Bharatiya Vidya Bhavan Library, Mumbai

Ishkenkathopanisad

Digambar · 2012/08

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्क: ७६ दिगम्बरानुचरविरचितार्थप्रकाशाख्यव्याख्यासमेताः ईशकेनकठोपनिपदः एतत्पुस्तकम्। डेक्कनकालेजस्थसंस्कृताध्यापकः थे. शा. रा. पाठकोपाद्वैः श्रीधरशास्त्रिभिः आनन्दाश्रमस्थ- पण्डित्तश्च संशोधित्तम् । तच हरि नारायण आपटे इत्येतैः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । वि नारायण मूळजी घुरोलर, कए गो. २, शालिवाहनशकादाः १८३६ स्त्रिस्ताब्दाः १९१६ (अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यमेको रूपकः (१)

CIRRTY..
IDYA
S. A
125132

ॐ तत्सद्ब्रह्मणे नमः। अर्थप्रकाशसहितेशावास्योपनिपत् । - अथ यजुपां वाजसनेयशासायां ज्ञानस्य तत्साधनस्य घोपपादका ईशावास्यमित्यादयोऽष्टादश मन्त्राः सन्ति तेपामधुनाऽर्थः प्रकाश्यते- ईशा वास्पमिदर सर्व यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १ ॥ इदं प्रत्यक्षत्वेनानुभूयमानं सर्व नामरूपकर्मात्म जगत्यां जङ्गम्यत इति जगती तस्यां जगत्यां तदुपलक्षितेऽस्मिलोकत्रयेऽपि यत्किंच स्थूल- सूक्ष्मात्मकं जगत्तदोशेष्ट इतीद् तेनेशा सत्याद्वितीयानन्तपरिपूर्णलक्ष. णैश्वर्यवता चिदानन्दमयेन शुद्धेन परमात्मना वास्यमाच्छादनीयम् । कुतः, जगतोऽनिर्वचनीयत्वेन विवर्तरूपत्वादस्य कारणत्वात्सत्तारूप. स्वाच्च रविरश्मिसंधैगजलमिव तस्मात्तेन सह तदेवैकमस्त्यत एवोच्यते 'सर्व सल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ' ब्रह्मैवेदं विश्वमिदं परिष्ठमिति । अतो विवेकिमिरन्वयेनेदं सर्व तद्रूपमेव दृश्येत तेनैवं- रूपेण त्यक्तेन त्यागेन मुखीथा मुझ्व विषयान् । तत्कथम् । पूर्वमज्ञा. नावस्थायां देहात्मबुद्धिः सत्या तथाच स्त्रीपुत्रादिपु ममता न त्यागो मरणेन पा परित्यागो न संभवति वासनारूपत्वेन विद्यमानत्वात् । तस्मिन्यथावद्वर्तमानेऽप्युक्तविवेकेन सर्व ब्रह्मैवास्तीति समत्वमावनया योऽहंममत्वपरित्यागः स व परिज्ञानतः परित्यागस्तेन त्यागेनान्वय- ज्ञानरूपेण शब्दादिविषयान्मुक्षीत । कथं तदन्वयज्ञानं शब्दोऽयं विषयः कुत उत्पन्नः किं तस्य रूपमिति विवेचनेन केवलाद्दन्तोष्ठतालुजिह्वादे- वाचैतन्यरूपत्वात्तस्य पूर्वभावे संकल्परूपस्य तस्य वक्तव मूलं रूपं च । वक्ता स विचारतः शुद्धेन रूपेण परं ब्रह्मैवास्ति स यदा शब्दाकारेण तदा कारणान्वयेन शब्दोऽपि तद्रूप एव । तस्माद्ब्रह्मण उत्पन्नो ब्रह्म- रूपशब्द आकाशमार्गेणाऽऽगतः सोऽपि विचारतो ब्रह्मवास्मिन्नेव गुण- दृष्ट्या तस्याऽऽमासमानवादपृथक्सिद्धत्वात् । अत एवोक्तम् 'आकाश- शरीरं ब्रह्म य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽs.

२ अर्थप्रकाशसहिता- १ - काशः शरीरं य आकाशमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति । कथं च विना मध्यगतसत्तां तदागमनं संमवेत्तस्मान्मध्येऽपि तद्रूपेण तदेवैकं विज्ञेयम् । तथा येन तस्य श्रवणं यश्च श्रोता तद्ब्रह्मैव सत्यं, कथं, य: साविकः कर्ता स एव रजसा करणरूपो न तयोः स्वरूपभेदोऽस्ति । अत एवोक्तं स प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः शृण्वोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामा- न्येव ' इति । श्रोता स व्यतिरेकवृत्त्या विचारतः परं ब्रह्मैव। तथा चोक्तम् अयमात्मा ब्रह्म' इति । यत्परं ब्रह्म तदेव गुणसाम्य मूतचित्मकृतियो- गात्तद्गुणप्रधानत्वेन त्रिपुटीरूपेणेति पञ्चीकरणप्रकारेण विज्ञायते। तस्मात्तत्सर्वमपि परं ब्रह्मैव । एवं सर्वस्यापि कारणमधिष्ठानं परं बीवैकं सर्वत्र तन्मधुबाह्मणोक्तं विज्ञातव्यम् । यथा जलादुत्पन्नस्तरङ्गा- दिर्जलरूपस्तदाधारेणैव विहरत्यन्ते तत्रैवावसीयत इत्येवं विज्ञाय यो विषयमोगः क्रियते स त्यागरूप एव संभवति । तदेवोक्तं मगवता- ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१॥ इति । तस्मात्तेन त्यक्तेन भुञ्जीथा इत्युच्यते । तदेव परमं मोक्षसाधनमिति विज्ञातव्यम् । यस्मादेवं तस्मादहंममतायोगेन भोगापेक्षया कस्यस्वि- कस्यापि धनं भोगसाधनभूतं मा गृधो मा गायमाकाक्षा कार्षीः । यदृच्छालामसंतुष्टो द्वन्द्वातीतो विमत्सरो भवेत्तेनैव त्यागसिद्धि- रस्ति ।। १ एवं यदा तदा यत्नतः कर्माचरणेन किं प्रयोजनं त्यागेन स्वभावतः सुखमासितव्यमिति प्राप्तं तत्राऽऽह- कुर्वन्नेवेह कर्माणि जिजीविपेच्छत समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ इहास्मिल्लोके कर्माणि विहितान्यग्निहोत्रादीनि कुर्वन्नेव यथाकालं निर्वर्तयन्नेव शतं शतसंख्याकाः समाः संवत्सराञ्जिजीविषेजीवितुमि- च्छेत् । एवमेवंविधे बाह्यभावेन विहितकर्माचरणशीलेऽन्तस्तूक्तमकारेण ब्रह्मात्मभावनयाऽहंममत्वपरित्यागवति त्वयि नर इतोऽस्माज्ज्ञानोक्त- कर्माचरणप्रकारादन्यथाऽन्यप्रकारो नाऽस्ति । अत एवमाचरणवति स्वपिन कर्म लिप्यते लिप्तं मवति न कर्मलेपोऽस्ति । ननु कर्म विहितं ईशावास्योपनिपत् । ३ सरस्वर्गस्य प्रापकं तत्सुकृतक्षयेण पुनरस्य लोकस्येहामुत्र च स्थितमोग. पासनाभिवृद्धया संसारस्यैव जनकमतस्तद्वादिनां निन्दाऽपि बहुधोच्यते। प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति । अविद्यायामन्तरे वर्तमानाः स्वयंधीराः पण्डितमन्यमानाः। जघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागादातुरास्ते क्षीणलोकाश्च्यवन्ते ॥ इष्टापूर्त मन्यमाना वरिठं नान्यच्छ्यो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति' ॥ इति । तथा तत्त्यागेनामृतत्वं च न कर्मणा न प्रजया धनेन त्यागेनके अमृतत्वमानशुः' इति । एवं सति कथमत्र तशावजीवं कर्तव्यमित्यु- ध्यते, सत्यं, तेनैव मोक्षप्राप्तिरिति च श्रूयते- न कर्मणामनारम्भान्नैष्कम्यं पुरुपोऽश्नुते । नच संन्यसनादेव सिद्धिं समधिगच्छति ॥ 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः'। इत्यनेकैर्वाक्यै स्तस्मादन विचारणीयमस्ति नैक एव पक्षोऽङ्गीकर्तु शक्य इतरस्यामामाण्यप्रसङ्गात् । अथात्र कथं स विचार इति चेत्स भगवता विस्तरशः कृत एव श्रूयते- 'त्याज्यं दोपवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे । एवं पक्षद्वयश्रवणेन संशयाभिवृद्धौ तदपनोदनाय स्वमतं पाहाये- निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुपव्याघ्र त्रिविधः संप्रकीर्तितः॥ यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ' ॥ ननु त्यागं विवक्षता कथं कर्मैव कर्तव्यमित्युक्तमिति चेत्तत्र स्वाभि- मतत्यागरूपं पृथगेवाऽऽह- 'एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम् ॥ " ॥ अर्थप्रकाशसमेता- एवं समग्राणि कर्माणि विधाय तत्र सङ्गफलत्याग एंव तत्यागो विज्ञेयो न स्वरूपेण कार्यः । कुत इति चेत् , 'नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥ तथा कृतश्वेत्त्याग:- 'दुःसमित्येव यत्कर्म कायक्लेशमयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ कथम्, कर्मामावे चित्तशुद्धयमावस्तदमावे रजस्तमोगुणयुक्तः संन्यासी न स संन्यासी तद्धर्मामावात्तेन कुतो मोक्षस्तस्मात्स्वरूपतः कृते फर्मत्यागे न त्यागफलं मोक्षो लभ्यते । तस्मात- 'कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः तस्मादेवं यः कर्मफलत्यागी स त्यागीत्यभिधीयते । तस्यैव मोक्षो नेतरस्य तदेवोच्यते- अनिष्टमिष्टं मिश्रं च विविधं कर्मणः फलम् । मवत्यत्पागिनां प्रेत्य नतु संन्यासिनां क्वचित् ॥ इति । यस्मादेवं तस्माद्य उक्तः श्रूयते स काम्यस्यैव कर्मणो विज्ञेयस्तदेवे- हामुत्र स्थितफलदानेन संसारस्य जनकं न निष्कामं तदेवोक्तम्- 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः॥' इति । तथाऽन्यत्रापि च- मोक्षार्थी न प्रवर्तते तत्र काम्पनिषिद्धपोः। नित्यनैमित्तिके कुर्यात्मत्यवायजिय॑सया' ॥ इति । यत्र काम्यकर्मपरित्यागस्तत्र निषिद्धाचरणं कुतोऽतः काम्यकर्म- परित्यागेन यद्विहितं नित्यनैमित्तिकं कर्म तत्सङ्गफलत्यागयोगेनावश्यं कार्यमेवात एवोक्तमत्र- कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः। इति । अथ कथं सङ्गफलत्यागलक्षणमिति चेत् , उक्तप्रकारेण सर्व परब्रह्म- रूपमेवेति निश्चित्य समताबुद्धयाऽहंममत्वपरित्यागेन- 'कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः तथा 'गुणा गुणेषु वर्तन्त ' इति मत्वा कृतेन कर्मणा न लिप्तो ' ॥ भवति । यद्वा, - ॥ ईशावास्योपनिषत् । 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया इत्युक्तमावेनाप्यसङ्गत्वं संमवति तेन यथाधिकारमसङ्गतया कृतस्य कर्मणः फलं ब्रह्मार्पणमावेनेश्वरार्पणबुद्धया संत्यज्य ममत्वशून्यो मवेत्तेन न कर्म लिप्यते । ननु चेत्कर्म चित्तशुद्धर्जनकत्वान्मोक्षसाधनं सहि मुमुक्षुभिरेव कर्तव्यं किं मुक्तः । तैरपि कर्तव्यं लोकसंग्रहार्थम् । तदेवोक्तं मगवता- 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः । मम वर्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः। उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ इति। तस्मान्मुक्तैरपि लोकसंग्रहार्थ कार्यमेव ॥ २ ॥ अथोक्तविधं मोक्षसाधनभूतं कर्म विहायान्यधाचरणशीलान्निन्दति- असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये केचाऽऽत्महनो जनाः॥ ३ ॥ ते लोका लोक्यन्ते मुज्यन्ते कर्मफलान्यत्र ते लोका असुर्या असु- राणां स्वपराहितरतानां स्वभूता असुर्या नाम संभाव्या:।येऽन्धेन गाढेन यत्र न किंचित्कदाचिदपि प्रकाशोपलब्धिस्तद्विधेन तमसाऽज्ञानलक्षणेन यत्र न कदाऽपि विस्फुलिङ्गप्रायेणापि मोक्षसाधनमूतविवेकोत्पत्तिस्तेन तमसा वृताः । ते असुर्या नाम लोकाः पुनःसंसारप्रदकेवलराज- सयोनिरूपाः । तानसुल्लिोकांस्ते प्रेत्य मृत्वाऽभिगच्छन्ति प्राप्नुवन्ति । ते के । ये के चाऽऽत्महन आत्मानं शुद्धबुद्धमुक्तसत्यस्वमा मन्ति नानाविधसांसारिकतिर्यग्योनिसंबन्धिदुःखयोगेन हिंसन्ति त आत्महनो जनास्ते तान्मेत्यामिगच्छन्ति । पुनः कथम् । स्वभावतोऽयं जीवोs- विद्यावन्धनेनाऽऽवृतो दुःखसागरे संसारे पतितोऽस्ति तद्गुणप्रधानत्वेन तद्वन्धनं दृढं कृत्वा पुनद्वितीयं कर्मवन्धनमापादयन्ति वर्तमानमपि .

अर्थप्रकाशसमेता- - . . मोक्षोपायं नाऽऽचरन्त्यतस्ते कथं नाऽऽत्महनः । तत्कथं कर्मबन्धन- मिति चेत्, कर्म तदेकमेव विविधं संचितप्रारब्धक्रियमाणरूपेण । तत्र यस्क्रियते शुमं वाऽशुभ तक्रियमाणं, यत्तत्संगृहीतं तत्संचितं , यत्तस्मा- देहारम्मकं मोगायाऽऽरब्धं तत्मारब्धम् । यदेकांशेन मोगायाऽऽरब्धं तद्दे. हादनेकदेहारम्मकक्रियमाणोत्पत्तिस्तत्सर्वमपि संचितमेव भवति । एवमे- कांशेन व्ययोऽनेकांशेन संग्रहः । एवं यावक्रियमाणं तावत्संचिताभिवृ- द्धिर्यावत्संचितं तायत्तस्य प्रारब्धत्वेन भोगो यावत्स तावत्पुनः क्रियमा- णमवाहस्तेन संचितं तस्मात्पुनः प्रारब्धमिति कर्मशृङ्खलावन्धनं तस्मा. द्यदा मुक्तिस्तदेव मोक्षः । कथं तस्मान्मुक्तिरिति चेत्, आदौ क्रियमा. णान्मुक्तिस्ततः संचितात्ततः प्रारब्धात् । ननु- नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते द्यवशः कर्म सर्वः प्रकृतिजैर्गुणः' । इत्यादिवाक्यः प्रत्यक्षत्वेनाप्ययं क्षणमप्यकर्तृत्वेन न तिष्ठति तदा फथं क्रियमाणकर्मविनाशो भवेत्तदविनाशेनेतरयोरुक्तमकारेणेति चेत् । नाकरणेन तद्विनाश उच्यते तदपि कर्माकरणदोषजनकत्वात्कमैव तदा संचितारम्मकत्वेन भोगारम्मकं भवति तस्मान्न स उपायः स तु एवास्ति तेन कृतमपि समयं कर्माकर्मरूपमेव मवति । कथम् । त्यक्त्वा कर्मफलासॉ नित्यतृप्तो निराश्रयः । कर्मण्पमिप्रवृत्तोऽपि नैव किंचित्करोति सः॥' इत्येतद्वाक्योक्तप्रकारेण सङ्गफलत्यागेन कृतं कर्म तदकर्मरूपमेव सर्व तेन कृतमप्पकृतमेव तेन संचिताभिवृद्धिहेतु क्रियमाणप्रयाहविना- शस्तदा तद्विनाशोऽपि विधातुं शक्यो वृद्धयमावात् । एवं यथा क्रिया माणाद्विमुक्तिस्तथा संचितादप्यस्ति । कथम् । तथाविधक्रिपमाण- कर्माचरणे फलं परमेश्वरेऽपितं तेन तदाराधनेन तत्मसन्नत्यपोगात्तथा- विधमजनसत्सङ्गप्रवणतीर्थक्षेत्र सेवनासंचितस्य विनाशः शनः शनैः संमयति । शेपमात्रेऽयस्थिते तस्मिन्मारब्धरूपेण मोगापाऽऽगते विवेको. कांग्ज्ञान आस्था तथा सहरुसेवने प्रीतिस्तकृपया विज्ञानसंपाति- स्तेन सर्वपन्धनाद्विमुक्तस्प मोक्षसंप्राप्तिः । एवमति मुकरोपापं परमा- मिना निर्मितं भुत्याऽपि न तत्र मतिं विधत्ते मोक्षोपायवासनां पलादि. हापोक्तप्रकारेण दुर्मोचपन्धनापादके कर्मण्येय मतिं कुरुते तेनाऽऽम. भिन्न ईशावास्योपनिपत् । पन्धनस्याऽऽत्मैव मूलं स्विदन्यत् । केवलमोक्षवासनां हित्वा सांसारिक- फर्मनिरतास्ते जना आत्महनः सत्यं तेऽमुन्नाम लोकानन्धेन तमसाऽऽ. घृतान्प्रत्यामिगच्छन्तीति विज्ञेयम् ॥ ३ ॥ उक्तपूर्व सर्वस्य ब्रह्ममावमविज्ञाय तथा विहितकर्माचरणमकृत्वा संसारतोपरतान्काम्यकर्मिणो निन्दिला पुनस्तथामाविनः स्तवनाय तद- क्षरं ब्रह्म स्तूयते- अनेजदेकं मनसो जवीयो नैनद्देवा आमुवन्पूर्वमर्पत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥ अनेजन्नजत्यनेजदकम्पमानं सर्वदा निश्चलं चलनं तु किंचिन्निमित्त- योगादवकाशे परिच्छिन्नस्य संभवति तत्त्वेकमद्वितीयमुच्यते च 'नेह नानाऽस्ति किंचन ' इति । ननु तदा किमुपक्रमोपसंहारयोः कारणं लयविक्षेपयोश्च । मायाविद्ये उच्येत । तदा कथं तदेकत्वं तेन सह विज्ञातव्यं तच्च कथं यन्मायाविद्यारूपं तदनिर्वचनीयत्वाद्विवर्तरूपं स्वाधिष्ठानसत्तयाऽन्यथा पृथक्त्वेनैवाऽऽमासते रविरश्मिसङ्गे मृगतोया- भासवदतोऽधिष्ठानदृष्टया न तस्य मानमप्येवंविधेनातात्त्विकेनान्यथा- मासेन कथं ब्रह्मणोऽद्वितीयत्वहानिः स्यात्तस्मात्तेन सहापि तदेवक सत्यमत एवोच्यते 'एकमेवाद्वितीयं ब्रह्म' इति । ननु कथं विवर्तस्य निमित्तत्त्वं संभवेत्, नेदं निमित्तवन्निमित्तं तथोपादानमपि परं ब्रह्म नोपादानवदुपादानं कार्यस्य विवर्तरूपत्वात् । तस्याधिष्ठानसत्तयैवान्य- थात्वेन मानं भाति तदपृथक् सिद्धं विचारतस्तत्र तदेवैकं सत्यं घटेषु मृदिव तस्मात्तदुपादानत्वेनोच्यते न वस्तुतो दण्डचक्रादिपृथनिमित्त- योगान्मृद इव न कार्याकारेण संभवनमस्ति तस्मान्नोपादानवदुपादा- नमपि वक्तुं शक्यम् । तेन सहापि निजाकारेण यथावदेवात एकम् । मनसो जवीयो वेगवत्तरं सर्वापेक्षया वायुर्जवीयांस्तस्मादपि मनस्त- तोऽपि यजवीयश्चञ्चलम् । विरुद्धं तु, न, इदमौपाधिकं विज्ञातव्यं, कथम्, मन:प्रभृतिषु यत्सत्तारूप येन तच्चञ्चलत्वं तस्मात्तथोच्यते । यतो मनस्त्वस्य कारणं तदन्तवति तस्मादेनदेतद्देवा ज्ञानप्रकाशेन द्योतमाना मनःममृतितत्त्वरूपा नाऽऽप्नुवन्नाऽऽनुवन्ति न तैर्गृह्यते । अत एवोच्यते, 'यो मनसि तिष्ठन्गनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरम्' 'अगृयो न हि गृह्यते' 'न चक्षुपा गृह्यते नापि वाचा नान्यैर्देवै. स्तपसा कर्मणा वा' इति । ननु तदनुभवस्त्वस्त्येव तथैवोच्यते, 'एत- .

. 'अर्थप्रकाशसमेता- जानाथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । ब्रह्मविदामोति परम्' इति । तदा येन ज्ञायते किं तच्चक्षुरादिनिराकरणं कृत्वोच्यते । ज्ञानप्रसादेन विशुद्धसत्यस्ततस्तु तं पश्यते निष्कलं ध्यायमानः । सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्यण नित्यम्,' इति प्रज्ञानेनैव केवलेनानुभवोऽस्ति । ननु तदपि निराकृतं श्रूयते तु 'प: प्रज्ञाने तिष्ठन्मज्ञानादन्तरो यं प्रज्ञानं न वेद ' इति । सत्यं तर्हि कि तत्मज्ञानं येनाऽऽत्माऽग्राह्यो यच्छुद्धसत्त्वगुणप्रधानं यन ज्ञाता ज्ञान शेयमिति मावस्तेन प्रज्ञानेन कथमात्मा ज्ञेयः स्याद्यत्तेन ज्ञायते तज्ज्ञेय- मेव कथमात्मा मयेरपुनस्तस्य ज्ञाने ज्ञानावलम्बनेनानवस्थाप्रसङ्ग एव । अतस्तद्धावपरित्यागेन सर्वगुणसद्धमुक्तं सत्मज्ञानं निर्विकारतया स्वाभये तदाकारत्वेन संकामति तदारमन्यात्मत्वेनाऽऽरमानुमवो भवति । ननु तदात्मनेवाऽऽत्मानुमय इस्पेव किं नोच्पे( प )ते किं प्रज्ञानेनेति । न केवलेन तन्निरासेनातस्तथोच्यते । ननु तत्राविद्यमानैर्मनःप्रमृतिभिः कथं तदनुमवः कथ्यते । तत्मज्ञानान्वयेन । येन सर्वगुणोपसंग्रसनान्नि. पिकल्पेन स्वरूपाकारेण प्रज्ञानेन स्वसंवेद्यतया परब्रह्मानुमवस्तदेव अज्ञानं पुननिरस्ततत्त्वाद्याकारेण समवत्यत एवोच्यते 'सर्वाण्यैवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति । एकमेव प्रज्ञानं गुणमुक्तत्वेन स्वरूपाकारं भवति गुणयोगेन तत्त्वाकारं मूत्वा प्रपञ्चं प्रकाशयति तस्मान्नैन वा आनुवन्ति । तदा नैव तेषु तत्परिच्छिन्नं स्यादत उच्यते पूर्व प्रागेव तत्वोत्पत्तेरपद्गतं तद्यापित्वेन तत्र वर्तमानम् । यथा घटादिकार्येपूत्पद्यमानेषु पूर्वमेव व्योम तब व्यापित्वेन वर्तते तथा यद्यत्तत्वमुत्पद्यते तत्र तत्र सचारूपत्वेन यदेव वर्तमानम् । तदाऽन्तरेव स्यान्न बहिरिति चेत्तत्तत्त्वं धावतः शीघ्रं गच्छतोऽन्यानत्येत्यतीत्य गच्छति तद्ग्रेऽपि वर्तते चलनक्रियां कुर्वन्नु तिष्ठद्यथावत्स्वस्थमेव सट्रालयद्धातोपान्त्येति । थुमः कथं त्तरिमस्वरूप भासरिया मातर्यन्तरिक्षे श्वपति मातरिश्वा वायुरपो मेघरूपा दधाति । ननु किं सदाकाशमेव न तस्मिन्नेव तद्यापकत्वेन वर्तमानं तद्वकिं न दृश्यत इति चेत्तस्मादपि सूक्ष्मत्वादेर्नाऽऽप्यत इत्युक्तमेव । ननु सर्वापेक्षया गगनमेव सूक्ष्मत्वेनावगम्यते तस्मादपि सूक्ष्म तत्कथं सत्यं पञ्चसु भूतेषु गगनं सुक्ष्म तदपि दृश्यते सूक्ष्मत्वेनासङ्गत्वेन व्यापकत्वेन च तद्गता सर्वव्योमरूपप्रकाशिनी लोकहनि हश्यते कैश्चित्तेन तस्मादपि सूक्ष्म. तरा साऽपि यस्य ज्ञेया नतु योऽनया स दृष्टाऽऽत्माऽतिसूक्ष्मस्तस्मिन्नपि , ईशावास्योपनिपत् । पत्सत्तारूपेण वर्तते न येन ज्ञातुमहं तत्सूक्ष्मत्वं केनोपमेयम् । अत एवो- च्यते, 'अणोरणीयान् ' इति व्यापकत्वेन च 'महतो महीयान्' इत्यपि । अतस्तस्मिन्नपो मातरिश्वा दधाति ॥४॥ ध्यापकत्वेन व्याप्यप्रसङ्गा दावाप्तिः स्यादत आह- तदेजति तन्नैजति तद्रे तदन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥ यदेजति चलति तत्तदेव तस्यापृथक्सिद्धत्वात् । तन्नेजति यन्नजति स्थिरतरं तदपि तदेव । तद्रे यदूरे वर्तते तदपि तदेव । तदु तदेवान्तिके यदन्तिके घर्तते तदपि तदेव । अन्तर्यामित्येनान्यत्स्यात् । अस्य सर्वस्यो- क्तस्यान्तर्यामित्वेनापि तदेव । बहियापकत्वेन भिन्न स्यात् । तदेवास्य सर्वस्य बाह्यतो बाह्यमागेऽपि । तस्मात्सर्वं खल्विदं ब्रह्मैवा- स्तीति सत्यम् ॥५॥ यस्मादेवं तस्मात्-- यस्तु सर्वाणि भूतान्यात्मन्येवानु पश्यति । सर्वभूतेषु चाऽऽत्मानं ततो न विचिकित्सति ॥ ६ ॥ यस्तु पुमानधिकारी सर्वाणि ब्रह्मादीनि भूतान्यात्मन्येगनुपश्यति । नेषु च सर्वभूतेप्वात्मानमनुपश्यति । ततः स यथार्यदर्शी न विचिकित्सति न विचिकित्सा संशयं प्राप्नोति । स क आत्मा कथं च तस्मिन्सर्वभूत- दर्शन सर्वभूतेषु चाऽऽत्मनः । आत्मत्वेन प्रतीयमानोऽप्पयं देहो नामा भवति वस्तुतो भूतपश्चकात्मकत्वेन जडवाददृश्यत्वाच । तथा योऽस्या- न्तःमज्ञानवान्द्रष्टा श्रोता मन्ता तत्वात्मकलिङ्गरूपः सोऽपि नाऽऽमा मुख्यत्वेन तत्त्वाना वृत्तिरूपत्वाद्विलक्षणधर्मसाक्षित्वाच। तथा नाऽऽत्माऽ- ज्ञानं कारणशरीरमपि स्वप्रकृतितमोगुणकार्यरूपत्वात् । तथा प्रज्ञानरूप महाकारणदेहमपि नाऽऽरमा तदाश्रयस्वरूपत्वात । देहचतुष्टयातीतत्वेन स्वमायादवस्थाचतुष्टयाद्यतीतः। एव सकार्यगुणनिरासेन यच्छेप शुद्ध- प्रकृतिरूपं गुणसाम्यभूत ज्ञप्तिमात्रस्वरूपं तदपि नाऽऽत्मा भवति स्वगत- भेदरूपत्वात् । यत्तस्याधिष्ठान निरुपाधि शुद्ध युद्ध निराकारं निर्वि- कारं सर्वगत परिपूर्ण सन्मात्र शेप तदेव वेदाचार्यात्मप्रत्ययेनाऽऽत्मरूपं तस्वतः। तस्मिन्नात्मनि सत्तारूपे सर्वाणि भूतानि योऽनुपश्यति नाऽऽधे. २ •अर्थप्रकाशसमेता- . याधिष्ठानमावेन तेपामोपाधिकत्वादात्मौपम्पेनोक्तत्वाद्ध्यतिरेकवृत्त्या तद्रूपाण्येवेति । ततो गुणदृष्ट्या पुनरामासमानेषु मूतेप्वात्मानमन्वयज्ञा. मेन तानि सर्वाण्यात्मरूपाण्येवेत्त्यनुपश्यति । कथं तदन्वयज्ञानम् । यनिर्विकल्पं ज्ञप्तिरूपं तद्ब्रह्मव स्वगतभेदरूपत्वाद्यथा पयोवर्णों रत्न. ज्योतिस्तदपृथक्सिद्धत्वेन तदेव तथोच्यते, 'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति। यदा तदेव गुणसंबन्धात्मपञ्चाकारेण मवति तदाऽन्वयाग्री- वेद विश्वमिदं वरिष्ठम् । यद्धा सर्वमेतदनिर्वचनीयवाद्विवर्तरूपं सोऽधि- छानान्वयेन तत्सत्तया भासमानोऽपृथकरूपोऽतस्तेन सह तदेवैकं सत्यम, इत्पन्वयज्ञानेन सर्वभूतेषु चाऽऽत्मानं तानि सर्वाण्यात्मरूपाण्पेवेत्यनुप. श्यति ततो न विचिकित्सति । ननु यत्र व्यतिरेकस्तत्र नान्वयः संभ. वेत्तयोः परस्परविरोधादेवं सति कथमेकस्य वस्तुनोऽन्वयो व्यतिरेक- श्योपपाद्यते । सत्यमत एवेदमनुपमेयत्वेनोच्यते नास्यापृथसिद्धस्य पृथक्त्वेन निरासः संभवति चेत्तथा वाच्यस्तदा निरस्तस्पापुनःस्फुरण- मेव स्यात् । समाधिस्थस्य स्थूलं निरस्तं स्विनिरस्तमनिरस्तमिति तु न वाच्य निरस्तमेव स निरासश्चत्तथा वाच्यस्तदा तस्य शंवत्वं प्रामु. यान्न पुनरवलम्बो व्यवहारश्च तेन । तथा लिङ्गमपि.न वक्तुं शक्यं चेत्तथा निरस्तं तदा कथं तेन ब्रह्मात्मानुमवकथनं समाधेश्च शब्दस्पर्शा- नुमवेन विक्षेपः संभवेत् । तथा कारणस्यापि निरासो वाच्यः कथं कारणनिरासे कार्यस्यावस्थानम् । चेन्महाकारणं तथा पृथक्त्वेन निरस्तं तदा को ज्ञानस्याऽऽश्रयः कथमन्यथा ज्ञानवृत्तिः सर्वकार्यामाव एव स्यात् । तस्मान्न देहचतुष्टयं निरस्तं तेन कुतोऽवस्थादीनामपि निरासः । विना तु निरासं न ब्रह्मात्मापरोक्षसाक्षात्कारः संमवेत्सोऽप्यनुभूयते पुनः स्फुरणं चातो न निरासवन्निरासो भिन्न एवास्ति । कथं, सजातीयस्यानु- क्रमणं स्वगते तेन विजातीयस्यामानमेव स्वगतस्याधिष्ठानाकारत्वं तेनन सदसदन्थिरूपस्य पुरुषत्वस्य भङ्गः प्रकृत्यवलम्बमुक्तत्वेन शुद्धनाऽऽत्मना सन्मात्र एकजातीयत्वात्तन्मयत्वेनावस्थितिः स एव समाधिरित्युच्यते । पुनस्तदवलम्बयोगाग्निद्वितः प्रबुद्ध इव बहिर्मुखत्वेन देहाधवलम्ब करोति तदा यथा पूर्व सर्वप्रपञ्चमानं संमपति तथाऽन्वयेन सर्वभूतेषु चाऽऽत्मानमुक्तप्रकारेणानुपश्येत् ॥६॥ इत्यन्वयव्यतिरेकज्ञानयोगेन पुनः कथं स योगी तदाह- . १ ईशावास्योपनिपत यस्मिन्सर्याणि भूतान्यात्मयाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥ यस्मिन्काले विजानत आचार्यप्रसादाच्छुद्धात्मतत्वमपरोक्षत्वेन विजा. नाति यस्तस्याऽऽत्मैव स शुद्धः सर्वाणि भूतान्यभूदुक्तविधान्वयज्ञानयो- गेन मूतस्तत्र तम्मिन्काले को मोहः कः शोकस्तस्य शोकमोहामाव एव । कथंभूतस्य विजानतः । एकत्वमनुपश्यतः, अत एवोक्तम् 'समलोटा- इमकाञ्चनः' इति । नन्वेवं कथं स्थाजनकयाज्ञवल्क्यादयस्तु ब्रह्मनिष्ठा एव तेषां स्वराज्यादिव्यवहारकाले लोटाश्मकाञ्चनानि तथात्वेनैवामा. सन्तान्यथा तु व्यवहाराभाव एवं तदा तद्योगेन कथं न शोकमोही संभवेता नान्यथा तत्पालनमेव स्यात् । सत्यं, न तेषां काञ्चनादीनां मानमेवाऽऽसीदिति न तथास्वेन भासमानेप्यपि सत्यत्वेन ब्रह्मभावनया समबुद्धिरासीत्तेन यावत्तेपां योगस्तावत्यालनं वियोगे नेतरेपामिय शोकः। एवं स्त्रीपुत्रादिष्वपि योगवियोगसंभवसुखदुःखादिमावरहितरवेन वर्तमान इत्यर्थः॥७॥ यस्मादभिन्नं सर्व स कथं पुनः शुद्धात्मा तदुच्यते- स पर्यगाच्छुकमकायमव्रणमनाविर५ शुद्धमपापविद्धम् । कविर्मनीपी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीयः समाभ्यः ॥८॥ स शुद्धामा पर्यगात्परितोऽगाद्तो व्योमवत्सर्वगतः । ननु सर्वगतं तद्वयोमैवैकं तदेव स इति किं नोच्येत । नच तच्छन्यरूपमेवायं तु पूर्ण- त्येन श्रूयते 'पूर्णमदः' इत्यादिना। ननु यदा तत्पूर्ण सर्वगतं तदा कथं तत्र शून्यरूपस्य व्योम्नो भानं संमवेद्विरोधात् । यत्पूर्ण तदेव गुणदृष्ट्याऽवेक्षितं शून्यवत्पतीयते यथा स्वरूपेण संपूर्णोऽपि दर्पणो बाह्यदृष्ट्या शून्यत्वेनापि तद्वत् । ननु तब यच्छन्यत्वं तत्कल्पितमय यत्पूर्णत्वं तदेव सिद्धमय चेदवापि शून्यरूपं व्योम तत्कल्पनामावरूपं तदा न मिथ्याभूतस्य तस्यावकाशप्रदान संभवेकथमियं विसृष्टिस्तत्र दृश्यते । सत्यं तथा दर्पणेऽपि किं न मुखादि दृश्यते तत्तु मिथ्यैव । इदमप्पनिर्वचनीयवाद्विव- तरूपत्वेनेवोक्तमस्ति विवर्तस्य तु पूर्ण एव स्वाधिष्ठाने मानं संमवाति न केषले शून्ये तस्मान्न विरोधो व्योमवत्सर्वगतमपि पूर्ण सलिल यत्तदे- . . १२ अर्थप्रकाशसमेता- पोक्तं 'सलिल एको द्रष्टाऽद्वैतो भवति' इति । पुनः कथं शुक्र ज्योतिः शुद्धं शुक्ररूपस्वप्रकाशः । ननु यदा स्वप्रकाशः पूर्णश्च तदा किंन गोचरः । न परत्वेन गोचर आत्मन्यात्मत्वेन स्वप्रकाशत्वं पूर्णत्वं च तस्यानुभूयेते किं न परत्वेनानुमव आत्मनो यत्परत्वेन ज्ञानं तदविद्यासंवलितं तेनान्यथाज्ञानरूपं यथाऽज्ञानपूर्वकं स्वप्न- ज्ञानं तेन यथार्थस्यामानमसदेव सत्यत्वेन विमाति तथोपाधि. संवलितेन ज्ञानेन तहाथार्थवस्त्वविज्ञानेनासदेवेदं सत्यत्वेनाऽऽमास- तेऽत एवोक्तं तमेव मान्तमनुमाति सर्व तस्य भासा सर्वमिदं विमाति' इति । एवमपि कायवान्मवेदित्यत्र शुक्रविशेपणेनाऽऽह- सायं न विद्यमानः कायो देहो यस्य तदनन्तं देहामावे तद्भावान्नि- राकरोति अवणमक्षतमनाविरं न विद्यमानः सावाऽस्य तदपापविद्धं संसारप्रदत्वात्पुण्यापुण्ये अपि पापरूपे एव तेन पापेन न विद्धं तत्फल- भोगशून्यम् । ननु तदेवोपाधिसंबन्धाद्देहचतुष्टयवद्धृत्वा तद्धर्मवशत्वेन पुण्यपापकर्माचरणयोगान्नानाविधफलमागपि मवतीति श्रूयते नु (तु) 'काममयोऽयं पुरुषो यथाकामो भवति तत्कतुर्मवति यत्क्रतुर्मवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते, स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः स यथाकारी यथाचारी तथा मवति साधुकारी साधुर्मवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा मवति पापः पापेन ' इति । तस्मात्तत्कथमकायत्वादिविशेषणरुच्यते तद्विना कस्या- न्यस्य देहो पायोऽन्यस्योच्यमाने कथं 'योऽहमस्मि ब्रह्माहमस्मि तत्वमसि' इत्यादिवाक्यनिर्वाहः स्यात्सत्यं तथाऽपि सोपाधि सर्व तात्त्विकं स्विदतात्त्विकं न तात्त्विकामिति वक्तुं शक्यमनिर्वचनीयवादि- पतरूपमेय तदा कथं तेनाधिष्ठानस्यान्यथात्वं संमयेत्तदृष्ट्या विवर्तस्या- मानमेवास्ति तत्तु निजाकारेण यथावदेव शुद्धबुद्धमुक्तसत्यस्यमावम. तस्तस्यरूपेणोक्तविशेषणवदेवेति सत्यम, एवंविशेषणविशिष्टशुक्ररूपः स कारणोपाधियोगात्कथमवगम्यते तदाह-कविः कान्तदर्शी सर्वज्ञत्वा. न्मनीपी मनस ईपयिता गमपिता नियन्ता नित्यमुक्तत्वात् । परिमः परितोऽस्ति परिमूव्यापकः स्वयंमः स्वयमेवाऽऽत्मनेवास्ति स्वयंमः सर्षा- धारमूतत्वात् । याथातथ्यतो यथातथामावो यायातयं तेन याथात. एयतो यथाहमर्थान्फलरुपाञ्चाश्वतीम्यो नित्याभ्यः समाम्यः संवत्स- रेभ्यः शाश्वतीः समाः प्राप्तुं येपां शाश्वत्यः समास्तेभ्यो ध्यदधाद्विहि- तवान् ॥८॥ -

।
ईशावास्योपनिषत् ।
१३
एवमन्वयव्यतिरेकज्ञानयोगेन शुद्धात्मतत्वोपासनापरस्प शोकमोहा.
द्यतीतत्वं फलमुक्तमधुना तन्मार्ग हित्वा फेयलसंसारसाधनरतानां
गतिमाह-
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।
ततो भूय इव ते तमो य उ संभूत्या रताः ॥ ९ ॥
ये संसारिणो जना असंभूतिं संभूयतेऽमी प्राप्यतेऽनया सा संमूति.
रीशाराधनेनापिनाशि पदमवाप्यते ततस्तत्संभूतिः । उक्तं च-
मक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं मुटुं च तत्त्वेन प्रवेष्टुं च परंतप ॥
भक्त्या माममिजानाति यावान्यश्चास्मि तत्वतः' इत्यादि ।
तदन्याऽसंमूतिरनित्यस्वर्गमापककर्ममार्गेण नानादेवताराधनमसंमूति..
स्तामुपासते कमैव सर्व श्रेय इति मत्वा केवलतदाचरणशी.
लास्तेऽन्धमन्धयत्यन्धं गाढं तमो न यत्राऽऽत्मानात्मकर्तव्याकर्तव्यविधेक.
स्तत्मविशन्ति तेनाऽऽवृताः सन्तो जन्ममरणमाजो भवन्ति । श्रूयते
चान्यत्र-'प्लवा होते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म
इत्यादि । किंच य उ निश्चपेन संमूत्यामीशाराधने रतास्तदेकाचरणशी.
लास्ते ततस्तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति न पामपि
परपदावाप्तिः। नन्वेतद्विरुद्धं नु, न, कथं निपते कर्मणि मतिमविधाय
तत्यागेन कामनायोगेनोपासनापराणां कुतो वर्णाश्रमधर्मपालनं तदमावे
कृतोपासना कुतः स्वफलदा तदा तेन कृतं तद्विकर्मरूपमेव सर्व भवति ।
तदा कुतो निःश्रेयसाधिगमस्तस्मादुमयसाधनपरित्यागेन कथं न भूप
इव तमःसंमाप्तिस्तेषाम् ॥ ९॥
यस्मादेवं तस्मात्-
अन्यदेवाऽऽहुः संभवादन्यदाहुरसंभवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥
संमवात्संमूत्याः पूर्वोक्तायाः फलमन्यदेवाऽऽहुर्बुवन्ति प्राज्ञा असंमवा.
दसंभूते फलमन्यदेवाऽऽहुरिति धीराणां ज्ञानिना वचः शुश्रुम श्रुतवन्तो
षयम् । केषां ये धीरा नोऽस्मभ्यं तत्संमूत्यसंभूतिरूपं विचचक्षिरे
व्याख्यातयन्तस्तेषाम् ॥१०॥

१४ अर्थप्रकाशसमेता- ' तदा कि तन्निःश्रेयससाधनमित्यत्रोच्यते- संभूतिं च विनाशं च यस्तवेदोभय सह । विनाशेन मृत्यु तीर्खा संभूत्याऽमृतमश्नुते ॥ ११ ॥ संमूर्ति च विनाशं चोक्तविधमसं मूतिरूपं तदेतद्यवयवात्मकं कर्म सहकेन पुरुपेणानुष्ठेयत्वेन वेद जानाति स पुमान् विनाशेन विनाश- रपेण कर्मणा मृत्यु मृत्युप्रापकं संसार तीवोऽतीत्य निवृत्ततद्धयः संभूत्यो- तविधेश्वराराधनरूपयाऽमृतममृतत्वं तत्मसादादश्नुते प्राप्नोति । कथमिति चेत् । निविण्णचेतसा मुमुक्षुणा केवलेन कर्मण्युपासनायां चाहंभाव- मुक्तेनाकमविकर्मत्यागाकाम्यमपि त्याज्यमेव । 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः' इत्युक्तत्वात् । यन्नियतं नित्यं नैमित्तिकं च तदावश्यकत्वेनाऽऽचरणीयमेव न तु त्याज्यम् । उक्तं च-'नियतस्य तु संन्पासः कर्मणो नोपपद्यते' इत्यादिना । ननु तदन्धतमसस्य प्रापर्क नु सत्यं, कर्तृत्वाभिनिवेशेन फलापेक्षया कृतं. चेत्तथा नतु तत्त्यागतः । तन्मृत्योस्तरण साधनमेवोच्यते. च-'कर्मणेव हि संसिद्धिमास्थिता जनकादयः' इति । कथमिति चेत, सङ्गफलत्यागेन कृतं कर्माकर्मरूप मेव । उक्तं च-त्यक्या कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्य. मिप्रवृत्तोऽपि नैव किंचित्करोति सः' इति । अत एव तस्य विनष्टमाय- त्वाद्विनाशेनेत्युच्यते । एवं कृते स्वमावासंचितवृद्धयमावः क्रियमाण- प्रवाहायष्टम्मात् । अवशिष्टसंचितस्य मोगेनोपासनया च ध्वंसः । देहा- न्तरारम्मके तस्मिन्विनष्टे किमन्यत्संमृतिकारणं तदमायान्मृत्योस्तरण स्वभावात् । ततः कथं संमत्याऽमृतमश्नुते । संमूतिरीशाराधनं तद्विविध कथं नियतमाखिलं कर्म कृत्वाऽन्ते फलानां समर्पणमेकम् । उक्तं च- 'स्थकर्मणा तमम्पर्य सिद्धि विन्दति मानवः' इति । अन्यत्तदागम. विधिना । एवं संमूत्याराधितमगवत्मसादारसदाचार्यकृपया परविद्या माप्यामृतत्वमश्नुतेऽतस्तथोक्तं तस्मान्न विना कर्म केवलोपासना मोक्ष- साधन धिनाऽप्युपासना कर्म। फर्मापासनायुक्तमेष सिद्धिदमुपासनाऽपि फर्मयुक्ता सिद्धिकरी ॥११॥ एवं कर्मोपासनासंबन्धिन्यो विद्ये अपि पृयश्वेन न मोक्षफलदे - ईशावास्योपनिपत्। अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्याया रताः ॥ १२ ॥ तेजना अन्धं तमः प्रविशन्ति । के ये प्राकृता अविद्यामीशाराधन- रूपा सा विद्या तदन्याऽविद्या कर्ममीमांसारूपा तामुपासते सैव श्रेष्ठे- तिबुद्ध्या तस्यामेव निरताः । 'कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।। कर्मण्यकर्म यः पश्येदकर्मणि च कर्म य:'। इत्यादिनाक्तविवेकहीनास्ते ततस्तस्मादपि भूय इव तमस्ते प्रविशन्ति । के य उ विद्यायामीशाराधनसाधनमूतायां रताः । यावन्न कर्माकर्मविषयं ज्ञानं तावत्कुतस्तेषां तस्य साङ्गमाचरणं बिना तेन किं देवतोपासनरूपया विद्यया सिद्धिस्तदाचरणेनापि । अतो भूय इव तमःप्राप्तिरेव तेपाम् ॥१२॥ यस्मादेवं तस्मात्- अन्यदेवाऽऽहुर्षियाया अन्यदाहुरवियायाः ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।। १३ ।। इत्युक्तार्थम् ॥ १३ ॥ तस्मान्मोक्षसाधनस्य परस्परापेक्षकत्वं दर्शयति- वियां चाविद्यां च यस्तद्वेदोभय सह ॥ अविद्यया मृत्युं ती| विद्ययाऽमृतमश्नुते ।। १४ ॥ विद्या देवताराधनरूपामविद्या कर्माचरणज्ञानरूपां तदेतदुमपं सहे. केन पुरुषेणानुष्ठेयत्वेन वेदोक्तविवेकेन जानाति स पुमानविद्यया यथा तन्मोक्षसाधनं भवेत्तथाविधकर्माचरणज्ञानयोगेन मृत्यु संसार तीवी विद्ययोक्तविधया देवताराधनज्ञानयोगेनामृतं मोक्षमश्नुते । अन्पथा कर्मोपासनाचरणज्ञानहीनस्य कुतस्तदाचरणं साई विना तत्कुतो मोक्ष. स्तस्मात्परस्परापेक्षक एव स एवंविधमन्धतमसमाप्तिसाधनं कर्म हित्या यन्मोक्षसाधनं तद्यावनी कर्तुमिच्छेदित्युक्तम् ॥ १४ ॥ तत्र तथाविधकर्माचरणशीलरन्तकाले कथं देहस्त्यक्तव्यस्तद्विषय आह । तघाऽऽदावग्निमार्थनम्- वायुरनिलममृतमथेदं भस्मान्तः शरीरम् ।। ॐ क्रतो स्मर, लिये स्मर कृत५ स्मर ॥ १५ ॥ ॐ कतो मयतायन्तं कालं नितितामिपुरुपपरमेश्वराराधनरूपाधु.

