Central Library, Bits- Pilani

रघुवीरचरितम्

Gand-apatishaastrind-aa T · 2005/06/11

PDF Proofread

Front matter

Birla Central Library
PILANI (Jaipur State)
Class NO :
s 81
T791 RCT
Book No:-
Accassion No : 16494
REQUEST
IT IS EARNESTLY DE VRED THAT THE
BOOK BE HANDLED WITH CARE AND BE
NOT MARKED, UNDERLINED OK DISFIGUR
ED IN ANY OTHER WAY, CTHERWISE IT
WILL HAVE TO BE REPLACED OR PAID
FOR BY THE BORROWER IN THE INTEREST
OF THE LIBRARY
LIBRARIAN

No text on this page.

No text on this page.

MERIVANDRUM SANSKRIT SERIES.
No. 1il. ug
रघुवीरचरितम्।
THE
RAGHUVÎRACHARITA
EDITED)
T. GANAPATI SÂSTRÎ
l'uomonsense of the Deportinent for them. 4.1.21!.flon
inskrit Wanuscripte, Trivandrum
TIBIJSKE 11DER THE OTTORITY OF THE GOVERNMENT OF
HIS MOISESS THE MAILAR.NL OF TRAVAVORF.
Air
IRIVAJDRCJ:
PRINTED BY 'TILL SUPERINTENDENT, GOVERSIEST PRESS

No text on this page.

TRIVANDRUM SANSKRIT SERIES.
No. LVII
THE
RAGHUVÎRACHARITA
EDITED BY
T. GANAPATI SÀSTRÎ
Curutor of the Department for the publivelion of
Sanskrit vanuscripts. Trivandrum
PUBLISHED UNDER THE AUTICITY OF THE GOVERNMENT OF
HIS HIGHNESS TIJE MAHARAJAIL OF TRAVASCORK
TRIVANDRUM
PRINTED BY THE SUTERINTENDENT, GOVERSMENT PRESS
1917.
(All Rights Reserved.)

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५७.
रघुवीरचरितम्
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
अनन्तंशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुंद्रयित्वा प्रकाशितम्।
कोलम्बाब्दाः १०९३, कैस्तान्दाः १९१५,

No text on this page.

PREFACE. Raghuvîracharita is a Mahâkâvya dealing with the life of Sri-Râma from his exjla to his installation. The author of the work is not known, but from the high quality of the poetry, it can be inferred that he nust have been a poet of merit. In his Catalogus Catulagorum Dr. Aufrecht mentions a Raghuviracharita written by Mallinâtha. If this Raghuviracharita be the same as the present work and the Mallinâtha mentioned by Dr. Aufrecht be no other than the famous commentator of Mâhâkavyas and the author of Tarala, a commentary on the work on rhetoric called Ekâvali, who is known to have flourished in the 11th Century A. D., then we can not be wrong in ascribing the present work also to the same Malinatha. If so, we have to suppose that Mallinâtha wrote his poctical work long after writing his Tarala, otherwise his non-reference to his poem in the latter work would seem quite inexplicable. The edition of the work is based on the following three palm-leaf manuscripts in Malayalam characters :- 1. F. belongs to Mr. Kailasapuram Govinda Pisharodi, containing the first 14 Sargas, It is a correct and worn-out manuscript. e belongs to Mr. Champakasseri Mitran Numburi. It is full of errors and letters have disappeared in many of the leaves. 3. 07. belongs to Mr. Maheswaran Bhattatiri, Tukalasseri, Tiruvallah: It is an incorrect and worn-out manuscript. Trivandrum, 17th August 1917. } T. GANAPATI SÂSTRÎ.

No text on this page.

निवेदना। इदं रघुवीरचरितं नाम वनवासादिराज्याभिषेकान्तस्य श्रीरामचरि- तस्य वर्णनपरं किमपि महाकाव्यम् । अत्र प्रकाशमानैः साहितीगुणैरेतत्प्रणेता कश्चिद् विशिष्टः कविरित्यूहितुं शक्यम् । नामधेयं तु तम्य ग्रन्थे न निवेशि- तम् । डाक्टरआप्रेट्सम्पादिते ग्रन्थनामावलिपुस्तके ( Dr. Aufrechts cutalogue catalagorum) रघुवीरचरितं किमपि मल्लिनाथप्रणीतं निर्दि- श्यते । तद् यद्येतदेव भवेद् , यदि च स मल्लिनाथ एकावलितरल-रघु- वंशीकादिकारादनन्यो भवेत् , तर्हि तस्य कैस्ताब्दीयचतुर्दशशतकस्थितम्य कृतितामिदं महाकाव्यं निकाममर्हति । किन्तु अस्य मल्लिनाथकृतित्वे तरल- निर्माणानन्तरमिदं निर्मितमिति कल्पनीयम् , अन्यथा हि एतदीयस्यैकस्यापि पद्यस्य तरलेऽनुदाहरणं युक्त्यपेतमिव भायात् । अस्य ग्रन्थस्य संशोधनाधारभूता ग्रन्थान्तावत् त्रयः । तत्र- क.संज्ञः कैलासपुरगोविन्दपिषारोटिम्वामिकः १४ सर्गान्तः जीर्णः शुद्धश्च । ख.संज्ञः चम्पकश्शेरिमित्रनम्बूरिस्वामिकः अशुद्धप्रायः लुप्ताक्षरबहु- पत्रश्च । ग.संज्ञः तिरुवल्ला तुगलश्शेरिमहेश्वरभट्टतिरिसम्बन्धी अशुद्धप्रायो जीर्णश्च । सर्व एते केरलीयलिपयस्तालपत्रात्मकाः । त. गणपतिशास्त्री. अनन्तशयनम्, १७-८-१९१७. )

No text on this page.

॥ श्रीः ॥ रघुवीरचरितम् प्रथमः सर्गः। श्रियः शिवं धाम सदारसोदरः प्रविश्य गमः पितृवाक्यगौरवात् । वनं महद् दण्डकमाश्रयः सतां तपस्विनामाश्रमजातमक्षत ॥१॥ अनुल्वणस्कन्धनिषण्णवल्कलाः सहिष्णवस्तापहिपाभ्रपाथसाम् । लसन्ति यत्र प्रतिपनगौरवा द्रुमा मुनीनां परिचारका इव ॥२॥ ऋजुत्वभाजः कृतवायुनिर्जया लतावितानटिलाः समन्ततः । समग्रशाखाविहितद्विजाश्रया महीरुहा यत्र तपोषना इव ॥ ३ ॥ वितन्वते यत्र घनाभ्रमेनकाः स्वर्णतालांचरलालिपेशलाः । मदालसाः सिंहसावधर्षणैः कपोलकण्हनिमुख विपाणिनः ॥ ४ ॥ निशासु नित्यं निविडाङ्गसङ्ग्रहा महीपतीनामिव यत्र भोगिनाम् । फणामणिभ्यः प्रमृतैमरीचिभिः प्रदीपकल्यं प्रदिशलि भोगिनः ॥५॥ उदीयमानस्तबकस्तनोज्ज्वलाः समीरणास्पन्दितपल्लवाधराः । मनोहरा यत्र लता महीरुहान सदोपगसन्ति मधुव्रतेक्षणाः ॥ ६ ॥ अरण्यवीरुत्प्रसवोदरोद्गतः प्रफुल्तपापभिनीससः। प्रकल्पते यत्र शिवः समीरणः शरीरभाजां प्रामाय चेतसः ॥७॥ पचेलिमानां तपसां प्रभावतस्तपोनिधीनां तपनोग्रतेजसाम् । न विद्यते यत्र निषेदुपां नृणां मदैकयोनिर्गदनस्य निक्रिया ॥ ८ ॥ तप:समाधिस्थिरगावचेतसां तपोभूनां यत्र पिशङ्गकान्तिषु । जटाटवीषु प्रतिबद्धनिश्चयाः कुलायकर्माकलयन्ति पत्रिणः ॥९॥ निशम्य तं प्राप्तमरण्यवासिनः प्रियं विधाएं फलमूलपाणयः। विमुक्तबन्धा अपि पक्षपानिनः प्रपेदिरे हर्षयुता महर्षयः ॥१०॥ १. 'स', २. 'लु' ख. पाठः. G.P. T. 246, 7-5-10032.

रघुधीरचरिते निशाम्य तानापततस्तपोधनाञ्जवेन मौर्वीमवरोप्य कार्मुकात् । प्रसीदतास्मास्विति वाचमादरादुदीर्य तेभ्यः प्रणनाम राघवः॥११॥ अथैनमुत्थाप्य गुणकभाजन विदेहपुत्रीमपि लक्ष्मणं तथा । निरीक्ष्य दृष्टया शिवया शिवोपमा गभीरहयामिति वाचमूचिरे ॥१२॥ श्रुतोऽसि पूर्व नरदेव ! जन्मना विभूषयन्नुत्तरकोसलान्वयम् । यदानुजैः सार्धमतः परं वयं विशेषतः पङ्क्तिरथे सकौतुकाः॥ १३।। यदासि पौगण्डवयः समाश्रितः क्रमेण शस्त्रास्त्रपरिग्रहोचितः । तदैव रक्षाकृतकृच्छ्रमन्थरा सनाथतां प्राप्तवती वसुन्धरा ॥ १४ ॥ यदासि नीतः ऋतुलोपशान्तये तपोवनं गाधिसुतेन सानुजः । अवाप्तवानस्त्रमयीं च सक्रियामतः परं नः क्षपिता विपत्तयः॥१५॥ त्वया यदा राघव! भीमदर्शनं महत् तमः कामद! ताटकामयम् । शरार्चिपाबाधि तदाप्रभृत्यमी तपोभृतः सम्मदसम्भृताशयाः॥१६॥ विचित्रविष्फारितचापमण्डलः स्थितः ऋतुक्षेमविधौ यदा तदा । अपाहरत् तात! भवानपुष्कलस्फुरत्परीवेषनवार्कविभ्रमम् ॥ १७ ॥ क्षयं गतौ यावदुभी निशाचरौ निशातशूलाग्रविभिन्नतापसौ । त्वदग्रतः कौशिकयज्ञविद्विषौ तपस्विनां तावदवग्रहः क्षतः ॥ १८ ॥ अमोचि शापव्यसनादहल्यया भवत्पदाम्भोजपरागपूतया । भवद्विधानां न तु चित्रमीदृशं महीयसामार्तहितैकसम्पदाम् ॥ १९ ॥ दुरानमं नाम धनुर्धनुर्भृतां पुनः पुरारेः समभज्यत त्वया । अनेन युष्मद्भुजदण्डमैहिरं विशेषवृत्त्या बहुमन्महेतराम् ॥ २० ॥ यथा विभाते मिहिरं सरोजिनी तथैव रामं समवाप मैथिली इति प्रमोदोदयमेदुरास्तदा गिरः प्रचेरुर्भुवने निरत्ययाः ॥ २१ ॥ सकौतुकं कौशिकमन्वगीयुषा हरस्य चापं विफलं वितन्वता । विधातुरस्यास्तनुशिल्पचातुरीविधानयनः सफलीकृतस्त्वया ॥ २२ ॥ पितुर्मियोगादतिमार्गगामिनः स्वमातरं स्नेहरसस्नुतस्तनीम् । प्रगृह्य केशेष्वकृशेन कर्मणा कृपापलापं प्रथमं चकार यः॥ २३ ॥ .,'' ख. पाठ २. 'शाक, पाठः, ३. 'तत: परस्तान तु' स. पाठः, प्रथमः सर्गः। निकृत्य बाहासमिधः कुठारवान् सहस्रसंख्याः परमर्जुनट्ठमात् । स्थिरव्रतः शोणितसर्पिराष्ठता जुहाव कोपानिमुखे सुखेन यः ॥२४॥ अनेकशः क्षत्रकुलस्य विप्लवं वितन्वता येन गभीरमन्युना । प्रतिष्ठिता केवलमिन्दुसोमयोः प्रसह्य राजेत्यनुभाविनी श्रुतिः ॥२५॥ तमध्वनि क्षत्रियगन्धदुर्दमं विजित्य रामं जमदग्निनन्दनम् । स्वतेजसा मानद ! शुश्रुम स्फुटं स्वधर्मनिष्ठामनयद् भवानिति ॥ प्रविश्य साकेतपुरं पुरालयैः समं त्रिभिवृभिराहितोत्सवः । क्रमेण निवृत्तविवाहमङ्गलस्त्वमन्वभूर्भोगरसाननुत्तमान् ॥ २७ ॥ अथाभिषेके तव तात! संभृते निमन्त्र्य मैत्रावलणं पुरोधसम् । महीभृता पङ्क्तिरथेन मन्थरा प्रकाशनामात्मधियं किलानयत् ॥२८॥ न मन्युरस्मासु करोतु विभ्रमं महेन्द्रहेतिर्गिरिसञ्चयेष्विव । न मन्थराकर्मसमो विधिर्यतो वनौकसामक्षिपथं गतोऽसि नः॥ प्रविश्य या केकयराजनन्दनामुपायरूपेण नरेन्द्रमाश्रयत् । तव प्रवासाय निबद्धनिश्चया न तत्समं मित्रमिहास्ति मादृशाम् ।। स ते पिता यस्य सुहृत् सुरेश्वरः क्षमा च यस्य क्षितिकौतुकावहा । यदत्यजत् त्वां वचनेन योपितश्विरार्जितानां तपसां फलं हि नः ॥ नवे दुकूले दधतश्च मङ्गले तवाददानस्य च चीरचीवरम् । समैव जाता मुखकान्तिरित्यसौ जनश्रुतिः कापि धिनोति मादृशान् ॥ अयं तु सौमित्रिरमित्रमर्दनस्तृणाय मत्वा महतीमपि श्रियम् । भवन्तमेवानुगतः सुखोचितः स्वनुष्ठितं धर्ममिवार्थसङ्ग्रहः ॥ ३३ ॥ अरण्यवासाय शरण्य! जानकी नियोजिता मध्यमया सुमध्यमा । यदम्बयालम्बितभर्तचित्तया तया तदेवोपकृतं भवत्कृते ॥ ३४ ।। त्वयि स्थिते ताशि गन्तुमुद्यते न केवलं केकयनन्दनाशिषा । अशेषनिर्वापितहर्षचेतसां पुरौकसामश्रुभिरप्युदैयत ।। ३५ ॥ विलय भूतेश्वरमौलिमालिकाममहँसिन्धुं सुरसिन्धुरोपमः । गुहोपनीतामधिगम्य सत्कियां स चित्रकूटं प्रतिपेदिवानसि ॥ ३६ ॥ १ १. 'दै' ग. पाठा, घवास्चारत - भवत्मपासोपचिताधिरात्मनः शरीरमुत्सृज्य नवीकृताकृतिः । दिवं गतः पतिरथः कुलोचिता समेधयन् वासबसौहदस्थिविम् । सदा किल स्वां भरतः सहानुगः क्षणं भरद्वाजकृताहणाविधि: निमन्त्रयामास नृपश्रिया तया तटं नभस्वानिव सिन्धुवेलया ॥३८॥ महाटवी मार्गविकीर्णकण्टकां भवद्वियोगव्यसनादुपेयुषी। भदाय सद्यः कृपया स्वपादुके यथागतं सा गमिता किल त्वया अबालजाबालिमुखैर्मनीषिभिः प्रयुक्तंसामा भरतानुवर्तिभिः । प्रवेशितः कर्णपथं जनैर्भवान् धृतिच्युतिं न प्रतिपेदिवानिति ॥ ४० ॥ स्वमातृदोषात् तव विश्वासतः पितुश्च नाशादुदितेन मन्युना। दृढापविद्धो भरतस्त्वयात्सुकश्चकार सौभ्रात्ररसायनक्रियाम् ॥ ११ ॥ प्रतिप्रयाते भरते सहानुगे जटासु कृत्वा तव पादुके शुभे। मनस्विनामाशयत्तिरीदृशी न जातु भेद्येत्युदियाय भारती ॥ ४२ ॥ तदानसूयात्रिपरिग्रहो मुदा तपस्ययास्या बपुरन्वलेपयत् । समन्वितार्थ निजनाम तन्वती न कस्य लक्ष्म्यै महतां समागमः ॥ इमां वधूं वायसदूषितस्तनी हिमोपमष्टामरविन्दिनीमिव । निशम्य युष्मानधिकृत्य भाविनी विपत्तिरस्माभिरिहान्वमीयत ॥४४॥ इदं विरिश्चिप्रतिमस्तपोधनैरुपस्थितब्रह्मभिरप्युपाश्रितम् । वनं विशेषेण जगत्प्रसाधनैः परित्रितं त्वत्पदपद्मपांसुभिः ॥ ४५ ॥ सवाणवाणासनपाणिबन्धुरं घनावदातद्युति वल्कलाम्बरम् । कुशेशयान्तर्दलचारुलोचनं मृदुस्मितालङ्कृतिपेशलाननम् ॥ ४६ ॥ महर्षभस्कन्धमनन्तविक्रम पिशङ्गकोटीरकलापशेखरम् । इदं वपुस्ते जगदेकमङ्गलं वयं पिबामस्तृषितैर्विलोचनैः ॥४७॥ कृतं बचोभिर्बहुभिः श्रमपदैर्धनुर्धराणां वर! भद्रमस्तु ते । तवेक्षमाणा न वपुर्मनश्शिवं प्रजन्ति पर्याप्तिमरण्यवासिना ॥ ४८ ॥ स्वया त', पा AP 4 तदेतदाकर्णय राम! दुश्रय तपस्विनां ना परिदेविताक्षरम् । स्वमग्रणी सर्वधन तामिति श्रितोऽसि संघः प्रतिपद्य गौरवम् ।। इयं द्विजातिप्रचुरा निशाचरैर्महद्भिरारण्यकजातिरातुरा । सपावली धर्महतव वारिदं सलगणं त्वां शरणं प्रतीच्छति ॥५०॥ बसन् पुरे स्वे वनगोचरोऽथवा ससैनिकश्चापसहाय एव वा। पितुः प्रियस्तेन निराकृतोऽपि वा त्वमेव नः शर्मद ! सर्वदा गतिः यदस्ति सिद्ध फलमन्यलोकतस्तदश्नुते नश्वरतां जनेश्वर!। नृपस्य यत् तापसरक्षणोदितं तदेव कल्पान्तरनान्तरीयकम् ॥ ५२॥ निमित्तमल्प व्यपदिश्य दैहिकं प्रकोपमङ्गीकुरुते न नो मनः । यदीयशक्त्याहितशापविभ्रमः क्षयं नयेनविरसम्भृतं तपः ॥५३ ।। इमामवेक्षस्व तपोवनस्थली तपस्विनां मुण्डजटास्थिदुःस्थिताम् । ककुत्स्थवंश्ये त्वयि तादृशोदये सति प्रपना षयमीदृशीं दशाम् ।।५४॥ तदस्तु ते स्वस्ति चिराय मादृशामरिष्टतातिर्भव भव्यया धिया। स्वचापविन्यस्तजयाशिषः सतस्तवापदानं भुवनेषु खेलतु॥५५॥ सदस्तदित्थं व्यवहृत्य भारती रघुमवीराय हितानुवन्धिनीम् । बभूव तूष्णीमपि सङ्कटे महत्ययावदर्थ न वदन्ति साधवः ॥ ५६ ॥ ततस्तदाभाषितमाहृतादरः क्रमेण सङ्गृह्य ककुत्स्थनन्दनः । तदीययाविष्ट इव स्वयं शुचा जगाद भूयः प्रमिताक्षरं वचः॥५७॥ इदं मुनीन्द्राः! क्रियते समानतं मया निबद्धाञ्जलिबन्धुरं शिरः । अभूद् यदेनो भवतामरक्षणात् तदर्हथ क्षन्तुमजानतां हि नः ॥ ५८॥ इतः परस्तादपनीतराक्षसमचारमुच्छिन्नभयं तपोवनम् । करिष्यते सावरजो वदामि वः स्थितः पुरस्तात् प्रगृहीतकार्मुकः॥५९ ।। कृतार्थयन्नित्यभिधाय तान् विमुस्ततः सपर्या प्रवणः समाददे । विपद्तानामविधाय रक्षणं न सत्क्रियामाददते हि तादृशाः ॥ ६० ॥ ततोऽपराह्ने नवसङ्गमोचिताः कथा मनोज्ञा व्यवहृत्य ते पुनः । परस्परेण प्रथिता मनोरथैरविप्रलम्भप्रणय वितेनिरे ॥ ६१ ॥ 'मनास्यनाप्याय विपत्स मञ्जतां न स. पाठा, 4 रघुवीरचरिते अविस्रविसम्भजुषस्तपस्विनां कुरङ्गशाबानविशङ्कमङ्कगान् । स मैथिलीलोचनकान्तितस्करानुढशङ्कान् नितरामशङ्कत ॥ ६२ ॥ निरत्ययप्रत्ययबन्धनिश्चला निरीक्षमाणा भृशमृश्यपतयः । उदात्तकोदण्डभुजं रघूद्वहं चिराय निन्युश्चरितार्थतां दृशः ॥ ६३ ॥ अथोल्लसत्पल्लवपाटलाम्बरां पितृप्रमूर्ति पितृतुल्यविक्रमः । विकस्वराम्भोजरुचिप्रवर्धिनी प्रशान्तधीरिन्दुमतीमवन्दत ॥ ६४ ॥ तैर्दत्तामृषिभिरवाप्य पर्णशालां मुग्भाण्डैरजिनसमित्कुशैश्च कीर्णाम् । सानन्दं जनकसुतोपधानभूतपालम्बस्थिरभुजमध्युवास रामः ॥ ६५ ॥ इति रघुवीरचरिते प्रथमः सर्गः। अथ द्वितीयः सर्गः। अथ प्रभाते विमले तानामन्य मुनीन् विभुः । अरण्यानीं विवेशोचै स्वानिव घनावलिम् ।। १ ॥ कण्टकोपलदुर्गेषु चरन्तो विपिनेषु ते । संहता न व्यथां जग्मुर्मातृपार्श्वगता इव ॥ २ ॥ रेजतुः पालयन्तौ तौ मैथिली रामलक्ष्मणौ । तमामभेदिनी विद्यां प्रबोधविनयाविव ॥ ३ ॥ मध्येकृत्य सुमध्यां तां जग्मतुस्तौ महौजसौ । नयनानन्दिनीं सन्ध्यां मूर्याचन्द्रमसाविव ॥ ४ ॥ तदा रक्षो विराधाख्यं सीताहारमपासरत् । तौ वरेण विधेर्गुप्तं तदुपायेन जनतुः ॥ ५ ॥ विमुक्तशापबन्धेन तेन दिव्यवपुर्भूता । उपदिष्टेन मार्गेण शरभङ्गाश्रमं ययुः ॥ ६ ॥ तस्मिन्नुपनते वीरे शरभङ्गदिदृक्षया । आरादासेदिवान् व्योम्नि सहस्राक्षस्तिरोभवन् ॥ ७ ॥ १. 'तां श्रमशमनाय प'ख. ग, पाठः.

द्वितीयः सर्गः। अपवर्गपथं वह्नि प्रवेक्ष्यन् स तपोधनः । तापसैः सुरसङ्घश्च सकौतुकमदृश्यत ॥ ८ ॥ रामोऽभिरामचरितस्तपोभिस्तपनोपमः । अनपरल्पपुण्यानां दुरासदमुपासदत् ॥ ९॥ परिपकेन मनसा वपुषा चान्वितो मुनिः । ददर्श दर्शनीयं तं प्रीतिस्निग्धेन चक्षुषा ॥ १० ॥ आह च स्वागतं तेऽस्तु सफलो नः परिश्रमः । लोचने यौवनं प्राप्ते त्वामास्वाध रसायनम् ॥ ११॥ अधिगन्तुं तपस्तीनं दीर्घमायुधृतं मया । देशकालदशाभेदेष्वपि यन्न व्ययोन्मुखम् ॥ १२ ॥ आन्तरोपाधिसङ्कान्तमहिमापचितामिमाम् । तनुं त्यक्ष्याम्यहं तावजीर्णा त्वचमिवोरगः ॥ १३ ॥ इत्थमुत्थितवाग्यात्तर्निजमात्मानमात्मवान् । हव्यं हव्यवहे हुत्वा पदमस्खलितं गतः ॥ १४ ॥ तथाविधदशे तस्मिन् मिथः सम्भूय भूयसीम् । तापसा रघुवीराय रक्षोबाधामबोधयन् ॥ १५ ॥ प्रतिश्रुत्य ततो रक्षां तेभ्यः सत्यप्रतिश्रवः । अतीक्ष्णचरितो देवः सुतीक्ष्णस्याश्रमं ययौ ॥ १६ ॥ उच्चसाललतागुल्मपल्लवान्तरनिस्सृतैः । मुद्रिताजिरभूभागं चित्रैरातपबिन्दुभिः ॥१७॥ वैतानिकानलोद्गीण व्यपाकसुगन्धिभिः । समृद्धिहेतो कानां मेघशारिवोत्थितैः ॥ १८ ॥ नाकलोकाध्वसम्पातं दर्शयद्भिरिवोन्मुखैः । सुखस्पर्शेन वातेन स्फारितोच्चावचोद्गमैः ॥ १९ ॥ आतपस्तोकमार्गान्तर्गोचरैः कचिदाकुलैः । श्रीमन्मरकतस्तम्भदण्डबन्धुरकान्तिभिः ॥ २० ॥ १. 'स तु स', २. 'तः श्रीमान् सु' ख. पाठः, रघुवीरचरिते पल्लवस्पन्दनोदात्तैः कपोतगलकयुरैः। धूमरुद्भूतदुरितैरन्धीकृतदिगन्तरम् ॥ २१ ॥ शुकै;पीणां शृण्वद्भिर्मन्त्रोच्चरितमध्वरे । अन्वभ्यस्तवषदकारं तरुकोटरसंश्रयैः॥ २२ ॥ स्नुतमग्रस्तनं मातुश्चुम्बतामन्तरान्तरा। मुग्धानां मुगपोतानां ताण्डवैरङ्किताङ्गणम् ॥ २३ ॥ तत् प्रविश्याश्रमपदमनुज्ञातो महर्षिणा। ववन्दे चरणौ तस्य विधिना विहिताशिषः ॥ २४ ॥ (कुलकम् ) मुनिः शुभारम्भरतं भरताग्रजमग्रतः । निषण्णमविषण्णात्मा प्रोचे प्राचेतसोपमः॥ २५ ॥ ऋश्यशृङ्गस्य तपसा कौसल्यायां तवोदयम् । महान्ति चापदानानि शुश्रुवानस्मि सर्वशः ॥ २६ ॥ किन्तु दाशरथे! तावद् वक्ष्यामि विदुषेऽपि ते । त्वया कृतावधानेन कर्णयोः क्रियतामदः ॥ २७ ॥ उन्नतोऽयं महान् वंशः श्रीमानिक्ष्वाकुसंश्रयः। दृढमूलतया नासौ मरुद्भिरपि वाध्यते ॥ २८ ॥ अनुक्षणं वितन्वाना गुर्वी जनपदापदम् । पकैकसुहृदस्तीक्ष्णा यत्र नोद्यन्ति कण्टकाः ॥ २९ ॥ चतुर्वर्णस्थितिकृता चतुराश्रमरक्षिणाम् । चतुर्वेदप्रवीणानां चतुरोदन्तसम्पदाम् ॥ ३० ॥ प्रशमे मुनिकल्पानां प्रकोपे रुद्रकर्मणाम् । पार्थिभ्यः कल्पदारूणां प्रसादे शशिवर्चसाम् ॥ ३१ ॥ स्वायत्ताखिलसिद्धीनां स्वमनीषाप्तमन्त्रिणाम् । स्वचापमात्रभित्राणां स्वदारानन्यदर्शिनाम् ।। ३२ ॥ बुद्धया बृहस्पतिजितां धैर्येणाक्षिपता घरम् । कान्त्या कन्दर्पतुल्यानां वीर्येणेन्द्रमतीयुषाम् ।। ३३ ।। १. 'ततः', २. "धर्मिणाम्' खः पाठः, द्वितीयः सर्गः। त्रिलोकीहर्म्यभूखेलत्कार्निज्योत्स्नाहिमत्विषाम् । आतंत्राणैकनिष्ठानां त्वादृशां यत्र सम्भवः ॥ ३४ !! (कुलकम्) न प्रवेष्टव्यमैक्ष्वाकैरन्येषां भूभृतां पुरम् । उत्तीर्णपदमारूढाः सम्राजः खलु ते यतः ॥ ३९ ।। प्राक्सम्बन्धकृतां राज्ञां स्वयंवरनिमन्त्रण । स्वचित्ताभिमतं तच्चत् प्राप्तव्यं तत्पुरं तदा ।। ३६ ।। आर्तानुकम्पा साधूनां रक्षणं खलनिग्रहः । रणेषु विजयश्चेति तानि नियतानि वः ॥ ३७ ।। कुलस्य मित्रं युप्माकं देवराजः शचीपतिः । स वर्षेणोपकुरुते यमध्वरफर्मणा ॥ ३८ ॥ बहुना किमिहोक्तेन पूर्वपां ते महीक्षिताम् । अर्धासनं महेन्द्रस्य विक्रमाधिगतं पदम् ॥ ३९ ॥ राम राजर्पिभिः पूर्वः क्षुण्णेन महता पथा। सश्चरस्व यतस्तेन विचरन् नावलीदति ।। ४० ॥ असंवृतमदास्तात! संतानिह तापसान । लुम्पन्ति यातुधाना नस्त्वमत्र परमा गतिः ॥ ४१ ॥ अनन्यसदृशौदार्यास्ते यूयं रघवः खलु । येषामङ्के शिरः कृत्वा लोकः स्वपिति निर्भयम् ।। ४२ ।। अगस्त्यभ्रातुरादेशमिति सङ्गृह्य सादरः । जगाम रामः प्रमदं वृत्तेनागमयच तम् ।। ४३ ।। कुले जातः कुलपतेर्नियोगं प्राप्य योगिनः । निध्यातुं दण्डकारण्यं ययौ दण्डधराग्रणीः ॥ ४४ ॥ पवमानमिवाम्भोदा धर्ममर्थागमा इव । राघवं तापसा निम्नं वारिवेगा इवान्वयुः ।। ४५ ।। स लुलायविषाणाग्रक्षुण्णनालकुशेशयान्। पत्रनिष्पन्दविहगान् कासारानवलोकयन् ॥ ४६ ।। 1. 'धार्मिणाम्' ख. पाठः.

रघुवीरचरिते स्तबकस्तनभारासु पिकालापचटूक्तिषु । मन्दानिलमृदुमेहत्पल्लवाङ्गुलिपतिषु ॥४७॥ कुसुमस्मितशोभासु माद्यद्धमरवेणिषु । मैथिलीपादसञ्चारं भाविनं विदुषीष्विव ॥ ४८॥ किरतीषु प्रसूनानि मार्गे मार्गे यथासुखम् । लतासु धृतिमातन्वन् निसृष्टार्थसखीष्विव ॥४९॥ विदधानेषु सविधे मिथः सौहृदभावनाम् । विमुखेष्वर्कशशिनोर्विपक्षसुहृदोर्द्वयोः ॥ ५० ॥ एकयोनिषु कासारे कुमुदेष्वम्बुजेषु च । गभीरमधुरां वृत्तिं हृदि कुर्वन् व्यवस्थिताम् ।। ५१ ॥ रिहन्तं पद्मवाटीपु खेलन्तं भङ्गपतिषु । आयान्तं सरसो दूरात् सेवमानः समीरणम् ॥ ५२ ॥ आसेदुषः शैलभुवं पक्षपातेन भूयसा । ततीर्वितत्य बर्हाणां चन्द्रकान्ता जटा इव ॥५३॥ अभ्यस्यतः पदन्यासमुद्भुरभ्रमि चेतसा । निर्विशन् निर्विशङ्केन नीलकण्ठस्य ताण्डवम् ॥५४॥ एवं संभावयन् वीरः पदन्यासेन तद् वनम् । आरादालोकयामास प्रशान्तं कश्चिदाश्रमम् ॥ ५५ ॥ (कुलकम्) सौवर्णास्तरवो यत्र प्रवालाकुरपल्लवाः । मौक्तिकप्रसवस्मेरा माणिक्यफलशालिनः ॥ ५६ ॥ यत्र हेमलतादोलामध्यासीनाः समूच्र्छनम् । अधिगीतानि गीतानि गायन्ति वनदेवताः ।। ५७ ॥ यत्र किन्नरगन्धर्वाः सविद्याधरचारणाः । द्वन्द्वीभूय यथाकालं तपोधनमुपासते ॥ ५८ ॥ यत्र स्वविषयद्रव्यव्यञ्जितात्मीयवैभवैः । रमते साकमृतुभिः स्वदमानशरासनः ॥ ५९ ॥ , 'समन्थर', २. 'नाः ।' ख. पाठः.

द्वितीयः सर्गः। ११ पयः पय इव स्वादु रजतद्रवनिर्मलम् । तटाके यत्र चक्राहहंससारसपेशले ॥६०॥ निर्मुक्तभोगविशदाः पवनाशा निराशिषः। यत्र द्रुमनिकुञ्जेषु तपस्यन्ति तपस्विनः ॥६१ ॥ यत्रौषधिप्रभापूरैर्निरस्तस्य विदूरतः । विश्वमप्यश्नुवानस्य नक्तं न तमसो गतिः ॥ ६२ ॥ सर्वातिशायिनं तस्य महिमानं विजानताम् । वैमानिकानां मरुतां यत्र नोर्ध्व प्रवृत्तयः॥६३॥ अलक्षितजनिः श्रीमान् सकलेन्द्रियमोहनः । पारिजातप्रसूनानां वितन्वानः पराभवम् ॥ ६४ ।। (पोरी?)मेय इवामेयघनश्रमविनाशनः । यत्र जागर्ति सततं कश्चित् परिमलोदयः ॥ ६५ ॥ (युग्मकम् ) तद् वनं नन्दनप्रख्यं मनोनयननन्दनम् । आरादालक्ष्य रामस्य बभूवोत्फुल्लमाननम् ॥ ६६ ॥ तत्रोच्चैर्मार्जनागोष्ठीभेदसङ्कलनोज्ज्वलः । धारालस्निग्धगम्भीरः शुश्रुवे मुरवध्वनिः ॥ ६७ ॥ अङ्गहारोच्चलच्चारुहारयष्टिस्वनोधुरः । षडङ्गाभिनयोदश्चत्कङ्कणध्वनिवन्धुरः ॥ ६८ ॥ भावानुगुणसङ्क्रान्तसमोपर्यवपाणिकः । अकाकुमधुरोद्गारः षड्जादिभिरुपस्कृतः ॥ ६९ ॥ हस्तमचारैत्रिंशत्यकारै वितान्तरः। गतिद्वितयसम्भिनलयमध्यादिशोभनः ॥ ७० ॥ पादार्पणकणदेमकिङ्किणीमणिनूपुरः। मुर्छनातानविशदः सर्वश्रुतिमनोहरः ।। ७१ ॥ तत्रैव वापीसलिले निगूढमणिवेश्मनि । सततं कश्चिदाकार्ण वर्णाभिव्यक्तसंस्तवः ॥ ७२ ॥ (फुलकम् ) रघुवीरचरिते धियाप्यधृष्यं रक्षोभिः पावनेत्र तपोवने । निरीक्ष्य तापसं कश्चित् पर्यपृच्छत् तदुद्भवम् ॥ ७३ ॥ स धर्मभृन्मुनिस्तस्मै विस्मयस्मेरचेतसे । उद्भवं सरसः सर्वमाचचक्षे विचक्षणः ॥ ७४ ॥ अस्त्यभिव्यक्तमहिमा प्रशमो मूर्त्तिमानिव । माण्डकर्णिर्मुनिस्तेन तपस्तेपे सुदारुणम् ॥ ७५ ॥ शङ्कमानस्ततस्तस्मात् तपोभङ्गाय वासवः । रूपहावधनाः पञ्च प्राहिणोदुत्तमस्त्रियः ॥ ७६ ॥ तास्तु स्रजमिवादाय तामाज्ञां शिरसा विभोः। सविभ्रमाः पदं जग्मुर्मुनेः परमयोगिनः ॥ ७७ ॥ स्मितानुयात्राशिशिरैरीक्षितैहृदयङ्गमैः । सङ्गीतविद्यया चास्य प्रायतन्त विलोभने ॥ ७८ ॥ ततः प्रवयसा तेन दृशौ काचरतारके। उन्मील्योन्मीलितधिया समदृश्यन्त ताः पुनः॥ ७९ ॥ सुत्राममहितास्तास्तु स्वपदोच्छेदशङ्कया । अमंस्त दिव्यया दृष्टया परच्छन्दानुवर्तिनीः ॥ ८० ॥ ता विलोभयितुं प्राप्ताः पाकशासनशासनात् । वीक्ष्य मन्युर्न तम्यासीत् सर्वत्र समचेतसः ॥ ८१ ॥ यथा प्रतिनिवर्तेरनितो नातः परं पुनः । मया कार्य तथैतावदित्यासीत् तस्य चेतसि ॥ ८२ ॥ अनुमंस्ये न यावद्वस्तावद् रमयतेह माम् । पर्यायेण प्रयोक्तव्यं सङ्गीतं प्रीतिहेतवे ॥ ८३ ॥ इति योगीश्वरस्तासु कृत्वा समयमात्मवान् । ससर्ज तपसा वापी दिव्योद्यानाभिवोष्टिताम् ॥ ८४ ॥ निर्ममे निर्ममस्तस्याः क्रोडे मणिमयं गृहम् । मृदङ्गरपिञ्जोलाविपश्चीतालवेणुमत् ।। ८५ ।। १. 'स्म', २. 'भ्र' क, पाठः.

तृतीयः सर्गः।
तत् प्रविश्य समं ताभित्रिदशैरपि दुर्लभम् ।
लोकेभ्यो दर्शयामास ज्ञानस्वातन्त्र्यविभ्रमम् ।। ८६ ॥
निर्विशन् विषयानित्थं योगेनास्थितयौवनः ।
अप्सरोभिः समं ताभिर्माण्डकर्णिस्तपस्यति ॥ ८७ ॥
एतद् दाशरथे ! वेश्म सर्वेपामप्यगोचरम् ।
पर्यन्तोद्यानमाश्रित्य तमृपि पर्युपासते ॥ ८८ ॥
एतन्मणिमयं तस्य गृहमन्यैर्दुरासदम् !
वन्दस्व मनसा स त्वां श्रेयसा योजयिप्यति ॥ ८९ ॥
इत्थमावेदिते तेन प्रभावे तस्य योगिनः ।
तमेवोदिश्य शान्तात्मा साष्टाङ्गं प्रणनाम सः ॥ ९० ॥
तत्राश्रमपदे तस्य नानाविभवशालिनि ।
रममाणे दृशौ हतु नाशक्नोलक्ष्मणाग्रजः ॥ ९१ ॥
अनपढ़तपुण्येषु तेषु तेष्वाश्रमेषु सः ।
कश्चित् कालं सुखं नीत्वा सुतीक्ष्णस्याश्रमं ययौ ॥ ९२ ॥
पित्रा दशरथेनेव तेन प्रत्यभिनन्दितः ।
साकेतपुरवासस्य सस्मार रघुनन्दनः ॥ ९३ ॥
इति नियमविधानेवप्रमत्तस्य तस्य
प्रसभमृषिकुमारैगहृताभ्यहणस्य ।
अनुदिवसमगस्त्यभ्रातुरादेशभाजो
दश दशरथमूनोस्तत्र वर्षाण्यनीयुः ॥ ९४ ।।
इति रघुवीरचरिते द्वितीयः सर्गः ।
अथ तृतीयः सर्गः।
अथैकदा लब्धमनःप्रसादैस्तपोधनैराहितमित्रबन्धः ।
अगस्त्यमाविष्कृतलोकतन्त्रं प्रभावविद् द्रष्टुमियेष रामः ॥ १ ॥

१४ रघुवीरचरिते तथेति निश्चित्य स निश्चितार्थो महीयसस्तस्य महेन्द्रवीर्यः । प्रहर्षवर्षोद्धरधीमहर्षेरुपासदत् पादसरोजरेणुम् ॥ २ ॥ व्यजिज्ञपचास्मि सुखोषितोऽहं भवादशैरभ्यवपद्यमानः । अगस्त्यमालोकयितुं वरेण्यं मनः समुत्सर्पति कौतुकेन ॥ ३ ॥ ततो यियासापिशुनं तदुक्तं निशम्य किश्चिद् विमना इवाभूत् । मुनिः स्वयंदृष्टपरावरोऽपि सतां क एव क्षमते वियोगम् ।। ४ ।। स तस्य मत्वा व्यवसायमार्यः क्षणं विचिन्त्य क्षपिताहितस्य । मृदुस्मितस्मेरमुखप्रगल्भां गिरं बभाषे गिरिराजसारः ॥ ५ ॥ अभीप्सितं यत् तदिहानुमन्ये भवत्प्रियं कर्तुमियं ममास्था । इदं तु दूये वत तापसानां धृतिः प्रतिष्ठामपहास्यतीति ॥ ६॥ निरस्तनक्तश्चरभीतिसौम्यं स्वकर्मणा सर्वजनातिगेन । तपोवनं राम! भवानियन्तं कालं सनाथीकृतवानिदं नः ।। ७ ।। स्वस्त्यस्तु ते वत्स ! चिराय कामं राम! प्रयातुं द्रुतमारभस्व । तस्याश्रमं येन मुनेरुपेयास्तुभ्यं तमद्योपदिशामि मार्गम् ॥८॥ इतो विनिष्क्रम्य विनिद्रबोधस्त्वं दक्षिणाशां मनसा गृहाण । प्रायेण मार्गः स नरैरगम्यः स्वतो दुरारोहमहामहीध्रः ।। ९ ॥ वनस्थली तावदितः परस्तात् सपिप्पलीपाककषायिताशा । तराशाखामृगकिन्नराणां प्रायेण सा सञ्चरतामुपैति ॥ १० ॥ ततः परं वारणभननालैः परिष्कृता पुष्करिणी सरोजैः। निविश्य तत्तीरलतानिकुञ्ज सहानुगस्त्यक्ष्यसि मार्गखेदम् ॥ ११ ॥ परिस्फुरद्धातुपु गण्डशैलेप्चभिस्रवन्निर्झरनिर्भरेषु । प्रवृत्तदानप्रसरावलिप्तां द्रष्टासि माहेन्द्रगजेन्द्रलीलाम् ॥ १२ ॥ उल्लङ्घय तत् काननमीक्षितासे नदी ससङ्कोचघनप्रवाहाम् । शाखापथैनोभयकूलभाजां तत्र द्रुमाणां जनतोस्तरन्ति ॥ १३ ॥ ३. 'अतस्तु', ४. 'नित्येन सा' ख. पाठ:. १. 'व', २. 'भि' क. पाठः, 'का' क, पाठः, तृतीयः सर्गः । १५ अतीत्य चैनामुपनीतवृत्तिः फलैस्तरूणां परिपाकपिङ्गः । गमिष्यसि ग्रावनिवेशभीमामधित्यकां शृङ्गवतस्त्वमद्रेः ॥ १४ ॥ तस्यामवस्थाय ततो मुहूर्त सुमेरुकूटपतिमानभाजि । सराष्ट्ररत्नाकरशैलदुर्गा दिशो दशालोकयितुं क्षमं ते ॥ १५ ॥ मनीषया माक्प्रकृतां दिशं तामसन्त्यजन्नेव ततोऽवतीर्णः । उपत्यकामेष्यसि दर्शनीयां प्रवृत्तनृत्तैः शितिकण्ठसाथैः ॥ १६ ॥ तमालराजिः कृतमालमिश्रा तत्र प्रभूतप्रसवप्रगल्भर । हिरण्मयाकल्पविशेषदृश्या या वैष्णवी प्रतिरिवति लक्ष्मीम् ।। १७॥ अग्रे पुनर्वर्षजलप्रणाली वेणीरयोन्मूलितशष्पमूला। उपैति सा नाम गुहामगाधां मार्गभ्रमस्तत्र तु राम! मा भूत् ॥१८॥ वप्रेण यान्ती विरलद्रुमेण प्ररूढशष्पोत्करदसितेन । प्रमोक्ष्यति प्रस्तरचारजातां पादव्यथां मैथिलराजपुत्री ॥ १९ ॥ पथापसव्येन गतिस्ततः स्याद् द्रोणीमथ प्राप्स्यसि तुङ्गसालाम् । हेरम्बकण्ठध्वनिभीमभूमा यत्रोच्चकैनिझरपातघोपः ॥ २० ॥ पृष्ठे विधाय प्रमदोद्वहां तां गन्तासि खेलत्कदली वनालीम् । स्फीतामतुच्छस्तबकावननैः सन्ध्याभ्रराजीकपिशैः पलाशैः ॥ २१ ।। नवामृतस्वादुतमैः प्रकामं विनीतखेदो मुचुलिन्दपाकैः । वैखानसोलूनसमित्कुशानां द्रष्टासि शल्कानि सवल्कलानाम् ॥ २२ ॥ शक्यं न वक्तुं पुनरीक्षमीक्षं प्राप्तासि तस्यावसथं महः । यभ्रातृवार्ताप्रतिपत्तिरस्मान् विशेपयत्यन्यतपोधनेभ्यः ॥ २३ ॥ अकृष्टपच्यप्रशमैकधाम्नः किमुच्यते तस्य तपःप्रभावः । अवाप हेतुप्रतिपन्नमन्योर्यस्याम्बुराशिः प्रथमाचमत्वम् ॥ २४ ॥ मावर्तयत् सद्गणराजमित्रव्यपेक्षया लोकहितैकनिष्ठः। आज्ञामलच्या विनियुज्य धाव्या यो विन्ध्यभूभृत्पिटकोपशान्तिम् ॥ --- १. 'त। पथा' ग, पाठः, २. 'सोलून' क. पाठः.

