Central Library, Bits- Pilani

The Virupakshapanchasika Of Virupakshanthapada

Shaastri T. Ganapati · 2005/06/18

PDF Proofread

Front matter

Birla Central Library
PILI.1 1.dixipar S...)
Class NO:
Bock No
S181.4
V824UT
ACCO:103: No :: 16549
IT IS EARNES, LYDERED THAT TH!!
BOOK BË HANDLED WITH CAR AND 6
NOT MARKED. UNDERLINED K DISFIGU
ED IN ANY OTHER WAY, CTHER NISE !
WILi 11AVE TO BE REPLACED OR PA
FOK BY THE BORROWER IN THE INTERES
OF THE LIBRARY
LIBRARIAN

No text on this page.

TRIVANDRUM SANSKRIT SERIES
NO. IX.
श्रीमदाचार्यविरूपाक्षनाथपादप्रणीता
विरूपाक्षपञ्चाशिका
TIE
VIRUPAKSHAPANCHÂSIKA
+
VIRUPAKSHANATHAPADA
Edited with Notes
BY
T. GANAPATI SÂSTRÎ
Ourator of the Department for the publication of Sanskrit inanuscripta,
TRIVANDRUM.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
PRINTED AT THE TRAVANCORE GOVERNMENT PRÉSE:
1910
All Right Rectorport

TRIVANDRUM SANSKRIT SERIES.
NO. LX.
THE
VIRUPAKSHAPANCHASIKA
ITRÚP Í KNILALÍTILALÁDI
NITI (OIESTIRI DY
VIDLIG'ILIKRITIRTLI.
Edited with Noles
T.
GANAPATI ģistrî
Curatur i thi Duiment bien lle police corte y sinchristine Rey!...
TRI LIIRI V.
PUBLISHED UNDER THE AUTHORITY
OF
THE GOVERNMENT
OF
HIS HIGHNESS THE
MAHARAJAH
OF TRAVANCORE.
TRIVANDRUM:
PRIVIli
IN TILAVUURI OIII 1'ESO
1910.
(All Rights Reserved.)

No text on this page.

PREFA(JE. Virupakshapanchasika (feat:1+1), a mrtaphysical work of great rarity, containing profound thoughts expressed in terso lungnage, closely follows the l'raty:bhijna school as propoundel by Madhaviacharya (माधवाचार्य) in this सर्वदर्शनसंग्रह. The edition of this work with commentary is based upon two palm leaf manuscripts from the Palace Library, written in Malayalam characters. They are about two centuries old and are almost free from emol's. Little is known about the author Virupakshanathapada (ITETIETH1977) while the commentator Vidyachakravartin (faali- चक्रवर्निन् ) may be identified with the author of सम्प्रदायप्रकाशिनी and अलकारसर्वस्वमाविनी, the commentaries on काव्यप्रकाश and अलकारसर्वस्व respectively. I hope to deal with Vidyachakravartin claborately in the preface to F6791797ftat which will be published as one of this Sanskrit Series. T. Ganapati Sastri.

No text on this page.

निवेदना। यत्तत् सर्वदर्शनसंग्रहे माधवाचार्यप्रणीते प्रत्यभिज्ञादर्शनमुपन्यस्तं, तदनु- सार्ययमपूर्वश्चातिप्रौढच ग्रन्थो विरूपाक्षपञ्चाशिका नाम । अस्या विवृतिसहितायाः संशोधनाधारतया द्वावादर्शी तालपत्रात्मको केरलीयलिपी अनतिशुद्धौ त्रिशतवर्षस- म्भाव्या राजकीयग्रन्थशालाया आमादितो । तत्र पञ्चाशिकाकारान् विरूपाक्षनाथपादान् प्रति नाधिकं किञ्चिद् ज्ञातुं पारितम् । श्रीविद्याचक्रवर्ती तु, सम्प्रदायप्रकाशिन्याख्यायाः काव्यप्रकाशव्या- ख्याया अलङ्कारसर्वस्वसञ्जीविन्याश्च कर्ता यो विद्याचक्रवर्ती, स कामं सम्भा- व्यते । वितत्य तु विद्याचक्रवर्तिनं प्रत्यस्यां संस्कृतग्रन्थावलौ ग्रथयिष्यमाणायाः सम्प्रदायप्रकाशिन्या उपोद्घाते चिन्तयिष्यामः ।। त. गणपतिशास्त्री.

No text on this page.

॥ श्रीः॥ श्रीमदाचार्यविरूपाक्षनाथपादप्रणीता विरूपाक्षपञ्चाशिका। श्रीविद्याचकवतिकृतविवृतिसमेता । नमो विश्वशरीराय विश्वकात्म्यावभासिने । नित्यप्रत्यवमर्शाय शम्भवे विश्वसिद्धये ॥ १ ॥ संवित्सिद्धान्तसिद्धार्थसारसङ्घहरूपिणीम् । पश्चाशिकां विरूपाक्षमोक्तां व्याकुर्महे वयम् ॥२॥ इह विश्वानुग्रहकरसिकः श्रीमान् परमशिवभट्टारकः परिगृहीतलीलाविग्रहः श्रीविरूपाक्षनाथपादनाम्ना परिश्रम कदाचिद् दिविपदां नाथं गन्धसिन्धुरायोधनं पारमैश्चर्यमभिमन्यमानमाधिगम्य तत्पुग्म्तादिच्छामात्रेण प्रादुप्कृतगहाचलयुगला. हतस्तदर्शनको तुकालिश यासात वर्षमये समावेनोपपन्ने तत्र तदबोधनाय समस्तसंविसिद्धान्तार्थ वर मनिष्कर्ष भूतमेतत् पचाशिकाशास्त्रमवतारयामास । तत्र प्रथमचस्मयोः श्लोकयोरुपक्रमोपसंहाररूपत्वाद् 'शुकवानदेवयोरि त्यस्य च प्रास- शिकत्वादनुपदेशरूपत्वम् । अवशिष्टाः सोकाः पञ्चाशद्या इति शास्त्रनेतत् पञ्चाशिका । तत्र 'विमतिपदामित्यादि श्लोकसतकरूपेण प्रयनस्कन्धेन शरीरबा. ह्यतया प्रतीयमानस्य विश्वस्य शरीरत्वमुपपत्तिभिरवस्थापितम् । अथ देहदेहि- भावलक्षणभेदभ्रमापासनाय 'प्रत्यवमर्शाने त्यादित्रयोदशश्लोकात्मना द्वितायस्क- न्धेन प्रकाशैकात्म्यं विश्चन्य वितत्य विवेचितम् । अथ प्रत्यभिज्ञातस्य प्रकाशै- कात्म्यस्यासम्भावनाविपरीतभावनादिभिर्देषैिः संस्पर्शो मा भूदिति प्रत्यवमर्शप्र- काराः सप्रपञ्चं प्रदर्शिता 'अहकोऽनन्तमितप्रकाशे'त्यायकोनविंशतिश्लोकात्मना १. 'द्धान्तार्थसारसा' ख-पाठः. २ 'द दिदि दिविष' ख-पाठः. ३. 'म्य पुर' ख-पाठः. ४. परुषभु' स-पाठ:. ५. ' त्वादनुपदशरूपं श्लोकत्रयम् । अब' ख-पाट:. ६. 'यत्लेन म' स-पाट:. ७. 'शापितस्य वैधात्म्यस्य वि' क पाटः. ८, ति विम' कपाटा, २ विरूपाक्षपञ्चाशिकायां तृतीयस्कन्धेन । अथ चतुर्थस्कन्धेन 'मत्स्थमपी'त्यादिश्लोकैकादशकात्मकेनाप्रबु- द्धप्रबुद्धादीनां प्रतीतिप्रकारोपन्यासपुरस्कारण परापरसिद्धिप्रादुर्भावसरणिः पर्यन्ते महासिद्धिश्योपदिष्टेति चतुम्कन्धकमिदं शास्त्रम् । अवान्तरविशेषास्तत्र तत्रोपव- य॑न्ते । अथ ग्रन्थं व्याकुर्मः । तंत्र शास्त्रमवतारयितुं पीठिकावन्धमारचयति- गन्धगजसमररसिकायेन्द्राय प्रकटिताद्रियुगसमरः । निजसिद्धिचीजमस्मै कथयति पृष्टो विरूपाक्षः ॥ १॥ पृष्ट इति प्रश्नलिझानुमषेन 'शक्तिपातेनात्य तत्त्योपदेशार्हत्वादधिकारित्व- मिन्द्रम्य सूचितम् । कथयति शाब्दी दीक्षां प्रवर्तयितुमुपक्रमते ॥ १ ॥ तत्रादौ शरीरबहिनीवेन प्रतीयमानस्य विश्वस्य शरीरत्वं साधयितुं पञ्चा- वयवोपपन्नं वाक्यमुपन्यम्यति विमतिपदमड! सर्वं मम चैतन्यात्मनः शरीरमिदम् । शून्यपदादीलावधि दृश्यत्वात् पिण्डवत् सिद्धम् ॥ २ ॥ अङ्गेत्युपदेश्यमभिमुखीकरोति । विमतिपदामिदं शून्यपदाढीलावधि सर्व ग्राहकाभिमानिना त्यया देहवायत्वेन चैतन्यात्मना नया ददत्वेन च प्रती. यमानत्वाद् विवादास्पदमेतदनाश्रितादि मृत्यन्तं विश्वं मम शरीरम् । तत्र हेतुः दृश्यत्वादिति । यथा ते ग्राहकत्वादवच्छिन्नस्य दृश्यत्वात् पिण्डः शरीरं, तथा मम चैतन्यात्मनोऽनवच्छिन्नम्य विश्वमेव दृश्यत्वाच्छरीरम् । उपनयम्यार्थात् सिद्धिम- भिसन्दधानो निगमयति सिद्धमिति । सर्वस्य ह्ययं स्वानुभवसिद्धोऽर्थः । यदा प्रति- नियतं नीलपीतादिविशेषरूपं ग्राह्यं प्रत्युन्मुखीभवति, तदा ग्राहकः स्वयमप्यव- च्छिन्नप्रकाशो भवति । स च प्रकाशावच्छेदो ग्राह्यावच्छेदोपाधिक एव । यदा पुनः सर्वमेव वस्तु सामान्यतोऽनुसन्धत्त, तदा चैतन्यात्मकोऽनवच्छिन्नप्रकाशोऽयं, देश- कालादिप्रकाशकम्य देशकालादिभिरवच्छेदासम्भवात् । अतस्तदा दृश्यत्वाद् विश्व- १. 'तुर्थ श्लोकैकादशकात्मनि स्कन्धे अप्रबुद्धादी' क-पाठः. २. ‘त्र ग्रन्थम' ख-पाठः. ३. 'कामार' ख-पाठ:. ४. 'रबाह्यत्वेन' ख-पाठः. ५. 'स्यात्य वि' ख-पाठः. सिख-पाट:. शक्तिपाता नाम देव्याश्चिच्छकः परशिवप्रेरणया पात:, तेन । 'शक्तिपाते तु सजाते शिष्यस्यात्मनि संस्थिता । माया दग्धा भवेत् सम्यक नात्र सन्देहकारणम् ॥' इति सू. तसंहितायां यज्ञवैभवखण्डे ३४ नमाच्यायः. ६. 'वात् * प्रथमः स्कन्धः । ३ मेव शरीरम् । यदि तथा न स्यात् , तदा ग्राहकपदे पिण्डोऽपि शरीरं न स्याद् दृश्यत्वाविशेषात् । अतो ग्राहकत्वलक्षणविशेपविगलने तैवापि चैतन्यात्मनो विश्व- मेव शरीरमित्युपदिष्टं भवति ॥ २ ॥ ननु दृश्यत्वमात्रं देहल्ले न हेतुः, अपि त्वहन्तया प्रतीयमानत्वम् । प्रतीयते च पिण्डोऽहन्तया । विश्वं पुनरिदन्तया । अतः कथमुक्तार्थसिद्धिरित्यत आह - सम्पन्नोऽस्मि कृशोऽस्मि स्निोत्करणोऽस्मि मोदमानोऽस्मि । प्राणिमि शुन्योऽस्मीति च घट्नु परेवस्मिता दृष्टा ॥ ३ ॥ सम्पद गृहक्षेत्रादेविषयम्य धर्मः, कार्य देहस्य, नेहश्चक्षुरादेरिन्द्रियस्य, मोदोऽन्तःकरणस्य, प्राणनं वायोः, शून्चता सुपुप्तपदम्प मायापर्यायस्य । एषु वि- पयादिपु पसु पदेषु अस्मिता दृष्टा । अहमभिमानम्तवापि स्वानुभवसिद्धः । इत्थश्च सति यदा देहबाह्मत्वेनाभिमते विषये अहमभिमानः, तदा दृश्यत्वाद् वि- पयोऽपि शरीरम् । यदा तु नाहमभिमानः, तदा देहेन्द्रियाद्यपि न शरीरम् । अतः पिण्डेऽस्मिता तदहिभूते वस्तुनीदति यद्वैषम्यमासहितं, तदधिमर्शमात्र- कृतो विप्रलम्भ एवेति भावः ॥ ३ ॥ ननु तथापि प्रतिनियतेयु विषयादिपु वन्तुपु पद्म अस्मिता दृश्यते, न सर्वत्रेत्यत आह विषयशरीरेन्द्रियधीप्राणनिरोधप्रसियदस्मित्वाम् । इत्थं चितिमखिलेऽध्वनि धारयतो विश्वदेहत्वम् ॥ ४ ॥ विषयादिषु पट्सु येयमस्मिता प्रसिध्यति सा चितेरेवोपपद्यते, नतु ग्राह- कस्य, तम्य शून्यपदे निमग्नत्वात् । इत्थं पटमु पदेषु प्रसिद्धबदस्मित्वां चिति यदि अखिलेऽध्वनि धारयसि पंडात्मनीव सर्वत्रैव शिवादौ धरण्यन्ते वस्तुनि नित्यशुद्धामेव प्रत्यभिज्ञां दायनानुसन्धत्से, तदा तवापि विश्वदेहत्वं प्रत्यभिज्ञा- विषयो भविष्यतीति शेपः । उक्तनयेन पट्ट पदेवम्भिता चितेरेव न ग्राहकम्य । चितश्चानवच्छिन्नप्रकाशात्मनः प्रतिनियतेप्वस्मिता नोपपद्यते, उपपद्यते च सर्व- १. 'तदापि' (?) क-पाठः. २. 'ह्यतारोऽस्मि' ब-पाटः. ३. 'वानु' ख-नाट:. ४. ‘ण्डेऽहन्ता तद् ख-पाठः. ५. ‘म्भ इति' ख-पाट'. ६. 'षडध्वात्मके स' क-पाटः.

