Central Library, University Of Rajasthan

Veer Metroday

Pandita, Vishnu Prasad · 2010/04

PDF Proofread

Front matter

॥ श्रीः॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥ १ ॥ चौखम्वा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवक:-१९६ १ अस्यां चौखम्बा-संस्कृतप्रन्यमालायां प्रतिमासं पृष्ठशतके सुन्दरैः . सीसकाक्षररुत्तमेषु पत्तेषु एकः स्तवको मुद्रायत्वा प्रकाश्यते । एकस्मिन स्तवके एक एव ग्रन्थो मुयते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशालसाहित्यपुराणादिग्रन्था एवान सुपरिष्कृत्य मुयन्ते। १ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पापडता अन्ये च. शानदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । * भारतवर्षीयैः ब्रह्मदेशीयःसिंहलद्वी वासिभिले मुद्राः मानका ५ अन्यैदेयं प्रतिस्तव ६ प्रापणव्ययः पृथग नास्ति । १ " :- :- साम्प्रतं मुद्यमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृत व्य- (1) संस्काररत्नमाला ! गोपीनाथभट्टकृता ख्यानम् । सम्पूर्णम् । ( वेदान्तः । खएडे २ (९) स्याद्वादमञ्जरीमहिषेणनिर्मिता सम्पूर्शी (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृत: १० (१०) सिद्धित्रयम्-वि : (६) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया- मुनिभिर्विरचितम् । सम्पूर्णम् वेदान्तः । व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दवो (1) भाष्योपवृहितं तत्त्वत्रयम् । विशिक्षा रकाचार्यसंगृहीतः । द्वैतदर्शनप्रकरणम् । श्रीमहोकाचार्यप्र. मुनिविरचितन्याख्योपेतः ( वेदान्तः) १ णीतम् । श्रीनारायणतीर्थविरचितभाह- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारित : भाषाप्रकाशसहित सम्पूर्णम् (वेदान्तः)२ सतविभक्तिविस्तृतविचाररूपः म० (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः । श्रीगिरिधरोपाध्यायावरचितः । (६) भारचिन्तामाणि: । महामहोपाध्यायग्री (न्यायः)... गागाभट्टविरचित्ता तर्कपाद मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितक : () न्यायरत्नमाला-श्रीपार्थसारथिमिश्रविर- म् । सम्पूर्णम् (मीमांसा) चित्ता संपूर्ण (मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका ) म: (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतदान्त सोमेश्वरविरचिता । (मीर्मासा ) । ...

श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः। वीरमित्रोदयस्य लक्षणप्रकाशः। --- TATITANA IINTVEpr:- कोपाटोपनटत्सटोद्भटमटद्भूभीषणभ्रूकुटि भ्राम्यद्धैरवदृष्टि निर्भरनमदर्वीकरोवीधरम् । गीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक- ब्रह्माण्डोरुकटाइकोटि नृहरेव्यादपूर्वं वपुः॥१॥ सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवलन्- महादैत्यारम्भस्फुरितगुरुसंरम्भरमसः। लिइन्नाशाचक्र हुतवहशिखावद्रसनया नृसिंहो रहोभिर्दमयतु मदंहो मदकलम् ॥.२ ।। संसारध्वंसिकंसप्रमुखसुररिपुमांशुवंशावतंस- भ्रंशी वंशीधरो कः प्रचुरयतु चिरं शं स राधारिरंसी । यच्चूडा रूढगूढस्मितमधुरमुखाम्भोजशोभा दिदृक्षु- गुञ्जाभिः सानुरागाऽलिकनिकटनटचन्द्रकव्यक्तचक्षुः ॥३॥ लीलाभ्रान्तिविसर्पदम्बरतया व्यग्रार्द्धकान्तं पद- न्यासन्यश्चदुदश्चदद्रिवसुधाभोगीन्द्रकमाधिपम् । फूत्कारस्फुरदुत्पतत्फणिकुलं रिजटाताडन- ध्मातव्योमगभारदुन्दुभि नटन्नव्यात्स वो धूर्जटिः ॥४॥ कुम्भोद्भ्रान्तमधुव्रतावलिवलज्झङ्कारकोलाहलैः शुण्डास्फाळनविहलैः स्तुत इव व्यालैर्वियत्प्लाविभिः । मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ

वीरमित्रोदयस्य लक्षणप्रकाशे
हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥५॥
समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं
त्रिभित्रैौर्भिद्देशभिरपि यान्ती दश दिशः।
दधाना पारीन्द्रोपरि चरणमेकं परपदा
हतारिवा हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥
चामान भिन्दनवामान भुवमनु मुखयन् पूरयन्नार्थिकामान्
श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ।
आसीदाशीविषेन्द्रद्युतिधवलयशा भूपचक्रावतंसः
श्रीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥७॥
सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम
क्रामन्नेवारिचक्र मिहिर इव तमो विक्रमोरुक्रमेण
सारैरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन
प्रख्यातः क्षोणिचक्रे समजनि नृपतिर्मेदिनीमल्लनामा |८||
निर्यद्भिस्तजयद्भिर्विधुमित्र जगतीमर्जुनाभैर्यशोभिः
सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्जुनो दुर्जनानाम् ।
साम्राज्योपार्जनश्रीरगाणितगुणभूरर्जुनप्रांशुवाहु-
नाम्नाऽभूदर्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात्॥९॥
बुद्धिः शुद्धिमती क्षमा निरुपमा विद्याऽनवद्या मनो
गाम्भीर्यैकनिकेतनं वितरणं दीनातिनिर्दारणम् ।
आसीदर्जुनभूपतेर्विदधतो चिद्रावणं विद्विषां
भूमीनामवनं च कारणगुणात्कार्य यशोऽप्यर्जुनम् ॥१०॥
तस्मादाविरभूत्मभूतमहिमा भूमीपतेरर्जुनाद
सौजन्यैकनिधिर्गुणैरनवधिावण्यवारांनिधिः ।
भिन्दन् दुर्जनमजयन्वहु यशः प्रौढप्रतापोदयै-
दुर्जेयो मलखाननामनिखिलक्ष्मामण्डलाखण्डलः ॥ ११ ॥

نع वंशवर्णनम् । यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत् पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः । श्येनः क्रीडति कौतुकी स्म विहगौश्चिक्रीड नऊषः किश्चान्यद्गहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम् ॥ १२ ॥ हिमविशदयशोऽभिशोभिताशो महिमतिरोहितवारिधिस्वभावः । समजनि मलखानतः प्रतापै- स्त्रिजगति रुद्र इव प्रतापरुद्रः ।। १३ ।। शुचि धनमानि सहसा यशसा सममानने गुणो जगतः । पुत्रे भूरभिदधे चेतो रुद्रे प्रतापरुद्रेण ॥ १४ ॥ जातः प्रतापरुद्रात्ससमुद्री पालयनवनीम् । कृतरिपुकाननदाहो मधुकरसाहो महीपतिः शुशुभे ॥१५॥ पृथुः पुण्याभोगैर्विहितहितयोगैरनुदय- खलायोगर्योगैः कृतसुकृतियोगैरपि गुरुः । भुजस्तम्भालम्बालसशयितविश्वम्भरतया बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः ॥ १६ ॥ प्रजागणरुजाऽपहो द्युतिमहोदयाविष्कृतः सुधांशुरिव मांसलो रसभरैः सभारञ्जनः । प्रदीशकुमुदावलिजिपतिश्च नक्षत्रपो नृपो जयति सत्कृपो मधुकरः कृतारित्रपः ॥ १७ ॥ विन्यस्य वीरसिंहे भूपतिसिंहे महीभारम् । ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे ।। १८ ।। अन्तर्गम्भीरताऽन्धृकृतसलिलनिधिलालिताशेषवन्धुः बुन्देलानन्दसिन्धुः सुललितललनालोचनेन्दीवरेन्दुः । भ्रूभङ्गीलेशभङ्गीकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी वीरमित्रोदयस्य लक्षणप्रकाशे . - सन्मातङ्गी तुरङ्गी धरणिपतिरभूदीरसिंहो नृसिंहः ।। १९ ॥ अमुष्य प्रस्थाने सति सपदि नानेभनिव है- रिहैकोऽपि द्वेपी न खलु रणरोपी समजनि । परं तस्थौ दुःस्थो गहनकुहरस्थो ऽपि भयतः क्षिपन्नु चैदिक्षु भ्रमितचकितं चक्षुरभितः ॥ २०॥ दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि प्रज्ञा शक्रपुरोहितोपरि महासारोऽपि मेरूपरि । दावानेरुपरि प्रतापगरिमा कामोपरि श्रीरभू- सिहातिक्रमवीरसिंहनृपतेः किंकि न कस्योपरि ॥२१॥ दानैरथिनमर्थनाविरहिणं प्रत्यथिनं च क्षणा- कुर्वाणे सति वीरसिंहनिखिलक्ष्मामण्डलाखण्डले । काम चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं मोधीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः ॥२२॥ भ्रामभ्राममसम्भ्रमं त्रिजगतीचक्राणि चक्रे चिरा- चारं शीलितविष्णुपादपदवी ब्रह्माण्डमाण्डोपरि । ब्रह्माण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना विश्वेषामपि यस्त्र भास्वरयशोहंसी वसीयति ।। २३ ।। जलकणिकामिव जलधि कणमिव कनकाचलं मनुते । नृपसिंहवीरसिंहो वितरणरहो यदा तनुते ।। २४ ॥ यदा भवति कुण्डलीकृतमहाधनुर्मण्डल- स्तदा नयनताण्डवत्रुटितखाण्डवः पाण्डवः । मनो वितरणोत्सुकं वदति वीरसिंहो यदा तदा पुनरुदारधीरयमवर्णि कर्णो जनैः ॥ २५ ॥ शौर्योदार्यगभीरताधृतिदयादानादिनानागुणा- नुर्वीदुर्वहभारपत्यहिपतिस्पीलदो शालिनि । . 4 .