अर्थप्रकाशसमेता- नाऽन्तकाले तच्छक्तिशून्यं मां स्मर। हेलिवेऽग्ने त्वमेतावन्तं कालं सुहुतो मां स्मर तथाऽपस्किंच मयाऽऽराधनं कृतं तत्स्मर । किं तदनुस्मर- णस्य कार्यं तदाचरणशक्तिशून्येन तस्मरणमपि कार्य तेन यावच्छरीरे प्राणस्तावत्तत्कर्म कृतमेव मवेदतस्तदनुस्मरणम् । ततो देहत्यागादूर्व वायुदेहविधारकः प्राणरूपोऽमृतमविनाशमनिलं वायुमधिदेवतारूपमेदु । अथ तदनन्तरमिदं शरीरं मस्मान्तं मरमावस्थमुपास्याग्नियोगेन मस्मरूपं भूत्वा पृथ्वीमप्येतु यदन्त्येष्टिरूपं कर्म तदपि साङ्गं मवत्वित्य- भिप्रायः ।। १५ ।। । अमे नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ १६ ॥ हे अमे अग्रणी: परमेश्वररूप सुपथा शोमनः पन्थाः सुपन्थास्तेन सुपथाऽचिर्गिणास्मान्मोक्षार्थ निष्कामत्वेन त्वदाराधनशीलानाये रायं धनं प्राप्तव्यमोगरूपं प्राप्तुं नप । अचिौमण गतानां शीघ्रमेव मोक्ष- प्राप्तिरस्त्यतस्तथा प्रार्थनम् । यतो हे देव द्योतमानस्वप्रकाश विश्वानि समग्राणि वयुनानि प्रशस्यानि कर्माणि विद्वान्यसि। तस्मादस्मान्सुपथा रापे नप । किंच तत्र पत्किंचिदस्माकं जुहुरा हुठितुं कौटिल्पं विधातुं कौटिल्यं कृत्वाऽन्यमार्गेण नेतुमिच्छज्जहुराणमेनः पापमज्ञा- नतः संभूतकर्मधिकर्मरूपं तद्युयोधि बनीहि पिनाशयेत्यर्थः । अत: प्रार्थनमधुना कियते । अयान्पप्रयत्नशून्यत्वात्ते भूपिठो बहुतरां नमउक्ति नमस्कारोक्ति विधेम कुर्याम पयं सर्वापराधक्षमाकरणेन मां मायस्थेति संमार्थनम् ।। १६॥ यथाऽग्निः परमात्मा मनोरूपं तथाऽऽदित्योऽपतस्तस्तवमाह- हिरण्मयन पात्रेण सत्यस्यापिहित मुखम् । योऽसापादित्पे पुरुपः सोऽसायहम् ॥ १७ ॥ हिरण्मपेन हर्पते फाम्यते मोगमोदासाहिमिहिरप्पं येनपम्पं तन्मयं नत्मगुरं हिरण्मयं तेन । तथा पोक्तम् , 'आदित्यो पा एप पतन्मण्टलं तपति नन ता यस्तदृचा मण्टटम् ' इत्यादिना । यद्धा हिरणापमिव हिरा पीतीन तेन पात्रेण पायमिय पानं ईशावास्योपनिषत् । तेन सत्यस्यास्ति सत्सदेव सत्यमविनाशरूपं परं ब्रह्म तस्य सत्यस्य मुखं रूपमपिहितमाच्छन्नम् । योऽन्तर्वर्ती पुरुषः स परमात्मैव द्रष्टा तचक्षू- रूपत्वाद्यः परमात्मा स ग(?)मुक्तं परं ब्रह्मैव तत्स्वोपाध्यावृतत्वेन न प्रका- शते । अस्मादर्धात्परम् । 'तत्त्वं पूपन्नपावृणु सत्यधर्माय दृष्टये । पूपन्ने- कर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतम तत्ते पश्यामि' इति काण्वाः पठन्ति । यस्मात्सत्यस्य मुसमपिहित तस्माद्धे पूपन्पुष्यति स्वसत्तया सर्वमिदं पूषा तस्य संबोधनं हे पूपंस्त्वं सत्यधर्माय सत्योऽकपटः फलाशाशून्यत्वाद्धर्म आचरणं त्वदारा. धनरूपं यस्य तस्मै सत्यधर्माय सत्यधर्मणे मह्यं दृष्टये दर्शनायापरोक्ष. साक्षात्काराप तत्र प्रतिबन्धमूतमुपाधिरूपमपावृणु तस्यापावरणं निवा- रणं कुरु तन्निरासाच्छुद्धस्वरूपसाक्षात्कारं गमय । हे पूपन्नेकर्षे एक एवर्पति गच्छत्येकर्पिस्तस्य संबोधनं हे एक यम यमयति स्वसत्तया सर्व यमस्तस्य संबोधनं हे यम । सूर्य सूते सर्वमिदं सूर्यः सर्वजगत्कारणभूतत्वात्तस्य संबोधनं हे सूर्य । प्राजापत्यः प्रजापते: कश्यपस्यापत्यं प्राजापत्यस्तस्य संबोधनं हे प्राजापत्य स त्वं रश्मीन्स्वान् व्यूह विगतान्कुरु समूह मण्डलेनेकी कुरूपसंहर । यत्ते तेजस्तेजोरूपं स्वप्रकाशं कल्याणतममतिशयितं कल्याण शुद्धं तत्ते रूपं पश्याम्यपरोक्ष- खेन । कथं तस्यानुमवः परत्वेन स्यादित्यवाऽऽह-पोऽवाचादित्ये मण्डले पुरुपो यत्सत्तयैतन्मण्डलं पूर्यते पाल्यते च स सत्तारूपः पुरुषः पूर्ण- शुद्धोऽस्ति । सोऽसा उपाधियोगान्मण्डले पुरुपत्वेन वर्तमानः परमे. श्वररूपः सोऽहमंशवेनास्मि । तस्माद्यो भेदः स औपाधिक एव तन्निरा- सादभेद एवास्ति सिद्धोऽतः कार्यकारणभेदभिन्नमुपाधिरूपं निरस्याss- स्मन्यात्मत्वेन स्वप्रकाशतया स्वसंवेद्यत्वेन मां स्थितं कुर्वित्यर्थः । इत्य- परोक्षत्वेन ब्रह्मात्मतत्त्वविद उत्तमाधिकारिणः प्रकारं कर्तुमक्षम इति संप्रार्थनं कृत्वा तद्धृत्पुण्डरीके देहासङ्गत्वेनावस्थाय पुरुषरूपत्वेन विचिन्तयेत् । तदपि कर्तुमशक्तो बहिरादित्यमण्डलमवलोक्य तत्र मति निधाय तदनुसंधानेनैव देहं त्यजन्न स्त्रीपुत्रादीनाम् ॥ १७ ॥ ॥ ॐ तत्सदिति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचिते ज्ञानकाण्ड ईशावास्यार्थप्रकाशः समासः ।। . ३ ॐ तत्सद्ब्रह्मणे नमः। अर्थप्रकाशसमेता केनोपनिषत् । शिष्याचार्यसंवादेन सम्यग्ब्रह्मविद्याप्रकाशिकेयं केनोपनिषदतस्तदर्थः प्रकाश्यते- केनेपितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रति युक्तः। केनेपितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति । श्रोत्रस्य श्रोत्रं मनसो मनो यदाचो ह वाक्स उ माणस्य प्राणः । चक्षुपश्चक्षुरति- मुञ्च धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १ ॥ प्रेषितं प्रकणेषितं कार्याकार्यवोः प्रेरितं मनः संकल्परूपं केनान्तर्ग- तेन सत्तारूपेणेपितं सत्पासति गच्छति कार्य संपादयितुम् । तथा प्रथमो मुख्य आसन्यो देहाषष्टम्मभूतः भाप: केन सत्तारूपेण युक्तः सन्पैति प्रगच्छति स्वधर्मयोगेण । जनाः केशान्तर्गतेनेषितां प्रेरितामिमा पाचं पदन्ति । एवं पशू रूपस्य ज्ञानकरणं शो शब्दस्य क उ को नु देवः स्वप्रकाशरूपो युनक्ति प्रष्टव्पादौ प्रेरयति यत्सत्तया श्रोत्रादीनि स्वस्व- विपये प्रवर्तन्ते । एवं मनादीनां यत्सत्तया स्वे धर्मे प्रवृत्तिस्तमन्त- र्यामिणं सर्वात्ममूतं ज्ञातुकामः शिष्यैः पृष्ट आचार्योऽभिवति । गोत्रस्य स्थूलान्तर्गतस्य सूक्ष्मस्पापि श्रोचं श्रोत्रमूतं यथा स्थूलमिदं श्रोत्रं सूक्ष्मेणान्तर्गतेन शब्दं शृणोति तथा प्रज्ञानरूपस्यापि तस्य येनान्तर्गतेन सत्तारूपेण श्रोत्रत्वम् । कथम् एकमेव प्रज्ञानं गुणत्रय. योगेण पञ्चविंशतितरदाकारमत एवोग्यते-'येर ? वा पश्यतीत्या- रम्य प्रज्ञानस्यैवैतानि नामधेयानि मदन्ति' इति । एवंविधे प्रज्ञाने यस्तिष्ठन् प्रज्ञानादन्तरो यं प्रज्ञानं न वेद यस्य प्रज्ञानं शरीरं यः प्रज्ञान- मन्तरो यमयति येनैव प्रज्ञाने प्रज्ञानस्वम् । तस्मिन्गुणयोगाच्छ्रोवरूपेण संमूतेऽपि प्रोत्रमूतं यतस्तत्सत्तारूपादपृथक सिद्धम् । तथा मनसो मनो येनान्तर्गतेन मनसो मनस्त्वं, यद्वाचो ह वाग्येनान्तर्गतेन वाक् प्रवर्तते । स उ स एव प्राणस्य चेष्टाकरणरूपस्य प्राणस्तदाश्रयमूतस्य २० अर्थप्रकाशसमेता- कर्तुः सत्स्वरूपत्वात् । एवं चक्षुपश्चक्षुः सर्वकरणेप्वपि सत्तारूपत्वेन तद्धर्मप्रकाशकं सत्स्वरूपं विज्ञायतस्मिन्कर्तृकरणसंघातरूप आत्मबुद्धिम- तिमुश्चातित्यज नेदं स्थूलाद्यात्मत्वेन मन्वीथाः। कथम, इदं स्थूलं सर्वदा व्यवहारे वर्तमानत्वादात्मत्वेन प्रतीयमानमपि नाऽऽत्मा दृश्यत्वाजड- खात् । यदन्तः प्रज्ञानमयं कर्तृमोक्तज्ञातृरूपं करणप्रकाशकं स्थूलस्य प्रव. तयितृ तदात्मरूपमिति मतिमतिमुश्च तदपि विलक्षणधर्मसाक्षित्वाज्ञेय- मेव न ज्ञातृरूपम् । अभिहितप्रकारेण येन सत्तारूपेण, प्रज्ञानान्तर्गतेन विनेदमपि जडमनात्मेति बुद्ध्वा सर्वमूलप्रज्ञानान्तर्गतत्वेन ज्ञानाज्ञाना- नवलम्बनेन निर्विकल्पतया तदधिष्ठाननिष्टो मवेदिति मावः । किं तत्फ- लमित्यत्राऽऽह-धीराः स्फुरणादिसर्वावलम्बपरित्यागेन यस्य मासा सर्वमिदं विभाति तस्मिन्नात्मनि चित्तं दधाना विज्ञानिनः संसिद्धा अस्माल्लोकात्मेत्य प्रारब्धक्षये 'देहत्यागेन गत्वाऽमृता अविनाशिनो भवन्ति । यतो वह्मविद्वव भवति ॥१॥ न तद्विज्ञाने. कर्तृकरणसंघः साधनमित्याह- न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो. न वियो न विजानीमो यथैतद्नुशिष्यात् ॥ अन्यदेव नदिदितादथो अविदितादधि । . इति शुश्रुम पूर्वपां ये नस्तद्विचचक्षिरे ॥ २॥ पर्धा रूपज्ञानकरणं यथा स्वविषयं गच्छति तथा तत्र सत्स्वरूप आत्मनि न गच्छति न तं विषयी करोति तथा वावपरादिरूपाऽपि न गच्छति न तया यथावत्तदुपपाद्यते नो मनोऽपि कर्तृस्वरूपं स्वसंकल्प. योगेनात एवोच्यते " यतो चाची निवर्तन्ते अमाप्य मनसा सह ' इति । संकल्पविकल्पपरित्यागेन केवलेन प्रज्ञानेनापि न विद्मो न विजानीमो पर्यम् । श्रूयते च 'यं प्रज्ञानं न घेद यो युद्धेः परतस्तु सः' इति । ज्ञानाज्ञानपरिवर्जनेनाऽऽत्मनि विज्ञातेऽप्याचार्यों यथा येन प्रकारेणेतदे- तमनुशिष्यादनुशासनं कुर्यात्तदपि न पिनानीमो शानसाधनमूतप्रज्ञाना- दिनिरासेन कथं तद्विज्ञानमुपदिशेन्न । तार्ह तद्विज्ञानमस्ति या नास्तीति 'पेत, य आचायास्तत्परं तत्वं नोऽस्माकं पिचचक्षिरे विशेपेण व्यक्तमुक्तयन्तरतेषां पूर्वपा पूर्वस्थितानां यचोमिरितीत्थं शुश्रुम भूत- यस्तो यपम् । कथम, तदारमतवं विदितात्मज्ञानादिमिपिदितादन्यदेय - 'केनोपनिषत् । मिन्नमेव ने तथा प्रज्ञानादिमिर्ज्ञातुमर्ह · सत्तारूपत्वे तदविषयमूत- त्वात् । तदा तदविदितमेव स्यादथो अविदितादप्यन्यदेव सदाचार्यप्र- सादादात्मन्यात्मत्वेनापरोक्षतयाऽनुभूयते चातो न केवलावेदनमपि तस्य । ननु विदितादन्यदविदितं तस्मादन्यद्विदितं किं तयोरन्यत्तत् । अधि विदिताविदितयोरधिकृत्य वर्तमानं तवयं यस्मिन्नधि यत्सत्तयाऽस्ति तस्य मासा सर्वमिदं विमाति' ॥२॥ एवंविधस्य तस्य कथमुपदेशस्तवाऽऽह- यद्वाचाऽनायुदितं येन वागायुद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। यमाणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। यचक्षुषा न पश्यति येन चशूपि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यच्छ्रोत्रेण शृणोति येन श्रोत्रमिद श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥३॥ यद्वाचाऽनभ्युदितमनम्युक्तं येनान्तर्गतेन वाक्परादिरूपाऽभ्युद्यतेऽम्यु- च्यते तत्कारणप्रज्ञानाधिष्ठानत्वात् । तदेव ब्रह्म व्यापकं पूर्ण च त्वं विद्धि विजानीहि नान्यद्वाचाऽभ्युक्तं तद्भवति यद्वाऽऽशु सर्वोपाधिनिरासेन शुद्धेनाऽऽत्मरूपेण तत्त्वमेवासीति विद्धि नेदं किं यदिदमुपासका जना आत्मेतरद्देवतारूपं ब्रह्मेति मत्वा तात्त्विकभेदधियोपासत उपासना कुर्वन्ति तन्न दृश्यत्वेनानात्मभूतत्वात् । उच्यते च 'अदृष्टो द्रष्टाऽ- श्रुतः श्रोताऽमता मन्ता ' इति । एवं सति योऽन्यां देवतामुपास्तेऽन्योs- सावन्योऽहमस्मीति न स वेद यथा पशुस्तस्माद्ब्रह्मतं परादायोऽन्यनाऽऽ- त्मनो ब्रह्म वेद । नन्वस्थूलादिविशेषणैर्वेदादिवाक्यैरभ्युदितं श्रूयते तथा गुरुशिष्यवाग्मिरप्यभ्युद्यते ततस्तदवोधोऽपि भवत्येवं सति किमेवमुक्तं यद्वाचाऽनभ्युदितमिति । सत्यं, वेदादिवाक्परोक्षज्ञानरयव .

