तियुक्तम् । एतावद्भिः पुण्यकालनिर्णायकविषयः सद्भिरपि बहुत्र सामान्यसंक्रान्तिपुण्यकालव्यवस्थावदेव मकरसंक्रमे पुण्यकालव्यव- स्था क्रियते साऽपि युक्तंत्र- 'देशाचारस्तावदादौ विचिन्त्यो देशे देशे या स्थितिः सैव कार्या ॥' तथा चोक्तम्-निशाऽर्कचारान्निकटं दिना दिवाऽर्कचारानिकयाष्टयट्यः । ताः कर्कटे प्राकथितेतरेर्वाक् , पुण्याय विष्वग् घटगोऽलिसिंहे ॥ इति कृत्यशिरोमणिधृतराजमार्तण्डे । एतावताऽपि मकरसंक्रमे परघटिकाः पुण्याः अथ संक्रान्तौ स्नानदानावश्यकतोक्ता पीयूषधारायाम्- विषुवत्ययने ग्रहणे संक्रान्तौ पुण्यदिवसेऽपि । पितृप्तिं न करोति हि दत्त्वा शापं ब्रजति तस्य पिता ।। आगतगतसमयेऽपि च करोति यद्दानजयहोमाद्यम् । ऊपरवापितबीजं यदत्तच्च निष्फलं भवति ॥ तथा च-षडशीत्यां तु यद्दानं विषुवद्वितये तथा । दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते ॥ अथ दिनक्शेन संक्रान्तिफलम् - रवि-रविज-भौमवारे संक्रान्तौ दिनकरस्य तन्मासे। पिचकफानिलजामयनरपतिकलहं त्ववृष्टिश्च ।। बुधगुरुसितचन्द्राहे सति संक्रान्तावनामयं नणाम् । दितिपतिनिकरक्षेमं शस्यवृद्धिर्विधर्मियां पीडा ॥ यस्य जन्मदिौ संक्रमणं वस्यानिष्टफल मुक्तं तत्रैव- यस्य जन्मर्चमासाद्ये रविसंक्रमणं भवेत् । तन्मासाम्य तरे तस्य रोगः क्लेशो धनक्षयः॥ - .. शिवपजनादिप्रकरणम् । अत्र मेषसंक्रमणे नक्षत्रवशेन विशेषफलम्- यदा मेषगतः सूर्यो भरण्यादिचतुष्टये। सस्यवृद्धिर्भवेत्तस्य वृद्धिराःचतुष्टये ॥ मघादिदशके हानिः क्षेमं चानुक्तभेषु च ॥ अथ संक्रान्तौ राशिवशेन फलविशेषमुक्तं वशिष्ठेन- अजकन्याझषकर्किणि संक्रान्तौ यदि भवेवृष्टिः। अतुलं क्षेमसुभिक्षं नृपसजनगोकुलक्षेमम्। अामयडामरभूभृद्युद्धमनर्थ त्ववृष्टिश्च । वृषवृश्चिकतुलामकरे वृष्टिः स्यात् संक्रमे समये ।। विस्फोटयमयतस्करपोडाऽवृष्टिः : कृशानुभयम् ॥ अथ संक्रान्तितः स्वनक्षत्रसंख्याभेदेन प्रतिमासं फलविशेष उक्तो रामाचायण- संक्रान्तिधिष्पयाधरधिष्ण्यतत्रिभे-स्वमे निरुक्तं गमनं ततोऽङ्गमे । सुखं, त्रिमे पीडनमनभेऽशुकं त्रिभेऽर्थहानी रसमे धनागमः ॥ यस्मिन्मासे विचारः क्रियते तत्र संक्रान्तियस्मिन् नक्षत्रे तं त्यक्त्वा तदग्रिमनक्ष- त्राकलं चिन्त्यम् । ३न-यात्रा । ४ न-९-सुखमू १० न-१२ न = पीड़ा । १३ न=१८ वत्रलाभः । १९-२१ न=धनहानिः । २२ न-२७ न = धनागमः । इति संक्रान्तिनिर्णयः। अथ शिवपूजनादिप्रकरणम् । अथ पार्थिवशिवपूजाफलमुक्तं नन्दीपुराणे- आयुष्मान् बलवान् श्रीमान् पुत्रवान् धनवान् सुखी। वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समर्चयेत् ॥ तस्मात्त पार्थिवं लिंङ्गं शेयं सर्वार्थसाधकम् । तत्र ओं हराय नमः इति मृदाहरणम् । श्रों महेश्वराय नमः इति संवहनम्। ओं शूलपाणये नमः इति प्रतिष्ठा । प्रों पिनाकधजे नमः इति समाह्वानम् । ओं शिवाय नमः इति स्लपनम् । ओं पशुपतये नमः इति पूजनम् ओं महादेवाय नमः इति विसर्जनम् । तत्राष्टमूर्तिनामभिः साक्षतचन्दनपुष्पजलादियुक्तः (क) पूजनम् । तथोक्तम्-पूर्वशान्योत्तरवायव्यपश्चिमनैऋत्यदक्षिणाग्नेयेषु क्रमेण- ओं शर्वाय क्षितिमूर्तये नमः । (पू.) ओं भवाय जलमूर्तये नमः । (ऐ०)। श्रों रुद्रायाग्निमूर्तये नमः ( उ. । ओं उग्राय वायुमूर्तये नमः (वा.)। ओं भीमायाकाशमूर्तये नमः (प.)। श्री पशुपतये यजमानमूर्तये नमः (नै०.)। ओं महादेवाय सोममूर्तये नमः ( दक्षिणे ) । ओं ईशानाय सूर्यमूर्तये नमः (श्रा०)।ओं महादेवाय नमः । ओं महादेव पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ । अन्ते श्री चण्डेश्वराय नमः। विश्वनाथपदाम्भोजे नत्वा श्रीकृष्णमोहनः। विधत्ते टीप्पणीमत्र यथाशास्त्रं यथास्थलम् ॥ (के ) शिवलिङ्गपूजातः प्राक कीर्तिमुखपूजा कर्तव्या। तथाऽऽह पद्मपुराणे- लं कीतिमुखसंशो हि भव मद्वारगः सदा। त्वदर्चा ये न कुर्वन्ति नैव ते मत्रियङ्कराः॥इति। - - १८न कृत्यसारसमुच्चयपरिशष्टे- तत्र पूजनसमये ( क ) भस्मरुद्राक्षधारणावश्यकत्वमुक्तं लिङ्गपुराणे विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ।। तत्र रुद्राक्षधारणेऽङ्गभेदेन संख्याभेद उक्तो देवीभागवते- रुद्राक्षान् कण्ठदेशे दशनपरिमितान्मस्तके विंशती दे, षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव । बाह्वोरिन्दोः कलाभिनयनयुगकृते, एकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः || अथ रुद्राक्षप्रमाणमुक्त तत्रैव- धात्रीफलप्रमाणन्तु श्रेष्ठमेतदुदाहृतम् । बदरीफलप्रमाणन्तु मध्यम प्रोच्यते बुधैः ॥ अधर्म चणमात्रं तु प्रतिज्ञेषा प्रकीर्तिता ॥ तत्र कामनाभेदेन तत्संख्यामाह प्रजापतिः- मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशता जपेत् । पुत्रार्थी पञ्चविंशत्या पञ्चदश्याऽभिचारके। तत्र तावन्मालास्वरूपमुक्तं ब्रह्मपुराणे- अक्षुण्णा समरन्ध्रा च परिपूर्णाहढा नवा । निखिला प्रथिताऽव्यङ्गा अन्योन्यं घृष्टिवर्जिता ॥ सशब्दा चञ्चला या तु त्रुटिताऽप्रथिता तु या। मिन्नसूत्रेण प्रथिता पाषण्डस्य पुरातनी॥ माला दुःखप्रदायिन्यो प्रथिता निन्द्यतन्तुभिः । अष्टोत्तरशती कार्या चतुःपञ्चाशिकाऽथवा।। सप्तविंशतिका कार्या ततो नैवाघमा हिता॥ अन्यद्गोपुच्छाकारकत्वं जपप्रकरणे द्रष्टव्यम् । सप्तविंशति रुद्राक्षमालया देहसंस्थया । यत्करोति नरः पुण्यं सर्वं कोटिगुणं भवेत् । इति।। शिवस्य पूजायां विल्वपत्रसमर्पणमत्यावश्यकम् । यदि दैवात्पथि परदेशे आर्द्र बिल्वदलं न लमेचदा पूर्वरक्षितस्वसङ्गवर्चिशुष्कपत्रेणापि पूजनं कर्त्तव्यम् । तथोक्त- स्कान्दे-शुष्काण्यपि च पत्राणि श्रीवृक्षस्य निवेदयेत् । श्रीवृक्षस्य बिल्वस्य । लिङ्गा- र्चनचन्द्रिकायान्त्वेवमुक्तम्- अर्पितान्यपि बिल्वानि प्रक्षाल्य च पुनः पुनः। शङ्करायार्पणीयानि नवानि यदि नो लभेत्॥ तथा धत्तरपुष्पेण पूजने महत्फलं श्रूयते भविष्ये-- धतूरकैच यो लिङ्ग सकृत्पूजयते नरः। स गोलक्षफलं प्राप्य शिवलोके महीयते ।। (क) भस्मधारणप्रदेशः, स्मृतिरत्नावल्याम्-"ललाटे हृदये नामौ गलांशे बाहुसन्धिषु । पृष्ठदेशे शिरस्येवं स्थानेष्वेवेषु धारयेत् ॥” इति । धारणप्रकारमाह पुलस्त्यः-'अग्निरित्यादिभि- मन्त्रैः शुद्धं भस्माभिमन्त्रितम् । शिवमन्त्रेण तद्धार्य मन्त्रेणाप्याक्षरेण वा ॥ गायत्र्या वा च देवर्षे ! मन्त्रण प्रणेवेन वा। करोति शिवमन्त्रेण यस्त्रिपुण्ड्र द्विजोत्तमः । स्थूल: शूलधरः सौम्यः शिव लोकमहीयते ॥ अष्टाक्षरेण मन्त्रेण यः करोति त्रिपुण्ड्रकम् । विष्णोः पदमवाप्नोति नान्यथा श्रुतिमाषितम् । सौरम्पदमवाप्नोति गायत्र्या मुनिसत्तम ! । प्राप्नोति ब्रह्मणो रूपं प्रणवेन म संशयः" इति।
-- शिवपूजनप्रकरणम् । १८९ शिवमन्दिरे मल्लकवादननिषेधो योगिनीतन्त्रे-- शिवागारे झल्लकं च सूर्यागारे च शङ्खकम ! दुर्गागरे वंशवाद्यं मधुरी न च वादयेत् ॥ ( क )शिवप्रदक्षिणाविधिरपि लिङ्गार्चनचन्द्रिकायामुक्त:-- आसनप्रसवा नारी जलपूर्णघटं यथा । उद्वहन्ती शनैर्याति तथा कुर्यात् प्रदक्षिणाम् ।। तत्र शिवस्यार्थप्रदक्षिणमित्यनेनोत्तरं विहाय पूर्वतः पश्चिम--पर्यन्तं प्रदरिण- क्रमेण, 'निर्माल्यजलस्योत्तरदिशातो निःतरणातल्लङ्घने दोषाधिक्यश्रवणात् । शूद्रस्थापितलिङ्गस्य प्रणामादिकरणे दोपो हन्नारदीये-- यः शूद्रसंस्कृतं लिङ्गं विष्णुं वाऽपि नमेट्विजः इवात्यन्तदुःखानि पश्यत्वामुष्मिके किम।। शूद्रो वाऽनुपनीतो वा नियो वा पतितोऽपि वा । केशवं वा शिवं वाऽपि स्पृष्ट्वा नरकमश्नुते ।। विष्णुशिवयोमूर्तिसंख्यायां विशेषः पूजापङ्कजमास्करे- गृहे लिङ्गद्धयं नार्थे शालग्रामद्वयन्तथा । द्वे चक्रे द्वारकायालु नाच्य सूर्यद्वयं तथा। शक्तित्रयं तथा नाय गणेशत्रयनेव च । द्वौ शङ्खौ नाचयेच्चैव भग्नाञ्च प्रतिमान्तथा ।। ( ख )वाणलिङ्गनैवेद्यभक्षणे न दोषःग)- बाणालिङ्गे स्वयम्भूते चन्द्रकान्ते हदि स्थिते । चान्द्रायणसमं ज्ञेयं शम्भोनैवेद्यभक्षणम्।। न शिवं शङखवारिणत्यनेन शङ्खजलेन शिवपूजा न कार्या । 'सर्वत्रैव प्रशस्तोऽज्जः शिवसूर्याचनं विना ।' इति तन्त्रसारः । अजः शङ्खः। विष्णोर्दक्षिणावर्चशङ्कस्थजलेन पूजने महत्फलम्-- दक्षिणावर्त्तशङ्खस्यतोयेन योऽचयेद्धरिम् । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।। इति पूजापङ्कजभास्करे। (क) प्रदक्षिगाक्रममाह, आह्निकमूत्रावल्मा-एका बच्चा रवैः ना तिनः कायां विनायके । हरेश्चतस्रः कर्तव्या शिवस्यार्थप्रदक्षिणा ।" इति । (ख) बाणलिङ्गलक्षणं कालोत्तरे- बाणलिङ्ग तथा शेयं भुक्तिमुक्तिप्रदायकन् । उत्सत्तिं वाणलिङ्गानां लक्षणं लेशतः शृणु ॥ नर्मदादेविकयोश्च गङ्गायमुनयोस्तथा । सन्ति पुण्यनदीनां च वागलिङ्गानि षण्मुखः इन्द्रादि- पूजितान्यत्र तचिह्नश्चिह्नितानि च । आपीतानि षडकाणि चाहानि विशेषतः । इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि तु । अरुणं हि सकीलालमुष्णस्पर्शकरोऽवलम् ॥ आग्नेयं वच्छ- क्तिनिभमथवा शक्तिलान्छितम् । इदं लिङ्गवरं स्थाप्य तेजसोऽधिपतिर्भवेत् ।। दण्डाकारं भवेद्या- म्यमथवा रसनाकृति । यदभ्यक्तं मुहूर्तेन निर्णित जायते तदा ।। (ग) ज्योतिर्लिङ्गनैवेद्यादिभक्षणेऽपि न दोषः, तथाहि भविष्यपुराणे-ज्योतिलिङ्ग विना लिङ्ग यः पूजयति तत्तमः । तत्य नैवेद्यनिर्माल्यभक्षणात्तत्रकृच्छ्रकम् । ज्योतिलिङ्गानि शिवपुराणे सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनन् । उज्जयिन्यां महाकालमोङ्कारं परमेश्वरम् । केदारं हिमवत्पृष्ठे डाकिन्यां भीनशङ्करम् । वाराणरयां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ वैद्यनाथं चिताभूमौ नागेशं दारकावने । सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥ इति ।
- १६० कृत्यसारसमुच्चयपरिशिष्टे- गरुडमूर्त्तिचिह्नितघण्टावादने विशेषफलम् - यस्तु वादयते घण्टा वैनतेयेन संयुताम् । धूपे नीराजने लाने पूजने च विलेपने ॥ ममाने लभते पुण्यं चान्द्रायणशतोद्भवम् । वैनतेयाङ्किता घण्टा सुदर्शनसमन्विताम् ।। ममा स्थापयेद्यस्तु तस्य देहे वसाम्यहम् ।। शिवपूजायां दिग्विचारः रुद्रयामले- न प्राचीमग्रतः शम्भोोंदीची शक्तिसंस्थिताम् । न प्रतीचीमतः पृष्ठमतो दक्षं समाश्रयेत् ।। अत्र पूर्वमुखस्थस्य दक्षभागतः पूजाऽर्यादुत्तरमुखो भूत्वा पूर्वमुखं शिवं भावयित्वा पूजयेत्। शिवपूजने मुखवाद्यमतिप्रशस्तम् शिवपुराणे- गन्धपुष्पनमस्कारैमुखवाद्यैश्च सर्वत: । यो मामर्चयते तत्र तस्य तुष्याम्यहं सदा ॥ । शिवपूजा सदैवोत्तरमुखेन, रात्रौ तु सर्वदैव पूजोत्तरमुखेन कार्येति । विशेषपूजा- प्रकरणविधिः पूजापङ्कजभास्करे द्रष्टव्यः ।। अथ विशेषशिवपूजायां शिववासविचारः- तिथिं च द्विगुणीकृत्य पञ्चभिश्च समन्वितम् । सप्तभिश्च हरेद्भागं शिववासमुदीरयेत्॥ एकेन पासः कैलासे द्वितीये गौरिसन्निधौ । तृतीये वृषभारूढः सभायाञ्च चतुर्थक ।। पञ्चमे भोजने चैव क्रीडायां च रसात्मके । श्मशाने सप्तमे चैव शिववास इतीरितः॥ अत्र तिथिः शुक्लपक्षादितो गण्येति शिष्टाचारः अथैतत्फलम् । कैलासे लभते सौख्यं गौर्यान्तु सुखसम्पदः । वृषमेऽभीष्टसिद्धिः स्यात् सभा सन्तापकारिणी ॥ भोजने च भवेत्पीडा क्रीडायां कष्टमेव च । श्मशाने मरणं ज्ञेयं फलमेवं विचारयेत् ॥ शिववासमविज्ञाय प्रवृत्तः शिवकर्मसु । नतत्फलमवाप्नोति ह्यनुष्ठानशतैरपि ।। अर्थादेकद्वित्रिशेषे शुभम् । तदपिकेऽशुभमिति । अथ बिल्वपत्रमाहात्म्यमुक्तं मातृकातन्त्रे ५५ पटले- शिव उवाच- मृणु देवि ! प्रवक्ष्यामि रहस्यं त्रिजगत्मकम् ।पत्रं ब्रह्ममयं देवि! अद्भुतं वरवणिनि! ॥ श्रीशैलशिखरे जातः श्रीफल: श्रीनिकेवनः। विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा ॥ ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपकम् । वृन्तमूले तु वज्रं स्यात् पत्रे ब्रह्मपदं प्रिये !॥ त्रिजटापत्रकैकेन हरं वा हरिमर्चयेत् । कैवल्यं तस्य तेनैव शक्तिपूजाविशेषतः ।। पत्रं पुष्पं फलं तोवं नैवेद्यं धूपदीपकम् । दत्वा यद्यत् फलं प्राप्तं तस्मात् कोटिगुणं भवेत्।। सवरचनतो देवि ! त्रिजटात्मसमर्पणम् । कैवल्यदो हरिश्चैव दास्येऽहं त्वत्सरूपताम् ।। खवि कैवल्यदं ज्ञानं धर्मकामार्थदं प्रिये!। वज्रहीनमिदं देवि! प्राप्नुयाद्वाञ्छितं फलम् । सवने म्रियते नूनं वज्राघातेन पार्वति ! | तस्माच्च साधकेन्द्रेण वज्रहीनं प्रदीयते ।।
- शिवपूजनादिविचारः। १६१ अयं नियमः सकलदेशेषु साधारण उपलभ्यते देशभेदेन विशेषनियम उक्तः शक्तिसङ्गमतन्त्र- विन्ध्यपर्वतमारभ्य यावच्चट्टलदेशतः । विष्णुक्रान्तेति विख्याता मुनिभिस्तत्वदर्शिभिः।। विन्ध्यपर्वतमारभ्य महाचीनावधिप्रिये ! रथकान्तति विख्याता मुनिभिस्तत्वदर्शिभिः ।। विन्ध्यपर्वतमारभ्य यावदेव महोदधिः। अश्वक्रान्तेति विख्याता मुनिभिस्तत्वदर्शिभिः ।। विन्ध्यक्षेत्रात् पश्चिनदिगनिमुखी अग्निकोणाभिमुखी ऐशान्यकोणाभिमुखीति तिस्रो रेखाः कार्यात्ताम्य भुवनयो विभागा दक्षिणपूर्वोचररूपा जाता या पूर्वभागस्य विष्णुक्रान्ता, उत्तरभागस्य रकान्ता, दक्षिणभागस्वावक्रान्तोते संज्ञा ते केवलं विष्णुकान्ताऽऽख्ये प्रदेशे विशेष उक्तस्तत्रैव- बिल्वपत्र महायन्त्र त्रिपत्रं परमेश्वरि ! अत एव महेशानि वनहीनं न दापयेत् : वजहीने प्रदातव्ये शिवहत्या प्रजायते । येन केन प्रकारेण सवत्रञ्च प्रदापयेत् ।। तथा च तन्त्रान्तरे-'विष्णुकान्तामु देवति : वजनोनन कारयेत् ।। विष्णुकान्ताभिन्न प्रदेशे तु लिङ्गाचनतन्त्र- इन्द्रस्यास्त्रमिदं वज्रं वृन्तमूले च पार्वति ! प्राणान्तेऽपि न दातव्यं सवज्र मच्छिरोपरि ।। अफलितविल्ववृक्षस्य पत्रपूजाऽनहमुक्तं वरदातन्त्रे-- 'फलशून्यक्षजातौ बिल्पत्रैर्न चाचयेत् ।' तथा बिल्वपत्र प्रक्षालयेद्यथा तबृन्तं न प्रक्षालितं स्यात्, तदुक्तं भविष्ये- बिल्वपत्रस्य प्लवनं वृन्तं हित्वा तु प्लावयेत् । इन्तसंप्लवनादेव फलं हरति राक्षसः ।। नूतनपत्रालामे तच्चूर्णेनापि परमालावधि पूजने न दोष इत्याह- खण्डितैश्च शिवः पूज्यः पत्रैरन्यैरखण्डितैः । परमासानन्तरं बिल्वपत्रं पर्युषितं भवेत्।। शिवार्चनतन्त्रे बाणेश्वरप्रकरणे तु- मदासनं बिल्वपत्रं न कुर्वीत कदाचन । यदि मोहात् प्रकुर्वीत शिवहाव्रतमाचरेत् ॥ पार्थिवशिवलिङ्ग विल्वानोपरि संस्थान्य पूजनीयमित्युक्तं रुद्रयामले- केशकङ्करकीटादिस्थिते दुःखं यतो भवेत् । तद्दोषत्योपशान्त्यर्थ मालूरे स्थापयेच्छिवम् ।। अथ विल्वपत्रनोटनमन्त्रः- अमृतोद्भव ! श्रीवृक्ष ! शङ्करस्य सदा प्रिये ! क्षमत्व शिवपूजार्थ तव पत्रं चिनोम्यहम् ।। अथवा मन्त्रान्तरम- पुण्यवृक्ष ! महाभाग ! मालूर ! श्रीफल ! प्रभो! महेशपूजानार्थाय त्वत्पत्राणि चिनोम्यहम् ॥ बिल्वपत्रत्रोटने निषिद्धदिनतिथीनाह-लिङ्गार्चनचन्द्रिकायाम्- अमारिक्तासु संक्रान्तावष्टम्यामिन्दुवासरे। बिल्वपत्रं न च च्छिन्द्याच्छिन्द्यान्चेन्नरकं व्रजेत् ॥ इति शिवपूजनादिविधानम् । - - १९२ कृत्यसारसमुच्चयपरिशिष्ट- अथ (क) भोजनप्रकरणम् । अथ नैवेद्योत्सर्गविधिः। गायत्र्या भोजनस्थाने मण्डलं कृत्वा तदुपरि भोजनपात्रं निधाय 'ओं तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि' अनेनानं सिञ्चेत् । तत श्री विष्णवे नमः १, ओं रुद्राय नमः २, ओं अर्काय नमः ३, ओं चन्द्राय नमः ४, ओं गणपतये नमः ५, श्री दुर्गादेव्यै नमः ६, श्री अग्नये नमः ७, अओं पशुपतये नमः ८, ओं वसुभ्यो नमः ९, एमिर्म- नवेद्योत्सर्गः। ओं ब्रह्मार्पणं ब्रह्महविब्रह्माग्नौ ब्रह्मणा हुतम् । -ब्रह्मव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ अनेन पात्रस्थमनमुत्सृजेत् । तत ओं अमृतोपस्तरणमसि स्वाहा अनेनाचम्य तत श्रोप्राणाय स्वाहा १,ओं अपानाय स्वाहार, ओं उदानाय स्वाहा३,ओं समानाय स्वाहा। ओं व्यानायस्वाहा ५ एभिः पञ्चभिर्मन्त्रः पञ्च प्रासान् भुक्त्वा ततो बुभुक्षाशान्ति विधा- यान्ते श्रओं अमृतापिधानमसि स्वाहा अनेन गण्डूषं गृहणीयात् । ततो न किञ्चिद्भुञ्जीत । श्वानौ द्वौ श्यावशवलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रयच्छामि स्यातामेतावहिंसकौ । अनेन भूमौ, वलिद्वयं दद्यात् । यमः- मक्षिका केशमन्ने तु पतितं यदि दृश्यते। मूषिकस्य पुरीषं वा तुतं यच्चावधूनितम् ॥ भस्मना स्पृष्टमश्नीयादभ्युक्ष्य सलिलेन वा। अपरार्के-'चण्डालपतितच्छाया स्पर्श दुष्टा तु नो भवेत् ।' यमः-अासनं शयनं यानं स्त्रीमुखं कुतपं चरम् । न दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा ।। अग्निग्रहणेऽपराक- वृषलाग्नेरमेध्याग्नेः सूतकाग्नेश्च कर्हिचित् । पतिताग्नेश्विताग्नेश्च न शिष्टैहणं स्मृतम्।। (क) भोजनकाल आह देवलः-स्नात्वा प्रक्षाल्य पादौ च नन्दाम्नालङ्कृतः शुचिः । पञ्चयशाऽवशिष्टं च यो मुंक्ते सोऽमृताशनः ॥ मनुः-सायं प्रातर्मनुष्याणामर्शनं श्रुतिनोदितम्। नान्तराभोजनं कुर्यादग्निहोत्रसमो विधिः । भोजने वासनान्याह, प्रचेता-गोशकृन्मृण्मयं भिन्नं तथा पालाशपिप्पलम् । लोहवद्धं तथैवार्क वर्जयेदासनं बुधः ॥ 'भोजने वयंपात्राणि व्यासः-मृण्मये पत्रपृष्ठे वा प्रायसे ताम्रभाजने । नाश्नीयाइपि चेद्भुक्ते नरकं प्रतिपद्यते । पैठीनसिः-वटाश्वित्थपत्रेषु कुम्भीतिन्दुकजेषु च । श्रीकामो न तु भुजीत कोविदारकरअयोः॥ प्रचेताः-ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवाच विवर्जयेत् । भोजने विशेषनियमा आहिककारिकासु-वामहस्ते जलं धृत्वा मणिबन्धे निधाय च । मुज्यमानः पिबन् वारि नोच्छिष्ट मनुरजवीत् । यः पुनभोजनं कुर्वन्नश्नन्तं संस्पृशे द्विजः । तत- स्तेन न मोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चानमेवान्नं शूद्राणामधमं स्मृतम् ॥