. वंशवर्णनम् । संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मजन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥२६॥ नद्यः स्वादुजला गुमाश्च मुफला भूरुर्वरा भूमुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः। राजनीतिनिरीतिरीति पितरीवोवामिमां शासति श्रीमद्वीरजुहारसिंहनृपतौ भ्रूभङ्गभगतिषि ॥ २७ ॥ . सङ्कामोत्कटताण्डवोद्भटभटेरारब्धहेलाहठै- श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोत्राऽवटैः। भूभृत्सिहजुहारसिंहधरणाजाने प्रयाणे रणे शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम् ॥२८॥ तावद्वीरगभीरहुङ्कतिरवस्तावद्गजाडम्बर- स्तावत्तुङ्गतुरङ्गारिङ्गणचमत्कारश्चमूनामपि । तावत्तीयमहामहीमृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतियुद्धाय बद्धोत्सवः ॥ २९ ॥ अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूपरोऽश्चति हियं च कर्णोऽटति । दधीचिरपचीयते बलिरलीकरूपायते तदाऽतिमलिनायते स किल कल्पभूमीरुहः॥ ३० ॥ प्रासादागतटागनागमणिभूदानादिनानातपः- प्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली । प्राचण्ड्येन जिता मिता वसुमती कोदण्डदोर्दण्डयो- र्जागीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥ ब्रह्माऽभूचतुराननः स्मरहरः पञ्चाननः षण्मुखः स्कन्दो भूपजुहारसिंहयशसो गानोत्सवेऽत्युत्सुकः । तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः ६ वीरमित्रोदयस्य लक्षणप्रकाशे सप्तद्वीपमयी महः च विधिना विशेन निर्वाहिताः ।। ३२॥ तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं श्रीमद्वीरजुहारसिंहनृपतेदानं समानं जगुः । ब्रीडादुर्वहभारनिर्भरनमद्रीवे तु देवद्रुमे श्लाघन्ते मुलभायमानकुमुमास्तं भूरि देवस्त्रियः ॥ ३३ ॥ भीमो यः सहदेव एव पृतनादुर्द्धर्षपाश्र्बो लस- च्छीभूमीनकुलः सदाऽर्जुनमहाख्यातिः क्षमामण्डले । कर्णश्रीकृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो रोपादेष युधिष्ठिरो यदि भवेत्कः स्यादमुष्याग्रतः ॥ ३४ ॥ सत्कीर्तिग्रामदामाभरणभृतजगविक्रमादित्यनामा धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण । सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो विश्वोदश्चत्मशंसो गुणिगणहृदयाऽऽनन्दनो नन्दनोऽभूत् ३५ आशापूर्ति प्रकुर्वन् करवितरणतः पद्मिनाप्राणवन्धुः प्रोद्यदिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदा ध्वस्तदोपः। जम्भारातेरिहोचैरचलसमुदयात्सुप्रभातप्रकाशी पुत्रो राज्ञः पवित्रोरचयति सुदिनं विक्रमादित्य एव ॥३६॥ सार्थीकुर्वन्निर कृतसुरविटपी चार्थिसाथै निजाथैः व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुवुद्धिः । मानैर्यानादिदानवहुविधगुणिभिर्गीयते यः सभायां प्रातर्जातः स भूपः सुकविकुलमुदे विक्रमादित्य एव ।।३७|| दानं दीनमनोरथावधि रणारम्भोऽरिनाशावधि क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि । दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि व्यालुप्तावधि वारविक्रमरवेः श्रेयः परं बर्द्धते ॥ ३८॥ ..

वंशवर्णनम् । हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरी तनुं कैलाशोपरि शोभते पटयति स्पष्टं च दिमण्डलम् । भोगीन्द्रं न दधे श्रुतौ वत जटागूढां च गङ्गां व्यधा- ल्लोकानामयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥ ३९ ॥ श्रीगोपाचलमौलिमण्डलमणिः श्रीदरवारान्वये श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः । यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतु- भॊक्तारं रभसात्समानमुभयोः साम्नाऽपमायं गुणैः ॥४०॥ पटु दिक्षु विदिक्षु कुर्वतीनां नटलीला स्फुटकीर्तिनर्तकीनाम् । स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥ ४१ ॥ ततोऽनल इवारणेरतुलधामभूर्भूभुजां शिरोमणिरुरोमणिधरणिनामवामध्रुवः । रणी बहुगुणी धनी भुवि वनीपकश्रीखनी रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥ येनागत्य पुरा पुरारिनगरे विद्याऽनवद्याऽर्जिता श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् । शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा तद्वंश्येषु कियन्न कल्पलतिकेवाचापि सूते फलम् ॥ ४३ ॥ आस्यारविन्दमनुपास्य गुरोरपास्य लास्यं चतुर्मुखमुखेषु सरस्वतीह । सालकृतिश्च सरसा च गुणान्विता च यस्यातनोति रसनोपरि ताण्डवानि ॥४४॥ अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाऽऽञ्जनी

a
वीरमित्रोदयस्य लक्षणप्रकाशे
.
.
कस्तूरीमकरीव भालफलके धारेव मूालकी ।
ऊर्ध्व भृक्परम्परेव कबरीसौरभ्यकोभाकुला
यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥
सुभासुरयशोनिधेः सुनिरषद्यविद्यानिधेः
सुचारुकावतानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ।
अयं सुकृतंगौरवात्परशुरामामश्राद्गुणै-
रनूनगरिमा पितुर्जगति मित्रमिश्रोजनि ॥ ४६॥
धर्मार्थैकनिकेतनं विधिमयं कर्मावलीदर्शन
स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ।
द्राकसिद्धीकृतशुद्धसिद्धिशतया श्रीवीरसिंहाज्ञया
तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती ॥४७॥
क्षितितिलकसुधीरवीरसिंह- .
प्रणयकृताऽऽग्रहधीरमित्रमिश्रः।
गुणिगणहृदयानुरागहेतुं
कलयति लक्षितलक्षणप्रकाशम् ॥ ४८।।
लक्षणस्य प्रकाशेऽस्मिन् परीक्षा चायुषः पुरः ।
उन्मानलक्षणं चाथो मानलक्षणमेव च ॥१॥
गतिसंहतिसाराणां लक्षणानि ततः परम् ।
वर्णस्नेहस्वराणां च ततः प्रकृतिसत्त्वयोः ॥ २॥
अनूकक्षेत्रयोश्चैव मृजागन्धासजा तथा ।
पादपादतलाङ्गुष्ठाङ्गुलीनां लक्षणं ततः ॥ ३ ॥
नखस्य पादपृष्ठस्य गुल्फस्याप्यथ लक्षणम् ।
पार्णिलक्षणमुक्त्वा तु जङ्घालक्षणजल्पनम् ॥ ४॥
अथोक्तं रोमजानूरुकटिस्फिग्गुदलक्षणम् ।
लक्षणं कृपणस्याथ प्रोक्तं लिङ्गस्य लक्षणम् ॥ ५॥

। विषयानुक्रमः। लिङ्गाग्रलक्षणं चायो वार्णतं मूत्रलक्षणम् शुक्रस्य लक्षणं चाथ प्रोक्तं पुंस्त्वपरीक्षणम् ॥ ६॥ वस्तिलक्षणमुका च कथितं नाभिलक्षणम् । कुक्षिलक्षणमाख्यातं ततः पार्श्वस्य लक्षणम् ॥७॥ लक्षणं जठरस्याथ प्रोक्तं मध्यस्य लक्षणम् । त्रिवलीलक्षणं चाथ प्रोक्तं हृदयलक्षणम् ॥८॥ लक्षणं वक्षसः प्रोक्तं स्तनयोर्लक्षणं पुनः । लक्षणं चूचुकस्याथ कथितं जत्रुलक्षणम् ॥ ९ ॥ स्कन्धलक्षणमाख्यातं कक्षाबाहोश्च लक्षणम् । मणिबन्धस्य करयोः करपृष्ठस्य लक्षणम् ॥ १० ॥ करस्य च तलं रेखाङ्गुष्ठाङ्गुल्योनखास्तथा । पृष्ठं च लक्षितं पश्चाल्लक्षिताथ काटिका ॥ ११ ॥ ग्रीवाचिबुकयोरुक्तं लक्षणं हनुकूर्चयोः कपोलमुखयोरुक्तं लक्षणं चाधरोष्ठयोः ॥ १२॥ श्मश्रुणो दशनानां च रसनायाश्च लक्षणम् । घण्टिकालक्षणं चाथो तालुलक्षणमेव च ॥ १३ ॥ हासनासाक्षुतानां च नेत्रदृष्टयोश्च लक्षणम् । पक्ष्मणश्च निमेषस्य रुदितस्य भ्रुवोस्तथा ॥ १४ ॥ कर्णस्य च ललाटस्य शिरसश्चिकुरस्य च । लक्षणं मशकादेश्च पुंसामत्र निरूपितम् ॥ १५ ॥ अथ स्त्रीणां स्वभावस्य मिश्रकस्य च लक्षणम् । आवतलक्षणं गन्धच्छाययोर्लक्षणं ततः ॥ १६ ॥ सत्त्वस्वरगतीनां च लक्षणानि ततः परम् । ततः पुंसः स्त्रियाश्चैव कामशास्त्रोक्तलक्षणम् ॥ १७ ॥ पद्मिन्यादिमभेदाश्च स्त्रीणामथं निरूपिताः। ..

F वीरमित्रोदयस्य लक्षणप्रकाशे राज्ञः पट्टमहिण्याश्च मन्त्रिणोऽय पुरोधसः ॥ १८ ॥ ज्योतिर्विदश्च वैद्यस्य सहायानां ततः परम् । मित्रस्य शत्रोः संभ्यानां लक्षणं च क्रमोदितम् ॥ १९ ॥ परिच्छदः पार्श्ववर्ची रक्षकस्तदनन्तरम् । ताम्बूलधारी कोशस्याध्यक्षः खड्गधरस्ततः ॥ २० ॥ ततश्चान्तःपुराध्यक्षस्ततः पुरगतश्चरः तदध्यक्षश्च सुदश्च क्रमेणैतेऽत्र लक्षिताः ॥ २१ ॥ धर्माध्यक्षो लेखकश्च लोकाहानकरस्तथा । दौवारिका प्रतीहारः शस्त्रगेहस्य रक्षकः ॥ २२ ॥ शस्त्राध्यक्षः स्थपतिश्च सारथित एव च । चारो नियोज्यस्तदनु सेवकोऽप्यथ लक्षितः ॥ २३ ॥ सन्धिविग्रहिको युद्धको सेनापतिस्तथा । व्यूह वासस्थलं दुर्ग तदध्यक्षश्च लक्षितः ॥ २४ ॥ ग्रामस्य राजगहस्य गवां च दृषभस्य च । छागकुक्कुरयोश्चैव लक्षणं समुदाहृतम् ॥ २५ ॥ कुक्कुटस्य चं कूर्मस्य मार्जनीशूर्पयोस्तथा । उलूखलस्य मुसलस्याथ लक्षणमीरितम् ॥ २६ ॥ जलद्रोणीजलाधारशय्यासननिरूपणम् । चामरच्छत्रपट्टानां रत्नानां लक्षणं ततः॥ २७॥ कस्तूरिकालक्षणतः पश्चादायुधलक्षणम् । तत्र चापि धनुर्वाणफलानां लक्षणं पुरः ॥ २८ ॥ फलस्य पायनं स्थानगुणमुष्टिरथोदिता । चापमुष्टिव्यापलक्षौ परतश्च श्रमक्रिया ।। २९ ।। विषिश्च लक्ष्यास्खलने शीघ्रसन्धानलक्षणम् । अयोक्तं दृरपातित्वं दृढभोदित्वमेव च ।। ३० ।। .