रघुवीरचरिते निरर्गलैश्वर्यभुवा मदेन प्रसक्तचित्तं नहुषं क्षणेन । पदानिमित्ते सति त्रशत्रोरपातयत् भ्रूविकृतिर्यदीया ॥ २६ ॥ स्वचक्षुषा पावकसन्निभेन वातापितापिप्रथमानतेजाः । यः श्राद्धिकः पादहदिल्वलाख्यं द्विजद्विषं तूलमिवाचमन्युः ॥२७॥ सम्माप्य तस्यायुतसिद्धसिद्धेररण्यमारण्यकवासपुण्यम् । ध्रुवं रजोवासनया विमुक्तः सद्यः फलं प्राप्स्यसि जन्मनस्त्वम् ।। तत्राभिवन्द्याखिलदेवतानां स्थानानि दृष्ट्या कलशप्रसूतिम् । आज्ञा पुरस्कृत्य पुनस्तदीयां मुखं नयेथा वनवासशेषम् ॥ २९ ॥ इत्थं मनस्वी गुणवत् तदुक्तं सङ्गृह्य तेन प्रहिताभ्यनुज्ञः । कृतानुयात्रः स तपस्विवगैर्निष्क्रान्तवानाश्रमतस्तदीयात् ॥ ३० ॥ स वीक्षमाणो विविधान् प्रदेशान् सरांसि चोत्फुल्लकुशेशयानि । पतत्रिणां चाभिरुतानि शृण्वन् मार्ग जगाहे मुनिनोपदिष्टम् ॥ ३१ ॥ उदीयमाणां वनदेवताभिलतानिकुञ्जेषु निपेदुपीभिः । लयप्रभेदानुगतामनेकां वनेषु शुश्राव स देववाणीम् ॥ ३२ ॥ स भग्नशाखेषु गर्दुमेपु निर्यातनिर्यासरसेप्ववस्थाम् । अतर्कयद् रामकुठारधारानिकृत्तवाहोः कृतवीर्यसूनोः ॥ ३३ ॥ कदाप्यविज्ञातभियः पुरस्तान्मृगा न तेभ्यः कलयापि विभ्युः । निरीक्ष्य नेत्रे जनकात्मजाया हियेव नूनं विपिने निलीनाः ॥ ३४ ॥ विश्रम्य विश्रम्य घनस्पतीनां छायासु मार्गश्रमहारिणीषु । आप्याय्यमानः स शिवैः समीरस्तपोवनाभ्याशभुवं ददर्श ॥ ३५ ॥ स छायया निह्नतमार्गखेदः स्वसन्निधानेन पवित्रिताशः । आसेदिवान् पल्लवताम्रपादः सरः किमप्यस्तगिरिं च भानुः ॥३६ ॥ महर्षिशिष्याहृतफुल्लपट्टे निमज्ज्य तस्मिन् नियमं विधाय । सौमित्रिसीतासहितोऽथ लेभे मनःप्रसादं मनुवंशकेतुः ॥ ३७ ।। वियुज्यमानेषु रथाङ्गनाम्नां द्वन्देषु योषित्कुचबन्धुरेषु । अमोघवीर्यस्य बभूव मोघा तस्यानुकम्पा मनसस्तदानीम् ।। ३८ ॥

तृतीयः सर्गः। कस्तूरिकाकर्दमलेपशोभा गात्रेषु जैत्रद्विषतां पुरस्तात् । ऊर्ध्वं च बर्हातपवारणत्वं तस्यागमत् सन्तमसावतारः ॥ ३७ ॥ शिवाय लोकस्य शिवानुभावः प्रसज्यमानः प्रसरैर्गुणानाम् । समाप्य सान्ध्यं विधिवद् विधानं तमाससादाश्रममश्रमेण ॥ ३८ ॥ यथा यथा विश्वविपत्प्रमाथी तपोनिधेः सनिधिमाससाद । तथा तथा तस्य महेन्द्रकीर्तमनः प्रसादप्रवणं बभूव ॥ ३९ ॥ गुणैकवन्धुः प्रगुणप्रसादां तपोभृतां भक्तिभरावनम्रः । प्रपन्नरक्षानिरतः प्रपेदे सभां स भानुप्रतिमानुभावः ॥ ४० ॥ स्फुरत्मदीपाकुरसन्निकर्षे श्रुतानि शास्त्राण्यनुवाचयन्ती । युक्तिक्रमाक्षिप्तसमाहितार्था प्रत्युद्ययौ तापसजातिरेनम् ॥ ४१ ॥ ततः क्षणेन क्षणदाचराणां हन्तारमालोक्य तमभ्युपेतम् । शिष्यः प्रविश्योटजमाचचक्षे समाधिभाजे कलशोद्भवाय ॥ ४२ ॥ निशम्य तस्मात् प्रणिधानदृष्टिस्तं प्राप्तमुद्गीर्णमनोरथाप्तिः । तपासमाधेविरमय्य चेतः पर्यवन्धं शिथिलं वितेने ॥ ४३ ॥ प्रवेशितस्तेन वचोहरेण स्ववीक्षणस्मेरविलोचनेन । विभुः सुमित्रासुतमैथिलीभ्यां साध महर्षेश्चरणौ ववन्दे ॥ ४४ ।। आसीनमन्तेवसतां पदव्यामनामयं चाप्यनुयुज्य धीरः। तमूचिवानिन्दुकरावदातश्मथुपभादन्तुरदन्तकान्तिः ।। ४५ ।। स्ववंशविच्छेदभयातुरेण दिष्टया भवान् पतिरथेन लब्धः। दवानलज्वालविलसितेन महीधरेणेव घनाम्बुपातः ॥ ४६ ॥ प्रसन्नतारेन्दु नभः समीराः शिवा निषेव्यौ रविहव्यवाही । रसान्यमम्भः क्षितिरुर्वरा च त्वयि प्ररूढे रघुवंशकन्दे ॥ ४७ ॥ तदा तदा लोकमुखोदितानि श्रुतानि ते वत्स ! दशान्तराणि । अपेतदूरव्यवधानरोधं सदा मनश्चक्षुरवेक्षते त्वाम् ॥ ४८ ॥ मुखेन वर्षाणि बहूनि तस्य भ्रातुः सुतीक्ष्णस्य वसन्नुपान्ते । अवस्थितस्येह गुणैरुदारैर्ममाप्यजस्रं मुदमातनोषि ।। ४९ ॥ D रघुवीरचरिते यथा पितुस्त्वय्यतिकृच्छ्रलब्धे रतिस्तथा तात! ममाप्यमेया। अवस्थितेष्वेवममीषु तावज्जनेषु ते जीवति रामतातः ॥५०॥ स्वयि श्रुते राम! वनं प्रविष्टे त्वदर्थमित्येभिरुपाहतानि । रसाधिकान्येच बहूनि नूनं फलानि नः पर्युषितान्यभूवन् ॥ ५१ ॥ पितुर्नियोगेन वनं विविश्वानितोमुखं प्राप्स्यति रामभद्रः । मत्वेति हृयानि फलानि मूलान्ययातयामानि मयाहृतानि ॥ ५२ ॥ निर्वापितः सूनृतया गिरेत्थं खर्वेतरज्ञानधनेन तेन । आसक्तचेता नियमव्रतेषु मासत्रयीमत्र वसन्नरस्त ॥ ५३ ॥ मुनिस्तमन्येयुरुदात्तसत्त्वं त्रैकालिकज्ञाननिधिर्विचिन्त्य । शिरस्युपाघ्राय जटापिशङ्गे जगाद वाचं जगतां शरण्यम् ॥ ५४ ॥ तवायमस्मत्सविधे निवासः शश्वत् परं रोचत एव मह्यम् । तथाप्यहं त्वामधिकृत्य वक्ष्याम्यल्पावशिष्टा वनवासवेला ॥ ५५ ॥ अस्मादवाची दिशमाददानः प्रस्थाय सव्येन मधूकजातम् । छायानिषण्णस्वपदृश्ययूथं न्यग्रोधमग्रे पुनराश्रयेथाः ॥ ५६ ॥ तमप्यतिक्रम्य विशालशाख क्षुद्रस्य शैलस्य पुनः पुरस्तात् । प्रेक्षिष्यसे पञ्चवटीति नाना ख्यातां ततः कामपि पुण्यभूमिम् ।। विधाय तस्यामथ पर्णशालां छन्देन वृन्दारकवद् वसन्तम् । त्वां सेवितारः कृतपनमैत्रा गोदावरीवीचिभिदः समीराः ॥ ५८ ॥ उद्भाविता सा किल गौतमेन ब्रह्मविषा ब्रह्मगिरेः पतन्ती । सर्वात्मना राम! निषेव्यमाणा पुंसां कृतार्थीकुरुते मनांसि ॥ ५९॥ तरारङ्गत्कलहंसमाला प्रसाधिता तीरवनप्रसूनैः । कर्पूरपूरच्छविसकता सा समुद्रगा सञ्जनयेन्मुदं वः ॥ ६० ॥ तत्र स्थितः पावन ! पालयन् नः सत्यवतत्वं च पितुर्यथावत् । अनन्यसाधारणभूरिकर्मा जन्मेदमुच्चैः सफलीकुरुष्व ॥ ६१ ॥ 1. 'प' स. पाठ तृतीयः सर्गः। विपत्रियामासमयमभाते जाते दुरापे समयावसाने । सभ्रातदारप्रकृतिः मुखानि निर्वेक्ष्यसि प्राप्य शुभामयोध्याम् ।। इदं धनुर्वैष्णवमप्रधृष्यं जैत्रं गृहाणेषुधिखड्गयुक्तम् । अनेन लोकस्थितिकर्महेतोारायणः प्रागजयत् मुरारीन् । ६३ ॥ यदस्ति सौमित्रिगतं धनुः स्यादेतत्समं तच्छरधी च तस्य । रणेषु पाणैः परिपूर्यमाणो खड्गश्च वज्रादपि सारधारः॥ ६४ ॥ दिने दिने तामवतीर्य सिन्धुं स्नान्ती भवद्योगविलीनशोका । सीता गिरिमान्तरखेदभाजोरेषा विषादं पदयोहातु ॥ ६५ ॥ प्रयास्यतस्ते शिवमस्तु मागें भूयात् पुनर्दर्शनमेवमेव । अकिञ्चनां तापसजातिमेनामवेहि तात! त्वदधीनरक्षाम् ॥६६॥ तेनातिसृष्टान् परिगृह्य हेतीन् प्रीतस्तदाज्ञां हृदये निधाय । भारण्यकापाङ्गकृतानुयात्रः प्रातिष्ठत प्राणभृतां विनेता ॥ ६७ ॥ तथा कृतस्वस्त्ययनः स तस्माद् विनिर्गतः प्रस्तरमाश्रयन्तम् । शरीरबन्धेन महत्तमेन भयानकं गृध्रपतिं ददर्श ॥ ६८ ।। रक्षोधियालक्ष्य निहन्तुकाममात्मानमेनं कृतम्नृतोक्तिः । अनूरुजत्वं पितृमित्रतां च स्वनाम गोत्रं च समाचचक्षे ॥ ६९ ॥ उवाच भूयोऽपि वसनिहाहं सम्पातिना पूर्वभुवा नियुक्तः । अरण्यवासे तव राम! साह्यं करोमि विष्णोरिव वैनतेयः॥७० ।। इत्यारुणिव्याहृतमादरेण श्रुत्वा नवीकृत्य पितुश्च सख्यम् । गत्वान्तरं राक्षसकुञ्जरालीपश्चाननः पञ्चवटीमवाप ॥ ७१ ।। स तत्र कर्णानुगुणप्रवृत्तैः शृङ्गारितान् कापि रुतैः खगानाम् । विचित्रनानामृगसभिपातान् कचित् कचित् ताण्डवितान् मयूरैः।।७२।। पुष्प्यखनच्छायमहावनान्तैः कचित् परिस्तोमितहस्तिशोभान् । कचिच भूभृत्कटकान्तरेषु सचित्रलेपानिव धातुरागैः ॥ ७३ ।। नवप्रवालपतिमैः प्रवालैः कचित् तरूणां कृतसान्ध्यकान्तीन् । विलोकयामास विलोभितात्मा स्वाशंसिता रम्यतरान् प्रदेशान् ॥७॥ ( कुलकम् ) 1. 'शिवाम' ख. पाठः. 'मातः स्व' क. पाठः. ३. 'दभ्यधिकान्' ख. पाठ .. .

२० रघुवीरचरिते समित्कुशैलाफलपिप्पलीनां समृद्धियोगादनिसृष्टकामा । निश्थूषयामास मनस्तदीयं सवेणुतुम्बी विपिनान्तभूमिः ॥ ७५ ॥ प्रसक्तवानीरलतागृहाभिस्तटस्थलीभिग्रंथनं गतेषु । मुखावतारा पुलिनोच्चयेषु गोदावरी पुण्यजला व्यलोकि ॥ ७६ ॥ स्फुरद्भिर्मिप्रसरेषु भानोमरीचिभिर्लब्धतरावगाहैः । आविभ्रतीव व्यतिपज्यमानां पारिप्लवां काञ्चनजालमालाम् ॥ ७७ ॥ शैलस्तनोपान्तमुपाश्रयन्ती पाथःकणैर्व्यञ्जितमौक्तिकश्रीः । उदन्वदम्भःपरिधानलम्वा वसुन्धराया इव हारयष्टिः ॥ ७८॥ परिस्फुरत्केसरराजिराजसितारविन्दप्रतिरूपरूपैः । दुग्धावदातयुतिभिस्तरद्भिर्मरालयूथैरविशेषितोर्मिः ।। ७९ ॥ महीध्रपादान्तरगोचरेपु स्खलत्पचारा विषमोपलेपु । महोर्मिभिर्वायुवशोपपन्नैः सखेदनिःश्वासमिवाचरन्ती ॥ ८ ॥ दृष्ट्वा सपत्नीः सरितोऽभियुक्ताः पत्या प्रभूतोत्कलिकानुबन्धा । द्रुतं महागोत्रभवा रुपेव स्फुरत्तरङ्गाधरमापतन्ती ।। ८१ ।। सा वल्गुवल्गच्छफराभिरामा शिवा पयोभिः स्फटिकप्रकाशैः । समुन्मिपत्पद्मपरागताम्रा बभूव तस्याशयकार्मणाय ॥ ८२ ॥ ततः समन्तादवलोक्य धीरस्तस्याः शुभे रोधसि रोचनीये । स्मृत्वा विधिं वेश्मनि पर्णशालां कर्तुं सुमित्रातनयं न्ययुत ॥ ८३ ॥ स देहली मृत्तिकयाश्यवत्या समन्ततः श्लक्ष्णसमानलिन्दान् । मागुत्तराशापवणं च शालासंस्थानमानं परिवृत्त्यपेतम् ॥ ८४ ॥ अधिच्छदं शैलशरकाण्डेशस्थितिं वंशवरेण भूयः । पर्यन्तभित्तिं तृणपूलकाष्टैरकल्पयत् कल्पविदां पुरोगः ॥ ८५ ॥ (युग्मकम् ) यथाविधानं स विधाय तस्यां वलिं बलिद्वेषिसमानतेजाः । प्रणम्य सीतापतये स तस्मै निवेदयामास च तां सुजाताम् ।। ८६ ॥ सन्दानिता वेत्रलतावितानैर्मृदुभवालास्तरवल्कशय्या । तेनोपनीता रघुराजसूनोहदि प्रहर्ष प्रथयाञ्चकार ॥ ८७ ॥ ..न्त' ख. पाठः.

चतुर्थः सर्गः । अनुष्ठितस्नानविधिः स नद्यां सौमित्रिणा हारितवन्यवृत्तिः । प्रियाणि कुर्वन् जनकात्मजाया निनाय कालं कमपि प्रतीतः ।। ८८ । महोपलतटस्खलत्पलघुवारिगोदावरी- तरङ्गसुहृदम्बुजप्रकरगन्धसर्वकषैः मरुद्भिपसेवितः सवितवंशचूडामाणः शिवामाशिवभेदकः स्फुटममस्त तत्र स्थितिम् ॥ ८९ ॥ इति रघुवीरचरिते तृतीयः सर्गः । अथ चतुर्थः सर्गः। तत्र पर्णभवने वसन् प्रियामाकलय्य कुसुमग्रहोत्सुकाम् । लक्ष्मणेन च तया च संयुतः प्राविशत् परिसराश्रयं वनम् ॥ १ ॥ कौतुकस्तिमितचारुलोचनव्यजितप्रचुरचित्तसम्मदाः । तानुपेत्य वनदेवताश्चिरं काननान्तरगता व्यलोकयन् ॥ २॥ उद्गतं मुकुलितं विकस्वरं क्षीवभृङ्गमुखरं मधुव्वैः । प्रेक्षते स्म कुसुमं महीरुहां जानकी जनितलोचनोत्सवैम् ॥ ३ ॥ दर्शयन्त्यनिजहस्तगोचरां राघवाय यशसां प्रसूतये । सुग्रहां कुसुमपतिमादराद् गृह्नती विचरति स्म भामिनी ॥४॥ कूजितैर्मुखरिताः पतत्रिणां मेदुराईमधुगन्धनिर्भराः । रामभद्रदयिताविलोभने प्रायतन्त विपिनान्तभूमयः ॥ ५॥ स्वैरमत्र विनियुज्य लोलतामातपे भवति यौवनोन्मुखे लक्ष्मणाग्रजमनुव्रता सती गौतमीमभिषवाय सा ययौ ॥ ६ ॥ पद्मकेसरकषायितोदकां तां विलोक्य तरलोमिमालिनीम् । लोकलोचनचकोरचन्द्रिका सा निनाय हृदयं महोत्सवम् ॥ ७ ॥ राघवस्तु दिनमध्यगोचरं संविधाय विधिना विधि विभुः । आतपप्रसरकर्शितां प्रियामात्तबन्धुरनयत् स्वमाश्रमम् ॥ ८ ॥ 1. 'सोजन्वितः' ख. १. 'त्य' क. पा.. २. 'वा', १२ रघुवीरचरिते प्राप्य पर्णभवनं भवोपमः स्वादुमूलफलहारितश्रमाम् । सायमायतविलोचनामिति व्याजहार सरिदन्तिकस्थितः ॥९॥ उन्मिपत्कुसुमचूतचम्पक(स्फा स्वै)रवासवि(रवी रुवाणषट्पदः । सौरभोपचितचैत्रमारुतः कस्य नाम समयोऽयमप्रियः॥१०॥ खेलति भ्रमरपतिरुन्मदा पङ्कजेषु मधुगन्धबन्धुषु । काननानि सुमनोभिरुज्ज्वलान्येति वायुरुपसेवनीयताम् ॥ ११ ॥ अंसभूविनिहितेक्षुकार्मुकः स्वैरतश्चरति पुष्पसायकः । उमन्ति मदिराक्षि! कोकिलाः पञ्चमं जितविपश्चिनिःस्वनाः॥१२॥ इन्दुरुद्भिरति चन्द्रिकामृतं सौरभं सृजति कैरवाकरः । स्वातिवम॑सुविभक्तमम्बरं भूषयन्ति रजनीषु तारकाः ॥१३॥ न स्मरत्यमलवारिसेवया मानसस्य कलहंससंहतिः । लीलयन्ति लहरीषु सारसा जागृतश्च मधुमाधवावुभौ ॥ १४ ॥ कौमुदीपरिचयेन तुन्दिलाः सम्पतन्ति विवशं चकोरकाः । रत्यनेकरसमाजमीदृशं कालमेनमवधारयाशये ॥१५॥ अम्बरादवतरत्यवाङ्मुखे स्यन्दने झटिति सर्पितारुणे । पश्य नूनमवपातशङ्कया कूवराग्रमवलम्बते रविः ॥ १६ ॥ अस्तशैलशिखरावलम्बिना पद्मिनीसहचरेण तेजसा । फलप्यते निजरुचा दिशां मुखेष्वद्भुता घुसृणपकचर्चना ॥ १७ ॥ अस्ति कालगतिरित्यविप्लवा काचिदिन्दुमुखि ! यद् दिवाकरः। तर्पयनपि जगद् वसूचयैः स्वां विपत्तिमपनतुमक्षमः ॥ १८ ॥ संहृतांशुविभवः सरित्पतेरम्भसि प्रपतने कृतोद्यमः। एष भूषणमणिनभोभुवस्तावदावहति नेत्रगम्यताम् ॥ १९ ॥ पश्य पदमुखि! पाथसां निधावर्धमग्नमहिमांशुमण्डलम् । यस्य रश्मिनिवहः परापतन् हेमसेतुरिति भाति साम्पतम् ॥ २० ॥ 1. 'सारम्', २. 'तिः' ख, पाठ:. ३. 'तन्द्रियाः स' क. पाठ:.

चतुर्थः सर्गः। चम्बुसम्भृतसरोजकेसर चुम्बतोः प्रणयवन्धमन्थरम् । दिष्टविप्रकृतयो रथाङ्गयोः किं वदामि इतकं दशान्तरम् ॥ २१॥ अस्तमेति सविता हुताशने समय्य महिमानमात्मनः । चक्रवाकहृदयेषु निक्षिपर्न पावकं च निजकान्तगोचरम् ॥ २२ ॥ भास्करस्य पदवी प्रवत्स्यतः सानुतापमनुसृत्य कान्तया । सङ्कुचकमलवक्रशोच्यया सन्ध्यया निववृतेऽनुरक्तया ॥ २३ ॥ लीनमप्यचलगहरोदरेष्वेतदन्धतमसं दिवा पुनः । आगते स्वसमये निरन्तरं पश्य विश्वमुपरुध्य वर्तते ॥ २४ ॥ मन्दिहस्तहतचारुपुष्करध्वानसनिहितदेवतागणः । सान्ध्यताण्डवविधौ विषजते पार्वणेन्दुमुखि ! पार्वतीपतिः ॥ २५ ॥ राजसूतिमचिरेण भाविनी व्यञ्जयद् विहितनेत्रकौतुकैम् । पश्य तावदमरमभोर्दिशः पाण्डिमानमवलम्बते मुखम् ॥ २६ ॥ ताम्रकान्तिरुदयक्षमाघरे सामिदर्शितवपुः सतां पतिः । एष पोषयति कुकुमच्छटालीतावकललाटविभ्रमम् ॥ २७ ॥ ज्योत्स्नया जगदपि प्रसाधयन् बोधयन्नपि च कैरवाकरम् । कालयन्नपि तमांसि चन्द्रमाः स्वं कलङ्कमपमाटुंमप्रभुः ॥ २८ ॥ एवमाकलितवानिवन्धनस्तां प्रति प्रियगुणां प्रियंवदः । गौतमीपयसि तत्र वाग्यतः कर्म सान्थ्यमनुतस्थिवान् पुनः ॥ २९ ॥ तं तथा नियमभाजमेकदा नालमात्रपरिशेषिताम्बुजः । आत्मवैभवमृतुर्विभावयन् माप निस्तुषतुषारभूषणः ॥ ३० ॥ प्रस्तदीधितिबलः प्रसर्पिणा तत्र तत्र तुहिनेन भूयसा । लक्ष्यते स्म दिवि हैमनो रविः पूर्णचन्द्र इव सौम्यदर्शनः ॥ ३१ ॥ साण्डवभ्रमिविधायिधूर्जटिक्षिप्तभूरिभसितानुकारिभिः । अन्वभावि हिमविभुषां चयैयोन्नि शुभ्रशरदभ्रविभ्रमः ॥ ३२॥ १. 'अनमेष नि' स. पाठः. २. 'तिष्ठते', ३. 'कात्', ४. 'न' क. पाठः.

राघवस्य तरुवल्कवाससः। रघुधीरचरिते शीतभृङ्गलितशब्दसंविदां सन्निकर्षमुपसेदुषामपि । नेत्ररोधिनि हिमे परस्परं जज्ञिरे न मिथुनानि पत्रिणाम् ॥ १३ ॥ मूर्छतीति समये तथाविधे शीतशान्तिरुदपादि भूयसा जानकीकुचसरोरुहोष्मणा ॥ ३४ ॥ तत्र कापि मलिना निशाचरी तं प्रदेशमगमद् यदृच्छया । रावणस्य भगिनी भुजाबलक्षिप्तमर्त्यसुरदैत्यतेजसः ॥ ३५ ।। स्निग्धपिङ्गजटमुग्रमूर्धजा पद्मलोचनमलातलोचना । घोणमवनम्रनासिका मङ्गलाङ्गमशुभावलोकना ॥ ३६ ।। मुष्टिमेयतनुमध्यसुन्दरं तुन्दिला शिवगिरं शिवारुता । पद्मचारुकरपादपल्लवं तालखण्डपरुषाङ्कभीषणा ॥३७॥ शिञ्जिनीकषणरञ्जिताङ्गुलि शोणिताक्तनखराकुशोल्बणा । साधुचेष्टितमसाधुकारिणी सा ददर्श तमनङ्गबाधिता ॥ ३८ ॥ नागलोकजयहेतवे गतं या पति रणविलम्बितागमम् । पन्नगीषु रतिशङ्कया किल प्रापयत् कवलभावमीर्ण्यया ॥ ३९ ।। ऋक्षकासरमृगेन्द्रदन्तिनः क्षुद्रशान्मुखबिलप्रवेशिताः । साधु यज्जठरगाः परस्परं कुर्वते स्म कलहायमानताम् ॥ ४० ॥ धूमधूम्रतनुकान्तिरावभौ या हि तापसकपालमालिनी । यातुधानकुलनाशसूचनी कालरात्रिरिव भीमदर्शना ॥४१॥ तत्र शूर्पणखया तया विभोः कान्निसारपरिवेषितं वपुः । वीक्ष्य विश्वकरणप्रमाथिनी लभ्यते स्म हृदि कापि विक्रिया॥ ४२ ॥ अम्बरीषसहशा दृशा विभुं वीक्ष्य वीक्ष्य परिरब्धभूरुहा । तद्धिया रतिमवाप तत्र सा कल्पना हि कुरुते तदात्मताम् ॥ ४३॥ छबकञ्चुकितभीषणाकृतिर्निनगेव जलगूढनक्रका । सा पचेलिमगुणप्रसाधनं वायसीव कलहंसमासदत् ॥ ४४ ॥ मन्मथाभिहतिविहलाक्षरं व्याहरच्च निकषावतस्थुषी। जानकीपतिममर्षरोपितभूविकारपरुषीकृतानना ॥४५॥ १. 'लं' ख. पाठ:. २. 'ष्टि' क. पाठः.

२ चतुर्थः सर्गः। स प्रभुःकच गभीरतापदं तादृशां क वचसा प्रवृत्तयः । प्रायशो मदनरूढचेतसां न क्षमाक्षममवेक्षते मनः ।। ४६ ॥ कस्त्वमत्र विपिने जटाधरश्चारुचीरपरिधानसंवृतः । अन्वितः प्रमद यानुरक्तया स्वैरगाग्निधर्मदृपणः ॥ ४७ ॥ द्वन्द्वभावमवमुच्य दूरतः सर्वतः समदृशां तपस्यनाम् । बन्धहेतुषु वधूपु तादृशां सन्निधिं न विननोनि मानसम् ।। ४८ ।। पत्युरन्तिकमुपेयुषी सदा भक्तितस्तदुपनीनमंविधा । क्लेशनिस्सहतनुः प्रियंवदा सा वधूपु गाणकेनि गण्यते ।। ४९ ॥ भर्तुरर्थनिरतां सहिष्णुतां गेहकमल परं वितन्वतीम् । अर्थधर्मविधियु प्रबोधिनीमामनन्ति गृहिणी पुराविदः ।। ५० ॥ काननादृपिसुरवधाभुजामहणाय फलम लवर्हि पाम् । संहतीरुपनयन्त्यहर्निशं त्वामहं परिवगम्यनुबना ॥ ५१ ॥ त्वामनर्घगुण! दिष्टदर्शितं वीक्ष्य विस्मयगना पनि वृणे । त्यक्तमानुषसुरासुरादरा नान्यमेत्य रपते मतिर्मम ॥ ५२ ॥ निर्गुणां स्त्रियमिमां विमुञ्चता मय्यनुग्रहदृशं वितन्वता । कामवर्त्म विशता यथासुखं दीघमायुरुपयुज्यतां त्वया ॥ ५३ ।। इत्यनङ्गहतचित्तया तया वाशितानि विहितानि शृण्वता । अभ्यधायि रघुराजमूनुना सम्मिताननमगावचेतसा ॥ ४ ॥ युक्तमेतदिह यद् ब्रवीपि मां कम्त्य जत्यभिमृतां स्वयं वधूम् । अप्यहं प्रथमसम्भृतामिमां त्वत्कृते न परिहातुमुत्सहे ।। ५५ ।। मत्सरेण दधतीमयुक्ततां सर्वकर्मसु जनः सचेतनः । कुण्ठतां सुखपथे वितन्वतीमाद्रियेत बहुदारतां कथम् ।। ५६ ॥ भद्रमस्तु तव वाञ्छितं वृथा मास्म भूच्च मनसा पतिंवरे !। प्राप्य सुन्दरि! वृणीष्व लक्ष्मणं नासिकाक्षतिमसो विधास्यते ॥ ५७॥ शृण्वती गदितमित्यपत्रपा लक्ष्मणाय निजमीप्सितं जगी। आशु तेन च निषिद्धसङ्गमा राममेव पुनरप्युपासदत् ॥ ५८ ॥ १. 'तिवेलया', २. 'पाशम' क. पाठ:. ३. 'तां प्रियां त्व' स. पाठ:. .

रपुषीरचरिते रामलक्ष्मणकृते गतागतं सा विधाय बहुशः स्मरोद्भुता । रोषवेगपरुषीकृतानना राक्षसी स्वमहिमानमानशे ॥ ५९ ।। सत्वरं भुजगृहीतलक्ष्मणा व्योममार्गमवगाहते स्म सा। कर्णनासमसिना तदीयमप्युच्चकर्त स विकर्तनोपमः ॥६० ॥ अप्रमेयधृतिविक्रमौजसा तेन सा धृतरुषा विरूपिता । वासितद्विरदसिंहसंहतिः क्रन्दितैर्विलुठति स्म भूतले ॥६१ ॥ निर्गता व्रणमुखादसक्युतिं धातुताम्ररुचिनिझरोपमाम् । उद्धृतोष्ठपथवाहितां मुहुः प्रापयद् वदनगहरान्तरम् ।। ६२ ॥ घिरूपिततराकृतिः प्रसभमेव नक्तंचरी तथा विरुदती भृशं प्रलयमेघभीमस्वनम् । अशेषजनलोचनपतिगृहीतलावण्ययो स्तयोरुपरि सम्भृतां मदनवश्यतां नात्यजत् ।। ६३ ॥ ततोऽपमृत्य रंहसा विरुग्णशैलकानना । सुरासुरममाथिनं खरं जगाम चेतसा ॥६४ ।। इति रघुवीरचरिते चतुर्थः सर्गः । . अथ पञ्चमः सर्गः। अथाखिलक्षेमविधानदक्षस्तां कृत्तनासाश्रवणां विधाय । गोदावरीवारिकतावगाहः सौमित्रिरिक्ष्वाकुवरं प्रपेदे ॥१॥ इत्थं प्रवृत्तेऽभिनवे विरोधे निशाचराणामतुलानुभावौ । तौ भ्रातरौ कर्मसु लब्धवो बभूवतुस्तत्र कृतावधानौ ।। २ ।। तथा जगत्पालनजागरूके सलक्ष्मणे तस्थुषि रामभद्रे । खरं जनस्थानगतं समेत्य स्वामापदं शूर्पणखा शशंसे ॥ ३ ॥ ततस्तथाभूतदशान्तरां तां निरीक्षमाणः स समग्रतेजाः। पयोधिरौर्वाग्निशिखामिवान्तर्मनस्यपारां रुषमाजहार ॥ ४ ॥ अभूच्च दुर्दर्शममर्षवह्निस्फुरत्स्फुलिङ्गाकृतिलोचनस्य । दाक्षायणीनाशविवृद्धमन्योः पत्युः पशूनामिव तस्य रूपम् ॥५॥ १. 'ति'. २. 'से' क. पाठः.

पञ्चमः सर्गः। २७ चराचरस्य प्रलयं चिकीर्षोरमर्षिताशीविषभोगभीमः । तस्यैकबाहुर्धनुराललम्बे युगावसानाशनिभीमघोषम् ॥ ६ ॥ हस्तोऽपरस्तस्य जगत्पमाथी नखांशुकिर्मीरितपत्रशोभम् । शिलीमुखं प्राणहरं परेषां विषं महानाग इवाजहार ॥ ७ ॥ ततत्रिमूर्ध रणमूर्त्यजेयं स दूषणं दूषितसत्पथं च । नियुज्य नेतुं पृतनां युयुत्सुः सुकल्पितं स्यन्दनमारुरोह ॥ ८ ॥ समग्रतेजस्तनुरुत्स्खलन्नी रिपुपयुक्तास्त्रकिगोत्करेषु । उरःस्थलमाङ्गणमेत्य तस्य स्वरं समक्रीडत वीरलक्ष्मीः॥९॥ कल्पक्षयोवृत्तकपालपाणिप्रयुक्त हुंकाररवप्रचण्डः । पदं द्वितीयं परमस्य पुंसस्तद्यानतूर्यध्वनिराववार ॥१०॥ सेना जगज्जीवनहारिणी सा यियासतस्तस्य पुरः प्रतस्थे । प्रमुष्णती सद्गणकान्तिमुच्चैरुदेष्यतश्चण्डरुचः प्रभेव ॥११॥ तुरङ्गमातङ्गशताङ्गयोधैराक्रान्तयाग्रे जनितं धरिया । रजः समीरप्रकृतप्रसारं प्रावर्ततादृत्य ततः पतङ्गम् ॥ १२ . अर्काशुसम्पर्कसमिद्धरोचिजटालशस्त्रपकरप्रकीर्णम् । सविद्युतां नीलवलाहकानां श्रियं दधौ राक्षसचक्रवालम् ॥ १३ ॥ तं शारिकाः प्रस्थितमाजितोर्निरोदुकामा इव सम्पतन्त्यः। विभावितागामिविपति वीचीकूचीतिशब्दानसृजनुपान्ते ॥ १४ ॥ सन्ध्याभ्ररक्ताम्बरसंवृतानां मलीमसत्वेन तिरस्कृतानाम् । रजस्वलानां हरिदङ्गनानां धूमोपरक्तानि मुखान्यभूवन् ॥१५॥ असृग्वसाचर्चिततीक्ष्णचञ्चुनिमन्त्रयिष्यन्निव मृत्युदूतम् । रक्षांसि नेतुं पतिसभिकर्ष केतौ पदं तस्य चकार गृध्रः ॥ १६ ॥ व्यातीखेरग्निमिवोद्विरन्त्यः शिवाः प्रदीप्तां दिशमेत्य नेदुः । रक्षःकुलग्नं रघुवंशरत्नं भानोरिवावेदायतुं प्रवृत्ताः ॥ १७ ॥ युक्तस्तुरङ्गः क्षरितमहरामूत्रयन् भाविनमन्तरायम् । रामं त्रिलोकप्रथितं जिगीषोरुदस्खलत् तस्य रथः समेऽपि ॥ १८॥ १. 'गौरिवि' क, पाठः.

रघुवीरचरिते ? २८ उच्चैरवष्टभ्य ततः स्वसारं स्वंसारमग्रेस विधाय वीरः। नेत्रप्रभापिञ्जरितान्तरिक्षस्तत्राभवद् यत्र स रामभद्रः ॥ १९ ॥ अथोत्थितां धूलिमवेक्ष्य दूरात् तत्कोपबढेरिव धूमराजिम् । अलक्ष्यधाम्ना रघुपुङ्गवेन कोदण्डदण्डे समधायि दृष्टिः ॥ २०॥ रूपामृतं निर्विशतः प्रियाया रवानथाकर्णयतश्चमूनाम् । विभोरभिव्यश्चितरागरोपा नेत्रद्वयी भिन्नदशा वभूव ॥ २१ ॥ सीतां निधायावरजेऽसहिष्णुः स्वान्ते स सन्धामिव सत्यसन्धः । नभश्वरानाननचन्द्रकान्त्या प्रत्याययात् ? न् ) प्रत्युदियाय सैन्यम् ।। तत्रोदित तादृशि सम्प्रहारे रक्षाभिरिक्ष्वाकुवरस्य तस्य । दिदृक्षयाविष्कृतहर्पनत्रैवैमानिकैः कञ्चुकितं नभोऽभूत् ।। २३ ।। रक्षांस्यनेकानि तमेकमाजौ धृतप्रयत्नानि तपस्विवेपम् । दृढानुभावस्खलिताशयानि वीरं प्रहर्तुं सहसा न शेकुः ।। २४ ॥ ततः प्रपद्य प्रकृति प्रचण्डां रक्षांसि रामं विशिखैररुन्धन् । पयोदवृन्दानि सगर्जितानि धागभिपातैरिव शैलराजम् ॥ २५ ॥ न चाददानं न च सन्दधानं न च प्रमुञ्चन्तमिपूनमंस्त । रामं तु रक्षःपृतना तदीयं धनुः सदा मण्डलितं ददर्श ॥ २६ ॥ काकुत्स्थमव्याहतविक्रमं तं विद्वानपि ज्ञातखरानुभावः । आलोकयिप्यन समिति कथश्चिद् भयादयात् स्वर्गसदां समाजः ॥ महानयं रामखराभियोगः स्थानानयोः कस्य मते जयश्रीः । विजेष्यते राम इति प्रभिन्ना नभश्चराणामुदपादि वाणी ॥ २८ ॥ निरीक्ष्यमाणः कृतमूर्धकम्प खरेण गम्भीरतरस्मितेन । प्राग्वासनासंस्तुतभीतिवश्यः क्षणादपाकामदमर्त्यलोकः ॥ २९ ॥ भनुर्गलद्रामशरप्रवाहे निमज्ज्य निर्धावितविग्रहेभ्यः । निशाचरेभ्यः स्पृहयागताभिरलङ्कृतं व्योम सुराङ्गनाभिः ॥ ३० ॥ सा वाहिनी शूर्पणखाभिमर्शात् संरम्भसन्धुक्षितवीर्यसारा । तस्मिन् जगद्रक्षणलब्धवर्ण शस्त्राणि चास्त्राणि च पर्यमुञ्चत् ॥ ११ ॥ 'सा' स.पाठः.

पञ्चमः सर्गः । २९ प्रस्तासवः शोणितरागशून्याः प्रवेशनिर्याणसमानकालाः । बाणा निशाता रघुपुङ्गवस्य नैवालगन व्यधुनां तन्यु ॥ ३२ ॥ स कन्दुकक्रीडनकं शिरोभिलीलाम्बुजानि त्रुटितभुजाः । वापीरसकर्दमवाहिनीभिर्वीरश्रियः कल्पयति म्म वीरः ॥ ३३ ॥ आकर्णमाकृष्टधनुर्विमुक्ताः क्रव्याशया युद्धभुवं गनाम् । श्वगृध्रगोमायुपिशाचजातिप्यपि प्रमादान्न शरा निपतुः ।। ३४ ॥ अलं मथित्वा भुवनानि गर्वादतःपरं वः स्थिनित्र मा भून । निशाचरानित्थमुदीरयन्तः कृतान्तदता इव तस्य चाणाः !! ३५ ।। शब्दायमाना कलितातिरुच गमाङ्गुलीमितुरं गृहीता। वरूथिनीमाकुलतां नयन्ती शरप्रपञ्च सुपुत्र धनुा ।। ३६ ॥ विशुद्धिमन्तःकरणस्य गुर्वीमभित्रमंग प्रतिदीयन्ति । रक्षांसि रामप्रहितान् पृपत्कान् न प्रत्यङ्गनपान्तभागैः ॥ ३७ ।। शिलीमुखेर्दाशरथिममुक्त निकृनजलायकीनमा । रक्षोभटैः कैश्चन साम्पराये कूपासकम्याक निरन्चकारि ॥ ३८ ॥ शस्त्रेषु हस्ता स्थिरमुष्टिवन्धं पादा दृढानिवेशमुद्राम् । न मन्युमानग्रहणं च वायपि प्रमानि जदुभटानाम् ।। ३९ ॥ व्यात्ताननश्रोत्रगुहा गजेन्द्राः कुथेन धातुश्रियमावन्तः । विकीर्णपादाः क्षत क्षरन्तः पेतुर्गतीधा इव लूलपाः ।। ४ ।। छिन्नेऽपि तस्येषुभिरुत्तमाङ्गे ससादिनः स्वस्य निरस्तहेपम् । अश्वीयमभ्यासवशान्मुहर्ने पदानि चक्रे गुधि पौग्निन ।। ४१ ॥ भग्नध्वजापस्करक्वराक्षास्त सायकैरम्नामिनाविलाथाः । रथाः समुद्रानिलवेगरुग्णः पोतस्तुलापारुरुहुलदानीम् ।। ४२ ।। रक्षांस्यनेकानि जगत्प्रमाथीन्येकः पदातिः शितिपालपूनुः । अस्त्वेतदेवं स तथापि वीरः कृतान्तवश्यानि चकार तानि ।। ४३॥ रामेषुतीर्थेषु तथाप्लुतानां त्रिविष्टपं प्रा-नुवनां भटानाम् । आसीदहपूर्विकया विमर्दः सुराङ्गनानामुपसङ्ग्रहाय ॥ ४४ ॥ १. 'यु',. २. 'प्रवेशः स्वयंवरश्चापि मुराङ्गनानाम् ॥ क. पाठः, रघुवीरचरिते खमुत्पतिष्णून् रभसा(न्त्)कान्धान निरोडकामा जगृहुः पिशाचाः। निरस्य ते तान् नतुर्नभास्याः भ्रूनेत्रलीलाविकलैः प्रयोगैः ॥ ४५ ॥ उत्तारमुत्तानितलोचनानि हुकारगर्भाणि मुखानि वीक्ष्य । परेयुषां संयति नैतानां साशमेवापसतं पिशाचैः ॥ ४६ ॥ क्रव्याशिनां वीरगतिं गतानामुवृत्य जिहानयनानि पूर्वम् । स्वशाबवक्रेषु समये पश्चाज्जघास मांसं कठिनं पिशाची॥४७॥ आपूर्यमाणं पिशितोपदंशैरतुच्छरक्तासववाहि भीमम् । स्थानं तदाविष्कृतफेरुगीतं व्यराजतोद्यानमिवान्तकस्य ॥ ४८ ।। अनीकिनी द्रागवमृधमानां स्वां दूषणः प्रेक्ष्य रघूदहेन । रुषोपरक्ताकृतिरत्यम] स्वपौरुषं दर्शयात स्म तस्मै ॥ ४९ ॥ विसर्गनियद्ध्वनिना सरोष हुङ्कारमभ्युद्गिरतेव भीमम् । विदारिणा राघवसायकेन न चक्षमे तस्य बलावलेपः ॥ ५० ॥ कालेन तस्मिन् बलिना निगीणे विव्याध रामं त्रिशिराः शरौघैः । यशःशरीरेण विराजमानः स च द्रुतं दूषणमन्वगच्छत् ॥ ५१ ।। अतृप्तमाजाविव तस्थिवांसं शरासनज्यां ध्वनयन्तमुच्चैः। अपश्यदैवाकमनल्पवीर्यः खरः कृतान्तद्युतिमेकमेकः ।। ५२ ॥ विष्फारयन्तौ धनुरुग्रघोषं परस्पराशंसितकर्मसिद्धी । उभौ मिथस्तावपरोक्षवीयौं गभीरसरंम्भमवैशिषाताम् ॥ ५३ ।। चापौ तयोर्मुष्टिनिपीड्यमानी मौर्वीरवैः क्रन्दितमाचरन्तौ । व्यमुश्चतां रुद्धनमोनिवेशां परस्परस्योपरि बाणराष्टिम् ॥ ५४ ।। कृतप्रतीकारकृतार्यथावत् समानयोस्ताहाशे सम्भहारे । मिथस्तयोस्तत्र जयानुरोधः प्रसह्य गन्धद्विपयोरिवासीत् ॥ ५५ ॥ अहीयताहीनबलस्य सं(खे ? ख्ये) खरः पुरस्ताद् रघुराजसूनोः । तेजोविशेषेण विशीर्णकान्तिः सहस्रभानोरिव शतिरश्मिः ॥ ५६ ॥ रामानुभावेन निजे निगीणे सुरासुरध्वंसकृति प्रतापे । और्वामिनिष्पीतजलस्य सिन्धोः कष्टा दशा निर्विविशे वरेण ॥५७। ---... - 1. 'ववत', २. 'वि' क. पाठ:

पञ्चमः सर्गः। मातभ्रमोऽयं किमु किनु माया स्वप्नागमो वा निहता नु शक्तिः । स्वस्मिन् महिम्न्यस्तमिते दुरन्तां चिन्तामिति ग्रस्तधृतिः प्रपेदे ।। अमानुषं वीक्ष्य स तस्य वीर्य विशुद्धधीर्वीरगतिं गमिष्यन् । निजैरशेषैरिषुभिः समन्तात् समर्चयामास तमात्तधैर्यः ॥ ५९ ।। निर्वाणमाशु प्रतिपत्स्यमानश्छायाविशेष प्रतिपद्य सद्यः। स्नेहात्ययाद् रिक्त इव प्रदीपो भूयोऽप्यतिप्रज्वलति स्म वीरः ॥६०॥ अथापदानेन सुरासुराणां निरत्ययं विस्मयमादधानः । रामाज्ञया पश्चसु वाणमय्या महत्सु भूतेषु समं निलिल्ये ॥ ६१ ॥ व्याप्ते तथा रक्षसि कुम्भयोनि प्रीतः पुरोधाय तपस्विवर्गः । प्रार्ध्वप्रयुक्ताग्रकरोपचारः काकुत्स्थमाशीभिरथाभ्यनन्दत् ॥ ६२ ॥ दिष्टया वनेऽस्मिन् वसतिस्तवासीद् -दिष्टया युवां शूर्पणखाभिपेदे । दिष्टया खरोऽयं विफलीकृतस्तन्मन्यामहे सोधु कृतं तपो नः ॥६३ ॥ इतः परस्तादपनीतमेव स्फीतं भयं नः क्षणदाचरेभ्यः । यशश्च ते शाश्वतमेतदासीदित्येकवाक्यं च पुनर्वितेने ॥ ६४ ॥ सङ्ग्रामसंरम्भवशा(मु१दु)दीतैः स्वेदाम्बुलेशैः कृतफालभूषम् । परिभ्रमस्रस्तजटानिवन्धं खरप्रयुक्तेषुविभिन्नगात्रम् ॥ ६५ ।। स्तोकालसाक्षं धनुरूर्बकोटीधृतकहस्ताग्रकृतावलम्बम् । सीतानुकम्पाप्रणयानुविद्वैरपाङ्गपातैर्निरराजयत् तम् ॥ ६६ ।। (युग्मकम्) इति निशाचरकुलप्रमथनेन मुदितै. मुनिगणैरुपहृताईणविशेषसुहिते । दिविषदां परिषदोऽथ रघुवंशतिलके जय जयेति वचनानि पदवीं विदधिरे ।। ६७ ।। इति रघुवीरचरिते पञ्चमः सर्गः । .. 'तोऽयं मन्या' ग. पाठः, २. 'नस्तपसां सपाकः॥'स. पाठ:.

