Bharti Bhawan Liabrary, Allahabad

Brahma Sutra Vrittibrahma Sutra Vritti

Mahadeva Gangadhar Bakre

PDF Proofread

Front matter

श्रीमच्छंकरभगवच्छिष्यप्रणीता
ब्रह्मसूत्रवृत्तिः
(अद्वैतमञ्जरी)

'गुजराती' मुद्रणालयस्थानि क्रय्यसंस्कृतपुस्तकानि । १ श्रीमद्भगवद्गीता Bhagavat-Geeta मूल्य मागव्ययः z commentaries-प्रथमों गुच्छः आनन्दगिरिकृतटीकासंवलितशांकरभाष्य- जयतीर्थविरचितटीकासंवलितानन्दतीधीय ( माच्च ) भाष्य-रामानुजभाष्य- पुरुषोत्तमजीप्रकाशितामृततर- ङ्गिणी-नीलकण्ठीसमेता । मञ्जुलैरायसाक्षरैर्मुद्रिता। पृष्ठान्यष्टशतपरिमितानि सुचिकणानि । मूल्यम् रू. ६-०-०---- २ श्रीमद्भगवद्गीता Bhagavat-Geeta with 8 other commentaries- द्वितीयो गुच्छः । प्रथमषटकम्-निम्बार्कमतानुया- यिश्री केशवकाश्मीरिभट्टाचार्यपादप्रणीता-तत्वप्रका- शिका' श्रीमधुसूदनसरस्वतीकृता-'गूढार्थदीपिका' श्रीशङ्करानन्दप्रणीता-' तात्पर्यबोधिनी' श्रीधरस्वा- मिकृता- सुबोधिनी' श्रीसदानन्दविरचित:- भावप्रकाशः' श्रीधनपतिसूरिविरचिता-भाग्यो- त्कर्षदीपिका' दैवज्ञपण्डितश्रीसूर्यविरचिता परमा- थप्रपा पूर्णप्रज्ञमतानुसारिश्रीराघवेन्द्रकृत:-' अर्थसं- ग्रहः' इत्येताभियाख्याभिः सहितायाः श्रीमद्भगवद्गी- तायाः प्रथमादिषडध्यायात्मकं प्रथम खण्डम् । अत्र लोकाः स्थूलतमाक्षरेष्ठीकाश्च स्थूलाक्षरैर्मुद्रिताः, वृद्धा मा वैशिषतेति । पत्रसंख्या सार्धपञ्चशतानि । म ६. ३-१२-० ०-६-० द्वितीयो गुच्छ। द्वितीय चट्कम् । षष्टादिद्वाद शाध्यायान्तम्। तत्त्वप्रकाशिकायष्टीकोपेतम् । भू.८.१२-४-० द्वितीयो गुच्छः । तृतीयं षट्रकम् । त्रयोदशाध्या- यमारभ्यासमाप्ति । तत्वप्रकाशिकायष्टीकोपेतम् । matalB उत्तरगीता Uttara-Geeta with a commentary- गौडपादीवदीपिकाख्यव्या- ख्यायुता । भगवत्पादश्रीशंकराचार्याणां परमगुरुमिः श्रीशुकाचार्याणां च शिष्यैः श्रीगौडपादाचार्यः प्रणीतेयं व्याख्येत्येतावत्कथनमलमस्या महिमानमवगमयितुम् ।

BRAHMA SÛTRA
VRITTI
WITH ADWAITA MANJARI
BY
A PUPIL OF SHRIMAN SHANKAR
EDITED BY
MAHADEVA GANGADHAR BAKRE
Printed and Published at
THE GUJARATI PRINTING PRESS
by Manilal Itcharam Desai
No. 8, SASSOON BUILDINGS, CIRCLE, FORT,
BOMBAY
V. S. 1971
A. D.1914
Price Twelve Annas.

No text on this page.

श्रीमच्छंकरभगवच्छिष्यप्रणीता
ब्रह्मसूत्रवृत्तिः
(अद्वैतमञ्जरी)
बाक्रेइत्युपाहगङ्गाधरभट्टमुतेन महादेवशर्मणा
संशोधिता
साच
मुम्बय्या
कोट सासुन बिल्डिंग नं. ८ इत्यत्र
मणिलाल इच्छाराम देशाई इत्यनेन स्वीये
'गुजराती ' मुद्रणालयेऽङ्कयित्वा
तत्रैव प्रकाशिता ।
क
विक्रमसंवत् १९७१
निस्ताब्दः १९१४
मूल्यं द्वादशाणकाः।

सर्वेऽधिकाराः प्रकाशयित्रा स्वायत्तीकृताः ।

ब्रह्मसूत्रस्थाधिकरणानुक्रमणिका । पृ. ... १ ११ " प्रथमाध्याये पादः१. १ जिज्ञासाधिकरणम् २ जन्माद्यधिकरणम् ३ शास्त्रयोनित्वाधिकरणम् ४ समन्वयाधिकरणम् ५ ईक्षत्यधिकरणम् ६ आनन्दमयाधिकरणम् ७ अन्तरधिकरणम् ८ आकाशाधिकरणम् ९ प्राणाधिकरणम् १० ज्योतिरधिकरणम् ११ इन्द्रप्राणाधिकरणम् ७ अनुकृत्यधिकरणम् ८ प्रमिताधिकरणम् ९ देवताधिकरणम् १० अपशूद्राधिकरणम् ११ कम्पनाधिकरणम् १२ ज्योतिर्दर्शनाधिकरणम् १३ अर्थान्तरत्वादिव्यपदेशाधिक० १४ सुषुप्त्युत्क्रान्त्यधिकरणम् ... 2 . ... ... १९ ... प्रथमाध्याये पादः४ १ आनुमानिकाधिकरणम् २ चमसाधिकरणम् ३ संख्योपसंग्रहाधिकरणम् ४ ज्योतिषाधिकरणम् ५ कारणत्वाधिकरणम् ६ जगदाचित्वाधिकरणम् ७ वाक्यान्वयाधिकरणम् ८ प्रकृत्यधिकरणम् प्रथमाध्याये पादः २ १ सर्वत्र प्रसिद्धयधिकरणम् .. २ अत्रधिकरणम् ३ गुहाधिकरणम् ४ अन्तराधिकरणम् ५ अन्तर्याम्यधिकरणम् अदृश्यत्वाधिकरणम् ७ वैश्वानराधिकरणम् .. " १० " २४ २५ २६ १२ . द्वितीयाध्याये पादः १ १ स्मृत्यधिकरणम् २ योगप्रत्युक्त्यधिकरणम् ३ न विलक्षणत्वाधिकरणम् . ४ शिष्टापरिग्रहाधिकरणम् ५ भोक्रापत्त्यधिकरणम् ६ आरम्भणाधिकरणम् इतरव्यपदेशाधिकरणम् ८ उपसंहाराधिकरणम् ९ कृत्नप्रसक्त्यधिकरणम् प्रथमाध्याये पादः ३ १ युवाद्यधिकरणम् २ भूमाधिकरणम् ३ अक्षराधिकरणम् ४ ईक्षतिकर्माधिकरणम् ५ दहराधिकरणम् ६ उत्तराधिकरणम् 8. w ... ... .. .." " १४ ... ...

२ पृ. . 84 " ... १० सर्वोपेताधिकरणम् ११ प्रयोजनवत्त्वाधिकरणम् १२ वैषम्यनैपुण्याधिकरणम् १३ सर्वधर्मोपपत्त्यधिकरणम् ५२ ३१ ३२ द्वितीयाध्याये पाद: ४ १ प्राणोत्पत्त्यधिकरणम् २ सप्तगत्यधिकरणम् ३ प्राणाणुत्वाधिकरणम् ४ प्राणश्रेष्ठयाधिकरणम् ५ बायुक्रियाधिकरणम् ६ श्रेष्ठाणुत्वाधिकरणम् ७ ज्योतिराद्यधिष्ठानाधिकरणम् ८ इन्द्रियाधिकरणम् ९ संज्ञामूर्तिक्लप्त्यधिकरणम् " ५४ द्वितीयाध्याये पाद:२ १ रचनानुपपत्त्यधिकरणम् . २ महद्दीर्घाधिकरणम् ३ अतस्तदभावाधिकरणम् ४ समुदायाधिकरणम् ५ उपलब्ध्यधिकरणम् ६ एकस्मिनसंभवाधिक० ७ पत्यधिकरणम् ८ पाञ्चरात्राधिकरणम् .. ३९ ४० ५६ ४१ तृतीयाध्याये पादः१ १ तदन्तरप्रतिपत्त्यधिकरणम् २ कृतात्ययाधिकरणम् ३ अनिष्टादिकार्यधिकरणम् .. ४ तत्साभाव्यापत्त्यधिकरणम् ५ नातिचिराधिकरणम् ६ अन्याधिष्ठिताधिकरणम् .. ६० ४२ 4.. ... 3 ४३ ६३ " ... 2 ... " द्वितीयाध्याये पादः ३ १ वियदधिकरणम् २ मातरिश्वाधिकरणम् ३ असंभवाधिकरणम् ४ तेजोऽधिकरणम् ५ अबधिकरणम् ६ पृथिव्यधिकरणम् ७ तदभिध्यानाधिकरणम् ८ विपर्ययाधिकरणम् ९ अन्तराविज्ञानाधिकरणम्... १० चराचरव्यपाश्रयाधिकरणम् ११ आत्माधिकरणम् १२ ज्ञाधिकरणम् १३ उत्क्रान्त्यधिकरणम् १४ कत्रधिकरणम् १५ तक्षाधिकरणम् १६ पराधिकरणम् १७ अंशाधिकरणम् तृतीयाध्याये पादः२ १ संध्याधिकरणम् ६४ २ तदभावाधिकरणम् ३ कर्मानुस्मृत्यधिकरणम् ६७ ४ मुग्धाधिकरणम् ५ उभयलिङ्गाधिकरणम् ६ प्रकृततावत्त्वाधिकरणम् सेतून्मानाधिकरणम् ८ फलाधिकरणम् 2 .. " ४८ ... ..... > तृतीयाध्याये पादः ३ १ सर्ववेदान्तप्रत्ययाधिकरणम् २ उपसंहाराधिकरणम् ३ अन्यथात्वाधिकरणम् ४९ ७८ ७९ पृ. ८० " ८१ ० ८५ तृतीयाध्याये पादः४ १ पुरुषार्थाधिकरणम् २ परामर्शाधिक० ३ स्तुतिमात्राधिक १०७ ४ पारिप्लवाधिक० १०८ ५ अग्नीन्धनाधिक० ६ सर्वापेक्षाधिक० ७ सर्वान्नानुमत्यधिक ११० ८ आश्रमकर्माधिक० ९ तदृष्टयधिक० १० तद्भूताधिक० ११३ ११ आधिकारिकाधिक० १२ बहिरधिक० १३ स्वाम्यधिक १४ सहकार्यन्तरविष्यधिक० ११५ १५ अनाविष्कुर्वदधिक० १६ ऐहिकमप्यप्रस्तुतप्रतिबन्धइत्य०११८ १७ मुक्तिफलानियमाधिक० ... ... " ० ४ व्याप्त्यधिकरणम् ५ सर्वाभेदाधिकरणम् ६ आनन्दाद्यधिकरणम् ७ आध्यानाधिकरणम् आत्मगृहीत्यधिकरणम् ९ कार्याख्यानाधिकरणम् १० समानाधिकरणम् ११ संबन्धाधिकरणम् १२ संभृत्यधिकरणम् १३ पुरुषविद्याधिकरणम् १४ वेधाधिकरणम् १५ हान्यधिकरणम् १६ सांपरायाधिकरणम् १७ गत्यर्थवत्त्वाधिकरणम् १८ अनियमाधिकरणम् १९ आधिकारिकाधिकरणम् २० अक्षरध्यधिकरणम् २१ इयदामननाधिक० २२ अन्तराधिक० २३ व्यतिहाराधिक० २४ सत्याद्यधिक २५ कामाद्यधिक० २६ अलोपाधिक० २७ तनिर्धारणानियमाधिक० २८ प्रदानाधिक० २९ लिङ्गभूयस्वाधिक० ३० शरीरे भावाधिक० ३१ अङ्गावबद्धाधिक ३२ भूमज्यायस्त्वाधिक ३३ विकल्पाधिक० २४ काम्याधिक० ३५ यथाश्रयभावाधिक " ” ... ९१ ... ... १२० ० ९३ ८ .... ... 2 ७ 000 चतुर्थाध्याये पादः१ १ आवृत्त्यधिकरणम् २ आत्मेत्यधिक ३नप्रतीकाधिक० ४ ब्रह्मदृष्ट्यधिक ५ आदित्यादिमत्याधिक ६ आसीनाधिक० १२२ ७ यत्रैकाग्रताधिक० ८ आप्रायणाधिक० १२३ ९ तदधिगमाधिक १० इतराश्लेषाधिक० ११ अनारब्धकार्याधिक १२ अग्निहोत्रायधिक० .. " " ३.8 ९८ ... " " ... . .62 20 पृ ... १३ यदेवाधिक १४ भोगाधिक० " पृ. चतुर्थाध्याये पादः३ १ अर्चिरायधिकरणम् २ वाय्वधिक ३ तटिदधिक. ४ आतिवाहिकाधिक ५ कार्याधिक० १३३ ६ अप्रतीकालम्बनाधिक० १३५ ७.. " a . " " चतुर्थाध्याये पादः२ १ वावसंपत्त्यधिक २मन:संपत्त्यधिक ३ प्राणसंपत्त्यधिक ४ आसत्ट क्रमाधि० ५ तदापीत्यधिक ६ उत्क्रान्तिप्रतिषेधाधिक०. ७ लयाधिक० १२९ ८ आविभागाधिक० ९ तदेकोग्राधिक० १० रइम्यधिक ११ अयनाधिक० 0 06 चतुर्थाध्याये पादः ४ १ संपद्याविर्भावाधिकरणम् २ अविभागाधिक १३७ ३ ब्राह्माधिक० ४ संकल्पाधिक० १३९ ५ बादर्यधिक० ६ प्रदीपाधिक० ७ जगद्व्यापाराधिक० १३० . .... Hin .... ... समाप्ता ब्रह्मसूत्राधिकरणसूची। -- ॐ श्रीमच्छंकरभगवत्पादशिष्यप्रणीता ब्रह्मसूत्रवृत्तिः । (अद्वैतमञ्जरी) प्रथमाध्यायस्य प्रथमः पादः। GEEBEEEEEEEEE- , , ma जिज्ञासाधिकरणम् ॥१॥ अथातो ब्रह्मजिज्ञासा ॥ १ ॥ 'शान्तो दान्त ' इत्यादिश्रुतेः ' आत्मा वा अरे द्रष्टव्यः' इत्यादिश्रु- तेश्च अथ साधनचतुष्टयसंपत्त्यनन्तरम् अतः अधिकारस्य संपूर्णत्वात् ब्रह्मजिज्ञासा कर्तव्या ब्रह्मविचारः कर्तव्य इत्यर्थः ॥ १॥ जन्माधिकरणम् ॥ २॥ जिज्ञास्यस्य ब्रह्मणो लक्षणमाह- जन्माद्यस्य यतः॥२॥ 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः अस्य प्रपञ्चस्य जन्मादि यतः कारणात् भवति, तन ब्रह्मेत्यर्थः । जगज्जन्मस्थितिलयका- रणत्वं ब्रह्मणो लक्षणमुक्तं भवति ॥२॥ शास्त्रयोनित्वाधिकरणम् ॥३॥ लक्षणमुक्त्वा प्रमाणमाह- शास्त्रयोनित्वात् ॥ ३॥ 'तं त्वौपनिषदं पुरुषं पृच्छामि ' इत्यादिश्रुत्या शास्त्रप्रमाणकत्वात् ब्रह्मणः अप्रामाणिकत्वं नास्तीत्यर्थः ।। ३ ।।

ब्रह्मसूत्रवृत्तिः। [अ० १ पा०१ SPIRMALAYARIA Ram समन्वयाधिकरणम् ॥ ४॥ शास्त्रप्रमाणकत्वे हेतुं वदन्नेव अनुमानादिप्रमाणकत्वं निराकरोति- तत्तु समन्वयात् ॥४॥ तत् ब्रह्म शास्त्रप्रमाणक, कुतः ? समन्वयात् 'सर्वे वेदा यत्पदमाम- नन्ति' इति श्रुत्या उपक्रमोपसंहारादिलिङ्गैश्च सर्वेषां वेदान्ताना ब्रह्मण्येव तात्पर्यनिर्णयादित्यर्थः । तुशब्देन अनुमानादिप्रमाणकत्वं निरस्यति । ' नावेदविन्मनुते तं बृहन्तम् । नैषा तर्केण मतिरापनेया ' इत्यादिश्रुत्या अनुमानादिप्रमाणकत्वस्य निरस्तत्वात् । 'न चक्षुषा गृह्यते' इत्यादिश्रुत्या प्रत्यक्षादिप्रमाणकत्वस्य च निरस्तत्वेन परिशेषात् शास्त्रप्रमाणकत्वं ब्र- ह्मणो निश्चीयत इत्यर्थः ॥ ४ ॥ ईक्षत्यधिकरणम् ॥ ५ ॥ ब्रह्मणः शास्त्रप्रमाणकत्वं प्रसाध्य प्रधानस्य खातन्त्र्येण जगत्कार- णत्वं निराकरोति ईक्षते शब्दम् ' इत्यादिना 'श्रुतत्वाच्च ' इत्येवम- न्तेन सूत्रसंदर्भण- ईक्षते शब्दम् ॥ ५॥ अशब्द शब्दाप्रतिपाद्यं प्रधानं जगत्कारणं न भवति । कुतः ? ईक्षतेः 'तदक्षत ' इति श्रुतौ जगत्कारणस्य ईक्षितृत्वश्रवणात् जडस्य प्रधानस्य ईक्षितृत्वासंभवादित्यर्थः ॥५॥ अतेजसोरिव प्रधानस्यापि गौणमीक्षणं संभवतात्याशङ्कय निरा- करोति- गौणश्चेन्नात्मशब्दात् ॥ ६॥ ईक्षतिशब्दो गौण इति चेन्न । आत्मशब्दात् । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा' इति श्रुतौ जगत्कारणे आत्मशब्दप्रयोगात् मुख्यमेवे- क्षणं न गौणमित्यर्थः ॥६॥ ब्रह्मैव जगत्कारणमित्यत्र हेत्वन्तरमाह-- तनिष्ठस्य मोक्षोपदेशात् ॥७॥ तस्य तावदेव चिरम्' इति श्रुतौ जगत्कारणध्याननिष्ठस्य मोक्षोप- देशात् जडप्रधानध्यानेन मोक्षासंभवादित्यर्थः ॥ ७ ॥ १ अध्यायपरिसमाप्तिपर्यन्तेन सूत्रसंदर्भेणेति पाठः । - mule

आधि०६]
अद्वैतमञ्जरी।
NOMIND
-
स्थूलारुन्धतीन्यायेन प्रथम प्रधानध्यानं कृत्वा पश्चात् ब्रह्मध्यानं कुर्वतो
मोक्षो भविष्यतीत्याशङ्कय निराकरोति--
हेयत्वावचनाच ॥ ८॥
हेयत्वस्य निषेधस्य अवचनात् अनुक्तरित्यर्थः । न प्रधानध्यानान्मोक्ष
इति निषेधाकथनात् स्थूलारुन्धतन्यिायेनापि न प्रधानस्यावकाश इत्यर्थः८
ब्रह्मणो जगत्कारणत्वे हेत्वन्तरमाह-
स्वाप्ययात् ॥ ९॥
'सता सोम्य तदा संपन्नो भवति' इति श्रुतौ सुषुप्तिकाले सर्वेषामन्तः
करणविशिष्टानां जीवानां स्वाधिष्ठाने लयश्रवणाजडप्रधाने चेतनानां
जीवानां लयासंभवात् ब्रह्मैव जगत्कारणमित्यर्थः ॥ ९॥
हेत्वन्तरमाह-
गतिसामान्यात् ॥१०॥
गतिः तात्पर्य, सर्वेषां वेदान्तानां ब्रह्मणि तात्पर्यसाम्यादित्यर्थः ॥१०॥
श्रुतत्वाच ॥११॥
यः सर्वज्ञः सर्ववित् ' इत्यादिश्रुतौ जगत्कारणस्य सर्वज्ञत्वश्रवणाच
ब्रह्मैव जगत्कारणमित्यर्थः ॥ ११ ॥
आनन्दमयाधिकरणम् ॥ ६॥
आनन्दमयोऽभ्यासात् ॥ १२ ॥
'अन्योऽन्तर आत्माऽऽनन्दमयः' इति श्रुतौ आनन्दमयः परमात्मैव,
न जीवः । कुतः ? अभ्यासात् आनन्दशब्दस्य बहुश्रुतिषु ब्रह्मण्येव
प्रयोगदर्शनादित्यर्थः ।। १२ ।।
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
मयत्प्रत्ययस्य मृण्मयो घट इत्यादौ विकारवाचकत्वान्निर्विकारस्य
ब्रह्मणः आनन्दविकारत्वासंभवात् आनन्दमयः न परमात्मेति चेन्न ।
प्राचुर्यार्थेऽपि ' अन्नमयो यज्ञः ' इत्यादौ मयत्प्रत्ययविधानात् आनन्दप्र-
चुरत्वस्य ब्रह्मण्यपि संभवादित्यर्थः ॥ १३ ॥
तद्धेतुव्यपदेशाच ॥१४॥
को ह्येवान्यात् कः प्राण्यात् ' इति श्रुतौ सकलजीवानन्दहेतुत्वस्य
व्यपदेशादपि आनन्दमयः परमात्मेत्यर्थः ॥ १४ ॥

ब्रह्मसूत्रवृत्तिः। [अ०१ पा०१ MANOORN मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥ सत्यं ज्ञानमनन्तं ब्रह्मे' इति मन्त्रे ब्रह्मण उपक्रान्तत्वादपि आनन्द- मयो ब्रह्मेत्यर्थः ॥ १५॥ सिद्धान्तमुक्त्वा पूर्वपक्षं निराकरोति- नेतरोऽनुपपत्तेः ॥१६॥ आनन्दमयः इतरः जीवो न भवति । कुतः ? अनुपपत्तेः आनन्दप्र- चुरत्वादिधर्माणां जीवेऽनुपपत्तेरित्यर्थः ।। १६ ॥ भेदव्यपदेशाच ॥ १७॥ 'अन्योऽन्तर आत्मानन्दमयः' इति श्रुतौ आनन्दमयस्य जीवाद- व्यपदेशाच आनन्दमयो न जीव इत्यर्थः । ननु, 'अन्योऽन्तर आत्मा प्राणमयः, अन्योऽन्तर आत्मा मनोमयः, अन्योऽन्तर आत्मा विज्ञान- मयः' इत्यादिवाक्येषु विद्यमानानामन्यशब्दानां जीवान्यत्वप्रतिपा- दकत्वाभावात् 'अन्योऽन्तर आत्मानन्दमयः' इति वाक्यस्थस्य अन्यश- ब्दस्य कथं जीवान्यत्वप्रतिपादकत्वमिति चेन्न । आनन्दमयादन्यस्य ब्रह्म- वल्लयामनुक्तत्वेन आनन्दमयशब्दस्य 'ब्रह्मविदाप्नोति परम्' इति उपक्रान्त- ब्रह्मप्रतिपादकत्वे निश्चिते सति अनत्यान्यशब्दस्य जीवान्यत्वप्रतिपादक- त्वनिश्चयादिति भावः ॥ १७ ॥ आनन्दमयः प्रधानमस्त्वित्याशङ्कयाह- कामाच नानुमानापेक्षा ॥ १८ ॥ 'सोऽकामयत' इति श्रुतौ आनन्दमयस्य कामयितृत्वश्रवणाजडस्य प्रधानस्येच्छासंभवात् अनुमानस्य अनुमानप्रतिपाद्यस्य प्रधानस्यापेक्षा आशा न कर्तव्येत्यर्थः ॥ १८ ॥ आनन्दमयः प्रधानं न भवतीत्यत्र हेत्वन्तरमाह- अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥, अस्मिन्नानन्दमये आसक्तचित्तस्यास्य मुमुक्षोः तद्योगं तदभेदं शास्ति प्रतिपादयात ' यदा ह्येवैष एतस्मिन्नदृश्ये ' इत्यादिश्रुतिः । ततश्चेतनस्य जीवस्य जंडप्रधानाभेदासंभवादानन्दमयः परमात्मेत्यर्थः ॥ १९ ॥ अन्तरधिकरणम् ॥ ७॥ अन्तस्तद्धर्मोपदेशात् ॥ २०॥ WBARMANADESH अधि० १०] अद्वैतमञ्जरी। - अथ य एषोऽन्तरादित्ये' इति श्रुतौ अन्तः आदित्यमण्डलान्त- वर्ती हिरण्मयः पुरुषः परमात्मा, न सूर्यः । कुतः ? तद्धभोपदेशात् अप- इतपाप्मत्वादिब्रह्मधर्मोपदेशादित्यर्थः ।। २० ॥ भेदव्यपदेशाच्चान्यः ॥ २१ ॥ 'य आदित्ये तिष्ठन्' इति श्रुतौ आदित्यपरमात्मनाः नियम्यनियामक- भावश्रवणान्नियामकः परमात्मैव आदित्यमण्डले अभिव्यक्तः अस्मिन् वाक्ये प्रतिपाद्यत इत्यर्थः ।। २१ ॥ आकाशाधिकरणम् ॥ ८॥ आकाशस्तल्लिङ्गात् ।। २२ ॥ अस्य लोकस्य का गतिः' इति श्रुतौ आकाशपरमात्मा, न भूता- काशः । कुतः ? तल्लिङ्गात् सर्वभूतोत्पत्तिलयहेतुत्वादिब्रह्मलिङ्गा. दित्यर्थः ॥ २२॥ प्राणाधिकरणम् ॥९॥ अत एव प्राणः ॥ २३ ॥ 'प्रस्तोतर्या देवता' इति श्रुतौ प्राणः परमात्मा, न प्राणवायुः । कुतः? अत एव सर्वभूतोत्पत्तिलयहेतुत्वादिब्रह्मलिङ्गादेवेत्यर्थः ।। २३ ।। ज्योतिरधिकरणम् ॥ १० ॥ ज्योतिश्चरणाभिधानात् ॥ २४ ॥ 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति श्रुतौ ज्योतिः परमात्मा, न सूर्यादिज्योतिः । कुतः ? चरणाभिधानात् 'पादोऽस्य विश्वा भूता- नि' इति पूर्ववाक्ये ब्रह्मणः पादत्रयाभिधानात् तस्यैव ब्रह्मणः द्युलोकसंब- न्धेन ज्योतिर्वाक्ये प्रत्यभिज्ञायमानत्वादित्यर्थः ॥ २४ ॥ पूर्ववाक्ये पादत्रयवत्त्वं गायत्र्या एवोक्तं, न ब्रह्मण इत्याशङ्कय निराकरोति-- छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम् ।। २५ ॥ गायत्री वा इदं सर्व भूतम्' इति श्रुतौ गायत्र्याख्यच्छन्दसः उपक्रा- न्तत्वात् पादत्रयवत्त्वमपि गायत्र्या एवोक्तं, न तु ब्रह्मण इति चेन्न । तथा गायत्र्यवच्छिन्ने ब्रह्मणि चेतोऽर्पणस्य चित्तप्रक्षेपस्य निगदात् कथw ब्रह्मसूत्रवृत्तिः । [अ०१ पा० २ -- नात् पादत्रयवत्त्वं ब्रह्मण एवोक्तम् । तथा हि दर्शनम् आदित्यमण्डलादि- शुद्धस्थलेषु परमात्मनः अभिव्यक्तिः अन्यत्राप्युक्ता तद्वत् गायत्र्यभि- व्यक्तं ब्रह्म उपास्यमित्यर्थः ॥ २५ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥ भूतादीनां पादानामवयवानां व्यपदेशस्य ब्रह्मण्येवोपपत्तेः उपपन्न- त्वाच एवं गायत्रीशब्देन गायत्र्यवच्छिन्नं ब्रह्मैवोच्यत इत्यर्थः । 'गायत्री वा इदं सर्वम्' इति वाक्ये गायत्र्याः पञ्चमहाभूतादिसकलप्रपञ्चात्मकत्व- मुक्तम् । तच गायत्र्यवच्छिन्नस्य ब्रह्मण एव संभवति, न केवलगायत्र्या इति भावः ।। २६॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥ 'त्रिपादस्यामृतं दिवि ' इति गायत्रीवाक्ये त्रिपाद्ब्रह्मणः ब्रह्माण्डान्त- वर्तित्वमुक्तम् । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते । इति ज्योतिर्वाक्ये तु त्रिपाद्ब्रह्मणः ब्रह्माण्डादुपरि अवस्थानमुक्तम् । तथाचोपदेशभेदात् उपदेशयोः गायत्रीवाक्यज्योतिक्यियोः भेदात् परस्परविरुद्धार्थकत्वात् नेति चेन्न प्रामाण्यं नास्तीति चेन्न । उभयस्मिन्वाक्यद्वयेऽपि अविरोधात् विरोधाभावात् । दिवाति सप्तमीविभक्तेः लक्षणया पञ्चमीविभक्त्यर्थ- बोधकत्वादिति भावः ।। २७ ।। इन्द्रप्राणाधिकरणम् ॥ ११ ॥ प्राणस्तथानुगमात् ।। २८ ॥ 'प्राणोऽस्मि प्रज्ञात्मा' इति श्रुतौ प्राणः परमात्मा, न प्राणवायुः । कुतः तथानुगमात् 'प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः' इति वाक्ये ब्रह्म- लिङ्गाभिधानादित्यर्थः ।। २८॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ २९॥ वक्तुरिन्द्रस्यात्मोपदेशात् शरीरोपदेशादिन्द्रशरीरमेव उपास्यमिति चेन्न । अध्यात्मसंबन्धभूमा आनन्दामृतत्वाद्यध्यात्मलिङ्गबाहुल्यमस्मिन् वाक्ये उपलभ्यते, न तु वनहस्तत्वादिकमिन्द्रशरीरलिङ्गम् । अत इन्द्र- शरीरमध्यवर्ती परमात्मैव उपास्य इत्यर्थः ॥ २९ ॥ इन्द्रस्य देहातिरिक्तात्मज्ञानाभावात् नोपदेष्टुत्वमित्याशङ्कयाह- । ।

आधि०१]
अद्वैतमञ्जरी।
शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ ३०॥
इन्द्रस्यापि शुकवामदेवादिवत् शास्त्रजन्यब्रह्मसाक्षात्कारवत्त्वात
उपदेश उपपद्यत इत्यर्थः ॥ ३० ॥
जीवमुखमाणलिङ्गानेति चेन्नो-
पासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
'न वाचं विजिज्ञासीत वक्तारं विद्यात् प्राण एव प्रज्ञात्मा इदं
शरीरं परिगृह्योत्थापयति' इति श्रुतौ जीवमुख्यप्राणलिङ्गानामपि विद्य-
मानत्वान्न ब्रह्मोपासनामात्रपरमिति चेन्न । इष्टापत्तेः । कुतः ? उपासा-
त्रैविध्यात् प्राणजीवब्रह्मविषयकोपासनात्रयस्याङ्गीकृतत्वात् इह तद्योगात्
अस्मिन् वाक्ये उपासनात्रयस्य स्थूलारुन्धतीन्यायेन निर्गुणब्रह्मज्ञानसा-
धनत्वेन उपयुक्तत्वादित्यर्थः ॥ ३१ ॥
इति ब्रह्मसूत्रवृत्तौ प्रथमाध्यायस्य प्रथमः पादः ।
प्रथमाध्यायस्थ द्वितीयः पादः ।
,
?
सर्वत्र प्रसिद्धयधिकरणम्॥१॥
सर्वत्र प्रसिद्ध उपदेशात् ॥ १॥
'मनोमयः प्राणशरीरः' इति वाक्ये परमात्मा उपास्यः । कुतः
'सर्वं खल्विदं ब्रह्म' इतिवाक्ये सर्वत्र प्रसिद्धस्य ब्रह्मणः उपक्रान्त-
त्वादित्यर्थः ॥ १॥
विवक्षितगुणोपपत्तेश्च ॥२॥
विवक्षितानां सत्यसंकल्पादीनां गुणानां ब्रह्मण्येवोपपत्तरित्यर्थः ॥२॥
अनुपपत्तेस्तु न शारीरः॥३॥
शारीरः जीवः नोपास्यः । कुतः ? अनुपपत्तेः सत्यसंकल्पादिधर्माणां
जीवे अनुपपत्तेरित्यर्थः ॥ ३ ॥
कर्मकर्तृव्यपदेशाच ॥ ४ ॥
उपास्योपासकभावव्यपदेशाच्च न जीव उपास्य इत्यर्थः ॥ ४ ॥
शब्दविशेषात् ॥५॥

८ ब्रह्मसूत्रवृत्तिः। [अ० १ पा० २ । ब्रह्मशब्दप्रयोगादित्यर्थः ॥ ५ ॥ स्मृतेश्च ॥ ६॥ 'यं यं वापि स्मरन् भावम् ' इति स्मृतरित्यर्थः ॥ ६॥ अर्भकौकस्त्वात तयपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥ 'एष त आत्मान्तर्हृदये ' इति श्रुतेः अल्पपुण्डरीकस्थानकत्वात् तब्ध- पदेशादणुत्वव्यपदेशाच न परमात्मा उपास्य इति चेन्न । निचाय्यत्वाद- गुत्वेन ध्यातुं शक्यत्वात् व्यापकस्य ब्रह्मणो ध्यातुमशक्यत्वाच्च । व्योम- वत् यथा व्यापकस्याकाशस्य सूचीरन्ध्रादौ अणुत्वम्, एवं ब्रह्मणोऽपि हृत्पुण्डरीके अणुत्वं ध्यानार्थमुक्तमित्यर्थः ॥ ७ ॥ संभोगप्राप्तिरिति चेन वैशेष्यात् ॥ ८॥ ब्रह्मणोऽपि हृत्पुण्डरीकावस्थानाङ्गीकारे जीववत् सुखदुःखभोगप्रसङ्ग इति चेन्न । वैशेष्यात् जीवस्य पुण्यपापकर्तृत्वात् सुखदुःखभोगः, ईश्वर- स्य तु पुण्यपापकर्तृत्वाभावात् न भोग इत्यर्थः ॥ ८॥ अत्रधिकरणम् ॥२॥ अत्ता चराचरग्रहणात् ।।९॥ यस्य ब्रह्म च क्षत्रं चोभे भवत ओदने' इत्यादिश्रुतौ अत्ता संहर्ता परमात्मा, न जीवः । कुतः ? चराचरग्रहणात् चराचरसंहर्तृत्वादित्यर्थ: ९।। प्रकरणाच॥ १०॥ 'अन्यत्र धर्मादन्यत्राधर्मात्' इति श्रुतौ ब्रह्मणः पृष्टत्वादित्यर्थः ॥१०॥ गुहाधिकरणम् ॥३॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ 'ऋतं पिबन्तौ ' इति श्रुतौ गुहां प्रविष्टौ जीवपरमात्मानौ न बुद्धि- जीवौ । कुतः ? तदर्शनात् 'द्वा सुपर्णा' इत्यादिश्रुतौ जीवपरमात्मप्रति- पानदर्शनादित्यर्थः ॥ ११ ॥ विशेषणाच ॥ १२ ॥ 'ब्रह्मविदो वदन्ति' इत्युत्तरवाक्ये परमात्मप्रतिपादनादित्यर्थः।।१२।। अन्तराधिकरम् ॥ ४॥ अन्तर उपपत्तेः ॥ १३ ॥ ?

आधि० ५]
अद्वैतमञ्जरी।
९.
ar
भाtama
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते' इत्यादिश्रुतौ अन्तरः
अक्षिमध्यवर्ती परमात्मा, न जीवः । कुतः ? उपपत्तेः अमृतत्वादिधर्माणां
ब्रह्मण्येवोपपत्तेरित्यर्थः ॥ १३ ॥
स्थानादिव्यपदेशाच ॥ १४॥
आदित्यमण्डलहृत्पुण्डरीकादिशुद्धस्थानेषु ब्रह्मोपासनस्य आदिपदात्
तद्धर्मस्य च अन्यत्र उपदिष्टत्वादक्षिमण्डलस्यापि शुद्धस्थानत्वात्तत्र ब्रह्मो-
पासनं युक्तमित्यर्थः ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति पूर्ववाक्ये सुखस्वरूपस्य ब्रह्मणः
अभिधानात् अक्षिमण्डलमध्यवर्त्यपि ब्रह्मैवेत्यर्थः ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच ॥ १६ ॥
श्रुतोपनिषत्कानां श्रुतवेदान्तशास्त्राणामुपासकानां या गतिः देवया-.
नमार्गः, तस्याः । तेऽचिषमभिसंभवन्ति ' इत्युत्तरवाक्ये अभिधानाच
अक्षिमध्यवर्ती परमात्मेत्यर्थः ॥ १६ ॥
सिद्धान्तमुक्त्वा पूर्वपक्षं दूषयति-
अनवस्थितेरसंभवाच नेतरः ॥१७॥
अनवस्थितेः प्रतिबिम्बस्य सर्वथा अक्षिण्यनवस्थितत्वात् असंभवाच
अमृतत्वादिधर्माणां प्रतिबिम्बे असंभवाच नेतरः प्रतिबिम्बो न भव-
तीत्यर्थः ॥ १७॥
अन्तर्याम्यधिकरणम् ॥५॥
अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
' यः पृथिव्यां तिष्ठन् ' इत्यादिश्रुतौ अधिदैवादिषु पृथिव्यादिषु य
अन्तर्यामी उक्तः, स परमात्मा । कुतः ? तद्धर्मव्यपदेशात् ' एष त
आत्मान्तर्याम्यमृतः' इत्युत्तरवाक्ये ब्रह्मधर्मव्यपदेशादित्यर्थः ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
कपिलस्मृतिप्रतिपाद्यं स्मातै प्रधानमन्तर्यामी न भवति । कुतः ?
अतद्धर्माभिलापात् त्रिगुणत्वादीनां प्रधानधर्माणामभिलापाभावादि.
त्यर्थः ॥ १९ ॥
शारीरश्वोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥

१० ब्रह्मसूत्रवृत्तिः । [अ० १ पा० २ , , शारीरः जीवोऽपि अन्तर्यामी न भवति । कुतः ? उभयेऽपि काण्या माध्यन्दिनाश्च एनं जीवं भेदेन अन्तर्यामिभिन्नतया अधीयते अध्ययन कुर्वन्तीत्यर्थः । ‘य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इति श्रुतौ जीवस्य परमात्मनियम्यत्वप्रतिपादनात् जीवानां सर्वेषां नियन्ता पर- मात्मैव, न जीव इत्यर्थः ॥ २० ॥ अदृश्यत्वाधिकरणम् ॥ ६ ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥ यत्तददृश्यम् ' इत्यादिश्रुतौ यः अदृश्यत्वादिगुणक: उक्तः, स पर- मात्मा । कुतः ? धर्मोक्तेः धर्माणां सर्वज्ञत्वादीनामुक्तत्वादित्यर्थः ।। २१ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ 'दिव्यो ह्यमूर्तः पुरुषः । इति श्रुतौ अप्राणत्वादिविशेषणात् ' अक्ष- रात् परतः परः' इति अक्षरात प्रधानात् भेदव्यपदेशाच अदृश्यत्वादि- गुणकः परमात्मैव, नेतरौ प्रधानजीवौ न भवत इत्यर्थः ।। २२ ।। रूपोपन्यासाच ॥ २३॥ अग्निमूर्धा चक्षुषी चन्द्रसूर्यो' इत्यत्र श्रुतौ मूर्धादिरूपोपन्यासाच परमात्मैवेत्यर्थः ॥ २३॥ वैश्वानराधिकरणम् ॥ ७ ॥ वैश्वानरः साधारणशब्दविशेषात् ॥२४॥ वैश्वानरः परमात्मा । साधारणशब्दानां मध्ये विशेषशब्दात् ' को न आत्मा किं ब्रह्म ' इति श्रुतौ ब्रह्मशब्दप्रयोगादित्यर्थः ॥ २४ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ २५॥ 'यस्याग्निरास्यम्' इत्यादिश्रुतौ प्रतिपाद्यमानं विश्वरूपत्वमनुमानं परब्रह्मलिङ्गमित्यर्थः ॥ २५ ॥ शब्दादिभ्योऽन्तःमातिष्ठानाच नेति चेन्न तथा दृष्टयु- पदेशादसंभवात्पुरुषमपि चैनमधीयते ॥२६॥ वैश्वानरशब्दादिभ्यः अन्तःप्रतिष्ठानाच ' स यो हैतमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तःप्रतिष्ठितं वेद' इति श्रुतौ शरीरान्तःप्रतिष्ठितत्वव्यपदे- शाच वैश्वानरः परमात्मा न भवति, किं तु जाठराग्निरिति चेत्, न ! तथा जाठराग्यवच्छिन्नब्रह्मणि दृष्ट्युपदेशात्' ध्यानोपदेशात, असंभवात् , जाबाला अधि०७] अद्वैतमञ्जरी। द्युमूर्धत्वादीना केवलजाठराग्नौ असंभवात् । पुरुषमपि चैनमधीयते वाजसनेयिनः एनं वैश्वानरं पुरुषमधीयते पुरुषं वदन्ति स यो हैतमग्निम् ' इति श्रुतावेवेत्यर्थः ॥ २६ ॥ अत एव न देवता भूतं च ॥ २७ ॥ अत एव द्युमूर्धत्वादिधर्माणामसंभवादेव भूतं, बाह्याग्निदेवता अग्न्य- भिमानिनी देवता च वैश्वानरशब्दार्थो न भवति, किं तु जाठराग्न्य. वच्छिन्नः परमात्मैव वैश्वानरशब्दार्थ इत्यर्थः ॥ २७ ।। साक्षादप्यविरोध जैमिनिः ॥२८॥ साक्षात् जाठराग्न्यवच्छिन्नात्मलक्षणां विनैव जाठराग्न्यनवच्छिन्ने केवलब्रह्मण्यपि वैश्वानरशब्दस्य अविरोधं विरोधाभावं जैमिनिर्मन्यते । विश्वश्वासौ नरश्च विश्वनरः, विश्वाभिन्नः नरः परमात्मा । विश्वनर एव वैश्वानरः । स्वार्थे तद्धितप्रत्ययः राक्षसवायसादिशब्दवत् । तथा च प्रपञ्चाभिन्ने ब्रह्मणि वैश्वानरशब्दस्य योगव्युत्पत्त्या प्रवृत्तिसंभवात् वैश्वानरशब्देन व्यापकः परमात्मैवोच्यत इति भावः । अग्निशब्दोऽपि अयं नयतीति व्युत्पत्त्या श्रेष्ठत्ववाचक इति भावः ॥ २८ ॥ व्यापकस्य परमात्मनः प्रादेशमात्रपरिमाणवत्त्वमसङ्गतमित्याशङ्कयाह- अभिव्यक्तरित्याश्मरथ्यः ॥ २९ ॥ व्यापकोऽपि परमात्मा प्रादेशमानं शरीरं धृत्वा उपासकानां प्रत्या- यको भवतीत्यर्थः ॥ २९ ॥ अनुस्मृतेर्बादरिः ॥३०॥ व्यापकस्य परमात्मनो ध्यातुमशक्यत्वात् प्रादेशमात्रशरीरविशिष्ट- तया ध्यातव्य इत्यर्थः ॥ ३० ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥३१॥ संपत्तेः मूर्धपादाद्यवयवसंपन्नत्वात् प्रादेशमात्रत्वमित्यर्थः ॥ ३१ ॥ आमनन्ति चैनमस्मिन् ॥३२॥ प्रादेशमात्रपरिमाणवत्त्वमुपपन्नमित्यर्थः ॥ ३२॥ इति ब्रह्मसूत्रवृत्तौ प्रथमाध्यायस्य द्वितीयः पादः । R १२ ब्रह्मसूत्रवृत्तिः। [अ० १ पा०३ प्रथमाध्यायस्य तृतीयः पादः । . धुभ्वादधिकरणम् ॥१॥ युभवाद्यायतनं स्वशब्दात् ॥ १॥ 'यस्मिन् द्यौः पृथिवी' इति श्रुतौ शुभ्वादिप्रपञ्चस्य आयतनम् अधिष्ठानं ब्रह्मैव । कुतः ? स्वशब्दात् आत्मशब्दप्रयोगादित्यर्थः ॥ १॥ मुक्तोपमृप्यव्यपदेशात् ॥ २॥ यदा सर्वे प्रमुच्यन्ते ' इति श्रुतौ ' तथा विद्वान्नामरूपाद्विमुक्तः' इत्यादिश्रुतौ च मुक्तैः रागद्वेषादिविनिर्मुक्तैः उपसृप्यत्वव्यपदेशात् प्राप्य- त्वव्यपदेशाच शुभ्वाद्यायतनं ब्रह्मवेत्यर्थः ॥ २॥ नानुमानमतच्छन्दात् ॥३॥ अनुमान प्रधानं शुभ्वाद्यायतनं न भवति । अतच्छब्दात् प्रधानप्र- तिपादकत्रिगुणादिशब्दाभावादित्यर्थः ॥३॥ प्राणभृच्च ॥४॥ प्राणभृज्जीवोऽपि शुभ्वाद्यायतनं न भवति । जीवस्य प्रपञ्चाधिष्ठान- त्वासंभवादित्यर्थः ॥४॥ भेदव्यपदेशाच्च ॥५॥ 'तमेवैकं जानथ ' इति श्रुतौ ज्ञातृज्ञेयभावव्यपदेशादित्यर्थः ॥ ५ ॥ प्रकरणात् ॥ ६॥ 'स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् ' इति ब्रह्मप्रकरणादित्यर्थः ॥ ६॥ स्थित्यदनाभ्यां च ॥७॥ द्वा सुपर्णा ' इति मन्त्रे ब्रह्मणः साक्षितया अवस्थानं, जीवस्य ककलभोक्तृत्वं च श्रूयते । अत: शुभ्वाद्यायतनं ब्रह्मेत्यर्थः ।। ७ ।। भूमाधिकरणम् ॥ २॥ भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥ भूमा त्वेव विजिज्ञासितव्यो, भूमानं भगवो विजिज्ञासे' इत्या- दिश्रुतौ भूमा परमात्मा । कुतः ? संप्रसादात् जीवात् अधि उपरि उपदेशा- दित्यर्थः ॥८॥ , अधि० ५] अद्वैतमञ्जरी। धर्मोपपत्तेश्च ॥९॥ सुखरूपत्वामृतत्वादिधर्मोपपत्तेश्च भूमा ब्रह्मैव, न भूताकाश इत्यर्थः ९ अक्षराधिकरणम् ॥ ३ ॥ अक्षरमम्बरान्तधृतेः ॥१०॥ 'कस्मिन् खल्वाकाश ओतः प्रोतः' इत्यादिश्रुतौ अक्षरं ब्रह्म । कुत: ? अम्बरान्तधृतेः अम्बरान्तस्य प्रपञ्चस्य धृतेः धारणादित्यर्थः । ओंकारस्य तु प्रपञ्चधारकत्वं न संभवतीत्यर्थः ।। १० ।। सा च प्रशासनात् ॥११॥ सा च परा देवता । कुतः ? प्रशासनात् । एतस्य वा अक्षरस्य प्र- शासन ' इति श्रुती आज्ञाग्रहणात् । न च जडस्य ओंकारस्याज्ञा सं- भवतीत्यर्थः ॥ ११॥ तर्हि अक्षरं प्रधानमस्त्वित्याशङ्कयाह-- अन्यभावव्याहत्तेश्च ॥ १२॥ प्रधानभाकव्यावृत्तेश्च प्रधानम् अक्षरं न भवति । जडस्य प्रधानस्य प्रशासनासंभवादित्यर्थः ॥ १२ ॥ ईक्षतिकर्माधिकरणम् ॥ ४ ॥ ईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ यः पुनरेतम् ' इत्यादिश्रुतौ 'परं पुरुषममिध्यायीत ' इत्यत्र परः परमात्मैव, न हिरण्यगर्भः । कुतः ? ' पुरुषमीक्षते' इति वाक्यशेषे साक्षात्कारविषयत्वव्यपदेशादित्यर्थः ॥ १३ ॥ दहराधिकरणम् ॥५॥ दहर उत्तरेभ्यः ॥१४॥ 'अथ यदिदमस्मिन् ' इति श्रुतौ दहराकाशः परमात्मैव, न भूताकाशः । कुतः ? उत्तरेभ्यः । एष आत्मा अपहतपाप्मा ' इति श्रुतौ सत्यसंकल्पा- दिलिङ्गाना विद्यमानत्वादित्यर्थः ॥ १४ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥१५॥ इमाः प्रजा अहरहर्गच्छन्त्यः' इति श्रुतौ सर्वेषां जीवानां सुषुप्ति- काले दहराकाशे लयश्रवणात् ब्रह्मैव लोको ब्रह्मलोक इति योगव्युत्पत्त्या ब्रह्मलोकशब्दस्य परब्रह्मवाचकत्वाच दहराकाशः परमात्मेत्यर्थः । तथा हि

,
ब्रह्मसूत्रवृत्तिः । [अ०१ पा०३
दृष्टं लिङ्गं च ' सता सोम्य तदा संपन्नो भवति' इति श्रुतौ सर्वेषां
जीवानां सुषुप्तिकाले ब्रह्मणि अवस्थानं दृष्टम् । तदपि लिङ्गं ज्ञापक-
मित्यर्थः ॥ १५॥
धृतेश्च महिन्नोऽस्यास्मिन्नुपलब्धेः॥१६॥
एष सेतुर्विधरणः' इति श्रुतौ धृतिरूपमहिम्नः अस्मिन् वाक्ये अस्य
दहराकाशस्य उपलब्धेश्च दहराकाशः परमात्मैव, न भूताकाशः । जडस्य
वर्णाश्रममर्यादाविधारकत्वासंभवादित्यर्थः ॥ १६ ॥
प्रसिद्धेश्च ॥ १७ ॥
'यदेष आकाश आनन्दो न स्यात् ' इत्यादिश्रुतौ आकाशशब्दस्य
ब्रह्मणि प्रसिद्धत्वादित्यर्थः ॥ १७ ॥
इतरपरामर्शात् स इति चेन्नासंभवात् ॥ १८ ॥
इतरपरामर्शात् ' अथ यदिदमस्मिन् ब्रह्मपुरे ' इति श्रुतौ ब्रह्मशब्देन
इतरस्य जीवस्य लक्षणया परामर्शात् प्रतिपादनात् दहराकाशोऽपि जीव
इति चेत्, न । असंभवात् सत्यसंकल्पादिधर्माणां जीवे असंभवा-
दित्यर्थः ॥ १८ ॥
उत्तराधिकरणम् ॥ ६ ॥
उत्तराचेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
उत्तराचेत् । स एष संप्रसादः । इत्युत्तरवाक्ये संप्रसादशब्देन
जीवप्रतिपादनात् दहराकाशशब्देनापि जीव एव प्रतिपाद्यत इति चेत,
न । आविर्भूतस्वरूपः मुक्तजीवः प्रतिपाद्यते । मुक्तजीवश्च परमात्मै-
वेत्यर्थः॥ १९ ॥
मुक्तजीवस्य ब्रह्मत्वेन जीवत्वाभावात् संप्रसादशब्दप्रयोगोऽनुपपन्न
इत्याशङ्कयाह-
अन्यार्थश्च परामर्शः ॥ २०॥
जीवपरामर्शः अन्यार्थः ब्रह्माभेदप्रतिपादनार्थ इत्यर्थः ॥ २० ॥
अल्पश्रुतिरिति चेत्तदुक्तम् ॥ २१ ॥
दहरशब्देन अल्पपरिमाणवत्त्वश्रवणात् व्यापकस्य ब्रह्मणः अल्पपरि-
माणासंभवादहराकाशो जीव इति चेत्, तदुक्तम् उपासनार्थम् अल्प-
परिमाणमुक्तमिति पूर्वमेवोक्तमित्यर्थः ॥ २१ ॥

आधि०९] अद्वैतमञ्जरी। , SAMOSANSAR अनुकृत्यधिकरणम् ॥७॥ अनुकृतेस्तस्य च ॥ २२॥ 'न तत्र सूर्यों भाति न चन्द्रतारकम् ' इति श्रुतौ तस्य सूर्यचन्द्रा- दिप्रपञ्चस्य अनुकृतेः परमात्मानमनुसृत्य भानात् तस्य भासा सर्व- मिदं विभाति ' इति श्रुतौ तच्छब्देन परमात्मैवोच्यते न सूर्यचन्द्रादि- व्यतिरिक्तं लौकिकं तेज इत्यर्थः ।। २२ ।। अपि च स्मर्यते ॥ २३॥ 'न तद्भासयते सूर्यः' इति स्मृतौ च सूर्यचन्द्राद्यप्रकाश्यत्वं परमा- त्मनः प्रतिपाद्यत इत्यर्थः ॥ २३ ॥ प्रमिताधिकरणम् ॥ ८॥ शब्दादेव प्रमितः ॥ २४ ॥ ईशानो भूतभव्यस्य ' इति श्रुतौ ईशानशब्दप्रयोगादेव अङ्गुष्ट- मात्रः परमात्मा प्रमितः निश्चितः, न जीव इत्यर्थः ॥ २४ ॥ व्यापकस्य ब्रह्मणः अङ्गुष्टपरिमाणवत्त्वमसंगतमित्याशङ्कयाह- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ हृत्पुण्डरीकस्याल्पत्वात्पुण्डरीकावच्छिन्नस्य ब्रह्मणः अङ्गुष्ठपरिमाण- त्वमुपपन्नमित्यर्थः ।कुतः ? मनुष्याधिकारत्वात् शास्त्रस्य, उपासनाकाण्डस्य ज्ञानकाण्डस्य च मनुष्याधिकारत्वात् , मनुष्याणां च मन्दबुद्धितया व्यापकब्रह्मोपासनायामधिकारासंभवादित्यर्थः ।। २५ ।। देवताधिकरणम् ॥९॥ मनुष्याधिकारत्वकथनात् देवानामधिकारो नास्तीति शङ्का निरा- करोति- तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥ तद्यो यो देवानाम् ' इत्यादिश्रुतेः तदुपरि तेषां मनुष्याणामुपरि स्वर्गलोके स्थितानां देवानामधिकारोऽस्तीति बादरायणो मन्यते । कुतः ? संभवात् तेषामपि ब्रह्मलोककामनावत्त्वेन मुमुक्षुत्वेन च ब्रह्म- विद्यायामधिकारसंभवादित्यर्थः । ननु, चतुर्थ्यन्तशब्दानामेव देवता- त्वात् कथं ब्रह्मविद्यायामधिकार इति चेत्, न । चतुर्थ्यन्तशब्दवाच्यानां ?

auna Jiwana ३ १६ ब्रह्मसूत्रवृत्तिः । [अ० १ पा०३ विग्रहवतीनां देवतानां पुराणादिषु प्रतिपादितत्वेन ब्रह्मविद्यायामधिकार- संभवादित्यर्थः ॥ २६ ॥ विग्रहवदेवताङ्गीकारे बाधकमाशङ्कय निराकरोति- विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥ एकस्मिन् दिने क्रियमाणेषु अनेकेषु यागेषु एकस्येन्द्रस्य गमनार्स- भवात् कर्मानुष्ठानविरोध इति चेत्, न । अनेकप्रतिपत्तेः योगिनामिव देवतानामपि योगप्रभावात् अनेकशरीरधारणस्य पुराणादिषु प्रतिपादि- तत्वादित्यर्थः ॥ २७ ॥ इन्द्रादिदेवानां विग्रहवत्त्वाङ्गीकारे विग्रहाणामनित्यत्वात् तत्प्रतिपा- दुकवेदस्याप्यनित्यत्वं स्यादिति शङ्कते- शब्द इति चेनातःप्रभवात् प्रत्यक्षानुमानाभ्याम् ॥२८॥ शब्दे वेदे नित्यत्वविरोध इति चेत् , न । अतः प्रभवात् अत: वेदात् देवादिप्रपञ्चस्य प्रभवादुत्पत्तेरित्यर्थः । प्रत्यक्षानुमानाभ्यां श्रुतिस्मृति- भ्यामित्यर्थः ॥ २८॥ अत एव च नित्यत्वम् ॥ २९ ॥ अत एव देवतादिप्रपञ्चं प्रतिकारणत्वादेव वेदस्य नित्यत्वमित्यर्थः ।।२९ इन्द्राणां प्रतिकल्पं विभिन्ननामरूपवत्त्वाद्वेदस्य कथं तत्प्रतिपादकत्व- मित्याशङ्कां परिहरति-- समाननामरूपत्वाचासत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ ३०॥ समाननामरूपत्वात् सर्वेषामिन्द्राणां सर्वेषु कल्पेषु समाननामरूपत्वात आवृत्तावपि इन्द्रपरंपरायामङ्गीक्रियमाणायामपि अविरोधः वेदस्य इन्द्र- प्रतिपादकत्वविरोधो नास्ति । कुतः ? दर्शनात् श्रुतेः स्मृतेश्चेत्यर्थः । एवम- ग्निवायुवरुणादिषु द्रष्टव्यम् ॥ ३० ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥३१॥ ' असौ वा आदित्यो देवमधु ' इत्यादिश्रुतौ मध्वादिषु आदित्यम- ण्डलप्राप्तिफलकेषु मधुविद्यादिषु देवानामधिकारासंभवात् ब्रह्मविद्या- यामप्यनधिकारं जैमिनिमन्यत इत्यर्थः ॥ ३१ ॥ ज्योतिषि भावाच ॥ ३२ ॥ DURA

