Sringeri Sharada Peetham
Siddhanta Darshanam
Front matter
ॐ तत्सद्ब्रह्मणे नमः। सिद्धान्तदर्शनम्। महर्षिवेदव्यासीयसूत्रम् । श्रीमन्मनस्विविश्वदेवाचार्यकृतनिरञ्जनभाष्य- समेतम् । पूज्यपादादिष्टेन श्रीमदर्धकालीकुलश्रीशशिमोहनस्मृ- तिरत्नेन संस्कृतम् । तच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाब्दाः १८२८ रित्रस्ताब्दाः १९०७ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ।) मूल्यं सपादरूपकः (१४४) शुद्धिपत्रम् । अशुद्धम् । शुद्धम् । पत्राङ्के । पतिः । .... .... .... .... .... .... ९।५ ११८ ७.११ २०१४ २०१६ २११७ २२।११ .... .... .... .... .... .... .... २२।१६ .... २२।१९ .... .... .... .... .... .... .... किरीटाङ्कः किरीटाङ्क स्वप्रयोजनजाल स्वप्रयोजनजाले पुरुषावपि पुरुषावुभावपि .... कृताण्यूनां कृताणूनां कर्मादि कर्णादि तदेवाः तदैवा माकृति माकृते इच्छाविरोधिनी वृत्तिः सत्तैकस्यापरत्राणुभाव्या- सैव द्वेषो निगद्यते । संयोगनामिका। अपश्चीकरणगुणपञ्चीकृता- पञ्चीकृताधाः। सर्वत्रा- द्या सर्वत्र। पञ्चीकरण गुणोत्मिका गुणात्मिका.... कर्मभूमितो भोगभूमितो दुर्वारो दुर्वारः सहसा नित्यं नित्यः सुखीति सुखीति । सुषुप्तिकालीनः मेदैन भेदेने मिर्मानिन भिमानिन जीवस्य जीवस्य सूर्यवद्वै चित्रं सूर्यवद्वा वैचित्रं धर्याणां धर्मकाणां जालो जाङ्गुलं जाङ्गुतेति जाङ्गुलमिति .... जाङ्गुलो जाङ्गुलं रणरोगादे मरणरोगादे तदेषाहायतामिका तदेषाऽऽहार्य नामिका युभ्यासा त्रयभ्यासा त्र्युभ्यासा ज्यभ्यासा २२।१६ २४॥३० २६।१३ ३०।१२ ३७/२३ ४२।२४ ४३।११ .... .... .... .... .... .... .... .... .... .... .... ४७/२१ ४९।१२ ६०।२१ ६०२२ ६०२२ ६२। ६ ६३।८ ६७१२८ ६८१ .... .... ....
(२) अशुद्धम्। शुद्धम्। पत्राङ्के। पतिः । . .... .... .... ... .... .... .... .... .... .... .... त्वत्प्रभावे दृगात्मा वुद्धिश्थ हव्यते एकीभूयेवा रतक्ष्ण्यं भैक्ष्यं एवमेव सूचयति संसार तत्प्रभाव हगात्म बुद्धिस्थ कथं दृश्यते एकीभूथैवा रतक्ष्ण्यं भैक्षं एवं सूत्रयति ससार तस्य ..... .... .... ८२। ५ ८४/२५ ८६।२० ९०२६ ९७।२८ १००। ७ १०।२० १०६। ८ १०७/२५ ११०१३० ११०२३ .... .... .... .... .... .... ....
भूमिका । यदि व्यामोहान्तः स्फुरति हृदि सिद्धान्तनिगमः क सांख्यं क न्यायः क च कणभुगाम्नायकिरणः ।। व्यासदेवस्य सर्वस्वं शेष सिद्धान्तदर्शनम् । न ये जानन्ति ते मातुर्जठरान्न विनिःसृताः ।। पुरा किल परमकारुणिकेन भगवता वेदव्यासेन चतुराम्नायसागरोन्मथना- समुत्थितं यद्विज्ञानामृतमयातयामं तदिदानी प्रतिपित्सूनां प्रीतये जगत्येत. स्मिन्नस्माभिर्विकीर्णम् । अत्र तावदयि भारतीयाः प्रणिधत्त । संप्रति पाचा- त्यादिभोगभूमिप्रभवा बुभुत्सैकरसा बहिः प्रपञ्चोद्यानेषु बंभ्रम्यमाणा धीमन्म. धुपा न्यायादिकिंशुककुसुपान्यपनीय वेदान्तारविन्द विज्ञानमकरन्दपिपासवो दृश्यन्ते । अहो भारतजन्मिनो वेदमुखाः पुराऽऽविभूतेषु प्रद्योतमानविज्ञान- ज्योतिष्केषु मनुवाल्पीकिवशिष्ठयाज्ञवल्क्यादिष्वस्तमितेषु प्रादुर्भुतप्रबलम्ले- च्छघनघटाच्छन्नायामस्यां भारतभूमौ विराजमानाः स्वसंपदो गूढमहिमानम- जानन्तः कियन्तं कालं बहिर्भुवनतल्पे स्वप्तास्थ । न हि किं विजानीय भवतां विज्ञानदायद्रविणमधुनाऽधिकर्तु केऽप्यपरेऽध्यवसायिनो धीमन्तः समीहन्ते । किमथापि मोनिद्रा न हास्यथ । जागृत । जागरित्वा च वैयासिकमानसो- राकरं श्रुतियुक्त्यनुभववारिभिरुपचितं सिद्धान्तपादपमेतमुपाश्रयन्तस्तत्फल- पञ्चकं ज्ञातव्यज्ञानकर्तव्यकरणप्राप्तव्यप्रापणत्रिविधदुःखात्यन्तनिवृत्तिपरमसुख- माप्तिरूपं पिबत । नो चेत्तदधिगम्य जन्मभूमेरार्यजातेश्च निरवद्यमहिमानं परि- पालयत। - न खल्वेतदर्शनमृते प्रस्थानं किमपि मानेन त्रिविधेनैव श्रुतियुक्तिविद्वदनु- भवात्मकेन केनाप्युपवर्णितम् । अत एवोक्तं भाष्यकारेण- श्रुतिस्मृतिपुराणानां त्रयाणां सह युक्तिभिः । संमतं यदतो मानं प्रबलं भुवि किं पुनः ।। परतत्त्वं यदत्रोक्तं श्रुत्या केवलया न च । युक्त्या वा किं त्वि होत्तीर्ण विद्वदनुभवादपि ।। इति : परं तु चार्वाकन्यायादिसांख्यपर्यन्तानि दर्शनजातानि स्मृतिपुराण- तिहासादीनि च भिन्नप्रस्थानानि किं सर्वाण्येव तात्विकार्थानीति जिज्ञाभायां सर्वसंशयनिरसनपुरःसरतत्तचरमसमाधानार्थमेवेदमवतीर्णम् । तत्र चोद्धृताया [२] गन्धर्वनगरादाविन्द्रजालत्वेन लोकैरवगम्यमानायास्तस्मिन्मरुशुक्तिकास्थाणु- स्फटिकादौ जलरूप्यगुरुपरेखादिवल्लोहितशुक्ल कृष्णा गुणमयी गुणसाम्याऽ. निर्वाच्या मूलप्रकृतिरासीदिन्यादिश्रुतिभिर्जगत्कारणत्वेनाभिहितायास्ते ध्यान- योगानुगता अपश्यन्देवात्मशक्तिं स्वगुनिगूढामितिश्रुत्युक्तजगत्कारणानुसं- धायियाज्ञवल्क्यादिकृतप्रबलप्रत्यक्षप्रमाणाया ध्यानशीलानां मनस्विनाम- द्याप्यनुभवितुं शक्यायाः पूर्वाचार्यज्योति सिद्धान्तकृदयधारितमाध्याकर्ष- णादिरूपेण नवाविष्कृतताडितादिपदार्थाकारेण च परिणममानाया विच. क्षणेऽप्यक्षपादकणभक्षादावनभिव्यक्तायाः सर्वासंगतिविभञ्जनकोपायरूपाया विश्ववस्तुनिगूढायाः स्वकार्यदर्शनेनैवानुमेयाया जगदुपादानभूताया विचित्रकै- ककार्यायास्त्रिगुणात्मिकाया भगवतः शक्तविज्ञानविरहेणैवान्धीभूतमार्यजग- दिदमित्यवधेयम् । एतावन्तं कालं दर्शनमिदं केनापि हेतुना चतुर्थाश्रमेष्वेवाऽऽ. सीनिहितम् । देवात्सिद्धाश्रमावस्थायी कश्चिदेकः कैवल्याश्रमी परमपुरुषो वाराणसीपुरीमुपातिष्ठत् । तस्य चान्तेवासिनो जनकब्रह्मचारिणः प्रमुखास्पु. रुषपाठीयं “जागर्यायै चिरसुप्तानां श्रुतिरम्बावत् ” इति सूत्रम् , व्यासस्य वेदार्णवनाविकस्य पूर्वा कृतिर्वादिविनोदनार्था । बुभुत्सुबोधाय पुद्वितीया वेदान्तनाम्ना रटितोभयी हि ॥ इति श्लोकं चावगम्य तत्करुणाकटाक्षेणैवोद्धृतं पूज्यपादैः। समुद्धृत्य च तस्य महात्मनः कुतश्चिदनुशासनादेव द्वादश वर्षाणि मुद्रायत्रं नोपनीतम् । तदिदानीं पुण्यनगरीयमानन्दाश्रममुपगतम् । पूज्यपादाग्रजादेशाविज्ञप्तिरियमादरैः । श्रीशशिस्मृतिरत्नस्य नवद्वीपनिवासिनः ॥ .
-- . ॐ तत्सद्ब्रह्मणे नमः॥ सिद्धान्तदर्शनम्। निरञ्जनभाष्यसमेतम् । -- जगतः पितरौ पूर्णौ परस्परमभापदौ । अन्योन्याव्यक्तसंसक्तौ संधेयवाप्तये हितौ ॥ निर्गुणोऽपि जगत्कर्ता यो मनःस्थोऽप्यगोचरः। मायी सन्नप्यतत्सङ्गो भजतां तमजं विभुम् ।। दिव्यरत्नकिरीटाङ्कः शङ्खचक्रगदाम्बुजः । भास्वन्माल्याम्बरः कोऽपि देवो दीव्यतु मानसे ॥ ध्यात्वा चिन्तामणेातुर्गौरनीलपदाम्बुजे । व्याख्यां वक्ष्यामि सूत्राणां मणेरिव महामुनेः ।। इह किल क्रमात्पुराऽऽविर्भूतेषु नास्तिकेषु चार्वाकादिष्वास्तिकेषु चाऽऽक्ष- पादादिषु दर्शनजातेषु परतत्त्वविनिर्णयार्थविभिन्न स्थानेषु परमकारुणिकस्य सकलविज्ञाननिलयस्य निखिलनिगमावतंसस्य भ्रान्तिप्रमादविप्रलिप्सादिदो- पलेशेनाप्यनाघ्रातस्याऽऽम्नायस्यैवाभिमतेषु पुत्रादिशून्यपर्यन्तात्मतत्त्ववादेषु स्वपक्षरक्षणाय प्रपञ्चिता ये श्रुतियुक्त्यनुभवाभासास्तांस्तावत्सत्तर्कमन्थानेन दार्णवोन्मथनायथायथं संस्थाप्य भगवता वेदव्यासेन वेदविपिनसंचार- पश्चाननेन निदिध्यासननिधौतमलमानसमुकुरापरोक्षीकृतपत्यगात्मना, हिन्दो- लितजटाजूटशुभ्रश्पश्रुविलसन्मुखमण्डलनिर्गलबूढब्रह्मवर्चसेन, सततलक्षित. गभीरलक्ष्यैकमानसमदिरामदाच्छन्नोपमेन, करकलितकुवलयफलवदनवरतवि- लोकिताखिलसदसदर्थेन, विगलितेऽपि स्वप्रयोजनजालबलवदारब्धानुषङ्गा- लोकसंग्रहे प्रगाढाग्रहेण, निदानेनावितर्येण केनाप्यनर्थे स्वार्थमानिनि प्राणि. निचये कारुण्यपूर्णेन, सततमिह संसारे स्वार्थमर्थयमानानां परमार्थमजानतां विषयामोदमदिरोन्मत्तचेतसां बाह्यवस्तुभावनादप्यलक्षितप्रत्यगात्मप्रवणचेतनो- त्पादयितुकामेन, भवार्णवोत्तरणपुराणभारतोत्तमतरीनिकरकर्णधारेण, काला- नुकूलागमशासनघोषणार्थ श्रीमन्नारायणांशावतारेण, निखिलश्रुतिशिरांस्या- लोड्य ब्रह्मसमाधानाख्यानेऽपि प्रतिपित्सूनां हृदि कन्दरे तत्तत्त्वसमुत्तरणसु. खसाधनानुशासनोपन्यासमन्तरेणालब्धोपशमान्तरात्मना, बादरायणेन मह- १ -- सिद्धान्तदर्शनं । [ १ प्रकृतिपाठे- पिणा सिद्धान्तितं यच्छेषं तदखिलश्रुतिरहस्यं पुनरिह प्रजानां परमश्रेयसे चतुःशत्योपनिबद्धम् । अत एवोक्तम्- व्यासस्य वेदार्णवनाविकस्य पूर्वा कृतिर्वादिविनोदनार्था । बुभुत्सुबोधाय पुनर्द्वितीया वेदान्तनाम्ना रटितोभयी हि ॥ इति । तथा च द्विविधा हि मीमांसा, पूर्वोत्तराम्नायभेदात् । तत्रोत्तरमीमांसा पुनधा वादिबुभुत्सुप्रतिपादनभेदात् । तत्राऽऽद्या ब्रह्मसूत्राख्या द्वितीया सिद्धान्तसूत्रात्मिकेति स्थितम् । विश्वतत्त्वबुभुत्सूनां यततां येन चेतसि । सरहस्यमिदं भाति तदर्थमयमुद्यमः ॥ मलानि त्रीण्यपाकर्तुं कृतितॊ वाङ्मनोधियाम् । छन्दसां वदनेनाऽऽद्यमनेन चापरद्वयम् ॥ यद्यप्यत्र स्फुटं भूयः पदं व्याख्यास्यते पुनः । चिरसंस्काररोधित्वादर्थस्य गौरवादपि ॥ यदर्थश्रुतिमात्रेण कुशाग्रीयधियामपि । व्यामोहो रोमहर्षश्च तत्क्षणादुपजायते ॥ बहिरेव गतिः पुंसामिन्द्रियाणां निसर्गतः । अतोऽत्र सहसा कोऽपि प्रत्यञ्च न बुभुत्सति ॥ या द्वैतवासना पुंसां जन्मजन्मनि संचिता । न तद्विरोधिनी वार्ता हठेन हृदि राजति ॥ ब्रह्माण जगदध्यासः श्रुतियुक्तिसमीक्षणैः । सिद्धो विद्वत्सु किं तत्र नान्येषु प्रतिभासते ॥ अविद्यानिद्रयाऽऽक्रान्ता नेह जाग्रति जन्तवः । यथा स्वमे शयानानां तेषां जागरणं तथा ॥ यः सुषुप्तः स जागर्ति यो जागर्ति स निद्रितः । निद्रितो वीक्षते विश्वं प्रबुद्धस्तु न किंचन ॥ इत्याभासः ॥ अथ परमकारुणिको भगवान्महर्षिरिह द्वाभ्यामेव पदार्थाभ्यां सदसयां प्रमाणप्रमेयरूपाभ्यां लौकिकालौकिकानां समस्तवस्तूनां निरूपणेन परमपुरुषार्थ प्रतिपादयितुमिच्छन्नादौ सूत्रयति- अथ भावौ द्वौ वाव श्रुतोपपत्त्यन्तरीक्षेत्यः ॥ १ ॥ अत्राथशब्दो मङ्गलार्थः शास्त्रादौ तदाचरणस्याऽऽवश्यकत्वात् । आन- १ प्रपाठः निरञ्जनभाष्यसमेतम् । न्तर्यवचनो वा । वेदान्तविचारानन्तरमस्याभिहितत्वात् । प्रतिज्ञार्थोऽपि घटते। भावौ द्वौ वावेत्युक्तेः । माङ्गलिकस्तु सर्वत्र निसर्गात्परार्थानीतदध्यादिवत् । तथा च स्मृतिः- ॐकारचाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥ इति । भावी पदार्थों द्वौ वाव द्वावेव वर्तेते इति शेषः । कुतः श्रुतोपपत्त्यन्तरीक्षेभ्यः। श्रुतियुक्त्यन्तदृष्टिभ्यः । न यागादिवत्केवलायाः श्रुतेः । नापि न्यायायुक्तव- केवलाया युक्तेः । न वा लौकायतिकवत्केवलाया दृष्टेः । अपि तु त्रिभ्य एवेत्यर्थः । अन्तरीक्षेतिपदेन पुरा प्रेक्षावद्भिः क्रमेण श्रुतियुक्ती समालोच्य पुनानसंस्कृतमानसेन द्वावेव साक्षात्कृताविति सूचितम् । मनीषी चेद. चापि तथैव द्रष्टुमर्हतीत्यपि बोद्धव्यम् । तत्र चैकः पारमार्थिकः । द्वितीयस्तु प्रातिभासिकः । तृतीयपदार्थो नास्तीति वावेत्यवधारणार्थाव्ययेन ज्ञाप्यते । सत्र श्रुतिः- मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ इत्यादिका । उपपत्तिश्च सदसतोरेकस्य सद्भावश्चेदन्यस्य नुगम्यते विरुद्धस्वभावयोरितरेतरापेक्षयैव भास्यमानत्वात् । तेज- स्तिमिरवच्छीतोष्णवत्सुखदुःखवच्च । किंच । न हि निबन्धकाराणाम- भ्युपगमवादमन्तरेण प्रस्थानं किमपि संपद्यते । ततश्च सदसतो दौ पदार्थावरीकृत्य तयोरेकतरस्य परिणामाभ्युपगमेनैव सत्यां सर्वार्थनि- पत्तौ परमार्थतः षोडशादिपदार्थप्रतिश्रुतिः कथं साधीयसी षड्भाविना नयेऽपि त्रयाणां सत्तावत्वेनान्येषां कल्पनीयत्वस्यार्थीगतत्वात्परमाणूना भेदकतान्यथानुपपत्त्या विशेषपदार्थकल्पितत्वाच तद्वदेकातिरिक्तस्य कल्प्यत्वे धीः कुतः क्लीबेत जन्यमात्राणामेकोपादानमनङ्गीकृत्य प्रत्येकोपादानस्य भूयसां नित्यतादेश्व कल्पनायां न किं गौरवं स्यादित्यादिका। अत एव स्मृतिर्भागवती। दैवी ह्येषा गुणमयी मम माया दुरत्यया । मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । वासुदेवः सर्वमिति । पुराणं च वैष्णवम् –परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ इति । एवं च चेत्याचितोन तृतीयमिति सूत्रकारोक्तिरपि साधीयसी । अन्त- रीक्षस्तु धीचिमत्यावर्तनपूर्वकदर्शनरूपत्वाच्छुद्धधियामेव । सच समाधौ सत्ताऽ.
४ -- सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- (क)विशदी भवति । अत्र प्रत्यक्षसिद्धस्य द्वितीयस्यावास्तवत्वं कथंस्विदिति पर्यनुयोगं हसन्निवोपरिष्टात्समादधौ । षोडशादिपदार्थप्रपञ्चस्तु व्यवहार- सौकर्यार्थों लोकायतिकमबोधार्थो मूढबुद्धीनां धियः शोधनेन सोपानवच्छ नैरेतन्मार्गारोहणार्थश्च । अत एव स्मृति:- प्रथमं स्थूलमारभ्य शनैः सौम्यं धिया नयेत् । स्थूले निर्जितमात्मानं कमात्सूक्ष्मे निवेशयेत् ॥ इति । शास्त्रीयतन्निन्दा तु तेषां कल्पनामात्रप्रसूतत्वाच्छ्रुतिविरुद्धांशवत्वाच्च । अत एव तदंशस्य त्याज्यत्वमुक्तम् । अक्षपादप्रणीते च काणादे सांख्ययोगयो। त्याज्यः श्रुतिविरुद्धांशः श्रुत्येकशरणैर्नृभिः ॥ इति । अत्र पदार्थयोरुपक्रमेऽपि न्यायादिवन्नेयं पदार्थविद्या किं त्वध्यात्मविद्यैव । तत्र पुरुषस्याऽऽत्मत्वात्तत्प्रतिपादनस्यैव मुख्यत्वाच । नन्वेतस्यैव सिद्धान्तस्य वशिष्ठेन पुरा पितुः परमेष्ठिनो विज्ञाय स्वपुत्राय रघुकुलतिलकाय चोपदिष्ट- त्वात्स्वयमप्याचार्येण स्वपितुस्तत्पितृगमितादवगम्य ब्रह्मसूत्रैरभिहित- त्वारिक पुनरनेनेति चेत्सत्यं तस्यैव प्रपञ्चार्थमिदमाख्यानम् । न हि विवृतिमन्तरेण प्रकृतिपरतत्राणां प्रतिपित्सूनां हृदि गुहायां परतत्त्वमारोह- यितुं शक्यते तस्मात्पुनर यमुद्यमो द्वैपायनीयः। अत्र विषयो जीवब्रह्मैक्यं प्रपञ्चालीकत्वं च ताभ्यामेतदागमस्य संबन्धः प्रतिपाद्यप्रतिपादकभावलक्षण: प्रयोजनं च स्वरूपसाक्षात्कारेण मूलाविद्योन्मूलनाज्ज्ञातज्ञेयता कृतकृत्यता माप्तप्राप्यता त्रिविधदुःखात्यन्तनिवृत्तिनित्यसुखाभिव्यक्तिश्चेति ॥ १॥ प्रतिज्ञातयोः स्वरूपमादौ सूत्रषदकेन सामान्यतो निर्दिशति-- मायामायिनौ ॥ २ मायति माऽय्यते स्वाधिष्ठनाद्भिन्नतया न लभ्यत इति माया। मीयन्ते परि- च्छिद्यन्ते पदार्था अनयेति वा। किं त्वसौ सत्प्रतिभासरूपत्वेन मृषाऽपि मरीचि. कादिवदेव न तु खपुष्पादिवद्व्यवहारवेलायां तस्या भासमानत्वात् । तथा च श्रूयते--' तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरूप्यपुरुषरेखादिवल्लो- हितशुक्लकृष्णा गुणमयी गुणसाम्याऽनिर्वाच्या मूलप्रकृतिरासीत्' इति । मायी तदधिष्ठाता 'मायिनं तु महेश्वरम्' इति श्रुतेः। नन्वत्र ब्रह्मप्रतिपादनस्य मुख्य- (क) तथाच शुद्धचेतसः सविकल्पसमाधौ सर्वं जगत्प्रत्यक्चितिशक्तिनिर्मितं पश्यन्ति किंकारणमित्युपक्रम्य कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्यमित्यनेन कालादीनि लोकदृष्ट्याऽनेकान्युक्षिप्य ते ध्यानयोगानुगता अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढामिति- श्रुत्या समाहितान्तरात्मनां तथा प्रदर्शितत्वादिति सिद्धान्तवार्तिकम् ।
- प्रपाठः] निरञ्जनभाष्यसमेतम् । वात्तस्यैव प्रागुपादानं सांप्रतमिति चेत्सत्यं सतो ज्ञानस्यासतः सापेक्षत्वा- प्राङ्मायोपन्यासः। अत एव ब्रह्मैकप्रतिपादिकाऽपि श्रुतिर्मायातकार्या- यपि निजगादति सर्व सुस्थम् ॥ २ ॥ प्रकृतिपुरुषो॥३॥ प्रकृतीति । प्रकरोतीति प्रकृतिर्जगतः साक्षाद्धेतुः । तथाचाऽऽगम:- माया वा एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं हरति तस्मान्मायामेतां शक्तिं विद्यात्' इति । प्रकरोत्यनयेति वा।पुरि शयनात्पूर्ण- वाद्वा पुरुषः । पूर्षु शेते तेनेदं पूर्णमिति श्रुतेः । अत्र पुंस्परोपन्यास एतदपि पूचयति विना प्रकृत्युपासनया न प्रसह्य पुरुषो मनस्याविर्भवतीति ॥३॥ जडचितौ ॥ ४ ॥ जडेति । जडः स्वतःप्रकाशशून्यत्वे सति स्वाश्रयभासा भासमानः । तदे- जडमिति श्रुतेः । चित्साधनान्तरनिरपेक्षत्वे सति स्वयंप्रकाशमानः 'साक्षी वेता' इति श्रुतेः॥४॥ मेयमायौ ॥ ५॥ मेयेति । मेयः प्रमेयो विषयो वा । मायः प्रमाणं विषयी वा । तथा च श्रुति:--'तमेव भान्तमनुभाति सर्वम्' इति ॥५॥ बाध्याबाधौ ॥ ६ ॥ वाध्येति । बाध्यो बाधयोग्यो विचारेणालभ्यः । अबाधो बाधशून्यः काल- येऽप्येकरूपेण विराजमानः। तथा च ॥६॥ त्रिकालेष्वेकरूपेण भाति बाध्यो न केनचित् । तत्पारमार्थिक वस्तु विद्वद्भिरुपगीयते ।। विस्पष्टं भासते लोके यद्विचारान्न लभ्यते । तत्मातिमासिकं नाम प्रतिबिम्बादिकं यथा ॥ इति । परिणामिविवर्तिनौ ॥ ७ ॥ परिणामीति । द्विविधं झुपादानं परिणामि विवर्ति च । तत्र घटाद्युत्पत्ती वृत्स्नादिः परिणामी शुक्तिरजतादौ तु शुक्तिकादिर्विवर्ती । परिणामश्च पूर्वा- स्थात्यागेनावस्थान्तरम् । विवर्तश्च तदपरित्यागेनेति । तथा च प्रपञ्चोत्पत्तौ कृतिः परिणामिनी पुरुषस्तु विवर्तीति भावः ॥ ७ ॥ बहुभिदृष्टान्तः पुनस्तत्स्वरूपं विशदयनाह- - -- सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- ६ छायातपवत् ॥ ८॥ छायेति। छायावत्मकाश्यत्वेन परतत्रत्वात्, आतपवत्तकाशकत्वेन स्वतत्रत्वात् । किं तु च्छाया तावदातपाभ्यन्तरे मा प्रभवति प्रकृतिस्तु पुरुषमध्य एव विराज- सीवि विशेषः॥८॥ मृज्जलवत् ॥ ९॥ मृदिति । मृद्वदावरणापादकत्वात् । जलवद्विकृत्युत्पादकत्वात् ॥ ९ ॥ पिण्डमणिवच्च ॥ १०॥ पिण्डेति । पिण्डवल्लोहवत्स्वयं व्याप्रियमाणत्वात् । मणिवत् , अयस्कान्त वचत्ययोजकत्वात् ॥ १० ॥ तप्तायोवच्चिज्जाड्याध्यासः॥ ११ ॥ सप्तेति । सप्तायोवत्, यथा तप्तलोहपिण्डस्थे वह्नौ गोलाकारोऽयमिति अयो. धर्मातिदेशः । लोहे च दहत्ययमित्यग्निधर्माध्यासस्तद्वत् । चिजाड्याध्यासश्चत- न्यजडत्वयोरारोपः । तत्र प्रकृतौ चेतनधर्माध्यासः पुरुषे तु कर्तृत्वादिजडधर्मा. रोपः । तथा हि श्रुतिः 'शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वमगमत्' इति । अत एव तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गं गुणकर्तृत्वेऽपि तथा कर्वेक भवत्युदासीन इति सांख्योक्तिरपि श्रुत्यनुकूलत्वेन साधीयसी ॥ ११ ॥ सत्र पुरुषस्य सर्वकारणत्वं प्रकृतेश्च तत्पारतन्त्र्यं भङ्गयन्तरेण प्रतिपादयति- चिदै शास्ता ॥ १२॥ चिदिति । शास्ता कर्मणां नियन्ता। अन्तःशास्ता बहिःशास्तति श्रुतेः । वै. रन्यव्यवच्छेदार्थः ॥१२॥ सध्यन्यत् ॥ १३ ॥ इति प्रकृतिपाठे प्रथमः प्रपाठः। सदिति । सदसयामिह पुस्पकृती वेदितव्ये ।हिरवधारणे । तथा च सदेवा- सतो भिन्नं न त्वसत्सतो भिन्नमिति रहस्यार्थः । अत एवोक्तम् ॥ १३ ॥ जगतो ब्रह्मणा साध संपर्को विद्यते सदा । ब्रह्मणो जगता साध संसर्गो नास्ति कश्चन । इति । इति प्रकृतिपाठे प्रथमः प्रपाठः ॥
२ प्रपाठः ]
निरञ्जनभाष्यसमेतम् ।
७
प्रकृतेः स्वरूपं सामान्यतो निर्दिश्य पुनर्विशेषेण वर्णयन्नाह-
सत्ताऽजायाश्छायावत् ॥ १ ॥
सत्तेति। अजायाः प्रकृतेः सत्ताऽस्तिता छायावत्, यथा प्रतिबिम्बस्य सत्ता
मुखादिसत्तातो नातिरिच्यते किं तु तस्येदं प्रतिबिम्बमिति व्यवह्रियते तद्वदि.
त्यर्थः। तथा च सत्ता हि द्विविधा पारमार्थिकी प्रातिभासिकी च तत्र पुरुषस्य
सत्ता पारमार्थिकी प्रकृतेस्तत्कार्यस्य च प्रातिभासिकीत्सवसीयते । यद्यत्मा.
तिभासिकं तत्तदेव भ्रान्तिवेलायां व्यावहारिकमिति सर्वत्र योज्यम् ॥१॥
कल्पे हविरिवाजे ॥२॥
कल्पेति । कल्पे महाप्रलये, अने पुरुष, अजा तिष्ठतीति शेषः। किमिव हवि.
रिव । यथा क्षीरे सर्पिस्तद्वदित्यर्थः।
एतेन प्रकृतिपुरुषावपि नित्यौ तत्र पुरुषः कूटस्थः सन्नित्यः प्रकृतिस्तु
परिणामिनी सती नित्येति फलितम् ॥ २॥
गुणागा गुणवत् ॥ ३ ॥
गुणेति । गुणाङ्गा गुणत्रयसमष्टिरूपा गुणवद्रज्जुवत् । तथा हि श्रुतिः-
लोहितशुलकृष्णा गुणमयी” इति । प्रकृतेर्गुण इति तु राहोः शीर्षमितिव.
द्भेदविवक्षया बोध्यम् । ततश्च प्रकृतिः सदाभासात्मिका तद्गणाश्च स्फूर्तिवि.
शोषरूपाः । न खल्वेतौ सांख्याभिमतौ पुरुषस्यास्य पारमार्थिकभेदविरहेणै-
कत्वात्मकृतस्तु तत्परतवत्वात्पृथक्सत्ताशून्यत्वात्स्वामोपमत्वाच्च । तदुक्तौ
पुनरौतत्वादौपनिषदैरनुपादेयाविति ॥ ३ ॥
त्रयी त्रीक्षेत्यः ॥ ४॥
त्रयीति । त्रीक्षेभ्यः, त्रिविधदृष्टिभ्यः। श्रुतियुक्तिलोकदृष्टिभ्य इति यावत् ।
त्रयी त्रिप्रकारा । तथा हि, श्रुतिदृष्टस्तुच्छा मरीचिकादिवत् । युक्तिदृष्टेः
सदसदायनिर्वाच्या, यथा न माया सद्वस्तु स्वाधिष्ठानज्ञानेन बाध्यत्वात् ।
नाप्यसद्वस्तु स्वकार्येण भासमानत्वात् । एवमसौ मायिनो नातिरिच्यते ।
तस्मात्तस्याः पृथगस्तित्वविरहात् । नाप्यभिन्ना परिणामादिमत्त्वान्मुखामा-
सवत् । लोकदृष्टस्तु वास्तवी स्वमकालीनस्वामप्रपञ्चवत् ॥ ४ ॥
संवृत्याऽऽश्रयं व्यत्येति ॥ ५॥
संवृत्येति । आश्रयं स्वाधिष्ठानं संकृत्य, आच्छाद्य व्यत्येति वक्ष्यमाण-
व्योमादिरूपं दर्शयति । एतेन ब्रह्मैव मायायोगाज्जगदाकारेण कल्पितं भव-
तीति ध्वनितम् ॥५॥
सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- सतीवातो यादृच्छिकी ॥ ६ ॥ सतीति । अतः स्वाश्रयात्तमाश्रित्येत्यर्थः । सतीव विद्यमानेव यादृच्छि- की यदृच्छया चरतीति । एतेन मायाया यादृच्छिकत्वेऽपि पुरुषपारतन्त्रय. मिति सूचितम् ॥ ६ ॥ विचित्रासीमरः ॥ ७ ॥ विचित्रोति । विचित्राण्याश्चणि बुद्धेरगम्यानि यानि चासीमानि सीमा. रहितानि कतिविधानि कीदृशानि वेति निर्णेतुमशक्यानि तानि सूते । विचि: प्रानन्तकार्याणां बीजमयीति भावः ॥७॥ प्रकृतेः पुनर्वैविध्यं लक्षयति- छायातपावनच्छाच्छे ॥ ८॥ छायेति । छायातपौ, अविद्याविद्य अनच्छाच्छे मलिनामले । तत्र या सत्त्व- प्रधाना सा विद्या, अन्या चाविद्येति भावः ॥८॥ पुंस्पपश्चपाततौ ॥ ९॥ पुमिति । पुंस्पपश्चौ ब्रह्मब्रह्माण्डे प्रतनुतः, भासयतः । इति कि । तथा च पुमवभासिका विद्या प्रपञ्चावभासिका त्वविद्येत्यर्थः । विद्यायाः शुद्धसत्त्व- प्रधानाया ब्रह्मावभासकत्वमविद्योच्छित्तिद्वारेणेति बोध्यम् । नन्वविद्याया: प्रपञ्चावभासकत्वं कथमुक्तं तमेव भान्तमनुभाति सर्वमित्यादिश्रुतिभिर्ब्रह्मण एवं तदभिहितत्वात्, सत्यं, ब्रह्मणः प्रपञ्चावभासकत्वं तु न साक्षात्, किं त्वविद्याद्वारेण राजवत्, ततश्च ब्रह्म प्रागविद्यामवभासयति । अविद्या पुनस्त- दाश्रित्य सर्वं जगदाविर्भावयतीत्यवदातम् । अत्रेदमवधेयम्-प्रकृतिद्वारेण पुरुषस्य विकृतिद्वारेण प्रकृतेरपि स्वप्रकाशता श्रुतिविद्वदनुभवसिद्धा कार्यका- रणादीनां व्यभिचारदोषादिविवेकस्तु ततः परेष्वेव व्यावहारिकार्थेषु न तु पुरुषे प्रकृतौ च तयोः स्वप्रकाशमानत्वादव्यक्तत्वाच ॥ ९॥ तत्र ब्रह्मविद्याया उपनिषत्पदवाच्यत्वमाह । परोपनिषद् ॥ १० ॥ परेति । परा विद्या। अविद्यापेक्षयोत्तमत्वात् । उपनिषद्, उपनिषीदति सवा- सनामविद्यां भिनत्तीति सदेविशरणार्थत्वात् । तदापादको ग्रन्थोऽप्युपनिषद्- च्यते । तदाहुरभियुक्ताः ॥ १० ॥ ब्रह्मोपनीय या जीवं भिन्तेऽविद्यां सवासनाम् । सोपनिषद्ब्रह्मविद्या तहेतुरपि सोच्यते ॥
३ प्रपाठः ] निरञ्जनभाष्यसमेतम् । १७ - कर्मेन्द्रियाणि वाक्पाणी पादपायुध्वजानि च । वाक्यादानविहरणोत्सर्गरतानि वृत्तयः ॥ इति । एवं च वाग्व्यतिरिक्तं वागाश्रयमष्टस्थानवर्सि शब्दोच्चारणशक्तिमादिन्द्रियं वागिन्द्रियमिति तल्लक्षणम् । एवं पाण्यादाव्यम् ॥ ११ ॥ परिणामीन्युभानि ॥ १२॥ परीति । उभानि, अन्तर्वाधन्द्रियाणि परिणापीनि परिणामशीलानि। तत्र च निरोधव्युत्थानाभ्यामन्तरिन्द्रियाणि व्युत्थानेनैव बाह्येन्द्रियाणीति॥ १२ ॥ परिणामाकारं निर्दिशति- ज्ञानच्छाक्रियास्ते ॥ १३ ॥ ज्ञानेति । ते परिणामा ज्ञानादिरूपाः । तथा च श्रुतिः 'कामः संकल्पो विचिकित्सा धृतिरधृति-( रेतत्सर्वं मन एव ' इति । ज्ञानमिहार्थीकारवृत्तिः। इच्छा, एसज्जायतामितित्तिरूपा, क्रिया परिस्पन्दादिव्यापारलक्षणा, विवे- कादिश्च निरोधशक्त्यैव जायत एवमन्याश्चान्सईत्तयो यथायथमनुसर्तव्याः॥१३॥ स्वपन्ति स्फुरन्ति च ॥ १४ ॥ स्वपन्तीति । जायमानास्ते ज्ञानाद्याः स्वपन्ति सूक्ष्मरूपत्वेनास्फुटतामामु- वन्ति । स्फुरन्ति समये प्रकाशन्ते । अत्र स्वापः संस्कारः ॥ १५ ॥ संस्कारः स्मृतिक्केशहेतुर्वासना ॥ १५ ॥ संस्कार इति । स्मृतिर्वक्ष्यमाणा, क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशाः। तेषां हेतुर्यः संस्कारश्वेतोगुणानां संनिवेशविशेषः स वासनाख्य इत्यर्थः । विपाकहेतुरदृष्टम् ॥ १६ ॥ विपाकसि।विपाका जात्यायु गारतद्धेतुर्यः संस्कारस्तदष्टं नामेत्यर्थः।।१६॥ ग्रन्थेनान्तर्जालबहाततम् ॥ १७ ॥ ग्रन्थेनेति।प्रन्थेन संस्काराणां रचनाविशेषेण । अन्तरन्तःकरणं जालवद्य- था सूत्राणां मिथः संनिवेशेन जायमानं मत्स्यजालं लूताजालं वा तद्वदाततं विस्तृतं वर्त। इत्यर्थः॥ १७ ॥ ज्ञानक्रियावष्टम्भानामन्यतमवत् ॥ १८ ॥ ज्ञामेति । अनावष्टम्भो ज्ञानक्रिवयोरवरोधोऽन्यतमवत्कचिज्ज्ञानवत्कचि- क्रियावत्कचिदवष्टम्भवदित्यर्थः । अत्र ज्ञानक्रियाभ्यां प्रतिलोमानुलोमयोरू- ३ १८ सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- ध्वधिःस्रोतसोर्या कृत्योः परिग्रहः । यदाऽन्तःकरणमवष्टम्भशक्तिपत्तदैव निद्राविर्भावः । एतेन व्यापारशक्तिर्गुणानामवेति प्रत्येतव्यम् ।। १८ ॥ निर्मनस्के साराशिव्यक्तिः॥१९॥ निरिति । निर्मनस्के मनोव्यापारशून्येऽन्तःकरणे साराभिव्यक्तिर्वस्तुस्थि- रांशाविर्भावः । तथा च । यदाऽन्तःकरणं बुद्धिरूपतामादधानं व्याप्रिय ते तदैव तत्र साराभिव्यक्तिः । यदि पुनर्मनोरूपतया परिणमते हि विषयवि- कल्पेन व्याप्रियमाणत्वात्तत्र तदभिव्यक्तिर्न भवतीति भावः ॥ १९ ॥ ऊर्ध्वलोकानुभवस्थानं निक्ति- भूपरि भुवः स्वः ॥ २० ॥ भ्रूपरीति भ्रुवोरुपरि भुवर्लोकः सूक्ष्मः प्रपञ्चस्तदुपरि वर्लोकः कारणप्रपञ्च- स्तत्रैव ध्यानयोगेन प्राणैः सह विराजमानस्य दुःखानवच्छेदकीभूतशरीराव- च्छिन्नसुखमिति । अत एवोक्तम्- प्राणैः सह यदा चेतो भ्रुवोरुपरि राजति । स्वहितं विश्वतत्त्वं च तदैव स्फुरति स्वतः ॥ इति । तथा चातकरणं भ्रूमध्ये विलसत्स्थूलाभिमानि तदुपरिलिङ्गाभिमानि तदुपरि कारणाभिमानि तत्रैव सत्त्वस्य परमोत्कर्षे ब्रह्मात्मैक्याभिमानीत्यप्य. वधेयम् । तत्र च स्थूलाङ्गाभिमानवेलायां लिङ्गाङ्गवृत्तिरपि क्रोधहिंसादिः पीनाङ्ग- माक्रामति । रजस्तमोजत्वेनाधःस्रोतस्कत्वात् । यद्यपि जीवो जाग्रदादिषु क्रमात्रिजगत्सु विहरति तथाऽपि नासौ कृतार्थः स्वेच्छया तदनहत्वात् । गुणप्रावल्येन परिच्छेद्यत्वाच्च । यः पुनः स्वोपाधिपारतन्त्र्यविरहेण भोगा- यतनमनपेक्ष्य सूक्ष्मे कारणे च जगति यदृच्छया विहर्तुं शक्नोति तस्यैव सर्वार्थसिद्धिरुन्नत्यवधिश्च जायते नान्यस्येति रहस्यम् । तथा च भुवों- करवर्लोकयोबहिरिन्द्रियग्राह्यत्वाभावात्तत्र स्थूलदेहमनपेक्ष्य स्वेच्छया गमनं योगाधीनं तदेहान्ते तु केवलादृष्टपरतन्त्रमिति !॥ २० ॥ पराञ्चीन्दुबत्खान्युभावन्ति ॥ २३ ॥ परेति । परा प्रातिलोम्येनाञ्चितुं गन्तुं शीलमेषां तानि पराञ्चि, निसर्गा- दहिष्मवणानि । इन्दुवत्स्वच्छार्धानि, उभावन्ति प्रत्यक्परागावर्तनशक्तिमन्ति खानि ज्ञानोन्द्रयाणि जायन्त इत्यर्थः । पराञ्चीत्यनेन खानां नैसर्गिकशक्ति- - ४ प्रपाठः] निरञ्जनभाष्यसमेतम् । दर्शिता । अत एव श्रूयते-पराश्चि खानि व्यतृणत्स्वयंभुस्तस्मात्पराक्प- श्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदात्तचक्षुर मृतत्वमिच्छन्निति । तथा च । यथेन्दुरमायां भूव्यस्तमुखः पौर्णमास्यां तु तदभिमुखस्तद्वत्खानि नैसर्गिकरजोवृत्तौ बहिर्मुखानि सत्त्ववृत्तौ पुनरात्मोन्मुखानीति भावः ॥ २१ ॥ जन्यसुखस्वरूपमाह- चिदुद्वृत्तौ सुखम् ॥ २२ ॥ चिदिति उवृत्तावन्तर्मुखपरिणामे भासमाना चित्सुखं नामेत्यर्थः। तथा चोवृत्तौ चित्स्वरूपं स्वानुकूलतया भासमानत्वात्सुखमिति भावः । किं तु वृत्तिचितोर्भेदाभानात्तवृत्तिरेव सुखमिति लोकव्यवहारः ॥ २२ ॥ दुःखमन्यत्पातिकल्यात् ॥ २३ ॥ दुःखमिति । अन्यबाह्याभिमुखायां वृत्तौ चित्स्वरूपं प्रातिकूल्यादात्मनः प्रतिकूलत्वादेव दुःखमित्यर्थः । मातिकूल्यं तु बाधनया जुन्भमाणत्वादिति बोध्यम् ॥ २३ ॥ प्रलयो मोहः ॥ २४॥ इति प्रतिपाठे तृतीयः प्रपाठः ॥ ३ ॥ प्रलयेति । प्रलयो लिङ्गदेहवृत्तीनाम् । अन्त:करणस्य कारणावस्थानमिति यावत् । स चात्र सुषुप्तिमूछीन्यतररूपः । तत्र सुषप्तौ लयो नैसर्गिको मूछीयां तु व्याहृतिहेतुको मृतिस्तु मुछीवद्भाति तदानीं लिङ्गस्थस्य स्थूला- असंपर्कविरहेण बाह्यज्ञानविलयात् ॥ २४ ॥ इति प्रकृतिपाठे तृतीयः प्रपाठः ॥ ३ ॥ अथ चतुर्थः प्रपाठः। सूक्ष्मभूतान्यपञ्चीकृतकार्याणि चोक्त्वा पुनः पञ्चीकृतान्याह- तमोत्यः पञ्चीकत्या पञ्च ॥ १ ॥ तमोभ्य इति । तमोभ्यस्तमोशविशेषसमष्टेः पञ्चीकृत्या पञ्चीकरणेन पञ्च महाभूतानि व्योमादीन्यजायन्त । पञ्चीकरणं चोक्तम् - शब्दादीनि द्विधा कृत्वा चतुर्धा पुनरादिमम् । स्वस्येतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ॥ इति । तथा चैकस्याष्टांशाः परेषां तु चतुर्णा द्वौ द्वावंशौ मिलित्वा पञ्चीकृतानि भवन्तीति भावः । तत्र च पूर्वपूर्वेण सहोत्तरोत्तरस्य संपर्कविशेषोऽस्ति - - सिद्धान्तदर्शनं [१ प्रकृतिपाठे- शब्दादीनां पूर्वपूर्वान्तर्वतित्वात्परपरस्वति मन्तव्यम् । पञ्चीकरणोत्तरं तु व्योम्नि विजृम्भमाणमखण्डं सत्स्वरूपमवकाशादित्वेन कल्प्यते । चिदानन्द- योस्तु तत्र भानं नास्ति तमःप्राधान्येन जाड्याधिक्यात् ॥ १॥ चक्षुरादिग्राह्यतार्थं पुनराह- त्रिवृत्लत्या त्रीणि पुनः ॥ २॥ त्रिदिति त्रिवृत्कृत्या त्रिवृत्करणेन त्रीणि तेजोजलक्षितिनामानि भूतानि पुनः स्थूलरूपाणि जायन्ते । त्रिकरणं च- द्विधा क्षित्यम्बुतेजांसि कृत्वाऽऽद्यांश्च पुनर्द्विधा । स्वस्वेतरद्वितीयांशैर्योजनात्ते त्रयस्त्रयः । इत्युक्तम् ॥ तथा हि श्रूयते-तासां ऋितं त्रिसृतमेकैकामकरोदिति । तथा च सत्येक स्याष्टांशाः परयोस्तु द्वयोश्चत्वारश्चत्वारोंऽशा मिलित्वा वित्कृतानि भवन्तीति भावः। एवं च तत्तद्भागयोंः पुनः संश्लेषन्यूनाधिकत्वाभ्यां त्रिवृत्कृतानि बहुधा जायन्ते । तथाचोक्तं- पुनस्त्रिवत्कृताण्यूना(1) मिथो न्यूनाधिकत्वनः । सनिवेशविशेषाच स्थूलानि तान्यनेकधा ॥ इति । तानि च तज्जननशक्तनिरुद्धवृत्त्या स्वोपादानभूतसूक्ष्मरूपतामाधातुं शक्नुवन्ति । तच्छक्तेः पुनः स्फुरवृत्त्या पूर्ववद्भवितुमईन्ति च । तवृत्तिश्च बहिर्व्यापारेणान्तः प्रक्रियया च जनयितुं शक्येति ॥ २ ॥ लोहितशुक्लकृष्णवन्ति च ॥३॥ लोहितेति । लोहितशुक्लकृष्णवन्ति रजःसत्वतमोयुक्तानि त्रीणि क्रमा- द्भवन्तीत्यर्थः। ननु भूतानामन्योन्यव्यामिश्रत्वे कथमाकाशादिनामानि भवन्तीत्याह-- वैशेष्यावादः ॥४॥ वैशेष्यादिति। वैशेष्यात्स्वस्वभावाधिक्यात्तद्वाद आकाशादिनामोल्लेख एतेन शब्दाधिक्ये सति पञ्चीकृतत्वमित्याकाशलक्षणम् । एवं वाय्यादेरपि बोध्यम्॥४॥ अथ पञ्चानां पञ्चान्तकमाभिव्यक्तिः ॥ ५॥ अथेति । अथ पञ्चीकरणाद्यनन्तरं पञ्चानां शब्दादीनां पश्चान्तक्रमाभि- व्यक्तिः । पञ्चान्तक्रमेणैकद्वित्रिचतुष्पञ्चेति क्रमेणाभिव्यक्तिविशेषेणाऽऽविर्भावो व्योमादिषु भवतीत्यर्थः । तथा च गुणतत्कार्ययोर्योगवैचित्र्येण पञ्चीकृतात्रि बृत्कृताद्वा प्रपञ्चाच्छब्दादयो व्यञ्जन्ति । तयं तद्विशेष:- -- ४ प्रपाठः ] निरञ्जनभाष्यसेमतम् । २१ व्योम्नि प्रतिध्वनिः शब्दो वीसिवीसीति मारुते । अनुष्णशीतलः स्पर्शो वह्नौ भुगुभुगुध्वनिः ॥ उष्णस्पर्शो रक्तरूपमप्सु चुलुचुलुध्वनिः । शीतस्पर्शः शुक्लरूपं रसस्तु मधुरस्तथा ॥ क्षितौ कडमडादि शब्दः सर्शस्त्वकोमलः। नीलरूपं रसस्तत्र मधुरादिरनेकधा ॥ सुरभिपूतिगन्धौ द्वावेते निसर्गजा गुणाः । श्वेतत्वं शीतलत्वं च यच्चन्द्रमास भासते ॥ तत्तत्र सलिलांशस्य मिश्रस्य प्रबलत्वतः । दिङ्मात्रमिदमत्रोक्तं स्वधर्म जडवस्तुषु ॥ अन्यदप्यनुसंधेयं मनीषिभिः स्वसंविदा ॥ इति । यत्तु केचित्तेजसो रूपं शुक्लभास्वरमिति प्रलपन्ति तत्प्रत्यक्षविरोधायदमे- रोहितं रूपं तेजसस्तद्रूपं यच्छुलं तदपां, यत्कृष्णं तदन्यस्येति श्रुतिविरोधाच मनस्विभिरुपेक्षणीयम् । ननु शब्दाद्युपादानकानामाकाशादीनां शब्दादयः कथं प्रतिक्षणं नानुभूयन्ते संनिकृष्टानां मृन्मयादीनां मृदादिवदितिचेन्न व्योमादिगतानां शब्दादीनां कर्मादिगतशब्दादिभिरेकीभूतत्वेन भेदाभानात् । यदा पुनस्तेषां प्रतिघातादिभिः कर्णादिगतेभ्यो भिन्नतयाऽवभासनं तदेवाः- नुभूतिस्तेषामित्यवधेयम् । तथा च । शब्दादीनामभिघाताद्युत्पन्नशक्त्या वह्निना सीरवत्पञ्चीकृतेषु विक्षोभमाणानां पुनः प्रसारणेनैव कर्णादिसंपर्काब्राह्यतेति भाव्यम् ॥५॥ संनिवेशादण्डानि ॥६॥ समिति । संनिवेशान्महाभूतानां भागसंश्लेषविशेषादण्डानि ब्रह्माण्डानी- मान्यजायन्त । तथाच पैङ्गलश्रुतिः-जगद्योनिस्तमोगुणमधिष्ठाय सूक्ष्मतन्मा- त्राणि स्थूली कर्तुं सोऽकामयत सृष्टिपरिमितानि भूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशः पञ्चपञ्चधा संयोज्य पञ्चीकृतभूतै- रनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितचतुर्दशभुवनानि तत्तद्भुवनोचितस्थूलश- रीराण्यमृजदिति । एतेन त्रिवृत्करणमप्याख्यातमन्यथा वाह्यान्तर्गतानां तेजः- प्रभृतीनां स्फुटतानुपयोगेन व्यवहारानहता स्यात् । एतेषामेव संयोगविभाग- धर्मादिमत्परमाणुरूपाणां शक्तिविशेषाविर्भावाद्विश्ववैचिच्याणि जायन्ते । अत एव पुराणं वैश्वरूप्यात्प्रधानस्य परिणामोऽयमद्धत इति । तत्र च पञ्ची. करणान्ता सृष्टिरीशस्यैव । ततः परं तु जीवस्यापीति गवेषणीयम् ।
२२ - सिद्धान्तदर्शन- [ १ प्रकृतिपाठे- न चास्य परमाणुरेवाऽऽरम्भको न पुनस्तत्प्रकृतिरभ्युपगम्योत कणभक्षा- क्षपादाद्युक्तं युक्तमिति वाच्यं, संयोगस्याव्याप्यवृत्तित्वेन तस्मिन्निरवयवे तदसंभवात् । यद्यत्सगुणं सक्रियं वा तदनित्यं घटादिवदित्यादिव्याप्त्या परमा. णूनामनित्यत्वावगमात्यागुक्तश्रुतिस्मृतिपुराणोक्तिविरोधाच । एतदुक्तं भवति- प्रागेकं ब्रह्मैवाऽऽसीद्ब्रह्मणो मूलप्रकृतिर्मूलप्रकृतेरव्यक्तमव्यक्तान्महन्महतोऽहंका- रोऽहंकारात्पञ्चतन्मात्राणि पञ्चतन्मात्रेभ्यः सर्वेन्द्रियाणि प्राणाः पञ्चमहा- भूतानि च पञ्चमहाभूतेभ्योऽखिलं जगदिति । अत्रायं निष्कर्षः- प्रकृत्युन्मीलनं कालो जन्योत्पत्यादिहेतुतः । दूरान्तादिधीहेतुत्वादवकाशो दिगुच्यते ॥ प्राच्यादिनामिकाऽप्येषा व्यक्तिर्जातिमती स्मृता । गुणानामाकृतिर्वाऽपि संस्थानं जातिरुच्यते । भवत्येवं वृत्तिरिच्छा वृत्तिः कार्योन्मुखी कृतिः। निवृत्तिरन्तरास्या चेत्पत्तिर्वहिरधिका ॥ प्रतिहता प्रत्तिश्चेत्क्रोध इति च भण्यते । प्रीतिप्रतिकूलश्चेतोविकारो द्वेष उच्यते । इच्छाविरोधिनी वृत्तिः सैव द्वेषो निगद्यते ॥ या योगध्वंसकृच्छक्तिरसौ विभागनामिका । पतनाद्यनुकूला या शक्तिर्गुरुत्वमुच्यते ॥ प्रतातिभदेकृच्छाक्तः परिणामादिरीरिता । सत्ताविरोधिनी शक्तिरभावनामिकोच्यते ॥ तथाऽन्येऽपि पदार्था ये काणादन्यायसंमताः । तेऽपि त्रिगुणवत्कार्यरूपा हि तत्तदाख्यया । लोकैर्व्यवह्रियमाणा वेदितव्या यथायथम् । शक्तिबोधं विना कुत्र वस्तुनिरूपणे क्षमः ॥ तत्तत्वं वेत्ति चेत्सर्वे भावाः स्युः करगाः स्वयम् ॥ ७ ॥ गुणगुणियां द्वौ प्रारम्झौ ॥ ७ ॥ गुणेति । इह खलु प्रपञ्चेषु द्विविधाः परिणामा गुणपरिणामा गुण- परिणामाश्च । तत्राऽऽद्या अव्यक्तमहदहंकारपञ्चतन्मात्रसन्द्रियप्राणाया द्वितीया अपञ्चीकरणगुणपञ्ची कृताद्या सर्वत्र परिणाम एव वेगक्रियाकर्ष- णादिनामा भवति । स च पञ्चीकृते विजृम्भमाणस्त्रिवृत्कृतेऽपि कार्यलि. ड्रेनानुभूयते सर्वत्र स्वातन्त्र्यण व्याप्रियते च । सत्त्वसमष्टिपरिणामरू.