अथ षष्ठः सर्गः रामाय विश्वोपकृतिक्षमाय स्वस्तीति वाचं मुनयो वदन्तः । निरन्तराये तपसि प्रवृत्ता यथागतं ते प्रतिजग्मिवांसः ॥ १ ॥ दिष्टोपसृष्टेषु निशाचरेषु प्रीतेपु यातेपु च तापसेषु । चापाटनेयामबरोप्य वीरे स्वपाश्रमं जापि रामभद्रे ॥ २ ॥ लङ्केश्वराय प्रथमं मुबेन सौमित्रिलूनावयवोत्कटेन | न्यवेदयणिवा समस्तां दशां वचोऽस्याः पुनरुक्तमासीत् ॥ ३ ॥ (युग्मकम् । रामोपसृष्टान खरदूषणादीन मुहर्नमात्रेण रणेऽभियुक्तान् । सीतां च रामस्य वधूं मनोज्ञा जम्मै पुनः सा कथयाश्चकार ॥ ४ ॥ आलोक्य चाकण्यं च तां तदुक्तं रामं च मत्या महितप्रभावम् । स मैथिली प्रत्युदिताभिपङ्गो वा चिन्तास्तिमितो मुहूर्तम् ॥ ५ ॥ उपस्थिते तादृशि दुनिवारे विनाशकाले विपरीतबुद्धिः । प्रतारणेन प्रततरूपायैरपंत गीताहरणं हितं सः॥ ६॥ निर्धार्य कृत्यं बलवद् बलीयान मरम्भगगोइतचित्तवृत्तिः । क्षमामिवोल्लङ्ख्य समुद्रवेलां स ताटकेयाश्रममाससाद ।। ७ ।। तं रामनामाविरु? रतं गृगन्तं कण्ठस्फुरत्तापसमुण्डमालम् । भयेन तियग्वलिताक्षिपातं मारीचमाह प्रहितापचारः ।। ८ ।। अस्मास्वकाण्डे कृतवैरवन्धं जानासि किं जानकिजानिमतम् । बालेन येन प्रसभं व्यधायि भवज्जनन्यां प्रथमेपुपातः ॥९॥ वितन्वतः कौशिकयज्ञरक्षां तस्यापदानं फलितं सुबाहौ । निमज्जना सागरवारिचके त्वया च सख्यं जलमानुषेषु ॥ १० ॥ मृपा विरिश्चस्य वरसदानं मन्ये विराधे गमिते विरोधम् । तत् सर्वमास्तां खरघातिनं तं विचिन्त्य शान्ति लभते न चेतः ॥ किंचान्यदाकर्णय च प्रवृत्त रणे खरेण क्षितिपालमूनोः । होदयस्मेरमुखरमत्यनभःस्थल कञ्चुकितं किलाभूत् ।। १२ ।। स्वस्त्यस्तु रामाय सलक्ष्मणापत्युक्तं प्रमोदाहपिभिः समेतैः । पातश्रुता तेन च तेषु रक्षा तृणाय मत्वा रभसोडुरान् नः ॥१६ ।।

षष्ठः सर्गः। ३१ 3 रिपोरभिव्यञ्जितभाविद्धरुत्थानमेव प्रथम निरोध्यम् । नखमभेधे तु तरुपरोहे कालेन कुण्ठा हि कुठारधारा ॥ १४ ॥ मित्रेऽपि वर्द्धिष्णुतया प्रवृत्ते हीयेत राजा दृढमण्डलोऽपि । द्विषत्यहीने तु विजृम्भमाणे पूर्वोचिता तस्य गतिः कथं स्यात् ॥ मनःप्रवृत्ति प्रसभं निरुन्धन् जलस्रुति सेतुरिव प्रवद्धः। परैरपर्यस्तगतैर्विवेकः शौर्यद्विपस्यागलतां प्रयाति ।। १६ ।। विविच्य कालानुगुणैरुपायैर्यतेत सन्ध्यादिषु युक्तचेताः । यत्किञ्चिदित्यादि विचिन्त्य राजा करोति यत् तज्जडतैकलिङ्गम् ।। तेजोविशेषोपचितः परस्थं तेजः क्षिपत्यप्यपदे जघन्यम् । कमर्थमुद्दिश्य न चेदितीदं हिनस्ति खद्योतगतं विवस्वान् ॥ १८ ॥ उपेक्षमाणो विकृति परेषां प्रवर्तते यः स्वसमृद्धि हेतोः । स दावकीलैर्विपिने परीतं पटेन तूर्ण वपुरावृणोति ।। १९ ॥ सतेजसा धाम्नि हृते सधाम्नः कथं सपक्षः क्षमतां सगोत्रः । पश्यानलग्रस्तरुचौ पतङ्गे सद्यस्तमेवाविशतः पतङ्गान् ॥ २० ॥ इति स्थिते वर्त्मनि वीरयोग्ये सचेतनः कापथमाश्रयेत् कः । शिवोदकायां सरिति सवन्त्यां किमर्थनीयं मृगतृष्णकाम्भः ॥ २१ ॥ तदत्र नः सन्निहिते विधेये विधत्स्व चेतः सहकारितायाम् । सहायवन्तं पुरुपं प्रकृत्या चलाप्युपास्ते नियमेन लक्ष्मीः ॥ २२ ॥ मृगाकृतिस्त्वं मृगलोचनाया गृहाण चित्तं जनकात्मजायाः । एवंविधेषु व्यसनागमेषु माया त्वदीया खलु शेवधिनः ॥ २३ ॥ यथाकथश्चिद् भवता विदूरं प्रतार्य नेयौ रघुनन्दनौ तौ । तयोर्व्यपाये तरलेक्षणां तो सीतां ग्रहीष्ये धृतभिक्षुवेषः ।। २४ ।। इति स्थिरस्वाशयवृत्ति धीमान् निशम्य सम्यग् वचनं तदीयम् । विचिन्त्य युक्तक्षमकर्मशौण्डः प्रचक्रमे प्रत्यभिधातुमेनम् ॥ २५ ॥ निरस्तनिश्शेषविपक्षमावा मनस्विनां वर्त्म निदर्शयन्ती । खविक्रमाकान्तजगत्रयाणां भवाशामित्युचितैव वाणी ॥ २६ ॥ १. 'चारः', २. 'धाय रा', ३. 'तः' ख. पाठः. ४. 'भो', ५. 'त्याय्य ने' क. पाठः, ३४ रघुवीरचरिते तथाप्यपर्याप्ततया न धत्ते स्थिति विधेयेऽत्र मतिर्मदीया यत् कर्म कालत्रितयाविरोधि स्तुवन्ति हि प्राज्यधियस्तदेव ॥२७॥ अपि प्रभो! दुश्चरितैस्तवैभिः स्यात् खस्ति किं सर्वनिशाचरेभ्यः । अपि त्वदन्ताय जगत्पमाथिन् ! सीता न किं यज्ञभुवः प्ररूढा ॥२८॥ श्रुत्वा वचो वक्ति विविच्य पश्चात् करोति कर्माणि गुणान् वृणीते । यः सर्वतः साधुषु निळलीकस्तस्मिन् प्रतिष्ठा प्रतिपद्यते श्रीः॥२९॥ अस्त्येव जन्तुष्वखिलेषु कामः क्रोधश्च तौ वहिवदाश्रयाशौ । कालानुरोधेन निषेवमाणस्तौ नैति सादं पुरुषः कदापि ॥३०॥ लज्जाविवेकी चशिताप्रयोधौ विविक्तविद्याविनयानुबन्धौ । प्रगल्भताशुद्धपराक्रमौ च रक्षन्ति नित्यं पुरुषस्य लक्ष्मीम् ॥ ३१ ॥ मुरासुराचार्यकृतौ नयस्य द्वौ नाम माझे बहुधा प्रणाता । शिष्यैः पुनस्तेषु कृतावगाहा न जातु सीदन्त्यपि सङ्कटेषु ॥३२॥ आत्मोदयेन द्विषतां व्यपार्य केचित् परे तद्विपरीतमाहुः । इत्यस्ति पक्षद्वितयी तयोर्मा निरापदायः प्रसमं धिनोति ॥ ३३ ॥ ये तादृशाः कौशलमाचरन्तः परैरपर्यस्तभुजावलेपैः । निघूयमाना बहुशः प्रतिष्ठामारोहपादा इव ते लभन्ते ॥ ३४ ॥ आपादनीया मनसो विशुद्धिव॒भूषुणा पूर्वमतन्द्रितेन । संस्कारहीनात् पुरुषाद् विलोलाः श्रियः सवन्त्यामघटादिवापः ॥३५॥ प्रसीद राजन् ! परदारतृष्णामपाकुरुष्वाशयतः प्रदाम् । भवादृशामुत्पथगा मतिश्चेत् कथं नु वर्तेत जनो नियम्यः ॥ ३६॥ इत्युक्तवन्तं पुरुषादमुच्चैर्भूयोऽपि रक्षोधिपतिर्वभाषे । जिजीविषा चेतसि ते यदि स्यात् प्रियं ममाधातुमिहार्हसीति ॥ ३७॥ तथेति वाचं विमना विसृज्य प्रपद्य रामाश्रमसनिकर्षम् । विलोभयिष्यन् मिथिलेन्द्रपुत्री मृगस्य रूपं परमं से भेजे ॥ ३८ ॥ तुण्डाग्रतस्तस्य कलायनीलाद् विनिष्पतन्ती रसना बभासे । अनुक्षणं मेदुरनादगर्भाद् घनाभ्रखण्डादचिरमभेव ।। ३९ ॥ , 'बोधौ', १. 'ये'ग. पाठः, ३५ विशुद्धचन्द्रातप्पेशलार्षे नीलोपलस्निग्यतमरूपा । परत्र च व्यञ्जयति स्म भूम्ना तस्याष्टमीरात्रिरुचिं मुखश्रीः॥४०॥ चतुर्भिरग्रैवलिते तदीये शृङ्गे चतुर्वर्गमिव प्रभेत्तुम् । लोकस्य यत्ते मणिरश्मिराजीनीराजिताशावलये व्यभाताम् ॥ ४१ ॥ तस्योल्लसस्निग्धविदग्धमुग्धस्मेरालसांककरकूणिताभ्याम् । अनुक्रियन्ते स्म विलोचनाभ्यां विदग्धनारीनयनेहितानि ॥ ४२ ॥ तस्योन्मिषद्राजतबिन्दुचित्रा शरीररीतिः कनकावदाता । सन्ध्यामहोभिश्छुरितान्तराला नभस्थली तारकितेव रेजे ॥ ४३ ॥ उरस्तदीयं शरदिन्दुपाण्डु व्यराजतोचावचरोमराजि । परिस्फुटावर्तनिवेशमन्ते धृतप्रतिस्रोत इवाम्बु गाङ्गम् ॥ ४४ ॥ अत्रस्नुवैडूर्यखुरोज्ज्वलेन सुपर्वणा पादचतुष्टयेन । तस्यर्षिचित्तभ्रमणैकहेतोः सन्देशिकायन्त्रधुरा ललम्बे ।। ४५ ॥ विचित्रनानामणिरश्मिजालैः किर्मीरितेनोर्ध्वमुखेन तस्य । पुच्छेन विच्छर्दितशारधाम्ना महेन्द्रचापच्छविरन्वकारि ॥ ४६॥ स्थितश्चलवास्तमितः प्रपन्नः प्रकाशतां दूरचरोऽन्तिकस्थः । अथ प्रविष्टः क्षितिमुत्प्लुतः खं विलोभयिष्यन् व्यतनोत् स मायाम्।।४७॥ तं पर्णशालासविधे चरन्तं चरन्तमव्यग्रतया तृणाग्रम् । कुतूहलावेगतरङ्गिताक्षी लीलार्थमादातुमियेष सीता ॥ ४८ ॥ इत्याह चेक्ष्वाकुकुलावतंसं रामं प्रभो ! पश्य मृगं विचित्रम् । क्रीडार्थमस्मै स्पृहयालुरस्मि समानयैनं सपदि त्वचं वा ।। ४९ ॥ निषिध्यमानोऽपि स लक्ष्मणेन मायेयमित्यव्यथितेन्द्रियेण । विश्वस्य योषिद्वचनं मनस्वी तमन्वगात् प्रेरितधीनियत्या ॥ ५० ॥ आसनमासम्नमिवैणमेनं संलक्ष्य संलक्ष्य गतो विदूरम् । उपायतस्तद्रहणे निराशस्त्वचं समाधातुमियेष भूयः ।। ५१ ॥ सन्धाय वाणं धनुषि स्थिरज्ये यावत् प्रहर्तुं व्यतनोत् स चेतः । तावत् स मायामवलम्ब्य रक्षस्तल्लक्षता नाभ्यगमन्मुहूर्तम् ॥ ५२ ॥ अथाविरासीत् सहसा पुरस्तात् प्रकाशयन्नम्बरमात्मभासा । रामेण वाणः प्रहितस्तदानीमस्तदीयान् द्रुतमाचचामै ।। ५३ ॥ १. 'मिच्छीर' ख. पाठः. १. 'सक.पाठ.. ३. 'र'क. पाठः.

रघुवीरवरिते पतन्नथ स्वां प्रकृति प्रपन्नस्त्रायस्व हा लक्ष्मण ! मामिहेति । उच्चैरुपाक्रोशदवेत्य सीता तद् देवरं देवसमं जगाद ॥ ५४॥ छलेन रक्षोभिरुपद्रुतस्य भ्रातुस्तव श्रूयत एष शब्दः । धनुष्मता तत्र समेत्य तूर्ण रक्षा तदीया भवता विधेया॥ ५५ ॥ निशम्य तद्वाक्यमथ ब्रुवाणं मायेति सौमित्रिमुवाच सीता । नाहं वयस्या मिहिरव्यपाये दिनश्रियः पावकमाविशन्त्याः ॥५६॥ इति स्थिरप्रेमबलात्कृतायास्तस्यास्तदाकर्ण्य वचः संशोकः । मायेति जानन्नपि दिष्टयोगात् स यत्र शब्दस्तमभि प्रतस्थे ॥ ५७॥ निष्क्रान्तमात्रे रभसेन तस्मिन् निधाय सीतां वनदेवतासु । तां पर्णशालां प्रविवेश मायी दशाननो मूर्त इवान्तरायः ॥ ५८ ॥ तस्करं मस्करिवेषभाज देपा तृणैश्छन्नमिवान्धकूपम् । सम्पाद्य पाद्यायमुखोपचारान् समईयामास समईणज्ञा ॥ ५९॥ निर्वर्ण्य तां स्वर्णमनोहराङ्गी स्वं रूपमास्थाय पुनर्दशास्यः । क्षणेन रामागमनाभिशङ्की रथं समारोप्य खमुत्पपात ॥ ६० ॥ हा राम! हा लक्ष्मण! पाहि मामित्यार्तस्वरं हृत्परुषं निशम्य । रुरोध मार्ग बलवजटायुर्लङ्कापतेर्विन्ध्य इवोष्णरश्मेः ॥ ६१ ॥ विधूतपक्षेण वयोधिकेन निराश्रये वर्त्मनि तेन रुद्धः । लीलो दृतेशानमहीधरोऽपि क्षणं हृदि व्याकुलतामवाप ॥ ६२॥ तौ पक्षिरक्षःवरौ पतत्र जैरपि व्याप्य नभोन्तरालम् । परस्परोत्सारणबद्धयत्नावातस्थतुः शैलराविवोभौ ॥ ६३ ॥ ततः समानेऽपि रणापदाने देव्या महिम्ना भवितव्यतायाः। तस्यारुणेः पक्षतिमुग्रचञ्चोः पुलस्त्यमनोरसिरालिलेह ॥ ६४ ॥ हा मैथिलि! प्राप्स्यसि कामवस्था हा राम! सौमित्रिसदृशोऽस्मि । पाणैर्गलस्थैर्गलता स्वरेण ब्रुवन्निति क्ष्मातलमाससाद ॥ ६५ ॥ 1. 'तं दे' खपाठः २. 'मुदुःखी ।', ३. 'मत्वा तृ', '1. 'स्व', ५. 'स्ति' क.पाठः.

सप्तमः सर्गः। परिक्षताङ्गो विरथो विधन्वा तुण्डेन विध्वस्तकिरीटकोटिः । तामुद्वहन् योगबलेन सीतां लङ्कां प्रति प्राप्तजवः प्रतस्थे ।। ६६ ॥ सा नीयमाना गिरिशृङ्गभाजः समीक्ष्य पञ्च प्लवगाननाथा। मध्ये सुमध्या परिवेष्टय तेषां सभूषणं प्राक्षिपदुत्तरीयम् ॥ ६७ ॥ तदा तदालोक्य वलीमुखास्ते स्त्रियं च काश्चित् कनकावदाताम् । दशाननेनोपरि नीयमानां तदीयतां तस्य हृदा व्यजानन् ॥ ६८॥ अस्पन्दमानाशयत्तिमेनामन्यत्र रामात् प्रसभं प्रगृह्य । उल्लङ्घय दुर्ल वमपां निधानं विवेश लङ्का क्षणलब्धमोदः॥ ६९ ॥ तथा हृतायां रघुराजपत्न्यामन्तर्गलस्तम्भितदीनशब्दम् । भिया शुचा म्लानमुखाम्बुजाभिर्व्यरोदि विष्वग् वनदेवताभिः ।। क्षितिः सकम्पा कलुषाणि वारीण्यवाप न स्वं महिमानमर्कः। स्तन्धोऽनिलस्तत्सरणिश्च धूम्रा विश्वं तदेवं विषमस्थमासीत् ॥ ७१॥ विधाय परिरक्षणं परिचितैः स्वकीयैर्जनै- धियं मदनमन्थरां दधदपास्तकृत्यान्तराम् । सशोककलुषाशयामनुचितामवस्थामिता- मशोकवनिकां गतां व्यधित तां निधि स्वापदाम् ॥ ७२॥ इति रघुवीरचरिते षष्ठः सर्गः । अथ सप्तमः सर्गः। अथ दाशरथिस्तथाविधे पतिते रक्षसि रक्षतां वरः । विमृशन् किमपि प्रियां प्रति प्रचुरश्रान्ति ततो न्यवर्तत ॥१॥ नयनोरुभुजैरदक्षिणैः प्रतिपन्नस्फुरितैरनुक्षणम् । उपसूचितमापदागमं स मनस्वी मनसा व्यशङ्कत ॥ २ ॥ किमु मातृषु कापि दुर्दशा भरतः किं न सुखेन वर्तते । विपदुत्तरकोसलेषु नः प्रबलाभिर्नु किमीतिभिः कृता ॥३॥ १. 'स्फटिका', २. 'का', ३. 'स्तदीय', ४. 'काग' क. पाठः, न सु' म. पाठः.

रघुवीरचरिते बलवन्मयि लक्ष्मणानुगे पितुराज्ञामवलम्य दूरगे। अथवा खरदूषणानुगैः किमु साकेतपुरं कथीकृतम् ॥ ४॥ सकलेषु दशान्तरेष्वपि प्रतिरूढप्रणयाईचेतसौ। अपि नाम भवेव दुर्जयः स च सौमित्रिरहं च संगतौ ॥५॥ अवधूय सुखानि दुस्त्यजान्यनुरक्तं स्वजनं च तादृशम् । वनवासपरायणस्य मे सहधर्मैकरता बभूव या ॥६॥ जनकस्य सुता सुखैधिता सुकुमारी महनीयसम्भवा । हृदयङ्गमशीलशालिनी भवतु स्वस्तिमती चिराय सा ॥७॥ इति चिन्तयता बहूत्तरं परितापस्तिमितेन चेतसा। परिभूत इव च्युतद्युतिः पथि सौमित्रिरदृश्यताग्रतः॥८॥ किमिवाचरितं त्वयानघ! क नु सीतेति च तेन पृच्छता। अपवारितसत्त्वसङ्ग्रहा करुणा कापि दशान्वभूयत ॥ ९ ॥ जनकेन्द्रसुताभिरक्षणे कृतमार्येण ममानुशासनम् । परवानहम(न्यत्र) कर्मणीत्यहमेकाग्रतया व्यवस्थितः ॥१०॥ भवता हरिणे निपीडिते मुहुरश्रूयत दुर्वचं वचः । अवधार्य तदार्यया शुचा परुषं वाक्यमहं च लम्भितः ॥ उभयत्र विचिन्त्य योग्यता परुषोक्त्यास्मि तया बलात्कृतः। इह सन्निहितश्च मा स्म भूद् विषमा ते मतिमन् ! मतिमयि ॥ इति रूक्षमहृद्यमार्तिकृत् कटुदुर्भपजधर्मि तद्वचः। उपयुज्य स सत्त्ववानपि प्रतिपेदे विकृति दुरुद्वहाम् ।।१३।। अवलुप्तधृतिधृतव्यथः सह दीनेन सहोदरेण सः। अवशः प्रविवेश वेगवानयथापूर्वदर्श स्वमाश्रमम् ॥ १४ ॥ अपविद्धवृसीघटाजिनं कवरोद्वान्तमणीचकासितम् । उटजं गतसीतमैक्षत क्षरितज्योत्स्नमिवेन्दुमण्डलम् ॥ १५ ॥ लुठदुत्पतदुद्भ्रमत् स्वपत् स्मृतिसंस्कारसमुत्सुकं जडम् । अपकल्यमपश्यतः मियामभवञ्चित्तमनन्वितक्रियम् ।। १६ ।। 1. संहितो', २. 'पतितं', ३. 'विप्र' ख. पाठः. ४. 'ये' क. पाठ..

सप्तमः सर्गः। १९ कुममान्यवचेतुमुद्यता विपिने किन्नु चकार संस्तवम् । नियमाय समाहिता भवेदवतीर्णा किमु गौतमी नदीम् ॥ १७॥ यदिवा मयि विप्रलम्भिते मनसः कश्चन भावसङ्करम् । अवलोकयितुं तिरोहिता किमु सा पुष्पलतास्ववस्थिता ।। बहुधेति विमृश्य तेन सा विचिता तेषु पदेषु तत्पदम् । अनवाप्य सलक्ष्मणः क्षणादुटजं स्वं पुनरप्यवाप्य सः ॥ व्यथितः प्रिययानुरूपया रहितश्चन्द्रिकयेव चन्द्रमाः । अपवार्य गभीरतामिति व्यसृजत् कानिचिदक्षराणि सः॥२०॥ अयि मैथिलि! जीवितेश्वरि ! क नु यातासि विहाय मामितः । न वनाय परं मया धृतस्तव भामिन्यवनाय चोद्यमः ॥ २१ ॥ यदि मन्युरपाकुरुष्व तं परिहासश्च चिरं न शोभते । केचिदप्यभिपङ्गविहलं जनमेनं न विहातुमर्हसि ॥२२॥ अभिगम्य मैया यदाहृता मिथिलायास्त्वमनुज्ञया गुरोः। गुणगौरि ! तदामभृत्यहं न पृथग्वृत्तिमुपाश्रितस्त्वया ॥२३॥ परिपाल्य समेधिता त्वया फलिनीयं नवपल्लवोज्ज्वला। अभिवाञ्छति वाञ्छितप्रदे ! समये त्वत्करकल्पितं पयः ।। अभिनृत्यतु तावदुन्मदः स्वकलापानवकीर्य बर्हिणः। अवगम्य सुकेशि! मद्दशामिह यावन्न परापतिष्यसि ॥ २५॥ सजलाभ्ररुचः शिरोरुहाः कुरलैः शैवलकान्तिराहृता । निटिलं शशिखण्डबन्धुरं तनुकल्लोलरुचि भ्रुवायुगम् ॥ २६ ॥ मृदुमांसलपक्ष्ममालिके विकचेन्दीवरपेशले दृशौ । श्रवणे तरुणारुणयुतिस्फुटरोचिर्मणिकुण्डलोज्ज्वले ॥ २७॥ तिलसूनपराभवपदा मधुराभापिणि! नासिकासिका । कुमुदप्रतिमं मृदुस्मितं रुचिरः पल्लवकोमलोऽधरः ॥२८॥ 1. 'प' क. पाठः २. 'न कदाचिदपि त्वदाश्रये ज', ३. 'यदा मयाह, ४. शौ। तिल'पाठ: ५. 'लाध' क. पा.

रघुवीरचरिते शिथिलीकृतमौक्तिकस्मया रुचिरा दन्तततिः शुचिस्मिते ।। कृतपत्रलता कपोलयोर्युगली दर्पणदर्पहारिणी ॥ २९ ॥ जितहेमलता भुजद्वयी गलरीतिघृतकम्बुडम्बरा । समवृत्तसमुन्नती स्तनौ कृतमुक्तामणिहारभूषणौ ॥ ३० ॥ बलिभिस्तिसृभिः प्रसाधिता रुचिरश्रीरवलग्नवल्लरी। समबाधि नितम्बशोभया पुलिनश्रीः कलहंसमालिनी ॥३१॥ अतुले करभोरु ! जानुनी मदनादर्शसमुद्गतां गते । अचिरोद्गतकेतकोपमे तव जो कमलोपमे पदे ॥ ३२ ।। इति भूषितमुत्तमैर्गुणैस्तव सर्वाकृतिसुन्दरं वपुः । हृदयं दहति प्रसह्य मे हृदयग्राहिणि! दूरवर्तिनः ॥ ३३ ॥ प्रभवस्तव गौतमान्मुनेस्त्वयि सर्वा निवसन्ति देवताः । यदवेक्ष्य स पाथसां निधिर्बजति त्वां किमवैषि तत्सुखम् ।। त्वयि विश्वसनीयतागुणं विगणय्याहमिह व्यवस्थितः। विषये कुरु मे दृशोः प्रियामायि गोदावरि ! ते नमो नमः ॥ अनुगोदमिदं वपुर्भवेद् ध्रुवमाकण्टनिमग्नमम्भसि । सुतनोरभिलक्ष्यते मुखं वत नैतत् तदिदं हि वारिजम् ।। ३६ ।। हिमवारि तवास्तु विप्लवे ग्लपयन्त्विन्दुकरास्तव श्रियम् । वनितामुखसन्निधौ त्वया खल! पङ्केरुह ! रङ्क! हीयताम् ॥३७॥ हरमौलिविभूपणं भवान् वरयोषिन्मुखसाम्यमस्तु ते । मम मूर्ध्नि धृतोऽयमञ्जलिस्त्वयि सोम ! ग्लपयाम्बुजश्रियम् ॥ भगवन् ! भुवनानि पर्यटन्नहिमांशो! परिपासि यान्यसि । प्रणतोऽस्मि ममेप्सिनं कुरु त्यज नीचं कमलेषु सौहृदम् ।। अभिजन्म यशांसि जीवितं सुहृदर्थः स्वजनः पराक्रमः। सहधर्मचरीति यत् प्रिये! त्वदधीनं तदिदं ममाखिलम् ॥ ४०॥ ४ २. 'रि, ख. * 'णी। श्रवणे तरुणारुणयुतिस्फुटरोचिर्मणिकुण्डलोज्ज्वले । जि', पाठः क. पाठ:. ४. 'हि' क. पाठः.

सप्तमः सर्गः। अयमञ्जलिरञ्जसा धृतः शिरसा चण्डि ! कृपैव तावकी। शरणं मम मान्यथा कृथा हृदि सत्यं पदयोः शपामि ते ॥ इति तं विलपन्तमन्तिके निवसन्त्यः समदुःखकर्शिताः । अरुदन्मुखरा मधुवतै तिमुत्सृज्य बनान्तदेवताः ॥ ४२ ॥ अथ तादशि शोकसागरे विषमं प्राप्य निमग्नमग्रजम् । बुधमप्यभिषङ्गनिस्सहं भृशमाश्वास्य जगाद लक्ष्मणः॥ ४३ ।। हृदयक्लमकारिभिः कृतं कृतमेभिः परिदेवितैः प्रभो!। विषमव्यसनागमेऽपि यन्न विपीदन्ति भवादृशां धियः ॥४४॥ अनया कवलीकृते दृशौ दृढमुत्पाटय पर्णशालया। अविलम्बितमेव तां हृता पुनरन्वेषुमुपक्रमावहे ।। ४५ ॥ उटजं तदपास्य निर्गतौ सरिदभ्याशवनान्तभूमिषु । गिरिसानुषु गहरेषु तौ कृतवाप्पति तां विचिक्यतुः ॥४६॥ महता श्वसितेल निस्मृतं मुखतः फेनिलमसमुद्रमन् । विलुठन् भुवि लूनपक्षनिर्ददृशे तत्र जटायुरध्वनि ॥४७॥ कथमेतदवस्थता तवेत्यनुयुक्तः प्रभुणा जगाद सः। इह शाखिनि तस्थुपा मया करुणः कश्चन शुश्रुवे ध्वनिः ।। रुदतीमधिरोप्य मैथिली हृदि पर्याप्तमनोरथं रथे । नभसोत्पतितं दशाननं द्रुतमुतात्य निरुद्धवानहम् ।। ४९ ॥ अपदानमनुष्ठितं मया महदल्पेन पतत्रिणा सता। रघुनाथ ! तवानुभावतः परमेतद् विपिनेत्र दृश्यताम् ॥५०॥ मरुदध्वनि मण्डलानि नौ चरतोश्चित्रतराणि तेन मे । उदलूयत खड्गपाणिना वत पक्षस्तव चोपकारकः ।। ५१ ।। पतिते मयि तां हरन् ययौ स्मरणीयोऽस्मि कुरुष्व यद्धितम् । शिथिलेस्वरमूचिवानिति स्वयशः ख्यापयति स्म निस्तुपम् ॥ इति गृध्रमवेक्ष्य संस्थितं निजहेतोयुधि लक्ष्मणाग्रजः । उपकारि दृढं विजज्ञिवानथ तिर्यग्गतमेव सौहृदम् ॥ ५३ ॥ ! १. 'गिरमा', २. 'है' ख. पाठः. ३. 'नि ॥ रुद', ४. 'लः स्वयमू' क. पाटः.

2. ४२ रघुपीरचरिते स शुशोच भृशं रुरोदं च क्षतजा परिषस्वजे च तम् । पितृसख्यमनुस्मरन्मुहुः कृतमन्यैरपि कर्म दुष्करम् ॥ ५४ ॥ द्विगुणीकृतशोकगौरवः पितृभक्त था पतगेश्वरं प्रति । विधिना कृतपश्चिमक्रतुः कृतवान् कृत्यपटुर्जलाञ्जलिम् ॥ ५५ ॥ अथ तस्य विभोर्हदि स्थितां शुचमाक्रम्य रुषा पदं दधे । अपृथस्थितिमिच्छता तया रभसेनापि तथैव सङ्गतम् ॥ ५६ ॥ प्रलयं प्रतिपत्स्यते यथा जगदेतत् सकलं चराचरम् । अरुणिम्नि ममज्जतुस्तथा कमलान्तर्दलपेशले दृशौ ॥ १७ ॥ कुपितस्य तथापि सुन्दरे वदने पञ्चषधर्मबिन्दवः । अभवन्नचिरोदिते विधौ नवपीयूषकणोद्गमा इव ॥ ५८ ॥ स्फुरति स्म विदेहनन्दनाहदयानन्दविधानलम्पटः । अधरः श्वसितेन भूयसा परुषः पल्लवताम्रकोमलः ॥ ५९ ॥ प्रसभं मधुरिम्णि लघिते सहजे दुर्विषहेण मन्युना । अधिदर्शमुदीयुषः श्रियं शशिगर्भस्य जहार भास्वतः ॥ ६० ।। स दशान्तरमित्थमुत्थितं भजमानः प्रथमानविक्रमः । अभवाय समस्तरक्षसामिति वाचं निजगाद राघवः ॥ ६१॥ निजराज्यपरिच्युतस्य मे फलमूलैरुदरम्भरेरिह । जटिनस्तरुवल्कवाससः परिणामोऽ(भ्यु ? यु)चितोऽयमीदृशः॥६२॥ दयितामपहृत्य मायया मम रामस्य तथाविधां तथा । यदि जीवति रावणः कचिद् धनुरेतत् त्रपयैव सन्नतम् ॥ ६३ ॥ यदि गच्छति धातुरन्तिकं यदिवा रुद्रसमीपमाश्रितः । जगदण्डबहिर्गतोऽपि सन् मम बाणैर्मगयिष्यते सुखम् ॥ ६४ ॥ स्फुटितानिलनेमिसप्तकं शरवयस्तमितेन्दुतारकम् । शृणु मानद ! मैथिलीकृते गमयाम्यम्बरमम्बरीषताम् ॥ ६५ ॥ अमरासुरमर्त्यदुर्धरे विसते व्योम्नि ममात्रतेजसि । इह तावदनूरुसारथेविता फल्गुतमस्फुलिङ्गता ॥ ६६ ॥ .. 'ध' क. पाठः. २. 'सूचक' ख. पाठः.

सप्तमः सर्गः। मम चापविमुक्तसायकस्फुटितो;ण्डकटाहनिस्मृतैः । मलयः खलु बाह्यवारिभिभुवनानामपदे विधास्यते ॥ ६७ ।। दुरतिक्रमविक्रमस्य मे धनुरापृच्छय गतैर्दिशो दश । अपिशाचनिशाचरं जगद् ध्रुवमयेषुगणैः करिष्यते ॥ ६८ ॥ अथवा विगणय्य मद्दशां नियतिस्तां यदि दर्शयिष्यते । प्रकृति प्रतिपत्स्यते तदा भुवनानां च शिवं भविष्यति ॥ ६९ ॥ इति रोषपराभवोद्धते वदति ज्यायसि भूरितेजसि । वदति स्म मनः प्रसादयनथ सौमित्रिरमित्रशासनः ॥ ७० ॥ महता तपसा तपोभृतां विधिना चाधिगतोऽसि राघव! । अपि पतिरथेन भूभृता स्वकुलच्छेदभयातुरात्मना ।। ७१ ।। स पिता सकलार्थतत्त्ववित् तव विक्रान्तिकृतेन्द्रसौहृदः । उपदेशकृतौ च तौ तपःपरिपकौ हि वसिष्ठकौशिको ॥ ७२ ॥ कुरुषे भरतप्रसूवचः किमु तद्धर्मभयेन केवलम् । परिपीड्य निरागसः प्रजाः क इवार्थः खलु साधयिष्यते ॥ ७३ ॥ सुखदुःखविवृद्धिविप्लवाः सह देहेन भवन्ति देहिनाम् । विमृशमिति तत्त्वमात्मना न बुधस्तत्र विपद्यते कचित् ॥ ७४ ॥ असुरौ मधुकैटभौ पुरा द्रुहिणं प्रत्युपरो मुद्यतौ । अपनीय तदुत्थितं भयं नियतिस्तं किल पर्यपालयत् ।। ७५ ।। चलति क्षितिरकसोमयोरुपरागोऽम्बुधिर्विवहिना । हियते प्रलयाय विश्वसृग् द्विपराधान्तमजः प्रतीक्षते ॥ ७६ ॥ सधनान् वितनोति संवृतानभिरूपान् जरसा हतौजसः । जयिनः सहसा पराजितान् किमिव प्राणिपु नेहतां विधिः ॥ ७७ ।। न रुषा परिदेवितेन च क्रियते सिद्धिरमुष्य कर्मणः । उभयं तदवेक्ष्य मूरिभिर्गुरुपारुष्यमृदुत्वदूषितम् ॥ ७८ ॥ त्यज तां कलुषां धियं त्वया दृढमुत्साहगुणः प्रपद्यताम् । विपदः किल तेरुरूर्जिता यमुपाश्रित्य भगीरथादयः ।। ७९ ॥ 1. 'यु', २. 'मपि त' क. पाठ:. ३. 'प्रलयं' ख. पाठः, रघुधीरचरिते। इति मामनुशिष्टवान् भवान् बहुशः स्मारयितुं ममोद्यमः । मतिमत्तम! सुप्तमाधिना तदिदं त्वां प्रतिबोधयाम्यहम् ॥ ८० ॥ शिवमस्तु यतः स्वसिद्धये धनुषीव त्वयि सज्जतां गुणः । ऋजुतापदमाशुगं द्विषां प्रहिणु त्वं विजयाय मामपि ॥ ८१ ॥ सगुणामिति तद्गिरं विभुर्निदधे चेतास सत्त्वसारवित् । विनिपातरुजैकभेपनं न हि सौभ्रात्रसमं धनं नृणाम् ।। ८२ ॥ लुलितायुधर्मवाहन टितच्छत्रकिरीटचामरम् । पृथुभिर्विपमापितः पदैः स्थपुटं राक्षसगृध्रराजयोः ।। ८३ ॥ चकितेक्षणत्तिभिः क्षणादभिमुक्तं वनदेवतागणः । अपसृत्य ततः प्रदेशतः पुनरालोकयति स्म तद्वनम् ॥ ८४ ॥ स्वरुचा परिवेपितं विभुर्भुवि सीताचरणाम्बुजच्युतम् । अवलोकयति स्म नूपुरं झटिति भ्रष्टामिव ग्रहं दिवः ॥ ८५ ॥ परिगृह्य परिग्रहोचितं हृदि कृत्वा हृदयङ्गमं पुनः । व्यलपत् परिहृत्य दुरतः स तु सौमित्रिनवीकृतां धृतिम् ॥ ८६ ॥ अयि नूपुर! पादसंश्रयं किमु सा त्वामपि मामिवात्यजत् । तव सौम्य! सुवृत्तता तया सुदृशा किंनु ममेव नाहता ॥ ८७ ॥ अपि मय्यरविन्दलोचना करुणां नो शिथिलीकरिष्यति । क्षणमात्रपरोक्षवर्तिनि श्लथरागा दयितेऽपि हि स्त्रियः॥ ८८ ॥ स्मरसि त्वमपि स्विदेकदा नगरोद्यानलतामु कासुचित् । मार्य केलिपरे तिरोहिता तव वाचालतया निवेदिता ॥ ८९ ॥ घटय प्रथमं तयेह मां तदनु त्वं प्रतियोजयिष्यसे । चरणाभरण! प्रतीहि तन्न हि रामस्य मृषा भवेद् वचः ।।९० ॥ पुलिनेष्वनुगोदमुन्मदैः कलहंसैः क्रियते सुखासिका। ध्रुवमद्य रुतैमनोरमैस्त्वयि मञ्जीर! विदूरगोचरे ॥ ९१ ॥ न तथा वलयादयो मम प्रियतामभ्युपयान्ति चेतसः । पदपद्ममराल! शिञ्जितदृदयाहादनकृद्यथा भवान ॥ ९२ ॥ १. 'धि' क. पाट:.