भोजनविचारः। १९३ - - .. भूमिशुद्धिब्रह्माण्डपुराणे- ग्रामाद्दण्डशतं त्यक्त्वा नगराञ्च चतुर्गुणम् । भूमिः सर्वत्र शुद्धाऽन्यथा यत्र लेपो न दृश्यते ॥ अत्र दण्डश्चतुर्हस्तपरिमितः । याज्ञवल्क्यः- मुखजा विषो मेध्यास्तथाऽऽचमनबिन्दवः । श्मश्रु चास्यगतं दन्तसक्तं त्यक्वा ततः शुचिः ।। अ० १११९५ । आपस्तम्बोऽपि- 'न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भिर्यावन्न हस्तेनोपस्पृशति' । तथाऽपरा-दन्तवद्दन्तलग्नेषु यच्चाप्यन्तर्मुखे भवेत् । प्राचान्तस्यावशिष्टं स्यानिगिरनेव तच्छुचिः॥ देवलः-भोजने दन्तलग्नानि निह त्याचमनं चरेत् । दन्तलग्नमसंहार्य लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्याद्यनमुद्धरणे पुनः । भवेदशौचमत्यर्थे तृणवेधावणे कृते ।। अपरा:-विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कथञ्चन । आचम्यैव तु शुद्धः स्यादापस्तम्बोऽब्रवीन्मुनिः॥ पराशरः-तुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते । पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ।। चतुर्विशतिमते-इखूण्यम्बु फलं मूलं ताम्बूलं पय औषधम् । भक्षयित्वापि कर्तव्याः स्नानदानोदकक्रियाः॥ स्मृत्यन्तरम्-द्राक्षादीनि फलानीचून्पयो मूलं घृतं दधि । ताम्बूलमौषधं पत्रं हविमुक्त्वाऽपि नाचमेत् ।। प्रायश्चित्तमयूखेऽङ्गिराः- कृते मूत्रपुरीषे वै यदा नैवोदकं भवेत् । लात्वा लब्ध्वोदकं पश्चात् सचैलस्तु विशुद्धयति ॥ तत्रैव-अटव्यामटमानस्य ब्राह्मणस्य विशेषतः । प्रणष्टसलिले देशे कथं शुद्धिर्विधीयते ॥ अपां दृष्टवैव विप्रस्तु कुर्याचैव सचैलकम् । गायत्र्यष्टशतं जप्यं स्लानमेतत्समाचरेत् ॥ अतिभोजने दोषमाह मनुः- अनारोग्यमनायुष्यमस्वयं चातिभोजनम् । अपुण्य लोकविद्विष्टं तस्माचत्परिवर्जयेत् ॥ अ० २०५७ । इति रोगिवृद्धपरम् ब्रह्मपुराणे-कुर्यात् चीरान्तमाहारं न तु पश्चात् पिबेद्दषि । भोजनान्ते तु हस्तमुखक्षालनानन्तरकर्त्तव्यमुक्तम् । यथा- भुक्त्वाऽनुलितलं घृष्ट्वा नेत्रयोर्यत्प्रदीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ - २५ कृ० सा० - १९४ कृत्यसारसमुच्चयपरिशिष्टे- सक्तुभोजनक्रम आयुर्वेदे-- नोदकान्तरिता न दिन निशायां न केवलान् । न भुक्त्वा न रदैश्छित्त्वा सक्नद्यान्न वा बहून् । (क) दिवा भोजनोत्तरं शयननिषेधः- दिवास्वापं न कुर्वीत यतोऽसौ स्यात्कफावहः । ग्रीष्मवज्येषु कालेषु दिवास्वापो निषिद्ध्यते । भोजनात्याग्दिवा स्वापः पाषाणमपि जीर्यति । भोजनान्ते दिवास्त्रापाद्वातपित्तकफोद्भवः ।। शयन पिचनाशाय वातनाशाय मर्दनम् । वमनं कफनाशाय ज्वरनाशाय लवनम् ॥ तथा च वामनपुराणे-- न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । न चेन्धनैर्जयेद्वहिं न मद्यन तृषां जयेत् ।। एवं च--व्यायामं च व्यवायञ्च धावनं पानमेव च । युद्धं गीतञ्च पाठश्च मुहूर्त भुक्तवांस्त्यजेत् ॥ अथातः परं सायङ्कालिककर्म, सन्ध्यादेवपूजनादि ततो रात्रिभोजनम् । तत्र वज़- वस्तु यथोक्तं वैद्यके- न रात्रौ दधि भुञ्जीत न च निलवणं तथा । नामुद्गसूपं नाक्षौद्रं न चाप्यघृतराकरम् ।। वर्षातपादिके छत्री दण्डी राज्यटवीषु च । शरीरत्राएकामो वै सोपानकः सदा व्रजेत् ॥ अथ शयनविधिः। तत्र सति सूर्ये शय्या न पातनीया । सूर्योदयात्प्रागेव उत्यापनीयेत्युक्तं यथा- भास्कराष्टशय्यानि नित्याग्निसलिलानि च । सूर्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम् ॥ श्रासनं वसनं शय्या जायाऽपत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां कदाचन ॥ विष्णुपुराणे-कृतपादादिशौचस्तु भुक्त्वा सावं ततो गृही। गच्छेच्छय्यामस्फुटितामेकदारुमयीं नृप !॥ नाविशालां न वा भग्नां नासमां मलिनां न च । न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥ एकदारुमयीमित्यनेनानेकदारुमयी शय्या न कार्या । द्रष्टव्यमस्य विषमस्य विस्तारो वाराहीसंहितायाम् ॥ गर्गः-- (क) 'भोजनानन्तरं स्मरण योग्या। नारद:-अगस्त्यं कुम्भकर्ण च शनि च वडवा नलम् । आहारपचनार्थाय स्मरेभीमश्च पञ्चमम् ॥ आतापी भक्षितो येन वातापी च महाबलः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥ इत्युक्त्वा तु स्वहस्तेन परिमाज्य निजोदरम् । अनायासप्रदायोनि कुर्यात्कर्माण्यतन्द्रितः ।।
- दारोपगमनविचारः। स्वगृहे प्राशिराः शेते आयुष्यं दक्षिणाशिराः । प्रत्यशिराः प्रवासे तु न कदाचिदुदशिराः ॥ मार्कण्डेयः-प्राकशिराः शयने विद्याद्धनमायुश्च दक्षिणे । पश्चिमे प्रबलां चिन्तां हानि मृत्यु तथोत्तरे ॥ एवञ्च--'पश्चिमोत्तरशायी च हन्ति पुण्यं पुराकृतम् ।।' अलङ्घयवस्तून्युक्तानि चिदम्बरहस्ये-- युगं मुशलमश्मानं दाम चुल्होमुलूखलम् । शूर्प संमार्जनी दण्डं ध्वजं वैदूर्यमायुवम् ॥ कलशं चामरं छत्र वर्मगं भूषणं तया। भोगयोग्यानि याऽन्यानि महायागद्रव्याणि च ॥ महास्थानेषु वस्तूनि यानि वा देवतालये। दिव्यमुक्तानि वस्तूनि भूताविष्टानि यानि च ॥ लङ्घयेज्जातु नैतानि नैतानि तु पदा स्पृशेत् । तत्र गत्वा श्रों नमो नन्दीश्वरायेति त्रिः सप्तवारं वा जप्तमा अगस्तिर्माधवश्चैव मुचुकुन्दो महामुनिः। कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ।। तथा च-असितं चार्जिमन्नं च सुनीथं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् । यो जरत्कारुणा जातो जरत्कारो महायशाः॥ आस्तीकः सर्पसत्रेभ्यः पन्नगान् यो घरक्षयत् ।। तं स्मरन्तं महाभागा न मा हिंसितुमर्हथ । सोपसर्प भद्रं ते दूरं गच्छ महाविष! । जन्मेजयस्य यज्ञान्ते प्रास्तीकवचनं स्मर । अास्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते । शतधा भिद्यते मूर्द्धा शिंशवृक्षफलं यथा ।। इत्यादि पठित्वा सुखं सुप्यात् । यदि च स्त्री रजोवती तदा चतुर्थरात्रौ वा षष्ठाष्ट- मदशमद्वादशचतुर्दशषोडशान्यतमरात्रौ स्वयं वीर्यवर्धकभोज्यं धृतमधुयुक्तं दुग्धं पीत्वा, स्त्रियं तु लघ्वाहारादिना स्वापेक्षयाऽल्पबलां विधाय ताम्बूलरागरञ्जितमुखो मनोहारिसुगन्धलेपचन्दनादिचर्चितः सुरम्ये वाससी परिधाय चारुचटुलकथया तां वशीकृत्य पूर्वशिरस्कां सौम्यावनतां खट्वादिकां शय्यां तया सहासीत । तत्र दक्षिण- भागे स्त्री, उत्तरभागे स्वामी स्वपेद्येन पुरुषस्य वामभागे स्त्री भवेत् । तथा च याज्ञवल्क्ये- षोडशचुनिशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचायेव पर्वण्याद्याश्चतसस्तु वर्जयेत् ॥ अ० १७१ । स्त्रीयां षोडशनिशा ऋतुप्रवृत्तिसमयाद्गर्भधारण योग्याः। वावत्कालपर्यन्तमेव गर्भाशवदारं विवृतं तिष्ठतीति भावः । परन्तु तास्वपि समा राज्य एव पुत्रजनयित्र्यः। विषमाः कन्योत्पादिका अतः पुत्रसन्तानार्थी युग्मासु त्रियं सेवेत । अत एवाह मनु:- युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । अ०४४८। अर्थात् चतुःषष्ठाष्टमदशमद्वादशचतुर्दशषोडशान्यतमरात्रौ यदि गर्भः स्याचदा - - ।
१९६ कृत्यसारसमुच्चयपरिशिष्ट- पुत्रो भवति । यदि च पञ्चमसप्तमनवमैकादशत्रयोदशपञ्चदशान्यतमरात्रौ गर्भस्तदा कन्यका जायते इति । परन्तु पुत्रकन्योत्पत्तौ कारणान्तरमाह मनुः । पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके त्रियाः । समेऽपुमान्पुंजियो का क्षीणोऽल्पे च विपर्ययः ।। बृहस्पतिः--स्त्रियाः शुक्रऽधिके श्री स्यात्पुमान् पुंसोऽषिके भवेत् । तस्माच्छुकविवृद्ध्यर्थं वृष्यं स्निग्धं च भक्षयेत् ॥ लम्वाहारां स्त्रियं कुर्यादेवं तं जनयेत् सुतम् । वृद्धशागतप:-द्वावेतावशुची स्यातां दम्पती शक्ने गतौ शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ अनेन वीर्याधिक्ये पुत्रः । रजोऽधिक्ये कन्या भवेदिति सिद्धम् । अत्र समयनि- यमो नोक्तः । अतः पूर्वापरवचनार्थयोरैकमत्यमेव । समायां रात्रौ चेत्पुरुषस्य वीर्या- धिक्यं तदा पुंलक्षणयुक्तः पुत्रः। विषमायां चेस्त्रियो रजोऽधिकत्वं तदा कन्या स्त्रील- क्षणयुक्ता चाच्या । यदि विषमायां रात्रौ पुरुषस्य वीर्याधिक्यं तदा स्याकृतिकः पुरुषः । यदा समायां स्त्रियो रजोऽधिकत्वं तदा पुरुषाकृतिः कन्या स्तनकेशहोना जायते अथ स्त्रिया गर्भाशये वामभागपतितं वीर्य कन्यां जनयति, दक्षिणभागपतितं सत्पु- त्रमित्यपि युक्तियुक्तः प्रकारो बहूनामनुभवसिद्धोऽस्त्यत एव पूर्वपश्चिमायतां शय्यां सौम्यावनतां दक्षिणोत्तरां तु पूर्वावनतां यत्नेन कारयेत् । तत्र संभोगे वीर्यच्युतिसमये स्त्रिया मनसि यस्य स्मृतिर्वा ध्यानं जायते 'तत्सदृशमेवापत्यमुत्पद्यते' तथोक्तं बृहत्सं- हितायाम्- जात्य मनोभवसुखं सुभगस्य सर्वमाभासमात्रमितरस्य मनो वियोगात् । चित्तेन भावयति दूरगताऽपि यं स्त्री गर्ने बिभर्ति सहशं पुरुषस्य तस्य ।। अत एव गोपाला अपि गोमैथुनसमये तस्याः पुरतः रक्तं पाटल-कृष्णप्रभृतिवर्ण- वद्गोजातिः संरक्ष्यते येन सुन्दराकृतिर्वत्स उत्पद्यते इति चिरकालगतो व्यवहारोऽस्त्य- स्मिन् देशे। अतएव पाश्चात्यदेशे तु विहारभवने आदर्शचरितानां पुंसा चित्राणि संर- क्ष्यन्ते । येनाधानावसरे स्त्रिया ध्यान चित्रगतमहाजनविषये पतेदिति । ऋतौ स्नातां तु यो भायों सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पितृभिः सह मज्जति (क)॥ इति रात्रिकृत्यम् । (क) अथ प्रजोत्पादने स्त्रीपुरुषयोग्यविचार: सुश्रु ते भगवान् धन्वन्तरि:-अथास्मै पञ्चविंशतिवर्षाय द्वादशवर्षे पत्नीमावहेत। पित्र्यधर्मार्थकामप्रजाः प्राप्स्यतीति ।। किं च तद द्वा- दशाकाले वर्तमानमसक पुनः । जरापकशरीराणां याति पञ्चाशता क्षयम् ॥ अनपोडशवर्षायाम- प्राप्तः पञ्चविंशतिम् । यद्याधत्ते पुमान् गर्म कुक्षिस्थःस विपद्यते॥ जातो वा न चिरं जीवेत् जीवेद्वा दुर्बलेन्द्रियः । तस्मादत्यन्तबालायां गर्माधानं न कारयेत् ॥ अतिवृद्धायां दीगरोगिण्यामन्येन वा विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत । पुरुषस्याप्येवं विधस्य त एव दोषाः सम्भवन्ति ॥
श्राद्धविधानम् । १९७ (१३) अथ श्राद्धप्रकरणम् । तत्रादौ श्राद्धशब्दार्थ उक्तः श्राद्धमञ्जर्याम्- प्रेतं पितृ श्च निर्दिश्य भोज्यं यत् प्रियमात्मनः । श्रद्धया दीयते यत्र तच्छ्राद्धं परिकीर्चितम् श्राद्धकरणावश्यकत्वमुक्तं सुमन्तुना-श्राद्धात्परतरं नान्यच्छ्रे यस्करमुदाहृतम् । आदित्यपुराणेऽपि- न सन्ति पितरश्चेति कृत्वा मनसि यो नरः। श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते॥ श्राद्धकरणफलमाह याज्ञवल्क्योऽपि प्रायुः प्रजा धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः॥ मत्स्यपुराण-पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम् । यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् ।। देवकार्यादपि पुनः पितृकार्य विशिष्यते ॥ व्यासः-रतिशक्तिर्वरा कान्ता भोज्यं भोजनशक्तिता। दानशक्तिः सविभवाऽरिपुमारोग्यमेव च ।। श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः । हारीतः- न तत्र वीरा जायन्तेऽनारोगेण शतायुषः । न च श्रेयोऽधिगच्छन्ति यत्र श्राद्धविवर्जितम् । तत्र तयॊदा प्राधश्राद्ध पार्वणकोद्दिष्ट-वृद्धि-नित्य-गयाकृत्यादयः । तस्योचितप्रदेशानाह, मनुः-- शुचिदेशं विविक्कं तु गोमयेनोपलेपयेत् । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ तथा च भारते- तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती । प्रभासं पुष्करं चेति तेषु श्राद्धं महाफलम् ॥ तथा च निषिद्धप्रदेशा उक्तास्तत्रैव-- सदं कृमिहतं क्लिन्न संकीर्णानिष्टगन्धिकम् । देशं त्वनिष्टशब्दाज्य वर्जयेच्छ्राद्धकर्मणि तथा ब्रह्मपुराणे-'नेष्टकारचिते पितॄन् सन्तर्पयेत्' । तथा चोक्तं दिवोदासीये- म्लेच्छदेशे तथा रात्रौ सन्ध्यायां विप्रवर्जिते । न श्राद्धमाचरेद्विद्वान् न चाकाशे कथंचन। स्मृतिसारेऽपि-- नैकवासा न च द्वीपे नान्तरिक्षे कदाचन । श्रुतिस्मृत्युदितं कर्म न कुर्यादशुचिः क्वचित् । परितो जलावृतं स्थल द्वीपः। ऊर्ध्वावरणहीन स्थलं त्वन्तरिक्षम् । तत्र बालुकापिण्डिकानिर्माणप्रमाणमाह मनुः-- उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम् । मण्डलं चतुरखं वा दक्षिणावनतं महत् ।। अथ च वयंस्त्री स एवाह-स्तोकां तु न स्त्रियं गच्छन्तातुर्रा न रजस्वलाम् । नाति वालां न कुपितामप्रशस्तां च गर्भिणीम् ॥ शिवसंहितायाम्-मासे षष्ठे सप्तमे वाऽष्टमे वा प्राप्त पल्या नैव कुर्यात्कदाचित् । होमं यानं देवयात्रा तथैव तस्या हस्तेनाशनं विप्रपुण्यम् ॥ -- - -- - नेत्यर्थः। - १९८ कृत्यसारसमुच्चयपरिशिष्टे- सैकतं बालुकारचितम् । दक्षिणावनतं पतितजलस्य याम्यदिगमिमुखगत्यनुरोधे- आसनादरत्नित्रयान्तरे भोजनपात्रं पितॄणां देयमित्याह, हारीत:-- पितृणामासनस्थानाद्ग्रतनिष्वरनिपु । उच्छिष्टसंनिघानं तन्नोच्छिष्टासनसन्निधौ ॥ यद्यपि श्राद्धं नित्यं तथापि विशेपावसरमाह वृद्धपरशरः पृथ्वीचन्द्रोदये-- श्राद्धं वृद्धावचन्द्रभच्छायाग्रहण संक्रमे । नवोदके नवान्ने च नवच्छन्ने गृहे तथा॥ नवैक्षवेषु चेहन्ते पितरो हि मयास्वपि । पितरः स्पृहयन्त्यन्नमटकासु मघासु च ॥ वृद्धौ अभ्युदये पुत्रजननव्रतवन्धनादौ, अचन्द्रेऽमायां, इभच्छायायां गजच्छाया- याम् । ग्रहणे रविचन्द्रग्रहणे । संक्रमे संक्रान्ती, नवोदके सूर्यसञ्चरेणा नक्षत्रे, नवाने शरदि व्रीह्या, हैमन्ते धान्येन, वसन्ते यवेनेत्यर्थः । नवच्छन्ने गृहस्थ नवतृणा- च्छादनसमये । तथा चाह याज्ञवल्क्यः-- अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः॥ ज्यतीपातो गजच्छाया ग्रहणं सूर्यचन्द्रयोः । श्राद्धं प्रतिरुनिश्च व श्राद्धकालाः प्रकीर्तिताः॥ तत्रापि श्राद्धवेलोक्ता गौतमेन- आरभ्य कुतुपे श्राद्धं कुर्यादारोहिणं बुधः। विधिज्ञो विधिमास्थाय रोहिणं न तु लङ्घयेत् ।। तथा च शातातपः-रात्रौ श्राद्धं न कुर्वीत राहोरन्यत्र दर्शनात् । तथा च विष्णुः-- सन्ध्याराग्योन कर्त्तव्यं श्राद्धं खलु विचक्षणः। तयोरपि च कर्त्तव्यं यदि स्याद्राहुदर्शनम् ॥ तथा चोक्तं कृत्यसारसमुच्चये- पूर्वाहे मातृकं श्राद्धमपराढ़े तु पैतृकम् । एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥ मातृकमन्वष्टकाकृत्यम् । पैतृकं पार्वणम् । एकोद्दिष्टं वार्षिकम् । वृद्धिनिमित्तक- माभ्युदयिकश्राद्धम् । अथ श्राद्धपूर्वदिने क्षौरकरणावश्यकत्वमुक्तं ब्रह्मवैवर्ते-- बतानामुपवासानां श्राद्धादीनां च संयमे । न करोति च यः क्षौरं सोऽशुचिः सर्वकर्मसु ॥ स च तिष्ठति कुण्डे च नखादीनां च सुन्दरि १ । संयमे व्रतपूर्वदिने इत्यर्थः ।। ब्राह्मणनिमन्त्रणं तु संयमदिने एवोचितम् । तदाह, मनुः- सर्वायासविनिमुक्तः कामक्रोधविवर्जितः । भवितव्यं भवद्भिर्नःश्वोभूते श्राद्धकर्मणि ।। तैजसपात्राभावे मृद्भाण्डेऽपि पाकप्रकार उक्तो निर्णयसिन्धूधृतवायुपुराणे-- तेजसानामभावे तु पिठरे मृण्मयेऽपि च । नवे शुचौ प्रकुर्वांत पाकं पित्रर्थमादरात् ।। तैजसपात्रेष्वपि ताम्रपात्रं विशेषफलमुक्तं तत्रैव-- पचमानस्तु भाण्डेषु भक्त्या ताम्रमयेषु च । समुद्धरति वै घोरात् पितृन् दुःखमहार्णवात्। तत्र लोहपात्रेण पाकपरिवेषणे दोष उक्तः शातातपेन- आयसेन तु पात्रेण यदन पनीयते । भोक्ता विष्ठासमं भुङ्क्ते दाता तु नरकं ब्रजेत् ॥ - - श्राद्धविधानम्। १९९ तथा च-नापवित्रेण इस्तेन नैकेन न विना कुशम् ! नायसे नायसेनैक्श्राद्धे तु परिवेषयेत् ।। धर्म:--परिवेषणमिष्टं स्याहार्यया पितृतृप्तये। फलस्यानन्तता प्रोता स्वयं च परिवेषगे ।। धूपदाने शङ्खः-धूपार्थे गुगुम्लु दद्याद् घृतयुक्तं नधूकटन् । शातातपः--हस्तबानाइतं धूपं ये पिवन्ति द्विजोत्तमाः । वृथा भवति तच्छ्राद्धं तस्मातत्सरिवर्जयेत् ।। दीपदाने मरीचिः-घृताद्वा जिलतैलाद्वा नान्यद्दद्यात्तु वीरगन् । घृतमत्र गव्यम् । गव्यवृताभावे तिलतै हमेव । नहि माहि वृतन् । तथा पुष्पविषये मार्कण्डेय आह- जात्याच सर्वा दातव्या मल्लिकाः श्वेतथिकाः ब्रह्माण्डे-शुक्लाः सुमननः श्रेष्ठात्तथा पोसणानि च। गन्धललोरपन्नानि यानि चान्याने हल्लराः। शङ्क:--पुष्पाणि वजनीयानि रक्तवराति यानि च । जलोद्भवानि देयानि रक्तान्यपि विशेषतः ।। श्राद्धसमये शासनानशिलाबाणलिङ्गयोः लसीदन्यासे विशेषकलमाह- पद्मोत्तरखण्डे-सकृदभ्यक्तिं लिङ्ग शालग्रामशिलां च यः । पोठे संस्थापयित्वा तु आई च कुरुते नरः ।। पितरस्तत्ल तिष्ठन्ति कल्लोनिशदं दिवि । तिललक्षणम्-श्रापस्तम्ब आह- अटव्यां ये समुत्पन्ना अष्टाः फलितास्तथा । ते वै श्राद्ध पवित्राटु तिलाते न तिलास्तिलाः ।। तथा प्रशस्ताप्रशस्तान्युक्तानि मत्स्यपुराणे--अ० १५ श्लो० ३५ यवनीवारमुद्दक्षुशुक्लपुष्पप्रतानि च । प्रशस्तानि ॥ मसूरशएनिष्पावराजमाषकुसुम्भिकाः । पनबिल्वाकंधत्तूरपारिभद्राश्च रूषकाः !! न देयाः पितृकार्येषु पश्चाजाविकं तथा । कोद्रवोदारचएकाः कपित्थं मधुकातमी ।। आमश्राद्धावसरमाहोशना:- अात्मनो देशकालाभ्यां विप्लवे समुपस्थिते । आमश्राद्धं द्विजैः कार्य शूद्रेण तु सदैव हि।। सरोजसुन्दरे-अपत्नीकः परान्नाशी यस्य भार्या रजस्वला । श्रामश्राद्धं द्विजो दद्याच्छूद्रो दद्यात्सदैव हि ॥ प्रयोगपारिजाते गोभिल:-- दर्श रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्नेनासम्भवे हेम्ना कुर्यादामेन वा पुनः॥ अामान्लेन क्रियमाणं श्राद्धं पूर्वाहऽपि कार्यम् । शातातपः-आमश्राद्धं तु पूर्वाहे एकोद्दिष्टं तु मध्यतः। पार्वणं चापराहे तु प्रातर्वृद्धिनिमित्तकम् ॥