अधि० ११]
अद्वैतमञ्जरी।
,
utana
नक्षत्रमण्डलेष्वेव लोके इन्द्रादिशब्दप्रयोगान्मण्डलानामचेतनत्वाच
नाधिकार इत्यर्थः ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥३३॥
मधुविद्यादिषु अधिकाराभावेऽपि ब्रह्मविद्यायामधिकारं बादरायणो
मन्यते । अस्ति हि मण्डलाभिमानिनी मण्डलातिरिक्ता विग्रहवती ना-
नादेवता अस्ति, पुराणेषु प्रतिपाद्यत इत्यर्थः ।। ३३ ॥
अपशदाधिकरणम् ॥ १०॥
'अहहारे त्वा शूद्र तबैव सह गोभिरस्तु.' इति श्रुतौ शूद्रशब्दप्रयो-
गात् शूद्राणामपि ब्रह्मविद्यायामधिकारोऽस्ताति शङ्कां परिहरति--
शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि ॥ ३४ ॥
अस्य जानश्रुतेः तदनादरश्रवणात्तेषा हंसानाम् अनादरवचनश्रव-
णात् शुगुत्पन्ना । तदाद्रवणात् तया शुचा रैकसमीपं प्रति आगमनात्
सूच्यते शूद्रशब्देन जानश्रुतिः प्रतिपाद्यत इत्यर्थः ॥ ३४ ॥
क्षत्रियत्वगतेश्वोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
उत्तरत्र उत्तरवाक्ये चैत्ररथाख्येन क्षत्रियेण सहपाठात् लिङ्गात् जान-
श्रुतेरपि क्षत्रियत्वगतेः क्षत्रियत्वनिश्चयादित्यर्थः ॥ ३५ ॥
संस्कारपरामर्शात्तदभावाभिलापाच ॥ ३६॥
ब्रह्मक्षत्रियवैश्यानामेव श्रुतिषु उपनयनाध्ययनादिसंस्कारविधानात् शू-
द्राणां च तदभावाभिलापाच्च शूद्रस्य न ब्रह्मविद्यायामधिकार इत्यर्थः॥३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥३७॥
शूद्रत्वाभावनिश्चये सति ज्ञानिनां ब्रह्मविद्योपदेशे प्रवृत्तिदर्शनाच्च न
शूद्रस्याधिकार इत्यर्थः ॥ ३७ ।।
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥
वेदश्रवणवेदाध्ययनवेदार्थज्ञानप्रतिषेधाच्च शूद्राणां न ब्रह्मविद्याधिकार
इत्यर्थः ।। ३८॥
कम्पनाधिकरणम् ॥११॥
कम्पनात् ॥ ३९॥
यदिदं किं च जगत्सर्वम् । इति वाक्ये प्राणशब्देन ब्रह्मोच्यते, न
प्राणवायुः । कुतः ? सर्वस्य प्रपञ्चस्य ब्रह्माज्ञया कम्पनादित्यर्थः ॥३९॥

ब्रह्मसूत्रवृत्तिः। [अ० १ पा०४ ज्योतिर्दर्शनाधिकरणम् ॥ १२ ॥ ज्योतिर्दर्शनात् ॥ ४०॥ 'एष संप्रसादोऽस्माच्छरीरात् । इति श्रुतौ ज्योतिश्शब्देन ब्रह्मोच्यते, न तु सूर्यादिज्योतिः । कुतः १ दर्शनात् 'तं देवा ज्योतिषां ज्योतिः इति श्रुतौ ज्योतिश्शब्दस्य ब्रह्मणि प्रयोगदर्शनादित्यर्थः ॥ ४० ॥ अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १३ ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ 'आकाशो ह वै नामरूपयोनिहिता' इति श्रुतौ आकाशः परमात्मा, न तु भूताकाशः । कुतः ? अर्थानां पदार्थानामन्तरत्वव्यपदेशात् नाम- रूपात्मकसकलप्रपञ्चान्तर्यामित्वव्यपदेशादित्यर्थः ॥ ४१ ॥ सुषुप्त्युत्कान्त्यधिकरणम् ॥ १४ ॥ मुषुप्त्युत्क्रान्त्योभैदेन ॥ ४२ ॥ कतम आत्मेति योऽयं विज्ञानमयः' इति श्रुतौ मुक्तजीवः प्रतिपाद्यते, न तु बद्धजीवः । कुतः ? सुषुप्त्यवस्थायाम् उत्क्रान्त्यवस्थायां च जीवन- माभेदस्य द्विवारं प्रतिपादितत्वादित्यर्थः ॥ ४२ ॥ पत्यादिशब्देभ्यः॥४३॥ 'सर्वस्य वशी सर्वस्येशानः' इत्युत्तरश्रुतौ ईशानादिशब्दप्रयोगादपि मुक्तजीवपरमिदं वाक्यमित्यर्थः ॥ ४३ ॥ इति ब्रह्मसूत्रवृत्तौ प्रथमाध्यायस्य तृतीयः पादः। प्रथमाध्यायस्य चतुर्थः पादः। आनुमानिकाधिकरणम् ॥१॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्य- स्तगृहीतेदर्शयति च ॥ १॥ 'इन्द्रियेभ्यः परा ह्याः' इत्यादिश्रुतौ एकेषां शाखायामानुमानि- कमपि प्रधानमपि अव्यक्तशब्देन प्रतिपाद्यत इति चेत्, न । शरीरमेव रूपकविन्यस्तं रथत्वेन निरूपितं, तस्य गृहीतेः ग्रहणादित्यर्थः ॥ १ ॥ स्थूलशरीरस्य व्यक्तत्वात् कथमव्यक्तशब्देन ग्रहणमित्याशङ्कयाह-

अधि० २]
अद्वैतमञ्जरी।
सूक्ष्मं तु तदईत्वात् ॥ २ ॥
सूक्ष्म लिङ्गशरीरमव्यक्तशब्देन गृह्यते । कुतः ? तहत्वात् लिङ्ग-
शरीरस्य अव्यक्तशब्दार्थत्वादित्यर्थः ॥ २॥
तदधीनत्वादर्थवत् ॥ ३॥
तदधीनत्वात् स्थूलशरीरस्य लिङ्गशरीराधीनत्वात् स्थूलशरीरमपि अर्थ-
वत् अव्यक्तशब्देन अर्थागृह्यत इत्यर्थः ।। ३ ।।
ज्ञेयत्वावचनाच ॥ ४॥
ज्ञेयत्वस्य अवचनात् अनुक्तश्च न प्रधानमव्यक्तशब्दवाच्यमित्यर्थः॥४॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
वदतीति चेन्न 'अशब्दमस्पर्शम्' इति वाक्यं प्रधानस्य ज्ञेयत्वं वद-
तीति चेन्न, प्राज्ञः परमात्मा अस्मिन्वाक्ये प्रतिपाद्यते । कुतः
प्रकरणात ब्रह्मप्रकरणादित्यर्थः ॥५॥
त्रयाणामेव चैवमुपन्यास: प्रश्नश्च ॥ ६॥
'स त्वमग्निम् ' इत्यादिश्रुतेः 'तं दुर्दर्श गुहाहितम्' इत्यादिश्रुतेश्व
'येयं प्रेते विचिकित्सा' इति श्रुतेश्च त्रयाणामग्निजीवपरमात्मनामुप-
न्यासः प्रतिवचनं, त्रयाणामेव प्रश्नश्च । प्रधानस्य प्रश्नप्रतिवचने न स्त
इत्यर्थः ॥ ६॥
महदच ॥ ७॥
महच्छब्दस्य जीववाचकत्ववदव्यक्तशब्दस्यापि शरीरवाचकत्वमित्यर्थः।
चमसाधिकरणम् ॥ २॥
चमसवदविशेषात् ॥ ८॥
चमसवत् 'अखिलश्चमस ऊर्ध्वबुध्नः' इति वाक्यवत् अविशेषात्
संदिग्धार्थकत्वात् 'अजामेकाम् ' इति वाक्यं न प्रधाननिश्चायक-
मित्यर्थः ॥ ८॥
इदं तच्छरीरमिति वाक्यं यथा चमसवाक्यस्यार्थस्य निश्चायकम्,
एवं 'यदग्ने रोहितं रूपम्' इति छान्दोग्यवाक्यमजावाक्यस्यार्थनिश्चाय-
कमित्याह-
ज्योतिरुपक्रमा तु तथा बधीयत एके ॥ ९॥

२० - ब्रह्मसूत्रवृत्तिः। [अ० १ पा०४ 'यदग्ने रोहितं रूपम्' इत्यादिश्रुतौ ज्योतिरुपक्रमा तेजोऽबन्नामिका अवान्तरप्रकृतिः अजाशब्देन प्रतिपाद्यते । एके शाखिनः तथा लोहित- शुक्लकृष्णरूपवत्त्वं तेजोऽबन्नानामधीयत इत्यर्थः ॥ ९॥ अजाशब्दस्य जन्मरहितवस्तुवाचकत्वात् तेजोऽबन्नात्मिकाया अवा- न्तरप्रकृतेर्जन्मवत्त्वात् कथमजाशब्देन तेजोऽबन्नग्रहणमित्याशङ्कयाह- कल्पनोपदेशाच मध्वादिवदविरोधः ॥१०॥ कल्पनोपदेशात् सादृश्योपदेशात् अविरोधः अजाशब्दस्य विरोधो नास्तीत्यर्थः । मध्वादिवत् 'असौ वा आदित्यो देवमधु' इत्यत्र यथा आदित्यस्य मधुसादृश्यमुच्यते, एवमवान्तरप्रकृतेरपि छागासादृश्यमु- च्यते । छागाया अपि कस्याश्चिल्लोहितशुक्लकृष्णरूपवत्त्वात् स्वसदृशप्रजा- वत्वाच्चेत्यर्थः ।। १०॥ संख्योपसंग्रहाधिकरणम् ॥ ३ ॥ न सङ्खयोपसङ्ग्रहादपि नानाभावादतिरेकाच ॥ ११ ॥ संख्योपसंग्रहात् पञ्चविंशतिसंख्याश्रवणात् पञ्चविंशतितत्त्वानि श्रुतिप्रतिपाद्यानीति चेत्, न । कुतः ? नानाभावात् लोके पञ्चविंशति- संख्याविशिष्टाना पदार्थानां बहूनां सत्त्वात् अतिरेकाच आकाशस्य पञ्चविंशतिसङ्ख्याबहिर्भूतत्वेन शड्विंशतितत्त्वप्रसङ्गाचेत्यर्थः ॥ ११ ॥ 'यस्मिन् पञ्च पञ्जजनाः' इति वाक्यार्थविशेषनिर्णायक 'प्राणस्य प्राणम्' इति वाक्यशेषमाह-- प्राणादयो वाक्यशेषात् ॥ १२ ॥ 'स्युः पुमांसः पञ्चजनाः' इति निघण्टुवचनेन पञ्चजनशब्दस्य पुरु- षवाचकत्वात् पुरुषसंबन्धिनः 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः' इति वाक्य- स्थाः लक्षणया पञ्चजनशब्देन प्रतिपाद्यन्त इत्यर्थः ।। १२ ॥ ज्योतिषाधिकरणम् ॥४॥ ज्योतिषकेषामसत्यन्ने ॥ १३ ॥ एकेषां काण्वादीनाम् अन्ने अन्नशब्दे असति सति ज्योतिषा सह पञ्च- प्राणादयो ग्रहीतव्या इत्यर्थः । ' तं देवा ज्योतिषां ज्योतिः' इति श्रुतौ सूर्यादिज्योतिषः कथितत्वादित्यर्थः ॥ १३ ॥ ?

अधि०७]] अद्वैतमजरी। २१ pustan कारणत्वाधिकरणम् ॥६॥ 'आत्मन आकाशः संभूतः' इति श्रुतौ आकाशमात्रस्यैव ब्रह्मजन्यत्व- प्रतिपादनात् ब्रह्मणः पञ्चमहाभूतकारणत्वमनुपपन्नमित्याशङ्कयाह- कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ॥ १४ ॥ 'एतस्माज्जायते प्राणः' इत्यादिश्रुतिषु आकाशादिषु पञ्चमहाभूतेषु ब्रह्मणः साक्षात्कारणत्वेन प्रतिपादितत्वात् 'आकाशाद्वायुः' इत्यत्रापि आ- काशादिशब्दैः आकाशाद्यवच्छिन्नब्रह्मण एव कारणत्वमुच्यत इति न विरोध इत्यर्थः ॥ १४ ॥ समावर्षात् ॥ १५॥ आकाशादिशब्दैरपि आकाशावच्छिन्नब्रह्मण एव लक्षणया प्रतिपाद- नात् न विरोध इत्यर्थः ॥ १५ ॥ जगद्वाचित्वाधिकरणम् ॥६॥ जगद्वाचित्वात् ॥ १६ ॥ 'यो वै बालाके' इति श्रुतौ एतच्छब्दस्य जगद्वाचकत्वात् जग- कारणत्वेन ब्रह्मवास्मिन् वाक्ये प्रतिपाद्यते, न हिरण्यगर्भ इत्यर्थः।।१६॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तव्याख्यातम् ॥ १७ ॥ 'तद्यथा स्वैः श्रेष्ठी भुङ्क्ते' इत्यादिश्रुतौ जीवमुख्यप्राणलिङ्गानामपि विद्यमानत्वात् न ब्रह्मोपासनामात्रपरमिति चेत् तद्व्याख्यातं जीवमुख्य- प्राणब्रह्मविषयकमुपासनात्रयं भविष्यतीति 'प्राणस्तथानुगमात्' इत्यधिक- रणे व्याख्यातमित्यर्थः ।। १७ ॥ अन्यार्थ तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८ अन्याथै ब्रह्मप्रतिपादनार्थ स्थूलारुन्धतीन्यायेन प्रश्नप्रतिवचनाभ्या जीवमुख्यप्राणौ प्रतिपादितावपीति जैमिनिः, अन्ये वृद्धाश्च वदन्ती- त्यर्थः ॥ १८ ॥ वाक्यान्वयाधिकरणम् ॥ ७॥ वाक्यान्वयात् ॥ १९ ॥ 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्व वि- दितं भवति ' इति आत्मज्ञानेन सर्वविज्ञानप्रतिपादकवाक्यस्य ब्रह्मण्येव अन्वयादुपपन्नत्वात् ' आत्मा वा अरे द्रष्टव्यः' इति वाक्यं ब्रह्मपरमेव, न जीवपरमित्यर्थः ॥ १९ ॥ ७ २२ ब्रह्मसूत्रवृत्तिः। [अ०१ पा०४ जीवानामनादित्वेन ब्रह्मजन्यत्वाभावात् ब्रह्मज्ञानेन जीवज्ञानमनुपप- नमित्याशङ्कय मतत्रयमाह- प्रतिज्ञा सिद्धलिङ्गमाश्मरथ्यः ।। २० ॥ प्रतिज्ञा ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञैव सिद्धेः जीवानामुत्पतेर्लिङ्गं ज्ञापकमित्यर्थः । जीवानामपि पञ्चमहाभूतवत् ब्रह्मजन्यत्वात् कार्यकार- णयोर्भेदाभेदाङ्गीकारात् ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिपादकवाक्यमुपप- नमिति भेदाभेदवादी आश्मरथ्यो मन्यत इत्यर्थः ॥ २० ॥ संसारदशायां जीवब्रह्मणो दः, मोक्षदशायामभेदः इति कालभेदेन भेदाभेदवादिनो मतमाह-- उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥ उत्क्रमिष्यतः देहाघभिमानं त्यजतः मुक्तजीवस्य एवंभावात् ब्रह्माभिन्नत्वात् ब्रह्मज्ञानेन सर्वविज्ञानम् उपपद्यत इति औडुलोमिर्मन्यत इत्यर्थः ॥ २१॥ सर्वदा अत्यन्ताभेदवादिमतमाह- अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ अवस्थितेः सर्वदा बिम्बप्रतिबिम्बभावेन जीवब्रह्मणोरत्यन्ताभेदाव- स्थानात भेदस्य च मिथ्यात्वात् ब्रह्मज्ञानेन सर्वविज्ञानमुपपन्नमिति मुख्य. सिद्धान्ती काशकृत्स्नो मन्यत इत्यर्थः ।। २२ ॥ प्रकृत्यधिकरणम् ॥ ८॥ परमाण्वादयः प्रपञ्चस्य उपादानकारणम् , ईश्वरस्तु निमित्तकारण- मात्रमिति नैयायिकादयो वदन्ति । तन्मतं निराकरोति- प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ ब्रह्म प्रकृतिः उपादानकारणं, चकारानिमित्तकारणं च । कुतः ? प्रतिज्ञादृष्टान्तयोरनुपरोधात् प्रामाण्यादित्यर्थः । 'उत तमादेशमप्राक्ष्यः' इति प्रतिज्ञाश्रुतिः । मृत्तिकेत्येव सत्यम् ' इति दृष्टान्तश्रुतिः । उभय- प्रामाण्यनिर्वाहाथै निमित्तत्वमुपादानत्वं च ब्रह्मणो वक्तव्यमित्यर्थः।।२३॥ अभिध्योपदेशाच ॥ २४॥ 'सोऽकामयत' इति श्रुतौ इच्छोपदेशात् ब्रह्मणः स्वविषयकसंकल्पो- पदेशानुपादानकारणत्वं निमित्तकारणत्वं च वक्तव्यमित्यर्थः ॥ २४ ॥ ।

अधि०८] अद्वैतमञ्जरी। , साक्षाच्चोभयानानात् ॥ २५ ॥ ' यतो वा इमानि भूतानि जायन्ते ' इत्यादिश्रुतौ ब्रह्मण्येव सृष्टिप्र- लयानानात् निमित्तत्वमुपादानत्वं च वक्तव्यमित्यर्थः ॥ २५ ॥ आत्मकृतेः परिणामात् ॥ २६ ॥ 'तदात्मानं स्वयमकुरुत' इत्यादिश्रुतौ आत्मकृतेः परमात्मविषयक- प्रयत्नात् प्रपञ्चस्य परिणामात् निमित्तकारणत्वमुपादानकारणत्वं च वक्तव्यमित्यर्थः ॥ २६॥ योनिश्च हि गीयते ॥ २७॥ 'यद्भूतयोनि परिपश्यन्ति धीराः' इति श्रुतौ योनिशब्दश्रवणादुपा- दानकारणत्वमपि ब्रह्मणो वक्तव्यमित्यर्थः ।। २७ ।। एतेन सर्वे व्याख्याता व्याख्याताः॥ २८ ॥ एतेन प्रपञ्चस्याभिन्नानिमित्तोपादनकत्वव्यवस्थापनेन सर्वे भेदवादा व्याख्याताः निराकृता इत्यर्थः ।। २८ ।। इति ब्रह्मसूत्रवृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ।। अध्यायश्च संपूर्णः॥ १ अध्यायसमाप्तिद्योतनाय पुनरुक्तिः।

श्रीमच्छंकरभगवत्पादशिष्यप्रणीता ब्रह्मसूत्रवृत्तिः। (अद्वैतमञ्जरी) द्वितीयाध्यायस्य प्रथमः पादः। GEEEEEEEEEEER- स्मृत्यधिकरणम् ॥१॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोष- प्रसङ्गात् ॥१॥ प्रधानस्य जगत्कारणत्वानङ्गीकारे स्मृत्यनवकाशदोषप्रसङ्गः साङ्ख्या- दिस्मृतीनामप्रामाण्यदोषप्रसङ्ग इति चेत् , न । ब्रह्मणो जगत्कारणत्वा- नङ्गीकारे अन्यस्मृतीनां मन्वादिस्मृतीनामप्रामाण्यदोषप्रसङ्गात् । न च विनिगमकाभावः । श्रुतिमूलकत्वेन मन्वादिस्मृतीनां प्रबलत्वात् , साङ्ख्या- दिस्मृतीना तु.श्रुतिविरुद्धार्थत्वेन दुर्बलत्वादप्रामाण्यमित्यर्थः ॥ १ ॥ अस्तु वा प्रधानं जगत्कारणम् । वेदान्तिभिरपि मायाया जगत्का- रणत्वाङ्गीकारात् । स्वातन्त्र्यास्वातन्त्र्यमात्र एव वादिनां विवादात् । महदहङ्कारपञ्चतन्मात्रादिकं तु अप्रामाणिकमित्याह- इतरेषां चानुपलब्धेः ॥२॥ इतरेषां महदहङ्कारादीनामनुपलब्धेः श्रुतौ अप्रतिपादितत्वादप्रा- माणिकत्वमित्यर्थः ॥२॥ योगप्रत्युक्त्यधिकरणम् ॥ २॥ ईश्वराप्रेरितस्य जडस्य प्रधानस्य स्वातन्त्र्येण जगदुपादानकारणत्व- वादिना साङ्ख्यानां मतं निराकृत्य ईश्वरप्रेरितस्य जडस्य प्रधानस्य जग- दुपादानकारणत्ववादिनां योगिनां मतं निराकरोति- एतेन योगः प्रत्युक्तः ॥ ३ ॥ MARomameen अधि०३] अद्वैतमचरी। एतेन सांख्यस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता निर- स्तेत्यर्थः ॥३॥ नविलक्षणत्वाधिकरणम् ॥३॥ पूर्वपक्ष:---- न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४॥ अस्य ब्रह्मणः विलक्षणत्वात् ज्ञानात्मकतया जडप्रपञ्चविलक्षणत्वात् जगत्कारणत्वं न संभवति । तथात्वं च विलक्षणत्वं च नित्यं विज्ञान- मानन्दं ब्रह्म' इति शब्दानिश्चीयत इत्यर्थः ॥ ४ ॥ तत्तेज ऐक्षत, ता आप ऐक्षन्त इत्यादिश्रुतिषु पञ्चमहाभूतानामपि चेतनत्वं प्रतीयते । तथा च प्रपञ्चब्रह्मणोः विलक्षणत्वमसिद्धमित्या- SHAINDIA अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥ विशेषानुगतिभ्यां श्रुतिस्मृतिभ्यां पञ्चमहाभूताभिमानिदेवतानामेव ईक्षणादिव्यापार उच्यते, न जडानां च महाभूतानामित्यर्थः ।। ५ ॥ सिद्धान्तः- दृश्यते तु॥६॥ अचेतनस्य गोमयस्य चेतनवृश्चिकोत्पत्तिहेतुत्वं लोके दृश्यते । चेतनस्य ऊर्णनाभेः अचेतनतन्तुकारणत्वं दृश्यते । तद्वचेतनस्य ब्रह्मणः अचेतनप्र- पञ्चं प्रति कारणत्वमुपपद्यत इत्यर्थः ॥ ६ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ।। ७ ॥ असद्वा इदमग्र आसीत् ' इति श्रुतौ सृष्टेः पूर्व प्रपञ्चस्य अत्यन्ता- सत्त्वप्रतिपादनात् शशशृङ्गतुल्यस्य प्रपञ्चस्य ब्रह्मजन्यत्वं न संभवतीति चेत्, न । प्रतिषेधमात्रत्वात् स्थूलावस्थाप्रतिषेधमानत्वात् प्रलयसमयेऽपि सूक्ष्मरूपेण प्रपञ्चस्य ब्रह्मणि सत्वात् उत्पत्तिरुपपद्यत इत्यर्थः ॥ ७॥ पूर्वपक्ष:- अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८॥ अपीतौ प्रलयकाले तद्वत्प्रसङ्गात् प्रपञ्चस्य ब्रह्मणि एकीभूतत्वादसम- असं पुनरुत्पत्तिः न संभवतीत्यर्थः ॥ ८॥ , ३ ब्रह्मसूत्रवृत्तिः। [अ०२ पा०१ - सिद्धान्त:- न तु दृष्टान्तभावात् ॥ ९॥ मण्डूकशरीराणां पृथिव्यामेकीभूतानां यथा वर्षाकाले पुनरुत्पत्तिः तद्वत् ब्रह्मणि एकीभूतस्य संस्काररूपेण विद्यमानस्य प्रपञ्चस्योत्पत्तिः संभवतीत्यर्थः ॥ ९॥ स्वपक्षदोषाच ॥१०॥ प्रधानं जगत्कारणमिति मतेऽपि अयं दोषस्तुल्यः । प्रलयकाले अप- ञ्चस्य प्रधान एकीभूतत्वादित्यर्थः ॥ १० ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥११॥ तर्काणामनुमानानाम् अप्रतिष्ठानात् व्यभिचारादिदोषदुष्टत्वेन अप्र- माणत्वात् असदनुमानसिद्धं प्रधानं जगत्कारणं न भवति । पूर्वपक्षी मध्ये शङ्कते-अन्यथानुमेयमिति । अन्यथा व्यभिचारादिदोषरहितत्वेन सावधानरस्माभिः प्रधानमनुमेयमिति चेत्, सिद्धान्ती दूषयति--एवम- प्यविमोक्षप्रसङ्गः नैयायिकादिभिः परमाणूनां जगत्कारणत्वव्यवस्थापनात् प्रधानमेव जगत्कारणमिति निश्चयासंभवात् प्रकृतिपुरुषविवेकाभावात् मोक्षो न स्यादित्यर्थः ॥ ११ ॥ शिष्टापरिग्रहाधिकरणम् ॥ ४॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ एतेन जडप्रधानकारणवादिनिराकरणेन शिष्टैर्मन्वादिभिः अपरिगृहीताः जडपरमाण्वादिकारणवादिनोऽपिव्याख्याता निराकृता इत्यर्थः ।। १२ ।। भोकापत्यधिकरणम् ॥५॥ भोकापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ १३ ॥ वेदान्तिमते ब्रह्मणः भोक्रापत्तेः भोक्रभेदाङ्गीकारात् अविभागश्चेत् ब्रह्मणो नित्यमुक्तत्वं, जीवानां बद्धत्वमिति विभागो न स्यादिति चेत्, न । स्याल्लोकवत् यथा लोके मलिनदर्पणादौ प्रतिबिम्बितमुखस्य मलि. नत्वं, बिम्बमुखस्य स्वच्छत्वम् , एवं मलिनान्तःकरणेषु प्रतिबिम्बितानां जीवानां बद्धत्वं, विम्बभूतस्य ब्रह्मणो मुक्तत्वं च उपपद्यत इत्यर्थः ।।१३।। आरम्भणाधिकरणम् ॥६॥ जीवब्रह्मणोरभेदेऽपि प्रपञ्चब्रह्मणोः परस्परं भिन्नत्वात् ब्रह्मणः अद्वि- तीयत्वं न स्यादित्याशङ्कां निराकरोति- अधि०६] अद्वैतमञ्जरी। २७ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ तदनन्यत्वं तयोः प्रपञ्चब्रह्मणोः अनन्यत्वम् अङ्गीकर्तव्यम् । कुतः ? आरम्भणशब्दादिभ्यः 'वाचारम्भणं विकारो नामधेयम्' इत्यादिश्रुतौ सर्वस्य प्रपञ्चस्य ब्रह्मणि अध्यस्तत्वप्रतिपादनादधिष्ठानाध्यस्तयो:- दाभावादित्यर्थः ॥ १४ ॥ भावे चोपलब्धेः॥ १५ ॥ ब्रह्मणः भावे सति प्रपञ्चस्य उपलब्धेः ब्रह्मचैतन्येनैव प्रपञ्चस्य प्रकाशमानत्वात् दृग्दृश्ययोः संबन्धानिरूपणात् ब्रह्माभिन्नत्वं प्रपञ्चस्य खीकर्तव्यमित्यर्थः ॥ १५ ॥ सत्त्वाचावरस्य॥ १६ ॥ अवरस्य प्रपञ्चस्य ब्रह्मण्येव सर्वदा सत्त्वाच ब्रह्माभिन्नत्वं प्रपञ्चस्या- ङ्गीकर्तव्यमित्यर्थः ॥ १६ ॥ असद्ध्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ असब्यपदेशात् ' असद्वा इदमग्र आसीत् ' इति श्रुतौ सृष्टेः पूर्व प्रप- ञ्चस्य असत्त्वव्यपदेशात् नेति चेत् प्रपञ्चस्य सर्वदा सत्त्वं नास्तीति चेत्, न । धर्मान्तरेण सूक्ष्मत्वरूपधर्मान्तरविशिष्टत्वमात्रेण असत्त्वव्य- पदेशः । कुतः ? वाक्यशेषात् 'ततो वै सदजायत' इति श्रुतौ सृष्टयन- न्तरं स्थूलावस्थाभिधानादित्यर्थः । 'असद्वा इदमग्र आसीत् ' इति श्रुतेर- यमर्थः-अग्रे सृष्टेः प्राक् इदं जगदसदासीत् सूक्ष्मावस्थापन्नमासीत् । ततः सृष्टयनन्तरं सदजायत स्थूलावस्थाविशिष्टमासीदित्यर्थः ॥ १७ ॥ युक्तेः शब्दान्तराच ॥ १८ ॥ अत्यन्तासतः शशशृङ्गतुल्यस्य प्रपञ्चस्य उत्पत्तिः न संभवतीति युक्तेः शब्दान्तरात् 'सदेव सोम्येदमग्र आसीत्। इति श्रुत्यन्तराञ्च प्रप- ञ्चस्य प्रलयसमयेऽपि सूक्ष्मरूपेण सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ १८ ॥ पटवच॥ १९ ॥ यथा पटस्य कदाचित् संकुचितावस्था, कदाचिद्विकासावस्था च एवं प्रपञ्चस्यापि प्रलयकाले सूक्ष्मावस्था, सृष्टिकाले स्थूलावस्था चाङ्गी- कर्तव्येत्यर्थः ॥ १९॥ ?

ब्रह्मसूत्रवृत्तिः । [अ० २ पा०१ , यथा च प्राणादिः॥२०॥ यथा योगीश्वराणां प्राणायामादिना वायुनिरोधकाले वायोः संकुचित- त्वम्, इतरकालेषु नवद्वारेषु वायोः सचारः, तद्वत् प्रपञ्चस्यापि काल- भेदेन संकोचविकासौ अङ्गीकर्तव्यावित्यर्थः ॥ २०॥ इतरव्यपदेशाधिकरणम् ॥ ७ ॥ पूर्वपक्ष:- इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ इतरस्य ब्रह्मणः व्यपदेशात् जीवाभेदव्यपदेशात् हिताकरणादिदोषप्र. सक्तिः हितानामिष्टसाधनानां स्रक्चन्दनादीनामकरणम् असंपादनम् आदिशब्देनानिष्टसाधनानां व्याघ्रसादीनां संपादनमुच्यते, एताह- शदोषप्रसक्तिः वेदान्तिमते स्यादित्यर्थः । अयं भाव:-'तत्त्वमसि, अहं ब्रह्मास्मि' इत्यादिश्रुतिभिः सकलजीवानां ब्रह्माभिन्नत्वप्रतिपादनात् जी- वानां यदिष्टसाधनमनिष्टसाधनं च, तत्सर्वं ब्रह्मण एव इष्टानिष्टसाधन- मङ्गीकर्तव्यम् । तथा च इष्टप्रपञ्चमात्रनिर्मातृत्वमेव स्वतन्त्रस्य ब्रह्मणः उपपन्नम् , अनिष्टप्रपञ्चनिर्मातृत्वमनुपपन्नमित्यर्थः ।। २१ ।। सिद्धान्त अधिकं तु भेदनिर्देशात् ॥ २२ ॥ ब्रह्मस्वरूपं जीवेभ्योऽधिकं भिन्नमेव ब्रह्मसाक्षात्कारेण देहाद्यभि- माननिवृत्तिपर्यन्तम् 'द्वा सुपर्णा-' इत्यादिश्रुतिषु जीवब्रह्मणोर्मेदव्यप- देशादित्यर्थः । तथा च जीवानामेव इष्टानिष्टसाधनं जगत् , न तु ब्रह्मण इति इष्टानिष्टप्रपञ्चनिर्मातृत्वं ब्रह्मण उपपन्नमित्यर्थः ॥ २२ ।। ज्ञानानन्दस्वभावस्य एकरूपस्य ब्रह्मणः इष्टानिष्टरूपविचित्रप्रपञ्चनि- मातृत्वमनुपपन्नमित्याशङ्कयाह- अश्मादिवञ्च तदनुपपत्तिः ॥ २३ ॥ अश्मादिदृष्टान्तेन तदनुपपत्तिः पूर्वोक्तदूषणानुपपत्तिरित्यर्थः । यथा मृद्रूपायां पृथिव्यां वज्रवैडूर्येन्द्रनीलादयो मणयः, व्यर्थपाषाणाश्च जायन्ते तथा आनन्दरूपात् ब्रह्मणः इष्टानिष्टात्मकविचित्रप्रपञ्चो जायत इत्यर्थः ॥ २३ ॥ उपसंहाराधिकरणम् ॥ ८ ॥ उपसंहारदर्शनानेति चेन क्षीरवद्धि ॥२४॥ ManuRAN अधि०९] अद्वैतमञ्जरी। २९ ma- उपादानकारणस्य मृदादेः दण्डचक्रकुलालादिनिमित्तकारणानाम् उप- संहारे मेलने सति घटादिजनकत्वदर्शनानिमित्तकारणरहितस्य केवलस्य ब्रह्मणः प्रपञ्चोपादानकारणत्वं न संभवतीति चेन्न । क्षीरवत् यथा क्षीरस्य निमित्तकारणरहितस्यापि दधिजनकत्वम् , एवं ब्रह्मणोऽपि प्रप- ञ्चजनकत्वमुपपन्नमित्यर्थः । न च तक्रादिसंपर्कात् क्षीरस्य दधिरूपेण परिणाम इति वाच्यम् । अत्रापि मायासंपर्कात् ब्रह्मणः प्रपञ्चरूपेण परिणामसंभवादिति भावः ॥ २४ ॥ देवादिवदपि लोके ॥ २५ ॥ लोके देवासुरादीनामपि युद्धकालेषु मायाबलात् गजतुरगादिचतुर- नवलनिर्मातृत्वं दृष्टं, किमु वक्तव्यम् अनन्तमायाविशिष्टस्य ब्रह्मण इत्यर्थः ॥ २५ ॥ पूर्वपक्ष:- कृत्स्नप्रसक्त्यधिकरणम् ॥९॥ कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा ॥ २६ ॥ वेदान्तिमते ब्रह्म निरवयवं, सावयवं वा, निरवयवं चेत् कृत्स्नप्रस- क्तिः कृत्स्नस्य सकलस्य ब्रह्मणः प्रसक्तिः प्रपञ्चरूपेण परिणामप्रसङ्गः । तथा च प्रपञ्चकाले ब्रह्मणः अभावात् प्रपञ्चाधिष्ठानत्वं प्रपञ्चभास- कत्वं च ब्रह्मणो न स्यादित्यर्थः । सावयवं चेत्, निरवयवत्वशब्दकोपः निरवयवत्वप्रतिपादकानां निष्कलं निष्क्रिय शान्तम् ' इत्यादिशब्दानां कोपः अप्रामाण्यं स्यादित्यर्थः ।। २६ ।। सिद्धान्तः- श्रुतेस्तु शब्दमूलत्वात् ॥ २७॥ ब्रह्मणः शब्दमूलत्वात् शब्दप्रमाणकत्वात् श्रुतेः श्रुतिबलात् ब्रह्मण निरवयवत्वं, कृत्स्नस्य ब्रह्मणः प्रपञ्चरूपेण परिणामित्वं, प्रपञ्चाधि- ष्ठानत्वं, प्रपञ्चभासकत्वं च, सर्वमङ्गीकर्तव्यमित्यर्थः । अस्मिन्मते मायाशबलितस्य ब्रह्मणः प्रपञ्चं प्रति विवर्तोपादानत्वाङ्गीकारात् न कोऽपि विरोध इत्यर्थः ।। २७ ॥ आत्मानि चैवं विचित्राश्च हि ॥ २८ ॥ निरवयवे जीवात्मनि मायावशादेवंविधाः जाग्रत्प्रपञ्चतुल्याः स्वप्न- ब्रह्मसूत्रवृत्तिः । [अ० २ पा०१ , काले विचित्राः प्रपञ्चा दृष्टाः, एवं निरवयवेऽपि परमात्मनि मायावशात् विचित्राः प्रपञ्चा उपपन्ना इत्यर्थः ॥ २८ ॥ स्वपक्षदोषाच ॥ २९ ॥ प्रधानं जगत्कारणमिति मतेऽपि प्रधानस्य ब्रह्मवन्निरवयवत्वात् ब्रह्मप- ओक्तदोषाः प्रधानपझेऽपि समाना इत्यर्थः ।। २९ ।। सर्वोपेताधिकरणम् ॥ १० ॥ ब्रह्मणो मायाविशिष्टत्वे प्रमाणमाह- सर्वोपेता च तद्दर्शनात् ॥३०॥ परा देवता सर्वोपेता सर्वमायाविशिष्टा । कुतः ? तदर्शनात् ' इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतौ ब्रह्मणः मायाविशिष्टत्वदर्शना- दित्यर्थः ।। ३०॥ विकरणत्वानेति चेत्तदुक्तम् ॥ ३१ ॥ मायाविशिष्टत्वेऽपि विकरणत्वात् शरीरेन्द्रियादिसाधनरहितत्वात् नेति चेत् प्रपञ्चकारणत्वं न संभवतीति चेन्न । तदुक्तं साधनरहित- स्यापि क्षीरस्य यथा तक्रसंपर्कात् दधिरूपेण परिणामः, एवं साधनर- हितस्यापि ब्रह्मणः मायासंपर्कात् प्रपञ्चाकारेण परिणामः संभवतीति पूर्वमेव परिहार उक्त इत्यर्थः ॥ ३१ ॥ प्रयोजनवत्वाधिकरणम् ॥ ११ ॥ पूर्वपक्ष:- न प्रयोजनवत्त्वात् ॥ ३२॥ ब्रह्मणः प्रपञ्चकारणत्वं न संभवति । कुतः ? प्रयोजनवत्त्वात् घटा- दिकर्तणां कुलालादीनां लोके प्रयोजनवत्त्वदर्शनात् अवाप्तसकलकामस्य आनन्दघनस्य ब्रह्मणः प्रपञ्चनिर्माणेन प्रयोजनाभावात् 'प्रयोजनमनु- दिश्य न मन्दोऽपि प्रवर्तते ' इति न्यायात न ब्रह्मणः प्रपञ्चकारणत्व- मिति भावः ॥ ३२ ॥ सिद्धान्त:- लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ अवाप्तसकलकामस्य आनन्दघनस्यापि ब्रह्मणः कदाचित् प्रपञ्चनि- आणे लीला कुतूहलं, कदाचित् कैवल्यं केवलस्वरूपेणावस्थानं च उपपd ।

M अधि० १२] अद्वैतमञ्जरी। ३१ द्यते । लोकवत् यथा लोके राज्ञा सकलैश्वर्यसंपन्नानामपि कदाचित कुतूहलवशास्किंचित्कार्यनिर्माणं, कदाचित्तूष्णीमवस्थानं, तद्वदित्यर्थः । तथाच अवाप्तसकलकामस्य ब्रह्मणः कुतूहलवशात्सृष्टिकाले प्रपञ्चनि- आणे प्रवृत्तिः, प्रलयसमये तूष्णीमवस्थानं चोपपद्यत इति भावः ॥३३॥ वैषम्यनैर्घण्याधिकरणम् ॥ १२॥ ईश्वरः कांश्चिदरिद्रान् सृजति, कांश्चिदैश्वर्ययुक्तान सृजति । तथा च पक्षपातनिर्दयत्वादिदोषप्रसङ्ग इत्याशङ्कय निराकरोति- वैषम्यनैधुण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥ ३४ ॥ ईश्वरस्य वैषम्यनैपुण्ये पक्षपातनिर्दयत्वे उभे अपि न स्तः । कुतः ? सापेक्षत्वात् ईश्वरस्य जीवकृतपुण्यपापसापेक्षत्वात् । तथा हि दर्शयति- पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन ' इति श्रुतिः ऐश्वर्यादेः पुण्यपापाधीनत्वं प्रतिपादयतीत्यर्थः ॥ ३४ ॥ मध्यकालीनसृष्टौ ईश्वरस्य पुण्यपापसापेक्षत्वमस्तु नाम । आद्यकाली- नसृष्टौ तु पुण्यपापापेक्षत्वं नोपपद्यते । सृष्टेः पूर्व पुण्यपापयोरभावादित्या- शङ्कय निराकरोति। न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५॥ सृष्टेः पूर्व कर्म नास्ति । कुतः ? अविभागात् सर्वस्यापि प्रपञ्चस्य प्रलयकाले नष्टत्वेन कर्मणोऽपि नष्टत्वादिति चेन्न । अनादित्वात् सृष्टि- प्रलयपरंपराया अनादित्वात् पूर्वसृष्टौ कृतानां कर्मणां प्रलयकालेऽपि संस्कारात्मना विद्यमानत्वादाद्यसृष्टावपि ईश्वरस्य पुण्यपापसापेक्षत्वमुपप- नमिति भावः ॥ ३५ ॥ उपपद्यते चाप्युपलभ्यते च ॥३६॥ सृष्टिप्रलयपरंपराया अनादित्वमुपपद्यते युक्तियुक्तं भवति । संस्कार- रूपेणाविद्यमानस्य अत्यन्तासतः अभिनवप्रपञ्चस्य उत्पत्त्ययोगात् । तथा श्रुतावपि अनादित्वमुपलभ्यते--'धाता यथापूर्वमकल्पयत्' इति श्रुतौ पूर्वशब्देन प्रलयात्पूर्वमपि सृष्टिसद्भावस्य सूचितत्वादित्यर्थः । तथा च आद्यसृष्टौ मध्यसृष्टौ अन्तसृष्टौ च ईश्वरः विक्र्तोपादानम् । पूर्वाव- स्थानाशेन अवस्थान्तरं परिणामः । यथा दुग्धस्य दधिभावः । पूर्वरूपा- नुपमर्दनेन अवस्थान्तरं विवर्तः । यथा शुक्त रजतभावः । तस्य जीवकृत- पुण्यपापानुसारेण विचित्रप्रजानिर्मातृत्वमुपपन्नामिति भावः ॥ ३६ ।। ।

ब्रह्मसूत्रवृत्तिः। [अ० २ पा०२ सर्वधर्मोपपत्यधिकरणम् ॥ १३ ॥ ब्रह्मणो निर्गुणत्वेन सर्वज्ञत्वसत्यसंकल्पत्वसर्वनियन्तृत्वादिधर्माणाम- संभवात् कथं जगत्कारणत्वमित्याशङ्कयाह- सर्वधर्मोपपत्तेश्च ॥ ३७॥ मायाविशिष्टस्य ब्रह्मणः मिथ्याभूतानां सर्वज्ञत्वादिधर्माणां संभवा- जगत्कारणत्वं ब्रह्मणः उपपन्नमिति भावः ॥ ३७ ।। इति ब्रह्मसूत्रवृत्तौ द्वितीयाध्यायस्य प्रथमः पादः। द्वितीयाध्यायस्य द्वितीयः पादः । -OCEEEEEEEEEER- रचनानुपपत्यधिकरणम् ॥१॥ रचनानुपपत्तेश्च नानुमानम् ॥१॥ अनुमानम् अनुमानवेद्यं प्रधानं जत्कारणं न भवति । कुतः ? रचना- नुपपत्तेः सृष्टयनुकूलज्ञानरहितस्य जडस्य प्रधानस्य प्रपञ्चनिर्मातृत्वानुप- पत्तेरित्यर्थः ॥ १॥ प्रवृत्तेश्च ॥ २॥ जडस्य प्रधानस्य प्रवृत्तेः प्रयत्नस्य अनुपपत्तेश्च प्रधानं जगत्कारणं न भवतीत्यर्थः । इदमुपलक्षणं जडस्य प्रधानस्य इच्छानुपपत्तेरिति द्रष्टव्यम् ।। २ ।। पयोऽम्बुवञ्चेत्तत्रापि ॥३॥ पयसः क्षीरस्य स्तनेषु विद्यमानस्य यथा स्वातन्त्र्येण बहिनिर्गमनं, यथा अम्बुनः जलस्य नद्यां स्वातन्त्र्येण चलनं, तद्वत् जडस्यापि प्रधानस्य स्वातन्त्र्येण महदहङ्कारादिप्रपञ्चकारणत्वमुपपन्नमिति चेत्, न । तत्रापि क्षीरजलयोरपि ईश्वरस्य प्रेरकत्वेन स्वातन्त्र्याभावादित्यर्थः ।।३॥ व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥ ४॥ साडयमते व्यतिरेकानवस्थितेः प्रधानव्यतिरिक्तस्य प्रेरकस्य ब्रह्मणः अनवस्थितेः अविद्यमानत्वात् अनपेक्षत्वात् प्रधानस्य स्वातन्त्र्यात् सर्व- कालेष्वपि प्रपञ्चसृष्टिः स्यात् । तथाच कदापि प्रलयो न स्यादिति भावः । ब्रह्मणस्तु कालज्ञानवत्त्वात् कदाचित् प्रपञ्चमृष्टिहेतुत्वं, कदाचित् तूष्णी- ।

आधि०१] अद्वैतमञ्जरी। SRDS भवस्थानं च उपपद्यते । जडप्रधानस्य तु कालज्ञानाभावात् अन्धसंध्या- वन्दनन्यायेन सर्वदा प्रपञ्चजनकत्वं स्यादिति भावः ॥४॥ अन्यत्राभावाच न तृणादिवत् ॥५॥ यथा गवामुदरे विद्यमानं तृणं क्षीराकारेण स्वयमेव परिणमते, एवं प्रधानमपि महदकारादिप्रपञ्चरूपेण परिणमत इति चेत्, न तृणस्यापि स्वातन्त्र्येण परिणामो नास्ति । कुतः ? अन्यत्राभावात् अनडुहामुदरे विद्यमानतृणस्य क्षीराकारेण परिणामाभावात् । यदि तृणस्य स्वात- न्त्र्येण क्षीरपरिणामः, तर्हि सर्वपशूनाम् उदरेऽपि विद्यमानं तृणं क्षीरा- कारेण परिणमेत । तस्मादीश्वरप्रेरणेनैव तृणस्य क्षीरपरिणाम इति भावः ॥५॥ जडस्य स्वातन्त्र्येण परिणाममभ्युपेत्य दूषणान्तरमाह- अभ्युपगमेऽप्यर्थाभावात् ॥ ६॥ अभ्युपगमेऽपि जडस्य स्वातन्त्र्येण परिणामाङ्गीकारेऽपि जडस्य प्रधा- नस्य प्रपञ्चनिर्माणे अर्थाभावात् भोगमोक्षादिप्रयोजनाभावात् प्रपञ्चज- नकत्वमनुपपन्नमित्यर्थः । प्रयोजनरहितस्यापि ब्रह्मणः लीलया प्रपञ्चनि- मातृत्वमुपपन्नं, न जडस्य प्रधानस्य लीलाऽसंभवादिति भावः ॥६॥ पुरुषाश्मवादिति चेत्तथापि ॥ ७ ॥ यथा पुरुषाणां जीवानां संनिधानादिन्द्रियाणां विषयेषु व्यापारः, यथा वा अश्मनाम् अयस्कान्तमणीनां संनिधानात् शरीरे विद्यमानानां कफानां(?)बहिनिर्गमनम्, एवं ब्रह्मसंनिधानात् प्रधानस्यापि महदादिप्रप- ञ्चाकारेण परिणामो भविष्यतीति चेत्, न । तथाप्यस्मन्मतप्रवेशापत्तिः साङ्खचमते अपसिद्धान्तः स्यादित्यर्थः ॥ ७ ॥ अङ्गित्वानुपपत्तेश्च ॥ ८॥ प्रलयकाले समप्राधान्येन विद्यमानानां सत्त्वरजस्तमोगुणानामीश्वर- प्रेरणं विना परस्परमङ्गाङ्गिभावानुपपत्तेश्च सात्त्विकराजसतामसप्रप- ञ्चसृष्टिर्न संभवतीत्यर्थः ॥८॥ गुणत्रयमपि समप्रधानतया नानुमीयते, किं तु सात्त्विकसृष्टौ सत्त्व- गुणस्य प्राधान्यम् , इतरयोरुपसर्जनत्वम् , एवं राजसस्सृष्टौ रजोगुणस्य प्राधान्यम् , इतरयोरुपसर्जनत्वम् , एवं तमस्सृष्टौ तमोगुणस्याङ्गित्वम्, इत- ।

