Central Library,university Of Rajasthan
The Sudracharasiromani By Sri Sesa Krisna Part 1 And 2
Front matter
No text on this page.
धीः. प्रास्ताविकं किञ्चित् । अथाऽयमुपक्रम्यते महाकवि,महाशाब्दिक,धर्मशाम्बमर्मज्ञधुरन्धर, नैकनियन्धनिर्मातृश्रीशेपकृष्णमगीतः शूद्राचारशिरोमणिर्मुद्रयि- वा प्रकाशयितुम् । अस्याऽयं प्रथमो मागः पाठकमहोदयानां करकम- लेप्पायनीमियते । अद्यत्वे समुपलभ्यमानेषु शूदेतिकर्तव्यतामतिपादकेषु धर्मशाग्य- निवन्धेषु प्रायः प्रथमोऽयमनुमाविनां तादृशनिवन्धान्तराणामुपजीव्यभूत इति प्रतिभाति । तात्कालिकहरिचरणमसूतवर्णवंशावतंस दाक्षिणत्यनरपति पिलाजीरावसमुद्योजितेनैव विदुपा शेपकृष्णेनाऽयं निबन्धो न्यरचीति तस्य नरपतेर्विपये मुविवेचितमतिथं अन्यकर्तुः शेषकृष्णस्य च विस्तृतमितिहासं, प्रकाश्यमानग्रन्थसमालोचनं शुद्राचारप्रतिपादक नियन्धान्तरपरिगणनसमालोचने, प्रन्थीयविषयानुक्रमणिको चानुपद मुद्रायप्यमाणैतद्वन्थद्वितीयमागे विस्तृताया भूमिकायां निदर्शयिष्यामः । यावत्सममिको ग्रन्थस्यास्य द्वितीयभागो न भवति दृक्पयातिथिस्ताव- दमुनव भूमिकाशून्येन प्रथममागेन विनोदयन्तु नव्यनिबन्धावलोकनस- कोतकानि चेतांसि सन्तो विपश्चित इति साअलिबन्धमभ्यर्थयते-- सरस्वतीमवनम् काशी- ३१-३-३३, विद्वत्कृपाकामुकः, नारायणशास्त्री खिस्ते।
No text on this page.
श्री मत्सर्थतन्त्र स्वतन्त्र
विद्वद्वरश्रीशेपकृष्णनिर्मितः
शूद्राचारशिरोमणिः
अलिकुलकलगीताऽऽकर्णनोत्तालकर्णा-
श्वलचलनकलोद्यत्तालवाचालिताशः ।
कलितममलकोशं नर्त्तयन्पुष्करानं
दलयतु दुरितौघं श्रीगणाधीश्वरो नः ॥ १॥
अस्ति प्रत्यर्थिपृथ्वीपतिवलजलधिमाशने कुम्भजन्मा
सन्मानार्हद्विजन्मार्चनपरिचरणप्रीणिताशेपदेवः ।
विष्वद्रीचीनीर्तिस्फुरदमरसरिद्वीचिनीचीकृताघ-
प्रोल्लाघस्फारसंपद्वितरणनिरतः श्रीपिलाजीनृपालः ॥२॥
अशनवसनहेमक्षेमवाजिप्रदानै-
रहरहरुपनीतैर्येन चाऽऽवालवृद्धम् ।
प्रकटयति जनेपु स्वस्य कामप्रदत्वं
श्रुतिशतपरिगीतं तीर्थराजः प्रयागः ॥ ३ ॥
शूद्राचारशिरोमणिः तीर्थानां निकर विधाय विकरं येनाऽमरीणां कराः स्वैरं दूरदिगन्तसङ्गतजनैर्दानैरपि ग्राहिताः । आसाद्य प्रथमं त्रिवर्गफलदां वेणी त्रिवेणीच्छलात् दृष्टाऽदृष्टपुमर्थसिद्धिमकरोन्नित्यं करस्थामयम् ॥ ४ ॥ धर्माराधनसादराहितमतिः सन्नीतिरीतिस्थिति- नित्यं स्वाश्रितपालनैकनिरतो दाताऽवदाताशयः । श्रीगोविन्दपदारविन्दनिरतः सत्त्वाधिको मण्डयन् वर्षर्तुर्यमजयवर्यविदुरो (?) वर्वति सर्वोपरि ॥ ५ ॥ धर्मानशेषान्विदुषामसौ मुखा- दाकर्ण्य तत्सङ्करशङ्किमानसः। शूद्रो पका]रार्थमचीकरत्कृती चतुर्थवर्णोचितधर्मपद्धतिम् ॥ ६ ॥ तदर्थनानुरोधेन कृष्णः शेषनृसिंहजः । आलोच्य धर्मशास्त्राणि तनुते शूद्रपद्धतिम् ॥७॥ तत्र तावच्छूद्रोत्पत्तौ श्रुतिः 'ब्राह्मणोऽस्य मुख- मासीद्वाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्धयां शूद्रो अजायत' इति । मनुस्मृतिश्च-"लोकानां तु स सृष्टयर्थं मुखबाहूरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवतयत्" । इति । तत्र ब्राह्मणादयश्चत्वारो मुख्या वर्णाः ।
शूद्रापारशिरोमणिः ३ यदाह याज्ञवल्क्यः- ब्रह्मक्षत्रियविशुद्रा वास्त्वाद्यास्त्रयो द्विजाः । निषेकायाः स्मशानान्तास्तेषां वे मंत्रतः क्रियाः ।। इति । तत्प्रयोजकं चाह स एव- सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येपु विवाहेपु पुत्राः संतानवर्द्धनाः ॥ इति । पुत्र इत्यपत्योपलक्षणम् । 'सवर्णासु विनास्त्रेप विधिः स्मृत' इत्युपसंहाराद्विधिवदूढासु स्त्रीपु जाताः सजातयः मातापितृसमानजातीया ब्राह्मणत्वादिजा- तियोगिनो भवन्तीत्यर्थः । वर्णशब्दश्चायं ब्राह्मणत्वादि- जातिचतुप्के रूढः । सवर्णग्रहणादसवर्णोत्पन्नानां मू- र्डावसिक्तादीनां न वर्णत्वम् । सवर्णोत्पन्नानामपि कुण्ड- गोलकादीनां वर्णत्वं माभूदिति विन्नास्वित्युक्तम् । तेनानूढोत्पन्नानां कुण्डगोलककाननिसहोढपौनर्भवक्षे- त्रजानां न वर्णत्वम् । अत्र सजातय इत्यनेन मातापित्रुभयसाजात्यमेव लक्षितं तदेवैपां व्यावय॑ते । तेन मातृमात्रसजातीयत्वाभिधानमेपां न व्याहन्यते । तथात्वे ऽप्युभयसाजात्यस्य लक्ष्यस्य तत्राभावात् । अत एव देवल:- ब्राह्मण्या ब्राह्मणाज्जातः संस्कृतो ब्राह्मणो भवेत् ।
४ शूद्राचारशिरोमणिः , एवं क्षत्रियविट्शूद्रा ज्ञेयाः स्वेभ्यः स्वयोनिजाः ॥ इति । सवर्णेभ्यः सवर्णासूत्पन्ना इत्यर्थे संस्कृत इति संस्कारार्हो मुख्यो ब्राह्मण इत्यर्थः । कथं तर्हि नारदवसिष्ठविश्वामित्रादीनामयोनिजानां ब्राह्मणत्वम् । तेषां सवर्णविन्नानुत्पन्नत्वात् । मैवम् । न ह्यत्र साक्षात् ब्राह्मणत्वादि लक्ष्यते, वाक्यभेदप्रसङ्गात् , अव्याप्तेश्व, किन्तु मातापितृसाजात्यमेव । तच्च ब्राह्मणादिजन्ये ब्राह्मणत्वाद्यादाय पर्यवस्यतीत्येतावता तत्र च प्रयोज- कीभूतं सवर्णोत्पन्नत्वं वसिष्ठादेावृत्तं मातापितृसमा- नजातीयतामेव व्यावर्त्तयति । न चैतद्विरुद्धम् । न ह्य- योनिजेषु मातापितृजातीयताऽन्येनाप्याश्रीयते । व्रा- ह्मणत्वं तु तेषु स्मरणलक्षणमीश्वरानुग्रहप्रयोज्यत्वादा- धुनिकविलक्षणमेव सुवर्णकलशे घटत्वमिव । सर्वसंग्राहकं तु षट्कर्मप्रयोजकाभूताऽदृष्टविशे- पोपगृहीतत्वम् । न तु तत्प्रवृत्त्यङ्गम् । अदृष्टादेरतीन्द्रिय- त्वात् । अत एव विन्नास्वेष विधिः स्मृत इत्युपसंहा- रोऽपि समञ्जसः । एवं विशिष्टसावात्मा मूर्द्धावसि- क्तत्वादिरूपश्च विधिार्विन्नास्वेवेत्यर्थः । तेनाविन्नायां मातृजातीयेऽपि क्षेत्रजे कुण्डादौ च विशिष्टात्मा सा- जात्यविधिर्नेत्यर्थः । वस्तुतस्तु क्षेत्रजेऽपि मातृजाती- शुद्राचारशिरोमणिः यत्वे प्रमाणाभावः । नियोगस्मरणं हि पुत्र प्राप- यति न तु जातिमपि । पुत्रत्वमपि न तदाक्षेपकमिति वक्ष्यते । यदपि नियोगे क्षेत्रप्राधान्यमुच्यते तदपि न हृद्यम्। 'ओघवाताहृतं बीजमन्यक्षेत्रे प्ररोहतीत्यादि मा- नवन्यायात् । क्षेत्रिणः सुत इत्यादिवचनात् स्वतन्त्र- त्वाच्च क्षेत्रिण एव प्राधान्यसम्भवान्न जात्यापत्तिः । न चैवं धृतराष्ट्रपाण्डवादीनां क्षत्रियत्वाभावे तद्धर्माना- पत्तिः । शङ्गविष्णुवचनैस्तेपामपि क्षेत्रजातीयधर्माति- देशात् विन्नत्यादेविशेपस्य तत्र श्रवणात् । व्यभिचारोत्पन्नाश्च तु “शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृता" इति तद्वाधनेन शूद्रधर्माण एव भवन्ति । क्षत्रियत्वप्रसिद्विस्तु तद्धर्मानुष्ठातृत्वादप्युप-. पन्ना मूवसिक्तादिप्विवेति युक्तं प्रतीमः। न च पुत्र- ले पितृधर्माधिकारे वा सवर्णत्वम् , तच्च, पोनर्भवे कचि- दसवर्णपत्न्याः कचिदसवर्णसुतस्य वा सवर्णत्वेपि तद्द- र्शनात् । किञ्चैपामसवर्णत्वमाख्याति देवल:- द्वितीयेन तु पित्रा यः सवर्णायां प्रजायते । आरोट इति च ख्यातः शूद्रधर्मा स जातितः ॥ व्रतहीनास्त्वसंस्कार्याः सवर्णास्वपि ये सुताः। उत्पादिताः सवर्णेन व्रात्या इति वहिप्कृताः॥ इति। - शूद्राचारशिरोमणिः वर्णबाह्या इत्यर्थः । बौधायनोऽपि "एतानष्ट विवाहानाहुरेतैः संस्कृ- ताभिरुत्पन्नास्तज्जातीया भवन्ति नान्ये" इति । व्यासोऽपि- भार्याजाताः समानाः स्युः सङ्कराः स्युरतोऽन्यथा॥ इति । मनुश्च- शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजा स्मृताः ॥ इति । अपध्वंसजा व्यभिचारजाः। एतदेव स्पष्टमाचष्टे मनुः- स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ मातुरसवर्णत्वदोषेण विगर्हितान् । पितृवर्णान्न्यूनीकृतांस्तान्मातुः सदृशानेवाहुन तु मुख्यमातृजातीयानेव । सादृश्यं च तद्धर्मप्राप्त्यैव । एवकारश्च शङ्खादिवाक्यं धर्मप्रापकं न जातिप्रापक- मिति व्यनक्ति । तथा च स एव- पुत्त्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते । इति । क्षत्रिय इत्यादि नामैव भवति, न तु जातिरि- त्याह । तथा विश्वम्भरशास्त्रेऽपि- विप्रान्मूर्धावसिक्तो यः क्षत्रि [त्रायां] यायां क्षत्रियैः .
शूद्राचारशिरोमणिः समः। इति समत्वमेवोक्तम् । अत्रेदमपराकसिद्धान्तसर्वस्वम्-विन्नापदस्योपल- क्षणत्वेन कानीनादीनां पौनर्भवस्य च वर्णत्वमेव । तथा शङ्खवचनान्मू_वसिक्तादीनां मातृजातीयत्वं व- र्णत्वं चेति । शङ्खधरस्तु कुण्डगोलकादीनां सर्वेषामेव व्यभिचारोत्पन्नानामस्ति ब्राह्मणत्वादीति भवति उपन- यनाध्यापनादिसंस्कार इत्याह-"नेत्यन्ये"। "वेत्यपरे"। व्यवस्थितविकल्पश्चायम् । बहुशो व्यभिचारदूपिताप- त्यानां पातित्यान्न संस्कारः । सकृत् स्खलिताया बला- दन्येनोपभुक्ताया अनिच्छन्त्या अपत्यानामदुष्टत्वादस्ति संस्कार इति । तदेतत्सर्वं यमस्मृतिविरुद्धम् । यदुक्तम्-- जारजातः सवर्णायां कुण्डो जीवति भर्तरि । मृते गोलकनामा तु जातिहीनौ तथैव तौ ॥ असवर्णासु नारीषु द्विजैरुत्पादिताश्च ये। परपत्नीपु सर्वासु कुण्डास्ते गोलकाः स्मृताः ॥ मातृवर्णे च ते प्रोक्ताः पितृवर्णा नव स्मृताः । अविवाह्याः सुतास्तेषां बन्धुभ्यः पितृमातृतः ।। इति । इदमेव च मिताक्षराकारमेधातिथिप्रभृतयः ८. शूद्राचारशिरोमणिः प्रतिपन्नाः । अत एव - कृच्छं सान्तपनं कुर्याद्धत्वा सङ्कीर्णयोनिजम् । सूतं हत्वा तु कृच्छं तु कुण्ड गोलकमेव च ॥... इति यमेन प्रतिलोमसममेव कुण्डादिवधे प्राय- श्चित्तमुक्तम् । अत्र विशेषः स्मृत्तिकौमुद्यामुक्तः । अब्राह्मणोत्प- नयोरेव कुण्डगोलकयोरुपनयनादिसंस्कारनिवृत्तिः न तु. ब्राह्मणाबाह्मण्यामुत्पन्नयोरपि तयोः । कुण्डो वा गोलको विप्रः सन्ध्योपासनमात्रवित् । स्नानभोजनसन्ध्यासु देवेषु स पठेच्चरेत् ॥ एकान्ते कुटये भुक्त्वा सदृशैः सह सङ्गतः इतिस्मृतेः। विप्रोत्पन्नतया विप्रपदाभिधेययोः कुण्ड- गोलकयोः सन्ध्यावन्दनाद्युपदेशेनोपनयनाद्यभ्यनुज्ञा- नात् । इदं परमं वचः "कुण्डगोलकावपि यथार्ह संस्का- यौँ” इति मिताक्षरोदाहृतं स्मृत्यन्तरम्।स्नानोति । देवालये स्थित्वा, देवस्नानाद्यबसरेषु बन्दिवद्वर्णकान्पठेत् । एका- न्ते कुटये कुट्यां वसेदित्येतत्साङ्कर्यपरिहारार्थं नगर- वासं निषेधतीत्यास्तां विस्तरः । प्रकृतमनुवर्तामहे । उक्तास्तावत्सवर्णोत्पन्ना वर्णा मुख्याः। तद्धाश्च न्यतो विशेषतश्चाग्रेप्रपञ्चयिष्यामः ।अनुलोमांश्चाह याज्ञ- सामा- शुद्रापारशिरोमणिः ९ वल्क्य:- - विप्रान्मूर्धावसिक्तो यः क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूयां निपादो जातः पारशवोऽपि वा। विप्रात् क्षत्रियायां मूर्घावसिक्तो भवति । वैश्या- यामम्वष्ठः । शूद्यां निपादः । अस्यैव च संज्ञान्तरं पारशव इति । यो मत्स्यघाताजीवी प्रतिलोमजस्तय- वच्छेदेन पारशवनिपाद इत्यसङ्कीर्णव्यवहारब्ध । एपु सर्वपु विन्नास्वित्येवं सम्बध्यते । एवं च परशुरामस्य ब्राह्मणत्वात् क्षत्रियायामुत्पन्नत्वान्मूवसिक्तत्वेऽपि स्वत- पोऽतिशयादीश्वरानुग्रहाद्वा विश्वामित्रादेरिव ब्रामणत्वं ब्राह्मणधर्ममात्रमेव । जातेरुत्पत्तिनिवृत्त्ययोगात् । एवं ब्राह्मणादेवरासु तिस्पु क्रमेण जायन्ते। एपामेव देवला- दिभिः सवर्णादिसंज्ञान्तराण्यपि स्मर्यन्ते । तत्र निपा- दपारशवादिवत्संज्ञाविकल्पो द्रष्टव्यः । तथा- वैश्याशूद्योस्तु राजन्यान्माहिप्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शून्य विन्नास्वेष विधिः स्मृतः ॥ क्षत्रियस्य द्वावसवर्णविवाही । तत्र क्षत्रियाद्वैश्या- यां माहिष्यः शयामुग्रः पुत्र इति द्वौ । वैश्यस्यैको ऽसवर्णाविवाह इति । तस्माच्छयां करणो नाम पुत्रो भवतीत्येकः । एप च सावर्ण्यमूर्द्धावसिक्तादिभेदो वि- २५०शि० १० शूद्राचारशिरोमणिः न्नास्वेवोत्पन्नानां वेदितव्यो नान्येषामिति । एतच्च प्रागेव प्रपञ्चितम् । एवमेते ऽनुलोमाः षट् भवन्ति तदाह मनु:- विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णएकस्मिन् षडेते ऽपसदाः स्मृताः ॥ त्रिषु क्षत्रियविटशूद्रेषु द्वयोः विटशूयोः । एकस्मिन् शूद्रे अपकृष्टाः सदस इत्यपसदाः मु- ख्यवर्णेभ्यो ऽपकृष्टा इत्यर्थः । प्रतिलोमजानप्याह योगी- ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा। शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः। क्षत्रिया मागधं वैश्या शूद्रात् क्षत्तारमेव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् । ब्राह्मण्यामेकस्यां क्षत्रियविट्शूद्रेभ्यः क्रमेण सूत- वैदेहचाण्डालास्त्रयो भवन्ति । तथा वैश्यात् क्षत्रियायां मागधः, शूद्रात्तु क्षत्रियायां क्षत्ता, वैश्यायां तु शूद्रा- दायोगव इति षट् प्रतिलोमजाः । तदेवमनुलोमप्रति- लोमाः सम्भूय द्वादश भवन्ति । अत्र वर्णानुलोमप्रतिलोमेषु तारतम्यमाह देवल:-- तेषां सवर्णजाः श्रेष्ठाः श्रेष्ठास्तेभ्यो ऽनुलोमजाः। .
शूद्राचारशिरोमणिः - अन्तराला वहिर्वर्णाः पतिताः प्रतिलोमजाः । सर्वेभ्यस्तावत्सवर्णजाः श्रेष्ठास्तेभ्योऽन्ये अन्तराला विजातीयमातापितृजन्या असवर्णा इति यावत् । ते चाऽनुलोमप्रतिलोमभेदाद् द्विविधाः । तत्राद्या उत्त- मादधमयोनिसम्भूतत्वात्तेभ्यो जनकेभ्यो न्विक् मातृसमानधर्मत्वात् किञ्चित् न्यूनाः । द्विती- यास्तु योन्युत्कर्षे ऽपकृष्टबजिजत्वाद्वर्णवाह्याः पतिता अधमा इत्यर्थः । पतितत्वाभिधानं सम्पूर्णसंस्कारपरि- भ्रष्टत्वात् । अमुमेवार्थ पूर्वोत्तरपक्षाभ्यामाह मनः-- अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् । जातो नार्यामनार्यायामार्यादार्यो भवेद् गुणैः । जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः। वैगुण्याजन्मतः पूर्व उत्तरः प्रतिलोमतः ॥ इति । अनार्योऽपकृष्टः आर्य उत्तमजातिः । यदृच्छया अबुद्धिपूर्वमिति तात्पर्यम् । तावुभौ अपकृष्टायामुत्तम- बीजज उत्तमायामपकृष्टबीजजश्चेति । तत्र हेतुः वैगु- ण्यादित्यादि । जन्मतो योनितः । प्रतिलोमतः प्रा- तिलोम्यादित्यर्थः । असंस्कार्यावितीपदर्थे नञ् । मुख्य- १२ शूद्राचारशिरोमणिः - वर्णापेक्षयेषत् संस्कार्यावित्यर्थः । अनुलोमानां शङ्खन मातृधर्माऽतिदेशात् । प्रतिलोमजानां च मनुना शूद्र- धर्मोपदेशात् । यदाह- स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः । सम्पूर्णस्तु संस्कारो वर्णेष्वेवेत्यप्याह स एव । सुबीजं चैव सुक्षेत्रं जातं सम्पद्यते यथा । तथार्याजात आर्यायां सर्वसंस्कारमर्हति । तत्र च षट्कर्माधिकारो ब्राह्मणानामेव । ब्राह्मणा ये स्वयोनिस्था ये स्वकर्मस्ववस्थिताः । ते सम्यगुपजीवेयुः षट कर्माणि यथाक्रमात् । इति . मनुवचनात् । इतरेषां त्रयाणां तु यजनाध्ययनदानानि त्रीण्येव कर्माणीत्याद्यग्रे प्रपञ्चयिष्यामः । अनुलोमानामपि मातृधर्मा एव भवन्तीत्युक्तम् । तथा ये च मातुर्जात्या उपलक्षिताः स्वयोनिषु प्रसू- यन्ते तेऽपि सदृशान् स्वसमानधर्माण एवं जनयन्ति । मातृजात्येति जातेः प्रसवं प्रति कारणत्वासम्भवाद्प- लक्षण एव तृतीया । इदमेव च जातेरुपलक्षणत्वं नाम यत्तत्राऽसत्या अपि स्वप्रयुक्तधर्मप्रयुक्तिमात्रेण व्यक्त- रन्यतो व्यवच्छेदकत्वं काकादेरिव । न हि मूर्द्धाव- शूदाचारशिरोमणिः सिक्तादौ वस्तुतः क्षत्रियतावस्तीत्युक्तं प्रागेव । अथ काकादौ कदाचिद्नेहादिसम्बन्धितया ऽनुभूते उपलक्ष- णत्वं दृष्टम् । क्षत्रियत्वस्य तु मूर्द्धावसिक्तादौ कदाऽपि नोपलम्भ इति कथमेतदिति चेत्, सत्यम् । यद्यपि तत्समवेतत्वेन तन्नोपलब्धम् , तथाऽपि तज्जनकसमवे- तत्वात्तत्सम्बन्धितया ऽस्त्येवोपलम्भः । न हि उपलक्ष- णत्वे उपलक्ष्यसमवेतत्वं साक्षात्सम्बन्धत्वं वा तन्त्रम् । गृहसम्बन्धिवृक्षस्थितकाके तदसम्भवात् । तरमान्मा- तृजात्योपलक्षिता मातृसधर्माणोऽपि स्वयोनिपु तादृशा- नेव जनयन्तीत्यर्थो व्यवतिष्ठते । तथा मूर्द्धावसिक्तान्मू- द्धावसिक्तायां विनायां जातस्य मूर्द्धावसिक्तधर्मः । एवं माहिप्यादिप्वपि।ये च प्रवरासु स्वस्मादुत्तरासु योनिपुप्र- सूयन्ते तेऽपि स्वसदृशा अधमा एवेत्यर्थः । यदा तु मूर्द्धावसिक्तादप्यविन्नायां मूर्द्धावसिक्तायां व्यभिचारा- दुत्पद्यते, तदा ऽपध्वंसजत्वाच्छद्रधर्मतैव । तथा ऽन्ये- पामपि प्रतिलोमजानां द्रष्टव्यम् । मनु:- ये द्विजानामपसदा ये वा ऽपध्वंसजाः स्मृताः । ते निन्दितैर्वर्त्तयेयुढिजानामेव कर्मभिः ।। द्विजानां कर्मभिः द्विजसम्बन्धिशुश्रूषणादि-
१४
शूद्राचारशिरोमणिः
भिः । न तु यजनादिभिः । 'शूद्राणां तु सधर्माण
इत्युक्तत्वात् ।
अथाऽनुलोमप्रतिलोमधर्माः । तत्रोशना:-
क्षत्रियाविप्रसंयोगाज्जातो मूर्द्धावसिक्तकः ।
राजन्यः क्षत्रधर्मेभ्यो ऽप्यधिकः स प्रकीर्तितः ॥
आथर्वणक्रियां कुर्वन्नित्यनैमित्तिकी क्रियाम् ।
अश्वं रथं हस्तिनं वा वाहयेद्वै नृपाज्ञया ।
सैनापत्यं च भैषज्यं कुर्याजीवेच्च वृत्तिषु ।
नृपायां विप्रतश्चौर्यात्संजातो यो भिषक् स्मृतः ।।
अभिषिक्तनृपस्याज्ञां परिपाल्य तु वन्दकः ।
आयुर्वेदमथाष्टाङ्गं तत्रोक्तं धर्ममाचरेत् ।
ज्यौतिषं गणितं वाऽपि कायिकी वृत्तिमाचरेत् ।
नृपायां नृपसंसर्गात्प्रमादाद् गूढजातकः ॥
सोऽपि क्षत्रिय एव स्यादभिषेके तु गर्हितः ।
शुद्रायां विधिना विप्राज्जातो ह्यम्बष्ठ उच्यतेः ।।
कृष्याजीवी भवेत्सोऽपि तथैवाग्नेयनर्तकः।
नरवाजिगजानां तु चिकित्सा तस्य जीविका ।
अयं ब्राह्मणबीजजोऽपि योन्यपकर्षादपकृष्टो वच
नाच्च मातृजातयिं वैश्यधर्ममात्रं लभते न मुख्यं ब्रा
ह्मणधर्मं षाकर्म्यम एवं च यदुक्तम् “अन्याभ्य
.
शूद्राचारशिरोमणिः
वैश्यजातिभ्यः पटकर्मस्वधिकः स्मृतः ॥ इति
वासिष्ठायनेन, तद्भममूलमित्युपेक्ष्यम |
वैश्यायां क्षत्रियाजातो माहिप्यस्त्वनुलोमजः ।
अष्टाधिकारनिरतश्चतुःपष्टयंगकाविदः ॥
व्रतबन्धादिकास्तस्य क्रिया स्युः सकलान ताः ।
ज्योतिष शाकुन शास्त्रं स्वरशास्त्रं च जीविका ॥
विश्वम्भरशास्त्रे-
शूद्यां क्षत्रादुग्रजातियुद्धशास्त्रादिजीविकः ।
शस्त्रास्त्राभ्यां च कुशलः संग्रामकुशलो भवेत् ॥
अयमेवोनो लोके उग्रवर रजपूत इति व्यवहियते ।
शूद्यां जातः सुतो वैश्यात्करणो लिपिलेखकृत् ॥
इत्यनुलोमजाः।
विप्रायां सुतः क्षत्रात्सूताख्यो गजवन्धकृत् ।
दमनं तुरगाणां च कुर्यात्तजीवनं परम् ।
नृपाहाह्मणकन्यायां विवाहेषु समन्वयात् ।
जातः सूतोऽत्र निर्दिष्टः प्रतिलोमविधिदिजः ॥
वेशाऽनर्हस्तथा चैपां धर्माणामनुबोधकः ।
ब्राह्मण्यां तु सुतो जातो वैश्याद्वैदेहकः स्मृतः ॥
पापाणकाष्ठयोः शिल्पं तस्य जीवनमुत्तमम् ।
सूत्रधार इति लोके ।
..
१६
शूद्राचारशिरोमणिः
चाण्डालाख्यः सुतो जातो ब्राह्मण्यां शूद्रजन्मतः ।
जीवनं चौरवध्यानां कर्पटीभूषणैः सदा ॥
सीसमाभरणं तेषां कालायसमथापि वा ।
वधीं कण्ठे समाबध्य झल्लटी कक्षतोऽपि वा ॥
मलापकर्षणं ग्रामे पूर्वाह्ने परिशुद्धिकम ।
नापराह्ने प्रविष्टोऽपि बहिर्गामाच्च नैऋते ॥
पिण्डीभूता भवन्त्यत्र नोचेद्वध्या विशेषतः ।
मनु:--
रात्रौ न विचरेयुश्च ग्रामेषु नगरेषु वा ।
दिवा चरेयुः कार्यार्थं चिन्हिता राजशासनैः ॥
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥
स्मृत्यन्तरे--
दिवा यदा ते गच्छन्ति नगरं कार्यगौरवात् ।
सिंबोलेति समुच्चार्य सकुञ्चद्गात्रशङ्किताः॥ इति ॥
वैश्यांज्जातः सुतो यः स मागधः क्षत्रयोषिति ।
जीवेत्कथाभट्टकैः स राजन्यगुणबर्णनैः ।
स्मृत्यन्तरे-
क्षत्रिया मागधं वैश्याज्जनयामास वै सुतम् ।'
स बन्दिजन इत्युक्तो ब्रतबन्धविवर्जितः ॥
शुद्राचारशिरामणिः
शूद्रेभ्योऽ भ्याधिकः किंचित्तस्य जीवनमुच्यते ।
काव्यालङ्कारगद्यादिपभापासु कलाक्षमः ॥
गद्यपद्यानि चित्राणि विरुदानि महीभृताम् । इति।
क्षत्रियायां वैश्यजातः क्षत्ता वेत्रधरो भवेत् ॥
प्रतीहारः
शुद्रादायोगवो वैश्यायां जातस्तु सुतो भवेत् ।
औशनसे
शालिकाः केचिदत्रैव जीवनं वस्त्रनिर्मितम् ।
इति प्रतिलोमधर्माः ।
अथ सङ्करसङ्कराः।
वैश्वम्भरे-
ये वर्णसङ्कराकीर्णास्ते सङ्कीर्णा अवर्णकाः ।
जीवनं जातिकर्मव जातिमात्रोपजीवनम् ॥
व्रात्याद्विप्राद्विप्रपत्न्यामृजुकण्ठः सुतः स्मृतः ।
व्रात्यश्चोक्तो मनुना-
द्विजातयः सवर्णांसु जनयन्त्यव्रतास्तु यान् ।
तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥
ब्राह्मण्यामृजुकण्ठात्तु जात आवर्तकः सुतः।
आवर्तात् द्विजभायांयां कटधानः सुतः स्मृतः ॥
ब्राह्मण्यां कटधानाद्यः पुत्रोऽसौ पुप्पशेखरः।
३ शु० शिक्ष
१८. शूद्राचारशिरोमणिः एतैस्तु जीवनार्थाय कार्य विष्ण्वादिपूजनम् ॥ नृत्यगीतादिवादित्रशङ्खवीणादिवादनम् । ' एतै ऋजुकण्ठावर्त्तककटधानपुष्पशेखरैः। C ॥ वण्यौँ हरिहरौ तैश्च गीतगाथाप्रबन्धकैः । चरितैर्देशभाषाभिर्गेयन्तज्जीविकाः स्मृताः ॥ लोकाचाराः स्मृतास्तेषां शूद्रधर्मा न हि क्वचित् । पुष्पशेखरसंज्ञायां जातो विप्रात्तु यः सुतः । स जात्या भोजको नाम सूर्यपूजनजीविकः । द्विजोढा भोजकसुता ताभ्यां देवलकः स्मृतः ॥ जात्यैक(?)शाश्वतो ज्ञेयो विष्णुपूजनजीविकः । माहिष्यायां द्विजाज्जात आभीरः क्षीरविक्रयी ॥ उदवाहः सुतो विप्राद्वैदेह्यां व्यभिचारतः। स छत्रं धारयेत्कुर्यान्नारीविक्रयणं तथा ॥ ब्राह्मण्यां वैश्याद्वैदेही । विप्रान्निषादाद्यो जातो वैष्टिकः : स्कन्धवाहकः । .. विप्राच्छूद्रयां निषादो लोके 'कहार'इति प्रसिद्धः॥ विप्राज्जातस्तु मागध्यां गोप्ता कारागृहस्य सः । क्षत्रियां वैश्यान्मागधी । लोके 'वन्दीवान्' इ- त्युच्यते ।
द्वापारशिरोमणिः
१९
अम्बष्ठायां द्विजाम्जातः पुत्रः कांस्यस्य कर्मकृत् ।
द्विजाद्वैश्यायामम्बष्ठः।
अन्यत्र तु-
कांस्यपानाणि चित्राणि रचयेज्जीवनाय सः।
शूद्रधर्मेण सर्वत्र स्थितिरस्य विधीयते । 'कांसा-
इति प्रसिद्धः ।
उग्रायां यो द्विजाज्जातः कुम्भकारः स उच्यते ।
क्षत्रासदायामुग्रा ।
अन्यत्र--
स शूद्राद्धीयते धर्म घटवन्मृण्मयाद् घटात् ।
व्रात्यक्षनात्सुतो जातः क्षत्रिंण्यां शस्त्रजीविकः ॥
जातिविवेके--
व्रात्यक्षत्रियतः शूद्रयां जातः शूद्राविधानकृत् ।
स कुर्याद्राजपुत्रांच शस्त्रास्त्रकुशलान् धनम् ॥
तेभ्यो लन्ध्यात्मवृत्त्यर्थ स्वधर्ममनुपालयेत् ।
राजगुरुरिति प्रसिद्धः ।
तस्मान्मल्छः सुतो जातः क्षात्रण्यां व्यभिचारतः ।
राज्ञां कौतुकमुत्पाद्य नियुद्धेनार्जयेद्धनम् ॥
वैश्याच्छद्रयामन्यवध्वां जातो वैतालिकाभिधः ।
जीवनं कामशास्त्रेण स्तुत्या वा भाट्टकर्मणा ॥
२०
शूद्रांचारशिरोमणिः
.
क्षत्रात्पारशवात्पुत्रः कीनाटस्ताम्रकुदकः ।
विप्राच्छूद्रयां पारशवी । 'तास्बर' इति ख्यातः ।
वणिक्जनात्तु विप्रायां जातो ऽन्तःपुरपालकः ॥
अन्तःपुरस्य गोप्ता स राज्ञामुदरपुष्टये ।
सामान्यवनिताः पोष्यास्तासां भाव्याश्व जीविकाः ।
पण्याङ्गनानां संज्ञां च कुर्यात्सङ्गं तदिच्छया ।
रूपाजीवासु तास्वेवं निशि यः सङ्गतो विटः ।
स एव तासां प्राणेशो नाऽन्यः कान्तोऽपि तत्पतिः॥
शूद्राद्वैश्यायां वणिग्जनः।
पारशव्यायां च माहिष्यान्मालाकारः स उच्यते ।
सूताज्जातस्तु
वैदेह्यां सूपकारः स जायते ॥
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेह उच्यते ।
आयोगवण्यां तु वैदेहाज्जातो मैत्रेयुको भवेत् ॥
घण्टावादनकृत्प्रातस्तथा मङ्गलगानकृत् ।
शूद्राद्वैश्यायामायोगवी ।
अम्बष्ठायां तु वैदेहात् जातः स्याद्धरिमेखलः ।
आयोगव्यां तु करणात्सैरन्ध्रो गन्धकर्मकृत् ॥
पुष्पचन्दनपण्यादिशृङ्गारैस्तस्य जीविकाः ।
वैश्यात् शूद्रायां करणः ।
उग्रायां वै पारशवाज्जाविकः पादवेगवान् ।
शूद्राचारशिरोमणिः
२१
धावनशालो वाति प्रसिद्धः ।
शैवः पाशुपतः कश्चिदारूढः पतितो यदि ।
तस्माज्जातः शूद्रपन्यां पुत्रो भस्माङ्कुरः स्मृतः ।
शिवार्चनंतु तत्कायं शिवदायेन जीवितम् ॥
स जटाभस्मधारी च शिवलिङ्गं प्रपूजयेत् ।
ताम्बूलमक्षता द्रव्यं गावः क्षेत्राणि शाकिनी ॥
शिवाय प्राणिभिर्दत्तमन्यत्किमपि भक्तितः ।
चण्डीशन्तदिति ख्यातं तेन तस्येह जीविकाः ॥
उग्रायां क्षेमकः क्षत्रात्प्रतहिारः स उच्यते ।
क्षनाच्छुदायामुग्रा।
कुशीलवः सुतोऽम्वष्ठाद्वैदेह्यां नर्त्तनादिकृत् ।
विप्रायां वैश्याद्वैदेही ।
निर्मण्डलक आभीराजातो ऽसौ वाणपिच्छकृत् ।
शराणां करपत्रैश्च रचना तस्य जीविका ॥
उग्रायां मागधाज्जातः कुन्तलः श्मश्रुकर्मकृत् ।
स नापित इति प्रोक्तः क्षौरकर्मविधानकृत् ॥
क्षत्रियाच्छुद्रायामुग्रः क्षत्रियायां वैश्यान्मागधः ।
श्मश्रुकनकृच्चैव नखकर्तनकोविदः ॥
वृत्त्याऽनया ग्राममध्ये तिष्ठन् वर्णेषु सेवकः ।
नराणां नापितो धूतः शूद्रेभ्योऽभ्यधिकः स्मृतः ।
शूद्राचारशिरोमणिः . मनुः शूद्रकन्याससुत्पन्नो ब्राह्मणो न तु संस्कृतः। अपरो नापितः प्रोक्तः शूद्रधर्माऽधिकोऽपि सः। इति । औशनसे नापितशब्दो निरुक्तः । यथा- सूतके प्रेतके वाऽपि दीक्षाकाले ऽथ वापनम् । नाभेरुर्ध्वं तु वपनं तस्मान्नापित उच्यते । याज्ञवल्क्य:- माहिष्येण करण्यां तु रथकारः प्रजायते । वर्तयेच्छिल्पवृत्या ऽत्र सर्वस्मिन्शिल्पशास्त्रवित् । एतस्योपनयनादि सर्व कार्यं वचनात्।तदाह-शङ्खः-( क्षत्रियावैश्यानुलोमानन्तरोत्पन्नो यो रथकारस्त- स्येज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्र- वास्तुविद्याऽध्ययनवृत्तिता चेति । अत्र मिताक्षरा- यामेतदुदाहृत्योक्तम् । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्द्धाव- सिक्तमाहियाद्यनुलोमसंकरे जात्यन्तराभाव उपनयनादि प्राप्तिश्च वेदितव्या तयोर्द्विजत्वादिति। जातिविवेके- माहिष्यवनिता सूतं वैदेहाचं प्रसूयते । स कायस्थ इति प्रोक्तस्तस्य कर्म विधीयते ॥ क्षत्रियाद्वैश्यायां माहिष्या। ब्राह्मण्यां वैश्याद्वैदेहकः ।
शूद्रापारशिरोमणिः
२३
लिपीनां देशजातानां लेखनं स समाचरेत् ॥
गणकत्वं विचित्रं च वीजपाटीप्रभेदतः ।
अधमः शूद्रजातिभ्यः पंचसंस्कारवानसौ॥
चातुर्वर्ण्यस्य सेवा हि लिपिलेखनसाधनम् ।
व्यवसायः शिल्पकर्म तज्जीवनमुदाहृतम् ॥
शिखा यज्ञोपवीतं च वस्त्रमारक्तमम्भसा ।
स्पर्शनं देवतानां च कायस्थाद्यो विवर्जयेत् ॥
जपस्तपस्तीर्थयात्रा प्रत्रज्या मन्त्रसाधनम् ।
देवताराधनं चेति स्त्रीशूद्रपतनानि पट् ॥
मालाकाराच शालक्यः करिण्यां मणिरन्ध्रकृत् ।
मणिहार इति ख्यातः।
तस्यैव स्मृत्यन्तरे मंजुरित्यपि संज्ञा ।
कुलाल्यां शाल्मलो मञ्जोर्नागवल्यास्तु विक्रयी ॥
मालाकारात्क्षत्रियायां शिलीन्ध्रो मईनक्रियः।
हीनः स शूद्रधर्मेभ्यो जीविका ऽस्याङ्गमईनम् ॥
शिलीन्ध्रात् क्षत्रियायां च कोल्हाटी नाम जायते।
बहुरूपीति प्रसिद्धः।
वैदेहाद्रूपकार्यायाः पुत्रश्चान्धसिको भवेत् ।
पाचक इति प्रसिद्धः।
वैश्यात्करण्यां यो जातो गोचारी वत्सपालकः ।
२४,
शूद्राचारशिरोमणिः
नाम छागलकं पुत्रं कटधानादर्जाजनत् ॥
मजुभार्या स वै लोके अजापाल इति स्मृतः ।
जातिविवके---
हीनः स शूद्रजातिभ्यः छागलान्न वदच्च सः।
छागलाभ्यो धनं जातं तज्जीवनमिति स्मृतम् ॥
सैरन्ध्रात् क्षेमको लेभे शय्यापालं तु सेवकम् ।
क्षेमकः प्रतिहारी।
राज्ञां शय्यासंविधाने कुशलस्तेन जीवति ।
कर्मचाण्डालभार्यायां यो जातः पुष्पशेखरात् ।।
स वै मण्डलको नाम शुनां मण्डलपोषकः।
कर्मचण्डालो वक्ष्यते ।
युगलं शुनकानां स धर्तुं योज्यो महीभृता ।
वदिनाशूद्रसंयोगाजातः स्यन्दोलिकाभिधः ॥
चतुर्वर्णविहीनोऽसौ मंजिष्ठारङ्गकारकः ।
तेन रङ्गेण वासांसि चित्राषि रचयेत्सदा ॥
हस्तलेख्यं बिम्वितं च विद्या तद्रंगसाधनम् ।
स एव सौचिकः ख्यातः कर्तरीसूचिकर्तकः ।।
शूद्रयां निषादः संजज्ञे कुक्कुटं टङ्कशालकः ।
रङ्गशालासु सर्वासु नाटकानां विधायकः ॥.
जीवनाद्वा ऽष्टधातूनामन्त्यजैः समतां ब्रजेत् ।
--
भद्राचारशिरोमणिः
-
..
.
मागध्यां क्षत्रियाज्जातो उल्मुको लोहकर्मकृत् ॥
सन्धान्तरे-
स लोहकर्मणा जीवेदुत्तमश्चान्त्यजातितः ।
ब्रह्मक्षत्रियविशुद्रवर्णेभ्यो हान एव सः ॥
उग्रात्पारशवात्पुत्रो मौःकलिस्तैलिको भुवि ।
ग्जको वर्णतो हीनः प्रथमभान्त्यजेषु च ।
वस्त्रानिणेजनं कुर्यादात्मवृत्त्यर्थमेव च ॥
उग्राज्जातं तु वैदेचो (१)मंजूपं रजकं विदुः ।,
क्षत्राच्छूद्रायामुग्रः, ब्राह्मण्यां वैश्याद्वैदेही।
वहेदसौ तैलयन्त्रमुत्तमस्त्वन्त्यजातितः ।
जीविकाऽस्य समुद्दिष्टा शुद्धतैलस्य विक्रयात् ।
तिलहिंसायन्त्ररवाकर्णनात्पापसम्भवः
अतो मौः कलिको नित्यं निर्वास्यो नगराहहिः ।
तथा च स्मृतिः-
तिलयन्त्रेक्षुयन्त्राणां यावच्छन्दः प्रर्वतते।
तावत्कर्म न कुर्वीत शूद्रान्त्यपतितस्य च ॥
रथकारस्य वनिता साऽयोगवसमागता।
सूते यं तनयं सोऽपि सूत्रधार इतीरितः ।
जायाऽऽजीवश्च शैलूपो नाट्यशास्त्रविशारदः ।
जलमण्डपिकादीनि सूत्राणि रचयेत्सदा ॥..
१०शि०
शूद्राचारशिरोमणिः
"
7
वेषविस्मयनृत्यानि वसेत्स नगराबहिः ।
कुरविन्दः कुक्कटक्यां सूतात्पट्टांशुकैरतः ॥
असावेवान्त्यजातीनां तं धर्मं तु समाचरेत् ।
वेन्यामार्वत्तकाज्जातः सोऽम्बरसूत्रवायकः ॥
वेन्या नटस्त्री।
आभीर्यां कुक्कुटापुत्रः सौवीरः कोसटः स्मृतः ।
स कुर्यात्सर्वजातीनां वासांसि त्वात्मवृत्तये ॥
तद्वैपरीत्याद्यो जातो नीलीकर्ता स कथ्यते ।
कुन्तलान्मञ्जुभार्यायां संजातो वर्बरः स्मृतः ॥
पुत्रो मैत्राज्जांधिकायां बन्धुलो मालको भुवि।
कैवी पौष्टिकाल्लेभे पांशूलं शणवायकम् ॥
छागलीमृजुकण्ठाच्च
औरभ्रं मेषषालकम् ।
आवर्तमिंगुभार्यायां क्षेमकादुप्ट्रपालकम् ॥
रौमिकं देशिका मल्लाद्युक्तं लवणकर्माण ।
आयोगव्यां द्विजाज्जातो धिग्वणः कवचादिकृत् ।
स चर्मणाऽश्वपल्याणं यथाशोभं प्रकल्पयेत् ।
मोची इति प्रसिद्धः।
जज्ञे कारबोलिका तु बैदेहान्मेदसंज्ञकम् । ,
वित्तेच्छया च स वसेदरण्ये वृक्षपर्वते ।
गोहुं इति प्रसिद्धः
दापारशिरोमणिः
५
आयोगवी च कैवत्तं जज्ञे पारशवात्सुतम् ।
स हीनः सर्वजातिभ्यो जालं स्वीकृत्य सर्वदा ॥
मत्स्यान जलचरानन्यान् घातयेदात्मवृत्तये ।
नाव्यं कर्म प्रवहणं नद्यां वर्षासु वाहयेत् ॥
नदीमुत्तारयेल्लोकांस्तेभ्यश्चेच्छेनं तथा ।
विधवायां यतेर्जातः कर्मचण्डाल उच्यते ॥
वापीकूपादिमृत्कर्मकर्ता वा स्पृश्य एव सः ।
निपादाच्छूद्रपत्न्यां च जातः पुकससंज्ञकः ॥
अन्त्यजानां स सदृशो धर्मेपु विविधेषु च ।
अरण्यजीवधातेन तवृत्तिदेहपोपणे ॥
श्येनपापर्डिका तस्य कथिता सद्विदूपिता ।
धिग्वण्यां तु निषादात् यश्चर्मकारः स तु स्मृतः ॥
स हीनस्त्वंत्यजातिभ्यो जीवनं तस्य चोच्यते।
उपानहौ शिरस्त्राणं कुर्यादश्वस्य पाखरान् ॥
गोचर्मणा महिप्याश्च चर्मणा तस्य जीवनम् ।
आभीरस्त्री लभेद्वेनापुत्रं शौण्डिकसंज्ञकम् ॥
तस्य शौष्कल इत्यपि संज्ञा स्मृत्यन्तरे ।
असावधम इत्युक्तः सर्वधर्मवहिष्कृतः
सुरांस कृत्वा विक्रीयात्तेन कुर्याच्च वर्त्तनम् ।'
कैवत्ती जांधिकाल्लभे मंगुष्टं रजकं विदुः। .
܀
.
२८
शूद्राचारशिरोमणिः
रजक इति संज्ञामात्रम् । धर्मास्त्वन्यत्रोक्ताः ।
स पाचयेद्वै खटकान् कृत्वा चूर्ण विशेषतः ।
तद्धनं जीविकार्थाय सोऽपि कुर्यान्निरन्तरम् ॥
न स्पर्शस्तस्य कर्तव्यः कदाचिदपि मानवैः।
धिग्वणा कुंभकारी तु लेभे चित्रकरं भुवि ॥
वर्णवाह्यः स विविधचित्रलेखेन जीवति ।
वैशिकात्कुरुविन्दायां किंशुको लेपकर्मकृत् ॥
असावन्त्यज इत्युक्तो वंशपात्रोपजीविकः ।
कर्मचण्डालकात्पुत्रं वैदेही पाण्डुशोषकम् ।
लेभे वुरुडजाति तु सदा वंशविदारणम् ॥
जातो निषादाद्वैदेह्यां गारुडो डिंडिमोत्तमः ।
। स सप्तानामन्त्यजातीनां सधर्मा सदृशः स्मृतः ॥
धिग्वण्या ऽयोगवात्पुत्रं जज्ञे दुर्लभसंज्ञकम् ।
स कुर्याच्छागलाः सम्यक् दृढाश्च करपत्रिकाः ॥
अन्त्यजातिपु मुख्योसौ कीर्तितो जातिसंकरे ।
कैवी सौनिकं लेभे पुत्रं चण्डालसङ्गता ॥
स कुर्यादजमेपाणां हिंसां तन्मांसविक्रयी ।
ग्वाटीक इति प्रसिद्धः।
शौण्डिकी डिडिमाल्लेभे कीनाशं कीटहारकम् ।
ब्राह्मण्यां शूद्रतो जातश्चाण्डालः प्राङ् निरूपितः ॥
गदापारशिरोमणिः
१९
..