४ प्रपाठः] निरञ्जनभाष्यसमेतम् । २३ पान्तःकरणे पुनर्जम्भमाणस्य सत्वादेः परिणामभेदो ज्ञानेच्छाद्वेषादिरूपो जायते । गुणव्यासत्तिर्हि काचनापौरुपेयहेतुना काचन वा पुरुषी. यकृतिभेदेन पञ्चीकृनादौ जायमाना विचित्रव्यापारवत्तया भुवि भासते । अत एव पुरा ज्यौलिपिकैर्विनिर्णीता चलिष्णुविशेषाणां माध्याकर्षणी मात- ण्ड स्थग्रहाकर्षणी च साधु संगच्छते । तेजोजगति तु संपर्कजा रजःपरिणतिर- पञ्चीकृता तरसा विलसन्ती स्वाश्रयस्य कस्याप्ययस्कान्तादिधर्म, यत्रयोगाव- धार्य जनयति । एतद्विद्या पुनः शाक्तयी गौणायनी भौवसी चाभिहिता । अनयैव चुंबकीयवार्ताद्याविर्भावोऽपि भाव्यः । यथाऽऽहु:- गुणवृत्तिरसंभूय संभूय चोपजायते । रजःसमष्टिश्चपला भूनसंपर्कतोऽसुचत् । यथेन्द्रियगणो लिङ्गैर्यत्रस्थ एव दीव्यति । गुणस्यान्यविकारोऽपि यन्त्रेणैव विचित्रकृत् ॥ इति । गुणिपरिणामश्च सर्वत्र गुणजम्भणेनैव जायते । एवमन्यत्सर्वं स्वसंविदाऽनु. संधेयम् ॥ ७॥ बीजशक्तिर्विस्फुरन्ती त्रिवृत्त्या चिनोत्यणीयसः ॥ ८॥ बीजेति । बीजशक्तिगुणात्मका जन्यानामुपादानभूता विस्फुरन्ती वार्चि- रादियोगेन संनिवेशरूपतामाप्नुवती । अणीपसः सूक्ष्मांशपुञ्जांत्रिवृत्कृत्या पञ्चीकृतेभ्यः प्रपञ्चेभ्यस्त्रिवृत्करणेन चिनोति तत्तदाकारं संनिवेशयतीत्यर्थः । तत्र च प्राणिनामन्नोपजीवित्वादन्नमेवाऽऽदिवीजं तदङ्गानामिति प्राकृत- सर्गः * ॥८॥ जन्तूनामिहोत्पन्नानामपि प्रकृतिभेदोपचयात्समृद्धिरसमृद्धिर्वा भवितुमर्ह- तीति प्रपञ्चयन्नाहा मूर्धनीनविपरिणामः प्रकृतिपूर्तेः कीटवत् ॥ ९ ॥ मूर्धनीनेति । मूर्द्धनीनविपरिणामो मूर्धनीनानां शीर्षस्थयवाणां विपरि- णामो विकृत्यन्तरोत्पत्तिः । कुतः प्रकृतिपूर्तरवस्थान्तरोत्पादकशक्तेः पूर- णात्कीटवत्कीटस्थेव तैलपादेर्धमरदष्टस्य । तथा च चिन्ताभेदेन कालभे- देन सङ्गादिभेदन वा क्रमशः प्रकृतिविशेषोपचयान्मूर्धनीनविपरिणामेन कायेन्द्रियविकारापादकेन जात्यन्तरमुत्पद्यते वल्मीक्यादीनां तु जातु प्रकृ. तिपूर्त्या पक्षोद्गमादिदर्शनादन्यथाऽपि विकृतिः संभवति प्राणिनामित्यवधे. यम् । तथा च योगसूत्रं " जात्यन्तरपरिणामः प्रकृत्यापूरात्" इति । अत * अत्र प्राकृतसृष्टिीवसृष्टिस्तत्प्रक्रिया च वातिके द्रष्टव्या । ..
२४ सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- एव डुण्डुभस्य विले कुण्डलीकृत्यावस्थितस्य कालभेदेन कुण्डलसंश्लेष- प्राप्तेः स्थलकूर्माकारमाप्तिरिति शुश्रुम । एतेन समाधिजादपि मूर्धनीन. भेदादङ्गानामन्यथाभावो भवितुमर्हतीत्यपि सूचितम् । एवं च सति नन्दी. श्वरनहुषादीनां देवतिर्यक्त्वोपाख्यानमपि संगच्छते । अत्रेदं बोध्यम् - गवाश्चादीनां यत्मकृष्टं ज्ञानं नैपुण्यं च नावलोक्यते तत् तन्मूर्धनीनस्य दौवी- ल्यान्मनुजानामपि तथात्वं चेत्तथैवावलोक्यतामत एव चिन्ताचिकीर्षुणामांप न यावन्मूर्धनीनपावल्यं तावद्ध्यानधारा न संभवेदिति ॥९॥ प्राणिसृष्दैविध्यमाह- द्विधाऽसुमन्तः क्रमझैतरबीजाभ्याम् ॥१०॥ द्विधेति । असुमन्तः प्राणिनः क्रमीतरबीजाभ्यां क्रमोन्नतिक्रमावनत्योः शक्तिविशेषाभ्याम् । तत्राऽऽद्यस्य बाहुल्यं भोगभूमौ, द्वितीयस्य तु कर्मभूमौ द्रष्टव्यम् । अत्र च मनुजेषु ये क्रमर्दिबीजिनस्तेषां मागवनतिर्ये च क्रमावनतिबी. जिनस्तेषां प्रागुन्नतिरनुमीयतां वियति विहंगानामिवोर्ध्वाधोगामिनाम् । वैदि- कानुष्ठानात्तु शक्यतेऽन्यथयितुमिन्दुगत्या सरिदिव बीजशक्तिरिति भारते वेदसः माचारः। (क)॥१०॥ तद्वतोर्युगानि व्यस्तैककमान्याम् ॥ ११ ॥ तद्वतोरिति । सदतोः क्रमीतरबीजवतोय॑स्तैकक्रमाभ्यां व्युत्क्रमानुक्र. माभ्यां युगानि सत्यत्रेताद्वापारकलिसंज्ञकानि प्रतिभान्तीत्यर्थः । तथा च क्रमोन्नतिवीजिनां कल्यादिसत्यान्तानि क्रमावनतिबजिनां तु सत्यादिकल्य- न्तानि युगानि वर्तन्ते ॥११॥ तत्रापि माणिप्रकृतेर्वैचिच्याज्जात्यादेर्नानात्वमाह- गणेयो भेदो जातिक्रियाकालानाम् ॥ १२ ॥ गुणेभ्य इति । गुणेभ्यः सत्वरजस्तमोभ्यः संनिवेशविशेषापन्नेभ्यो भेदो ना- नात्वं केषां जात्यादीनाम् । अत्र जातिर्ब्राह्मणत्वादिः । यथा शुद्धसत्त्वेन ब्राह्मणः (क) इन्दुगत्येति । यथा नैसर्गिकदक्षिणास्यतया प्रवहमाणाऽपि सुरसरिच्चन्द्रमसो गतिभेदेन धिविक्षोभात्पुनरुत्तरस्यां वहति तथा कर्मभूभवानां निभ्राभिरुचिरपि चित्तनदी वैदिकानुसरणे- 'यसत्त्वगुणविक्षोभात्प्रत्यावर्तते। तदुक्तं योगभाष्ये चित्तनदी नामोभयतोवाहिनी भवति । वहात पापाय चेति । अत एवोक्तं तत्वदर्शिभिः-कर्मभूमानवे न्यस्तं दिव्यज्ञानफलस्य जिं तद्भरि सुम्लानमसेकात्कृतिवारिण इति । तथा च वैदिकानुष्ठानाजायमानेन शक्तिवि: विरुद्धशक्त्यभिभवादान्मोन्नतिर्भारतजन्मिनामित्युपपन्नम् । सा च कर्मभूमितो विशिष्यते धशक्त्यभिभवेन जायमानत्वान्मांसरोटिकाद्युपभोगेनोपचीयमानाच्छरीरबलानियुध्य नियुध्य जायमानं यद्दलं तदिति सिद्धान्तवार्तिकम् ।
४ प्रपाठः ] निरञ्जनभाष्यसमेतम् । सत्त्वाश्रयरजःमाधान्येन क्षत्रियः। तमोगुणाश्रयरजःपाधान्येन वैश्यः। रजो. गुणाश्रयतमःमाधान्येन शूद्रो जायते । एतदेव भनिम्नाऽऽह श्रुतिः-ब्राह्मणोऽस्य मुखमासीद्धाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पझ्या शूद्रो अजायतेति । व्यक्तमाह स्मृतिः-चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । एवं ब्राह्मणा- दिषु सत्त्वादीनां संग्रामो गुणविशेषेण सह नैसर्गिको जायते । यथाऽऽहुः- सत्त्वस्य रजसा द्वंद्वं सत्वेन रजसस्तथा । रजसस्तमसा साध तमसो रजसा क्रमात् ॥ इति । ते च क्रमात्पशान्तैश्वर्येहामूढस्वभावास्तथा तत्र पारलौकिकैहिकानुरा- गयोः माधान्यादेवासुरावपि बोद्धव्यौ । तथा च श्रुतिः-द्वया ह प्राजा- पत्या देवाश्चासुराश्च । स्मृतिश्च द्वौ भूतसौ लोकेऽस्मिन्दैव आसुर एव चेति । तत्राऽऽमुरः पुनहिंसामावल्येन राक्षसोऽप्युच्यते । एवं च लोकानामिह कस्यचिदुच्चवमनि कस्यचित्कुपूयकर्मणि प्रत्तिदर्शनाकथितश्रुतिस्मृतिभ्यां च प्रकृतिसिद्धैव जातिभिदा न काल्पनिकी । सा च भोगभूमावप्यस्ति परंतु तत्र- त्यानां बीजपुरुषस्य तदानीतनविषेक शक्त्यस्फुरणेन तत्र जायमानेषु भूयसा. मेव रजःप्राबल्येन वैदिककर्मानुष्ठानविरहेण च नास्ति ब्राह्मण्यादिपविभागः कर्मभूवदिति मन्तव्यम् । क्रिया शमशौर्य कृषिसेवादिः । तत्र शमादिर्जाह्म- णस्य, शौर्यादिः क्षत्रियस्य, कृष्यादिशस्थ, सेवादिः शूद्रस्य । तथा च स्मृतिः- शमो दमस्तपः शौच सान्विराजयमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।। इत्यादि । कालः सत्यादिः । तथा चाऽऽहु:- कालः सत्वाधिकः सत्यं त्रेता प्रोक्तो रजोधकः ।। तमःश्रितरजोदीप्तो द्वापरस्तामसः कलिः । देवगे रक्तः पीतः कृष्णो वर्णोऽप्येवं युगानुमः ॥ इति ॥१२॥ भावोजाऽनुन्यासम् ॥ १३ ॥ भावेवि । अनुन्यासं गुणानां संनिवेशमनतिक्रम्प । भावोद्भा, आशयोन्मी- सनम् । तथा च ब्राह्मणादीनां यादृशेनैव गुण वन्यासेन प्रकृतिजायते भावोजी सारगेव स्फुरतीति भावः ॥१॥ नोन्मेषश्चेत्स्ववृत्तेरन्यजातीयाः॥ १४ ॥ नेति । स्ववृत्तेः स्वधर्मस्य गुणविन्यासवशाद्राह्मणस्य शमादेः क्षत्रियस्य सौर्यादेर्वेश्यत्य कुष्यादेः शूद्रस्य सेवादेरुन्मेषः स्फुरणं चेन्न भवति तान्यजा. - - - सिद्धान्तदर्शनं- [१ प्रकृतिपाठे- २६ तीया भिन्नजातीयास्ते भवन्तीत्यर्थः। तथा हि शमाद्यस्फूर्ती शौर्यादिस्फुरणं चेहि ब्रह्मकुलोत्पन्नोऽपि क्षत्रियजातीयः । यदि पुनः शौयाद्यस्फूर्ती शमा- दिस्फुरणं तर्हि क्षत्रियकुलोत्पन्नोऽपि ब्राह्मणजातीयः । एवं वैश्यशूद्रयोरपि बोध्यम् । ब्रह्माकारवृत्तेः प्रावल्ये तु विवर्णानामपि ब्राह्मण्यमाह श्रुति:- वृत्तिस्थमपि चाण्डालं तं देवा ब्राह्मणं विदुरिति । अत एव विजृम्भितब्रह्म वृत्तीनां वशिष्ठादिभिः पुनः परीक्षतानां गाधेयसूतादीनां भिन्नजातीयानामपि पुरा ब्राह्मणत्वमलंकृतमासीदितीतिहासः संगच्छते । एतस्मादपि रहस्यार्था. च्छास्त्रविरुद्धार्थी बहुधा समाधेयाः। एवं च सति प्राणिप्रकृतेर्गुणम- यत्वेन जात्वपि सत्त्वोद्रेकाद्भोगभूचराणामप्युद्त्या शौचाचारादौ प्रवृत्तेर्ना नुपयोगः ॥ १४ ॥ भावो दुर्वारः ॥ १५॥ भाव इति । भावः स्वभावः प्राणिनां जन्मान्तरकृतशुभाशुभसंस्कारो वर्तमानजन्मनि स्वकार्याभिमुखत्वेनाभिव्यक्तो दुर्वारो वारयितुपशक्यस्तस्य बलीयस्त्वादिति भावः ॥१५॥ इदानीं पूर्वमस्थितस्योत्पत्तिं वारयति- नासदुत्पद्यते नृशृङ्गवत् ॥ १६ ॥ नेति । असदविद्यमानं वस्तु । अत एव भगवानाहनासतो विद्यते भावो. नाभावो विद्यते सत इति ॥ १६ ॥ ननु विद्यमानस्यैव जायमानत्वे कार्यजातं. जन्मनः प्राकुत्र तिष्ठतीत्यतस्तस्य कारणरूपतावस्थानं प्रमाणयति- प्राकृतं व्याप्त्यागमाभ्याम् ॥ १७ ॥ प्राकृतमिति । प्रकृति मोपादानं यथा घटस्य मृत्स्ना पटस्य तूलकं तत्र वसति तदाकारतया तिष्ठतीति प्राकृतं घटादिका, जन्मनः प्राङ्मृदाद्याकारेण मृदादौ विराजतीति भावः। किंतज्ज्ञापकमित्यपेक्षायामाह-व्याप्त्यागमाभ्यामिति । तत्र व्याप्तिर्याद्धि यदात्मना यत्र न वर्तते न तत्ततो जायते यथा सिक- ताभ्यस्तैलमिति । आगमश्च । सदेव सौम्येदमग्र आसीत्स्वस्मिन्विलीनं सकलं जगदाविर्भावयति प्राणिकर्मवशादेष पटो यद्वत्प्रसारितस्तद्धीदं तीव्या. कृतमासीनामरूपाभामेव व्याक्रियतासौ नामायमिदं रूपमित्यादिश्रुतिः । स्मृतिश्च- आसीदिदं तमोभूतमप्रज्ञा तमलक्षणम् । अप्रतय-विज्ञेयं प्रसुप्तमिव सर्वतः ।। इति मन्वादिः। - -
४ प्रपाठः ]
निरञ्जनभाष्यसमेतम् ।
२७
-
अत एवोक्तं वाशिष्ठे--
फलपुष्पलतापत्रशाखाविटपमूलवान् ।
वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् ॥ इति ।
तथा च कारणत्वेन जगतामनादित्वं सादित्वं तु कार्यत्वेनेति बोध्यम् ।
एतेन कार्यकारणयोरुपादेयोपादानयोरनन्यत्वमपि वस्तुतो व्याख्यातम् ।
तथाहि पटस्तन्तुभ्यो न भिद्यते तद्धर्मत्वात् । अत्र यतो यद्भिद्यते तत्त.
स्य धर्मो न भवति । यथा गोरश्वस्येति । एवं च सदेवाऽऽसीदसदेवाऽऽ.
सीदिति श्रुत्यर्थयोर्मायानिमीलनोन्मीलनकालाभ्यापविरुद्ध तैव तत्कालयोः
क्रमात्मपञ्चस्य सदसत्पदवाच्यघुप्रकृत्याकाराभ्यामेव विराजमानत्वात् ।
तत्रासत्पदस्य नामरूपाभ्यामपाकृतमित्यर्थो वा । ये चात्राल्पदर्शिनः
स्वपक्षरक्षणाय शङ्कामपनीय श्रुतिवाक्यस्थं मायाविद्याभकृतिपदमदृष्टादिप-
रमित्याचक्षाणा अभिमन्यन्ते, ते तावदजामेकां लोहितशुक्लकृष्णां वहीं:
प्रजाः सृजमानां सरूपाः । गुणमयी गुणसाम्याऽनिर्वाच्या मूल प्रकृति-
रासीत् । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्त
सर्वमिदं जगदित्यादिश्रुत्युक्तानि प्रकृतेरजत्वैकत्वत्रिगुणत्वजगदुपादानत्वा-
दीनि नोत्पश्यन्ति । न खलु तस्यां जगन्मातरि तागपार्थाचरणेऽपि तेषाम-
वद्यवादमुत्पश्यामः श्रुत्यनुरक्तिविरहेणाजधीत्वात् । ततश्च सर्वेषामेव जगतां
परिणाम्युपादानं श्रुतियुक्त्यनुभवसिद्धम् । शून्यारम्भादिवादस्तु स्थितोऽपि न
शास्त्रसिद्धान्तितः । यदि च प्रधानकारणवादोऽपि परमार्थतः श्रुतेरसंमत एव
तथाऽपि लोकदृष्टौ तदभिमतत्वेन मन्वादिभिः परिगृहीतत्वाद्धार्थे ग्रहीतव्यः।
परमाण्वादिकारणवादस्तु श्रुत्यनभिमतत्वादन्यैः कैरपि शिष्टैरपरिगृहीतत्वाञ्च
धर्मकर्मणि नोपादेयः ॥ १७ ॥
ननु घटादिकार्यजातं प्रागुत्पत्तेदादौ स्थितं चेत्तार्ह कथं तत्र तन्नानुभू.
यत इत्याह-
सतोऽप्यसंप्रयोगः प्रक्षीणत्वात्सान्याज्यवत् ॥ १८ ॥
सतोऽपीति । सतोऽपि प्रागुत्पत्तेः कारणाकारेण तिष्ठतोऽपि कार्यजातस्या-
संप्रयोगश्चक्षुरादिसंनिकर्षों न भवति कुतः प्रक्षीणत्वादतीव सूक्ष्मत्वात्सा.
न्याज्यवत् । यथा क्षीरे तिष्ठतोऽपि हविषः कारणव्यापारान्मन्थनादेः प्राग
संनिकर्षस्तद्वदित्यर्थः ॥ १८॥
- २० सिद्धान्तदर्शनं [१ प्रकृतिपाठे- तोत्पत्तिनाशौ कीदृशावित्याह- उत्पत्तिरभिव्यक्तिः ॥ १९॥ उत्पत्तिरिति, अभिव्यक्तिः कारणव्यापारेण पीनतया प्रकाशः ॥ १९ ॥ नाशः कारणावशेषः ॥ २० ॥ नाश इति । कारणमुपादानं तदवशेषः कारणावशेषः प्रक्षीणतया पुनरव- स्थानमित्यर्थः । स च द्विविधः परिणाम्यवशेषो विवर्त्यवशेषश्च । तत्र, आयो ध्वंसो द्वितीयो बाध रुष एवाऽऽत्यन्तिको नाशः। प्रलये प्रकृती जीवानां लपस्तु नाऽऽत्यन्तिकः सर्गोत्पत्तौ पुनरुत्थानात् ॥ २० ॥ प्राग्वत्कल्पान्तरस्थाः॥ २१ ॥ प्राग्वदिति । पूर्वस्मिन्कल्पे सूर्यादयो यथाऽऽसन्परस्मिन्नपि तथैवेत्यर्थः । तथा च श्रुति:- सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वरिति । स्मृतिश्च- युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः । लभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ।। तेषां ये यानि कर्माणि प्राक्पृष्टयां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यपानाः पुनः पुनः ॥ हिंस्राहिले मृदुकरे धर्माधर्मावतानृते । सद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवेभ्यो ददात्यजः॥ इति । किंतु शक्तैनवनवोज्जृम्भणात्पूर्वपूर्वकालजातानामुत्तरोत्तरजन्मनि प्रकृत्याक. तिसंनिवेशादेः सर्वथा नैकरूपता स्यादित्यवधेयम् ॥ २१ ॥ ननु महाप्रलये ब्रह्माणि लीयमानायाः प्रकृतेः कुतः पुनः स्फुरणमित्या- शङ्कायामाह- स्फूर्तिरजायाः प्राचीनकर्मयोगाज्जागरवत् ॥२२॥ स्फूर्तिरिति । अजायाः प्रकृतेः स्फूर्तिः पुनः स्फुरणं प्राचीनकर्मयोगाद्वीजभू- तजीवादृष्टसंपर्काजागरवत्प्रसुप्तस्य पुनःप्रबोधवत् । तथा च प्रकृतितद्गुणतच्छ- तीनामवस्थे द्वे निमीलनमुन्मीलनं चेन्दुवादिति फलितम् ॥ २२॥ RAA
४ प्रपाठः] . निरञ्जनभाष्यसमेतम् ।
२९
ननु पञ्चतन्मात्रादीनां परस्परचैलक्षण्यात्पदार्थान्तरता कुतो न स्यादित्या-
शङ्कमानं बोधयति-
नान्या विकृतिविकात् ॥ २३ ॥
नेति । विक्रियते या सा विकृतिरन्या प्रकृतितो भिन्ना नेत्यन्वयः ।
विवेकाद्विचारदृष्टेः । तथा हि घटायाकारमापनाऽपि मृन्मृदेव न सुवर्णादिः ।
अत एव श्रुतिः-वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति । इत्थं
हि सिद्धान्तागमे कार्यकारणयोरभेदेऽपि जलतरङ्गवत्कथंचिद्भेदविवक्षयाऽऽश्र.
यायिभावव्यवहारः ॥ २३ ॥
इदानीमभावं विभजते-
द्वावभावौ संसर्गान्योन्याभावौ ॥ २४ ॥
द्वाविति । न हि कश्चिदभावो नाम पदार्थः स्वतत्रो वर्तते । किं त्वसौ सत्ता.
विरोधिशक्तिरेन यथा गृहाटापनयनेन तत्र तत्सत्तारोधिनी शक्तिराविर्भ
वति पुनस्तदानयनेन ततस्तिरोधत्ते चेति ॥ २४ ॥
तत्र संसर्गाभावं विभजति-
चतुर्धाऽऽद्यो ध्वंसपागत्यन्तकेवलाभावभेदात् ।। २५॥
चतुर्धेति। तत्र यसो नाशो यथा घटो ध्वस्तो भविष्यतीति प्रतीतिविषयो
योऽभावः स भागभावो यथाऽस्मिन्भूवलादौ घटो भविष्यति । त्रैकालिकसंस-
गांभावोऽत्यन्ताभावो यथा नृशृङ्गं नास्ति नान्तरीक्षेऽग्निश्चेतव्यः । तेभ्योऽन्यो
यः संसर्गाभावः स केवलाभावो यथा गृहे घटों नास्तीति ॥२५॥
सापेक्षो द्वितीयः॥२६॥
सापक्षति । सापेक्षः प्रतियोग्यन्तरापेक्षो द्वितीयोऽन्योभ्याभावो यथा घटो
न घटादन्यो वा भेदादिशब्देनाप्ययमुच्यते । स चात्र कपालापेक्षया स्वगतो
गृहान्तरीयघटापेक्षया सजातीयः । पटाद्यपेक्षया विजातीयश्च प्रतिभासते ।
अतोऽत्र द्वितीयः प्रतियोगी पटादिरिति स्मर्तव्यम् ॥ २६ ।।
सर्गाप्ययावभिवृत्तिभ्याम्॥ २७ ॥
सर्गेति । सर्गाप्ययौ सृष्टिपलयावभिवृत्तिभ्यां बाबान्तराभिमुखवृत्तिभ्यां
तथा च प्रकृतेर्यदा बहिःभवणवृत्तिस्तदा सर्गो यदा पुनरन्तःप्रवणवृत्तिस्तदा.
ऽप्यय इति भावः ॥ २७ ॥
३०
सिद्धान्तदर्शनं-
.
[१ प्रकृतिपाठे-
%-
--
तत्र महाप्रलयमाह-
निमेषाद्विप्रलयः ॥ २८॥
निमेषादिति । निमेषात्मकृतेरस्फुरणाद्विपलयो व्युत्क्रपेण प्रलयः स्वका-
रणावस्थानं जगतामित्यर्थः । तथा च-स्वस्वकारणलयक्रमेण सर्व जगत्प्रकृतौ
प्रलीयते प्रकृतिरपि तदानीं ब्रह्माण लीनैव भवतीति भावः । प्रलयस्य
चातुर्विध्यमाह विष्णुपुराणम् -
नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिको द्विज ।
नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥
ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः ।
प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ।।
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यं सदैव जातानां यो विनाशो दिवानिशम् ॥ इति ॥२८॥
अत्र प्रकृतिपरिणामेन सृष्टिप्रपश्चाख्यातत्वादयं प्रधानवादः स्यादित्या.
शङ्का निराकरोति-
नाभिदायत्तियां प्रधानापादः ॥ २९ ॥
नेति । प्रधानापादः सांख्यशास्त्रीयप्रकृतिकारणवादापत्तिर्न भवति कुतोऽ-
भिदायत्तिभ्यां पुरुषात्पधानस्यास्य पृथगस्तित्वविरहात्परतत्रत्वाच ॥ २९ ॥
नन्वद्वैतामृतवर्षिणी श्रुतिः किमर्थ सृष्टयुत्पत्तिमवददित्यत आह-
विज्ञप्तये हि सर्ग जगी जगौ ॥ ३० ॥
इति प्रतिपाठे चतुर्थः प्रपाठः ॥ ४ ॥
इति वैयासिके सिद्धान्तदर्शने वेदान्तविज्ञाने परापरतत्त्व-
निरूपणे प्रथमः प्रकृतिपाठः॥१॥
विजप्तय इति । विज्ञप्तये ब्रह्मणो ज्ञापनाय सर्ग सृष्टिभपश्चं द्वैतादर्शनमन्त-
रेण तदपेक्षस्याद्वैतप्रतिपादनस्य केनाप्यनहत्वादिति भावः । न पुनर्वस्तुधियेति
हेरर्थः । अत एव श्रुति:-
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वा मुक्त इत्येषा परमार्थता ॥ इति
अत्र पदविरुक्तिः पाठसमाप्तिं द्योतयति ।
श्रुतिस्मृतिपुराणानां युक्तेरप्येकतानतः ।
तत्त्वं सिद्धान्तितं तस्मादिदं सिद्धान्तदर्शनम् ॥ ३०॥
४ प्रपाठः ] निरञ्जनभाष्यसमेतम् ३१ इति प्रकृतिपाठे चतुर्थः प्रपाठः ॥ ४ ॥ इति वैश्वदेवे भाष्ये निरञ्जनाख्ये प्रथमः प्रकृतिपाठः॥१॥ अथ द्वितीयः पुरुषपाठः । तत्र प्रथमः प्रपाठः। प्रतिज्ञातयोः प्रकृति विस्तरेणाभिधाय पुरुषं पुनर्विशिष्य वर्णयितुं द्वितीय पाठमारभते- सच्चिदानन्दः पुरुषः ॥ १॥ सदिति । तत्र सत्केनाप्यबाध्यत्वेन कालत्रयेऽप्येकरूपेण विराजमानं वस्तु । चित्साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानं स्वस्मिन्नारोपितसमस्तपदार्थाव- भासकं वस्तु । आनन्दो निरुपाधिरनुकूलवेदनीयो यश्चैतस्यैवाऽऽनन्दस्या. न्यानि भूतानि मात्रामुपजीवन्तीति श्रुत्युक्तः । एतत्रितयात्मकः पुरुष इत्यर्थः। आनन्दं ब्रह्मणो विद्वानित्युक्तिस्तु भित्तेत्रिमितिवद्भेदविवक्ष- यैवेति बोध्यम् । अयमेव बृहत्त्वाबृहणत्वाच्च ब्रह्मेत्युच्यते । तथा चोक्तम् बृहत्वाव्हणत्वाच्च विष्णुब्रह्मेति गीयते । ननु प्रकृतिपरिणामेनैव सर्व- सिद्धौ किं पुनः पुरुषाभ्युपगमेनेति चेन, तस्याः स्वाधिष्ठानमन्तरेण स्पन्दि- तुमप्यनहत्वात् । निरधिष्ठानभ्रमासिद्धेश्च । एतेन विज्ञानवादः पीवरधिया. मेवेति सूचितम् । अत्राऽऽहु:- सच्चित्सुखं नाम रूप पश्चैवेति चकासति । पूर्वत्रिक ब्रह्मरूपं जगद्रूपं परद्वयम् ।। प्रयाणामेकता बिम्ब प्रतिबिम्ब विचित्रता । सतश्चिदात्मता बिम्बे निजाभासे जडात्मता ॥ चितस्तत्प्रतिविम्बेऽपि प्रतिभाति चिदात्मता । सविम्बस्थचिदाभासादानन्दानुभवो भवेत् ॥ इति ॥ १ ॥ ब्रह्मणः स्वरूपलक्षणपभिधाय तटस्थलक्षणमाह प्रणवार्थः ॥ २॥ प्रणवेति । प्रणवार्थः प्रणवस्याकारोकारमकारनादविन्द्वात्मकस्यार्थोऽभि. धेयः। तथा च श्रुति:-सर्वे वेदा यत्पदमापनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ववीम्योमित्येतदिति ॥२॥ नेतिनेत्यन्तः ॥ ३ ॥ नेतीति । नेतिनेत्यन्तो न तभ तदिति निषेधावधिनिषेधस्य सावधित्वा. तदवाधिरेव पुरुष इत्यर्थः । तथा हि-न खलु घटपटादिनामानि दृश्यमा- - - ३२ सिद्धान्त दर्शन- [२ पुरुषपाठे- ॥ नानि कानिचिदपि वस्तूनि स्वरूपतो विद्यन्ते तेषां मृतलायविशेषात् । मृत्तूलादीनामपि भूतेभ्यः पार्थक्यं नास्ति तेषां तत्समष्टिरूपत्वात् । भूतान्यपि पञ्चतन्मात्रेभ्यो न भिद्यन्ते तेषां तत्परिणामरूपत्वात् । न वा पञ्च तन्मात्राणि परस्परं भिन्नान्यप्यहंकारादतिरिच्यन्ते तेषां तदुपादानकत्वात् । नाप्यकार: प्रकृतितो भिमस्तस्य तद्विकृतित्वात्मकृतिरपि स्वरूातो नास्त्येव तिरोभावा- दिमत्त्वात् । नभोनीलिमरणरजतमरीचिकेन्द्रजालादिवत् । तदवधित्वेन यदस्ति वस्तु तदेव पुरुषादिपदवाच्यं ब्रह्मेत्यवधेयम् ॥ ३ ॥ त्रिकान्तभेदोनः ॥ ४ ॥ त्रिकेति। त्रिकान्तभेदोनत्रिविधपरिच्छेदशून्यस्विविधभेदशून्यश्चेत्यर्थः । तथा हि नास्यदेशतः परिच्छेदो व्यापकत्वान कालतो नित्यत्वान्नापि वस्तुतः सर्वात्मकत्वात् । तथा तस्य स्वगतसजातीयविजातीयश्च भेदो नास्ति निरवयवत्वात्सजातीयद्वितीयाभावाद्विजातीयवस्तुविरहाच ॥ ४ ॥ तत्स्वरूपस्य प्रत्यक्षायगोचरत्वं सहेतुकमाह- निरंशुद्विप्रमो नैर्धात् ॥५॥ निरिति । निरंशुद्विप्रमो निरंशू निष्पभे द्वे प्रमे प्रत्यक्षानुमे यत्र स तथा । प्रत्यक्षानुमितिगोचरो न भवतीत्यर्थः । कुतो नैधात् । जातिगुणक्रियाद्यभा- चात् । अत एव श्रुतिः-निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमः नाचं च यज्ञात्वा मुच्यते बुधः । नैषा तर्केण मतिरापनेया प्रोक्ताऽन्ये व सुज्ञानाय प्रेष्ठति। स्मृतिश्च-अचिन्त्याः खलु ये भाग न तास्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ इति ॥५॥ त्रीण्यतीतः ॥६॥ अत एव त्रीणीति । त्रीणि स्थानानि जाग्रत्स्वमसुषुप्तिरूपाणि स्थूलसूक्ष्मका- रणरूपाणि वाऽतीतोऽतिक्रम्य स्थितस्तुरीय इत्यर्थः । तथा च श्रुतिः-प्रप. चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्त इति । तत्र च बाह्येन्द्रियैरर्थोपलब्धि - गरितं, बाह्येन्द्रियविलये केवलान्तःकरणैपलब्धिः स्वमः, सर्वेन्द्रियविलये केव- लाज्ञानवृत्योपलब्धिः सुषुप्तिः। तत्र विषयाः क्रमात्स्थूलसूक्ष्मकारणरूपा वेदि. तव्याः। ततश्च जाग्रत्स्वमसुषुप्तयः सत्वरजस्तमोभ्यः क्रमाज्जायन्ते । जायमानासु तासु पुनः सत्त्वादयः प्रतिभान्ति च । जाग्रत्स्वमयोस्तु प्रकृतिभूतं तमोऽभिभूय १प्रपाठः] निरञ्जनभाष्यसमेतम् । ३३ जायमानत्वात्तयोनिमीलनेन पुनस्तदेव तमो विराजतीति सुषुप्तिर्भवति । तदेवावस्थात्रयं मलिनसत्वानां प्रकृतिसात्संपद्यते शुद्धसत्त्वानां तु स्वतत्री भवतीति । अत्र पुरुषस्य स्वप्रकाशमानत्वेन घटादिवत्स्फुरणायोगात्स्थान- प्रयातीतत्वमुक्तम् । अत एच भूयते---विज्ञातारमरे केन विजानीयादिति । समाधौ तु बुद्धेरप्यभानेन सर्वावरणविलयान्मेघमुक्तमार्तण्डवदसौ स्वयमेवो- देति । अत एवोपदिशति श्रुतिः साक्षात्कर्तव्यश्चेति ॥ ६ ॥ संप्रत्येतस्यैव निमित्तत्वमुपादानत्वं च प्रतिपादयन्नाह- निमित्तमभिध्यादित्वात् ॥ ७ ॥ निमित्तेति । निमित्तं तदाख्य कारणं भूतभौतिकानामिति शेषः । कस्माइ- भिध्यादित्वात् । स तस्याभिध्यानपूर्वकत्वात् । तथा हि श्रूयते-सोऽकामयत बहु स्यां मजायेय स ऐक्षत लोकानु सृजा इति ॥ ७ ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तैक्यश्रुतिभ्यः ॥ ८ ॥ किंच प्रकृतिश्चेति । प्रकृतिरूपादानम् । अत्र हेतुत्रयमाह-प्रतिज्ञेति। तत्र प्रतिज्ञा कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानार्था । दृष्टान्त:-यथा सौम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति । ऐक्यश्रुतिश्च सर्वं खल्विदं ब्रह्म सर्वात्मकं च परं ब्रह्म ब्रह्मैवेदं सर्वमित्यादिः । अत एव भगवान्स्मरति-विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । वासुदेवः सर्वमिति । मनुरपि-सर्वभूतपु चाऽऽ. स्मानं सर्वभूतानि चाऽऽत्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छ- तीति । पुराणं च-चासुदेवात्मकं सर्व जगत्स्थावरजङ्गमम् । आब्रह्मस्तम्ब पर्यन्तं तस्मादन्यन्न विद्यत इति । ब्रह्मणस्तु प्रकृतित्वं स्वोपाधिद्वारेण विवर्त. द्वारेण वेति बोध्यम् ॥ ८ ॥ ब्रह्मणो विश्वरूपत्वे भोक्तुभॊग्यत्वं भोग्यस्य च भोक्तृत्वं स्यादित्यापद्य- मानं वोधयति- भागादिस्तु सिन्धुवत् ॥ ९ ॥ भागादिरिति । तुरापत्तिनिरासकः । भागो भोक्तत्वभोग्यत्वादिलक्षणः, सिन्धुवत् । यथा लोके सिन्धोरुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्ग बुबुदादीनामित्तरेतरविभागः परस्परसंश्लेपादिलक्षणव्यवहारश्चोपलभ्यते तद- दित्यवः । एवं च विश्वस्य वस्तुनो ब्रह्मात्मकत्वाच्छुनौ ब्रह्माधिकारे प्रयु. तस्य प्राणाकाशादिशब्दस्यापि ब्रह्मबोधकत्वपविरुद्धम् ॥ ९ ॥ । - -- सिद्धान्तदर्शनं- [२पुरुषपाठे- ननु अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतीत्यादिश्रुतौ सर्वगतस्य तस्य कथं परिमाणोपदेश इत्याह- मानानायो हृदो युवत् ॥ १० ॥ मानति । मानाम्नायोऽङ्गुष्टपरिमाणोपदेशो हृदो हृदयाचल्लक्षीकृत्येत्यर्थः । धुवन् । यथा वंशपर्वस्थमाकाशमरत्निमात्रवद्भाति तद्वत् । तथा च नराणामेव श्रुत्यधिकारात्तेषां हृन्मानेनाङ्गुष्ठमात्रत्वमुक्तमित्याशयः ॥ १० ॥ ननु पुरुषस्य जगत्कारणत्वे केवलो निर्गुणश्चाकर्ता चैतन्यं चिन्मानं सदि- त्यादिश्रुतेः का गतिरित्यतस्तस्य निमित्ततां विशेषयति- हेतुः प्रचोदनात् ॥११॥ हेतुरिति । प्रचोदनात्मकृतेः प्रेरणात्तथा च यथा प्राविधाकामात्यादिभिः नियोज्यनिष्पद्यमानानामेव कर्मणां कर्ता राजेति तद्वदित्यर्थः । अत एव मन्त्रः-आणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्य- कर्णः । इति ॥ ११॥ तस्य दण्डचक्रकुलालादीनामिव हेतुतां वारयति- नो स्वस्मादलपत्वात् ॥ १२ ॥ नो इति । स्वस्मात्स्वरूपतो नो हेतुरित्यन्वयः । कुतोऽलेपत्वादिक्रयाद्यसंप- कानिर्लेपस्य कारणत्वानुपयोगादिति भावः । अत एव श्रुतिः-न तस्य कार्य करणं च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया चेति ॥ १२ ॥ ननु पुरुषस्य निर्लेपत्थे कथम सौ प्रकृति व्यापारयति तस्यै तरिक्रयतामिति प्रेरणाविरहादित्याशङ्कमानं पुनरपि दृष्टान्तेन बोधयति- प्रयुदिवाऽऽयुक्तौ ॥ १३॥ प्रद्युदिति । प्रद्युद्भानुरायुक्तौ व्यापारे व्यापरश्च गुणानां मिथः संपर्कः सनिवे. शविशेषो वा । स च कचिन्निमित्तस्य कचिदुपादानस्यापि धर्मः । तथा च यथा सविता न स्वयं किंचित्करोति न वा कारयति किंतु तदुदयेन लोकानां व्यापृतौ सामर्थ्य मुद्भवति, प्रकृतेव्यापारे पुरुषोऽपि तदिति भावः । एतदुक्तं भवति सर्वत्र हि हेतुकर्ता पुरुषः सवितवत्साक्षात्की प्रकृतिर्लोकवत्कर्तृत्वं च पुरुपस्य मुख्य स्वतन्त्रत्वात् । प्रकृतेः पुनगौण पुरुषतन्त्रत्वाद्वयवहारे तु पुरुषस्य त. गौण प्रकृतेर्मुख्यं राजभेष्यवत् । अत एव प्रकृतिः प्रधानमित्युच्यते । एवं च
१प्रपाठः]
निरञ्जनभाष्यसमेतम् ।
DD
ऋतं पिबन्ती सुकृतस्थेत्यादिश्रुतयोऽपि न विरुध्यन्ते । पुरुषस्य भाक्तभोक्त-
त्वादिसंभवात् ॥ १३ ॥
ननु पुरुषस्य तथात्वे गुणबोधकश्रुतीनां का गतिरित्यतस्ताः समन्व.