. विरूपाक्षपञ्चाशिकायां , त्रैव । तामिमां चितेः सर्वत्रैव नित्यसिद्धामस्मिता प्रतिपत्तिदायेन यद्यवमृशासि, तदा ते नित्यसिद्धमेव विश्वशरीरत्वं प्रत्यभिज्ञातं स्यादिति तात्पर्यम् ॥ ४ ॥ ननूक्तनयेन सर्व एव लोको विश्वशरीरः प्राप्तः । न च तथा दृश्यते पिण्ड- मात्रेऽहन्तायाः परिनिष्ठानात् । अतः प्रत्यक्षसिद्धमेतद् देहेऽभिमन्तृत्वं कथमन्यथ- यितुं शक्यत इत्यत आह- उत्क्रम्य विश्वतोऽङ्गात् तद्भागैकतनुनिष्ठिताहन्तः । कण्ठलुठत्प्राण इव व्यक्तं जीवन्मृतो लोकः ॥ ५॥ विश्वतोऽङ्गात् शरीरभूताद्विश्वस्मादेव शिवादेवस्तुन उत्क्रम्य अनुत्क्रान्त: सन्नपि स्वाविमर्शनोत्क्रान्त इव भूत्वा तद्भागकतनुनिष्ठिताहन्तः तदन्तर्भूतायां कस्याञ्चिदेकस्यां तनौ सुरनरतिर्यगात्मिकायां दृढप्ररूढाहम्भावः अत एव कण्ठ- लुउत्त्राण इव लोको व्यक्तं जीवन्मृतः जन्तुजातमेतज्जीवन्मृतकल्यं सत्यं वर्तत एव । न तत्रापलापः कश्चित् । तत्र हेतुर्विचार्यमाणः स्वाविमर्श लक्षणा मायैव । विमर्श तु लब्धे सर्वो विश्वशरीर: शिव एव ।। ५ ।। यत इत्थमतः- देहेऽस्मितया यजडयोरास्फालनं मिथो बाहोः । इच्छामानेगेत्थं गिर्योरपि तद्वशाजगति ॥ ६ ॥ ग्राहकाभिमानिनाते देहेऽस्मितया मिथः करयोराम्फालनं यथेच्छामात्रेण, तथा चैतन्यात्मनो मम जगत्यस्मितया गिर्योरास्फालनमिच्छावशादेव प्रवर्तते । देहे दृढोऽहमभिनिवेश इच्छा चेतीयदेव हि ते कराम्फालने हेतुः, न तु हेत्वन्तरं किञ्चित् । तथा ममापि जगति दृढोऽहमित्यभिनिवेशः इच्छा चेति गिर्यास्फालने हेतुः । अतो जगत्यहमभिनिवेशशैथिल्यादेव तवैतदनैश्चर्यम् । तद्दायेन तु नित्य- सिद्धर्मवैश्वर्य तवाप्याविर्भविप्यतीत्यभिप्रायः ॥ ६ ॥ ननु अस्मितेच्छामानं चेतीयता न करास्फालनसिद्धिमनुपश्यामः, अपि तु बिन्दुप्राणादिचेष्टालक्षणायां सत्यामेव सामग्र्याम् । अतः कथमुक्तार्थोपपत्तिरि- त्यत आह-- १. 'ज्ञापितमिति' ख-पाठः. २. 'राद्विश्वम्मादेव वस्तु' ख-राटः. ३. प्युत्कान्त इव भूवा स्त्राविमर्शन तद' क-नाट:. ४. 'त्थ ततः 'योरास्फा' व-पाट:.

प्रथमः स्कन्धः । बिन्दं प्राणं शक्तिं मन इन्द्रियमण्डलं शरीरं च । आविश्य चेष्टयन्तीं धारय सर्वत्र चाहन्ताम् ॥ ७ ॥ विन्दुः ग्राहकग्रहणादिप्रतीतिविशेषोदयादाक्तनी स्वरसदाहिनी सामान्य- भूता सूक्ष्माहंप्रतीतिः । प्राणोऽभिमानाध्यवसायाद्यन्तःकरणक्षोभहेतुरसुः । शक्तिप- देन बुद्ध्यहङ्कारौ परिगृहीती, तयोरध्यवसायाभिमानप्रतीत्यात्मनोः शक्तिरूपत्वात् । षडेतान् बिन्द्वादीनान् आविश्य चेष्टयन्ती स्वसंस्पर्शलवमहिम्ना परिस्पन्दयन्तीम् अहन्तां सर्वत्र धारय । येन देहे दृढप्रतिपत्त्या धारयसि, तेनैव च नयेन यदि सर्वत्र धारयास, तदा तवेदृश्यः सिद्धयो नित्यसिद्धा एव स्थिता इति भावः ॥ ७ ॥ ननु येयमहन्ता, सा भावनामात्रपरिनिष्पन्नविकासा, न पुनरीश्वरत्वकर्तृत्वा- दिधर्मोत्कर्षशालिन्यनुभूयते । अतः कथमेवंविधसिद्धिसम्भव इत्यनास्थां शमयितु- , माह- . ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता चेति । एतेऽहन्तायोः किल पर्यायाः सद्भिरुच्यन्ते ॥ ८ ॥ येयं त्वयाहन्ता प्रत्याभिज्ञाता सैव ईश्वरता सैव च कर्तृत्वं स्वातन्त्र्यं चिन्म- यतां च । यो यः शास्त्रप्वीश्वरत्वादिः सिद्ध्यतिशयः, स सर्वोऽप्यहन्तामय एव । अत ईश्वरत्वादयः पर्याया वाचकाः । अनेनाहन्तायामीश्वरत्वायननुभवनिव-धना येयमनास्था सा निरस्ता, यथा यथा प्रत्यभिज्ञानदाय तथा तथा नित्यसिद्धानामी- श्वरत्वकर्तृत्वादीनां विभूतीनामाविर्भाव इत्यासूत्रितं चेति शिवम् ।। ८ ।। इति विरूपाक्षपश्चाशिफायां विवृतिसतायां विश्वशरीरत्वविवेचनस्कन्धः प्रथमः । १. 'या इह' क-पाटः, २. 'यमहन्ता त्वया प्र' क-पाठः.