सप्तमः सर्गः। ४५ चरणाद् गलितस्य कोमलादिह वाचंयमता तवोचिता । न तथाप्यवकीर्णिता भवेदिममाभाष्य जनं सुदृत्तमम् ॥ ९३ ॥ यदिवा मदनुग्रहाय सा व्यमृजत् त्वां कृतवेदिनी सती। न वृथा तव तत्पदाम्बुजादुपपद्यत यतः परिच्युतिः ॥ ९४ ॥ अकृतात्मवदित्यनुक्षणं विलपन्तं तमचेतनं प्रति । पुनरप्यववोध्य युक्तिभिः प्रकृतौ स्थापयति स्म लक्ष्मणः ॥ ९५ ॥ नयनाम्बुभिरुष्णनिर्गमैः परुषनिःश्वसितैश्च भूरिभिः । मसृणाति रत्ननूपुरं हृदयालम्बनतां नयन्मुहुः ॥ ९६ ॥ कपिकम्पितभूरिभूरुहं विपिनं तत् परिहृत्य सानुजः । तपनस्य करैनखंपचं क्लिशितः प्रान्तरमत्यवाहयत् ॥ ९७ ॥ अथ कापि निशाचरी तदा परिगृह्योत्पतति स्म लक्ष्मणम् । असिपाणिरनङ्गदुर्भरां स च तां शूर्पणखामिवाकरोत् ॥ ९८ ॥ अथ तौ रभसेन वारितौ विकृताङ्गेन कवन्धरक्षसा । कुपितो सहसैव तद्भुजावकषातां करवालखण्डितौ ॥ ९९ ।। मुनिशापनिशाचरीकृतं कुणपं कृतभुजं विसृज्य तत् । उदगाद् दिवि कोऽपि पूरुषः स्पृहणीयाम्बरमाल्यभूषणः ॥ १०० ॥ इति ताववदच्च तापसं कमपि प्रागभिभूतवानहम् । अवलेपमुपाश्रितः प्रभो! न मदः कं नु विपत्सु पातयेत् ॥ १०१॥ प्रतिपद्य रुषा तपोनिधेर्विकृतामाकांतमीदृशीं मया । भुजगोचरसत्त्ववृत्तिना धृतमायुधिगधर्मपद्धतिम् ॥ १०२ ॥ स मया नयता प्रसादितः प्रकृति स्वां प्रतिपन्नवान् पुनः । न हि हेतुकृतस्तपोभृतां सुचिरं तिष्ठति मन्युराशये ॥ १०३ ॥ तव दाशरथी यदा भुजावपदिश्य प्रहरिष्यतस्तदा । महिमानमवाप्स्यसि स्वकं गिरमित्याह स मां तपोनिधिः ॥ १०४।। ननु पक्लिरथात्मजौ युवा हृदयं मे भवतोः प्रसीदति । वपुषी दलिताञ्जनाती भृशमापादयतः शिवं दृशोः ॥ १०५ ॥ १. 'तः' क. पाठ ४६ रघुधीरचरिते गलितं मुनिशापकल्मषं हदि मे संविदुदेति काचन । विचिनु त्वमुपायमात्मवाननुपायैर्नहि साध्यते विधिः ॥ १०६ ॥ यशसा प्रतिपत्स्य से मियां नहि शोकाय मनः प्रदीयताम् । नियमेन न देहिनां सुखं न च दुःखं परित्तिधर्मतः ॥ १०७ ॥ धनुरेतदिमे च सायकास्तव सौमित्रिरयं सहोदरः । विमलं शृणुमः पराक्रमं परिगीतं सुरसुन्दरीजनैः ॥ १०८ ॥ इति पुष्करनेत्र ! पुष्कलं निखिलं यद् द्विषतां निवर्हणम् । अधिगच्छ तथापि तं प्रभो! सुहृदं यस्तव सर्वकर्मकृत् ॥ १०९ ।। मतिमानिह कोऽपि वानरः शृणु पम्पातटशैलगोचरः। कुरु सख्यमनेन विश्वसन् नय विश्वासममुं च सादरः ॥११० ॥ स हि शक्रसुतेन वालिना वलिना पूर्वभुवा निराकृतः । तनयस्तपनस्य कर्मणां सहकारी भवतो भविष्यति ॥ १११ ।। उपकारि न बालिसौददं तव मन्ये न स कृत्यवान् यतः । असमन्यसनेषु न कचित् पणबन्धः खलु कर्मसिद्धये ॥ ११२ ।। सचिवैः स चतुर्भिरन्विनः कृतकृत्यस्त्वदनुग्रहेण तम् । त्रिदशैरपि दुष्करं विधि प्लवगानामधिपः कारिष्यते ॥ ११३ ॥ न पुनः कपिरित्युपेक्ष्यतां स हि सर्वस्य गुणस्य भाजनम् । गिरमित्युपदिश्य जग्मिवान् मुदितस्तुम्बुरुरम्बरोदरम् ॥ ११४ ॥ स तु तद्वचनं महार्थवद्धितामिष्टं विनिधाय चेतसि । मुरभिप्रसवैर्महीरुहामथ पम्पावनमाप पावनम् ।। ११५ ।। श्रमणां चिरजीविनी सती शबरीमेत्य तया कृताहणः । नितरामभजन रघूद्वहः प्रमदं मातृविलोकनोचितम् ॥ ११६ ॥ अथ सा विदुषी तपस्विनां कथयामास मतङ्गशिष्यताम् । बजतां महिमानमद्भुतं पुनरेषां च दिवोऽधिरोहणम् ॥ ११७ ।। प्रतिपाय घयजिनादिभिः परिपूर्ण विधिवत् तदाश्रमम् । मुइदं च निवेच तापनि नचिरादन्वगमत् तपोधनान् ।। ११८ ।।

अष्टमः सर्गः।
ततः पम्पातीरे सुरभिकुसुमाभ्यन्तरगल-
न्मधुक्षीवक्षामभ्रमरकृतझङ्कारमुखरे ।
भृशं सुग्रीषण प्रसितहदयस्तुल्यविपदा
स सौमित्रिश्चक्रे वसतिमविता सर्वजगताम् ॥ ११९ ।।
इति रघुवीरचरिते सप्तमः सर्गः ।
अथाष्टमः सर्गः।
मतगाश्रममासाद्य सिद्धया प्रतिपादितम् ।
आशासानः स्थितिं चक्रे रामः सुग्रीवसङ्गमम् ॥ १ ॥
उल्लसत्पद्मकिञ्जल्कपरागच्छुरिताम्भसम् ।
कुबु.मेनेव संसृष्टां नत्र पम्पामवैक्षत ॥२॥
उद्यतस्य दिवं प्राप्तुं निरोडुमिव तद्गतिम् ।
महीभृतो माल्यवतः पादाश्लेषं वितन्वतीम् ॥ ३ ॥
वीचिभिर्भूलतां पद्मः पाणिपादमुखेक्षणम् ।
आवतै भिविन्यासं कोकद्वन्द्वैः स्तनश्रियम् ॥४॥
द्विरेफसाथैः कबरी कुमुदैः स्मितविभ्रमम् ।
दर्श दर्श मुहुस्तस्याः प्रियाया निर्विवेश सः ॥ ५ ॥
मदमन्थरयातेषु राजहंसेपु तन्मनः ।
न तृप्तिमाप निर्विष्टमियाखेलगतिक्रमम् ॥ ६ ॥
रथाङ्गनाम्नां द्वन्द्वानि मुखेषु ददतां मिथः ।
पदकेसरशल्कानि पश्यन्नुत्कण्ठितोऽभवत् ।। ७ ॥
द्रुमानालक्ष्य कान्ताभिलताभिरभिवेष्टितान् ।
प्रियाविश्लिष्टमात्मानमनुशोचस्तताम सः ॥८॥
निरीक्ष्य पारे पम्पायाः पारिभद्रं विकस्वरम् ।
सस्मार विद्रुमातानं प्रियाया दशनच्छदम् ॥९॥

रघुवीरचरिते कुन्दस्मेरेषु तीरेषु व्यापारितविलोचनः । प्रतिष्ठामनयञ्चित्ते प्रियायाः स्मितचन्द्रिकाम् ॥ १० ॥ कम्प पम्पातरङ्गाणामातन्वानः शनैः शनैः । गन्धहारं सरोजानां पवनस्तमसेवत ॥ ११ ॥ न्यकृतत्रिदशोद्यानं तं प्रदेशं प्रियां विना । स संश्रितः क्लमोत्कम्पी धीरोऽपि प्रतिपेदिवान् ॥ १२ ॥ अथोपत्यकया यान्तमृश्यमूकम्य भूभृतः । ददर्श रामं सुग्रीवः सानुजं सानुगोचरः ॥ १३ ॥ तस्य या बालिनो भीतिः शरणं काप्यतन्वतः । सा तयोर्टटयोः सद्यः सहस्रगुणिताभवत् ॥ १४ ।। मतङ्गशापाच्छैलोऽयं हन्तुर्धातुरसश्चरः । निश्चित्येति धिया वासमस्मिन्नकरवं चिरम् ॥ १५ ॥ राजतन्त्रं बहपायमनजुच्छाकञ्चुकम् । आभ्यां प्रच्छन्नचारिभ्यां बाधा पय्युपपत्स्यते ॥ १६ ॥ इति सश्चिन्त्य चित्तेन चित्तवानपि तापनिः । विहस्तस्तत्र वित्रासात् स्थातुं गन्तुं च नाशकत् ॥ १७ ॥ उत्तुत्योच्चैरवात्य निकुन्जेए निलीय च । वेशं वेशं प्रतिगुहं कापेयं प्रकटं व्यधात् ॥ १८ ॥ स चतुर्भिः सहचरैरन्वितः समभीतिभिः । तमद्रिमसकृद् भीनः पयक्रामन् समन्ततः ॥ १९ ॥ उद्घालन्यङमुग्वं पश्यन् सालात् सालान्तरं व्रजन् । शब्दायमानचीत्कारः किं नाम न चकार सः ॥ २० ॥ अवस्थाप्य ततश्चित्तं प्रकृतौ भृशकातरम् । मतिमन्तं हनूमन्तं मतिमानित्यभापत ॥ २१ ॥ गच्छ जानीहि कावेतौ भीतिप्रीतिकृतौ मम । चारौ वा तापसी वेति व्यवसायं च हृद्गतम् ॥ २२ ॥ १. 'वी', २. 'गन स्थातुं च' ख. पाठः,

अष्टमः सर्गः।
अवधार्याथ तद्वाक्यं कामरूपः स मारुतिः ।
भिक्षुरूपेण सञ्छन्नस्तयोरभ्याशमभ्यगात् ॥ २३ ॥
शङ्खचक्रधनुर्मत्स्यैर्मुद्रितानि पदानि सः ।
मार्गपांसुपु संलक्ष्य मेने नावतिमानुषौ ॥ २४ ॥
अञ्जनच्छेदसौभाग्यं व्यञ्जयन्ती वपुःश्रियम् ।
तेजांसि च समग्राणि प्रागल्भीमप्यनन्यगाम् ॥ २५ ॥
संविधानं च गात्राणां दृढश्लक्ष्णममेदसा ।
लक्षीकृत्य तयोरक्ष्णोरूचिवानिति विस्मितः ॥२६॥
मन्ये निखिलराजन्यमौलिनीराजिनानि वाम् ।
अर्हन्ति पदपद्मानि मणिपीठाधिरोहणम् ।। २७ ।।
व्यक्तस्निग्धोर्ध्वरेखाणि सङ्क्रान्तान्यध्वरेणुपु ।
इमानि तललक्ष्माणि दुर्लभानि हरावपि ॥ २८ ॥
युष्मत्प्रपदसंस्थानं वीक्ष्य वीलादवाङमुग्वैः ।
अगाधे सलिले मन्ये निमनं नाम कच्छपैः ॥ २९ ॥
शमं केतकगर्भाणां मुभगम्मन्यता व्रजेत् ।
जानुपूर्व्या भवतोरभिभूता महौजसोः ॥ ३०॥
नूनं जानूनि जाने वां प्रयातानि समुद्ताम् ।
गुणादर्शनिधानाय ये जगत्पालनक्षमाः ॥ ३१ ॥
दम्भ मरकतस्तम्भः पश्यन्नूरुद्वयीमिमाम् ।
परस्परोपमेयां वां तावत् त्यजतु दूरतः ॥ ३२ ॥
इमे वां जघने पीने मृदुदिव्यांशुकोचिते ।
अकिञ्चनेषु सुलभं वल्कलं बिभृतः कथम् ॥ ३३ ॥
अस्त्येव पद्मं नाभौ वां छन्ने मुखशशित्विषा ।
तदुद्गतां द्विरेफाली शङ्के रोमावलीमिमाम् ॥ ३४ ॥
प्रमृष्टपाचे युवयोव्यामक्रशितोदरे ।
मध्ये विनिहिते नेत्रे कथमुत्पाटयेज्जनः ॥ ३५ ॥

५० रघुवीरचरिते पराय॑माणिहाराई वक्षः क्रीडाजिरं श्रियः । एतदास्वाद्य भवतोः प्रसीदति मनो मम ॥ ३६ ॥ भुजङ्गभागभीमैवा भुजैराजानुलम्बिभिः । उपप्रात्तगन्धानां कोऽर्थः कस्य न साध्यते ।। ३७ ॥ प्रकोष्ठे लक्ष्यते वामे चित्रमेकतरस्य वाम् । धनुयाघातपरुपः किणोऽयमचिरोद्भवः ॥ ३८ ॥ सिंहसंहननस्कन्धौ! कण्ठे कम्बुत्रपाकरे । स्मेरं रत्नांशुभिर्निकं कथं नामुश्चथः शुभम् ॥ ३९ ॥ वन्धुजीवरुचिस्तनः प्रभासन्ध्यायिताम्बरः । युवयोर्बिम्ववियोकेष्वधरः शिथिलादरः ॥ ४० ॥ दन्तमौक्तिकनिष्ठ यता मनःकुमुदकौमुदी । कान्तिर्गङ्गाम्बुगारी वामेषा नपयतीव माम् ।। ४१ ॥ अनर्घरत्नताटङ्कप्रभापूरैविसपिभिः । परभागं न धत्ते कि युवयांगण्डमण्डली ॥ ४२ ॥ नन्दनोद्यानवास्तव्यशारिकातुष्टविभ्रमम् । पर्वण्याचि कुर्वाण नासिके वां विगजतः ॥ ४३ ॥ युप्मन्नयनवार्तायां दूरे पद्मोत्पलश्रियः । जलेषु स्थितिमासाद्य तानि जीवन्त्वपत्रपम् ।। ४४ ॥ न परं प्रियवादोऽयं युप्मद्धृभङ्गविभ्रमः । समते किङ्करीकर्तु पनि विश्वसृजामपि ॥ ४५ ॥ आभिर्ललाटरेखाभिर्बजन्तीभिर्विशालताम् । सर्वातिशायि भवतोय॑ज्यते देयमायुपः ।। ४६ ॥ कलमाग्रपिशङ्गीनां जटानां वीक्ष्य वैभवम् । शिरसा लालितानां वां किरीटमनुशाचति ॥ ४७ ।। १. 'ख' स्व. पाठ:

अष्टमः सर्गः। उद्यच्छति शिरो नन्तुं हस्तौ मे वन्धुमञ्जलिम् । जिहा स्तोतुं मनः स्मर्तु वाहू चालिङ्गितुं युवाम् ।। ४८ ॥ यस्मिन् प्रसादः स्तोकोऽपि भवतोर्भाग्यभाजनम् । मन्ये स श्लाघ्यते लोके एडमिरहितः पुमान् ।। ४९ ॥ आशास्ते मे मनस्तावन्निातुं को युवामिनि । प्रणयादनुयोक्तुं तु निहा कुण्ठत्वमृच्छनि ।। ५० ॥ इत्युक्ते तेन सौमित्रिशा रामेण चोदितः । स्वसम्भवादि यद् वृत्तं सर्व तस्मै न्यवेदयत् ।। ५१ ।। स तु विश्वासमापन्नस्तस्य वाचा विशुद्धया । मस्करित्वं परित्यज्य पापमभजत् कपिः ।। ५२ ॥ स वालिना निरस्तस्य सुग्रीवस्य व्यपेक्षितम् । सचिवं तम्य चात्मानमाप्तमात्यै व्यजिज्ञपत् ॥ ५३ ।। प्रत्ययं प्राप्य तो तस्मिन पावनी लोकपावनौ । प्रार्थयामासतुः सख्यं नापना शत्रुतापनौ ।। ५४ ॥ अमूकविक्रमस्तस्मादृश्यमृकं निनाय नी । भ्रातुखस्तः स यत्रास्ते सुग्रीवो मतिमत्तमः ॥ ५५ ॥ मालेयस्य प्रवालेषु रचिनेषु हनूमता । निपसाद तथा रामः सुग्रीवं च न्यवेशयत् ॥ ५६ ॥ अविज्ञातार्थताम्लानं वानरेन्द्रं स मारुतिः । उपगम्य यथावृत्तमुपादिशदुपांशु तौ ॥ ५७ ।। सम्भावयन्तावन्योन्यं प्रसादामलया दृशा । सिद्धमित्येव मेनाते तावुभौ स्वं चिकीर्पितम् ॥ ५८ ।। अथ प्रथमसंसृष्टेऽप्याश्रितः प्रत्ययं विभी। खिन्नं कृतार्थयामास कपिरात्मानमात्मवान् ॥ ५९ ।। आस्वाद्यास्वाद्य नेत्राभ्यां मुहुरानन्दवारिभिः । शिशिरैः परिपूर्णाभ्यामित्युवाच सं राघवम् ॥ ६० ॥ १. 'त' क, पाठ:. २. 'च' ख. पाट:.

५३. घुधीरचरिते आपद्भिरभिभूतानां शोच्या भवति भारती । चपलानां प्रकृत्यैव मादृशां तु विशेषतः ॥ ६१ ॥ यस्मिन् भवेत् प्रलपितं दीनानामप्रतिक्रियम् । दौरात्म्याच्छक्त्यभावाद् वा तत्र तूष्णींस्थितिवरम् ॥ ६२ ॥ भवादृशेषु दीनानामुचितं परिदवितम् । अनुकम्पाममोघां ये हृदये तेषु विभ्रति ॥ ६३ ।। पुंसामकृत्रिमस्नेहं मित्रं दुर्लभमापदि । विशेषेण च तत् तावान्नेयत्या मामर्पितम् ॥ ६४ ॥ कुलसिद्धेपु मित्रेषु विकलेपु विपत्तिभिः । उपकाराः प्रयुक्ता ये ते स्युरापेक्षिका मिथः ॥ ६५ ॥ पतितान् विनिपातेषु शरण्यः शरणागतान । पशनिवान्धकूपेषु यस्तारयति स प्रभुः ॥ ६६ ।। मा भूत् प्रत्युपकर्तेति मतिस्ते कपिनामुना। यशश्चन्द्रातपस्मेरं पुनरभ्युपबृहय ॥ ६७ ॥ भुजावलेन स्वेनैव विनिवाय सुरासुरान् । येन प्रागेकवीरेण मथितः क्षीरसागरः ॥ ६८॥ प्राप्य प्रभातवेलायां येन दुरीकृतश्रमम् । चतुस्सागरवेलासु सन्ध्या नित्यमुपास्यते ॥ ६९ ।। मायावलमदोद्रिक्ती दैत्यो मायाविदुन्दुभी । यो जगत्यप्रतिद्वन्द्रों द्वौ पञ्चत्वमजीगमत् ॥ ७० ॥ लीलान्दोलितकलासः पौलस्त्यो यस्तवाघकृत् । यद्वालमुखशय्यायामशेत बहुवत्सरम् ॥ ७१ ॥ सम्मुखीनस्य सङ्ग्रामे साक्षादपि बलद्विपः । प्राणितस्तपमा तेजः स्वतेजसि जुहोति यः ॥ ७२॥ धर्मादचलतो यस्य योगिनस्तेजसा निधः । युयुत्सया पुरः स्थातुं त्रिलोक्यां कोऽपि न क्षमः ॥ ७३ ॥ २. 'तस्तस्य' क. पाठः.

अष्टमः सर्गः। एकोदरोद्गमस्नेहाद वालिना तेन वर्धितः । असंविभक्तमैश्वर्य प्रेम्णाहमनुभावितः ॥ ७४ ।। भ्रातृसंश्लेषसम्पत्तिराशास्या सर्वदा नृणाम् मिथः सुखबलासक्तिर्यया सैकान्तदुर्लभा ॥ ७५ ॥ स मे माता पिता स्वामी हितकृत् प्रियकृद् गुरुः । अहं तु तस्य सचिवो दृनः कर्मान्तिकोऽनुगः ॥ ७६ ॥ चिन्त्यमानेप्वगाधेषु राजतन्त्रेषु मन्त्रिभिः । सुग्रीवः किमु तत्रेनि मां तान पृच्छति वत्सलः ॥ ७७ ।। भ्रातुः प्रियतया तेषां कुमारस्याङ्गदस्य च । मद्वृत्त्या च विधेयेपु गतोऽहमुपसेव्यताम् ॥ ७८ ॥ विश्वाससुरभिः स्नेहस्तस्य मय्यङ्गद पुनः । एवं बहुतिथः कालो गतो नावकचेतसोः ॥ ७९ ॥ अथैकदा मे भाविन्वाद् देव विपरिवतिनि । स मायावी समादास्त समराथ ममाग्रजम् ।। ८०॥ श्रुत्वा गर्वध्वनि तस्मिन् निष्कामानि मया सह । स विवेश भिया धावन् पातालप्रतिमं बिलम् ।। ८१ ।। तमन्वगविशद् भ्राता मां विधाय गुहामुखे । अहमप्यास्थितस्तत्र तस्याज्ञां परिपालयन् ।। ८२ ।। अन्विच्छतस्तमस्यन्धे तं निलीनं ततस्ततः । अगृहीतार्थनेत्रस्य कोऽपि कालोऽत्यवर्तत ॥ ८३ ॥ किमप्यशिवमाशङ्कय भ्रातुर्दैत्येन भावितम् । द्वारं पिधाय शैलेन किष्किन्धां प्राविशं शुचा ॥ ८४॥ अनिच्छन्नेव शोकेन सङ्गतैमौलमन्त्रिभिः । अहमात्मविनाशाय तत्पदे लघु कारितः ॥ ८५ ।। अल्पेनापि निमित्तेन सौभ्रात्रं भिद्यते तृणाम् । पुनस्तत्पतिसन्धानं महतापि न लभ्यते ॥ ८६ ॥ १. 'त', २, 'लः । वि' क. पाठ:.

रघुवीरचरिते भ्राता बिलोदरे भ्रान्त्वा तं गृहीत्वा निगृह्य च । क्षिप्त्वा दूरं पिधानादि निर्यन् मां तत्र नैक्षत ॥ ८७ ।। स मे विषमतां मत्वा हिकाभिः पूरयन् नमः। प्रत्यवाप पुरी रोपाद् दृग्भ्यामग्निमिवोद्वपन् ॥ ८८ ॥ तस्य निर्घोषमाकर्ण्य वेगादापततः पुरीम् । अभिषेककृतो ये मे निलीना दिक्षु दिक्षु ते ।। ८९ ॥ तं कृतान्तमिवालक्ष्य क्षमस्व भ्रातरक्रमम् । कृतं मयेति प्रणमन् व्यलपं तन्न सोऽग्रहीत् ।। ९० ॥ स मामुन्मथ्य तेजस्वी क्षेत्रियं वैरमुबहन् । सौभ्रात्रं दुस्त्यजं हित्वा स्वपुरानिरकासयत् ॥ ९१ ।। सोदर्यस्नेहमत्यक्तुं दुस्त्यजं लक्ष्मणाग्रज! । सान्त्वपूर्वं महत् कर्म मया तस्मिन् कृतं बहु ॥ ९२ ॥ प्रणतं प्रार्थित छन्नं प्रसादार्थमुपोषितम् । नलतारसुषेणाद्यैराप्तैरावेदितं मिथः ॥ १३ ॥ किश्च दूरमपक्रान्तबस्तस्तस्माज्जिघांसतः । पर्यटन् पृथिवीं कृत्स्नां त्रातारं नास्मि दृष्टवान् ॥ १४ ॥ मतङ्गस्य मुनेः शापाद् वालिनी यमभूगिरिः। अहं तत्प्रत्ययेनैव वीतभीतिरिह स्थितः ॥ ९५ ॥ एभिः सजातिभिः स्निग्धैः समं ध्यायन्निमां दशाम् । न पारमवगच्छामि फलपत्रणाशनः ॥ ९६ ॥ दैवादेवं निवसतोर्विपमं प्राप्य दण्डके । युवयोत्तमालोक्य शोचामि भ्रातृवत्सल ! ।। ९७ ॥ मन्ये नात्यन्तमात्मानं नियन्यामपराधिनम् । अस्मिन् काले महाबाहो ! दर्शितम्त्वं तया यतः ॥ १८ ॥ १. 'तं' ख पाठः, २. 'तः', ३. 'तमनः प्र', ४, ५. 'त:' क. पाठ: ६. 'न्तत्रस्तं तस्मा', ७. 'ल:' ख. पाठः अष्टमः सर्गः। ५५ 7 मनसः स्थिरता नाम नोत्पाद्या करणान्तरैः । या कामधेनुरर्थानां यस्यास्त्वमसि संश्रयः ॥ ९९ ॥ पृथिव्यां नवखण्डायां पुनीपान्तरेष्वपि । सागरेषु च सर्वेषु विचष्ये जनकात्मजाम् ।। १०० ।। पूर्यते वचसा पूरैः कृतार्थीकुरु मामिह | नहि कृत्यघतां चेतः प्रायः कर्मान्तरक्षमम् ॥ १०१ ॥ विज्ञाप्येति स्ववृत्तान्तं गमम्यार्पितवान् पुरः । भूषणान्युत्तरीयं च प्राक्षिपद् यानि मैथिली ॥ १०२ ॥ वीक्ष्य तानि पराानि निर्विष्टानि तया पुरा । रामः प्रकृत्या धीरोऽपि भेज कामपि विक्रियाम् ॥ १०३ ॥ प्रत्यापत्तिं धृति नीत्वा पुनरप्युन्नतेहितः । अर्थवत् प्रमितं वाक्यमित्युवाच रघूद्वहः ॥ १०४ ॥ श्रुता मया दशेयं ते धियः खेदोऽपनीयताम् । तावत् त्वमाश्रितोऽसीति न मां धिन्वन्ति तद्गुणाः॥ १०५ ॥ समाश्वसिहि सुग्रीव ! शृणु मे मृनृतं वचः। नचिराद् रामबाणस्त्वां कृछ्रादुत्तारयिष्यति ॥ १०६ ॥ हृतदारस्य मे वाणी नैवादरपदं नृणाम् । निर्मक्षिकं तथापि त्वं साम्राज्यमधु पास्यसि ॥१०७ ॥ तुल्यापत्तिषु मुख्याय सख्याय स्पृहये त्वया । स्थिरीकृतेन येनावां क्रियासिद्धिं लभावहे ॥ १०८ ॥ इत्युक्तवति काकुत्स्थे वचः प्रकृतसाधकम् । भृशमाप्यायितः स्वान्ते जगाद पवनात्मजः ॥ १०९ ॥ युज्यते त्वयि युक्तज्ञे वागियं वाग्विदां वर! । जाग्रतां जगतां हेतोस्त्वादृशां किमशोभनम् ॥ ११० ॥ अपदानफलोदर्क स्वराज्यादवरोपणम् । त्वादृशां मद्विधानां तु दौर्गत्यायैव केवलम् ॥ १११ ॥ 1. 'ति', १. 'म् ॥ सवि', ३. 'ग्य स्व', ५. ':', ६. 'ते' क. पाठः. ४. 'यानि प्रा', - रघुवीरचरिते शीलव्यसनसाम्ये हि पुंसां सख्यं प्रशस्यते । अत्र नान्वेति तद् यस्माद् धीरोदात्तोऽस्ययं कपिः ॥ ११२ ॥ सर्वातीतस्य वशिनस्तव शक्तिमतः प्रभो!। भैक्षचर्येव रुद्रस्य शोभते वनवासिता ।। ११३ ॥ तिरश्चः स्मर नः सौम्य ! साहसार्थान् वनौकसः । विश्वासस्तव किं जज्ञे जटायुपि जलायुषि ॥ ११४ ॥ अहो मुजीवितं तम्य तिरश्चोऽपि जटायुषः । यश्चलैरमुभिः कीर्ति त्वदर्थे शाश्वतीमगात् ।। ११५ ॥ स्फीतचापलसम्पर्के मर्कटेऽस्मिन् प्रसारिता । केवला ते कृपावल्ली फलं बनातु माचिरम् ।। ११६ ॥ इत्युक्त्वोपरते तस्मिन् वाक्प्रवीणे हनूमति । युक्तस्तस्योपकाराय जगाद भरताग्रजः ।। ११७ ॥ सुहृदौ तौ हि यो लोके परस्परकृताश्रयौ । वंशस्थिति वितन्वानी वेश्ममल्लाविवोच्छ्रितो ।। ११८ ॥ सवितुस्त्वं सुतः साक्षात् तद्वंश्या वयमप्यतः । मागेवास्त्येव सम्बन्धः स पाराक्ष्येण विश्लथः॥ ११९ ॥ घटितं दिष्टयोगेन तन्नवीकृत्य साम्प्रतम् । त्वया तत् सख्यमिच्छामि यस्य साक्षी हुताशनः ॥ १२० ॥ मारुतेः चारु त कम येनावामिह योजितो। सचिवे त्वयि विन्यस्तं सुग्रीवस्याग्य काङ्गितम् ।। १२१ ।। दारुसङ्घर्षजं तावदुपपादय पावकम् । यत्साक्षि नौ भवेत् सख्यं स्थिरं कल्पान्तरेष्वपि ॥ १२२ ॥ इत्याज्ञयाहृतं वह्नि प्रमाणीकृत्य कृत्यचित् । द्रढयामास तत् सख्यं फलदं यद् द्वयोरपि ॥ १२३ ।। सप्तसालविभेदेन स्पष्टविक्रमसम्पदा । नियुक्तस्तेन सुग्रीवः समरायाहताग्रजम् ॥ १२४ ।।

अष्टमः सर्गः । शुश्रुवानयथापूर्व तर्जिताशनि गर्जितम् । तस्य रामानुशिष्टस्य बाली मन्दमदोऽभवत् ॥ १२५ ॥ त्वत्तः पगजितः पूर्व मुग्रीवस्तावदागतः । दोदाहयते तेन शङ्का सुमहती मम ॥ १२६ ॥ इति वाचा निरुद्धोऽपि तारया माथुधाग्या । पुरान्निरगमद् वाली पादन्यासोद्दुतावनिः ॥ १२७ ॥ अदृष्टचरमालक्ष्य प्रभावं तस्य दुर्धरम् । तत्माप्तावुद्यतां मेने वासविः स्वां जयश्रियम् ॥ १२८ ।। रामसुत्रामदत्ताभ्यां नरभ्यां विहितभूपणौ । युयुधाते समंरम्भी नावन्योन्यजिघांसया ॥ १२९ ॥ रामः पथा निगूढन दर्शिनेन हनूमता । सज्जः सज्यं धनुः कृत्वा सालमूलमुपासदत् ॥ १३० ॥ सर्वाकारस्वविश्वस्तमुग्रीवक्षमहेतवे । विभुधमकनिष्ठोऽपि चक्रे तत् कर्म दुर्वचम् ।। १३१ ।। सन्धाय सायकं चाप रिपूणामवसायकम् । प्रजिघाय तिरोभूतः स जिघांसुः कपीश्वरे ।। १३२ ।। अथ प्रलयदम्भालिदम्भोत्पाटनलम्पटः । स वक्षसि निमग्नाऽभूद् वालिनः शौर्यशालिनः ॥ १३३ ।। तथा गम्भीरसत्त्वोऽपि स कपीनामधीश्वरः । रामस्यैकेन बाणेन हृदि विद्धोऽपतद् भुवि ।। १३४ ॥ ददर्श चाविदूरे तं रामं राजीवलोचनम् । स्वस्मिन्नत्याहितं कर्म स्थितं कृत्वा निरागसि ॥ १३५॥ इतः परस्तात् पुत्रो मे रक्षितव्योऽयमादः । तारा चेत्युक्तवान् वाचं ददी भ्रात्रे निजां श्रियम् ॥ १३६ ।। कालेन कालित तस्मिन् महावीरे रघूत्तमः । मौलैः सार्ध स मुग्रीवं कपिराज्येऽभ्यषेचयत् ।। १३७ ॥

रघुषारचरिते राजभावेन सम्पन्नौ मित्राप्यायितमण्डलः । दूरादहिभयान्मुक्तस्तारापतिररोचत ॥ १३८ ॥ भ्रात्रा त्यक्तस्तथापन्नः सुग्रीवः परमां श्रियम् । लेभे रामप्रसादेन मार्यो हि महदाश्रयः ॥ १३९ ॥ कृताभिषेकमङ्गलं सहस्रभानुनन्दनम् । निरीक्ष्य बालिविप्लवं न सस्मरुः प्लवङ्गमाः ॥ १४० ।। नभैः प्रत्यासन्नं न पुनरयमुद्योगसमय- श्वतुर्मासीमस्मिञ्छिखरिणि ससौमित्रिरुषितः । प्रतीक्षे त्वत्प्राप्तिं शरदुपगमं चेत्यनुवंदन प्रवेष्टुं किष्किन्धां स विभुरनुमेने कपिवरम् ॥ १४१ ॥ तदनु कपीनां नेता पर्याप्तमनोरथः पुगं गत्ला । भेजे भोगान् दिव्यान काकुत्स्थाज्ञां दृढं दधत् स्वान्ते ॥१४२॥ इत्थं कृत्वा जगदुपकृतौ जागृविः संश्रितार्थ शृङ्गोत्सङ्गस्खलितजलदं माल्यवन्तं समेत्य । कालापेक्षामुकुलितमतिजानकीगोगमुच्चे- राशासानो लघु रघुपतिस्तत्र वासं वितेने ॥ १४३ ।। इति रघुवीर चरितेऽष्टमः सर्गः । अथ नवमः सर्गः। अथ विचित्रमणिद्युतिमञ्जरीकालिताखिलदिग्वलयं विभुः । हिमगिरेरपि दर्पमसारतां नगमयं गमयन्तमवैक्षत ॥१॥ कचन विभ्रतमद्भुतपत्रिका तटनिलीनमरालकरालिताम् । घनमधुद्रवमेदुरसौरभां कमलिनीमलिनीलितपङ्कजाम् ॥ २॥ 1. 'भस्यासस्मिन न' क. पाठ:. १. 'पदं प्र' ख. पाग.

नवमः सर्गः
चन भीमगुहागतकेसरिमहितकृतिभीतमताजम् ।
तटशयालुवलाहकगणितत्रसदहि(बस)दहिस्रमृगद्विजम् ॥३॥
शिखरमस्तकनिस्तुषभासुरस्फटिकरत्नमरीचिभिरुन्मुखैः ।
मरतकच्छवि लक्ष्म हिमत्विषः शशमयं शमयन्तमनुक्षपम् ॥ ४ ॥
उपरिभूतलपातुकनिझरनुतिभिरुद्गलिताभिरितस्ततः ।
रजतपट्टविडम्बितकान्तिभिः सिततमं ततमजुलवीचिभिः ॥५॥
श्रुतिसुखोद्गमकिन्नरचारणप्रहितमूर्छनमप्सरसां गणैः ।
विहितलास्यविशेषमनुस्वनाटुकपिक कपिकम्पितपादपम् ॥ ६ ॥
प्रकृतसान्ध्यमनोकहपल्लवैस्तिमिरितं कचिदिन्द्रमणित्विषा ।
परिणतद्विपदन्तपरिक्षतिस्थपुटिनं पुटिनं क च सानुभिः ॥ ७ ॥
दृशि विधाय तमद्रिवरं प्रियाविरहसम्भृतदुर्जरहज्ज्वरः ।
अवददित्यपहस्तितकान्तिमान् गजगतिब्रगति श्रुतपौरुषः ॥ ८ ॥
किसलयाङ्गुलिभिः गतितर्जयन मधुपझङ्कतिहुत्तिमुत्सृजन् ।
परिहसन् कुसुमैरपदं गिरां क्लममसौ मम सौति महागिरिः ॥९॥
न गिरिरेष पुरातनराक्षसः कृतपलाशकुलोन्नतिरानयन् ।
हदि रुजं निजवंश्यदशाननप्रियतयायतया मम माल्यवान् ॥ १० ॥
अपकृतं किमगोत्तम ! ते मया कमुपकारमधत्त च मन्मथः ।
सृजसि यत् कुसुमास्त्रपरम्परां प्रभवतो भवतो नहि तत् क्षमम् ॥ ११ ॥
त्वं ब्रह्मणश्चितिरभूः किल पूर्वकाले
त्वामाश्रितस्तपनमूनुरवाप लक्ष्मीम् ।
मामप्यगेन्द्र ! घटय प्रिययार्तिभाजा.
मभ्युन्नताश्रयगुणः खलु कामधेनुः ॥ १२ ॥
विचकिल ! चकितमृगाक्षी दर्शय मे दर्शनीयतिलकमुखीम् ।
तव सुरभिकुसुमजातं तस्याः केशः प्रसाधयिष्यामि ।। १३ ॥
रघुवर ! तव मास्म भूद् विषादः प्रियतमया नचिरेण योक्ष्यसे स्वम्।
इदमाभिनयतीव वल्लरीयं वरवनिताकरकोमलैः प्रवालैः ॥१४॥

रघुवीरचरिते प्राणेभ्योऽपि गरीयसी सहचरी सीता क ते वर्तते श्यामा मां मुकुलैरियं पुलकिता गाढं समालिङ्गति । क्षीणोऽस्यस्मि कृतार्थतामुपगतः पश्यावयोरन्तरं हन्तेत्थं सहकार एप हसति स्मेरंपमूनोद्गमैः ।। १५ ।। एते बत प्रियतमाविरहापकल्यं मामीक्षमीक्षमलिभिर्विहितार्तनादाः। मुञ्चन्ति बाष्पसलिलानि महीरुहोऽपि पुष्पोदरस्रुतमरन्दमिषेण नूनम् ।। इति बहुविधवाचि रामभद्रे दधति मनः सविपादशोकमूकम् । किमपि किमपि चिन्तयाञ्चकार श्रुतिनिपुणोऽथ सुमित्रया प्रमृतः॥१७॥ दिक्कूलङ्कषगर्जितैः कवलितव्योमावकाशा धन- गाढाश्लेषविधेः सरोरुहपृशां यूनां च सन्धापनी । ग्रीष्मोष्मप्रतिपन्नवाधकधरानारुण्यविश्राणिनी वेला मन्मथवैभवैकशरणं प्रावर्तत प्रावृषः ॥ १८ ॥ हर्म्यस्थलानि मणिदर्पणनिम्नलानि ज्योत्स्नानुलेपमुभगासु विभावर्गपु । जुष्टानि नूतनघनाम्बुजडीकृतानि शीतालवः प्रियगृहा विन हुयुधानः ॥ १९ ॥ वरयुवतिनितम्बाइम्बगण्यापगाना गलितजलदुकलान्याश्रिताः सकतानि । घनसमयविरक्ताः स्वरमापृच्छय हंसाः शिवसलिलनिपेयं मानसं प्राप्तवन्तः ॥ २० ॥ कैरवकेसरधूली पालीकवचितमनसिजयावसहायाः । सौरभसौहृदरसिका एत झटिति हि विकृतिमुपेता वाताः ॥२१॥ प्रत्युद्गताः केकिभिरार्तिभानामाप्यायकाथातकपोतकानाम् । प्रवर्तकाः केतकसौरभाणामाविबभूवुर्नववारिवाहाः ॥ २२ ॥ घनरुत्सृष्टानां प्रथमपयसां प्राप्य विभवं क्षितिर्वाष्पैरुष्णैः सममुदगिरद् याः स्वसमये । 'र', पाठ..

नवमः सर्गः। ११ ३ न तावत् किं चक्रुः स्मरविजयहेनोर्जगति ता विकोशाः कन्दल्यः पथिकहृदयग्रन्थिभिदुराः ।। २३ ।। मघुमधुकुसुमं निषिध्य नीपं सुरभितमामनु मालती प्रयानान् । मधुकरनिकरानवेक्ष्य फुल्लमस मिपाद् गिरिमल्लिका जहास ॥ २४ ॥ परिणतपल्लवराशिर्विकलः प्रसवैर्मधुवतापेतः । अभवदशोकः शोच्यः कदम्बसंक्रान्तभूरिसौभाग्यः ॥ २५ ॥ घूमस्तोमानुकारि प्रथममथ पुरो मारुतास्फालनेन व्याप्तं व्योमान्तराले सुरपतिधनुषः शारितं मण्डलेन । धारानाराचपानैरवनिमभितुदद् वीक्ष्य जातं घनाना- मुन्मादोन्मेपशोच्यप्रकृतिरिति किमप्यूचिवान रामभद्रः॥२६ ॥ पीत्वा विषं जलनिधेः सहसोत्पतन्तः कृत्वा निनादमथ दिक्षु परिभ्रमन्तः । आघूर्णमानतुमुलश्वसनावखिन्ना मेघाः प्रसह्य पुनरेव तदुद्वमन्ति ।। २७ ।। -दिशः सर्वाः खर्वा इव कवचिता मेघपटलैः प्रलम्बैस्तैः कैश्चिद् गगनमपि सङ्कोचविरलम् । न दृश्यन्ते शैलाः समदाशखिनादैरनुमिताः सिलिन्धैरुद्भिन्नैः क्षितिरपि दृशामें विषमदा ॥ २८ ।। पवमानजवेन धावमानैः स्थगितज्योतिरितस्ततः प्रकीर्णैः । जलपानपिचण्डिलैः पयोधेश्ररतीवाम्बरमम्बुवाहजालैः ॥२९॥ वेगोन्मूलितभीमसालपवनप्रेलोलिताभ्रोदरा- दुत्सृष्टा गिरिगण्डशैलभिदुरा धारा मुहुः पाथसाम् । वैदेहीविरहापकल्यमनसश्छिन्दन्ति गात्राणि मे मिन्दन्ति प्रतिमर्म काम पुहृदः किं किं न कुर्वन्त्यमूः ॥ ३० ॥ चेतसापि विमुखेषु परवारिरसने चातकाननपुटेपु फलिताशुपतना । १. द्ध', २. 'भ्रा', ३. 'जलं विषनि': क. पाठः, ६२ रघुवीरचरिते एहि मैथिलि ! विलोकय विलोलनयने ! कालिकापि कुरुते रतिमुपाश्रितजने ॥ ३१ ॥ अमृतद्रवपूर्णहेमकुम्भप्रतिमल्लेन मुहुः स्तनद्रयेन । मदिराक्षि ! ममोरसि प्ररूढं मनसस्तापमिहार्हसि प्रमा?म् ॥ ३२ ॥ भवतु रुदितमुचैलाहुः करिष्ये पदकमलजु मामाजजागकीति । इति मयि विदधाने चण्ड ! सौजन्यशन्या धिगिति जगति वाचस्ववीयुद्भवयुः ।। ३३ ।। शतमखचापपुद्रितवला कधा- प्रमदमयरनने नहरमना माल सुवः। इह भवती विना निनपतः यायोकजडे मम दधते रुज दि निनान्तममी गिरयः ॥ ३४ ॥ इति विलपति पयो दीनदीना पर जनकतनयां विना वर्तमाने वने । निशिचरकुलक्षयं कतुकामा हन. श्चिरमजान लसणालियानन्तया ॥ ३५ ॥ दुर्वाग्दुःखपरिवर्तितौयगाय पङ्कावगाहमिव गन्धगजं निरीक्ष्य । ये सद्गुणाः पुरुषपणतां गतास्तान मोघानमंम्त पदनस्य सति प्रतापे ।। ३६ ॥ तमपारशोकहतवाधवैभव घनरुद्धतेजसामवाष्णरोचिपम् । प्रकृति निनीषुरनुनीतिलम्पटः स शुचं नियम्य गिरमित्यचिवान ।। ३७ ॥ आर्य! प्रसीद शमयाधिमुपेहि धैर्य सीदन्ति नापदि हि भव्यधियः कदापि ।

नवमः सर्गः। 18 युष्मद्विधेषु परिमृर्छति चेत् प्रमोहः के वा जनः शरणमृच्छतु तुच्छवोधः ॥ ३८ ॥ दृष्टापदाने द्विषि जागरूके मायाविनीत्थं प्रतिबद्धवर । विभो! न वेव्यस्य पराभवस्य प्रतिक्रियेदं परिदेवितं किम् ।। ९ ।। मूकत्वे हृदयं स्थितिं न लभते वाचालता चंन मा शोभायै तव शासितुः प्रमुखतः प्रायः परं कल्पते । अस्मिन् नाम दशान्तरे परिणत किं महे कुमेह किं वा कस्य पुरः प्रलापसलिल प्रक्षालयामः शुचम् ॥ ४० ॥ राज्याद् भ्रंशः पितुरुपरमो मातृभिविप्रवासी वन्यैवृत्तिः शयनमवना दण्डकंषु प्रचारः । घोरैर्वैरं निशिचरकुलंः किञ्च दारापहारः किं किं नाम व्यसनमभवन्न त्वयि प्राज्यवृत्ते ॥ ४१ ॥ यद्वा तोषित एव कौशिकमाने नक्तश्चरी बाधिता शार्व चापमभाजि भार्गवमदी दुरान् समुत्सारितः । सत्येऽवस्थितमाश्रितं मुनिवनं युद्ध खरो विठुनो बाली चास्तांमतस्त्वया पिते ! नासाधि कि वां यशः॥ अलं वाग्भिराभिः करु प्रार्थितं में महावीर ! वीरश्रियः पूरय त्वम् । शराग्रावकृत्तैर्द्विषामुत्तमाङ्ग- मनस्याहिता कन्दुकोत्क्षेपलीलाम् ।। ४३ ॥ इति सौमित्रिवचोभिः शमिताधि त्रिजगदाधिशमनपरम् । सीतालोचननालीनिश्चूषितममृतमध्युवास गिरिम् ॥ ४४ ॥ इति रघुवीरचरिते नवमः सर्गः ॥ १ 1. 'वेर स्थि' २. 'बाशयः.' क. पाठ:

१४ रघुवीरचारते अथ दशमः सर्गः। ५ ततः परिष्कृतं रामं शक्तिसिद्धिगुणोदयैः । पद्मलिङ्गा रिपूजेतुं शारदी श्रीरचोदयत् ॥ १॥ भालक्ष्याभ्युद्यतं वीरं महत्युत्साहकर्मणि । नलिनान्यलिगर्भाणि विकास प्रतिपेदिरे ॥ २॥ मुक्ताशेषजला मेघा निभृता लघुतां गताः । म्ययागमावनालोच्य स्थूललक्षा इवाभवन् ॥ ३ ।। हप्ता यत्सम्पदा पूर्व ये रसान्तरनिःस्पृहाः । चातकास्ते घनान रिक्तान नाभ्यनन्दन दृशापि तान् ॥ ४ ॥ विक्षेपमुखरैयन्त्रैरुत्रासितशुकोन्कराः । केदारोपान्तमासेदुर्गायन्त्यः शालिगोपिकाः ॥ ५ ॥ उदयेन प्रसन्नानि मुनेः सागरपायिनः। शूराणां च नदीनां च मनांसि च पयांसि च ॥ ६ ॥ परहस्तिमदामोदभ्रान्तिभाजो मदोत्कटाः । सौरभं सप्तपर्णानामसहन्त न दन्निनः ॥ ७ ॥ पिवतां योगपद्येन मकरन्दं नवोद्भवम् । अभवत् पुण्डरीकेषु भ्रमगणां महोत्सवः ॥ ८ ॥ अमुचद् या न वर्षामु मेघच्छन्नासु चन्द्रमाः । तया चन्द्रिकया पूरीचकार कुमुदोदरम् ॥ ९ ॥ स्फुटमीनपचाराणि मरितां वारि भेजिर । स्पष्टसकतजातानि पुंसाम?रुदन्नताम् ॥ १० ॥ वलाहकानां शकलैनिश्शेषक्षरिताम्भसाम् । सङ्कीर्ण सर्वतो व्योम चित्राक्रान्तमिवाभवत् ॥ ११ ॥ प्रतीक्षमाणा निष्पका वेलामादृतशालिकाम् । कुतयोग्याग्रहा योधा निन्युः शस्त्राणि सज्जताम् ॥ १२॥ , 'नसतां' क. पाठः.