यति-
सगुणार्था गुणश्रुतयः ॥ १४ ॥
सेति । गुणश्रुतयः सत्यकामः सत्यसंकल्प इत्यादयः सगुणार्थाः सगुणब्रह्म
विषयाः । तथा च द्वे ब्रह्मणी परापरे निर्गुणगुणवती निरुपाधिसोपाधिके
निराकारसाकारे वा वेदितव्ये ॥ १४ ॥
चतुष्पात् ॥ १५॥
चतुष्पादिति । चतुष्पाञ्चत्वारः पादा यस्येति विग्रहः । तस्य पादत्रयं जडं
स्थूलसूक्ष्मकारणरूपं, भूर्भुवःस्वरात्मकं चतुर्थं तु जडातीतं विद्यात् । तथा च
श्रुतिः स्थूलभुग्वैश्वानरः प्रथमः पादः, प्रविविक्तभुक्तैजसो द्वितीयः पादः,
आनन्दभुक्वतोमुखः प्राज्ञस्तृतीयः पादः, प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ
मन्यन्त इति ॥ १५ ॥
विश्वाराडप्यारात् ॥ १६॥
विश्वाराडिति । विश्वेषु ब्रह्मादितृणपर्यन्तेषु राजतीति विश्वाराट् । ताह-
शोऽप्याराडूरे सत्त्वशुद्धिं विनाऽनुभाव्यत्वायोगादिति भावः ॥ १६ ॥
तर्केण सताऽऽप्यः ॥ १७ ॥
तर्केणेति । तर्केणाऽऽपत्त्या शास्त्रार्थमालोच्य स्वबुद्ध्या कल्पनोपन्यासेनेति
यावत् । सता श्रुत्यविरोधिना । आप्यः प्राप्यः। तथा च तर्केण विना वस्तुतत्त्वं
बुद्धौ नाऽऽरोहतीति तर्कोऽपेक्ष्येत किं त्वसौ ब्रह्माणि श्रुत्यविरोधेनैव कार्य.
इत्यभिप्रायः । सतेत्यनेन श्रुत्यननुकलतर्केण नाऽऽप्योऽयमिति सूचितम् ।
एतेन तर्को द्विविधः श्रीतो लौकिकश्च तद्भेदात्तार्किकोऽपि तथा। तत्र यः प्राधा-
न्यन श्रुतिमेव प्रतिपादयति स श्रौतोऽन्यो लौकिकः ॥ १७॥
नैकष्यं क्लेशापनूदनलवत् ॥ १८ ॥
नैकष्यामिति । नैकष्यं पुरुषे मनसः सीनधानं क्लेशापनुक्लेशानविद्यादि-
पञ्चकानपनुदतीत्यर्थः । किमिवानलवद्यथाऽग्नि कष्यं स्वत एव शीतमपन
यति तद्वत् ॥ १८॥
३६ सिद्धान्तदर्शनं- [२पुरुषपाठे तदन्यतमेन योगानाम् ॥ १९ ॥ तदिति । तन्नैकष्यं योगानां ज्ञानध्यानेश्वरार्पितकर्माण्यकमात्रावलम्ब पादकत्वादेक्यसंपादकत्वाद्वा योगास्तेषामन्यतमेन ज्ञानेन ध्यानेनेश्वरापित मणा वा जायत इत्यर्थः ॥ १९ ॥ मात्रा हि त्रयाणामितरत्र ॥ २० ॥ मात्रा इति । त्रयाणां सच्चिदानन्दानां मात्रा अंशा एवेतरत्र भूतेषु वर इत्यर्थः । तथा च भूतेषु ये सच्चिदानन्दा वर्तन्ते ते प्रतिबिम्बभूता एवं तात्पर्यम् ॥ २०॥ व्यनक्त्येकं तामसे ॥ २१ ॥ व्यक्तीति । एकं सचिदानन्देषु सत्स्वरूपं तामसे पञ्चीकृते मृदादौ कर तीत्यर्थः ॥ २१॥ द्वे वृत्तौ द्वयोः ॥ २२॥ दे इति । द्वयो रजस्तमसोस्तत्र रजसो वृत्तौ कामक्रोधादौ तमसो वृतौ शोकालस्यादौ द्वे सच्चिद्रूपे व्यक्त इत्यर्थः । यद्यपि घटो भाति पटो भातीति घटादावपि चिदवभासते तथाऽप्य जडत्वेनैव न तु चिद्रूपेणेति विशेषः॥२२॥ त्रीण्यवदातस्य ॥ २३ ॥ त्रीणीति । अवदानस्य सत्त्वस्य वृनौ विवेकवैराग्यादौ त्रीणि सच्चिदाना रूपाणि व्यञ्जन्तीत्यर्थः ॥ २३ ॥ तत्रयाणामितरेतरभेद निराकरोति- त्रितेतरेक्षात् ॥ २४॥ त्रितेति । त्रिता त्रैविध्यं सच्चिदानन्दानां परस्परपार्थक्यमितरेक्षाब्यवहा दृष्टेः । एतदुक्तं भवति-भेदकोपाधिविरहे त्रयाणापैक्यं विद्वदनुभवसिद्धम् एतेन सच्चिदानन्दाः प्रतिबिम्बरूपा एव भियन्ते सोपाधित्वान्न तु विम्बभू निरुपाधित्वादिति सूचितम् ॥ २४ ॥ भक्तिरारम्भात् ॥ २५॥ इति द्वितीयपुरुषपाठे प्रथमः प्रपाठः ॥
२ प्रपाठः ]. निरञ्जनभाष्यसमेतम् । ३७ भक्तिरिति । भक्तिः पुरुषानुरक्तिरारम्भादारभ्यते यः स आरम्भः कर्म, यच्च स्ववर्णाश्रमविहितमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं तस्मादित्यर्थः । एतेन स्ववर्णाश्रमाचाराननुष्ठायिनां या भगवत्प्रीतिः प्रेमाभास एव स इत्यव. गन्तव्यम् ॥ २५ ॥ इति द्वितीय पुरुषपाठे प्रथमः प्रपाठः ॥ wr - अथ द्वितीयः प्रपाठः। वक्ष्यमाणजीवब्रह्मैक्यलक्षणविषयं प्रतिपादयितुमादौ तस्य सच्चिदानन्दरूप. पुरुषस्याऽऽत्मत्वं साधयति- सन्तिरत्वादात्मा ॥१॥ सर्वेति । पुरुष एवाऽऽत्मा भवितुमर्हति कस्मात्सर्वान्तरत्वात्सर्वेषां प्रकृति पर्यन्तानामन्तर्वतित्वात् । यो नाऽऽत्मा नासौ सर्वान्तरो भवति यथा घटादि- रिति केवलव्यतिरेकी ॥१॥ किंच- परप्रेमास्पदत्वात् ॥ २॥ परेति। परप्रेमास्पदत्वात्परमस्नेहाश्रयत्वात् । अत एव श्रुतिः-प्रेयः पुत्रा. स्प्रेयो वित्तात्मेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मेति ॥२॥ किंच- स्वतोऽभिरुचेः ॥३॥ स्वत इति । स्वतोऽभिरुचेः सच्चिदानन्देषु स्वारसिकप्रवृत्तिदर्शनादिति भावः ॥३॥ किंच- स्वानुभवाच्च ॥४॥ स्वेति । स्वानुभवश्व, अहमस्मि, सदा भामि, भवाम्यहं, स्वतः सुखीति समाधिकालीनो वा ॥ ४ ॥ तदात्मत्वं व्यतिरेकमुखेन(ण) द्रढयति- न कोशो जडत्वात् ॥ ५॥ नेति । कोशः स्थूलसूक्ष्मकारणरूपो देहो नाऽऽत्मा भवितुमर्हति, कस्माजड- त्वात्स्वतःप्रकाशशून्यत्वाद्विनाऽऽश्रयेण स्पन्दितुमप्यनहत्वादिति भावः ॥५॥ - - ३८ सिद्धान्तदर्शनं- [ २पुरुषपाठे- किंच- तदक्षानेऽपि तद्भानात् ॥६॥ तदिति । तदभानेऽपि स्वप्नसुप्तिसमाधिषु क्रमाकोशत्रयातीतावपि तद्भा- नादात्मभानात्स्वप्नादौ स्थूलादिदेहभानविरहेऽपि तद्भङ्गे तदानीं नाहमास- मित्यप्रतीतेरिति भावः ॥ ६ ॥ किंच- विचारबाधबल्याम्नायोपपादानुभूतियश्च ॥ ७ ॥ विचारेति । विचारेण बाधात्मबलागमाप्रबलयुक्तेः प्रबलानुभवाच्च कोशो नाऽऽत्मेत्यन्वयः । तथा हि आत्मा वै जायते पुत्र इति श्रुतेः स्वस्मि- निव स्वपुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे वाऽहमेव पुष्टो नष्टो वेत्यनु. भवाच्च । पुत्र एवाऽऽत्मेत्यतिप्राकृताः । स वा एष पुरुषोऽन्नरसमय इतिश्रुतेर्दह्यमानगृहादितः स्वपुत्रं हित्वा निर्गमदर्शनात्स्थूलोऽहं कृशोऽहमि- त्यनुभवाच्च स्थूलशरीरमेवाऽऽत्मेति चार्वाकाः । ते ह प्राणाः प्रजापति समेत्य ब्रूयुरितिश्रुतेरिन्द्रियाणामभावे शरीरचलनायोगाकाणोऽहं बधिरोऽ- हमित्यनुभवाचेन्द्रियाण्येवाऽऽत्मेति परे चार्वाकाः । अन्योऽन्तरात्मा प्राण- मय इति श्रुतेः प्राणाभाव इन्द्रियचलनायोगादहं बुभुक्षुरहं पिपासुरित्यनुभवाच प्राण एवाऽऽत्मेत्यन्ये चार्वाकाः । अन्योऽन्तरात्मा विज्ञानमय इतिश्रुतेवुद्धे- रभावे करणशक्त्यभावादहं बोद्धाऽहं भोक्तेत्यनुभवाच्च बुद्धिरेवाऽऽत्मेति बौद्धाः । अन्योऽन्तरात्माऽऽनन्दमय इतिश्रुतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयद- र्शनादहमज्ञ इत्यनुभवाचाज्ञानमेवाऽऽत्मा, तस्य च जाग्रति स्वादृष्टवशान्मनसा योगे ज्ञानेच्छादयो जायन्ते, सुषुप्तौ तु तल्लयाल्लीयन्ते च। स पुनश्चितिमत्त्वाचे. तनो गुणहत्वाद्रव्यं धर्माधर्मयोः कर्ता सुखदुःखयोर्भोक्ता च तस्य विभुत्वेऽपि कर्मवशाल्लोकान्तरगमनादिव्यवहार इति प्राभाकरास्तार्किकाश्च । प्रज्ञानघन एवाऽऽनन्दमय आत्मेतिश्रुतेः सुषप्तौ खद्योतवत्प्रकाशाप्रकाशसद्भावान्मामहं न जानामीत्यनुभवाचाज्ञानोपहितचैतन्यमेवाऽऽत्मेति भट्टाः । असदेवेदमग्र आसीदितिश्रुतेः सुषुप्तौ सर्वाभावादहं तदा नाऽऽसमित्यनुभवाच्च शून्यमेवाऽऽ. त्मेति केचन बौद्धाः । वस्तुतस्तु प्रत्यगस्थूलोऽचक्षुरमाणोऽमना अकर्ता चैतन्यं चिन्मानं सदित्यादिप्रबलश्रुतेः तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ इत्यादिपवलस्मृतेश्चपूर्वपूर्वोक्तश्रुतियुक्त्यनुभवाभासानामुत्तरोत्तरोकश्रुतियु- क्त्यनुभवाभासरप्यात्मवाघदशात्पुत्रादिजडवस्तूनां चैतन्यभास्यत्वेन गुणा- २ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ३९ दिमत्त्वेन च घटादिवदनित्यत्वावगपादहं ब्रह्मेति विद्वदनुभवप्राबल्याच तत्तावत्पुत्रादिशून्यपर्यन्तमखिलमनात्मैव किंतु तत्तदवभासकं नित्यशुद्धमुक्त- स्वभावं प्रत्यक्चैतन्यमेवाऽऽत्मतत्त्वमिति श्रुतिशिरःसिद्धान्तः ॥७॥ ननु पुत्रदेहादीनामनात्मत्वे कुतस्तानात्मत्वेन श्रुतिः स्वयं प्रतिपादय. तीत्यत आह- गौणोक्तिर्मुख्याय ॥ ८ ॥ गौणोक्तिरिति । गौणोक्तिः श्रुतिभिर्गोणात्मप्रतिपादनं मुख्याय प्रधानमा. त्मानं प्रतिपादयितुं स्थूलदर्शनस्यारुन्धतीक्षणन्यायेन सूक्ष्मदर्शनोपायत्वादिति भावः ॥८॥ - इदानीपात्मानमेव प्रियमुपासीतेतिश्रुतिसिद्धात्मोपासनाय तदर्थैव सर्वा प्रीतिरिति दर्शयति- पीतयस्तकृते ॥ ९॥ पीतय इति । अस्मिन्धनपुत्रकलत्रादौ याः प्रीतयोऽनुरक्तयस्तास्तत्कृते साक्षात्परम्परया वाऽऽत्मार्था एवेत्यर्थः । तथा हि श्रूयते-न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय सर्व प्रियं भवतीति ॥ ९ ॥ नन्वात्मनः परमानन्दत्वे कथं नासौ प्रतिभातीति चेत्तत्राऽऽह- कुतश्चिदमानवत्सहोक्तवत् ॥ १० ॥ कुतश्चिदिति । कुतश्चित्प्रतिबन्धादविद्याकार्यरूपादभानवत्प्रतीतावपि विशे- पेणाप्रतीतिः । सहोक्तवद्यथा युगपन्याहारे पुत्राध्विनिस्तद्वदित्यर्थः । सदोक्तौ पुत्रादिनिःस्वने युगपदभिव्याहार एव प्रतिबन्धको वोध्यः ॥ १० ॥ कदा तत्प्रतीतिः स्यादित्यपेक्षायामाह- द्वैतविस्मृतेरभिव्यक्तिः ॥ ११ ॥ द्वैतेति । द्वैतविस्मृतेनिरोधसमाधावज्ञानकार्यस्य समस्तस्य विस्मरणादभि' व्यक्तिर्निजानन्दस्य भानं भवतीत्यर्थः । तथा च श्रुतिः-यदा पञ्चावतिष्टन्ते ज्ञानानि मनसा सह । बुद्भिश्च न विचेष्टति तामाहुः परमां गतिमिति । उक्तं च- - न द्वैतं भासते यत्र मायाका कथंचन । यत्सुखं भाति तत्रेनं ब्रह्मानन्दं प्रचक्षते ।। इति ।। सुषुप्तिकालीनसुखस्य तु प्रतिविम्बरूपत्वेऽपि परिच्छिन्नब्रह्मानन्दतैव । तदानीमज्ञानतरङ्गविख्येन तस्य तेन सह भेदभानानहत्वात् । स्वच्छस्थानन- सिद्धान्तदर्शनं- [ २पुरुषपाठे- बिम्बवद् । तथा च समाधौ जीवस्य ब्रह्मानन्दरूपता, मुघुप्तौ तु तद्भोक्तृतेति स्थितम् ॥ ११॥ नन्वेकमेवाद्वितीयं नेह नानाऽस्ति किंचनेत्यादिश्रुतिभिः पुरुषकत्वोपल- धेर्द्वितीयाभ्युपगमेनालमित्याह- सापेक्षत्वाद्वितीयः ॥ १२॥ सापेक्षत्वादिति । सापेक्षत्वात्पुरुषस्य सच्चिदानन्दरूपत्वेन तदितरापेक्ष. त्वात् । सदसतोआनाज्ञानयोः सुखदुःखयोश्च परस्परसापेक्षतथैव भासमानत्वा. दित्यर्थः । द्वितीयः पुरुषादन्यः कश्चित्पदार्थोऽसन्मायादिपदवाच्योऽभ्युपेय इति शेषः । अत एवासदेवेदमग्र आसीदितिश्रुतौ मायापरपर्यायमसदि. त्युक्तम् ॥ १२॥ किंच- लौकिकार्थश्च ॥ १३॥ लौकिकेति । लौकिकार्थः प्रमाणप्रमेयव्यवहारार्थोऽन्यथा मूडबुद्धीनां प्रत्य- क्षसिद्धस्य घटोऽयं पटोऽयमित्यादिव्यवहारस्यानिष्पत्तरिति भावः । तथा च द्वैतस्य पृथगस्तित्वविरहेण बाध्यत्वेन च तात्त्विकत्वाभावादद्वैतत्त्वसिद्धिरिति बोदव्यम् । अत एवाऽऽहु:- पुरुषसत्तयैवेदं सत्तावत्मकृतरपि । स्वतःसत्ताविहीनत्वाद्वैतत्वं न हि शङ्कयताम् ॥ इति ।। १३ ।। तस्मात्प्रतीयमानयो मरूपयोर्वामात्रनिष्पद्यमानत्वमाह गिर्यव नामरूपे ॥ १४ ॥ गिरीति । गिर्येव वचस्येव नामरूपे विराजतो न तु वस्तुतो विद्यते इत्यर्थः । तथा च श्रुतिः-चाचारम्भणं विकारो नामधेयमिति । एतेन ब्रह्मब्रह्माण्डयो. हेतु हेतुमद्भावो न तात्तिकः किं त्वौपाधिक एवेति सूचितम् ॥ १४ ॥ ननु तत्वस्याद्वैतत्वे कथमागमो भूतभौतिकादिप्रपञ्च प्रतिपादयतीत्याह- दैतिश्यो ह्यागमवृत्तिः ॥ १५॥ दैतिभ्य इति । द्वैतिभ्यो द्वैतवासनापिशिष्टभ्यस्तानेव बोधयितुमित्यर्थः । आग मवृत्तिः शास्त्रप्रवर्तनम् । अत एव कालाभावेऽपि सदेव सौम्येदमग्र आमोदित्यत्र यदग्रशब्दाभिधानं तदपि कालवासनावन्तं प्रत्येवेति बोध्यम् । किंच प्रकृतिनि- मीलनस्यापि कालस्वाभ्युपगमात्सर्गादो प्रकृतेब्रह्मानतिर केपि कथंचन - २ प्रपाठः] निरञ्जनभाष्यसमेतम् । - भेदधियैव तदुक्तिरित्यविसंवादः । एवं चाद्वैतवादे को गुरुः कः शिष्यः किं शास्त्रमित्यादिवितर्कविजृम्भणं किंचिज्ज्ञानां प्रातिभासिकान्यपि व्यवहारद शायां पारमार्थिकवद्भान्तीति रहस्यमजानतामेव मोह फलमित्यवधेयम् ॥१५॥ श्रुतेः कारुणिकत्वमाह- जागर्यायै चिरसुप्तानां श्रुतिरम्बावत् ॥ १६ ॥ जागर्याया इति । चिरसुप्तानां दीर्घकालमविद्यानिद्राभिभूतानां जागर्याय मोहभङ्गाय श्रुतिरम्बावज्जननीव वर्तते । यथा माता दीघनिद्राभिभूते स्तनपा- यिनि शुष्ककण्ठतालुकताशङ्कया तस्य जागराय यतते श्रुतिरपि तद्वदिति भावः । अत एवासौ काव्यात्मिकाऽपि । तथा च.न्यायः-वेदयितुं रहस्यार्थ याति काव्यात्मतां श्रुतिरिति ॥ १६ ॥ इदानीमद्वैतब्रह्मबोधकश्रुतिवाक्यस्यान्तरपरताशङ्कां निराकरोति- नैक्यार्थस्येतरार्थस्त्रिपद्याख्यानात् ॥ १७ ॥ नेति । ऐक्यार्थस्यैक्यमर्थों यस्य स तस्यैकमेवाद्वितीयं ब्रह्मेतिश्रुतिवाक्यस्येत- रार्थो द्वैतार्थो नेत्यन्वयः। कस्मात्रिपद्याख्यानात् । त्रयाणामेकमेवाद्वितीयमिति- पदानां समाहारस्त्रिपदी तदाख्यानात् । अन्यथा पदद्वयोपन्यासवैयापत्ते- रिति भावः । तथा च ब्रह्मणि स्वगतसजातीयविजातीयभेदवारणायैव त्रिप. धुपन्यस्ता ॥ १७॥ किंच- प्रक्रमात् ॥ १८ ॥ प्रक्रमादिति । प्रक्रमाद्वैतार्थस्योपक्रमात्सदेव सौम्येदमग्र आसीदित्युपक • म्याद्वैतश्रुतेरभिधानादिति भावः ।। १८ ।। किंच- भूयो व्याहारात् ॥ १९ ॥ भूय इति। भूयो व्याहारात्सर्वं खल्विदं ब्रह्म ब्रह्मैवेदं सर्व नेह नानाऽस्ति किंचनेत्यादिभिरद्वैतार्थस्य पुनःपुनरभिधानात् । तथा चाद्वैतार्थस्यातीव दुर्गम- त्वाच्छ्रुत्यर्थसंदेहे श्रुत्यन्तरसंवादस्यार्थनिर्णायकत्वाच भूयो व्याहार इति भावः ॥ १९ ॥ किंच- निरोधादिविप्रतिषेधात् ॥ २० ॥ निरोधादीति । अत्र निरोधो नाशः। आदिनोत्पत्त्यादिपरिग्रहः । तथा हि ६ ४२ सिद्धान्तदर्शनं- [ २ पुरुषपाठे- - श्रुतिः-न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वा मुक्त इत्येषा परमार्थतेति ॥ २०॥ किंच- स्मृतीतिहासक्याच्च ॥ २१ ॥ स्मृतीति । स्मृतीतिहासैक्यात्स्मृतिमन्वादिरितिहासो भारतादिस्ताभ्यां यदैक्यमद्वैतार्थस्य तस्मात् । श्रुत्यर्थसंदेहे श्रुत्यन्तरस्येव स्मृतीतिहासयोरपि श्रुतिमूलकत्वेनार्थनिर्णायकत्वादिति भावः । तदैक्यं तु भूयः प्रदर्शितं विस्तरशो द्रष्टव्यं च ॥ २१ ॥ ऋतंभरप्रज्ञानां न जाड्यम् ॥ २२ ॥ इति पुरुषपाठे द्वितीयः प्रपाठः । तमिति । ऋतंभरप्रज्ञानामृतं सत्यमेव विभौति ऋतंभरा सा प्रज्ञा बुद्धि- र्थेषां ते तेषां जाड्यं जडत्वं बोद्धमयोग्यत्वं नास्तीत्यर्थः । तथा च येषां सत्वोत्कर्षादृतंभरा प्रज्ञा जायते तेषां तत्वत एव शास्त्रार्थो हृद्यारोहतीति भावः ॥२२॥ इति द्वितीये पुरुषपाठे द्वितीयः प्रपाठः । अथ तुतीयः प्रपाठः । इदानी ब्रह्मचैतन्यस्य साक्षित्वादिरूपं वर्णयन्नाह- देवो वाव मौलिकः साक्षी ॥ १ ॥ देव इति । दीव्यतीति देवः पुरुषः स एव मौलिकः प्रतिबिम्बद्वारेण मूलप्रकृतौ विराजमानः सन्साक्षी साक्षाद्रष्टा संनिकर्ष विनैव पश्यति स्वयमविकारितयाऽ. धिष्ठानतया च सर्व भासयतीत्यर्थः। तथा च श्रुति:-तत्प्रतिबिम्बितं यत्तत्साक्षि- चैतन्यमासीत् । अत्र स्वच्छत्वात्मकृतौ पुरुषः प्रतिफलति । सलिले सूर्यवदित्य- वधेयम् ॥ १॥ तस्यैव पुनरुपाधिभेदैर्नश्वरत्वमाह- ईशोऽव्यक्तस्थः ॥२॥ ईश इति । अव्यक्तस्थः प्रागुक्तसत्त्वप्रधानप्रकृतिस्थो देव ईशो भवतीत्यर्थः । तथा च श्रुतिः-तत्पतिबिम्बितं यत्तदीश्वरचैतन्यमासीदिति । स चैक एव स्वोपाधिभूततन्मायायास्तथात्वात् । ननु कथमीश्वरत्वं ब्रह्मणो घटते ब्रह्मैवेदं सर्वमित्यादिश्रुत्या ततो जगदभिन्नत्वप्रतिपादनेन तस्य प्रयोजकभावायोगादिति चेन्न । परमार्थतो ब्रह्मणोऽपृथगपि जगद्व्यवहारे भिन्नमेव मृदो घटवदिति anto- ।
। प्रपाठः निरञ्जनभाष्यसमेतम् । - तिसिद्धान्तात् । तस्मादीश्वरजीवजगद्भावा ब्रह्मणो मायावशाद्व्यवहारवे. आयामेव प्रतिभान्तीति सर्व शिवम् ।। २॥ महत्स्थो हिरण्यगर्भः ॥ ३॥ महत्स्थ इति । महत्स्थः प्रागुक्तरजःप्रधानप्रकृतिस्थः । तथा च श्रुतिः त्प्रतिविम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीदिति । तदङ्गं तु स्पष्टास्पष्टं स दभिमानी स्पष्टास्पष्टवपुरिति श्रुतेः ॥ ३ ॥ विराडहंकारस्थः ॥ ४ ॥ विराडिति । अहंकारस्थः प्रागुक्ततमःप्रधानप्रकृतिस्थः। तथा च श्रुतिः- त्पतिबिम्बितं यत्तद्विरादचैतन्यमासीदिति । तदङ्गं तु स्पष्टं स तदभिमानी स्पष्टवपुः स्थूलपालको विष्णुः प्रधानपुरुषो भवतीति श्रुतेः । एवं तदानीं क्रमाज्ज्ञानेच्छाक्रियाभिर्मानिनस्त्रयो भवन्ति। तथा च श्रुतिः-पराऽस्य शक्तिर्वि- विधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया चेति । बलमिच्छा । अत्रेदं वोध्यम्- त्रिविधाऽहंकृतिः प्रोक्ता सात्विकी राजसी तथा । तामसी चेति तत् त्रिभ्यः क्रमात् त्रिदेहमानिता। जीवे ज्ञानादिकं कार्यमीशे शक्तिमयं स्मृतमिति । तत- कैव चिबिम्बप्रतिबिम्बभेदेन ब्रह्मादिनामभेदेन च पञ्चधा भवति । तथा चाऽऽहुः-ब्रह्मसाक्षीश्वरस्तावद्धिरण्यगर्भनामभृत् । विराडित्येवमाख्याता चिदेकैव हि पञ्चधेति ॥ ४ ॥ विधोशौ ॥ ५॥ द्विधेति । उभौ हिरण्यगर्भविराजौ द्विधा कार्यकारणरूपौ वर्तते । कार्यत्वं च तयोः क्रमात् समष्टिभूतलिङ्गस्थूलदेहाभिमानाभ्यां बोध्यम् ॥ ५ ॥ तत्र हिरण्यगर्भस्य देहावयवत्रयमाह- त्रिलिङ्गो हिरण्याख्यः॥ ६॥ त्रीति । त्रिलिङ्गस्त्रीणि प्राणवायेन्द्रियान्तरिन्द्रियरूपाणि लिङ्गानि यस्यासो हिरण्याख्यो हिरण्यगर्भः। त्रयाणामवान्तरभेदेन तु पञ्चप्राणदशेन्द्रियमनोबुद्धि- रूपसप्तदशलिङ्गकः ॥ ६॥ ईश्वरस्य तटस्थलक्षणमाह- ईडायत्तमायः सर्वज्ञः पूर्वकर्ताऽङ्कुरो यातिगत्वात् ॥ ७ ॥ ईडिति । आयत्तमायः स्वाधीनमायः सर्वज्ञः सर्व सामान्येन विशेषेण च - सिद्धान्तदर्शनं- [२ पुरुषप ठे- जानाति पूर्वकर्ता सृष्टिस्थितिलयानामादिकर्ता । अङ्कुरो जगदुपादानं, कुतो द्वयातिगत्वात् । रजस्तमोभ्यामनभिभूतत्वात्सत्त्वोत्कर्षादिति यावत् । तथा च श्रुतिः-स स्वायत्तमायः सर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवतीति । अत्राप्येवं विवदन्ते-सत्यकामः सत्यसंकल्प इति श्रुतेर्जीव वैलक्ष. ण्याच यो नित्यज्ञानेच्छाप्रयत्नशाली स एवेश्वर इति तार्किकाः। तथात्वे तदि- च्छायाः सर्वकारणत्वेन सदैव सृष्टिप्रसङ्गापत्तेः कालादृष्टयोः सहकारित्वे च ताभ्यामेव सर्वोपपत्तौ तदिच्छाया हेतुत्वाभिधानानर्थक्यापत्तेस्तस्य पुनः प्रीतिप्रेमादिविरहेणोपासनाद्यप्रवृत्तेश्च शरीरसमष्टयभिमानी हिरण्यगर्भ एवेश्वर- स्तस्योद्गीथब्राह्मणे माहात्म्यकीर्तनात्समष्टिभूतत्वेन जीववैलक्षण्याच्चेति हैरण्य. गर्भाः। तस्यापि स्थूलशरीरमन्तरेण प्रतीतिविरहात्सहस्राक्षः सहस्रपादितिश्रुतेश्व स्थूलशरीराभिमानी विराडेवेति वैराजाः । तथात्वे सहस्रपादादिमत्कीटादे- रपीश्वरत्वमस्तु तस्माच्चतुर्मुखब्रह्मैवेति प्राजापत्याः । तस्यापि विष्णोर्नाभि- कमलजातत्वाद्विष्णुरेवेति वैष्णवाः । तस्यापि शिवैश्वर्य परिच्छेत्तुमशक्तत्वा. च्छिव एवेति शैवाः । तस्यापि पुरत्रयं साधयितुं विघ्नेशार्चनश्रवणाद्विनायक एवेति गाणपत्याः। तथात्वे भूरुण्डीतरोरपीश्वरत्वं कथं न स्यात् । किंत्वादि- त्योदयमन्तरेण सर्वकर्मानहत्वादादित्यो ब्रह्मेतिश्रुतेश्चाऽऽदित्य एवेति सौराः। यद्यप्वमन्तर्यामिणमारभ्य स्थावरान्तेष्वीश्वरत्वमभ्युपगच्छन्तः सन्ति निम्बाश्वत्थादीनामपि कुलदेवतात्वदर्शनात्तथाऽपि तत्त्वनिश्चयकामेन न्याया• गमविचारिणां तत्र प्रतिपत्तिरेकैच । तथा हि-मायां तु प्रकृति बिद्यान्मायिन तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगदित्यादिश्रुतेर्वासुदेवः सर्वमित्यादिस्मृतेश्च मृच्छिलाधातुदादिीनां सर्वेषामेवेश्वरत्वाभ्युपगमादीश्वर- बुद्ध्या यस्य कस्यचिञ्चिन्तनादपि फलसिद्धिः । तथा च श्रुतिः-तं यथा यथोपासते तदेव भवति । स्मृतिश्च-ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्य- हमिति । तत्र तु पूज्यपूजनाद्युत्कर्षापकर्वाभ्यां फलस्यापि तथैवेत्यवधेयम् ॥७॥ ननु सृष्टेरुत्कर्षापकर्षवदर्शनादीपस्य वैषम्यादिदोषो दृश्यते लोकवदिति चेत्तत्राऽऽह- वैषम्यनष्ठुर्ये न सापेक्षत्वात् ॥८॥ वैषम्येति । वैषम् भेददृष्टिनैष्ठ्य निष्ठुरता ते न स्तः । कस्मात्सापेक्षत्वात्मा- णिकर्मापेक्षत्वात् । तथा हि श्रूयते- स्वस्मिन्विलीनं सकलं जगदाविर्भावयति माणिकमर्वशादिति । तथा च प्राणिनां पूर्वकर्मानुसारेण प्रवर्तनादीश्वरस्य वैष.
३ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ४५ . म्यादिदोषो नास्तीति भावः । ननु तथाऽपि नियन्तुस्त दोषो दुरिएव प्राक्तन कर्मस्वपि तस्यैव नियन्तृत्वादिति चेत् । उच्यते-तान्यपि तत्पूर्वार्जितादृष्टवशा- देवेति कर्मादृष्टप्रवाहयोरनादित्वं सिद्धम् । एतेनेश्वरस्यापि सर्वासु प्रवृत्तिषु कर्मसु च प्रयोजकत्वमेव राजवन्न तु साक्षात्कर्तृत्वं प्रेष्यवदित्यायातम् । तथा हि श्रुतिर्भवति-एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीपते । स्मृतिश्च-अज्ञो जन्तुरनी. शोऽयमात्मनः सुखदुःखयोः । ईश्वरमेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेति । तथा च प्रवृत्तिरीशस्य परकर्मवशाज्जीवस्य तु स्वपरकर्मानुगेति स्थितम्॥ ८ ॥ ईश्वरस्वरूपं निरूप्य जीवस्वरूपं निर्वक्ति- जीवो व्यष्टिस्थः ॥ ९॥ जीव इति । व्यष्टिस्थः सावधिकाश्रयस्थः परिच्छिन्न देहाभिमानादीश्वर एव जीवसंज्ञितो भवतीत्यर्थः । तथा च पैङ्गलश्रुतिः-सर्वज्ञेशो मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमच्छरीरत्रयतादात्म्यात्कर्तृत्वभो. क्तृत्वमगमज्जाग्रत्स्वमसुषुप्तिमूर्छामरणधर्मयुक्तो घटीयनवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन परिभ्रमतीति । एतेन जीवो मलिनसत्त्वसङ्गेन कल्पि- तकर्तृत्वादिमानेच प्रमातेति सूचितम् । तथा चेश्वरजीवयोः प्रतिबिम्बचैतन्य- रूपेणाविशेषेऽपि शुद्धाशुद्धसत्वयोरुपाध्योरेव भेदाद्वैशेष्यमिति बोध्यम् ॥९॥ तस्य नामभेदानाह- प्राज्ञतैजसविश्वाख्यः स्वल्पवित्वादेः ॥ १० ॥ पाज्ञेति । प्राज्ञादय आख्या यस्य स तथा। कुतः स्वल्पवित्वादेः। व्यष्टिभूत- त्रिविधदेहाभिमानेन किंचिज्ज्ञत्वादेः।तथा चेश्वर एव प्राज्ञ उच्यते व्यष्टिभूतका. रणदेहाभिमानेन किंचिज्ज्ञत्वात् । स च सुषुप्तिस्थानीयः स्वरूपमुखभोक्ता तदङ्गं तु अनाद्यविद्यारूपमानन्दमयम् । एवं हिरण्यगर्भ एव तैजस उच्यते व्यष्टिभूतसूक्ष्मदेहाभिमानेन तेनोपयान्तःकरणोपाधित्वात् । स च स्वमस्था- नीयः सुखदुःखाद्यभिमानीहपरलोकगामी व्यावहारिको जीवो भवति । तदङ्गं तु प्राणमयादिकोशत्रयात्मकं पञ्चपाणमनोबुद्धिदशेन्द्रियरूपसप्तदशलिङ्गक- मपञ्चीकृतं भोगसाधनम् । ततश्च-लिङ्गदेहतत्स्थचित्प्रतिबिम्बतदधिष्ठान- कूटस्थैतत्रितयात्मको जीवः । अयमेव प्रागयोनिजातत्वान्मानसपुत्रत्वेनाप्युप- वर्णितः । तथा विराडेव विश्व उच्यते सूक्ष्मशरीराभिमानमपरित्यज्य स्थूलश- रीरमविष्टत्वात् । स च जाग्रत्स्थानीयस्तदहं तु अन्नमयं कर्मसंचितं पञ्ची- - ४६ सिद्धान्तदर्शनं- [ २पुरुपपाठे. कृतं भोगायतनम् । तथा च ब्रह्मण एव सोपाधिकस्योपाधिभेदादीश्वरत्वा दिक्रमण जीवत्वमिति निष्कर्षः । अत एवाऽऽन्नायन्ते तत्त्वमस्यहं ब्रह्मास्मी त्यादयः । तदुक्तं च--श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः। ब्रह्म सत्यं जगन्मिथ्या जीबो ब्रह्मैव नापर इति । स्वोपाधिमुक्तश्चेज्जीवो ब्रह्मैव भवतीत्यार्यसिद्धान्तः ॥ १० ॥ तस्योपाधिपारतन्त्र्यं सहेतुकमाह- तटस्थसात्सितापकर्षात् ॥ ११ ॥ तटेति । तटस्थसात्तटस्थ उपाधिस्तद्भिन्नत्वे सति तत्परिचायकत्वमिति तल्ल णात्तदायत्तः संपद्यते । कुतः सितापकर्षात्सत्त्वस्य दुर्बलत्वात् ॥ ११ ॥ साष्टकः संसरत्याज्ञानात् ॥ १२ ॥ सेति। अष्टाभिः पुरीभिः सह वर्तते साष्टकः प्राणादिपञ्चकसूक्ष्मभूतपञ्चकक मन्द्रियपश्चकज्ञानेन्द्रियपञ्चकान्तःकरणचतुष्टयांविद्याकामकर्मरूपपुर्यष्टकेन युक्तः सन्संसरति कर्ताऽहं भोक्ताऽहमित्याद्यभिमानेन व्यवहरति । आज्ञा नाज्ञानोदयपर्यन्तमित्यर्थः । तथा च स्मृति:- पुर्यष्टकेन लिङ्गेन प्राणायेन स युज्यते । तेन वद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥ इति । एवं च सति ज्ञानोदयं विना नष्टेऽपि स्थूल शरीरे जीवो न नश्यति किंतु जीर्ण देहं विहाय देहान्तरं गृह्णाति जीवापेतं वाव किलेदं म्रियते न जीवो नियत इति श्रुतेर्वासांसि जीर्णानीति स्मृतेश्च । एतेनैतदप्युक्तं भवति-द्विविध ह्यनित्यं कालादिनाश्यं ज्ञाननाश्यं च । तत्राऽऽयं घटादिशरीरं द्वितीयं लिङ्ग- शरीरमिति ॥ १२॥ ननु ईश्वरस्य जीवरूपत्वे जीवे कथं ज्ञानेश्वर्ययोन स्फुरणं तद्वदित्याह- संपृक्तनिश्वर्याभिभवो भस्मनेवाः ॥ १३ ॥ समिति । संपृक्तर्देहादिभिः संश्लेषाज्ज्ञानेश्वर्याभिभवो ज्ञानेश्वर्ययोः सर्वज्ञ- ताणिमाद्योभिभवस्तिरोभावः कथमिव भस्मनेवाग्गेर्यथा भस्माच्छादनेन वझे. दहिदीप्त्योस्तद्वदित्यर्थः ॥ १३ ॥ भाविपर्यासश्चितश्चेतोगुणाद्वाष्पेणेवार्यम्णः ॥ १४ ॥ भेति । चितो जीवचैतन्यस्य चेतोगुणाचेतसः स्वोपाधिभूतस्य सत्त्वगुणतारतम्याद्भाविपर्यासः प्रकाशतारतम्यं बाष्पेणेवार्यम्णो बाष्पेण रवेरि- वेत्यर्थः ॥ १४॥ fe ३ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ४७ प्रतनु लिङ्गं स्वरूपमानान्याम् ॥१५॥ प्रेति । लिङ्गं तदाख्यं जीवशरीरं स्वरूपमानाभ्यां स्वरूपतः परिमाण. तश्च प्रतनु सूक्ष्मतरम् । अत एव तदुपाधित्वेन जीवस्याप्यणुत्वमाह श्रुतिः- बालाग्रशतभागस्य शतधाकस्थितस्य च । भागो जीवः स विज्ञेयस्तदानन्याय कल्पते ॥ इति । तस्य च सूक्ष्मत्वात्संचरणं स्वच्छत्वादप्रतिघातोऽप्युपप. द्यते तस्मादेहानिर्गच्छत्पार्थस्यै!पलभ्यते दाहादिभिः स्थूलशरीरस्योपम- देऽपि न तदुपमृद्यते चेति ॥ १५ ॥ अस्मिन्नेवोष्मा ॥ १६ ॥ अस्मिन्निति । अस्मिन्नेव लिङ्गशरीर एवोष्मा तापो वर्तत इति शेषः । तथा चैतस्मिञ्जीवच्छरीरे यः स्पर्शेनोष्माऽनुभूयते स लिङ्गदेहस्यैवेति बोध्यम् । अत एव श्रुतिः-उष्म एव जीविष्यञ्छीतो मरिष्यन्निति ॥ १६ ॥ तदङ्गः प्रेति ॥ १७ ॥ तदिति । तदङ्गो लिङ्गदेहयुक्तः सञ्जीवः प्रति लोकान्तरं गच्छती. त्यर्थः ॥ १७ ॥ भासते तद्वत्, समृद्धः सत्त्वस्थः॥ १८ ॥ समिति । सत्त्वस्थः सत्त्वप्रधानान्तःकरणस्थः समृद्धः प्रोन्नतो भवति सत्त्व रजस्तमसामूर्ध्वमध्याधोवस्थानादिति भावः * ॥ १८ ॥ जीवस्यौपाधिकभेदं दृष्टान्तेन दर्शयन्नाह- खवद्वैचित्र्यम् ॥ १९ ॥ खवदिति । खवद्यथैकस्यैवाऽऽकाशस्य घटमठाद्युपाधिभेदवशादनेकत्वमव. जलभेदेन सूर्यवद्वैचित्र्यं देवतियक्त्वादिना तद्धर्मभेदेन चानेकविघत्वं गौणमित्यर्थः । तथाच श्रुति:-यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मेति । तथा चाऽऽत्मनः स्वरूपैकत्वेऽपि नानात्वमौपाधि- कामिति श्रुतिविद्वत्सिद्धम् ॥ १९ ॥ * अत्रायमुन्नत्तिविवेकः-उन्नमनमुन्नत्तिः। स च जीवस्य परमार्थतो ब्रह्मसनिधिरेव न तु बाह्यपरिपाटी । तथावे जीवत्योर्क सनिकर्षविरहात् । तथाच तमःप्रधानस्य प्राणिनः पूर्णाऽवनतिः, तमोगुणोपसर्जनेन रजसा व्याप्रियमाणस्योन्नतेरारम्भः, ततः सत्त्वोपसर्जनेन रजसा व्याप्रियमा- णस्याधमोन्नतिः, ततो रजोगुणोपसर्गनेन सत्त्वेन व्याप्रियमाणस्थे मध्यमोन्नतिः । ततो निस्वैगुण्या. वस्थया विराजमानस्य पूर्णोत्रतिस्तदानीं सत्त्वाकर्षणान्तःकरणस्य बहिरर्थमपहायोर्ध्वगामित्त्वा. - दिति afतक ।
[ २ पुरुषपाठे- ४८ सिद्धान्तदर्शनं- न गुणैः स्वास्थ्यं वीचिमद्दत् ॥ २० ॥ नेति । गुणैः प्रकृतिसंभवैः स्वास्थ्यं स्वरूपावस्थानमात्मन इत्यन्वयः । वीचिमद्वत्तरङ्गेणाम्बधेरिवेत्यर्थः ॥२०॥ जीवस्वरूपमनुरूपदृष्टान्तेन विशदयन्नुपसंहरति- व्योमबिम्बाम्बूनीव त्रीणि ॥ २१ ॥ व्योमेति । त्रीणि ब्रह्मजीवतदङ्गानि । तथा च ब्रह्म व्योमवज्जीवोव्योम प्रति- बिम्बवत्तदङ्गं स्थूलसूक्ष्मकारणरूपमम्बुवदित्यर्थः । तथा हि-यथा सलिलयो- गेन जम्भमाणं व्योमप्रतिबिम्ब व्योमवद्विकारपरिच्छेदादिरहितमपि लौल्य- मान्तादि सलिलधर्ममादधानं तज्जीवनं यावज्जीवति सलिलापगमे पुनर्योग- रूपतामुपैति चित्प्रतिबिम्बजीवोऽपि शरीरत्रयोपयोगेन तथैवेति प्रणिधेयम् । एतेन चित्तत्प्रतिबिम्बदेहत्रयाणां स्वरूपं मिथः संपर्कश्च सततमनुसंधेयः सुधी- भिरित्यपि सूचितम् । इत्थमेव जीवानां मलिनसत्त्वत्वात्तच्छुद्धये प्रेक्षावतां प्रयत्नः । तथा च यदत्र हृदि गुहायां चिदम्बरं सततमनुभूयते तदेव शनैः शनैरुपाधिमलापगमादखण्ड रूपतामेतीति श्रुत्यवतंसः॥ २१ ॥ जीवस्वरूपमभिधाय तस्य जन्मान्तरं साधयति- अस्त्यनूकोऽभिनिवेशात् ॥ २२ ॥ अस्तीति। अनूकः पूर्वजन्मास्ति कस्मादभिनिवेशादत्राभिनिवेशो मरणादिभयं तथाहि प्राणिनां हि मा न भूवं भूयासमेवेति नित्याशिष्मतां तिरश्चामपि जात- मात्राणामन्तरे मरणभीतिरुदेति । यद्धि भयं तदनिष्टहेतुरयमित्यनुभवं विना न जायते । तधा सति प्रागननुभूतमरणधर्मश्चेत्तहि मरणं दुःखहेतुरित्यनुभवसंस्कार- विरहेण तदभ्यासजस्वरसवाहिमरणत्रासानुपपत्तिरिति जन्मान्तरसिद्धिः । न चानलादीनामुष्णतादिवत्स्वभावादेव जन्तूनां मरणभयोत्पत्तिरिति वाच्यं कार्याणां सहेतुकत्वनियमाद्भयसामान्यं प्रत्यनिष्टहेतुरयमितिज्ञानस्य कारण- तादर्शनाच । न हि केनापि घटः सहेतुक इत्यभ्युपेत्य मृत्स्वभावादेशान्तरीय- घटोत्पत्तिरिति कल्प्यते । नापि मरणधर्मवजन्मान्तरीयमन्यदपि स्मर्यतामिति वाच्यं पुण्यविशेषं विना प्राग्देहानुभूतानां मरणस्यैवातीव दुःखपदस्य विस्मृ. तिहेतुत्वात् । सुषुप्तिवत्परजन्मनि पूर्वदेहाभिमानविरहेण तदेहानुभूतानां स्मरणानुपयोगाच ॥ २२ ॥ :
४९ - ३ प्रपाठ: ] निरञ्जनभाष्यसमेतम् । अपि च- जातिस्मरत्वाच्च ॥ २३ ॥ जातीति । जातिस्मरत्वं पूर्वजन्मवातास्मरणं यच्च प्राक्तनानां भरतसप्तव्या. धादीनामिवेदानींतनानामपि केषांचित्पुण्यविशेषवलेन जायते तस्मादपी. त्यर्थः :॥ २३ ॥ जन्मान्तरं प्रसाध्यादृष्टं प्रमाणयति- वैचिच्यादपूर्वम् ॥ २४ ॥ वैचिच्यादिति । वैचित्र्यात्माणिनामुत्कर्षापकर्षत्वादिना नानात्वदर्शनादपूर्व चेतोगुगसंनिवेशविशेषात्मकसंस्कारो येन जीवानां जन्मायुभॊगा जायन्ते तदस्तीति शेषः। तथा च जगत्पतिनाऽपेतवैषम्यदोषलेशेन सृज्यमानानां जन्तूनामुत्कर्षा पकर्षधर्माणां सुखदुःखादिमतां च वैषम्यानुपपत्तिरित्यदृष्टसिद्धिरत एवेश्वरम- नुक्रम्य श्रुतिः सकलं जगदाविर्भावयति माणिकर्मवशादिति ॥ २४ ॥ किंच- सुस्वापभङ्गाच्च ॥ २५ ॥ सुस्वापेति । सुस्वापभङ्गात्मगाढसुषुप्तिविगमात् । तथा च साक्षात्कचन कार- णमन्तरेणाप्यकस्मात्सुस्वापभङ्गदर्शनात्कार्यस्य च सहेतुकत्वनियमादलौकिक हेतुसिद्धिरिति भावः । अत एव श्रूयते- स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । वस्त्रानपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ खमेऽपि जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ॥ पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ॥ इति । सुस्वापेत्युपलक्षणं समाधि भङ्गेऽपि तथा बोध्यम् ॥ २५ ॥ बीजाकुरवदविद्यावासने ॥ २६ ॥ बीजेति । अत्राविद्या देहाध्यासबीजरूपा वासना मिथ्यासंस्कारः। ते च बीजाङ्कुरवद्यथा बीजादङ्कुरः पुनरङ्कुराद्वीजमुत्पद्यते तद्वदित्यर्थः ।। २६ ॥ संपति ब्रह्मजीवयोरभेदं पारमार्थिकमुपपादयति वाक्यादप्यैक्यमात्मनोः ॥ २७ ॥ -
-
[ २ पुरुषपाठे-
-
-
सिद्धान्तदर्शनं-
वाक्यादिति । वाक्यादपि न केवलं बिम्बानुबिम्बख्पत्वात्तत्त्वम स्यादिवा-
क्यादपि । आत्मनोः परमात्मजीवात्मनोरैक्यमभेदो भेदस्तु मुखतदाभासयोरिव
व्यावहारिक एवेति सर्व निरवद्यम् ।। २७॥
संपति महावाक्यस्यार्थान्तरपरताशां निरस्यति-
नान्यार्थः प्राचुर्यात् ॥ २८ ॥
नेति । अन्यार्थस्तत्त्वमस्यादेरर्थान्तरं नेत्यर्थः। कुतः प्राचुर्यात् । ब्रह्मात्मैक्यबो.
धकवाक्यस्य बाहुल्यात् । तथा हि-तत्वमसि प्रज्ञानघनं ब्रह्म । अहं ब्रह्मास्मि ।
अयमात्मा ब्रह्म । त्वं वा अहमस्मि भगवः । अनेन जीवेनाऽऽत्मनाऽनुप्रविश्ये-
त्यादयः । तथा च परजीवयोरैक्यस्य लोकविरूद्धस्य जन्मजन्मोपचितव्यस्त-
संस्कारस्य हठेन प्रतिपादयितुमशक्यत्वात्प्राचुर्योक्तिरिति भावः ॥ २८ ॥
किंच-
दोषात् ॥ २९ ॥
दोषादिति । दोषादहं ब्रह्मास्मीत्यादौ श्रुतार्थपरित्यागाश्रुतकल्पनादिरू.
पात् ॥ २९ ॥
किंच-
विभुज्ञे तत्त्वोक्तेः ॥ ३० ॥
विभुज्ञ इति । विभुज्ञे ब्रह्मज्ञे तत्त्वोक्तेर्ब्रह्मत्वोक्तेः। तथा हि श्रुतिः-ब्रह्म-
विह्मैव भवति ब्रह्मैव सन्ब्रह्माप्येतीति ॥ ३० ॥
किंच-
भियवज्ञातत्वात् ॥ ३१ ॥
भिदीति । भिदि ब्रह्मजीवयोर्भेदकर्तर्यवज्ञातत्वात्तिरस्कृतत्वात् । तथा हि
श्रुति:-योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु-
रिति ॥३१॥
किंच-
भयश्रुतेः ॥ ३२ ॥
भयति । भयश्रुतिश्च-यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं
भवतीति ॥ ३२ ॥
किंच-
-
शेषाच ॥ ३३॥
४ प्रपाठः ]
निरञ्जनभाष्यसमेतम् ।
५१
शेषादिति । शेषाच्छ्रुतौ सदेव सौम्येदमग्र आसीदित्युपक्रम्य तत्सत्यं स
आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारात् ॥ ३३ ॥
श्रुतोपपत्त्योरप्यतथ्यधीरद्वैते तोपेक्षाभ्याम् ॥ ३४ ॥
इति द्वितीये पुरुषपाठे तृतीयः प्रपाठः ॥
श्रुतेति । श्रुतोपपत्योः शास्त्रयुक्त्योबिंद्यमानयोरप्यद्वैते ब्रह्मैवेदं सर्वमिति
वमनि तोंपेक्षाभ्यां वितर्कानादराभ्यामतथ्यधीरप्रामाण्यज्ञानं गृहमेधिना.
मिति शेषः । तत्र च कस्यचित्तण कस्यचिदुपेक्षया कस्यचिचोभाभ्यामिति ।
दुर्दैवमत्र निदानम् । इह खलु यदि जन्मिघु केचन कचिदद्वैततत्त्वं बुभुत्सन्ति
तदा तेषां जन्मजन्मान्तरोपचिततत्प्रतिपक्षवासनाभिर्देहात्मवदनवरतद्वैतानीत.
धियां पूर्व न्यायाणवमनवगाह्याऽऽप्तवचनालोचनैव साधीयसी तदनुगतत्वा.
दनुमितेरिति शिवम् ॥ ३४ ॥
इति द्वितीय पुरुषपाठे तृतीयः प्रपाठः ॥
अथ द्वितीये पुरुषपाठे चतुर्थः प्रपाठः ।
इदानीमतीन्द्रियस्य भावनासौकर्यार्थ विग्रहबिकल्पनमाह-
विकृप्तिः प्रतीकस्य भावार्था ॥ १ ॥
विकृप्तिरिति । प्रतीकस्याऽऽदित्यादिरूपस्य चतुर्भुजादिरूपस्य वा विकृप्ति-
स्तसत्मकृत्यनुकूलतया विविध कल्पनम् । भावार्थी भावो भावना स एवार्थः
प्रयोजनमस्याः सा तथा । देहात्माभिमानिनां वक्ष्यमाणविचारजं देहात्मनो-
विवेकमन्तरेण निर्गुणभावनायामनधिकारादिति भावः । अत एवोक्तं भग-
पता-अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यत इति । अत्रायमाशयः
सावयवस्याविवेकिनो निरवयवभावनायामवसीदति मनो महामान्तरपति-
तस्येव लोचनागोचरमानवतिर्यग्जनस्तम्भतरुलतादेः ॥ १॥
नन्वादित्याद्यालम्बनं यद्ब्रह्म विवर्तरूपं तकि ब्रह्मबुद्ध्या चिन्तयितव्यमुत
ब्रह्माऽऽदित्यादिधियोति शङ्कमानं प्रत्याह-
तत्र हि ब्रह्मधीरुत्कर्षात् ॥ २ ॥
तत्रेति । तत्र प्रतीक आदित्याद्यवयव एव ब्रह्मधीः कार्या न तु ब्रह्माण
प्रतीकधी । कस्मादुत्कर्षानिकृष्ट स्वे बोत्कृष्टदृष्टेगौरवात् । लौकिकन्यायोऽप्येवम् ।
अत एवोपासनार्थ श्रुतिरप्यादित्यो ब्रह्मेत्याह् न तु ब्रह्माऽऽदित्य इति ॥२॥
५२ सिद्धान्तदर्शनं [ २ पुरुषपाठे- ननु प्रतीके कथं ब्रह्मधीभवितुमर्हति तस्य जडत्वादित्याह- संभाव्योपदेशात्पञ्चाग्निवत् ॥ ३ ॥ समिति। संभाव्या प्रतीके ब्रह्मधीभवितुं योग्या। कस्मादुपदेशात्पञ्चाग्निवद्यथा पञ्चामिविद्यायां योषित्पुरुषादावग्निबुद्धिस्तद्वदित्यर्थः । तथा च प्रतीके ब्रह्म बुद्धः कल्पनारूपत्वादुपदेशेनासौ भवितुमर्हतीति भावः ॥३॥ ननु कल्पितस्य मिथ्यात्वात्तेन कथं फलसिद्धिरित्यत आह भावे वावाऽऽविर्देवस्य ॥४॥ भाव इति । भावो भावनाख्यवृत्तिविशेषो यश्च मानसरसत्वेनाप्यभिहितः । सत्रैव देवस्य सगुणस्य निर्गुणस्य वा ब्रह्मण आविविकाशो वावेत्यनेन विना भावोदयादुपास्यसिद्धिर्न भवतीत्यपि सूचितम् ॥ ४ ॥ निरुक्तेर्हेतुमाह- तन्मूलं हि फलं लोकवत् ॥ ५॥ तदिति। हि यतस्तन्मूलं स एव भावो मूलं कारणं यस्य तद्भावमूलमित्यर्थः लोकवत्, यथा लोके मिथ्याभूतादपि रज्जुसादेर्भयकम्पपलायनायुत्पद्यते यथा बैकस्य वस्तुनो वियोगे कश्चित्क्रन्दति कश्चिदानन्दति कश्चिचोपेक्षते तद्वत्फलमु. पासनादिजन्यमित्यर्थः। अत एवाऽऽहु:-भावे हि भगवानास्ते न पाषाणे न मृन्मये । न फलं भावहीनानां तस्माद्भावो हि कारणम् ॥ इति । एतेनोपासनायां देशिकादेशमूलायां विचारापेक्षा नास्ति तदपेक्षा तु ज्ञान- वर्मन्येवेति स्थितम् । एतदुक्तं भवति-कल्पितस्य मिथ्यात्वेऽपि तत्र सत्यस्य ब्रह्मणो भावनात्फलसिद्धिर्जायते । प्रतीकोपासनं तु न साक्षाद्ब्रह्मक्रतुस्तत्र प्रतीकप्रधानत्वेन ब्रह्मोपसर्जनत्वात् । ननु सर्वं खल्विदं ब्रह्मेत्यादिश्रुतिभिः सर्वेषामेव ब्रह्मत्वोक्तरादित्यादौ यद्ब्रह्मचिन्तनं तत्कथं न साक्षाह्मोपासन. मिति चेन्मैवं, तत्र ब्रह्म भावयतामप्यज्ञानां तत्स्वरूपभानविरहेण जडत्वेनैव भावनोदयात् ॥५॥ इदानीं जीवस्य ब्यवहारे लिप्तत्वेऽपि तत्त्वतस्तदभावं साधयति- नाऽऽासोऽपि स्वतो लिप्तो निर्लेपत्वाच्चितो जलार्कवत् ॥ ६॥ नेति । आभासश्चित्प्रतिबिम्बरूपो यो जीवः सोऽपि स्वतः स्वरूपतो न लिप्तः । कुत इत्यपेक्षायामाह-निर्लेपत्वादिति । चितो बिम्बभूतचैतन्यस्य निर्लेप- त्वाकर्तृत्वादिसंपर्गशून्यत्वात् । तथा हिश्रूयते-प्रत्यगस्थूलोऽचक्षुरपाणोऽमना अकर्ता चैतन्यं चिन्मानं सदसङ्गो ह्ययं पुरुषः साक्षी चेता केवलो निर्गुणश्रेति ।
४ प्रपाठः ] निरञ्जनभाष्यसमेतम् । तत्र दृष्टान्तो जलार्कवत् । यथा जलसूर्यः सलिलचाचल्याच्चञ्चलवत्पती- यमानोऽपि न स्वतश्चञ्चलस्तद्वदित्यर्थः ॥ ६ ॥ उक्तमर्थ हेत्वन्तरोपन्यासेन द्रढयति- प्रत्यक्षानुमानलिङ्गाच्च ॥ ७ ॥ प्रत्यक्षेति । प्रत्यक्ष हि श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वादनुमानं स्मृतिः श्रुत्यक्ष- स्वात्तथा च श्रुतिलिङ्गात्स्मृतिलिङ्गाचेत्यर्थः । तत्र श्रुतिः-किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् । ध्यायतीव लेलायतीवेति । स्मृतिश्च भागवती- अहंकारविमूढात्मा कर्ताऽहमिति मन्यते । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।। इच्छा द्वेषः सुखं दुःख संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ इति । अत एव पुराणम् -निर्गुणोऽपि परो देवो ह्यज्ञानाद्गुणवानिवेति । न च प्रकृति की न वा धर्माधर्माद्याश्रयः परिणामित्वाजडत्वाद्वा मृदादिवदि- त्यनुमानबलादात्मन एव कर्तृत्वाद्यभ्युपेयतामिति वाच्यम् । शास्त्रविरुद्धानुमितेः ममाणाभासत्वस्य वक्ष्यमाणत्वात् । तथात्वे तन्मते पुरुषादेरपि परिणामित्व- जडत्वपसनाच्च । तथा हि-एष परिणामी जडो वा भवितुमईति गुणवत्त्वा- न्मृदादिवदिति ॥७॥ अत एव जीवस्य कर्तृत्वभोक्तृत्वादिव्यवहारस्याविद्यामूलकत्वमित्युप- संहरति- वृत्तान्यध्यासात् ॥ ८॥ वृत्तानीति। वृत्तानि प्रमाणप्रमेयरूपाणि लौकिकानि वैदिकानि च व्यवहार- जातान्यध्यासादध्यासोनाम परत्र परावभासो यश्चानादिकालमारभ्य बिलसति तस्मादुद्भवन्तीत्यर्थः । अत एवाऽऽह श्रुतिः-शरीरत्रयतादात्म्यात्कर्तृत्वभो. क्तृत्वमगमत् । सत्यानृते मिथुनी करोतीति । इत्थमेवाऽऽत्मनः कर्तृत्वादेर्मा- यिकत्वेऽपि तत्सर्व कुहकीवेश्वरः स्वयं जानाति प्रकृष्ट सत्त्वत्वात् । जीवस्तु तत्र मुह्यति पङ्किलसत्त्वत्वादिति पर्यवसितार्थः॥ ८॥ तदीक्षा वै सर्वार्था ॥ ९॥ तदिति । तदीक्षा प्रकृतिपुरुषयोरालोचनं सर्वार्था सर्व ऐहिक आमुष्मिक वार्थः प्रयोजनमस्याः सा तथा । तदवयवभूतत्वाज्जगतामिति भावः । वैर- त्रानयोरीक्षामन्तरेण केनापि सर्वार्थसाधनं भवितुं नाहतीत्यर्थं द्योतयति । तत्रायं निष्कर्षः-द्वावेव पदार्थों पुरुषः सच्चिदानन्दात्मकस्तदाभासश्च । तत्र . ये सिद्धान्तदर्शनं- [३ मुात सदाभासो जडः। स च द्विविधः प्रकृतिविकृतिभेदात् । विकृतिः पुन सदृशी विसदृशी च। तत्राऽऽद्याऽव्यक्तमहदहंकाररूपा। द्वितीया पञ्चतन खिलप्रपञ्चात्मिका । एवं चिदाभासश्चतुर्धा साक्षीश्वरहिरण्यगर्भरि दात् । तथाऽऽनन्दाभास एक एव । यदि तदाभासाः सच्चिदानन्दा नस्तहि क्रमादसदज्ञानासुखाख्या भवन्ति । अत्रानुक्ताश्च ये बाह्या ग्राह्या न्यायादिसमताः । द्रव्यगुणादितद्धर्माः श्रुतीनामविरोधतः ॥ तु भावा जगत्यत्र सन्ति श्रुतिविरोधिनः । आभासा एव ते प्राज्ञैन ग्राह्याः परमार्थतः ॥ हित्वा चिन्तामणेमुंढा विश्वविद्यानिधेः श्रुतेः । दैवीमभ्रमिकां वार्ता रमन्ते हन्त लौकिके ॥ ९ ॥ क्लीबा पत्राप्रत्ययिनः ॥ १० ॥ क्लीबा इति । अत्र प्रकृतिपुरुषवार्तायां ये क्लीवा विज्ञानविकलास्त ए: यिनो न विश्वासभुवो भवेयुरिति शेषः ॥ १० ॥ तत्र विचारदृष्टेन काऽप्यनुपपत्तिरिति दर्शयन्नाह- न वै विज्ञो देव्यङ्कशायी कुसृतीक्षणात्कुमृतीक्षणात् ॥ १: इति पुरुषपाठे चतुर्थः प्रपाठः ॥ ४ ॥ इति वैयासिके सिद्धान्तदर्शने वेदान्तविज्ञाने परापरतत्त्व- निरूपणे द्वितीयः पुरुषपाठः ॥ २ ॥ विज्ञो विचारकुशलो देव्यङ्कशायी महामायाक्रोडावस्थायी नेत्यन पूर्वस्मादत्रेत्यनुवर्तनात्मकृतिपुरुषवार्ता यामित्यर्थः। कुतः, कुमृतीक्षणादैन्द्र कमायादर्शनात् । अयमाशयः-यदि कुहकिनो मायाया लोके विचि रित्वं स्याताई किं ब्रह्मणो मायायास्तन्न स्यादिति मनस्वितत्रम् ।। १२ इति पुरुषपाठे चतुर्थः प्रपाठः ॥ ४ ।। इति वैश्वदेवे भाष्ये निरञ्जनाख्ये द्वितीयः पुरुषपाठः॥२॥ अथ तृतीयो मुक्तिपाठः । तत्र प्रथमः प्रपाठः।
.
१ प्रपाठः ]
निरञ्जनभाष्यसमेतम् ।
प्रकृतिपुरुषो क्रमेणोपपाय जीवस्य परप्रयोजनं प्रतिपादयितुं तृतीयपाठ.
मारभते-
मुक्तिर्हि पुमर्थः ॥ १ ॥
मुक्तिरिति । हिरत्र त्रिवर्गेभ्यो मुक्तेः परमार्थतां द्योतयति । ननु यदि मुक्तः
परमपुरुषार्थत्व नासौ कुतः पूर्ववेदे श्रूयत इति चेत् । उच्यते-वैदिके प्रवर्तमा.
नानामादौ तन्माधुर्यावगमानहत्वान्न तस्मिंस्तदवतारः ॥ १ ॥
मुक्तिस्वरूपं निरूपयितुमिच्छ नादौ वन्धं निरूपयति-
संपलेपो बन्धः ॥ २॥
समिति । संप्रलेपो देहायाभिमानः । तथा चाविद्यारज्ज्या देहाद्यालाने संबन्धो
वन्धः । यथा गुणमयी रज्जः स्वभावचञ्चलं तुरगमाक्रम्य स्तम्भे बध्नाति न
खल्वसौ तदानीं स्वभावेन विचरितुमर्हति तस्य तद्वन्धनेन स्वभावास्फुरणात.
द्वदविद्याऽपि त्रिगुणमयी निर्लिप्तमात्मानमाकृष्य शरीरत्रये वनाति तदैव देहा.
भिमानरूपबन्धनेन स्वरूपास्फरणादलिप्तोऽप्यात्मा संसरति । तथा हि श्रुतिः-
शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वमगमत् । स्मृतिश्च-निवनाति महाबाहो
देहे देहिनमव्ययमिति । सोऽप्याव्यासिक एवाऽऽत्मनो निर्लेपत्वादिति
तत्त्वम् ॥ २ ॥
मुक्तिसरूपमाह-
तदत्यन्तप्रलये स्वरूपावस्थानं कैवल्यम् ॥ ३ ॥
तदिति। तदत्यन्तप्रलये तद्वन्धनस्य निवृत्ती भूतायां पुनः कस्मिन्नप्यनुद्भवे ।
स्वरूपावस्थानं ब्रह्मरूपेणैकीभावः । तथा हि श्रूयते-तमाहमिति ज्ञात्वा
सर्वबन्धैः प्रमुच्यते । ज्ञात्वा शिवं शान्तिमत्यन्तमेति । एवमेष संप्रसादोऽस्मा.
च्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति । सुषुतो
कारणदेहाभिमानानिरोधसमाधौ च तद्वन्धननिवृत्तावपि व्युत्थाने पुनरुद.
यान्न मुक्तित्वप्रसङ्गः । सा च जीवति विदेहे च जायते। तत्राऽऽद्या जीवन्मुक्ति-
द्वितीया तु विदेहमुक्तिरित्युच्यते । तथा च श्रुतिः-दुःखेनात्यन्तविमुक्तश्चरति
अथ संपत्स्य इति । तत्र च जीवन्मुक्तौ प्रातिभासिकत्वेन द्वैतभानमस्ति विदे.
मुक्तौ तु तदपि नास्तीति विशेषः । तथा च बिम्बभूतस्य ब्रह्मचैतन्यस्य न
बन्धो न वा मोक्षः । बन्धमोक्षौ तु तत्पतिबिम्बभूतस्य जीवचैतन्यस्यैव
तस्यापि तौ व्यावहारिकावेवेति निष्कर्षः ॥ ३ ॥
सिद्धान्तदर्शनं [ ३ मुक्तिपाठे-- तदुपायं पूर्वपूर्वापेक्षयैवोज्जृम्भमाणमाह- कर्मतदर्पणसाधनविचारसाक्षात्काराविद्यापायाना- मुत्तरोत्तरोपजननात् ॥ ४ ॥ कर्मेति। अत्र कर्माणि स्ववर्णाश्रमोक्तानि नित्यनैमित्तिकानि । तदर्पणं तेषां कर्मणां नाहं कर्ता भृत्यवत्करोमीत्येवंबुद्ध्येश्वरे स्थापनम् । साधनं विवेकादि चतुष्टयं नित्यानित्यवस्तुविवेकेहामुत्रफलभोगविरागशमादिषट्संपन्मुमुक्षेत्येवंरू- पम् । विचार आत्मतत्त्वज्ञानोपायः श्रवणमनननिदिध्यासनरूपः । साक्षात्कारो ब्रह्मात्मक्यस्यापरोक्षभानम् । अविद्यापायो देहाद्यात्मत्वजगत्सत्यत्वज्ञाना. पसरः । एतेषामुत्तरोत्तरोपजननं क्रमेणाऽऽविर्भावः । तस्माकैवल्यमित्य. न्वयः ॥ ४ ॥ तत्र प्रतिबन्धि दर्शयति- द्वैतसंज्ञा चेन्न ॥ ५॥ द्वैतेति । द्वैतसंज्ञा द्वैतस्य ब्रह्मातिरिक्तस्य संज्ञा सत्यत्वेनावधारणं चेतहि न कैवल्यमित्यर्थः ॥५॥ द्वितीयाद्धि भयम् ॥ ६॥ तत्र हेतुर्द्वितीयादिति । हि यस्माद्वितीयाद्वस्तुनो भयं संसारबन्धनं भवती. त्यर्थः। तथा च श्रुतिः-द्वितीयादै भयं भवति मृत्योः स मृत्युमामोति य इह नानेव पश्यतीति ॥६॥ नन्वात्मनो देहे सदैव विराजमानत्वात्कुतो न स्वरूपभानमित्याह- न तत्त्वोद्भाऽऽश्लिष्टेः ॥ ७ ॥ नेति । आश्लिष्टेरन्नमयादिकोशैर्विमिश्रणातत्वोद्भा स्वरूपाविर्भावो न भव- तीत्यर्थः । तथा च प्रतिबिम्बात्मको जीवो देहसंश्लेषाद्विम्बभूतं यत्स्वरूपचैतन्यं तन्न पश्यतीति भावः ॥ ७ ॥ संश्लेषो रसात् ॥८॥ समिति । संश्लेषो देहैरात्मसंलेपो रसाद्विषयानुरागात् ॥ ८ ॥ कुतस्तच्छैथिल्यमितिजिज्ञासायामाह- मन्थरः सत्त्वात् ॥ ९ ॥ मन्थर इति । सवाछपदपसत्याहिंसाक्षमादिवृत्तिकात् । मन्धरः शिथिल: ume १ प्रपाठः ] निरञ्जनभाष्यसमेतम् । संश्लेषो जायत इत्यर्थः । तथा च संयममूलस्य वैदिककर्मणः सर्वस्यैव तारतम्येन तत्संश्लेषशैथिल्यजननयोग्यताऽस्त्येवेति बहिर्देशामगोचरः ॥९॥ शुभजन्मिनां त्रिधाधीर्भातीत्याह- शंयुधीनिसांख्ययोगार्था ॥ १० ॥ शमिति । शंयुधीः शुभवी जिनां बुद्धिांनसांख्ययोगार्थी ध्यानादित्रयगो. चरा तत्र कस्यचिद्ध्याने कस्यचित्सांख्ये कस्यचिच्च योगेधी प्रतिभातीत्यर्थः । अत एव भगवान्स्मरति- ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ इति । अत्र ध्यानं तैलधारावदविच्छिन्नमत्ययः सांख्यमिमे सत्वरजस्तमांसि गुणा एते तयापारा अहमेभ्योऽन्यः साक्षिभूतो नित्य एवं चिन्तनम् । योगो भगवदर्पणबुद्ध्याऽनुष्ठीयमानघटनरूपत्वम् ॥ १० ॥ विवेकोऽर्कोऽध्यासतमसि ॥ ११ ॥ विवेक इति । विवेको देहादात्मनः पार्थक्यभानम् । अध्यासतमस्यध्यासो देहात्मभानं स एव तमस्तस्मिन्नर्को भानुरिव तदपसारकत्वादिति भावः॥११॥ संप्रति विवेकात्स्वरूपाविर्भावं दर्शयति- तद्वतश्चैत्यनि सोऽन्वयान्याभ्याम् ॥ १२ ॥ इति तृतीये मुक्तिपाठे प्रथमः प्रपाठः ॥ १ ॥ तद्वत इति । तद्वतो विवेकवतचैत्यानिर्भासः प्रत्यगभिन्नचित्स्वरूपविकाशः । कुतोऽन्वयान्याभ्यामन्वयव्यतिरेकाभ्याम् । तौ च क्रमादात्मदेहयोर्यथा-स्वमे स्थूलदेहस्यामानेऽप्यात्मनो भानमन्वयः। तत्र पुनरात्मनो भाने स्थूलदेहस्याभानं व्यतिरेकः । तल्लिङ्गं च स्वप्नोत्थितस्य स्वमे स्थादिकमहमद्राक्षमिति स्मरणम् । एवं सुषप्तौ लिङ्गदेहस्याभानेऽप्यात्मनो भानमन्वयः । तत्र पुनरात्मनो भाने लिङ्गस्याभानं व्यतिरेकः । तल्लिङ्गं च सुप्तोत्थितस्य सुखमहमस्वाप्सं न किंचिद- चेदिषमिति स्मरणम् । तथा समाधौ कारणदेह स्यामानेऽप्यात्मनो भानमन्वयः। तत्र पुनरात्मनो भाने कारणस्याभानं व्यतिरेकः । तल्लिङ्गं च व्युत्थितस्यैता- वन्तं कालमह समाधिमानभूवमिति स्मरणम् । तथा च जडदेहत्रितयादात्मनः पार्थक्ये सति पङ्काम्बुवत्स्वस्वरूपं प्रतिभातीति भावः ।
सिद्धान्तदर्शन- [ ३ मुक्तिपाठे- तथा च श्रुतिः-यथा मुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयादीरैः परं ब्रह्मैव जायते ।। एतदुक्तं भवति-साक्षात्का रात्पूर्वं देहात्मभानं प्रत्यक्षरूपं तत्पार्थक्य ज्ञा स्वनुमित्यात्मकं तैमिरिकस्य शङ्ख पीतसितत्वधीवत् ॥ १२ ॥ इति तृतीये मुक्तपाठे प्रथमः प्रपाठः॥१॥ - अथ तृतीये मुक्तिपाठे द्वितीयः प्रपाठः ॥२॥ बन्धहेतुज्ञापनार्थ विषयभेदमाह- द्विधैकोऽपि क्लृप्तः ॥ १ ॥ द्विधेति । एकोऽप्यर्थो द्विधा भवति। कुतः तृप्तेर्मन:कल्पनाद्यथा घटो बहि न्मयस्तथाऽन्तरे मनोमयस्तत्राऽऽद्यः प्रमाणेनावभास्यो द्वितीयस्तु कूटस्थेने विशेषः। तथा च योऽत्र बहिरेक एव प्रतीयते सोऽप्यन्तरेभिद्यते यथा मांसमर्थ योषित्पतिपुत्रादीनामिति ॥ १ ॥ तत्र मनोमयस्य बन्धहेतुत्वमाह- विष्टम्भी मनोमयः ॥ २॥ विष्टम्भीति । विष्टम्भी प्रतिरोधी मनोमयो मनाकल्पितो यथा स्वमाद व्याघ्रादावसत्वेऽपि तस्माद्भयादि ति। यथा वा सत्यपि दूरे बान्धवे मृति श्रुत्वा शोचति मृतेऽपि तस्मिन्ननानन्न शोचतीति ॥ २ ॥ परात्मप्राप्तौ वैराग्यस्यासाधारण्यमाह- मलमतर्षः पराचः प्रतीच्यावर्तकमासत्त्योः ॥ ३ ॥ मूलमिति । परा प्रातिलोम्येनाञ्चति गच्छतीति परागन्तःकरणं तस्य प्रतीरि परमात्मनि, आवर्तक्रमासत्त्योः प्रत्यावर्तनक्रमसंनिध्योर्मूलं निदानमतष वैराग्यमित्यर्थः । तथा च चेततो निसर्गतो बहिर्मुखस्य निरोधद्वारेण परात्म न्याभिमुख्थे शनैस्तत्संनिधौ चातर्षो निदानमिति भावः ॥ ३ ॥ कुतोऽसौ जायत इत्याह- दोषेक्षाभ्यासात् ॥ ४ ॥ दोषेति । दोषेक्षाभ्यासादोषाणां सततदर्शनात् । अत एवात्र यदि दोषदर्श नमन्तरेण कस्मिंश्चिदतों दृश्यते स तदाभास एव न तु वस्तुतो वैराग्यमि त्पवगन्तव्यम् ॥४॥ - - के ते दोषा इत्याह - -
२ प्रपाठः ]
निरञ्जनभाष्यसमेतम् ।
लौल्यवरस्यजन्मजरारोगात्ययतापा दोषाः ॥ ५॥
लौल्योते। लौल्यं विषयाणां चाञ्चल्यं नश्वरत्वमिति यावत्। वैरस्यं शेषविर.
सता जन्मादितापा जन्मजरारोगात्ययेषु दुःखानि ते तथा। अत्र जन्मनि तापो
गर्भवासयोनिनिःसरणाभ्यामेवं जरादिषु गलितपलितादिभिरुह्यम् । अत
एवाऽऽह श्रुतिः-परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निवेदमायात् । अथ
भोगस्य नश्वरत्वादिदोष पश्यत्यपि नरे न कथं दृश्यते वैराग्यमिति चेत्सत्यं न
दृश्यते प्रतिबन्धकस्य भोगादृष्टस्य सद्भावात् ॥ ५॥
भनयन्तरेण दोषं दर्शयन्नाह-
प्रियं रोत्स्यति स्वम् ॥ ६॥
प्रियमिति । अत्र प्रियं यद्धनपुत्रादिकं तत्स्वमात्मानं रोत्स्यति निवनीया.
द्रोदयिष्यति वेत्यन्तर्भूतणिजर्थः । तथा हि श्रुतिः-स योऽन्यमात्मनः प्रियं
ब्रुवाणं यात्मियं त्वां रोत्स्यतीति ॥ ६ ॥
संपति परमार्थसंपत्तिं दर्शयति-
शमादिर्हि संपदुत्प्लावित्वात् ॥ ७ ॥
शमादिरिति । शमादिः शमदमोपरतितितिक्षासमाधानश्रद्धेति षट्को गणः
संपत्समृद्धिकरः । कुतः, उत्प्लावित्वादूर्ध्वगतिशीलत्वाद्ब्रह्मसंनिधिप्रापकत्वा-
दिति भावः । अत्र बहिःसमृद्धिकरस्तु कनकरत्नवनितादिः संपदिवाऽऽपाततः
स्फुरन्नपि परमार्थतो न संपद्विपदाकरत्वादिति हिद्योतितार्थः ॥ ७ ॥
बाह्यान्तभिासे शीतोष्णवत् ॥ ८॥
बाटोति। बाह्यान्तविभासे बाह्यार्थान्तरात्मनोर्दीपनेच्छे शीतोष्णवन्मिथः प्रति.