-
चाण्डालापुक्कसी जज्ञेश्वपाकं रात्रिजापके ।
श्वमांसानि पचेन्नित्यं तन्मांसेनैव वर्चयेत् ॥
जातो निपायां चाण्डालात् मृताश्वखरहारकः ।
होवसंज्ञः इममशानेपु वसेत्सेतोपजीवनः ।।
मेयोपित्सु शैलन्धैरुत्पन्ना म्लेच्छजातयः ।
मत:-
शनकस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
वृपलत्वं गता लोके ब्राह्मणातिकमेण च ।।
पौण्ड्रकाथोड्द्रविडाः कम्बोजा यवनाः शकाः ।
पाग्दा वाल्हिकाश्रीनाः किराता दारदास्तथा ॥
मुखबाहुरूपज्जाता लोके या जातयो वहिः ।
म्लेच्छवाचोऽर्यवाची वा सर्वे ते दस्यवः स्मृताः। इति।।
एवमेतेन ताः संकरजातयस्ते यथायथं ऊहनीयाः।
तत्कारणानि तु सामान्यत आह स पव-~-
व्यभिचारेण वर्णानामवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जायते वर्णसंकरः। इति ।
तत्रैतेपां केपांचित्संकराणामप्युत्तमजातिप्राप्तावुत्तमा-
नां चाधमजातिप्राप्तौ निमित्तमाह याज्ञवल्क्य:-
जात्युत्को युगे ज्ञेयः सप्तमे पंचमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोचरम् ।
.
३० शूद्राचारशिरोमणिः जातीनां मूर्द्धावसिक्तादीनामुत्कर्ष उत्कृष्टब्राह्मणत्वा- दिव्यक्तिः। सा सप्तमे पंचमे ।अपिवा शब्दात्पष्ठे वा युगे जन्मनि बोद्धव्यः । विकल्पव्यवस्था चैवम्- ब्राह्मणेन क्षत्रियायामुत्पादिता मूर्द्धावसिक्ता सा ब्राह्मणेनोढा दुहितरं कांचिज्जनयति साऽपि ब्राह्मणेनो- ढाऽन्यां सो ऽप्यन्येनाऽन्यामिति प्रणालिकया चतुर्थी पञ्चमं ब्राह्मणं प्रसूते । एवं ब्राह्मणेन वैश्यायामुत्पादि- ता ऽम्बष्ठा साऽपि ब्राह्मणेनोढा कन्यां जनयति साऽ- प्यन्यामिति क्रमेण षष्ठी सप्तमं ब्राह्मणं जनयतीति पू- र्वोक्तधारान्तःपातिनीनां कन्यानां पूर्वपूर्वाभ्यो यथोत्तरं श्रेष्ठत्वम् । तथाऽन्येष्वष्यूहनीयम् । तथा-कर्मणां वृत्त्य- र्थानां व्यत्यये विपर्यासे पञ्चमे षष्ठे. सप्तमे वा जन्मनि यस्य नीचस्य वृत्त्या जीवति तत्सम् एव , भवति । तथा हि-- ब्राह्मणक्षत्रियविशां.मुख्यया वृत्या जीवनासंभवे स्वस्वावरवृत्तिरापद्यनुकल्पो विहितस्तथा आपद्विमोक्षे- ऽपि ब्राह्मणःक्षत्रियवृत्तिमपरित्यज्य पुत्रं जनयति तामे- वोपजीवस्तादृशीमेव पुत्रपरम्परां. जनयति तदा षष्ठः सप्तमं क्षत्रियमेव . प्रसूते । वैश्यवृत्त्या ऽनुजीवनपुत्रस- न्ततौ पञ्चमः षष्ठं वैश्यम् । शूद्रवृत्त्या चतुर्थः - पंचमं .
शूद्राचारशिरोमणिः शूद्रामिति । एवं क्षत्रियोऽपि.वैश्यवृत्या जीवन् षष्ठं वै- श्यम् , शूद्रवृत्या पंचमं शूद्रामिति । कर्मणां व्यत्ययो जन्मवत् द्विविधः अनुलोमः प्रतिलोमश्च। नीचानामुच्च- कर्मानुष्ठानं उच्चानां च नीचकर्मानुष्ठानमिति । तत्र अधरोत्तरं भावपरो निर्देशः । अधरत्वमुत्तरत्वं च पूर्व- वज्जन्मवद्वेदितव्यम् । यथा ब्राह्मणः शूद्रवृत्तिः श्रेया- न् , शूद्रस्तु द्विजवृत्तिरधम इति । एतदाह वशिष्ठः-अजीवन्तः स्वधर्मेणाऽनन्तरां पापीयसी वृत्तिमातिष्ठेरन्न तु कदाचिज्यायसीमिति । मिताक्षराकारस्त्वन्यथा व्याचप्टे-निविधः संकरः वर्णसंकरः संकीर्णसंकरः वर्णसंकीर्णसंकरश्चेति । तत्र मु- ख्यवर्णयोरेव दाम्पत्यं वर्णसंकरः । स चोक्तो 'माहिष्येण करण्यां तु रथकारः प्रजा- यते' इत्यादिना। स चाऽनुलोमप्रतिलोमभेदात् द्वाद- शधोक्तः । उभयोः संकीर्णयोरेव दाम्पत्यं संकीर्णसंकरः। सचोक्तो 'माहिष्येण करण्यां तु रथकारः प्रजायते' इ- त्यादिना । यत्र पुनरेको वर्णः अपरः संकीर्णः तयोर्दा- म्यत्यं वर्णसंकीर्णसंकरः। सोऽप्यनुलोमप्रतिलोमभेदा- त् द्विधा यथा मूर्द्धावसिक्तायां क्षत्रियविट्शूद्वैरुत्पादि- ताः, अम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादि- शूद्राचारशिरोमणिः ता अधराः प्रतिलोमजाः । तथा मूर्द्धावसिक्ताम्बष्ठानि- षादीषु ब्राह्मणेनोत्पादिता माहिष्योग्रयोः. ब्राह्मणक्षत्रि- याभ्यां करण्यां ब्राह्मणक्षत्रियविभिरुत्पादिता उत्तरे अनु- लोमजाः । एतदधरोत्तरं पूर्ववत्सदसदिति पूर्वेण वाक्य- भेदात्सम्बध्यत इति तदेवं निरूपिताः सप्रपञ्चाश्चत्वारो वर्णाः। शिष्टानामवाधिर्गुणैकजलधिः सत्संपदां शेवधिः श्रीसत्केशवदासतःसमजनि श्रीमान्पिलाजीनृपः। तस्यैतस्य कृते कृतेऽत्र कृतिना कृष्णेन शेषेण स- च्छूद्राचारशिरोमणावयमभूजातेविवेकोऽग्रिमः ॥१॥ इति श्रीशेषकृष्णविरचिते शूद्राचार- शिरोमणौ जातिविवेकः। प्रथमः परिच्छेदः।
द्वितीयः परिच्छेदः। अथ शूद्रकम्मवृत्तयः । तत्र परागरः । शूदस्य द्विजशुश्रूपा परमो धर्म उच्यते । यदन्यत् कुरुते कर्म तद्भवेत्तस्य निष्फलम् । तच्छुश्रृपायाः परमनिःश्रेयसहेतुत्वात् । तथा च मनु:- विप्राणां वेदविदुपां गृहस्थानां यशस्विनाम् । शुश्रूपैव तु शूद्रस्य धर्मो निःश्रेयकारणम् ॥ अत्र परं इत्यभिधानात क्षत्रिय वैश्ययोरपि शूशू- शूद्रस्य धर्मः। तथा च स एव- शुचिरुत्कृष्टशुश्रृपुर्मुदुवागनहंकृतः । ब्राह्मणापाश्रयो नित्यमुत्कृष्टां गतिमश्नुते । उत्कृष्टौ क्षत्रियवैश्यौ । बामणापाश्रय इति । वृ- त्यर्थ क्षत्रियादिशुश्रूपापरोऽपि ब्राह्मणे निवोदितात्मा । कचित्तु उत्कृष्टिं जातितोऽश्नुते इति पाठः ।, भारत- दूराच्छद्रेणोपचार्यो ब्राह्मणोऽग्निरिव ज्वलन् । संस्पृश्य परिचर्यस्तु वैश्येन क्षत्रियेण वा । इति ॥ पा - ५०शि० शूद्राचारशिरोमणिः गौतमः-शुद्रश्चतुर्थो वर्ण एकजातिस्तरस्यापि सत्यम- क्रोधः शौचमाचमनार्थं पाणिपादप्रक्षालनमवैके । श्राद्ध- कर्म चैत्यभरणं स्वदारवृत्तिः परिचर्या चोत्तरषां तेभ्यो वृत्तिं लिप्सेत जीर्णानुपानहः छत्रवासः कूर्चादीनि उ- च्छिष्टाशनं शिल्पवृत्तिश्चयं वाऽपर्याश्रयद्भर्त्तव्यस्तेन (?) क्षीणोपि तेन चोत्तरस्तदर्थोस्य निश्चयः स्यादनुज्ञातोऽस्य नमस्कारो मन्त्रः पाकयज्ञैः स्वयं यजेतेत्येके इति । एकजातिः उपनयनरूपद्वितीयजन्माऽ- भावात् एकं जन्म । आचमनार्थ इत्यादि । करचरणप्रक्षालनमेवाऽचमनार्थ इत्येकेषां मतम् । अ- न्ये तु सकृदुदकपानमिछन्तीति । भृत्यभरणं पोष्या- णां भरणम् । स्वदारवृत्तिः । स्वेष्टेषु दारेषु वृत्तिः । के- चित्तु स्वदारवृत्तिरेवास्य भवति नाश्रयान्तरप्राप्तिरि- त्याहुः । उत्तरेषां ब्राह्मणादीनां त्रयाणां तेभ्यः परिच- रितेभ्यः वृत्तिर्जीवनम् । जीर्णानि उपभुक्तानि । पूर्वैः प- रिचरिते देयानि । कूर्च तृणमयमासनम् । उच्छिष्टाशनं भोजनपात्रे यद्भुक्तशेषं तदस्याशनम् । एतच्चादास- विषयम् । यत्तु नाब्राह्मणायोच्छिष्टं प्रयच्छेदित्येतददास- विषयं गृहस्थशूद्रविषयमित्यन्ये । उच्छिष्टमन्नं दातव्यं शूद्राय गृहमेधिने ।
शुद्रापारशिरोमणि. - गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने । इति व्याघ्रवचनात् । मनु:- उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाचैव धान्यानां जीर्णाश्चैव परिच्छदाः । एतयाख्यन्मेधातिधिः-उच्छिष्टं नामातिथ्यादि- भुक्तावशिष्टं भाण्डस्थितं शूद्रायाश्रिताय देयम् । न भोजनपानावशिष्टमिति । पुलाकाः असारधान्यानि । परिच्छदाः शयनासनादीनि । भर्त्तव्यस्तेन क्षीणोऽपि परिचर्यया भजमानः शूद्रो यदि क्षीणः कर्म कर्तुम- समर्थः तथापि यमसौ पूर्व श्रितस्तेन भर्त्तव्य इत्यर्थः । तदाह मनु:- प्रकल्पतेस्य तैर्वृत्तिः स्वकुटुम्वाद्यर्थाढतः १ । शक्ति चापेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् । स्वकुटुम्यादिति । पुत्रवदसौ पालनीयः इत्यर्थः। इति मेधातिधिः । भृत्यानामिति किं यतोस्य भर्तव्या इति विचारः कार्य इत्यर्थः । तेन चोत्तरः । तेन शूद्रेण उत्तर आर्यः क्षीणोऽपि वृत्तिहीनः शिल्पादिनोपार्जितेन धनेन भर्तव्यः । तदर्थः उत्तरपोषणार्थः । अस्य शूद्र- स्य निचयो धनसंचयः । अत्रार्यस्य नीचाश्रयणे नी- शूद्राचारशिरोमणिः Ans - चकर्त्तव्यतामाह जातूकर्ण्य:- यो नीचमाश्रयदार्य आत्मानं दर्शयन्तदा । आत्मानं दासवन्मत्वा चरेन्नीचोऽपि तं प्रति । दरिद्रो ब्राह्मणो दक्षो वेदानां चैव पारगः । शूद्रेणापि सदाप्येष भर्त्तव्यो नाश्रितोऽपि सन् ॥ अनुज्ञातोऽस्य नमस्कारो मन्त्रः । अस्य शूद्र- स्य वैश्वदेवादिषु तत्तद्देवतापदं चतुर्थ्यन्तमुच्चार्य नम इत्येवंरूपो धर्मज्ञैरनुज्ञात इत्यर्थः । पाकयज्ञैरित्यादि पाकयज्ञाः पञ्च महायज्ञाः । ब्रह्मयज्ञस्य पाकानिष्पा- चत्वेऽपि साहचर्यात्तथा व्यपदेशः । यद्वा पाकशब्दः प्रशस्तवाची प्रशस्ता यज्ञा इत्यर्थः । ते चोक्ता एव । स्वयमित्यादि । पत्नीपुत्रादिना पाकयज्ञान्न कारयदि- त्येके मन्यन्त इत्यर्थः । एवं ब्राह्मणादेस्त्वन्येनापि पाकयज्ञादि कारयतो न दोष इति गम्यते । ननु पाकयज्ञादीनामनिसाध्यत्वादनग्नेः शूद्रस्य कथं तत्रा- धिकारः? स्मार्चकर्म विवाहानौ कुर्वीत प्रत्यहं गृही ।। दायकालाहृते चापि तदभावे द्विजोऽप्सु च॥इति। योगिवचनात् । नचास्य विवाहाग्निरस्ति, मन्त्रेण तु होम इति । । . 4 शूद्रांचारशिरोमणिः ३७ गोभिलेन विवाहहोमस्य मन्त्रसाध्यत्वाभिधानात् । शूद्रस्य मन्त्ररहितत्वेन होमस्यापि निवृत्तेः । नमस्कार- मन्त्रस्तु शृङ्गग्राहिकया पञ्चयज्ञादिविशेष एवोपदिष्ट इति न तेन वैवाहिकहोमसिद्धिः । अत्राहुः-स्मात्तं- कर्मेत्यादिवचनानां त्रैवर्णिकोपक्रमेण पाठान्तरत्वा- छुद्रस्य पाकयज्ञानां साक्षाच्छुतत्वालौकिकानावेव ते भविष्यन्तीति । अन्ततस्त्रैवर्णिकानामपि विवाहाग्निर्न नियतः किं पुनः शूद्रस्येति । एवमेवापरार्कमेधातिथि- प्रभृतयः प्रतिपन्ना इति । अन्ये तु त्रैवर्णिकानां स्मा- त्तांग्न्यभावे जलादेरुपदिष्टत्वात्तद्वदेव शूद्रस्यापि जले एवं वैश्वदेवादि भविष्यतीत्याहुः । स्कान्दे प्रभास ग्यण्डे:- न दर्भानुदरेच्छद्रो न पिवेत्कापिलं पयः। मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनी ॥ नोचरेत्प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् । न शिखां नोपवीतं च नोद्धरेत्संस्कृतां गिरम् ।। न पठेद्वेदवचनं त्रिपवं नहि सेवयेत् । नमस्कारेण मन्त्रेण क्रियासिद्धिर्भवेद्धवम् ॥ निपिद्धाचरणं कुर्वन् पितृभिः सह मज्जति । न शिंखेति-एतदपकृष्टशूद्रपरम् ॥ सन्द्रेऽप्येतदनुजानाति वशिष्ठः - ३८ शूद्राचारशिरामणिः एतेषां परिचर्या शूद्रस्य नियता वृत्तिरनियताः केशवेषाः सर्वेषां चामुक्तशिखावमिति । सर्वमुण्डनं शिखातिरिक्तकेशमुण्डनं वेति वाशब्दार्थः । तच्च सदसद्विषयतया व्यवस्थाप्यम् ।स्मृतिकौमुद्यां वैतदन्य- था व्याख्यातम्-शूद्रस्य पाक्षिकप्राप्त शिखाया बंधनं कर्मकालव्यतिरिक्तस्थलेऽपि. वैकल्पिकमिति दर्शयिष्यन् प्रसङ्गाद् ब्राह्मणादीनामपि दर्शयति सर्वेषां वेत्यादि । सर्वेषां ब्राह्मणादीनां चतुर्णामपि वर्णानां वा विकल्पेन मुक्तशिखावर्ज स्थितिर्भवति । कर्मकाले मुक्तशिखत्वं सर्वदा प्रतिषिद्धम् । अतोऽकर्मकाले मुक्तशिखत्वं वि- कल्पेन निषिध्यते इति । तथाच मनु:- शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ मासिकं वपनं मासि मासि वपनं कार्यमित्यर्थः । न्यायवर्तिनाम् द्विजशुश्रूषापञ्चमहायज्ञानुष्ठातृणाम् । शौचकल्पः सूतकादावाचमेन च कल्पः प्रकारो वैश्य- वज्ज्ञेयः । पंचदशाहमाशौचमित्यर्थः आचमनं च ग- ग्डूपत्रयपानं सच्छूद्रस्य । ननु शुद्ध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्तत इति विहितं सकृत्कालस्पर्शनमात्रमित्यर्थः । उपवीतमप्यस्य शूद्राचारशिरोमणिः नास्ति तस्योपर्वाताविषयत्वात् । अतएव पौधायन:-- "शूद्राणामार्याधिष्ठितानां मासि मासि वपनमार्य- वदागमनकल्पः । उपवीतं वस्त्राविन्यासादीति | आर्या- धिष्ठितानां ब्राह्मणादिसेविनाम् । आर्यवत् वैश्यवत् । मनु:- शूद्रस्तु वृत्तिमाकांक्षन् क्षत्रमाराधयेद्यदि। धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविपेत् । स्वर्गार्थमुभयार्थं च ब्राह्मणानेवाराधयेत् । जातवाह्मणशब्दो हि साप्यस्य कृतकृत्यता । स्वर्गार्थ स्वर्गप्राप्त्यर्थं उभयार्थ स्वर्गवृत्तिलिप्सया राधयेत् । आराधयत् । जातवाह्मणशब्दोब्राह्मणशुश्रूपा परमो धर्मः तत्रापि विप्राजीवनोपादाने स्वर्गार्थत्वं जीवनार्थत्वं चेति विप्रशुश्रूषाया उभयार्थत्वम् । तद- नुपादाने स्वर्गार्थत्वमेव । क्षत्रियवैश्यशुश्रूपया जीवना- भाव कर्तव्यमापद्धर्ममाह याज्ञवल्क्यः- शूद्रस्य द्विजशुश्रूपा तयाऽऽजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्विजातिहितमाचरन् । मनुः-- अशक्नुवंस्तु शुश्रूपां शूद्रः कर्म द्विजन्मनाम् । पुत्रदाशत्ययं प्राप्तो जीवेत्कारुककर्मभिः।
४० शूद्राचारशिरोमणिः अत्ययं क्षयम् । यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च । कारुककर्माणि तक्षणच्छेदनादीनि । शिल्पानि पत्रच्छेदरूपलेख्यादीनि । देवल:- शूद्रधर्मास्त्रिवर्णशुश्रूषा कलत्रादिपोषणं कर्षणप- शुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवी- णामुत्रमृदङ्गवादनानीति । पराशर:- लवणं मधु मद्यं च तकं दधि घृतं पयः । न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयम् । यथा-- विक्रीणन्मद्यमांसानि अभक्ष्यस्य च भक्षणम् । कुर्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात् । इति लघुपराशरवचनम् यदपि, विक्रयं सर्ववस्तूनां कुर्वञ्छूद्रो न दोषभाक् । म- धु चर्म सुरां लाक्षां मुत्का मांसं च पञ्चमम्। इति मद्या- दिनिषेधकं कालिकापुराणवचनं, तदनापदि ज्ञेयम् । अत्रायं निगर्वः । द्विजशुश्रुषम्या जीवनं मुख्यं वृत्तिः। तत्राशक्तो वाणिज्यया मधुमद्यचर्मलाक्षामांसानि हित्वा- ३ रुद्राचारशिरोमणिः विक्रीणीत शिल्पादिभिर्वा जीवेत् । अत्यन्तापदि तु मधुमद्यादिविक्रयोऽप्यभ्यनुज्ञायते।तथैवोगनसापि क्रमो निवडः। शूद्रस्य द्विजशुश्रूषा सर्वाशिल्पानि वाऽप्यथ । विक्रयः सर्वपण्यानां शूद्रधर्म उदाहृतः । इति । नरसिंह पुराणे- अयाचितप्रदाता स्यात्कृर्षि वृत्त्यर्थमाश्रयेत् । पुराणं शृणुयान्नित्यं नरसिंहस्य पूजनम् । इति । परागर:- कपिलाक्षीरपानेन ब्रामणीगमनेन च । वेदाक्षरविचारेण शूद्रश्वाण्डालतां व्रजेत् । इति । वेदाक्षराणां विचारो ज्ञानम् ।चरतेर्गत्यर्थत्वाये ग- त्यस्ते ज्ञानार्था इति न्यायाच्च । ज्ञानं श्रवणेनाध्यय- नेन तदर्थचिन्तनेन भवतीति तवयंप्रतिपिध्यते । तथा चा- पशूद्राधिकारे व्याससूत्रम्-"श्रवणाध्ययनार्थप्रतिपेधा- स्मृतेश्चेति" (१।३।३८)। व्याख्यातं चैतच्छाङ्करमाप्ये- इतश्च न शूद्राधिकारः यदस्य स्मृतितःश्रवणाध्ययनार्थ- प्रतिषेधो भवति । वेदश्रवणप्रतिषेधो वेदाध्ययनप्रति- पेधो वेदार्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते । श्रवणप्रतिपेधस्तावत् शूद्राधिकारे गौतमः- - ६ शू०शि० ४२. शूद्राचारशिरोमणिः . “अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणं पधुवा एतत् श्मशानं यच्छूद्र" इति । भवति चोदाहरणे जिह्वाच्छेदो[धा]रणे शरीरभेद इति । अस्य शूद्रस्य उप- सृत्य बुद्धिपूर्वं शृण्वतः । तेन ध्वनिमात्रश्रवणेन दोष इति केचित् । त्रपु रंगम् , जतुर्लाक्षा पधुवा मूर्तिमदेतत् श्मशानमेव यच्छूद्र इत्यर्थः । उदाहरणे धारणे शब्द- तोऽर्थतश्चानुसन्धानरूपें बोधे । एतेन वेदार्थविचारात्मकं यच्च यावच्च तत्सर्वं प्रतिषिध्यते। तत्र कर्मब्रह्ममीमांसा- द्वये वेदवाक्यानि पूर्वोत्तरपक्षरीत्या स्पष्टमेव विचार्यन्ते । न्यायशास्त्रपि "द्वे ब्रह्मणी वेदितव्ये परं चापरं च"। "द्वा सुपर्णा सयुजा सखाये"त्यादिश्रुत्यवगत “एकमेवाद्विती- यं ब्रह्मे"त्यादि श्रुत्यर्थपरिपंथितयावभासमान आत्मभेद एव विचिन्त्यते । षोडशपदार्थनिरूपणं तु तस्यैव परि- करम्। तदेतन्मननशास्त्रमित्याचक्षते पक्षिकाः। यदाहु- रुदयनाचार्याः- न्यायचर्येयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता । इति । अतएव वेदाङ्गाध्ययनमपि निषिध्यते । तेषामपि तदर्थीवधारणफलकत्वात् । एवं हि तान्यङ्गानि भवन्ति । अपि च, स्वाध्यायोध्येतव्य इत्यध्ययनविधिरवार्थाव- - ४३ शूद्रापारशिरोमणिः धारणपर्यन्तमध्ययनं विदधानस्तद्हेतुतयाङ्गान्यध्यापय- ति । तथा च शूद्रं प्रति वेदाध्ययनरूपस्योपेयस्यैव वाधे तदुपयोग्यङ्गाध्ययनमपि स्वत एव निवर्त्तते । अत एव कूर्मपुराणम्- वेदं वेदौ तथा वेदान्सांगांश्च चतुरो द्विजः ॥ अधीत्य चाधिगम्याथ ततः स्नायी द्विजोत्तमः। इति । यच्च व्याकरणमापं पाणिनीयादि, तस्मृतित्वारे- दाङ्गत्वाद्वा प्रतिपिध्यते । यच्च वैदिक तत्तु नित्यमेवा- प्राप्तं वेदानुपकारकत्वेन तत्र विधेरभावात् । स्यादेतत् । "साधुभिर्भापेत नम्लेच्छितवैनापभापितवै म्लेच्छोह वा एप यदपशब्द" इति । विधिनिन्दार्थवादैः साधुप्रयोगे विहिते तद्विवेकोपायतया विहितं व्याकरणं शूद्रमप्य- धिकरिष्यतीति । तच वार्तम् "पर्वाणस्तर्वाणो नाम ऋपयो बभूवुस्ते यद्वानस्तद्वान इति प्रयोक्तव्ये पर्वाण स्तर्वाण इति प्रयुञ्जते । याज्ञे पुनः कर्मणि नापभाष- न्ते” इति महाभाष्यकारवचनात् “स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधा"दिति श्रुतेश्च यज्ञ- कर्मणोऽन्यत्रापभाषणे दोपीऽभावात् । अथ. 'नमस्कारेण मन्त्रेण पञ्च यज्ञान हापयदिति स्मृतेरस्ति तस्यापि याझं कर्मेति तत्र साधु भाषणमपे- ४४ शूद्राचारशिरोमणिः . क्षितमिति चेत् ? नेति ब्रूमः । न दर्भानुद्धरेच्छूद्रो न पिवेत्कापिलं पयः । मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि । नोच्चरेत्प्रवणवं मन्त्रं पुरोडाशं न भक्षयत् । न शिरवां नोपवीतं च नोचरेत्संस्कृतां गिरम् । न पठेद्वेदवचनं त्रिषवं नहि सेवयेत् । नमस्कारेण मन्त्रेण क्रियासिद्धिर्भवेत् ध्रुवम् । निषिद्धाचरणं कुर्वन्पितृभिः सह मञ्जतीति स्कान्दे प्रभासखण्डे शूद्रस्यापि विशेषेण संस्कृतशब्दोच्चा- रणप्रतिषेधात् । एवं च नापभाषतेति निषेधः स्त्रीशूद्रेतर- विषयः। अत एव वैदिकस्य व्याकरणस्य संस्कृतश- ब्दात्मकत्वात्सिद्धमनध्ययत्वम्। स्मृत्यध्ययनमपि निषिद्धं मलुना- निषेकादिःश्मशानांतो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रोधकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् । अस्मिन् स्मृतिशास्त्रे । तथाश्रवणेऽप्यनधिकार उक्तो भविष्यत्पुराणे- श्रूयतां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । इत्यादिना स्मृतिपरिगणनानन्तरं, एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत ।
शूद्राचारशिरोमणिः ४५ वृन्दारकपुरं गत्वा मोदन्ते नात्र संशयः। इति । सुमन्तु- वचनानन्तरं शतानीक उवाच- यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत । नेच्छामि श्रोतुं विप्रेन्द्र गुह्यान्येतानि हि द्विज । त्रयाणामेव वर्णानांप्रोक्तान्येतानि पण्डितैः श्रेयसे न तु शूद्राणामत्र मे वचनं शृणु । ब्राह्मणादिपु वर्णेपु सर्वे वेदाः प्रतिष्ठिताः । । मन्वादीनि च शास्त्राणि तथांगानि समन्ततः।इति। तथा च पुराणश्रवणाध्ययने अपि निषिद्धे। पुराणं पञ्चमो वेदः पुराणं वेदसंमितमिति वचनात् । तथा च कूर्मपुराणे पुराणान्यधिकृत्य- अध्येतव्यमिदं नित्यं विप्रैः पणि पर्वणि । नाध्येतव्यमिदं शास्त्रं वृपलस्य च सन्निधौ योऽधीते चैव मोहात्मा स याति नरकान् बहून् । भविष्ये- मोहाद्वा कामतः शूद्रः पुराणं सहितां स्मृतिम् । पठन्नरकमाप्नोति पितृभिः सह कुट्टनम् ॥ कुट्टनमिति नरकनाम । तथा- यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा । पठन्ति स्यात्सचाल्पायू राजा राष्ट्रेण सान्वयः ।
४६ शूद्राचारशिरोमणिः तथा- पुराणं धर्मशास्त्राणि संहिताश्व मुनीरिताः । नाध्यापयेन्नृपः शूद्रैर्विहितानि यदृच्छया । इति । वायवीयसंहितायां- नावेदविद्भ्यः कथनीयमेतत्पुराणरत्नं पुरुशासनस्य। . नामक्तशिण्याय न नास्तिकाय दत्तं हि तद्यन्निरयं प्रयाति । ननु पुराणश्रवणेऽधिकारः स्मर्यते । भविष्ये- शूद्राश्च मे भृशं दनिाः प्रतिभान्ति ममाग्रतः । आगमेन विहीनास्तु अहो कष्टतरं मम । कश्चैषामागमः प्रोक्तः पुरा द्विज मनीषिभिरिति । शतानीकप्रश्नानन्तरं सुमन्तुः- साधु साधु महावाहो श्रूयतां परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । धर्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम । विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल सर्वकामार्थसिद्धये । तथा च पुराणान्यधिकृत्य- एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा । .
शूद्रापारशिरोमणिः चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । अस्ति शूद्रस्य शुश्रूषा पुराणे नैव वेदनम् । वदन्ति केचिद्विद्वान्सः स्त्रीणां शूद्रसमानताम् । तथा-- सिद्धान्तश्रवणं प्राहुर्द्विजानां मुनिसत्तम । शूद्राणां च विरक्तानां तथा रतीणां महामुने । सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं वुधैः । इति । भागवतेऽपि- स्त्रीशूद्रद्विजबन्धूनां त्रयीन श्रुतिगोचरा । इति भागवताख्यानं कृपया मुनिना कृतमित्या- दीन्यन्यान्यप्यूह्यानि । सत्यम् । श्रवणनिपेधवाक्यप- र्यालोचनया शूद्रस्य प्राधान्येन श्रवणं श्रावणं च नि- पिध्यते । श्रवणविधयश्च पुराणश्रवणायोपविष्टेपु द्विजेपु तत् शुश्रूपाप्रसङ्गागतेन शुद्रेण श्रोतव्यं न तु प्राधान्ये- नेत्येवाशयः । अत एव भविष्ये श्रवणप्रकार उक्तः । देवार्चाः पुरतः कृत्वा ब्राह्मणांश्च नृपोत्तम । श्रोतव्यमेव शूद्रेण तथान्यैश्च द्विजातिभिः । श्रीतं स्मांतं हि वै धर्म प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छुट्टैविना विप्र न श्रोतव्यं कदाचन ॥इति । अर्चा प्रतिमां पुरतः कृत्वा प्रधानतया श्रवणे ४८८ शूद्राचारशिरोमणिः पुरस्कृत्यः । तत्सेवानुषङ्गेण स्वयमपि श्रवणात् । नतु स्वातन्त्र्येण । तदिदमुक्तम् । विना विप्रं पुराणादि न श्रोतव्यं कदाचनेति । विप्रं श्रोतृत्वेन पुरस्कृत्येत्यर्थः । श्रावयितुरप्येषैव गतिः। नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ । इति। निषेधे तत्सन्निधौ तमुद्दिश्येत्यर्थात् । अन्ये तु अतिक्रा- न्तनिषेधेन पुराणे श्राव्यमाणे श्रावयितैव प्रत्यवैति न शूद्र इत्याहुः । एवं श्रवणमेवानुज्ञातं न त्वध्ययनमपि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन । इति भविष्ये तन्निषेधात्। यत्तु वायुपुराणे सूतः- न हि वेदेष्वधीकारः कश्चिच्छूद्रस्य विद्यते । पुराणेष्वधिकारो मे दर्शितो ब्राह्मणैरिह । तत्र शूद्राधिकारप्रतिपादकम् । सूतस्य संकरजा- तित्वेन शूद्रत्वात्। ब्राह्मण्यां क्षत्रियात्सूतं इति योगिव- चनात् । यद्वा ब्राह्मणद्वारा तदुपसर्जनत्वेनाधिकार इति व्याख्येयम्। अनाध्ययनाभावेऽप्यानुषंगिकभूतपुरा- णात् श्रुतिस्मृत्यादिनिपुणद्विजमुखोपदेशाद्वा धर्मानवगत्य शूद्रोऽनुतिष्ठेत् । “नमस्कारेण मन्त्रेण पंच यज्ञान्न हाप- येत्' इति लिङ्गात् । नमस्कारेणेति. देवेभ्यो नमः पितृभ्यो । शूद्रापारशिरोमणि नम इति नमस्कारान्तो नाममन्त्र एव मन्त्रः। नम इत्येव वा.सर्वकर्मसु शूद्रेण पठनीयः,न वैदिकः स्मार्तः पौराणो वा । गौतमोऽपि,"अनुमतोऽस्य नमस्कारो मंतः" इति । स्मृतिकांमुद्यां तु-अनुशासनपर्वणीत्युपक- म्योदाहृतम्- स्वाहाकारनमस्कारौ मन्वः शूद्रे विधीयते । ताभ्यां शूद्रः पाकयज्ञैर्यजेत ब्रामवान् स्वयम् ॥ स्वाहाकारो नमस्कारो वेति कल्पितावेती मन्त्री समुचितौ। ताभ्यां स्वाहाकारनमस्काराग्यां ब्रामवान् ब्रह्म मन्त्रः तद्वान् पाकयज्ञैः स्वयं यजेते- त्यर्थः। तत्र स्वाहाकारमन्त्रः शूद्रे लोकविद्विष्टत्वात् आचारविरोधाच्च न भवतीत्याहुः। अनाह गौटः- मन्त्रपाठस्य द्वयं कृत्यम् । अदृष्टसिद्धिः । अनुष्ठेयार्थ- प्रकाशनरूपदृष्टसिद्धिथ । तत्र सामान्यप्राप्तनमस्कार- रूपमन्त्रोचारणेनादृष्ट तावत्सिद्धम् । . अनुष्ठेयार्थप्रका- नाथं तु बामणद्वारा मन्त्रं पाठयेत् । यद्यपि शूद्रं प्रति श्रवणं श्रावणं च निषिद्धं तथापि विशेपवचनान्न तन्नि- पिध्यते । तथा चैकोहिष्टमभिधाय वराहपुराणे- अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृयते । इति वच- -- ७०शि० शूद्राचारशिरामणिः नात् । मन्त्रण गृह्यते सम्बध्यते पाठकत्वेनेत्यर्थः । अमन्त्रस्येति विशेषणोपादानं यावदमन्त्रव्याप्त्यर्थम् । तेन स्त्रियापि क्रियमाणे कमणि ब्राह्मणो मन्त्रं पठेत् । तुल्यन्यायत्वात् । तस्य चार्थप्रकाशनरूपदृष्टस्यांनुक्रम- ध्यानादितोऽपि सम्भवे ब्राह्मणद्वारकमन्त्रपाठोऽपि.. ना- वश्यकः । तस्य दृष्टमात्रप्रयोजनकत्वात् । अमन्त्रस्य च शूद्रस्येति चेयं परिभाषा । न च परिभाषा प्रकरणेन नियम्यते। तेनैकोद्दिष्टादन्यत्रापि स्नानदाना- दौ विप्रेण मन्त्रः पठितव्यः । अत एव पित्र्ये तु द्विगु- णा दर्भा इति कात्यायनोक्तवचनं श्राद्धप्रकरणपठि- तमपि परिभाषात्वात् पितृक्षयमात्रपरमिति वृद्धाः। मदनपालस्तदन्यथा व्याचष्टे-यत्र शाखाविशेषे श्राई क्षणदानाद्यनन्तरं निमन्त्रितब्राह्मणस्य मन्त्रपाठो विहितः तत्र शूद्रकर्तृकश्राद्धेपि निमन्त्रितेन मन्त्रपाठः . कार्य इत्येष 'विप्रो मन्त्रेण गृह्यते' इत्यस्यार्थ इति। कल्पतरुकार- स्तु शूद्राणां वैदिक मन्त्र एवानधिकारो न पौराणेष्वपि । तेन पौराणधर्माणां स्त्रीशूद्रान् प्रति विशेष्य विधानात्तेषां च मन्त्राविशिष्टतयैवात्पन्नत्वादगत्या कर्माङ्गभूतपौ- राणमन्त्रपाठोऽप्यस्तीत्याह । तथैव मध्यदेशाचार इति। अत्र शूद्राणां ये धर्माः साक्षान्निषिद्धास्ते निवर्तन्ते । .
शूद्राचारशिरोमणिः साक्षाद्विहितास्ते प्रवर्तन्ते । ये च न विहिता न च प्रतिपिडाः साधारणास्तेऽपि भवन्ति। किन्त्वमन्त्रकमेव । श्रौतस्मार्ताश्च केचिदमन्त्रका अपि निपिध्यन्ते। मोक्ष- धर्मे व्यास:-- ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । अत्र तेपामधीकारो धर्मेपु द्विपदां वर ॥ अत्र श्रौते याजनादौ स्माते संध्यावन्दनादौ । यज्ञादिपु तु विशेषवचनादधिकार इति वक्ष्यते । स्वस्वधर्माभिरतानां फलमुक्तं कूर्मपुराणे- प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामप्वपलायिनाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धवं शूद्रजातीनां परिचर्यानुवर्तिनाम् । महाभारते- यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् । कर्तुमाश्रमनिर्दिष्टान्धमांस्तान् शृणु पाण्डव ॥ शुश्रूषा कृतकृत्यस्य कृतसन्तानकर्मणः । * अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥ स्वधर्मानुगतस्यापि देशधर्मगतस्य वा । आश्रमा विहितास्सर्वे वर्जयित्वा निराशिपम् ।।
५३ शुद्राचारशिरोमणिः भैक्षचर्यां न तु प्राहुः स्वस्य सद्धर्मचारिणः ॥ निराशिषमिति संन्यासं विहाय त्रयोऽप्याश्रमा भवन्तीत्यर्थः। ब्रह्मचारित्वे च भैक्षचर्या न कार्या । अन्ये त्वपि तु शुद्धा आश्रमान्तरधर्मा अनुष्ठया इति यावत् । अन्यदपि भविष्यद्धर्मकथनव्याजेन शूद्रस्य नि- षिद्धं दर्शयति मत्स्यपुराणं यथा कलियुगधर्माननुक्रम्य- ततः प्रभृत्ययं लोकः सर्वो व्यापत्स्यते भृशम् । अनृतोपहतो भ्रष्टो धर्मतः कामतोऽर्थतः ॥ श्रौते स्मार्ते प्रशिथिले नष्टधर्माश्रमे तथा । सङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ॥ ब्राह्मणाः शूद्रयोनिस्थाः शूद्रा वै मन्त्रयोनयः । उपस्थास्यन्ति तान्विप्रा वेदार्थमभिलिप्सवः ॥ कूर्मपुराणे- अधार्मिका अनाचारा महाकोपाल्पचेतसः। वदंति चानृतंलुब्धा मिथोजाताः सुदुःप्रजाः ॥ मिथोजाताः सङ्करजाताः । तथा--- दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते लयः ।। राजानः शूद्रभूयिष्ठा ब्राह्मणान् धावयन्ति च । शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ॥
शूद्राचारशिरोमणिः
५३
शूद्रा धर्म करिष्यन्ति युगान्ते समुपस्थिते।
आसनस्थान् द्विजान्दृष्ट्वा न चलंत्यल्पबुद्धयः ।।
ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ।
उच्चासनस्थान् शूद्रांस्तु द्विजमध्ये परंतप ॥
ज्ञात्वा सहिष्यते राजा कालिकालवलेन तु ।
पुष्पैश्च भूषणैश्चैव तथाऽन्यैर्मण्डनैर्द्विजाः ॥
शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ।
न प्रेक्षन्तेऽर्चिताश्चापि शूद्रा द्विजवरान् नृप ॥
सेवावसरमालोक्य द्वारि तिष्टन्ति च द्विजाः ।
वाहनस्थान् समावृत्य शूद्रान् शूद्रोपजीविनः ॥
पठति वैदिकान् मन्त्रान्नास्तिक्यं घोरमाश्रिताः ।
इति ।
कर्मकाले तु ब्राह्मणेन मंत्रो (न) पठनीय इत्यु-
क्तमेव
प्राक् । लिङ्गपुराणेऽपि---
शूद्राणां मन्त्रयोनिश्च सम्बन्धो ब्राह्मणैः सह ।
भवतीह कलौ तस्मिन् शयनासनभोजनैः ॥
राजानः शूद्रभूयिष्ठा ब्राह्मणान् धावयन्ति ते ।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः॥
क्षत्रियास्तु न राजानो विप्राः शूद्रोपवर्तिनः ।
शूद्राभिवादिनः सर्वे ब्राह्मणैरभिवन्दिताः।
शूद्राचारशिरोमणिः । आसनस्था द्विजान्दृष्ट्वा न चलंत्यल्पबुद्धयः । आस्ये निधाय वै हस्तं. कर्णे शूद्रस्य वै द्विजाः ।। 'नचिस्य च. तदा वाक्यं वदन्ति विनयेन तु । अधीयते तदा वेदान् शूद्रा धमार्थकोविंदाः ॥ यजन्ते चाश्वमेधेन राजानः शूद्रथोनयः । तस्मादायुर्वलं रूपं कलिं प्राप्य प्रहीयते ॥ तदा त्वल्पेन कालेन सिद्धि गछन्ति मानवाः । धन्या धर्म चरिष्यन्ति युगान्ते समुपस्थिते ॥ श्रुतिस्मृत्युदितं धर्मं ये चरंत्यनसूयकाः। त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः॥ • यथाशक्ति चरेत्प्राज्ञस्तदन्हा प्राप्यते कलौ एवमादिवाक्यपर्यालोचनया शूद्रस्य ब्राह्मणेन सहैकशय्यासनभोजनादौ तथा वेदाध्ययनादौ वेदश्रवणे वैदिकार्थप्रवचने विप्राणां स्वपुरस्तात् धावनप्रेषणादौ शुक्लदन्तत्वमुण्डत्वकाषायादिरूंपप्रवजितवेषधारणपूर्वध- र्माचरणे विप्रं दृष्ट्वाऽनभ्युत्थाने तत्ताडनादौ विप्राग्रे उच्चशय्यासनवाहनादिसेवनेऽनीक्षणादिना, ब्राह्मणस्यो- पस्थितस्यासत्करणे द्वारि तत्प्रतिरोधने विप्रसेवाग्रहणे उत्तमवर्णधर्माचरणे, यागाधनुष्ठाने तद्वशानुप्रवर्त्तने च दोषस्तस्मादतन्न कर्त्तव्यमित्युक्तं भवति । .
अटापारशिरोमछि तथान्यदपि निषेधति परागरः विक्रीणन्मघमांसानि अभक्ष्यस्य च भक्षणम् । कुर्वन्नगम्यागमनं शूद्रः पतति तत्क्षात् ॥ : मद्यं गौड्यादि सर्वम् । मांस भक्ष्यमभक्ष्यं च । अयं च निघोऽनापदि । आपदि तु न दोप इत्युक्तं प्राक् । अभक्ष्यं गोमांसादि तदक्षणात् । कलौ गो- पशुनिषेधात । अगम्यागमतं मातृभागिन्यादिगमनम् । अत्र च मुरामयादिनिधपु विशिप्य प्रणिकानामेवो- पादानाच्छदस्य मुरापानमनिषिद्धमेव । पतत्यद्धं शरीरस्य यस्य भार्या मुरां पिवेत् । पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥ इति मनुवचनात् । त्रैवर्णिकस्त्रीमानपरत्वे त्वेत- दनर्थकम । तस्माद्रायणराजन्यो वैदया न सुरां पिवे- दित्येव निषेधसिद्धेः उद्देश्यगतत्वेन पुरत्वस्याविवक्षि- तत्वात् । अत एव निपेघस्य जातिमात्रनिवन्धनत्वादनु- पनीतानां ब्राह्मण्यादीनां च तन्निपेधः सिन्धति । एवं मुरापशूद्रसंसर्ग संसर्गप्रायाचित्तमपि न भवति । यस्य हि.सुरादिमद्यपानं निपिद्धं तस्य तत्सेवने पातित्यम् । पतितसंसर्गश्च पातित्यहेतुः । "तत्संसर्गी च पश्चमः" इति स्मृतेश्च । तथा च शूद्रस्य सुराया अप्रतिपिद्ध- - ५६ शूद्राचारशिरोमणिः त्वात् न तत्संसर्गेन्येषां प्रायश्चित्तम् । त्रैवर्णिकानां तु मद्यपानं. निषिद्धमिति तत्संसर्गे शूद्रस्य · प्रायश्चित्तम्- स्त्येव । किन्तुः, यादृशसुरापसंसर्गे यत्प्रायश्चित्तमुक्तं तच्छूद्रस्य चतुर्थांशन्यूनं कल्प्यमित्याहुः ।ब्रह्महत्यादि तु शूद्रस्यापि निषिद्धम् । अहिंसायाः सर्ववर्णसाधारणध- मर्मत्वात् । तदाह विष्णु:- क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ आर्जवं लोभशून्यत्वं देवव्राह्मणपूजनम् । .. । अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥ महाभारते:- श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च । स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥ आत्मज्ञानं तितिक्षा च धर्मःसाधारणो नृप । इति। चातुवर्ण्यस्येति शेषः । नच शूद्राणां विद्यायाम- नाधिकारात्कथं मोक्षधर्मेष्वधिकार इति वाच्यम्, तेषां वेदवाक्यार्थविचारे अनधिकारेऽपि द्विजशुश्रूषा- प्रसङ्गोपविष्टानां . प्रसङ्गश्रुतपुराणाद्यवगतमोक्षधमवि- चारे ऽधिकाराऽविरोधात् तथा चोक्तं स्कान्दसूत-
रामापारशिरोमणिः
.
संहितायाम्-
निवृत्तिधर्मनिष्पक्ष ब्राह्मणः पाजेक्षणः ।
भक्तो मुख्याधिकारी च ज्ञानाभासे तथा हरेः ।।
अन्ये च ब्रामणा विप्रा राजाना तथैव च ।
वैश्याच तारतम्येन ज्ञानाभासेऽधिकारिणः ।।
द्विजन्त्रीणामपि श्रोतज्ञानाभासेऽधिकारिता ।
अस्ति शूद्रस्य शुश्रूषा पुगणे व वेदनम् ।।
वदन्ति केचिद्विद्वान्सःलीणां शद्रममानताम। इति।
मारने मोक्षधपु-
प्राप्य ज्ञानं बामणाः क्षत्रिया वा
वैश्याः
शुदा
अपि नीचा अभक्षिणम् ।
श्रद्धातव्यं श्रदधानेन नित्यं
न श्रद्धालुं जन्ममृत्यू विशेताम् ॥
ज्ञानान्मोक्षो जायते पूरुपाणां
नास्त्यज्ञानादेवमाहुर्द्विजेन्द्राः ।
तस्मात ज्ञानं तत्वत एधितव्यं
तेनात्मानं मोक्षयेज्जन्ममृत्योः ।।
'यत्र च वर्णविशेषोपादानं नास्ति वा शुद्रं
प्रति निषेधस्तत्रास्त्येव तस्याधिकारः। तथा च भागवते-
स्त्रीशद्रद्विजवंधूनां त्रयी न. श्रुतिगोचरा ।
,
.