२२ अर्थप्रकाशसमेता- कारणमूता नापरोक्षज्ञानस्य तथा चेत्तदा श्रुतस्य पुनदर्शनापेक्षा ,न स्यात् । तयोत्पन्नास्थस्यापरोक्षज्ञाने दर्शनमेव साधनमस्ति तद्विहाय कृततदवलम्बनस्प किं स्यात् । तथा घेदाचार्यवाक्यैः परोक्षत्वेन विज्ञातं तत्कल्पनारूपं न परब्रह्मात्मरूपं मवति तदपरोक्षज्ञाने वाच्यवचनवक्तृत्व- परित्यागेन तन्मूलत्वेनाऽऽत्मन्यात्मत्वेन ब्रह्मात्मानुभवोऽस्त्यत एवोच्यते 'तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुश्चथ । नानुध्यायादहूञ्छदा- न्वाचो विग्लापनं हि तत्' इति । अत एवापरविद्यासंपन्नेनापि परविद्यार्थिना नारदेन सनत्कुमारं प्रत्युच्यते ' मन्त्र विदेवास्मि नाऽऽत्म- विद्' इति । तस्माद्वाचा तस्य परोक्षज्ञानं नापरोक्षम् । किंच यद्ब्रह्म माणेन पञ्चवृत्त्यात्मकेन न प्राणिति यथेदं स्थूलं प्राणेन प्राणिति न तथा भाणेन पाणनझियां करोति । येनान्तर्गतेन प्राणः प्रणीयते स्वधर्म प्रकर्षण नीयते प्राप्यते । ननु तदेव प्रत्यगात्मरूपं सत्स्थूलेऽस्मिन्माणेन माणिति नु । न । तदीपाधिकं रूपमुपाधेर्दिवर्तरूपत्वेन तदपि तथैव तेन शुद्धे न तमानं किंचित् । तत्सत्तयैव विवर्तस्य मानमतो येन माणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति पूर्ववत् । यश्च- क्षुषा कोऽपि न पश्यत्यदृश्यत्वात् । येनान्तर्गतेन चक्षुपि पश्यति दहस्व. रूप आत्मा चक्षुपा रूपान्तरं विजानाति तथा तद्धर्मसाक्षित्वेन चक्षूप्यपि ममेयं दृष्टिः समीचीना रूपज्ञानविषय इति मावेन। तस्मादृ- श्यदर्शनसाक्षित्वेन तत्सापेक्षितत्वान्तर्गतत्वेन सर्वासङ्गं चक्षुरगोचर- मूतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यच्छ्रोत्रेण परोक्षज्ञानकरण- शब्दज्ञानकरणेन न कोऽपि शृणोति सर्वात्ममूतत्वेनापरोक्षत्वात् । येना. न्तर्गतेन प्रज्ञानाधिष्ठानरूपेणेदं श्रोत्रं श्रवणज्ञानवच्छ्रुतं भवति । यथाs- यमात्मा श्रोत्रेण नानाविधाञ्छब्दान्विजानाति । तथा श्रोत्रमपि नद्धर्मसाक्षित्वात् । तस्माद्रव्यश्रवणतत्सापेक्षश्रोतृत्वान्तरङ्गमात्मरूपं न अव्यवदितरत् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यत्परं तत्त्वं मनसा संकल्परूपेण न मनुते न विजानाति कश्चित् । यथा मनसा ज्ञानकरणद्वामिहिमूतं शब्दादिगुणवद्विपपनातं जानाति पान्तर्गतानपि तथा न तत्तत्त्वं निर्गुणत्वादामरूपत्याच । येनान्तर्गतेन सत्तारूपेण मनः सधर्मकं मतं विज्ञातमित्याहुस्तत्साक्षित्वात् । तदेय ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ३ ॥ फरणान्तर्गतत्वेन सुपकाशत्यादात्मरूपं मुविज्ञेयमेवेति मन्वीरग्नि- त्पनाऽऽद- यथा केनोपनिषत् । यदि मन्यसे सुवेदेति दह्रमेवापि नूनम् । त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य ॥ ४ ॥ यदि तत्परं ब्रह्म करणानां प्रवर्तकत्वेनाऽऽत्मरूपत्वात्सुवेद सुखेनैव' विजानामीति मन्यसे जानीपे तथाऽपि नूनं निश्चयेन दह्रमेव तज्ज्ञान स्वल्पमेव । ज्ञानज्ञातृत्वयोगेन ज्ञातं तज्ज्ञेयत्वेन परिच्छिन्नं तथा तज्ज्ञानमपि तेनानन्तोऽनन्तरः पूर्ण आत्मा कथं ज्ञातो भवेत्तस्मान्न मुवेदनं तस्या किंच, यद्यदि यस्यान्तर्यामिणः सतारूपत्वेन मनआदीनां भकाशकस्य परस्य ब्रह्मणो रूपमुक्तविधं वेत्थ विजानासि साक्षित्वयो. गात्तदा यद्यपस्त्वमसि तदतत्त्वमस्यनवस्थाप्रसङ्गात् । कथम्, आत्मावि- ज्ञाने चेज्ज्ञानज्ञातृत्वालम्बस्तेन ज्ञातः स आत्मा स्विज्ज्ञाता न ज्ञातो ज्ञेयत्वात्तज्ज्ञानाश्रयभूत एव ज्ञेयानुमवयोगात्पुनस्तथा तज्ज्ञाने प्रवृ. त्तस्य कथं नानवस्थाप्रसङ्गः । अतो न तथा तद्विज्ञानम् ॥४॥ अथ विकल्पयते तज्ज्ञानस्यास्तित्वनिश्चयाय- वेदेष्वनुमीमांस्यमेव ते मन्ये विदितम् । नाहं मन्ये सुवेदेति नो न वेदोत वेद च । यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञानं विजानतां विज्ञातमविजानताम् । प्रतिबोधविदितममृत हि विन्दते ॥ ५॥ अथ प्रकारान्तरेण वदति वेदेषु तन्मीमांस्यमेव न विचार्यमेव नत्व- परोक्षत्वेन तद्विज्ञानमस्त्यतसविदितं न विदितमिति मन्ये तेषां शब्दरूपत्वात् । अतस्तत्रैवोच्यते 'यतो घाचो निवर्तन्ते अमाप्य मनसा सह' इति । तत्कारणमूता वाक्मज्ञानमपि यन्न वेदेति श्रूयते 'यो वाचि तिष्ठन्वाचोऽन्तरो यं वाइन वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयति स त आत्माऽन्तर्याम्पमृतः । यः प्रज्ञाने तिष्ठन्मज्ञा- नादन्तरो यं प्रज्ञानं न वेद यस्य प्रज्ञान शरीरं यः प्रज्ञानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः । य आरमनि तिष्ठन्नात्मानमन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरमात्मानमन्तरो यमपति स त आत्माऽन्तर्याम्पमृतः' इति । तस्मान्नाहंमन्ये सुवेदेति। तदा तज्ज्ञानामाव एव नु निवेदन विजा. नामीति नो न न तदविज्ञातमपि।तथा वेद च विजानातिन विज्ञानमपि २२ - अर्थप्रकाशसमेता- कारणभूता नापरोक्षज्ञानस्य तथा चेत्तदा श्रुतस्य पुनर्दर्शनापेक्षा न स्यात् । तयोत्पन्नास्थस्यापरोक्षज्ञाने दर्शनमेव साधनमस्ति तद्विहाय कृततदवलम्बनस्य किं स्यात् । तथा वेदाचार्यवाक्यैः परोक्षत्वेन विज्ञातं तत्कल्पनारूपं न परब्रह्मात्मरूपं भवति तदपरोक्षज्ञाने वाच्यवचनवक्तृत्व- परित्यागेन तन्मूलत्वेनाऽऽत्मन्यात्मत्वेन ब्रह्मात्मानुभवोऽस्त्यत एवोच्यते 'तमेवैकं जानथाऽऽस्मानमन्या वाचो विमुश्चथ । नानुध्यायाहूञ्छब्दा- न्वाचो विग्लापनं हि तत्' इति । अत एवापरविद्यासंपन्नेनापि परविद्यार्थिना नारदेन सनत्कुमारं प्रत्युच्यते ' मन्त्रविदेवास्मि नाऽऽत्म- विद्' इति । तस्माद्वाचा तस्य परोक्षज्ञानं नापरोक्षम् । किंच यद्ब्रह्म प्राणेन पञ्चवृत्त्यात्मकेन न प्राणिति यथेदं स्थूलं माणेन प्राणिति न तथा प्राणेन प्राणन क्रियां करोति । येनान्तर्गतेन प्राणः प्रणीयते स्वधर्म प्रकर्पण नीयते प्राप्यते । ननु तदेव प्रत्यगात्मरूपं सत्स्थूलेऽस्मिन्प्राणेन प्राणिति नु । न । तदोपाधिक रूपमुपाधेर्दिवर्तरूपत्वेन तदपि तथैव तेन शुद्धे न तमानं किंचित् । तत्सत्तयैव विवर्तस्य मानमतो येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति पूर्ववत् । यश्च- क्षुपा कोऽपि न पश्यत्यदृश्यत्वात् । येनान्तर्गतेन चर्चापि पश्पति द्रष्टस्व- रूप आत्मा चक्षुपा रूपान्तरं विजानाति तथा तद्धर्मसाक्षित्वेन चvष्यपि ममेयं दृष्टिः समीचीना रूपज्ञानविपय इति मावेन । तस्मादृ. श्यदर्शनसाक्षित्वेन तत्सापेक्षितद्रष्टुत्वान्तर्गतत्वेन सर्वासङ्ग चक्षुरगोचर- भूतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यच्छ्रोत्रेण परोक्षज्ञानकरण- शब्दज्ञानकरणेन न कोऽपि शृणोति सर्वात्मभूतत्वेनापरोक्षत्वात् । येना. न्तर्गतेन प्रज्ञानाधिष्ठानरूपेणेदं श्रोत्रं श्रवणज्ञानवच्छ्रुतं मवति । यथाs- यमात्मा श्रोत्रेण नानाविधाञ्छब्दान्विजानाति । तथा श्रोत्रमपि तद्धर्मसाक्षित्वात् । तस्माच्ट्रव्यश्रवणतत्सापेक्षश्रोतृत्वान्तरमात्मरूपं न अध्यवदितरत् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । यत्परं तत्त्वं मनसा संकल्परूपेण न मनुते न विजानाति कश्चित् । यथा मनसा ज्ञानकरणदाभिहिर्भूतं शब्दादिगुणवद्विपयजातं जानाति पान्तर्गतानपि तथा न तत्तत्त्वं निर्गुणत्वादात्मरूपत्वाच । येनान्तर्गतेन सत्तारूपेण मनः सधर्मकं मतं विज्ञातमित्याहुस्तत्साक्षित्वात् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥३॥ करणान्तर्गतत्वेन सुपकाशत्वादात्मरूपं सुषिज्ञेयमेवेति मन्वीरनि. स्पनाऽऽह । यथा केनोपनिपत् । २३ यदि मन्यसे सुवेदेति दह्रमेवापि नूनम् । त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य ॥ ४ ॥ यदि तत्परं ब्रह्म करणानां प्रवर्तकत्वेनाऽऽत्मरूपत्वात्सुवेद सुखेनैव विजानामीति मन्यसे जानीपे तथाऽपि नूनं निश्चयेन दह्रमेव तज्ज्ञान स्वल्पमेव । ज्ञानज्ञातृत्वयोगेन ज्ञातं तज्ज्ञेयत्वेन परिच्छिन्नं तथा तज्ज्ञानमपि तेनानन्तोऽनन्तरः पूर्ण आत्मा कथं ज्ञातो मवेत्तस्मान्न सुवेदनं तस्य। किंच, यद्यदि यस्यान्तर्यामिणः सत्तारूपत्वेन मनआदीनां प्रकाशकस्य परस्य ब्रह्मणो रूपमुक्तविधं वेत्थ विजानासि साक्षित्वयो- गात्तदा यद्यदूपस्त्वमसि तदतत्त्वमस्यनवस्थाप्रसङ्गात् । कथम्, आत्मावि- ज्ञाने चेज्ज्ञानज्ञातृत्वालम्बस्तेन ज्ञातः स आत्मा स्विज्ज्ञाता न ज्ञातो ज्ञेयत्वात्तज्ज्ञानाश्रयमूत एव ज्ञेयानुमवयोगात्पुनस्तथा तज्ज्ञाने प्रवृ. त्तस्य कथं नानवस्थाप्रसङ्गः । अतो न तथा तद्विज्ञानम् ॥४॥ अथ विकल्पयते तज्ज्ञानस्यास्तित्वनिश्चयाय- वेदेष्वनुमीमांस्यमेव ते मन्ये विदितम् । नाहं मन्ये सुवेदेति नो न वेदति वेद च । यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम् । प्रतिबोधषिदितममृत हि विन्दते ॥ ५॥ अथ प्रकारान्तरेण वदति वेदेषु तन्मीमांस्यमेव नु विचार्यमेव नत्व- परोक्षत्वेन तद्विज्ञानमस्त्यतस्तैदेविदितं न वेदितमिति मन्ये तेपां शब्दरूपत्वात् । अतस्तत्रैवोच्यते 'यतो घाचो निवर्तन्ते अमाप्य मनसा सह ' इति । तत्कारणमूता वाक्प्रज्ञानमपि यन्न वेदेति श्रूयते 'यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ् न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयति स त आत्माऽन्तर्याम्पमृतः । यः प्रज्ञाने तिष्ठन्मज्ञा- नादन्तरो यं प्रज्ञानं न वेद यस्य प्रज्ञान शरीरं यः प्रज्ञानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः । य आत्मनि तिष्ठन्नात्मानमन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरमात्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः' इति । तस्मानाहं मन्ये सुवेदेति । तदा तज्ज्ञानामाव एव नु निवेदन विजा. नामीति नो न न तदविज्ञातमपि। तथा वेद च विजानातिन विज्ञातमपि - २४ अर्थप्रकाशसमेता- न भवति ज्ञानसाधनमज्ञानाद्यज्ञेयत्वात् । तस्मात्तज्ज्ञानं कथमिति चेत्, यस्य साधनसंपत्संपन्नस्य संप्राप्ताचार्यप्रसादस्य लब्धव्यतिरेक- क्रियस्य मनोबुद्धीन्द्रियै विज्ञातुमशक्पत्वात्तत्सर्वनिरासेन विगतप्रधानध- मत्वेन ज्ञातृत्वरहितत्वादमतमविज्ञातयत्तस्य मतं मतमन्तृमनननिरा- सेनाऽऽत्मन्यात्मत्वे बुद्धम् । यस्यापरविद्योत्पन्नपरोक्षज्ञानिनो मतं परो. क्षज्ञानसच्छ्रवणमनननिदिध्यासायोगेन निष्प्रपञ्च निर्विकार निराकार चिदानन्दमयं सर्वगतं परं ब्रह्मैवाहमस्मीति बुद्धया निश्चितम् । संपरो क्षज्ञान्यलब्धव्यतिरेकक्रियत्वान्न वेद नापरोक्षज्ञानवान्यतः । अतो विजानतां वेदशास्त्रार्थज्ञानवतामविज्ञातं न तैर्विज्ञातं तज्ज्ञानप्रतिकूल- शब्दवादनिरतत्वात् । तस्मादविजानतां सर्वशाब्दवादं विहाय मनो- पुद्धयादीनां ज्ञानमपि च प्रज्ञानेनाप्यजानतां तदसङ्गतया सहजात्म- स्थित्याऽवस्थितानां विज्ञातमुक्तप्रकारेण तैरेव बुद्धम् । अत एवोच्यते 'तमेव धीरो विज्ञाय प्रज्ञां कुति बाह्मणः । नानुध्यायादहूञ्छन्दा. न्वाचो विग्लापनं हि तत् । तमेवैकं विजानथाऽऽत्मानमन्या वाचो विमु- ञ्चथ' इति । एवं पुंसा प्रतियोधविदितमुक्तविधनिर्विकल्पाकारप्रज्ञाने- नाऽऽत्मन्यात्मत्वेनोत्पन्नो यः प्रतिवोधस्तेन विदितमपरोक्षत्वेन विज्ञातं मतं चाऽऽत्मत्वेन सोऽमृतत्वममृतमावं तदेकरूपत्वाद्धि निश्चयेन विन्दते लमते नान्यो बहिर्मुसः शब्दवादरतो मनआदिभिश्च ज्ञातुं प्रवृत्तश्च ॥५॥ आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् । इह चेदवेदीदथ सत्यमस्ति नो चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥६॥ आत्मना कर्तृकरणसंघातरूपेण वीर्य मोक्षसाधननिर्वर्तनसामध्य पिन्दते लमते न साक्षादमृतत्वम् । अमृतं मोक्षस्तु विद्यया परसंज्ञिकयो- क्तया विन्दते । तस्माज्ज्ञानादेव तु कैवल्यम् । अतो यः कश्चिदधिकारी. लब्धपरविद्ययोत्पन्नास्थ इहास्मिन्नेव संसारे सदाचार्यप्रसादासादितपर-:. विद्ययाऽऽत्मनाऽऽत्मानमवेदीद्वैत्त्पथ तहि सत्यमस्ति. सदेव भवत्युक्तं प - केनोपनिषत् । २५ 'ब्रह्मविद्वौष भवति' इति। योऽनधिकारित्वान्न चेदिहावेदीत्तदा महत्या विच्छिन्नजन्ममृत्युयोगेन विनष्टिविनाशो दुःखसागरेऽस्मिन्संसारे निम- यत्वात् । अतो धीरा उक्तविवेकेनाऽऽत्मानं विदित्वा लयविक्षेपनिरासेन तत्रैव चित्तं दधाना भूतेषु भूतेषु नानाविधत्वेनाऽऽमासमानेषु विचिन्त्य सर्वत्र सत्तारूपत्वेनैकमेवाऽऽत्मतत्त्वमस्तीति विज्ञायास्मान्मृत्युलोकात्मेत्य प्रारब्धक्षयेण गत्वाऽमृता अमरणधर्माणः सत्स्वरूपा मवन्ति ॥६॥ एवं सत्तारूपस्याविज्ञेयस्य परब्रह्मणो महत्त्वदर्शनायेदमभिधीयते- ब्रह्म ह देवेश्यो विजिग्ये तस्य हि ब्रह्मणो विजये देवा अमहीयन्त । त ईक्षन्तास्माकमेवायं विज- योऽस्माकमेवायं महिमेति त?पां विजिग्ये ॥ ७ ॥ ब्रह्मोक्तविधं ह किल सर्गादौ मायापोगेनेश्वररूपं सद्देवेषु सत्तैश्वर्य- प्रदत्वेन देवेभ्य इन्द्रादिभ्यो विजिग्ये सर्वोत्कर्षेण ववृते । तस्य हि ब्रह्मणो विजये ते देवा अमहीयन्त । तत्सत्तासंमवमहत्त्वयोगेन पूज्या अमूवनसर्वलोकवरिष्ठत्वात् । ततस्ते देवास्तमन्तर्यामिणमात्मकारणं सत्तापद्मविज्ञायेक्षन्तेक्षन्ताऽऽत्मनीक्षां विचारं चक्रुः। कथम, अस्माकमे- वायं सर्वैरनुभूयमानः सर्वश्रेयान्विजयोऽस्माकमेवायं महिमा महत्त्वमिति सर्वमस्मत्कृत्यं वयमेव सर्वश्रेष्ठाः सर्वज्ञा इति मावेन तदा तद्विज्ञाय तद्ब्रह्म ह किलैपां देवानां मध्ये विजिग्ये सर्वोत्कृष्टत्वप्रदर्शनेना. वर्तत ॥७॥ कथं तदाह- तेश्यो ह प्रादुर्घभूव तं न व्यजानत । किमेत यक्ष- मिति । तेऽसिमबुवन् । जातवेद एतद्विजानीहि किम- तयक्षमिति । तथेति तदायदवत् । तमवदत्कोऽ- सीति । अगिर्वा अहमस्मीत्यत्रवीत् । जातवेदा वा अहमस्मीति तस्मिंस्त्वयि किं वीर्यमित्यपीदर सर्व- भादहेयं यदिदं पृथिव्यामिति । तस्मै तृणं निदधा- वेतहहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक ४ २६ अर्थप्रकाशसमेता- दग्धुम् । स तत एव निवृत्तो नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥८॥ तेभ्यो देवेभ्यः प्रादुर्बभूव भिन्नत्वेन तुरीयेण सर्वेश्वररूपेण व्यक्तम- भूत् । तमतीवाद्भुतं सर्वपूज्यं व्यक्तं दृष्ट्वाऽपि कोऽयमिति न व्यजानत विज्ञातवन्तः । एतत्पुरोर्वति यक्षं पूज्यं सर्वश्रेष्ठं किमस्तीति । तं विज्ञा. तुकामास्ते देवा अमिमग्रणीत्वेन सवश्रेष्ठं मत्वाऽनुवन्हे जातवेदस्त्वमेत- द्विजानीहि समीपं गत्वा किं किंरूपमेतद्दृश्यमानं यक्ष पूजनीयं सर्वो- स्कृष्टत्वाद्विद्धि । तैः प्रार्थितोऽशिस्तथेति तेषां विजिज्ञासावाक्यमङ्गी- कृत्य तद्यक्षमभ्यद्रवदभ्यगच्छत् । गत्वाऽन्तिकमवस्थितं तं तद्यक्षं त्वं फोऽसीत्पभ्यवदुक्तवत् । तच्ठत्वाऽनिर्वा अहमस्मीत्यत्रवीत्तत आत्मनो महत्त्वख्यापनाय पुनराहाहं वा अहमेव जातवेदाः प्रतिसगं जायमानस्य सर्वस्य वेदिताऽस्मीति च । तदाकर्ण्य यक्षमूचे तस्मिन्नुक्तविधै स्वपि कि वीर्यमस्तीति सोऽवददिदं सर्वमप्यादहेयमादग्धुं शक्नुयाम् । कि तदिति चेद्यदिदं फिंच पृथिव्यामस्ति तत्सर्वमपि । तच्छुत्वा तद्यक्ष तद्र्वापनोदनायेच्छयैव तस्मा अमये तृणं निदधावेतहहेत्युक्तवत् । ततः सर्वमपि मस्मयतो मम किं तृणदाहे शङ्केति धिया सर्वजवेन सर्व- वेगेण यथा स्ववेगस्तथा तत्तणमुपप्रेयाय समीपं गतवान् । तथाऽप्यनि- निजतेजसा तद्दग्धुं न शशाक समर्थोऽभूत् । सोऽनिस्तत एव विगत. गर्षः सन्निववृते । यत्संनिधी तृणदाहेऽप्यसमर्थोऽहं कथं तहूपं विज्ञार्नु शक्नुपामिति युवा तदपिज्ञायव निवृत्तः स देवान्प्रत्यागयोक्तवानह- मेतद्विज्ञातुं नाशकं शक्तोऽमवं यदेतदेवंरूपं यक्षमस्तीति ॥८॥ तत:- अथ वायुमत्रुवन्वायवेतद्विजानीहि किमेतयक्षमिति। तथेति तदायदवत् । तमायवदत्कोऽसीति वायु अहमरमीत्पत्रवीत् । मातरिश्वा वा अहमस्मीति । तस्मिंस्त्वयि किं वीर्यमित्यपदिय सर्वमाददीय यदिदं पृथिव्यामिति । तस्मै वृणं निदधायेतदादत्स्वेति २७ केनोपनिषत् । तदुपप्रेयाय सर्वजदेन नन्न शशाकाऽऽदातुम् । सतत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥९॥ अथाग्न्युपरमानन्तरं ते देवा वायुमब्रुवन हे वायो त्वमेतद्यक्ष विजा. नीहि यतस्त्वं सर्वान्तर्यामित्वेन सर्वावधारकोऽसि किं किंरूपं तय- क्षमिति । ततो वायुस्तथेत्युक्त्वा तदभ्यद्रवत् । तमभ्यवदत्कोऽसीति । वायु अहमस्मीत्यववीन्मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छति मात- रिश्वा मेघगतिकारणो ब्रह्माण्डाश्रयमूतोऽहमस्मीति तस्मिंस्तथाविधे त्वयि किं वीर्यमिति । यदिदं पृथिव्यां मूर्तभूतवयकार्य तत्सर्वमप्यादी- याऽऽदातुं शक्नुयामिति । ततस्तद्यक्षं तस्मै तृणं निदधावेतदादत्स्वेति । स वायुः सर्वजवेन तदुपपाय तन्न शशाकाऽऽदातुं सोऽप्यनिरिच तत एव निववृते । देवान्मत्यागत्योवाच नैतदशकं विज्ञातुं यदेतद्यक्ष- मिति ॥९॥ ततः किं वृत्तम्- अथेन्द्रमब्रुघन्मघवन्नेतद्विजानीहि किमेतयक्षमिति तथेति तदस्यद्रवत्तस्मातिरोदधे स तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवती ता५ होवाच किमेतदक्षमिति ॥ १०॥ अथ ते देवा इन्द्रमब्रुवन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तमागतं वीक्ष्य तद्यक्षं तस्मात्स्थानात्तिरोदधेऽन्तर्हितम् । तदा तस्मिन्नाकाशे सहसाऽभिव्यक्तां नियं दृष्ट्वा स मघवाऽऽजगामाऽऽ- गतः। कि तस्वीरूपमिति चेत् । यत्सच्चिदानन्दरूपं ब्रह्म तदेव सर्वगतत्वेन सर्वाधिष्ठानं सत्तारूपं सर्वावमासकं चिन्मयत्वेन प्रकाशक स्वगतचि. प्रकृतियोगेनेश्वररूपं सर्वकर्तृ सर्वशं तद्दत्तमेव सर्वत्र सामथ्र्य स्वधर्म- कर्मप्रकाशनं चेत्यविज्ञाय तदात्मन एवेति बुद्धया मोहितानां तद्भाव- निरासेन यथार्थमावप्रकाशनेनैव यथार्थतत्त्वसंमाप्तिस्तया मोक्ष इति भावेन स परमात्मा सर्यक्षं श्रीमद्देवदेवरूपं धृत्वाऽऽत्मनः सर्वश्रेयस्त्वं प्रदर्शयित्वा तन्निजशक्तिमुपसंहृत्याऽऽत्मरूपज्ञानमपि तेषां निजेन ज्ञानेन नास्तीति प्रकाश्य स्वयमन्तर्हितोऽभूत् । ततः स्वीयां योगमायां श्रीरूपेण पृथकृत्वा तया स्वरूपं बोधयामास न स्वयम् । किंविधा .. २८ अर्थप्रकाशसमेता- सा । बहुशोममानां बहु . यथा स्यात्तथा शोममानामनुपमा परप्रकृति- त्वात् । उमामवति सर्वेषां विज्ञानदानेनाशुभसंसारमयाद्रक्षति सोमा तां हैमवतीं हिनोति गच्छति हेम प्रज्ञानमेव कारणो. पाधी तथाऽशत्वेन कार्योपाधावप्यन्तराकाश आश्रयाभिन्नत्वेन स्थितं सत्करणद्वाभिर्बहिर्दीपप्रमेव गतिमत्वाद्धेम यद्वा हिनोति वर्धयति सर्वप्रपश्चं तद्वणमूलत्वात्तद्विस्तारस्य हेम तद्वान्परमात्मा हेमवांस्तत्संब धिनी तत्प्रकृतिरूपत्वाद्धमवती तां तत्राऽऽविर्भूतां दृष्ट्वा तामुवाच मघवा किमेतद्यक्षमिति ॥ १०॥ एवं पृष्टा सा- ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजये महीयध्व- मिति । ततो हैव विदांचकार ब्रह्मेति तस्माद्वा एते देवा अतितरामिवान्यान्देवान् । यदग्निर्वायुरि- न्द्रस्ते ह्येनन्नेदिष्ठं पस्पशुस्ते ह्येनं प्रथमो विदां- चकार ब्रह्मेति । तस्माद्दा इन्द्रो अतितरामिवान्या- न्देवान्सन्टेननेदिष्ठं पस्पशुः संह्येनं. प्रथमो विदां- चकार ब्रह्मेति ॥ ११ ॥ ततः सा ब्रह्मेति होवाच । ब्रह्मणो वा अस्यैतदस्मिन्सर्वोत्कृष्टे नित्ये विजये सत्तारूपे महीयध्वं 'पूर्वमस्माकमेवायं विजयोऽस्माक- मेवायं महिमतिमावेन संजातामिमानयोगेन विगतमहिमानो यूर्य पुनः स्वकर्मक्षमत्वेन पूज्या यथापूर्व मवतेति । तद्वचनात्स इन्द्रो विदांचकार विवेद ब्रह्मेति यत्सर्वजगत्कारणमीश्वरूपं तुरीयं तदे. घेदमस्तीति । अव तुरीयं नास्त्येवेति केचिद्वदन्ति तन्न तथा न केवलस्य निरुपाधिकस्य ब्रह्मणो रूपावलम्बनेन मावपरीक्षणं संम- पति तस्यैव स्वगतचित्प्रकृत्यवलम्बनेन तद्गतशुद्धसत्त्वप्राधान्येन सर्व- ज्ञसर्वसाक्षित्वयोगेन सर्वमपि घटते सर्वेश्वरत्वात् । अतो देवता. घ्रयादिसर्वजगत्कारणं तुरीयमस्त्येवात एव पुराणेपु श्रूयते 'महर्षि- णाऽत्रिणा ब्रह्मविदां घरेण सर्पज्ञेन प्रजाकामेन तस्यैवाऽऽराधानं घ्यधाथि' इति।'शरणं तं प्रपद्येऽहं य एव जगदीश्वरःप्रजामात्मसमां मां प्रयच्छत्वितिचिन्तयन्' इत्यादिमिः। ननु जगदीश्वरत्वं त्रयाणामपि मपति नु । सत्यं तथाऽपि तेन ते प्रत्याख्याता इति श्रूपते 'एको मह 4 केनोपनिषत् । भगवान्विविधप्रधानश्चित्तीकृतः प्रजननाय कथं नु यूयम् । अवाऽऽगता. स्तनुभृतां मनसोऽपि दूराबूत प्रसीदत महानिह विस्मयो मे, इति । तेषां स्वरूपाज्ञानादिति चेत् । न । तच्छ्रवणात् । 'विश्वोद्भवस्थितिल- येपु विमज्यमानर्मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं पस्तेभ्यः क एक मवतां य इहोपहूतः' इति । तस्मात्तेन तुरीय एवाऽऽराधितः समयाऽहं ते वृत्त इति वरं दत्त्वा संभवनं कृतवानत एव तेनाऽऽत्मनः सर्वेश्वरत्वं सह्याद्रावामलीग्रामे श्रीदेवदेवरूपेण दर्शित- मिति श्रूयते 'अस्मिन्क्षेने महाराज द्वासप्ततिचतुर्मुखाः । मुक्तिं प्राप्त स्तथा सर्वे सिद्धायाः सनकादयः। कथं मुक्तिं प्राप्ता इत्यत्रैकस्य ब्रह्मणो विचारं विस्तरेण प्रकण्यास उत्तम् 'अनेनैव क्रमेणान द्वासप्ततिचतु- मुंखाः । सह्याद्री देवदेवेशे मुक्ति प्राप्ताः कुरुद्धह।' इति । यदपे द्वासप्त- तिचतुर्मुखा लयं पाताः स न देवतात्रये कश्चिद्विज्ञेयः समगुणरूपत्वात् । यो मायामयः परमात्मा सुरीपः स एव तथा विज्ञेयस्तस्मात्स नास्तीति न वक्तव्यम् । मनूमा हैमवती सा शिषपल्यतः स एवात्र यक्षमिति किं नोच्यते । नापूढेसरवाक्यविरोधात् । कथं यद्वाचाऽनभ्युदितं येन वाग• भ्युद्यते' इत्यादिना परस्पैवोपक्रमोऽस्ति पूर्व तत्सत्तयैव सर्वस्य विजय देवर्मतम् 'अस्माकमेवापं विजयोऽस्माकमेवायं महिमा' इति तदन्य- थाज्ञाननिरासाय तयक्ष रूपं तस्यैवातः सा ब्रह्मेत्युवाच 'ब्रह्मणो वा एतद्विजये यहीयन्त्रम् ' इति । तथा वक्ष्यते चाध्यात्मकथने ' यदेतद्वा- चं मनो गच्छति ब दाङ्मनोरूपं तदुपस्मरति ' इति । तस्मान्ना- परशिवरूपं तत्तुरीपयेव । तस्मादा एवंविधेश्वररूपविज्ञानादेत इन्दादयो देवा अन्यांस्तत्स्वरूपाशानिनो देवानतितरामिवातिक्रान्ततरा इव श्रेष्ठा एष । यद्यस्मातेऽनिर्वापुरिन्द्रन हि निश्चयेनैनमुक्तविधं सर्वकारणमूतं नेदिष्ठमतिशपितमन्तिकं विदांचकुस्तेन विज्ञानयोगेन ते ह्येनं पस्पशुः स्पृष्टवन्तः । तेविन्द्रः प्रथमोऽग्निवायुभ्यां ब्रह्मेति विदां चकार तस्मा- दिन्द्रोऽन्यानमिवाप्पादीनतितरामिव वर्तते स ह्यने नेदिष्ठं प्रथम संपस्पर्श तत इतरे ह्येनं संपस्पशुः स होनं प्रथमो विदांचकार बह्मेति ततोऽन्ये तद्वचनाद्विदांचकुस्तस्मादिन्द्रोऽतितरामिव तेभ्यः ॥ ११ ॥ तस्य रूपकथनानन्तरं नाम कथ्यते- तस्यैप आदेशः । यदेतद्विद्युतो३ विद्युतो३ इति न्यमीमिपदो३ इत्यधिदैवतम् । अथाध्यात्मम् । यदे- १० अर्थप्रकाशसमेता- तद्गच्छति वाचं मनो नैव चैतदुपस्मरत्यभीरुसंकल्प- स्तद्धि तद्धनं नाम तद्धनमित्युपासितव्यम् ॥ १२॥ तस्योक्तविधस्य यक्षस्यैप वक्ष्यमाण आदेशः संज्ञा यद्यस्मादेतद्यक्ष विद्युत्तो३ विद्युतो३इति विद्युता ऊ, विद्युता विद्योतते विद्युताऊ इव विद्युदिवेत्यर्थः । तेन विद्युतेत्यस्याऽऽदेशः । कस्मादिति चेत् ।न्यमीमिपदो न्यमीमिपत्।आ जाऊ इव । विद्युदिवाऽऽत्मानम्, आ ईपत् । दर्शयित्वा न्यमीमिपन्यमजयदाच्छादितवानित्यर्थः । तस्माद्विद्युदित्यस्याऽऽदेशः । इत्यधिदैवतम् । अथाध्यात्म कथ्यते । यदेतदात्मनि वर्तमानं शुद्धं रूपं तद्वाचं चतुर्विधा मनश्च गच्छति सत्तारूपत्वेनान्तर्गतं नैवोपस्मरति तथावेन विजानात्यधिदैवतान्यादीनाभिध । तद्धि सोऽमीरुसंकल्पो बिभेति मीरन मीरुरमीरुः संकल्पो यस्य स सत्संकल्पवान् । तद्यक्ष नाम धनं दधति गूढत्वेन धनं गुह्यागृह्यतमत्वेनान्तरतरत्वेन च धनं नाम। अतस्तद्धनमित्युपासितव्यम् । यथा धनमतिमियत्वेन जनैरुपास्यते तथोपासनीयम् ॥१२॥ किं फलं तदाह- स य एवं वेद । अभि हैनं सर्वाणि भूतानि । स गच्छत्युपरि दंभो बृहीत्युक्त्वा त उपनिषत् । ब्रह्मो- वाच । त उपनिपदमबूमेति तस्मै तपो दमः कर्मति प्रतिष्ठां वेद सर्वाङ्गानि सत्यमायतनम् ।यो वा एता- मेवं वेद । अभिहतपाप्मानम् । अनन्ते स्वर्ग लोके जये प्रतितिष्ठति प्रतितिष्ठति ॥१३॥ स यः कश्चिदधिकार्येतदुक्तमात्मरूपमेयं वेदैनं ज्ञानिनं सर्याणि मूता- न्यमिगच्छन्त्यभिजनवान्मवति यत्र वचन गच्छति । तत्र तेः सह प्रति. तिष्ठति । तेऽग्न्यादयस्तयक्षं ब्रह्मापरोक्षवेन विद्युदिव विदित्वा तस्मि- विज्ञातेऽपि नित्यनिष्ठासिद्धय उपरि ब्रह्ममुवनं गत्वा ब्रह्माणमूचुः। मों बान्दन्दम बहीत्युक्त्वा तमुपनिषेदुः । तच्छ्रुत्वा स ब्रह्मा मवद्भिर्यत्पृष्ट तदुपनिपटूपं गुह्यमस्तीत्यूचे । ततस्ते देवा उपनिषदमयूम तदेव गुवं पृच्छामो वयमित्यूचुः । ततो ब्रह्मा तस्मा अग्न्यादिदेवतासमूहाय केनोपनिषत् । ३१ तपोऽन्तरिन्द्रियनिग्रहरूपं दमो बाह्येन्द्रियनिग्रहः कर्म परमेश्वरा- राधनरूपमिति प्रतिष्ठां सर्वप्रतिष्ठाभूतामुपनिषदं वेद यदाज्ञापितवा- नुक्तवानित्यर्थः । तद्गुह्यविज्ञानं न तपआद्याचरणाहतेऽस्ति तदर्थमु. तमाचरणीयमिति मावः । अथ स प्रजापतिस्तदाचरणान्ते पुनरागताय देवतासमूहाय सत्यमविनाश्यायतनं सर्वाधिष्ठानमूतं परं ब्रह्म सर्वा. ङ्गानि तत्साधनमूतानि सर्वाण्यप्यङ्गानि वेद । एतद्विज्ञानफलमाह-यो कश्चिदधिकार्याचार्यप्रसादादेतामुक्तविधामभिहतपाप्मानमभिहतः प्रनष्टः पाप्मा यया तामुपनिषदमेवं देवर्विज्ञातवद्वेद सोऽनन्ते न विद्य- मानोऽन्तोऽवसानं यस्य तस्मिन्स्वर्गे सर्वोच्छ्रिते लोक आत्मरूपे जये सर्वदा जयशीले सर्वत्र सत्तारूपे प्रतितिष्ठति तदेकरूपत्वेन तिष्ठति प्रति- तिष्ठतीति द्विरुक्तिरुपनिपत्समाप्त्यर्था ॥ १३ ॥ इति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचितः केनोप- निषदर्थप्रकाशः समाप्तः। चा ॐतत्सद्ब्रह्मणे नमः। अर्थप्रकाशसमेता कठोपनिपत् । कठोपनिषद्यपि ब्रह्मविद्या प्रायशः कथिताऽस्त्यतस्तस्या अर्थः प्रका- श्यते । उशन्ह वा इत्यादिः कठोक्तिः । यजुपि काठकेषु नाचिकेताग्नि- चयनप्रसङ्ग एव तत्प्रसङ्गानुसारेण प्रायशोऽभिहितो न वियं परब्रह्म- विद्याऽतः पुनस्तां विचिख्यासुः कठ आह- उशन्ह पै चाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचि- केता नाम पुत्र आस । त५ह कुमार सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ॥ १ ॥ २॥ वष्टि कामयते मुक्तिमुशन्नाम ह किल वै प्रसिद्धो वाजश्रवसो पाजेऽन्ने जातं श्रवः कीर्तिर्यस्य स वाजवास्तस्यापत्यं वाजभवसः सर्ववेदसं सर्ववेदः सुवर्ण तदादि पदार्थजातं यस्यां तां सर्ववेदसं दक्षिणां ददी साझं यज्ञं निर्य तदर्थमवश्चकत्वेन सर्वमपि धनं गवादिपदाथा. श्चविगादिभ्यो बाह्मणेभ्यः समागतेभ्यो दत्तवान् । तस्य होशतो याज- श्रवसस्य नचिकेता नाम पुत्र आस पनूव । त ह कुमारं सन्तं साधुतम विद्याविकसंपूर्ण दक्षिणासु यजमानेन प्रत्तासु गवादिरूपासु नीयमाना. स्वृत्विगादिभिः सतीपु तदृष्टवतः पितुरात्मनश्च श्रेयो हितसाधनविपया श्रद्धाऽऽविवेशोत्पन्ना ।। १ ॥२॥ तत्र हेतुमाह- पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥ पीतोदकाः पीतान्यदकानि यामिस्तास्तथा जग्धतृणा जग्धानि मक्षितानि तृणानि याभिस्ता एपंता अपि दुग्धदोहा दुग्धा पहुवार दोहा यास तास्तेन बहुकृत्वः प्रसूता अत एव निरिन्दिया निर्गतानीन्द्रि- याणि यासां ता गलितेन्द्रिया वृद्धाः स्वप्रयोजनाक्षमाः । एवंविधा पा गावस्ता ददत् स यजमानस्तालोकान्गच्छति के ते लोका येऽनन्दा असमुद्धा पत्र गतानां मुख्यत्वेन कामोपमोगामाय एवं नाम फुरिस. तास्ते प्रसिद्धा ठोकास्तान्स गच्छतीति संवन्धः । ननु गया दानं विशि- सफलदं भूयतेऽत्र त्येचं किमुध्यते । सत्यं, यदानं सत्पात्रायानुलमुप.

३४ अर्थप्रकाशसमेता- भोगाई सुखपदं स्यात्तेन तदातुविशिष्टफलदं भवति । यत्तु तद्विपरीतं सामान्यसुखप्रदं केशजनक च तन्न तथा दुःसमिश्रस्यैव सुखस्य प्रदातृ । एवं पित्रा विहितं तदोदानं दृष्टवन्तं नचिकेतसं तद्विधलोकमाप्तिरस्य मा भूदिति विकेन श्रद्धोक्तविधाऽऽविवेश ॥ ३॥ ततो येन तालोकप्राप्तिरस्य न मवेद्यच्छ्योऽस्पाऽऽत्मनश्च तदधुना साधनीयमिति भावेन- स होवाच पितरं तात कस्मै मां दास्यसीति द्वितीयं तृतीयम् । त५ होवाच मृत्यवे त्या ददामीति ॥४॥ स हैवं श्रद्धाविष्टः कुमारः पितरमुशन्तमुवाच । श्रेयोर्थिना त्वया सर्वमपि दानं दत्तमधुना हे तात कस्मै पुरुषाय मां दास्यसीति यदन- शिष्टोऽहं श्रेयः साधयिष्य इत्यभिप्रायः । तस्य तमभिप्रायं न विवेदातो नोत्तरं ददौ पिता । तत्पतिवचनमिच्छः स तदेव तात कस्मै मां दास्य- सीति होवाच । तथाऽपि तूष्णीभूतं वीक्ष्य पुनस्तदेव तृतीयं होवाच । ततस्तत्मश्लामिपायमयं श्रेयोर्थी तत्साधन उद्युक्त इति बुद्धवान् । अत्र त ह परीत उवाचेति तैत्तिरीयाः पठन्ति परीतस्तत्मश्नाभिप्राय परिज्ञातवान् । तदुपदेष्टा त्ववेदानी मृत्युरेवास्तीति विज्ञाय पिता तं हैवं त्रिवारमुक्तवन्तं कुमारमुवाच मृत्यवे यमाय त्वां ददामि । इति तद्वचनं श्रुत्वा बहुवारं पृष्टः स पिता क्रुद्धः सन्नेवमुक्तवाकिमिति क्षणं तूणी बभूव । ततस्तदनुरूपामेवाशरीरिणीं वाचमम्बरे श्रुत्वा तच्छंङ्का. निवृत्तिमवाप्यानन्दनिर्भरः सन्नपि मृत्युशङ्कतं मन्यानः पुनरुवाच । एत- नाचिकेतेऽमिहितमस्त्यग्रे वक्ष्यते ॥ ४ ॥ बहूनामेमि प्रथमो बहूनामेमि मध्यमः । कि स्वियमस्य कर्तव्यं यन्मयाय करिष्यति ॥५॥ अहमन बहूनां जनानां मध्ये प्रथमो मुख्यत्वेनायः सन्नेमि गच्छामि तथा पहूनां मध्यमो मध्ये भवो मध्यमस्तैः परिवृतः सन्नेमि न पृष्ठतो न चकाकी । अथ चेद्यमाय दास्यसि तहि किं स्विन्नु तद्यमस्य फर्तव्यमस्ति तथा तव सौम्यं वर्तते तथा वो वा। किं तत् । यन्मयाऽध. कार्य करिप्यति तत्किं स्विद्यमस्य कर्तव्यमस्ति तत्साधु वहि ॥ ५ ॥ इति बालदशानुरूपं महत्त्वापेक्षिणस्तस्य वचनं श्रुत्वा विवेकोत्पाद- नाय किंचिद्वैराग्यपूर्वकं वचनं पितोवाच- कठोपनियत् । अनुपश्य यथा पूर्व प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्पमिवाऽऽजायते पुनः॥६॥ यथा येन प्रकारेण प्राचीना जना अवर्तन्त तदनुपश्यान्वालोच्य तथा चापर इदानींतना यथाऽवर्तन्त तदपि प्रतिपश्य प्रत्यालोच्याऽऽत्मन्यपि तथामावो विज्ञेयः । स कथमित्यत्र सदृष्टान्तमाह-मर्योऽयं मनुष्यः सस्यमिव बीह्यादिवत्पच्यते पक्को मवति । यथा सस्यं प्रसह्य विस्तार लब्ध्वाऽन्ते पक्कं भूत्वा प्रशुष्य विनश्यति तथाऽयमपि मातृकुक्षेजननं प्राप्य वर्धते तरुणवेन विपरिणमत उपतापेन जरसा वा परिपक्वः क्षीणो भूत्वा विनश्यति तथा सस्यमिव पुनर्जायते । यथा सस्यं स्वीयवीजावापादि- पत्रपुप्पादिविस्ताररूपकर्मयोगेण बीजसंग्रहं प्राप्य तद्योगेन पुनरन्यश- रीरेणोत्पद्यत एषमयमपि तदेहेनान्यदेहारम्मकक्रियमाणकर्मसंग्रहेण पुनर्जायतेऽन्यदेहेन पुनर्जननं प्राप्नोति। तस्मानित्यस्याऽऽत्मनः स्वकृतक- मेयोगेण नानाविधदेहान्तरप्राप्तिर्भवति तेन तान्यनित्यानि विनश्वराण्य. नात्मभूतान्यतस्तत्राऽऽत्मबुद्ध्या मानपूजापेक्षको न भवेत् । अतस्त्वंतद्वि- पयां शङ्क मा कार्षीः॥६॥ तहिं कि मयाऽधुना कार्य तत्राऽऽह- वैश्वानरः प्रविशत्यतिथि ह्मणो गृहान् । तस्यैता शान्ति कुर्वन्ति हर वैवस्वतोदकम् ॥७॥ वैश्वानरो वैश्वानर इव वैश्वानरोऽतिथिः। यथा वैश्वानरो देवबुद्ध्या पूज्यस्तेन बहुपुण्यप्रदो नित्यक्षुधः स्वप्रकाशस्तमसो विनाशकस्तथा बाह्म- णोऽतिथिरपि विद्याधिनयतपोयोगेन नित्यं सत्वमाधान्येन प्रकाश. वांस्तन परपापविनाशक आराधनेन पुण्यप्रदो नित्यं क्षुधावान् । एवं सोऽज्ञातगोत्रनामा ब्राह्मणोऽतिथिहान् गृहाणि यजमानानां प्रविशति यः । तस्यातिधेरेता शानदृष्टां शान्ति पाद्यान्नादिरूपां कुन्नि गृहिणः । अत: स मृत्युरस्मिलोके यसन्नस्मदादिवत्सदाचार- शीलोऽस्ति तं प्राप्य त्वं घेयस्वतोदकं वैवस्वतस्य यमस्योदकं पाद्यमध्य चान्नादि च हर गृहाण । अतिथिरूपेण तदहं गच्छ । अस्मिन्नेव प्रसङ्के मृत्यवे त्वा ददामीत्यतः परमेतावदयधिकं तैत्तिरीया नाचिकेते पठन्ति तदन व्यारयायते प्रसङ्गपरिज्ञानाय । तरह स्मोत्थितं यागमिवदति गौतमकुमारमिति, स होवाच, परे हि मृत्योहान् , मृत्यवे वे त्याऽदा- अर्थप्रकाशसमेता- - . मिति, तं चै प्रवसन्तं गन्तासीति होवाच, तस्य स्म तिम्रो रात्रीरनाश्वा न्गृहे वसतात् । स यदि त्वा पृच्छेत् , कुमार कति रात्रीरवात्सीरिति, तिस्र इति प्रतिबूतात् । किं प्रथमा रात्रिमाश्ना इति, प्रजां त इति, किं द्वितीयामिति, पशूस्त इति, किं तृतीयामिति, साधुकृत्यां त इति, तं वै प्रवसन्तं जगाम, तस्य ह तिस्रो रात्रीरनाश्वान्गृह उवास, तमा गत्य पप्रच्छ, कुमार कति रात्रीरवासीरिति, तिय इति प्रत्युवाच, किं प्रथमा रात्रिमाश्ना इति, प्रजां त इति, किं द्वितीयामिति, पशूस्त इति, किंतृतीयामिति, साधुकृत्या त इति"। ह गौतमकुमार गौतमस्य कुमारं नचिकेतसं श्रेयःसाधन उत्थितमुद्युक्तं वीक्ष्य वागशरी. रिणीति वक्ष्यमाणमकारेण प्रतिशासनरूपं स्माभिवदत्यभ्युदितवती । गौतम औद्दालकिरारुणिरित्युशतोऽपराणि नामधेयानि । स ह वाचा. मिशासनं श्रुतवान्गौतमः पुचमुवाच । मृत्यौवस्वतस्य गृहान्परेहि परागच्छ । मृत्यवे वै मृत्यव एव वा त्वामदां दत्तवानहमिति । तं वै पित्रेत्युक्तं प्रवसन्तं प्रवसितुं प्रस्थितं कुमारं गन्तासि गमिष्यसीत्युक्त्वा पुनविाच । तस्य स्म मृत्योहे तिम्रो राबीरनाश्वाननश्शनमक्षयन्वस.. ताद्वस । स मृत्युर्यदि त्वा त्यां पृच्छेत् । किं हे कुमार कति रात्रीरवा- सीरुपितास्त्वमिति पृच्छेत् । तर्हि तिस्रो रात्रीरवारसमिति प्रतिबूता- त्मत्युत्तरं देहि । स यदि त्वा पृच्छत्किं प्रथमां रात्रिमाश्ना अशितवां- स्त्वमिति तर्हि प्रजा ते त्वदीयामानां यदहं प्रथमां रात्रिमनश्नन्नवारसं तेन ते प्रजा नश्यति तदेव प्रजा त आश्नामिति प्रतिबूतात् । पुनः स यदि त्वा पृच्छेत् । किं द्वितीयां रात्रिमाश्ना इति तर्हि पशूस्ते त्वदी. यानानामिति प्रतिव्रतात् । मावस्तु स एव । पुनः स यदि त्वा पृच्छेत्किं तृतीयां रात्रिमाश्ना इति तर्हि साधुकृत्यां साध्वी कृत्यां क्रिया से त्वदीयामाना इति प्रतिबूनान , इति । इति पित्राऽनुशिष्टः स कुमारो नचिकेतास्तं वै मृत्युं वैवस्वतं प्रवसन्तं स्वलोकात्मोप्यास्मि- लोके वसन्तं ग्रामाद्रामान्तरं पृच्छजगाम । तस्य ह तिम्रो रात्रीरना- श्वान्गृह उवासोपितवान् । तमुपितयन्तमागत्य पप्रच्छ मृत्युहँ कुमार कति रात्रीरवारसीरिति । इति मृत्युना पृष्टः कुमारस्तिम्रो रात्रीरवात्स. मिति प्रत्युवाच । तच्छ्रुत्वा तद्योग्यत्वपरीक्षणाय स मृत्युः पप्रच्छ किं प्रथमां रात्रिमाश्ना इति, कुमारः प्रजा त आश्नामिति प्रत्युवाच, पुन- मृत्युः पप्रच्छ कि द्वितीयां रात्रिमाश्ना इति, कुमारः पस्त आश्ना• , कठोपनिषत् । मिति प्रत्युवाच पुनर्मृत्युः पप्रच्छ कि तृतीयां रात्रिमाश्ना इति, कुमार: साधुकृत्या त आश्नामिति प्रत्युवाच ॥ ७ ॥ इत्येतद्याख्याय पुनर्वयनुम्रियते- आशां प्रतीक्षे संगत सूनृतां चेप्टापूर्त पुत्रपशूश्च सर्वान् । एतद्बते पुरुपस्याल्प- मेघसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥ तिस्रो रात्रीर्यदवासीद्गृहे मे अनश्नन्ब्रह्म- नतिथिर्नमस्यः । नमस्ते अस्तु बह्मन्स्वस्ति मे अस्तु तस्मात्मति त्रीन्वरान्वृणीप्य ॥९॥ हे कुमाराहं प्रत्यहमाशां दिशामतिथिरागच्छति वा न वेति प्रतीक्षे तत्पतीक्षां करोमि तथाऽतिथिमागत्य संगतं सम्यकप्रकारेण गतं प्राप्त प्रतीक्षे । तहि त्वं देवादतिथिलब्धोऽसि तत्साध्वेष जातं तस्य पुरुपस्या- ल्पमेधसोऽल्पज्ञानस्प सनृतां च सा मुललितां वाचं तपोरूपामिष्टापूर्त इष्टं यजनं श्रोतं कर्म पूर्त स्मात पुत्रपशृंश्च पुत्रान्पशृंश्च सर्यानित्येतत् । सोऽतिथिले स्वी कुरुते, कस्य, पस्याल्पमेधसः पुरुषस्य ब्राह्मणोऽ• तिथिरनश्नन्यसति । न सदाचारशीलस्य ज्ञानविज्ञानसंपन्नस्प हे ब्रह्म नचिकेतो यत्तिस्रो रानी में मम गृहेप्वनश्नन्नवासीरुपितवान् । तेन न मम प्रत्यवाय इति भावः । तथाऽपि गृहस्थधर्मपालनार्थ किंचिच्छृणु। त्वमतिथिरतो नमस्यो नमस्कारार्हः । तस्मान्नमस्ते तुभ्यमस्तु मदीयं तेन स्वस्ति मेऽस्तु तस्मात्कारणात्तिस्रो रात्रीरनशनानि प्रति श्रीन्यरा. वृणीप्य तेन मे प्रत्पपापः परिहतः स्यादित्युवाचेति समन्ययः ॥८॥९॥ घरान्वृणीप्वेति च्छन्दितो नचिकेता उवाच- शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युगी- तमो मामि मृत्यो । लपटं माऽभिवदे- त्मतीत एतत्रयाणां प्रथमं वरं वृणे ॥ १० ॥ हे मृत्यो गौतमो मे पिता यथा शान्तसंकल्पः पःसाधने विपये शान्ताः संकल्पा मानसा यस्य स शान्तसंकल्प: स्पाद्भवेत् । परसवं. धेयोऽरित तत्तेन प्राप्त मषेत् । तेन मुमना नित्यं तदनुसंधानेन शोमनं

३८
अर्थप्रकाशसमेता-
मनो यस्य स तथा माऽभि मां प्रति वीतमन्युविगतक्रोधः स्याद्यस्मिन्य.
स्मिन्काले जिज्ञासया यं यं प्रश्नं करिष्ये तदा तदा प्रसन्नत्वेन तस्य तस्य
प्रतिवचनं दद्यात् । त्वत्मसृष्टं त्वया प्रसृष्टं विसृष्टं मा मां विद्याजातमभि-
घदेत्मतीतः प्रहृष्टः सन् । तथा मवत्वित्येतदेतं त्रयाणां वराणां मध्ये
प्रथमं वरं वृणे ॥१०॥
इति नचिकेतसा कृतं वरवरणं श्रुत्वा मृत्युरुवाच-
यथा पुरस्तादविता प्रतीत औद्दालकिरारु-
णिर्मत्प्रसृष्टः । सुखय रात्रि शयीत बीत-
मन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्॥११॥
यथा पुरस्तात्पूर्वस्मिन्काले बालत्वावस्थायां प्रतीतः प्रहृष्ट आसी-
तथा मत्मसृष्टो मया प्रसृष्टः कृतः सन्नौद्दालकिरुद्दालकस्यापत्यमोहाल-
किररुणस्य गोत्रापत्यमारुणिर्मविता भविष्यति । तथा च सुखं यथा
स्यात्तथा रात्रि शयीत सर्वचिन्तामयसंकल्पशून्यत्वेन शेताम् । तथा
वीतमन्युश्च नित्यं सत्त्वसमाविष्टश्चास्तु । त्यो मृत्युमुखान्मृत्युमारकः
पीडकत्वेन संसारस्तन्मुखात्ममुक्तं परविद्यासंमाप्त्या दृशिवान्दृष्टवा.
न्मयतु ॥११॥
इति प्रश्नाभिप्रायेण वरमुक्त्वा तस्य शान्ति सुशीलत्वं च विज्ञाय
प्रतीतः सन्पुनर्मुस्युरुवाच-
स्वर्गे लोके न यं किंचनास्ति न तन त्वं
जरया विपि । उभे तीवाऽशनायापि-
पासे शोकातिगो मोदसे स्वर्गलोके ॥ १२॥
अस्मिन्नेव लोके वं समाप्तमहत्त्य इत्येव न किंचित्तितो गतस्य ते
स्थलों के न मयं किंचन किंचिदप्यस्ति । तत्राप्यपरवशः सर्पान्यो मषि.
प्यसि न तत्र वं जरया वार्धकेन बिभेपि मेष्यसि उभे अशनायापि-
पासे अशनस्पान्नस्पेच्छां पिपासां च जलं पातुमिच्छां तीवो शोका.
तिगः स्त्रीपुत्राषित्तविनाशरूपं शोकमतीत्य गत एवं सन्स्वर्ग लोके
मोदसे मोदिप्यसे ॥ १२॥