अध द्वितीय: स्कन्धः। - इत्थं प्रथमस्कन्धेन विश्वशरीरत्वं प्रतिपाथेदानी देहदेहिभावादिभेदभ्रम- बाधनाय प्रकाशस्य वैश्वात्म्यं द्वितीयस्कन्ध आरभ्यते । तत्र ग्राहकत्वादिविशेष- विगलनेन सामान्यरूपा येयं स्वरसवाहिनी चितिः, नेयम् 'अहम्' इति प्रतीयते । अतः कथमियमहन्तेत्याशङ्कयाह--- प्रत्यवमर्शात्मासौ चितिः स्वरसवाहिनी परा वाग् या । आद्यन्तप्रत्याहृत- वर्णगणा सत्यहन्ता सा ॥ ९॥ प्रत्यवमर्शात्मा विमर्शस्वभावा । असौ सर्वस्यैव स्वानुभवसिद्धत्वाद् असावित्यध्यक्षतया निर्देष्टुमुचिता। चितिः विगलितचेत्योपरागा चेतनस्य स्वरू. पेणावस्थितिः । स्वरसवाहिनी निरोधकामावादनिशं स्फुरदूपा । सा विमर्शमय- त्वाद् वाक् । तत्रापि स्वरूपज्योतिष्ट्रेनैव प्रकाशनात् स्वरूपव्यतिरिक्तपश्यन्त्यादि- रूपा नेयम् , अपि तु परैव, यदागमः --"स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायि. नी" इति । शुद्धवाग्रूपत्वाद् येयं वर्णात्मिका, सा प्रत्याहारयुक्त्या गृहीताभ्यामका- रहकाराभ्यामहन्तेति निरुच्यते, न पुनरहमिति प्रतीयमानतयैवेयमहन्ता ॥९॥ नन्वहन्ता नामाहमो धर्मः । स कोऽन्य उपलभ्यते, यः प्रत्यवमर्शरूप. चितिव्यतिरिक्तोऽहंव्यपदेशमहतीत्यत आह-.. स्वपरावभासनक्षम- आत्मा विश्वस्य यः प्रकाशोऽसौ । अहमिति.स एक उक्तो- ऽहन्ता स्थितिरीदृशी तस्य ॥१०॥ स्वं निष्कृष्टप्रकाशात्मक परं च प्रत्यवमादिनीलान्तेमवभासयितुं शक्त. श्चेतनाचेतनात्मकस्य जगतः स्वात्मभूतो योऽयमस्ति प्रकाशः, स देशकालादि- १. 'इत्थं वा' क-पाट:. २. 'युक्त्युपसंग क-पाठः ४. 'के प्र'ख-पाठः, ५. 'न्तं च परम' स्व-पाठः, तयेयकपाठः द्वितीयः स्कन्धः । भेदकानां स्वात्मन्यसम्भवाद् एकोऽद्वितीयः सन्नागमेषु अहमिति आम्नातः । तस्थ समनन्तरनिरूपितचरी प्रत्यवमात्मिका दशैव अहन्ता । अत्रायमाशयः - योऽयं प्रत्यवमर्शादिनीलान्तस्य वेद्यस्यावभासको वेदनकस्वभावः सर्वप्रमिति- भाक् प्रकाशो नासौ स्वयभिति पर इति वा व्यपदेशमर्हति, तैयोर्वेद्यत्वात् । अतः स एक एव, तस्य भेदकस्य प्रमाणस्यासम्भवात् । तस्य प्रत्याहृताभ्यामकारह- काराभ्यामहमित्युक्तिरागमेषु । तत्रापि यद्यपि अहेति प्रकृतिमात्रमर्थवत , तथापि केवलायाः प्रकृतेर्व्यवहारानहत्वादह मिति प्रत्ययसध्रीचीनतया व्यवहारः । तस्य कारणतायां येयमुद्भूतप्रत्यवमर्शता साहन्तेति ॥ १० ॥ नन्विदामति वेद्यम् , अहमित्यहंप्रत्ययात्मको ग्राहकः, समनन्तरनिरूपितः प्रकाशश्चेति त्रितयमुपलभामहे । कथमुक्तार्थसिद्धिरित्यत आह- विच्छिन्नाविच्छिन्ने इदमित्यहमित्युभे प्रथे तस्य । आभास्याभासकतां रेफुटयन्त्यौ चेत्यचित्पदयोः ॥ ११ ॥ तस्य निरूपितस्य प्रकाशस्य धर्मभूते द्वे प्रथे भवतः । एका विच्छिन्ना मिथो व्यावृत्तिरूपा इदमित्येवमात्मिका १. अन्या त्वविच्छिन्ना इदंप्रथापेक्षयानुवृत्ता। तत्रेदंप्रथा चेत्यपदे आभास्यतां स्फुटयति, अहंपथा त्वाभासकतां चित्पदे । इदम्प्र- था हि 'नीलमिदं' पीतमिदमिति परस्परल्यावृत्तिरूपा । न हि तस्यामप्रसृतायां नीलादावाभास्यता प्रकाशते । अहम्प्रथा तु 'नीलं पीतं च वेमी'त्यनुवृत्तरूपा । तत्- प्रथनैकनिबन्धनमाभासकत्वं चित्पदे ॥ ११ ॥ - एवं स्थिते- एकः स आत्मनाँसौ न हि क्रमोऽस्तीह देशकालाभ्याम् । भेदिनि मिथः स युक्तश्वेत्ये भेदाश्रयः खलु सः ॥ १२ ॥ स प्रकाश आत्मना एका अद्वितीय एव, न तु प्रकाशो ग्राहकश्चेति द्विरूपः । नन्विहेदानी 'ग्राहकोऽस्मीति देशतः कालतश्च क्रमोऽस्ति । कथमैक्य- मित्याच्याह-न हि क्रमोस्तीह देशकालाभ्याम् । अत्र प्रकाशे देशकालनिब- २. 'रमिति च व्य' ख-पाठः. ३. 'तयोभय' ख-पाठः- ४. त्रयमु' क-पाठः. ५. 'प्रथयन्यौ' क-पाठः, ६. 'प्रसरैक' क-पाठः. १. 'दान' क-पाठः. एमा"ख-पाठ विरूपाक्षपञ्चाशिकायां 3 न्धनः क्रमो भेदो नास्ति । तत्र हेतुः-चेत्ये मिथो भेदिनि स युक्तः । 'इदं नीलम् ' 'इदं पीतमिति भेदशालिनि चेत्ये 'नीलं पीतं च वेद्मि' इति स युक्तोऽनु- वृत्तः । एतदेव हृदयङ्गमीकरोति-भेदाश्रयः खलु सः । चेत्यधर्मस्य भेदस्याश्रय एव ह्ययम् । भेदो हि नाम व्यावृत्तरूपता । अभेदोऽनुवृत्तरूपता । देशकालकृतो भेदश्चेत्य एवास्ति । तद्भेदाश्रयभूते चिलदे भेदभ्रमस्तदुपाधिनिबन्धन एव ॥ १२ ॥ उक्तनयेन स्वरूपनिरूपणे न भेदः कश्चित् प्रकाशग्राहकयोः । अथ वेद्य- मपि निरूप्यमाणं न प्रकाशाद् भिन्नमुपपद्यत इत्यभिप्रायेगाह- वाड़े चिद्गगनात्मनि दुग्धोदनिभः स्वशक्तिलहरीणाम् । सम्भेदविभेदाभ्यां सृजति ध्वंसयति चैष जगत् ॥ १३ ॥ एप एव प्रकाशः स्वाङ्गे स्वस्वरूपे भित्तिभूते चिद्गगनात्मनि अनवच्छिन्नचि- न्मये लशक्तीनां सम्भेदविभेदाभ्यां खेचर्यादिरूपाणां स्वरश्मीनां सम्भेदेन एका- थग्रहणोन्मुखतया जगद् शिवादि सृजति अबभासयति विभेदेन, विज्ञातार्थवैमुख्येन ध्वंसयति संहरति च, यथोदधिलहरीणां सम्भेदेन तरङ्गबुबुदादीनि सृजति विभेदेन च संहरति। शिवादिबस्तुग्रहणादर्वाम्धि गगनकरया चिदेवास्ति । अवबिभासयिषायां तु खेचरीगोचर्यादिक्रमेण शक्तीनामेककार्यपरतया बहिर्मुखीभावलक्षणेन सम्भेदेन सृजति । विमृष्टे वन्तुनि ताभिरेव कारणलयक्रमेण प्रत्यग्भावरूपं चिद्भेदमुपागताभिः संहरति । ताः शक्तयः तच्च जगत् प्रकाशवहिर्भूततया नास्तीति प्रतिपत्तिदााय प्रकाशस्योदधित्वेन शक्तीनां लहरीत्वेनार्थसामर्थ्याच्च जगतस्तरङ्गादित्वेन रूपणं कृतम् । ततो जगत् तद्भेदस्तत्कारणभूताः शक्तयश्च विमृश्यमानाः प्रकाश एवे- त्युपपादितं भवति ॥ १३ ॥ यतो ग्राह्यादि न किञ्चित् पृथगस्ति वस्तु, सर्वात्मकतया प्रकाश एवास्ति, अतो ग्राह्यादिभेदभ्रमसंस्कारोन्मूलनाय चितिरेवोक्तयुक्तिप्रत्यभिज्ञाता दाळप्रति- पत्त्या भावनीयेत्याह १. 'च भेदीति' ख-पाठः. 'चित्ययं' (?) ख-पाठः. 'स्वांशे' ४. 'सृजति जगजक्षिति स्वशक्तीनाम्' ख-पाठः. 'खेचर्यादिस्वरू. पाणाम्' ख-पाठः. ६. 'जगनीलादि' खपाटः, ७. 'जिगत तर' क-पाठः. पिदिष्टं भ' ख-पाठः ९. 'दृढम' क-पाठः, - ख-पाठः.

द्वितीयः स्कन्धः। - रूपादिपञ्चविषयात्मनि भोग्यहृषीकभोक्तृरूपेऽस्मिन् । जगति प्रसरदनन्तस्वशक्तिचक्रा चितिर्भाव्या ॥ १४ ॥ यदेतद् भोग्यतत्साधनभोक्तृरूप विश्वं, तद् विचामागं रूपादिपञ्चविषयात्म- कमेव भवति । तथा हि-यदा रूपं भोग्यत्वेन विषयो भवति, तदा तद्रहणसाधकं चक्षुस्तदात्मकं, ग्रहीता च ताद्रूप्यमापद्यते । इत्थ रसादिप्वपीति भोग्यहषीक- भोक्तृरूपेऽस्मिन् जगति प्रसरदनन्तस्वशक्तिचक्रा व्याप्रियमाणनानाविधर- श्मिपुञ्जा चितिर्भावनीया । अनेन वस्तूनामानन्त्यमिति, आनन्त्याद् भावनं दुश्श. कामिति, चिद्व्यतिरिक्तत्वमवैषां ति ये भ्रमाः, ते निरस्ताः ॥ १४ ॥ इत्थं जगत् पञ्चधा साक्षप्य चिदात्मकत्वं चावस्थाप्य पुनर्भावनालायवाय त्रिधा संक्षिप्योपदिशति चिदात्मकत्वं सोमरविवहिलक्षणभाग्येन्द्रियभोक्तृभानपिण्डात्मा । बिन्दुर्विमर्शधर्मा षण्णामेकोऽध्वनां प्राणः ॥ १५ ॥ भोग्यं सोमलक्षणं पराग्रूपत्वात् । इन्द्रियाणि रविलक्षणानि पराक्प्रयंगात्म- कत्वात् । भोक्ता वाहिलक्षणः प्रत्यगेकम्वभावत्वात् । एतत्रितयात्मकमेव विश्वं, न व्यतिरिक्तं किञ्चित् । एषां भोग्यादीनां यो भानपिण्डो भोग्यत्वादिविशेषविगलनेन सामान्यात्मकं भानं तद्विमर्शमयं, स बिन्दुरित्युच्यते । स विन्दुरेक एव षण्णा- मध्वनां प्राणः उदयविश्रान्तिहेतुत्वादात्मभूतः । सोमाद्यभिमानिनीनां तिसृणां देवतानां पारमार्थिक स्वरूपं विचार्यमाणं भोग्यादित्रयात्मकमेव, न तु तल्लीलावि- ग्रहमण्डलादिस्वरूपं मण्डलादेवैद्यरूपत्वेनेन्द्रियत्वभोक्तृत्वानुपपत्तेः । भोग्यादेश्च भोग्यादिविशेषरूपेण प्रतीयमानस्य निर्विशेषप्रतीत्यात्मको विन्दुः प्राण इति बिन्दारेव विकृतिः षड्विधोऽयमध्वा ॥ १५ ॥ एतदेव विशदीकर्तुमाह- व्यक्तं हि पदार्थात्मकमिदं जगन्नित्यमेव तल्लग्नम् । शक्त्यात्मकमव्यक्तं तत्रैव पुनर्निमज्जति च ॥ १६ ॥ . १. 'स्वरश्मिच' क-पाठः. २. 'वपि । अतो भो' क-पाठः. ४. 'क्षिप्य त्रिधात्मकत्वमुपदिशति' क पाठः. पाठः, ६. 'त्यग्रपत्वात्' क-पाठः, ३. 'त्वमेषां चेति ५. 'इत्थं भो' ये ये ये'-पाठः. - १० विरूपाक्षपञ्चाशिकायां -- जगदेतद् द्विविधं स्थूल सूक्ष्मं च । स्थूलं व्यक्तमुच्यते । सूक्ष्मं च श- क्तिरुच्यते । तत्र पदार्थात्मकं यदेतद् व्यक्तं जगत् तद् नित्यमेव तल्लग्नम् उदयादिदशासु सर्वदा बिन्दुशक्तिलग्नमेव । यत् पुनरव्यक्तं शक्त्यात्मक, तदपि तत्र निमज्जति । स्थूलतया सूक्ष्मतया वा प्रतीयमानं यद्यावदस्ति जगत्, तत् सर्व प्रत्यवमर्शात्मकचितिबहिर्भावेन नोपपद्यते जलबहिर्भावेन तरङ्गादिवदिति यावत् ॥१६॥ अथ येयं चितिः, तामेव नानाविधसिद्ध्यपेक्षया विविधेति परिकल्प्य के. चिदुपासते, न पुनरुपास्यं वस्त्वन्तरमस्तीत्यत आह - षोडशधैनं नवधा षोढा भिन्दन्त्यथ त्रिधा च बुधाः। आधारभेदलक्ष्यं बहुसिद्धिकरं च सेत्स्यन्तः ॥ १७ ॥ एनम् उपपादितरूपं बिन्दुम् आधारभेदलक्ष्यं षोडशाद्यात्मना भिन्नेप्वा- धारेषु लक्ष्यत्वेन परिक्लप्तम् अत एव बहुसिद्धिकरम् आधारभेदोपाधिना सि- द्विवैविध्यावहं सेत्स्यन्तः साधकाः षोडशधा भिन्दन्ति आधारषोडशके षोडशात्मे- ति भावयन्ति, तथा नवधा पोढा त्रिधा च। अस्य षोडशादिरूपेण भेदन आधा- राणां षोडशादिभेदयोग उपाधिः, स्वरूपे भेदासम्भवात् । सेत्स्यन्त इति वदतोऽ- यमभिप्रायः- अलब्धैतत्स्वरूपप्रत्यभिज्ञानसिद्धयो मितयोगिन एवैवं भेदेनो- पासते, न तु सिद्धाः । ते तु चिदैक्यप्रतिपत्तिदा_लक्षणजीवन्मुक्त्येकरसश्चिति- मैकात्म्येनैव सन्ततमुपासते ॥ १७ ॥ अथान्वयव्यतिरेकाभ्यामण्डस्य भावाभावरूपं बिन्दु मार्ताण्डत्वेन निर्बु- वन् 'स त्वमेवे'त्युपदिशति युगलकेन-- यस्य विमर्शस्य कणः पदमन्त्रार्णात्मकस्त्रिधा शब्दः । पदतत्त्वकलात्मार्थों धर्मिण इत्थं प्रकाशस्य ॥ १८ ॥ खेन विना मृतमण्डं स्वावेशबलेन जीवयन्नेकः । १. 'द्विधा स्थू'ख-पाठः. २. 'ते । शक्तिरुच्यते सूक्ष्मम् । त' क-पाठः. भेदप्र' क-पाठः ४. 'संचिति' ख-पाठः. ३. 'चिद द्वितीयः स्कन्धः। ११ मार्ताण्डः परमोऽसौ परनभसि न किं त्वया दृष्टः ॥ १९॥ यस्य विमर्शस्येति वैयधिकरण्यम् । इत्थं प्रकाशस्य धर्मिणो धर्मित्वे- नैवमुपपादितस्य प्रकाशस्य धर्मभूतो यो विमर्शः अहन्तेति निरुक्तचरः, तस्य कणोंऽशमात्रमयं वर्णपदमन्त्रात्मकतया (तत्वं!) तत्त्वभुवनकलात्मकतया च प्र- तिस्वं त्रैविध्यात् षडात्मकः शब्दार्थरूपोऽध्वा । असौ परमो मार्ताण्डः 'यस्य धर्मिण' इति यः परामृष्टचरः प्रकाशः, असावेवापरस्य लौकिकस्य मार्ताण्डस्य प्रकाशकत्वात् परमो मार्ताण्डः । कथमस्य मार्ताण्डता । स्वेन विना स्वस्य विश्वोन्मुखीभावमन्तरेण मृतमण्डं निमिषितमेव तच्छिवादि विश्वं स्वावेशबलेन स्वस्यैतदुन्मुखीभावमहिम्ना यतो जीवयति उन्मेषयति । ईदृशोऽसौ मार्ताण्डः परनभसि भौतिकस्य नभसोऽवच्छेदकत्वात् परे हृदयाकाशे त्वया न किं दृष्टः। 'किमिति निषेधकाका दर्शनाभावं कालत्रयेऽपि निरस्यति । योऽसौ प्रकाशरूपो मृतस्याण्डस्यानुप्राणनात् परमो मार्ताण्डः, स परनभोव्यपदेशयोगिन्यभिव्यक्ति- स्थाने हृदये त्वया सर्वदा दृश्यत एव, तस्यादर्शने वस्त्वन्तरदर्शनासम्भवात् । अतो हृदयावच्छिन्नतयैव प्रतीयमानो योऽयमनवच्छिन्नस्ते प्रकाशः, स एव त्व- मिति प्रत्यभिज्ञापितमिति ॥ १८ ॥ १९ ॥ प्रत्यभिज्ञातस्य विश्वोत्पादकत्वं विविच्य दर्शयति चिद्गगनक्षीरोदं स्वयमिच्छामन्दरेण संक्षोभ्य । तच्छक्तिवीचिभिरसावुत्थापयतीन्दुमण्डाख्यम् ॥ २० ॥ अनवच्छिन्नचिन्मयमब्धि स्वयं स्वातन्त्र्येणैव इच्छामन्दरेण संक्षोभ्य अवबिभासयिषालक्षणेन गिरिणा कार्योन्मुखतां नीत्वा तच्छक्तिवीचिभिः खेच- र्यादिरूपस्वशक्तिरूपैरेवोर्मिभिः अण्डाख्यमिन्दुमुत्थापयति स्वेच्छावशतः स्वाभि- नमेव विश्वं स्वभित्तावेव त्वमिति प्रत्यभिज्ञापितः प्रकाशोऽवभासयतीत्यर्थः ॥२०॥ अथाण्डस्यावान्तरकक्ष्या विभागेनोपन्यस्य स्वात्मभित्तिलग्नतां स्वानुभव- साक्षिकतया दर्शयति - ४ -- १. 'कश' ख-पाठः. २. 'कमा' क-पाठः. २. 'कमा' क-पाठः. ३. 'ज्ञानं भवति' ख-पाठः. पदं 'गिरिणा' इति पदानन्तरं पठ्यते क-पुस्तके.