द्वन्द्विन्यौ तयोरेकस्यां बृंहितायानन्या हृसतीति भावः । एवं बाह्यान्तरश्रिया-
वपीति बोध्यम् ॥ ८ ॥
नार्थे प्रियं ज्यायः सापेक्षत्वात् ॥ ९ ॥
नेति । अर्थे बहिर्विषये प्रिय सुखं ज्यायो नेत्यन्वयः। कस्मात्सापेक्षत्वा-
त्सुखान्तरापेक्षत्वात् । विषयमेकं भुञ्जानस्य मनसः पुनर्विषयान्तरलिप्सया
धाबमानत्वादिति भावः । अत एवोक्तं-
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ॥ इति ॥ ९ ॥
६० सिद्धान्तदर्शनं- [ ३ मुक्तिपाठे- अपि च- लोलं च यौगिकत्वात् ॥ १० ॥ लोलमिति । लोलमनित्यं क्षणस्थायीत्यर्थः । कस्माद्यौगिकत्वाद्विषयेन्द्रिः यसंपर्कमात्रस्थायित्वात् ॥ १० ॥ विरसं वीर्यवन्मनः पूर्णत्वात् ॥ ११ ॥ विरसमिति । विरसं विषयतृष्णारहितं वीर्यबदलीयः। कुतः पूर्णत्वात्सा- झोपेतत्वादत एवोक्तं-वैराग्यात्पूर्णतामेति मनोनाशावशानुगमिति । एतेन तृषितस्य मनसो विषयतृष्णया संकोचितत्वेनात्मतत्त्वोद्भावनान हत्वान्न वीर्य- वत्तेति सूचितम् । अत्र विरसस्य मनसः पूर्णत्वोपन्यासात्तन्मनस एव प्राणिनस्त- थात्वं नान्यस्येत्यपि सिद्धम् ॥ ११ ॥ पराक्तृष्णजो जडा वाव ॥ १२॥ तस्मात्परागिति । पराक्तृष्णजो बाह्यार्थानुरागिणो जडा वाव मुग्धधिय एव न तु धीरा इत्यर्थः । तथा च श्रुतिः-पराचः कामाननुयान्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न पार्थयन्ते ॥ अत एवोक्तम्- रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु कुतः शाद्वलता तस्य यस्याग्निः कोटरे तरोः ॥ इति । यस्तु तत्त्वविदामप्यनुरागो दृश्यते स तदाभास एवं तद्विषयस्य बाधित स्वात् ॥ १२॥ धीराणां बाह्यवैराग्ये हेतुमाह- जाङ्गलो ह्यर्थो विवेकिनाम् ॥ १३ ॥ जागुलेति । हि यस्मादर्थो बहिर्विषयो विवेकिनां विचारदृशां जालो गरलवद्भातीत्यर्थः ॥ १३ ॥ तेषामन्द्रियकं सुखं दुःखमेवेति सहेतुकं दर्शयति- पाखर्यात्सुखं दुःखमेव सर्वम् ॥ १४ ॥ प्राखर्यादिति । मर्व साम्राज्यललितललनासङ्गाद्युत्थमपि सुखं दुःखमेव विकिनामित्यनुवर्तते । कुतः प्राखर्यातीव्रत्वात् । तथा च मुखेऽपि वैषयिके रजोन्तर्मिश्रणेन किमप्येकं माख प्रातिकूल्येन भासमानमस्ति यन्मनस्विभि. रेबानुभूयते ।। १४ ॥ - USA - . m २ प्रपाठः] निरञ्जनभाष्यसमेतम् । इदानी सर्वानर्थमूलस्य कामस्य भोगेनोपरतिनास्तीति दर्शयति- विना नेतरि न्यासान्नोपशाम्यति रसः स्वादैर्हविषेवानलः ॥ १५॥ विनेति । नेतरि सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोविधिज्ञा षडाहुरङ्गानि महेश्वरस्य ।। इत्युक्तसर्वज्ञतादिमतीधरे । न्यासात्तस्यैव कर्माणि भृत्यवदहं करोमीत्येवं बुद्ध्या स्वकर्तृत्वफलार्पणाद्विना स्वादैः संभोगैः केवलै रसो विषयाभिलाषो नोपशाम्यति । तत्र दृष्टान्तो हविषेवेति । अत एवोक्तं स्मृतिपुराणादौ- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेच भूय एवाभिवर्धते ॥ इति ॥ १५ ॥ नापूर्वमद्वैतादगर्वाद्वा ॥ १६ ॥ नेति । अद्वैतावितीयवस्तुरहितबोधादगर्वात्स्वकर्तृत्वरहितबोधादपूर्वमदृष्टं शुभमशुभं वा बन्धहेतु संस्काररूपं न जायत इत्यर्थः । किंतु द्वैतकर्तृत्वभानयो- रविद्यैव निदानं तत्कार्यत्वात् । अगादित्यद्वैतवोधासमर्थस्येति वाशब्दो घोतयति ॥ १६ ॥ विरहार्थानुध्याऽऽकरस्तापाशंसयोः ॥ १७ ॥ विरहेति । विरहार्थानुध्या विरहोऽभावोऽमुकस्य यदस्ति मम तु तन्नास्ती. त्यादिरूपोऽर्थो विषयस्तयोरनुध्या चिन्तनं तापाशंसयोर्दुःखाभिलाषयोराकर इत्यन्वयः ॥ १७ ॥ धौव्येऽप्यादिष्टस्य दिष्टे मा स्मारो दुरितानाम् ॥ १८ ॥ ध्रौव्य इति । आदिष्टस्य गुरुशास्त्रोपदिष्टस्य ध्रौव्येऽपि श्रुत्वा ममैतत्क- तव्यमेवेतिनिश्चितत्वेऽपिदिष्टे फलसाधनयोग्यसमये मा स्मारः स्मृतिन भवति। केषां दुरितानां पापिनां तत्स्मृतौ दुरितमेव प्रतिकूलमिति भावः । तथा च यद्यवश्यकार्यतावधारणेऽपि दिष्टे न स्मयते तदा तत्प्रसव्यं दुरितमनुमाय तदपनुत्तये यतितव्यम् ॥ १८ ॥ स्वरसानाप्तेरप्रतृप्यन्तो यन्त्रवत् ॥ १९ ॥ स्वेति । स्वरसानाते: स्वरूपसुखानास्वादनादप्रतृप्यन्तो भोगसुखैः प्रकर्षण तृप्तिमलभमाना जन्तवो यन्त्रबद्घठिकाकण्टकवत्परिभ्रमन्तीत्यर्थः । एतेन ६२ सिद्धान्तदर्शनं- [ ३ मुक्तिपाठे . भुज्यमानैरपि विषयैः परितृप्तिविरहादात्माभिलषितं मुखं न वस्तुतो भोर स्थमिति सूचितम् । तथा च सुखं हि द्विविधं योगजं स्वरूपं च तत्राऽ: विषयसंनिकर्षाज्जायो द्वितीयं तु स्वात्मानुभवादवभासते । अत्र यावत्स्वरू मुखं नाऽऽमुवन्ति तावज्जन्तवो घटिका कण्टकवत्कचिदूध कचिच्चाधो गच्छन निरन्तरं भ्रमन्तीत्यर्थः ॥ १९ ॥ देहाभिमानिनो जराजन्म रणरोगादेरवश्यंभावान तापत्रयाद्विमुक्तिरि दर्शयति- न साङ्गस्यापियाद्विमोकः ॥ २० ॥ नेति । साङ्गस्य देहाभिमानिनोऽप्रियाहुःखत्रयात् । तथा हिश्रूयते-न ह. शरीरस्य सतः प्रियाप्रिययोरपहतिरस्तीति ॥ २० ॥ न विविक्तं पृक्ते ॥ २१ ॥ नेति । विविक्तं देहत्रयात्पृथकृतमात्मानं पृते स्पृशति नाप्रियमित्यर्थः तथा हि श्रूयते-अशरीरं वाव सन्तं पियापिये न स्पृशत इति ॥ २१ ॥ गज्ञविज्ञयोः काकोलूकवत् ॥ २२ ॥ इति तृतीये मुक्तिपाठे द्वितीयः प्रपाठः ॥ गिति । अज्ञविज्ञयोः सच्चिदानन्दस्वरूपानभिज्ञाभिज्ञयोग्दृष्टिः काको लूकवद्यत्र काकस्य दृष्टिर्न तत्रोलूकस्य यत्र पुनरुलूकस्य न तत्र काकस्य तद्वत् तथा च मूढो जगदिदं पश्यति विवेकी तु तन्न पश्यति मृषात्वेनावधारणात् एवं विवेकी स्वस्वरूपं पश्यति मूढस्तु तन पश्यति ज्ञानचक्षुविहीनत्वादि भावः ॥ २२ ॥ इति तृतीये मुक्तिपाठे द्वितीयः प्रपाठः ॥ अथ तृतीये मुक्तिपाठे तृतीयः प्रपाठः । इदानीं जगतो मिथ्यात्वं सयुक्तिकं प्रतिपादयिष्यन्नादौ तस्य वासनोपक ल्पितत्वं बोधयति- क्लुप्तो हि सर्गस्तैमिरवत् ॥ १ ॥ क्लप्त इति । हिः श्रुतिप्रसिद्ध विद्वत्मसिद्धौ च। क्लुप्तः कल्पनया कृतः सर्गः सृष्टि प्रपञ्चः किमिव तैमिरवन्नेत्ररोगविशेषेण दृश्यमानद्विचन्द्रादिवत् । तमिस्रेण जृम्भ पाठः ] निरञ्जनभाष्यसमेतम् । ६३ [भूतवेतालादिवद्वा । तथा च जीवेशावाभासेन करोति माया चाविद्या च मेव भवतीतिश्रुत्युक्तपायाकृतजीवेशाभ्यां कृत्स्नं जगत्कल्पितं भवति । चेश्वर ईक्षणादिप्रवेशान्तं जीवस्तु जाग्रदादिविमोक्षान्तं कल्पयति । तथा श्यन्ते-तदैक्षत बहु स्यां प्रजायेय, अनेन जीवेनाऽऽत्मनाऽनुपविश्य [रूपे व्याकरवाणि, एकं सन्तं बहुधा कल्पयन्तीत्यादयः। कल्पना चाऽऽवि- की मानुषी च तदुक्तम्- अतस्मिस्तु तदाकारवृत्तिः सा कल्पनेरिता । यद्यविद्यामृते भाति तदैषा हाप्यतामिका ।। या प्रातिभासिकी सृष्टिरेषाऽपि कल्पना स्मृता । काचिदविद्यया सा च मनोमात्रेण काचन ॥ इति ॥ १ ॥ तत्मपश्चस्य जन्मादिकं युक्त्या निरूपयति- जन्मादिमद्वैशिष्टयात् ॥ २॥ न्मेति। अत्र जन्मादि साध्यम् । आदिना नाशादिपरिग्रहः। कुतो वैशिष्टयादि. टत्वागणवत्वात्कियावत्त्वात्सत्तावत्त्वाद्वेत्यर्थः । अत्र यद्यद्गुणादिविशिष्टं तत्त- मादिमद्घटादिवद्यन्न जन्मादिमत्तद्गुणादिमन्न भवति यथा सत्तेति व्याप्तिः । क्षिणं तुरीयपादादूह्यम् । नन्वाकाशं नित्यं निरवयवत्वात्सत्तावदित्यनुमानं णमिति चेन्न शब्दादौ व्यभिचारात् । नापि विभुत्वात्तन्नित्यं परमात्मवदिति व्यं तस्य परममहत्त्वे मानाभावात् । तदनेकत्वे मिथःसंस्थानानईत्वाज्ज्या. नन्तरीक्षादित्यादिश्रुतेश्च ॥ २॥ तदनुपानं प्रबल हेतूपन्यासेन द्रढयति- सारमितेश्च ॥ ३॥ सारेति । सारमितेराप्तवाक्यात् । तथा च श्रुति:-अतोऽन्यदार्तम् । एतस्माजा- के प्राणो मनः सर्वेन्द्रियाणि च । ख वायुयोतिरापः पृथिवी विश्वस्य धारिणी; दिका । नन्वाकाशवत्सर्वगतश्च नित्य इतिश्रुत्या गगने नित्यताद्यस्त्विति न । आकाशस्य तथात्वे सत्यपमयैव तत्माप्त्या तत्र सर्वगतनित्यपदयोः- र्यापत्तेः । तेन सर्वगतो नित्यश्चाऽऽत्माऽऽकाशवनिरवयवो निर्लेपो वेति पर्थः । लोकदृष्टया वा तदुपमाख्यानम् । तन्नित्यतादिव्यवहारस्तु सर्वव्यापि ज्योतिस्तिष्ठन्ति पर्वताः सदेतिवज्जन्यापेक्षया व्यापित्वेन देवादीनाममर- रोक्तिवत्सलयकालपर्यन्तस्थायित्वेन च बोध्यो न त्वाकाशस्य परमार्थनि.
- - ६४ सिद्धान्तदर्शनं- [ ३ मुक्तिपाठे- त्यतायस्ति । तथात्वे वायोश्चान्तरीक्षं चैतदमृतमितिश्रुत्या वायोरप्यनश्वरत्व. प्रसङ्गात्यागुक्तश्रुतिजातविरोधदुरित्वाच । अत एवाऽऽगमः-आभूतसंप्लवं स्थानममृतत्वं हि भाष्यत इति । एवं च जीवापेतं वाव किलेदं म्रियते न जीवो नियत इतिश्रुत्या जीवस्य यदमरत्वकीर्तनं तदपि ज्ञानोदयपर्यन्तस्था. यित्वेन समाधेयम् । तस्य नश्वरान्तःकरणदर्पणकृतप्रतिबिम्बरूपत्वात् । प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽ. स्तीतिश्रुतेश्च । तस्माज्जीवानामनादित्वेऽपि विनाशः संभवति भागभाववत् । कचित्तु तन्निरुपाधिस्वरूपाभिप्रायेण पारमार्थिकमपि तनित्यतादिकमभिहित- मित्यविरोधः ॥ ३ ॥ इदानीमस्य जगतो मिथ्यात्वमपि साधपति- मृषा चैन्द्रियकत्वाव्यतिरेकायन्तवत्त्वेश्यः ॥ ४ ॥ मृषा चेति । जगन्मृषा स्वाधिष्ठानसत्तया सत्तावन्कस्मादित्यपेक्षायां हेतुत्रयमु. पन्यस्यति-ऐन्द्रियकत्वेति । ऐन्द्रियकत्वं साक्षादिन्द्रियग्राह्यत्वम् । अत्र यद्यदै- न्द्रियकं तत्तन्मृषैव स्वाममपञ्चशुक्तिरूप्यनभोनीलिमवितस्तिमानार्केन्दुमण्डलग. न्धर्वनगरादिवत् । यन्नैवं तन्नैवं सत्तावत्परमात्मवद्वेति व्याप्तिः। अव्यतिरेक उपादानानतिरेकः । आद्यन्तवत्वं जन्मविनाशशालित्वम् । अत्रापि पूर्ववदेव व्याप्तिरुन्नेया ॥ ४ ॥ ब्रह्मातिरिक्तस्य मिथ्यात्वमुपपाद्य तत्पुनर्बलबद्धनुपदर्शनेन ढयितुमाह- श्रुताम्नायाच्च ॥ ५॥ श्रुताते ।श्रुताम्रापात्, श्रुत्युपदेशात् । तथा हि-मायां तु प्रकृति विद्यात्। नेह नानाऽस्ति किंचन । इन्द्रो मायाभिः पुरुरूप ईयते । एक सनां वहुधा कल्प- यन्ति । वाचारम्भणं विकारो नामधेयमिति । अत एव किमिच्छन्कस्य कामा- येति श्रुतावपि जगन्मिथ्यात्वविवक्षयैव किमिच्छन्नित्युक्तिः। यदि च सत्यप्य- नकले श्रतिवचसि निरुक्तव्याप्तिग्रहे व्यभिचारशङ्का केषांचिदुत्पद्यते तर्हि तानचेतनांश्चेतयितुं कः शक्नोतीति तूष्णीभाव एव समीचीनः ॥ ५॥ ननु जगतो मिथ्यात्वे कथं तत्प्रतीतिर्भवतीति चेन्मृषाऽपि प्रतिभातीति लौकिकदृष्टान्तेन प्रतिपादयति- धान्धयैनच्चिति मरीचीवत् ॥ ६॥ धान्धयेति। धान्धया दृष्टिभ्रमेण चिति ब्रह्माण परात्परे । एनदेतद्वियदादि.
३ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ६५ जगत् । मरीचीबद्रविरश्मौ भासपानं यजलं तद्वत् । नन्विहाध्यासः प्रत्यक्ष एव विषये दृश्यते नाप्रत्यक्षे कथमसौ ब्रह्मणीति चेन्मैवं प्रत्यक्षागोचरेऽपि व्योम्नि सलनीलिमादिदर्शनात् । तस्य यत्साक्षादपरोलाइतिश्रुत्या सदैव प्रत्यक्षरूप- स्वाच्च । ननु तथाऽपि मागविद्यमानस्याऽऽरोपो न संभवति शुक्तिकादौ प्रसि- दस्यैव रजतादेरारोपदर्शनादिति चेदुच्यते-भ्रमोत्पत्तेः मागपि तदस्त्येव सृष्टि- प्रवाहस्यानादित्वान्मायायाः सर्वबीजमयत्वादघटनघटनपटीयस्त्वाचेत्युपनिष. सिद्धान्तः । अथ यदि सांख्यतार्किकादिनये प्राणिनामहं देही स्थूलो गौरो गतिमानित्यात्मनि देहादिमत्ताभानमनादिना केनापि दोषेणाध्यसितुं शक्नोति किं तेन ब्रह्मणि जगबुद्धिर्भवितुं नाहतीत्युभयोर्मिदा न राजति मनसि मनस्विनामिति ॥ ६ ॥ तन्मृषात्वमज्ञानदशायां न स्फुरतीति दर्शयन्नाह- तथ्यमाविद्यकानां स्वपत्स्वामवत् ॥ ७ ॥ तथ्यमिति । तथ्यं सत्यं भासते जगदित्यर्थः । केषामाविद्यकानामविद्यावर- णाहतानां किमिव स्वपत्स्वामवत् । स्वपतो तत्कालीनप्रपञ्चवत् । तथा च पथा मृषाऽपि वस्तु स्वपतां स्वप्ने तथ्यमेव प्रतिभाति तद्वदविद्यानिद्राक्रान्ता. नामिदं जगदिति भावः । तथा हि श्रूयते-यत्र द्वैतमिव भवति तदितर इतर- त्पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदिति । उक्तं च- - देहात्मप्रत्ययो यद्वत्ममाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाण स्वात्मनिश्चयात् ।। इति ॥ ननु जगदलीकत्वे लोके तेन कथं भोगो निष्पद्यते । न हि मृगतृष्णोदकेन पानावगाहनादिर्भवितुमर्हति । नापि रज्जुसर्पण दष्टो म्रियते कश्चिदिति चेदु. च्यते-भोग्यसत्यत्वनिश्चय एव भोगे हेतुर्न खलु भोगो वस्तु सत्तामपेक्षते । स्वमादावसत्यपि विषो मुखदुःखादिजन्मदर्शनात् । मृगतृष्णादौ तु स्नाना- दिकाले भ्रान्तिविगमान तथा भवितुमर्हतीति । तथा च सति प्रातिभासिक . मपि जगदधिष्ठानविज्ञानविरहेण पारमार्थिकमिव व्यवहियते लोकैरिति तद्वयावहारिकमुच्यते ॥ ७ ॥ ज्ञानोदयेऽपि प्रारब्धक्षयपर्यन्तं वक्ष्यमाणसोपाधिभ्रान्तेर्न निवृत्तिरिति दर्शयति- among ९ ६ सिद्धान्तदर्शनं- [ ३ मुक्तिपाते विदां त्वापारब्धात्तिमिरिवत् ॥ ८॥ विदामिति । तुशब्दः पूर्ववैलक्षण्यद्योतकः ।विदां कृतात्मसाक्षात्काराणाम् आमारब्धायेन कर्मणा शरीरमुत्पद्यते तत्भारब्धं तद्यावत् । तिमिरिवद्या शङ्खादिरयं शुक्लादिमानिति विजानतामपि तिमिररोगाणामन्यथाप्रतीतिस्तद्वदि भातीत्यर्थः । तथा च ज्ञानिनां स्वरूपज्ञानसद्भावेऽपि व्यवहारदशायां तत्स क्षात्कारविरहाद्विक्षेपशक्तिः प्रभवति किंतु तच्छक्त्या तदानीमाभासत्वे द्वैतभानेऽपि स्वरूपसंस्मरणान्न क्षतिः । तदित्थमध्यासवादस्य श्रुत्युपपत्तिवि दनुभवसिद्धस्यापि कचिनिन्दाविधानं चेत्तदपि नासंगतं जगन्मिथ्यात्वो देशस्य ज्ञानाधिकारहीनानां प्राकृतानां प्रतिकूलत्वात् । श्वपाकादीनां सरि रादिवदित्यवधेयम् ॥८॥ संप्रति बहिः क्षेममाह- संयमपथ्यसद्वृत्तिशीलान्यायुष्याण्युन्मेषित्वादर्चिषाम् ॥ ९ ॥ संयमेति । संयमः प्राणेन्द्रिययोविधिवन्निग्रहः । पथ्यं निदानोक्तमाहार्यम् सद्वृत्तिः साधुजीविका। शीलं सत्स्वभावः। एतान्यायुष्याण्यायुर्हितानि । कस्मा दुन्मेषित्वादुद्भासित्वात् । केषार्चिषां तेजोविशेषरूपाणां यान्त्रिकशक्तीनाम् तथा च देहसंधारगीनां गुणशक्तीनां यथावत्सामञ्जस्यापादकत्वादायुष्यात संयमादीनि पूर्वपूर्वोत्कर्षक्रमेण भवन्तीति भावः । अत एवोक्तम् - पथ्याशिनां शीलवतां नराणां सद्वृत्तिभाजां विजितेन्द्रियाणाम् । एवंविधानामिदमायुरत्र चिन्त्यं सदा वृद्धमुनिपवादः ॥ तत्रैवं योज्यताम्-यथाऽऽद्र चेलमुन्मीलितं कालेनाचिरेणैव शुष्येदेवमिदं वपुः प्राणेन्द्रियव्यापारेण । तदेव पुनर्निमीलितं चिरेण शुष्येदेवं संयमेन । वैधो. पवासकृच्छ्राध्ययनव्रतादीनामपि तदन्तर्भावः ॥ ९ ॥ तस्मिंश्चोत्क्रान्तिनियतेीपत्रत् ॥ १० ॥ तस्मिन्निति । तस्मिश्चचिषि सत्यपि । उत्क्रान्तिः प्राणस्य देहत्यागः । संभवतीति शेषः । कुतो नियतेरशुभकर्मविशेषात् । दीपवद्यथा दीपस्य सत्स्वपि वाधारस्नेहेषु जीवनोपायेषु प्रचण्डवातादिना नाशस्तद्वदित्यर्थः । तदुक्तम्- वाधारस्नेहयोगाद्यथा दीपस्य संस्थितिः । विक्रियाऽपि च दृष्टैवमकाले प्राणसंक्षयः ॥ इति । तथा च देहिनां नियतेरेवासंयमापथ्यादावपि प्रवृत्तिर्जायते । एवं च प्राणिनः प्रागुपचितधर्माधर्माभ्यामजपानां विशिष्टसंख्यामुपादायैव जायन्ते ।
-- ३ प्रपाठ:] निरञ्जनभाष्यसमेतम् । ६७ तत्र संयमादिमतामूर्ध्वस्रोतोवृत्तिकानां दीर्घकालेनैव तज्जपसमाप्तिः स्यात् । अन्येषां तु लघीयसा कालेनेति न विधातरि विसंवादः ॥ १० ॥ आयुष्येषु प्राणायामस्य प्रवरत्वमाह- प्रष्ठः प्राणयोगो विधिवद्धानविष्टम्भी ॥ ११ ॥ प्रष्ठ इति । विधिवद्यथाशास्त्रम् । प्राणयोगः प्राणस्येडापिङ्गलयोः संचरतो योगः सुषुम्नायां स्थापनम् । यच्च पूरकरेचकापेक्षया तदनपेक्षया वाऽनुष्ठे- यम् । किंभूतो हानविष्टम्भी देहधारकाणां क्षयावरोधी प्रष्टः प्रागुक्तसंयमे- फूत्तमः॥ ११ ॥ कुत इत्याह- तद्धारो हि जीवनं मृतिस्तूत्क्रमः ॥ १२ ॥ तदिति । हि यस्मात्तद्धारस्तस्य प्राणस्य धारो धारणं देहे स्थित्य- नुकूलव्यापारः । उत्क्रमो देहत्यागः । माणस्योत्क्रमे लिङ्गस्याप्युत्क्रम- स्तदधीनत्वात्तस्य सरघाधिपस्येव सरपानाम् । तथा च श्रुतिः-प्राणस्ते- जसा युक्तः सहाऽऽत्मना यथासंकल्पितं लोकं नयतीति । प्राणनकालस्तु प्राणप्रवाहभेदादेदितव्यो यथा प्राणोऽधःस्रोतसा वृत्त्या प्रवहन चिरायते । अवृत्त्या वहमानस्तु चिरेण स्थातुमर्हतीति ॥ १२ ॥ तस्य नैसर्गिकगतिप्रकारमाह- स्वतः सकिष्कुर्गतिः ॥ १३ ॥ स्वत इति । सकिष्कुर्नासाविवरमादाय द्वादशाङ्गुलिपरिमिता गतिः प्राण- स्येत्यर्थः । अत्र स्वत इति श्रुतेापारभेदेन तन्यूनाधिकत्वे च बोध्ये ॥ १३ ॥ माणगतेविस्तारमभिधाय तनैसर्गिकमात्रासंख्यामाह- विघट्यां षट्कत्वः ॥ १४ ॥ विधव्यामिति । विघठ्यां पले । तथा च विघटीं व्याप्य षट्संख्यगत्य. भिधानादिवानिशं षट्शताधिककविंशतिसहस्रवारं प्राणो नासाभ्यां वहतीति भावः । तदुक्तं च- षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिम् । अजपानामगायत्री जीवो जपति सर्वदा ॥ इति ॥ १४ ॥ सिद्धिदो ह्रासश्चव्यायासाठादा ॥ १५॥ सिदिद इति। ह्रासः प्राणगतेविस्तारस्य वारसंख्यायाश्च क्षीणता । सिद्धिद: -
६८
-
सिद्धान्तदशेनं-
[ ३ मुक्तिपाठे-
क्षुत्पिपासानभिभवनैरुज्याणिमादिदायकः। स चेयभ्यासाद्वेदान्तोक्तश्रवणम-
नननिदिध्यासनावर्तनात् । हठाद्धठयोगात्पतञ्जलिघेरण्डायुक्ताजायत इति
शेषः । एतदुक्तं भवति-प्राणनिरोधेनाऽऽत्मनो गुह्यशक्त्युन्मीलनाद्विचित्रफ-
लाविर्भावो भवति । वाशब्दो राजयोगानहस्यैव हठयोग इति बोधयति ।॥१५॥
न तद्भस्त्रीणि पञ्चानाम् ॥ १६ ॥
नेति । पञ्चानां मूढक्षिप्तविक्षिप्तकाग्रनिरुद्धानां चित्तावस्थाविशेषाणां
मध्ये त्रीणि मूढक्षिप्तविक्षिप्तानि तद्भूः प्रागुक्तपाणनिरोधस्थानं नेत्यन्वयः ।
सत्र मूढमुद्रिक्तेन तमसा द्वेषादिप्राचुर्यानिरवधिपरपीडादिरूपविरुद्धकृत्येषु
दुःखसाधनविषयेषु च नियतम् । यच्च सदैव कृत्याकृत्याविवेकिनां रक्षा-
पिशाचादीनां तत्प्रकृतिकानां महिषादीना केषांचिन्मानुषाणां च । क्षिप्त-
मुद्रिक्तेन रजसा कामादिप्राचुर्यात्सुखदुःखसाधनेषु प्रेरितम् । यच्च सदैव
दैत्यानां तत्प्रकृतिकानां चान्येषाम् । विक्षिप्तमुद्रिक्तेन सत्त्वगुणेन शान्तिप्राचुः
यत्क्लेिशसाधनविरतिपूर्वकानन्दसाधनेषु शब्दस्पर्शरूपरसगन्धादिष्वेव नियतम् ।
यच्च सदैव देवानां तत्प्रकृतिकानां चान्येषाम् । शेषयोस्तु सात्त्विकपरि-
णामभेदयोरेकाग्रभूमिकायां यो योगः स संप्रज्ञातो यः पुनर्निरुद्धभूमि
कायां सोऽसंप्रज्ञातः समाधिर्भवतीति बोध्यम् ॥ १६ ॥
संप्रति सर्वार्थसाधनं समाधि निर्वक्ति-
ध्येयैकनिर्भासः समाधिः ॥ १७ ॥
ध्येयैकनिर्भासो ध्येयैकस्य ध्यानविषयमात्रस्य निर्भासो निश्चयेन भासन.
मस्माद्भावनाख्यचित्तवृत्तिविशेषात्स समाधिरित्यर्थः । तथा च श्रुतिः-यदा
पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमा
गतिम् । तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणामिति । उक्तं च योग-
शास्त्रे -तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिरिति। एवं च सुषुप्तावन्त:
करणस्य ध्येयाकारवृत्तिविरहाद्वक्ष्यमाणनिदिध्यासने च ज्ञानज्ञेयज्ञातरूपत्रि.
पुदीभानसद्भावात्ताभ्यामयमन्यः। स च द्विविधो बाधसमाधिनिरोधसमाधिश्च ।
तत्राऽऽधो नेति नेत्युक्तरीत्या जायते । द्वितीयस्तु-यच्छेद्वाङ्मनसी प्राज्ञ
इत्युक्तरीत्याऽऽविर्भवति । तथा च-बाधसमाधौ ज्ञानयोगिनां निरोधसमाधौ
तु ध्यानयोगिनामधिकारः । तत्र चान्तःकरणस्य ध्येयाकारणावस्थानान्न देहः
मुषुप्तिवत्पतति । अयमेव जीवस्य तुरीयावस्थेत्युच्यते । मनसो ब्रह्मण्यवस्था
नमात्रं तु ब्रह्मसमाधिौणः स च सुकरो मुख्यसमाधिसाधको महानर्थोन्मूल
कश्च बोदव्यः ॥ १७ ॥
३ प्रपाठः ] निरखनभाष्यसमेतम् । D - - कुतोऽसौ जायत इत्याकाङ्क्षायामाह- ध्यानात् ॥ १८॥ ध्यानादिति। ध्यानात्मत्ययैकतानता ध्यानं तस्मादाविर्भवतीत्यर्थः ॥१८॥ तद्ध्यानं कुतो भवतीत्याह- तद्धारणातः ॥१९॥ तदिति । तद्ध्यानं धारणातो धारणानाम चित्तस्यैकस्मिमालम्बने स्थाप- नम् । ततो जायत इत्यर्थः ॥ १९ ॥ तत्रयस्य कारणमाह- तपःस्वाध्यायेश्वरप्रणिधानजात्रयो योगाः ॥ २०॥ तप इति । त्रयो धारणाध्यानसमाधयः । युज्यत एभिरिति योगा। योगश- ब्दोऽयं समाधौ मुख्यो ध्यानधारणयोस्तु गौणः । तपःस्वाध्यायेश्वरमणिधा- नजास्तपःप्रभृतिभ्यो जायन्त इत्यर्थः । तत्र तपः कृच्छ्रचान्द्रायणादिभिः शरीरशोषणं तपतेः संतापार्थकत्वात् । यो नः क्लेशः स नस्तप इति स्मृतेः। सपो नानशनात्परमिति श्रुतेश्च । स्वाध्यायः प्रणवजपादिः। ईश्वरमणिधानं विहिता- विहितानां कर्मणां सर्वेषां परमेश्वरे परमगुरौ फलानपेक्षया समर्पणम् । तदुक्तम्- कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि विन्यस्त त्वत्मयुक्तः करोम्यहम् ॥ इति । अत्र भगवत्पणिधानं हि संसारिणः समीचीनः पन्थाः स्वकर्तृत्वाभिमान- फलाभिसंधानयोः सर्वानांकरत्वात् । युक्तो हि संसरञ्छाम्यतीति वक्ष्यमाण- त्वात् । श्रुतिस्मृतिपुराणादिभिरेकतानेन तदभिहितत्वाच ॥ २० ॥ समाधः कार्यमाह- तत्समापतिरकाग्रयान्माणवञ्चित्तस्य ॥ २१ ॥ तदिति । चित्तस्य तत्समापत्तिध्येयाकारता । ऐकारणाद्धेयमात्रावलम्ब- नाद्भवतीति शेषः । किमिव मणिवत् । यथा स्फटिको वस्तुयोगेन तदाकारं धत्ते तद्वदित्यर्थः ॥ २१॥ समाधेयापारमाह- व्यापृतिर्गुणसूत्कर्षः ॥ २२॥ व्यापृतिरिति । गुणसूत्कर्षो गुणस्य सत्त्वस्य सूत्कर्षो रजस्तमोलेशेनाप्यन - सिद्धान्तदर्शनं- [ ३ मुक्तिपाठे- भिभवश्चरमोत्कर्ष इति यावत् । व्यापृतिः सर्वज्ञतायाः साक्षात्कारणम् । तथा च यदा समाधिस्तदैव सूत्कर्षः सर्वज्ञता च । अत एव युक्तस्य सर्वदा सर्वार्थभानम् । युञ्जानस्य तु समाधिकालीनमिति स्थितम् ॥ २२ ॥ समाधिगोचरस्य द्वैविध्यमाह- द्वौ वाव भाव्यौ ॥ २३ ॥ द्वाविति । द्वौ वाव द्वावेव जडाजडौ भाव्यो भावनाविषयौ । तत्र जडः स्थूलसूक्ष्मकारणरूपः । अजडश्चैतन्यस्वरूपः ॥ २३ ॥ तस्मादुपासीतैकाग्यं यत्राविशेषात् ॥ २४ ॥ तस्मादिति । अविशेषाच्छ्तौ विशेषाश्रवणात् । यत्र दिशि देशे काले चा, ऐकाग्यं मनसः सौकर्येण ध्येयमात्रावलम्बनं जायते तस्मात्तस्मिनुपविश्यो- पासीतेत्यर्थः । अत एवोक्तमा:-मनोनुकूल इति । तथा चोत्थितस्य मनसो देहधारणे व्यापृतत्वेन सूक्ष्मवस्तुनिरीक्षणाक्षमत्वाच्छयानस्य चाकस्मा- देव निद्राविर्भावादासीनस्यैवोपासना संभवतीति बोध्यम् ॥ २४ ॥ उपासनास्वरूपमाह- युक्तिः संततोपास्तिः ॥ २५॥ युक्तिरिति । युक्तिर्मनसः संवन्धः संतता तैलधारावद्विच्छेदरहिता। उपास्ति- रुपासनानामेत्यर्थः । सा च द्विविधा शुद्धा मिश्रा च। तत्राऽऽद्या चतुर्भुजादिमूर्ति- भावनारूपा । द्वितीया पुनविविधा कर्ममिश्रा ज्ञानमिश्रा च । तत्र कर्ममिश्रा भगवदर्पणबुद्ध्याऽनुष्ठीयमानेन कर्मणा तत्समीपवर्तनरूपा । ज्ञानमिश्रा महा- वाक्यार्थबोधोत्पत्तौ सोऽहमित्यनेन चिन्तनरूपा । सर्वत्र ब्रह्मभावनारूपा वा ॥ २५ ॥ ध्यानेन द्वितीयजगत्यनवतीर्णस्याज्ञतां दर्शयति- प्राज्ञोऽप्यज्ञो यावन्न भुवोविट् ॥ २६ ॥ प्राज्ञ इति । भुवो विशतीति भुवोविट सूक्ष्मजगत्यवतीर्णो यावन भवति तावत्माज्ञोऽपि पण्डितोऽप्यज्ञः सूक्ष्मार्थावगमानहत्वादिति भावः ।। २६ ॥ समाधेः फलान्तरमाह- स्थैर्यादाणिमाद्यम् ॥ २७ ॥ स्थैर्यादिति । स्थैर्याञ्चित्तैकाउपाणिपाद्यमष्टैश्वर्य पतिभातीत्यर्थः । अष्टै । श्वर्यमाहुः- - ४ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ७१ अणिमा लधिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च कामावसायिता परा ॥ इति । तत्राणिमाऽणुत्वं येन सूक्ष्मीभूय सर्वत्र विचरितुमर्हति । लघिमा लघुत्वं तूलावयवादप्यल्पीभावः । प्राप्तिः प्रकर्षेण व्यापनं येन चन्द्रमसमप्य- गुल्यग्रेण स्पृशति । प्राकाम्यमिच्छानभिघातो येन भूमावप्युदकवदुन्मज्जति निमज्जति च । महिमा महत्त्वं येन चतुर्दशभुवनान्युदरे वर्तन्ते । ईशित्वं प्रभुत्वं येन स्थावरादिसर्वभूतान्याज्ञाकारीणि भवन्ति । येन वा सृष्टिस्थितिप्रलया- नामीष्टे । वशित्वं स्वातन्त्र्यं येनेन्द्रियाण्यात्मसात्कृत्वा विचरति । कामाव- सायिता कामान्स्वेच्छयाऽवसाययितुं शीलमस्य स तस्य भावः सत्यसंकल्पते- ति यावत् ॥२७॥ किंच- दीपवदावेशः स्फुरत्यगौघे योगैश्वर्यात् ॥ २८ ॥ दीपवदिति । योगैश्वर्याद्योगलभ्यप्रभावात् । स्फुरत्युत्पद्यमाने । अौधे पहुकाये । दीपवद्यथा दीपस्यैकस्यानेकवर्तिषु प्रवेशस्तद्वत् । आवेशो लिङ्ग- देहस्येत्यर्थः । तथा च श्रुति:-स एकथा भवति द्विधा भवति पञ्चधा सप्तधा नवधेति ॥ २८ ॥ सपाधिफलमुपसंहरति-- निष्खे सर्वमच्छवत् ॥ २९ ॥ इति तृतीये मुक्तिपाठे तृतीयः प्रपाठः ।। . निष्ख इति । निष्ख इन्द्रियव्यापारशून्ये निरोधसमाधिस्थे सर्व संनिकृष्ट विपकृष्टं च शुभाशुभमच्छवद्यथा दर्पणादौ मुखादिस्तद्वत्पतिभातीत्यर्थः । तथा चान्त:करणं तैजसमपीन्द्रियानुगतत्वात्तत्संनिकर्षमन्तरेण ध्येयाकारितं नार्हति भवितुम् । समाधौ तु निरक्षवृत्तौ तत्पारतन्त्र्यविरहेण प्रतिबन्धकाभा. वाच्छनोति तदाकारमाधातुमित्याशयः ॥ २९ ॥ इति तृतीये मुक्तिपाठे तृतीयः प्रपाठः । अथ चतुर्थः प्रपाठः। : इदानीं धर्म सहेतुनामानं वर्णयबाह-- ७२ सिद्धान्तदर्शन [ ३ मुक्तिपाठे- प्रचोदितो हि धर्मः प्रतिष्ठानत्वात् ॥ १ ॥ प्रचोदित इति । प्रचोदितः शास्त्रपयोजितो योऽर्थः स एव प्रतिष्ठानत्वा. त्पतितिष्ठन्ति जगन्ति येन यत्र वा तत्प्रतिष्ठानं तस्य भावः प्रतिष्ठानत्वं तस्मा. धर्म उच्यते । तथा च श्रुतिः-धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं पना उपसर्पन्ति धर्पण पापमपनुदति धर्मेण सर्व प्रतिष्ठितं तस्माद्धर्म परमं वदन्तीति । यद्यपि धर्मशब्दो देहायवस्थान हेतुत्वाद्वैधे निषिद्ध च वर्तते तथाऽप्यत्र प्रचोदितपदेन निषिद्धव्युदासः ॥ १॥ ज्ञाननिष्ठाहेतुभूतं धर्ममाह- निवृत्तिश्च ॥२॥ निवृत्तिरिति । निवर्तते संसारोऽनयेति निवृत्तिः । धर्म इत्यनुषज्यते । तत्र प्रवृत्त्याख्यः साक्षादभ्युदयकरोजगतः स्थितिहेतुाह्मणादिभिराश्रमिभिरनुष्ठी. यमानो यज्ञदानादिः। निवृत्याख्या साक्षानिःश्रेयसकरः संसारात्यन्तोपरमहेतु- निवैराग्यादिः। तत्राऽऽयं पुराऽनुतष्ठुमरीचिवसिष्ठादयः। द्वितीयं तु सनकसन- न्दनादयः॥ २ ॥ देवसासंपय संपायः प्रयत्या कैवल्यहे- तुश्चाऽऽयः ॥३॥ देवसादिति । देवसात्संपद्य भगवदायत्तो भूत्वा तनियुक्तोऽहं तदर्थमेव करोमीत्येवं बुद्धयेति यावत् । संपायोऽनुष्ठेयः । प्रयत्या चित्तशुद्धिद्वारेण। आद्यः प्रवृत्तिधर्मः । तथा च प्रवृत्तिलक्षणो यो धर्मः स देवादिस्थानप्राप्ति हेतुरीश्वरार्पणबुद्धयाऽनुष्ठीयमानः फलाभिसंधिवर्जितः सत्वशुद्धिमुखेन ज्ञानो- पत्तिहेतुत्वाकैवल्यहेतुरपि भवतीति भावः ॥ ३ ॥ धर्मस्य वेदादिमूलकत्वमाह- श्रुतिस्मृतिसदाचारस्वप्रियाणि तन्मूलं पूर्व- पूर्वाविरोधश्चेत् ॥ ४ ॥ श्रुतीति । श्रुतिगादिः । स्मृतिर्मन्वादिः। सदाचारः साधुचरितम्।स्वप्रियं स्वस्याऽऽत्मनो हृद्यम् । तन्मूलं धर्मस्य कारणम् । यदि पूर्वपूर्वाविरोधः पूर्वपूर्वे- णाविरोधः परपरस्येत्यर्थः । तथा च श्रुत्यविरोधे स्मृतिः स्मृत्यविरोधे सदा- चारः सदाचाराविरोधे स्वप्रियं धर्ममूलमिति भावः । अत एव स्मृतिः-- वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मन:- एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य कारणम् ॥ इति ॥ ४ ॥ -
४ प्रपाठः]
निरअनभाष्यसमेतम् ।
७३
-
तस्य गतिप्रकारमाह-
गतिर्जातवेदोवत् ॥ ५॥
जातवेदोवदनेरिवोलप्रवाहिनीत्यर्थः ॥ ५॥
वामाऽन्यस्य ॥६॥
वामेति । अन्यस्याधर्मस्य । वामा गतिरधःप्रवाहिनीत्यर्थः । अत एवो.
कम्-धर्मेण गमनमूर्ध्व गमनमधस्ताद्भवत्यधर्मेणेति ॥ ६ ॥
संप्रति वर्णाश्रमधर्माणामाचारमूलकत्वमाह-
मूलमाचारश्चातुष्काणाम् ॥ ७ ॥
मूलेति । मूलमादिकारणम् । आचार: स्नानाचमनशौचादिः।
चातुष्काणां चतुराश्रमधर्माणाम् । अत एव भारते-आचारप्रभवो धर्मः ।
स्मृतिश्च-आचारहीनं न पुनन्ति वेदा इति । एवं च वर्णाश्रमाचारबहिर्मुखे
मनुजाधमे भक्तिरपि स्मरणकीर्तनादिलक्षणा न भगवत्पीतिकरी तथा। चोक्तम्-
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यत्तत्तोषकारणम् ।।
यः स्वकर्मपरित्यागी भक्तिमात्रेण जीवति ।
न तस्य तुष्यते विष्णुराचारात्पूज्यते यतः ॥ इति ।
भगवदनुरक्तिरतु प्रागणिताचारफलम् । सा चेह सर्वानेव पवितुमर्हति
निसर्गात् । तदुक्तं भगवता-
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ इति ।
तल्लक्षणान्याह भारते-
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इति ॥ ७ ॥
धर्मस्य कृच्छ्राकृच्छ्राभ्यां फलतारतम्यमाह-
न ह वै साम्यं कृच्छ्रान्योत्थयोः ॥ ८ ॥
कृच्छ्रान्योत्थयोः कृच्छ्राकृच्छ्रजयोः साम्यं समत्वं नैवोपयुज्यते । तथात्वे
च कृच्छ्रवर्त्मनि प्रवृत्त्यनुदयेन तदनुष्ठानविधिवैफल्यं स्यादिति भावः । तत्र
च यदकृच्छं वर्त्म तत्पुनर्मलिनचित्तार्थ विविधप्ररोचनयाऽभिहितम् । तत्रैव
तदधिकारादिति द्रष्टव्यम् ॥ ८॥
- सिद्धान्तदर्शनं [ ३ मुक्तिपाठे-- इदानी गृहमेधिनः शान्तिमार्गे सुलभं दर्शयति- युक्तो हि संसरञ्छाम्यत्यनभिसंधेः ॥ ९ ॥ युक्त इति । युक्तो नाहं कर्ता किंतु भगवनियोगात्करोमीत्येवं समाहितः । संसरन्व्यवहरन् । शाम्यति शान्तिमेति । कुतोऽनभिसंधेः कर्ताऽहं ममेदं फल- मित्यभिसंधिविरहात् । अयुक्तस्य संसरतः शान्ति वास्तीति हिद्योतितार्थः । तदुक्तं भगवता- युक्तः कर्मफलं त्यक्त्वा शान्तिमामोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ इति ॥ ९ ॥ देवाभियुक्ते तद्दाव योगक्षेमम् ॥ १० ॥ देवेति । देवाभियुक्ते भगवति सततसंयुते । तद्वाब तस्मादेव परमेश्वरायो- गक्षेममलब्धलाभो लब्धरक्षणं च प्रयत्ननिरपेक्षतयैव भवतीत्यर्थः । तदुक्तं तेनैव-अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ इति ॥ १० ॥ अथ शास्त्रे लोके च प्रसिद्धेऽपीश्वरे यदि कस्यचित्कथंचिद्विचिकित्सोदयः स्यातहि तदधीनकर्माचरणे तदभियोगे च प्रवृत्तिर्न स्यादिति तनिराकरणाय पुनराह- अस्त्यतिरेकी दिव्यानुन्यासात् ॥ १३ ॥ अस्तीति। अतिरेकी सर्वेभ्यो महानेकोऽस्ति । कस्माद्दिव्यानुन्यासात् । दिवि भवा दिव्या ग्रहनक्षत्रादयः । तेषामनुन्यासो निर्माय संनिवेशविशेषो येनतेषाम. तीव बृहतामपरिसंख्येयानां व्योम्नि महान्तरान्तरे स्थितिः प्रतिनियत गतिश्च येन चैकस्मादेव मार्तण्डात्कुत्रचित्पष्टिदण्डेन कुत्रचित्संवत्सरेण कुत्रचिच्च मासेन दिवाराव्युत्पत्तिस्तस्मादित्यर्थः । तथा च ग्रहनक्षत्रपृथिव्यादिनिर्माण- पुरःसरभचक्रविन्यासाद्यलौकिकविचित्रकार्यदर्शनादतिरेकी कश्चिदस्तीतीश्वर- सिद्धिः । एतदुक्तं भवति–तादृशविचित्रसर्जनस्य तथाविधकौशलोद्भावनस्य च जीवानां कथंचिदपि संभावनाया विरहाद्विचित्रशक्तिमानेकोऽस्तीत्यव- श्याभ्युपेयम् ॥ ११ ॥ किंच- हठप्रयुक्तरन्तरक्षाणाम् ॥ १२॥ हछेति । अन्तरक्षाणामन्तरिन्द्रियाणां हठप्रयुक्त्तरकस्मानियोगात् । तथा च बुद्धयादीनामेकत्र नियुज्यमानानामन्यत्र प्रसह्य गतिदर्शनासत्पयोक्ता कश्चि- - .. ४ प्रपाठः निरञ्जनभाष्यसमेतम् । दस्तीत्यन्तर्यामितयेश्वरसिद्धिः । न खलु तत्पयोक्ता जीवो भवितुमर्हति तस्यान्त:करणोपाधित्वेन तदधीनत्वात् । तदनिच्छयाऽप्यन्तरक्षाणां हठप- युक्तिदर्शनाच्च । अत एव श्रुतिः-केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति । श्रोत्रस्य श्रोत्रं मनसो मनो यत्सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविव- र्जितम् । सर्वस्य प्रभुरीशानं सर्वस्य शरणं बृहत् । एषोऽन्तर्यामीति ॥ १२ ॥ ननु तच्छक्तिमान्स्वभावः कालो वाऽस्तु किमीश्वरोरीकरणेनेति चेदाह- निसर्गकालयोरप्यस्वातन्यजाड्याभ्याम् ॥ १३ ॥ निसर्गेति । तथा हि-को नाम निसर्गः सोऽनिर्वचनीयो वस्तुगतः कश्चित दिति चेत्तार्ह स्वाश्रयादयमभिन्नो भिन्नो वा। नाऽऽधस्तथात्वे तत्कल्पनानर्थ- क्यप्रसङ्गात् । द्वितीयश्चेत्तस्याऽऽश्रितत्वेनाऽऽश्रयतत्रतावश्यंभावात् । तथा कालस्यापि सूर्यादिस्फुरणातिरिक्तत्वे मानाभावात् । तदन्यत्वेऽपि तस्य जडत्वात्कार्यस्य च कार्य चेतनपरतन्त्रं कार्यत्वाद्घटादिवदित्यनुमानेन. चेतनप्रयोज्यत्वनियमात्कश्चिदन्यो नियन्ताऽस्तीतीश्वरसिद्धिः । अत एव श्रुति:--स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये परिमुह्यमानाः । देव- स्यैष महिमा तु लोके येनेदं भ्राम्यते विश्वचक्रमिति । अथ यदि नास्तिकाना- मभिमतः स्वभावादिरेव विचित्रकार्यकारी तर्हि तेषां ततः स्वभावादेरस्माकमी- श्वरस्य च कुम्भकलशवते नाममात्रमृते वस्तुतो भेदः कश्चन किमस्तीति सुधीभिर्विवक्तव्यम् ॥ १३ ॥ ईश्वरं निरूप्य वेदप्रामाण्यं निरूपयति- मानमाम्नायास्तदानातत्वात् ॥ १४ ॥ मानमिति । आम्नाया वेदा मानं प्रमितिकरणं, कुतः, तदानातत्वादी. श्वरोच्चरितत्वात् । तथा च-ईश्वरस्य भ्रमप्रमादविप्रलिप्सादिदोपानाघ्रात- त्वेन तदानातस्यापि तथात्वात्प्रामाण्यम् ॥ १४ ॥ नन्वाम्नायानामीश्वराम्नातत्वे किं मानम्-यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै, इति श्रुतिरिति चेन्न । स्वामितये स्वस्योपन्यासानौ- चित्यादित्यतः पुनराह- संवेद्यत्वादर्थस्य ॥ १५ ॥ समिति । अर्थस्याऽऽम्नायप्रतिपाद्यस्य । संवेद्यत्वात्पुरुषेण सम्पग. नुभवितुं शक्यत्वात् । यथा. हि तत्राऽऽयुर्वेदोक्तरोगनिदानादिः श्येनेना- -..