८माशिक
शूद्राचारशिरोमणिः इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ इति । द्विजबंधवः द्विजातिभ्यः शूद्रायामुत्पन्नाः । अथवा संस्कारहीना व्रात्या द्विजबन्धवः । अत एव म- हाभारते-- मामुपाश्रित्य कौन्तेय येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ इति । ततश्च ब्रह्मवधादिमहापातकं शूद्रस्याऽप्यस्त्येव । महापातकप्रायश्चित्तं शूद्रस्य ब्राह्मणापेक्षया चतुर्गुणम- धिकम् । तदुक्तं भविष्ये-- पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता। वैश्यानां त्रिगुणा प्रोक्ता शूद्राणां तु चतुर्गुणा ॥ पार्षदञ्च व्रतं ज्ञेयं शुद्धये पापकर्मणामिति । यस्मिन्विषये ब्राह्मणस्य यत्प्रायश्चित्तमुक्तं तत्र त- स्मिन्नेव विषये क्षत्रियो द्विगुणं वैश्यस्त्रिगुणं शूद्रश्वतु- गुणं कुर्यादित्यर्थः । यत्तु चतुर्विंशतिमतम्--- प्रायश्चित्तं यदाम्नातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादई वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमेशेषेष्वपि पाप्मस्विति । .. तत्प्रातिलोम्यानुष्ठितचतुर्विधसाहसव्यतिरिक्तविषयम् ।
द्रापारशिरोमणिः अधमानां तु वर्णानामुत्कृष्टहनने गुह् । दोपो गुरुतरो ज्ञेयः क्षत्रादीनां न संशयः ॥ इति भविष्यवचनात् । तथा च याजयल्स्यनापि- प्रतिलोमापवादेषु चतुरिद्विगुणा दमाः । वर्णानामानुलोम्येन तस्माद हानितः ॥ इति प्रतिलोम्यकृते वाक्पारुष्ये शुद्भवैश्यक्षत्रि- याणां दण्डकमेण चातुर्गुण्यं त्रैगुण्यं द्वैगुण्यं चोक्तम | दण्डवच्च प्रायश्रितानि भवन्तीति चोक्तम् । अतएवा- नुलोमोत्पन्नानां मूर्द्धावसिक्तादीनां ब्रामहन्तृत्वे ब्रा- सणादधिकं क्षत्रियाच न्यूनं प्रायश्चित्तं भवति । तच्च ब्राह्मणोक्तप्रायश्चित्तात्साचंगुणं कल्प्यते । तेनाष्टादशा- हानि तस्य भवन्ति । एवमन्येष्वपि अनुलोमेपु न्यून प्रतिलोमेपु चाधिकं कल्पनीयम् । यादृशे विषय शुद्रस्य यत्प्रायश्चित्तमुक्तं तत् तत्स्त्रीवालरोगिवृद्धादेर- ई देयम् । तदादागिरा:- अशीतिर्यस्य वर्षाणि बालो वाप्यूनपोडशः । 'प्रायश्चित्ताईमर्हन्ति स्त्रियों रोगिण एव च ॥ इति । यत्र च वयसि पुंसामई तस्मिन्नेव स्त्रीणां पाद- मात्रम् । तदादागिरा:-- - शूद्राचारशिरोमणिः . hr अक्तुि द्वादशाद्वर्षादशीतेरूर्ध्वमेव वा । अर्द्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥ इति । इदं च यस्य वर्णस्य यद्यत्प्रायश्चित्तमुक्तं तत्तद्व- र्णावृद्धादयोऽई स्त्रियश्च पादं कुर्युरिति ज्ञेयम् । यत्तु- पादो वालेषु दात्तव्यः सर्वपापेष्वयं विधिरिति विष्णुव- चनं, तदुपनातवालविषयम् । यदपि- उनैकादशवर्षस्य पंचवर्षात्परस्य च । प्रायश्चितं चरेद् भ्राता पिता वान्यःसुहृज्जनः ॥ अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥ इति शंखवचनं, तन्न सर्वात्मना प्रायश्चित्त- परम् , प्रायश्चित्तविधेरनपेक्षिताश्रमवर्णवयोऽवस्थाविशेष- त्वेन तेष्वप्यनिरुद्धत्वात् । किन्तु सम्पूर्णप्रायश्चित्ताभा- वप्रतिपादकम् । तथा पञ्चवर्षादूर्ध्वं पादाभिधानात्ततोऽर्वाकिंचि- न्यूनं प्रायश्चित्तं कल्पयति । शूद्राणां प्रायश्चित्तविशे- षे तारतम्यं तु तत्तद्विधिभ्य एव ज्ञेयम् । शूद्रस्य प्रा- यश्चित्तोपदेशे पर्षत्त्वं निषिद्धं धर्मविवृतौ-- शुद्धाचारशिरोमणिः ६१ क्षत्रियोऽप्यथ वैश्यो वा शूद्रो वा न कथंचन । प्रायश्चित्तविधानं हि कुर्वीतेति विदुर्बुधाः ॥ इति । चतुर्विंशतिमते- · श्वचणि यथा क्षीरमपेयं ब्राह्मणादिभिः । तद्वच्छद्रमुखाद्वाक्यं न श्रोतव्यं कथंचन ॥ पण्डितस्यापि शूद्रस्य शास्त्रज्ञानरतस्य च । वचनं तस्य न ग्राह्यं शुनोच्छिष्टं यथा हविः ॥ शूद्रो ज्ञानावलेपेन ब्राह्मणान् भापते यदि । स याति नरकं घोरं यावदाभृतसंप्लवम् ॥ इति । अंगिराः- तथा शूद्रं समासाद्य सदा धर्मपुरस्सरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥ इति । शूद्रस्य निर्विद्यत्वेन वैदिकमन्त्रसाध्यजपहोमवि- वर्जितं कृच्छ्रादिवतदानरूपमुपदेष्टव्यमित्यर्थः । अ- न्ये तु- आरम्भे सर्वकृयाणां समाप्तौ च विशेपतः । आज्येनैव हि शालाग्नौ जुहुयायाहृतीः पृथक्॥ श्राद्धं कुर्याद्रतान्ते तु गोहिरण्यादिदक्षिणा । स्त्रीणां होमो न कर्त्तव्यः पंचगव्यं तथैव च ॥
शूद्राचारशिरोमणिः इति जाबालवाक्ये प्रकृते शालाग्नावेव स्त्रीणां होमविधानात् स्त्रीशूद्रयोलौकिकानौ ब्राह्मणद्वारा होमो- स्तीति वदन्ति । पंचगव्यं तु स्त्रीणां विकल्पितम् । स्त्रीशूद्रस्य विशुद्ध्यर्थं प्राजापत्यं समाचरेत् । पंचगव्यं तु कुर्वात स्नात्वा पीत्वा शुचिर्भवेत् ॥ इति पाराशरेण विहितत्वात् । प्राक् निषिद्धत्वा- च । शूद्रे तु तन्न निषिद्धम् । ये तु, A पंचगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिवेत् । उभौ तौ तुल्यकाणौ पूयाख्ये नरके वसेत् ॥ इत्यस्ति वचनं तत्प्रायश्चित्तानंगपंचगव्यविषय- म् । शूद्रेण प्रायश्चिताङ्गजपहोमौ विप्रद्वारा कार्यौ । "अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते" इति परिभाषणात् । तथा च धर्मविवृतौ उपवासो व्रतं होमस्तीर्थस्नानं जपादिकम् । विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तत्फलम् ॥ इति । शिष्ट प्रायश्चित्तप्रकरणे गोविन्दार्णवे द्रष्टव्यम् । देवल:- शूद्रधर्मो द्विजातिजातिशुश्रूषा पापवर्जन कुटुम्ब-
शूद्रापारशिरोमणिः
३
--
पोपणं चेति । विष्णुपुराणे---
द्विजशुश्रूपयैवैष पाकयज्ञाधिकारवान् ।
निजान् जनयते लोकान् शुद्रो धन्यतरस्ततः ।।
दानं च दद्याद्रोपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं चैव सर्व शूद्रः कुर्वीत वै नरः ॥
मनु:-
विप्रसेवैव शुद्रस्य विशिष्टं कर्म कीर्त्यते ।
यदतोऽन्यद्धि कुरुते तद्भवेत्तस्य निष्फलम् ॥
तेनैतदुक्तं भवति । विप्रसेवातत्पर एव शुद्रः
पञ्चमहायज्ञादि कुर्याचदपि तत्सेवाऽविरोधेन । तत्सेवा-
वैमुख्येनतु तत् क्रियमाणमप्यकृतप्रायमेव भवति।तथा-
भृतस्य तत्राधिकारप्रतिपेधनात् ।
महाभारते आनुशासनिके-
रागो द्वेपश्च मोहश्च पारुप्यं च नृशंसता ।
शाट्यं च दीर्घवैरत्वमतिमानमनार्जवम् ।।
अनृतं चातिवादं च पेशुन्यमतिलोभता ।
विकृतिश्चाप्यवज्ञानं जनने शूद्रमाविशेत् ॥
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः।
द्विजशुश्रूपया शुद्रः परं श्रेयोऽधिगच्छति ॥
अहिंसकः शुभाचारो देवताद्विजपूजकः ।
६४ शूद्राचारशिरोमणिः शूद्रो धर्मफलैरिष्टैः स्वधर्मेणैव पूज्यते ॥ तथा- १ : :. संचयांश्च न. कुर्वीत जातु शूद्रः कथंचन । पापीयान् हि धनं लब्ध्वा वशे कुर्याद्गरयिसः ॥ राजा वा समनुज्ञातः कामं कुर्वीत धर्मतः । गरीयसो द्विजातीन् वशे कुर्यादाक्रामेन्न गणयदि- त्यर्थः । राजावेत्यादि । अथवा शूद्रो यदि राजा भवेत् तदा द्विजैरनुज्ञातः सन् कामं धनसंचयं कुर्वीत । यद्वा । राजावासं राजपरिग्रहं स्थानपालादित्वं प्राण्य अनुज्ञातो. द्विजैः सन् कामं धनसंचयं कुर्यात् । मनु:- शक्तेनापि हि शूद्रेण न कार्यों धनसंग्रहः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ तथा- न शूद्रे पातकं किञ्चिन्न च संस्कारमहति । नचाऽस्याऽधिकारोधर्मेऽस्ति न धर्मात्प्रतिषेधनम्॥ इति । ': अत्र मेधातिथिः यदस्याहत्य शृङ्गग्राहिकया न प्रतिषिद्धं किंत्वनाहतवर्णविशेष सामान्यशास्त्रेणैव निषि- इम् । हिंसास्तेयानृतादितव्यतिक्रमादस्य न तथा पात- शूद्राचारशिरोमणिः कमुत्पद्यते यथा द्विजातीनाम् । तथा योऽस्य संस्कारो विशिष्य नोपदिष्ट उपनयनादिरूपस्तं नार्हति, येषु तु गर्भाधाननामकरणनिष्क्रमणान्नप्राशनविवाहान्त्यकर्मसु विशिष्य प्रमाणमस्ति ते न निषिध्यन्ते इति वक्ष्यते । ना- ऽस्याधिकार इति । अस्य श्रौते स्मार्ने च धर्मे मन्त्रै- कसाध्येऽधिकारो नास्ति अमन्त्रके च स्नानोपवासार्च- नादौ साधारणधर्मे प्रतिषेधो नास्ति । यद्वा, स्नानाप- वासव्रतदानार्चनादौ नाऽस्य शूद्रस्य नित्योऽधिकारो- ऽस्ति तदकरणे न.प्रत्यवैति । अत एव नास्मात्प्रतिषेधो- ऽप्यस्ति । शिष्टाऽप्रतिपिद्धत्वात्साधारणधर्मत्वेन विहित- त्वादभ्युदयकामनया तदनुष्ठानसम्भवादित्यर्थः । एवं लशुनादिभक्षणेऽपि न निषेधस्तद्वर्जने त्वम्युदयं इति, वदन्ति । तदुक्तं मनुना-- न मांसभक्षणे दोपो न मद्ये न च मैथुने । प्रवृत्तिरेपा भूतानां निवृत्तिस्तु महाफला ॥ इति । मांसभक्षणे विध्युक्ते । मद्यशब्दो लशुनादेरप्युपा : लक्षकः । मैथुने स्वदारेषु ऋतावनृतौ च । यतः सा- मान्यतो निषिद्धस्यापि वर्जने दृष्टादृष्टफलमुत्पद्यते अतो: निवृत्तिर्महाफला न तु ज्योतिष्टोमादेः धर्मस्य प्रतिषेधाभाव इति मन्तव्यम् । तस्य वर्णविशेपोपादा- ९२०शि०
शुद्राचारशिरोमणिः
नेन विधानात् । न च,
धर्मेप्सवस्तु धर्मज्ञाः सतां धर्ममनुष्ठितम् ।
मन्त्रवर्ज न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ।।
इति मनुवचनात् अमन्त्रकाण्येव ज्योतिष्टोमादी-
नि तेषां भवन्तीति वाच्यम् । तेषां समन्त्रकेषूत्पन्नेषु
सन्त्ररहित्वेनानुष्ठानमशाब्दं स्यात् । यथा चोत्पत्तिवा-
क्यविहितानि तथैव कर्त्तव्यानि । अन्यथा कर्मवैगु-
ण्यापत्तिः। उत्पत्तिवाक्यैश्च समन्त्रकाण्येव कमाण्यु-
त्पादितानि कथममन्त्रस्य शूद्रस्य स्युः।
अत एव जातकर्मादिष्वपि शूद्रा नाधिक्रियन्ते !
मन्तवर्ज न दुष्यन्तीति तु येषु स्नानोपवासदेवार्चना-
दिषु अमन्त्रकतयात्पन्नेषु साक्षादधिकारो न निषिद्धः
तत्र उत्पन्नशिष्टवैदिकमन्त्रपरिहारेणानुष्ठाने न दोष
इत्येवं परम् । तथा च मोक्षधर्मेषु व्यास:-
नचेह शूद्रः पततीति निश्चयो नचापि संस्कारमिहार्हतीति च।
श्रुतिप्रवृत्तं न च धर्ममश्नुते न चास्य धर्मे प्रतिषेधनं कृतम्॥
मंत्रवर्ज न दुष्यन्ति कुर्वाणाः पौष्टिकी क्रियाम् ।
यथा यथा हि सद्वृत्तमालवन्तीतरे जनाः
तथा तथा सुखं प्राप्यं प्रेत्य चेह च शेरते ॥ इति ।
अतएव वैदिकमंत्रवत्तया उत्पन्नेषु संस्कारेष्वपि
शूद्रापारशिरोमणिः शुद्रस्य नाधिकारः। तथा हि द्विविधः संस्कारो भवति देवो ब्राह्मण- श्व । दैवाः पाकयज्ञाः हविर्यज्ञाः सौम्याश्च । ते तु वै- दिकमंत्रसाध्यत्वादस्य न भवन्त्येव । ब्राह्मणा गर्भा- धानादयः स्मार्तास्ते च पोडश । यदाह जातूकर्ण्य:- आधानपुंसवनसीमन्तजातनामान्नचौलकाः । मौल्लीव्रतानि गोदानसमावर्तविवाहकाः ।। अन्त्यं चैतानि कर्माणि प्रोच्यन्ते पोडशैव त । शूद्राणां चैव भवति विवाहश्चान्त्यकर्म चेति । एते तु नित्याः । अत्र शूद्राणां त्वेते अमंत्रकाः कार्याः । तदाह यम:- शूद्रोऽप्येवंविधः कार्यों विना मंत्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः । इति ॥ याज्ञवल्क्योपि- ब्रह्मक्षत्रियविटशूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निपेकादिश्मशानान्तास्तेषां वै मंत्रतः क्रियाः ॥ इति। अत्र विवाहान्त्यकर्मणोरेव शूद्रं प्रति विधा- नात् अन्ये संस्कारा न सन्तीति गम्यते । तथा च सुमन्तु:- - ६८ शूद्राचारशिरोमणिः - - -- ब्राह्मणक्षत्रियवैश्यानां गर्भाधानसीमन्तोन्नयनजा- तकर्मनामकरणान्नप्राशनचूडोपनयनव्रतचर्याध्ययनस- मावर्तनविवाहयज्ञदानानि समानीति । मनुरपि--- वैदिकैः कर्मभिः पुण्यौ षेकादिह्निजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ वैदिककर्माणि वेदमंत्रयुक्तानि तैर्द्विजन्मनां शरी- रसंस्कारः कार्यो न शूद्राणाम् । एवं सामान्यतो नि- षेधेऽपि कानिचित् प्रतिप्रसूयन्ते । तत्र- भार्यारतः शुचिर्भूत्यभर्ती श्राद्धक्रियापरः । : नमस्कारेण मंत्रेण पञ्च यज्ञान्न हापयेत् ॥ इतिवचनात्पञ्चमहायज्ञश्राद्धभृत्यमरणशौचद- गर्भाधानमनुज्ञायते । भारतत्वं हि नाम ऋतुकालगामित्वम् । स एव च गर्भाधानकालः । एवं नामकरणमपि शूद्रस्य तु जु- गुप्सितमिति योगिवचनात् । शूद्रस्य प्रेष्यसंयुतमिति मानवात् ।। - शान्तं ब्राह्मणे प्रोक्तं वान्तं क्षत्रिये भवेत् । गुप्तदासात्मकं नाम विज्ञेयं वैश्यशूद्रयोः ॥ इति व्यासवचनात् ।
মায়ায় मासे चतुर्थे कर्तव्यं शिशोर्निष्क्रमणं गृहात् । पष्टऽन्नप्राशनं मासि यचेष्टे मङ्गलं कुले ॥ इति वचनात । शूद्रस्य निष्क्रमणमन्नप्राशनं च भवति वर्णविशे- पानुपादानात् । शिशुग्रहणं शूद्रस्यापि प्राप्त्यर्थमिति मेधातिधिरपि । कर्णवघोऽपि भवति । विशेपानुपादा- नात् । अन्ये संस्काराः समन्त्रकत्वान्न भवन्ति । नाम- पुराणेऽपि- "विवाहमात्रसंस्कारं शूद्रोऽपि लभते सदे"ति मात्रशदेनेतरसंस्काराणां निवृत्तिमक्ता । तथा च व्या- ख्यातं कल्पतरौ--"मात्रशब्दन्तु विवाहेतरसंस्कार- निवृत्यर्थः । न च मात्रपदात मन्त्रनिवृत्तिः । अविद्य- त्वादेव शूद्रस्य मन्त्राऽप्रसङ्गादिति । एवं च नामकरण- कर्णवेधनिष्क्रमणान्नप्राशनानां वैकल्पिकमनुष्ठानमिति गम्यते । नवं स्मृतिवाधप्रसङ्गः । पाक्षिकनामकरणा- दिविधानेनापि स्मृतेश्ररितार्थत्वात् । चूडाकरणं तु द्विजा- नामेव । "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मत" इति मनुवचनात् । वपनं स्वकुलाचारेणास्य भवति । न च तदेव चूडाकर्म । पंचचूडता चतुथूडतेत्यादिनिमित्त- क एव चूडाकर्मशब्दप्रयोगः । शूद्राणां च तदसंभवात् ।
शूद्राचारशिरोमणिः तथा च लौगाक्षिः- तृतीयस्य वर्षस्य भूयिष्ठे गते चूडाः कारयते दु- क्षिणतः कमुजावशिष्ठानामुभयतोऽत्रिकाश्यपानां मुण्डा भृगवः पंचचूडा अङ्गिरसो वाजिमेके मङ्गलार्थ शिखि- नोऽन्ये यथाकुलधर्म वा शुक्लपक्षस्य पुण्याहे पर्वणि चेति। कसुजा शिरवा सा तूत्सर्गतो मध्ये शिरसि कार्या वसिष्ठानां तु दक्षिणपार्श्वे भवति । अत्रीणां कश्यपानां च उभयतो वामे दक्षिणे च भृगूनां मुण्डनमेव न शिखाधारणम् । अङ्गिरसां तु पञ्चमध्ये एका चतुर्दिक्षु चतस्त्र इति । एके पुनर्मङ्गलार्थं वाजि केशपंक्तिं कुर्व- न्ति । सा च समन्ताल्ललाटकर्णमूलस्पर्शिनी भाले भवति । तत्र मध्ये शिखा भवति न भवति च आ- चारात् । शिखिन इत्यनियमेन यत्र क्वापि शिखामात्र- मेव कुर्वन्ति । एवञ्च यथागृह्यं व्यवतिष्ठते । शूद्रस्य वपने शिखाधारणं सर्वमुण्डनं वेति विकल्पः प्रागेव प्र- पञ्चितः । उपनयनमपि शूद्रस्य नास्ति । वसन्ते ब्रा- मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यामिति वर्णवि- शेषोपादानेनैव तच्छ्रवणात् । तथा चापस्तम्ब:- अशूद्राणामदुष्टकर्मणामुपनयनमिति । मनुरपि- गौ हामर्जातकर्मचौलमौञ्जीनिवन्धनैः ।
दापारशिरोमणिः ७१ वैजिक गार्भिकं चैनो द्विजानामपमृज्यते ।। द्विजानामेव एतानि कर्माणीति दर्शयति । अन्त्य- कर्म तु शरीरप्रतिपत्तिरूपत्वाद्भवति शूद्रस्य । लौकि- काग्नौ च दाहः । एवं च येपु संस्कारेपु जातकर्मसीम- न्तोन्नयनादिपु शूद्रस्यानधिकारः, तत्कर्मकाले कुलपर- म्परागतं मङ्गलाचारमात्रं कार्य न पुनः संस्कारोs- पि । यत्तु- जाते पुत्रे पितुः स्नानं सचैलं तु विर्घायते । इति स्नानदानादिकमुक्तं तदस्यापि भवति । अ- विरोधात । अतएव गर्भरक्षा गर्भिणीधर्मदोहददाना- दयः, पष्टिकापूजनभृम्युपवेशनादयोऽविरुद्धास्तस्यापि भवन्ति । विवाहाद्यारम्भे वाऽभ्युदयिकं श्राद्धं शुद्रस्या- मान्नेनैव भवति । "आमेनैव तु शूद्रस्ये"ति घचनादि- ति वक्ष्यते । संध्यावन्दनमप्यस्य नास्ति। कूर्मपुराणे- सायं प्रातर्द्विजः सन्ध्यामुपासीत समाहितः । कामाल्लोभाद्यान्मोहान्मुक्तो हि पतितो भवेत् ॥ इति द्विजग्रहणात्। श्रुतिश्च-तदुह् एते ब्रह्मवा- दिनः पूर्वाभिमुखाः सन्ध्यायां गायत्र्याभिमंत्रिता अप उद्धं विक्षिपन्ति ता एव आपो वज्रीभूत्वा तानि रक्षा- सि मन्देहारुणे द्वीपे प्राक्षिपन्तीति ।
७२ शूद्राचारशिरोमणिः ब्रह्मवादिन इति गायत्र्याभिमन्त्रिता इति वच- नादन्येषां गायत्र्यनधिकारिणामनधिकारमाहुः। गाय' व्यधिकारिणश्च त्रैवर्णिका एव । कात्यायन:--"सा- वित्र्या ब्राह्मणमुपनयेत् त्रिष्टुभा राजन्यं जगत्या वैश्यं सर्वेषां वा सावित्री । स्त्रीणां पूजा विधीयते(?) । विरक्तानां च शूद्राणामेवं पूजा प्रकीर्तिता । अन्येषामपि सर्वेषां नराणां मुनिपुङ्गव ।। पूजा देवालयं दृष्ट्वा प्रणामस्तस्य कीर्तितः । एवं पूजा कृता येन सफलं तस्य जीवितम् ॥ इति । प्रणवेनैवेति प्रणवयुक्तेन पञ्चाक्षरेणेत्यर्थः। नमोन्तेन शिवेनैवेति । शिवाय नम इत्येतावता प्रण- वरहितेनेत्यर्थः । एतेन स्त्रीशूद्रयोः प्रणवे नाधिकार इ- त्युक्तम् । वैष्णवमन्त्रदीक्षा त्वस्ति शूद्रस्य । तथा च वराहपुराणे- चातुवर्ण्यस्य वक्ष्यामि दीक्षामथ यशस्विनीमित्यारभ्य, शूद्रस्यापि प्रवक्ष्यामि मद्भक्तस्य वरानने । यां तु दक्षिां समासाद्य मुच्यते सर्वकिल्बिषैः ॥ इत्युपक्रम्य 'दीक्षा वै सा तु शूद्राणामुपचारश्च ईदृश' इत्युपसंहृतम् । तथा तत्रैव- अलाभे वेदमन्त्राणां पंचरात्रोदितेन हि ।
। रुद्रापारशिरोमगिः अविचारण प्रपद्यन्ते तेषां प्राप्स्यन्ति मानवाः।। ब्राह्मणक्षत्रियविशां पसरानं विधीयते । शूद्रादीनां च तत् श्रोत्रपदवीमुपयास्यति ॥ तत्पञ्चरात्रम् । भविष्यपुराणे- ब्रामणं क्षत्रियं वैश्यं कुलीनं शूद्रमेव च । पुरुषं ++यं वापि दीक्षयेत्सर्यमण्डले । इति ॥ एवं शक्ति विनायक मंत्रदीक्षापितत्तदागमेपु+++++ दैव । पूज्जायामप्यस्याधिकार उक्तस्तत्रैव । अथ शुद्रस्य वक्ष्यामि गदतः शृणु+++I यानि कर्माणि कुरुते शूद्रो मय्यवस्थितः । दम्पती मम भक्ती च मम कर्मपरायणौ । तत्सवितुर्वरेण्यमिति सावित्री बामणस्य । देव सवि- तुरिति राजन्यस्य । विश्वारूपाणीति वैश्यस्य। अतः शूद्रस्य गायत्र्यभावात्तत्साध्ये सन्ध्याव- न्दनकर्मण्यप्यनधिकारः । अपि च- सन्ध्योपासन++स्यात्सायं प्रातः प्रसन्नधीः । नानु तिष्ठति यः पूर्वा नोपास्ते यश्च पश्रिमाम् ॥ स शूद्रेण समो लोके सर्व धर्मबहिष्कृतः । इति वचनेन संन्ध्यारहितस्य शूद्रसमत्त्वाभिधाना- च्छद्रस्य संध्याकर्मण्यनधिकारो गम्यते। यत्तु तस्मिन्का- १००शि०
७४
शूद्राचारशिरामणिः
ले विष्णुध्यानादितत्त्वविरोधान्न प्रतिषिध्यते । एवं च नम.
स्कारमन्त्रेण सन्ध्यावन्दनं शूद्रस्येति वदन्तः परास्ताः ।
नमस्कारमन्त्रस्य शृङ्गग्राहिकया पञ्चमहायज्ञश्राद्धाग्नौ-
करणस्नानेष्वेव विधानात् । यज्ञोपवीतमस्य न भवति।
उपवीतं वस्त्रविन्यासादीनि बौधायनवचनात् ।
कार्पासमुपवीतं स्याद्विपस्योर्ध्वकृतं त्रिवृत् ।
शणस्वमयं राज्ञो वैश्यस्याबिकसूत्रकम् । इति ।
मनुनापि द्विजानामेव तद्विधानात् ।
एवं च शूद्राणां श्रौतमन्त्रदीक्षायां स्मार्तेष्वपि प्र.
णवादिषु मन्त्रेषु नाधिकारः । तथा च स्कन्दपुराणे
शिवपूजाविषये-
वक्ष्ये पूजाविधि विप्रा इत्युपक्रम्य "श्रीमत्पञ्चा-
क्षरेणैव प्रणवेन युतेन त्वि"ति पूजामंत्रमुक्त्वा-
प्रणवेन महादेवं सर्वज्ञ सर्वकारणम् ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च सुब्रतः ॥
एवं दिने दिने देवं पूजयेदम्बिकापतिम् ।
सन्यासी देवदेवेशं प्रणवेनैव पूजयेत् ।
नमान्तेन शिवेनैव भागवतौ भक्तौ मत्परौ कर्मनियन्त्रितौ।
देशं कालं च जानन्तौ रजस्तमसर्जितौ ।
नमस्कारप्रियौ + त्यं मम चिन्ताव्यवस्थितौ।
शूद्राचारशिरोमणिः. शुद्धः कर्माणि वेदै में य एवं तु समाचरेत । त्यत्क्वा ऋषिसहस्रा + शूद्रमेव तु याम्यहम् । तथा नरसिंहपुराणे- ब्राह्मणाः क्षत्रिया वैश्या स्त्रियः शूद्रान्त्यजातयः । सम्पूज्यन्ते सुरश्रेष्ठं भक्त्या सिंहवपुरईम् ॥ मुच्यन्ते चाशुभैर्दुष्टैर्जन्मकोटिसमुद्भवैः । सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवांछितम् ॥ इति । तथा लिङ्गपुराणेऽपि- अथ रुद्रो महादेवो मण्डलस्थ उवाच ह । पूज्योऽहं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ वैश्यानां चैव शूद्राणां शुश्रूष्यः पूजकस्य च । स्त्रीणां चैवाधिकारोस्ति पूजादिषु न संशयः ॥ इति। एतेन च दूरात्पूजामात्रमेवानुज्ञायते न स्प- झेऽपि । तदुक्तं वृहन्नारदीये- स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करेऽपि च ॥ इति । तथा च, नमेद्यः शूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा ।... स सर्वयातनाभोगी यावदाचन्द्रतारकम् ॥ योपिद्धिः सेवितं लिङ्गं विष्णुं वाऽपि नमेत्तु यः। - शूद्राचारशिरोमणिः स कोटिकुलसंयुक्तं आकल्पं रौरवे बसेत् ॥ तथा, यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन्नरः । न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ॥ इति। सर्वांण्येतानि स्पर्शपूर्वकमर्चा निषेधन्ति न पूजामात्रम् । पूर्वत्र विधेरुदाहृतत्वात् । स्कान्दे तु विशेष उक्त:- स्वधर्म यः परित्यज्य परधर्मरुचिर्भवेत् । चकोरनयने चौरः स मूढश्चन्द्रशेखरे ॥ तेनाहं पूज्यमानोऽपि गन्धं जिघ्रामि कौणपम् । इति । तेन स्वधर्महीनेन शिवपूजा न कार्येत्युक्तं भव- ति । ब्राह्मणस्य तु स्वधर्मत्यागिनो ऽप्यस्त्यधिकार इ- त्युक्तं तत्रैव वेदमन्त्रधनैविप्रैरहं तुष्येऽर्चितः सदा । न द्विजानां करस्पर्शेरुद्विजामि वरानने ॥ शूद्रकर्मरतेनापि स्पृश्यमानो द्विजन्मना । हृष्यामि तेन सुतरां पूज्यमानश्व सुन्दरि ॥ अत्रापि द्विजग्रहणाच्छूद्राणां, तत्तुल्ययोगक्षेमाणां स्त्रीणां च करस्यों निषिध्यते । तेन तैर्दूरादेवोपचार- निवेदनमात्र कार्यम् । अयं च स्पर्शनिषेधः इदानीन्तन शूद्राचारशिरोमणिः प्रतिष्ठितलिङ्गविषयः । न पुनः पुराणप्रतिष्ठितेष्वनादि- लिङ्गष्वपि: । तदुक्तं नारदीये- यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर्यथाविधि । ततः प्रभृति शूद्रश्च योषिच्चापि न संस्पृशेत् ॥ इति । यत्तु-- शिखां यज्ञोपवीतं च वस्त्रमारक्तमम्भसा । स्पर्शनं देवतानां च कायस्थाद्यो विर्जयेत् ॥ तथा, जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चेति स्त्रीशूद्रपतनानि पट् । इति । तदेवंजातीयकानां पूर्वोक्तरीत्या सदस- च्छूद्रपरतया द्विजसेवाविरोधाविरोधाभ्यां यथोक्तविष- यतया विरोधः परिहरणीयः। सच्छूद्रलक्षणं चोक्तम् । मासि मासि वपनं द्विजोच्छिष्टभोजनं द्विजशुश्रूषया वृत्तिः पंचमहायज्ञनिष्ठत्वं चेति । तदेवमेते धर्माः सच्छूद्राणामेव भवन्ति तदितरेषां तु सामान्यधर्मा एवाऽहिंसादय इति द्रष्टव्यम् । भगवन्नामकीर्तने तु सर्वेषामधिकार इति सर्वेषु पुराणेषु प्रसिद्धम् । शिष्टानामवधिर्गुणैकजलधिः, सत्सम्पदां शेवधिः श्रीमत्केशवदासतः ससजनि श्रीमत्पिलाजीतियः॥
७८ शूद्राचारशिरोमणिः तस्यैतस्य कृते कृतेऽत्र कृतिना कृष्णेन शेषेण स- च्छूद्रा चारशिरोमणौ विधिनिषेधानां विवेकोऽभवत्। इति श्री शूद्राचार शिरोमणौ शूद्रस्य विहित निषिद्धयोविवेकः समाप्तः। . [अथान्हिकक्रमेण शूदे कर्तव्यविशेषः"कथ्यते] मनु:- . वाझे मुहूर्ते बुध्येत धमार्थों चाऽनुचिन्तयेत् । कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च । रात्रैः पश्चिमयामस्य मुहूर्तो यस्तृतीयकः । स ब्राह्म इति विज्ञेयो विहितः सुप्रबोधने । तथा- - ब्राह्म मुहूर्ते यौ निद्रां न कुर्यातां तु दम्पती । तद्ग्रहं देवतैः साई पितृभिः सेव्यते सदा ॥ स्मृतिचन्द्रिकायाम्- ब्राह्म मुहूर्ते या निद्रा सा पुण्यक्षयकारिणी । तां करोति तु यो मोहात्पादकृच्छेण शुन्यति ॥ विष्णु:- शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम् । कीर्तनात्तस्य पापानि नाशमायान्त्यशेषतः ॥
शूद्राचारशिरोमणिः
वामने-
प्रातरुत्थाय यः पश्येच्छत्रियं सुभगं नृपम् ॥
प्रातरुत्थाय यः पश्येत्स आपद्मः प्रमुच्यते ।
पापिष्ठं दुर्भगं मयं नग्नमुत्कृत्तनासिकम् ॥
प्रातरुत्थाय यः पश्येत्तत्कलेरुपलक्षणम् ।
अथ मौत्रम् । विष्णु पुराणे-
ततस्तल्पात्समुत्थाय कुर्यान्मौत्रं नरेश्वर ।
नैऋत्यामिपुविक्षेप अतीत्याभ्यधिकं भुवः ॥
ब्रह्मा मुरारि स्त्रिपुरान्तकश्च
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः सह भानुजेन
कुर्वन्तु सर्वे मम सुप्रभातम् ॥
तत्र प्रथमतो विलोकनीयानि । कात्यायन:-
श्रोत्रियं सुभगङ्गाश्च ह्यग्निमाग्निचितं तथा ।
याज्ञवल्क्य:-
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीपे तु रात्रौ चेदक्षिणामुखः ॥
शूद्रस्य यज्ञोपवीताभावात्कणे निधानं वाध्यते ।
न चोपवीतं वस्त्रं विन्यसेदिति चौधायनादि वाक्यै
रुपतिकार्यकरत्वेन विहितस्य वस्त्रोत्तरीयादेरेव करें-
शूद्राचारशिरोमणिः
निधानमस्त्विति वाच्यम् । सतो हि यज्ञोपवीतस्य
कर्णे निधानं संस्कारः न पुनः श्राद्धस्नानादिषु निवी-
तत्वादिवदङ्गं, प्रमाणाभावात् । 'विशिष्टो व्युपवीतश्व
यत्करोति न तत्कृत' मित्यस्य श्रौतस्मातकर्मपरत्वात् ।
भोजनादौतु प्रायश्चित्तश्रवणात्तद्वारणनियमः।
न च, पिबतो मेहतश्चैव भुञ्जतोऽनुपवीततः ।
प्राणायामनिकं षट्कं नक्तं च त्रितयं क्रमा” दिति
प्रायश्चित्तस्मरणं मेहनाङ्गत्वं वोधयतीति वाच्यम् । तस्य
द्विजातिविषयत्वात् । तदाह वृद्धपाराशर:-
"यज्ञोपवतिन विना भोजनं कुरुते द्विजः ।
अथ मूत्रपुरीषे वा रेतः सेचनमेव वा ॥
त्रिरात्रोपोषितो विप्रः पादकृछं तु भूमिपः ।
अहोरात्रोषितो वैश्यः शुद्धिरेषा पुरातनी"ति ॥
अतो न शूद्रे वाससः कर्णनिधानप्रसङ्गः। अन्ये
तु यमुलादिनिर्मितो+++++कणे निधानं स्थूलवस्त्रादे-
स्त्वसम्भवान्नैतदित्याहुः। हारतः
उच्चारे मैथुने चैव प्रस्त्रावे दन्तधावने ।
स्त्राने भोजनकाले च षट्सु मौनं समाचरेत् ॥
आडिरा:-
उत्थाय पाश्चिमे यामे रानराचम्य चोदकम् ।
शूद्राचारशिरोमणिः
अन्तर्बीय तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥
वाचं नियम्य यत्नेन ठीवनोच्छ्वासवर्जितः ।
कुर्यान्मूत्रपुरीपे तु शुचौ देशे समाहितः ॥
मनु:-
तिरस्कृत्योचरेत्काष्ठं पत्रं लोठं तृणानि च । इति ।
तथा-
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
दृष्ट्वा सूर्य निरीक्षेत गामग्नि ब्राह्मणं तथा ॥
मनु:-
छायायामन्धकारे च रात्रावहनि च द्विजः ।
यथासुखमुखः कुर्यात्प्राणवाधभयेषु च ॥
तथा गृह्यपरिशिष्टमते-
कुर्याद्यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
द्विवासा एकवासास्तु दक्षकर्णे निवेशयेत् ॥
कृष्णभट्टीये तु-
मूत्रे दक्षिणकर्णेतु पुरीपे वामकर्णके ।
धारयेद्ब्रह्मसूत्रं तु मैथुने ह्युपवीतवत् ॥
मूलमस्य मृग्यम् । आपस्तम्ब:-
तैलाभ्यक्तस्त्वनाचान्तः श्मश्रुकमणि मैथुने ।
मूत्रोच्चारं यदा कुर्यादहोरात्रेण शुद्ध्यति ॥
११ शू०शि०
।
शूद्राचारशिरोमणिः
हारीते प्रक्षे-
घ्राणस्य वेष्टयित्वा तु मृतात्रीमावहन् गलं..
जलपात्रं दक्षिणपार्श्वे भूमावाधाय चोत्सृजेत् ॥
दक्षः-
उभे मूत्रपुरीषे तु पूर्वमादाय मृत्तिकाम् ।
आददानस्तु वै पश्चात्सचैलो जलमाविशेत्
तथा;
करस्थोदकपात्रस्तु कुर्यान्मूत्रपुरीषके ।
तज्जलं मूत्रसदृशं सुरापानेन तत्समम् ॥
मनु:-
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाम्
न कदाचित्प्रकुर्वीत विण्मूत्रस्य विसर्जनम्
न फालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके न शाहले ॥
न ससत्त्वेषु गर्तेषु न गछन्न पथि स्थितः ।
न नदीतीरमासाद्य न भस्मनि न गोमये ॥
यम:--
पल्बलानि तडागानि नदीप्रस्रवणानि च ।
तुषाङ्गारकपालानि देवतायतनानि च ॥
राजमार्गश्मशानानि क्षेत्राणि च खलानि च ।
शूद्राचारशिरोमणिः
उपरुद्धो न मेहेत छायां दृश्यं चतुप्पथम् ॥
उदकं चोदकान्तं च पन्थानं च विवर्जयेत् ।
वर्जयेद् वृक्षमूलानि चैत्यश्वभ्रबिलानि च ॥ .
हारीत:-
सोपानको न मेहेत न तीर्थे द्वार चत्वरे ।
देवल:-
आशौचान्नोत्सृजेल्लिङ्गं प्रस्रवोच्चारयोस्तथा ।
तिष्ठेन्नातिचिरं तत्र न च किश्चिदुदीरयेत् ॥
अथ शौचम् ।
भरद्वाजः-
अथापकृप्य विण्मूत्रं लोष्ठकाष्ठतृणादिना ।
उदस्तवासा उत्तिष्ठेत् दृढं विधृतमेहनम् ॥
स्कान्दे-
वामन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ।
व्यास:-
नाश्ममूलफलांगारै रुन्मृज्यान्नास्थिवहिपा ॥
विष्णुपुराणे-
मार्जनं वामहस्तेन वीरणाद्यैरयाज्ञिकैः ।
कुर्यान्मूत्रपुरीपाणामेवमायुर्न हीयते ॥
शूद्राचारशिरोमणिः
देवल:-
धर्मविदक्षिणं हस्तं अधःशौचे न योजयेत् ।
तथैव वामहस्तेन नाभेरुर्ध्वं न शोधयेत् ॥
प्रकृतिस्थितिरेषा हि कारणादुभयक्रिया ।
शौचे यत्नः सदा कार्यो शौचमूलो द्विजोत्तमः ।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ।
तत्र याज्ञवल्क्य:-
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ॥
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः॥
पैठीनसि:--
मूत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये ।
अन्यत्रोद्धृतेन कुर्यात्तु सर्वदैव समाहितः ॥
विवस्वान् -
रानिमात्रं जलं त्यक्त्वा कुर्याच्छौचमनुद्धृतम् ।
पश्चात्तच्छोधयेत्तीर्थमन्यथा ह्यशुचिर्भवेत् ॥
ऋष्यशृङ्गः-
यस्मिन्स्थाने कृतं शौचं वारिणा तत्तु शोधयेत् ।
मनु:-
आहृतामन्यशौचा) वालुका या सुरूपिणी ॥
शुद्राचारशिरोमणिः
-
न मार्गान्न श्मशानाच्च प्रासादा कुड्यतः कचित् ।
विष्णु:-
अन्तःप्राण्यङ्गसम्पन्नां हलोत्खाताञ्च नाहरेत् ।
विष्णु पुराणे-
वल्मीकमूषकोत्खातां मृदमन्तर्जलाचथा ।
शौचावशिष्टां गेहाच्च मृदं शौचे विवर्जयेत् ॥
यमः
वापीकूपतडागेपु नाहरेद्वाह्यमृत्तिकाम् ।
आहरेज्जलमध्यात्तु परितो मणिबन्धनात् ॥
कश्यपः--
विप्रे गौरा मृदः प्रोक्ताः क्षत्रे रक्तास्तथोदिताः ।
वैश्यस्य हरिताः प्रोक्ताः कृष्णाः स्त्रीशूद्रयोस्तथा ॥
मनु:-
यस्मिन्देशे तु यत्तोयं या च यत्रैव मृत्तिका ।
सैव तत्र प्रशस्ता स्यात्तया शौचं विधीयते ॥
-
शातातपः
एका लिंगे करे सव्ये तिस्रो द्वे हस्तयोर्द्वयोः ।
मूत्रशौचं समाख्यातं शुक्रे तु द्विगुणं भवेत् ॥
विदशौचे तु विष्णुपुराणे
एका लिङ्गे गुदे तिस्रो दश वामकरे तथा ।
शूद्राचारशिरोमणिः
.
.
उभयोः सप्त दातव्या मृदः
शौचोपपादिकाः ॥
हस्ताशौचे हारीतः-
एका लिङ्गे तिस्रोऽपाने दद्यादश सत्ये षट् पृष्ठे
सप्ताभाभ्यां पृष्ठे सव्यस्य संनिधानात् ।
--
-
शङ्खः
तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस्तु पादयोज्ञेया शौचकामस्य नित्यशः ॥
पादयोः प्रत्येक मरीचिः
तिसृभिश्च तथा पादौ शोध्यौ गुल्फो तथैव च ।
हस्तौ त्वामणिबन्धाच्च लेपगन्धापकर्षणम् ॥
पादयोढे गृहीत्वा तु सुप्रक्षालितपाणिना ।
इति ब्रह्मपुराणे ।
यथोक्तसंख्ययाऽपि गंधलेपानपकर्षे तु मनुः
यावताऽपक्रमेयक्तो गन्धो लेपश्च तत्कृतः ॥
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ।
यावत्तु शौचं मन्येत तावत् शौचं विधीयते ॥
देवलोपि -
प्रमाणं शौचसंख्यायां न शिष्टरुपपादितम् ।
मृत्परिमाणं चोक्तं विटशांचे मनुना -
अर्द्धप्रसूतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
८७
-
शूद्राचारशिरोमणिः
द्वितीया च.तृतीया च तदा प्रकीर्तिता ॥
हस्तादिशौचे शातातपः
आर्द्रामलकमावस्तु ग्रास इन्दुव्रते स्मृतः ।
तथैवाहुतयः सर्वाः शौचार्थे याश्च मृत्तिकाः ॥
शखंः
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतनिां तु चतुर्गुणम् ॥
आदित्यपुराणे.
स्त्रशूिद्रयोरईमानं शौचं प्रोक्तं मनीपिभिः। इति ।
गन्धलेपानुवृत्तौ त्वधिकमपि ।
यावत्साध्विति मन्येत तावत् शौचं विधीयते ।
प्रमाणं शौचसंख्यायां न शिष्टैरुपदिश्यते ।
इति देवलोके पितामहः ।
न यावदुपनीयन्ते द्विजाः शूद्रास्तथाङ्गनाः।
गन्धलेपक्षयकरं शांचैमेषां विधीयते ॥
वृद्धपराशरः
आर्तः कुर्याद्यथाशक्ति स्वस्थः कुर्याद्यथोदितम् ।
बालस्यानुपनीतस्य गन्धलेपक्षयावहम् ॥
-
-
-
यदिवा विहितं शौचं तदई निशि कीर्तितम् ।
८८
शूद्राचारशिरोमणिः
तदर्द्धमातुरे प्रोक्तमातुरस्याईमध्वनि ॥
किंच पराशरः
उपविश्य तु विण्मूत्रं कर्तुं यस्तत्र विन्दति ।
स कुर्यादर्द्धशौचं तु तस्य शौचस्य सर्वदा ॥
यत्र तु संख्याया वैषम्येनार्धकरणासंभवस्तत्र
वृध्या मृदर्द्धपरिमाणा ग्राह्या ।
अत्राहुः, शूद्रस्य विवाहात्प्राक्
विवाहात्प्राक् संख्या-
नियमाभावः । अपि तु गन्धलेपक्षयकरमित्येव ।
विवाहाभावेपि द्वादशवर्षानन्तरं मृत्संख्यायामनि-
यमः । स च पटुत्वापटुत्वापेक्षया। विवाहानन्तरं
तु मृत्संख्यानियमानादरे शूद्रः प्रत्यवैति । एतच्च वा-
लस्यानुपनतिस्य गन्धलेपक्षयावहामति वचनाल्लभ्यत
इति । पादप्रक्षालनं तु द्विजातेः पूर्वं दक्षिणस्य ततो
वामस्य । शूद्रे तु विपर्ययः। शौचानन्तरं हारीत
पक्षे
शौचं कृत्वा तु विण्मूत्रं दृष्ट्वा स्वस्य परस्य च ।
आदित्यमानि सोमं वा पश्यद्गोब्राह्मणावपि ॥
देवलः
इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।
हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः ॥
५ +
शुद्रापारशिरोमणिः
अधाचमनम्।
1
-
परागरः-
निवद्धशिखकण्ठस्तु द्विज आचमनं चरेत् ।
कृत्योपवीतं सव्येऽसे वाग्यतः कायसंयतः ॥
-
भारद्वाजः-
आयतं पर्वतः कृत्वा गोकर्णाकृतिवत्करम् ।
संहताङ्गुलिना तोयं गृहीत्वा पाणि(ना)द्विजः ।।
योगी-
मुक्तांगुष्ठकनिष्ठेन [क] रेणा [चमनं] चरेत् ।
ईशान्याभिमुखो भृत्वोपस्पृशेत्तु यथाविधि ।।
योगी-
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मण तर्थिन द्विजो नित्यमुपस्पृशेत् ॥
मनु:-
ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ।
हारीत:-
कनिष्ठादेशिन्यंगुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात ॥
१२ शू०शि०
९२.
शूद्राचारशिरोमणिः
M
यमः-
तावन्नोपस्पृशेद्विप्रो यावद्वामेन न स्पृशेत् ।
वामे हि द्वादशादित्या यरुणस्त्रिदशश्वरः ॥
योगी-
हृत्कंठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्यरेन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः ॥
अन्ततः तालुनिसृष्टाभिः । सकृत् एकवारम् ।
एतच्च त्रिचतुर्वारमाचामदिति गौतमोक्तत्रित्वापवादार्थम् ।
इदमसच्छूद्रे । सच्छूद्रस्य तु वैश्यवच्छौचकल्पश्चेति
मानवाद् द्विराचमनमेवेति प्रागुक्तम् । मनुः--
अप्सु प्राप्तासु हृदयं ब्राह्मणः शुद्धिमाप्नुयात् ।
राजन्यः कण्ठतालुं च वैश्यः शूद्रः स्त्रियोऽपि च ॥
हृद्गानां प्रमाणमाहोशना:-
माषमज्जनमात्रा हृदयंगमा भवन्तीति ।
प्रचेता:-
अनुष्णाफेनशीताद्भिर्न वापीप्रदरोदकैः ॥
पैठीनसिः-
आचम्य शेषा आपस्तु सव्येणौ ? विनिक्षिपेत् ।
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् ॥
शुद्राचारशिरोमणिः
वृद्धशङ्कः-
मध्यमाङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं ततः ।
अङ्गुष्ठस्यानामिकाया योगेन श्रवणं स्पृशेत् ॥
कनिष्ठागुंठयागेने स्पृशेत्स्कंधद्वयं ततः ।
नाभिं च हृदयं तद्वत्स्पृशेत्पाणितलेन तु ॥
संस्पृशेत्तु ततः शार्पमयमाचमने विधिः ।
योगी-
निः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ॥
भविष्ये-
यद्भमाबुदकं वीर समुत्सृजति मानवः ।
वासुकिप्रमुखान्नागांस्तेन प्राणाति भारत ।
पैठीनसिक्षेपः-
एकं जले स्थले चान्यं पादं कृत्वा ऽऽचमेजले ।
द्वावेकत्र तु कुर्वाणस्तत्कर्मस्व शुध्यति ॥
अथाचमननिषेधः।
देवल:-
सोपानको जले मुक्तकेशकच्छशिखोऽपि वा ।
उप्णीपी वापि नाऽऽचामेद्वस्त्रणावेष्टय वा शिरः ॥
न गच्छंन्न शयानश्च न चलन्न परान् स्पृशन् ।
न हसन्न च संजल्पेन नात्मानं चैव वीक्षयन् ।।
९२
शूद्राचारशिरोमणिः
केशान्नीवीमधःकायमस्पृशन्धरणीमपि ।
यदि स्पृशति वै तानि भूयः प्रक्षालयेत्क्रमात् ॥
यम:-
अकृत्वा पादयोः शौचं तिष्ठन् भूमौ रुदन्नपि ।
विना यज्ञोपवीतेनाऽनन्तर्वासाश्च नाऽऽचमेत् ॥..