१२ विरूपाक्षपञ्चाशिकायां शक्तिर्माया प्रकृतिः पृथ्वीति चतुर्विभागमण्डं यत् । यश्व विभागोऽस्य पुन- बहुधा सर्व स्थितं मयि तत् ॥ २१॥ शक्तिबिन्दुः । तेन कारणेन शुद्धाध्वलक्षणं कार्यमुपलक्ष्यते, माययो मि- श्राध्यात्मकम् , प्रकृत्या शुद्रेतरात्मकम् , पृथिव्या स्थूलभोग्यभोगायतनादि । इति चतुर्विभागं यदण्डं यश्चास्य विभागो भुवनादिरूपः, तत् सर्वं मयि स्थितं परस्मिन्नेव प्रकाशे वर्तते । स्थितमिति भूतार्थतायामविवक्षा स्थितेस्त्रैकालिकत्वाद् इति शिवम् ।। २१ ।। इति विरूपाक्षपञ्चाशिकायां विवृतिसमेतायां प्रकाशैकात्म्यविवेचनम्कन्धो द्वितीयः । अथ तृतीयः स्कन्धः। , इयता सन्दर्भेण विश्वात्मकत्वमात्मनो युक्त्यनुभवोपपन्नतया प्रतिपादि- तम् । अथ निश्चितस्य वैश्वात्म्यस्यासम्भावनया विपरीतभावनया वोपरागो मा भू- दिति तृतीयस्कन्ध आरभ्यते । तत्र ‘मयि स्थितमि'ति कथनेनाधाराधेयभावलक्ष. णेन योऽयं भेदैः प्रतीतः, तं व्यतीहारेण निरस्यति- अहमेकोऽनस्तमित- प्रकाशरूपोऽस्मि तेजसां तमसाम् । अन्तः स्थितो ममान्त- स्तेजांसि तमांसि चैकस्य ॥ २२ ॥ अनस्तमितप्रकाशरूपो नित्योदितप्रकाशमयः एकोऽद्वितीयः तेजसा ते- जस्त्वेनाभिमतानां बुद्ध्यादिकरणानामर्कादिज्योतिषां च अन्तः स्थितोऽस्मि प्रका- १. 'पृथिवीति' क-पाठः, २. 'या तु मि' क.-पाठः.. ३. 'दः, तं नि' ख-पाठः, तृतीयः स्कन्धः । १३ शमानत्वेन तेषामन्तरात्मतयाहमस्मि । तथा तमस्त्वेन प्रकाशमानत्वात् तमसां बिन्दुमायादीनां चान्तः स्थितोऽस्मि । प्रकाशात्मनि मय्यन्तरवस्थिते तेजस्तेज- स्तया तमस्तमस्तया च चकास्यादित्याशयः । तानि तेजांसि तमांसि च ममान्तः स्थितानि प्रकाशात्मकोऽहमेक एव भावाभावात्मकजगद्रूपतया परिस्फुरामि । अतो न भेदस्याशङ्कितस्यावकाशः कश्चिदिति भावः ॥ २२ ॥ इत्थं ग्राहकसामान्यापेक्षया ग्राह्यापेक्षया च चितेरेवाभेदमुपपाद्य 'स त्वम् अहमिति त्रिस्कन्धकस्याभासस्य भेदाभावं विवेचयितुमाह- प्रथमो मध्यम उत्तम इति पुरुषा भेदिनस्त्रयोऽपि मिथः। मत्तस्तु महापुरुषात् प्रत्यवमर्शात्मनो न बहिः ॥ २३ ॥ 'सः' 'त्वम्' 'अहम्' इति विजातीयव्यपदेशयोगाद् मिथो भेदिनः परस्परव्यावृत्तरूपा य एते प्रथमो मध्यम उत्तम इति त्रयः पुरुषाः, सर्व एवैते प्रत्यवमर्शात्मनोऽनुवृत्ततया महापुरुषान्मत्तो न बहिः मद्यतिरिक्तं न तत्त्वा- न्तरम् । य एते प्रथमादयः पुरुषास्ते मिथो व्यावृत्तरूपा अपि प्रत्यवमर्शात्मकम- दायत्तसर्गापवर्गत्वात् मद्भित्तौ मदेकात्मतया प्रतीयमानत्वाच न मद्वहिः ॥ २३ ॥ ननु प्रथममध्यमपुरुषप्रतियोगित्वेन ‘अहमित्यवच्छिद्यसे, अनवच्छिन्न- प्रकाशात्मश्चासि । इत्थं भेदे कथमैकात्म्यमित्यत आह- युष्मच्छेषापोहबदहमिति यहाति भिन्नमिह रूपम् । तदिदं भागविभेदो न त्वहमेकोऽस्मि यन्नित्यम् ।। २४ ॥ युष्मदपोहवच्छेषापोहवच्च मध्यमप्रथमपुरुषाभ्यां व्यावृत्तमित्यर्थः । अत एव भिन्नं तदुभयप्रतियोगि यदेतद् अहमिनि रूपं भाति । तदिदं भागविभेदः 'स' इतिवत् 'त्वमि तिवच ममांशविशेषः कश्चिद् , न त्वहं न तु मे पारमार्थिकं स्व- रूपम् । तत्र हेतुः- एकोऽस्मि यनित्यम् नित्यम् अनवच्छिन्नप्रकाशैकघनोऽस्मि यतः । प्रकाशैकात्मकत्वमनवच्छिन्नत्वात् सदातनं सत् तात्त्विकं मे स्वरूपम् । 'अहमिति तु रूपैमवच्छिन्नत्वादागन्तुकं सत् 'स' इत्यादिवदंशविशेष एवेति भावः ॥ २४ ॥ १. 'या स्फु' क-पाठः. २. 'रभे' क-पाठः. ३. 'ति विच्छि' ख-पाठः. ४. 'कतयासि ख-पाठः. ५. 'दः । तदेतस्य मे भागविभेदः स' क-पाठः. ६. 'का- शात्मक'ख-पाठः. ७. 'पं विच्छि' ख-पाठः, १४ विरूपाक्षपञ्चाशिकायो -- यथा चैवं ग्राहको विशेषतो विविच्यमानोऽपि ममैवांशः, तथा ग्रामपि विशेषतो विविच्यमानं ममैव शक्तिप्रसर इत्याह- द्यावापृथिवीदेशः कालोऽहो रात्रिरिति ययोः प्रसरः । ते भानतिरोधिकृती शक्ती मे भावबृन्दस्य ॥ २५ ॥ द्यौः पृथिवी चेति योऽयं देशः, यश्चाहो रात्रिश्चेति कालः, तदेतत् क्रोडी- कृतग्राह्यान्तरं ग्राह्यद्वयं ययोरेव प्रसरः, ते भाववृन्दस्य भानतिरोधाने ममैव शक्ती । सर्वस्यैवार्थजातस्य यद् भानं यच्च तिरोधानं ते हि ममैव शक्ती । शक्ति- सम्भेदं एव खलु मे पदार्थानां भानं, विभेद एव तिरोधानमित्युक्तं 'प्राक् 'स्व- शक्तिलहरीणाम् । सम्भेदविभेदाभ्यां सृजति ध्वंसयति चेति । इत्थं च भावानां भानतिरोधानरूपे ये एते शक्ती, तयोरेव प्रसरभूतोऽयं देशः कालश्च भावप्रतियोगे- तया अभावप्रतियोगितया च स्थितः । स महहिर्भावेन नास्तीत्यर्थः ॥ २५ ॥ भानातरोधानाभ्यां यत् कृत्यान्तरमुपलक्षितं, तद् विशेषतो विविच्य दर्शयति-- धूमावती तिरोधी पुष्टौ ह्लादा च भास्वती भाने । क्षोभे च परिस्पन्दा व्याप्तौ विभ्वीति शक्तयः पञ्च ॥ २६ ॥ धूमावतीति मे शक्तिः प्रथमे, पुष्टौ आप्यायने ह्रादाख्या, अवभासने भास्वती, क्षोभे परिस्पन्दने स्पन्दाख्या, व्याप्तौ विभ्वीति पञ्च मे शक्तयः ॥ शक्तीनामप्रत्यक्षत्वात् कार्यमुखेनैव स्वरूपनिश्चय इत्यभिप्रेत्य कार्यमुखे- नैव ता निरूपयति-- धूमावती पृथिव्यां ह्रादाप्सु शुचौ तु भास्वती प्रथते । वायौ स्पन्दा विश्वी नभसि व्याप्तं जगत् ताभिः ॥ २७ ॥ १. 'यो दे' क-पाठः. ४. 'थते पु' क-पाठः. * त्रयोविंशार्यायाम्. -- २ 'दः ख' ख-पाठः. ३. 'च सति भा' क-पाठः.

