Sringeri Sharada Peetham
Viravairagicaritam
Front matter
वीरवैरागिचरितम्
[ नाम पद्यकाव्यम् ।
लेखकः
श्री सुदर्शनशर्मणा
HIG Block 61, B. 3, Sector VI,
Parwanoo-173220
Hous
T
M
परवाणुस्थलीय
1995
वीरवैरागिचरितम् नाम गद्यकाव्यम् फाजिल्कास्थलीय सर्वकारीय महाविद्यालयीय- प्राचार्य (प्रिसिपल) भूतेन भी सुदर्शनशर्मणा विरचितम् [प्राक्तनीय वण्ठिण्डास्थलीय सर्वकारीय-राजेन्द्रमहाविद्यालयीय संस्कृत विभागीयाध्यक्षपदात् पदोन्नतेन १. ८.६२ तारिकायाः ] "VIRAVAIRAGICARITAM" nāma gadyakávyam Written by Shri Sudarshan Kumar Sharma Pricipal, M. R. Govt. College FAZILKA Distt. Ferozepur-152 123 (Formerly Senior Lecturer-Cum Head Deptt. of Sanskrit) Govt. Rajindra College, BATHINDA (Pb.)-151 001 uptill 31. 7. 1992. मूल्य : मुदक: विश्वेश्वरानन्द वैविक शोध संस्थान प्रेस, साधु आश्रम, होश्यारपुर-१४६ ००१ (पंजाब) अथ प्रास्ताविकम् बोरवैरागिचरितं गद्यकाव्यं मुद्रापणाय विश्वेश्वरानन्द- वैदिक-शोधसंस्थानेन स्वीकृतं अनेन तत् प्रति मम महतो कृतज्ञता वर्तते । काव्यं सम्पूर्ण सत् पठकेभ्यः मया समप्यते । अस्य मुद्रापणाय पुनः योऽधिकारः वर्तते स मम सुपुत्राय विपिनशर्मणे मया दीयते । अन्ये सर्वेऽधिकाराः मेऽधीना: वर्तन्ते तेऽपि । विश्वसिमि काव्यमिदं पाठकेभ्यः रुचिमाधापयिष्यति । सुदर्शनकुमारः शर्मा अवकाशप्राप्त: प्राचार्य: दिनाक । १८.७. ६५ HIG Block 61, B. 3, Sector VI, Parwanoo - 173220
अनुक्रमणी
पृष्ठाङ्करः
अथ प्रथम उच्छ्वासा
पथ द्वितीय उच्छ्वासः
...
२२
अथ तृतीय उच्छ्वास:
३५
प्रथ चतुर्थ उच्छ्वास:
प्रथ भरतवाक्यम्
६७
अथ प्रथम उच्छवासः
भारती
निबध्य
सा
भारतभूविभागे
विद्वत्प्रककविधानसत्का
नानाविधा नूनमनूनभावः
संक्रान्ति विक्रान्तिगता नमस्या ॥१॥
वल्मीकतो जन्मविधाय वाग्मी
योऽभूज्जगत्यां जगदेकवन्द्यः ।
रामायणी
काव्यकथा
आद्यः कविः ध्यानरतोहिरेमे ॥२॥
नमः ख्यातेतिवृत्ताय व्यासाय कविवेध
जगदैतिद्यबोधाय कृता यद्भारती कथा ॥३॥
गधं कवीनां निकष वदन्ति
तद्गद्यते चे - द्विधिनोपपन्नम् ।
विद्वान्मनीषी मनसा
तद्गौरवे गानरतो नु
भूयात् ॥४॥
पy पदन्यासहितम्
नैवान्वयं व्याप्य गति समेति ।
छन्दोगतं वृत्तविशेषगद्यम्
संख्यानितं चैव विधि विधत्ते ॥५॥
विदाङ्कृत्
निगद्यम्
प्राख्यायिकाख्यानगति प्रपद्य
पूर्व गताः बाणविधाः जगत्याम् ।
तेषाम् कथाकौतुकमाकलय्य
रीतौ कुरीतिर्नहि
तर्कनीया ॥६॥
वीरवैरागिचरितम्
क्रियान्विता वेदविवां सुबुद्धिः
सा लौकिकी लोकधिया परीता।
संमूढभावकयुता पुराणी
विज्ञानवैशद्यविचारसत्का
वीरो रसः ख्याततमो हि लोके
उत्साहसाीक - विभाव - मूलः
षाड्गुण्यसौहार्द - समेत - सारः
सोपाय-सापय - तुलातरस्वी
गद्यैककृद्दण्डिकविः प्रतीत:
गुप्तान्वये
चोत्तरवंशजानाम् ।
विद्रोहरोहकविवादवादे
कौमारचक्रककथा बबन्ध ॥९॥
प्रत्यक्षरश्लेषमयप्रबन्धी
सद्वन्धक
गद्यमकृत्सुबन्धुः ।
कन्दर्पदककृतेः प्रकेतम्
कन्दर्पकतोश्चरितं चचार ॥१०॥
बाणः कवीनामिह चक्रवर्ती
भासैककर्तृत्वविवादधर्षी
स्थाण्वीश्वरे राजनि वृत्तिवर्ती
कादम्बरीगद्यकथा चकार ॥११॥
हर्षस्य राज्ञश्चरितं चिकीर्षुः
कारुण्यकोशं च शुचं समेत्य ।
राज्यधियो बौद्धनति विधाय
वैधव्यदुष्टादुरितं ददाह ॥१२॥
कादम्बरी कोत्तिमतां विनोद:
संकीर्त्यते रागरतः
समाजे ।
संसेव्यमाना ननु
मोहमूढः
कादम्बरी रागरति न
धत्ते ॥१३॥
अथ प्रथम उच्छ्वासः ३ सः सम्पूरिता नैव युगे स्वकीये पुत्रस्तदीयश्च पुलिन्दसंज्ञः । संज्ञां विधायोत्तरभागसत्का वाङ्माधुरीवैभवमाततान ॥१४॥ नेता नराणां ननु हर्ष राज: हर्षे स्वकीये खलु लब्धकीतिः । नाटये कलाकौशलिकं विधाय वासन्तिकी रागरति ततान ॥ १५ ॥ चौरः कविबिल्हणनामधेयः कामातिगी गानविधां विधाय । पञ्चाशिका - पद्यरतो - रसाढयः साहित्यसाह्ये सुमनाः बभूव ॥१६॥ बिल्हण: कल्हणपूर्ववर्सी स्वां विक्रमाङ्कीयकृति निधाय । सैतिह्यसंस्कार सभाजनाढयः काव्यं महत्कायमुवाच धीरः ॥१७॥ देवोत्तरः सोम इतीह रक्तो यशस्वियोधेषु कविक्रियालुः । वाग्भैरवीं रोदरसा विविच्य तं मारिदत्तं चरिते निनिन्द ॥१८॥ सः साहसावं च नवं विचार्य चारित्यचर्यां च चचार चित्रे । पद्मगुप्तः परमारराज सिन्धुं प्रभायां शशिन: ससञ्ज ॥१९॥ भोजाश्रयी सः धनपालनामा गद्यकृतां पंक्तिनिविष्टमूत्तिः । कथाद्वयीवादविवादमोहे बाणं धिया कर्मणि चानुमेने ॥२०॥ .
सः
वीरवैरागिचरितम्
वादिविभो वादरविवादी
वादीसिंहश्च नदन् सनादम् ।
वादीभचिन्तामणिवादयुक्तः
चिन्तामणि गद्यमुवाद धीरः ॥२१॥
धन्यश्च बादविदां विनोदी
सः सोड्ढलश्चञ्चुर - चारचारी ।
कोरं हि तं चित्रशिखं सुबुद्धम्
गये निधायातनिधिर्बभूव ॥२२॥
बाणश्च
वामनभट्टनामा
कादम्बरीलासकलस्यमान:
प्रोल्लाख्यभूपालमतं विवक्तुं
शृङ्गाररागैकरसे नु
रेमे ॥२३॥
वाग्वैभवैविक्रमणकधीरः
त्रिविक्रमो नाम भटोत्तरीयः ।
भङ्गं विधाय श्लिष्टपदैः प्रयस्यन्
चम्पू नलाख्यां प्रततान काव्ये ॥२४॥
शैवो हि ना व्यास इति प्रतीतः
नाम्नाऽम्बिकादत्त गुणाकृतिश्च ।
राष्ट्राखिलताणपरं प्रवीरम्
गये प्रवाह्यागत प्रात्मभावम् ॥ २५॥
नीरन्ध्रवन्ये विहितात्मभावो
व्याघ्रो हि यो गद्यमति वित्ति ।
चित्रैः पुनर्वाक्यविचित्रबन्धैः
भोतिप्रदोऽप्यर्हति नैव भीतिम् ॥२६॥
पदलालित्यसंविष्टा
वर्णसंसृष्टिसंष्ठुला
चित्र: रसैः समाकी
नायिकाऽऽख्यायिका मता ॥२७॥
अथ प्रथम उच्छ्वासः ५ भास्वारविर्भारविरित्यभिख्यः माघागते वर्चसि खिन्नरूपः । स्वैश्चित्रबन्धविदुषां विरावैः माघाभ्रवृन्दोघभयेन दूनः ॥२८॥ दण्डी च सः लोकविदां विनोदी गद्यपदानां ललितार्थदर्शी । नैरोष्ठकैरक्षर डम्बरीणः स्वां मन्त्रगुप्तीयका चकार ॥२९॥ पैशाचिमूलं बृहत्कथीयं लुप्तं तमोलीनमहो विपन्नम् । सोमदेवो विधिनोपपन्नः काश्मीरक: संस्कृतरूपमाह ॥ ३०॥ क्षेमेन्द्रनामा ननु दर्शनाढयः विद्वान्मनीषी मनसां विदांकृत् । बृहत्कथामञ्जरिकाव्यरूपे बृहत्कथा - संस्कृतरूपमाह ॥३१॥ नेपालदेशकनिवासकारी बृहत्कथाश्लोकविधानभावात् स्वे संग्रहे सर्गमये विचार्य बृहत्कथासंस्कृतरूपमाह ॥ ३२ ।। सः कल्हणो नाम विनियोगी काश्मीरदेशं भजनैकशीलः । तत्रत्यराज्ञामितिहासमार्गम् राज्ञां क्रमेणैव निनाय निष्ठाम् ॥ ३३ ॥ गतिभावलिप्सुः काव्यक्रियाकौतुककर्मयोगी नाटयक्रियाकाव्यविधानदर्शी आख्यायिकाख्यानपरो नमामि ॥३४॥ प्रारब्धपारं ६ वीरवरागिचरितम् यशस्वियुगपुरुषायुरायुष्यो, देवदानवमानवक्षवानरकिन्नर यक्ष- गन्धर्वगणगुणागुणगानगूढः, पूर्वापरपारावार-पुलिन-परिवार-प्रत्यन्त- वत्ति पय:पूरप्लावितपरिवाहिणी परिपावितो, दक्षिणाब्धिलवणसिन्धु- सरिदम्भः-स्रोतोभिः सिक्तस्थलावलिवनराजिविलिप्तकक्ष: ध्वंसा- धानेऽपि धृतिधुरीणो धूर्तधुर्यैर्धावितोऽपि धर्मव्यपेक्षी दानवलक्ष्मीलता- परशुः, मानवधी विक्रमध्यानशीलः मध्योदीच्य-प्राच्य-दाक्षिणात्य-दिग्वि- भागव्याप्तकुरु - पाञ्चाल - शूरसेन - मत्स्य-किरातकाशिकोशलावन्ति- मगध - वाह्लीकाभोरकापरान्त - कुकुरगान्धारसिन्धु - सौवीरमद्रकैकेयो वङ्गाङ्ग - कलिङ्ग प्राग्ज्योतिषविदेह सौराष्ट्रः पाण्ड्यकेरलचोल: महाराष्ट्रविदर्भान्ध्रकुन्तलः कैलासाजनहिमवद्विन्ध्यकिरीटकुण्डल: सप्तसिन्धुप्रसारात्सप्तसैन्धवसनामा सुचारुदर्शनाच्च सुदर्शनद्वीपाह्वयः जम्बूद्वीपस्य द्वीपभूत: आर्याणामावर्त्तनादार्यावर्त्तापरनामा, नवाब्जरम्यो नवाब्दभव्यो, वर्षनवे प्रष्ठ: प्रेष्ठश्च पुंसां भरतर्षभास्म भवभावनीनः, विबुधविधिविप्रप्रिय:, प्रतापिधीविक्रमविक्रान्तवादी, भीविभ्रम- भ्रंशाशंसी, श्रुतिस्मृतिसाहचर्यैकलीन:, भारत्या भूभारतीनः, दौ:ष्यन्ति- दोर्दम्यदत्ताढ्यभावः, विश्वस्य विश्वस्य भूकाञ्चीभूत: स्वसंस्कृति- व्याप्तिशृङ्गाररागी, जनैर्गणैश्चापि नमस्यरूप: पुराणतत्त्वे पुरातत्त्व- दर्शी प्रशस्तिभिश्चापीतिहासवादी, विद्वत्प्रियो गोष्ठीगतो जगत्याम्, स्वमातरं वन्दने बद्धभक्तिः, जनानां गणानां मनोऽधिनेता, उदात्त- स्वरोऽप्यनुदात्तरागी, धीरोद्धतोऽपि धीरललितः, सगुणग्रामरागीष्व- गुणग्रामरागी, सवनराजिलोऽप्यवनराजिल:, गिरिष्ठोऽगिरिष्ठः प्राकारतोरणविषयी अप्राकारतोरणविषयी, चतुरङ्गबलसमुदितोऽपि चतुरङ्गबलसमुद्धतः, स्फुरत्कलालापकोमलोऽपि स्फुरत्कलालापकठिन:, सविलासोऽप्यविलासः, सुप्रभातोऽप्यप्रभातः, गान्धार ग्रामरागी, अपञ्चमदिगप्यपञ्चमदिक्, सुदर्शनोऽप्यदर्शन:, शान्तिप्रियोऽप्यशान्तिप्रियः, सखण्डलोऽप्यखण्डल:, सप्तसु नवसु वा द्वीपेषु शेखरीभूतः भरतमुने ट्यरङ्गप्रसङ्गः रङ्गत्तरङ्गतरङ्गिणीकः भारतानां भृतिभरो भारताख्यो बृहद्देशः । यस्मिन् निरस्तसमस्तसुरलोका सुरस्त्रीव सुरसरासरासणी सरस- सारसारणी सम्भृतश्रीका विहितविधीका निहितनीहारनिधीकाश्रित- शाद्वलीना कृतकामकीला वृतवामलीला कृषिकर्मगूढा उत्तरापथीना व्याप्ताखिलोत्तरप्रदेशपञ्चापहिमाचलप्रदेशपुरवरा जाम्बूनदीयाऽधि- गान्धारग्रामराग्यप्य- ७ - अथ प्रथम उच्छ्वासः त्यकोपत्यकापचारसञ्चारा चमूश्चरैश्चमत्कृता चरैराचारचञ्चुरा चरन्महिषाश्वगोगर्दभाश्वतरीतरुणतर्ण कोक्षवातविहितव्यापारचारिचर्या- चरैश्च चञ्चिता पुराकालादेव पुराणपुरुषप्रेरणी प्रियपथिक- पाथेया मनोरथशतमनोगतमानिनी विदुषां वेदविदां विश्वविख्याते- तिह्याहारहारिणी द्वीपिद्विपव्याघ्रचमरीभल्लूकमर्कटशिखिजाहकशलल- शूकरवराहकुक्कुटकीरकलविङ्ककुलोरकूर्मकुलकलिलकान्तारकुलाय कुल्याकूला हिमाद्रिदरीराजिरमणीया सरित्तटाकवापीशतसमाकुला सस्यश्यामलशाद्वला वनोपवनवस्तुविहितविस्तारा प्रकृतिविकृतिविकास- वीथिः अनुत्पन्नरजोभ्रान्ति रपि राजीवरजस्वला प्रकृतिकामिनी कमनीया कृतिविकारविकृतमहीध्रपुरुषवेशपरिवेषा, ज्येष्ठरुद्रप्रद्युम्न- सखण्डपरशुखण्डभूतभूभृद्राजिराजिला, कमनीयकान्तारवणरणरणत्का तुषाराद्रितनयासतीसतीत्वपरित्राणपरी तपश्चारचारि भूतामर- त्रिपुरकपटविजयहर्षेश्वराणां पुराणसिद्धानामायतनैरलङ्कृता निसर्ग- जातोमारुद्रजयगणेशवनानां विविधतपश्चरणस्थलोद्देशदर्शिनो, मानसो- त्तरमानसपझमहापद्मतारमारक्रमसरः कालियनागशेषनागादिनिर्झर- निलयालया, नीलानन्तनागादिगणसगौरवा, शारदात्रिपुरसुन्दरी कुल- वागीश्वरीक्षीरभवानी शिवा ज्वालामुखी शारिकाभद्रकाली शैलपुत्री- मार्तण्डगङ्गो दस्वयमादिप्रख्याततीर्थसमवायपवित्रीकृता बहुविध- वृक्षवल्ली विसरसारिता, वचागुल्म गोलोमीकुष्ठाद्यौषधिवनस्पतिव्याप्त- भूधरामहेलाधरधृतमूलकन्दकोमला, इलावृद्वर्त्तमानस्रोतोवहद्वारिवि- रावव्याकुला, विविधवयोविरावव्याप्तविहायसा, कश्यपशाण्डिल्य- भृङ्गीशप्रभृति - महर्षिव्याप्तयुगपूर्वा, कुङ्कुमप्रसूत्येकभूमिः तद्रजो- विकीर्णगन्धा च द्राक्षाक्षोटटङ्कारुकवातादपारेवतप्रभृति फलभरित- भूरुहा, देवकुलायतनयातयातुधानयक्षकिन्न रासुरसुरप्रतियातना, वितस्तावारिवोचिविक्षुब्धविश्वम्भरा, लोकमत्स्य - स्कन्दभवनजयेन्द्र- राजचङ्काणाद्यनेकबौद्धविहारविहृतिवर्मणी, ज्ञानप्रभदीपाङ्कुरसोम- नाथश्रीज्ञानरत्नव्रजशाक्यश्रीभद्रसंघमित्राऽसङ्गवसुबन्धु - कुमारजीव- गुणवर्मादिप्रकाण्डविद्वद्विराजितपूर्वकालीना, वसुगुप्तसोमानन्दकल्लटो- त्पल्लरामकण्ठाभिनवगुप्तक्षेमराजभास्करभट्टनारायणजयरथभास्कर कण्ठशिवोपाध्यायादिशैवदर्शनदिग्दर्शकैरुपासितदिगन्तराला, रत्नाकर- शिवस्वामिसोमदेवाभिनन्ददामोदरगुप्तबिल्हणक्षेमेन्द्रमङ्खवासुदेवजगद्ध - रशितिकण्ठलीष्टकावतारवल्लभरम्यदेवादिविख्यातकविभिर्जगद्विश्रुति मानीता, हेलाराजभृङ्गीशनीलछविल्लाकरसुव्रतक्षेमेन्द्रकल्हणजोनराज- . - THE M CRO . वीरवैरागिचरितम् श्रीवरप्राज्यभट्टशुकाख्यैरेतिह्याख्यानपरैरितिहासकृद्भिद्भासितभू भारतीना, भरतानन्दवर्धनमहिमभट्टश्रीशकुकरुय्यकाभिनवगुप्तम म्मटाल्लटरुद्रटभल्लटतिलकभट्टादिरीतिरससिद्धान्तालङ्कारकृद्भि विशेषितशब्दार्थवैभवविस्तारा, शाङ्गंधरचरकनरहरिवाग्भट्टदृढ़वला- द्यद्वितीय वैद्यविशेषविभूषिता भट्टजयन्तभासर्वज्ञादिताकिकपुङ्गवैः प्रथित यशस्या भरतभूभालभूता देशविदेशज विहारस्थली सौन्दर्य- सोदर्या भास्कर्यभास्वीया ऐश्वर्यैशीया सौस्वर्यसौरस्या सौरभ्यरम्भीया उरुवश्योर्वशीवश्यावासुविशेष्या हर्यद्रिस्थितकाश्यपाश्रमाभिख्यया काश्यपर्षिणा जलोद्भवदानवप्रधनपिशुनस्थलवमणी सतीसरोवरावरण- विख्यातिवरीयसी स्थापितास्थली काश्यपपुरीतिलब्धापरनाम्नी काश्मीरभूः । वितस्तावारिवाहवेशविशालायां यस्याम् नीलनागो नाम नागा- धिराजो नितरां नृणां नाथो बभूव। यस्यां च वारिधिवाविस्तारा विहितवैमल्य विहारा 'डलबूलर' नामधेया नारायणीमूर्तिरिव निहित- नारायणि: नृभिर्नाकिभिश्च निध्यान नीरवा निशास्वपि च नितराम् नीरराजीनीराजना निशाकरकरराजिला नीरनिहितनक्षत्रगणदी- प्रदीपप्रकरा प्रकारान्तरेण पृथ्वीतलगतपातालप्रवालित पयोवाह- परीवाहवाहि विहायोवेश परिवेषा पयःपूरपूरिताऽऽढ्यानाढ्य हऱ्याकुटी- रकुड्मलितकूला कुमुदकुवलयक हार - किसलयकोशा हरितविघस विसंष्ठुलपरिसरा जलकुक्कुट सारसहंसश्रेणिश्रितसविरुद्वारिविस्तारा शकुलकुलकेलिकलित कमनीयावर्तवर्तुला तरम्बुजोर्वारुक-शाकशृङ्गाट- कशुष्कद्राक्षा-शालिधान्य काश्मर्यकुङ्कुमगोधूमतमाखुशस्यकलायहरेणु शिम्बिक-माषसूपतिलव्याप्तोद्यानस्थला सरसीसुरस सीरकषणकषायित- क्षेत्रपरिसरा समानसबलतालागन्धरबल गगरीबिलडलतटाकतारतम्या लक्ष्मीलावण्यलक्षणमुकुरायमाणा हिमालयमालभारिणी भार्येव भवानी सपत्नीभूता कैलाशभर्तुर्भर्त्सनाभावभूयसी भुव्येव स्वर्गमापादयन्ती लोकेभ्यः स्वर्गासवर्गेभ्य: भरत भुवः सौभाग्यभाक्त्वं प्रथयति । प्राकृता प्रकृतिरिव परकृता पुरुषैः पुरुषार्थश्रीरिव परुषार्थपराभवभरिता नटस्त्रीव नवे नवे रामे नवाङ्गरागरङ्गत्तरङ्गरङ्गिता रमणीरामणीयक कमनीयकलेवरा कले वरा रोलम्बलम्बलासिका लसत्तरलतरङ्गिणीत- रङ्गभङ्गभङ्गिनीका निदाघेऽपि निदाधकरदाह-दग्धदाहज्वरोष्मदिग्ध- देहदेहि-हिमदान दानवीरा धान्याकुरैधनाढ्या च वर्षासु वृषस्यन्ती- वाराङ्गणेव बरारोहावरोह रूढिरूपरूपिता, शरदिशार-दारद्राघीसी अथ प्रथम उच्छ्वांसः द्वारदेहलीव वाचाटचटकाद्यनेकचटत्कारचञ्चरीकचणत्कारझल्लरीका, शिशिरेशैत्याहति हेतिततितमिस्रीणा, हेमन्ते हिमाच्छन्ना सिताम्बराम्ब- रीणा वसन्ते च सकुसुमैः सर्षपैः सपीतपीता प्रकृत्यैव सौन्दर्यसोदरी सदृषद्दरीणा हिमाकारनीरा किर्मीरकीरा परिवारवीरा नृणां नारकीण- दुःखविस्मारिणीवैराग्येऽपि बहुरागरागा संन्यासेऽपि सोत्प्रासरासा संबाधेऽपि निर्बाधभावा, बहिरङ्गरङ्गत्तरङ्गिणीका हरितापिपीता भरितापि रिक्ता पीतापि रक्ता सौरभ्यरभसाभिभूता सौरम्यरमणीसौम्या हैमहर्म्यमनोहरा मनोहराकृतिकृतिक्रियाकार प्रकारकर्मकरणकर्मठ कर्मकर किर्मीरा कर्बुरिता कुलशैलैः कौलैौलेश्च मालिता मालाकारैः मृगनाभि नाभ्यैर्मृगैश्च मोहनी मनागपि न माननाशनी मणि- मन्त्रौषधिशेवधीना कस्य न काङ्क्षाकरी। भूरियं च वीरसूः धीरघूः प्रकारान्तरैश्च युगयुग्ययूः यूनां योनिः प्रभूणां प्रवहणी वसूनां विषयिणी नितरां नणां नाकनिष्ठां नीत्वा कार्यान्तरायेष्वपि कण्टकशोधनं कारयन्ती विजिगीषारसरसिकान् जनयन्ती धर्मार्थशास्त्रानुवृत्तिविश्रितान् भावानुत्थाप्य राक्षसवृत्तोन् नृपशून् क्रव्यादानिव हेतिततितरङ्गितान् विधाय विनाशमापादयन्ती चातुर्वण्यैकधात्री भ्रातृधर्मकभी मोह- विक्लवान् वराहानिव राक्षसान् मारयन्ती युगे युगे सर्वर्तुवृद्धान् शरदृतुशुद्धान् योधान् योजयन्ती उत्तरे सीमारक्षक भूता सर्वदैव देशस्य स्वातन्त्र्य साधिकैवाभवत् । धर्मैकग्लानिः सुजनैकहानि: क्रिया कलेः क्रौर्य कृतित्वमेति । सद्धर्मसद्भावप्रसारणाय यौगन्धरियोगगतित्वमेति ॥३२॥ पुरा पौराणकालादेव भारतेऽस्मिन् दर्शनमिदं गुरुशिष्यपरम्परया श्रोत्रविधेयीकृतं प्रथीयतेतमाम् । देवभूरियं म्लेच्छरुद्विज्यमाना सती दशावतारेणापत्पयोधिमग्ना संतारिता । वेदानुद्धत् केशवेन प्रलय- पयोधिजले मीनशरीरमेवाहितम् । स एव पुनरपि कच्छपरूपमाधाय विपुलतरे स्वपृष्ठे क्षिति बभार । नृसिंहरूपश्च स: हिरण्यकशिपुं विदार्य प्रह्लादं र रक्ष। त्रेतायुगे च त्रातुरभावे विदुष्यपि सति दशमुखे राक्षसे विपरीतबुद्धौ ‘त्राहि त्राहि' कुर्वन्तीषु प्रजासु रामशरीरी केशवः जगदुद्दधार । द्वापरे च देवदानव भूतानां पाण्डवकौरवाणाम् धराधारणाय वीरवैरागिचरितम् विद्रोहरोहे देवैः ध्रियमाणा धरा धृता धर्मधृता तेनैव पुरुषोत्तमेन । कलिकाले च कलिरेव कलाकृत् क्लेशैकक्रोडो क्रौर्यक्रोडाकृत एव क्रोडी- कृत्य क्रिया: विक्रिया: विधाय धर्माधर्मभावैक्यं दधानः धरा धर्षयामास । च धृतिमान्धीरश्च कोऽपि वीरः वैरिविभावसुविद्राणवेशी विश्वम्भराभृदवतारतारी म्लेच्छनिवहनिर्वाहे च करवालकरालकर्मी धूमकेतुकेती कल्किकायकृत् कष्टावस्थासु काले काले क्लेशनाशको बभूव । एकच्छत्रराज्यप्रत्यावर्तनाय च चाणक्यश्चन्द्रगुप्तं चन्द्रमिव कृष्णविभावरीषु म्लायमानमवलोक्य सूर्यप्रतिमः सन् स्वयं तेजः प्रसरप्रसृत: तेजोविए॒षो विनिवर्त्य शुक्लपक्षपरिवृढीकृत्य पर्वणिपर्वणि परिभावयाञ्चकार । यवनाक्रान्तेश्च राहुजिह्वाया इव घस्मरणात्परित्रातवान् । द्विरश्वमेधयाजी च शौङ्गः पुष्यमित्र: सेनापतित्वे स्थितोऽपि पलङ्कटं बृहद्रथं मौर्यवंशदूषणं पृतनापरीक्षायामेव पेषयित्वा पलंकषप्रायपुरुष पेशलात् परप्रधर्षणात् पृथ्वी परिरक्ष्य परिरक्षको बभूव । पश्चाच्च पुरुषपुराधितिष्ठता कुषाणसम्राजा कनिष्केण कालकालादुत्तार्य धराधूः धौरेयधुर्यधृता कृता । सुगुप्तिगुप्तैश्च गुप्तवंश्यैः सम्राभिः म्लेच्छरुद्वेज्यमाना भूः परम्परावाप्तोपधाभिः स्थैर्यमानीय शतकत्रयमन्दानां राज्यक- परम्परायां प्रोता स्यूता च । चन्द्रगुप्तो द्वितीयोऽपि सम्राड्विक्रमा- दित्यपदवीमवाप्य सप्तपञ्चाशत्कोयखीष्टीयपूर्वीये वर्षे मालवानां गणस्थित्या युगान्तरेऽमरत्वमाप्त: विक्रमसंवद्भाग्बभूव तेनैव प्रशास्त्रा सिन्धोः सप्तमुखानि तीसिमरे बालिकाः निजिताःतेनैव स्वभुजाजितं चैकाधिराज्यं क्षितौ व्याप्य विष्णु पदे गिरौ विष्णुध्वजः स्थापितः स्तम्भरूपश्च यो ढिल्लीनगरे मेहरौलीस्थले समुच्छ्रितो वर्त्तते । स एव सम्राट् कुन्तलानामधिष्ठाता प्रभावतीगुप्तां वाकाटकाम् स्वपुत्रीं मृत- भर्तृका मवलोक्य कुन्तलेश्वरदौत्यभृतं कालिदासमल्पवयस्कयो: सतोः दामोदरसेन दिवाकरसेनयोः तस्याः सभायां प्राहिणोत् कुमारयोश्चैकः प्रवरसेन द्वितीयरूपः सेतुबन्धकाव्यकृत् कालिदासेनैवसाह्यदानाय परिकीर्तितः । कुमारगुप्तश्च कुमारकात्तिकेय इवापरः चन्द्रमौलेश्च चन्द्रगुप्तस्य सूति: तस्यैवात्मनः प्रतीकः निजमात्मानं प्रसूयस्कन्दगुप्तरूपे स्कन्दाभिधेये कुमारेधृतधराधुरीण: हूणान् दानवानिव यमसदनं निनाय । पुष्पभूति वंश्यनरवर्द्धनराज्यवर्द्धनादित्य - वर्द्धनानुगतश्च प्रभाकरवर्द्धनः हूणैणमृगादनः सिन्धुराजज्वरः गुर्जरनिद्रामोषी गान्धारराजगन्ध- गजगण्डरोग: लाटलौल्यलुण्टाक: मालवराज-राज्यश्री बल्लीकर्तनकुठारः -- ११ মুখ মন ভবঃ प्रतापशीलापरनामा राज्यवर्द्धनहर्षवर्द्धनजनयिता राज्यश्रीरूप राज्य श्रीसुता सौभाग्यवर्द्धनः कान्यकुब्जकुमारं मौखरिसम्राडवन्तिवर्मणः सुतम् ग्रहवर्माणं प्राप्य जामातरं एकच्छत्रराज्यां क्षिति हस्तगतां चकार । परं भाग्यानामुच्चावचभावप्रभावात् राज्यवर्द्धनः अचिरा- धिष्ठितराज्यः सन् प्रकृतिष्वरूढमूलत्वात् गौडाधिपेन शशाङ्केन स्वनामधेय वैपरीत्यभावादाहुणेव ग्रस्त: शशाङ्क इव विलयं जगाम । ग्रहवमां च मौखरि: तथैव सुषुप्सुः राजनीतिव्यवहारेषु गुप्तारातिना मो देवगुप्तेन मालवराजेनावस्कद्य विक्रान्तोऽपि सन् षाड्गुण्यविरक्तः प्राणै: वियोजितः । हर्षश्च दूनश्चेतसि भावुक्यावेशविष्ट: सन्नपि पितुर्मरणोपरान्तं मातुरनुमरणध्वस्तसत्त्वो भ्रातुरावुत्तस्य वधद्वयमवलोक्य विगतसाहसोऽपि साहसिक साहसोत्सादन कृतोत्साह- शक्तिः प्रभुमन्त्रशक्तिभ्यां स्वसत्त्वमुपाश्रित: गौडाधमं मालवराज च समं करवालकृत्तकन्धरौ कृत्वा राज्यश्रियं विन्ध्यवनात् श्रमणाचार्य- दिवाकरमित्रसाह्यात् अनुमरणात् समय एव परित्राय्य विन्ध्याटव्यामेव ताम् बौद्धागमगम्य व्यवहारां सम्पाद्य स्वं च सौगते मतेऽऽस्थां विधाय स्थाण्वीश्वर कान्यकुब्जाधीशत्वं लेभे । चालुक्यसम्राट्पुलकेशिना द्वितीयेन च पराजित: कमपि प्रदेश राज्यात् मुक्तवान् । एवं सति भरतभुव इतिहासे विग्रहद्वैधीभावविभवो बभूव व्याप्तः परस्परं कलहायमानाश्च नृपतय: नृणां पतित्वमपहाय नृशंसपतित्व- प्रियेभ्यः श्वापदेभ्य: स्थलं प्रदाय मात्स्यन्यायनिष्ठापराः बभूवुः । गुर्जरप्रतिहारा: राजपुत्राश्च रामप्रतिहारलक्ष्मणलब्धजन्मानः स्वाधि- पत्यम् राजस्थानाभीरायणादिषु प्रदेशेषु जानपदेषु च प्रस्थापयाञ्चक्रुः । दक्षिणस्यां च दिशि पालाश्चोलाश्च प्रविभासमाना: राजपुत्रायणं बृहत्कायराज्यमेकच्छत्वायत्तीचक्रुः । दैवदुर्विपाकाच्च परस्परं कलहाय- मानास्ते जयचन्द्र पृथ्वीराजप्रभृतयः संग्रामसिंह-प्रतापसिंहप्रभृतयश्च राजप्रमुखा: अन्तरङ्गद्वैधीभावभग्नदेहा: वीर्योदग्रगविताः एकैकशोऽ- प्रतिरथाः सन्तोऽपि संघाभावात् सशक्ता अपि पुरुषार्थहीनाः निर्भीका अपि द्रोहि भेदभिन्नाः सदण्डचक्रा अपि सोद्दण्डचक्रिलाः साग्निबाणा अपि विषाग्निभाणभग्ना: दुर्दान्तदण्डधृद्भिः शस्त्रास्त्रप्रयोगकुशलः संधैकधुर्यः विग्रहग्राहगु पिलैः क्रव्यघस्मरैः क्रव्यादैः क्रौर्यककर्मभिः शौर्यैकधर्मभि: विघ्नः पुन: पुनरपि प्रतिहन्यमानैः धैर्यैकसारैः षशुमार मारणशीलैः श्वापदैरिवालीः व्यात्तदंष्ट्रालैः मुखैः ग्रासीकृताः १२ वीरवैरागिचरितम् युगान्तरेषु युगनिधनकल्पं कल्पमाधाय शिवनिभान् युगवाणविधि- त्सूनेवसमपेक्षयन्। परं परम्परानुगता च सा सभ्यता भारतीया युगे युगे योगनिष्ठत्वमाप्ता सांख्येन संख्यानशीला सत्कर्मपरिणामपेशला दुष्कर्मदुर्भावविश्वासिनी चरमे धर्मसापेक्षित्वात् साधुजनत्राणपरा दुष्कृद्विनाशविधिविधायिनी-. नष्टाः विधेविकारात् ते यूनानमिधरोमकाः । सहर्मरागरजिम्ना भूर्भारती तु रक्षिता ॥ ३३ ॥ इति दर्शनदिग्दर्शनदक्षा विकटविध्वंसदोहे सङ्कटदुर्दैवरोहे स्वाभिमानसत्यापनाऱ्या प्राणात्ययेऽपि प्राणपणनपुण्या वीरनामाग्रणि- ग्रासेऽपि वीर्योदग्र्यध्यानशीला धौरेयधामदाहेऽपि यौधेययागयुक्त यातनायातुधानधृतापि शातनाश्रान्तश्रुत्या म्लेच्छमारणमध्यमस्वरो- त्थामार्जनेवाग्लेच्छिता मूर्छामूर्छनामुक्तमोहत्वात् मुद्गरमृद्यमान- मानवमुखमानमानितापि दानवदुःखदानर्मिणी वृश्चिकैर्वृश्चितापि विषवृक्षवल्लीका वंशावलिविलयलूनापि वंशवल्लरीप्रासाद्यानेक- शस्त्रास्त्रसामग्रीसामजसमाज सामञ्जस्या मानहिंस्रैरपि दुर्मनायमाना शमप्रधाना दुर्दान्तधूतैरपि धर्यमाणा धैर्यधना क्रौर्यककृद्भिरा- कृष्यमाणा सदाक्षिण्या कदनकेतनकिङ्करैराकूताऽकिङ्कर्त्तव्यविमूढा सद्भावसौरम्यसुरम्या सच्चरितसौधसुधाकरा, दुश्चरित दोषदवानला, सुधीसद्भावसुखावहा दुर्धीदुर्भावदुःखाकरा नकालकवलनाढ्यं कलिं कुत्सितकर्मशर्मणे शौर्यसम्पत्प्रसारणं प्रवणमन्वजानात् । अनन्यजातांश्च जातकान् जनयित्वा जन्यजन्मजिघांसया जन्मनि जन्मनि जिजीविषतो जनानुदजीवयत् । तस्यां भुवि प्रकृतिक्रोडप्रक्रीडच्चिक्रोडाक्रोश विक्रोशव्याप्तवृक्ष- वीथिविन्यासविशदायां प्राकृतवनितेव प्रकृतिवनितावेषाकारा नववयो- विरावगीतमाधुरी मुखरशृङ्गारा पुष्पप्रकरपरिकरशृङ्गारा भृङ्गारा- वभरितपद्मकोशविकोशविशालचक्षुषी द्रुमदलदीर्घालकप्रतानासु सरि- त्तरलतरङ्गावर्तनाभिचक्रा, हंसश्रेणिक्वणितरशनागुणा वियच्चन्द्रोपक- चञ्चच्चन्द्रतारकतारकितविचकिलविकासविलासलसल्ललाममुखराग रञ्जितगैरिकगिरिगह्वरगुजनिर्झरझाङ्कारमिश्रझिल्लिकानादनिनदित- हरनादशिञ्जितनादेयवारिपरीवाहपरिवारप्रियपतिवरा, असिताब्द- मुक्ताम्बुविसरसुधारस सरसशस्य शाकश्यामलशरीराकारा, उशदुषस्य- वधूविस्मय स्मितस्मेरवदना रविन्दविकासविहितवेशपरिवेषा कलित- । . * - अथ प्रथम उच्छ्वासः १३ - कौमारभृत्या मलय दिवाकरवरकरा केसरकुड्मलकोशकेश संस्कारसम्भारा, शर्वरीशबरी- संवाहिकासंवाहनकर्मप्रसाधना चन्द्राचिचञ्चच्चत्वरचारु - हासिनी निशान्तसुखसुप्तोत्थितकूजत्क्लान्तकपोतकुक्कुटकुलकुलायाकुलचैत्या रामदेवकुला, साभिसाराभिसरणसौष्ठवापादनप्रतिपत्तिपेशल प्रति- पच्चन्द्रतारकोल्मुकगणगुणहार हराभिसारिका, निर्झरनीरनोहारासार- सरित्स्रोत: स्रावपरिसारविहारहृद्धारिणी हरिणीव हरितशालप्रचारा राजपुरी नाम नगरी। नगनदनीरारावरौद्रदरीद्वारदोहलेयं पुरोत्तरस्यां दिशि पीर- पञ्जालपाशिता पाश्चात्यभूधरधरायां च पुञ्छ कोढयोनप्रदेश पेशला दक्षिणस्यां च भिम्बरभारिणी पौरस्त्यभूधरधराशायि - चन्द्रभागा- सरित्स्रोतसी अकृष्टपच्यसस्यसम्पत्सारणी प्रधृष्यदोर्दण्डधार्येकवारणी वारुणीगण्डूषसेक सुकुमारकुमार विश्वम्भरविश्वम्भरा- भरभूभृद्भवभावनीना पिककुलकलरवारावितसिताशा चञ्चरीकचारण चरणचारचारिचमत्कृतारण्योद्यानपालीका मधुकाल कलिकाकोर- किताधर रागपरागपीतासवमत्तमधुपपरभृतप्रोत रतिराग गौरवा उल्लिखितमनोभव मन्त्रमुग्धमृगमदाङ्कवासितदृषद्धरीणा, मारुतमन्दचारचारित रुणतरुततितीर्ण करि - कोकिलकलकला, शष्य- श्यामपटावगुण्ठिताद्रिदेशा साक्षादृतुराजाकारेव रङ्गत्तरङ्गरङ्गिणीत- रङ्गिणीतोय शृङ्गारदर्शिनी कमलिनीकमल कुवलयकह्लारकुलगन्ध रसलुब्धालिवृन्दविहारवर्तनो प्रसूनगुल्मलक्ष्मी क्रोडलालितरसालद्रुमा- मोदसामोदा तरुणतरुणीतर - स्विनीनिम्नगा - करेङ्गिताकारर्मिणी 'वीरसूरिति' विख्याता वीरं सुतमेव सुषुवे क्षुद्रकृषाणकुले रामदेवगृहे भारद्वाजगोत्रीय राजपुत्रप्रवरीये लक्ष्मणदेवप्रख्यं देवलक्ष्माणम् जनानां दासित्वाल्लक्ष्मणदासापरनामानम् । रामानुजलक्ष्मण इव सल्लम- भृल्लक्षणविद्रामदेवात्मजोऽयम् लक्ष्मणदेवो देव इवापरः सद्धर्म कर्मानुयायी लक्ष्यलक्षणविज्ञ: दारिद्रयदोषैकभागी तेज: पुञ्जप्रतापी प्रक्रिया पाशपुष्ट: विक्रियाभारभ्रष्टोऽपि सक्रिया भावजुष्टः बाल्ये विद्याव्यवहारलम्पटोऽपि तदुपायाभावप्रभावात् विद्वान्नैवाभूत् । पर- मुपायरहिताः प्रप्यपायविहता: सन्तोऽपि स्वभावप्रतिपत्तिप्रकृष्टत्वात् भगवद्दायोपात्तदायित्वाः दवीयोदेशाद्रिदरीदृषद्राशिप्राकारपरिकरिता अपि स्फूर्तिस्फुरत्तारक स्फुलिंगा इव वह्निवृष्टिमन्तः प्रदीपाकाराः जगद्व्यापि विद्रोहद्रोहसंविष्टाशिविषविसर्पान् स्वधैर्योत्साहमूल १४ बीरबैरागिचरितम् मन्त्रौषधिप्रभावैः प्रोद्भाव्य निष्प्रत्यूहं निष्प्रभावानाकलयितुं सुप्रच्छन्नमपि रूपम् प्रत्यक्षं कुर्वन्ति । प्रत्यक्षीभूताश्च ते परोक्षानपि भावान् स्वदिव्यचक्षुषा चेतयन्तः निश्चेतनेष्वपि चेतनां चारयन्तः प्रकृतेविकृतिवर्धकान् वृत्रानिव वृत्रघ्नाः बृहत्कायाजगरानिव व्याधा: सद्वृत्तिव्याप्ति बाधकान् विषयान् मार्गकण्टकानुन्मूल्य संशोध्य वा वपुर्विकारकविद्रधिदद्रूनिव दारयन्तः दृष्टनष्टा इव तरलपदार्थाः तरङ्गबुबुदावर्त्तवृतिवर्तुलाः निमित्तभेदैः भिन्नाः निमित्तानीव निम्नोन्नतविनतिपरिणति प्रवणाः प्रकामत एव भङ्गिभावभङ्गुराः भीविकारविद्विष्टाः धीसंस्कारसंयुताः अनाशिन्यप्रमेयेऽऽगमा पायिन्यात्मन्येव स्थैर्यबुद्धि दधाना: विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः धैर्यैकधनाः कूलंकषसरित्प्रवाहानिवोपद्रवकारिणः धर्षयन्तः कायम् कल्यवत्तं कलयन्तः दुरन्तपूरामुदरदरीम् दृप्तारिरक्तपानपिपासयैव पूरयन्तः प्राणपणेनापि पणितमत्यजन्तः प्राणाहुती: विद्विड्विद्रोह- रोहदाहविभावसौ विधित्सन्ते । धर्मनाशे सम्भवति अधर्मप्रादुर्भावे च साधुजन परित्राणपरास्तेदुष्कृतां विनाशायैव कल्पन्ते । प्रथितमिदं तत्त्वं यद्भरतभुवि सौमनस्याभावात् वैमनस्यप्रकोपाच्च परस्परकलहायमानेषु राजसु राजपुत्रेषु सामन्तेषु च दुर्दैवदुर्विपाकात् मोहम्मदाः सामयिकशस्त्रास्त्रप्रयोगकुशला: स्वधर्म संरक्षणमात्रव्यापारा: मतैक्यजुष्टाः सौहार्दपुष्टा: संघसंचारिणोऽनर्थाः इव छिद्रेष्वात्तव्य- वहाराः मर्मसु स्फोटयन्तः सन्धेरभावाद्विग्रहमाश्रयन्तः प्रहारेषु प्रहृताः यानमादधानाः आसनावस्थासु च द्वैधीभावमुत्तानयन्तः विजयिनो भूताः देशस्य प्रशास्तारोऽभवन् । मंगोलदेश्याः मुगला: बर्बर बाबरात्प्रारभ्य शासनम् हुमायूं-अकबर जहांगीरशाहजहानादिसम्राजां पौर्वापर्यं परिलभ्यावरङ्गजीवशासनं धर्मसव्यपेक्षित्वप्रकोपदुर्धरमदुः । स्वधर्मसव्यपेक्षी बाबर: स्वसाम्राज्यप्रतिष्ठापनाकाङ्क्षी बर्बरवृत्तिमापद्य भारतीयसम्राजां राणासंग्रामसिंहादिप्रमुखराजपुत्राणां प्रहारैःप्रहृतो- ऽन्ततो विजयं प्राप। पित्रोपात्ते राज्ये पराभवदलितासु प्रजासु हुमायुसम्राट् सुखेन प्रशशास । शेरशाहनाम्ना केनापि सामन्तेन परास्तः सन् स: राज्यात् च्यावितः। शेरशाहश्च प्रजाहितार्थी प्रजानाम् पूर्णतया परिरक्षको बभूव राजमार्गोद्यानातुरालयप्रपाकूपप्रकारान् प्रजासुखापादकान् विपयान् विनिर्माप्य प्रजानां प्रेयस्त्वमापत् । परं हुमायु: पुनरपि तं पराजय्य प्रशास्ताऽभूत् । तदायतिश्चाकबरो त्वम् न अथ प्रथम उच्छ्वासः १५ भारतधर्मसव्यपेक्षी हिन्दुभावसद्वृत्तः स्वसभायां बीरबलतानसेनादीन् प्रमुख कलाविदो निधाय राजपुत्रसम्राभिः सम्बद्धश्च सन् देशैक्या- च्चक्रवतित्वमापन्नः सुवर्णयुगस्याविर्भावमापादयत् । परम् जहांगीर शाहजहानयोः शासने अकबरोपात्ततत्त्वानां ह्रासोऽजायत । शाहजहान सुतजयकलहेश्वरङ्गजीव विजयो वंश विनाशवृत्तिवर्धक एवाभवत् । तस्मिन् शासितरिसति इस्लामवादप्रभावपरिभावपरिभूताः प्रजाः स्वधर्म धर्षणर्षिताः जातिसम्मर्दमर्दिता: 'त्राहि त्राहि' इत्युच्चै रुच्चु- क्रुशुः । यस्मिश्च राजनि प्रतकितेस्लामविस्तार प्रसारभावे वसुमती प्रशासति साधूनां पीड़नं नेथूणां अविद्विषां दिव्यग्रहणं न वयसाम् , पदे पदे विग्रहो न चैव सन्धिः, स्त्रीणां गलग्रहो न तिमीनाम् , बहुलासु रात्रीषु पादाकृष्टयो न गूढचतुर्थकानाम् , सुकविकाव्यविस्तरेषु क्षति- भावदर्शनम् न कुकविभावदर्शनेषु, विद्रधीनां वृद्धि!दग्रधीमताम् , सुविपुलयशसां तर्जन ताडनानि निधुवनक्रीडासु भर्त्सन मारणानि, द्विजातिहिंसासु शाखोद्धरणम् , धीमताम् लाभेऽसद्व्यवहारप्रवर्तक- श्रीमताम् , सद्वृत्तिव्यवहारदक्षमानवेषु दानवत्वम् , धर्मशर्मगवेषकेषु बन्धव्यधमारणानि, अनक्ष जिताम् निर्दोषित्वम् , साधुत्वेऽन्यायदर्शनम् अवैदुष्ये संख्यानभावः, रागित्वे योगप्रयोगः, वैशिके वैशेषिकमतम् , अद्रव्यत्वे द्रव्यत्वभाव:, अब्रह्मण्ये ब्राह्मणत्वम् , विरोधे सांमनस्यम् , म्लेच्छधर्मसव्यलीकत्वे निळलीकत्वम् , ब्रह्मचर्ये भ्रमचारित्वम्, गार्हस्थ्ये परदारापहरणम् , वनोषिते वन्यौषधिशातनम्, सन्न्यासे च सन्न्यासनाशनम् , अनाहारेऽपि निराहारित्वम् , धरा- शयितेऽपि प्रभावित्वम् , समागमेऽपगामित्वम् , प्रणतावप्यप्राणित्वम् , संस्तवेऽप्यपमानित्वम् , धैर्येऽपि दोषित्वम् , शौर्येऽप्यपराधित्वम् , क्रौर्ये सद्भावित्वम् , चौर्ये सम्मानित्वम् , वैरे विश्वासित्वम् , दर्प सौहार्दम् , दम्भेसौभाग्यम् , शमे भीरुत्वम् , दमेधार्ट यम् , दाने दीनत्वम् , कलाकौशलेऽपव्ययित्वम् , संगीतशास्त्रप्रयोगेऽपराधित्वम् , सद्गीतगाने जघन्यत्वम् , श्रुति श्रवणे कारागारित्वम् , स्मृतिसरणेविस्मारित्वम् , विद्वज्जनापकारित्वम् , सहृदयहृदयहारित्वम् , सौभाग्यसौहित्य हेतित्वम् , भारतीयानामभून्न मौहम्मदानाम् । यश्च क्रौर्यक्रियालुर्दर्पमात्सर्यभूयिष्ठो न्यूनपक्षीयाणामवनत्या तुतोष न प्रसत्त्या, निजधर्मध्यानव्यसनीं जनानादितयाऽप्रीयत न कृतज्ञतया, दुरात्मीयबुद्धिः कार्याणां हिंसनेन जहर्ष न सम्पादनेन, लक्ष्मीलालन- - . , १६ वीरवैरागिचरितम् लम्पटो देवस्य दौर्दम्यत्वे दूनचेतोऽभूच्छूनशरीरश्च शातनशतशम्यो नैव । संगर श्रीसंविभागशौण्डश्चस्तेनदस्युप्रियोऽभून्न तु सौहार्द सौहित्य- प्रेप्सुः सौभाग्यजुष्ट: धैर्यव्यक्तिकामो व्यसनेषु मन: प्राससञ्ज व्यसन- युक्तमनसां मोक्षे तु नैव। अविनयबाहुल्यदर्शी विनतानाम् मूर्ध्नश्चकर्त अभद्रसारवर्षीमूढानां मतिं प्रशशंस, अलब्धलाभार्थी चापि लब्धप्रणाशी, अरक्षितलब्धश्च विवृद्धिद्वेषी, विवृद्धिमुक्तश्च तीर्थप्रतिपादनपरवशः परमर्मस्फोटनपरः परधर्मत्रोटनतितिक्षुः स्वमतावलम्बिलिप्सुः परमत- भेदनभिक्षुः, भैरवाकारो भीभृताम् , शौर्याचार्य: श्रीमुषाम् , धैर्याधारो धीमुषाम् , मृत्युरिवापरो मनोमुदाम् , मृगयुरिवेन्द्रियमृगाणाम् , हृद्यपि हर्ष नोवाह विहितविविधविधोपधाधृद्धृतिवृत्तिवृत्तेभ्यः । यस्य च प्रतीपभाव एव प्रतापो विद्वेष एव विलासः परपरिताप एव परिहासः विभवनाश एव प्रकाश: विद्वध्रास एव विनोदः दुरोदरधौर्त्यमेव विनयः कुराणकर्मैव कृत्यम् पुराणमर्मैव भेद्यम् ; किं बहुना, बाल्य एव सोऽतीवोद्दण्डो ज्येष्ठभ्रातृकदनेन पितृबन्धनेन च बद्धपरिकरो गृहकलहे, कलिकाल इवाकीर्तिमान् बलिरिव बलीयान्, अधर्म इव द्रढीयान् अबलानामपकर्षणे रेमे न परिरक्षणे सतीनां सन्तापे सन्तुतोष विलापेऽविह्वलो बभूव । असतां सन्तोष सञ्जहर्ष न विलोपे। सतां सम्मोहने समतृप्यत् न संज्ञापने । विशां वेशपरिवेषे विह्वलोऽभून्न परिमोषे। ब्राह्मणानां भर्मभोगे भर्तत्वमवाप क्षत्रियाणां क्षतात्त्राणपरत्वे मात्सर्यमुवाह शूनासुदारणपरांश्च शूद्रानेव शून्योदरान् विधायानुदारधी: शुल्कदानैः दायविभागैश्च दुर्दैवदुर्विपाकात् कौराण- परिपाट्या परिवर्त्य पराभवनिरीहान् परिभवनिष्प्रत्यूहाँश्च भावयित्वा भृत्यभूतान् भृतिभरान् भारयित्वा भुवि भारतीयताकलङ्ककूटान् कृत्वा पदोन्नतिभिः प्रलोभ्य परिवारैरेव सम्भाय स्वसम्बन्धिसौभाग्य सौधमधरी चकार । आततायिनोऽस्य हेतिततितष्टतालवोऽनेके युवानः सौन्दर्यप्रतिमाः बालाः प्रवरवयोवृद्धा: वृद्धाश्च इस्लामतावलम्बालिप्सुकाः पञ्चत्वम- वापुः । पञ्चतत्त्वतिरोहिताश्च तिरस्कारतीक्ष्णदाहदग्धाश्च तेऽसृक्- प्रवाहपूरैः स्वजन्मभुवो भक्तिमत्त्वमगमन् । परासवोऽप्यनपास्तासवस्ते युगपरिवर्तपरमाणव इव परमर्मघट्टनकुशलान् कृशानुस्फुल्लिगानेव स्फारयामासुः। साक्षादस्य देशस्य शिवस्पृहः संसारसम्भवस्थिति- १७ अथ प्रथम उच्छ्वासः संहार हेतुभूत: मदनदहनोऽप्यमदनदहनः विषमलोचनोऽप्यविषमलोचनः विश्वम्भरोऽप्यविश्वम्भरः विभुरप्यविभुः पृश्निरपि प्रांशुः विष्णुरप्य- विष्णुः अंशावतार इव वामनस्य त्रिविक्रम: शक्तिसिद्धित्रयेण, षाड्गुण्यो- पयोगभोगी, सामप्रधानोऽपि दण्डप्रधान: दण्डप्रमाणोऽपि भेदप्रमाणः सान्त्वापकृदप्यसन्त्वापकृन्नु पुण्यैर्जनानामपुण्यजनाभिमानी पुण्यकृतां पौर्वापर्यप्रणेता, म्लेच्छगोमायुकेसरी महाराष्ट्रवीर: शिव इव जगतां राजा शिवराजो बभूव । यश्च संगरश्रद्धालुः यवनाधमाधरीकृतपौरुषाणां भारतीयानां जनजीवनसमाजसौमनस्यभावापादनबद्धपरिकरः स्वल्पसैन्यसनाथोऽपि कौटिल्यकूटकुटिल: प्रवदवतोनिलीयाद्रयाखुविशेषणदूषितोऽपि महा- राष्ट्रसिंहः सवनादैः खड्गशक्तिभुशुण्डिभारभरितैः सैनिक: तापस- व्यञ्जनैश्च प्रणिधिभिः गूढसञ्चारव्यवहारपेशल: तीक्ष्णाग्निरसदां- श्चाद्रिदरीषु गोपायित्वाऽवरङ्गजीवसाह्यदमपजलखानं विजयपुराधीशं पण्डितगोपीनाथद्रोहविद्रोहणूनचेतसं स्वकर्तर्येव परस्परसमागमकाले संजघान । तथैव च यवनाधमदानववृत्तिवृद्धांश्चानेकान् नरकपालान् वनिताविदूषकान् नरकपालघस्मरान् भल्लूकानिव भल्लशतैः