७६ सिद्धान्तदर्शन- [ ३ मुक्तिपाठे- भिचरन्मजेतेत्युक्ताभिचारादिश्च । तथा च यथाऽशिनामेकांशदर्शनादप्य परांशोऽनुभूयते तद्वदानायानां सर्वार्थ एव प्रमाणम् । शुद्धसत्त्वेन तु सर्वांश एवावेक्षितुमचापि शक्यते ॥ १५ ॥ ननु तथाऽपि पङ्किलचेतसामतीन्द्रिय फले विचिकित्सोदयश्चेदित्यत आइ- शिष्टोपजुष्टदिष्टत्वाच ॥ १६ ॥ शिष्टेति । शिष्टोपजुष्टदिष्टत्वान्महाजनप्राक्परिगृहीतपश्चावुपदिष्टत्वात् । तथा च-वेदाः प्रमाणं मन्वादिभिः परमप्रेक्षैः परिगृहीतत्वात्परेभ्यः पुनः संदर्भादिभिरुपदिष्टत्वाच्च । न हि परमतारणार्थमात्मानमवसादयितुं प्रेक्षा- वता प्रवृत्तिः । न वा परेषां शताब्दान्ते भाविना मवसिसादयिषा जातु वर्तते ॥ १६॥ तदानायानामदुष्टतां साधयति- निरवद्या हि श्वासबनिःसृतेः ॥ १७ ॥ निरवयेति । निरवद्या भ्रमप्रमादादिदोषरहिताः । कुतः श्वासवनिःसृतेः। निःश्वासवदप्रयत्ननिष्पन्नत्वात् । तथा च श्रुतिः-अस्य महतो भूतस्य निःश्वसितमेत द्यदृग्वेदो यजुर्वेदः सामवेद इति । एतेन प्रयत्नवतां रजःसं- पण दोषग्रस्तत्वात्तत्कृतस्य नास्त्यदोषतेति सूचितम् ॥ १७ ॥ वेदमूलत्वात्स्मृत्यादीनामपि प्रामाण्यमाह- स्मृतीतिहासास्तन्मूलत्वात् ॥ १८ ॥ स्मृतीति।निरवद्या इत्यर्थः।बहुवचनात्पश्चरात्रादिपरिग्रहः। यद्यपि स्मृतीति- हासादौ प्रत्यक्षोपपत्त्योर्विसंवादोऽपि भूयानस्ति तथाऽप्यसौ न दोपाय यस्मा. दाचार्याणामियं शैली यां कांचित्सत्यतामुपादाय स्तुनिनिन्दार्थवादेन शान्त - कारुण्यादिरसेन रूपकोत्प्रेक्षाअलंकारेण च वर्णयन्ति ।। १८ ।। इदानीमागमार्थानामितरेतरवैलक्षण्यं सकारणमाह- भाववैचित्र्याद्वैचित्र्यं तत्तदर्थानाम् ।। १९ ॥ भावेति । भाववैचिच्याद्गुणभेदेन प्रकृते नाकारत्वात् । वैचित्र्यं लक्षण्यम् । केषां तत्तदर्थानां प्रागुक्त वेदादिशास्त्राणां तदर्थानां च । तथा च यस्य यादृशी प्रकृतिस्तत्तदनुसारादेवाऽऽन्नातमिति भावः । अत एवोक्तम् - सत्त्वाधिक श्रुतिर्मुख्या रजोधिके स्मृतिर्वरा । पुराणं सतमोरजोदीप्ते तन्त्रं तु तामसम् । अत्रैवं समाधीयताम्-स्मृतिपुराणादौ कचिदुपनिषदि च सृष्टयुत्पत्यादिकं - ४.प्रपाठ: 1 निरञ्जनभाष्यसमेतम् । واوا प्रकारान्तरेण रूपकाद्याख्यानेन च यदुपणितं तन्मीलनसत्वभावानां स्वप्र. कृत्यनुकूलतया सत्त्ववर्त्मनि प्रवर्तनायैव बालानुवर्तनवत् । एवं च नैसर्गिका नुभवानुवर्तनेन भपञ्जरादीनां गत्यादिवर्णनमपि संगच्छते । तथा द्वैतविशिष्टा- द्वैतवादी च कर्म्युपासकयोरेवानुकूलतयोपन्यस्तौ । अत एव तदर्थ कर्मोपास. नाप्रवर्तकमंत्रीषिभिः कचिच्छूतेरपार्थाभिधानमपि नासंगतम् ।। १९ ।। किंच- ज्ञप्तये चाद्वैतस्य ॥२०॥ ज्ञप्तये चेति । अद्वैतस्य त्रिविधभेदशून्यस्य ब्रह्मणो. ज्ञप्तये ज्ञापनाय । सथा च साक्षात्परम्परया बाऽद्वैतब्रह्मावबोधनायैव शास्त्राणां बाहुल्यमिति भावः॥ २० ॥ तत्यतिपादनप्रकारमाह- सोपानपादारुन्धतीक्षणवदत्रं क्रमः ॥ २१ ॥ सोपानेति । अत्राद्वैतस्य ज्ञप्तौ । तथाहि-यथा प्रागधः सोपाने पादं न्यस्य शनैस्तदुपरि तदुपर्यारोहति । यथा वाऽरुन्धती दिदर्शयिषः पूर्वमुद्दीची ततस्तत्स्थतारकावली ततो ध्रुवोपरिस्थितसप्तर्षिमण्डलं ततस्तत्र प्रागव- स्थिततारकात्रयं ततस्तन्मध्यस्थं वशिष्ठाख्यं च तारकं शनैर्दयित्वा तत्पार्थ. स्थामरुन्धती दर्शयति तद्ब्रह्मणः प्रतिपादने क्रमः ॥ २१ ॥ ननु तथात्वे कथमत्र प्रेक्षावतां भिन्नमार्गानुसरणमित्याह- भिन्नप्रस्थानं राद्धान्ताय ॥ २२॥ भिन्नेति। भिन्नप्रस्थानं नास्तिकाद्यास्तिकदर्शनान्तेषु मुख्यतयैकानुवर्तनम् । राद्धान्ताय सिद्धान्ताय । परतत्त्वावधारणायेति यावत् । तथाहि-पद्यत्र स्वप- क्षरक्षिणी वादिपतिवादिनौ तदनुकूले च साक्ष्यलेख्ये न विद्यते तर्हि का प्राइविवाकः को विचारः को वा निर्णय एनेपां तदपेक्षयैव प्रवृत्तेः । तद्रच्छा. स्वार्थेऽप्यनुसरणीयम् । ततश्च मतभेदस्तद्व्युदासश्च श्रुतेरेवाभिमतः । आत्मा व जायते पुत्रः । एष वै पुरुषोऽनरसमयः । इत्यादिना पुत्रान्नमयादिकोशेषु क्रपाद्गौणात्मत्वाभिधानेन सर्वशेष प्रत्यगस्थलोऽचक्षुरप्राणोऽमना अतो चैतन्यं चिन्मानं सत्तस्वमसीत्यादिना प्रतीच्येव मुख्यात्मत्वप्रतिपादनात् । युक्त. वायं भिन्न मतार्थानां विचारमन्तरण तत्त्वस्फुरणायोगाद्विना च तनिरसनं परतत्त्वस्य महिमानवगमादिति मनस्विनां हृयम् । एवं ध्वजनिरवननन्यायेन तत्वबुद्धेदृढनामुत्पादयितुमपि शास्त्रे नास्तिक्यननिरसनायवतारः ॥ २२ ॥ -
७८
सिद्धान्तदर्शन-
[३ मुक्तिपाठे-
-
तर्केण मथनात्यादुरुभयोनिधिवत् ॥ २३ ॥
तर्केणेनि । तर्केण न्यायेन प्रतिज्ञाहेतूदाहरणोपन्यासात्मकेन मथनाच्छा-
स्वार्थानामालोडनादुभयोः सदसत्फलयोः पादुर्विकासः । निधिवन्निधीयन्ते
रत्नान्यस्मिन्निति निधिः समुद्रस्तद्वत् । तथा च यथा समुद्रमन्थनादेवानाम-
मृतं दैत्यानां हलाहलं तद्वच्छ्रुत्यनुकूलेन तर्केण सुफलं व्यस्तेन व्यस्त-
मिति भावः ॥ २३ ॥
त्रिवेण्या वावैकाध्वगास्त्रिसरित्सङ्गादिव पौताः ॥ २४ ॥
त्रीति । त्रिवेण्या वाव, इडापिङ्गलासुषुम्नामेलनस्थानादेव । एकाध्वगा
भिन्नवमनि न विचरन्तीत्यर्थः । त्रिसरित्सङ्गादिव गङ्गायमुनासरस्वतीस-
ङ्गमादिव । पौता नाविकाः । तथा हि-यथा पौतास्त्रिसरित्सु तरणी परि-
चालयन्तस्तासामितरेतरभेदं पश्यन्ति । तत्सङ्गमगतास्तु तिसृणामैक्यमेव तथा
यावज्जन्तवस्त्रिगुणाधिकारेविडापिङ्गलामुषुम्नामागेंषु संचरन्ति तावत्तेषां
परस्परभेदादेव द्वैतजगत्यवतिष्ठन्ते । भ्रूमध्ये यत्रिवेणीस्थानं तदुत्तीर्णास्तु द्वैतं
न पश्यन्तीति भावः । एतदुक्तं भवति-यदा पुंसां श्रवणमनननिदिध्यासन-
रतानामद्वैतभावाविर्भावस्तदाऽन्तःकरणं प्राणैः सह ध्रुवोरूवं विराजति ।
द्वैतभावे पुनरिन्द्रियपरतन्त्रतामाप्नुवत्तदधो विराजतीति ॥ २४ ॥
जिह्वोपस्थयमो द्वारं स्वर्गापवर्गाम्नायाधिगमानाम् ॥ २५ ।।
जिहेति । जिहोपस्थयमो रसनाशिश्नेन्द्रिययोः संयमः स्वर्गापवर्गाम्नाया.
धिगमानां द्वारं मार्गः । तत्र स्वर्गो दुःखानवच्छेदकीभूतशरीरावच्छिन्नमुखम् ।
अपवर्गः कैवल्यम् । आम्नायाधिगमो वेदतात्पर्यावबोधः ।। २५ ॥
द्विविधविद्याया एव वेद्यत्वमाह-
द्वे विये वेद्ये परापरे ॥ २६ ॥
द्वे इति । तत्र परा परब्रह्मलक्षणा । अपरा, ऋगादिलक्षणा । तत्र च
शब्दब्रह्मपूर्विका हि परब्रह्मावगतिः । तथा हि श्रुतिः-नावेदविन्मनुते तं
बृहन्तम् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति । अत्र विदुषो
विद्यया जीवतः परयशो नतो वा सांपरायिक फलं नास्ति । तथा च विष्णु:-
यश्च विद्यामासाद्य तया जीवेन च सा तस्य परलोकफलप्रदा भवति यश्च
विद्यया परेषां यशो हन्तीति ॥ २६ ॥
७९
४ प्रपाठः ] निरञ्जनभाष्यसमेतम् ।
बाह्यात्मविज्ञाने मिथैकसत्त्वयोः ॥ २७ ॥
बाह्येति । मिशैकसत्त्वयोर्मिश्रसत्त्वशुद्धसत्त्वयोः । तथा हि-द्विविधं हि
विज्ञानं बाह्यात्मभेदात् । तत्राऽऽद्ये रजःसंमिश्रसत्त्वधर्माणां द्वितीये तु शुद्ध
चित्तानामधिकार इति भावः । मित्रैकसत्त्वधर्मानाहुः-स्वात्मानुभूतितद्भेद-
बोधपरमशान्तयः। विशुद्धसत्त्वजा भक्तिश्रद्धाद्या मिश्रसत्त्वजा इति ॥ २७॥
कर्षणी मणिवच्चिरानुध्यायाः ॥ २८ ॥
कर्षणीति । चिरानुध्याया दीर्घकालीनभावनायाः । कर्षणी कृष्यतेऽन.
येति वस्तुप्रापिका शक्तिराविर्भवतीति शेषः । मणिवद्यथा चिन्तामणेः शक्तिर.
भीष्टार्थप्रदायिनी । यद्वाऽयस्कान्तस्य लोहाकर्षणी तद्वदित्यर्थः ॥ २८ ॥
सा कुत्र प्रतिभातीत्यत्राऽऽह-
दृश्यते ध्यायिन्यनिर्विष्णे ॥ २९ ॥
दृश्यत इति । ध्यायिनि ध्यानशीले । अनिविण्णे कदा सिद्धिर्भविष्यती-
त्युत्कण्ठाशून्ये । एतेन टिट्टिभोपाख्यानं स्मारितम् । तदुपाख्यानं च कस्मि-
श्चिसिन्धुकूले केचन पक्षिणः कुलायं निर्माय तस्मिन्नण्डानि जनयामासुः ।
कदाचित्कूल भङ्गेन समुद्रस्तानि स्वसलिले निमज्जयामास । ततस्ते विहंगमा:
स्वडिम्भानम्वुनि मनानवेक्ष्य समुद्रमिमं शोषयाम इति दृढाध्यवसायाश्चञ्चुभ्यां
तत्तोयं तटे सिपिचुः । ततः परेषां तदवलोकमानानामुपहासं देवादीनामप्य-
साध्ये सिषाधयिषा युष्माकं क्षीणवपुषां प्रमततैवेति जुगुप्सनं च न क्षणमप्या-
कर्णयाचक्रुः । अथ तत्र देवादागतो मुनिर्नारदः पक्षिणस्तानपृच्छत्किमिद.
मिति । पक्षिणः प्रत्यूचुः-सिञ्चामः सिन्धुमिममस्माकं डिम्भानपहृतवन्तमिति ।
मुनिः सहास्यः पुनरुवाच-काले कियति सिध्येतेति । ते पुनः प्रत्यूचुः-इह
जन्मनि जन्मान्तरे वति । ततस्तेषां तदध्यवसायं संस्मरन्मुनिर्गरुडमुपेत्य सर्व
कथयामास । वैन से यश्च स्व ज्ञातीनां दुःखं परिजिहीर्षुः सिन्धुकूलमेत्य तथैव
ददर्श । अथ विहंगमांस्तानाश्वसझम्पयित्वा सागरे निपत्य पक्षद्वयास्फालनेन
तत्सलिलान्युत्तोलयामास । समुद्रश्च भयात्तदानीमेव तेभ्यस्तदण्डान्यर्पयामा-
सेति लोके प्रचरति ॥ २९ ॥
जननी च तिरश्चि क्व च ॥ ३० ॥
जननीति । कच कस्मिंश्चित् । तिरश्चि तैलपादौ भ्रमरध्यायिनि । जननी
जायतेऽनयेत्यसदुत्पादिका शक्तिश्विरानुध्याया दृश्यत इत्यर्थः ॥ ३० ॥
सिद्धान्तदर्शन- [ ३ मुक्तिपाठे- तत्त्वे वितर्कोन्मेषः कल्मषात् ॥ ३१ ॥ तत्वेति । तत्त्वे वस्तुस्वरूपे । वितकोन्मेषो विरुद्धतर्काविर्भावः । कुत: कल्मषात्तत्वबोधप्रतिबन्धकदुरितात् ।। ३१ ॥ बीजमृद्ध्यनृद्ध्योरन्यस्माद्धठादा जातु कापि फलोत्प्रवणम् ॥ ३२॥ बीजमिति । अन्यस्मात्पुरुषात्तदुपदेशादिना हठादकस्माद्वा, ऋदयनुध्यो- रुन्नत्यवनत्योः, लौकिकालौकिकयोः । बीजं सामर्थ्य जातु समयविशेषे । कापि पुरुषविशेषे । फलोत्पवणं फलप्रत्यभिमुखम् । भवतीत्यर्थः ॥ ३२ ॥ विस्फुरच्चेदबाध्यम् ॥ ३३ ॥ विस्फुरदिति । तद्बीजं विस्फुरद्विशेषेण जृम्भमाणं चेदवाध्य केनापि बाधितुं न शक्यम् । तदानीमृद्धिबीजिनस्तत्पतिकूलमनृद्धिबीजिनश्च ऋद्धयनु- कूलमर्थ न गृह्णन्तीति भावः ॥ ३३ ॥ सिद्धयध्वनायि ॥ ३४ ॥ सिद्धीति । सिद्धयध्वनायि सिद्धेः फलनिष्पत्तेः । अध्धानमुणयम् । नेतुं मापयितुं शीलमस्येति तदित्यर्थः । तथा च-स्फुरदीजं निसर्गादेव सिद्धे- रध्वानं मापयतीति भावः। हेत्वभिसंधिरं धीवैशद्यसिध्द्योः ॥ ३५॥ हेत्विति । हेत्वभिसंधिः कार्यस्य कारणानुसंधानं धीवैशयसिद्धयोबुद्धिनै- मल्यफलनिष्पत्त्योः । द्वारमुपाय इत्यर्थः ॥ ३५ ॥ नाप्युपेक्ष्यमुपेक्ष्यं चेत्तत्त्वैषणा ॥ ३६ ॥ नेति । यदि पुंसां तत्वबुभुत्सा वर्तते तहि जगति यदुपेक्ष्यं तदपि नोपेक्ष्य प्रतिवस्तुन्येव तत्त्वोद्भावकसामग्रीसत्वादिति भावः ॥ ३६ ॥ वस्तुतत्त्वाधिगमे हेतुमाइ- तत्त्वाभिव्यक्तित्वधिगमवितापायाभ्याम् ॥ ३७ ॥ तत्त्वेति । तत्त्वाभिव्यक्तिर्वस्तुस्वरूपाविर्भावः । हेत्वधिगमवितर्कापायाभ्यां हेत्वधिगमो हेतुः कारणमुपादानाख्यं निमित्ताख्यं च तस्याधिगमः स्वाधी- नतया भानं वितर्कापायः संशयापगमस्ताभ्यामित्यर्थः । वितळपाय इत्यनेन संदेहानुदये तत्त्वाभिव्यक्तिर्न स्यादित्यपि सूचितम् ॥ ३७ ॥ 1441 ४ प्रपाठः] निरञ्जनभाष्यसमेतम् । ८१ तन्नी(ः क्रमोत्प्लवा ॥ ३८ ॥ तदिति । क्रमोन्लवा क्रमोर्ध्वगामिनी। धीरन्तःकरणम् । तन्नीस्तत्समापिका । तथा च-बुद्धेः क्रमोत्प्लवतादर्शनं चेत्तहि तत्वसंनिकर्षोऽनुपीयताम् ॥ ३८ ॥ युआनः कौञ्चवद्ध्याताऽर्थात् ॥ ३९ ॥ युञ्जान इति । क्रौञ्चवद्ध्याता क्रौञ्च इव ध्येयनिपुणः । अर्थात्फलतः । युञ्जानो योगी भवति । तदानीं बाह्येन्द्रियव्यापारविगमादेति भावः॥ ३९ ॥ येषां यत्र यत्र तीव्रानुरतिदृश्यते काले तसिद्धिरवश्यं भवतीति दर्श. यत्राह- रतिरेकान्ताऽर्थे मणिवत् ॥ ४० ॥ रतिरिति । एकान्ता प्रगाढा । अर्थे स्वविषये । मणिवद्यथाऽयस्कान्तो मणिरय आकर्षति तथा नितान्तानुरतिरपि स्वविषयमाकर्षति । तथा च तीव्रानुरक्तस्य स्वतः परतो वा तत्सिद्धिरवश्यं भवतीति भावः । एतेन क्षुद्रच. चूपाख्यानमपि सूचितम् । तदुपाख्यानं च कश्चिदेकः क्षुद्रचञ्चुर्विहंगमः कस्मिंश्चित्तरौ नीड निर्माय सस्मिन्नण्डान्यजीजनत् । दैवात्तत्र यहच्छया विचरनेकः कुञ्जरो गात्रघर्षणेन तरुणा सह तानि भूमौ पातयामास । अथासौ विहंगो भनान्यण्डानि निरीक्ष्य शोकसंतप्तमना बहुधा विलपत्रिमं दुरात्मानं दन्तिनमहं व्यापादयिष्यापीति बाढं संकल्प्य पुनर्वितर्कितवान् । बृहत्तनुरयमहं तु क्षीणवपुस्तकथमेनं निपा- तयिष्यामीति । ततस्तदुपायं स्वयमनीक्षमाणः स्वबन्धुं भृङ्गमुपेत्य यथासंक- ल्पितं विज्ञापयामास । भृङ्गश्च व्याजहार-बन्धो भवतोऽपि क्षुद्रव पुरहं भग. वता कृतः । तत्कथं दुर्यापारमिमं साधयितुं शक्नोमीति भवाञ्शोकं परिहाय गृहं प्रत्यागत्य पुनस्तनयानुत्पादयतु । तदाकर्ण्य क्षीणचञ्चुरवसीदन्नुवाच- मित्र यदि स्यामहं प्रभ्रष्टसंकल्पस्ताहै नूनमिदं वपुः पातयिष्यामीत्युक्तो द्विरेफोऽपि तन्मार्गमसमीक्ष्य चञ्चुमता साध विलपस्तबन्धुं भेकराजमुपतस्थौ । ततो मण्डकः सह संभ्रमेण किमर्थमागतोऽसीति कृतप्रश्नोत्तरं बन्धुवदन. विनिर्गतं तद्वन्धूदन्तमाकर्ण्य कोपेन कम्पितवपुरारक्तलोचनः स्फुरिताधरः प्रोवाच- रेरे दुरात्मन्वनजातजन्तो निहत्य पुत्रान्मम वन्धुवन्धोः । अहो तदद्यापि वसुंधरायां स्थिते प्रवीरे मयि मीवसि त्वम् ।। - - ।
८२ .. सिद्धान्तदशेन- [ ३ मुक्तिपाठ- अलं विलम्बेन समीक्षयैनं सखे स यत्रास्ति तदेत्य तूर्णम् । तन्मौलिमुत्छुत्य पदेन कुम्भं चूर्ण विचूर्ण च करोमि सद्यः॥ इत्थमेव वीररसप्लुतदर्दुरस्तयोरग्रमासाद्य गजाभिमुखो लम्फेन लम्फेन चाबाजीत् । ततः कियडूरं गच्छन्नवदत्-बन्धो प्रज्ञयाऽनुरागेण च किमत्र न सिध्यति । किंबहुना,-त्वत्प्रभावणेन्दुमपि करे विधातुं शक्नोमीति तुच्छं करिव्यापादनम् । इदानी किल तत्कौशलमिदमभिधीयते-सखे मधुव्रत तव चन्धुना पूर्वमुड्डीयोड्डीय चञ्चुभ्यां करिणो नेत्रगोले गालयितव्ये । भवता च तत्कर्णमुपेत्य निरन्तरं गुञ्जितव्यम् । तदुत्तरं यत्तन्ममैव तत्रम् । ततस्तदादे- शमुपजीवता चमता कृतचञ्चुघातेनान्धीभूतं गुञ्जनवता च भ्रमरेण मदकलं मातङ्गं काननानि बम्भ्रमित्वा वृषितं तमवलोक्य चातुर्यचिन्तामणिमण्डूकरा. जस्तदग्रतः सशब्दो धावितवान् । वारणश्च तन्निनादेन जलाशयमनुमाय तमनुससार । ततः कियद्रमेत्य भेकः पङ्कावशेषं शुष्कमेकं सरः समासाद्य तदुपरि तिष्ठन्नुच्चै रुराव । ततश्चक्रमणेन तृष्णया च कण्ठागतप्राणो द्विरदः स्निग्धां मृदमालभमानः सलिलाशयं निश्चित्य भेकाभिमुखस्तीव्रजवेन गच्छ. न्महापङ्के निमग्नः पञ्चत्वं गतश्च । भेकश्च सपदि तन्मौलिमुत्प्लुत्य पुनः पुनः पदाघातं कुर्वञ्जगर्ज । ततस्ते सिद्धमनोरथाः प्रीणन्तः प्रियभाषणेन परस्परमा- श्लिष्य स्वस्वस्थानं प्रतस्थिर इति । अत्र प्राषि तृणाङ्कुरन्यायेन यस्य यत्रै कान्तरतिश्पते तस्य तत्कार्यसिद्धिबीजमस्तीत्यनुमेयम् ॥ ४० ॥ व्रतायत्तिायसी क्रमर्द्धरवदातस्य ॥ ४१ ॥ व्रतेति । व्रत शास्त्रविहितस्तदविरोधी वा यः कश्चिनियमः । तस्याऽऽयत्ति- रनुगामित्वमाग्रहो वा । ज्यायसी महती । कुतः क्रमर्द्धः क्रमोपबृंहणत्वात् । कस्यावदातस्य । अवदायति विमली भवति जीवोऽनेनेति अवदातः सत्त्वगु. णस्तस्येत्यर्थः । तथा च व्रतायत्तेः शुभशक्त्युन्मेषित्वाचत्र यतितव्यम् ॥४१॥ तत्र ब्रह्मचर्यस्य प्राधान्यमाह- ब्रह्मचर्यमुदग्रमुबृत्तित्वात् ॥ ४२ ॥ ब्रह्मेति । ब्रह्मचर्यमामिषादिवर्जनसहिताष्टाङ्गमैथुनवर्जनम् । उदग्रं व्रतेषु प्रधानम् । कुत उत्तित्वात्प्रतिलोमपरिणामरूपत्वात् । तस्य च बहुला- नर्थनिवर्तकत्वादायुरायुपबृंहणत्वाद्ब्रह्मतत्त्वोद्भावकत्वाच्चेति द्रष्टव्यम् । अत एव श्रुतिः-यं ब्रह्मचर्येणानुविन्दते । गृहमेधिनां तु स्वभार्यायामृतावपर्वणि रेत:- सेकेऽपि न ब्रह्मचर्यच्यवनम् । सुतोत्पत्त्यनन्तरं सर्वथा योषिवर्जनं तु महा- व्रतमिति ।।.४२ ॥
पाठः ] निरञ्जनभाष्यसमेतम् । ८३. व्यवायहिंसाऽऽमिषसुराग्रहादौ चोदनाभिरुच्याऽऽप्तः॥४३॥ ति । व्यवायादौ चोदना शास्त्रप्रेरणा नास्तीत्यर्थः । व्यवायो मैथुनम् । ऽभिरुच्याऽऽप्ते रागतः प्राप्तेः । तदुक्तम्- विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्योति गीयते ।। अयं हि कारिकार्थः- शास्त्रतो रागतो न्यायतश्चाप्राप्तौ विधिरपूर्वविधिः । स्वर्गकामो यजेतेति स्वार्थयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात् । ता पक्षे प्राप्तस्य रागाभावे पुनरमाप्तस्य प्रापको विधिनियमः । यथा ब्रीही. इन्तीति वैतुष्यस्य नानोपायसाध्यत्वादवघातमपहाय यदा नखदंशनकर- नादिभिस्तत्र प्रवर्तते तदाऽवघातस्यानेन विधानात् । युगपदुभयप्राप्लावितर- वृत्तिपरविधिः परिसंख्याख्यः । यथा पञ्च पञ्चनखा भक्ष्या इति । हि वाक्यं न पश्चनखभक्षणपरं तस्य रागतः प्राप्तत्वात् । नापि नियमपरं नखापञ्चनख भक्षणस्य युगपत्याप्तस्य पक्षे पुनरप्राप्तिविरहात् । तस्मादिदम. नखभक्षणनिवृत्तिपरमिति भवति परिसंख्याविधिरिति । तथा च- पीमुपेयादेवेति रागिण एव तत्कालीनविरागे नियमो न तु निसर्गादोषेक्ष- दा तत्र निरस्तरागस्यासंभवात् । अत एव ब्रह्मचर्य समाप्य गृही भवे- तश्रुत्या गार्हस्थ्योपदेशे सत्यपि ब्रह्मचारिणो नैष्ठिकत्वमुपपद्यते । एवम- गेमीयं पशुमालभतेति शास्त्रोक्तस्याग्नीषोमीययागाङ्गपश्वालम्भनस्य राग- रस्यापि यागे विरागसंभवानियम एव । ननु कथमत्र नियमो युज्यते । हिंस्यात्सर्वा भूतानीतिश्रुत्या हिंसामात्रस्यानिष्टसाधनतावगमादिति चेन्न । मान्य शास्त्रस्य विशेषशास्नेतरपरत्वनियमात् । निषिद्ध स्यानिष्टानुबन्धित्वेऽपि यस्य बलवादिष्ट साधनत्वाद्वा लोकवत् । तथा सौत्रामण्यां सुराग्रहं गृह्णी. [ श्रुत्युक्तमुराग्रह स्यापि तस्यां काल्यर्चादौ प्राप्तातिदेशायां सौत्रामण्या- नियमः । स वाऽऽथर्वणिकस्याशुक्लगुणस्य तस्यैव तदभिरुचेः । अत एक : स्मरति- -ऋतौ :: * लोकवदिति । यथा भारोद्वहनस्य देहोपमर्दनरूपानिष्टहेतुत्वेऽप्यर्थप्राप्तिरूपबल्वदिष्टसाध. त्तित्र वोढः प्रवृत्तिस्तद्वदित्यर्थः । यत्तु तस्माद्यज्ञे वधोऽवध इत्युक्तं, तद्राजसिकप्रकृतीननु. व बोध्यं गुणप्राबल्ये दोषस्य प्रच्छन्नतयाऽवस्थानात्पराशरादीनां पारदार्यादिवत् । तथा च : पशुरासोदित्यादि मन्त्रलिङ्गेन यज्ञार्ये वध्यस्य सूर्यलोकादिप्राप्तिश्रवणातद्वधेन. स्वस्मिन्नपि. दोषा- या पुण्याधिक्याच तत्र राजसानां प्रवृत्तिरप्युपपन्नेति वार्तिकम् ।
सिद्धान्तदर्शनं-
[ २ मुक्तिपाठे-
-
-
यक्षरक्षःपिशाचानं मधं मांसं सुरासवम् ।
तह्राह्मणेन नात्तव्यं देवानामश्नतां हविः ॥ इति ।
हिंसादिधर्मस्तु ब्राह्मणेष्वपि जातमात्रस्य प्रायः प्रबलतमोरजस्कस्य क्षत्रि.
यादिजातीयस्यैव रजस्तमोभ्यामेव तत्प्रवृत्तेः । या पुनरात्मदृशां गुणाती-
तानां कस्यचित्कस्यचित्तदभिरुचिरसौ लोकसंग्रहार्थैव बलवदारब्धानुषङ्गा-
दिति न शास्त्रविद्वद्विसंवादः ॥ ४३ ॥
यो यच्छ्रद्दधाति तत्रैव तदधिकारमाह-
तदीष्टे यच्छ्रद्धाता ॥ ४४ ॥
तदिति । श्रुतिस्मृतिपुराणशवागमेषु यत्र यः श्रधानस्तस्यैव तस्मिन्मुख्या-
धिकार इति भावः । अत एवाऽऽहु:-
साचिके सात्त्विकं मुख्यं राजसे राजसं तथा ।
तामसे तामसं कर्म तद्धि तेषां निसर्गभाक् ॥ इति ॥ ४४ ॥
हग्भ्यां दृश्यमानाभ्यामन्याऽपि ज्ञानोद्भाविका काचिदस्तीति दर्शयति-
छन्नाऽन्या हक् ॥ ४५ ॥
छन्नेति । अत्र गात्मा निहितशक्तिविशेषो येन निमीलिताक्षस्यापि विशिष्ट-
ज्ञानमुत्पद्यते । अन्या बाह्यनयनाभ्यां भिन्ना । छन्ना चेतसि निगूढा । अस्तीति
शेषः। यद्यसौ विद्यते तर्हि आलोचनादिनैव प्रतिभातीति वोध्यम् ॥ ४५ ॥
तवेद्यमृतं चलेन्दुवत् ॥ ४६॥
तदिति । तद्वेद्यं तया तृतीयया दृशा ज्ञेयम् । यत्तदृतं तथ्यं भवतीत्यर्थः । तत्र
लौकिकदृष्टान्तमाह-चलेति । यथा धनगत्यादिवशाबहिर्लोचनाभ्यां प्रतीयमान:
स्यापि गतिमचन्द्रस्याचाञ्चल्यं प्रतीयते तद्वदित्यर्थः । तथा च-यथा दर्शने-
न्द्रियं नेत्रयत्रे विलसद्धटादिज्ञानं जनयति तथाऽऽत्मनो दृक्शक्तिरप्यन्तरेव
विजृम्भमाणा वस्तुतत्वमुद्भावयतीति भावः ॥ ४६ ॥
न सर्वेषु सर्वस्मिन्नियतेः ॥ ४७ ॥
नेति । सर्वेषु मनुजेषु सर्वस्मिन्नर्थे न भाति सा दृगित्यर्थः । कुतो नियते:
पार्जितकर्मविशेषाधीनत्वात् । अत एवोक्तं बुद्धिः कर्मानुसारिणीति ।। ४७॥
लुप्ताक्षोऽन्यः ॥४८॥
लुसाक्ष इति । अन्यस्तदक्षिहीनः । लुप्ताक्षश्चक्षुष्मानप्यचक्षुः। तत्वावगमान.
ईत्वादिति भावः ॥ ४८ ॥
४ प्रपाठः] निरञ्जनभाष्यसमेतम् । ८५ बुभुत्सुसाद्धि सर्व शनैः करगवत् ॥ ४९ ॥ धुभुत्सुसादिति । सर्व जड मजडं च जगत् । शनैः क्रमशः । बुभुत्सुसात्तत्त्व- जिज्ञासोरायचं भवति । पारतन्त्र्यं दृष्टान्तेन विशेषयति-करगवदिति । कर- कलितामलकवदित्यर्थः । हिविद्वदनुभवद्योतकः ॥ ४९ ॥ पशुरविप्रेक्षोऽन्वर्थक्यात् ॥ ५० ॥ पशुरिति । अविप्रेक्षो विशिष्टबुद्धिरहितः पशुरेतनाम्नाऽभिधीयते । कस्मा- दन्वक्यात् । पश्यत्यविशेषेणेतिव्युत्पत्तिसाम्यात् । तदाहुः-पश्यतेः को पशादेशे पशुरितिपदं स्मृतमिति । एतेन पदार्थानां सर्वत्र पृथक्प्रतीतिद्वारैव विश्वदायमानस्वरूपत्वायत्र यस्याविविक्तबोधस्तत्रासौ न प्रकृष्टधीरिति सूचि सम् । तथा च-यथा कीटपतङ्गविहंगपशुमानुषाणामुत्तरोत्तरेषु ज्ञानप्रकर्षादि- होत्कर्षताऽवभासते तथा मनुष्येष्वपि केवलेषु विवेकप्रकर्षादेव पूज्यताऽऽवि- भरतीत्यनुसंधेयम् ।। ५० ॥ विदोऽप्यन्वञ्चो निसर्गस्य ॥ ५१ ॥ विदोऽपीति । विदस्तत्वज्ञास्तेऽपि निसर्गस्य निसर्गो नाम प्रकृतिः माक्तन- धर्माधर्मयोः संस्कारो वर्तमानजन्माभिव्यक्तस्तस्यान्वधः परतत्राः। विनाऽपि प्रयत्नेन जृम्भपाणत्वात्तस्येति भावः ॥ ५१ ॥ विमृश्यान्यन्यो व्युत्पन्नसकदावृत्त्या ॥ ५२ ॥ वस्याद्विमृश्यति । अन्येभ्यो गुर्वागमेभ्यः । विमृश्य वस्तुस्वरूपं ज्ञात्वा । असकृदात्त्यापुनः पुनरावर्तनेन । व्युत्पधेरन्विशिष्टसंस्कारमुत्पादयेयुरित्यर्थः । तथा च-निजाध्यवसायेन वस्तुतत्त्वाभिज्ञानामभ्यासपाटवानवनवसंस्कारो जायते । तेन चाऽऽत्मनः परेषां च श्रेयः परमुदेतीति कुशलैर्यतितव्यम्॥५२॥ यतिनश्चातुर्विध्यमाह- कुटीचकबह्वोदहंसपरहंसा यतयः ॥ ५३ ॥ कुटीचकेति । ये च ब्रह्मणि यतनशीलास्ते यतयः कुटीचकादिनामानः । तत्र कुटीचकः स्वाश्रमधर्मप्रधानः । बहोदः कर्मोपसर्जनीकृत्य ज्ञानाभ्यासम- धानः । सो ज्ञानाभ्यासनिष्ठः । परहंसो निष्क्रियः ॥ ५३ ॥ नानध्यात्मदृशि शिवं शिवम् ॥ ५४ ॥ इति वैयासिके सिद्धान्तदर्शने वेदान्तविज्ञाने परापरतत्त्वनिरू- पणे तृतीये मुक्तिपाठे चतुर्थः प्रपाठः ।
८६ सिद्धान्तदर्शन- [ ४ ज्ञानपाठे- नेति । अनध्यात्मदृशि, अध्यात्मदर्शिविरहविशिष्टे जगति शिवं वस्तुतो नास्तीत्यर्थः । तथा हि-ये विह कोऽहमिति बुभुत्सया स्वस्यैव तत्त्वं न विदुस्ते तावदनुशासनादिना कथं परेषामभ्युदयमानयेयुः । अत एव श्रुतिः- अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । दंद्रम्यमानाः परियन्ति मूढा अन्धेनेव नीयमाना यथाऽन्धाः । तस्मादिहानात्मदर्शिभ्यो यः कुशलः स चाऽऽपातदृष्टया रमणीयोऽप्याभास एवेति विद्वत्सिद्धान्तः । इति तृतीये मुक्तिपाठे चतुर्थः प्रपाठः ॥ ४ ॥ इति वैश्वदेवे भाष्ये निरञ्जनाख्ये तृतीयो मुक्तिपाठः। अथ चतुर्थो ज्ञानपाठः । तत्र प्रथमः प्रपाठः। मुक्तिं निरूप्य तत्कारणं विशिष्य निरूपयितुं चतुर्थपाठमारभते. चैतन्यं हि धीस्थं वृत्त्या स्फुरज्ज्ञानं गवाक्षार्कवत् ॥ १ ॥ चैतन्यमिति । चैतन्यं भूतभौतिकप्रपञ्चाधिष्ठानम् । धीस्थं बुद्धिदर्पणे प्रतिफलितं वृत्त्या ज्ञेयाकारया स्फुरदवभासमान किमिव गवाक्षार्कवत् । नट. करेण गवाक्षातपयत् । ज्ञानं नामेत्यर्थः । स्फुरणरूपस्यापि पुनः स्फुरणं धीवृत्त्यैवोपचर्यते । वृत्तेरकारित्वे तदुपहितचैतन्यस्यापि तदाकारित्वावश्यं. भावात् । अत्र यथा गवाक्षातपः खस्थमार्तण्डमभयकोऽपि करनर्तनेनैव पृथक्मतीयते तथा धीवृत्त्या धीस्थचिदपीति बोध्यम् । यदाकारेण चिदाभा- सस्फुरणं स एव तद्विषयः । स च द्विविधो बाह्य आन्तरश्च । तत्र वाह्य' शब्द- स्पर्शादिः प्रमाणेन श्रोत्रादिना प्रकाश्यः । आन्तरः सुखदुःखादिर्बुद्धिरथ- कूटस्थेनैव भास्यः । एतेन स्फुरणात्मके षियिणि ज्ञाने विषयता न संभ- वतीत्यवधेयम् । हिरत्र ज्ञानस्य चैतन्यानतिरेकं गमयति । अत एव श्रुतिः- सत्यं ज्ञानमनन्तं ब्रह्मेति । धीपदं धीन्द्रियान्तःकरणतत्कारणोपलक्षणम् । तेन वाह्ये निर्विकल्पाख्ये सुषुप्तौ चाज्ञानविषयके ज्ञानत्वमव्याहतम् ॥ १ ॥ वृत्तिश्च भेदाभानात् ॥ २ ॥ वृत्तिरिति । वृत्तिबुद्धेस्तदाकारपरिणामः । साऽपि ज्ञानं व्यपदिश्यते । कस्माद्भेदाभानात् । व्यवहारवेलायां वृत्तिज्ञानयोर्भेदप्रतीतिविरहात् । तथा चोक्तम्- नैवाल्पबुद्धया शक्योऽयं विवेको वृत्तिबोधयोः । तार्किका यत्र संमूढाः सांख्यानां श्रेष्ठता यतः ॥
لما निरञ्जनभाष्यसमेतम् । - - विज्ञानवादिनो बौद्धा वृत्तिज्ञानाधिवेकतः । ज्ञानात्मत्वश्रुतौ मूढा मेनिरे क्षणिकां चितिम् ॥ इति ॥ भिप्रायेण श्रुतिरप्याह-ही( रेतत्सर्वं मन एवेति ॥२॥ विभजति- द्विधाऽनुभूतिः स्मृतिश्च ॥ ३ ॥ त। द्विविधो ह्यनुभव आविद्यक ऐन्द्रियकश्च । तत्राऽऽद्यः सुषुप्ति- । द्वितीयस्तु जाग्रत्स्वमकालीनः ॥ ३ ॥ नरैन्द्रियकं विभजति- त्रय्याद्या प्रत्यक्षानुमानशाब्दसंभेदात् ॥४॥ । आद्याऽनुभूतिः ॥ ४ ॥ त्यक्ष लक्षयति- संप्रयोगजं प्रत्यक्षम् ॥ ५॥ । । संप्रयोगजं संनिकर्षजम् । संप्रयोगश्च चिदाभासस्य स चान्तरे [ पुनरिन्द्रियद्वारेण जायते । सर्वत्र लौकिकप्रत्यक्षे तत्तद्विषयसंनि- [अन्तःकरणस्य तदाकारित्वं परोक्षे तु तदनपेक्षतयैवेति बोध्यम् । धत्ते चक्षुस्तदाकारं विसृप्याथै स्वतेजसा । अन्यत्तदाकृति धत्ते यद्यर्थों यत्रगस्तदा ।। इति । वेदं वस्तुतमित्यायातम् ॥ ५ ॥ इनस्विभिरुत्पद्यमानत्वेन त्रैविध्यमाह- खमनोधीयः ॥६॥ । तत्प्रत्यक्षं खमनोधीभ्य इन्द्रियान्मनसो बुद्धश्च जायते । तत्र गिन्द्रियात्ततो मनसस्ततो बुद्धश्च संभवति । तथा हि-यथा म्वं स्वच्छतेजमा घटादीनुपादाय तदाकारमादत्ते तथेन्द्रियाण्यपि बद्वारेण विषयमासाद्य तदाकारं परिणमन्ति । स एव परिणामो व्यते । तयैव वृत्त्या पूर्व ज्ञानं निर्विकल्पाख्य मुत्पद्यते । ततः पुनः भ्रूमध्ये मनसि तथैव परिणते किमिदमिति संशयाख्यं भवति । प्टे तत्तद्वस्तुकल्पनं दृष्टे तु तत्स्मरणं प्रत्यभिज्ञात्मकं । जायते । ततो तो तद्वत्परिणतायां घटादिरेवायमिति निश्चयाख्यं भवति । तत्राऽऽ- मत्य स्फुटं द्वितीयं मानसं किंचित्स्पष्टं तृतीयं बौद्धं सुस्पष्टं जायते - सिद्धान्तदर्शनं- [४ ज्ञानपाठे- किं तु समयस्य सूक्ष्मतया तत्पार्थक्यानुभवविरहात्तत्रैविध्यं सहसा नावभासते सत्सर्वमेवोत्पन्नमात्रमतीव त्वरितं विमृष्य विमृप्य क्रमादहंकारेणान्वेति नाहं तज्ज्ञानवानित्यभिमानः स्फुरति । तच्चाज्ञाननिवृत्त्यैव जायते । तथा हि-साक्षात्कारे घटादौ वृत्तिफलचैतन्ययोरुभयोरेव व्याप्तिः । तत्र तावद्व चिच्याप्त्या तदज्ञानापसरः। फलव्याप्त्या च घटादिस्फुरणम् । तदुक्तं च- बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ इति ॥ ताश्च वृत्तयो विषयद्वारेण कचित्स्वेच्छया चेन्द्रियोत्तेजनाजायन्ते । यदि ता एव धीन्द्रियमनोबुद्धयः स्वेच्छया कांश्चिद्विषयानवष्टभ्य पुनः पुनस्तथैव व्याप्रियन्ते तर्हि शनैस्तत्तद्विषयाणामङ्गप्रत्यङ्गाद्युन्मीलनेन तत्तद्वस्तुविज्ञानं चि चपारोहतीति बुभुत्सुहृद्यम् । एतदुक्तं भवति-ज्ञानं बाह्यघटादिगतम् । चिदा भासविषयोभयेकपकाशरूपं जायते । आत्मसमवेतं तु नटत्करस्थगवाक्षातप चदाभासस्फुरणमात्रम् । तत्र चोभयोः प्रकाशयोरेकतरो मुख्यश्चेदन्यतरो गौणत याऽवभासते । यथाऽयं घटा, घटमहं पश्यामीति । एवं जाते तिमदभिन्न त्वात्क्रियादेरप्युत्पत्तिमात्रेण तद्वद्भिरेवैकतापनत्वादध्यक्षता। अन्तत्तिविशेष. रूपाणां तु सुखादीनां कूटस्थभास्यानामज्ञानविरहेणेन्द्रियसंनिकर्षानपेक्षणा. तजन्मनैवाऽऽभासस्य तदाकारितेति बोध्यम् । अत्र तु घनतिमिरस्थे घटादों मानवादीनां न चाक्षुषता। तत्र तदिन्द्रियस्य तत्तमोभेदकशक्तिविरहेण संनिक- पविरहात् । यत्तु शक्तिस्वीकारे विधुराणां न्यायरसिकानां तत्राऽऽलोकसह- कारिताकल्पनं तदूरदृग्भ्यो न रोचते । मातृमण्डले मार्जारादौ च तिमिरभेद- शक्तिमञ्चक्षुषि व्यभिचारदर्शनात् ॥ ६ ॥ तत्रालौकिकसंनिकर्षोऽप्यस्तीत्याह- योगजश्च प्रत्यासादः ॥ ७ ॥ योगजो योगाभ्यासजनितो धर्मः । स च प्रकृष्टसत्त्वरूपः । प्रत्यासादः प्रत्यासत्तिः । तथा च प्रकृष्टसत्त्वं स्वच्छतया सर्व संनिकृष्टं विप्रकृष्टं चार्थ व्यामोतीति प्रत्यासाद उच्यते । स च बाह्येन्द्रिययत्रानपेक्षतयैव जायते । प्रत्यक्षादन्यत्परोक्षम् । तच्च द्विधाऽऽहुर्यथा-- कर्तृतम्रोऽन्यतन्त्रश्च परोक्षानुभवो द्विधा । आद्यो विचारजः शेषः केवलाप्तवचोभवः ॥७॥ प्रत्यक्षं निरूप्यानुमानं निरूपयति- १ प्रपाठः] निरञ्जनभाष्यसमेतम् । व्याप्तिबोधजमनुमानम् ॥ ८ ॥ तत्रिविधं पूर्ववच्छेषवत्सामान्यतो दृष्टं च । तत्र पूर्ववत्कारणलिङ्गकम् । यथा भेधोनत्या दृष्टेरनुमानम् । शेषवत्कार्यलिङ्गकम् । यथा धूमेन बढेरनुमा- नम् । ताभ्यामन्यत्सामान्यतो दृष्टम् । तत्पुनः स्वार्थपरार्थभेदाद्विविधम् । सत्र स्वार्थ स्वमात्रप्रयोजनक तत्वमसीत्यादौ द्रष्टव्यम् । परार्थे परमात्रम योजनकं नास्तिकादिसंशयनिराकरणार्थ जगदिदं सक कार्यत्वादित्या- धनुसंधेयम् ।। ८ ॥ अनुमितिहेतुर्या व्याप्तिस्तामाह- साध्याव्यभिचारिता हेतौ व्याप्तिः ॥ ९ ॥ साध्येति । साध्याव्यभिचारिता साध्यवद्वृत्तित्वे सत्यनावृत्तिता । तथा च हेतोः साध्यवदत्तित्वे सत्यन्यावृत्तित्त्वमिति तल्लक्षणम् । तथा हि-वतिमानयं धूमादित्यत्र हेतोधूमस्य साध्यवति वह्निमति महानसादौ वृत्तित्त्वे सति साध्यव- जिने जलहदादावत्तित्वं व्याप्तिः । अत्र च यत्र यत्र धूमस्तत्र तत्र बहिर्यथा महानसमित्यन्वयः । यत्र न बतिस्तत्र न धूमो यथा जलहृद इति व्यतिरेकश्व। तथा च पूर्व महानसादौ धूमे वहिव्याप्तिनिश्चिता। तदनन्तरं कदाचिद्रूपस्य पर्वते दर्शनम् । तदनन्तरं यत्र यत्र धूमस्ता तत्र वह्निरिति व्याप्तिस्मरणम् । तदन- तरं पर्वतोऽयं चह्निमानित्यनुमितिर्जायते । धूमवानयं वढेरित्यत्र तु हेतो. चैः साध्यवति महानसादौ वृत्तित्वेऽपि तदन्यसिन्नयःपिण्डादौ वृत्चित्वात्र व्याप्तिरिति । न चेदं हरीच्छागोचरो जन्यत्वादित्यादौ साध्यवदन्याप्रसिद्ध रव्याप्तिरिति वाच्यम् । तत्र साध्यवदन्यासिद्धावाप तदन्यावृत्तित्वसिद्धेर्ना न्तरीक्षेऽग्निश्चेतव्य इतिवत् । एवमन्यदनुसतव्यम् ॥ ९ ॥ शाब्दं निरूपयति- पदधीजं शाब्दम् ॥ १० ॥ पदेति । पदधीज पदज्ञानजम् । यथा राजपुरुषः स्वर्गकामो यजेत । तथा च विज्ञातशब्दादर्थाभिधानेन यद्वाक्यार्थविज्ञानं तच्छाब्दमिति फलितम् । तत्र वाक्यं हि द्विविधं लौकिकालौकिकत्व भेदात् । तत्राऽऽयं लोकमाजव्यव- हार्य द्वितीयं वैदिकमिति बोध्यम् ।। १० ॥ भ्रमं निरूपयति- प्रातिभासिकावासोऽध्यासः ॥ ११ ॥ प्रातिभासिकेति । प्रतिभासेन दीव्यतीति प्रातिभासिकः । स्वाश्रयसत्तया सत्तावानिव यथा मरीचिकादिः । प्रातिभासिकवस्तुविषयको बोधोऽध्यास -
-
सिद्धान्तदर्शन-
[४ ज्ञानपाठे-
इत्यर्थः । प्रातिभासिकोऽयं द्विविधः --मूलाज्ञानजो लौकिकाज्ञानजश्च-
तत्राऽऽद्यो व्योमादिप्रपश्चः । द्वितीयः शुक्तिरजतादिः । एवं च शुक्तिरज.
