Sarnath Varanasi

Bodhsarah

Sri Narhari · 2006/01/16

PDF Proofread

Front matter

BENARES SANSKRIT SERIES; Α. COLLECTION OF SANSKRIT VORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER TAE SUPERINTENDENCE OF R. T. H GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, Ph. D. No 105 बोधसारः। श्रीविद्वद्वर्यनरहरिविरचितः । सच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः । श्रीमसुदासीमवर्यस्वामिगोविन्दानन्दयिष्येण दयानन्दस्वामिना परिशोधितः। BODHASAR, A TREATISE ON VEDANTA, - SRI NARHARI, With a commentary by the author's pupil PANDIT DivÂKAR. EDITED BY SWÄXT DAYÂNAND. Fasciorus VI. BENARES. Published by the Proprietors Messrs. Braj B. Das e Co., AND SOLD BY H. O GUTA, Secretary, Chowkhamba Sanskrit Book Depot. Printed at the Vidya Vilás Press, BENARIS, 1905. .

२ ८ . . १ ४ . B. २ २ . . २ सूचीपत्रम् । गणपाठः गोलप्रकाशः गगालहरी गुरसारणी जातकतत्त्वम् • १२ तत्त्वदीप तकर्सग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रहः धातुपाठः (शिला -1) धातुरूपावली नैषध चरित नारायणी टीका टारप परिभाषापाठः पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रमभूषणम् (प्रश्न विचार का बहुत उत्सम प्रन्थ) बीजगणितम् (म० म०पं. सुधाकरकृतटिप्पणीसहित) १ मनोरमा शब्दरतसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लघुकौमुदीभाषाटीका लक्षणावली लीलावती (म. म. पं. सुधाकरातटिप्पणीसहित) १ वसिष्ठसिद्धान्तः विष्णुसहस्रनाम शब्दरूपापली टमार सप्तशती समासचक्रम १ समासनन्द्रिका १ सरखतीकण्ठाभरणम ३ साजन्यचन्द्रिका टिप्पणीसहिता सासन्धतस्वकौमुदी सिद्धान्तकौमुदी ३ सिखान्तमुकाबली दिनकरीबिपाणीसहिता उपसर्गवृत्ति क्षेत्रकौमुदी क्षेत्रसंहित arm Pv . . २ 8 . - ६ ३ ० বিনবস্বাহা। जाता उत्पन्ना भावा विकारा ज्ञेयाः, एषां भिन्नत्वप्रतीतानव- स्थावलक्षण्य मेव तदभावे तदभावदर्शनादिति भावः, आत्मा तत्साक्षी प्रत्यगात्मा निरञ्जनोऽवस्थात्रयतदभिमानिविश्वा. दित्रयोपाध्यतीतोऽत एव शुद्धस्तत्साक्षित्वपलास्पृष्टोऽस्तीत्य- नुसन्धेयः ॥ १० ॥ एवमवस्थात्रयतदभिमानिविश्वादित्रयरूपोपाधेरात्मानं वि. विच्य दीयत्वेदानीं तमस्त दत्तिरूपोपाधिभ्योप्यात्मानं वि. विच्य दर्शयति । निद्रालस्यं प्रमादश्च परिमोहो विषादकः । एते तमोभवा भावा आत्मा शुद्धो निरजनः ॥११॥ निद्रेति । निद्रा सुषुप्तिगलस्यं कर्नव्याकर्तव्ययाग्नु त्साहपूर्वमुपेक्षा, तत्र प्रमादश्च कर्तव्यास्फूर्तिस्तविपरीतस्फूर्तिवा, परिमोहः केवलास्फुरणमेव हिताहितयोर्विपादको विपरी- तकृसं कुलानुखेदः, एते भसिद्धा लोकेषु भावा विकारास्ते तमोभवास्तमसस्तमोगुणाद्भव उत्पतिर्यपां ते तथोक्ता ज्ञेयाः, आत्मा. तमस्तद्भवविकारसाक्षी प्रत्यगात्मा निरञ्जनस्तमस्तदि- कारोपाधिरहितोऽत एव शुद्धस्तमस्तद्विकारसाक्षित्वमलर- हितोऽस्तीत्यनुसन्धेयः ॥ ११ ॥ सत्त्वगुणतद्वृतिभ्योपि तं विविच्य दर्शयति । शमो विवेकः सौम्यत्वं प्रकाशश्च प्रसन्नता । एते सत्त्वमया भावा आत्मा शुद्धो निरजनः ॥१२॥ शम इति । झामः श्रवणादिव्यतिरिक्तविषयभ्य इन्द्रिय- ध्यातिरिति लक्षणलक्षितः शान्तिनामको भावान्तःकरणम्य, विविच्येते आत्मानात्मानावनेनेति विवेको विचारः, सा.

बाधसारे।
म्यत्वं विक्षेपरहितता, प्रकाशश्च पदार्थानां यथावत्स्फुरणरूपो.
ऽन्तःकरणविकारः, प्रसन्नता क्षोभराहित्येनात्मसुखस्फुरणं, एते
विवेकिषु दृश्यमाना भावाः पदार्थविकाराः सत्त्वमयाः स-
स्वस्य सत्त्वगुणस्य विकारा ज्ञेयाः, आत्मा सत्त्वगुणनद्वृत्ति-
साक्षी प्रत्यगात्मा निरअनः सत्त्व तद्विकाररूपोपाधिरहितोऽतः
शुद्धः सत्त्वतद्विकाराणां मायाकार्यत्वात्तत्साक्षित्वमलरहितोऽ-
स्तीसनुसन्धेयः ॥ १२ ॥
इदानी रजोगुणतद्विकारोपाधिभ्योप्यात्मानं विविच्य
दर्शयति ।
लोभश्वचलताक्षाणामारंभः कर्मणामपि ।
एते रजोभवा भावा आत्मा शुद्धो निरज्जनः ॥१३॥
लोभ इति । लोभः प्राप्तेष्वपि विषयेषु सत्सु अपरितृप्ति-
रूपा वृत्तिरक्षाणामिन्द्रियाणां चञ्चलता स्वस्त्र विषयेष्वस्थैर्य,
कर्मणां व्यापाराणामारम्भोपि आरम्भोत्साहोपि, एते व्यव-
हारे प्रसिद्धा भावा अन्तःकरणविकारपदार्था रजोभवा
रजोगुणाद्भव उत्पतिर्येषां ते तथोक्ता ज्ञेयाः, आत्मा रजोगु-
गाद्विकारसाक्षी प्रसगात्मा निग्जनो रजोगुण तद्रिकारोपा-
ध्यतीतोऽत एव शुद्धो रजोगुणद्विकारसाक्षित्वमलरहितो.
ऽस्ती सनुमन्धेयः ॥ १३ ॥
एवं गुणत्रयतद्विकारोपाधिभ्य आत्मानं विविच्य दर्शयि-
खेवानी कतत्वतदभिमानतत्कल्पितभावोपाधिभ्योप्यात्मानं
विविच्य दर्शयति ।
विधिश्च च प्रतिषेधश्च धर्माधौं शुभाशुभम् ।
कर्तृत्वभाविता भावा आत्मा शुद्धो निरञ्जनः ॥१४॥

निरञ्जनपञ्चाशस्कम्। , बिधिरिति । विधिश्च विधीयते प्रवर्सतेऽनेनेति विधिः स्व- विहितकणि प्रवर्तकं शास्त्रवाक्यं 'ब्राह्मणो बृहस्पतिसवेन य- जेत, क्षत्रियो राजसूर्यन, वैश्यः सोमेने'त्यादिरूपं, तथा प्रलिपेघश्च प्रतिषिध्यते निवार्यतेनेनेति प्रतिषेधोऽविहितकर्मतो निवर्तक वाक्यं 'ब्राह्मणं न हन्यादि'त्येवं रूपं, धर्माधर्मों धर्मश्च स्ववर्णा- श्रमविहितोऽधर्मश्च द्विपरीतस्तौ, तथा शुभाशुभे शुभं च ध- मफलं पुण्यमशुभं चाधर्मफलं पापम् , एते प्रसिद्धा भावा विकाराः कर्तृत्वभाविताः स्वस्मिन्यदध्यस्तं कर्तृत्वं तेन सह- कृतेन स्वयं भाषिताः सन्तीति ज्ञेयम, आत्माऽध्यस्तकर्तृत्वतत्क- ल्पितभावसाक्षी प्रत्यगात्मा निरञ्जनः कर्तृत्वतत्कल्पिनधर्मोपा- धिरहितोऽत एव शुद्धः कर्तृत्वतत्कल्पितसाक्षित्वमलहिता- ऽस्तीत्यनुसंधेयः ॥ १४ ॥ इदानी क्रियातकरणादरूपोपाधिभ्योप्यात्मानं विविच्य बर्यात । कृतिः कार्य च करणं तत्र चेष्टाः पृथग्विधाः । कर्तृत्वस्यानुगा भावा आत्मा शुद्धो निरञ्जनः॥१५॥ कृतिरिति । कृतिः क्रिया गमनादिरूपा, कार्य क्रियाविषय. करेण तृणं छिन्नमित्य च्छिदिक्रियाव्याप्तं वृणं, करणं च तत्रै- व दिक्रियासाधनं, काररूपमेतद्विकारजातं पृथग्विधं पृथ- भिन्ना विधा प्रकारो यस्य तत्तथाभूतं तत्र तेषु सत्सु पृथग्वि- धाः पृथग्विधा प्रकारो यामां तास्तथोक्ताश्चेष्टाः स्थानगम- मागमनोस्थानादिरूपाः सन्ति ते एते सर्वे भावा विकागः क- तृत्वस्य स्वस्मिन्नध्यस्तं यत्कर्तृत्वं तस्यानुगा अतु पश्चाद च्छन्तीत्यनुगाः कर्तृत्वोपजीविन इत्यर्थः, सन्तीति ज्ञेयाः, आत्मा. कर्तृत्वतदनुत्तभावसाक्षी प्रत्यगात्मा निरअनः. कर्तृत्वतदनुसा. : " बासारे। रिभावोपाधिभ्यो भिन्नोऽत एवं शुद्धः कर्तृत्वतदनुगभावसा- क्षित्वमलरहितोऽस्तीत्यनुसन्धेयः ॥ १५ ॥ एवं कर्तृत्वभोक्तृत्वतज्जन्यभावोपाधिस्य प्रात्मानं वि- विच्य दायित्वेदानी पञ्चभृतोपाधिभ्यस्तं विविच्य दर्शयितुं तहणभूतशब्दादिविषयोपाधिभ्यस्त विविच्य दर्शयति । शब्द: स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । पञ्चभूतोद्भवा भावा आत्मा शुद्धो निरञ्जनः॥१६॥ शब्द इति । शब्द आकाशगुणवेन प्रसिदः, स्पर्शो वा. युगुणत्वेन प्रसिद्धः सामान्यरूपः, रूपं च तेजोगुणत्वेन प्रसिद्ध सामान्यरूपं, रसो जलगुणात्वेन प्रसिद्धः सामान्यरूपः, पञ्चमः पञ्चसङ्ख्यापूरको गन्धश्च पृथ्वीगुणत्वेन प्रसिद्धः सामान्यः, एते सर्वे भावा विकाराः पञ्चभूतोद्भवाः पञ्चसङ्ख्यानि यानि भूतानि वियदादीनि तेभ्य उद्भव उत्पतिर्येषान्ते तथोक्ता ज्ञेयाः, आत्मा तत्साक्षी प्रयगात्मा निरअनः शब्दाधुपाधिरहितो- ऽत एव शुद्धस्तत्साक्षित्वमलरहितोऽस्तीत्यनुसन्धेयः ॥१६॥ एवं शब्दाधुपाधिभ्यो विविच्यात्मानं दयित्वेदानी त. दाधारभूतपञ्चभूतोपाधिभ्योप्यात्मानं विविच्य दर्शयति । आकाशमनिलस्तेजस्तोयमुर्वी च पञ्चमी । पञ्चभूतमया भावा आत्मा शुद्धो निरञ्जनः ॥१५॥ आकाशमिति । आकाशं वियदनिलोवायुस्तेजोऽग्नि- स्तोयं जलं पञ्चमी पञ्चसङ्ख्यापूरकोर्वी च धरा चैते सां- व्ये लोकेषु च प्रसिद्धा भावा विकाराः पञ्चभूतमयाः पञ्चसङ्घयानि यानि भूतानि वियदादीनि तन्मयास्तद्धपाः सन्तीति ज्ञेयाः, आत्मा पञ्चभूतसाक्षी प्रत्यगात्मा निरञ्जनपञ्चाशत्कम् । ४८५ + , निरअनः पञ्चभूतोपाधिरहितोऽत एव शुद्धः पञ्चभूतसाक्षि- त्वमलरहितोऽस्तीयनुसन्धेयः ॥ १७ ॥ एवं पञ्चभूतोपाधिभ्य आत्मानं विविच्य दर्शयित्वेदानी त- कार्यत्वेन प्रसिद्धज्ञानेन्द्रियोपाधिभ्योप्यात्मानं विविच्य दर्शयति । श्रोत्रं त्वङयनं जिह्वा गंधग्राहश्च पञ्चमः । ज्ञानेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः॥१८॥ श्रोत्रमिति । श्रोत्रं श्रूयते ज्ञायते शब्दोनेनेति श्रोत्रमा काश- कार्यमाकाशगुणभूतशब्दज्ञानकरणं, त्वग्रोमकूपेषु स्थितं कार्य वा- योस्तद्गुणस्पर्शज्ञानकरणं, नयन नीयते प्राप्यते रूपमनेनेति नयन तेजाकार्यन्तद्गुणरूपज्ञानकरणं जिता मुखस्थं जलकार्य तद्गुगा रस- ज्ञानकरण पञ्चमः, एतेषां चतुर्णा पञ्चसङ्ख्यापूरको गन्धग्राहश्च गृह्यतेङ्गीक्रियतेनेनेति ग्रहो गन्धस्य पृथ्वीगुणत्वेन प्रसिद्ध स्य ग्रहो ग्रहणकरणभूतो ग्रह एव ग्राहः स्वार्थेण, यद्वा गन्धं गृहा- तीति गन्धग्राहः 'कर्मण्यण' शब्दज्ञानकरणमित्यर्थः, एते सर्वे ज्ञा- नेन्द्रियमया ज्ञानक्रियाकरणभूतानि ज्ञानेन्द्रियाणि तत्मयास्त. द्रूपा भावा विकाराः सन्ति आत्मा पञ्चज्ञानेन्द्रियसाक्षी म. सगात्मा निरजनः पञ्चज्ञानेन्द्रियरूपोपाध्यतीतोऽत एवं शुद्ध: पञ्चज्ञानेन्द्रियसाक्षित्वमलरहितोऽस्तीत्युनुसन्धेयः ॥ १८ ॥ एवं पञ्चभूतकार्यभूतकर्मेन्द्रियोपाधितोप्यात्मानं विवि- व्य दर्शयति । वाक्पाणिपादौ पायुश्च तथोपस्थश्व पञ्चमः । कर्मेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः॥१९॥ कागिति । वागुच्यतेऽनया सा वाक्शब्दोचाक्रिया- करणं पाणिपादौ पाणिश्च हस्तगोलकस्थमावानक्रियायाग- ३८६ बोधसारे। क्रिययोः करणं, पादश्च पादगोलकस्थङ्गमनागमनादिक्रियाकरण, पायुश्च गुदस्थं मलोत्सर्गक्रियाकरणं, तथा पञ्चमः पश्चसंख्यापूरक उपस्थश्च शिस्त्रभरगोलकस्थ मैथुनक्रियातजन्यमुखप्राप्तिक्रिपयोः करणम् , एते सर्व भावा विकाराः कर्मेन्द्रिमया कर्माणि क्रियास्त. करणभूनानीन्द्रस्येमानीन्द्रियाणि साधिष्ठानबुद्धिस्थचिदाभा- सस्य भोक्तुः मम्बन्धीनीन्द्रीयाणि तन्मयास्तद्रूपा भावा हि- कारा ज्ञेयाः, आत्मा पञ्चकर्मेन्द्रियसाक्षी प्रयगात्मा निरञ्जन: कर्मेन्द्रियोपाधिरहितोऽत एव शुद्धः पञ्चकर्मेन्द्रियसाक्षित्वमलर- हितोऽस्तीत्यनुसन्धेयः ॥ १९॥ एवं दशेन्द्रियोपाधित आत्मानं विविच्य दर्शयित्वेदानी तद्विषयेभ्योपि तं विविच्य दर्शयति पञ्चभिः, तत्रादौ शब्दतद्भ- दोपाषिभ्य आत्मानं विविच्य दर्शयति । ध्वनिवर्णविभेदा य आहतानाहतादयः । शब्दभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥२०॥ ध्वनिरिति । ध्वनिरव्यक्तनादो मध्यमावापो ये च व- विभेदा ये प्रसिद्ध वर्णानामकचटतादयस्तेषां विभेदाः संयुक्तवर्णाद्या स्कस्तादयो ये चाऽऽहतानाहतादय भाहता भेर्यादिजनिता अनाहताश्च सत उत्पन्नाः पंचभूतोद्भवाः क- स्य पिधाने कृते सति श्रूयमाणास्त आदयः प्रथमा येषां- ते तथोक्ता आदिपदेन मेघादिजनिताः शब्दा ग्राह्याः, सर्वे त एते. लोकेऽनुभूयमानाः शब्दभेदमयाः शब्दस्याकाश- गुणखन प्रसिद्धस्य यो भेदः पार्थक्यं जन्मयास्तद्पा ज्ञेगाः, आत्मा शब्दत दसाक्षी कूटस्थो निरञ्जन: श- ब्दतद्भेदविकारोपाधिरहितोऽत एव शुद्धः शम्दतनेदविका- रसाक्षिल्बमलरहितोऽस्तीत्यनुसन्धेयः ॥२०॥ ..

निरञ्जनपश्चाशत्कम्। एवं शब्दतभेदरूपोपारात्मानं विविच्य दर्शयित्वेदानी- मध्यमाशब्दवाच्यध्वनिभेदज्ञापनपूर्वकं ततोप्यात्मानं विविच्य दर्शयति । निषादर्षभगान्धारषड्जमध्यमधैवताः । स्वरभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥२१॥ निषादेति । निषादर्षभगान्धारषड्जमध्यमधैवता निषादो निषादनामक एक, ऋषभो ऋषभनामको द्विनीयः, गान्धारो गा- धारनामकस्तृतीयः, षड्जः षडजनामकश्चतुर्थः, मध्यमो मध्यम मामकः पञ्चमः, धैवतो धैवतनामा षष्ठः, अनुक्तोपि पञ्चमनामा सप्तमः, एते भावा विकाराः स्वरभेदमयाः स्वरोऽव्यक्तनाद. स्तस्य भेदः पार्थक्यं तन्मयास्तद्रूपा नेयाः, आत्मा तत्माक्षी प्रत्यगात्मा निरअनः स्वरतद्भदोपाधिरहितोऽत एव शुद्धः स्वरतद्भेदसाक्षित्वमलरहितोऽस्तीत्यनुसन्धेयः ॥ २१ ॥ एवं स्वरतदोपाधित आत्मानं विविच्य दर्शयित्वेदानी वायुगुणभूतस्पर्शतद्भदोपाधितोप्यात्मानं विविच्य दर्शपति । शीतोष्णमृदुकाठिन्यतीक्ष्णरूक्षादिभेदतः । स्पर्शभेदमया भावा आत्मा शुद्धो निरञ्जनः॥२२॥ शीतेति । शीतोष्णमृदुकाठिन्यतीक्ष्णरूमादिभेदन: शीतः शीतल उष्णस्तापको मृदुः कोमलः काठिन्यः कर्कश- स्तीक्ष्णो दाहको रूक्षः शुष्कः, एत आदयो येषां ते तथोक्ता भेदा भेदवन्तः स्पर्शा सार्वविभक्तिकस्तसिः, ते सर्वे भावा वि- काराः स्पर्शभेदमयाः स्पर्शस्य वायुगुणत्वेन प्रसिद्धस्य सामा- न्यस्पर्शस्य ये भेदाः पञ्चीकृतत्वेनानेकत्वं तन्मयास्तद्रूपा ज्ञेयाः, आत्मा स्पर्शतद्भेदसाक्षी मसगात्मा निरअनः स्पति - बीधसारे। दरूपोपाध्यतीसोऽत एव शुद्धः स्पर्शतद्भेदसाक्षित्वमलरहितो- ऽस्तीखनुमन्धेयः ॥ २२ ॥ इदानीं रूपभेदतोपि तं विविच्य दर्शयति । रक्तं पीतं सितं कृष्णं हरितं चित्रमित्यपि । रूपभेदमया भावा आत्मा शुद्धो निरञ्जनः ॥२३॥ रक्तमिति । रक्तं शोणितं पीतं हरिद्रा सितं श्वेतं कृष्णं नीलं हरित पालाशं चित्रं कितैरमिसेवर्मापशब्दादन्यदपि एते भावा विकारा रूपभेदमया रूपस्य तेजोगुणत्वेन प्रसिद्धस्य सामान्यरूपस्य यो भेदः पृथकं तेजसः पञ्चीकृतत्वेन तद्- णस्यापि पृथवं तन्मयास्तद्रूपा ज्ञेयाः, आत्मा त- साक्षी कूटस्थो निरजनो रूपततेंदोपाध्यतीतोऽत एवं शुद्धो रूपतनेदसाक्षित्वमलराहतोऽस्तीत्यनुमन्धेयः ॥ २३ ॥ इदानी रसभेदोपाधितोपि तं विविच्य दर्शयति । कटुः कषायो मधुरो लवणोम्लश्च तिक्तकः । रसभेदमया भावा आत्मा शुद्धो निरञ्जनः॥२४॥ कटुरिति । कटुः कटुत्वविशिष्टः, कषाय: कषायरसः, मधुरो मिष्टरमः, लवण: क्षाररसः, अम्लश्चाऽम्लरसः,तिक्तकस्तिक्तरसश्च, एते सर्वेभावा विकारा रसभेदमया रसस्य जलगुणत्वेन प्र. सिद्धस्य सामान्यरसस्य जलस्य पञ्चीकृतत्वेन भेदः पृथक्त्वं त- न्मयास्तद्रुपा शेयाः, आत्मा तत्साक्षी प्रयगात्मा निरजनो रसतद्भेदविकारोपाध्यतीतोऽत एव शुद्धो रसतद्विकारसाक्षि- स्वमलरहितोऽस्तीसनुसन्धेयः ॥ २४ ॥ इदानी गन्धत दरूपोपाधितोपि तं विविच्य दर्शयति ।

निरञ्जनपञ्चाशस्कम् । चित्राः परिमलामोदसौरभासौरभादया। गन्धभेदमया भावा आत्मा शुद्धो निरञ्जनः॥२५॥ चित्रा इति । परिमलामोदसौरभासौरभादयः परिमलो ज- नमनोहरो गन्धः, भामोदो दूरगामी गन्धः, सौरभः सुगन्धः, अ- सौरभो दुर्गन्धः, एत प्रादयः प्रथमा येषां ते तथोक्ताश्चित्रा विचित्ररूपाः, यद्वा चित्रापरिमलेतिपाठे चित्रगन्धोपि व्यअना. दीनां ग्राह्यः, अपरिमलश्च सामान्यमुगन्धः, एते भावा विकारा गन्धभेवमया गन्धः पृथ्वीगुणत्वेन प्रसिद्धः सामान्यस्तस्य यो भेदः पञ्चीकृतत्वेनानेकत्वं तन्मयास्तद्रूपा ज्ञेया:, आत्मा- गन्धतद्भेदविकारसाक्षी प्रसगात्मा निरञ्जनो गन्धतीद्वकारोपा- धितो भिन्नोऽत एव शुद्धो गन्धतद्विकारसाक्षित्वमलरहितो- ऽतीतिज्ञेयः ॥२५॥ एवं पञ्चभूततद्गुणोपाधित आत्मानं विविच्य दर्शयित्वे- बानी पश्चीकृतभूतजन्यस्थूलदेहयोनिभेदोपाधितोप्यात्मानं वि विच्य दर्शयति । जरायुजाण्डजस्वेदसंभवोजिकादयः । प्राणिभेदमया भावा आत्मा शुद्धो निरन्जनः॥२६॥ जरायुजेति । जरायुजाण्डजस्वेदसंभवोद्भिजकादयो जरा- युजा गर्भोपरिवेष्टनजालं जरायुस्तस्माज्जाताः, अण्डजा अ- डेभ्यो जाताः पक्ष्यादयः, स्वेदसम्भवाः स्वेदो धर्मस्तस्मात्स- म्भवो जन्म येषां ते तथोक्ता यूकामत्कुणादयः, उद्भिज्जका उद्भिद्य पृथिवीं जाता उत्पन्नास्त उद्भिज्जकाः, एत आदयो येषां ते तथोक्ताः, एते भावा विकारा योनिभेवभवा योनी कारणस्य यो भेदः पार्थक्यं तस्माद्भवा उत्पना झेयाः, आत्मा बोधसारे। योनितद्भेदतदुद्भवदेहसाक्षी प्रत्यगात्मा निरअनो योनितद्भदत- दुद्भवदेहायुपाधिरहितोऽत एव शुद्धस्तत्साक्षित्वमलरहितो- ऽस्तीत्यनुसन्धेयः ॥ २६ ॥ तत्र योनिभेदोत्पन्नेषु मध्ये माणिषु नीचत्वेनाण्डजानु- पेक्ष्य जरायुजभेदोद्भवोपाधितोप्यात्मानं विविच्य दर्शयति । ससुरासुरगन्धर्वयक्षरक्षोनरादयः । जीवजातिमया भावा आत्मा शुद्धो निरञ्जनः ॥२७॥ समुरेति । ससुरासुरगन्धर्वयक्षरक्षोनरादयः मुरदेवैः स. हिता: ससुरा असुरा देयाः, गन्धर्वा देवगायकाः, यक्षाः किं- नराः, रक्षांसि राक्षसाः, नरा मनुष्याः, आदय प्रथमा येषां ते सर्वे भावा विकारा जीवजातिमया जीवानां कल्पितदे- बजातिरूपा ज्ञेयाः, आत्मा जीवतत्कल्पितदेहजातिसाक्षी प्र- त्यगात्मा निरअनो जीवतत्कल्पितदेहजात्युपाध्यस्पृष्टोऽत एव शुद्धो जीवतत्कल्पितदेहजातिसाक्षित्वमलराहतोऽस्तीयनुम- न्धेयः॥ २७॥ एवं स्थूल जातिरूपोपाधित आत्मानं विविच्य दर्शयित्वे. दानी स्थूलदेह उपास्यभेदेन कल्पितजात्युपाधितोप्यात्मानं विविच्य दर्शयति । शैववैष्णवसावित्रशाक्तगाणपतादयः । इष्टदेवतजा भावा आत्मा शुद्धो निरञ्जनः ॥२८॥ शैवेति । शैववैष्णवसावित्रशाक्तगाणपतादयः शैवाः शि- वोपासकाः, वैषणवा विष्णूपासकाः, सावित्रा सूर्योपसकाः, माक्ताः शक्त्युपासकाः, गाणपता गणेोपासकाः, एत बा- दयो मुख्या येषां ते तथोक्तास्त एत. इष्टदैवतजा इष्टं मियं य.