तृतीयः स्कन्धः । १५ इत्थं च सति जगत् षडध्वात्मकं विश्वमेताभिर्व्याप्तं ममैव धूमावत्या- दिभिः पञ्चभिः शक्तिभिः क्रोडीकृतम् । अनेन सर्वदा पञ्चकृत्यकारित्वं चिदा- त्मनो दर्शितमिति मन्तव्यम् । तथा हि । अवभासनं सृष्टिः, स्थापनं, क्षोभः, संहरणं, तिरोधानं स्वशब्देनैवोक्तम् । व्याप्तिरनुग्रहः ॥ २७ ॥ एवमाभासनादिभिर्निप्पादितं जगद्विमर्शशक्तिस्पर्शमात्रेण प्रकाशैकार्णव- तामापद्यत इत्याह-निजैधर्मिणमि'त्यादिभिः 'कात्स्न्येनाविष्टमिवे'त्यन्तैश्चतुर्भिः श्लोकैः-- निजधर्मिणं प्रकाशं स्वरूपयन्ती प्रकाश्यवर्गस्य । शक्तिविमर्शरूपा शरीरयत्यखिलमस्य मम ॥ २८ ॥ विमर्शरूपा मम शक्तिः प्रत्यवमर्शरूपिणीयं चितिः अखिलं मम शरी- रयति शिवादिधरण्यन्तं विश्वं मदेकात्मतामापादयति । कीदृशी । निजधर्मिणं धर्मभूतायाः स्वस्योदयलयादिभित्तिभूतमाश्रयं प्रकाशम् उपलब्ध्येकरूपं चैतन्यं प्रकाश्यवर्गस्य स्वरूपयन्ती ज्ञेयजातस्य तात्त्विकस्वरूपत्वेन व्यवस्थापयन्ती सर्व- स्यैवास्य वेद्यजातस्य पर्यन्ते निधिमवशिप्यमाणं स्वरूपं प्रकाश एवेति स्वानु- भवसाक्षिकमुपदर्शयन्ती ममेयं विमर्शरूपा चितिशक्तिरखिलमेतच्छिवादिकमध्वानं मदीयमेवापादयति ॥ २८ ॥ तेथा हि--- ज्ञातृज्ञानज्ञेयात्मकमखिलं मद्विमर्शवह्निशिखा । दग्ध्वा प्रकाशरूपं शुभ्रं भस्मावशेषयति ॥ २९॥ मद्विमर्शवह्निशिखा विमर्शोऽयं सर्वात्मव्यापकेन रूपेण सर्वाध्वव्यापक- ज्वालात्वेन प्रतीयते । ममायमीदृशो विमर्शो ज्ञातृज्ञानज्ञेयात्मकम् अखिलं द- ग्ध्वा ज्ञातृत्वादिविशेषांशांस्तत्क्षणमेवोपमृद्य प्रकाशरूपं प्रकाशसामान्यात्मकं शु- भ्रम् अकृत्रिमानन्दघनत्वात् क्लेशादिभिरकलुषितं भस्म सन्मात्रां विभूतिम् अव- शेषययि तदेकार्णवीकरोति ॥ २९ ॥ १. 'तम् । सर्व' क-पाठ:. २. 'त्वं चात्म' क-पाठः. ३. 'भिः शक्तिभिर्नि' - ४. 'निज' इत्यादि कैः' इत्यन्तं क-पुस्तके नास्ति. ५. 'ततो हि माला पाठ..

१६ विरूपाक्षपञ्चाशिकायां ननु विमर्शसमनन्तरमेव वेद्यांशे भेदलय इति युक्तम् ।. ग्राहकांशे तु विमर्शनक्रियाकर्तुर्भदेनावस्थानान्न कदाचिद् भेदकलानिवृत्तिरित्यत आह- अकठोरमहिमर्शज्वालाग्रस्ते तिरोधिमद् भानम् । अङ्गारवदिव भस्म प्रथते तत्राणुवर्गस्य ॥ ३० ॥ तत्र ज्ञातृज्ञानाद्यात्मनि प्रक्रान्तेऽखिले अकठोरमद्विमशज्वालाग्रस्ते 'अहं विमृष्टवानि'त्यहमंशे भेदावशेषणाद् अनतिप्रकाशितदाहशक्तिना मद्विमर्शनाक्रान्ते सति अणुवर्गस्य भानं ग्राहकवर्गस्यांवशिष्टा 'अहमिति प्रतीतिः । कीदृक् , ति- रोधिमद् उपसंहृतवेद्यतया वेद्यांशाविनाभूतप्रसरेण भेदेनाच्छादितम् अङ्गारवद् भस्मेव प्रथते अन्तस्थितसूक्ष्माङ्गारभसितराशिकल्पतया प्रतीयते ॥ ३० ॥ यदि स एव दाहस्तीव्रस्तदा पश्येत्याह- कात्स्येनाविष्टमिवारण्यपुराद्यग्निना मयापि जगत् । चित्रमवधूय भेदं ननु गृह्णात्येकरूपत्वम् ॥ ३१ ॥ मया सर्वभेदोपसंहरणैकस्वभावविमर्शात्मना कात्स्न्येनाविष्टं निश्शेषतो विमृष्टं जगद् एतच्छिवादिभूम्यन्तम् अग्निना कात्स्येनाविष्टमरण्यपुरादिकमिव चित्रं नानाविधं वेदम् अवान्तरविशेषम् अवधूय स्वात्मनि निममं कृत्वा एकरू- पत्वं गृह्णाति प्रकाशैकघनीभवति । नन्वित्यनेनास्य सर्वानुभवसिद्धतामाविष्क- रोति ॥ ३१ ॥ कात्स्न्येन विमर्शाविष्टे जगति सर्वभेदभ्रमोपशमा भवतीत्युक्तम् । तमेव कात्स्न्येनावेशप्रकारं विविच्य दर्शयति- अन्तर्मुखं स्वरूपं ज्ञेयस्य ज्ञानमस्य तु ज्ञाता। ज्ञानस्य ज्ञातृतनोश्चितिरेकास्यारत्वहं नान्यः ॥ ३२ ॥ इह हि भावानां द्वे स्वरूपे भवतो बहिर्मुखमन्तर्मुखं च । तत्राद्यं स्थूलं व्यावृत्तमपारमार्थिकं च । यत् पुनरन्तर्मुखं तत् सूक्ष्ममनुवृत्तरूपं पारमार्थिकं च । इत्थं स्थिते ज्ञेयस्य घटादेर्यद् अन्तर्मुखं पारमार्थिकं स्वरूपं, तद् ‘घट' इति ज्ञा- १. 'हकस्य तु क-पाठः. २. 'स्याहम्प्रतीतिः' ख-पाठ:. ३. 'वाद्यमि' क. पाठ:. ४. 'च्योपदिशति' क-पाठः, 'सं परमाथर्सपं च' क-पाठः, - , तृतीयः स्कन्धः। १७ नमेवं बाह्याकारस्य तत एवोदयात् , तद्भित्तिलग्नत्वेनैवावस्थानात् , तत्रैव च लयात् । अस्य तु ज्ञाता घटज्ञानस्यापि तदुदयस्थितिनिदानभूतो ग्राहक एवाभिमन्तृता- रूपोऽन्तर्मुखं रूपम् । झानस्य ज्ञातृतनोश्चितिरेका उक्तनयेन ज्ञेयाविभेदिनो ज्ञातृतीमापनस्य प्रत्यवमर्शरूपा चितिरेवान्तरतमं तत्त्वम् । अस्यास्त्वहं नान्यः चितेरपि प्रत्यवमर्शलक्षणायाः प्रत्यवमर्शाशनिमज्जने निष्कृष्टप्रकाशात्मकः 'अह- मिति स एक उक्तः' (१०. श्लो.) इति निरूपितचरोऽहमेव काष्ठाप्राप्तं तत्त्वं, नान्यः कश्चिन्मयतिरिक्तोऽर्थः । इन्द्रियार्थसम्पातसमनन्तरम् 'अयं घट' इति योऽयं विकल्प उत्पद्यते, तदुत्पत्तेरर्वाक् घटस्य घटत्वेन वा वस्त्वन्तरत्वेन वा व्य- पदेष्टुमशक्यत्वाद् ज्ञेयस्यान्तर्मुखं स्वरूपं ज्ञानमेव । ज्ञानस्यापि ज्ञात्रेकायत्तोदय- लयस्य ज्ञातैवान्तरतमं रूपं, ज्ञातुरप्यनेनैव नयेन चितिरेव । चितेरप्यहमेवै. कोऽनुपचरितं तत्त्वम् । इत्थं कात्स्न्येन विमग्न्यिावेशे निर्विवादमेकॅस्वरूपत्वं ग्राह्यादीनां प्रकाशेन सहेत्युपदिष्टं भवति ॥ ३२ ॥ इत्थं ज्ञेयादित्रयस्य प्रकाशापेक्षया भेदाभावमुपपाद्य मिथोऽपि न भेदः काश्चिदिति विवेचयति- अक्रमता मे क्रमिकं ज्ञात्राद्यं सक्रमाक्रमा तु चितिः । महद् ज्ञाता ज्ञानं शक्तिरिव त्रितयवद् ज्ञेयम् ॥ ३३ ॥ अक्रमता मे निष्कृष्टप्रकाशंपरमार्थस्य मम चित्यादिचतुष्टयापेक्षया स्वा. पेक्षया चाक्रमत्वमेव सर्वानुस्यूतरूपतया व्यावृत्तिलवस्याप्यसम्भवात् । क्रमिक ज्ञानाचं ज्ञाता ज्ञानं ज्ञेयमिति मिथो व्यावृर्तरूपतया प्रतीतेस्त्रितयमेतत् क्रमि. कम् । चितिस्तु सक्रमाक्रमा ज्ञात्राद्यपेक्षया सक्रमा मदपेक्षया त्वक्रमेति द्वि- रूपा । इति प्रबुद्धस्य ते प्रतीतिप्रकाराः । वस्तुतस्तु मद्वद् ज्ञाता यथा चित्या. दिचतुष्टयानुवृत्तेर्ममाक्रमत्वं, तथा ज्ञानज्ञेयानुवृत्तेस्तदुभयापेक्षया मदपेक्षया च ज्ञातुरक्रमत्वम् । ज्ञानं शक्तिरिव यथा चितिः ज्ञात्राद्यपेक्षया सक्रमा मदपेक्षया स्वक्रमति स्थितं, तथा ज्ञानमपि ज्ञेयापेक्षया सक्रमं मदपेक्षया त्वक्रमामति शक्ति- रिव । त्रितयवद् ज्ञेयं ज्ञाताहं चेति, ज्ञानं शक्तिश्चेति, ज्ञेयान्तरं चेति त्रितयम् १. व सबा' ख. पाठः, २. 'ताप' क. पाठः. ३. 'यस्य झातैव परमार्थः । ज्ञातु' क. पाठ.. ४. 'करू' क. पाठः. ५. 'शात्मकस्य क. पाठ:. ६. 'ततया' क.पाठः. ७. 'सुप्रवु' ख. पाठः, ८, 'स्वमिति' क.पाठः, १८ विरूपाक्षपञ्चाशिकायां - ज्ञेयम् एतत्रितयवत् । यथा ज्ञाताहं चेत्यक्रमौ तद्वदावामप्यपेक्ष्य ज्ञेयमक्रमम् । अनयैव रीत्या शक्तिज्ञानापेक्षया सक्रमाक्रमम् । चितिस्तूभयापेक्षयोभयरूपेति यो भ्रमः स निरस्तो, यतो ज्ञाताहं चेति, ज्ञानं शक्तिश्चेति, ज्ञेयं त्रितयं चेति न तत्त्वान्तरम् । अत्रैतदाकूतम् - 'इदं वनमि'त्यादौ तर्वपेक्षया वनस्य वनापेक्षया तरूणां चानुवृत्तिरेवेति सर्वत्राभेद एव । यदा तु 'चूतश्चम्पक' इत्यादिप्रतीतिः, तदा वनापेक्षया चूतचम्पकयोरनुवृत्तिरिति न भेदः, परस्परापेक्षया तु व्यावृत्ति- रेनेति भेदः । इत्थं प्रकृतेऽपि प्रकाशापेक्षया समष्टिव्यष्ट्योश्च न भेदः, परस्परापे- क्षया तु यथायोगमवस्थानम् । अतः सर्वत्रानुवृत्तमक्रमत्वं, सक्रमत्वं द्वैरूप्यं च व्यावृत्तमिति प्रकाशैकात्म्यमेव पारमार्थिक, भेदस्त्वविमर्शस्यैव विलसित- मिति ॥ ३३॥ एतदेव विविच्य दर्शयति पीतादिपु हि न नीलं तेष्वत्र च भाति चाक्षुषं ज्ञानम् । न श्रौत्रादिषु तदपि ज्ञाता तेष्वत्र चानुगतः ॥ ३४ ॥ यदुक्तं ज्ञेयं ज्ञेयान्तरापेक्षयो क्रमिकमेवेति, तदुदाहर्तुमाह - पीतादिषु हि न नीलं यदा हि 'पीताम'ति प्रतिपत्तिः, न तदा नीलम् । एवं मिथो व्या- वृत्तरूपत्वाद् ज्ञेयं ज्ञेयान्तरापेक्षया क्रमिकमेव । यच्चोक्तं ज्ञानं शक्तिरिव सक्रमा- क्रममिति, तदुपदर्शयति-तेष्वत्र च भाति चाक्षुषं ज्ञानं तेषु पीतादिषु अत्र नीले च । न श्रौत्रादिषु तदपि श्रौत्रं श्रावणं ज्ञानं, तदपि चाक्षुषम् । एवं सक्रमाक्रमत्वाद् ज्ञानं शक्तिरिवेति युक्तम् । यच्चोक्तं 'मद्वद् ज्ञाते'ति, तदर्थ- माह-ज्ञाता तेष्वत्र चानुगतः तेषू पीतनीलादिषु चाक्षुषेषु अत्र श्रौत्रा- दिके । अतः सर्वत्रानुवृत्तरूपत्वान्मद्वद् ज्ञातेत्यपि सिद्धम् ॥ ३४ ॥ यत इत्थमर्थस्वरूपनिर्णयः, ततः ज्ञातारं मां ज्ञानं शक्तिं त्रितयात्मकं पुनर्जेयम् । १. 'चाक' क. पाठः. २. 'मम् । परस्परापेक्षया ज्ञानादि सक्रमम् । चि' ख. पाठः. ३. 'पि स (म्भवति) प्र' क. पाठः. ४. 'स्परं तु य' क. पाठः. ५. 'या सक्रममे ६. 'धु नीलादिश्रौत्रादिषु । अत्र चाक्षुषे । भ' ख. पाठः, क. पाठः.