ब्रह्मसूत्रवृत्तिः। [अ० २ पा०२ रयोरङ्गत्वमिति, एवंप्रकारण कालभेदेन नानाविधस्वभावविशिष्टमेक प्रधानमनुमयित इत्याशङ्कय निराकरोति- अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९॥ अन्यथा नानास्वभावविशिष्टतया प्रधानस्यानुमितौ अङ्गीकृतायामपि जडस्य ज्ञशक्तिवियोगात् ज्ञानशक्त्यभावात् कालविशेषपरिज्ञानाभावात् सर्वदा प्रपञ्चजनकत्वं स्यादिति पूर्वोक्तदोषस्तदवस्थ इति भावः ॥९॥ विप्रतिषेधाचासमञ्जसम् ॥ १० ॥ विप्रतिषेधात् सकलवेदान्तविरुद्धत्वादपि साङ्ख्यमतमसमञ्जसम् अनु- पपन्नमित्यर्थः ॥ १०॥ महद्दीर्घाधिकरणम् ॥ २॥ साङ्खयमतं निराकृत्य वैशेषिकनैयायिकमतं निराकरोति- महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥ कारणगुणा हि कार्यगुणानारभन्त' इति न्यायातू ज्ञानानन्दा- त्मकब्रह्मजन्यस्य प्रपञ्चस्यापि ज्ञानानन्दरूपत्वं स्यादिति चेन्न । हरख- परिमण्डलाभ्यां व्यणुकपरमाणुभ्यां महत् परमाण्वपेक्षया अधिकपरि- मागविशिष्टं व्यणुकं यथा, यथा वा हस्वपरिमाणोपेतत्वादीर्घपरिमाणर- हितेभ्यो व्यणुकेभ्यः दीर्घपरिमाणोपेताणुपरिमाणरहितं त्र्यणुकं जायते, एवं ज्ञानानन्दरूपात् ब्रह्मणः जडं दुःखात्मकं च जगदुत्पद्यत इत्यर्थः॥११॥ अतस्तदभावाधिकरणम् ॥३॥ परमाणुप्रतिबन्द्या स्वमतदूषणं परिहत्य परमतं खण्डयति- उभयथापि न कर्मातस्तदभावः ॥१२॥ ईश्वरस्य वा जीवानां वा परमाणुप्रेरकत्वम् उभयथापि पक्षद्वयेऽपि परमाणूनां कर्म चलनं न संभवति । जीवेश्वरयोरुभयोरपि निरवयव- वेन निरवयवानां निरवयवैः परमाणुभिः सह संयोगसंबन्धाभावाद- संबन्धयोर्जीवेश्वरयोः प्रेरकत्वासंभवात् । अतस्तदभावः अंतः चलना- संभवात् तदभावः परमाणूनां परस्परसंयोगाभावः । तथा च व्यणु- कत्र्यणुकादिफलोत्पत्तिर्न संभवतीति भावः ।। १२ ।। समवायाभ्युपगमाच साम्यादनवस्थितेः ॥ १३ ॥ किं च नैयायिकमते तन्तुपटयोः समवायाङ्गीकारात् साम्यात् समmaamar अधि० ४] अद्वैतमञ्जरी। - वायसंवन्धस्यापि संयोगसंबन्धतुल्यत्वात् घटपटसंयोगस्य यथा संब- न्यान्तरमङ्गीकृतम्, एवं तन्तुपटसमवायस्यापि द्वितीयं संबन्धान्तरं वक्तव्यम् । द्वितीयसंबन्धस्यापि तृतीयसंबन्धान्तरं वक्तव्यम्, एवं तृतीयस्यापि चतुर्थ संबन्धान्तरं वक्तव्यम् । तथाच अनवस्थितेः अन- वस्थाप्रसङ्गात् नैयायिकमतमसङ्गतमित्यर्थः ॥ १३ ॥ नित्यमेव च भावात् ॥ १४ ॥ किं च परमाणूनां नित्यं सर्वदा भावात् विद्यमानत्वात् प्रलयकाले. ऽपि सृष्टिप्रसङ्गः । न च ईश्वरप्रेरणवशात् कदाचिदेव सृष्टिः, न सर्व- देति वाच्यम् । निरवयवस्येश्वरस्य निरवयवैः परमाणुभिः सह संयोगसं- अन्धाभावेन प्रेरकत्वमेव न संभवतांति पूर्वमेवोक्तत्वादिति भावः ॥१४॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥ किं च नैयायिकमते पृथिव्यप्तेजोवायुपरमाणूनां रूपरसगन्धस्पर्श- विशिष्टत्वाङ्गीकारात् विपर्ययः अनित्यत्वसावयवत्वादिदोषप्रसङ्गः स्यात् । कुतः ? दर्शनात् रूपादिमतां घटादीनाम् अनित्यत्वसावयवत्वदर्शनादि- त्यर्थः । तथा च परमाणूनामनित्यत्वात् व्यणुकादिप्रपञ्चकारणत्वं न संभवतीति भावः ॥ १५ ॥ उभयथा च दोषात् ॥ १६ ॥ किं च परमाणूनां सावयवत्वमङ्गीक्रियते वा, निरवयवत्वमङ्गीक्रियते वा । उभयथापि पक्षद्वयेऽपि दोषात् सावयवत्वपक्षे अनित्यत्वादिदोष- प्रसङ्गात्, निरवयवत्वे परमाणूनां परस्परं संयोगासंभवेन व्यणुकादि- प्रपञ्चोत्पत्त्यसंभवान्नैयायिकमतमसङ्गतमित्यर्थः ॥ १६ ॥ अपरिग्रहाचात्यन्तमनपेक्षा ॥१७॥ किं च मन्वादिभिः शिष्टैः अपरिगृहीतत्वाच्च नैयायिकमते अत्यन्त- मनपेक्षा उपेक्षा कर्तव्येत्यर्थः ॥ १७ ॥ समुदायाधिकरणम् ॥ ४॥ वैशेषिकादिमतं निराकृत्य बौद्धमतं निराकरोति- समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥१८॥ तत्र बौद्धात्रिविधा:-क्रेचिज्ञानार्थोभयास्तित्ववादिनः, केचित्त ज्ञानमात्रास्तित्ववादिनः, केचित् ज्ञानार्थोभयशून्यत्ववादिनः । तत्र प्रथम ३ । ब्रह्मसूत्रवृत्तिः । [अ० २ पा०२ उभयास्तित्ववादिनां मतं निराक्रियते । तेषां मतमित्थं-न्धपरमाणु- युञ्ज एव पृथिवीति व्यवह्रियते, रसपरमाणुपुञ्ज एव जलं, रूपपरमाणु- पुज एव तेजः, स्पर्शपरमाणुपुज एव वायुः, भौतिकादिचराचरशरीरा- दिघटपटादयश्च परमाणुपुञ्ज एव, आकाशस्तु शशशृङ्गतुल्यः शून्यः, जीवाः सोपद्रवज्ञानसंतानरूपाः, ईश्वरः निरुपद्रवज्ञानसंतानरूप इति । तेषां मते प्रथमं भूतचतुष्टयं दूषयति-उभयहेतुके भूतभौतिकरूपे पर- माणुसमुदाये अङ्गीक्रियमाणे तदप्राप्तिः तस्य समुदायस्य अप्राप्तिः अनु- पपत्तिः । तन्मते जीवानाम् ईश्वरस्य च क्षणिकज्ञानसंतानरूपत्वेन अ- नित्यतया क्षणिकपरमाणुमेलनकर्तृत्वासंभवादिति भावः ॥ १८ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥ मेलनकर्तारं विनापि क्षणिकपरमाणूनां स्वत एव इतरेतरप्रत्ययत्वात् परस्परमिलितत्वात् मेलनकर्तीपेक्षा नास्तीति चेन्न । उत्पत्तिमात्रनिमित्त- त्वात् पूर्वपूर्वघटपरमाणूनां उत्तरोत्तरघटपरमाणूत्पत्तिमात्रं प्रति कारण- त्वात् । मेलनकर्ता नित्यः ईश्वरः कश्चिदङ्गीकर्तव्यः । जडानां क्षणिक- परमाणूनां स्वातन्त्र्येण मेलनासंभवात् । तथा चापसिद्धान्तः स्या- दिल्यर्थः ॥ १९ ॥ इदानीं पूर्वपूर्वपरमाणूनां उत्तरोत्तरपरमाणूत्पत्तिहेतुत्वमपि तन्मते अनुपपन्नमित्याह- उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ उत्तरोत्पादे उत्तरपरमाणूत्पत्तिकाले पूर्वनिरोधात् पूर्वपरमाणूनां नष्ट- त्वात् उत्तरपरमाणूत्पत्तिहेतुत्वं न संभवतीत्यर्थः ॥ २० ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ किं च बौद्धमते सर्व कार्यमकारणकं वा, सकारणकं वा । आद्यपक्षं दूषयति-असति प्रतिज्ञोपरोधः कारणे असति सति कार्यमुत्पद्यते चेत्, प्रतिज्ञोपरोधः सर्व कार्य सकारणकमिति बौद्धप्रतिज्ञायाः उपरोधः अप्रा- माण्यं स्यात् । द्वितीयं पक्षं दूषयति-योगपद्यमन्यथा । अन्यथा सर्व कार्य सकारणकं चेत् , यौगपा कार्यकारणयोरेककालीनत्वं स्यात् । तथा च सर्व क्षणिकमिति प्रतिज्ञायाः अप्रामाण्यं स्यादित्यर्थः ॥ २१ ॥ बौद्धमते पदार्थानामुत्पतिं खण्डयित्वा पदार्थानां नाशमपि खण्डयति- प्रतिसङ्खयापतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥ MBRIDAL ANDE अधि०४] अद्वैतमञ्जरी। प्रतिसङ्ख्यानिरोधो नाम पाषाणप्रक्षेपादिना बुद्धिपूर्वकः घटपटादि- भौतिकपदार्थनाशः, अप्रतिसङ्ख्यानिरोधो नाम कालवशात् स्वत एव पृथिव्यादिमहाभूतानां नाशः । तयोः प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधयोः अप्राप्तिः अनुपपत्तिः । कुतः ? अविच्छेदात् बौद्धमते पूर्वपूर्वपरमाणुनामु- त्तरोत्तरपरमाणून प्रति स्वातन्त्र्येण कारणत्वाङ्गीकारात् जडानां परमा- शूनां कालविशेषपरिज्ञानाभावात् परमाणुसंतानानां कदापि विच्छेदानुए- पत्तिरित्यर्थः । तथा च बौद्धमते स्मृष्टिप्रलयौ उभावप्यनुपपन्नावित्यर्थः २२ उभयथा च दोषात् ॥२३ ॥ किं च घटपटादिपरमाणुसंतानानां कश्चित् कालं स्थिरत्वं वा, क्ष- णिकत्वं वा, उभयथापि पक्षद्वयेऽपि दोषात् स्थिरत्वपक्षे अपसिद्धान्तः । बौद्धमते स्थिरपदार्थानङ्गीकारात् । क्षणिकत्वपक्षे तु घटादीनां जला- हरणादिकार्यकारित्वं न स्यात् । तस्मादुभयथापि दोषात् बौद्धमतमस- तमित्यर्थः । ननु बौद्धमते ‘परमाणूनामेव क्षणिकत्वं, परमाणुसंतान- रूपाणां घटपटादीनां तु स्थिरत्वमेव । तथा च जलाहरणादिकार्यका- रित्वं घटादीनामुपपन्नमिति चेत्, तर्हि परमाण्वपेक्षया परमाणुसंता- नानां भिन्नत्वाङ्गीकारे घटपटादिपदार्थानां व्यणुकादिक्रमेण परमाणु- जन्यत्वमेवाङ्गीकर्तव्यम् । तथा च नैयायिकमतप्रवेशापत्तिः बौद्धानाम् अपसिद्धान्तः स्यादिति भावः ॥ २३ ॥ बौद्धाभिमतं भूतचतुष्टयस्य परमाणुपुखरूपत्वं निराकृत्य आकाशस्य शून्यत्वं बौद्धाभिमतं निराकरोति- आकाशे चाविशेषात् ॥ २४ ॥ आकाशेऽपि सर्वेषां जीवानाम् अस्तित्वप्रतीतेः अविशेषात् तुल्य- त्वात् भूतचतुष्टयस्य प्रत्यक्षपरमाणुपुत्जरूपत्ववत् आकाशस्यापि अती- न्द्रियपरमाणुपुञ्जरूपत्वमेवाङ्गीकर्तव्यम् । तथा च शून्यत्वाङ्गीकारः अनु- पपन्न इति भावः ॥ २४ ॥ पराभिमतानि पञ्चमहाभूतानि खण्डयित्वा इदानी क्षणिकज्ञानसंता- नरूपत्वं जीवानां खण्डयति- अनुस्मृतेश्च ॥ २५॥ पूर्वदिनेषु अनुभूतानां पदार्थानामुत्तरदिनेषु अनुस्मृतेः जीवानां नि- त्यत्वमङ्गीकर्तव्यम् । ज्ञानसंतानरूपत्वाङ्गीकारे पूर्वदिनज्ञानीयसंतानानां Maina HGANIMAR ? ब्रह्मसूत्रवृत्तिः। [अ० २ पा०२ सुषुप्तिकाले नष्टत्वेन स्मर्तृत्वासंभवात् । न चोत्तरदिनेषु उत्पन्नानां ज्ञानसंतानानां स्मर्तृत्वं भविष्यतीति वाच्यम् । अन्येनानुभूतपदार्थानाम- न्येन स्मरणासंभवादिति भावः ॥ २५ ॥ बौद्धमते उत्तरदिनीयज्ञानसंतानानामुत्पत्तिरपि न संभवतीत्याह- नासतोऽदृष्टत्वात् ॥ २६॥ असतः सुषुप्तिकालेषु नष्टत्वात् पूर्वपूर्वज्ञानसंतानादुत्तरोत्तरज्ञान- संतानानामुत्पत्तिर्न संभवति । कुतः अदृष्टत्वात् नष्टमृत्पिण्डादीनां घटादिजनकत्वदर्शनाभावादित्यर्थः ॥ २६ ॥ नष्टपदार्थस्यापि कार्यजनकत्वाङ्गीकारे बाधकमाह- उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ एवं सति नष्टस्यापि कार्यजनकत्वे सति उदासीनानां निर्व्यापाराणा- मपि जीवानां सकलकार्यसिद्धिः स्यादित्यर्थः ॥ २७ ॥ उपलब्ध्यधिकरणम् ॥६॥ विज्ञानवादी बौद्धः ज्ञानान्येव सत्यानि, पञ्चमहाभूतप्रभृतयस्तु अर्थाः असन्त एवेति वदति । तन्मतं निराकरोति- नाभाव उपलब्धेः॥ २८ ॥ पञ्चमहाभूतात्मकस्य अर्थप्रपञ्चस्य असत्त्वं नाम शशशृङ्गवत् शून्यत्वं वा, स्वप्नप्रपञ्चवत् मिथ्यात्वं वा । आद्यपक्षं निराकरोति-नाभावः पञ्चमहाभूतात्मकस्य अर्थप्रपञ्चस्य अभावः शून्यत्वं न संभवति । कुतः ? उपलब्धेः प्रत्यक्षप्रमाणेनार्थप्रपञ्चस्योपलभ्यमानत्वात् । शशशृङ्गवत् शून्य- त्वाङ्गीकारे प्रत्यक्षोपलब्धिर्न स्यादित्यर्थः ।। २८ ॥ द्वितीयपक्षं निराकरोति- वैधाच न स्वमादिवत् ॥ २९ ॥ स्वप्नादिवत् स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वं वक्तुं न शक्यते । कुतः ? वैधात् स्वप्नप्रपञ्चजाग्रत्प्रपञ्चयोः वैलक्षण्यस्य विद्यमा- नत्वात् । स्वप्नप्रपञ्चस्य उत्थानानन्तरं प्रत्यक्षेण बाध्यमानत्वात् मिथ्यात्व- मुपपन्नम् । जाग्रत्प्रपञ्चस्य तु बाधादर्शनात् मिथ्यात्वं नोपपद्यत इत्यर्थः। न च ' यत्र त्वस्य सर्वमात्मैवाभूत् ' इति श्रुत्या जाग्रत्प्रपञ्चस्यापि ब्रह्म- ज्ञानेन बाध्यत्वं प्रतिपाद्यत इति वाच्यम् । बौद्धमते श्रुतीनां प्रमाण्यान- ङ्गीकारात्, अङ्गीकारे वा अस्मन्मतप्रवेशापत्तिरिति भावः ॥ २९ ॥ , ष्ठानाभावादपि प्रपञ्चस्य मिथ्यात्वाभाव इत्याह- आधि०६] अद्वैतमञ्जरी। न केवलं बाध्यत्वाभावादेव प्रपञ्चस्य मिथ्यात्वाभावः, किं तु अधि- ३९ MamaAND न भावोऽनुपलब्धेः ॥ ३०॥ बौद्धमते पारमार्थिकस्य प्रपञ्चाधिष्ठानस्य भावः विद्यमानत्वं नास्ति । कुतः ? अनुपलब्धेः पारमार्थिकाधिष्ठानबोधकप्रमाणाभावादित्यर्थः । न च वेदान्ता एव पारमार्थिकाधिष्ठानबोधका इति वाच्यम् । बौद्धमते वेदान्तानां प्रामाण्यानङ्गीकारादिति भावः ॥ ३० ॥ बौद्धमतेऽपि तत्तदर्थविषयकज्ञानान्येव तत्तदर्थानामधिष्ठानं भविष्य- न्तीत्याशङ्कयाह- क्षणिकत्वाच ॥३१॥ बौद्धमते ज्ञानानां प्रतिक्षणं विनाश्यत्वात् अनेकत्वाच्च प्रपञ्चाधिष्ठा- नत्वं नोपपद्यते । यदि सर्वेषां ज्ञानानामेकत्वं नित्यत्वं वाङ्गीक्रियते, तर्हि तदेव ब्रह्मस्वरूपम् । तथा चास्मन्मतप्रवेशापत्तिरित्यर्थः ॥ ३१ ॥ विज्ञानवादिमतं निराकृत्य ज्ञानानामर्थानां च सर्वेषामपि शून्यत्व- मिति ज्ञानार्थोभयात्मकस्य प्रपञ्चस्य शून्यत्ववादिनो मतं निराकरोति- सर्वथानुपपत्तेश्च ॥ ३२॥ सर्वशून्यत्ववादिमतस्य प्रत्यक्षानुमानश्रुतिस्मृत्यादिसकलप्रमाणविरुद्ध- त्वात्तन्मतमत्यन्तमसङ्गतमित्यर्थः ॥ ३२ ॥ एकस्मिन्नसंभवाधिकरणम् ॥ ६ ॥ बौद्धमतं निराकृत्य क्षपणकमतं निराकरोति- नैकस्मिन्नसंभवात् ॥ ३३ ॥ क्षपणकाः प्रपञ्चस्य सत्त्वमसत्त्वं सदसदात्मकत्वं सदसद्भिन्नत्वं च अङ्गीकुर्वन्ति । तन्न युक्तम् । कुतः ? एकस्मिन् प्रपञ्चे सदसत्त्वादीना वास्तवानां विरुद्धधर्माणामसंभवादित्यर्थः । मिथ्याभूतधर्माङ्गीकारे इष्टा- पत्तिरिति भावः ॥ ३३ ॥ क्षपणकाः जीवानां शरीरतुल्यपरिमाणवत्त्वमङ्गीकुर्वन्ति । तदपि निराकरोति- एवं चात्माऽकात्य॑म् ॥ ३४॥ एवंसति जीवनां शरीरसमानपरिमाणवत्त्वे सति आत्माकास्यम् आत्मनां जीवानाम् अकात्स्न्य कृत्स्नशरीरव्यापित्वं न स्यात् । मशका- INDABASION ४० ब्रह्मसूत्रवृत्तिः। [अ०२ पा०२ दिशरीरवर्तिनां सूक्ष्मजीवानां कर्मवशात् गजादिशरीरप्राप्तौ सत्यां गजा- दिशरीरव्यापित्वं न स्यात् । जीवस्य स्वल्पत्वात् । तथा गजादिशरीर- वर्तिनां स्थूलजीवानां कर्मवशात् मशकादिशरीरप्राप्तौ सत्यां मशकादि- शरीरव्यापित्वं न स्यात् । मशकादिशरीरस्य स्वल्पत्वेन अवकाशाभावा- दिति भावः ॥ ३४॥ तूलपिण्डवत् जीवानामपि सावयवत्वाङ्गीकारात् मशकादिशरीरेषु संकुचितत्वं, गजादिशरीरेषु विकासावस्था च भविष्यतीत्याशङ्कय निरा- करोति- न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५॥ पर्यायात् शरीरक्रमेण संकोचविकासाङ्गीकारात् अविरोधः गजतुर- गमशकादिशरीरेषु प्रवेशविरोधो नास्तीति चेत्, न । तथापि जीवानां सावयवत्वेन विकारित्वविनाशित्वादिदोषप्रसङ्गादित्यर्थः ॥ ३५ ।। अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥३६॥ अन्त्यावस्थितेः अन्त्यकाले मोक्षकाले अवस्थितेः संकोचविकासरहि- ततया एकरूपेणावस्थानात् तदृष्टान्तेन उभयनित्यत्वादाद्यमध्यमकाल- योरपि नित्यत्वात् संकोचविकासरहितत्वात् अनित्यत्वादिदोषप्रसक्ति- नास्ति चेत्, तर्हि अविशेष: अस्मन्मताद्विशेषो नास्ति । तथा च अस्म- न्मतप्रवेशापत्तिरित्यर्थः ॥ ३६॥ पत्यधिकरणम् ॥ ७ ॥ नैयायिकमतवैशेषिकमतानुसारिणः तटस्थेश्वरवादिनः जीवभिन्नेश्वर- सद्भावे अनुमानं प्रमाणं वदन्ति, तन्मतं निराकरोति- पत्युरसामञ्जस्यात् ॥ ३७॥ पत्युर्जीवभिन्नेश्वरस्य असामञ्जस्यात् अप्रामाणिकत्वादित्यर्थः । न च अङ्कुरादिकं सकर्तृकं, कार्यत्वात् , घटवदित्यनुमानमेव .प्रमाणमिति वाच्यम् । एतस्यानुमानस्य कर्तृमात्रसाधकत्वेन सर्वज्ञेश्वरसाधकत्वाभावा- दिति भावः ॥ ३७॥ संबन्धानुपपत्तेश्च ॥ ३८ ॥ नैयायिकमते परमाणूनां निरवयवत्वादीश्वरस्यापि निरवयवत्वात्, परमाणूनामीश्वरस्य च संयोगसंबन्धानुपपत्तेः परमाणुप्रेरकत्वमीश्वरस्य अधि०८] अद्वैतमञ्जरी। न संभवति । तथा च ईश्वराप्रेरितानां जडानां परमाणूनां व्यणुकन्यणु- कादिप्रपञ्चोत्पादकत्वं न संभवतीति भावः ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च ।। ३९॥ किं च तन्मते परमाणूनामतीन्द्रियत्वेन ईश्वरस्य परमाणुविषयकसा- क्षात्कारासंभवात् अधिष्ठानानुपपत्तेः परमाणुप्रेरकत्वानुपपत्तेश्च व्यणुका- दिप्रपञ्चोत्पत्तिः न संभवतीति भावः । न च परमाणवः जीवानामेवा- प्रत्यक्षाः, ईश्वरस्य तु प्रत्यक्षा इति वाच्यम् । अयोग्यपदार्थस्य सर्वान् प्रत्यप्ययोग्यत्वादिति भावः । ब्रह्मणस्तु श्रुतिमूलकत्वात् सर्वप्रपञ्चविष- यकापरोक्षज्ञानवत्त्वमुपपन्नमिति भावः ॥ ३९ ॥ करणवचेन्न भोगादिभ्यः ॥ ४०॥ यथा जीवा अप्रत्यक्षाण्यपि इन्द्रियाणि प्रेरयन्ति, एवमीश्वरोऽपि अप्रत्यक्षान् परमाणून् प्रेरयिष्यतीति चेन्न । भोगादिभ्यः तथापि विषय- भोगाथै जीवानामिन्द्रियप्रेरकत्वमुपपन्नम् । अशरीरस्य ईश्वरस्य तु परमा- गुजन्यप्रपञ्चेन भोगाभावात् परमाणुप्रेरकत्वं न संभवतीत्यर्थः ॥ ४०॥ अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ किं च तन्मते ईश्वरः सावयवो वा, निरवयवो वा । सावयवत्वे अन्तवत्त्वं नाशवत्त्वं स्यात्, निरवयवत्वे प्रपञ्चेश्वरयोः संयोगसंबन्धा- भावात् असर्वज्ञता सर्वज्ञत्वाभावप्रसङ्ग इत्यर्थः ॥ ४१ ॥ पाञ्चरात्राधिकरणम् ॥ ८॥ पाञ्चरात्रमतानुसारिणः जीवानां ब्रह्मणः सकाशात् उत्पत्तिं जीवेभ्यः अन्तःकरणानामुत्पत्तिं च वदन्ति । तन्मतं निराकरोति- उत्पत्त्यसंभवात् ॥ ४२॥ जीवानां ब्रह्मणः सकाशात् उत्पत्त्यसंभवादित्यर्थः । जीवानां ब्रह्म- जन्यत्वे पञ्चमहाभूतवत् विनाशप्रसङ्गात् मोक्षो न स्यादिति भावः॥४२॥ न च कर्तुः करणम् ॥ ४३ ॥ कर्तुः जीवात् करणम् अन्तःकरणं च नोत्पद्यते । किंचिज्ज्ञस्य जीवस्य अन्तःकरणनिर्माणसामर्थ्याभावात् । 'एतस्माज्जायते प्राणः' इति श्रुतौ अन्तःकरणादीनां ब्रह्मजन्यत्वप्रतिपादनाचेति भावः ॥ ४३ ।। विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ ।

४२
ब्रह्मसूत्रवृत्तिः।
[अ०२ पा०३
.
जीवानां विज्ञानानन्दरूपत्वं नित्यत्वं ब्रह्माभिन्नत्वं च अङ्गीक्रियत
इति चेत्, तर्हि तदप्रतिषेधः तस्य मतस्य प्रतिषेधः निरासः अस्माभिर्न
क्रियते । अस्मन्मतप्रवेशापत्तेरित्यर्थः ॥४४॥
विप्रतिषेधाच ॥४५॥
सकलवेदान्तविरुद्धत्वाच्च जीवानामुत्पत्तिरङ्गीकर्तुं न शक्यते ।
'तत्त्वमसि, अहं ब्रह्मास्मि' इत्यादिश्रुतिभिः जीवब्रह्मणोरभेदप्रतिपाद-
नादिति भावः ॥ ४५ ॥
इति ब्रह्मसूत्रवृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः।
द्वितीयाध्यायस्य तृतीयः पादः ।
,
-EEEEEEEEEEEEEE-
वियदधिकरणम् ॥१॥
पूर्वपक्षसूत्राणि-
न वियदश्रुतेः ॥ १॥
वियत् आकाशः नोत्पद्यते । अश्रुतेः छान्दोग्ये उत्पत्त्यश्रवणा-
दित्यर्थः ॥१॥
अस्ति तु ॥२॥
तैत्तिरीयकश्रुतौ उत्पत्तिरस्तीति चेत्, श्रुत्योर्विरोधः ॥२॥
पूर्वपक्षी स्वमते विरोधं परिहरति-
गौण्यसंभवात् ॥३॥
उत्पत्तिश्रुतिौणी । असंभवात् निरवयवस्य उत्पत्त्यसंभवादित्यर्थः।।३।।
शब्दाच॥४॥
आकाशवत् सर्वगतश्च नित्यः । इति श्रुतौ नित्यशब्दाच आकाशस्य
उत्पत्तिर्न संभवतीत्यर्थः ॥ ४ ॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥५॥
आत्मन आकाशः संभूतः' इति श्रुतौ एकस्य संभूतशब्दस्य गौणत्वं
स्यात् । ब्रह्मशब्दवत् ' अन्नं ब्रह्म' इति श्रुतौ ब्रह्मशब्दवदित्यर्थः।। ५ ।।
सिद्धान्तसूत्रे-
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥६॥

अधि०६] अद्वैतमञ्जरी। आकाशादिप्रपञ्चस्य सर्वस्य अव्यतिरेकात् ब्रह्माभिन्नत्वात् प्रतिज्ञा- हानिः 'येनाश्रुतं श्रुतं भवति' इति प्रतिज्ञायाः अहानिर्भवति । आका- शस्य नित्यत्वे तु ब्रह्मभिन्नत्वात् प्रतिज्ञायाः हानिः स्यादित्यर्थः ॥ ६ ॥ यावद्विकारं तु विभागो लोकवत् ॥७॥ विभागः विभक्त: ब्रह्मप्रतियोगिकमिथ्याभूतभेदवान् प्रपञ्चः सर्वोऽपि विकारः ब्रह्मजन्य एव लोकवत् फेनतरङ्गादीनां समुद्रज- न्यत्ववदित्यर्थः ॥ ७ ॥ मातरिश्चाधिकरणम् ॥२॥ एतेन मातरिश्वा व्याख्यातः ॥८॥ एतेनाकाशस्योत्पत्तिप्रतिपादनेन मातरिश्वा वायुाख्यातः ब्रह्मजन्य- त्वेन व्याख्यात इत्यर्थः ॥ ८॥ असंभवाधिकरणम् ॥३॥ आकाशवत् ब्रह्मणोऽपि केनचित् कारणेन उत्पत्तिरस्त्वित्याश- ङ्कयाह- असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ सतः ब्रह्मणः असंभवः उत्पत्तिर्न संभवति । कुतः ? अनुपपत्तेः । ब्रह्मणः कारणान्तराभावेन उत्पत्त्यसंभवादित्यर्थः ॥९॥ तेजोऽधिकरणम् ॥४॥ तेजोऽतस्तथा ह्याह ॥ १० ॥ अतः वाय्ववच्छिन्नब्रह्मणः तेज उत्पद्यते । तथाशाह 'वायोरग्निः इति श्रुतिरित्यर्थः ॥ १०॥ अवधिकरणम् ॥५॥ आपः॥ ११ ॥ तेजोऽवच्छिन्नब्रह्मणः आपो जायन्त इत्यर्थः ॥ ११ ॥ पृथिव्यधिकरणम् ॥ ६ ॥ पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ ता अन्नमसृजन्त' इति श्रुतौ अन्नशब्देन पृथिवी प्रतिपाद्यते । अधिकारात् महाभूतप्रकरणात् रूपात् । यत्कृष्णं तदन्नस्य ' इति श्रुतौ कृष्णरूपश्रवणात् शब्दान्तरात् 'अझ्यः पृथिवी' इति श्रुतौ पृथिवीशब्द- श्रवणादित्यर्थः ॥ १२॥ ७ ब्रह्मसूत्रवृत्तिः । [अ० २ पा०३ तदभिध्यानाधिकरणम् ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥ स ईश्वरः साक्षादेव सर्वकार्यकर्ता । कुत: ? तल्लिङ्गात् तस्येश्वरस्या- न्तर्यामित्वलिङ्गात् तदभिध्यानात् ईश्वरेक्षणादेव भूतेषु अतेक्षणोप- पत्तरित्यर्थः ॥ १३ ॥ विपर्ययाधिकरणम् ॥८॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ।। १४ ।। अतः सृष्टिक्रमात् विपर्ययेण व्यत्यासेन क्रमः प्रलयक्रमः उप- पद्यत इत्यर्थः ॥ १४॥ अन्तराविज्ञानाधिकरणम् ॥ ९॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गा- दिति चेन्नाविशेषात् ॥ १५ ॥ अन्तरा ब्रह्माकाशयोर्मध्ये विज्ञानमनसी इन्द्रियान्तःकरणे उत्पद्येते क्रमेण । तल्लिङ्गात् ' एतस्माज्जायते प्राणः ' इति श्रुतौ प्राणादिसृष्टय- नन्तरं पञ्चमहाभूतसृष्टिप्रतिपादनादिति चेन्न । अविशेषात् तस्याः श्रुतेः उत्पत्तिमात्रप्रतिपादकत्वेन क्रमप्रतिपादकत्वाभावात् । तथा च प्राणे- न्द्रियान्तःकरणानां भौतिकत्वात् पञ्चमहाभूतोत्पत्त्यनन्तरमेवोत्पत्ति- रित्यर्थः ॥ १५ ॥ चराचरव्यपाश्रयाधिकरणम् ॥ १०॥ जातो देवदत्तो, मृतो देवदत्तः, इति लोकव्यवहारात् जीवस्यापि उत्पत्तिरस्तीति शङ्कां निराकरोति- चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशो भाक्त- स्तद्भावभावित्वात् ॥ १६ ॥ तव्यपदेशः जातो देवदत्त इति व्यवहारः भाक्तः गौणः चराचरश- रीरविषयकः । तनावमावित्वात् तप्तायःपिण्डवत् क्षरिजीवयोः ऐक्या- ध्यासापन्नत्वादित्यर्थः ।। १६ ॥ आत्माधिकरणम् ॥ ११ ॥ पञ्चमहाभूतानामिव जीवानामपि सृष्टयादौ उत्पत्तिरस्तीति शङ्का निराकरोति- नात्माऽश्रुतेर्नित्यत्वाच ताभ्यः ॥ १७ ॥ आत्मा जीवः नोत्पद्यते । अश्रुतेः सृष्टिश्रुतिषु जीवानामुत्पत्तेरश्रव- MOHAN SamaANAM , BRRIGAIDNE DOES अधि० १३] अद्वैतमञ्जरी। णात् , प्रत्युत 'आकाशवत् सर्वगतश्च नित्यः' इत्यादिभ्यः ताभ्यः श्रुतिभ्यः नित्यत्वश्रवणाचेत्यर्थः ॥ १७ ॥ ज्ञाधिकरणम् ॥ १२॥ ज्ञोऽत एव ॥ १८ ॥ अस एव नित्यत्वादेव ज्ञः सत्यज्ञानस्वरूप इत्यर्थः ॥ १८ ॥ उत्क्रान्त्यधिकरणम् ॥ १३ ॥ पूर्वपक्षसूत्राणि- उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ उत्क्रान्तिदेहात् बहिर्गमनं, गतिः स्वर्गनरकलोकगमनं, आगतिः पुण्यपापफलभोगानन्तरं भूलोकं प्रत्यागमनम् । एतासां श्रवणात् जीवः अणुरेव, विभुत्वे गमनासंभवादित्यर्थः ॥ १९ ॥ उत्क्रान्तिदेहानिर्गमो न भवति, किं तु शरीरस्वामित्वनिवृत्तिरिति केचित् । तदङ्गीकृत्याप्यणुत्वमाह- स्वात्मना चोत्तरयोः॥२०॥ उत्तरयोर्गत्यागत्योः स्वात्मना का संबन्धात् अणुत्वमावश्यकमित्यर्थः ।। नाणुरतच्छ्रुतरिति चेन्नेतराधिकारात् ॥२१॥ जीवः अणुर्न भवति । अतच्छ्रुतेः 'आकाशवत् सर्वगतश्च नित्यः इति श्रुतौ विभुत्वश्रवणादिति चेन्न । इतराधिकारात् तस्याः श्रते. परमात्मप्रकरणस्थत्वादित्यर्थः ॥ २१ ॥ स्वशब्दोन्मानाभ्यां च ॥२२॥ स्वशब्दात अणुशब्दात् उन्मानात् वालाग्रसमानपरिमाणवत्त्वाच्च जीवः अणुरित्यर्थः ॥ २२ ॥ अविरोधश्चन्दनवत् ॥ २३ ॥ यथा चन्दनस्यैकस्मिन् प्रदेशे स्थितस्य सकलदेहव्यापिशैत्यजनक- स्वम् , एवं जीवस्य एकस्मिन् प्रदेशे स्थितस्यापि सर्वाङ्गव्यापिसुखदुःख- जनकत्वमुपपद्यत इत्यर्थः ।। २३ ।। चन्दनस्य एकस्मिन् प्रदेशे अवस्थानं प्रत्यक्षदृष्टं, जीवस्य कस्मिन्प्रदेश अवस्थानमित्यपेक्षायां स्थानविशेषमाह- अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमादि हि ॥ २४ ॥ HAMANDAR ब्रह्मसूत्रवृत्तिः । [अ० २ पा०३ ४ , wwesome अवस्थितिवैशष्यात् चन्दनस्य प्रदेशविशेषे अवस्थानस्य प्रत्यक्षसिद्ध त्वादिति चेन्न । हृदि हृत्युण्डरीके अभ्युपगमात् एष आत्मा हृदि इति श्रुतौ प्रतिपादितत्वादित्यर्थः ॥ २४ ।। गुणाद्वा लोकवत् ॥ २५॥ यथा लोके दीपस्य गृहप्रदेशवर्तित्वेऽपि दीपगुणस्य प्रभायाः सकल- गृहव्यापित्वम् , एवं जीवस्य हृत्पुण्डरीकप्रदेशेऽवस्थानेऽपि जीवगुणस्य सुखदुःखादेः सकलशरीरव्यापित्वमुपपद्यत इत्यर्थः ॥ २५ ॥ व्यतिरेको गन्धवत् ॥ २६॥ यथा गन्धस्य वृक्ष पुष्पं विनापि वायुक्शादन्यत्र गमनम् , एवं सुखादे: जीवं विनापि सकलदेहव्यापित्वमुपपद्यत इत्यर्थः ॥ २६ ॥ तथा च दर्शयति ॥ २७ ॥ हृदयायतनत्वमात्मनो विधाय तस्यैव 'आलोमभ्य आनखाग्रेभ्यः' इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयतीत्यर्थः ॥ २७ ॥ जीवब्रह्मणोरभेदात् ब्रह्मणो विभुत्वाज्जीवस्यापि विभुत्वमित्याशङ्कां निराकरोति- पृथगुपदेशात् ॥२८॥ द्वा सुपर्णा इत्यादिश्रुतौ जीवब्रह्मणोः भेदव्यपदेशात अभेदो नास्तीत्यर्थः ॥२८॥ सिद्धान्तसूत्राणि- तद्गुणसारत्वात्तु तद्व्यपदेशः माज्ञवत् ॥ २९ ॥ तस्य अन्तःकरणस्य गुणाः अणुपरिमाणकर्तृत्वभोक्तृत्वादयः, तत्सा- रत्वात् सद्विशिष्टत्वात् जीवस्य तद्व्यपदेशः अणुत्वव्यपदेशः प्राज्ञवत् पर- मात्मवत् यथा परमात्मनः उपासनार्थमणुत्वव्यपदेशः, तद्वदित्यर्थः ॥२९॥ यावदात्मभावित्वाच न दोषस्तदर्शनात् ॥३०॥ यावदात्मभावित्वात् आत्मसाक्षात्कारपर्यन्तमन्तःकरणस्य सुषुप्ति- कालेष्वपि सूक्ष्मरूपेण विद्यमानत्वान्न दोषः सुषुप्त्यनन्तरमपि पुनरुत्थान नमुपपद्यत इत्यर्थः ॥ ३०॥ अन्तःकरणस्य ब्रह्मसाक्षात्कारपर्यन्तमवस्थानाङ्गीकारोऽसङ्गतः। प्रति- दिनमपि सुषुप्तिकालेऽन्तःकरणस्य श्रुतिषु विनाशप्रतिपादनादित्या- शङ्कयाह- Emen atmemo अधि०१४] अद्वैतमञ्जरी। MANMADI पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥ अस्यान्तःकरणस्य सतः सुषुप्त्यादिकालेष्वपि सूक्ष्मरूपेण विद्यमानस्य जाग्रदादिकालेषु अभिव्यक्तियोगात् स्थूलावस्थाङ्गीकारात् । तथा च सुषुप्त्यादिकालेषु अन्तःकरणस्य सूक्ष्मावस्थाविशिष्टत्वेन घटपटादिविष- यकज्ञानजननाक्षमत्वमात्रेण श्रुतिषु विनाशित्वप्रतिपादनम् । पुंस्त्ववत् यथा पुंस्त्वस्य प्रजननेन्द्रियस्य बाल्यावस्थायां सूक्ष्मरूपेण विद्यमानस्य यौवनावस्थायामभिव्यक्तिः पुत्रोत्पादनसामर्थ्य, तद्वदित्यर्थः ॥ ३१ ॥ सर्वदा अन्तःकरणस्य सूक्ष्मावस्था वा, स्थूलावस्था वा भवत्वित्या- शङ्कयाह नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥३२॥ अन्यथा अन्तःकरणस्य सर्वदा स्थूलत्वे नित्योपलब्धिप्रसङ्गः सर्वदा चटपटाद्युपलब्धिप्रसङ्गः । सर्वदा सूक्ष्मत्वे नित्यानुपलब्धिप्रसङ्गः कदाचित् घटपटाद्युपलब्धिर्न स्यात् । तस्मादन्यतरनियमः कदाचित् स्थूलावस्था, र कदाचित् सूक्ष्मावस्था च अङ्गीकर्तव्येत्यर्थः ।। ३२ ।। कधिकरणम् ॥१४॥ बुद्धिः की, पुरुषः पुण्यपापफलभोक्तेति सांख्यमतं निराकरोति- कर्ता शास्त्रार्थवत्त्वात् ।। ३३ ।। जीव एव कर्ता ' ज्योतिष्टोमेन स्वर्गकामो यजेत ' इति शास्त्रस्यार्थ- वत्त्वात् प्रमाणत्वात बुद्धेः कर्मकर्तृवे जीवस्य स्वर्गनरकभोगासंभवा- दित्यर्थः ॥ ३३॥ विहारोपदेशात् ॥ ३४॥ जीवस्य स्वर्गनरकसंचारोपदेशाच्च पुण्यपापकर्तृत्वमङ्गीकर्तव्य- मित्यर्थः ॥ ३४ ॥ उपादानात् ॥ ३५॥ मरणानन्तरं देवशरीरनारकशरीरपरिग्रहाच्च जीवस्य पुण्यपापकर्तृ- त्वमङ्गीकर्तव्यमित्यर्थः ॥ ३५ ॥ व्यपदेशाच क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६॥ 'अनुमन्ता बोद्धा विज्ञाता ' इति श्रुतौ क्रियायां कर्तृत्वव्यपदेशाच जीवस्य कर्तृत्वमङ्गीकर्तव्यम् । न चेन् जीवस्य कर्तृत्वं नास्ति चेत्, नि-

ब्रह्मसूत्रवृत्तिः।
[अ० २ पा०३
देशस्य विपर्ययः स्यात् कर्तृत्वप्रतिपादकवाक्यस्याप्रामाण्यं स्या-
दित्यर्थः ।। ३६ ॥
जीवस्य कर्तृत्वाङ्गीकारे सुषुप्त्यादिकालेष्वपि कर्तृत्वं स्यादित्याशङ्का
निराकरोति-
उपलब्धिवदनियमः ॥३७॥
सांख्यमते जीवस्य ज्ञानस्वरूपत्वेऽपि यथा सुषुप्तिकाले घटपटायुप-
लब्धृत्वं नास्ति, तद्वज्जीवस्य कर्तृत्वमिति मतेऽपि कदाचिदेव कर्तृत्वं, न
सर्वदैवेत्यर्थः ॥ ३७ ॥
शक्तिविपर्ययात् ॥ ३८॥
बुद्धेः कर्तृत्वाङ्गीकारे शक्तिविपर्ययात् करणशक्त्यभावप्रसङ्गाच्च न
बुद्धेः कर्तृत्वमित्यर्थः ॥ ३८॥
समाध्यभावाच ॥ ३९ ॥
जीवस्य पुण्यपापकर्तृत्वाभावे समाध्यभावात् श्रवणमनननिदिध्यास-
नकर्तृत्वस्याप्यभावात् जीवस्य मोक्षो न स्यादित्यर्थः । न च बुद्धेरेव
मोक्ष इति वाच्यम् । बुद्धर्मोक्षकाले नष्टत्वेन मोक्षासंभवादिति भावः ३९
तक्षाधिकरणम् ॥१५॥
सांख्यमतं निराकृत्य स्वाभाविककर्तृत्ववादिनां नैयायिकानां मतं
निराकरोति-
यथा च तक्षोभयथा ॥४०॥
यथा तक्षणव्यापारकर्ता उभयथा उभयरूपेण तिष्ठति, कदाचिद्वासी-
टङ्कादिसाधनविशिष्टः सन् दारूणि तक्षन् क्लेशमनुभवति, टङ्कादिरहितः
सन् निर्व्यापारः सुखमनुभवति, एवं जीवोऽपि जाग्रत्स्वप्नकालयोः देहा-
द्यभिमानविशिष्टः सन् लौकिकवैदिकव्यापारान् कुर्वन् दुःखमनुभवति,
सुषुप्तिकाले तु देहाद्यभिमानाभावात् देहेन्द्रियव्यापाररहितः सन् सुख-
मनुभवति । तस्माज्जीवस्य औपाधिकमेव कर्तृत्वं, न स्वाभाविक-
मित्यर्थः ॥ ४०॥
पराधिकरणम् ॥१६॥
परात्तु तच्छ्रुतेः ॥ ४१ ॥
तत् जीवस्य पुण्यपापकर्तृत्वं परात् परमात्मप्रेरणात् भवति । कुतः
श्रुतेः 'एष ह्येव साधु कर्म कारयति' इत्यादिश्रुतेरित्यर्थः ॥ ४१ ॥

अधि०१७] अद्वैतमञ्जरी। ४९ - " ईश्वरस्य स्वतन्त्रत्वात् कर्मानपेक्ष्यापि फलदातृत्वमस्तीति शङ्का निराकरोति- कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥ ईश्वरः जीवकृतकर्मापेक्ष: सन् जीवानां सुखं दुःखं च ददाति विहि- तानां प्रतिषिद्धानां च कर्मणामवैयादिभ्यः अवैयर्थ्यार्थमित्यर्थः । अन्यथा विधिनिषेधशास्त्रस्याप्रामाण्यं स्यादित्यर्थः ॥ ४२ ॥ अंशाधिकरणम् ॥ १७ ॥ नैयायिकादयो जीवब्रह्मणोर्भेदं वदन्ति, तन्मतं निराकरोति- अंशो नानाव्यपदेशादन्यथा चापि दाशकितवा- दित्वमधीयत एके ॥४३॥ नानाव्यपदेशात् 'द्वा सुपर्णा' इत्यादिश्रुतौ जीवब्रह्मणोर्मेदव्यपदे- शात् अन्यथा चापि तत्त्वमसि' इत्यादिश्रुतौ अभेदस्यापि व्यपदेशात् जीवा ब्रह्मणः अंशाः । भेदप्रतिपादकश्रुतेः स्पष्टत्वात् तामुपेक्ष्य अभेद- प्रतिपादिकां श्रुतिमाह-दाशकितवादित्वमधीयत एके, एके शाखिनः ब्रह्मणः दाशकितवादित्वं जीवाभेदम् अधीयते वदन्ति-ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवमे कितवाः' इत्यादिश्रुतिष्वित्यर्थः । न च भेदाभेदयो- विरोध इति वाच्यम् । बिम्बप्रतिबिम्बयोरिव भेदस्य मिथ्यात्वात् । ननु, 'द्वा सुपर्णा ' इत्यादिश्रुतिप्रतिपादितस्य भेदस्य मिथ्यात्वमनुपप- नमिति चेन्न । फलवदज्ञातेऽर्थे श्रुतेस्तात्पर्यम् । न च जीवब्रह्मभेदानु- भवात् किंचित्फलमनुभूयते । भेदज्ञानिनां तापत्रयस्यैव सर्वानुभवसि- द्धत्वात् । नापि भेदस्याज्ञातत्वम् । पामराणामपि जीवब्रह्मभेदस्या- नुभूयमानत्वात् जीवब्रह्माभेदज्ञानात् तापत्रयनिवृत्तिरूपफलस्यानुभूयमा- नत्वात् अभेदस्य पामरैरज्ञातत्वाञ्च अभेद् एव श्रुतीनां तात्पर्यमिति भेदस्य मिथ्यात्वात् अभेदस्य सत्यत्वाञ्च विरोधाभावादिति भावः ॥४३॥ मन्त्रवर्णाच ॥ ४४॥ एतावानस्य महिमा । अतो ज्यायांश्च पुरुषः । पादोऽस्य विश्वा भूतानि ' इति मन्त्रात् विश्वा भूतानि अस्य पादः अंश इत्यर्थः ॥४४॥ अपि च स्मर्यते ॥ ४५ ॥ 'ममैवांशो जीवलोके । इति स्मृतौ जीवानां ब्रह्मांशत्वं स्मर्यत इत्यर्थः ॥ ४५ ॥ , , ६ ५० ब्रह्मसूत्रवृत्तिः। [अ० २ पा०३ तन्तूनां पङ्कादिस्पर्शे सति पटस्यापि पङ्कस्पर्शवत् अंशानां जीवानां सुखदुःखभयशोकादिसंस्पर्श सति अंशिनः परमात्मनोऽपि सुखदुःखादि- संस्पर्शः स्यादित्याशङ्कयाह- प्रकाशादिवन्नैवं परः ॥ ४६॥ परः परमात्मा एवं न भवति जीववत् सुखदुःखादिमान्न भवति । प्रकाशादिवत् यथा गृहान्तर्वर्ती सूर्यप्रकाशः जालकाापाधिव- शात् ह्रस्वत्वदीर्घत्ववर्तुलत्वादिविचित्रधर्मवान् भवति, गृहात् बहिः- प्रदेशे विद्यमानस्तु सूर्यप्रकाश: स्वच्छ एव तिष्ठति, यथा वा घटादिपदार्थान्तर्वर्ती आकाशः ह्रस्वत्वदीर्घत्वादिधर्मवान् भवति, घटा- द्वहिःप्रदेशे विद्यमानस्तु आकाशः स्वच्छ एव, एवं देहान्तति जीव- चैतन्यं देहाभिमानवशात् सुखदुःखादिविशिष्टं भवति, देहात् बहिर्वि- द्यमानं तु ब्रह्मचैतन्यं देहाभिमानरहितत्वात् भयशोकरहितं सत् स्वच्छं तिष्ठतीति भावः ॥ ४६ ।। स्मरन्ति च ॥४७॥ यथा सर्वगतं सौम्यादाकाशं नोपलिप्यते' इति स्मृतौ ब्रह्मणः भयशोकादिरहितत्वं स्मरन्तीत्यर्थः ॥ ४७ ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ अनुज्ञापरिहारौ विधिनिषेधावपि देहसंबन्धात् ज्योतिरादिवत् देहा- भिमानवशात् जीवानामेव, न तु देहाभिमानरहितब्रह्मणः सूर्य- प्रकाशादिपूर्वोक्तदृष्टान्तरित्यर्थः ॥ ४८ ॥ वेदान्तिमते जीवानां परस्परमभिन्नत्वात् एकस्य जीवस्य सुखे सति सर्वेषां जीवानां सुखं स्यात्, एकस्य जीवस्य दु:खे सति सर्वेषां जीवानां दुःखं स्यात् । तथा च केषांचिद्दारिद्रय, केषांचिदैश्वर्यं न स्यादित्या- शङ्कयाह- असन्ततेश्याव्यतिकरः॥ ४९॥ असन्ततेः अविभुत्वात् ब्रह्मज्ञानपर्यन्तं देहोपाधिभेदेन जीवानां परि- च्छिन्नत्वात् भिन्नत्वाच्च अव्यतिकरःसुखदुःखादीनामसाङ्कर्यमित्यर्थः॥४९॥ आभास एव च ॥५०॥ वेदान्तिमते जीव आभास: ब्रह्मणः प्रतिबिम्बः । तथा च जीवाना.

अधि० १]
अद्वैतमञ्जरी।
५१
मन्तःकरणेषु प्रतिबिम्बितचैतन्यरूपाणामन्तःकरणभेदेन भिन्नत्वात्
परिच्छिन्नत्वाच्च सुखदुःखादिसांकय नास्तीत्यर्थः ॥ ५० ॥
स्वमतं प्रसाध्य परमतं दूषयति-
अदृष्टानियमात् ॥५१॥
नैयायिकमते जीवानां विभुत्वेन सर्वेषां जीवानां सर्वशरीरेषु विद्य-
मानत्वात् अदृष्टानियमात् अदृष्टानां पुण्यपापानाम् अनियमात् निय-
माभावात् केषांचित् दारिद्रयं, केषांचिदैश्वर्यमिति व्यवस्था न स्या-
दित्यर्थः ॥ ५१॥
अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥
अभिसंध्यादिषु रागद्वेषादिष्वपि एवमनियमः । तथा च केषांचित्
जीवानां रागवत्त्वं केषांचिद्वेषवत्त्वमिति व्यवस्था न स्यादित्यर्थः ॥५२॥
प्रदेशादिति चेन्नान्तर्भावात् ।। ५३ ॥
प्रदेशादेहाद्युपाधिवशेन परिच्छिन्नत्वाज्जीवानां सुखदुःखादिव्यवस्था
उपपद्यत इति चेन्न । अन्तर्भावादस्मन्मतप्रवेशापत्तेः । नैयायिकानामप-
सिद्धान्तप्रसङ्ग इत्यर्थः ।। ५३ ।।
इति ब्रह्मसूत्रवृत्तौ द्वितीयाध्यायस्य तृतीयः पादः ।
द्वितीयाध्यायस्य चतुर्थः पादः ।
१
प्राणोत्पत्यधिकरणम् ॥१॥
तथा प्राणाः॥ १ ॥
तथा पञ्चमहाभूतवत् प्राणाः इन्द्रियाण्यपि ब्रह्मणः उत्पद्यन्ते ।
'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । इतिश्रुतौ इन्द्रियाणामु-
त्पत्तिश्रवणादित्यर्थः ॥ १॥
गौण्यसंभवात् ॥२॥
इन्द्रियाणां नित्यत्वात् उत्पत्तिश्रुतिौणीति चेन्न । असंभवात् गौ-
णत्वासंभवात् । ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धयर्थ मुख्यमेव इन्द्रि-
याणामपि ब्रह्मजन्यत्वं वक्तव्यमित्यर्थः ॥२॥

५२ ब्रह्मसूत्रवृत्तिः। [अ०२ पा०४ तत्प्राक्श्रुतेश्च ॥ ३॥ तेषां पञ्चमहाभूतानां प्राक् आदौ इन्द्रियाणामुत्पत्तिश्रवणाञ्च इन्द्रि- याणामुत्पत्तिः मुख्यैव । अन्यथा पञ्चमहाभूतानामपि उत्पत्तिर्गौणी स्यादित्यर्थः ॥ ३॥ तत्पूर्वकत्वाद्वाचः॥४॥ 'अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् । इति श्रुतौ वाचः वागिन्द्रियस्य तत्पूर्वकत्वात् तेजोजन्यत्वाभिधानात् तह- टान्तेन सर्वेषामिन्द्रियाणां यथायोग्यं महाभूतजन्यत्वं वक्तव्यमिति अनित्यत्वामिन्द्रियाणामित्यर्थः ॥ ४ ॥ सप्तगत्यधिकरणम् ॥ २॥ इन्द्रियाणां संख्यानिर्णयं करोति- पूर्वपक्ष:- सप्तगतेविशेषितत्वाच ॥५॥ इन्द्रियाणि सप्त । कुतः ? 'सप्त प्राणाः प्रभवन्ति तस्मात् ' इति श्रुतौ सप्तानामिन्द्रियाणां गतेः परलोकगमनस्य विशेषितत्वादुक्तत्वादि- त्यर्थः । चक्षुश्श्रोत्रत्वग्जिह्वाघ्राणज्ञानेन्द्रियाणि पञ्च । वागिन्द्रियमेकम् , अन्तःकरणमेकम्, एतानि सप्तेन्द्रियाणि ॥ ५॥ सिद्धान्त:- हस्तादयस्तु स्थितेऽतो नैवम् ॥६॥ हस्तादयः पाणिपादपायूपस्थान्यपि जीवे स्थिते सति जीवेन सह शरीरे तिष्ठन्ति । जीवे लोकान्तरं गते सति जीवेन सह लोकान्तरं गच्छ- न्ति ।' तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इति श्रुतौ सर्वेषामिन्द्रियाणां जीवेन सह परलोकग- मनश्रवणात् । अतः अस्मात् कारणात् नैवं सप्तन्द्रियाणि, किंतु एकादशे- न्द्रियाणीत्यर्थः । एकमेवान्तःकरणं संशयात्मकत्वान्मन इत्युच्यते, निश्च- यात्मकत्वात् बुद्धिः, अभिमानात्मकत्वादहङ्कार इत्युच्यते, स्मरणात्म- कत्वाञ्चित्तमित्युच्यते । तथा च न संख्याधिक्यमिति भावः ॥ ६॥ प्राणाणुत्वाधि करणम् ॥३॥ अणवश्व ॥ ७॥ इन्द्रियाणि अणवः सूक्ष्माणि अप्रत्यक्षाणीत्यर्थः ॥ ७ ॥ । ।

अधि०५] अद्वैतमञ्जरी। h एतस्माज्जा- MUSMOHMANDU प्राणत्रैष्ठ्याधिकरणम् ॥ ४॥ श्रेष्ठश्च ॥ ८॥ श्रेष्ठः मुख्यः प्राणश्च ब्रह्मजन्यः "एतस्माज्जायते प्राणः' इतिश्रुतौ तस्यापि जन्यत्वादित्यर्थः ॥ ८॥ वायुक्रियाधिकरणम् ॥ ५॥ वायुर्वा, वागादिक्रिया वा प्राग इति केचन वदन्ति, तन्मतं निराकरोति- न वायुक्रिये पृथगुपदेशात् ॥ ९॥ वायुक्रिये प्राणो न भवतः । कुतः ? पृथगुपदेशात् यते प्राणः” इति श्रुतौ वायुप्राणयोः पृथगुत्पत्तिव्यपदेशादित्यर्थः ।।९।। वायुप्राणयोर्भेदाङ्गीकारे प्राणः केनोत्पन्न इत्याकाङ्कायामाह- चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥१०॥ चक्षुरादि चक्षुरादीन्द्रियाणि यथा महाभूतजन्यानि, तद्वत् प्राणः मुख्यवायुजन्यः कश्चन पदार्थः । कुतः ? तत्सहशिष्टयादिभ्यः तैश्चक्षु- रादिभिः प्राणस्य सहशिष्टिः सहपाठः, तदादिभ्यः हेतुभ्य इत्यर्थः । सर्वासु श्रुतिषु चक्षुरादीनामिन्द्रियाणां सन्निधौ प्राणस्य पठितत्वात् इन्द्रियसाहचर्यात् चक्षुरादिवत् प्राणोऽपि भौतिक इति भावः ॥ १० ॥ यथा ज्ञानेन्द्रियाणां रूपरसगन्धस्पर्शादयः पञ्च विषयाः, यथा कर्मेन्द्रि- याणां वक्तव्यादातव्यगन्तव्यविसर्जयितव्यानन्दयितव्याः पञ्च विषयाः,ए- वं प्राणस्यापि इन्द्रियत्वात् कश्चन विषयो वक्तव्य इत्याशङ्कय निराकरोति- अकरणत्वाच न दोषस्तथा हि दर्शयति ॥ ११ ॥ प्राणस्याकरणत्वात् अनिन्द्रियत्वात् न दोषः विषयाभावप्रयुक्तदोषो नास्ति । तर्हि प्राणस्य व्यर्थत्वमेव स्यादित्याशङ्कयाह-तथा हि दर्श- यति । 'प्राण एव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति । इति श्रुतिः प्राणस्य शरीरोत्थापकत्वरूपं कार्यान्तरं दर्शयति । तथा च न व्यर्थत्वं प्राणस्येत्यर्थः ॥११॥ इदानीं प्राणस्य निर्णयं करोति- पञ्चत्तिर्मनोवध्यपदिश्यते ॥ १२ ॥ १ वायुनिष्टचलनक्रिया वेति पाठः । song ब्रह्मसूत्रवृत्तिः। [अ० २ पा०४ एक एव प्राणः पञ्चवृत्तिः पञ्चव्यापारवान् सन् व्यपदिश्यते प्राणापानादिशब्दैः पञ्चधा व्यवह्रियते । मनोवत् यथा एकमेव मनः मनोबुद्धव्यहङ्कारचित्तभेदेन चतुर्धा व्यवह्रियते, तद्वदित्यर्थः ।। १२॥ श्रेष्ठाणुत्वाधिकरणम् ॥ ६ ॥ अणुश्च ॥ १३ ॥ अयं मुख्यप्राणोऽपि अणुः सौम्यपरिमाणवान् । इन्द्रियवदित्यर्थः १३ ज्योतिराधिष्टानाधिकरणम् ॥ ७ ॥ ज्योतिरायधिष्ठानं तु तदामननात् ॥ १४ ॥ तानि वागादीनीन्द्रियाणि ज्योतिरादीनामग्न्यादीनामधिष्ठानं निवास- स्थानानि । कुतः ? तदामननात् । अग्निर्वाग्भूत्वा मुखं प्राविशद् ' इति श्रुतौ तासां सूर्यादिदेवतानाम् आमननात् मुखादिस्थानेषु प्रवेश- कथनादित्यर्थः ॥१४॥ प्राणवता शब्दात् ॥१५॥ प्राणवता जीवेन सह सूर्यादिदेवतानामिन्द्रियप्रेरकत्वं, न स्वात- न्त्र्येण । कुतः ? शब्दात् इन्द्रियाभिमानिदेवतानां जीवकृतकर्मानुसा- रेणैव इन्द्रियप्रेरकत्वश्रुतिबलादित्यर्थः ॥ १५ ॥ तस्य च नित्यत्वात् ॥१६॥ तस्य जीवस्य नित्यत्वात् प्राणैनित्यसंबन्धत्वात् जीव एव भोक्ते- त्यर्थः ॥ १६ ॥ इन्द्रियाधिकरणम् ॥८॥ सर्वदा इन्द्रियव्यापारजन्यसुखदुःखात्मकफलभोक्तृत्वात् जीवस्यैव इन्द्रियप्रेरणा । तत्र केचित् प्राणात्पृथक् इन्द्रियाण्येव न सन्ति । कथं जीवस्य इन्द्रियप्रेरणेति वदन्ति । तन्मतं निराकरोति- त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥ १७॥ श्रेष्ठादन्यत्र मुख्यं प्राणं वर्जयित्वा ते चक्षुरादय एव इन्द्रियाणि । कुतः ? तद्वयपदेशात् चक्षुरादीनामेव सर्वासु श्रुतिषु इन्द्रियत्वेन व्यपदेशादित्यर्थः ॥ १७ ॥ भेदश्रुतेः ॥१८॥ ।

अधि० ९] अद्वैतमञ्जरी। 'एतस्माज्जायते प्राणः ' इति श्रुतौ इन्द्रियाणां प्राणस्य च पृथगुत्प- त्तिश्रवणाच प्राणस्य नेन्द्रियेष्वन्तर्भाव इत्यर्थः ॥ १८ ॥ वैलक्षण्याच ॥ १९॥ अनेकेषु मन्त्रवर्णेषु प्राणेन्द्रिययोर्भेदव्यपदेशात् न प्राणस्येन्द्रियस्व- मित्यर्थः ॥ १९ ॥ संज्ञामूर्तिक्लप्त्यधिकरणम् ॥ ९॥ पञ्चमहाभूतमात्रकर्तृत्वं परमात्मनः, चराचरशरीरकर्तृत्वं तु हिरण्य- गर्भस्यैवेति केचन वदन्ति । तन्मतं निराकरोति- संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ त्रिवृत्कुर्वतः त्रिवृत्करणकर्तुः परमात्मनः सकाशादेव संज्ञामूर्तिक्लप्तिः नामरूपात्मकचराचरशरीरसृष्टिर्भवति । कुतः ? उपदेशात् ' सेयं देवतै- क्षत ' इति श्रुतौ परमात्मन एव नामरूपात्मकशरीरसृष्टिकर्तृत्वोपदेशा- 'दित्यर्थः । सूत्रधार इव परमात्मैव हिरण्यगर्भशरीरे स्थित्वा चराच- शरीरनिर्माणं करोतीति भावः ॥ २० ॥ त्रिवृत्करणप्रकारमुपपादयति- मांसादि भौमं यथाशब्दमितरयोश्च ॥२१॥ मांसादिकं भौम भूमिजन्यम् इतरयोः अप्लेजसोरपि कार्य यथाशब्द शब्दानुसारेण ज्ञातव्यमित्यर्थः । अपां कार्य लोहितादिकं, तेजसः कार्यमस्थ्यादिकमिति भावः । केचिद्वायुकार्यस्य प्राणस्य विद्यमानत्वात् आकाशकार्यस्य अवकाशप्रदानादेश्च सत्त्वात् पाञ्चभौतिकत्वं शरीराणां वदन्तितदप्यर्थादुक्तमिति भावः ।। २१ ।। शरीराणां पाञ्चभौतिकत्वाङ्गीकारे लोके पार्थिवत्वव्यवहारः कथमि- त्याशङ्कयाह- वैशेष्यात्तु तद्वादस्तद्वादः।। २२॥ वैशेष्यात् पृथ्वीकार्यस्य मांसादेः आधिक्यात् तद्वादः पामराणां पार्थिवत्वव्यवहार इत्यर्थः । तद्वादस्तद्वाद इति द्विरुक्तिः अध्यायपरिस- माप्तिद्योतनार्था ॥ २२ ॥ इति ब्रह्मसूत्रवृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः। अध्यायश्च संपूर्णः॥

श्रीमच्छंकरभगवत्पादशिष्यप्रणीता ब्रह्मसूत्रवृत्तिः। (अद्वैतमञ्जरी) तृतीयाध्यायस्य प्रथमः पादः। - EEB12030520 तदन्तरप्रतिपत्त्यधिकरणम् ॥१॥ सुकृतिनां दुष्कृतिनां च स्वर्गनरकगमनागमनजन्यबहुक्लेशवत्वात् स्वर्गादिलोकेभ्यो विरज्य मोक्षार्थ ब्रह्मज्ञानमेव संपादनीयमिति वृत्तुं प्रथमं सुकृतिनां स्वर्गलोकगमनागमनप्रकारं दर्शयति- तदन्तरपतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥१॥ तदन्तरप्रतिपत्तौ लोकान्तरप्राप्तिसमये लिङ्गशरीरपरिवेष्टितो जीवः अस्मिन् लोके अग्नौ हुतैः अदृष्टशब्दवाच्यैः समित्पुरोडाशदधिक्षीरसो- मरसचरुदर्भाज्यप्रभृतिभिः द्रव्यैः सूक्ष्मरूपैः संपरिष्वक्तः परिवेष्टितः सन् धूमादिमार्गेण स्वर्गलोकं रंहति गच्छति । कुतः ? प्रश्नप्रतिवच. नाभ्यां 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति प्रश्नः, 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति प्रतिवच- नम्, उभाभ्यामित्यर्थः । अस्याः श्रुतेरयमर्थः-पञ्चम्यामाहुतौ योषि- द्रूपे पञ्चमे अग्नौ हुता आपः दधिक्षीराज्यप्रभृतयः होमद्रव्यरूपाः पुरु- षवचसः गर्भस्थपिण्डाकारेण परिणताः यथा भवन्ति, तथा वेत्थ जानासि किम् इति केनचित् प्रश्ने कृते, इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति प्रत्युत्तरम् । अस्यायमर्थः-अस्मिन् लोके यजमानेन अग्नौ हुतानि समित्पुरोडाशाज्यदधिक्षीरप्रभृतीनि द्रव्याणि सूक्ष्मरूपाणि भूत्वा लिङ्गशरीरविशिष्टेन यजमानेन सह धूमादिमार्गेण आतिवाहिकैः गुलोकाख्येऽग्नौ हूयन्ते हुतानि । तानि देवशरीररू- अधि० १] अद्वैतमञ्जरी। पेण परिणमन्ते । तच्च देवशरीरं कञ्चित् कालं स्वर्गलोके भोगान् भुक्त्वा पुण्यपापक्षयानन्तरं नवनीतवत् द्रवीभूतं भवति । तच्च द्रवीभूतं शरीरमातिवाहिकैः देवैः पर्जन्याख्ये अग्नौ हूयते । तच्च जलरूपेण परिणमते । तच्च जलं पृथिव्याख्ये अग्नौ आतिवाहिकैः हूयते । तच्च ओषधिद्वारा ब्रीहियवादिधान्यरूपेण परिणमते । तच्च धान्यमन्नद्वारा पुरुषरूपे अग्नौ हूयते । तच्चान्नं रेतोरूपेण परिणमते । तच्च रेतः योषिद्रूपे- ऽग्नौ हूयते । तच्च रेतः गर्भस्थशरीराकारेण परिणमत इति छुपर्जन्य- थिवीपुरुषयोषिद्रूपपञ्चाग्निक्रमेण गर्भोत्पत्तिरित्यर्थः ।। १॥ त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २॥ समित्पुरोडाशादीनां पार्थिवत्वं, दधिक्षीरादीनामाप्यत्वं, घृतस्य तैज- सत्वमित्येवंरूपेण होमद्रव्याणां त्र्यात्मकत्वात् त्रिपदार्थत्वात् ' आपः पुरुषवचसो भवन्ति' इत्येतद्नुपपन्नमिति चेन्न । भूयस्त्वात् होमद्रव्याणां मध्ये अपां बाहुल्यमात्रेण अप्छब्दप्रयोगः । तथा चाप्छब्दस्य पार्थिवाप्य- तैजसद्रव्याणामुपलक्षणत्वान्न विरोध इति भावः ॥ २ ॥ प्राणगतेश्च ॥३॥ 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूक्रामन्तं सर्वे प्राणा अनू- कामन्ति ' इति श्रुतौ प्राणानामिन्द्रियाणां जीवेन सह धूमादिमार्गेण स्वर्गलोकगमनश्रवणाच होमद्रव्याणामपि जीवेन सह गमनमङ्गीकर्तव्य- मित्यर्थः ॥ ३॥ अग्न्यादिगतिश्रुतरिति चेन्न भाक्तत्वात् ॥ ४॥ 'अग्निं वागप्यति सूर्य चक्षुरप्येति मनश्चन्द्रमप्येति ' इत्यादिश्रुतौ मरणकाले इन्द्रियाणां तदभिमानिदेवतासु लयश्रवणात् इन्द्रियाणां जीवेन सह स्वर्गलोकप्राप्तिरनुपपन्नेति चेन्न । ' तमुत्क्रामन्तं प्राणोऽनू- कामति' इत्यादिबहुश्रुतिविरोधेन अन्याद्यभिमानिदेवतासु लयप्रतिपा- दकश्रुतेः भाक्तत्त्वात् गौणत्वात् अप्रमाणत्वादित्यर्थः ॥ ४ ॥ प्रथमे श्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥५॥ 'अस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति' इति श्रुतौ धुलोकाख्ये प्रथमे- ऽग्नौ श्रद्धाया एव हूयमानत्वश्रवणात् दधिक्षीरादीनां द्युलोकाख्येऽग्नौ हूयमानत्वमसङ्गतमिति चेन्न । ता एव श्रद्धापूर्वकं हुताः दधिक्षीरादि- , - म.

ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०१ रूपाः आप एव श्रद्धाशब्देन लक्षणया प्रतिपाद्यन्ते । कुतः ? दधिक्षी- रादीनामेव होतव्यत्वस्य उपपन्नत्वात् श्रद्धाया निराकाराया होतव्य- त्वानुपपत्तेरित्यर्थः ॥ ५॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥ कर्मिणामेव स्वर्गलोकगमनस्य अश्रुतत्वात् तैः सह होतव्यद्रव्याणां गमनं सुतरामनुपपन्नमिति चेन्न । इष्टादिकारिणां धूमादिमार्गेण स्वर्ग- लोकगमनस्य ते धूममभिसंभवन्ति धूमाद्रात्रि रात्र्या अपरपक्षमपर- पक्षादक्षिणायनम् ' इत्यादिषु श्रुतिषु प्रतीतेः प्रतिपाद्यमानत्वादित्यर्थः ॥६॥ अस्तु कर्मिणां स्वर्गलोकगमनं, तेषां स्वर्गलोके भोगो न संभवति । ' तं देवा भक्षयन्ति ' इति श्रुतौ स्वर्गलोकगमनानन्तरमेव कर्मिणां देव- भक्ष्यत्वश्रवणात् व्याघ्रादिभिरिव देवैर्भक्षितानां कर्मिणां भोगासंभवा- दित्याशङ्कयाह- भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥७॥ 'तद्देवानामन्नम् ' इत्यादिश्रुतौ कर्मिणां देवभृत्यत्वमात्रेण देवभक्ष्यत्वं भाक्तं गौणम् । कुतः ? अनात्मवित्त्वात् कर्मिणामात्मज्ञानरहितत्वात् । तथा हि दर्शयति आत्मज्ञानरहितानां देवभृत्यत्वम् , अथ योऽन्यां देवता- मुपास्ते, इति श्रुतिदर्शयतीत्यर्थः । अथ योऽन्यां देवतामुपास्ते अन्यो- ऽसावन्योऽहमस्मीति न स वेद यथा पशुः एवं तद्देवानाम्' इति श्रुतेर- यमर्थः-यः अन्याम् आत्मव्यतिरिक्तेन्द्रादिदेवतां यज्ञादिकर्मभिः उपास्ते पूजयति, असौ इन्द्रादिः मत्तोऽन्यः अहं च इन्द्रादेरन्य इति भेदबुद्ध्या यः इन्द्रादीन् पूजयति, सः तत्त्वं न वेद । यथा पशुः कर्षन् कर्ष- काणां कृष्यादिनोपकरोति, एवं कर्मठोऽपि इहलोके इन्द्रादीनां हविः- प्रदानं कुर्वन् परलोकेऽपि परिचर्या कुर्वन् पशुवदुपकरोति । तथा च देवपशुत्वमात्रेण कर्मिणां देवभक्ष्यत्वं, न व्याघ्रादिवत् कर्मिणां मांसरुधिरादिकं देवा भक्षयन्तीति । तेषाममृतभक्षकत्वेन मांस- भक्षकत्वाभावादिति भावः ॥ ७ ॥ कृतात्ययाधिकरणम् ॥२॥ एवं सुकृतिनां स्वर्गलोकगमनं, तत्र भोगं च प्रतिपाद्य पुनरागमन- प्रकारं दर्शयति- ७ अधि० २]] अद्वैतमञ्जरी। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥ कृतात्यये स्वर्णोद्देशेन कृतस्य पुण्यस्य अत्यये नाशे सति यथा येन मार्गेण स्वर्गलोकं प्रति इतं गमनं, तेन मार्गेण वा, अनेवं मा- र्गान्तरेण वा । वा मार्गान्तरेणत्येतदनास्थया उक्तम् । तेनैव मार्गेणेति सिद्धान्तः । अनुशयवान् भुक्तावशिष्टसंचितकर्मवान् भूलोकमागच्छति । आगत्य च संचितकर्मानुसारेण रमणीयां योनि वा, कुत्सितयोनि वा प्राप्नोति । कुतः ? दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । 'यथेतमाका- शमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति । अत्राकाशवायुधूमादिशब्दा लोकपरा इत्यर्थः । 'त इह ब्रीहियवा ओषधिवनस्पतयः तिलमाषा इति जायन्ते ततो दुष्प्रपतरं ततो रमणीयचरणा रमणीयां योनिमा- पद्यन्ते ब्राह्मणयोनि वा क्षत्रिययोनि वा कपूयचरणाः कपूयां योनि- मापद्यन्ते श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा ' इति श्रुतिः, क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इति स्मृतिः, ताभ्यामित्यर्थः ॥ ८॥ चरणादिति चेनोपलक्षणार्थेति कार्णाजिनिः॥९॥ रमणीयचरणा' इति श्रुतौ चरणात् शौचाचमनस्नानसंध्याजपौ- पासनादिरूपात् स्मृत्युक्ताचारात् स्वर्गात् पुनरागतानां कर्मिणां योनि- प्राप्तिः प्रतीयते, न तु वेदोक्ताग्निहोत्रादिकर्मिणः । तथा च संचि- तकर्मवशाद्योनिप्राप्तिरित्येतदयुक्तमिति चेन्न ।' रमणीयचरणा । इति श्रुतिः आचाराङ्गकवैदिककर्मोपलक्षणार्था इति कार्णाजिनिर्मन्यत इत्यर्थः । आचारवाचकेन चरणशब्देन अजहल्लक्षणया आचाराङ्गकं कर्म प्रतिपाद्यत इति भावः ॥ ९॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥ वैदिककर्मण एव रमणीययोनिप्राप्तिहेतुत्वसंभवात् स्मृत्युक्तस्याचा- रस्य आनर्थक्यं वैयर्थ्यम् । तथा च चरणशब्दस्य जहल्लक्षणैवा- ङ्गीकर्तव्येति चेन्न । तदपेक्षत्वात् आचारापेक्षत्वात् कर्मणः, आचार- स्य वैयथ्य नास्तीत्यर्थः । ' आचारहीनं न पुनन्ति वेदाः । इति श्रुतौ आचारस्य कर्माङ्गत्वबोधनात् अङ्गरहितस्याङ्गिनः फलजनकत्वाभावात् आचारसहितमेव वैदिकं कर्म फलजनकम् । तथाच चरणशब्दस्य अज- हल्लक्षणौवनीकर्तव्येति भावः ॥१०॥ ।

ब्रह्मसूत्रवृत्तिः। [अ०३ पा०१ सुकृतदुष्कृते एवेति तु बादरिः॥११॥ रमणीयचरणशब्देन कपूयचरणशब्देन च सुकृतदुष्कृते एव शक्त्या प्रतिपाद्यते इति बादरिर्मन्यते । तथा च अङ्गिना कर्मणा अङ्गस्याचारस्य अर्थादाक्षिप्तत्वाच चरणशब्दस्य लक्षणा न वक्तव्येति भावः ॥ ११॥ अनिष्टादिकार्यधिकरणम् ॥३॥ इयता सूत्रसंदर्भेण सुकृतिनां स्वर्गलोकगमनागमने प्रतिपाद्य इदानीं दुष्कृतिनां नरकलोकगमनागमने प्रतिपादयितुं प्रथमं पूर्वपक्षमाह- पूर्वपक्ष:- अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ 'ये वै केचिदस्माल्लोकात् प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छ- न्ति' इति श्रुतौ इष्टादिकारिणामनिष्टादिकारिणां सर्वेषामपि अवि- शेषेण स्वर्गादिलोकगमनं श्रुतं प्रतिपादितमित्यर्थः । इष्टादिकारिणो न भवन्तीति ह्यनिष्टादिकारिणः दुष्कृतिन इत्यर्थः । श्रुतेरयमर्थः-ये केचन अस्मात् भूलोकान् प्रयान्ति मरणानन्तरं भूलोकं परित्यज्य ये गच्छन्ति, ते सर्वे सुकृतिनो वा दुष्कृतिनो वा चन्द्रमसा स्वर्गलोकं गच्छन्तीत्यर्थः ॥ १२॥ सिद्धान्त:- संयमने त्वनुभूयेतरेपामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥ इतरेषां पापिनां संयमने नरकलोके अनुभूय दुःखमनुभूय आरोहावरोही प्रथमं नरकं प्रति गमनं कञ्चित्कालं नरकलोके दुःखानुभवानन्तरं पुन- रागमनं चेत्येवंविधारोहावरोहौ अङ्गीकर्तव्यौ । कुतः ? तद्गतिदर्शनात् 'वैवस्वतं संगमनं जनानाम् ' इत्यादिश्रुतौ पापिनां यमलोकगमनश्रव- णादित्यर्थः । तथाच पापिनां नरकलोकगमनश्रवणात् स्वर्गलोकगमन- प्रसक्तेरेवाभावात् 'चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति श्रुतौ सर्वशब्दस्य सुकृतिमात्रे संकोचः कर्तव्य इति भावः । संयमने त्वनुभूयेत्यत्र तु ल्य- प्रत्ययेन क्रमो न विवक्षित इति द्रष्टव्यम् ।। १३ ।। स्मरन्ति च ॥१४॥ स्मृतिकारा अपि दुष्कृतिनां नरकलोकप्राप्ति प्रतिपादयन्तीत्यर्थः।।१४।। Uma ?

अधि०३] अद्वैतमचरी। अपि च सप्त ॥ १५ ॥ किंच सप्त प्रधाननरकाणि पापिनां निवासस्थलानि स्मृतिषु प्रति- पाद्यन्त इत्यर्थः ॥१५॥ एकस्य यमस्य कथं सप्तनरकाधिपत्यमित्याशङ्कयाह- तत्रापि च तद्वयापारादविरोधः ॥ १६॥ तत्रापि सप्तनरकेष्वपि तद्व्यापारात्तस्य यमस्य व्यापारादधिकारिपुरु- पद्वारा आज्ञाया अप्रतिहतत्वादविरोधः । यमस्य सप्तनरकाधिपत्ये विरोधो नास्तीत्यर्थः । इदं तु प्रसंगादुक्तं, न प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥ १६ ॥ पापिनां देवयानपितृयाणमार्गेण गमनप्रतिषेधादपि न स्वर्गलोकप्राप्ति- रित्याह- विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥ विद्याकर्मणोरुपासनाकर्मसंबन्धिनोः देवयानपितृयाणमार्गयोरेव ब्रह्म- लोकस्वर्गलोकप्राप्तिसाधनत्वेन प्रकृतत्वात् सर्वासु श्रुतिषु प्रतिपादित- त्वात् तयोश्च मार्गयोः । अथैतयोः पथोर्न कतरेण च । इति श्रुत्या यापिनां प्रतिषेधादपि न पापिनां स्वर्गलोकप्राप्तिप्रसक्तिरित्यर्थः । एत- योदेवयानपितृयाणयोर्मध्ये कतरेणान्यतरेणापि मार्गेण पापिनां गमनं नास्तीत्यर्थः ॥ १७॥ पापिनां मार्गान्तरश्रवणादपि न धूमादिमार्गेण स्वर्गलोकगमन- मित्याह- न तृतीये तथोपलब्धेः ॥ १८ ॥ देवयानपितृयाणमार्गापेक्षया तृतीयमार्गे गच्छतां पापिनां स्वर्ग- लोकप्राप्तिर्नास्ति । कुतः ? तथोपलव्धेः । जायस्व म्रियस्वेति तृतीयं स्थानम् ' इति श्रुतौ पापिनां तृतीयमार्गस्य प्रतिपादितस्वादित्यर्थः । श्रुतेरयमर्थः-मार्गमध्येऽपि यमदूतानां बाधाभिः जायस्व म्रियस्व पुन- जन्ममरणभूयिष्ठं तृतीयं स्थानं तृतीयो मार्गः पापिनामित्यर्थः । मार्ग- मध्येऽपि यातनाशरीरधारिणं पापिनं पुरुषं यमदूता बाधन्ते, तथा बाधया पुनःपुनः मरणं, पुनःपुनः जन्म च पापिनां पुराणेषु प्रसिद्धमिति भावः। 'जायस्व म्रियस्वं' इत्यत्र क्रियासमभिहारे लोद्प्रत्ययः ॥ १८॥ ६ ६२ ब्रह्मसूत्रवृत्तिः। [अ० अ०३ पा०१ R- स्मयतेऽपि च लोके ॥ १९॥ लोकेऽपि पापिनां नरकलोकप्राप्तिः स्मर्यते, पामरैरपि व्यवह्रियते इत्यर्थः । तथा च लोकव्यवहारबलादपि पापिनां न स्वर्गलोकप्राप्ति- रित्यर्थः ॥ १९॥ दर्शनाच ॥२०॥ केषांचित् पापिनामिहैव लोके उद्भिजस्वेदजादिनिकृष्टजन्मदर्शना- दपि न पापिनां स्वर्गलोकप्राप्तिरिति भावः ।। २० ।। ननु स्वेदजान्येव न सन्ति तेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जरायुजमुद्भिनं च ' इति त्रिविधानामेव भूतानां प्रतिपादित- त्वादित्याशङ्कयाह- तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ संशोकजस्य स्वेदजस्यापि तृतीयशब्दावरोषः वृक्षलतापर्वतादिवा- चकेन तृतीयशब्देन उद्भिज्जशब्देन अवरोधः अजहल्लक्षणया संग्रह इत्यर्थः। भूतानां चातुर्विध्यमपि प्रसङ्गादुक्तं, न प्रकृतोपयुक्तमिति द्रष्टव्यम् ॥२१॥ तत्साभान्यापत्यधिकरणम् ॥ ४॥ इयता सूत्रसंदर्भेण केषांचित् पापिनां तृतीयमार्गेण नरकलोक- गमनं केषांचिदिहैव लोके स्थावरादिरूपेण उत्पत्तिं च प्रतिपाद्य इदानीं स्वर्गलोकात् पुनरागमनप्रकारं प्रपञ्चयति । 'यथेतमाकाशमाकाशा द्वायुं वायुर्भूत्वा धूमो भवति ' इत्यादिश्रुतेः स्वर्गलोकात् पुनरागताना- मिष्टादिकारिणाम् आकाशवायुधूमाभ्रमेघादिलोकेषु पान्थानामिव अव- स्थानमात्रं वा, तेषु लोकेषु भोगोऽप्यस्ति वा इति संशये सति निर्णयमाह- तत्साभाव्यापत्तिरुपपत्तेः॥ २२ ॥ आगच्छतां कर्मिणां तत्साभाव्यापत्तिः तेषु आकाशलोकवायुलोका- दिषु साभाव्यापत्तिः संबन्धप्राप्तिरेव, न भोगः । कुतः ? उपपत्तेः क्षीण- सुकृतानां तेषां संबन्धमात्रस्यैव उपपन्नत्वात् भोगस्यानुपपन्नत्वादित्यर्थः । इदमुपलक्षणं तेषां योनिप्राप्तिपर्यन्तं स्थूलशरीराभावादपि लिङ्गशरीर- मात्रविशिष्टानां तेषां मार्गमध्ये न भोगसामर्थ्य मिति द्रष्टव्यम् ॥ २२ ॥ नातिचिराधिकरणम् ॥ ५॥ आकाशादिलोकेष्ववस्थानमपि एकैकस्मिन् लोके एकैकदिनमात्रमेव, न बहुसंवत्सरकालमित्याह- -

अधि०६]
अद्वैतमञ्जरी।
६३
नातिचिरेण विशेषात् ॥ २३ ॥
नातिचिरेण शीघ्रकालेनैव आकाशादिलोकेभ्यो भूलोकं प्रत्याग-
मनम् । कुतः ? विशेषात् ' ततो वै खलु दुनिष्प्रपतरम्' इति श्रुतौ
व्रीहियवाद्योषधिसंबन्धानन्तरं कालविलम्बश्रवणेन आकाशादिलोकेषु
अविलम्बस्य अर्थागम्यमानत्वादित्यर्थः । श्रुतेरयमर्थः-ततः ब्रीहि-
यवाद्योषधिसंबन्धानन्तरं कर्मिणां दुनिष्प्रपतरं दुःखेन निर्गमनं काल-
विलम्बेन अन्नद्वारा पुरुषसंबन्ध इत्यर्थः । अङ्कुरमारभ्य धान्यनिष्प.
त्तिपर्यन्तं विलम्बः, धान्यनिष्पत्त्यनन्तरमपि कुसूलादिप्रक्षेपेण किं-
चित्कालविलम्ब इति भावः ॥ २३ ॥
अन्याधिष्टिताधिकरणम् ॥ ६ ॥
व्रीहियवादिष्वपि बहुकालमवस्थानमात्रमेव कर्मिणां, न भोग
इत्याह-
अन्याधिष्टिते पूर्ववदभिलापात् ॥ २४ ॥
अन्यैः ब्रीहियवाद्यौषध्यभिमानिभिर्जीवान्तरैरधिष्ठिते सहकृते ब्रीहि-
यवादो कर्मिणां बहुकालमवस्थानमात्रमेव , न भोगः । कुतः ? पूर्व-
वदभिलापात् पूर्वेष्वाकाशादिलोकेष्विव ब्रीहियवादिष्वपि संबन्धमात्र-
स्यैव ‘त इह ब्रीहियवाः' इति श्रुतौ कथितत्वात् । तथा च ब्रीहि-
यवादिस्थावरदेहाभिमानिनां जीवानामेव वातातपवर्षादिजन्यसुखदु:-
खानुभवः, न तु जनुषान्धतुल्यानां कर्मिणामिति भावः ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात्॥ २५ ॥
ज्योतिष्टोमादिकं वैदिकं कर्माशुद्धं पशुहिंसामांसभक्षणादिजन्यपापसं-
मिश्रम् । तथाच पुण्यपापमेलनरूपत्वात् यज्ञादिकर्मणां पुण्यांशफलस्य
स्वर्गलोके भुक्तत्वेऽपि पापांशफलस्य स्वर्गलोके अभुक्तत्वात् स्वर्गात्
पुनरागमनकाले ब्रीहियवादिस्थावरशरीरेषु पशुहिंसादिजन्यपापफल-
भोगानन्तरं संचितकर्मान्तरवशेन कर्मिणां योनिप्राप्तिरिति चेन्न ।
शब्दात् 'वायव्यं श्वेतमालभेत' इत्यादिश्रुतिचोदितत्वेन पशुहिंसा-
दीनां पापजनकत्वाभावात् । तथाच जीवान्तराधिष्ठितेषु ब्रीहियवादिषु
कर्मिणां संबन्धमात्रमेव न भोग इति भावः ॥ २५ ॥
रेतस्सिग्योगोऽथ ॥ २६ ॥

ब्रह्मसूत्रवृत्तिः । [अ०३ पा०२ अथ श्रीहियवादिसंबन्धानन्तरं धान्यसंबन्धिनां कर्मिणामन्नद्वारेण रेतस्सिम्योगः रेतस्सिचा पुरुषेण योगः संबन्धः पुरुषस्य कुक्षौ प्रवेश इत्यर्थः ॥ २६ ॥ योनेः शरीरम् ॥ २७॥ पुरुषकुक्षिस्थानां कर्मिणां रेतोद्वारा योनेः संबन्धात् योषित्कुक्षौ शरीरमुत्पद्यते गर्भो भवतीत्यर्थः । कर्मिणां गमनागमनादिबहुक्लेशवत्त्वात स्वर्गनरकसाधनानि पुण्यपापानि परित्यज्य निरन्तरं ब्रह्मविचार एव कर्तव्य इति सर्वस्यास्य पादस्य तात्पर्यमिति भावः ॥ २७ ॥ इति ब्रह्मसूत्रवृत्तौ तृतीयाध्यायस्य प्रथमः पादः। तृतीयाध्यायस्य द्वितीयः पादः । SEEEEEEEEEEEERO- CIREDMeso संध्याधिकरणम् ॥१॥ निष्प्रपञ्चस्य निर्धर्मकस्य निर्गुणस्य जीवस्य निष्प्रपञ्चनिधर्मकान- गुणब्रह्माभेदकथनाय जीवसंबन्धिनीनां स्वप्नसुषुप्तिजाग्रन्मूविस्थानां चतसृणामपि मिथ्यात्वं साधयितुं प्रथमं पूर्वपक्षमाह- पूर्वपक्ष:- सन्ध्ये सृष्टिराह हि ॥१॥ सन्ध्ये स्वप्नावस्थायां सृष्टिः स्वप्नप्रपञ्चसृष्टिः पारमार्थिकी । कुतः ? आह हि न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान रथयोगान् पथस्सृजते ' इति श्रुतिः स्वप्नप्रपंचसृष्टिम् आह हि प्रति- पादयति खलु । तथा च श्रुतिप्रतिपादितत्वात् स्वप्नप्रपञ्चस्य सत्यत्वं वक्तव्यम् । तथा च स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वानुमान वेदान्तिनामनुपपन्नमिति भावः ॥ १॥ स्वप्नप्रपञ्चस्य सत्यत्वे हेत्वन्तरमाह- निर्मातारं चैके पुत्रादयश्च ॥२॥ एके शाखिनः ' यत्रतत्स्वप्नया चरति कामं कामं पुरुषो निर्मिमाणः' इति श्रुतौ जीवं स्वेच्छानुसारेण स्वप्नप्रपञ्चस्य निर्मातारं प्रतिपादय- न्ति । तथाच कर्तुरिच्छानुसारेण उत्पाद्यमानत्वादपि स्वप्नकालानाः DHANE अधि०१] अद्वैतमञ्जरी। पुत्रमित्रकलत्रादयः पदार्थाः सत्या एवाङ्गीकर्तव्याः । मिथ्यात्वाङ्गीकारे कत्रिच्छाधीनत्वानुपपत्तेः । नहि मिथ्याभूतस्य शुक्तिरजतरज्जु- सादेः कत्रिच्छाधीनत्वं लोके दृष्टमित्यर्थः । तथा च जीवस्य स्वप्नप्रपञ्चकर्तृत्वेन स्वप्नप्रपञ्चं प्रति उपादानकारणत्वेन च सप्रपञ्चत्वात् निष्प्रपञ्चब्रह्माभिन्नत्वमप्यनुपपन्नमिति भावः ॥ २॥ सिद्धान्त:- मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३॥ स्वप्नकालीनं जगत् मायामानं मिथ्याभूतम् । कुतः ? कात्स्न्येन उपादाननिमित्तकारणमेलनेन अनभिव्यक्तस्वरूपत्वात् अनुत्पन्नस्वरूप- त्वात् वासीटऋतक्षकदारुप्रभृतिसामग्री विनाप्युत्पाद्यमानत्वात् स्वप्नका- लीनस्य रथादिप्रपञ्चस्य शुक्तिरजतादिवत् मिथ्यात्वमेव वक्तव्यमित्यर्थः । यच्चोक्तम् “अथ रथान् रथयोगान् पथस्सृजत' इति श्रुतिप्रतिपाद्यत्वात् स्वप्नप्रपंचस्य सत्यत्वमिति, तन्न। नहि श्रुतिप्रतिपाद्यत्वमात्रेण सत्यत्वम् । ग्रावप्लवनादेरपि सत्यत्वप्रसङ्गात् । किं तु तात्पर्येण श्रुतिप्रतिपाद्यस्यैव सत्य- त्वम् । न च स्वप्नप्रपञ्चस्य तात्पर्येण प्रतिपाद्यत्वमस्ति। न तत्र रथाः' इति पूर्ववाक्ये पारमार्थिकरथादीनां प्रतिषिद्धत्वात् । यचोक्तम् 'कामं कामं पुरुषो निर्मिमाणः' इति श्रुत्या कर्बिच्छाधीनत्वप्रतिपादनात् स्वप्नप्रपञ्चस्य सत्य- त्वमिति, तदपि अनुपपन्नम् । लोकानुभवविरोधेन कस्या अपि श्रुतेः स्वार्थतात्पर्याभावात् । नहि लोके जीवेच्छानुसारेण स्वप्नप्रपञ्चा जा- यन्ते अनिष्टानां दुःस्वप्नानामपि दर्शनात् ॥ ३ ॥ सूचकश्व हि श्रुतेराचक्षते च तद्विदः ॥ ४॥ स्वप्नः सूचकः भविष्यदिष्टानिष्टयोः । कुतः ? श्रुतेः 'पुरुषं कृष्णं कृष्ण- दन्तं पश्यति स एनं हन्ति' इत्यादिश्रुतिबलात् । तद्विदः स्वप्ना- 'ध्यायविदश्च स्वप्नप्रपञ्चं भविष्यदिष्टानिष्टसूचकमाचक्षते वदन्ति । तथा च भविष्यदिष्टानिष्टसूचकत्वादपि स्वप्नप्रपञ्चस्य मिथ्यात्वमङ्गीकर्तव्यम् । भविष्यदिष्टानिष्टसूचकानां गन्धर्वनगरादीनामुत्पातानां प्रायेण मिथ्या- त्वस्य लोकप्रसिद्धत्वादिति भावः । तथा च स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वानुमानं निष्प्रपञ्चस्य जीवस्य निष्प्रपञ्चब्रह्माभि- नत्वं च उभयमप्युपपन्नमिति भावः । स्वप्नावस्थाया मिथ्यात्वसमर्थनेन सुषुप्तिजाग्रन्मूविस्थानामपि स्वप्नावस्थादृष्टान्तेन मिथ्यात्वमर्थात् सि- द्धमिति द्रष्टव्यम् ॥ ४॥ , ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०२ AS जीवब्रह्मणोरभेदाङ्गीकारे जीवस्य आनन्दादिरूपत्वं सर्वदा किमर्थं न भासत इत्याशङ्कयाह- पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥५॥ पराभिध्यानात् परेषां देहेन्द्रियान्तःकरणानामभिध्यानादैक्या- ध्यासादस्य जीवस्य शुद्धबुद्धज्ञानानन्दादिस्वरूपत्वं तिरोहितमावृतम् । ततः आवृतत्वाद्धेतोः अस्य जीवस्य बन्धविपर्ययौ कर्तृत्वभोक्तृत्वादि- बन्धः, नाहमीश्वर इति भ्रमश्च उभावप्युपपन्नावित्यर्थः ॥५॥ एवं जीवत्वमपि देहक्याध्यासाधीनमित्याह- देहयोगाद्वा सोऽपि ॥ ६॥ परमार्थतो ज्ञानानन्दस्वभावस्य जीवस्य सोऽपि जीवभावोऽपि देह- योगात् देहैक्याच्यासादित्यर्थः । सूत्रद्वयमपि प्रसङ्गादागतं, न प्रकृतोप- युक्तमिति द्रष्टव्यम् ॥ ६॥ तदभावाधिकरणम् ॥३॥ एवं जीवस्य स्वप्नावस्थां विचार्य सुषुप्त्यवस्थां विचारयति- तदभावो नाडीषु तछुतेरात्मनि च ॥७॥ जाग्रवस्थायां स्वप्नावस्थायां च देहायभिमानविशिष्टो जीवः प्त्यवस्थायां तदभावः सन् तस्य देहाद्यभिमानस्य अभावो यस्य सः देहा- द्यभिमानरहितः सन् नाडीषु च आत्मनि च परमात्मनि च चकारात् हृत्पुण्डरीके च शेते नाडीहृत्पुण्डरीकादिप्राकारप्रवेशनद्वारा हृत्पुण्डरीका- वच्छिन्नब्रह्मरूपे प्रासादे जीवाख्यो राजा शेत इत्यर्थः । कुतः ? तछूतेः 'आसु तदा नाडीषु सुप्तो भवति नाडीभ्यः प्रत्यवसृप्य पुतिति शेते पुरीततः प्रत्यवसृप्य सति शेते सति संपद्य न विदुः सति संपत्स्यामहे इति श्रुतौ नाडीपुरीतद्वारा जीवस्य पुरीतदवछिन्ने ब्रह्मणि सुषुप्तिदशायां शयनश्रवणादित्यर्थः । ' आसु तदा नाडीषु सुप्तो भवति' इति श्रुतेरय- मर्थः-जीवाख्यो राजा जाग्रदवस्थायां स्वप्नावस्थायां जाग्रत्प्रपञ्चस्वप्नप्रप- ञ्चाख्ययोः स्वराष्ट्रयोः संचारं कृत्वा शरीराख्यं स्वपुरं प्रविश्य तदनन्तरं नाडीः प्रविशति । नाडीभ्यो निर्गत्य हृत्पुण्डरीकं प्रविशति । हृत्पुण्डरी- कान्निर्गत्य हृत्पुण्डरीकावच्छिन्नब्रह्मरूपे प्रासादे शेत इत्यर्थः ॥ ७ ॥ सुषुप्त्यवस्थां निरूप्य जाणवस्थां निरूपयति- ?

अधि०३] अद्वैतमञ्जरी। अतः प्रबोधोऽस्मात् ॥ ८॥ अतःसुषुप्त्यवस्थासमाप्त्यनन्तरं हृत्पुण्डरीकावच्छिन्ने ब्रह्माण शयानो जीवः प्रबोधः प्रकृष्टो बोधः अभिमानो यस्य सः, शरीराद्यभिमानविशिष्टः सन् अस्मात् हृत्पुण्डरीकावच्छिन्नब्रह्मलक्षणात् प्रासादादुत्थाय जाग्रत्प्रप- चाख्यराष्ट्रदर्शनाय हृत्पुण्डरीकनाडीप्राकारद्वारा शरीराख्यात् पुरात् ब- हिर्निर्गच्छतीत्यर्थः । स यदा प्रतिबुध्यते यथाग्नेज्वलतः सर्वा दिशो विस्फु- लिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्रा- णेभ्यो देवा देवेभ्यो लोकाः' इति श्रुतिरेवास्मिन्नर्थे प्रमाणमिति भावः ॥८॥ कर्मानुस्मृत्यधिकरणम् ॥ ३ ॥ पूर्वदिनीया एव जीवाः सुषुप्तिदशायां सूक्ष्मावस्थापन्नान्तःकरणवि- शिष्टतया हृत्पुण्डरीकावच्छिन्ने ब्रह्मणि विलीनाः सन्तः उत्तरदिनेषु स्थूलावस्थापनान्तःकरणविशिष्टतया अभिव्यक्ता भवन्ति वा, उत पूर्व- दिनीयान्तःकरणविशिष्टानां जीवानां सर्वात्मना सुषुप्त्यवस्थायां ब्रह्म- ण्यात्यन्तिकलये सति अभिनवान्तःकरणविशिष्टा अभिनवा जीवा उत्पद्यन्ते वा इति संशये सति निर्णयमाह- स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ यस्तु पूर्वदिनीयो जीवः सुषुप्त्यवस्थायां हृत्पुण्डरीकावच्छिन्नब्रह्मणि लीनः, स एव उत्तरदिने स्थूलान्तःकरणविशिष्टतया अभिव्यक्तो भवति । कुतः ? कर्मानुस्मृतिशब्दविषिभ्यः पूर्वदिने कृतस्य लौकिकस्य वैदिकस्य च कर्मणः अस्मिन्दिने स्मरणात् ‘त इह व्याघ्रो वा सिंहो वा ' इति शब्दात् 'ज्योतिष्टोमेन स्वर्गकामो यजेत ' इत्यादिविधिवाक्याच एतेभ्यो हेतुभ्य इत्यर्थः । प्रतिदिनं भिन्नभिन्नजीवाङ्गीकारे अन्यस्य ज्योतिष्टोमे कर्तृत्वम् , अन्यस्य स्वर्गभोक्तृत्वमिति स्वर्गकामस्य ज्योतिष्टोमविधायक वाक्यमप्रमाणं स्यादित्यर्थः । 'त इह व्याघ्रो वा सिंहो वा ' इत्यारभ्य यद्यद्भवन्तीति वाक्यमप्रमाणं स्यात् । तस्य वाक्यस्य पूर्वदिनीयाना- मेव जीवानां सुषुप्तिकाले सूक्ष्मरूपान्तःकरणविशिष्टानामुत्तरदिनेषु स्थूलावस्थान्तःकरणविशिष्टतया अभिव्यक्तिप्रतिपादकत्वादिति भावः । पूर्वदिने अनुभूतस्य कर्मणः अस्मिन्दिने स्मरणं न स्यात् । अन्येनानु- भूतस्य अन्येन स्मरणासंभवादिति भावः ॥९॥ .

ब्रह्मसूत्रवृत्तिः। [अ०३ पा०२ meman मुग्धाधिकरणम् ॥ ४॥ जाग्रदवस्थां निरूप्य मूर्छावस्थां निरूपयति- मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ १०॥ मुग्धे मूर्छावस्थायां हृत्पुण्डरीकावच्छिन्ने ब्रह्मणि देहायभिमानवि- शिष्टस्य जीवस्य अर्धसंपत्तिः अर्धलयः, न तु सुषुप्त्यवस्थायामिव सर्वा- स्मना अभिमानलयः । मूर्छितस्य बाह्यपदार्थज्ञानाभावेऽपि आन्तरदुःखा- नुसंधानस्य विद्यमानत्वेन देहाद्यभिमानस्यापि लेशतोऽङ्गीकार्यत्वात् तथा च परिशेषात् जाग्रत्स्वप्नसुषुप्त्यवस्थासु अन्तर्भावासंभवात् मूर्छा- वस्था अवस्थात्रयात् भिन्नैवाङ्गीकर्तव्येत्यर्थः ॥ १० ॥ उभयलिङ्गाधिकरणम् ॥६॥ इयता सूत्रसंदर्भेण त्वंपदार्थस्य निष्प्रपञ्चत्वं प्रसाध्य इदानी तत्प- दार्थस्य निष्प्रपञ्चत्वं साधयति- न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ केचित् ब्रह्मणः निर्गुणत्वं सगुणत्वं च उभयमपि स्वाभाविक वास्तव चेति वदन्ति । अन्ये तु निर्गुणत्वं स्वाभाविकं वास्तवं च, सगुणत्वं तु औपाधिकमपि वास्तवमेव । उपाधीनां पृथिव्यादीनां सत्यत्वादिति वदन्ति । आद्यमतं निराकरोति-परस्य परमात्मन: उभयलिङ्गं भाव- प्रधानो निर्देशः, उभयलिङ्गत्वम् उभयस्वभावकत्वं स्वाभाविकसगुणत्वं स्वाभाविकनिर्गुणत्वं च न संभवति । नकारस्य अत्राप्यन्वयः । स्वाभा- विकसगुणत्वनिर्गुणत्वयोरेकत्र विरोधादिति भावः । द्वितीयमतं निरा- करोति-न स्थानत इति । स्थानतः पृथिव्याद्यपाधितोऽपि पृथिव्यादि- पञ्चमहाभूतावच्छिन्नस्य परमात्मनः वास्तवं सगुणत्वं न संभवति । पृ- थिव्याधुपाधीनां मिथ्यात्वेन पृथिव्यभिन्ने ब्रह्मणि तत्प्रयुक्तसगुणत्व- स्यापि मिथ्यात्वादिति भावः । पृथिव्याद्युपाधीनां मिथ्यात्वे प्रमाण- -माह-सर्वत्र हि सर्वेष्वपि वेदान्तेषु 'नेह नानास्ति' इत्यादिश्रुतिभिः पृथिव्यादिप्रपञ्चस्य मिथ्यात्वं प्रतिपाद्यत इत्यर्थः ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ भेदात् सगुणत्वप्रतिपादनात् 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस: इत्यादिवाक्यात् ब्रह्मणः सगुणत्वमेव वास्तवं, न निर्गुणत्वमिति चेन्न

आधि०५]
अद्वैतमञ्जरी।
६९.
।
प्रत्येकं सर्वास्वपि शाखासु अतद्वचनात् ' अशब्दमस्पर्शमरूपमव्ययम् ।
इत्यादिवाक्यैः निर्गुणत्वस्य प्रतिपादितत्वात् निर्गुणत्वमेव वास्तवं,
सगुणत्वं तु मिथ्याभूतमित्यर्थः ॥ १२ ॥
अपि चैवमेके ॥१३॥
किं च एके शाखिनः 'अस्थूलमनण्वह्रस्वमदीर्घमलोहितम् ' इ-
त्यादिश्रुतिषु एवं निर्गुणत्वमेव प्रतिपादयन्तीत्यर्थः ॥ १३ ।।
सगुणत्वप्रतिपादकनिर्गुणत्वप्रतिपादकवाक्ययोर्मध्ये कस्य प्राबल्यं,
कस्य दौर्बल्यमित्याशङ्कायामाह-
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
ब्रह्म अरूपवदेव निर्गुणमेव । कुतः ! तत्प्रधानत्वात् सर्वेषां वेदान्तानां
उपक्रमोपसंहारादिलिङ्गैः निर्गुणब्रह्मण्येव तात्पर्यवत्त्वादित्यर्थः । तथाच
निर्गुणत्वप्रतिपादकवाक्यानामेव स्वार्थे तात्पर्यवत्त्वात् प्राबल्यं सगुणत्व-
प्रतिपादकवाक्यानां तु स्वार्थे तात्पर्याभावात् दुर्बलत्वमित्यर्थः ॥ १४ ॥
यदि सगुणत्वं मिथ्याभूतं तर्हि ब्रह्मलोकप्राप्त्यादिफलोद्देशेन सत्यसंक-
ल्पत्वादिगुणविशिष्टब्रह्मविषयकोपासनाविधायकानां दहरशाण्डिल्योप-
कोसलवैश्वानरादिवाक्यसंदर्भाणामप्रामाण्यं स्यात् । मिथ्याभूतगुण-
विशिष्टब्रह्मोपासनया ब्रह्मलोकप्राप्त्यादिफलजनकत्वासंभवादित्या-
शङ्कयाह-
प्रकाशवच्चावैयर्थ्यम् ॥ १५॥
यथा गवाक्षमध्यगतस्य सूर्यप्रकाशस्य औपाधिकहूस्वत्वदीर्घत्ववर्तुलत्वा-
दिमिथ्याभूतधर्मविशिष्टस्यापि अन्धकारशीतादिनिवर्तनसामर्थ्यम् , एवं
पृथिव्याशुपाधिप्रयुक्तमिथ्याभूतसर्वगन्धत्वसर्वरसत्वगुणविशिष्टब्रह्मविषय-
कोपासनाया अपि 'यादृशो यक्षस्तादृशो बलिः' इति न्यायेन मि-
थ्याभूतब्रह्मलोकावाप्त्यादिफलजननसामर्थ्यसंभवात् अवैयर्थं सगुणो-
पासनाविधायकवाक्यानामप्रामाण्यं नास्तीत्यर्थः ॥ १५ ॥
एवं सगुणोपासनावाक्यानामप्रामाण्यं परिहृत्य निर्गुणत्वे प्रमा-
णान्तरमाह-
आह च तन्मात्रम् ॥ १६ ॥
तन्मात्रं चैतन्यमानं चैतन्यैकस्वभावम् आह च कृत्स्नः पज्ञानघन
एव' इति श्रुतिः ॥ १६ ॥

७० Home ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०२ दर्शयति चाथो अपि स्मयते ॥ १७ ॥ निष्कलं निष्क्रियं शान्तम् । इत्यादिश्रुतिब्रह्मणो निर्गुणत्वं दर्श- यति प्रतिपादयति । अथो तथा स्मर्यते- अव्यक्तोऽयमचिन्त्योऽयम- विकार्योऽयमुच्यते ' इत्यादिस्मृतिष्वपि निर्गुणत्वमेव प्रतिपाद्यत इत्यर्थः ॥ १७ ॥ सगुणत्वस्य मिथ्यात्वे प्रमाणान्तरमाह- अत एव चोपमा सूर्यकादिवत् ॥ १८॥ यतः कारणात् ब्रह्मणः पृथिव्याधुपाधिप्रयुक्तं मिथ्याभूतं सगुणत्वम् अत एव 'यथा ह्ययं ज्योतिरात्मा विवस्वान् । 'एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ' इत्यादिश्रुतिस्मृतिषु सूर्यकादिवत् सूर्यचन्द्रप्रतिबिम्बवदि- त्युपमा दृष्टान्त उपपन्न इत्यर्थः । यथा जलादौ प्रतिबिम्बिते चन्द्रे सूर्ये च जलनिष्ठाः हस्वत्वदीर्घत्वचलत्वाधोदेशस्थत्वादयो धर्मा आरोप्यन्ते, एवं पृथिव्यादिपञ्चमहाभूतलक्षणोपाधिषु प्रतिबिम्बिते परमात्मनि पृथि- व्यादिधर्माः सर्वगन्धत्वसर्वरसत्वसर्वरूपत्वसर्वस्पर्शत्वसर्वशब्दत्वादयः परमात्मन्यारोप्यन्ते ततश्चारोपितत्वात् सर्वगन्धत्वादिधर्मा मिथ्याभूता एव, न वास्तवा इत्यर्थः ॥ १८ दृष्टान्तदान्तिकयोधय शङ्कते- पूर्वपक्ष:- अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९॥ अम्बुवत् जलवत् पृथिव्याद्युपाधीनां स्वच्छतया अधिकस्वच्छत्वेन प्रतीयमानत्वाभावात् तथानं पृथिव्याधुपाधिषु प्रतिबिम्बितत्वं ब्रह्मणो न घटत इत्यर्थः ।। १९ ॥ सिद्धान्त:- वृद्धिहासभाक्त्वमन्तर्भावादुमयसामञ्जस्यादेवम् ॥ २० ॥ परमात्मनः अस्वच्छेषु पृथिव्याधुपाधिषु प्रतिबिम्बितत्वाभावेऽपि पृथिव्याशुपाधीनाम् अन्तः मध्ये भावात् अधिष्ठानत्वेन भासकत्वेन च वि. द्यमानत्वात् पृथिव्याधुपाधिप्रयुक्तमिथ्याभूतदीर्घत्वहस्वत्वसर्वगन्धत्वसर्व- रसत्वादिधर्मभाक्त्वं धर्माश्रयत्वं पृथिव्याद्युपाध्यवच्छिन्ने परमात्मन्यारो- प्यते,एवंसति एतावन्मात्रेण उभयसामञ्जस्यात् उभयोः सूर्यचन्द्रप्रतिबिम्ब- दृष्टान्तयोःसामञ्जस्यात् उपपन्नत्वान्न दृष्टान्तदाान्तिकवैषम्यामित्यर्थः२० अधि०६] अद्वैतमञ्जरी। ७१ तथा च गौणप्रतिबिम्बत्वमेव ब्रह्मणः, न मुख्यप्रतिबिम्बत्वमिति भावः । अन्तःकरणाद्युपाधिषु मुख्यप्रतिबिम्बत्वमपि संभवतीत्याह- दर्शनाच ॥ २१॥ ब्रह्मादिपिपीलिकान्तसकलजीवान्तःकरणानामतिस्वच्छत्वस्य लोके द. र्शनादन्तःकरणेषु प्रतिबिम्बिते ब्रह्मणि सत्यकामत्वसत्यसंकल्पत्वादि- मिथ्याभूतधर्मारोपसंभवाच्च सूर्यचन्द्रयोरिव मुख्यप्रतिबिम्बत्वमपि ब्रह्मणः संभवतीति भावः ॥ २१ ॥ प्रकृतैतावत्त्वाधिकरणम् ॥ ६ ॥ अथात आदेशो नेति नेति' इति श्रुतावविशेषेण प्रपञ्चब्रह्मणो- रुभयोरपि प्रतिषेध्यमानत्वात् प्रपञ्चब्रह्मणोरुभयोरपि मिथ्यात्वमङ्गी- कर्तव्यम् । तथा च मिथ्याभूतस्य ब्रह्मणः मिथ्याभूतप्रपञ्चाधिष्ठानत्व- मनुपपन्नमिति शून्यवादिनो वदन्ति, तन्मतं निराकरोति- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः॥२२॥ 'अथात आदेशो नेति नेति' इति श्रुतिः प्रकृतैतावत्त्वं 'द्वे वाव ब्रह्मणो रूपे । इति पूर्ववाक्ये प्रकृतं प्रतिपादितमेतावत्त्वम् एतावन्मानं मूर्ता- मूर्तात्मकप्रपञ्चमात्रं प्रतिषेधति न परमात्मानम् । कुतः ? ततः प्रपञ्चप्र- तिषेधानन्तरं भूयः सत्यस्य सत्यम् ' इत्युत्तरवाक्यं सद्रूपपञ्चमहा- भूतात्मकप्रपञ्चाधिष्ठानस्य ब्रह्मणः सत्यत्वं पारमार्थिकत्वं ब्रवीति प्रति- पादयतीत्यर्थः । तथा च पारमार्थिकस्य ब्रह्मनः मिथ्याभूतप्रपञ्चा- धिष्ठानत्वमुपपन्नमित्यर्थः । 'द्वे वाव ब्रह्मणो रूपे' इति श्रुतेरयमर्थ:- परमार्थतः अरूपस्य ब्रह्मणः मिथ्याभूते द्वे रूपे स्तः । मूर्त पृथिव्यप्ते- जांसि, अमूर्त वाय्वाकाशौ । अथात आदेशो नेति नेति अथ मूर्तामूर्ता- स्मकप्रपञ्चस्वरूपकथनानन्तरं प्रपञ्चाधिष्ठानस्य ब्रह्मण आदेश उप- देशः क्रियते । उपदेशमेवाह-नेति नेति । इदं सत्यं न भवति इदं सत्यं न भवतीत्येवंरूपेण सर्वस्य प्रपञ्चस्य सत्यत्वनिषेधे सति मिथ्याभूतप्रप- ञ्चस्य सत्यमधिष्ठानमङ्गीकर्तव्यम् । तदेव ब्रह्मेत्यर्थः । तदेव स्पष्टयति- सत्यस्य सत्यं सत् पृथिव्यप्तेजांसि, त्यत् वाय्वाकाशौ । सत्त्यद्रूपस्य प्रपञ्चस्य अधिष्ठानभूतं वस्तु सत्यं पारमार्थिकमित्यर्थः ॥ २२ ॥ यदि प्रपञ्चाधिष्टानं सत्यं ब्रह्माङ्गीक्रियते, तर्हि सत्यब्रह्मणो विभुत्वेन सर्वत्र विद्यमानत्वात् सर्वेषां जीवानां मनसा गृह्यतेत्याशङ्कयाह- ७ । HAL ब्रह्मसूत्रवृत्तिः। [अ०३ पा०२ ०२ , यन्मनसा.न , तदव्यक्तमाह हि ॥२३॥ तत् ब्रह्म अव्यक्तम् अविद्यावृतत्वात् सर्वेषां जीवानां मनसा अग्रा- ह्यम् । कुतः ? आह हि 'नीहारेण प्रावृता' इत्यादिश्रुतिः ब्रह्मणः अविद्यावृति प्रतिपादयतीत्यर्थः ॥ २३ ॥ तार्ह केषां मनसा ब्रह्म गृह्यत इत्याशङ्कायामाह- अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ ब्रह्मसाक्षात्कारेण अविद्यावरणे नष्टे सति अनावृतं ब्रह्मस्वरूपं शुद्धा न्त:करणेन ज्ञानिनः संराधने ध्यानकाले साक्षात्कुर्वन्ति । कुतः ! प्रत्य क्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । ततस्तु तं पश्यते निष्कर ध्यायमानः, दृश्यते त्वत्र्यया बुद्ध्या ' इत्यादिश्रुतिः, 'यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।।' इति स्मृतिः, ताभ्यामित्यर्थः । मनुते । इत्यादिश्रुतिषु अविशुद्धान्तःकरणग्राह्यत्वं ब्रह्मणः प्रतिषिध्यते ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः । दृश्यते स्वत्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः' इत्यादिश्रुतिषु विशुद्धान्तःकर- 'णग्राह्यत्वं प्रतिपाद्यत इति नानयोः श्रुत्योर्विरोध इति भावः ॥ २४ ॥ एवं जीवब्रह्मणोः त्वंपदार्थतत्पदार्थयोः निष्प्रपञ्चत्वं प्रतिपाद्य इदा- नीमुभयोरभेदं प्रतिपादयति- प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ प्रकाशादिवत् गवाक्षद्वयावच्छिन्नसूर्यप्रकाशयोरिव जीवब्रह्मणोरपि परमार्थतः अवैशेष्यम् अभेद् एवाङ्गीकर्तव्यः । प्रकाशश्च नाहमीश्वर इति भेदप्रतिभासश्च कणि उपाधौ सति मायालिङ्गशरीरस्थूलशरीरल- क्षणोपाधित्रयप्रयुक्तमिथ्याभूतविभेदविषयक इत्यर्थः। कुतः ? अभ्यासात् तत्त्वमसि अहं ब्रह्मास्मि' इत्यभेदबोधकबहुश्रुतिबलादित्यर्थः ॥ २५ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥२६॥ अतः जीवब्रह्माभेदसाक्षात्कारेण जीवेश्वरोपाधिभूतयोः लिङ्गशरी- रमाययोः निवृत्त्यनन्तरं शुद्धो जीवः शुद्धेनानन्तेन ब्रह्मणा अभिन्नो भवति । मिथ्याभूतमपि भेदं परित्यज्यात्यन्ताभेदं प्राप्नोतीत्यर्थः । तत्र प्रमाणमाह तथाहि लिङ्गं तथा ब्रह्मसाक्षात्कारानन्तरं जीवब्रह्मणोर- ?