निरञ्जनपञ्चाशत्कम्। दैवतं देवता ततो जाता उत्पन्नास्ते तथोक्ता भावा विकारा ज्ञेयाः, आत्मा-इष्टदैवततदुपासनतत्कर्तृरूपोपाधिसाक्षी प्रसगात्मा निरअन इष्टदैवततदुपासकोपाधिरहितोऽत एवं शुद्ध इष्ट- दैवततदुपासकसाक्षित्वमलरहितोऽस्तीअनुसन्धेयः ॥२८॥ एवमुपास्यतजन्यविकारोपाधित आत्मानं विविच्य द. यित्वेदानीमृषितकुलतगोत्रपवरोपाधिभ्य आत्मानं वि- विच्य दर्शयति । वासिष्ठगायेशाण्डिल्यभार्गवाङ्गिरसादयः । गोत्रप्रवरजा भावा आत्मा शुद्धा निरञ्जनः ॥२९॥ वासिष्ठति । वासिष्टगार्यशाण्डिल्यभार्गवाङ्गिरसादयो वा- सिष्टो वसिष्ठस्य गोत्रापत्यं पुमान्वामिष्ठो वसिष्ठकुलजत्वाद्र- सिष्ठगोत्र इत्यर्थः, गाग्र्यो गर्गस्य गोत्रापत्यं पुमान्गाग्र्यो गर्ग- कुलोद्भवखाद्गार्य इत्यर्थः, शाण्डिल्यः शाण्डिल्यकुलोत्पन्नः, भार्गवो भृगोगोंत्रापत्यं पुमान्भार्गवो भृगुकुलोत्पन्नत्वाद्भागव- इत्यर्थः, आङ्गिरसोऽङ्गिरसो गोत्रापत्यं पुमानाङ्गिरसोऽगिरः- कुलोत्पन इत्यर्थः, एते भावा विकारा गोत्रप्रवरजा गोत्राणि प्रवराव तेभ्यो जाना उत्पन्ना विज्ञेयाः, आत्मा गोत्रमावर- तदुत्पन्नभावसाक्षी प्रत्यगात्मा निरअनो गोत्रप्रवरतज्जभावो- पाध्यतीतोऽत एव शुदो गोत्रप्रवरतदुत्पन्नभावोपाधिसाक्षि- स्वमलरहितोऽस्तीत्यनुमन्धेयः ॥ २९ ॥ इदानीं विद्यातद्वोत्तभावोपाधिभ्योप्यात्मानं विविच्य दर्शयति । पौराणिकच्छान्दसिकज्योतिर्विद्भिषगादयः । विद्यावृत्तिभवा भावा आत्मा शुद्धो निरञ्जनः ॥३०॥ पौराणिकेति । पौराणिकच्छान्दपिकज्योतिर्विद्भिपगा-

४९२
बोपसारे।
दयः पौराणिकः पुराणान्यधीते वेत्ति वा पौराणिकः पुराण.
विद्योपजीवी, छान्दसिकश्छन्दो बेदमधीते वेद पा स छान्द-
सिको वेदोपजीवी, उभयत्र 'तदधीते तद्वेवेति तद्धितष्ठक्, 'ठस्येक'
इतीका, ज्योतिर्विज्योतिर्योतिःशास्त्रं वेत्तीति ज्योतिर्वि-
ज्योतिःशास्त्रोपजीवी, भिषग्वैद्यो वैद्यविद्योपजीवी, पत आ-
दयो मुख्या येषां शिल्पी शास्त्रीयादीनां ते तथोक्तास्ते सर्वे
भावा विकारा विद्यारत्तिभवा विद्या झानसाधनभूतशास्त्राणि,
यद्वा विद्या पुराणाधास्ताभ्यो या वृत्ति विका ततो भवा उ-
त्पमा ज्ञेयाः, आत्मा विद्यातत्तितजन्यभावानां साक्षी प्रस-
गात्मा निरञ्जनो विद्यातद्वृत्तितजन्यभावोपाधिरहितोऽत एवं
शुद्धो विद्यातद्वृतिसाक्षित्वमलरहितोऽस्तीत्यनुसन्धेयः ॥३०॥
इदानी यागजन्यभावोपाधितोप्यात्मानं विविच्य दर्शयति।
प्राच्यौदीच्यप्रतीच्याथा दाक्षिणात्यादयः परे।
यागभेदोवा भावा आत्मा शुद्धो निरजनः॥३१॥
मायेति । प्राच्यौदीच्यप्रतीच्याद्याः प्राच्या यज्ञेप्राग्दि-
द्राराधिकारिणः, औदीच्या उदग्द्वाराधिकारिणः, प्रतीच्याः
पश्चिमद्वाराधिकारिणः, एत आधाः प्रथमा येषां ते तथोक्ताः
परेऽन्योपै दाक्षिणात्यादयो दाक्षिणाया दक्षिणद्वाराधिका-
रिण आदयः प्रमुखा येषां ते तथाभूताः, त एते सर्वे भावा
विकारा यागभेदभा यागो यज्ञस्तत्रिमितको यो द्वारभे-
दस्तस्माद्भवो जग्म येषां ते तथाभूता शेया, आस्मा यागतद्-
द्वारतद्भवतज्जभावसाक्षी प्रसगात्मा निरञ्जनो पागतद्वारनिमि-
तोद्भवभावोपाध्यस्पृष्टोऽत एवं शुद्धो यागादिविकारसाक्षि-
स्वमलरहितोस्तीअनुसन्धेयः ॥ ३१ ॥

निरञ्जनपञ्चाशत्कम् । , इदानी क्रियातजन्यभावोपाधितोप्यात्मानं विविध्य दर्शयति । चित्रकृल्लेखकस्तक्षा वाचकः पाठकः परे । क्रियाभेदभवा भावा आत्मा शुद्धा निरञ्जनः ॥३२॥ चित्रकृदिति । चित्रकृच्चित्रक्रियोपजीवी, लेखको लेख. क्रियोपजीवी, तक्षा काष्ठतनूकरणादिक्रिपोपजीवी, वाचको व- चनक्रियोपजीवी, पाठकः पठनक्रियोपजीवी, परेऽन्येपि गन्ता- स्थातेसादयो ग्राह्याः, एते भावा विकाराः क्रियामेवभवाः क्रियाणां कृतीनां यो भेदः पार्थक्यं तस्माद्भवा उत्पन्नाः याः, आत्मा तत्तक्रिया-तत्तत्कर्तृ-तत्तदेदसाक्षी प्रत्यगात्मा निरअनो क्रिया-तत्कt-तद्भेदोपाध्यतीतोऽत एव शुद्धः क्रिया तत्कर्ट- सद्भेदसाक्षित्वमलरहितोऽस्तीत्पनुसन्धेय ॥ ३२ ॥ इदानी शरीरसुन्दरताजन्यविकारोपाधितोप्यात्मानं वि- विच्य दर्शयति । हेमगौरविशालाक्षसिंहसंहननादयः । कायसौन्दर्यजा भावा आत्मा शुद्धो निरञ्जनः॥३३॥ हेमगौरेति । हेमगौरविशालाक्षसिंहमहननादयो हेमगोरो हेम सुवर्ण तद्वद्गौरः पीतवर्णः, 'पीतो गौरो हरिद्राभ' इयमरः, वि- शालाक्षो विशाले आकर्णान्तं विस्तीर्णे अक्षिणी नो यस्य स तथोक्तो विशालनयन इसर्थः, सिंहसंहननः सिंहो मृगेन्द्रस्तट्व- संहनने गमनं यस्य स तथोक्तः, यद्वा सिंहवत्संहननमुचस्क- ग्धोचवक्षस्थलवादिरूप सौन्दर्य यस्य स तथोक्तः, एन आदयो मुख्या येषां ते तयोः, भावा विकारा: कायसौन्दर्षजाः कायस्य देहस्य यत्सौन्दर्य कमनीयत्वं तस्माजाता उत्पना भैया, आत्मा शरीरसत्सौन्दर्यतजतिकारसाती प्रसगात्मा निर- ४९४ बोधसारे। शरीरतस्मौन्दर्यतदुत्पन्नविकारोपाध्यस्पृष्टोऽत शुद्धः भारीरतत्सौन्दर्यतदुत्पन्नभावसाक्षित्वमलरहितोऽस्तीय- नुसन्धेयः ॥ ३३ ॥ इदानीं शरीरविरूपत्वतजन्यभावोपाधितोप्यात्मानं विवि- ध्य दर्शयति । मूकान्धपगुबधिरकाणकब्जाक्षकादयः । कायवैरूप्यजा भावा आत्मा शुद्धो निरञ्जनः ॥३४॥ मूकेति। मूकान्धपङ्गुबधिरकाणकासकादयो मूको गत- वाग,अन्धश्चक्षुहीना, पङ्गुः पादरहितो, बधिरः श्रोत्रहीनः, काणों गतैकनेत्रः, काक्षको विडालाक्षा, केकरतेति पाढे तिर्यनत्रः, एत आदयः प्रथमभूना येषां कुब्जादीनां ते तथोक्ताः, त एते सर्वे भावा विकाराः कायधैरूप्यजा कायस्य देवस्य यद्वैरू प्यमसौन्दर्य तस्माजाता झेयाः, आत्मा शरीरतरूप्यतदुत्पत्र- विकारसाक्षी प्रखगात्मा निरञ्जनः शरीरतद्वैरूप्यतज्जभावोपा- ध्यस्पृष्टोऽतः शुदः शरीरतद्वैरूपयतदुत्पन्नभावसाक्षित्वमलरहितो ऽस्तीसनुसन्धेयः ॥ ३४ ॥ सप्तलोकोपाधितोप्यात्मानं विविन्य दर्शयति । पातालं वसुधा स्वर्गो महस्तपो जनादयः । लोकभेदभवा भावा आत्मा शुद्धो निरञ्जनः॥३५॥ पातालमिति । पातालमधोमुचनं, वसुधा नस्लोकः, स्वर्गों देवलोका, महो महर्लोकः, तपस्तपोलोको, जनो जनलोकः,आदिः मथमो येषां सत्यगोलोकादीनां ते तथोक्ताः, लोकभेदभवा लो- कानां स्थानानां यो भेदः पृथक तस्माद्भव उत्पतिर्येषां ते त थाभूता भावा विकारा ज्ञेयाः, आत्मा लोकतझेदसाक्षी कूटस्थो "

निरञ्जनपश्चाशत्कम्।
निरअनो लोकतद्भवोपाध्यतीतोऽत एव शुद्धो लोकतनेदसा-
क्षित्वमलरहितोस्तीत्यनुसन्धयः ॥ ३५ ॥
इदानीं स्थूलदहोपलक्षितं यत्पशुत्वं तद्भेदोपाधितोप्यात्मानं
विविच्य दर्शयांत ।
सिंहव्याघ्रवराहक्षहरिणप्लवगादयः ।
पशुभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥३६॥
सिंहति । सिंहव्याघ्रवराहक्षहरिणप्लवगादयः सिंह केमरी,
व्याघ्रः शार्दूलः, वराहः सूकरः, ऋक्षो भल्लूकः, हरिणी मृगः,
प्लवगा वानरः, एत आदयः प्रथमा येषां ते तथोक्ताः, एने सर्वे
भाषा विकाराः पशुः पशुत्वं तस्य भेदो भिन्नत्वं तस्माद्भवा उ.
उत्पन्ना ज्ञेयाः, आत्मा पशुतद्भेदसाक्षी प्रत्यगात्मा निरञ्जनः पशु
त्वतन्दोद्भवविकारोपाध्यतीतोऽत एव शुद्धः पशुत्वतद्भेदोद्भ-
वसाक्षित्वमलरहितोऽस्तीसनुसन्धेयः ॥ ३६ ॥
इदानीं धातुतद्भेदोपाधितोप्यात्मानं विविच्य दर्शयति ।
वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रादयः परे ।
धातुभेदभवा भावा आत्मा शुद्धो निरञ्जनः ॥ ३७॥
स्वर्गाित । त्वक्त्वचा, असग्रुधिरं, मांसमामिपं, मेदस्त्वग-
न्तरस्थितशुक्लत्वगाकृतिः, अस्थि शरीरशुक्तयः, मज्जाऽस्थिलम:
सूक्ष्मत्वगाकृतिः, शुक्रं रेतः, एत प्रादयो मुख्या येषु ते तथोक्ता
परेऽन्येपि भावा विकरा धातुभेदभेवा धातूनां शरीरधारकाणां
तगादीनां यो भेदः पृथक्त्रं तस्माद्भवा उत्पन्ना झयाः, आ.
त्मा धातुतझेदसाक्षी मसगात्मा निरअनो धातुनतेंदोपाध्यतीता.
ऽत एव शुद्धो धातुतभेदतज्जविकारसाक्षित्वमलरहितोऽस्ती-
सनुसन्धेयः ॥ ३७॥

४९६ बोधसारे। इदानीं शारीवायुततेंदोपाधितोप्यात्मानं विषिच्य दर्शयांत प्राणापानसमामाश्वोदानव्यानौ च पञ्च ते । प्राणभेदभवा भवा आत्मा शुद्धो निरञ्जनः॥३०॥ प्राण इति ।माण: मकर्षणानिति जीवयति शरीरेन्द्रियादिकं स पाण एतन्नामको वायुः, अपानोऽपानिति शरीरेन्द्रियादिकं परियज्य गच्छति, यद्वा शरीरादिकं तर्पयति सोऽपानो वायुः, समानः समं यथा भवति तथाऽऽनयति प्रापति सर्वशरीर- नाडीषु भक्षितमन्नपानादिकं स समान एतनामको वायुः, चापि उदानव्यानौ चोदान उर्ध्वमनितीत्युदान उक्रमण- वायुः, व्यानश्च विशेषेणानिांत सर्व शरीरं व्यापको भूत्वा जीवयति सर्वशरीरांमति व्यानः, त एत पञ्च पञ्चसंख्याकार, उदानो व्यानश्च पञ्चम इति पाठे पश्च संख्यापूरको व्यानोपीति व्याख्येयम्, एते भावा विकाराः प्राणभेवभवाः प्राणः शारीरो वायुस्तस्य यो भेद पृथक्त्वं तस्माद्भवा उत्पन्नाः, आत्मा पञ्चमा- जत्तिनद्भेदसाक्षी प्रत्यगात्मा निरञ्जनः पञ्चमाणततेंदोपाध्यस्पृ. ष्टोऽत एव शुद्धः पञ्चमाणत दसाक्षित्वमलरहितोऽस्तीत्यनु. सन्धेयः॥ ३८ ॥ इदानीमुपप्राणत दोपाधितोप्यात्मानं विविच्य दर्शयति । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः । उपप्राणमया भावा आत्मा शुद्धो निरञ्जनः॥३९॥ नाग इति । नागो नागनामा वायुर्नेत्रोन्मीलनकरः, 'नाग उन्मीलनकर' इत्युक्तेः, कूर्मश्च कूर्मनामा वायुनिमीलनकरः, 'कूर्मः स्यात्तु निमीलने' इत्युक्तेः, कुकरः क्षुत्करोवायुः, 'श्रुत्करस्तु कुकर' इत्युक्तो, देवदत्तो देवदचनामा जृम्भकरो वायुः, 'देवदत्तस्तु निरञ्जनपश्चाशत्कम् । ४९७ जृम्भणे' इत्युक्तेः, धनञ्जयः पोषणकरोवायुः,मृतं शरीरं संव्याप्य गते प्राणेपि तिष्ठति धनञ्जयः' इत्युक्ते., एते भावा विकारा उ. पमाणभवा उपमाणा प्राणानुसारिणस्ततो भवा उत्पन्ना ज्ञेया, आत्मा उपप्राणतन्दसाक्षी प्रत्यगात्मा निरजन उपमा- गत दोपाध्यतीतोऽत: शुद्ध उपमाणतनेदसाक्षित्वमलरहितो- ऽस्तीत्यनुसन्धेयः ॥ ३९ ॥ इदानीं ज्वरादिरोगोपाधितोप्यात्मानं विविच्य दर्शयति । वरापस्मारकुष्ठानि वातपित्तकफादयः । धातुवैषम्यजा भावा आत्मा शुद्धो निरञ्जनः॥४॥ ज्वरेति । ज्वरापस्मारकुष्ठानि ज्वरस्तापरोगः, अपस्मारो भूछीरोगः, कुष्ठं चाष्टादशभेदभिन्नश्वेतकुष्ठादिक, वातपित्तकफा- दयो वातो वायुः, पित्तं पित्तनामधातुः, कफः श्लेष्मा, आदयो मुख्या येषां ते तथोक्ताः, एते भावा विकारा धातुवैषम्पना रेतआदिधातूनां वैषम्यं क्षोभो वातपित्तकफरूपस्ततश्च जाता शेयाः, आत्मा धातुतद्वैषम्यतदुत्पन्नविकारसाक्षी प्रयगात्मा निरञ्जनो धातुतद्वैषम्यतदुत्पन्नरोगरूपोपाध्यस्पृष्टोऽत एव शुद्धो धातुनद्वैषम्यतज्जरोगसाक्षित्वमलरहितोऽस्तीअनुसन्धेयः॥४०॥ इदानीं नाडीभेदोपाधितोप्यात्मानं विविच्य दर्शयति । पिङ्गलेडा सुषुम्णा च गान्धारी हस्तिकादयः। नाडीभेदभवाभावा आत्मा शुद्धो निरञ्जनः ॥४॥ पिङ्गलेति । पिङ्गला दक्षिणनासापुटे प्रवहतीनाडी पिङ्ग- लाख्या, इडा वामनासापुटे प्रवहती नाडी-इडाख्या, अन्यामु. घुम्णा च क्षणं वामनासापुटे क्षणं दक्षिणनासापुटे मवहती नाही .

बोधसारे।
सुषुम्णाख्या, गान्धारी गान्धारीनानी नाडी, हस्तिका-ए-
तन्नाम्नी नाडी, आदिः प्रथमा यासां तास्तथोक्ता एते सर्वे-
भावा विकारा नाडीभेदभवा नाडीनां पिङ्गलादिनाडीनां
भेदः पृथक्त्वं तस्माद्भव उत्पत्तिर्येषां ते तथोक्ता ज्ञेयाः, आत्मा
नाडी-तद्भेदोद्भवविकारसाक्षी प्रसगात्मा निरञ्जनो नाडीत-
द्रेवोपाधिशून्योऽत एवं शुद्धो नाडीतद्भेदसाक्षित्वमलरहितो.
ऽस्तीसनुसन्धेयः ॥४१॥
इदानी गतितनेदतदुभवविकारोपाधितोप्यात्मानं वि-
विच्य दर्शयति ।
उक्रान्तिगत्यागतयो याः स्वर्गनरकप्रदाः।
लिङ्गभेदोद्भवा भावा आत्मा शुद्धो निरञ्जनः ॥४२॥
उत्क्रान्तीति । उत्क्रान्तिगयागतय उत्क्रान्तिरुदानगसा
शरीरपरियागसन्मुखता, गतिर्लोकान्तरं प्रति गमनम्, आगतिर्न-
रक इह लोके वाऽऽगमनम्, एता याः शास्त्रेषु प्रसिद्धाः स्वर्ग-
नरकप्रदाः स्वर्गस्य स्वर्गसुखस्य नरकस्य नरकदुःखस्य च
भदा दाभ्यस्त एते भावा विकारा लिङ्गभेदोद्भवा लिङ्गश-
रीरस्य यो भेदः सत्त्वादिगुणोद्रेकेण पूर्वपूर्वगृहीतभावसागपु-
रासरमन्यभावाङ्गीकरणरूपस्तस्मादुद्भवा उत्पन्ना ज्ञेयाः,
आत्मा लिङ्गत दतदुद्भवभावसाक्षी प्रसगात्मा निरञ्जनो लिङ्गत-
द्भेदतदुद्भवोपाधिशून्योऽत एव शुद्धो लिङ्गतद्भेदतदुद्भवसाक्षि-
त्वमलरहितोऽस्तीत्यनुसन्धेयः ॥ ४२ ॥
इदानी वर्णत दोपाधितोप्यात्मानं विविच्य दर्शयति ।
बाह्मणः क्षत्रियो वैश्यः शूद्र इत्येवमादयः ।
वर्णभेदभवा भावा आत्मा शुद्धो निरज्जनः ॥४३॥

निरअनपश्चाशत्कम् । ४९९ ब्राह्मण इति । ब्राह्मणो ब्रह्मत्युपजीविकः, सत्रेण क्षत्रं वा चरति क्षत्रियः क्षत्रधर्मेण प्रवर्त्तते क्षत्रकर्म वाऽऽचरती- त्यर्थः, क्षत्रधर्मोपजीवीत्यर्थः, वैश्यो विशा वैश्यवृत्या चरति स वैश्यो वैश्यवृत्युपजीवीत्यर्थः, शूद्रः शूद्रत्त्युपजीवी, इत्येवमेते- चादयो येषां ते तथोक्ता भावा विकाराः, आदिपदेन सूत- लक्षचर्मकारसुवर्णकाराद्या प्राथाः, वर्णभेदावा वर्णानां गुणक- तस्वभावानां यो भेदः पृथक्त्वं तस्माद्भवा उत्पन्ना झेयाः, आत्मा वर्णत दतदुद्भावकारसाक्षी प्रत्यगात्मा निरञ्जनो वर्णतद्भेद- सदुद्भवविकारोपाध्यतीतोऽत एव शुद्धो वर्णतद्भेदतजवि- कारसाक्षित्वमलरहितोऽस्तीत्यनुसन्धयः ॥ ४३ ॥ इदानीमाश्रमभदोपाधितोप्यात्मानं विविच्य दर्शयति । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् आश्रमप्रभवा भावा आत्मा शुद्धो निरञ्जनः॥४४॥ ब्रह्मचारीति । ब्रह्मचारी ब्रह्मचर्यव्रतनिष्ठः स चोपकु- र्वाणो नैष्ठिकश्च द्विविधोपि, गृही गृहस्थधर्मवान्, वानप्रस्थो वा- नप्रस्थधर्मवान्, भिक्षुः संन्यासी, इति एवं क्रमाक्रमेण ज्ञेया ते भाषा विकारा आश्रमप्रभवा आश्रम्यतेस्मिन्नियाश्रमस्त. स्मात्प्रभवा उत्पन्ना ज्ञेयाः, आत्माऽऽश्रमतद्भदसाक्षी प्रत्यगात्मा निरञ्जन आश्रमतद्भेदरूपोपाध्यतीतोऽत एव शुद्ध आश्रमतळे- साक्षित्वमलहीनोऽस्तीत्यनुसन्धेयः ॥ ४४ ॥ इदानी पाखण्डतद्भेदतदुपाधितोप्यात्मानं विविच्य. दर्शयति । कापालिकाः क्षपणकाः स्वेच्छाचारा दिगम्बराः । पाखण्डप्रभवा भावा आत्मा शुद्धो निरञ्जनः॥४५॥ कापालिका इति । कापालिका एककर्णेऽस्थिकुण्ड- वोशसारे। लधारिणो मुण्डमालां च विधृतवन्तो विशिष्ट्वेषाः मसिद्धाः, क्षपणकाः परमारणक्रियानिष्ठाः संन्पासधर्मरहितसंन्यासवेषधा- रिणः स्वेछाचाराः स्वस्येच्छयैवाचारो येषां ते वेदवि- हितान्यवेषाचारधारिणः कञ्चुकाचारिण इति प्रसिद्धाः, दि- गम्बरा माध्यमिकनामानो नास्तिकाः, ते एते सर्वे भावा वि. काराः पाखण्डप्रभवाः पापस्य दुःकृतस्य खण्ड चिदं तस्मा- स्मभव उत्पत्तिर्येषां ते तथोक्ता क्षेयाः, आत्मा पाखण्डतद्भेदो द्भवविकारसाक्षी प्रत्यगात्मा निरजनः पाखण्डत दतदुच- विकारोपाधिरहितोऽत एव शुद्धः पाखण्डत दतदुद्भवविकार- साक्षित्वमलरहितोऽस्ती सनुसन्धेयः ।। ४५ ॥ इदानीं ममत्वनिर्ममत्वाभ्यां तदभिमानतोप्यात्मानं वि. विच्य दर्शयति । ममता संमता मूढैन मता समतास्थितैः । सोप्यहन्ताभवो भाव आत्मा शुद्धो निरञ्जनः॥४६॥ ममतेति । मूढे ममता ममत्त्वरूपो भावः सा संमता- इष्टीकृता, समतास्थितैः समतायां समचे गुणसाम्यरूपायां भ- कृतावियर्थः, स्थितैरमूढेर्न मता नेष्टीकृता सोपि ममत्वेष्टी- करणानिष्टीकरणरूपोपि भावो विकारोऽहन्ताभवोऽहन्ताया अहङ्काराद्भव उत्पत्तिर्यस्य स तथोक्तो ज्ञेयः, आत्मा ममत्वा- ममत्त्वसाक्षी प्रत्यगात्मा निरजनो समत्व निर्ममत्व रूपोपाध्य. तीतोऽत एवं शुद्धो ममत्व निर्ममत्वसासित्वमलरहितोऽतीय- नुसन्धेयः ॥ ४६ ॥ ननु ताई ममतैव त्याज्याऽहन्तायां को दोषो येनासौ त्य- ज्यते तत्राह।

निरञ्जनपञ्चाशत्कम् ।
अहन्ताममते धीमन्नुभे मातृसुते अपि ।
ते परस्परकुदिन्यौ तदेकामपि मा स्पृश ॥ ४७ ॥
अहन्तेति । हे धीमन् हे विवेकिन उभे द्वे अहन्ताममते अ.
हङ्कारममकारत्वे मातृसुते अपि अहङ्कतिर्ममताया माता तस्या-
स्तत उद्भवाम्ममतापि अहंकृतेर्माता तस्या अपि तत उद्भ-
वादेवमन्योन्यमुतात्वमप्युभयोयं, तथापि ते अद्दन्ताममते पर-
परकुट्टिन्यावन्योन्ययोः कुट्टिन्यौ दूतिके स्तः, तत्तस्मात्कार-
गादुभयोर्मध्य एकामपि अहन्तां ममतां वा मा स्पृश मा-
झीकुरु एकाङ्गीकारे उभयोरप्यङ्गीकारः स्यादिति भावः ॥४७॥
इदानीं सर्वभावलयोपलक्षितबोधरूपोपाधितोप्यात्मानं वि-
विच्य दर्शयति ।
सर्वे भावाः प्रलीयन्ते यस्मिन् भावे समुद्गते ।
सोपि बोधमयो भाव आत्मा शुद्धो निरञ्जनः॥४८॥
सर्ने इति । अस्मिन् विद्वत्मसिद्ध भावे विकारे समुद्गते
सति समुत्पन्ने सति सर्वे समस्ता भावा विकाराः मलीयन्ते
नाशं प्राप्नुवन्ति सोपि सर्वलयलक्षणलक्षितोपि भावो विकारो
बोधमयो ज्ञानस्वरूपो ज्ञेयः, आत्मा सत्ततत्कार्यबोधसाक्षी
प्रसगाल्मा निरजतः सत्त्वतकार्यरूपबोधोपाधिशून्योऽत एवं
शुद्धः सत्वतकार्यबोधसाक्षित्वमलरहितः ॥ ४८ ॥
इदानीं बोधतद्विषयजगदभावोपलक्षितशून्यरूपोपाधितो-
स्थात्मानं विविच्य दर्शयति ।
यत्र बोधमयो भावो नास्ति भावे समुद्गते ।
स हि शून्यमयो भाव आत्मा शुद्धो निरञ्जनः॥४९॥

५०२ बोधसारे। पत्रेति । यत्र यस्मिन्प्रत्यक्ष भावे विकारे समुद्रत उत्पन्ने सति बोधमयो मानरूपो भावो विकारो नास्ति न विद्यते बो- धमयाभाषग्रहणेन तद्विषयभूतजगदमागेपि प्रायः, जगदपि नास्ति न विद्यते सोपि बोधतोश्यमगदभावोपलक्षितो भावो विकारः शून्यरूपो ज्ञेयः, आल्मा शून्यसाक्षी कूटस्थश्चिन्मात्र- स्वरूपो निरअनः शून्यतोपाधिरहितो अत एव शुद्धः शून्यसा- सिवमलरहितोऽस्तीत्यनुसन्धेयः ॥ ४९ ॥ ननु तर्हि देहादिसमस्तजगत्पदार्थानां तदभावारूपस्य शू- न्यस्य च तद्घोषस्थापि प्रतीयमानस्य सर्वस्यानात्मत्वेन निषेधे कृते सति तद्रहिनस्तदन्यश्वात्मा क इत्याशयाह । शून्याशून्ये समे यस्मिन् भावे च समातां गते । स भावस्त्वमसि प्राज्ञ आत्मा शुद्धो निरञ्जनः ॥५०॥ शून्याशून्ये इति । यस्मिन् विद्रप्रत्यक्षे भावे समा एकरूपे भावे पारमार्थिकसद्रूप आत्मनि शून्याशून्ये शून्यं जगदभावरूप- मशून्यं च जगद्भावरूपं ते उभे द्वे अपि समतां गते समतामे- करूपतां गते प्राप्ते भवतः स भावः शून्याशून्योभयसाम्यप्र- काशको भावः प्राज्ञः प्रकर्षण ज्ञः प्रज्ञः प्रज्ञ एवं प्राज्ञः सर्वज्ञ इत्यर्थः, स्वाथैणप्रज्ञशब्दात्कर्तव्य, ततश्च प्राज्ञशब्दः सर्वज्ञवाचकः सिद्धः, आत्मा स्वयं सद्रूपेण सर्वत्र सन्ततो व्यापक इत्यर्थः, नि- रअनो शून्याशून्यनत्साम्य लक्षणोपाधिरहितोऽतः शुद्धः शून्या- शून्यतत्साम्यसाक्षित्वमलरहितो यः स त्वमसि त्वत्प्रकाश्यत्वेन सर्वपूर्वोक्तोपाध्यनुभवाद्भवानेवात्मेत्यर्थः, 'न शून्यं नापि सद्या- मुक्ताक्तत्वमिहेष्यतामि'त्युक्तताद्, 'नासदामीनो सदासीदिति श्रुया सदसतोनिषिद्धत्वात्तत्साम्यस्यापि तदुपेक्षितत्वसिद्धेस्त- मकाशकमात्मस्वरूपं पारमार्थिक निश्चेतव्यमिति भावः ॥५०॥ "

यमुनाष्टकम् ।
इदानीमेतत्प्रकरणविचारफलमाह ।
निरञ्जनस्य देवस्य पञ्चाशत्कविचारतः ।
निरञ्जनस्य देवस्य निरञ्जनपदं ब्रजेत् ॥ ५१ ॥
इति श्रीनरहरिकृती बोधसारे निरअनपश्चाशात्कं सप्तदशः ॥ १७ ॥
निरञ्जनस्येति । निरञ्जनस्योपाधिरहितस्य देवस्य चिन्मात्र-
रूपस्यात्मनः पञ्चाशत्कविचारतः पञ्चाशतां पञ्चाशत्संख्यानां
श्लोकानां समूहः पञ्चाशत्कं समूहे कन्प्रययः, एतत्मकरणस्य
विचारतो विवेकानिरञ्जनस्योपाधिरहितस्य केवलस्येसर्थः,
देवस्य चिन्मात्रस्वरूपस्यात्मनो निरअनपदं निरूपाधिकं यत्पदं
स्वरूपं तद्नेत्प्राप्नुयात् ॥ ५१ ॥
इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ती
निरअनपञ्चाशत्कप्रकाशः सप्तदशः ॥ १७ ॥
अथ यमुनाष्टकम् ।
एवं निरुपाधिकमात्मस्वरूपं सर्वोपाधिभ्यो विविच्य दर्श-
यित्वेदानीं तस्यैव लक्षणेलक्षितानि लक्षणानि तैलक्षयितुं यमु-
नासादृश्येन तदेव निरूपायप्यन्यमुनाष्टकाख्यमष्टश्लोकं प्रकरण.
मारभमाण प्राह।
अथ यमुनाष्टकम् ।
अथेति । अथ निरअनपश्चाशत्कनिरूपणानन्तरं यमुनाष्टकं
यनुनाष्टकाख्यं प्रकरणं निरूप्यत इति शेषः, तत्र तावदादौ यमु.
नाचितोः समानधर्मनिरूपणे सादृश्यं प्रदर्शयति ।
उज्ज्वला मधुरा शीता पवित्रा यमुनेव चित् ।
विविच्य दृष्टा हि मया श्यामिका याऽत्र स भ्रमः॥१॥