आर्द्रवासा जले कुर्यात्तर्पणाचमनं जपम् ।
शुष्कवासाः स्थले कुर्यात्तर्पणाचमनं जपम् ॥
आर्द्रवासाः स्थले यस्तु यद्याचामेन्नराधमः ।
वस्त्रनिश्च्योतनं तस्य प्रेतास्तत्र पिबन्ति हि ॥
विष्णु:-
जान्वारूचं जले तिष्ठन्नाचान्तः शुचितामियात् ।
अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुद्धयति ॥
शाङ्खायन:-
दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥
आसनारूढपादस्तु जान्वार्वा जङ्घयास्तथा ।
कृताबसथिको यश्च प्रौढपादः स उच्यते ॥
व्यास:-
-
अपः पाणिनखाग्रेण आचमेद्यस्तु वै द्विजः ।
सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत् ॥
९३ হাঘাদিয়ায় पतिशेष पादशेपं शौचशेपं च यज्जलम् । तत्सर्वं मूत्रसदृशं पर्यग्निकरणं बिना ॥ - न वामहस्तेनोद्धृत्य पिवेद्वक्रेण वै जलम् । मार्कण्डेयः- सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । नाच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ॥ हारीत:- वामहस्ते कुशान् कृत्वा समाचामति यो द्विजः । उपस्पृष्टं भवेत्तेन रुधिरेण मलेन च ॥ तथा, सन्यापसव्यौ कुबींत सपवित्रो करी बुधः । ग्रन्थिर्यस्य च पत्रस्य न तेनाचमनं चरेत् ।। काशहस्तस्तु नाचामत्कदाचिद्विधिसम्भवात् । प्रायश्चित्तेन शुधेत दूर्वाहस्तस्तथैव च ॥ कृष्णमट्टीय- आयसेन तु पात्रेण त्रपुसीसकपित्तलैः । आचान्तः शतकृत्वोऽपि न कदाचन शुन्धति ॥ मूलं मृग्यम् ।
९४
शूद्राचारशिरोमणिः
-
सांख्यायन:-
स्पृशन्ति बिन्दवः पादौ य आचामतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥
आचमननिमित्तानि-
मनु:-
सुप्त्वा भुक्त्वा च निष्ठीव्य उत्क्वा चैवानृतं वचः ।
पीत्वा योध्येऽष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥
अथाऽऽचमनानुकल्पः ।
मार्कण्डेय:-
कुर्यादाचमनं स्पर्श गोपृष्ठस्यार्कदर्शनम् ।
कुर्वीतालंभनं चापि दक्षिणश्रवणस्य च ॥
यथाविभवतो ह्येतत्पूर्वाभावे परं परम् ।
वृहस्पतिः-
आई तृणं गोमयं च भूमि वा संस्पृशेद् द्विजः ।
तथा, अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसंभवे ॥
मार्जारमूषिकास्पर्शे प्रहासेऽनृतभाषणे ।
निमित्तेष्वेषु सर्वेषु दक्षिणश्रवणं स्पृशेत् ।
वृद्धशातातप:-
पाठकमणि निष्ठीव्य दंतश्लिष्टे तथाऽनृते ।
क्षुते पतितसंभाषे दक्षिणं श्रवणं स्पृशेत् ।
शूद्रापारशिरोमणिः
९५
अगिरा:-
चण्डालादीन जपे होमे दृष्ट्वाऽऽचम्य विशुधति ।
श्वादीन्स्पृष्ट्यापि वाऽऽचामेत्कणं वा दक्षिणं स्पृशेव ।
सांख्यायन:-
आदित्या वसत्रो रुद्रा वायुरनिश्च धर्मराट् ।
विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति सर्वदा ॥
अधाचमनापवादः।
अपश्च त्वौषधं जग्ध्वा कृत्वा तांबूलचर्वणम् ।
सौगन्धिकानि सर्वाणि नाचमेत विचक्षणः ।।
मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।
नोच्छिष्टस्तु भवद्विनो यथौर्ववचनं तथा ॥
आपोऽत्राभिमंत्रिताः, शातातपः-
दन्तलग्ने फले मूले भक्ष्ये नेहे तथैव च ।
ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवति द्विजः ॥
वशिष्ट:-
दन्तवदन्तलग्नेयु यच्चाप्यंतर्मुखे भवेत् ।
आचान्तस्यावशिष्टं स्यान्निगरन्नेव तच्छुचिः ।
अथ दन्तधावनम् ।
वृद्धशातातपः-
मुखे पर्युपिते नित्यं भवत्यप्रयतो यतः ।
शूद्राचारशिरोमणिः
.
..
.
.
तस्मात्सर्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥
दशाङ्गुलं तु विप्राणां क्षत्रियाणां नवांगुलम् ।
अष्टाङ्गुलं तु वैश्यानां इतरेषां षडगुलम् ॥ ..
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ।
चतुरगुलमानं तु नारीणां नात्र संशयः॥
सुसूक्ष्मं दन्तहनिस्य समदन्तस्य मध्यमम् ।
स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् ।
कात्यायन:-
पूर्वामुखो धृति विद्याच्छरीरारोग्यमेव च
दक्षिणेनं तथा क्रौर्य पश्चिमेन पराजयम् ।।
उत्तरेण गवां नाशं स्त्रीणां परिजनस्य च ।
पूर्वोत्तरे तु दिग्भागे सर्वान् कामानवाप्नुयात् ॥
छन्दोगपरिशिष्टे-
उत्थापने ते प्रक्षाल्य शुचिर्भूत्वा समाहितः।
परिजप्य च मन्त्रेण भक्षयेहन्तधावनम् ।
मन्त्रस्तु-
आयुर्वलं यशो वर्चः प्रजाःपशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
विष्णु:-
कनीन्यग्रसमस्थूलं सकूचं द्वादशाङ्गुलम् ।
..
१७
,
शूद्राचारशिरोमणिः
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥
भारते-
प्रक्षाल्य हस्तौ पादौ च मुखं च सुसमाहितः।
दक्षिणं बाहुमुद्धृत्य कृत्वा जान्वन्तरं ततः ॥
प्राङ्मुखश्चोपविष्टस्तु भक्षयेद्दन्तधावनम् ।
दक्षिणं याहुमुद्धृत्य उपवीती भूत्वेत्यर्थः ।
उत्तरीयवाससैवोपवीतीभवेत् यज्ञोपवीताभावात् ।
भारद्वाज:-
पतितान्त्यजपाखण्डिदेवजीविरजस्वलाः ।
भिपक्पातकिचण्डालान् न प्रेक्षेद्दन्तधावने ।
शुनकं विड्वराहं च गईभं ताम्रचूडकम् ।
अन्यान्न चेदृशान्पश्येत् द्विजः शुद्धौ विचक्षणः ॥
भारते-
त्याज्यं सपत्रमज्ञातमूर्ध्वशुष्कं च पाटितम् ।
त्वग्विहीनं ग्रन्थिमुखं तथा पालाशशांशपम् ।.
उशना:-
तिन्दुकेंदबन्धूकमोचामरजवल्लिजम् ।
कापसिदन्तकाष्ठेन विष्णोरपि हरेच्छ्रियम् ॥
यमः-
आसनं शयनं स्थानं पादुके दन्तधावनम् ।
१३ शू०शि०
९८
शूद्राचारशिरामणि:
वर्जयेद् भूतिकामस्तु पालाशं नित्यमात्मवान् ।
वज्येषु संग्रहः-
नश्लेष्मान्तकपीलुवqरधवारिष्टांजनाश्वकृका (?)
वंधूकेङ्गुदशिग्रुधन्विकदलीतन्दुःशमी शाल्मली ।
पालाशाच्छगुडूचिगुग्गुलशणानो(?)कोविदाराम्रिका
निर्गुण्डीशिखिनीवशाकविटपा वेणुश्च पृष्ठे तथा ।
नारदः..
सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ।
रवादिरश्च करञ्जश्व कदम्बश्च वटस्तथा ।
तिन्तिणी वेणुपृष्ठं च आम्रनिम्बौ तथैव च ।
अपामार्गश्च बिल्वश्च अर्कश्चोदुम्बरस्तथा ॥
एते प्रशस्ताः कथिता दन्तधाबनकर्माण
विष्णुः-
चतुर्दश्यष्टमी पष्ठी नवमी पूर्णिमा तथा ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठं च वर्जयेत् ॥
श्राद्धे जन्मदिने चैव विवाहेऽजीर्णदूषिते ।
व्रते चैबोपवासे च वर्जयेहन्तधावनम् ॥
आचार्य:-
अष्टम्योश्च चतुर्दश्योः पञ्चदश्योस्त्रिजन्मसु ।
व्यतीपाते च संक्रान्तौ दन्तकाष्ठं न भक्षयेत् ॥
शूद्राचारशिरोमणिः
-
नाद्यादजीर्णवमनकासश्वासज्वरार्दितः।
पुरोदयाद्रवस्त्वद्यान्नोदितेऽस्तमिते रवौ ॥
पराशर:-
दीक्षितो ब्रह्मचारी च यतिश्च विधवाङ्गना ।
नित्यमद्यादन्तकाष्ठममायां च विवर्जयेत् ॥
नारीणां तु विशेषोऽयं भर्तरि प्रोपितेऽपि च
रजस्वला सूतिका च वर्जयेइन्तधावनम् ॥
रजस्वला चतुर्थेऽह्नि सूतिका दशमेऽहनि ।
स्नानास्पूर्व वन्धमाक्षे विनेष्वपि समाचरेत् ।।
व्यास:-
प्रतिपद्देशषष्ठीषु नवम्यां दन्तधावनम् ।
पणैरन्यत्र काष्ठैश्च जिह्वोल्लेखे सदैव तत् ॥
अलाभे दन्तकाष्ठानां निपिद्धदिवसेऽपि वा ।
अपां द्वादशगण्डूपैर्मुखशुद्धिभविष्यति ॥,
याज्ञवल्क्य:-
इष्टकालोष्ठपाषाणैरितरांगुलिभिस्तथा ।
मुक्त्वा वाऽनामिकांगुष्ठौ वर्जयेहन्तधावनम्
विष्णु:-
कण्टाकक्षीरवृक्षोत्थं पर्वार्द्धकृतपूर्वकम् ।
दन्तधावनमुद्दिष्टं जिह्वाल्लेखानिका तथा ॥ ,
-
शूद्राचारशिरोमणिः
व्यास:-
.
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः ।
पतितेऽभिमुखे दैवाद्राज्यमाप्नोत्यभाप्सितम् ॥
स्थतिरत्नावल्याम्-
चतुरष्टद्विषट्चाष्टगण्डूषैः शुद्ध्यते क्रमात् ।
सूत्रे पुरीषे भुज्यन्ते रेतःप्रस्रवणेऽपि च ॥
पुरतः सर्वदेवाश्च दक्षिणे पितरस्तथा ।
ऋषयः पृष्ठतः सर्वे वामे गंडूषमुत्सृजेत् ॥
अथ केशप्रसाधनम् ।
विष्णुपुराणे-
स्नातकस्तु ततः कुर्यात्पुमान् केशप्रसाधनम् ।
आदर्शज्ञानमाङ्गल्यदूर्वाज्यालम्भनानि च ।
स्वमात्मानं घृते पश्येद्यदीच्छेच्चिरजीवितम् ।
अथ स्नानोपयोगितया कुशादिविधिः ।
हारीत:-
कुशहस्तेन यज्जप्तं दानं चैव कुशैः सह ।
कुशहस्तस्तु यो भुंक्ते तस्य संख्या न विद्यते ॥
जपहोमहरा ह्येते असुरा व्यक्तरूपिणः ।
पवित्रकृतहस्तस्य विद्रवन्ति दिशो दश ॥
शुद्राचारशिरोमणि
१०१
इत्यादिसामान्यतो विधानाच्छूद्रस्याप्येतत् ।
जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ॥
अशून्यं तु करं कुर्यात्सुवर्णरजतैः कुशैः।।
मार्कण्डेयपुराणे-
चतुर्भिर्भपिंजूलैः कुर्यात् ब्राह्मपवित्रकम् ।
एकैकन्यूनमुद्दिष्टं वर्णवर्णेर्यथाक्रमम् ।।
स्मृतिभास्करे-
सप्तभिर्दपिंजूलैाह्मणस्य पवित्रकम् ।
पञ्चभिः क्षत्रियस्यैव चतुर्भिश्च तथा विशः ॥
द्वाभ्यां शूद्रस्य विहितमित्याहुदवादिनः ।
अथ स्नानविधिः।
-
मार्कण्डेय:-
अस्नातस्य क्रियाःसर्वा भवन्तीहाफला यतः
प्रातः समाचरेत्नानं तच्च नित्यमिति स्मृतम्
कराभ्यां धारयन्दर्भान् शिखाबन्धं विधाय :
प्राणायामांस्तथा कुर्यात्कालज्ञानं यथाविधि
-
व्यास:-
स्मृत्वोङ्कारं च गायी निवनीयाच्छिखां तत
पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत्
शूद्राचारशिरोमणिः
एतच्च द्विजानामेव, शूद्रस्य तु तूष्णीमेव, ओंका-
रगायच्यादावनधिकारात् ।
विष्णुपुराणे-
होमदेवार्चनाद्यासु क्रियामु स्नानभोजने ।
नैकवस्त्रः प्रवर्त्तत द्विजो वाचानके जपे ॥
:
न स्नानमाचरद् भुक्त्वा नातुरो न महानिशि।
न वासोभिः सहाजलं ना विज्ञाते जलाशये ॥
मार्कण्डेय पुराणे-
नादशाकेन वस्त्रेण स्नायात्कौपीनकाहते ।
नान्यदीयेन नाट्टैण न सूच्या ग्रथितेन च ॥
स्मृति सागरे-
जलान्ते तिलदर्भास्तु योऽनुष्ठानाय याचते ।
नाऽनुष्ठानफलं तस्य दातुरेव हि तत्फलम् ॥
मनु:-
स्नानोपकरणं सर्वं तस्य दक्षिणभागतः।
एवं यः कुरुते स्नानं श्रेयो महद्वाप्नुयात् ।।
संग्रहे-
जलं देवगृहं चैव शयनं च द्विजालयम् ।
निर्णिक्तपादुः प्रविशेन्नानिर्णितः कदाचन ॥
.
शूद्राचारशिरोमणिः १०३ आचार सागरे- जन्मान्ताभ्यङ्गया त्राधी(?)स्नानदन्तमृजासु च । तिथिस्तात्कालिकी ज्ञेया पारणे लेखने तथा ॥ इति । मनु:- प्रक्षाल्य हस्तौ पादौ च शुचिराचम्य वाग्यतः । तिथिवारादिकं ज्ञात्वा सुसङ्कल्प्य यथाविधि ॥ स्नायादिति शेषः। कात्यायन सूत्रे तु-'अथाऽतो नित्यस्नान'मित्युपक्रम्य 'प्रक्षाल्य पाणिपादं कुशोपग्रहे बद्धशिखी यज्ञोपवीत्याचम्ये'त्युक्तम् । तत्र नित्य- प्राप्ते उपवीते यज्ञोपवीतीति पुनर्वचनं द्वितीयवस्त्रवा- रणार्थमिति तद्भाष्ये व्याख्यातम् । तेन वाजसनेयिना- मेकवस्त्रेण स्नानम् । अन्येषां तु द्विवस्त्रत्वमिति व्यव. स्था, इतिपक्षे तत्तदुपदिष्टशूद्राणामपि तद्रीत्यैव व्यवस्था ज्ञेया। पराशर:- स्रोतसोऽभिमुखो मजेद्यनापः प्रवहन्ति वै।' स्थावरेषु च तोयेपु आदित्याभिमुखः सदा॥ अप्रवाहोदकस्नानं विप्रपादाभिषेचनम् । आदित्याभिमुखः कुर्यात्सन्ध्यावन्दनमेव च ॥ वाजसनेयिनां नद्यादावपि आदित्याभिमुखं स्नानं १०४ : C शूद्राचारशिरोमणिः इति पक्षे तत्तदुपदिष्टशूद्राणामपि सैव व्यवस्या । गृहनाने, तु विशेषमाहाऽऽचार्य:- गृहे गृहमुखं विद्यादन्यत्राभिमुखो रवः । प्रवाहाभिमुखं कुर्यात्स्नानमेवं द्विजोत्तमः ॥ शीतोदकं च दर्भाश्च पश्चादुष्णोदकं क्षिपेत् । स्नानमध्ये त्वाचमनं तर्पणं वस्त्रपीडनम् ॥ करपात्रंगतं तोयं गृहएतानि वर्जयेत् । गृहस्नानेन कुर्वीत तर्पणं मार्जनं तथा ॥ • नाऽन्तरा तर्पणं कुर्यात्पश्चादाचम्य शुद्ध्यति ॥ आसने रहितं स्नानं पाषाणे उर्ध्वतः स्थिते । गृहएतानि वानि सर्वदा द्विजसत्तमैः ॥ स्नानं कृत्वाऽऽर्द्रवस्त्रं तु ऊर्ध्वमुत्तारयेद् द्विजः : आर्द्रवस्त्रमधस्ताच्चत्पुनः स्नानेन शुधति ।। गेहे चेत्तदमन्त्रवदिति छन्दोगपरिशिष्टवचनान्नि- त्यमपि स्नानं गृहे अमन्त्रकमेव कार्यम् । ईषन्मन्त्रक- मित्यन्ये । उष्णोदकस्नानेऽपवादमाह मनुः- मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नायादुष्णवारिणा ॥ पौर्णमास्यां तथा दर्शे यास्नायादुष्णवारिणा । स. गोहत्याकृतं पापं प्राप्नोतीह न संशयः ॥
१०५ शूद्राधारशिरोमणिः इति । स्नानमन्त्रेतिकर्तव्यतादिविशेषस्तत्तच्छा- खाप्रसिद्धो गोविन्दार्णवे निरूपितस्तत एवावधार्यः । विशेषमाह विष्णुः- ब्रह्मक्षत्रर्विशां चैव मन्त्रवत्स्नानमिष्यते । तूप्णीमेव हि शूद्रस्य स्त्रीणां च कुरुनन्दन ॥ तूणीं वैदिकस्मार्तमन्त्रवर्जम् । मदनपालस्तु- ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानामिप्यते । तूप्णीमेव हि शूद्रस्य सनमस्कारकं स्मृतम् ।। इत्येवं योगियाज्ञवल्क्यीयत्वेन पठित्वा व्याख्याय, तूष्णीमिति श्रौतस्मार्तमन्त्रेतिकर्तव्यताप्रतिषेधे प्राप्ते, नम इत्येतावन्मानं नमस्कारमन्त्रमभ्यनुजानीते। स च नमस्कारमन्त्रः शिष्टाचारप्राप्ते मृदा गोमयेन वा गा- अलेपने विज्ञेयः । अतश्चाऽश्वकान्तेत्यादिमन्त्राणां निवृत्तिः । एवं च मनुकात्यायनाद्युक्तेतिकर्तव्यतावि- शिष्टानि मन्त्रवत्स्नानानि द्विजातिविपयाणि। श्रीदत्ताहिकादावुक्तम्-तुप्णीमित्यनेन वैदिका एव मन्त्रा निषिध्यन्ते न पौराणाः । अतएव पद्मपुरा- णीयः स्नानप्रकारः स्त्रीशूद्रानधीतवेदाद्विजातिसाधारण इति । कल्पतरुकारोपि-कर्माङ्गतया पौराणिकमन्त्र- १४ शू०शि० शूद्राचारशिरोमणिः : पाठेऽप्यधिकारोऽस्ति शूद्रस्येत्याह। अन्ये तु पौराणा अपि ब्राह्मणैरेव पठनीयाः स्वयं तु नम इत्येतावन्मात्र- मेवोच्चारयेदित्याहुः । स चैवमनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् । तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् । नमो नारायणायेति मूलमन्त्र उदाहृतः ॥ दर्भपाणिस्तु विधिना ह्याचान्तः प्रयतः शुचिः । चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ॥ प्रकल्प्यावाहयद्गङ्गामेभिर्मन्त्रै विचक्षणः । विष्णोः पादप्रसूताऽसि वैष्णवी विष्णुपूजिता ॥ पाहि नस्त्वेनसस्तस्मादाजन्म मरणान्तिकात् । तिनः कोट्यो कीटीच तीर्थानां वायुरब्रवीत् ॥ दिवि भुव्यन्तरिक्षे च तानि त सन्ति जाह्नवि । नन्दिनीत्येव ते नाम देवेषु नलिनीति वा । नन्दा पृथ्वी च सुभगा विश्वकाया शिवा सिता। विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ॥ क्षेमाः च जाह्नवी चैव शान्ता शान्तिप्रदायिनी । एतानि पुण्यनामानि स्नानकाले प्रकर्तियेत् । भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ॥ सप्तवाराभिजप्तेन करसंपुटयोजितम् । - . । शुद्रापारशिरोमणिः 260 मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुः पंच सप्त वा ॥ स्नानं कुर्यान्मृदा तद्वदामज्य तु विधानतः । इति। सर्वश्वायं विधिर्माध्याह्निक एव परं प्रातःस्नानेऽपि समानत्वात्कार्यः । यत्तु 'प्रातः संक्षेपतःस्नानं मध्याह्न मांत्रिको वि-- धिः' इति, एतत्साग्निकविपयम् । तथा च छन्दोगपरिशिष्टे कात्यायन:- अल्पत्वाद्दोमकालस्य बहुत्यात्स्नानकर्मणः । प्रातर्न तनुयात्लानं होमकालो विगर्हितः ।। यच्छाखाध्यायिना ब्राह्मणेन यः शूद्र उपदिष्टो भ- वति स तद्गृह्यानुसारेण कर्माणि कुर्यात् तद्गोत्रेणैव व्यवहरेत् । विशिष्यानुपदिष्टस्तु वाजसनेयिकर्माणि कुर्यात् । काश्यपगोत्रं च प्रचक्षते । अथ स्नानप्रयोगः यथोक्ते स्नानकाले मृद्गोमयदूर्वाकुशपुप्पतिलयव- धौतवस्त्रयुगाद्यादाय नद्यादितीरं गत्वा शुचौ देशे प्र- क्षाल्य मृदादि संस्थाप्य मृद्भिरद्भिश्च पाणी पादौ प्रक्षा- ल्याचम्य सत्कुशोपग्रहपाणिः शिखापक्षे पद्धशिखो बद्धकच्छो यथासंभवमुत्तरासङ्गोत्तरीयपरिहितवस्त्रा - दिभिर्दिवासा नैकवस्त्रो न बहुवस्त्रो न परकायवासाः . शूद्राचारशिरोमणिः प्राङ्मुख उदङ्मुखो वा तीर्थं नमस्कृत्य जलाधि- देवतां वरुणं च नमस्कृत्य जलं प्रविश्य सकृन्निमज्याऽऽ- चम्यामन्त्रकं प्राणानायम्य विष्णुं स्मृत्वा ऽमुकतीर्थेऽ मु- कस्नानमहं करिष्ये इति सङ्कल्प्य नद्यां प्रवाहाभिमुख- स्तडागादौतु सूर्याभिमुखो यथोपदेशं सकृत्रिी निमज्जेत्। पद्मपुराणीयकल्पे तु--- सङ्कल्पानन्तरं नमो नारायणायेति चतुर्हस्तं परि- तस्तीर्थं प्रकल्प्य नमो नम इति गङ्गामावहेत् । 'विष्णोः पादप्रसूतासी'त्यादिमन्त्रास्तु ब्राह्मणैः पठनीयाः स्वय- मित्यन्ये । ततो मूलमन्त्रेण त्रिनिमज्योन्मज्ज्य मूलम- न्त्रेण शिरसि जलाञ्जलीन् दद्यात् । मृत्तिकादिस्नान- पक्षे तु मृदं गोमयं च त्रिधा कृत्वा नम इत्युक्त्वा मृद एकेन भागेन शिरोऽनुलिप्य नम इत्युक्त्वा द्विती- येन भागेन नाभेरधः कायमनुलिम्पेत् । ततो गोमयेन पूर्ववत् नम इत्युक्त्वा गात्रमनुलिप्य सकृन्निमज्योत्थाया- चम्य गात्रलग्नमृदाद्यपनीय प्रवाहाभिमुखः सूर्याभि- मुखो वा तज्जले निमग्नसर्वाङ्गः त्रिदशकृत्वो वा- ऽघमर्षणार्थं नम इति मन्त्रं जपित्वोत्थाय त्रिौदशकृत्वो वानिमज्योन्मज्य यथाशाखं स्नानाङ्गतर्पणं कुर्यात् । तद्यथा--पूर्ववदाचम्य प्राङ्मुख उदङ्मुखो वा नम, ::.
शूद्राचारशिरोमणिः १०९ इति मन्त्रमुच्चार्य देवांस्तर्पयामि देवास्तृप्यन्तु । तृप्य- न्तामिति वा यथोपदेशं देवतीर्थनाञ्जलित्रयं दत्वा नि- वीता भूत्वा नम इति मन्त्रमुच्चार्य ऋषींस्तर्पयामि ऋष- यस्तृप्यन्तामिति वा प्रजापतितार्थेन द्वौ द्वौ अञ्जली वा त्रयं दद्यात् । दक्षिणाभिमुखो भूत्वा प्राचीनावीती' नम इति मन्त्रमुच्चार्य पितृस्तर्पयामि पितरस्तृप्यन्ता- मिति पितृतीर्थेनाञ्जलित्रयं दद्यात् । ततो द्विराचम्य वासोयुगं परिधाय पुनराचम्य वक्ष्यमाणलक्षणं तिलक कृत्वा नम इति सूर्यं नत्वा कुशपुष्पाक्षतैर्यथालाभं मिश्रितैः सलिलैस्ताम्रपानस्थितैरञ्जीलस्थितैर्वा नम इत्येव सूर्यायाध्यं दत्वा वस्त्रं निष्पीड्याचम्य महद्भ्यो दण्डव- निपत्य गृहं गच्छेत् । मध्याह्नस्नानमप्येवमिति विष्णुः। स्नातश्चाईवस्त्रोदेवपितृतर्पणमन्तःस्थ एव कुर्यात् । परिवर्तितवासाश्चेत्तीर्थतीरमुत्तीर्येति शातातपः । तर्पणं तु शुचिः कुर्यात्प्रत्यहं स्नातको द्विजः । , देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् ॥ इति । द्विज इति प्राधान्येनाभिधानान्नेतरनिवृत्तिः । स्नानदेवार्चने होमे स्वाध्यायपितृतर्पणे ॥ आवश्यके जपे होमे भवेद्वाचंयमः सदा ।
शूद्राचारशिरोमणिः
..
.
योगियाज्ञवल्क्य:-
स्नानं दानं जपं होमं स्वाध्यायं पितृतर्पणम् ।
नैकवस्त्रो द्विजः कुर्याच्छ्राद्धभोजनकीः क्रियाः ।
यदा स्थलस्थस्तर्पणं करोति तदा पूर्वोक्तविधिना
स्नात्वा धौते वाससी परिदध्यात् ।
तथा च योगियाज्ञवल्क्यः-
स्नात्वैव वाससी धौते अक्लिष्टे परिधाय च ।
प्रक्षाल्योरुं मृदाऽद्भिश्च हस्तौ प्रक्षाल्य वै तदा ॥
अभावे धौतवस्त्रस्य शाणक्षौमाविकानि च ।
कुतपं योगपट्ट वा द्विवासा येन वै भवेत् ॥
यावद्देवानृषींश्चैव पितॄश्चैव न तर्पयेत् ।
तावन्न पीड़येद्वस्त्रं येन स्नातो भवेन्नरः ॥
निष्पीड़यति यः पूर्वं स्नानवस्त्रं तु तर्पणात् ।
निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥
मार्कण्डेयपुराणे-
अवमृज्यान्नवस्नातो गात्राण्यवरपाणिना ।
नैव निधुनुयात्केशान् वासश्चैव न निर्धनेत् ॥
अवरपाणिना रिक्तेन पाणिना।
केशश्मश्रुजलापकर्षणार्थं च शिरोवेष्टनं वस्त्रान्तरण
कुर्यात् ।
शूद्राचारशिरोमणिः
तथा च महाभारते-
आप्लुतः सोऽधिवासेन जलेन च सुगन्धिना ।
राजहंसनिभं प्राप्य चोष्णीषं शिथिलार्पितम् ॥ .
जलशोषनिमित्तं वै वेष्टयामास मूनि । इति ।
शिथिलार्पितं यथा भवति तथा मूनि वेष्टयामासेत्यर्थः॥
मनु:-
ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्बणम् ।
पतिं वैश्यस्य शूद्रस्य नीलं मलवदिष्यते ॥
नालं मलवदिति श्लक्ष्णामित्यर्थः ।
अथोर्ध्वपुण्ट्रविधिः
ललाटे केशवं विद्यान्नारायणमथोदरे ।
माधवं हृदये विद्याद् गोविन्दं नाभिकूपके ॥
उदरे दक्षिणे पार्वे विष्णुरित्यभिधीयते ।
तत्पार्वे वामभागे तु मधुसूदनमुत्तरे ॥
त्रिविक्रमं कण्ठदेशे वामे कुक्षौ तु वामनम् ।
अंसे तु श्रीधरं वामे हृषीकेशं तु उत्तरे ॥
पृष्ठे तु पद्मनामं च कुक्षौ दामोदरं स्मरेत् ।
द्वादशैतानि नामानि वासुदेवेति मूर्द्धनि ॥
पूजाकाले च होमे च सायं प्रातः समाहितः ।
नामान्युच्चार्य विधिना धारयेत्पुण्डूकानि च ॥
११२ • का शूद्राचारशिरोमणिः अशुचिर्वाऽप्यनाचारो मनसा पापमाचरन् । शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्रधरो नरः॥ . . तिर्यग्भूत्वा मृदा चोर्ध्वं गन्धेन च यथेच्छया । ब्रह्माण्डपुराणे- ऊर्ध्वपुण्ड्र द्विजः कुर्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् । ऊर्ध्वचन्द्रं तु वैश्यस्य वर्तुलं शूद्रजातिषु॥ शूद्रस्य सन्ध्यावन्दनं नास्तीति प्रागुक्तम् । अथ पञ्चमहायज्ञान्तःपातिनो ब्रह्मयज्ञस्य विधिः ॥ तस्य काल उक्तः छन्दोगपरिशिष्टे - स चार्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यदत्ते निमित्ततः । इति ॥ अत्र पश्चाद्वा प्रातराहुतेरिति द्वितीयः पक्षो द्विजाति- विषयः । शूद्रस्य तु निरग्नित्वेन प्रात)माऽसम्भवात्। अतस्तर्पणात्प्राक् वैश्वदेवावसाने चेति पक्षौ शूद्रविषयौ ॥ याज्ञवल्क्य:- वेदाथर्वपुराणानि सेतिहासानि शक्तितः। जपयज्ञप्रसिद्धयर्थं विद्यां चाध्यात्मिकी जपेत् ॥ अत्रानधिकारिणं शूद्रमधिकृत्य स एवाह- नमस्कारेण मन्त्रेण पंच यज्ञान्न हापयेत् ॥ इति । बौधायनः-अथ आचम्य दर्भान् धारयमाणः शुद्रापारशिरोमणिः ११३ प्राङ्मुख इति । अथाऽस्य प्रयोगः-- तद्यथा स्रानानन्तरमुक्तकाले प्राङ्मुख उपवि- श्याचम्य ब्रह्मयज्ञेन यक्ष्य इति सङ्कल्प्याप उपस्पृश्य प्रा- गग्रेषु दर्भेष्वासीनः सपवित्रोपग्रहो ऽन्यान् दर्भान् कर- संपुटेन धारयमाणः कृतोपस्थः पद्मासनेनोपविष्टो व्य- त्यस्तपाणिपादो वा यथोपदेशमुपविष्टो नम इति नम- स्कारमन्त्रं नमो नम इति त्रिस्ततो ऽप्यधिकं वाभ्यस्ये- प्टो ब्रह्मयज्ञ इति उक्त्वा दर्भान्परित्यज अप उपस्पृश्या- चामेत् । किं च येपु स्तोत्रादिपु साक्षाच्छद्रस्य पाठा- भ्यनुज्ञानं पुराणे दृश्यते तत्पाठेन वा ब्रह्मयज्ञं निर्व- येदिति। .. अथ तर्पणम् । शातातप:- - तर्पणं तु शुचिः कुर्यात् प्रत्यहं स्नातको द्विजः। देवेभ्यश्च ऋपिभ्यश्च पितृभ्यश्च यथाक्रमम् ॥ प्रत्यवायश्वोक्तो ऽकरणे- देवताश्च पितॄश्चैव मुनीन्वै यो न तर्पयेत् । देवादीनामृणी भूत्वा तरकं, स ब्रजत्यधः ।।.। - १५ शू०शि०
शूद्राचारशिरोमणिः
मतु:-
चतुर्णामपि वर्णानां तर्पणं तु भवेत्सदा ।
..' तस्मादात्मविशुद्यर्थं तर्पयेपितृदेवताः । इति ।
एकान्दे-
प्रत्यहं तर्पणं कार्यं भर्तुः कुशतिलोदकैः ।
'.. तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् । इति ॥
": एतच्च पुत्राद्यभावे ।
'अगिरा:-
मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया ।
कुर्वीत यदि मूढ़ात्मा रौरवं नरकं ब्रजेत् ॥
शङ्खलिखितौ-
नेष्टकचिते पितस्तर्पयेत् ।
कूर्मपुराणे-
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
अक्षता यवास्तण्डुला वा ।
पितॄन्भक्त्या तिलैः श्लक्ष्णैः स्वसूत्रोक्तविधानतः ।
गोभिला-
शुक्लैस्तु तर्पयेद्देवान् मनुष्यान् शबलैस्तिलैः ।
पितृस्तुं तर्पयेत् श्लक्ष्णैस्तर्पयन्सर्वदा द्विजः ॥
-
-
शूद्राचारशिरोमणि
११५
अत्र विशेषमाह योगियाज्ञवल्क्य:-
यधुद्धृतेन सिञ्चेत तिलान्समिश्रयेजले ।
अन्यथा वामहस्तेन ततस्तर्पणमाचरेत् ॥
स्मृत्यन्तरे-
वामहस्ते तिलान्क्षिप्त्वा जलमध्ये तु तर्पयेत् ।
स्थले शाट्यन्तरे पात्रे रोममूले न कुत्रचित् ॥
वामबाहावपि राममूले न स्यापयदित्यर्थः ।
तथा मरीचिरपि-
मुक्तहस्तेन दातव्यं न मुद्रां तत्र दर्शयेत् ।
वामहस्ते तिला ग्राह्या मुक्त्वा हस्तं तु दक्षिणम् ॥
-मरीचिः-
तिलानामप्यलाभे तु सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत्तु दर्भमत्रेण वा पुनः ॥
तथा,
विना रूप्यसुवर्णेन विना ताम्रतिलैस्तथा ।
विना दर्भेश्च मन्त्रैश्च पितॄणां नोपतिष्ठते ॥
सत्यव्रत:-
-
खड्गमौक्तिकहस्तेन कर्त्तव्यं पितृतर्पणम् ।
। मणिकाञ्चनदर्भेर्वा न शुद्धेन कदाचन । इति ।
११६
शूद्राचारशिरोमणिः
मनु:-
राजतैर्भाजनैरेषामथवा रजतान्वितैः ।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते । इति ॥
योगियाज्ञवल्कयः-
अनामिकाधृतं हेम तर्जन्या रूप्यमेव च ।
कनिष्ठिकाधृतं खड्गं तेन. पूतो भवेन्नरः । इति ॥
पितामहः-
हेमरूप्यमयं पात्रं ताम्रकांस्यसमुद्भवम् ।
पितॄणां तर्पणे पात्रं मृन्मयं तुपरित्यजेत् ।।
शङ्ख
सौवर्णेन पात्रेण राजतेनौदुम्बरेण खड्गपात्रेणा-
न्यपात्रेण चोदकं पितृतीर्थस्पृग् दद्यादिति । .
व्यास:-
ar
एकैकमञ्जलिं देवा द्वौ द्वौ च सनकादयः ।...)
अर्हन्ति पितरस्त्रीस्त्रींस्त्रियस्त्वेकैकमञ्जलिम् ॥
स्मृतिचन्द्रिकायां शालङ्कायनवचनम् -'.
मातृमुख्याश्च यास्तिस्रस्तासां दद्याजलाञ्जलीन् ।
त्रीस्त्रीनथ तथाऽन्यासां दद्यादेकैकमञ्जलिम् ॥
सपत्न्याचार्यपत्नीनां द्वौ द्वौ दद्याजलाञ्जली । इति ।
शूद्राचारशिरोमणिः
विष्णुपुराणे-
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां तु यथान्यायं सकृञ्चापि प्रजायते । इति ॥
तर्पणे प्रकारमाह यमः-
द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥
गोशृङ्गपदार्थ विवृणोति(?)-दक्षः--
प्रादेशमात्रमुद्धृत्य सतिलः प्राङमुखः सुरान् ।
उदङ्मनुष्यांस्तर्पत पितॄन्दक्षिणतस्तथा। इति ॥
हाति:---
आर्द्रवासा जले कुर्यात्तर्पणाचमनंजपम्।
शुष्कवासाः स्थले कुर्यात्तर्पणाचमनं जपम् ॥
जलतर्पणे विशेपमाह. कार्णाजिनिः
देवतानां पितॄणां च जले दद्याजलाञ्जालम् ।
असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ॥
स्थलाशुद्धौं तु सर्वेषामेव जलएव तर्पणमाह यो-
गियाज्ञवल्कयः-
यदाऽशुचिस्थले वा स्यादुदके देवतापितॄन् ।
तर्पयेत्तु यथाकासमप्सु, सर्वं प्रतिष्ठितम् 11,
-
-
.
."
+
शूद्राचारशिरोमणिः सत्यव्रत:- - कृतोपवीती देवेभ्यो निवीती च भवेत्ततः । 7. मनुष्यास्तर्पयेत्या ब्रह्मपुत्रानृषींस्तथा ॥ अपसव्यं ततः कृत्वा सव्यंः जान्वाप्य भूतले । दर्भपाणिस्तु विधिना प्रेतान् सन्तर्पयेत्ततः। वृद्धयाज्ञवल्कय:- तृप्यविति समुच्चार्य तृप्यतामित्यथापि वा । विधिज्ञो निक्षिपेत्तोयं देवादीनामशेषतः । इति ॥ तथा, चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः । पितृगोत्रे कुमारीणामूढानां भर्तृगोत्रतः । इति ॥ पितृतर्पणकृत्ये पैठीनसिः- अपसव्यं ततः कृत्वा भूत्वा च पितृदिङ्मुखः । पितॄन् दिव्यानदिव्यांश्च पितृतीर्थेन तर्पयेत् ॥ दिव्या वसुरुद्रादित्याः। अदिव्याः स्वपित्रादयः। तत्र प्रकारमाह स एव- स्वनामगोत्रग्रहणं पुरुषं पुरुषं प्रति । तिलोदकाञ्जलीस्त्रींस्त्रींनुच्चैरुच्चैर्विनिक्षिपेत् ॥ . अथ तर्पणीयक्रमः। ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं शूद्राचारशिरोमणिः सस्त्रिस्त्रीतनयादितातजननीस्वभ्रातरः सस्त्रियः ॥ ताताम्बात्मभगिन्यपत्यधवयुक्जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौतीर्थे तथा तर्पणे। इति॥ अथ तर्पणप्रयोगः। आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य देव- र्षिपितृतर्पणं करिष्य इति सङ्कल्प्य प्राङ्मुख उपविश्य उपवीती देवतीर्थन सयवैः कुशाग्रैर्देवान् उदङ्मुखो निवीती प्रजापतितार्थेन सशुक्लातलैः कुशमध्यै ऋषी- न्दक्षिणमुखः प्राचीनावीती पितृतीर्थेन सकृष्णतिलै- र्द्विगुणीकृतकुशमूलैः पितॄस्तर्पयेत् । तत्रापि, एकैकमञ्जलिं देवा द्वौ द्वौ वै सनकादयः । अर्हन्ति पितरस्त्रीस्त्रीस्त्रियस्त्वैकैकमञ्जलिम् ॥ इत्यनुसारेण जनैः क्रमो ज्ञेयः । आविशेषेणा- अलित्रयमित्येके । पितृवर्गतर्पणानन्तरं मातामहवर्गत- र्पणं ततो मातृवर्गतर्पणमिति वाजसनेयिनां तदुपदि- टशूद्राणां च क्रमः । पितृवर्गतर्पणानन्तरं मातृवर्गतः पणं ततो मातामहवर्गतर्पणमिति अन्यशाखीयानां तदु- पदिष्टशूद्राणां च क्रमो ज्ञेयः । तत्तच्छाखाभेदात्तर्प- णीयदेवताभेदोऽपि तत्तच्छाखिनों तदुपदिष्टशूद्राणां च भवति । तच्च तच्च तत्तत्कल्पेभ्य एवावधार्यम् । ....:
१२० शूद्राचारशिरोमणिः वौधायनीयः प्रकारस्तु ..लिख्यते । तत्रोपवीती सन् ब्रह्मादयो देवास्तान्देवांस्तर्पयामि । सर्वांश्च गणांस्तर्पयामि इति देवतर्पणम् । अथ निवीती कृष्णद्वैपायनादयो ये ऋषयस्ता- नृषीस्तर्पयामि । सर्वाश्च ऋषिपत्नीस्तर्पयामि । सर्वांश्च ऋषिपुत्रांस्तर्पयामि । सर्वांश्च ऋषिपौत्रांस्तर्पयामि । सर्वांश्च ऋषिगणांस्तर्पयामि । इति ऋषितर्पणम् । प्राचीनावीती, सोमः पितृमान्यमो अङ्गिरस्वान अग्निष्वात्ता वर्हिषदः कव्यवाहनादयो 'ये पितरस्तान पितृस्तर्पयामि । सर्वान् पितृस्तर्पयामि । सर्वाश्च पितृ- पत्नीनमस्तपर्यामि । सर्वांश्च पितृपुत्रान्नमस्तर्पयामि । सर्वांश्च पितृपौत्रांस्तर्पयामि । सर्वान्पितृगणान्नमस्तर्प- यामि । अस्मत्पितरममुकगोत्रममुकदासं वसुरूपं तर्प- यामि । अस्मंत्पितामहममुकगोत्रममुकदासं रुद्र- रूपं तर्पयामि । अस्मत्प्रपितामहममुकगोत्रममुकदा- समादित्यरूपं तर्पयामि । अस्मन्मातरममुकगोत्राममु- कदासी वसुरूपां तर्पयामि । अस्मपितामहीममुकगो- त्राममुकदासी रूद्ररूपां तर्पयामि.। अस्मत्प्रपितामही- ममुकगोत्राममुकदासीमादित्यरूपां तर्पयामि। अस्म- न्मातामहममुकगोत्रममुकदासं...वसुरूपं तर्पयामि । .