कठोपनिषत् । इति मृत्युपत्तं वरं वृत्वा पुनरवृणुत- स त्वमग्निं स्वयंमध्येपि मृत्यो प्रवृहितं श्रद्दधानाय मह्यम् । स्वर्गे लोका अमृतत्वं भजन्त एतद्वितीयेन चूणे वरेण ।। १३ ।। हे मृत्यो स त्वमग्निमग्रणी सर्यकारणत्वेनाऽऽदिमूतं स्वयं स्वर्ग विषये साधु साधनं यज्ज्ञानादेव विना साधनेन सर्वलोकमाप्तिरस्ति तमध्येपि स्मरसि जानासीति मया श्रुतमतस्तं स्वर्यमग्निं मे मह्यं श्रद्दधानाया- नन्यभावेन शरणागताय प्रब्रूहि । येन स्वर्येणाग्निना स्वर्गे ब्रह्ममुव- नारये लोकास्तद्रूपविज्ञानिनो जना अमृतत्वं जन्ममरणामावेनापुनरा- वृत्त्या मोक्षं भजन्ते प्राप्नुयन्ति तं मेऽग्निं प्रब्रूहि । इत्येतहितीयेन वरेण वृणे वृणीय ॥ १३॥ इति प्रार्थितः स मृत्युरुवाच- प्र ते ब्रवीमि तदु मे निबोध स्वर्यमनि नचिकेतः प्रजानन ॥ अनन्तलोकानिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥ मते बवीमि प्रबवीमि ते तुभ्यमग्निं स्वयं तदृग्ने रूपमु निश्चयेन मे मम वचनान्निबोध जानीहि । हे नचिकेतस्तं त्वया पृष्टं स्वर्यमग्निं मजानन्पमाननन्तलोकाप्तिं न विद्यमानोऽन्तोऽवसानं यस्य तस्य लोक- स्याऽऽप्ति प्राप्तिं तत्र च प्रतिष्ठां विन्दते लमते । त्वमेतमनिं गुहायां निहितं विद्धि जानीहि । तत्रैव तज्ज्ञानं संमवति न यहिः ॥ १४ ॥ इति प्रतिज्ञाय किं कृतास्तदुच्यते- लोकाप्तिममि तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ॥ स चापि तत्सत्यवद- यथोनमथास्य मृत्युः पुनराह तुष्टः ॥ १५॥ तं लोकाप्तिं स्वर्लोकाहिहेतुमग्निं तस्मै नचिकेतस उवाच । तत्र का गुहा कथं तवायं प्रतिष्ठितः किं तत्रैव तज्ज्ञानं कथं चेत्तवीच्यते । हरपुण्डरीकं पुरमध्यसंस्थमिति नयद्वारत्यादि शरीरं पुरं तस्यान्तर्यद्ध- रपुण्डरीकम, 'अघोनिया वितस्यां नु नाम्यामुपरितिष्ठति ' सेव गुहा अर्थप्रकाशसमेता- १ तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यमिति तदाकाशे सोऽग्निरंशत्वेन वर्ततेऽतस्तत्रैव तज्ज्ञानं तन्मयत्वेनावस्थानरूपोपासना च । अत एवोच्यते तस्य मध्ये वह्निशिसा अणीयोर्चा व्यवस्थिता । नील- तोयदमध्यस्था विद्युल्लेखेव मास्वरा । नीवारशूकवत्तन्वी पीता मास्व- स्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् । इति । यस्पारनेरेवंविधा चिन्मयी शिखा स एवागिर्हत्पुण्डरीकगुहायां प्रतिष्ठितो विज्ञेयः। किं- विधा सा शिखा । अणीयोर्धिमागेऽणीयस्यणूपमा। तत्परं ब्रह्म यावत्तावञ्चिन्मयं न तत्परिच्छिन्नं तत्रात एवोच्यते 'प्रज्ञानं ब्रह्म 'विज्ञानमानन्दं ब्रह्म ''सत्यं ज्ञानमनन्तं ब्रह्म' इति । सर्वमपि पर ब्रह्म चिन्मयमेवास्ति तेन भूलमागे व्यापिका सा शिखा सैव गुणमूलं गुणप्रधानत्वेनाग्रे गुणपरिच्छिन्ना जाता ततो देहयोगेन देहपरिच्छिन्ना ततः करणयोगेन तत्सूक्ष्मद्वारपरिच्छिन्ना वर्ततेऽणीयोर्वा । नीलतोयद- मध्यस्था विद्युल्लेखेव भास्वरा । यथा सजलमेघपटलस्थविद्युल्लेखा मास्वरा भास्वती स्वप्रकाशत्वातेन मार्गादिनदर्शनेन प्रयोजनसिद्धि- करी तथेयमपि प्रज्ञानशिखा स्वप्रकाशाऽप्यज्ञानान्यथाज्ञानजडदेहा- वृताऽपि प्रपञ्चे तद्वद्विषयानुभवकरी व्यवहारोपयुक्ता । तथा प्रयोजनक- यपि न तावत्यतिसूक्ष्मा । कथम्, नीवारशूकवत्तन्वी यथा नीवारशूक- माश्रये स्तम्बे तावदेव वर्ततेऽयमागेऽणूपमं तपेयमप्युक्तमकारेण प्रप- श्वेऽतिमूक्ष्मत्वेन वर्तमाना । पीता प्रपश्चप्रकाशत्वेन रजामंधानत्वात् । भास्वती स्वप्रकाशाऽणूपमाऽतिसूक्ष्मपिपीलिकाधवयवप्रकाशनेन तावती भवति । एवंविधायास्तस्याःशिखाया मध्ये परमात्मा व्यस्थितः। यत्परमा- स्मतत्त्वं तदधिष्ठानसत्रया तस्यां य आरममावस्तदेव तस्मात्स तच्छि. खायां वर्ततेऽत एव तदुपाधिरित्युच्यते । स परमात्मा ब्रह्म ब्रह्मा तद्रजःप्रधानत्वात् । स शिवस्तमःप्रधानत्वात् । स हरिस्तमःपूर्वकसत्त्व.. प्रधानत्वात् । सेन्द्रः स हन्द्रस्तदुपलक्षिताः सर्वेऽपि हिरण्यगर्माशा देवाः स एव ते तवयवत्वात् । एवं सर्वमपि तच्छिसान्तवत्यै- चास्ति । तेन स केवलस्तन्मय एव स्यादतः सोऽक्षरः परमः परमं सर्वोत्कृष्टमक्षरं स एवास्ति तस्य तदुपाधित्वात् । न मुख्य रूपमुपाधि- भवति परं ब्रह्मैव ज्ञेयम् । अतः स स्वराट् तेन रूपेण स्वसत्तया स्वय मेव राजते स्वराद । तस्माद्यत्परं ब्रह्म तदेव मायोपाधित्वादीशस्वरूपं कठोपनिषत् । ४१ प ईश्वर: परमात्मा स एवाग्रेऽग्निवाय्यादित्यरूपेणाऽऽरमानं त्रेधा व्यकुरुत। उक्तं च 'स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीय वायुं तृतीयम्' इति । तेनायमग्निः परमात्मा परं ब्रह्मैवास्त्यतोऽग्रणीः सर्वजगत्कारणं सः। एवंविधा शिखा यस्याग्रस्तस्य परब्रह्मरूपस्याऽऽत्मनो हृदयगुहायां कथ- मनुमवोऽपरोक्षत्वेन । यावत्सा शिखा बहिर्मुखा प्रपश्चज्ञानेन तावन्न तदनुभवस्तया यदा च सर्वसङ्गमुक्तत्वेनाऽऽश्रये तन्मयत्वेनावतिष्ठते तदा परब्रह्मात्मविज्ञान संभवति । तस्माद्बाह्यविषयान्बहिः कृत्वा तत्संब- धिनी तां ततः प्रत्यावर्त्य देहासङ्गत्वेन करणासङ्गत्वेनान्तर्हदये दहरा. काशे नयते चेत्तदा तदृष्ट्या सर्वामावदर्शनं चिदाकाशनिठत्वमात्मनः । तब यथा भावो दृश्यस्तथाऽभावोऽपि । तस्मात्तदनुसंधानत्यागेन तन्निष्ठं ज्ञानं प्रत्यावर्त्याऽऽत्मनिष्ठं कृत्वा ज्ञानाज्ञानान्यथाज्ञाननिरासेन निर्विकल्पत्वेन तन्मयत्वेन स्वसंवेद्यत्वेन स्वप्रकाशवेनावस्थानं सैव सच्चिदानन्दमयी तयैव परब्रह्मानुभवोऽपरोक्षवेन तत्र भवति । एव- मग्निं तस्मै नचिकेतस उवाच यमः । तस्यैर्धेतस्य यज्ञीयस्याग्नेर्या इष्टका लोटमय्यो भृष्टा यावतीर्वा यावत्यो वा यत्संख्याका यथा वा यादृश्यो था, इत्येतत्सर्वं तस्मा उवाच । स चापि नचिकेतास्टदुपदिष्ट- मग्ने रूपं परोक्षत्वेन विज्ञाय यथाविदितं प्रत्यवदत्मत्युदितवान् ॥ १५ ॥ अथानन्तरं मृत्युस्तस्मिन्नचिकेतसि तुष्टः सन्पुनराह- तमब्रवीत्तीयमाणो महात्मा बरं तवेहाय ददामि भूयः। तवैव नाना अयिताऽयमग्निः सृडूकां चेमामनेकरूपां गृहाण ॥ १६ ॥ प्रीयमाणः प्रीयते तप्यतेऽसौ प्रीयमाणः स महात्मा मृत्युस्तं नचिके- तसममवीत् । किं वरं तव तुभ्यमिहाद्यास्मिन्काले भूयः पुनर्ददामि । क. स्तपैर नाना नचिकेतसा विदितोऽतो नचिकेतसोऽयं नाचिकेत इत्यय. मनिमश्तिा मापिण्याति सवा व सृजति सृवर हा मानामिद्धिदा मन्त्रमयीमिमां मया प्रत्तामनेकरूपामनेकानि रूपाण्यनेकवित्तनिर्माणन यस्यास्तां गृहाण ॥ १६ ॥ तं नाचिकेतमग्निं स्तौति स्म- विणाचिकेतरिभिरेत्य संधि त्रिकर्मवत्त- ४२ अर्थप्रकाशसमेता- रति जन्ममृत्यू । ब्रह्मयज्ञं देवमीडचं विदित्वा निचाय्येमा शान्तिमत्यन्तमेति ॥ १७ ॥ त्रिणाचिकेतस्त्रयो नाचिकेता यस्य स बिनाचिकेतः । एते त्रयो नाचिकेता यजुर्वेदे काठपु प्रसिद्धा नाचिकेताः प्रतिपादनेन । यथा मारतानां प्रतिपादनेन भारतम् । स विभिनाचिकेतैर्मविष्यद्धिः संधि परस्परेण संधानमेत्य प्राप्य संधायेत्यर्थः । विकर्मकृत्रयाणां कर्माणि करिष्यति । त्रिकर्मकृत्सअन्ममृत्यू तरति तरेत्तरिष्यति । किंच ब्रह्मयज्ञं ब्रह्मभिदैरिज्यते ब्रह्मयज्ञस्तं देवं दीप्यमानं स्वप्रकाशमीडयं स्तुत्यं विदित्वा निचाव्य च पूजयित्वेमामेवंविधामत्यन्तमत्यन्तामुत्कृष्टां शान्तिमेतीयादेष्यति प्राप्स्यति ॥ १७ ॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्या श्चिनुते नाचिकेतम् । स मृत्युपाशानुरतः प्रणोय शोकातिगो मोदते स्वर्गलोके।।३८॥ य एवमुक्तप्रकारेण विद्वांत्रिणाचिकेतः पुमानेतनयं प्रयोऽवयवा यस्य तनयं विदित्वा नाचिकेतमग्निं चिनुते चिन्वीत नाचिकेताग्निचयनं विदधीत स पुमान्पुरतः पुरस्तान्मृत्युपाशान्मृत्योः पाशान्मणोद्य च्छित्वा शोकातिगः सन्स्वर्गलोके मोदते मोदेत ॥१८॥ एप तेऽमिर्नचिकेतः स्वग्र्यो यमवृणीथा द्वितीयेन वरेण । एतमानि तवैव प्रक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥१९॥ हे नचिकेत एप ते तव स्वार्यः स्वर्ग साधुः स्वग्र्योऽग्निः, पमग्निं त्वं द्वितीयेन धरेणावृणीथा वृतवानसि । एतमनिं नाचि. केतं तवैव स्वामेवान्यनैतत्कालपर्यन्तमविद्यमानत्वात्मपन्ति पृच्छ। करिष्यन्ति जनासो जनाः । अतः परं हे नचिकेतस्तृतीय 'बरें वृणीव ।। १९॥ एवं मृत्युनोक्तो नचिकेता अग्ने रूपं तद्वचनाद्विज्ञायापि लौकिक यादमनमुत्य पमच्छ- कठोपनिषत् । येयं ते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्वियामनुशिष्टस्त्वयाऽहं वराणाभेप बरस्तृतीयः ॥२०॥ येयं मनुष्ये प्रेते विचिकित्सा संशयोऽस्ति । किंविधा सा। अयं मृतोऽस्तीत्येक आहुर्बुवन्ति नायमस्तीत्येक आहुः। इत्येवंरूपा थिचिकि- साऽस्ति । कथं सा । एके लौकिका जना अयमात्मा मृतो देहं त्यक्त्वा गत इत्याहुः । अन्ये विद्वांसोऽस्तीत्याहुः स न जायते म्रियते वा कदाचिन्नायं मृत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽय पुराणो न हन्यते हन्यमाने शरीरे' इति । तदपि सप्रमाणमेव नान्यथे. दमपि च यज्जन्ममरणे प्रत्यक्षत्वेनानुभूयेते तेन गमनागमने अपि। तस्माज्जीवरूपं कथमस्ति गच्छति वा न वा । एतदुक्तविचिकित्सानि- रसनं त्वयाऽनुशिष्टोऽहं विद्यां जानीयाम् । एप मपैवं प्रार्यमानो करा. णां मध्ये तृतीयो वरः । तं मे ब्रूहि ॥ २० ॥ इति प्रार्थनं श्रुत्वा मृत्युरुवाच- देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञे- यमणुरेप धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥ अबास्मिन्विषये त्वत्पृष्टे पुरा पूर्वस्मिन्काले देवैरपि विचिकित्सितं संशयितम् । तद्विज्ञानार्थ महान्यत्नः कृतस्तथाऽपि तेषां न हि सुविज्ञेयं सुविज्ञातुं शक्यमासीत् । आत्मा देहं त्यक्त्वा गच्छतीति चेत्तदा तस्य देहपरिमितत्वं वाच्यं स्विदणुत्वम् । चेदणुस्तस्य शरीरैकदेशाय. स्थायित्वेनेतरशरीरगतमुखदुःखज्ञानं न स्यात् । तेन देहपरिमितश्चेदु. त्पत्तिकाल एव शरीरस्य पूर्णत्वेन माव्यं बालशरीरे तत्पमितत्वेनाये वर्धमानं शरीरं निर्जीव स्यात् । तदेकस्य नानायोनिसंक्रमणं न स्यात् । गजो मज एव पिपीलिका पिपीलिकैवेति जातं नु । अथ व्यापक श्वेत्त- दैकस्य नानाशरीरान्तर्गतत्वेन तत्संबन्धि मुखदुःखज्ञानं संभवेत् । एवं तु न दृश्यते तदा न व्यापकोऽपि । तस्मात्कथं स इत्येतन्न मुविज्ञेयम् । अत एप धर्मोऽयं कथमस्तीति ज्ञानमार्गोऽणुः सूक्ष्मो दुर्योधत्वात् । अत एवोच्यते 'यतो धाचो निवर्तन्ते अप्राप्य मनसा सह ' इति । तस्मा- नचिकेतोऽस्माद्वरादन्यं घरं वृणीष्व । मा मोपरोत्सीर्मा मामुपरो-

अर्थप्रकाशसमेता-
-
सीर्मा मदुपरो) कार्पाः । अति मा सजैनमेनं वरमार्थनेनोपरुद्धं मा
मामतिगृजातिमुश्च ।। २१ ॥
इत्येवं प्रत्याख्यानं श्रुत्वा नचिकेता उथाच-
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो
यन्न सुज्ञेयमात्य । वक्ता चास्य स्वागन्यो
न लायो नान्यो वरस्तुल्य एतैश्च कश्चित् ॥ २२॥
देवैरप्यत्र विचिकित्सितं किल सत्यं कुतः हे मृत्यो यत्वं च न मुझे-
यमात्थ बबीपि तस्माद्विचिकित्सितमेव सत्यं अस्य च परस्य वक्ता
तात्वत्समो न लभ्यो नास्त्धेध चेदेतं घरममुविज्ञानं मयाऽन्पो वर
प्रार्थनीयस्तहिं न च कश्चिदन्यो पर एतैरेतेन वरेण तुल्योऽस्ति । अतः
स्त्वमेव ज्ञाताऽसि तं मे ब्रूहि ॥ २२॥
इत्युपरोधं श्रुत्वा पुनर्मुत्पुरुषाच-
शतायुपः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्ति-
हिरण्यमश्वान्। भूमेहदायतनं वृणीष्व स्वयं
च जीव शरदो यायदिच्छसि ॥ २३ ॥
शतं शतवर्षपर्यन्तमायुर्येषां ताञ्छतायुपः पुत्रपौवान्पुवान्पौत्रांच
वृणीष्व । तथा बहून् पशून्हस्तिहिरण्यं हस्तिनो हिरण्यं च बहश्चश्चि
यहून्भूमेः संघन्धि महबृहदायतनं स्थानं क्षेत्रादिरूपं वृणीष्व । स्वयं च
खं च यावजीवितुमिच्छसि तावती: शरदो वर्षाणि जीव ॥ २३ ॥
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिर-
जीविका च । महाशमी नचिकेतस्त्वमेधि
कामानां त्या कामभाजं करोमि ॥ २४ ॥
यदि त्वमेतत्तुल्य मेतेन वरेण तुल्यमन्यं वरं मन्यसे तर्हि तमन्यं परं
वृणीष्व हे नचिकेतस्त्वं महाभूमौ महत्यां भूमौ स्वर्गरूपायामधि नियस
तत्र कामानां कामयन्त इति कामास्तेषां कामयितणां मध्ये त्या त्या
काममाज काममतिशयितं भजति काममाक्तं करोमि ॥ २४ ॥

४५ कठोपनिपत् । ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामां- श्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः॥२५॥ ये ये कामा मर्त्यलोके मनुष्यलोके दुर्लभाः सन्ति तान्सर्वान्कामा- श्छन्दत इच्छातः प्रार्थयस्व याचस्व । तथेमा रामाः स्त्रियः सरथाः सह रथैः सरथा रथारूढाः सतूर्याः सह तूर्यैः सतूर्याः प्रार्थयस्व । न हीदृशाः त्रियो मनुष्यैर्लम्मनीया लमनीया लब्धं शक्याः । अतस्ताः प्रार्थ- यस्व ॥ २५॥ आभिमत्मत्ताभिः परिचारयस्व नचि- केतो मरणं माऽनुपाक्षीः ॥ २६ ॥ आभिः प्रत्यक्षाभिर्मत्पत्ताभिर्मया प्रत्ताभिः स्त्रीभिरात्मानं परिचार. यस्वाऽऽत्मपरिचयाँ कारय । हे नचिकेतस्त्वं मरणं माऽनुपाक्षीर्मा मर- णानुप्रश्नं कार्षीः । यतस्तज्ज्ञानं परमाणुतुल्यमेव ॥ २६ ॥ इति मृत्युवचनं श्रुत्वा पुनर्नचिकेता उवाच- श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्व जीवितमल्पमेव तवैव वाहास्तव नृत्तगीते ॥ २६ ॥ हेऽन्तक मृत्यो यदेतत्प्रत्यक्ष सर्परनुमूयमानं श्वोऽपरेधर्मवितारो मावा अद्यतनं मर्त्यस्य मनुष्यस्य सर्वेन्द्रियाणां सर्वेषां श्रोत्रादीनां वागादीनां चेन्द्रियाणां तेजो जरयन्ति जीणं क्षीणं कुर्वन्ति । एवं प्रत्यहं जरणेनान्ते केवलक्षीणं भवत्यतः का तत्र विनश्वरेऽत्यासक्तिः । अल्पकालजीविन एतदुक्तं, भवतु बहुकालजीविना तु किं न ते प्रार्थ- नीया इत्यत्राऽऽह-सर्वमपि पूर्णमपि जीवितं जीवनमिहत्यममुन्नत्यं चाल्पमेव स्वतो महतामुपरिष्टाद्वर्तमानानां जीवितस्य भूयस्त्वश्रवणात् । अतस्ते वाहा अश्वप्रमृतयस्तवैव त्वदीया एव सन्तु तथा नृत्तगीते नन- गाने तवैव स्ताम् ॥ २६ ॥ न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे

४६
अर्थप्रकाशसमेता-
वित्तमद्रांक्ष्म चेत्त्वाम् । जीविष्यामो यावदी-
शिष्यसि त्वं वरस्तु मे वरणीयः स एव॥२७॥
न मनुष्योऽहं वित्तेन तर्पणीयः । कुतः। चैत्वामद्राक्षम दृष्टवन्तो वयं
तर्हि वित्तं लप्स्यामह एव का तस्य दुर्लभता । अतो न वित्तेन मनुष्य.
स्तर्पणीयः । यावत्वमीशिष्यस्थस्माकमीशिता रक्षिता भविष्यसि ताब-
ज्जीविष्याम एव वयं का तबाचिरजीविश्वशङ्का । तु परंतु मे मम स
एव प्रार्थितो वरो वरणीय इत्यध्यवसायः ॥ २७ ॥
इति नचिकेतसो वचनमाकर्ण मृत्युरुवार-
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः कध-
स्थः प्रजानन् । अभिध्यायन्वर्णरतिप्रमोदा-
नातिदीर्घ जीविते को रमेत ॥ २८॥
जीर्यतीति जीर्यन्वयोहानि प्राप्नुवन्मयों मनुष्यः । वयस्थो कुः
पृथिवी तपेऽधोऽधरप्रदेशे स्थितः प्रजानन्धकर्षणासंदिग्धतयाऽऽस्मनो
जीर्यत्वं मयत्वं वधस्थत्वं च जानन्दैवयोगेनाजीयतां न जीर्यन्त्यजी.
र्यन्तस्तेषां निर्जरसाममृतानाममरणानामजीर्यतोऽमृतान्स्वरुपरिष्टास्थि-
तान्समुपेत्य संप्राप्य तेषाममृतानां वर्णरतिप्रमोदान्वणं विशिष्ट
रति च प्रमोद चाभिध्यायन्नभिचिन्तयन्कोऽतिदीर्घ देवशतसंवत्सरपर्यन्तं
जीवितेन रमेत रमतय । अतस्तथा जीवितं तथा वर्णरतिममोदान्मार्थ-
यस्व ॥२८॥
इति मृत्युवचनं श्रुत्वा पुनर्नचिकेता उवाच-
यस्मिन्निदं विचिकित्सितं मृत्यो यः
सांपराये महति ब्रूहि नस्तत् ॥ २९ ॥
हे मृत्यो इदं प्रत्यक्षं यस्मिन्विषये विचिकित्सितं देवादिमिः । यश्च
वरो महति सांपराये संपरेत्यत्र संपरायो मरणं संपराय एव सांप-
रायस्तस्मिन्वर्तते । उक्तं च त्वया मरणं माऽनुमाक्षीरिति । तत्तमेवं वरं
नोऽस्मभ्यं ब्रूहि ॥२९॥

१७ कठोपनिषत् । इति नषिकेतसो वचनमाकर्ण्य मृत्युरुवाच- यं यं वरं गूढमनुपविष्टो नान्य तस्मानचिकेतो वृणीते ॥ ३० ॥ हे नचिकेतः पुरुषोऽयं परमुत्कृष्टं गूढ भावमनुप्रविष्टोऽनुमाप्तस्तस्मा- दन्यं वरं न वृणीपे । अतः परं तं तुभ्यं ददामि ॥ ३० ॥ इति श्रीमदादिगुरुदत्तात्रेपदिगाम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थप्रकाशे प्रथमा वल्ली व्याख्याता ॥१॥ इति तद्वचनादभिप्राय विज्ञायायं सच्छिप्य उपदेशाह इति मत्वा भीत: संस्तदधिकारस्तुत्पथं मृत्युरुवाच- अन्यच्छ्रेयोऽन्यदुतैय प्रेयस्ते उसे नानार्थे पुरुष सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाय उ प्रेयो वृणीते ॥ १ ॥ श्रेय उक्तकर्माचरणमन्यदस्ति प्रेयसः । उतेव च प्रेयोऽपि स्त्रीपुत्रवि- त्तादिपदार्थरूपमन्यच्छे यसः । ते उभे श्रेय प्रेयसी नानार्थे भोगसाधनभूते पुरुपं सिनीतो बनीतः । तत्र प्रेयोऽहंममत्वयोगेन श्रेयस्तूक्तफलवास- नायोगेन । तथाऽपि श्रेय आददानस्य साधु शोमनं भवति । य उ यश्च यो वृणीते सोऽर्थात्परमार्थाद्भोगसाधनरूपाच्च हीयते त्यज्यते तस्मादहं- ममत्वपरित्यागेन प्रेयो हित्वा श्रेय एवाऽऽचरणीयम् । ननु ते उभे पुरुष सिनीत इत्युच्यतेऽतः श्रेयसोऽपि त्यागः किं न विधेयः । न, तदाचरण- प्रवृत्तिनिमित्तभूता रोचनार्था फलश्रुतिः । अतस्तत्यागेन कृतं कर्म मोक्षोपयुक्तमेवास्ति । चेत्तद्वासनायोगेन कृतं तेन प्रेयस उपलब्धि तथा श्रेयः परित्यज्य प्रेयोवलम्बनेन किंचित्प्रयोजनं श्रूयते । तस्मा- त्तयोः सांसारिकैः श्रेय एवाऽऽदावाचरणीयम् ॥१॥ श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विवि ५ । अर्थप्रकाशसमेता- नक्ति धीरः। श्रेयो हि धीरोऽभि प्रेयसो गीते प्रेयो · मन्दो योगक्षेमावृणीते ॥ २ ॥ एतदुक्तं श्रेयः प्रेयश्च मनुष्यं सांसारिक सिनीतः । अतो धीरो धत्त चिस विवेकयोगेन धीरस्तो श्रेय प्रेयौ बन्धौ संपरीत्य संपरीक्ष्य विवि. नक्ति पृथग्विमाजयति कथं कर्म नविविधमेकं नियतं नित्यं नैमित्तिकं चान्यकाम्यम् । तत्र काम्यं स्वर्गसंसारमदत्वेन बन्धस्याऽऽपादकमेवात- स्त्याज्यं श्रूयते च तथा 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः' इति । नियतेऽपि या फलश्रुतिः श्रूयते सा प्ररोचनार्थैव । अतः सा फल- वासना त्यापैव मोक्षप्रतिवन्धकत्वात् । न कर्मात एवोच्यते 'स्वकर्मणा तमभ्यर्थ सिद्धि विन्दति मानवः । कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति । स्त्रीपुत्र वित्तादिरूपं प्रेयस्तु सांसारिकमेवास्ति । एवं विविच्य धीरः प्रेयसः प्रेयः परित्यज्य श्रेयो हि श्रेय एष मोक्षोपयुक्त कर्माभिवृणीते । मन्दोऽल्पबुद्धिर्विषयासक्तो योगक्षेमाद्योगक्षेममपेक्ष्य भेयो वृणीते स तेन सितो भवति ॥२॥ अथ त्वं कथम्- सवं पियाप्रियरूपांश्च कामानभिध्यायन्नचि- केतोऽत्यस्राक्षोः । नैतां सृकां वित्तमपीम- वातो यस्यां मजन्ति बहवो मनुष्याः ॥ ३ ॥ हे नचिकेतः स एवं श्रेयः प्रेयसो विविक्तवांस्त्वं नियामियरूपान्म- न्दस्य प्रियरूपान्धीरस्यापि प्रियरूपान्कामान्काम्यन्त इति कामा विप- यास्तानभिध्यायन्नभिचिन्तयन्नत्यनाक्षीरतिसृष्टवानतिमुक्तवान् । तदे. याऽऽह नैतां पुरोवर्तमानां मृकां सिद्धिरूपां वित्तमयीमनेकवित्तमचुराम- पातो वृतास्त्वम् । यस्यां सङ्कायां सुकृतातिशयलब्धायां बहवो मनुष्या मज्जन्ति निमना भवन्ति । त्वं तु पासायामपि निरपेक्षः ॥ ४ ॥ दूरमेते विपरीते विपूची विद्यया चावियेति. ज्ञाता । विद्यामभीप्सिनं नाचिकेतसं मन्ये न त्या कामा बहवो लोलुपन्तः ॥ ४ ॥ एते श्रेष:प्रेयसी अनुकूलत्वेनाऽऽभासमाने अपि विपरीते प्रतिकूले एव तथा , - कठोपनिपत् । ४९ स्तः कथं प्रियं तद्भोगावसरेऽनेकविधसुखजनकं तथाऽपि न मन्तव्यं दुःखरूपमेव सर्वदुःखमूलक्लेशसाध्यत्वात् । तथा पालनेऽपि महदुःखमेवास्ति राजचोरमयशङ्कायोगेन । तद्विनश्वरं च विनष्टे मह- दुःखं यावदायुः । तथा श्रेयोऽप्याचरणे महद्दुःसमेवास्ति । काम- नायोगेन स्वर्गप्राप्तिकरं साऽनित्या । उक्तं च 'क्षीणे पुण्ये मृत्युलोकं विशन्ति' इति । तेन तद्वियोगे दुःसमेवातितराम् । संसारमाप्त्या वर्तमानकालेऽपि तत्क्षयमीतिशङ्का । तस्मात्ते दुःसमूलत्वेन विपरीते एव । पुनः किंविधे दूरं विषूची विष्यश्चतो विपूची । नानेनैव देहनाऽत्म- नोऽनयोः सङ्गो दूरं बहुकालमन्येष्वपि देहेषु बन्धनमूते एव स्तःव(?)। विद्यया विवेकेनाविद्याविद्यारूपे आत्मनो बन्धके इति ज्ञाताज्ञाते (2) । अतस्त्वां नचिकेतसमविद्यापरित्यागेन विद्यामीप्सिनं विद्यां परविद्या- ममीप्सस्यभ्यामुमिच्छसि विद्यामीप्सिनं मन्ये । न त्वा त्वां यहवः कामा लोलुपन्तो लोलुपन्ति भृशं विमोहयन्ति । अतस्ताननपेक्ष्य विद्याममीप्ससि ॥ ४॥ त्वदन्ये तु- अविद्यायामन्तरे वेष्टचमानाः स्वयमधीराः पण्डितंमन्यमानाः । दन्दह्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ ५ ॥ अविद्यायां न विद्याऽविद्याऽज्ञानप्रधाना जीवप्रकृतिस्तस्यां वर्तमानाः फिमाधेयाधिष्ठानमावेन । अन्तरे मध्ये तयाऽऽवृताः । न केवलं तदेवक- मावरणम् । वेष्टयमानास्तद्गुणैस्तरकायैश्च देहेस्तरसमवेन च कर्मत्रयेण वेष्टिता आवृताः । नन्वविद्यावरणं कस्य पूर्णस्य या चैतन्यस्य प्रतीची घा वाच्यम् । न पूर्णस्यानन्तत्वात्। न परिच्छिन्नतयाऽनन्तं तदावर्तयितुं शक्यम् । चेत्पतीच एव । न तस्य तकृतत्वात् । सत्यमधिष्ठानयोगे शुद्धचित्मकृतौ य आरममावः स प्रत्यगात्मा तस्मात्स कथं न तयाऽऽ- घृतः। तेन स्वयमधीरा अविवेकिनोऽप्यात्मानं पण्डितमन्यमानाः। केयलेन शास्त्रीयेणैव ज्ञानेनाऽऽत्मनि कृतकृत्यत्वं मन्यमानाः। तथा परिदह्यमाना. विविधतापयोगेन पुनः पुनर्भृशं पीड्यमानाः । परियन्ति परितो गच्छन्ति । काम्यकर्मयोगेणेहामुन चाकर्मविकर्मयोगेण मानायोनिपु अर्थप्रकाशसमेता- भ्रमन्ति कथम, . यथाऽन्धेनैष नीयमाना गन्तव्यं प्राप्यमाणा अन्धाः परियन्ति तेन वृथा भ्रमणेनाऽऽत्मविनाशमेवापियन्ति । तथा स्वयमविवे- किनो यज्ज्ञानेन कृतकृत्यत्वं मन्यमानास्तज्ज्ञानमप्यन्यथाज्ञानमेवाब्रह्म- विद्भिः कृतत्वादतो न तेषां संसारभ्रमण निवृत्तिः ॥५॥ किमेपां बुद्धिस्तेषां तदाह- न सांपरायः परियन्ति पालं प्रमायन्तं वित्त- मोहेन मूढम् । अयं लोको नास्ति परेति मोचि पुनः पुनर्वशमापद्यते मे ॥ ६ ॥ बालं बालघुद्धिवादत एव प्रमाद्यन्तं प्रमाद्यति प्रमादमसावधानता प्राप्नोति प्रमाद्यंस्तं वित्तमोहेन वित्ते यो मोहस्तेन मुढ प्रति न सांप- रायो माति । इदं शरीरं प्रारब्धकर्ममोगार्थमवलम्बितं तेन तत्प्रवाहे पतितमस्थाप्यने मृत्युरागत इति न विजानाति तद्भयं त्यक्त्वाऽहममत्व- योगेन न(?)परिग्रहेऽत्यासतो नानाविषयभोगे रतः काम्पनिपिद्धकर्मा- चरणशीलः । यद्वा मृत्युभयं मन्द्रयं चान्यायाचरणशीलस्याहं दण्डकोऽ- स्मीति न माति । तेन यथेच्छाचरणशीलः । विवेकिनं प्रति मात्येवातः स तथा ज्ञात्वां न सज्जते । तस्य मूढस्य प्रेत्य गतस्य पुनरयं मानुपी लोको नास्ति तत्पापककर्मामावाद्धीनतर एवास्ति यथाकर्म । उक्त चान्यत्र 'हीनतरं वा विशन्ति' इति । यस्मादयं लोको नास्ति तस्मा- त्परः परो लोकोऽस्तीति मोचि मा वाचि न वक्तव्यम् । स पुनः पुनः प्रतिमरणान्ते मे मम वशमापद्यते प्रामोति । तदसत्कर्मफलभोगाय । त्वं स्वविद्याया बाह्यस्तद्विज्ञानाधिकार्यतस्तं प्रार्थितं वरं तृतीयं ब्रवीमीति मन्दनिन्दा ॥ ६ ॥ येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीत्येक इत्यत्र स आत्मा किंविधोऽस्ति तच्छृषिवत्याह- श्रवणायापि बहुभिर्यों न लक्ष्यः शृण्वन्तोऽपि बहवो यं न वियुः।आश्चर्यों वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥ यः पूर्वोक्त आत्माऽयमस्तीत्येके नायमस्तीति चैक आहुः स बहुमि.

कठोपनिषत् ।। ५१ नानाविधस्तदुपपादकैदशास्त्रार्थरूपैस्तदुपपादकानेकाचार्योदितवचनैः श्रयणायापि श्रोतुमपि न लग्यो लब्धं शक्यः । यथा कस्यचन पदार्थस्य श्रवणेन परोक्षत्वेन ज्ञान संमवत्युपपादनाय च न तथाऽनुपमेयस्यास्य साकल्पेन परिक्षानं संमवति । कथम्, अयमात्मा निरुपाधिनिर्गुणः शुद्धोऽसङ्गो निर्विकारः परिपूर्णश्चिदानन्दमय इत्युपपाद्यते । तत्र पन्नि. रुपाधिरित्युक्तं तदुपाधेरत्यन्ताभावेन । चेत्तथा तदात्यन्ताभावरूपस्य न नामरूपगुणकर्मधर्मसंमवः स त्यवगम्यते तस्मान्न स तथा वक्तुमर्हः । तस्मिन्वर्तमानेऽपि स निरुपाधिरिति चेत्तदात्मनोऽनन्तत्वात्कुत्रावस्थान तस्योन्येत । स तत्रैव वर्तमानोऽप्यनिर्वचनीयत्वेन विवर्तरूपो न विव. तस्पाधिष्ठानदृष्ट्या भानमतो निरुपाधिरिति चेन्न विवर्तस्यात्यन्ता- भायो यक्तुं शक्यः स्वसिद्धान्तविरुद्धत्वात्तेन तदृष्ट्या मासमानोऽपि स तत्रैवास्ति तदधिष्ठानत्वात् । तस्य शुद्धं रूपं निर्विकल्प प्रज्ञानं तत्स्वगतं तेन परं ब्रह्म नित्यं चिदानन्दमयम् । उत्पत्तिकाले तथा. विधस्य स्वगतस्य तस्यावलम्बोऽपि मवति । अत एवोच्यते 'तपसा चीयते ब्रह्म' इति । किं तत्तप इति चेत्तत्रैवान उच्यते 'तस्य ज्ञानमय ' इति । तस्माकथं तच्छास्त्रनिर्दिष्टनिरुपाधिकरवं विज्ञेयम् । नास्तीति वक्तुमनुपपन्नं तथा निर्गुणत्वमपि दुर्योधमेव । कथं यद्गुणानां लयोद्भवमूलं प्रज्ञानं तत्स्वगतं तेन परं ब्रह्म चिन्मयमतस्तद्वपमेव तत् । अत एवोच्यते 'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म, सत्यं ज्ञानमनन्तं ब्रह्म' इति । यथा प्रभा रत्नस्यैव तदपृथगूपाऽतस्तया तदे. वास्ति तदा तस्यां वर्तमाना कथं न रत्नस्य तस्मात्तैस्तदेवाऽऽख्यायते न केवला प्रमा तथाऽत्रापि चित्संभवा गुणा ब्रह्मसंमवा एव तेन न स सगुण एवेति ज्ञायते तत्र कथं तस्य निर्गुणत्वं ज्ञेयम् । अथ स शुद्ध इत्युच्यते तत्र किं मलं तदभावेन शुद्धत्यमुपपानीयं तस्य मायाऽवि. द्योपाधिस्तद्गुणा एवेति चेत्तदा तस्य सर्वस्यापृथक्सिद्धत्वात्कथं तच्छु- द्धत्वं विज्ञेयम् । तथाऽसङ्गत्वमपि नित्यं प्रकृतिगुणयुक्तस्य ताकृतदेहाय- स्थायोगस्तेन प्रपञ्चस्याप्यत एव तन्निरासोऽपेक्ष्यते तदर्था च सद्गुरु. प्राप्तिस्तस्मात्कथं तत्तथा । एवं निर्विकारत्वमपि तस्यामुबोधम् । चरस तथैव तदा प्रज्ञानावलम्बनेन तच्छुद्धसत्त्वगुणप्रधानत्वेन शबलं किं जातं तथा गुणनिमित्तेनाव्यक्तादिसर्वसृष्ट्याकारेण किं विकृतं ज्ञेयम् । उपाधिरेव न विकारस्य सदसद्रूपत्वान्न केवलः स एव विकृतो मन्तव्य. तपः ५२ अर्थप्रकाशसमेता- , स्तेन सह स एव विकृतो दृश्यते श्रूयते च 'अयमात्मा ब्रह्म' इति तस्मात्कथं स निर्विकारः । एवं परिपूर्णत्वमपि श्रवणाय न लम्यते । यत्पूर्ण तस्य न निराकारत्वं समवति तदमाचे सर्वगते तस्मिन्सर्वस्या- स्यावकाशः कुतः पूर्ण तद्विषयरूपं सलिलवत्तेन करणगोचरः स्यात् । तस्मादपूर्ण निराकारमेव चेत्तहि पूर्णत्वेनोच्यते 'पूर्णमदः पूर्णमिदम्र इत्यतो न तथा तद्विज्ञातुं शक्यम् । अथ चिदानन्दमयश्चेत्तदा ज्ञातृ- ज्ञानज्ञेयभोकृमोगभोग्यप्रसङ्गो मवेत् । तदा कथमनन्तो निर्विकल्प: सः। तदमावे कथमानन्दानुभवः । कथं चाऽऽश्रयेण विना ज्ञानम् । तेन तस्य तदपि दुर्बोधमेव । एवमनुपमेयत्वेन वागगोचरत्वाच्छ्रवणायापि न लभ्यः । अत एव शृण्वन्तोऽपि बहवो यमात्मानं न विद्युन विजानी- यस्तच्छ्रवणस्य दुर्योधत्वात् । तर्हि किं तदुपपादनश्रवणाभाव एवेति चेत् । अस्याऽऽत्मनो वक्तोपपादक आश्चर्य आश्चर्यरूप एव । कथम्, अयं निरु- पाधिको निर्गुणोऽसङ्गो निर्विकारः परिपूर्णश्चिदानन्दमयोऽपि सोपाधिक: सगुणो देहावस्थावान्सविकार एवं सर्वाकारोऽपि निराकारो निराकार- सकारः परिपूर्णोऽपि गगनवदसङ्गो निराकारश्चिन्मयोऽपि ज्ञातृत्वादि- मावशून्यो नित्यानन्दमयोऽपि मोक्तृत्वादिभावरहित इत्याश्चर्योपपादन- योगेन वक्ता चाश्चर्योऽप्याश्चर्यरूप एव । तथा योऽस्याऽऽत्मन उपपाद- नस्य लब्धा स कुशलोऽतिचतुरः । यः प्रज्ञाधारणावान्स एवाधिकारी न मन्दप्रज्ञः। अस्याऽऽत्मनो ज्ञानात्मन्यात्मत्वेनापरोक्षतया विज्ञाताया. श्वर्यस्तथाऽन्तःक्रियायोगेण । किंविधः सः । कुशलेनापरविद्यापारावारे- णापि परविद्योपदेशेऽतिनिपुणेन सर्वज्ञेनाऽऽचार्येणानुशिष्टः कृतानु. शासनः ॥७॥ यस्मादेवं तस्मात्- न नरेणावर प्रोक्त एप सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यमोक्ते गतिरत्र नास्त्यणीयान्यतय॑मणुप्रमाणात् ॥८॥ एप प्रकृत आरमा नरेण मनुष्येणाषरावरेण निकृष्टेनानधिकारिणा सांसारिफेणानिवृत्ताविद्यापरणेन बहिर्मुखेण शाखतः परोक्षणवाऽऽत्म- नाऽऽत्मविचारपरिज्ञानिना प्रोक्तः प्रकर्पणातिशयेन नानायुक्तिविवादन

न
कठोपनिपत् ।
५३
बहुप्रकारेणोक्तः शिष्येणापि बहुधा बहुविधेन नित्यं रहसि विचिन्त्य-
मानस्तच्छ्रवणानुरूपमनननिदिध्यासयोगेनापि न सुविज्ञेयः शोमनप्रका-
रेणापरोक्षत्वेन विज्ञातुं शक्यः । तस्यापरोक्षत्वेन विज्ञानं चतुर्विधा.
विद्यानिरासेनैव सा गुरोरेवानिरस्ता तदा कुतः शिष्यस्य तन्निरासस्त-
दमाघे कुतोऽक्षरज्ञानमतस्तेषां स उपदेशव्यवहारो व्यर्थ एष । अनन्य-
प्रोक्त नान्यः प्रोक्तेऽविद्यानिरासे नापरोक्षतयाऽऽत्मन्यात्मत्वेन तत्त्वविद
सर्वज्ञ श्रीसद्गुरुं विना ज्ञातुमशक्येऽवाऽऽत्मनि संसारिणां गतिर्याथार्य-
नोपदेष्टुं प्रवक्तुमपि च नास्ति । किम् , एपोऽणीयान्यतिसूक्ष्मः ।
पापा गृह्यते यतो थाची निवर्तन्ते । अपाप्य मनसा सह गुण-
कार्यत्वात् । तथा बुद्धेः परोऽतस्तपाऽप्पग्राह्यो रजःप्रधानत्वात् ।
पं प्रज्ञानं न वेद ज्ञातृमावेनातोऽणीयान्हि । अणीयस्त्वेन भौतिकाणु-
कल्पः स्यादत उच्यते । यदणु भौतिकं तत्प्रमाणाद्यद्यपि प्रत्यक्षं न
मवति तथाऽप्यन्यः प्रमाणैस्तस्य तर्कयितुमहं तेन मनःप्रभृतिमिाां
नायं तथा प्रमाणगम्यः कर्तृकरणप्रज्ञानागम्यत्वात् । स्वप्रकाशस्य
चिन्मयस्याऽऽत्मनो ज्ञानं स्वसवेद्यत्वेन स्वप्रकाशत्वेन चैवास्ति ॥८॥
नेपा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव
सुज्ञानाय प्रेष्ठ । यां त्वमापत्स्यस्पतिधतिर्ब-
तासि त्यादृड्नो भूयान्नचिकेतः प्रष्टा ॥९॥
हे प्रेष्ठ प्रियतम । नचिकेतोऽन्येनैव पूर्वोक्तावरनरारकेनचित्सुज्ञेन
फारुणिकेन सदाचार्येण देवाल्लब्धेन सुज्ञानाय शोमनप्रकारेणापरोक्ष-
तपा ज्ञातुं प्रोक्ता मतिर्विवेकस्तेन शिष्येण तर्फेण मोक्षानुपयुक्तमेद-
परशास्त्रश्रवणजनितेन कुवादेन नाऽऽपनेया न तिरस्करणीया । यतोऽ-
नेकजन्मकृतनिष्कामसत्कर्माराधितपरमेश्वरप्रसादलम्या सा । श्रद्धया
संग्रहीतव्यैव नोपेक्षणीया । दुःखसागरसंसारोद्धरणहेतुत्वात् । तां मति
त्वमापत्स्यस्यापत्स्यसे प्राप्स्यसि मत्प्रसादात् । कुत इत्यत्र बतेति सन्तो-
पेणाऽऽमच्याऽऽह-यतस्त्वमतिधृतिरत्यन्ता धृतिर्धेय यस्य स तथाऽसि
मया बहुधा परीक्षितो न चलितोऽसि तस्मादाप्स्यसि हे नचिकेतस्त्वा.
दृक्त्वत्सदृशः प्रष्टा प्रश्नस्य कर्ता नो भूयान्न बहुतरस्त्वमेको दृष्टः ॥९॥

अर्थप्रकाशसमेता- तत्स्तवनायेदमुच्यते- जानाम्यहं शेवधीरित्यनित्यं न ह्यधुवैः पाप्यते हि ध्रुवं तत् । ततो मया नचिकेतश्चितोड- निरनित्यैईव्यैः प्राप्तवानस्मि नित्यम्॥ १०॥ शेवधीः शेवधिनिधिरनित्यं यस्त्वित्यहं जानामि द्रव्यादिपदार्था अनित्या इति किं तत्कारणं निधिरनित्य एव सर्वस्यापि कालप्रवाहे पतितत्वात् । नहि नैवाचवैरनित्यैः संगृहीतैस्तद्धवं वस्तु परमार्थसंज्ञ प्राप्यते । ननु ध्रुवं तदेकमेव तदपरं सर्वमध्रुवमेवास्ति तदा तत्माप्तिः केन ध्रुवेणैव कथं च । ध्रुवं तदक्षरं ब्रह्म तदेव मायोपाधित्वादीश्वरस्व- रूपं कर्मोपासनादिभिराराधितः स परमात्मा गुरुरूपेण शिष्यं प्रति भकटो भवति तत्प्रसादाद्धवसंमाप्तिः । ननु यद्गुरुरूपं तन्मयमेव कथं तेनाचवेण ध्रुवसंप्राप्तिः । गुरोर्मुख्य रूपमुपदेशपरं तत्किं स्थूलं या सूक्ष्म जीवरुपं न स्थूलं जडत्वान्न च जीवरूपमपि विनाऽपरोक्षात्मतत्त्व- विज्ञानं कुतस्तस्प गुरुत्वमतो योऽपरोक्षत्वेन परब्रह्मात्मविज्ञानेन नित्यं स्वरूपनिष्ठावान्स एव गुरुत्वाहः । स निजानन्दमयता निर्विकल्पता परित्यज्य शिप्पचोधाय चित्प्रकृतिमाश्रित्य स्वायि- स्मरणेनैव तत्परं तत्त्वं शिष्यं बोधयते तत्प्रसादात्तदुपलब्धिश्चास्य भवति तदा यत्सञ्चिदानन्दरूपं परं ब्रह्म ध्रुवं तदेव गुरुरूपं विजानीयात् । तेन स्वगतप्रज्ञाप्रकाशेन तत्स्थूलमपि व्याप्तं दृश्यते परापरविद्याप्रकाशनेना. तत्सङ्गन तदपि चिन्मयमेवास्ति । तदा सर्वदा स्वानन्दसंतृप्तत्वात्तदान- न्देन व्याप्तोऽयं तस्य देहः परब्रह्मानन्दमयः । तेन परब्रह्मरूपेणान्वित- त्वात्तद्वपदर्शनेन च बह्मरूपोऽप्यतस्तेनाक्षरसंप्राप्तिर्मवति नान्येन । न कर्मोपासनादिनाऽऽराधितः स ज्ञानं ददाति तदा तदपि साधनरूपमेव ध्रुवोपलब्धये सत्यं, न साक्षाद्धृवसंप्रापकं परम्परयाऽस्त्येव । यस्मादेवं मानित्येन नित्यसंप्राप्तिः । ततस्तस्मान्मया हे नचिकेतोऽनित्य परनि. त्पदव्यत्ययेनानिः सोपाधिकः परमात्मा चितः। आराधनेन चितः संगृहीतस्ततस्तत्मसादान्नित्यं वस्तु परमार्थसंझं प्राप्तवानस्मि ॥ १०॥ . तथा त्वमपीत्याह- कामस्याऽऽनि जगतः प्रतिष्ठां तोरनन्त.