धोधसारे। उज्ज्वलैति। उज्ज्वला निर्मलजला पवित्रा पवित्रयति जना- न्सा पवित्रा स्वतश्च पवित्रा, मधुरा मिष्ठजला, शीता शीतलगुणा, पमुनेव यथा यमुना कालिन्दी नदी तथा चिच्चेतनापि उ. ज्वला निर्मला मायाऽविद्यादिमलरहिता मधुरामुखरूपत्वान्मि- ऐति यावत, शीता तापत्रनिवर्तकत्वाच्छीतलगुणा, पवित्रा प. वित्रयति रागादिरहितं करोत्यन्तःकरणं स्वाविर्भावेनेति प. वित्राऽस्तीति शेषः, ननु यमुनेव चिदस्तीति कुतो ज्ञातं तबाह विविच्येति, हि यस्मात्कारणान्मया तव सत्स्वरूपोपदेशकेन विविच्य सर्वोपाधितो विवेचनेन पृथक्कृत्य दृष्टाऽनुभूता, एवं च सरपि मदन्यैः सर्वोपाधितो विविच्यैवैतादृशी ज्ञातुं शक्यति भावः, ननु दृष्टान्तदान्तिकयोरुज्ज्वलत्वधर्म समाने प्रतीय- माना श्यामिका कुतस्या तत्राह श्यामिकेति, या प्रत्यक्षा सर्वेषां श्यामिका नीलतानैल्यमित्यर्थः, अत्र यमुनायां चिति च यमु- नायां नीलत्वं चिति त्वज्ञानरूपं नैल्यमिति विवेकः, स भ्रमा सा भ्रान्तिरेनेति निश्चेतव्यम्, अतो यमुनाचितोः साम्याधमु- नादृष्टान्तेन चिति तल्लक्षणलक्षितानि लक्षणानि योज्यानीति भावः ॥ १ ॥ एवं यमुनाचितोरुज्ज्वलत्वादिगुणैः सादृश्यं प्रतिपायेदानीं स्थूणानिखननन्यायेन तदेव द्रढयितमाक्षिप्य समाधत्ते चतुर्भिः, तवादावुज्ज्वलत्वमाक्षिप्यसमाधत्ते । यत्वं वदसि चिद्देवी नीरूपा तूज्ज्वला कथम् । तया प्रक्षालितं पाय निर्मलं हृदयं मम ॥२॥ यविति । हे शिष्य त्वं भवान् यद्यस्मात्कारणाचिद्देवी चि. न्मानस्वरूपा देवी स्वयंप्रकाशमाना तु दृष्टान्तीकृतयमुनावि- लक्षणा, सदेव लक्षण्यं स्पष्टमाह नीरूपति, नीरूपा निर्गतं रूपं यमुनाष्टकम्। " यस्याः सा तथोक्ताऽस्ति तत्ततः कारणादुज्ज्वला स्वच्छा कथं केन प्रकारेण स्यादिसेवं वदसि पृच्छसि तर्हि स्वं सया चिता मक्षालितं स्वाविर्भावेन धौत मम मे हृदयमन्तःकरणं नि- मलं मलरहितं रागादिहीनमित्यर्थः, पश्याऽवलोकय । तथा चा. त्रायं प्रयोगः, चिदुज्ज्वला भवितुमर्हति मदन्तःकरणनिर्मलका- रित्वाद् यनैवं न तदेवं यथा मलिनजलादि तथा च तनान्य मलनिवर्चकमपि भवति अतस्तदुज्ज्वलमपि न भवतीत्यादिगा२॥ एवमुज्ज्वलत्वं प्रसाध्येहानी चिति मधुरत्वमाक्षिप्य समाधत्ते। यत्त्वं वदसि चिद्देवी नीरसा मधुरा कथम् । आस्वादयन्ति तां नित्यं रसिकाः शङ्करादयः॥३॥ यदिति । हे शिष्य यद्यस्मात्कारणावं भवाश्चिदेवी घेत्यरहितचिन्मात्ररूपा स्वयंप्रकाशमाना नीरसा निर्गतो रसो रस्यत इति रसो मधुरत्वादिरमो वैषयिकसुखमियर्थः, यस्याः सा तथोक्का, रसनेन्द्रियरहितत्वाद्वा नीरसा रसज्ञानरहिता. ऽस्ति तत्ततो हेतोः सा मधुरा मिष्टा कथं केन प्रकारेण ज्ञेया- इसेवं वदसि तर्हि शृणु रसिका रसं जानन्ति ते रसिका: शङ्करादयः शङ्करः सुखकरः शिव आदिः प्रथमो येषां विष्णु- ब्रह्मादीनां ते सर्वे तां चितिं नित्यं सर्वदाऽऽस्वादयन्ति अनुभ- वन्ति अतस्ते जगत्सुखप्रदा ज्ञेया, सुखपदत्वे हेतुः स्वानन्दानु- भवः, तेन च सुखरूपत्वे मुखपदत्वमपि, सुखप्रदत्वात्सुखरूपत्वाच रसिकत्वं तेषु विष्ण्वादिषु, रसिकत्वेन च तेषां स्वयं प्रकाशचि- न्मात्रात्मरूपे रमणं चिति मुखरूपत्वं निश्चाययतीति भावः । अत्राप्ययं प्रयोगः, चिन्मधुरा भवितुमर्हति रसिकशङ्करादिमीति- विषयत्वाधनैवं न तदेवं यथा दुःख तद्रसिकमीतिविषयं न भ- - बोधसारे। वति अतस्तत्सुखरूपमपि न भवतीति ॥३॥ एवं मधुरत्वं सम्भाव्येदानी शीतलत्वमप्याक्षिप्य सम्भावति । यत्वं वदसि चिद्देवी निःस्पर्शा शीतला कथम् । पश्य तस्याः प्रसादेन गतं तापत्रयं मम ॥ ४ ॥ यत्वमिति । हे शिष्य यद्यस्मात्कारणावमाक्षेपको भूत्वा चिद्देवी चेत्यरहितचिन्मात्ररूपा देवी स्वयंप्रकाशरूपेण द्योत- माना निःस्पर्शा वांगन्द्रिगरहितत्वेन स्पर्शगुणरहिताऽस्ति तत्ततो हेतोः शीतला मौत्यगुणवनी कथं केन प्रकारेण सम्भाव्या-इखेवं पदसि कथयसि यदि तर्हि शृणु तस्याश्वितः प्रसादेनाविर्भा- वलक्षणेनानुग्रहेण मम मे तापत्रयमाधिभौतिकाधिदैविकाध्या- त्मिकानां तापानां दुःखानां वयं त्रिकं गतं नष्टं त्वं पश्यावलो. कय त्वगिन्द्रियविषयत्वाभावपि चिति शीतलत्वमन्तःकरणता. पनिवर्तकत्वानुपपसाख्यलक्षणलक्षितलक्षणया सम्भाव्य- मिति भावः । अत्रायं प्रयोगः, चिच्छीतला भवितुमर्हति अस्प- शस्वे सति चेतस्तापनिवर्तकत्वाद्यन्नैवं न तदेवं यथा जलादि द्रव्यं तश्चास्पर्धात्वे सति चेतस्तापनिवर्तकं न भवांत अतः पारमार्थिक शीतलपि न भवति । एवं चात्मचिदेव पारमार्थिकी शीतलाs- अन्यनु प्रातिभासिकं शीतलं ज्ञेयम् ॥ ४॥ एवं शीतत्वं सम्भावयित्वा पवित्रत्वमपि आक्षिप्य सम्भा. वति । यत्त्वं वदसि चिद्देवी निर्गुणा पावनी कथम् । तत्पवित्रीकृतान्पश्य कचदत्तशुकादिकान् ॥ ५ ॥ यदिति। हे शिष्य त्वं पृच्छको भूत्रा चिचेत्यरहितचिन्मात्रा देवी द्योतमाना स्वयंप्रकाशेत्यर्थः, निर्गुणा गुणरहिताऽस्ति यमुनाष्टकम् । ५०७ यद्यनोऽतः पानी पावनस्यापि गुणत्वात्मा पावनी पावनं पधि- त्रकरणरूपो गुणः सो स्याऽस्तीति पावनी कथं केन प्रकारेण सम्भाव्या-इत्येवं वदसि ब्रूषे चेत्तर्हि त्वं तत्पवित्रीकृतान्तयेन चिता स्वाविर्भावेन पवित्रीकृतान्मायाविद्यारागादिमलनिरासेन शुद्धीकृतान्कचदत्तशुकादिकान्कचो वृहस्पतेः पुत्रः, दत्तो ऽवेः, शुको व्यासपुत्रः, एते आदयो मुख्या येषामार्षमादीनां ते तथो- क्तास्तीन् त्वं पश्यावलोकय अत्रायं प्रयोगः, चित्पावनी भवितु- महति निर्गुणत्वे सयन्येषां पावनखाद्यत्रैवं नतदेवं यथा वा- आदिः स निर्गुणवे सयन्यपानको न भवति अत्तः स्वतोपि पावनो न भवति अतश्चिदेव परमार्थनः पावनी वाग्वादियु यत्पावज्ञानं तद्भान्तमेवेति भावः ॥ ५ ॥ अतः परं शिष्यप्रश्नमरत्तारयितुमाह । अथ शिष्यः पृच्छति । अथेति । अथानन्तरं शिष्यः पृच्छति. प्रश्नं करोति, तमेव प्रश्नमुदाहरति । गुरो लाक्षणिकैरेव किं लक्षयास लक्षणैः । लक्षणैर्लक्षय स्वामिस्तलक्ष्यं लक्ष्यते यथा ॥ ३ ॥ गुरो इति । हे गुरो गृणाति हितमुपदिशनीति गुरुस्तस्य संबोधने हे गुरो हे दैशिक लाक्षणिकैरेव लक्षगौर्लक्षणया बो- धितेरैव केवलं लक्षौश्चिन्हैस्तदात्मरूपं लक्ष्यं लक्षणैर्बोद्धं यो- ग्य वस्तु किं कुतो लक्षयसि बोधयसि. हे. स्वामिन्हे गुरो तदा- स्मस्वरूपं लक्ष्य लक्षणैाप्यं वस्तु लक्षणैश्चिन्हे येथाः यद्वारल- क्षमते ज्ञायते तथा तल्लक्षय बोध ॥ ६ ॥ अस्य प्रश्नस्योत्तरं दातु माह ।

बोधसारे । . अनोत्तरम् । अत्रेति । अत्रास्मिन्मश्न उत्तरं प्रतिवाक्यमुच्यत इति शोषः, तदेवोत्तरमुदाहरति । लक्ष्ये लक्षणवल्लक्ष्यमिह लक्ष्ये न लक्षणम् । विलक्षणमिदं लक्ष्यं लक्षणैवात्र लक्षणम् ॥ ७ ॥ लक्ष्य इति । लक्ष्येऽन्यलक्षणैर्बोध्ये वस्तुनि लक्षणवद्यथा लक्षणानि सन्ति तद्वदिहात्मस्वरूपे लक्ष्ये लक्षणै?ध्ये वस्तुनि लक्षणं चिन्हं न लक्ष्यं न लक्षितुं योग्यं कुत इयत आह वि- लक्षणमिति, इदमात्मस्वरूपं लक्ष्यं लक्षणया बोद्धं योग्यं वस्तु विलक्षणमन्यलक्ष्यविपरीतलक्षणवल्लक्षणहीनं चास्ति निर्गुण- स्वादरूपत्वात्स्वप्रकाशत्वाचातो लक्षणैव कैवलं भागलक्षणैवा. जास्मिल्लक्ष्ये लक्षणं बोधाय चिहं भवात नान्यद, अन्यलक्ष्ये तु लक्षणसंभवात्परप्रकाश्यत्वाच्च लक्षणं संभवसेवेति भावः॥७॥ एवं प्रश्नं समाधायेदानी दृष्टान्तदान्तिकयोः श्यामि कापदवाच्यमप्यर्थ बोधयंस्तनिषेधति । पयस्यमलगम्भीरे श्यामिका भ्रान्तिरूपिणी । ब्रह्मण्यमलगम्भीरेप्यविद्या भ्रान्तिरूपिणी ॥ ८ ॥ इतिश्न बोल्यमुनाष्टकम् ॥ १८ ॥ पयसीति । अमलगम्भीरेऽमलं च तद्गम्भीरं चागान्धं त- स्मिम्पयसि जले च्यामिका कालिमा या महश्यते सा नान्ति- रूपिणी भ्रान्तिभ्रम एवं रूपं स्वरूपं यस्यास्तथाभूतास्तीति ज्ञातव्या न ह सा वास्तवीत्यर्थः, श्यामत्वभासने हेतुरगाधत्वं तदसत्वसम्भवे हेतुर्निर्मलत्वमिति विवेकः । दाष्टान्तिकेप्याह ब्रह्मणीति, अमलगम्भीरे न विद्यते मलोऽविद्यादिरूपो शिलाषकम । पम्मिस्तदमलं गम्भीरं चानन्तवादगाधमेतादृशे विशेषणद्र- यवति ब्रह्मणि देशकालवस्तुकृतपरिच्छेदशून्य आत्पनि भत्रि- धापि अज्ञानपि भ्रान्तिरूपिणी भ्रान्तिभ्रम एवं रूपं स्वरूप यस्याः सा तथाभूताऽस्ति न तु वास्तवीयर्थः, अत्रापि चेत्यर. हितचिन्मात्रानन्तत्वमविद्यामतीतौ हेतुः, निर्मलस्वप्रकाशचिन्मा. त्रत्वमविद्यासत्वे हेतुरिति विवेकः, अतो दृष्टान्तदान्तिकसाम्य सिद्धमिति भावः ॥ ८॥ इति श्रीनरह० दि० बो० यमुनाष्टकप्रकाशोटादशः ॥ १८ ॥ . अथ शिलापटम् । एवं यमुनासादृश्येनात्मस्वरूपं निरूप्येदानीं तदेव पुन: शिलाधेनुरूपेण निरूपयञ्छिलाधेनुषट्वाख्यं प्रकरणं पद्श्लो- कमारभमाण आह । अथ शिलाषटम् । अथेति । अथ यमुनाष्टकनिरूपणानन्तरं शिलाधेनुषंटू शिलाधेनोः षटुं षण्णां श्लोकानां समूहरूपं प्रकरणं निरू. प्यत इति शेषः, तत्र तावदादौ शिलाधेनोः स्वस्य साक्षात्का- रोस्तीत्याह । अनन्तकोटिचन्द्राणां चन्द्रिकाभिः कृता किमु । आहादरूपिणी दृष्टा मया धेनुः शिलामयी ॥१॥ अनन्तेति । अनन्तकोटिचन्द्राणामनन्ता अपरिमिताः को- टयः कोदिसंख्या ये चन्द्रा निशाकरास्तेषामनन्तकोटिन- माण्डापेक्षया चन्द्राणामप्यनन्तकोटिलं ज्ञेयं, तेषां चन्द्रिकाभि- ज्योत्स्नाभिरुपादानभूताभिः कृता निर्मिता किमु किमित्यु- सेक्षा, चन्द्रिकाकार्यत्वोपेक्षणे निमित्चमाहाऽऽहावरूपिणीति,

बोधसारे।
आह्लादो हर्ष एव रूपमाकारो यस्याः सा तथोक्ता शिलामयी
शिलारूपा चेत्यरहिनचिन्मात्ररूपत्वाच्चितर्जडशिलासादृश्यं झे-
यम्, धेनुर्धिनोति मीणाति जगदिति धेनुः सकलजगदानन्दकर-
त्वाद्धेनुत्वम् , 'एष ह्येवानन्दयाती ति श्रुतेः, मया तत्स्वरूपनिरूप-
णका दृष्टा साक्षादनुभूताऽतो मत्कृततनिरूपणेप्रामाण्यं न
शङ्कनीयमिति भावः ॥ १ ॥
ननु धेनुत्वे तस्या धावनखानपानाद्यपेक्षा लोकनोरिव
स्यादियाशय तां वारययर्धेन ।
न धावति न हन्त्येव न खादति पिबत्यपि ।
खभावनिर्मला सेयं हृष्टिपुष्टिमती स्थिता ॥ २॥
नेति। न धावति न गच्छति 'अपाणिपाद'इति श्रुतेः, पादर-
हितत्वाद्गन्तव्यदेशाभानाच्च, तथा न हन्त्येव नैव हिंमति हिस्य-
स्यान्यस्यागावाकर्तृत्वस्यापि बाधितत्वाच्च, न खादति न अ-
क्षति आनन्दरूपत्वेन निसप्तत्वाद्भोज्यद्वैतासत्वाचाऽपि च
निर्विकारत्वेन भोक्तृत्वविकारासम्भवाच्च, न पिबत्यपि आन-
न्दरूपत्वेन नियतृप्तत्वादेव न पानाद्यपेक्षेति भावः, स्वभावनि-
मला स्वभावेनैव स्वत एव निर्मला शुद्धाऽत एवं नित्यं सर्व-
दैव हृष्टिपुष्टिमती हृष्टिहर्षः पुष्टिः पुष्टत्वं तद्वनी स्थिता तिष्ठ-
तीति ज्ञेया ॥२॥
कामधेनाविश्वामित्रदण्डाय निःसृतानि रोमभ्यः सैन्या-
नीति पुराणेषु प्रतापः श्रूयते यस्ततोप्यस्यामाधिक्यं प्रताप-
स्य दर्शयति ।
रोमरेखासु विभ्रान्तास्तस्या ब्रह्माण्डकोटयः ।
अपर्यन्ता स्थिता धेनुः सा काश्मीरशिलामयी ॥३॥

शिलाषट्रम्। रोमरेखास्त्रिति । तस्याः शिलानो रोमखासु रोमकूपे- धु ब्रह्माण्डकोटयो ब्रह्मण्डानां त्रिलोकानां कोटयोऽपरिमित- कोटिकोटिसमूहा विभ्रान्ता विपरीततया विशिष्टरूपेण च भ्रान्ता भ्रमरूपास्तिष्ठन्तीति शेषः, शवलब्रह्मणामत्र रोमरेखा- स्थानीयवं तत्रैव ब्रह्माण्डानां कल्पितत्वादिति भावः, तस्या महत्वमपि अन्यसामान्यधेनुकामधेनुभ्योप्यधिक दर्शयति अ. पर्यन्तेति, सोक्ता धेनुः सर्वप्राणितर्पण की गौरपर्यन्ता न विद्यते परितोऽन्तः परिच्छेदो यस्याः सा तथोक्ताऽनन्तेत्यर्थः, स्थिता तिष्ठति सा च काश्मीरीशलामयी काश्मीर उत्पन्ना शिला स्फटिकाख्या तन्मयी तद्रूपेयर्थः, अस्तीति शेषः, स्वच्छखे- न चेत्यरहितचिन्मात्रताज्ज्ञानाभावेन च काश्मीरशिलारूपत्वं निरूपितमिति भावः ॥ ३ ॥ तस्याः स्फटिकमयत्वं यदुक्तं तत्प्रयोजनमाह आयान्ति यान्ति धावन्ति नृत्यन्ति च हसन्ति च । प्रतिबिम्बा जीवरूपास्तस्याः सा तु यथा स्थिता॥४॥ आयान्तीति । तस्याः काश्मीरशिलामयधेनो वरूपाजीवा- कृतयः प्रतिबिम्बा आभासा आयान्ति आगच्छन्ति यान्ति गच्छ- न्ति धान्ति त्वरितं वेगेन गच्छन्ति अपि च पुनर्तृत्त्यन्ति हर्षेण नटवदनन्तरूपैर्वृत्त्यं कुर्वन्ति च पुनर्हसन्ति वैषयिकसुखोद्गवे सु- खित्वाभिमसा हास्यमपि कुर्वन्ति एवंविधजीववि विधाकारेषु प्रतीयमानेष्वप्रतीयमानेषु च सत्सु अपि अनेकविधप्रतिविम्बषु प्रतीयमानेष्वपि स्फटिक इव सा तु काश्मीरशिलाधेनुश्च यथा स्थिता यथा पूर्व निर्विकारा तथैव स्थिता तिष्ठति ॥ ४ ॥ ननु पाषाणमयत्वे नीरसत्वं स्यादियाशङ्ग्य स्थूलदृष्ट्या नीरमत्वेगि तस्या रसरूपत्वमस्तीत्याह ।

- ૨૨ बोधसारे। नीरसापि सुधामिष्टा निर्गुणापि प्रिया सताम् । नीरूपाप्यातकान्ता सा मया दृष्टा न तु श्रुता ॥५॥ नीरसेति । नीरसापि यद्यपि रसः मुखं वैषपिकषावधो रसश्च निर्गतो निवृत्तो यस्याः सा तथोक्ताऽस्ति तथापि 'यो वे भूमा तत्सुखं नाल्पे सुखमस्ति, विज्ञानमानन्दं ब्रह्म, रसो वै- स.इसादिश्रुतिभिः सुस्वरूपत्वप्रतिपादनाव,सुखरूपत्वादेव- सुधामिष्ठा मुधामृतं तद्वन्मिष्टा मधुराऽस्ति, तथा निर्गुणापि नि. गता नित्ता गुगाः सत्वरजस्तमोरूपास्तस्कार्याणि च सु शीलवादयो यस्यां सा तथोक्ताऽस्ति याप सतां तत्व रूपनिश्चयवनाम् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरितिश्रु- तेः, प्रिया प्रीतिविषयेष्टेत्यर्थः, भवतीति शेषः, तथा नीरूपा पि निर्गतं रूपं यस्याः सा तथोक्ता निराकारेत्यर्थः, अस्ति यद्यपि तथापि सा धेनुरतिकान्ताऽत्यन्तकमनीया भ- वनि प्रीतिविषयत्वादतिकमनीयत्वमपि मुखरूपत्वादेव ज्ञेयम् , ननु एतादृशी धेनुर्भवता दृष्टा वा श्रुता श्रुता चेद्वश्चकैमि ध्याभ्रामितत्वेन तद्वचनजन्यं ज्ञानं ग्लावप्लववाक्यवद्भान्तमेवा- तोऽप्रामाण्येनाग्राह्य स्यादित्याशंक्याद्यानङ्गीकारेणैव द्वितीयमव. टभ्याह मयेति, मया त्वदुपदेशकेन दृष्टा साक्षादनुभूता न तु श्रुता केवलश्रुतस्यापि शिलाप्लववाक्यजन्यज्ञानस्य भ्रान्तत्ववद्वान्तत्वं निवारयितुं दृष्टत्वं मप्यङ्गीकार्यमित्युभयोर्ग्रहणमित्यनवद्यामति भावः ॥५॥ नन्वन्यधनुदुग्धपानव चद्दुग्धपानेच्छोर्मम कथं तल्लाभः स्या- दित्याशङ्ख्याह । स्रवन्तीममृतं नित्यं जिह्वया ब्रह्मविद्यया ।

निद्रापञ्चकम् । वत्सः शिलामयो भूत्वा पिब धेनुं शिलामयीम् ॥६॥ इतिश्रीन बो. शिलाधेनुषटकम् ॥ १९ ॥ स्रवन्तीमिति। हे शिष्य त्वं भवान् शिलामयः शिलावत्सम- कूटस्थचिद्रूपस्तत उभयो त्यैक्येन वत्स इव धेनोः साजा- स्येन वत्सो यथा तथा भूखा ब्रह्मधेनुबालत्वं स्वस्मिन्सं- पाति भावः, ब्रह्मविद्यया स्वस्य ब्रह्माभिन्नत्वज्ञानरूपया जि- हया रसनया तात्त्विकमुखरसानुभवकरणवाद्ब्रह्मविद्याया रस- नारूपत्वं ज्ञेयम्, अमृतं सुखं यत्पयःस्थानीयं नित्यं सर्वकालमपि स्रवन्ती दुहन्तीं शिलामयीं शिलावत्समरूपां ब्रह्मरूपामित्यर्थः, पिन पानीहि अनुभवेत्यर्थः ॥ ६ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ शिलाधेनुषवार्थप्रकाश एकोनविंशः ॥ १९ ॥ अथ निद्रापञ्चकम् । एवं शिलाधेनुरूपकेणात्मस्वरूपं निरूप्येदानीं तदेव निद्रा- रूपकेण निरूपयितुं निद्रापञ्चकाख्यं पञ्चश्लोकं प्रकरणमारभ- माण आह । अथ निद्रापञ्चकम् । अथेति । अथ शिलापट्टनिरूपणानन्तरं निद्रापञ्चकं निद्राया निरूपकं पञ्चकं पञ्चश्लोकानां समूहरूपं प्रकरणं निरूप्यत इति शेषः, तत्र तावल्लौकिकनिद्राया एतत्प्रकरणे वर्णयिप्यमाणनि- द्राया वैलक्षण्यं दर्शयितुमाह । न सन्ति यस्यां निद्रायां जाग्रत्स्वप्नसुषुप्तयः । अवस्थात्रयरूपिण्यः सर्वद्वन्द्वविवर्जनात् ॥१॥ नेति । यस्यां विद्वदनुभवगम्यायां निद्रायां मुषुप्तौ सर्वप्रपञ्च.

बोधसारे। लयाधारत्वाद्ब्रह्मैव निद्रारूपेण मतिपाक्तिमत्र ज्ञेयम, अवस्थात्रय- रूपिण्योऽवस्थाः स्थितयस्तासां त्रयं त्रिकं तदेव रूपमाकृति- र्यास तास्तथोक्ता जाग्रत्स्वमसुषुप्तयो जाग्रञ्चेन्द्रियविषयोपल. धिर्जागरितमित्युक्तलक्षणा जाग्रदेतन्नाम्न्येका, स्वमश्च जा. प्रसंस्कारवासनावासितबुद्धौ जाप्रसंस्कारजः प्रत्ययः स्वप्न इत्युक्तलक्षणा स्वभावस्था द्वितीया, मुषुप्तिश्चाज्ञानमावविषया त- दातमुखविषया चेतिलक्षणलक्षिता निद्रा च तृतीया, एता न सन्ति न विद्यन्ते तत्र हेतुः सर्वद्वन्द्वविवर्जनात्सर्वाणि समस्तानि यानि द्वन्द्वानि सुखदुःखादीनि तेषां विवर्जनादयन्ताभावात् ॥१॥ ननु निद्रात्वे तस्यास्तामसत्वं स्यात्तवाह । गुणातीततया तत्र तमोलेशो न विद्यते । स्वयंप्रकाशरूपत्वादप्रकाशोपि नास्ति हि॥२॥ गुणातीततयेति । तत्रोक्तनिद्रायां गुणातीततया तस्या गु- णातीतत्वात्तमोलेशस्तमसस्तमोनाम्नो गुणस्य लेगोंऽशो न विद्यते नैवास्ति, ननु मास्त्वस्यां तमस्तथापि निद्रात्वेनास्यामन्य- मुप्तौ जगदप्रकाश इवाप्रकाशः स्यात्तत्राह स्वयंप्रकाशरूपत्वादिति, निद्रायास्तस्याः स्वयंप्रकाशरूपत्वाद् अवेद्यत्वे ससपरोक्षत्वं स्त्र- प्रकाशत्वमित्युक्तलक्षणः स्वयंप्रकाश एवं रूपं यस्याः सा त- थोक्ता तस्या भावस्तत्त्वं तस्मादेव हेतोः, अन्यनिद्रायां च वेधत्वं प्रसक्षसिद्धमतः परप्रकाश्यत्वेन तस्यां स्वप्रकाशाभावोऽस्ति, अव तु स्वप्रकाशत्वादेवाप्रकाशोपि नास्ति अपि शब्दाद दृश्यत्वमपि नास्ति हि विदुषामेतदनुभवसिद्धमिसर्थः ॥२॥ ननु ताई निद्रात्वेनास्याः प्राप्तिः सहजा निष्फला च स्थावत्राह। यत्प्राप्तये महापुण्यास्तपस्यन्ति तपस्विनः ।

निद्रापञ्चकम् । विचारयन्ति विद्वांसो वेदान्तवचनानि च ॥ ३ ॥ यत्प्राप्तय इति । महापुण्या महदहु अन्तःकरणशोधक पुण्यं पवित्रं कर्म येषां ते तथोक्ता अत एव तपस्विनस्त- पसि रताः पुरुषा यत्माप्तये यस्या निद्रायाः प्राप्तिलोभस्तस्यै तदर्थं तपस्यन्ति तपः कुर्वन्ति तेषां विकिनां यत्तपआउनुष्ठान तदुक्तलक्षणनिद्रालाभायैवेति भावः, किश्च विद्वांसो विवेकिनो वेदान्तवचनानि च वेदान्ता वेदशिरोभागा उपनिषद इयर्थः, तेषां वचनानि वाक्यानि तानि अपि विचारयन्ति जीवब्रह्मैक्य- सापर्यतयावलोकयन्ति अतोस्या सुलभत्वं निष्फलत्वं च न मन्तव्यमिति भावः ॥३॥ नन्वन्यनिद्रायामपि सुखभोगः फलमस्ति तद्ववत्रापि अतः कोस्यां विशेष इत्याशङ्याह । सुखभोगः फलं नात्र सैवानन्दस्वरूपिणी । पुरुषार्थस्वरूपत्वान्न कालक्षेपरूपिणी ॥ ४ ॥ मुखभोग इति । हे शिष्य अत्रास्यां निद्रायां मुखभोगः मुखस्यानन्दस्य भोगोऽनुभवः फलं प्रयोजनं न न विद्यते किन्तु सैव सोक्तलक्षणा निवाऽऽनन्दस्वरूपिणी-आनन्द: मुखमेव स्वयसाधारणं रूपं यस्याः सा तथोक्ताऽस्ति लौकिकनि. द्रायां चाज्ञानातमुखानुभवस्तत्रानुभवित्रनुभवानुभाव्यरूपुत्रि- पुठ्या विद्यमानत्वात्तस्य खण्डितत्वेन वृत्तिविषयत्वेन चापारमा- चिकत्वम्, अस्यास्तु सुखरूपत्वात्रिपुटीरहितत्वाचानन्दरूपत्वं पारमार्थिकमिति भावः, ननु अन्यनिद्राया इवास्याः कालक्षेप- मात्रत्वं स्मादित्याशङ्ख्यास्यां तनिवारणपूर्व विशेषं दर्शयति पुरुषार्थेति । हे शिष्य इयं सुषुप्तिः पुरुषार्थस्वरूपत्वात्पुरु-

५१६
बोभमारे।
पार्थो मोक्षस्वरूपः स एव स्वरूपमात्मा यस्गास्तस्या भाव.
स्तत्ता तलो हेतोरन्यनिद्रावत्कालक्षेपरूपिणी कालस्य सम-
यस्य क्षेपोऽतिक्रमणं तदेव रूपं यस्याः सा तथोक्ता नन-
विद्यते ॥४॥
ननु सन्पिनिदेव साधारणतया सर्वेषां तत्प्राप्तिः कुनो
नेत्याशंक्य तस्या दुष्पापत्वनिरूपणापूर्वकं तत्माप्तावपि वि-
शेष दर्शयति ।
सुलभा शुद्धबोधानां दुर्लभा विषयात्मनाम् ।
सहजा माधवादीनां सा निद्रा तु महाफलम् ॥ ५ ॥
इति श्रीन बो. निद्रापञ्चकम् ॥ २०॥
सुलभेति है । शिष्य शुद्धबोधानां शुद्धो भागयागलक्षण.
या विरुद्धांशत्यागेन शुद्धात्मविषयको यो वोधः स शुद्धबोधो
ज्ञानं येषां तेषां पुरुषाणां सा निद्रोक्तलक्षणा सुलभा सुख-
पापाऽस्ति, किंच विषयात्मनां विषयेषु भोग्यबुध्या जगत्प-
दार्थेषु आत्मा मनो येषां ते तथोक्तास्तेषां सा निद्रा दुर्लभा
पापाऽस्ति, किंच माधवादीनां माधवो लक्ष्मीपतिरादि-
मुख्यो येषान्ते तथोक्ताः शिवादयस्तेषां सोक्तलक्षणा निद्रा
सहजा साभाविकी तेषां शुद्धसत्तोपाधित्वात्मा निद्रा.
तत्प्रकृतिरेवात एस सैव योगनिद्रेति नाम्ना शास्त्रेषु कथ्यते-
ऽतः सर्वप्रकारेण सोक्तलक्षणा तु लोकनिद्राविलक्षणा म-
हाफलं सर्वकर्मणां सर्वोपासनानां च ज्ञानस्यापि फलभूतेय-
मतो महाफलरूपा ज्ञेया ॥ ५ ॥
इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधमारार्थदीप्ती
निद्रापञ्चकार्थप्रकाशो विशः ॥ २० ॥