शूद्राचारशिरोमणिः अस्मन्मातुः पितामहममुकगोत्रममुकदासं रुद्ररूपं त- र्पयामि । अस्मन्मातुः प्रपितामहममुकगोत्रममुकदास- मादित्यरूपं तर्पयामि । अस्मन्मातामहीममुकगोत्राम- मुकदासी वसुरूपां तर्पयामि । अस्मन्मातुः पितामही- ममुकगोत्राममुकदासी रुद्ररूपां तर्पयामि । अस्मन्मा- तुः प्रपितामहीममुकगोत्राममुकदासीमादित्यरूपां त- पयामि । तप्यन्तु पितरः सर्वे अथ प्रत्यासत्तिविशेपात् गुर्वादिसुहृदन्तांस्तर्पयित्वा, आब्रह्मस्तम्बपर्यतं देवर्षिपितृमानवाः ॥ मातृमातामहादयः । अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥ इत्यञ्जलित्रयं दद्यात् । अत्राहुः-यदपि तत्त- च्छाखाभेदेन तर्पणे बहवः पक्षाः सन्ति तथापि शा- खानामनेकत्वाद्देशाचारसम्प्रदायानां चानन्तत्वात् पुरा- णोक्तस्तर्पणप्रकारः शूद्रस्य मुख्यः, पुराणधर्माणां स्त्रीशूद्रानपेक्ष्य विशिष्य प्रवृत्तत्वात् । तत्र पद्मपुराणोक्तस्तर्पणप्रकारो लिख्यते । ब्रह्माणं तर्पयामि । विष्णुं तर्पयामि । रुद्रं तर्पया- मि। देवांस्तर्पयामि । नागांस्तर्पयामि। गन्धर्वान् ,अ- १६ शु०शि० (१२३ शूद्राचारशिरोमणिः , प्सरसः, असुरान् , सुपर्णास्तर्पयामि । तरूनजम्भकान् , खगान् , वाय्वाधारान् , जलाधारानाकाशगामिनस्तर्प- यामि । निराधाराश्च ये जावाः पुण्यरतास्तांस्तर्पयामि । निराधाराश्च ये जीवाः पापे रतास्तांस्तर्पयामि । इति देवतर्पणम् । पौरस्त्यास्तु ब्रह्माणं रुद्रं विष्णु प्रजापतिं च प्र- त्येकमेकैकाञ्जलिना तर्पयित्वा ततः, : देवा यक्षास्तथा नागा गन्धर्वाप्सरसोऽसुराः। क्रूराः सर्पाः सुपर्णाश्च तथा खे जम्भकाः खगाः ॥ वाय्वाधारा जलाधारास्तथैवाकाशगामिनः । निराधाराश्च ये जीवाः पापे धर्मे रताश्च ये॥ तेषामाप्यायनायैव दीयते सलिलं मया । इति मनसा जपन्नम इत्युच्चार्य एकमञ्जलिं दद्यादित्याहुः। ततो निवीत्युदङ्मुखः कुशमध्यन प्रजापतिती- र्थेन ऋषीन्मनुष्याँश्च तर्पयेत् । ततः प्राच्यां नम इत्युक्त्वा, सनकश्व सनन्दश्व तृतीयश्च सनातनः । कपिलश्वासुरिश्चैव वोढः पञ्चशिखस्तथा ॥ सर्वे ते तृप्तिमायान्तु महत्तेना(म्बुना)सदा । इति मनसा जपन्नम इत्युच्चार्य अञ्जलिं दद्यादित्याहुः ।
शूद्राचारशिरोमणिः १२३ अन्ये तु सनकं तर्पयामि सनकस्तृप्यतु तृप्य- तामिति तान् प्रत्येकं पञ्चशिखपर्यन्तानञ्जालभ्यां तर्पयेत् इति वदन्ति । ततो मरीचिं तर्पयामि, अत्रिं, अङ्गिरसं, पुलस्त्यं, पुलह, क्रतुं, प्रचेतसं, वसिष्ठं, भृगु, नारद, देवान्ब्रह्मऋषीनिति क्रमेण तर्पयेत् । ततो दक्षिणा- मुखो भूत्वा प्राचीनावीती सव्यं जान्वाच्य द्विगुणभ- मकुशैः पितृतीर्थेन पितृस्तर्पयेत् । अग्निष्वात्तांस्तर्पया- मि, सोमपान्हविष्मतः, ऊष्मपान् , सुकालिनः, बर्हि- षदः, आज्यपान् । अथ स्वपित्रादितर्पणम् । तच्च यथोपदेशं यथाशाखं कुर्यात । तत्र नाम्नो गोत्रस्य च प्रयो- गपौर्वापर्ये न नियम इति केचित् । वसुरुद्रादित्य- रूपत्वमपि केचिन्न स्मरन्ति । अस्मत्पितरं अमुकदासं अमुकगोत्रं वसुस्वरूपं तर्पयामि नमः । एवं पितामहं तु रुद्ररूपं, प्रपितामहं आदित्यरूपमिति विशेषणं योज्यम् । स्त्रीतर्पणे च अस्मन्मातरममुकगोत्राममुक- दासीदां वसुरूपां. तर्पयामि नमः । एवं पितामह्यां रुद्र- रूपां, प्रपितामह्यां आदित्यरूपामिति विशेषणीयम् । एवं मातामहादिमातामह्यादितर्पणं कृत्वा गुरुपत्नी पितृव्यमातुलादीनामपि कारुण्येन तर्पणं कुर्यात् । ततः, १२४ शूद्राचारशिरोमणिः येऽबान्धवा बान्धवा वा येऽन्यजन्मनि वान्यथा । ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥ इति मनसा जपन्नम इत्युच्चार्याञ्जलित्रयं दद्यात् । ततः, ये केचास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ इति मनसा जपन्वस्त्रं निष्पीडयेत् । ततस्तर्पण- कुशान्परित्यजेत् । ब्रह्मयज्ञे च ये दर्भा ये दर्भाः पितृतर्पणे । धृता मूत्रपुरीषे च तेषां त्यागो विधीयते ॥ चितौ दर्भाश्च ये मार्गे स्वाध्याये पितृतर्पणे । स्तरणासनपिण्डेपुन ग्राह्याः सप्त वै कुशाः । इत्यापस्तस्ववचनात् । एतच्चोपवातिना प्राङ्- मुखेनोदङ्मुखेन वा कार्यम् । न पितृधर्मेण । न हि पित्रुद्देशेनैषां त्यागो विहित इति । अन्ये तु, लतागुल्मेपु वृक्षेषु ये चास्मपितरो गताः। ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशैः शुभैः । इति मन्त्रं पठन्ति । पितृकर्मत्वात्पितृधर्मेण त्यागमा- चक्षते । जीवरिपतृकस्य च देवर्पितर्पणं पूर्ववत् । पितृ- तर्पणे तु विशेषः कथ्यते । तस्य कृष्णतिलैस्तर्पणं त- र्जन्यां रूप्यधारणं च निषिद्धम् । कव्यवाहनादिवर्हि- शुदापारशिरोमणिः पदन्ता दिव्यपितरोऽवश्यं तर्पणीयाः। कव्यवाहं तर्प- यामि, अनलं, सोमं, अर्यमणमग्निप्वात्तान्, सोम- पान्वर्हिपद इति । पितुस्तु पातित्यादिनाऽनधिकारे 'येभ्य एव पिता दद्यात्तेभ्यो दद्यात्सुतः स्वय'मिति द्रष्ट- व्यम् । अत्र केचिद्यमतर्पणमपीच्छन्ति । तच देवत्वपक्षे यमस्य उपवीतिना प्राङ्मुखेन ऋजुदर्भः सयवैदक्षिणं जान्वाच्य सकृदजलिना प्रतिनामोच्चारणं कर्तव्यम् । पितृत्वपक्षेतु दक्षिणाभिमुखःप्राचीनाबीती द्विगुणभग्नकु- शैः कृष्णातिलैः प्रतिनामोच्चारणमञ्जलित्रयं दद्यात्। नम- इत्युच्चार्य यमन्तर्पयामि, धर्मराजं, मृत्यु, अन्तकं, वैव- स्वतं, कालं, सर्वभूतक्षयं, औदुम्बरं, दनं, नीलं, परमे- ठिनं, वृकोदरं, चित्रं, चित्रगुप्त, रवि प्रत्येकं नमः श- ब्दमादौ कल्पयित्वा तर्पयेत् । केचन यमतर्पणं दीपा- वलीचतुर्दश्यामेवेच्छन्ति । अन्ये त्वङ्गारकचतुदश्याम् । अपरे तु कृष्णचतुर्दश्याम् । केचित्प्रतिदिनं नित्यतर्प- णेऽपि । केचन देवतर्पणमध्यएवैतत्तर्पणमिच्छन्ति । कोचित्पितृतर्पणानन्तरं यमतर्पणं जीवपितृकस्य मृतपि- तृकस्यापि भवतीति । एवन्तर्पयित्वा, यमाय धर्मराजाय मृत्यवे चान्तकायच । वैवस्वताय कालाय सर्वभूतक्षयाय च । १ ।
१२६ शूद्राचारशिरोमणिः औदुम्बराय दन्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । इति मनसा सुगुप्ताय वै नम इति जपन्नेकमञ्जलित्रयं वा दद्यात् । अथ संक्षेपतर्पणम् । आब्रह्मस्तम्बपर्यतं जगत् तृप्यविति ब्रुवन् । जलाञ्जलित्रयं दद्यात्कुर्वन् संक्षेपतर्पणम् ।। तीर्थादिषु तीरे वहिस्तर्पणपक्षे परिहितधौतवस्त्र- स्तीरोपविष्टस्तर्पणोदकं शुचिस्थले क्षिपेत् । शुचिस्थ- लाभावे तु जलएव क्षिपेत् । असंस्कृतप्रतिानां तु स्थलएव तर्पणादिकं विदध्यात् । कूपाल्पनिपातादावु- द्धृतजलतर्पणे पात्रएव तिलान्निक्षिप्य पितृस्तर्पयेत् । तर्पणोदकं तु कुशास्तृतायां भूमौ ताम्रादिपात्रे वा क्षिपेत् । पित्र्यं गुरुणि खड्गादिपात्रे वा तर्पणोदकं क्षिपेत् । येनैव हस्ततीर्थेन जलं समुत्सृजेत् तेनैव परिगृह्णी- यात् । न तु पितॄस्तर्पयन्नङ्गुष्ठयोगं कुर्यात् । अकृततर्प- णस्तु स्नानवस्त्रं न निष्पीड़येत् । नोदके च दर्भास्तु स्थलएव क्षिपेत्। अकृतस्नानतर्पणः स्त्रवन्तीन्नोल्लङ्घयेत् । इति तर्पणविधिः। , शूद्राचारशिरोमणिः १२७ तत आचम्य ब्रह्मणे विष्णवे रुद्राय सवित्रे मि- त्रावरुणायति नमोन्तैः पड्भिर्मन्त्रैः पुप्पाञ्जलिना प्र- त्येकं जले पट् देवताः प्रपूजयेत् । ततः सूर्याय नम इत्यूर्ध्वबाहुः सूर्यमुपतिष्ठेत।ततो दश दिशो दिग्देवताश्च तत्तन्नाममन्त्रैःप्रदक्षिणीकृत्य नमस्कृत्योपविशेत् । ततश्च जलमध्ये पुप्पाक्षादिभिर्ब्रह्मणे अग्नये पृथिव्यै ओपधिभ्यो बाचे वाचस्पतये विष्णवे महते महयो अभ्यः अपां पतये वरुणायेति नमोन्तै ममन्त्रैरिमान्देवान् सम्पूज्य तेनैवाम्भसा त्वष्ट्रे नम इति मुखं विमृशेत् । इहायाता देवता यथास्थानं गच्छत इति विसर्जयेत् । ततोऽष्टदलं पद्मं चन्दनादिना समारच्य तत्र सूर्य समावाह्य, नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्मदायिने । इत्यादिना मन्त्रेण रक्तचन्दनाक्षतपुप्पादिभिः स. म्पूज्य नमस्कृत्य ताम्रादिपात्रेणाञ्जलिना वा कुशतिल- यवदूर्वारक्तचन्दनकुसुमाद्युपेतं जलमादाय, एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणाय दिवाकर ॥ इति जपन्नयं ददयात् ।
१२८ शूद्राचारशिरोमणिः . अथ पूजाविधिः तत्र पूजोपकरणानि यदि तीर्थे एव मिलन्ति तदा तत्रैव पूजा कार्या। अन्यथा स्वगृहे । तत्र तीर्थं प्रणिपत्य ब्राह्मणानभिवादयाशुचिस्पर्श परिहरन् उदपात्रहस्तः सोपानको गृहमागत्य तत्रत्यगवादिं प्रदक्षिणीकृत्य पाणिपादौ प्रक्षाल्य द्विराचम्य गृहस्य दक्षिणशाखायां धातारं उपनत्य शाखागणेशं च सम्पूज्य दक्षिणशाखायां दक्षिणहस्तेन स्पृशन् देहलीमस्पृशन् दक्षिणेनाक्षिणा प्रविश्यान्तः, वास्तुभ्यो नमो वास्तुपतिभ्यो नमः इति सम्पूज्य गृहस्य दक्षिणस्तम्भे ब्रह्माणं वामे नृसिंह मध्ये श्रीसूर्य च सम्पूजयेत्। ततः शुचिः सुवस्त्रयुक्प्राज्ञो मौनीध्या- नपरायणः कामक्रोधादिरहितो यथोक्ते काले स्वस्ववाह- दनायुधायुपेतान् सूर्यगणपतिविष्णुदेवीमहादेवान् क्रमेण पूजयेत् । तत्र शुचाववकाशे देवसंमुखमुपविश्य दक्षिण- पार्चे पुष्पचन्दनादि वामपार्वे जलपूर्णकलशघण्टादि । घृतदपिश्चेदक्षिणतस्तैलदीपश्चेद्वामतोऽन्यानि पूजोपकर- णानि यथास्थानमवस्थाप्य जलपूर्णार्पपात्रमग्रतो धृत्वा तज्जलमभिमन्त्र्य स्थानं द्रव्याणि च प्रोक्षयेत्। आभि- मन्त्रणं च ‘सर्वे समुद्राः' 'गङ्गे च यमुने चैव' इत्यादिना १२९ शूद्राचारशिरोमणि कलशएव कार्यम्। अर्धपात्रे यथोपकल्पिते तज्जलं पूरयेत्। ततः पीठाच॑नम् । आधारशक्त्यादिपीठदेवताभ्यो नमः । इन्द्रादि- कालेभ्यो नमः । आदित्यादिग्रहभ्यो नम इति सझेपेण कुर्यात् । बिस्तरस्तु आगमशास्त्राबोद्धव्यः । ततो मन्त्रन्यासमात्मनि देवे च विधाय सम्बो- धनान्तदेवतानाममन्त्रेण अमुक इहागच्छ इह तिष्ठेति आवाह्यामुकायेदमासनमित्यादिप्रकारेण तत्तन्मन्त्रेणा- वाहनासनपाद्यार्थ्याचमनीयस्नानवस्त्रयज्ञोपवीतगन्धपुष्प- धूपदीपनवेद्यप्रणतिप्रदक्षिणविसर्जनादिषोडशोपचारपूजां कुर्यात् । वस्त्राद्यसम्भवे मानसानप्युपचारान्परिकल्प्य जलेनापि देवमर्चयेत् । अत्रोपयुक्तेतिकर्तव्यताविशे- षस्तत्चद्विधेरवगन्तव्यः। नारदीये तु- प्रातमध्यंदिने सायं विष्णुपूजां समाचरेत् । यथा संध्या स्मृता नित्या देवपूजा तथा बुधैः ॥ अशक्तौ विस्तरेणैव प्रातः सम्पूज्य केशवम् । मध्याह्ने च तथा सायं पुप्पाञ्जलिमपि क्षिपेत् ।। मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् । सम्भोज्य भोजनं कुर्यादन्यथा नरकं ब्रजेत् ।। १७ शू०शि० १३० शूद्राचारशिरोमणिः -- नैमित्तिकेषु सर्वेषु तत्तत्कालं विशेषतः । पूजयेदेवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ विष्णुधर्मोत्तरे- एककालं द्विकालं वा त्रिकालं पूजयेद्धरिम् । अपूज्य भोजनं कुर्वन्नरकाणि ब्रजेन्नरः ॥ इति । कालिकापुराणे- शिवं भास्करमग्निं च केशवं कौशिकीमपि । मनसाऽनयन्याति देवलोकादधोगतिम् ॥ इति । पूजनीयपञ्चायतनदेवताश्व- पद्मपुराणे- आदित्यं गणनाथं च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताम् ॥ इति । अस्माच्च वचनात्प्रथमं सूर्यस्य पूजा प्रतीयते । तदुक्तं ब्रह्मपुराणे- अपूज्य प्रथमं सूर्य अपरान्यः प्रपूजयेत् । नतद्भुतकृतं पाद्यं सम्प्रतीच्छन्ति देवताः ॥ ऋग्वेदिनामेतदुपदिष्टं शूद्राणां च सम्यग्विधाना- नुसारेण पूर्वं गणेशस्य पूजा ततोऽर्कस्यति द्रष्टव्यम् । मत्स्यपुराणे- आरोग्यंभास्करादिच्छेद्धनमिच्छेद् हुताशनात् ।
शूद्राचारशिरोमणिः
ज्ञानं महेश्वरादिच्छेन्मोक्षमिच्छेवनाईनात् ॥
भविष्यपुराणे-
प्रदद्याद्वै गवां लक्षं दोग्ध्रीणां वेदपारगे।
एकाहमर्चयेद्भानुं तस्य पुण्यं ततोऽधिकम् ॥
यः सूर्य पूजयेन्नित्यं प्रणमेद्वापि भक्तितः ।
तस्य क्षेमं च योगं च ननस्तुष्टः प्रयच्छति ॥
यजेदेवं सहस्रांशुं मोक्षकामो न संशयः ॥ इति ।
तथा दुर्गा प्रकृत्य तत्रैव,
यः सदा पूजयेहुगां प्रणमेद्वापि भावतः ।
सयोगीस मुनिधीमान् तस्य मुक्तिः करे स्थिता॥इति।
तत्रैव शिवमधिकृत्य,
यस्तु पूजयते नित्यं शिवं त्रिभुवनेश्वरम् ।
स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥
एकपाकवतामपि पृथगेव देवार्चनम् ।
तदाहाऽऽश्वलायन:-
पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ।
अग्निहोत्रं सुरार्चा च संध्या नित्यं भवेत्ततः। इति ।
एतेषां च पूजाधार उक्तो नृसिंहपुराणे-
अश्वाने हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
पट्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥
-
१३२
शूद्राचारशिरोमणिः
होरिति पूज्यप्रतिमोपलक्षणम् । अत एव शातातप:-
भूमावप्सु तथाऽग्नौ च हृदि सूर्ये च देवताः । इति ।
अप्सु देवा मनुष्याणां दिवि देवा मनीषिणाम् ॥
काष्ठलोष्ठेषु मूर्खाणां मुक्तस्यात्मनि देवताः । इति ॥
प्रतिमा कस्य कार्येत्युक्तं मत्स्यपुराणे-
सौवर्णी राजती वापि तानी रत्नमयी तथा ।
शैली दारुमयी वापि लोहसङ्घमयीं तथा ॥
पैत्तिकी धातुयुक्ता च ताम्रकांस्यमयी तथा ।
शुभदारुमयी वाऽपि देवतार्चा प्रशस्यते ॥
लोहसङ्घमयी = समुदितधातुमयी। पैत्तिकी = पित्तलजा
देवतार्चा = प्रतिमा । परिमाणं चोक्तम् -
अङ्गुष्ठपर्वादारभ्य वितस्तिं यावदेति तु ।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ।।
शैलजा न गृहे पूज्या अभावात्काष्ठजा शुभा।इति ।
पद्मपुराणे-
दिवि सुर्ये तथाऽऽकाशे प्रतिमास्थण्डिलेषु च ।
समभ्यर्च्य हरिं यान्ति नरास्तद्वैष्णवं पदम् ॥
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालिग्रामशिलाचक्रे वज्रकीटविनिर्मिते ॥
आधिष्ठानं हि तद्विष्णोः सर्वपापविनाशनम् ॥
शुद्रापारशिरोमणिः
महाकाष्ठस्थितो वहिर्मथनाद्वै प्रकाशते ।
यथा तथा हरिर्व्यापी शालिग्रामे प्रकाशते ।
आग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा ।
येनार्चितोहरिश्चके शालिग्रामसमुद्भवे ॥
शालिग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥
शालिग्रामशिला यत्र तत्तीर्थ योजनत्रयम् ।
तत्र दानं च होमं च सर्व कोटिगुणं भवेत् ॥
शालिग्रामसमीपे तु क्रोशमानं समन्ततः ।
कीटकोऽपि मृतो याति तद्विष्णोः परमं पदम् ।।
शालिग्रामशिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥
शालिग्रामशिलाचके यो दद्यादानमुत्तमम् ।
भुचकं तेन दत्तं स्यात्सशैलवनकाननम् ॥
शालिग्रामशिलायां यो मूल्यमुद्भावयेद्विजः ।
विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदयेत् ॥
सर्वे ते नरकं यान्ति याबदाभूतसम्प्लवम् ।
अतः संवर्जयेद्वैश्यब्धकस्य क्रयविक्रयम् ॥
स्कन्दपुराणे-
शालिग्रामशिलायास्तु प्रतिष्ठाने च विद्यते ।
शूद्राचारशिरोमणिः
महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः ॥
शालिग्रामार्चने नैव आवाहनविसर्जने ।
शालिग्रामे हि भगवानाविभूतो यथा हरिः ॥
न तथात्र तु सूर्यादौ वैकुण्ठेपि च सर्वगः।
नन्दिपुराणे-
स्थिरलिङ्गेऽनले तोये हृदये सूर्यमण्डले ।
आवाहनादि चत्वारि कुर्यान्नोद्वासनन्तथा ॥ इति ।
भविष्यपुराणे-
वाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये ।
न प्रतिष्ठा नसंस्कारस्तेषामावाहनं तथा ॥
एवमेव प्रपूज्यानि शिवरूपाणि भावतः । इति । तथा,
गृहे लिङ्गद्वयं नार्थं गणेशत्रितयं तथा ।
शक्तित्रयं तथा शङ्खमत्स्यादिदशकं तथा ॥
द्विचक्रे द्वारकायास्तु नायं सूर्यद्वयं तथा ।
एतेषां पूजनान्नित्यं उद्वेगं प्राप्नुयाद् गृही । इति ॥
तत्र देवतास्थापनप्रकार उक्तः संग्रहे-
शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे-
भास्येनागसुता रवौ हरगणेशाजाम्बिकाःस्थापिताः ॥
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेजेश्वरे-
नाम्बाः शङ्करभागतस्तुशुभदा व्यस्तास्तु हानिप्रदाः॥
शूद्राचारशिरोमणिः
तत्र पूजोपचारेषु नानात्वं दृश्यते । पश्च । दश ।
पोडशाप्टादशेति।
पञ्च यथा-
गन्धादयो नैवेद्यान्ताः
पूजा
पञ्चोपचारिकी।
दश यथा-
अर्घ्यपाद्याचमनकमधुपर्काचमनान्यपि ।
गन्धादयो नैवेद्यान्ता उपचारा दश क्रमात् ॥
पोडश यथा-
आसनं स्वागतं चाय पाचमाचमनीयकम् ।
मधुपकासनस्रानवसनाभरणानि च ॥
मुगन्धसुमनोधूपर्दापनैवेधचन्दनम् ।
प्रयोजयेदर्चनायामुपचारांध पोडश ॥
अष्टादश यथा-
आसनावाहने चाय पाद्यमाचमनं तथा ।
स्नानं वस्त्रोपवीतं च भूपणानि च सर्वशः॥
गन्धपुप्पं तथा धूपं दीपमन्नेन तर्पणम् ।
माल्यानुलेपने चैव नमस्कारविसर्जने ॥ इति ।
एतच काम्यपूजाविपये यथासङ्कल्पं नियतम् |
नित्यपूजायां तु न नियमः ॥
१३६
शूद्राचारशिरोमणिः
भविष्यपुराणे-
शुचिः सुवस्त्रयुक् स्नातो मौनी ध्यानपरायणः ।
गतकामभयद्वंद्वो रागमात्सर्यवर्जितः ॥
आत्मानं पूजयित्वा च सुगन्धिसितवाससा ।
सुमुहूर्ते यजेद्देवान् स्वकीयासनसंस्थितान् ॥
देवीपुराणे-
रक्तविश्वाक्षतैः पुष्पैर्दधिदूर्वायवौस्तिलैः
सामान्यः सर्वदेवानामोऽयं परिकीर्तितः॥
अभावे दधिदूर्वादर्मनसा सम्प्रकल्पयेत् ।।
रक्तं कुङ्कुमम् ।
भविष्ये-
अष्टाङ्गमर्थ्यमापूर्य भानोम॒द्भिनिवेदयेत् ।
दशवर्षसहस्राणिं स वसेदर्कसंनिधौ ॥
अष्टाङ्गान्यप्युक्तानि-
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ।
रक्तानि करवीराणि तथा रक्तं च चन्दनम् ॥
अष्टाङ्ग एवार्योऽयं वै ब्रह्मणा परिकीर्तितः।
y
.
दुर्गायां तु-
आपः क्षीरं कुशाग्राणि अक्षता दधितण्डुलाः ।
सह सिद्धार्थका दूर्वाः कुङ्कुमं रोचना मधु ।
शूद्रापारशिरोमणिः
अर्योऽयं कुरुशार्दूल द्वादशाङ्ग उदाहृतः ॥
स्कन्दपुराणे-
शहस्थितेन तोयेन यः लापयति केशवम् ।
कपिलायाः सहस्रस्य फलं प्रामोति मानवः ।।
शले तीर्थोदकं कृत्वा यः सापयति केशवम् ।
कपिलायाः सहस्रस्य फलं प्राप्नोति मानवः ।।
विन्दुमात्रेण द्वादश्यां कुलानां तारयेच्छतम् ।।
कपिलाक्षीरमादाय शङ्घ कृत्वा जनार्दनम् ।
यज्ञायुतसहस्रस्य सापयित्वा लभेत्फलम् ॥
सतिलं कुसुमोपेतं शङ्ख तोयं सचन्दनम् ।
कृत्वा यः स्नापयेदेवं मम लोके चिरं वसेत् ॥
क्षिप्त्वा गन्धादिकं शर्के यः स्लापयति माधवम् ।
नमो नारायणायेति मुच्यते योनिसङ्ग्रहात् ॥
शङ्खलनं तु यत्तोयं भ्रामितं केशवोपरि ।
वन्दते शिरसा नित्यं गंगालानेन तस्य किम्॥
कृत्वा पादोदकं शो वैष्णवानां महामुने ।
यो ददाति तिलैमिधं चान्द्रायणफलं लभेत् ॥
नाचं तड़ागजं वापि वापीकूपदादादिजम् ।
गाङ्गेयं भवते सर्वमेवमाह जनार्दनः ।।
गृहीत्वा विष्णुपादोदं शंखे कृत्वा तु वैष्णवः । :..
१८५०शि०
१३८ शूद्राचारशिरोमणिः यो वहेच्छिरसा नित्यं स मुनिस्तपतां वरः ।। त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंखं सदार्चयेत् ॥ ... पुरतो देवदेवस्य सपुष्पं सजलाक्षतम् । शंखमभ्यर्चयेन्नित्यं तस्य लक्ष्मीरदूरगा ॥ विलेपयन्ति देवेशं शंखे कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं ददाति शतवार्षिकीम् ।। अयं कृत्वा तु शंखे वै यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ भ्रामयित्वा हरेर्मूनि मन्दिरं शंखवारिणा । प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्गृहे भवेत् ॥ स्नानकाले घण्टावादने फलमाह तत्रैव- स्नानार्चनक्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥ वर्षकोटिसहस्राणि वर्षकोटिशतानि च । चरते देवलोके तु अप्सरोगणसेवितः॥ सर्वनादयमयी घण्टा सर्वदेवस्य वल्लभा । वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ वल्लकीनिनदैरुचैगीतमङ्गलसम्भवैः । यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः..
शुद्रापारशिरोमणिः
दृष्ट्रा शंखोदकं मूर्ध्नि पूजाकाले तु सर्वदा ।
घण्टानादो द्विजैः कार्यः सर्ववाद्यमयी तथा ॥
मन्वन्तरसहस्राणि मन्वन्तरशतानि च ।
घण्टानादेन देवेशः प्रीतो भवति केशवः ॥
तथा,
.
.
-
वेणुवीणास्वनेनैव यः नापयति केशवम् ।
युवतीगीतयोगेन स याति गुरुयोग्यताम् ।।
मृदङ्गवायेन युतं प्रणवेन समन्वितम् ।
अर्चनं वासुदेवस्य यन्नित्यं मोक्षदं नृणाम् ॥
गीतं वायं च नृत्यं च तथा पुस्तकवाचनम् ।
पूजाकाले तु विप्रेन्द्र सर्वदा केशवप्रियम् ॥
अथ शिवमधिकृत्य कालिकापुराणे-
कपिलापश्चगव्येन कुशवारियुतेन वा ।
खापयेन्मन्त्रपूतेन ब्राझं स्नानं तदुच्यते ॥
एकाहमपि यो लिङ्गे ब्राझं सानं समाचरेत् ।
विधूय सर्वपापानि रुद्रलोके महीयते ॥
कपिलापश्चगव्येन दधिक्षीरयुतेन वा ।
स्नानं शतगुणं पुण्यमितरेभ्यो न संशयः ।।
वर्षकोटिसहस्रेण यत्पापं समुपार्जितम् ।
घृतस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ .. .. :
।
शूद्राचारशिरोमणिः
.
कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः ।.
कुलैकविंशमुत्तार्य शिवलोके महीयते ॥
स्नाप्य दना सकृल्लिङ्गं शिवलोके ऽभिपूजके ।
ब्रह्मपुराणे-
देवानां प्रतिमा यत्र घृताभ्यङ्गसमा भवेत् ।
पलानि तस्मै देयानि श्रद्धया पञ्चविंशतिः॥
अष्टोत्तरं पलशतं स्नानं देयं च सर्वदा ।
द्वे सहस्र पलानां च महास्नाने च सकृया(?) ।
दातव्यं येन सर्वासु दिक्षु निर्याति तद् घृतम् । .
अथ वस्त्रम् ।
तत्र विष्णुः-
वासो न नीलरक्ते दद्यादित्यनुषङ्गः ।
अग्निपुराणे-
दुकूलपट्टकौशेयवाक्षकापासकादिभिः ।
वासोभिः पूजयेद्देवं स्वशुभैरात्मनः प्रियैः॥
अङ्गलग्नं च जीर्णं च वस्त्रं देवे न दापयेत् ।
प्राप्नोति नरकान् घोरान् दत्त्वा मूढो नराधमः ॥.
अर्थ गन्धः।
तत्र विष्णुमधिकृत्य नरसिंहपुराणे-
कुङ्कुमागुरुश्रखिण्डचन्दनैरच्युताकृतिम् ।
शहापारशिरोमणि आलिप्य भक्या राजेन्द्र कल्पकोटि वसेदिवि । अमिपुराणे- चन्दनागुरुकर्पूरकुङ्कुमोशीरपाकैः । अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति ॥ कालेयकं रुरोर्मुकं रक्तचन्दनमेव च । नृणां भवति पुण्यानि दचानि पुरुपोचमे ॥ शिवे तु तत्रैव- चन्दनायागुरी ज्ञेयं पुण्यमष्टगुणं नृप । कृष्णागुरोविशेपेण द्विगुणं फलमाविशेत् ॥ तस्माच्छतगुणं पुण्यं कुङ्कुमे च विधीयते । चन्दनागुरुकर्पूरग्लक्ष्णपिष्टः सचन्दनः ॥ शिवस्याचा समालिप्य कल्पकोटिं वसेदिवि । अर्चा प्रतिमा। अथ धूपः। तत्र विष्णोमिनपुराणे- .. तुहिकाख्यं कणं दारु सिंहकं सागरं सितम् ॥ शङ्ख जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै । तुहिका मांसी । कणं गुग्गुलुविशेषः । दारुर्दे- वदारुः। शङ्ख नखी। भ
१४२
शूद्राचारशिरोमणिः
-
.
नरसिंहपुराणे-
महिषाक्षं गुगुलुं च आज्ययुक्तं सशर्करम् ।
धूपं ददाति राजेन्द्र नरसिंहाय भक्तिमान् ॥
सधूपितः सर्वदिक्षु सर्वपापविवर्जितः ।
अप्सरोगणयुक्तेन विमानेन विराजते ।
वायुलोकं समासाद्य विष्णुलोके महीयते ।
विष्णु:-
न धूपार्थं जीवजातमिति । जविोत्थं कस्तूर्यादि
धूपे न देयमित्यर्थः । सूर्ये दुर्गायां चायमेव धूपः ।
शिवपुराणे-
गुग्गुलुं घृतसंयुक्त शिवे यश्च निवेदयेत् ।
रुद्रलोकमवाप्नोति गाणपत्यं च विन्दति ॥
भविष्यपुराणे-
दधित्थं घृतसंयुक्तं दग्धबिल्वमथापि वा।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।
दधित्थं कपित्थम् ।
अथ दीपः।
तत्र विष्णुस्मृतौ-
न घृतं तैलं विना दीपार्थे इति । दद्यादिति शेषः ।
शुद्राचारशिरोमणिः
नरसिंहपुराणे-
घृतेन वाऽथ तैलेन दीपं यो ज्वालयेन्नरः ।
वैष्णवो विधिकद्भक्त्या तस्य.पुण्यफलं शृणु.॥
विहाय सकलं पापं सहस्रादित्यसनिमः ।
ज्योतिष्मता विमानेन विष्णुलोके महीयते ॥
भविष्यपुराणे-
घृतदीपप्रदानेन शिवाय शतयोजनम् ।
विमानं लभते दिव्यं कोटिसूर्यसमप्रमम् ॥
तथा दीपसामान्याधिकारे,
तांश्च दत्तान्न हिंसेत न च तैलेन वर्जितान् ॥
कुर्वीत दीपहन्ता च भूपकोऽजश्च जायते ।
तैलेनेति घृतस्याप्युपलक्षणम् ॥
तेन दीपपांत्रस्थं घृतं तैलं वा नोद्धव्यम् ।
अथ नैवेद्यम् ।
तत्र वराहपुराणे-
ये ममैवोपयोज्या हि गव्यं दधि पो. घृतम् ।
माहिपं चाविकं छागमयज्ञियमुदाहृतम् ॥
अयज्ञियमिति । अनेन वैष्णवेन न देयमित्युक्तम् ।
तत्र माहिषं दध्येव विष्णौ निपिद्धं न दुग्धम् ... .
-
शूद्राचारशिरोमणिः
तथा च विष्णु:-
नाभक्ष्यं नैवेद्यार्थे भक्ष्येप्यजामहिषीक्षीरे ।
पञ्चनखमत्स्यवराहमांसानि दद्यादिति शेषः॥
वाराहे-
मार्ग मांसं तथा छागं शाशं समर्नुयुज्यते ।
एतानि मे प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥
अग्निपुराणे-
भक्ष्याणि यानि देयानि भक्ष्याण्यभिमतानि च।
फलं च वल्लभं यच्च तच्च देयं जनार्दने ॥
सूर्यदुर्गयोस्तु-
संयावकृशरापूपपायसं गुड़मोदकाः ।
रसालाः शालयः प्रस्थं षष्टिकौदनमेव च ॥
यवगोधूममुद्गाश्च माषमांसतिलादयः ।
पानकानि सुपक्वानि फलानि च निवेदयेत् ॥
शिवमधिकृत्य भविष्यपुराणे-
गुड़खण्डघृतानां च मक्ष्याणां चं निवेदनैः ।
घृतेन पाचितानां तु तेषां शतगुणं फलम् ॥
तथा, मातुलिङ्गफलाढ्यानि सुपक्कानि निवेदयेत् ।
शिवाय यत्फलं तस्य तद्भक्ष्याणां निवेदने ॥ ..
--
.
+
.
शूद्राचारशिरोमणिः
१४५
नैवेद्यपानं तु-
सौवर्ण राजतं तानं कांस्यं पालाशपत्रजम् ।
नैवेद्यायाञ्जपत्रं च पात्रं विष्णोरतिप्रियम् ॥
प्रदक्षिणे विशेष उक्तो हि परिशिष्टे-
एक विनायके कुर्यात् द्वे सूर्ये त्रीणि शङ्करे ।
चत्वारि केशवे दद्यात्सप्ताश्वत्थे प्रदक्षिणाः ॥
अन्यत्र पठ्यते-
एका चण्ड्यां रवेरष्ट तिस्रो दद्याद्विनायके ।
चतस्रो विष्णवे देयाः शिवस्याईप्रदक्षिणम् ॥
आदित्यपुराणे-
प्रदक्षिणत्रयं कुर्याच्छिवस्यायतने नरः।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥
लिङ्गपुराणे-
सव्यं व्रजेत्ततोऽपसव्यं प्राणान्तं नैव लङ्घयेत् ।
बृहन्नारदीये-
शिवप्रदक्षिणे मर्त्यः सोमसूत्रं न लङ्घयेत् ।
तथा-
अपसव्यं यतिः कुर्यात् सव्यं तु ब्रह्मचारिणः ।
सव्यापसव्यं गृहिणा नित्यं शंभोः प्रदक्षिणम् ॥
तृणैः काष्ठैस्तथा पद्मः पापाणैष्टकादिभिः ।
.
१९ शू०शि०
१४६ शूद्राचारशिरोमणिः , :- अन्तद्धानं पुरः कृत्वा सोमसूत्रं तु लङ्घयेत् ॥ तथा, जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं सर्वेशे सर्वान्कामानवाप्नुयात् ॥ नारदीये- एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ भविष्यपुराणे सूर्यमधिकृत्य- प्रणम्य दण्डवद् भूमौ नमस्कारेण योऽचयेत् । स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥ तथा, देवीमधिकृत्य- सर्वयज्ञोपवासेषु सर्वतीर्थेषु यत्फलम् । तत्फलं लभते वीर प्रणम्य शिरसा सतीम् ॥ संप्रसारितदेहो यो दण्डवत्प्रणतो भुवि । चण्डिकापुरतो वीर स याति परमां गतिम्॥ नमस्कारे विशेषं पठन्ति । अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ॥ जपहोमनमस्कारान्न कुर्याद् देवतालये । अग्रे मृत्युमवाप्नोति पृष्ठे त्वपचयः स्मृतः ॥ .
शूद्रापारशिरोमणिः
वामभागे भवेन्नाशो दक्षिणे सर्वकामदः ।
शिवे त्वग्रेऽपि
पशोः पशुपतेरने दण्डवत्पतितो भुवि ।
पतन्ति पातकाः सर्वे नोत्तिष्ठन्ति तदा सह । इति स्मृतेः।।
अथ निर्माल्यलइने निधो नरसिंहपुराणे-
शान्तरथं प्रति नारद:-
अतः प्रभृति निर्माल्यं मा लक्ष्य महामते ।
नरसिंहस्य देवस्य तथाऽन्येषां दिवौकसाम् ॥
भविष्यपुराणेऽपि-
यथा न लवयेत्कश्चित् स्वपनं भास्करस्य तु ।
तथा कार्य प्रयत्नेन लचितं ह्यशुभावहम् ॥
तामिस्रं नरकं कर्चा लड़येत्तु सरौरवम् ।
निर्मास्यप्रति(पत्ति)रुक्ता बामपुराणे-
ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते ।
रुद्राक्षलग्नमग्नौ तु दहेत्सर्व धृतं क्षणात् ।
शिष्टेभ्यस्त्वथ देवेभ्यो यत्तु दानेपु निःक्षिपेत् ।
विप्रेभ्यस्त्वय तदेयं ब्रह्मणे यन्निवदितम् ।
वैष्णवं सात्वतेभ्यश्च भस्मानेभ्यश्च शाम्भवम् ।
सौरं खगेभ्यः शाक्येभ्यः स्वामिने यन्निवेदितम् ।
स्त्रीभ्यश्च देयं मातृभ्यो यन्तु किंचिन्निवेदितम् ।।
।
१४८
शूद्राचारशिरोमणिः
भूतप्रेतपिशाचेभ्यो यत्तु दानेषु तत् क्षिपेत् ॥
घृतमिति दुग्धादरेप्युपलक्षणम् । सात्वतः पूजा-
कारः । स्वामिने बुद्धाय । पूर्वत्र स्नानीयघृतादिप्रति-
पत्तिरुक्ता । विप्रेभ्य इत्यादिना नैवेद्यप्रतिपत्तिरिति
विवेकः।
वङ्घचपरिशिष्टे--
पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।
शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलङ्घकाः ।
शिवनिर्माल्यदातारः स्पर्शस्तेषां हि पुण्यहृत् ॥
पाझे-
द्रव्यमन्नं फलं तोयं शिवस्व न स्पृशेत् क्वचित् ।
लङ्घयन्नैव निर्माल्यं पतते नरके नरः ।
शिवकभक्तानां न निषेधः ॥
पादोदकं च निर्माल्यं भक्तैर्धाय प्रयत्नतः॥
इत्यग्निपुराणात् ।
आदित्यपुराणे-
निर्माल्यं धारयेद्भक्त्या शिरसा पार्वतपितेः ।
राजसूयस्य यज्ञस्य फलमाप्रोति निश्चितम् ॥
लोभादिना तु न धार्यम् ।
लोभान्न धारयेच्छंभोर्निर्माल्यं न च भक्षयेत् ॥
शूदाचारशिरोमणिः
न स्पृशेदपि पादेन लवयेन्नापि नारद । इति ।
सर्वैरपि चण्डांशं दत्वैव धार्यम् ॥
क्वचिच्चण्डांशाऽभावोऽप्युक्तोऽग्निपुराणे-
बाणलिङ्गे चले लोहे सिद्धलिङ्गे स्वयंभुवि ।
प्रतिमासु च सर्वासु न चण्डोधिकृतो भवेत् ॥
येषु चण्डाधिकारो नास्ति तेषु निर्माल्यधारणे न
दोष इत्याहुः ।
शालिग्रामसंसर्गेतु सर्वैरपि सर्वेपामपि सेव यम् ।
तथा च स्कन्दपुराणे-
अग्राह्य शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।
शालिग्रामस्य संसर्गात्सर्वं याति पवित्रताम् । इति ॥
भविष्यपुराणे-
मुकुन्दाशनशिष्टं तु भुङ्क्ते यस्तु दिने दिने।
सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥
वाराहे-
शालिग्रामशिलातोयमपीत्वा यस्तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥
दीपार्चिश्व तथा धूपं कराभ्यां यैनमस्कृतम् ।
सप्तजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥
-
१५०
शूद्राचारशिरोमणिः
पार्धिवलिङ्गपूजाप्रकार उक्तो भविष्यपुराणे-
यः कृत्वा पार्धिवं लिङ्गं पूजयेच्छुभवोदिकम् । .
इहैव धनवान् श्रीमानन्ते रुद्रोऽभिजायते ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेवेति विसर्जयेत्
मृत्तिकाग्रहणे चैव घटने च प्रतिष्ठने ।
आवाहने च स्नपने पूजने च विसर्जने ॥
हरादीनि महादेवान्तानि नामानि कीर्तयेत् ।
अष्टमूर्तिपूजाप्रकारस्तु भविष्यपुराणे-
विष्णु:-
साधु साधु द्विजश्रेष्ठ साधु पृष्टोऽस्मि सुव्रत ।
शृणुष्व गदतः सर्व शिवमन्त्रगणं परम् ॥
शर्वाय क्षितिमूर्तये नमः । भवाय. जलमूर्तये
नमः। रुद्रायाग्निमूर्तये नमः । उग्राय वायुमूर्तये नमः ।
भीमायाकाशमूर्तये नमः । पशुपतये यजमानमूर्तये
नमः । महादेवाय सोममूर्तये नमः । ईशानाय सूर्यमू-
तये नमः।
मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः।
आग्नेयान्ताः प्रयोज्यास्तु वेद्यां लिङ्गे शिवं यजेत् ॥
नमः शिवायेति मंत्रेण पूर्व लिङ्गे शिवं प्रपूज्य
शूद्राचारशिरोमणिः
१५१
ततो वामावर्त्तनाष्टौ मूर्तीः पूजयेदित्यर्थः ।
अथामलकमात्रं तु कृत्वा लिङ्गं हिरण्मयम् ।
सम्पूज्य रत्नघटितं शिवलोके महीयते ॥
मृद्भस्मगोशकृत्पित्तताम्रकांस्यमयं च वा।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि ॥
देवीपुराणे-
वासं वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम् ।
नर्मदागिरि श्रेष्ठमन्यद्वाऽपि हि लिङ्गवत् ॥
कृत्वा पूजय विप्रेन्द्र लप्स्यसे विहितं फलम् ।
आदित्यपुराणे-
शैलजं वाणलिङ्गं तु पूजयेद्विधिवत्सदा ।
मृहातुघटितं वाऽपि रस वा गृहाश्रमी ॥
नन्दिपुराणे-
त्रिकोणं फलकाकारं शूलाग्रं झर्झरं नतम् ।
कपिलं वाऽपि यल्लिङ्गं तद् गृहस्थो न पूजयेत्॥
तथा--
दीक्षितानां द्विजान्येषां स्त्रीणामपि तथैव च ।
लिङ्गे स्वे गुरुणा दत्ते पूजा नान्यत्र चोदिता ॥
अथ पुष्पाणि ।
तत्र नरसिंहपुराणे---
पुष्पैररण्यसम्भूतैः पत्रैर्वा गिरिसम्भवैः ।
-
१५२ शूद्राचारशिरोमणिः अपर्युषितनिःछिद्रैः प्रोक्षितैजन्तुवर्जितैः ।। आत्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेद्धरिम् । विहितपुष्पादि तु गोविन्दार्णवे द्रष्टव्यम् । निषिद्धानि तूच्यन्ते । तत्र विष्णौ वानि-- कृकराख्यस्य पुष्पाणि तथा धत्तूरकस्य च । कृष्णस्य कुटजं वार्क नैव देयं जनार्दने । कृकरः करवीरः । करीर इत्यन्ये । शाल्मलं च शिरीषं च बृहती गिरिमाल्लिका ॥ सर्जकं चैव कूष्माण्डं कणारं च विवर्जयेत् । वामनपुराणे- सुरभीनि तथा ऽन्यानि वर्जयित्वा तु केतकीम् । इति विष्णौ केतकीनिषेधो नरसिंहमूतौ काम्य- पूजायां वा द्रष्टव्यः । पूर्वत्र विधेर्दर्शितत्वात् । विष्णुः-नोग्रगन्धि पुष्पं नागन्धि न कण्टकिजम् । कण्टकिजमपि शुक्लं सुगन्धि दद्यात् । न रक्तं दद्यात् । रक्तमपि कुङ्कुमजं च दद्यात्। शिवे वांनि । भविष्यपुराणे- केतकी चातिमुक्तं च कुन्दा यूथी मदन्तिका । शिरीषसर्जबन्धूककुसुमानि विवर्जयेत् ॥ .
शूद्राचारशिरोमणिः
अङ्कोलपत्रकुसुमं करञ्जेन्द्रतरूद्भवम् ।
बिभीतकानि धन्वानि कुसुमानि विवर्जयेत् ।
निर्गन्धन्युिग्रगन्धीनि कुसुमानि विवर्जयेत् ॥
गन्धहीनमपि ग्राह्यं पवित्रं च कुशादिकम् ।
इन्द्रतरुः सिन्दुवारः॥
प्रासाददीपिकायाम्-
जपाबन्धूकसिन्दूरं तथा त्रैसन्धिके शुभे ।
मदन्ती केतकी यूथी मालतमुरजानि च ॥
घुसृणं वाऽश्वमारं च प्रमादेनापि नार्पयेत् ।
वर्वरी सर्जपत्री च तथा च कुमुदद्वयम् ॥
अतिपक्कान्यपक्कानि पतितानि विवर्जयेत् ।
आरण्यान्युग्रगन्धीनि सकीटं चोग्रगन्धि यत् ॥
अशुद्धपत्र पाण्यङ्गवासोभिः कुत्सितात्मभिः ।
आनीतं नार्पयेच्छम्भोः प्रमादादपि दोपकृत् ॥
सुर्ये वानि ।
भविष्यपुराणे-
कृष्णलोन्मत्तकं काञ्ची तथा च गिरिकर्णिका ।
न कण्टकारिकापुष्पं तथाऽन्यद्गन्धवर्जितम् ॥
; न चाम्रातकजैः पुष्पैरर्चनीयो दिवाकरः ।
तथा,
येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ॥
शू०
शि०
शूद्राचारशिरोमणिः तानि पुष्पाणि देयानि भानवे ऽलीकभानवे । देवीमधिकृत्य देवीपुराणे मुकुलैर्नार्चयेद्देवीमपक्कं न निवेदयेत् । फलं कथितपक्वं चाऽकालपक्कं च वर्जयेत् ॥ शिव विवर्जयेत्कुन्दमुन्मत्तं च तथा हरेः । देवीनामर्कमन्दारौ सूर्यस्य तगरन्तथा ॥ अत्र, बकुलैश्चैव मन्दारैः कुन्दपुष्पैः शिरीषकैः । करवीरार्कपुष्पैश्च शांशपैश्चापराजितैः ॥ इत्यादिना देव्यामर्कमन्दारयोर्विधानाद्देवीनामर्क- मन्दाराविति निषेधो दुर्गतरविषय उन्नेयः । एवम् , कुञ्जकस्तगरश्चैव कर्णिकारः कुरण्टकः । इति भविष्यपुराणे सूर्ये तगराविधानात्सूर्यस्य तगरं तथेति निषेधो वनतगरविषयः । विहितप्रतिषिद्ध इत्यपरे । अत्र पूजायां प्रथमं विहितम् । तदभावे वि- हितप्रतिषिद्धम् । तदलाभे अविहितानिषिद्धं च पुष्पा- दि देयमिति शास्त्रार्थः । अथापराधाः । वाराहे-द्वत्रिंशत्तत्र मुख्यास्ते वाराहे विष्णुनोदिताः। तिर्यक् पुण्ड्रधरो भूत्वा ह्यकृत्वा देवतार्चनम्॥ याचितैः पत्रपुष्पाद्यैर्यः करोति ममार्चनाम् ।
शूद्राचारशिरोमणि:
अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरम् ।।
मम दृष्टेरभिमुखं ताम्बूलं चर्वयेच्च यः ।
कौसुम्भशाकं मयों यो भक्षयेन्मम सेवकः ।।
कुरूवकपलाशस्थैः पुष्पैः कुर्यान्ममार्चनम् ।
ममार्चामासुरे काले यः करोति विमूढधीः ।
अवैष्णवस्य पक्कान्नं यो मा विनिवेदयेत् ।
अवैष्णवेपु पश्यत्सु मत्पूजां विदधाति यः ।
दिनान्तरितपक्वान्नं यो मह्यं विनिवेदयेत् ॥
नीलीरजितवस्त्रं यन्मयों मह्यं निवेदयेत् ।
नवमक्षालितं वस्त्रं जाणं यन्मे निवेदयेत् ॥
अमौनी धर्मलिप्ताङ्गो मत्पूजां विदधाति यः ।
बातमूत्रनिरोधेन मत्पूजां विदधाति यः॥
नखोदकेन स्नपनं कुरुते मम मानवः ॥
कृत्वा बातमनाचम्य तथा प्रावृतकम्बलः ।
पीठासनोपविष्टस्तु पूजयेद्वा निरासनः ॥
मृन्मये धूपदहनं प्रदपिं कुरुते नरः ।
मत्सूजको न कुरुते तन्तुपूजां च दामनाम् । .
मत्पूजकः शिवद्वेपी मद्भक्तश्च शिवोद्यमः ॥
भूताप्टम्यां न कुरुते नक्तं न हरिवासरम् ।
परस्य परिधानं यत्परिधार्चियेच्च माम् ॥
१५६
शूद्राचारशिरोमणिः
अपूजायत्वा विघ्नेशं सम्भाव्य च कपालिनम् ।
क्रुद्धो यत्कर्म कुरुते त्रिकालार्चनविनकृत् ॥
अन्धकारे स्पृशेन्मर्त्यः सम्भाष्य च रजस्वलाम् ।
वामहस्ते च मां कृत्वा स्नापयेद्यदि मूढधीः ॥
महापराधान् जानीहि द्वात्रिंशन्नक्षमामितान् ।
अन्येऽप्यगस्तिना उक्ताः-
यानैर्वा पादुकैर्वापि गमनं भगवद्गृहे ।
देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च यः पुरस्तात्प्रदक्षिणम् ॥
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणं चैव मिथ्याभाषणमेव च ।
कम्बलावरणं चैव परनिन्दा परस्तुतिः।
अललिभाषणं चैव मिथ्याभाषणमेव च ।
(अधोवायुविमोक्षणम्)
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिके ।
शक्तौ गौणोपचारस्तु अनिवेदितभक्षणम् ।।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
पृष्ठे कृत्वा ऽऽसनं चैव परेषामभिवादनम् ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
..
१५७
.
शूद्राचारशिरोमणिः
अपराधा इमे विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥
अत्रापरो विशेषस्तत्तत्पुराणागमकल्पेभ्योऽवसेयः ।
विस्तरभयान्न लिख्यते ।
अथ पञ्च महायज्ञाः।
वातमूत्रनिरोधेन मत्पूजां विदधाति यः।
तत्र ब्रह्मयज्ञतर्पणे दर्शिते । इदानी वैश्वदेवः ।
तत्र नरसिंहपुराणे-
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ।
वैश्वदेवं ततः कुर्याद्वलिकर्म तथैव च ॥
वैश्वदेवं देवयज्ञः । वलिकर्म भूतयज्ञः ।
वसिष्ठे-
पितृम्यो दद्यात्ततोऽतिथीन् भोजयेदिति ।
एतेन भृतयज्ञानन्तरं पितृयज्ञस्ततो मनुष्ययज्ञ
इति क्रमो बोद्धव्यः । एते पञ्च महायज्ञाः शूद्रस्या-
प्यावश्यकाः।
भारतः शुचिर्पत्यभर्ता श्राद्धक्रियापरः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥
इति शूद्रमधिकृत्य याज्ञवल्क्येनाभिधानात् ।
दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत्ततः ॥
इति विष्णुपुराणवचनाच्च ।
१५८ शूद्राचारशिरोमणिः व्यास:- . जुहुयात्सर्पिषाऽस्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं पयसाक्तं वा तदभावेऽम्बुनापि वा ॥ गृह्यपरिशिष्टे- शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्प्यते य आहारस्नाने च जुहुयादिति । तेषां पञ्चानामपि अनुष्ठानाशक्तावाह गौतमः- नित्यं स्वाध्यायः पितृभ्यश्वोदकदानं यथात्साह- मन्नादितर्पणं ब्रह्मयज्ञश्चेति द्वयमावश्यकमित्यर्थः । व्यास:- । वैश्वदेवं प्रकुर्वीत स्वशाखाविहितं ततः । संस्कृतान्नैर्हि विविधैर्हविष्यव्यञ्जनान्वितैः । तैरेवान्नैवलिं दद्याच्छेषमाप्लाव्य वारिणा । कृतापसव्यः स्वधया सर्व दक्षिणतोहरेत् ॥ तत इति । देवतार्चनानन्तरम् । कात्यायन:- अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयादिति। (१) शौनक इति वा आश्वलायन इति वा इत्युचितं प्रतिभाति । आश्वलायनगृह्यसूत्रे तदुक्तः सत्त्वात् । कात्यायनस्य तु श्रौतसूत्रमेव, तत्र नायं विषयः । पारस्करीये गृह्यसूत्रे नेयं पतिर्दृश्यते ।
शूद्राचारशिरोमणि: १५० सिद्धस्य पकस्य । अतएव पाकासम्भवे तण्डुलादयोऽ- नुकल्पाः स्मर्यन्ते । पाकाभावे प्रवासे च तण्डुलानोषधीस्तथा । पयो दधि घृतं वाऽपि कन्दमूलफलानि च ॥ यो यजेदेवज्ञादौ जलं वा यस्तु वा जले । एवं च कृत्वा पाकयज्ञ इत्येषां समारव्या । कूर्मपुराणेऽपिः- यदि स्याल्लौकिकः पाकस्ततोऽन्नं तत्र हूयते । शालाग्नौ तत्र चेदन्नं विधिरेष सनातनः ॥ अगिरा:- शालाग्नौ वा पचेदन्नं लौकिके चापि नित्यशः । यस्मिन्नग्नौ पचेदन्नं तस्मिन् होमो विधीयते ॥ चैवाहिकेग्नौ कुर्वीत यज्ञकर्म यथाविधि । पञ्चयज्ञप्रधानं च पक्तिं चान्वाहिकी गृही। याज्ञवल्क्य:- स्मात् कर्म विवाहाग्नौ कुर्वीत प्रत्यहं गृही। दीपकालाहुते वापि श्रौतान्वैवाहिकाग्निषु ॥ '- अनुकल्पानाह शातातप:- लौकिके वैदिके वाऽपि हुतात्सृष्टे जले क्षितौ ।
शूद्राचारशिरोमणिः वैश्वदेवस्तु कर्त्तव्यः पञ्चसूनापनुत्तये ॥ हुतोत्सृष्टे। अन्येन होमं कृत्वा त्यक्ते। अयं च श्री- तस्माद्भग्न्यभावेऽपि शूद्रेणापि लौकिकाग्न्यादौ होमः कर्तव्यः । अविशेषेण वचनसङ्काचे मानाभावाच्च । तथा सिद्धस्य हविष्यस्य जुहुयादिति अविशषेण प्रवृत्तवचनस्वरसात्कौश्चिच्च वैश्वदेवस्य पाकसंस्कारत्व- स्वीकरणाच्च शूद्रस्यापि पाकेनैव होमो मुख्यः । तद- भावे तु तण्डुलादिभिरिति शास्त्रस्वरसः। शूद्रं प्रति विशिप्य पाकेन होमस्यानिषिद्धत्वात् । श्राद्धे आमेनैव तु शूद्रस्येति नियमान्न पाकेन श्राद्धम् । ब्राह्मणाय दान- विरोधाच्च । कलौ विप्रस्य शूद्रान्नभक्षणनिषेधात् । एवं यत्र यत्र पाकदानं सामान्यप्राप्तमनिषिद्धम- वारितं तच्छूद्रस्यापि भवति । अतएव पाकेनान्नदानं अग्नौ यालवा(?)प्रतिपत्तिपक्षेन विरुध्यते। ब्राह्मणप्रति- पत्तिस्तु वाधाभावान्न भवति । आमेन तु तत्करणे ब्रा- मणप्रतिपत्तिन विरुध्यते । अत्र चार्थे सर्वनिवन्धकाराणा- मविवाद एव । किं तु लोकविद्विष्टत्वात् वैश्वदेवादिकं पाकेन शूद्रस्यानुचितमिति ऋजवः । अतएव, त्रिषु वर्णेषु कर्त्तव्यं पाके भोजनमेव च । शुश्रूषामभिपन्नानां शूद्राणां च वरानने । .