विषयानुक्रमः । शराणां गतयः प्रोक्तास्तथा दृढचतुष्टयम् । अत्र चित्रविधीनुक्त्वा धावल्लक्ष्यमुदीरितम् ॥ ३१॥ शब्दवेधित्वमुक्त्वा च प्रशंसा धन्विनां स्मृता । निरूपणं च खड्गस्य विस्तरेण ततः परम् ॥ ३२ ॥ चक्रस्य परशोथैव तोमरस्याथ लक्षणम् । कुणपस्य च शक्तश्च चोत्थकस्य च लक्षणम् ॥ ३३ ॥ गदाकुन्तपताकानां भेया॑श्चाप्यथ लक्षणम् । सविशेषस्ततः प्रोक्तो गजलक्षणविस्तरः ।। ३४ ॥ गजायुलक्षणं दन्तिदोषनाशकलक्षणम् । गजस्य मानं क्षेत्राणि छाया वर्णश्च लक्षितः ॥ ३५ ॥ गन्धनिश्वासदृष्टीनां तदीयानां च लक्षणम् । गन्धहृद्गतिवेगानां बृंहितावर्तयोस्तथा ॥ ३६ ॥ पुष्पस्य च बलस्याथ सत्वानूकद्वयस्य च । वेदितक्रोधयोस्तद्गुणस्थित्योस्तदीययोः ॥ ३७॥ प्रशस्तदुष्टगजयोरथ लक्षणमीरितम् । समरार्थ नृपारोहयोग्यो हस्ती निरूपितः ॥ ३८ ॥ युद्धकाले जयादीनां सूचकं दन्तिचेष्टितम् । करिण्या लक्षणं मोच्य गजरक्षाधिकारिणः ॥ ३९ ॥ गजवैद्यगजामात्यो गजाध्यक्षो निरूपितः । अन्ते चेह महामात्रलक्षणं परिकीर्तितम् ॥ ४० ॥ अथाश्वलक्षणं तस्योत्पत्तिदेशाश्च कीर्तिताः । ततोऽश्वकुलभेदास्तु ततस्तस्यासंस्थितिः ॥ ४१ ॥ आयुर्वर्णौ च गतयस्तदीयाः परिकीर्तिताः । तुरङ्गवाहने प्रोक्तः प्रकारस्तदनन्तरम् ।। ४२॥ सरच्छायाङ्गन्धानां सत्त्वानूकद्वयस्य च ।

१२ वीरमित्रोदयस्य लक्षणप्रकाशे सारप्रकृत्योरश्वाङ्गमानस्यावयवस्य च ॥ ४३ ॥ पुष्पपुण्डूललाटानामावर्चस्य च लक्षणम् । महादोषास्तुरङ्गस्य लक्षितास्तदनन्तरम् ॥ ४४ ॥ राजयोग्यस्य चाश्वस्य परतो लक्षणं स्मृतम् । सङ्ग्रामावसरेऽश्वस्य शकुनानां निरूपणम् ॥ ४५ ॥ दशालक्षणमुका च वयसो ज्ञापकं स्मृतम् दन्तसङ्ख्या वाजिशाला तदध्यक्षाश्च लक्षिताः ॥ ४६ ॥ शालग्रामशिलाचक्रमृर्तीनां लक्षणान्यथ । .. अथ द्वारवतीजातशिलामूर्तिनिरूपणम् ॥४७॥ विस्तराच्छिवलिङ्गानां लक्षणानि ततः परम् । . शिवलिङ्गार्चनफलं विशेषेण निरूपितम् ॥ ४८ ॥ शिवलिङ्गस्य नैवेद्ये भक्ष्याभक्ष्यविवेचनम् । अथ प्रकीर्णके प्रोक्तं लक्षणं गुरुशिष्ययोः ।। ४९ ।। लक्षणं योगपट्टस्य कौपीनकटिसूत्रयोः । उपवीतोत्तरीये च लक्षिते तदनन्तरम् ।। ५० ।। रुद्राक्षलक्षणं प्रोक्तं तन्माहात्म्यसमन्वितम् । आसनादिवितानान्तपूजोपकरणान्यथ ॥ ५१ ।। एवं क्रमेण दुर्लक्ष्यलक्षणानां विचक्षणैः। मित्रमित्रैः प्रकाशेऽस्मिन् कृतं सम्यक परीक्षणम् ।। ५२॥ ननु किमर्थं लक्षणप्रकाशाऽऽरम्भः लक्षणानामनुपयोगा- दिति । उच्यते । अस्ति हि महानुपयोगः । तथाहिः अथ विवाहः । सलक्षणो वरो लक्षणवती कन्यामुपय- च्छेतेति। अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्हेत् । एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।।

.. लक्षणप्रकाशस्यारभ्यत्वकथनम् । १३ इत्यादिवचनैः स्त्रीपुंससामुद्रिकलक्षणानां विवाहोपयोगात्। लाञ्छनैर्विविधाकारलाञ्छितं यच्च दृश्यते । चक्राङ्कितं हरेश्चापि शालग्रामस्य लक्षणम् ॥ यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः । इत्यादिवचनैः शालग्राममूर्तिलक्षणानां तत्पूर्वादावुपयोगात् । लिङ्ग सलक्षणं पूज्यं त्यजेल्लिङ्गमलक्षणम् । तस्मात्सर्वप्रयत्नेन लिङ्गं कुर्यात्सलक्षणम् ॥ इत्यादिवचनैलिङ्गलक्षणानां तत्पूजादावुपयोगात् । आराधनोपकरणं तस्य लक्षणमेव च । उच्यते सम्पति ब्रह्मन् श्रूयतां तदशेषतः ॥ इत्युपक्रम्य सर्वपूजोपयुक्तघण्टाभिषेकादिपावलक्षणान्यभि- धाय- चतुष्कं हेमदण्डांश्च पूजार्थं परिकल्पयेत् । इत्युपसंहारवचनेन घण्टाधूपदीपाभिषेकादिपूजोपकरण- पात्रलक्षणानां देवपूजोपयोगात् । सूत्रखण्डैश्च पुष्पैश्च भूषितं दोषवर्जितम् । यथालाभोपपन्नं वा यः प्रयच्छति दन्तिनम् ।। यो जगन्निधये दानं प्रयच्छति महामतिः । भद्रजातिसमुद्भूतं पद्मनाभाय भक्तितः ॥ गजं तु लक्षणोपेतं दद्याद्विप्राय भक्तितः ॥ इति । अश्वं यस्तु प्रयच्छेदै हेमचित्रं सुलक्षणम् । स तेन कर्मणा चैव गान्धर्व लोकमश्नुते ॥ सर्वोपकरणोपेतं युवानं दोषवर्जितम् । योऽश्वं ददाति विप्राय स्वर्गलोके महीयते ॥ इत्यादिवचनैर्गजाश्वादिलक्षणानां तत्तदानोपयोगात् ।

No text on this page.