अनुभवनवकम् । अथानुभवनवकम् । एतं निद्रारूपकेणात्मस्वरूपस्थिति निरूप्येदानीं स्वानुभवं निरूपायतुं परमकृपयानुभवनवकाख्यं नाश्लोकं प्रकरण- मारममाण आह । अथानुभवनवकम् । अथेति । अथ निद्रापश्चकनिरूपणानन्तरमनुभव नवकमनुभ- वस्मात्मानुभवस्य निरूपक नवकं नवानां श्लोकानां ममूह- रूपं प्रकरण समूहे कन् निरूप्यत इति शेपः, तत्र तावदादौ गु- रोरनुगवस्य स्वस्वरूपस्य स्वानुभववृनेः स्वानुभवविषयस्य चैकरूप्यं स्वानुभूतं शिष्यनिश्चयाय निरूपयांन । स्वानन्दबोधगुरुभिगुरुभिर्निरुक्तं स्वानन्दबोधघनमेव मम स्वरूपम् । स्वानन्दबोधघनया कलया कया चि- स्वानन्दबोधघनमेव मयानुभूतम् ॥ १॥ स्वानन्देति । स्वानन्दवोधगुरुभिः स्व आत्मस्वरूपो य आनन्दः सुख 'यो वै भूमा तत्सुखमितिश्रुत्युक्तस्तदभिन्नो यो बोधो शेयरहितं ज्ञानं तेन गुरवः श्रेष्ठास्त गुरुभिर्मीद्धतोपदे- माकैर्निरुक्तं महावाक्यद्वारा भाग यागलक्षणपोपदिष्टं कथ- मियत आह स्वानन्दोत, स्वानन्दवोधयतमेव स्त्र आत्मस्व. रूपो य आनन्दः मुखं निरतिशयानन्द इत्यर्थः, तदभिन्नो यो बोधश्चेत्यरहितश्चिन्मात्रप्तेन घनं निविडं निश्छिद्रमित्यर्थः, केवलं मम मे स्वरूपं स्वमसाधारणं रूपमाकृतिर्यस्य तत्तथो- क्तम्, एवमुपदिष्टमिति योज्यम्, ततो गुरूपदिष्टरीत्यैव मयात्वद्गु- रुरूपेण स्वानन्दबोधघनया स्त्र आत्मरूपो य आनन्दः सुखं ५१८ बोधसारे। सदाभिन्नो यो बोधो ज्ञानं तेन घना निविडा तया कया चि. सत्त्वेनासत्वेन वा केनापि निर्देष्टुमशक्यया कलयान्तःकर- णवृत्त्या तन्मम मे स्वरूपमसाधारणाकारः स्वानन्दबोधघनमेव स्व आत्मस्वरूपो य आनन्दः सुखं तदभिन्नो यो बोधो ज्ञानं निरतिवायसुखस्वरूपचैतन्यमित्यर्थः, तेन घनं निश्छिद्रमखण्डै- करसमिसर्थः, अनुभूतं साक्षात्कृतम् ॥ १॥ नन्वेताहगनुभवः कथमन्येषां मादृशानां स्यादित्याशयाह । श्रद्धाभक्तिभृतां विशेषाविदुषां शिक्षावतां योगिनां मिथ्यावस्तुनि वस्तुतां विजहता त्यागे गते गाढ़ताम् । सत्ये सत्यतया स्फुरत्यविरतं चित्ते चमत्कारिणि स्वैरं स्फूर्जति निर्विकल्पपरमानन्दस्वरूपो हरिः॥२॥ श्रुद्धेति । श्रद्धाभक्तिभृतां श्रद्धा च गुरुवेदान्तवाक्येषु वि- श्वासरूपान्तःकरणवृत्तिः, भक्तिश्च 'श्रवणं स्मरणं विष्णोरर्चनं पादसेवनं स्तवन कीर्तनं ध्यानं सख्यमात्मनिवेदनमिति नव ल. क्षणलक्षितान्तःकरणवृत्तिः, यद्वा ‘सा परानुरक्तिरीश्वरे, देवानां गुणलिङ्गानामानुश्रविकर्मणाम् । सव एवैकमनसो वृत्तिः स्वाभाविकी तु येति ॥ शाण्डिल्यसूत्रभागवतवचनाभ्यां लक्षिता पराभक्तिरत्र ग्राह्या, ते उभे विभ्रति धारयन्ति ते तथोक्तास्तेषाम्, अत एव विशेषविदुषां कर्मभक्तिज्ञानेषु मध्ये यो विशेष आ- धिक्यं पूर्वस्मात्पूर्वस्मादुत्तरोत्तरे श्रेष्ठ्यमित्यर्थः, तद्विदन्ति जानन्ति ते तथोक्तास्तेषां, तत्र हेतुः शिक्षावतां गुरुतः शिक्षा प्राप्तानां न तु स्वमवैवायथार्थज्ञाने प्रवृत्तानामित्यर्थः, अत एव गुरूपदेशक- मेणव मिथ्यावस्तुनि मिथ्याभूते द्वैतपदार्थे वस्तुतां सत्यसत्वं- " अनुभवनवकम् । स्वमतिमित्यर्थः, विजहतां विशेषेण त्यागं कुर्वतां ततश्च नस्मि- न्यागे जगवसत्त्वप्रत्ययलक्षणे त्यागे गाढनां दृढतं गते प्राप्ते सात योगिनामुक्तलक्षणयोगाभ्यासिनां चमत्कारािण प्रात्मस्फुर- गालक्षणचमत्कारवति चित्तेऽन्तःकरणे सत्ये सत्यात्मरूप आ- त्मनि ससतया सत्त्वरूपेणाऽर्थादसद्रूपे जगति असोण चा- ऽविरतं विरामरहितं यथा भवति तथा निरन्तरमियर्थः, स्फु. रति प्रकाशमाने सति तस्मिन्नेव चिते निर्विकल्पपरमानन्द- स्वरूपो निर्गता निवृत्ता विकल्पा विपरीता विविधा वा क- ल्पना यतः स तथाभूतो यः परमो निरतिशयः प्रानन्दः मुखं स एवं स्वमसाधारणं रूपमात्मा यस्य स तथोक्तः, अत एव हरिः सर्वदैतहरणशीलोऽद्वैतानन्दरूप इत्यर्थः, स्वैर स्वेच्छयैव स्फुर्जति प्रकाशते श्रद्धाधुपायैरन्त:करणे शोधितेऽन्तःकरणे स्वप्रकाश- नित्यसिद्धात्मसाक्षात्कारो जात इव प्रतीयते न तु जायते वा- स्तवसाधननिरपेक्षत्वात्स्वसिद्धाविति भावः ॥ २ ॥ नन्वेतादृशोनुभवो मम केनोपायेन स्यादियाशङ्ख्य तानेवो. पायान्दर्शयति । तृष्णां संहर संहरेन्द्रियचयं संहत्य सर्वाः क्रिया- वेतः संहर संहरान्यधिषणां खादप्यणुस्त्वं भव । अन्तः संप्रविशात्मधामनि मनागासादिते तत्पदे सर्वाज्ञानकपाटभञ्जनपटुर्भावः स्थिरः स्थास्यति ॥३॥ तृष्णामिति । हे शिष्य त्वं तृष्णां प्राप्तेष्वमासेष्वपि पदार्थेषु अतृप्तिरूप त्तिं संहर संरोधय ततः इन्द्रियचयमिन्द्रियाणां दशसंख्यानां श्रोत्रादीनां चयः समूहस्तं संरोधय प्रयाहार कुर्वित्यर्थः, ततश्च सर्वाः समस्ताः क्रिया इन्द्रियव्यापारान् सं.

बांधसार। हृत्यऽवरुध्य ततश्च चतोऽन्तःकरणं संहर संरोधय ततश्चान्य. धिषणामन्य हतं तत्सत्व विषयां निश्चयरूपां वृत्ति संहर नाशय लीनां कुर्वियर्थः, ततस्त्वमेतेष्वभिमन्ता भवान् खादपि अभिम- न्तव्यविषयलये नाकाशादपि आकाशस्य धर्मद्वयवत्वेन स्थूलत्वं तस्मादपि अणुः सूक्ष्म एकरूपत्वादियर्थः, भवाऽसि तत आत्म- स्वरूपे धामनि स्थानेऽन्तस्तन्मध्ये तदभेदनेत्यर्थः, संप्रविश लीनो भवेत्यर्थः, ततो मनागीपत्तत्पदे तस्मिन्नात्मरूपे पदे स्वरूप आसादिते प्राप्ते सति सर्वाज्ञानकपाटभअनपटु सर्व समस्त यदज्ञानं तदेव क- पाटमित्र आत्मदर्शनविरोधकत्वाकपाटपट्टमिव तस्य भजनमु. द्घाटनं तस्मिन्पटुः कुशलो माव: स्वरूपस्फूर्तिलक्षणः पदार्थः स्थिरो निश्चलः स्थास्यति स्थितो भविष्यति ॥ ३ ॥ ननु भवद्भिः समाधिः केनोपायेन सम्पादितस्तमुपायं वदेसपेक्षायामाह। किं मां पृच्छसि सादरेण मनसा साधो समाधिक्रम नूनं निर्गतमेव मोहतिमिरं जातः प्रकाशो महान् । आत्मस्नेहघनां दशामुपगते बोधप्रदीपे मयि द्रागुडीय पतन्ति वृत्तिनिवहा नष्टु पतङ्गा इव ॥ ४ ॥ किमिति । हे साधो हे समाधिसाधनेच्छो त्वं भवान्सा- दरेण समाधिसाधनादरवता मनसान्तःकरणेन समाधिक्रम क्र- म्यते साध्यतेऽनेनेति क्रमः साधनजातं समाधेर्मम निर्वि- कल्पसमाधेः क्रम साधनमुपायमित्यर्थः, किं पृच्छसि किमर्थ पृ. च्छसि समाधिसाधन सद्धेः साधकेच्छापेक्षत्वान्मयि तु तत्सहज- वादिच्छाभावेन तदभावे तत्पृच्छवायुक्तेति तत्कयनमपि मयि नैव सम्भाव्यमिति भावः, ननु भवत्समाधी सहजत्वे तद-

अनुभवनवकम् ।
सम्भवः स्यात्तदेव कथंसम्भवं तत्राह नूनमिति, मोहतिमिरं
मोहो जीवब्रह्मैक्याज्ञानमेव तिमिरं तमो नूनं निश्चयेन निर्गत-
मेव नष्टमेव तथा महानिरावरणः प्रकाशः प्रकाश्यते ज्ञायते.
ऽनेनेति प्रकाश आत्मविषयकं निरावरणं ज्ञान मिसर्थः, जात
उत्पन्नः, ननु भवति प्रकाशोत्पत्तौ तिमिरनाशे च किं निमित्त-
मित्याशक्य निमित्तं दर्शयितुं रूपकमाहाऽऽत्मेति, मयि अहंपद-
वाच्ये साधिष्ठानबुद्धिस्थचिदाभासे बोधपदीपे बोधो ज्ञानं त-
तस्वरूपे प्रदीप वीपकरूप आत्मस्नेहधनामात्मनि ब्रह्माभिने प्र.
त्यगातानि यः स्नेहो निरतिशयं प्रेम तेन तैलस्थानीयेन धनां
निविडाी दशामवस्थां वर्तिस्थानीयामुपगत आरूढ आश्रिते
सतीत्यर्थः, त्तिनिवहा वृत्तीनामन्तःकरण वृत्तीनां निवहा समूहा:
पतङ्गा इत्र शलभादयो यथा किश्चिदुड्डीय नष्टुं दीपे पतन्ति तथा
द्रागीपद्यावत्मारब्धक्षयं विद्यमानस्य वृत्तिसमूहचाञ्चल्यस्य 'तस्य
तावदेव चिरं यावन विमोक्ष्ये अथ संपत्स्य' इति श्रुत्या क्षणिक-
वोक्तः, ईपत्कालेनेषत्वम्, उड्डीयोत्पत्य नष्टुं नाशाय पतन्ति-
प्राप्नुवन्ति अतो मत्समाधे सहजत्वान्न साधनापेक्षेति त्वत्मश्नो-
ऽनुपपन्न एनेति भावः ॥४॥
ननु निर्विकल्पममाधेरष्टाङ्गसाधनसाध्यत्वात्साधनानां च
भवत्सु अदृश्यमानत्वाविना कथं तत्सिद्धिः सम्भाव्या भवत्सु
इत्याशयानुपयोगित्वं मानानां स्वस्मिन्दर्शयति ।
गाढं वाऽस्तु विलीनमस्तु न घृतं साधो धृतत्वाद्गतं
चैतन्यस्य चमत्कृतिः किल तथा चित्तं तदेवाहयम् ।
तस्माच्चित्तलयस्य साधनमसौ तत्वे तु साक्षात्कृते
प्रत्याहारपरिश्रमोपि स मया संत्यक्त एवाधुना ॥५॥

बोधसारे। गाढीमति । हे साधो साधोति समाधिसाधनानीति साधु- तस्य सम्बोधने हेसाधो घृतं सर्पिदं दृढमस्तु भवतु शी. तयोगेन धनीभूतमस्तिसर्थः, चा यद्वा विलीनमुष्णयोगेन र- सीभूतमस्तु तद्धृतं घृतत्वात्सर्पिष्टवान्न गतं न निवृत्तं धृतभा- वादन्यभावं न प्राप्तं तद्गुणस्योभपत्राप्येकरूपत्वेनानुभवाद् गा- दधृत्ते लीनघृते वा धृतप्रतीतेरेकरूपाभ घृतत्वहानिरिति भावः, यथा यद्वत्तथा तद्वचैतन्यस्य चैतन्यरूपस्यात्मनश्चमतिर्घनी- भावरूपश्चमत्कारश्चित्तं मनोऽस्ति अतः प्रतीतो भेदे प्रती- यमानेपि वास्तवं घृतत्वं घृतद्वयेऽभिन्नमिव तदेव तचैतन्यमेव चिचमतोऽद्वयं भेदराहतं ब्रह्मचैतन्यमेवास्ति तस्मात्कारणा- बसावसनिकृष्टो मतो दूरे वर्तमान इत्यर्थः, चित्तलयस्य यो- गमतेन सदूपस्य चित्तस्य मनसो यो लयो नाशा स्वरूपा- तीसभावरूपस्तस्य साधनं साधनभूतोऽतो मयाऽऽत्मयाथा- र्थ्यज्ञानवता तुपदेन योगिज्ञानात्वज्ञानस्यातीव वैलक्षाध्यम- स्तीति सूचितं, तच्चे चितस्य पारमार्थिक रूपे साक्षात्कृतेऽप- रोक्षतयानुभूते सति प्रत्याहारपरिश्रमोपि प्रसाहारः स्वस्ववि- षयेभ्य इन्द्रियपरात्तिरूपः प्रत्याहारोपलक्षितानि ध्याना- दीन्यपि ग्राह्यागि, स परिश्रमः साधनकाले रक्षणकाले नाश- काले- फलकाले च सर्वदा श्रमो दुःखरूप एवाऽतः स यो- गसाधनसमूहोऽधुनेदानीं सन्त्यक्त एवं सम्यग्निःसंशयं विसृष्ट एव निष्पयोजनत्वात्तस्येति भावः ॥ ५॥ ननु तर्हि साधनैर्विना कथं समाधिलाभ इत्याशा तस्यापि सहजत्वानिद्राद्यवस्थावदवस्थात्वावियोषात्तदपेक्षाभावेपि मयि अवस्थान्तरवत्स प्राप्नोत्येवेति मम तत्राप्यनादरोस्तीसाशयेनाह । जाते विद्वद्नुग्रहेण सहजानन्दागमे साधकै-

अनुभवनवकम् ।
५२३
रौदास्येन यथा यथा परिहतः कष्टः स योगोद्यमः।
आश्चर्य न मनीषितापि निबिडा निद्रा यथेयं बला.
दायात्येवतथा तथा मुनिमतो गाढः समाधिः क्रमः॥६॥
जात इति । विद्वदनुग्रहेण विदुषां ज्ञानिनामात्मसाक्षात्का-
रवतामित्यर्थः, अनुग्रहः कृपा तेन सहजानन्दाममे सहजः स्ना-
भाविक आनन्दो निरतिशयं मुखं तस्यागमो लाभस्तास्मि-
बात उद्भने सति साधकः पूर्व साधकावस्थावद्भिरस्माभिः स
योगशास्त्रोक्तो योगोद्यमो योगः समाधिस्तत्साधनभूत उद्यम
उद्योगः कष्टः खेदरूप एवेति हेतोरौदास्येन तत्साधनेषु तत्र च
यदीदास्यमुदासीनत्वं तेन यथा यथा यावद्यावदियर्थः, परिहत
उपेक्षितस्तथा तथेत्यावृत्तिशेषेणोतरव योज्यं तावत्तावदि-
त्यर्थः, न मनीषितापि मयानीपिसतापि निविडा सघनेयं लो-
कप्रसिद्धा निद्रा सुषुप्तिर्वलाठात्स्वयमेवायाति प्रामोति तथा
सद्वन्मुनिमतो मुनिभिर्यासकपिलपतअलिप्रभृतिभिर्विवकिभि-
मत इष्टत्वेनाहतो गाढो दृढः समाधिक्रमः समाधेर्वेदान्तिमत-
स्वात्मरूपसमाधेः क्रमः पापकः साधनभूतो निरोधाख्या स-
माधिः स्वयमयत्नमेव बलादठादेवायाति प्राप्नोति एतदाश्चर्यम.
वलोकयति घोषः॥६॥
ननु भवतां सहजप्समाधिर्येनोपायेन जातस्त्रमुपायं ब्रही-
त्याशय फलसहितमुपायं वदति ।
ध्यानामृतार्णवनिमग्नसमस्तमूर्ती
तन्व्या धिया निगमिते निगमान्ततखे।
आलोकितेष्वथ तटस्थधियाऽखिलेषु
भावेषु बोधधनता सहजा भ्युपैति ॥ ७॥

बोधसारे ध्यानेति।ध्यानामृतार्णवनिमयसमस्तमूा ध्यानमात्मचि- षयकान्तमवाहोनात्मविषयमययानन्तरिसस्तदेवामृतं समुद्रमनस्य सर्वनामृतपासिरिवामृतं ब्रह्ममुखं तत्मापकत्वादमृनार्णवस्तस्मिन् निममा प्रविष्टा समस्ता संपूर्णा मूर्तिराकारो यस्याः सा तथोक्ता तयाऽत एव तन्च्या सूक्ष्मया धिया बुद्ध्या'दृश्यते त्वग्रथया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति श्रुतेः, निगमान्ततसे निगमो वेद- स्तस्यान्त वेदान्ते यावरूपितं तत्त्वमनारोपितस्वरूपं तस्मिन्, यद्वा निगमानां वेदानामन्तः परिसमाप्तियस्मिन्तस्मिस्तत्वेऽनारो- पितात्मस्वरूपे ब्रह्माभिने प्रत्यगात्मनीति यावनिगमिते बो- घिते साक्षादनुभाषिते सति अथानन्तरमेषाखिलेषु भावेषु पदार्थेषु तटस्थधिया यथा तटस्थः पुरुषः स्वष्ट्या नदीप्रवाह- पतितानि तृगाकाष्ठयादोनरादीनि प्रतिबिम्बिताक्षादीनपि पश्यति तथा मायानदीतटस्थस्वसाक्षात्कारधिया बुदियाss- लोकितेषु साक्षादृष्टेषु सत्सु सहजा स्वाभाविकी बोधघनता बोधस्यात्मनो धनता निविडता प्रपञ्चरहितत्वेन चिद्धनस्वरूपते- त्यर्थः, अभ्युपैति प्रामोति, यद्वा तटस्थधिया नधादितटस्थित. सादिषु जलगतमतिबिम्बरूपेण द्विधाप्रतीयमानेष्वपि तद्विषयक- त्वनिश्चयवृत्तिरिवानेकधाप्रतीयमानेप्पात्मनि एकवनिश्चयरूपया सेति योज्यम् ॥ ७॥ एवं सहजसमाधेः प्राप्ति ससाधनां निरूप्येदानीमेतस्या मधुमतीविद्यात्वं साधयति । एषा मधुमती विद्या सर्वत्र मधुदर्शनात् । स्वशरीरार्कवृक्षेपि दृष्टं यत्पुष्कलं मधु ॥ ८ ॥ एषेति । एषा सहजसमाधिरूपा मधुमतीविद्या मधुमती निद्रापञ्चकम् । नानी विद्योपासना ज्ञेया, कुत एतस्या मधुमतीत्वं तत्राह सर्वत्रेति, सर्वत्र सर्वपदार्थेषु मधुदर्शनान्मधुनो ब्रह्मसुखस्य दर्शनात्साक्षात्काराद्, ननु अस्मात्सर्वत्र मधुवर्शनं जातमिये- तत्कुतोनिश्चयं तत्राह स्वारीरेति, यद्यस्मात्कारणात्स्वशरीरा- क्षेपि स्वम्यात्मनः शरीरं स्वतो विशीर्णस्वभावमत एव दुःखदत्वान्मरणपदत्ताञ्च तापहेतुत्वाच्च वृश्चनीयत्वाचाक्ष- स्तम्मिन्नपि अधु ब्रह्मसुखं पुष्कलमसन्ततृप्तिकर्तृवाह दृष्ट साक्षादतुभूनमनः सर्वपदार्थेषु तदृष्टमेवेसनो मधुमनीत्वमेतस्याः सम्भाव्यमिति भावः, मधुगतीविद्याप्रतिपादको मन्त्रस्तावद्, 'मधु. वाता ऋनाय ते मधु क्षन्ति सिन्धवः माध्वीनः मन्वोषधीः मधु नक्तमुनोषमि मधुमत्पार्थिवः रजः मधु चौरस्तुनः पिता मधु- मान्नो वनस्पतिमधुमानस्तु मूर्यः माध्वीवो भवन्तु न' इति । अस्यार्थः, वाता वायवः शारीराः प्राणादयो विराटशारीरा आवहमवहादय एते सर्वे पञ्चीकृता अपञ्चीकृताथाकाश- कार्यरूपास्ते सर्वे ते तव ऋताय ऋनं ब्रह्म सुखं प्राप्तुं भवन्तु 'ऋत५ सयं परं ब्रह्मेति श्रुतेः, शाखान्तरे ऋनायते-इयेकं पदं तदा मघु ब्रह्मसुखरूपाः सन्त ऋनायते ऋनं सत्समियाऽऽचर- न्तीति तादृशा भवन्तु, तथा सिन्धनः समुद्र। मधु ब्रह्ममुखं क्ष- रन्ति स्रवन्तु लोडर्थे लड् अत्र सिन्धुशब्देन पश्रीकृतजलराशि- रूपा अपञ्चीकृतजलं च शारीराः कुक्षयश्च तदभिमानिन्यो दे- वता आप ग्राह्याः, ओषधीरोषध्यो यवादिरूपा नोऽस्मा. के माध्वीब्रह्मसुखपदाः सन्तु सन्तु भवन्तु भात्मसुखमाप्तिप- र्यन्तं शरीरस्य श्रवणायुपयोगित्वात्तादृशारीरोपजीवनानुकू- लतया निर्विघ्नमाप्तिरेच धान्यानां मधुप्रदत्वं ज्ञेयमिति भावः, नक्तं रात्रिरपि मधु ब्रह्ममुस्वरूपं भवतु ब्रह्ममुखमाप्तिसाधन- बोधसारे। . निचारादावनुकूलं नो भवतु इत्यर्थः, तथोषमि उतोषस्यपि प्रभातेपि नोऽम्माकं मधु ब्रह्ममुखं स्फुरत्विति शेषः, ब्रह्ममु. खम्फुरणेऽनुकूलता प्रभातस्त्वित्यर्थः, उपस इत्योप शाखान्तरे पाठः, अर्थः स एव, पार्थिवं पृथिव्या इदं पार्थिवं पृथ्वीस- म्बन्धि रजो रेणुस्तजन्यं घटार्धाप पृथिवी च मधुमन्मधु ब्रह्म- मुखं नियते यत्र तथाभूतमस्तु ब्रह्मसुखभानपूर्वकं तत्सर्व भातु वा ब्रह्ममुखसाधनं भवतु इत्यर्थः, न इत्यनुवर्तनीयं, तथा पिता पालकः सर्वप्राणिपालनशीलेत्यर्थः, द्यौः स्वर्गोपि मधु ब्रह्म- मुखलक्षकं नोऽस्माकमस्तु भवतु चौपदेनाकाशोपि ग्रा- हस्तथा वनस्पतिः पुष्पं विना फलवानश्वस्थादिर्वनोपलक्षितौ- षधीस्वामी चन्द्रोपि मधुमान्मधुसुखं विद्यतेऽस्मिन्निति मधु- मान्ब्रह्ममुखविशिष्टस्तत्पदश्च नोऽस्माकमस्तु भवतु सूर्य- स्तपनो ब्रह्मसुखप्रदो भवतु तथा गावो धेनवो बाचश्चेन्द्रि- पाणि च बुद्धिश्च यज्ञश्च दिशश्च वजं बाणाश्चेत्यादिजातं स. कलं नोऽस्माकं ब्रह्मसुखानुसन्धानवतां माध्वीब्रह्ममुखानुरूपा भवन्तु मतीयन्तु सर्वत्र मार्थनायां लोट् ॥ ८॥ इदनी स्वस्याज्ञानावस्थातो ज्ञानावस्थायां स्थितस्य म- महदन्तरं दर्शयति । विष्णोर्मे दर्शनं भूयादेवमासीन्मनोरथः । इदानीं कृपया विष्णोः सर्व विष्णुमयं जगत् ॥९॥ इति श्रीनरहरिकृतौ बोधसारेऽनुभवनवकमेकविंशम् ॥ २१ ॥ विष्णोरिति । हे शिष्य पूर्व ज्ञानमाप्तिपूर्वकालेऽज्ञाना- वस्थायामित्यर्थः, मे मम विष्णोव्यापकस्य परमात्मनो दर्श- नं साक्षात्कारो भूयाद्भवतु एवोमत्यं में-इयावर्तनीयं, मम म- नोरयोऽभिलाष आसीदभूत्, केवलाशानावस्थायां तु विष- ૧૨૭ निद्रापश्चकम् । येष्वेवेच्छाऽऽसीन्, ततश्च तदर्थ कर्मोपासनाद्यनुष्ठाननान्त:- करणे किश्चिच्छुदे निष्कामपूर्व तदनुष्ठानेन वेष्टि व्यामो- ति जगत्स विष्णुर्गुरुः। 'गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नम' ॥ इति । वृद्धवचनादत्रैव च । मदमोहाभिधक्रूरमधुकैटभजिष्णवे । मोक्षलक्ष्मीनिवासाय नमः श्रीगुरुविष्णवे ॥ इति चोक्तत्वानुरोर्व्यापकत्वं च सर्वत्र सहितोपदेतृत्वम- भवेन वेपम्, इदानीमधुना ज्ञानप्राप्ती सत्यां विष्णार्ज- गयापकस्य गुरोः कृपा दया तया सर्व समस्तं जगद्विश्व वि- ष्णुमयं विष्णुापक आत्मा गुरुश्च तन्मयं तद्रूपं दृश्यत इति शेषः, 'सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन, पुरुष एवंदं सर्व यद्भूतं यच्च भव्य, विश्वं नारायण' इत्यादि श्रुतिद्वारा गुरोरु- पेदेशरूपकृपया वाचारम्भणश्रुत्युक्तयुक्त्या च पालोचनेन का- यस्य कारणव्यतिरिक्तसत्ताभावाजगतो ब्रह्ममात्रत्वं तदभिन्न- गुरुदृष्ट्या च गुरुमात्रत्वं लोकप्रसिद्धविष्णुदृष्ट्या च विष्णुमा- अतं च साक्षात्कृतामयर्थः ॥ ९ ॥ प्रति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ता- अनुभवनवकार्थप्रकाश एकविंशः ॥२१॥ अथ विद्वत्प्रभावनवकम् । एवं स्वानुभवं निरूप्येदानीं ज्ञानिनां प्रतापं वर्णयितुं वि- द्वत्पभावनवकाख्यं प्रकरणं नव श्लोकं निरूपयिष्यबाद । अथ विद्वत्प्रभावनवकम् । अथेति । अथेदानी स्वानुभवनकनिरूपणानन्तरं विद्वत्म- ५२८ बोधसारे। भावनवकं विदुपां विवेकिनां प्रभावः प्रतापस्तस्य निरूपकं न- वकं नवानां श्लोकानां ममूहो नवकं विद्वत्मभावनवकारूयं प्र. करगां निरूप्यत इति शेषः, तत्रादौ तावदेतत्पकरणनिरूपयिष्य- माणविषयमत्र निर्दिशति । अभावो यत्र भावानां स भावो यत्र वर्णितः । स्वभावसुखदं तात प्रभावनवकं शुणु ॥ १ ॥ अभाव इति । यत्र यस्मिन् भावे भावानां कार्यकारणरू- पाणां जगद्नपदार्थानामभावोऽयन्तामत्वमस्ति स भाव: सचिवानन्दरूपो भावः पदार्थ आत्मा यत्र प्रकरणे वर्णितो निरूपितो हे तात हे शिष्य स्वभावसुखदं स्वभाव प्रा- स्मसत्ता तदभिन्नं सुखं तत्पददातीति तत्तथोक्तं प्रभा. वनवकं प्रभावस्य विद्वत्तापस्य निरूपक नवकं नवश्लोकममू- हरूप प्रकरणं शृणु अवधारय ।। १ ॥ इदानीं विदुषो विषयदर्शनेन कामाद्युत्पत्तौ सयामपि तद- स्पर्श ज्ञानिषु दर्शयन्कामादिविकाराणां क्तितिरस्करणरूप प्रतापं निरूपात । अयं विहाय कामादीनक्षुद्रान्दूरगतो मुनिः । पश्यत्यपि कदाचित्तान्न चैनं प्राप्नुवन्ति ते ॥२॥ अमिति । अयं यत्प्रतापवर्णनमारब्धं सोयं ज्ञानी क्षुद्रान्का- मादीन्क्षुदान्तुच्छान् मायिकपदार्थविषयान् कामादीन कामोऽ- भिलाष प्राविः प्रथमो येषां ते सथोक्तास्तान् क्रोधादीन् षड्- रिपून विहाय परित्यज्य दूरगतो दूर आराद्गतः स्थितो मुनिर्म- ननं विवेकोऽस्याऽस्ति स मुनिःप्रारब्धभोगकाले तान्विषयान्तद्वि- षयकान्कामादींश्च पश्यपि यथष्यवलोकपति तथापि ते कामा- विद्वत्प्रभावनवकम् । दयस्तद्विषयाश्चैनं ज्ञानिनं न च नैव प्राप्नुवन्ति सम्बन्धन्ति कामादीनां विकारत्वादसत्ताञ्च विदुषो 'ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेनिविकारमच्चिदानन्दब्रह्मरूपत्वादुभयोर्विरुद्धस्वाभाव्येन का- मादिविकारसम्बन्धो विवेकिनि पारमार्थिको नैव संभवति एवं विद्वत्मभावो झेय इति भावः ॥२॥ इदानी द्वैतादर्शनरूपं प्रतापं दर्शयति । न यान्ति नूनं तज्ज्ञस्य सम्मुखे द्वैतदृष्टयः । दुष्टा दुष्टतया ज्ञाता दर्शयन्ति मुखं कथम् ॥ ३॥ नेति । तज्ज्ञस्य तदात्मस्वरूपं जानातीति तज्ज्ञ आत्मयाथा- र्यवेत्ता तस्य सम्मुख आत्मयाथार्थ्यवेदनरूपवृत्यग्र इत्यर्थः, दै- तदृष्टयो द्वैतं जगदृश्यत आभिस्ता द्वैतदृष्टयो जगद्विषयका वृ. सय इत्यर्थः, न यान्ति नूनं निश्चयं नागच्छन्ति अत्र सन्देहो नैव कर्त्तव्य इति भाव, तत्रोपपत्तिमाह दुष्टा इति । दुष्टाः स्वत एवासत्त्वदुःखमवत्वपरिणामादिभिर्दोषैर्दूषिता अतो दुष्टतया दुष्ट- त्वेन ज्ञाता अवगताः सन्तस्ते विषया मुखं वदनं कथं केन प्रका- रेण दर्शयन्ति न कथमपीत्यर्थः, लोकेपीदं दुष्टैः स्वदोषज्ञानि- नामग्रे स्वमुखदर्शनं न क्रियत इति प्रसिद्धमेवेति भावः ॥ ३ ॥ इदानी मायाया अपि ज्ञान्यग्रे स्थातुपशक्तिकत्वमित्येवंविध प्रतापं दर्शयति । माया मायेति विज्ञाता सर्वाकारविकारिणी। गता कुत्राप्यनावृत्यै संस्थितो निर्मलो मुनिः ॥ ४ ॥ मायेति । माया प्रकृत्यपरपर्याया जगदुत्पादनशक्तिः सत्त्वा- सस्तादिवचनैरनिर्वाच्या सर्वाकारविकारिणी सर्वे समस्ता य आकारा रूपाणित एव विकाराः परिणामरूपा विद्यन्ते यस्यां