समित्यत्र प्रातिभासिकरजतस्य लौकिकतात्त्विकरजतत्वाभावाभ्रान्तिविगमे
शुक्तिर्न रजतमिति त्रैकालिकनिषेध स्यापि नासंगतिः । न च भ्रान्तिस्थळे
शुक्तिकादौ प्रसिद्धरजतादेनिमेव केवलं प्रतिभासते न तत्राऽऽध्यासिक
वस्तु किंचनास्तीति धीबलमतं युक्तमिति वाच्यम् । प्रत्यक्षसामान्यं प्रति
तत्तद्विषयसंनिकर्षस्य नियमात् । न हि घटसंनिकर्षण पटज्ञानं जायते । न चात्र
ज्ञानलक्षणालक्षणसंनिकर्ष कल्पनं साधीयः । शुक्तिरजते रजतमिदं चक्षुषा
पश्यामीति लौकिकप्रत्यक्षविषयत्वात् । तत्र रजतादिवत्कांस्यादेरपि तत्संनि.
कर्षापत्त्या भानापत्तेः । तदभ्युपगमे च मानाभावात् । अन्यथा वह्निमान्धूमा.
दित्यादौ तथात्वेन वह्नयादेः प्रत्यक्षापत्त्याऽनुमित्यभ्युपगमस्य प्रमत्तगीतताप-
तेश्च । किंच, यदि शुक्तिरजतस्य रजतत्वं न स्यातहीदं रजतमित्येवं दृश्य.
तैव न स्यात् । यन्मास्ति तदिदंतया न जात्वपि दृश्यम् । यथा खपुष्पमिति
नियमात् । किंच, मणिमन्त्रादिशक्त्या विलसन्नगरादेर्दर्पणादिस्थस्फुरन्मा-
तण्डप्रतिबिम्बस्य च दर्शनादपि तदुरीकार्यम् । तथा हि-प्रातिभासिकं नाम
पदार्थमन्तरेण कुहकिनो मायया जृम्भमाणं गन्धर्वनगरादिकं पूर्वमष्टं दृश्यते
कथं वा मुकुरादियोगेन तत्र गृहे च भासमानो मार्तण्डः प्रतप्तुमर्हति । न चासो
खस्थ एवेति वक्तुं युज्यते । चाञ्चल्यादिमत्वात् । बिम्बभूतस्य सस्य दर्पणे
गृहाद्यभ्यन्तरे वा प्रवेशायोगाच्च । किंच प्रतिफलितस्य तुण्डस्य ग्रीवास्थ.
मुखत्वाङ्गीकारे चक्षुदर्शनं कथमुपपद्यते स्वचक्षुषा स्वचक्षुरीक्षणस्य युगसहस्र-
णाप्यशक्यत्वात् । तस्मात्प्रतिबिम्बमिदमिति मृगतृष्णा भ्रमयतीति च
साधु संगच्छते । किंच भ्रान्तिकालोत्पन्नाध्यासिकपदार्थानभ्युपगमे स्वमे
योषित्सङ्गो नोपपद्यते । न खल्वत्र केवलं तज्ज्ञानमेवोपजायते न तत्सगोत्प.
तिरिति वक्तुं शक्यते तत्र कथंचिदङ्गनासङ्गं विना, विना च कथंचन कर्मे-
न्द्रियव्यापार केवलेन तज्ज्ञानेनैव रेत पतनानुपयोगात् । तदानीं त्वगि-
न्द्रियादीनां स्वकीय यन्त्रसङ्गविरहेण तदङ्गसङ्गज्ञानानुपपत्तेश्च । अत एव
स यत्र स्वपितीत्युपक्रम्य श्रुतिराह-न तत्र रथा रथयोगाः पन्थानो भवन्त्यथ
रथाव्रथयोगान्पथः सृजत इति । इत्थंभूते हि लौकिकतार्किकधीरतीव क्षीण-
तामेति । नन्वेवं सति भगवति सर्वज्ञेऽपि भ्रान्तिरस्तीति चेत्सत्यमस्ति माया-
विनीव वक्ष्यमाणा सोपाधिन तु दोषजनिका निरुपाधिरित्यैश्वर्यमक्षतम्॥११॥
१ प्रपाठः निरञ्जनभाष्यसमेतम् । - भ्रमं विभजनाह- चतुष्कः ॥ १२ ॥ चतुष्क इति । चतुष्कश्चतुरवयवश्चतु:संख्यो वा । लौकिकोऽलो. किकः संवादी विसंवादी चेत्यर्थः । तत्र लौकिकः शुक्तिरजतादिज्ञान- रूपः । अलौकिको देहात्यादिज्ञानरूपः । संवादी भ्रमादपि यस्मादर्थ- सिद्धिर्यथा मणिप्रभायां मणिरयमिति । तदन्यो विसंवादी यथा शुक्तो रजतमिदमिति ॥ १२ ॥ सत्र विसंवादिनोऽपि दैविध्यमाह- विसंवादी द्विकः ॥ १३ ॥ विसमिति । द्विक: सोपाधिनिरुपाधिश्चेत्यर्थः । तत्र ज्ञायमानेऽप्यधिष्ठान- स्वरूप यो भ्रमः स सोपाधिः । यथा शङ्खोऽयं पीत इति । तत्र चासत्तावर- णविरहेऽपि प्रत्यक्षभानावरणसत्वाद्विक्षेपशक्तिराविर्भवति । तदन्यो निरू- पाधिः ॥ १३ ॥ भ्रमं निरूण्य प्रमां निरूपयति- प्रमाऽन्या ॥ १४ ॥ अमेति । अन्या भ्रमाद्भिन्ना । तथा च तात्त्विकार्थावभासः प्रमेत्यर्थः । सा च द्विधा क्लुप्ता कल्प्या च । तत्राऽऽद्या ब्रह्मविषयाऽलौकिकी द्वितीया घटादिविषया लौकिकी । तत्करणानि धीन्द्रियव्याप्तिबोधाप्तवाक्यानि प्रमा- णानि । यद्यपि- प्रत्यक्षमनुमानं च शब्दोऽर्थापत्तिरेव च । उपमानानुपलब्धी पूर्वभाष्योदितानि षट् ॥ तथैतिहादिकं मानमितिहासादिसंमतम् । तथाऽप्यर्थापत्त्यादीनामनुमानाद्यन्तर्भावान प्रमाणान्तरता । तत्रार्थापत्तिः कथमस्योपपत्तिरित्यापत्तिः। तत्पमेयं तु पीनोऽयं बटुर्दिवा न भुत इत्युक्ती रात्रिभोजनम् । उपमानं सादृश्यबुद्धिः। यथा गोसदृशो गवय इति । अनुपलब्धियदि स्यादुपलभ्येतेत्यापत्तिः। तत्प्रमेयस्तु गृहे घटाभावः । ऐतित्य परम्परागतोपदेशः । यथेह वटे यक्षः प्रतिवसतीति । अत एवोक्तं मनुना- प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । प्रयं मुविदितं कार्य धर्मशुद्धिमभीप्सता ॥ इति ॥ १४ ॥ - - - क सिद्धान्तदर्शनं- [४ ज्ञानपाठे- - प्रमाणेषु कतमन्महीय इति निरूपयन्नाह- मानं गुर्वान्नायो दोषासंपृक्तः ॥ १५ ॥ मानमिति । आन्नायो वेदः । मानं प्रमाणम् । गुरु प्रधानम् । कुतः । दोषा- संपृक्तः । भ्रमप्रमादविप्रलिप्सादिदोषसंपर्कविरहात् ॥ १५ ॥ सर्वविद्यानुग्राहकमप्यनुमान शास्त्रनिरपेक्षं चेन्न बलीयो मानमिति दर्श- गन्नाह- नानपेक्षमनुमानं दुष्टजन्माप्रतिष्ठानाभ्याम् ॥१६॥ नति । अनुमीयतेऽनेनेत्यनुमान न्यायापरपर्यायम् । अनपेक्षं शासाननुगतम् । न गुरु मानमित्यन्वयः। कुत आह दुष्टेति । भ्रमप्रमादादिदोषयुक्तात्पुरुपाजन्म दुष्टजन्म । पुरुषबुद्धिवैचित्र्येणानियतावस्थानमप्रतिष्ठानं ताभ्यामित्यर्थः । तथा हि-यो यदिह स्वसंविदा निरूपयति ततः सूक्ष्मधीश्वेत्तदन्यथयति । ततोऽपि मूक्ष्मधीः पुनस्तदन्यथयितुमर्हतीति केवलो न्यायो मानमनैकान्तिकमिति भावः । तदुक्तं च-- यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ अत एर न्यायभाष्यकृताऽपि प्रत्यक्षागमाश्रितमनुमानम् । यत्पुनरनुमान प्रत्यक्षागमाविरुद्धं न्यायाभासः स इत्युक्तम् । एवं च नरकपालं शुचि प्राण्य- कृत्वाच्छशुक्तिवदित्यनुमानं न प्रमाणम् । मलमूत्रपुरीषास्थिनिर्गतं समुचि स्मृतम् । नारं स्पृष्ट्वा तु सस्नेहं सचेलो जलमाविशेत् ॥ इत्यागमविरोधात् । अत एव कौमें- श्रुतिसहायरहितमनुमानं न कुत्र चित् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ।। श्रुतिस्मृतिसहायं यत्प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥ इति । - केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः युक्ति हीनविचारे तु धर्महानिः प्रजायते ।
१ प्रपाठः ] निरञ्जनभाष्यसमेतम् । ९३ - PROUND इति बृहस्पतिस्मरणं तत्संदिग्ध एवार्थे बोध्यम् । तत्रैव न्यायावसारस्य सर्व निबन्धृसिद्धत्वात्साकाङ्क्षत्वादविसंवादाच्च । अत एव स्मृतिः- स्मृत्योविरोधे न्यायस्तु बलवान्व्यवहारतः । तुल्यप्रमाणसच्चे तु न्याय एव प्रवर्तकः ॥ इति ॥ १६ ॥ मा भूदनुमानं बलीयः प्रत्यक्षस्य तथात्वमस्त्विति चेदाह- प्रत्यक्षमप्यर्थवाधनात् ॥ १७ ॥ प्रत्यक्षमिति । प्रत्यक्षमिन्द्रियसंनिकर्षजम् । तदपि न गुरुमानमित्यर्थः । कस्मादर्थवाधनात् । प्रत्यक्षितस्य शुक्तिरजतनभोनीलिमवितस्तिप्रमाणान्दु. मण्डलगन्धर्वनगरादेर्मिध्यात्वावगमात् । तस्मादेक एवाऽऽगमो मानं मुख्यमिति वेदान्तराद्धान्तः । एतेन धर्मनिर्णये वेदस्य प्रबलत्वं पदपदार्थनिर्णये तु लोक- वेदयोस्तुल्यत्वमिति यत्तार्किकाभिधानं तल्लौकिकधियैव न तु परमार्थादित्यौ- पनिषदैरना यम् ॥ १७ ॥ अनुभूति निरूप्य स्मृति निरूपयति- संस्कारजं स्मृतिः ॥ १८॥ संस्कारजमिति । संस्कारजं संनिकर्षादिना प्रादुर्भूय पश्चात्तनुतामापन्ना या वृत्तिस्तस्या जायमानं ज्ञानं स्मृतिरित्यर्थः । अस्य विषया मनोमयाः। तेषां पूर्वानुभूतैर्यत्तुल्यतयाऽवभाषणं तत्स्मरणमिति व्यवहारः। नन्वत्र विषया मृन्म- यादिरूपाः कथं न स्यारात चेन्न । दृष्टे घटादौ नष्टेऽपि स्मरणोत्पत्तेः । न हि विषयविरहेण विषयी संभवति । यदि पुनरसत्यपि मृन्मयादावर्थे स्मरणवला. देव विषयताकल्पनं स्यात्तहि साम्राज्येच्छायां विजृम्भमाणायां तहलादपि हेतुवादिनां सर्वैश्वर्यकल्पना स्यादिति सुधीभिः स्मार्यम् । स्वामज्ञानं तु न स्मरणं स्वमे मागननुभूतानां भूतवेतालादीनां गन्धर्वनगरादीनां च प्रतीयमा- नत्वात् । रथमिमं पश्यामीत्यादिरूपतत्कालीनप्रतीतिविरोधापत्तेश्च । किंतु अनुभूतिरेव । स्वमोत्थितस्य स्वमे रथमहमद्राक्षमित्यादिस्मरणात् । यदा कर्मसु काम्येषु स्त्रियं पश्यतीति स्वमाधिकारश्रुतेश्च । नन्वनुभवोऽपि तद्वक्तुं कथं युज्यते तत्र रथाद्यसत्वेन संनिकर्षविरहादिति चेन्न । स्वमे जाग्रद्वस्तुविरहेऽपि तत्का. लोत्पन्नप्रातिभासिकविषयेन्द्रिययत्रदेशादीनां सत्चात् । तथा हि-यथा दूरत्वा- दिदोषोद्भवा शुक्तिकादिविषपिण्यविद्या रजतादीनि रचयति तथा स्वमेऽपि समोवृत्त्या श्रोत्रादिषु तत्तदिन्द्रियसङ्गविगमादिदोषजा वासनावलम्बिन्यविद्या स्वाममपञ्चमुद्भावयति । तथा च श्रुतिः-अथ रथाव्रथयोगान्पथः सूजत इति ।
सिद्धान्तदर्शनं-- [४ ज्ञान पाठे- जाग्रत्मपश्चस्तु तुल्योऽपि मायिकत्वे स्वामवत्प्रतिदिनं न वाध्यते कित्वात्म- दर्शनपर्यन्तं तिष्ठतीति विशेषः ॥ १८ ॥ संप्रति ज्ञानस्यैकत्वं नित्यत्वं च साधयति- विचित्रमपीवाऽऽतपः ॥ १९ ॥ विचित्रमिति । विचित्रमपि विषयाणां संनिकर्षादीनां च लक्षण्येन विलक्ष- णमपि ज्ञानमातप इव । यथाऽऽतपो भास्यानां घटपटादीनामाकारमादधानस्तद्व- देकमेवेत्यर्थः। एवं जाग्रत्स्वमसुषुप्तिषु विषयाणां स्थूलसूक्ष्मकारणरूपाणामेव परस्परं वैचित्र्यं न सज्ज्ञानस्य । तथा दिनमासाब्दयुगकल्पेष्वपि गतागम्येष्वे. कमेव ज्ञानं नोदेति न वाऽस्तं याति किंत्वेकरूपण सदैव विराजते ॥ १९ ॥ नूत्नमिव वृत्तेः ॥ २० ॥ नूत्नमिति । नूत्नमिव भातीति शेषः । कुतो वृत्तेश्चित्तस्य घटायाकारप- रिणामात् । तथा च वृत्तीनां नवत्वाद्वैचित्र्यादा तदुपहितस्य ज्ञानस्यापि सथात्वं व्यपदिश्यत इति श्रुतिमुकुटम् ॥ २० ॥ नानृतमनृतस्यापि स्वाभवत् ॥ २१ ॥ इति चतुर्थे ज्ञानपाठे प्रथमः प्रपाठः ।। नेति । अनृतस्यापि मिथ्याभूतस्यापि वस्तुनो ज्ञानं नानृतमित्यन्वयः । किमिव स्वामवत् । यथा मृषाभूतेऽपि स्वामवस्तुनि तदवगतिर्न मृषा प्रतिबुद्धेऽपि सदवभासमानत्वात् । न हि स्वमभङ्गे तत्रानुभूतस्य रथाश्वादेर्वाध्यमानत्वेऽपि तज्ज्ञानं बाध्यते तद्वत् । परं तु विषयस्य मृषात्वेन ज्ञानस्यापि तथात्वं लोकै. रुपचर्यते ॥ २१॥ इति चतुर्थे ज्ञानपाठे प्रथमः पाठः ॥१॥ अथ चतुर्थे ज्ञानपाठे द्वितीयः प्रपाठः। इदानी कैवल्यहेतुभूतमात्मज्ञानं प्रकटयितुमादौ तद्विभजति- चतुर्धाऽध्यात्मं श्रवणायाम्नायात् ॥ १ ॥ चतुर्धेति । अध्यात्ममात्मानमधिकृत्य विलसज्ज्ञानं चतुर्धेत्यन्वयः । कुतः २प्रपाठ: ] निरञ्जनभाष्यसमेतम् । ९५ श्रवणाधान्नायात् । श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यश्चेति श्रुत्या श्रवणमनननिदिध्यासनसाक्षात्कारोपदेशात् । श्रवणं श्रुतेयापारो मननं मनसो निदिध्यासनं साक्षात्कारश्च बुद्धेरेवेति द्रष्टव्यम् ॥ १॥ तच्चतुष्क क्रमेण वर्णयन्नाह - श्रवणं नाम महावाक्याधिगमः ॥ २ ॥ श्रवणमिति । महावाक्याधिगमो महावाक्येन तत्वमस्यादिनाऽधिगमोऽहं ब्रह्मास्मीत्यर्थभानं श्रवणं नामेत्यर्थः । तथा च तत्त्वमस्यादिवाक्येना ब्रह्मास्मीति ज्ञानं श्रवणमिति भावः। अथ तत्वमसीत्यस्य तागर्थः कथं संघटते तत्त्वमोविरुद्धार्थकत्वात् । मैवम् । तच्छक्यार्थयोभिन्नत्वेऽपि लक्ष्याथै - क्यात् । तथा हि-तत्र तत्पदवाच्यं कारणदेहोपहितमीश्वरचैतन्यम् । तल्लक्ष्यं तु ब्रह्मचैतन्यम् । त्वंपदवाच्यं लिङ्गदेहोपहितं जीवचैतन्यं तल्लक्ष्य तु कूटस्थचैतन्यम् । तथा च सति सोऽयं बटुरित्यत्र तत्कालैतत्कालयोः परि- त्यागेन पिण्डैक्यवत्तत्त्वमोर्वाच्ययोः कारणलिङ्गदेहयोस्त्यागेन चैतन्यैक्यं भासते । ब्रह्मकूटस्थयोर्भेदस्तु वाङ्मात्रेणैव महाकाशघटाकाशवदिति महावा. क्यार्थः ॥२॥ क्रमप्राप्तं मननमाह- मननं चेदुपपद्यते ॥ ३ ॥ मननमिति । यदि श्रुतार्थो युक्तियुक्तो भवति तदा तदधिगमो मननं नामे. त्यर्थः । यद्यप्यहमस्मीत्यस्मत्पत्ययगोचरे तिर्यगन्तानामपि सदैवापरोक्षरूपे स्वस्मिन्नात्मनि विचिकित्सानुदयेन विचारो नापेक्ष्यते तथाऽप्यात्मनो देहेभ्यो भिन्नत्वेन ब्रह्मणा सार्धमभिन्नत्वेन च प्रतीतिविरहात्तदर्थमात्मस्वरूपं विचा. रणीयम् । तत्र संशयाः-आत्मा देहेभ्योऽतिरिक्तो न वा । तदतिरिक्तत्वेऽपि तस्य ब्रह्मणा सार्धमैक्यं न वा । तदैक्येऽपि तज्ज्ञानं मुक्तिसाधनं न वेति । तत्राऽऽद्यः प्रागुक्तान्वयव्यतिरेकादिभिनिरसनीयः। द्वितीयो जीवस्य चित्म. तिबिम्बरूपत्वं प्रतिबिम्बस्य च वस्तुतो विम्बानतिरिक्तत्वमिति प्रपञ्चितेन मार्गेण । तृतीयश्च बन्धमोक्षस्वरूपयोः प्रागुपवर्णितयोरालोचनेनापसरणीयः । 2 एवमन्योऽपि विचिकित्साभञ्जनोपायः सततं ब्रह्मविद्यामनुसंधाय स्वसंविदा स्वतनीकर्तव्यः ॥३॥ निदिध्यासनमाह- [४ ज्ञानपाठे सिद्धान्तदर्शन- वृत्तिसंतानो निदिध्यासनम् ॥ ४ ॥ वृत्तीति । वृत्तिसतानो वृत्तेरहं ब्रह्मेत्याकाराया मनोव्यापारणं संभाविता. याः संतान प्रवाहः । तथा चासंभावनानिवृत्तिकालीनाहं ब्रह्मास्मीतिवृत्ति- प्रवाहो निदिध्यासन मिति भावः । एवं च सर्वथा संशयनिवृत्तिविरहेऽपि निदिध्यासनसंभवात्तन्निरसनार्थ मननोत्तरं निदिध्यासनं तदुत्तरं पुनर्मननमि- सभ्यसनीयम् । तदभ्यासनिरतस्तु मौनशीलत्वान्मुनिरित्युच्यते । यदा तत्पा. टवेन ध्याता द्वैतं विस्मरति तदाऽसौ विजने वासाद्गहनवासीति च भण्यते । यदा तु वक्ष्यमाणसाक्षात्कारपाटवेन निरस्ताविद्यस्तदाऽयं संसारसागरपारग- वत्वादृषिरित्युच्यते ॥ ४॥ साक्षात्कारं निर्वक्ति- स एवाविपर्ययः साक्षात्कारः ॥ ५॥ स इति । स एव निदिध्यासनसंस्कृताई ब्रह्मेतिवृत्तिप्रवाह एव । अविपर्ययो न भवति विपर्ययो देहात्मत्वजगत्सत्यत्वभानरूपो यस्मादिति विग्रहः । तथा च संशयासंभावनाविपरीतभावनानिवृत्तिकालीनाऽहं ब्रह्मास्मीतित्तिः साक्षात्कार इति फलितार्थः । तत्काले तु विपरी- तभावनापायेन तद्बचेरपि भानाभावात्केवलमखण्डं ब्रह्मैव प्रतिभाति । एवं तदानीं तिष्ठदप्यज्ञानमत्तिकं क्षीरे नीरवनिष्पभतया साक्षात्कारं न व्याहन्ति । ततः परं तु द्रष्टरि मूलाविद्योन्मूलनाज्जगतो बाधलक्षणनित्तिर्भव वीति श्रुतिशिरःसिद्धान्तः । अयमेव राजयोग उच्यते । तथा च स्मृतिः- आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति । अस्मिंश्च साक्षात्कारे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य - - श्रेति श्रुत्या श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय एते दर्शन हेतवः ।। इति स्मृत्या च श्रवणादीनां यद्धेतुत्वाभिधानं तदविद्यावरणनिवृत्तिद्वारेण । प्रतिबन्धकसद्भावे कार्योत्पत्त्यनियमात् । नन्वनाद्यज्ञानवतां सत्यज्ञाने कथं ज्ञानोत्पत्तिस्तयोविरोधित्वादिति चेन्न। तुल्यप्रभयैव विरोधिनोरेकत्रसमावेशा-- योगात् । अत एव तोये तापोत्पत्तिदृश्यते । एतदेव ब्रह्मात्मज्ञानं निःश्रेयसस्य २ प्रपाठः] निरञ्जनभाष्यसमेतम् । साक्षात्साधनम् । तथा च श्रुतिः-यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽ- नेरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते सोऽभयं गतो भवति । जागत्स्वमसुषुप्त्यादिप्रपञ्च यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ।। इति । न हि न्यायसांख्योक्तः केवलो विवेकः शान्तिमात्यन्तिकी जनयितुमईति माणाभावात् । ब्रह्मात्मनोरभेदज्ञानमन्तरेण देहात्मभेदसाक्षात्कारायोगात् । वरोधविरहेण मूलाविद्यानपायाच्च । तथा च श्रुतिः-यदा ह्येवैष एतस्मिनु- रमन्तरं कुरुते, अथ तस्य भयं भवतीति । किं त्वयं निरुक्तान्वय- यतिरेकजश्चत्तार्ह स्वरूपसाक्षात्कारहेतुः । जम्बालजलेक्षणे पङ्कस्येव देहा- मश्लेषस्य तदन्तरायत्वात् । यथा मुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः । शरीरत्रितयाधीरैः परं ब्रह्मैव जायते ॥ इति श्रुतेश्च । तथा च देहाद्भिन्नत्वेन ब्रह्मणा चाभिन्नत्वेनाऽऽत्मनो भानं त्रिविधदु: वात्यन्तनिवृत्तौ हेतुरिति शास्त्रार्थः ॥५॥ तदानीमात्मनो ब्रह्मण्येकीभावं विशदयति- तमोन्तर्धराक्षासः प्रान्तींपवत् ॥ ६॥ तम इति । तमोन्तर्धेस्तदानीं ब्रह्मविषयकाविद्यावरणापसरणात् । आमा- पश्चित्प्रतिबिम्बम् । प्रभान्तर्दीपवत्प्रचण्डातपमध्यवर्तिप्रदीपवत्तिष्ठतीत्यर्थः । था चाहं ब्रह्मास्मीतिधीवृत्त्युदयेन तदज्ञानान्तों चिदाभासो ब्रह्मभास्यत्वेन इटादिवत्तदवभासनानईतया प्रचण्डमार्तण्डमण्डलप्रभामध्यवर्तिप्रदीपवत्तदेकी- येव वर्तते ॥ ६ ॥ त्रिपुड्यज्ञानाद्भूमानन्दाभिव्यक्तिः ॥ ७ ॥ त्रिपुटीति । त्रिपुड्यभानात्रयाणां पुटानां ज्ञातृज्ञानज्ञेयरूपाणां समाहार- स्त्रपुटी तस्या अभानं प्रतीतिविरहस्तस्माद्भुमानन्दाभिव्यक्तिरपरिच्छिन्नस्व- रूपसुखाविर्भावो भवतीत्यर्थः । तथा च त्रिपुड्यन्तर्धानात्सच्चिदानन्दा निरु- धियः सन्त एकीभूयेवाखण्डाकारेण भासन्ते ॥ ७ ॥ द्रष्टुरितरानन्दस्तुणवत् ॥ ८॥ द्रष्टुरिति । द्रष्टुर्भूमानन्दानुभवितुरितरानन्दो विषयानन्दस्कृणवत्तुच्छत्वेन समानः स्यात् । परामृतेन यस्तृप्तः स किं पयः पिपासतीति न्यायादिति P सिद्धान्तदर्शनं- [ ४ ज्ञानपाठे- भावः । तदेवं साक्षात्कारेण प्रध्वंसेऽपि मूलाविद्यायाः प्रारब्धक्षयपर्यन्तं चक्र- भ्रमिवद्वह्नितापवद्वा तद्विक्षेपशक्ति त्यन्तं प्रलीयते । किंतु तिष्ठन्यपि मृतप्राया पूर्ववन्न प्रभवति ॥ ८॥ ध्यातुराप्तिः कीटवत् ॥९॥ ध्यातुरिति । यद्यपि विचारजन्यज्ञानेनासत्वावरणनिवृत्तावप्यभानावरणं न निवर्तते तथाऽपि ध्यातुनिशील स्यार्थाप्तिरभानावरणनिवृत्तिद्वारेणं ध्येयप्राप्तिः। कीटवत् । यथा कीटस्तैलपादिभ्रंमरेणाऽऽक्रान्तः कुलाये समानीतः सततं भयेन भ्रमरमनुचिन्तयन्स्वयं भ्रमर एव भवतीति लोकप्रसिदिः । श्रुतिश्च-यो यद्ध्यायति स तदामोतीति । एतेन ध्यानाक्ष्यायिनो लौकिक- स्यापि विचित्रफलस्य सिद्धिर्भवितुमर्हतीत्यपि सूचितम् ॥ ९ ॥ ननु विभोरतीन्द्रियस्य कथं दृश्यतेति चेत्तत्राऽऽह- अत्यक्षोऽपि बास्ति वृत्तौ तमोवत् ॥ १० ॥ अत्यक्षोमीति । अत्यक्षोऽपीन्द्रियातीतोऽपि परात्मा वृत्तौ ब्रह्माकारायां बस्ति स्वावरणनाशेन प्रकाशते तमोवद्राहुवत् । यददृश्योऽपि राहुश्चन्द्रा- कमण्डलस्थो दृश्यतामेति तद्वदित्यर्थः । ततश्च स्वप्रकाशोऽपि विभुरविद्यावरणे. नाऽऽच्छाद्यते तन्नाशे पुनदृश्यते घनेनार्कवदित्यवधेयम् ॥ १० ॥ ननु विभोर्बुद्धौ भासमानत्वे “ विज्ञातारमरे केन विजानीयात् ।' नसा न मनुते” “निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनाचं च यज्ज्ञात्वा मुच्यते बुधः" ॥ इत्यादिश्रुतिभिः कथं तस्याप्रमेयत्वाभिधान. मित्याह- अप्रमोक्तिः फलव्याप्तिहानात् ॥ १३ ॥ अप्रमेति । अप्रमोक्तिः प्रमाविषयत्वाभावकथनं फलव्याप्तिहानात्फलस्य बुद्धिस्थचिदाभासस्य व्याप्तिस्तदाकारितासंपन्धस्तस्या हानं विरहस्तस्मादि. त्यर्थः । तथा च स्वप्रकाशस्य ब्रह्मणो घटादिवदाभासेन व्यापनायोगादप्र- मेयत्वोक्तिरिति भावः । एतेनैतदप्यवसीयते-बाह्यज्ञाने घटाद्याकारमापन्नस्यापि चिदाभासस्य विषयादन्यत्वेन भासमानत्वात्पमातृत्वादिव्यवहारः । आत्म. ज्ञाने तु विषयचिदाभासयोरैक्यान्न त्रिपुटीति ॥ ११ ॥ ब्रह्मणि फलव्याप्तिविरहेऽपि तदावरणभङ्गाय वृत्तिव्याप्तिरपेक्षणीयेत्याह- वृत्तिव्याप्तिरावृतिनुत्तये ॥ १२॥ वृत्तिव्याप्तिरिति । आवृतिनुत्तयेऽविद्यावरणशक्तेरपसरणाय वृत्तिव्याप्ति श्चित्तस्य तदाकारितया व्यापनमभ्युपेयति शेषः । तदुक्तं च-- ""यन्म. : - -- २ प्रपाठः] निरञ्जनभाष्यसमेतम् । फलव्याप्यत्वमेवास्य शास्त्रकृद्भिनिराकृतम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥ स्वयंप्रकाशरूपत्वादाभासो नोपयुज्यते ॥ इति । तथा च ब्रह्माकारवृत्तिनिदिध्यासनेन दृढसामासाद्याविद्यामुन्मूलयति । ननु ब्रह्मणि वृत्तिव्याप्यताङ्गीकारे तदुपहितचैतन्यस्य ब्रह्माकारावश्यभावा- स्फलव्याप्यताऽपि कथं न स्यादिति चेन्न । वृत्तिव्याप्तिकालीनयोर्ब्रह्मचिदा. भासयोर्भेदानवभासेन व्याप्यव्यापकताविरहादिति स्वसंवेदनीयम् । ननु च न्याप्येनाज्ञानेन कथं ब्रह्मावरणं संभवति । सत्यम् । बुद्धरावरणेनैव तदावर- णमित्युपचर्यते । दृष्टिं छादयता घनेनार्काच्छादनवत् । एतेन सदैवान्तरे स्फुरणरूपस्य ब्रह्मणः स्फुरणं न जन्यं जन्या तु सदाकारवृत्तिरेवेति गमितम् ॥ १२ ॥ स्वापे सति संपय स्वरसेऽपि नाधिगमः ॥ १३॥ स्वाप इति । स्वापे सुषुप्तिकाले सति ब्रह्मणि संपथैकीभूय स्वरसेऽप्यज्ञान- वृत्या स्वरूपसुखानुभवेऽपि नाधिगमोऽहं ब्रह्मेतिभानं न भवति तदानीमज्ञान- सद्भावादन्तःकरणात्तविलयाचेति भावः। तथा च श्रुति:--"सति संपद्य न विदुः सति संपघामहे " इति । ननु सुषुप्तावज्ञानसद्भावात्कथं ब्रह्मानन्दाविर्भाव इति चेदुच्यते-ज्ञानाज्ञानयोरेव विरोधिता न त्वानन्दाज्ञानयो । स्वमजागरयो. स्त्वज्ञानतरङ्गेणैव स्वरूपसुखं न भासते युगपद्याहारेण पुत्रध्वनिवत् ॥ १३ ॥ अवणादेरन्यस्मात्साधनाद्ब्रह्मसाक्षात्कारेऽपि तेन जीवन्मुक्तिर्नास्तीति दर्शयति- नान्यस्मात्प्रसंशान्ति वताम् ॥ १४ ॥ नेति । अन्यस्माच्छ्रवणादेभिन्नादविमुक्तप्राणोत्क्रमादिसाधनाजीवतां वर्त- मानदेहस्थानां प्रसंशान्तिः शोकात्यन्तनिवृत्तिर्जीवन्मुक्तिरिति यावत् ॥१४॥ इदानीमात्मसाक्षात्कारे तत्कारणे च प्रतिबन्धकानि दिदर्शयिष्यमाह- श्रोतुमप्यरसा भूयांसः ॥ १५ ॥ श्रोतुमिति । श्रोतुमप्यात्मानमरसा रागरहिता भूयांसोऽनेक एव वर्तन्ते दुरदृष्टसंपर्कादिति भावः । तथा च श्रुतिः-श्रवणायापि बहुभिर्यो न लभ्य इति ॥ १५॥ शृण्वन्तोऽपि न विदुः ॥ १६ ॥ शृण्वन्तोऽपीति । शृण्वन्तोऽप्यात्मानं बहब एव नानुभवन्ति । प्रतिबन्धक - [४ ज्ञानपाठे- - १०० सिद्धान्तदर्शनं- सद्भावादिति भावः । तथा च श्रुतिः-शृण्वन्तोऽपि बहवो यं न विद्युः। स्मृतिश्च- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः ॥ इति ॥ १६ ॥ के ते प्रतिबन्धा इत्यपेक्षायामाह- धीमान्यं कुतर्करसविपर्ययारब्धोदास्तदन्तरायाः ॥ १७ ॥ धीते । धीमान्धं बुद्धरतक्ष्ण्यम् । कुतर्कः शुष्कतों यश्च निसर्गजः श्रुति. निरपेक्षो वा । रसो विषयानुरागः । विपर्ययो देहात्मत्वजगत्सत्यत्वभानम् आरब्धभेदो जन्मान्तरहेतुभूतं प्रारब्धम् । यश्च भरतवामदेवादौ श्रूयते । तद. न्तरापा आत्मानुभवे प्रतिबन्धाः ॥ १७ ॥ प्रतिबन्धकापगमोपायमाह- त्रयावृत्तेः प्रायस्तदन्तर्धिः स्वसमृद्धिः प्रज्ञाभिव्यक्तिश्च ॥ १८ ॥ प्रयेति । त्रयावृत्तेः श्रवणमनननिदिध्यासनावर्तनात्मायस्तदन्तर्धिर्वाहुल्ये. नान्तरायस्य विगमः । स्वसमृद्धिरन्तःकरणस्योन्नतिः क्रमशो ब्रह्माभिगतिरि- त्यर्थः । प्रज्ञाभिव्यक्तिब्रह्मणि पटुताविर्भावः । प्रायःपदेन प्रारब्धस्य नान्त. धिरिति सूचितम् ॥ १८ ॥ पारब्धेतरप्रतिबन्धिनिवृत्तेरुपापान्तरमाह- प्रणवजपतदर्थभावने चानन्तराये ॥ १९ ॥ प्रणवति । प्रणवजपः प्रणवस्य सार्वत्रिमात्रात्मकमन्त्रस्य जपो दीर्घघण्टानि- नादवदुच्चारणविशेषः । तदर्थभावनं तदर्थस्य प्रणवप्रतिपाद्यस्य ब्रह्मणो भावनं सर्वत्र चिन्तनम् । ते चानन्तराये न विद्यतेऽन्तरायो याभ्यां ते तथा विघ्नं वारयत इत्यर्थः ॥ १९ ॥ केनाऽऽत्मनो विविदिषोत्पत्तिरिति जिज्ञासायामाह- स्वाध्यायायैस्तद्विजिज्ञासा ॥ २० ॥ खेति । स्वाध्यायाधैर्वेदाध्ययनादिभिस्तद्विजिज्ञासा, आत्मानं विज्ञातु- मिच्छा । आद्यपदेन यज्ञादिपरिग्रहः । तथा च श्रुतिः-- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन चेति । एतेन स्वाध्याया- दीनां सत्त्वशुद्धिद्वारेण विविदिषोत्पत्तौ तदुत्पत्त्या च ज्ञानोत्पत्तौ हेतुत्वम- भिहितम् ॥ २० ॥ - २ प्रपाठः ] निरञ्जनभाष्यसमेतम् । १०१ अमजिज्ञासायां कर्मणामादिकारणता व्यतिरेकमुखेण दर्शयति- नान्तरुत्पवणमनानुश्रविकाणाम् ॥ २३ ॥ नेति । अनानुश्रविकाणां न विद्यत आनुश्रविको वेदोक्तकर्मकलापो नित्यनैमित्तिक इह जन्मनि जन्मान्तरे वाऽनुष्ठितो येषां ते तेषामन्तः, अन्तःक- रणमुत्पवणं परमात्माभिमुखं न भवतीत्यर्थः । अत एव भगवानाह- न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते । इति । स्मृतिश्च-प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुनि कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ अहिंसयेन्द्रियासऑर्थैदिकैश्चैव कर्मभिः । तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ इति । एतेन नित्यनैमित्तिककर्मणां चित्तशुद्धिः फलम् । पितृलोकादिप्राप्तिस्त्व. बान्तरमिति बोध्यम् ॥ २१ ॥ एषणावतां कर्मैव मुख्यमिति दर्शयति- ब्राह्मणमुदग्रमेषणा चेत् ॥ २२ ॥ ब्राह्मणमिति । ब्राह्मणं विधिनिषेधपरो वेदभागः । उदग्रं प्रधानम् । एषणा पुत्रे वित्ते लोके वाऽभिलाषश्चेदित्यर्थः । अत एव श्रुतिः-"पुत्रैषणाया वित्तै- पणाया लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति "॥ इति । स्मृतिश्च-परमात्मनि यो रक्तो योऽरक्तोऽपरमात्मनि । सर्वेषणाविनिर्मुक्तः स भक्ष्यं भोक्तुमर्हति "॥ इति । एतेन यद्येषणात्रिकाणामेकाऽपि वर्तते तहि कर्मानुवर्तितव्यं बशिष्ठादि- वदिति सूचितम्॥ २२॥ योगो ज्यायानविद्वन्न्यासात् ॥ २३॥ योग इति । योगः फलनिरपेक्ष भगवत्प्रेरणाधिया वा कर्मानुष्ठानम् । अविद्वन्यासादज्ञानिनः कर्मपरित्यागात् । ज्यायान्सत्त्वशुद्धिद्वारा झटित्येव ब्रह्ममाप्तिकरत्वादिति भावः । अत एव स्मृतिः- संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिब्रह्म न चिरेणाधिगच्छति ॥ इति । - A . १०२ सिद्धान्तदर्शनं- [ ४ ज्ञानपाठे- एतदुक्तं भवति-विविदिषासंन्यासापेक्षया कर्मयोग एव श्रेयानकर्मसंन्यास- विधेश्चित्तविक्षेपकर्मत्यागाभिप्रायकत्वात् । भक्तिवर्त्मनि तत्त्यागोपदेशस्तु फला- भिसंधानपूर्वककर्मवर्जनपरो भक्तिश्लाघनपरो वा ॥ २३ ॥ कर्मन्यासस्य विदुषि विकल्पमाह- विद्वांस्तु न्यसेत्तैर्वा जिजीविषेत् ॥ २४ ॥ विद्वास्त्विति । तुः पूर्ववैलक्षण्यद्योतकः । विद्वान्कृतात्मसाक्षात्कारो न्यसे- कर्माणि त्यजेत् । तत्र प्रयोजनधीविरहादिति भावः । तथा च श्रुतिः- किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामह इति । स चेत्मारब्धव- शाद्गृही तर्हि तैः कर्मभिनित्यनौमित्तिकैर्जिजीविषेज्जीवितुमिच्छेत्कालं गम- येदिति भावः । तथा च श्रुति:-कुर्वन्नेवेह कर्माणि जिजीविषेच्छसं समा इति । वाशब्दः पक्षान्तरं सूचयति । एतेन गृहस्थानां कृतात्मसा. क्षात्काराणामपि कर्माणि वैदिकानि नित्यनैमित्तिकानि लोकसंग्रहार्थं तदभ्यु- दयार्थं च कायवामनोभिः कर्तव्यानि वशिष्ठजनकादिवन तु त्यक्तव्यानि शुकनारदादिवदिति सूचितम् । योगिनां पुनरविदुषामपि नितरामेव सर्वकर्म- न्यासः । ब्रह्मचर्य समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रबने. दिति क्रमप्राप्तस्तु न्यासो ब्राह्मणस्यैव । यदहरेव विरजेत्तदहरवे प्रव्रजेदिति वैराग्यहेतुकोऽपि तस्यैव मुख्यः । ब्राह्मणो निर्वेदमायादित्यत्र तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणाया वित्तैषणाया लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीत्यत्र च श्रुतौ ब्राह्मणपदश्रवणादिति मन्तव्यम् ॥ २४ ॥ कर्मभ्यो लोकाभ्युदयं दर्शयति- तेश्यः प्रीयन्ते दिव्या भुवोऽप्यत्युदयः ॥ २५ ॥ सेभ्य इति । तेभ्यः कर्मभ्यो दिव्या इन्द्रादयः पीयन्ते प्रीतिं यान्ति । भुवः कर्मभूमेरभ्युदयोऽपि तत्त्रीत्येत्यर्थः । अत एवोक्तम्- अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः॥ देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।। इति । अत्र वैधकर्मणां कर्मभूमेरेवानुकूलत्वाद्भोगभूमौ तदकरणेऽपि न क्षतिरिति मुचितम् ॥ २५ ॥ लोकापचारात्पुनरशुभं दर्शयति-
२ प्रपाठः]
निरञ्जनभाष्यसमेतम् ।
१०३
प्रत्यूहन्तेऽपचारात् ॥ २६॥
प्रत्यूहन्त इति । अपचाराद्वेदविरुद्धाचरणात् । प्रत्यूहन्त उपद्रवन्ति ।
देव्या इत्यर्थः । तदुक्तम्-
अतिलोभादसत्त्वाद्वा नास्तिक्याद्वाऽप्यधर्मतः ।
नरापचारानियतमुपसर्गः प्रवर्तते ॥
अतोऽपचारानियतमपवर्जन्ति देवताः ।
ताः सृजन्त्यद्भुतांस्तावदिव्यनाभसभूमिजान् ॥ इति ।
एतेन देवादीनामृणापनयनमपि कार्यमिति सूचितम् । तथा चोक्तम् -
देवानां च पितॄणां च ऋषीणां च तथा नरः।
ऋणवाञ्जायते यस्मात्तस्मान्मोक्षे यतेत्सदा ॥
देवानामनृणो जन्तुर्यज्ञैर्भवति नारद ।
अल्पवित्तस्तु पूजाभिरुपवासवतैस्तथा ।
श्राद्धेन प्रजया वाऽपि पितॄणामनृणो भवेत् ।
ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥ इति ॥ २६ ॥
वसन्त्युत्पातास्तपसोऽसाध्यसाध्यत्वात् ॥ २७ ॥
वसन्तीति । तपसो वैधकृच्छ्रात्कुतोऽसाध्यसाध्यत्वात् । असाध्यं लोकैः
राधयितुमशक्यं यत्तदपि साध्यं यस्मात्तस्य तथात्वादुत्पाता रोगाथुपसर्गनि-
यास्त्रसन्ति शरीरशोषद्वैधोपवासादिभ्यो बिभ्यतीत्यर्थः । तपःप्रभावमाह-
राणम्-
तपोभिः प्राप्यतेऽभीष्टं नासाध्य हि तपस्यतः।
दुर्भगत्वं वृथा लोको वहते सति साधने ॥
अत एवास्यां कर्मभूमौ कर्मैव तत्रत्यानामिहामुत्र च क्षेमंकरमिति मनस्विनां
हृद्यम् ॥ २७ ॥
श्रीताच्छं ग्रहचारवत् ॥ २८॥
श्रीतादिति । श्रौताच्छास्त्रविधेरनुष्ठीयमानाच्छमभ्युदयो ग्रहचारवद्ग्रहाणां
भ्रमिभिर्लक्ष्यमाणप्रत्यग्गतीनां प्राच्यगतिरिवालक्ष्यमित्यर्थः । तथा च नैस.