२०० कृत्यसारसमुच्चयपरिशिष्टे- एकस्मिन् दिने पार्वजैकोद्दिष्टयोः पाते प्रथममेकोद्दिष्टम् , ततः पार्वणं कर्त्तव्यम्, एकोद्दिष्टविहितसमयात् पार्वणविहितसमयस्य पश्चात्पतितत्वात् । तथा चोक्तं--एकोद्दिष्टं पार्वणञ्च यद्येकस्मिन् दिने भवेत् । एकोद्दिष्टं तदा पूर्व कुर्यात्पश्चाच्च पार्वणम् ॥ भूमिस्वामिपितृभ्शेऽप्रभाग एव देय इत्याह व्यासः- परकीयगृहे यस्तु स्वान् पितृन् तर्पयेजडः। तद्भूमिस्वामिनस्तस्य हरन्ति पितरो बलात् ।। अग्रभागं ततस्तेभ्यो दद्यान्मूल्यं च जीवताम् ।। अथार्षपुटकोत्थाने विशेपमाह चमः- पैतृकं प्रथम पात्रं तस्मिन् पैतामहं न्यसेत् । प्रपितामहं ततोऽन्यस्य नोद्धरेन च चालयेत् ॥ स्पृष्ठमुद्धृतमन्यत्र नीतमुदाटितं तथा । पाकं दृष्ट्वा व्रजन्त्याशु पितरः प्रशपन्ति च ॥ अत एव पद्धतौ 'दक्षिणादानपर्यन्तं न चालयेत् ॥ इति लिखितं वृद्धः । अथ श्राद्धभेदेन पिण्डप्रमाणभेदमाहाङ्गिराः-- आर्द्रामलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे । एकोद्दिष्टे बिल्बमात्र पिण्डमेकं तु निर्वपेत् नवश्राद्ध स्थूलतरं तस्मादपि तु दापयेत् । तस्मादपि स्थूलतरमशौचे प्रतिवासरम् ॥ अशौचे वर्णभेदेन दशद्वादशाहाद्यभ्यन्तरे प्रेतशरीरपूरकार्थ दीयमानं पिण्डं सर्व- कर्माधिकं कुर्यात् । अथ कर्मान्ते पिण्डत्यागप्रकार उक्तो मत्स्यपुराणे- पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा। विप्राग्रतो वा विकिरद्वयोभिरभिवाशयेत्।। पली तु मध्यम पिण्डं प्राशयेद्विनयान्विता । अाधत्त पितरो गर्भमत्र सन्तानवर्द्धनम् ।। पिण्डसमीपे विकीर्यमाणं पिण्डशेषान्नं भृत्यपितॄणां भागस्तथोक्तं मार्कण्डेयपुराणे- 'अन्नं तु विकिरेगक्तया भृत्यभागस्तु स स्मृतः।' अथ कुशस्वरूपमाह शालकायन:- सपिण्डीकरणं यावजुदर्भः पितृक्रिया । सपिण्डीकरणादूचं द्विगुणैर्विधिवद् भवेत् ॥ ऋजुदर्भः = सरलकुशत्रयरूपैः । द्विगुणैर्मोटकैः । पवित्रयोग्यकुशमाह शङ्खः- अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विशेयं पवित्रं यत्र कुत्र चित् ।। अथ त्याज्यकुशानाह गृह्यपविशिष्टे- ये च पिण्डाश्रिता दर्भा यैः कृतं पितृतर्पणम् । अमेध्याशुचिलिप्ता ये तेषां त्यागो विधीयते ॥ तथा च लघुहारीत:-- पथि दांचितादर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत् ।। ब्रह्मयज्ञे च ये दर्मा ये दर्भाः पितृतर्पणे। हता मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते ॥ श्राद्धदिने रुधिरस्रावे सति दोषः पुराणसमुच्चये- कृत्वा तु रुधिरखावं न विद्वान् श्राद्धमाचरेत् । - - श्राद्धविधानम् । २०१ एक द्वौ त्रीणि वा विद्वान् दिनानि परिवर्जयेत् ॥ तत्रापि विशेष:-'जानू तजे जाते नित्यकर्मादि नाचरेत् ।' इति । अथ श्राद्धे प्रशस्तद्रव्याण्याहाश्वलायन:- कदल्यादिफलैः शस्तै लैरा दिकैरपि । गोरसैर्मधुना दध्ना श्राद्धे सन्तर्पयेत्पितॄन् । तथा च मत्स्यपुराणे-उच्छिष्टं शिवनिर्माल्य वान्तं च मृतकपटम् । श्राद्ध सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ।। उच्छिष्टं वत्समुखोच्छिष्टमपि पयः, पयोजनितदधि च, शिवनिर्माल्यम् = गङ्गा- जलम् , वान्तम् = मधु, मृतकपटम् = पट्टवत्रम् , दौहित्रः कन्यापुत्रो वा खड्ग- पात्रम् । कुतपः = पञ्चदशधाविभक्तदिनमानस्याष्टमो भागः, वा नेपालकम्बलः। श्राद्धे निषिद्धद्रव्याण्याह-कूष्माण्डं महिषीक्षीरं बिल्वपत्रमगद्विजाः । श्राद्धकाले समुत्पन्ने पितरो यान्ति निराश्रयाः॥ श्राद्धकाले स्त्रिया अकर्तव्यतोक्ता निर्णयसिन्धौ- मुक्तकच्छा तु या नारी मुक्तकेशी तथैव च । हसते वदते चैव निराशाः पितरो गताः। श्राद्धे यज्ञोपवीतदानफलं वायुपुराणे- यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु धर्मवित् । पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम् ।। श्राद्धे वस्त्रदानावश्यकत्वमुक्तं ब्रह्माण्डपुराणे १६ अ• ३७ श्लो०- वासो हि सर्वदैवत्यं सर्वदेवैरभिष्टुतम् । वस्त्राभावे क्रिया नास्ति यज्ञदानतपांसि च ।। तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः॥ श्राद्धका त्रिपुण्ड्रं न धार्यम्, किन्तूर्ध्वपुण्ड्रमेव तदुक्तमपराक्र्के- भाले त्रिपुण्ड्रकं दृष्ट्वा स्कन्धे मालां तथैव च निराशाः पितरो यान्वि दृष्ट्वा च वृषलीपतिम्।। तथा चोक्तं पद्मपुराणे- रक्तं चित्राम्बरं छत्रमुपानत्पादुके तथा । रक्तपुष्पं चन्दनं च श्राद्धभूमौ विवर्जयेत् । अथ श्राद्धे निमन्त्रणानहानाह अपराक्र्के- न मित्रं भोजयेच्छ्राद्ध धनैः कार्योऽस्य संग्रहः । नारिन मित्रं यं विद्यात्तं तु श्राद्धे निमन्त्रयेत् ।। अथ नानास्मृतिभ्यो वय॑विप्रा लिख्यन्ते- रोगि-वैरि-मित्र-हीनाधिकाग-धूर्त-कृतघ्न-नक्षत्रसूचि-वैद्य-गायक-कायस्थ- कुसीदवृत्तिक-वेदविक्रयि-कवि-देवपूजक-भृतकाध्यापक-वृषलीपति-राजभृत्य-खल्वा- टि-दुर्वाल-कुनख-कुष्ठि-यमयुक्तापस्मार-विधर्मि-भगजीवि-पोनर्भव-कृष्णदन्त- -गृहदाहक-गरद-समुद्रयात्रिक-कुण्ड-गोलक-नाटककर-स्वपुत्रासविद्य-रसविक्रयि- शस्त्रदण्डादिनिर्मातृ-पक्षिपोषक-मेषाजमहिषगोक्रयविक्रयकर-धेनुहोन-चोर-शिल्पि- पित्राक्षेपकर-शूद्भयाजक-रजस्वलापति-व्यभिचारि-कुब्ज - वामनापुत्र-कूटसाक्षिक- प्रेतवाहकायाज्ययाजक-हिंसपरिवेतृ-नास्तिका एते वाः । अथ ब्राह्मणसंख्याविषये मनुराह- द्वौ दैवे पितृकार्य त्रीनेकैकमुभयत्र वा । मोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे ।। २६ कृ० सा० - २०२ कृत्यसारसमुच्चयपरिशिष्टे- सस्क्रिया देशकालौ च शौचं ब्राह्मणसम्पदः । पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।। मातृश्राद्ध विशेप उक्तो बृद्धवशिष्ठेन- मातश्राद्धे तु विप्राणामलामे पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽटौ कुलोद्भवाः। एकत्र निमन्त्रितोऽन्यत्र भोजने दोष उक्तो यमेन- आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति । नरकाणां शतं गत्वा चाण्डालेष्वमिजायते ।। तथा च स्मृत्यन्तरम्- 'निमन्त्रितो विप्रोऽन्यत्र न किञ्चिदपि भुञ्जीत | न त्वन्यत्र कार्यार्थ गच्छन्न चिरं कुर्यान्नाध्वानं गच्छेन्न हिंसां कुर्यान्न भारमुद्रहेन्न कलहं कुर्याल नियं सेवेत ।' निमन्त्रितविप्रस्य त्यागोऽवमानं च कदापि न कर्तव्यम् , करणे दोष उक्तोऽपरार्के- केतनं कारयित्वा तु योऽतिपातयति द्विजम् | ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥ आमन्त्र्य ब्राह्मणं यस्तु यथान्यायं न पूजयेत् । प्रतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥ केतनंनिमन्त्रणम् । प्रमादान्निमन्त्रितविप्रत्यागे हारीत आह- प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः । तर्पयित्वा यथान्यायं सर्व तत्फलमश्नुते ॥ एतत्प्रमादमूलके विस्मरणे, अप्रमादमूलके तु- एतस्मिन्नहनि प्राप्ते ब्राह्मणो नियमः शुचिः। (१)यतिचान्द्रायणं कृत्वा तस्मात्पापात्प्रमुच्यते ॥ श्राद्धे निषिद्धभोजनलक्षणमाह हारीतः- उद्धृत्य पाणिं विहसन् सक्रोघो विस्मयान्वितः। श्राद्धकाले तु यद् भुक्तं न तत्प्रीयाति वै पितृन् । तथा च वृद्धशातातपः-प्रासने पादमारोप्य यद्भुङ्क्ते च द्विजोचमः । हन्ति दैवं च पित्र्यं च तदन्नं च प्रजाः पशून् । भोजने सर्वप्रथमं कवलग्रहणे दोष उक्तः शङ्खन 'नापासनस्थः पूर्वमश्नीयात् । नाभ्यधिकं दद्यान्न प्रतिग्रहीयात् ।” हारीत आह- पङ्क्तयांवचोपविष्टेभ्यःसमंगन्धादि भोजनम्।न पङ्क्तयां विषमंदद्यान याचेनचदापयेत् । याचको दापको दाता सर्वे निरयगामिनः ॥ ब्राह्मणभोजनावसरेऽन्नादिगुणं न पृच्छेत् । तदाह मनुः- न च द्विजातयो बयुत्रा पृष्टान् हविगुणान् । (१) पिण्डानष्टौ समश्नीयान्मासं मध्यन्दिने रवौ। यतिचान्द्रायणं ह्येतत्सर्वकल्मषनाशनम् ॥ कुक्कुटाण्डप्रमाणं व ग्रासन्तु परिकल्पयेत् । विशेषनियमश्चास्य चान्द्रायणवतवासरे विलोक्य इति ।
- - श्राद्धविधानम् । २०३ तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ भोक्तुर्विषये पृच्छा शोभना, भोजयितु: पक्षे न शोभना इति । तथा च मनुः- यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । तावदश्नन्ति पितरो यावन्नोता हविर्गुणाः ।। भोजने लज्जयाऽयाचनं दोषायाह शातातपः- अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजो मूढः स भवेपितृषातकः ।। अपेक्षित यो नदद्याच्छ्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न स श्राद्धफलं लभेत्।। तथा च वाराहपुराणे- याचते यदि दातारं ब्राह्मणो ज्ञानदुर्बलः। पितरस्तस्य तुष्यन्ति दातुर्भोक्तुन संशयः ।। भोजनसमये ब्राह्मणान् हास्यवचनैः शनैः शनैर्भोजयेदियुक्तं ब्रह्माण्डपुराणे- हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्चाशनं शनैः। अन्नाद्येनासकृच्चैनान् गुणैश्च परिचोदयेत् । स्वगृहे श्राद्धं कृत्वा परगृहे तद्दिने न भोक्तव्यमित्याह--शातातपः-- श्राद्धं कृत्वा परे श्राद्ध भुञ्जते ये तु जिह्वलाः। पतन्ति पितरस्तेषां लुप्तपिण्डोदकक्रियाः॥ मनुः--ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ यमः-भिक्षुको ब्रह्मचारी वा भोजनार्थमुपागतः उपविष्टेषु तु प्राप्तः कामं तमपि भोजयेत् ।। श्राद्धोत्तरं वय॑कार्याणि-पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाऽष्ट वर्जयेत् ॥ अथ भोजनसमये विशेषनियम उक्तोऽपराक्र्क- मांसापूपफलेक्ष्वादि दन्तच्छेदं च भक्ष्येत् । ग्रासशेषं न पात्र स्यात्पीतशेषं तु नो पिबेत् । शातातप:-इस्तं प्रचाल्य यधापः पिबेद् भक्तया द्विजोचमः । तदन्नमसुरभुक्तं निराशाः पितरो गताः ।। यमः-यस्तु पाणितले भुङ्क्ते यस्तु वायुं समुत्सृजेत् । न तस्य पितरोऽश्नन्ति यश्चैवाने प्रशंसयेत् ॥ श्राद्धं कृत्वाऽध्वगमनादौ निषिद्धे कर्मणि कृते फलमाह, व्यासः- अध्वनीनो भवेदश्वः पुनर्भोजी च वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः क्षयोभवेत् ।। दानं निष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनो शूकरो भवेत् । श्राद्धकर्तुनिषिद्धकर्माणि पद्मपुराणे- दन्तानां काष्ठसंयोगं तैलाभ्यहं रतिस्तथा । मेषजं च परान्नं च श्राद्धकर्तव वर्जयेत् ।। पुनर्मुक्ति व्यवायं चाध्ययनाध्यापने तथा । दानं प्रतिग्रहः शूद्रभाषणानृतभाषणे ॥ दिवास्वापाध्वगमने क्रोधञ्च कलहं तथा। एतान् कर्चा च भोक्ता च श्राद्धेषु परिवर्जयेत् ।।
२०४ कृत्यसारसमुच्चयपरिशिष्टे- अङ्गीकृतपरित्यागमाहाने च विलम्बितम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धकत्व वर्जयेत् ॥ स्मृत्यन्तरे-धूतं च कलहं चैव सायं सन्ध्यां दिवाशयम् । श्राद्धकर्ता च भोक्ता च पुनर्मुक्तिं च वर्जयेत् ॥ निर्णयसिन्धौ- पुनर्मोजनमध्वानं भारमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद् विवर्जयेत् ॥ स्वाध्यायं कलहं चैव दिवास्वाप तथैव च । अध्वानं = मार्गगमनम् , क्रोशाधिकगमनं निषिद्धम् । येषां पार्वणं न कर्तव्यं तानाह भविष्ये-- अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्।। पितरि मृते, पितामहे च जीवति सति कर्त्तव्यतोक्ता कात्यायनेन-- जीवेत्पितामहो यस्य पिता चान्तरितो भवेत् । पितुरेकस्य दातव्यमेवमाहुर्मनीषिणः ।। यस्य प्रमीतौ द्वौ स्यातां जीवेच्च प्रपितामहः । पिण्डौ निपृणुयात्पूतौ भोजयेत्प्रपितामहम् ॥ श्रत एव यस्य कुमारस्य पितृपितामहप्रपितामहां जीवन्ति तस्य नान्दीमुखश्राद्ध न भवतीति । श्राद्धकालेऽनुपनीतोऽपि का वैदिकमन्त्रं पठेत् । तथोक्तं याज्ञवल्क्वेनः- नाभिव्याहारयेद् ब्रह्मा यावन्मौजीनिबन्धनम् । मन्त्राननुपनीतोऽपि पठेदेवैक औरसः ।। बृहस्पतिः-वहीनामेकपत्नीनामेष एव विधिः स्मृतिः । एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ इति । अय गृहस्थाश्रमकरणावश्यकत्वमुक्तमपरार्के-- अपत्नीको नरो भूप कर्मयोग्यो न जायते । ब्राह्मणः क्षत्रियो वाऽपि वैश्यः शूद्रोऽपि वा नृप।। पली धर्मार्थकामानां कारणं प्रवरं नृणाम् ।। याज्ञवल्क्यः-यत्रानुकल्यं दम्पत्योत्रिवर्गस्तत्र वर्धते । तथाऽन्येनाप्युक्तम्-त्रिवर्गवर्द्धनादन्ते विरक्ते तु चतुर्थकः । अत्र चतुर्थो मोक्षः ॥ तथा चोक्तं मार्कण्डेयपुराणे यदा भार्या च मर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानों त्रयाणामपि सङ्गतम् ।। कथं भार्यामृते धर्ममर्थे वा पुरुषः प्रभो । प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ।। तथैव भर्गरमृते भार्या धर्मादिसाधने । न समर्या त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ।। देवतापितृभृत्यानामतिथीनाञ्च पूजनम् । न पुम्भिः शक्यते कर्त्तमृते भार्यां नृपात्मज ! ।। प्राप्तोऽपिचार्थों मनुजैरानीतोऽपि निजंगृहम् । क्षयमेति विना भार्याकुमायौं संश्रयेऽपि वा।। कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते। दम्पत्योः सहधर्मेण त्रयीधर्ममा वाप्नुयात् ।। पितॄन् पुत्रस्तथैवान्नसाधनैरतियीन्नरः । पूजाभिरमस्तिद्वत्साध्वी भार्यो नरोऽर्हति ॥ स्त्रियाश्चापि विना मा धर्मकामार्थसन्ततिः । न च तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥ अत एव तत्रैव पतिकर्तव्यता- भन्या रक्षितव्या च भार्या हि पतिना सदा। - !! गृहस्थाश्रमप्रकरणम् । २०५ धर्मार्थकामसंसिद्ध्यै भार्या भर्तृ सहायिनी ।। स्त्रीपु सोर्युकयोस्तात स हैकासनसंस्थयोः । करोति सुखभङ्ग यो नरकं स बजेद् ध्रुवन् ॥ कामतोऽकामतो वाऽपि पश्येद्यः सुरतोन्मुखम् । स्त्रीविच्छेदो भवेत्तत्य ध्रुवं सप्तसु जन्मसु ।। कामिना निर्विकाराणामेतच्छाननिदर्शनम् । निर्विकारस्य हि शिशोन दोषः कश्चिदेव विवाहावसरेऽशौचनिपाते याज्ञवल्क्यः-- दाने विवाहे यये च संग्रामे देशविप्लवे । आपद्यपि च कायां तद्यः शौचं विधीयते।। विष्णुः--व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ।। पत्रिंशन्मते-विवाहोत्सवयशेषु त्वन्तरा मृतसूतके। परैरन्नं प्रदातव्यं भोत व्यं च द्विजोत्तमैः ।। अत्र पराशरः-भुञ्जानेष्वत्र विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाच्चान्नाः सर्वे तु शुचयः स्मृताः ।। एतदाशौचात्पूर्वमपृथकृतान्नविषयम् । बृहस्पतिः-विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितान्नेषु न दोषः परिकीर्तितः ।। यो हि दीनानाथवरकन्ययोविवाहं कारयति तत्फलमुक्तं भविष्ये विवाहादिक्रियाकाले तक्रियासिद्धिकारणम् । यः प्रयच्छति धर्मज्ञः सोऽश्वमेधफलं लभेत् ।। अप्रसूतकन्यापतिगृहे तत्पितु जननिषेधः- अप्रजायां तु कन्यायां न भुञ्जीत कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति ।। आदित्यपुराणे-विष्णुं जामातरं मन्ये तस्य कोपं न कारयेत् । अप्रजायां तु कन्यायां नाश्नीयात्तस्य वै गृहे ।। विवाहादिचतुर्थिमध्ये श्राद्धादिपाते फलमाह ज्योतिर्निबन्धे- विवाहमारभ्य चतुर्यिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् । वैधव्यमाप्नोति तदाशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात् ।। पितृगृहे भुक्त्वा पुनस्तदिन एव स्वामिगृहे न भोक्तव्यम् । मत्स्यसूक्ते-भुक्त्वा पितृगृहे कन्या भुङ्क् त्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ।। एकस्मिन् मण्डपे युगपद् विवाहादिनिषेधमाह, स्मृतिसारावल्याम्- भ्रातृयुगे स्वसूयुगे भ्रातृत्वसुयुगे तथा । एकस्मिन्मण्डपे चैत्र न कुर्यान्मुण्डनद्वयम् ।। सोदरविषयमेतत् , तथाहि- एकोदरप्रसूतानामेकस्मिन् वासरे पुनः । विवाहं नैव कुर्वीत मुण्डनोपरि मुण्डनम् ॥ , २०६ कृत्यसारसमुच्चयपरिशिष्टे- मेधातिथिः-पृथक् मातृजयोः कार्यों विवाह-वेकवासरे। एकस्मिन् मण्डपे कार्यः पृथग्वेदिकयोस्तथा ॥ सहजयोवरयोः सहोदरकन्यके न विवाह्ये । एकस्मै वराय सहजकन्यकाद्वसं न देयम् । यथाऽऽह नारदः- 'न चैकजन्मनोः पुंसोरेकजन्ये तु कन्यके । न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन ॥' इति वशिष्ठोक्तः । अथ कुत्सितकन्यालक्षणम्, मनुः-- नोद्वहेत्कपिलां कन्यां नाधिकाङ्गी न रोगिणीम् । नालोमिकां नातिलोमां न वाचाटा न पिङ्गलाम् ।। नवृक्षनदीनाम्नी नान्त्यपर्वतनामिकाम् ॥ अ० ३८ नातिस्थूलो नातिकृशां न दीर्वा नातिवामनाम् । वयोऽधिको नाङ्गहीनां न सेवेत्कलहप्रियाम् ॥ ० ३।०१। अथ कन्याया अङ्गलक्षणेन शुभाशुभत्वम् । चरणौ कोमलौ मांसलो रक्तवौं संहताङ्गुलिको भूमिसंलग्नसर्वाङ्गुलिको कि- ञ्चिदुष्णशी कमलशङ्खरथध्वजचक्रमीनविमानाङ्कितौ समौ च प्रशस्तौ । शूर्पाकारी विवौँ शुष्कौ कर्कशौ भूम्यलग्नकनिष्ठानामिकाङ्गुलिको वैधव्यसूचकौ । नखाः शूर्पा- कारा दुःखसूचकाः। चलत्या यस्याः पादाभ्यां धूलिरुच्चलेत्सा कुलत्रयं त्यक्त्वा दुष्टेन मोदते । यस्याः पादामुल्योऽन्योन्यारूढा भवन्ति, सा पति हत्वाऽन्ते वारव- निता भवेत् । यस्या अनामिका भूमि न स्पृशति सा पतिद्वयं, यस्या मध्या न स्पृश- ति सा पतित्रयं हन्ति | यस्याः कनिष्टा न स्पृशति साऽपि पतिं हत्वाऽन्ते जारेण रमते । यदि पादनखाः कोमला वाला उन्नतास्ताम्रवर्णास्तदा सा भोगिनी भवेत् । तुङ्गपाणिः कुलटा, दीर्घपाणिर्गदाकुला भवेत् । यस्या रोमहीने कदलोस्तम्भोपमे जो वर्तुं ले समे मांसले भवतः सा राज्ञी भवति । एकस्माच्छिद्रादेकमेव रोम यस्याः सा राशी, द्विरोमा सौख्यभागिनी, त्रिरोमा विधवा भवति । उन्नतौ नितम्बौ यस्याः साऽपि भोगिनी । [निर्मासा विनता दीर्घा चिपटा शकटाकृतिः । लध्वी रोमाकुला नार्या वैधव्यं दिशते कटिः] योनिर्वामनता कन्याजननी । ददनता पुत्रजननी। रोमहीनोऽश्वत्यपत्राकृतिगूढमणिः शुभः । घटनासश्चल्हिकोदरसदृशः कुरङ्गखुरसह- शो भगो न शुभः । पृथूदरी पुत्रजननी मेकोदरी बलिष्ठपुत्रजननी । उन्नतोदरी कठि- नोदरी बन्ध्या । पटाकृतिमृदङ्गाकृतिजठरवती पुत्रवर्जिता । रोमशहृदया पतिहीना। समस्तनवती भाग्यवती । दक्षस्तनोन्नता पुत्रजननी । वामस्तनोभता कन्याजननी। स्थूला- स्यौ स्तनौ न प्रशस्तौ । विनतस्कन्धा पुत्रिणी । हृस्वस्कन्धा सुखिनी। पुष्टस्कन्धा कामिनी । कुटिलस्कन्धा मदान्धा । लोमाकुलस्कन्धा विधवा । सस्तांसा धन्या । उन्न- तांसा विधवा । समस्वच्छदशना सुभगा । असमपीतश्यावदन्ता न शुभा । नासिका क्षुद्रच्छिद्रा शस्ता । उन्नताक्षी अल्पायुषी। कुटिलाक्षी वृचाक्षी कुटिला । अजादी केकराची कासरादी दुर्भगा । पिकाची कपोताक्षी दुःशीला । कोटराधी महादुष्य। ।