दशमः सर्गः। एवमभ्युद्यतं कालं निरीक्ष्य सफलोद्यमः । रामः शत्रुकुलोच्छेत्ता वाचं सौमित्रये ददौ ॥१३॥ शरद् यौवनमारूढा पश्य ! वीरश्रियः सखी। निरुधमा वयं तावत् कृत्यवन्तो व्यवस्थिताः ॥ १४ ॥ कबन्धशवरीवाक्यैर्विश्वस्ते मयि मानद!। उपकारिणि सुग्रीवो मन्ये नाञ्जस्यमिच्छति ॥ १५ ॥ छलेन यत्कृते तस्मिन् वालिन्यनपराधिनि। पातितो निर्विमर्शन मया रामेण सायकः॥ १६ ॥ मागनिर्विष्टविस्रम्भे मैत्रीमभ्यर्थयत्यापि । पुमानतिप्रसज्येत सहसा नेति नः श्रुतम् ॥ १७ ॥ विशुद्धया विशुद्धस्य वाचोयुक्त्या हनूमतः । विलोभितस्य मे बुद्धिरतिचारमुपाश्रिता ॥ १८॥ साह्यार्थ मित्रलाभाय मतिर्नातिव्यपेक्षणी । चापे च त्वयि चायत्तं जानीहि विजयं मम ॥ १९ ॥ अनेनोपकृति, स्यादित्यनाद्राशये जने । मा भूदापनिमनोऽपि नवनीतमना बुधः ॥ २० ॥ हृतदारो दशास्येन सहायार्थी प्लवङ्गमम् । लिप्सुः प्रतीक्षते रामो मा भूदिति जनश्रुतिः ॥ २१ ।। तथापि प्राप्य किष्किन्धा राजद्वारमुपाश्रितः। मामिहावस्थितं तस्मै कपिराजे निवेदय ॥ २२ ॥ स तस्य शासनं कृत्वा हृदि संरम्भनिर्भरे । पदिष्टं स्थानमासाद्य जगाद प्लवगेश्वरम् ॥ २३ ॥ राजन् ! कपीनां नेतासि त्वामहं द्रष्टुमागतः। अवधानप्रदानेन क्रियतां मय्यनुग्रहः ॥२४ ।। ---- 1. 'पि' क. पाठः.

एषुवीरचरिते भासीद् दशरथो नाम राजा सत्यप्रतिश्रवः। सस्य राम इति ख्यातः पुत्रोऽभूद् गुणवत्तमः ॥२५॥ मात्रा सपल्या कैकेय्या निरस्तः स वनं गतः। तेनेदं दण्डक सर्व कृतं विश्वस्तराक्षसम् ॥ २६ ।। तस्य गोदावरीतीरे वसतः खरघातिनः । रावणेन हता भार्या मैथिली पतिदेवता ॥ २७ ॥ तामन्वेष्टुं परिक्रामन्नद्रेरदि वनाद् वनम् । तुम्मुरुं नाम गन्धर्व मुनिशापादमोचयत् ॥ २८ ॥ रम्बरमाचुम्बन्नार्तानां शरणमदः । इतो नातितरां दूरे माल्यवान् नाम पर्वतः ।। २९ ॥ उपत्यकायां तस्यास्ति पम्पा नाम शिवोदका। कापि पुष्करिणी भडैरास्फालिततटस्थली ॥ ३० ॥ तत्राश्रमपदं तस्यास्तीरे यत्रावसत् पुरा मतङ्गस्तस्य शिष्याश्च शबरी च चिरन्तनी ॥३१॥ कुच्छ्रेण वसता तत्र तेन मासचतुष्टयी । अत्यवाह्यत धारालैर्घनैर्दुर्दर्शदिङ्मुखा ॥३२॥ अपि दृष्टः सकृत् कापि स शरण्यस्त्वया विभो !। जटिलश्चीरवसनः प्रियाविरहकर्शितः ॥ ३३॥ राजन्! प्राप्तः शरत्कालः पन्थानथापकर्दमाः । बभूवुः सरितो नाव्याः सुतराः सुतरामिह ॥ ३४ ॥ राजन् कर्माणि सन्त्येव सर्वेषामपि देहिनाम् । आत्माभ्युदयवन्धीनि महदल्पव्यवस्थया ॥ ३५ ॥ मृषा न नीयते तेन कालः स्तोकोऽपि जाग्रता । आत्मनोऽभ्युचिते कृत्ये वशिना वानरेश्वर ! ॥ ३६ ॥ तस्य भ्रातास्मि नाम्नाहं लक्ष्मणस्तत्प्रियङ्करः । प्रसादभाजनं चास्मि परमारभ्य जन्मनः ॥ ३७ ।।

दशमः सर्गः। यस्याभिषेके प्रक्रान्ते प्रारब्धं मङ्गलेष्वय । तस्मिन्नेव वनं प्राप्ते वन्या वृत्तिर्मयाहता ॥ ३८॥ अद्य युद्धाय सन्नद्धं तमन्वग् यामि सायुधः । अनुवृत्तिगुरूणां हि लोकद्वयफलप्रदा ॥ ३९ ॥ त्वया चिरोषितं स्थानं कृपया नः समर्पितम् । तत्र निर्व्याकुला राजन्नियन्तं कालमूषिम ॥ ४० ॥ साम्प्रतं गन्तुमिच्छामस्ततः कार्यान्तरोद्यताः । न गन्तव्य ह्यनामन्य परं परगृहोषितैः ॥४१॥ शिरसा वहतस्तस्य पदपबरजःकणान् । करेण चेदं कोदण्डं दुष्करं मे न किश्चन ॥ ४२ ॥ शृण्वन्नित्थं वचस्तस्य रूक्ष माधुर्यदंशितम् । प्रसीद मयि नाथेति पादौ जग्राह तापनिः ॥ ४३ ॥ स तमेव पुरस्कृत्य भयेन व्यथितेन्द्रियः । रामस्योपान्तमाश्रित्य प्रणनाम प्रसादयन् ॥४४॥ मूर्धि बद्धाञ्जलेस्तस्य परिम्लानमुखश्रियः । सर्वाङ्गीणाः सवन्ति स्म रोमभ्यः स्वेदविन्दवः ॥ ४५ ॥ तथास्थितं स मुग्रीवं दशा सम्भाव्य सौम्यया । यतख सीतामन्वेष्टुमिति धीरमवोचत ॥ ४६॥ बचसीति श्रुते तस्मिन् पीयूष इव दुर्लभे । पुनर्जातमिवात्मानं मेने स हरिपुङ्गवः ॥ ४७ ॥ तेनोपकृतमात्मानमनृणं कर्तुमुद्यतः । तत्मसादैकशरणः प्रयवाय प्रचक्रमे ॥ ४८ ॥ ततो बालातपाताम्रमुखन्यक्कृतदोडिमा। मधुपिालनेत्रार्चिनीराजितनभोगणा ॥ ४९ ॥ शुभ्रदंष्ट्रास्कुरज्योतिस्स्मेरसकपुटोत्कटा। विमलोरस्स्थलाक्षिप्तशरदम्बुदडम्बरा ॥ ५० ॥ १. 'परा लोकद्वय', २. 'हा' क. पाठ

४
रघुपीरचरिते
बेगाष्टमहासालपातक्षुण्णाद्रिमेखला ।
हेलाच्छोटितलाहालकृतसौदामिनीजया ॥ ५१ ॥
उद्यत्किलिकिलारावशब्दायितदिगन्तरा।
सचराचरभूगोलमर्दनक्षमविक्रमा ॥ ५२ ।।
चलद्भुजपदन्यासकम्पितक्षितिमण्टला।
भीमहिकाचयत्रस्तवैमानिकमरुद्गणा ।। ५३ ॥
जम्बूपरिणतिश्यावनखनिर्दारिताहिता।
उद्गत्वररजोराजीजम्बालितसुरापगा ॥ ५४ ॥
रुदमारुतसञ्चारा दुर्धरा हरिवाहिनी।
बदाञ्जलिपुटा मूर्ध्नि पर्युपास्त रघूद्वहम् ।। ५५ ॥
अनौनिलनियमपेयं कुम्भयोनिना।
कपिसैन्यं तदद्राक्षीदपूर्वमिव सागरम् ॥ ५६ ॥
मारुतिं जाम्बवन्तं च वाचा सम्भाव्य वाक्पटुः।
वीक्ष्य नीलादौ देवः सुग्रीवमिदमूचिवान् ॥ ५७ ।।
विभज्य वानरी सेनां दिक्षु सर्वामु चारय ।
कवा सीता कथं वेति यथावदवधार्यताम् ।। ५८ ॥
भाज्ञां सजमिवादाय मू| तस्य कृतादरः।
सम्भूय यूथपै/मान गिरमित्युदमीलयत् ।। ५९ ॥
निर्भरा भाग्यसम्पत्तिस्तावदस्मामु खेलति ।
उपकर्तरि लोकानां वयं यदुपकुर्महे ॥ ६० ॥
इयं नश्चपला जातिः कस्याप्यनुपकारिणी ।
अनया स्वामिनः कृत्यं घटेत यदि के वयम् ॥ ६१ ॥
संविभक्ता चतुर्धासौ सेना व्रजतु मा चिरम् ।
दिक्चतुष्टयमुद्दिश्य यावदत्विषां गतिः ॥ ६२॥
दीपान् ससागरान सप्त नद्धर्मानप्यशेषतः ।
इयन्तश्चेदृशश्चेति याथानथ्येन वेमयहम् ॥ १३ ॥

दशमः सर्गः। विचित्य देवी सर्वत्र विदित्वा तदशाः पुनः । मासमात्रेण कालेन प्रत्यापत्तिर्विधीयताम् ॥ ६४ ॥ तस्याज्ञामिति संगृह्य यास्यत्सु कपिषु प्रभुः। भाहूय मारुतिं धीमान् वाचमित्थमुदाहरत् ॥ ६५ ॥ पानरेग्वेषु सर्वेषु स्थिरसाहसवृत्तिषु । विसम्भग्रन्थिरस्त्येव स तु त्वयि विशेषगः ॥ ६६ ।। त्वया सङ्गच्छमानेन प्रीणिते मे यदा दृशौ । तदाप्रभृति वैदेही प्रत्यापन्नेति मे मतिः॥६७॥ एते न न करिष्यन्ति मत्कृते साहसान्यपि । स्थेयसा त्वत्पयनेन सिद्धिः सम्पत्स्यते ध्रुवम् ।। ६८ ॥ इमानि कुसुमानीव व्यञ्जयन्ति फलोद्गमम् । त्रिविधानि निमित्तानि प्रसीदति च मे मनः ॥ ६९ ।। नचिरानागनासोरूनूनं प्रेक्षिप्यते त्वया । दुर्जेयस्त्वत्प्रयासस्य महिमा हि तथाविधः ॥ ७० ॥ इदं मे जीवितं मूर्तमिव रत्नाङ्गुलीयकम् । ऋषिविश्राणितं तस्यै प्रत्ययाय प्रदीयताम् ।। ७१ ।। इति तस्मिन् गिरं कृत्वा प्रत्यामुच्याङ्गुलीदलात् । स्वमञ्जलिपुटं नीत्वा सवाप्पं निरवर्णयत् ।। ७२ ।। निजगाद च भूयस्तनिःश्वासज्वरिताधरः । दर्शनात् प्रभृति स्वस्मिंस्तस्या वृत्तिमनुस्मरन् ॥ ७३ ।। चिरार्जितानां तपसां विवर्तस्त्वं तपोधनैः त्वया मां दैवसम्पत्तिः स्वयमेव वरिष्यते ।। ७४ ।। मार्तेष्वभ्यवपत्तारस्तापसा हि दयालवः । तद्योगात् तव ताच्छील्यं निश्चिनोते मतिर्मम ॥ ७५ ।। उक्तमज्ञातपूर्वेण यदनेन हनूमता । तस्यास्तत्प्रत्ययं नेतुमेवमेवेति साधय ॥ ७६ ॥ १ 1. 'नी', १. 'सनेन' क. पाठः, रघुपारचरिते किश ब्रवीमि पूर्व नौ साकेतपुरवासिनोः । पुष्पारामेषु या केली विस्मर्तव्या न सा तव ॥ ७७ ॥ इति विज्ञाप्य मदाचा तामुच्छ्रासय सुव्रताम् । स्त्रीणां हि पियसन्दिष्टं वियुक्तानां रसायनम् ।। ७८ ॥ इदं च वद सुव्यक्तं शपामि पदयोः पितुः । सदीपान सागरांस्तीर्वाप्यानेप्ये भवतीमिति ॥ ७९ ॥ इत्युक्त्वेतरदुष्पापरुचिपसरपेशलम् । दयं मूर्तमिव तन्निदथे तत्करे विभुः ॥ ८० ।। रक्षौषधमिनादाय तत्पाथेयमिवात्मनः । भयास्यन् प्रान्तरं भेजे प्रमदं मरुतः सुतः ॥ ८१ ।। माणिता तेन सा सेना वानराणां महौजसाम् । दिश्य दक्षिणामाशां प्रतस्थे भर्तशासनात् ।। ८२ ।। उदन्यन्तो विचिन्वन्तः शैलसानुषु जानकीम् । कण्डुना मुनिना शप्तां प्रापुः श्रान्ता मरुस्थलीम् ॥ ८३ ।। यत्र न प्राणिसञ्चारो नाम्भांसि न महीरुहाः । भौमोष्णप्रसराद् यत्र मृगतृष्णा निशास्वपि ॥ ८४ ॥ ते जाङ्गलपदभ्रान्तिद्विगुणीकृतचापलाः । बिलं प्रविविशुभॊमं दर्शितेन पथा द्विनैः ॥ ८५ ॥ हतासुरास्तमस्यन्धे नरन्तः शमितक्षुधः । स्वयंप्रभाप्रसादेन निरक्रामन् गुहोदरात् ॥ ८६ ।। ततः सम्पातिसम्पातं कृत्वोत्क्रान्तं जटायुषम् । विज्ञाप्य तन्मुखात् सीतां लङ्कां जीताममंसत ॥ ८७ ॥ विध्यपादानवन्ध्येहा विलङ्घ्यालध्यतेजसः । अध्वानं पृथुभिर्वानस्तेरुस्ते रुद्धदिङ्मुखाः ॥ ८८ ॥ समयातिक्रमाद् भर्तुः काकुत्स्थाप्यायितात्मनः । अवक्षेपं ययुस्तेषां हृदयानि निरत्ययम् ॥ ८९ ॥ 1. 'मुक. पाठः.

देशमः सग। वाचा जाम्बवतः स्थैर्य नीता भूयोऽपि ते गिरिम् । मलयं पृष्ठतः कृत्वा पारं पापुर्महोदधेः ॥ ९ ॥ तिमिलैिर्महाभोगैस्तिमिग्रसनलोलुपैः । अन्तलीनैरिव द्वीपैराघूर्णितजलोदरम् ॥ ९१ ॥ श्रीविलासैरिवालोलैहस्तैरिव महोर्मिभिः । आलिङ्गन्तं मुहुर्वेलामेलापाकेन वासिताम् ॥ ९२॥ पश्यन्ति स्म च निस्सीमकौतुकस्तिमितेक्षणाः । तमपारमगाधाम्बुनिलीनासुरभूभृतम् ॥ ९३ ॥ ते तरङ्गानुसारेण प्लवमानास्तदाताः । भालिय स्वानि गात्राणि क्षारार्दाण्युचकम्पिरे ॥ ९४ ॥ परस्त्रीदन्तचारूणि शुक्त्युद्गीर्णानि चापलात् । मौक्तिकानि हनौ कृत्वा नीरसानि समत्यजन् ॥ १५ ॥ अयस्सूचिनिशातेषु श्रान्ताः क्षारतृणेषु ते । निषण्णमात्रास्तद्विदाः कृतचीत्कारमुत्छुताः ।। ९६ ॥ तत्रादवचोभिन्नां चित्तवृत्तिं वनौकसाम् । मारुतिः प्रकृति नीत्वा प्राक्षिपत् प्रस्तुतं प्रति ॥ ९७ ॥ सिन्धूल्लङघनसामग्यामप्रगल्भतया पुनः । कपिषु ध्यानमूकेषु जाम्बवानाह मारुतिम् ।। ९८ ।। माक् प्रभाते विजृम्भायां सिमृक्षोः परमेष्ठिनः । जातोऽहं प्रथमं देहात् ततः स्वायम्भुवादयः ॥ ९९ ।। ततः परस्ताज्जानामि विश्वसर्गक्रमं पितुः। प्रलयान् कल्पभेदांश्च मनूनां च व्यवस्थितिम् ॥ १० ॥ परोक्षकीर्तनैः किं स्यात् फलं कालात्ययाहते । अस्मिन् काले श्रुतिप्राप्तं यत् तदेकमनाः शृणु ॥ १०१ ॥ अन्विच्छन्तं पुरा वेदान् प्रद्धे प्रलयाम्भसि । क्रीडन्तं छन्दतो वेशि मीनाकारं जगत्प्रभुम् ॥ १०२॥ १. जय', २. प्रियक', ३. '' ४. गुरुम् स.पा.

रघुवीरपारित ततः सुरासुरोदस्तमन्दरोद्धारहेतवे । बद्धकक्ष्यं महाकूर्ममन्वभूवं दृशानया ॥ १०३ । हिरण्याक्षेण पर्यस्तां धरित्रीमुद्धरिष्यतः । मायामहावराहस्य महिमा निरवयेत ॥ १०४ ॥ नखनिर्भिनदैत्येन्द्रविकटोरस्स्थलोद्गतः । रुधिरैराछुतो दृष्टो मया पुरुषकेसरी ॥ १०५ ॥ पदत्रयेण लोकांस्त्रीन् बलेहरति वामने । मया त्रिलोकी भ्रमता दुन्दुभिः समहन्यत ॥ १०६ ॥ त्रिसप्तकृत्वः पृथिवीं लिप्तक्षत्रां वितन्वतः । यद् वृत्तं जामदग्नयस्य प्रत्युप्तं तद् दृशोर्मम ॥ १०७ ॥ पुराहमेकयोत्प्लुत्या विरिनभवनं गतः । अभिवन्ध तमद्राक्षमसङ्ख्यान् प्राक्तनान मनून् ॥ १०८ ॥ कौशिकोद्भावितान् देवान् वैश्वानरपथाद् बहिः । अवस्थितांस्ततो गत्वा सद्यः पातालमाश्रितः ॥ १०९ ॥ इति वगपरीक्षार्थमुत्प्लुतं यौवने सति । अतिक्रान्तेन किं तेन वर्षीयानस्मि निस्सहः ॥११०॥ पुनरुक्तवलीव्यक्ति मुखं भूपिहिते दृशौ । सवेपथूनि गात्राणि खिन्नानि धिगिमा दशाम् ॥ १११ ॥ मिषत्स्वस्मासु सर्वेषु त्वामहृय रघुबहः । अञ्जलौ कृतवान् धीमानभिज्ञानाङ्गुलीयकम् ।। ११२ ॥ भर्तुर्देवस्य देव्याश्च सर्वेषां नो पनौकसाम् । दुर्वहः सकलो भारस्त्वय्येव विनिवेशितः ।। ११३ ॥ सागरोल्लङ्घने शक्तिरस्त्येवैप्वादादिषु । किन्तु मायाविभिर्योढुं प्रत्यागन्तुं त्वमीशिषे ॥ ११४ ॥ 1. 'स्वि' क. पाठ:.

एकादशा मः। स्वस्त्यस्तु तात! वे विना मा भूवन् पथि यास्यतः। प्रत्यावृत्तं कृतार्थं त्वां पश्येयमनया दृशा ॥ ११५ ॥ बहपायेन मार्गेण तितीर्षारम्भसां निधिम् । तव क्षेमाय भूयास्तामजेयौ रामलक्ष्मणौ ॥ ११६ ॥ अभिज्ञानप्रदानेन नीतायाः प्रत्ययं त्वयि । मनःप्रसादः स्वामिन्याः क्षिणोत्वध्वपरिश्रमम् ॥ ११७ ।। इति शतधृतिमूनोः प्रस्तुतार्थानुकूला गिरमवाहितचेताः शुधुवान् रामदूनः । उदधितरणकल्यां मूर्तिमङ्गीकरिष्यन् समधित पित्तुल्यश्चेतसि स्वं प्रभावम् ॥ ११८ ॥ इति रघुवीरचरिते दशमः सर्गः । अथैकादशः सर्गः। तदनु पवनमूनुक्रराजः शकलितमन्दिमरज्जुभिर्वचोभिः । विकसितमहिमा दशास्यनीता जनकमुतामुपचक्रमे विचेतुम् ॥१॥ मनकदुहितृविप्रलम्भखिन्नं विभुमथ तामपि तद्विधार्तिभाजम् । उपकृतिनिरतं पति कपीनामपि स कृतार्थयितुं वभूव सजः ॥ २ ॥ गगनलिहि महेन्दशैलमूर्ध्नि व्यवभितचि तमवस्थितस्य तस्य । वपुरलघु शरद्धनावदातं प्रसभमवर्धत सागरं तितीर्णोः ॥ ३ ॥ श्रियमभजत लब्धपाण्डुभावैः सिनरुचि नस्य शिरः कचैरुदीर्णैः । शरदुपगमसारिताम्बुगभैर्हिमगिरिकूटामिवाम्बुदैविलग्गैः ॥ ४॥ तरुणतरणिबिम्बचारुकान्ति प्रकटितचन्द्रकलावदातदंष्टम् । अशनिशकलदुर्निरीक्षदन्तं मुखमुदभासत तस्य पिङ्गनेत्रम् ॥ ५ ॥ अरुणरुचि मुखं विराजमानं ज्वलितरुचा मणिकुण्डलद्वयेन । गुरुभृगुसुतमध्यगस्य भानोरनतिचिराभ्युदितस्य धाम भेजे ॥ ६ ॥ १. 'न्यं चेक. पा. २. 'लभत' ख. पाठः. 1.

रघुषीरचरिते रुचिमुदवहतामहीन्द्रभोगद्युतिपरिभूतिकृतौ भुजौ तदीयौ । अवनितलसमुह तिप्रगल्भौ विपुलतराविव यन्त्रदारुसारौ ॥ ७ ॥ निचितरुचिररोमदर्शनीयं स्फटिकमणिस्फुटकान्ति तस्य वक्षः । विसमरफिरणस्य शीतभानोः श्रियमपहस्तितलक्ष्मणो जहार ॥ ८॥ जवपवनविधूतशैलशृङ्गो जगदवनक्षमतोरणायमानौ । पृथुजघनभरप्रसक्तखेदो गगनमपूरयतां तदूरुकाण्डौ ।। ९ ।। रघुपतिदयितार्थमुत्पतिष्णाचणसमर्पणशीर्णसानुकूटः । क्षितिभृदुदवमत् तदीयनादप्रतिरुतगर्भगुहामुखैमगेन्द्रान् ॥ १० ॥ अमरवसतिपद्मनालदण्डः सरभसमस्य समुत्पपात बालः । बलिमखमयनोद्यतस्य विष्णोश्चरण इव त्रिदशारिधूमकेतुः ॥ ११ ।। विहितशतधृतिस्तुतिनमस्यन गिरिशमनुस्मृतराघवाङ्घ्रिपद्मः । पितरमथ समस्तदेवतानां गणमपदिश्य च वन्दनं चकार ॥ १२ ॥ परिचितमपि मेघभीमघोषं विपुलहिमाचलतुङ्गभीपणाङ्गम् । गगनपथविभागवद्धकश्यं तमथ निरीक्ष्य वितत्रमुः प्लवङ्गाः ॥ १३ ॥ व्यवसितमिति तं विलोक्य सिद्धा जलनिधिनिस्तरणे कुतूहलेन । स्तिमितनयनचित्रितान्तरिक्षा गिरमिनि नस्य कृते मिथो विववुः ।। गिरिदुहितार शम्भुना निपिक्तं सकल ट्रहमय्यशक्ति तेजः । उदरगतमभूद् यदञ्जनायाः प्रभवममुप्य महात्मनस्तदाहुः ॥ १५ ॥ अयमजनि यदा तदा जिहीपुः परिणतदाडिमनाम्रमर्कविम्बम् । उदयगिरिगतं निरीक्ष्य वंगादुदपतदम्बरमामिपभ्रमेण ॥ १६ ॥ फलमिति मनसाभिमन्यमानः मुरपतिकुञ्जरमुत्पतन जिवृक्षुः । हनुभुवि कुलिशन तेन विद्धः क्षितिमभजन प्रतिपत्रवान् प्रमोहम् ।। सुतमकृशदशान्तराभिभूतं चलितधृतिः परिगृह्य मातरिश्वा । विधृतरभसमात्मनो महिना जगदिदमस्तमितेहितं चकार ।। १८ ॥ जगति जडतया दृढाभिभूते हरिहरपद्मभुवः पुरो विधाय । अमरपरिषदङ्कलनमूनुं पवनमुपेत्य जगद्धिनं ययाच ॥ १९ ॥ १. 'गा', २. 'म' क. पाठः.

एकादशः सर्गः। परममिति गिरं प्रयुज्य तेभ्यः पुनरवृणीत वरं शुभाय मूनोः । युधि विजयमदीर्णतां च शस्त्रैरनियतमायुरथात्मनो जयं च ॥ २० ॥ पुनरपि च विचिन्त्य पुत्रलोभात् स्थिरगुणधीरणिमादिकान् गुणांश्च । अलभत स च तेऽपि विश्वरक्षावितरणजागृवयस्तिगेवभूवुः ॥ २१ ॥ यदयममरराजतिकोटिक्षतहनुरप्यमुभिर्न वश्चितोऽभूत् । सुरपरिपदमुष्य दत्तकीर्तिस्थिति हनुमानिति नाम तेन चक्रे ॥ २२ ॥ अयमहिमरुचे स्याग्रगामी समपठदेकदिनेन शब्दविद्याम् । स तु निजसुतमित्रताममुप्माद् गुरुमहिमा गुरुदक्षिणां प्रपेदे ।। २३ ।। पितुरिव बलवेगयोरमुष्य स्थितिरमराधिपतेरिवोरु तेजः । कमलभुव इवोद्यमः समाधौ कपटवटोरिव कामरूपता च ॥ २४ ॥ प्रयतमनसि विश्वसनमुप्मिन् व्यसनशतापहृतोऽपि वर्तते यः। स हि सकलमनोरयगृहीतस्तपनतनूज इव प्रयाति लक्ष्मीम् ॥ २५ ॥ अयमिह मनसाभिमन्यते चेत् स्वभुजवलेन समुद्धरेद् धरित्रीम् । क इव तुलयितुं भवेत् प्रयासः कतिपयरात्रिचराश्रयं त्रिकूटम् ।। जय जय हनुमन्नुदग्रकीर्ते ! जय जय विश्वसनीयशीलसीमन् ! । जय जय जनकात्मजाग्रदर्शिन ! जय जय राघवकामकामधेनो! ॥ भवतु शिवमपानिधि तितीर्घार्विपमफलान्यशुभानि मा स्म भूवन् । रजनिचरपतेर्यशःपताका व्रजतु पटचरतां तवेहितेन ॥ २८ ।। जवजितजनकः प्रविश्य लङ्कामधरितदेवपुरी विभूतिभूम्ना । अवहितमति सर्वतो विचित्य क्लमविधुगमधिगच्छ रामपत्रीम् ॥ २९ ॥ कपटहरिणवचनात् परस्ताद् वनभुवि यानि विभोर्दशान्तराणि । कथय शरनिरस्तवालि तस्यै हरिपतिसख्यमुदग्रमुद्यमं च ॥ ३० ॥ वचनकुशल ! मुनृतैर्वचोभिः शिशिरय तां प्रियविप्रलम्भतप्ताम् । चिरमवनिमवग्रहोपरुंदा सलिलभरैरिव सान्द्रवारिवाहः ॥ ३१ ॥ ३. १. 'शिवाय', ५. वि. पाठः. 'सादः'. ४. 'लोक्य , . रघुवीरचरिते इति खचरगणैरुदीर्यमाणां गिरमुपबृंहिततेजसं नि(यश)म्य । मतिमति गुरुणा कृतः स्वभक्त शुचिरुपदेश इवैधते स्म वीरः॥ १२ ॥ विवृतमुख बिलोत्तरङ्गाजिद्वं लघु दशकत्रययोजनायत सः । वपुरभृत च तत्रिभागपीनं विभजदिवाखिलमम्बरावकाशम् ॥ ३३ ॥ दृढचरणनिपीडनावरुग्णक्षितिधरकूटमपास्तशत्रुक्टः । उदपतदप(त?द)पंयन् महिम्ना गुरुमपि चारणवर्गदत्तमार्गः ॥ ३४ ॥ जवपवनसमुद्धृताः समलं विवशविलोलितपल्लवानशाखाः । चपलमिव विभुं धनानुरोधाः क्षणमनुजग्मुरनोकहा महान्तः ॥ ३५ ॥ विरचितनुति नन्दनोपनीतः सुरभितमैः कुसुमैरवाकिरन्त्यः । पपुरतितृषितरिवाक्षिपद्ममणिचपकैरिव दिध्ययोपितस्तम् ।। ३६ ॥ त्वरितगतिरवेक्षणेन तासामुपचरितानि कृतादरः प्रगृह्य । प्रकृतमनुससार भीमदेहप्रसभनिवारितभानुरश्मिजालः ॥ ३७ ॥ प्रकटितजलवेणि दक्षिणस्यां दिशि रभसोबतभीषणैकवीचिः। अभजत जलधिस्तदीयवेगप्रभवमरुद्विधुतो बिलस्य कक्ष्याम् ॥ ३८ ॥ पयसि हरिभयेन ये निलीनाः क्षितिघरदैत्यगणा निरस्तशङ्कम् । झटिति ददृशिरे च तव्यपायप्रकटबिलोदरगोचरास्तदानीम् ॥ ३९ ।। प्रलय इव समुदतैस्तरङ्गैः कृतबडवानलघोणरन्ध्ररोधः । चकितचकितनक्रचक्रवालः समधिकमुच्छ्रसिति स्म सिन्धुराजः ॥ गरुडभयनिलीननागकन्यापृथुकुचकुम्भकृतानुभूतभूतिः । पवनसुतहिताय वारिराशेहिमगिरिमनुरथोन्ममज्ज शैलः ॥४१॥ दधदधरितमर्यसोमवहिगुतिविभवान् महसा महत्तमेन । शिखरकटक मानुमेखलाभिर्मणिनिवहानपि दुर्लभान् बलारेः ।। ४२ ॥ कनकमणिविशिष्टधातुचित्रः प्रनिदिशमुच्छ्रितभीमशृङ्गबाहुः । क्षितिभृदनिभृतोद्यमः समुद्रात् प्रथमवराह इवोत्पतन् यभासे ॥ ४३ ।। उपनतमथ सागरोपदेशात् स निनपरिश्रमहापनाय भूयः। मुनिपुणमनुमान्य रामकार्यत्वरितगतिर्दिवमुत्पपात वीरः ॥ ४४ ॥ १. 'बतंसम् ।' क. पाठः द्वादशः सर्गः। गतवति गुइमातुले महीधे तदनुगृहीतसमर्हणप्रतीते । सरणिमरुणदुद्गतस्य तस्य स्फुटमहिमा सुरसा भुजङ्गमाता ॥ ४५ ॥ स्थगितपवनवर्त्मदिग्विभागा कबलयितुं तमवर्धत प्रकामम् । स खलु पितृसमस्तदीयरूपद्विगुणितभीमतनुर्वभूव सद्यः ॥ ४६ ॥ निरतिशयमवेक्ष्य तस्य तेजः स्तवकितधीर्महता कुतूहलेन । ब्रज तव शिवमस्तु साधयामीत्यलमनुगृह्य तिरोबभूव देवी ॥ ४७ ॥ अतुलवलजवौजसं प्रवृत्तं नभसि तथा जितपुष्पकानुभावम् । ग्रसितुमवहिताशयः समुद्रात् सरभसमुत्पतति स्म कोऽपि सत्त्वः ।। सरणिमिव रसातलं प्रवेणुं वदनगुहामनिलोपमः प्रविश्य । तदुदरमवदारयन् नखाणैर्निरगमदभ्रचयादिवोष्णरश्मिः ॥ ४९ ॥ वीरश्छायाग्राहिणीं यातुधानीमेवं कृत्वा कृत्यवान् भर्तृहेतोः । हर्षस्मरैर्नाकिभिः स्तूयमानो भूयोऽप्यासीदम्बरे भीमरूपः ॥ ५० ॥ त्रिभिः शृङ्गैस्तु.र्गगनमभिरुन्धन्तमभित- स्तरङ्गरम्भोधेरहिनिवहभीमैरभिहतम् । मणिस्तोमज्योतिष्पसरहसितार्केन्दुदहनं त्रिकूट शैलेन्द्र तनुतमतनुपौढिरगमत् ॥ ५१ ।। इति रघुवीरचरिते एकादशः सर्गः । अथ द्वादशः सर्गः। स लम्बमुच्चैरतिलङ्घय शृङ्गं विलम्बितस्वर्णगिरिप्रभावम् । अवेलसम्पज्जितनाकलोकं सुवेलमापद्यत यत्र लङ्का ॥१॥ स्फुटपकाशस्फटिकाश्मराजीनिवेशकूलपतिविम्बितौघाः । बृहद्दषद्धट्टनभमभङ्गास्त्रिमार्गगा यत्र वहन्ति नद्यः ॥२॥ प्रयाणवेगक्षुभिताभुगर्भव्याक्षिप्तशैलोरगदानवेभ्यः । तिमिङ्लेिभ्यः कबलोन्मुखेभ्यखस्तांस्तिमीन् रक्षति यो गुहाभिः ।। .. 'व', १. 'हसनं' क. पाठः, रघुवीरचरिते पुरन्दराद्यैः स्मृतचन्द्रहासैहुंदापि नापद्यत या पुरस्तात् । वनौकसा राघवदूत्यभाजा ततः समावेशि दृशा पुरी सा ॥ ४ ॥ यस्यां मणिस्तोमरुचिप्रहपीदुत्सारिते सन्तमसे विदुरम् । सरोजिनीपद्मविकासमात्र परं भवत्यंशुमतः प्रयासः ॥ ५ ॥ भयादपीतः पितृदेवमत्यैदशाननोत्थात् परिपूर्णमृतिः। यत्सौधचन्द्रोपलसंस्रवार्थ जागर्ति नित्येन तुपारभानुः ॥ ६ ॥ हविः किमश्नासि मखप्वपास्त त्रयीधनैः सम्प्रति मन्त्रपूतम् । रक्षांसि मांसानि पचन्ति यस्यां निर्भसंयन्तीत्यसकृत् कृशानुम् ॥ तेजस्विना काव्यगुरुपयुक्ताः सन्धाय सम्भूय च दैत्यदेवाः । गुप्तां दशग्रीवभुजावलेन प्रवाधितुं यां मनसाप्यकल्याः ॥ ८ ।। वर्षागमं कौतुक केतकानां प्रदेशमालोक्य मरुत्तनूजः । यत् तस्य वीर्य रघुराजमनोन तेन निर्वाह्यममंस्त कृत्यम् ॥ ९ ॥ स कामरूपः सरितः ससत्त्वाः शिलाविभङ्गेविपमाः स्थलीश्च । वनानि रम्याणि च भीमयन्त्राश्चकार पश्चात् पारखाश्च भूयः ।। १० ।। स जामदग्न्याहितांग्रहेतिनिर्दाग्निं को चमिवाद्रिवयम् । अपास्तद्वारमुदीच्यमु चर्हिरण्मयं गापुरमामसाद ॥ ११ ।। ददर्श चानारतमाचरन्तं गतागतं वत्रभनां नियोगात् । कृतावधानं क्षणदाचराणां महौजसामप्रतिमं समाजम् ॥ १२ ॥ तं सुप्रसन्नेन्दुमुखी मनायोमनः स्वागनाद्विान्नी । विकीर्य ताराकुमुमानि दगाभ्यागनं प्रत्यदियाय सन्ध्या ॥ १३ ॥ द्वारप्रवेश परिहत्य धीमानुत्सार्य लङ्काश्रियमन्नतहः । उत्तुङ्गमुल्लङ्घय सुवर्णसालं नामभ्युपतस्तनुनां विविश्वान ॥ १४ ॥ स वीक्षमाणो विशिग्वाः समृद्धा महान्ति संझानि च गक्षसानाम् । सुरद्रुमान् कामदुधांश्च तस्यां समन्ततः पर्यटति स्म भूयः ॥१५॥ 1. 'स्मि', २. 'वि' क पाटः ३. 'वदमानि' ख. पाठः, द्वादशः सर्गः। स कुम्भकर्णस्य विभीषणस्य महोदरस्येन्द्रजितः समुनोः। तथेतरेषामपि वेश्मजातान्यालोकयल्लोकहितश्वचार ।। १६ ॥ यद्वैभवं विश्वसृजापि साक्षात् स्मर्तुं न शक्यं कुत एव वक्तुम् । तदद्भुतं राक्षसराजधाम प्रपद्य देव्याः पदमन्वियेप ॥ १७॥ स देवदैतेयमनुष्यवर्गाद् बन्दीकुता यौवनरूपधन्याः । सुरक्षिताः कञ्चुकिभिर्महेला विलोकयामास कृतावधानः ॥ १८ ॥ उद्यानवाटीपु सरस्तंटषु ग्थ्यामु सर्वामु च सापणामु । शुद्धान्तकक्ष्यागु च मार्गमाणो दृशा न लेभे रघुराजपत्नीम् ॥ १९ ॥ अवस्थितां तत्र सुपार्थवाचा विजज्ञिवांस्तामपि नाभिपश्यन् । स तर्कयामास वितर्कशोण्टः स्वया धिया यत्ननिरोधखिन्नः ॥ २० ॥ इतो वृथोल्लवितवारिराशिः प्रतिप्रयातो विधृताङ्गुलीयः । स्मेराणि वक्राण्यभितः स्थितानां कथं कपीनामवलोकयेयम् ॥ २१ ॥ दृष्टा न देवी विचितैव सर्वा लङ्का निगृढन मया निशायाम् । इति श्रुते मद्वचने न जाने कि मस्यते दाशरथिनिराशः ॥ २२ ॥ सामान्यवृत्ति परिलक्ष्य पुंसां सम्भावना भर्तृकृता हि शल्यम् । गाहें निमग्नं हृदये कृतज्ञस्तदुद्धरिप्यन लभते न निद्राम् ॥ २३ ॥ दुरुद्व हैः कर्मभिरन्नदृप्यः पायण नेतुः प्रमदं विधास्यन् । दिवानिशं जागृविरप्रमत्तः कृच्छ्रेण भृत्यो नयनि स्वमायुः ॥ २४ ॥ सेवाभृतां भावितया गुणैवी प्रसादभूभियदि कोऽपि भर्तुः । विशेषतः कर्मसु तस्य दोपानारोप्य चान्ये परिभावयन्ति ॥ २५ ॥ फलन्ति चेत् स्वामिगुणाः समस्ताः क्रिया विमूढा यदि भृत्यदोषः। निरन्तरले शनिदानभूतां धिगीदृशीं किङ्करतामनाथाम् ।। २६ ॥ आज्ञाविधायी हितमाचरन् यः प्रायः स नैव प्रियकृन्नृपाणाम् । कुर्वन् प्रियं शोभनमा समाप्तेर्यद्यस्ति कश्चित् तमहं नमामि ॥ २७ ॥ आलोकमात्रे सहसोपकर्तुस्तस्याञ्जसकेन शरेण कामम् । अनभ्युपेतस्य विभोश्चिकी कथं कपीनामधिपे भवित्री ।। २८ ।। १. 'भजत' ख. पाठः. २. 'णः समन्तात् कि' क. पाठः. ३. 'येण नै' ख. पाठः.