गंकबहिःप्रवणगतीनामिन्द्रियाणां प्रत्यावर्तनमात्मनीनं विध्याचरणमूलक-
मिति तदनुसरणं साधीयः ॥ २८ ॥
सिद्धान्तदर्शनं- [४ ज्ञानपाठे- निष्ठा त्रयी त्रिकाण्डोपदेशात् ॥ २९ ॥ निष्ठेति । निष्ठा श्रद्धा त्रयी त्रिप्रकारा त्रिकाण्डोपदेशात् । त्रयाणां कों- सनाज्ञानानां यथाक्रमं कर्मेन्द्रियमनोबुद्धिव्यापाराणां काण्डः प्रस्तावस्त. पदेशात् । वेदेष्विति शेषः । तदुक्तम्-कर्मोपास्तिस्तथा ज्ञानमिति त्रिका. डका श्रुतिरिति । तत्राधिकारितारतम्याकाण्डत्रयमुपदिष्टमिति रहस्यम् । यत्तु काण्डानां परस्परस्य परस्परेण निन्दाभिधानं तत्तदधिकारिणां स्वस्वकारे स्थापनार्थमेव । परमार्थस्तु पूर्वस्य परं प्रति हेतुत्वमिति ।। २९ ।। कस्य कुत्र निष्ठेत्याह- त्रयाणां त्रिषु ॥ ३० ॥ इति चतुर्थे ज्ञानपाठे द्वितीयः प्रपाठः। त्रयाणामिति । त्रयाणां कर्मोपास्तिज्ञानबीजिनां त्रिषु कर्मोपास्तिज्ञानेषु नष्ठा क्रमादुदेतीत्यर्थः । तथा च कर्मादिबीजिनां त्रयाणां यथाक्रमं कर्मभक्ति- नमार्गेषु निष्ठा स्वत एवं प्रतिभातीति न कश्चिद्विसंवादः। तत्र च मिणो दैतार्थेन भक्ता विशिष्टाद्वैतार्थेन ज्ञानिनस्त्वद्वैतार्थेन चरन्तीति ॥३०॥ इति चतुर्थे ज्ञानपाठे द्वितीयः प्रपाठः ॥ २ ॥ अथ चतुर्थे ज्ञानपाठे तृतीयः प्रपाठः। ब्रह्मविचारं विस्तरेणाभिधाय तत्र कस्याधिकारितेति विज्ञापयन्नाह- ब्रह्माध्वोपात्तसाधनस्य ॥ १ ॥ ब्रह्मेति । ब्रह्माध्वा ब्रह्मविचारः । उपात्तसाधनस्योपात्तं लब्धं साधनं नेत्यानित्यवस्तुविवेकेहामुत्रफलभोगविरागशमादिषट्कसंपत्तिमुमुक्षा इत्येवंरूपं पेन स तस्य । तस्मिस्तदधिकार इति भावः । अत एव श्रुतिः-शान्तो दान्त परतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति । स्मृतिश्च- वैराग्यपवनाकीर्ण विवेककुसुमाकरे । पीयूषं वमति श्रोत्रे वेदान्तकोकिलध्वनिः ॥ इति । एतेन श्रवणादौ साधनचतुष्टयस्यान्तरङ्गसाधनत्वमभिहितम् ॥ १॥ - - ३ प्रपाठः] निरञ्जनभाष्यसमेतम् । १०५ ननु साधनचतुष्टयसंपन्नस्याधिकारितोक्तेरन्यस्य ब्रह्मविचारः कर्तव्यो न वेत्याशङ्कायामाह- नान्यस्यापि पण्डः ॥ २॥ नेति । अन्यस्यापि साधनसंपत्तिरहितस्यापि । पण्डः फलजननशक्तिर- हितो ब्रह्माध्या नेत्यन्वयः। फलं च- दिने दिने तु वेदान्तविचाराद्भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात्कृच्छ्राशीतिफलं लभेत् ॥ स्नातं तेन समस्ततीर्थसलिले दत्ताऽपि सर्वाऽवनि- यज्ञानां च कृतं सहस्रमखिला देवाश्च संपूजिताः । संसाराच समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् ।। इत्यागमोक्तम् । अपि च युगान्तरानुष्ठितपूर्ववेदोदितक्रियाकलापामल. मानसानां कलावनुजानामैहिककर्माचरणं विनाऽपि श्रवणाद्यावर्तनेनैव प्रत्यूहा- पायपुरःसरसाधनोदयसंभवादात्मसाक्षात्कारो भवितुमर्हतीति गृहमेधिनामपि तदालोच्यमेव ॥ २॥ विचारनिष्ठस्य विद्याप्तेरवश्यं भावं दर्शयति- तनिष्ठस्य विद्याप्तिरिहामुत्र वा ॥ ३ ॥ तदिति । तनिष्ठस्य ब्रह्मविचारे निरतस्य । विद्याप्तिरात्मसाक्षात्कारस्य पाप्तिरिहास्मिञ्जन्मनि, अमुत्र परजन्मनि प्रत्यूहसद्भावेऽमुत्रेति वाशब्दः सूचयति ॥ ३॥ ब्रह्मानुरतेाह्मणानां नैसगिकत्वमाह- ब्राह्मी निष्ठाऽऽत्मनो मुखजानाम् ॥ ४ ॥ ब्राह्मीति । ब्राह्मी ब्रह्मविषया निष्ठाऽऽत्मनः स्वतः । मुखजानां प्राह्मणानाम् । एतेन ब्रह्मविचारविमुखानां ब्रह्मकुलोत्पन्नानां केवलं जाति. बाह्मण्यमेवेति प्रतिपत्तव्यम् ॥ ४ ॥ विद्याविपाकं विना नाविद्योच्छित्तिरिति दर्शयति-- न विद्याऽनृद्धेष्टे मोहिन्याः ॥ ५ ॥ नेति । विद्या, आत्मविषयिणी । अनृद्धा दुर्बला । मोहिन्या अविद्यायाः हर्मणा दृढतामाप्तायाः। नेष्टे तामुत्पाटयितुं न शक्नोतीत्यर्थः ॥६॥ - - means १०६ सिद्धान्तदर्शन- [४ ज्ञानपाठे- बाढोयते कमैधांसि ॥ ६ ॥ बाढति । बाढा दृढा । कमैंधांसि शुभाशुभकर्मेन्धनानि । उद्यते दह- तीत्यर्थः । तथा च श्रुतिः-तद्यथेषीका तूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मानः प्रदूयन्ते । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । स्मृतिश्च- ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथेलि । दाहश्च मूलाज्ञाननाशेनैव न तु साक्षात् कर्मज्ञानयोविरोधाभावादिति भानः । अत्र कर्मपदं संचितपरं क्रियमा- णस्य स्वरूपावलोकिनि ज्ञानिन्यश्लेषात् । प्रारब्धस्य च भोगेनेच नाश्यत्वाता तथा च श्रूयते-यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं न श्लिष्यते । तस्य तावदेव चिरें यावन्न विमोक्ष्य इति । वस्तुतस्तु प्रारब्ध- स्यापि बाधलक्षणो नाशो युक्तस्तस्यापि द्वितीयत्वेन ज्ञानिनि सत्यत्वभान. विरहात् । श्रुतिस्तु तदज्ञानिबोधार्थ बाह्यदृष्टयैवावदत् । इति न कश्चिद्वि- संवादः । एवं च सति प्रदर्शितायां श्रुतौ कर्माणीति बहुत्वस्य स्मृतौ च सर्व- शब्दस्याप्यसंकोचः ॥ ६ ॥ नानियुध्यर्द्धा मल्लवत् ॥ ७ ॥ नेति । मल्लवद्विद्याऽनियुध्याविद्यया सह नियुद्धमकृत्वा, ऋद्धा वीर्य वती न भवतीत्यर्थः । एतदुक्तं भवति-यथा युयुधानयोः पराक्रान्तेन मल्ले. नाभिभूतोऽपि नीचस्थो जिगीषया व्याप्रियमाणः शनैः शनैः स्ववीर्योज्जृम्भ- गाजातूपरिस्थं वारमेकमभिभवति पुनरभिभूयते च । एवं द्विस्त्रिश्चतुरादिक्रमेण परिपुष्य समये सदैवोपरि विराजति । विद्ययाऽपि तद्वदविद्याविजयक्रमः॥७॥ व्युत्पादकदावृत्तिरसकृत् ॥ ८॥ व्युत्पादकृदिति । व्युत्पादकृद्विशिष्टसंस्कारोत्पादिका । आवृत्तिरभ्य- सनं विद्याया असकृत्पुनःपुनः । अत एवोक्तम्--- वैराग्यमात्मपार्थक्यमहं ब्रह्मेति वेदनम् । सर्व ब्रह्मैव मिथ्येदं सर्वदैवं समभ्यसेत् ॥ इति ॥ ८ ॥ संप्रति विद्यायाः काले परिपाकं सदृष्टान्तमाह- दिष्टे विपाकः कृषिगर्भवत् ॥९॥ दिष्ट इति । दिष्टे समयविशेषे । विपाको दृढता । कृषिगर्भवद्यथा शरदा- दौ जातस्य धान्यादेर्गर्भस्य हेमन्तादौ परिपाकस्तद्वदित्यर्थः ॥ ९ ॥ तस्या विपाकावस्थामाह- . - - ३ प्रपाठः] निरञ्जनभाष्यसमेतम् । १०७ क्षेत्रवत्तज्ज्ञे शेषः ॥ १०॥ क्षेत्रवदिति । क्षेत्रव देहवत् । तज्ज्ञे क्षेत्रज्ञे परमात्मनि, शेषः समाप्तिः । पथा देहे संशयविपर्ययशून्यात्मत्वमज्ञानिनां भासते तद्वत्परमात्मन्यात्मत्वे भासमाने समाप्तिविद्याया इत्यर्थः । यावन्नायं विपाकस्तावानिदिध्यासनं पननं चापेक्षणीयम् । एतदुक्तं भवति-जगज्जीवब्रह्मतत्त्वस्य साक्षात्कृतस्य स्मृतिप्राबल्यावस्थायामेव जीवन्मुक्तिरिति ।। १० ।। साक्षात्कारेऽप्यात्मनो मिथ्यासंस्कारस्थानादिकालमारभ्य मनसि विरा- नमानस्य सहसा निवृत्तिर्न स्यादिति तदुपायमाह- चिरनिरन्तरसत्कारात्यर्चनादुच्छित्तिर्वासनानाम् ॥११॥ चिरेति । चिरं दीर्घकालो मासवत्सरादिः । निरन्तरमविच्छेदः । सत्कारः मादरः । तैर्यदभ्यर्चनमभ्यसनं तस्मात् । वासनानां कर्ताऽहं भोक्ताऽहमि- पादिमिध्यासंस्काराणां दीर्घकालमारभ्य संचितानाम् । उच्छित्तिरन्तर्धान- मत्यर्थः ॥ ११ ॥ स्थितप्रज्ञं ब्रह्मैवाऽऽहुः ॥ १२॥ स्थितेति । स्थितप्रज्ञं स्थिता निश्चला प्रज्ञा ब्रह्मात्मैक्यविषया यस्य सतं झैवाऽऽहुः कवयो न तु ब्रह्मज्ञमिति एक्कारार्थः ॥ १२ ॥ तदारब्धं च मरीचीवत् ॥ १३॥ तदेति । तदा प्रज्ञास्थैर्य । आरब्धं च फलदानाय प्रवृत्तं यत्कर्म तदपि रीचीवत् । मृगतृष्णेव मृषेत्यर्थः ॥ १३ ॥ निश्चितार्थस्य साक्षात्कारविरहेऽपि संमृतेः शैथिल्यमाह-- न मानेनाधिगतार्थस्य संमृतिः प्राग्वत् ॥१४॥ नेति । मानेन तत्त्वमस्यादिना प्रमाणेनाधिगतार्थस्याधिगतो निश्चितोऽर्थों राह्मात्मैक्यरूपो येन स तस्य । प्राग्वद्वेदान्तार्थानालोचनदशायामिव संस- तेनेत्यन्वयः । तदर्थनिश्चयेन कर्तृत्वाभिमानशैथिल्यादिति भावः ॥ १४ ॥ तस्य च ब्रह्मलोके साक्षात्कारान्मुक्तिरिति सूचयति- संपद्यते च प्रेत्य परान्ते ॥ १५ ॥ समिति । संपद्यते ब्रह्मैव भवति प्रेत्य परलोके परान्ते हिरण्यगर्भावसाने । था च श्रुतिः-वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । [ ब्रह्मलोके च परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ इति ॥ १५ ॥ -- सिद्धान्तदर्शनं- [४ ज्ञानपाठे- १०८ - स्वो ह्यात्मनः सखाऽसखा वा ॥१६॥ स्व इति । यो जीवो यथोक्तकारी स एव स्वयं स्वीयो बन्धुः । अन्यस्तु स्वयमेव स्वरिपुरित्यर्थः । उक्तं हि भगवता- आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । बन्धुरात्माऽऽत्मनस्तस्य येनैवाऽऽत्माऽऽत्मना जितः ॥ इति ॥ १६ ॥ सत्त्वगुण एवाऽऽत्मनो बन्धुत्वे हेतुरिति दर्शयन्नाह- स्वमवदातमभिप्लवते ॥ १७ ॥ स्वमिति । स्वमात्मानमवदातं सत्त्वमभिप्लवतेऽभिगच्छति । तमोरजोवृत्ति- भिरात्मनो देहेष्वात्मधीः सत्त्ववृत्तिभिराभासे शुद्धसत्त्ववृत्त्या तु ब्रह्मणीति सिद्धान्तितत्वादिति भावः ॥ १७ ॥ शोध्यं निदानं मनोऽशनशुद्धिवैराग्यात्यासेन्यः ॥ १८ ॥ शोध्यमिति । निदानं सुखदुःखज्ञानाज्ञानादिजगदीजम् । मनः शोध्यं शोधनीयम् । उन्मार्गान्निवर्तनीयमित्यर्थः । केभ्योऽशनशुद्ध्यादिभ्यः । अत्राशनशुद्धिनिषिद्धान्नवर्जनम् । वैराग्यमुक्तम् । अभ्यासश्चित्तस्यैकस्मिन्ना- लम्बने पुनः पुनः स्थापनम् । तथा चाशनशुद्ध्यादीनां मनःशुद्धिहेतुत्वात्तत्र शुभार्थिभिर्यतितव्यम् ॥ १८ ॥ परोक्षिणोऽपि क्षेमैकानुध्या ॥ १९ ॥ परोक्षिण इति । परोक्षिणोऽपि साक्षात्कारमकुर्वतोऽपि । एकानुध्या ब्रह्मैकचिन्तनं क्षेमेत्यर्थः । तदनुध्याप्रकारो यथा पूर्वोक्तरीत्या घटादीन्यहं- कारान्तानि प्रकृतितो नातिरिक्तानि तेषां साक्षात्परम्परया च तत्परिणामरू- पत्वात् । प्रकृतेरपि सत्प्रतिभासरूपाया ब्रह्मणः पृथक्सत्ताविरहान्मुखपति- बिम्बवदित्येकं ब्रह्मैव तात्त्विकमस्ति सर्वमन्यन्मायाविजृम्भितमिति वेदान्त- सिद्धान्तः ॥ १९ ॥ विदामप्यर्थो बाचि वाव दुर्नियतीनाम् ॥ २० ॥ इति चतुर्थे ज्ञानपाठे तृतीयः प्रपाठः ॥ ८ विदामिति । विदां शास्रार्थाभिज्ञानाम् । दुनियतीनां दुर्दैवानाम् । अर्थः शास्त्रवेद्यः । वाचि वाव वचस्येव. विराजति न तु मनसीति भावः । कि ४ प्रपाठः] निरञ्जनभाष्यसमेतम् । १०९ वक्तव्यं शास्त्रानभिज्ञानामित्यपेरर्थः । बहुवचनेन दुनियतिरनेकेषामेवास्तीति सूचितम् ॥ २० ॥ इति चतुर्थे ज्ञानपाठे तृतीयः प्रपाठः ॥ ३ ॥ अथ चतुर्थे ज्ञानपाठे चतुर्थः प्रपाठः। ... संप्रति स्वावरणोन्मूलनेन प्राप्तस्यैव ब्रह्मणः पुनः प्राप्तिरिति दर्शयति- स्वावृत्त्यपाये प्राप्तस्यैवान्याप्तिर्दशमवत् ॥१॥ स्वति । स्वावृत्त्यपाये स्वस्मिन्नात्मनि यदावरणमविद्याशक्तिविशेषो येन स्वरूपमाच्छाद्य कर्तृत्वादिरारोप्यते तस्या अपाये विनाशे, सति प्राप्तस्यैव ब्रह्मणोऽन्वाप्तिः पुनः प्राप्तिरित्यर्थः । ननु प्राप्तस्य पुनः प्राप्तिः कीदृशीति, चेदाह--दशमवदिति । तथा हि-किल केचन दश पुरुषाः सरित्संतरणेन, परपारमुत्तीर्य सर्व एव वयमुत्तीर्णा न वेति वितर्कयन्तः स्वं स्वं विहाय गणनादशमो नद्यां ममारेति निश्चित्य विलपन्तः केनचिदाप्तपुरुषेण भ्रान्ति- हेतुं विजानता दशमोऽस्तीत्युक्ताः पुनस्तथैव नवमान्तं गणयन्तो दशमस्त्व. मेवेति प्रदर्शिताः । तथा च यथा दशमस्याऽऽदौ तस्मिन्नज्ञानं. ततो दशमो नास्ति न भातीत्यावरणं ततः शोकादिरिति विक्षेपस्तत आप्तोपदेशादशमोड़- स्तीति परोक्षज्ञानं ततः स्वेन सह गणनादहमेव दशम इत्यपरोक्षज्ञानं ततः शोकादिनिवृत्तिस्ततस्तृप्तिरिति सप्तावस्थाः । तथा जीवस्याऽऽदौ ब्रह्मण्यज्ञानं ततस्तन्नास्ति न भातीत्यावरणम् । ततो देहादिमानहमिति विक्षेपः । ततो यतो वा इमानीत्याद्याप्तोपदेशाब्रह्मास्तीति परोक्षज्ञानम् । ततस्तत्त्वमस्यादि महावाक्यार्थविचारात्तद्ब्रह्मैवाहमित्यपरोक्षज्ञानम् । ततो देहाध्यासनिवृत्तिः । ततो निरङ्कुशतृप्तिरित्यवधेयम् । तथा हि श्रुतिः- ब्रह्मैव सन्ब्रह्माप्येति । न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वा मुक्त इत्येषा परमार्थता ॥ इति । एतदुक्तं भवति-ब्रह्मविषयकाविद्याविगमे तत्माप्तिरुपचर्यते |वेयवत् ।। एतेन ब्रह्मविदामोति परमित्यादिश्रुतयोऽपि न विरुध्यन्ते ॥ १ ॥ ब्रह्मविदोऽवस्थाद्वयमाह- वृत्त्युन्मेषान्ती जागरसुप्ती संवेदिनः ॥ २ ॥ वृत्तीति । वृत्युन्मेषान्तर्धी वृत्तेब्रह्माकारायाः स्फुरणान्तर्धाने यथाक्रम
११०
सिद्धान्तदर्शन-
[४ ज्ञानपाठे-
जागरसुप्ती । कस्य संवेदिनः कृतात्मसाक्षात्कारस्य ॥ २ ॥
जीवन्मुक्तस्य लक्षणं वर्णयन्नाह-
निरोधान्ययोश्चिद्विविक्तयोश्चैत्यम् ॥ ३ ॥
निरोधेति । निरोधान्ययोः समाधिव्युत्थानकालीनयोश्विद्विविक्तयोः कूट
स्थचैतन्यतत्पृथकृताभासयोः क्रमाचैत्यमात्मत्वं संवेदिन इत्यर्थः । तथा
च विदुषां व्यवहारे द्वैतभानेऽप्यद्वैतं वस्तु भासते मृन्मयगजादिभाने मृद्भानव.
दिति मिश्रात्मभानम् । समाधौ तु द्वैताप्रतीतेः केवलात्मभानमेव बोध्यम्॥३॥
किंच-
निर्वासनाचारः ॥ ४॥
निरिति । निर्गता वासना यस्मात्ताहगाचार इत्यर्थः । तथा च-आत्मद-
शिनः सुखदुःखाद्याभासानुभवेनैव व्यवहारः। तथा हि श्रूयते-दुःखेनात्यन्त-
विमुक्तश्वरतीति । तथा च ज्ञानयोगिनः समाधौ ब्रह्मात्मनैवावस्थानम् ।
म्युत्थाने तु प्रारब्धक्षयपर्यन्तं बाधितानुवृत्त्याऽऽचरणमिति भावः । प्रारब्धभोगे
तु न तस्योद्वेगः कार्यः। यथाऽऽहुरभियुक्ताः-
श्रुत्वोपनिषदामर्थ विज्ञाय तत्त्वमात्मनः ।
प्रारब्धमखिलं भुञ्जन्नाईत्युद्वेजितुं सुधीः ॥ इति ॥ ४॥
किंच-
साक्षोऽप्यनक्षः॥ ५ ॥
साक्षोऽपीति । साक्षोऽपि सहेन्द्रियैर्वर्तमानोऽपि अनक्ष इन्द्रियशून्य।
स्वरूपस्मरणेन तद्यापारैरलिप्तत्वादिति भावः। तथा च श्रुतिः-सचक्षुरच-
क्षुरिव सकर्णोऽकर्ण इव समना अमना इव ध्यायतीव लेलायतीवेति । एतेन
समाहितोऽप्यात्मविधवहर्तुमर्हति गतिमानिव ध्यायनिति बोध्यम् ॥६॥
किंच-
संसरन्नप्युन्निदाति शश्वत् ॥ ६ ॥
समिति । संसरन्नपि कर्ताऽहं भोक्ताऽहमित्यादि व्यवहरन्नपि शश्वत्सततमु-
निद्राति चेतति दर्पणस्थमुखबिम्बवत्स्वस्वरूपस्य विलोकितत्वादिति
भावः ॥ ६ ॥
किंच-
सारिवदर्चिः ॥ ७ ॥
सारिवदिति । सारिवत्संसारतरुवदचिरन्तरेव ज्योतिःसत्त्वप्रकर्षादिति
भावः ॥ ७॥
४ प्रपाठः ] निरञ्जनभाष्यसमेतम् । १११ - तस्मिन्नेव नरजन्मनः शैषिकी पश्चफली प्रतिभातीत्याह तत्रार्थाः शेषाः ॥ ८॥ तत्रेति । शेषे भवाः शेषाः । अर्थाः प्रयोजनानि ज्ञातज्ञेयताकृतकृत्यता. प्राप्तप्राप्यतात्रिविधदुखात्यन्तनिवृत्तिपरमानन्दाभिव्यक्तिरूपाणि विराजन्ती. त्यर्थः ॥ ८॥ स्वतःप्रोद्भवादमानायं साधनमितरेषाम् ॥ ९ ॥ स्वत इति । स्वतः प्रयत्नानपेक्षतयैव प्रोद्भवात्प्रकर्षणोद्भवात् । अमानाय. ममानित्वमदम्भित्वमित्यादिधर्मनातम् । इतरेषामज्ञानिनां साधनं नानोपकर- णम् । अत एवोक्तम्- उत्पन्नात्मावबोधस्य ह्यद्वेष्टुत्वादयो गुणाः । भवन्त्ययत्नतस्तस्य न तु साधनरूपिणः ॥ इति । एतेन ज्ञानिनां नैसर्गिकधर्मजातमज्ञानिनां ज्ञानसाधनमिति मूचितम् ॥९॥ तदावाभ्युदयः ॥१०॥ तदिति । तद्वाब तस्मादेव जीवन्मुक्तपुरुषादभ्युदयो वस्तुतो मङ्गलमुदेति । नान्यस्मादित्यर्थः ॥ १०॥ निरावृतेाम्नायोऽनर्थापनुत् ॥ ११ ॥ निरिति । निराहनेरविद्यावरणशून्यस्याऽऽन्नाय उपदेशोऽनर्थापनुदनर्थम- पनुदतीत्यर्थः । हिशब्देनान्येभ्यो यदनापनोदनं तत्तदाभास एवेति सूचि- तम् ॥ ११ ॥ काकाक्षिवत्कृतिर्लोकेश्यः ॥ १२ ॥ काकेति । काकाक्षिवद्यथा काकचक्षुषः क्रमादुभयस्मिन्नेत्र यत्रे गतिस्तदः स्कृतिः प्रारब्धजः प्रयत्नः प्रतिभातीति शेषः । केभ्यो लोकेभ्यो लोकान्संग्र- हीतुं लोकानामुन्मार्गनिवृत्तय इत्यर्थः । अत एव श्रुतिः-तस्थ तावदेव चिरं यावन विमोक्ष्ये । स्मृतिश्च- नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ इति । किं तु बलवदपि प्रारब्धं ब्रह्मात्मनाऽवस्थितौ न प्रभवति । तस्मादपि योगस्य बलीयस्त्वात् । तदानीमिन्द्रियार्थापतीतेश्च । काकाक्षिवदित्यनेन ज्ञाननिष्ठस्य ज्ञानक्रीडे युगपदिव व्यवहारे प्रतिभासेते तत्क्षणयोरतीव सूक्ष्मत्वेन भेदानुपल- *. ११२ सिद्धान्तदर्शन- [ ४ ज्ञानपाठे- ब्धेरिति सूचितम् । तथा च लब्धधीरेवोमयजगत्तत्त्वज्ञत्वादिह जगति लौकि. काध्यात्मोभयानन्दौ भुङ्क्त इत्यवधेयम् । एवं च दृष्टात्मनां व्यवहारवेलायां लोकसंग्रहाय परजीवभेदोपास्योपासकभावादिरपीति वेदान्तराद्धान्तः॥१२॥ तस्येह कियती स्थितिरित्याह- स्थितिराधिकारादाधिकारिकाणाम् ॥ १३ ॥ स्थितिरिति । आधिकारिकाणामधिकारेषु लोकस्थितिहेतुषु वेदप्रवर्तना- दिषु नियुक्तानां ब्रह्मादीनां कृतात्मसाक्षात्काराणामाधिकारावेदप्रवर्तनाद्य- धिकारपर्यन्तं स्थितिरित्यर्थः । तथा च वशिष्ठादीनां मानसपुत्राणां ब्रह्मवि. दामपि स्वाधिकारसंपादनार्थ देहान्तरोत्पत्तिरपि बहुधा स्पर्यते । तत्र च केचित्पतिते पूर्वदेहे देहान्तरभाददते । केचिच्च स्थित एव तस्मिन्योगैश्वर्यबला. दनेककायानभ्युपगच्छन्ति । तेषां स्थितेराधिकारसमयतत्रत्वादिति सर्वे सुस्थम् ॥ १३ ॥ तत्त्वीवदां प्राणादेरात्यन्तिकलयमाह- प्राणकलाः परस्मिन्नस्तमियुरानायात् ॥ १४ ॥ पाणेति । प्राणाः पञ्च कलास्तु षोडश । यथेन्द्रियाण्येकादश पञ्च तन्मा- त्राणि च ताः परस्मिन्ब्रह्मण्यस्तं लयमियुः प्रामुयुः। कुत आम्नायाच्छु- त्युपदेशात् । तथा हि श्रुतिः-न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते, एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तीति । एतदुक्तं भवति-विदुषां सोपाधिभ्रमवतां प्रारब्धावसाने लिङ्गदेहघटकस्य तत्तद्गुणानां तादृशसंश्लेषस्योच्छेदात्तभ्रान्तिरपि निवर्तते ॥ १४ ॥ प्रागुत्तमाधिकारिणां ब्रह्ममातेरुपायमभिधाय पुनर्भध्यमाधिकारिणामपरं दर्शयन्नाह- सनदुपासीरन्नन्ये ॥ १५॥ सनदिति । अन्ये विचारविकलाः सननिरन्तरमुपासीरन्सगुणं निर्गुणं वा ब्रह्म भावयेयुः । तत्र निर्गुणं स्वगतादिभेदत्रयशून्यं सच्चिदानन्दरूपं गुरुमुखा. निश्चित्य सोऽहमित्यभेदेन भावयेयुः । तदुक्तं भगवता-- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ इति ॥ . सगुणं तु स्वगतभेदविशिष्टं सजातीयविजातीय भेदशन्यं स्वस्माभिन्न विश्वरूपेण चतुर्भुजादिरूपेण वा चिन्तयेयुः ।। १५ ।।
- ४ प्रपाठः] निरञ्जनमाष्यसमेतम् । ११३ ननूपासकाः कियन्तं कालं]ध्यानमावर्तयेयुरित्याह- तदापायात्फलं हि शेषकतुवत् ॥ १६ ॥ तदिति । तदुपासनमामायादामरणादाचर्तयेयुरित्यर्थः। तत्र हेनु:-फलमिति । हि यतः फलं पारलौकिकं शेषक्रतुवदन्तिमध्यानवत् । अन्तिमसमये यो यद्- ध्यायति स तदामोतीत्यर्थः । तथा च श्रुति:-स यथाक्रतुरयमस्मालोका: स्मैति तावत्क्रतुर्हामुं लोकं प्रेत्याभिसंभवति । स्मृतिश्च- यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥ तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ इति ॥ १६ ॥ उपासकानां क्रममुक्तिं कथयन्नाह- मूर्धन्ययोकान्तेरनावृत्तियोंगिनां व्यक्तैक्यवत् ॥ १७ ॥ मूर्धन्ययेति । मूर्धन्यया सुषुम्नया । उत्क्रान्तेर्बहिर्गमनात् । अनावृत्तिरपुन- रात्तिः फलम् । योगिनः सततध्यायिनः । व्यक्तैक्यवद्व्यक्तं निश्चितमैक्यं ब्रह्मात्मनोरभेदो येन तस्येवेत्यर्थः । तथा चोपासका देहं त्यजन्तः सुषुम्नान- संलग्नरविरश्मिस्थमचिरादिमार्गमाश्रयमाणाः क्रमाद्विद्युलोकं गच्छन्तः केन- चिदमानवेन पुरुषेण ब्रह्मलोकं नीयमाना हिरण्यगर्भावसाने परं पदं गच्छ- न्तीति क्रममुक्तिः। तथा च श्रुतिः-तयोर्ध्वमायनमृतत्वमेति । एतेन प्रतिपद्य- माना इमं मानवमावर्त नाऽऽवर्तन्ते । स्मृतिश्च- ब्रह्मणा सह ते सर्वे संपाते प्रतिवासरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति ॥ १७ ॥ संप्रति मन्दाधिकारिणामुपायमाह- कर्मयोगः कर्म वाऽपरेषां शिवम् ॥ १८ ॥ कर्मेति । अपरेषामुपासनानधिकारिणाम् । कर्मयोगः कर्मैव योगो योगहेतु- त्वात् । यद्वा कर्मणा योगः कर्मयोगो भगवदर्पणबुद्धयाऽनुष्ठीयमानत्वात् । तत्रा- प्यशक्तौ कर्माग्निहोत्रेष्टापूर्तादिकं पूर्ववेदोक्तं स्वर्गादिफलायानुष्ठीयमानमपि शिवममुत्रेह च कल्याणदम् । तत्र सकामा धूमादिमार्गेणो लोकं गच्छन्तस्तत्सु. खमनुभूय पुनरावर्तन्ते । तत्रापि कर्मभेदेन योनिभेदे तेषामवतरणमाह श्रुतिः- तय इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापधेरन्ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा, अथ य इह कपूयचरणा अभ्यासो ह यत्ते कपूयां योनिमापोरन्, श्वयोनि वा शूकरयोनि वा चाण्डालयोनि वेति । निष्कामास्तु कर्मिणः पूर्ववदचिरादिना वजन्तः पुनर्नाऽऽवर्तन्ते ॥ १८ ॥ १५ ११४ सिद्धान्तदर्शनं- [४ ज्ञानपाठे- निरयद्वारमन्यतमानारम्भो दुर्दैवानाम् ॥ १९ ॥ निरयेति । अन्यतमानारम्भोऽन्यतमस्य ज्ञानोपासनाकर्मसु स्वाधिकृतका. ण्डस्यानारम्भोऽननुष्ठानम् । निरयद्वारं नरकमार्गः । केषां दुर्दैवानां दुर्भा- ग्याणाम् । तथा च निरुक्तकाण्डत्रयान्यतमबहिर्मुखाणां न शुक्लगति पि कृष्णगतिः किंन्वशुभा तृतीया गतिः श्रूयते । यथा-अर्थतयोः पथोन कतरेण चनेति । अत एव दुर्दैवानामित्युक्तम् ॥ १९ ॥ शास्त्रार्थमुपसंहरनस्य महिमानं दर्शयति- स्वाध्यायो धियमुत्प्लावयति निसर्गादुत्प्लावयति निसर्गात् ॥ २० ॥ इति चतुर्थे ज्ञानपाठे चतुर्थः प्रपाठः ॥ ४ ॥ इति वैयासिके सिद्धान्तदर्शने वेदान्तविज्ञाने परापरतत्त्वनिरूपणे चतुर्थो ज्ञानपाठः ॥४॥ स्वेति । स्वाध्यायः स्वस्य सिद्धान्तशास्त्रस्याध्यायोऽध्ययनम् । निसर्गा- स्वभावाद्धियं बुद्धिमुत्प्लावयत्यूचं गमयतीत्यर्थः । तथा च-एतच्छात्रा- ध्ययनं निसर्गादेवाध्येतुर्बुद्धिं सपदि कालान्तरे वाऽधिकमीषद्वा लक्ष्यमलक्ष्यं बा कथंचिदूर्ध्वमवश्यं गमयेत् । तेन जन्मान्तरं कुशली कुर्याच्चेति भावः । द्विपदद्विरुक्तिः शास्त्रसमाप्तिं द्योतयति । एतन्नये निर्णीतानां पदार्थानां परि- शीलनमर्थतो भगवचिन्तैव । ब्रह्मविवर्तरूपत्वोक्तेर्विश्वस्येति मनस्विनां हृद्यम्।। शास्त्रशीर्षमिदं गुप्तं काले व्यक्तं महामुनेः । मत्वा मातुः प्रसादेन व्याख्यातं जाड्यनुत्तये ॥ ब्रह्मण्यादौ वासिष्ठेऽथ तत्सुतेऽसौ चतुःशती । शक्तौ पराशरे पश्चाद्वेदव्यासेऽस्फुरत्ततः ॥ श्रुतिस्मृतिपुराणानां त्रयाणां सह युक्तिभिः । संमतं यदतो मानं प्रबलं भुवि किं पुनः॥ अत्र कोऽनुपयोगोऽस्ति सर्वा संगतिवारिणी । विचित्रकारिणी शक्तिर्योगमायोद्धृता यतः ।। परतत्वं यदत्रोक्तं श्रुत्या केवलया न च । युक्त्या वा किंत्विहोत्तीर्ण विद्वदनुभवादपि ।।
४ प्रपाठः] निरञ्जनभाष्यसमेतम् । ११५ तार्किकतृणवातालिः सांख्यकुञ्जरकेसरी । वेदान्तशेषसिद्धान्तो *महान्तोऽयमुपास्यताम् ।। बाद्यविज्ञानसोपानमन्तर्विवेकशेखरम् । विदित्वैनं महामन्त्रं मनस्तत्त्वे निवेश्यताम् ।। क्रीडन्तो भवकान्तारे रेरे जीवविहंगमाः। सिद्धान्ततरुमारुह्य पीयतां फलपश्चकम् ॥ गौरनीलतनुः पायादपायात्मुतवत्सला । अमेयाऽपि कुले कापि या विरेजे यदृच्छया । इति चतुर्थे ज्ञानपाठे चतुर्थः प्रपाठः ॥४॥ इति वैश्वदेवे भाष्ये निरञ्जनाख्ये चतुर्थो ज्ञानपाठः । समाप्तमिदं निरञ्जनभाष्यसमेतं सिद्धान्तदर्शनम् । ॐ तत्सद्ब्रह्मार्पणमस्तु । आबाल्याब्रह्मचारी विबुधपरिचितः सच्चिदानन्दनाना, जातो रत्नाकरस्य प्रथिततमतटे यो महाराष्ट्रदेशे । दिव्ये दैवात्कुतश्चित्पतिवसति नवद्वीपधानीव दीप- स्तेनाऽऽनन्दाश्रमश्रीहरिनिकटमसौ प्रापि सिद्धान्तराजः ॥ १ ॥ पुण्यनगरभानुर्गुणसिन्धुर्जयताच्छ्रीहरिराश्रितबन्धुः । यत्करुणाकणया विरराज श्रुतिसिद्धान्तो दर्शनराजः ॥२॥ शाके सिन्धुधनेभेन्दुमाने पूर्णेन्दुसंनिभम् । रेजे यत्राक्षरैर्दिव्यैर्दर्शनं चित्रदर्शनम् ॥ ३ ॥ * वेदान्तशेषसिद्धान्तो वेदान्तानामुपनिषदां शेषश्चरमः सिद्धान्तो मीमांसा यत्र सः । वेदान्तं शेषयतीति वेदान्तशेषः स चासौ सिद्धान्तश्चेतीति वा । महान्त इति संबोधनादेतदपिका. रिणः शास्त्रोक्तगुणवन्त एव सूचिता इति वार्तिकम् ।