शातयित्वा यवन श्रीमोषणमकरोत् । नानकगुरोर्गौरवगानगुप्ता च भरतर्षभाणां श्री: म्लेच्छदानव- वृत्तिदाहप्लोषशेषारुणिता सती अङ्गदामरदासार्जुन हरगोविन्दहरराय. हरकृष्णतेग़बहादुरप्रख्यान् स्वसुतान् चतुरुत्तरपञ्चदशशततमात्खीष्टा- ब्दादारभ्य पञ्चसप्तत्युत्तरषोडशशततमाब्दपर्यन्तम् गाढसंघर्षघृष्टान् स्वाशीभिः वर्धापयित्वा धर्मपरिवर्तनक्रौर्यशौर्य विद्रोहरोहे प्राचोदयत् । पञ्चापपुण्ये प्रथिते प्रदेशे परम्परायाम् गुरुनानकस्य नवमो गुरुगर्गौरव- गानगुप्त: श्रीतेगबहादुराख्यः नवमः स्फुल्लिङ्ग इव तेजोराशे: गुणैर- ननो विश्वजनीनरूपो रौद्राकारोऽजगर इव दानवदवदावदंदह्यमानो विरूपाक्ष इव विरूपिताक्ष: आर्यावर्त्तवास्तव्यः आर्यवृत्तिविशालः विशालवक्षाः वक्षस्यनार्यकारीणामनार्यकारिणामनार्यकायेंः प्रहारा- वलेपान् तितिक्षमाण: दुदिनान्धकारपरिवारपरिम्लानतेजः प्रसर इव तरणिः तमोगुणगाढावलेपलिप्तलोहितास्रलोलुपान् ब्रह्मघ्नान् अघ्नीघ्नान् देवप्रतिकृतिभाकान् यवनाधिराजराजाध्यक्षान् विलोक्य सिंहोरुसत्त्वः नृसिंह इवापरः नृमांसभक्षान् वेतालानिव नरकपाल- मुण्डमालालयेषु श्मशानप्रायवैशसस्थलेषु च विभाव्य करुणाईचेताः वीरवरागिचरितम् सुरम्यारामरमणरमणीय रमणीरामणीयरागाङ्गभूतचत्वररङ्गम् स्व. मार्यदेशं दयमानः स्वजन्मभूमातरं चोदासीनां संविभाव्य यवनाधिराज- विचारविरोधितत्त्वभूतसत्त्वसंहारसंकटविकटावस्थावसथं स्वं सोपाल- म्भमेव तिरस्कुर्वाण प्रात्मानं तस्या: निरीहं सुतं चाकलय्य लज्जमान: यवनाधमकरटिकटिकुत्सितकर्म च जुगुप्समान: एकमेव जातकं गोविन्दसिंहं जननीद्वयक्रोडक्रीडापरं खे जले च केलि कुर्वाणं शशिन मिव जनयित्वा स्थानात्स्थानं भ्राम्यन् मानन्दपुरात् पुरात् स्वात् निश्चक्राम । निर्गतश्चासौ पाटलिपुत्रधामादिप्रदेशान् हिण्डमानः शिष्यवर्गाय स्वकर्त्तव्यं च शिक्षयन् यवनाधमस्य हिन्दूद्विषोऽवरङ्ग- जीवस्य विनाशाय बद्धपरिकरो गतः आग्राप्रदेशं भृत्यैर्यवनराजस्य राजापकार्यपराधदूषितः राजापायशङ्कया द्रागेव निगडितो दिल्लीपुरं निन्ये । नीतश्च क्रूरान्तरात्मना यवनाधिपेनावरङ्ग जीवेन इस्लामधर्म- दीक्षापरत्वाय प्रचोदितः प्रषितो बाधितश्च यदा नामन्यत सः तद्धर्मदीक्षास्वीकृति तदा तस्यैव पुरस्तात् तस्य शिष्यो मतिदास- नामाऽऽशीर्षपादं प्रविदार्य देहं दयालुसंज्ञोऽप्य दयालुकस्तैः ज्वलज्ज- लकटाहे प्रक्षिप्तोऽतिराक्षसं च तत्कर्म प्रत्यक्षं विलोक्यापि यदा स्वधर्म- निधनापेक्षी न मनागपि चचाल चेतसि भयावहामिस्लामधर्म च न स्वीचकार तदा शिरः कर्त्तनमस्य निदिदेश नराधमः । नारिकेलसहितं पणपञ्चकं गोविन्दगौरवदीक्षाचिह्न विकल्प्य शिष्यान् स्वसुतरक्षणाय विज्ञाप्य निजान्तकालमभिसमीक्षमाणः पानीय चान्दनिचौकनाम्नि विशालचत्वरे इष्टिपशुमारं मारणाय निर्णीतः वन्यविहिंस्रश्वापदैरिव वधकैस्तत्र शिर:कर्तनाय कल्पितः वधकेन केन सर्वजनसमक्षमेव कबन्धा- नि:शिरस्क: कृतः। शिरस्तदस्य कृपाणलून: विचेष्टमाण एव कबन्धा- द्यावदेवव्य युज्यत तावदेव हाहाकारध्व निरुज्जगाम सर्वशः । नराधम- नारकीणनृशंसनानाराशंस्यं नैर्घण्यनिष्ठं निरीहं नृत्यत्कबन्धक्रूरं कर्म तदीयं विभाव्य विधिनापि वेधोविकारमाकलय्य जगतामपुण्यरेव पुण्य- कृतोऽस्यापुण्यभावत्वमापन्नमिति विश्वासो व्याप्तिमापत् । तेग- बहादुरस्य 'तेग़' तिग्मधाराधराशायितमुत्तमाङ्गमुत्तममाङ्गत्वमवाप रजोरूषितं सदपि धुषदां शोकसौहार्दसंवेदनापरत्वात् । अथोच्यते हि पुंसामपुण्यैः पुण्यैर्वा दुर्भाग्यसौभाग्यसम्पत्संविधीयते । अत एव पुण्य- भाजां केषां शताब्दचतुष्टये वेदविद्याविनाशविनष्टचेतसामनिष्टारिष्ट- रोषदोषत्वाद्यज्ञहोमाहुतिहुता: इष्टिपशुमारं मारिताः आबालवृद्धं स्त्रीपुरुषाः परं धर्मग्लानावधर्माभ्युत्थानावस्थायां धर्मस्य पुनरुज्जीव- সুস্থ মুখ ভদঃ १९ + नाय महात्मनाऽनेन तेगबहादुरेण स्वप्राणाहुतिदानेन स्वदेशिभ्यो नव एव पन्था: दृग्गोचरीकारितः । कृत्तमात्र एव शिरसि वपुरस्य विचेष्ट- माणं यवनाधमसंत्रासात् न केनापि संस्कारविधेयीकरणायोत्थापितं विधेश्च विलासात् प्रकृत्यापि शोकसंवेदनमाख्यातुं रोषाविभूतये भीमरूपस्य वात्याप्रकोपस्यावेश आविष्कृतः । दिक्षु च वेखालताल- तरलायमाना: विरेसुः विदीर्णकलकण्ठनादाः शिवाः । प्रतिभवनं चाट्टालकोपेता: करुणं चुक्रुशुः ध्वांक्षाः । मनस्विमनुजमरणासत्रुटि- ताश्च व्यकिरन् विहायसि विहगगणविहारपरिहारकृतस्तारागणा: । पार्श्वस्थपादपैरपि प्रियजनपरिभवनिराशैः पत्रमिषेणास्राणि मुक्तानि । विहरद्भिर्विचरद्भिश्च गवादिभिरपि स्वरोमन्थमोचं समवेदनत्वं प्रख्यातम् । अनित्यस्य शरीरस्य शरीरिणा शिरोलोपमवाप्यानवाप्यं यशः एवावाप्तम् । रजोऽवकीर्णं वपुहि तत् जनगणविक्रोशदीर्यमाण- गल गह्वरसमेतं बीभत्सदर्शनमपि सत् श्रीभद्रवर्षकमेव जातम् । नियम- निष्ठत्वनिरतो हि नाऽनूनसत्त्वः सत्त्वातिरेकात् सत्त्वासत्त्वनिरपेक्षि- त्वात्सत्वसत्यसव्यपेक्षी सद्धर्मसमुत्थानशील: सतां सुहृदसतां च दुहृद् दुर्जनदुर्नयानायवडिशवागुराबद्ध इव शफरः शोच्योऽशेत् । शयान: शरीरेणोत्थानशीलश्च शर्मणि धषितोऽपि प्रकर्षित: संलुप्तोऽपि विलिप्तकीर्तिः संपिष्टोऽप्यक्षुद्रारिणा बलीयसा बलिनाऽबलीकृतः सबलीकृत: स्वदेशिभि: सोत्साहकृन्निराशिषां निरहङ्कारकृत्कोऽपि कर्मीकृतपुण्यकर्मव मनस्वान् जेतृनामासुजन एव स्वजनान् सुहृज्जनां- श्च विहाय प्राणान् पणीकृत्य परैरलक्ष्य इव गुरोरस्य शीर्ष कराभ्यामा- कलय्य विद्रुतः प्रापत्पुरं स्वानन्दपुरप्रख्यम् । लुवाणवंश्यश्च पणिनां वरेण्यः कोऽपि करुणाईचेताः कबन्धमस्य शकटेन निर्वाह्य सपद्येव कासकर्पटपिहितं चकार । राजकोपपरिहारार्थी च स: अन्त्येष्टि- क्रियाभिलाषी स्वगृहमेवाग्निसात्कृतवान् । साग्निकृते गुरुशरीरसहिते स्वेगृहे जेतृनामा शिष्यस्तस्य शीर्षमिदं कराभ्यां संगृह्यास्य पुत्र गोविन्दसिंहं समदर्शयत् । पितृशिरः कृत्तमवलोक्यापि स मनागपि न चचाल चेतसि वाष्पविन्दुमपि न मुमोच धीरः । धैर्यधनश्च साधुरसौ न किमपि दुष्करं कर्तुमारेभे। मोहपरीतो वा न भृगोरात्मानमपातयन्न चापि स्वमुद्बध्य व्यापादनपरो बभूव पितामहीं मातरं च सान्त्वप्रायैर्वचोभिराश्वासयन् शोकविह्वले ते प्रकृतिस्थे चकार । माताऽप्यस्यानु मरणक्लैव्यं परिज हे सिहीव शावमुत्ते- वीरवरागिचरितम् जयन्ती मदमलिन कपोलभित्तिकरटिकरटप्रहारदानाय च प्रेरितवती । शीषं च पितुस्तेन वैदिकविधिनासंस्कृतं कृत्वोशीरदारुदाहविधेयिकृतम् । दशमेशभूतो दशमो गुरुरसौ शिष्यैः स्वैः गौरवमापादित: सब्रह्मक्षत्रविट- शूद्रवर्गान् समाशसम्भाषसम्मेलने सञ्जुहाव । नववर्षदेशीय एव पितुः प्राणसंहारे साहसी स: विद्वान् नाहन्नरेशनगरीमागात् कालेकस्मिश्चि- द्वयतीतेसति । एकोनविशे समतीते वर्षे वयसः सः वर्णाश्रमधमकधर्मी भिख्या इति नाम्नी कुमारीमुपायंस्त विशे च वर्षेतथैव प्रेरितोमात्रा बन्धुजनेन च जीतो नाम्नी कुमारीमपरामपि परिणिन्ये । अजितसिंह- जुझारसिंह - जोरावरसिंह फ़तेहसिंहाख्यपुत्रचतुष्टयप्रसवसौम्या च भरतभूश्री: वीरसूरिति वीरुदं पुनरप्यवाप । पुत्रचतुष्टयेऽजितसिंह जुझारसिंहो इस्लामदीक्षां नकारयन्तावेवावरङ्गजीवपृतनापरीतो पर:- शतैः प्रहारैः प्रेत्य किल लभ्यानि फलान्यवापतुः । जोरावरसिंह फ़तेह- सिंहौ च तथैव नकारयन्तो नराधमविभीषिकाः प्रलोभ्यमानावपि च स्त्रीराज्यधनादिविसरविशेषदायप्रदानप्रायः भित्तिभागनिर्माणपरीतो जीवन्तावेवकृत्तशिरस्को पितर्यपि जीवत्येव मातृदयेऽपि च तथैव भवति निघणजाल्मात्याचारजालजर्जरितौ जीर्णों काये न तु लोकहृत्सु शीर्णौ व्यवसाये न तु मानभृत्सु युगयुगान्तरयशोगानगुरू बभूवतुः । षट्पष्टयुत्तरषोडशशततमेऽब्दे गोविन्दरायेत्ति नाम्नो गोविन्दसिंहस्य जन्मजातमासीत् । लक्ष्मणदेवोऽपि सप्तत्युत्तरषोडशशततमेन्देऽक्टूबरमासे षोडशेऽह्नि जातोऽभूत् । नवमगुरोस्तेगबहादुरस्य कदनकाले गोविन्दश्चे- नववर्षदेशीयोऽभूत् लक्ष्मणदेवः केवलं पञ्चवर्षदेशीय एव । कोऽजाना- द्यत्काश्मीरवास्तव्यो दरिद्रः पञ्चापदेशीयमहात्मना समागतः कदा- चिदितिहासे महत्तर एवात्मा भवितेति । विधेरेव विस्मयकरो विलासोऽयं यदसौ दवीयोदेशदुर्गतात् लोके नगण्यात् स्थलात् नेदीयोदेशमानीय मिथ: सम्भाव्य च तथाविधसौहार्द सौहित्ये संयोजयति ययुगस्मरणी- यास्ते युगसंरक्षणपराः अवतारा इव प्रविभासमानाः मोहनिद्राविनि- द्रितान् विद्विड्विशिखविहतान् विहगानिव विश्ववियद्विहरणाय प्राणापानव्यानोदानदानैः पुनरुज्जीवयन्त इव प्रखरांशुमन्तोदिवाकरा इव प्रति दिनमुदीयमाना एव सन्ध्यास्वस्तायमाना अपि यशोदोप्ति दीपप्रकरपरिकरिता इव जगज्जोवनाय दानवदवदावाहुतिषु शलभायमाना अपि अमृतत्वाय प्रकल्पन्ते ।
प्रथ प्रथम उच्छ्वासः २१ 'दारिद्रयदोषो मुणराशिनाशी' सदुक्तिरियं कर्णामृतत्वप्रायापि लक्ष्मणदेवे कर्णविषमिवाविषह्यप्रभावा अभवत्-यतः निरक्षरोऽप्यक्षर- रक्षणशौण्ड: क्षेत्ररक्षणपटुः प्रियधान्यासारविसरः पितुर्व्यवसायसाह्यदान सल्लक्षण: शरचापधृन्मकरकेतन इव वपुष्मान् रतिरभसावेशविहतान् विहङ्गमान जाविमेषमृग कपोतपोतान् प्रियतन्त्रीवाद्यव्याध इव वनेचर: बीराग्रणीबुभूषुः धृतबृहत्तर्वङ्कुरपल्लव इव स्निग्धवर्ण: तेजस्तरस्वी वेधोवयस्वी एकलव्य इवापरः द्रोणाहङ्कारकर्षी प्रकृतिकोडाक्रीडी कलभ इव कलकलं कुर्वाणः मत्तगजमदादानपर: स्वभावादेव कण्ठीरवः कण्ठारावविरोधी व्यवहारे व्याहाराहारहर्षी हृष्यद्धय इव हरिच्छाद- लवल्गनशीलः शयुरिव शयानः शतशः श्वापद संहारकारी बाल्ये बली भबालबलशाली जगतामखिलानां विस्मयास्पदत्वमवाप । इति डा० सुदर्शनशर्मणां कृते वीरवैरागिचरिते प्रथमः उच्छ्वासः ॥
अथ द्वितीयः उच्छवास: प्राणात्यये मानहतिर्न सोढा থানালজি प्रवृत्ता। भार्या: भृताः कार्यरतिन लुप्ता नष्टाः सुताः सौप्तिक सांपराये ॥१॥ धर्मार्थ काम मोक्षाणामारोग्यं मूलकारणम् । अर्थमूली हि धर्मकामौ। मनुष्याणां वृत्तिरर्थः । मनुष्यवती च भूमिः सैव जननी जन्मभाविनी ततः परं सर्वं स्वार्थंकमूलं स्वार्थ एव सत्त्वसंबाध- साध्यम् । अत्यासेवितो हि धर्मोऽर्थकामाभ्यामसंगतः असत्संगत एव सदसन्निर्णयाभावात् मर्मघट्टनपरः स्यात् । प्रत्यासेवितश्चार्थः धर्म- कामाभ्यां विरहित: स्वार्थसाधक एव । पराभिसन्धान सम्पदो हि श्रियो भवन्तीत्यशङ्कनीयमेव । अत्यासेवितश्च काम: धर्मार्थाभ्यां विरहितो रजस्तमोभ्यां पूर्णः सत्त्वह्रासैकसत्क: स्त्रीपरत्व परिभावप्रकोपात् जगति गुणगौरवमतिक्रम्य दोषप्राचुर्यमेव प्रकोपयेत् । पुरा किल वाल्मीकिः क्रौञ्चमिथुनादेकवधशोकसंतप्तः शापशब्दैः शोक श्लोकत्वमापादयन् धर्ममार्गमारूढः कविरादिरित्यभिख्यां लभमान: कवीनां उपजीवको बभूव । यथार्थाभिधानश्च सिद्धार्थक: शुद्धोदनार्थसाधक: सत्यपि कामार्थप्रतिपत्तिसाध्यसाधनसमूहनिर्बाधे मृगयाधर्मो क्षत्रभूतोऽपि क्षतात्त्राणपरत्वात् तदर्थमूलत्वाच्च कामार्थ साध्यसतीत्वयशोधरां यशोधरां त्रिवर्गसम्पच्छरीरभूतां गृहस्थयज्ञ. धर्मिणी यज्ञक्रियामिव विन्दमान: दाम्पत्यगौरवरागरमणरमणीयः रमणीसहस्र व्याप्तान्त: पुरविहार: पौरवनितासखोऽप्यपौरवनीत्यसख: सौख्याखिल समेतोऽप्यसौख्याखिलसमवेतः मृगयाविहारीव्याध इव विहरन् विश्वासविशदान् विहगान् श्वापदांश्च हन्तुमुद्युक्तोऽपि शरसंहारं चकार पौरुषप्रवणः क्षत्रियोऽपि सन्नक्षत्रिय इव ब्रह्मजिज्ञासुः जगति मरणोत्पत्तिविकार वार्द्धक्य दर्शनेभ्यो बीभत्समान: नक्तमेव चौर्यचर्या- ( २२ ) अथ द्वितीय: उच्छ्वासः चारीव सपुत्रदारं परिवारं परिजहाराराडमुनिदर्शनेन च मारविजयी बुद्धभूतो वैराग्यबुद्धिः बौद्धदर्शनव्याख्यानपरो निर्वाणमवाप । नानकोऽपि नाम नानानिमो ना नृणां नगण्योऽनिमिषगुणो निलिम्पनिष्ठो नैष्ठिकनीतिनिपुणो निहितनारकोण निष्ठान् निघ्नवृत्तींश्च नरजाङ्गल- लोलुपान् नराधमनायकान् नृशंसवृत्तींश्च नृपशून् नृसिंह इवापरः नताननान् दानवानिव निम्नतां निनाय । सकलत्रोऽप्यकलत्र: स: संसारसिन्धुसन्तरणसिद्धः गृहस्थगम्योऽपि परिव्राट् परिवार्य परिवारमपि पर्यटन् परित: प्रकाशमान: पुण्यैः परीतः पृथिव्याः प्रयाग प्रभृतीनि पुण्यस्थलानि परिवभ्राम। पौनः पुन्येव पूतिमाप्य पुण्यतीर्थेभ्य: प्राप्य प्रीति प्रत्तिबहुल: प्राणिप्रिय: प्रियप्राणिपालन: म्लेच्छपावकपरीतिः प्रज्वलितोऽपि प्रज्वलत्प्रताप: परां प्रीतिमापत् । प्राणिमात्राभ्यव- पत्तुकामश्च प्रियान् प्राणानपि परिपणयन् परपीडकान् परपीडितांश्च प्रायत्ततां प्रापयत् । परित्रातधौत्र्ये च प्राणिसम्प्रदाये पशुमारं मार्यमाणान् मानवान् परिररक्ष सः। सपुत्रदारं साम्बं च गृहं विहाय विनिद्रितजगज्जागरणाय धर्मसव्यपेक्षिपथप्रवर्तकः बौद्धसंगतिसंगतः निर्वाणमवाप्तवान् । महात्मा चासौ यशस्वियुगपुरुष इव व्याप्त- प्रख्यातिप्रसरः पुराणपुरुषगण्यो बभूव । सदश्वपृष्ठपर्याणोपविष्टश्च सादी सोल्लाससविलासविलसद्वल्लीवलय वेपमानविशदपर्णपुष्प- प्रकरप्राकाराकारपरिवेश मण्डला भोगभूषितभूविलासिनीमिव प्रकृति प्रकामतः पश्यन् प्रौढ तारुण्यभरिततरुगणगौरवं च गिरां प्रकर्षण प्रशंसन् पौरुषपारदृश्वा पुरुष इव प्रतिभानवान् हर्षवेगावेशविवश: विश्वसन् विधेर्वैभवे व्याधविधिविधित्सुः वातप्रमीवेगवल्गापितवा जिकः करकलितवाणकोदण्ड: वैकक्ष्यकबद्धतूणीर: विपिनवीथिविरूढ- वृक्षविहितविद्रुतगति: गतिमानिव कल्किकाय: करवालकरः म्लेच्छ- निवहनिधननिराकृत् वातानीतशुष्कपत्रमिवेतस्ततो वाह्यमानः पुरुषः सन् प्रकृत्यैव प्रेर्यमाणः कदाचित् काननकनीनैणीनयननिहितनेत्र: नेत्रेषुमोक्षयोग्यामिव युवति सम्भाव्यभीवागुरावागुरितां श्रीसौष्ठव- शोभितां सम्मोहनायेषुमोक्षं यावदेव कृतवान् तावदेव धनुष्टङ्कार- समकक्ष्य एव चीत्कारः करुणाक्रन्ददारुणो हृद्विदारणः समुत्तस्थौ । वाजिवल्गासंहृतगतिश्चगां गतोऽसौ स्वलक्ष्मभेदभिन्नोदरामेणी ताम- वलोक्य तदजिनेच्छुः पिशितप्रेप्सुश्च शावद्वयं निःश्वसत्तदुदरनिः सृतं प्राणनात्प्रागेव परासुभावमापन्नां विभाव्य चलितश्चेतसि गलितो गर्वरेतसि ज्वलित: क्षोभशोचिषा परोतः शुचा विनीतो दृशा गृहीतो २४ वीरवैरागिचरितम् वैराग्यतृषा मनोमन्युगूढः दूषितो ज्ञाने मुषितो माने हेपितो हिंसाऽऽदाने क्लेशितः कायकलिकल्याणे रूषितो रोगरुजा भूषितो भावुक्यवैभवेन खिन्नो हृदि भिन्नो नर्मसु स्विन्न: शरीरे क्लिन्नः नेत्रपक्ष्मणि छिन्नो मानमर्दने दिवसात्तस्मादारभ्य रम्यरमण रमणीयोदम्यदमनदम्भीयो धर्मधारणधौरेयो ध्यानधरणधिषणेयः मृदां चये च पराचीनः परमात्मनि परमप्रीत: प्रियसंख्यानबुद्धि: हठयोगयुक्तः हृदि रागरिक्त: मोक्षमीमांसक: प्राणिकदनोद्विग्नमना: मौनैकमोही ध्यानकदोहीचित्तैकाग्र्यधीविक्रमः श्रीसौभाग्यसंविग्नः मृगयां मृगमारणव्यसनमाकलय्यमूकेन मनसा म्लायति माधवे ऋतौ विलक्षलक्ष्यमाणासु दिक्षुशान्तविरुतीचञ्चरीक- रू(2) कुले विकृतं विरुवति वायसगणे रसालतरन्पविष्टे प्रशान्तवचसि परमृत- कुले निरुपद्रवप्राणिनाशरौद्ररोषरक्तनेत्रान्तराले नाकिकुले नीरवाकार- निर्मूके मुग्धमृतकबीभत्साकारे प्रकाशस्थले प्रक्षिप्य परशुशरशङ्कु प्रासासिपरिवारप्रमुखं सतूणीरं कोदण्डं तुरगवरं तमेवारुह्य मग्नो मनोमोहे निध्यानलीनमुनिरिव मनीषितं मन्वान: मुक्तात्मभाव: हयमपि हृदा नैव नेष्यन् मुक्तहेषारवं च नैव प्रेम्णा प्राचोदयन् परमप्रीत: प्रायश्चित्तपराधीनः प्रापत्पुरं प्राज्यपयंश्रुनेत्रः । अनिर्वेदे श्रियो मूलमवलोकमानो वीरोऽसौ प्रभुमन्त्रोत्साहशक्ति- सौभाग्यसिद्धिसाधनपरः निरीहव्याघ इव श्वापदवधैकव्याहारी दृढ- धैर्यधौरेयः शौर्यप्रमाण: स्थैर्येकमार्गी वपुषि कठिनः मनस्यमलिनः क्षणापरे च कुसुमकोमलः मांसादनो मांसमृत्योः विकारी लोकोत्तरो लोकहृदयैकहारी हृष्टो रोमसु क्लिष्टो मर्मसु ह्रस्वो नर्मसु भ्रष्टः कर्म सु ध्वस्तो वर्मसु प्लुष्ट इव दग्धदेहे रुष्ट इवात्मनि मुग्ध इव मोहेन क्षुब्ध इव सर्वत्यागेन निर्वेदनिर्विष्णो धनुर्वेददिङ्मूढो दिङ्मोह- विभ्रान्तमृग इव धन्वनि त्यागतृप्तितीर्घः राजपुरीमेव शून्याटवीमिव- मन्वानः भूभ्रमणभावाभिभूतः भ्रष्टचेतनः इव परिव्राट् परितो वृत्वा- ऽटनशीलोऽपि शिलीमुख इव शर्मत्यागी भ्रमविभ्रमभ्रान्तः श्रमविश्रम- शान्तः क्लमक्लिष्ट्यैकक्रान्त: जवनजन्तुजरणजीर्णः श्रमणतन्तुतरणतूर्णः काश्मर्यकुकुमकुड्मलकिरिकानूमोरराष्ट्ररमणोऽपि रामकरमणो लक्ष्मणदेव: स्वदेशाटनागतरामकृष्णोपासनसंलग्नसाधुसंघसञ्चारी गृहस्थगतोऽपि संन्यासी ब्रह्मचारीचय: वानप्रस्थे वन्यजन्तुजीवनापहः वनप्रस्थानस्थायी स्थाणुरिव स्थूणास्थानस्थित: जानकीप्रसादास्यस्य अथ द्वितीयः उच्छ्वासः साधोः साधुसमवाये श्रद्धापरोभूतः राष्ट्रत्यागैकनिष्ठापरः जानकीप्रसाद- शिष्यो बभूव । जानकीप्रसादवित्तो प्रियरामाभिरामोऽपि लक्ष्मणो यथा यौवना- रम्भ एव प्रियोमिलोमिलाभलसदभिलाषतरङ्गिणीपारावारः परिवार- पयोधिचन्द्रोदये चञ्चत्पुटोज्ज्वल मणिमाणिक्यमौक्तिक: प्रजावत्सलोऽपि प्रजाविलासव्यवधानविधार्या रामानुजोरामानुजातप्रजाति: वनवासिराम रामानुसरणपरोऽनुजीवी हिस्रश्वापदनिशाचरप्रतिभयेऽरण्ये रामैकरागी वैरागी पञ्चवटी पर्यटनपटुः परिवाड्भूत: परिवव्राज तथैव जानकी प्रसादप्रसादविल्लक्ष्मणदेवो रामदेवसुतः रामसुतकुशनामप्रख्यातपुरं कुशपुरं 'कुसूर' इति भाषागतं 'बाबारामथमन' वास्तव्यभूतं वैरागिसंघ सन्निवेशप्रायं पर्यटन् रामदासप्रमुख वैरागि संघसदस्यभूतः माधवदासापरनामधारी वैशाखसंक्रान्तिसमये वैशाख्याख्योत्सव समारोहविलाससोल्लासी सविधस्थल सरित्सन्निवेशदेवकुल विहारवर्ती नासिकनिकटवतिविन्ध्याटीवटपञ्चकप्रख्यातनाम्नी पञ्चवटोमेवदण्ड- कारण्यभाजां भिक्षाट इव भेजे। या नाम युगयुगीनतपः पूता वाल्मीकि प्रभृति मुनिगणगतिगौरवा दाशरथिदोर्दण्डविहितकोदण्डविसृष्टशर- शलाकाशकलित शरीरपुरुषादशान्तर्षि समाधि संबाधसद्वन्धा, शूर्पणखा- कर्णनास्कर्तनान्नासिक्यनाम नूतनी पौरस्त्यपाश्चात्यपयोधि पुलिन- परिवेशा, अगस्त्याश्रमश्रितगोदा वरीकूलानुकूला सर्वतुशोभनाकारा समित्पुष्पकुशोदका मदमत्तसामजसमाजनार्दण्डोद्वान्तवारिवृष्टयुत्सेक संधितपुष्पप्रकरप्राकारपूरितपादपपरिवारवारिता, कुररकुलकलर रमणीय मरिचपल्लवमालिनी करटिकर कुड्मलिततमाल किसलय लङ्कृता कीरकुलाकलितदाडिमद्रवार्टीकृततलैरतीवोद्दण्डमर्कटकुल कम्पितकक्कोलपल्लवकिर्मीरैः प्रततपतितपुष्परज: - प्रकरप्रकोण: प्रवासिपुरुषपरिहितलवङ्गपल्लवतल्पैः केतकीचम्पक नालिकेरफल परिगतप्रान्तः विपिनश्रीविश्रामवासैरिव विलासितावल्लीविनिवेश: ललितैलालतालङ्कृतललामलम्बालकाकारप्राकारा वास्तव्यभूमिरिव विसंष्ठुलशाखामृगाणां शबरपल्ली परिवारितप्रदेशा, शबरपृतना- पतिप्रमथित प्रभूतकण्ठीरवारावा, कीनाशकेतुकेतनमिव कालकलित- कूला कालमहिषाधिष्ठिता च, सङ्गरसमुद्धतानीकिनीव शरशला- केषिका विषक्तविशिखबिशाखिकानिहित नरहरिनादा च, प्रावृट्श्रीरिव परिवारितपानीयापूरा, कोकिलकुलकालकण्ठकण्ठाला, शशधर इव ।