गृहस्थाश्रमप्रकरणम् । २०७ रक्ताक्षी पतिघातिनी । बन्ध्या दक्षकाणाक्षी। पुश्चली वामकाणाक्षी। मधुपिङ्गलादी सदा धनवती । ललाटे मशकः सुखसूचकः । कपोलेऽपि । हृदयेऽपि । नासिकायां मशक- स्तदा पतिहन्त्री । करठे तिलके पतिप्रिया। हसिते कपोलद्वये कृपिके भवतः साऽपि पुंश्चली । इत्यादि। वरपक्षाद् द्रव्यग्रहणे कन्यापितुर्महान् दोष उक्तो मनुना-- न कन्यायाः पिता विद्वान् गृहीयाच्छुल्कमण्वपि । गृहपञ्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयो । वीधनानि तु ये मोहादुपजीवन्ति बान्धवाः। नारी यानानि वस्त्रं वा ते पापा यान्त्यघोगतिम् ।। यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अहणं तत् कुमारीणामानृशंस्यं च केवलम् ॥ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ तथा च कन्यापक्षीयजनस्य वरद्रव्यग्रहणे कन्या क्रयक्रीता भवति तत्पुत्रदत्तपि- एडादि पितरो न गृह्णन्तीत्यपि महान् दोषः । तदुक्तं कालिकापुराणे- क्रीता या वनिता मूल्यैः सा दासीति निगद्यते । तस्यां यो जायते पुत्रो दासः पुत्रस्तु स स्मृतः॥ न राज्ञो राजमाक् स स्याद्विप्राणां नापि श्राद्धकृत् । अधमः सर्वपुत्रेभ्यस्तस्मात्तं परिवर्जयेत् ॥ अथ वरगुणपरीक्षणमाह शिवपुराणे- कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । एतान् गुणान् वीक्ष्य वराय देया कन्याजनैः शेषमचिन्तनीयम् ॥ मूर्खाय कन्या न देया । तथाह शुभकर्मनिर्णये- यस्य त्वेकगृहे मूों दूरस्थश्च गुणान्वितः । गुणान्विताय दातव्या नास्ति मूर्ख व्यतिक्रमः॥ योग्यवरालाभे कन्यावयोऽतिक्रमणमपि न दोषाय भवतीत्याह, मनुः- काममामरणाविष्ठेद् गृहे कन्यत्तु मत्यपि । न त्वेवैनां प्रयच्छेत्तु गुणहीनाय कहिचित् ।। अ० ९॥६॥ भ्रातृहीनकन्याविवाहवय॑त्वमाह, मनुः- यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता। नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । अ० ३३१॥ विवाहावसरे तत्साधकानि मिथ्यावचनान्यपि न दोषाय भवतीत्युक्तं भारते- विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चाथै ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि । अतो येन सत्यवाक्येन विवाहबाघा जायते तत्सत्यमप्यसत्वव्याहारवद्दोषाय, तथा -- - २०८ कृत्यसारसमुच्चयपरिशष्ट- येनासत्यप्रयोगेन विवाहादिकार्यसाधनं भवति, तदसत्यमपि सत्यव्याहारवद्धर्माय एव भवतीत्युक्तं देवीभागवते- सत्यं न सत्यं खलु यत्र हिंसा दयाऽन्वितं चानृतमेव सत्यम् । हितं नराणां भवतीति येन तदेव सत्यं मुनिनाऽत्र गीतम् ।। परिवेदनमाह-दाराऽग्निहोत्रसंयोगं कुरुते योऽपजे स्थिते । परिवेत्ता स विज्ञेयः परिविचिस्तु पूर्वजः ॥ कुलीनकन्या विवाह्येत्याह, वशिष्ठः- विद्याप्रणष्टा पुनरभ्युपैति जातिप्रणाशे विह सर्वनाशः । कुलापदेशेन हयोऽपि पूज्यस्तस्मात् कुलीनां त्रियमुदहन्ति ।। कालिकापुराणे-बहुदारः पुमान्यस्तु रागादेका भजन स्त्रियम् । स पापभाक स्त्रीजितश्च तस्याशौचं सनातनम् ।। यदुखं जायते स्त्रीणां स्वाम्यसंभोगजं विभो । न तस्य सदृशं दुःखं किञ्चिदन्यत्र विद्यते || सर्वदा यो दिवारात्रौ सन्ध्यायां वनितारतः। सेवते सुरतं तस्मिन्त्राजयक्ष्मा वसिष्यति ।। गर्गोऽप्याह-ज्येष्ठे तिष्ठति सोदर्ये न कुर्याद्दारसंग्रहम् । श्रावसथ्यं तयाऽऽधानं पतितस्त्वन्यथा भवेत् ॥ अत्र सोदर्यग्रहणामात्रेयादौ भ्रातरि ज्येष्ठे अविवाहिते कनिष्ठस्य विवाहो न दुष्यतीति । स्पष्टमुक्तं शातातपेन- पितृव्यपुत्रसापत्नपरनारीसुतेषु च |ज्येष्ठेष्वपि च तिष्ठत्सु भ्रातणां तु कनीयसाम् ।। दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ अत्र सापलो वैमात्रेयः । परनारीसुताः क्षेत्रजदचकायाः । तथा च- क्लीवे देशान्तरस्थे च पतिते भिक्षुकेऽपि वा । योगशास्त्राभियुक्ते च न दोषः परिवेदने । क्लीवे सन्तानोत्पादकशक्तिशून्ये, देशान्तरस्थे द्वादशाधिकवर्षकालान्तरिते, पतिते जातिबहिष्कृते, भिक्षुके यती, योगशास्त्राभियुक्त विरक्त ज्येष्ठे सति न दोषः । तथा च कात्यायन:- देशान्तरस्थक्लीबैकवृषणानसहोदरान् । वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥ जडमकान्धबधिरकुन्जवामनषण्डकान् | अतिवृद्धानभार्याश्च कृषिसत्तान्नृपस्य च ॥ धनवृद्धिप्रसकांच कामतोऽकारिणस्तथा। कुहकांस्तस्करांश्चापि परिविन्दन्न दुष्यति ॥ अर्थात्स्वसवर्णविवाहयोग्यतावति ज्येष्ठेऽनूढे सति दोषोऽन्यथा न दोषः । अत्र प्रायश्चित्तादि प्रायश्चित्तग्रन्ये विलोक्यम् । एवं ज्येष्ठायामविवाहितायां कनिष्ठाया अपि विवाहो निषिद्धः । तत्रानूदायां पूर्वजायां यस्या विवाहः साऽदिधिषः । ज्येष्ठा तु दिधिषः स्मृता, यथाऽऽह देवलः ज्येष्ठायां यद्यनूदायां कन्यायामूयतेऽनुजा । - E - पोष्यश्वालक्षगम् । २०६ या साऽदिधिषज्ञेया पूर्व .तु दिधिः स्मृता ॥ अत्र अग्रेदिधियूपतिस्तु प्राजापत्यं चरित्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्हेत् । दिधिषपतिस्तु कृच्छ्रातिकृच्छौ कृत्वा स्वोढः ज्येष्ठां कनीयस्याः पूर्व विवाहे दत्त्वाऽन्या- मुद्हेदिति मिताक्षरायाम्। एवं ज्येष्ठे गृहान्निर्गते, द्वादशाब्दसमयं प्रतीक्ष्य श्राद्धं कृत्वा कनिष्ठो विवाह कुर्यात् । तत्पश्चाद्यदि देवाज्येष्ठः समागच्छति तदा सोऽपि शान्ति कृत्वा विवाह कुर्यात्तत्र न परिवेदनम् । शान्तिकरणे पुनरादितः संस्कारदर्शनात् तस्य ज्येष्ठत्वमपग- तम् । प्राप्तबन्धनादिराजदण्डे सति हातञ्जीवने यावत्स बन्धनान्मुच्यते तावत्प्रतीक्षणं कर्तव्यमिति । त्याज्यस्त्रीविशेषा आह, याज्ञवल्क्यः-- सुरापी व्याधिता धूर्त वन्ध्याऽर्थन्यप्रियंवदा । स्त्रीप्रसूश्चाऽधिवेत्तव्या पुरुषद्वेषिणी तथा ।। अ० ११७३। अधिवेत्तव्या त्याज्येत्यर्थः । तत्त्यागसमयावधिमाह मनुः- बन्ध्याऽटमेऽधिवेत्तव्या दशमे तु मृतप्रजा। एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ।। अ० ९८१ तत्र विशेषमाह याज्ञवल्क्ये देवलः- एकामुत्क्रम्य कामार्थमन्यां लब्धं य इच्छति । समर्थस्तोषयित्वाऽयः पूर्वोढामपरां व्रजेत् । द्वितीयविवाहे समय उक्तो निर्णयसिन्धौ- प्रमदामृतिवासरादितः पुनरद्वाहविधिवरस्य च । विषमेऽयुगवत्सरे शुभो युगलं चापि मृतिप्रदं भवेत् ।। अथ पुरुषभेदाः, मार्कण्डेयपुराणे (अ० २१)- तदुपात्तं यशः पित्रा धन वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥ तवीर्यादधिक यस्तु पुनरन्यत् स्वशक्तितः। निष्पादयति तं प्राशाःप्रवदन्ति नरोत्तमम् ।। यः पित्रा समुपात्तानि बलवीर्ययशांसि वै । न्यूनतां नयति प्राशास्तमाहुः पुरुषाधमम् ।। पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः । घिग् जन्म तस्य यः पित्रा लोके विज्ञायते नरः॥ यः पुत्राख्यातिमभ्येति तस्य जन्म सुजन्मनः। अात्मना ज्ञायते धन्यो मध्यः पितृपितामहैः ।। मातृपक्षख मात्रा च ख्यातिमेति नराधमः। तथाच-उत्तमा प्रात्मना ख्याताः पित्रा ख्यातास्तु मध्यमाः। मातुलेनाधमाः ख्याताः श्वशुरेणाधमाधमाः॥ अथ पोष्यश्वालक्षणम्। बृहत्संहितायाम् (० ६२)-- पादाः पञ्चनखात्रयोऽप्रचरणाः षड्मिनखैदक्षिणः, २७.कृ० सा० - २१० कृत्यसारसमुच्चयपरिशिष्टे- ताम्रोष्ठापनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च । लालं ससर्ट हगृक्षसदृशा कौँ च लम्बौ मृदू, यस्य स्यात्स करोति पोष्टरचिरात्पुष्टां श्रियं श्वा गृहे ।। यस्य शुनोऽप्रदक्षचरणे षण् नखाः, शेषेषु पञ्च पञ्च नखा भवन्ति ओष्ठाननासिके रक्तवर्णे, सिंहवद्गमनशीलः, भुवं जिघन् याति । पुच्छं पृथुलोमयुक्तं, भल्लुनेत्रसदृशे नेत्रे, लम्बिता कोमलौ च कौँ न तु शृगालवदूर्ध्वकौँ । एवंलक्षणलक्षितकुक्कुरः पालकस्य गृहे पालितः सन् पूर्णी लक्ष्मी सत्त्वरमेव करोति तथा कुक्कुरीलक्षणम्-- पादे पादे पञ्च पञ्चाग्रपादे यामे यस्याः षण्नखाः मल्लिकाक्ष्याः। वकं पुच्छं पिङ्गला लम्बकर्णी या सा राष्ट्र कुक्कुरी पाति पोटुः ॥ वामेऽग्रचरणे पट , शेषेषु पञ्च पञ्च नखाः, तथा मल्लिकापुष्पाकृति नेत्रात्परितो- धावल्यञ्च, लाजूलं च वक्र, लम्बकों कपिलवर्णा च एवं या शुनी सा पालकस्य शुभं दिशति । (१५) अथ (क) व्रतनियमः । तत्र नक्तभोजिजनावश्यककर्त्तव्यमुक्तं देवीपुराणे- हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमघःशय्यां नक्तभोजी षडाचरेत् ॥ व्रतमात्रे नियम उक्तो भविष्ये- क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः । देवपूजाऽग्निहवनं सन्तोषस्तेयवर्जनम् ।। सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः॥ अथोपवासशब्दार्थः-- उपावृतस्तु दोषेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वदोषविवर्जितः॥ तथा चशातातपः- गन्धालङ्कारवस्त्राणि पुष्पमाल्यानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥ अत्र दन्तधावनं पत्रद्वारा कार्यम्- उपवासे तथा पित्ये न खादेद्दन्तधावनम् । दन्तानां काष्ठसंयोगाद्दहत्यासतमं कुलम् ।। देवलः-उपवासः प्रणश्येत दिवास्वापाक्षमैथुनैः । अत्यये चाम्बुपानेन नोपवासः प्रणश्यति ॥ तिथिप्रदीपे-कास्यं मांसं मसूरञ्च चणकं कोद्रवन्तथा । (क) देवल:-व्रतोपवासनियमैः शरीरोत्तापनस्तथा । वर्णाः सर्वे विमुच्यन्ते पात- केभ्यो न संशयः । अनेन शौचाचारनियमवतां चतुर्णामपि वर्णानां स्त्रीपुरुषसाधारण्येन व्रतेष्वधिकारो गम्यते । महाभारते-मामुपाश्रित्य कौन्तेय ! येऽपि स्युः पापयोनयः । लियो वैश्याश्च शूद्राश्च तेऽपि यान्ति परां गतिम् ॥ अत्रायं विशेषो यद योषितां मर्तरादेशं विना स्वातन्त्र्येण व्रतादिषु नाधिकारः । अथ व्रतकत्र्ताहात्म्यम् , भविष्ये-अनग्नयस्तु ये विप्रास्तेषामेव विधीयते । व्रतोपवासनियमै नादानस्तथा नृप ! ॥देवादयो भवन्त्वेवं तेषां प्रीता न संशयः। -- - व्रतनियमः। २११ - -- शाकं मधु परान्नं च त्यजेदुपवसन् त्रियम् ।। तथाचोक्तं शुभकरीयतिथिनिर्णये- 'तत्रोपवासदिने दन्तधावनं हिंसामनृतं चौर्यमसकृजलपानं ताम्बूलभवणं स्त्रीस योग दिवास्वापं द्यूतं च वर्जयेत् । प्रमादतः कृते सति विष्णुधर्मे-- श्राद्धोपवासदिवसे कृत्वा दन्तस्य धावनम् । गायत्र्याशतशः पूतमम्बु प्राश्य विशुद्ध्यति॥ हिंसाचौर्ययोः प्रायश्चित्तं स्मृतिसंग्रहे- स्तेनहिंसकयोः सख्यं कृत्वा स्तैन्यं च हिंसनम् । प्रायश्चित्तं व्रती कुर्याजपेन्नामशतत्रयम् ।। नामविष्णुनाम कात्यायन:- मिथ्यावादे दिवास्वापे बहुशोऽम्बुनिषेवणे । अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः।। अष्टाक्षरं तु 'श्रो(क) नमो नारायणाय' इति । रेतः सेकात्मकं भोगमृतेऽन्यत्र क्षयः स्मृतः ॥' अस्यार्थ:--रेतः सेके ऋतुकाले गर्भाधाननिमित्तकम् । तदात्मकं भोगं वर्जयित्वा अन्यत्र भोगे व्रतस्य क्षयः । ऋतुकालश्च षोडशनिशा। असंभाष्यं समाभाष्य तुलस्यतसिकादलम् । श्रामलक्याः फलं वाऽपि व्रती प्राश्य विशुद्ध्यति । (छूते दिवास्वप्नवदिति)। तत्रोपवासात्पूर्वदिने एकमुक्तस्यावश्यकत्वमुक्तं कृत्यशिरोमगौ-शङ्खलिखि- ताभ्याम-- एकभुक्तने यो मर्त्य उपवासव्रतं चरेत् । तस्यैव व्रतसाङ्गत्वं नान्येषां तु कदाचन ।। तत्र संयम उक्तो लघुनारदीये-- दशम्यादि महीपाल त्रिदिनं परिवर्जयेत् । गन्धताम्बूलपुष्पादि स्त्रीसंभोगं महायशाः॥ कूर्मपुराणे-कास्वं मांस मसूरान्नं चूणकं कोद्रवं तथा । शाकं मधु परान्नं च त्यजेदुपवसन् त्रियम् । तथा च-शाकं मांसं मसूरांश्च पुनर्भोजनमैथुने । द्यूतमत्यम्बुपानं च दशम्यां वैष्णवस्त्यजेत् ॥ असकृज्जलपानाच्च सकृचाम्बूलचर्वणात् । उपवासः प्रणश्येत दिवास्वापाच्च मैथुनाद । तथा नारदीये- अक्षारलवणाः सर्वे इविष्यान्ननिषेवणाः । अवनीतल्पशवनाः प्रियासंगमवर्जिताः॥ गात्राभ्यङ्ग शिरोऽभ्यङ्ग ताम्बूलं चानुलेपनम्।व्रतस्थो वर्जयेत्सर्व यच्चान्यच निराकृतम्। (क ) स्त्रीशूद्रयोः प्रणवोच्चारणे दोषमाह नृसिंहतापनोयश्च तौ-सावित्री प्रणवं यजु- लक्ष्मी स्त्रीशूद्रयोनेच्छन्ति' इति । तथा च शूद्रकमलाकरै-'न दर्भानुरेच्छूद्रः' इत्युपक- म्याई-नोच्चरेत् प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् । न शिखी नोपवीती स्यान्नोन्चरेत् संस्कृतां गिरम् । इति । -- - - - २१२ कृत्यसारसलुचपपरिशिष्ट- स्तेनहिंसकयोः सख्यं कृत्वा तैन्यं च हिंसनम् । प्रायश्चित्तं व्रती कुर्याजपेन्नामशतत्रयम् ।। मिथ्यावादे दिवास्वापे बहुशोऽम्बुनिषेवणे | अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः॥ 'श्रों नमो नारायणाय' इत्यष्टादरमन्त्रः। अथ द्वादश्यां पारणादिने वानह बृहस्पतिः- दिवानिद्रा परान्नं च पुनर्भोजनमैथुने । क्षौद्रं कांस्यामिषे तैलं द्वादश्यामष्ट वर्जयेत् ॥ ब्रह्मपुराणेऽपि पुनर्भोजनमध्यायो भार श्रायासमैथुने । उपवासफल हन्युर्दिवानिद्रा च पञ्चमी । अत्रोतवचनाभ्यां पारणादिनेऽपि एकभुक्तमर्याद्रात्रौ भोजनम् न विहितम् । एव- मेव शिष्टाचारः। अथाशक्तजनकृते एकमुक्तवर्जितमपि व्रतं न दोषायेत्युक्तं ब्रह्मवैवर्ते- इति विज्ञाय कुर्वातावश्यमेकादशीव्रतम् । विशेषनियमाशक्तोऽहोरात्रं भुजिवर्जितम् । तत्राप्यसमर्थों दक्षिणादि विप्राय दत्वा कारयेत् । तत्र कात्यायन:- पितृमातृपतिभ्रातृस्वसूगुर्वादिभूभजाम् । दक्षिणाऽत्र न दातव्या शुश्रूषा विहिता च सा il सधवानां व्रतकरणे दोपमाह विष्णुः-- पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । पत्युः संहरते चायुः सा नारी नरकं व्रजेत भर्तुराज्ञया तस्या व्रतकरणे न दोपः । तथाऽऽह मार्कण्डेयः-- या नारी त्वननुज्ञाता भर्ना पित्रा सुतेन वा। निष्फलं तद्भवेत्तत्या यत्करोति व्रतादिकम् ।। भर्तुतकरणासामर्थ्य वा स्त्रिया रोगरजःप्रभृतिबाधकत्वे मिथो ब्रतकरणे प्रति निधित्वमाह- भार्या भर्तृव्रतं कुर्याद्भार्यायाश्च पतिस्तथा । असामर्थ्य शरीरस्य व्रतभङ्गो न जायते ।। ब्राह्मणः क्षत्रियस्यार्थे एकादश्यामुपोषितः । पुरोधाः क्षत्रियस्यायें फलमाप्नोति निश्चितम् ॥ उपवासफलं ताभ्यां सममेवमवाप्यते ।। संकल्पितत्रतत्यागे दोषमाह, छागलेयः-- पूर्व व्रतं गृहीत्वा यो नाचरेत् काममोहितः । जीवन् भवति चाण्डालो मृतः श्वा चैव जायते । तथा च स्मृतिः ( कृत्यशिरोमणौ) समारम्मे व्रते पश्चाद्वतभङगो भवेद्यदि | गोदानं च ततः कृत्वा पुनर्बतमतश्चरेत् ॥ स्त्रीणां प्रारब्धव्रते रजोयोगेऽपि न दोषः, तत्र भृगुः-- एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यपि । वृद्धगर्ग:--संप्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतम् । मनुरपि--'प्रारब्धदीर्घतपसां नारीणां यद्रजो भवेत् । - अनुष्ठानविधानम् २१३ न तत्रापि व्रतस्य स्यादुपरोधः कदाचन ॥' पूजादिकमन्यद्वारेण कार्यमिति । तदुक्तं मात्स्ये-- अन्तरा तु रजोयोगे पूजामन्येन कारयेत् । उपवासत्रयं कुर्यान्नात्र कार्या विचारणा || यत्तु शुचिना कर्म कर्त्तव्यमिति तत्काम्यपरम् । स्त्रीणामुपवासेऽपि दन्तधावने न दोषः तथा च स्त्रीधर्मप्रकारे मनुः-- पुष्पालङ्कारवस्त्राणि गन्धशय्याऽनुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ।इति (१६) अथानुष्ठान विधानम् । तत्र तावत्तदावश्यकत्वमुक्तं शब्दकल्पद्रुमे- 'यथा शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपपतानां शान्तिर्भवति वारणम् ॥' अनेन विधिलिपिमार्जनी शान्ति पि तु दुरदृष्टदोषाघातरक्षणी नियतेति । तत्र प्राक्तनजन्मोपार्जितदुरितमूला केवला अनिष्टा एव नहि, किंतु वर्तमानजन्मविहिता अपि भवन्त्येव तथा चोक्तं वराहेण-- 'अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति । संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः ॥ मनुजानामपचारादपरको देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्ति राष्ट्र प्रयुञ्जीत' ॥ न केवलं ग्रहवैगुण्यादिनाऽनिष्टस्यैवोपशमः, शुभोदयोऽपि नियतं भवत्येव । तथोक्तं याज्ञवल्क्येन- श्रीकामःशान्तिकामो वा ग्रहयशं समाचरेत् । वृष्टयायुः पुष्टिकामो वा तथैवाभिचरन्नपि ।। ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च । भावामवौ च जगतस्तस्मात्पूज्यतमा ग्रहाः।। यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् | ब्रह्मणेषां वरो दत्तः पूजिताः पूज्ययिष्यथ ।। तत्र कस्यापि कर्मणः प्रारम्भे सङ्कल्पस्यावश्यकत्वमुक्तं ब्रह्माण्डपुराणे-- 'मासपक्षतिथीनां च निमिचानां च सर्वशः उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥' भविष्ये--'असङ्कल्पेन यो विप्रो यत्किञ्चित्कुरुते नरः। फलं चाल्पाल्पकं तत्र धर्मस्वार्धक्षयो भवेत् ॥' तत्र नित्यकर्म कृत्वा संकल्पविधानमुक्तं संवत्सरप्रदीपे-- 'प्रातः सन्ध्या ततः कृत्वा संकल्पं बुध आचरेत् ।' तत्र कर्मारम्भलक्षणमुक्तं हारीतेन- प्रारम्भो वरणे यज्ञे संकल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादो, पित्ये पाकपरिक्रिया ।। निमन्त्रणं तथा पित्र्ये प्रारम्भः स्यादिति स्थितिः । -- -- २१४ कृत्यसारसमुच्चयपरिशिष्ट- एकादश्यादौ तु संकल्पं विनाऽपि उपोषणे कृते भोजनप्रत्यवायानुदयो हेत्वमा- वादिति कृत्यमहार्णवे लिखितम् ।' तत्र नियम उक्तो देवलेन- 'अभुक्त्वा प्रातराहारं स्नात्वाऽऽचम्य समाहितः । सूर्याय देवताभ्यश्च निवेद्य व्रतमाचरेत् ॥' इति व्रतपरम् । जपादौ हारीतवचनेन सङ्कल्पकरणं निर्वाधमेव । तत्र सविधिविहितस्यैव कर्मणः साफल्यमाह, याज्ञवल्क्यः- 'विधिहीनश्च यत्कर्म करोत्यविधिना नरः। फलं न किञ्चिदाप्नोति क्लेशमात्रं हि तस्य तत् ॥' कुलार्णवतन्त्रे-'मनोऽन्यत्र शिरोऽन्यत्र शक्तिरन्यत्र मारुतः। न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि ।' 'जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । परस्त्रीभिर्मनो दग्धं कथं सिद्धिर्वरानने । अथानुष्ठानपात्रलक्षणमुक्तं याज्ञवल्क्येन- 'न विद्यया केवलया तपसा वाऽपि पात्रता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्चितम् ॥' कीहशजनविहितं कर्म फलप्रदं भवति तदुक्तं पुराणसंग्रहे- 'यः स्वार्थे विधिवन्नित्यं करोति च जितेन्द्रियः। तस्यवाचरितं कर्म परार्थेऽपि फलप्रदम् ॥' अभ्यासिनो वीरनरा यथाऽऽजौ जयशालिनः। तथा नित्यविधातारः परक्लेशान् जयन्ति ते ।। आजौ संग्रामे । शेषं स्पष्टम् । न केवलं जपादेः साफल्यं पात्रहस्तगतमेवापि तु तविधिवत्पुरश्चरणाचरणाधीनम् , तथोक्तं देवीभागते- 'जीवहीनो यया देहः सर्वकर्मसु न क्षमः। पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीचिंतः ॥ अथानुष्ठानिजनकर्त्तव्यमुक्त विधानपारिजाते-- 'श्राहारचितसंसर्गशुद्धिरावश्यको मता। न त्वन्यकार्यचिन्ता च कार्याऽल्पाऽपि जपादिके ।। पूज्यं ध्यायन जपं पाठश्चाचरेद् ध्यानतत्परः । बाह्यव्यापारशून्यः स्यात्काष्ठकुड्यसमो भवेत् ॥ तथा च-उष्णीषो कञ्चकी नग्नो मुक्तकेशो गुणान्वितः। अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्त्वचित् ।। अनासनः शयानो वा गच्छन् भुञ्जान एव वा। रथ्यायामशिवस्थाने न अपेतिमिरालये॥ मार्जार कुक्कुरं श्वान क्रौञ्चं शूद्रं खरं कपिम् । दृष्ट्वाऽऽचम्य जपेत्कर्ण स्पृष्ट्वा स्लान विधीयते ॥ योगिनीतन्त्रे-'नैकवासा जपेन्मन्त्रं बहुवस्त्रावृतोऽपि वा। पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।।
२१५ -- अनुष्ठानविधानम् । सुतेऽधो वायुगमने जृम्भणे जपमुत्सृजेत् । तथा तस्य च तत्प्राप्तौ प्राणायाम पडलकम् ।। कृत्वा सम्यक् जपेच्छेषं यद्वा सूर्यादिदर्शनम् ।। अथ जपे नियम उक्तः कुलार्णवे-- उक्तसंख्याजपं कुर्यात्पुरश्चरणसिद्धये । देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया ।। जपेदेकमनाः प्रातःकालं मध्यन्दिनावधि । वसंख्यया समारब्धं तत्कर्तव्यमहनिशम् ।। यदि न्यूनाधिकं कुर्याद् तभ्रो भवेन्नरः ।। मुण्डमालातन्त्रेऽपि- यत्संख्यया सनारब्धं तजतव्यं दिने दिने । न्यूनाधिक न कर्नयमासनासं सदा जपेत्।। अथ स्वार्थमनुष्ठाने परान्नभोजननिपेय उक्तः कुतार्गवे-- 'यस्यानपानपुष्टाङ्गः कुरुते धर्मसञ्चयन् ! अन्नदातुः कलत्या कश्वार्थ न संशयः । तस्मात् सर्वप्रयत्नेन परान्नं परिवर्जयेत् : पुरश्चरणकाले नु नवनमन शाम्भवि : !' अत्रादुष्टपरान्नमाह- गुर्वन्नं मातुलान्नं च श्वशुरान्नं तथैव च । पितुः पुत्रस्य चैवान्नं न परान्नमिति स्थितिः।। तथाचोक्तं तन्त्रान्तरे-- सत्कर्मोपार्जितं द्रव्यमन्नञ्च व्रतजापयोः । चोरिताद्वञ्चितान्मिथ्याग्रहोतान्न फलं भवेत् ।। यत्सात्त्विकं भवेदन्नं परद्रोहानुपार्जितम् । तदेवान्नमनुष्ठाने प्रयुञ्जीत न चान्यया ।। मार्कण्डेयः-यथाविधेन द्रव्येण यत् किञ्चित्कुरते नरः ! तथाविधमवाप्नोति स फलं प्रेत्य चेह च ।। अनुष्ठानान्तेऽनुष्ठानतत्परान् विप्रान् सादरं तोषवेदित्युक्तं शान्तिमयूख- धृतस्कान्दे-- यया ग्रहो द्विजस्तद्वद्विज्ञेयो वेदपारगः । तोषयन् मृदुवबायेत्तुष्टमेनं विसर्जयेत् ॥ अनहीनो दहेद्राष्ट्र मन्त्रहीनश्च ऋत्विजः । यजमानमदक्षिण्यं नास्ति यज्ञसमो रिपुः ।। तत्र दक्षिणादाने विलम्बकरणे दोप उक्तो ब्रह्मवैवर्ते- 'दक्षिणां विप्रमुद्दिश्य तत्कालं चेन्न दीयते । एकरात्रे व्यतीते तु तदानं द्विगुणं चरेत् ।। मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् । संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ।। न ददाति यदा दाता ग्रहीता न च याचते । उभौ तौ नरकं यातौ यावचन्द्रदिवाकरौ। तथा चोक्तं देवीभागवते (९ स्कन्धे ४५ श्र०)- कृत्वा कर्म च कर्ता च वर्ण दद्याच्च दक्षिणाम् । तत्वणं फलमाप्नोति वेदैरक्तमिदं मुने।। कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् । न दद्याद् ब्राह्मणेभ्यश्च देवेनाज्ञानतोऽयवा।। मुहुर्ने समतीवे तु द्विगुणा सा भवेद् ध्रुवम् । एकराने व्यतीते च भवेच्छतगुणा च सा !! विराने तच्छतगुणा सप्ताहे द्विगुणा ततः। मासे लदगुणा प्रोता ब्राह्मणानाञ्च वर्द्धते ।।