८. सुधीरचरिते अनुस्मरन् बालिकृते विरोधं सुग्रीवहेतोः प्रभुणा प्रयुक्तम् । मत्साहसेनेति निरत्ययाधिर्ममाङ्गदः सम्पति नेक्षणीयः ॥ २९ ॥ महौजसा कर्मसु तेषु तेषु तातेन यज्जाम्बवतानुशिष्टम् । जदत्वमग्ने मयि तावदित्थं सर्व तदासीत् फलकालमोघम् ॥ ३०॥ न स्वामिनः कृत्यमसाधि भर्तु नृण्यमापद्यत साहसं तु । मया कृतं नाम न किश्चिदेतत् सप्ताम्बुधील्लँझ्यता कपीनाम् ॥ ३१ ॥ उपांशु यत्किञ्चिदिवोपदिश्य विधासयन् यो नयति स्वमर्यम् । स्वच्छन्दतः पौरुषशक्तिहीनः प्रत्यक्षचोरं पिशुनं तमाहुः ॥ ३२ ॥ मया परं माल्यवतोऽवतीर्य विश्वास्य सत्यैकधनं विभुं तम् । स्वार्थ च तस्मादधिगम्य तस्मिन् प्रभ्रंशितार्थेन खलेन जातम् ॥३३ ।। त्यक्ष्याम्य श्वेदयशःपदं तद् ध्रुवं तदन्ये कपयोऽपि कुर्युः । धक्ष्यामि पौलस्त्यभुजाभिगुप्तां लङ्कामिमां चेन स दूतधर्मः ॥ ३४ ॥ यद्वा दशग्रीवपुरावतंसं समूलमुत्पाट्य गिरि त्रिकूटम् । अपीडयन् जानपदान् भुजाभ्यां वहन्नु देवं निकषा भवेयम् ॥ ३५ ॥ असिद्धकृत्येन मयोपनीते वृथावलिप्तेन महामहीधे । अगाधबोधस्य विभोः प्रतिठा न वेधि किंवा फलयिष्यतीति ॥३६ ।। अहं तु देवीमनवाप्य दृष्टया प्रतिप्रयास्यामि न जातु देवम् । उत्तीरमधर्भवतु स्थितां सा दिवं गता किन्नु रसातलं वा ।। ३७ ॥ परिस्फुरत्यूरुभुजेक्षणं मे वामेतरं चिन्नयतः शिवानि । मनः प्रसादामलवृत्ति तावन्मन्ये निमित्तैरनपायिनी ताम् ॥ ३८ ॥ चिन्तेयमास्तामिह भूरिशाखा प्रमौदखेदप्रकृतिः प्रकृत्या । भिनत्ति या धैर्यवनोऽपि धैर्य वेणीव कूरं सरितः प्रद्धा ॥ ३९ ॥ सोऽहं त्वमुष्यां पुरि दृष्टिपानं सर्वत्र कुर्वन्नवधानबन्धुः । लभेय साध्वीमपि नाम सर्वे मयि प्रसाद वितरन्तु देवाः॥४०॥ इति व्यवस्यन् व्यवसायशौण्डः पितेव विश्व पुरमश्नुवानः । यत्नाद् विचिन्वन्नपि तामपश्यनारादिवारामभुवं प्रपेदे ॥४१॥ 1. 'पु', २. 'रा', ३. 'मो' क. पाठः, बादशा सर्गः। ८१ समृद्धिदीकतनन्दनश्रीर्वाचालिता चित्ररुतैर्विहङ्गैः । रत्नातपेन क्षपितान्धकारा या नाम जागर्त्यभिभूय विश्वम् ॥ ४२ ॥ स तत्र नानायुधवाहिनीभिर्निशाचरीभिर्गणशः परीताम् । ददर्श नारी विषवल्लरीभिर्दुरासदां कल्पलतामिवैकाम् ॥ ४३ ।। धृतैकवणी भुवि केवलायां निपेदुषीं क्षौमकृतोत्तरीयाम् । राहूपरुद्धस्य तुषारभानोः प्रभामिव प्रत्रजिनां विरागात् ।। ४४ ।। प्रलम्बधुम्रालकरानि व तस्या ददातकरावसक्तम् । छिन्नाभ्रवीनं हिमविद्धपभव्यारानि वैभानभिवेन्दुविम्बम् ।। ४५ ।। विशुद्धमुक्कामणिदामशुभ्रानालथ्य तस्चा नयनाश्रुविन्दून । स्तनद्वये स्पष्टकिणेऽवसक्तान क्लिन्नान्तरात्मा कृपया शुशाचं ॥ ४६ ।। तस्याः परिक्लिष्टमृणालगोरेबङ्गपु विभ्रत्स्वपि कान्तिमात्रम् । ऑलक्ष्यतोच्चैः पियविप्रलम्भादाविप्कृतः कोऽपि दशाविशेषः ॥४७॥ तस्याः स जाप्रपदाङ्गुलीषु सञ्चारयन् दृष्टिमदृष्टचर्याः । नालक्षयल्लक्षणबोधशौण्डः मुखापहां मङ्गलमूत्रहानिम् ॥ ४८ ।। भालोकयन्नुत्तमयोषित तामशक्यसर्गामपि पमयोनेः । आपातविष्फारितभूरिहर्षः स्वया धियेत्यं विममर्श धीमान् ॥ ४९ ॥ शमावतंसं वपुरुद्वहन्ती कृताधिवासं नवयौवनेन । शुचा कयाचित् परिभूयमाना केयं स्थिता राक्षसचक्रमध्ये ॥ ५० ॥ भमर्त्यवर्गेऽष्टविधेऽप्यमुष्या न सम्भवो नूनमनूनकान्तेः । यतस्त्रयाणामपि विष्टपानां विराजतेऽसावधिदेवतेव ॥ ५१ ।। निरर्गलं पर्यटता त्रिलोकीमधर्मशीलेन दशाननेन । उच्चैरपात्रप्रतिपत्तिशांच्या बन्दीकृता किंस्विदियं जयश्रीः ॥ ५२ ॥ निर्मष्टपिष्टातकगौरमस्याः कृशं वपुः पाण्डुतयाभिभूतम् । इयं दशा हि पियविप्रलम्भाहते न जातु प्रभवेद् वधूनाम् ॥ ५३ ।। ॥ 1. 'त', २. 'ब' क. पाठः ३. 'च । तस्याः सज', ४. 'अ' ख. पाठः भ रघुषीरचरिते पुमान् स को नाम न वेद्मि लोके स्रष्टा न तस्य ध्रुगमायोनिः । इमामवस्था मदनापसृष्टामेषा परं यस्य कृते विभर्ति ॥ ५४॥ एवं विमर्शोन्मथितमबोधे तस्मिमनिर्विष्टचराधिभारे । भदृश्यताभ्युद्धृतदीपिकाभिः स्त्रीभिः परीतः क्षणदाचरेन्द्रः ॥ ५५ ॥ परिष्कृतः स्वर्णमणिप्रवेकनिष्पादितैराभरणैरशेषैः । द्रुमैर्विचित्रस्तबकपमूनैः स कर्णिकारैरिव नीलशैलः ॥ ५६ ॥ स राजहंसीमिव वायसस्तां त्रेताग्निवदीमिव सारमेयः । शशाङ्करेखामिव धूमकेतुर्बलाद् वृषस्यन् निकपा बभूव ।। ५७ ।। अदार्श तेन स्मरपीडितानां दशाविशेषः सकलोऽपि तत्र । न चापलं वाचि तथाविधस्य प्रवक्तुमीशश्चतुराननोऽपि ॥ ५८ ॥ अनात्मानं विपथप्रवृत्त्या सा तं सनिर्वेदमवेक्षमाणा । पराङ्मुखी दिङ्मुखकीय॑मानचारित्रशुद्धिनिभृता बभूव ।। ५९ ।। तस्याः स्वसङ्कल्पविरोधि शीलं नियि दुर्दान्तमदाधिरूढः। अत्स्यामि धक्ष्याम्युत वामभावामित्युचिवानुञ्चलितस्ततोऽभूत् ।। ६० ॥ तस्मिन् प्रयाते करुणैः प्रलादेव्याः श्रुतिध्वंसिभिरस्तधैर्यः । अवाप्य विश्वासमनभ्रष्टिस्पष्टोपमो मारुतिराविरासीत् ।। ६१ ॥ सा तं पुरस्तादवतस्थिवांसं परिष्कृतं प्रश्रयभूपणेन । आलक्ष्य रक्षःप्रहितासु मायास्वविश्वसन्त्यन्यतमाममस्त ॥ ६२ ॥ विश्वरक्षणजागरूकककुत्स्थनन्दनशासन- क्षिपलचितवद्दपायपयोधिदर्शितसाहसम् । बद्धकौतुकमीक्षमीक्षपचिन्तितोपनतं कपि प्रत्ययं निबन्ध तत्र निरत्ययं जनकात्मजा ॥ ६३ ।। इति रघुवीरचरित द्वादशः सर्गः । १. 'श्य' न. पाठः. २. 'वशप्र', ३. नि' रु. पाठ:.

प्रयोदशः सर्गः। ८३ अथ त्रयोदशः सर्गः। तामशोकवनिकामुपाश्रितां रामधर्ममहिषी विजज्ञिवान् । महभावमवलम्ब्य धीमतामग्रणीरुपससाद मारुतिः ॥ १॥ अञ्जसाभिपततः पुरस्तदा तस्य तत्प्रथममन्तरात्मनि । सन्निकर्षमुपगम्य भाषितुं न क्षणं समभवत् प्रगल्भता ॥२॥ विप्रलम्भविषमस्थितविभोस्तद्दशान्तरमनुस्मरन् धिया । अञ्जलिं शिरसि भक्तिबन्धुरं कल्पयन्निति जगाद भारतीम् ॥ ३ ॥ ऋश्यशृङ्गतपसां प्रभावतः कोसलेन्द्रदुहितुर्बभूव यः। यातुधानकुलकाननानलः सानुजो जयति जानकीपतिः ॥ ४ ॥ येन पूर्वयुदमाथि ताटका कौशिकक्रनुररक्षि तेजसा । भज्यते स्म धनुरैश्वरं हता मैथिली पथि जितश्च भार्गवः ॥ ५ ॥ येन सत्यनिरतेन दुर्लभं पै उकं पदमपास्य दूरतः । दण्डकेषु चरता तपस्विनां विक्रमेण परिरक्षणं कृतम् ॥ ६ ॥ येन शूर्पणखयाभिभूतया मेपितेषु खरपणादिषु । विभ्रता धनुरगस्त्यलम्भितं दर्शितं स्वमपदानमूर्जितम् ।। ७ ॥ यत्र हेममृगवाञ्चित गते लक्ष्मणे च तमनुप्रयापिते । भिक्षुरूपमव लम्ब्य मायया कालिता दशमुखेन जानकी ।। ८ ॥ तेन कूटहरिणं निजघ्नुषा जग्मुपा पुनरपि स्वमाश्रमम् । तत्र धर्मगृहिणीमपश्यता चेष्टितानि कतिचिद् वितेनिरे ॥ ९ ॥ नात्ति निःश्वसिति भूरि निद्रया वय॑ते च विलपत्यहर्निशम् । एहि मैथिलि! परिष्वजस्व मां जीवयेति च वचांसि मुञ्चति ॥ १० ॥ गौतमीतरव रेषु सानुपु क्ष्माभृतामथ गुहोदरेषु च । दीर्घिकासु पकलासु दीर्घधीरन्वियेष सहधर्मचारिणीम् ॥ ११ ॥ राघवेति रुती दशाननस्तां हरन् निरुरुधे जटायुगा। तस्य तत्पर नल घतायुषः प्रेतकर्म विधिवद् व्यधत्त सः ॥ १२ ॥ १. 'ज क.ठ:. ।

1 रघुधीरचरिते शैलजाङ्गलबनानि गच्छता मैथिलीचरणपङ्कजच्युतम् । दृश्यते स्म पथि रत्ननूपुरं तत् किलास हृदयावलम्बनम् ॥ १३ ॥ दक्षिणां दिशमनु प्रतस्थिवान् योजनायतभुजेन रक्षसा । वारितस्तदृषिशापवागुरागोचरं विभुरमोचयत् क्षणात् ॥ १४ ।। किश्च पञ्च कपयस्तदा वयं माल्यवच्छिखरसङ्गतास्तया । क्षिप्तमाभरणमुत्तरीयवत् स्वामिनः पुनरकुर्म सन्निधौ ॥ १५ ॥ सिद्धया पथि मतङ्गशिष्यया सङ्गतस्तदुपदेशगौरवात् । सख्यमेत्य कपिनार्कसूनुना तत्कृते स निजघान वालिनम् ।। तत्पदे निजपदाश्रयं कपि सोऽभिषिच्य कृतसंविदत्यगात् । कृच्छ्रमभ्युपगतो धनागमे तां विना वत निशा युगोपमाः ॥ १७ ॥ मत्तकेकिविरुतैररुन्तुदैर्मारुतैरपि कदम्बवासितैः । निर्भरोद्गतसिलिन्ध्रया भुवाप्युच्चचाल विषमस्तदाशेयः ॥ १८ ॥ मुह्यति क्षणमथो विबुध्यते जानकीति लपति प्रमुञ्चति । अश्रु नेत्रकमलोदितं मुहुर्लक्ष्मणेन स शुचानुवर्त्यते ॥ १९ ।। नो विमुह्यति स नो विबुध्यते मौनभाग बहुविध प्रभापते । न स्थितिं भजति याति न प्रभुधर्मदारविरहज्वरातुरः ॥ २० ॥ केकिनं कमपि नर्तनोन्मुखं वीक्ष्य चारुबहुबईमण्डलम् । पुष्पचित्रितशिरोरुहभ्रमात् नां स्मरन्नभिससार स क्षणम् ॥ २१ ॥ किश्च सन्तमसिनीपु रात्रिपु प्रावृषेण्यधनगजितपु सः । संश्रुतेषु दलिताशयः प्रभुश्चापलं बहुतमं किलातनात् ॥ २२ ॥ अस्तमेतु बत तद्दशान्तरं मा स्म भूत् तदहितेष्वपि कचित् । यद् विलोक्य वनदेवता धृनि सम्पहाय रुदितानि चक्रिरे ।। २३ ॥ उद्यतः शरदि कृत्यमात्मनः सङ्क्रमय्य कपिराजि तत्सखः । सत्वरं मृगयितुं प्रभुः प्रियां प्राहिणोत् प्रतिदिशं प्लवङ्गमान् ॥ २४ ॥ तावदप्रतिहतं विमृग्यतां यावदर्कमहसामवस्थितिः । मासमात्रमवधिश्च तद्विधावित्यभूत् कपिपु भर्तृशासनम् ।। २५ ॥ 1. 'वि', २. 'प्रियां प्रभुः प्रा' ख. पाठः.

प्रयोदशः सर्गः। तत्र वानरचमूषु निर्गतास्वाज्ञया कपिविभोरलझ्यया। अस्मदादिविरला प्लवङ्गमा दक्षिणां प्रति दिशं प्रतस्थिरे ॥२६॥ किञ्च दिष्टकृतपूर्ववासनावज्रलेपघटिताशयः प्रभुः । सर्भसादमुपहूय मत्करे न्यस्यति स्म निजमङ्गुलीयकम् ॥ २७ ॥ ऊचिवान् स पुनरित्थमाधिना दीर्घमुष्णमपि निःश्वसन मुहुः । संस्मरन् परिणयोत्सवं पुरा वर्तनं च तदनन्तरोचितम् ॥ २८ ॥ क्रीडितानि हृदयङ्गमानि नौ यानि यानि पुरवासिनोः पुरा । तान्यशेषमपि नाम मैथिली मानसेन न तु जातु विस्मरेत् ॥२९॥ तादृशं यदभिजन्म जीवितं यच्च यच्च वसु या च बन्धुता । मारुते ! बहु वचः प्रमृज्यतां मैथिली सकलमित्यवेहि मे ॥ ३० ॥ यत्र तेऽस्ति हनुमन् ! पितुर्गतिस्तत्र दाशरथिरेति सानुजः । तद्वदित्यमनिरुद्धतेजसा तेन सत्यवचमा प्रतिश्रुतम् ॥ ३१ ॥ अङ्गुलीयकमिदं नय पियां स्वस्ति तेऽस्त्विति च तेन गर्वितः । दक्षिणां दिशमुपेयुषीमहं वानराधिपचमूमनुद्रुतः ॥ ३२ ।। लचितप्रचुरमार्गमम्बुधेस्तीरमेत्य बहुविघ्नदुस्तरम् । तं विलङ्घय महनामनुग्रहादागतोऽस्मि दिवसात्यय लघु ॥ ३३ ।। द्वारि गोपुरवरस्य तस्थुषीमत्र राक्षसपुराधिदेवताम् । अस्तशङ्कमभिपीड्य दूरतस्तामपास्य तदई प्रविष्टवान् ।। ३४ ॥ नाकनागपुरभूतलौकसा तानि तानि भवनानि पश्यतः । या न विस्मयगतिर्ममाभवत् सा मदीयहृदयेऽद्य नृत्यति ॥ ३५ ॥ धाम राक्षसपतेरवेक्षितं दीर्घिकाश्च कनकाम्बुजोज्ज्वलाः । सङ्गताश्च मणिहर्म्यभूमयः सर्वतः परिमितात्मना मया ॥ ३६ ।। चन्द्रिकाकबलितेषु दिङ्मुखेष्वस्तसुप्तिपु निशाचरीषु च । अत्र पत्रबहुले लतान्तरे निश्चलः क्षणमहं निलीनवान् ॥ ३७॥ १. 'प्र' क. पाठ..

रघुधीरचरिते तत्र तावदिह रक्षसां प्रभोर्वाचमभ्युपगतस्य शृण्वतः । मैथिलीति जनकात्मजेति मे निश्चयाय समनाहि चेतसा ॥ ३८ ॥ वत्र दुवंचचिकीर्षितोद्यते दिष्टयोगविवशे व्यपेयुपि । राक्षसीप्वपहतासु निद्रया प्रादुरासिषमिहाहमन्तरे ॥ ३९ ॥ स्वामिनि! स्थिरशुचित्रते! सतीमार्गसञ्चरणपूर्वगामिनि!। विप्रयुक्तरघुनाथजीवितम्लानिहारिणि ! दृशा पुनीहि माम् ॥ ४० ॥ अद्य जन्म सफलं मम प्रभारादरश्च सविशेषमुन्मुखः । भर्तुरुच्छ्रसितमाकुलं मनो देवि! यत् त्वमसि दृष्टिगोचरा ॥ ४१ ॥ माययेह भवितव्यमेतयेत्येवमात्मवति ! मा स्म भून्मतिः । रामनामपरिमुद्रितं त्वया दृश्यतां तदिदमङ्गुलीयकम् ॥ ४२ ॥ वाचमित्थमभिधाय मूनृता स्वार्थसिद्धिकृतसम्मदोदयः । स्मेरमंशुभिरुपाहरत् पुरः स्वामिनामशुभमङ्गुलीयकम् ॥ ४३ ॥ अञ्जलौ कृतवती तदअनाभ्यासशन्यविमलाश्रुलोचना । हर्षशोकमिलितेन चेतसा चिन्तयन्त्यखिलसुन्दरं प्रियम् ।। ४४ ॥ ज्यानिपीडनविष्टकोटि तद् दृष्टपूर्वमवधार्य धीमती । भर्तृसङ्गमरसायनोत्सुका किचिदुच्छसिनमाप मैथिली ॥ ४५ ॥ बिभ्रती सुचिरसम्भृतां शुचं सम्मदं च हृदि तावदुत्थितम् । साश्रु निःश्वसिनमुष्णशीतलं मुञ्चती करणमित्यवोचत || ४६ ॥ अङ्गुलीकिसलये धृतं प्रभो पणस्य जगतां विभूषणम् । एतदेतदृषिभिः समागर: पशि खरवधप्रमोदिभिः ॥ ४७ ॥ भर्तुरभ्युपगमे राशन मुद्रह द्भिः मुभिर्यियामुभिः । एतदेत्य हनुमन्समप्यमुं सम्प्रति स्थितिरिहावलम्बिता ॥ ४८ ॥ स्तोकतां रजनिति मारुते ! "रुणी दिशमुपैति चन्द्रमाः । रसिकास्थापि भवेत् प्रबुद्धता नावधिश्च परिदेवितं प्रति ।। ४९ ।। १. 'ध्ययंस' क. पा.

प्रयोदशः सर्गः । श्रेयसां हि बहुविघ्नता भवेन्मादृशीषु खलु सा विशेपिणी । तत् प्रयाहि मतिमन् ! यथागतं दिष्टमावहतु मङ्गलानि ते ॥ ५० ॥ तेद्वचोमृतगृहीतपारणामत्र मां कुशलिनी निवेश्य । मत्कृते कृतिपुरोग ! मा चिरं मावर्स दतु च तुरुद्यमः । ५१ ।। येनकेनचिदुपेत्य वर्त्मना सानुजः प्लवगसेनया वृतः रावणं सहवलं निहत्य मां स्वां पुरी नयतु कोसलेश्वरः ।। ५२ ।। किश्च तात! पुनरेतदुच्यतां प्रत्ययाय तव वाचि माचः । आधिना सकलसत्ववाधिना भिद्यमानहृदया वदाम्यहम् ॥ ५३ ॥ एकदा विपिनगोचरां पुरा मामुरोजभुवि वासवात्मनः । वायसः परितुतोद नत्कृते ब्राह्ममत्रभम्जत् पतिर्मम ।। ५४ ।। तेन भूरिमहसाभिपीडितः पर्यटअगदशेषमान्मनः । नाभ्युपेत्य शरणं विभाः पुरः पाहि मामिनि वदन प्रपन्नवान् ।। ५५ ।। तं कृपालुरतिदुर्विनीतमप्येकनेत्रविकलं व्यधात् तदा । प्रेम्णि जाग्रति तडिल्लनाचलं तन्नृणां खलु वधृजनं प्रति ।। ५६ ।। अस्त्रमुन्मिपति तत्तथापराण्याश्रितेष्वपि जनेषु सा दया । तेजसामपि समग्रता विभौ मत्कृते तदखिलं बताफलम् ॥ ५७ ।। सा कथा विरमतूत्तरोत्तरं ध्यायतां हृदयभेदकारिणी । विद्विपत्परिभवासहिष्णुना तेन कि स्वयशस प्रवर्तिता ।। ५८ ॥ वाचमित्थमभिधाय तं प्रति प्रांशुभिः खचितमंशुसञ्चयैः । केशवाससुभगं शिखामाणं प्रश्रिता विनिदधे तदजलौ ।। ५९ ॥ पत्युरन्रिकमलान्तिकं त्वया नीयतामियमविघ्नमस्तु ते । त्वत्कृतोपकृतिवासना मयि प्रादुरस्तु जननान्तरेप्वपि ।। ६० ॥ एवमुक्तवति रामजीविते तत् प्रणम्य विहितप्रदक्षिणः । दक्षिणः परवलावमर्दने मर्दितुं पुरमथ प्रचक्रमे ।। ६१ ॥ १. 'त्व', १. 'व' क, पाठः.

८८ पुधीरचरिते यावदुधमगतः स मर्दने मान्य तावदुदयाचलं रविः । ज्ञातुकाम इव शिष्यविक्रम पाहिणोत् पुरि कविरानिव ।। ६२ ।। लुन्छते स्म कुसुमोज्ज्वला लताः शाखिनः स महतो न्यपातयत् । हर्म्यभूमिषु ससर्प वापिकास्तीरभङ्गविषमा व्यलोलयत् ।। ६३ ॥ हिकया प्रलयमेघगजितस्फारभीमतमया निशाचरान् । देवदानवलितोऽप्यनेकशस्त्रासयन् समचरत् प्रतिद्रुमम् ॥ ६४ ।। तस्य वालचलनं तडिल्लतां व्यात्तमास्यविलमद्रिगहरम् । अग्निकूपयुगलं दृशोद्वयी भोगिनं च रसना पराभवत् ॥ ६५ ॥ सं तथाविधमेवश्य राससा नूतनाभिभव भूरिमन्यवः । आत्मनाश कलकर्मलोलुपाः प्राप्य रावणमिति व्यजिज्ञपन् ॥ ६६ ॥ भज्यते स्म विपिनं समीकता सौधभूमिरवरुग्णकुट्टिमा । उच्छ्रितासु वलभीषु चोत्पुतं मर्कटेन भयदेन केनचित् ॥ ६७ ।। तोषितः पशुपतिस्तपस्यता तोलितश्च तदधिष्ठितो गिरिः । भ्रंशितास्त्रिदिवतः सुरास्त्वया तत् समस्तमधुना खिलीकनन् । ६८ ॥ व्याहता निशि सुखेन मैथिली तेन तन्मुखमतः प्रसादवत् । लक्ष्यते श्रुतिषु नः प्रसज्यते रामलक्ष्मणकपीन्द्रकीर्तनम् ॥ ६९ ॥ तच्चरित्रमवगम्य तन्मुखादुच्चकोपचलितः क्षपाचरान् । वन्थ्यकर्मनिरतः स मारुतेर्बन्धनाय निधनाय चादिशत् ॥ ७० ॥ तैर्नियोगमवलम्ब्य शासितुः मङ्गतैः सपदि मारुतात्मजः । उद्यमेन भुवनक्षयक्षमैरभ्ययायि शलभैरिवानलः ॥ ७१ ॥ हन्तुमापतत एव तान् कपिः प्रेक्ष्य तयवासितं व्यधात् स्वयम् । मुष्टिभिर्विटपिभिर्विशङ्कटै? कृतैर्विचलनैश्च वालधेः ।। ७२ ।। तेषु दीर्घतमनिद्रयावृतेष्वेत्य सायकमुचं न्यपातयत् । विक्रमेष्वनवमं दशाननादिन्द्रजित्सहजमक्षमक्षतः ॥ ७३ ।। त्रासतस्त्रुटितशृङ्खलैगजैर्मन्दुरा विघटिता तदाश्रयैः । वाजिभिझटिति पत्तिपङ्क्तयस्ता बभूवुरयथास्ववृत्तयः ॥ ७४ ॥ १. 'सि'. पाठः, प्रयोदशः सर्गः। तत्र केचिदपतन भयातुरास्तेष्वधीयत पदं तथा परैः । केऽपि लोलनिजशस्त्रविक्षता मुक्तशखमपरैः पलायितम् ।। ७५ ॥ तेत् तुषारगिरिकूटसनिभं सत्त्वमुग्रमवलोक्य योपितः। त्यक्तात्रपतिसमविह्वलाः प्राणरक्षणपरा निलिलियरे ॥ ७६ ॥ राक्षसाः प्रथितविक्रमौजसस्तेन मन्त्रितनयाश्च पातिताः । रष्टिभिः करचपेटपीडनरुग्रवालचलनैश्च दरैः ॥ ७७ ॥ इत्यवेक्ष्य पुरमाकुलं भिया भ्रातरं च विरतं महाहवे । राक्षसानपि वहून् परेयुपः कोपमिन्द्रजिदपारमादधे ॥ ७८ ॥ तं कृतान्तधनुरुपदर्शनभ्रूविभङ्गचकितासुरामरम् । वीक्ष्य तोरणकृतस्थितिः कपिः सङ्गराय समनद चेतसा ॥ ७९ ॥ रावणिस्तमपदिश्य सायकान् प्राहिणोदरिकुलावसायकान् । क्षिप्रमापतत एव तान् कपिः प्रत्यमुश्चदभिगृह्य तं प्रति ॥ ८० ॥ अस्त्रमम्बुजभवाधिदैवतं दुर्निवारमभिमन्य मन्त्रवित् । वन्धनाय शिखिवन्धुमूनवे प्राक्षिपच्छितमुख शिलीमुखम् ।। ८१ ॥ अप्रधृष्यमहिमा चराचरैरभ्युपायमुचितं विचिन्तयन् । संजिहीर्षुरखिला पुरी रिपोरवमोदन स नचिकीर्षितम् ।। ८२ ।। समस्तमितसर्वचेष्टितं भस्मरुद्धमिव जातवेदसम् । किङ्करा दशमुखात्मजाज्ञया भतृरुवृतमुपाहरन पुरः ।। ८३ ॥ तं पुरममथनापराधिनं वीक्ष्य कोपकलुपैर्विलोचनैः । वैरमत्यवधि तेन बिभ्रता पेष्टुम मवदातुमुधतम् ।। ८४ ॥ बन्धखेदमिपजिह्मया दृशा वीक्ष्य चीत्करणदर्शितद्विजः । स्रस्तबालधि भयं विभावयन्नाकेषु स निजेवलीयत ।। ८५ ।। मेहदिग्पसियाभिवेष्टितं वालमिन्द्रधनुरायतं कपिः । यातुभिर्विरचिताग्निसक्रमं पर्यचोदयदितस्ततः क्षणात् ।। ८६ ॥ निर्धतास्त्रमहिमा स पुष्पचे सद्मपतियु निशान्तयोषिताम् । ऋद्धिमत्सु शिबिरेषु निर्दहन् पत्तनेषु विशिखान्तरेषु च ॥ ८७ ।। 1. 'तं ।' ख. पाठः. २. 'द'क. पाठ:. Y' रघुपारचरित भस्मसात्कृतवता पुरी पुनर्भग्नसालविशिखाइसक्रमाम् । क्षिषमम्भसि निमज्ज्य वारिधेः साधु तेन निरवापि पावकः ॥ ८८ ॥ तं प्रदेशमनलो न लीढवान् यत्र मैथिलसुता निषीदति । भद्भुतं चरितमस्य मारुतेर्नानुगन्तुमिह कोऽपि शक्तिमान् ॥ ८९ ॥ खेचरैरिति परस्परोदितां वाचमन्तरवार्य निर्वृतः । स्वपतीक्षणपरायणं पुनः प्रत्यवाप कपिसैन्यमुत्प्लुतः ॥ ९० ॥ सङ्गत्य वानरवरैरुपचारमेभ्यः सगृह्य जाम्बवति सप्रणयं प्रणम्य । तेभ्यः : समुद्रतरणात् प्रभृति स्ववृत्ति लङ्कां च दुर्गविषमाभिभवामवोचत् ॥ ९१ ॥ चूडामणिं तदुपनीतमवेक्ष्य दृप्ताः प्रत्यागता मधुवनं प्रतिपद्य सद्यः । तत्पालकं दधिमुखं विषमप्रवृत्ति निर्भय॑ ते मधु पपुर्हनुमत्सहायाः ॥ ९२ ॥ नवमधुनिषेवणादुपचितमनोरथा मथितवनपादपा रभसजववायुना । परिसनलोलुपा दधिमुखपराभवा- दनिभृतमदोदया विपिनभुवि रेमिरे ॥ ९३ ॥ कम्पयन्तः क्षिनिं खं पिबन्तः क्षणा- दापतन्तः समं व्यञ्जयन्तः स्मयम् । पूरयन्तो दिशः प्रेरयन्तो मिथः कार्यलाभोर्जिता राममभ्यासदन् ॥ ९४ ॥ प्रणम्य प्रणम्य स्थितेषु स्थितेषु प्लवङ्गेषु निश्छिद्रमच्छिद्रकर्मा । स्वयथाधिपः कौतुकाद् दत्तमार्गः प्रभोरग्रतः पावनिः प्राश्रतोऽभूत् ॥ ९५ ॥ 1. क. पाठ:... ''ख. पाठा. ३. 'चरन्तः', ४. 'या' क. पा.

मसबामनान वीक्ष्य तानिङ्गितक-
स्तथा मूनि बद्धाञ्जलिं चाञ्जनेयम् ।
किमालोकिता मैथिली न्याहता किं
किमु माणितांति प्रभुः पर्यपृच्छत् ।। ९६ ॥
ततोऽनुमान्य वानरान् निरीक्ष्य जाम्बवन्मुखम् ।
मितं परिष्कृतं गुणैर्जगाद मारुतिर्वचः ॥ ९७ ॥
इतो याताः सर्वे खलु वयमवाची प्रति दिशं
विग्झ्यादि विन्ध्यं मरुभुवमुपेताः श्रमभृतः ।
गुहामाविश्यैका क्षुधमुपशमय्येश्वरवाद्
विनिष्क्रान्तास्तस्याः प्रसभमभवामाम्बुधितटे ॥ ९८ ॥
युष्मत्कथाश्रवणजातगरुत्मरोह-
सम्पातिवाचमनुभूय ततोऽवगम्य ।
देवीगतिं जलनिधेस्तरणाय सज्जाः
सर्वे बभूविम च जाम्बवतानुशिष्टाः ॥ ९९ ॥
अनुमतेन समस्तवनौकसामपि च जाम्बवतः पितुराज्ञया ।
जलधिलङघनकर्मणि चोदितः प्रकटचापलवृत्तिरयं जनः ॥१०॥
शरणद ! भुवनत्रयस्य युष्म-
चरणपरागपवित्रितोत्तमाः।
द्रुतमतरमपारविघ्ननिघ्नं
जलनिधिमर्क इवाम्बरावकाशम् ॥ १०१ ॥
दारि स्थितामुत्तरगोपुरस्य मूर्ती श्रियं दूरमपास्य सायम् ।
पुरी त्रियामाचरनेतुर्थीद्धामहं तनुं व्याभिरिव प्रविष्टः ॥ १०२ ॥
भाज्ञानिक्रममानसम्पदुदयैः सेनानिवेशेन च
स्फीतैः काननशैल कृत्रिमसरिदेवौधरैरपि ।
मन्त्रारोहसशिशुमारपरिखावप्रैश्च विष्वग्गतै-
गत्वं दशकन्धरेण रचित छन्नोऽस्मि निर्विष्टवान् ॥ १०३ ॥

२२ रघुधीरचरिते पारपरिणतिपाण्डराजयष्टीरपरिमिताः सुरदैत्यमर्त्ययोषाः । प्रियजनविरहप्रसुप्तलीला दशबदनापहतास्ततोऽन्वपश्यम् ॥ १०४ ।। कलामिन्दोरन्त्यामिव हरित्याशातटगतां परिक्षीणां क्षोणीतलकृतनिवासामुपवने । करालाकाराभिर्निशिचरवधूभिः परिवृता ततोऽपश्यं देवीमविचलित चारित्रमहिताम् ॥ १०५ ॥ प्रादुर्भूतः प्रीतमनास्तां प्रतिनत्वा रामस्याहं दूत इति ज्ञापितवृचः । भूरिच्छायामङ्गुनिनिद्रामथ तस्य विश्वासाय प्रादिशमारादुपसृत्य ॥ विरहविषानलशिखया ली है। प्राणैर्यियासुभिर्देव्याः। अमृतमिवाभिवानं लब्ध्वा स्थैर्य निरामयं भेजे ॥१०७ ॥ भवलम्ब्य युप्मदाज्ञां समयोक्ष्यत चेदयं जनो न तया । देव्या दशातिरूदा ध्रुवमभविष्यत् क्षणादिवान्यान्या ॥१०८॥ निःश्वसिति स्म रूरांद शुशोच च विललाप त्वां स्मारं स्मारम् । अङ्गकमङ्गकमनयञ्चैतत् पर्यप्वजन च लब्धानन्दम् ॥ १०९ ॥ विपिनभुवि जयन्तध्वाक्षवित्रासहतोः प्रहितकमलजा वृत्तमुच्चार्य देव्या । अथ निरतिशयाय प्रत्ययायोपजड़े बहु बहु विलपन्त्या देव ! चूडामणिम्त ॥ ११० ॥ आदायैनमशेषितादृशिविरा निर्दा लङ्कापुरी हत्वा राक्षसपुङ्गवान् जलनिधि निस्तीर्य वेगादिव । संगत्याङ्गदजाम्बवत्मभृतिभियुधाधिपैरागतः सीतावल्लभ लक्ष्मणाग्रज विभो ! युष्मत्पदाभ्यां नमः ॥१११॥ इति रघुवीरचरिते त्रयोदशः सर्गः ।

चतुर्दशः सर्गः। अथ चतुर्दशः सर्गः। श्रुत्वा श्रुतिसुखां वाचं मारुतेः प्रियवादिनः । निपीयेवामृतं रामो भृशमाप्यायितोऽभवत् ॥ १ ॥ प्रत्यर्पितं कपिर्देव्या स्मयमानमिवांशुभिः । प्रभोः पुरः प्रणम्योचेश्चूडामणिमुपाहरत् ।। २ ।। समय॑माणमादाय स तं जीवातुमात्मनः । अङ्गेष्वङ्गप्वनगा- चकार लेदिताशयः ।। ३ ।। वारं वारं नमस्कुर्मः शुभं कर्म पुगकृतम् । यदशाद् रघुराजेन प्लवगैः परिपम्बजे ॥ ४ ॥ व्यलपत् संस्मरन सीतां नामृष्यचिन्तयन् रिपुम् । निशश्वास विशश्वास कर्म लक्ष्मणचापयोः ॥ ५ ॥ ततोऽनुमान्य मुग्रीवं स्निग्धमालोक्य मारुतिम् । अङ्गदं जाम्बवन्तं च वाचा सम्भाव्य हृद्यया ॥ ६ ॥ गच्छामस्तत्र यत्रास्ते स रावण इति ब्रुवन् । मातिष्ठताश्रमं पुण्यं प्रणम्य प्रवणाशयः ॥ ७ ॥ ततः कपिमयी भूमिरन्तरिक्षं च तन्मयम् । चचाल चलित तस्मिन् शैलारण्यं च तद्विधम् ॥ ८ ॥ दक्षिणां दिशमुद्दिश्य यान्ती वानरवाहिनी । आगच्छन्ती दिगन्तेभ्यो नेयत्तामभ्यपद्यत ॥ ९ ॥ मा शब्दो मा च सम्बाधो मा सङ्घर्षश्च वानराः! ! इति जाम्बवतादिष्टा नीता नीलेन सा चमः ॥ १० ॥ इनूमद्वालिपुत्राभ्यामुढा रामलक्ष्मणौ । उभावुत्साहबोधाभ्यां पराक्रमनयाविव ॥ ११ ॥ ज्योतिर्मुखः सुषेणश्च तारः शतबलिनलः । यूथाधिपा गजाद्याश्च कोटिशो रुरुधुर्नभः ॥ १२ ।। सरामदूतः सुग्रीवः ससौमित्रिश्च राघवः । कृतसङ्ग्रामसन्नाहौ पृतनां तामतुद्रुतौ ॥ १३ ॥ ३. '', ४. 'मः। 'बाक्यं भृ' क. पाठ:. २. 'रा' स. पाठः, पालिपुत्रः सु', 'भः ॥ राप' क. पा.

अतश्चेतश्च सम्भूता समूलोद्भुतपादपा। विरराम न सा सेना प्रावृषीव महापां ॥ १४ ॥ रामप्रणीतिना नीता सेनानौका जवोल्बणा ।- विपुलोत्कलिकोत्ताला वेलां सिन्धोरुपासदत् ॥ १५ ॥ एगकिसलयैः स्फीतैरास्तीर्णायां भुवि प्रभुः । भास्त तालीवनच्छायाशमितातपवैभवः ॥ १६ ॥ सागरः सादरं तस्मै सगरान्वयमौलये। मणिरत्नान्यनर्घाणि वीचिहस्तैरुपाहरत् ॥ १७ ॥ त्वरामत्वरमाणोऽपि प्रियाविरहनिस्सहः । भकरोन्मकरावासं तरीतुं दुस्तरं ततः ॥ १८ ॥ रावणस्य शुको नाम चारो मायासु कोविदः । गृहीतः कपिभिः कृच्छ्राद् देवेन प्रतिमोचितः ॥ १९ ॥ एवं स्थित महावीरमवगम्य दशाननः । सम्भूय मन्त्रिभिः स्वार्थे मन्त्रयामास मन्त्रवित् ॥ २०॥ मदमायासहायस्य पुरा सीतां हरिष्यतः । यस्यामात्येषु मन्त्रे च स्मृतिलेशोऽपि नाभवत् ॥ २१ ॥ अवलेपमशान्तानां भ्रंशयत्यापदागमः । समुच्छ्रितं नदीकूलं वेणीवेग इवोद्धतः ॥ २२ ॥ स सान्त्वपूर्वमानीय सचिवान् मन्त्रसम्मतान । प्रयुक्तसमुदाचारान् गिरमित्थं समाददे ॥ २३ ॥ निवेकोऽभ्युचितज्ञानं भर्तचित्तानुसारिता । एतत्रयममात्यानां गुणः शश्वत्सुखावहः ॥ २४ ॥ अमात्यपाशबद्धानां जनतानां गवामिव । भतिचारानिवृत्त्यर्थं नियोगः खलु भूमिपः ॥ २५ ॥ - १. 'गा। हनूमद्वामिपुत्राभ्यामुढौ रामलक्ष्मणौ । उभावुस्साहबोधाभ्यो पराक- ममयाविव ॥ रामप्रणिधिना' क. पाठः. २ 'रिवत् । भ', ३. यो' प्र. पाठ:

"चतुर्दशः सर्गः।
रागरोपी मंदारूदी गन्धाश्चद्विरदाविव ।
पन्मार्गगौ न जानीतः प्रथममग्रहाङ्कुशौ ॥ २६ ॥
कृत्वा भारममात्येषु भक्तेषु मतिमत्सु यः।
विश्वसन् वर्तते राजा स परैर्नाभिभूयते ॥ २७ ॥
नृपश्रीमन्त्रिणा हीना कर्णधारेण नौरिव ।
विपत्तरसंक्षोभैरपविद्धावसीदति ॥ २८ ॥
भतिलय महावीरं वालिनं तत्पदे लघु ।
स्थापितेन ससैन्येन सुग्रीवेण समागतः ।। २९ ।।
पश्यन् मम पुरीमेतां हनुमदाक्यदर्पणे ।
समुद्रवेलामासाद्य तरणे कृतनिश्चयः ॥ ३०॥
लक्ष्मणाख्यैर्निजप्राणै जन्नयुतसिद्धताम् ।
तत्रास्ते दुर्धरो रामः किंवदन्तीति मय्यभूत् ॥ ३१ ॥
तदत्र प्रतिकर्तव्यं क्षमं च द्विषतः प्रति ।
कर्मणामप्यशैथिल्यं भवद्भिरवधार्यताम् ॥ ३२ ॥
निशम्य तद्वचस्तस्य व्यसनापहतात्मनः ।
सकुम्भकर्णास्ते सर्वे साहसानि व्यजिज्ञपन् ॥ ३३ ॥
आकर्ण्य वचनं तेषामपमार्गप्रवर्तिनाम् ।
तत्र सनिहितो वाचमावभाषे विभीषणः ॥ ३४ ॥
भुतं किन्नु प्रहस्ताद्यमन्त्रिभिर्भभाषितम् ।
यस्मिनस्ति नयमाणं राजतन्त्रमशेषतः ॥ ३५ ॥
भ्रातर्मदीया रसना त्वां प्रभाषितुमीहते ।
अनाश्रवा सती क्षान्त्या सौभ्रात्रवशवर्तिनी ॥ ३६ ॥
भा जन्मनः प्रवृत्तस्य प्रारम्भपरिणामयोः।
एकधैव स्थितं कर्म पुरुषस्यातिदुर्लभम् ।। ३७ ।।
यदा जातोऽस्यपनये तदामभृति ते रुचिः ।
यथामति यथाकालं प्रवक्ष्यामि समासतः ॥ ३८ ॥

रघुवीरचरिते बलिमाहिष्मतीनाथकपिराजैः पराभवम् । प्राप्तोऽपि त्वं न जानीषे भाविनं व्यसनागमम् ॥ ३९ ॥ फलमूलकृताहारांस्तापसान् काननौकसः । जटिनश्चीरवसनान् वाधसे केन हेतुना ॥ ४० ॥ यद् वस्त्वनास्थयाशास्यं पुसां पूर्वमुपेक्षितम् । तदन्विष्टमपि प्रायो नैव तेषां भविष्यति ॥ ४१ ॥ त्वया निद्रालुना पूर्व जागरूकेण साम्प्रतम् । शक्यते किं नवीकर्तुं नयवर्ती खिलीकृतम् ॥ ४२ ॥ अनिच्छन्ती स्त्रियं स्पष्टुं कामस्पृष्टेन चेतसा । ब्रह्मशापोपसृष्टस्य न शक्यं ते दशानन ! ॥ ४३ ॥ शक्रे जितेऽपनीनेऽपि तत्रस्थो भोक्तुमक्षमः । भिया तद्द्वोचरान भोग्यान् लङ्कायां कृतवानसि ॥४४॥ भुजैर्वक्त्रैश्च विंशत्या दशभिश्च भयानकात् । बिभेतीन्द्रो वृथा त्वत्तो मृगयुः शलभादिव ॥ ४५ ॥ नावत् वियं शूर्पणग्या ददान्ता नः सहोदरी । वनस्थं तापसं रामं पनित्वे समकल्पयत् ।। ४६ ॥ शुभे मुहर्ते निश्शेषरक्षःकुलविनाशिनि । अपये वर्तमाना मा लक्ष्मणन विरूपिता ॥ ४७ ॥ खरादीन् रामकोपानी हुत्वा दुबरतेनसि । ऋषिप्रयुक्ता कृत्येव साक्षात् त्वामभ्युपागता ॥ ४८ ।। ततो मारीचमित्रेण भवना रणभीरुणा । मृगतां भिक्षुता चैत्य वश्चितौ रामलक्ष्मणौ ॥ ४९ ।। तयोर्व्यपायेप्याशय सीता नीना विहायसा । समस्तरक्षोनाशाय लङ्कायां स्थापिता त्वया ॥ ५० ॥ रामस्तु गृध्रसंवादाद् विदित्वा त्वदृतां प्रियाम् । कृतार्थीकृतसुग्रीवस्तितीपुः सिन्धुमभ्यगात् ॥ ५१ ।।

२७ चतुर्दशः सर्गः। अनादिमध्यावसितां चारयन् वानरी चमूम् । तीळ लकोपकण्ठस्थस्त्वया प्रत्युजिष्यते ॥ ५२ ॥ तेषामन्यतमस्येह कपेः क्षुद्रस्य विक्रमम् । मिषतां नः सयोधानां कचिनिर्विष्टवानसि ॥ ५३ ।। न परं मानुषो रामो योऽयं कपिकुलानुगः । पृथिव्यामुदिता कापि रक्षोनी परदेवता ।। ५४ ॥ तत् पुलस्त्यं पुरस्कृत्य पितरं कोपशान्तये । सीतामक्षयचारित्रां रामायोपहर प्रभो! ॥ ५५ ॥ इति ब्रुवति भूतार्थ हितं भ्रातरि रावणः । उदस्थात् खड्गमुद्यम्य परमाणान्तकारिणम् ।। ५६ ॥ ततोऽपमृत्य सद्यः स्वैश्चतुर्भिः सह राक्षसैः । स्थितं पयोधिवेलायां रामं पाप विभीषणः ॥ ५७ ।। कनीयानस्मि काकुत्स्थ! रावणस्य बलीयसः । हितवादेन निघृतस्तेन त्वामहमाश्रितः ।। ५८ ।। इति विज्ञापिते तेन मायावाहुल्यदर्शिभिः । कपिभिः शङ्कितं सर्वैः सुग्रीवेण च धीमता ॥ ५९ ।। कपिभर्तुर्मतं ज्ञात्वा हनूमद्वचसि स्थितः । अस्त्विति प्रतिजग्राह रावणावरजं प्रभुः ॥ ६० ।। दैवादुपनते विन्दे मुहूर्तेऽभिजिता युते । रामस्तं राक्षसैश्वर्ये लक्ष्मणेनाभ्यषेचयत् ॥ ६१ ॥ ततः स्वादूनि मूलानि फलानि च वनौकसः । रसोधिपतये तस्मै कृतार्हणमुपाहरन् ॥ ६२ ॥ तस्य रामाभिषिक्तस्य जाग्रतः सत्यधर्मयोः । शाश्वती श्रीरनिर्देश्या वपुः सकलमानशे ।। ६३ ।। विभीषणत्वं मुग्रीवः सुग्रीवत्वं विभीषणः । अन्वभूदन्वितप्रेम्णोः कपिराक्षसमुख्ययोः ॥ ६४ ॥ ) पुपारचरिते ततो भुजगनिर्मोकमृदुक्षौमोत्तरच्छदे । नाभिकर्पूरगोशीर्षकुङ्कुमागुरुवासिते ॥ ६५ ॥ उत्तमस्त्रीकराधृतचामरानिलगोचरे । धात्रेयीनिपुणाकीर्णसुरभिप्रसवोज्ज्वले ॥६६ ॥ तुकोपधानसुभगे सीतासम्बाधमङ्गले । शयानः शयने पूर्व तैस्तैः कामैर्निषेवितः ॥६७ ॥ पौरैरुपस्थितः प्रीत्या कौतुकस्तिमितेक्षणैः । प्रियङ्करेण सर्वेषां लक्ष्मणेन निवेदितैः ॥ ६८ ॥ सीताविज्ञापितोदन्तः पौरस्त्रीणां निशामुखे । निशान्ताजिरभूभागे सन्तानां दिदृक्षया ॥ ६९ ॥ तदा तु चीरवसनः फलमूलाशनः कुशः। विश्लेषानलनिश्शेषदह्यमानधृतीन्द्रियः ॥ ७० ॥ त्रस्नुभिः कपिभिः सर्वैनिभृतैरभिवीक्षितः । अन्योन्यमुखविन्यस्तलोचनान्तैरनुक्षणम् ॥ ७१ ।। अभिसन्धाय तरणं वरुणं प्रत्यमर्षितः। उपधानं त्रिजगतामुपधाय निजं भुजम् ।। ७२ ॥ लक्ष्मणेनोपनीतेषु दर्षेषु प्रामुखेषु सः । कालरुद्रप्रतीकाशी विशश्राम विशांपतिः ॥ ७३ ॥ वेगोत्पाटितशैलाया रजश्छादितदिङ्मुखाः । निर्घातमारुता घोरा जगत् सर्व व्यलोलयन् ॥ ७ ॥ सन्ध्याभ्रपिङ्गपर्यन्तो धूम्राभ्यन्तरभीषणः। निवबन्ध परीवेषः संरब्धकिरणं रविम् ॥ ७५ ॥ उद्गीर्णोच्चण्डडात्काराः सृगालाः मूर्यगां दिशम् । आश्रित्याश्रित्य विपदं लोकानामभ्यमुचयन् ॥ ७६ ॥ भनात्मनीनगाम्भीर्य वरुणं प्रत्यमर्षिणा। वाचंयमेन देवेन निशास्तिस्रोऽतिवाहिताः ॥ ७७ ।।