बोधसारे।
सा तथोक्ता । एवं लक्षणैर्लक्षितेयं मायार्थशून्या सती प्रतीय-
मानेसेवं विज्ञाता साक्षादनुभूता सती मुनिनेति शेषः, अत
एव सा कुत्रापि कापि मिथ्यापदार्थलयस्थानस्यापि सत्त्वास-
स्वादिमिरनिर्वचनीयतया कुत्रापीत्युक्तम, अनावृत्यायपुनराग-
मनाय गता निहत्ताऽतो मुनिमननवाज्ञानी निर्मलो माया-
विद्यादिमलास्पृष्टः शुद्ध इत्यर्थः, संस्थितस्तिष्ठतीत्यर्थः, लोके.
ऽपि दुष्टस्त्रिया दुष्टत्वे ज्ञाते सा लज्जया पुरःस्थातुमशक्ता सती
विषादिभक्षणेन पुनरदर्शनरूपं मरणं प्रसिद्धं तद्दनापीयर्थः ॥४॥
इदानीं विद्वत्समीपे विपयाणां प्रसरणाशक्तिनिरूपणमिषेछ
विद्वत्मतापं दर्शयति ।
निर्जिता विषया नूनं चपेटाभिश्च ताडिताः ।
नोपसर्पन्ति ते तस्मादस्मानेष हनिष्यति ॥ ५॥
निर्जिता इति । विषयाः शब्दादयस्तत्समूहरूपाश्च स्त्रीपुत्रध-
नगृहादयो नूनं निश्चयेन ज्ञानिना निर्जिताः पराभूताः कृताः, च
पुनश्चपेटाभिर्दोषदृष्टिरूपाभिश्चपेटाभिस्ताडिता दण्डिताश्च मुनि-
भिरिति शेषः, यतो यस्मात्कारणात्तस्मात्कारणाने विषया
एष मुनिरस्मान्नो हनिष्यति मारयिष्यतीति हेतो!पस-
पन्ति न मुनिसमीपं गच्छन्ति अयमपि मुनिप्रतापो विषयेषु भी-
तिरूपो ज्ञेयः ॥ ५॥
इदानीं तुच्छविषयतृष्णारूपशल्यनिराकरणोन स्वात्मानुभने
सति नियतृप्त्योत्तरोत्तरक्षणं स्वरूपे स्थैर्याधिक्यं ज्ञानिनां दर्श-
यन्तन्मिषेणापि ज्ञानिप्रभाव निरूपति ।
तृष्णां विहाय तुच्छेभ्यो मुनिनिःशल्यतां गतः ।
स्वरसायनतृप्तात्मा दिनानुदिनमेधते ॥ ६ ॥

विद्वत्प्रभावनवकम् । तृष्णामिति । मुनि नी तुच्छेभ्यस्तुच्छविषयेभ्यस्तृष्णां लोभत्ति विहाय परित्यज्य निःशल्यतां शरीरेऽवशिष्टं शस्त्रादि- खण्डं शल्यं तद्वद्दुःखप्रदत्वाद्विषयवासनेपाशिष्टाऽत:करणे श स्पपदेन ग्राहा तद्रहिततां निर्वासनतां गतः प्राप्तः सत्रत एवं स्वरसायनतृप्तात्मा स्व प्रात्मा स एव मुखं 'रसो वै स' इति श्रुतेः, तस्यायनं प्राप्तिसाधनमखण्डाकाराकारिता प्रमारूपा वृत्तिस्तेन तृप्तः संतुष्ट आत्मान्तःकरणं यस्य स तथाभूतः सन्, यद्वा स्व आत्मैव रसानां हैरण्यगर्भमुखादिमानुषानन्दप- यन्तानां वैषयिकसुखानामयनमाश्रयस्तेनैव तृप्तः सन्तुष्ट आत्मा: न्तःकरणं यस्येत्यर्थः, सन्दिनानुदिनमेतदुपलक्षणं पूर्वपूर्वक्षणा- दुत्तरोत्तरक्षण इत्यर्थः, एधते वर्धतेऽत्र स्वानुभवे स्थैर्यसंपादन- रूपो ज्ञानिप्रभावो वर्णितो ज्ञेयः॥६॥ इदानीं ज्ञानिनामविद्याया अस्फुरणमेवोत्प्रेक्षते । पूर्वी मां वल्लभां त्यक्त्वा रमते विद्ययाऽधुना । इत्यविद्या लज्जितेव नायाति मम संमुखम् ॥ ७ ॥ पूर्वामिति । यथा काचित्स्त्री पूर्व स्वपतिप्रियाऽनन्तरं तत्र दोषदर्शनेनान्यां स्वियं विवहति ततस्तया सहैव रमते च तां ज्ञात्वा स्वस्यां दोषदृष्ट्यानादरमपि ज्ञात्वा ततस्तस्य पत्त्युः सं- मुखमपि लज्जया नायाति, तथा पूर्वी ज्ञानोदयात्पूर्वकाले वल्ल- भामतीव पियां मामविद्याख्यां स्त्रियन्त्यक्त्वा दोषदृष्ट्या परित्य- ज्याऽधुनेदानी वेदान्तश्रवणादिविधिना तामजीकृत्त्येदानी वि- धया विद्यानाम्न्या स्त्रिया सह मामनावृत्त्य रमते क्रीडतीति हेतोरविद्या माया मम मे तद्दोषज्ञानिन इत्यर्थः, सन्मुखं ब्र- माकारवृत्तिदृष्टिविषयत्वं नायाति नागच्छतीव नागच्छति किमु, तत्र हेतुर्लजिता लज्जा त्रपा सजाताऽस्याः सा तथोक्ता, एव- बोधसारे मविद्याया आप लन्जोत्पादनरूपः प्रभावो ज्ञानिनां शेगः ॥७॥ इदानीमज्ञानिषु ब्रह्मवत्कृनाशक्यतावज्ज्ञानिनामपि तद्वक्त. ताशक्यतायामपि सत्यामवचनेनैव ब्रह्मवक्तृत्वरूप प्रतापं प्रदर्शयति। ब्रह्म वक्तुं न जानाति यथात्यन्तजडो जनः । तथैवात्यन्तबोधात्मा ब्रह्म वक्तुं न बुध्यते ॥ ८॥ ब्रह्मेति । यथा यद्वदत्यन्तमतिशयं जडो मूर्यो जनः पुरुषो ब्रा देशकालवस्तुकुनपरिच्छेदशून्यं सच्चिदानन्दलक्षणं वस्तु कर्मभूतं वक्तुं वचनेन प्रतिपादयितुं न जानाति न वेत्ति अन्न. वाद् विषयाज्ञाने तनिरूपणाशक्ती श्रीतस्तावद' यन्मनसा ध्या- यति तद्वाचा वदतीति, अतो मनसा ज्ञातस्यैव वाचा निरूपयितुं शाक्यत्वादज्ञानां ब्रह्मनिरूपणासामर्थ्यमेव सिद्धमिति भावः, तथा तद्वदान्तबोधात्माऽत्यन्तमतीव यो बोधो बुध्यते ज्ञायते ज- गदनेनेति बोधश्चिन्मात्र आत्मान्तःकरणं यस्य स तथाविध आ- स्गाकारपरिणतान्तःकरणो ब्रह्माभिन्न स्वसाक्षात्कारवानित्यर्थः, ब्रह्म देशाअपरिच्छिन्नमात्मवस्तु वक्तुं वचनद्वारा निरूपितुं न बुध्यते न जानाति बुधेर्दिवादिपाठातीर लटि दिवादिभ्य श्यन्निति श्यनि च स्वरितेत्त्वालटस्तङ्, 'अवचनेनैव प्रोवाच, स ह तूष्णीं बभूवेति श्रुतेः, अज्ञानिवद्ब्रह्मवक्तृत्वाभावेपि तूष्णी- भावेनैव ब्रह्मवक्तृत्वशक्तिमत्त्वाज्ज्ञानिनो वचनाविषयत्वोप ब्र. मनिरूपणरूपः प्रभावो दर्शितः ॥ ८ ॥ इदानीमालस्यस्याविद्वत्सु कार्यघातकत्वेपि झानिषु प्राप्तव्या- भावादविघातकत्वं प्रत्युत केवलसहजसमाधेद्वैतारुचिप्रतिपाद- नपूर्वकतद्विस्मृतिकारकत्वात्तस्याऽऽत्मस्थितिद्धिसाधनत्वेनेष्टत्वं दर्शयति ।

निर्वाणदशकम् । नूनमालस्यदोषो हि शक्रस्यापि श्रियं हरेत् । यथा यथाऽलसो ज्ञानी वर्धतेऽसौ तथा तथा ॥९॥ इति श्रीनरहरिकृती बोधसार विद्वत्प्रभावनय द्वाविंशं ॥ २२ ॥ नूनमिति । शकस्यापि आलस्यवनस्वैलोक्यराज्यं प्राप्तस्यापी- न्द्रस्याऽपिशब्दाकिमन्यस्य वक्तव्यमियर्थः, श्रियं सम्पदं हरे- नाशयेद्यः सोयं प्रसिद्ध प्रागोपालमालस्यदोपोडलसम्य भाव आलस्य कार्योपेक्षारूपा बुद्धिवृत्तिस्तदोषो दूषणं नूनमस्ति विद्यतेऽत्र संशयो नास्तीत्यर्थः, तथापि ज्ञानी-आत्मसाक्षात्का- यथा पूर्वपूर्वकालादुत्तरोत्तरकालं यादशोऽलस आलस्यद्धिमान् भवति तथा तथा पूर्वपूर्वक्षणादुत्तरोत्तरक्षणम- सावल सो ज्ञानी बर्द्धने स्वरूपस्थिनिवृद्ध्युपलक्षिनो भवति अ- ज्ञानिकार्यनाशकस्यालस्यस्य ज्ञानिकार्यसाधकत्वसंपादनरूपोयं ज्ञानिप्रतापोत्र दर्शितो ज्ञेयः॥९॥ इति श्रीनरह० बोधसा० विद्वत्प्रभावमवकार्थप्रकाशो द्वाविंशः॥ २२ ॥ रखान्यथा - अथ निर्वाणदशकम् । एवं विद्वत्मभावनवकं निरूप्येदानीं तेषामेव तात्विक निर्वाणात्मरूपमन्येषां जिज्ञासूनागवबोधयितुं निर्वाणदशकाख्यं दशश्लोकं प्रकरणमारभमाण आह । अथ निर्वाणदशकम् । अथेति । अथ विद्वत्प्रभावनवकनिरूपणानन्तरं निर्वाणद- शकं निर्वाणस्य निरुपाधिकेवलात्मरूपस्य निरूपकं दशकं द- शश्लोकसमूहात्मकं प्रकरणमुच्यत इति शेषः, तत्रादौ निर्वाणा- स्मस्वरूपस्य वचनाविषयत्वेपि शिष्यकृपयैव केवलं स्त्रस्य त. निरूपणे प्रवृत्तिरिति शिष्यं प्रत्याह ।

बोधसारे। न शक्यं वक्तुमेवेदं तथापि कृपया तव । कया चित्कलया वत्स निर्वाणदशकं ब्रुवे ॥ १ ॥ नेति । हे शिष्य इदं वक्ष्यमाणं मद्बुदिप्रत्यक्षं निर्वाण- दशकं निर्वाण स्याखण्डचिन्मात्रस्वरूपस्य निरूपकं दशकं द- शाश्लोकममूहात्मकं प्रकरणं वक्तुं वचनेन प्रतिपादयितुं शक्यं शक्तिविषयं नैवास्ति नैव विद्यते यद्यपि तथापि वक्तुमशक्य- स्वेपि तव ते कृपया दयया तव साधनसंपनत्वेनाधिकारित्वं यदस्ति तेन हेतुना मय्युत्पना या दया तयेयर्थः, हे वत्स अनेन सम्बोधनेन गोर्वत्म इव मत्कृपापात्रस्वमिति सूचितं, कया चि. सत्तेनासत्वेन सदसत्त्वेन वा केनापि निर्देशेन निर्देष्टुमश- क्यथा कलयति आत्मानमिति कला आत्मसाक्षात्कारत्ति- स्तयाऽहं निर्वाणात्मस्वरूपसाक्षात्कारवान्वदुपदेष्टा निर्वाणद- शकं निर्वाणात्मनो निरूपकं दशश्लोकसमूहरूपं प्रकरणं ब्रुने कथयामि ॥१॥ एवं सविषयं प्रकरणनिरूपणं प्रतिज्ञायेदानीमेतत्पकरण- निरूपयिष्यमाणात्मस्वरूपविषये जाग्रत्त्वं सम्भाव्योत्तरार्धन तनिषेधति । मोहनिद्रा न तत्रास्ति तेनायं जागरो महान् । भावादयो न भासन्ते तेनायं नैव जागरः ॥ २ ॥ मोहनिद्रेति । हे शिष्य तत्र निर्वाणात्मनि मोहनिद्रा मो- होऽज्ञानमेव निद्रा सुषुप्तिः स्वरूपास्फोरकत्वात्मुषुप्तित्वं मो- हस्य क्षेयं नास्ति न विद्यते तेन मोहनिद्राभावहेतुनाऽयं म. दुद्धिगोचर आत्मप्रकाशः प्रकृतो महानखण्डो लोकप्रसि- दजागरस्य निद्राभिः खण्डितत्वादमहत्वमेतस्य तु मोहनिद्रा-

निर्वाणदशकम् ।
दिभिरखण्डितत्वान्महत्वं, जागरो जागृतिरस्तीति मम्भा-
व्यते तत्रेसावर्तनीयं तत्र निर्वाणात्मस्वरूपे भावादयो भावो
घटादिपदार्थानां विद्यमानतं स आदिर्येषामभावानां ते त-
थोक्ता घटादिपदार्थभावाभावा इयर्थः, लौकिकजाग्रनीत्र न
भासन्ते न प्रतीयन्ते तेन घटादिपदार्थभावाभावप्रययाभावेन
हेतुनाऽयं मद्बुद्धिप्रयक्षो आत्मप्रकाशो जागरो जागृति -
वास्ति नैव सम्भाव्यते ॥२॥
इदानीं तत्रैव स्वप्नत्वं सम्भाव्य निषेधीत ।
अपूर्व भासते वस्तु तेन स्वप्नोयमुत्तमः ।
दृश्यं न भासते तत्र तेन स्वप्नो न चैव सः ॥३॥
अपूर्वमिति । तत्रेसावर्तनीयं तत्र निर्वाणात्मस्वरूपेऽ-
पूर्व सत्यासत्त्वाभ्यामनिर्वचनीयं चमत्कारकारि वस्तु पदा-
थजातमात्मवस्तु वा भासते प्रतीयते तेनापूर्ववस्तुभानस्वाम-
लक्षणसत्त्वेन हेतुनाऽयं मद्बुद्धिप्रयक्ष आत्मप्रकाश
श्रेष्ठः स्वतोऽस्ति विद्यत इति सम्भावनीयम, एवं स्वप्नत्वं स-
म्भाव्येदानीं तनिषेधति दृश्यमिति, यत्रात्मप्रकाशे दृश्यं लौकि-
कस्वप्ने यथा दृश्यं भासते तथा दृश्यं दृष्टिविषयं घटादिविषय-
जातं न भासते न प्रतीयते तेन दृश्यभानाभावेन हेतुना स्वमः
स्त्रमावस्था न चैव नैवास्ति हीति प्रसिद्धं सर्वेषां स्वप्ने दृश्य-
भानमिति घोतितम् ॥३॥
एवमात्मप्रकाशे स्वमत्वं निषेध्येदानीं सुषुप्तित्वं सम्भाव्य
निषेधति ।
अभावात्सा पदार्थानां सुषुतिः सुखरूपिणी ।
न जाज्यं न तमस्तत्र सुषुप्तिरपि नैव सा ॥ ४ ॥

बोपसारे। अभावादिति । पदार्थानां नामरूपात्मकानां घटपटादिप- वार्थानां तत्र निर्वाणात्मनि अभावादविद्यमानत्वात्सुखरू- पिगी मुखमात्मस्वरूपमेवानन्दरूपं रूप्यते प्रकाश्यतेऽत्रोत सा. तथोक्ता सुखप्रतीतिरूपेयर्थः, अत एव सा स्थितिः सुषुप्ति- निद्रा ज्ञेया, एवं निद्रात्व सम्भाव्येदानीं तदपि निषेधांत नेति, तत्रात्मनि जाड्यमज्ञानं न नास्ति तत्र हेतुमाह नेति, तत्रात्म- सरूपे तम आवरणस्वरूपं तमोगुणतत्त्रं न न विद्यतेऽतः साऽऽत्मस्थितिः सुषुप्तिापि निद्रापि नैव नास्त्येव ।। ४ ।। अवस्थात्रयरहितत्वेन तुर्यत्वमात्मनि सम्भावयति । अवस्थात्रयनिर्मुक्तं तुरीयमिति कीर्तितम् । नैवैकद्वित्रिविज्ञानं तुरीयं किमपेक्षया ॥ ५॥ अवस्थेति । तदात्मस्वरूपं यतोवस्थात्रयनिर्मुक्तमवस्थानां जाग्रत्स्वमसुषुप्त्याख्यानां स्थानानां त्रयं त्रिकं तेन निर्मुक्तं हीनमिति अतो हेतोस्तुरीयं चतुर्थमवस्थानं 'चतुर्थ मन्यन्ते स आ- स्मा स विज्ञेय'इति श्रुतेः, कीर्तितमुक्तम् , एवं तुर्यत्वं सम्भाव्ये. दानीं तदपि निषेधति नैवेति, यत्रात्मस्वरूप एकद्वित्रिविज्ञान- मेकस्य द्वयोस्त्रयाणां चैकत्व द्वित्वत्रित्वानामियर्थः, विज्ञानम- नुभवो नैवास्ति नास्त्येव तत्तुरीयं चतुर्थ किमपेक्षया कस्या- पेक्षा किमपेक्षा तया किमपेक्षया भवेनैव भवेदिसर्थः, सं. कथाया अन्योन्यसापेक्षत्वादिति भावः ॥५॥ इदानीं तत्रात्मनि जीवत्वं सम्भावयति । जीवस्यैतन्निजं रूपं तेन जीवोयमुव्यते । जीवचेष्टा न तत्रास्ति तेन निर्जीवता स्फुटा ॥६॥ जीवस्यति । एतच्चतुरवस्थामकाशकं चैतन्यं जीवस्य खु.

निर्वाणदशकम् । झ्यादिप्रतिविम्बितं साधिष्ठानं माणाधुपाधिमञ्चैतन्यं जीव इ. त्युच्यते जीव प्राणधारण इति धातुप्रकृतिकत्वात्तस्य निजं स्वीयं रूपं स्वरूपमस्ति तेनैतस्य जीवपारमार्थिकरूपत्वेनायं मद्बुद्धिप्रत्यक्ष आत्मप्रकाशो जीवो जीवनामोच्यते कथ्यते, एवं जीवत्वं सम्भाव्य तदिदानी निषेधति जीवेति, तत्रात्मनि जीवचेष्टा जीवस्य प्राणोपाधिमचैतन्यस्य चेष्टा कर्तृत्वभोक्तृ- वादिरूपा नास्ति न विद्यते तेन जीवचेष्टाभावेन हेतुना स्फुटा प्रत्यक्षा निर्जीवता जीवस्य भावो जीवता निर्गता नित्ता जीवता जीवभावो यस्याः सा तथोक्ता जीवभावरहितत्वं भासते ॥६॥ ननु तदात्मरूपं ब्रह्मैवास्तीत्याशक्य तदपि वाचामविषय. स्वान्न शक्यते वक्तुमित्याह । सच्चिदानन्दरूपत्वाद्ब्रह्म चेन्नापि तद्भवेत् । यो वेद स तु न ब्रूते यो न वेद गिरास्य किम्।।७॥ सच्चिदिति । तदात्मचैतन्यं सचिदानन्दरूपत्वात्सत्कालत्रया- बाध्यं, चिज्ज्ञप्तिरूपम्, आनन्दः सुखम्, एतत्रयमभिन्न रूपं यस्य तत्तथोक्तं तस्य भावस्तत्त्वं तस्माद्धेतोः 'ससं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतेः, ब्रह्मलक्षणस्य सच्चिदानन्दत्व- प्रतिपादनाम भवतीति चेद्यदि ब्रूषे तर्हि तदपि न भ- वेन स्यात् कुत इत्यत आह य इति, यः कश्चित्तह्म वेद जानाति तस्य ब्रह्मरूपत्वाब्रह्मणश्च वागविषयत्वात्रिपुटेर्वा- धितत्वाञ्च स तु ब्रह्मविन्न ब्रूते ब्रह्मादिशब्दैन प्रतिपादयति तुशब्देन तस्य वत्कृत्वाद्भिन्नत्वं सूचितं, किंच यः कोप पुरूषो न वेद न वेत्ति अस्य ज्ञानिनः पुरुषस्य गिरा वाचा किं तद्राच्यं भवति न भवसेवेसर्थः ॥७॥ अत्रार्थे श्रुतिं विद्ववनुभवं स्वानुभवं च प्रमाणयत्ति । ६८ बोधसारे। तस्माच्छुतिः प्राह सत्यमवाङ्मनसगोचरम् । यथानुभूतं मुनिभिस्तथैवेदं न संशयः ॥ ८॥ तस्मादिति । हे शिष्य तस्माद्ब्रह्मणोनिर्वचनीयत्वाच्छुतिः 'यद्वाचानभ्युदितं येन वागभ्युद्यते, यतो वाचो निवर्तन्त' इत्या. दिका वेदवागवायमनसगोचरं वाचो मनसश्चागोचरम विषयं ब्रह्म यत्माह कथितवती तत्सत्यं प्रमाणमेव, किं च मु- निभिर्मननशीलैर्यथा यादृशं मनोवागगोचरत्व लक्षणलक्षि- तमनुभूतं ज्ञातमिदं मद्बुद्धिप्रयक्षं ब्रह्म तथैव तादृशमेवास्ति अत्र संशयः सन्देहो मम न विद्यते मयापि तादृशमेवानुभू- समिति भावः ॥८॥ इदानीमेतदात्मस्वरूपमेव सर्ववेदान्तविषय इयाह । एतदन्तः समाम्नाय एतदन्ता तपस्विता । उपदेशोप्येतदन्त एतदन्ता विवकिता ॥ ९ ॥ एतदन्त इति । हे शिष्य समाम्नायः सम्यगाम्नायते तत्त्वमस्मिन्निति समाम्नाय आत्मतत्त्वप्रतिपादको ग्रन्थसमूहो एतदात्मस्वरूपमन्त तात्पर्यमवसानं वा यस्य स तथोक्तोऽस्ति अत्रैव सर्ववेदान्तानामवसानमिसर्थः, 'सर्वे वेदा यत्पदमामनन्ती'तिश्रुतेः, 'तं त्वौपनिषदं पुरुषं पृच्छा- मी तिश्रुतेश्व, यद्वा-एप आत्माऽन्तो लयाधिष्ठानं यस्य स त- थोक्तो वाचोऽविषयत्वाद् 'यतो वाचो निवर्तन्त इति श्रुतेः, अत्रैव सर्वे वेदा लीना भवन्ति वाचारम्भणमात्रत्वेन निरर्थका भवन्तीसर्थः, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेखेव सख- मियादिश्रुने:, 'वैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुने'ति स्मृ- ताश्वत्मनः पृथक्सत्ताकवाभावाद्वणानां गुणा कार्याणां च वेदान्त एनदन्त बोधदीपपश्चकम् । प्रतिपादकस्य वायात्रस्यार्थचन्यत्वप्रतिपादनाव, किञ्च तप- स्विता तपो वर्णाश्रमधर्मनिष्ठतया शरीरे शीतोष्णादिक्लेशसहनं तत्तपो यस्यास्तीति तपस्वी वस्य भावस्तचैतदन्तदा- त्मस्वरूपं तज्ज्ञानं चान्तोऽवसानं फलरूपं यस्याः सा स. थोक्ताऽस्ति 'तपांसि सर्वाणि च यद्वदन्तीति श्रुतेः, यत्फलका या क्रिया सा तत्सिद्धौ समाप्यत इति लोकप्रसिद्धेश्च तप:- क्रियाया अन्तःकरणशुद्धिद्वारा ज्ञानमामिसिद्धावचैवान्त- स्तस्या इति भावः, किञ्चोपदेशोषि गुरुकृतस्तत्त्वमस्यादिवा- क्योपदेश उपासनायुपदेशोपि एतदन्त एतदात्मस्वरूपं सज्ज्ञानं चान्तः फलरूपेण नाशरूपं यस्य स तथोक्तोऽस्ति उपदेशविषयस्यात्मनस्तज्ज्ञानस्य वा प्राप्तावुपदेशक्रियायां नै- रर्थक्येन नाशरूपमात्मैवेति भावः, किञ्च विवेकिता विविच्यते आत्मानात्मानावनेनेति विवेकः सोऽस्मिन्विद्यते विवेकी स तस्य भावस्वत्ता विवेकित्वं सैतदन्तैतदात्मस्वरूपं त शानमन्तो नाशो यस्याः सा तथोक्ताऽस्त्रि विवेकस्यापि क्रियात्वात्तत्फ- लप्राप्तौ तस्या अप्रयोजनकत्वेनात्मसाक्षात्कार एव नाशो ज्ञेय इति भावः, इनीदमेव तत्वज्ञानमिति निश्चेतव्यम् ॥ ९॥ इदानीं सर्ववेदश्रवणं शिष्ये संपन्नमिति शिष्यं प्रयाह । श्रोतव्यं श्रुतिवाक्येन सर्व ब्रह्म त्वया श्रुतम् । भवितव्यं यदि ब्रह्म तर्हि ब्रह्मैव भूयताम् ॥१०॥ इति नरहरिकृती बोधसारे निर्वाणदशकं त्रयोविंशम् ॥ २३ ॥ श्रोतव्यमिति । हे शिष्य त्वया भवता श्रुतिवाक्येन श्रु- तिरूपं यद्वाक्यं तेन श्रोतव्यं श्रवणविषयत्वेन विहितं सर्व स- मस्तं ब्रह्म देशादिपरिच्छेदशून्यमात्मवस्तु श्रुतं श्रवणेनावगतम्, अतोनन्तरं यदि यहिं त्वया ब्रह्म देशादिपरिच्छेदशून्यं वस्तु ५४० बोधसारे भवितव्यं भवितुं विहितं चेत्तर्हि ब्रह्मैन भूमैव भूयता- मास्यताम् ॥ १० ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ- निर्वाणदशकार्थप्रकाशस्त्रयोविंशः ॥ २३ ॥ अथ बोधदीपपञ्चकम् । एवं निर्वाणात्मस्वरूपनिरूपकं निर्वाणदशकं निरूप्येदानी तदेव विलक्षणदीपकरूपेण निरूपयितुं बोधदीपपञ्चकाख्यं प- श्वश्लोकं प्रकरणमारभमाण प्राह । अथ बोधदीपपश्चकम् । अथेति । अथ निर्वाणदशकनिरूपणानन्तरं बोधदीपपञ्चकं बोधो ज्ञानं स एव प्रकाशकत्वाद्दीप इव दीपस्तस्य निरूपकं पञ्चकं पञ्चश्लोकसमूहरूपं प्रकरणं निरूप्यत इति शेषः, एत- प्रकरणप्रतिपाद्यस्य दीपस्य लौकिकदीपाद्वैलक्षण्यं दर्शयति प. श्वभिः श्लोकैः, तत्रादौ लौकिकदीपस्येवाधारपात्रतैलवर्तिकज्ज- लाद्यपेक्षाभावरूपं लौकिकदीपाद्वैलक्षण्यं क्रमेण चतुर्भिः पादै- रेतस्य दर्शयति। नाधारपात्रमादत्ते न च तैलमपेक्षते । न वर्तिकामाश्रयते न धत्ते कज्जलं मनाक् ॥१॥ नाधारेति । हे शिष्य अयं बोधदीपो लौकिकदीप इव तैल- संग्रहार्थ मृण्मयपात्रमिवाऽऽधारपात्रमाध्रियन्ते तैलं वर्तिका दी- पश्च यस्मिन्निति आधारस्तद्रूपं पात्रं लौकिकं मृण्मयादिपात्रं नादत्त इति स्पष्टमेव वस्तु तस्तु लौकिकदीपे तैलवर्तिदीपाधार- भूतं मृण्मयादिपात्रमिव समष्टिव्यष्ट्यन्तःकरणमेव श्रुतिभिः प्र- तिपादितमात्माश्रयरूपं तदेव विषयस्नेहस्य तैलस्थानीयस्पाइ- बोधदीपपञ्चकम् । ५४१ कारस्य वर्तिस्थानीयस्य चाधारत्वात्पातीति व्युत्पत्या बोधदी- परक्षकलेन लोके प्रतीतत्वादाधारपात्रमिव नन्नापेक्षते स्वस्थित्य- थं नेच्छति बोधदीपस्यानारोपितत्वेन ससत्वादन्त:करणस्य तु आगेपितत्वेन मिथ्यात्वाच्च बोधादीपान्तःकरणयो धाराधेयत्वं पारमार्थिकमिति नाधारपात्रापेक्षा स्वतःसिद्ध स्वयंप्रकाशवो- धदीपस्यीत भावः, ननु तर्हि आधारपानापेक्षाभावेनाधारपात्रा- नङ्गीकारे दीपापेक्षितं तैलं तज्जीवनभूतं क स्थाप्यमित्याशक्य त- दपेक्षाप्येतस्य नास्तीसाह न चेति, हे शिष्य अयं बोधंदीपो लो- किकदीप इव तैलं तिलानां विकारस्तैलोमत्युपलक्षगणं घृनादिस्ने- हानां तैलघृतादिस्नेहद्रव्यं दीपजीवनकारणं किमपि स्वस्य नि- त्यत्वात्स्वयंप्रकाशवाच नापेक्षते स्वजीवनाय नेच्छनि वस्तुतस्तु बोधदीपस्य स्वतःस्वयंप्रकाशनित्यपूर्णस्वरूपत्वात्स्नेहविषया- णामपि मिथ्यात्वेन तैलस्थानीयस्य तत्स्नेहस्यापि मिथ्यात्वे सति बोधदीपजीवनहतुत्वाभावाच्च न बोधदीपस्य विषयस्नेहतैलापे- क्षेति भावः, ननु तर्हि बोधदीपस्य तैलापेमाभावे कथं वर्तिका- श्रयेण तिष्ठेदित्याशय तदपेक्षापि लौकिकदीपस्येव तस्य ना- स्तीत्याह नेति, हे शिष्य अयं बोधदीपो लौकिकदीप इव वर्तिका कार्पासादिद्रव्यजन्यां सूत्रादिरूपांदशां नाश्रयते सत्यस्वयंप्रका- शरूपस्य प्रबोधदीपस्य विकृतत्वेन मिथ्यारूपवर्तिकायाश्चाश्रयाश्र- यित्वाभावान्नाश्रितो भवतीति स्पष्ट एवार्थः, वस्तुतस्तु लौकिकदीपे तैलाकर्षणं वर्तिकयैव दीपकृतमनुभूयते यथा तद्वत्लस्थानीयस्य विषयस्नेहसम्बन्धस्यात्मन्यप्रतीयमानत्वाच्च बोधदीपस्याहङ्कारव- श्रयत्वं प्रतीतमपि अहङ्कारस्य कल्पितत्वेन मिथ्यात्वाद्वोध- दीपस्य च तत्कल्पनाधारत्वेनाकल्पितत्वेन च सत्यत्वाच्चोभयो- नाश्रयाश्रयित्वं पारमार्थिकमिति नापेक्षा बोधदीपस्य वर्तिका- बोधसारे। श्रयण इति भावः, इदानी कज्जलाभावयत्त्वेन लोकदीगतोस्य बो- धस्य वैलक्षण्यं दर्शयति न धत्त इति, हे शिष्य अयं बोधदीपो मनागीपदपि कज्जलं काय लौकिकदीप इव न धचे न धारयनि कार्यजनकवर्तितैलादिद्रव्याभावादेवास्य कज्जला- धारकत्वमिति स्पष्टार्थ एव, वस्तुतस्तु कजलं कुत्सितजलं डलयोरभेदाज्जडमविद्यातकार्यरूपं मनागीपदपि तत्वतो न धत्ते न बिभर्तीति व्याख्येयम् ॥१॥ अन्यच्च वैलक्षण्यमाह न तापकर्ता कस्यापि वायुना न च कम्पते । न विनाशमवाप्नोति तमः सर्व निहन्ति च ॥२॥ न तापकर्तेति । कस्यापि पुरुषस्य तापकी तापस्य कर्ता लौकिकदीप इव कारको न भवति स्वतः सुखरूपत्वेन तापत्र. परहितत्वादन्येषामपि तापत्रयनिवर्तकत्वाच्चेति भावः, किञ्च वायुना पवनेन न च नैव कम्पते चलात लौकिकदीप इवाव दीपे वायोरसत्वादस्य स्थिरत्वाच्च न चञ्चलत्वमिति भावः, , किश्चा- यं दीपो विनाशं लय लौकिकदीप इव नावामोति न मा. मोति नियस्वरूपत्वादस्येति भावः, नाशसाक्षिणो नाशाङ्गीकारे असाक्षिकस्य नाशस्याप्यमिद्धेरिति च भावः, किश्च लौकि- कदीपस्तु किञ्चिद्गृहैकदेशवर्ति तमो निहन्ति नाशयति न तु सर्वम्, अयं दीपस्तु सर्व गृहान्तवर्ति बाह्य च। वास्तवार्थेऽन्तःम- त्यकैतन्यावरकं तमोऽज्ञानं बाह्यं च तत्त्वंपदार्थयोरक्याना- नरूपं घटादिपदार्थाज्ञानरूपं च निहन्ति नाशयति ॥२॥ वैलक्षण्यान्तरमा । एकरूपाः प्रकाशन्ते सर्वे भावा यदर्चिषा ।