२१६ कृत्यसारसमुन्नयपरिशिष्टे- संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् । कर्म तद्यजमानानां सर्व वै निष्फलं भवेत् ।। स च ब्रह्मस्वहारी च न कर्माहोऽशुचिन्नरः । दरिद्रोव्याधियुक्तश्च तेन पापेन पातकी ॥ तद्ग्रहाद्याति लक्ष्मीश्च शापं दत्वा सुदारुणम् । पितरो नैव गृहन्ति तद्दत्तं श्राद्धतर्पणम् ॥ एवं सुराश्च तत्पूजां तद्दचामग्निगहुतिम् ! दत्तं न दीयते दानं ग्रहीता नैव याचते ।। उभौ तौ नरक यातश्छिन्नज्जुर्यथा घटः । नार्पयेद्यजमानश्चेद्याचितोऽपि च दक्षिणाम् ।। भवेद् ब्रह्मस्वापहारी कुम्भीपाकं व्रजेब्रुवम् । वर्षलक्ष वसेत्तत्र यमदूतेन ताडितः । ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः । पातयेत् पुरुषान् सप्त पूर्वाश्व सप्त जन्मतः । हवनविधानविषया वनप्रकरणे द्रष्टव्या: किमत्र ग्रन्थविस्तृन्येति । दक्षिणारूपं विप्रधनं क्षणमपि न रक्षणीयमन्यथा वंशनाशः स्याद्यथोक्तं वामनपुराणे-- अनौषधमभैषज्यं विषमेतद्धलाहलम् । न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते ।। विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् । लोहचूर्णाश्मचूर्णं च विषं च जरयेन्नरः ॥ ब्रह्मस्वं त्रिषु लोकेषु कः पुमान् जरयिष्यति । मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः।। शस्त्रमेकाकिनं हन्ति ब्रह्ममन्युः कुलत्रयम् । मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः॥ चक्रातीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् । अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च ॥ मन्युदग्धस्य विप्राणामकुरो न प्ररोहति ॥ यः स्वकर्मनिष्टस्तस्यैव परार्थमाचरितमनुष्ठानं न दोषायेत्याह याज्ञवल्क्यः- वेदाभ्यासरतं क्षान्तं महायज्ञक्रियापरम् । न स्पृशन्तीह पापानि महापातकजान्यपि ॥ अथ दुष्प्रतिग्रहानाह मार्कण्डेयः-- तिलो घेर्नुगजो वाजी प्रेतान्नमजिनं मणिम् । सुरभी सूयमाना च वोराः सप्त प्रतिग्रहाः॥ विद्यातपोभ्यां होनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ।। हिरण्यं भूमिमश्वं वाऽन्नं वासश्च तिलान् घतम् । अविद्वान् प्रतिगृह्णीयाद् भस्मीभवति दारुवत् ।। अथ प्रसङ्गाद्धरिवंशनवाहपारायणविधि (क):-- प्रथमे कृष्णजननं द्वितीये धेनुकार्दनम् । तृतीये कुण्डिनपुरे रुक्मिणीहरणं तथा।। चतुर्थे षटपुरवधमार्यास्तोत्रं च पञ्चमे । मघोश्चरित्रं षष्ठे वै सप्तमे पावकस्तुतिः ।। अष्टमे पौण्डकवघो नवमेऽह्रि समापयेत् । वाचयेदनया रीत्या हरिवंशं यथाक्रमम् ॥ तथाऽन्यदपि तत्प्रमाणम्-- प्रथमे यदुवंशस्य कीर्तनावधि कीर्तयेत् । अध्यायानां पञ्चत्रिंशत्कीर्तनीया हि तद्दिने ॥ द्वितीयेऽहि पठेद्विद्वान् धेनुकस्य वधावधि । अध्यायानां त्रयस्त्रिंशत् पठितव्या हि तद्दिने॥ (क) पुराणश्रवणविधिः भविष्यपुराणे-शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रियास्तथा । क्षत्रियाणां तथा विप्राः शृण्वन्टवेकाग्रतः स्थिताः ।।
अनुष्ठानविधानम्। २१७ जरासन्धबधो युद्ध गोमन्तस्य च रोहणम् । तावत् प्रकीर्तयेद्धीमान् तृतीयेऽह्नि विचक्षणः॥ अध्यायानामूनत्रिंशत् कीर्तनीया हि तद्दिने । पारिजातस्य हरणं युद्धं कृष्णेन्द्रयोमिथः ।। प्रकीर्तयेच्चतुर्थेऽह्नि तावदेव नरः सुधीः । एकत्रिंशत्परिमितानध्यायान् समुदीरयेत् ।। सैन्यभङ्गःशम्बरस्य वाक्यं श्रीनारदस्य च । तावत् प्रकीर्तयेद्विद्वान् पञ्चमेऽह्नि प्रयत्नतः ॥ त्रयस्त्रिंशत्परिमिता अध्याया विहितास्तदा । जनमेजयवंशस्य भविष्यस्य च वर्णनम् ॥ षष्ठेऽह्नि तावद्वक्तव्यं पारायणशुभेच्छुना । अध्यायास्तु चतुर्विशन्मितास्तस्मिन् प्रकीर्तिताः ।। सप्तमे दैत्यसैन्यानां विस्तारो यावदेव हि । अध्यायाश्चाष्टचत्वारिंशन्मिता एव च कीर्तिताः। यावद्धि घण्टाकर्णस्य समाधवर्णनं भवेत् | तावदेव पठेद्धीमानष्टमेऽह्नि प्रयत्नतः ।। अस्मिस्तु दिवसेऽध्यायाः कीचितास्त्रिंशदेव हि ॥ समाप्त्यन्तं च नवमे धीरकण्ठः शुभेच्छुकः॥ अध्यायाः पञ्चपञ्चाशन्मितास्तु विहितास्तदा । हरिवंशनवाहस्य पारायण उदाहृतः॥ क्षणं विश्रम्य मध्याह्ने प्रपठेत्तु दिनावधि ।। गायत्र्या हवनं कुर्यादथवा विष्णुमत्रतः । भोजयेत्पायसैविप्रान्मधुरैश्च विशेषतः ।। दक्षिणा चात्र सामान्यान्निष्कत्रयमितोदिता । गोद्वयं चायवैकां गां शय्या वन सुभूषणम् ॥ दद्यात्पुत्रप्राप्तिकामो वित्तशाव्यं न कारयेत् ॥ अत्रोक्तप्रमाणेन प्रतिदिनमध्यायसंख्याक्रमः-- प्र. दिने-हरिवंशपर्वण श्रादितः ३४ अध्यावान्तपाठः अ० सं० ३५ । द्वि० दिने-विष्णुपर्वणः १३ अध्यायान्तं पाठः । श्र० सं० ३३ । तृ० दिने-विष्णुपर्वणः ४२ अाध्यायान्तं पाठः । अ० सं० २९ । च० दिने-विष्णुपर्वणः ७३ अध्यायान् पाठः । श्र० सं० ३१ ।। पं० दिने-विष्णुपर्वणः १०६ अध्यायान्तं पाठः । अ० सं० ३३ । ष० दिने भविष्यपर्वणः २ अध्यायान्तं पाठ. | अ० सं० २४ | स० दिने भविष्यपर्वणः५० अध्यायान्तं पाठः । अ० सं०४८। श्र. दिने भविष्यपर्वणः८० अध्यायान्तं पाठः। अ० सं० ३०। न० दिने भविष्यपर्वणोऽवशिष्टभागाः १३५ अध्यायान्तं पाठः[अ०सं०५५ । अथ संकल्पः- ओं अद्यत्यादि-अमुकगोत्रस्य सपत्नीकस्य मम श्री अमुकशर्मण उपस्थितशरीरा- विरोधेन जन्मजन्मान्तरार्जित-गो-विप्र-बाल-बी-हननोपस्थितातिथिजनापमानगुरु- विप्र-देवधनापहरण-दीनानाथजनशातनादिपातकोपपातकमूलकजन्मकालिकजन्मलग्नाव- २८ कृ० सा० - २१८ कृत्यसारससुचयपरिशिष्टे- घिकपापग्रहयुतवीक्षितापत्यस्थानप्रभृतिदोषसूचितसकलपुत्र प्राप्तिप्रतिबन्धकताऽशेपारष्ट- झटितिसमूलध्वंसपूर्दक-सत्त्वरदीर्घायुर्वंशकरविद्याविनयधर्मैश्वर्यशौर्यवीर्यगाम्भीर्यजौन्दर्य- सामयिकाखिलगुणालङ्कृतौरससत्पुत्राप्तिकामनयाऽमुकक्षेत्रे.......महाभारतान्तर्गता- खिलहरिवंशपुराणस्य (पाद्यं पुरुषमीशादमित्यादि-......मित्यन्तस्य) नवापारायणं (वा नवाहपारायणश्रवणं ) सपत्नीकोऽहं करिष्ये । अत्र स्त्रोरजोदोष-कन्याप्रसूतत्व-मृतवत्सात्व-काकवन्ध्यात्व-वन्ध्यात्वदोषाणामन्य- तमे सति संकल्पवाक्ये स्वमत्योहः कर्त्तव्यः । तत्राविवाहिता कन्या, स्वाज्ञाकरमनोऽनुकूलप्रकृतिघनैश्वर्यसुरूपौदार्यपरिवारपालन- दक्ष-निर्विकारवीर्यशालि-सुभगपतिप्राप्तिकामनया, विवाहिता तु दीर्घायुर्वंशकरसत्पुत्री- त्पचिप्राप्तिकामनया, विवाहिता पतिपुत्रयुक्ता तु 'आजीवनपतिसुख-पुत्रपौत्रघनैश्वर्य- सकलसुखप्राप्तिकामनया, विधवा तु 'जन्मजन्मान्तरार्जितपापपुञ्जसूचितवैधन्यदोषदूरी- करणपूर्वकोपस्थितशरीरावसानोत्तरस्वर्गप्राप्तपतिसहवासकामनया सङ्कल्पं कुर्यात् । तत्र स्त्रीणां दोषविशेपे तदावृत्तिसंख्यामाह तन्माहात्म्ये- दशावृत्तीरपुष्पार्थ मृतवत्सा तु सप्त वै । पञ्चावृत्तीः स्रवद्गर्भा काकबन्ध्या त्रयन्तथा ।। कन्याप्रसूश्चैकावृत्तिं श्रुत्वा पुत्रमवाप्नुयात् ।।। अथ श्रीमद्भागवतसप्ताह प्रमाणम्(क)- श्राद्ये हिरण्याक्षवधं द्वितीये भरतावधि | तृतीये त्वन्धिमथनं चतुर्थ कृष्णजन्म च ॥ पञ्चमे रुक्मिणीग्राहं षष्ठे चोद्धववादकम् । सप्तमेऽह्नि समाप्तिः स्यात्सप्ताहं मुनिरब्रवीत् ।। एतदनुसारेण प्रतिदिनमध्यायसंख्याः- प्र० दि०= =४० । द्वि० दि० =६० । तृ. दि० =५४ । च० दि०४२ ॥ पं० दि०५० । १० दि० = ४४ । स० दि०=३७ । (क) प्रकारान्तरेण कौशिकसंहितायां-मनु कर्दमसंवादपर्यन्तं प्रथमेऽहनि ५० अ० । ऋषभध्यानपर्यन्तं द्वितीये दिवसे वदेत ४९ अ०। तृतीय दिवने कुर्यात् सप्तमस्कन्धपूरणम् ५४ अ० । कृष्णाविर्भावपर्यन्तं चतुर्थेऽहनि वाचयेत् ५१ अ० । रुक्मिण्युदाहपर्यन्तं पञ्चमेऽह्नि वदे- सुधीः । ५१ अ० । श्री हंसाख्यानपर्यन्तं षष्ठेऽह्नि वाचयेद्धवम् ५० अ० । सप्तमे दिवसे कुर्या- च्छ्रीमागवतपूरणम् ३१ अ० ॥ (३३५) तथा चैतत्फलं पामे-मनसश्चाजयाद्रोगात्पुसां चैवा- युषः क्षयात् । कलेदोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ यत्फलं नास्ति तपमा न योगन समा- धिना । अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ अथ कोशिकसंहितोक्तभागवतमाहा- त्यम्-एतस्य श्रवणं प्रोक्तं चतुर्धा मुनिसत्तमैः । सात्त्विक राजसं चैत्र तामसं निर्गुणं तथा ।। सप्ताहं राजसं प्रोक्तं तामसं सालसं तु यत् । सात्विकन्वेकर्विशाहं तथैवाष्टादशाहकम् । तथा पश्चादशाहञ्चानियतं निर्गुणं स्मृतम् । राजसे त्वर्थसङ्कोचन्तामसे स्मृतिविभ्रमः । सात्त्विकं सुख- बोधाय निगुणं सर्वतो वरम् । साविकश्रवणेनैव वहवो लेभिरे मुखम् । इत्युक्तवन्तं सूतं तु प्रोवाच मुनिसत्तमः ॥ अथान्यन्न पक्षश्रवणविधिः-पक्षश्रवणपक्षे हि द्वाविंशाध्यायक पठेत् । नित्यमेव प्रकुर्वीत सप्तमे सप्तविंशतिः ॥ यदा सर्वेषु कल्पेषु यथा वक्तुः सुखं भवेत् । तथैव वाचनीयं वा प्रशस्तं चोत्तरन्तु वा ।।
- अनुष्ठानविधानम् । २१९ अथ स्कन्धानुसारेण कस्मिन् दिने कियदवधि पाठविरामः- प्रथमदिने-आदितः तृतीयस्कन्धत्य १९ अध्यायान्तं यावत् पाठः। द्वितीयदिने-पञ्चमस्कन्धस्य १५ अध्यायान्तं यावत् पाठः। तृतीयदिने- अष्टमत्कन्धस्य नवमाध्याथान्तं यावत् पाठः। चतुर्थदिने-दशमस्कन्धत्य पूर्वार्धे तृतीयाध्यायान्तं यावत् पाठः। पञ्चमदिने-दशमस्कन्धत्य त्रिपञ्चाशदध्यायान्तं यावत् पाठः । षष्ठदिने-एकादशस्कन्धस्य सतमाध्यायान्तं यावत् पाठः। सप्तमदिने सर्वम् , १२ स्कन्धस्य त्रयोदशाध्यायपर्यन्तं पाठः। अथ वाल्मीकिनवाहप्रमाणम् (क)- उद्योगं रामराज्यस्य भरतोद्योगमेव च । मारीचस्य वधं यावत् सुग्रीवपुरवेशनम् ।। लक्ष्मणस्य ततो यावत्रिजटास्वप्नदर्शनम् । रावणस्य ततो यात्रा जयार्थ देवसमसु ।। समुद्रतरणं यावन्निकुम्भवधमेव च । ततः पूर्णकथां कुर्यान्नवमेऽहनि सर्वदा ।। प्रथमदिन-पादितोऽयोध्याकाण्डस्य पञ्चमसगान्तं पाठः । सर्गसंख्या ८२॥ द्वितीयदिने-अयोध्याकाण्डत्यैव द्व्यशीतितमसर्गान्तं पाठः । सर्गसंख्या ७७॥ तृतीयदिने-अरण्यकाण्डत्य चतुश्चत्वारिंशत्सर्गान्तं पाठः । सर्गसंख्या ८१॥ चतुर्थदिने-किष्किन्धाकाण्डत्यकत्रिसत्सर्गान्तं पाठः । सर्गसंख्या ७२॥ पञ्चमदिने-सुन्दरकाण्डस्य सतविंशतिसर्गान्तं पाठः । सर्गसंख्या ६३। षष्ठदिने-लङ्का(युद्ध)काण्डस्य द्वाविंशतिसर्गान्तं पाठः । सर्गसंख्या ६३ । सप्तमदिने-लङ्काकाण्डस्यैव सप्तसप्ततिसर्गान्तं पाठः । सर्गसंख्या ५५ । अष्टमदिने-उच्चरकाण्डस्य षड्विंशतिसर्गान्तं पाठः । सर्गसंख्या ७७ । (क) प्रकारान्तरेण वाल्मीकीयरामायणनवाहकथाविश्रामविधिः-प्रथमे तु अयो- ध्यायाः घट सर्गान्ते शुभा स्थितिः। तस्यैवाशीतिसर्गान्ते द्वितीये दिवसे स्थितिः ।। तथा विंशति- सर्गान्ते चारण्यस्य तृतीयके दिने चतुर्थे षट्चत्वारिंशत्सर्गकथास्थितिः ॥ किष्किन्धाख्यस्य काण्डस्य पाठविद्भिरुदाहृता । सुसप्तचत्वारिंशल्के सर्गान्ते सुन्दरस्थितिः ॥ पञ्चमे दिवसे कुर्य्या- दथ षष्ठे तथोच्यते युद्धकाण्डस्य पञ्चाशत् सर्गान्ते विमला स्थितिः ॥ एकोनशतसंख्याकसर्गान्त सप्तमे दिने । युद्धस्यैव तु काण्डस्य विश्रामः संप्रकीर्तितः ॥ तथा चोत्तरकाण्डस्य षट्त्रिंशत्सर्ग- पूरणे । अष्टने दिवसे कृत्वा स्थिति वै नवमे दिने ॥ सर्व समाप्य युद्धस्य चान्त्यसर्ग पुनः पठेत् । ( पुनः पाठश्च मङ्गलार्थः) रामराज्यकथा यस्मिन् सर्वसाम्राज्यदायिनी। एवं पाठक्रमः पूर्वैराचार्यश्च विनिम्मितः ॥ यः करोवि नरश्रेष्ठः शृणुयादा समाहितः । धर्मार्थकाममोक्षाणां फलं त्वविकलं भवेत् ॥ तत्र प्रथमदिने-८३ सर्गाः। द्वितीयदिने-७४ सर्गाः । तृतीयदिने-७५ सः । चतुर्थदिने-१०१ सर्गाः । पञ्चमदिने-६८ सर्गाः । षष्ठदिने-७१ सर्गाः । सहमदिने- ४९ सर्गाः ॥ अष्टमदिने-६६ सर्गाः। नवमदिने-७७ सर्गाः। (सङ्कलनया ६४८) बालकाण्डे-७७ सर्गाः । अयोध्याकाण्डे-११९ सः। अरण्यकाण्डे-७५ सर्गाः । किष्किन्धाकाण्डे-६७ सर्गाः । सुन्दरकाण्ड-६८ सर्गाः । युद्धकाण्डे-३१ सर्गाः । उत्तरकाण्डे-१११ सगाः। (सङ्कलनया ६४८) - २२० त्यसारसमुच्चयपरिशिष्टे- नवमदिने-उत्तरकाण्डस्य समाप्तिपर्यन्तं पाठः । सर्गसंख्या ८५॥ इति । अथवा प्रतिदिनं विसतिविंशतिसर्गपाठे कृते पञ्चविंशतिदिनैलङ्काकाण्डान्तस्य पाठः सुखसाध्यः स्वयं वाल्मीकिप्रतिपादितोऽस्ति । अथवा प्रतिदिनं सुन्दरकाण्डस्यैव सप्तसप्तसर्गपाठः । तत्रादौ किष्किन्धाकाण्डस्य शेषसर्गद्वय (६६।६७) ततःसुन्दरकाण्डस्य सप्तसः । ततो युद्धकाण्डस्यान्तिमो रामराज्याभिषेकसर्ग एवं नवसर्गा भवन्ति । तत्र प्रत्येकसगै कामनामेदेन सुन्दरकाण्डान्तर्गतमन्त्ररूपश्लोकेन सम्पुटीकृत्य पारायणं विधेयम् । तत्रादौ हनुमन्तं सम्पूज्यासने पुष्पचन्दनाक्षतैः संस्थाप्य पठेत् । तत्र 'नमो- ऽस्तु रामाय सलक्ष्मणाय' इति मन्त्रेण वा 'जयत्यतिबलो रामो लक्ष्मणश्च महाबल'- इत्यादि, समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् , इत्यन्तैश्चतुभिर्मन्त्रैः, वा 'सिद्धिं दिशन्तु मे सर्वे' इत्यादिसात्रियश्लोकेन सर्गान् सम्पुटीकृत्य पठेत् । वा प्रतिदिन संपूर्णसुन्दरकाण्डस्यैव पाठः कार्यः । अथ देवीभागवतस्य (क) नवाहविधिः- प्र. दिने-आदितस्तृतीयस्कन्धस्याध्याय (ख) त्रयान्तम् अ० सं० ३५॥ द्वि० दिने-चतुर्थस्कन्धस्याष्टमाध्यायान्त यावत् अ० सं० ३५॥ तृ० दिने-पञ्चमस्कन्धस्याष्टादशाध्यायान्तं यावत् । अ० से ३५॥ चतुर्थदिने-षष्ठस्कन्धस्याष्टादशाध्यायान्तं यावत् । अ० सं० ३५॥ पञ्चमदिने-सप्तमस्कन्धस्याष्टादशाध्यायान्तं यावत् । अ० सं० ३१॥ षष्ठदिने-अष्टमस्कन्धस्य सप्तदशाध्यायान्तं यावत् । अ० सं० ३९। सप्तमदिने-नवमस्कन्धस्याष्टाविंशतितमाध्यायान्तम् । श्र० सं० ३५॥ अष्टमदिने-दशमस्कन्वस्य त्रयोदशाध्यायान्तम् । अ० सं० ३५॥ नवमदिने-द्वादशस्कन्धान्तं यावत्पारायणम् । अ० सं० ३८ (१७) अथ (ग) कर्मप्रशंसा। कूर्मपुराणे- कर्मणा दीयते पापमैहिक पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्मविज्जायते नरः ॥ तथा च पद्मपुराणे पातालखण्डे (५९ अ० ५८ श्लो०)- तण्डुलस्य यथां चर्म यथा ताम्रस्य कालिमा । नश्येत क्रियया राजन् ! तथा पुंसो मलं महत् ।। (क) अथाष्टादशपुराणानि वाचस्पतौ-बाझं पादमं वैष्णवं च शैवं भागवतं तथा । तथा- न्यं नारदीयं च मार्कण्डेयं च सप्तमम् । आग्न्येयमष्टमं प्रोक्तं भविष्यं नवमं तथा। दशमं ब्रह्मवै- वत लिङ्गमेकादशं तथा । वाराह द्वादशं प्रोक्तं स्कान्दं चात्र त्रयोदशम् । चतुर्दशं वामनं च कौम पञ्चदशं तथा । मात्त्यं च गारुड चैव ब्रह्माण्डमष्टादशं तथा। (ख) अध्यायसंख्या यथा-प्र० स्कन्धे २०,द्वि०, १२, तृ. ३०, च. २५, प. ३५, ५. ३१, स. ४०, अ. २४, न. ५०, द. १३, ए. २४, दा. १४ । सङ्कलनया-३१८ (ग) षट् कर्माण्याह पराशर:-सन्ध्या स्नानं जपो होमो देवतातिथिपूजनम् । आतिथ्यं वैश्वदेवश्च घटकांणीति प्रोच्यते ॥