१६ बीररागिचरितम् तिग्मरश्मिरिव तिग्मरश्मिराशिरभसीकृत घराधृतशशाधारा, रासभास्वरा। यस्यां च जानकीप्रसाद प्रभावाभिभूतो लक्ष्मणो लक्षणज्ञोऽपि लोभमृगतृष्णिकाया: मारीचहृत रामरक्षाभिलाषी मायामृगतृष्णाति रोहितः मग इव मुग्ध: मातृमतिकोऽपि भ्रातृभार्यायां भाग्यभरण भूयिष्ठ: भक्तिमत्वाच्च भ्रतरि भ्रातृदुःख भाजनो बभूव । जानकीप्रसाद प्रभावाभिभूतश्च लक्ष्मणदेव: मायामृगतृष्णिकातिरोहिताहारव्यवहारः परिहतपरिवारव्यापारः प्रशमहेतुवय:परिणाम परिधेयप्रव्रज्या परिकलितकर्मकृत्य: कायकलो क्रौर्यकर्कशः कार्याकूत इव कर्पटी कुटीरकर्मारकारी खजूरपनसतमालताल पुन्नागतिनिशतिलकाशोक केतकचम्पक चंदनपर्णसाश्वकर्णाशमीकि शुकखदिरपाटलपुष्पामोदसामोदः सौवर्णवर्णी वणिलिङ्गीव विधातुः विविक्तविहितविश्वास: साधुसमाज सदस्यभूतः रामदासाख्यापर वैरागिरागरञ्जितः प्रकृतिप्रजारञ्जनात् राजेव राजमाणः माधवे मधुमायाया: धवोऽसौ दमदयादानसाकारित्वा- हासित्वमाप्तः स्वधर्मस्य ध्यानमग्न इव मुनिः मौनीव मनोरागी प्रत्यहं दिवानिशं मननमुद्रामनस्वी वटपञ्चकमेव देवपञ्चकमिव मन्यमानः अष्टमूर्तेरेवमूर्तीःमूर्ताः मुमुक्षुमार्गीव मनसा मनोनिनीषुः निष्ठावानिव तपोनिधिः कौमारेऽपि कुमारमारणमुग्धः कुमारकाक्षिणीकन्याप्रकर्म परिकर्मपराङ्मुखः राजराजस्य विधातुरेव शापेनास्तंगमितमहिमा कान्तोऽप्याचान्तकान्ताविरहः गरीयोगुरुगौरवगानगुप्त: विहगगण- विरुतिविहितसंगीतग्रामराग: परभृतपञ्चमस्वर सौहित्यसोल्लास लासक: कलिकाकोरककलापोतसिल्लिविस्मयस्मेरसौभाग्य सम्भावित- कलापिकुल कोलाहलः, वासतेयीवासरमणीरसिक मृगलाञ्छन लसल्ललाटालकवल्लरीक: तरङ्गिणीतरङ्गकराग्रगृहीताभिवादनः कुल्याकूलाकलनकुशलकल्लोलक्षालितचरण: वटपञ्चकमध्यगतचन्द्र- मौलिमूतिरिव पञ्चशरशिरोरन्धनरौद्ररुद्र इव मनस्वी मानार्थागत- मानिमानिनी गणगीत गुणगौरबः गणैरिव विहगगणैः प्रमथैरिव मन्मथमथनमोहितैः मुनिगणैर्मानितो विहित होमाहुत्याहूतहव्यवाहनस्त्रि- कालदर्शी दुरितदुदिनान्धकारापनोद विनोदी, प्रोङ्कारमुखरमुखमुनि गणमतिवैराग्यगान्धारग्रामक: समाधिसंयम समाहित सिद्धवत्तिसाधन- साध्यो मन्त्रतन्त्रतर्कवितर्क जपज्ञानमूढः प्रौधरनाथाख्य सिद्धयोगियो- गाभ्यासव्यवहारविभावितो योगमुद्राभिलीनः प्रत्यहमौघरनाथशिष्यभूतः अथ द्वितीयः उच्छ्वासः परिचर्यापरत्वात्तद्गौरव गानगूढान्तर्भावनो भूतभावनोऽपि भूतनाशनो भवानीभवभावनीनः भैरवाचार्य इव भैरवाकारः सिद्धिसाधनैकरत: तथा नामाद्रितोऽभूतौधरनाथस्य यदा चार्येणाचारितः सन् समन्तात् सार्वकालिकतन्त्रक्रियासु सिद्धिसौष्ठवसिद्धिहस्त: गुरुगोरक्षनाथ शिष्य- सम्पादितसिद्धिग्रन्थोपादानदर्शी सिद्धाचार्यभूत: औधरनाथं सन्तुष्टमेव गतासुमवालोकयत् । सिद्धयोत्तम्भितश्च संसारसिन्धुसन्तरणसेतुभूतः पालानस्तम्भ इव मोहोन्मत्तसामजानां कूटपाकल इवाहङ्कारकरटीणां विष विसर्प इव वैधेय व्यवहाराणां प्राशुशुक्षणिरिव द्रोहविद्रोहदावानाम् , मृगादनः मौर्यस्खलितमृगसंघानाम् , शललः क्रौर्य कौलेयकानां मृगयुरिन्द्रिय- मृगमारण: मृषावादिवादिविवादव्यपोहन विधुरः विषयैषिविधुन्तुद- तुदित विधुप्रायोऽपि प्रियजनरञ्जनराजक: रजस्वलारजोविकारवर्षी रमणोऽपि रमणीरमणारमणीयः रमणीयाराम रामणीयकरमणश्च रुद्रोऽप्यरौद्ररोपक: अक्षुद्रोऽपि क्षौद्रपोषक: निर्दक्षिणोऽपि दाक्षिण्यदोहक: निर्विकारोऽपि विक्रियाकार्यकोशकः दुर्विषह्यवेदनोऽपि निर्वेदमोदन: माधवदास: मायामयोऽप्यमायी तिरस्करिणीतिरोहिततनुरपि तिरस्कार- मुक्तः स्वतन्त्रकायस्थितिकर्मकौतुकी गोदावा: पौरस्त्यप्रदिशि प्रतस्थे । प्रागेतिह्यकाले प्रख्यातनवषिनिवासविन्यासभूमौ दण्डकारण्य- भाजि महाराष्ट्रापरनाम्नि वर्तमाने नन्देरस्थले मनोमोहमुदि मनन- मुद्राविधानविश्वासी कुटीरं कल्पयित्वा गोदावरीनीरनीरवाराववतिनि वातावरणे वेधोविधिविधित्सुः वृत्ति वरयाञ्चकार । वैराग्यबुद्धि- भावितश्च पुमान् परमात्मपुरुषपर्याय प्रख्यातिपेशलं 'बन्दा' इति पारस्य भाषाशब्दविरुदं दधानः परिवारपुरुषैः परिजनैः परितोऽनुयान- परैश्च 'बन्दावैरागी' इति प्रोच्चार्यमाणः परां प्रतीतिमापत् । गुरुरयं शिष्याणां स्वनिवासस्थैः द्वाःस्थैरिव 'गुरुद्वार' गौरवगुप्तगृहः युगान्तेष्वपि 'बन्दाघाटगुरुद्वार' इति प्रख्यातिप्रवणत्वं प्रापितः । तात्कालिको निवासोऽस्य वैरागिमहात्मनः महत्त्वमापन्नः शिष्यगण- वन्दना विनिवेशमन्दिर मेव 'गुरुद्वार' इति प्रथितिं लेभे । बन्देरनिवास एव माधवदासस्य 'बन्दावैरागीत्यपरनाममहात्मनः काले गते तथा नाम गौरवमापादित: यथा नामर्षेः कस्याप्याश्रमः पुष्पवाटिकापरिहित: पुरुषस्त्रीप्रवेशपरिवेशहेतुकः दर्शनागतजनगणगीति संगीतसंगीतिसाधक: साधोरस्याशिषां वर्षणवृषेण्य: प्रतिवर्षागण्यजन- वीरवरागिचरितम् गणगौरवपरिवृढः प्राणिपुरुषार्थवाधकतत्त्व साधकः मूलमन्त्रौषधि- तत्त्वोपचारचर्याचरित. अथर्वनिधेरस्य निष्ठानिर्णायक: नितरामूनसत्त्वैः श्रद्धापरैः भक्तिमद्भिश्च परिचर्यापरत्वमापेदे । रागानुरागरक्तो हि यः पुरा प्रावृटप्रकाशे प्रकामपौरुषपर्याकुल: प्रेमीव प्रक्रान्तः प्रकृतिप्रेमिकापरि हितहृदय: प्राकृतप्रेमिकाप्रेमपर्युत्सुक: परितः पर्यटन् समदमदन इव रतिविविक्षु: प्राभवन्नैव प्रभुत्वमाप्तुम् विभुवैभवविवक्षमाणो वीतरागी बैरागी मुग्धमूकसत्त्वसत्त्वापहरण- विगतचेतनः चित्तिमानिव चिन्ताज्वरः गृहस्थ गत रुग्णो वानप्रस्थ- भेषजः आश्रमगतो वैद्यभूतः मूलमन्त्रसाधकसिद्ध इवापर: प्रात:साय- मेवाहुतिदानपर: तपस्वीहविभिर्वतानवह्नितर्पण: गायत्रीगानगौरव- गरीयान् ओंकारमुखरवटुगणगणितगौरवः वटपञ्चकमध्यनिहितपर्यङ्क- विहितपर्यङ्कासननिविष्ट: समाधिसंयत इव दमशमयमनियमयुक्तः कन्दमूलफलाभ्यवहारी ब्रह्मासनसन्निविष्टोव्रतमनुववर्त्त । तपोनियम- निरतेसति तस्मिन् स्वनियोगयोग सिद्धितल्लीने सन्निहितसन्न्यासिसाथ- सिद्धार्थसंविभागे कदाचित् कर्मप्रेरणे प्रेरयति पुरुषार्थसत्त्वसाधके मरीचिमालिनिमौनमास्थिते मुनिगणे मधुरं वाति सौम्यानिले सुधासेक- सुकुमारारावरा शिराशीभूते मन्त्रोच्चारचारणरवे रमणीयाकृतिः कर्म- वीरः शूरैकशरण्यः क्रूरैकश रव्य: पञ्चनदीयपञ्चानननादः पञ्चापीय- पुरुषसामजसमाजवृंतिवित्रासिगर्जन: रणाजिरनीरधिगतम्लेच्छमीनध- स्मरः शिंशुमारः यौवन एव यवनारि: धर्मयमनिका यमनयुक्तः सूत्रधारः हतारिविहितहल्लीसकाहूतारभटीनटशैलूषः शरशलाकाशङ्काशक्ति- प्रासासिभुशुण्डियोधशौण्डीर: शमितिस्वेरमुच्चारयन् प्रागात्पुरस्तात् । वैरागिविश्रुतिश्रुतिधराः धराशायिनः साधवः साधोरस्य साधुत्वं समीक्षमाणाः आश्रमं यावदेव विविशुस्तावदेवासौ यातुधानान् पर्यङ्कपरिवर्तनाय प्रदिदेशप्रसत्तिप्रवणश्च मनोविनोदवैदुष्यमापेदे । प्रवृत्तिरियमलोकमान्यानैऋतकर्मकर्मणी न माधवदासाक्षिगतासमजनि । परं गतो दाक्षिणात्येष्वसौ सुविख्याततत्त्वप्रभावः साधुसमाजभाग्यद एव शोभां प्रतिपेदे। गोविन्दो गुरु: गरीयस्त्वं गतो गवि गृहस्थगतोऽपि वीराग्रणीवैरागी वैरिविनष्टपुत्र चतुष्टयः पुन्नाम्नो नरकात्त्रातोऽपि संत्रस्ताश्रमधर्म: क्षतविक्षतकायः मुगलसम्राडवरङ्गजीवजनितजन्य- राजन्याग्रजन्मा जन्मान्तरजघन्य जातजनितासहयप्रकृतिकोपानलदग्धदेहः क्षतात्त्राणपरः अथ द्वितीयः उच्छ्वासः २९ म्लेच्छसङ्गरश्रद्धालुः म्लेच्छमूर्छामूर्च्छनाग्रामरागी औपनिषदिकयुद्ध- मूलमन्त्रप्राकारिणं माधवदासं संजिगमिषुः साधुसमेत एव साधु- स्वभावत्वात् प्राकृततेजः पुञ्जप्रसराच्च पर्यङ्कमाघापितोऽपि नैव पर्यङ्कापरिवर्तनोपहासभाक्त्वमापेदे । साधुभ्यो विश्रुतगुरुगौरवोऽसौ स्वयमेव साह्यदानसव्यपेक्षी स्वागतगिरा तं ववन्दे । मुगलसम्राड- वरङ्गजीव आततायित्वमापन्न: गोविन्दजीवितापहो दुष्कर्मप्रतीकार- प्रतीक्षी गुरुगौरवनिर्मार्णगौरव: शिष्यसमूहप्रवीर्यप्राकारपरित्रस्तः दक्षिणेष्वेव गुरुमाहूतवान् संमन्त्रणाय। इहैव तेन स्वविजय गाथा 'ज़फ़रनामा' ग्रन्थे निगूहिता । अभिलिखितोऽयं लेखो न मुगलसम्राजमुद्वेजयामास । उद्विग्नोऽप्यनुद्विग्नोगोविन्दः सिंहनादमनुजुषाण: अजिनोपविष्टं माधवदासं दास्यदग्धदेहस्य स्वदेशस्य दुर्दशादौःस्थिति यावदेव श्रावयामास तावदेव वैराग्यं भीरुत्वमेव मन्यमानोऽसौ पुनरपि प्रक्रान्त- पौरुषः पुरुषाधमपौरुषप्रणाशापेक्षी दानवदोर्दण्डदारणदोहदीतपः प्रभाव- संकलिततेजः पुञ्जप्रसारासारः प्राणिहिंसनादेव बैराग्यगतः प्राणिनश्च श्वापदचेष्टिश्वागणिनिस्त्रिशकर्त्तककर्मभ्यः परित्रातुमेव वैररागमाश्रितः क्षतविक्षतप्राणिप्रद्रुतचेताः यथैव मोहमापन्नस्तथैव क्षतविक्षतत्राणाय क्षात्रो धर्म इवापर: दानवमानमर्दीमानवपरित्राणतर्षी म्लेच्छभिमान-- धर्षी धराविधानवर्धी कारुण्यकथामुपश्रुत्य गुरोः मुखारवि दात् चलितश्चेतसि ग्लपितः श्रेयसि म्लपितो मुखे तिग्मस्तेजसि तितिक्ष- माणोऽपि तीक्ष्णप्रहारान् मनोगदान् सगदगदमिदमगदत् -- “गुरो! भगवन् ! नताननोऽहम् निन्द्यमिदं नृशंसं नजन्मजातं जारयन् जीर्णतृण- कुटीरस्थपर्यङ्कविहितपर्यङ्कबन्धसाधन: कार्यकर्मकुशलोऽपि निष्कर्मण्यः क्रियाविभुक्तकारुरिव कृशकायः क्षम्यतां क्षणैककृतकातरत्वप्रपञ्चः । वीरोऽहं जनितो जनन्या जन्मान्तरजातजगद्रोहरोहीस्याम् निष्कर्मण्य- श्चेतिष्ठन् तिरस्कृतजनगणगौरवजघन्यजातजातिभावान् जन्मन्यस्मिन् तितिक्षमाण एव जीवेयम् । दुष्टकरटीकलिलमदगण्डकूटपाकलपुलकित- वपुष्कण्ठीरव इव कण्ठाराव (कण्ठीरव) रभसीकृत संरम्भपरिरब्धः दीर्घक्ष्वेडितमनुजुषाणः जृम्भकास्त्रमिव ‘ज राणः जम्भकारिरिव जृम्भमाणजम्भकजातिभाज: जातुषाभरणानीव जम्भारिः तेजोज्वाला- ज्वलत्तुषष्कान् चिकीर्षुः कार्पण्यजिहीर्षुः तैक्ष्ण्यतितीर्घः वैषम्यविविक्षुः वैरिव नितावैधव्यदिदृक्षुः वैराग्यं विगतरागं मन्वानः वीर्यवृत्ति सौभाग्यं वीरवैरागिचरितम् संमन्त्रयमाण: कातयं दुर्भाग्यं दर्शयन् नीतिकेवलित्व कातयं शौर्य- केवलित्वं च श्वापदचेष्टितं चर्चयन् चचित भस्मसर्वाङ्गीणो योगी भस्मभूषितभवभावनीन: भवानीविहीनोऽपि भवानीभक्तः भूभारभूतान् भूतानिव भस्मचयचरणशीलानिव भस्मचयतामानेतुमुत्सुक: भयङ्कर- भूभारतीनद्विषतः दोर्दण्डाञ्चितचन्द्रशेखरधनुरिवेषुधेरिषुवर्षणव्याकुल: खरांशुकरदूषणदोषद्रुग्धदुष्टारिखरदूषणदारणः रणरक्तरणत्काररण- रणककर्मठ: कौर्यङ्करप्रलयङ्करः प्रालेयाद्रेरपि प्रलयाध्रिप्रायपरि- वारवर्ती दुष्टवारणानिव व्यालवृतान् विधित्सुः विकटम्लेच्छमानवान् , मुक्तमनोमोहः दग्धध्यानदोहः मृगादन इव म्लेच्छमृगमृगयालु: मुक्तमुमुक्षुवृत्तीकः धृतममूर्षु धैर्यः मानाभिमानिमानवारुन्तुदतत्त्वबोधि- वृत्तविश्रुतिबोधिसत्त्वः सत्त्वान्तरस्वान्तसावनः संसारसवनसोमपीती दुर्वारद्विषद्दहनध्यानाधीती प्रत्यहं पुरुषस्त्रीपरिवारप्रहारप्रणाशपरि- भावितात्मा प्रभावोत्साहसम्भावितचेता: चिताचैत्यविचितविचित्रवध- व्यक्तविष्किरविकारविकृतगोविन्दगुरुगतासु पुत्रद्वयदूनदेहकः दिशि दिशिदुर्दम्यविद्रोहरोहवर्षणप्रसक्तदुष्टदाण्डपाशिकप्रचुरपुरुषकृतासहाय- जगज्जनगणसंहारव्यवहारसन्दष्टाधर: गोविन्दगुरुतेगबहादुरक्रकच- दारणदारुणदुर्व्यवहारविहितमर्मभेदनः वटपञ्चकमण्डपगतश्च कारुण्य- कथां प्रतिक्षणं शृण्वन् दग्ध इव श्रवणयो: भ्रष्ट इव चेतसि मृदित इव माने मौनेऽपि स्फुटितो मर्मसुविदितवेदितव्यो जिज्ञासुः तपस्त्यागी तेजोभागी शूनः शरीरे तूर्णस्तिग्मतानवे भूम्ना भूभक्तिभावेन भरित: भ्राजमानः भवभूति मावन: प्राज्यप्रायश्चित्तचित्तिमान् गुरुगौरवगाने गिरां गिरिष्ठा: आर्त इव वचसि मूर्त इव वपुषि धूर्तधिक्करणधौरेयः जन्मभुवमेव कर्मभुवं कुर्वाण: मूकमृगीमरणमूढमनस्क: धूर्तदानवदग्ध- मानवसहस्रार्तनादविस्मृतिविगतस्पृहः स्मृतशर्वशरणः सृष्टशरवणशरणः हिंसनहेपितधनञ्जय इव गोविन्दकल्पं गोविन्दगुरुं सगद्गदं गदन् गुप्तान्तर्दहन इव शमीतरु: विश्रान्तशम्प इवाब्द: हृदि धृतनिर्हादः मदनमत्तोऽप्यमदनमत्तः बन्धुनिबन्धनबद्धबुद्धिः गोविन्दशिष्यभूत: भगवतो बन्धको 'बन्दः' इति वीरुद्वरणशीलः परमात्मपरमात्मप्रवण: प्राणपणेनापि प्राणिपरित्राणपणबन्धबद्धबुद्धि मारात्मकमृगयुमृगवध- विकारमर्दनमोहविक्लव: वैररागी वैरागी वीराग्रणी: वीर्याग्निगुप्त. गौरवः भूभारतीभारभूतभयावहभूतप्रेतीभावभरितभावनः जगर्जगति स्वरं जृम्भयन्तु- प्रथ द्वितीयः उच्छ्वासः 'नतोऽहं नृनाथ ! नृचक्ष ! चक्षुष्मन्तं चन्द्रमसं त्वां निरीक्ष्य नष्टचन्द्रिकाक्षया इव तमोगुणबहुलाः भूभारतीभाग्यभग्नाशाः प्राशाः सम्भावयन्तु सुषुम्नरश्मितरणिमपि तेजसाऽतितिक्षमाणः तिरश्चामपि तर्जकं भूतानामपि मर्दकं धूर्तानामपि वर्धकं तुष्टाणामपि तर्दक रुष्टाणामपि घर्षकम् , कृशानामपि कर्षकं कीनाशकेतुकल्पं सैहिकेय सिंहासनमासीनं म्लेच्छराजमप्यवलोक्य भियाभिभूतो भवामिन । भगवानिव भवान् भयावहेऽभ्रमणयोग्ये कालमहिषमुषिततेजः प्रसरेऽगणितगजकुल कलिते तैतिलवराहावरुद्धदिक्पथप्रचारे कान्तारे- ऽस्मिन् भ्राम्यन् नमनागपि भीषितः । धन्या साऽम्बा जनितोऽसि यया । महानसौ पिता येन दिक्षु प्रथित यशसा देशाहितगौरवेण गरीयस्त्व- माप्तुमेव स्वशिरः शातितम्न नतिमानीतम्। सौभाग्यसौहित्य सौष्ठवा सा स्त्रो यया सुतचतुष्टय प्राणाहुतिभिः 'वीरसू' रिति वीरुदमवाप्य प्राणिसहस्रप्राणसंरक्षणाय स्वदेशसत्त्वसौभाग्यं संरक्षितम् । अनिघृणा हि सा या सुतद्वयं समक्षमेव कुड्यप्राकारितं जीवितमेवं निष्पन्दीक्रियमाणं विलोक्य निरश्रुमुखी न नतानना ननाम नृशंसनिघृणनृपशुपाशववृत्ति- व्यवहारेभ्यः । वंशोन्मूलनविद्रुता च विसंज्ञेव विल पन्ती न तत्याजासून- धीरतया। प्राणिति सा प्रोषितप्राणं पुत्रचतुष्टयमपि प्रगुणित गुणगण- गौरवमेव चिकीर्षन्ती। अप्रजाऽपि सप्रजैव सा सत्त्वोद्रिक्तैः सप्रमाणैः प्रवीरैः। प्रक्रान्तपौरुषोऽपि भगवान् भगवद्विभूति विहितात्मभाव: अतिवारव्यभिचार विध्वंसकारी निर्मुक्तमोह एव कायकलौ यशःकाये संकल्पशुद्धः निरस्तात्मजोऽभिव्यक्तात्मजातिः जन्मान्तरजधन्यकृत्परि- णामप्रत्यक्ष्यपि जन्मनाऽनेन जनगणजन्मजिजीविषयाण: पितेव प्रजाः पालनपरः प्रजानाथ इव प्रजासनाथः प्राज्यभूभारधारणक्षम: क्षितीश: क्षमावानप्यविकत्थनः क्रियालुः कर्मण्यधिकार प्रवणः श्रद्धालुः सर्वथैव मे प्रशस्तिपात्रं समजनि । सुखदुःखयोः समस्वभावः भवदधीन: शिष्यः प्राणपणेनापि प्राणिगणप्राणरक्षां विधास्ये न मनागपि मनोगत मनसापि मोहगतः परिहास्ये । राष्ट्रष्ट देवप्रतिमाः प्रतिनगरं भज्यमानाः शोणितशोथं मे भावयन्ति । सर्वत एव तीक्ष्णाग्निरसदा: म्लेच्छमारकाः शवं शवं धर्षयन्तः धरां रक्तविप्लुतां कुर्वन्ति । सतीनां सहस्रस्योरोभ्यः हाहाध्वनि नि:श्वासाश्च नि:सरन्ति । विकटानायसन्दानिता भूजननीदानवापमानवेपमाना धिक्कुर्वाणा मां मोहयति पदे पदे वनितालक्षलज्जालोपश्च सार्त्तनादं नादयति मां धर्मान्वयेजाति परम्पराश्च सोपालम्भं सोत्प्रासं च सन्तापयन्ति मां ३२ वीरवैरागिचरितम् - गतोऽसि वीर । जघन्यतां क्लैव्याक्रान्तश्च न धावसि किं न कार्मुकं शरासार वर्षणाय शत्रुषु ? राजपुत्रोऽहं राज्ञां पुत्रानेव स्वपौरुषेण सन्तर्पयिष्ये । निशम्य निनदं नरहरेः नृप इव निष्ठावान् नायकमनीकिनीनां चिकीर्षुस्तं साह्लादमुवाद परिरभ्य दोाम्- 'तुष्टोऽस्मि वीर ! तितिक्षमाणश्च तिरस्कारं प्रतीकारतृष्णाकुल: नायकमवाप्य महानुभावं भ्राजिष्णुरूपं ब्रह्मणः प्रतिरूपं क्षात्त्रं धर्ममिव साक्षात् सम्भाव्य तैजसं पार्थं त्वां रथेषया रेरिहाण: 'खालसा' संघ नेतृत्वे नियोज्य कृपाणपाणिं त्वां पृतनाप्राग्रहरं प्रवीर वृषभं प्रहाराय प्रोत्तेजयन् प्रदिशाम्यादेशम्-'प्रलये प्रलीनभूपाले निलये निलीननृनाशे विषये विध्वंसविश्वासे नृशये नृशंसनृपनाथे शवाधाने च श्मशाने शितशरप्रसारकासारे हितहेतिततिव्यूहव्यवहारे धृतधैर्यधर्मी प्रकृतक्रौर्यकर्मी श्रितशौर्यशर्मी अकातर्यकर्ती अवैधव्यवर्धी विहितवीरधर्मा निहितनीचमर्मा व्यलीकेष्वव्यलीकी प्रतीकेष्वप्रतीक्षी विहितात्मभाव: परमर्मभेदी वरकर्मयोगी नरनर्मनी नत: सम्प्रदाये नैव सम्पराये गतो धर्मदाहे नहि भर्मभारे रतो राष्ट्रवादे नहि भ्रष्टभावे धृतो धैर्यदोहे नहि क्रौर्यमोहे हुतो हर्षहावे नहि तर्षतोषे वृतो वर्मवेशे नहि चर्मशोषे स्व सम्प्रदाये परीवादवादं मा कार्षीः । धवो माधव इवासौ माधवः माधवस्यैवदासभूतो माधवदासः स्वदेश्य- दास्यद्रुग्ध: विद्रोहरोहारूढ: रुद्र इव मदनदाही क्षौद्रपटलपाटलान् रोषरक्तचक्षुष्कान् चर्मवर्म चञ्चद्वपुष्कान् स्वसैनिकान् संपरिवार्य सम्परायसम्प्र तूर्णः तूणीरशरश्रद्धालुः शत्रुगृध्रमृगयालुः शिशुरपि सिंहः करटीगण्डभेदनप्रवण: क्षात्रोधर्म साक्षात् ब्रह्मविट्शूद्रान् क्षतात्त्राणपरःपरमेष्ठी परपरिमाण मर्मजिज्ञासुः दिशां जिगीषुविजिगीषुः स्वम ण्डलमण्डलित: परमण्डलपरिमण्डलीजिघांसुः ‘मृगो न भीमः कुचरो गिरिष्ठाः' जगर्ज गौरवाकूत: । भावो गुरुगौरवगानगृध्नुः शिष्यो भवाम्याहितधर्ममर्मा। नम्राननो नूनमनूनसत्त्वः सत्त्वार्थकामां नु धियम् प्रपद्ये ॥ २ ॥ सत्त्वतत्त्वपराक्रमधर्मी भवान् मान्य एव जगतां यद्विजिगीषु- भाववितान् म्लेच्छानपि मोहमापन्नान् मुमुक्षुः साह्यदानान्नैव माया: इव अथ द्वितीय उच्छ्वासः प्रमादमापेदे। तथाहि-दक्षिणात्येषु विचरन् स्वसत्व सन्त्रासितेना- वरङ्गजीवेन सम्राजासम्भावनाव्यपदेशेनाहूतः स्वसुतशोकसमभिभूतोऽपि संकथा समाचरणाय सञ्चलितः मन्युमानवजित: पितृप्राणापहारकेणापि शत्रुणा सन्दिधित्सुः सप्ताधिकसप्तशतोत्तरसहस्रतमेऽब्दे फाल्गुनमासे तच्छत्रोरकाल निधनमुपनिशम्यापि शत्रोः पुत्रद्वयस्य राज्याभिषेक- विद्रोहेऽद्रुग्ध एव द्रोहिकुमार मुहम्मदाज़मधर्षणाय ज्येष्ठावरमुहम्मदमु- अज्जमसाह्यदानविहितमति: आषाढमासे स्वसैन्यसमेतः समाजगाम समाहूतः । जजोस्थले पराजित: कनीयान् ज्यायांश्च विजितः बहादुरशाहवीरुदमापेदे सम्रासिंहासनारूढश्च सः गुरुं जग्राहोपहारैः । परं भगवन् ! न जानीते भवान् साह्यदानेन शत्रोः गृहकलहायितयोः भ्रात्रोः भावो यथा पूरित: ज्यायसस्तेन न सम्मानितो भवान् स्वपुत्र- वधकविश्वासे । द्वैधीभाव एवात्र श्रेयानभवत् द्वयोः कलहायमानयोः कालकवलनमेवास्मच्छक्ति संवर्धकञ्च । निशम्य तद्वचो बन्दाबन्धोः गुरुर्गरीयान् गरिमाणमाप्तः स्वागतगिरा गौरवं सम्प्रपन्नः श्रद्धालुः तद्वीरवाक्ये 'बन्दा' इति नाम 'बहादुरः' सम्प्रचख्ये। सम्प्रेरितो वीरवाक्येन तेन प्रादात्स: तमसिं स्वकीयम् । सासिः स्वकीयैः शिष्यैः संगृहीतः गुरोगैरिवं द्विगुणं चकार । निशश्वसे स: सुखनिश्वासं विशश्वसे च विश्वस्मिन् खालसासंघभावे । प्रोवाच तूर्णम्- "वरिवीर ! वर्धतां भवान् वीराग्रणीः वीरमानी वीर्यैकसत्त्वतत्त्वविज्ञानी विश्वासभूमिर्भवान् मन्येऽहं प्रतिनि:श्वासं मातृभूमेरेव परिरक्षणपर: सर्वदेवदिव्या दानवदाहदौर्दम्य: यत्किञ्चनाप्यभाषत तत्सर्वमेव सर्वज्ञतां विशिनष्टि । नीतिस्तावदितीयत्येव यत् उपक; ह्यरिणा तावदेव सन्धातव्यं यावत्सः नः कार्यप्रतिपत्तिमनुबध्नीयात् नोचेदनन्तरं 'कातयं केवलानीतिः शौर्यं श्वापदचेष्टितम्' इत्येवभावः प्रथीयताम् । सम्यक्सम्बोधितोऽहं भवता “यच्छत्रु: शत्रुरेव साधीयान् समययापनायैवमित्रीकृतोऽपि न सुखावहः स्यात्"। महत्यभूत्प्रत्याशा मे यन्मित्रीकरणेन सः संयुगे च साह्यदानादसौ सुतद्वयस्य मे मारकान् कालपाशिकानिव दण्डपाशिकान् तस्यै अर्पयिष्यति परं सम्प्रतारितोऽहं तेन स्वसत्त्वसंस्पर्शी पर- तत्त्वाभिमर्शी त्वयि प्राप्तेसति सौभ्रातरि स्वदोषनिर्दाहनिविष्णः प्रायश्चित्तिमापन्नः बीभत्समानश्चानुपकर्तुररिनराधमात् भवदुत्कृष्ट- व्यक्तित्व क्रियाकलापपरिभावितो बन्देरस्थले भवता समागतः ६४ वीरवैरागिचरितम् सम्भावितश्च सम्यक् सम्पूजितः समतत्त्वदर्शित्वमापादितः धोवैपरीत्य- विध्वस्तोऽपि विवेकित्वमानायितः भवन्तं स्वसंघसौख्यसौहित्याय नेतृत्वमापादये नेतृत्वमापन्नाश्च बन्दः वीर्येकबन्धनः प्रबन्धक इव पृतनानां पर शुशरशङ्कुप्रासादितोमरभिन्दिपालनाराचादिप्रहरणशत- शौण्डीर्यदर्शनः समदर्शनोऽपि विषमदर्शनस्त्रिपुरारिः कामदहनः पञ्चेषुर्मदनरसमर्दनः गुरुणा गोविन्देन गाः विन्दान: स्फूर्तिमयी: शरपञ्चकप्रदान प्रसादवित्तकः प्रोल्लसत्प्राणप्रियालुः प्रतिज्ञापरयौ- गन्धरायण इव प्रतिज्ञातयौगन्धरायणः युगन्धर इव युवयुग्मधरः ब्रीकचारीसब्रह्मचारी स्वसंधैकसेनो गुरुभक्तभूतः पञ्चव्रतव्रातभूतान् सायकान् समभ्यासत्यप्रमाथी तु सत्यैकवादी स्त्री पारायणस्तु स्त्रीपरित्राणपर: पुमांश्च पुमर्थप्रमाण: गुरुरपि गुरुवादभीतः शिष्यश्च सिंहासनासोनः अरातिभ्रममर्दनो मृगारातिः मृषावादिवातवातूलः मृदङ्गध्वजच्छत्रचामरचिह्नचारी पञ्चभिः प्रियः विनोदसिंह कहनसिंह- दयासिंह - रामसिंहबाजसिंहप्रवीरपञ्चकैरनुगम्यमानः विशतिशूरैश्च परिवारितः प्रजापतिरिव प्रजापतित्व प्रतिष्ठः पञ्चापपुण्यम् पञ्चाप- प्रदेशं प्रपित्सुः पञ्चाप्तपुरुषपरिवृतः विंशतिसम्पिण्डितैः पञ्चविंशति- पुरुषाधिष्ठित: पञ्चविंशतिसहस्र प्राणिपरित्राणप्रतिज्ञातप्राणपणः पञ्चाग्निसाध्यान् पञ्चनियमानेव प्रतिष्ठासुः अष्टोत्तरसप्तशतोत्तर- सहस्रतमे खीष्टाब्दे गुरोर्वधव्याप्तविषस्फूजितफणाभित्तिभृद्वयाल इव वपुष्मान् पञ्चापमागात् प्रतूर्णम् । इति डा० सुदर्शनशर्मणां कृते वीरवैरागिचरिते, द्वितीय उच्छ्वासः ॥
सप्तस्वसा अथ तृतीय उच्छवासः पुण्या हि पञ्चापपवित्ररूपा सा भूतधानी ननु धर्मगूढा । वैविकोवृत्तिविशेषमूला पूज्या परंपुण्य जनैकरम्या ॥१॥ प्राणान्तिकोवृत्तिविशेषयुक्ताः वीराश्च यस्यां ननु धर्ममृत्याः । वाचा यमेनैव युताः स्वयुक्त्या योधाप्रगण्याः ननु गौरवाढधाः ॥२॥ सैन्धवसक्तसस्या सौभाग्यदुर्भाग्यविशाखिकाढया सोपद्रवा चैव शमप्रधाना प्रक्लेशिता शिलष्टिगतै योगः ॥३॥ विभ्रमभ्रमणभ्रमरो भ्रमर इव प्रतिपुष्पासवपिपासुः प्रवृत्ति- सारासारवर्षी वृषाकपिरिव वपुष्मान् उदीयमानस्तिग्मरश्मिः रथेषया राष्ट्ररागैकरागी परुण इव रक्तमार्गी वरुण इव विनीतिनेतानारायणः नणामग्रणीरगण्यगुण: गुरुगौरवाढय: तेजः पुञ्जप्रसरप्रसारी प्रावृट्- पयोद इव स्तनयित्नुः स्त्यानाश्मस्थल जलज्वलनजीवनश्रद्धालुः शरीरी शर्मालुः सर्वथैव प्राणैरपि प्राणिपरित्राणपणबन्धबन्धुः बन्धुवयक- वर्धनबद्धबुद्धिः वयोयुवापि प्राज्यतेजाः प्राज्याज्याहुतिपूतप्राणिप्रसरां स्वधरां धारणाय धृतव्रतः दृढपरिमाण: कर्मप्रमाण: फलापरिणामः प्रमाणविदप्यप्रमाणविद्यः दारुणकर्मकृतां कर्मसु क्रौर्यनिष्ठः कृपाण- कृत्तकन्धरमपि गुरुं स्वकीयं स्वकबन्धकीयं विभाव्य नृसिंह इवावताररूपः म्लेच्छान् प्रमाष्टुं मृगानिव मृगादनः मृगयालुः मुमूर्षुणामग्रगण्यः प्राणान् कण्ठगतान् विधाय नीलकण्ठ इव कण्ठनील: ( ३५ ) वीरवैरागिचरितम् कालकूटामिव पिपासुः प्रतर्दन इव पराक्रमी पुरुषोत्तमः प्रशस्यतमः प्रशिष्यश्च प्राचार्यभूतः घोरप्रचारं कान्तारमिवाकलयन् कलिकाल- कश्मलितं कालकलि क्रोधाविष्ट इव कालसर्पः फूत्कृत्य फूत्कृत्य प्रवेयमानः प्रोद्ध्य वदनं प्रोत्कृत्य चोष्ठं प्रविघूर्णमाणः प्रागात्पुरं प्राक्तनप्रापनीयम् । दिल्लीपुरी प्राक्तनदिल्लिकाख्या संस्थापिता तेस्प्रतिहारराजैः । काष्ठाः कृताकृष्टिकृतप्रकाशाः पारंगतः प्राणपणापणीना: ॥४॥ कलिन्दकन्या कीनाशकनीयसीस्वसासती कीनाशप्रायराजकुल- कलिला कलङ्किता कुलाङ्गाराणां कालिम्ना कूलंकषा क्षुब्धसलिला च सुतरां सम्भावनीया नाभवत् पुंभिः अत एव वीरो वैरागी वैररागीव गरीयान् गुरुगौरवाढय: गढियः सन्नपि न धनाढयः धनजनलिप्सुः सबकणी लेलिहान: 'बरिया'स्थले शिविरमावास्य प्रतीक्षमाण: वीवधा- सारप्रसारमनुजुषाण: 'सधौरा'स्थलं लङ्घनायेष्टकाचयतां नीत्वा तत्तत्रत्यान् मौहम्मदांश्चेष्टिपशुमारं मारयित्वा 'बुद्धशाह'तच्छिष्य- संघशूलारोपणे रोषारुणितनेत्र: दिल्लीसम्राट्स्वभाव दुर्भावद्वेषदुर्दम्य: गुरुसाह्यदानसव्यपेक्षि-बुद्धशाहश्रद्धालु: मृगालुरिव मृगादन: दुष्टवराह- प्रोथपशुकान् स्वशरान् तूणीरेभ्य: नि:सारं निःसारं तथा नाम कोदण्डा- दवर्षयत् यथा नाम नरनासिकालोलुपा: भल्लूका इव श्मश्रुलाः शूनोदरा: शातिता: भुवं श्मशानस्थलमिव दर्शयाम्बभूवुः । 'वजीरखानो'ऽपि महीयान्नृशंसः गुरुगौरवग्रसन संग्रामी 'सरहिन्द'-प्रशास्ता गुरुपुत्रद्वय- मारणमृगयुः मुमूर्षुरेव मृगाराति मर्दनमनीषी मोक्षकमार्गी वैरागिकरक- मलाभ्यामेव मृणालतन्तुरिव तिरोहितो वभूव । प्रदृष्टश्च गुरुरसौ वैरागिणं पर्वतकान्क्षुद्रसामन्तान् क्षुपोच्छेद मुत्तोल्य संहारार्थमादिदेश । द्रुग्धाः द्रुहिला: दौरात्म्यदग्धा एव देशिदारण द्रढीयांसः दद्र्धूर्ता इव स्वकीयानपि धर्षणरता अर्थकल्यवर्तानवाकलथ्य कार्यतत्त्वं शत्रुभिरेव सन्धित्सवः सुतरां धरा मिमां धर्षयामासुरत एव शुचिनामनिष्ठोऽपि चेतस्यशुचीनभावः श्रुत्यानन्दो (सुच्चानन्द) नाम नृपशुः पाशववृत्ति- वर्तनः गोविन्दगुरोरपत्यद्वयकुड्यीकरणे दहदायित्वदायी देशिजनगण- दुःखासिकादानपरो जघन्यः सन् वैरागिवीरहेतिततितिग्मधाराकृत्त- अथ तृतीय उच्छ्वासः कन्धरो धराशायी शयानः शूनान्तरालः शृगाल इवात्तस्नाय्वान्त्रनेत्र- प्रेतरङ्क: कपालकर ङ्कङ्कर्षः कवलितः दुर्गगतस्वसैन्यदलदुर्गत दोहदाया- लम्बभूव । वैरागिवीरवैर विकारविसरविध्वंसप्रसरप्रसारपुरुष काररौद्र- दारण दोहलमालोक्य दुर्गद्वाररक्षी शातघ्न्यगोलवर्षणायादिदेश । तूणीरगतशरासारवर्षेश्च वैरागी भौशुण्डयशातघ्न्यगोलान् मध्येमार्गमेव चूर्णीचकार । तथाविधे गते साम्पराये सममेधश्चयीभूतेषु प्रारक्षिपुरुषेषु दुर्गमशवशिविरमिवाभासमानं यौगन्धरीणशक्तिशातित तारक तारकितं भग्नशिरोधराशिराः शिराजालजालकितं शीर्णदीर्णदिवंगतजीव जीर्णा- रण्यमिव शून्यं समजनि । हिन्दुशर शकलित शिरस्कमौहम्मदं स्थलमिदं सरहिन्दाख्यं हिन्दुजनस्वातन्त्र्यचिह्नाकारपताकास्थानकैः पताकायितम भवत् । हिन्दुगणशिरोरत्नभूतमिदं सरहिन्दस्थलं सौरमण्डलाखण्डले- लावृत्प्राकारपरिकरितं गोपुरतोरणद्वारगतध्वजधूननं न्यदधात् । अनुश्रूयते यत् सरहिन्दविजयात्प्राक् वैरागिवीरः धनाभावात् वीवधासार प्रसारसरणि संकटविकटवैभवः शत्रुशातनशील एव मनस्वी व्यापारिणा केनचित् स्वीयायतो भागदशकमवाप्य प्रवर्धमानः स्वसैन्यैः कपिलस्थल कपिस्थलाद्यतनीय कैथलस्थलीयग्रामात् यान्तमेकं कोश- धृतमपि पुरुषं हत्वा स्वधनेषणां सम्पूर्णां चकार । 'मृध्वधूवरणे हृद्वधूवरणे च सर्व सापेक्ष्यमपेक्ष्यं वा न्याय्यमेव भवति' इति विधि मा कलय्य दस्युभावोऽप्यस्य देशिदास्यदूषणदारकं प्रशस्यं भूयात् । ग्रामे कस्मिन् दस्युदूना: ग्रामीणाः दस्युदौरात्म्यदूनाः वैरागिवीरेणै- वावस्कद्यमारितैर्दस्युभिः दुःखासिकादीर्णाः सुखिनः कृताः तद्वीरत्व- प्रशस्तिचिख्यासनाः तद्गौरवमेव गीतवन्तः । द्रोहिदस्युदारणाय दस्युभावभावनमप्यस्य सुखपक्षीयं स्यात् गुणगरिमाणं चादध्यादिति भणितिरत्र श्लाघ्या। बङ्गारग्रामोपस्थस्थायी च वैरागी दस्युद्रोहविद्रोहविद्रावितैः ग्रामीणैः त्रासगद्गदं गदद्भिः प्रभावित: ग्रामविध्वंसदोषापेक्षी स्वपौरुषप्रवणांस्तान् संविधाय पाणिग्राहांस्तान् संरक्ष्य स्वभुजदण्ड- कोदण्डकर्षणकुशल: दस्युद्विष्ट: दुष्टांस्तान् दस्यून् दमनादेशदक्ष: दमनायादिदेश। दस्यवश्च ते लुण्टाका एव प्रकाशवीरवैरागिवैरवैर- स्याविधिविषहणविसंष्ठुला: वैरागिवीरगणग्रसिताः पदैः स्खलितः कान्दिशीका: बभूवुः । विद्रुताश्च ते प्राक्तनस्थलापहृतलोत्राण्यपि व्यस्राक्षुः। वैरागिहस्त प्रापितानि च लोप्त्राणि पुनरपि लुण्ठित- ३८ वीरवरागिचरितम् व्यव- जनगणहस्तगतानि कृतानि । तानि प्राप्य ग्रामीणा: तस्मै आशिष एव प्रादुः । आशीभिरेव प्रोत्साहितोऽसौ जनगणहितविधित्सुः दस्युद्रुग्धजनविध्वंसनबद्धपरिकरः संनद्धवीरपुरुषप्रकटितशौर्याशय: नोतिनुन्नाशौर्यसम्भावितसौहार्दश्च सः सौराज्यरागी वैराज्यवैरागी विध्वंसकृतां विध्वंसकः नृशंसकृद्भयो नृशंस कृत्क: दलितदलदलन- दुहिलदारणदक्षः, दुष्टसंहारविहारी, कष्टसंवारसंस्कारी सायितायुतर्दनतृषालुः स्वभयस्तातताय्यध्यक्षप्रतारणशयालुः श्रद्धालूना श्रद्धालुः शर्धतां च शातनशीलः मुग़लसम्राजां मारात्मकमनोवृत्तीनां मथनमनीषी अमानवीयमानवमर्दनमोहमूढः मिथ्यावादिमृषावाद- विषूचिकाविनाशकारी गोविन्दगुरोरग्रमार्गण इवाग्रगामी सर्ववीरान् वैरिणां वीर्य विरसीकर्तुं व्याख्यानमददात् । व्याख्यानमस्य निशम्य नृणां निकाया: केतनेषु केतूनाकलय्य चेकिताना: साकूत- माख्यन्त: संख्यातवीरपुरुषानसंख्यातमात्रामापादयन् । वैरागिवीरः वीररागमेवोच्चस्तमा गायन् गुरुगौरवगानगरीयान् स्वयमेव गुरुगौरवगुप्तः सुगुप्तिगुप्तः गोविन्दसिंहशिष्यैः गुरोरस्यावतार- समतामापादितः गोविन्दमार्गणाश्च तैः विजयशपथपदवीमाषादितः सहायीकृताः । सैन्यदलान्यत्र त्रिविधान्येवासन् । एकानि तानि येषु वीरा: सैनिकाः जीवितनिरपेक्षा: प्राणपणैरपि गुरुगोविन्दगौरवे भक्तिमन्त: अपराणि तानि येषु रामसिंहत्रिलोकसिंहसामन्तनायक- निष्ठावन्त: स्वार्थपराः सर्वस्वमेव स्वं स्वीकर्तुमुत्सुकाः प्रलोभ्यलोभैः परिक्रीता: पाष्णिस्थाः पुरुषद्रव्यसम्पत्संयोजयन्तः प्राणालेव परित्राय कार्याणि कुर्वाणा: वैरागिवीरसाह्यमकुर्वन् । तृतीयाश्च ते ये लोप्त्र- धस्मरा: लुण्टाका इव विकटस्थितिस्थानशीला: साहसिका: पुरगोपुर- प्राकारतोरणभङ्क्तिभिर्दा हैर्वा दुराचारविदग्धा: द्रोहिदस्युभूतदानव- दौरात्म्यद्रुहिलसंमर्दविमर्दकुशलारिविदारणपेशलाः प्राणापहारिणः । कपिलस्थलकोशहरणवृत्तान्त: तत्स्थानीयप्रशासकेनामिलेन यदा लब्धस्तदैव स: स्वानीकिनीभिः सन्नद्ध: अश्वारोहबहुलः पत्तिप्रायान् वैरागिवीर शिष्यानाक्रमितुं स्थलं तत्प्राप्तवान् । वैरागिवीरोऽत्र मनसि चकार यत्पावत्तिवनद्रुमगुल्मतृणकक्षकण्टकिलप्रदेश एव सैन्यगुप्ति: समयप्रतीता । अश्वारोहाश्च क्षुपोच्छेदमुत्तोलनाय पद्गन्तारो बभूवुः । तद्गतांस्तानवलोक्य वैरागीवीराग्रणी:रान् स्वान् इङ्गिताकाराभ्यां उद्भाव्य गुल्मकक्षेभ्य: निःसार्य चाश्वाना- ।
an । । अथ तृतीय उच्छ्वासः ३६ रोहयितुं प्रेरितवान् । अश्वारूढेश्च तैः प्रशासकपत्तयः कृपाणधाराभिः कृत्तकन्धराः विनेशुरमिलश्च बन्दीग्राहं गृहीत: प्रतिमुक्तश्च समयतौ यदसौ स्वमश्वीयमेव तदीयवीरेभ्यः समर्पयिष्यति । अश्वीयं हस्तगतं लोत्राणि च सैन्यत्रितये विभक्तानि नेतुर्वैरागिणो निस्वार्थभावत्वं प्रकटीचकार येन सर्व एव सैनिकाः तदीया एव भक्ता: बभूवुः । गोविन्दगुरोर्गुरोस्तेगबहादुरस्य ग्रीवाकृत् जलालुद्दीन: 'समाना' स्थलवास्तव्योऽभूत् । वैरागी तत्कारणादपि प्रतीकारविवित्सुः वीरान् स्वानग्रेचकार । वज़ीरखाननामा सरहिन्दशास्ता वैरागिवीरवैर- कृत्यानि विभाव्य परां चिन्तामापेदे । शिष्यसैन्यानिसंयन्तुं सोऽलि- सिंह-मालिसिंह-गुरुदयालुसिंह सूबासिंहप्रख्यात् सलौद ग्रामवास्तव्यान् सिंहसामन्तान् सभासदांश्चकार तेषां पुरस्ताच्च गुरोर्गोविन्दस्य वीराणाम् वैरागिवीरपौरुषञ्चाधरीचकार । असमर्षिणस्ते चत्वार एव स्वसेवां तदीयगतां संकोच्य स्वभृतिवृत्तिपूरीकरणाय प्रार्थितवन्तः । वजीरखानश्च तान् विनेव निगडीकृत्य कारागृहप्रवेशाय घोषया- ञ्चके। कारागाराध्यक्षसाधन चत्वार एव तमिस्रानीरन्ध्रतमसि नगरादहिनिस्सृत्य पलायिताः वैरागिवीरमधिगत्य च शास्तुः प्रयोग- प्रमाणान्यादाय प्रादुः । तेषां सहयोगैश्च वैरागिवीरः स्वपराक्रम- परिक्रमणपेशलः प्रोत्साहितः प्रयोगान् स्वीयान् पृथुरीचकार । 'समाना-पत्तनं पुरातनपुरेषु समृद्धिसम्भृतम् सौभाग्यसम्पदमापेदे । प्रत एवेदं वैरागिधनैषणापूरणायालम्बभूव । सय्यदमुग़लसामन्तसमेतं च सदिदं वैरागिवीरवैरविधिविधानाय निहितलक्ष्यमभवत् । वैरागि- वीरो वीराग्रणी: वीरवारणवृन्दवरीयान् विध्वंसकृत्कर्मक्रूरान् मुग़लान् मुमूर्छन् इष्टिपशुमारं मारणाय शलभप्रायप्रपतनकुशलान् प्रवीरान् स्वान् परापतितुमादिदेशं । शत्रुशक्तिसौष्ठवमधरमाकलयन्तो मुग़ला: देहेषु दष्टाः दु:खासिकादग्धदेहा: आबालवृद्धाः सस्त्रीकाश्च यमसदनं संजग्मुः । सय्यदजलालुद्दीनादीनां संतत्यः सातत्याभावात् संहार- सहृताः सौभाग्यविच्छित्तिछेदमापेदुः । आनन्दपुरानन्दपूरप्लावितपूर्व- पुरुषं गोविन्दगुरुं इम एव जाल्माः दुर्गाद्वहिष्कर्तु विश्वासघात- मापेदुः । गृञ्जनमूलकमूलच्छिन्नशिरोधराश्च मुग़लाः क्षितौविचेष्ट- माना: असृक्सरित्प्रवाहान् प्रादुः। विध्वस्तशेषेऽस्मिन् पत्तने हिन्द- वोऽवशिष्टाः वैरागिगौरवमुच्चर्जगुः । फतेहसिंहाश्चर्यचरितमवलोक्य वैरागी तं तत्रस्थं सैन्यशासकं चकार । लोप्त्रमादाय वैरागिवीराः । वीरवैरागिचरितम् सरहिन्दमभिजामुः। समानाविध्वंसात्प्रागेव वज़ीरखानोऽपि चारचक्षुः स्वचक्षुर्भूतैश्चारैः चारयाम्बभूव । समानासीमसु समभिगच्छन्तश्च ते वैरागिवीरवैरविधि विवित्सवः वैरागिवीरपुरुषैः हस्तगाताः विकर्ण- नासिकीकृता: वजीरखानं प्रति प्रेषिताः शास्तु: रोषं शोकं च पर्य- वर्धयन् । घुरमग्रामपठाना अपि वैरागिवीरैः विध्वंसिताः। थस्का- थानेसर (स्थाण्वीश्वर) शाहबादादयोऽपि विधेयोकृता: वैरागिवीर- पौरुषं प्रख्यापयामासुः । बृहत्कायभुशुण्डीद्वययुक्ताश्च मुग़ला: मुस्तफ़ा- बादस्थले वैरागिवीरवीरान् विरोद्धं निरोद्धं च संनद्धा: बभूवुः । लोप्त्रलुब्धाश्च वैरागिणः पाणिग्राहाः प्राणत्राणाय परितो विदुद्रुवुः । परं वैरागिवीरैः सोत्साहैः भुशुण्डीद्वय भारोऽपि स्वकौशलेन लघू कृत: मुग़लाश्च कान्दिशोकीकृताः। भुशुण्ड्यौ च हस्तगतीकृते । लोप्त्रलुब्धाः कान्दिशीकाः पुनरपि वैरागिवीरपृतनापाणिग्राहा: बभूवुः । सधौरा- समीपगतः कपूरिग्रामः वैरागिवीरैराक्रान्तः । सधौराग्रामसम्राट चोस्मानखान: लम्पट: ग्रामीणजनगणधनमानजि क्षुः स्त्रीसतीत्व भ्रंशयिता ग्रामीणजनगणजुगुप्सितः आसीत् । चतुर्गुणकरदाना क्रान्तिदूना: हिन्दवः रथ्यास्वेव प्रत्यक्षमुस्मानखानानुचरैः हन्यमानाः गा: विलोक्य 'त्राहि त्राहि' भगवन् ! 'त्राहि नः' इति करुणाकन्दं क्रन्दन्तः प्रार्थयामासुः । गोघ्नाः गवां गात्राणि हिन्दूनां गृहाणां पुरस्तादेव प्रचिक्षिपुः रुधिरस्रोतांसि च तत्रैव प्रसुस्रुवुः । बीभत्सदर्शन- मिदं विज्ञाय वैरागी विगतचेतनोऽपि विधूतवैरचेतनो हिन्दूनां मृतकानपि निखातान् विलोक्य वज्राष्टकृत्कशाप्रहारोत्तेजित इव मृगारातिः धन्वोद्भान्तमृगानिव पिपासुकान् मुसलमानान् व्याकुलीकृत्य मारयितुं मति बबन्ध । बुद्धशाहाख्यश्च पोर: गोविन्दगुरुसाह्यापादनदोषदूषितः उस्मानखानेन भंगानीस्थलयुद्धगतः कृपाणधारीकृतोऽभूत् । वैरागिवीरो न शशाक समाचारमिमं सोढुं नगरमिदञ्च सञ्चक्राम । सर्व- कारीया: सेनाः तस्य पुरो न शेकुः स्थातुं पराजिताश्च ताः पलायिता:। कान्दिशीकाश्च सैनिकाः सय्यदहर्येषु शरणागता: परं वैरागिवीरेण पशुमारं मारिताः । कथ्यते यत् नगरवास्तव्या: मुसलमाना: शाहबदरुद्दीनस्य प्रास्थानमण्डपं प्रविविशुः सम्भाव्यतद्यत् कृपाणीकृतः सय्यदः दिवंगतस्य गुरोः गोविन्दस्य सखाऽऽसीत् परं शिष्या: न तेषु दयामाकार्षुः । पशुमारंमारणव्यवहारात्स्थलमिदं शूनास्थलं 'कत्लगढ़ो'ति पारस्यभाषापरनामसत्कं इति व्याहृति लेभे ।