पुरुषलक्षणस्यादौ कथनीयत्वव्यवस्थापनम् । १५ लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्हेत् । अतः सुलक्षणा योषा परिणेया विचक्षणैः ।। इत्यादिवचनोक्तसुलक्षणान्वितकन्योद्वाहस्य, वर्जयेत्सर्वथा भूष्णुरित्यादिवचनोक्तदुर्लक्षणान्वितस्त्रीवर्जनस्य च पुरुषा- धीनत्वेन तत्प्राधान्यमेव । नन्वेवं सति पाष्ठन्यायविरोध: स्या- त् । तथाहि-षष्ठे दर्शपूर्णमासादिषु स्त्रीणामधिकारोऽस्ति नं वेति संशय्य स्त्रीणामद्रव्यत्वात् कर्मणां च द्रव्यसाध्यत्वात् न तेषु स्त्रीणामधिकार इति पूर्वपतं कृत्वा सिद्धान्तितम् । फलार्थित्वात्तु स्वामित्वेनापि सम्बन्ध इति । तस्यायं भावः । स्त्रीपुंसयोरुभ- योरपि फलार्थित्वसाम्यात् कामश्रुतिवशादस्त्येव स्त्रीणामप्यधि- कारः ।नं च द्रव्याभावादनधिकार इति वाच्यम् । धर्मे चार्थे च कामे च नातिचरितव्येत्यादिवचनैः पत्युपार्जितस्यापिद्रव्यस्यो- भयसाधारण्यावगमात् । तस्मादयित्वसाम्यात् द्रव्यवत्वसा- म्याच स्त्रीणामप्यस्त्येवाधिकार इति । तदनेन न्यायेन उभयोः साम्यावगमात् कथमंत्र पुरुषः प्राधान्येन व्यपदिश्यते । अत्रो- च्यते। न वयमनेन स्त्रीणामधिकारं कर्मफलस्वामित्वं वा वारया. मः । किन्तु स्त्रीणामस्वातन्त्र्यं ब्रूमः । स्वातन्त्र्यास्वातन्त्र्या- भ्यां च प्रधानाप्रधानत्वव्यपदेशो नाङ्गाङ्गिभावेन । दृष्टश्च लोके स्वतन्त्रे प्रधानशब्दव्यपदेशः। यथा इतरकारकेंषु समानव्यापारेषु आगतेष्वपि प्रधानभूतः पङ्क्तौ देवदत्तों नागत इति । तथा च तस्मिन्नेवाधिकरणे- भार्या पुत्रंश्च दोसश्च त्रय एवाधनाः स्मृताः। इत्तीर्य स्मृतिरितरस्मृतिविरोधादस्वातन्त्र्यपरतया व्याख्ये- येति वदन् पार्थसारंथिमित्रों स्त्रीणामस्वातन्त्र्यं स्पष्टमेवाचष्ट । यत्तु स्त्रीणां प्राधान्य लिङ्गमुक्तम् गृहिणी गृहमुच्यते इति । - १६ वीरमित्रोदयस्य लक्षणप्रकाशे तदितरापेक्षया स्त्रीणां प्राधान्यं गमयति न भत्रपक्षयेति सर्व- मनवद्यम् । तस्मात्स्वातन्त्र्यात्, आदावेव प्रवक्ष्यामि पुरुषाणां तु लक्षणम् । इति विष्णुधर्मोत्तरवचनाच पुरुषलक्षणमेवादावुच्यत इति । तत्र तावल्लक्षणपरीक्षाकाल उक्तः- भविष्यपुराणे, शुभेऽहनि शुभे क्षेत्रे गृहे सौम्ये शुभे रवौ । पूर्वाह्ने मङ्गलैर्युक्तः परीक्षेत विचक्षणः ॥ इति । जगन्मोहनसमुद्रेऽपि, शोभने हस्तनक्षत्रे ग्रहे सौम्ये शुभे रवौ । पूर्वाह्ने ब्राह्मणैर्युक्तः परीक्षेत विचक्षणः ॥ इति । अत्र दक्षिणभागे पुंसां वामभागे स्त्रीणां लक्षणान्यवलो- कनीयानि । तदुक्तम्:- प्रयोगपारिजाते, वामभागे तु नारीणां दक्षिणे पुरुषस्य तु | निर्दिष्टं लक्षणं तज्ज्ञैः समुद्रवचनं यथा ॥ इति । लक्षणं शुभाशुभसूचकं चिह्नम् । स्कान्दे काशीखण्डेऽप्याह- नारदः, वैश्वानर समभ्येहि ममोत्सङ्गे निषीद भोः । लक्षणानि परीक्ष्येऽहं पाणिं दर्शय दक्षिणम् ॥ इति । विवेकविलासेऽपि, अकर्मकठिनः पाणिर्दक्षिणो वक्ष्यते नृणाम् । वामझुवां पुनर्वामो वीक्ष्यते चातिकोमलः ॥ इति । . अथायुःपरीक्षा। तत्र यद्यपि वक्ष्यमाणावयवादिलक्षणैः किश्चिदायुःपरि- . पुरुषलक्षणप्रकरणे आयुःपरीक्षा । माणं ज्ञास्यत एवेति तत्मसङ्गात्तत्रैव सकलायुलक्षणकथनं युक्तमिति आदौ तत्कथनानुपयोगः । तथापि- प्रमाणसंहतिच्छायागतिसर्वाङ्गलक्षणैः। दन्तकेशनखश्मश्रुगन्धवर्णस्वरादिभिः॥ पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् । क्षीणे त्यायुषि मर्त्यानां लक्षणैः किं प्रयोजनम् ॥ इति । भविष्यपुराणादिवचनैर्वक्ष्यमाणसर्वसामुद्रलक्षण- कथनस्यायुष्मतामेवोपयोगात्तज्ज्ञानस्य चायुर्ज्ञानाधीनत्वात्तदर्थ- मादौ सझेपादायुःपरीक्षा प्रस्तूयते । प्रमाणादीनां लक्षणमग्रे- ऽभिधास्यते । तत्रायुर्लेखा करभोत्थिता कनिष्ठागुलिमूलसमी- पस्था भैया । तथा च- गरुडपुराणे, कनिष्ठिको समाश्रित्य आयूरेखां समादिशेत् । इति । सा च यदि कनिष्ठिकामूलोत्था तर्जनीमान्तं गच्छति तदा शताब्दमायुर्जेयम् । तथा च- भविष्यपुराणे, यस्य पाणितले रेखा कनिष्ठामूलसम्भवा । गता प्रान्तं प्रदेशिन्याः स जीवेच्छरदां शतम् ॥ इति । गरुडपुराणे विशेषः। प्रदेशिनीगता रेखा कनिष्ठामूलसम्भवा । शतायुषं च कुरुते छिन्नया तु ततो भयम् ॥ इति । प्रदेशिनीगता प्रदशिनी व्याप्य स्थिता । सैव चेत्कनिष्ठापृ. ष्ठोत्था तर्जनीपृष्ठमविच्छिन्ना गच्छति तदा परमायुज्ञेयम् । तथा च स्कान्दे- काशीखण्डे, ३ १८ वीरमित्रोदयस्य लक्षणप्रकाशे -- - अच्छिन्ना तर्जनी व्याप्य तथा रेखाऽस्य दृश्यते । कनिष्ठापृष्ठनिर्याता दीर्घायुष्यं यथाऽऽप्नुयात् ।। इति । दीर्घायुः परमायुः । तच्च विंशत्यधिकमब्दशतम् । तथा च समुद्रः, कनिष्ठातर्जनी यावत् रेखा भवति चाक्षता । विंशत्यन्दाधिकशतं नरो जीवत्यनामयम् ॥ इति । ननु शतायुर्वं पुरुष इतिश्रुत्या शतायुरेवोक्तम् , कथमत्राधि- कायुःकथनमिति । उच्यते । शताधिकस्यापि श्रवणात् । तथा च श्रुतिः, साग्रं वर्षशतं जीषेति । साग्रं सपादशतम् । पुराणादिष्वपि जीवेद्वर्षशतं साग्रमि- त्यादि । मध्यमाप्रान्तगतजीवितरेखया अशीत्यायुज्ञेयम् । तथा च प्रयोगपारिजाते- समुद्र, कनिष्ठागुलिदेशात्तु रेखा गच्छति मध्यमाम् । । अविच्छिन्ना तु रेखा स्यादशीत्यायुर्विनिर्दिशेत् ॥ इति । आयुर्लेखायाः अनामिकाप्रान्ताधिक्ये षष्टयायुज्ञेयम् । तथा च गरुडपुराणे, कनिष्ठिकां समाश्रित्य मध्यमायां बनागता । पष्टिवर्षायुषं कुर्यादायुलेखा तु मानवम् ॥ इति । .. वराहसंहितायाम, रेखाः प्रदेशिनीगाः शतायुषां कल्पनीयाः । न्यूनाभिः छिन्नाभिर्द्धमपतनमिति । रेखाः कनिष्ठामूलोत्थाः। प्रदोशनीगाः प्रदेशिनीप्रान्तगताः शतायुषां ज्ञेयाः । इतो न्यूनगाभिलेखाभिन्यूनमायुःकल्पनीयम् । तद्यथा, तर्जनीपान्तात्किञ्चिन्न्यूनत्वे नवत्यायुः, ततोऽपि कि- । , . .

पुरुषलक्षणप्रकरणे आयुःपरीक्षा । १९ श्चिन्यूनत्वे अशीत्यायुः, मध्यमामान्ते मध्यमाप्रान्ते पञ्चसप्तत्यायुः, ततोऽपि किञ्चिन्न्यूनत्वे सप्तत्यायुरित्यादि कल्पनीयम् । तथा च विवेकविलासे, उल्लध्यन्ते च यावन्त्योऽगुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावन्त्यः शरदां बुधैः ।। इति । पुराणाद्यविसंवाद्यतिविश्वसनीयम् । दुर्लभराजविरचित- सामुद्रतिलके, पुंसामायुर्भागं प्रत्येकं पञ्चविंशतिः शरदाम् । कल्प्या कनिष्ठिकागुलिमूलादिह तर्जनीपरतः ॥ इति । यस्य चायुलेखा अनामिकाङ्गुलिमूलादूर्वा याति स धर्म- रतो ज्ञेयः । तथा च- सामुद्रतिलके, आयुर्लेखानामङ्गुलिमूलान्तर्गता भवेदूर्वा । यस्य व्यक्ता रेखा स धर्मनिरतः सततम् ॥ इति । स्त्रीणां तु- भविष्यपुराणे यस्याः कनिष्ठिकामूलादेखा प्राप्ता प्रदेशिनीम् । शतमायुर्भवेत्तस्या हीनाया हीनता क्रमात् ॥ इति । प्रदोशनी प्राप्ता प्रदेशिनीमूलसमीपगता । हीनताक्रमस्तु पूर्ववदत्रापि कल्पनीयः। वराहसंहिताया, कनिष्ठिकामूलभवा गता या प्रदेशिनीयध्यमिकान्तरालम् । करोति रेखा परमायुरेषा प्रमाणहीना तु तदूनमायुः।। इति । परमायुर्व्याख्यातम् । उत्पले समुद्र, वीरमित्रोदयस्य लक्षणप्रकाशे । कनिष्ठामूलसम्भूता गता मध्यामिकान्तरम् । प्रदेशिन्याश्च सा रेखा यस्याः सा दीर्घजीविनी ।। इति । अत्रायुलेखायां यावन्तः छेदास्तावन्तोऽपमृत्यवो ज्ञेयाः । तदुक्तम् सामुद्रतिलके, यावन्मात्राश्छेदा जीवितरेखास्थिता भवन्ति नृणाम् । अपमृत्यवोऽपि तावन्मात्रा नियतं परिक्षेयाः ।। पल्लवितायां क्लेशः छिन्नायां जीवितस्य सन्देहः । विषमायां धननाशः परुषायां कर्शनं तस्याम् ॥ इति । विषमा वक्रा । परुषा रूक्षा अत्रोपर्युपरिच्छेदे रोगः । अ- धश्छेदे शस्त्रभीतिः। तत्तच्छेदानुगुणो दशारिष्टवंदपमृत्युस्तरुपात: शस्त्रभीतिरूनां गता वा निर्देश्यति सम्पदायः। दशारिष्टं नाम ज्ञातायुष आयुलेखायाश्च दश भागाः कल्पनीयाः । तत्र यस्मिन् रेखाभागे रेखाच्छेदस्तदायुर्दशाभागे दुष्टं फलमिति कल्पनीयम्। अथायुर्ज्ञानोपायान्तरमुक्तम्- नारदीयसंहितायाम्, अनामिकापर्व यदा विलयते कनिष्ठिकाग्रेण शतं स जीवति । . समे त्वंशीति विषमे तु सप्ततिं पर्धिहीने खलु षष्टिमादिशेत् ।। इति । मध्यमम् । तथा च- गर्गसंहितायाम् , अनामिकान्तिमं पर्व समानीता कनिष्ठिका। आयामशुद्धपर्वाणि येषां ते चिरजीविनः ॥ इति । कनिष्ठिका अनामिकान्तिम पर्वसमानीता अन्तिमपर्वस्पृष्टा । अनामिकापर्व . 1