तृतीयः स्कन्धः । अविकल्पं भावयतः सोऽहं सा तत् त्रयं तच्च ॥ ३५॥ ज्ञातारं मामविकल्पं भावयतः सोऽहम् उक्तेन नयेन विकल्पहेतोरस- म्भवाद् ज्ञातृप्रकाशावैकात्म्येन भेदसंस्कारोपशमादन्तर्दृढप्रतिपत्त्या परिशीलयत- स्तद्भेदभ्रमापगमलक्षणा सिद्धिर्भवति । तथा ज्ञानं शक्तिम् अविकल्पं भावयतः सा तत् उक्तनयेनैव शक्तिज्ञानयोरभेदभावनादायेन तदभेदप्रत्यभिज्ञानरूपा सिद्धिः । तथा च त्रितयात्मकं पुनर्जेयं तथा भावयतः त्रयं तच्च । वेद्यस्य प्रकाशज्ञातृभ्यां शक्तिज्ञानाभ्यां ज्ञेयान्तरेण सह (च) स्थितो योऽयं दुरुत्तरो भेदभ्रमः, तस्य समूलोन्मूलनरूपा सिद्धिः सद्य एव । अत्र ‘सोऽहं ' 'सा तत्' 'त्रयं तच्च' इत्येषु त्रिष्वपि वाक्येषु भवतीत्यादिका क्रिया नोपात्ता, अपि तु तादात्म्यस्य स्व- रूपमेव निवेदितम् । अतो नैतदेषामैकात्म्यं साध्यम् , अपि तु नित्यसिद्धमेवो- ताभिर्युक्तिभिः प्रत्यभिज्ञायत इत्यनुसंहितमाचार्येण ॥ ३५ ॥ तत्र ज्ञातुः क्रमिकत्वस्य नित्यसोपाधिकत्वात् प्रकाशतादात्म्यं नित्यसिद्ध- मित्युपदिशति- सन्तानान्तरवाहे ज्ञाता व्यावृत्तभासनः ऋमिकः । जीवाख्यो मद्योगान्मद्वत् स्यादक्रमाभासः॥ ३६॥ सन्तानान्तरवाहे नीलसङ्कल्पविकल्पाद्येकसन्तानसमनन्तरं पीतसङ्कल्पवि- कल्पादौ सन्ताने वहति सति व्यावृत्तभासनो ज्ञाता क्रमिकः 'नीलस्यावभासकोs- स्मि पीतस्यावभासकोऽस्मीति परस्परपरिहाररूपेणावस्थितग्रहणत्वाद् ग्राहकः क्रम- वान् । यदा चेत्थं मिकता, तदैव चासौ जीवाख्यः वस्तुतः शिवस्य सतोऽस्य जीव इति संज्ञा तत्कालमात्रमेव । मद्योगात् तु यदेतन्मयि क्रमिकत्वं तद् वेद्योपाधिकमेव । वस्तुतस्तु नीलस्य पीतस्य चावभासकत्वादनुवृत्तः सन् सर्वदा सर्वानुवृत्तप्रकाशा- मक एवास्मीत्येवंरूपत्वान्मम परप्रकाशस्य योगाद्वस्तुविमर्शलक्षणात् संस्पर्शाद् मद्वत् स्यादक्रमाभासः यथा प्रकाशो नित्यमक्रममेव भासते, तथा ग्राहकोऽपि तस्यामेव पीतादिग्रहणदशायां प्रकाशैकात्म्येनाक्रममेवावभासते । अनेन प्रबुद्धस्य विश्वप्रतियोगित्वं यदा तदैव शिवत्वं, यदा तु प्रतिनियतार्थप्रतियोगित्वं तदा प्राहकत्वमिति द्वैरूप्यानतिक्रमात् जीवत्वसंस्कारः सदानुवर्तत एवेति योऽयं भ्रमः १. 'पशान्त्यान्त'. क. पाठः. ४. 'क्रमवत्ता, त' क. पाठः. २. 'लाव क. पाठः. ३. 'पीताव क. पाठः. ५. 'तः प्रकाश ए'ख. पाठः. ६. 'स्पर्शनाद्' क. पाठः, विरूमाक्षपञ्चाशिकायां स्थितः, स दूरतरमुत्सारित उक्तमयेन पीतादिग्रहणदशायामध्यक्रमपरिपूर्णंकघन- प्रकाशात्मकशङ्करस्वभावत्वादित्युपदिष्टं भवति ॥ १६ ॥ अथ वेत्रतिरिक्ततया वेद्यमिति वेदनमिति च कक्ष्याद्वैयकल्पनं यावती- मेवास्ति विमर्शवन्ध्यां कालकलां, तावदेवास्ति वेद्यं वेदनं च । विमर्शे तु कृते नोभयमप्यस्ति प्रकाशबहिर्भावेनेत्युपदिशति- वेद्यं स्वक्रमविद्धां वित्तिमनुप्रविशदङ्गविषयाद्यम् । वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति ॥ ३७॥ अङ्गविषयायं भोगायतनभोग्याद्यात्मकं देहपीतादि वेद्यम् । स्वक्रमविद्धा वित्तिमनुमविशद् ‘अर्थेनैव विशेषोऽस्ति निराकारतया धियामिति नयेन योऽर्थ उपाधिस्ताद्प्यमापद्यमानं बेदनमनुप्रविशति ग्रहणकौतुकोपरमादिन्द्रियव्यापार- निवृत्तौ · पीतज्ञानं मम जातमिति वेदनात्मतामापद्यते । अथ वेदितरि वित्तिमु. खतो लीनं वित्तिमेव मुखीकृत्य वित्तिलयसमये वेदितरि लीयते । तथा लीनं सत् तल्लक्षणं भवति ऊौं लीनम् ऊर्मिलयमुखेनाब्धौ बुदबुदादीव तदेकात्मता वस्तुतः सतीमेवावलम्बते । इह प्रकाशस्यैव शिवादिवस्तुतदुदयस्थित्यादित - दादिरूपप्रपञ्चात्मना स्फुरणात् प्रकाशबहिर्भूतं न किञ्चिदुपलभ्यते, न चोपपद्यते, नाप्युपयुज्यते । अतो वेत्तृवेदनादिविकल्पानामूादिवत् तदभिन्नतयैव यदुन्म- जनं तदेव वेत्रादिवस्तुसत्ता तदुदयादिस्तद्भेदश्च । अस्यार्थस्यैवं विमर्श एव शिव- त्वम् । अमन्दो विमर्शः प्रबुद्धता । अविमर्शस्तु पशुत्वमित्युपदेशनिष्कर्षः ॥३७॥ अथ यथा वेदकस्य 'सः' 'त्वम्' इत्यादिप्रत्ययविषयतया भेद आ. शङ्कय परिहृतः 'प्रथमो मध्यमः' (२३-श्लो) इत्यादिना, तथैव वेद्यस्यापि स्मृत्यादिप्रत्ययविषयतया भेदोनाशङ्कय परिहरति- स्मृत्यनुभवानुसंहितिवशतस्तज्जगदिदं तथा तदिदम् । स्वैर्यहमाभासयिता भिन्नं चापोहनेन मिथः॥ ३८ ॥ स्मृतिवशात् तद् इति, अनुभववशाद् इदम् इति, अनुसंहितिः प्रस्वाभिज्ञा तद्वशात् तदिदमिति च शिवादि जगत् स्वैर्यहमाभासयिता स्वतन्त्रोऽई सृजामि । कथं भिन्नं चापोहनेन मिथः मिथो व्यावर्तनेन भिन्नं चकारादभिनं १. 'द्वयं या' क. पाठः. ४. 'अर्थस्या' क. पाठः, २. 'दादिकमिव' क. पाठः. ५. 'दाशङ्का पक. पाठ:. ३. 'नोपयुज्यते च' स. पाठः. ६. “एतदिति' क. पाठः.

तृतीयः स्कन्धः । २१ च । *सोऽयं स्वैरिम्णो महिमा । मिथो व्यावर्तनस्यान्यान्यनिमेषरूपत्वाद भिन्न- तया सजामि, उक्तयुक्तिभिः प्रत्यवमर्शने कृते व्यावृत्त्यपगमादभिन्नतया च, वि- मर्शस्य व्यावृत्त्यात्मकनानानिमेषग्रसनैकस्वभावत्वाद् । विमर्शशैथिल्ये हि 'त' एतदुः' इत्यादि व्यावृत्तरूपतोदयः, कृते तु विमर्शे तेदादिविशेषाविगलनात् प्रकाशकसाम्राज्यमिति भावः ॥ ३८ ॥ उक्तरीत्या प्रकाशमेव भित्तित्वेनाश्रित्य तदभिन्नतयैव तदेतदादिभेदाना- मुदयलयाद्यनभ्युपगच्छतो भेदवादिनो बाधकं तर्कमाह- स्मृतिरनुभवस्य भानं सोऽर्थस्य द्वौ सहानुसन्धानम् । त्रितयमपि मां विनैकं क्रमरहितं न घटते विदुषाम् ॥ ३९ ॥ अनुभवस्य भानम् अयं नील इत्याद्यर्थविषयस्य ज्ञानस्य यदेतद् भानं, तमीलाद्यर्थव्यपेक्षया स्मृतिः । सोऽर्थस्य स इति स्मृतिमूलभूतानुभवः पराम- श्यते । अर्थस्येत्यत्र भानमित्यर्नुकृष्यते । अर्थस्य भानं त्वनुभव इत्यर्थः । द्वौ सह तावेतौ स्मृत्यनुभवी द्वावपि दृष्टचरार्थप्रतिसन्धानवेलायामेकप्रत्ययतापन्नौ अनु- सन्धान प्रत्यभिज्ञोच्यते । तदेतत् क्रमिकं त्रितयमाप क्रमरहितं मामेकं विना न घटते सर्वप्रमितिभाजनमत एवानुस्यूतं प्रकाशमेकमन्तरेण नोपपद्यते । यद्यक. मिकः सर्वानुसन्धाता प्रकाशो नाभ्युपगम्येत, तदा ऋमिकाभिमतं तदेतदित्याद्यपि निर्मित्तिकं चित्रमापद्यतेत्यर्थः ॥ ३९ ॥ यत इत्थम् , अत:- अस्तमितमर्थजातं भात्वा भिन्नमिव रुडतहानम् । मद्भानैकात्म्येन स्रोत इवाब्धौ स्थितं हि मयि ॥ ४० ॥ अर्थजातं भिन्नामिव भात्वा वस्तुतो भेदासम्भवाद् इदंनीलज्ञानस्या- प्युपशमावसरे नीलमस्तमितमिति च भानं रुणद्धि प्रकाशस्यान्तरवमज्जयति । तथाभूतं तु मद्भानैकात्म्येन वर्तते । अथार्थजातमपि प्रकाशात्मकमेव प्रान्ते भव- तीति भावः ॥ ४०॥ इति विरूपाक्षपञ्चाशिकायां विवृतिसमेतायां विमर्शस्कन्धस्तृतीयः । १. 'करूपत्वाख.पाठः. २. 'तदेतदिति बि' ख. पाठः. ३. 'तनये प्र' क. पाठः. ४. 'नो वारकंत' क. पाठः, ५. 'इति नीलवि' क. पाठः. ६. 'सा नीलाधर्थापेक्ष' क. पाठः. ७. 'नुषज्यते' क. पाठः. * सोध्यमित्यादि । तदिदमभेदे पारमार्थिके भेदोन्मलिना तस्कारास्वतन्त्रताप्रभाव- कृत्तनिसर्थः. - । ।।