बोधदीपपञ्चकम् । यदने न प्रकाशेत च्छाया माया स्वरूपिणी ॥ ३ ॥ एकरूपा इति । यदर्चिपा यस्य दीपस्यार्चिषा ज्वालया प्रकाशेनेसर्थः, सर्वे समस्ता भावाः पदार्था एकरूपा एकमेक- मेव रूपं येषां ते तथोक्ताः सन्तः प्रकाशन्ते दीप्यन्ते लौकिक- दीपप्रकाशेन तु अनेकरूपा घटपटादयः प्रकाशन्त इति लौ- किकदीपादतिलक्षण्यमस्येति भावः, अन्यदपि वैलक्षण्यान्त- स्माह यदग्र इति, लौकिकदीपस्य पुरतोधः स्थिना च्छाया दृ- श्यते तद्वद् यदने यस्य बोधदीपस्याग्रे पुरो देशे माया स्व- रूपिणी माया सदसयामनिर्वचनीया जगजननमामीरूपा शक्तिरेवाऽऽत्मनः पृथगमत्त्वेन जगजननानुपपयाख्ययुक्त्या- नुमेया माया सैव स्वमसाधारणं रूपं विद्यतेऽस्याः सा त. थोक्ता छाया प्रतिभा न प्रकाशेत नैव प्रतीयेताऽतो लौकि- कदीपादस्येदमपि वैलक्षण्यान्तरं ज्ञेयम् ॥ ३ ॥ अन्यदपि वैलक्षण्यं दर्शयति । यश्चक्षुषामविषयो रूपाकारविर्जितः । मनसोप्यप्रकाश्यश्च रूपाकारप्रकाशकः ॥ ४ ॥ य इति । यो बोधदीपो लौकिकदीप इव चक्षुपां लोक- चक्षुरिन्द्रियाणामविषयो विषयो गोचरो न भवति कुत इत्यत आह रूपेति, रूपाकारविवर्जितो रूपं स्वरूपमाकारश्चाकृति- स्ताभ्यां विवर्जितो हीनोऽतश्चक्षुर्विषयो न भवतीति भावः, ननु चक्षुषोऽविषयत्वेपि स्वर्गादिवत्परोक्षत्वेन मनोविषयत्व- मस्यास्त्वित्याशयाह मनस इति, आकाररहितत्वादेव मनसो. प्यन्तःकरणस्यापि अप्रकाश्यः प्रकाशाविषयो भवति स दीपः, ननु रूपाकाररहितत्वेनास्य चक्षुर्मनसोर्विषयत्वाभावे कथं स-

बोधसारे।
द्भावोवगन्तव्य इत्याशायाह रूपेति, अयं प्रकृतो दीपो रूपा-
कारप्रकाशको रूपाणि नीलपीतादिभेदभिन्नानि आकाराश्चा-
कृतयस्तेषां प्रकाशकः प्रकशयिताऽस्ति सर्वरूपाकारज्ञानान्य-
थानुपपत्याऽस्य दीपस्य सत्वमभ्युपगन्तव्यमिति भावः ॥ ४ ॥
वैलक्षण्यान्तरनिरूपणपूर्वकमस्य दीपस्य स्थानं दर्शयति ।
कदाचित्वचिदेवासौ तात केनापि हेतुना ।
प्रवर्तते बोधदीपः सतां हृदयमन्दिरे ॥ ५॥
इति श्रीनहारकृती बोधसारे बोधदीपपञ्चकं चतुर्विशं ॥ २४ ॥
कदाचिदिति । कदाचित्कस्मिन्नपि समये लौकिकदीप
वगतवर्नमानभविष्यकालः परिच्छेदकोस्य दीपस्य प्रवृत्ते स्ति
कालस्यास्माद्दीपात्पृथक्सत्त्वाभावादिति भावः, कचिदेव क-
स्मिंश्चिदाधारेऽस्य दीपस्य सर्वाधारवादाधारनिरपेक्षत्वा-
दाधारस्य च कल्पितत्वेनानिर्वचनीयत्वेन कचिदित्युक्तं, हे
तात हे शिष्य केनापि हेतुना केनापि कारणेनास्य दीपस्य
सर्वहेतुत्वात्स्वतो निर्हेतुकत्वाच्च स्वतः परिपूर्णत्वेन प्रयोज-
नाभावादीप न कारणं निश्चेतुं शक्यमतः केनापीत्युक्तं कार-
णनियमाभावोस्येति भावः, असायुक्तलक्षणो बोधदीपो ज्ञा-
नस्वरूपः सर्वजगत्प्रकाशकत्वाद्दीप इव दीपः सतामात्मज्ञान-
वतां जीवन्मुक्तानामित्यर्थः, हृदयमन्दिरे हृद् 'नेह नानास्ति
किञ्च ने'सादिश्रुतिभिः सर्वद्वैतवाधो द्वैतापवाद इयर्थः, तम-
यते प्रकाषायतीति हृदयं सर्वद्वैतवाधपूर्विकाहंब्रह्मास्मीनाकारा
प्रमा रूपा वृत्तिस्तदेव मन्दिरं गृहं तस्मिन् प्रवर्तते तिष्ठति
एतदीप न पारमार्थिकमुपलब्धिस्थानत्वेनोक्तं ज्ञेयम् ॥ ५॥
इति श्रीनरहरिशिष्यदिवाकरविरचिनायां बोधसारार्थदीप्ती
बोधीपपञ्चकार्थप्रकाशश्चतुर्विधः ॥२४॥

उपदेशषोडशी। " अथोपदेशषोडशी । एवं दीपरूपेणात्मस्वरूपं निरूप्येदानी शिष्याय तदेवोप- देष्टुमुपदेशषोडश्याख्यं षोडशश्लोकं प्रकरणमभिदधान आह । अथोपदेशषोडशी। अथेति । अथ बोधदीपपञ्चकनिरूपणानन्तरमुपदेशषोडश्यु- पदेशस्यादेशस्य प्रतिपादिका षोडशी षोडशश्लोकानां समाहा: ररूपैतन्नामकं प्रकरणमित्यर्थः, निरूप्यत इतिशेषः, तत्र ताव- दादौ स्वरूपस्थिरतायां दुःसपाधत्वबुद्ध्या शिष्यचित्ते तदनादरं लक्ष्यीकृत्य तत्रादरं विधातुं तस्याः सुसंपाद्यत्वं संभावयति । युक्त्यैव वृत्तिभिः पूर्ण रिक्तीकुरु मनो घटम् । न कश्चिद्भविता तात ब्रह्मणा पूरणे श्रमः ॥ १ ॥ युक्त्यैवेति । हे नात हे शिष्य वृत्तिभिर्जगद्विषयचिन्तनरूपा- भित्तिभिः पूर्ण भरितं मनोघट मनोऽन्तःकरण मेव घटः कुंभस्तं युक्त्यैवान्वयव्यांतरकाख्ययुक्तिभिरेव घंटे घटाका. रवृत्तौ च त्तिताद्वषयमभ्यत्कासम्यक्त्वरूपस्फुरगोन मनसोन्वयः, तत्रैव मनसि पटतद्वृत्त्योपतिरेकः, एव पटे तदाकारवृत्तौ च त- सम्यक्त्वासम्यक्त्वस्फुरणरूपेण मनसोन्वयः, तत्रैव मनांस घट- विषयकत्तेतिरेकः, एवमन्वमव्यातिरेकाख्ययुक्त्यैव रिक्तीकुरु उगवहारकालेऽरिक्तमपि बुध्यारिक्तत्वं तस्यानुभव ततस्त- स्मिन् मनोघंटे ब्रह्मणाऽपरिच्छिन्नेनात्मवस्तुनाऽऽकाशस्थानी. येन घट इव पूरणे पूरणक्रियायां तत्र घट आकाश इस सर्व दा स्थितत्वात्कश्चित्कोपि स्वल्पोपीयर्थः, श्रमः खेदो न भविता नैव भविष्यति अतो ब्रह्मणि चित्तस्थैर्य सुकरमेवेति भावः॥१॥ ननु चिन्तारूपत्तिभिः पूर्ण मनः कथ रिक्त कार्य तत्राइ । , ५४६ बोधसारे। त्यज चिन्तां महाबुद्धे भज निश्चिन्ततासुखम् । त्वयार्जितामिमां चिन्तां वद कोन्यः परित्यजेत् ॥२॥ त्यजेति । हे महाबुद्धे महत्यपरिच्छिन्ना ब्रह्माकारा बु- दिर्मतिर्यस्य स तथोक्तस्तस्य सम्बोधने हे महाबुद्ध सं चिन्ता जगद्विषयको चिन्तनरूपां वृत्ति सज जहि, ननु जगद्विषयक- चिन्तात्तित्यागे मनसो जीवनोपायः क इत्याशायाह भजेति, हे शिष्य त्वं निश्चिन्ततामुखं निर्गता निवृत्ता चिन्ता चिन्त- नरूपा वृत्तिर्यस्मात्ततादृशं त्रिपुटीरहितं ब्रह्ममुखं तस्य भाव- स्तत्ता तज्जन्यं यत्सुखं विद्यानन्दापरपर्यायं भजाऽङ्गीकुरु अय. मेव मनसो जीवनोपाय इति भावः, ननु चिन्तासागोतिदुष्करः स एव मम कथं स्यात्तत्राह त्वयेति, हे शिष्य त्वया भक्ता- ऽर्जितां सम्पादितामिमां प्रसिद्धां चिन्तां जगद्विषयचिन्तन- रूपां वृत्तिमतस्तामन्यस्त्वत्तोन्यो भिन्नः कः पुरुषः परि- सजेजह्यात्तद्वद ब्रूहि न कोपीत्यर्थः, लोकेपि अन्यसम्पादित- गृहादेरन्यत्याज्यत्वादर्शनादिति भावः ॥२॥ ननु तर्हि चिन्तासाग उपायो वक्तव्य इयाशा त- मेव दर्शयति । चिन्तनीयं त्वया वस्तु चिन्तारोगस्य भेषजम् । अथ वा तात चिन्ताख्यं रोगमेव परित्यज ॥ ३ ॥ चिन्तनीयमिति । हे शिष्य त्वया भवता चिन्तारोगस्य चिन्ता जगद्विषर्याचन्तारूपा वृत्तिरेत्र रोगो रुज्यते पीड्यते- ऽनेनेति रोगः पीडाहेतुळधिःखपदत्वात्तस्य निवर्तक- त्वानेषजमौषधमिव वस्तु कालत्रयाबाध्यत्वात्पारमार्थिकस- द्रूपं ब्रह्म चिन्तनीयं स्मरणीयं तेन चिन्तारोगनिहत्तेः स ए.

उपदेशषोडशी
वोषाय इति भावः, तदर्शक्तावुपायान्तरमाहाथवेति, हे तात
हे शिष्य अथवा तदसम्भवे सतीत्यर्थः, वं चिन्ताख्यं चिन्ते-
त्याख्याता यस्य स तथोक्तस्तं रोगमेव व्याधिमेव केवलं प.
रित्यज सर्वदाऽसत्त्वबुद्ध्या पश्य ततोपि स निवृत्तः स्या-
दिति भावः ॥ ३॥
ननु चिन्तारोगनिवर्तकमात्मवस्तुचिन्तनं कर्तुमशक्यं चि-
तारोगयागोपि द्वितीय उपायोऽस्वाधीनत्वादुष्कर एवेत्याश-
कमानं प्रत्याह ।
वर्धिता वर्धते चिन्ता त्यक्ता नश्यति सत्त्वरम् ।
ईदृशेनापि रोगेण दुर्धियो मरणं गताः ॥ ४ ॥
वर्धितेति । चिन्ता जगद्विषयकस्मृतिरूपा वृत्तिर्धिता
वृद्धि प्रापिता सती वर्धत एधते सा यक्ता हाता सती सत्वरं
शीघ्रं नश्यति नष्टा भवति चिन्ताया वृद्धिक्षयोत्पत्यादिभावा
न चिन्ताधीनाश्चेत्यत्वेन जडत्वात्तस्याः किं तु चेतनाधीना
एक त इति भावः, इदं चागोपालं प्रसिद्धमेव तथा सतीदृशे-
नापि स्वाधीनेनापि रोगेण चिन्ताख्यव्याधिना मरणमसदा-
काररूपं देहात्मत्वमेव मरणं नाशं प्राप्ता ये ते दुर्धियो विष-
यविदूषितमतयो ज्ञेयाः, यथा लोके प्रज्वलितगृहे स्वनिर्गमाय
मार्गे सत्यपि धनपुत्रवस्त्रादिलोभक्षितमतयस्तत्रैव मरणं पा-
नुवन्ति सदिति भावः ॥ ४ ॥
एवं चिन्तात्यागे स्वाधीनतां प्रदश्येयानी विषयलोभग्रस्त-
बुद्धेस्तत्राप्यशक्तिमालक्ष्य तचिन्तायां दोषं दर्शयति ।
कर्कशा कलहा कृत्या वन्ध्या नित्यममङ्गला ।
त्यज्यतां कामना चण्डी भुज्यतां मुक्तिसुन्दरी ॥५॥

५४८ बोधमारे कर्करोति । कर्कशाऽकोमलस्पर्शा तत्पर्शनान्त:करणे दुः- खानुभवाद, कलहा कालरूपा कलहमूलत्वात, कृत्या मारिका स्वस्पृष्टपुरुषस्य मृतिहेतुत्वाद्, बन्ध्या निष्फला सुखस्वरूपपुत्राज नकत्वात, निसं सर्वदाऽमङ्गला न विद्यते मङ्गलं शुभं यस्याः सा- तथोक्ताऽभव्हेतुत्वाद्, एतादृशी कामनेच्छारूपा चण्डी क्रो- धवती जी त्यज्यतां विसृज्यतां ततः किंकर्तव्यमित्यत आह मुक्तीति, मुक्तिसुन्दरी मुक्तिर्मोक्षरूपा सुन्दरी मुखरूपत्वा कमनीयरूपा स्त्री भुज्यतां भोक्तव्या मुक्तिसुन्दरीति विशेषणेन पूर्वाण्येर विशेषणानि विपरीततयास्यामपि योज्यानि तद्यथा, अकर्कशा मुखस्पर्शाऽकलहा कलहनिवर्तकाऽकृत्या मृतिहेतुभूता न भवति अवध्या मुखपुत्रजनयित्री निस मङ्गला शोभना- Sकामना कामनानिवतकेति ॥५॥ मुक्तिमुन्दरीभोगो येन साधनेन साध्यते तत्पाण्डित्यं साधयितुं तत्रैव रुच्युत्पादनाय तत्र सुखाधिक्यं सम्भावयति । जनैः पण्डित इत्युक्तः प्राप्नोषि परमं सुखम् । मनसा कर्मणा वाचा भव पण्डित एव तत् ॥ ६ ॥ जनैरिति । हे शिष्य त्वं जनैलॊकैः स्वतोऽपण्डितोपि मू- दैः पण्डित इत्युक्तः पण्डितो विद्वानित्येवमुक्तः कथितः स. परममुत्कृष्टं सुखं शर्म प्राप्नोषि प्राप्तो भवसि किं तत इ- माह मनमति, पण्डितनापमात्रेण सुखोत्पत्तेरनुभूययमानत्वात्त. चत: कारणान्मनसाऽहं पण्डितो भवामीति संकल्परूपेणान्त:- करणेन कर्मणा समदर्शनरूपक्रियया वाचा समदृष्टिप्रतिपादक- पचनेनापि एभिः कृता पण्डिन एवं विद्वानेव भव भूयाः, पण्डि- तनाममात्रेण मूढजनैः कल्पितेनापि स्वस्मिस्तदभावेपि तत्त्व- निश्चयेन भ्रान्तहानेन मुखपतीतो पारमार्थिकपाण्डित्यसंपादने उपदेशषोडशी। ५४९ स्वस्मिन्परमार्थसुखाविर्भावः स्यादियन कः सन्देह इति भावः ॥६॥ इदानीं विधिमुखेन प्रसक्षमेव बोधयति । नित्यमेव स्फुरद्रूपो ननु त्वं चित्स्वरूपतः । स्फूर्तिमूर्तेस्तवैवेयं का चित्स्फूर्तिरिदं जगत् ॥७॥ नियोति । हे शिष्य व साधनसम्पन्नो बोधाधिकारी नि- समेव सर्ववैव स्फुरद्रूपः स्फुरत्स्वयं प्रकाशमान रूपमाकृतिर्यस्य स तथोकोऽसि, ननु ममस्वरूप स्वयं प्रकाशमानमिति कुतः सम्भाव्यमित्यत आह चिदिति, चित्स्वरूपतश्चिन्मावस्वरूपत्वाद्, एवं स्वस्फूर्तिरूपत्वे हेतुमुक्त्वा तत्र स्फूर्तिरूपत्वसम्भावनायैव ज- गत्स्फूर्त्यन्यथानुपपया स्फूर्तिरूपत्वमेव दृढयति स्फूर्तिमूर्तेरिति, स्फूर्तिमूर्तिः स्फूर्तिः प्रकाश एव मूर्तिराकृतिर्यस्य तस्य तव भ. चत इदं दृश्यं जगद्विश्वामियं प्रयक्षा काचिदनिर्वचनीया स्फू- तिरेव प्रकाश एव त्वत्स्वरूपस्फूर्यभावे जगत्स्फूरणमेव न स्याद्, 'यदेष आकाश आनन्दो न स्यात्कोह्येवान्यात्कः प्राण्यादी'सा. दिश्रुतेः, आसमन्तात्काशते प्रकाशत इत्याकाशः स्वयंप्रकाशमान इति व्युत्पत्या स्वयं प्रकाशत्वप्रतिपादनादिति भावः ॥ ७ ॥ ननु मम स्फूर्तिरूपत्वे मुक्त एवाई किं मम ज्ञानेनेत्याशय ज्ञानं विना भ्रमनितिर्नेत्याशयेनाह । भास्वतो मम भामात्रमिति ज्ञाते भ्रमे गते । क द्वितीयं क संसारः क माया तत्कृतं किमु ॥८॥ भास्वत इति । भास्वतः प्रकाशस्वरूपस्य मम में भामात्रं- प्रकाशमात्रं स्वरूपमस्तीत्येव ज्ञाते बुद्धे सति तेन च ज्ञानेन- भ्रमे चिज्जडरूपे जगतिः स्वात्मतादात्म्यप्रतीतिरूपे भ्रमे भ्रा- न्तौ गते नित्ते सति ततो द्वितीयमज्ञानं जगत्कारणं क कुत्रा- बोधसारे। , ऽऽत्मनि स्वयंप्रकाशे नैव सम्भवतीत्यर्थः, स्वस्मिन्नपि असद्रूप- त्वान्न सम्भवति निराधारत्वादसत्वाच्च तन्नास्त्येवेति भावः, त दभावे च किं स्यादित्यत आह केति, संसारः संसरणं तत्कार- णस्यैवाज्ञानस्याभावात्कारणं विना प्रतीयमानस्यापि संसारस्य वन्ध्यापुत्रादेरिवामत्त्वात्म नात्मनि प्रकाशरूपे सम्भाव्य इति भावः, नापि स्वस्मिन्नपि सम्भवति अतो निराधारत्वादसत्वाच न कापीयर्थः, अतस्तत्कारणरूपा मायापि नैव कापि सम्भवती. त्याह के ति, माया सदसयामनिर्वचनीया जगजननशक्त्यपर- पर्याया कार्यासवेन तत्कारणभूतशक्तेरप्यसत्वात् क कुत्र न कुत्रापीत्यर्थः, न कारणस्य कार्याधारतमनुत्पन्नत्वेन पृथगसत्त्वेन च कार्यस्य, नात्माधारत्वमपि तस्याः सदसतोराधाराधेयत्वायो. गाद्यतः सा कापि न सम्भवतीति भावः, अत एव तत्कृतब- न्धनस्याप्यभाव एवेत्याशयेनाह तत्कृतमिति, तत्कृतं तस्या मा. यायाः कृतं कार्यमावरणविक्षेपादिक बन्धनं किमु किम्भवति न किममीत्यर्थः । 'तुच्छमिदं रूपमस्येति श्रुत्या तुच्छत्वप्रतिपाद- नात्तुच्छमेव तन्त्रातिशयमात्मनि जनयितुं क्षममिति भावः ॥ ८ ॥ ननु स्वप्रकाशात्मनो जाड्यमहानुभूयमानत्वात्कथं चि- न्मात्रज्ञानेनात्मनि प्रतीयमानजाड्यानरास इत्याशय सर्वत्र ज- डचैतन्ययोरुभयोरपि प्रतीयमानत्वात्तव चिन्मात्रात्मरूपविचि- न्तनेन तदितरजडानादरे कृते जाड्यनिरासः स्यादित्याशयेनाह । ज्ञत्वं कर्तृत्वभोक्तृत्वे जडचैतन्यदृष्टयः । स्फुरणानि स्वकीयानि मणिभूत्वा विलोकय ॥९॥ सत्वेति । त्वं कर्तृत्वभोक्तृत्वे जडचैतन्यदृष्टयो शत्वं ज्ञा- नित्वं ज्ञानेन्द्रियवृत्तिमत्वमित्यर्थः, कर्तृत्वं कर्मेन्द्रियवृत्तिमत्वं, भो. कृत्वं भोगक्रियाफलवत्वम्, एता अन्याश्च जडचैतन्यदृष्टयो जई उपदेशषोडशी। जाड्यमुपाधिश्चैतन्यं च चिदाभासरूपं तदुभयमिलिता हु. टयो दृश्यन्तेऽनुभूयन्ते स्वस्वविषया आभिस्ता दृष्टयो वृत्तय इ- त्यर्थः, सन्ति तासु वृत्तिषु स्वकीयानि स्वस्य चिद्रूपस्यात्मनो धर्मभूतानि स्फुरणानि ज्ञानानि, एवं केवलं तान्येव त्वं मणि- यथा माणिक्यादिः स्वयंप्रकाशोन्यदीपादिप्रकाशापेक्षारहित एव स इव भूत्वा चेत्यरहितश्चिन्मात्रो भूत्वाऽवलोकय पश्य जडं व्यावर्त्य सर्वत्र चिन्मात्ररूपं स्वात्मधर्ममेवानुभवनस्थित- शेत्स्वचिन्मात्रत्वानुभवो जाड्यनिरामश्च भवेदिति भावः ॥९॥ उक्तात्मचिन्मात्रे स्वात्मस्थैर्यायोपायं दर्शयति द्वाभ्याम् । परस्परमविज्ञाता जाग्रत्स्वप्नसुप्तयः । त्वया तिस्रः स्त्रियो भुक्तास्तुरीयां सुन्दरी भज॥१०॥ परस्परमिति । त्वया भवता परस्परमन्योन्यत्राविज्ञाता नावलोकिता जाग्रत्स्वमसुषुप्तय उक्तलक्षणा जाग्रदवस्था स्व- नोप्युक्तलक्षण उक्तलक्षणा मुषुप्तिश्चैतास्तिस्रस्त्रिसङ्ख्याकाः स्त्रियो वनिता इव भुक्ता अनुभूना अत इदानीं तुरीयां तु- र्याख्यां मुन्दरीं कमनीयरूपां केवलमुखरूपत्वात्तामेवान्या अ. नाहत्य भजानुभव ।। १० ।। ननु जाग्रत्स्वमसुप्त्याख्यास्तिस्रः स्त्रियोनुभवगोचरा: सर्व- दैव भवन्ति अतस्तत्रैव वृत्तिप्रवाह स्वाभाविकः, तुर्यायां तु स न स्वाभाविकस्तस्या अनुभवागोचरत्वादतस्तं स्वाभाविकमनुभवं परित्यज्य ताश्च परित्यज्य स्वाभाविकेन दृत्तिप्रवाहेन कथं साऽनुभाव्या स्यादित्याशक्य गृहस्थानां परस्त्रीभोगसुखे सुल- भेपि नरकप्राप्तिहेतुत्वज्ञानेन तत्परित्यज्य स्वस्त्रीभोगजन्यमुख- स्यौचित्यं विहितत्वं पारलौकिकसुखहेतुत्वमिव जाग्रत्स्वममु- षुप्त्याख्यस्त्रीषु परस्त्रीत्वाहुःखहेतुत्ताच संसारनरकमाप्तिकारण- बोधसारे। त्वाच्च तद्भोगमुखमनादृत्य तुरीयस्वस्त्रीभोगमुख एवादरो वृ. तिरोधेन विहितत्वान्मुक्तिमुखहेतुलाच विधेय इत्याशयेनाह । जाग्रत्स्वमसषतानि पुनस्तानि त्वमीक्षसे तुरीयं तव धामैव न तत्किमिति पश्यसि ॥ ११ ॥ जाग्रांदांत । हे शिष्य त्वं भवाजाग्रत्स्वमसुषुप्तानीन्द्रि- यैरपिलब्धिर्जागरितमित्युक्तलक्षणा जाग्रवस्था, स्वमा जाग्र- संस्कारवासनावासितबुद्धौ प्रातिभासिकविषयप्रतीतिरित्युक्त- लक्षणा स्वप्नावस्था, सुषुप्तं विषयेन्द्रियैः सहान्तःकरणस्य त- कारणाज्ञानमात्राकारेणावस्थानं सुषुप्तिरित्युक्तलक्षणा सुषुप्त्य- वस्था, एतानि पराहणीतुल्यानि प्रकृतिकार्यत्वप्राधान्यात्- पुनवारं वारमीक्षसे पश्यति परस्त्रीतुल्यानां तेषां भोगः पर- स्त्रीभोग इत्र निन्धत्वात्याज्य एवातस्तत्रासक्तिः किमर्थ तवेति किञ्च तुरीयं तुरीयावस्थानं तवैव स्वयंप्रकाशमुखस्य प्राधान्यादाम निवासस्थानमस्ति तत्तुरीयं किमिति कि- मर्थ न पश्यसि नानुभवसि तुर्यमुखभोगस्तु स्वस्वी भोग इव विहितत्वेनानिन्द्यत्वात्सुखरूपताच स एवावश्यं कर्तव्य इति भावः ॥ ११ ॥ ननु मुखमाधनत्वेन प्रतीते द्वैतजात आसक्तिर्योग्यवेत्या- शट्य तत्रत्यमुखस्याभासमात्रत्वात्तुर्यस्थसुखस्य च पारमार्थि- कताच तत्र स्थैर्ये यत्सुखं तदेव सुखं नान्यत्रेत्याशयेनाह । मा धाव सुखहेतोस्त्वं धावतां न सुखं सखे सुखरूपे निजे रूपे सुखं तिष्ठ सुखी भव ॥१२॥ मा धावति । हे शिष्य हे मित्र अनेन सम्बोधेन स्ववचने विश्वासः कर्तव्य इति सांचत, त्वं भवानमुखहेतोः मुख शर्म भावः, उपदेशषोडशी। . तदेव हेतुः प्रयोजनं तस्मात्तन्निमित्तमियर्थः, मा धाव शीघ्रमा- गच्छ कुत इयत आह धावतामिति, हे मित्र धावतां सर्वत्र शीघ्र भ्रमनां न सुखं न शर्मेति स्पष्टमेवागोपालम् , अतस्तदर्थ न भ्रम- तमिति भावः, तर्हि किं कर्तव्यं येन मुख स्यात्तत्राह सुख- रूप इति, मुखरूपे सुखं शर्मैव रूपमाकृतिर्यस्य तत्तथोक्तं त. स्मिन् निजे स्वीये रूप आकारे मुखं यथा स्यात्तथा तिष्ठ वस ततश्च त्वं मुख्याऽऽनन्दी भवाऽऽस्नेति कृपयाऽऽशीर्वादो दत्तो गुरुणेन ज्ञेयम् ॥ १२ ॥ एवं शिष्य स्वरूपे स्थिरतां कर्तुं प्रबोध्येदानीं तत्रैव स्थिर कर्ते शिष्यमज्ञानामभिसारिका नायिकां प्रकल्प्य स्वात्मानं- दूतीरूपं च प्रकल्प्य शृङ्गार श्लोकैः प्रबोधयितुमाह । अत्र श्लोकाः । अत्रेति । अस्मिन्नेवार्थे स्वात्मनि स्थैर्यमंपादनबोधन इत्य. र्थः, श्लोकाः शृङ्गाररसाभासा: श्लोकाः पद्यानि सन्तीति शेषः, तान्यत उच्यन्त इति योज्यं, तत्रादौ वरयोग्यवयसि स्त्रीणां वरं विना स्थितिर्न भवति तद्वदधिकारिदेहप्राप्तौ ज्ञानेमूनामपि आत्मस्वरूपमाप्तिं विना स्थानमनुचितमेवेत्याहार्धेन । वरयोग्यासि कल्याणि न स्थास्यसि वरं विना । वरणीयो वरस्तादृग्यो भवेदजरामरः ॥ १३ ॥ वरयोग्यति । लौकिकार्थस्तावद् हे कल्याणि हे शोभने अ- नेन सम्बोधनेन मातृपितृकुलस्य वक्ष्यमागोपदिष्टाचरगोन शो भनकारित्वे योग्यत्वं दृत्या नायिकायामस्तीति नायिकायाः भू- चिनं, त्वमिदानी वरयोग्या वरः पतिस्तस्मिन्योग्गा पुरुषण सह भोगसुखे योग्यवयस्का तरुणीत्यर्थः, आँस विधमेऽतः ।