अधि०६] अद्वैतमञ्जरी। ७३ , - त्यन्ताभेदे 'ब्रह्म वेद ब्रह्मैव भवति । इति ब्रह्मविदाप्नोति परं यथो- दकं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतमः' इत्यादिवाक्यमेव लिङ्गं ज्ञापकमित्यर्थः ॥ २६ ।। मोक्षपर्यन्तं जीवब्रह्मणोर्वास्तवौ भेदाभेदौ, जीवब्रह्माभेदसाक्षात्का- रेण वास्तवभेदे नष्टे सति मोक्षकाले जीवब्रह्मणोरत्यन्ताभेद इति केचन वर्णयन्ति, तन्मतं निराकत प्रथमं पूर्वपक्षमाह- पूर्वपक्षसूत्रम्- उभयव्यपदेशात्त्वहिकुण्डलवत् ॥२७॥ उभयव्यपदेशात् 'द्वा सुपर्णा' इत्यादिश्रुतिषु भेदव्यपदेशात् तत्त्वम- सीत्यादिश्रुतिषु अभेदव्यपदेशात् जीवब्रह्मणोर्भेदाभेदावङ्गकिर्तव्यौ । अहि- कुण्डलवत् । यथा कुण्डलीभूतसर्पस्य दीर्घाभूतसर्पस्य च सर्पत्वेन एकत्वेऽपि यथा ह्रस्वत्वदीर्घत्वरूपविरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गीकर्तव्या- वित्यर्थः ॥ २७ ॥ पर्वपक्षे दृष्टान्तान्तरमाह- प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ यथा सूर्यप्रभायाः प्रभाश्रयसूर्यमण्डलस्य च तेजस्त्वात् तेजस्त्वेना- विशेषेऽपिव्यापकत्वपरिच्छिन्नत्वरूपविरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गी- कृतौ, एवं जीवब्रह्मणोरपि विरुद्धपरिमाणवत्त्वात् भेदाभेदावङ्गीकर्त- व्यावित्यर्थः । इदमुपलक्षणम् । संकुचितविस्तृतपटादिबहुदृष्टान्तानुरो- धेनापि जीवब्रह्मणोर्भेदाभेदावङ्गीकर्तव्यावित्यर्थः ॥ २८॥ सिद्धान्तसूत्रम्- पूर्ववद्वा ॥ २९ ॥ पूर्वसूत्रोक्तगवाक्षद्वयावच्छिन्नसूर्यप्रकाशदृष्टान्तेन जीवब्रह्मणोरभेद एव वास्तवः, भेदस्तु मिथ्याभूत एव । अणुत्वविभुत्वपरिमाणयोरुभयो- रपि लिङ्गशरीरमायोपाधिप्रयुक्तत्वेन मिथ्याभूतत्वेन वास्तवभेदप्रयोजका- भावादित्यर्थः । कुण्डलीभूतदीर्घाभूतसर्पादिदृष्टान्तेषु सर्वेष्वपि अभेद एव वास्तवः, भेदस्तु मिथ्याभूत एव । वास्तवयोर्भेदाभेदयोः सहावस्था- नस्य विरुद्धत्वादिति भावः ॥ २९ ।। प्रतिषेधाच॥ ३० ॥ ७ ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०२ 'नान्योऽतोऽस्ति द्रष्टा ' इत्यादिषु श्रुतिषु जीवब्रह्मणोर्भेदस्य प्रतिषि- द्धत्वादपि मिथ्याभूत एव जीवब्रह्मणोर्भेदः, न वास्तव इत्यर्थः । अतः पर- मात्मनः अन्यो भिन्नः द्रष्टा जीवो नास्ति । जीवब्रह्मणोर्वास्तवसत्यत्वं नास्तीत्यर्थः । इदमुपलक्षणम् । पारमार्थिकभेदाभेदवादिमते भेदज्ञान- स्यापि प्रमात्वात् अभेदप्रमायाः प्रमितवास्तवभेदनिवर्तकत्वं न संभवति । प्रमायाः भ्रमविषयीभूतपदार्थमात्रनिवर्तकत्वेन प्रमाविषयीभूतपदार्थ- निवर्तकत्वस्य लोके अदर्शनात् । किं च भेदाभेदयोः औपाधिकत्वेन परस्परविरोधाभावादपि अभेदज्ञानस्य भेदज्ञाननिवर्तकत्वमनुपपन्नम् । न च जीवब्रह्मणोरत्यन्ताभेदविषयकप्रमोत्पत्त्या भेदध्वंसोत्पत्तिरिति वाच्यम् । भेदविरोधित्वविशिष्टाभेदविषयकप्रमोत्पत्त्यनन्तरं भेदध्वं- सोत्पत्तरिति ॥ ३० ॥ एवं भेदाभेदवादिनो भट्टभास्करस्य मतं निराकृत्य अत्यन्तभेदवा- दिनां नैयायिकानां मतं निराकरोति- सेतून्मानाधिकरणम् ॥ ७॥ पूर्वपक्ष:- परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ ब्रह्म अतः जीवात् परं भिन्नम् । कुतः ? सेतून्मानसंबन्धभेदव्यप- देशेभ्यः हेतुभ्यः 'एष सेतुर्विधरण एषां लोकानामसंभेदाय ' इति श्रुतौ जीवब्रह्मणोनियम्यनियामकभावरूपसेतुत्वस्य व्यपदेशात् । उन्मानव्य- पदेशात् 'वालाग्रशतभागस्य शतधा कल्पितस्य च । आकाशवत्सर्व- गतश्च नित्यः' इत्यादिश्रुतिषु जीवब्रह्मणोः अणुत्वविभुत्वरूपविरुद्धपरि- माणश्रवणात् । संबन्धव्यपदेशात् ‘सता सोम्य तदा संपन्नो भवति' इति सद्रूपे ब्रह्मणि संबन्धश्रवणात् । भेदश्रवणात् 'द्वा सुपर्णा ' इत्यादिश्रुतिषु भेदव्यपदेशाच जीवेश्वरयोर्भेद एवाङ्गीकर्तव्य इत्यर्थः ॥ ३१ ॥ सेतुव्यपदेशस्य परिहारमाह- सामान्यात्तु ।। ३२॥ यथा लोके सेतूनां केदारमर्यादाव्यवस्थापकत्वम् , एवं ब्रह्मणोऽपि . १ अन्योन्याश्रयात् । तथा हि अत्यन्ताभेदो नाम भेदध्वंससहकृताभेदः । तथा च भेदध्वंसे उत्पन्ने भेदध्वंसविशिष्टाभेदविषयकप्रमोत्पत्तिः भेदध्वंसविशिष्टाभेद- विषयकप्रमोत्पत्त्यनन्तरं भेदध्वंसोत्पत्तिरिति पाठः ।

अधि०७] अद्वैतमजरी। ७५ DIBAR वर्णाश्रममर्यादाव्यवस्थापकत्वेन सामान्यात् सेतुसादृश्यात् सेतुत्वमुक्तं, तच्च ब्रह्मसाक्षात्कारपर्यन्तं जीवब्रह्मणोमिथ्याभूतभेदाङ्गीकारात् तमादाय उपपन्नमिति भावः ।। ३२ ।। उन्मानव्यपदेशस्य परिहारमाह- बुद्धयर्थः पादवत् ॥३३॥ जीवब्रह्मणोरणुत्वविभुत्वव्यपदेशः बुद्धयर्थः तत्पदार्थत्वंपदार्थविवे- कार्थः । पादवत् यथा 'पादोऽस्य विश्वा भूतानि' इति श्रुतौ ब्रह्माण्ड- मध्यवर्तिनो जीवचैतन्यस्य एकपादत्वं, ब्रह्माण्डात् बहिः विद्यमानस्य ब्रह्मचैतन्यस्य त्रिपादत्वं च त्वंपदार्थतत्पदार्थविवेकार्थमुक्तं, तद्वदित्यर्थः । तत्त्वंपदार्थयोरभेदज्ञानस्य तत्त्वंपदार्थज्ञानं विना असंभवात् । तत्त्वंपदा- र्थज्ञानाथै स्थूलारुन्धतीन्यायेन अन्तःकरणविशिष्टस्य जीवस्याणुत्वं, मायाविशिष्टस्य ब्रह्मणः विभुत्वं चोक्तं न तु तत्र श्रुतेस्तात्पर्यम् । अणुपरिमाणविभुपरिमाणयोः मिथ्यात्वेन तत्र श्रुतेस्तात्पर्यानुपपत्तेरिति भावः ॥ ३३ ॥ संबन्धभेदव्यपदेशयोरुभयोः परिहारमाह- स्थानविशेषात् प्रकाशादिवत् ॥ ३४ ॥ स्थानविशेषात् ब्रह्मणः मायोपाधिविशिष्टत्वात् जीवस्य सुषुप्तिकाले- ऽपि सूक्ष्मान्तःकरणविशिष्टत्वात् विशिष्टयोंमिथ्याभेदस्य ब्रह्मसाक्षा- कारपर्यन्तं विद्यमानत्वात् 'सता सोम्य तदा संपन्नो भवति । इति संबन्धव्यपदेशः, द्वा सुपर्णेत्यादिभेदव्यपदेशश्च उपपद्यते इत्यर्थः । प्रका- शादिवत् । यथा गवाक्षद्वये अन्तर्वतिसूर्यप्रकाशयोः औपाधिकभेदः, कदा- चित् परस्परसंबन्धश्च, तद्वदित्यर्थः । आत्मा एकः, विभुत्वात् । कालवदाकाशादिवदित्यनुमानाच्च आत्मन एकत्वम् । तथा च जीवा- त्मपरमात्मनोरभेद इत्यर्थः ॥ ३४ ॥ उपपत्तेश्च ॥ ३५॥ वस्तुद्वयासत्त्वात् एकत्वश्रुतेश्च मिथ्यासंबन्धमिथ्याभेदयोरुपपन्नत्वा- दित्यर्थः ॥ ३५॥ मुख्यावेव संबन्धभेदौ किं न स्यातामित्यत आह- तथान्यप्रतिषेधात् ॥ ३६॥ animmercise का ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०२ 'नान्योऽतोऽस्ति द्रष्टा ' इत्यादिश्रुतौ जीवब्रह्मणोरन्यत्वप्रतिषेधात् भेदप्रतिषेधादपि जीवब्रह्मणोरभेद इत्यर्थः ॥ ३६॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७॥ अनेन जीवब्रह्मणोः भेदनिषेधेन प्रपञ्चस्य मिथ्यात्वप्रतिपादनेन आयामशब्दादिभ्यः अयामो नाम सर्वात्मकत्वं, तत्प्रतिपादकेभ्यः “सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम् । ऐतदात्म्यमिदं सर्वम् ' इत्यादिशब्दे- भ्यश्च ब्रह्मणः सर्वगतत्वं सर्वात्मकत्वम् अद्वितीयत्वं च सिद्धमित्यर्थः॥३७॥ फलाधिकरणम् ॥ ८॥ इयता सूत्रसंदर्भण ब्रह्मस्वरूपं विचार्य इदानीं कर्मण एव फलप्रदा- तृत्वं, नेश्वरस्येति निरीश्वरवादिनो मीमांसका वदन्ति । तन्मतं निरा. करोति- फलमत उपपत्तेः॥ ३८॥ अतः कर्मभिराराधितादीश्वरादेव जीवानां फलमुत्पद्यते । न तु केव- लकर्मणः । कुतः ? उपपत्तेः चैतन्यस्यैव ईश्वरस्य फलजनकत्वस्य उपपन्न- त्वात् जडस्य कर्मणः स्वातन्त्र्येण फलजनकत्वानुपपत्तेरित्यर्थः ॥ ३८॥ श्रुतत्वाच ।। ३९ ॥ 'कर्माध्यक्षः सर्वभूताधिवासः । इति श्रुतौ ईश्वरस्य फलदातृत्वश्रव- णाच कर्मसहकृत ईश्वर एव फलप्रदातेत्यर्थः ॥ ३९॥ पूर्वपक्षः- धर्म जैमिनिरत एव ॥ ४० ॥ जैमिनिस्तु धर्ममेव स्वातन्त्र्येण फलप्रदातारं मन्यते । कुतः ? अत एव ज्योतिष्टोमेन स्वर्गकामो यजेत ' इत्यादिश्रुतिषु कर्मणां स्वातन्त्र्येण फलसाधनत्वश्रवणादेवेत्यर्थः ॥४०॥ सिद्धान्तः- पूर्व तु बादरायणो हेतुव्यपदेशात् ॥४१॥ बादरायणस्तु पूर्व पूर्वसूत्रोक्तं कर्मसहकृतमीश्वरमेव फलप्रदातारं मन्यते। कुतः ? हेतुव्यपदेशात् ' एष एव साधु कर्म कारयति । एष एव असाधु कर्म कारयति' इत्यादिश्रुतिषु ईश्वरस्यैव सत्कर्मणि दुष्कर्मणि च

अधि० १]
अद्वैतमञ्जरी।
जीवान् प्रति प्रेरकत्वव्यपदेशादित्यर्थः । तथा च जीवानामीश्वरप्रेरणा-
नुसारेणैव सुकृतदुष्कृतयोः प्रवृत्तिः, न स्वातन्त्र्येण । तथा च ईश्वरस्यैव
तत्तत्कर्मानुसारेण फलप्रदातृत्वं, न तु केवलकर्मणामित्यर्थः ॥ ४१ ।।
इति ब्रह्मसूत्रवृत्तौ तृतीयाध्यायस्य द्वितीयः पादः ।
तृतीयाध्यायस्य तृतीयः पादः ।
.
सर्ववेदान्तप्रत्ययाधिकरणम् ॥ १॥
सगुणब्रह्मोपासनानामपि चित्तशुद्धिद्वारा वा ब्रह्मलोकप्राप्तिद्वारा
बा निर्गुणब्रह्मसाक्षात्कार प्रति साधनत्वात् अस्मिन् पादे सगुणब्रह्मो-
पासनास्वरूपं विचारयति-
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
सर्ववेदान्तप्रत्ययं सर्वशाखाप्रतिपाद्यं दहरोपासनमेकमेव । एवं सर्व-
शाखाप्रतिपाद्यं वैश्वानरोपासनमपि एकमेव । एवं शाण्डिल्योपासनमप्ये-
कमेव । एवमुपकोसलोपासनमप्येकमेव । कुतः ? चोदनाद्यविशेषात् ।
चोद्यन्ते विधीयन्त इति व्युत्पत्त्या चोदनाशब्देन अग्निहोत्रादीनि
कर्माण्युच्यन्ते । तथा च चोदनाद्यविशेषात् सगुणब्रह्मोपासनानामपि
चोदनादिभिः अग्निहोत्रादिकर्मभिः सह अविशेषात् तुल्यत्वादित्यर्थः ।
तथा च सर्वशाखाप्रतिपाद्यम् अग्निहोत्राख्यं कर्म यथा एकमेव, यथा
ज्योतिष्टोमाख्यं कर्म एकमेव, यथा वाजपेयाख्यं कर्म सकलशाखाप्रति-
पाद्यमेकमेव, एवं सर्वशाखाप्रतिपाद्यं सजातीयोपासनमेकमेवेत्यर्थः ॥१॥
शाखाभेदेन गुणभेदस्य श्रूयमाणत्वात् नानाशाखागतानां सजाती-
योपासनानां ऐक्यमनुपपन्नमित्याशङ्कय निराकरोति--
भेदान्नेति चेनैकस्यामपि ॥२॥
भेदात् शाखाभेदेन गुणभेदस्य श्रूयमाणत्वात् नेति चेत् नानाशा-
खागतानां सजातीयोपासनानाम् ऐक्यं नास्ति, किं तु भिन्नत्वमेवेति
चेन्न । एकस्यामपि शाखायाम् एकस्या एवोपासनायाः अध्यायभेदेन
गुणभेदश्रवणेऽपि यथाध्यायद्वयगतायाः सजातीयोपासनायाः ऐक्यमे-
वाङ्गीक्रियते, एवं नानाशाखागतानां सजातीयोपासनानामैक्यमड्डी-
क्रियते ॥ २॥

ब्रह्मसूत्रवृत्तिः। [अ०३ पा०३ । तर्हि ' उपसंहारोऽर्थाभेदात् ' इति वक्ष्यमाणसूत्रोक्तन्यायेन सकल- शाखागतसजातीयोपासनाप्रकरणप्रतिपाद्यानां सत्यसंकल्पत्वसर्वज्ञत्वसर्वे- श्वरत्वादिगुणानां मेलनरूपः उपसंहारः उपासनानां निणेंतव्यः। एवं स्थिते सति एकैकस्य पुरुषस्य सकलशाखाध्ययनस्याशक्यत्वात् कथं सकल- शाखाप्रतिपाद्यगुणमेलननिर्णय इत्याशङ्का निराकरोति- स्वाध्यायस्य तथात्वेन हि समाचारेऽधि- काराच्च सववच तनियमः ॥ ३॥ स्वस्य अध्यायः स्वाध्यायः इति व्युत्पत्त्या स्वाध्यायशब्देन स्वशाखा उच्यते । तथा च स्वाध्यायस्य स्वशाखाया एव तथात्वेन अध्येतव्यत्वेन समाचारे ' स्वाध्यायोऽध्येतव्यः' इति अध्ययनविधिप्रकरणे अधिकारात् प्रतिपादितत्वात् एकैकस्य पुरुषस्य सकलशाखाध्ययनाभावेऽपि न दोष इत्यर्थः । तर्हि सकलशाखागतसजातीयोपासनाप्रकरणप्रतिपाद्यगुणमेलन- निश्चयः कथमित्याशङ्कयाह-सववच्च तन्नियमः सववत् यज्ञाङ्गवत् तनियमः तेषां नानाशाखाप्रतिपाद्यानां सत्यसंकल्पादिगुणानां नियमः निश्चयः उपपद्यत इत्यर्थः । यथा कर्मानुष्ठातृणां सकलशाखाध्ययनाभावेऽपि सकलशाखाध्येतृभिः महर्षिभिः कृतात् कल्पसूत्रादिग्रन्थात् नानाशाखा- गतानाम् अग्निहोत्रादिकाङ्गानां मेलननिश्चयः, एवमुपासकानां सकल- शाखाध्ययनाभावेऽपि सकलशाखाध्यतृभिः शङ्कराचार्यादिभिर्महात्मभिः कृतात् भाष्यादिग्रन्थात् सकलशाखागतानां सत्यसंकल्पत्वादिगुणानां मेलननिश्चयः उपपन्न इति भावः ॥ ३ ॥ दर्शयति च ॥४॥ मन्वादिस्मृतिरपि स्वशाखाध्ययनमेव आवश्यकं दर्शयति प्रतिपादयति न तु सकलशाखाध्ययनमित्यर्थः ॥४॥ उपसंहाराधिकरणम् ॥२॥ नानाशाखागतानां सजातीयोपासनानाम् ऐक्यप्रतिपादनफलमाह- उपसंहारोऑभेदाद्विधिशेषवत् समाने च ॥५॥ नानाशाखाप्रतिपाद्यसजातीयोपासनाप्रकारणप्रतिपाद्यानां सत्यसंक- ल्पत्वादिगुणानां समाने नानाशाखाप्रतिपाद्यसजातीयोपासने उपसंहारः कर्तव्यः मेलनं कर्तव्यमित्यर्थः । कुतः ? अर्थाभेदात् नानाशाखागतस- कलगुणविशिष्टसजातीयोपासनायाः अर्थस्य ब्रह्मलोकप्राप्तिलक्षणस्य HAMARIHANI अधि०३] अद्वैतमञ्जरी। फलस्य अभेदात् एकत्वादित्यर्थः । तथा च ब्रह्मलोकप्राप्तिलक्षणैकफलस्य साधनीभूतानां नानाशाखाप्रतिपाद्यसजातीयोपासनासंबन्धिनां सत्य- संकल्पत्वादिगुणानां मेलनरूपः उपसंहारः कर्तव्यः । विधिशेषवत् यथा विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादिकं कर्म सर्वत्रेत्यर्था- भेदात् उपसंहारः एवमन्यत्रापाति भावः । यद्यप्यस्मिन् सूत्रे गुणो- पसंहारकथनानन्तरम् एकैकस्य पुरुषस्य नानाशाखाध्ययनासंभवात् कथं नानाशाखागुणोपसंहार इति शङ्का पश्चात् परिहर्तव्या, तथाप्युत्तरसूत्रे वक्ष्यमाणं गुणोपसंहारं सिद्धवत्कृत्य सकलशाखाध्ययनाभावात् गुणो- पसंहारो न संभवतीति शङ्का पूर्वमेव परिहृतेति न कोऽपि दोष इति भावः ॥५॥ अन्यथात्वाधिकरणम् ॥३॥ ' भेदान्नेति चेन्नैकस्यापि ' इति सूत्रे गुणभेदात् सजातीयोपासनानां भिन्नशाखागतानां भेद आशङ्कय निराकृतः । इदानीमुपासीतेति शब्दानां प्रतिशाखं भिन्नत्वात् भिन्नशाखागतानां सजातीयोपासनानां भेदः अङ्गीकर्तव्य इत्याशङ्कय निराकरोति- अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६॥ शब्दात् उपासीतेति शब्दानां प्रतिशाखं भिन्नत्वात् अन्यथात्वं भिन्न- शाखागतानां सजातीयोपासनानां भिन्नत्वमेवाङ्गीकर्तव्यम् । 'समिधो यजति तनूनपातं यजति' इत्यादिषु पञ्चप्रयाजविधायकवाक्येषु यजति- शब्दानां भिन्नत्वेन यागभेदाङ्गीकारादिति चेन्न । अविशेषात् शब्दभेदे विद्यमानेऽपि गुणाविशेषात् समिधो यजतीत्यादिषु वाक्येष्वपि समिदादिः देवताभेदादेव यागभेदः, न तु यजतिशब्दानां भिन्नत्वमात्रेण । तथा च सजातीयोपासनासु पूर्वोक्तरीत्या गुणभेदाभावात् भिन्नशाखागतानां सजातीयोपासनानां न भेद इत्यर्थः ॥६॥ तर्हि एकशाखागतानां भिन्नशाखागतानां च ब्रह्मलोकप्राप्तिरूपैकफ- लसाधनानां दहरशाण्डिल्योपकोसलवैश्वानरप्रभृतीनां विजातीयोपासना- नामप्यैक्यमङ्गीक्रियतामित्याशङ्कयाह- न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।। ७ ॥ न वा विजातीयोपासनानाम् ऐक्यं नास्त्येव । कुतः ? 'अथ यदतः परो दिवो ज्योतिर्दीप्यते अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ।

८० ब्रह्मसूत्रवृत्तिः । [अ०३ पा०३ अथ यदिदमास्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म' इत्यादिश्रुतिषु प्रकरण- भेदद्योतकैरथशब्दादिभिर्विजातीयोपासनानाम् अन्योन्यनिरपेक्षतया प्रत्येकं ब्रह्मलोकप्राप्तिसाधनत्वबोधकत्वात् विजातीयोपासनानाम् एक- शाखागतानां भिन्नशाखागतानां च भेद एवाङ्गीकर्तव्य इत्यर्थः । तत्र दृष्टान्तमाह-परोवरीयस्त्वादिवत् यथा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोम- वाजपेयादीनां पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कृष्टानामेकस्वर्गफलसाधनाना- मपि प्रकरणभेदद्योतकेन अथशब्दादिना अन्योन्यनिरपेक्षतया प्रत्येक स्वर्गलोकप्राप्तिसाधनत्वबोधनात् भेदः अङ्गीक्रियते, एवमेकफलसाधनाना- मपि विजातीयोपासनानां भेद एवाङ्गीकर्तव्य इति भावः ॥ ७॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८॥ संज्ञातः भिन्नभिन्नसंज्ञाबलात् तदुक्तम् अग्निहोत्रादिकर्मणां परस्पर- भिन्नत्वमिति चेत्, तर्हि दहरशाण्डिल्यादिविजातीयोपासनानां तदपि भिन्नभिन्नसंज्ञकत्वमपि अस्त्येव । तथा च नामभेदात् अग्निहोत्रादीनां विजातीयकर्मणां भेदस्याङ्गीकारात् विजातीयोपासनानामपि नामभेदात भेदः अङ्गीकर्तव्य इति भावः ॥ ८ ॥ व्याप्त्यधिकरणम् ॥ ४ ॥ अस्तु भिन्नशाखागतानां सजातीयोपासनानाम् ऐक्य, तथापि नाना- शाखागतानां गुणानामुपसंहारो न कर्तव्यः यथाशक्त्यङ्गानुष्ठानेन संध्यावन्दनादिनित्यकर्मानुष्ठातॄणां ब्रह्मलोकप्राप्तिवत् उपासकानामपि स्वस्वशाखागतगुणविशिष्टब्रह्मोपासनामात्रेण ब्रह्मलोकप्राप्तिसंभवादित्या- शङ्कयाह- व्याप्तेश्च समञ्जसम् ॥ ९ ॥ व्याप्तेः नानाशाखागतगुणमेलनात् उपासनं समञ्जसं ब्रह्मलोके अधिकभोगसंपादकं भवति । स्वस्वशाखागतगुणविशिष्टब्रह्मोपासकानां तु स्वल्पभोग इति भावः ॥ ९ ॥ सर्वाभेदाधिकरणम् ॥५॥ उपसंहारोऽर्थाभेदात् ' इति सूत्रे उपक्रान्तं गुणोपसंहारमुपसंहरति- सर्वाभेदादन्यत्रेमे ॥ १०॥ सर्वाभेदात् सजातीयोपासनानां सर्वासु शाखासु अभिन्नत्वात् एक- अधि०६] अद्वैतमञ्जरी। स्यां शाखायां श्रूयमाणाः इमे गुणाः अन्यत्र शाखान्तरेऽप्युपसंहर्तव्या इत्यर्थः॥ १०॥ आनन्दायधिकरणम् ॥६॥ एवं सगुणब्रह्मोपासनासु भिन्नशाखागतगुणोपसंहारमुक्त्वा निर्गुण- विद्यायामपि गुणोपसंहारमाह- आनन्दादयः प्रधानस्य ॥ ११ एकैकशाखायां श्रूयमाणानन्दत्वशुद्धत्वबुद्धत्वमुक्तत्वादयः ब्रह्मत्वरूप- भूताः गुणाः सर्वासु शाखासु निर्गुणविद्यायामुपसंहर्तव्याः । कुतः ? प्रधा- नस्य ज्ञेयस्य निर्गुणब्रह्मणः सर्वास्वपि शाखासु एकत्वादित्यर्थः । अत्र सर्व- शाखागतानां निर्गुणब्रह्मविद्यानां सजातीयत्वेन विजातीयनिर्गुणवि- द्यायाः प्रसक्त्यभावात् निर्गुणब्रह्मविद्यायां भेदाभेदचिन्ता न कृतेति द्रष्टव्यम्॥ ११ ॥ 'तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः' इत्यादिश्रुतौ तैत्तिरीयशा- खायां श्रुताः प्रियशिरस्त्वादयो गुणाः शाखान्तरस्थायां निर्गुणविद्यायाम् उपसंहर्तव्या वा, उत नोपसंहर्तव्या वा इति संशये सति निर्णय करोति- प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ गुणबाहुल्याथै खलु गुणोपसंहारः कर्तव्यः । तथा च गुणानामुप- चयः बाहुल्यं, गुणानामपचयः अल्पत्वम्, एवंविधौ गुणोपचयापचयौ हि भेद उपास्ये सगुणे ब्रह्मण्येव संभवतः, न तु निर्गुणे ब्रह्मणि । गुणानामेवासंभवेन गुणबाहुल्यस्य सुतरामसंभवादित्यर्थः । तथा चानन्द- मयस्य परमात्मनः ज्ञानार्थ स्थूलारुन्धतीन्यायेन आनन्दमयकोशधर्माः प्रियशिरस्त्वादयः प्रतिपादिताः, न तु ब्रह्मधर्मतया प्रतिपादिताः, इति भावः । न च निर्गुणे ब्रह्मणि आनन्दत्वादिगुणानामध्यभावात् पूर्वसूत्रे आनन्दत्वादिगुणोपसंहारकथनमप्यसङ्गतमिति वाच्यम् । ब्रह्मस्वरूपभूतेषु आनन्दत्वादिषु गुणत्वस्य उपचरितत्वादिति भावः ।। १२ ।। ननु, ब्रह्मस्वरूपभूताः आनन्दत्वादिगुणा अपि सर्वासु शाखासु नोप- १ तैत्तिरीयकशाखायां श्रूयमाणानां प्रियशिरस्त्वादिगुणानां शाखान्तरेष्व, प्राप्तिः अनुपसंहार एव । कुतः ? उपचयापचयौ हि भेदे इति पाठः । RE ८२ ब्रह्मसूत्रवृत्तिः। [अ०३ पा०३ ? संहर्तव्याः । एकैकशाखाप्रतिपादितब्रह्मस्वरूपज्ञानमात्रेणैव मोक्षसंभवा- दित्याशङ्कयाह- इतरे त्वर्थसामान्यात् ॥ १३ ॥ इतरेऽपि प्रियशिरस्त्वादिगुणेभ्यो व्यक्तिरिक्ताः आनन्दत्वादयो गुणाः ब्रह्मस्वरूपभूताः सर्वासु शाखासु उपसंहर्तव्याः । कुतः ? अर्थसामान्यात् अर्थस्य मोक्षरूपप्रयोजनस्य सामान्यात् सर्वास्वपि शाखासु ब्रह्मस्वरूप- निश्चयसाध्यत्वप्रतिपादनस्य तुल्यत्वादित्यर्थः । तथाचानन्दत्वशुद्धत्वबुद्ध- त्वादिविषयकसकलसंशयनिवृत्तिं विना ब्रह्मस्वरूपनिश्चयासंभवात् ब्रह्मस्व- रूपनिश्वयार्थम् आनन्दत्वादिगुणजातमुपसंहर्तव्यमिति भावः ॥ १३ ॥ आध्यानाधिकरणम् ॥ ७ ॥ 'इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बु- द्धरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किंचित् सा काष्टा सा परा गतिः' इति श्रुतौ अर्थमनोबुद्धिजी- वशरीराणामुत्तरोत्तरमुत्कृष्टत्वप्रतिपादनपूर्वकं पुरुषशब्दवाच्यस्य परमा- त्मनः सर्वोत्कृष्टत्वमुक्तम् । तत्र अर्थादीनाम् उत्तरोत्तरमुत्कृष्टत्वे श्रुते- स्तात्पर्यमस्ति वा, न वेति संशये सति निर्णयं करोति- आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ आध्यानाय सर्वोत्कृष्टपरमात्मनः निश्चयाय अर्थादीनामुत्तरोत्तरमुत्कृ- ष्टत्वमुच्यते, न तु तत्र तात्पर्यम् । कुतः ? प्रयोजनाभावात् अर्थादीनाम् उत्कृष्टत्वज्ञानेन फलाभावात् । तथा च मोक्षसाधनीभूतज्ञानविषयस्य पर- मात्मनः निश्चयार्थमेव स्थूलारुन्धतीन्यायेन अर्थादीनामुत्कृष्टत्वमुक्तं, न तु तत्र तात्पर्यमित्यर्थः ॥ १४ ॥ आत्मशब्दाच॥ १५॥ एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ' इत्युत्तरवाक्ये परमात्मनः दुर्विज्ञेयत्वप्रतिपादनादपि परमात्मन्येव इन्द्रियेभ्यः परा हों, इति श्रुतेस्तात्पर्यमिति भावः ॥ १५ ॥ आत्मगृहीत्यधिकरणम् ॥ ८॥ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । इति छान्दोग्यश्रुतौ सच्छब्देन सत्ताजातिः प्रतिपाद्यते, उत परमात्मा प्रतिपाद्यत इति संशये सति निर्णयं करोति- WBORNING । ५ . oluteuroloPAN आधि०९] अद्वैतमजरी। ८३ । आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ इतरवत् यथा ' आत्मा वा इदमेक एवाग्र आसीत् ' इति ऋग्वेदश्रुतौ आत्मशब्देन परमात्मा प्रतिपाद्यते, तथा ' सदेव सोम्येदमग्र आसीत् । इति छान्दोग्यश्रुतौ सच्छब्देन आत्मनः परमात्मनः गृहीति' प्रतिपाद- नमङ्गीकर्तव्यम् । कुतः ? उत्तरात् 'सदेव सोम्येदमग्र आसीदेकमेवाद्विती- यम् । इति उत्तरवाक्ये प्रलयसमये सर्वप्रपञ्चाभिन्नत्वस्य अद्वितीयत्वस्य प्रतिपादितत्वात् । नहि सत्ताजातेः सर्वप्रपञ्चाभिन्नत्वम् अद्वितीयत्वं वा संभवति । तस्याः प्रपञ्चं प्रति उपादानकारणत्वाभावात् । तथा च प्रपञ्चोपादानकारणं ब्रह्मैव सच्छब्देन प्रतिपाद्यत इति भावः ॥ १६ ॥ सच्छब्दस्य सत्ताजातिप्रतिपादकत्वासंभवेऽपि प्रधानप्रतिपादकत्व- मस्त्वित्याशङ्कय निराकरोति- अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ प्रधानस्यापि प्रपञ्चं प्रति उपादानकारणत्वेन अन्वयात् प्रपञ्चाभि- नत्वाद्वितीयत्वयोः प्रधानेऽप्युपपन्नत्वात् सच्छब्देन प्रधानमेवोच्यत इति चेन्न । ब्रह्मैव सच्छब्दप्रतिपाद्यं स्यात् । कुतः ? अवधारणात् 'ऐतदात्म्य- मिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति श्रुतौ सच्छ- ब्दवाच्यस्य परमात्मत्वप्रतिपादनपूर्वकं सकलजीवाभिन्नत्वप्रतिपादनेन सच्छब्दवाच्यस्य चेतनत्वनिश्चयादित्यर्थः । नहि जडस्य प्रधानस्य पर- मात्मत्वं जीवाभिन्नत्वं वा संभवतीति भावः ।। १७ ।। कार्याख्यानाधिकरणम् ॥९॥ उपकोसलविद्याप्रकरणे विद्यमानं आहवनीयगार्हपत्यदक्षिणाग्निवि- षयकमुपासनात्रयं हिरण्यगर्भोपासनं चेत्युपासनचतुष्टयमपि चित्तशु- द्धिद्वारा सगुणब्रह्मोपासनाङ्गं वा, स्वातन्त्र्येण फलान्तरसाधनं वा । एवं सर्वास्वपि उपनिषत्सु सगुणब्रह्मोपासनासन्निधौ विद्यमानानि ब्रह्मव्यति- रिक्तपदार्थविषयकाणि प्राणायुपासनानि सगुणब्रह्मोपासनाङ्गानि, स्वात- न्त्र्येण फलान्तरसाधनानि वा । एवं भूमविद्याप्रकरणे विद्यमानानि ना- मायुपासनानि भूमाख्यसगुणब्रह्मोपासनाङ्गानि वा, स्वातन्त्र्येण फला- न्तरसाधनानि वा। एवं वैश्वानरप्रकरणे विद्यमानानि वैश्वानरस्यैकैकावयव- विषयकोपासनानि वैश्वानरोपासनाङ्गानि वा, न वा । एवं तत्तदुपासना- प्रकरणेषु विद्यमानानि ब्रह्मव्यतिरिक्तपदार्थविषयकाणि उपासनानि तत्त- .८४ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०३ त्सगुणब्रह्मोपासनाङ्गानि वा, स्वातन्त्र्येण फलान्तरसाधनानि वा इति संशये सति तन्निर्णयं करोति- कार्याख्यानादपूर्वम् ॥ १८॥ तत्तत्सगुणब्रह्मोपासनासन्निधौ विहितानि अग्नित्रयजीवमुख्यप्राणना- मादिविषयकाणि उपासनानि प्रकरणबलात् तत्तत्सगुणब्रह्मोपासनाङ्गान्येव, न तु स्वातन्त्र्येण फलान्तरसाधनानि । तथा च कार्याख्यानात् कार्याणां कर्तव्यानां जीवमुख्यप्राणादिविषयकाणाम् अङ्गोपासनानाम् आख्या- नादनुष्ठानादेव साङ्गात् सगुणब्रह्मोपासनात् अपूर्वमदृष्टम् उत्पद्यते, न तु अङ्गोपासनारहितात् केवलसगुणब्रह्मोपासनादित्यर्थः । सगुणब्रह्मोपा- सनाङ्गत्वेन अनुष्ठितात् प्राणाद्युपासनात् क्षुद्रफलमपि अर्थादुत्पद्यते । तथा चाडोपासनासन्निधौ विद्यमानानां फलश्रुतीनां ब्रह्मलोकप्राप्तावेव महातात्पर्य, क्षुद्रफलेषु तु अवान्तरतात्पर्यमिति भावः ।। १८॥ समानाधिकरणम् ॥१०॥ समान एवं चाभेदात् ॥ १९ ॥ एवं च सति साङ्गस्यैव सगुणब्रह्मोपासनस्य अदृष्टजनकत्वे सति वृह- दारण्यकशाखाविहिते समाने सजातीये उपकोशलनामके सगुणब्रह्मो- पासने छान्दोग्यशाखागतमुपकोसलविद्याङ्गभूतमुपासनाचतुष्टयमुपसंहर्त- व्यम् । कुतः ? अभेदात् शाखाद्वयेऽपि उपकोसलविद्याया एकत्वा- दित्यर्थः ।। १९ ॥ संबन्धाधिकरणम् ॥ ११ ॥ उपकोसलविद्यायामुक्तन्यायं वैश्वानरादिविद्यास्वप्यतिदिशति- संबन्धादेवमन्यत्रापि ॥ २०॥ अन्यत्र प्रतर्दनवैश्वानरभूमविद्यादिष्वपि एवं जीवमुख्यवैश्वानरावयव. नामादिविषयकाङ्गोपासनासहकृतात् सगुणब्रह्मोपासनाददृष्टोत्पत्तिः, न तु केवलसगुणब्रह्मोपासनात् । कुतः ? संबन्धात् अङ्गाङ्गिनोरविना- भावः संबन्धः । अङ्गं विना आङ्गिमात्रस्य अदृष्टजनकत्वासंभवादित्यर्थः । तथा च छान्दोग्यशाखायां श्रूयमाणानि अङ्गोपासनानि बृहदारण्यक- शाखान्तर्गतासु सजातीयोपासनासु उपसंहर्तव्यानीति भावः ॥ २० ॥ उपकोसलसन्निधौ विहितमुपासनाचतुष्टयं विजातीयेषु वैश्वानरायु- पासनेषु नोपसंहर्तव्यमित्याहmedicaenimore अधि०१२] अद्वैतमञ्जरी। Me . न वा विशेषात् ॥ २१ ॥ अग्नित्रयहिरण्यगर्भविषयम् उपासनाचतुष्टयं विजातीयेषु वैश्वानरा- ग्रुपासनेषु नोपसंहर्तव्यम् । कुतः ? विशेषातू उपासनाचतुष्टयस्य प्रकर- णवलेन उपकोसलोपासनाङ्गत्वेन भिन्नप्रकरणस्थवैश्वानरायुपासनाङ्ग- स्वाभावादित्यर्थः ॥ २१ ॥ एवं जीवमुख्यप्राणवैश्वानरैकावयवनामादिविषयकाणि अङ्गोपासनानि विजातीयोपासनेषु नोपसंहर्तव्यानीत्याह- दर्शयति च ॥ २२॥ अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । अथ य एषो- ऽन्तरक्षिणि पुरुषो दृश्यते । अथ यदतः परो दिवो ज्योतिर्दीप्यते । अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ' इत्यादिषु श्रुतिषु अथशब्द एव प्रकरणभेदं सूचयति । तथा च तदुपासनाप्रकरणे विहि- तानि उपासनानि सन्निहितसगुणब्रह्मोपासनामात्रं प्रत्यङ्गानि, न तु व्यवहितविजातीयोपासनाक्षानीति भावः ।। २२ ।। संभृत्यधिकरणम् ॥ १२ ॥ ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्मा ज्येष्ठं दिवमाततान ब्रह्मा भू- तानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ' इत्यस्यां खिलसंहि- तायां वीर्यसंभृतियुलोकव्यापकत्वसकलभूतकारणत्वादयो बहवो गुणाः प्रतिपादिताः। उपासीतेति विधिवाक्यं, फलं च न श्रुतं, एवं स्थिते सति अखिलसंहिताप्रतिपादितानां सर्वेषां गुणानां दहरशाण्डिल्यादिषु सर्वेषु सगुणोपासनेषु उपसंहारः कर्तव्यो वा, उत उपासीतेति विधिं ब्रह्मलोक- प्राप्तिरूपं फलं चाध्याहृत्य खिलसंहिताप्रतिपादितसकलगुणविशिष्टन- झोपासनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनमित्यङ्गीकर्तव्यं वा इति संश- ये सति निर्णयं करोति- संभृतिधुव्याप्त्यपि चातः ॥ २३ ॥ अत एव भिन्नप्रकरणस्थत्वात् व्यवहितत्वाञ्च संभृतिाव्याप्त्यादिगुण- विशिष्टब्रह्मोपासनमपि स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनम् । तथा च संभृतिाव्याप्त्यादिगुणानां भिन्नप्रकरणस्थव्यवहितदहरवैश्वानरायुपास- नासु उपसंहारो न कर्तव्य इत्यर्थः ।। २३ ॥

IMAN ब्रह्मसूत्रवृत्तिः। [अ०३ पा०३ पुरुषविद्याधिकरणम् ॥ १३ ॥ 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी ' इत्यादिश्रुतौ उपासकस्य करचरणाद्यवयवेषु प्रसिद्धज्योतिष्टोमाङ्गदृष्टिरूपो मानसज्यो- तिष्टोमो विहितः । किं मानसज्योतिष्टोमस्य कर्मकाण्डज्योतिष्टोमाङ्गत्वम्, उत स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमिति संशये निर्णयं करोति- पुरुषविद्यायामिव चेतरेषामनानानात् ॥ २४ ॥ इतरेषामुपासकानां करचरणाद्यवयवेषु कल्पितानां समित्कुशपुरोडा- शादीनां मानसानामङ्गानां पुरुषविद्यायामिव मानसज्योतिष्टोम इव कर्म- काण्डस्थक्रियामये ज्योतिष्टोमे अनान्नानादविहितत्वादित्यर्थः । तथा च मानसज्योतिष्टोमक्रियामयज्योतिष्टोमयोः परस्परविलक्षणाङ्गविशिष्टत्वात् मनःकल्पिताङ्गविशिष्टस्य मानसज्योतिष्टोमस्य वास्तवाङ्गविशिष्टक्रियाम- यज्योतिष्टोमाङ्गत्वमनुपपन्नम् । किं तु स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधन- त्वमित्यर्थः ॥ २४॥ वेधाधिकरणम् ॥ १४ ॥ सर्व प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रेधा विपृक्त' इत्यादीनां उपनिषन्मध्यपठितानां शत्रुमरणोद्देशने आभिचा- रिकदेवताप्रार्थनपराणां मन्त्राणां सगुणब्रह्मोपासनाङ्गत्वं वा, कर्मकाण्ड- स्थश्येनयागाद्याभिचारिककाङ्गत्वं वेति संदेहे सति निर्णयं करोति- वेधाद्यर्थभेदात् ॥ २५ ॥ वेधादीनां शत्रुपीडादीनाम् अर्थानां फलानां भेदात् सगुणब्रह्मोपासने असंबन्धात् एतेषां मन्त्राणां सगुणब्रह्मोपासनाङ्गत्वं नास्तीत्यर्थः । 'सर्वे खल्विदं ब्रह्म'। इति श्रुतौ शान्तस्यैव सगुणब्रह्मोपासनायामधिकारस्य प्रतिपादितत्वेन शत्रुमरणकामस्य ब्रह्मविद्यायामधिकारासंभवात् शत्रुम- रणफलकस्य अस्य मन्त्रस्य सगुणब्रह्मोपासनाङ्गत्वासंभवात् कर्मकाण्ड- श्येनयागाङ्गत्वमङ्गीकर्तव्यमिति भावः ॥ २५ ॥ हान्यधिकरणम् ॥ १५॥ उपास्यसंबन्धिगुणोपसंहारमुक्त्वा उपासकानाम् अवान्तरफलोपसं. हारमप्याह- १ हे आभिचारिकदेवते मच्छनोः सर्वमङ्गं प्रविध्य विदारय, विशेषतश्च हरपुरीकं प्रविष्य पीडय, धमनीः नाडीश्च प्रवृज्य पीडय, शिरश्च अभिप्रवृज्य छेदय, मच्छ- त्रुदेहस्त्रिधा भन्नो भवत्विति श्रुत्यर्थः । NameNNENA ।

। - ? अधि०१६] अद्वैतमञ्जरी। हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्द- स्स्तुत्युपगानवत्तदुक्तम् ॥२६॥ 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमाभिसंभवामि । इति सामशाखायां श्रुतौ सगुणब्रह्मोपासकानां मरणानन्तरं सुकृतदुष्कृतत्यागमात्रमुक्तम् । 'सुकृतदु- कृते विधूनुते तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापक- त्याम्' ' इति शाखान्तरीयश्रुतौ तु उपासकानां सुकृतदुष्कृतत्यागानन्तरम् उपासकमित्राणाम् उपासकद्वोषिणां च सुकृतदुष्कृतस्वीकार उक्तः । एवंस्थि- ते सति हानौ सुकृतदुष्कृतत्यागरूपहानमात्रप्रतिपादकश्रुतौ उपासकसु- हृदाम् उपासकद्वेषिणां च सुकृतदुष्कृतस्वीकाररूपम् उपायनम् उपसं- हर्तव्यम् । कुतः ? उपायनशब्दशेषत्वात् 'तत् सुकृतदुष्कृते विधूनुते' इति श्रुतौ हानप्रतिपादकस्य विधूननशब्दस्य उपायनप्रतिपादकशब्दसाहचर्या- दित्यर्थः । तत्र दृष्टान्तमाह-कुशाच्छन्दस्स्तुत्युपगानवत् । यथा हि एक- स्यां शाखायां सहपठितानां कर्माङ्गानां कुशाच्छन्दस्स्तुत्युपगानानां मध्ये अन्यस्यां शाखायाम् एकैकस्याङ्गस्य श्रवणे सति अन्येषामङ्गानामुपसंहारः, तद्वदित्यर्थः । तदुक्तम् एकैकाङ्गश्रवणे सति अन्येषामङ्गानाम् उपसंहरणं पूर्वमीमांसायामुक्तमित्यर्थः ।। २६ ।। सांपरायाधिकरणम् ॥१६॥ उपासकानां सुकृतदुष्कृतक्षयस्य कालनिर्णयं करोति- सांपराये तर्तव्यभावात्तथा ह्यन्ये ॥२७॥ सांपराये ब्रह्मलोकप्राप्तिहेतुभूतदेवयानमार्गमध्ये विरजानद्यतिक्रमा- नन्तरम् उपासकानां सुकृतदुष्कृतमयो भवति । कुतः ? तर्तव्याभावात् विरजानदीतरणानन्तरं तर्तव्यस्य नद्यन्तरस्याभावादित्यर्थः । विरजान- दीतरणानन्तरं सुकृतदुष्कृतक्षय इत्यत्र प्रमाणमाह-तथा ह्यन्ये । अन्ये शाखिनः ‘स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते' इतिश्रुतौ विरजानदीतरणानन्तरं सुकृतदुष्कृतक्षयं प्रतिपाद- यन्तीत्यर्थः ॥ २७ ॥ 'अश्व इव रोमाणि विधूय पापम्' इति श्रुतौ पापस्यैव क्षय उक्तः, न तु पुण्यस्येत्याशङ्कयाहintamasan ८८ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०३ छन्दत उभयाविरोधात् ॥ २८ ॥ छन्दतः इच्छातः विवक्षाबलादित्यर्थः । अजहल्लक्षणया पापशब्देन पुण्यमपि प्रतिपाद्यते । कुतः ? उभयाविरोधात पुण्यपापोभयविनाशन- तिपादकश्रुत्यन्तरविरोधपरिहारार्थमित्यर्थः ॥ २८ ॥ गत्यर्थवत्त्वाधिकरणम् ॥ १७ ॥ पुण्यमात्रस्य क्षयानङ्गीकारे बाधकमप्याह- गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ॥ २९ ॥ उभयथा उभयोः पुण्यपापयोः विनाशाङ्गीकारे सति गतेः आर्चरादि- मार्गेण ब्रह्मलोकगमनस्य अर्थवत्त्वं सफलत्वं भवति । अन्यथा पुण्यस्य क्षयानङ्गीकारे ब्रह्मलोके कंचित्कालमुपासनाफलभोगानन्तरं पुण्यफल- भोगार्थ स्वर्गलोकं प्रति पुनरावृत्तेरवश्यमङ्गीकर्तव्यत्वात् विरोधः स्यात् 'एतेन प्रतिपद्यमाना इमं मानवमावत नावर्तन्ते' इति श्रुतेरप्रामाण्यं स्यादित्यर्थः ॥ २९ ॥ पुण्यस्यापि क्षयाङ्गीकारे ब्रह्मलोकं गतानामुपासकानां भोगो न स्यादित्याशङ्कयाह- उपपन्नस्तल्लक्षणार्थोपलब्धेलोंकवत् ॥ ३०॥ ब्रह्मलोकं गतानां भोग उपपन्नः । कुतः ? तल्लक्षणार्थोपलब्धेः तल्लक्ष णानां तज्जन्यानां सगुणब्रह्मोपासनाजन्यानामर्थानां भोगानामुपलब्धे. श्रुतिषु प्रतिपादितत्वादित्यर्थः । लोकवत लोकेऽपि देवतोपास्तिं कुर्वतां पुरुषाणाम् ऐश्वर्यादिप्राप्तिदृश्यते । तद्वत् ब्रह्मलोकगतानां सगुणब्रह्मो- पासकानां भोगप्राप्तिरुपपद्यत इत्यर्थः ॥ ३०॥ अनियमाधिकरणम् ॥ १८ ॥ सगुणब्रह्मोपासकानां मध्ये केषांचित् ब्रह्मलोकप्राप्तिरस्ति, केषांचित् नास्तीत्येवंविधो नियमोऽङ्गीक्रियते, उत सर्वेषामपि सगुणब्रह्मोपास- कानां ब्रह्मलोकप्राप्तिरित्येवंविधः अनियमोऽङ्गीक्रियते वा इति संशये सति निर्णयं करोति- अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ सर्वेषामहंग्रहोपासकानां ब्रह्मलोकप्राप्तौ अनियमः । अहंग्रहोपासका- नां मध्ये केषांचित् ब्रह्मलोकप्राप्तिः, केषांचित् नास्तीत्येवंविधस्य नियम- MROMAN

अधि०२०]
अद्वैतमञ्जरी।
स्याभाव एव अविरोधः विरोधरहितः प्रामाणिक इत्यर्थः । कुतः ? शब्दा-
नुमानाभ्यां बहुश्रुतिस्मृतिभ्यां दहरशाण्डिल्योपकोसलवैश्वानराद्यहंग्रहो-
पासनापराणां सर्वेषामपि ब्रह्मलोकप्राप्तःप्रतिपादितत्वादित्यर्थः ।। ३१ ।।
आधिकारिकाधिकरणम् ॥ १९ ॥
आदित्यचन्द्रनक्षत्रादीनां ग्रहाणां वरुणकुबेरेन्द्रप्रभृतीनामष्टदिक्पा-
लकानां च वर्तमानदेहपातानन्तरं मुक्तिर्वा, उत देहान्तरप्राप्तिरास्ति वा
इति संशये सति निर्णयं करोति-
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२॥
आधिकारिकाणां परब्रह्मणा आमहाप्रलयमधिकारं कुर्वतां पूर्वस्मिन्
जन्मनि सगुणब्रह्मोपासकानामस्मिन् जन्मनि निर्गुणब्रह्मसाक्षात्कारवतां
जीवन्मुक्तानां सूर्यचन्द्रनक्षत्रादीनां यावदधिकारमाधिकारसमाप्तिपर्य-
न्तमेव अवस्थितिः देहधारणं, स्वस्वाधिकारपरिसमाप्त्यनन्तरं लिङ्गश-
रीरनाशपूर्वकं ब्रह्मण्येकरूपभावं विदेहकैवल्यमेव, न तु देहान्तरना-
प्तिरित्यर्थः ॥ ३२ ॥
अक्षरध्यधिकरणम् ॥२०॥
प्रसङ्गादाधिकारिकपुरुषाणां वर्तमानदेहपतनानन्तरं विदेहकैवल्यं
प्रसाध्येदानी प्रस्तुतामेव चिन्तां करोति-
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥
"अनियमः सर्वेषाम् ' इति सूत्रे सगुणब्रह्मोपासकानां सर्वेषामपि
ब्रह्मलोकप्राप्तिरित्युक्तम् । अक्षरधियां निर्गुणब्रह्मसाक्षात्कारवतां तु अव-
रोषः परलोकगमनप्रतिबन्धः । परलोकगमनाभाव एवाङ्गीकर्तव्यः ।
कुतः ? सामान्यतज्ञावाभ्यां निर्गुणब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्ग-
शरीरनाशस्य समानत्वात् तद्भावात् ब्रह्मण्येकीभावाचेत्यर्थः । औपसद-
वत् यथा चौपसदानां यज्ञादिकर्तृणां सर्वेषां स्वर्गलोकप्राप्तिः तद्वत्,
निर्गुणब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्गशरीरनाशस्य व्यापकब्रह्मण्ये-
कीभावस्य च तुल्यत्वात् परलोकगमनमनुपपन्नमित्यर्थः । तत्र प्रमाण-
माह-तदुक्तम् 'न तस्य प्राणा उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्म
वेद ब्रह्मैव भवति' इत्यादिषु श्रुतिषु निर्गुणब्रह्मसाक्षात्कारवतां लिङ्ग-
शरीरनाशपूर्वकं ब्रह्मैक्यं प्रतिपादितमित्यर्थः ॥ ३३ ॥

९० ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०३ MARSHIMIRAMMON इयदामननाधिकरणम् ॥ २१ ॥ द्वा सुपर्णा सयुजा सखाया' इति श्रुतौ सुपर्णशब्देन पक्षिणी उच्यते वा, उत जीवपरमात्मानौ उच्यते वा इति संशये सति निर्णय करोति- इयदामननात् ॥ ३४॥ सुपर्णशब्देन जीवपरमात्मानौ उच्यते । कुतः ? इयदामननात् । इय- त्तायाः द्वित्वसङ्ख्यायाः आमननात् कथितत्वादित्यर्थः । प्रायेण उपनि- षत्सु जीवब्रह्मणोरेव द्वित्वसङ्ख्यानिर्देशात् ' तयोरन्यः पिप्पलं स्वाद्वत्ति' इति वाक्यशेषे भोक्तृत्वरूपविरुद्धधर्मनिर्देशाच सुपर्णशब्देन लक्षणया जीवपरमात्मानौ प्रतिपाद्यते इति भावः ॥ ३४ ।। अन्तराधिकरणम् ॥२२॥ बृहदारण्यके 'यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्व' इति उपस्तिना प्रश्नः कृतः । तदनन्तरम् 'यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्व ' इति कहोलकेन प्रश्नः कृतः । तत्र वाक्यद्वयेऽपि ब्रह्मशब्दात्मशब्दाभ्यां जीवभिन्नपरमात्मा प्रतिपाद्यते, उत जीवाभिन्नः परमात्मा प्रतिपाद्यते इति संशये सति निर्णयं करोति- अन्तरा भूतग्रामवत् स्वात्मनः ।। ३५ ॥ स्वात्मनः स्वाभिन्नस्य सकलजीवाभिन्नस्य परमात्मनः अन्तरा सकल- भूतानां हृदयमध्ये अवस्थितत्वमुच्यते, न तु जीवभिन्नस्य परमात्मनः । कुतः ? भूतग्रामवत् भूतप्रामवाक्यवदित्यर्थः। 'एको देवः सर्वभूतेषु गूढः इति श्रुतौ सकलजीवाभिन्नस्य परमात्मनः सकलभूतहृदयान्तर्वर्तित्वप्रति- पादनात् तद्नुसारेण यत् साक्षादपरोक्षात् ब्रह्मेति प्रश्नद्वयेऽपि जीवाभि- नस्यैव परमात्मनः सकलभूतहृदयान्तर्वतित्वमुच्यत इत्यर्थः ॥ ३५ ॥ ननु ब्रह्मसाक्षात्कारवतामुषस्तिकहोलकादीनामृषीणां लोकोपकारार्थ खलु प्रश्नः तथा च एकेनैव प्रश्न लोकोपकारस्य सिद्धत्वात् प्रश्नद्वयं व्यर्थमिति प्रासङ्गिकी शङ्कामाशङ्कय निराकरोति- अन्यथा भेदानुपपत्तिरिति चेनोपदेशान्तरवत् ॥ ३६॥ अन्यथा प्रष्टव्यभेदं विना भेदानुपपत्तिः प्रश्नभेदानुपपत्तिः लोके दृष्टा । तथा च प्रकृतेऽपि प्रष्टव्यस्य जीवब्रह्माभेदस्य प्रश्नद्वयेऽपि एक- त्वात् प्रश्नद्वयं व्यर्थमिति चेत्, उपदेशान्तरवदुपपत्तेः । यथा श्वेतकेतुना भूय एव मा भगवान् विज्ञापयतु ' इति नववारं प्रश्ने कृते उद्दालan अधि० २५] अद्वैतमञ्जरी। ९१ केन तत्त्वमसीति नववारमुत्तरं दत्तम्, एवमत्रापि उपस्तिकहोलकाभ्यां प्रश्नद्वये कृते शाकल्येन उत्तरद्वयं दत्तमिति न विरोधः । जीवब्रह्मामे- दस्य अत्यन्तं दुर्विज्ञेयत्वेन बुद्धिशोधनाथै बहुप्रश्नानां बहुवचनानां च सफलत्वादिति भावः ॥ ३६॥ व्यतिहाराधिकरणम् ॥ २३ ॥ अहङ्ग्रहोपासकानां सत्यसंकल्पादिगुणविशिष्टं ब्रह्मास्मीत्येवंरूपेण जीवस्य ब्रह्माभेदमात्रं ध्यातव्यं वा, उत अहं ब्रह्मास्मि ब्रह्माहमस्मत्येिवं- रूपेण सगुणब्रह्मजीवयोः परस्पराभेदो ध्यातव्यो वा इति संशये सति निर्णयं करोति- व्यतिहारो विशिषन्ति हीतरवत् ॥ ३७॥ सगुणब्रह्मजीवयोः व्यतिहारः परस्पराभेद एव ध्यातव्यः । कुतः ? विशिषन्ति 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इत्यादिश्रु- तयः परस्परमभेदं ध्यातव्यं विशिषन्ति प्रतिपादयन्ति खलु । तत्र दृष्टा- न्तमाह-इतरवत् त्वं ब्रह्मासि अहं ब्रह्मास्मीत्यादिवाक्यवदित्यर्थः । यथा त्वं ब्रह्मासि अहं ब्रह्मास्मि' इतिवाक्यं निर्गुणब्रह्मजीवयोः परस्पराभेदं ध्यातव्यं प्रतिपादयति, एवम् 'त्वं वा अहमस्मि' इत्यादिवाक्यं सगुणत्र- मजीवयोः परस्पराभेदमेव ध्यातव्यं प्रतिपादयतीत्यर्थः ॥ ३७ ॥ सत्यावधिकरणम् ॥ २४ ॥ 'उपसंहारोऽर्थाभेदात्' इति सूत्रे सामान्यतः सजातीयोपासनानां भिन्नशाखागतानां गुणानामुपसंहार उक्तः । इदानीं तु तमेव गुणोपसं- हारं सूत्रद्वयेन उपासनाद्वये विशिष्य प्रतिपादयति- सैव हि सत्यादयः ॥ ३८॥ छान्दोग्यशाखायां बृहदारण्यकशाखायां च विहिता शाण्डिल्य- विद्या सैव एकैव । तथा च सत्यादयः सत्यसंकल्पत्वादयः गुणाः एकै- कस्यां शाखायां श्रूयमाणाः शाखाद्वयेऽप्युपसंहर्तव्या इत्यर्थः ॥ ३८ ॥ कामावधिकरणम् ॥२५॥ कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ इतरत्र छान्दोग्यशाखायां तत्र च बृहदारण्यकशाखायां च श्रूयमा- णा दहरविद्यापि एकैव । कुतः ? आयतनादिभ्यः उपास्यस्य दुहराका- शस्य हृत्पुण्डरीकस्थानसत्यसंकल्पादिलिङ्गानां शाखाद्वयेऽपि तुल्यत्वा- READS ९२ ब्रह्मसूत्रवृत्तिः । [अ०३ पा०३ Mumbawwa दित्यर्थः । तथा च कामादि एकैकस्यां शाखायां श्रूयमाणं सत्यकाम- त्वादिगुणजातं शाखाद्वयेऽप्युपसंहर्तव्यमित्यर्थः ॥ ३९ ॥ अलोपाधिकरणम् ॥ २६॥ 'हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन' इति श्रुतौ वैश्वानरोपासकानां प्राणाग्निहोत्रं एकादशीप्रभृतिषु उपवासदिनेष्वपि कर्तव्यं वा, उत भोज- नदिनेष्वेव कर्तव्यं वा इति संशये सति निर्णयं कर्तुं प्रथमं पूर्वपक्षमाह- आदरादलोपः॥ ४०॥ वैश्वानरोपासकानां प्राणाग्निहोत्रस्यैकादशीप्रभृतिषु दिनेषु अलोपः अनुष्ठानलोपो न कर्तव्यः । कुतः ? आदरात् आदराथै वैश्वानरोपास- नायाः साङ्गत्वसिद्धयर्थमित्यर्थः । तथा च एकादश्यादिदिनेष्वपि किंचिदन्नं पक्त्वा वैश्वानरोपासकेन पञ्चप्राणाहुतिमात्रं कर्तव्यमित्यर्थः ॥ ४० ॥ सिद्धान्त:- उपस्थितेऽतस्तद्वचनात् ।। ४१।। उपस्थिते भोजने प्रसक्ते सति अत: भोजनार्थ पक्कादन्नात् तत् प्राणा- ग्निहोत्रं कर्तव्यम् । कुतः ? वचनात् 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् । इति भोजनार्थ पक्कस्यैवान्नस्य प्राणाग्निहोत्रसाधनत्वप्रतिपादनादित्यर्थः । तथा च उपवासदिनेषु प्राणाग्निहोत्रार्थ पाको न कर्तव्य इति भावः । न च वैश्वानरोपासकानाम् अन्येषां च विशेषो न स्यादिति वाच्यम् । हृदयादिषु गार्हपत्यादिदृष्टेरेव विशेषत्वादिति भावः ॥ ४१ ।। तन्निर्धारणानियमाधिकरणम् ॥ २७ ॥ प्रसङ्गात् प्राणाग्निहोत्रं विचार्य इदानीमङ्गावबद्धोपासनानामाज्यस- मित्पुरोडाशादीनामिव कर्माङ्गत्वम् , उत स्वातन्त्र्येण फलान्तरसाधनत्व- मिति संशये सति निर्णय करोति- तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ ४२॥ तेषु कर्माङ्गेषु उद्गीथाहवनीययूपादिषु यानि निर्धारणानि ब्रह्मदृष्टि- रूपाणि अङ्गावबद्धोपासनाज्ञानानि, तेषामनियमः कर्मानुष्ठानकाले अनुष्ठाननियमाभावः । अङ्गत्वाद्यभाव एवाङ्गीकर्तव्यः । कुतः ? तदृष्टेः तेषामगावबद्धोपासनाज्ञानरहितानामपि ऋत्विजां कर्मानुष्ठानदर्शनादि- त्यर्थः । अङ्गावबद्धोपासनानां कर्माङ्गत्वाभावे स्वातन्त्र्येण फलान्तरसा- धनत्वं वक्तव्यम् । किं तत् फलमित्याकाङ्क्षायामाह-पृथग्ध्यप्रतिबन्धः Samme ।

अधि०२९] अद्वैतमञ्जरी। -- फलं पृथक् कर्मफलात् स्वर्गाद्भिन्नः अप्रतिबन्धः स्वर्गादिफलप्रतिबन्ध- कपापनिवृत्तिरेव अङ्गावबद्धोपासनानां फलमङ्गीक्रियत इत्यर्थः । न चात्र प्रमाणाभावः । 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति श्रुतौ अङ्गावबद्धोपासनादिविशिष्टस्य कर्मणः वीर्यवत्तरत्व- प्रतिपादनात् । अनावबद्धोपासनाविशिष्टस्य कर्मणः वीर्यवत्तरत्वं नाम प्रतिबन्धकपापानां नष्टत्वादव्यवहितभविष्यजन्मन्येव स्वर्गप्राप्तिसंपा- दकत्वम् । अङ्गावबद्धोपासनारहितस्य तु कर्मणः फलप्रतिबन्धकभूतानां प्रबलपापानां विद्यमानत्वात् प्रबलपापानां भोगेन क्षयानन्तरं द्वित्रजन्मा- वसाने स्वर्गप्राप्तिसंपादकत्वमिति विलम्बेन स्वर्गप्राप्तिहेतुत्वावीर्यवत्त- रत्वमिति भावः ॥ ४२ ॥ प्रदानाधिकरणम् ॥ २८॥ यस्य स्वर्गादिफलप्राप्तिप्रतिबन्धकपापमेव नास्ति, तस्य पुरुषस्य अङ्गा- वबद्धोपासनं व्यर्थ स्यादित्याशङ्कयाह- प्रदानवदेव तदुक्तम् ॥ ४३ ॥ प्रकृष्टं दानं यस्य तत् प्रदानम् । यथा यथोक्तदक्षिणापेक्षया अधिकद- क्षिणाविशिष्टस्य कर्मणः बहुकालं स्वर्गलोकभोगसंपादकत्वम्, एवम् अङ्गावबद्धोपासनासहितस्य पूर्वमेव फलप्रतिबन्धकपापरहितस्य कर्मणः बहुकालं स्वर्गभोगफलसाधनत्वं युक्त्या निश्चीयत इत्यर्थः । तदुक्तम् अधिकदाक्षिणाविशिष्टस्य यागस्य बहुकालं स्वर्गलोकसंपादकत्वं पूर्वमी- मांसायामुक्तमित्यर्थः । कालस्य बहुत्वं नाम कृप्तकालापेक्षया द्विगुणत्व- मिति भावः॥४३॥ लिङ्गभूयस्त्वाधिकरणम् ॥ २९ ॥ षट्त्रिंशत्सहस्राण्यात्मनोऽग्नीनन्मिनोमयान्मनःश्चितान्वेद ' इत्या- द्यग्निचयनप्रकरणस्थायां श्रुतावुपासकस्य शतसंवत्सरपरिमितायुषः संव- त्सरावयवभूतेषु षट्त्रिंशत्सहस्रपरिमितेषु दिनेषु मध्ये एकैकस्मिन् दिने उत्पद्यमानासु मनोवृत्तिरूपासु इष्टकासु एकैकाग्निचयनदृष्टौ मरणपर्यन्तं कृतायां सत्याम् उपासकस्य ब्रह्मलोकप्राप्तिर्भवतीत्युक्तम् । तत्र इदं मान- साग्निचयनं कर्मकाण्डविहितस्य इष्टकामयस्याग्निचयनस्य अङ्गं वा- उत स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनं वा इति संशये सति निर्णय करोति- AR ९४ ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०३ । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ इदं मानसाग्निचयनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनमेव । कुतः ? लिङ्गभूयस्त्वात् ब्रह्मलोकप्राप्तिफलकत्वेन मरणपर्यन्तानुष्ठेयत्वादिरूयाणां लिङ्गानां बहूनां विद्यमानत्वात् । तल्लिङ्गं बलीयः प्रकरणापेक्षया बल. वत्तरं खलु । तदपि बलवत्तरत्वमपि पूर्वमीमांसायामेव प्रतिपादित मित्यर्थः । 'पट्त्रिंशत्सहस्राण्यात्मनोऽग्नीनर्कान्मनोमयान् मनश्चितान्वेद' इत्यादिश्रुतेरयमर्थः-मनुष्याणां शतसंवत्सरपरिमितमायुः । तत्र एकै- कसंवत्सरस्य षष्टयुत्तरशतत्रयपरिमितानि दिनानि । एवंप्रकारेण संव- त्सरशतस्यापि षट्त्रिंशत्सहस्रदिनानि भवन्ति । तथा च षट्त्रिंशत्सहस्र- दिनानां मध्ये एकैकस्मिन् दिने अहोरात्राभ्यामुत्पद्यमानासु मनोवृत्तिषु एकैकाग्निचयनदृष्टिः कर्तव्या । तथा च षट्त्रिंशत्सहस्रसंख्याविशिष्टा• नात्मनः स्वस्य मनश्चितान् मनोवृत्तिभिः संपादितान् अर्कान् सूर्यसदृ- शान् सूर्यवत् शीघ्रफलप्रदान् मनोमयान् मानसान् अग्नीन् अग्निचय- नप्रकारान् यः वेद मरणपर्यन्तं उपासीत, स ब्रह्मलोकं प्राप्नोतीत्यर्थः ॥४४|| पूर्वपक्षसूत्रम्- पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ॥ ४५ ॥ मानसाग्निचयनस्य पूर्वविकल्प: पूर्वस्मिन् कर्मकाण्डविहिते इष्टकाम- याग्निचयने विकल्पः अनुष्ठाननियमोऽङ्गीकर्तव्यः । इष्टकामयाग्निचय- नाङ्गत्वमङ्गीकर्तव्यमित्यर्थः । कुतः ? प्रकरणात् मानसाग्निचयनस्य इष्ट- कामयाग्निचयनप्रकरणपठितत्वादित्यर्थः । तत्र दृष्टान्तमाह-क्रियामानस- वत् द्वादशाहरूपक्रियाङ्गभूतमानससोमग्रहवदित्यर्थः । द्वादशाहप्रकरण- स्थया ' अनया त्वा पात्रेण समुद्रं रसया सोमं संगृह्णामि ' इतिश्रुत्या विहितस्य मानससोमग्रहस्य प्रकरणबलात् यथा द्वादशाङ्गत्वमङ्गीक- तम् , एवं मानसाग्निचयनस्य प्रकरणबलादग्निचयनाङ्गत्वमङ्गीकर्तव्यमि- त्यर्थः । तथा च अङ्गाङ्गिनोरेकफलत्वात् अङ्गिनः अग्निचयनस्य यत् फलं स्वर्गलोकप्राप्तिरूपं, तदेवाङ्गस्य मानसाग्निचयनस्यापि फलमित्यङ्गीकर्त- व्यम् । न तु स्वातन्त्र्येण ब्रह्मलोकप्राप्तिरिति भावः ॥ ४५ ॥ अतिदेशाच्च ॥ ४६ ॥ अग्निचयनमिति नाम्नः उभयत्रापि तुल्यत्वेन अतिदेशात् नाम- अधि० २९] अद्वैतमञ्जरी। ९५ साम्यादपि मानसाग्निचयनस्य इष्टकामयाग्निचयनाङ्गत्वमङ्गीकर्तव्य- मित्यर्थः ॥ ४६॥ सूत्रद्वयेन पूर्वपक्षमुक्त्वा सिद्धान्तमाह- विद्यैव तु निर्धारणात् ॥ ४७॥ मानसाग्निचयनं विद्यैव ब्रह्मलोकप्राप्तिहेतुभूता स्वतन्त्रोपासनैव । कुतः ? निर्धारणात् 'विद्यया हैवं विपश्चितो भवन्ति ' इति श्रुतौ विद्याशब्देन स्वतन्त्रोपासनात्वनिश्चयादित्यर्थः ।। ४७ ॥ दर्शनाच ॥४८॥ इष्टकामयाग्निचयनानुष्ठानमकुर्वतोऽपि ब्रह्मलोकप्रायुद्देशेन मानसा- ग्निचयनानुष्ठानदर्शनादपि मानसाग्निचयनस्य न प्रसिद्धाग्निचयनाङ्ग- त्वम् । किं तु स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमित्यर्थः ॥४८॥ यचोक्तं प्रकरणबलात् मानसाग्निचयनस्य इष्टकाग्निचयनाङ्गत्वमिति, तस्य परिहारमाह- श्रुत्यादिबलीयस्त्वाच न बाधः ॥ ४९ ॥ श्रुतिलिङ्गवाक्यानां प्रकरणापेक्षया बलीयस्त्वात अधिकबलवत्त्वात् प्रकरणेन श्रुतिलिङ्गयो धो नास्ति । किं तु श्रुतिलिङ्गाभ्यामेव प्रक- रणस्य बाध इत्यर्थः ॥ ४९ ॥ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥ ५० ॥ इष्टकाग्निचयनाङ्गसदृशानां मानसानां समित्कुशपुरोडाशाज्यप्रभृ- तीनाम् अनुबन्धानामङ्गानामुपदेशादिभ्यः हेतुभ्यः मानसाग्निचयनाख्यः कर्मविशेषो दृष्टः स्वातन्त्र्येण ब्रह्मलोकप्राप्तिलक्षणफलसाधनतया नि- श्चितः । साङ्गस्य मानसस्य कर्मणः स्वातन्त्र्येण फलसाधनत्वे दृष्टा- न्तमाह-प्रज्ञान्तरपृथक्त्ववत् प्रज्ञान्तरस्य तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी ' इत्यादिश्रुतिप्रतिपादितस्य साङ्गस्य मानसज्यो- तिष्टोमस्य यथा पृथक्त्वं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वं, तद्ध- न्मानसस्याग्निचयनस्यापि स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनत्वमुपपन्न- मित्यर्थः । तदुक्तं तत् मानसज्योतिष्टोमस्य स्वातन्त्र्येण फलसाधनत्वं पुरुषविद्यायामिव चेतरेषामनाम्नानात् । इतिसूत्रे उक्तं प्रतिपादित- मित्यर्थः ॥ ५० ॥ यच्चोक्तमिष्टकाग्निचयनमानसाग्निचयनयोरग्निचयनमिति नामसाम्या- 4 ब्रह्मसूत्रवृत्तिः। [अ०३ पा०३ दुभयोः सादृश्यं प्रतीयते । तच्च सादृश्यमुभयोरङ्गाङ्गिभावेन मिलित्वा एकस्वर्गजनकत्वरूपमेव वक्तव्यम् । अन्यस्य सादृश्यस्य प्रकृतेऽसंभवा- दिति, तस्य परिहारमाह- न सामान्यादप्युपलब्धेम॒त्युवन्न हि लोकापत्तिः ॥५१॥ सामान्यात् नामसाम्यादपि इष्टकाग्निचयनमानसाग्निचयनयोः सादृश्यं नाङ्गीकर्तव्यम् । कुतः ? उपलब्धेः सादृश्यं विनापि नामसामान्यस्य लोके उपलभ्यमानत्वात् । तत्र दृष्टान्तमाह-मृत्युवत् यथा मृत्युसा- दृश्यं विनापि कस्यचित् पुरुषस्य मृत्युरयमिति नामसादृश्यं दृश्यते, तथा कृष्णोऽयं रामोऽयमित्यादिकमपि द्रष्टव्यम् । लौकिकदृष्टान्तमुक्त्वा वैदि- कदृष्टान्तमप्याह-नहि लोकापत्तिः लोकस्य स्वर्गलोकस्यापत्तिः अग्नि- सादृश्यप्राप्तिर्नास्ति खलु । असौ वाव लोको गौतमाग्निः' इति श्रुतौ स्वर्गलोकस्य अग्निरिति नामधेयं श्रुत्या प्रतिपादितम् । तत्र यथा अग्नि- स्वर्गलोकयोः सादृश्याभावेऽपि नामसाम्यं श्रुत्या प्रतिपादितम् , एवम् इष्टकाग्निचयनमानसाग्निचयनयोः सादृश्याभावेऽपि नामसाम्यमुपपद्यत इत्यर्थः । वस्तुतस्तु इष्टकाग्निचयनमानसाग्निचयनयोरङ्गाङ्गिभावेन एक- फलसाधनत्वरूपसादृश्याभावेऽपि समानाङ्गवत्त्वरूपसादृश्यमादायापि नामसाम्यमुपपन्नमिति द्रष्टव्यम् ॥ ५१ ॥ ननु यदि मानसाग्निचयनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनं स्वत- न्त्रोपासनं, तर्हि मानसाग्निचयनं मानसज्योतिष्टोमवत् उपनिषत्स्वेव पठि- तव्यम् । तथा च कर्मकाण्डस्थेष्टकाग्निचयनसन्निधौ पठितत्वमसतमि- त्याशङ्कायामाह- परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः॥ ५२ ॥ इष्टकाग्निचयनमानसाग्निचयनयोरुभयोरपि शब्दस्य नाम्ना ताद्विध्यं साम्यमस्ति । तथा च उभयोः नामसामान्यात् भूयस्त्वात् परस्परसदृ- शाङ्गबाहुल्याच्च मानसाग्निचयनस्य परेण कर्मकाण्डस्थेन इष्टकामयेनाग्नि- चयनेनानुबन्धः इष्टकाग्निचयनसन्निधौ पठितत्वमुपपन्नमित्यर्थः ॥ ५२ ॥ शरीरे भावाधिकरणम् ॥३०॥ एवमुपासनास्वरूपं विचार्य प्रसङ्गात् सगुणोपासनासु कर्तारं देहादि- व्यतिरिक्तजीवात्मानमिदानी विचारयितुं प्रथमं पूर्वपक्षमाह- एक आत्मनः शरीरे भावात् ।। ५३ ॥ SRNOON MAHARA अधि० ३२] अद्वैतमञ्जरी। ९७ एके लोकायतिकादयः आत्मनः जीवस्य शरीरे अन्तर्भावं वदन्ति । जीवस्य शरीराभिन्नत्वं वदन्तीत्यर्थः । कुतः ? भावात् शरीरधर्माणां स्थूलत्वकृशत्वादीनां जीवात्मनि प्रतीतेरित्यर्थः ॥ ५३॥ सिद्धान्त:- व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥५४॥ उपलब्धिवत् उपलब्धेः आत्मनश्च यथा परस्परमभेदः, एवं शरीरा- मनोरभेदः नतु नास्त्येव, किं तु व्यतिरेकः भेद एवाङ्गीकर्तव्यः । कुतः ? तद्भावाभावित्वात् तस्य शरीरस्य मरणानन्तरम् इह लोके भावेऽपि जीवस्य अभावित्वात् अविद्यमानत्वात् स्वर्गलोकनरकलोकादि- परलोकगमनादित्यर्थः । न च मरणानन्तरं जीवस्य स्वर्गलोकगमने प्रमाणं नास्तीति वाच्यम् । श्रुतिस्मृतीतिहासपुराणानामेव प्रमाणत्वा- दिति भावः ॥ ५४॥ अङ्गावबद्धाधिकरणम् ॥३१॥ एवं प्रासङ्गिकी चिन्तां सुत्रद्वयेन परिसमाप्य प्रस्तुतामेव चिन्तां करोति- अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥ नानाशाखासु विहिता अङ्गावबद्धोपासनाः प्रतिवेदं प्रतिशाखं व्यव- स्थिताः न भवन्ति । स्वशाखाविहितासु उपासनासु स्वेषामेवाधिकार इति नियमो नास्ति । किं तु सर्वशाखाविहितासु अङ्गावबद्धोपासनासु सर्वेषामपि शाखिनामधिकारोऽस्तीत्यर्थः । इदमुपलक्षणम् । अहङ्ग्रहोपा- सनासु प्रतीकोपासनासु च सर्वशाखाविहितासु सर्वेषामपि शाखिनाम- धिकारोऽस्तीति द्रष्टव्यम् ॥ ५५॥ तत्र दृष्टान्तमाह- मन्त्रादिवद्वाऽविरोधः॥५६॥ यथा शाखान्तरविहितेषु मन्त्रसमित्कुशपुरोडाशप्रभृतिषु काङ्गेषु शाखान्तरस्थानामपि कर्मिणामधिकारः, एवं शाखान्तरविहितासु उपा- सनासु शाखान्तरस्थानामप्यधिकाराङ्गीकारे अविरोधः विरोधो नास्तीत्यर्थः ॥५६॥ भूमज्यायस्त्वाधिकरणम् ॥३२॥ छान्दोग्ये 'नाम ब्रह्मेत्युपासीत, वाचं ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपा- सBORN ९८ ब्रह्मसूत्रवृत्तिः । [अ०३ पा०३ 1000 सीत' इत्यादीनि बहूनि प्रतीकोपासनानि विधाय तदनन्तरम् ' भूमा त्वेव विजिज्ञासितव्यो भूमानं भगवो विजिज्ञासे यत्र नान्यत् पश्यति नान्य- च्छृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत् पश्यत्यन्यच्छृणोति अन्यद्विजानाति तदल्पम् ' इति श्रुतौ भूमाख्यब्रह्मोपासना च विहिता । तत्र किं सर्वासामुपासनानां समप्राधान्यम्, उत भूमोपासनाया एव प्राधान्यम्, इतरासां तु तदङ्गत्वं वा इतिसंशये सति निर्णयं करोति- भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥ भूम्नः भूमाख्यब्रह्मोपासनस्यैव ज्यायस्त्वं प्रधानत्वं भूमोपासनाया- मेव वाक्यस्य महातात्पर्य, नामाद्युपासनानां तु ब्रह्मोपासनां प्रति अङ्ग- त्वेन उपसर्जनत्वम् । तथा च नामाद्युपासनासु अवान्तरतात्पर्यम् । ऋतु- वत् तथा अङ्गिनः ज्योतिष्टोमादिक्रतोः प्रधानत्वं, अङ्गानां तु समित्कुशा- दीनाम् उपसर्जनत्वं, तद्वदित्यर्थः । तत्र प्रमाणमाह-तथाहि दर्शयति 'अथ यत्रान्यत् पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम्' इति श्रुतिः नामाद्युपासनानामल्पत्वमुपसर्जनत्वं प्रतिपादयतीत्यर्थः ।। ५७ ।। ननु नामाद्युपासनासु वाक्यस्य अवान्तरतात्पर्यमपि नास्ति । नाम ब्रह्मेत्युपासीत ' इति वाक्यसंदर्भस्य सर्वस्यापि स्थूलारुन्धतीन्यायेन ब्रह्मोपासनायामेव तात्पर्यात् । तथा च नामाद्युपासनानां कथं ब्रह्मोपा- सनाङ्गत्वमित्याशङ्कयाह- नानाशब्दादिभेदात् ॥ ५८॥ नानाविधानि अनेकानि नामाद्युपासनान्यपि अङ्गीकर्तव्यानि । कुतः? शब्दादिभेदात् 'नाम ब्रह्म इत्युपासीत, वाचं ब्रह्मेत्युपासीत, मनो ब्रह्मे- त्युपासीत' इत्यादिवाक्येषु उपास्तिशब्दानां बहूनां श्रूयमाणत्वात् नामा- युपास्तीनां फलभेदश्रवणाच नामाद्युपासनास्वपि अवान्तरतात्पर्यमङ्गीक- तव्यमित्यर्थः ।। ५८॥ विकल्पाधिकरणम् ॥ ३३ ॥ विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ।। दहरशाण्डिल्योपकोसलवैश्वानरप्रभृतीनां ब्रह्मलोकप्राप्तिफलकाना- महङ्ग्रहोपासनानां विकल्पः अनुष्ठानविकल्पः अङ्गीकर्तव्यः, न तु समु- चयः । एतासु उपासनासु मध्ये एकेन पुरुषेणैकैवोपासना मरणपर्यन्तं अधि० ३५] अद्वैतमञ्जरी। ९९ WANIOS measures कर्तव्या, न तु द्वे, तिस्रः, चतस्रो वा, उपासनाः कर्तव्या इत्यर्थः । कुतः? अविशिष्टफलत्वात् अहंग्रहोपासनानां सर्वासामपि तुल्यफलकत्वा- दित्यर्थः ।। ५९ ॥ काम्याधिकरणम् ॥ ३४ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥ काम्याः आदित्यमण्डलनाममनःप्रभृतिषु जडपदार्थेषु ब्रह्मदृष्टिरूपाः ऐश्वर्यादिभिन्नभिन्नफलसाधनीभूताः प्रतीकोपासनाः यथाकामं यथेच्छं समुञ्चीयेरन्न वा, एतासां प्रतीकोपासनानां समुच्चयो वा, विकल्पो वेति अनियम एवाङ्गीकर्तव्य इत्यर्थः । कुतः ? पूर्वोक्तहेत्वभावात् पूर्वोक्तस्य तुल्यफलकत्वरूपस्य हेतोः अत्राभावादित्यर्थः ।। ६०॥ यथाश्रयभावाधिकरणम् ॥ ३५ ॥ अङ्गावबद्धोपासनानामपि प्रतीकोपासनानामिव अनियमं वक्तुं प्रथम सूत्रचतुष्टयेन पूर्वपक्षमाह- पूर्वपक्ष:- अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ अङ्गेषु उद्गीथाहवनीययूपवेदिप्रभृतिषु ब्रह्मदृष्टिरूपेषु अङ्गावबद्धोपास- नेषु यथाश्रयभावः यथाश्रयाणां ब्रह्मत्वारोपं प्रति अधिष्ठानभूतानामुद्गी- थादीनामङ्गानां समुच्चयः, एवं तदाश्रितानाम् अङ्गावबद्धोपासनानामपि समुच्चय इत्यर्थः ॥ ६१ ॥ अङ्गानां वा कथं समुच्चयः, समुच्चयबोधकप्रमाणाभावादित्याशङ्कयाह- शिष्टश्च ॥ ६२॥ कर्मकाण्डश्रुतिषु अङ्गानां समुच्चयस्य शिष्टेः शासनादित्यर्थः ॥ ६२॥ समुच्चये लिङ्गमाह- समाहारात् ॥६३॥ 'वेदान्तरोदितस्य वेदान्तरे समाहारादङ्गानां समुच्चयः ।। ६३ ।। अस्त्वङ्गानां समुच्चयः तथापि अङ्गाश्रितानामुपासनानां कथं समुच्चय इत्याशङ्कयाह- गुणसाधारण्यश्रुतेश्च ॥ ६४॥ १ . कल्पसूत्रादिग्रन्थेष्वपि अङ्गानां मेलनरूपस्य समाहारस्य प्रतिपादितत्वादित्यर्थः ॥६॥' इति पुस्तकान्तरपाठः ।

१०० ब्रह्मसूत्रवृत्तिः । [अ०३ पा०४ अङ्गावबद्धोपासनानामपि ' यदेव विद्यया करोति' इति श्रुत्वा कर्मा- त्वस्य प्रतिपादितत्वेन गुणसाधारण्यश्रवणादङ्गसाम्यप्रतिपादनादङ्गाना- मिव अङ्गावबद्धोपासनानामपि समुच्चय इत्यर्थः ॥ ६४ ।। सिद्धान्त:- न वा तत्सहभावाश्रुतेः ॥ ६५ ॥ न वा अङ्गावबद्धोपासनानां समुच्चयनियमो नास्त्येव । कुतः ? तत्सह- भावाश्रुतेः तासाम् अङ्गावबद्धोपासनानां सहभावस्य समुच्चयस्य अश्रव- णादित्यर्थः । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति । इति श्रुतौ अङ्गावबद्धोपासनानां कर्माङ्गत्वं न प्रतिपाद्यते । 'तन्निर्धारणानियमस्तदृष्टेः पृथग्व्यप्रतिबन्धः फलम् ' इति सूत्रे कर्माङ्ग- त्वस्य निरस्तत्वात् । किं तु अङ्गावबद्धोपासनापूर्वकं कर्मानुष्ठाने कृते सति स्वर्गादिफलोत्पत्तिबन्धकपापानां निवृत्त्या शीघ्रमेव फलोत्पत्तिर्भव- तीत्येतावन्मात्रमेव 'यदेव विद्यया करोति ' इति श्रुत्या प्रतिपाद्यते । तथा च अङ्गावबद्धोपासनानामपि प्रतीकोपासनानामिव समुच्चयो वा विकल्पो वेत्यनियम इति भावः ॥ ६५ ।। दर्शनाच ॥६६॥ एकद्विव्यङ्गावबद्धोपासनापरिज्ञानवतां सर्वात्मना अङ्गाववद्धोपासना- परिज्ञानरहितानां च ऋत्विजां कर्मानुष्ठातृत्वदर्शनादपि नाङ्गावबद्धोपास- नानां कर्माङ्गत्वं, न वा समुच्चय इत्यर्थः। न च अङ्गावबद्धोपासनानां काङ्ग- त्वाभावे फलप्रतिबन्धकपापरहितानां पुरुषाणामङ्गावबद्धोपासनानुष्ठा- नवैयर्य स्यादिति वाच्यम् । अङ्गावबद्धोपासनासहकृतकर्मानुष्ठानवतां बहुकालस्वर्गभोगस्य 'प्रदानवदेव तदुक्तम्' इति सूत्रे प्रतिपादितत्वादिति भावः ॥ ६६ ॥ इति ब्रह्मसूत्रवृत्तौ तृतीयाध्यायस्य तृतीयः पादः ॥ तृतीयाध्यायस्य चतुर्थः पादः। पुरुषार्थाधिकरणम् ॥१॥ कालान्तरभाविपारलौकिकस्वर्गादिफलभोगयोग्यस्य देहेन्द्रियान्तःक- रणव्यतिरिक्तस्य नित्यस्यात्मनो ज्ञानं विना कालान्तरमाविलोकान्तर - अधि०१] अद्वैतमञ्जरी। . , भाविस्वर्गादिफलभोगसाधनेषु बहुवित्तव्ययायाससाध्येषु कर्मसु प्रेक्षावतां प्रवृत्त्यसंभवात् देहादिव्यतिरिक्तात्मज्ञानस्य ज्योतिष्टोमादिसकलकर्मा- नुष्ठानाङ्गत्वं वक्तव्यम् । तथा च अङ्गाङ्गिनोरेकफलसाधनत्वात् अङ्गिना कर्मणां यत् फलं स्वर्गादिकं, तदेव अङ्गस्य देहादिव्यतिरिक्तात्मज्ञान- स्यापि फलमित्यङ्गीकर्तव्यम् । तथा च कर्मानुष्ठानाङ्गस्य देहादिव्यतिरि- क्तात्मज्ञानस्य स्वातन्त्र्येण मोक्षलक्षणफलान्तरसाधनत्वासंभवात् उत्तर- मीमांसारम्भो व्यर्थ इति पूर्वमीमांसका वदन्ति । तन्मतं निराकर्तुं प्रथम सिद्धान्तमाह- पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥ अत: ब्रह्मसाक्षात्कारात् पुरुषार्थः मोक्षोऽस्तीति वादरायणो मन्यते। कुतः ? शब्दात् 'तरति शोकमात्मवित् । इत्यादिश्रुतेरित्यर्थः ॥ १ ॥ पूर्वपक्षः-- शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥ शेषत्वादेहादिव्यतिरिक्तात्मविषयकज्ञानत्य कर्माङ्गत्वेन ज्ञानविषयीभू- तस्यात्मनोऽपि कर्माङ्गत्वात् 'तरति शोकमात्मवित्' इत्यादिवाक्यं पुरुषा- र्थवादः पुरुषस्य देहादिव्यतिरिक्तस्य आत्मनः अर्थवादः स्तावकः आत्म- ज्ञानस्तुतिद्वारा आत्मस्तुतिपरमित्यर्थः । तत्र दृष्टान्तमाह-यथा अन्येषु अन्येषां द्रव्यदेवताकर्मरूपाणामङ्गानां 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति, वायुवै क्षेपिष्ठा देवता, यत् प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते' इत्यादिवाक्यं यथा स्तुतिपरं, तद्वदित्यर्थः ॥२॥ आत्मज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वाभावे हेत्वन्तरमाह- आचारदर्शनात् ॥ ३॥ आत्मसाक्षात्कारवतां जनकादीनामपि आचारदर्शनात् कर्मानुष्ठानद- र्शनात् आत्मज्ञानस्य कर्माङ्गत्वमेव, न स्वातन्त्र्येण मोक्षसाधनत्व- मित्यर्थः ॥३॥ तच्छ्रुतेः ॥ ४॥ 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इति श्रुतौ विद्याशब्दवाच्यस्य आत्मज्ञानस्य कर्मानुष्टानाङ्गत्वश्रवणादपि आत्मज्ञानस्य न स्वातन्त्र्येण मोक्षसाधनत्वमित्यर्थः । यत् कर्म विद्यया न, न तु देहादिव्यतिरिक्तात्मज्ञानमात्रम् । कुतः । तदर्शनात् १०२ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०४ देहातिरिक्तात्मज्ञानेन श्रद्धया आस्तिक्येन च उपनिषदा इन्द्रादिध्यानेन सहकृतः सन् करोति, तदेव कर्म वीर्यवत्तरम् अविलम्बेन स्वर्गादिफलज- नकमित्यर्थः ॥ ४॥ समन्वारम्भणात् ॥५॥ 'तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च' इति श्रुतौ आत्मज्ञान- कर्मणोः समन्वारम्भणात् जीवेन सह परलोकगमनश्रवणापि आत्मज्ञा- नस्य स्वातन्त्र्येण मोक्षसाधनत्वं न संभवति । मोक्षसाधनत्वाङ्गीकारे इहैव लोके मोक्षजननसमर्थत्वेन परलोकगमनस्य व्यर्थत्वादित्यर्थः । तं परलोकं गच्छन्तं कर्मिणं विद्याकर्मणी आत्मज्ञानकर्मणी, समन्वारभेते सम्यगनुसृत्य गच्छतः, पूर्वप्रज्ञा पूर्वजन्मन्यभ्यस्ता स्रक्चन्दनादिविषय- भोगवासना च गच्छतीति श्रुत्यर्थः ॥ ५॥ तद्वतो विधानात् ॥ ६ ॥ 'य एवं विद्वान यजते ' इति श्रुतौ आत्मज्ञानवतः कर्मविधानादपि आत्मज्ञानं कर्माकमेव, न स्वातन्त्र्येण मोक्षसाधनमित्यर्थः । यः पुरुषः विद्वान् देहादिव्यतिरिक्तात्मज्ञानवान् सन् यजते यागं करोति, तस्य कर्म शीघ्रमेव फलजनकमिति श्रुत्यर्थः ॥ ६ ॥ नियमाच॥७॥ 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति श्रुतौ सरणपर्यन्तं ज्ञानिनामज्ञानिनां ६ कर्मानुष्ठानस्य आवश्यकत्वश्रवणादपि आत्मज्ञा- नस्य स्वातन्त्र्यण मोक्षसा पनत्वं न संभवति । मोक्षसाधनत्वाङ्गीकारे आत्मज्ञानोत्पत्त्यनन्तरं कर्मानुष्ठानस्य व्यर्थत्वादित्यर्थः ।। ७ ।। सिद्धान्तसूत्रम्- अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८॥ देहेन्द्रियान्तःकरणव्यतिरिक्तस्यात्मनः 'तत्त्वमसि । अहं ब्रह्मास्मि' इति वाक्यैः अधिकोपदेशात् अधिकस्य ब्रह्माभेदस्योपदेशात् तत्त्वमस्या- दिवाक्यजन्यं जीवब्रह्माभेदविषयकं ज्ञानं बादरायणस्य मते एवं मोक्ष- ब्रह्म वेद ब्रह्मैव भवति । ब्रह्मविदाप्नोति परम्' इत्यादिश्रुतिषु जीवन- माभेदज्ञानस्य मोक्षसाधनत्वश्रवणादित्यर्थः । 'ब्रह्म वेद ब्रह्मैव भवतिः MAMIRE ।

अधि० १] अद्वैतमञ्जरी। १०३ इत्यादिबहुवाक्यानुसारेण 'तरति शोकमात्मविद् ' इति वाक्येऽपि आत्मशब्देन ब्रह्माभिन्नो जीव एवोच्यते । तथा च देहादिव्यतिरिक्तात्म- ज्ञानमात्रस्य कर्मानुष्टानाङ्गत्वेऽपि जीवब्रह्माभेदज्ञानस्य कर्मानुष्ठा- नाङ्गत्वाभावात् स्वातन्त्र्येण मोक्षरूपफलान्तरसाधनत्वमुपपन्नमिति भावः॥८ यच्चोक्तं ज्ञानिनां जनकादीनामपि कर्मानुष्ठानदर्शनात् आत्मज्ञानं न मोक्षसाधनमिति, तत्र परिहारमाह- तुल्यं तु दर्शनम् ॥९॥ ज्ञानिनां शुकादीनां सकलकर्मानुष्ठानपरित्यागेन तूष्णीमवस्थानमपि दृष्टम् । तथा च लिङ्गदर्शनं मतद्वयेऽपि तुल्यम्। एवंस्थिते सति बहूनां ज्ञानिनां कर्मानुष्ठानपरित्यागस्य दृष्टत्वात् जनकाधनुसारेण केषांचित् ज्ञानिनां कर्मानुष्ठानं कुतूहलार्थ वा, लोकशिक्षार्थ वा भविष्यतीति न तावन्मात्रेण जीवब्रह्माभेदज्ञानस्य कर्माङ्गत्वमिति भावः ॥९॥ यच्चोक्तम् 'यदेव विद्यया करोति' इति श्रुत्या ज्ञानस्य कर्माङ्गत्वं प्रतिपाद्यत इति, तस्य परिहारमाह- असार्वत्रिकी ॥ १०॥ ब्रह्मलोकप्राप्तिहेतुभूतदहरशाण्डिल्यवैश्वानरोपकोसलादिसगुणब्रह्मवि- द्या मोक्षसाधनीभूतनिर्गुणब्रह्मविद्या च सार्वत्रिकी सकला इयं विद्याश- ब्देन नोच्यते, किं तू गीथादिषु कर्माङ्गेषु ब्रह्मदृष्टिरूपा या अमावब- द्धोपासना , सा' यदेव विद्यया करोति' इति श्रुतौ विद्याशब्देनोच्यते । तथा चाङ्गावबद्धोपासनाया एव कर्माङ्गत्वं, न सगुणब्रह्मोपासनायाः, न वा निर्गुणब्रह्मज्ञानस्येत्यर्थः ॥ १०॥ यच्चोक्तम् ' तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ' इति श्रुतौ आत्मज्ञानकर्मणोरङ्गाङ्गिभावेन मिलितयोः स्वर्गलोकप्राप्तिसाधनत्वप्रति- पादनात् आत्मज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं न संभवतीति, तस्य परिहारमाह- विभागः शतवत् ॥ ११ ॥ 'तं विद्याकर्मणी' इति श्रुतौ विद्याशब्देन निर्गुणब्रह्मज्ञानं नोच्यते निर्गुणब्रह्मज्ञानिनाम् इहैव लिङ्गशरीरनाशपूर्वकम् इहैव ब्रह्मण्येकीभा- . , , TOR ब्रह्मलोकं गच्छा १०४ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०४ वस्य श्रुतिषु प्रतिपादितत्वेन परलोकगमनप्रसत्तेरभावात् । किं तु विद्या- शब्देन सगुणब्रह्मोपासनैवोच्यते । एवंस्थिते सति तं विद्याकर्मणी सम- न्वारभेते ' इति श्रुतौ विभागो निश्चीयते । कथं ? तं देवयानमार्गेण रभते अनुसृत्य गच्छति, तं धूमादिमार्गेण स्वर्गलोकं गच्छन्तं कर्मिणं ज्योतिष्टोमादिरूपं कर्म समन्वारभते अनुसृत्य गच्छति, इत्येवंविभागो निश्चीयते । शतवत् द्वयोः ब्राह्मणयोः शतं पणा दातव्या इति लौकि- कवाक्ये एकस्य ब्राह्मणस्य पञ्चाशत्पणा दातव्याः, अन्यस्य ब्राह्मणस्य पञ्चाशत्पणा दातव्या इति विभागो यथा निश्चीयते, तद्वदित्यर्थः । सगुणब्रह्मोपासनाकर्मणोः स्वातन्त्र्येण प्रत्येकं ब्रह्मलोकस्वर्गलोकप्राप्ति- साधनत्वेन क्लुप्तत्वात् उभयोमिलित्वा स्वर्गलोकप्राप्तिं प्रति, ब्रह्मलोक- प्राप्तिं प्रति वा साधनत्वासंभवात् विभाग एव श्रुत्यर्थ इति निश्चीयत इति भावः । ननु, 'तं विद्याकर्मणी समन्वारभेते' तं स्वर्गलोकं गच्छन्तं कर्मिणं विद्याकर्मणी विद्या शब्देन कर्माङ्गभूतं देहादिव्यतिरिक्तात्मज्ञानमु- च्यते । कर्मशब्देन तदङ्गकम् अग्निहोत्रादिकमुच्यते । उभे अपि समन्वा- रभेते अनुसृत्य गच्छत इत्येवं श्रुत्यर्थोऽस्त्विति चेत्, इष्टापत्तेः। देहादिव्य- तिरिक्तात्मज्ञानमात्रस्य अस्माभिरपि कर्माङ्गत्वाङ्गीकारात् जीवब्रह्माभेद- ज्ञानस्य कर्माङ्गत्वनिराकरण एवास्माकमाग्रहः । तथा चास्माकमविरोधिनः अर्थाः अस्याः श्रुतेः शतमुच्यन्तां, तथापि नास्माकमनिष्टमिति भावः।।११।। यच्चोक्तम् ‘य एवं विद्वान यजते ' इति श्रुतौ देहादिव्यतिरिक्तात्मज्ञा- नवतः कर्माधिकारश्रवणात् आत्मज्ञानं कर्मानुष्ठानाङ्गमिति, तस्य परि- हारमाह- अध्ययनमात्रवतः॥ १२ ॥ इदमुपलक्षणम् । साङ्गवेदाध्ययनवतः कर्मकाण्डप्रतिपाद्यसाङ्गकर्मज्ञान- वतः तर्कशास्त्रप्रतिपाद्यदेहादिव्यतिरिक्तात्मज्ञानवतश्च कर्मानुष्ठाने अधि. कारः, न तु उपनिषत्प्रतिपाद्यजीवब्रह्माभेदज्ञानवत इत्यर्थः । तथा च 'य एवं विद्वान् यजते ' इतिश्रुतौ विद्वच्छब्देन कर्मकाण्डप्रतिपाद्यार्थज्ञान- वान् तर्कशास्त्रप्रतिपाद्यदेहादिव्यतिरिक्तात्मज्ञानवांश्च कर्मानुष्ठानाधिका- रीत्युच्यते । न तु ज्ञानकाण्डप्रतिपाद्यजीवब्रह्माभेदज्ञानवान् । जीवन- ह्माभेदज्ञानस्य कर्मानुष्टानानुपयोगित्वादिति भावः ।। १२॥ । ।

अधि०१] अद्वैतमञ्जरी। १०५ DAR ? । यच्चोक्तम् , 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति श्रुतौ ब्रह्म- ज्ञानवतां ब्रह्मज्ञानरहितानां च सर्वेषामपि मरणपर्यन्तं कर्मानुष्ठानस्या- वश्यकत्वप्रतिपादनात् ब्रह्मज्ञानं स्वातन्त्र्येण मोक्षसाधनं नास्तीति, तस्य परिहारमाह- नाविशेषात् ॥ १३ ॥ 'कुर्वन्नेवेह कर्माणि' इति वाक्यं जीवब्रह्माभेदज्ञानरहितदेहाभिमानपु- रुषविषयकम् । कुतः ? अविशेषात् एतस्य वाक्यस्य सामान्यवचनत्वादि- त्यर्थः । अयं भावः-कुर्वन्नेह कर्माणाति वाक्यं ज्ञानिविषयकं वा, अ- ज्ञानिविषयकं वा इति संदेहे प्राप्ते सति, इदं वाक्यम् अज्ञानिविषयकमे- वेति निश्चीयते ज्ञानिनां ज्ञानोत्पत्त्युत्तरक्षण एव मोक्षप्रतिपादकबहु- श्रुत्यनुसारेण ज्ञानोत्तरकालं कर्मानुष्ठानम्य व्यर्थत्वेन मरणपर्यन्तं कर्मा- नुष्ठानप्रतिपादकस्य अस्य वाक्यस्य अज्ञानिविषयकत्वस्यैव उचितत्वात 'कमब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ' इति स्मृतौ ब्रह्मज्ञानरहितानां कर्मानुष्ठानपरित्यागे सति पातित्यश्रवणादिति भावः ॥ १३ ॥ कुर्वन्नेवेह कर्माणीति वाक्यस्य ज्ञानिविषयकत्वमङ्गीकृत्यापि परिहारा- न्तरमाह- स्तुतयेऽनुमतिर्वा ॥ १४॥ ज्ञानिनामपि मरणपर्यन्तं कर्मानुष्ठानमावश्यकं, किमु वक्तव्यमज्ञानि- नामित्येवंरूपेण कर्मप्रशंसार्थमनुमतिः ज्ञानिनां कर्मानुष्ठानस्य आवश्यक- त्वप्रतिपादनं, न तु स्वार्थे तात्पर्यमित्यर्थः ।। १४ ।। अस्य वाक्यस्य परिहारान्तरमाह- कामकारेण चैके ॥ १५ ॥ एके शाखिनः 'किमर्था वयमध्येष्यामः किमर्था वयं यक्ष्यामः किं प्रजया करिष्यामो येषां नोऽयमात्मा ' इति श्रुतौ आत्मज्ञानवतां सकल- कर्मानुष्टानं परित्यज्य कामकारेण खेच्छया तूष्णीमवस्थानं प्रतिपाद- यन्ति । तथा च 'किमर्था वयमध्येष्याम । इति श्रुत्यन्तरविरोधादपि 'कुर्वन्नेवेह कर्माणि ' इति वाक्यमज्ञानिविषयकं वा, कर्मप्रशंसापर वा अङ्गीकर्तव्यमिति भावः ॥ १५ ॥ जीवब्रह्माभेदज्ञानस्य कर्मानुष्ठानानुपयोगित्वात् काङ्गत्वं नास्तीत्यु- MAHARA Homeman १०६ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०४ क्तम् । इदानीं तु जीवब्रह्माभेदविषयकसाक्षात्कारस्य सकलकर्मनाशक- त्वादपि जीवब्रह्माभेदविषयकमपरोक्षज्ञानं न कर्माङ्गमित्याह- उपमर्दै च ॥ १६ ॥ जीवब्रह्माभेदविषयकमपरोक्षज्ञानं सकलकर्मणामुपमर्दै नाशकम् ‘भि- द्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इत्यादिश्रु- तिस्मृतिषु ब्रह्मसाक्षात्कारस्य सकलकर्मनाशकत्वप्रतिपादनादित्यर्थः । तथा च ब्रह्मसाक्षात्कारस्य कर्मनाशकत्वादपि न कर्माङ्गत्वमिति भावः । न च ब्रह्मसाक्षात्कारस्य सकलकर्मनाशकत्वेन कर्मानुष्ठानाङ्ग त्वाभावे- ऽपि श्रवणोत्तरकालीनस्य श्रुतवेदान्तशब्दजन्यस्य जीवब्रह्माभेदविषयकस्य परोक्षज्ञानस्य कर्मानुष्ठानाङ्गत्वं भविष्यतीति वाच्यम् । जीवब्रह्माभेद- विषयकशाब्दज्ञाने सति जीवनिष्ठानां कर्तृत्वभोक्तृत्वकिंचिज्ज्ञत्वादि- धर्माणां, जीवन क्रियमाणानाम् अग्निहोत्रादिकर्मणां, जीवेन भुज्यमा- नानां स्वर्गादिफलानां च मिथ्यात्वनिश्चयात् ईश्वरगतानामपि सर्वज्ञत्व- सर्वेश्वरत्वसर्वनियन्तृत्वसर्वजगत्कारणत्वसर्वकर्मफलप्रदातृत्वादिधर्माणां च मिथ्यात्वनिश्चयात् जीवब्रह्माभेदविषयकस्य शाब्दपरोक्षज्ञानस्यापि कर्मा- नुष्ठानविरोधित्वेन कर्मानुष्ठानाङ्गत्वमनुपपन्नमिति भावः ॥ १६ ॥ जीवब्रह्माभेदविषयकस्य ज्ञानस्य कर्मानुष्ठानाङ्गत्वाभावे हेत्वन्तरमाह- ऊर्ध्वरेतस्सु च शब्दे हि ॥ १७ ॥ शब्दे वेदे 'इमं लोकममुं च लोकं परित्यज्यात्मानमन्विच्छेत् । त्रय एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति । संन्यस्य श्रवणं कुर्यात् इत्यादिश्रुतौ ऊर्ध्वरेतस्सु च ऊर्ध्वरेतसां संन्यासिनां श्रवणमनननिदि- ध्यासनरूपा ब्रह्मविद्या विहिता । तथा च संन्यासिनां अग्निहोत्रा- दिकर्मानुष्ठानासंभवात् संन्यास्यधिकारिकस्य ब्रह्मज्ञानस्य कर्मानुष्ठाना- ङ्गत्वमनुपपन्नमिति भावः ॥ १७ ॥ परामर्शाधिकरणम् ॥२॥ संन्यासाश्रमस्यैवाप्रामाणिकत्वात् संन्यासिनां श्रवणमनननिदिध्या- सनरूपायां ब्रह्मविद्यायामधिकार इत्येतदनुपपन्नमिति पूर्वपक्षमाह- परामर्श जैमिनिरचोदना चापवदति हि ॥१८॥ 4. ब्रह्मचार्याचार्यकुलेवासी प्रथमः, यज्ञो दानमध्ययनमिति द्वितीयः, In RAMMAR त्रितयप्रधानको गृहस्थाश्रम उच्यते । तपशब्देन तपःप्रधान अधि०३] अद्वैतमञ्जरी। तप इति तृतीयः, त्रय एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति । इति । ब्रह्मचारीत्यनेन ब्रह्मचर्याश्रम उच्यते । यज्ञदानाध्ययनशब्दैः स्थाश्रम उच्यते । एते त्रयो ब्रह्मचारिगृहस्थवानप्रस्थाः पुण्यलोकभाजो भवन्ति । ब्रह्मसंस्थः निरन्तरं ब्रह्मविचारपरः संन्यासी तु श्रवणमनना- द्यनुष्ठानद्वारा अमृतत्वं मोक्षं प्राप्नोतीति श्रुत्यर्थः । एवं स्थितेसति ब्रह्मसंस्थोऽमृतत्वमेति' इति वाक्यं परामर्शम् अन्धपरंपरान्यायप्राप्तभ्र- मसिद्धसंन्यासस्य अनुवादकं जैमिनिर्मन्यते । कुतः ? अचोदना खलु विधायकलिङ्लोट्तव्यप्रत्ययादिकं अस्मिन् वाक्ये नास्ति खलु । न केव- लमस्मिन् वाक्ये लिङाद्यभावमात्रं, किंतु 'वीरहा वा एष देवानां यो- ऽग्निमुद्वासयते' इति वाक्यान्तरमग्निहोत्रादिकर्मत्यागात्मकं संन्यास अपवदति प्रतिषेधतीत्यर्थः ॥ १८ ॥ सिद्धान्तसूत्रम्- अनुष्ठेयं बादरायणः साभ्यश्रुतेः ॥ १९॥ बादरायणस्तु संन्यासाश्रममनुष्टेयं प्रामाणिकं मन्यते । कुतः ? साम्यश्रुतेः 'ब्रह्मचार्याचार्यकुलेवासी प्रथमः' इत्यादिषु आश्रमचतुष्टय- विधायकेषु चतुष्वपि वाक्येषु लिङादिप्रत्ययाभावस्य तुल्यत्वादित्यर्थः । तथा च संन्यासाश्रमस्याप्रामाणिकत्वाङ्गीकारे ब्रह्मचर्यादीनां त्रयाणाम- प्याश्रमाणामप्रामाणिकत्वं स्यादिति भावः । तथा चानुवादरूपवाक्यप्र- तिपादितानामपि चतुर्णामप्याश्रमाणां प्रामाणिकत्वमङ्गीकर्तव्यमिति भावः ॥ १९॥ परिहारान्तरमाह विधिर्वा धारणवत् ॥ २०॥ धारणवत् 'पित्र्येऽग्निहोत्रे अधस्तात् समिधं धारयन्ननुद्रवेत् । देवेऽग्नि- होने उपरि हि देवेभ्यः समिधं धारयति' इति वाक्ये यथा लिङ्प्रत्ययः अध्याहियते, एवम् ‘ब्रह्मचार्याचार्यकुलेवासी प्रथमः' इत्यादिषु चतुर्वपि वाक्येषु विधिः तव्यप्रत्ययः अध्याहर्तव्य इत्यर्थः ॥ २० ॥ स्तुतिमात्राधिकरणम् ॥३॥ ब्रह्मविद्यास्तावकतया अर्थवादत्वेनापि 'ब्रह्मसंस्थोऽमृतत्वमति' इति १०८ ब्रह्मसूत्रवृत्तिः। [अ०३ पा०४ RAMETAIMIMAN वाक्यस्य प्रामाण्यसंभवात् अस्मिन् वाक्ये तव्यप्रत्ययाध्याहारो व्यर्थ इत्याशङ्कय निराकरोति- स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ।। उपादानात् ब्रह्मविद्याप्रकरणे अस्य वाक्यस्य पठितत्वात् 'ब्रह्मसंस्थो- ऽमृतत्वमेति' इति वाक्यं स्तुतिमात्रं श्रवणमननाभ्यासशीलानाम् अग्नि- होत्रादिसकलकर्मत्यागेऽपि न दोष इत्येवंरूपेण ब्रह्मविद्याप्रशंसार्थमिदं वाक्यं, न संन्यासतात्पर्यकमिति चेन्न । अपूर्वत्वात् संन्यासस्य प्रमा- णान्तरेण अज्ञातत्वात् नित्यनैमित्तिककाम्यकर्मानुष्ठानविक्षेपराहित्यसंपा- दकतया श्रवणाद्यनुकूलत्वेन सफलत्वाच्च फलवत्यज्ञातेऽर्थे श्रुतेस्तात्पर्य- मङ्गीकर्तव्यमित्यर्थः ॥ २१ ॥ भावशब्दाच ॥ २२ ॥ यदहरेव विरजेत्तदहरेव प्रव्रजेत् । संन्यस्य श्रवणं कुर्यात् । इमं लोक- ममुं च लोकं परित्यज्यात्मानमन्विच्छेत् ' इत्यादिबहुश्रुतिषु भावशब्दात् विधायकलिङादिशब्दस्य विद्यमानत्वादपि संन्यासस्य प्रामाणिकत्व- मित्यर्थः ॥ २२ ॥ पारिवाधिकरणम् ॥ ४ ॥ इयता सूत्रसंदर्भेण संन्यासस्य ब्रह्मविद्यानुकूलत्वं प्रसाध्य इदानी- उपनिषन्मध्यगतानां याज्ञवल्क्यमैत्रेयीसंवादशाकल्यगार्गीसंवादप्रतर्दनेन्द्र- संवादरूपाणाम् उपाख्यानानामपि ब्रह्मविद्यानुकूलत्वं वक्तुं पूर्वपक्षमा- शङ्कय निराकरोति- पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥ पारिप्लवो नाम अश्वमेघाङ्गभूतकर्मविशेषः । तस्मिन् कर्मणि ज्योति- ष्टोमादिसकलकर्माङ्गभूताः मन्त्राः पठनीयाः। एवं स्थिते सति याज्ञवल्क्य- मैत्रेय्यादिसंवादरूपाः कथाप्रबन्धा अपि पारिप्लवार्थाः कर्मकाण्डस्थ- पारिप्लवाख्यकाङ्गभूता इति चेन्न । विशेषितत्वात् कर्मकाण्डस्थाः सकलकर्माङ्गभूता मन्त्राः पारिप्लवे पठितव्या इति विशिष्योक्तत्वादि- त्यर्थः । तथा च ज्ञानकाण्डस्थानाम् उपाख्यानानां कर्मकाण्डस्थपारिप्ल- वकर्माङ्गत्वप्रसक्तिर्नास्तीति भावः ।। २३ ।।