२२ विरूपाक्षपञ्चाशिकायो - अथ चतुर्थः स्कन्धः। अथ चतुर्थो विभूतिस्कन्ध आरम्भणीयः । तत्र विभूत्याविर्भावाङ्गत्वेनाप्र- बुद्धादीनां प्रतीतिप्रकारः प्रथमं निरूप्यते 'मत्स्थमपी'त्यादिश्लोकचतुष्केण । तत्राप्र- बुद्धः, प्रबुद्धकल्पः, प्रबुद्धः, सुप्रबुद्धकल्पः, सुप्रबुद्ध इति पञ्च प्रमातारः । तेषु यस्य यादृशी प्रतीतिः, तां विभज्य दर्शयति- मत्स्थमपि भुवनवृन्दं बहिरिव मद् भाति मायया भविनाम् । अथ विद्यया भवेद् भवपदिनामन्तर्बहिष्देन ॥ ४१ ॥ मत्स्थमाप उक्तन्यायेन प्रकाशात्मतया मद्भित्तिलममपि भुवनवृन्दम् अनाश्रितादि कालाग्न्यन्तं भुवनमण्डलं भविनां बहिरिव मद् भाति भवो भेद- प्रतिपत्तिः, तद्वतां साङ्यादिसिद्धान्तानाम् । तत्र हेतुः माययो अभिन्न वस्तुनि मिन्नप्रतीत्यात्मिकया मायया । भवपदिनां तु येषां भवो नास्ति तत्संस्काररूपं तु भवास्पदमस्ति ते भवपदिनो विद्याप्रमातारः सम्प्रज्ञातसमाधेरवापर्वप्रविष्टाश्च, तेषाम् अन्तर्बहिष्वेन भवेद् अन्तः सङ्कल्पादिरूपतया भिन्नमिवाभाति । तत्र हेतु:- विधयति शुद्धया ।। ४१ ॥ अथानयोर्यस्य बहिर्भाति, सोऽत्र संविदुपदेशे योग्यः पशुरित्याह- ग्राहकमेवं त्वजडं जडमन्यद् ग्राह्यमस्य यो मनुते । मायाविमाहितात्मा 'बोध्यः सोऽणुर्भवी सद्भिः। ४२ ॥ ग्राहकम् अजडं चिदात्मकं, ग्राह्यं जडमचिदात्मकम् अन्यच्च मनुते यः स मायाविमोहितात्मा येयं ग्राह्याभिमते वस्तुनि जडत्वेनान्यत्वेन च प्रतीतिः सैव माया तया विमोहितात्मा अप्रत्यभिज्ञातस्वरूपः, अत एव भवी सद्भिर्बो- ध्योऽणुः प्रत्यभिज्ञातस्वरूपैर्गुरुभिरुपदेश्यः पशुः, यदागमः- 'अन्यतन्त्रेषु ये मुक्ता धर्माधर्मक्षयान्नराः । तेऽत्र रुद्राणवः प्रोक्ताः कालकर्मविवर्जिताः॥ इति । अनेन तार्किकमीमांसकादीनामप्रत्यभिज्ञातचेत्यविविक्तचित्स्वरूपाणां सच्छा- स्रोपदेशे नैवाधिकार इत्युपदिष्टं भवति । तेषु संवित्सिद्धान्तप्रकाशने प्रत्यवा- येश्रुतिश्च १. 'शे बोधनीयः प' क. पाठः, २. 'सद्भिर्बोध्यः पशुः स भवी' ख. पाठः. ३. 'यः श्रु' ख- पाठः. - चतुर्थः स्कन्धः । २३ 'अन्यायात् कथनं कुर्वनकाले मृत्युमाप्नुयाद । इति । अतः पशुषु संवित्सिद्धान्तार्थो गोपनीय इति शिवाजा सर्वथा नोल्लङ्घ- नीयैव ॥ ४२॥ एवमप्रबुद्धस्य प्रबुद्धकल्पस्य च प्रतीतिप्रकारो विविच्य दर्शितः । यस्तु प्रबुद्धः, तस्येदानीं 'विवेचयति- जडतात्मिकामिदन्तामथाजडत्वात्मिकामहन्तां च । सामानाधिकरण्यादिदमहमिति बुध्यते द्विपदी ॥ ४३ ॥ द्विपदी भवोद्भवोभयसंस्कारवशाद् भेदाभेददशावस्थितः जडतात्मिका- मिदन्ताम् ईदमिति प्रतीयमानं जडं वस्तु अथाजडत्वात्मिकामहन्तां च अजडमिति प्रतीयमानमहंवस्तु च सामानाधिकरण्याद् अभेदारोपणेन भेदांशे. मवमज्जयन् 'इदमहामि'ति बुध्यते स्वशरीरकल्पतया द्वैरूप्येण पश्यति । सेयमी- श्वरदशा ॥४३॥ अथ यः सुप्रबुद्धकल्पो, यश्च सुप्रबुद्धः, तयोः प्रतीतिप्रकारं विवेचयति- उद्भविनां केवलया निमग्नमन्तःपदे दृशा भाति । मग्नोन्मनोभयविधमुन्मनया मयि पुनः पूर्णे ॥४४॥ अभेदप्रतिपत्तिलक्षणं कैवल्यमुद्भवः । तद्वताम् अन्तःपदे अहमात्मके स्वरूपे निमग्नं भाति इदम्प्रतीतिविषयं वेद्यं निमिषितं प्रतीयते । केन हेतुना दशा विमर्शशक्त्या । इयमहन्ताच्छादितास्फुटेदन्तामयी सदाशिवदशा । अतः सुप्रबुद्धे अत एव पूर्णे मयि प्रकाशे मनोन्मग्नोभयविधं निमिषितत्वेनोन्मिाषितत्वेन च द्विरूपं प्रतीयते । यथा हि जलधौ तरङ्गादि निमिषदुन्मिषच्च भवति, सर्वस्या- मेव दशायां जलधिरेव तत् , तथा शिवादि विश्वं मदात्मकमेव सदुन्मिषति, मध्यतिरिक्तं च मय्येव निमिषतीति । एवं वस्तुयाथात्म्यप्रत्यभिज्ञाने हेतुः उन्म- नया स्वस्वरूपावस्थितिरेवोन्मना, यदागमः 'उन्मना सा तु विज्ञेया मनो यत्र न विद्यते'। इति ॥४४॥ एवमुपदिष्टं प्रतीतिक्रमं पर्यालोचयतो यदोन्मनया पूर्णत्वसिद्धिरविचला, १. 'रोद' क. पाठः. २. 'विविच्य दर्शय क. पाठः. ३. 'रवान् भेदाभेददशावस्थोज' ४. 'इदम्प्रत्ययविषयं जक. पाठः. ५. 'शं वजयन्' ख. पाठः, ६. 'ते इदन्ताप्रतीतिमयी सदाशिवता। 'ख. पाठ:. क. पाठ:. ७. 'एक्रम'क.पाठः, २४ विरूपाक्षपञ्चाशिकायां , तदा स योगी सिद्धः सुप्रबुद्ध उच्यते । तस्येच्छामात्रेणामिमतानां विभूतीनामा- विर्भावो भवतीत्याह श्लोकाष्टकेन । तत्रापरसियाविर्भावप्रकारं प्रपञ्चयति. रविसोमतडिद्वज्राम्बुदबाडवजलधिगिरिगुहारण्यैः दृढभावितात्मभावैर्योगी तत् कर्म निर्वहति ॥ ४५ ॥ वज्र दम्भोलिः । दृढभावितात्मभावैः दृढमात्मत्वेन भावितै रव्यादिभिः योगी तत् कर्म निर्वहति रव्यादिप्वर्थेषु यद्यज्जगत्प्रकाशनादि कर्म तत्तन्नित्य- सिद्धं सदेव प्रत्यभिज्ञानदााद् अर्थक्रियाकारितालक्षणं निर्वाहं नयतीत्यर्थः । अत्रैतदाकूतम् --- उक्तनयेन रव्याद्यर्थरूपेण स्वयमेवावतिष्ठते, विमर्शदौर्बल्येन तु विभिन्न इव स्थितः । प्रबलेन विमर्शेन भेदभ्रमसंस्कारापगमे विश्वात्मकस्य सतः सर्वा एव सिद्धयो नित्यसिद्धा एव प्रत्यभिज्ञानदायादर्थक्रियाकारिण्यो भवन्तीति सर्वत्रैवात्र सिसाधयिषुणा विश्वात्मकपरिपूर्णपरप्रकाशात्मकस्वस्वरूपादविचलतैव रव्याद्यात्मकत्वभावना सर्वात्मकत्वभावनाशेषतां नेतव्येति श्रीगुरवः ॥ ४५ ॥ या देवता यमर्थ करोति तेनार्थिनो दृढं तस्याम् । विधृताहङ्कारस्य क्षणेन सोऽर्थः समायाति ॥ ४६ ॥ या देवतास्ति लोक हेरम्बभारतीहरिहरादिका, सा यं यमर्थ करोति प्रत्यूहध्वंसवाक्प्रवर्तनपालनसंहरणादिकं कार्य निष्पादयति, तेनार्थिनः तेन प्रयो- जनवतः तमर्थ सिसाधयिषोरित्यर्थः । तस्यां दृढं विधृताहङ्कारस्य तस्यामविच- लत्वेनैकात्म्यमनुसन्दधतो योगिनः क्षणेन सोऽर्थः समायाति सोऽर्थो निर्विलम्ब सिद्ध्यति ॥ ४६॥ अथ तत्र सिद्धीराह- धारणसङ्ग्रहपाकव्यूहाप्रतिघातलक्षणैर्भूतैः । स्वस्वनिविष्टाहन्तयोंगिन इष्टा क्रिया भवति ॥४७॥ धारणलक्षणं भूतं पृथिवी । संग्रहलक्षणमापः । पाकलक्षणं तेजः । व्यूहो- ऽवयवसंहननं, तल्लक्षणं वायुः । अप्रतिघातोऽव्याहतप्रसरत्वं, तल्लक्षणमाकाशः ।, ३. 'ज्ञानाद' १. 'ह रविसोमेत्यादिना श्लो' क. पाठः. १. 'मेक सत् प्र' ख. पाठः. क. पाठः, ... 'कनीत्या' क. पाठः, ५. 'या यावती दें ख. पाठः, चतुर्थः स्कन्धः । एतैः पञ्चभिभूतैः प्रतिस्वं दृढमात्मत्वेनानुसंहितैः योगिन इष्टा क्रिया भवान सिसाधयिषितधारणादिकर्मसिद्धिर्भवति ॥ ४७ ।। इति तन्मात्राकर्मज्ञानेन्द्रियमानसास्मिताधीषु । अव्यक्त पुंसि तथा धृतचितिशक्तिश्च तत्कर्मा ॥ ४८ ॥ अस्मिताहङ्कारः । एतेषु तन्मात्रादिषुमन्तेषु तत्त्वेषु इति धृतचितिशक्तिः उक्तेनैव नयेन विकृताहङ्कारः । स च तत्कर्मा तत्तत्कर्मसिद्धिमान् भवति ॥४॥ रागनिययोः काले विद्याकलयोर्गहासरस्वत्योः । ईशसदाशिवशक्तिपु शिवे च तद्वत् कृताहन्तः ॥ ४९ ॥ गुहा माया । सरम्बती शुद्धविद्या । तद्वदिति तत्कर्मेत्यनुकृप्यते ॥ ४० ॥ प्रसङ्गाच्छुकादीनां सिद्धयः क्षोदीवस्य इत्याह---- शुकवामदेवयोरपि कृष्णदधीच्योस्तथा च वैन्यस्य । भूतात्मयोगजं खल्वार्षे वैश्वात्म्यमाख्यातम् ॥ ५० ॥ भूतात्मयोगजं पञ्चभूतधारणोद्भवम् । वैश्वात्म्यं भूतपञ्चकात्मप्रपञ्च- रूपम् । आर्षे इतिहासादौ शास्त्रे । उक्तास्वेतासु सिद्धिपु गुहासिद्ध्यन्ता अपराः, अन्याः पञ्च पराः सरस्वत्यादिसिद्धयः ॥ ५० ॥ अथेदानीं सर्वसिद्धिमूर्धन्यं सिद्धिद्वयं श्लोकाभ्यामाह- कालाग्निकोटिदीप्तां दाहे पाशोच्चयस्य पटु तृप्तौ । अमृतौघवृष्टिमूर्ति स्मर शक्तिं भव गुरुर्जगतः ॥ ५१ ॥ कालाग्निकोटिदीप्तां प्रलयप्रबुद्धकालामिकोटिवत् सर्वाध्वनिर्दाहक्षमानव- च्छिन्नज्वालाजालरूपतया दीप्यमानाम् । पाशोच्चयस्य दाहे शक्तिं पटु स्मर षडवलक्षणस्य पाशस्य दाहरूपायां शुद्धौ चितिं निरर्गलमनुसन्धेहि । तृप्तौ अ- मृतौघवृष्टिमूर्तिम् आप्लावनलक्षणायां तु शुद्धौ तद्वदेव सर्वाध्वक्रमणक्षमानवच्छि- २. 'उक्तेन न' ख. पाठः. ३. 'स्मकर १. 'धयिषोधारणादिकं कर्म सिध्यति' ख. पाठः ख. पाठः. ४. 'द्वयमा ख. पाठः विरूपाक्षपञ्चाशिकायां - नसुधासमुद्रसहस्रसम्पातमयीं पटु स्मर । अत्र दाहाप्लावनाभ्यां सकलीकरणम- प्युपलक्ष्यते, यदुक्तमाचार्यप्रवरैः "कालामिकोटिरुचिमम्ब ! षडध्वशुद्धा- वाप्लावनेषु भवतीममृतौघवृष्टिम् । श्यामां धनस्तननतां सकलीकृतौ च ध्यायन्त एव जगतां गुरवो भवन्ति" || इति । अत इष्टदेवतामूर्त्यात्मकसङ्कल्पकोटिमयत्वेन विश्वानुचिन्तनलक्षणं सकली- करणमप्युपदिष्टं मन्तव्यम् । भव गुरुर्जगतः यावतोऽध्वनः शुद्धिः कृता, तावतो निश्शेषस्यैव जगतोऽनुग्रहीतृतया गुरुराचार्यप्रवरो भूयाः । अत्रैतदाकूतम्-यदे- तच्छोधनं क्रियते न तदस्य देहात्मकतया संक्षिप्तस्य षडध्वसङ्घातस्य, अपि तु सर्वस्यैव, उक्तनयेन सर्वस्यैवाचार्यादेविश्वशरीरत्वात् । न ह्येतदाचार्यादित्वं, यत् प्रतिनियतदेहेन देहित्वम् । अतो विश्वशरीरेण सता विश्वस्यैव शुद्धिः कार्येति शास्त्रोपपादितयुक्तिक्रमेण प्रकाशैकात्म्यमस्य विश्वस्य पश्यतो यत् स्वरूपावस्थानं, स सर्वस्यैवाध्वनो दाहः । तदेव च प्रकाशैकात्म्यं विमृश्यमानं चिच्चमत्कारात्मक- माप्लावनम् । 'प्रकाशस्य विमर्शकघनताप्रत्यभिज्ञानदाात् परानन्दाविर्भावः सकलीकरणमिति श्रीमद्योगीश्वराचार्यपादाः ॥ ५१ ॥ एवं गुरुलाभरूपां परामाद्यां सिद्धिभुपदिश्य द्वितीयामप्युपदिशति ख्यातिमपूर्णा पूर्णख्यातिसमावेशदाढयतः क्षपय । सृज भुवनानि यथेच्छं स्थापय हर तिरय भासय च ॥ ५२ ॥ सारस्तवायं सर्वोपदेशनिष्कर्षः । अपूर्णा पूर्णा चेति ख्यातिद्वयमेवास्ति, न वस्त्वन्यत् । तत्र पूर्णख्यातिं वस्तुभूतां सुदृढमवष्टभ्य कादाचित्कत्वादवस्तुभृताम् अपूर्णा ख्याति क्षपय प्रतिक्षणमनुसन्धानदाादुन्मूलय । तथा क्षपयन् मृज भुवनानि यथेच्छं स्थापय हर तिरय भासय च । तथावस्थितस्य ते ये स्व- स्वरूपावारकतया सम्मताः पदार्थानामाभासनशक्त्यादयो विकल्पाः, त एव ते जगत्सृष्ट्यादिरूपतया प्रत्यभिज्ञाताः सर्वसिद्धिसमप्ट्यात्मकं पारमैश्चर्यमाविष्करि- प्यन्ति । अत एवं स्वरूपे नित्यमवतिष्ठस्वेत्युपदेशसर्वस्वम् । अत्र 'रविसोमे'त्या- १. 'टं बोद्धव्यम्' क. पाठ:. २. 'तक्रमे' ख. पाटः. ३. ' अनाभासाभासनाद'(2) ४. 'ध्यन्तीति । अ'ख. पाट:. - ख. पाठ:.