शुद्रापारशिरोमरिणः १६१ दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्विजान् । पञ्चविधिःप्रयोक्तव्यः शूद्राणां मन्त्रवर्जितम् । इति वाराहपुराणे पाकेन श्राद्धं युगान्तरविषयतयोपसंहरति लोकविद्विष्टत्वादेवेति। देवेभ्यः स्वाहेत्यादिस्वाहाकारप्रयोगोऽप्यस्य न भवतीति प्रागेवोक्तम् । परिशिष्टे- उत्तानेन तु हस्तेन पङ्गुष्ठाग्रेण पीड़ितम् । संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयादविः ।। शानकः- अब सायं प्रातः सिद्धस्य हविप्यस्य जुहुयादग्नि- होत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नपिोमाभ्यामिन्द्रा- ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरये इन्द्राय विश्वे- भ्यो देवेभ्यो ब्रह्मणे स्वाहति हविष्यस्य होमयोग्यस्य अग्निहोत्रदेवताः सूर्याग्निप्रजापतयः । कात्यायनस्तु पश्चाहुतीराह- वैश्वदेवादन्नात्पर्युदय स्वाहाकारैर्जुहुयात् । ब्रह्मणे प्रजापतये वरपिभ्यः कश्यपायानुमतयइति । भूतयज्ञ- -- - माह शौनकः-- अथ बलिहरणमेताभ्यश्चैव देवताभ्यो ऽम ओ- २१ २०शि० १६२ शूद्राचारशिरोमणिः तु षधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्यो इन्द्रायेन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुण- पुरुषेभ्यः। सोमाय सोमपुरुषेभ्य इति प्रतिदिशम्। ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये । विश्वेभ्यो देवेभ्यः सर्वेभ्यो भू- तेभ्यो दिवाचारिभ्य इति दिवा । नक्तञ्चारिभ्य इति नक्तम्। रक्षाभ्य इत्युत्तरतः । स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणतो निनयेदिति । एताभ्यो वैश्वदेवहोमदे- वताभ्यः । वाजसनयिगृह्ये बलिरप्यन्यथा दर्शितः। स तत एवावधार्यः। छन्दोगपरिशिष्टे अमुष्मै नम इति बलिदान विधीयते । स्वधाकारण निनयेत् पित्र्यं बालमतः सदा । तमप्यके नमस्कारैः कुर्वते नेति गौतमः । एक इति शाखान्तराभिप्रायम् । एते बलयः स्व- स्वशाखानुसारेण यथावत्कार्याःन पुनरेष्वेकप्रकारोऽस्ति। मार्कण्डेयः- एवं गृहबलिं दत्वा गृहे गृहपतिः शुचिः । आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् ।। अन्नस्येति शेषः । उत्सर्गे च मन्त्रा दर्शिताः ।
शूद्रापारशिरोमणिः विष्णुपुराणे- देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्ग्याः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् । पिपीलिकाकीटपतङ्गकादयो बुमुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिमिदं मयानं तेभ्यो निसृष्टं सुखिनो भवन्तु । येषां न माता न पिता न बन्धु- नैवान्यासिद्धिर्न तथान्नमस्ति । तत्तृप्तयेऽन्नं मुवि दत्तमेत- तेषां सुतृप्तिर्मुदिता भवन्तु ॥ भूतानि सर्वाणि तथान्नमेत- दहं च विष्णुर्न ततो ऽन्यदस्ति । तस्मादिदं भूतहिताय भृत- मन्नं प्रयच्छामि सुखाय तेपाम् । चतुर्दशो लोकगणो य एप तत्र स्थिता येऽखिललोकसङ्घाः ।
१६४
शूद्राचारशिरोमणिः
-
तृप्त्यर्थमन्नं हि मया प्रदत्तं
तेषामिदं ते मुदिता भवन्तु ।
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥
श्वचण्डालविहङ्गानां भुवि दद्यात्ततो नरः ।
एतच्च कास्यम्।
ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः ॥
दद्यादशेषभूतेभ्यः स्वेच्छया च समाहितः।
इति विष्णुपुराणे एव स्वेच्छयेति वचनात् ।
अत्र दद्यादशेषभूतेभ्य इत्युपक्रम्य पञ्चश्लोकरूपमन्त्रा-
त्मकगुणविधानादित्युच्चार्येत्युपसंहार इति वचनात्ता-
दृशस्यैव परामर्शात् श्लोकपञ्चकमप्युच्चार्य एक एव
बलिर्देय इति द्रष्टव्यम् ।
ततः श्वादिबलिमाह मनु:-
शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणां च शनकैनिक्षिपेद् भुवि ॥
भुवीति श्वकाकाद्युपभोगयोग्यप्रदेशोपलक्षणम् ।
श्वभ्यो नम इत्यादिक्रमेणान्नं निःक्षिपेत् ।
ततो व्यास:-
ऐन्द्रवारुणवायव्या याम्या नैऋतिकास्तथा।
शुद्राचारशिरोमणि.
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥
द्वौ श्वानौ श्यावशवलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां पिण्डं प्रयच्छामि स्यातामेतावहिंसकौ ।
दत्वाऽनेन विधानेन वलीन्पश्चादुपस्पृशेत् ॥ इति ।
आभ्यां श्लोकाभ्यां नत्येकं बलिद्वयं देयम् ।
ततः सर्वानपि बलीन्हस्तेनोपस्पृशेत् ।
अत्र च वैश्वदेवहोमः सायं प्रातश्च कार्यः ।
'सायं प्रातः सिद्धस्य हविप्यस्य जुहुया दिति शौनकोक्तेः ।
मनुनाप्युक्तम्-
सायं प्रातर्वैश्वदेवः कर्तव्यो बलिकर्म च ।
अनश्नताऽपि सततमन्यथा किल्मिपी भवेत् ।।
तत्र प्रकारमाह स एव--
सायं त्वन्नस्य सिद्धस्य पल्यमन्त्र बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥
अत्र पत्न्याः कर्तृत्वं यजमानासन्निधौ द्रष्टव्यम् ।
अन्यथा तु यजमान एव कुर्यात् ।
तथा च विष्णुपुराणे-
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्त्या साई बलि हरेत् ॥
तत्रापि श्वपचादिभ्यस्तथैवाऽनविसर्जनम् । इति ।
शूद्गाचारशिरोमणिः तदाह मनु:- एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे गृहे ॥ विभक्तानामित्युत्तरवचनादेकपाकेनेत्यविभक्तधन- परं वैश्वदेवादि। गोभिलगृह्ये- यद्यस्मिन्काले बहुत्राऽन्नं पच्यते गृहपतिर्महानसा- देवैतद्वलितन्त्रं कुर्यात् । यस्य त्वेषामग्रतोऽन्नं सिध्येत् स निनुतमग्नौ हुत्वाऽन्नं ब्राह्मणाय दत्वा भुञ्जीतेति । यद्यविभक्तानां मध्ये ज्येष्ठस्य गृहे पाको निवृत्त- स्तदा ज्यायानेव स्वगृहपाकेन वैश्वदेवादि कुर्यात् । क- निष्ठास्तु न किञ्चित्कुर्युः । किंतु भुञ्जीरन्नेव । यदि तु ज्यायसा कृते वैश्वदेवे कनीयसां गृहे पाकः सिढस्त- दा ते तूष्णीमेवाग्नौ किञ्चिदन्नं प्रक्षिप्य किञ्चिद्राह्म- णाय दत्वा भुञ्जीरन्निति ॥ वैश्वदेवहोमादौ गौणाधिकारिण आहाऽत्रि:- पुत्रो भ्राताऽथवा ऋत्विक् शिष्यश्वशुरमातुलाः । पत्नीश्रोत्रियकाताश्च इष्टास्ते बलिकर्मणि ॥ प्रवासादावेतैरपि गृहे कारयेदित्यर्थः ॥
१६७ शूद्राचारशिरोमणिः अतएव यौधायन:- प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते । पञ्चानां महतामेप स यज्ञैः सह गच्छति ॥ इति । जमदग्निः- वैश्वदेवं तथा रात्रौ कुर्याद्वलिहुति तथा । महतः पञ्च यज्ञास्तु दिववेत्याह धर्मवित् ॥ आश्वलायनगृहो- धर्मविन्नाचरेत्तानमाहिकं तु पुनः पुनः । तर्पणं ब्रह्मयज्ञं च वैश्वदेवं च नाचरेत् ॥ दिवा रात्री वा द्विद्धि चरेदित्यर्थः। मण्डलेपु- च कामनाभेदेन प्रकारभेदा यथाशाखं यथोपदेशं चो- हनीयाः। तत्र सर्वसाधारणत्वात्पौराणवैश्वदेवप्रकारः कथ्यते । तद् यथा---एकस्मिन्पाने हविष्यमन्नमुद्धृत्य तथा सति सम्भवे हविष्यमपि पात्रान्तरे उद्धृत्य तद- सम्भवे पूर्वपात्रहविष्यामिश्रितमुद्धृत्य लौकिकाग्नस्तद- नुकल्प्य जलादेर्वा पश्चात्प्राङ्मुख उपविश्य पञ्चदश- यक्षरोच्चारणयोग्यकालं यावदमन्त्रकं प्राणानायग्याचम्य वा विष्णु संस्मृत्य नम इत्यग्नि सम्पूज्य नम इत्येव परिपिच्य स्वाहेत्युच्चार्य नमइति चोच्चार्य ब्रह्मणे प्र-
१६८
शद्राचारशिरामणिः
जापतये गृह्याभ्यः कश्यपाय अनुमतये . पञ्चाहुतीर्तुत्वा
परिषेचनं कुर्वीत ।
अथ बलयः॥
नमः पृथिव्यै । नमः पर्जन्याय । नमोऽद्भ्यः। नमो
धात्रे । नमो ब्रह्मणे । ततो ब्रह्मबलिस्थानात्पूर्वदिग्भागे
एकबलिस्थानस्परित्यज्यैव प्रागपवर्ग षड् बलीन् दत्वा
पंचयुत्तरतः प्रागपवर्ग सप्तबलीनां स्थापनं परित्यज्यैवं-
विधा रेखा पतिद्वयस्य परितः। इन्द्रादिबलिदानम्-
नम इन्द्राय । नमोऽग्नये । नमो धर्मराजाय । नमो-
नितये । नमो वरुणाय । नमो वायवे । नमइन्दवे ।
नमो धन्वन्तरये । एवं दिग्बलिं दत्वा पूर्ववद्ब्रह्मबलेः
पूर्वतो नमो ब्रह्मणे इति पुनरकं बलिं दत्वान्ते एतत्पं-
त्युत्तरत उत्तरे सप्त बलयो देयाः । प्रागपवर्गमित्येव ।
नमोन्तरिक्षाय। नमो भानवे । नमो विश्वेभ्यो देवेभ्यः।
नमो विश्वभूतेभ्यः । नमो विश्वपतिभ्यः । नमो देवादि-
चतुर्दशगणपक्षेभ्यः । नम उषसे । इति सप्त दुत्वा
सर्वबलीनामुत्तरतो भूतपतय इति च दत्वा सर्वबलीनां
दक्षिणतः प्राचीनावीती पितृतीर्थेन नमः पितृभ्य इति
दत्वा सर्वबलिसमुदायस्य वायुकोणे प्राचीनावीत्येव
नमो यक्ष्मैतत्तेवनेजनमिति अन्नावशेषमिश्रं तोयं
१६९ शुद्रापारशिरोमणिः दद्यात् । एवं पञ्चविंशतिवलयः । एतान्दत्वा क्रमेण त- द्वलिस्थानेषु तेपामाचमनाय सलिलं दद्यात् । अत्रा- न्तर्भूतपित्वलिनित्यश्राद्धं च पितृयज्ञः । नित्यश्राद्धव्य- तिरेकेण पितृबलिदानमन्त्रेणापि पितृयज्ञनिप्पत्तिर्भव- ति । एवम्बलिं दत्वा निवीती सन् सनकायुद्देशेन ग्रा- सचतुष्टयपर्याप्तमन्नं सङ्कल्पयेत् । नमः सनकादिमनु- प्येभ्य इदमन्नमिति । अयं मनुष्ययज्ञः । ग्रासचतुष्ट- यपरिमितान्नदानाशक्तौ शिष्टाचाररूपप्रमाणवशात् तद- ई पादमेव वेति न्यायानुसारेण ग्रासद्वयपरिमितं ग्रास- मात्रं वा देयम् । एवं मनुष्ययज्ञानन्तरं पूर्वमेव पृथक् कृतमन्नं गृहीत्वा गृहाद्वहिश्च श्वपचवायसादिम्य इद- मिति भूमौ यथोपभोगं यथाशक्ति च दत्वा पादौ प्रक्षा- ल्याचम्य नित्यश्राद्धं विधाय अतिथिसद्धावे अतिथि यथाशक्ति पूजयेदिति । अत्रान्नदानविषये विशेषः।यदा शूद्रः पाकेनान्नं ददाति तदा तद्गवे दद्यात् । जले वा प्रक्षिपेत् न तु ब्राह्मणाय देयम् । शूद्रपाकभोजनस्य कलौ ब्राह्मणादीनां निषिद्ध- त्वात् । चातुर्वण्यं चरेद्वेक्ष्यमित्यस्य च कलियुगेतरविषय- त्यात् । इयं प्रतिपत्तिरितरवलीनामपि द्रष्टव्या । आ- २२ शू०शि० १७० शूद्राचारशिरोमणिः मान्नपक्षे तु न काऽप्यनुपपत्तिरिति । आमेनैव वैश्वदे- वादिकमपि कर्त्तव्यमिति प्रशस्तः पक्षः । लोकविद्विष्ट- ताऽप्यत्र न भवति । शिष्टाचाराप्येवम् । अथ नित्यश्राद्धम् । तत्रायं प्रयोगक्रमः । वैश्वदेवमण्डलस्य दक्षिण- भागे पित्राद्यर्थं तु बहून् षड्वर्गद्वयापेक्षया द्वौ वा उ. भयोरप्येकमेव वा निधाय श्राद्धसम्भृति उपकल्प्य कुशबहुसङ्ख्यया कुशान् सतिलान् करे गृहीत्वा सम- स्तसम्पदित्यादिद्विजप्रार्थनावाक्यं मनसा जपन् ब्राह्म- णान्तरमुखेन वा वाचयन् । सहिरण्यान् करस्थितकु- शान् ब्रह्मदण्डार्थं विप्राग्रे भूमौ निधाय ममाधिकारस- म्पदस्त्विति भवन्तो ब्रुवन्तु इति , द्विजान् वाचयेत् । ततोऽस्तु श्राद्धाधिकारसम्पदिति तैः प्रत्युक्तः । आच- म्य । अमन्त्रकं प्राणानायम्य विष्णुं स्मृत्वा अद्येत्या- दिदेशकालौ स्मृत्वा अस्मत्पितृपितामहप्रपितामहानां अमुकगोत्राणां अमुकदासानां संपत्नीकानां नित्यश्राद्ध- महं करिष्ये इति सङ्कल्प्य यथोपदेशं पाद्यादिभिरुप- चारैः श्राद्धं कुर्यात् । प्रत्युपचारं च नम इति प्रकारेण नमोमन्त्रेण मन्त्रकार्यं कुर्यात् .. । अन्यांस्तु.स्मार्त्तान्वैदिकान् वा मन्त्रान् निकटोपविष्टः इदं वः पायं शूद्रापारशिरोमणिः १७३ : ब्राह्मणः पठेत् न वेति । शेपं पावर्णश्राद्धवदूह्यम् । तत्र वर्जनीयपदार्थानाह- मत्स्यपुराणे- नित्यं तावत्प्रवक्ष्यामि अावाहनवर्जितम् । अदैवं तद्विजानीयात् पावर्ण तद्धि कीर्चितम् ।। नावाहनानौकरणं न पिण्डो न विसर्जनम् । इति काशीग्वण्डे । नित्यश्राद्धमदैवं स्यादपिण्डविवर्जितम् । दक्षिणारहितं वेतत् दातृभोक्तृवतोज्झितम् ॥ इति । दातृभोक्तृव्रतं नियमः ब्रह्मचर्याधःशय्यादिः । अत्र दक्षिणानिधो यथोक्तदक्षिणाविषयः । ब्रह्मचर्यादिनियमो वैश्वदेवास्तथैव च । नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् ॥ दत्वा तु दक्षिणां शच्या नमस्कारैर्विसर्जयेत् । इति व्यासवचनात् । तथा सङ्कल्पवाक्यं पाद्यार्चनं अन्नसङ्कल्पं अपो- शानं प्रत्यपोशानमपसव्येन दत्वा सव्येन 'शिवा आपः सन्तु' इत्यादि 'गोत्रं नो वर्द्धता मिति वरप्रदानान्तमु- क्वा पणं काकिणीं फलं वा यथाशक्ति दक्षिणां दत्वा विष्णुं नमस्कृत्य ब्राह्मणान् सूर्य प्रणमेत् । असम्पत्ती १७३ शूद्राचारशिरोमणिः फलमूलपयांस्यपि यथालाभमन्वहं पितृभ्यो. दद्यात् । तत्राऽप्यशक्तौ श्रद्धया उदकतर्पणेनैव श्राद्धफलं भवति। यदेव तर्पयेदद्भिः पितॄन् श्रद्धासमन्वितः। तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम् ॥ इति । एतच्च नित्यश्राद्धं संवत्सरं यावदावश्यकम् । तत ऊर्ध्वं तु कृताकृतम् , कृते अभ्युदयः अकृते प्र- त्यवायाभावः। तथा चाऽऽपस्तम्बा:-- नित्यश्राद्धामित्युपक्रम्य प्रतीच्छेदित्येतदन्नमुक्त्वा, एवं संवत्सरं तेषामुत्तमं लोहेनान्नेन कार्यमित्याद्यभिधाय कृताकृतमत ऊर्ध्वं श्राद्धन तृप्ति वेदयन्ति पितर इत्युक्तवान् । उत्तम संवत्सरान्ते क्रियमाणं नित्यश्राद्धं लोहे- नान्नेन लोहितच्छागमांसप्रधानेनान्नेन कार्यम् । अत- ऊर्ध्वं संवत्सरान्ते विहितैतत्श्राद्धानन्तरं नित्यश्राद्ध कृताकृतमित्यर्थः । ततः, सौरभेय्यः सर्वहिताः पवित्रा पापनाशनाः। प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥ पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे । ,
शूद्राचारशिरोमणिः
१७३
प्रतीच्छाऽन्नं मया दत्तं सोरभयि नमोऽस्तु ते ॥
इति मन्त्रेण परगवे सान्नं घासमुष्टिं गोग्रासं दद्यात् ।
घासमुष्टिं परगवे सान्नं दद्यात्तु यः सदा ॥
अकृत्वा स्वयमाहारं स्वर्गलोकं स गच्छति ।
ततो गोदोहमानं अङ्गणे स्थित्वा अतिथि
तीक्षते । अविदितगोत्राचरणनामश्रुतशीलादिकमन्ना-
र्थिनमतिथिं पश्येत्तदा सत्कारपूर्वं आसनं दत्वा गन्धा-
दिभिरभ्यर्च्य इदमन्नं सोपकरणं तुभ्यं सम्प्रददे इति
उदकपूर्व यथोपपन्नमन्नपानादि दत्वा अतिथिं परिताप्य
कृतकृत्यमात्मानं मन्येत शूद्रमप्यतिथि स्वशक्तया भो-
जयेत् ।
कूर्मपुराणे-
हन्तकारमथागं वा यो भिक्षां शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ इति ।
तल्लक्षणमाह मनु:-
ग्रासमात्रं भवद्भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणकृित्य हन्तकारो विधीयते ॥
मार्कण्डेय:-
भोजनं हन्तकारं वा मुखं भिक्षामथापि वा ।
अदत्वा च 'न भोक्तव्यं यथाविभवमात्मनः ॥
-
१७४
शूद्राचारशिरोमणिः
-
नारसिंहे-
अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थ भिक्षा दत्वा विसर्जयेत् ॥
अत्रोपपत्तिमाह पराशरः-
वैश्वदेवकृतं पापं शक्तो भिक्षुर्निवारितुम् ।
न तु भिक्षुकृतान्दोषान् वैश्वदेवो व्यपोहति ।
देवल:-
सायं प्रांतहद्वारं भिक्षार्थं नावघट्टयेत् । इति ।
मार्कण्डेय:-
अस्नाताशी मलं भुङ्क्ते अजपी पूयशोणितम् ।
अहुत्वाऽन्नं कृमीन्भुङ्क्ते अदत्वा विषभोजनम् ॥
आत्मार्थं पाचनं यस्य रसार्थं यस्य मैथुनम् ।
वृत्त्यर्थं यस्य चातिं निःफलं तस्य जीवितम् ॥
विष्णुः-
अतिथियस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।
स तस्य दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥
याज्ञवल्क्य:-
दिवाऽतिथौ तु विमुखे गते यत्पातकं भवेत् ।
तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखे गते । इति ।
अपि शाकं पचानस्य शिलोञ्छेनापि जाविनः ॥
शूद्रापारशिरोमणिः - स्वदेशे परदेशे वा नाऽतिथिविमना भवेत् । मनु:-- ब्राह्मणस्य त्वनतिथिहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैतौ ज्ञातयो गुरुरेव च ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमारजेत् । मुक्तवत्सु तु विप्रेषु कामं तमपि भोजयेत् । वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिम्मिणि ॥ भोजयेत्सह भृत्यैस्तावानृशंस्य प्रयोजनम् । इतरानपि सरन्यादीन् सम्प्रीत्या गृहमागतान् ॥ प्रकृत्याऽन्नं यथाशक्ति भोजयेत्सह भार्यया । कुटुम्यो गृही प्रकृत्य पक्त्वा । विष्णुधर्मोत्तरे- चण्डालो वाऽथ पापी वा शत्रुर्वा पितृघातकः । देशे काले घुपगतो भरणीयो मतो मम । भरणीय इत्यनेनाऽन्येऽतिथिधर्मा अभ्युत्थानाद- यो व्यावचन्ते । अनाऽपरो विशेपो गोविन्दार्णवेऽस्म- त्कृते द्रष्टव्यः । मनु:- पञ्चैतान्यो महायज्ञान् न हापयति तत्त्वतः । स गृहे निवसेन्नित्यं सूनादोपैर्न लिप्यते १७६ शूद्राचारशिरोमणिः पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः। ... कण्डनी चोदकुम्भश्च बध्यन्ते (येन जन्तवः ।) इति मनुस्मृतौ । ततो यथाशक्ति धर्ममिक्षुकेभ्य इतरभ्योऽपि भिक्षु- भ्यो भिक्षां दद्यात् । धर्मभिक्षवस्तु- यती च ब्रह्मचारी च विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते धर्मभिक्षुकाः ॥ इति । अथ भोजनविधिः। तत्र कृतनित्यक्रियः शुचिः प्रयतमानसोऽई चन्द्र- मण्डलं कृत्वा तदुपरि यथासम्भवमिति द्विपात्रं विन्यस्य आर्द्रपाणिपादयुगः पवित्रपाणिः पीठोपरि प्राङ्मुख उपविश्य यतवाग्वामहस्ताङ्गुष्ठधृतपात्रे नमो नारायणायेति अभिमन्त्रितजलेनान्नमभ्युक्ष्य, चित्राय नमः। प्रेतेभ्यो नम इति दक्षिणभागे धर्मराजाय वालं दद्यात् । प्रवरसंख्यया बलिदानमित्यके । ततस्तूष्णी चुलुकेन जलं पिबेत् । ततः पञ्च ग्रासान् आमल- कमात्रान् दन्तैरस्पृश्य सममनास्वादयन् प्राणाय नम इत्यादि जपन् भुञ्जीत । पौरस्त्यास्तु अपाशानमन्त्रा बलिमन्त्राः प्राणा- ( ) बध्यते यास्तु वाहयन् । इति पाठान्तरम् ।
TIIE PRINCESS OF WILES S.IN.ISVATI BUIVANI TEXTS. Edited by GOPISATII XAVIRAJ, HA No 1-Tho Kirparati Bhaskarn, (freon Juan) (@fas), n Commontary on Udayala , Kirapávali. Irsyn sociion, by Padmanabha 3litra Hd with Introdlaetlounnd Indox br (inpinath Kavir),31.A Ils 1-10 No 2-Tho Adinita Chintamani, (anfarajalo) [izra), hs Rangoji Bhatta, red with Introduction nic lop Nariyana Sansei Kihista Sahitricharya N. 1-12 No 9-Tho Vedanta Kalpalitila. ( Erag Foo fari) (zrn, o Vallvuddann Sunsall Idited with Introduction nic br Mamajna l'arxinin t'ri haraphclhrya In 1-10 So f-The fiucumaninda Moriand (1991-afrodifuary (sara). m Commonları on Udanna. Thoistic 1rar! AAA kasumnjali, lg Varadaraja Id with Introdaction olo it Gopinath Kasirnj, VI A.Ns 2-0 No. 5–Thn Insasion (TRATT) [&tifos] a Commontars on Udayana's Kimantiali, liuna faction, ins Hantin Vadindra Id with Introduction etc lis Copinath Kovinj, VA H1-? In 1-(Part I)-Tho Bharani Viveka (Granada) (sinlar). by Innlana lifra, within Commoninry loy Bhatta Umloha td with Introdactlon olc ly V Ni Ganganathin Jha, 11 A, D Litt Ns 0-19 No 6-(Part II)-Ditto Ditto s 0-19 No 7-(Part 1)-Tho Yoginihdayn dipiki, (afraiczazifear) (arn), by Arstānando Natha, boing n Cominontors on Yoginthsdaga, a part of Vainahofynra Tantra Td with Introduction etc by Gopinath kinuraj, MI A. Rs. 1-8 No 7-( Part II ) Ditto Ditto 1, 1-4 No 8-Tho Kavyadakint (415977f9l) (978971a], lg Anngananda Kavindra ( 2 ) Ed. with Introduction etc. by Jagannūtha S'āstri Hoshing Sāhityopādhyāya. Rs. 0-10 No. 9--(Part 1)-The Bhakti Chandrikū (77f96afeft) [fa], Commeutary on S'andilyas Bhaktisītras, by Nārāyaṇa Tirtha. Ed.with a Prefatory Note by Gopinath Kaviraj, II. A. Rs. 0-15 No. 10-(Part I.)-The Siddhāntaratna, (fagrara) [aaa aasia), by Baladeva Vidyābhūşana. Ed, with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.1-2 No. 10-(Part II)-Do. Do, Rs. 2-12 No. 11-The S'rī Vidyā Ratna Sūtras, (श्रीविद्यारत्नसूत्र) [तन्त्र ], by Gaudapāda, with a Commentary by Sankarāraṇya, Ed. with Introduction eto. by Nārāyana S'īstri Khiste, Sāhityācharya, Rs. 0-9 No. 12-The Rasapradipa, (taga) [er], by Prabhākara Bhatta. Ed. with Introduction etc. by Nirāyana S'üstri Khiste Sāhityāchārya. Rs. 1-2 No. 13-The Siddhasiddhanta Sangraha, (fagfarareagot) [F779ATI), by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14–The Trivenikā, (faafar ) [er], by Āſādhara Bhatta. Ed. with Introduction by Batukanātha S'arma Sāhityo. pădhyāya, M. A. and Jagannatha S'āstri Hoshing Sāhityopădhyāya. Rs. 0-14 No. 15-(Part I)-The Tripurārahasya, (Jñāna Khaņda) (fagprieka, ज्ञानखण्ड) [तान्त्रिकदर्शन], Ed.with a Prefatory Note by Gopinath Kaviraj,M.A Rs.0-14 No. 15-( Part-II )-Do. Do. Rs. 2-4 No. 15-( Part III )-Do. Do, Rs. 2-0 No. 15-( Part IV )-Do. with Introduction, etc. by Gopinath Kaviraj, M. A. No. 16-The Kāvya Vilāsa, काव्यविलास) [अलङ्कार], by Chiranjiva Bhattāchārya. Ed. with Introduction etc. by Batukanātha S'armă Sāhityopādhyāya, M. A. and Jagannātha S'āstri Hoshing Sāhityopādhyāya. Rs. 1-2 (0) ALA, No. 17-The Nyāya Kalika, (69197377) (-270] by Bhatta Jayanta Ed with Introduction by MM Gangånntha Jhă M A D Litt Rs 0-14 No 18-(Part I)-Tho Goraksa Siddhanta Sangraha (mafeara. RCE) [77ari), Id with a Prefntory Note by Gopinath haviraj, Rs 0-14 No 19-( Part 1 )-The Prakrita Prakaśn (1929777) (9 maart], by Vararachi with the Prakrita Sanjivani by Vasantaraja and the Subodhini by Sadananda Ea with Prefatory note etc by Batuk Nath Sarma M A and Baladova Upadhyaya II A Rs 2-4 No 19-( Part II ) Ditto Ditto Rs 2-12 No 19--( Part III ) Introduction etc (In Preparation) No 20 The Mansatattvaviveka (Atharafaày ) ( a ), by Viśvanatha Nyāyapanchanana Bhattacharya Edited with Introduction otc by Pundit Jagannatha Sastrı Hoshing Sahityopadhyaya, wauh a l'oreword by Pandit Gopi Nath Kavırāja V A Principal Government Sanskru College, Benares Rs 0-15 No 21-( Part I) The Nyaga Siddhanta Mali (Farafazraatar) [7247791, by Jayırama Nyaya Panchanana Bhattacharya Edited with Introduction etc by Dr Mangal Deva Sastri, M A, D Phil ( Oxon ), Librarian, Govt Sanskrit Library, Sırasvati Bhavana Benares Rs 1-6 Yo 21-( Part-II) Ditto Ditto Rs 2-0 No 22-The Dharmanubandhi Slokachaturdasi (uafgafuzata agent) [akata), by Sri S osa Krsna with a Commentary by Ramı Pandit Edited with Introduction etc by Narayana Sastri Khiste Sahityacharya, Assistant Librarinn, Government Sanskrit Library, Saraswati Bhavana Benaros Rs 1-0 No 23-The Navaratrapradips (aat ain) [våsita ), by Nanda Pandit Dharmadhikari Ld with Introduction etc by Vaujanatha Sastri Varakale Dharmasastra-Sastri Sadholal Research Scholai, Sanskrit ( 4 ) College, Benares, with a Foreword by Pândit Gopinath Kaviraj, M, A., Principal, Government Sanskrit College, Benares. Rs. 2-0 No.24–The S'ri Rāmatāpiniyopanişad (argarfariatafaqx) [shfaqe], with the Commentary called Rāma Kāśiká in Pūrvatāpini and Anandanidhi in Uttaratâpini by Anandarana. Ed. with Introduction etc. by Anantarăma S'ästri Vetāla Sāhityopādhyāya, Post-Acharya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Nātha Kavirāja, M. A., Principal, Government Sanskrit College, Benares. Rs 3--12 No. 25-The Sāpindyakalpalatikā ( Atfqusahagafar ) ( ala ), by Sadāśivadova alias Apadeva with a commentary by Nārāyaṇa Deva. Edited with Introduction etc, by Jagannātha S'astri Hośinga, Sāhityopādhyāya, Sãdholâl Resourch Scholar, Govt. Sanskrit College, Benares. Rs. 1-4. No. 26-The Mrgāńkalekhā Nātikā ( orderarféar ) [a1f2FT), by Visvanātha Deva Kalvi. Edited with Introduction etc. by Nārāyaṇa S'āstri Khiste Sahityācharya, Asst. Librarian, Government Sanskrit Library, Benares. Rs. 1-0 No. 27--The Vidvachcharita Panchakam ( fagafaqa ) [faara], By Nārāyana S'āstri Khiste, Sāhityacharya, Assistant Lib. rarian, Govt. Sanskrit College, Sarasvati Bhavana Library, Benares, With an Introduction by Gopināth Kaviraja, M.A., Principal, Govt. Sanskrit College, Benares. Rs, 2-0 No. 28--The Vrata Kos'a (aa17) [GÅRTIES], by Jagannātha S'āstri Hosinga Sāhityopādhyāya, late Sadholal Research Scholar, Sanskrit College, Benares. With a Foreword by S'ri Gopinātha Kaviraja, M. A., Principal, Govt. Sanskrit College, Benares. Rs. 4-0 No. 29-The Vạitti dīpikā (aragiaat) (591270], By Mauni S'ri Krşna Bhatta. Edited with Introduction etc. by Ft. Gangadhara S'astri Bhāradvāja, Professor, Govt. Sanskrit College, Benares. Rs. 1-2 No. 30--The Padārtha Mandanam (agreiðuca ) [ Safa# ], By Sri Vonidatta, 0 ܐ ܦ Witod with Introductiou otc by l'audil Gopala Astri Nono, Profossor, Govt Sanskrit Co:10.9, Bonares Rs 0-14 Vo 31 ( Part I)-Tho Tantraratna (arna ) [ HAJAT ), bg Partha Sărathi Blis ta Lditod by M JI Dr Gan, inatha Iba, JA, V Litt, Vice-Chancolior, lllahabad Vorrorsity Allahabad Rs 1-14 No 31-( Part II ) Ditto Ditto Edited by Pt Gopal Sastri Nono, Govt Sanskrit College, Bonnros Vo 33-The littvasira (aftar ) (7914 ). by Ribbaldası Nyayaratna Editod with Introduction etc by Horslara Sastrı, Bunaros Hindu University No 33-( Part I) The Ayaya haustubha (-9195) [ +970 ), by Juladova Puntamhar Editod with Introduction otu by Umos a Alifru, YA Allahabad University, Allahabad Rs 3-4 No 34 (Part I) The Advaita Vidyatılabam (afaqifafa) ( argrazi-a ), by 8 r1 Samarapungava Dikbıta With a Commentary by Sri Dharnayya Diksita Ldited with Introduction, etc, by Ganapat. Lad Jha, M A., Sacholal Rosoarch Scholar, Goyt Sanskrit Library, Benares Rs 1-4 No 35-The Dharma Vijaya Nataka (TA4a1Zx ) [ aiz# ], Los Bhudeva Sukla Edited with Introduction eto, by Pandit Narayana S astı i Khiste, Asst Librarian, Govt Sanskrit Library, Benaro Hs 1-4 No 36-the Ananda Kanda Champu (37 arq) (979). by Matra Misrn Edited, with a Toreword by Gopinath Kaviraj MA, by Nanda Kishore Sahityaclıuryn, Resourch Scholar, Saushrit College, Bonares No 37-The Upanıdana Sutra ( sqfacraath) [72], 1 dited with Introduction by Dr Mangaldera Sastry, BL A, D Phil Rs 1-0 No 38-The Kıranăvalı prašas a didhiti (Guna ), ( Pocontaat nafafa ) [aalam), by Raghunath Siromanı Edited by Pandit Badrinath Såstri, MA, I ucknow University Re 1-12 Rs 3-8 (o) No. 39-The Rāma Vijaya Dalıākūvya, ( TAFTAETAT54 ) [ $130 ), by Rupanātha, Edited by Pt. Ganapatilal Jha, 11. A. Rs. 2-0 No, 40-(Part I) The Kālatattva Vivechana (Fisarafahaa) (Gazta), by Kaghunātha Bhatta, Edited with a Foreword by Gopinātha Kaviraja M.A. by Nanda Kishore S'arma Sāhityāchārya, Research Scholar, Sanskrit College, Benares. Rs. 4-0 No, 40 ( Part II ) Do Do No. 41-(Part I) The Siddhānta Sārvabhauma (faz trandHA) [Fajfar], by S’rī Munīśvara. Edited with Introduction etc. by Jyautişâchārya Pandit DIurlidhara Thakkura, late padholal Scholar, Sanskrit College, Benares. ks 3-0 No. 42-The Bheda Siddhi (hafafa) [1979], by Vis'vanātha Pancha. nana Bhattācharya. Edited with notes etc., by Nyāya Vyakaranācharya Pandis Sûrya Nārāyana S'ukla, Professor, Govt. Sanskrit Colloge, Bonares. No, 434( Part I) The Smārtollāsa ( Faraigna ) [ Få 10% ], by Siva trasāda. Edited with Introduction, notes, etc, by Vedācharya Pandit Bhagavat Prasad Miśra, Professor, G017. Sanskrit College, Benares. No, 44-( Part I) Sūdrāchāra S'iromani (Teratafazafor) (gara], Edited by Sāhityācbārya Pandit Narayan S'astri Khiste. No. 45-( Part I) Kiranāvali Prakāśa (Guna) (f.poradt #127-yor) [ data ], by Vardhamāna, Edited with a Foreword by Pt. Gopinath Kaviraj, M., A., by Pandit Badrinaths S'astri, M, A., · Lucknow University. No. 46-( Part I ) Kavya prakāśa dīpikā (51TE7q4rc7f97) [349TT), by Sri Chandi Dāsa. Edited by S'ri S'ivaprasāda Bhattachārya, M. A., Professor, Presidency College, Calcutta. No. 47-Bhedajayaśrī ( ATST) [ Arsaagiza ), by S'ri Tarkavāgiến Bhatta Venidattāchārya, Edited with Introduction etc, by Pandit Tribhuvan prasad Upādhyāya, M. A., Inspector of Sanskriti Pathashalas, United Provinces, Benares, THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES: Edited by GOPINATH KAVIRAJ, UA Vol I-- (a) Stadios in Hindu Law (I). its Lrolution, by Ganganatha Jha (b) Tho V10w-point of Nyåga Vaifesika Philosophy, by Gopi nath Kaviraj (o) Nirmåpn Kaya, by Gopwath Kaviraj. Rs. 1-19 Vol. II- (a) Parafarăma Misra alias Vapi Rasala Raya, by Gopinath Kaviraj (b) Index to Sabara's Bhåşya, by tho Into Col G. A. Jacob (c) Studios in Hindu Law () --its sources, by Gangånäth Jua (d) A Now Bhalt: Sutra, by Gopinath Kaviraj (c) Tho system of Chakras according to Goraksa nátha, by Gopinath Kaviraj. (f) Thoism in Ancient India, by Gopinath Kaviraj (8) Hindu Pootics, by Batuka nátha Sarma (h) A Seventeenth Contury Astrolabo, by Padmákara Dvivods. (1) Sumo aspects of Vira Saiva Philosophy, by Gopinath Kaviraj. (1) Nyaya Kusumádjali (English Translation ), by Gopioathi Kavira). (k) The Definition of Poetry, by Näráyapa S'Astri Klisto. (1) Sondala Upadhyāya, by Gopinath Kaviraj Rs.0 Vol. IL- (a) Index to Sabara's Bháşyo, by the late Col. G A. Jacob (b) Studios in Hindu Law (3) Judioral Procedure by Ganga nátha Jha, (o) Thousm in Anoient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyåya Vaifaşıka Literaturo, by Gopinath Kaviraj (o) Nazşadha and Sri Harsa by Nilakamala Bhattacharya. (f) Indian Dramaturgy, by P N Patankar, * R$ 0, (*) Vol, I'v' (a) Studies in Hindu Law (4): Judicial Procedure: by Gangå. nătha Jha. (b) History and Bibliography of Nyāya Vaićeșika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Prātiśākhya, Margala Deva S'āstrī. (d) Nārāyaṇa's Garita kaumudi, by Padmākara Dvivedi. (0) Food and Drink in the Ramayanic Age, by Manmatha natha Roy (f) Satkāryavāda: Causality in Sārkhya, by Gopinath Kaviraj. (g) Discipline by Consequences, by G. L. Sinha. (b) History of the origin and expansion of the Aryans. by A. C. Ganguly. (i) Punishments in Ancient Indian Schools, by G.L. Sinha. Rs 5 Vol. V (a) Ancient Home of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Rāmayaņa, by Manmatha nātha Roy, (d) A Comparison of the Contents of the Rgveda, Vajasanoya, Tait tiriya & Atharvaveda Prātiśākhyas, by Mavgala Deva S'āstri. (0) Formal Training and the Ancient Indian Thought, by G.L Sinha. () History and Bibliography of Nyāya Vais'eșika Literature, by Gopinath Kavirăj. (g) A Descriptive Index to the names in the Rāmāyaṇa, by Manmatha nātha Roy. (b) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI- (a) Index to S'abara's Bhāşya, hy the late Col. G. A. Jacob.. (b) Some Aspects of the History and Doctrines of the Nathas, by Gopinath Kaviraj. (c) An Index etc. the Ramayana, by Manmatha nātha Roy. (d) Studies in Hindu Law by M. M. Ganganatha Jha, (0) The Mimamsa manuscripts in the Govt. Sanskrit Library (Benares), by Gopinātha Kavirāj. (f) Notes and Quories, by Gopinātha Kavira'j.
(8) VI. VII. (a) Bhamahe and his Karyalankart, by Ratakanatha Sardii and Baladora Upadhylsa (b) Sound variants in the roading of tho Val'epika Satras, by Gopinatha Karinj. (9) JIistory and Bibliography of Nykya Vai'nsiks Literature, by Gopinath Kariraj. (d) An attempt to arriro at the mirrectioning of somo obscuro Vodic words, br Silram JoshL 10) A comparison of the contonts of tho Niz l'oda, Vajaunosa, Taittirisa, and Atharta l'oda (Chiluradhyayika ) Pritisa. klıyas, los llangal Dora Shastri. (f) An Indox to tho Romagann, by Manmatha Sath Roy. (8) An Indox to Sabara's Bhaija, by tho lato Col. J. A Jacob. (h) Glonalogs from tho Tantras, by Gopinatı Karirsj. (1) Tho dato of Madbusodana Saraswati, by Gopinatha Kariraj. 0) Do-criptiro notes on Sanskrit Januscripts, iry Clopinathn Kariraj. (k) A nno on tho meaning of tho ford Purardha, by Umas'a Alis'ra, Vol. VIII. (n) Indian Philosophy, by Taraknath Sanyal. (b) An Indox to the Ninjang, bs Maamatha Nath Ros. (c, Indox to B'nbara's Bhagya, by the lato COL J. A Jacobs, (d) Hari/Svami, the commoptator of Satapathn Brahmana and tho dato of Skanda grami tho coinmontator of tho Rigroda, by Brangaladora D'Astri. (0) Mysticism in Voda, by Gopinath Kaviraj. (t) Tho Dova dast: a briof history of tho Institation, by Manmathin Natha Rog. Vol. IX. (In progross ) (A) Tho Lifo of A Yogin, by Gopinatha Krviraj.
THE PRINCESS OF WALES SARASVATİ
BHAVANA STUDIES
.
( SANSKRIT)
SARASVATALOKA
Edited by
GOPINATH KAVIRAJ, K, A,
Kirana 1 ( In progress )
(a) Mangalam, etc, by Nārāyana S'astri Khisle.
(b) Mimansaka mata samgraha, by Haranchndra Bhattācharya,
(C) Srimad Acharya Mandana Mis’ra by Chinna Swami Sastri
(d) Bhagavato Buddhasya Charitam Upades'as'oha :
by Gopinatha Kaviraj
Kirana I ( Supplement)
Sanekrita Kavi Parichaya-í Bharavi) by Nanda Kishore Sharma.
Kirana II ( In progress )
(a) S'ārada Prasādanam by Nārāyana S'āstri Khiste.
(b) Chūdāmani Dars'anam by S'as'adhara Tarkachūļāmani.
To be had of
The Superintendent
Government Press, U. P.,
Allahabad.
श्रीमत्सर्वतन्त्रस्वतन्त्र विद्वद्वरश्रीशेषकृष्णनिर्मितः शूद्राचारशिरोमणिः राजकीयसंस्कृतपाठशाला-सरस्वतीभवनोपाध्यक्षेण साहित्याचार्यपदालङ्कृतेन श्रीमता नारायण- शानिखिस्तेशर्मणा संस्कृतः । THE S'UDRACHÁRA SIROMANI BY SRI S'ESA KRISŅA. (PART II ) EDITED WITH INTRODUCTION TITO BY SĀHITYAOLĀRYA PANDIT NĀRĀYAŅA SĀSTRI KESTE Assistant Librarian, Govt. Sanskrit College, Saraswati Bharana Library, Bonnros. 1936
No text on this page.
॥ ॥ t: उपोद्घातः अयायमुपक्रम्यते शूद्राचारशिरोमणि म श्रीकृष्ण शेषमणीतो धर्मशास्त्रनिबन्यो मुदयित्वा प्रकाशयितुम् । अस्य प्रणेता श्रीकपणशेपः किल विश्वविख्यातवैदुपीवैभवः फाशी. निवासी महाराष्ट्रवारमण आसीत् । तत्पिता श्रीनृसिंहपण्डितोऽपि महाविद्वान् तात्कालिककाशिराजधानामात्य पासीत् । थिया विद्यया च सममेव सम्मावितमिदं कुलमद्यत्वेपि फाशिफमहास- प्टूब्राह्मणेपु प्रामुख्येन गण्यते । श्रीकृष्णशेपस्य समयस्तु पोडशशतकोत्तरभाग इत्येष फल्पयितुं शक्यते । यतस्तेन स्वकीयं 'कंसवधं नाम नाटफमकघर- पादशाहप्रधानसेनापतिटोडरमलपुत्रगिरिधारिनिदेशेन मणी- तमिति, "तस्यास्ति तण्डनकुलामलमण्डनस्य श्रीतोहरक्षितिपतेस्तनयो नयमः । नानाफलाकुलगृह स विदग्धगोष्ठी- मेकोधितिष्ठति गुरुगिरिधारिनामा ।। तेनाई सबहुमानमाहूय ससमाजेनादिष्टोऽस्मि । इति सवयोपोद्धातादषसीयते ।
उपोद्धातः। इत्थं च अकवरसमयात् किश्चिदनन्तरभावित्वं शेषकृष्णस्य वक्तुं युक्तम् । किञ्च, वैयाकरणसिद्धान्तकौमुदीकर्तु भट्टोजिदीक्षि. तस्य श्रीकृष्णशेषो गुरुरासीदिति, निर्विशेष महाशेषाच्छेषकृष्णमहं भजे । यो मामशेषाः शेषोक्ती विशिष्यवाध्यजीगपत् ॥ इति सरस्वतीभवनस्थ शब्दकौस्तुभपुस्तकस्थश्लोकेन, पण्डि- तराजजगन्नाथकृत मनोरमाकुचमर्दनोपोद्घाताच निश्चीयते । तथा च भट्टोजिदीक्षितात् किञ्चित्पूर्वभाविनः शेषश्रीकृष्णस्य षोडशशतको- तरभागे ऽवस्थितिः कल्प्येत चेन्नैतदयोग्यं स्यात् । 'शुद्धाचारशिरोमणि' रित्याख्यः प्रकृतप्रबन्धस्तु श्रीमता शेष- कृष्णेन कस्यचित् 'केशव' तनूजस्य 'पिलाजी इत्याख्यस्य दाक्षिणात्यभूपालस्य प्रार्थनया प्रणीत इति ग्रन्थोपोद्घाते स्वय- मेवोक्तमस्ति । तथा हि (ग्रन्थादौ) अस्ति प्रत्यर्थिपृथ्वीपतिबलजलधिप्राशने कुम्भजन्मा सन्मानार्ह द्विजन्मार्चनपरिचरणप्रीणिताशेषदेवः । विष्वद्रीचीनकीर्तिस्फुरदमरसरिद्धीचिनीकृताघ- प्रोल्लाथस्फारसम्पद्वितरणनिरतः श्रीपिलाजीनृपालः ॥ धर्मानशेषान् विदुषामसौ मुखादाकार्य तत्सङ्करशङ्किमानसः । शूद्रोपकारार्थमचीकरत् कृती चतुर्थवाचितधर्मपद्धतिम् ॥ तदर्थनानुरोधेन कृष्णाः शेषनृसिंहजः । पालोज्य धर्मशास्त्राणि तनुते शूद्रपद्धतिम् ॥ इति । - उपोदातः। ३ मन्थान्ते- गुणागुणपरीक्षणक्षणविचक्षणोऽनुक्षणं वितीर्णबहुदक्षिणः स्वननरक्षणे दक्षिणः । जयत्यतुलविक्रमोचलितदक्षिणाशामुख: प्रतिक्षपितशात्रवः तितितले पिलाजीनृपः ।। हरिचरणसरोजावानन्मा द्विजन्मा- ऽर्पणविहितविभूतिः स्वर्धनीपूर्वजन्मा । व्यरचयदतियलात् केशवस्यात्मजन्मा सफललघुनिबन्धं शेपकृपा प्रयुज्य ॥ इति च । कोऽयं पिलानीभूपालः १ कुत्रत्यः किं सामयिकवेति पहुशो. विचारयन्दिरपि नास्माभिः किमप्यद्ययावन्नियतुमपारि तद्विपये। पोडशशतकोत्तरभागो हि शेपणास्य समय इति पूर्वोक्त: प्रमाणे निश्चितमेव। तस्मिन् समये महाराष्ट्र तिहासे कोऽपि प्रभावशाली पिलाजी नोपलभ्यते । मुघोलकरभोसलेवंशे सन् १५७८-१५६८ पर्यन्तमेकस्य पिलानी राजस्योल्लेखो दृश्यते सच न केशव- पुत्र इति प्रकृते नेपियुज्यते । अन्ये पिलाजी जाधव' 'पिलाजी- गायकवाड' प्रभृतयस्तु प्रसिद्धाः प्रभावशालिनोऽपि पेशवेसमसा. मयिकाः प्रकृतग्रन्यार्तुरर्वाचीना इति तैरपि न कार्यसिद्धिः । यदि- केचिदितिहासकोविदा अस्पदभीप्सित पिलाजीराजविपये किञ्चि- ज्जानीयस्तहि तैर सानुग्रह सूचनीयः । श्रीमान श्रीकृष्णशेपस्तु महाचैयाकरणः साक्षाच्छेप इव लो- के पूज्यतेस्म । अस्य कवित्वमपि लोकोत्तरमासीत् । अनेन काशी- उपोद्धातः । ६ पुरीपरिसरवति ताण्डवपुराधीशानुजस्य नरोत्तमम्य निदेशेन 'पा- रिजातहरणचम्पू निरमायि । महाविदुषाऽनेन विविधेषु शास्त्रेषु विविधा ग्रन्थाः प्रणोताः सन्ति । प्रकृतग्रन्थमालाया २२ संख्या- यामेतत्कृता 'धर्मानुवन्धिश्लोकचतुर्दशी' मयैव सम्पादिताऽस्ति । अयं चास्य प्रकाशितो द्वितीयो धर्मशास्त्रनिवन्धः । शुद्राचारशिरोमणिः किल लघुरपि गभीरार्थों निवन्धोऽस्ति । यद्यपि शूद्रधर्भनिरूपकाः 'शुद्रकमलाकर' 'शूद्रतत्त्व' प्रभृत. यः सन्ति भूयांसो निबन्धाः, तथापि लघोरप्यस्य निवन्धस्य त- दितस्तथाभूतनिबन्धाऽपेक्षया जाग] महद्वैशिष्ट्यम् , यत्प्रेक्षा- वद्भिः स्वयं परिशील्यैव ज्ञातु सुशकम् । पुस्तकद्वयाधारेण प्रकृत. संस्करणं साधितम् । तत्रैकं पुस्तकयत्रत्यभन्यत् भांडारकररिसर्च इंस्टिट्यूट-पूना तः समुपलब्धम् । पुस्तकद्वयमपि खण्डितमासीदिति पर्थवसाने ग्रन्थस्य कश्चिदंशस्त्रुटितएव स्थितः । अस्मिन्निवन्धे ग्रन्थकृता प्रतिलोमानुलोमसङ्कराणां सङ्करस- कराणां च नामानि, तदुत्पत्तयस्तदाजीविकाश्च सम्यक्सङ्ग्रहीता इति मयाऽपि पाठकजनसौकर्याय सोंऽशः पृथक्कृत्यात्र संयोजितः । अत्रत्यविषयाणां विशाला सूची चात्र संयोजिताऽस्ति । मन्ये एतावता नव्यधर्मनिबन्धदिदृक्षणां विदुषां परितोषो भवेदिति । प्रकृतग्रन्थसंस्करणे ममाज्ञानवशात् सीसकाक्षरयोजकदोषा- द्वा वर्तमानानि स्खलितानि समुदारचेतसो बुधा मर्षयेयुरिति तान साञ्जलि प्रार्थये ।
उपोखातः। सदा मयि सानुग्रहदृशां काशिकराजकीयसंस्कृतपाठशाला- प्रधानाध्यक्षाणां महामहोपाध्याय श्रीगोपीनायकविराजमहोदयानां, काशिकराजकीयसंस्कृतपरीक्षाध्यक्षाणां डॉ० मङ्गलदेवशास्त्री एम० ए०. डी. फिल. महोदयानां च सादरमुपकारभारं सारं स्मारं तदनुग्रहेण पूर्ण पिमं प्रवन्धं तेभ्पएव समर्पा विरमामि विस्त- रादिति शम् । मकरसंक्रान्ति संपत् १९६२ सरस्वतीभवनम् काशो. विरुपाकांक्षी- नारायणशास्त्री खिस्ते 一
श्रीः
शूद्राचारशिरोमणायुक्तानां सङ्करसङ्कराणा-
मुत्पत्तयः, नामानि, आजीविकाश्च
यथोक्ताः प्रदर्श्यन्ते-
१ जुकराठःप्रात्याछिप्रपन्यां जाता।
विष्णुपूजनम्, नृ.