पुरुषलक्षणप्रकरणे आयुःपरीक्षा। २१
आयामो दैर्घ्यम् । अथान्योऽप्यायुर्ज्ञानोपाय उक्तः
भविष्यपुराणे,
रेखाः पञ्च ललाटे तु स्त्रिया वा पुरुषस्य. वा ।
शतं जीवति'वर्षाणामैश्वर्यं चाधिगच्छति ॥
रेखाचतुष्टयेऽशीतिस्तिमृभिः सप्ततिस्तथा ।
द्वाभ्यां षष्टिस्तु रेखाभ्यां चत्वारिंशत्थैकया ।
अरेखेण ललाटेन विज्ञेया पञ्चविंशतिः ।
रेखाच्छेदैस्तु विज्ञेयाः पापकर्मरता नराः ॥
अल्पायुषस्तथाल्पाभिषिभिः परिपीडिताः । इति ।
वर्षाणां शतमशीतिरित्येवं प्रत्येक सम्बन्धः ।
वराहसंहितायाम्,
तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता.यदि ताः।
चतसृभिरवनीशत्वं नवतिश्चायुः सपश्चाब्दा ।।
सपञ्चाब्दा नवतिरायुः पञ्चनवत्यायुरित्यर्थः ।
विच्छिन्नाभिश्चागम्यागामिनो नवतिरप्यरेखण ।
.... केशान्तोपगताभिलेखाभिरशीतिवर्षायुः ।।
केशान्तोपगताभिः केशान्तः केशोत्पत्तिस्थानम् तत्र गता-
भिः केशमध्यगताभिरित्यर्थः ।
पश्चभिरायुः सप्ततिरेकामावस्थिताभिरपि षष्टिः ।
एकाग्रावस्थिताभिः एकस्याः अग्रेणावस्थिताभिः विद्धा-
भिः विच्छिन्नाभिरित्यर्थः। अथ वा स्वमान्तमिलिताभिः ।
बहुरेखेण शताधैं चत्वारिंशत्तु वक्राभिः ।
त्रिंशत् भूलनाभिर्विशतिरपि वामवक्राभिः ।।
क्षुद्राभिः स्वल्पायुन्यूनाभिस्त्वन्तरे कल्प्यम् । इति ।
बहुरेखेणेत्यादि । रेखाबहुत्वे पञ्चाशदायुः। बहुत्वमुक्तरेखापे-

२२ वीरमित्रोदयस्य लक्षणप्रकाशे क्षया। तिर्यगायताभिश्चत्वारिंशदायुः।भ्रूसन्निहिताभिस्त्रिंशदायुः।- वामभागकुटिलाभिर्विशतिरायुः । तनुभिरल्पायुः । लेखाभिरिति प्रत्येक सम्बन्धः । विज्ञेयमिति शेषः । न्यूनाभिः. उक्तन्यूनाभि- लेखाभिभ्यामेकया च । तुशब्दात् स्वल्पायुरेव । अन्तरे मध्ये कल्पनीयम् । यथा रेखात्रये शतमायुः, रेखाचतुष्टये पञ्चनवत्या- युरित्युक्तं । तत्र साद्धरेखात्रये सादसतनवतिवर्षाण्यायरित्यादि कल्पनीयम् । अत्रोदाहृतभविष्यपुराणवराहसंहितावचनेषु. ल- लाटे एकत्र रेखापश्चके शतमायुरपरत्र, रेखात्रये, एकत्र तिसृभिः सप्तत्यायुरन्यत्र पञ्चभिलेखाभिः, एकत्र अरेखेण ललाटेन नवत्यायुरन्यत्र पञ्चविंशतिरित्येवं मिथोविरोधस्तत्प- रिहाराय वराहवचनानि व्याख्यायन्ते । तिस्रो रेखा इति । ललाटे आकान्तास्तिस्रो रेखाः शतायुषां ज्ञेयाः। तथाचोक्तम्- गरुडपुराणे, आकर्णान्तगता रेखास्तिस्रः स्युश्च शतायुषः। ललाटोपसृतास्तिमो रेखाः स्युः शतवर्षिणाम् ।। इति । चतसृभिरिति । अत्राऽऽयतपदानुषङ्गः । चतसृभिलेखाभिः पञ्चनवत्यायुरवनीशत्वं च । तदुक्तम्- गरुडपुराणे, नृपत्वं स्याच्चतमृभिरायुः पश्चनवत्यथ । इति । विच्छिन्नाभिरिति । छेदयुक्ताभिलेखाभिनवत्यायुरगम्या- गामित्वं च । अत्राप्यायतपदानुषङ्गः । अप्यरेखेणेत्यत्रापिशब्द- थार्थे । दीर्घाभिलेखाभिर्वजितेन ललाटेन नवतिवर्षाण्या- युरगम्यागमित्वं च । हस्तरेखायुक्तेन. . ललाटेनेत्यर्थः । तथा चोक्तम्- गरुडपुराणे, .

पुरुषलक्षणप्रकरणे आयुःपरीक्षा । २३ ह्रस्वरेखाश्चिते भाले नवत्यायुश्च पुंश्चलः । इति । पुंश्चलो व्यभिचारी । अथ वा पुमांसं चलतीति व्युत्पत्त्या धात्वर्थानुसारेण पुंश्चलो व्यभिचारी पुरुषः प्रतीयते। केशान्तो- पगताभिरिति । दीर्घाभिः केशान्तोपगताभिलेखाभिरशीत्यब्द- मायुः । तदुक्तम्- सामुद्रतिलके, जीवति वर्षाशीतिः केशान्तोपगंतदीर्घरेखेण । इति । पञ्चभिरिति । एकाग्रावस्थिताभिलेखाभिः सप्तत्यायुः षष्टयायुश्च । रेखाः सप्ततिमायुः पञ्चैकाग्रस्थिताः पुनः षष्टिम् । इति सामुद्रतिलके उक्तत्वात् । अथ वा दीर्घाभिः पञ्चभि- लेखाभिः सप्तत्यायुः । एकाग्रावस्थिताभिश्च लेखाभिः षष्टयायुः। एकाग्रावस्थिताभिरपि पष्टिरित्यत्रापिशब्दश्चार्थे । बहुरेखेणे- त्यादिवचनानां तु पूर्वोक्त एवार्थों ग्राह्यः अविरुद्धत्वादिति । इत्यायुःपरीक्षाप्रकरणं समाप्तम् । अत्रादौ सर्वसामुद्रलक्षणोपयोगितया आयुःपरीक्षामभि- धायाधुना परीक्षाकर्तुः प्रथमकृत्यं प्रस्तूयते । वराहसंहितायाम्, उन्मानमानगतिसंहतिसारवर्ण- स्नेहस्वरमकृतिसत्त्वमनूकमादौ । क्षेत्र मृजां च विधिवत्कुशलोऽवलोक्य सामुद्रविद्वदति यातमनागतं च ॥ उन्मानं दैादि ।मानं तुलामेयं गुरुत्वादि । गतिर्गमनम् । संहतिरङ्गसंश्लेषः । सारो रक्तादिधात्वाधिक्यम् । वर्णः कृष्णा- दिः । स्नेहः स्निग्धता । स्वरः कण्ठोत्थो ध्वनिः । प्रकृतिः २४ वीरमित्रोदयस्य लक्षणप्रकाशे स्वभावः । सत्त्वं चित्तधर्मों धैर्यादिः। अथ वा प्रकृतिरूपं सत्त्व- म् । अनूकम् अतीतजन्मसूचिका आकृतिः । क्षेत्रं शरीरम् । मृजा शरीरस्योज्ज्वलता । देहकान्तिरितियावत्। यातमततिम् । अनागतं भावि। अथैतेषां लक्षणानि विस्तरतो निरूप्यन्ते । तत्रोचं मान- मुन्मानम् । तथाचोत्पले- . कात्यायन, ऊर्ध्वमानं किलोन्मानं मानं तु तुलया धृतम् । इति । तिष्ठन्तं पुरुषमापादतलमस्तकं सूत्रेण मापयेत् । ततस्तदङ्गुलि- भिरेव तत्सूत्रमानं कार्यम् । तत्राष्टोत्तरशताङ्गुलपरिमाण उत्तमः शताङ्गुलो मध्यमो नवत्यङ्गुलो निकृष्ट इति । तथा च स्कान्दे- काशीखण्डे, आनीय कुङ्कुमारक्तं सूत्रं च त्रिगुणीकृतम् । स्मृत्वा शिवौ गणाध्यक्षमूलभूतमुदङ्मुखम् ॥ मुनिः परिममौ बालमापादतलमस्तकम् । तिर्यगूवं समा माने योऽष्टोत्तरशताङ्गुलः ॥ स भवेत्पृथिवीपालो बालोऽयं ते तथा द्विज । इति । तिर्यङ्मानं तु प्रसारितभुजमध्यमारद्वयान्तरं ज्ञेयम् । अङ्गु. लिमानं तु स्वमध्यमाङ्गुलिमध्यपर्वमितं ग्राह्यम् । निजाङ्गुलिपर्वसङ्ख्या नियतं तेषां विबोद्धव्या । इति सामुद्रतिलकोक्तेः । स्वाङ्गुष्ठोदरविस्तारपरिमितं ग्राह्य- मिति हेमाद्रिः। भविष्ये, जघन्यो नवतिः प्रोक्तो मध्यमस्तु शताङ्गुलः । अष्टोत्तरशतं यस्य उत्तमं तस्य लक्षणम् ॥ . . । ।