अथ तृतीय उच्छ्वासः स्थानीया: सज्जना एव वस्तुतः मुसलमानदुर्जनद्रोहविद्रोहदाहदग्धाः वैरागिवीरसाह्यसमपेक्षिणः हृदयविदारणी क्रियायिमामकार्षुः । काजी- सय्यदशेखानां क्रूरकर्माणि विलोक्य वैरागिवीरस्तत्रागत पासीत् । तस्यैव संरक्षणमाघायोत्तेजिता: स्थानीयवीराः प्रतीकारप्रवणाः स्वच्छन्दव्यवहारिणश्च पशुमारणक्रियामकार्ष:। छतबनूरस्थलयोरपि मुसलमानाः गोघातका: बभूवुः तत्कारणादेव ते इष्टिपशुमारं मारिताः । लघुस्थलानीमानि विजित्य वैरागिवीरेण स्वदेशीयानां हृदयानि सोत्साहानि कृतानि । मनोबलोल्लसिताश्च ते सर्व एव सुखनिःश्वासं निशश्वसिरे । एभिरेव विजयैः बृहद्विजयपद्धतिश्च निर्मिता। मालवीय शिष्याणां सम्पर्केण वैरागिवीरस्य पदपद्धति: सुख- सञ्चारैव जाता। मालवीयाः नेतारस्तस्य प्रशस्ती: समगायन् । वजीरखानश्च तेषां व्यवहारे व्यवधानमकरोत् । वीतशुल्कशरण- स्थानागारप्रभृतीषु मुख्यानपि स आदिदेश शिष्याणां सुखप्रसरप्रचार- प्रतिबन्धाय। परम् । प्रकातरास्ते प्रकान्दिशीकाश्च नयैक लुब्धाः । सविग्रहाः प्रासनयानगूढाः सगौरवाः भैरवरागमापुः ॥५॥ कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाश्च ते तीक्ष्णा. ग्निरसदा: भिक्षुश्रमणभूताः नटनर्तकगायनवादकवग्ग्जीवनकुशीलव- व्यवसायाः मत्तोन्मत्ता: विविधशिल्पव्यवहारिणश्च व्यापारिवर्ग: समकक्ष्या: सुगुप्तिगुप्ता: चत्वारिंशद्धरणोपायांश्च प्रयुञ्जानाः गूढप्रणिधयोऽपि न गूढ़प्रणिधयो सच्छन्नरूपा अपि स्वच्छन्द- व्यवहारिणः संकटस्था अपि विकटव्यवस्था: वैररागिणोऽपि वैरागिणः कृतककलहकारिणोऽपि न कामलाः अकमलव्यवहारिणोऽपि सकलमलापहारिणः प्रकीतिकृतां कीर्तिमलनमूढा: मालव्याः शिष्याः किशोरसिंहरामसिंहप्रभृतिप्रमुखपण्याजीवसम्पर्क गताः किरातपुर- सदृशकीर्तिपुराख्यं पुरं प्रापुः । स्वागतीकृताश्चात्र ते स्थानीयसज्जनः मझेलशिष्यसमेताः सौभाग्यमात्मीयं मेनिरे। प्रतीक्षमाणाश्च वैरागि- वीरागमनं चिरायिताः भृशदुःखिताश्च वैरागिवीराय लेखहारक च शक्त्यैकमूढाः वि) ४२ वीरवैरागिचरितम् प्रेषयन् प्रत्युत्तरञ्च प्राप्य हर्षातिरेकेण व्याकुलितास्ते खरउस्थल- प्राप्त्यादेशमवापुः शतद्रुसरित्तीरोत्तरीयैः दोयाबदेशीयैः सम्पृक्ताः मझेलशिष्याः कीत्तिपुरान्निष्क्रान्ताः पदात्पदं प्रविसर्पमाणाः वजीर- खानाय चिन्ताज्वरं जज्ञिरे अपि चेत्ते वैरागिवीरपृतनासम्पृक्ताः सौभाग्यमस्य दुर्भाग्यप्रायमेव कुर्वन्तु । सम्पर्कमिमं परिहर्तु सः उपायानुपायुक्त । शेरखानमुहम्मदनामानं च मलेरकोटलावास्तव्यं कार्यमिदं समाधातुमाज्ञप्तवान् । प्राज्ञप्तिमिमां शिरसि निधाय शेरमुहम्मदखान: खिजरनश्तरवलीमुहम्मदखानैः समेतः शिष्यान् हन्तुं शशका निव स्वपितृ व्यनबीखानमृत्युप्रतीकाराय प्राचलत् । रूपपुरप्राप्ताः शिष्या: शेरमुहम्मदखानेनाक्रामिता: स्वल्पसैन्या अपि सोत्साहाः शरचापहस्ता अपि शिरस्त्राणयुक्ताः प्राणाहुतिदानरक्ताः शेर मुहम्मदखानस्य सैन्ये शलला इव सिंहेषु शरशल्यकभेदेनकुशलाः भुशुण्डीशतघ्नीगुलिकोद्गारानपि नि:प्रभानाकार्षः। असृक्प्रवाहाश्चो- भयोरेवपक्षयोः प्रसुस्रवुः नक्तञ्च स्पल्पावशिष्टा: शिष्या: प्रात: अफ़ग़ानविडालैः मूषिकताता इव कवलीकरणायावशिष्टाः इति प्रतीतिः प्रथितिमवाप परं 'प्रभाते दृष्टदोषाणां वैरिणां रजनीभयम्' इति नीतिमाकलय्य शिष्यः पूर्वोत्तरेभ्यो दिग्विभागेभ्य: वीवधासार- प्रसारसैन्यसमूहाश्च समायोजिताः । प्रातरेवोत्थाय ख़िज़रखानः शिष्यसिंहान् शृगाली भवितुं प्रेरयामास शस्त्रास्त्राणि च प्रतीपीकरणायो- त्तोलयामास परं शरासारवर्षेः शिष्याणां ख़िज़रखानो यमघामं प्राप्तवान् । हते नेतरि अफ़ग़ानाः हतोत्साहाः कान्दिशोकाः बभूवः । शेर मुहम्मदखानः ससहाय एव नश्तरवलोमुहम्मदाभ्यां सञ्चक्राम । खालसासैन्यैश्च हेतिततितिरोहितकायाः अफ़ग़ानाः नश्तरवली- मुहम्मदखानावपि विगतजीवितौ कारितवन्तः शेरमुहम्मदञ्च क्षतविक्षतकायमवापुः । खालसानां बाहवाबाहविमल्लयुद्धे विजय एव समजायत । कान्दिशीकैश्चाफ़गानः विसृष्टास्त्रशस्त्राणि च खालसासैनिकैः स्वायत्तीकृत्य व्यवहारविधेयोकृतानि । खरड़- वन्नूरयोर्मध्य एव वैरागिवीर: स्व विजयिसैनिकान् स्वागतीचकार । सरहिन्दसम्पराये वैरागिवीरो मतिं चकाङ्क्ष । वजीरखानश्चात्र नाममात्रगृहीते वैरागिवीरे विनिद्र एव नेत्रे विस्फार्य निशासु नैव चैतन्यं लेभे। कुत:- -
प्रय तृतीय उच्छ्वासः
-
अनन्ति ते मूढधियः पराभवम्
गतस्मया: रोषपरागताः हि ये।
द्विषवलं धोक्ष्य विरक्तचेतसः
कुकर्मभिः सिद्धि पथैकगामिनः ॥६॥
विप्रलब्धश्च वजीरखान: बलाबलं नैव विभाव्य शत्रो: शत्रु
स्वकीयञ्च विज्ञाय मूढम्-
स: फेरुभिः सिंहगति विभाष्य
तान्खालसान्प्राह वजीरखानः ।
पुत्रैः स्वकीयश्च
समेतधिः।
निर्वासितः सिंहगुगिरिष्ठाः ॥ ७ ॥
पुत्रास्तदीयाः ननु लोभलुब्धाः
शिष्याश्च ये दोहरता: निरस्ताः ।
सर्वे समेताः यमधामगत्य
वैरागरागं ननु धेहि मूढ ! ॥८॥
शक्तिर्मदीया ननु सिद्धिसत्का
वैरागिनस्ते च तथा विधा: न।
श्येनेक सौभाग्यगता मदीया
त्वच्चाटकी वत्तिविनाशयोग्या ॥ ९॥
योग्यो भवान्तव मदीय सैन्यः
सांग्रामिकं संविहितं विधातुम् ।
सम्राट्समेताश्च वयं गिरिष्ठाः
युष्मत्समाः दीनमुखाः धरायाम् ॥ १० ॥
तां भीषिका नैव ननाम भीत:
सिंहश्च गर्जनदीर्णकण्ठः ।
उद्घोषयामास विशालनाव:
गोमायुगम्याः नहि सिंहयोधाः ॥११॥
सोत्साहमादाय बलं स्वकीयम्
सौग्रामिकी योगरति चिकीर्षुः ।
सैन्यैः स्वकीयैर्ननु नद्धकायः
आयाहि मे योधबलं प्रतीहि ॥ १२॥
४४ बीररागिचरितम् शब्देस्तबीयैर्ननु सर्पकल्पैः दष्टो बभूत्ति निनावदर्शी। दन्ती यथाऽऽलानगतो हि विद्धः मर्माहतो वृंहति दूनचेताः ॥ १३ ॥ योधान्स्वकीयांश्च विलब्धसंज्ञान स्वैः सामजैः साध्यगताश्च काङ्क्ष । भौशुण्डिकः शस्त्रयुतैश्च योधेः सन्तर्जयामास रणाङ्गणे सः ॥१४॥ बन्धनमाततान व्यू हैः स्वकीयैश्च विलिप्तमार्गः । सामजेयूहगति विधाय मोहम्मदो युद्धरतो बभूव ॥१५॥ न्यूढं हि तद्वीक्ष्य वजीरखान: सैन्यं तदीयञ्च समूहसत्कभ । उत्तेजितो घृणित एव कोपात् स्वैः स्फोटकैरस्त्रशतैजंगर्ज ॥ १६ ॥ तां गर्जनां रोषगताश्च सिंहाः प्राकण्यं सम्भाव्य बभूवुरिद्धाः । संरक्तनेवा: शालभायमानाः साङ्गारवर्षासु निपेतुरुग्राः ॥१७॥ अथोपपृतनापतिर्बाजसिंहः सिंहान् स्वकान् ‘नष्टसंज्ञान विभाव्य बन्दासिंहं नेतृत्वमाधापयितुमाजुहाव । निरोधमुक्तश्च योधसिंहः मदमलिन कपोल भित्तिगजसत्रिभांस्तान् चपेटाप्रहारैरेव शायिनो विधातुं स्वजातीयैरेव सिंहैः समं संपतन् केसरि- किशोर इव क्रियालु: भल्लूकयुवेव मृगयुनासिकालिप्सुः संगरकौटिल्यकुटिलमतिः कौटिल्यकूटैककरणशीलः शौर्यकैवल्यकर्मठान् श्वापदांस्तान् शस्त्रास्त्रप्रहारैः यमधानीयसदनं संवेशयामास येन वजीरखान एक एव द्वन्द्वचिकीर्षुः “समष्टिगतोऽपि व्यष्टिभावगतः एकवीरः अभिमन्युमन्युवेगव्यप देशदर्शी चक्रव्यूहकर्मठः कर्मण्येवाधि धरा- ४५ अथ तृतीय उच्छ्वासः कारचिकीर्षुः व्याजैः सहस्त्रैश्च चतुर्मुखत्वमापन्न: परमेष्ठी हिरण्यकशिपुरिव प्रह्लादधर्षणप्रयासी नरमृगपतिना तेन तथाविधैः भ्रमकैः अन्तरिक्षे भ्रामय्य व्यामोहितो दुर्योधन इव भीमद्वन्द्वे भीमाकारेण वैरागिवीरेण स्वगुरुपुत्रद्वयकुड्यीकरणदोषदुष्ट: दण्डाह अपराधीव समदण्डेन निरयं नायित: । हते वजीरखाने निरस्तनायका: प्रजाः मृतनाथाः स्त्रिय इव विलपन्त्यः "अनेन मम भ्राता हतः अनेन पिता अनेन मम पुत्रः" सकलं जगत् कारुण्यपरं अकार्षः । प्रतिदिशं कान्दिशीकाश्च जीवित त्राणपरेप्सुकाः मौहम्मदीयाः सैनिकाः सर्वत एव अशिवः शिवारुतैरेवानुरुध्यमानाः त्रपापरीताः सिंहव्यञ्जनाः शृगालाः मतिषु भ्रान्ता: दिशाविभ्रमभ्रान्ता इव मृगा: मृगतृष्णिका- वितृप्तपिपासाकाः मोहभ्रान्ता एव प्राणानत्याक्षुः । वजीरखानस्य पार्थिवशरीरञ्च रज्जुभिर्निबद्धं धर्षितं धरायां रथ्यासु प्रदर्शितं पुनः पुन: पादपप्रोतं पक्षिभिविलुप्यमानं बीभत्सदर्शनं जुगुप्सासमुन्मुखी भूतं इति जनश्रुतिः । दशाधिकसप्तशताधिकसहस्रतमे खीष्टाब्दे ज्येष्ठारम्भ एव वैरागिवीरसमेताः शिष्यसैनिकाः सरीहन्दान्तर्गताः मुसलमानान् मारयित्वा नगरमोषण सलोपत्राः दिवसत्रयमेव तत्क्रियारता: तुरीयेऽह्नि तद्विरामायाज्ञप्तिभिः बाधिताः । पार्श्वस्थ- ग्रामखर्वटाणां लुण्टाकदस्यवोऽपि तत्कदने वैरागिवीर सैन्यसमूहसाह्यदा अभवन् । अनूपकौरनाम्नी कापि ललना मुसलमानैः सापमानमपहृता मृतायदाऽऽत्मवधप्रक्रियया सा नाम निखाता भूमौ शिष्यैः पुन: शवस्थानादेव निष्कासिता हिन्दुधर्मानुरोधगता च पुनः वह्निसात्कृता । नेयं क्रिया शिष्याणां क्रूरा मन्तुं शक्यते । गुरुगोविन्दसुतद्वय- शातनोत्साहसाहसकारी सुच्चानन्द: शिष्यैः संगृह्य चित्रवधविधेयोकृतः । तदीया नासिकाऽयोमुद्रिकया प्रोता मुद्रिका च रज्ज्वा छिद्रे स्यूता। तथाविधश्च सः पुररथ्यासु प्रत्यापणं भिक्षाट इव भ्रामित: उपाद्भिश्च पुनः पुनः प्रहृतः स: निश्वासरोधेनासूनेवात्याक्षीत् । भल्लूक इवाकृष्ट: स: पशुमारं मारितः परिवारश्चास्य तेनैव विधिना यमलोक विधेयीकृत:। वजीरखानसुच्चानन्दाभ्यामन्यायाजितं धनं सर्वमेव वैरागिवीरसैनिकः दस्युभिश्च पुनर्लब्धम् । सरहिन्दाधिपतिश्च वैरागिवीरः बन्दासिंहः बाजसिंहं स्थानीय- राज्यपालं चकार । अलीसिंहश्चास्यसहायक: राज्यपाल: कृतः । फतेहसिंहः सामानास्थलीया राज्यपाल: विनोदसिंहरामसिंहौ च जाताः । वीरवैरागिचरितम् भ्रातरौ स्थाण्वीश्वरराज्यपालयमलौ परे च हिन्दवः मुसलमानस्थानेषु अधिकृत: नियुक्ताः । वैरागिवीरविजयपताका च सरहिन्ददुर्गा- ट्टालिकायां उत्तम्भिता। केचिन्मुसलमाना अपि शिष्यधर्मव्यवसायिनो दिन्दारखानो दिन्दारसिंहो बभूव मीरनसीरुद्दीनश्च मीरनसीरसिंहरूपमाधात् । वैरागिवीरश्च बन्दासिंहः कतिपयानेव दिवसान् सरहिन्दमध्युवास । बन्दासिंहे च तथागतेऽधिपतिपदारूढे सति सर्वत्र सतामेव सम्मानो बभूव न त्वसतां मुसलमानानां प्रत्येव विपक्षताऽभूत् न तु सैन्य शिविरेषु द्रोहभावतोविपक्षता समजायत । वैरागिवीरश्च वैररागरतोऽपि वैराग्यगतो वीराग्रगण्यानामेव गणनां चकार वाराङ्गणागणनाञ्च तिरश्चकार । दीनभीतातुरत्राणपरश्चासौ प्रजाकामकामी सभानां संयोजकः प्रजानामुद्धारकः शक्यमव्यकल्पारम्भी प्रार्त्तत्राणपर: स्मार्त्तधर्मानुरागी श्रौतकर्माभिभावी धौर्त्यधर्मविरोधी क्षात्रौधर्म इव दुःस्थित: दौरात्म्य धर्षणपर: मार्गेऽग्रभूत: मालेरकोटला- रायकोटस्थलवर्त्मविहिताधिपत्यः कृष्णदासनाम्ना वणिजाऽऽतिथ्येन स्वागतीकृत: सौभाग्यसौहित्यसम्पदमापेदे । सरहिन्दं प्रत्यावृत्तश्च वैरागी चक्रवत्तिसाम्राज्यसम्भावनापेक्षी सर्वस्योत्तरापथस्यैवाधिष्ठाता बभूव । सुरक्षास्थलाभावात् सरहिन्दस्य वैरागी नगरमिदं न राजधानोत्वमापादयत् तत्स्थाने च मुखिलस्पुरमेव नाणसधौरान्तर्गतं हिमप्रस्थदुर्गस्थलं तत्पदं सः प्रादात् । नवयोग- योजितञ्च दुर्गमत्र सारलोहेन दृढीकृतं लोहगढदुर्गाभिख्यां लेभे । वीतशुल्कवाधकर्मसु लभ्यानि धनानि कोशा: वाहनानि सायुधानि लोहदुर्गगतान्येव संरक्षितानि । हिमप्रस्थस्थितमपि दुर्गमिदं सामज- समाजसम्भृतं शतघ्नीसहस्रसंसर्गितं वप्रप्राकारगोपुरयुतं परिखापरिकरितं सम्भावितसम्परायसापेक्ष्यमेव कृतम् । सम्राट् बुभूषुश्च वैरागिबन्द: नानकगोविन्दगुर्वो: स्मारकाधारकल्पां मुद्रामेकां प्रणिनाय तयोः प्रशस्तिवर्णोत्कीणेयं सुतरां वीररसप्रचुरा नामाङ्किता च सुतरां प्रशस्ततरी शासकीया मुद्रणाज्ञप्तिरपि तेन तथाविधा सम्पादिता स्थालीकरवालचित्रार्पिता । संविधानसम्पादना तु वैरागिबन्दस्य न स्पष्टतरा । भूस्वामित्वमेव तेन विलोपितम् । शिष्या एवानेनोद्वेजिताः। परं औचित्याधिकाराश्च बभूव ।
प्रथ तृतीय उच्छ्वासः तेभ्यस्तेन समायोजिताः । राज्यविस्तारमिच्छन् वैरागिवीर: सहारनपुरस्थलं प्रति पदवृद्धिमकरोत् देवबन्धस्थलीया: वास्तव्या: शिष्यधर्मानुयायिनोऽभवन् । जलालखानस्तत्रत्यः स्वामी तान् सर्वानेव वन्दीचकार सन्तापदानाय चाज्ञप्तवान् । कपूरसिंहनामा च शिष्य: शिष्यग्रन्थी वैरागिवोरं साह्यदानाय शिष्यसंघपरित्राणाय च प्रेरितवान् । वैरागिवीरश्च तन्निशम्य सहारनपुरपुरं प्रति प्राचलत् इष्टकाचयतां चेदं निनाय नजीबाबाद जलालाबादनवाबयोः पूर्व एव सन्धित्सुरभवत् अपरश्च युयुत्सुकः । जलालाबादयात्री वैरागिबन्द: बेहूताम्बेताना उन्तास्थलान्यात्मसादकरोत् । बेहूतस्थलीयाः पीरजादा: गोघातकाः वैरागिबन्दस्यप्रतिकारविधेयीभूताः । नाउन्ता- धनुर्धरैः सह वैरागिबन्दस्य साम्मुखीन: सम्परायोऽभूत् । लोप्त्रसमेतः वैरागिवीर: जलालाबादगतः जलालखानं सिंहानां मुक्तये प्रादिदेश- जलालखानश्च प्रत्यवदत्- कातरा: येऽप्यशक्ताः हि नोत्साहस्तेषु जायते । प्रायशस्तु नरेन्द्र श्री: सोत्सा हैरेव भुज्यते ॥१९॥ प्रोत्तेजिताश्चात्र भास्तदीयाः यावानुपाताश्च गति प्रपन्नाः । सैन्यैः स्वकीयैश्च युयुत्समानाः दुगं तदीयं ननु रुद्धवन्तः ॥२०॥ विपक्षीय पठानयोधा: सोत्साहमुत्तेजितवृत्तियुक्ताः दुर्भाग्यमात्मीयमधिश्रयन्तः सोन्मादविश्वासहताः बभूवुः ॥२१॥ परगहो ! भाग्यगतिर्गरिष्ठा जाता बलिष्ठा च बाधैकलीना सा प्रकृतिः कोपमुवाद रुष्टा दुर्ग पर्वतैक विविक्तं वैरागिसैन्यैश्च दुरारोह्यमभवत् तथापि सौभाग्यगतिर्न पठानाश्च पराजितास्ते कृष्णासरित्तावत्परीवाहपूर्णा सैन्यं तदीयं वृद्धेररुणन्तु । इति डा. सुदर्शनशर्मणां विरचिते वीरवैरागिचरिते तृतीय उच्छ्वासः ॥ हि तत् नष्टा नष्टाः अथ चतुर्थ उच्छवासः साफल्यमाघाय प्रपन्नः पुंसो जगत्यां नहि तोषभाव: रोषारुणो वैभवमाजुहोति । ऐश्वर्यमेतच्चलभङगुरं सत यात्यागतं चक्रविधानवृत्त्या ॥१॥ मवं बिति भाग्यप्रहारेण निरस्तसिद्धिः। कूतै कयोक्त्रस्य धुरं मर्माहतः कष्टगतो विनष्ट: ।।२॥ जलालाबाददुर्गात् पय: पूरैः परास्तः पुमान् वैरिजनवैभव- लोप्त्रव्याप्तिविस्तृतवृत्तीकः मालवलक्ष्मीलतापरशुभावार्जनाय दोआब- देशधर्षणाय लब्धोत्साहः शिष्यसंघसमुदयसौभाग्यापेक्षिजनसामान्य- प्रशस्तिपात्रभूतः मुग़लसाम्राज्योत्सादनप्रत्याशी स्वसाह्यसंघसंवलित: पञ्चापराज्यं शिष्यराज्यमेवैकच्छत्रसाम्राज्यकल्पकं चिकीर्षुः शिष्यसंघ समिति समायोजयाञ्चक्रे । शिष्यराज्यतीर्थाश्च प्रतिग्राममटन्त: धनधान्यवीवधासारप्रसारप्रतिपादनाय प्रायतन्त । अमृतसरस्थल- गताश्चते बृहती सभामायोजयन् बटालाकलानौर गताश्चते ग्रामानन्तरं ग्राममाक्रान्तवन्तः । स्थलद्वयमिदं स्वायत्तोकृत्य तैः लोप्त्रभाराः हस्तीकृताः । बटालातो लवपुरं प्रचलिता: सिंहा: यवनान् हन्तुं हरिणानिव क्ष्वेडाबहुला: पठानकोटाधिपतीभूताः गोमायुहृदयं सय्यदस्लमखानोपरि कलविङ्कोपरि श्येना इत्र वियतोऽवपातान् विदधानाः तथा निपेतुर्यथा नाम लवपुरवास्तव्याः एकचित्तीभूता: हैदरीपताकाधोगताः समरभेरी नेदुः । मोमायुगौरवश्चास्लमखान: सिंहनादेभ्य एव हतोत्साहः सन्त्रासविध्वस्त विचारवृत्तिः किंकर्तव्यविमूढ इव नपुंसक: मनोविकार- मुपरिष्ठादेव गोपायमानः चिल्लामुखात्परिभ्रश्य मार्जारमुखागति- ( ४८ )
प्रथ चतुर्थं उच्छ्वासः
मनुभवन् प्रकाशप्रयाणभूमावागन्तुमपि यदा नोत्साहमकरोत् तदैव तदीय
कातरत्वं निगुहितु कामाः मुल्लाह काजीवर्याः धर्म संरक्षकव्यवहार
व्याजविधा विधानशीलाः आबालवृद्धं समर्थजनं सैन्यदलपरियोजनाय
प्राचोदयन् । मुसलमानविद्वेषदष्टाश्च हिन्दुजनाः तथैव येतिरे यथा
देशोदास्यशृङ्खलाभिर्न संयोज्यताम् । चतुर्धाविभक्ताश्च शिष्याः
चतुरङ्गबलसमुदयं संविदानाः लवपुरं केन्द्रविन्दं विधाय भरताभिधग्राम
वास्तव्यग्रामाक्षपटलिकदायदत्तं दुर्ग चतुरिमग्निगृहकल्पं विचार्य
शत्रुसंहारविधानशीलाः प्राणपणेनापि भूभारती संरक्षणकृतप्रतिश्रुतयो-
ऽहनिशं वीवधासारप्रसारप्रतीक्षणपराः शत्रुयोधयुद्धधस्मरा इव श्वापदाः
नीतोरपि नयन्त: तथा संमिलिता: यथा नाम न कोऽपि तेषां युगान्तरेषु
गर्हणां कथायितुं पारयति । शत्रवोऽपि दान प्रतीक्षाः आसनमादधानाः
दुर्गपरिवारयन्तः मौहम्मदनामधेय जयकारान् कथयन्तः 'जेहाद' भाव
माकारयन्तः आक्रोशैविक्रोशमानाः स्वाश्वद्विपपदातीन् तथा व्यधापयन्
लवपुरामृतसरगुरुदासपुरान्तर्गतं रियार्कीकन्धीग्राम पटलमधिष्ठाय
शिष्यगणाः सैन्यदलैः स्वकीयैः भगवानायदुर्गगता: मुसलमानैः परित
प्राक्रान्ताः हैदरीकेतुश्चात्रागतः। सैन्यद्वयस्य गुलिकास्त्रवृष्टि प्रहारास्त-
थाविधा अभवन् यथा नाम शवा एव शयानाः भूतधात्रीक्रोडभूषाभूता:
बीभत्साकारमेव दृश्य प्रास्तुवन् । रक्तरञ्जिता च भूरसृक्प्रस्रविणीव