अधि० ६.] अद्वैतमञ्जरी। ANNAIRED तर्हि उपाख्यानानां वैयर्थ्यमेव स्यादित्याशङ्कयाह- तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥ तथासति उपाख्यानानां पारिप्लवाङ्गत्वाभावे सति एकवाक्यतो- पबन्धात् ब्रह्मविद्याप्रकरणपठितानामुपाख्यानानां ब्रह्मप्रतिपादकवा- क्यैः सह एकवाक्यतया उपबन्धात संबन्धात् ब्रह्मविद्याङ्गत्वमित्यर्थः । उपाख्यानपूर्वकं ब्रह्मप्रतिपादने कृते सति मन्दबुद्धीनामपि सुलभतया ब्रह्मज्ञानमुत्पद्यत इति तदर्थं ब्रह्मप्रतिपादकेषु वेदान्तेषु उपाख्यानान्यु- तानीति भावः ॥ २४॥ अग्नीन्धनाधिकरणम् ॥ ५ ॥ सूत्रद्वयेन प्रासङ्गिकी चिन्तां कृत्वा प्रस्तुतामेव चिन्तां करोति- अत एव चाग्नीन्धनाचनपेक्षा ॥ २५ ॥ यतः श्रवणमनननिदिध्यासनरूपा ब्रह्मविद्या संन्यास्यधिकारिका, अत एवानीन्धनाद्यनपेक्षा अग्न्याधानाग्निहोत्रादिकर्मणां ब्रह्मसाक्षात्कार प्रति साक्षादपेक्षा नास्ति । ब्रह्मसाक्षात्कारं प्रति साक्षात् साधनत्वं नास्तीत्यर्थः ॥ २५॥ सर्वापेक्षाधिकरणम् ॥ ६ ॥ 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाना- शकेन' इत्यादिश्रुतेः यज्ञादीनां ब्रह्मसाक्षात्कारं प्रति साधनत्वबो- धिकायाः अप्रामाण्यं स्यादित्याशङ्कयाह- सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ यज्ञादिश्रुतेः 'यज्ञेन दानेन तपसानाशकेन' इतिश्रतिबलात् सर्वापेक्षा सर्वेषां कर्मणां ब्रह्मसाक्षात्कारं प्रति अपेक्षा परम्परया साधनत्वमङ्गीक्रि- यते । अश्ववत् अश्वस्य यथा गमनक्रियापरम्परया ग्रामप्राप्तिं प्रति साध- नत्वं, तद्वदित्यर्थः । तथा च 'तमेतं वेदानुवचनेन' इत्यादिश्रुतेः चित्त- शुद्धिवैराग्यसंन्यासश्रवणमनननिदिध्यासनादिपरम्परया यज्ञादिकर्मणां ब्रह्मसाक्षात्कारं प्रति साधनत्वबोधकत्वात् अप्रामाण्यं नास्तीति भावः ॥ २६॥ एवं ब्रह्मसाक्षात्कार प्रति बहिरङ्गसाधनानि यज्ञादिकर्माणि प्रति- पाद्य इदानीं ततोऽप्यन्तरङ्गसाधनानि शमदमादीनि प्रतिपादयति- m १० ब्रह्मसूत्रवृत्तिः । [अ०३ पा०४ शमदमाशुपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥ तथापि संन्यासिनां ब्रह्मसाक्षात्कारं प्रति बहिरङ्गसाधनभूताग्निहो- त्रादिकर्मानुष्ठानप्रसक्त्यभावेऽपि संन्यासी शमदमाद्युपेतः स्यात् शमदमा- दिविशिष्टो भवेत् । कुतः ? तदङ्गतया ब्रह्मसाक्षात्कारं प्रति साक्षात्सा- धनतया तद्विधेस्तेषां शमदमादीनाम् 'शान्तो दान्त उपरतस्तितिक्षुः श्रद्धा- वित्तो भूत्वात्मन्येवात्मानं पश्येत् ' इति वाक्येन विहितत्वाद्धेतोः तेषां शमदमादीनां ब्रह्मसाक्षात्कारं प्रति अन्तरङ्गसाधनानामवश्यमनुष्ठेयत्वात् संन्यासिनामप्यवश्यं संपादनीयत्वादित्यर्थः ॥ २७ ॥ सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥ 'अथ परिबाडेकशाटीपरिहितो मुण्डोदरपात्र्यरण्यनित्यो भिक्षार्थ ग्राम प्रविशेत् आसायं प्रदक्षिणेनाविचिकित्सन् सार्ववर्णिकं भैक्षचर्यमभिश- स्तपतितवर्जमयज्ञोपवीती शौचकामनिष्टमेकं वैणवं दण्डमादत्ते सखे मा गोपाय ' इति श्रुतौ निष्कम्पं संन्यासिनां ब्रह्मक्षत्रियवैश्यशूद्रगृहेषु भिक्षाचरणमुक्तं, तचापत्कालविषयकमित्याह- सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥ सार्ववर्णिकं भैक्षचर्यमिति श्रुतौ सर्वान्नानुमतिः सर्ववर्णानां गृहेषु अन्नभक्षणानुज्ञा अस्मिन् युगे प्राणात्यये प्राणसंकटकाल एव, न तु स्वस्थावस्थायाम् । कुतः ? तद्दर्शनात् महात्मनां प्राणसंकटसमय एव अभक्ष्यभक्षणदर्शनादित्यर्थः ॥ २८ ॥ अबाधाच ॥ २९॥ भक्ष्याभक्ष्यविभागबोधकश्रुतीनामबाधात् अबाधार्थमपि प्राणसंकटस- मय एव अभक्ष्यभक्षणमिति भावः ॥ २९ ॥ अपि च सर्यते ॥३०॥ अपि च स्मृतिष्वपि भक्ष्याभक्ष्यविभागः प्रतिपाद्यत इत्यर्थः ॥३०॥ शब्दश्चातोऽकामकारे ॥३१॥ यतः सर्वान्नानुमति: प्राणसंकटविषया, अत एव शब्दः उपस्तिश्चाक्रा- यणः इभ्येन सामि खादितान् कुल्माषांश्चखाद, जलपानं तु उच्छिष्टदो- पान्न कृतवान् , कारणं चात्रोवाच- न वा अहमजीविष्यमिमानखादन् कामो म उदपानम् ' इति श्रुति: अकामकारे अस्वस्थावस्थायामेव उपस्ति- अधि०८] अद्वैतमञ्जरी। नामकऋषेः अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति । तथा च चतुर्णामप्याश्र- मिणां प्राणसंकटसमय एव अभक्ष्यभक्षणम्, अभोज्यगृहभोजनं च न स्वस्थावस्थायामिति भावः । इदं कलियुगविषयकं, युगान्तरेषु तु संन्या- सिनां चतुषु वर्णेषु गृहस्थादीनां त्रिषु वर्णेषु च भोजनकरणेऽपि न दोषः। तथाविधाचारस्य विद्यमानत्वादिति द्रष्टव्यम् ॥ ३१ ॥ आश्रमकर्माधिकरणम्॥८॥ संन्यासिनां ब्रह्मसाक्षात्कारं प्रति अन्तरङ्गसाधनं शमदमादिकम- नुष्ठेयमित्युक्त्वा बहिरङ्गसाधनमपि किञ्चिद्नुष्ठेयमस्तीत्याह- विहितत्वाचाश्रमकर्मापि ॥ ३२ ॥ आश्रमकापि स्नानशौचभिक्षाटनादिरूपं बहिरङ्गसाधनमपि संन्या- सिनां कर्तव्यम् । कुतः ? विहितत्वात् “विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षान्नो ब्रह्मभूयाय भवति । पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति । अथ परिवाडेकशा- टीपरिहितः' इत्यादिश्रुतिषु संन्यासिनामपि भिक्षाटनादीनामाश्रम- धर्माणां विहितत्वादित्यर्थः ॥ ३२॥ न केवलं विहितत्वमात्रेण संन्यासिनामाश्रमधर्मानुष्ठानं, किं चित्तशुद्धिद्वारा ब्रह्मसाक्षात्कारं प्रति साधनवादपीत्याह- सहकारित्वेन च ॥ ३३ ॥ भिक्षाटनाद्याश्रमकर्मानुष्ठानस्य चित्तशुद्धिद्वारा ब्रह्मसाक्षात्कारं प्रति सहकारित्वेन साधनत्वेन हेतुनापि संन्यासिनां भिक्षाटनादिकर्म अवश्य कर्तव्यमित्यर्थः ॥ ३३ ॥ इयता सूत्रसंदर्भेण संन्यासिनां धर्मान् प्रतिपाद्य इदानीम् ' ऊर्ध्व- रेतस्सु च शब्दे हि ' इति सूत्रे उपक्रान्तमूर्ध्वरेतसां ब्रह्मविद्याधिकारित्वमु- पसंहरति- सर्वथापि त एवोभयलिङ्गात् ॥ ३४॥ सर्वथापि सर्वश्रुतिस्मृतिपर्यालोचनयापि त एव ऊर्ध्वरेतस एव श्रव- णमनननिदिध्यासनरूपायां ब्रह्मविद्यायामधिकारिणः । सर्वथापीत्येतत्पदं स्वयमेव व्याचष्टे-उभयलिङ्गादिति । उभयलिङ्गात् श्रुतिस्मृतिरूपात् ज्ञापकादित्यर्थः ॥ ३४ ॥ RANIOName ११२ ब्रह्मसूत्रवृत्तिः। [अ० ३ पा०४ RASRDINGOsm संन्यासिनामेव ब्रह्मविद्याधिकार इत्यत्र हेत्वन्तरमाह- अनभिभवं च दर्शयति ॥ ३५ ॥ यन्न सन्तं न चासन्तं नाचतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चन स द्विजः । तुल्यनिन्दास्तुतिमौंनी संतुष्टो येनकेनचित्' इत्यादिस्मृतिः । अनभिभवं मानावमानादिराहित्यं ब्रह्मसाक्षात्कारसाधनं दर्शयति । तच मानावमानादिराहित्यं प्रायेण संन्यासिनामेव संभवति, न गृहस्थानां पुत्रदाराद्यभिमानवताम् । तस्मादपि संन्यासिनामेव ब्रह्म- विद्याधिकार इति भावः ॥ ३५ ॥ तदृष्टयधिकरणम् ॥९॥ एवं संन्यासिनामेव ब्रह्मविद्याधिकारं प्रसाध्य इदानीं विधुराणामपि अग्निहोत्रादिकर्मानुष्ठाने विक्षेपाभावात् ब्रह्मचर्यवत्त्वाच्च संन्यासितुल्य- त्वात् तेषामपि ब्रह्मविद्यायामधिकारमाह- अन्तरा चापि तु तदृष्टेः ॥ ३६॥ दैवात् पत्नीवियोगे सति अन्तरा गृहस्थाश्रमसंन्यासाश्रमयोः मध्ये विद्यमानानामनाश्रमिणां विधुराणामपि श्रवणमनननिदिध्यासनरूपायां ब्रह्मविद्यायामधिकारोऽस्ति । कुतः? तदृष्टेः अनाश्रमिणामपि बहूनां लोके ब्रह्मसाक्षात्कारवत्त्वदर्शनादित्यर्थः ॥ ३६ ॥ अपि च स्मयते ॥ ३७॥ अपि च अनाश्रमिणामपि बहूनां ब्रह्मसाक्षात्कारवत्त्वं मन्वादिस्मृ- तिषु प्रतिपाद्यत इत्यर्थः ॥ ३७ ॥ अनाश्रमिणां ज्ञानसाधनीभूतकर्मानुष्ठानाभावात् कथं ज्ञानोत्पत्तिरि- त्याशङ्कयाह- विशेषानुग्रहश्च ॥ ३८॥ अनामिभिरनुष्ठितानां विशेषाणां स्नानसंध्याजपादीनामनुग्रहः ज्ञा- नानुग्राहकत्वमुपपन्नमित्यर्थः ॥ ३८ ॥ अनाश्रमिकर्मापेक्षया आश्रमिकर्मणामाधिक्यमाह- अतस्त्वितरज्ज्यायो लिङ्गाच॥ ३९ ॥ अतः अनाश्रमिकृतकर्मापक्षया इतरत् आश्रमिकृतं कर्म ज्यायः श्रेष्ठम् अविलम्बेन ज्ञानसाधकमित्यर्थः ॥ ३९ ॥ IMAHINI अधि० ११ ] अद्वैतमञ्जरी। ११३ SODIUM तद्भूताधिकरणम् ॥ १० ॥ अनाश्रमिणां विधुराणां श्रवणमनननिदिव्यासनरूपायां ब्रह्मविद्या- यामधिकारं प्रतिपाद्य इदानीं संन्यासाश्रमं प्राप्य तं परित्यज्य पुन- गृहस्थाश्रमं प्राप्तानामाश्रमभ्रंशजन्योत्कृष्टपापविशिष्टानामाश्रमभ्रष्टानां ब्रह्मविद्यायामधिकारो नास्तीति वक्तुमाश्रमभ्रंशस्य शास्त्रप्रतिषिद्ध- त्वेन पापजनकत्वमाह- तभूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥४०॥ तद्भूतस्य संन्यासाश्रमं प्राप्तस्य अतद्भावः संन्यासाश्रमात् भ्रंशः शास्त्रविहितो न भवति । प्रत्युत शास्त्रप्रतिषिद्ध एव । कुतः ? नियमात- द्रूपाभावेभ्यः नियमेभ्यः संन्यासाश्रमप्राप्त्यनन्तरं मरणपर्यन्तं संन्या- साश्रमेणैव स्थातव्यं, पुनः न निवर्तितव्यमिति नियमप्रतिपादकेभ्यो मन्वादिवचनेभ्यः, अतद्रूपाभावेभ्यः अतद्रूपाणां नियमाप्रतिपादकानां वचनानामभावेभ्यश्च हेतुभ्यः आश्रमभ्रंशः शास्त्रप्रतिषिद्ध इत्यर्थः । संन्यासाश्रमं प्राप्तस्य संन्यासाश्रम एव मरणपर्यन्तमभिरुचिर्यस्योत्पन्ना तस्य संन्यासाश्रमेणैव अवस्थानं यस्य तु गृहस्थाश्रमेऽभिरुचिरुत्पन्ना तस्य संन्यासाश्रमं परित्यज्य पुनर्गृहस्थाश्रमेणावस्थानमित्येवंविधानि- यमप्रतिपादकानि वचनानि मन्वादिस्मृतिषु कुत्रापि न सन्तीति भावः॥४०॥ आधिकारिकाधिकरणम् ॥ ११ ॥ संन्यासाश्रमात् भ्रष्टानां कंचित् कालं गृहस्थाश्रमे स्थितानां पश्चा- त्तापे सति आश्रमभ्रंशजन्यपापस्य प्रायश्चित्तमस्ति वा, न वेति संशये सति प्रायश्चित्तमस्तीति वक्तुं प्रथमं पूर्वपक्षमाह- न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥ आधिकारिकाणां संन्यासाश्रम एव तिष्ठतां संन्यासाश्रमविहितक- मानुष्ठानं कुर्वतां प्रमादात् सकृद्ब्रह्मचर्यादिभ्रंशवतां यत् प्रायश्चित्तम् अने- कमृत्तिकास्नानम् अनेकसहस्रप्रणवजपप्राणायामादिरूपं मन्वादिस्मृतिषु विहितं, तदपि प्रायश्चित्तमनधिकारिणाम् आश्रमभ्रष्टानां नास्ति । कुतः? पतनानुमानात् । 'प्रायश्चित्तं न पश्यामि येन शुद्धत् स आत्महा' इतिस्मृ- तावाश्रमभ्रष्टानां पतितत्वप्रतिपादनात् पतितानां तदयोगात् तस्य प्राय- श्चित्तस्यायोगात् अनुपपन्नत्वादित्यर्थः ॥ ४१ ।। , ११४ ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०४ सिद्धान्तसूत्रम्- उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥ अशनवत् ब्राह्मणानां शूद्रादिगृहेषु बहुकालं भोजनजन्यपापवदाश्र- मभ्रंशजन्यं पापमपि उपपूर्वमेव उपपातकमेव । तथा च एके मन्वादयः आश्रमभ्रंशजन्यपापस्य भावं प्रायश्चित्तसद्भावं वदन्ति । तदुक्तं तच्च प्राय- श्चित्तं भूप्रदक्षिणसकलतीर्थस्नानादिरूपं मन्वादिस्मृतिष्वेवोक्तमित्यर्थः ४२ बहिरधिकरणम् ॥१२॥ आश्रमभ्रष्टानां प्रायश्चित्तेन आश्रमभ्रशजन्यपापस्य नष्टत्वेन परिशु- द्धानां परलोकप्राप्त्यभावेऽपि ब्रह्मविद्यायामधिकारो नास्तीत्याह- बहिस्तूभयथापि स्मृतेराचाराच ॥ ४३ ॥ आश्रमभ्रष्टानां कृतप्रायश्चित्तानाम् अकृतप्रायश्चित्तानां च उभयवि- धानामपि बहिष्कारः कर्तव्यः । प्रायश्चित्तकरणानन्तरमपि तेषां वेदान्त- शास्त्रं गुरुभिर्न पाठनीयं, शिष्टैरपि तेषां निकटे वेदान्तश्रवणं न कर्तव्यं, सहश्रोतृभिरपि तैः सह एकगुरुनिकटे वेदान्तश्रवणं न कर्तव्यम् । तैः सह पतिभोजनादिकमपि न कर्तव्यमित्यर्थः । कुतः ? स्मृतेः बहुस्मृतीनां विद्यमानत्वात् , आचारात् शिष्टाचाराचेत्यर्थः । कृतप्रायश्चित्तानां तु मर- णपर्यन्तं संन्यासाश्रमधर्ममनुतिष्टतां जन्मान्तरे श्रवणाद्यनुष्टानेन ब्रह्म- साक्षात्कार इति भावः । इदं सर्व विविदिषासंन्यासविषयकम् । विद्व- संन्यासिनां तु ब्रह्मसाक्षात्कारवह्निना ब्रह्महत्यादिमहापातकानामपि दग्धत्वात् प्रायश्चित्तापेक्षा नास्तीति द्रष्टव्यम् ॥ ४३ ।। स्वाम्यधिकरणम् ॥१३॥ उद्गीथाहवनीययूपादिषु कर्माङ्गेषु ब्रह्मदृष्टिरूपाणि अङ्गावबद्धोपास- नानि यजमानस्य वा अनुष्ठेयानि, उत ऋत्विजां वा अनुष्ठेयानीति संदेहे सति निर्णयं कर्तुं प्रथमं पूर्वपक्षमाह- स्वामिनः फलश्रुतेरित्यात्रेयः ।। ४४ ॥ अङ्गावबद्धोपासनानि स्वामिनः यजमानस्य अनुष्ठेयानीति आत्रेयो मन्यते । कुतः? फलश्रुतेः यजमानस्य फलश्रवणादित्यर्थः । तथा च यजमानस्य अङ्गावबद्धोपासनाजन्यफलभोक्तृत्वात् अङ्गावबद्धोपासनानि यजमानेनैव कर्तव्यानीत्यर्थः ।। ४४ ।। Ran अधि० १४] अद्वैतमञ्जरी। ११५ wasna । सिद्धान्त:- आत्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥ अङ्गावबद्धोपासनम् आत्विज्यम् ऋत्विजामनुष्ठेयमित्यौडुलोमिर्मन्यते । कुतः ? तस्मै साङ्गकर्मानुष्ठानाय दक्षिणादिना ऋत्विक्परिक्रीयते खलु । तथा च परिक्रीतैः ऋत्विग्भिः कृतानि कर्माणि यथा यजमानस्य फल- जनकानि, एवमङ्गावबद्धोपासनान्यपि ऋत्विम्भिरनुष्ठितानि यजमानस्य फलजनकानीत्यर्थः ॥ ४५ ॥ अङ्गावबद्धोपासनायाम् ऋत्विजामपि फलश्रवणाच्च अङ्गावबद्धोपास- नानि ऋत्विगनुष्ठेयानीत्याह- श्रुतेश्च ॥ ४६॥ 'आत्मने वा यजमानाय वा यं कामं कामयते, तं काममागायति' इति श्रुतौ ऋत्विग्यजमानयोरुभयोरपि अङ्गावबद्धोपासनाजन्यफलश्रवणादपि ऋत्विजामनुष्टेयानि अङ्गावबद्धोपासनानीत्यर्थः । आत्मने स्वस्मै यजमा- नाय वा यं कामं कामयते ऋत्विक् , तं काममुद्दिश्य आगायति उद्गीथे ब्रह्मदृष्टिपूर्वकम् उद्गीथगानं करोतीति श्रुत्यर्थः । सूत्रत्रयमपि प्रसङ्गादागतं न प्रकृतोपयुक्तमिति द्रष्टव्यम् ।। ४६ ॥ सहकार्यन्तरविध्यधिकरणम् ॥१४॥ 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववद्' इति सूत्रे संन्यासाश्रमात् पूर्वम- नुष्ठेयानि ब्रह्मसाक्षात्कारं प्रति परम्परया साधनत्वेन बहिरङ्गसाधनानि यज्ञादिकर्माणि प्रतिपाद्य संन्यासाश्रमानन्तरमनुष्ठेयानि ब्रह्मसाक्षा- स्कारं प्रति साक्षात्साधनत्वेन अन्तरङ्गसाधनानि शमदमादीन्यपि 'शम- दमाद्युपेतः स्यात् ' इति सूत्रे प्रतिपाद्य इदानीं ततोऽप्यन्तरङ्गसाधनानि श्रवणमनननिदिध्यासनानि प्रतिपादयति- सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥ विध्यादिवत् विध्यादौ कर्मकाण्डे यथा गृहस्थाश्रमवतः अग्निहोत्रा- दीनि बहूनि कर्माणि स्वर्गादिफलोद्देशेन विहितानि एवं तद्वतः संन्यासा- श्रमवतः पुरुषस्य तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य' इति ज्ञानकाण्ड- स्थश्रुतौ सहकार्यन्तरविधिः शमदमाद्यपेक्षया सहकार्यन्तराणां श्रवण- मनननिदिध्यासनानां ब्रह्मसाक्षात्कारोद्देशेन विधिरङ्गीकर्तव्यः । तत्र त्रया- गां मध्ये श्रवणमनने सर्वेषामपि ब्रह्मसाक्षात्कारकामानां बहुकालमनुष्टा- WORom ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०४ । तव्ये । तृतीयं निदिध्यासनं तु पक्षेण कालविकल्पेन अनुष्ठेयम् । येषां श्रवणमननानन्तरमपि ब्राह्मणत्वक्षत्रियत्वादिवर्णाभिमानः, ब्रह्मचारित्व. गृहस्थत्वाद्याश्रमाभिमानः, जातिकुलाद्यभिमानः, स्थूलोऽहं कृशोऽहं कर्ताहं भोक्ताहमित्येवंविधो देहाद्यभिमानो दृढो वर्तते, तेषां बहुकालं निदिध्यासनं कर्तव्यम् । येषां तु अतिशुद्धान्तःकरणानां देहाभिमानः श्रव- णमननाभ्यामेव शिथिलीभूतः, तेषां स्वल्पकालनिदिध्यासनेनैव साक्षा- कारोत्पत्तेः बहुकालं निदिध्यासनं न कर्तव्यमित्यर्थः । इदमुपलक्षणम् । अत्यन्तविशुद्धान्तःकरणानामत्यन्तेश्वरानुग्रहवतां श्रवणमनने अपि स्वल्प- कालमेव अनुष्ठातव्ये, अन्येषां तु बहुकालमनुष्ठातव्ये इति श्रवणमनननि- दिध्यासनानां त्रयाणामपि पुरुषभेदेन कालविकल्प इति द्रष्टव्यम् । तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य' इति श्रुतेरयमर्थः-तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः' इति । सर्व कर्माणि संन्यस्य साधनचतुष्टयानन्तरं पाण्डित्यं श्रवणं निर्विद्य कृत्वा बाल्येन श्रवणज- न्यज्ञानस्य बलसंपादकेन दायसंपादकेन मननेन तिष्ठासेत् मननं कुर्वन् स्थातुमिच्छेत् , बाल्यं च पाण्डित्यं च निर्विद्य मननं श्रवणं च कृत्वा अथ मुनिः मौनशीलः निदिध्यासनशीलो भवेत् । एवम् अमौनं मौनात् निदिध्यासनादन्यत् श्रवणमननद्वयं, मौनं निदिध्यासनं च लब्ध्वा अथ ब्राह्मणः ब्रह्मसाक्षात्कारवान् मुख्यब्राह्मणो भवेदित्यर्थः ॥ ४७ ॥ 'अभिसमावृत्य कुटुम्बे शुचौ देशे यावज्जीवं स्वाध्यायमधीयीत' इति श्रुतौ ब्रह्मचर्याश्रममुपक्रम्य गृहस्थाश्रमस्य उपसंहृतत्वात् ब्रह्मचर्यगृह- स्थाश्रमौ द्वावेव प्रामाणिकौ, संन्यासाश्रमस्त्वप्रामाणिकः । तथा च गृह- स्थानामेव अग्निहोत्रादिकर्मसु श्रवणमननादिषु च अधिकारः न संन्या- सिनामित्याशङ्कयाह- कृत्स्नभावात्तु गृहिणोपसंहारः॥४८॥ कृत्स्नभावात् कृत्स्नानां सकलाश्रमधर्माणाम् इन्द्रियनिग्रहतपोब्रह्मच- र्यादीनां भावात् गृहस्थाश्रमे विद्यमानत्वात् तावन्मात्रेण गृहिणा गृहस्था- श्रमिणा उपसंहारः कृतः, न तु संन्यासाश्रमव्यवच्छेदाभिप्रायेण । संन्या- साश्रमविधायकानां बहुश्रुतिवाक्यानां विद्यमानत्वात् । तथा च गृह- स्थानां नित्यनैमित्तिककाम्यकर्मानुष्टानपूर्वकत्वेन श्रवणमनननिदिध्यास- - अधि० १५] अद्वैतमञ्जरी। MANTRA नानुष्ठानेऽवकाशाभावात् संन्यासिनामेव श्रवणादावधिकारः । तथा च कर्मकाण्डविहितेषु अग्निहोत्रादिकर्मसु ज्ञानकाण्डविहितेषु श्रवणमनना- दिषु च अधिकारभेद एवाङ्गीकर्तव्य इति भावः । यद्यपि ' अनुष्टेयं बादरायणः साम्यश्रुतेः' इति सूत्र एव संन्यासाश्रमः स्थापितः, तथापि श्रवणादौ अधिकारिचिन्ताप्रसङ्गात् ‘कृत्स्नभावात्तु गृहिणोपसंहारः इति सूत्रे संन्यासाश्रमो दृढीकृत इति न पौनरुक्त्यमिति द्रष्टव्यम् । अभिसमावृत्य स्वाध्यायाध्ययनपरिसमाप्त्यनन्तरं गुरुगृहानिर्गत्य स्वगृहं गत्वा कुटुम्बे गृहस्थाश्रमे स्थित्वा अविरक्तश्चेत् शुद्धस्थले यावज्जीवं ब्रह्म- यज्ञस्वाध्यायाध्ययनं कुर्यात् , विरक्तश्चेत् कंचित्कालं गृहस्थाश्रमे स्थित्वा पश्चात् संन्यासाश्रमं स्वीकृत्य श्रवणमननादिकं कुर्यादित्यर्थः । तथा च यावज्जीवमित्येतदविरक्तविषयकमिति द्रष्टव्यम् ॥ ४८ ॥ तहि ब्रह्मचर्यगार्हस्थ्यसंन्यासाश्रमास्त्रयोऽपि प्रामाणिका भवन्तु नाम । वानप्रस्थाश्रमस्तु अप्रामाणिक एव । वानप्रस्थाश्रमासाधारणस्य कस्यचिदनुष्ठेयस्याभावादित्याशङ्कयाह- मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥ मौनवत् मौनप्रधानकानां संन्यासिनामसाधारणश्रवणमननादिवि- थानवत् इतरेषां वानप्रस्थानामप्युपदेशात् उपवासप्रधानस्य कायक्लेशहे- तुभूतस्य आश्रमान्तरासाधारणस्य तपसः श्रुतिस्मृत्यादिषु विहितत्वादि- त्यर्थः । तथा च ब्रह्मचारिणां यथेष्टभोजनपूर्वकं स्वाध्यायाध्ययनमसाधा- रणो धर्मः । गृहस्थानामपि यथोचितभोजनपूर्वकमग्निहोत्रादिकर्मानुष्ठा- नमसाधारणो धर्मः । संन्यासिनामपि यथोचितभोजनपूर्वकं श्रवणमन- नाद्यनुष्ठानमसाधारणो धर्मः । वानप्रस्थानां तु प्रायशः उपवासप्रधानकं शरीरशोषणहेतुभूतं पञ्चाग्निमध्यावस्थानरूपं तपश्चरणमसाधारणो धर्मः। तथा च स्वाध्यायाध्ययनाग्निहोत्रादिकर्मानुष्ठानकृच्छ्रचान्द्रायणादितप- श्वरणवेदान्तश्रवणरूपेषु चतुर्यु असाधारणधर्मेषु चतुर्णामाश्रमिणाम् अधिकार इति भावः ॥ ४९ ॥ अनाविष्कुर्वदधिकरणम् ॥ १५ ॥ 'बाल्येन तिष्ठासेत् । इति श्रुतौ बाल्यशब्देन ब्रह्मज्ञानस्य दार्च- रूपबलसंपादकं मननमुच्यत इति 'सहकार्यन्तरविधिः' इति पूर्वसूत्रे उक्तम् । इदानी बालसादृश्यं बाल्यमिति बाल्यशब्दस्यार्थान्तरमप्याह- ? ११८ ब्रह्मसूत्रवृत्तिः । [अ० ३ पा०४ अनाविष्कुर्वन्नन्वयात् ।। ५०॥ कृतसंन्यासो ब्राह्मणः पाण्डित्यं श्रवणमननोभयरूपं पाण्डित्यं नि- विद्य संपाद्य बाल्येन बालसदृशतया तिष्ठेदिति श्रुतेरर्थः । अस्मिन्नर्थे बाल्यशब्दस्यार्थमाह-अनाविष्कुर्वन् बालकवत् स्वस्य ज्ञानवैराग्यादिकं लोकानामप्रकटयन् दम्भदाहङ्कारादिरहितः सन् कृतश्रवणमननः संन्या- सी सर्वदा ब्रह्मध्यानं कुर्वन् तिष्ठेदित्यर्थः । कुतः ? अन्वयात् दम्भदहिं- कारादिराहित्यस्य ध्यानं प्रति साधनत्वेनान्वितत्वादित्यर्थः ॥ ५० ॥ ऐहिकमप्यप्रस्तुतप्रतिबन्ध इत्यधिकरणम् ॥१६॥ एवं ब्रह्मसाक्षात्कारस्य अन्तरङ्गसाधनानि बहिरङ्गसाधनानि च निरू- प्य इदानीमस्मिन् जन्मनि कृतश्रवणमनननिदिध्यासनस्य पुरुषस्य अस्मि- नेव जन्मनि ब्रह्मसाक्षात्कारोत्पत्तिा जन्मान्तरे वेति संशये सति निर्णयं करोति- ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात् ॥ ११ ॥ अप्रस्तुतप्रतिबन्धे प्रस्तुतानां श्रवणमनननिदिध्यासनानां दृढदेहाद्य- भिमानलक्षणे प्रतिबन्धके असति ऐहिकं ज्ञानमस्मिन्नेव जन्मनि ब्रह्मसाक्षात्कार उत्पद्यते । दृढदेहाभिमानलक्षणप्रतिबन्धके सति तु जन्मान्तरे पुनरपि श्रवणमनननिदिध्यासनानुष्ठानानन्तरं ब्रह्मसाक्षात्कार उत्पद्यत इत्यर्थः । कुतः ? तद्दर्शनात् 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम् । इत्यादिस्मृतिवाक्येषु प्रबलदेहाभिमानवतामनेकजन्मसु श्र- वणमननाद्यनुष्ठानेन साक्षात्कारवत्त्वप्रतिपादनादित्यर्थः । तथा च विशु- द्धान्तःकरणानां स्वल्पदेहाभिमानवतामीश्वरानुग्रहवताम् एकजन्मानुष्ठि- तश्रवणमननादिभिरेव ब्रह्मसाक्षात्कारोदयः, अन्येषां तु बहुजन्मानुष्टि- तश्रवणमननादिभिः साक्षात्कारोत्पत्तिरिति भावः ॥ ५१ ॥ मुक्तिफलानियमाधिकरणम् ॥ १७ ॥ ब्रह्मसाक्षात्कारे उक्तं न्यायं मोक्षेऽप्यतिदिशति- एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः॥ ५२ ॥ ब्रह्मसाक्षात्कारवत् मुक्तिफलस्यापि मोक्षरूपफलस्याप्यनियमः अस्मि- नेव जन्मनि मोक्षोदय इति नियमो नास्त्येव । किं तु ईश्वरानुग्रहवतां कृतश्रवणमनननिदिध्यासनानां पुरुषाणामस्मिन्नेव जन्मनि मोक्षोदय अन्येषां तु जन्मातरे मोक्षोदय इत्येवंविधो नियमोऽङ्गीकर्तव्यः । कुतः?

अधि० १७ ] अद्वैतमञ्जरी। ११९ तदवस्थावधृतेः तदवस्थाया मोक्षावस्थायाः अवधृतेः 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिषु मोक्षावस्थायाः ब्रह्मसाक्षात्कारोत्तरकालीनत्व- निश्चयादित्यर्थः । तथाच यस्मिन् जन्मनि ब्रह्मसाक्षात्कारोत्पत्तिः तस्मिन् जन्मानि ब्रह्मभावलक्षणस्य मोक्षस्योत्पत्तिरिति भावः । ब्रह्मभा- वस्य उत्पत्ति म विस्मृतकण्ठाभरणस्येव अविद्यावृतस्य ब्रह्मभावस्य जीवब्रह्माभेदविषयकसाक्षात्कारेण अविद्यानिवृत्तौ सत्यामभिव्यक्ति रिति भावः ॥ ५२ ॥ इति ब्रह्मसूत्रवृत्तौ तृतीयाध्यायस्य चतुर्थः पादः ।

श्रीमच्छंकरभगवत्पादशिष्यप्रणीता ब्रह्मसूत्रवृत्तिः। ( अद्वैतमञ्जरी) चतुर्थाध्यायस्य प्रथमः पादः ॥ आटत्यधिकरणम् ॥१॥ आवृत्तिरसकृदुपदेशात् ॥१॥ ब्रह्मविषयकश्रवणमनननिदिध्यासनानामसकृत् अनेकवारम् आवृत्तिः कर्तव्या अभ्यासः कर्तव्यः । कुतः ? उपदेशात् 'आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया । तचिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ॥ तद्भु- द्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः । दिने दिने च वेदान्तश्रवणाद् भक्तिसंयुतात् ॥ गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत् ।' इत्यादि- स्मृतिषु निरन्तरं ब्रह्मविचारस्य कर्तव्यत्वोपदेशादित्यर्थः ॥ १॥ लिङ्गाच ॥२॥ सुवर्णरत्नमुक्ताविद्रुमादितारतम्यपरिज्ञानस्य बहुकालं विचारसाध्यत्व- दर्शनात् तदृष्टान्तेन ब्रह्मज्ञानस्यापि बहुकालविचारसाध्यत्वमङ्गीकर्तव्य- मित्यर्थः ॥ २॥ आत्मेत्यधिकरणम् ॥ २॥ निर्गुणश्रवणाद्यावृत्तिं निरूप्य सगुणध्यानस्वरूपं निरूपयति- आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥ उपासनानि त्रिविधानि-अहंग्रहोपासनानि, प्रतीकोपासनानि, अङ्गावबद्धोपासनानि च । तत्राहंग्रहोपासनानि, दुहरशाण्डिल्यवैश्वा- नरोपकोसलविद्यादीनि । तत्र जीवस्य सगुणब्रह्मणश्चाभेदानुसंधानम् अहंग्रहोपासनेत्युच्यते । जडेषु कर्मानङ्गेषु नामादिपदार्थेषु ब्रह्मादिपदार्थ- दृष्टिः प्रतीकोपासना । जडेषु काङ्गेषु उद्गीथादिपदार्थेषु ब्रह्मादिपदार्थ- HANDARMENDED अधि०५] अद्वैतमञ्जरी। १२१ दृष्टिः अङ्गावबद्धोपासना । एवंस्थिते सति दहरवैश्वानरायुपासनेषु पर- मात्मा आत्मेति ध्यातव्यः जीवाभिन्न इत्येव ध्यातव्य इति वृद्धाः उप- गच्छन्ति अङ्गीकुर्वन्ति, ग्राहयन्ति च त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इत्यादिश्रुतयः जीवानां सगुणब्रह्मणश्च अभेदध्यानमेव प्रतिपादयन्तीत्यर्थः । तथा च वैश्वानरोऽहं, दहराकाशोऽहं, अक्षि- पुरुषोऽहं, भारूपोऽहम्' इत्येवंरूपेणैव सगुणब्रह्मोपासनानि कर्तव्यानीति भावः ॥ ३॥ न प्रतीकाधिकरणम्॥३॥ न प्रतीकेन हि सः॥४॥ प्रतीके ' नाम ब्रह्मेत्युपासीत, मनो ब्रह्मेत्युपासीत, आदित्यं ब्रह्मे- त्युपासीत ' इत्यादिषु प्रतीकोपासनेषु न जीवब्रह्माभेदध्यानं कर्तव्यम् । कुत: ? नहि सः जीवब्रह्माभेदध्यानोपदेशः । तत्र न हि नास्ति खलु, नामादिब्रह्मणोरेवाभेदध्यानस्य तत्रोपदिष्टत्वात् नामब्रह्माभेदध्यानमेव तत्र कर्तव्यं, न जीवब्रह्माभेध्यानमित्यर्थः । न च ब्रह्माभिन्ननामाह- मस्मि, ब्रह्माभिन्नादित्यमण्डलमहमस्मि, ब्रह्माभिन्नमनोऽहमस्मीत्येवं व्यानं कर्तव्यम् । तथाविधविधेरप्यभावात् अविहितकरणस्य निष्फलत्वात् । तस्माद्विध्यनुसारेण जडानां नामादीनां ब्रह्मणश्चाभेदानुसंधानमेव कर्त- व्यमिति भावः ॥ ४ ॥ ब्रह्मदृष्टयधिकरणम् ॥ ४ ॥ आदित्यमण्डलनाममनआदिषु अधिष्ठानेषु ब्रह्मत्वमारोप्य ध्यानं कर्तव्यं वा ब्रह्मणि अधिष्ठाने नामत्वादित्यमण्डलत्वमनस्त्वादीनि आरोप्य ध्यानं कर्तव्यं वा इति संशये सति निर्णयं करोति- ब्रह्मदृष्टिरुत्कर्षात् ॥५॥ निकृष्टेषु आदित्यमण्डलनामादिषु उत्कृष्टब्रह्मदृष्टिः कर्तव्या । कुतः? उत्कर्षात् फलाधिक्यादित्यर्थः । लोकेऽपि निकृष्टेषु उत्कृष्टदृष्टिः फलाधि- क्याय भवति, उत्कृष्टे निकृष्टदृष्टिस्तु फलाधिक्याय न भवति, प्रत्युत अनर्थायैव भवतीति भावः ॥ ५ ॥ आदित्यादिमत्यधिकरणम् ॥ ५ ॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः॥६॥ उद्गीथं ब्रह्मेत्युपासीत, आहवनीयं ब्रह्मेत्युपासीत, वेदि ब्रह्मेत्यु- SHRIMAD ।

१२२
ब्रह्मसूत्रवृत्तिः।
[अ०४ पा०१
।
पासीत, आदित्यं यूपमित्युपासीत' इत्यादिषु अङ्गावबद्धोपासनेषु आदि-
त्यादिमतयश्च आदित्यब्रह्मादिदृष्टयोऽपि अङ्गे वचनव्यत्ययः छान्दसः
अङ्गेष्वित्यर्थः । तथा च अङ्गेषु आहवनीयादिषु कर्तव्याः । कुतः ?
उपपत्तेः निकृष्टेषूत्कृष्टबुद्धिः फलाधिक्याय भवतीति पूर्वोक्तयुक्ते-
रित्यर्थः ॥६॥
आसीनाधिकरणम् ॥ ६॥
इदानी ध्यानसाधनानि आसनादीनि निरूपयति-
आसीनः संभवात् ॥ ७॥
सुखासने आसीनः सन् ध्यानं कुर्यात् । कुतः? संभवात् आसीनस्यैव
चित्तैकाग्र्यसंभवादित्यर्थः ॥ ७॥
ध्यानाच॥ ८ ॥
ध्यानशब्दार्थपर्यालोचनादपि आसीनेनैव ध्यानं कर्तव्यम् । प्रपञ्च-
विषयकप्रत्ययतिरस्कारेण ब्रह्मविषयकप्रत्ययप्रवाहीकरणं हि ध्यानशब्दा-
र्थः । एवंविधध्यानं शयानस्य न संभवति निद्रया पीडितत्वात् । तिष्ठतो-
ऽपि न संभवति पादवेदनया पीडितत्वात् । गच्छतोऽपि न संभवति
कण्टकादिना पीडितत्वात् । तस्मात् आसीनस्यैव ध्यानमित्यर्थः ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥
अचलत्वं निश्चलत्वं च अपेक्ष्य उद्दिश्य आसीन एव ध्यानं कुर्या-
दित्यर्थः ॥९॥
स्मरन्ति च ॥१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः' इत्यादिस्मृतयोऽपि
आसीनस्यैव ध्यानं प्रतिपादयन्तत्यिर्थः ॥१०॥
यत्रैकाग्रताधिकरणम् ॥ ७ ॥
कस्मिन् देशे ध्यानं कर्तव्यमित्याकाङ्कायामाह-
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
नदीतीरदेवालयपुण्यक्षेत्रग्रामाणां मध्ये यत्र यस्मिन् देशे मनस एका-
ग्रता प्रसन्नता, तत्र ध्यानं कर्तव्यम् । कुतः ? अविशेषात् शुद्धान्तःकर-
णस्य सर्वत्रापि मनःप्रसादस्य तुल्यत्वादित्यर्थः ॥ ११ ॥

आधि० १०] अद्वैतमञ्जरी। १२३ आप्रायणाधिकरणम् ॥८॥ कति संवत्सराणि ध्यानं कर्तव्यमित्याकाङ्क्षायामाह- आपायणात्तत्रापि हि दृष्टम् ॥ १२ ॥ आप्रायणात् मरणपर्यन्तं ध्यानं कर्तव्यम् । कुतः ? तत्रापि मरणका- लेऽपि दृष्टम् 'यं यं वापि स्मरन् भावम् ' इत्यादिस्मृतिषु ध्यानं प्रतिपा- दितमित्यर्थः ॥ १२ ॥ तदधिगमाधिकरणम् ॥९॥ सगुणध्यानस्वरूपं विचार्य पुनरपि निर्गुणस्वरूपं विचारति । कर्माणि चतुर्विधानि-संचितानि, प्रारब्धानि, अतीतानि, आगामीनि च । तत्र पूर्वजन्मसु कृतानि भविष्यदेहजननयोग्यानि स्वर्गादिफलोद्देशेन कृतानि कर्माणि संचितानि, महता प्रयासेन श्रवणमनननिदिध्यासनसाक्षात्का- रादिसकलमोक्षसाधनसंपादकवर्तमानशरीरारम्भकाणि पूर्वजन्मकृतानि कर्माणि प्रारब्धानि, ब्रह्मसाक्षात्कारोत्पत्तेः पूर्वमस्मिन् जन्मनि जन्मान्तरे वा ब्रह्मसाक्षात्कारोदेशेन कृतानि कर्माणि अतीतानि, ब्रह्मसाक्षात्कारो- त्पत्त्यनन्तरमस्मिन् जन्मनि कृतानि आगामीनि । तत्र चतुर्विधेषु कर्मसु मध्ये संचितानां भविष्यदेहपरम्परारूपफलमनुत्पाद्यैव नाशम्, आगा- मिनां च देहाभिमानरहितेन कृतत्वात् फलजननासामर्थ्य च प्रथम प्रतिपादयति- तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥ तदधिगमे तस्य ब्रह्मणः अधिगमे साक्षात्कारे सति उत्तरपूर्वाधयाः आगामिसंचितपापयोरश्लेषविनाशौ भवतः । आगामिपापस्यासंस्पर्शः, संचितपापस्य विनाशश्च भवति । कुतः ? तब्यपदेशात् 'तद्यथा पुष्कर- पलाश आपो न श्लिष्यन्ते तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत ' ' यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन' इत्यादिश्रुतिस्मृतिषु आगामिसंचित- कर्मणोरश्लेषविनाशव्यपदेशादित्यर्थः ॥ १३ ॥ इतराश्लेषाधिकरणम् ॥१०॥ पापस्याश्लेषविनाशौ प्रतिपाद्य पुण्यस्याश्लेषविनाशौ प्रतिपादयति- इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ पाते ब्रह्मसाक्षात्कारेण देहाभिमाननाशे सति इतरस्य ब्रह्मज्ञानोत्तर- कालीनपुण्यस्यासंश्लेषः असंस्पर्शी भवति । इदमुपलक्षणम् । संचित- पुण्यस्य नाश इत्यपि द्रष्टव्यम् ॥ १४ ॥ HASHANIMUMISINGH १२४ ब्रह्मसूत्रवृत्तिः । [अ० ४ पा०१ Tap me अनारब्धकार्याधिकरणम् ॥ ११ ॥ वर्तमानदेहजनकयोः प्रारब्धपुण्यपापयोस्तु ज्ञानान्नाशो नास्तीत्याह- अनारब्धकार्ये एव तु पूर्वे तवधेः ॥ १५ ॥ अनारब्धकार्ये अनुत्पादितवर्तमानशरीरे एव पुण्यपापे नश्यतः, न तु वर्तमानशरीरारम्भके । कुतः ? तवधेः ब्रह्मसाक्षात्कारानन्तरमपि प्रार- ब्धकर्मनाशपर्यन्तं शरीरावस्थानस्य 'तस्य तावदेव चिरम् ' इत्यादिश्रु- तिषु प्रतिपादितत्वादित्यर्थः । तस्य तावदेव चिरमित्यादिश्रुतेरयमर्थः- तस्य ब्रह्मसाक्षात्कारवतो जीवन्मुक्तस्य तावदेव चिरं तावानेव विदेह- कैवल्यस्य विलम्बः, यावन्न विमोक्ष्ये यावत् प्रारब्धकर्मभिर्न विमुच्यते अथ संपत्स्य अथ प्रारब्धकर्मनाशानन्तरं संपत्स्ये विदेहकैवल्यं प्राप्नो- तीत्यर्थः ॥ १५ ॥ अग्निहोत्राधिकरणम् ॥ १२ ॥ एवमतीतस्य ज्ञानसाधनाग्निहोत्रादेरपि ब्रह्मज्ञानेन नाशो नास्तीत्याह- आग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥ ज्ञानोदेशेन कृतमग्निहोत्रादिकं तत्कार्याय ज्ञानरूपकार्याय भवति । कुतः? तदर्शनात् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इत्यादि- श्रुतिषु अग्निहोत्रादीनां परम्परया ज्ञानसाधनत्वप्रतिपादनात् । तथा चा- ग्निहोत्रादीनां ब्रह्मज्ञानसाधनत्वेन ब्रह्मज्ञानं प्रत्युपजीव्यत्वात् ब्रह्मज्ञान- नाश्यत्वं नास्तीति भावः । यद्यपि कर्मणां फलनाश्यत्वात् फलभूतेन ब्रह्म- ज्ञानेन नाशोऽस्त्येव, तथापि फलत्वेन रूपेणैव ब्रह्मज्ञानस्य कर्मनाशकत्वं न तु ज्ञानत्वेन रूपेणेति भावः ॥ १६ ॥ ज्ञानसाधनाग्निहोत्रादेः ज्ञानेन नाशाभावे कस्य कर्मणः ज्ञाननाश्य- त्वमित्याकाङ्क्षायां संचितकर्मण एव नाश इति पूर्वोक्तं स्मारयति- अतोऽन्यापि ह्येकेषामुभयोः॥ १७ ॥ अतः ज्ञानसाधनाग्निहोत्रादेः अन्या स्वर्गादिफलोदेशेन पूर्वजन्मसु कृता या अग्निहोत्रादिक्रिया, सा ब्रह्मज्ञानेन नश्यति । एकेषामाचार्याणां मते उभयोजैमिनिबादरायणयोश्च मत इत्यर्थः । अथवा 'तमेतं वेदानुवचनेन' इति श्रुत्या सर्वेषां कर्मणां ज्ञानसाधन- ।

आधि०१] अद्वैतमञ्जरी। १२५ RRIANRAMwad । स्वेन बोषितत्वात् ज्ञानासाधनीभूतं कमवाप्रसिद्धम् । तथा च तदधिगमः' इति सूत्रं निर्विषयकमित्याशङ्कयाह- अतोऽन्यापि ह्येकेषामुभयोः एकेषां काण्वानां शाखायां ज्ञानसाधनत्वेन विहितात् अतः अग्निहो- त्रादेः अन्या स्वर्गसाधनीभूता अग्निहोत्रादिक्रिया उभयोः जैमिनिबाद- रायणयोः संमतास्ति । सा ब्रह्मज्ञानेन नश्यतीति तदधिगम' इति सूत्रे प्रतिपाद्यते । तथा च सूत्रस्य निर्विषयत्वं नास्तीत्यर्थः । यद्यपि ज्ञान- साधनीभूताग्निहोत्रादिकं स्वर्गादिसाधनीभूताग्निहोत्रादिकं च एकमेव तथापि ज्ञानोदेशेन कृतं सत् ज्ञानसाधनं, स्वर्गोशेन कृतं सत् स्वर्ग- साधनं च भवति । तथा च ज्ञानसाधनत्वस्वर्गसाधनत्वरूपविशेषणभेदात विशिष्टकर्मभेदमङ्गीकृत्य ज्ञानसाधनीभूताग्निहोत्रादेः स्वर्गसाधनीभूता- ग्निहोत्रादेश्च भेदव्यपदेश उपपन्न इति भावः ॥ १७ ॥ यदेवाधिकरणम् ॥ १३ ॥ यदेव विद्ययेति हि ॥ १८ ॥ यत् कर्म विद्यया अङ्गावबद्धोपासनया सहकृतं, तदेव कर्म अस्मिन् जन्मनि ब्रह्मज्ञानसाधनम् । 'यदेव विद्यया करोति श्रद्धयोपनिषदा त- देव वीर्यवत्तरं भवति' इति उपासनासहकृतस्यैव कर्मणः अविलम्बेन ब्रह्मज्ञानसाधनत्वप्रतिपादनादित्यर्थः । उद्गीथाहवनीयादिकाङ्गेषु ब्रह्मह- ष्टिपूर्वकमनुष्ठितानि अग्निहोत्रादिकर्माणि अस्मिन्नेव जन्मनि ब्रह्मज्ञानं जनयन्ति । उपासनारहितानि तु कर्माणि कालविलम्बेन जन्मपरम्परया ब्रह्मज्ञानजनकानीत्यर्थः ॥ १८ ॥ भोगाधिकरणम् ॥१४॥ प्रारब्धयोः पुण्यपापयोः कदा नाश इत्याकालायामाह- भोगेन वितरे क्षपयित्वा संपद्यते ॥ १९ ॥ भोगेन सुखदुःखानुभवेन इतरे वर्तमानशरीरजनके प्रारब्धे पुण्यपापे क्षपयित्वा नाशयित्वा संपद्यते विदेहकैवल्यं प्राप्नोतीत्यर्थः ॥ १९ ॥ इति ब्रह्मसूत्रवृत्तौ चतुर्थाध्यायस्य प्रथमः पादः। .

ब्रह्मसूत्रवृत्तिः । [अ०४ पा०२ ॥ चतुर्थाध्यायस्य द्वितीयः पादः ॥ वाक्संपत्त्यधिकरणम् ॥१॥ मुमूर्षुणामवस्था द्विविधा-मरणावस्था, उत्क्रान्त्यवस्था च । तत्र मर- णानन्तरं सगुणब्रह्मोपासकानामचिरादिमार्गेण ब्रह्मलोकप्राप्तिः, सुकृ- तिनां तु धूमादिमार्गेण स्वर्गलोकप्राप्तिः, पापात्मनां तु तृतीयमार्गेण नर- कलोकप्राप्तिः, निर्गुणब्रह्मसाक्षात्कारवतां तु अत्रैव ब्रह्मणि लय इति वक्तुं प्रथम सर्वसाधारणां मरणावस्थां निरूपयति- वाङ्मनसि दर्शनाच्छब्दाच ॥१॥ वाक् वागिन्द्रियं मनसि संबध्यते । कुतः ? दर्शनात् लोके मुमूर्पूणां वाग्व्यापारनाशानन्तरमपि मनोव्यापारस्य दर्शनात्, शब्दाच्च 'अस्य प्रयतो जीवस्य वाङ् मनसि संपद्यते मनः प्राणे प्राणोऽध्यक्षे अध्यक्षस्ते- जसि तेजः परस्यां देवतायाम्' इति श्रुतौ वागिन्द्रियस्य मनसि संब- न्धप्रतिपादनाचेत्यर्थः ॥ १॥ अत एव च सर्वाण्यनु ॥२॥ अत एव वाक्छब्दस्य सर्वेन्द्रियोपलक्षकत्वेन शब्दाद्दर्शनाच सर्वाणी- न्द्रियाणि वाचमनुसृत्य मनसि संबध्यन्त इत्यर्थः ॥ २ ॥ मनस्संपत्यधिकरणम् ॥२॥ तन्मनः प्राण उत्तरात् ॥ ३ ॥ तन्मनः प्राणे संबध्यते । कुतः उत्तरात्मनः प्राण' इत्युत्तर- वाक्यादित्यर्थः ॥ ३ ॥ प्राणसंपत्त्यधिकरणम् ॥३॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ स प्राणः अध्यक्षे जीवे संबध्यते । कुतः ? तदुपगमादिभ्यः हेतुभ्यः 'तमुत्क्रामन्तं प्राणोऽनूकामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रा- मन्ति' इति श्रुतौ प्राणादीनां जीवानुगामित्वप्रतिपादनात् जीवेन सह परलोकगमनश्रवणादित्यर्थः ॥४॥ भूतेषु तच्छ्रुतेः ॥५॥ स चाध्यक्षः भूतेषु पञ्चमहाभूतेषु संबध्यते । कुतः ? तच्छ्रुतेः ? ?