पुरुषलक्षणप्रकरणे मानलक्षणम् । २५ प्रमाणलक्षणं प्रोक्तं समुद्रेण शुभाशुभम् । इति । वराहसहितायां तु विशेषः । अष्टशतं षण्णवतिः परिमाणं चतुरशीति वा पुंसाम् । 'उत्तमसमहीनानामङ्गुलिसख्या स्वमानेन । इति अत्रोत्तमध्यमहीनपुरुषेपूत्तममध्यमहीनं फलं कल्पनीयम् । इत्युन्मानलक्षणम् । अथ मानलक्षणम् । वराहसंहितायाम, भारार्द्धतनुः सुखभाक् तुलितो दुःखभाग्भवत्यूनः । भारोऽतीवाळ्यानामध्यर्धः सर्वधरणीशः ॥ इति भारलक्षणमुक्त हेमाद्रौ- निघण्टौ, ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । तुला स्त्रियां पलशतं भारः स्यादिशतिस्तुला ॥ इति ते पूर्वकृताः पञ्चगुञ्जाभिर्मापास्तैः षोडशमाषैः कर्षः चतुर्भिः कः पलम् पलानां शतेन तुला विंशतितौलिको भारः। पलसहस्रद्वयमित्यर्थः । यः पुरुषस्तुलायां तुलितो भारार्धतनुः सहस्रपलपरिमितशरीरः स मुखी । ऊनः अस्मान्न्यूनपरिमाणत- नुर्दुःखितः । भारप्रमाणतनुरतिधनी । अधिकमधैं यस्य सः सा- ? भारः पलसहस्रत्रयमिति यावत् । तत्परिमितवपुः सार्वभौ- मो राजा । विज्ञेय इति सर्वत्र सम्बध्यते । इति मानलक्षणम् । अत्रोन्मानमानपरीक्षाकाल उक्त:- वराहसंहितायाम्, विंशतिवर्षा नारी. पुरुषः खलु पञ्चविंशत्या । - ४ -- २६ वीरमित्रोदयस्य लक्षणप्रकाशे अर्हति मानोन्माने जीवितभागे चतुर्थे वा ।। इति । जीवितचतुर्थभाग इति चायुर्वहुत्वाभिप्रायेण । यत्तु उत्पले- न अल्पायुषां जीवितचतुर्थभागे मानोन्माने कर्तव्ये इत्युक्तम् । तन्न युक्तम् । पञ्चविंशतित्रिंशदायल्पायुषश्चतुर्थभागे अवय- वपरमवृक्ष्यनिष्पत्तेर्गुरुत्वाभावेन मानासम्भवात् । अथ गतिलक्षणम् । भविष्ये, हंसभासशुकानां च तुल्या यस्य गतिर्भवेत् । स भवेत्पार्थिवश्रेष्ठः समुद्रवचनं यथा ।। भासो गृध्रः। :- .. अन्येषामपि शस्तानां पक्षिणां च शुभा गतिः ।।....... वृषसिंहगजेन्द्राणां गतिर्भाग्यविवर्धिनी ।। जलोमिसहशी. या च काकोलूकसमा च या । गतिव्यविहीनानां दुःखशोकभयङ्करी ॥ श्वानोष्ट्रमहिषाणां च खरशूकरयोस्तथा । गतिमषसमा येषां ते नरा भाग्यवर्जिताः॥ इति । वराहसंहितायाम्, शार्दूलसिंहसमदद्विपगोपतीनां तुल्या भवन्ति गतिभिः शिखिनां च भूपाः । येषां च शब्दरहितं स्तिमितं च यानं 'तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥ इति । शार्दूलो व्याघ्रः । गोपतिषः । शिखिनामिति बहुवचनं प्रशस्तपक्ष्यभिप्रायम् । अत एव अन्येषामपि शस्तानां पक्षिणां च. शुभा गतिः । इत्युक्तं प्राक् । परिप्लुतं व्याकुलं मण्डूकवत् । . .

पुरुषलक्षणप्रकरणे गतिसंहतिलक्षणे। २७
गर्गसंहितायाम,
हंसस्य भासस्य शुकस्य चैव
येषां समाना गतयः समानाः ।
ते धार्मिकाः सर्वगुणोपपन्ना
नराधिपत्यं चिरमाप्नुवन्ति ।।
समानाः नातिमन्दद्रुतगतयः । समाना इति पुरुषवि-
शेषणं वा।
सामुद्रतिलके,
गतिभिर्भवन्ति तुल्या ये समदद्विरदनकुलहंसानाम् ।
वृषभस्यापि नरास्ते सततं धर्मार्थकामपराः॥
गोमायुकरभरासभसैरिभककलासशशकभेकमृगैः।
येषां गतिः समाना ते गतसुखराजसंमानाः ।।
गोमायुः शृगालः । सैरिभो महिषः । कृकलाशः शरटः ।
इति गतिलक्षणम् ।
अथ संहतिलक्षणम् ।
वराहसहितायाम्,
सहततनुसुश्लिष्टसुसन्धयः मुखभुजो ज्ञेयाः । इति ।
सामुद्रतिलके,
मांसास्थिसन्धिबन्धः शिथिलो न कदापि लक्ष्यते यस्य ।
स च संहतिमान् धन्यो दीर्घायुर्जायते नियतम् ॥ इति ।
इति संहतिलक्षणम् ।
अथ सारलक्षणम् ।
वराहसंहितायाम् ,
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि ।
रुधिरं मांसं चेति प्राणभृतां. तत्समासफलम् ।।

२८ वीरमित्रोदयस्य लक्षणप्रकाशे मेदः अस्थिमांसान्तर्गतः स्निग्धो मांसविशेषः । मज्जा अस्थ्यन्तर्गतः स्नेहभागः । तानाह- स एव, मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः । स्निग्धत्वभिर्धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः ॥ स्थूलास्थिसारो बलवान् विद्यान्तगः मुरूपश्च । वहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥ ताल्वोष्ठदन्तपालीजिहानेत्रान्तपायुकरचरणैः । रक्तैस्तु रक्तसारा वहुमुखवनितार्थपुत्रयुताः ॥ दन्तपाली दन्तत्वक् ! उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः । इति । एतेषां विशेषतः फलं तु हेमाद्रौ स्मर्यते । श्रीमान् स्थिरमतिर्वेद्यो मेदःसारो नरोत्तमः । नित्यं प्रहृष्टः सुभगो मन्दकोपो महाधनः ।। संहता यस्य दन्तभ्यो निपतन्ति मरीचयः । शुक्रं च गुणवद्यस्य मज्जासारः स तादृशः ।। अयत्नार्जितवित्तेशो वस्त्रभूषणभाक् सुखी। अलङ्करिष्णुर्मेधावी त्वक्सारः शीलकीर्तिमान्. ।। अवगुह्य परानेष वर्तते नावगृखते । अस्थिसारो नरः सौख्यं दीर्घमायुश्च विन्दति ॥ धनवान् पुत्रवान् शौण्डः प्राज्ञः साहसिकः सुखी । यौवनात्ययमृत्युः स्याद्रक्तसारो नरः शठः ।। इति । शौण्डश्चतुरः । साहसिकः साहसं मरणाङ्गीकारेण सम्भा- वितमरणहेतुकर्मकरणं तद्वान् । सम्पूर्णस्पर्शसुखभाक् संविभागी बहुमजः ।

. पुरुषलक्षणप्रकरणे सारवर्णलक्षणे । २९ शतायुः स्वप्नशीलश्च मांससारोऽर्थभागृजः ॥ षट्सु सारेषु ये प्रोक्ताः सारतत्त्वार्थदर्शिभिः । गुणास्ते शुक्रसारस्य नरस्य समुदाहृताः ॥ इति । सामुद्रतिलके, प्रायेण सत्वसारः सर्वोत्कर्षास्पदं पुरुषः । इति । हेमाद्रिणा तु सत्वसंज्ञः सारोधिक उक्तः । स यथा, कृतज्ञो धर्मज्ञः शूरः शुचिरवस्थितमर्यादोऽविषादी विद्वान- नहङ्कारी ख्यातिमान् व्यवसायी सततमनिर्वेदी स्वल्पा- दपि दाता सप्रत्याशश्च कल्याणेषु । सत्वेन परिपूर्णेन युक्तो भवति भूमिपः । अन्यैरपि गुणहीनः सत्त्वेन स महागुणः ॥ इति । इति सारलक्षणम् । अथ वर्णलक्षणम् । वराहसंहितायाम्, द्युतिमान् वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थवताम् । रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः ॥ इति । वर्णो गौरश्यामकृष्णभेदेन त्रिविधः । स स्निग्धादिभेदे- नोत्तममध्यमहीनो ज्ञेयः । तेषु यो दीप्तिमान् स्निग्ध उत्तमो राज्ञाम् । मध्यमः प्रकृतिस्थोऽस्निग्धरूक्षः पुत्रार्थिनाम् । रूक्षो दरिद्राणाम् । सङ्कीर्णो व्यामिश्रवर्णः कचित्स्निग्धः कचिद्रूक्षो न प्रशस्त इति । तथा च- सामुद्रतिलके, गौरः श्यामः कृष्णो वर्णः सम्भवति देहिनां त्रेधा। आद्यौ द्वावपि शस्तौ शुभोऽपि शस्तो न सङ्कीर्णः ।। - ---

३० वीरमिनोदयस्य लक्षणप्रकाशे
पङ्कजकिचल्कनिभी गौरः श्यामः प्रियङ्गुकुसुमसमः ।
कृष्णस्तु कज्जलाभः स्निग्धः शुद्धोऽपि नो शस्तः ॥ इति ।
इति वर्णलक्षणम् ।
अथ स्नेहलक्षणम् ।
वराहसंहितायाम्,
स्नेहः पञ्चसु लक्ष्यस्त्वग्जिहादन्तनेत्रनखसंस्थः ।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ॥ इति ।
गर्गसंहितायाम्,
चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।
त्वक्स्नेहेन परं सौख्यं नखस्नेहेऽधिकं धनम् ॥
त्वग्रोमनखकेशेषु दन्तोष्ठनयेनषु च ।
स्नेहो येषां तु दृश्येत कार्य तेषामकारणम् ॥ इति ।
अकारणम् अयत्नसिद्धं कार्यं भवतीत्याशयः । प्रयोगपा-
रिजाते तु विशेषः।
त्वचः स्नेहेन शय्या स्यात्पादनेहेन वाहनम् । इति ।
सामुद्रतिलके,
प्रियभाषित्वं रसनास्निग्धश्च सुभोजनं रदस्निग्धः ।
अतिसौख्यं त्वस्निग्धो नियतं भजते भुजिष्योऽपि ॥
भुजिष्यो दासः।
जनसौभाग्यं नयनस्निग्धः समधिकं धनं नखस्निग्धः ।
केशस्निग्धो बहुविधसुगन्धमाल्यं नरो लभते । इति
इति स्नेहलक्षणम् ।
अथ स्वरलक्षणम् ।
भविष्ये,
इंसस्वरा नरा धन्या मेघगम्भीरनिस्वनाः ।