बोधसारे।
पितृगृहे पूर्ववदितः परं वरं विना स्वं वृणुतेऽङ्गीकरोत्यसौ वरो
भर्ता तं विना-ऋते पतिरहिनेत्यर्थः, न स्थास्यसि नैव स्थिता
भविष्यसि अत इतस्ततः केन चित्पुरुषेण सह रमणे मातृपितृ-
कुलदूषणं स्यादतो भवसा तादृक्तादृशगुणवान्दरः पति-
वरणीयो विवाहेनाङ्गीकर्तव्यः कीदृग्गुणवानित्यत आह य
इति, यः पतिरजरामरो न जरा वार्धक्यं यस्य स चासौ न
विद्यते मरो मरणं यस्य स तथोक्तो भवेत्स्या दृद्धपुरुषविवाहे
स्त्रकामापूरणेन परपुरुषेण रमणात्तदेव पूर्वोक्तसुभयकुलदूषणं
सन्मृतौ च तदेवेति पुरुषायुःपर्यन्तं वार्धक्यमरमरहितपतिवरण
पितृमातृकुलभूषणं स्वस्योभयकुलजानां च शोभनर्माप स्यादिति
भावः । प्रकृतार्थस्तु हे कल्याणि कल्याणं मङ्गलमस्या विद्यते
सा तथोक्ता तस्याः सम्बोधने हे कल्याणि अनेन सम्बोधनेन
त्वयि मङ्गलं भवितेति स्वचितं, त्वं भवतीदानी वरयोग्या वृ-
णोति व्यामोति जगदिति वरं ब्रह्म त्वं तस्मिन्सर्वश्रेष्ठे योग्याही-
ऽसि भवसि अतः परं ब्रह्मभाव विना-ऋग्ने न स्थास्यमि
नैव स्थातुं शक्ष्यसेऽत उपास्यब्रह्मभावं परोक्षत्वकृतकत्वादि-
दोषदुष्ट मा वृणु ताम्वरस्तादृशगुणा वान्वरः श्रेष्ठो ब्रह्मभावो
वरणीयः साक्षादहंब्रह्मास्मीतिगुरूपदेशपूर्वमहावाक्यार्थविचा-
रद्वाराङ्गीकार्यः कीदृश इसत आह य इति, यो वरो ब्रह्मभा.
वोऽजरामरो न विद्यते जरावार्धक्यविकारो यव स तथोक्तो-
ऽमरश्च न विद्यते मरो मरणं यत्र स तथोक्तो जरामरणहीन
इसर्थः, भवेत्स्यात्तादृश इयर्थः । ज्ञानेनैव ब्रह्मभावोगीकार्यों न
तूपासनेन तस्य कृतकत्वेन विनाशित्वादिति भावः । अत्रोक्तं
विद्यारण्य स्वामिभिः।
'ध्यानोपादानकं यत्तद्ध्यानाभावे विलीयत' इति ॥१३॥

उपदेशषोडशी। ननु भवदुपदिष्टवरवरणे मम मनः प्रत्तमपि पुनः पुनस्ततो निवर्तते निश्चयन तत्रैव न प्रवृत्तं भवति अतो मनसस्तत्रैव प्रवृ- तो क उपायो विधेय इत्याशक्य वैषयिकस्त्रीपुरुषभोगादिवा- ताश्रवणेनैव कामवृद्धेः प्रत्यक्षसिद्धत्वात्तस्याश्च पुरुषभोगे प्र- वर्तकत्वानाशवा श्रवणमेवोपाय इत्याशयेनाह । न शृणोषि वरं यावत्तावत्ते कम्पते मनः । पश्चान्महोत्सवैर्भद्रे स्वामिनं त्वं वरिष्यसि ॥१४॥ नेति । हे भद्रे हे कल्यागि यावद्यत्कालपर्यन्तं त्वं भवती वरं पति पत्या सह सम्भोगवा मियर्थः, पतिसम्भोगसुखज्ञामु- खान शृणोषि न श्रोत्रेणावधारयसि तावत्तत्कालपर्यन्तं ते तव मनश्चित्तं कम्पते चलति तत्र प्रवृत्तिनिटत्तिरूपं चा. चल्गं भजत इत्यर्थः, पश्चात्तच्छ्वणानन्तरं महोत्सवैर्महान्तो दीर्घाः फलपर्यन्तमनच्छिना इत्यर्थः, ये उत्सवाः संकल्परूपा उल्लासा इयर्थः, तैः कृत्वा स्वामिनं पतिं वरिष्यसे परिणष्य- सि अतस्तद्गुणतत्सम्भोगवा श्रवणमेव पसा सह भोगेच्छाज- ननेन तत्र प्रवर्तकत्वादुपायो नान्य इति भावो लोकप्रसिद्धेर्थे । प्रकृतेर्थे तु, ननु त्वदुपदिष्टवरब्रह्मभावाङ्गीकरणे प्रवृत्तमपि मे मनः पुनः पुनस्तनो निवर्तते तत्रैव दृढनिश्चयेन न प्रवर्ततेऽत- स्तत्र दृढनिश्चयेन तत्प्रवृतौ क उपाय इत्याशय 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इसादिश्रुत्या जीवब्रह्मैक्यज्ञानसाधनभूतविचाराधिकारिणस्तत्माथमिक साधन- भूतत्वेन श्रवणविधानात्तज्ज्ञगुरुमुखात्तच्छ्रवण मेवोपायो नान्य इत्याशयेनाह नति, हे भद्रे इति सम्बोधनेन वक्ष्यमाणोपायेना- वश्यं कल्याणं तव भावनि सुचितं, त्वं यावद्यत्कालपर्यन्तं वरं श्रेष्ठं जीवब्रह्मैक्यं महावाक्यद्वारा गुरुमुखेन न. शृणोषि नाव:

बोधसार धारयसि श्रोत्रेण तावत्तकालाय ते तव मनोन्तःकरणं क- म्पते चलति असम्भावनादिदोषैश्वलायमानं भवति पश्चाच्छ्र- वणे कृते तत्परिपाकादनन्तरं महोत्सवरतीय हर्षेः म्वामिन स्वं ब्रह्माभिन्नं प्रसगात्मानमामनोति उपदिशति असौ स्वामी महावाक्यार्थों गुरुवाक्यार्थो वा तं वरिष्यसि अङ्गीकरिष्यसि अखण्डकरसमात्मानं ब्रह्माभिन्नमगीकरिष्यसीति भावः ॥ १४ ॥ ननु पतिसम्भोगादिवाया अश्रवण इदानीं तद्भोग- च्छावत्या मया किङ्कार्य तत्राह । परेण पुरुषेणाद्य रमस्व वचनान्मम । सखि पश्चात्स्वतश्चित्तं कुरु यत्राधिकं सुखम्॥१५॥ परेणेति । हे सखि हे मित्र अनेन सम्बोधनेन स्ववचने विश्वासः कर्तव्य इति सूचितं, त्वमयेदानी तद्गुणश्रवणात्पूर्व वर्तमानसमय इत्यर्थः, मम त्वत्कल्याणेच्छोम वचनाद्वाक्येन त्रि- श्वासं कृत्वा परेण स्वमातृपितृकुलजेष्वतिपरिचयात्तदन्यकुल. जत्वेन परिचयाभावादन्यतया मतेन पुरुषेण स्वपतिना सह रमस्व क्रीडस्व पश्चादनन्तरं यत्र पत्या सह रमणे वा भ्रात्रा. दिभिः सह रमणेऽधिकमुत्कृष्टं मुखं शर्म भवति तत्स्वतो ज्ञात्वा तत्र चितं मनः कुरु कर्तव्यं । प्रकृतेर्थे तु स्वात्मसाक्षा- कारहतुभूतदृढश्रवणाभावे ततः पूर्व मया ब्रह्मसुखमाप्तीच्छा- वता तत्माप्तये किं कर्तव्यं तत्राह परणेति, हे सखि हे मित्र अनेन सम्बोधनेन तव मद्वचने विश्वासः कर्तव्य इति सूचितम्, अधेदानी ब्रह्माभिन्न स्वसाक्षात्कारहेतुभूतश्रवणात्पूर्व मम त्व- गुरोर्मे वचनाद्वाक्यान्मद्वचने विश्वासं कृत्वेत्यर्थः, परेण का. र्यकारणातीतेन पुरुषेण परिपूर्णस्वरूपेणात्मना सह रमस्व क्री. जस्व भूमशब्दवाच्यमुखरूपब्रह्मणा सहकीभृय रमस्वेत्यर्थः, प- उपदेशषोडशी। वादनन्तरं यत्र ब्रह्मा भेदे भेदे वाऽधिकमुत्कृष्टं सुखं शर्मा- ऽस्ति तज्ज्ञात्वाऽधिकं मुखं यव स्यात्तत्र स्वतः स्वयमेव चित्तमनुसन्धानरूपामन्तःकरणवृत्ति कुरु स्थापय स्वात्ममाक्षा- कारात्पूर्व गुरुवचने विश्वास एवं विहित इति भावः ॥ १५ ॥ इदानीं मदुपदिष्टकार्यविलम्बनायुषो व्यर्थमेव व्ययो भवे- दतः शीघ्रमेव पतिभोगे प्रतिबन्धभूत लजात्यागेन पत्या सह भोगं कर्तु त्वरयति । यातं दिनं न पुनरेति नवं वयस्ते लज्जां विहाय भज तं रमणीयरूपम् । बाले परः पुरुष एष यदा समेतः स्वर्गेण किं किमु तदा नृसुखेन वा ते ॥ १६ ॥ यामिति । हे बाल स्वहिताज्ञानित्वादज्ञे हे नवयोवने यात- मतीतं दिनमह इत्युपलक्षणं क्षणलवादेः पुनर्भूयो नैति नायाति किञ्च ते तव नवं नूननं वयस्तारुण्यावस्थाऽस्ति अतस्तव ल- जाचिक्यमस्मिन्वयसि योग्य पुरुषभोगप्रतिबन्धकमतस्तो लज्जां त्रपां विहाय परित्यज्य रमणीयरूप रमणीगं सुन्दरं रूपं यस्य तं सुन्दराकृतिमित्यर्थः, भजाङ्गीकुरु । ननु पति भोगे कः मुखा- तिशयो येन तत्र प्रवृत्तिर्मया कर्तव्येत्यत आह बाल इति, पर- स्त्वन्मातृपितृकुलभिन्नकुलजत्वावपरिचयाभावाचान्यत्वेन मतः पुरुषो नर एष पुरोवी पर्यङ्के त्वविच्छया स्थितो यदा य- स्मिन्समये समेतस्त्वया सह मिलितो भवेत्तदा तस्मिन्समय ते तव नृसुखेन सार्वभौमसम्पत्तिमुखेन किं भवति न किमपी. सर्थः, वा यद्वा स्वर्गेण स्वर्गसुखेनापि ते तव किमु किं भवति न किमपीयर्थः, ते उभे आप पतिसम्भोगसुखादति तुच्छे इत्यर्थः, बोधसारे। " अतस्तव पतिसम्भोगजमुखेनैव कृनार्थता स्यादिति भावः । प्रल- तार्थे तु इदानीं विलम्बनेन मुक्तिसुखानुभवं विना व्यर्थमायु- Wयो न कार्य इत्याशयेनाह यानमिति, दिनमित्युपलक्षणं निमे- पादेर्दिन निमेषादिः कालो यातं गतं पुनर्भूयो नैति नायाति किश्च ते तव वयधातोगत्यर्थत्वाद्ये गत्यर्थास्ते ज्ञानार्था इत्युक्ते. यो ज्ञानं नवं नूननं कोमलमियर्थः, जातिकुलधर्मेषणावत्त्वात्सं- शौषितत्वाच्च ज्ञानस्य कोमलत्वमिति भावः, अतो लज्जां त्रपा लोकलजां विहाय परिसज्य तं कार्यकारगातीतं रमणीयरूपं रन्तु योग्यं रमणीयं सुखम्वरूपत्वाद्रूपमाकृनिर्यस्य तं तथोक्तं भज सोहमस्मी सेवमभेदेनाङ्गीकरु, ननु तादृशपरमात्मस्वरूपस्य सोह- मिसभेदेनाङ्गीकारे कः मुखातिशयो येन तत्रैव मया प्रवर्तितव्यं तत्राह बाल इति, हे बाले नवयौवने पूर्णविवेकाऽभावाद्वाललं ज्ञेयम् , एष मदनुभवेन प्रत्यक्षः परः कार्यकारणातीतः पुरुषः प. रिपूर्ण आत्मा यदा यस्मिन्काले समेतम्त्वया प्राप्तोऽभिन्नत्वेना- ङ्गीकृत इत्यर्थः, तदा तस्मिन्समये ते तव नृसुखेन 'युवा स्यात्मा- धुयुवा अध्यापक इत्यादिकया 'स एको मानुष आनन्द'इत्यन्तया श्रुखा प्रतिपादितेन मामुषसुखेन किं किंप्रयोजनं न किमपीत्यर्थः, किश्च स्वर्गेण गन्धर्वानन्दादिहैरण्यगर्भानन्दान्तेन सुखेन 'ते ये शतं मानुषा आनन्दा इत्यादिकया 'स एको ब्रह्मण आनन्द'इत्य- न्तया श्रुत्या प्रतिपादितेन शर्मणा वाऽपि किमु किं प्रयोजन न किमपीत्यर्थः, सर्वसुखानामात्मसुखपतिविम्वत्वादात्ममुख- माप्तौ तेषां तुच्छत्वाञ्च न तेत्रपेक्षोदयो ज्ञानिनामिति भावः॥१६॥ । इति श्रीन बोध० उपद शषोडश्यर्थप्रकाशः पञ्चविंशः ॥ २५ ॥ अथ ब्रह्मचर्चाविंशतिः।। एवमुपदेशषोडशी निरूप्येदानी शिष्यस्य ब्रह्मस्वरूपं बो-

चर्चाविति।
धयितुं ब्रह्मचर्चाविंशत्याख्यं विंशति श्लोकं प्रकरणमभिधास्यन्नाह ।
अथ ब्रह्मचर्चाविंशतिः ।
अथेति। अथोपदेशषोडशीनिरूपणानन्तरं ब्रह्मचर्चाविंशति-
ब्रह्मण श्चर्चा कथनं यत्र विंशती मा तथोक्ता वितिविंशति-
श्लोकात्मकं प्रकरणं निरूप्यत इति शेषः, तत्रादौ ब्रह्मचर्चायां
रुच्युत्पादनाय ब्रह्मचर्चामाहात्म्यनिरूपणपुरःसरं तनिरूपणं
भतिजानीते।
अर्चालक्षाधिका प्रोक्ता चचैव परमात्मनः ।
अतः शिष्यप्रबोधाय ब्रह्मचर्चा निरूप्यते ॥१॥
अर्चेति । परमात्मनः परः कार्यकारणातीतो य आत्मा
तस्य चर्चेव संवाद एवाऽर्चालक्षाधिकाऽर्चानां पूजानां यल्लतं
नियुनं ततोप्याधिकोत्कृष्टा लक्षशब्दोत्रानन्त्यपरोऽनन्तपूजनफल-
दात्रीत्यर्थः, प्रोक्ता कथिता क्षणामकं ऋतुशतस्यापी ति श्रुतेः,
आत्मचिन्तनक्षणस्यानन्तयज्ञफलप्राप्तिकारणत्वप्रतिपादनात
चिन्तनं विना तत्कथनासम्भवस्य 'यन्मनमा ध्यायति तद्वाचा
वदतीनि श्रुत्या प्रतिपादनादिति भावः, यतः कारणादतो हेतो.
शिष्यप्रबोधाय शिष्यस्य जिज्ञासोः प्रबोधाय ज्ञानाय ब्रह्मचर्चा
ब्रह्मणो देशकालवस्तुकृतपरिच्छेदरहितस्यात्मवस्तुनश्चर्चा सं-
वादो वचनविलास इयर्थः, यत्र प्रकरणे सा निरूप्यते ॥ १ ॥
तत्रादौ ब्रह्मणः सर्वाधारत्वनिरूपणपूर्वकं तन्निराधारत्वं
घास्तवं दर्शयति ।
आधारः सर्वभूतानां तस्याधारो न कश्चन।
निराधारस्वरूपं चन्नास्ति ब्रह्म तदा क्वचित् ॥ २॥

बापसारे। आधार इति । सर्वभूनानां सर्वाणि समस्तानि यानि भुता- नि वियदादीनि तत्कार्याणि च ब्रह्माण्डादिकीटकान्तानि प्राणिजानानि तेषामाधार आध्रियतेजस्मन्निसाधाराऽधिष्ठा- नं ब्रह्मास्ति अधिकरणे घञ् तस्य सर्वाधारस्य ब्रह्मण आधा- रोऽधिष्ठानं सपब्रह्मणो भिन्नस्यामत्त्वाद्ब्रह्मणोप्यानन्त्येना- धेयत्वायोगाच कश्चन कोपि न न विद्यते, ननु ब्रह्मणो निग- धारवे ब्रह्म कापि नेत्येव प्रयोगः स्यात्ततश्च ब्रह्म कापि नास्ती. त्यर्थत्वेन ब्रह्मणः शून्यत्वमायातमित्याशङ्कते निराधारेति, ब्रह्म देशकालवस्तुकृतपरिच्छंदशून्यं वस्तु निराधारस्वरूपं निर्गतो निवृत आधारोऽधिष्ठानं यस्य तत्तादृशं स्वरूपं यस्य तत्ताह. शाकारमस्ति चेद्यदि स्यात्तदा तस्मिन्पो ब्रह्म देशाधपरि- च्छिन्न वस्तु कचित्कुत्रापि नास्ति न विद्यते ब्रह्मण शून्यत्वं सिद्धमिति भावः ॥ २॥ न ब्रह्मणोऽसत्त्वं तत्कार्यस्य जगनो निरधिष्ठानत्वेनासत्त्वे सत्त्वभानानुपपत्तेरियेवं समाधत्ते । अधिष्ठानं विना कार्य न तिष्ठति कदाचन । सर्वाधिष्ठानरूपं हि कथं ब्रह्म न कुत्र चित् ॥३॥ अधिष्ठानमिति । हे शिष्य ब्रह्मणः सर्वाधिष्ठानस्यास. वाङ्गीकारेऽधिष्ठानमाधारं विना-ऋते कदाचन कस्मिन्नपि काले कार्य लोकप्रसिद्ध घटादिरूप कल्पितं रज्जुसादिकमपि स्वाधारं मृदादिकं रज्ज्वादिकं च वर्यित्वेत्यर्थः, न तिष्ठति नैव स्थितिं प्राप्नोतीति लोके प्रसिद्धमेव तर्हि तब्रह्म सर्वाधारस्व- रूपं सर्वस्य जगत आधारोऽधिष्ठानं स्वमसाधारणं रूपमाकारो यस्य तत्तथानस्ति तवसत्त्वे निरधिष्ठानस्य जगतोप्यसत्त्वेन ब्रह्मचर्चाविंशतिः। ५६१ भानं स्यातत्तु मत्ादिति प्रतीयतेऽनो ब्रह्म देशाद्यपरिच्छिन्नं वस्तु कुत्र चिताप न नास्ति न विद्यते कथं केन प्रकारेण न कथ- मपि कि खम्त्येत्यर्थः ॥ ३ ॥ ननु तर्हि जगदाधारत्वेन खतो निराधारलेन च जगतो वैलक्षण्यातब्रह्म जगतः पृथगेवास्त्विांत शङ्कते । सर्वस्मात्तत्पृथग्ब्रह्म त्विति वक्तुं न शक्यते । यदात्मकमिदं सर्व सर्वस्मात्तत्पृथकथम् ॥ ४ ॥ मम्मादिति । तद्ब्रह्म सर्वाधारं स्वतो निराधारं चेत्येतैर्लक्ष- गैलक्षितं ब्रह्म देशकालवस्तुकृतपरिच्छदशुन्यं वस्तु सर्वस्मात्स- मस्तजगतः पृथग्मिन्नमस्तीति चेविति तु एवमपि वर्ल क- थितुं न शक्यते नैव शक्यं जायते कुत इयत आह यदिति, इदमे- तत्सर्व समस्त जगद्यदात्मकं यौवात्मा स्वरूप यस्य तत्तथो- क्तमस्ति तद्ब्रह्म ततो जगतः पृथक्त्वेनाविद्यमानात्मर्वस्मात्सर्व- शब्दवाच्यात्समस्तजगतः पृथग्मिन्नं कथं केन प्रकारेण स्यान कथमपीत्यर्थः, वस्तुगनभेदीस देस्त प्रतियोगिवस्तुसत्व- सापेक्षत्वाब्रह्मगतभेदामाद्धर्जगतः पृथगसत्तादिति भावः ॥४॥ ननु तर्हि सर्वाभिन्नत्वाब्रह्म सर्वरूपमस्त्विति शङ्कते । सर्वस्मादपृथग्ब्रह्म वक्तुमित्यपि नार्हसि । सर्वस्मात्पृथगेवेदमनभतं महर्षिभिः ॥ ५ ॥ सर्वस्मादिति । सर्वस्मात्समस्ता जगतो ब्रह्म देशाद्यपरिच्छिन्नं वस्तु अपृथगभिन्नं सर्वरूपमेयर्थः, अस्त्विति चेद्याद वाम त- ही येवमपि वक्तुं कथितुं नाहीस योग्यो न भवमि कुन इयत आह सर्वमादिनि, इदं ब्रह्म महर्षिभिर्महान्नोऽतिश्रेष्ठाः य ऋषयः सत्यवादिनस्तैः सर्वस्मात्ममस्ताजगनः स्वतोऽसत्त्वेन लक्षितात्पृ. ।

बोधसारे थगेव भिन्नमेव सत्वेनानुभूतं ज्ञातमतस्तत्सर्वरूपं वक्तुं न श- क्यामति भावः ॥ ५ ॥ ननु तात्मरूपं तब्रह्मास्त्विति शङ्कते । आत्मरूपमिदं वाच्यमिति तर्कस्त्वया कृतः । अनात्मरूपं किं न्वस्ति स्वात्मरूपं यतस्त्विदम्॥६॥ आत्मरूपमिति । हे शिष्य इदं प्रस्तुतं ब्रह्मात्मरूपमात्मैव रूपमाकारो यस्य तत्तथोक्तं वाच्यं वक्तव्यमस्ति चधदीत्येवं तर्कोऽनुमानं त्वया भवता कृतः साधितो यदि तर्हि तदा ऽना. स्मरूपं न विद्यत पात्मा तात्विक रूपमाकारो यस्य तत्तथोक्तं किं नु किं वस्तु निश्चितं वितर्कितं वाऽस्ति विद्यते हि प्रसिद्ध विवेकिनाम, इदं प्रकृतं ब्रह्म देशाधनवच्छिन्नं बृहदात्मरूपमा- स्मा व्यापक रूपमाकृतिर्यस्य तत्तथोक्तं स्यात्तद्वदेति शेषः, ब्र- ह्मणो व्यतिरिक्तस्य सर्वस्यानात्मत्वेनामत्त्वात्तनिषेधकात्मश- ब्दार्थयोरपि तथावानात्मशब्दवाच्यत्वं ब्रह्मणो वास्तवं म. न्तव्यमिति भावः ॥६॥ ननु तर्हि वेदान्ते 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते, ज्ञात्वा देवं सर्वपाशापहानिः, तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेऽयनायेत्यादिश्रुतिशतैब्रह्मज्ञानस्यैव मोक्षहेतु. त्वेन मुमुक्षूणां विहितत्वप्रतिपादनाद्ब्रह्मणो ज्ञानविषयत्वम्- स्त्विति शङ्कते। ज्ञानस्य ब्रह्म विषय इति वक्तुं न शक्यते । ज्ञानस्वरूपं तद्ब्रह्म ज्ञानस्य विषयः कथम् ॥ ७ ॥ ज्ञानस्येति । ब्रह्म देशाद्यपरिच्छिन्नमात्मवस्तु ज्ञानस्य ज्ञायते वेद्यतेऽननांत ज्ञान साभासान्तःकरणत्तिरूपं तस्य विषयो ब्रह्मचर्चाविंशतिः। गोचरोऽस्तु एवं वदसि चेयदि तौति एवमपि वक्तुं क- थितुं न शक्यते न युज्यते कुत इत्यत आह ज्ञानस्वरूपमिति, त- स्मकृतं ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु ज्ञानस्वरूपं ज्ञानं चेतनं तदेव स्वमसाधारणं रूपमाकृतिर्यस्य तत्तथोक्त. मस्ति अतस्तब्रह्म ज्ञानस्य साभासान्तःकरणत्तिरूपचेतनस्य विषयो गोचरो ज्ञेयमित्यर्थः, कथं केन प्रकारेण भवति लोके- पि ज्ञानविषयो घटादिः स्वतो जडत्वेन प्रसिद्धो ब्रह्मणस्तु चि न्मात्रत्वेन स्वयंप्रकाशरूपत्वान ज्ञानविषयत्वमिति भावः ॥७॥ ननु तर्हि ब्रह्मणो ज्ञानस्वरूपत्वमेवास्त्विति शङ्कते । ज्ञानस्वरूपमेवास्तु ब्रह्मेति यदि मन्यसे । ज्ञेयमेव न यत्रास्ति ज्ञानवं तस्य कीदृशम् ॥८॥ ज्ञानेति । ब्रह्म प्रकृतं देशादिकृतपरिच्छेदशून्यं वस्तु ज्ञान- स्वरूपं ज्ञानं चेतनं तदेव स्वमसाधारणं रूपमाकारो यस्य त. तादृशमस्तु भवतु इसेवं यदि यहि मन्यसेऽङ्गीकुरुषे तर्हि तदपि न सम्भवतीयाह क्षेयमिति, यत्र ब्रह्मणि ज्ञेयमेव ज्ञानविषयो ज. गदेव नास्ति न विद्यते तस्य ब्रह्मगो शेयविषयाभावाजानत्वं ज्ञानरूपत्वं कीदृशं कथं स्यादिति शेषः, ज्ञेयसापेक्षं ज्ञानं लोके प्रसिद्ध तर्हि ज्ञेयाभावे ब्रह्मणो ज्ञानरूपत्वं नैव सम्भवतीति भावः ॥८॥ ननु तर्हि तद्ब्रह्म ज्ञात्रेवस्त्विति शङ्कते । ज्ञातस्वरूपमेवास्तु ब्रह्मेति यदि कल्प्यते । स्वयंप्रकाशरूपे हि ज्ञानस्याश्रयता कथम् ॥ ९ ॥ सात्रिति । तत्प्रकृतं ब्रह्म देशकालवस्तुपरिच्छेदशून्यं वस्तु ज्ञा- तृस्वरूपं साता साधिष्ठानबुद्धिस्थचिदाभासो ज्ञानेन्द्रियैः सहितः बोधसारे। स एव स्वमसाधारणं रूपमाकारो यस्य तचादृशमस्तु भवतु इ- त्येवं यदि यहि कल्प्यते निरूप्यत तर्हि तन्न भवति कुन इत्यत आह स्वयमिति, हि प्रसिद्धं विदुषाम, स्वयप्रकाशरूपमवेद्यत्वे म. त्यपरोक्षवं स्वप्रकाशत्वमित्युक्तलक्षण स्वयंप्रकाश ज्ञानाविष. यत्वेनापरोक्षतया प्रकाशमान रूपमा निर्यस्य तस्मन्ब्रह्मणि ज्ञानस्य साभासान्तःकरणत्तिरूपस्याश्रयताऽऽश्रयत्वं ज्ञान- क्रियावत्वमित्यर्थः, कथं केन प्रकारेण सम्भाव्या सम्भावना हो न कथमपीत्यर्थः ॥ ९ ॥ ननु तर्हि 'सर्वं खल्विदं ब्रह्मे नि श्रुतेः सर्वरूपत्वगेव भू- योप्यस्त्विति ब्रह्मणः शङ्कने । सर्वरूपमिदं ब्रह्म वक्तुं कः शक्नुथादिति । सदैकरूपमेवेद यतः शाश्वतमुच्यत॥ १० ॥ सर्व रूपमिति । इदं प्रकृतं ब्रह्म देशाद्यपरिच्छिन्नं वस्तु मर्वरूपं मर्वमनेकरूपं जगदेव रूपमाकृतिर्यस्य तत्तथोक्तमस्तु भवतु इति चेदित्येवं वक्तुं कथितुं कः पुरुषः शक्नुयात्समर्थों भवेन को- पीत्यर्थः, कुत इत्यत आह सात, इद प्रकृतं ब्रह्म मदा नित्यमेवै- करूपमेकं स्वगतमजातीयविजातीयभेदरहितं सचिदानन्दधन- मस्ति 'सर्व खोल्वदं ब्रह्मति श्रुत्या मर्वपदेदंपदयोर्वाच्या शप- रित्यागेनाविरुद्धेन ब्रह्मपदार्थेन सह सामानाधिकरण्येनैक्यबो- धनादिति भावः, कुत एकरूपत्वमित्यत आह यत इति, यता कारणाछाश्वत इत्युच्यते कथ्यते नित्यत्याने कलासम्भवा- दिति भावः ॥ १०॥ ननु तर्नेकरूपत्वमेव तल्लक्षणमस्त्विति शङ्कते। एकरूपमिदं ब्रह्म न वक्तुमिति शक्यते ।

ब्रह्मचर्चाविंशतिः। निर्गुणं तत्परं ब्रह्म स्यादेकत्वं यतो गुणः ॥११॥ एकरूपमिति । इदं प्रकृतं ब्रह्म देशकालवस्तुकृतपरिच्छेद- शून्य वस्तु एकरूपमेकमेकसंख्या रूपमाकृतिर्यस्य तत्तथाक्तमस्तु भवतु इति चेन कुन इयत आह वक्तमिति, इसेवं वक्त कथितुं न शक्यते नैव युज्यते कुन इत्यत आह निर्गुणमिति, त- सकृतं ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु परं कार्य- कारणातीतमत एव निर्गुणं निर्गना नित्ता गुणा यस्मा- सतथोक्तमस्ति, अस्तु निर्गुणं नस्यकत्वं कुतो नेत्यत आह स्या- दिनि, यनो यस्मात्कारणादेकत्वमेकस्य भाव एकत्वं गुणः स्याद्गुगो भवेद्गुणकार्यभिसर्थः, तार्किकैप संख्यायागुणेषु गृहीतत्वादिति अतो नैकरूपं ब्रह्मेति वकं युक्तमितिभावः॥११॥ ननु तर्हि निर्गुणत्वमेव लक्षणमस्तु ब्रह्मण इति शङ्कते । निर्गुणं तत्परं ब्रह्म ननमेतदसांप्रतम् । अनन्तेनैव गीयन्ते ह्यनन्ता एव तद्गुणाः ॥१२॥ निर्गुणमिति। तत्प्रकृतं ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु परं कार्यकारगाभ्यां परमता निर्गुणं निर्गता निवृत्ता गुणाः सत्वरजस्तगोभिधा यस्पात्तनथाभुत मस्तु भवतु, गु- णकार्याण्यप्येकवादीनि गुगशब्देन ग्राबाणीति चेन्नेत्याह नू- नामति, एतद्ब्रह्मणो निर्गुणतप्रतिपादनमसांअन्तमममअसं नूनं निश्चयेनास्ति कुत इत्यत आहानन्तेनेति, अनन्तेनैव न निद्यतेन्तो यस्य तेनैव शेषेणाहङ्कारेगा वा वेदेनवा 'अन्ना वै वेदा'इति वचनाद्रेदस्यानन्तत्वं, शेषस्य तु प्रसिद्ध ना. मैत्रानन्त इति, अहमस्त्वनन्तत् ज्ञानं विना नाशाभावादिति ज्ञेयम्, तद्गणाः कीदियो गुणकार्याणि सृष्ट्यादयश्च तस्य