कठोपनियत् । मायस्य पारम् । स्तोमं महदुरुगायप्रविष्ठां न त्वं धृत्या धीरो नचिकेतोऽत्यस्राक्षीः॥ ११ ॥ कामस्याऽऽप्तिं काम्यते कामस्तस्याऽऽप्तिं काम आप्यते प्राप्यतेऽन. याऽऽप्तिस्तामाप्ति कामाप्तिरूपं यत्प्राप्त्या सर्वऽपि कामा आप्यन्ते स्वभा. चात् । अत एवोच्यते ' सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इति । कथं ब्रह्मणा सर्वकामाप्तिरिति चेत्तत्रोच्यते 'एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति अंशिनःप्राप्त्यांशप्राप्तिः स्वमावाजातैव । तस्मादुक्तं सर्वकामाप्तिरूपमिति । जगतः स्थूलसूक्ष्मरूपत्य प्रतिष्ठामधि- धानभूतं स्थित्युद्भवलयकारणत्वात् । नोत्पत्तिकाले कारणात्कार्य पृथ. गेवोत्पद्यते तस्य सहचरत्वाद्धटेषु मृदिव । अत उक्तं 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्, । स्थितिकालेऽपि कार्यजातस्य सर्वस्य कारण एव स्थिति दृश्यते तन्तुविनाशे कुतः पटस्थावस्थानम् । लयोऽपि कारणानुक्रमेण सर्वसाम्यान्तर्गतं भूत्वा पर एवावतिष्ठते। तेन जगतः प्रतिष्ठाभूतम् । क्रतोस्तस्यापि प्रतिष्ठाभूतं तथा स्मर्यते च तस्मात्स- र्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्'। केन रूपेणेति चेत् 'ब्रह्मार्पणं ब्रह्म हवि. ब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ' इति । अनन्तं सर्वगतम् 'तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य ' इत्युक्तत्वात् । अमयस्य पारं भयाभावोऽभयं तस्य पारमन्तः । अमयं तद्भयसापेक्षितं द्वितीपादै भयं भवति । यत्र दैतमेव वस्तुतो नास्ति तत्र कुतो मयामये। स्तोमं वेदादिभिः स्तूयते तत्स्तोमम् । एप भूतपतिरेप भूतपालः स सेतुर्विधरण एपां लोकानामसंभेदाय सर्वस्येशान: सर्वस्याधिपतिः सर्वमिदं प्रशास्ति 'भीपाऽस्माद्वातः पवते भीपोदेति सूर्यः । 'महन् महतोऽपि महीयांसम्' अत आम्नातं 'यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तस्मादेवोरुगायम् । उरुभिर्महद्भिर्गीयते तत् । अथात आदेशो नेति नेतीत्यात्माऽगृह्यो न हि गृह्यते, अस्थूलमनणु इत्यादिभिः । प्रतिष्ठा प्रतिष्ठामूतं यत्सत्तया सर्वस्यापि निजनामरूपगुण. धर्मकर्मयोगेणास्तित्वं सैव प्रतिष्ठा सर्वस्य । विना तत्सत्तयाऽकिंचन- भूतमेव सर्वम् । यद्वा सर्वस्य प्रतिष्ठाभूतम् । कथं यद्विज्ञानमेव सर्ववि- द्याप्रतिष्ठानत्वेन स्तूयते ' स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठ- पुत्राय प्राह ' इति । तथा तद्विद्यावानपि 'नैनं पाप्मा तरति सर्व . , - . ५६ अर्थप्रकाशसमेता- पाप्मानं तरति नैनं पाप्मा तपति सर्व पाप्मानं तपति विपापो विजरो विजियत्सोऽपिपासो ब्राह्मणो भवति' इत्यादिना हे नचिकेतो धीरस्त्वं धृत्या मयोपदिष्टवाक्यधारणयाऽऽत्मन्यात्मत्वेनापरोक्षतयाऽनुमय नात्य स्राक्षी तिसृष्टवानहमिव नातिमुक्तवान्सर्वदा तदनुसंधानशील एव भविष्यसीति भावः ॥ ११॥ तद्विज्ञानेन किं स्पात्तदाह- तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ १२ ॥ तमात्मानं दुर्दश द्रष्टुमशक्यं, किंनिमित्तमिति चेत, गूढं गुप्तं सर्वान्त- रत्वेन वर्तमानत्वात् । तदेवोच्यते ' यश्चक्षुपि तिष्ठंश्चक्षुपोऽन्तरो यं चक्षुन घेद यस्य चक्षुः शरीरं यश्चक्षुपोऽन्तरो यमयत्येप त आत्माऽन्तर्या- म्यमृतः' इति । यदृष्टिपथे तिष्ठति तच्चक्षुपा ग्राह्यं स्यात् । यश्चक्षुपि तिठंचक्षुपोऽन्तरः स कथं चक्षुपा वेद्यो भवेत् । चक्षुरादीनीन्द्रियाणि नु(?) 'पराश्चि खानि व्यतृणस्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन् इत्युक्तत्वात्कथं तैर्यायः स्यात् । तथाऽन्तर्वतिना मनसाऽप्यगृह्यः । उक्तं यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनसोऽन्तरो यमयति स त आत्माऽन्तर्याम्पमृतः' इति । एवं यन्मन- सोऽप्यन्तरं तत्सत्तारूपं तत्तेन कथं ज्ञेयं स्यात् । तदन्तरगा बुद्धिस्तयाs- प्पग्राह्यः । तदन्तरङ्गत्वात् । स्मृतं च 'यो बुद्धः परतस्तु सः' यत्सी. तीतं साक्षिरूपं प्रज्ञानं तस्याप्यन्तरत्वेनोच्यते । यः प्रज्ञाने तिष्ठ- न्मज्ञानादन्तरो ये प्रज्ञानं न वेद यस्य प्रज्ञानं शरीरं यः प्रज्ञानम• न्तरो यमयति स त आत्माऽन्तर्याम्यमृतः ' इति । एवं तेनाप्ययातः । अथ प्रज्ञानाऽप्यग्राह्यः। तथा श्रुतिः य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा नघेद यस्याऽऽत्मा शरीरंय आत्मनोऽन्तरोयमयति सत आत्माs. न्तर्याम्पमृतः' इति । यज्ञातृज्ञानवेद्यं तद्विलक्षणमेवातो न तदात्मा मधेत् ' अविज्ञातो विज्ञाता' इत्यानातत्यात् । आत्मविज्ञाने ज्ञानेs- वलम्बितेऽनयस्थाप्रसक्तिरेव । इत्येवं सर्वान्तरङ्गत्वेन गूढो य आरमा स चक्षुरादिमिर्दुर्दशं एव । इति पचराद्यन्तरत्वेनावस्थातुं किं निमि. तम् । अनुपविष्टं तदेवाऽऽह श्रुतिः ‘स एप इह प्रविष्ट आनसाम्यो - .

। , कठोपनिषत् । पथा क्षुर क्षुरधानेऽवहितः स्याद्विश्वमरो वा विश्वंभरकुलायः' इति । अथ कथं तस्यानुप्रवेशः । यच्छुद्धं परं ब्रह्म तदेवाऽऽत्मगतचित्प्रकृत्यवल- म्बनेनेश्वरत्वं प्राप्य स्वनिर्मितस्याण्डस्यान्तः 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुरः स पक्षी मूत्वा पुरः पुरुष आविशत्' इति अंशत्वेन जीवरूपेणानेकधा संभूय तत्पुरप्रवेशं कृतवानत उक्तमनुप्रविष्टमिति । तस्माज्जीवरूपं तत्सोपाधिकस्य परमात्मनोंऽशभूतत्वात्सोपाधिकमेव । तत्रोपाधौ यानि यानि गुणनिमित्तत्वेन संभूतानि तत्वानि तत्र तत्र सत्तारूपेणान्तस्तदेव वर्तमानम् । जीवरूपेण संमवनेऽनुप्रवेश एव निमि- तम् । पुरेऽनुप्रविष्टस्य तस्य किं मुख्यं स्थानमिति चेत् । गुहाहितम् 'अधो- निष्ठ्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति ' इत्यादिमिवाक्यैर्या हृत्पुण्ड- रीकरूपा गुहा तस्यामाहितं स्थितं सत् । अतस्तत्परवेश्मभूतत्वेनाप्यु- च्यते- दहरं विपापं परवेश्मभूतम् ' इति । तत्रापि कथं तदवस्थितत्व- मिति चेत् । गह्वरिष्ठम् । अतिशयितं गह्वरं गूढं गह्वरिष्ठम् । कथं तत्रापि 'दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्' तत्वान्न केवलं हृत्पुण्डरीक एव वर्तमानम् । तस्यान्तद्दहरं गगनं तद- न्तर्वतित्वेनाऽऽच्छन्नम् । अतस्तदन्तर्दृष्टयाऽवेक्ष्यमाणे तद्गनमेव माति न तत् । जीवरूपेणानुपविष्टत्वाजातत्वं स्यादत उच्यते-पुराणं चिर. न्तनम् । दुर्दर्शनोक्तवादतुमवामावः स्यादत आम्नातम् योगाधिगमेन आरमन्यधिकृतो योगोऽध्यात्मयोगस्तेन योऽधिगमो ज्ञानं तेनाध्यात्मयोगाधिगमेन । देवं द्योतमानं स्वप्रकाशं सच्चिदानन्दरूपं तमात्मानं मत्वाऽऽत्मन्यात्मत्वेनापरोक्षरवेनानुभूय धीर उक्तविवेकवा- न्हर्षशोको जहाति त्यजति । प्रियं प्राप्य न हर्पमेति नाप्यप्रियं प्राप्यो- द्विजते च । समदुःखसुखः स्वस्थ: समलोटाश्मकाञ्चनो मवति । स्वरूपातिरिक्तस्य सर्वस्य विवर्तरूपत्वदर्शनात् । अथ कथमध्यात्मयो. गाधिगमः । योगविविधः कर्मोपासनाज्ञानभेदेन । तत्र कर्मोपासना- योगयोरात्मेतरदेवताराधनपरत्वेन नाध्यात्मयोगत्वम् । ती पूर्वपक्षमता. घेष । तृतीयो ज्ञानयोगः ' राजविद्या राजगुह्यं पवित्रम् ' इत्यादिना वर्णितः स एव । कथमिति चेत् । रहसि सदाचार्यप्रसादलभ्यपरविद्या. प्रकाशेनानात्ममूतबाह्यविषयान्परित्यज्य तत्र सक्तमात्मप्रज्ञानं ततः प्रत्यावाऽऽत्मनिष्ठं कुर्यात् । तदात्मानात्मविवेकतोऽनात्मभूतमिदं स्थूलमात्मत्वेन प्रतीयमानमपि दृश्यत्वाजडत्वाकर्मजवादनात्ममूत- अध्यात्म- अर्थप्रकाशसमेता- मिति निश्चित्य यो दृष्टा श्रोता मन्ता प्रज्ञानवानन्तराकाशस्थः स एवाऽऽत्मेति विदित्वा तदेहनिष्ठं प्रज्ञानं ततः कूर्मोऽङ्गानीव समावर्त्य शरीरासदत्वेन हृत्पुण्डरीकावकाशनिष्ठं विदधीत ।तत्र स्थिरे मनसि सति स्थूलामावः स्वमावात् । तथा जागृतेस्तज्जन्यमानस्यापि । तत्र यहहरं वियदन्तस्तदेवानन्तत्वेनाऽऽमाति तचिदाकाशामिधं तत्र दृश्यदर्शनद्रष्ट- वयोगालिङ्गन्देहे स्थितिः । तदपि विवेकतोऽनात्मा, विलक्षणतत्वमे- दसाक्षित्वात् । एवं विलक्षणत्वेन यज्ज्ञेयं तदनात्मभूतं तदा यः प्रज्ञा- नाश्रयभूतः स आत्मा । इति ज्ञात्वा दृश्यदर्शनद्रष्ट्टत्वपरित्यागेन वृत्ति- मात्रविलयेनाऽऽस्मन्यवस्थानं लयप्राधान्येन संभवति । तदात्मत्वेन प्रती- यमानस्य तस्याप्यमावः । स पञ्चविंशतितत्त्वरूपस्तल्लयोद्भवे वर्तमान- स्याऽऽत्मनो मुख्य स्वरूपं कथं स्यात् । एवं तन्निरासेनाऽऽगनस्तमःमाधा- न्याकारण देहेऽवस्थानं जातम् । तत्रापि तत्प्रकाशकत्वेन ज्ञानं वर्तत एष विना तेन कुतः सोऽनुमवो नाहमात्मानं वेदेति । तस्मात्तदन्तर्वति- ज्ञानावलम्बनेन तजडत्वनिरासः । तेन प्रज्ञानमयत्वमात्मनः । सैष कारणदेहनिरासेन प्रज्ञानमये महाकारणे निठा तत्रापि ज्ञानमात्मा चित्तदाश्रयः । आत्मानात्मविवेकतो न ज्ञानस्य विनाऽऽश्रयेणावस्थान तस्मात्स एव तत्पवर्तको निवर्तकः । अतो ज्ञानावलम्बपरित्यागेन ज्ञात- त्वमप्पनाभित्याज्ञानान्यथाज्ञानमुक्तत्वेन गुरुणा दत्तविज्ञानयुक्त्यानिर्वि- कारत्वेनावस्थानमेव सचिदानन्दमयी स्वप्रकाशत्वेन निष्ठा संभवति । न तब सूर्यो माति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमनि। समेव मान्तमनु माति सर्व यस्य मासा सर्वमिदं विमाति ' स एवा. ध्यात्माधियोगाधिगमो विज्ञेयः ॥ १२ ॥ पथाऽऽत्मन्यध्यारमयोग उपदिष्टस्तमेयान्वन्तर्विधेकेनापरोक्षतया शुद्धा. स्मतत्त्वमनुमवितव्यमित्याह- एतच्छुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्मेमणु- मेतमाप्य । संमोदते मोदनीय हि लब्ध्वाऽ- विवृत सद्म नचिकेतसं मन्ये ॥ १३ ॥ मरो मनुष्योऽधिकारी विवेकवानास्थापर एतन्मयोक्तमात्मविज्ञान- साधनं श्रुत्वा संपरिगृह्य तदनुमनननिदिध्यासायोगं गृहीत्वा विषयेषु संसक्तमात्मप्रज्ञानं तेभ्यः प्रवृह्योद्यम्प तदनुसंधानपरित्यागादन्तमुप. - कठोपनिपत् । खेन प्रत्यावर्त्य धयं धर्मादनपेतमणुं सूक्ष्मतरमेतमात्मानमाप्याऽऽप्त्वा संमोदनीयं हि संमोदितुमहमानन्दमयत्वाल्लब्ध्वा संमोदते संमोदेत संमोद मामुयात् । इति सदाचार्यमुखाद्विवेकं लब्ध्वा जिज्ञासुः स नचिकेता उक्त विधेनाऽऽध्यात्मयोगेनाऽऽत्मन्यात्मत्वेनाऽऽत्मानमनुभूतवान् । तत्तस्य चिह्न विज्ञाय स गुरुस्तमुवाच नचिकेतसं त्वामधुनाऽविवृतं न विवृतमा- वृतं तदविवृतमपरिच्छिन्नं व्यापकं पूर्ण सम स्थानं लब्धवन्तं मन्ये देह- चतुष्टयाद्यविद्यावरणमुक्तः सन्परे परिपूर्णे चिदानन्दमये ब्रह्मणि तन्म- यत्वनावस्थित इति जानामि ॥ १३ ॥ इत्येवं मृत्युप्रसादादात्मानं साक्षात्कृत्य तदानन्दं चानुमूय देहमागत्य तमनुमवं प्रकाश्य पुनस्तथाविधे श्रवणे प्रीतिमान्स नचिकेता उवाच- अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृता- कृतात् ॥ अन्यत्र भूताच्च भव्याच यत्तत्पश्यन्ति तद्वद ॥ १४ ॥ धर्माद्वर्णाश्रमनियतादन्यत्र विलक्षणं यत्र तद्भानं नास्ति धर्मामा- वेऽधर्मस्तदकरणरूपः स्यात् । अन्यत्राधर्मात्सोऽपि यत्र नास्ति । तत्क- रणाकरणातीतं तथाऽन्यत्रास्मात्कृताकृतात् । अन्येपामपि गुणकरणदेह- व्यापाराणां भावो वाऽभावोऽपि यत्र नास्ति निष्प्रपञ्चत्वात् । एवमपि कालान्तर्मावि स्यात् । अन्यत्र भूतात्पौर्वकालिकाद्व्याशीत्तरकालि- काच । न यस्य पूर्वापरकाली स्तस्तस्य तत्सापेक्षितवर्तमानकालः कुतः कालत्रयातीतलेनोत्पत्तिस्थितिप्रलयातीतम् । एवं यच्छुद्धं स्वरूपं तत्प- श्यन्ति ज्ञानिनस्तद्वद मह्यम् । यतः श्रुतमपि मनो मे नालमेति ॥ १४ ॥ इति नचिकेतसो वचनमाकर्ण्य यथा व्यतिरेकवृत्त्या परब्रह्मात्मानु. मयः कृतस्तथा तदनुभूतस्वरूपान्वयं बोधयितुमाह- सर्वे वेदा यत्पदमामनन्ति तपास सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योम् ॥ १५॥ सर्व ऋगायो वेदा यत्पदं पद्यते गम्यते सर्वैरन्ते पदमामनन्त्यम्य. स्यन्ति । पुनः पुनर्वचनमभ्यासः । सर्वाणि चानशनादिमिस्तपन्ति ६० अर्थप्रकाशसमेता- तपांसि सर्वे तपस्विनो यत्पदं प्राप्यत्वेन बदन्ति । यत्पदमिच्छन्तो ब्रह्मचर्य ब्रह्म वेदास्यं चर्यतेऽभ्यस्यतेऽत्र ब्रह्मचर्य तच्चरन्ति । ब्रह्मचर्य- माहात्म्यं छान्दोग्य विस्तरेणाभिहितमस्ति । तत्पदं ते तुभ्यं संग्रहेण संक्षेपेण ब्रवीमि । किंतत् । ओमिति ॥१५॥ एतवाक्षरं ब्रह्म एतद्धवाक्षरं परम् । एतद्धवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ एतद्ध पा एतदेवाक्षरमोंकाराख्यं ब्रह्म वेदचतुष्टयरूपम् । एतद्धवाक्षरं परं सर्वातीतं सर्वोत्कृष्टत्वात् । एतद्धवाक्षरं न क्षरति तदक्षरमविनाशि वस्त्वात्मरूपम् । तस्मादेतद्धवाक्षरं ज्ञात्वा यः पुमान्यदिच्छतीहामुत्र घ तस्य तत्तेनानायासेनैव प्राप्तं भवति । कथमेतदक्षरं वेदचतुष्टयरूपं परं ब्रह्म च कथं चैतज्ज्ञातवत एव सर्वं भवतीति चेत् । प्रणवः स सार्ध- मावात्रयस्तत्राकार उकारो मकार इति तिम्रो माना योऽन्ते ध्वनिः सार्धमात्रा । तत्र यो ध्वनिरन्त्यः स एव सर्ववेदाकारेण संभवति विना तेन कुतः शब्दोत्पत्तिस्तदमावे कुतो वेदोत्पत्तिः । मात्रात्रयं तु वेदन यसारमूतम् । उक्तं चाह्मिणे 'प्रजापतिरकामयत मनायेय भूयानस्या- मिति स तपोऽतप्यत स तपस्तप्रमाल्लोकानसृजत पृथिवीमन्तरिक्ष दिवं ताल्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतीप्यजायन्ताग्निरेव पृथिव्या अजापत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतीप्यम्पतप- तेभ्योऽमितम्यस्त्रयो वेदा अजायन्त ऋग्वेद एवाग्रजायत यजुर्वेदो वायोः सामवेद आदित्यात्तान्धेदारभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्रा- ण्यनायन्त भूरित्येव ऋग्वेदादनायत मुव इति यजुर्वेदात्स्वरिति साम- वेदात्तानि शुक्राण्यम्यतपत्तेभ्योऽमिततेम्पत्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत्तदेतदोम्' इति । तस्मात्सर्वमन्त्रमयो व्यापकश्च सोऽतः सर्वमन्त्रारम्मे प्रथमं स उच्चार्यते । अथ कथं पर ब्रह्म । अकारेण परमात्मनः सकार्य रजो वाच्यं किं तत् । विरादपर- मात्मनः स्थूलं शरीरं तनावस्थोत्पत्तिरभिमानी ब्रह्मेत्येतदनःकार्यमकार- वाच्यम्। तथा हिरण्यगर्मशरीरं सूक्ष्मं पञ्चविंशतिदेवतात्मक तनावस्था- स्थितिरुमयामिमानी विष्णुरित्येतत्तमःपूर्वकसत्त्वस्य कार्यमुकारवाच्यं शेयम् । माया शरीरं प्रलयोऽवस्था रुद्रोऽभिमानीत्येतत्तमःकार्य मकार• या महामाया शरीरं सर्वज्ञत्वमवस्था परमात्माभिमानीस्पेतच्छुद्धस- कठोपनिषत् । त्वस्य कार्यमर्धमात्रया वाच्यम् । इति प्रणवेन देहादियुक्तः परमात्मा वाच्यः।यः परमात्मा तदेव परं ब्रह्म तस्मात्तेन परमात्मनः सगुणं निर्गुणं च रूपे वाच्ये तेन वाच्यवाचकयोरभेदात्मणवस्त दूप एवास्ति । परमात्मा स्वमक्तजनकृपापारावारस्तदुद्धारं चिकीर्षुः स्वयं चित्प्रकृतिमाश्रित्य तया प्रज्ञानवान्सन्संकल्परूपो भूत्वा नादरूपेण व्यक्तिमापद्य प्रणवल. पेण संबभूवातस्तत्पूर्वरूपं ध्वनिलनेः संकल्पस्तस्य प्रज्ञानं तत्परं ब्रह्मै- वास्त्युक्तं च 'प्रज्ञानं ब्रह्म' इति । तस्मादोमित्येतदक्षरं परं ब्रह्म । ननु सर्वेऽपि वर्णाः संकल्पप्रज्ञानमूला एव तेन तेऽपि किं न तथा । न । ते कार्यप्रपञ्चप्रकाशकत्वेन प्रपञ्चनिष्ठास्तामसाहंकारसंभूत वियदुणरूप. त्वात्तामसाः प्रणवस्य तूत्पत्तिर्मायाविद्यातमोनिरासायोक्तप्रकारेण स्वाविस्मरणात्मज्ञानावलम्बनेनैव जाताऽतस्तद्रूप एप सः । वाच्यवाच- काभेदेनापि तद्रूप एव । तस्मादेतदक्षरज्ञानं तत्परब्रह्मात्मविज्ञानं तस्य परब्रह्मरूपत्वात् । कथं तदक्षरयोगेण ब्रह्मात्मानुभवः । यथा कारणे देहादि सर्व सार्धमात्रायेण वाच्यं तथाऽध्यात्ममपि विजानीयात्तदंशत्वात् । तत्र स्थूलं शरीरमात्मनस्तत्रावस्था जागर उभयाभिमानी विश्व इत्येतदाविद्यकरजोगुणकार्य प्रणवपादाकारवाच्यं विजानीयात् । तथा लिङ्गं शरीरं पञ्चविंशतितत्त्वात्मक तत्रावस्था स्वप्न उमयाभिमानी तैजस इत्येतत्र यमविद्यातमःपूर्वकसत्त्वकार्यमुकार. धाच्यम् । कारणं शरीरं सुपुप्तिरवस्था प्राज्ञोऽभिमानीति त्रयं मकार- घाच्यम् । महाकारणं देहस्तुरीयावस्था प्रत्यगात्माभिमानीत्येतच्छुद्धस- स्वगुणस्य कार्यमर्धमात्रावाच्यम् । एवं सार्धमात्रानयप्रणवोच्चारकाले रहस्यवस्थाय विधिवदासनं प्रतिष्ठाप्य बाह्यविषयान्यहिस्त्यक्त्वा तन्नि- छमात्मप्रज्ञानं ततः प्रत्यावर्त्य तावदेहनिष्ठं कुर्यात् । ततोऽकारोच्चारणे तद्वाच्यस्थूलशरीरमनुचिन्त्योकारोचारणेन तत्साक्षित्वमनुभूय तेनाऽऽत्म- नोऽन्तनिष्ठत्वं विज्ञाय स्थूलानुसंधानपरित्यागेनान्तर्मुखो भूत्वा तत्त्वा- स्मकलिङ्गदेहरूपमात्मानमनुचिन्तयेत् । ततो मकारोचारणेन विटक्षण- धर्मसाक्षिवेन तदतीतं विज्ञाय सर्ववृत्तिपरित्यागेन कारणदेहनिष्ठो मवेत् । अन्तेऽर्धमात्रोच्चारणेन जडत्वसाक्षित्वेनाऽऽत्मानं प्रज्ञानयोगेन सर्वसाक्षिस्वरूपमनुचिन्तयेत् । ततस्तदन्तगतध्वनिविलयेन तत्साक्षित्व- वृत्तिपरित्यागाज्ज्ञानाज्ञाननिरासेन निर्विकल्पत्वेन परे ब्रह्माणि तद्प. खेनापतिठेत । यद्वा पूर्वमेव देहावस्थानयसाक्षित्वेन निरवलम्बे निष्ठा अर्थप्रकाशसमेता- विधाय प्रणवोचारणं कृत्वा मात्रावसाने तत्साक्षित्वपरित्यागेन निर्वि. फल्पामात्मन्यात्मत्वेन स्थिति विदधीत । अन्तर्मुखत्वामावादेतत्कतुं न शक्यते चेत्तदा तदुच्चारणेन तद्वाच्यसगुणस्वरूपमनुचिन्तयेत् । यद्वा ज्योतिर्मयं तदेवाक्षरं विचिन्तयेत् । इति प्रणवेनाऽऽत्मन उपासनापरस्य घ ब्रह्मणः सगुणस्य परमात्मनः सर्वस्यापि च तस्य सर्वरूपत्वात् । य एतद्धवाक्षरं ज्ञात्वा तदुपासनायाः प्रचलितो योगभ्रष्टो वा ज्ञानार्थ सगुणब्रह्मोपासक सोऽचिर्मार्गेण गतश्चेत्तस्य परलोकमाप्तिराबह्मलोकं भवति । तत्र स यदिच्छति तस्य तद्भवति संकलादेव प्राप्त भवति । तदेवोक्तं छान्दोग्ये 'स यदि पितृलोककामो भवति संकल्पादेव पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयतेऽथ यदि मातृलोककामो भवति संकल्पादेव मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो मही- यतेऽथ यदि भ्रातृलोककामो भवति संकल्पादेयास्य भ्रातरः समुत्तिष्ठन्ति नेन भ्रातृलोकेन संपन्नो महीयतेऽथ यदि स्वसृलोककामो मवति संक- ल्पादेवास्प स्यसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयतेऽथ यदि सखिलोककामो मवति संकल्पादेवास्य ससायः समुत्तिष्ठन्ति तेन ससिलो- फेन संपन्नो महीयतेऽथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महीयतेऽथ यद्यन्नपा. नलोककामो मवति संकल्पादेवास्यानपाने समुत्तिष्ठतस्तेनानपानलोकेन संपन्नो महीयतेऽथ यदि गीतवादितलोककामो भवति संकल्पादेवास्य गीतपादिते समुत्तिष्ठतस्तेनं गीतवादित लोकेन संपन्नो महीयतेऽथ यदि खीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलो. फेन संपन्नो महीयतेऽथ यं यं कामो मवति यं यं कामं कामयते सोऽस्य संकल्पादेवास्य समुत्तिष्ठति तेन संपन्नो महीयते ' इति पूर्णद. शाप्राप्तस्प तु 'न माणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्त्र- हमाप्येति'॥१६॥ पस्मादेवं तस्मात्- एतदालम्बन श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्या ब्रह्मलोके महीयते ॥ १७ ॥ एतदाटम्बनमेतस्पोंकारस्पाऽऽटम्पनमुपास्यत्येनावलम्बनं श्रेष्ठं सर्वा- पलम्बनेम्पः सर्यरपस्यात् । एतदाटम्बनं परं साधनं ब्रह्मात्मज्ञानस्पोक्ता प्रकारेण पतिरेफवृत्त्या सर्वनिरासन शेपस्याऽऽरमस्वरूपस्प मापकत्वात् । " । कठोपनिषत् । एतदालम्बनं ज्ञात्वैवं कर्तव्यमिति सदाचार्यमुसतो विज्ञाय तथाऽवलम्ब्य तन्निष्ठतया दशां संसाध्य ब्रह्मलोके परब्रह्मलोक इव सर्वाधिष्ठानत्वा- ब्रह्मलोकस्तस्मिन्महीयते महांस्तद्रूपत्वेन भवति । साधकस्तु प्रारब्धक- मक्षयान्मृतश्चेत्तार्ह ब्रह्मलोके ब्रह्मणो विरश्चोंके सत्याख्ये महीयते पूज्यो भवति ॥ १७ ॥ स ज्ञानी शुद्धस्वरूपेण कथमस्ति तदाह- न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१८॥ न जायते जननं न प्राप्नोति । म्रियते वा तथा न मरणमपि । ननु जन्ममरणे न केवलस्य देहस्य नाप्पारमनः केवलस्य । जीवयोगेन देह- स्य मातृगर्ने वर्तमानत्वम् । तेन जननमरणे संमवतः। यथा देहयोगे- नाऽऽत्मनस्तरसंबन्धो पालत्वादिभावदर्शनात् । एवं सति कथं न जायते म्रियते वेत्युच्यते । सत्यम् । तज्जननमरणे न वस्तुत आत्मनः । औपा. थिके स्तः । सोऽनिर्वचनीयत्वेन विवर्तरूपः । विवर्तस्त्वन्यथामासमा- घोऽतात्त्विकः । तत्कृते जन्ममरणे अपि तथा । अतोऽधिष्ठानदृष्ट्या न तद्भानमपि तदद्वितीयं यथावदेव । तेन न जायते म्रियते वेत्युक्तम् । पुनः कथं स आत्मा विपश्चित्मज्ञानवानविपरिलुप्तचैतन्यः । नन्वेवं कथं स्याद्यच्छुद्धं परं ब्रह्म तदेव स्वगतचित्प्रकृतियोगेन सत्त्वगुणतः शबलमीश्वररूपं संभूय ततो गुणत्रययोगतोऽव्यक्तादिरूपेण सवि. कल्पप्रपञ्चनिष्ठं मवति । तदा कथं तन्नित्यज्ञानानन्दमयम् । यदुपाध्य- वलम्बनेन सविकल्पत्वं तत्मत्यपरमचैतन्ययोरेव न पूर्ण तत्सर्वदा निरुपाधिकमेव । तत्र कुत उपाध्यवलम्बस्त्यागश्च तत्कृतशबलत्वादि- मावा अपि । तन्नित्यं चिदानन्दमयमेव तथाऽपि न तब सदवगमकत्वं चिदाश्रयत्वमानन्दमोत्कृत्वं च । निरुपाधिकत्वेन पुरुषत्वामावात् । न नबोपाधेर्मानमपि कुतस्तत्वार्थस्य । जन्ममरणामावेऽप्यने कुतश्चित्सं- भूतं स्यात् । अत आह नायं कुतश्चिदिति । कदाऽपि कुतश्चित्कस्मादपि कारणान्न संबभूव संमूतः । किंच न कश्चित्कोऽप्यस्मान्न संबभूव । नन्वेवं कथमुच्येत सर्वकारणत्वमस्यैवोच्यमानत्वात् । कथं ययोर्णनामिः सृजते गृह्णने च यथा पृथिव्यामोषधयः समवन्ति । यथा सतः पुरुषा- कैशलोमानि तथाऽक्षरात्संमवतीह विश्वम्' इति, यथा सुदीप्तापाव. काद्विस्फुलिङ्गाः सहस्रशः प्रमवन्ते सरूपाः । तथाऽक्षरा द्विविधाः सोम्य 1 अर्थप्रकाशसमेता- १ . भावाः प्रजायन्ते इत्यादिना । एवं सति न बभूव कश्चिदिति कंथमुज्यते । सत्यं, तथाऽपि न शुद्धस्याऽऽत्मनः कस्यचित्कारणत्वं न किमपि कार्य तस्य । चेदयं प्रपश्चो ब्रह्मकार्य तदा परिणामो वा विकारो भ्रम आरोपो वा संमवति न परिणामः संभवेत् । स पूर्वरूपविपर्यासादेव न पुनस्तस्य पूर्वरूपत्वं तदाऽधुना न कस्यापि तत्प्राप्तिः स्यात् । सा तूच्यते 'ब्रह्मविदामोति परम् ब्रह्मविद्वव भवति ' तस्मात्तन्निजेन रूपेण यथावदेवास्ति । न तथा विकारोऽपि स कारणानुरूप एवावगम्यते । नात्र तत् । विना निमित्तेन न तत्संभवति नाद्वितीये तद्वक्तुमर्हम् । न भ्रमोऽपि, कथं तस्य भ्रमबाध्यत्वं स्यात् । तस्य सद्वस्तुनः किं भ्रमजनकम् । अतोऽन्यदातम्' ' इत्युक्तत्वात्सर्वमव. स्तुभूतमेवास्ति नाऽऽरोपोऽपि स आकारसहशत्वादेव संभवति । किम- नेन सममन्यत् । तथा कथमयमनुपमेयः । न प्रतिविम्बरूपमपि कार्यम्। पूर्ण सर्वगतेऽद्वितीये स वादो वक्तुं नोपपन्नः । तदन्यत्सर्वमन्यथामास- मानमनिर्वचनीयत्वाद्विवर्तरूपमेवास्ति न विवर्तस्य कार्यवत्कार्यत्वं संमवति नाधिष्ठानस्याकारणत्वम् । अत उक्तं 'न बमूव कश्चित्' इति। ननु तदोक्तवाक्यैः कथं कार्यकारणभावावमिहिती। सत्यं, तो सोपाधिक न पूर्णे । ननु तदेवोपाधियोगात्सोपाधि नु । तथाऽपि विवर्तरूपस्य तस्य नाधिष्ठानदृष्ट्या मानं तदेकविधमेव तत् । अभिहितं च 'एकधैवानुद्रष्ट- ध्यमेतदप्रमेयं ध्रुवम् ' इति । सोपाधिके वर्तमानोऽपि तदृध्यैव स माति न वस्तुतस्तदूपे । अतोऽयमात्मा निजेन रूपेणाजः। सर्वान्तर्गतत्वेन धर्तमानोऽपि न जायते । तथा नित्यो विनाशवर्जितः। न म्रियते च तेन शाश्वतः । शश्वद्यथावदेव वर्तमानः । तथा स्थित्युद्भवलयातीत. त्वेन पुराणश्चिरन्तनश्च । पहिस्ट्या सर्वशरीरे वर्तमानोऽपि शरीरे हन्या- मानेऽपि न हन्यते सूक्ष्मत्वात् । यथा घटमठोपाधिमोऽपि नाऽऽकाशस्य तेन नाशस्तद्यथावदेव ॥ १८॥ एवं सति- हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उनौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ हन्ता हन्तृत्वामिमानवांश्चेद्धन्तुं मन्यते तेन हतभेदात्मानं हतं मन्यते तरपिता उमीन विजानीतो यथार्थात्मस्वरूपज्ञानामावात् ।