। शान्तिप्रकरणम् । २२१ एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् । प्राजो जन्मसहस्राणि सचिनोत्येकजन्मतः॥ मुखौं जन एकजन्मसुखस्याथे सहस्त्राणि सहस्रजन्मार्जितपुण्यानि विलोपयति । पुण्यफलं सुखं, पापफलं दुःख, दुःखावसरे यः सुखमिच्छति तस्य जन्मान्तरार्जित- पुण्यमूलकं सुखं, तदानीं देवाराधनेन भवति जन्मान्तरे तत्पुण्यफलस्य पूर्वविहित- भोगेन दुःखमेव भोग्यमवशिष्यते । प्राज्ञो विद्वान् । एकजन्मतः-एकजन्मार्जितातुल- पुण्यराशितः, जन्मसहस्राणि अनेकजन्मसुखानि, सञ्चिनोति-सम्पादयति । पूर्वानेक- जन्मार्जितपापपुञ्जम् उग्रतपोज्वालया भर्जितं विधाय अग्रिमानेकजन्मभोग्यसुखमूल- कानि महान्ति पुण्यानि अर्जयतीत्यर्थः । (१८) अथ शान्तिप्रकरणम् । अथ काकमैथुनावलोकने स्पर्श च शान्तिरुक्ता गर्गसंहितायाम् | काकस्य मैथुनं पश्येत् काकः शिरसि चेद्विशेत् । शिरस्युपरि वाकुर्यात्पक्षघात नखैस्तथा।। विदारणं च कुरुते शयानं च स्पृशेद्यदि । तदा वहेत्तु मरणं महारिटमयापि वा ॥ शान्ति तत्र प्रकुर्वीत विधानेन यथोदिताम् । मध्यरात्रे यदा काको वसते हेतुना विना ॥ तद्ग्रहारिष्टमाचष्टे ग्रामारिष्टमथापि वा । शान्ति तत्रापि कुर्वीत विधानेन यथोदितम् ।। नारदोऽप्याह- दिवा वा यदि वा रात्रौ यः पश्येत्काकमैथुनम् । स नरो मृत्युमाप्नोति ह्यथवा स्थाननाशनम् ॥ सूर्यास्तमनवेलायां वायसः संस्पृशेद्यदि । निःशब्दो वा सशब्दो वा पुंसो मृत्युप्रदायकः॥ अङ्गनां च स्पृशेत्काको वैधन्यं तत्र निर्दिशेत् । नदीतीरे गवां गोष्ठे वधबन्धनमाप्नुयात् प्रतिचन्द्र प्रतिसूर्य वायसः स्पृशते यदि । अर्थहानि तथा मृत्यु शस्त्रेण च विनिर्दिशेत् मासः पञ्चभिरेवास्य निशाभिः फलमादिशेत् । तदिनादि फलं सद्भिः प्रोक्तमत्र शुभाशुभम् ॥ शान्ति तत्र प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ॥ तत्र शान्तिः-महानद्यम्भसि स्नात्वा शिवलिङ्ग निरीक्षयेत् । नत्वा सम्पूज्य लिङ्गन्तुं स्तुत्वा च दिपतीनपि || आरभ्य तहिनादेव वायसेभ्यो बलिं क्षिपेत् । शनैश्चरदिने प्राप्ते एकान्ते शुभमन्दिरे ॥ कृष्णानि नववस्त्राणि अहतानि नवानि च ॥ शनिवासरे गङ्गादिमहानद्यां स्नात्वा शिवलिङ्ग प्रणम्य पञ्चदेवताविष्णुनवग्रह- दिक्पालान् सम्पूज्य प्रस्थमितमाषोपरिस्थपीठे लोहनिर्मितं चतुर्बाहुं कृष्णवनरको- ष्णीषदण्डरलंकृतं यमं सम्पूज्य तत्परितः काकान् पूजयेत् । तत्र प्रस्थपरिमितमाष यमादष्टसु विदितु दत्त्वा तदुपरि पूर्वादिक्रमतः कृष्णपुष्पवनादिना कपिल-नीलग्रीव- विकृतस्वर-क्रौञ्च-विद्युज्जिह्व-कृष्णकर्बुर-काल-श्वेत-संशकान्-स्वस्वसंज्ञया सम्पूज्य पश्चात् कलशस्थापनं कृत्वा तदुपरि शिवं प्रतिष्ठाप्य पूजयेत् । तत्र काकपूजने सर्वेषां क्रमेण मन्त्रा यथा- - २२२ कृत्यसारसमुच्चयपरिशिष्ट- कपिल ! त्वं च वर्णेन शुभाशुननिवेदकः । गृहाणायं मया दत्तं भवाशुभविनाशनः ॥ नीलग्रीव १ गृहाणार्य मया दत्तं खगेश्वर ! अल्पमृत्युविनाशाय ददामि वलिमुत्तमम् ॥ रस्त्वं पापिनां नित्यं सौम्यरत्वं धार्मिके जने । विकृतस्वर १ गृहाणाध्यं मया दत्तं शुभाय नः॥ फरस्त्वं पापिनां नित्यं वक्शुम्भ न ऋच्छसि। यहाणायं मया दत्तं कौञ्च?सौम्यप्रदो भव विद्युज्जिह्व ? नमस्तेऽस्तु शोकव्याधिविनाशन !। बलिपूजां मया दत्ता गृहाण सुखदो भव ।। कृष्णकबु रनामा त्वं भूतमज्यनिवेदकः । गृहाणायं मया दत्तं भव वैधव्यनाशनः ॥ काल! त्वं कालनामाऽसि दुष्टकालनिवेदकः । गृहाण बलिपूजां मे दचां दुःखविनाशिनीम् श्वेतस्त्वं सितपणेऽसि मृत्युभावस्य सूचक ! गृहाणायं मया दत्तं भव मृत्युविनाशनः ॥ अथ यमपूजनम् यथा--"तन्मध्ये पूजयेद् देवं धर्मराज चतुर्भुजम् ।" तत्पूजनमन्त्र:-- यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥ नीलग्रीवाय लोकेश ! दण्डहस्ताय ते नमः । पाशहस्ताय सायुधाय सपरिवाराय ते नमः एभिः पूजयेद्वा प्रण मेत् । चन्दनैश्च सुगन्धैश्च वासाभिः पूजयेद्यमम् । श्रादौ त्र्यम्बकमन्त्रेण ईश्वरं च प्रपूजयेत् मृत्युविनाशनी विद्या कुम्मे चैव नियोजयेत् । शतमष्टोत्तरं चैव प्राचार्यों हृष्टमानसः स्वगृह्योतविधानेन च च यमदैवतम् । संश्रप्य जुहुयावह्नौ समिदाज्यचरूस्तिलान् ॥ तदैवत्या समित्कार्या शतमष्टोचरं तथा । समिक्रमेण जुहुयात्प्रतिद्रव्यं शत हुनेत् ॥ सुगन्नुपन्था मन्त्रेण होतव्यं सर्वमत्र तु । भद्रासन प्रकर्तव्यं पञ्चवर्णकसंयुतम् ॥ तस्योपरि न्यसेत्पट्ट यजमानमयाह्वयेत् । निवेश्याच्छादिते पट्टे अभिषेकं च कारयेत् ।। पावमानीभिस्तु तल्लिङ्गैमन्त्रैर्वारुण संभवैः । तल्लिङ्गैः सुगन्नुपन्थामित्यादिभिः । तत्र स्नानं प्रकर्तव्यं तीर्थानीतेन वारिणा । सहस्राक्षादिभिर्मन्त्रैः स्नानं कार्य द्विजोत्तमैः॥ ततोऽन्यद्वस्त्रमादाय धर्मराज तु पूजयेत् । उक्तैः षोडशभिर्मन्त्रैः सुगन्वेत्यय प्रदापयेत् ॥ तत उत्थाय संप्रार्थ्य भक्तिभावसमन्वितः । रक्ष मां पुत्रपौत्रांश्च रक्षमा पशुवान्धवान् । रक्ष पत्नी पतिं चैवं पितरं मातरं धनम् | अग्नितो मे भयं माऽस्तु रोगाच्च ब्याधिबन्धनात्॥ शस्त्रतो विषतोऽचौघाद् भयं नाशय मे सदा। प्रार्थना च प्रकर्तव्या नमस्कारसमन्विता ॥ काकस्पृष्टं च यद्वस्त्रं स्नानक्लिन्नं च यद् भवेत् । सहिरण्यं च तत्कृत्वा ब्राह्मणाय निवेदयेत् ॥ तत्र मन्त्र:- यत्किञ्चित्स्पर्शदोषोक्तं दुष्कृतं चापि विद्यते । तत्सर्वं नाशमायात वनदानेन सूर्यज ॥ वायसांस्तान् यमं चैवमाचार्याय निवेदयेत् । माषान् वासांसि कृष्णां तु धेनु चैव पयस्विनीम् ॥
. .. शान्तिप्रकरणम् । २२३ शनिवारे च तत्कायें रविवारेऽथवा पुनः । घृतपात्रे सतौवणें दर्शयेदात्मनस्तनुम् ॥ ब्राह्मणेभ्यो ददेदन्नं भूयसीं चैव शक्तितः । तथोच दक्षिणां दद्याद्वित्तशाट्यं न कारयेत्। स्थाने यत्र स्पृशेत्काकत्तस्थानं पूजयेत्तदा ! एवं कुर्यात्प्रदानेन वातदोषः प्रशाम्यति ।। तत्रोपयुक्तमन्त्राः- (१) यस्मिन् वृक्षे सुरलाशे देवः सम्मिवते यमः । अत्रानो विश्पतिः पिता पुरायां अनुवेनति ।। २)परेयिवासं प्रवतो महीरनुबहुभ्यः पन्थानमनुपस्पशानम् । वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य ।। (३) सुगन्नः पन्था अक्षर आदित्या सऋतं यते। नात्रावखादो अस्ति वः। इति काकस्पर्शादिशान्तिः। अथ गृहोपरि गृध्राथुपवेशने फलं शब्दकल्पद्रुमे-- गृध्रः कङ्कः कपोतश्च उलूकःश्येन एव च चिल्लश्च चर्मचिल्लश्च भासः पाण्डर एवच गृहे यस्य पतन्त्येते गेहं तत्य विपद्यते । पक्षान्मासात्तथा वर्षान्मृत्युः स्याद् गृहमेधिनः|| अत्र गृध्रस्योलूकस्य च महान्दोषः, तदन्यानां गृहोपवेशने दोषविचारो न क्रियते इति लोकरीतिः। तथा चोक्तं शान्तिग्रन्थे-- पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यं चापि विनश्यति । ब्राह्मणाय गृहं दत्त्वा दत्व तन्मूल्यमेव वा ॥ अद्भुतसागरे-- यदि पूर्वगृहे चैव गृध्रश्चोपवेशेत्तदा । धनत्य नाशमाप्नोति याम्ये चैव धनागमः ॥ पश्चिमे भवने चैव किञ्चित्क्लेशमवाप्नुयात् । उत्तरे च महापीडा कोणभागेऽल्पकं फलम् यदा च पूर्वाभिमुखो गृहोपरि विशेत्स्वतः । तदा पीडाकरो नैव दक्षिणाभिमुखो महत् ।। पश्चिमाभिमुखश्चैव नृणां भयमुपादिशेत् । उत्तराभिमुखे चैव परां चिन्तामवाप्नुयात् ॥ अष्टभागं गृहं कृत्वा तत्फलं संविचारयेत् । पूर्वभागे मनोद्विग्नं दक्षिणे धनमाप्नुयात् ॥ पश्चिमे धनचिन्ता स्यादुत्तरे पशुहानिकृत् । आग्नेय्यामग्निभयदो नैऋते भूमिलाभदः ।। वायव्ये सत्यनाशः स्याद्देशान्यां महती व्यथा । मध्यभागे यदा वासस्तदा भयमुपागतम् ।। अकारणाद्यदा वासस्तदैतत्फलमाप्नुयात् । कारणादल्पदोषः स्यान्मुख्यशाला विशेषतः।। अथ शान्तिः- पूर्वदिने निरामिषमेकवारं भुक्त्वा रविदिने पीतवस्त्र परिधाय गृहमध्यदेशे शान्ति कुर्यात् । तद्यथा--प्रादौ गौरमृत्तिकोपलिप्तं गृहं पञ्चगव्येन परिषिच्य गङ्गाजलेन च पुनरभिषिच्य पूजामारभेत । प्रथमं पञ्चदेवताविष्णू ततो गणेशलक्ष्मीपृथ्वीवास्तुपुरुष- दशदिक्पालनवग्रहान् सम्पूज्य ततोऽष्टोत्तरसहस्रसंख्यकं शनिसूर्ययोर्वेदिकमन्त्रों में विधाय वा दशसहस्त्रसंख्यकं वैदिकसूर्यमन्त्रेण ओं आकृष्णेनेत्यादिना, अन्धन - २२४ कृत्यसारसमुचयपरिशि- ताक्तैः कृत्वा वा शमीबिल्वार्कखदिरैः पलाशोदुम्बरैः सह चूतकाष्ठः साकल्यैर्हत्वा तचर्पणमार्जनं कुर्यात् । होमाशक्तौ द्विगुणजपं कुर्यात् । ततो ब्राह्मणभोजनं कुमारी- भोजनं लक्षसंख्यकपार्थिवशिवलिङ्गपूजनञ्च कार्यम् । शतावृत्तिचण्डीपाठञ्च महा. मृत्युञ्जयमन्त्रजपं च कुर्यात् । एवं तु क्रियमाणो वै नानिष्टफलभाग्भवेत् । विभवो नास्ति यस्यापि तत्स्थानं संत्यजे.स्वतः ।। तद्गृहं च परित्यज्य सर्वान् कामानवाप्नुयात् ॥” इति । अथ तीतरशान्तिमाह, गर्गः-- सुतत्रये सुता चेत् स्याचत्रये वा सुतो यदि । मातापित्रोः कुलस्यापि तदाऽनिष्टं महद् भवेत् ।। ज्येष्ठनाशो धने हानिदुःखं वा सुमहद् भवेत्। तत्र शान्ति प्रकुर्वीत वित्तशाट्यविवर्जितः।। जातस्यैकादशाहे वा द्वादशाहे शुभे दिने। प्राचायमृत्विजो वृत्त्वा ग्रहयज्ञपुरःसरम् ॥ ब्रह्मविष्णुमहेशेन्द्रप्रतिमा: स्वर्णतः कृताः । पूजयेद्धान्यराशिस्थकलशोपरि शक्तितः ॥ पञ्चमे कलशे रुद्रं पूजयेद्द्रसंख्यया । रुद्रसूक्तानि चत्वारि शान्तिसूक्तानि सर्वशः ।। आचार्यों जुहुयात्तत्र समिदाज्यं तिलांश्वरम् । अष्टोत्तरसहस्रं वा शतं वा त्रिशतं तु वा ॥ देवताभ्यश्चतुर्वक्त्रादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमन्त्रैरिन्द्रस्य यत इन्द्रभयामहे ।। ततः स्विष्टकृतं हुत्वा बलि पूर्णाहुतिं ततः । अभिषेक कुटुम्बस्य शान्तिपाठं तु कारयेत् ॥ ब्राह्मणान् भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत् । कृत्वैवं विधिना शान्ति सर्वारियाद्विमुच्यते ॥ कांस्यपात्रं शर्कराज्यपलेः षोडशमानतः । ब्राह्मणेभ्यः प्रदातव्यं शुभं भवति नान्यथा ॥ अथ यमलजननशान्तिः काशीखण्डे- त्रिविधा यमलोत्पत्तिर्जायते योषितामिह । सुतौ च सुतकन्ये वा कन्ये वाऽपि तथा पुनः॥ एकलिङ्गौ विनाशाय द्विलिङ्गौ मध्यमौ स्मृतौ । पित्रोविघ्नकरौ ज्ञेयौ तत्र शान्तिविधीयते।। हेममूर्ती विधातव्ये दखयोश्च द्विजोचम ! पलेन वा तर्धेन तर्धान वा पुनः ॥ ब्रह्मवृक्षस्य पट्टे च स्थापयेद्रक्तवाससी । स्वस्ति के तण्डुलानां च न्यस्ते पीठे द्विजोत्तम् ॥ पूजयेद्रक्तपुष्पैश्च चन्दनेनानुलेपयेत् । दशाङ्गेनैव धूपेन धूपयेत् प्रयतः पुमान् ॥ दीपै!राजयेञ्चैव नैवेद्यं परिकल्पयेत् । यस्मै त्वसुकृते जातवेद इति मन्त्रेणाक्षतैरर्चयेत्। अनेनैव तु मन्त्रेण होमं कुर्यादतन्द्रितः । अष्टोचरसहस्रं च पायसेन ससर्पिषा ॥ शान्तिपाठं जपेद्विद्वान् सूर्यसक्तं जपेत्ततः । विष्णुसूक्तं तथा गायां वैश्वदेवी जपेद् बुधः अश्वदानं ततो दद्यादाचार्याय कुटुम्बिने । तयोर्मूर्ती प्रदातव्ये यजमानेन धीमता ॥ तत्र दानमन्त्र:- अश्वरूपौ महाबाहू अश्विनौ दिव्यचक्षुषौ । अनेन वाजिदानेन प्रीयतां मे यशस्विनौ।। मूर्तिदानमन्त्रः--- श्राचार्यः प्रथमे वेधा विष्णुस्तु सविता भगः। दसमूर्तिप्रदानेन प्रीयेतामश्विनौ भगः ॥ - - । दारोपगमनविचारः। २२५ ततोऽभिषेचनं कार्य दम्पत्योविधिवद् बुधैः । ब्राह्मणान् भोजयेत्पश्चाद् दक्षिणाभिश्च तोषयेत् ॥ सालङ्कारैश्च वस्त्रैश्च प्रार्थयेद्वचनैः शुभैः। एवं कृते विधानेन यमलोत्पत्तिशान्तिकम् ।। इति । अथ षोड़शाब्दगर्भधारणशान्तिः राजमार्तण्डे- षोडशान्दे गर्भधराऽममासप्रसूतिका । उभयोमरणं वाच्यं सत्याचार्यः प्रभाषते ॥ अब्दे पञ्चदशे गर्भ प्रसवः षोडशेऽपि वा । दम्पत्योहि विनाशः स्यादेकत्मिन्नेकनाशनम्। षोडशाब्दगता नारी भवेद्रर्भसमन्विता । अग्रतो म्रियते माता पश्चात् पुत्रो विनश्यति ॥ तत्प्रतिकारश्व- दद्याद् गर्भवती छागी वनालङ्कारभूषिताम् । पुंसवनविधानेन संक्रमे शिवसन्निधौ ॥ गौरीं सुसम्यक् सम्पूज्य काञ्चनीं कांस्यभाजने । दासी गर्भवती दद्याद् दैवज्ञाय च गोयुताम् ॥ अत्र गर्भवतीपतिः वा देवरस्तदभावेऽन्यः सुयोग्यः कश्चिदाप्तजनः शान्तिं कुर्यात्। आदो कांस्यभाजने सुवर्णनिर्मितां गौरी पूजयेत् । तद्यया-ओं भगवति गौरि इहागच्छ इह तिष्ठ इति प्राणप्रतिष्ठापूर्वकं संस्थाप्य पञ्चोपचारैस्ता वनालङ्कारैम पूजयेत् रजतपात्रे नार्मदलिङ्गं वा रजतनिर्मितं शिवं पूजयेत् । विधिवत्कलशस्थापन विधाय तत्र पञ्चरत्नसर्वोषधीश्च दत्त्वा निम्नलिखितक्रमेय दानं कुर्यात् । ओं कांस्यभाजनस्थिताय काञ्चन्यै गौर्यै नमः ३ । ओं ब्राह्मणाय नमः ३ । ओं इमां कांस्यभाजनस्थां काञ्चनी गौरी ददानि इति ब्राह्मणकरे जलदानम् । श्रओं ददस्व इति ब्राह्मणेनोक्त प्रतिमां जलेन सिक्त्वा सतिलकुशजलं गृहीत्वा- ‘ओं अद्यामुके मास्यमुके पक्षेऽमुकतिथौ अमुकराश्यकप्रयुक्त पुण्याहे पुण्यकाले शिवसनिधाने अमुकगोत्राया अस्मत्पल्याः अस्याः श्रीअमुकोदेव्या उपस्थितशरीरावि रोधेन स्वीयषोडशाब्दिकगर्भधारणसंसूचिताशेषारिष्टकष्ट-पतिगताशेषारिष्टकष्टापत्यग- ताशेषारिष्टकष्टझटितिप्रशमनपूर्वकसकलसद्गुणगणालंकृतचिरजीविवंशकरपुत्रप्राप्तिकाम इमां कांस्यभाजनस्थितां काञ्चनीं गौरी विष्णुदैवताम् अमुकगोत्रायामुकशर्मणे दैवज्ञाय ब्राह्मणाय तुभ्यमहं ददे । ओं स्वस्तीति दैवज्ञेनोफे-दक्षिणादानम् ओं अद्यकृतैतत्कांस्यभाजनस्थितकाञ्चनगौरीदानप्रतिष्ठार्थमिदं हिरण्यमग्निदैवतं यथानामगोत्राय दैवज्ञब्राह्मणाय दक्षिणां तुभ्यमहं सम्प्रददे । ओं स्वस्तीति देवनोक- छागीदानम्-ओं वनालङ्कारयुताय गर्भवत्यै छाग्यै नमः ३ । ओं दैवज्ञब्राह्मणाव नमः ३ । श्रों वस्त्रालङ्कारयुतां गर्भवती छागीं ददानि इति दैवज्ञविप्रकरे जलदानम् । ओं ददस्वेति तेनोक्ते-छागी जलेन सिक्त्वा ओं अद्यत्यादि-अमुकराश्यकसंक्रमण- प्रयुक्तपुण्याहे पुण्यकाले शिवसनिधौ अमुकगोत्राया अस्मत्पल्या अत्याः श्री अमकी देव्या उपस्थितशरीराविरोधेन स्वीयषोडशान्दिकगर्भधारणसंचिताशेषारिष्टकष्टानिष्ट- झटितिप्रशमनपूर्वकपतिपुत्रचिरजीवित्वसकलसुखप्राप्तिकामः इमां वनालङ्कारसंयुतां २९क० सा० - २२६ कृत्यसारसमुच्चयपरिशिष्ट- सगर्भी छागीमग्निदेवताममुकगोत्रायामुकशर्मणे दैवज्ञब्राह्मणायाहं ददे । श्री स्वस्ती- त्युक्ते दक्षिणां दद्यात् । ओं अद्य कृतैतद्वस्त्रालङ्कारसंयुतगर्भवतीलागीदानप्रतिष्ठार्थमिदं हिरण्यमग्निदैवतं यथानामगोत्रायामुकशर्मणे दैवज्ञाय ब्राह्मणाय दक्षिणामहं सम्प्रददे। ओं स्वस्तीत्युक्ते- गर्भवतीदासीदानम् । श्रओं सगर्भायै दास्यै नमः ३ । ओं ब्राह्मणाय नमः ३ । ओं अद्येत्यादि-शिवसन्निघौ अमुकगोत्राया अस्मत्पल्या अस्याः श्री अनुकीदेव्या उपस्थितशरीराविरोधेन स्वीयषोडशाब्दिकगर्भधारणसंचिताशेषकष्टानिष्टझटितिप्रशम- नपूर्वकसकलसुखप्राप्तिकामनया इमां गर्भयुतां दासी प्रजापतिदैवतो यथानामगोत्राय दैवज्ञाय ब्राह्मणायाहं ददे । ओं स्वस्तीत्युक्ते- ओं अद्य कृतैतत्सगर्भसोपकरणदासीदानप्रतिष्ठार्थमेतावद्रव्यमूल्यकहिरण्यमग्नि- दैवतं यथानामगोत्राय दैवज्ञब्राह्मणाय दक्षिणामहं सम्प्रददे । ओं स्वस्तीत्युक्ते सकला- रिष्टं च कुर्यात् । यदि गर्भवत्याः स्त्रियाः पञ्चदशवर्षाणि, तदा स्वीयपञ्चदशाब्दिकगर्भ- धारणेत्यादि योज्यम् । अन्ते गोदानं च कुर्यात् । अत्र झटिति स्मरणार्थं तद्दानोपकर- पानि (स्त्रीक साड़ी, स्वामीक धोती जोड़, चादर, कांसक थारी १, सोनाक गौरीक प्रतिमा, चानीक शिवक प्रतिमा वा नर्मदेश्वर ) प्रथमगर्भयुक्ता दासी, प्रथमगर्भयुता छागी, प्रथमगर्भयुता गौः। कलशोपकरणसप्तमृत्तिका, पञ्चरत्नपञ्चपल्लववस्त्रफल- नारिकेलादि । इति षोडशाब्दगर्भधारण (क)शान्तिः । अथ गर्भिण्या आचार:- मत्स्यपुराणे- 'सन्ध्यायां नैवभोक्तव्यं गर्भिण्या वरवर्णिनि । न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा ॥ नोपस्करेषपविशेन्मुशलोलूखलादिषु । जले च नावगाहेत शून्यागारं च वजयेत् ॥' वल्मीकानां न तिष्ठेत न चोद्विग्नमना भवेत् । विलिखेन्न नखैर्भूमि नाकारेण न भस्मना।। (क) अथ प्रसङ्गात् गर्भपातनिवारणं शान्तिस्वस्त्ययनकल्पद्मे--मधुच्छागीपयः पीत्वा किंवा श्वेताद्रिकर्णिकाम् । शर्करां पद्मकन्देन तिलकं मधुकान्वितम् ॥ भक्षिन्वा धारयेन्नि- त्यं पतन्तं गर्भमअसा । समभागं सितायुक्तं शालितण्डुलचूर्णितम् । उदुम्वरशिखाकाथं पीतो॥ गर्भ न मुञ्चति ॥ अकालगर्भवेदनाशान्तिस्तत्रैव-"ॐ हीं अमुक्या गर्भ रक्ष रक्ष स्वाहा" इति मन्त्रण जलोपरि अष्टोत्तरशतधा जप्त्वा दद्याद् अनेन जलपानेन गर्भवेदनाशान्तिर्भवतीति निश्चितम् । अथ सुखप्रसवस्तत्रैव-अपामार्गस्य मूलं च समुत्पाट्य शुमे दिने अश्वलोम्ना च संवेष्ट्य शिरसा बन्धनात्ततः ॥ क्षणमात्रेण सा नारी सुखेनैव प्रसूयते । श्वेतपुनर्णवामूलचूर्ण योनी प्रवेशयेत् । क्षणात्प्रसूते सा नारी गर्भणातिप्रपीडिता । सवीजं तिन्तिडीवृक्षम् उत्पाट्य च प्रयत्नतः । केशेतु अथितं कृत्वा नासाग्रं तत्प्रलम्पयेत् । प्रात्वा तद्गमिणी सम्यक् शीघ्रमेव प्रसूयते। ही ही ही ही श्रीकूकीति मन्त्रमश्वत्थपत्रे लिखित्वा तत्पत्रं प्रक्षाल्य तज्जलं गर्मिण्य पानार्थ दातव्यं तेन सुखेन प्रसवो भवतीति । प्रसङ्गादेव बालानां क्रन्दनशान्तिस्तत्रैव-सिसि अलेट नरसिंह विकटकेश ! ओं नरसिंह नरसिंह । ओं ही क्षौ इति मन्त्रं हरिद्रया मर्जे संलिख्य बालकानां शिरसि कण्ठे बादौ वा धारयेत् । तेन बालकस्य क्रन्दनोपशमो भवतीति । - गर्मिण्याचारः। ২৩ न शयालुः सदा तिष्ठेद् व्यामामंच विवर्जयेत्।न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ॥ वर्जयेत्कलह लोकत्रभङ्गं तथैव च । न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन ॥ न शयीतोचरशिरा न चापरशिरास्तथा । न वस्त्रहीना नोद्विग्ना न चाचरणा सती ॥ नामङ्गल्या वदेवाचं न च हास्याधिका भवेत् । कुर्यात् गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा।। सौषधीभिः कोष्णेन वारिणा स्नानमाचरेत्। इति वृत्ता भवेन्नारी विशेषेण तु गर्भिणी यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः। अन्यथा गर्भपतनमवाप्नोति न संशयः । इति। शब्दकल्पद्रुमे-- प्रार्तवस्नानदिवसांत् व्यहं सा ब्रह्मचारिणी । शयीत दर्भशय्यायां पश्येदपि पतिं न च॥ करे शरावे पणे वा हविष्यं व्यहमाचरेत् । अश्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् ॥ नेत्रयोरञ्जनं लानं दिवास्वापं प्रधावनम् । अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् ॥ श्रआयामं भूमिखननं प्रवातं च विवजयेत् । ततश्चतुर्थे दिवसे स्नात्वा सद्वसनादिभिः ।। भूषिता सुमनाः पश्येद् भारं समलंकृतम् । पूर्व पश्येतुस्नाता यादृशं नरमङ्गना ॥ तादृशं जनयेत्पुत्रं ततः पश्येत्वति प्रियम् । अज्ञानाद्वा प्रमादाद्वा लौल्याद्वा देवतेन या॥ सा चेत् कुर्यानिषिद्धानि गर्भदोषांस्तदाप्नुयात् । एतस्या रोदनाद्गर्भो भवेद्विकृतलोचनः ।। नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत्। अनुलेपाचथास्नानाद् दुःखशीलोऽअनादहका। स्वापशीलो दिवास्वापाच्चञ्चलः स्यात् प्रघावनात् । अत्युच्चशब्दश्रवणाधिरः खलु जायते।। तालुदन्तोष्ठजिह्वासु श्यावो हसनतो भवेत् । प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात् । खलतिभूनिखननादुन्मत्तो वातसेवनात् । शाकाहाराल्लोमपूर्णः श्वित्री दुग्धत्य सेवनात् ॥ शूरणाचर्मरोगी स्यान्नेत्रनावी कटूषणात् । अतिश्रमादङ्गहीनो गर्भबालोऽभिजायते ।। अथ गर्भिणीपतिनियमः- न गच्छेत्परदेशं तु न व्रजेत्प्राणसंशये । न तु क्षौरं शवोद्वाह तीर्थयात्रां च नाचरेत् ॥ न सिन्धुमजनं कुर्यात्पूज्यं देवं च तीर्थकम् । नाक्षिपेत्परुषैर्वाक्यस्तच्छापाद्धानिमाप्नुयात् ।। न कुर्यात् पिण्डदानं च पित्रे जातु गयां विना । गुरुदेवार्चनं नित्यं मङ्गलाचारतत्परः॥ एवं कुर्वन् लभेत् पुत्रं चिरजीविनमुत्तमम् ॥ इति | अथ प्रसङ्गात् प्रथमगर्भसंस्कारस्यावश्यकतामाह देवल:-- सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता यं यं गर्ने प्रस्येत स गर्भः संस्कृतो भवेत् ।। अथ द्वादशवर्षावधिकसमयान्तमाप्तसम्बन्धिनः समागमाभावे शान्त्या समागमः कर्त्तव्य इत्युक्तं भविष्ये-- दम्पती पितृपुत्रौ च स्वसारौं मातृपुत्रको । पितृव्यमातुलौं चैव दौहित्रभागिनेयकौ ।। दुहिता भगिनी चैव भगिनीभ्रातरौ . तथा । द्वादशाब्दे व्यतीते तु दूरदेशं गते यदि ॥ एतोषामेकमेकोऽपि नान्योन्यमवलोकयेत् । इच्छन्ति केचिदाचार्या अन्योन्यमवलोकनम्॥ शिवालयेऽथवा तीर्थ स्नात्वा प्रज्वाल्व दीपकौशिवं सम्पूज्य विधिवदुभौ तौ देवमध्यतः ॥ -- २२९ कृत्यसारसमुच्चयपरिशष्टे- कृत्वा कांस्यमयं पात्रं सजलं रत्नपूरितम् । शान्तिकैर्मन्त्रघोषैश्च द्विजैः सहावलोकनम् ।। श्राननं चैकमेकस्य दृष्ट्वा सम्यक् शिवं नमेत्।ब्राहाणेभ्यो यथा शक्त्या दद्यात्पात्रं सदक्षिणम् अनेकेभ्यश्च विप्रेभ्यो यथावित्तानुसारतः । दद्याच दक्षिणां भक्त्या पूजयेच शिवं पुनः ।। नत्वा देवं द्विजान् सूर्यमागच्छेत् स्वस्य मन्दिरम्। ततो व्याहृतिभिहामं शतमष्टोत्तरं तिलैः कृत्वाऽथ भोजयद्विप्रान् यथावित्तानुसारतः । बान्धवैः सह भुञ्जीत सर्वारिष्टप्रशान्तये ॥ इत्यं यः कुरुते मर्त्यस्तथाऽनिष्टं न जायते । श्रायुष्कामो नरश्चैव नमस्कृत्वाऽवलोकयेत् पूर्वावलोकितानां च विघिरेष उदाहृतः । नैवापि पूर्वदृष्टानामिति चाहुर्मनीषिणः ॥ इति द्वादशाब्दादूर्ध्वमवलोकने। अथोलुककृतानिष्टमुक्तमद्भुतसागरे- उलूको वासते यत्र निपतेता तथा गृहे । शेयो गृहपतेमृत्युर्धननाशस्तथैव च ।। वसन्तराज:-- रात्रौ गृहस्योपरि वासमानो दुःखाय शूकः सुतमृत्यवे स्यात् । गृहस्थनाशाय च सप्तरात्रं नाशाय राशो द्विगुणान्यहानि ॥ व्यहं गृहद्वारि चरत्युलूके हरन्ति चौरा द्रविणान्यवश्यम् । तस्मिन् प्रदेशे निशि मासयुक्तस्तद्दोषनाशाय बलिः प्रदेशः॥ तथा च तत्रैव- उलूकश्चैव गृध्रश्च कपोतः श्येन एव च । पतन्ति भवने यस्य तस्य प्राहुर्महद्भयम् ।। पक्षान्मासात्तया वर्षान्मृत्युःस्याद् गृहमेधिनःपल्याःपुत्रस्य वा मृत्युन्यं चैव प्रणश्यति॥ ब्राह्मणाय गृहं दद्यादत्त्वा तन्मूल्यमेव च । गृहीयाद्यदि रोचेत शान्ति चैती प्रयोजयेत् चरं यवमयं कृत्वा अश्वत्थसमिधोऽयुतम् । मनसः काममित्येतद्धृत्वा जप्चा सुखी भवेत्।। यदि वा वर्धनी चेति तया शान्तिः प्रदिश्यते।ऐन्द्रीं शान्ति ततःकुर्यात्त्रातारमितिमन्त्रतः।। औदुम्वरीश्च समिधो जुहुयाघृतसंयुताः । अष्टोत्तरसहस्राणि पञ्च तच्छान्तिकाम्यया ।। चरुकर्माशनं चास्य विप्रान् दधिगुडौदनैः। तर्पयित्वा वरं हेम दद्याद्धेनुं च दक्षिणाम् ।। मयूरचित्रे- गृहद्वारेण सर्पस्य प्रवेशे गृहिणीवधः । षड्भिर्मासै सन्देह उपोष्य जुहुयात्ततः ॥ दधिमधुघृतानामयुतं जुहुयाच्छुचिः । वैकङ्कतस्य विप्राय तानं दद्याच्च दक्षिणाम् ॥ अद्भुतसागरे-मांसास्थीनि समादाय श्मशानाद् गृध्रवायसाः । श्वा गालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ।। विकिरन्ति गृहादौ च श्मशान सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः। संग्रामश्च महाघोरो दुमिदं मरणं तथा । अद्भुतानि प्रस्यन्ते तत्र देशस्य विप्लवः ।। अकाले फलपुष्पाणि देशविद्रवकारणम् ॥ - आदित्यचन्द्रयोर्मध्ये छिद्रं पश्यति यो नरः । उत्पातमीदृशं दृष्ट्वा मासमेकं स जीवति ।। इमारुद्रेति मन्त्रेण जुहुयात्सर्पिषा हुतिम् । आहुतो द्वे सहले तु होमश्च कथितो भवेत् ॥ वृषभं दक्षिणा दद्यात् ततः सम्पद्यते शुभम् ।।