चतुर्दशः सर्गः ।
तथाभूतं तमालक्ष्य निलीनं व्योमचारिभिः ।
कि भविष्यति लोकानामित्यकाण्डे विशतिभिः ।। ७८ ॥
सविभीषणसुग्रीवं सर्व कपिबलं तदा ।
निश्शब्दमपरिस्पन्दं चित्रन्यस्तमिवाभवत् ।। ७९ ।।
अवष्टभ्य. धनुः सज्यं दत्तदृष्टिईनूमति ।
चिन्तयन् निभृतं तस्थौ सौमित्रिः शत्रुशातनः ॥ ८० ॥
अथोपस्थाय गायत्री चापे ब्रह्मास्त्रमन्त्रितम् ।
सायकं सन्दधानस्य दुर्निरीक्षमभूद् वपुः ॥ ८१ ।।
विमुक्तस्तेन वाणाग्निालाभिः स्थगिताम्बरः ।
स्फारफात्कारवाचालः पारावारं व्यगाहत ॥ ८२ ॥
जलमश्नन् हविर्भूतं पयोधे डवानलः ।
क्षणाद् भस्मीकरिष्यन्तं तमनुपाविशत् तदा ।। ८३ ॥
दुर्धरेण प्रभावेन तस्यास्त्रस्योत्पतिष्णुना ।
धातुराधारनालीके पत्रपङ्किरशुष्यत ।। ८४ ।।
घस्मरेणोष्मणा तस्य तत्र तत्र प्रसर्पिणा।
सदैवतान्यकम्पन्त भुवनानि चतुर्दश ॥ ८५ ॥
अवगाढः समुद्रान्तःप्रदेशं निर्दहञ्जलम् ।
अवर्धत तडिदहिवाम्बुभिरिवाछुतः ।। ८६ ।।
काश्चिज्ज्वालास्वहीन् जक्षुः काश्चित् प्रास्फोटयन् गिरीन
काश्चिदालिलिहुदैत्यान् काश्चित् सत्त्वान् बबाधिरे॥ ८७ ॥
अबहिर्गतधुमार्चिष्मसरं कुम्भितानिलम् ।
ब्रह्माण्ड पुटपाकस्य प्रक्रियां समपद्यत ॥ ८८ ॥
आलोक्य रामकोपस्य विवर्त लोकदुर्धरम् ।
तं शरण्यमुपस्थातुमारेभे यादसां पतिः ।। ८९ ।।
सरिद्भिवासवश्याभिर्गङ्गादिभिरनुद्रुतः ।
ययौ शोणं पुरस्कृत्य स विभोरन्तिकं प्रति ॥ ९ ॥

१०० रघुवीरचरिते येन रामप्रसादार्थी पथा सञ्चरते स्म सः। तस्मिन् प्रत्याहृतज्वालः शशामास्त्राग्निरुल्बणः ॥ ९१॥ तमारादुपतिष्ठन्तं प्रहं निध्यायतः प्रभोः। वदनेन्दुः प्रसन्नोऽभूत् तथाशीला हि तादृशाः ॥ ९२ ॥ वृतं कपिप्रपञ्चेन ससुग्रीवविभीषणम् । उपस्थितं मारुतिना सोऽपश्यलक्ष्मणाग्रजम् ॥ १३ ॥ प्रसीदेवा न वा राम इति तर्कज्वरातुरः । सान्त्वपूर्वमिति पोचे वाचं नदनदीपतिः ॥ ९४ ॥ अधरावं विचिन्वद्भिस्त्वत्पूर्वैः परिवर्धितः । रक्षणीयो विशेषेण सागरोऽस्मि ननु प्रभो! ॥ ९५ ॥ ऋपिशापनिवृत्त्यर्थ तेषां साहसकारिणाम् । इयं भागीरथी व्योम्नस्त्वत्पाच्येनावतारिता ॥ ९६ ॥ त्वद्वंशकर्तुः सवितुः सुतेयं यमुना सती । उचितः खलु सम्बन्धो भवतोऽस्यां च मानद ! ॥ ९७ ॥ महर्मेखलस्यैषा तनया नर्मदाभिधा। यस्वाज्ञया वसिष्ठस्य मान्धातारमयाजयत् ॥ ९८ ॥ एषा गोदावरी यस्यास्तीरे त्वमुषितः पुरा । विपदं प्राप्तवानेतां सर्वरक्षोपलापिनीम् ॥ ९९ ॥ अद्भिः पुण्यतमाभिर्या पुनाति भजतो जनान् । द्रष्टव्या ते विशेषेण सेयं प्राची सरस्वती ॥ १०० ।। अन्या महापगाश्चैता भवद्रक्ष्या रघुबह !। रत्नानि चान्तर्गुप्तानि ममाएं च सहानुगः ॥ १०१ ॥ शोणो नदोऽयमस्याम्भः कचित् त्वमुपयुक्तवान् । कौशिकक्रतुरक्षार्थ गच्छन्मार्गे सलक्ष्मणः ॥ १०२ ॥ अमुष्य तरतो वेगाद् विश्रमाय हनूमतः । मैनाकः प्रेषितः शैलस्त्वत्प्रसादार्थिना मया ॥ १०३ ॥ अप्यहं जलधी राम! संसक्तः सुखकर्मसु । मदप्रमादोपचितो न जाने त्वां तथाविधम् ॥ १०४ ।।

चतुर्दशः सर्गः। १०१ वयमल्पे भवन्मन्योर्विषयत्वेन वर्तितुम् । शिरीषकुसुमं नेष्टे पदं सोढुं गरुत्मतः ॥ १०५ ।। तदिहाज्ञापयास्माभिराश्रवैः किं करिष्यते । महीयानेष सन्नाहः प्रस्नोतु जगतां शिवम् ॥ १०६।। वशंवदस्य तस्यति विरामे वचसा प्रभुः । तं प्रत्यपगतामों भारतीमुदभावयत् ॥ १०७ ।। त्वरमाणस्य सङ्ग्रामे रावणोपप्लवं प्रति । प्रत्याहरिष्यतः सीतां मार्ग मे दातुमर्हसि ॥ १०८ ॥ एभिः कपिभिरानीतेः शैलौघैः सहकाननैः । तरीतुमप्रयासेन सेतुं विरचयाम्यहम् ॥ १०९ ।। इत्थं रामोदितं श्रुत्वा तमाराध्य तथास्त्विति । सहापगाभिः सर्वाभिस्तिरोभूदम्भसा निधिः ॥ ११० ॥ आनाय्य महतः शैलान् सगुल्मानप्य(नौ? नो)कहान् । सन्धिवन्धं दृढीकृत्य सेतुं कारय वानरैः ।। १११ ॥ कुशलं तासु विद्यासु विश्वकर्मसुतं नलम् । प्रवृत्त्यनवसादार्थ त्वमध्यक्षय मा चिरम् ।। ११२ ।। उपदिष्टां हनुमता दिशमुद्दिश्य धीमता । बधान सेतुं सुग्रीव ! यस्य लावधीयते ॥ ११३ ॥ विस्तारायामयोः सीमा दशकेन शतेन च । अस्याशीतिसहस्रेण योजनानां तलग्रहः ।। ११४ ॥ अधिष्ठानपरीणाहस्तत्रिभागेन कल्प्यताम् । पक्षयोरन्यथा सेतुः क्षणाद् वायुनतः क्षरेत् ॥ ११५ ॥ अल्पसाराणि दारूणि नाधः कार्याणि वारिणि । परिहार्या स्थपुटता सा सञ्चारनिरोधिनी ॥ ११६ ॥ सुश्लेष्यः पार्श्वयोन्धिस्तरङ्गाघातखेद्ययोः। महद्भिर्गिरिभिः सागण्डशैलैश्च सोपलैः ॥ ११७ ॥ १. 'व' क. पाठः, १०१ एपुषीरचरिते अन्तरेष्वन्तरेष्वत्र प्रत्यवेक्ष्यावपूर्यताम् । विषयानुगुणैर्दव्यैरुपस्नेहनिवृत्तये ॥ ११८ ॥ विभज्य यूथनाथेषु प्रदेशानुपपादय । नलस्यानुमतेनैतत् सर्व सम्पाद्यतां त्वया ॥ ११५ ॥ मा भूज्जनपदग्रामपुरराष्ट्रादिविप्लवः । उद्वहद्भिगिरींस्तुगांस्त्वरमाणैः प्लवामैः ॥ १२० ॥ केषुचिद् गिरिशृङ्गेषु काननेषु च तापसाः । सपस्येयुः प्रदेशांस्तान् दुरात् परिहरन्त्वमी ॥ १२१ ।। इत्यादिष्टो हरिश्रेष्ठः काकुत्स्थेन मनस्विना। प्लवङ्गांस्त्वरयामास नलमामव्य सेतवे ॥१२२ ॥ कृतमूत्रार्पणाः केचिहजुदृष्टिकृतः परे । केषन स्थलसाम्याय वितानं समगृह्नत ।। १२३ ॥ उत्पाटितान् दिगन्तेभ्यः शैलानम्बरचुम्बिनः । अपातयन्ननायस्ता गम्भीरे सागराम्भसि ॥ १२४ ॥ ते शैलपातसम्भूतान् फेनानालोक्य वारिणि । मृधमानसमुद्रास्थिशकलानीति मेनिरे ॥ १२५ ।। उत्पाटिताद्रिकुञ्जान्तर्वास्तव्या वनदेवताः । भयेन विरता गीतादुदपतन विहायसि ॥ १२६ ॥ अद्रयः प्लवगैरूढास्तत्पूर्वविदितव्यथान् । लुतैः पारिप्लवाः सिंहान् वमन्ति स्म गुहामुखैः ॥ १२७ ।। इतरोवृतशैलामच्यावितैनिझराम्बुभिः । एते निर्वाप्य दावाग्निं गिरिस्थं तानुदावहन् ॥ १२८ ॥ दूरादापततां भारं केषांचिद् वीक्ष्य केचन । अर्धमार्गे समाश्चास्य प्रत्यगृह्णन् निनीषवः ।। १२९ ॥ सिस्वा नलानुसारेण तान् गिरीनथ सत्वराः । प्रतिजग्मुर्महोत्साहाः प्रत्यगं प्रतिकाननम् ॥ १३० ।।

पञ्चदंशः सर्गः
१०॥
राक्षसा वयमित्येके परे स्मः प्लवगा इति ।
विभव्य स्वान् द्विधा चक्रुर्नियुद्धं यान्त एव ते ॥ १११ ।।
केचिदारुरुहुः स्कन्धान केपांचित् पातिताश्च ते ।
पुनः कृतकसंरम्भा मिथो युद्धं वितेनिरे ॥ १३२ ।।
दिव्यौषधिमहिना ते भुत्पिपासापराङ्मुखाः ।
अहोभिः पञ्चभिः सेतुं सुवेलावधि चक्रिरे ॥ १३३ ॥
येन दुर्गेण महता दर्पमेति दशाननः ।
स विभोराजया बद्धः सिन्धुराजः प्लवङ्गमैः ॥ १३४ ।।
सफेनबुद्धदः सिन्धुर्विभक्तो नलसेतुना ।
सीमन्तित इवाकाशश्छायामार्गेण सग्रहः ।। १३५ ॥
इक्षिपार्धापरान्तेषु तस्य सैन्यस्य यूथपान् ।
कृत्वा हनुमतः स्कन्धमारूढोऽग्रेऽभवत् प्रभुः ॥१३६ ॥
अशोभतोढः सौमित्रिवलिना बालिस्नुना ।
अन्वितः कपिराजेन पुलस्त्यतनयेन च ॥ १३७ ॥
तीर्ण तरत् तरिष्यच्च दिग्भ्यश्चागामि तद्बलम् ।
निरीक्ष्य विस्मयस्मेरा बभूवुर्नाकवासिनः ॥ १३८ ॥
क्षणादुल्लाङ्गयोच्चैरनितरसुल जलनिधि
सुवेलस्थस्तस्मिन् प्लवगपृतना व्यूह्य निबिडम् ।
सपौलस्त्यं कृत्वा कपिकुलपति प्राक्पदगतं
ससौमित्रिस्तस्थौ विभुरनुपमारम्भनिरतः ॥ १३९ ।।
इति रघुवीरचरिते चतुर्दशः सर्गः ।
अथ पञ्चदशः सर्गः।
अथ भुवनगृहीतशासनेन प्लवगबलं प्रभविष्णुना प्रणीतम् ।
बसपदनिकबेगमेदुरोमिमलयपयोनिधितुल्यकुल्यमासीत् ॥ १॥

रघुवीरचरिते दशवदनपुरी निरीक्षमाणा विपिनसरित्परिखाद्रिवपदुर्गाम् । फरकगलितगण्डशैलसाला सकिलिकिलिध्वनि चुकुशुस्ततस्ते ॥ २॥ दरविवृतमुखं निरीक्ष्य योधानुपरिकृतश्रुतिदर्शितापरान्ताः। अनतिनिकटमास्थिताः प्रदेशं करचलितैर्निरराजयन् स्ववालैः ॥३॥ स्तिमितनयनमुद्धृतोकायाः शिथिलितबालधिविश्लथाग्रहस्ताः । कपिषु कतिपये मुहुर्विपक्षं चलनिटिलभ्र विलोकयांबभूवुः ॥ ४ ॥ चटुलकुटिल(को ? कू)पराग्रहस्तद्रुतपरिघट्टितकण्डुकूणिताक्षम् । बधिरितदशकण्ठकर्णरन्ध्र प्रकटितहुकृति पुप्लुचे प्लवङ्गैः ॥ ५ ॥ निजभुजबलकृत्तनन्दनानां निकृतिनिमनधियां निशाचराणाम् । भवनपरिसरास्तदा बभूवुः कतिपयमर्कटभग्ननिष्कुटान्ताः ॥ ६ ॥ समदकपिबलप्रमथ्यमान[मविटपध्वनिरुच्चकैरुदछन् । पुरपरिभवपौनरुक्त्यशंसी दशवदनश्रुतिविंशतिं विवेश ॥ ७ ॥ करतलनिहतः कपिप्रवीरैरधरितसिन्धुरवैखिकूटशैलः । घनसमयसमीरसन्निपातद्रुतचलितद्रुमचापलं चकम्पे ।। ८ ।। कपिनिवहविधूयमानशैलपतिजनितोर्मिनिवारितस्ववीचिः । भयविवशविवर्तसत्वराशिर्जलनिधिराकुलतां क्षणादवाप ॥९॥ निशिचरकुलधारणक्षमोऽपि प्लवगवलेन गिरिदृढाधिरूढः । अजनि कतिपयाङ्गुलावगाढः पुनरपि पाथसि वारिधेस्तदानीम् ॥ सरभसमधिरुह्य सालमुच्चैः कपिबलसागरमागतं विलोक्य । चलितधृति समेत्य राक्षसेन्द्रं कतिपयकौणपजाङ्घिकाः शशंमुः ।। रघुकुलतिलकप्रतापवहौ महति जुहोति विधिः पलाशजातम् । विरमतु तव वीर! चन्द्रहासः प्रभवति किं नु पुलस्त्यपुण्यभूमा ॥१२॥ इति चरगदितं निशम्य कोपाद् भृशमुपरक्ततनुः स्वयूथनाथान् । त्रिभुवन विजयप्रगल्भवीर्यान् रजनिचराधिपतिपयुक्त योद्धम् ।।१३।। अथ कटुरटितप्रवाहवेगस्फुटितदिगन्तमरुत्पथान्तरालम् । मलयसमयजृम्भमाणमेघस्फुरिततडिद्गणखण्डभीमदंष्टम् ॥ १४ ॥ १ 'धिंगत', २. 'न'. पादः.

१०५ पावशा सर्गः। भविगणितनिरन्तराभिषिक्तमणयकुमारवधूजनानुयात्रम् । अहमहमिकया निरन्तराभिक्रमणपरस्परपट्टितोग्रशस्त्रम् ॥ १५ ॥ रथगजहयरुद्धगोपुरत्वात् प्रसभविलचिततुङ्गहेमसालम् । अमरपुरजयातिरूढदर्प अरिति निशाचरसैन्यमाविससीत् ॥ १६ ॥ न सल किमपि वीर्यमग्रतो नः प्रतिभटतामुपसीढ़ताममीषाम् । इति मनसि परस्परं बभूव प्लवगनिशाचरसेनयोरमर्षः ॥ १७ ॥ तदनु हरिषु कैश्चिदुत्लुतेन द्विरदवलान्यभिपत्य तत्स्थयोधान् । करतसपरिपीडितान् निपात्य द्रुतमुदपाठ्यत तद्विषाणजातम् ॥ १८ ॥ कतिचिदिभकुलं प्रपद्य नीचैश्चरणचतुष्टयपुच्छपुष्कराग्रम् । सपरिकरमबाग विधाय तेषां प्रकटितहिक्कममोटयन्त कर्णान् ॥ १९ ।।. भटकृतसरयोद्धताग्रहस्तप्रविचलितं मुसलं गजात् प्रगृह्य । कपिरमुममुनैव मूर्ध्नि हत्वा पुनरितरं च विपोथयाञ्चकार ॥ २० ॥ अचलनिभमिभं समेत्य नीचैः कपिरपरः पदपञ्जरे निलीय । चपलमभिमृशन्तमग्रहस्तं दृढमेभिवेष्ट्य लुलूपुराचकर्प ॥ २१ ॥ कतिचिदुपचितोग्रहिकमश्वान् करतलपातितसादिनः प्रगृह्य । गलभुवि समराध्वरे वितीर्णत्रिदिवपथे शमितृत्वमभ्युपेयुः ॥ २२ ॥ विहितसकलहेतिषु प्लवङ्गा गिरिशिखराण रथेषु पातयन्तः । द्रुततरमपमृद्य तान् सनाथानरिभयदाः कुरुतं क्रुधा विवत्रुः ॥ २३ ॥ तस्मिन् काले कालनाभस्य मनुर्विद्युज्जिहः कोऽपि मारीनशिष्यः । सम्मोहाथ सर्वशाखामृगागां मायावन्धुर्भावयामास मायाम् ॥ २४ ॥ भिमा द्वेषा गर्जितैसर्जितैौर्भजे दौस्थ्यं वेपमाना धरित्री । धूमोद्दारैरावृतं विश्वमभ्रादासीज्ज्वालाभीममारवृष्टिः ॥ २५ ॥ रक्ताक्ताङ्गयः स्पष्टदंष्ट्राट्टहासा भीमं रूपं यातुधान्यो दधानाः। निर्मुण्डिन्यः सङ्गता व्योमरने नृसं चक्रुर्दिग्दुकूलं वसानाः ॥ २६ ॥ कुत्वा मायावैभवेनारविन्दश्रीमद्वकं रामचन्द्रोत्तमाङ्गम् । गत्वा देव्यै दर्शयित्वा व्यधात् तां प्रागेवार्ता साहसाय प्रवृत्ताम् ॥

रघुवीरचरिते एषा माया देवि! कापि त्यजैनां देहत्यागायोद्यतां चित्तवृत्तिम् । बाणज्वालो नैर्ऋतारण्यवह्निः सत्यं देवो युध्यते त्वां निनीषुः ॥ २८ ॥ मौर्वीनादः श्रूयते घोरघोषश्चापाकृष्टिं कुर्वतोर्दाशरथ्योः । भीमा हिक्काः स्वं जयं व्यञ्जयन्तीर्भिन्दाना द्यामुद्रिन्ति प्लवङ्गाः ।। अप्रागल्भ्याद् राक्षसा न क्षमन्ते दृष्ट्वा शत्रूनञ्जसाभिक्रमाय । पर्वासां नः पश्य वक्राणि भामिन्या(विधि)म्लानान्यश्रुगर्भेक्षणानि ॥ किश्चान्यच्च स्नेहहेतोः प्रवक्ष्ये सत्त्वध्वंसी मा स्म भूत् कोऽपि शोकः। यस्ते भर्ता तद्विरोधं विधातुं देवीं स्मर्तुं चात्मभूरप्यकल्यः ॥ ३१ ॥ तुभ्यं देवि ! स्वास्ति भूयाद् व्यवस्यन् युद्धोत्साहान्मा विरंसीच रामः । इत्थं वाचा जीवयामास सीतां काचित् प्रेम्णा सङ्गता यातुधानी ।। पौलस्त्यस्य स्वाभिषिक्तस्य वाचा ज्ञात्वा मायां विक्लवां प्रेयसीं स्वाम् । रोपाद् वझुर्निधुतैधानलाभो रक्षोरण्ये प्राज्वलद् भूरि रामः ॥ ३३ ॥ एवं युद्धे वर्तमाने कपीनां यातूनां च स्फीतसंरम्भमाजाम् । पासादाग्रं तुङ्गमारुह्य वेगादीक्षांचक्रे रावणः प्रत्यनीकम् ॥ ३४ ॥ प्राप्योपान्तं वानराणां प्रभा(वं?वो) वासस्थानं नामधेयानि चैषाम् । जातिव्यासो नैकथा विप्रकीर्ण भत्रे सर्व सारणेनाभ्यधायि ॥ ३५ ॥ ये ये योधाः साम्पराये परेतास्तानाकृष्य प्राक्षिपन्नब्धिकुक्षौ । रक्षोभर्तुः शासनेनाभियुक्ता बवा पाशैः किङ्कराः प्राणसाराः॥३६॥ रुद्धा लङ्का वानराणां महौधैर्यावत् तावद् दर्शितस्वानुभावः । आच्छोट्य स्वं वालधिं वालिकल्पः स्वैः प्राणैरप्युद्यतः साहसाय ॥ प्रासादस्थे दृश्यमाने दशास्ये रामोपान्तादुत्प्लुतः सन्निपत्य । विक्रम्योच्चैस्तस्य मौलिं गृहीत्वा सुग्रीवस्तं प्रादिशद् राघवाय ।। दृष्ट्वा भर्तुस्तादृशं विप्रकारं सुग्रीवोत्थं प्रीतिकृत् खेचराणाम् । दिङ्नागानां कर्णरन्ध्र निरुन्धन् हाहाकारो रक्षसां प्रादुरासीत् ॥ १. 'सं', २. णे' ख. , पञ्चदशः सर्गः । १०७ गोलाङ्गुलैर्वानरैरच्छ भल्लैश्वान्यैर्जातिभिन्नैश्च विद्धाः । सालैस्तालैर्मुष्टिभिश्चाद्रिशृङ्गैर्दन्तैश्चोग्रैः कोटिशो यातुधानाः ।। ४ ।। उत्ताराक्षिश्मश्रुदंष्ट्राकरालैयातरन्तरिक्ष पिवन्तः । घोराकारा वानरा यातुधानान् ग्राहं ग्राहं भक्षयामासुरुग्रम् ॥ ४१ ।। एवं युद्धे दारुणे वर्तमाने भानावस्तं मन्दभानौ च याते । आसीद् रक्षोवानरप्राणहन्त्री रात्रिः साक्षात् कालरात्रिप्रभावा ॥४२॥ अस्पष्टाब्धिस्थावरपाणिभेदः सेनोबूतः पांसुभिश्छन्नतारः । रोद्धा रक्षश्चक्षुषामप्यशेष विश्वं व्यामोदन्धकारावतारः ।। ४३ ॥ आन्त्रस्रग्भिभूषितोर प्रदेशैयॊम्न्युन्ननैर्ऋक्षरक्षाकबन्धैः । दृग्भ्रूलीलागीतशून्याङ्गहारैर्नृत्तं चक्रे वद्धतालं कपालैः ॥ ४४ ॥ वेगोद्रिक्ता रामपौलस्त्यसेनादेहोद्धृता भूरिरक्तस्रवन्त्यः । वातोदञ्चद्वीचिवाचालकूला भित्त्वा वेलामाविशन्नम्बुराशिम् ॥ ४५ ॥ इति विप्रकृतं प्लवङ्गभा पितरं वीक्ष्य मिपत्सु वानरेषु । विधिदत्तवरोर्जितप्रभावः परमं शक्रजिदाजहार कोपम् ॥ ४६ ॥ अपि नर्मणि यद्धृवोर्विलासः सुरदैतेयकुलेषु भीतिमाधात् । प्रसितां प्रलयेन कालरात्रिं यदपास्तः स्म धनुर्धनिर्धिनोति ॥ ४७ ।। स समस्तकपिक्षपाचराणां हृदयेषु व्यथितत्वमादधानः । शतमन्युजयातिरूढदर्पः पृथुमायः प्रथयाञ्चकार मायाम् ॥ ४८ ॥ नभसः पतति स्म सास्थिमांसा.महती शोणितवृष्टिरुग्रगन्धा । समलक्ष्यत दिग्वधूमुखेषु क्रमवृद्धि प्रथयन् रजोविकारः ॥ ४९ ।। इति कूटपटुः प्रयुज्य मायामपदानैः पितरं च लङ्घयिष्यन् । अतिदुस्तरसङ्कटप्रयोज्यं स्मरति स्म द्रुहिणप्रतीतमस्त्रम् ॥ ५० ॥ अथ दाशरथौ निरुध्यमाने भुजगास्त्रेण सहानुने निरीहे । जवधूतकुलाचलाब्धिभूमिः प्रववौ वायुरुदीरयन् रजांसि ॥ ५१ ॥ १. 'श्रु' ग. पाठः.

१०८ रघुवीरचरिते. तदनन्तरमम्बरावकाशादवतीर्णः कनकोत्तमावदातः । परिहर्तुमनास्तयोर्विपत्तिं कुपितस्तत्र बभूव बैनतेयः ॥५२॥.. धृतचित्रमरीचिभिः पराध्र्मणिभिर्मुद्रितमुदहन किरीटम् । शिखराबविलग्नविश्वतेजाः प्रथमानप्रथिमेव हेमशैलः ॥ ५३ ॥ भृकुटीमहिवंशकालरात्रि कुटिलभूयुगलीसमुद्धृतेन । निटिलेन वहन्नुदग्रनेत्रस्फुटनिष्ठयूतकृशानुदुर्निरीक्षः ॥ ५४ ॥ धृतकुण्डलभोगिभोगरत्नस्फुरदर्चिष्पसरैः खपश्नुवानः। फणिशोणितदिग्धचण्डतुण्डद्वयसङ्घनशब्दपूरिताशः ॥ ५५ ॥ निजदैवतरत्नबद्धनिष्कातिशारीकृतचारुकण्ठदेशः । उरसा धृतहेमपद्यमालामकरन्दोत्सुकषट्पदानुयातः ।। ५६ ॥ भवनोदरणक्रियाप्रगल्भं भुजदण्डद्वयमायतं दधानः । अवलिप्तकराङ्गुलिः करालैरहिनिारणलम्पटै खात्रैः ॥ ५७ ॥ समवृत्तघनोरुजानुजारभसोत्सारितयानखेचरौघः। त्वरितानुनिबध्यमानयात्रापवनावर्तवशभ्रमन्महीध्रः ।। ५८ ।। महसः परमस्य सन्निधानान्महितस्कन्धतटीनिरूढगर्वः। वलयाजदकङ्कणादिभूषारचनामष्टमहारगर्वितन्वन् ॥ ५९ ।। स्थगिताम्बरकक्षिपक्षहेलामरुदान्दोलितहमहमशैलः । चरणार्पणविद्धभूतधात्रीदृढनिष्पीडितकर्परादिकूर्मः ॥ ६० ॥ इति सन्निहिते रघुपवीरस्थितये काश्यपधर्मदारभाग्ये । विधिशृङ्खलितं महोरगास्त्रं व्यगलः पूष्णि तमः समुद्यतीव ॥६१ ॥ अमृताकृतिरामृशत् कराभ्यां हरिपादाब्जरजापवित्रिताभ्याम् । सकलात्मतया विजज्ञिवांस्तौ विरुजौ विश्वरुजापही चकार ॥ ६२ ।। रणतः सहसा गते विरामं पृतने ते मिलिते परस्परेण । अवशं कमपि च्युतात्महेती बुबुधाते न गरुन्मरुत्पविदे ॥ ६३ ॥ -time- १. चारुप' क. पाठः.

पञ्चदशः सर्गः।
१०९
प्रकृति प्रतिजग्मिवान् पुनः स्वां प्रभविष्णुः प्रभवे विहङ्गमामाम् ।
क इवासि विवित्सुरस्म्यहेतोर्घटितं त्वेत्थमुदाहरत् स वाचम् ॥
इह सगरसङ्कटे न चासे पुनरभ्येत्य यथातथं प्रवक्ष्ये ।
नचिरेण करिष्यते भवद्भयां युधि रक्षस्सु विभीषणोऽवशिष्टः ।। ६५॥
मतिरूदकृतान्तदूषितायुर्दशकण्ठस्तव धर्मदारहर्ता ।
सफलं स्वकुलं विनाश्य मन्दो दुरितानां महतां फलानि गन्ता ॥६६॥
त्रिजगत्मथितापदान ! तुभ्यं भवतु स्वस्ति सहानुजानुगाय ।
गिरमित्यमुदीर्य तं गरुत्माञ्जवभिन्नाभ्रमविक्षदन्तरिक्षम् ॥ ६७ ।।
इति ताय॑निराकृते निजास्त्रे घनमुक्तार्क इवोत्पभे च देव ।
पुनरप्यधिक पराभविष्यन विधिना केनचिदिन्द्रजित् तिरोऽभृत् ॥६८॥
कपिलोकपितामहेन हिकाः म्फुटिताशागजकर्णरन्ध्रभागाः ।
सृजता बहु निम्नतारिसैन्यं न तदा वार्धकमल्पमप्यदर्शि ॥ ६९ ॥
अवमृद्य वरूथिनीमनेकां मिषतामेव महौजसां रिपूणाम् ।
दशकण्ठवलाधिपः प्रहस्तो युधि नीलेन कथीकनो बभूव ॥ ७० ॥
पवनात्मजवालिसनुमुख्यैर्हरिभिः स्वां पृतनां निशम्य भग्नाम् ।
अतिरूढमदावलेपरोषो दशकण्ठः स्वयमापपात योजुम् ।। ७१ ॥
अथ लक्ष्मणवानरेन्द्रनीलाः समरे तेन निपातिताः क्षणेन ।
महिमानमुपाश्रिताः पुनः स्खं प्रतिजघ्नुः पुनरेनमाश्वसन्तः ॥ ७२ ।।
हिमवच्छिखरस्थकालमेघप्रतिमे विद्विपि दृष्टिगम्यमात्रे ।
अरुणेक्षणवान्तरोषपोषो हनुमत्स्कन्धगतो बभूव देवः ॥ ७३ ॥
स्वबलेन जयेऽपि जागरूके कपिसैन्ये च विहस्तताविमूढे ।
सहसा रघुराजि दृश्यमाने हृदयं रात्रिचरेशितुश्चकम्पे ॥ ७४ ॥
प्रमुखोपनते विभौ समन्यौ विधिना निष्पतिघेन लवितायुः ।
पशुरास स यूपबन्धनेन प्रतिपन्नार्तिरुपाकृतः क्षणेन ।। ७५ ।।
चिरसम्भृतवैरपावकार्चिष्पसरेण ज्वलितौ परस्परेण
युधि गन्धगजाविवाविषयौ जघटाते खरजित्क्षपाचरेन्द्रौ ॥ ७६ ॥

रघुवीरचरिते बहुबाहुदशाननप्रयुक्ता शरवृष्टिः प्रभुणा भुजद्वयेन । सशरासनसायकेन रुद्धा पटिमा चेत् करणेषु नातिकासा ॥ ७७ ॥ असृजत् स तमः प्रकाशविद्यां विभुरस्त्रज्वलनं निशाचरेन्द्रः । जलदैवतमीश्वरो रघूणामिति भूयानभवत् तयोर्विरोधः ॥ ७८ ॥ अथ रामशरैनिकृत्तशस्त्रप्रकरो भग्नरथो विभिन्नगात्रः। अपमृत्य ततः पदातिरन्तःपुरमस्तोत्सवमन्थरं विवेश ॥ ७९ ॥ स चिराधिगतप्रसुप्तिमभ्रंकपवेश्मोदरशायिनं निरीहम् । अरिपक्षजयाय कुम्भकर्ण द्रुतमुद्बोधयितुं प्रचक्रमे सः ॥ ८० ॥ अयुतं बलिनां निशाचराणां प्रविशद् भर्तमतेन सुप्तिशालाम् । अमितंपचकुम्भकर्णनासाश्वसनावानमपारयन्न गन्तुम् ॥ ८१ ॥ अपरान्तपथेन ते पविष्टा युगपत् तूर्यमृदङ्गगोमुखादीन् । हिमशैलगुहाभयोर्निधाय श्रवसोः शब्दमुदीरयांबभूवुः ॥ ८२ ॥ बुबुधे विबुधारिणा न तेषामकृशैः कर्मभिरप्युपद्रुतेन । अथ तस्य महत्तमे शरीरे चतुरङ्गां पृतनामचारयंस्ते ॥ ८३ ॥ प्रतिबुध्य समुत्थितस्ततस्तां निजदेहप्रस्तां विधूय सेनाम् । धृतहेति विलय सालमुच्चैर्निजमात्मानमदर्शयत् कपीनाम् ॥ ८४ ॥ तमभिक्रममाचरन्तमभ्रं निगिरन्तं भिदुरभ्रुणा मुखेन । अभिलक्ष्य बलं प्लवङ्गमानां क्षणमापद्यत चापलं भयेन ॥ ८५ ॥ परिगृह्य वलीमुखा भुजाभ्यां मुखपातालविलं प्रवेशिता ये। गणशः प्रसभं निरीयुरस्य श्रुतिनासाविवरैर्विदूरपाताः ॥ ८६ ॥ अविलोचनमयवद्म भूतं किमिदं भीममितोमुखं समेति । इति मारुतिरीश्वरेण पृष्टः कथयामास दशाननानुजं तम् ॥ ८७॥ विषहेत क एव तं त्रिलोक्यां यदि निद्रापरतन्त्रता न चेयम् । धृतभीषणशूलमुद्रहन्तं हतदक्षाध्वरवीरभद्रमुद्राम् ॥ ८८ ॥ स वलीमुखवाहिनीमनेकां युधि विद्राव्य विदारयन् शरौघैः । चरणार्पणपीडितत्रिकूटः शलभो वहिमिवापपात रामम् ।। ८९ ।।

षोडशः सर्गः। तमधाकृतवारणापदानं प्रभविष्णुर्भुवनावनाय सज्जः । प्रलयानलदुर्धरैः शरौघैः प्रतिजग्राह कपीन् प्रतिष्किरन्तम् ॥ ९० ॥ समरे समतामुभावुपेत्य क्षणमुयोतितभूरिविक्रमेण । रघुराजमुतेन कुम्भकर्णस्तरसालयत वाणसंहृतायुः ।। ९१ ॥ इति दशाननसहोदरविलोपकलुषे सकलराक्षसकुले कपिगणे च मुदिते । प्रचुरहर्षममरास्तदनु दाशरथये जयगिरा मुहुरकुर्वत समर्चनविधिम् ॥ ९२ ॥ इति रघुवीरचरिते पञ्चदशः सर्गः । अथ षोडशः सर्गः। अथ दाशरथेर्जेतुः सानुजस्य मुखद्युतिः । जगदाप्याययामास ग्लपयामास चाहितान् ॥१॥ प्रातृव्यसनतप्तेन दशग्रीवेण चोदिताः । संशप्तका इवापेतुरतिकायादयः प्रभुम् ॥ २ ॥ हनूमन्नीलतारेयपितामहनलोत्तरैः । वानरैरपि विद्धास्ते जग्मुः स्वापं महत्तमम् ॥ ३॥ अशीतिकोटिसंख्यातैलेनैरावतोपमैः । किंकरैराज्ञया भर्तुः कृष्टास्ते सागरे कृताः ॥ ४॥ वनौकसः कचित् क्षीणाः कचिद् भग्ना निशाचराः। त्यक्तशस्त्रादयः क्रोधान्नियुद्धं केचिदाचरन् ॥ ५ ॥ विशीर्णसर्वकायास्थीन्युग्रनिष्पेषमुष्टिभिः । कोष्ठान्तःकृतबाहूरुपदानि कपिरक्षसाम् ॥ ६ ॥ उद्वान्तजिहानयनैर्निमग्नानि शिरोमुखैः। व्यमूनि देहपिण्डानि कुमूलानीव रेजिरे ॥ ७॥ लुलुवुर्वानरान् कांश्चिच्छर्यातूनि कानिचित् । तान्यन्ये पर्वताकाराः पर्वता…रचूर्णयन् ॥ ८ ॥ 'सदया' ख. पाटः, INE रघुवीरवरित विभीषणः स्ववीर्येण राम विस्मापयन् रणे । रावणानीकयोधानां पञ्चकोटीरचूचुरत् ॥ ९ ॥ ततो रामप्रतापानौ हूयमानाः सुवर्चसि । पलाशसमिधः पश्यन् सहते स्म न रावणिः ॥ १०॥ हुत्वा तदुचितं हव्यं दक्षिणामो स दक्षिणः। रुषा धक्ष्यन्निवैश्वाकावारुरोह रथोत्तमम् ॥ ११ ॥ दूरादेवापतन्तं तमभिचारमिवाङ्गिनम् । निरीक्ष्य वानरी सेना दुद्राव कृतचीत्कृतिः ॥ १२॥ जाम्बवन्नीलतारेयवेगदर्शिगजादिभिः । गुप्तामपि स तां सेनां निर्ददाहास्त्रतेजसा ॥ १३ ॥ खार्थे कृतप्रयत्नानामनेकेषां बनौकसाम् । पश्यन्नत्याहितं रामः प्रतिजग्राह रावणिम् ॥ १४ ॥ परस्परपयुक्तास्त्रज्योतिर्निप्पेपदारुणम् । अवर्धत तयोयुद्धमन्योन्यजयकाक्षिणोः ॥ १५ ॥ मेघनादास्त्रनिर्दग्धां कपिसेनामजीवयत् । रामदूतः क्षणानीतदविष्ठौषधिपर्वतः ॥ १६ ॥ प्रत्यापनतनुपाणा महोत्साहा वनौकसः । शश्वत् प्रस्थापयामासुर्नक्तंचरवरूथिनीम् ॥ १७ ॥ खवलक्षयमालक्ष्य कृत्याशालां निकुम्भिलाम् । प्रविश्य होष्यतः कामं विभुमने विभीषणात् ।। १८ ॥ निघ्नन् क्रियान्तरायेण दिष्टकुण्डलितायुषम् । रणायाह्वास्त सौमित्रिस्तं वृत्रमिव वासवः॥१९॥ मायापरायणाभिज्ञं साधे कृत्वा विभीषणम् । अवस्थितः स ददृशे चण्डं शक्रजिता पुरंः॥ २० ॥ mananeleon १. 'रः॥ पश्य' क. खः पाठः, षोडशः सर्गः। तूर्णमायाहि मा याहि माया हि तव मोहिनी । कपीनामिति सौमित्रेचस्तं समधुक्षयत् ॥ २१ ॥ पश्यन् रामपरीवारविपर्यस्ता स्ववाहिनीम् । भुवनैधः प्रजज्वाल कालाग्निरिव रावणिः ॥ २२ ॥ शल्याभिषाजडतामोचितौ रघुनन्दनौ । सहस्रगुणमुत्साहं चक्राते रक्षसां वधे ॥ २३ ॥ महान्ति पञ्च भूतानि स्वां स्वां प्रकृतिमत्यजन् । अभिक्रामति सौमित्रि प्रति तस्मिन् रुषो दुते ॥ २४ ॥ विरिञ्चकौशिकोपज्ञैरस्त्रैः सर्वकषैरुभौ । व्याकुलीचक्रतुश्चित्तं रामरावणयोरपि ॥ २५ ॥ मेघनादप्रयुक्तेषुरखं पावकदैवतम् । उज्जगार स्फुरज्ज्वालाकवलीकृतदिङ्मुखम् ॥ २६ ॥ अन्यथाकृतसंन्यस्तजगतस्तपसां निधेः । कुशाश्वशिष्यात् सौमित्रिरस्त्रागममथास्मरत् ।। २७ ॥ रामावरजबाणायादुद्गता कापि देवता । पपौ तीव्र तमस्त्राग्निं तत्रैव च तिरोदधे ॥ २८ ॥ अस्त्रं ब्रह्मशिरः क्षिप्तं पौलस्त्यतनयेन तत् । तेनैव सञ्जहारोच्चैः सौमित्रिमन्त्रकल्पवित् ।। २९ ॥ भूयोऽप्यस्त्राणि दिव्यानि समरेष्वविषादिनौ । भुवनक्षोभकारीणि प्रायुञ्जातां परस्परम् ॥ ३० ॥ क्षणमन्तर्हितः कृत्वा मायासीतां प्रलापिनीम् । अशोचयत् स काकुत्स्थौ सुग्रीवं च ससैनिकम् ॥ ३१ ॥ हनूमज्जाम्बवत्मष्ठैईप्तैर्वानरयूथपैः । तथाभियत सा सेना यथाश्यत रावणिः ॥ ३२ ॥ संस्मरन् भ्रातरं भक्त्या सत्येनानेण सत्यवि।। मेघनादमिषाकारं रावणं लक्ष्मणोऽग्रसत् ॥ ३३ ॥ . । १. 'सक. पाठः.. ए

११४
रघुवीरचरिते
अस्त्रेणापहृतमाणे तस्मिन् भुवि निपेतुपि ।
हन्त हन्तेति वागासीत् सर्वेपामृक्षरक्षसाम् ।। ३४ ॥
भुजातोलितरुद्राद्रौ जीवत्यपि दशानने ।
तस्यापक्रमणेनासीनिष्पाणं रक्षसां कुलम् ॥ ३५ ॥
सुरासुरहृदम्भोजविकासि परिदेवितम् ।
उच्चैरश्रावि लङ्कायां पौर राक्षसयोपिताम् ॥ ३६ ॥
मन्दोद्यमानां यौधानां तां दशां वीक्ष्य वानराः।
मुक्तामुक्कानि शस्त्राणि हृत्वा नेस्तान ववाधिरे ।। ३७ ।।
हर्षचन्द्रोदयस्मेरमन कुमुदवासिताः ।
तमप्रतिमकर्माणमानचुः खेचरा दृशा ।। ३८ ॥
सुरासुरजितः सूनोः श्रुत्वा तनादृशं क्षयम् ।
आरेभे मैथिली हन्तुं विललाप च रावणः ॥ ३९ ॥
यूथाधिपानसंख्येयान मेघनादपदानुगान् ।
सबलः सानुजो रामो रणेप्वग्रसदग्रसत् ॥ ४० ॥
ततो मूलवलं भीममसंन्यं परिभाषया ।
पातालादुत्पतद् रामो दिनार्धन समापयत् ॥ ४१ ।।
अपत्यामात्यसेनानीयूथाधिपनिमीलनम् ।
पातितं कुम्भकर्ण च छिन्नपक्षमिवाचलम् ॥ ४२ ॥
निमित्तानि च घोराणि विपरीतानि सर्वतः ।
अनि तचराधीनां पौराणां परिदेवितम् ॥ ४३ ।।
छुष्टां च नगरी सर्वामुल्काहस्तै. प्लवङ्गमैः ।
प्रस्तरीभूय रक्तौघैः प्रच्छन्नामपि मेदिनीम् ॥ ४४ ॥
अन्धस्त्रीवालवृद्धानां क्रन्दनानि समन्ततः ।
रुदतीं हतपुत्राः प्रियां मण्डोदरीमपि ॥ ४५ ॥
प्रस्वापं स्वापदानानां तेजः काकुत्स्थयोरपि ।
उपलभ्य विनिश्चित्य निर्जगाम दशाननः ॥ ४६ ॥