प्रातीयत । शिष्याश्च तदुर्गान्नि: सृत्य शत्रुसंघ प्राकारान् प्रस्फोटयन्तः
निमिषमात्रेणैव दुष्प्रापा अभवन् । दुर्जेयव्यवहाराश्च सन्तः ते तेभ्यः
कान्दिशीकेभ्यः कवाः अभवन् ।
कदपंताश्च कदर्यहतकास्तान्
मन्य मानास्ते हिन्दूश्च तर्जयन्तो निराकुर्वाणाः स्वप्रशासकमपि
कदर्थयितुमारब्धाः ।
संज्ञातसाराश्च
समेतवीरा:
शिष्याः शिखाबद्धगताश्च रोषम् ।
सिंहास्यवंष्ट्रालमुदारवेशम्
सन्धाय सङ्ग्रामरताः बभूवः ॥३॥
रुद्धाश्चते दुर्गगता: सुधीराः
शस्त्रास्त्रगोलैश्च हताविरुद्धान् ।
तान् शत्रुयोधांश्च निरोधमुक्तान
सनिवाभास्य गताः हि तोषम् ॥४॥
वीरवैरागिचरितम् कोटलाबेगमस्थले च लवपुरनेदीयो भागे सैन्यद्वितयं सांमुख्यगतम् । शिष्यवीराश्च मृगादना इव क्रव्यादनांस्तान् निहन्तुं पतत्रिषु श्येना इव तथा निपेतुर्यथा नाम नामावशेषोऽपि न तेषां लब्धुमशक्यत । जालन्धरदोग्राबगताश्च शिष्या: स्वल्पफलेनैव सन्तुष्टाः विश्वस्ताश्च स्थलीयप्रशासकशमसखानं नन्तुमेव समदिक्षन् । शमसखानश्च नीतिपटुः पटीयानपि संग्रामरागे नेदिष्ठोऽपि दोर्दमन- भावे दौरात्म्यकौशलप्रकाशे दविष्ठोऽभूत् सीसकचूर्णपुञ्जप्रसेवकांश्च शिष्येभ्यः सम्प्रेष्य सन्धित्सुरपि विग्रहगरीयान् सममेव सैन्यसमवायैः गुप्तिगतान् गुप्तभागान् दलैः संनिरोध्य वृकवृत्तिगूढान् स्वकीयान् पृतनापतीन् समुरजवाद्यनाद: शिष्यसैन्यमाक्रान्तुं समप्रैरयत् । सम्प्रेरिताश्च ते शिष्यैरपि सोत्साहमुत्प्लुत्योत्प्लुत्य सभेरीनादं अन्तरिक्ष एव गुलिकास्त्रमोक्षः सन्तोलिताः सविस्मया इव शत्रुबलसौष्ठवं प्राशंसिषुः याने भग्नाशाश्च सन्धिपरिहारजुषा: मासनमपेक्षमाणाः द्वैधोभावोद्भावनसापेक्ष्याः सुरक्षितस्थलेष्वेव संश्रयमाचक्रुः । वैरागिवीरोऽप्यत्रागतः सुल्तानपुरराहोंस्थलवास्तव्य एव शत्रुसंधैककालनिमित्तोभूय वप्रप्राकारप्रतोलीगतान् खातोत्खात- परिखापरिवेशांश्च दलैः स्वकीयैः परिपूर्य शत्रुसंक्रान्तिमप्रेक्षमाणा: स्वसैन्यसंधान् सतश्चिकार । शमसखानोऽपि शत्रुपक्षमभिभाविनं गत्वा संग्रामगीति व्यरमयत् दशोत्तरसप्तदशशतमे खीष्टान्देऽक्टूबर- मासस्यैकादशेऽहनि राहोंसंघर्षः समजायत तद्गतश्च शिष्यविजयः बहादुरशाहसम्राजे पञ्चविंशतिम्यां तारिकायामेव सन्देशितः । विद्रोहदाहज्वरदग्धश्च सम्राट शिष्यसंघसङ्घर्षदावशान्तये अशान्तचेता: मुहम्मदकरीबह शाख्यानुज बिद्राणविहिततोषः दायाद्य- विद्रोहधृतदोषहेतुविज्ञानलुब्धांश्च विरोधविद्रधिदूषितदेहांश्च दस्यु- भूतान् अरूढमूलान् प्रकृतिपुरुषांश्च धर्षयितुकामः सः बहादुरशाहः बाह्यान्त:कोपक्लुप्तिकलुषितदण्डव्यवहारश्च पञ्चापप्रान्तान्तर्गतशिष्य- गणगौरवगानगाथाभिश्च दूनचेताः मुग़लसाम्राज्यमूलोत्पातकार्याणि च पूर्वानुमानेन विचिकित्समानः मनोविकारमात्मीयं च निगूढं विदधानः स्वकार्यभारलघूकरणाय स्वकीयसचिवं मुनीमखानमेव द्विषद्वेषापहारायानुयोजयन् बन्दाबहादुरस्य जीवग्राहं ग्रहणाय च प्रेरयन् शिष्याणां पुरस्तात् चाग्रगति निरादरमेवाकलयन् शोषणविधितोष एव संरमयाञ्चकार ।
अथ चतुर्थ उच्छ्वासः सरहिन्दादि शिष्यग्राहगृहीतगोध्रगर्हणा विगृहीतान् प्रदेशांश्च पुनर्लब्धं अख्तरखानाधिपत्यगतान् द्वादशसहस्रसम्मितांश्च सैनिकान् स्वकीयगौरवपुनरावर्तनाय प्राहिणोत् । सहस्रशो मौहम्मदीयाः तैः सम्मिलिता: सैन्यदलानि संवर्धयामासुः । स्थाण्वीश्वरतारावली- मध्यगतेषु स्थलेषु अमीनाबादादिषु तदीय सैन्यानां संग्रामाः समभवन् । पराजिताश्च शिष्याः अग्रे गताः शाहबादस्थलेऽपि वैरागिवीरा- भावात् स्वशिष्याणां पराजयपरिध्वस्तचेताश्च वैरागिवीरः पुनरपि प्रत्यागतः स्वबलेषु नवजीवन सञ्चारमकरोत् । श्वगणिनां समवायैः संगृहीतांश्च मुग्ध हरिणान् स्वकीयान् पराजयध्वंसबद्धान् सैनिकान् द्विषद्ग्राहनिग्रहनिरर्गलीकरणाय वैरागि- वोर: लौहगढ़ दुर्गगतः यानात्प्रागेवासन समाविष्ट: बहादुरशाहनिग्रह चापेक्षमाणः सुतरां साहसमधत्त । सधौरागतश्च सम्राट् असदखान- नेतृत्वेऽनीकिनी नियोज्य मुअज्ज़मकुमारमपि तत्सविधे संयोज्य वैरागिवीरं जीवग्राहग्रहणायादिदेशा दुर्गगृताश्च शिष्या: साम्राज्यसैन्यैः इष्टिपशुमारं मारिता: साहसं परित्यज्य पलायिता:। वीवधासार- प्रसाराभावादेव पुनरपि योद्धुमसमर्थास्ते दीवानहरिदयालुदत्तैक्षीयैरपि विद्विड्विनाशाय नैव सामर्थ्यं गताः । वैरागिवीरविनाशमपेक्षमाणो गुलाबसिंहाभिधो विहितात्मत्यागो बलीयानपि निरवलम्बः सैन्ययोध: वैरागिवीरसमाकार प्रकार: तदीयनेपथ्यपरिगतः सैन्यनेतृत्वमाधातुं मतिञ्चकार । वैरागिवीरञ्च सः सुदूरहिमाद्रिषु शरणप्राप्तये प्राचोदयत् प्रथमतस्तु वैरागिवीरः कातरत्वकलङ्कभीतः तदीयात्मत्याग- साहसं निराकरोत् परं बारम्बार बाध्यमानश्च तेन स्वीच कार स: प्रार्थनां सुगूढस्थलं च हिमाद्रियादेषु न्यधीविशत् । बन्दीकृतो गुलाबसिंहः गुलाबसिंहो न तु वैरागिवीरः इति परिचित: श्वगणिनां क्रकचदारितः स्वसहायैरेव चर्मावलुञ्चं लुञ्चित: पञ्चत्वमगात् । वैरागिवीरासूनसुरक्षितान्विभाव्यैव गुलाबसिंहः वैरीविशसन- बलीभूत इति त्यागमहिमाऽस्य सैनिकस्य दिक्षु विचचार । वैरागिवीर चाक्षतकायं श्रुत्वा वीरा: सर्वेऽपि सुविहितसाहसाः पुनरपि विजयापेक्षिणः वैरागिवीरनेतृत्वे योद्धं प्रवृत्तिमुदतम्भयन् । वैरागिवीरोऽपि गुलाब- सिंहत्यागेन पुनरुज्जीवित इव साहसेनोत्ताम्यन् जौनपुरखालसादल- सहयोगमचाप्य पुनरपि समराङ्गणे रणभेरीमुन्नादितां चकार ।
५२ वीरवरागिचरितम् शिवालिकगिरिकूटस्थांश्च विद्रोहिसामन्तान् दण्डयितुं पुनरपि प्राचलत् । कहलूरसामन्तो भीमचन्द्र एव वैरागिवीरस्य रोषदोषनिषधो जातः कुतो विभ्रमभ्रान्तो हि वैरागिवीरो यदसौ गोविन्दगुरोः प्रगती वैरीपक्षगतो विपक्षभूतो विद्रुग्धः देशं स्वकीयमेवसम्मानसोपाना- दधरीचकार । विलासपुरदुर्गविधेयोभूतश्च भीमचन्द्रः जालन्धरक्षेत्र- सामन्तसहितः सर्वांश्च पर्वतकीयानपि सामन्तान् एकत्रीकृत्य रक्षाहेतो: पार्वतीनां चमूनां यमपि पुरुषार्थं कृतवान् विभ्रमभ्रान्तो वैरागि- वीरस्तमेव स्वावेशदोषण विफलीचकार भीमचन्द्रप्रमुखसामन्त- राजकसहयोगमपोह्य सः स्वसैन्यदलैः बिलासपुरदुर्गमेवेष्टकाचयतां निनाय । गिरिदुर्गगताश्च केसरिणः सकिशोरा एवेष्टिपशुमारं मारिताः मृतकायसमवायसमवेता: सक्रोष्ट्रविक्रोशं विलुप्यमानाः सपूतिगन्धं शतद्रुसरिस्प्रवाहपूरमेव व्यानशिरे । वैरागिवीरश्च स्व- विजयपताकां गिरिदुर्गगतां कारयित्वा सौभाग्यमात्मीयं सुभगं मन्यमान: नैतद्विममर्श यत्स्वकीयसामन्तसौहार्दमोषंमोषं विदेशिवैरी- दोर्दण्डदी/कारं कारं स्वदेशस्य विदेशविधेयत्वमेव भविष्ये निश्चप्रचम् । भीमचन्द्रपराजयपरिश्रस्ताश्च पर्वतीयाः सामन्ता: वैरागिवीराय करदीकृतो बभूवुः । केचिदुपरोधं परिहरन्तः प्राणमन् पुरस्तात् । केचित् शिविरमस्य समागत्य सैन्यदलसदस्यीभूताः श्रद्धालवः शत्रुसमुदाय समुदयसंरोधाय प्रतिश्रुतवन्तः। सोपहाराश्च सोपधिविहितान् चरांश्चेष्टिपशुमारममारयन्तः वैरागिवीरयश: पताकां प्रास्फारयन् । मण्डीशास्ता च सिद्धसाई - सामन्तराजः करदीकृत राजसु सर्वश्रेष्ठः नानकगोविन्दगुरुद्वयदर्शनप्राग्रहरः वैरागिवीराय निष्कारणविधेयीभूतः सर्वकालं सहयोगदानाय प्रति- ज्ञातवान् । स: वैरागिवीराय चित्रदुष्करकरणकल्पं कल्पशास्त्रग्रन्थमपि समर्पितवान् । कुलूतराजेन सहितो वैरागिवीरश्चित्रदुष्करकरण- समुदायमभ्यस्यन् कुलूतराजस्य छद्मकरणस्याधारभूतः कालायस- पञ्जरविनिवेशित: तन्त्रावशुद्धये परिकल्प्यमानः सोपधि तन्त्रयुक्ति- कल्पनाध्ययनव्यपदेशविधेयीकृत: कुलूतराजद्वेषदूषितः पञ्जरविनि- वेशितः बन्धनबद्ध इव पाटच्च रः देशद्रोहिराजस्य कूलूतराजस्य कूटयोगयोजितः बहादुरशाहबन्दीग्राहमेवापेक्षमाणः प्रत्युत्पन्नमतित्वात् द्रोहिद्वेष्यद्विषद्विघाताय प्रतिजानानः कुशीलवकुलकर्मक्रियालुः पञ्जर- द्वारोद्घाटनयुक्तियोग-सन्धान श्रद्धालुः कुलूतराजचक्रव्यूहभङ्ग च विद्यायाभिमन्युरिव कौरवकुलकलङ्की परिवारपरिधपरिवेष्टितः अथ चतुर्थ उच्छ्वासः परमवीरचक्रचङ्क्रमणचुञ्चुचारचक्षुश्च सदाचारचञ्चुरचितकिर्मीर- कर्मठः कर्मणे मार्जार इव प्रसरेण मृग-इव ग्रहालुञ्चने श्येन इव, सुप्तासुप्तमनुष्यवोर्यतुलनेश्वेव, सर्पणे पन्नग इव, रूपशरीरवेशरचने मायेव स्थलेऽश्व इव जले च तरणिरिव परितो प्रविसर्पमाणः सुकेत- मण्डीधामगतः शरण्यशरणमुपगतः शरण्यशरप्रहारसव्यपेक्षी चम्बा- गिरिगह्वरगतस्थलवम॑नि वर्तमानः इरावतीसरित्तितीर्ष : उद्धलसिंह- सामन्तशङ्कास्पदीभूतः दूतामात्यप्रश्नोकृतोऽपि पाषाणप्लवतरणितरण- तीव्रतर: तेजः तरस्वितायवाहन इव रुक्मिणीस्वयंवर-श्रद्धालुरुद्धल- राजप्रश्रयप्रस्तावप्रोत्साहितः श्रद्धेयश्रद्धालुश्रद्दधतां प्रणयप्राग्भारफेन प्रस्फुरित वपुष्कः सविश्रम्भालापलम्पटः सृक्कणी लेलिहान: वैरिविरोध- रोधनायेरावतो रोधोरिरक्षया रम्भोर्वशीरमणीयक्ष्मातलोर्वशी- विशेषशृङ्गारलास्य लालित्यः लोभोपहतचेतसां रक्षोगणसन्निभान् यवनान् युद्धयज्ञपशूनिवेष्टिमारणक्रियाकर्मठोबभूषुः सौविदल्लदल- दलितदोहली द्विषद्दलनदोहदराधनकण्डूतिकण्डितकायः कुलीनकुल- पुत्रकुलकर्मकथितविक्रमवैभवः तत्त्वान्वेषी गवेषक इव ग्रामान्तराणि गाहमानो जम्बूदेशयात्रो ययौ यानयुक्तः । अम्बगतो वोर्यविभावसूभिः संतप्यमानः सुधियां विनेता । सामन्तराजेन विरोधितोऽभ्- सैन्यः स्वकीयविजयं जगाम ॥५॥ तवस्थितो दक्षिणदिग्विमागे विधम्य सौभाग्यगते क्षणे सः । दाम्पत्यमोहैकरते. प्रतीकम् प्रष्ठं स्वकीयं हि सुतं प्रजज्ञे ॥६॥ जितारिषड्वर्गनयेन मानवीम् अगम्यरूपा पदवी प्रपित्सुकः । सुकर्मकर्मी धृतधर्मवर्धनः चकारसंज्ञामजिताभिधेयिनीम् ॥७॥ क्षत्रियक्षेत्रीयां साहिबकौरनाम्नी भार्यां द्वितीयामुपयम्य वजीराबाद- गतो वैरागिवीरो रणजितसिंहनामधेयमपरं सुतमपि जज्ञे । लघुकाल- ।
पोररागिरिनम मेवावस्थाय पर्वतीय प्रदेश मन प्रतिष्ठानकट पुरभिव्याप्य वैरागिवीगे जम्बन गया जिदानमम्मवीन तदोपतृप्यपुत्रण शमसखाननाम्नापि इन्दुभावमापादन: गुरुदासपुरविषये बहरामपुर- नगरगत: भयंकर संग्राम मयत मायग्य घार प्रचार कान्तारमभि- लोन: मामन गुणमधिष्ठाय मन भिम को विग्र विधिमूपि शौर्यसघिन्मुः वैरीरुधिर पिपा मुरिव सृक्क मा लेनिन भुक्षामकण्ठसिह इबोन्पतिःणु: सर्वत एवेषुप्रहारान् तथा म मचे यथा नाम क्राटार इव ची कुर्वागाः यवन इतका: हनाहना: दिक्षुनि पनुः दाम मखानो पि निहतः वाजिदग्वानश्च क्षतविक्षत: मजानीयः सममेव रणभमो निवृत्तकाय: रायपुर श्मशान निखातो नामदोवतालेभे । प्रोत्तेजितश्चाप्यवरङ्गजीवः बहामयुद्धकदनं निशम्य। मन्त्राहितः सर्प इवोत्फणः सः फूत्कर्तुमारेभ इतोति वृत्तः ।। ८॥ धनेषणाविहितमोहश्च वैगगिवीर कलानौराचलपतनयोक्तमानः मुग़लसाम्राज्य समृद्धिपेशलयोः स्थलयोः सौभाग्यमात्मीयमनिसेवमानः यथेष्टमादाय धनान्युपकरणानि च लवपुराभिमुखः मविध एव सति सम्राजि इरावतीसरितमुत्तीयं रचनादोग्राबगतो जम्बु गिरिगह्वरगतानेव प्रदेशान् प्रविवेश । मुहम्मदामीनखान प्रघरवानगम्तमदिलखानसैन्य- नायकत्रयेणतिसृभ्योदिग्भ्य एवाक्रम्यमाणोऽपि वरागिवोर: नीतिशौर्य- सम्मिश्रणाश्रय: गिरिदुर्गकन्दरादचोल्लघयन प्रतिमुम्ब स एवाभिप्लुत्य सैन्यदलैः स्वकोयः नायकत्रयदलघर्षणक्रिया तथा समारब्धा यथा नाम ध्वस्तोत्साहः रुस्तमदलखानः परोलका ग्रामगतवास्तव्यानेव पेष्टुमाचक्राम सहस्रशश्च गावो हता: स्त्रीपुरुषाणां तु का कथा। एकादशाधिकसप्तशताधिक सहस्रनमे खोष्टान्देगस्तमासे बहादुर- शाह सम्राट्लवपुरेविराजमानो न दुर्गनिवेशमादधे प्रत्युत् इरावती कूलकल्माषितेऽन्वल ग्रामपरिसरे शिविरमास्थाय वैरीवैरनिर्यातन निध्याननिष्ठ एवासन गतः यानापेक्षो शस्त्रास्त्र परिवेश विहित विशङ्कट- यन्त्रयानागार: दिवानिशं सामन्त समुदायसंस्कार संविग्नचेता: कान्दिशोकं रूस्तमदिलखानं स्वसमक्षमेव प्रस्तोतुमियेष । निशि निकषागतं च तं सनिमड़पादं बन्दोग्राहग्रहणायादिदेश। सर्वामस्य स्वकीयां सम्पदं स; राजकोयमृक्थरूपां चकार । परम् -- अथ चतुर्व उच्छवासः PORAN IMPA प्रजास्वविनयाधानात् ताडनात। सोऽभूबनोपजीविभ्यो धर्षणीयोऽधिकारिभिः म्लेच्छकराज्यस्य विचारकारी विद्वज्जनानां च विनाशकर्ता। सोऽमच्छ पुण्यकविधानहर्ता निश्वासनिहाँस निविष्टसंज्ञः ॥१०॥ माघेन विधिनतोत्साहः सम्राट् बहादुर शादोटादशशते. द्वादशे र्षे जराजोर्णकायो रुग्ण: विसंज्ञ इव दुःखितः फाल्गुण प्रारम्भ एव मघामातिथिर्बभूव । दिवंगते सम्राजि मुतास्तदोयाः राज्यारोहणयुद्धयोजिला: बंगगि- र सैन्य सौभाग्य सौहित्य संसेवका: अभूवन् । निहतोजीमुश्शान: [म्राभूतश्च जहांदार शाहः । परम् प्रचिराधिष्ठितो शववाहित कोपितः राज्यसामन्तः कोपितो हि विनश्यति ॥ ११ ॥ फरूक्सियाराभिधश्चाजीमुश्शानसुतः पितृवधतियोधविशेष- वद्विष्ट: क्रूरकर्माणं जहांदारशाह पराजित्य शिर:छेद चास्य विधाय म्राटपदमधिरूढः। गिरिदुर्गगतश्च वैरागिवीर: स्वोपशयादुत्थाय व्यावनिर्गती सरीव क्ष्वेडानिर्भर: परिवार परिकरितः परितो हन्तु शृगालकल्पान् त्रून् स्वसीमस्वेद संप्रवृत्तः किशोरद्वयोपेन: सिंहीद्वयोपभुक्ते मोह- स्तयः सधौरास्थलमाक्रम्य स्वकीया श्रयणस्थली लोहगढ़प्रमुखी धाय राजधानी शिष्यराज्यसम्राभूनो बभ्राम मुख सम्पदा । हान्दार शाहाभिषेके कृते मुहम्मदामीन खानो वैर गिवीरगतिरोधाय चोदितः सरहिन्दसन्य गोप्तारं जनुद्दोनहैमदखान स्वोपसैन्यपतिम- ब्ध । देहलोलवपुरायाः पृतनाव्यूहा अपि प्रत्यूहनाय प्रेरिताः। वैभवः ।
पारयन्तः ५६ वीरवरागिचरितम् सधौरास्थले च दुर्गमेकं निर्माप्य वैरागिवीरः शत्रूणां बाधा: सनिर्बन्ध- मेवोत्तोर्तिवान्युपभुजानः फलानि प्रकृते: तेजस्तिग्मतामपि सहमान: निर्बाधगत्या सर्वत एवास्त्रमोक्षान् कुर्वाण: मुसलमानानां धैर्य बभञ्ज। धैर्ये भग्नाश्च ते प्रकाशयुद्धपराङ्मुखीनाः दुर्ग परितः परिरवाः परिवेश्य भूगर्भप्रणालीश्च निर्माप्यबृहत्कायनालीयन्त्रं च निधाय तथा नाम गुलिकास्त्रवर्षामकुर्वन् यथा नाम वैरागिवीरवीरा: भग्नाशाः नालीयन्त्रमेव निराधारीकर्तुं प्रयस्यन्तः पातालान्तर्गता: नालीयन्त्ररज्जुगुणमेव श्लथोकर्तुं सौभाग्यमात्मीय- मेवालभन्त । विक्षुब्ध: फ़र्रुखसियारः लवपुरराज्यपालमेव पदच्युतञ्चकार । ज़बरदस्त ख़ानश्च पदच्युतः अब्दुस्समदखानमुत्तराधिकारिणमलब्ध । जाकिर्यखानश्च जम्बूसैन्यगोप्ता बभूव । उभावेव वैरागिवीर- विनाशायादिष्टौ। शासकीयसैन्यैः सर्वतो निरुद्धा: शिष्यवीरा: दुर्गा- निष्क्रान्ताः त्रयोदशाधिकसप्तशताधिकसहस्रतमीये खीष्टाब्देऽक्टूबर- मासे मुसलमानानिष्टिपशुमारं मारयन्तः लोहगढ़गतं वैरागिवीरं परित्रातुमुग्ररूपा: परितो वर्धमानाः पराजयं नैव प्राप्नुवन् वैरागि- वीरश्च यानायासनमपेक्षमाणः उपेक्ष्य शत्रुसंघातं पर्बतदुर्गाण्येव संश्रित्य सैन्यं स्वकीयं संवर्धयामास । सधौरालोहगढ़दुर्गद्वय स्वामित्व. मभिज्ञाय सम्राट् सुतरां सोल्लासः उत्ताम्यमानश्च पुरस्कारैरुपहारैश्च स्वसैन्य पतीन् समलञ्चकार । लवपुरप्राप्त: समदखानः सम्राजा सभाजित: मुलतानं प्रस्थितः । चतुर्दशाधिकसप्तशताधिकसहनतमेऽन्दे मार्चमासस्य षष्ठयां तारिकायां राजपुत्राधिष्ठानं प्रदेशं प्रतिप्रचलितः । सम्राड्विजयमपेक्षमाणाः पठानाः सर्वत्र जगत्यां जघन्यकर्माणि कर्तुं प्रोत्तेजिता: शिष्यसंघप्रतर्दनप्रायप्रतिज्ञाप्रवणाः प्रतिक्षणं प्रतिपदं च वैरागिवीरवोरविनाशधृतप्रणाः व्रणा ङ्कितहेतिततितर्जनतरस्विनः तूर्णतरतुरगघटाघटितव्यूहरचनाः परिवार्य पिष्णन्तः पशूनिवासृक्पूर- प्लवतरणीयं जगत्सर्वं चिकोर्षन्तः चक्रव्यूहरचनारेचकाचरण चुञ्चवः चारचुञ्चुभिः चाटचेटः चटचटायमानाः चेटिचाटूक्तिसञ्चार्यमाणाः जङ्गमा: प्लवङ्गा इव परितः प्रनृत्तपेशला: चारभटनाटकनाट्यनटा इव नर्त्यमानाः नृपशुभिः स्वकीयैः मदलालसा अपि मद्यालसाः मोहविक्लवतामवापुः । जगत्सिहाभिधं शिष्याधिपतिमभिधाय सेनापति शिष्याः शौर्य श्रयन्तः श्रियमावितेनुः ।
प्रय चतुर्थ उच्छ्वास
५७
पठानानी दुर्गमाक्रम्य शिष्याः तथा नाम प्राहरुन् यथा नाम
प्रतीपं प्रहृता अपि ते न पराजयमाप्नुवन् । मुहम्मद-इशगश्च
पठानोहतः । ग्रामीणैः संग्राहिता: स्वापतेयाः शिष्यैः स्वायत्तीकृताः।
चतुर्दशाधिकसप्तशताधिक सहस्रतमेऽब्दे पठानपराजयानन्तरमब्दुस्सम-
दखानः राजपुत्रदेशात् दिल्ली प्रत्यागतः जूनमासस्य षड्विंशत्यां
तारिकायां सर्वानेवाध्यक्षान् पञ्चापं प्राहिणोत् शिष्यगणान्
सम्पेष्टुं अगस्तमासस्य षड्विंशतितारिकायां स: लवपुरं न्यवर्तत
तत्र च प्रवृत्तिमलब्ध यत्सहस्रद्वयसम्मिता: शिष्या: रूपपुरं नाम
पुरं समाचक्रमुः समाक्रान्ताश्च परःसहस्रशः शिष्याः सरहिन्दगताः
पठानसैन्यदल दलिता: जैनुद्दीनहमदखान नेतृत्व निम्नीभूताः पञ्च
त्वमापुः
शिष्टाश्च कान्दिशीकाः बभूवुः।
वैरागिवीरोऽपि वैरिवैरनिर्यातनपेशल: भब्बरस्थलस्य दक्षिणतो
नेदिष्ठ एवोपशयेषु शयितान् शिष्यदलान् स्वकीयान् संगृह्य
कलानौरगत: प्रकाश स्थलेषु प्रकाशमानान् प्राग्रहरान् प्रशिष्यान्
प्रोत्साह्य सिंहानिव तान् शल्यकेषु शितशतान् शातन शूलान्
कण्ठीकर्तु संदिदेश ।
मोहम्मवीयः
सुहराबख़ाना
सन्तोखरायश्च सुहत्तवीयः ।
सानोखरायो गतलब्धसंज्ञा
शिष्यप्रहारैर्ननु कान्दिशीकाष्ठः ॥१२॥
प्राण: स्वकीयैर्ननु तप्यमानः
शिष्याहारैः परिशीर्णकायः।
शोकाकुलः क्षोभगतो विलीन:
मोहं गतो नैव रति प्रपेदे ॥ १३ ॥
साश्वीयपावातयुतं च सैन्यम्
संघर्षमाधाय चचार चारीम् ।
चौर्यचरा चारभटाश्च शत्रो:
संना सैन्यैः सविशेषवेशाः ॥ १४ ॥