शान्तिप्रकरणम् । २२९ देवल रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम् । परनेत्रेषु चात्मानं न पश्येत् स न जीवति। औशनसे तु- देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् । अजः शुनीमजा श्वा वा संसर्ग यत्र गच्छति ।। अभ्यन्तरेण तत्राब्दाद्राष्ट्रे मरणमादिशेत् ।। शान्तिस्तु- तर्पयेद् ब्राह्मणाश्चात्र जपहोमाश्च कारयेत् । स्थालीपाकेन धातारं पशुना च पुरोहितः।। प्राजापत्येन मन्त्रेण जपेद्वन्नदक्षिणाम् । औशनसे-- गौरव वडवा गावो यस्मिन् देशे प्रसूयते । अभ्यन्तरेण वर्षातु राज्ञो मरणमादिशेत् ॥ व्यजायन्त खरा गोषु करभाश्वतरीषु च । शुनीषु हि बिडालाश्च मूषिका नकुलीषु च ॥ विष्णुधर्मोत्तरे--क्रव्यादाः पक्षिणो यस्य मूर्ध्नि गायन्ति वै द्विजाः ! काकश्येनादयस्तस्य षड्भिर्मासति वदेत् ।। देवलः--काकः कपोतो गृध्रो वा निलीनो यस्य मूर्धनि । क्रव्यादाः पक्षिणश्चैव षण्मासान् न स जीवति मार्कण्डेयः--गृध्रः कपोतः काको वा वायसो वाऽपि मूर्धनि । क्रव्यादो वै खगो लीनः षण्मासं न निवर्तते ॥ दिवा तारादर्शने दोष उक्तोऽद्भुतसागरे-- यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् । तस्य देशस्य यो राजा सराष्ट्रः स विनश्यति ॥ पराशरस्तु-कदाचिद् दृश्यते यत्र दिवा देवपुरोहितः । राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥ अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः । तदा चागन्तुभिामा वध्यन्ते नगराणि च ॥ अत्र देवपुरोहितो बृहस्पतिग्रहः । इन्द्रधनुः--वृष्टिं करोत्यवृष्टयां वृष्टिं वृष्टयां निवारयत्यैन्द्रयाम् । पश्चात्सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ।। मयूरचित्रके--निशायामिन्द्रचापस्य दर्शने नृपतेर्वधः परचक्रागमश्चैव यथा गर्गेण भाषितम् ।। नारद:- रात्रौ चेन्द्रधनुर्यत्र दृश्यते दिवि सचम । अद्भुतं तत्र विशेवं शान्ति चेमा समारमेत् ।। औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद् द्विजः । मध्वत्तानि घृतातानि जातवेदांसि मन्त्रवित् ।। विप्राय दक्षिणां दद्याद् धेनुं च वृषभं तथा । एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥ : ।
२३० कृत्यसारसमुच्चयपरिशिष्ट- पूर्णिमायां रात्रौ चन्द्रो यदा क्षितिजासन्नवर्ती भवेत्तदा चन्द्रविरुद्धदिशि किंचित्स- वृष्टिमेघे सति चन्द्रस्यापि परिवेषो भवति । (मया दृष्टमेतद्रूपम् ) अथ गन्धर्वनगरम् । वराहः- अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसक भूरि रणे वसुन्धरा ॥ -- अथ यामले-- चतुग्रहसमायोगे दुर्भिक्षादिभयं भवेत् । महारोगभयं राष्ट्रक्षयो दृष्टिक्षयोऽपि च ॥ पञ्चग्रहसमायोगे दुभिदं संकरादिकम् । जनक्षयो भूपवैरं गमनाशस्तु जायते प्रहषटकसमायोगे मन्त्रिणो मरणं भवेत् । पश्वश्वादिभयं सर्वं संकरादि जनक्षयः ॥ पट्टराजीविनाशो वा महाभयमथापि वा । सप्तग्रहसमायोगे क्षितीशमरणं ध्रुवम् ।। जगत्प्रलयमेवापि तदा निर्मानुषं जगत् । अत ऊर्ध्वं महोत्पातनानादुःखमहाकुलम् ॥ सूर्यः स्याद्वयतिरिक्तश्चेत्तदा योगो महाद्भुतः । विना चन्द्रेण योगोऽपि जगत्प्रलयकारणम तहक्षजातजन्तूनां महारोगो महाभयम् । अर्थनाशः स्थाननाशो मानहानिपीडनम् ॥ वातपित्तादिसंभूतमहापीडा महद् भयम् । समायोगग्रहा नणां दोषान् कुर्वन्ति सर्वदा।। षण्मासाभ्यन्तरे वाऽपि आयुर्हानिः श्रियस्तथा ॥ इत्यादि शान्तिमयूखे द्रष्टव्यम् । अथ शिवारुते शान्तिः। श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याः स्वगृहप्रवेशे । या रौति तस्यै बलिमय॑युक्तं भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् । कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः । दिव्यमन्त्रबलिबाघितदोषं साधिताखिलसमुद्यतकार्यम् ॥ शून्यालयं रुद्रग्रहं श्मशानं चतुष्पथं मातृगृहं जलान्तम् । बन्ध्यावनिश्चत्वरमेवमाद्या बलिप्रदानाय मताः प्रदेशाः ॥ तेषां च मध्याद्रुचितप्रदेशे विशोधितं मण्डलकं विदध्यात् । पौराणिकश्लोकपरीक्षितायाः संगृह्य गोगोमयमन्तरिक्षात् । अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः। रोगातैनवसूताया न गोर्गोमयमाहरेत् ।। तस्मिन् विचित्रं विततं विदध्यात् पिष्टाक्तकेनाष्टदलं सरोजम् । सम्पूजयेत्तत्र सुराधिपादीन् क्रमेण सर्वानपि लोकपालान् । मध्ये सुतैः पञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना || पूज्या शिवा तुष्यति भक्तियोगात्प्रभूतपुष्पाक्षतधूपदीपैः। साज्यगुडौदनमाषकुलोत्थैर्यावकपूपलिकामिषमयः । सम्भृतिरत्र नराशनमात्र बुद्धिमता बलिकर्मणि कार्या ॥ प्राप्याटमी वाऽय चतुर्दशी--सम्मन्व्य मन्त्रेण च सप्तकृत्वः । बलि शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रामच्छेत् ।।
सतीस्त्रीजीवनम् । २३१ अथात्र मन्त्र:-"शिवे ज्वालामुखि बलि गृहाण २हूँ फट स्वाहा, शिवे शिवदूति भगवति चण्डे इदमयं बलिली.गासमुचितं गृहाण २ श्रागच्छ २ वायु- वेगेन शुभं कुरु २ स्वाहा । अयमय॑मन्त्रः । बलिदानाय मन्त्रान्तरम् । ॐ नमो भगवति एनमेनं बलिं गूह २ गन्धपुष्पधूपदीपादिकं दह दह पच २ घोररूपिणि मो भगवति पिवत २ स्वाहा। एतस्य मन्त्रद्वितयेन मध्यादेकेन केनाप्यभिमन्त्रणीयः। बलिः शिवायाः सुमहाप्रभावं पृथक् पृथक मन्त्रयुगे यदेतत् ।। ताम्बूलवस्त्रासनदक्षिण मि मिचिकं शाकुनशानदक्षम् । प्रपूजयेत्तत्र भक्त्यभीष्टमाचार्यवय परितोषिते हि ।। आश्लेषिका वहिकृतान्तरुद्रधिप्पयानि पूर्वात्रितयेन सार्घन || ज्येष्ठां च सन्त्यज्य विरौति येह श्रेयस्कर जन्बुकंगहिनी सा ।। हितैषिणी सर्वसनीहितेषु देवी भवानी नुनि फेरवा च । कृताधिवासा कृपया सदेव शिवाने तेन यतेत विद्वान् ।। इति शिवारते शिवारलिप्रकारः। अथ दिग्यशेन शिवासनफलन् । शके चौरादिशङ्का हुतभुजि विविवक्तेशनीतिश्च पान्ये सौख्यं कल्याणवित्तं दितितनयदिशि वल्पकाले स्थिति च । बापण्यां विचलाभोऽनिलदिशि सुहृदामुत्तरत्यां स्थिरत्वं वासे सन्मानमैशं शिवदिशि निधनं वत्तुळेश्नप्रवेशे ।। (१६) अथ सतीस्त्रीजीवनम् । धूलिमृतोडने बालाम् पाकं बालकपालनम् । गृहप्रबन्धं गीलञ्च माङ्गत्यं शिक्षयेत्ततः। ततो रसमिते वर्षे वर्षशिक्षा तु दापयेत् । अनुश्या सती सीता सावित्री दमयन्तिका।। मदालसा शाण्डिली च शैब्याऽऽसां शिक्षयेस्क्रियान् । माता वा ज्येष्ठभगिनी पितृव्यानी रितृत्वमा ।। श्वभूननान्दा वा पूज्या वृद्धा कार्यातु शिक्षिका । अनूदा पतियुक्ताभिः सङ्गं कुर्यान्नहि कचित् तेन सोत्कण्ठिता भूत्वा भ्रष्टा भवति कामतः । चरितं रक्षयेत्साध्वी कुट्टिनीती विशेषतः!! हानिमिः परः स्वः कः कृत्यं धान्याश्च शिक्षणम् । यज्ञोपर्वातनिर्माणमेतद्यत्नेन शिक्षयेत्। खोमिः स्त्रियश्चोपदेश्याकाचिदन्यत्र विद्यते । बहुलायाश्च सावित्र्याः पुत्रीत्वंस्थापयान्तिके गुरुजनसंकुचिता या धनचयदक्षा व्यये विमुखी । शिशुपरिपोषणनिपुणा पतिमका देवता नारी ॥ कार्वे दासी रतौ वेश्या भोजने जननीसमा । विपत्तौ बुद्धिदात्री च सा भार्या सर्वदुर्लभा । श्रायव्ययसबोधा पथ्यापथ्यप्रमाणनिपुणा या । शिशुशिक्षण तु पटवी या नारी सा सुधासदना ॥ परशिशुखेलनरक्षणशिक्षणतः स्वीयमपि रक्षेत् ।।
- .. -- २३२ कृत्यसारसमुच्चयपरिशिष्टे- तथाऽऽह मनुः स्त्रीदोपान- त्रीणि स्त्रियाः पातकानि लोकेघर्मविदो विदुः। भर्तुबंधो भ्रूणहत्या स्वस्य गर्भनिपातनम्।। यस्याः पतिरन्यत्र तिष्टति तल्या अकर्तव्यमुक्त वामनपुराणे- क्रीडां शरीरसंस्कार समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ।। एभिर्व्यापारश्चित्तस्य सामसम्भवात् तदा, पत्युरसन्निधानाचारित्र्यदोषसंभावना- निकटैवेति । तिथितत्त्वे-- प्रकीर्णभाण्डामनवेक्ष्यकारिणी सदा च भत्तुः प्रतिकूलवादिनीम् । परस्य वेश्माभिरतामलजामेवंविधां स्त्री परिवर्जयामि ॥ लक्ष्यावाक्यमिदम् । इति । काय गुरुलक्षणम् अपरा:- आलापमात्राख्यानैर्यश्च शिष्यान् प्रबोधयेत् । देशाभिधानविन्यासोंधयेच्चापि यो गुरुः ॥ स गुरुः स पिता माता स तु चिन्तामणिः स्मृतः। अथ गुरुमाहात्म्यमुक्तं तत्रैव- विना तु गुरुणा सम्यग्बोधकेन विपश्चिता । नैव विद्याफलप्राप्तिगुरु तस्मात्तु पूजयेत् ।। श्रशानदुःखशमन नरकोद्धारणं तथा । कुतो माता पिता वाऽपि बान्धवोऽपि महागुणः।। ताहगभ्युदयं कुर्याद्यादृक् कुर्याद्गुरुर्महत् । कोऽन्यो शानेन दुःखौघादुद्धरेद्भवबन्धनात् ॥ सम्यक् शास्त्रार्थबोद्वारं महादेववदर्चयेत् । तथा चोक्तं चिदम्बररहस्ये- गुरौ मनुष्यबुद्धिं तु मन्त्रे चाक्षरबुद्धिताम् । यन्त्रे मूरों शिलाबुद्धिं कुर्वाणो नरकं व्रजेत्।। अथ शिष्यलक्षणम् । अाहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमञ्चाय शायो । मृदुर्दान्तो धृतिमानप्रमत्तः शालायशीलः सिद्ध्यति ब्रह्मचारी ।। गुरुणाऽऽहूतः सन् पठनाय गमनशीलः । न तु पाठनमनिच्छन्तमपि गुरुं पाठ- नाय नियोजयेदित्यर्थः । गुरुकर्मसु पुष्पजलेन्धनादि-समाहरणेषु दक्षः। गुरोरत्यान- समयापूर्वकाले उत्थायी । गुरोः शयनानन्तरं शयनशीलः । मृदुरनुत्कटः । क्रोधोत्पा- दकहेतौ जातेऽपि शान्तस्वभावः । दान्तः (शान्त इत्यर्थः) धृतिमान् धैर्यधारी, द्रव्यादिलोभशून्यः । अप्रमत्तः सावधानः । ब्रह्मचारी ब्रह्मचर्यनिरतः एवंभूतः पाठकः सिद्धति पठनसाफल्यं यशोधनधर्मसुखं लभत इति । तथा चोक्कं मेधातिथिना- योऽहेरिव धनाद्रीतो मिटानाच विषादिव । राक्षसीम्य इव स्त्रीभ्यः स विद्यामधिगच्छति।। अर्याल्लोभ-जिह्वास्वाद-स्त्रीसुख-पराङ्मुखो जनो विद्या प्राप्नोति विद्याममि- खषता सर्वथा जितेन्द्रियेण भाव्यम् । ।
उपनयननिर्णयः। .. अथ भारते उद्योगपर्वणि (अ०३६) 'असूवैकपदं मृत्युरतिवादः श्रियो वधः । अशुश्रूषा त्वरा श्ज्ञावा विद्यायाः शत्रवत्रयः। बालस्यं मदमोही च चापल्यं गोष्ठिरेव च । स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ।। तथा च-अनुदिनपठनं नित्यं सम्यग्ज्ञात्वाऽभ्यसन् दक्षः। गुरुपरिचर्यानिरतो जडधीरप्याशु वाक्रतिभवति ॥ गुरुनिन्दकोऽलसो यो गोष्ठीनिरतोऽतिगल्पसञ्जल्पः । व्यवहारेष्वतिनिपुणो रसिकः स्याचीक्ष्णधीरपि तुद्रः ।। तथा च- श्रमाद्विद्या श्रमाद्विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ॥ मनुः-यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। विद्यार्थिनामध्ययनसमये सर्वदा सदाचारिणा भवितव्यम् । तदाह वशिष्ठः- यथाऽन्नं मधु-संपृक्तं मधु चाप्यन्नसंयुतम् । एवं तपश्च विद्या च संयुक्त भेषजं हि तत् । अथाचारप्रशंसामाह मनुः- श्राचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः। प्राचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ।। सर्वलक्षणहीनोऽपि सर्वदाऽऽचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ विद्यामधीत्य यो विप्रो गुरुनिन्दा करोति च । स महापापसंयुक्तो निरयं याति दारुणम्।। अथ गुरुपरिचर्याक्रम उक्तोऽपरार्के- नोदिजेत्तस्य पारुष्ये न च वै लोप्य पृच्छतः। न चास्य व्याधिदुःखेषु मलानां चापि शोधने । प्रसादयेत्त कुपितं दुःखमग्नं समुद्धरेत् । रोगेभ्यश्चापि यत्नेन परिरक्षेन्न चोद्विजेत् ।। पठनक्रमोऽपि तत्रैवोक्तः-- शिष्यैः परस्पर शास्त्रं चिन्तनीयं विचक्षणः॥ अथ गुरुप्रणामविधिमाह मनुः-- व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्पृष्टव्यो दक्षिणेन तु दक्षिणः॥ (२१) अथोपनयननिर्णयः । (द्वैतनिर्णयोक्त:-) तत्र दक्षिणायनमासघटक (सौरश्रावणादि-सौरपोषान्तं यावत् ) निषिद्धम् । उत्तरायणे (मकरसंक्रान्तितः कर्कसंक्रान्तिपर्यन्तकाले ) अपि सर्वाः कृष्णापक्षीयास्ति- थयो निषिद्धाः । शुक्लास्वपि तिथिषु प्रतिपदष्टमीचतुर्दशीपौर्णमास्यः सर्वा अनध्यायत्वेन ३० कृ० सा० - -- । २३४ कृत्यसारसमुख्यपरिशिष्टे- निषिद्धाः । स्वाध्यायेष्वपि चतुर्थीषष्ठीसप्तमीनवमीत्रयोदश्यः स्वत एव निषिद्धाः । त्रयोदशीचतुर्दश्योर्दिवाबे द्वादश्यपि गलग्रहत्वेन निषिद्धा । प्रारम्भानन्तरं यत्र प्रत्यारम्भो न विद्यते। गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहम् । इत्युपक्रम्य,- अष्टम्या सप्तमी विद्धा चतुर्दश्या त्रयोदशी। द्वितीया प्रतिपद्विद्धा गलग्रह उदाहृतः॥ इत्युपसंहारात् । चैत्रशुक्ला द्वितीया माघशुक्ला द्वितीया च स्वरूपेणैव निषिद्धा। चैत्रशुक्लतृतीया श्राषाढशुक्लदशमी माघशुक्लसप्तमी एतास्तिथयो मन्वन्तरादित्वेन निषिद्धाः । वैशाखशुक्ल तृतीया युगादित्वेन निषिद्धा । हरिशयनद्वादशी स्वरूपेणैव निषिद्धा । विहिततिथयोऽपि संक्रान्त्यवरुद्धा निषिद्धाः । तत्पूर्वतिथयस्तु तत्पूर्वतिथि- त्वेन ( मासान्तत्वेन ) निषिद्धाः । पौषमाधफाल्गुनचैत्रास्तु वृष्टया दूष्यन्ते । वैशाख- ज्येष्ठापाढेष्वतिवृष्टयाऽतिवातेन चानध्यायः । ग्रहणकाले भूकम्पोल्कापातकरकापात- बज्रपातादिसमाहारे व्रतबन्धे त्रयोदशाहमशुद्धम् । किञ्चिदूनतत्समाहारे दशा- हम् । ग्रहणाधेकैकोदये व्यहम् । उपनयनपूर्वदिने सायं सन्ध्यायां गर्जे उपनयनदिनमन- ध्यायं करोति । हस्तचित्रास्वातीश्रवणाधनिष्ठाशतभिषापुष्याश्विनीमृगशिरोरेवतीपूर्वा- षाढपूर्वफल्गुनीत्येतानि नक्षत्राणि ब्रतबन्धे सामान्यतः प्रशस्तानि | लग्नानि तु वृष- सिंहतुलाधनुर्मोनात्मकानि विहितानि | बुधगुरुशुक्राः केन्द्रस्थास्त्रिकोणस्थाश्च प्रशस्ताः। रविचन्द्रगुरुतारासु बलवतीषु, गुरुशुक्ररविवारे व्रतं शस्तम् । रविमङ्गलराहुकेतवो लग्नस्था निषिद्धाः । चन्द्रः सप्ताधिको (अष्टमः) निषिद्धः । षट्न्येकादशगाः सूर्यशनि- कुजाः प्रशस्ताः । नवमपञ्चमगाः पापा निषिद्धाः । (धर्मबुद्धिविद्याविषयहानिकरत्वात् लग्नस्था रविशनिकुजाच निषिद्धाः । (शरीरदोषकरत्वात् ।) घनस्थाः सहजस्थाश्च शस्ताः । बन्धुस्था निषिद्धाः । पुत्रस्था निषिद्धाः। षष्ठराशौ शस्ताः। सप्तमराशी निषिद्धाः । निधनस्था निषिद्धाः । चन्द्रस्तु षष्ठेऽष्टमे निषिद्धः । गुरुर्जन्मनि षष्ठेऽष्टमे तृतीये चातिनिषिद्धः । दशमे चतुर्थे च निषिद्धः । गुरुदितीये पञ्चमे च शस्तः । द्वाद- शे अतिनिषिद्धः। शेषेषु मध्यमः । जन्मवें जन्मोदये जन्मसमये जन्ममासे जन्मचन्द्र च व्रतबन्धः प्रशस्तः । गुरुवारेऽतिप्रशस्तः । शाखाधिपे बलिनि ब्रतं शस्तम् । ते च 'ऋगयर्वसामयजुषामधिपा गुरुसौम्यभौमसिताः । इति यथासंख्यम् । मेखलाबन्धसमये सर्वथा पञ्चमं गृहम् । शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा ॥ इति महामहोपाध्यायसन्मित्रवाचस्पतिविरचित उपनयननिर्णयः समाप्तः ॥ अत्र बटुकन्याजन्मराशेत्रिकोणायद्विसप्तगः । श्रेष्ठो गुरुः खषट्च्याद्य पूजयाऽन्यत्र निन्दितः । मु. चि० । अनेन २०५७।९।११ एषु स्थितो गुरुः शुमः । शश६।१० एषु पूजया शुभः । ४८१२ एषु निन्दितः । किन्तु- स्वोच्चे स्वमे स्वमैत्रे वा स्वांशे वर्गोचमे गुरुः। -- उपनयननिर्णयः। रिष्फाटतुर्यगोऽपीटो नीचारिस्थः शुभोऽप्यसन ! अनेन कर्कधनुर्मीनसिंहमेषवृश्चिकान्यतनराशौ वा धनुर्मोनराशिनवांशे, त्या चरादिमलवे स्थिरराशिपञ्चमलवे द्विस्वभावरामिनवमलवे स्थितो गुरुः ४६१२ एल- निन्दितस्थानान्यतमगतोपि शुभः । तथा यदि मकर-मिथुन-कन्या-वृष-दुलाऽन्यनम- राशि-स्यो गुरुः २।५.७।९।११ एषु चन्द्राद्वर्त्तम.नोऽपि न शुभ इति । अथ शुभकर्मनियोक्तोपनयननिर्गयः । वृद्धशातातपः-प्राक् चूडाकरणाद्वालः प्रागन्नप्राशनाञ्छिशुः । कुमारस्तु स विशेयो यावन्मौजीनिबन्धनम् !! शिशोरभ्युक्षगं कार्य बालत्यावननं लन् । रजस्वलादिसंपर्श स्नातव्यं तु कुमारकैः ।। ब्रह्मपुराणे-मातापित्रोरथोच्छिष्टं बालो भुञ्जन् भवेसुधीः । एतेनान्यदीयोच्छिष्टे दोषः। श्रापस्तम्बः- 'वसन्ते ब्राह्मण्यमुपनयीत, ग्रीने राजन्यं शरदि वैश्यन् । अत्र वसन्ते इत्यादि विशेषफलार्थम् । शरदीति ज्योतिःशास्त्रमातेकलन् । तत्य याम्याय- नान्तर्गत वात्सौम्यायन एव विहिनत्वाच्च ! तथा मनु:-- ब्रह्मवर्चसकामत्व कार्य वित्रस्य पञ्चन : राज्ञो बलार्थिनः षष्ठे वैश्यत्येहायिनोऽध्ने ।' इत्यपि विशेषफलार्थमेवास्ति । सामान्यतो विप्रत्य पञ्चमे वाऽटने । क्षत्रियस्य षष्ठं वैकादशे । वैश्यस्याष्टमे द्वादरेऽपि व्रतवन्धन कन्यन् ! सर्वत्र गर्भाद्वा जन्मत इति योज्यम् । अथ द्विगुणे विहितवर्षे अतीते गौणं वदन्ति । तत्परं ब्रात्यताऽविचार्या भवति ।राजमार्तण्डे- नवमवऽपि यज्ञोपवीतविधानमुक्तं, तत् प्राग् द्रष्टव्यम् । याज्ञवल्क्यः-आषोडशाच्च द्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मदत्रविशां काल औपनायनिकः स्मृतः।। श्रत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः। सावित्रीपतिता व्रात्या प्रात्यस्तोमाहते तोः ॥ अ० ११३७ मनुः-नैतैरपूतैर्विधिवदापद्यपि हि कहिंचित् । ब्राह्मान्यौनांश्च सम्बन्धानाचरेबाझगैः सह ॥ अ० २१४० तत्र विहितवर्षेऽपि गुरुशुद्धिरावश्यकी, तथाऽऽह, पौलस्त्यः- यदा गर्भाष्टमे वर्षे शुद्धिनास्ति बृहस्पतेः । अष्टमे वा तथाऽप्येवं व्रतं तत्र न कारयेत् ॥ तत्र गुरुशुद्धिमाह सत्यः- अन्मष्टमारिसहजोपगतः सुरेज्यो मृत्यु व्रतोपनयने विदधाति नित्यम् । अन्त्योपगे च दशमे नियतश्चतुर्थे द्रव्यक्ष्यं प्रकुरुते विसुखत्वमाशु ।। इयं शुद्धिः-"बटुकन्याजन्मराशेत्रिकोणायद्विसप्तगः । श्रेष्ठो गुरुः खषटव्याचे पूजयाऽन्यत्र निन्दितः।।' ! ।