। कठोपनिषत् । नायमात्मा हन्ति हननं तत्मकृतिगुणैरेवाऽऽत्मा तु नित्यं तदसङ्ग एव न च हन्यते हतत्वं देहस्यैव ॥ १९॥ यस्मादेवं तस्मात्पुनः कथं स:- अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽ- स्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥ अयमात्मा शुद्धोऽणोरणीयान् । यस्मादन्यत्सूक्ष्मं ततोऽप्यथं सूक्ष्म इत्यभिप्रायेणावाणुशब्देन परमाणुर्विज्ञेयस्तस्मादपि सूक्ष्मतरः । अत एवोच्यते 'न संदृशे तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चनैनम् इति । तेन स्थानपरिच्छिन्नो भवेदतो महतो महीयान् । यस्मादन्यन्म- हत्ततोऽपि महीयान् । सावरणं ब्रह्माण्डमाकाशे वर्तते सोऽपि निजका- रणे दशगुणाधिकेऽहंकारे तेन ततस्तन्महत्ततोऽपि तथा तत्कारणमव्यक्तं तदप्यत्र परिच्छिन्नं तच्छबलं ब्रह्म सर्वापेक्षया महत्ततोऽपि महीयान्स आत्माऽनन्तो यत्रेश्वरत्वमेकदेश्युल्लोलपायम् । नन्वाकाशान्महानप्यहं- कारः परिच्छिन्नस्तथा महत्तत्त्वं ततो महदप्येवमेवमव्यक्तं शबलमपि तथा ततो महीयानात्मा परिच्छिन्न एव किं नान यदन्यत्तस्माद्भावरूपं वाऽभा. वरूपं वस्तु न किंचिदस्त्युमयविलक्षणपदार्थामावात् तदेव सर्वगतं महतो महीयानित्युक्तत्वात्ततोऽपि महीयान्स तेनानन्त एव सः। पुनः कथं सः । अस्य जन्तोर्जायतेऽजसं जन्तुर्जननशीलस्तस्य प्राणिनो गुहायां हृदयगु. हायां निहितो यतस्तत्रैव तज्ज्ञानमस्ति । ननु महतो महीयान्स कथं परि- छिन्नाया हृदयगुहायां प्रतिष्ठितो विज्ञेयः। यथा परिच्छिन्नेष्वपि घटमठो. पाधियु महानप्याकाशः प्रतिछितो दृश्यते तथा महानप्यात्मा परिच्छि. नाविद्योपाधियोगात्तथात्वेन वर्तमानः स हृदयगुहायां प्रतिष्ठितो विज्ञेयः। ननु च घटमठोपाधिष्वाकाश आवृतत्वेन परिच्छिन्न एव दृश्यते तथाss- रमनोऽन्यनुभवकाले परिच्छिन्नत्वेनैवानुमवो मव्यो न पूर्णत्वेन । सत्यं, तत्र यथाऽऽकाशस्तथैवोपाधयो घटादिरूपाः सत्याः । नात्र तथाऽविद्यो- पाधयोऽनिर्वचनीयत्वेन विवर्तरूपास्तस्य तु मानं नाधिष्ठानदृष्टया संम- पति तस्मान्निरावृतमनन्तं तच्छुद्धात्मरूपमनुभूयत उच्यते च 'अतोऽ. न्पदातम्' इति । एवमात्गा न | तस्यां हृदयगुहायां वीतशोको विगतः शोकः सांसारिको हानिसमवो यस्य स विगताहममस्यात् । नित्यं - अर्थप्रकाशसमेता- सत्वप्रधानो विवेकवान् । तमुक्तमक्रतुमनवसाय निर्विकल्पं निर्गुणत्यावे: पमात्मानं धातुर्दधाति सर्वमात्मनि धाता सर्वोपादानं परमात्मा तस्प प्रसादादनेकजन्माचरितकर्मोपासनाभ्यां प्राप्तप्रसन्नत्वात्पश्यति संप्राप्तस- दाचार्यमुखावाप्तपरविद्याप्रकाशितव्यतिरेकवृत्त्याऽऽत्मन्यात्मत्वेन साक्षा- करोति । तत आत्मनो महिमानं महत्त्वमविद्योपाधियोगात्मत्यगात्मत्वेन संप्राप्तपरिच्छिन्नत्वस्य तद्गुणकर्मवशत्वेन सांसारिकत्वस्य चापगमा• पूर्णत्वं निजानन्दसंतृतत्वं च पश्यति ॥ २० ॥ पुनः कथं स आत्मा- आसीनो दूरं ब्रजति शयानो याति सर्वतः । कस्तं मतामतं देवं मदन्पो ज्ञातुमर्हति ॥ २१ ॥ आसीनो ज्ञानकर्मकरणव्यापारपरिवर्जनेन बाह्यमपञ्चं पहिस्त्यतया तत्संबन्धि प्रज्ञानं ततः प्रत्यावर्त्य हृद्यगुहायां नीत्वा विमले चिदाकाशे तत्प्रज्ञानावलम्ब परित्यज्याऽऽत्मन्यात्मत्वेन निर्विकारनिर्विकल्पतया नि. जानन्दमोत्कृत्वेन या निद्रा तां परित्यज्य तत्स्थगतं निर्विकल्पमात्मप्रज्ञा- नमवलम्ब्य साक्षित्वयोगेनोपविशन्सन्दूरं ब्रजति गुणावलम्बनेन देहा- दियोगात्संसारनिष्ठत्वेन तत्सङ्गमुक्तत्वादूर गच्छति । शपानस्तत्रोक्त. प्रकारेण सर्वावलम्बपरित्यागेन निर्विकल्पत्येनाऽऽत्मनि स्वपन्सन्सर्वतः सर्वत्र याति गच्छति तस्मिन् पूर्णेऽनन्ते तन्मयत्वेनावस्थितस्तादृगेव सर्वगतो भवति । कः पुमांस्तं देवं द्योतमानं स्वप्रकाशं मतामतं मतं चामतं च मतामत एव चेत्तदा ज्ञानज्ञेयज्ञातृत्वमावशू- न्यस्तस्मान्न मतः । अतोऽमतश्चेत्तीपरोक्षवेनानुभूयमानस्तेन नाम- तोऽपि । तत्र यज्ज्ञानं तदज्ञानमज्ञानं ज्ञानं तस्माज्ज्ञानाज्ञानमुक्तः । सोऽनुमवस्तस्य करणमकरणं प्रज्ञानावलम्बयोगात् । अत: करणाकरणा- मावशून्यः । मदामदमिति पाठान्तरे तु मदो हर्ष आनन्द एव । अमदोऽहों निरानन्दः । एवमुमयस्वरूपः कथं, स आत्मा सच्चिदान. न्दरूपोऽपि यथा प्रज्ञाननिष्ठत्वेन ज्ञातृत्वयोगादचिन्मयः । एवमानन्द. निष्ठत्वेन मोक्तृत्वयोगान्निरानन्दरूपः । तदसङ्गत्वेन सवगमकत्वेनाऽऽ. नन्दमयोऽपि । तेन मदामदमित्युच्यते । स गुरुगम्यो नान्येन यत्नेन, साध्योऽतो मदन्यो महुरुरुपादन्पो मां हित्वा ज्ञातुमपरोक्षत्वेनार्हति मत कठोपनिपत् । योग्यो मपति । सदाचार्यप्रसादादेव गम्पो न परोक्षवादेनापरविद्या- रूपेण ॥२१॥ पुनः-- अशरीर शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विशुमात्मानं मत्वा धीरो न शोचति ॥२२॥ शरीरेषु स्थूलादिपु नानाविधेषु तदभिमानित्वेन वर्तमानमप्यशरीर तदावरणरहितं तज्ज्ञानशून्यत्वात् । तेषु शरीरेष्वनवस्थेष्वनवस्थितेप्वि. तस्ततो विहरत्स्वपि नानाविधकर्मयोगणेहामुत्र च भ्रमणशीलेष्वप्यव. स्थितं यथावदेव वर्तमानमचनलमनन्तत्वात् । ननु तदा शरीराबलम्यः कस्य, प्रत्यक्यतन्यस्य । किं तत् , पूर्णमेवाविद्योपाधियोगात्मत्यक्त्वं प्राप्तं तत् । तदा कथं तदशरीरमित्युच्यते। सत्यं शरीराण्यविद्याकृतानि, सा विवर्तरूपा तदा तत्कार्याणि तान्यपि तथा विवर्तस्य मानं न सत्याधिष्ठानदृष्ट्याऽतः सत्ये तदधिष्ठाने पूर्णचैतन्ये तेपा मानमपि नास्ति तदा कुतस्तैः शरीरित्वं तस्य तस्मादशरीरं तत्तेनापश्चलम् । अविद्यागुण- दृध्या शरीरप्ववस्थित इति दृश्यते तथाऽपि महान्तमुक्तप्रकारेण महतो महीयांसम् । उच्यते च 'तरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्व स्यास्य बाह्यतः । इति । विभुं सर्वमात्मन्यवस्थापयितुं समर्थ सत्तारूपत्वात् । एवंविधमात्मानं धीरो धीमाधिवेकी मत्वाऽऽत्मन्या- स्मत्वेनोक्तप्रकारेण बुद्ध्वा न शोचति सांसारिकस्त्रीपुत्रपदार्थवियोगे शोकं करोति । सर्वत्रैकस्यैवाऽऽत्मनस्तदन्यस्य तु सर्वस्य मिथ्यात्वस्य दर्शनात् ॥ २२॥ अथ किं तद्विज्ञाने मुख्य साधनं तदाह-- नायमात्मा प्रवचनेन लायो न मेधया न बहुना श्रुतेन । यमेवैप वृणते तेन लत्यस्तस्यैप आत्मा विवृणुते तनूर स्वाम् ॥ २३ ॥ अयमेतावन्तं कालममिहित आरमा न प्रवचनेन वेदशास्त्रादीनां प्रपठनेन लभ्यो लन्धुं शक्यः । न मेधया तज्जनितप्रज्ञाविशेषेणापि लभ्यः । तथा न यहुना श्रुतेन पुराणादीनां श्रवणेनापि लभ्यः । अत एवोच्यते 'नानुध्यायादहूञ्छब्दान्वाचो विग्लापनं हि तत् । तमेवैक । -- अर्थप्रकाशसमेता- जानथाऽऽस्मानमन्या वाचो विमुञ्चथ' इति। ननु तदा शाखाध्यपनाया सदेव किम् । अनेकजन्मकृतनिष्कामकर्मोपासनाभ्यां विशुद्धसत्त्वो. विवेकवारतं प्रत्यास्थामात्रजनकमेव तन्न साक्षात्कारस्य । अशुद्धस- त्वमविवेकिनं प्रति तु रजस्तमोगुणोद्भवेनान्यथाबुद्धिजनकत्वेनाना- पायेव तत् । ननु तदा 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः , आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेने. दर सर्व विदितं भवति' इति किमुच्यते । सत्यं, तदधिकारिणं प्रति सदाचार्यभ्यः परविद्याविषयम् । अत एवोच्यते 'तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्याणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति । अनाप्यने. तदेव मुख्य साधनमुच्यते । यमेवान्तेवासिनं सद्भावेनोक्तेन विधिना शरणागतमधिकारिणमेपोऽभिहित आत्मा वृणुतेऽङ्गी करोति तेनैव लभ्यः । ननु पूर्वाभिहित आत्मा तु न जायते म्रियते वा विपश्चित् ' इत्यादिवाक्पैरुपपादितस्तस्य कथं वरणं समवेत् । सत्य, तथा न केवलस्प शुद्धस्य विश्वसर्जनं संमवति । उच्यते च 'आत्मा वा इदमेक एवान आसीन्नान्यत्किंचन मिपत्स ईक्षत लोकान्नु सृजा इति स इमाल्लोकान-. सृजत ' इत्यादिना । तदा कथं तद्विज्ञेयं न केवलात्तस्मादेवोत्पत्तिः स्वगतचित्प्रकृत्यबलम्बनेन यदीशरूपं तस्यैव तत्कार्य विज्ञेयम् । एवम- त्रापि स एव परमात्माऽनेकजन्मकृतनिष्कर्मोपासनायोगेनाऽऽराधितो गुरु- रूपेणाऽऽविर्भूय यमेव वृणुतेऽङ्गी करोति परविद्याप्रदानेन तेनैव लभ्यः । कथं; तस्य सतोऽन्तवासिन आचार्येण सता प्रसद्य बृतस्यैप प्राग्वरालोके लोकवद्वर्तमान आत्मावरणानन्तरं तत्मसादतः स्वामा. रमीयां तनूं तन्यते तनूः शरीरं तां तनूं शरीरं सच्चिदानन्दमयं पूर्ण पूर्व मेव यथावदेवावस्थितं वृणुते तदेवाहमिति मन्यते ॥ २३ ।। नाविरतो दुश्चरितो नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि विज्ञानेनेममामुयात् ॥२४॥ अविरतो विषयेभ्यो विरामं दुःखदर्शनाद्वा विवेकाद्वा वैराग्यमप्राप्त- स्तेन दुश्चरितो दुष्टं निषिद्धं चरितमाचरणं यस्य सोऽनधिकारीममुक्त विधमात्मानं नाऽऽप्नुयात्मातुं शक्नुयात् । तथाऽशान्तः क्रोधी परोपदेशा- सहनशीलो नेममाप्नुयात् । असमाहितोऽनिन्द्रियनिग्रहत्वान्नेममामुयात् ।

- कठोपनिषत् । अशान्तमानसो वाऽपि न शान्ता मानसा मन:संमता विकारा नानावि. घसंकल्परूपा यस्य सोऽशमी नेममाप्नुयात् । सोऽप्यसच्छिप्य एव । तलये मुख्यं साधनमाह-एनमुक्तविधमात्मानं प्रज्ञानेन विशुद्धनाऽऽनुया.. स्मातुं शक्नुयात् । तदेव मुख्यं साधनम् । ननु तदा किमेवमुक्तं 'नाय- मात्मा प्रवचनेन लभ्यो न मेधया' इति । सत्यं, सा मेधा शास्त्रविषया तेन वादविवादपराऽतो रजस्तमोमयी तया सद्गुरुवाक्ये कथं विश्वास- स्तदमावे कथं ग्रहणं विना तेन कुत आत्मविज्ञानं तद्गुणद्वयनिरासं विना कथं स विशुद्धसत्वोऽधिकारी । तस्मान्नोपपन्ना साऽत्र मेधा । योऽनेकजन्माराधित परमेश्वरकृपयाऽनेकविधसंसारपसंचितकर्मविनाशा. द्रजस्तमोगुणविलयेन नित्यं सत्त्वेन प्रधानेन युक्तः पुमानपरोक्षत्त्येन परब्रह्मात्मविज्ञानाय सद्गुरुदर्शनेऽत्यास्थावान्मुमुक्षुश्च तदुपदिष्टवाक्येऽ. तिषिश्रब्धस्तगृहणे क्षमस्तदनुरूपमनननिदिध्यासयोश्च मयति तेनैव तद्वे- दनमस्ति नान्येन । ननु कथं शास्त्रश्रवणमनुपपन्नं यद्विरुद्धसिद्धान्त- स्योपपादकं तत्याज्यमेवानर्थस्याऽऽपादकत्वात् । यद्वेदप्रणीतमध्यात्मयो- गानुरूपं शास्त्रं तन्मुमुक्षुतया रजस्तमोभावपरित्यागाद्विवादयुद्धयपगमे- नाभ्यस्तं परोक्षत्वेन वस्तुविज्ञानकरं तेनापरोक्षविज्ञान आस्थोत्पत्ति- स्तया सद्गुरुदर्शनेऽपि ततस्तत्प्रज्ञानसंप्राप्तिस्तेन तदात्मवेदनं तस्माच्छा. स्त्रीय ज्ञान तत्साधनमूतम् । ननु 'प्रज्ञानं न वेद' इत्युच्यते कथं तेनाss. स्मानुमव उपपाद्यते । सत्यं, ज्ञेयज्ञातृत्वयोगेन प्रज्ञानं नाऽऽत्मानं वेद । तेन श्रीसद्गुरुप्रसादलब्धेनाऽऽदौ देहावस्थात्रयनिरासेन तदभावमनुभूय पश्चाज्ञयज्ञातृत्वमावपरित्यागेनाऽऽत्मन्यात्मत्वेन निर्विकल्पत्वेनापस्थि- तेनाऽऽत्मवेदनं भवति । तदन्यदेवेति चेत् तदा न तेन तदनुमवप्रकाशनं स्यात्तत्तु हश्यते गुरुशिष्यसंवादेऽतः प्रज्ञानेनेममाप्नुयात् ॥ २४ ॥ विना तेन न केनापि ज्ञातुं शक्य इत्याह- यस्य घर च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्या वेद यत्र सः ॥ २५ ॥ यस्याऽऽत्मनः परब्रह्मरूपस्य ब्रह्म च ब्राह्मणजातिः क्षत्रं च तजाति- योमे ओदनो भवतः। स तद्भक्षकः। तदुपलक्षितं सर्वमपि विज्ञपं प्रलये समाधौ या सर्वस्य तदाकारत्वसंमयनात् । सर्वस्प नियन्ता मारकः स न तदनमिति चेत् । मृत्युर्यस्योपसे चनं परिपेचनं सह मृत्युना सर्वमत्ति तस्मा- ।

अर्थप्रकाशसमेता- न्मृत्योरपि स मृत्युः । अत एव तस्य मृत्युत्वमुच्यते-'नवेह किंचनान आसी' न्मृत्युनैवेदमावृतमासीत्' इति । इत्थेत्थमनेन प्रकारेण तमात्मानमद्वैतं को घेद विना प्रज्ञानेन ज्ञातुं क्षमेत । यत्राऽऽत्मनि स एक एव न नाना न नानात्वेन तिष्ठति । किं तत् । न तस्याऽऽत्मन इतरत्वेन ज्ञानं संमवति । तस्मात्सर्वोपसंहारे प्रलये वेदितव्यश्चेत्तदा सर्व साम्यान्तर्गतं मूत्वा तदे. करूपं भवति तदा केन कथं स विज्ञेयः । समाधावपि न ज्ञातृत्वेन तन्निरासात्तन्मयेन प्रज्ञानेनैवान्तः प्रज्ञानेनैव घेदितव्यः । न केवलस्य सन्मात्रस्य चितं विना चिन्मयत्वम् ॥ २५॥ इति भीदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थ- प्रकाशे द्वितीया बल्ली व्याख्याता ॥२॥ इत्यात्मनः शुद्धरूपस्य वर्णनं कृत्वा तमेव प्रकृतियुक्तमधुना घर्णयति- ऋतं पिबन्ती सुरूतस्य लोके गुहां प्रविष्टौ परमे परार्थे । छायातपो ब्रह्मविदो वदन्ति पञ्चामयो ये च त्रिनाचिकेताः ॥ १॥ सुकृतस्य पुण्यस्य लोके लोक्यते प्राप्यते सुकृतं फलरूपेण पत्र स लोकस्तस्मिन्नतः परमे प्रकृष्टतमे परार्धे प्रशस्ते ब्रह्ममुवनादिरूपे स्वर्लोक शतं पिबन्तावृतं गतिमदस्थिरं मोगेनान्तवत्सुकृतकर्मफलरसं पिपना उपमुक्षानी। गुहामुक्तपूर्वा हृदयरूपां प्रविष्टौ सर्वदाऽनुमविश्य वर्तमानी। एवंविधौ पत्यकपरमात्मानौ ब्रह्मविदो बह्म परमक्षरं विदन्ति से छाया- तपी छाया चाऽऽतपश्च छायातपो ताविव वदन्ति । कथं, यथा छापाती परस्परविरुद्धधर्माणाधित्यामासमानायप्यभिन्नरूपी पिना प्रकाशेन कुत- छायायव स तत्सत्तारपस्तत्रैव सा प्रकाशमयी तदावरणभूता । एवम. प्रापि प्रत्यक्परमात्मानी परस्परविरुद्ध धर्माणावप्पभिन्नरपावध्यात्माधि. देवतान्यपयोगात् । कथं तयोरुक्तं साम्यमिति चेत् । ईश्वरमतिर्मापा सामपाध्यामोहिनी तेन सर्पज्ञस्तया सह नित्यं सचिदानन्दरूपोनिधिकार एय सेनाऽऽतपस्थानीयः । जीवप्रकृतिरविद्या साश्रयध्यामोहिनी नित्यं गुणमधानासानान्यथाज्ञानयती तयुक्तस्वात्तत्पधानत्वेन जीयोऽपितधेय

कठोपनिपत् ।
७१
तेन छायास्थानीयः । इत्यनयोस्तत्सारूप्याब्रह्मविदस्तथा पदन्ति । ननु
तदत पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध इत्यनेन कथं
परमात्मनोऽपि समगुहानुप्रवेशः कर्मफलभोगोऽप्युच्यते । सत्यं तच्छुद्ध-
स्वरूपोपलब्धिमुहायामेवास्ति । श्रूयते च 'मनोमयः प्राणशरीरनेता प्रति-
ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूप-
ममृतं यद्विमाति' इति । कथं तस्यानेककर्मफलमोग इति चेत् । न
स्वतः स संभवति जीवोऽयं तदंशरूपो नांशांशिनोर्मेदोऽतस्तदन्वयेन
तथोक्तम् । यद्वा सत्तारूपत्वेन तत्र वर्तमानत्वात् । तथाऽपि सोऽसङ्ग
एव । तथा ये पञ्चामय आहवनीयोऽन्वाहार्यपचनो गार्हपत्यः सभ्यश्चेति
चत्वारः श्रौताः स्मार्तश्चौपासन इति पञ्चसंख्याका अग्नयो येषां ते
वदन्ति ये च विनाचिकेतास्त्वया नचिकेतसा प्राप्तोऽतस्तव नचिकेत.
सोऽयं नाचिकेतोऽग्निस्तस्य चयनविधानप्रतिपादका मन्त्रसमूहास्त्रयो
नचिकेता येषां ते त्रयाणां नाचिकेतानामध्येतारस्ते वदन्ति । तवैव
नाना मविताऽयममिरिति वरदानेन तत्कालमारभ्य तस्याने चिकेत-
संज्ञा । तत्प्रतिपादनेन तेऽपि नाचिकेता भवन्विति घरदानकल्पं विना-
चिकेता इति मृत्युवचनम् । नेपामध्येतारोऽपि तत्र प्रतिपाद्यमग्निं नाल-
भन्तातो नचिकेता: स त्वमग्निं स्वर्यमध्येषि मृत्यो प्रमूहि तं श्रद्दधानाय
मह्यमिति द्वितीयेन वरेणावृणीत ॥ १ ॥
यस्मादेवं तस्मात्-
यास्ये तुरीये जानानामक्षरं ब्रह्म यत्परम् ।
अक्षयं तितीर्णतां पारं नाचिकेत शकेमहि ॥२॥
यास्ये कर्मोपासनाकृतेश्वराराधनरूपयनसाध्ये तुरीये चतुर्थे शुद्ध.
सत्वमधानत्वेन प्रज्ञानमये देहे । स्वभावावस्थात्रयप्राप्तिः सर्वेपामस्ति
न तुरीयायास्तस्माद्यास्ये तुरीये यदक्षरं न क्षरत्यक्षरं तेनावृद्धिमदपि
परं सर्वोत्कृष्टममयं यत्र भयं नास्त्येवाद्वितीयत्वात् । पारं संसारसमा.
तिरूपं तज्जानानां ज्ञातुं शक्नुवन्ति जानास्तेपां जानानां जनानामधि.
कारिणां तितीर्षता संसाराब्धिं तर्तुमिच्छूनामन्तवासिनां नाचिकेतं
नचिकेतसा त्वया लब्धमतो नचिकेतसस्तषेदं नाचिकेतं धक्तमुपदेष्टुं च
शकेमहि शक्नुयाम शक्ता मवेम ॥२॥

७२
अर्थप्रकाशसमेता-
पुनस्तमेवोपक्रान्तं वर्णयति-
आत्मान५ रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥
आत्मानं प्रत्यगात्मानं रथिनं रथोऽस्त्यस्य स्थी तं तस्याधिष्ठातार
विद्धि जानीहि । शरीरं स्थूलं रथमेव च तत्तुल्यत्वाद्विद्धि। बुद्धिं तु
प्रज्ञानं सारथिं विद्धि । प्रज्ञानप्रेरितान्येव ज्ञानकर्मेन्द्रियाणि शरीरं
चेतस्ततो व्यवहरन्ति । मनः संकल्परूपं प्रग्रहमेव चाश्वनियमनरश्मि
विद्धि । तत्संकल्पनैव तानि बद्धानि यथासंकल्पं गच्छन्ति न तद-
मावे ॥३॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्दियमनोयुक्तं भोक्तेत्याहुर्मनीपिणः ॥ ४ ॥
इन्द्रियाणि ज्ञानकर्मकरणानि हयानश्वानाहुर्विवेकिनः । तैरेव शरी-
ररथस्य गमनप्रवृत्तिर्यतः । तेपूक्तेष्विन्द्रियहयेषु विपयाञ्छब्दादीगोच-
रानुपमोग्यान्विद्धि । तैरेव विषयं गत्वा तदुपमोगः क्रियते । यस्मा.
देवं तस्मान्मनीपिणो विवेकिन आत्मा रथी शरीरं रथमारुह्येन्द्रियमनो.
युक्तमिन्द्रियैर्मनसा च युक्तं विषयजातं भोक्तत्याहु वन्ति । यत्र मनो-
गोचरत्वं तत्र कुत इन्द्रियप्रवृत्तिस्तदभावे कुतो मोगः ॥ ४ ॥
अथानेनैव रथेन संसारमोक्षमार्गमातिरस्तीति कथ्यते-
यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ।
तस्पेन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥
यस्तु रथ्यविज्ञानवानविशिष्टयुद्धिमान्मवति । यस्य सारथिरूपा
पुद्धिविवेकमधाना सारासारविचारशून्या तेन मार्गामार्गज्ञानहीना-
श्वपवृत्तिज्ञानरहिता । तेनायुक्तमनसाऽयुक्तनाश्वनयेऽनुपपन्नेन प्रग्रह-
रूपेण मनसा सदा युक्तो मवति । तस्मात्तस्पेन्द्रियापश्वरूपाण्यपश्यानि
न तदशं गतानि । तत्र हटान्तः-सारथैर्दुष्टाश्वा इव । यथा दुष्टावा
दुष्टानाविनीतास्तेऽश्वाश से प्रग्रहेण सह पलायिताः सारथेरवश्या
भवन्ति तथा तान्यपश्यानि मयन्ति । तेन प्रग्रहेण मनसा युद्धधा प
सारथिरूपया सह रथिनं घोरे कामक्रोधाद्युपदावकायगुणयनघरसंकी.
जमार्ग पातपन्ति ॥५॥

कठोपनिषत् । यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि पश्यानि सदश्वा इव सारथः ॥६॥ यस्तु सारथिर्विज्ञानवान्विशिष्टज्ञानवान्मवति । यस्य सारथिरूपा बुद्धिः सारासारविचारवती मार्गामार्गज्ञाननिपुणा सत्त्वप्रधाना तया युक्तेन समाहितेनासत्संकल्पशून्येन मनसा सदा युक्तः । न कदाऽ. प्ययुक्तेन मनसा तस्य पुंस इन्द्रियाणि हयरूपाणि पश्यानि पशं गतानि भवन्ति तेषां संकल्पमूलत्वात् । कस्य क इव । सारथः सदश्वा इव । यथा सदश्वाः सन्तश्च तेऽश्वाः प्रग्रहसारथिवश्या भवन्ति तथा तदशानि भवन्ति ॥ ६॥ सेन युक्तायुक्तबुध्धादियोगेन किं तयोः प्रा यं तदाह- यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः। न स तत्पदमामोति संसारं चाधिगच्छति ॥ ७ ॥ यस्त्वविज्ञानवानुक्तविधो भवति तेनामनस्को न विद्यमानं वश्यं मनो यस्य सोऽमनस्कः। सदा सर्वदाऽशुचिस्तत्संकल्पवश्यत्वेन नाना- विधभोगवासनयाऽसत्कर्मकृत्तनाशुचिरेय नित्यम् । सोऽनधिकार्यनेक. विधाशुमक्रियमाणसंचितयोगान्न तत्पूर्वोक्तमक्षराख्यं यस्माद्भूयो न निवृत्तिस्तत्पदमामोति । किंतु संसारं च संसारमेवानेकविधदुःससाग- रमधिगच्छति प्राप्नोति ॥७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। स तु तत्पदमामोति यस्माद्भूयो न जायते ॥ ८॥ यस्तु विज्ञानवान्भवति तेन तमनस्को नियतमनस्कोऽसत्संकल्प शून्यो मुमुक्षुः सदा शुचिरकर्मविकर्मपरिवर्जनेन नित्यं सत्त्वप्रधानत्या. भवति । स तु निर्धारण तच्चिदानन्दमयमभयं पदमाप्नोति किं तत् । यस्माद्यत्पदं प्राप्य भूयो न जायत उत्पद्यते न पुनः संसारसागरमवा. मोति ॥८॥ यस्मादेवं तस्मात-- विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् ॥९॥ यस्तु पुमानुक्तप्रकारेण विज्ञानसारथिर्विज्ञान सारथिर्यस्य स मन:- मयहवान्नरः सोऽध्वनो मार्गस्य पारमयसानं समाप्तिमानोति नेतरयज- ७४ अर्थप्रकाशसमेता- न्ममरणयोगेन पुनः पुनरिहामुत्र च भ्रमणशीलः । योऽनेन संसार सीव पारोऽवाप्तस्तद्विप्णोः परमात्मनः सर्वेश्वरस्य परमुत्कृष्टं निरुपा- धिकं पदम् । कुतो विष्णुशब्देन परमात्मा विज्ञेय इति चेत् । श्रूयते पुराणेपु-तमादिदेवं चिद्रूपं केचिद्रं वदन्ति हि । केचिच विष्णुम- परे धातारं ब्रह्म चापरे ' इति । अत्रापर एव विष्णुर्विज्ञेयश्चेत् । न तस्यैव तत्परं पदं देवतात्रयस्यापि संमवति तस्मात्पर एवान विज्ञेयः । यद्वा वेवेष्टि सर्व विष्णुस्तस्य व्यापकस्य ब्रह्माण्डाधारत्वादन्तर्बहिश्च वर्तमानस्य परमात्मनः परमुत्कृष्टतमं निरुपाधिकं पदं मायासङ्गत्वेन नित्यं तत्स्वपदे योगनिद्रयाऽवस्थितत्वात् ॥५॥ तत्पदं स्तौति- इन्द्रियेश्यः परा ह्या अर्थेयिश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥ इन्द्रियेभ्यः श्रोत्रादिभ्योऽर्था विषयाः संकल्परूपाः परा ह्यन्तरङ्गा एष । अर्थेभ्यश्च वासनारूपेभ्यो मनः परमन्तरङ्गं तदधिष्ठानत्वात् । ननु किं बाह्यार्थान्परित्यज्य वासनारूपा अर्था गृहीताः । बाह्यार्थेभ्य इन्द्रियाणां परत्वं प्रत्यक्षतया सर्वैरनुभूयत एव । अतस्तदुपपादनमनर्थक- भेष । सूक्ष्माणामेवेन्द्रियेभ्यः परत्वविज्ञानायेदमुक्तम् । मनसस्तु परा बुद्धिस्तत्साक्षिमूतत्वात् । बुद्ध हास्त्रिगुणाहंकाररूप आत्मा परः॥१०॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुपान परं किंचित्सा काष्ठा सा परा गतिः॥११॥ महतोऽहंकारात्तस्मादव्यक्तं मायारूपं परमात्मनो देहद्वयबीजमूतत्या- रसूक्ष्म तृतीयं परम् । तदंशवादात्मन: कारणशरीरमत्राव्यक्तशब्देन विज्ञेयम् । तत्रिगुणाहंकाररूपालिङ्गशरीरात्परमेव । तस्मादव्यक्तात्पुरुप उपाध्याश्रयः परः । पुरुपान्न परं किंचित्स एव सर्वस्मात्परः । सा काठा परमा दशा निर्विकल्पा । तस्मिन्पुरुपे पूर्णे मायनाद्वयनिरासेन भूमिकात्रपमुहदम्प निर्विकल्पतया मुलीनचित्तत्वेन तदपेणावस्थान- मेध दशा सा परा गतिर्मोक्षास्या । यो प्राप्य न पुनः संसारदर्शनमस्ति । ननु कथमुपाध्यायः पुरुष एव परत्वेनोच्यते पराक्षरस्य विद्यमानत्वेन तपादे पराद्धं तदेव शरलं पुरुपरूपमित्यभेददृष्टयोच्यते । परस्यापि ..

७५ कठोपनिपत् । पाचकः पुरुपशब्दोऽस्ति सर्वामु पूर्प शयनारपुरुप इति तासु निद्रितष- निर्विकल्पेन सत्तारूपत्वेन वर्तमानत्वात् ॥११॥ किंच---- एप सर्वेषु भूतेषु गढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥ एप पूर्वोक्तः शुद्धामा सर्वेषु भूतेषु गूढोऽविद्यात कार्यदहचतुष्टया- वृतो हृदयगुहायां वर्तमानत्वात् । अत आत्मा प्रत्यगात्मभूतः स न प्रकाशते प्रकटो भवति साक्षात्काराय । तदा किं साक्षात्कारामाव ग्य, न, सूक्ष्मदर्शिभिः सूक्ष्म सूक्ष्मतर ब्रटु शीलमपां तैः सारासारवस्तुवि- ज्ञानवद्भिः सूक्ष्मया गुणयोगात्साक्षित्वादिरूपेण स्थूलत्वमसमाप्तयाs. उपयाऽने मचाया तया निर्विकल्परूपया युद्धया प्रज्ञानेनाधिष्ठाना. कारेण पृश्यत आत्मन्येवाऽऽत्मरक्षेनानुभूयते ॥ १२ ॥ तत्साधनमाह- पच्छेद्वाड्मनसि प्राज्ञस्तयच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति यच्छेत्तच्छान्त आत्मनि ॥ १३॥ भाज्ञः प्रकर्षण जानाति प्रज्ञः प्रज्ञ एव प्राज्ञो विचक्षणो गुरुदत्त. प्रज्ञावान्विविक्तदेश आसनं प्रतिष्ठाप्योपविश्य सम कायशिरोग्रीव धृत्वा स्वनासाने दृष्टिमवधार्य धाग्याच मनसि तत्कारणे यच्छेद्वक्तव्यपरित्या. गाद्वाड्मूलत्वेन मनोनिष्ठो मवेत् । कथम् । वाद्यार्थावलम्ब त्यक्त्वा तनिष्ठ प्रज्ञान ततः प्रत्यावर्त्य वानिष्ठ कुर्शत । किं तद्वाक्स्थानम् । वैखरीरूपायास्तस्या दन्तोष्ठायेव न तन्मुख्य रूपम् । तत्पूर्व तु मध्यमा ध्वनिरूपा तस्याः स्थान कण्ठदेशः । मध्यमायास्तस्या अपि पूर्वरूपं पश्यन्ती सा सकल्परूपा तस्याः स्थान ततोऽप्यन्तरग तस्या अपि पूर्वरूप परा सा मनोरूपा तत्स्थान हृदयमेव । इति वाड्मूलत्वेन मनो. रूपस्याऽऽत्मनो हृदय एव नित्यमवस्थानमिति बुद्ध्वा घाघशरीर बहि स्त्यक्त्वा तदसङ्गत्वनान्तरगतया सकल्पाधिष्ठाने मनोमय आत्मनि निस्तिष्ठेद्यावत्तन चिदाकाशानुभव. । ततस्तदृष्ट्या स्थूलादिसर्वबाह्य प्रपञ्चामावोऽनुभूयते तज्ज्ञान रजस्तमोयोगान्मनोरूपममावानुसधानेन तनिष्ठ तदनुसधानत्यागेन प्रत्यावाऽऽत्मनि माज्ञरूपे पच्छेत्सकल्पपरि- त्यागात् । तदेव लिङ्गदेहनिरासेन कारणदेहनिष्ठत्वम् । ततस्तज्ज्ञान अर्थप्रकाशसमेता- तमः प्रधानं सर्ववृत्तिविलयेन जडत्वरूपं महति तत्कारण आत्मनि महाकारणरूपे यच्छेत्तवधानसाक्षित्वेन तदवलम्बं संकल्पांश्च त्यक्त्वा साक्षिस्वरूपेणैवावतिठेत् । तत्प्रज्ञानं शुद्धसत्त्वप्रधानत्वेन महाकारण- देहरूपं शान्तं तदद्दष्टत्वं दृश्यदर्शनसापेक्ष तन्निरासे किं तेनावलम्बितेन न तेनाप्यात्मविभानं भवत्युक्तं च ' प्रज्ञानं न वेद ' इति सोऽदृष्टो द्रष्टा श्रुतः प्रोता तट्टत्वपरित्यागेन पेदितव्यस्तस्मात्तच्छान्तं साक्षित्वध- मपरित्यागेन निर्विकल्पतया कृत्वाऽऽत्मनि शुद्धे पूर्णे तन्मयत्वेन यच्छेत् । तेनैवाऽऽत्मत्वेन निर्विकल्पतयाऽपरोक्षवेनाऽऽत्मानुभवः । एवं नित्यशः शनैः शनैः शान्तसत्त्ववृत्तिं कृत्वा नित्यं तन्मयत्येनाव- स्थान सा ठा सा परा गतिः॥१३॥ एवं संसाध्य प्राप्तदशेन किं कायं तदाह- उत्तिष्ठन्तं जायतं प्राप्य वरान्निबोध तम् । क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति॥१४॥ उक्ताम्यासेन नित्यशः कृतेन तमात्मानमुक्तविधमुत्तिष्ठन्तं सदोस्थि. तमेव नतु शयानं तमोमावेन नित्यं चिदानन्दमयत्वेन वर्तमानत्वादतो जाग्रतं स्वस्मिन्स्वप्रकाशेनैव जागरां प्राप्नुवन्तं न तु स्वपन्तं प्राप्य संसिद्धसाधनः परानन्यानन्तेवासिनोऽधिकारिणः परीक्ष्य निबोध निबोधय । यतो यथा क्षुरस्य धारा निशिता तीक्ष्णाऽतो दुरत्यया दुःखेनाप्यत्ये तुमशक्या तथा तापथः पन्थानं दुर्ग दुःखेन गम्यते दुर्ग कवयो ज्ञानिनो वदन्ति । अतः परान्सम्पपरीक्ष्य निबोधय । अपरी- क्षिता अनधिकारिणो नियोधिताश्चेत्तर्हि ते तस्मिन्दुर्गे पथि पति- तुमजानन्तस्तत्पदमलब्ध्वा ततच्युताः सिद्धमन्याः कर्मादित्यागेन भ्रश्येयुः ॥१४॥ अधैयरूपदुर्गमविज्ञानेन किं स्यात्तदाह- अशब्दमस्पर्शमरुपमव्ययं तथाऽरसं नित्यम- गन्धवच यत् । अनायनन्तं महतः परं ध्रुवं निचाप्य ने मृत्युमुखात्प्रमुच्यते ॥ १५ ॥ यदात्मरूपं सलिलयनिरन्तरत्वेन परिपूर्णमप्पशब्दमविद्यमानः शब्दो यस्य तदशब्दम् । अस्पर्शमविद्यमानस्पर्शम् । अरूपमविद्यामानरूपम् ।

७७ कठोपनियत् । तथाऽरसमविद्यमानरसम् । नित्यं सर्वदाऽगन्धवञ्च न गन्धवद्गन्धवत् । शब्दादयो भूतानां गुणा पद्भौतिक सस्पैव स्युर्यदूतकारणं पर परातीतमन्तरतरं तस्य कथं स्युः । पुनः कथम् । अव्ययं व्ययरहितं यथावदेव वर्तमानम् ।अनाद्यविद्यमान आदिः कारणान्तर यस्य तदना- दिसिद्धम् । अनन्तमविद्यमानोऽन्तः परिसमाप्तिर्यस्य तत् । महतः परं महान्सर्वजगतः कारणं परमात्मा महामायाश्रयस्तस्मादपि परमेताय. दिति तस्य महत्त्वं केनोच्येत । अत एवोक्तपूर्वम् ' महतो महीयान् ' इति । ध्रुवमचञ्चलं सर्वत्र तदेव कुत्र चलितव्यं सर्वमाकाश एव चलति स आकाशस्तस्मिन्नेकदेशी विवर्तः । यदेवं विशिष्टं तमात्मानं पूर्णचैत. न्यरूपं निचाय्याऽऽत्मन्यात्मत्वेनैव पूजयित्वा नित्यं निष्ठाय दशां प्राप्य मृत्युमुखान्मृत्योर्मरणस्य मुखात्प्रमुच्यते प्रमुक्तो भवति ॥ १५ ॥ स्वोपदिष्टं स्तौति- नाचिकेतमुपाख्यानं मृत्युमोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥ नाचिकेत नचिकेतसा स्वया लब्धमतो नचिकेतसस्तवेदं नाचिकेतं मृत्युप्रोक्तं मृत्युना मया प्रोक्त सनातनं चिरन्तनं नास्मिन्नेव काले निर्वृ- त्तमुपाख्यानमुक्त्वा पठित्वा श्रुत्वा च मेधावी सुमेधास्तपठनश्रवणपु. ण्येन ब्रह्मलोके ब्रह्मणश्चतुराननस्य लोके सत्याख्ये महीयते पूज्यो भवति ॥१६॥ किंच- य इदं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७ ॥ यः पुमानिदं परमं गुह्यमनधिकारिमिरश्रव्य नाचिकेतमुपारयानं बह्मसंसदि ब्राह्मणसभायां श्रावयेद्राह्मणान् । श्राद्धकाले वा प्रयतः सन्मुञानाञ्भावयेत् । तस्य तच्छ्रावण श्रोतृपुण्यस्य श्राद्धस्य चानन्त- ७८ अर्थप्रकाशसमेता- स्वाय कल्पते कल्पेत समर्थ मवेत् । सदानन्याय कल्पत इति द्विरुक्तिः प्रकरणसमाप्त्यर्था ॥ १७॥ इति श्रीमदादिगुरुदत्तात्रेयदिगाम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थप्रकाशे तृतीया वल्ली व्याख्याता ॥३॥ - पूर्ववया परब्रह्मोपपादनं कृतं तज्ज्ञानमपि गुहायामात्मत्वेनैवास्ती- स्युक्तमेवं सति संनिहितस्याऽऽत्मनो ज्ञानं सर्वेपामपि किं न मयतीत्य- घोच्यते-- पराश्चि खानि व्यतृणस्वयंभूस्तस्मात्परा- न्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य- गात्मानमैक्षदावृत्तचक्षरमृतत्वमिच्छन् ।।१॥ स्वयंमूः स्वयमेवाऽऽस्मन एष निमित्तान्तरमनपेक्ष्य भूतः संभूतः स्वयंमूः । ननु कथं सिद्धस्य पुनः संमयश्चेत्तत्परिणामधिकारवादाभ्यां मन्तव्यं तर्हि विना निमित्तेन तत्समवनं कुतः । सत्यं तस्मान्न परिणाम: पूर्वरूपाम्रष्टत्वान्न विकारोऽपि पृथक्समर्थनिमित्ताभावात् । तदा कथ- मयं स्वयंमूरिति चेत् । शुद्धादात्मनः स्वगतचिप्रकृतिमवलम्ब्य शब. लेनेश्वररूपेण संभूतः । तसंमयनं प्रकृतिनिमित्तेन चेत्तदा कथं तदभाय उच्यत इति चेत् । न सा पृथक्सिद्धा स्वगता स्वरूपे तन्मयी यथा दीपप्रमा रत्नज्योतिरतः स एव सा! अतः स्वयमेवोपादानं स्वस्य निमि- समपि । तस्मात्स्वयंमूः परमात्मा स्वमृष्टानां जीवानां रवानीन्द्रियाणि द्वारमूतत्वेन तद्रूपत्वात्तत्संज्ञानि पराश्चि पराऽचन्ति पराश्चि प्राङ्मु- सानि उपतृणन्निर्ममे । तस्मात्तत्स्वमिन्द्रियं परानात्मेतरान्बहिर्भूताप- श्यति । नान्तरात्मन्नन्तरात्मनि गुहायामवस्थिते तुरीये प्रज्ञानरूपे धर्त- मानमात्मानं पश्यत्यन्तध्यान साक्षात्करोति । पराडिति पाठान्त- रम् । तस्वयोगेन पराऽति परावाहिर्मुस एव भूत्वा पश्यति नान्त. रात्मन् । किं तेनेन्द्रियाणि प्राङ्मुसान्येष सृष्टानि । सर्जनकाले तस्य परमात्मनः मृष्टिविस्तारापेक्षेपाऽऽसीतस्माद्ब्रह्मस्यां मनायेयेति संकल्पेन तानि तथा विस्तारानुरूपाणि सृष्टानि । ननु तदा सोऽस्मदादिवसरम- कठोपनिपत् । टिनिष्ठस्तदपेक्षायानिति जातं नु । न तणयोगेन तावत्कृत्वा पश्चा- रस्वयमेव तस्मानिवृत्तो न जीवा इव तष निमग्नः पराद्धृतोऽस्ति । ननु च तदा गुणवशत्वमपि तथा जातं नु तदा कथं तत्प्रकृतिराश्रय. स्पामोहिनी । यथा स तदवलम्बने शक्तस्तथा तत्त्यागेऽपि न तत्र निमित्तान्तरापेक्षावानस्मदादिवत्तेन स एव समर्थो न तथा तत्प्रकृतिर- विद्येव हटबन्धनकरी यत्र गुणास्तत्र तदनुरूपं किंचित्कार्य संभवत्येव तदमावे कुतो गुणत्वं नेपाम् । केवले निर्गुणे तत्कार्यस्याप्यमावो न परमात्मनि तथा विज्ञेयं तेन सर्वेण सह स नित्यमुक्तोऽतो न दोपः। पेन्नान्तरात्मनि पश्यति तदा किं न्वात्मदर्शनामाव एव । न कश्चि- धीरो विधेकी शुद्धचित्त आस्थावानात्मनोऽमृतत्वं शुद्धेन रूपेणामृत- मावमिच्छन्नावृत्तचक्षुरावृत्त प्रत्यावृत्तं चक्षुश्चक्षुनिठं प्रज्ञानं यस्य स आचार्यप्रसादादात्मप्रज्ञानं बहिर्विषयेषु प्रविमक्तं ततः प्रत्याया- न्तरात्मनि प्रत्यगात्मानं प्रत्यश्चति प्रत्यहमत्यमुस आत्मा तं प्रत्यगा. स्मानमैक्षदेक्षत दृष्टवान् । तदा पूर्वमेघ कस्यचिदनुमपो न मविष्यद्व- तमानकालयोरिति नोऽधिकारिणां कालवयेऽपि तज्ज्ञानं धर्तत एव । भूपते प तथा 'तद्यो यो देवानां प्रत्यबुध्यत स स तदमवत्तथीणां तथा मनुष्याणां तद्धतत्पश्पन्नृपिर्वामदेवः पतिपेदेऽहं मनुरमयं सूर्यश्चेति तदि- यमप्येतहि य एवं वेदाहं ब्रह्मास्मीति सइद सर्व मपति तस्य ह देवाश्च नामूत्या ईशत आरमा ह्येपास भवति' इति। ननु सत्संकल्पेन परमात्मना पराङ्मुखत्वेनैव सृष्टानीन्द्रियाणि पुनः कथमन्तर्मुसाणि भवन्ति । सत्यं, न तत्संकल्पस्य कोऽप्यन्यथाफरणे शक्तः स्वयं तु भवत्येव नेति वक्तुमशक्यं संकल्पस्य मिथ्यात्वप्रसङ्गात् । तस्मात्तदिच्छयैव संभवति नास्येच्छया किंचित् । कथं सृष्टाक्षीवानविद्यावृतान्गुणतत्कर्मबद्धान्संसारसागरे पतितान्वीक्ष्य तेपामात्मरूपप्रकाशनेनोद्धरणेच्छया वेदास्तत्रोक्तसत्क- मौदिसाधनानि निर्ममे । तद्योगेन तमाराध्य तत्प्रसादादवाप्तपरविद्यये. न्द्रियाणां पुनरन्तर्मुखप्रवृत्तिर्भवति नास्येच्छया । ननु कुतस्तदा परमा- स्मनः सर्वज्ञत्वं, यथा कश्चित्पुमान्मयोजनान्तरमुद्दिश्य तदनुरूपं कार्य विदधाति । अग्रे तदेव प्रतिकूल दृष्ट्वा पुनरन्यथा करोति । असर्व- ज्ञत्वात् । न सर्वज्ञे परमात्मन्येव वक्तुमुपपन्नम् । पूर्व सृष्टिविस्तारापे. क्षया जीवानामिन्द्रियाणि सृष्ट्यभिमुखान्येव कृतान्यग्रे मोक्षविषये तत्मतिकूलं विज्ञाय पूर्वकृतमात्मसकल्पमन्यथा कृत्वा तान्येवान्तः- प्रवृत्तिपराणि व्यधायि तदा कथं तत्सर्वज्ञत्वम् । नानेन प्रयोजनेन पर- ।