वीरवरागिचरितम् मायान्तु वैधव्यविधि विधातुम् विश्वासमाधाय गताश्चरोषम् । व्यूहान् विधायात्तधियो विनिद्राः ते सर्वतः शौर्यरताः बभूवुः ॥१५॥ बटालाचलस्थानगतश्च 'बन्दः' स्थानीयगोपेन स्वसैन्ययुक्तेन संघर्षमाधाय रक्तैकलिप्सुः रक्ताक्तनेत्रः परितप्यमान: कराग्रभागेन करवालकर्षी सकौतुकं मार्गगतान् जिघत्सुः शत्रुप्रियान् शातनकर्मदक्षान् सर्वत्र संवेशगति निवेश्य चारप्रियः चाटभटान् चचाम। चञ्चूर्य- माणश्च चमूश्चरास्ते संक्षोदिताः क्षोभगतैश्चशिष्यैः । वोरानणी वैरिविधि दधानः तत्रत्यं सामन्तं पराजय्य सिंहास नाच्यावतार्यतं घारोवालस्थलगतमपि न शान्तम्पश्यन् । दयामाख्यश्च मोहम्मदः तदीयशासकः गुप्तिस्थलं जगाम । तत्रत्याश्च पौराः धनिनः श्रेष्ठिनो वा दलिताः निर्धना: वा सर्वे समेताः ग्रामान्तरेषु समाजग्मुः। लवपुरगताश्च तेषु केचितृकेचि च्च चम्बाख्यपर्वतीय प्रदेशगताः शरणार्थिनो बभूवुः । रूपपुरादिप्रदेशान् लङ्घमानों 'बन्द:' शतद्रुसरित्तीर्ण: जालन्धर स्थलमाप्तवान् । स्वल्पं कलहमाकलय्य तातोऽग्रेगतश्चासावमृतसरस्थले वैशाखीयोत्सवसमारोहोल्लासोल्लसितः चैत्रमासे चतुर्दशोत्तरसप्तदशशतकीयेऽब्दे वृहती सभामेकां समयोजयत् । गुरुपदमलङ्कृत्योपस्थितश्चात्र धर्मदर्शनमपि समुपादिदेश । गुरुदास- भूताश्च गुरुदासपुरं प्राप्तवान् सः तत्र च पौरजानपदपृतनापरिवार- परितुष्ट: दुर्गगतिमाकाक्ष्य सः महतीं सैन्यपङ्क्ति परिवारयामास । फ़रूक्सियारश्चसम्राट् गुरुगौरवगतं वैरागिवीरं कूटकृत्यं समन्तात् प्राचारयन् शिष्यसंघे भेदाभिशंसी तदीयदिव्य परीक्षणमेव "शिष्यधर्मगतमां सभाजन परिवेशमेव परिबन्धयामास" । शत्रौ 'खालसा' संघश्च द्विधाविभक्त: समयगतं भेदमवाप्य परितो भित्त एव वैरागिवीरव्यूहव्यवहारमपि शिथिलञ्चकार । वैरागि- वीरश्चोद्वेगगतः चतुर्थोपायसाध्ये परिसान्त्वमपक्रियेति मन्त्रमनुजुषाण: साहसं स्वकीयं नहि नहि संजिहानः पुनरपि संघ स्वकीयं सुस्थिरं चिकीर्षन् न धैर्ये शिथिलो बभूव । परं सम्राट कूटयोगैः स्वकीयैः चारैश्च चर्यां चरन् भेदं वृहत्तरं सम्पादयन् - समितिञ्जयपि वीरं मृत्युञ्जयमन्त्रसव्य पेक्षिणं कुर्वाण: वैरागिवीरं अथ चतुर्थ उच्छ्वासः स्वकीयेभ्यः साहसेभ्य: विरन्तुमेवादिदेश । गोविन्दगुरोः विधवा सुन्दरीमातापि वैरागिवीरः साहसाद्विरन्तुमेव निदिदेश । परं वैरागिवीरः मातुनिदेशमपि परिजहार। "गुरोराज्ञप्तिपराङ्मुखोऽयं बन्दः" इति पत्राचारविचारचर्यां कुर्वाणा मातासुन्दरी वीरमिमं स्वसाहसा- निम्नीचकार । मातुः सुन्दर्याः सन्देशोन्मनाः वीरोऽसौ पुनरपि सङ्घसङ्घटनसाहसं चकार परं सम्राट् सियार: तस्याः पक्षगतान् धनधान्यसेवानियोग व्यवहारान् समादापयन् तदीयपुरुषार्थान् विफलीचकार । साम्नो व्यवहारविद्वेषी फ़रूक्सियारः सम्राट् दानै रेव शिष्यसंघं द्विधा संविभाजयन् भेदमनुजुषाणः (दण्डाह) शत्रु च दण्डयितुमहिमान: सर्वतो दिग्भ्यः सामन्तचक्रमाकलय्य वैरागिवीर- विद्रोहविदारणपरो बभूव । सौराष्ट्राधिपति मिर्जा-अहमदखानं सय्यदपुरसैन्यपतिभिरादतमन्दखानं औरङ्गाबादपति मुहम्मदखानं, कटौचाधिपति भीमसिंहं अन्याश्च सैन्यदल संग्राहकान् संग्राह्यासो लवपुरपुरमानाय्य च बृहत्सङ्गरप्राङ्गणसमाविष्टः रक्तपातविलीनो बभूव । वैरागिवीरवोरा: स्वल्पसंख्याकाः अपि साहसपुर:सदा एव समरसम्मुखीनाः सम्राट् सैन्यैः योद्धमारभन्त । वैरागिवीरश्च गुरुदासपुरपुरमधिवसन् गुरुदासनंगलग्रामगत एव शरणमधिगतवान् । बाबाविनोदसिंहभवनगतो विनोदसिंहेन विग्राहितः तदीयसुतेन काहनसिंहेन शरणीकृत: सुरक्षितोऽभूत् । दुर्गगता अपि वैरागिवीरवीराः संनिरुद्धाः वीवधासारप्रसारहीनाः बन्दीकृताः। वैरागिवीरश्चैक एवाभिमन्युरिव कोरवैः चक्रव्यूहव्यूहित: नवपञ्चाशत्संख्याकैः मौहम्मदीयैः परिवार्य बद्धः संयतो बभूव । समाचारोऽयं पञ्चदशोत्तर सप्तदशशततमेऽब्दे दिसम्बरमासस्य द्वाविंशतिभ्यां तारिकायां दिल्लीसम्राजे जहांदारशाहविजयवर्षसमारोहे एव सन्देशितः । गुरुदासनंगलतो लवपुरमानीताः वीराः बन्दीकृताः सवै रागिवीराः साह्यहीनाः कान्दिशीकीभावं नैवाईन् परं सम्राट् तस्य विद्रावणम- पेक्षते स्म । निगडबन्धैर्बद्धो बन्द: निगडबन्धैर्बद्धो बन्द: कन्धरापृष्ठयोरपि रज्जुभिः परिकरितः पदात्पदं प्रचलितुमपि न शशाक । व्याधानायनिगडितसिंह इव च फूत्कर्तुमेव प्रायस्यत् । लोहपञ्जरान्तः प्रवेशितश्च मुगल-
घोरवरागिचरितम्
सैन्याध्यक्षद्वयेन च सामजस्थितेन परिचारितः क्षणात् क्षणमपि
निःश्वसितुं न शशाक । त्रिसहस्रसंख्याकाश्च शिष्यप्रवीरा: प्रासि-
पुरुषपरिकरिता: पंक्तिबद्धाः प्रतोलितः प्रतोलीः परिचारिताः
लवपुरमानीताः । डिण्डिमघोषनादैश्च न्यञ्चिताः ।
लवपुराच्च
दिल्ली प्रेषिता: । सरहिन्दस्थलं च गाहमाना: विपणिपथेषु परिचालिता:
जनगणसमुदायस्यापभाषणानां पात्रीभूता: नितरां निरादरैनिम्नीकृता:
विधिवैधेयाः दुष्प्रापापयशः साह्योकृताः महान्तमवसादमासेदुः ।
बन्धीकृतो बन्द इतो न रोषम्
सिंहो ह्यसौ बोरगती विलीनः ।
तैः क्रोष्टभिः
कातरभावमाप्तः
कूटकयुक्तः
नतिमामिलीमाः ॥१६॥
बेशो हि मे भारतमामधेयः
दग्धो युगेष्वाहितकटयोगः ।
वैध्येगतः नेकविधि प्रपन्नः
बाह्यान्तरः कोपगतैश्च
दूमः ॥१७॥
देशकभक्तो भुषि वीरमानी
वीराग्रणी: वीरगति विवित्सुः।
भग्नाशकोत्तिः ननु देशजैः स्वैः
विद्रोह बोषेण कृता; सदोषः ॥ १८ ॥
वासोक्तास्य विधौविषक्तः
बायः परः बीनगतो विलीनः ।
सौभाग्यसौहार्दगतिनलभ्या
स्वातन्त्र्य लग्धेस्तु कथाहिकास्यात् ॥ १९॥
दोषो महान्द्रो हविविधानम्
द्रोहैकमार्गी ननु वञ्चक: स्यात् ।
सा वञ्चितो बन्धकभावमाप्तः
वैरागिवीरो भुविधर्षितोऽभूत् ॥२०॥
अथ चतुर्थ उच्छ्वासः (शतद्वयी) शतीद्वयं शिष्याणां बद्धं न युक्तरूपं राजमार्ग- प्रचारायातोऽब्दु:समदखान: प्रतिदिनं प्रतिगृहं प्रतिसन्निवेशं च समं सम्प्रविश्य दोषहीनानपि शिष्यजातिगतान् संग्राह्य संगतीकृत्य चेष्टिपशुमारं मारणाय बन्धकान् संविधाय च दिल्लीपुरं प्रावेशयत् । सर्वे समेताः निवबन्धुहस्तान् মাৰিলাল जगुरातनावैः। धन्यो गुरुगौरवमार्गगामी पुत्री हि योऽपुत्रकृतो नतो न ॥२१॥ धर्मेण होनाः पशुभिः समाना: ते श्वापवाः स्वार्थरताः निरीहाः । कोयं विधायात्त विचारभावा: संक्रान्तये वंशजान् घातयन्ति ॥ २२ ॥ বাঙ্গলাব্বানিমালা धर्माहिताः सात्त्विकमावगूढाः । प्राणैः पणान पावयितुं च लीनाः शोर्य स्वकीयं नहि हावयन्ति ॥२३॥ बद्धो बो नेत्रविमावसूभिः रक्ताक्तबकाश्च ववाह केसरी पञ्जरषदमूत्तिः क्ष्वेडो जही मत्तगजान् निक्षः ॥ २४ ॥ परमहो तस्यमको निरस्तः जम्बुकैः कूटरत निबद्धः । कोशमंगीण सुविवीणचेताः सं चूर्णिताः वासमुवाह बक्त्रे ॥२४॥ मुमूर्षया मोहरतो रसाढया: मानं विहायोमिनताः नदीनाः। ते यातनायातदिनाः विधिष्ठा लोकः स्मृताः देवसमा: समीयुः ॥ २६ ॥ शत्रून् । सः
६२
वीरवरागिचरितम्
षोडशोत्तर सप्तदशशतकीयेऽब्दे खीष्टीये फर्वरीमासस्य पञ्च-
विशीयां तारिकायां वैरागिवीर: अग्राहपादस्थलगतः नक्र इव
श्वभिराकृष्ट: त्वक्लुञ्चमालुञ्च्यमानः दिल्लीमानीतः सम्राजाऽमनि-
खानद्वाराऽऽगारविशेषे च निगडबन्धमाबद्ध सप्तविंश्यां च तारिकायाम् ।
देवलोकयात्रायात्री च सः नरकासुरनारकीणैश्च नृशंसै: नीयमानाः
चाण्डालरूपैः सोत्सवसमारोहसंगीतिसदस्यभूतैरिव श्वगणिकल्पैः
शिष्यसहस्रयु गलशिरः कर्परकरालवंशप्ररोहदण्डधारिभिः समेतैरेवानु-
मग्यमानः पाणिगतमृतमार्जारकायक्लृप्त करवीरस्रक्कलितकरवाल-
करालकायमुग़लाध्यक्षघृतपञ्जरपरिधबन्धनः बीभत्सयन्नि व प्राकार-
तोरणगोपुराट्टालिकाप्रतोली - गतपुरुषस्त्री बालवृद्धविषयविशेषक
यममहिषाकारयवन जनयानाश्चगजवाह्यविशेषविभ्रामक: राजधानी
समग्रां अकालकालायसकिङ्किणीकप्रेतनगरप्रतिरूपिणीमिव प्रत्यय-
मापादयन् कारुण्योद्रेकारावराविणी वैशसस्थलोमिव च प्रतिभाययन्
मतिमारुरोह । निष्पर्याणक्रमेलकपृष्ठपरिरोहिता सप्तशती च कृष्णावि-
चर्मावगुण्ठिता शिष्यवन्दिनां कालायसकिङ्किणीक्वाण कल्पायित-
कालकवलन कालानुसंयान भावा सर्वतोजगदेव शवशिविरमिव
प्रत्याय्यत । प्रासासिप्रोत्कृत्तशिरस्कशिष्याणां शिरांसि कबन्धरहितान्येव
प्रासेषु त्तम्भितानि गवां शिरांसीवा संख्यानि पण्यवीथिषु
चत्वरचतु:शालेषु रक्ताक्तनेत्रकरङ्कयुक्तप्रेतरङ्गा इव नितरां बीभत्स-
दर्शनानि प्रातीयन्त । अग्राहपादादारभ्य लवपुरद्वारपर्यन्तं व्यूहितानि
सैन्यदलानि बद्धवैरागिवीरानुगतागणितशिष्यवीरपरिहासपेशलानि
वचांसि व्यञ्जयन्ति नितरां नीचार्थकृत्यानि समभवन् । परं
प्राणान् करतलेष्वे व निधायाततायितीक्ष्णात्याचारव्यभिचार वेताल
व्यवदायमानमुख धस्मरत्वविलुम्पनायैव वैरिदावदहनसमुन्मुखाः
सन्तोऽहोरात्र नीरन्ध्रतमः पटलपरिकरितप्रान्तेषु दिशां प्रपञ्चेषु
परिधावन्तः जुह्वति । बुभुक्षितः किं न करोति पापं क्षीणाः नरा:
निष्करुणाः भवन्ति ।
सूक्तं च नैवार्थति जगाम
सत्यं बृहत्सुन्दरमत्र जातम् ॥२७॥
बुभुक्षिताः युखरताः निरीहै।
संरोधमाधाय गताः न रोषम् ।
प्रोत्तमिता: वीरगतो विलीनाः
विध्वंसिताः द्रोहरतैः स्वकीयः ॥ २८ ॥
ne प्रय चतुर्थ उच्छ्वासः चित्रीयमानचेतसश्च सम्राजो मौहम्मदीयाः शत्रुविद्रोहरोह- वैफल्येऽपि सुतरां त्रासतत्परा एव शिष्यसंघसन्दोह समवायव्यवसाय समैक्यसत्यागदूनाः जनगणप्राणाहुतिप्रदान परिगतपरिणामसव्यपेक्षिण: स्वीयसंघे चासारगभितां विवदमानाः सन्तोष मोहेऽप्यसम्भाव्यप्रजाप्रती तिमलभभावाः युवजनबलिदाननिद्राणाः दिनेष्वपि निशीथकालमवैक्ष- माणाः स्वकीयशासनस्य इस्लाममत परिवर्तप्रसाहबलात्कारदून- शिष्यगणसमूहसन्दानपाशिताश्च मोहलीना अपि व्यपदेशदीनाः सिद्धयन्त्रा अप्यसम्बद्धमन्त्रा: विहित रोषा: अप्यसुकृद्दीप्तदोषा: विनिहितसैन्यप्रचारा अप्यसन्निहिततीर्थ व्यवहाराः वायुभक्षका अपि स्नायुदिधक्षकाः मनःसुलोना अपि वचः सु क्षीणः मानमोहिता अपि कामकोपिताः क्रीडीकृताः विद्रोहदोहवेदनाभिः शौर्यशूनाः श्वापदा इव क्रौर्यकल्पितव्यापदाः स्वस्थाः अपि दुःस्थाः वह्वी पतङ्गानि वाह्वध्वं साहुतिक्रतुषु जुह्वतश्च शिष्ययूनो विलोकयन्तः रभसाचरितैश्च स्वकीयैः दोद्यमानाः वैशससमनाय च बद्धान् परि- वहयन्त: शतमेव बन्दिजनं प्रत्यहं तरवारिधारविधेदीकरणाय कटिबद्धाः बभूवुः । षोडशोत्तरसप्तदशशतीयेऽब्दे मार्चमासस्य पञ्चभ्यां तारिकायां बद्धानां कालपाशा: गलेषु विगलयितुमारब्धाः । शरवराह- खानश्च पादपाशिका: चाण्डालाध्यक्षीकृतः । इस्लामधर्मपरिणतिरेव वैशसमोक्ष पणवन्धोऽभवत् । सर्वश्च शिष्यबन्दी जन्मभूप्रकाश विस्तारे जन्मोपलभ्य "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी" इति शपथपथ प्रवृत्तः प्राणाहुतिमेव परम कर्तव्यं मन्यमान; इस्लामधर्मदीक्षां न्यक्चकारा एकोऽपर मतिक्रम्मैव वैशसयज्ञपशुभावाय स्पृह्याञ्चकार । वैरागिवोरवीरसैन्य समूहे वेशसकरवालकवलीकृते कल्किशरीर- समुद्भवसमपेक्षमाणः वैरागिवीर पृतना पतयः केशवमलभमानाः के शवं शवारूढमेव व्यलोकयन् । मासत्रयाय न कोऽपि वद्धो बलीकृतः। जूनमासस्यैकोनविश्यां तारिकायं तस्मिन्नेव वर्षे सुपुत्रेणाजयसिंह- समेतः राजसिंह-रामसिंह-फतेहसिंह-गुलाबसिंहबख्शी सहितश्च दिल्ली- दुर्गानत् स संब्यूहदैव यात्रोरसवसमारोहसमेत: पौरंजानपदैश्च- नुगम्यमानः वध्यशिलारोहणाय परिकरित: किर्मीररक्तोष्णीषवेष्टित- मूर्धा लोहपञ्जरप्रवेशितो निगठितः सामन्तपृष्ठमारोहितः परिवारानुसारितः पौरराजपथेषु परिचारितः मिहिरावलीविराजमान- कुतुबुद्दीनबख्त्यारसमाधि परितो भ्रामितश्च इष्टिपशुमारणाय वीरवैरागिरितम् सामजादवताचित: वधात्प्रागिस्लामसंधारणाय निबंद्धः प्राणाहुतिमेव प्रेयसीममस्त । मौहम्मदमतावलम्बननिराकृतिद्वेषदग्धाश्चाततायिना नृशसनमेव नीतिमनुमन्यमाना: नृशंसाः जागुलिकजग्धविषविसयी इव सर्पाः अविषमावेशविवशा: विस्फूजितविषरसा इव विलेशयाः क्रव्यादना: कुणप्राशनाः इवा सृक्पानपिपासवः लोकातिगगौरवं लाधवपदमर्पयन्तः निम्नमनसा: मनोविकारविष दूषणा: विश्चाखिल- खलकर्मस्खलितस्खलनविसंष्ठुला: विद्रोहिदोषघर्षणद्रग्धाः हृद्दारण- दारुणकर्मदक्षाः विद्रधिविस्फारणविकटविशङ्कटशवशायकाः शवाशना: इव शरारवः शेमुषीशातनशूराः शिरश्छेदवेदविज्ञानवीक्षणा: वृका: वैरागिवीरस्याजयसिंहभिधसुतं चतुरब्ददेशीयमेव वैरागिवीराङ्कगतं विधाय पितरमेव तदीयमूर्धावच्छेद क्रियालबः चिकीषितं यद् नैवानुमो- दितमवापुस्तदा तरवारिकृत्ताङ्गखण्डखण्डितमङ्ग स्वकीयं विलोक्यापि धीराग्रणीः धैर्यधुराधौरेयः धर्मधुराधुरीण: दुष्प्रापयशो- विलीनो विलयमेव ववार । परःशतगृध्रावलुप्यमानकृत्तकन्धराविलुप्य- मानचेता अपि न चचाल संकल्पे । मुल्लाहगणगीयमान पैगम्बरतेजः तारतम्योऽपि न स्वीचकार मौहम्मदीयानाम् व्रतम् । गोमांस- भक्षणायापि प्रेरितो मुहुर्मुहुः सः संचस्खालन पदे एकस्मिन्नपि । दृषल्लोष्ठप्रहारैरपि प्रहातोनोद्वेगमनुवभूव । सारभाण्डभूगृहगतोऽपि वृश्चिककाकोदरकीटव्रतविकासितोऽपि साहसं न विससर्ज । वज्र- कठोरहृदयेन स्वमातरं भुवं प्रीणयितुमिच्छु: प्राणात्ययेऽपि प्राणपरित्यागमेव प्रेष्ठं प्रष्ठं च कर्त्तव्यं चिकीर्षुः जघन्यापद्यातना- निर्यातितोऽपि धर्मध्वंसनं नैवानुमेने। योगमुद्राविनिद्रश्च दंशशतैरपि देदह्यमानो न मुमोच चीत्कारान् भैरवनादनादी-चोकनाद' नीरवाकारः । नृसिंह इवापरो न शशाक भिक्षान् दैत्यान् पुर:स्थितान् । परं दैत्यदारितदारकः सहे यासृक्स्रावसौरभम् । हताः पुराण-प्रत्ययाः । मृता: मिथकवादाः । दीणी: दुरितध्वंसनिदान- नदीष्णा: नीतपः। दिव्यास्त्रलाभाः जाता: विफला:। गलितं तपः तपोधनानाम् । भरितां भूः भयङ्करश्वापदाकारकरालकङ्काल वेतालविकारकृत्यः । क्व गता इन्द्रमहमहत्ता। दैत्यदारणदोषश्च क्व गता: । कलिकालकिल्विषकिर्मीरा च । कृति: कीनाशकेतो: कालमहिषमलमिसकायविकास विहिततमः प्रसरप्रचारपेशलैव सज्जन. चरितमधरीचकार । श्री अथ चतुर्थ उच्छ्वासः ६५ म्लेच्छरुद्वि ज्यमाना वर्णखडार कौशिकः घुत्कृताख्या केशिमिः भः जिता हि कोर्णकल्मषा ॥२९॥ बोहागतिर्देशगता दम्या भीभैरवीध्वान धृता च म्लेच्छः । संसारसञ्चार विकाररोहे दैत्यकत्तिनंनु वर्धनाढया ॥३०॥ पापस्य पोषः प्रविसर्पमाणः धमैकबोषश्च वितीर्णरूपः। कालास्यकण्ठैः कवलीकृताश्च केका रवाः प्रातरनिलीनाः ॥३१ ।। ऋतम्भरा भारतभूविपन्ना द्विष्टधूता षितभावनीमा। मृत्युञ्जये जापरता जाता वेवस्मृति विस्मृतिमावधाना ॥ ३२॥ सप्ताहाभ्यन्तर सप्तशतं मृतमुण्डानां धराशयिभूतं रुधिर- प्लावविसरसंलिप्तं सत् तरुशाखास्वपि कबन्धकदम्बावलम्बसङ्कटं वलिभुग्गृध्रकूट कवलनविकटं बीभत्सदर्शनं वैरागिवीरमनोविक्षोभदुर्धरं धर्मदायधुरां वीरधौरेयस्य नाधरीचकार । नीरन्ध्रान्धकारबहलां कारामधिवसन् वैरागिवीरः निश्वसितुमपि न शशाक । वृश्चिकाशी- विषविसर्ग बहुलायामस्यां विषविस्फूजित विकारविहितमोहनोऽसौ सर्वतनोऽपि निश्चेतन न एव साहसविसरं विसस्मार। दयनीयदशामस्य पश्यन्तोऽपि ते देशदोषविमुखाः मृतपूर्वमपि मारणाद्विरमन्तः सदाक्षिण्या एव प्रातीयन्त । प्रभातायां रजन्यां कस्यां नग्नासिधृतप्रहरिद्वयेनानवृतकपाट द्वारं विलोक्य वैरागिवीरः स्वकीयां चरमवेलामनुमीय सर्वकर्तारं विधातारं ववन्दे ।
वीरवरागिचरितम् वन्दमानश्चरणौ विधातुः विद्वान्मनीषी मनसा विदाकृत् । देशैकरक्षाविधिमात्मकीयम् सौभाग्य संस्तारधिया बभार ॥३३॥ रक्ताक्तनेत्रश्च यमाग्रतः चाण्डालमुख्यैनं भियं रक्तान्त्रनेत्रो विहितेशभावः कामांश्च तान् दग्धुमियेष रुष्टः ॥ ३४ ॥ प्रपेये। परम्- योगैकमुद्राधृतरोषभावः सन्तोषमाधाय गतो न मोहम् । बग्धास्वदीर्णश्च शरीरशैले स्वी चेतनां चर्मरतो न मेने ॥ ३५॥ उल्लुञ्चितश्चर्मणि कर्मदक्षः धैर्येकरक्षारतिमादधानः प्राणः प्रियः वाणपरैश्च मुक्तः स्वां मोहिनी मातृधरी ससञ्ज ॥३६॥ हतो हि वीरः स्वशरीरछेदैः यशःशरोरे नहि लोपमागात् । ऐतिह्य पृष्ठक विवादविद्धो नित्यां चकारात्मचरैः स्वकीत्तिम् ॥ ३७॥ TEDो सुदर्शनशर्मणां विरचिते वीरवैरागिचरिते सतुर्थः उच्छ्वासः समाप्तः ॥ ANTDP अथ भरतवाक्यम् एणीवधावात्तविरागभाव ऐणद्वयस्यात्तिविचारमूढः सः लक्ष्मणो लक्षणगौरवेण वैरागिवीरकधियं प्रपन्नः ॥१॥ काश्मीरदेशीययुवा सुबुद्धः ध्याधो महान्नायकवृत्तिकल्पी । देशकरक्षाधृतसत्यसन्धिः वैयंग्रणीवरमुवाह दूतः ॥ २॥ प्रात्माभिमानी द्विविधां दधानः गोविन्दगानेन गिरी गिरिष्ठाः । सः शौर्यधन्मूढधियां विनेता धैर्येण धीविक्रममाजुहाव ॥३॥ सुदर्शनः कौन्दनरात्मलीनः वैरागिवीरस्य मनोज्ञधैर्यम् । नारायणपौवरूपः विद्यावतीमानधियासमेत: सम्भाव्य सौभाग्यतः काव्यधिया विनोदी तं नानकं काव्यधिया शशंस । स्वं भारतं भारगतं विविच्य तद्गौरवं मानधिया बबन्ध ॥५॥ ( ६७ ) वीरवरागिचरितम् स्वैः रूपकैभरतनाट्यगर्भः ऐतिह्य सम्भारविकारवृत्तः । श्रीभारतीगौरवगानगुप्तः वाङ्माधुरी मानरतो विनीतः ॥ ६॥ दुर्भाग्यतो मानरतो न जातः द्विष्टजनोहरतो प्रलीनः । -स्वां मानवी मानरति जुषाण: मात्सर्यमोहैकहतैविकीत्तिः कायं विधायात्मनि तोषलीनः वाङमाधुरीगायनगौरवीणः स्र्घत्तरे नन्दननामधेये शास्त्रीतिमाम्नि प्रविधाय मक्तिम् ॥८॥ पौराणतत्त्वैकविचारकारी नाथोत्तरं नाम जगच्च बिधन् । विद्वान् मनीषी मनसां विधाकृत तबगौरवेणात्तरतिनमामि ॥ समाप्तश्चायं प्रन्थः ॥ अगस्तमासस्य नवम्यां तारिकायाम् त्रिनवत्युत्तरनवशतोत्तर- सहस्रतमे खीष्टीयवर्षे । इति प्राक्तनीयसंस्कृतविभागीयाध्यक्षेण पञ्चापदेशीय बठिण्डास्थलीय- सर्वकारीय-राजेन्द्रमहाविद्यालयीयेनाद्यतवीयेन च १-८-१९९२ तारिकायाः फाजिल्कास्थलीय-सर्वकारीय मुन्शोराम-महाविद्यालयीय प्राचार्य (प्रिंसिपल) भूतेन श्री सुदर्शन शर्मणा विरचितम् वीरवैरागिचरितम् नाम गद्यकाव्यमवसितम् । प्रारभ्य