बोधसारे।
ब्रह्मणो गुणा अनन्ता एव नान्तः संख्यापरिच्छेदो येषां
ते नथे क्ता एव गीयन्ते वय॑न्तेऽतोनिर्गुणत्वपि ब्रह्मणो
वक्तुमयुक्तमिति भावः ॥ १२ ॥
ननु नईि केनापि लक्षणेन वचनाविषयत्वेऽवस्तुवेनाम-
श्वमेव ब्रह्मणोस्तु इति शङ्कते ।
ब्रह्म नास्तीति को ब्रूयाद्भातीदं यस्य सत्त्वतः ।
तयस्ति ब्रह्मेत्यपि नो नातः सत्ता पृथग्यतः ॥१३॥
ब्रह्मति । ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु वच-
नाविषयसानास्ति न विद्यत इति चेन्नेसाहेतीति-इसे ब्रह्म
नास्तीति वचनं कः सन्नसन्चा पुरुषो यात्कथयेत्सबिति
चेन ब्रह्मणोऽमते तम्यतिरिक्तस्य वक्तुरप्यमख स्या'नान्यो-
तोस्ति द्रष्टे' यादिश्रुया कर्तुब्रह्मनो भिन्नसत्त्वाभावप्रतिपादनाद-
तो ब्रह्मभिन्नत्वेनासिद्धस्य वक्तुब्रह्मासत्त्वेन तदसत्वस्यापि
सिद्धेन तादृशवकुब्रह्मासत्त्ववचनसिद्धिरिति भावः, द्वितीये
तु स्पष्टैव साऽतो ब्रह्मणोऽसत्त्ववचनं परास्तमेव तदेव स्पष्टं
निरूपयति भातीति, यस्य ब्रह्मणः सच्चतः सत्यत्वेनेदं व-
तृवचनाच्यादित्रिपुटीरूपं जगद्भाति प्रकाशते तदसत्त्वे व-
तुरेवासत्त्वापत्तिरिति भावः, ननु तर्हि घटोस्तीत्यत्र घटस्य स-
नाश्रयत्वमित्र ब्रह्मास्तीति प्रयोगे ब्रह्मणोपि सत्ताश्रयत्वमेवास्तु
इति शङ्कते तीति, तर्हि तदा ब्रह्ममत्त्वासिद्धावियर्थः, ब्रह्मदे-
शकालवस्तुकृतपरिच्छेदशून्यं वस्तु प्रस्तीति सत्ताश्रयमेवास्तु
इति चेन्नेसाहेतीति-इत्यपि एवमपि ब्रह्मणः सत्ताश्रयत्व-
मपि नो नास्ति कुत इत्यत आह नेति, यतो यस्मात्कारणा-
दतोऽस्माद्ब्रह्मणः पृथग्भिन्ना सत्ता न नास्ति अतो ब्रह्मणः
सत्ताश्रयत्वं नेति भावः ॥ १३ ॥

५६७ ब्रह्मचर्चाविंशतिः । ननु सत्तादिना केनापि रूपेण वचनाविषयत्वे ब्रह्मणः खरूपाभाववत्त्वेन शून्यतास्त्वियाशङ्कते । अस्वरूपमिदं ब्रह्म विद्वानिति कथं वदेत् । स्वस्वरूपमिदं ब्रह्म प्रत्यक्षमनुभयते ॥ १४ ॥ अस्वरूपमिति । इदं प्रकृतं ब्रह्म देशकालवस्तुकतपरिच्छेद- शून्यं वस्तु अस्वरूपं न विद्यते स्वरूपमाकृतिर्यम्य तत्तथोक्त- मस्तु इति चेनेत्याह विद्वानिति, विद्वाज्ञानी चेत्तीत्येवं कथं केन प्रकारेण वदेढ्यानैव वदेदित्यर्थः, अज्ञानी बदले- तद्वाक्यस्योन्मत्तालपिनतुल्यत्वेनाप्रामाण्यमेवेति न नद्विचारः कर्तव्यतया विहित इति भावः, ननु ब्रह्मास्तरूपमिति कुनो- न ब्रूयात्तत्राह स्वस्वरूपमिति, इदं प्रकृतं ब्रह्म देशकालमस्तुक- तपरिच्छेदशून्यं वस्तु स्वस्वरूपं स्वस्यात्मनः स्वममाधारणं र. पमाकृतिर्यस्य ततथोक्तं, यद्वाऽऽत्मनः स्वपदवाच्यस्य सं स्वीयमभिन्नमियर्थः, रूपं रूप्यते प्रकाश्यते जगदनेनेति रूपं प्रकाशो यस्य तत्तथोक्तं त्वंपदलक्ष्यप्रत्यगात्माभिन्नं ब्रह्मेत्यर्थः, इत्येवं प्रत्यक्षमपरोक्षतया ज्ञानिनाऽनुभूयते साक्षामायने म ज्ञानी-अस्वरूपं ब्रह्मेति कथं ब्रूयान्नैव ब्रूयादिनि योज्यम् ॥१४॥ ननु तर्हि स्वस्वरूपत्वेनैव वचनविषयं ब्रह्म भवतु इति शङ्कने । स्वस्वरूपमिदं ब्रह्म चेदित्यप्ययथातथम् । तत्र को न स्वशब्दार्थों यत्स्वरूपमिदं भवेत्॥१५॥ स्वस्वरूपमिति । इदं ब्रह्म प्रकृतं देशकालवस्तुकृतपरिच्छेद- शून्य वस्तु ज्ञानिनास्वखरूपत्वेनानुभूयमानत्वात्स्वसरूपं स्तम्या- स्मनः स्मरूपं स्वगभिन्नममाधारण रूपमाकृतिर्यस्य तत्तथोकं ताशरूपेणैव वचनविषयमस्तु भवतु इति चेन्नेत्यानीति, ।

बाघसार। . इत्यपि एवमपि वचनं वाक्यमयाथतथं न यथातथं सत्यं त. दयथानथं यथार्थ न भवतीत्यर्थः, कुत इत्याशमा तदेव कथ- यितुं गुरुः पृच्छति तीत, तत्र ब्रह्मस्वस्वरूपामात वाक्य-इद प्र. कृतं ब्रह्म देशाधपरिच्छिन्नं वस्तु यत्स्वरूपं यस्य स्वशब्दार्थ स्य स्वरूपमसाधारण रूपमाकारो भवेत्स्यात्स स्वशब्दार्थः स्व. शब्दस्याऽर्थो वाच्यः पदार्थो को नु ब्रह्म वा तद्भिनो वा, नायः पुनरुक्तिदोषापत्तेः, भिन्नश्चेत्तस्यासत्त्वनै वैय्यांपत्तेः, अतः स्वशब्दार्थस्याभावात्स्वस्वरूपत्वेनापि ब्रह्मणो विषयत्वमय- थार्थमति भावः ॥ १५ ॥ इदानी पूर्ववादी स्वशब्दार्थ साधयति । परव्यावर्त्तकं स्वत्वमिति चेत्तर्हि तहद । यत्र स्वपरभावो न ब्रह्म किं तत्र नास्ति हि॥१६॥ परेति । परव्यावर्तकं परस्यान्यस्य व्यापतकं निषेधक स्वत्वं स्वशब्दार्थो भवतीत्येवं चेद्याद बदसि तर्हि तदा तस्मि- पक्षे यदहं पृच्छामि तदुत्तरं वद कथय तमेव प्रश्नमाह यत्रेति, यत्र यस्मिन्काले स्वपरभावो मूच्छानिद्राममाधिषु स्वस्य स्वश- ब्दस्य परव्यात्तिरूपः परस्य च स्वव्यात्तिरूपो भावोऽर्थ- सत्ता न न विद्यते तत्र काले निद्रादौ स्वपरार्थमन्चौ च ब्रह्म देशकालवस्तुकृतपरिच्छेदन्शूयं वस्तु नास्ति किं न विद्यते किं किन्तु विधन एवे यर्थः, हि प्रसिद्भमेतद्विदुपामित्यर्थः, मूर्छानि- द्राममाधिमृत्युस्वपरमन्धिसत्ताप्रकाशान्यथानुपपत्या तत्रापि ब्रह्मसत्ताभ्युपगमेन परव्यावर्तकस्य स्वशब्दस्य ब्रह्मवाचकत्ता- नुगपत्तिरािते भावः ॥१६ ननु तर्हि 'अहमस्मि ब्रह्मा हमस्मी'सादिश्रुतिषु ब्रह्माहंश- - ब्रह्मचर्चाविंशतिः। ब्दयोः सामानाधिकरण्यस्योपलभ्यमानतादहमर्थत्वं ब्रह्मणो- स्त्विति शकते। अहमेव परं ब्रह्म 'ब्रह्माहमिति च श्रुतेः । कथं भवेदहंब्रह्माहन्ता यत्र न विद्यते ॥ १७ ॥ अहमेवेति । 'अहमस्मि,ब्रह्माहमस्मीतिश्रुतावहब्रह्मपदयो। सामानाधिकरण्यदर्शनादहमेवाहंशब्दार्थ एव ब्रह्म देश- कालवस्तुकनपरिच्छेदशून्यं वस्तु प्रकृतं भवतु इति चेन्न कुत इत्यत आह कमिति, अहं दृश्याहमर्थभूतं ब्रह्म दे- शकालवस्तुकृतपरिच्छेदशून्यं वस्तु कथं केन प्रकारेण भवेत्स्यान्न कथमपीत्यर्थः, अपरिच्छिन्नादृश्यसपपरिच्छिन्न- दृश्यासदूपयोः परस्परविरोधादिति भावः, तदेव स्पष्टमाहा- हन्तेति, यत्र प्रकृते ब्रह्मणि अहन्ताऽहमो भावोऽहन्ताऽहं- पदवाच्याहङ्कारसता न विद्यते नास्ति 'अहं ब्रह्मेति श्रुतावई- पदवाच्यांशत्यांगन लक्ष्यांशस्य ब्रह्मत्वेन प्रतिपादनाधतोऽहमर्थ- बाधन बाधसामानाधिकरण्यमस्ति न तु मुख्यार्थिसामानाधिकर- ण्यमतो नाहन्ताया ब्रह्मरूपत्वमिति भावः ॥ १७॥ ननु तर्हि त्वं ब्रह्मात श्रुतेस्त्वमर्थत्वं स्वसनिकृष्टस्वभिन्न स्व- प्रत्यक्षलक्षणत्वमस्तु ब्रह्मण इति शङ्कते । त्वमेव तत्परं ब्रह्म 'त्वं ब्रह्मेतिश्रुतिर्जगौ। त्वमेव तत्कथं ब्रह्म त्वंता यत्र न वर्तते ॥ १८ ॥ समेत । यतः 'त्वं ब्रह्मेति श्रुतिस्त्वंपदार्थस्य स्वप्रत्य- सस्वसन्निहितस्वाभिलक्षणस्य ब्रह्मशब्दार्थस्य च देशकालव- स्तुकृतपरिच्छेदशुन्यचिदानन्दघनरूपस्य सामानाधिकरण्ये. शैक्पं जगौ कथितवती तत्तवरत्वमेव वंपदार्थ एव. स्त्रप्रत्यक्ष- बोधसारे स्वभिन्न स्वसनिकृष्टत्वलक्षणलक्षितः पदार्थ एच ब्रम देशाद्यप- रिच्छिन्नं परं कार्यकारणातीतं वस्तु भवेत्स्यादित्येवं शङ्काम- गीकृसोत्तरमाह त्वमेवेति, तत्मकृतं ब्रह्म देशकालवस्तुकृतपरि- च्छेदशून्यं वस्तु स्वमेव त्वमर्थमेव स्वसनिकृष्टस्वप्रयक्षस्वभिन्न- त्वलक्षणमेव कथं केन प्रकारेण भवेत्स्यान कथमपीयर्थः, स्वा- भिन्नदेशकालवस्तुक्तपरिच्छेदशुन्यस्य ब्रह्मशब्दार्थस्य त्वमर्थस्य च स्वप्रत्यक्षस्वसनिकृष्टस्वभिन्नत्वलक्षणलक्षितस्य देशादिप. रिच्छिन्नजडरूपस्य परस्परं बिरुदत्वेनैक्यानुपपत्तेरिति भावः, तदेव स्पष्टमाह त्वन्तेति, यव प्रकृते ब्रह्मणि वन्ता वंपदार्थस्य स्वसनिकृष्टस्वभिन्नस्वप्रत्यक्षत्वरूपस्य भावः सत्ता न विद्यते नास्ति तत्रापि त्वंपदवाच्यांशबाधेन लक्ष्यांशभूतकूटस्थचिदा- त्मनो ब्रह्मणा सहैक्यप्रतिपादन मिति भावः ।। १८ ॥ ननु तर्हि 'तद्ब्रह्मेति श्रुतेस्तत्पदार्थस्यैव परोक्षत्वादिविशि- टस्य ब्रह्मत्वमस्तु इति शङ्कते । 'तद्ब्रह्मेति श्रुतेर्वक्तुं तद्ब्रह्मेति न शक्यते । अत्यन्ताव्यवधाने हि परोक्षमिव तत्कथम् ॥ १९॥ तदिति । तद्ब्रह्मे तिश्रुतेस्तत्पदार्थस्य परोक्षत्वावच्छिन्नस्य ब्रह्मशब्दार्थस्य च देशाद्यपरिच्छिन्नस्य सामानाधिकरण्यस्य प्र- तीयमानत्वेनैक्यप्रतीतेस्तत्तत्पदार्थः परोक्षवविशिष्ट एव ब्रह्म ब्रह्मशब्दार्थो देशाद्यपरिच्छिन्नत्वलक्षणलक्षितोऽस्तु भवतु इति चेन्नेत्याहेतीति, इत्येवं वक्तुं कथितुं न शक्यते न युज्यते कुत इसत आहाऽयन्तेति, हि यस्मात्कारणादत्यन्ताव्य- वधानेऽत्यन्तमतिशयितमव्यवधानं व्यवधानाभावो यस्मि- नब्रह्माण तस्मिन्परोक्षमिव तत्पदवाच्यत्वं परोक्षवत्त चदिति स्वेच्छाचारचतुष्टयी। वाचकं पदं कथं केन प्रकारेण युक्तं स्यान्न कथमपीत्यर्थः, ब्रह्म- शब्दार्थस्य देशाधपरिच्छिन्नस्य तत्पदार्थस्य च परोक्षदेशपरि- च्छिन्नस्य परस्परं विरोधात्तत्रापि वाच्यांशपरित्यागे बाधसा- मानाधिरकण्येन प्रयोगान्न तत्पदार्थब्रह्मणो मुख्यं सामानाधि- करण्यमतो न तत्पदार्थस्य ब्रह्मपदार्थतेति भावः ॥ १९ ॥ ननु तर्हि तद्ब्रह्म किं रूपं तत्कथयेत्याशङ्कायामाह । नष्टायां मोहनिद्रायां गलिते मानसे मुनेः । यच्छिष्टं तत्परं ब्रह्म मनोवाचामगोचरम् ॥२०॥ नष्टायामिति । मोहनिद्रायां मोहोऽज्ञानमेव निद्रा स्वरूपवि- स्मृतिहेतुत्वात्प्रपञ्चस्वमबीजत्वाच सुषुप्तिस्तस्यां नष्टायां वि- लीनायां सत्यां तथा मुनेर्मननवतो विवेकिन इत्यर्थः, मानसे मन एवं मानसं तस्मिन् गलिते नष्टे सति यद्विद्वत्प्रत्यक्षं शिष्ट- मवशिष्टं तदज्ञानमानसाभावसाक्षित्वेनोपलक्षितं तत्परं कार्य- कारणातीतं ब्रह्म देशाद्यपरिच्छिन्नं वस्तु अस्ति तच्च मनोवाचां मनसो वाचाश्चागोचरमरूपत्वान्मनसो वाचश्चाविषयं स्वयंप्रका- शसद्रूपत्वाच्च निर्गुणत्वाचास्तीति निश्चेतव्यमिति भावः ॥२०॥ इदानीमेतत्प्रकरणविचारपूर्व पाठकानाशीर्वादयति । चर्चितुं योग्यया चर्चयन्तु परं ब्रह्म तुष्यन्तु च रमन्तु च ॥२१॥ चर्चितुमिति । बुधा विवेकिनचितुं संवादयितुं योग्य- याऽर्हयाऽनया तु सर्वमन्यत्कथनं परित्यज्यतयैव केवलं च. चया ब्रह्मविषयककथनरूपप्रक्रियया तुपदेनास्या लौकिकवै. दिकसर्वचर्चाभ्यो वैलक्षण्यं सूचितम्, अत एवात्रादरो विधेय- भूयस्त्वनया चर्चया बुधाः।

५७२
बोधसारे।
इसाशयः। भूयः पुनः परं कार्यकारणातीतं ब्रह्म देशकालवस्तु-
कृतपरिच्छेदशून्यं वस्तु अस्ति तच्च चर्चयन्तु अन्योन्गं संवाद-
यन्तु तेन संवादेन च तुष्यन्तु सन्तोषं प्राप्नुवन्तु रमन्तु चानेन
संवावेनैव क्रीडन्तु ॥ २१ ॥
इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधमारार्थदीप्ती
ब्रह्मचर्चाविंशत्यर्थप्रकाशः षड्दिशः ॥ २६ ॥
न
अथ खेच्छाचारचतुष्टयी।
एवं ब्रह्मचर्चा निरूप्येदानीं तत्रैव
नष्टायां मोहनिद्रायां गलिते मानसे मुने ।
यच्छिष्टं तत्परं ब्रह्म मनावाचामगोचरमिति ॥
अनेन मोहमनसोलयसाक्षित्वेन लक्षणोन यल्लक्षयितुं तत्रैव
तदाकारा वृत्तिर्व्यवहारे सति मुमुक्षारहंकाराबशिष्टत्वेन
स्यादिनीमामाशङ्कां शिष्यस्यालक्ष्य ज्ञानोत्तरं यावत्मारब्ध-
शेषमहंकारस्य विद्यमानत्वेपि क्रमतस्तदनादरेण स्वरूपप्रेगह-
या तन्नाशोपि स्यादिसर्थ सम्भावयितुं तत्सत्वस्य समाध्य-
विरोधित्वदर्शनाय स्वेच्छाचारचतुष्टय्याख्यं चतुःश्लोकं प्रकरणं
वक्तुकाम आह ।
अथ स्वेच्छाचारचतुष्टयी
अथोत । अथ ब्रह्मचर्चाविंशतिनिरूपणानन्तरं स्वेच्छाचा-
रचतुष्टपी स्वेच्छाचारप्रतिपादक श्लोकचतुष्करूपं प्रकरणं नि-
रूप्यत इति शेषः, तत्रादौ एतत्प्रकरणश्रवणं तच्छैष्ठ्यनिरूपण-
पूर्वकमादरकर्तव्यतां विधत्ते ।
श्रोतव्या नीमता साधो नूनमेकाग्रचेतसा ।
परमार्थस्य सर्वस्वं स्वेच्छाचारचतुष्टयी ॥१॥

स्वेच्छाचारचतुष्टयी। श्रोतव्योत । हे साधो पूर्वोक्तब्रह्मणि चित्तस्थैर्यसाधक भ- नेन संबोधनेनैवत्वकरण श्रवणेधिकारिता सूचिता, श्रीमना वैराग्यादिमाधनसंपता त्वयान्येनापि बा का-एकाग्रचेत- सैकं स्वगतसजातीयविजातीयभेदशुन्यं ब्रह्माग्रे पुरोभागे विषयतया विद्यते यस्य तथोक्तं तादृशेन चेतसान्तःकरणेन करणभूतेन परमार्थस्य ताक्विकार्थस्य सर्वस्व सर्वसंपद्रुपा स्वे- च्छाचारचतुष्टयी स्वेच्छाचारस्य निरूपिका चतुष्टयी चतुगां श्लो- कानां ममूहरूपा-एतदाख्यं प्रकरणमित्यर्थः, श्रोतव्या श्रवण- विषया कर्तव्या ॥१॥ प्रतिज्ञातमेव स्वेच्छाचारं रूपकेणाह । निजं पति परित्यज्य गृहस्थैव प्रपञ्चती। पत्या परेण रमते चतुराख्याभिचारिणी ॥ २ ॥ निजामति । व्यत्कार्थस्तावन्निनं स्वकीयं पतिं भर्तारं परि- त्यज्य विहाय गृहस्थैव निजपतिनिर्मिने गृहे स्थिता मत्येव प्र. पञ्चनी स्वपतिवञ्चनशीला चतुराख्या चतुरेत्येवमाख्याऽऽह्वा यस्याः सा तथोक्ता चतुरानाम्नी काचिदभिचारिणी व्याभ- चारिणी स्त्री परेणान्येन पत्या जारेण सह रमते क्रीडति । प्रकृ. सार्थे तु, निजं स्वीयं पतिं पातीति पतिः 'पातेतिः' बुद्धः पालकत्तादहङ्कारस्य बुदेः पतित्वं तं परित्यज्य विहाय गृहस्थैव गृह्यते स्वात्मतयाङ्गीक्रियत इति गृहं शरीरं तत्र स्था स्थितैव, यद्रा गृहेष्विन्द्रियेषु स्थितैव प्रपञ्चती स्वपतिरहङ्कारस्तश्चनपरा चतुराख्या चतुरा तुर्या-इत्यारूपाऽऽहा यस्याः सा तथोक्ता-अ- भितः सर्वतश्चरितुं गन्तुं शीलमात्मन्यस्याः सा तथोक्ता बुद्धि- स्तुर्यानाम्नी जीवन्मुक्तबुद्धिरित्ययः, परेश कार्यकारणातीतेन .

६७४ बोधसारे। पत्या पाति स्वमच्चित्सुखदानेन रक्षतीति पतिब्रह्माभिन्नः प्र- त्यगात्मा तेन सहेकीभूय रमते क्रीडतीति ॥ २॥ किश्च । अहङ्कारं पृथक्कृत्य तुर्यबुद्धिर्दिने दिने । पत्या परेण रमते पुंश्चली परसङ्गिनी ॥३॥ अहङ्कारांमति । तुर्यबुद्धिस्तुच जातिकुलाभिमानशून्या बु- द्धिर्मतिर्यस्याः सा तथोक्ताऽत एव पुश्चली पुरुषेषु चलितुं गन्तुं शीलमस्याः मा तथोक्ता व्यभिचारिणीत्यर्थः, अत एव प- रसङ्गिनी परस्यान्यपुरुषस्य सङ्गः सम्बन्धो भोगोऽस्याऽस्तीति सा तथोक्ता 'सुष्यजाताविति णिनिः, एतादृशी काचित्स्त्री, प्रह- ङ्कारं पितृमातृकुलजायभिमानं पृथक्कृत्य स्वान्तःकरणानिरस्य दिने दिने प्रतिदिनं सर्वदेत्यर्थः, परेणान्येन पत्या पुरुषेण जारे- त्यर्थः, सह रमते क्रीडनि यथा । तत्प्रकृतेपि, तद्यथा तुर्यबुद्धि- स्तुर्याख्या बुद्धिर्मतिः पुंश्चली पुसः पुरुषाद्देहाभिमानतो जी. वादिति यावचलितुमात्मानं प्रतिगन्तुं शीलमस्याः सा तथोक्ता- ऽत एव परसङ्गिनी परस्य कार्यकारणातीतस्य ब्रह्माभिन्नप्र- त्यगात्मनः सङ्गः समागमो विद्यते यस्याः सा तथोक्ताऽत एव अहङ्कार देहवर्णाश्रमकुलजात्यभिमानं पृथक्कृत्यात्मनः स्व. तश्च भिन्नत्वेनानुभूय दिने दिन इत्युपलक्षणं प्रतिक्षणमित्यर्थः, परेण कार्यकारणातीतेन पत्या पाति स्वसच्चित्सुखदानेन रक्षति बुद्धिमिति पतिः बुद्धिरक्षकः प्रत्यगभिन्नः परमात्मा को वा- न्याविका प्राण्याचदैष आकाश आनन्दो न स्याद्, एष ह्येवानन्द- यातीति श्रुतेः, तेन सह रमते क्रीडते आत्मना सहकी भूय स्वात्ममुखमनुभवतीति भावः ॥ ३ ॥ ननु स पुरूषः खस्त्री परपुरुषसङ्गात्कुतो न निवारयति स्वेच्छाचारचतुष्टयी। ॥ तयभिचारं च कथमवलोकयति तत्राह । पश्चात्तु स्त्रीजितः सोपि प्रतिकत्तमनीश्वरः । अस्याः सम्भोगवेलायां गृहं सन्त्यज्य गच्छति ॥ ४॥ पश्चादिति । सोपि तदीयपतिरपि स्त्रीजितः स्त्रिया भा- र्यया वशीकरणेन बलवत्परपुरुषाश्रयणेन वा जितः सामर्थ्य- हीनः कृतः सन्पश्चादनन्तरं वलवती तां स्त्री प्रतिकर्तुं ताड. नादिना निवारयितुमनीश्वरोऽसमर्थों भवति तु पुनः अस्य स्वस्त्रियाः सम्भोगवेलायां सम्भोगस्य परपुरुषमङ्गस्य वेलायां समये गृहं मन्दिरं सन्यज्य विहाय गच्छति याति न तु तद- वलोकयतीति भावः । प्रकृतार्थेतु, सोपि अहङ्कारोपि आत्मानुप्त- न्धानरतां पूर्ववन्निवार्य स्वानुसन्धानवती कुतो न करोतीति चेत्तत्राह पश्चादिति, सोपि अहङ्कारोपि स्त्रीजितः शब्दमात्ररू. पया बुद्ध्या जितोऽसत्त्वेन तुच्छत्वेन चावलोकितः सन् वाचा- रम्भणश्रुखा वामात्रत्वप्रतिपादनात्स्त्यायनेः शब्दार्थतात्तत्प्र- कृतिकत्वाच्च स्त्रीशब्दस्य तद्वाच्यतुर्यबुद्धपि वाङ्मात्रत्वं पश्चा- दनन्तरं तां स्त्रियं शब्दमात्रां बुद्धिं प्रतिकर्तुमात्मानुसन्धा- नानिवारांयतुं स्वानुसन्धानवती कर्तुमिसर्थः, अनीश्वरोऽस- मर्थों भवति प्रमाणजन्यज्ञानस्य भ्रमज्ञानेन बाधाशक्तरिति भावः, तु पुनरस्याः तुर्याख्यबुद्धः सम्भोगवेलायां सम्भो- गस्य स्वात्मानुमन्धानरूपभोगस्य वेला समयस्तस्मिन् विद्यमाने सति गृहं 'शरीरं गृहमुच्यत'इत्याचार्योक्तः, गृह्यते स्वात्मत- याङ्गीक्रियत इति गृहं शरीरं, तथात्रैव च गृहं देहः पतिर्जीव इत्युक्तेश्च सन्यज्य परियज्य गच्छति विलीनो भवति अतस्तु- ख्यिबुद्धौ स्वात्मानुसन्धाने स्वेच्छाचारः सिद्ध इति भावः॥४॥ नन्वेतादृशे स्त्रीपुरुषव्यवहारेपि पत्युमुहसागाभावात्संसा- " ,

५७६
बोधसार।
,
रजन्यसुखदुःखादिमत्वाच पूर्ववदंपतीभावः स्यादियाशवयाह ।
इदृशे व्यवहारे तु दाम्पत्यं वद कीदृशम् ।
दिनैः कतिपयैरव स्वेछाचारः प्रवर्तते ॥ ५ ॥
ईदृश इति । ईदृश उक्तलक्षणे व्यवहारे स्वस्त्रिया सह
स्वगृहे वर्तने मसपि दाम्पयं दम्पयो यापयोर्भावः सत्ता कर्म
वा दाम्पत्यं स्त्रीपुरुषसङ्गसुखमित्यर्थः, कीदृशं कथं स्थानद्वाद
ब्रूहि येन तदासक्तिर्भवेत्सर्वदा तस्य दुःखमिश्रितत्त्वात्तद्दुःख-
मेवेति भावः, अतस्तदनासत्यैव तु पुनः कतिपयैरेव कतिचि-
स्मलयरेन दिनैः दिवसैः स्वेच्छाचारः सर्वलौकिकधर्ममनाइयो-
भयोरांप स्वेच्छाचार: स्वेच्छापूर्वकमाचरणं यथेष्टाचार इयर्थः,
प्रवर्तते शीघ्रमेव भविष्यतीयर्थः, वर्तमानसामीप्ये वर्तमानप्र-
योगः । प्रकृतार्थे तु अहङ्कारस्य बुद्धश्च विश्वमानाप तत्सम्ब-
न्धेन कचित्समारोद्भवोपि स्यादित्याशङ्याहेदृश इति । ईदृशs.
हङ्कारानादरेगात्मना मह रमगा लक्षणे व्यवहारे वर्तमाने
सनि दाम्पत्य जायत उत्पद्यते मंसारोऽम्यामिति जाया बुद्धिः
सा च पनिश्च बुद्धिपालकोहङ्कारस्तमाः कर्म संसारोद्भावनरूपं
दाम्पत्यं कीदृशं कथं स्यात्तद्वद ब्रूहि उभयोरन्योन्यसत्य-
भावे बुद्ध्या तत्तुच्छत्वे च विनिश्चिते न संसारोद्भव इति भावः,
किञ्च तु पुनः कतिपयैरेव कांतचित्मङ्खथैरपि दिनैर्दिवमः
खेच्छाचारः खेच्छयाऽऽचारो व्यवहारोऽहकारस्य विधिनिष-
धातीतत्वेन बुद्धश्च तदोषकाहङ्कारौदास्य आत्मचिन्तननरन्त-
यरूपः स्वेच्छापूर्वक एवं प्रवर्तते भविष्यति ॥ ५ ॥
इदानीमैतत्मकरणनात्पर्य जिज्ञासुबुद्ध्यारोहाय स्पष्टमाह गधेन।
स्वानुभवानां सत्यपि बाधिता-
हन्कारे समाधिभङ्गो नास्तत्यिर्थः ॥ ६॥
इन-बोखेच्छाचारचतुष्पयी ॥ २७ ॥

बनारससंस्कृतसीरीजनानी वाराणसेयसंस्कृतपुस्तकावली । ६० मा ५ 10 इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्या संस्कृतभाषा. निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदालभाषानुवा- दसहिताच ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजफी. यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसाशोधयस्ति । यो- हकमहारायैरियं पुस्तकावली नियमेनाविच्छेदन संसाया तस्तदे. कैकस्य खण्डस्य ० मूल्य प्रापणव्ययश्च देयः । अन्यम- हाशययः कानिचित खण्डानि संग्राह्याणि तेच प्रत्येक सण्डाना थ मूल्य प्रापणव्ययश्च देय इति । तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रह अंग्रेजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ १३ कात्यायनमहर्षिप्रणीतं शुक्लयजुप्रातिशाख्यम् समान्य ख०६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम खण्डानि ५ (प्रथमभागः प्रथमविसीयफाण्डे पुण्यराजटीकासहित खण्ड ३। द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधर- सण्डानि ९ परिभाषावृत्तिखण्डे २ वैशेषिकदर्शने फिरणावलीटीकासंलिप्रशस्तपादप्रणीत- भाग्यसाहितम खण्डे २ शिक्षासमहर खण्डानि में कम्यसिद्धिःखानि महर्षिकात्यायनप्रणीतं शुक्यस्सर्वानुक्रमसूत्रम सभाध्यमः । ऋग्वेदीयशौनकमातिशाख्यं समाध्यम खण्डानि ४ (हत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम खण्डानि४४ विवरणोपन्यास: सटीकवाक्यसुधासहितः खण्डे २ तस्वदीपनम (पश्चपादिकाधिवरणस्य व्याख्यानम) ख०६८ बेदरम्बदीप (श्रीभगवद्रामानुजाचार्यविरचिक) सण्डानि ३३ टुप्तीका बण्डानि ४ २ २ ४ ४ .

Bodhsarah

Author
Sri Narhari
Title
Bodhsarah
File name
Bodhsarah
Text
OCR done
Citation
1905
Published
2006/01/16
Publisher
Braj B Das & Co. Vidya Vilas Press Banaras
Language
Sanskrit
Pages
99
Library
Sarnath Varanasi
Classification
Literature
DLI number
486728
Barcode
1990010094446.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
wPJ50fTt8C2
Download PDF

Bodhsarah