२ आवर्तकः प्रामण्यां अफराठाज्जातः । त्यगीतादि, शहा
३ कटधानाआयात् दिभार्यायां जातः। घोणादिवादन.
४ पुष्पशेसर:प्राधण्यां कटधानाज्जातः ।
मेतेपांजीषिका।
५ भोजफा=पुष्पशेखरायां विप्राज्जातः । सुर्यपूजनं जीविका।
६ देवलका=मोजकसुतायां द्विजाज्जातः। विष्णुपूजनं जीविका।
७ आमीर:=माहियायां द्विजाज्जातः । क्षीरविक्रयो जीयिका।
८ उदयाहः विप्रादेशांव्यभिचारतो जातः । छत्रधारणं, नारोपि.
(ब्रामण्यां चश्यादेवी) क्रयणंचास्यजीविका
हवैष्टिकः विनानिपादायां जाता। स्कन्धवहनमस्य नी.
(विप्राच्या जातो निपादः) पिका।
१० विप्रामागध्यां जात:कारागृदस्य गोपनं तज्जीविका । (क्षमि.
यायां पैश्याज्जातो मा गधः)
२. अम्यष्ठायां द्विजाज्जातः । कांस्थकर्मफरणं जीषिका ।
१२ उग्रायां द्विजाज्जातः । कुम्मकारः।
१३ मलः । नियुद्धम् ।
१४ वैतालिका ! कामशास्त्रेण भाकर्मणा पा जीधनम् ।
१५ कोनाटः । ताम्रकुट्टनम् ।
१६ पणिगजनात् विप्रायां जाता। अन्तापुरपालनम,पण्यापनासगमनम् ।
( २ ) २ २७पारशव्यायां महिष्याज्जातः । मालाकरणम् । १८ सृताद्वैदेह्यां जातः। सूपकरणम् । (ब्राह्मण्यां क्षत्रियात्मृतः । श्याद्वैदेहः।) १९ मैत्रेयुकः । घण्टावादनं मङ्गलगानं च जीविका (शूद्राद्वैश्यायां जात आयोगवः, देहादम्बष्ठायां जातो हरिमेखलः।) २० करणादायोगव्यां सैरन्ध्रः। गन्धकर्मकरणं पुष्पचन्दनपण्यादि. (पैश्याच्छूद्रायां करणः ।) शृङ्गारकरणं च जीविका । २१ उग्रायां पारशवाज्जाविकः । पावेगवान् । २२ आरूढपतितात् शैवात् पाशुपतात शूद्रपल्या जातो भस्माङ्कुरः । शिवार्चनम् , शिवदायेन जीवनम् , शिवाय दत्तेन चण्डीशभा. गाख्येन जीविका । २३ क्षत्रियादुवायां क्षेमका लएव प्रतीहारः। (क्षत्रियाच्छूद्रायामुग्रः) २४ अम्बष्ठाद्वैदेहां जातः कुशीलवः । नर्तनादिकरणं जीविका । (विप्रा. वैश्यायां पैदेही) २५ आभीराजातो निर्मण्डलकः । बाणपिच्छकरणम् , करपौः शरा- रणां रचना च जीविका । २६ मागधाहुग्रायां जातःकुन्तलो नापितः । श्मश्रुकर्म, क्षौरकर्मकर- णम् , नखकर्तनम् , जीविका । अयं शूद्रेभ्योऽधिकः । ( क्षत्रिया- च्छूद्रायामुग्रः, क्षत्रियायां वैश्यान्मागधः ) शूद्रकन्यासमुत्पन्नोऽ. संस्कृतो ब्राह्मणोऽपि नापितः स च शूद्रधर्माधिका(मन्वनुसारेण) २७ माहिष्येण करण्यां रथकारः। शिल्पवृत्त्या जीवनम् । वचनाद- स्योपनयनाधिकारः३ २८ पैदेहान्माहिध्यां कायस्थः। (क्षत्रियाद् वैश्यायां माहिष्यः, श्या. द् ब्राह्मण्यां नैदेहकः ।) देशजातानां लिपीनां लेखनम् , गणकत्वम् , लिपिलेखनसाधनं चातुर्वर्ण्य सेवा च जीविका। असौ पञ्चसंस्का. रवान् । शिखा, यज्ञोपवीतं, आरक्तवस्त्रं, देवतास्पर्थनं च कायस्थ. स्थ पर्थमा . २६ करिएयां मालाकारात् शालक्यः । मणिरन्ध्रकरणं जीविका । मणिहार इतिख्यातः । स्मृत्यन्तरे मनुरिति संज्ञा । ३० मजोःकुलाल्यां शाल्मलः | नागवलीविफयो जविका । ३१ मालाकारात् क्षत्रियायां शिलीन्ध्रः । मर्दनफियो, अङ्गमर्दनं जीवि. का । शुद्रेभ्यो हीनः । ३२ शिलीन्ध्रात् क्षत्रियायां कोल्हाटीनामा । बहुरुपोति प्रसिद्धः। ३३ पैदेहाद्रूपकभार्यायां जातःपुत्र प्रान्धसिकः । पाचफ इति प्रसिद्धः । ३४ वैश्यात् फरण्यां जातो वसपालकः । ३५ कटधानान्मसुभार्यायामजीपालः । ३६ सैरन्ध्रयां क्षेमकात् शय्यापालः । राक्ष शय्यासंविधाने कुशलः । (तेमकः प्रतीहारी।) ३७ कर्मचण्डालभार्यायां पुप्पशेखराज्जातो मण्डलकः । शुनां मण्ड- लपोपणं जीविका। ३८ वदिनीशदसंयोगात् स्यंदोलिकः । असौ चतुर्वर्णविहीनः । मलि. ठारङ्गकरणं, तेन वाससां चित्रणम्, हस्तलेण्यं विम्वितं च तज्जीविका । स एव सौचिकः । करीसूचीकर्तनं जीविका । ३९ शूद्रयां निपादाज्जातः कुपुटः। स एय टङ्कशालकः । रङ्गशालामु नाटकानां विधानम् , अष्टधातूनां व्यवसायश्च जीविका । अय. मन्त्यः समः । ४० मागध्यां क्षत्रियादुल्मुकः । =लोहकर्मकारो। अयं चातुर्यात् हीन । अन्त्यजादुत्तमः । ४१ उमारपारशवापुत्रो मौकलिः तैलिकः । (उप्रादेधा जातो रजका) (क्षत्राच्छूद्रायामुग्रा, घालण्यां वैश्यावैदेही) सैलिकोऽन्त्यमा. तिभ्य उत्तमः । शुद्धतैलविक्रयोऽस्य जीविका । तिलहिंसायन्त्रश. ब्दश्रयणेन पापं भवतीति मौकलिको नगरादहनिर्यास्या।
( ४ ) ४२ रथकारखियामायोगवात् ‘सुत्रधारः। असौ जायाजोवः शैलषः नाट्य शास्त्रज्ञः। जलमण्डपिकादीनि सूत्राणि रचयेत् । नगरा. दहिर्निधासोऽस्य। ४३ सूतात् कुक्कुट्यां कुरविन्दः । पट्टांशुके रतः । अन्त्यजधर्माचारः । ४४ वेन्यामावर्तकादम्बर सूत्रवायकः । ( वेन्या नट स्त्री) ४५ आभीर्या कुक्कुटात्पुनः सौवीरः । = कोसटः । सर्वजातीनां वस्त्र. करणं जोविका। ४६ तद्वैपरीत्याज्जातो नीलीकर्ता। ४७ कुन्तलान्मजुभार्यायां जातो वर्वरः । ४८ मैत्राज्जाविकायां वन्धुलः, स एव मालकः । ४९ कैवा पौष्टिकात्पांशूलः =शणवायकः । ५० ऋजुकराठाच्छागल्यां औरम्रो मेषपालकः । ५१ क्षेमकादिगुभार्यायामावर्त उष्ट्रपालकः । ५२ मल्लात् देशिकायां रौमिकः । लवणकर्म तज्जीविका । ५३ द्विजादायोगव्यां धिग्वणः । कवचादिकरणं जीविका, चर्मणाऽश्व: पल्याणकरणम् । मोची इति प्रसिद्धः। ५४ वैदेहकात् कार्बोलिकायां मेदसंज्ञकः । वृक्षारण्य पर्वतेषु निवासेन जीविका । गोंहू इति प्रसिद्धः। ५५ पारशवादायोगव्यां कैवर्तः सर्वजातिभ्यो हीनः । जालेन मत्स्य- घातः। नौकाप्रवहणं चास्य जीविका । ५६ यतेविधवायां जातः कर्मचण्डाल ! वापी कूपादि मृत्कर्मकरणं तज्जीविका । असौ स्पृश्यएव । ५७ निषादाच्छद्रपत्न्यां जातः पुक्कसः। अन्त्यजसदृशः । अरण्यजीव घातेन तवृत्तिः। ५८ निषादात् बिग्वण्या चर्मकारः । अन्त्यजातिभ्यो हीनः, उपानहीं शिरस्त्राणस्य च करणेन गोमहिषीचर्मणा च तज्जीवनम् ।
५९ वेनादाभोर्या शौरिडकः । शौष्कल इत्यपि । असायधमः सर्वधर्म घहिकृतः, सुराविक्रयोऽस्य जीविका । ६० जाचिकात् कैवल् मङ्गुष्ठः ( रजकः ) खटकानां चूण त्या पाच नेन तज्जीविकाः । अयमस्पृश्यः । ६१ धिग्वणात् कुम्भकार्या चित्रकरः।चित्रलेखनं जीविका। वर्णवाह्यः। ६२ वैशिकात कुरुविन्दायां किंशुकः । लेपकर्मकृत् । अयमन्त्यजः । घंशपात्रविक्रयोऽस्य जीविका । ६३ कर्मचाण्डालकात् वैदेहां बुरुडजातिः । घंशविदारणं कर्म । ६४ निषादा द्वैदेह्यां गारुडः । सप्तान्त्यजसधर्मा । ६५ आयोगवात धिग्वण्यां दुर्लभः । करपत्रकरणं जीधिका । असाव. न्त्यजमुख्यः। ६६ चाण्डालात् कैवा सौनिकः। अजमेपादिहिंसा, तन्मांसविक्रयो जीविका। ६७ शौण्डिफ्यां डिण्डिमात् कीनाशः। ६८ चाण्डालात् पुक्कस्यां श्वपाकः । श्वमांसपचनं जीविका । ६९ निपाधां चण्डालाज्जातः डों घसंशः । मृताश्वखरहरणं जोविका। श्मशाने वासः। ७० शैलन्ध्रर्मेदयोपित्सु म्लेच्छजातय उत्पन्नाः । म्लेच्छाः मन्वनुसारेण । १ पौड़क २ चोडू ३ द्रविड ४ काम्बोज ५ यवन ६ शक ७ पारद ८ वाहीक ९ चीन, १० किरात ११ दरद इत्यादयः । पतेपामपि 'जात्युत्को युगे शेयः' इतियाज्ञवल्क्यानुसारेण शोभनैः कर्ममिर्जन्मान्तरे जात्युत्कों भवितुं शक्नोति ।
ܟ ܬܘ
* श्रीः
॥ शूद्राचारशिरोमणौ विषयानुक्रमणिका ।।
पृ.
२-३
१ मङ्गलाचरणम् ।
२ आश्रयदातृ राजकीर्तनम् ।
३प्रन्धकरणप्रस्तावः ।
४ शुद्धोत्पत्तिवर्णनप्रसनेन वर्णचतुष्टयात्पत्तिकथनम् ।
५ ब्राह्मणत्वक्षत्रियत्वादे विवचनम् ।
६ कुण्डगोलापध्वंसजादीनां जातिविपये विचारः ।
७पएणामनुलोमानां प्रतिलोमानां च विषये विचारः ।
८ वर्णानुलोमप्रतिलोमेषु तारतम्यविचारः ।
९ अनुलोमप्रतिलोमधमविचारः।
१० सङ्करसङ्कराणामुत्पत्तिनामाऽजीविकादिविचार ।
प्रथमपरिच्छेदसमाप्तिः।
८-१०
१०-१४
१४-१७
१७-३२
३३
द्वितीयपरिच्छेदारम्भः ।
११ शद्रकर्मवृत्तयः।
१२ उच्छिष्टान्नभक्षणविचारः ।
१३ समन शुद्रेण आपन्नो ब्राह्मणेाऽपि भरणीयः ।
१४ शुद्रस्य पाकयज्ञकरणाधिकारविचार: निषिद्धानां
परिगणनं च।
१५ शुद्रस्य वपनविषये विचारा।
१६ शुद्रस्य ब्राह्मणाराधनमेव मुख्यम् , द्विजाराधनं वा ।
३८-३६
३६
( २ ) ४२ पृ० १७ तदशक्तौ कारकर्मणा जीवनम् । १८ शुद्रेण करणीयानि कारुकर्माणि, सामान्यतः शूद्रधर्माः, शुद्रेण विक्रेयाणि, शुद्रस्यानापधेव मधुमांसादिविक्रयनिषेधश्च । ४० १४ अत्यन्तापदि मधुमासादिविक्रयस्याभ्यनुज्ञानम् । ४१ २० उशनसोदाहृताः शुद्रधर्माः, शुद्रश्य चण्डालत्वप्रापकानि च। ४१ २१ शुद्रस्य वेदश्रवणानधिकारः, वेदाङ्गाध्ययनानधिकारश्च । २२ शुदस्य संस्कृतोञ्चारणप्रतिषेधः । ४३-४४ २३ शुद्रसन्निधौ पुराणाध्ययननिषेधः तथाकरणे प्रत्यवायश्च । २४ स्त्रीशद्रादीनामपि पुराणपठनश्रवणाधाधिकारप्रमाण- वचनोपन्यासः पूर्वपक्षत्वेन । ४६ २५ पुराणश्रवणायोपविष्टेषु द्विजेषु तच्छुश्रूषाप्रसङ्गागतेन शुद्रेण श्रोतव्यम् , न तु प्राधान्येनेत्युत्तरम् । २६ ब्राह्मणपुरस्कारेण शूद्रस्य पुराणश्रवणविधिर्भविष्योक्तः । ४७-४८ २७ इत्थमपि शुद्रस्य श्रवणमेवानुज्ञातं, न त्वध्ययनम् । २८ शूद्रस्य वैदिकपौराणमन्त्रश्रवणपठनाधिकारविषये विप्रतिपत्तिः। २४ कल्पतरुकारमतानुसारेण शूद्राणां वैदिकमन्त्रएवान धिकारो न पौराणेष्वपि । तेन पौराणधर्माणां स्त्रीशूद्रान् प्रतिविशिष्य विधानात्तेषां च मन्त्रविशिष्टतावोत्पन्नत्वा. दगत्या कर्मागभूतपौराणमन्त्रपाठोऽप्यस्तीति । देशाचारोऽप्येवमिति, शूद्राणां साक्षानिषिद्धानां धर्मा. णां निवृत्तिः, साक्षाद्विहितानां प्रवृत्तिः । ३० अविहिताप्रतिषिद्धानामपि धर्माणां प्रवृत्तिः, किन्तु सर्वमप्येतदमन्त्रकमेव । श्रौतस्मार्तानां केषां चिद- मन्त्रकाणामपि निषेध इति निष्कर्षः। ३१ स्वस्वधर्माभिरतानां फलम् । ५१ ४८-10 मध्य. ५० २ ५१
३२ म्यधर्मानुगतस्य देशधर्मगतम्प राष्ट्रप म्यान पि
हाय प्रयोऽप्याधमा विधिना महामारसानुमान।
मावासिये मैसपनयन फाप ।
३३ भविप्पसमापनापान निग्दिान पलियुग
धर्माननुकम्प मास्यपुराणोनाना मंना नितम् । १२-१३
३५ तनिषेधः।
५५
३५ शूहस्य पतन ऐनया पराशरोला ।
३६ मुगपदस्मगं प्रायशितं नाम्सि, किन्तु यामापति
समुतं. ती शयन कम्प्यम् ।
१७माधारणमाः।
ও মুদ্রা। দ্বিয়াঘমনথি প ববি
रति गर । पदयाफ्याविधाऽनधिकाऽपि
हिजराधपाप्रसहोपविष्टानां प्रसाधुनपुराणायपगत.
मोक्षधर्मरिचार अधिकागापिगंधः ।
३९ उनायींपोपलवानि म्फान्दमत दिनापाक्यानि,
भारतीयमोमध याफ्यानि.
४० यत्र पर्णयिशेषोपादान, पूर्व प्रनि निधी या मास्ति तत्र.
तस्याधिकारोऽमयेय।
४१ उतार्थोपोपलकानि पचनानि ।
५३-५०
४२ महापातकमायधित नहम्य प्राणापेक्षया चतुर्गुणम् ।
४३ मनुलोमेपु म्यूनं प्रतिलोमेषु चाधियं प्रायधित्तम् ।
४४ स्त्रीयालरोगिद्धादेरले प्रायशित्तम ।
५५ यस्मिन् पयसि घुमामर्सम् तस्मिन् पयसिपीणांपाद.
मात्रम।
४६ यालस्य फियत् प्रायधिसमिति विचारः ।
४७ रहस्य प्रायश्चित्तापदेशे पचनिषेधः ।
५६
() હર पृ० ४८ शूद्रस्य निर्विद्यत्वेन वैदिकमन्त्रसाध्य जपहोमविवर्जितं कृच्छादितदानरूपमेव प्रायश्चिन्तम् । ६१ ४६. पञ्चगव्यं स्त्रीणां विकल्पितम् । દર ५० शुद्रस्य प्रायश्चित्तानड़गपञ्चगव्यपाननिषेधः । ५१ शुद्रेण प्रायश्चित्तागजपहामौ विप्रद्वारा कार्यो । ५२ द्विजातिशुश्रव शूद्रस्य मुख्यकर्म, तदविरोधेनैव क्रिय. माणं कर्म सफल भवति । ५३ शूद्रस्य धनसञ्चयनिषेधः। ५४ मेधातिथ्यनुसारेण शुद्स्य विहितनिषिद्धयोर्विचारः। ६४-६६ ५५ दैवो ब्राह्मणश्चेति द्विविधासंस्कारः, तत्र वैदिकमन्त्र- लाध्यो देवरस्कारस्तु शूद्रस्प न भवति । गर्भाधानादि. षोडशस्मार्तब्राह्मणसंस्कारेषु विवाहोऽन्त्यसंस्कारश्र शुद्रस्यामन्त्रको भवति । ६७ ५६. शुद्रस्य सामान्यतः संस्कारनिषेधेऽपि केषांचित् प्रति. प्रसवः । यथा-पञ्चमहायज्ञश्राद्धगर्भाधानानि, नामकरणं, निष्क्रमणं, अन्नप्राशनं, कर्णवेधश्च भवति । ६८-६९ ५७ 'विवाहमात्रसंस्कार शुद्रोऽपि लभते सदा' इति ब्रह्मा- पुराणीय वाक्यविचारः। ५८ शूद्रस्य चूडाकर्मनिषेधः । ५९ प्रसङ्गात् चूडाकर्मविचारः ६० शूद्रस्योपनयननिषेधः ६१. येषु जातकर्मसीमन्तोन्नयनादिषु संस्कारेषु शूद्रस्यान- धिकारः, तत्कर्मकाले कुलपरंपरागतं मङ्गलाचारमात्रं. कार्यम्, न पुनः संस्कारः। ७१ ६२ आभ्युदायिकं श्राद्धं शूद्रस्थामानेनैव भवति । शुद्राणां सध्यावन्दलं नास्ति ७१-७२ ६९ ७० ७४ ७५ ६३ स्त्रीशद्रयोः प्रणये नाधिकारः। ७२ ६४ वैष्णयमन्त्रदीक्षा तु शदाणां भवति । ७२ ६५ पञ्चरात्रानुसारेण शूद्राणां दीक्षा भवति । ७२-७३ ६६ शक्तिविनायक मन्त्रदोक्षापूजनादौ सदस्याधिकारोऽस्ति । ६७ यज्ञोपवीतं शद्रेण न धार्यम् । ६.शियविप्रवादिदेवतानां दूरापूजने सदस्याधिकारः, न तुस्पर्शने । ६ स्त्रीशद्रादिस्पृष्टशिवलिङ्गविएवादिनमने त्रैयगिफानां. निषेधः। ७० स्वधर्महीनेन शिषपूजा न कार्या । ७१ ग्राह्मणस्य तु स्वधर्मत्यागिनोपि शिवलिङ्गादिस्पर्शपूज. नादौ न निषेधः। ०६ ७२रदानीन्तनप्रतिएितलिप्वेव स्नीशद्रादीनां स्पर्शानधि. कारा, न पुनः पुराणप्रतिष्टितेप्यनादिलिनेष्यपि । ७६-७७ ७३ विजसेघकानां सच्छूद्राणां द्विजसेवाऽविरोधेन मासि- मासि घपन, हिजोच्छिछभोजनं, हिजगृपयावृत्तिः पञ्चमहायझनिष्ठत्वंचेति धर्माः। तदितरेषां सामाग्य. धर्मा अहिंसादयएव । भगवन्नामकीर्तने तु सर्वेपामस्त्य. धिकारः। ७५ आहिकक्रमेण शुढे कर्तव्यविशेषः । प्राता हत्यम् । प्रातःस्मरणीयदेवताः। ७६ ७६ शुद्रस्य मूत्रपुरीपोत्सर्ग नियमः । शूद्रस्य यशोपवीताभायातकार्यकरत्वेन घस्रोचरोया. देरपि न फर्णनिधानावश्यकत्यम् । ७६-८० ७८ शूद्रस्य मूत्रपुरीपोत्सर्गादौ नियमोस्तत्र प्रमाणानि च । ८०-८२ मूत्रपुरीपोत्सर्गसमये दकपात्रं करे न कर्तव्यमिति नियमः । ८२ ७७ ७६ व्यम् । पृ० ८० वाष्पग्निविप्रादित्यगोजलानि पश्यतो विरामृत्रोत्सर्ग निषेधः। ८२ ८१ पल्वलतडागनदीप्रस्रवणतुपाङ्गारकपालदेवतायतन रा. जमार्गश्मशानक्षेत्रखलोपरोधं परित्यज्य, छायाचतुष्प- थोदकोदकान्त मार्गवृक्षमृलचैत्यश्वभ्र विलानि परित्य. ज्यमेहेत । ८२-३ ८२ विराभूत्रादीनावामहस्तेनायाक्षिक वीरणाद्यैर्मार्जनं कर्तः ८३ ८३ अधः शौचे दक्षिणहस्तं न योजयेत् । नाभेरु वामहः स्तेन न शोधयेत् । शौचमत्यन्तमावश्यकम् । ८४ विरामबोत्सर्गानन्तरं शौचव्यवस्था, कीदृशी मृत्तिका ग्राह्येति विचारः । वर्णभेदेन मृत्तिकाभेदः, मृत्तिका लेपप्रमाणं च । ८१-८६ ८५ गृहस्थापेक्षया ब्रह्मचारिणां द्विगुणंशौचम् , वनस्थानां त्रिगुणम्, यतीनां चतुर्गुणम् स्त्रीशद्रन्योरईमानम् । ८६ अनुपनीतानां द्विजानां स्त्रीशुद्रादीनां च गन्धलेपक्षयकर. मेव शौचम् । आर्तस्य यथाशक्ति । ८७ यद्दिवा विहितं शौचम् , रात्रौ तदर्द्ध कार्यम् । तदर्द्ध मातुरे, तदमध्वनि । ८७-८ शूद्रस्प विवाहात्प्राक्शौचे संख्यानियमो नास्ति । विवाहानन्तरं संख्यानियमाभावे प्रत्यवायः पाद. प्रक्षालने द्विजातेः पूर्व दक्षिणस्य, ततोवामस्य । शूद्रे- त्वेतद्विपर्ययः । शौचानन्तरं परस्य स्वस्य वा विरामूत्रं. दृष्टा आदित्याग्निसोमगोब्राह्मणान् पश्येत् । ०९ आचमन विचारः । ८६-६१ 80 आचमन निषेधः। ९१-६४. ९१ आचसनानुकल्पाः.. ९५-१५ ८७ 1 ८८ ... ... ९५-१०० १००-१०१ १०१-१०७ २०७-१११ १११-११३ ११३-१९० ११८-१२६ १२६-१२७ १२८ १२९ १३०-१३५ ... ... ... ... .. ९२ दन्तधावनमा १३ फेशप्रसाधनम। ४४ स्नानविधिः ९५ स्नानप्रयोगः । १६ अर्धपुण्डविधिः। ७ तर्पणम् । १८ तर्पणीयक्रमः। ९९ तर्पणस्नानालायंदानविधिः। १०० पूजाविधिः। १०१पीठाचनम। १०२ पूजनीयपञ्चायतनदेयता। १०३ उपचारवैविध्यम् । १०४ धृपदीपनैवेधानि । १०५ प्रदक्षिणविचारः। १०६ प्रणामविचारः। १०७ निर्माल्पलक्नदोषः। १०८ निर्माल्यप्रतिपत्तिः १०६ पार्थिवलिङ्गपजाप्रकारः । ११० पुष्पविचार १११ अपराधविचारः। ११२ पञ्चमहायज्ञाः। ११३ नित्यश्राद्धम्। ११४ भोजनविधिः। 1 ११५ भोजनोपरकर्म । इत्याहिक विधेकः ।... ११६ शुद्रस्याशौचविचारः। ११७ शूद्र तनिहणे विशेषः । ... ... १४१-१४५ १४५-१५६ १४६-१४७ १४७ १४-१४६ १५०-१५१ १५१-१५४ १५४-२५७ १५७-१.० २७०-१७६ १७६-१८४ १८४-१८९ १८४-२०५ २०५-२०६ ... ... ... ... है ... ..
( 6 )
पृ०
२०६-२०२
११८ तोयानलिपिण्डदानादिविचारः।
११४ एकोद्दिष्टसपिण्डीकरणादिनिर्णयः ।
१२० श्राद्धनिरयः।
१३१ पार्थिवलिङ्गपूजाक्रमः।
२०९-२१७
२१७-२१९
२१९-२२०
प्रन्थसमाप्तिः।
शुद्राचारशिरोमणि
हुतिमन्त्राश्व स्वाहान्ता एव ब्राह्मणैः पठनीयाः। शू-
दस्तु तूष्णीमेव नम इति वा जपन्तत्तत्कर्म कुर्यादित्याहुः ।
अत्र व्यास:-
चतुरस्रं त्रिकोणं च वर्तुलं चाईचन्द्रकम् ।
कर्त्तव्यमानुपूर्येण ब्राह्मणादीनां तु मण्डलम् ॥
शङ्ख:-
चतुःकोणं द्विजस्य स्यात् त्रिकोणं क्षत्रियस्य तु ।
मण्डलाकृति वैश्यस्य शूद्रस्याभ्युक्षणं मतम् ॥
भविष्यत्पुराणे-
भोजनात्किञ्चिदन्नाऽग्रं धर्मराजाय वै बलिम् ।
चित्राय चित्रगुप्ताय प्रेतेभ्यश्च बलिं हरेत् ॥
मनु:-
भुक्तवत्सु तु विप्रेषु स्वेषु भृत्येषु वै बहिः ।
भुञ्जीयातां ततः पश्चाद्देवशिष्टं तु दम्पती ॥
बान्यासनान्याह प्रचेता:-
गोशकृन्मृन्मयं पित्तं तथा पालाशपिप्पलम् ।
लोहवत्तु सदैवार्क वर्जयेदासनं बुधः ॥
आत्रि:-
आसने पादमारोप्य यो भुते ब्राह्मणः क्वचित् ।
मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणम् ॥
२३ शू०शि०
१५८
शूद्राचारशिरामणिः
हारीता
* न काष्र्णायसे न मृत्पात्रे न मिन्नेऽवकीर्णे इति ।
कायसं लौहम् । अवकीर्णं शूद्रभोजनादिदूषितम् ।
वृद्ध मनु:-
ताम्रपाने न भुञ्जीत भिन्नकांस्ये मलाविले ।
पलाशपत्रपझेषु गृही वैश्वदेवं चरेत् ॥
ब्रह्मचारियतीनां तु चान्द्रायणफलं लभेत् । इति ।।
पद्मपुराणे-
भोजनाद्ब्रह्मपत्रेषु कपिलादुग्धपानतः ।
व्रतं विना मुनिश्रेष्ठ शूद्रो. नरकमाप्नुयात् ॥
अज्ञानाद् भुञ्जते ब्रह्मपत्रेषु द्विजसत्तम ।
व्रतं विनापि शूद्रो यो गां दत्वा स विशुद्ध्यति ॥
नृसिंहांघ्रिमहोदधौ-
करञ्जपिप्पलवटवृक्षकुम्भ्यर्कतिन्दुकाः ।
एषां पत्रेषु नाश्नीयात्कोविदाराम्रयोरपि ॥
विपर्यस्तेषु पत्रेषु तिर्यपत्रेषु दारुजे।
अजपी ब्रह्मपत्रेषु शूद्रस्यूते तदाहृते ॥
कण्टकैः सीविते पत्रे तथा वेणुतलेन च ।
वल्लीपलाशपत्रेषु स्थलजे पौष्करे तथा ।
गृहस्थश्वेत्समश्नीयाच्छुबै चान्द्रायणं चरेत् ।
शूद्रापारशिरोमणिः
१७९
.
.
एक एव तु यो भुङ्क्ष विमले कास्यभाजने ॥
चत्वारि तस्य
वर्द्धन्ते आयुः प्रज्ञा यशो बलम् ।.
यत्यादीनां तन्निपिद्धम् ।
ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत् ॥
इति प्रचेतःस्मरणात् ।
व्यास:-
-
पञ्चाों भोजनं कुर्यात्प्राङ्मुखो भोजनमास्थितः ।
हस्तौ पादौ तथैवास्यमेषां पञ्चाता मता ॥
सकामं प्रति मनु:-
आयुष्यं प्राङ्मुखो भुते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्युङ्मुखो भुते ऋतं भुंक्ते उदङ्मुखः ॥
ब्रह्मपुराणे-
यस्तु पाणितले भुंक्ते यस्तु फूत्कारसंयुतम ।
प्रसृताङ्गुलिभिर्यश्च तस्य गोमांसवञ्च तत् ॥
सनहे--
पुत्रवान् स्वगृहे नित्यं नाश्नीयादुत्तरामुखः ।
सोमवारे तथाऽभ्यङ्गं वर्जयेत्तु सदा बुधः ॥ इति ।
ब्रह्मपुराणे--
अन्नं दृष्ट्रा प्रणम्यादौ प्राञ्जलिः कथयत्ततः ।
१८०
शूद्राचारशिरोमणिः
अस्माकं नित्यमस्त्वेतदिति भत्त्या च वन्दयेत् ॥
विष्णुपुराणे-
अश्नीयात्तन्मयो भूत्वा पूर्व तु मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ।
प्राक् द्रवं पुरुषोऽश्नन्वै मध्ये तु कठिनाशनः ॥
अन्ते पुनवाशी च तदारोग्यं न मुञ्चति ।
ब्रह्मपुराणे-
सर्वाङ्गुलीभिरश्नीयान्नावधूनेत्करं क्वचित् ।
कुर्यात्क्षीरान्तमाहारं न च पश्चात्पिबेदधि ॥
जठरं पूरयेदईमन्नैर्भागं जलस्य च ।
वायोः संवरणार्थाय चतुर्थमवशेषयत् ।
अथैकपत या नाऽश्नीयात्संवृतः स्वजनैरपि ॥
को हि जानाति किं कस्य प्रच्छन्नं पातकं महत् ।
अवर्जनीयत्वे तु पंक्तेः किञ्चिद्भेदं कृत्वा भोक्तव्यम् ॥
पंक्तिभेदकान्याह वृहस्पतिः-
अग्निना भस्मना चैव स्तम्भेन सलिलेन च । ..