षोडशः सर्गः। अप्रसनैर्हयैर्युक्तं रथमारुह्य रंहसा । निर्दहन्निव लोकांस्त्रींस्तत्राभूद् यत्र राघवः ॥ ४७ ॥ चिरसंभृतसंरम्भस्फुरज्ज्वालावुभावुभौ । करिष्यमाणौ यत्किञ्चिद् धीरं ददृशतुर्मिथः ।। ४८ ॥ मुरासुरा दिगन्तेषु निलीनास्तद्भयात् पुरा । दिदृक्षवः समागच्छन् प्रारब्धं रामरावणम् ।। ४९ ।। दिष्टया दृष्टिपथं नीतः कृतान्तेनासि साम्प्रतम् । इति वाचं द्विषो रामः प्रतिजग्राह सस्मितम् ॥५०॥ अथ मातलिनानीतं सहस्राश्वयुजं रथम् । आरुरोह विभु/मान सवितेवोदयाचलम् ॥ ५१ ॥ केचिदालोकशब्देन केचिज्जयगिरा पुनः । रामं सम्भावयामामुर्देवामुरमहर्षयः ॥ ५२ ।। कैलासोद्धरणक्रीडादर्शितस्वभुनावलः । गवणः प्रगुणान् बाणान भुमोच रघुनन्दने ॥ ५३ ॥ रामः क्षिप्तानिपूंस्तेन द्विवाहुबहुबाहुना । अर्धमागें चकर्वोच्चदर्शयन हस्तलाघवम् ।। ५४ ॥ परस्परप्रयुक्तास्त्रैर्दीप्यमाना नभश्चराः । उपप्लवभयात् सर्वे दुरादू दरमपासरन् ।। ५५ ।। तावद् रामविरामार्थमुद्धरिष्यति रावण । प्रलयाप्रतीकाशश्चन्द्रहासस्तिरोदधे ॥ ५६ ।। चक्रेणापि मुकुन्दस्य प्रागविज्ञापितव्यथः । स विषोदुमकल्यो भूकै रामसायकम् ॥ ५७ ।। अपमृत्य ततः किश्चिन्निनं सर्वकषं तपः । शस्त्रे विधाय पौलस्त्यस्तं प्रहर्तुं प्रचक्रमे ॥ ५८ ।। १.' 'भाजया' ग, पाटः, ११॥ पुचीरचरित तत्रागस्त्यः समागम्य विदित्वा तच्चिकीर्षितम् । सावित्रेण प्रभावेन ररक्षेक्ष्वाकुनन्दनम् ॥ ५९ ॥ ज्वलितः स विशेषेण रावणं सर्वमर्मसु । तुतोदोद्भूतसंरम्भो विषदिग्धैरिवेषुभिः ॥ ६ ॥ प्राणान्तकारिणी घोरां वेदनामविचिन्तयन् । अभिचक्राम काकुत्स्थं पुरा काल इवेश्वरम् ॥ ६१ ॥ ततस्तस्यार्धचन्द्रेण निचकत शिरांसि सः । भीमसंरम्भगर्भाणि जगतो व्यसनानि च ॥ ६२ ॥ शिरांसि तस्य लूनानि तेन सास्राणि रेजिरे । शिखराणीव नीलाद्रेर्धातुलिप्तानि वज्रिणा ॥ ६३ ॥ अमोघे रामबाणौधैः पतितेष्वपि मूर्धसु । न ययुः प्रत्ययं देवास्तत्पत्यापत्तिशङ्कया ॥ ६४ ॥ भुजैरनेकैविकृतस्तस्य कायः परेयुषः । पपातास्रवदाभोगश्छिन्नमूल इव स्नुहिः ॥ ६५ ॥ दिव्योद्यानादवचितैर्देवा देवमवाकिरन् । पुष्पैर्नवविकासोद्यन्मधूलीलोलषट्पदैः ॥ ६६ ।। विरासीद् वृषारूढं शैलकन्यासखं महः । सह भूतगणैस्तत्र यत्र रामो व्यवस्थितः ॥ ६७ ॥ अन्वदृश्यत वेधास्तं गिरा देवतया सह । उपास्यमानः परितः सपत्रीकैर्महर्षिभिः ॥ ६८ ॥ जववायुविभिनाभ्रमापत्य पततां पतिः । मश्रितः प्रश्रयाकल्पं जायया तमसेवत ॥ ६९ ॥ सञ्चरित्रेण सुरभिं सुरभिः सुरशेवधिः । उपहर्तुमनाः कामान् निकषा तमवस्थिता ॥ ७० ॥ देवाननुगताः प्रहान स्थिताः स्वाधिकृते पदे । इम्भिरप्सरसः कामं स्वादु रामामृतं पपुः ॥ ७१ ॥ -- ११७ पोरशः सर्गः। अथामाण्य समाज तं यथाई विहिताहणः । सीतामानाययामास मूर्ती चारित्रदेवताम् ।। ७२ ॥ मामां विवर्णा मलिनामेकवेणीधरां कृशाम् । अवगुण्ठितसर्वाङ्गी यातयामेन वाससा ॥ ७३ ।। रुदती श्वसितां नम्रवदनां धूसरालकाम् । चिरन्तनेन महता शोकेन स्फुरिताधराम् ।। ७४ ।। अपवारितसंचारपरिस्पन्दपदार्पिणीम् । विदूरीभूतसंस्कारशोचनीयनखानुलिम् ॥ ७५ ॥ दुर्दान्तराक्षसपुरीचिरवासकदूषणाम् । चराचरस्य जगतः कुतूहलकराकतिम् ।। ७६ ।। अनसूयाकृतं पुण्यं विभ्रतीमनुलेपनम् । ददृशुः सर्वभूतानि रामश्च जयतां वरः ॥ ७ ॥ ततोऽनुज्ञाप्य गिरिशं विधि देवानृषीनपि । चकाराग्नौ विशुद्धां तां जानकी सत्यसंश्रवः ॥ ७८ ॥ निर्दग्धाशेषकरणां विप्रलम्भाग्निना विभोः । स तामाप्याययामास शीतलः शपथानलः ॥ ७९ ॥ रामस्तस्य समाजस्य मतेन मतिमत्तमः । विशुद्धचरितः शुद्धां धर्मपत्नी समग्रहीत् ॥ ८० ॥ रावणस्य परेतस्य भ्रातृपुत्रवतः क्रियाम् । अन्त्यां विधत्स्व शिष्टानां रक्षसां त्वमधीश्वरः॥ ८१ ।। रक्ष लड़ां नवीकृत्य रक्षांस्यशरणानि च । राक्षसेभ्यो भयं मा भूद् भुवनानां ममाज्ञया ॥ ४२ ॥ देवासुरमनुष्याणामिह बन्दीकनाः स्त्रियः। प्रस्थापय यथापूर्व सर्वान् कल्पगुमानपि ।। ८३ ॥

११८
रघुवीरचरिते
भविष्यति तवैश्वर्यमेवं कल्पान्तरेष्वपि ।
रामो विभीषणायेति ददौ वाचं सुधामिव ।। ८४ ॥
इत्याज्ञां शिरसादाय कृत्वा सर्व विभीषणः।
भाग्योदयेप्वनुत्सितः प्रभविष्णुमुपासदत् ।। ८५ ।।
आपृच्छय कृच्छ्रादुत्तीर्ण रामं सह सुरर्षिभिः ।
सविधिः सपरीवारस्तिरोभवदुमापतिः ।। ८६ ॥
आनीतं वायुपुत्रेण विमानं पुष्पकं विभुः ।
आरुरोह ततः सीता प्रियमन्वारुरोह च ॥ ८७ ।।
उत्रं दधार सौमित्रिस्तालवृन्तं हरीश्वरः ।
उभौ मारुतितारयो रुक्मदण्डे च चामरे ।। ८८ ।।
विभीषणः खड्गराज जाम्बवान् मणिपादुके ।
समांसमीने बाणानां तूणी पावकनन्दनः ॥ ८९ ।।
बहावर्त नलः शङ्ख सुषेणश्चम चापलः ।
अन्ये च यथपतयो राजलिङ्गानि दधिरे ।। ९० ॥
विधायेत्थं रक्षां दशवदनविद्धस्य जगतो
विमानस्थः श्रीमान् सबलहरिरक्षोधिपयुतः ।
वचः कृत्वा पित्रोः समयमपि निर्गृह्य चकमे
ससौमित्रिर्गन्तुं रघुपतिरयोध्यां कुलपुरीम् ॥ ९१ ॥
इति रघुवीरचरिते षोडशः सर्गः ।
अथ ससदशः सर्गः
अथ स्वरूपामृतसन्निकर्षादाप्यायितान्तःकरणां चिरेण ।
विमानगः प्रीतमनाः प्रियां स्वां जगन्नियन्तेति गिरं जगाद ॥१॥

समदशः सर्गः। . इमां प्रिये! पश्य विशालसालामदृष्टिमेयां त्रिदिवोपमेयाम् । लामलङ्कारवतीमनर्धेः मुरद्रुमैः कामदुधैरनेकैः ॥ २ ॥ इमां कुबेराय पुरोपजडू कृतिप्रवीणः सुरलोकशिल्पी । उत्सार्य तं राक्षसराड् जहार पुरीममुं चैव विमानराजम् ॥ ३ ॥ रक्षःपुरीयं सुरदानवानामगोचरो दुर्गतया महत्या । आनीय लोकप्रथितानि रत्नान्यत्रांस्तशत्रुर्बुभुजे दशास्यः ॥ ४ ॥ हनुमतानेन विचिन्वता त्वां प्रारभ्यतास्याः प्रथमः प्रमाथः । पुनः प्लवङ्गैर्गिरिसालहस्तैः सराक्षसेयं सकला विरुग्णा ॥ ५ ॥ आपूरितां शोणितकर्दमार्दै रक्षःशरीरैरचलप्रमाणैः । रणक्षिति भीरु ! विलोकयेमामाक्रीडशालामिव कालरात्रेः॥६॥ अथ स्थलादुत्थितवान् पयोधि द्विधा विभज्य स्थिरसन्धिबन्धः । ससाहसानां निकषः कपीनां दृश्यः पुरस्तानलसेतुरेषः ॥ ७॥ अनन्तरत्नैकनिधानमुच्चैर्दैत्याद्रिनागाश्रयवारिगर्भः । गभीरतायाः पदमेकमक्षणा संगृह्यतां भामिनि ! सिन्धुराजः ॥ ८ ॥ स्वं सप्तधात्मानमयं विधाय रसैश्च तावद्भिरमून विभिद्य । इयानसावीदृश इत्यचिन्त्यः प्रवर्तते विश्वसृजां धियापि ॥ ९ ॥ भूतेषु पञ्चस्वपि संहृतेपु क्रमात् प्रधाने पुरुपं प्रविष्टे । अयं महाकल्पविरामकालेऽप्यनश्वरः प्रत्युत वर्धते च ॥ १० ॥ प्रमथ्यमानादमृताय दिव्यैरभूदमुष्मात् किल पद्महस्ता । यया वृतः सुन्दार! पद्मनाभः समस्तसौभाग्यपदं बभूव ॥ ११ ॥ असावपः खं मरुतोपनीय रसान्तरं च प्रतिपद्य तासु । घनत्वमाश्रित्य विधाय दृष्टिं त्रिवर्गवन्धाय विभर्ति विश्वम् ॥ १२ ॥ रनाकरोऽपि स्थितये स्ववेलामलङयन्नादतमस्वभावः । नित्यातिथेरप्ययमौर्ववहेः स्वजीवनेनैव करोति तृप्तिम् ॥ १३ ।। अस्याम्बु तल्पीकृतशेषभोगः श्रिया भुवा चानुगृहीतकामः । नाभीसरोजस्थितपद्मयोनिस्तुतोऽधिशेने भगवान् मुकुन्दः ।। १४ ॥ १. 'स्त्रा' ख, पाट:.

रघुवीरचरिते
स्वच्छन्दवारिप्रसरोपरोधादयं प्रकाम क्षुभितो रुपेव ।
मरुदशार्मिकरैरुदस्तैरितस्ततस्तादयतीव सेतुम् ।। १५ ॥
निमजनोन्मज्जनचञ्चलानि गजाश्चयादांसि निरन्तराणि ।
समुद्रवाताहतिमेदुरासावनारतं सूत इचोमिमाला ॥ १६ ॥
वेलेयमेलाफलगन्धगर्भः समीरणैर्वासितसैकतौधा ।
आलोकनीया शुभक्तिमालानिष्ठयूतमुक्तावलिदन्तुरान्ता ॥१७॥
कचिच्च नीचैः कचिदुच्चवृत्ति कचित् समं वर्त्म विगाहते च ।
मनोनुकूलप्रसरं महिना निजेन यात्येवमिदं विमानम् ॥ १८ ॥
असौ समस्तां कपियातुसेनामस्मानपीत्थं बलवद् दधानः ।
अनुग्रहेण द्रुहिणस्य भूम्ना सहिष्णुतामेति विमानराजः ॥ १९ ।।
तिरोभवद् दूरतया व्यतीतं पश्य प्रदेशान्तरमब्धिपारे ।
क्रमेण यत् सूक्ष्मतरं निपीतं धूमोद्गमेनेव मलीमसेन ॥ २० ॥
मनोहरैश्चन्दनपल्लवानां प्रभोदयैराहितसान्ध्यकान्तिः ।
अयं परस्तान्मलयादिरस्मादारभ्यतानेन नलेन सेतुः ॥ २१ ॥
मयि स्थिते सागरमुत्तितीर्षाविहास्तबोधे च मदेन तस्मिन् ।
सौमित्रिणा सम्भृतदर्भशय्ये प्रायोपवेशस्य कृतोऽत्र तल्पः ॥ २२ ॥
तृणहमपाणभृतामभूमिर्निशासु चोग्रा मृगतृष्णिकाभिः ।
कण्डोर्मुनेः कोपहुताशनेन नीता विकारं मरुभूरियं सा ॥ २३ ॥
उदन्यया यत्र गतैः प्लवङ्गैः प्लुप्रैर्बिलं भीमतमं प्रविश्य ।
स्वयंप्रभाया महतः प्रसादाद् यात्रोद्यतं जीवितमाललम्बे ॥ २४ ॥
विन्ध्याचलोऽयं शमितप्रवृद्धिर्महर्षिणा कुम्भभुवा सुरार्थम् ।
चिकीर्षुणा मानिनि ! योगमायानिवासभरेष विशेषदृश्यः ।। २५ ।।
उपत्यकालग्नघनो निरुद्धमरुत्पथः शृङ्गसमुच्छ्रयेण ।
स माल्यवानेष यदाश्रयोऽसौ हरीश्वरो बालिभिया निलीनः॥२६॥
मतगशापेन निवीतसीमा दुरासदोऽयं कपिनायकस्य ।
विवित्सता त्वां तपनस्य सूनुर्मया कृतार्थीकृत एष भूयः ॥ २७ ॥

सप्तदशः सर्गः । १२१ अनेन यावत् सवितुः कराणां गतिः प्लवङ्गविचिनासि तावत् । अयं हनूमान् पुनरादर्शी विशेषतः क्लेशभृदन्तरायैः ॥ २८ ॥ एषा मधूनन्धिसरोजभूषा मन्दानिलान्दोलितपेलवार्मिः । निनत्वपापादयति प्रयाणे पम्पा मनोनेवरसायनं मे ॥ २९ ॥ वन्यैः प्रसूनैरधिवास्यमाना समन्ततः कृप्ततटा शिलाभिः । विशुद्धरूप्यद्रवनिर्मलाम्भास्फुरनपस्पन्दितपद्मनाला ।। ३० ।। इयं मतङ्गाश्रमभूमिरस्यामवस्थितं मां श्रमणानियोगात् । विषोल्ब गस्त्वद्विरहादनाथं सम्मोहयामास बलाहकाहिः ।। ३१ ।। अज्ञातनक्तन्दिवमभ्रपायाप्रपातदुर्दर्शदिगन्तगलम् । दृष्ट्वा नभो लक्ष्मणमात्रसाक्षि प्रवृत्तमस्यां परिदेवितं मे ॥ ३२ ॥ पयोदपातैः सकदम्बगन्धैर्भुवा सिलिन्ध्रोद्गममुद्रहन्न्या । सर्हिकेकैर्गिरिभिश्च किं किं त्वया विहीने मयि न व्यधायि ॥३३॥ नभः किलाश्लिष्टमनन्वितानि सञ्जल्पितानि प्रहितान्युदश्रु । स्थितं प्रयातं शयितं विना त्वां मया तदास्तामिह वासवार्ता ।। ३४ ॥ यद् योजनायामभुजप्रसारं रक्षः कबन्धाख्यममोचि शापात् । तत् तच्छरीरं गिरिसन्निकाशं सौमित्रिणानेन लघु व्यदाहि ॥ ३५ ॥ तरक्षुकण्ठीरवखड़नागैर्निषेवितोऽयं वनगजिगर्भः । मया त्वदन्वेषपरेण भद्रे! नादृष्टमस्पृष्टमपीह किञ्चित् ॥ ३६ ॥ इदं पुरस्ताद् वनमन्यदत्र शुचिस्मिते! दिष्टमदर्शयन्मे । पदाम्बुजात् प्रच्युतमंशुजालैः स्मेरं मनोज्ञैर्मणिनूपुर ते ॥ ३७ ॥ आदास्यमानः कृतदास्यमानं तदपिङ्केरुहयोर्भवत्याः । निसर्गभिन्नावपि शोकहांबुढवानस्मि समं तदानीम् ।। ३८ ॥ अवारुणत् त्वां छलतोऽपहृत्य प्रतिप्रयातं दशकण्ठमारात् । पितुः सखा मे हितकृज्जटायुस्तस्यापदानं तव हृद्यभूत् किम् ॥ ३९ ॥ इदं तदल्पद्रुमवारिशष्पं सशर्करं प्रान्तमरक्षिलक्ष्यम् । विलोभितश्चित्रतमाकृतित्वाद् यत्रास्मि मारीचमृगेण नीतः ॥ ४० ॥ ।

रघुवीरवरिते सरोरुहस्त्वत्पदपाणिनेत्रबक्त्रोपमः स्वादुमरन्दगर्भः । आमोदयन्ती ककुभः प्रयान्तं गोदावरी शृङ्खलयत्यसौ माम् ।। ४१ ॥ पुष्पावचायं तटभूरुहाणां स्नानं पवित्रेषु जलेष्वमीषु । सौमित्रिनीतैः फलमूलशाकैर्वृत्ति च चेतस्तव किं बिभर्ति ॥ ४२ ॥ स्मरस्यपीम कलहंसयुग्मैनिपेव्यमाणं पुलिनावतारम् । अस्माभिरभिः प्रशमावलम्बैरकारि यस्मिन् नियमाभिषेकः ॥ ४३ ।। समन्ततस्त्वत्परिवर्धिताभिलताभिरुद्यत्कुसुमोज्ज्वलाभिः । विराजिता मानिनि! पर्णशाला त्वया पुरस्तादियमीक्षणीया ॥४४॥ निपात्य मायाहरिणं निवृत्तं ततः पुनस्त्वां त्वरया दिक्षुम् । शून्यप्रकारां प्रविशन्तमेनां समानशे काचन दुर्दशा माम् ॥ ४५ ॥ वन्यैः प्रसूनैरधिवासितासावालक्ष्यते पञ्चवटी पुरस्तात् । यस्यांनिवासाय नताङ्गि! नवीनाचान्तसिन्धुभगवान् न्ययुक्त ॥४६।। अत्रागता शूर्पणखाभिभूता सौमित्रिणा स्वेन दुरीहितेन । वयं निमित्तं किल या कुलं स्वं समापयामास दशाननान्तम् ॥ ४७॥ एतद् वनं तनवमेघनीलमस्माभिरस्मिन् घटितो जटायुः । यस्त्वत्कृते सत्यगिरां पुरोगः प्राणैः प्रियैः स्वैरपि चोपचक्रे ॥ ४८ ॥ तस्याश्रमोऽयं हुतगन्धपुण्यो विन्ध्याचलस्तम्भकृतो महर्षेः । अस्मासु दृष्ट्वा प्रणतेषु पूर्व प्रियेषु पुत्रेष्विव यस्तुतोष ॥ ४९ ॥ इदं तदाशंसितसर्वसम्पत् स्थानं महेन्द्रेण च माण्डुकर्णः । जितात्मनस्तस्य तपोविलासः श्रोत्रे च नेत्रे च किमाविशत् ते ॥५०॥ एतद्वनं मैथिलि! पश्य शान्तं पुनाति यज्ज्ञाननिधिः सुतीक्ष्णः । यद्धोमधूमेन दिवंगवेन क्लिष्टा निर्मालन्ति दृशोऽमराणाम् ॥५१॥ अत्रावतीनमुपेत्य नत्वा गन्तव्यमस्माभिरितीप्सितं मे । अधो विधत्ते सशुचः प्रवासाचिरं दिक्षा कुलराजधान्याः ॥ ५२॥ अत्रानसूयासहितस्तपस्यन्नत्रिवने विश्वहितं बिभर्ति । विरिञ्चभूतेश्वरपद्मनाभैः समं ययोरात्मजता व्यधायि ॥ ५३ ।। १. 'दिगीशैरपि माग. पाठ १२३ सप्तदशः सर्गः। अन्वग्रहीत् त्वामनुलेपनेन यासावसाधारणसौरभेण । भक्त्यात्रिपत्नी प्रणम प्रसन्ना सेयं तवोत्पादयिता शिवानि ॥ ५४ ॥ निसृष्टविदेषनिवृत्तसत्त्वा महीरुहैः स्वादुफलैः परीता । अधीतिभिः शिष्यगणैः सघोषा दृश्या भरद्वाजनिवासभूमिः ।। ५५ ।। मनोहरैरप्सरसा विलासरस्पन्दितान्तःकरणादमुष्मात् । आ ब्रह्मलोकादपि नियंपेक्षादाशङ्कते नित्यममर्त्यनाथः ।। ५६ ॥ वनं विविधं पितृवाक्यतो मां प्रत्यानिनीयुं पुनरप्ययोध्याम् । असौ कृपालुर्भरतं ससैन्यं समाजयामास तपोमहिम्ना ॥ ५७ ॥ यास्यानात्ति पदं हुताशे यः सन्निधौ नः स्वतनुं जुहाव । तस्याश्रमोऽयं शरभङ्गनाम्नस्तद्वानिवाद्यापि विराजते यः ॥ ८ ।। उद्धार्यमाणोऽयमिहोपहर्तु प्रत्युद्धजन्त्येव भुवा पुरस्तात् । करोति में तन्वि! चिरेण दृष्टश्चित्तोत्सवं कञ्चन चित्रकूटः ॥ ५९ ।। सख्युर्ममेदं पुरमुच्चमृद्धया गुहोपमानस्य गुहस्य यस्मिन् । मामीक्षमीक्षं व्यलपत् सुमन्त्रस्त्वमेव कैकेयि ! यशस्विनीति ।। ६० ॥ उष्णीषतां पर्वतमूर्ध्नि यान्ती निपेतुपी मौक्तिकदामशुभ्रा । मन्दाकिनीयं मदिराक्षि ! भूमेराविभ्रती भूषणतां विभाति ॥ ६१ ॥ यां कुण्डिका धातुरस्त यस्या हरेः पदाम्भोजमरिष्टशय्या । यावर्धतेशानजटाटवीषु प्रेक्षस्व तां मैथिलि ! दिव्यसिन्धुम् ।। ६२ ॥ संकृत् स्मृता चाभिहिता विदूराद् गङ्गेति पुंसां दुरितं प्रमार्टि । एषा शरीरं त्यजताममुष्यां शश्वद् भवेद् रुद्रगणाधिकारः ॥६३ ।। अस्मासु सम्बन्धविशेषमस्या भगीरथेन प्रपितामहेन । तपोविशेषैरवतारितायाः किं वेत्सि सर्व मुनिभिः प्रगीतम् ॥ ६४ ॥ इमां च वीक्षस्व कलिन्दकन्यां विभिद्य शैलं द्रुतमापतन्तीम् । या नीलरत्नर्निविडानुबदा माला भुवः कण्ठगतेव भाति ॥ ६५ ।। .. 'सा तूत्सृताप्युचलितापि, .. 'स्वा', ३. 'यां' क. पाठः, २४ r रघुवीरचरिते एते समुद्राभिमुखं प्रयान्त्यौ वेगादहंपूर्विकया दधाते । परस्परेणोर्मिकराभिघातं वर्णोज्ज्वले जकलिन्दकन्ये ॥६६॥ अस्मासु पूर्व विपिनोन्मुखेषु त्वत्प्रार्थितार्थ निरवत यद् यः । श्यामो वटः सोऽयममुं प्रणम्य श्रेयांसि गन्तासि मनोगतानि ॥ ६७॥ एषा विशालाक्षि : विलोकनीया मातेव साक्षात् सरयूः प्रसन्ना । इक्ष्वाकुवंश्यान् नरलोकनाथानवर्तयद् या विमलैः पयोभिः ॥ ६८ ॥ आलक्ष्यते व्योमनि संन्यधूलिः सुमन्त्रमुख्याः प्रकृतिप्रधानाः । ततः पुरोधाय वसिष्ठमारान् समहयिष्यन भरतः पुरस्तात् ॥ ६९ ॥ विज्ञाप्यमाने पवनात्मजेन मदागमे संभतभक्तिभारः। प्रत्युद्गमायैप मतिं विधने पञ्यास्य सौभ्रात्रमतिप्ररूढम् ।। ७० ॥ अस्तोपचारोच्सितारेखो भन्वादुकोनंमजटानिवन्धः । चीराम्बरानद्धकटिः क्रीयानयं मुनीनामाप कौतुकाय ।। ७१ ।। युवाप्ययं दाशरथिमनस्वी धिया विना जिप्रति गजलक्ष्मीम् । अस्यानुभावेन दुरुदहेन संयत मेध्यमिदं कुलं नः ॥ ७२ ॥ इत्थं वचस्यभिहित रघुपुङ्गवेन विज्ञाय तन्मनमोन्मिपता महिम्ना । अलाय पुष्पकमवातरदन्तरिक्षात प्रत्युद्गतं सकल जानपदाक्षिपद्मः ।। ७३ ।। तस्माद् विभोरवतरिष्यत एव पादा जग्राह नाम भरतो जटिलेन मा । जन्मदमार्य सफलीकुरु मे कपा ने मानेव पातु जनमेनमिति ब्रुवाणः ।। ७४ ।। नम्रस्य तस्य विनयविभूषणस्य भ्रातुः शिरस्युपनिबद्ध जटाकलापे । आजिघ्रता रघुवरेण लघु व्यधायि प्रालेयवारिशिशिरा नयनाम्बुष्टिः ।। ७५ ॥ १. '', २. ' क पाठः. ३. 'ज्य' ग. पाठः.

१२५ सप्तदशः सर्गः। दुर्दान्तरावणकपोलचपेटदर्श सुग्रीवपाणिमवलम्ब्य करेण देवः । पौलस्त्यदर्शितपथोऽवततार यानात् तच्च न्ययुङ्क्त सपदि द्रविणेश्वराय ।। ७६ ॥ छत्रप्रमाणतनुसंस्थिति तत् प्रणम्य रामस्य पादयुगलं सुकृतकलभ्यम् । आशां विवेश धनदाध्युषितां प्रमोदाद् वेगानुयातघनराजिकृतोपचारम् ।। ७७ ।। वार्ताविशेषमनुयुज्य मिथोऽर्हणावत् प्रेम्णाङ्गमङ्गमभिवीक्ष्य परामशद्भिः । सम्भूय दाशरथिभित्रिभिरिद्धनाणैः सौभ्रात्रसंज्ञममृतं रसिकरपायि ॥ ७८ ॥ पद्भयां गुरोः प्रमुदितस्य शिरः स्वमुच्चैः सम्भाव्य दर्शितपथोऽग्रगतेन तेन । पूर्ण बृसीघटकुशाजिनवल्कम लै- वन्यैः फलैश्च भरताश्रममाससाद ॥ ७९ ॥ कृत्वा विधि व्रतसमापकमाप्तवाचा- मग्रेसरेण गुरुणा विहिताभ्यनुज्ञः । भ्रातृपयुक्तसमुदाचरितः प्रवेषु देवः समारभत वंशपुरीमयोध्याम् ॥ ८० ॥ विज्ञाय रामहृदयं हनुमत्सुमन्त्रा- वाज्ञां वितेनतुरलङ्कृतये पुरस्य । पौरेषु मन्त्रिपु च मङ्गलतूर्यघोष शकोत्तरं च हरिदन्तगतं विधातुम् ॥ ८१ ।। उत्थापितध्वजशतापलसत्पताका गन्धोदकच्छुरितसौरभराजमार्गा । १. 'भाव्य दा', २. पर्तुम्' क. पाठ:

रघुवीरचरित
विन्यस्तमालगृहागणभूमिभागा
सा पूरलकृतिमती रुरुचे जनीव ।। ८२ ॥
भग्रे बभूवुरथ जानपदाः सपौरा-
स्तानन्वगीयतुरुभौ कपियातुनायौ ।
कृत्वा पुरः परमकारुणिकं वसिष्टं
रामानुजैश्च लघु तत्पदमन्वयायि ।। ८३ ॥
तूर्यध्वनिद्विरदबृंहितवाजिहेषा-
पादातनादरथमण्डल चक्रघोषः।
रक्षाकुलान्तक! रघूवह ! राम! देव !
श्रेयांसि साधय हशा करुणाईया नः ।। ८४ ॥
इत्यादिषु स्तुतिषु मागधवन्दिसते-
रातोद्यपाणिभिरगायि गिरां निबन्धः ।
विगैर्वृतः प्रहितमङ्गलसूक्तपाठे-
स्तारागणैरिव शरद्विमलः शशाङ्कः ।। ८५ ॥
निश्छिद्रकल्पितमनोज्ञतरोपचारां
देवः पुरी पुररिपुप्रतिमो विवेश ।
क्लप्ताः प्रजाभिरुपदा विविधप्रकारा
दृष्टयानुगृह्य दिवसेश्वरवंशकेतुः ॥ ८६ ।।
कक्ष्याश्च सप्त परिल य स गजवीथी-
राभ्यन्तरं पुरवरं पुनरासमाद ।
इक्ष्वाकुभिश्चिरमधिष्टितमत्यमत्यः
सिंहासनं कलितकान्ति माणिप्रवेकैः ॥ ८६
स्थित्वैव स क्षणमनुस्मृततातपादः
कस्रेण पाणिकमलेन पराममर्श ।
अत्रोपवेशयतमहणया द्विजातीन्
रक्षाप्लवङ्गषभावपि सानुगन्तू ।। ८८ ॥
:-
१. 'कारि गि', क. पाठा.

सप्तदशः सर्गः। मापृच्छय नः कुलगुरुं महितं वसिष्ठं सर्व क्रियानिपुणमृक्षपतिं च धन्यम् । अत्राभिषेकविधयेऽधिकृतैर्यथास्वं सम्पाद्यतां परिकरः सकलः समेतैः॥ ८९ ॥ (ऐश्वर्यमभ्यधिकमल्पमपि स्वकीयं नोपेक्षणीयमिह जातु कुलक्रमाप्तम् । १) यूना सतापि मुखवम्पराङ्मुखेन यद् भ्रातृवत्सलतया भरतेन सोढम् । तन्यासभूतमधुना परिगृह्य तस्मात् तं भारखिन्नमहमद्य सभाजयामि ॥ ९॥ इत्यं सुमन्त्रपवनप्रभवो नियुज्य सौमित्रिमैथिलमुताभरतानुयातः । स द्विववर्पवरदर्शितवेश्ममार्ग- स्तं वन्दितुं गुरुजनाभिमुखो बभूव ॥ ९१ ॥ विन्यस्तमङ्गलविशे पविशिष्टमारात् तस्मिन् प्रविष्टवति मागृहोपकण्ठम् । आराध्य दिव्यगुमाक्षतलाज मुख्य- नीराजनाविथिमकुर्वत मौलवध्वः ॥ ९२ ॥ आविश्य भूलभवनं विहितोपचार धात्रीजनेन सहसानुगतः सदारः। स्नेहस्नुतस्तनमुखं शिशिराश्रुनेत्रं मातृत्रयं स समवन्दत निर्विशेषम् ॥ ९३ ॥ तेषां प्रणाममुपपादयतां सुताना- माघ्राय मूर्धनि करेण परामृशन्त्यः । हर्षोत्थवाष्पनिगृहीतगलान्तराला- स्ता नाशकन् क्षणमुदीरयितुं वांसि ॥ ९४ ।। R2 खुबीरचरिते ताभ्यः सुताधिगमसम्भृतसम्मदाभ्यो लम्माशिपः पुनरवेक्षितसत्यधर्माः । आलेख्यमात्रपरिशिष्टतनोः पितुस्ते वेश्म प्रविश्य तमवन्दिषताहणाभिः ॥ ९५ ॥ अथ सकलगुणानामाकरो रामभद्रः स्वभवनमुपगम्य प्रेयसीं तत्र कृत्वा। निभृतमनिभृतान्तोदवाचालितान्त:- करणमगमदाज्ञाकर्मभानं समाजम् ।। ९६ ॥ अमरपतिसमानैः पूर्वमिक्ष्वाकुभिर्यत् मुचिरमनुगृहीतं मङ्गलाध्यासनेन । शशिरुचि मणिपीठं तत् तयाधिष्ठितं ते विधिवदमृतकुम्भेनाभ्यपिश्चद् वसिष्ठः ॥ ९७ ॥ मुचिरमननुभूतैः खैर्दशग्रीवभीत्या सुभृशमबारन्तः पारिजातप्रसूनैः। जगदभयवदान्यं देवमालक्ष्य देवा जय जय रघुनाथेत्युद्गिरन्ति स्म वाचः ॥९८॥ वनजुषि सति यस्मिन् पूर्वमासीत् तिरश्चा. मपि तनुपु विरागः स्वासु साकेतभानाम् । स खलु सकलचेतोहारिशीलानुरक्त- प्रकृतिारात न वाच्यं श्रेयसामेकहेतुः ॥ ९९ ।। अखिलभुवनरक्षानागृवेर्यस्य पूर्व कति कति न यहच्छासङ्गमात् सिद्धिमापुः । स हि मनुकुल भूपैः पालितानां प्रजानां शरणमभवदित्यं वाचि नाश्चर्यमासीत् ॥१०॥ भरितभरतकर्मस्नेहवन्धः प्रसुप्ता- वपि शिवमाभवाञ्छल्लक्ष्मणे सप्रसादः । सततनिहितचेता लोभनीये कुमारे जनकदुहितजानिः सोऽन्वभूद् राजलक्ष्मीम् ॥ १०१ ।। 'या निष्ठिक.पाः, समदशासर्गः। निशिचरहरिनाथौ तेन सम्भाव्यमाना. वनुदिनमुपचारैः कल्पवृक्षोपमेन । समुखमुषितवन्तौ वत्सरं तन्नियोगा- भिजपुरमभियातौ तत्प्रसादकमित्रौ ॥ ? ०.२ ॥ अथ हरियुवराजौ जाम्ब (व? वा)चीलतारौ पनसविविदमैन्दा वेगदी सुपेगः । शतबलिरपरे च स्निग्धमापृच्छय नम्राः कपिवरमनुयाता रामपादौ स्मरन्तः ॥ १०३ ।। भवदुपगमभाग्यान्मित्रलाभोऽपदानं दशवदननिपातः संगमश्च प्रियायाः । प्रकृतिसहजयोगो वंशपुर्या प्रवेशः पुनरयमभिषेकः सर्वमेतन्ममासीत् ॥ १०४ ॥ पशुपतिचरणामस्तरं पारियात्रं कुलगिरिमभिजुष्टं योगिभिः सिद्धसाध्यैः । पवनसुत! भज त्वं युक्तचित्तः समाधौ स्मृतवति मयि तात! प्रामुहीमं प्रदेशम् ॥ १०५ ।। इति गिरि गदितायां पादयोः साश्रु नम्र करकमलतलेन अस्पृशन् मूर्वि देवः । बज गुरुगुण! तुभ्यं भद्रमस्खेवमुक्त्वा पुनरपि हनुमन्तं व्यादिदेश प्रयातुम् ॥ १०६ ।। स तु तदनुगृहीतश्चेतसानम्य देवीं विषमविपदि मित्रं लक्ष्मणं चोपगम्य । अधिगततदनुज्ञः स्वैरमापृच्छय चान्यान् सुकृतिभिरनुभूतामाविवेशोत्तराशाम् ।। १०७ ॥ इति सुरहितहेतोस्ताटकादि प्रबद्ध निशिचरकुलमदा रावणान्तं निगृह ।

रघुवीरचरिते सकलभवनरक्षामाततानावतीर्णो भुवि दशरथसूनुच्छद्मना पद्मनाभः ॥ १०८ ॥ यस्यानुस्मृतिरंहसां प्रशमनी यस्यास्ति सत्ये स्थिति- यो निष्किश्चनतापसैकशरणं यो मैथिलीजीवितम् । यो निर्दान्तनिशाचरेश्वरशिरश्छेदप्रवीणस्त्विषां पत्युशविभूषणं विजयते देवो रघूणां पतिः ।। १०९ ॥ इति रघुवीरचरिते सप्तदशः सर्गः । रघुवीरचरितं समाप्तम् । शुभं भूयात ॥

READY FOR SALE. RS. AS, P. PASTA (Stuti) by H. H. Svâti Srî Râma Varma Mahârâ jah. 100 Trivandrum Sanskrit Series. No. 19 (V'yâkarana) by Deva with Purushakîra of Krishnalilâsukamuni. 100 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवी by Krishnalilâsukamuni. Ü 2.0 No. 3 - para: (Kavya) by Vâmana Bhatta Bâna. () ) No. 4-fargetema: (Kavya) by Nilakantha Dikshita 2 ( 0) No. preparata *: (Alankâra) by Mahima Bhatta with cominentary. 2 12 0 No. 1-greyfa: (Vyakarana) by Saranarleva. 20 No. 7-A449513171 (Vedlânta) by Sallasivendra Sarasvati 2 4 No. Syria cena (Nataka) by Ravi Varna Bhîpa 1 0 0 No. 9-a97897111747 (Vedlánta) by l'irûpâ kshanâtha with the commentary of Vidyâchakravartin. C) 80 No. 10)-Aravetat (Gajalakshana) by Nilakantha. O S No. 11-atacura (Nataka) by Kulasekhara Varma with the commentary of Sivate râma. 240 No. 12_Baten (Vedânta) by Bhagavul Adlisesha with the conmentary of Raghaiânanda. 0 80 No. 13-gwenta (Nataka) by Kulasekhara Varma with the commentary of Sivarâma ? € 0 2 RS. AS. P. 80 8 1 1 0 S a No. 11-aitarente: (Niti) by Kamandaka, with the commentary of Sankarârya. 3 S () No. 1.3-Faham (Nataka) by Bhâsa. (Second Edition) 1 No. 10---sfagartirIUTA (Nataka) by Bhâsil. 0 No. 11-TTTH Do. Do. 0 No. 18-arcroftth (Stuti) by Narayana Bhatta with the commentary of Desanangala Vârya. . oo No. 19--ATTÀ: ( Mimâusa) by Nârâ yana Bhatta and Vârâ yana Pandita. 1 No. 20—3fahia (Xátaka) by Bliâsid. No. 21-aparat Do, Do. 10) 10.2-मध्यमव्यायोग-दूतवाक्य-दृतघटोत्कच-कर्णभारोरुभक्कानि (Nâtaka) by Bhasil. 18 So. 23-Arrefofasett: (kos) by Kesavaswamin (Part I, 1st and Kandas) 1 12 No. 24-lacarafora: (kávya) by (hakrakavi. No. 23-FT (Nyáva) by Ganyacharasûri. () 12 ( No. 26–30277123 (Vataka) by Bhâsa. () No. 27-ATTTTHET: (kávy) by Kálida-it with the two commentaries, Prakâsika of Arwagirinâtha and livarana of Nârâyana Pandita (Past I, 1st & 2u Sargas) 12 0 No. 28-Team*: (Dlarmasätra) by Vikhanas. 08 8 0 No. 29— rarerforereta: (Kosa) by Kesaraswâmin (Part II, 3rl Kânda) 2 4 0 No. 30- arfaut (Silprae) () 1: () No. 31-aramitasinta: (Koxu) by kestvaswamin (Part III. {th, 5th & lith Kanda-) 1 0 0 0 1 ( ( 12 RS IS. 1 No. 32-ACT#9: (lâvya) by Kalidasa with the two commentaries, Prakâ-ikâ of Irmagirimatha and Vivarana of Vará vana Panelita (Part II, 3rd, 'Ith a sth Surgas) ? 0 No. 33-ARETİNE: (Vyakarana) with the commentary Dipapralıke of Nárîvana 0 No. 331-Aforador: (3757417:) (váva) by Rajalá lậu;uuid:skluu. i No. :3.7 -- ABORATT: (Tarne :) (Vyava) by Ciopiláthat. 1 S 0 No. 31; BATA.Ha: (líâvya) by Râlidlása with the two commentaries, Prakásika ofrunagirimatha and Vivarana of Näravama Pandit: (Part III, oth, ith a sth sarga-) 3 3 0 0 No. 37—371aTiara (Smriti) by lauraruchi with commentary. 0 1 0 No. 38 -- ATAICOS ISaidah (loit) by Imara-imbat with the commentary Tikas://'\ il-val of Vaudyagltiya Sartámana (Part i. In kânla) No. 39—9157TH (Nâtaka) by Blásit. () 120 No. 10-**1# ( Alankára) by Rajanika II Rayyaka with the lankára-avasti ot Sri Mankhukat illnd its commentary by Sammluddha. (0) i No. 41-17ASH (Kalpa) by À pritstumla writhi Vivarana of Sri Sankara Bhagavat l'ada. No. 43--farar** (Nataka) by Bhisa. No. 43- TAFSETGERTATE (Rosa) by Amarasimhi. with the two commentaries, Amarakuso) dghatana of kshiraswaumin and Tiki. sarvas Wa of Vandyaghatiya Sarvananda (Part II, 2ud kanda l-ti largas) ? $ 4 RS.AS. P. . No. 41-75+ (Tantra) l»v Bhattâraka Sri V'c. döttamn. 0 0 No. 15--977H (Prapanchabrilava) 1 0 0) No. 46-oftamarafer: (vakaruna) by Nilakantha Dikshita. ( 8 0 No. 47-TRAWah (Vedanta) by Sri krislınânâna Sarasvati. (Part 1) 1 12 0 No. 18- Do. - Do. (Part II) 2 0 0 No. 49- Tesztfat (Ixotislı:) by Parameswara. 0 4 0 No. 50-Tarofagur: ( Alankara) by Singa Bhâpâla. 3 0 0 No. 31-AAPSFOTIT (Kosa) by Amarasimha with the tivo comentaries, Amarakoso. (lyhâtana of Kshimaswâmin and Tikâ - Sarastla of Vinlyaghativa Sarramanda (l'art III, 210 Kanda 7 -10 Vargas) 2 0 0 No. 52—ATAFITIH (losa) by Amarasimha with the commentary Tika sarvaswa of Vandlvaghatiya Sarvanaua (Part IV, Brel Kanda) No. 53. Tfa814: (Volánta) by Prakásátınayatindra. ( 12 ( No. 54--IZRAEFnaat: (Vyákarana) ( 4 () No, 55-TI UTAH (Nataka) by Sri Mahendavikrama Farman. 08 () No. 56-ya-*t (Silpa) 0 () No. 57-garakan (Karya) + 0 OC Apply to:- The Agent for the sale of Government Sanskrit Publications, Trivandrum

No text on this page.

S81
TIRGT
DATE OF ISSUE
W11111:. 7. If you..! AM 145/1*. A
ona 0 klik dat
bangis right at the learned solarlun
&

रघुवीरचरितम्

Author
Gand-apatishaastrind-aa T
Other authors
Gand-apatishaastrind-aa T
Title
Raghuviiracharitam.
File name
रघुवीरचरितम्
Text
OCR done
Citation
1917
Published
2005/06/11
Publisher
Mahaamahishriimuulakaraamavarmakulashekharamahaaraajashaasanen Raajakiiyamudrand-ayantraalaye Tadadhyaqs-end-a Press,trivandrum
Language
Sanskrit
Pages
149
Library
Central Library, Bits- Pilani
Classification
GENERALITIES
DLI number
477477
Barcode
99999990177855.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Copyright Permitted
VMLT id
wXuF3q7JxMW
Download PDF

रघुवीरचरितम्