२३६ कृत्यसारसमुच्चयपरिशिष्टे- एतन्मुहूर्तचिन्तामण्युक्तगुरुशुद्धिविचारतो भिन्नाऽस्ति । तत्र विशुद्धिरपि यथाऽऽह, माण्डव्यः- सूर्यो व्रतोपकरणे दशमे घनान्यं षष्ठे तृतीयभवने ऋतुभाजनं च | एकादशे सकल शासकलाविधिज्ञं शेषेषु राशिषु नरं बहुदुःखमाजम् ।। अथ सर्वेषां ग्रहाणां गोचरशुद्धिरुक्ता बादरायणेन-- सूर्यः षत्रिदशस्थितन्निदशषट्सप्ताद्यगश्चन्द्रमा- जीवः सप्तनवद्विपञ्चमगतो दक्राकजौ पत्रिगौ ॥ सौम्यः षट्दशद्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्ते शुभाः शुक्रः षट्दशसप्तरराशिसहितः शार्दूलवभ्रासकृत् ।। सर्वत्र जन्मराशिमारभ्य गणना जाति । तत्र ग्रहगोचरशुद्धौ वर्णभेदन ग्रहशुद्धिभेद उक्तो लघुहारीतेन- ब्रतबन्धो द्विजातीनां विशुद्धया जीवशुक्रयोः । चन्द्रशुद्धया तु वैश्यानां क्षत्रियाणां कुजार्कयोः ।। अथ मासफलम् । वाचस्पतिः-- माघे द्रविण शालान्यः फाल्गुने च दृढवतः । चैत्रे भवति मेधावी वैशाखे कोविदो भवेत॥ ज्येष्ठे गहननीतिज्ञ आपाढे ऋतुभाजनः । शेषेवन्यत्र रात्रिः स्यान्निषिद्धं च निशिव्रतम्। वराह:-- दिनकरशशिजीवे गोचरे शोभनरथे । उदगयनगतेऽर्के लग्नयोगे प्रशस्ते ॥ हरिकरवसुचित्रासौम्यतोष्णाश्विशका सलिलपवनपुष्या मेखलाबन्धनेष्टाः ॥ एवञ्च--हस्तत्रये दैत्यरिपुत्रये च पुष्येन्दुशक्राश्विनिरेवतीषु । वारेषु शुक्राबृहस्पतीनां हितानुबन्धी द्विजमौञ्जिबन्धः ।। श्रीपतिः- शाखाधिपे बलिनि केन्द्रगतेऽथवाऽस्मिन् वारेऽस्य चोपनयनं कथितं द्विजानाम् । नोवस्थितेऽप्यरिगृहेऽथ पराजिते वा जीवे मृगौ श्रुतिविधिस्मृतिकर्महीनम् ॥ तत्र शाखाधिपाः-'ऋगर्वसामयजुषामधिपा गुरुसौम्यभौमसिताः ॥' व्यवहारसमुच्चये विहितनक्षत्राणि- अश्विनीमृगचित्राश्च हस्ताः स्वात्यय शक्रभम् । पुष्यश्च पूर्वफल्गुनी श्रवणा रेवती तथा । शतभिषा वसुसंयुक्ता व्रतबन्वे प्ररास्यते । लग्नानि तु ब्रतबन्धे वृषसिंहधनुर्मीनतुलात्मकानि विहितानि तत्र लमशुद्धिः- लग्ने सौरिदिवाकरावनिसुताः कुर्युवधं बन्धनं वित्ते वित्तविनाशमाशु सहजे नैरुज्यमिष्टागमम् ।। बन्धौ बन्धुविरोधमेव तनये पुत्रदयं षडमे सौभाग्यार्थसुखानि, दारमरणं यच्छन्ति जामित्रमे ।। - :- हवनप्रकरणम् । २३७ निधनभवनसंस्था मृत्युमथप्रणाशं तपसि विविधरोगान् कर्महानि दिशन्ति ।। वियति रवियमारा नीचवृत्तिं तथाऽऽये बहुविधधनलाभं रिष्फगेऽर्थक्षयञ्च ॥ षष्ठेऽष्टमे शशधरे मरणं प्रयाति जीवे निशाकरसुते विगुणोऽर्थ हीनः । क्रूरः कुजे मृदुमना विगुणोऽलसश्च शुक्रे पटुगुरुवदिन्दुभृगू विकल्प्यौ । व्यासः-अस्तं गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते । व्रतोपनीतो दिवसः प्रणाशं प्रयाति देवैरपि रवितो यः॥ नो सन्ध्यागजिते प्राहुव्रतोपनयनं बुधाः । न रात्रौ न च सन्ध्यायां नानध्याये गलग्रहे । त्रयोदश्यादिचत्वारि पञ्चम्यादिदिनत्रयम् । चतुर्थी चैकतः प्रोक्ता अष्टावेते गलग्रहाः ॥ पौषादि चतुरो मासान् शेया वृष्टिरकालजा । व्रतयात्रादिकं तत्र वर्जयेत्सप्तवासरान् ।। एकेनैकदिनं त्याज्यं द्वितीयेन दिनत्रयम् । तृतीयेन तु सप्ताहं त्यजेदाकालवर्षणे । वृत्तेऽप्यकालवर्षे नाशुद्धिनिर्दिशेत्तावत् । यावन्न भवति याने नरपशुचरणाङ्किता वसुधा। नरसिंहपुराणे- अयने विषुवे चैव शयने बोधने तथा । अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु ॥ इति विशेषाः म० म० मैथिल पं० मुरारिमिश्रकृतशुभकर्मनिर्णये द्रष्टव्याः- तत्र दण्डप्रमाणमुक्तं राजमार्तण्डे- ऋजुरनुपहतो दीनः सुश्लिष्टो ब्राह्मणस्य पालाशः। राज्ञश्चौदुम्बरजो वैश्यस्य तु बिल्वसम्भवः प्रोक्तः ॥ केशललाटघ्राणप्रमाणकानि त्वभीष्टानि । क्रमशो विप्रक्षत्रियवैश्यानां दण्डकाष्ठानि ।। स्त्रियास्तु नोपनयनं तत् स्थान एव विवाहविधानात् तदाह, मनुः- वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया । (२२) अथ हवनप्रकरणम् । तत्र ब्रह्मदक्षिणार्थ पूर्णपात्रप्रमाणमुक्तं कात्यायनेन- यावता बहुभोक्तुस्तु तृप्तिः पूर्णेन विद्यते । नावराद्धर्थमतः कुर्यात्पूर्णपात्रमिति स्थितिः॥ विष्टरविषये तत्रैव-'दर्भसंख्या न विहिता विष्टरास्तरणेषु च ।' अग्नि मुखेनैव प्रज्वालयेन्नशूर्पादिना- होतव्ये च हुते चैव पाणिशूर्पस्थदारुभिः । न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥ मुखेनैके धमन्त्यग्निं मुखाद्धयेषोऽध्यजायत । नामिं मुखेनेति च यल्लौकिके योजयन्ति तम् ।। न पाणिना न शूर्पण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्नि मुखादेव व्यजायत । पटकेन भवेद्व्याधिः शूर्पण धननाशनम् । पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ अथेन्धनलक्षणम्- नाङ्गुष्ठादधिका कार्या समित्स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकोटा न पाटिता। प्रादेशानाधिका नोना-इत्यादि - - २३८ कत्यसारसमुच्चयपरिशिष्ट- तथा चोक्तं शब्दकल्पद्रुमे- विशी विदला ह्रस्वा वक्राः स्थूलाः द्विधा कृताः। कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥ तत्फलमपि तत्रैव- विशीर्णाऽऽयुः क्षयं कुर्याद्विदला पुत्रनाशिनी । हस्वा नाशयते पत्नी वका बन्धुविनाशिनी ॥ कृमिदष्टा रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी। अथ नवग्रहाणां समिध उक्ता याज्ञवल्क्यस्मृतौ- अर्कः पलाशः खदिरस्त्वपामार्गोऽय पिप्पलः । औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।। अ० १२३०३। अथ स्रवादिलक्षणम्-कात्यायनस्मृतौ- खादिरो वाऽथ पालाशो द्विवितस्तिः सुवः स्मृतः। खुम्बाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः॥ सुवाग्रे प्राणवत्खातं द्वथङ्गुष्ठपरिमण्डलम् । जुह्वाः शराववत्खातं सनिर्वाहं षडङ्गुलम्॥ एकहस्तेनैव जुहुयात्, तथाऽऽह यमः- श्राद्ध हवनकाले च दद्यादेकेन पाणिना। उभाभ्यां तर्पणे दद्यादिति धर्मो व्यवस्थितः ॥ (क) अग्निमध्ये एव यथाऽऽहुतिपातस्तथा होतव्यः- 'बाह्यहोमप्रदाता च पाषाणेददुरो भवेत् ।।' इति लिजपुराणे उत्तरार्धे २५ अध्याये उक्तम् । आचार्यलक्षणमाह, स्मृतौ- सार्थवेदविचारशः सदाचारी समर्थकः । दयालुः क्रोधशून्यश्च निर्लोभो वीतमत्सरः ॥ अप्रमत्तः सदा शुद्धःस्वग्निहोत्री तु होतृकः ।। तथा तस्यानधिकारिलक्षणमाह, मनुः-- नैव कन्या न युवतिर्नाल्पविद्यो न बालिशः। होता स्यादग्निहोत्रस्य नाों नासंस्कृतस्तथा ॥ प० पु. १३ । अर्थात्स्त्रीमूर्खरोगिविवाहहीना प्राचार्या न भवेयुः ।। - (क) अथाग्निं ध्यायन्नाहुतिं प्रषिपेत् । तत्राग्नेध्ययरूपम् रुद्रकल्पे-रुद्रतेनःसमुद्भूतं द्विमूर्धानं दिनासिकम् । षण नेत्रं च चतुःश्रोत्रं त्रिपादं सप्तहस्तकम् ।। याम्यभागे चतुर्हस्तं सव्य- मागे त्रिहस्तकम् । नुवं न चं च शक्तिं च अक्षमालां च दक्षिणे ॥ तोमरं व्यजनं चैव धूतपात्रं तु वामके । विभ्रतं सप्त मिहस्तैदिमुखं सप्तजिहकम् । दक्षिणे च चतुजिहं त्रिजितमुत्तरे मुखम् । द्वादशकोटिमूर्त्याख्यं द्विपश्चाशत्कलायुतम् ॥ स्वाहास्वधावषट्कारैरचितं भेषवाहनम् । रकमाल्या- म्बरधरं रक्तपभासनस्थितम् । रौद्रं तु वहिनामानं वहिमावाहयाम्यहम् ।। इति ।
हवनप्रकरणम् । -- -- अथ निन्दितपुरोहितलक्षणम् । कालिकापुराणे-- काणंठ यजमपुत्रं वाऽनभिज्ञमजितेन्द्रियम् । न हवं व्याधितं वाऽपि नृपः कुर्यात्पुरोहितम् । अथ साकल्यप्रमाणमुक्तमानन्दरामायणे-- तिलार्ध तण्डुला देयास्तण्डुला वास्तथा । यवा शर्कराः प्रोताः सधं च पतं स्मृतम् !! शुभकर्मनिर्णये-ज्वलन्तमग्निमुत्सृज्य न हि भन्मनि हूयते । अथ ब्रह्मविष्टरयोर्लक्षणम् , अङ्गिरा आह-- पञ्चाशद्भिर्भवेद् ब्रह्मा तदर्धेन तु विष्टरः । अध्वकेशो भयेद् ब्रह्मा अधःकेशलु विष्टरः । अथार्थ्यमधुपर्कयोर्लक्षणं कात्यायन-- साक्षतं सुमनोयुक्तमुदकं दघिसंयुतम् । अध्य, दधिमधुभ्यां च मधुरको विधीयते ।। तथा वीरमित्रोदये संस्कारप्रकाशे वृतवचनम्- 'कांस्येन कांस्ये पिहितं दधिमध्वाज्यमयुतन् । मधुपर्कनिति प्राहुर्याशिका यज्ञमणि ।। आज्यस्थानी मृन्मयी चक्रमात्रनिष्पन्ना न पायेति-- म. म. पं. मुरारिमिश्रा आहुः । तथा च कात्यायनः-- कुलालचक्रनिष्पन्नमासुरं मृन्मयं भवेत् । तदेव हत्तपटि प्रशस्त हव्यकव्ययोः !! अथवा-प्राज्यस्थाली तु कर्तव्या तैजलद्रव्यसम्भवा । माहेयो वापि कर्तव्या नित्यं ताग्निक ! अथ खुवधारणम् चतुरङगुलं परित्यज्य अग्रे चैव द्विरष्टकम् । चतुरङगुलं च तन्मध्ये धारयेच्छङ्खमुद्रया। हीयते यजमानो वै खुवमूलस्य दर्शनात् । तस्मात् संगोपयेन्नूलं होमकाले युक्त्य तु ।। साम्बपुराणे--तुत्तृट् क्रोधवरायुक्तो हीनमन्त्रैर्जुहोति यः । अप्रवृद्धे सधूमे वा सोऽन्धः त्यादन्यजन्मनि ।। हवनेऽनिष्टलक्षणम्-- अल्पे रूक्षे सस्फुलिङ्गे वामावर्ते मयानके । आर्द्रकाष्ठः नुसम्पूरों फूत्कारवति पावके !! कृष्णार्चिषि सुदुर्गन्वे तथा लिहति मेदिनीम् । आहुती हुँचाबन्दु तन्य नाशो भवेद् ध्रुवम्।। तथा च कात्यायन:-- योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारिणी च मानवः । मन्दाग्निरामयावी च दरिद्रश्वामिजायते।। तस्मात्समिद्धे होतन्यं नासमिद्धे कदाचन | आरोग्यमिच्छताऽयुश्च श्रियमात्यन्तिकीं तथा ॥ होमक्रियाबहिर्भूतशब्दाभिलापश्च जुह्वतो लक्ष्मीविनाशकर इति मुरारिमिश्रा बाहुस्तथा च मनुः- लातस्य वरुणस्तेजो जुइतोऽग्निः श्रियं हरेत् । भुञ्जानस्य मयस्त्वायुस्तस्मान्न व्याहरेत्रिषु ।। -- २४० त्यसारसमुच्चयपरिशिष्टे- अथ पूर्णाहुतिलक्षणम् । शौनकः-- अथ पूर्णाहुतिं दद्याद्गन्धपुष्पफलान्विताम् | साक्षता मूर्द्धकायस्तु समपाक्छकदिङ्मुखः ॥ तथा शान्तिमयूखेऽग्निपुरागवचनम्-- मूर्धानं दिवमन्त्रेण संस्रवेण च धारया । दद्यादुत्थाय पूर्णो वै नोपविश्य कदाचन ॥ गोभिलीये विशेष:- न मुक्तकेशो जुहुयान्नातिपातितजानुकः । उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।। संहतागुलिपाणिस्तु वाग्यतो जुहुयाद्धविः ।। सर्वत्राचार्या यजमानस्य स्वशाखीय एव कार्योऽन्यथाऽचार्यस्य यजमानशाख्यध्य- यनाभावेन तच्छाखीयपदार्थानां निर्वाह एव न स्यात् । तथा च पराशरः- यः स्वशाखां परित्यज्य परशाखां समाश्रयेत् । अप्रमाणमृषिकृत्वा सोऽन्ये तमसिमजति॥ येनैकाऽपि शाखा नाधीता, तस्य सकलशाखीयाचार्यत्वेऽयोग्यता सिद्धा । अतोऽनभिज्ञ- माचार्य न कुर्यादिति हवनप्रकरणम् ।। अथ काम्यहोमेऽग्निवासविचारः । सैका तिथिरियुता कृताप्ता शेषे गुणेऽभ्रे भुवि वहिवासः । सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च || अस्यार्थ:-शुक्लपक्षे तिथिसंख्यामेकयुक्तां सूर्यादिवारसंख्यासंयुतां च कृत्वा च- तुमि जेद्यदि त्रिमितं वा शून्यमितं शेषं भवेचदा भूलोकेऽग्निवासः स होमे सुखदो भवति । यदि च एकमितमवशिष्टं तदा स्वर्गेऽग्निवासः स प्राणनाशकरः । यदि द्विमितं शेषं तदा पातालेऽग्निवासस्तत्र कृतो होमो धननाशकरः । अतः शून्यत्रिशेषे होमः कर्तव्यः इति सिद्धोऽर्थः । अत्र हवनेच्छितसमयप्राप्ततिथिह्या । कृष्णपक्षे तु या तिथि- संख्या तस्यां पञ्चदश संयोज्य शुक्ल प्रतिपदादितस्तत्संख्या जाता, दर्शान्तादेव मुख्य- चान्द्रमासारम्भत्वात् । तां सैकां रव्यादिदिनसंख्यासंहितां विधाय चतुर्भक्तां कृत्वा शेषतः पूर्ववत्फलं ज्ञातव्यम् । अथान्योऽपि विचारस्तत्रैव-- सूर्यभात्रित्रिभे चान्द्रे सूर्यविच्छुक्रपङ्गवः । चन्द्रारेज्यागुशिखिनो नेष्टा होमाहुतिःखले। सूर्याक्रान्तनक्षत्राच्चन्द्राश्रितनक्षत्रावधि गणिते एकद्वित्रिसंख्यान्यतमे सूर्यभागः। ततत्रिमितेऽर्थाच्चतुःपञ्चषइन्यतमसंख्यके बुधभागः। एवं ततत्रिमितेऽर्थात्सप्तमाष्टम- नवमान्यतमे शुक्रभागः, एवं चक्रन्यासः- -- बु. श. च. कु. बृ. क. १ १ २ ३ MFK ८ १६ । १९ । २२ २५ २० २३ २६ २४, २७ १२ व्यतिपातयोगः। २४१ . विश्वप्रा- अत्र खले पापभागे सूर्यशनिकुजराहुकेतुभागे होमाहुतिर्नेष्टा । अर्थाद्रविनक्षत्रात् शरा३३१०१।१२।१६।१७।१८।२२।२३।२४।२५।२६।२७। एतदन्यतमचन्द्रनक्षत्रे होमो न कर्तव्य इत्यर्थः। अत्र मद्विशेषप्रकार:- शुक्ल तिथिदिनयोगः सैको वेदैह तः शेषः । कृष्णे तिथिदिनयोगो भक्तो वेदैहतः शेषः।। यदि शून्यं त्रिमितं वा तदा शुभ काम्यहोमेषु ॥ अथ प्रसङ्गात्, काष्ठकरीपस्थापननक्षत्रविचार:- सूर्यद्रिसभैरवस्थलगतैः पाको रसैः संयुतः । शीर्षे युग्ममिलैः शवस्य दहनं मध्ये युगौः सार्पभोः ।। प्रागाशादिषु वेदभैः स्वसुहृदां स्यात्संगमो रोगभीः कायादेः करणं सुखं च गदितं काष्यदिसंस्थापने ।। यदा यस्मिनक्षत्रे सूर्यो भवेत्ततः शरा३।४।५।६ एतन्मिनक्षत्रैः स्थापितेन काष्ठादिना सरसःपाकः । ७८ अाभ्यां नक्षत्राभ्यां मृतकदहनम् । ९।१०।११।१२ एभिः सर्पभयम् । १३।१४।१५।१६ एभिर्मित्रसमागमः । १७।१८।१९।२० एभी रोगभयम् । २१।२२।२३।२४ एभिः काथादिकरणम् । २५ारा२७२८ एभिः सुखं भवति । अर्थात् सूर्याक्रान्तनक्षत्रात् ११२।३।४।५।६।१३।१४।१५।१६।२५।२६।२७।२८ एतेषु काष्ठादिस्थापनं शुभम् । अत्रामिजितोऽपि ग्रहणं कृतम् । तन्मानम् त्यानिश्रुतितिथिभागतोऽभिजित् स्यादिति । अथ व्यतिपातयोगः (पृ० १३२) तल्लक्षणं तु-'श्रवणाश्विधनिष्ठा नागदैवतमस्तके । यद्यमा रविवारेण व्यतिपातः स उच्यते ॥' श्रवणाश्विनीधनिष्ठाऽऽऽऽश्लेषानदत्राणामन्यतमनक्षत्रं यदा रविवारयुक्ताया- ममावास्यायां दैवाद्भवेत्तदाऽयं योगः सम्भवति । तत्र यन्नक्षत्रं यस्याममायां भवति तन्नक्षत्रात्पूर्वगतं यत् षोडशतमं नक्षत्रं तत्साधारण्येन पूर्वपूर्णिमायां, परगतं च षोडशतमं भं पर पूर्णिमायां च क्रमेण गतं सम्भवतीति युक्त्या श्रवणनक्षत्रात् परतः षोडशतमं. मघा, तद्युतपूर्णिमा माघमासेऽतस्तत्पूर्वामायामर्थात्पौषामावास्यायां तस्य सम्भवः। एवमश्विनीनक्षत्रात् षोडशतमं पूर्वगतं हस्तनक्षत्रं तन्नाम्ना मासनाम्नः संकेता- भावात्पूर्वगतपञ्चदशनक्षत्रस्व चित्रानक्षत्रस्य चैत्रमासीयपूर्षिमायां सम्भवात् तत्पूर्णिमो- चरामावास्यावामर्थादेशाखमासीयदर्श तत्संभवः । तथा धनिष्ठानक्षत्रात् पूर्वगतषोड- शतमनक्षत्रं पुष्यं तस्य पौषीयपूर्णिमायां सम्भवात् तदुत्तरामाचास्यायामान्माघ- मासीयदर्थे तत्सम्भवः । एवमाानक्षत्रात् पुरतः षोडशतमं नक्षत्रमुत्तराषाढा, तस्या आषाढीवपूर्णिमायां संभवात्तत्पूर्वामायां तन्मासीयामायामेव तत्सम्भावना । आश्ले- पानक्षत्रात पूर्वगतं पञ्चदशतमनक्षत्रं श्रवणं तेन भाद्रे तथा षोडशतमं नक्षत्रमुत्तरा- षाढसंज्ञं तेनाषाढेऽपि तत्सम्भावना सिद्धयति । कृष्णपक्षे कस्यापि नक्षत्रस्य चयसमवे ३१ कृ० सा० -- २४२ कृत्यसारसमुच्चयपरिशिष्टे- अमातः पञ्चदशनक्षत्रमेव तत्पूर्णिमायां संभवति । वृद्धिस्थले सप्तदशनक्षत्रमिति मध्य- ममानेन । अत्र योगे गङ्गास्नाने महत्फलं, तथा दानेऽपि उपवासेऽपि फलश्रवपद- शनं दृश्यते जयसिंहकल्पद्रुमप्रभृतिषु स्मृतिनिबन्धेषु । तत्रामायां मध्यमचन्द्रर- विक्रान्तिसाम्यादपि ज्यौतिषसिद्धान्तसिद्धपातयोगोऽर्थसिद्ध एव । परन्तु 'व्यतिपातोऽ- यनमेदे गोलकत्वेऽर्कचन्द्रयोः क्रान्त्योः साम्ये वैधृत एकायलेऽन्यदिगपक्रमसमत्वे ॥ इति सिद्धान्तशिरोमणिपाताध्यायश्लोकाद्वैधृतस्य संभवो न तु दर्श व्यतिपातस्य । योगोऽयमोंदयप्रतिरूपक एव, तत्र व्यतिपातयोगस्वैव विशेषात् यथा श्रवणनक्षत्ररवि.. वारव्यतिपातयोगयुक्तायां पौषमावयोरमायां त्वोंदयो योगविशेषस्तदन्तर्गत एवार्य व्यतिपातोऽपि भवतीति ॥ व्यतिपाते (क) दानमनन्तफलं भवतीत्युक्तं वाराहे-- शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये । विषुवे शतसाहस्र व्यतिपाते त्वनन्तकम् ।। यथैवाभ्युदितः सूर्यः समग्रं च तमो दहेत् । इदं व्रतं तथैवेह सर्वपापं व्यपोहति इत्य दि अथारोग्यदानफलम्, नन्दिपुराणे- धर्मार्थकाममोक्षाणामारोग्यं साधनं यतः । अतस्त्वारोग्यदानेन नरो भवति सर्वदः।। अथारोग्यशालाकरणफलम- आरोग्यशालां कुरुते महौषधिपरिच्छदाम् । विदग्धवैद्यसंयुक्तो धृतान्नमधुसंयुताम् ॥ आरोग्यशालामेवं तु कुर्याद्यो धर्मसञ्चयः । स पुमान्धामिको लोकेस कृतायः सबुद्धिमान्।। सम्यगारोग्यशालायामौषधः स्नेहपाचनैः । व्याधितं नीरुजीकृत्य अप्येकं करुणायुतः।। प्रयाति ब्रह्मसदनं कुलसप्तकसंयुतः।। अथ जलादिदानफलम्- वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमनदः । तिलप्रदः प्रजामिष्टयं दीपदश्चतुरुत्तमम् ।। वासोदश्चन्द्रसालोक्यं सूर्यसालोक्यमश्वदः । भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्याणि वेश्मानि रूप्यदो रूपमुत्तमम्।। (क) अथात्र हस्तोदकदाननिषेधो यथा शन्तनुकृतदानचन्द्रिकायाम-तरङ्ग७७४ो०७२ हस्ते दानं दददाता छनन्तं फलमाप्नुयात्। गृहीतुस्तप आदत्ते सद्य एव न संशयः ।। हस्ते गृहीतं यदान जलदर्भसमन्वितम् । पुण्यतीर्थे गृहीतं तत् सर्वान् धर्मान् व्यपोहति । चक्रपाणिकृतव्यवहारमयूखे-तपः खाध्यायनिरतः सावेदार्थचिन्तकः । हस्ते गृहीत- दानेन सधः पतति निश्चितम् । राजराजेश्वरकृताचारपद्धतौ-लो० ४७-४९ प्रयागादौ शुभक्षेत्रे यत्र कुत्रापि वा द्विजः । असहानाद्यथा विप्रस्तथा पतति निश्चित्तम् । एतेन सह सम्बन्धं यौनं मौखं च यश्चरेत् ।। सोऽपि तत्समतामेति अन्नानां चैव मक्षणात् ।। दुर्भिक्ष राजविद्रोहे प्राणसङ्कटकेऽपि वा । इस्तोदकं न गृहीयात्तद्धि तेजस्तपोहरम् । पुनराहिकसूत्रे-मनता पात्रमुद्दिश्य कुशोपरि जलं क्षिपेत् । दावा तत्फलमाप्नोति प्रतिगृ- होता न दोषक ॥ मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ।
No text on this page.
No text on this page.
No text on this page.