पुरुषलक्षणप्रकरणे स्वरलक्षणम् । क्रौश्चस्वराश्च राजानो भाग्यवन्तो महाधनाः॥ चक्रवाकस्वरा धन्या राजानो धर्मवत्सलाः । कुम्भस्वरो नरपतिदुन्दुभिस्वर एव च ॥ खरदीर्घस्वराः क्रूराः शिशूनां सदृशेन तु । पशूनामिति पाठान्तरम् । कुररस्वरसंयुक्ताः पुरुषाः क्लेशभागिनः ।। कुरर उत्क्रोशकः। चाषस्वराः काकरता भिन्नकांस्यस्वराश्च ये। भासरुता इति पागन्तरम् । क्षीणभिन्न स्वरा ये तु अधमास्ते प्रकीर्तिताः ॥ इति । वराहसंहितायाम्, करिषरथौघभेरीमृदङ्गासिंहाब्दनिस्वना भूपाः। गईभजर्जररूक्षस्वरास्तु धनसौख्यसन्त्यक्ताः ॥ इति । भेरी दुन्दुभिः । मृदङ्गो मुरजः । अब्दो जलदः । स चायं स्वरः पञ्चविधः प्रशस्तः । तद्यथा, गम्भीरो दुन्दुभिः स्निग्धो महाननुनादीति । तथा चोक्तम्- गर्गसंहितायाम्, गम्भीरो दुन्दुभिः स्निग्धो महांश्चैवानुनादवान् । इति स्वरगुणाः पश्च समुद्रः पाह. तत्त्ववित् ॥ इति । तत्रोदीरित एवादिमध्यावसानतुल्यो यः स गम्भीरः। स- र्वजनमनोऽभिप्रेतो यः स दुन्दुभिः । हर्षदैन्यभयव्याधिक्रोधादि- षु अविकृतः श्रोत्रसुखो यः स स्निग्धः । युगपद्धहूनां जल्पता- मुपेत्य योऽधिकं श्रूयते स महान् । दूरादपि शनैरुच्चार्यमाणो यः श्रोत्रपथमायाति सोऽनुनादीति । एतेषां फलमप्युक्तम्- तत्रैव, ३२ वीरमित्रोदयस्य लक्षणप्रकाशे एभिरायुर्यशो विद्या मानं सौख्यं धनागमः । वाहनानि सुता ना? राज्यं भोगागमो महान् ॥ ऐश्वर्य व्यवसायश्च त्रिभिर्मेधा सरस्वती। भोगानां चैव भोत्कृ त्वं दानं यज्ञागमस्तथा ॥ इति । अप्रशस्ता अपि स्वरास्तत्रैवोक्ताः। . ते च यथा, विस्वरोऽतिस्परो भग्नः क्षारो रूक्षस्तु भैरवः । अतिवृत्तस्तु परुषो विशीर्णः स्वल्प एव च ॥ निम्नो जर्जरितश्चैवानिमलो गद्गदः स्वरः । विस्वरो घर्षरः । अतिस्वरचण्डः । भग्नः खण्डितः।। स्खलितः। रूक्षः स्निग्धः। भैरवोऽतिभयानका अतिवृत्तः स्त ब्धः । परुषो निष्ठुरः। विशीर्णो गलिताक्षरः । स्वल्पः सूक्ष्मः। निम्नः कण्ठान्तर्गतः । जर्जरितो भिन्नकांस्यस्वरसदृशः । अनि- मेलः सनिष्ठावः। स्वरैरेतैः कलिः क्रोधो लोभमोहमनोरुजः। नैपुण्यमवमानश्च पारुष्यं शाठ्यमेव च ॥ इति । कलिः कलहः । शाठ्यं शठभावः । शठः स्वकार्यतत्परः प- रकार्यविमुखः । तथा चोक्तम्- वचसा मनसा यस्तु दृश्यते कार्यतत्परः। कर्मणा विपरीतश्च स शठः सद्भिरिष्यते ॥ इति । . सामुद्रतिलके, वृकवककाकोलूकप्लवगोष्ट्रकोष्टुरासभवराहैः। तुल्यः स्वरो न शस्तो विशेषतो विस्वरो दुष्टः । इति । वृकईहामृगः । मध्यदेशभापायां हुंडार इति प्रसिद्धः । क्रोष्टा जम्बुकः।

पुरुषलक्षणप्रकरणे प्रकृतिसत्त्वयोर्लक्षणम् । ३३ इति स्वरलक्षणम् । अथ प्रकृतिसत्वयोलक्षणम् । उन्मानमानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्वमनूकमादौ। इति वचने प्रकृतिः स्वभावः । महीस्वभावः शुभपुष्पगन्धः । त्यादिवक्ष्यमाणः। सत्त्वं गुणः । सत्चपदं सत्त्वरजस्तमसा त्र- भां गुणानामुपलक्षणार्थमित्येवं प्रकृतिसत्त्वभेदो यः प्रति- चतः। तस्य तु- भतद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपायैः । १ इत्यादिना वराहाचार्येण गुणरूपसत्त्वस्य प्रकृतिभिन्नत्वे- न पञ्चमहापुरुषलक्षणे प्रतिपादितत्वात्तद्विषयत्वमेव । केचित्त्व- न्यथैवं पठन्ति । स्नेहस्वरप्रकृतयश्च ततो धनूकम् । इति । वस्तुतस्तु प्रकृतिरेव सत्त्वम् । अस्मिन्नेव प्रकरणे- एवं नराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्। इति वराहोक्ता प्रकृतिसत्त्वमित्यत्र प्रकृतिरूपं सत्त्वमिति कर्मधारयनकपर्य सम्पाद्य ततश्चान्मानादिसत्वान्तानां द्वन्दै- कवद्भावः । तत्र भूजलाग्न्यनिलाम्बरमुरनररक्षःपिशाचति- रश्वा प्रकृत्या युक्तो दशविधः पुरुषो भवति । तथा च- वराहसंहितायाम्, महीस्वभावः शुभपुष्पगन्धः सम्भोगवान् सुश्वसनः स्थिरश्च। शुभपुष्पगन्धः पयाधुत्तमपुष्पशरीरगन्धः । सुश्वसनाम- खमुगन्धवायुः।। तोयस्वभावो बहुतोयपायी प्रियाभिभाषी रसभाजनश्च ॥ रसभाजनो मधुरादिरसप्रियः। - ५ वीरमित्रोदयस्य लक्षणप्रकाशे अग्निप्रकृत्या चपलोऽतितीक्ष्णश्चण्डः क्षुधालुवहुभोजनश्च । चण्डः कोपनः। चायुस्वभावेन चलः कृशश्च क्षिप्रं च कोपस्य. वशं प्रयाति।। खप्रकृतिर्विगुणो विवृतास्यः शब्दगतौ कुशलः सुखिताङ्गः । विकृतास्यः ज्ञापनविवृतमुखः। शब्दगतौ गानविषये कुश- लः । सुखिताङ्गः सुकुमाराङ्गः । .. · त्यागयुतः पुरुषो मृदुकोपः स्नेहयुतश्च भवेत्सुरसत्त्वः ।। मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः । संविभागशीलवानित्यमेव मानुषः।। तीक्ष्णप्रकोपः खलचेष्टितश्च पापश्च सत्त्वेन निशाचराणाम् । - पिशाचसत्वश्चपलो मलाक्तो बहुपलापी च समुल्बणाङ्गः ॥ समुल्षणाङ्गः स्थूलाङ्गः। अधिकाङ्ग इति वा । भीरुः क्षुधालुबहुभुक्च यः स्यात् ज्ञेयः स सत्त्वेन नरस्तिरश्चाम् । एवं नराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः प्रवदन्ति सत्वम् ।। इति । गर्गसंहितायां तु अन्यदेवोक्तम् । ननु तत्सत्त्वमित्याहुर्यन्मौख्याच फलं भवेत् । गतं न धैर्यमापत्सु यस्य तत्सत्त्वमुच्यते ॥ इति । तत्पशंसा च तत्रैवोक्ता। गतेधन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः । .. ...स्वराद्धन्यतरं सत्त्वं सर्व सत्त्वे प्रतिष्ठितम् ॥ अस्थिध्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्व सत्वे प्रतिष्ठितम् ।। इति । १ मुख्यस्य भावो मौख्यं तस्मात् । प्राधान्यादित्यर्थः ।

. पुरुषलक्षणप्रकरणे अकलक्षणम् । विवेकविलासेऽपि, , गते प्रशस्यते वर्णस्ततः स्नेहस्ततः स्वरः। ततस्तेजस्ततः सत्वमिदं द्वात्रिंशतोऽधिकम् ।। इति । सामुद्रतिलकपि, एकमपि सत्त्वमेतैः सर्वैः शंसन्ति लक्षणैस्तुल्यम् । यस्मिन् सति मनुजानां न कदाचन दुर्लभा लक्ष्मीः ।। सौभाग्यमिव स्त्रीणां पुरुषाणां भवति भूषणं सत्त्वम् । तेन विहीना भुवने भजन्ति परिभवपदं प्रायः॥ वक्रानुगतं रूपं रूपानुगतं नृणां भवति चित्तम् । चित्तानुगतं सत्त्वं सत्त्वानुगता गुणाः प्रायः ॥ इह सत्त्वमेव मुख्यं निखिलेष्वपि लक्षणेषु मनुजानाम् । तदभावे तेऽपि पुनश्चिन्तास्वाम्यं समुपयान्ति ॥ ननु येषां न मनागपि मनो विकारं कथञ्चनाभ्येति । आपद्यपि सम्पद्यपि ते सत्त्वविभूषिताः पुरुषाः ।। शुभलक्षणमप्येकं बाह्यं न विलोक्यते स्फुटं यस्य । अथ दृश्यते पुनः श्रीस्तस्य तदस्ति ध्रुवं सत्त्वम् ॥ इति । इति प्रकृतिसत्त्वलक्षणम् । अथानूकलक्षणम् । सामुद्रतिलके, पूर्व भवे घनवरतं सत्त्वस्वररूपगतिभिरभ्यस्तम् । पुनरिह यदनुक्रियते तदनूकं कथ्यते सद्भिः॥ अनूकमनुकारः। स च वक्रादिसादृश्यात्कल्पनीयः। तथाच- वराहसंहितायाम्, साध्यमनूकं वकानगोषशार्दूलसिंहगरुडमुखाः । ‘अप्रतिहतमतापा जितरिपवो मानवेन्द्राश्च ।।