चतुर्थः स्कन्धः । २७ - दिषु शिवान्तासु विभूतिषु 'तत्कर्म निर्वहती'त्यादिना ताटस्थ्यप्रकाशनात् , 'स्मर शक्तिं भव गुरुर्जगत' इति 'अपूर्णख्याति क्षपय भुवनानि सृजेति च सादरमुप- देशाच्च पक्षपातः प्रत्याय्यते । अत एवं प्रत्यभिज्ञातस्वरूपेण सिद्ध्यन्तरस्याभास- भूतत्वात् तदभिनिवेशो न कार्यः । अग्रये तु सिद्विद्वये नित्यप्रत्यवमर्शाभिनिवे- शिना भवितव्यमित्यनक्षरमुपदिश्यत इति शिवम् ॥ ५२ ॥ अथ शास्त्रमुपसंहरन्नाह इति बोधितः स इन्द्रो देवेष्वधिकारमलमपोह्य स्वम् । आविष्टशक्तितत्त्वः शिक्वदपश्यत् स्वमात्मानम् ॥ ५३ ॥ इति प्रथमस्कन्धेन शरीरबाह्याभिमते शिवादिवस्तुनि शरीरतां सोपपत्तिकं प्रत्यभिज्ञाप्य अथ विश्वशरीरस्वशुद्धो द्वितीयरकाधेन शरीरत्वेन प्रतियोगिभूतस्य संतः स्वस्वामिभावलक्षणं भेदभ्रममपनेतुं विश्वस्य प्रकाशैकघनत्वमुपपत्तिभिः स्थिरी. कृत्य तथा स्थिरीभृतम्य वैश्वात्म्यम्य विपरीतभावनादिभिर्दोदौर्बल्यं मा भूदिति तृती- यस्कन्धेन विविधान् वैश्वात्म्यविमर्शनप्रकारानुपदिश्य चतुर्थन स्कन्धेन सियाविर्भाव जगद्गुरुत्वशिवत्वयोमहारियोनित्यसिद्धत्वप्रत्यभिजानलक्षणां महासिद्धिं चाविच- लामुक्ता बोधितो वर तुयाथात्म्यं सम्यक्प्रत्यभिज्ञापितः स इन्द्रः स्वं देवेष्वधिकार- मलमपोह्य ‘स्वर्गर याहमधिपतिरि'ति परम्वरूपसङ्कोचलक्षणं पशुत्वमवधूय स्वा. त्मानं शिववदपश्यत् शिवो बोधकत्वेन पुरोऽवस्थिताः श्रीमदाचार्यविरूपाक्षनाथ- पादाः, एवं बोधितग्य तस्य गुरुन्यतिरेकेण शिवान्तरासम्भवात् , तद्वदपश्यत् । न तदानयो|ध्यबोधकयो ने तारतम्यकला काचित् , अपि तु 'जगतोऽस्य गुरुः साक्षात् परमेश्वर एवास्मीति निष्प्रत्यवायं प्रत्यपद्यतेति शिवम् ॥ ५३ ॥ इति श्रीविरूपाक्षपश्चाशिकायां महामाहेश्वर- विद्याचक्रवर्तिकृतवितिसमेतायां विभूतिस्कन्धश्चतुर्थः । १. 'थमेन स्क' क. पाठः. २. 'बहिर्भूतत्वेनाभि' क. पाठः. ३. 'रतया प्रक. पाठः, ४. सतत्वावि(? देहदहिमा' ख. पाठः. ५. 'योनि' क. पाटः. ६. 'ज्ञानता' क.पाठः.

२८
विरूपाक्षपञ्चाशिकायां
स्वरूपप्रत्यभिज्ञानमनायासेन लिप्सुभिः ।
पञ्चाशिकासुविशदा वृत्तिरेषा निषेव्यताम् ।।
कृतेयं विवृतिर्लध्वी श्रीविद्याचक्रवर्तिना ।
गोविन्दचन्द्रधीनाम्नि निकषे विनिवेशिता ॥
नमः शिवाय गुरवे देवायानन्दमूर्तये ।
परब्रह्मस्वरूपाय देवदेवाय शम्भव ॥
समाप्तश्चायं ग्रन्थः ॥
---
1. षे च नि' ख. पाठः.

No text on this page.

Ready for salu. (Stuti) by HI, II. Svati Sri Raina Varna ilaharajah 100 0 2 0 0 0 Trivandrum Sanskrit Series. No. I-(Vyakaraua) ly Deva with Puristiakâra of Krishnalila:sukamuni. 100 No. 2 अभिनवकौस्तुभमाला - दक्षिणामूर्तिस्तवी hy Krishnalîl risukamuni. * No. 3 Hanya: (Kavya) lvy Vânana Bhatta Bảna. 0 40 No. 4— frazrastofa: (Kavya) by Nil-kintia Dikshita. 2 No. 5 ---- eufafa: (Alank:ıra) by Maliima Bhatta. with conmtntaly. No. 6 --- gazara: (Vyakarana) by Sarinadva. 2 0 0 No. 7 - TPATETRUET (Vedânta) Sadasivendrasaragsatî 2 4 0 No. 8 प्रद्युम्राभ्युदयम् (Xâtaka) by Ravi Varna Bhupa. 00 No. 9 - ETATTU 174.1 (Vedänta) koy Virupakshanatha with commentary of Vidyachakravartio, 0 80 No. 10 - Hardtest (Gajalakshana) by Nilakuntha. 080 2 13 0 1 IN THE PRE:SS. grafittiecara (Nálaka) by Kulası khara Varma with commentary. GTALÁhren (Vedanta) by Bhagavad Âdisesha wi'b Râybavalanda's cominentary. HaHTT: (Niti) by Kamanda ka with the commentary, 'Jayamangala' of Sankardrya.

No text on this page.

Class No. S18/..4
Book R.18 240
Vol.
Author.V.I.RU.PA.K.HYA.NATH.....
Titleनिम्यानपन्चशिका
. 16549

Class Nord!!!
Book No.
V,24VT
Vol
Anthc: VIRUPAKUHY.A.N.A. TH...
Title VI. RUPA.KAYA.PANCHASHIKA
Acc No. 16549

The Virupakshapanchasika Of Virupakshanthapada

Author
Shaastri T. Ganapati
Title
The Virupakshapanchasika Of Virupakshanthapada
File name
The Virupakshapanchasika Of Virupakshanthapada
Text
OCR done
Citation
1910
Published
2005/06/18
Publisher
The Travancore Government Press, Trivandrum
Language
Sanskrit
Pages
42
Library
Central Library, Bits- Pilani
Classification
GENERALITIES
DLI number
477482
Barcode
99999990177863.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
w2bTFtGhlfp
Download PDF

The Virupakshapanchasika Of Virupakshanthapada