अर्थप्रकाशसमेता- स्वात् । तेन मात्मनः सत्संकलिगत्वं सर्वज्ञत्वं च हीयते । कथं सृज्यमानानां जीवानां प्रवृत्तिः प्रपञ्चाभिमुखैव मवतु न कदाऽप्यन्तर्मुखेति न तन्मतिरासीत् । तदा किं नान्तर्मुखत्वमेपामिति चेत् । संकल्पस्तु बह्वस्यां प्रजायेयेत्येव । तदा कारणभूतस्य परमात्मनः प्रपश्चाभिमुखत्वमासीत्सर्जनकालमाप्त- सृष्टा अपि जीवाः प्रायः प्रपञ्चामिमुखा एव बभूवुः। अन्तःप्रवृत्तिस्तेषां कदापि न मवेदेवेति न । एवं चेत्तदा किमेवमुच्यते 'कश्चिद्धीः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ' इति । तस्मा. कर्मोपासनादियोगेनाऽऽराधितपरमात्मप्रसादादन्तःप्रवृत्तिरपि संभवत्ये. यातो न दोषः॥१॥ एवं सति- पराञ्चः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशान् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते ॥ २॥ पराऽश्चन्ति पराञ्चः प्राङ्मुखा बहिर्मुखा अत एव बाला बालबुद्धयः कामान काम्यन्ते कामा विषयास्ताननुयन्त्यनुलक्ष्य गच्छन्ति ते पराञ्चो बाला कामाननुयन्तो विततस्य विस्तीर्णस्य सकरणदेहदयं व्याप्य वर्तमा. नत्वात् । मृत्योमारकस्य रजस्तमोगुणोद्भवस्यासुरस्वमावस्य पाशान् । स एव स पाप्मा यदेवेदमप्रतिरूपं वदतीत्यादिनोक्तान्मृत्युस्वरूपानेय यन्ति । यथा तृणासक्ता इतस्ततो विचरन्तो मृगा व्याधेन विस्तृतान्पा. शान्पन्ति तत्र सिता भवन्ति तथा ते काम्पनिपिद्धकर्मपाशेपु बद्धा भवन्ति । संचितप्राचीनक्रियमाणाभिवृद्धया न तत्पाशाद्विमुक्तिः सहसा तेपाम् । अथशब्दोऽनन्तरारम्भार्थः । धीरा विवेकिनो नित्यानित्यवस्तु. विचारज्ञा अमृतत्वमात्मनोऽविनाशिस्वरूपत्वं सदाचार्यप्रसादाद्विदित्वे. हास्मिन्ससारेऽधुषेषु कालाधीनत्वेनानित्येप देहेषु स्त्रीपुत्रादिरूपेषु ध्रुवं नित्यमवस्थानमहंममतायोगेन न प्रार्थयन्ते वाञ्छन्ति ॥२॥ तत्सत्तथैव सर्व व्यवहरतेऽतो न तदतिरिक्तं किंचिदिति दर्शयितुमाह- येन रूप५ रस५ गन्ध शब्द स्पर्शाच मैथुनान् । एतेनैव विजानानि किमत्र परिशिष्यते एतदै तत् ॥ ३॥ येन सेन यदिन्द्रियपञ्चविधेन पुमानरूपं रसं गन्धं शब्दं मैथुनान्मि- थुनेपु जातानपशान्विजानाति । पञ्चसु विषयेषु स्पशा एय मेथनाः कठोपनिपत् । परस्परयोगसमवत्वात् । न तथा शब्दादयो दूरत एवानुभूयमानत्वात् । ननु रसज्ञानं तु रसनासंयोगेन भवति । या स्थूला सा कर्मकरणान्त:- पातिनी सूक्ष्मा त्वन्तर्वतिनी मिन्नैव । तदेतेनैवाऽऽत्मना पूर्वोक्तेन विजानाति । स एषाविद्योपाधियोगेन प्रत्यक्चैतन्यत्वं प्राप्य हृद्यवस्थाय स्वप्रज्ञाप्रकाशेन श्रोनद्वारेण शब्द बहिर्भूतं विजानाति त्वचा स्पर्शा- शक्षुपा रूपं रसनया रसं घ्राणेन गन्धम् । विचारितमवास्मिशरीरे तं विना किं परिशिष्यते परिशिष्टं मवति । तस्मात्तत्कर्तृकरणरूपमेतद्वा एतदेवोपक्रान्तं परं ब्रह्मैवास्ति । तथा विषयजातं स्वस्थूलमप्येतदेवैक- मवस्थाजनितत्वात्स्वप्नप्रपञ्चवत् ॥ ३ ॥ स्वमान्तं जागरितान्तं चोभी येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥ स्वप्नान्तं स्वप्नावस्था जागरितान्तं चेत्युमावन्तौ येन प्रत्यगात्मनाऽनु- पश्यति । अविद्यातकार्यगुणतत्कृतदेहादिसर्वनिरासेन तमेवाऽऽत्मान महान्तं पूर्ण विमुं सर्वाधिष्ठानं सन्मानं मत्वा ज्ञात्वा धीरो विवेकी न शोचति सांसारिकहानिमृत्युदर्शनेन न शोकमवाप्नोति सर्वस्य मिथ्या- स्वदर्शनात् ॥ ४॥ किंच- य इमं मत्पदं वेदाऽऽत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य ततो न बिजुगु- प्सत एतदै तत् ॥ ५ ॥ यः पुमान्विशुद्धचित्तोऽधिकारीममुच्यमानमासानं मत्पदं मम पद विश्रान्तिमपेक्ष्य तस्मिंश्चिदानन्दमये निर्विकारत्वेनावतिष्ठते न पदत्वेने- तरदात्मानमात्मभूतम् । न ममैव जीवमविद्योपाधियोगाजीवरूपेण सर्वत्र वर्तमानम् । अन्तिकादन्तिकं यद्यदन्तिकत्वेन वर्तते ततोऽप्य- न्तरङ्गम् । कथम् , इदं स्थूलं जडं दृश्यं तेन बहिर्भूतं दर्शनाश्रय आत्मा ततोऽन्तरङ्गः । तल्लिङ्गमपि पञ्चविंशतिवृत्तिरूपं तेन ज्ञेयं ज्ञानाश्रयाद. हिर्भूतं तत्कारणं कारणशरीरं तमोरूपमपि प्रज्ञानेन ज्ञायते तस्मात्मज्ञानं - तदन्तरङ्गं ततोऽपि प्रज्ञाता तदाश्रयत्वात् । तस्मिन्नपि सत्तारूपत्वेन वर्तमान ज्ञानज्ञेयसापेक्षितस्य तस्य परित्यागादात्मत्वेनानुसूयते ततोऽन्य-

.
८२
अर्थप्रकाशसमेता-
किमन्तरम् । एवमपि भूतमव्यस्य मूतस्य पौर्वकालिकस्य मध्यस्यो-
तरकाले भविष्यतो भवतश्चेशानमीट ईशानस्तमीशान नियामक मायो।
पाधियोगादीश्वररूपेण वर्तमानम् । एवंरूपमात्मानं वेदोक्तप्रकारेणाss-
स्मन्यात्मत्वेन निर्विकल्पतयाऽपरोक्षत्वेन विजानाति ततो न विजुगुप्सते
किंचिन्निन्दति । कस्मात् , एतद्वा एतदेवोक्तमात्मरूपं तद्विजगुप्स्यम् ।
सोऽन्वयेन सर्वात्मरूपदर्शी भवति ॥ ५॥
यः पूर्व तपसो जातमयः पूर्वमजा-
यत । गुहां प्रविश्य तिष्ठन्तं यद्भूते-
भिर्व्यपश्यत एतदै तत् ॥ ६ ॥
यो यद्ब्रह्म पूर्वमुत्पत्तिकाले संमाप्ते तपसो ज्ञानमयाच्छचलं जात.
मुक्तं चान्यत्र 'तपसा चीयते ब्रह्म' इति 'यस्य ज्ञानमयं तपः' इति च ।
निर्विकल्पत्वं परित्यज्य प्रज्ञानं स्वगतमवलम्ब्य निद्रितः प्रबुद्ध इय
सविकल्पमभूत् । ततो व्यक्तमहत्तत्त्वत्रिगुणाहंकाररूपेण भूत्वा भूतप.
शकं निर्माय तत्कार्य ब्रह्माण्ड पिरचयान्तः पूर्व प्राग्जीवसर्जनादद्भय
उदकेभ्योऽन्तरवशिष्टेभ्योऽजायत प्रथमशरीरि जातम् । उक्तं चान्यत्र
'अद्यः संभूतः पृथिव्यै रसाच' इति । कथमोऽजायत तदेतहगार-
ग्यकेऽमिहितमस्ति-'आत्मा वा इदमेक एधान आसीनान्यत्किंचन
मिपत्स ईक्षत लोकान्नु मृजा इति स इमाँलोकानमृजताम्मो मरीचीम-
रमापोऽदोऽम्मः परेण दिवं धौः प्रतिष्ठाऽन्तरिक्षमरीचयः पृथ्वीमरो या
अधस्तात्ता आपः स ईक्षतेमे नु लोका लोकपालानु सुना इति
सोऽदय एष पुरुपं समुद्धृत्यामूच्र्छयत्तमम्पतपत्तस्यामितप्तस्प मुर
निरभिद्यत यथाऽण्टं मुरादाग्याचोऽग्निनासिके निरमिधेत नासिकाम्पा
प्राणः पाणाद्वायुरक्षिणी निरमितामक्षिम्यां पाप आदित्यः
फर्णी निरमिता फाप भोत्रं धोत्राशिस्त्यनिरमियत त्यसो
लोमानि सोमम्य ओषधियनस्पतयो हदयं निरभिद्यत हदयान्मनो मन-
सचन्द्रमा नामिनिरभिद्यत नाम्पा अपानोऽपानान्मृत्युः शिश्नं निरभि.
पत शिनादेतो रेतस आप:' इति । गहां तद्देवनिठहृदयगृहां प्रविश्य
तिष्ठन्तं तिष्ठत् । पदेहयतुष्ट पनपेण पर्तमान मतेभिभूतम्र्षपश्पत पE.
रक्त पृष्टम् । एतद्धा एतदुक्तमारगरपगेप सरसजगदुत्पत्तिकारणर-
मोतम् ॥६॥

कठोपनिषत् । या प्राणेन संभवत्यदितिर्दवतामयी। गुहां प्रविश्य तिष्ठति या भूतेभि- Zजायत एतदै तत् ॥ ७ ॥ येश्वरनिष्ठा चित्मकृतिः प्राणेन प्राणशब्दवाच्यपञ्चविंशतितत्त्वसमू. हेन स्वनिष्ठेन संभवति प्रतिसर्गमादित्यादिदेवतारूपेण व्यक्तत्वेन संमवति । अतोऽदितिरनवच्छिन्ना देवानां माता सा देवतामयी विष्ण्वादिदेवतारूपा । गुहां देवशरीरनिष्ठां प्रविश्य तिष्ठति ततो या मूतेमिभूतैः सर्वप्राणिरूपैय॑जायत विविधा जाता । एतद्वा एतदेवाऽऽ. त्मरूपं तत्परमात्मनि चित्प्रकृतिरूपेण वर्तमानम् ॥ ७ ।। अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भि- हविष्मद्भिर्मनुष्येभिरमिः । एतद्वैतत् ॥८॥ जातवेदा अग्निररण्योः पूर्वोत्तररूपयोनिहितः । तत्र दृष्टान्तः-गर्मि- णीमिः स्त्रीभिः सुमृतः शोभनप्रकारेण धृतो गर्भ इव निहितः । सोऽर. ण्योरभिमन्थनेनोत्पन्नोऽनिर्जागृवद्भिर्जागरितः प्रबुद्ध विद्वद्भिर्हविष्मद्भिः स्तत्पूजनाय हवींषि सन्त्येषां तैर्गृहीतहविभिमनुष्येभिर्मनुष्यैर्दिवे दिवे दिने दिन ईड्यः स्तुत्यो भवतीडित्वा हूयते । एतद्वा एतदेवाऽऽत्मरूपं तनिरूपम् ॥ ८॥ यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वेऽपितास्तदु नात्येति कश्चन । एतदै तत् ॥९॥ यतश्च वायोः सूर्य उदेत्युदयं गच्छति । यत्र चास्तमदर्शनं गच्छति । प्रत्यहं हि वायुयोगेनोदेत्यस्तं गच्छति च । तं वायु सर्वदेवा अर्पिताः प्रापितास्तदाधारेणैव वर्तन्ते तदु वायुरूपं कश्चन नात्येति नातिकम्य गच्छति । एतद्वा आत्मरूपं तद्वायुरूपम् ॥ ९ यदेवेह तमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमामोति य इह नानेव पश्यति ॥ १० ॥ पदेवाऽऽत्मरूपं पूर्णमिहास्मिलोकेऽस्ति तदमुबामुग्मिन्स्वर्गे लोकेऽ. स्ति । यदमुनास्ति तदिहान्वनुगतमस्ति। तस्मात्तत्सर्वाकारमपि निजाका.

१ - अर्थप्रकाशसमेता- रेण यथावदेव निराकारं सर्वाकारस्य निराकारत्वाद्विवर्तरूपत्वेन । एवं सति योऽनधिकारी बहिर्मुख इहास्मिन्नात्मस्वरूपे नानेव नानक नास्त्येव तस्मान्नानेव नानावत्पश्यति तात्विकभेदबुद्धया स मृत्पोरनन्तरं मृत्यु मानोति मृत्वोत्पद्य यथाकर्म जीवित्वाऽन्ते म्रियते पुनरुत्पद्यत इति संसारचक्रारूंढः परिभ्राम्यत्येव ॥१०॥ एवं सर्वत्र वर्तमानस्याऽऽत्मनो ज्ञानं कथं भवतीत्यत्राऽऽह- मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ पतस्तज्ज्ञानमुक्तप्रकारेण हृवयगुहायामेवास्ति तस्मादिदमुक्तविधमा स्मरूपं मनसैवाऽऽतव्यं प्राप्तव्यम् । ननु मनः सत्त्वरजआत्मकं तेन कथं निर्गुणं तज्ज्ञातुं शक्यं श्रूयते च ' यतो वाचो निवर्तन्ते ' अप्राप्य मनसा सह यं मनो न वेद 'अमतो मन्ता' इति । सत्यं, यत्स्वगतं प्रज्ञानं तदेव गुणत्रययोगेणान्तःकरणादितत्त्वरूपेण जातमत एवोच्यते 'सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति । यद्गुणप्रधानं तद्रूपं न तेनाऽऽत्मा ज्ञातुं शक्यः । सर्वगुणविलयेन यन्निर्विकल्पं स्वरूपे तदाकारत्वेन वर्तमानं तेनाऽऽत्माऽऽत्मत्वेन ज्ञातव्यः । इहास्मिन्विशुद्धs- नुभूयमान आत्मनि किंचन किंचिदपि नाना नानाकारण मासमानं नास्ति । विवर्तरूपस्यास्याधिष्ठानदृष्टया मानं कुतः। एवं सति य इह नानेय पश्यति स मृत्योर्मृत्युं गच्छत्तीत्येतदुक्तार्थम् ॥ ११ ॥ अंथान्तर्मुसमवृत्तिनिमित्तं तस्य सोपाधिकरूपमुच्यते- अङ्गुष्ठमात्रः पुरुपो मध्यमात्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सत् एतद्वै तत् ॥१२॥ अन्धश्चतुरगुलः स प्रमाणमस्याहुन्छमात्रोऽष्टपमितः । पुरुष इदं शरीरं यः पिपर्ति पालयति स्वपज्ञापकाशेन पूरयति च स तेन पुरुपः । आत्मनि देहे मध्य हत्पुण्डरीकं तिष्ठत्यधितिष्ठति । हृत्पुण्डरीकस्यान्त- राऽवकाशोऽगुन्टमात्र एवास्ति तनिष्ठत्यात्सोऽपि तावानेवास्ति । स शुद्धेनाऽऽमरूपेण भूतमध्यस्येशानोऽतो ज्ञातयः । विज्ञान तमि. स्ततो न विजगप्सते न किंपिन्निन्दति सर्वस्य तट्टपत्यदर्शनात् । एतद्वा आरमयपं तत्पुरुपरपम् । यस्प मनो विपयसदनात्मत्यावर्य शरीरासर- कठोपनिपत् । खेनान्ततिं तस्मिन्दहरे निरवलम्वत्वेन निश्चलं न तिष्ठत्तेन प्रथममनु- मानपुरुपचिन्तनं तत्र कृत्वा तेन मनो वशं विधाय पश्चात्तदवलम्बपरि- स्पागेन निरवलम्बनिष्ठत्वं प्राप्योक्तप्रकारेणाऽऽत्मा वेदितव्यः ॥१२॥' यस्यान्तर्मुखस्यापि तस्मिन्व्योम्न्यन्धकार एव विभाति न प्रकाश- स्तेन किं कार्य तदुच्यते- अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाय स उ श्वः । एतद्वै तत्॥१३॥ अष्टमात्रः पुरुपो ज्योतिरिवाधूमकः स्वप्रकाशोऽस्ति । ईशानो भूतमव्यस्य स एवाद्यास्मिन्वर्तमानकालेऽस्ति स उ स एव श्वः परेद्य. घ्युत्तरकाले भविष्यति न तस्य कालत्रयेऽप्यमावः । एतद्वै तत् । एवम• न्तर्योतिर्विचिन्तनेनान्धकारनिवृत्त्या प्रकाशमुपलभ्य तदवलम्बपरित्या- गेन यथापूर्वमात्मानमनुमवेत् ॥ १३ ॥ एवमात्मानं विजानतोऽविजानतश्च का गतिरित्यत्राऽऽह- यथोदकं दुर्गे वृष्टं प्रवतेषु विधावति । एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥ यथोदकं दुर्गे दुर्गम उच्चैः प्रदेशे वृष्टं पर्जन्येन सत्प्रवतेषु प्रयणेषु निम्नेषु प्रदेशेषु प्रपथेप्विति पाठान्तरम् । प्रपथेषु प्रशस्तेषु पथिषु विधावति विशेपेण धावति । एवं तथाऽशुद्धचित्तो मन्द आत्मानं पूर्णब्रह्मणः पृथग्मिन्नं धर्माश्चाऽऽचर्यमाणानात्मनो लोकांश्च प्राप्यान्पृ. थपश्यन्विजानन्केवलमेदबुद्धिर्ये पूर्वमाचरितास्तानेव धर्मान्वासनाम- यत्वेनावस्थितानन्वनुलक्ष्य विधावति । कर्मफलमोगार्थमुच्चकैः स्थानेऽ. पस्थितस्तत्पुण्ये मोगेन क्षीणे ततो निसृत्यान्यकर्मफलमोगार्थ प्रवतमिम लोकं हीनतरं वा विशति । उक्तं चान्यत्र- 'नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति' इति॥१४॥ यथोदकं शुद्धे शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥ यथोदकं शुद्ध निर्मलमुदके शुद्ध आसिक्तमा समन्तारिसक्तं सत्ताहगेव तादृशमेव तदूपमेव भवति हे गौतम गोतमस्य गोवापत्य नचिकेत एवं तथा तस्य विज्ञानतो गुरूपदिष्टप्रकारं विशेषेण निःसंदेह- ८६ अर्थप्रकाशसमेता- तया जानतः सतो मुनेर्मननशीलस्य तथाऽभ्यासिन आत्मा तादृगेव पूर्णस्वरूप एव भवति पूर्वमपि तदेवाऽऽसीन्मध्य उपाधियोगादन्यथा. त्वमिव प्राप्तः पुनस्तदपगमे तदेवास्ति तस्माद्भेदो मृपैव ॥ १५ ॥ इति श्रीदिगम्बरानुचरविरचित ज्ञानकाण्डे कठवल्लयुप- निपदर्थप्रकाशे चतुर्थी वल्ली व्याख्याता ॥४॥ आत्मनः सर्वात्मकवविज्ञानाय पुनस्त मेवामिप्राय प्रकारान्तरेणाऽऽह- पुरमेकादशद्वारमजस्य वक्रचेतसः । अनुष्ठाय न शोचन्ति विमुक्तश्च विमुच्यत एतदै तत् ॥ १ ॥ अजस्प शुद्धामरूपेणाजो यतोऽजोऽतोऽनादिसिद्धस्तस्य वक्रचेतस उपाधियोगात्समाप्तदेहस्य तद्वणमधानत्वेनान्यथाज्ञानयोगाइक चेतो यस्प तस्याऽऽत्मनः पुरं 'दह्र विपापं परवेश्मभूतर हृत्पुण्डरीकं पुरमध्यसर. स्थम् ' इत्युक्तत्वाच्छरीरमेव स्थूलं पुरम् । सोऽत्र राजेवाध्यक्षो नाना- विषयमोगवानवस्थात्रययोगेण क्रीडापररूयावसथस्तब मुख्यं स्थानं धेश्ममूतं हृत्पुण्डरीक ज्ञेयम् । पुरस्य द्वाराणि वर्तन्ते तथेदमप्येकादश- द्वारम् । एकादश द्वाराणि यस्प तत्तथा कानि तानि वे श्रोत्रे द्वे च नन्ने द्वे च नासे एका च रसनाधिश्च द्वे गुदोपस्थावकं च त्वरूपं स्पर्शज्ञान- द्वारमिति दश द्वाराण्येक च ब्रह्मरन्धमित्येकादश द्वाराणि । तहारेण ज्ञानस्य बहिरागमनं विषयाणां च सूक्ष्माणामन्तः प्रवृत्तिर्मवति । एवं तदात्मनः पुरमनुष्ठाय न शोचति न शोकं सांसारिकं पामोति । विमुक्तम विमुक्त एव शुद्धस्वरूपेण तथाऽपि विमुच्यते . संमासाविद्यावरणनिरा. सेन प्रविमुक्तो भवति । उक्तं चान्यत्र 'बहीव सन्ब्रह्माप्येति' इति । ननु सर्वेषामपि तत्पुरानुष्ठानं वर्तत एव नु(न) कुतस्तेषां विशोकत्वं विमु. तिश्च । सत्पं, सर्वैधिष्ठितमेव तथाऽपि न तेपा पुरस्प ज्ञानं तत्रत्यानां स्थानानां मुख्य हत्पुण्डरीकरूपमात्मनो नित्यनिवासस्थानं तस्यापि नध्यक्षस्याऽऽत्मनोऽपन्यथाज्ञानप्रधानत्वेन तदात्मत्वेनैव मन्यमाना- स्तेनाहंममत्वयोगेन खीपुत्रवित्तपदार्थवियोगे शोचन्ति यथा राजा स्वमावस्थायामन्यथाज्ञानयोगेन स्वपदमात्मनो वैमवं च विस्मृत्य तत्रत्यं विपरीतं दुःखजनकं भावं यथार्थत्वेन मन्वानः शोचति । ततो यथा- कालं तामवस्थामुलध्य प्रज्ञानावलम्पनेन जागरितो मवति तदा प्रति-

कठोपनिषत् ।
फूलमावापगमेन बन्धनाद्विमुक्तः पुनः स्वपदेऽवस्थितो न शोचति ।
तथाऽयमप्यधिकारी जन्मान्तरकृतेशाराधनयोगेन सद्गुरुणा प्रबोधितो
लब्धप्रज्ञानेन देहात्ममावं त्यक्त्वा तदेकादशद्वारं पुरमिवाऽऽत्मनोऽसङ्गं
दृश्यं नडं तेन विजातीयमात्मा तु प्रज्ञानवांस्तत्साक्षी नित्यं हृत्पु.
ण्डरीकान्तराकाशनिष्ठः क्रीडार्थ जागरामवलम्ब्य नेत्रस्थाने निष्ठाय
बाह्यमपञ्चमनुमवामि तवत्यांश्च विषयान्मुने तथा स्वप्ने कण्ठस्थान-
मधलम्ब्य तदवस्थाजनितं प्रपञ्चं पश्यामि सुपुप्तिसमये च विज्ञा.
नेन स्वगतेन करणनिष्ठं विज्ञानमादाय पुरीतति स्वपिमि तस्मादहं
सावस्थप्रपञ्चस्य तस्य साक्षी तुरीय इति विज्ञाय तेन श्रान्तः श्रमनि-
वृत्तये तद्भावावलम्ब त्यक्त्वा तस्मिन्निजवेश्मन्यन्तोनि तत्सापेक्षित.
द्रदृत्वपरित्यागाज्ज्ञानाज्ञानपरिलोपेनाऽऽत्मनि निर्विकल्पत्वेन चिदान.
न्दमयस्वेन स्वपदे तिष्ठति तदा स्ववैभवविज्ञानेन सांसारिकसङ्गविमुक्तो
न शोचति । अन्यस्तु शोचत्येव । एतद्वै तत्पुरादि सर्वम् ॥ १॥
किंच-
हसः शुचिपदसुरन्तरिक्षसोता
वेदिपदतिथिटुरोणसत् । नृपवर-
सहतसद्व्योमसदब्जा गोजा ऋतजा
अदिजा ऋतं वृहत् ॥ २ ॥
स पूर्ण आत्मा हंसो हन्ति गच्छति सर्वदा हंस आदित्यः सञ्शुचिः
पच्छुची झुलोके सीदति तिष्ठति शुचिपत् । वसुर्वसति सर्वत्र वसुर्वायुः
सन्नन्तरिक्षसदन्तरिक्ष सीदति होता जुहोति ददाति देवेभ्यो हविर्यथा-
मागं होताऽमिः सन्वेदिपत् , वेद्यां संस्कृतभूम्यां स्थण्डिले सीदति ।
उक्तं चर्पिणा 'यो होताऽऽसीत्प्रथमं देवजुष्टः' इति । अतिथिरतति
गच्छति सततमतिथिः सन्दुरोणसद्दुरोणेषु गृहेषु गृहिणां शुचीनां
सीदति । नृपन्नृपु मनुष्येपु गुरुरूपेण सीदति । वरसद्वरं सर्वस्माद्विद्या-
जातात्परविद्यारूपं तस्मिन्सीदति । ऋतसदृतं वेदाधपरविद्यारूपं तस्मि-
न्सीदति । व्योमसद्वयोम्न्याकाशे त्रिविधे सीदति । अप्सु जायतेऽब्जाः।
गवि पृथिव्यां जायते गोजाः । अते दिवि जायत ऋतजाः । अदिषु
पर्वतेपु जायतेऽद्विजाः । इति हंसाद्येततं सत्यं बृहद्ब्रह्म ॥ २॥

'द अर्थप्रकाशसमेता- यस्माद्यविज्ञानाच्छोकनिवृत्तिर्मोक्षश्च तस्मात्-- ऊर्ध्व प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ यः प्राणमूर्ध्वमुन्नयत्युद्गमयति । अपानं प्रत्यक्पश्चादस्यति क्षिपति । तं प्राणापानयोर्मध्ये वामन द्वस्वं चतुरडलंमिताद्गुष्ठमात्रमातीनमुप- विशन्तं विश्वे सर्वे देवा उपासते परमानन्दावाप्तयें तनिष्ठत्वेन सेवन्ते ॥३॥ गता: तद्विज्ञानप्राप्त्पनन्तरं पुरस्य तत्स्वामिनश्च का मतिरित्यनाऽऽह- अस्य विलंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥ अस्योक्तविधात्मोपासनापरस्य शरीरस्थस्य देहिनो विनंसमानस्य प्रारब्धकर्मक्षयेण संप्राप्तजरया विशेषेण संसमानस्प ततो देहाद्विमुच्य. मानस्य तत्पातादूर्व किमत्र परिशिष्यते न किंचित् । तस्य शरीर भौतिक निजकारणं भूतपञ्चकमप्येति । तथाऽध्यात्मकरणसंघोऽपि निजेऽधिदैवतरूपे संक्रामति । उक्तं च 'वातं प्राणश्चक्षुरादित्यं मन- श्चदं दिशः श्रोत्रं पृथिवी* शरीरमाकाशमात्मौपधीलोमानि वनस्पती. न्केशा अप्सु लोहितं च रेतन निधीयते' इति । अवाऽऽकाशशब्देन पर ब्रीय विज्ञेयमाकाशशरीरं ब्रह्म सं ब्रह्मेति । एवं मुण्डकेऽपि कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्व प्रतिदेवतासु । कर्माणि विज्ञानम- यश्च आत्मा परेऽव्यये सर्व एकी मयन्ति' इति । तस्मान्नान किंचिद. वशिष्यते तस्य । यथा घटोपाधिमङ्गे तच्छकलानां मृदेव गतिराका- शस्तु तत्संबन्धी सर्वगते व्योनि तिष्ठति तथाऽस्य गतिः । एतई तत्रा- पशिष्टं पूर्ण तदुच्यमानमात्मरूपं विज्ञेयं न भेदः ॥ ४ ॥. यस्मादात्मन उत्क्रमणेन देहस्य मरणं तस्मात्-- न प्राणेन नापानेन मृत्योर्जीवति कश्चन ।. इतरेण तु जीवन्ति यस्मिन्नेता उपाश्रितौ ॥ ५॥ कश्चनायं देहो न प्राणेन मृत्योर्मृत्युसकाशाजीवति । तथा नापानेन मृत्योर्जीपति । इतरेण तु यस्तदितरः प्रज्ञानवान्स्वपज्ञाप्रकाशेनेई व्यापार प्रयतयति निवर्तयति च । तथाऽप्यसनः प्रदीपयत्तेनेव जीवन्ति देहाः । परिणमात्मन्येती प्राणापाना उपाभिती यमुपाश्रित्य पर्तेते ।

कठोपनिषत् । विज्ञानयोगेन तस्मिन्परे ब्रह्मणि तन्मयत्वेन गते । यद्वा कर्मयोगेणोध गते कुतः प्राणापानयोरवस्थितिस्तदमावे च शरीरस्यापि ॥५॥ पुनस्तदेव विस्तरज्ञानायोच्यते- हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥ हन्तशब्दो वाक्यारम्मार्थः । इदमिदानीमेव वक्ष्यमाणं गुह्यं गोप्यतमं सनातनमनादिसिद्धं ब्रह्म ते तुभ्यं प्रवक्ष्यामि । हे गौतम नचिकेतो यथा च येन प्रकारेण मरणं प्राप्य प्रत्यगात्मा पूर्णों भवति तं प्रकारं ते प्रवक्ष्यामि ॥ ६ ॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।। ७ ॥ अन्ये वक्ष्यमाणेभ्य इतरे देहिनो यथा यादृशं कर्म तथा योनि शरी. रत्वाय शरीराणि सन्त्येपा शरीराः शरीरिणस्तेषां भावः शरीरत्वं तस्मै शरीरत्वं प्राप्तुं प्रपद्यन्ते प्रगच्छन्ति । अन्ये तेभ्य इतरे यथाश्रुतं तथा स्थाणुं स्थिरतरं यतो न निवर्तन्ते । एवंभूतं ब्रह्मानुसंयन्त्यनुक्रमेण समीचा प्रकारेण गच्छन्ति ॥ ७ ॥ य एप सुप्तेषु जागति कामं कामं पुरुषो निर्मिमाणः ॥८॥ यः पूर्वोक्त एपोऽन्तःशरीरे वर्तमानः पुरुषः सुप्तेषु सर्वकरणेपु सत्सु जागति प्रज्ञानवान्स्वप्रकाशस्तेनासुप्तः कामं कामं स्वमावस्थायोगेन काम्पते काम्पते कामः कामस्तं निर्मिमाणो निमिमीते निर्मिमाणः सञ्जागर्ति । न तन्त्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयो- गान्पथः मृजते स हि कर्ता ॥ ८॥ कथं स शुद्धस्वरूपेण तदाह- तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतदै तत् ॥९॥ तदेव शुक्र यच्छुकं शुद्धं स्वप्रकाशं प्रज्ञानं येनावस्थात्रयसाक्षित्वं तुरीयेऽपि प्रकाशो यस्य निर्विकल्पत्वेन स्वरूपे शुद्ध वर्तमान तत्प्रकाश- * १२

अर्थप्रकाशसमेता-
कत्वेन तत्तदेव । तद्गुह्म परं तस्य तदपृथयूपत्वात् । तदेवामृतमविनाश्यु.
च्यतेऽतोऽन्यदातम् । तस्मिन्पूर्ण सर्वगते सत्तारूप आत्मनि सर्वे ब्रह्ममु.
धनादयो लोकाः श्रितास्तमेवाऽऽभित्य वर्तन्त उत्पत्तिस्थितिलयकालेपु
तदपृथक्सिद्धा विवर्तरूपत्वात् । कश्चन कोऽपि तद्वात्मरूपं नात्येति
नातिक्रम्य गच्छति । तस्मात्तदरे तद्वन्ति के तदन्तरस्य सर्वस्य तदु
सर्वस्पास्य वाहत ईश्वरत्वादेः सर्वस्यापि तत्कार्यत्वात्तद्गतिरेव । यथा
न जलातिरिक्तत्वेन तरङ्गस्य गतिरस्ति । एतद्वै तत् ॥ ९ ॥
कथं सर्वस्य तदाश्रितत्वं तदाह-
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूप५ रूपं प्रतिरूपो बहिश्च ॥ १०॥
यथैकोऽग्निः परमात्मना स्वसंकल्पेन मृष्ट आवरणमूतो भुवन
भवत्यस्ति सर्वमस्मिन्मुवनं ब्रह्माण्डमंशत्वेन प्रविष्टः सन्रूपं रूपं प्रति.
प्राणिशरीरं प्रतिरूपो जठराग्निरूपेणानेकधा बभूव । तथैकोऽद्वितीयः
सर्वभूतान्तरात्मा सत्तारूपेण सर्वत्र वर्तमानो रूपं रूपं प्रतिरूपो
जीवरूपेण बभूव
किं तद्रूपम् । नानाविद्या एव । कथं तासामाश्रया.
जीवरूपात्मागवस्थानम् । न तद्भेदेन सहसैव प्रतिरूपत्वं तासाम् ।
कथं, 'बह्वस्यां प्रजायेय' इति संकल्पेन निरुपाधिकस्यांशत्वेनासंम-
यात्तत्मकृतिर्मायेवांशत्वेनाविद्यारूपेणानेकधा संबभूव ता आभयादपृ.
थक्सिद्धा अतस्तदंशेन प्रतिरूपेण सहैव विभिन्नाः । यथा काठोपाधा-
पंशत्वेन विभिन्नेऽनेरप्शमेदो भवति तथा जीवरूपेण संबभूव । अत
एवोच्यते । इन्द्रो मायामिः पुरुरूप ईयते, युक्ता घस्प हरयः शता
दश
' इति । किं जीवरूपेणान्तरेव वर्तते । बहिश्चापि सर्वगतत्वेन
नेतरशून्यः ॥१०॥
वायुर्यथैको भुवनं प्रविष्टो रूप रूपं प्रतिरूपो वसूच ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ११ ॥
यर्थको पायुपहनरूपो ब्रह्माण्डायो मुवनं प्रविष्टोऽधिदेवतरूपो रूपं
रूपमध्यात्ममाणरूपेण प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा
रूप रूपं प्रतिरूपो पहिश्च ॥ ११ ॥

१ . कठोपनिपत् । एवं नानाविद्योपाधिपु प्रतिरूपत्वेन वर्तमानोऽपि न तद्वणकर्मभिलि. प्यत इति सदृष्टान्तमाह- सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुपै- हिदोपैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ १२॥ यथा सूर्यः सर्वलोकस्य सर्वजनस्य चक्षुरध्यात्मरूपेण रूपप्रकाश- फत्वेन सर्वचक्षुप्पु वर्तमानः । तथापि चाक्षुषैः स्थूलचक्षुःसंबन्धिभि- दिपिर्व हिवर्दोषैः कामलादिभिनं लिप्यते । तथैकः परमात्मा सर्व मूतान्तरात्मा सन्नपि लोकदुःखेन लोकस्य दुःखेन न लिप्यते न दुःखी भवति । यतो बाह्यो बहिर्मवः ॥ १२॥ परमात्मैवांशत्वेन जोवरूपस्तस्मादस्य गुहायां निहितस्य विज्ञानेनैव महिज्ञानं कृतकृत्यत्वमस्तीत्याह- एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मानं येऽनुपश्यन्ति धीरास्तेपार सुख५ शाश्वतं नेतरेपाम् ॥ १३ ॥ य एको वशी स्वतन्त्रः सर्वमूतान्तरात्मा बाह्यश्चैकं स्वीयं रूपं स्वेच्छया बहुधा करोति कृतवान् । तमात्मानं सर्वगतं पूर्ण ये धीरा विवेकिनः शुद्धचित्ता अधिकारिणः सदाचार्यप्रसादेनानुपश्यन्त्यात्म. न्यनुक्रमेण यद्यदात्मेतरत्तत्तन्निरस्य पश्यन्ति । तेषां सुखमानन्दः शाश्वतं नित्यं नेतरेषां तेभ्योऽन्येषां सुखं शाश्वतं ते यत्सुखमिति मन्यन्ते तद्दुःखान्त ध्येघाशाश्वतम् ॥ १३ ॥ किंच- नित्यो नित्यानां चेतनशेतनानामेको बहूनां विद- धाति कामान् । तमात्मानं येऽनुपश्यन्ति धीरास्ते- पाश् शान्तिः शाश्वती नेतरेपाम् ॥ १४ ॥ यः शुद्धामा नित्यानां नित्यः । यन्नित्यमिति मन्यतेऽजवान्मायो. पाधिरीश्वरत्वं च तस्मादपि नित्यस्तल्लयोद्भवस्थित्यविधानत्वात्तेनैव

-
अर्थप्रकाशसमेता-
परं ब्रह्म तदा तल्कार्यभूतोऽयमपि ब्रह्मरूप एवास्ति न भिन्नः । उच्यते
च 'सर्वं खल्विदं ब्रह्म, पुरुप एवेदं सर्वम् ' इति ॥१॥
पुनः किंविधं तत्-
तस्मिल्लोकाः श्रिताः सर्वे तदु
नात्येति कश्चन । एतदै तत् ॥२॥
सर्वे लोकास्तस्मिन्नेवोक्तविधे परे ब्रह्मणि श्रिताः । तदाश्रितत्वेनैव
सर्वमस्ति । अपृथक्सिद्धस्याधिष्ठानमात्रत्वात् । अतस्तदु कश्चन
कोऽपि नात्येति नातिक्रम्य तिष्ठति सर्वात्मभूतं तदेवैकमस्ति । तस्मा.
देत नामरूपाद्याकारेण प्रविभक्तं जगत्तदेव परं ब्रह्म । स्थित्युद्भव
लयकारणत्वात् ।।२।।
स्थितिकाले तस्मिन्नवस्थितं जगत्कथं वर्तत इत्यत्राऽऽह-
यदिदं किंच जगत्सर्व प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ ३ ॥
यदिदं किंच स्थूलं च सर्व जगत्माणे प्राणमते स्वकारणे तस्मिन्निःसृत
तस्मादुत्पन्नं तत्र स्थितं सदेजति कम्पते तद्भयेनैव स्वस्वव्यपारे वर्तते ।
तेन कथं तत् । महद्भयं महामयरूपं तजनकत्वात् । कथं वज्रमुद्यन्तमु.
द्यच्छत्युक्षिपति उद्यच्छंस्तमुद्यन्तमुद्यच्छन्तं मारणे बज्रमुद्यम्य तिष्ठन्तं
पुरुपं दृष्ट्वा यथा बिभ्यति तथा मयहेतुत्वेन महद्भपमित्युच्यते । ननु
तन्निविकार निर्विकल्पं सर्वान्तरतममात्मरूपमेव सर्वस्यैवं सति कथं
तदुक्तदृष्टान्तेन मयजनकं स्यात् । नाऽऽत्मनो मयमात्मनः । सत्यं तदेव
मायोपाधित्वेन सर्वजगत्कारणमूतमीशनशीलम् । कथं घेदचतुष्टयं
निर्माय तत्र कर्माकर्मविकर्मविमागं विधाय तत्फलान्यपि निर्मितवान् ।
तत्र कर्मणः फलं मोगमोक्षरूपम् । अकर्मविकर्मणोर्दुःख दण्डरूपं च ।
कदा तद्भयनिवृत्तिरस्य स्यादिति चेत् । यावज्जन्ममरणे वर्तेते, तायन्न
संसारनिवृत्तिः कुतो मयस्प । कदा जन्ममरणनिवृत्तिर्मवतीत्यपेक्षाया.
माह-पे निष्कामा एतदात्मरूपं विशुद्धं संनिहितं विदुराचार्यप्रसादा.
शहापामन्तः सर्वोपाधिनिरासेनापरोक्षवेन विजानन्ति तेऽमृता अवि-
नाशिनस्तदेकरूपत्वेन भवन्ति जननमरणामावात् । न तदा तद्भयं
तेपाम् । द्वितीयाद्वै मयं भवति तदमाये कुतो मएम् ॥ ३ ॥

कठोपनिषत् । न मनुष्याणामेव तद्भयं देवादीनामपि यथाधिकारेण कर्मनियमोऽ. स्त्येवं तदकरणे तेपामपि तद्भयमित्याह- भयादस्यामिस्तपति भयानपति सूर्यः । भयादिन्दश्च वायुश्च मृत्युर्धावति पञ्चमः॥ ४ ॥ अस्यास्मान्मायोपाधियोगात्परमात्मत्वं प्राप्तादात्मनो मयादग्निस्तपति तन्नियुक्तः स्वप्रयोजनसिद्धये तापं करोति तथा मयात्तपति सूर्यः । मयादिन्दश्च स्वप्रयोजने विपये धावति सावधानत्वेन वर्तते । भयाद्वायुश्च धावति पञ्चमोऽग्न्यादीनां पञ्चानां पूरणो मृत्यु(वति स्वकार्ये ॥४॥ यस्मादिमे देवाः संसारकार्ये नियुक्तास्तेन संसारनिष्ठा उक्तं च 'ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्' इति कार्यपरास्तस्माद्भयं तेपां ज्ञानिनस्तु तद्भयं नास्ति तस्मादल्पमपि तस्तौति-- इह चेदशकदोर्द्ध प्राक्शरीरस्य विस्रसः। ततः स्वर्गेपु लोकेषु शरीरत्वाय कल्पते ॥ ५ ॥ इहास्मॅिल्लोके चेत्माक्पुरस्ताच्छरीस्य स्थूलस्य विससो विप्रेसनाद्वि- पातात्पूर्वजन्मान्तरसुकृतसामग्या श्रीसद्गुरुप्रसादेनापरोक्षतया शुद्धात्म- तत्त्वं बोटुं ज्ञातुमशकच्छक्नुयात् । ततः स पुमाळशरीरत्यागादूध स्वर्गेपु लाकेषु ब्रह्मभुवनान्तेषु बहुसुकृतसाध्येषु शरीरत्वाय तत्तलोकाई- दिव्यशरीरवत्त्व प्राप्तुं कल्पते समर्थो मवति । शरीरत्वं प्राप्य तत्रत्यः पूज्यो मवति । ननु ब्रह्मविदां गत्यमावः श्रूयते न तस्य प्राणा उत्क्रा- मन्त्यत्रैव समवनीयन्ते बझैव सन्ब्रह्माप्येति' इत्येवं सति कथं कर्मिण इव तस्य लोकान्तरमातिरुच्यते । सत्यम् । योऽभ्यासवान्मनोजयी निवृत्तमावनाद्वयोऽन्ते तदनुसंधानेनैव देहं त्यजति न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽत्रैव परब्रह्मप्राप्तिरस्ति । यस्य तु सद्गुरु- प्रसादेनापरोक्षत्वेनाSSमसाक्षाकारो जातोऽये प्रारब्धप्रतिकूलत्वेन न साधनं संभूतं तेन च न मनोजयस्तस्मान्नान्तकाले तद्धारणा तस्य योगभ्रष्टस्य सा गतिरुक्ताऽस्ति न संसिद्धस्पति विज्ञेयम् । एवं योगा- चलितचित्तस्य गतिगीतास्वपि श्रूयते- अर्जुन उवाच- अयतिः श्रद्धयोपेतो योगाचलितमानसः । अमाप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। .