अधि० ५] अद्वैतमञ्जरी। १२७ , Deman 'अध्यक्षस्तेजसि ' इति श्रुतेस्तेजश्शब्दस्य पञ्चमहाभूतोपलझकत्वादिति भावः ॥५॥ तेजश्शब्दस्य पञ्चमहाभूतोपलक्षकत्वं कथमित्याशङ्कयाह- नैकस्मिन् दर्शयतो हि ॥६॥ एकस्मिन्नेव तेजसि जीवस्य संबन्धं श्रुतिस्मृती न दर्शयतः न प्रति- पादयतः, किं तु पञ्चमहाभूतेषु । तथा च बहुश्रुतिस्मृत्यनुरोधेन तेज:पदं पञ्चमहाभूतोपलक्षणार्थमित्यर्थः ॥ ६ ॥ आसृत्युपक्रमाधिकरणम् ॥ ४॥ समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७॥ लिङ्गशरीरान्तर्गतानां भूतेन्द्रियमनःप्राणजीवानां हृत्पुण्डरीके पर- स्परमेलनरूपा इयं मरणावस्था आकृत्युपक्रमात् मृत्युपक्रमं वर्जयित्वा समाना निर्गुणब्रह्मसाक्षात्कारवतां सगुणब्रह्मोपासकानां कर्मिणां च तुल्या । स्कृत्युपक्रमो नाम हृत्पुण्डरीकस्थस्य पञ्चमहाभूतप्राणेन्द्रियमन:- प्रऋतिचतुरङ्गबलपरिवृतस्य जीवाख्यस्य राज्ञः स्वर्गनरकब्रह्मलोकादि- राष्ट्रदर्शनार्थ नाडीद्वारा देहाख्यान्तःपुरात् बहिनिर्गमनरूपा उत्क्रान्तिः । एतामुत्क्रान्ति विना जीवस्य इन्द्रियादिसकलपरिवारमेलनरूपा मरणा- वस्था ज्ञानिनामपि तुल्येत्यर्थः । हृत्पुण्डरीके मिलितं ज्ञानिनां लिङ्ग- शरीरं कुत्र गच्छतीत्याकाङ्कायामाह-अमृतत्वं चानुपोष्य ज्ञानिनां लिङ्गशरीरमनुपोष्य लोकान्तरमगत्वा हृत्पुण्डरीकावच्छिन्ने ब्रह्मण्येव अमृतत्वं मोक्षमात्यन्तिकनाशं प्राप्नोतीत्यर्थः । जीवस्तु ब्रह्माभेदं प्राप्नोतीति भावः । तथा च 'तेजः परस्यां देवतायाम् । इति श्रुतिः ज्ञानिमात्र- विषया, ततः पूर्वा श्रुतिस्तूपासककार्मिज्ञानिसाधारणेति भावः ॥ ७ ॥ तदापीत्यधिकरणम् ॥ ६॥ ननु, 'तेजः परस्यां देवतायाम् ' इति श्रुतिरपि पूर्वश्रुतिवत् सर्व- साधारणा भवतु, बाधकामावादित्याशङ्कथाह- तदापीतेः संसारव्यपदेशात् ॥ ८॥ तत् लिङ्गशरीरम् आपीते: आमोक्षात् ब्रह्मसाक्षात्कारपर्यन्तं तिष्ठति। कुतः ? संसारव्यपदेशात् उपासकानां कर्मिणां च स्वर्गनरकब्रह्मलोका- दिसंचारोपदेशादित्यर्थः । तथा च 'तेजः परस्यां देवतायाम् । इति श्रुतेान्यज्ञानिसाधारणत्वे कर्मकाण्डोपासनाकाण्डयोरप्रामाण्यप्रसङ्गात् । ,

ब्रह्मसूत्रवृत्तिः ।
[अ० ४ पा०२
'तेजः परस्यां देवतायाम् ' इति श्रुतेानिमात्रविषयत्वमेवाङ्गीकर्तव्य-
मिति भावः॥ ८ ॥
यदि लिङ्गशरीरं मरणकाले शरीराद्वाहनिर्गच्छति, तर्हि मृतशरीर-
समीपवर्तिनां सर्वेषां कथं न दृश्यत इत्याशङ्कयाह-
सूक्ष्म प्रमाणतश्च तथोपलब्धेः ॥९॥
लिङ्गशरीरं सूक्ष्मम् इन्द्रियाग्राह्यं प्रमाणतः परिमाणतोऽपि सूक्ष्मम् ।
कुतः ? तथोपलब्धेः श्रुतिषु लिङ्गशरीरस्य अतीन्द्रियत्वप्रतिपादना-
दित्यर्थः ॥ ९॥
लिङ्गशरीरस्य स्थूलशरीरात् बहिनिर्गमने लिङ्गमाह-
नोपमर्दैनातः ॥ १०॥
अतः लिङ्गशरीरस्य मरणानन्तरं स्थूलशरीरात् बहिनिर्गमनादेव उपम-
देन पीडासाधनेन दहनादिना स्थूलशरीरस्य पीडा नास्तीत्यर्थः॥ १० ॥
लिङ्गान्तरमाह-
अस्यैव चोपपत्तरेष ऊष्मा ॥ ११ ॥
अस्य लिङ्गशरीरस्य उपपत्तेः संबन्धादेव जीवनावस्थायां स्थूलशरी-
रस्य एष ऊष्मा उष्णस्पर्शः सर्वेषामुपलभ्यते । मरणानन्तरं तु शैत्योपल-
म्भात् लिङ्गशरीरनिर्गमनमनुमीयत इत्यर्थः ॥ ११ ॥
उत्क्रान्तिप्रतिषेधाधिकरणम् ॥६॥
एतावत्पर्यन्तं निर्गुणब्रह्मज्ञानरहितानां जीवानां लिङ्गशरीरनिर्गमनं
प्रसाध्य इदानीं निर्गुणब्रह्मसाक्षात्कारवतां लिङ्गशरीरनिर्गमनाभावं वक्तुं
प्रथमं पूर्वपक्षमाह-
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
'न तस्मात् प्राणा उत्क्रामन्ति' इति श्रुत्या उत्क्रमणप्रतिषेधात् ज्ञानि-
नां लिङ्गशरीरनिर्गमनं नास्तीति चेन्न । शारीरात् तस्याः श्रुतेः शारीरा-
जीवाद्विना इन्द्रियाणां स्वातन्त्र्येण गमननिषेधप्रतिपादकतया सर्वात्मना
गमननिषेधपरत्वाभावादित्यर्थः । अयं भावः-'न तस्मात् प्राणा उत्क्रामन्ति'
इति श्रुतेरयमर्थः-तस्माद्ब्रह्मसाक्षात्कारविशिष्टात् जीवाद्विना प्राणा
इन्द्रियाणि नोक्रामन्ति, किं तु जीवन सहैव उत्क्रामन्ति । तथाचास्याः
श्रुतेः स्वातन्त्र्येण निर्गमनाभावप्रतिपादकत्वेन जीवविशिष्टलिङ्गशरीरनि-
र्गमनाभावप्रतिपादकत्वाभावादनया श्रुत्या ज्ञानिनां लिङ्गशरीरनिर्गम-
नाभावो न सिध्यतीति पूर्वपक्ष्याशयः ॥ १२ ॥

आधि०८] अद्वतमञ्जरी। १२९ सिद्धान्त:- स्पष्टो टेकेषाम् ॥ १३ ॥ एकेषां काण्वानां शाखायाम् 'न तस्य प्राणा उत्क्रामन्ति अत्रैवसमव- लीयन्ते' इति श्रुतौ स्वातन्त्र्येण पारतन्त्र्येण च सर्वथापि ज्ञानिनां लिङ्ग- शरीरनिर्गमनाभावः स्पष्टः । तथा च न तस्मात् प्राणा उत्क्रामन्ति' इति माध्यंदिनशाखायामपि तस्मादिति पञ्चम्यन्तपदस्य लक्षणया षष्टय- र्थप्रतिपादकत्वमेव वक्तव्यम् । अन्यथा अज्ञानिनामपि जीवं विना स्वात- त्र्येण लिङ्गशरीरनिर्गमनाभावेन अप्रसक्तप्रतिषेधादिति भावः ।। १३ ।। स्मयते च ॥ १४ ॥ भगवद्गीतादिस्मृतिष्वपि ज्ञानिनां लिङ्गशरीरनिर्गमनाभावः प्रतिपा- द्यत इत्यर्थः ॥ १४ ॥ लयाधिकरणम् ॥ ७ ॥ तर्हि ज्ञानिनां लिङ्गशरीरं कुत्र गच्छतीत्याकाङ्कायामाह- तानि परे तथाह्याह ॥ १५ ॥ तानि ज्ञानिनां भूतेन्द्रियप्राणान्तःकरणानि परे परमात्मनि लीयन्ते । कुतः ? तथाह्याह-'इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्यते हृदयग्रन्थिः । तथा विद्वान्नामरूपाद्विमुक्तः । यदा सर्वे प्रमुच्यन्ते' इत्यादिश्रुतयः ब्रह्मज्ञानिसंबन्धिनां दशेन्द्रियाणां पञ्चप्रा- णानां मनसश्च परमात्मनि लयं प्रतिपादयन्तीत्यर्थः । यद्यपि 'समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य' इति सूत्रे ज्ञानिनां लिङ्गशरीरस्य ब्रह्मणि लय उक्तः, तथापि 'तानि परे तथाह्याह' इति सूत्रे वक्ष्यमाण एवार्थः सुखबोधार्थमाकृष्य पूर्वमुक्त इति न पौनरुक्त्यमिति भावः ।। १५ ।। अविभागाधिकरणम् ॥ ८ ॥ स च लिङ्गशरीरनाशः सुषुप्त्युत्क्रान्तिप्रलयादिकालोष्विव स्थूलाव- स्थानाशमात्रं न भवति, किं तु आत्यन्तिकनाश इत्याह- अविभागो वचनात् ।। १६ ॥ अविभागः ज्ञानिनां लिङ्गशरीरस्य आत्यन्तिकनाशः अङ्गीकर्तव्यः । कुतः? वचनात् ' अविद्यायाः परं पारं तारयास' इति श्रुतौ ब्रह्मसाक्षा- कारेण अविद्यानिवृत्तिश्रवणात् अविद्याजन्यस्य लिङ्गशरीरस्य आत्य- न्तिकनाश एवाङ्गीकर्तव्य इत्यर्थः ॥ १६ ।। ।

ब्रह्मसूत्रवृत्तिः।
[अ० ४ पा०.२
PURPANISHAD
तदोकोऽग्राधिकरणम् ॥ ९ ॥
इयता सूत्रसंदर्भेण ज्ञानिनां लिङ्गशरीरनिर्गमनाभावमुक्त्वा सगुणो-
पासकानां लिङ्गशरीरनिर्गमनप्रकारं दर्शयति-
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेष-
गत्यनुस्मृतियोगाच हार्दानुगृहीतः शताधिकया ॥ १७ ॥
तदोकोऽप्रज्वलनं तस्य जीवस्य प्राणेन्द्रियादिपरिवृतस्य ओकः स्थानं
हृत्पुण्डरीकं तस्य अग्रज्वलनं भवति अग्रस्य अर्श्वभागस्य विकासो भवति
तत्प्रकाशितद्वारा तेन विकासेन प्रदर्शितदेवयानमार्गः सन्नुपासकः सुषु-
नानाडीद्वारा देहात् बहिर्निर्गच्छत्तीति उत्तरेण संबन्धः । हृत्पुण्डरीकस्य
ऊर्ध्वप्रदेशविकासे हेतुद्वयमाह-विद्यासामर्थ्यात् सगुणब्रह्मोपासनासास-
ात् तच्छेषगत्यनुस्मृतियोगात् तस्याः सगुणब्रह्मोपासनायाः शेषभूत-
याङ्गभूतया गत्यनुस्मृत्या देवयानमार्गचिन्तया योगात संबन्धाञ्च तदोको-
ऽप्रज्वलनं भवतीति पूर्वेणान्वयः। तत्प्रकाशितद्वारः सन् उपासकः हार्दानु-
गृहीतः हृत्पुण्डरीकस्थेन सगुणब्रह्मणा अनुगृहीतः प्रेरितस्सन् शताधिकया
शतसङ्खथाकाभ्यः प्रधाननाडीभ्यः अधिकया अतिरिक्तया एकशततम्या
सुषुम्नानाड्या देहात बहिर्निगच्छतीत्यर्थः । 'शतं चैका च हृदयस्य ना-
ड्यस्तासां मूर्धानमभिनिस्तृतका । तयोर्ध्वमायन्नमृतत्वमेति विध्वड-
न्या उत्क्रमणे भवन्ति' इति श्रुतिबलादिति भावः । अस्याः श्रुतेरयमर्थः-
हृत्पुण्डरीकसंबन्धिन्यो नाड्य एकोत्तरशतं भवन्ति । तासां मध्ये एका
सुषुम्नाख्या नाडी मूर्धानमभिनिस्स्मृता ब्रह्मरन्ध्रपर्यन्तं व्याप्ता । तया
द्वारा ऊर्ध्वमायन् देहात बहिनिंगच्छन् उपासकः अमृतत्वं ब्रह्मलोकाख्यं
गौणममृतत्वं प्राप्नोति, विष्वक् हृत्पुण्डरीकस्य चतसृषु दिक्षु विद्यमाना
अन्या नाड्यः कर्मिणामुत्क्रमणे द्वाराणि भवन्तीत्यर्थः । सुकृतिनां दुष्कृ-
तिनां च धूमादिमार्गेण तृतीयमार्गेण च स्वर्गनरकादिप्राप्तिः रंहतिपाद
एवोक्तेति नात्रोच्यत इति भावः ॥ १७ ॥
रश्म्यधिकरणम् ॥ १० ॥
रश्म्यनुसारी ॥१८॥
सुषुम्नानाड्या देहात् बहिर्निर्गतः उपासकः रश्म्यनुसारी नाडी-
संसृष्टसूर्यकिरणावलम्बी सन् किरणद्वारेण ब्रह्मलोकं गच्छतीत्यर्थः ॥१८॥

अधि० ११ ] अद्वैतमञ्जरी। निशि नेति चेन्न संबन्धस्य यावदेहभावित्वादर्शयति च ॥ १९ ॥ दिवा मृतस्य उपासकस्य रश्मिद्वारा सूर्यलोकप्राप्तिरस्तु । रात्रौ मृतस्य उपासकस्य नाडीसंसृष्टरश्म्यभावात् रश्मिद्वारेण ब्रह्मलोकसंबन्धो न संभवतीति चेन्न । संबन्धस्य रश्मिनाडीसंबन्धस्य यावद्देहभावित्वात् दिवा च रात्रौ च रश्मिनाडीसंबन्धस्य विद्यमानत्वात् । दर्शयति च- 'आसु नाडीषु रश्मयः सन्तता' इति श्रुतिः सर्वकालेष्वपि रश्मिनाडी- संबन्धं प्रतिपादयतीत्यर्थः । सूर्यमण्डलस्य भेरुव्यवधानेन प्रत्यक्षयोग्य- स्थूलकिरणाभावेऽपि अतीन्द्रियाः सूक्ष्मकिरणाः रात्रावपि सन्त्येव । अन्यथा ग्रीष्मकाले रात्रिषु तापस्वेदादिकं न स्यादिति भावः ॥ १९ ॥ अयनाधिकरणम् ॥११॥ अतश्चायनेऽपि हि दक्षिणे ॥२०॥ यतः कारणाद्रात्रौ मृतस्य उपासकस्य ब्रह्मलोकसंबन्ध उक्तः, अत एव दक्षिणे अयने । इदमुपलक्षणं कृष्णपक्षे च मृतस्य उपासकस्य सूर्य- किरणद्वारा अचिरादिमार्गेण ब्रह्मलोकप्राप्तिरस्तीत्यर्थः ॥ २० ॥ ननु 'अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । इति भगवद्गीतास्मृतिः उत्त- रायणदक्षिणायनयोः मृतानामेव उपासकानां कर्मिणां च ब्रह्मलोकस्वर्ग- लोकादिप्राप्तिं दर्शयति । तथा च कथं दक्षिणायनकृष्णपक्षराच्यादिकालेषु मृतानामुपासकानां ब्रह्मलोकप्राप्तिरुच्यत इत्याशङ्कयाह- योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥ स्मार्ते स्मृत्युक्ते एते उत्तरायणदक्षिणायने इत्येतदुभयं योगिनः प्रति प्राणायामादियोगाभ्यासतत्परान् प्रति उच्यत इति स्मर्यते प्रतिपाद्यते, न तु सगुणब्रह्मोपासकान् कर्मठांश्च प्रति । तथा च योगाभ्यासपराणां दक्षिणायने मृतिश्चेत् स्वर्गलोकप्राप्तिः, उत्तरायणे मृतिश्चेत् ब्रह्मलोक- प्राप्तिः, नान्यथा । उपासकानां कर्मिणां च यदाकदाचिन्मृतानामपि ब्रह्मलोकप्राप्तिः स्वर्गलोकप्राप्तिश्च संभवतीति भावः । वस्तुतस्तु भगवद्गी- तास्मृतौ विद्यमानानां अहश्शब्दरात्रिशब्दशुक्लकृष्णदक्षिणायनोत्तरायण- शब्दानां श्रुतिस्थाहरादिशब्दानामिव लोकपरत्वेन कालपरत्वाभावात् अस्याः स्मृतेः उपासककर्मिपरत्वेऽपि न कोऽपि विरोध इति भावः॥२१॥ इति ब्रह्मसूत्रवृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः ॥

१३२ ब्रह्मसूत्रवृत्तिः [अ०४ पा०३ चतुर्थाध्यायस्य तृतीयः पादः। बार जा HDain अर्चिरायधिकरणम् ॥ १॥ उपासकानामुत्क्रान्तिप्रकारं कालानियमं च प्रतिपाद्य इदानीमचिरा- दिमार्गस्वरूपं निरूपयति- अचिरादिना तत्प्रथितेः ॥ १॥ उपासकः अचिरादिना मार्गेण ब्रह्मलोकं गच्छति । कुतः ? तत्प्रथिते: तस्य अचिरादिमार्गस्य 'तेऽर्चिषमभिसंभवन्ति ' इति छान्दोग्यश्रुतौ प्रसिद्धत्वादित्यर्थः ॥ १ ॥ वाय्वधिकरणम् ॥२॥ बृहदारण्यकश्रुतौ ‘स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकम् ' इति वायुलोकवरुणलोकादयश्चत्वार उक्ताः । तेषां कुत्र प्रवेश इत्याकाङ्क्षायामाह- वायुमब्दादविशेषविशेषाभ्याम् ॥२॥ अब्दात् संवत्सरलोकादुपरि वायुलोकं प्रवेशयेत् । कुतः ? अविशेष- विशेषाभ्याम् ‘स वायुलोकम् ' इत्यविशेषवचनात् सामान्यवचनात् वायु- लोकस्य कुत्रचित् प्रवेशः कर्तव्यः । तत्र वायवादित्ययोः परस्परं संब- न्धरूपविशेषात् संवत्सरादित्ययोर्मध्ये वायोर्निवेश इति निश्चीयत इत्यर्थः । ‘स वायुलोकम् । इति श्रुतेर्लोकमात्रप्रतिपादकत्वेन क्रमप्रति- पादकत्वाभावात् अविशेषवचनत्वमिति द्रष्टव्यम् ॥ २ ॥ तटिदधिकरणम् ॥३॥ तटितोऽधिवरुणः संबन्धात्॥ ३ ॥ तटितः विद्युल्लोकात् उपरि वरुणलोकः प्रवेशनीयः । कुतः ? संब- न्धात् विद्युबरुणयोः परस्परं संबन्धादित्यर्थः । इन्द्रप्रजापतिलोकयोस्तु 'अवशिष्टानामन्ते निवेशः ' इति न्यायेन वरुणलोकानन्तरमिन्द्रलोकः, तदनन्तरं प्रजापतिलोक इति भावः ॥ ३॥ आतिवाहिकाधिकरणम् ॥ ४ ॥ आतिवाहिकास्तल्लिङ्गात् ॥ ४॥ एतेषु अचिरादिलोकेषु पूर्वपूर्वलोकस्थाः देवाः उत्तरोत्तरलोकप्राप्तिपर्य- अधि० ५] अद्वैतमञ्जरी। १३३ ? , न्तमुपासकानामातिवाहिकाः सहायभूताः नेतारः अङ्गीकर्तव्याः । कुतः ? तल्लिङ्गात् ' स एनान् ब्रह्म गमयति' इति श्रुतौ विद्युल्लोकप्राप्त्य- नन्तरम् अमानवपुरुषस्य नेतृत्वप्रतिपादनरूपाल्लिङ्गात् तदृष्टान्तेन पूर्वलो- केष्वपि नेतारोऽङ्गीकर्तव्या इत्यर्थः ॥ ४ ॥ उभयव्यामोहात्तत्सिद्धेः॥५॥ उपासकसंबन्धिनाम् उभयेषां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च व्या- मोहात् ब्रह्मलोकप्राप्तिपर्यन्तं स्थूलशरीराभावेन ज्ञानेन्द्रियाणां मार्गपरि- ज्ञानसामर्थ्याभावात् कर्मेन्द्रियाणां चलनसामर्थ्याभावाचं तत्सिद्धेः तैरा- तिवाहिकैर्देवैरेव सिद्धेः गमनस्यावश्यं वक्तव्यत्वादित्यर्थः ।। ५ ।। वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६॥ ततः विद्युल्लोकप्राप्त्यनन्तरं वैद्युतेनैव ब्रह्मलोकाद्विद्युल्लोकं प्रत्याग- तेन अमानवपुरुषेणैव नीयमानाः उपासकाः ब्रह्मलोकं गच्छन्ति । कुतः ? तच्छ्रुतेः 'ततस्तत्पुरुषोऽभानव एत्य ' इति श्रुतौ विद्युल्लोकप्राप्त्यनन्तरम् अमानवपुरुषस्य नेतृत्वश्रवणात् उपासकानां वरुणेन्द्रप्रजापतिलोकेषु नेत्र- न्तरापेक्षाया अभावादित्यर्थः ॥६॥ कार्याधिकरणम् ॥ ६॥ इयता सूत्रसंदर्भेण अर्चिरादिमार्गस्वरूपं विचार्य इदानी “स एनान् ब्रह्म गमयति' इति वाक्यस्थब्रह्मशब्दार्थ विचारयति । प्रथम सिद्धान्तमा- ह चतुर्भिः सूत्रैः- कार्य बादरिरस्य गत्युपपत्तेः ॥ ७॥ कार्यम् ' यो ब्रह्माणं विदधाति पूर्वम्' इति श्रुतौ परब्रह्मजन्यत्वेन प्रतिपाद्यमानं हिरण्यगर्भाख्यं ब्रह्मलोकास्थलीलाशरीरविशिष्टं कार्य ब्रह्म सगुणब्रह्मोपासकानां प्राप्यमिति बादरिमन्यते । कुतः ? अस्य उपासक- स्य गत्युपपत्तेः परिच्छिन्नहिरण्यगर्भप्राप्त्यर्थमचिरादिमार्गेण गमनस्य उपपन्नत्वात् । परब्रह्मणस्तु आकाशवत् सर्वत्र परिपूर्णत्वेन परब्रह्मप्राप्त्य- र्थमचिरादिमार्गेण गमनस्य व्यर्थत्वादित्यर्थः ॥ ७॥ विशेषितत्वाच ॥८॥ स एनान् ब्रह्मलोकान् गमयति यस्मिन् सरण्यौ द्वौ समुद्रौ यस्मि- रमदीयं सरः यस्मिन्नश्वत्थः सोमसवनः यस्मिन्नपराजिता पू: ब्रह्मणः । . १२ १३४ ब्रह्मसूत्रवृत्तिः । [अ० ४ पा० ३ प्रभुविमितं हिरण्मयं वेश्म तं ते प्राप्नुवन्ति' इत्यादिश्रुत्यन्तरेषु उपास- कानां ब्रह्मलोकप्राप्तेः विशिष्योक्तत्वात् “स एनान् ब्रह्म गमयति' इति श्रुतावपि ब्रह्मशब्देन ब्रह्मलोकस्थं हिरण्यगर्भाख्यं कार्य ब्रह्मैव उपास- कानां प्राप्यमित्यर्थः। हिरण्यगर्भप्राप्ति म हिरण्यगर्भभोगसशसकल- भोगानुभवविशिष्टतया हिरण्यगर्भसंनिधौ अवस्थानम् ॥ ८ ॥ परब्रह्मणि मुख्यस्य ब्रह्मशब्दस्य हिरण्यगर्भे कथं प्रयोग इत्याशङ्कयाह- सामीप्यात्तु तद्यपदेशः ॥ ९॥ सामीप्यात् हिरण्यगर्भस्य प्रथमं परब्रह्मजन्यत्वेन असाधारणसंब- न्धात् तद्व्यपदेशः लक्षणया ब्रह्मशब्दप्रयोगः ॥ ९॥ ब्रह्मलोकं प्राप्तानामुपासकानां कदा मुक्तिरित्याकाङ्क्षायामाह- कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥ कार्यात्यये महाप्रलयसमये कार्यस्य ब्रह्मलोकस्य अत्यये नाशे सति तध्यक्षेण ब्रह्मलोकाध्यक्षेण हिरण्यगर्भेण सह अतः परं हिरण्यगर्भादपि उत्कृष्टं परब्रह्म उपासकाः प्राप्नुवन्ति । कुतः ? अभिधानात् “ते ब्रह्म- लोके तु परान्तकाले परामृतात् परिमुच्यन्ति' इति श्रुतेः ॥ १० ॥ स्मृतेश्च ॥ ११ ॥ ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । इति स्मृतेश्चेत्यर्थः ॥ ११ ॥ चतुर्भिः सूत्रैः प्रथमं सिद्धान्तमुक्त्वा पश्चात् सूत्रत्रयेण पूर्वपक्षमाह- परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥ 'स एनान् ब्रह्म गयमति' इत्यत्र ब्रह्मशब्देन परब्रह्मैवोच्यते इति जैमि- निर्मन्यते । कुतः ? मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वात् मुख्ये संभवति गौणस्यान्याय्यत्वादित्यर्थः ॥ १२ ॥ दर्शनाच्च ॥ १३ ॥ 'ब्रह्मविदाप्नोति परम्' इत्यादिश्रुतिषु ब्रह्मशब्दस्य परब्रह्मणि प्रयोग- दर्शनाचेत्यर्थः ॥ १३ ॥ पूर्वपक्षी स्वपक्षं प्रसाध्य सिद्धान्तं दूषयति- न च कार्ये प्रतिपत्त्याभिसंधिः ॥ १४॥ 'स एनान् ब्रह्मलोकान् गमयति ' इति श्रुत्यन्तरबलादपि कार्ये हिरwimmiyason ?

अधि०६]
अद्वैतमञ्जरी।
ण्यगर्भ प्रतिपत्त्यभिसंधिः प्राप्त्याशा न कर्तव्या । ब्रह्मलोकादिशब्दानां
सर्वेषामपि लक्षणया परब्रह्मप्रतिपादकत्वसंभवादिति भावः ।।
अनेकेषाम् ऐरंमदीयाश्वत्थहिरण्मयवेश्मब्रह्मलोकादिशब्दानां परब्र-
मणि लक्षणाकल्पनापेक्षया एकस्यैव ब्रह्मशब्दस्य हिरण्यगर्भलक्षकत्वाङ्गी-
कारे लाघवात् व्यापकस्य ब्रह्मणः अत्रैव प्राप्तुं शक्यत्वेन तत्प्राप्त्यर्थमुपा-
सकानामचिरादिमार्गेण गमनवैयात् बादरिमतमेव समीचीन, न तु
जैमिनिमतमिति भावः ॥ १४ ॥
अप्रतीकालम्बनाधिकरणम् ॥ ६ ॥
अहंग्रहोपासकानां प्रतीकोपासकानां च सर्वेषामपि ब्रह्मलोकप्राप्ति-
रिति केचिद्वदन्ति । तन्मतं निराकरोति-
अप्रतीकालम्बनान्नयतीति बादरायण
उभयथा दोषात्तत्क्रतुश्च ॥ १५ ॥
अप्रतीकालम्बनान् प्रतीकोपासकभिन्नान् अहंग्रहोपासकानेव अमान-
वपुरुषः ब्रह्मलोकं नयतीति बादरायणो मन्यते । कुतः ? उभयथा अहं-
ग्रहोपासकान् प्रतीकोपासकांश्च उभयविधानपि ब्रह्मलोकं प्रापयतीत्यङ्गी-
कारे दोषात् बहुप्रयाससाध्याहङ्ग्रहोपासनानुष्टानवैयर्थ्यरूपात् दोषादि-
त्यर्थः । किं च तत्क्रतुश्च * यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत:
प्रेत्य भवति' इति तत्क्रतुश्रुतिरपि अहंग्रहोपासकस्यैव ब्रह्मलोकप्राप्तिं दर्श-
यति । इदमुपलक्षणम् 'यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्' इति
स्मृतिरपि द्रष्टव्या । अयं भावः--मनोमयत्वभारूपत्वसत्यसंकल्पत्वाद्यने-
कगुणविशिष्टं ब्रह्मैवाहमस्मीत्येवंविधााने जीवब्रह्माभेदध्यानरूपाणि दहर-
शाण्डिल्योपकोसलवैश्वानरविद्यादीनि अहंग्रहोपासनानि सत्यसंकल्पत्वा-
दिबहुगुणज्ञानसाध्यत्वात् बहुप्रयाससाध्यानि। 'नाम ब्रह्मेत्युपासीत । मनो-
ब्रह्मेत्युपासीत । आदित्यं ब्रह्मेत्युपासीत ' इत्येवंविधानि जडेषु नामादिषु
ब्रह्मदृष्टिरूपाणि प्रतीकोपासनानि तु बहुगुणज्ञानाधीनत्वाभावात् स्वल्पा-
याससाध्यानि । तस्मात् अहंग्रहोपासकानामेव ब्रह्मलोकप्राप्तिः, प्रतीको-
पासकानां तु ब्रह्मलोकाधस्तनमहर्लोकादिप्राप्तिरेवेति भावः । किंच
'यथाक्रतुरस्मिन् लोके पुरुषो भवति' इति तत्क्रतुश्रुतिरपि भ्रमरकीटन्या-
येन सत्यसंकल्पत्वादिविशिष्टं सगुणब्रह्मैवाहमस्मीति ब्रह्माभेदध्यानवताम्
अहंग्रहोपासकानामेव सगुणब्रह्मप्राप्तिं दर्शयति, न तु जडेषु नामादिषु
ब्रह्मदृष्टिमतां प्रतीकोपासकानामिति भावः ॥ १५ ॥

१३६
ब्रह्मसूत्रवृत्तिः । [अ०४ पा०४
विशेषं च दर्शयति ॥ १६॥
'ये चारण्ये श्रद्धां सत्यमित्युपासते ते ब्रह्मलोकमभिसंपद्यन्ते' इति
श्रुतिरपि सत्यब्रह्मोपासकानामेव ब्रह्मलोकप्राप्तिं दर्शयति, न तु मिथ्या-
भूतनामादिषु ब्रह्मदृष्टिं कुर्वतां प्रतीकोपासकानामित्यर्थः ।। १६ ।।
इति ब्रह्मसूत्रवृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ।
॥ चतुर्थाध्यायस्य चतुर्थः पादः ।।
wammam
संपद्याविर्भावाधिकरणम् ॥१॥
सगुणब्रह्मोपासकानामचिरादिमार्गेण हिरण्यगर्भप्राप्तिमुक्त्वा इदानी
निर्गुणब्रह्मज्ञानिनामत्रैव परब्रह्मप्राप्तिमाह-
संपद्याविर्भावः स्वेन शब्दात् ॥ १ ॥
हृत्पुण्डरीके भूतेन्द्रियान्तःकरणादिमिलितः जीवः लिङ्गशरीरनाशा-
नन्तरं हृत्पुण्डरीके सर्वत्र च परिपूर्ण ब्रह्म संपद्य प्राप्य स्वेन रूपेण
नित्यशुद्धबुद्धमुक्तसत्यज्ञानानन्दादिस्वरूपेण आविर्भावः आविर्भूतो भावः
स्वरूपं यस्य स अभिव्यक्तस्वरूपवान् भवति । कुतः ? शब्दात् 'एष
संप्रसादोऽस्माच्छरीरात् समुत्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणाभि-
निष्पद्यते' इति श्रुतेरित्यर्थः ।। १ ॥
'अस्माच्छरीरात् समुत्थाय ' इति वाक्ये ज्ञानिनामपि शरीरात्
बहिनिर्गमनस्य प्रतीयमानत्वात् कथं लिङ्गशरीरनाशपूर्वकं हृत्पुण्डरीका-
वच्छिन्नब्रह्मप्राप्तिरित्याशङ्कयाह-
मुक्तः प्रतिज्ञानात् ॥ २॥
अस्माच्छरीरात् समुत्थायेत्यत्र शरीरे विद्यमानेऽपि शरीराभिमानवि-
निमुक्तः शुद्धजीवः उच्यते । कुतः ? प्रतिज्ञानात् “स्वेन रूपेणाभिनि-
पद्यते ' इति उत्तरवाक्ये स्वरूपाभिव्यक्तिकथनादित्यर्थः ॥ २ ॥
ननु, ' परं ज्योतिरुपसंपद्य ' इति वाक्ये ज्योतिश्शब्देन आदित्यम-
ण्डलमुच्यते तथा च ज्ञानिनामपि उपासकानामिव सूर्यलोकद्वारा ब्रह्म-
लोकप्राप्तिरेव, नत्वत्रैव लिङ्गशरीरनाशपूर्वकं व्यापकब्रह्मप्राप्तिरित्याश-
थाह-
आत्मा प्रकरणात् ॥ ३ ॥

अधि० ३] अद्वैतमन्जरी। १३७ , Heam ज्योतिश्शब्देन परमात्मैवोच्यते, न त्वादित्यमण्डलम् । कुतः ? प्रक- रणात् “य आत्मा अपहतपाप्मा तमावां विविदिषावहै ' इति पूर्ववाक्ये इन्द्रविरोचनाभ्यां हिरण्यगर्भ प्रति परमात्मनः पृष्टत्वादित्यर्थः ॥ ३॥ अविभागाधिकरणम् ॥ २॥ 'ज्योतिरुपसंपद्य ' इति वाक्ये ज्ञानिनां ब्रह्मसंबन्ध एव प्रतिपाद्यते, न ब्रह्मैक्यमित्याशङ्कयाह- अविभागेन दृष्टत्वात् ॥ ४ अविभागेन ब्रह्माभिन्नतयैव ज्ञानिनामवस्थानं, न तु ब्रह्मसंबन्धितया । कुतः ? दृष्टत्वात् 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिषु ज्ञानिनां ब्रह्माभेदप्रतिपादनादित्यर्थः ॥ ४ ॥ ज्योतिश्शब्दस्य प्रकरणवलात् ब्रह्मप्रतिपादकत्वेऽपि वक्ष्यमाणयुक्त्या लक्षणया लीलाशरीरविशिष्टहिरण्यगर्भाख्यसगुणब्रह्मप्रतिपादकत्वमेव वक्तव्यम् । तथा च ज्ञानिनामपि ब्रह्मलोकहिरण्यगर्भप्राप्तिरेव, न तु व्यापकब्रह्मप्राप्तिरिति पूर्वपक्षमाह- ब्राह्माधिकरणम् ॥ ३ ॥ ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥५॥ निर्गुणब्रह्मज्ञानिनोऽपि सगुणब्रह्मोपासकवत् ब्राह्मं निर्गुणब्रह्मसंब- न्धिनं हिरण्यगर्भाख्यं सत्यलोकस्थं प्राप्नुवन्तीति जैमिनिर्मन्यते । पूर्व- स्मिन् पादे सगुणब्रह्मोपासकानामपि व्यापकब्रह्मप्राप्तिः शङ्किता । अ- स्मिन् पादे ज्ञानिनामपि हिरण्यगर्भप्राप्तिः शङ्कयत इति भेदः । कुतः ? उपन्यासादिभ्यः 'जक्षत् क्रीडन् रममाणः' इत्यादिवाक्येभ्यः ज्ञानि- नामपि जक्षणादिव्यापारप्रतिपादनात् । निर्गुणब्रह्माभेदाङ्गीकारे जक्ष- णादिव्यापारासंभवात् निर्गुणब्रह्मज्ञानजन्यसगुणहिरण्यगभावाप्तिरेव ' परं ज्योतिरुपसंपद्य ' इति वाक्ये लक्षणया प्रतिपाद्येत्यङ्गीकर्तव्यमिति भावः । न च हिरण्यगर्भप्राप्तिपक्षे स्वेन रूपेणाभिनिष्पद्यत इति वाक्य- मसङ्गतमिति वाच्यम् । स्वेन स्वकीयेन रूपेण शरीरेण हिरण्यगर्भशरीर- सदृशशरीरेण विशिष्टः सन् हिरण्यगर्भसमीपे अभिनिष्पद्यते प्रकाशत इत्येवंरूपेण हिरण्यगर्भसारूप्यप्रतिपादकतया 'स्वेन रूपेणाभिनिष्पद्यते। इति वाक्यस्य प्रामाण्योपपत्तेः । तथा च ज्ञानिनामुपासकानां च सर्वेषा- मपि ब्रह्मलोकप्राप्तिरेव मुक्तिः, न परब्रह्माभेदरूपेति भावः ।। ५ ।।

१३८ ब्रह्मसूत्रवृत्तिः । [अ०४ पा०४ MORMANA सिद्धान्तमाह- चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ निर्गुण ब्रह्माभेदव्यानपराणां ज्ञानिनां चितितन्मात्रेण शुद्धचैतन्यमात्र- स्वरूपनिर्गुणब्रह्मरूपेणावस्थानमित्यौडुलोमिमन्यते । कुतः ? तदात्मक- त्वात् तस्मिन्नेव आत्मा अन्तःकरणं येषां ते, तदात्मकत्वात् सर्वदा शुद्ध- चैतन्यध्यानपरत्वादित्यर्थः । तथा च ' यथाक्रतुरस्मिन् लोके पुरुषो भवति ।। 'यं यं वापि स्मरन् भावम् । इत्यादिश्रुतिस्मृत्यनुसारेण व्याप- कशुद्धचैतन्यध्यानपराणां शुद्धचैतन्यात्मकव्यापकनिर्गुणब्रह्मरूपेणैवाव. स्थानमङ्गीकर्तव्यं, न ब्रह्मलोकप्राप्तिरिति भावः ॥ ६॥ ज्ञानिनां शुद्धचैतन्यरूपनिर्गुणब्रह्मैक्याङ्गीकारे जक्षणादिव्यापारप्र- तिपादकवाक्यस्य का गतिरित्याशङ्कयाह- एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७॥ एवमप्युपन्यासात् 'यत्र त्वस्य सर्वमात्मैवाभूत् । आत्मानं चेद्विजानी- यादयमस्मीति पूरुषः । आत्मक्रीड आत्मरतिरात्मकामः आत्मलाभान्न परं विद्यते' इत्यादिश्रुतिषु ब्रह्मसाक्षात्कारानन्तरं जक्षणादिसकलब्यापारा- भावस्यापि प्रतिपादितत्वात् मोक्षकाले जक्षणादिव्यापारप्रतिपादकानां बहूनां वाक्यानां जक्षणादिव्यापाराभावप्रतिपादकानां बहूनां वाक्यानां च परस्परविरोधात् अप्रामाण्ये प्राप्ते अविरोधं विरोधाभावं बादरायणो मन्यते । कुतः ? पूर्वभावात् ब्रह्मसाक्षात्कारात् पूर्वमुपासकानां मानुषदे- वगन्धर्वेन्द्रप्रभृतीनां जक्षणादिव्यापारजन्यानां सकलविषयानन्दानां नित्ये ब्रह्मानन्दे भावात् अन्तर्भावात् तावन्मात्रेण जक्षणादिव्यापारस्य मोक्षकाले उक्तत्वेन स्वार्थे तात्पर्याभावादित्यर्थः । न च जन्यानां विष- यानन्दानां नित्ये ब्रह्मानन्दे अन्तर्भाव एवानुपपन्न इति वाच्यम् । स्व- रूपानन्दस्यैव स्रक्चन्दनादिविषयसंपर्कजन्यान्तःकरणवृत्तिषु प्रतिविम्बि- तस्य विषयानन्दशब्देन व्यवह्रियमाणत्वेन स्वरूपानन्दविषयानन्दयोमें- दाभावात् । अन्तःकरणवृत्तिनिष्ठजन्यत्वाविनाशित्वधर्मयोः वृत्तिप्रतिबि- म्बितस्वरूपानन्दे आरोप्यमाणत्वात् विषयतारतम्येन वृत्तितारतम्यात् वृत्तितारतम्येन वृत्तिप्रतिबिम्बितस्वरूपानन्दे तारतम्यप्रतीतेरन्यथासि- द्धत्वादिति भावः ॥ ७ ॥ ?

आधि०५] अद्वैतमञ्जरी १३९: संकल्पाधिकरणम् ॥ ४॥ इयता सूत्रसंदर्भण निर्गुणब्रह्मसाक्षात्कारवतां शुद्धचैतन्यात्मकन्या- पकब्रह्मरूपेणावस्थानं प्रतिपाद्य इदानीं सगुणब्रह्मोपासकानां ब्रह्मलोकं गतानां भोगप्रकारं दर्शयति- संल्पादेव तु तच्छ्रुतेः॥८॥ उपासकानां संकल्पादेव स्रक्चन्दनवनितादिसकलविषयप्राप्तिर्भवति । कुतः ? तच्छ्रुतेः ' संकल्पादेवास्य पितरः समुत्तिष्ठन्ति संकल्पादेवास्य सर्वे देवा गन्धर्वा विद्याधराश्च समुत्तिष्ठन्ति ' इति श्रुतौ पितृदेवगन्धर्वा- दीनां भृत्यवत् परिचारकत्वश्रवणादित्यर्थः ॥ ८॥ अत एव चानन्याधिपतिः ॥ ९ ॥ अत एव संकल्पमात्राधीनसकलविषयभोगवत्त्वादेव उपासकः अनन्या- विपतिः न विद्यते अन्यः अधिपतिर्यस्य, सः अनन्याधिपतिः अन्यनिय- म्यो न भवति, किं तु स्वतन्त्र इत्यर्थः ॥ ९॥ बादयधिकरणम् ॥ ६॥ अभावं वादरिराह ह्येवम् ॥१०॥ लिङ्गशरीरमात्रविशिष्टानामुपासकानां स्थूलशरीरस्याभावं बादारिम- न्यते । कुतः ? आह् ह्येवं मनसैवैतान् कामान् पश्यन् रमते ' इति श्रुतिः स्थूलशरीराभावमुपासकानां प्रतिपादयतीत्यर्थः ॥ १०॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ जैमिनिस्तु स्थूलशरीरस्य भावं मन्यते । कुतः १ विकल्पामननात् ब्रह्मलोकं गतानामुपासकानां बहुश्रुतिषु विकल्पस्य भोगस्य आमननात् स्थूलशरीररहितानां लिङ्गशरीरमात्राविशिष्टानां भोगासंभवादित्यर्थः । 'मनसैवैतान् कामान् ' इति वाक्यस्थस्य एवकारस्य अयोगव्यवच्छेद- कत्वेन अन्ययोगव्यवच्छेदप्रतिपादकत्वाभावादिति भावः ॥ ११ ॥ एवकारस्य अन्ययोगव्यवच्छेदकत्वमङ्गीकृत्यापि परिहारमाह- द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥ अतः ' मनसैवैतानि ' इति श्रुतिस्थैवकारबलात् भोगान्यथानुपपत्ति- रूपार्थापत्तिप्रमाणाञ्च उभयविधत्वं कदाचिल्लिङ्गशरीरमात्र विशिष्टत्वं, कदाचित् स्थूलशरीरविशिष्टत्वमिति कालभेदेन उभयविधत्वमुपासकाना- ममोघसंकल्पानां संकल्पानुसारेण उपपन्नमिति बादरायणो मन्यते । द्वाद- .

ब्रह्मसूत्रवृत्तिः ।
[अ० ४ पा०४
anNDRAND
शाहवत् यथा द्वादशाहस्य प्रमाणबलात् सत्रत्वम् अहीनत्वं च प्रयोगभे-
देनाङ्गीक्रीयते, तद्वदित्यर्थः ॥ १२ ॥
स्थूलशरीराभावकाले कथं भोग इत्याशङ्कयाह-
तन्वभावे संध्यवदुपपत्तेः ॥ १३ ॥
तन्वभावे स्थूलशरीराभावकाले सन्ध्यवत् स्वप्नावस्थायामिव उपपत्तेः
प्रातिभासिकभोगोपपत्तेरित्यर्थः ॥ १३ ।।
भावे जाग्रदत् ॥ १४ ॥
भावे स्थूलशरीरस्य सद्भावे जाग्रद्वत् जाग्रवस्थायामिव व्यावहारिक-
भोगोपपत्तरित्यर्थः ॥ १४ ।।
प्रदीपाधिकरणम् ॥६॥
उपासकानामुपासनासामर्थ्यात् योगिनामिव कायव्यूहनिर्माणेन अने-
कशरीरेषु युगपत् भोगमाह-
प्रदीपवदावेशस्तथा हि दर्शयति ।। १५ ॥
उपासकस्य ब्रह्मलोकस्थस्य खेच्छया निर्मितेषु अनेकशरीरेषु युगपदेव
आवेशः प्रवेश: अभिमान: अङ्गीकर्तव्यः प्रदीपवत् । यथा एकस्य प्रदी-
पस्य तैलसिक्तासु सहस्रसङ्ख्याकासु वर्तिबु युगपत् प्रवेशस्तद्वदित्यर्थः ।
तथा हि दर्शयति-स एकधा भवति द्विधा भवति त्रिधा भवति ।
इत्यादिश्रुतिः उपासकानां संकल्पमात्रेणैव अनेकशरीरनिर्मातृत्वं दर्शयती-
त्यथः ॥ १५ ॥
सगुणब्रह्मोपासकानामचिरादिमार्गेण ब्रह्मलोकप्राप्त्यनन्तरक्षण एव
व्यापकनिर्गुणब्रह्माभेदं प्राप्तानां कथं कायव्यूहनिर्माणं, कथं वा भोग
इत्याशङ्कयाह-
स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
स्वाप्ययः सुषुप्त्यवस्था, संपत्तिः मोक्षावस्था, सुषुप्त्यवस्थामोक्षावस्थ-
योर्मध्ये अन्यतरापेक्षम् अन्यतरावस्थासंबन्ध्येव जीवानां ब्रह्माभिन्नत्वं
श्रुतिषु आविष्कृतं प्रतिपादितमित्यर्थः । तथा च उपासकानां ब्रह्मलोक-
प्राप्त्यनन्तरमेव न व्यापकब्रह्मैक्यम् । श्रुतिषु तथा अप्रतिपादनात् देहा-
चभिमाननिवृत्तिकालेष्वेव जीवानां ब्रह्माभेदप्रतिपादनात ब्रह्मलोकप्राप्ति-
मात्रेण देहाद्यभिमाननिवृत्तरभावाच । किं तु कंचित्कालं ब्रह्मलोकस्थ-
भोगानन्तरं क्रमेण ब्रह्मसाक्षात्कारानन्तरं हिरण्यगर्भेण सह व्यापकब्रह्मै-
क्यरूपा मुक्तिरिति भावः ॥ १६ ॥

अधि०७] अद्वैतमञ्जरी। ? जगद्व्यापाराधिकरणम् ॥ ७ ॥ उपासकानां स्वेच्छया कायव्यूहनिर्मातृत्वाङ्गीकारे देवगन्धर्वमनुष्यप- शुपक्ष्यादिशरीरस्रष्टुत्वमप्युपासकानां स्यादित्याशङ्कयाह- जगद्व्यापारवर्ज प्रकरणादसंनिहितत्वाच ॥१७॥ जगद्व्यापारवर्ज देवगन्धर्वादिशरीरजगत्सृष्टिव्यापारं वर्जयित्वा स्वभो- गसाधनीभूतकायव्यूहादिनिर्माणसामर्थ्यमात्रमेव उपासकानाम् । देवग- न्धर्वादिशरीरसृष्टिव्यापारस्तु हिरण्यगर्भस्यैव । कुतः ? प्रकरणात् हिर- ण्यगर्भप्रकरणेष्वेव हिरण्यगर्भस्य देवादिशरीरस्रष्ट्रत्वप्रतिपादनात् कुत्रा- प्युपासनाप्रकरणेषु उपासकानां स्वशरीरव्यतिरिक्तदेवादिशरीरस्रष्टुत्वा- प्रतिपादनादित्यर्थः । किं च असंनिहितत्वाच्च हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । 'यो ब्रह्माणं विदधाति पूर्वम् ' इत्या- दिश्रुतिषु देवासुरादिसकलभूतोत्पत्तेः पूर्वमेव हिरण्यगर्भस्य साक्षात्परन- ह्मजन्यत्वप्रतिपादनेन परब्रह्म प्रति संनिहितत्वात् अन्तरङ्गत्वात् देवासु. रभूतप्रेतपिशाचादिसकलभूतनिर्माणसामर्थ्यमस्ति । उपासकानां तु मन्वाद्यनेकभूतपरम्परया हिरण्यगर्भजन्यत्वेन साक्षात्परब्रह्मजन्यत्वाभा- वेन असंनिहितत्वात् परमात्मानं प्रति अन्तरङ्गत्वाभावाच देवादिभूतनि- माणसामर्थ्य नास्तीत्यर्थः ।। १७ ।। उपासकानामिव हिरण्यगर्भस्यापि देवादिभूतस्रष्टत्वं नास्ति । पुरुषसूक्ते परमात्मन एव देवादिभूतस्रष्ट्रत्वप्रतिपादनादित्याशङ्कय निराकरोति- प्रत्यक्षोपदेशान्नति चेनाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥ प्रत्यक्षोपदेशात् 'तेन देवा अयजन्त साध्या ऋषयश्च ये' इत्यादि- श्रुतिषु परमात्मन एव देवादिसकलस्रष्टुत्वस्य साक्षादुपदिष्टत्वात् नेति चेत् हिरण्यगर्भस्य देवादिभूतस्रष्ट्रत्वं नास्तीति चेत्, न । आधिकारिकम- ण्डलस्थोक्तेः आधिकारिकस्य परब्रह्माज्ञावशवर्तिनः मण्डलस्थस्य ब्रह्माण्ड- मण्डलाभिमानिनः विराटपुरुषनामकस्य ब्रह्मलोकेऽपि चतुर्मुखलीलावि- ग्रहं धृत्वा विद्यमानस्य हिरण्यगर्भस्य उक्तेः पुरुषसूक्ते देवादिभूतस्रष्टुत्व- प्रतिपादनात् न परमात्मनः साक्षात् देवासुरादिभूतस्रष्ट्रत्वं, किं तु हिर- ण्यगर्भद्वारैवेत्यर्थः ॥ १८ ॥ ताह पुरुषसूक्ते प्रतिपाद्यस्य हिरण्यगर्भस्यैव देवासुरादिभौतिकसकल- शरीरस्रष्टुत्ववत् पञ्चमहाभूतस्रष्टुत्वस्यापि संभवात् हिरण्यगर्भ एव १४२ ब्रह्मसूत्रवृत्तिः। [अ०४ पा०४ परब्रह्मस्थानाभिषिक्तो भवतु, तदतिरिक्तं परं ब्रह्म किमर्थमङ्गीकर्तव्यमि- त्याशङ्कयाह- विकारावर्ति च तथाहि स्थितिमाह ॥१९॥ विकारावर्ति विकारासंस्पृष्टं ब्रह्माण्डमध्ये विद्यमानमपि ब्रह्माण्डाभि- मानरहितं हिरण्यगर्भातिरिक्तं परं ब्रह्माङ्गीकर्तव्यम् । कुतः ? तथा हि स्थितिमाह-पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ' इति पुरु- षसूक्तस्थश्रुतिरेव हिरण्यगर्भातिरिक्तस्य परब्रह्मणः अवस्थानं प्रतिपादयती- त्यर्थः । 'पादोऽस्य विश्वा भूतानि' इति श्रुतेरयमर्थ:--अस्य परब्रह्मण: सर्वाणि भूतानि चतुर्मुखादिपिपीलिकान्तसकलशरीराणि प्रविश्य सकल- शरीरेषु विद्यमानसकलशरीराभिमानविशिष्टं सकलभूतसंबन्धि सुख- दुःखहर्षशोकभयादिसमान्वितं विराटपुरुषचैतन्यमेकः पाद एकांऽशः, दिवि ब्रह्माण्डमध्ये विद्यमानमपि ब्रह्माण्डान्तर्वतिसकलशरीराभिमानरहि- तम् अमृतं मरणभयशोकादिरहितं शुद्धचैतन्यं त्रिपात् अंशत्रय- वदित्यर्थः ॥ १९ ॥ हिरण्यगर्भातिरिक्तपरब्रह्मसद्भावे पुरुषसूक्तातिरिक्तं प्रमाणान्तरम- प्याह- दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ प्रत्यक्षानुमाने 'द्वे ब्रह्मणी वेदितव्ये परं चापरं च द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ' इति श्रुतिस्मृती हिरण्यगर्भातिरिक्तं परब्रह्म दर्शयतः प्रतिपादयत इत्यर्थः । तथा च परब्रह्मण एव पञ्चमहाभूतस्रष्टत्वं हिरण्यगर्भस्य तु परब्रह्मणः आज्ञया चराचरसकलभौतिकशरीरस्रष्टत्व- मिति भावः॥ २० ॥ एवं प्रसङ्गादागतं परब्रह्महिरण्यगर्भयोर्भेदविचारं परिसमाप्य प्रस्तुते उपासकानां देवासुरादिशरीरस्रष्ट्रत्वाभावे हेत्वन्तरमाह- भोगमात्रसाम्यलिङ्गाच ॥२१॥ हिरण्यगर्भस्य यादृशो भोगः, तादृशो भोगः उपासकानामप्यस्तीति भोगमात्रसादृश्यस्यैव श्रुतिषु प्रतिपादितत्वात् सर्वात्मना हिरण्यगर्भसाह- श्यस्य अप्रतिपादितत्वाच अस्मादपि लिङ्गात् ज्ञापकात्नोपासकानां देवा- दिशरीरस्रष्टुत्वमित्यर्थः । इदमुपलक्षणम् उपासकानां स्वातन्त्र्येण देवा- सुरादिभौतिकशरीरस्रष्टत्वमित्यङ्गीकारे परस्परकलहप्रसङ्गात् हिरण्यग- भीज्ञावशवर्तित्वेनैव उपासकानां स्रष्टुत्वं वक्तव्यम । तथा च आवश्य- अधि०७] अद्वैतमञ्जरी। कत्वात् लाघवाच्च एकस्यैव हिरण्यगर्भस्य भौतिकशरीरस्रष्टत्वमङ्गीकर्तव्यं, नानेकेषामुपासकानामिति भावः ॥ २१ ॥ ब्रह्मलोकं गतानां सर्वेषामपि ब्रह्मणा सह मुक्तिी, उत केषांचित् ब्रह्मणा सह मुक्तिः, केषांचित् कंचित्कालं भोगानन्तरं भूलोकादिषु पुन- रावृत्तिर्वा इति संशये प्राप्ते निर्णयं करोति- अनात्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ ब्रह्मलोकं गतानां सर्वेषामुपासकानाम् अनावृत्ति: भूलोकादिषु पुनरा- वृत्त्यभाव एवाङ्गीकर्तव्यः । कुतः ? शब्दात् एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते' इति श्रुतेरित्यर्थः । अनावृत्तिशब्दस्य द्विरुक्तिर- ध्यायपरिसमाप्तिद्योतनार्था । न च गङ्गाशन्तनुचक्रवर्तिप्रभृतीनां ब्रह्मलो- कवासिनामपि हिरण्यगर्भशापवशात् भूलोकं प्रत्यावृत्तिः पुराणादिषु प्रतिपाद्यत इति वाच्यम् । ब्रह्मलोकवासिभिः कैश्चिदपि रागद्वेषादिकं न कर्तव्यमिति ब्रह्मलोकवासिनां शिक्षाथै हिरण्यगर्भण शापे कृते सति तं- शापं कंचित्कालं भूलोके अनुभूय पुनः ब्रह्मलोकं गतानां शन्तनुचक्रव- र्तिप्रभृतीनां ब्रह्मणा सह मुक्तेः तेष्वेव पुराणेषु प्रतिपादितत्वेन विरोधा- भावादिति भावः ॥ २२ ॥ इति ब्रह्मसूत्रवृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ॥ अध्यायश्च संपूर्णः॥ समाप्तोऽयं ग्रन्थः

Brahma Sutra Vrittibrahma Sutra Vritti

Author
Mahadeva Gangadhar Bakre
Title
Brahma Sutra Vrittibrahma Sutra Vritti
File name
Brahma Sutra Vrittibrahma Sutra Vritti
Text
OCR done
Citation
1914
Language
Sanskrit
Pages
153
Library
Bharti Bhawan Liabrary, Allahabad
Classification
Sanskrit
DLI number
273020
Barcode
5990010894138.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
wDJpaU5k9em
Download PDF

Brahma Sutra Vrittibrahma Sutra Vritti