द्वारेण चैव मार्गेण पंक्तिभेदो बुधैः स्मृतः ॥
अत्राऽन्यो । विशेषो भक्त्याभक्त्यादिविभागश्च
गोविन्दार्णवाहिके द्रष्टव्यः।
शुदापारशिरोमणि
२८१
पैठीनसि:-
लवणं व्यञ्जनं चैव घृतं तैलं तथैव च ।
लेह्यं पेयं च विविधं हस्तदत्तं न भक्षयेत् ॥
दा देयं कृतान्नं तु समस्तव्यञ्जनानि च ।
उदकं यच्च पक्वान्नं वा दा दातुमिच्छति ॥
स मूणहा सुरापश्च स स्तेनो गुरुतल्पगः ।
मनु'-
पृथक् पानं पुनर्दानं सामिपं पयसा निशि ।
दन्तच्छेदनमुष्णं च सप्त शत्रुपु वर्जयेत् ॥
आश्वमेधिके-
उदक्यामपि चण्डालं श्वानं कुक्कुटमेव च ।
भुजानो यदि पश्येत्तु तदन्नं तु परित्यजेत् ॥
गौतमः-
काहलभ्रमणं पानक्रकचोलूखलस्य च ।
एतेषां निनदो यावचावत्कालमभोजनम् ॥
आपस्तम्य:-
द्वावेवाश्रमिणौ भोज्यौ ब्रह्मचारी गृही तथा ।
मुनेरन्नममोज्यं स्यात्सर्वेषां लिंगिनां तथा ॥
मुनिरत्र वानप्रस्थो यतिश्च । लिङ्गिना कापालि-
कादयः।
-
१८३ शूद्रोचारशिरोमणिः अंगिरा:- षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम् । स तु जीवन्भवेच्छूद्रो मृतः श्वा चाभिजायते । परपाकरुचिर्न स्यादनिन्द्यामन्त्रणाहते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ इति । तथा, अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यस्यत्वन्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ॥ एवं समान्यतः शूद्रस्य पक्वान्नसाधारणस्याभो- ज्यत्वे प्राप्ते कांश्विदनुजानाति याज्ञवल्क्यः- शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः । भोज्यान्ना नापितश्चैव यश्वाऽऽत्मानं निवेदयेत् ॥ दासो गर्भदासः । अईसीरी कृषिफलाईग्राही । एषामपि स्वधर्मम्रष्टानामाममेव भोज्यं न पक्कम् । यदाह मनु:- नाऽद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः । आददीताममेवान्नं तस्यादावेकरात्रिकम् ॥ एकरात्रिकं एकाहपर्याप्तम् । अश्राद्धिन इति स्व- विहितकर्मभ्रंशोपलक्षणार्थम् । अश्राद्धिन इति विशेष- णात्स्वधर्मरतस्य शूद्रस्य पक्कान्नमपि भोज्यामिति ग- म्यते।
शूद्राचारशिरोमणिः १४३ तदपि नियमयति हारीत:- कन्दुर्पक्वं स्नेहपक्वं पायसं दधिसक्तवः । -एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत् ॥ लौहकटाहः कन्दुः। एवं, गोरसञ्चैव सक्तूंश्च तैल्यं पिण्याकमेव च । अपूपान्भक्षयच्छूद्राद्यच्चान्यत्पयसा कृतम् ॥ इति सुमन्तुवचनम् । सम्प्रोक्ष्य विप्रो गृपयाच्छूद्रान्नं गृहमागतम् । इति विष्णुपुराणवचनं च परिगणितशूद्रविषयम् । शू- द्रस्य न कदाचनेत्यादिनिषेधवचनं चेतरशूद्रविषयम् । अनापद्विषयं च । तथा च याज्ञवल्क्य:- अदत्वाऽप्यमिहीनस्य नान्नमद्यादनापदि । इति । अग्निहीनः शूद्रः । अत्रेदं कल्पतरुसिद्धान्त- सर्वस्वम् । अविशेपेण शूद्रस्य पक्वमपक्वं वान्नमभोज्यम् | आपदि त्वाममेवैकाहिकं ग्राह्यम् । दासादीनां तु अ- नापद्यपि आमं ग्राह्यं आपदि पुनः पक्वमपि । कै- न्दुपक्कादि तु शूद्रमात्रस्य भोज्यामिति । भोज्यान्नता चेयं युगान्तरएव । -
१८४
शूद्राचारशिरोमणिः
शूद्रेषु दासगोपालकुलमित्राईसीरिणाम् ।
भोज्यान्नता गृहस्थस्येति कलियुगवयंप्रकरणे
कालखण्डे क्रतुवचनात् इति मर्यादा। आश्वमेधिके-
पानीयानि पिवेधन तत्पात्रं द्विजसत्तम ।
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निःक्षिपेत् ॥
अत्र स्मरन्ति-
सर्पिर्भुत्त्वा तु यो विप्रस्तस्मिन्पाने पिवज्जलम् ।
जलपात्रे च यो भुंक्ते आसुरं तत्प्रकीर्तितम् ॥ इति ।
अथ भोजनोत्तरकर्म ।
देवल:-
भुक्तवोच्छिष्टं समादाय सर्वस्मात्किचिदाचमेत् |
उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद्भुवि ।
मन्त्रोपि, रौवे पुण्यनिलये पक्ष्मार्बुदनिवासिनाम् ।
प्राणिनां सर्वभूतानामक्षय्यमुपतिष्ठताम् ॥
,
ब्यासः
अर्द्ध पीत्वा तु मण्डपमई त्याज्यं महीतले ।
रसातलगतान्नागांस्तेन प्रीणाति नित्यशः॥
तथा,
तस्मिन्नाचमनं कुर्याद्यत्र भाण्डे च भुक्तवान् ।
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानाचमेत्ततः ॥
१८५
शूद्राधारशिरोमणिः
खानं सद्यः प्रकुर्वीत सोऽन्यथा पतितो भवेत् ।
एवमन्तर्भुक्त्वा गृहाहहिराचमनं देशाचारमा
न पुनर्युक्तम् ।
:-
आचम्यागुष्ठपानीयं पादाङ्गुष्ठे तु दक्षिणे ।
निःस्रावयेद्धस्तजलमूर्ध्वहस्तः समाहितः ।।
हुतानुमन्त्रणे कुर्याच्छुढायामिति मन्त्रतः ।
निःस्रावणे
मन्त्रमाह
बौधायन:-
अङ्गुष्ठमात्रः पूरुषो ऽङ्गुष्ठं चैव समाश्रितः ।
ईश्वरः सर्वजगतस्तेन प्रीणातु विश्वभुक् ॥
अयं च मन्त्रः शूद्रस्य न भवति स्मार्त्तत्वात् ।
व्यास:-जानुनी स्पृश राजेन्द्र भर्त्तव्या बहवो यदि ।
ब्रह्मपुराणे-समाय॑ जानुबाहूच गोप्रदानफलं लभेत् ।
विष्णुपुराणे-ततः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां च कुर्वात स्मरणं नरः।
ब्रह्मपुराणे-
आचान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्धृतम् ।
उद्धृतेऽप्यशुचिस्तावद्यावन्नो मृज्यते मही ।
अत्रि-भूमावपि हि लिप्तायां तावत्स्यादशुचिः पुमान् ।
आसनादुत्थितस्तावद्यावन्न स्पृश्यते मही ।
---
२४ शू०शि०
१८६ शूद्राचारशिरोमणिः AAR- अथ ताम्बूलविधिः। मार्कण्डेय:- भूयोऽप्याचम्य कुर्वीत ततस्ताम्बूलभक्षणम् । वसिष्ठः सुपूगं च सुपत्रं च चूर्णेन च समन्वितम् । अदत्वा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद् बुधः॥ एकपूगं सुखारोग्यं द्विपूगं निःफलं भवेत् । अतिश्रेष्ठं त्रिपूगं स्यादधिकं चैव दुष्यति । पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः । चूर्णपर्ण हरेदायुः शिरा बुद्धिविनाशिनी ॥ तस्मादग्रं च मूलं च शिरां चैव विशेषतः । चूर्णपर्णं वर्जयित्वा ताम्बूलं चर्वयेद् बुधः ।। पर्णाग्रे पर्णमूले च चूर्णपणं द्विपर्णकम् । तदधावनपर्णं च शक्रस्थापि श्रियं हरेत् ॥ अनिधाय मुखे पर्णं पूगं खादति यो नरः। सप्तजन्मदरिद्रत्वमन्ते विष्णुं च न स्मरेत् ॥ तर्जन्यां चूर्णमादाय ताम्बूलं तु न खादयेत् । यदि खादयते मूढो रौरवं नरकं ब्रजेत् ॥ रात्रौ खदिरताम्बूलं प्रमादेन कृतं यदि । यावज्जन्मदरिद्रत्वं भविष्यति न संशयः ॥
शूद्राचारशिरोमणिः १८७ ब्रह्मचारी यतिश्चैव विधवा च रजस्वला । प्रत्येक मांसतुल्यं तन्मिलितं सुरया समम् ॥ अथ दक्षः- भुक्त्वा च सुखमास्थाय तदन्नं परिणामयेत् । इतिहासपुराणाभ्यां षष्ठसप्तमको नयेत् ॥ अष्टमे लोकयात्रा च बहिः सन्ध्या ततः पुनः । याज्ञवल्क्योऽपि- अहःशेष सहासीत शिष्टैरिष्टैश्च वन्धुभिः । एवं दिन समाप्य सन्ध्याकाले व्यतीते रात्रा- वपि वैश्वदेवं कृत्वा सति सम्भवे अतिथिपूजां विधाय बुभुक्षा चेदस्ति तर्हि रात्रावपि भुञ्जीत । केचन वैश्वदेवं रात्रौ नेच्छन्ति । ततः कृतकर्त्तव्यः शयीत । तदुक्तं विष्णुपुराणे- कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही। गच्छेच्छय्यामस्फुटितां ततो दारुमयीं नृप ॥ शङ्ख:- न विशीर्णायां खट्वायां नान्यवर्णोपसेवितायां अ- नभ्युक्ष्य च । पैठीनसिः अतैलाभ्यक्तशिराः स्वपेत् । नादीक्षितः चर्मणि सुप्यात् ।
१८८ शूद्राचारशिरोमणिः ome- , विष्णु:- नावासाः स्वपेत् । न पालाशशयने न पञ्चदारु- कृते नगजभग्नकृते न विद्युद्दग्धे नाग्निप्लुष्टे न वालमयीं शय्यामधितिष्ठेदनास्तृतामिति । पञ्चदारुः पञ्चविधं काष्ठं तेन कृते । गजभग्नो गजदन्तः। तथा, निद्रां सम्यगनासाद्य ताम्बूलं वदनात्त्यजेत् । पर्यङ्कात्प्रमदां भालात्पुण्ड्रं पुष्पाणि मस्तकात् । गदप्रमादयक्षा हि भयदाः सर्वदा इमे ॥ मार्कण्डेयः-- प्राक्शिराः शयने विद्याद्धनमायुश्च दक्षिणे । पश्चिमे प्रवला चिन्ता हानिर्मृत्युस्तथोत्तरे ।। गायः- स्वगृहे प्राक्शिराः शेते श्वाशुरे दक्षिणाशिराः । प्रत्याशेराः प्रवासे तु न कदाचिदुदक्शिराः ॥ अत्र दिवाविहितकर्मणां देवादतिपाते स्मर्यते । दिवोदितानि कर्माणि प्रमादादकृतान्यपि ॥ शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम् । संग्रह- शर्वर्याः प्रथमे यामे दिवा कर्माणि कारयेत् ।
शूद्रापारशिरोमणिः १८९ ब्रह्मयज्ञं च सौरं च वर्जयेडि विशेषतः ॥ सौरं सूर्यसुक्तजपादि। तथा, वैश्वदेवं तथा रात्रौ कुर्याद्वलिहुति तथा । महतः पञ्च यज्ञांस्तु दिवैवेत्याह गौतमः । अत्रान्ये विशेषा गोविन्दार्णवे द्रष्टव्याः । इत्याहिकविधिः। शिष्टानामवधिर्गुणैकजलधिः सत्सम्पदा शेवधिः श्रीमत्केशवदासतःसमजनि श्रीमान्पिलाजीति यः। तस्यैतस्य कृते कृतेऽन कृतिना कृष्णेन शेपेण स न्छुद्राचारशिरोमणावहरहाकृत्ये विवेको ऽभवत् ॥ इति श्री शूद्राचारशिरोमणी आह्निक- विवेकः : समाप्तः । शूद्रस्याशौचविषये तु - बौधायनः- शुद्येद्विप्रो दशाहेन द्वादशाहेन क्षत्रियः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति । विष्णुराप- ब्राह्मणस्य जननमरणयोर्दशाहमाशौचं, द्वादशाह राजन्यस्य, पञ्चदशाहं वैश्यस्य, मासं शूद्रस्येति ।
१९० शूद्राचारशिरोमणिः देवल:- शूद्रस्य त्रिंशता शुद्धिरिति । एतदसच्छूद्रपरम् । 'शुद्रस्तु मासमासीत निजकर्मविवर्जितः' इति मार्कण्डेयवचनात् । निजकर्म पञ्चमहायज्ञं द्विजशुश्रू- पातदुच्छिष्टभोजनमासिकवपनादि । तद्वतस्तु न्यायव- तिसच्छूद्रापरपर्यायस्य पञ्चदशाहमेवाशौचम् । तदाह याज्ञवल्क्यः क्षत्रस्य द्वादशाहानि विशां पञ्चदशैव तु । त्रिंशदिनानि शूद्राणां तदई न्यायवर्त्तिनामिति ॥ मनुनाऽप्युक्तम्- शूद्राणां मासिकं कार्यं वपनं न्यायवर्त्तिनाम् । वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनमिति ॥ वैश्यवदिति । पञ्चदशाहमित्यर्थः । यत्तु शातातपः – 'शूद्रो विंशतिरात्रेण शुध्यते मृतसूतके' इति तत्तु किंचिदपकृष्टसच्छूद्रविषयम् । अ- पकृष्टता च पञ्चमहायज्ञाधनुष्ठानमन्तरेण द्विजशुश्रू- षामात्रपरत्वेन बोध्या । यत्त्वगिरसोक्तम् । एतदत्वन्तसवृत्ताचारवैरा- ग्यादिसम्पन्नसच्छूद्रविषयतया योज्यम् । अन्ये तु शूद्रमात्रस्य विंशतिरात्रपक्ष आपत्कल्पः ।
शुद्राचारशिरोमणि:
१९१
दशाहपक्षस्तु सच्छूनेस्याप्यापत्कल्प इत्याहुः । देशा-
चारेण व्यवस्थेत्यन्ये । अयं च सर्वेषामप्याशौचसंकरो
युगान्तरविषयः। यथा चोक्तं हेमाद्र्युदाहृतादित्यपुराणे-
कलियुगवान्यनुक्रम्य-वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं
तथेत्यनन्तरम् – कलौ युगे विमान् धमांन्वया॑नाहु-
मनीषिणः इति ।
एकाहाब्राह्मणः शुद्ध्येद्योऽग्निवेदसमन्वितः ।
ज्यहात्केवलवेदस्तु निर्गुणा दशभिर्दिनैरित्यादिना ।
तथा,
चत्वार्यधोतवेदानामहान्याशौचमिष्यते ।
वेदानियुक्तविप्रस्य त्र्यहमाशौचमिप्यते ॥
एताभ्यां श्रुतयुक्तस्य दिनमेव विधीयते ।
एतैः साकं कर्मयुक्तः सद्यः शुद्येदसंशयः ॥
एतैर्युक्तस्य राज्ञस्तु द्वादशैकादशा दश ।
वैश्यस्यैव पञ्चदश द्वादशैकादश क्रमात् ॥
अईमासं तु शुश्रूषाः शूद्रस्याशाचमिष्यते ।
इत्यादिना देवलादिभिर्यदघसङ्कोचनमुक्तं तत्कलो
न कार्यमित्यर्थः।
वृत्तमश्वस्तनिकत्वं व्यहैहिकत्वाग्निशुश्रूषादि ।
स्वाध्यायो वेदाध्ययनादि तहेतुकम् ॥
१९२ शुद्राचारशिरोमणिः तेन कलौ दशाहद्वादशाहपञ्चदशाहमासपक्षा एव चातुर्वण्यस्य क्रमाद्भवन्तीत्यर्थः । तदाह हारीता- दशाह एव विप्रस्य सपिण्डमरणे सति । कल्पान्तराणि कुर्वाणः कलौ मुह्यति किल्बिषीति । विप्र इत्युपलक्षणम् । तद्वद्वर्णानाम् । अत एव शातातप:-- मन्त्रावश्यवर्जनाच्छूद्रस्य नाधिकारो न प्रतिषेधो मा- समित्येके इति । कदर्यादेस्तु ब्राह्मणादिवदेवाशौचम् । यदाह दक्षः व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः । व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः॥ श्राद्धत्यागविहानस्य अश्मान्तं सूतकं भवेत् । न शौचं तु कदाचित्स्याद्यावज्जीवं तु सूतकमिति ॥ ब्याधिरचिकित्स्यः । कदयों देवलेनोक्तः आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभायः पितरो भृत्यान्स कदर्य इति स्मृतः। इति । ऋणग्रस्तो ऽपरिहार्यऋणः। सङ्करेषु तु ब्रह्म- शूद्राचारशिरोमणिः १९३ - - पुराणम् - शौचाशौचं प्रकुरिन् शूद्रवर्णसङ्करा इति। जन- नाशौचे तु शूद्रस्य कर्मानधिकारो यावदाशौचम् । अस्पृश्यत्वं तु सुतिकाया एव दशाहम् । पिता तु सानमात्रेण स्पृश्यो भवति । यदाहानिराः- सूतके सूतिकावर्जमङ्गस्पर्शो न दुष्यति । संस्पर्श सूतिकायाश्च स्रानमेव विधीयते ॥ संवत्तोऽपि जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः ॥ शुद्येत्स्पशाह स्यादित्यर्थः । कर्माधिकारस्तु मा- सान्तएवेति । एतच्च पितुः स्पृश्यत्वं सूतिकासम्पर्का- भावे । तस्मिंस्तु सति सृतिकावद्दशाहानन्तरमेव । तदाह पराशर:- यदि पन्यां प्रसूतायां द्विजः सम्पर्कमिच्छति । सूतकं तु भवेत्तस्य यदि विप्रः पडङ्गवित् ॥ द्विज इत्युपलक्षणम् । यदि विप्न इत्यपि कैमुतिकन्यायः । तेन शूद्रेऽप्येतत्समानं तुल्यन्यायत्वात् । सपत्नमा: - २५ शू०शि० १९४ शुद्धाचारशिरोमणिः तृष्वप्याह उपहापुराणम्- अथान्या मातरस्तद्वत्तद्गृहं न ब्रजन्ति चेत् । सपिण्डाश्चापि संस्पृश्याः सन्तः सर्वेपि नित्यशः ॥ तद्वत् पितृवत् । यदि तद्गृहं सूतिकागृहं गत्वा तान् स्पृशेयुस्तदा स्लानमात्रेण स्पृश्याः । अथ ताः स्पृशेयस्तदा पितृवदेव दशरात्रस्पृश्या इत्यर्थः । सूति- काया स्पर्शाधिकारमाह प्रचेता:- सूतिका सर्ववर्णानां देशरात्रेण शुद्ध्यति । कृतौ तु न पृथगाशौचं सर्ववर्णेष्वर्य विधीः ॥ सर्ववर्णेष्विति वचनाच्छूद्राया अपि दशरात्रेणैव । ऋतुनिमित्तं तु ब्राह्मण्यादेरेव त्रिरानमेव न पृथगाशौच- मिति वचनात् । यत्तु ब्रह्मपुराणे ब्राह्मणी क्षत्रिया वैश्या प्रसूता दशभिर्दिनैः । गतैः : शूद्रा च संस्पृश्या त्रयोदशभिरेव च । इति । तदसच्छूद्रविषयम् । अस्याः कर्माधिकारमाह पैठीनसि:- सूतिकां पुत्रजननी विंशतिरात्रेण स्नातां का- णि कारयेन्मासन स्त्रीजननामिति । कर्माणि दैवानि पित्र्याणि च । शूद्रायास्तु कर्मयोग्यता पुत्रजनने स्त्री-
शूद्राचारशिरोमणिः
जनने वा मासापगमेनैव भवतीति मदनपालः।
युक्तं चैतत् । तस्या मासाशौचे विंशतिराने
कर्माधिकारविरोधात् ।
शावाशौचेऽपि स्पर्शकालमाहाङ्गिराः--
दशमेऽहनि शूद्रस्य कार्यमस्पर्शनं बुधैः ।
मासेनैव तु शुद्धिः स्यात्सूतके मृतके तथा ॥
संवत:-
चतुर्थेऽहनि विप्रस्य षष्ठेह्नि क्षत्रियस्य च ।
अष्टमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः ॥
देवल:-
आशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागतः ।
शूद्रविक्षत्रविप्राणां यथा शास्त्रप्रदर्शनात् ॥
त्रिचतुःपञ्चदशभिः स्पृश्या वर्ष्याः क्रमेण तु ।
भोज्यानो दशभिर्विप्रः शेषा द्वित्रिषडुत्तरैः ॥
अत्र षडुत्तरैर्दशभिरित्येतन्न्यायवर्तिशूद्रविषयम् ।
एवं द्वादशरात्राद्याशौचपक्षेऽपि त्रिभागकल्पनेनाद्यभा-
गमतीत्यैव स्पर्शनीयतेति ध्येयम् ।
स्रावपातयोराशौचे विशेषमाह भरीचि:-
स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् ।
पाते मातुर्यथामासं पित्रादीनां दिनत्रयम् ॥
-
१९६ शूद्रांचारशिरोमणिः मासत्रयमध्ये गर्भस्य स्त्रसनं स्रावस्तस्मिन्सति मातुस्त्रिरात्रमाशौचं सपिण्डानां तु पित्रादीनामाशौचं न भवतीत्यर्थः । पितुस्तु स्नानमात्रं भवतीत्याह बृद्धपरा- शारः। गर्भस्रावे मासतुल्या रात्रयः स्त्रीणाम् । स्नानमेव पुरुषस्येति । पुरुषस्य पितुरित्यर्थः । मासतुल्या रात्रय इति तु पातविषयम् । स्रावपातौ लक्षयति लघुपराशरः-- आचतुर्थाद्धावेत्स्रावः पातः पञ्चमषष्ठयोः। अतउर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेदिति ॥ एतच्च स्रावे त्रिरात्रवचनं ब्राह्मणविषयम् । इतरेषु तैनैव विशेषाभिधानात् । तद्यथा-- [अत्र ग्रन्थस्त्रुटितः प्रतिभाति । उपलब्धादर्शपु- स्तकद्वयेऽपि तावतोंऽशस्यानुपलब्धेर्यथालब्धएव ग्रन्थः प्रकाश्यते ।] उभयोः जन्ममरणयोः तेनायमित्यर्थः । एकन ब्राह्मणादिना आनुलोम्येन नानावया॑सु स्त्रीषु जनि- तानां नानावर्णानां भ्रातॄणां मध्ये यदन्यजातीयस्य भातृजननमरणनिमित्तकमन्यजातीयस्य भ्रातुरापतति तज्जीवति पितरि पैतृकं पितृवर्णोदितं यदशौचं दशरा- अषडात्रादिकं तत्पुत्राणां भवति । तस्मिन्मृते मातृव- शुद्राचारशिरोमणिः १९७ गोंचितम् । उभयोरपि मृतयोः सतोर्यस्य जन्ममरणे वृत्ते तज्जात्युक्तमेव सर्वेषांभ्रातॄणां तत्स्यादिति विष्णुः । पतीनां दासानामानुलोम्येन स्वामितुल्यमाशौचं मृते स्वामिन्यात्मीयम् । आनुलोम्येनापकृष्टवर्णपत्नीनामप- कृष्टवर्णदासानां चोत्कृष्टवर्णस्वामितुल्यमाशौचम् | उ- त्कृष्टवर्णपत्न्यादीनां च प्रातिलोम्येन स्वाशौचमेवेत्य- र्थः । एतच्च स्वामिना सह एकग्रामवासे । यदाह वृहस्पतिः- दासान्तेवासिभृतकाः शिप्याश्चैकत्रवासिनः । स्वामितुल्येन शौचेन शुन्यन्ति मृतसूतके ॥ अन्तेवासी नैष्ठिकब्रह्मचारी । शिप्यस्य पृथगुपा- तत्वात् । शङ्क:- हीनवर्ष्या तु या नारी प्रमादात्प्रसवं व्रजेत् । प्रसवे मरणे तज्जमाशौचं नोपशाम्यति ।। हीनवर्ष्या शूद्रा। प्रमादात् । रागकृतपरपुरुप- संसर्गात् । अयं भावः । अविवाहितशूद्रा तावदन्तिमवर्णेन सह समासाद्य यदि प्रसुता भवति, तदा तत्प्रसवम- रणे च गर्भोत्पादयितुर्यावज्जीवं सूतकित्वमित्यर्थः ।'
१९८ शूद्राचारशिरोमणिः असवर्णमातृजन्येषु शङ्खः यद्येकजाता बहवः पृथक्षेत्राः पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्त्तते त्रिषु ॥ एकस्माद्ब्राह्मणादेर्जाताः पृथक्पृथगाशौचाः, मा- तृजातीयमेव तेषामाशौचम् । तेषां च त्रिपुरुषमेव सा- पिण्डयम् । तेन चतुर्थ्यादिपुरुषजननमरणयोर्न सपि- ण्डनिमित्तमाशौचादीति । केचिच्च पृथक्जना इत्यत्र पृथक्धना इति पठ- न्ति। तत्र पृथक्धना विभक्तधनाः।अत एव बौधायन:- क्षत्रविटशूद्रजातीनां ये स्तो मृतकसूतके । तेषां तु पैतृकाशौचं विभक्तानां तु मातृजमिति ॥ ब्रह्मपुराणेऽपि- क्षत्रविटशूद्रजातीनां सापिण्ड्यं तु त्रिपूरुषम् । ब्राह्मणैरपि जातानामविभक्तार्थभागिनाम् ॥ विभक्तानां तु सर्वेषां मातुर्जातिरसंशयम् । मातुर्जातिरित्यनेन मातृवर्णोचितमाशौचमपीत्युक्तं भवति । एवं च विभक्तानां पितृवर्णोचितमाशाचमि- त्यर्थात् । प्रतिलोमानां तु न सूतकम् । प्रतिलोमा धर्महीना इति स्मृतेः।
शुद्राचारशिरामणिः
ब्रामपुराणे-
दत्तकच स्वयंदत्तः कृत्रिमः कृत एव च ।
भिन्नगोत्राः पृथपिण्डाः पृथक्वंशधराः स्मृताः ।
सूतके मृतके चैव त्र्यहाशौचाः प्रकीर्तिताः ।
तथा सजातीयविजातीयभेदतिरस्कारेणावरुद्धस्त्री-
णामपि त्रिपुरुपमेव सापिण्ड्यमाशौचविषये ।
वसिष्टः - अप्रत्तानां तु स्त्रीणां त्रिपुरुपी सपि-
ण्डतेति विज्ञायते इति ।
एतच्चतुर्वर्णसाधारणम् ।
ब्रह्मपुराणे-
शूद्राणां दासवृत्तीनां परपिण्डोपजीविनाम् ।
परायत्तशरीराणां न कश्चित्पुत्र इत्यपि ॥
तस्मादास्यां प्रजायन्ते दासाद्वै दास एव हि ।
दासादास्यां जातो दासएवेति नामद्योतनार्थः ।
अढायामुत्पन्नस्यौरसपुत्रत्वात् । अतएवास्य क्षेत्रजादयो
न सन्ति । एतदेव स्फोरयति
इमां च मम मर्यादामुल्लंघ्य निवसन्ति ये।
शूद्रास्तु
तेषां
पुनास्तु
सन्ति द्वादश एव हि ॥
एतयारव्यातं मदनपालेन । शूद्रजातेर्द्विजशुश्रूषा
द्विजदास्यं मुख्या वृत्तिः।
शूद्राचारशिरामणिः , तु an तामिमां मम ब्रह्मणो मर्यादां अतिक्रम्य दास्य परित्यज्य ये शूद्रा निवसन्ति गार्हस्थ्ये तेषां द्वादशापि पुत्रा औरसक्षेत्रजादयो भवन्ति । तथा, औरसो यदि नो पुत्रस्त्वथ वा पुत्रिकासुतः । विद्यते तत्र तेषां विज्ञेयाः क्षेत्रजादयः॥ एकादश पृथक्गोत्रा वंशमात्रकरास्तु श्राद्धादि दासवत्सर्वं तेषां कुर्वन्ति नित्यशः ॥ सुतके मृतके वापि त्र्यहाशौचस्य भागिनः । एतच्च त्र्यहाशौचं सम्प्रदर्श्यते । तत्र शूद्रे द्वा- दशाहं षण्नव क्षत्रवैश्ययोरिति । एवं च त्र्यहात्तूदक- दायिन इति वचनात्समानोदकानां त्रिरात्रमुक्तं, तदपि शूद्राणां द्वादशाहमेव भवतीत्यूह्यम् । त्रिरात्रमित्यनु- वृत्तौ विष्णुः परपूर्वासु भार्यासु प्रसूतासु मृतासु च । भर्तुः पूर्वपतेश्वापि गृहे यस्यैव विद्यते ॥ परपूर्वः पतिर्यासां ताः परपूर्वाः विवाहसंस्कृतं पति परित्यज्यान्यमाश्रिता इत्यर्थः । तादृशीषु स्त्रीषु प्रसू- तासु मृतासु वा भर्तुः पूर्वपतेश्च तथा यस्य च गृहे स्वयं साम्प्रतं विद्यते तस्यापि च त्रिरात्रमाशौचमिति । , .
शूद्राचारशिरोमणिः २०१ वृहस्पतिः- अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । मृतेष्वाप्लुत्य शुध्यन्ति त्रिरात्रेण द्विजोत्तमाः ॥ परपत्नीसुताः क्षेत्रजादयः। मरीचि:- सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डेषु त्रिरात्रं यत्र वै पितुः ॥ यत्र पितुस्त्रिरानं तत्सपिण्डानामेकरात्रमित्यर्थः । ब्रह्मपुराणे तु- पित्रा दत्ता तु या नारी स्वातन्त्र्यादन्यमाश्रिता । यं यं श्रितवती भूयस्तत्राशौचं भवेत्त्र्यहम् ॥ मृतायां वा प्रसृतायां नान्येपामिति निश्चयः। पदे तु सप्तमे यत्र बलात्कारं हृता भवेत् । स्वाभिगोत्रं भवेत्तस्यास्तद्वद् भूयो विशिष्यते ॥ पैतृकं तु प्रसूतायां ततः पौर्विकभर्तकम् । कामादक्षतयोनिश्चेदन्यं भूयो विशिष्यते ।। तन तस्य सगोत्रा सा यमाश्रितवती स्वयम् । इति । यंयमिति।सा यं यमाश्रियते तस्यैव स्वैरिणीमर- • णादिनिमित्तं व्यहमाशौचं भवति । न तु तस्य सपि- ण्डानां पुत्रादीनामपीत्यर्थः। विशिष्यते विभज्यते । २६ शू०शि०
२०२
शूद्राचारशिरोमणिः
तमेव विभागमाह-पैतृकमित्यादिना-अक्षतयोनिरिति ।
पाणिग्राहेणानुपभुक्तैव यदाऽन्यमुपगच्छति तदा तस्यैव
गोत्रं लभते इत्यर्थः । अत्र सपिण्डानामशौचाभावैका-
हपक्षौ आपदनापद्गुणवद्भेदेन व्यवस्थाप्यौ ।
यत्र ब्राह्मणजातीयस्य पितुस्त्रिरात्रं तत्र शूद्रस्य
द्वादशाहं सपिण्डानामेकरात्रमिति पक्षे तु शूद्रजाति-
वत्सपिण्डानां चतूरात्रमिति विवेकः ।
कन्यामरणे तु ब्रह्मपुराणे-
आजन्मनस्तु चूड़ान्तं यत्र कन्या विपद्यते ।
सद्यः शौचं भवेत्तस्य सर्ववर्णेषु नित्यशः ।
ततो वाग्दानपर्यन्तं यावदेकाहमेव तु ॥
अतः परं प्रदत्तानां त्रिरात्रमिति निश्चयः ।
वाग्दाने तु कृते पश्चात् ज्ञेयं चोभयतस्त्र्यहम् ॥
पितुः परस्य च ततो दत्तानां भर्तुरेव हि ।
स्वस्वजात्युक्तमाशौचं स्यात्सूतके मृतके तथा ॥
अङ्गिराअपि-
अविशेषेण वर्णानामर्वाक् संस्कारकर्मणः ।
त्रिरात्रं तु भवेच्छुद्धिः कन्यास्वह्ना विधीयते ॥
तथा, दत्ता कन्या पितुर्गेहे सूयते म्रियते ऽथ वा ।
स्वमशौचं चरेत्सम्यक् पृथक् स्थाने व्यवस्थिता ॥
P
शूद्राचारशिरोमणिः तद्वन्धुवर्गेष्वेकेन शुद्यते जनकत्रिभिः । पृथक्यानेपितुर्भोजनशयनदेवार्चनाद्यन्यस्थाने । तत्र तु प्रसवमरणयोः पितुः संपूर्णाशौचं सपिण्डानां तु त्र्यहमिति हारलतायाम् । अत्राऽपि पितुस्त्रिराने शूद्रस्य द्वादशाहं एकाह- स्थाने चतुरहः । दशाहस्थाने तु मासमिति योज्यम् । बालाशौचविषये तु अगिरा:- विप्रे न्यूने त्रिभिर्वम॒ते शुद्धिस्तु नैशिकी। व्यहेन क्षत्रिये शुद्धिस्त्रिाभिर्वैश्ये मृते तथा । निवृत्तचूड़के विप्रे त्रिरात्राच्छुद्धिरिष्यते । निवृत्चे क्षत्रिये पड्भिर्वेश्ये नंवमिरिष्यते ॥ शूद्रे त्रिवर्षन्यूने तु मृते शाईस्तु पञ्चभिः । अतऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते ॥ पड्वर्षान्तमतीतस्तु शूद्रः संम्रियते यदि । मासिकं तु भवेच्छौचमित्यागिरसभापितम् ॥ निवन्धान्तरे तु द्वादशवर्पस्य मास इति दर्शितम् । 'मिताक्षराकारस्त्वांगिरसवाक्यान्यनादृत्य वयो- ऽवस्थाकृतमाशौचं सर्वेपामेव तुल्यमित्याह । तदाह व्याघ्रः-तुल्यं वयसि सर्वेपामतिकान्ते तथैव च । उपनीते तु विपमं तस्मिन्नेवातिकालजमिति ॥
२०४
शूद्राचारशिरोमणिः
आदन्तजननात्सद्यइत्यादि ।
'यद्वयाकृतमाशौचं यच्च मासत्रये त्रिरात्रं स्यात् षण्मा-
सात्पक्षिणी भवेत् । अहस्तु नवमादागूर्ध्वं स्नानेन
शुाती'त्यादिना यदतिक्रान्तमाशौचमुक्तम् ,
उपनीते मृते यद्विषयं स्वस्वजात्युक्तम् , तस्मिन्नेव
तत्कालातिपातकृतमाशौचं, तत्सर्वेषां वर्णानां तुल्यमेव
न विषममित्यर्थः ।शूद्रस्य तूपनयनस्थाने विवाह एव ।
षोडशवर्षानन्तरमकृतोद्वाहस्यापि शूद्रस्य मासमेवा-
शौचम् ।
तदाह शल:
अनूढभार्यः शूद्रस्तु षोड़शाद्वत्सरात्परम् ।
मृत्युं समधिगच्छेच्चेन्मासं तस्यापि बान्धवाः ।
शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा ।
मातापित्रोस्त्वाचूड़ादपि त्रिरात्रमेव । अद्विवर्षे प्रेते मा-
तापित्रो शौचम् ।
शौचमेवेतरेषामेकरात्रं त्रिरात्रं चेति पारस्कर
वचनात् । मातापित्रोस्त्रिरात्रमन्येषामेकरात्रमित्यर्थः ।
मनुरपि---
निरपत्यः पुमान् शुक्रभुपस्पृश्य विशुद्ध्यति ।
बैजिकादभिसम्बन्धादनुबध्यादधं त्र्यहम् ॥
.
शंदाचारशिरोमणिः १०५ बैजिकात् जन्यजनकभावलक्षणसम्बन्धात् त्र्य- हमाशौचमित्यर्थः । इदमपि शूद्रस्य द्वादशाहम् । अथ शूद्रप्रेतनिहरणे विशेषः । दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथायोग्यं द्विजातयः । विष्णुः-मृतं द्विजं न शूद्रेण हारयेत् । शूद्रं द्विजेन पितरं च पुत्रा निर्हरेयुः । न द्विजं पितरं मातरमपि शूद्रा इति । शूद्रं द्विजेन नेति । एत- पुत्रातिरिक्तविषयम् । तदेवाह- पुत्राः पितरं निर्हरेयुः । शूद्रमपीत्यर्थः । अस्यापवाद:- न द्विजं पितरं मातरमपि शूद्रा इति । एतच्च सत्सु द्विजातिपु। यदाह याज्ञवल्क्यः- न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । इति । ब्रह्मपुराणे- स्वगोत्रजैगृहीत्वा तु चितामारोप्यते शवः । अधोमुखो दक्षिणदिक्चरणस्तु पुमानपि ॥ ।
शूद्राचारशिरोमणि:
उत्तानदेहा नारी तु सपिंडैरपि बन्धुभिः ।
एतच्छुद्रनिरग्निद्विजविषयम् ॥
आहिताग्निविषये-
दक्षिणाशिरसम्भूमौ बहिष्मत्यां निवेशयेत् । इति
कात्यायनोक्त।
ब्रह्मांडपुराणे-
दरिद्रस्तु न दग्धव्यो नग्नः कस्यांचिदापदि ।
केनापि वस्त्रखण्डेनाच्छदितव्यःप्रयत्नतः। इति ॥
एतत्सर्ववर्णसाधारणम् ।
यमः-
न शूद्रो यजमानं वै प्रेतीभूतं समुद्धरेत् ।
यस्यानयति शूद्रोऽग्निं तृणकाष्ठहवींषि च ॥
प्रेतत्वं हि सदा तस्य सचाधम्र्मेण युज्यते ।
स च शूद्रः । दाहस्तु शूद्रस्यामन्त्रकएव । नि-
षेकादिः श्मशानांतो मन्त्रैर्यस्योदितो विधिरिति मनुना
श्मशानेऽपि मन्त्रपर्युदासप्रदर्शनात् ।
तोयांजलिदाने तु ब्रह्मपुराणे-
आदौ तु वस्त्रं प्रक्षाल्य तेनैवाच्छादितस्ततः ।
कर्तव्यं तैः सचैलं तु स्नानं सर्वमलापहम् ॥
ततः पाषाणपृष्ठे तु सर्वैर्देयं तिलोदकम् ।
शदाचारशिरोमणिः
२०७
एकनैकेन देयास्तु विप्रेणाञ्जलयो दश ।
राज्ञे द्वादश देयास्तु वैश्याय दश पञ्च च ॥
त्रिंशच्छूद्राय देयास्तु प्रेतभूमिगताय च ।
एतत्त्वेकैकाञ्जलिदानपक्षे ॥
अञ्जलिवृद्धिपक्षे तु नायं संख्यानियमः ।
तदुक्तं तत्रैव ।
दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु ।
एकस्तोयाञ्जलिस्त्वयं पात्रमेकं च दीयते ॥
द्वितीये द्वौ तृतीये त्रीश्चतुर्थे चतुरस्तथा ।
पञ्चमे पञ्च षट् षष्ठे सप्तमे सप्त एव हि ।
अष्टमेऽष्टौ च नवमे नवैव दशमे दश ।
येन स्युः पञ्च पञ्चारादतोऽपांजलयः क्रमात् ।
तोयपात्राणि तावन्ति संयुक्तानि तिलादिभिः ॥
देशधर्मान्पुरस्कृत्य प्रेतपिण्डान्वयांस्यपि ।
देयस्तु दशमः पिण्डो राज्ञां वै द्वादशे ऽहनि ॥
वैश्यानां पञ्चदशमे देयस्तु दशमस्तथा ।
शूद्राणां दशमः पिण्डो मासे पूर्णे हि दीयते ॥
पूर्णे हीति मासपूरके ऽहीत्यर्थः ।
एतदशपिण्डदानपक्षे । तथा च पिंडसङ्ख्यामाह
३०८ शुद्राचारशिरोमणिः T. पारस्करा- ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः । वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिताः ॥ प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान्दद्यादशैव च। इति । शूद्रस्य पर्णशरदाहादौ त्रैरानाशौचपातेऽपि दशै- व पिण्डा भवन्ति न ततो न्यूनाः। तदाह शातातपर- आशौचहासेऽपि पिण्डान्दद्याद्दशैवचेति । तत्र दाने प्रकारमाह-पारस्करः- प्रथमे दिवसे देयास्त्रयः पिंडाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादीन् क्षालयेत्तथा । एकोद्दिष्टं च कर्त्तव्यं श्राद्धकर्म ततः परम् ॥ ततः परं चतुर्थेह्रीत्यर्थः। ब्रह्मपुराणे-- सद्यः शौचेऽपि दातव्यः सर्वेपि युगपत्तथा । त्र्यहाशौचे प्रदातव्यः प्रथमे त्वेक एव हि ॥ द्वितीये ऽहनि चत्वारस्तृतीये पञ्च चैव हि । इति । सर्वेष्वप्याशौचपक्षेषु दश पिण्डा अवश्यं देयाः। तेषां शरीरपूरकत्वात् । दशभ्योऽधिकानां पिण्डानां तु मृदागारशिरोमणिः २८९ दाने प्रेतोपकाराधिक्यमुन्नेयम् । कचिदापदि शून्यैरपि प्रेतशरीरनिप्पत्तिर्भवति तन शानण तथैव बोधनादिति ज्ञेयम् । अविशिष्टमन्यसाधारणत्वानोक्तं गोविन्दार्ण. चादायवधार्यम् । अर्थकोदिष्टनिर्णयः। तत्राचं श्राद्धमेकादशेऽसनीत्येके । एकादशेऽति यध्यादं तत्सामान्यमुदाहतम् । चतुर्णामपि वर्णानां सुतपं. तु पृथक् पृथक् ॥ इति वृद्धयसिष्ठवचनात् । नचाशुश्रय तदा कथमधिकार इति वाच्यम् । आयं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ इति शङ्गवचनात् । सूतकान्तं इत्यपरे । अधाशीचव्यपगम इति वि- प्णुवचनात् । तत्र देशाचारतो व्यवस्था । एवं वृपो- सोऽपि । तत्र वृपोत्सर्जनहोमस्य वैदिकमन्त्रसम्ब- न्धित्वाचत्र न शूद्रस्याधिकार इति होमरहिते एव त- स्मिन् शूद्रोऽधिकारी । तत्र च ब्रामणनिमन्त्रणादि तत्पूर्वदिने तदिने वा कर्त्तव्यम् । तत्प्रकारश्च उक्तः सर्ववर्णसाधारणोऽन्यत्रैव । विशेपस्तु- - २७२०शि० शूद्राचारशिरोमणिः - दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा । पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् । इति ॥ . निमन्त्रणं चेत्क्वचिच्छाखायां मन्त्रपाठोऽप्यस्ति । तत्र तच्छाखीयोपदिष्टशूद्रकर्तृके निमन्त्रणे तत्स्थाने नमः- शब्द एव मन्त्रत्वेनाऽवधार्यः । येषां तु न मन्त्रः किन्तु वाक्यमेव तत्र तदुपदिष्टशूद्रेणापि वाक्यमेव पठनीयं न नम शब्दोऽपि । एवं पाद्यासनादिदानेष्वपि नमो- मन्त्रप्रयोगाप्रयोगौ ज्ञेयौ । पाद्यदानानन्तरं तु ब्राह्मणः सव्यं चरणं प्रक्षालनार्थं शूद्राय प्रयच्छेत् । 'सव्यं शूद्रायति' वचनात् । शेषं समानम् । सपिण्डीकरण- कालस्तु संवत्सरान्तो मुख्यः। सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽन्दे भरतर्षयः॥ द्वादशेऽहनि षष्ठे वा. त्रिपक्षे वा त्रिमासे वा। 'एकादशेऽपि वा मासि मजलं स्यादुपस्थित मिति . भ- विष्यपुराणात् । तदशक्तावेकादशो मासो मुख्यो . भ- विष्यपुराणस्वरसात् । प्रधानकालप्रत्यासत्तेश्च क्रम- नियामकत्वात् । तदशक्तौ संवत्सरान्ते विसर्जन न. च मासमित्येकम् । इति पैठीनासिवचनान्नवमो मासः । तदशक्तौ पूर्णे संवत्सरे । षण्मासे त्रिपक्षे वा यदहर्वा शुद्राधारशिरोमणिः वृद्धिरापयेतेति गोभिलवचनात् पण्मासः । तदशक्ती निमासे भविष्यदुक्तत्वात् । ततलिपक्षः। अत्राशौचव्य- पगमावं द्वादशसु दिनेषु क्रमेण मासिकानि कृत्वा द्वादशेऽहनि द्वादशमासिकं समाप्य त्रयोदशेऽहनि स- पिण्डनमित्येके । तदशक्तावेकस्मिन्नेव दिने द्वादशमा- सिकानि कृत्वा तत्रैव सपिण्डनं कार्यम् । मुख्यं श्राद्धं मासि मासि अपर्याप्तावृतुं प्रति । द्वादशाहेऽथवा कुर्यादेकाहे द्वादशेऽधवा । इति मरीचिवचनात् । एवं वृद्धिविपयेऽपि । तत्र यदहा वृद्धिरापयेत तदहारिति गोभिलवचनात् । एपां च कालानां मध्ये द्वादशाहः प्रशस्त इत्याह व्याघः । आनन्त्यात्कुलधर्माणां पुसां चैवायुपः क्षयात् । अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते । इति ॥ वृद्धमतुः- द्वादशेऽहनि विप्राणामाशौचान्ते तु भूभृताम् । वैश्यानांतु त्रिपक्षादावथवा स्यात्सपिण्डनम्। इति ॥ शूद्रस्य तु द्वादशाह एव मुख्यः सपिण्डनकालः। तदाह सपिण्डताऽनुवृत्तौ विष्णु:- मन्त्रवज हि शूद्राणां द्वादशेऽहनि कीर्तितम् । इति । - २१३ शुद्राचारशिरोमणिः कर्तुस्तात्कालिकी शुद्धिरितवचनादाशौचमध्ये- ऽपि तन्न विरुध्यते इति ध्यदेशाचारः। पौरस्त्यास्तु अथाशौचव्यपगमे' इति विष्णुबचनात् , शूद्रस्य दशमः पिण्डो मासे पूर्ण प्रदीयते ॥ इत्यादिवाक्यानुरोधाच्च सूतकान्तएव सपिण्डनमित्याहुः। सपिण्डीकरणं चेदगेकोद्दिष्टपार्वणोभयात्मकम् । तत्र प्रेतस्थाने एकं ब्राह्मणमेकोद्दिष्टार्थे ताम्बूलादिना निमन्त्र्य पितामहादिपार्वणार्थे प्रत्येक युगपद्वा वैश्व- देवपूर्व ब्राह्मणान्निमन्त्रयेत् । तत्र निमन्त्रणवाक्ये शू- द्रस्य अस्मपितामहस्य असुकगोत्रस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्त्तव्यः इत्यादिप्रयोगः कार्यः । यस्य शूद्रस्य पिता द्विजातिः। पितुः शूद्रत्वेऽपि वा तपितृपितामहा द्विजातयः, तदा ब्राह्मणक्षत्रियवैश्य- जात्यपेक्षया क्रमेण शर्मवमगुप्तप्रयोगाः । यस्य कुले पित्रादयोऽप्यवरुद्धादिजातास्तेनाऽवरुद्धादिजातः पि- नादिरशुद्धोऽपि परिणीतजातैः पितामहादिभिर्योज- नीयः । जन्यजनकभावस्य विद्यमानत्वात् । तत्रैकोद्दिष्टकर्तव्यमाह कात्यायन:-अथैकोद्दिष्टमेकं पात्रमेकोऽर्घ एकः पिण्डः नावाहनं नाग्नौकरणं नात्र वै- श्वदेवाः सुहितमिति तृप्तप्रश्नः सुरवदितमित्यनुज्ञानमुप- गटाचारशिरोमणिः तिष्ठतात्पक्षत्थानेऽभिरम्यतामिति विसगेऽभिरताःरम इत्यपर इति । याज्ञवल्क्य:- एकोद्दिष्टं देवहीनमेकाचैकपवित्रकम् । आवाहनान्नौकरणरहितं ह्यपसव्यवत् ।। मत्स्यपुराणे- स्वादितं विकिरे ब्रूयाद्विसर्गे चाभिरम्यताम् । इति । विकिरपिण्डस्थाने स्वदितमित्येव यात् । न विकिरपिण्डं दद्यादित्यर्थः । यत्त्वाश्वलायनगृल्यपरिशिष्टे- एकोद्दिष्टं तु यावामित्युपक्रम्य- उच्छेपणं भूमिगतं विकिरं लेपमोदकम् ।। अनुप्रेतेषु विसृजेदप्रजानामनायुपम् । अनुद्दिश्य तु प्रेतस्य सर्वत्रैवं प्रयुज्यते ।। एक पवित्रमेकं पिण्डं नाग्नौकरणं न स्वधा नाभिरम्यताम् । स्वस्त्यस्त्यु विसृजेदेवं सकृत्प्रणवर्जितम् । एकोदिप्टस्य पिण्डे तु अनुशब्दो न विद्यते ॥ पितृशब्दं न कुर्वीत पिहा चोपजायते । औदकं उदकसम्बन्धिनं लेपम् । अन्नोदकहस्त- शूद्राचारशिरोमणिः स्य दर्भेषु मार्जनमित्यर्थः । अनुप्रेतेष्विति । अनुशब्दः पूर्वत्ववाची। पूर्वमृतेषु मध्ये ये अप्रजाः तेषां विसृजेत् । अनायुषामित्यायुःशब्दः संस्कारोपलक्षकस्तेनासंस्कृ- तानामित्यर्थः। तथा च मन्त्रलिङ्गम्-- असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः । दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम्। इति। अनुद्दिश्येति । प्रेतस्योद्देशेन यत्रैकचनकोद्दिष्टे पार्व- णादौ वा उत्सृज्यते तत्र सर्वत्रैवमेवानुप्रेतेषूच्छेषणवि- किरादि देयम् । तत्रैवं व्यवस्थापयन्ति । सपिण्डीकर- णप्राग्भाविषु एकादशाहादिषु विकिरस्थाने स्वाहेति श- ब्दोच्चारणं स्वधाकारप्रतिषेधश्च । नाभिरम्यतामिति । 'ये चत्वामत्रान्विति मन्त्रोऽनुशब्देन लक्ष्यते स न प्रयुज्यत इति +++++शवदामिति । पितरोऽत्र दिव्यास्तेषां शब्दो वसुरुद्रादित्यरूप इत्यादिस्तन्नोच्चारयेत् । अत्रा- न्यः श्राद्धतिकर्तव्यताविशेषस्सर्वसाधारणः सर्वत्र सुप्र- सिद्ध इति न लिख्यते । . ननु शूद्रस्य कथं गोत्रप्रवरसम्बन्धः। अद्विज- त्वात् । द्विजानामेव गोत्रप्रवरप्रवर्तकत्वात् । तथा च এরায়িং: मत्स्यपुराणे मनु:- ऋपीणां नामगोत्राणि वंशावतरणं तथा । प्रवराणां तथा साम्यमसाम्यं विस्तराद्वद ॥ इति प्रश्न: मत्स्य उवाच-- भृगुवं लोम्नश्च सुतां दिव्या भार्यामविन्दत । तस्यामथ सुता जाता देवा द्वादश याज्ञिकाः ॥ मनवो भानवश्चैव सुजन्यः सुजनस्तथा । क्रतुः शुचिश्व मृा च जन्यश्च वसवश्च ह ॥ प्रभवश्चाव्ययश्चैव दक्षो द्वादशकस्तथा । इत्येते भृगवो नाम देवा द्वादश कीर्तिताः ॥ पौलस्त्यो जनयेद्वितं देवानां तु कनीयसम् । च्यवनं तु महाभागंमन्दधानं तथाऽप्यसौ ॥ इति। अत्र सर्वत्र द्विजानामेव गोत्रप्रवर्चकत्वमभिहितम् । अत एव द्विजानामेव गोत्रमुपदिष्ट फल्पसूत्रकारः। क्षत्रि- यवैश्ययोस्त्वौपदोशकप्रवराभावेऽप्यतिदेशतस्तत्प्राप्तिः । यदाहाऽऽश्वलायना-यजमानस्यार्पेयान् प्रवृणीते। पौरोहित्यान् राजन्यविशामिति । आधानादिपु प्रवरातिदेशात्तद्वारा गोत्रमप्य- तिदिश्यते । यतोऽमुकगोत्राणाममुकप्रवराणामिति गो- शूद्राचारशिरोमणिः . त्रमुपलक्षणीकृत्य प्रवरा भवन्ति । शूद्रस्य तु यज्ञसंयो- गाभावादतिदेशेनापि न तत्तासक्तिः। यज्ञसंयोगाभावश्च शूद्रस्य कूर्मपुराणे दर्शितः । ससर्ज ब्राह्मणान् वनात् क्षत्रियांश्च भुजाद्विभुः। वैश्यानूरुदयादेष पद्धयां शूद्रान् पितामहः॥ यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्ज ससर्ज ह ॥ इति । अनाहुः । कसपि सत्कुलोत्पन्नं मूलपुरुषं प्रसि- हमुपलक्षणीकृत्य तन्नास्ना गोत्रव्यवहारः । ये च परिणीतायां शूद्रायां द्विजातिभ्य उत्पन्ना- स्तेषां च यावत्पिण्डनिवृत्तिरतावत्तद्गोत्रेणैव व्यवहा- गत्तत्परम्परायामपि तद्गोत्रेणैव व्यवहरन्तीति लोके गो- त्रव्यवहारः शूद्राणाम्। अनेनैवाभिप्रायेण बौधायनः- चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः ॥ इति । उपदेशकब्राह्मणगोत्रमेवास्य गोत्रमित्यन्ये । अत एव शूद्रलक्षणमित्थमाचक्षते परीक्षकाः । गोत्रप्रवरसम्बन्धो नास्ति येषां कथञ्चन । उपदेशातिदेशाभ्यां शूद्रा वर्णेषु ते स्मृताः ॥ इति । हेमाद्रिस्तु-शूद्राणां गोत्रस्याभावाद्गोत्रतः पिण्ड- दानमित्येतद्विजात्युत्पन्नशूद्रविषयं भवितुमर्हति ।अथ- वा 'तस्मादाहुः प्रजाः सर्वाः काश्यप्यः' इति श्रुतेः शुद्राचारशिरोमणिः २१७ - - । सर्वेषां चैव शूद्राणां काश्यप गोत्रमर्हति । तथाच व्याघ्रपात्-गोत्रनाशे तु काश्यप इति । अथ श्राद्धनिर्णयः। 'तत्र भारतः शुचिर्भूत्यभर्ती श्राद्धक्रियापरः' इति शूद्रस्य श्राद्धे सामान्यतोऽधिकारो दर्शितो या- ज्ञवल्क्येन । श्राद्धं प्रकृत्य मत्स्यपुराणेऽपि- शूद्रोऽप्यमन्त्रवत्कुर्यादनेन विधिना ततः ॥ इति । एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा नमस्कारेण मन्त्रेण कुर्याच्चामान्नवत् बुध इति । सामा- न्यं साधारणम् । वर्णविशेपाऽनुपादानेन प्रवृत्तं सामा- न्यमनग्निब्रह्मचारिविधुराविधवाशूद्रादीनामपि कर्त्तव्य- ममावास्यायुगादिमन्वादिग्रहणव्यतीपातादिनिमित्तं नि- त्यं नैमित्तिकं काम्यं वा तत्सर्वमुच्यते। आमान्नवदिति। आमेनैव कुर्यादित्यर्थः। तदाहोशना:- आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं द्विजो दद्याच्छूद्रो दद्यात्सदैव हि ॥ यत्तु वराहपुराणे- सच्छूद्रस्य पाकश्राद्धेऽधिकारो दर्शित इति । +++++कर्तव्यं पाके भोजनमेव च । शुश्रूषामभिपन्नानां शूद्राणां च वरानने । २८ शू०शि०
१.१८ः
शुद्धाचारशिरोमणिः
..
दिने त्रयोदशे+++++++द्विजान् ॥
पञ्चविधिः प्रयोक्तब्यः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य च शूद्रस्य विप्रो मन्त्रेण गृह्यते॥ इति।
अयमत्यन्त लोकविद्विष्टत्वाधुगान्तरविषय इत्याहुः
सत्स्यपुराणे--
आमश्राद्धं यदा कुर्सद्विधिवच्छाद्धदस्तदा।
तेनाऽग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥
. अत्र यदा तदेति द्विजाभिप्रायम् । शूद्रस्यः नि-
त्यमामश्राद्धविधानात् । युगान्तराभिप्रायं वा । तेनै-
वेत्येवकारोऽप्यर्थः । पायससत्कादिपिण्डानामपि विधि-
दर्शनात् । अग्नौकरणं तु शूद्रस्यापि भवति ।
तथा च हेमाद्रौ भविष्यपुराणम्-
धर्मेप्सवश्व धर्मज्ञा यदि शूद्रः प्रवर्त्तते ।
अग्नौकरणमन्त्रश्च नमस्कारो विधीयते ॥
आवाहनादि कर्त्तव्यं तथा शूद्रेण तच्छृणु ।
देवानां देवनाम्ना तु पितॄणां नामगोत्रतः ॥
पिण्डादीन्निवपेद्वीरनामतो गोत्रतस्तथेति.।
तच्च जलादौ कार्यम् ।
अग्न्यभावे तु विप्रस्य पाणौ वा चजलेऽपि वा।
अजाकर्णेऽश्वकर्णे वा गोष्ठे वा च शिवान्तिके ।
शूद्रापारशिरोमणिः २१९ इति मत्स्यपुराणात् । अत्र यद्यपि सामान्यतः शूद्र- स्य श्राद्धमाने ऽधिकार उक्तस्तथापि यानि सामी- नामेव विहितानि पिण्डान्वाहार्यकादीनि तत्र शूद्रा नाधिक्रियन्ते । तेपामाहि++++++ [अत्रग्रन्थस्त्रुटितः] ++++""चैव महादेवेति च क्रमात् । मृदाहरणसङ्घप्रतिष्ठाकालमेव च । स्नपनं चैव पूजार्थ नमस्कारो विसर्जने ॥ ॐ हरायनमः-मृदमादत्ते । ॐ महेश्वराय नमः सङ्घयामि ॥ ॐ स्वयम्भुवे नमः प्रतिष्ठापयामि । ॐ शूलपाणये नमः आवाहयामि ॥ ॐ पिनाकधूपे नमः स्नपयामि । ॐ महादेवाय नमः पूजयामि ॥ ॐ पशुपतये नमः नमस्करोमि । ॐ महादेवाय नमः क्षमस्व विसर्जनम् ॥ ॐ शिवाय क्षितिमूर्चये नमः। ॐ भवाय जलमूर्तये नमः। ॐ रुद्राय अग्निमूर्तये नमः॥ * उग्राय वायुमूर्तये नमः।
२२० शूद्राचारशिरोमणिः . ": ... ॐ भीमाय आकाशमूर्तये नमः ॥ ॐ पशुपशतये यजमानसूर्तये नमः । ... ॐ महादेवाय सोममूर्तये नमः॥ ॐ ईशानाय सूर्यमूर्तये नमः । ॐ दाक्षणामूर्तिरूपाय तस्मै श्रीगुरुमूर्तये नमः ॥ पयस्येव तीर्थे विसाः। भौमेऽर्के,भृगुजे मघागृहनिशासप्तम्यनङ्गाह्वया नन्दाजन्मदिनेषु सन्धियुगले नो तर्पणं स्यात्तिलैः ।। नोद्वाहव्रतचौलवृद्धिषु समा धैकमासे क्रमा- नो दुष्येत्तु मृतौ महालयगयापुण्याहतीर्थाप्तिषु ॥ वृद्धौ प्राङ्मुखमेव सव्यसृजवो दर्भास्तिलार्थो यवैः पिण्डा वा पितृमन्त्रवर्जितजपो युग्मं द्विजा न स्वधा । दैवं तीर्थमुशन्ति नो मधुमती तृप्तौ च सम्पन्नवत् प्रीयन्तामिति चाक्षयेति प्रणुयात्कर्कन्धुदध्यक्षतैः ॥ दिङ्मात्रमेतदुक्तम् । अन्यत्सर्वं गेविन्दार्णव एव प्रपञ्चितमित्युपरम्यते । शिष्टानामवधिर्गुणैकजलधिः सत्सम्पदां शेवधिः श्रीमत्केशवदासतः समजनि श्रीमानपिलाजाति यः॥ तस्यैतस्य कृते कृतेऽत्र कृतिना कृष्णेन शेषेण स- २२१ शूद्राचारशिरोमणिः च्छूद्राचारशिरोमणी पितृमख ( प्रख्यो) विवेको ऽभवत् ॥ १॥ गुणागुणपरीक्षणक्षणविचक्षणोऽनुक्षणं वितीर्णबहुदक्षिणः स्वजनरक्षणे दक्षिणः ॥ जयत्यतुलविक्रमोज्वलितदक्षिणाशामुखः प्रतिक्षपितशात्रवः क्षितितले पिलाजीनृपः ॥ हरिचरणसरोजावाप्तजन्मा द्विजन्मा- ऽर्पणविहितविभूतिः स्वधुनीपूर्वजन्मा ॥ व्यरचयदतियत्नात्केशवस्यात्मजन्मा सकललघुनिबन्धं शेषकृष्णं प्रयुज्य ॥ २ ॥ इति श्रीहरिचरणसरोजप्रसूतवर्णवंशावतंसपरमवैष्णव श्रीपिलाजीसमुद्योजितशेषकृष्णविरचितः शूद्राचारशिरोमणिः समाप्तः ।
No text on this page.
THE PRINCESS OF WALES SARASVATI
BHAVANA STUDIES
( BANBRRIT)
SARASVATALOKA
Editod by
GOPINATH KAVIRAJ, 1. A
frana 1 ( Io progress)
(a) Mangalam, eto, by Náråyana S'astri Khisto.
Mimansaka mata samgraba, by Haranchandra Bhattacharya.
Srimad Acharya Blandana Mis'ra by Chinga Swami S'astei,
-) Bhagavato Buddhasya Chaitama Upades'as'clia,
by Gopinatha Kaviraj.
1a I ( Sapplomont)
askrita Karl Parichaya-(Bharavi) by Nanda Kishore Sharma
II (In progress )
tárada Prasadanam by Narayana S'astrı Bhisto.
Thûdamani Dars'anan by S'as'adhara Tarkachudinapi.
To be had of
The Superintendent
Government Pross, U.P.,
Allahabad.