- . ५२ अर्थप्रकाशसमेता- रूपेण नित्यत्वेनावस्थितत्वात् । तथा चेतनानां चेतनः । यत्सत्तयेवर. स्येश्वरत्वं चिन्मयत्वं जीवानां च जीवत्वं स्वव्यापारक्षमत्वं च यत्प ज्ञानेन चक्षु रूपं पश्यति श्रोत्रं शब्दं शृणोति तथाऽन्यान्यपि सर्वाणि करणानि स्वे स्खे व्यापार प्रवर्तन्ते । ये एको मायोपाधियोगादीशत्वं प्राप्य घहूनां सर्वेषां कामान्प्रार्थितानिहामुत्र च स्थितान्विदधाति निर्मिमीते । तमात्मानमुपाधिनिरासेन ये धीरा विवेकिनोऽनुपश्यन्ति गुहायामात्मत्वेन तेयां शान्तिस्तन्मयत्वेनावस्थानरूपा शाश्वती नित्याs- पुनरावृत्तिरूपा नेतरेयामज्ञानिनाम् । बन्धस्त्वविद्याकृतस्तन्निरासामाये कुतः शान्तिरन्येपाम् ॥ १४ ॥ कथं तेषामविवेकिनां मावस्तदाह- तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति न भाति वा ॥ १५॥ इतरेऽविवेकिनो जना इति मन्यन्ते कि, तदेतद्ब्रह्मानिर्देश्य निर्दम- शक्यं परममुत्कृष्टतमं सर्वातीतत्वात्सुखं सुखरूपमिति ब्रुवन्ति विवेकिनः। अहं तु कथं नु तद्विजानीयां संसारिणामस्माकं कथं नु तज्ज्ञातुं शक्ष्य स्यात् । यद्यपि ज्ञातुं प्रवृत्तास्तथाऽपि तद्ब्रह्मास्माकं किं माति मायादप- रोक्षत्वेन न माति वा । इत्येवं मन्यन्ते संशयपरा एव । नवं मन्येत तदनुभवोऽपरोक्षत्वेनास्त्येव ॥ १५ ॥ विवेफिमिरनुभूत आरमा किंविध इत्यत्राह- न तत्र सूर्यो भाति न चन्दतारकम् । नेमा विद्युतो भान्ति कुतोऽयममिः ।। १६ ।। न तत्र स्वरूपे पूर्ण सूर्यो भाति न चन्द्रतारक चन्द्रश्च तारकाच पन्द्रतारक माति नेमा विद्युतो मान्ति । कुतोऽयममिः पार्थिवो माया- सोऽपि न माति न तव नानाऽस्ति किंचन तत्सर्वत्रैकरूपमेवास्ति।१६।। तहि सर्व कुत्रास्तीत्पत्राऽऽह- तमेव भान्तमनुनाति सर्व तस्य भासा सर्वमिदं विजाति ॥ १७ ॥ तमेव पूर्णमात्मानं मान्त मात्ति मास्तमनु तेनैव माताऽन्वितं तत्सर्व भाति । तत्रैव सर्वमस्ति तदृष्टचा नैव माति सर्वस्प विवर्तरूपत्वात्।

कठोपनिषत् । यस्मात्तमेव मान्तमनुमाति तस्मात्तस्यैव मासा प्रकाशेन सर्वमिदं विभाति यथा किरणप्रकाशेनैव मृगजलस्य मानं तदप्रकाशे कुत- स्तस्य ॥१७॥ इति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थप्रकाशे पञ्चमी वल्ली व्यारयाता:॥ पुनः स एवान्वयव्यतिरेकविचारः साकल्येनोच्यते- ऊर्ध्वमूलमवाक्शाख एपोऽश्वत्थः सनातनः । तदेव शुकं तद्ब्रह्म तदेवामृतमुच्यते ॥ ३ ॥ ऊर्ध्वमूलमूर्ध्वमागे मूलमस्य स अर्ध्वमूलमूर्ध्वमूलः । किं तन्मूलम् । सगुणस्यास्य संसारतरोमूलं मायागुण साम्यमेव तस्मात्तदेव मूलं कारण- त्वादूर्वमागेऽवस्थितं विज्ञेयम् । अवाक्छाखोऽवागधोमागे शाखा यस्य सः। कास्ताः । ननु मूलारस्तम्मोत्पत्तिस्ततः शाखास्तथाऽत्र कः स्तम्मः। गुणसाम्यरूपान्मूलात्मथमजः सकलगुणविस्तारजनकः शुद्धसत्त्वगुणः । तेन सकार्यः स स्तम्भरूप इति विजानीयात् । किं तत्कार्यम् । महामाया शरीरं तत्रावस्था सर्वज्ञमुभयाभिमानी परमात्मतत्रयं शुद्ध- सत्वस्य कार्य प्रणवस्यार्धमात्रया वाच्यं स्तम्मस्थाने विजानीयात् । ततः प्रसूताः शाखाः का इति चेत् । सत्त्वं रजस्तम इति गुणवयं सकार्य शाखास्थाने विज्ञेयम् । तत्र रजसो विराटशरीरं विश्वोत्पादनमवस्थो. मयाभिमानी ब्रह्मेत्येतत्रयमेका शाखा । हिरण्यगर्मशरीरं स्थितिरवस्थो- मयामिमान्यात्मा विष्णुरित्येतत्रयं सात्त्विकं कार्य द्वितीया शाखा । माया शरीरं प्रलयावस्थोमयामिमान्यात्मा रुद्र इत्येतत्रयं तमःकार्य तृतीया । एवंविधस्यास्य तरोः कानि पर्णानि । 'छन्दांसि यस्य पनि ' इत्युक्तत्वाद्वेदा एव साङ्गाः पर्णस्थाने विज्ञेयाः। यथा परें- वृक्ष आच्छन्नो वर्तते परिज्ञायते शोमते च तथाऽयं वेदैः कर्मोपासनोप पादकैरेवाऽऽच्छाद्यते परिज्ञायते शोमते च । एवंविध एप कार्यकारणा- न्वयेनैकरूपः संसाररूपोऽश्वत्थो न श्वः परेद्यषि तिष्ठत्यश्वत्थोऽनित्य- त्वात् । सनातनश्चोत्पत्तिस्थितिलययोगेन चिरंतनः । तदेव शुक्रं यदस्य मूलं गुणसाम्यमित्युक्तं तत्मज्ञानरूपत्वात्स्वप्रकाशत्वेन शुक्रम् । तद्ब्रह्म तत्यज्ञानं ब्रह्मैव तदपृथसिद्धत्वात्तद्रूपमेव । अत एवोच्यते भतिठा प्रज्ञानं ब्रह्म' इति । तदेवामृतमुच्यतेऽविनाशित्वात् । यदा मूलं प्रज्ञा

-
अर्थप्रकाशसमेता-
परं ब्रह्म तदा तत्कार्यभूतोऽयमपि ब्रह्मरूप एवास्ति न भिन्नः । उच्यते
च 'सर्वं खल्विदं ब्रह्म, पुरुप एवेदं सर्वम् ' इति ॥१॥
पुनः किंविधं तत्-
तस्मॅिल्लोकाः श्रिताः सर्वे तदु
नात्येति कश्चन । एतदै तत् ॥२॥
सर्वे लोकास्तस्मिन्नेवोक्तविधे परे ब्रह्मणि श्रिताः । तदाश्रितत्वेनैव
सर्वमस्ति । अपृथक्सिद्धस्याधिष्ठानमात्रत्वात् । अतस्तदु कश्चन
कोऽपि नात्येति नातिक्रम्य तिष्ठति सर्वात्ममूतं तदेवैकमस्ति । तस्मा-
देतद्वै नामरूपाद्याकारेण प्रविमक्तं जगत्तदेव परं ब्रह्म । स्थित्युद्भवः
लयकारणत्वात् ॥२॥.
स्थितिकाले तस्मिन्नवस्थितं जगत्कथं वर्तत इत्यत्राऽऽह-
यदिदं किंच जगत्सर्व प्राण एजति निःसृतम् ।
महङ्ग्यं वजमुयतं य एतद्विदुरमृतास्ते भवन्ति ॥ ३ ॥
यदिदं किंच स्थूलं च सर्व जगत्माणे प्राणभूते स्वकारणे तस्मिन्निःसृतं
तस्मादुत्पन्नं तत्र स्थितं सदेजति कम्पते तदपेनैव स्वस्वव्यपारे वर्तते ।
तेन कथं तत् । महद्भयं महामयरूपं तजनकत्वात् । कथं वज्रमुद्यन्तम्-
द्यच्छत्युक्षिपति उद्यच्छंस्तमुद्यन्तमुद्यच्छन्तं मारणे वनमुद्यम्प तिष्ठन्तं
पुरुषं दृष्ट्वा यथा बिभ्यति तथा भयहेतुत्वेन महद्भयमित्युच्यते । ननु
तन्निविकार निर्विकल्प सन्तिरतममात्मरूपमेव सर्वस्यैवं सति कथं
तदुक्तदृष्टान्तेन भयजनकं स्यात् । नाऽऽत्मनो मयमात्मनः । सत्यं तदेव
मायोपाधित्वेन सर्वजगत्कारणभूतमीशनशीटम् । कथं वेदचतुष्टयं
निर्माप तत्र कर्माकर्मधिकर्मविमागं विधाय तत्फलान्यपि निर्मितवान् ।
तत्र कर्मणः फलं मोगमोक्षरूपम् । अकर्मविकर्मणोर्तुःखं दण्डरूपं च ।
कदा तद्भयनिवृत्तिरस्य स्यादिति चेत् । पावजन्ममरणे वर्तेते. तावन्न
संसारनिवृत्तिः कुतो मयस्य । कदा जन्ममरणनिवृत्तिर्मवतीत्यपेक्षापा.
माह-ये निप्कामा एतदात्मरूपं विशुद्धं संनिहितं विदुराचार्यप्रसादा.
गुहायामन्तः सर्वोपाधिनिरासेनापरोक्षवेन विजानन्ति तेऽमृता अदि-
नाशिनस्तदेकरूपत्वेन मवन्ति जननमरणाभावात् । न तदा तद्भपं
नेपाम् । द्वितीयादै मयं मवति तदमावे कुतो मपम् ॥ ३ ॥

कठोपनिषत् । न मनुष्याणामेव तनयं देवादीनामपि यथाधिकारेण कर्मनियमोऽ. स्त्येव तदकरणे तेपामपि तद्भयमित्याह- भयादस्यामिस्तपति भयानपति सूर्यः । भयादिन्दश्च वायुश्च मृत्युर्धावति पञ्चमः॥४॥ अस्यास्मान्मायोपाधियोगात्परमात्मत्वं प्राप्तादात्मनो सयादग्निस्तपति तन्नियुक्तः स्वप्रयोजनसिद्धये तापं करोति तथा भयात्तपति सूर्यः । मयादिन्द्रश्च स्वप्रयोजने विषये धावति सावधानत्वेन वर्तते । भयाद्वायुश्च धावति पञ्चमोऽग्न्यादीनां पश्चानां पूरणो मृत्युर्धावति स्वकार्ये ॥४॥ यस्मादिमे देवाः संसारकार्ये नियुक्तास्तेन संसारनिष्ठा उक्तं च 'ता एता देवताः सृष्टा अस्मिन्महत्यर्णये प्रापतन्' इति कार्यपरास्तस्माद्यं तेषां ज्ञानिनस्तु तद्भयं नास्ति तस्मादल्पमपि तस्तौति- इह चेदशकद्दोद्धं प्राक्शरीरस्य विस्रसः । ततः स्वर्गेपु लोकेषु शरीरत्वाय कल्पते ॥ ५॥ इहास्मिल्लोके चेत्माक्पुरस्ताच्छरीस्य स्थूलस्य विससो विसंसनाहि. पातारपूर्वजन्मान्तरसुकृतसामय्या श्रीसद्गुरुप्रसादेनापरोक्षतया शुद्धारम- तत्त्वं बौद्धं ज्ञातुमशकच्छक्नुयात् । ततः स पुमाळशरीरत्यागादूध स्वर्गेपु लाकेपु ब्रह्मभुवनान्तेषु बहुसुकृतसाध्येपु शरीरत्वाय तत्तलोकाई- दिव्यशरीरबत्त्वं प्राहुं कल्पते समर्थो मवति । शरीरत्वं प्राप्य तवत्यः पूज्यो मवति । ननु ब्रह्मविदां गत्यमावः श्रूयते 'न तस्य प्राणा उत्क्रा. मन्यत्रैव समयनीयन्ते ब्रह्मैव सन्जमाप्येति' इत्येवं सति कथं कर्मिण इव तस्य लोकान्तरमाप्तिरुच्यते । सत्यम् । योऽभ्यासवान्मनोजयी निवृत्तमावनाद्वयोऽन्ते तदनुसंधानेनैव देहं त्यजति न तस्य प्राणा उत्क्रामन्यत्रैव समवनीयन्तेऽत्रैव परब्रह्ममाप्तिरस्ति । यस्य तु सद्गुरु- प्रसादेनापरोक्षत्वेनाऽऽत्मसाक्षात्कारो जातोऽने प्रारब्धमतिकूलत्वेन न साधनं संमूतं तेन च न मनोजयस्तस्मानान्तकाले तद्धारणा तस्प योगभ्रष्टस्य सा गतिरुक्ताऽस्ति न संसिद्धस्येति विज्ञेयम् । एवं योगा- चलितचित्तस्य गतिगीतास्वपि श्रूयते- 'अर्जुन उवाच- अपतिः श्रद्धयोपेतो योगाचलितमानसः । अपाप्य योगसंसिद्धिं कां गति कृष्ण गच्छति ॥

अर्थप्रकाशसमेता- . । कञ्चिन्नोमयविभ्रमश्छिन्नाभ्रमिव नश्यति । अप्रतिठो महाबाहो विमूढो ब्रह्मणः पथि ।। श्रीमगवानुवाच- पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । नहि कल्याणकृत्कश्चिदुर्गति तात गच्छति ॥ प्राप्य पुण्यकृतां लोकानुपित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते' इति ॥५॥ कथमयं परलोके वर्तत इत्यत्राऽऽह- यथाऽऽदर्श तथाऽऽत्मनि यथा स्वमे तथा पितृलोके यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छाया- तपयोरिव ब्रह्मलोके ॥६॥ यथाऽऽदर्श दर्पणे चक्षुर्मासाद्यवयवैरात्मनो रूपं दृश्यते तथाऽऽत्मन्या- त्मभावना नित्यमस्ति । विना दर्पणेन न सर्वावयवभानमतोऽत्र तद्गह- णम् । यथा स्वप्ने स्वप्नावस्थायां दर्पणे दृष्टात्मरूपाध्यासेन तादृशमात्म- रूपं व्यापारपरं स्वजनैः परिवृतं दृश्यते तथा पितृलोके वासनामयश. रीरयुक्तो मातापित्रादिभिर्नानास्वजनरावृतस्तैः क्रीडानन्दवान्मवति । यथाऽसु परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोके । यदप्सु प्रति- रूपं दृश्यते तत्तच्चञ्चलतायोगेन चञ्चलम् । यथा पितृलोके स्वजना वृतत्वं तथा न गन्धर्वलोके कोऽप्यात्मना दृश्यत आत्मनाऽऽत्मैवैको दृश्यते । अयं विज्ञानवांस्तेनाऽऽस्मानात्मविचारे मतिमान् । तल्लोके नाध्यात्मविद्याप्रसङ्गः । तत्स्था: केवलविषयमोगरता एव । तस्मान तवावस्थाने मतिरस्योवं गन्तुं कामनयाऽसु दृश्यमानप्रतिरूपवञ्चश्च. लोऽतस्तथोच्यते । तत ऊध्वं गतस्याये ब्रह्मलोकावादि । तस्मिन्ब- ह्मलोके तस्प छायातपयोरिव मतिर्भवति । कथं, यथा पुंसः कदाचित च्छायायां मतिर्भवति कदाचिदातपेऽपि । ब्रह्मलोकः सर्वलोकश्रेष्ठो नित्यं तत्र घेदतदर्थवादस्तस्मादध्यात्मविद्याप्रसङ्ग एव सर्वदा । इतो गतः स योगभ्रष्टो विज्ञानवाञ्छवणादिप्वास्थापरस्तेन तद्वासे मतिरस्य संमवति कदाचिदमतिरपि । तत्र किं निमित्तमिति चेत् । प्रारब्धप्रतिकूल- स्वेन दशासिध्यमावान्न पूर्णत्वेनास्य ब्रह्ममाप्तिरभूत् । तदास्थावांश्च । तद्योगप्रमावास्य लोकान्तरमाप्तिरासीत् । न तगोगवासनया । तन्म:

कठोपनिपत् । तिस्त्वपुनरावृत्त्या पूर्णब्रह्ममाप्तिविषयैव सा बत्र चिरात्कल्पान्ते ब्रह्मणा सह भविता। किं तावदवावस्थानेन । तस्मादत्र संभूय साधनसिद्ध्या दशां गत्वा परे ब्रह्मण्यात्यन्तिकी गमिष्यामीति कदाचित्पुनरावर्तने मतिः कदाचिद्वासेऽपि तेनोक्तदृष्टान्तोऽत्र संभवति । यद्वा, आतपे प्रकाशाधिक्यं छायायां मुखाधिक्यम् । कदाचिदस्य विवेकलक्षणमका. शाधिक्येन शीघ्रमेव पदप्रापकयोगिकुले संमवने मतिः संमवति । कदाचित्संसारे जन्ममृत्युजराध्याध्यादिदुःखदर्शनानुस्मरणेन छायेव सुखकरं ब्रह्मलोकवासे मतिः । तस्मादयं छायातपयोरिव ब्रह्मलोके भवति ॥६॥ छायाभावान्नित्यत्वेन प्रकाशोपलब्धये साधनमाह- इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां स्मृत्वा धीरो न शोचति ॥ ७ ॥ पृथगुत्पद्यमानानां पृथगुत्पद्यन्ते पृथगुत्पद्यमानानि तेपां परस्परविल- क्षणरूपाणामिन्द्रियाणां ज्ञानकर्मरूपाणा पृथग्मा विवेकनाऽऽरमनो विलक्षणत्वं तानि गुणकृतानि गुणाः प्राकृता नाऽऽत्मन इति तेपामुदया- स्तमयौ चोदयं चास्तमयं च ती च यद्यस्मात्तस्य लयोद्भवसाक्षित्वेनाss- स्मनो नित्यस्यासङ्गत्वं स्मृत्या विज्ञाय धीरो विवेकी न शोचति न विषयमोगवासनया शोकं प्राप्नोति । कथमन विवेकः । अन्तःकरणं सत्त्वात्मकं राजसध्यानाधारण तामसं शब्दं शृणोति तामसेन वाचा कर्मकरणेन वक्त्यात्मा तत्सर्वसाक्षी तेनासङ्ग एव सदा । एवं मनःप्रमृ- तिप्यपि विज्ञेयम् । उक्तं च 'गुणा गुणेषु वर्तन्त इति मत्वा न सजते इति ॥७॥ इन्द्रियाणां पृथग्मावं तल्लयोद्भयसाक्षित्वं च विज्ञाय कथमात्मा विज्ञेय इत्यत्राऽऽह- इन्द्रियेत्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमेव च ॥८॥ इन्द्रियेभ्यनिविधेभ्यो मनः परमन्तरङ्गं संकल्पविकल्पयोगेन तेषां प्रवर्तन निवर्तनहेतुत्वात् । तस्माद्वाह्यविषयान्वहिस्त्यक्त्वा तन्निठं प्रज्ञानं ततः प्रत्यावर्य तापदिन्द्रियनिष्ठं कुर्यात् । ततस्तत्मवर्तननियर्तनहेतु । - - अर्थप्रकाशसमेता- सवृत्तिचतुष्टयं मनोऽन्तरमन्तराकाशावस्थितं विज्ञाय देहासङ्गत्वेन यो हृत्पुण्डरीकान्तराकाशस्तनिष्ठो मवेत् । तदृष्ट्या स्थूलाभावेन जागरा- मावाद्वाह्यप्रपञ्चामावः सर्वत्र व्योमेव विमातितवाध्यासान्मनःसंकल्प- योगेन स्वमदृश्यप्रपञ्चवन्नानाविधं मानं विभाति तदपि वाह्यमपञ्चवदे. बातो निरस्यम् । कथं, तस्मान्मनसः सत्त्वं विशुद्धप्रज्ञाप्रकाशवदतः प्रज्ञा- नरूपमेव तदुत्तमम् । अन्तरङ्गं सव्योम दृश्यमानप्रपञ्चसाक्षित्वात् । इति विज्ञाय तदवलम्बपरित्यागेन तस्मिन्बयोनि प्रज्ञानावलम्बनवाऽऽत्मन्य. वतिठेत । ततस्तत्र यथा मावावलम्बस्तथैवामावावलम्बः । त्रिपुटी योगेनावमासमानत्वात् । तेन नाऽऽत्मविज्ञानमिति ज्ञात्वाऽये किं कार्य तदुच्यते । सत्वात्तस्मादधिसत्वेऽधिसत्त्यस्य प्रज्ञानरूपस्याऽऽश्रय आत्मा प्रत्यगात्मा साक्षिमूतो महाश्रेष्ठः । आश्रयत्वादन्तरङ्गश्च । इति विज्ञायामावनिष्ठज्ञानं तदवलम्बपरित्यागेनाऽऽत्मनिष्ठमेव विदधीत । ततो ज्ञानज्ञेयसापेक्षितमात्मनि ज्ञातृत्व, निरस्ते तहये किं ज्ञातृत्वेनात. स्तदपि निरास्यम् । कथं, तस्मान्महतो ज्ञातृरूपादात्मनोऽव्यक्तं न व्यक्तमव्यक्तं ज्ञातृत्वादिमावरहितत्वात् । यनिर्विकल्पमात्मप्रज्ञानं तदव- लम्बनवावतिठेत ॥ ८॥ तत आत्मनोऽपरोक्षविज्ञानाय किं कार्य तदुच्यते- अव्यक्तात्परः पुरुपो व्यापकोडलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ९ ॥ अव्यक्तादुक्तात्पुरुषः सर्वासु पूर्प पुरि शयान इव विद्यमानो निवि- फारो निर्विकल्पः शुद्धः सन्मावरूपः परोऽन्तरङ्गस्तदधिष्ठानस्यात् । इति विज्ञाप सदाचार्यदत्तप्रज्ञानयुक्त्या तज्ज्ञानावलम्ब परित्यज्याज्ञाना- न्यथाज्ञानरहितत्वेन तस्मिन्सन्माने तन्मयत्वेनापतिष्ठेत । सैव समाधिः परब्रह्मात्मविज्ञानम् । कथं स पुरुषः । व्यापको व्यानोति सत्तारूपत्त्येन सर्यान्त हिरवस्थितत्वाद्यापकः । अलिङ्ग एव च । न विद्यमानं लिङ्गं यस्य सः । यत्र न ज्ञानं नाज्ञानमानन्दो निरानन्दोऽपि न पूर्णशून्येऽपि नानाकारं साकारमपि न प्रकाशरूपमप्रकाशरूपमपि तस्माकमपि लिगं तत्र निश्चेतुं शक्यमतोऽलिङ्ग इत्युच्यते । एवं यद्यहिर्भूतं तत्तन्नि- रस्य यद्यदन्तरङ्गं तत्र तत्र निष्ठां विधायाऽऽत्मन्यात्मत्वेनायमात्मानमप. रोक्षतपाऽनुमूप जन्नु: प्राणी मुच्यते त्रिविधवन्धनात्ममुक्तो मवति । - कठोपनिषत् । अमृतत्वं च गच्छति प्रारब्धकर्मभोगान्ते देहपातादृवं जलपास्तसैन्धव. खिल्यवदपुनरावृत्त्याऽविनाशिसवस्तुत्वं गच्छति ॥ ९॥ यस्मात्तदात्मविज्ञानमात्मन्येवास्ति तस्मात्- न संदृशे तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चनैनम् । हृदा मनीपाऽभिक्लप्तो य एतद्विदुरमृ- तास्ते भवन्ति ॥ १०॥ अस्याऽऽत्मनः शुद्धं रूपं स्वरूपं संदृशे सम्यक्प्रकारेण द्रष्टुमवस्थितं, प्रति न तिष्ठति न गोचरो भवति । अतो न कश्चन कोऽप्येनमात्मानं चक्षुषा पश्यति । चक्षुपा वाह्यं रुपयदेव दृश्यते कथं सोऽन्तरङ्गो ग्राह्यः, स्यात् । तर्हि केन ज्ञायते, हृदा हृदयेन हृदयमिति प्रज्ञानस्य नामधेयं सेन हृदा विगतसंचितदोपत्वाद्रजस्तमोमावरहितेन विशुद्धेनाऽऽत्मप्र- ज्ञानेन मनीपा मनस इंपा गतिर्मनीषा सद्गुरूपदिष्टवाक्यश्रवणायदन्त- मननं व्यतिरेकसाधनं तदूपा तया मनीषयाऽभिकृप्त आत्मन्यात्मनैव विज्ञातुमभिशक्तो नान्यथा । ये पुमांसोऽधिकारिण एतदात्मस्वरूप यथोक्तं विदुर्जानते साक्षात्कुर्वते तेऽमृता अमृतनित्यपूर्णब्रह्मस्वरूपा भवन्ति ॥१०॥ अथ तेपां सा गतिरित्यत्राऽऽह- यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेप्टेत तामाहुः परमां गतिम् ।। ११ ॥ यदा यस्मिन्काले मनसा कर्तृपेण संकल्पविकल्पयोगादिन्द्रियाणां स्वव्यापारप्रवर्तनहेतुभूतेन सह पश्च ज्ञानानि भोवादीनि ज्ञानकरणा. न्यवतिष्ठन्ते स्वधर्मपरित्यागात्मज्ञानान्तर्गतत्वेन निश्चलानि भवन्ति । बुद्धिच तत्मज्ञानमपि न विचेप्टेत ज्ञानज्ञातृत्वपरित्यागेन मुलीनेव मवेत्तदा तां परमामुत्कृष्टां यस्या न पराऽन्यवंभूतां तां गति प्राप्ति माहुः ॥ ११॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भाति योगो हि पावाप्पयौ ॥ १२ ॥ तां स्थिरामिन्द्रियधारणां योगं योगः परवीक्यरूपो ज्ञानयोग इति मन्यन्ते । एवं संपातयोगस्तदाऽममत्तः प्रमादरहितो गलिताहमाषत्वा १०० अर्थप्रकाशसमेता- निर्विकारो निर्विकल्पश्च भाति । मुख्यं योगलक्षणमाह-'योगो हि प्रभवाप्ययो । प्रमवश्चाप्ययश्च तौ। आत्मनः शुद्धस्य प्रभव उद्भवोs परोक्षत्वेनानुभवः । अप्ययस्तदितरस्य प्रज्ञानादेः सर्वस्य व्यतिरेकवृत्त्या विलयः । स एव योगो नान्यः ॥ १२॥ सर्वबिलयसाधनव्यतिरेकवृत्तिमकुर्वाणेन- नैव वाचा न तपसा प्राप्तु शक्यो न चक्षुपा ॥ १३ ॥ नैव वाचा वेदशास्त्रपठनतदर्थकथनरूपया तच्छ्रवणेनाप्यात्मा माहुँ शक्यः । तथा न मनसा सगुणेन संकल्परूपेण प्राप्तुं शक्यः । न चक्षुपा, प्रातुं शक्यः । तान्यात्मेतरपदार्थज्ञानसाधनान्येव नान्तरङ्गस्य सूक्ष्मतर-, स्याऽऽत्मनः प्रकाशकानि भवन्ति ॥ १३ ॥ किंच- अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलश्यते । अस्तीत्येवोपलब्धस्य तत्वभावः प्रसीदति ॥ १४ ॥ तत्परमात्मतत्वमन्यत्राऽऽत्मनोऽन्यस्मिन्स्थानेऽस्ति नाऽऽत्मा भवति । आत्मा संसारी सुखदुःखवानज्ञानेनाऽऽवृतस्तत्परमं तत्वं सर्वोत्कृष्टमसं- सारि नित्यानन्दनिमनं सर्वकर्तृ सर्वज्ञं कथं भवेदतस्तद्भिन्नमेवास्त्यात्म- परमात्मनो द एव तात्त्विकोऽस्तीति ढवतो अवता मूढेन कथं तत्परम तत्त्वमुपलभ्यत उपलभ्येत । तस्य तदुपलब्धि स्त्येव । यथा पूर्वदेशस्थ- घस्तुसंमाप्तिन पश्चिमदेशिनः कदाऽपि । तस्य विज्ञानमात्मन्येवास्त्युक्तं च 'ब्रह्मविदामोति परं, तदेषाऽभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म, यो घेद निहितं गुहायां परमे व्योमन्सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विप-. श्चिता' इति । एवं सति तबुद्धिं विहायान्यत्र परत्वेन यन्न चक्षुपा. गृह्यते नापि वाचा नान्यदेवस्तपसा कर्मणा वा तत्कथं चक्षुपाऽवेक्षमाणे- नोपलभ्येत । तथा बृहदारण्यकेऽपि तात्त्विकमेवादिनं निन्दति 'अथ योऽन्यो देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः । बाह्म तं परादायोऽन्यवाऽऽत्मनो ब्रह्म वेद' इति । अस्तीत्येव तदात्मन्ये- वास्ति तदुपलब्धिरुक्तमकारेण गुहापामेवास्तीति अवतोपलब्धस्पोप समीप आत्मन्येय लब्धस्य सदाचार्यप्रसादेन संमासस्य तत्समावस्त- त्यस्प मावोऽस्तित्वं प्रसीदति सच्चिदानन्दमयं परमं तत्त्वं तस्य नित्य- मात्मत्येनापरोक्षतया विभाति न त्वसन्दुःखमूलं संसारः सत्यत्वेन॥१४॥ . ..

, कठोपनिषत् ।। कदा तदुपलब्धिरित्यवाऽऽह- यदा सर्व प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः। अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १५ ॥ येऽस्य साधकस्य हृदि भिंता हृदयमाश्रित्य वर्तमानास्ते सर्वे कामाः सांसारिका इहामुत्र च स्थिता यदा यस्मिन्काले प्रमुच्यन्ते स्वयमेव प्रमुक्ता भवन्ति स निर्वासनो भवति । अथ तदा स मर्योऽमृतो ब्रह्म रूपो भवति । पूर्वमपि ब्रह्मैवाऽऽसीन्मध्य उपाधियोगादब्रह्ममानी तद. पगमे पुनः पूर्ववत व मवति । उक्तं चान्पत्र 'ब्रह्मैव सन्ब्रह्माप्येति इति । अन्तेऽवास्मिन्नेव लोके ब्रह्म पूर्ण समश्नुते संपामोति । न तस्य माणा उत्क्रामन्त्यत्रैव समवनीयन्ते ॥१५॥ किंच- यदा सर्व अभियन्ते हृदयस्येह ग्रन्थयः । अथ मोऽमृतो भवत्येतावदनुशासनम् ॥ १६ ॥ इहास्मिलोके यदाऽस्प सर्वे हृदयस्य संबन्धितो ग्रन्थयो नानाविधा शाखश्रवणपउनाभ्यामुत्पन्ना अनेकसंशयरूपा यद्वा केवलाज्ञानयोगेन विपरीतभावनारूपाश्चेदहं ब्रह्म तदा कथं मे जन्ममृत्यू सुखदुःसे च परि- च्छिन्नत्वं चेत्यादिरूपाः प्रभिद्यन्ते स्वपमेय प्रभेदं प्रामुवन्ति । अथ तदा मोऽमृतो भवति । 'अब ब्रह्म समानते ' इत्येतत्पूर्यस्मादाकृप्यते । एतापदेतत्परिमाणमेवानुशासनम् ॥ १६ ॥ अथोकमणकाले केन नाडीमार्गण गतोऽयममृतत्वमेति तदाद, शतं चैका हृदयस्य नाड्यस्तासां च मूर्धा- नमभिनिःसृतका । तयोर्धमापन्नमृतत्त्वमेति विष्वगन्या उल्कमणे भवन्ति ॥ १७ ॥ शतं प शनसंख्याका यद्वा शतमनन्तं मवतीति शतमनेका एका हृदयस्य मांसपिण्डरूपस्य संवन्धिनो नायः सन्ति । तासांप मध्य एका नाडी मूर्धानं शिरोऽमिनिःमृताऽमिलक्ष्यो निर्गताऽस्त्या ब्रह्म स्माता । तया नाड्या तन्नाटीमार्गेणोर्धमापन्नागच्छन्ब्रह्मरण निर्गतोऽमृतस्य मोक्षमेति । तस्या नाट्या अन्पा विश्वविश्वत: स्वशान्ति WAMMA -LIBI १०२ अर्थकांशसमेता- विश्वम्विपूच्यो विश्वतो वर्तमाना नाड्य उत्क्रमणे स्वामाविके विषये भवन्ति ॥१७॥ . उक्तार्थमुपसंहरन्नाह- : अगुष्ठमात्रः पुरुपोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । त५ स्वाच्छरीरात्मवृहे- न्मुक्षादिवेपीका धैर्यण' तं विद्याच्छुकम- मृतम् ॥ १७॥ अगुष्ठमानोऽगुटममाणः पुरुषोऽन्तरात्माऽन्तर्भव आत्मा सदा सर्व- स्मिन्काले जनानां लोकानां हृदये संनिविष्टोऽस्ति । तमङ्गुष्ठमात्रं पुरु. पमन्तरात्मानं स्वात्स्वीयाच्छरीराद्धैर्येण विवेकवैराग्यकर्मोपासनाबलेन प्रवृहत्मोद्यच्छेल्लुब्धाचार्योपदिष्टव्यतिरेकवृत्त्या प्रोत्पाटयेचतुर्विधाविद्या- सङ्गममुक्तं कुर्यात् । तत्र दृष्टान्तमाह-मुलादिपीकामिव । इपीका मुख- शलाका मुझे वर्तमाना तदाधारेणैव वर्तमानाऽपि काण्डभेदेन भिन्नै- वास्ति तथाऽपि तामिपीका परिपाकावस्थायां यथा धैर्येण मुञात्परि- वृहेत्तथाऽऽत्मा देहे धर्तमानोऽपि साक्षित्वेन सर्वदा विलक्षण एवास्ति तमात्मानं धैर्येण प्रवृहेत् । तं प्रवृढमात्मानं शुक्र शुद्धं पूर्णचैतन्यममृतं बह्म विद्याजानीयात् । स पूर्वमपि शुक्रममृतमेवाऽऽसीन्मध्ये किंचि- दुपाधियोगेनान्यथात्वं तदपगमे शुक्रममृतमेपास्ति ।। १७ ॥ इति मृत्युशासनमुक्त्वा कठः स्वयमाह- मृत्युप्रोक्तं नाचिकेतोऽथ लब्ध्या विद्यामेतां योगविपि च कृत्स्नम् । ब्रह्म प्राप्तो विरजोऽद्विमृत्यु- रन्योऽप्येवं यो विदध्यातमेवम् ॥ १८ ॥ अथ तदनन्तरं स नाचिकेतो नचिकेता एव नाचिकेतो मृत्युपक्तिं मृत्युना मोक्तमेतां विद्यां योगविधि च समाधिविधिमभ्यासषिधि च कृत्वं समग्रं लब्ध्वा प्राप्य । कश्चिदनधिकारी प्रोक्तं श्रुत्वाऽपि न लमते नायं तथा पूर्णाधिकारी तलुब्ध्वा तदुक्तप्रकारेण योगं विधाय ब्रह्म पूर्ण सदा तनिष्ठतया प्राप्तो विरजो विगतं रजो रजोगुणकार्य यस्य स विरजो - १०६ कठोपनिषत् । विरजा पिमृत्युर्विगत मृत्युरमृतस्वरूपत्वादमद्भूतः । अन्योऽपि नचिके. तस इतरोऽप्येवमुक्तप्रकारण विरजस्को विमृत्युर्मवेत् । कः यः पुमानधि- कारी सद्गुरुप्रसादं लब्ध्वा तं कृत्स्नं योगविधिमेवमुक्तपकारेण विध्या- स्कुर्यात्सोऽपि दशां संसाध्यैवं विरजस्को विमृत्युर्मवेत् । विद्यादिति पाठान्तरम् । यो यस्मै शिप्यायेतं योगविधिमेवमुक्तप्रकारेण गुरुविदया. विशेपेण स यथा विजानीयात्तथा दद्याव्यात् । तद्वचनमेव दानम् । सोऽप्येवं मवेत् । ॐ तत्सदिति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरवि- रचिते ज्ञानकाण्डे कठवल्युपनिपदर्थप्रकाशे पष्ठी घल्ली ॥६॥ समाप्ता कठोपनिपत् । BH TIPS YABR RY.

Ishkenkathopanisad

Author
Digambar
Title
Ishkenkathopanisad
File name
Ishkenkathopanisad
Text
OCR done
Citation
1915
Published
2012/08
Publisher
Anandashram Mudranalay
Language
Sanskrit
Pages
107
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405687
Barcode
99999990292734.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
wEyrSu9C20v
Download PDF

Ishkenkathopanisad