: वीरमित्रोदयस्य लक्षणप्रकाशे
वानरमहिषवराहाजतुल्यवदनाः सुतार्थसुखभाजः ।
गईभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ।। इति ।
देवदैत्यगन्धर्वयक्षराक्षसारगविद्याधरपिशाचनरमृगतिर्यक्-
सत्त्वास्तत्तुल्यचेष्टाभिर्जेयाः । तथाचोक्तम्-
गर्गसंहितायाम्,
पूर्वयोनिर्यथाकामो मानुषाणां प्रवर्तते ।
यथा पूर्वजन्म तथैव तदनुरूपोऽभिलाषो मानुषाणां भवति ।
देवदानवगन्धर्यक्षराक्षसपनगैः ।।
विद्याधरपिशाचैश्च मानुषैर्मगपक्षिभिः ।
च्युतिर्जन्मोपपत्तिश्च मानुषेषु प्रकीर्तिता ॥
: तानहं सम्प्रवक्ष्यामि सामुद्रवचनं यथा ।
येषां देवदैत्यगन्धर्वादिशरीरच्युतिपूर्वकं मानुषजन्मप्राप्ति-
स्तानहं सम्प्रवक्ष्यामीति सम्बन्धः ।
स्रग्वी सुवेषः सुयशाः प्रियस्नानानुलेपनः ।
धनी जयपरो दाता सत्यव्रतपरायणः ।।
शीलवान् क्षमया युक्तो घृणी मनास लज्जितः ।
घृणी दयालुः ।
देवसत्त्वो नरो यो गोब्राह्मणहिते रतः॥
थाभिमानस्त्वधिकक्रोधो लोभसमन्वितः ।
उद्युक्तो मृगयायुक्तस्त्वामुरो नर उच्यते ॥
सुशरीरो महाभागों दाता मानी प्रियंवदः ।
स्त्रीसङ्गतत्परो नूनं स्नानलास्यरतिर्नरः ।।
लास्यं नृत्यम् ।
गन्धगान्धर्वमाल्यानां शयनासनयोषिताम् ।।
१ निःस्वा निमुखाश्चेत्यर्थः ।

पुरुषलक्षणप्रकरणे अनूकलक्षणम् ।
विविधानां चोपभोक्ता रतिमान् मित्रवत्सलः॥
गान्धर्व गानम् ।
तन्त्रीद्विमुखवादित्रयानोद्यानवनप्रियः ।
गन्धर्वसत्वो विज्ञेयो गजाश्वरथतत्परः ॥
तन्त्री वीणा । द्विमुखवादित्रं मुरजादि ।
उग्रकर्मा दुराधर्षों बली माल्यानुलेपनः ।।
दक्षधोर्वेणुवीणाभिः शङ्ख पणवडिण्डिमैः ।
वादित्रैइष्यते भोक्ता भक्ष्यमांसासवप्रियः ।
तेजस्वी निघृणः शूरो यक्षसत्वो नरः स्मृतः॥
निघृणो विकृतः शूरस्तेजस्वी शर्वरीमियः ।
उद्वसे वसते मांसभोक्ता पानपरायणः ॥
देवगोब्राह्मणद्वेषी वधबन्धननिश्चयः। .
निघृणश्च तथा स्त्रीषु राक्षसो नर उच्यते ॥
जलपांशुरतिः शुरः क्रोधनः शङ्कितः पाठः।
रतश्च रथमाल्येषु गतिको भूषणप्रियः॥
द्रव्यार्जनपरः स्रग्वी देवतानां च पूजका ।
भुजङ्गसचो विज्ञेयो जिह्मगो युवतिमियः ।।
'दान्तो महाधनः स्रग्वी देवायतनपूजकः ।
माल्यभोजनगन्धानां विद्यानां चाभिसाधकः ।।
रूपवान् सुभगः श्रीमान्नेता विद्याधरान्वयः।
कुरोऽपि विकृतो रूक्षो निघृणः पापतत्परः ।।
मलिनोऽप्यशुचिर्भातो गोब्राह्मणजुगुप्सका।
निषादसौनिकत्रीषु नीचपव्रजितासु च ।।
रज्यते विकृताहारो नरः पैशाच उच्यते ।
. १ विद्याधरसत्त्वः।
-

वीरमित्रोदयस्य लक्षणप्रकाशे सौनिको हिंसाकर्ता। अक्षोभ्यः सुभगो दाता. मानी मधुरभाषणः । आचारयुक्तो मधुरः स्वकर्मनिरतः शुचिः ।। अक्षोभ्यों गम्भीरः। आस्तिकः श्रद्दधानश्च सन्तुष्टोऽमृत्युवत्सलः । अमृत्युवत्सलो मरणभीरुः। मनुष्यसत्त्वो विज्ञेयो गन्धमाल्यरतिप्रियः॥ पर्वतारामवादिननदीतीराश्रमेषु च । राजितैर्विविधैर्गीत(रुराक्रम्य उद्यतः ।। आक्रम्यः आक्रमितुं योग्यः । उद्यतः उद्योगी। न रतिं लभते जन्तुर्दुर्गन्धो मृगसत्वजः । चञ्चलोऽमुमना भीरुः सर्वसञ्चयनिश्चितः।। स्त्रीविजयो दुराचार इच्छावानन्नवत्सलः। तिर्यक्सत्त्वो नरो ज्ञेयः कृपणोऽवरयोनिजः ॥ इति । अवरयोनिजो नीचयोनिजः । एतेषु देवदैत्यनरंगन्ध- वॉरंगरक्षःसत्त्वा नराः श्रेष्ठाः पिशाचादिसत्त्वाः कनिष्ठा इति । तथा च हेमाद्रौ स्मर्यते । देवासुरमनुष्याणां गन्धर्वोरंगरक्षसाम् । तुल्यचेष्टा नराः श्रेष्ठाः पिशाचानां नराधमाः ॥ इति पिशाचानामिति बहुवचनं तिर्यक्सत्त्वाद्यभिप्रायमिति । विवेकविलासे, सद्धर्मः सुभगो नीरुक् सुस्वप्नः सुनयः कविः । स्तवयत्यात्मनः श्रीमान् नरः स्वर्गगमागमौ ।। निर्दम्भस्सदयो दाता दान्तो दक्षः सदा ऋजुः। मर्त्ययोनेः समुद्भूतो भावी चात्र नरः पुनः ।। । - :

. पुरुषलक्षणप्रकरणे क्षेत्रलक्षणम् । मायालोभक्षुधालस्यबहाहारादिचेष्टितैः । तिर्यग्योनिसमुत्पचिं ख्यापयत्यात्मनः पुमान् ।। सरोगः स्वजनद्वेषी कुटुम्बी मूर्खसकृत् । शास्ति स्वयं गतायातं नरो नरकवर्त्मनि ।। इति । इत्यनूकलक्षणम् । अथ क्षेत्रलक्षणम् । अत्र शरीरे दश क्षेत्राणि । तथा च- वराहसंहितायाम्, पादौ सगुल्फो प्रथम मदिष्टं जो द्वितीयं च सजानुचक्रे । मेट्रोरुमुष्काच ततस्तृतीयं नाभिः कटिश्चैव चतुर्थमाहुः । उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतः स्तनान्वितम् अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥ जत्रुणी स्कघसन्धी। नवमं नयने च सभ्रुणी सललाटे दशमं शिरस्तथा । इति । एतेषु दशसु क्षेत्रेषु ज्ञातायुर्दशभागकल्पनया शुभाशुभ- फलं कल्पनीयमिति । एतदुक्तं भवति । उक्तायुःपरीक्षया ज्ञा- ताऽऽयुषो दश भागाः कल्पनीयाः । तत्र- यद्यगात्रं रूक्षं मांसविहीतं शिरावनद्धं च । तत्तदनिष्ट प्रोक्तं विपरीतमतः शुभं सर्वम् ।। इत्यादिवक्ष्यमाणप्रकारेण यदङ्गमशुभलक्षणोपेतं यत्क्षेत्रान्त- र्गतं तत्क्षेत्रसङ्ख्यया तदायुर्भागोऽशुभफलदः, यदङ्ग शुभं तदायुर्भागः शुभः, यन्मध्यमं तद्भागो मध्यम इति । तथाच- सामुदतिलके, क्षेत्रवशाज्जायन्ते मनुजानां जगति दश दशाः क्रमशः। क्षेत्रेध्वशुभेष्वशुभा दशा शुभेषु च शुभा प्रायः ॥

४० वीरमित्रोदयस्य लक्षणप्रकाशे -- इति क्षेत्रलक्षणम् । अथ मृजालक्षणम् । शरीरकान्तिप॑जा छायेतियावत् । तथा च- वराहसंहितायाम्, छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणः। तेजोगुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटास्थतेव ।। स्निग्धद्विजत्वङ्नखरोमकेशा छाया सुगन्धाचमहीसमुत्था। पुष्टयर्थलाभाभ्युदयान करोति धर्मस्य वाहिन्यहनि प्रवृद्धिम्।। स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमाईवसुखाऽभ्युदयान् करोति । सर्वार्थसिद्धिजननी जननीव चान्या छाया फलं तनुभृतां शुभमादधाति ।। चग्डाऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः समतापैः । आग्नेयीति माणिनां स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य पत्ते ।। अधृष्या अनभिभवनीयप्रभावा । मलिनपरुषकृष्णा पापगन्धाऽनिलोत्था जनयति वधशोकौ पुत्रनाशार्थनाशौ । स्फटिकसदृशरूपा-भाग्ययुक्ताप्युदारा निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा ॥ छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः १ पुरुषेत्यपि पाठः। .

पुरुषलक्षणप्रकरणे छायालक्षणम् ।
कोचिद्वदन्ति दश ताश्च यथानुपूा।
सूर्याञ्जनाभपुरुहूतयमोडुपानां..
तुल्यास्तु लक्षणफलैरिति तत्समासः ॥ इति ।
कुः पृथिवी । अञ्जनाभो विष्णुः । उडुपश्चन्द्रः । एवं पृथि-
व्यादिपञ्चमहाभूतच्छायाः।उक्ता इति शेषः। केचित्तु सूर्यविष्ण्वी-
न्द्रयमचन्द्रसम्बन्धिन्योऽन्याः पञ्च पूर्वोक्ताः पञ्च एवं दशविधा
छायेत्याहुः । तत्र सूर्यादिपञ्चच्छाया नोक्ता रूपसाम्यात् ।
साम्यं तु सौरी चाग्नेयी, वैष्णवी नाभसी, ऐन्द्री पार्थिवी,
याम्या वायवी, चान्द्री चाप्येति । फलं तु पूर्वोक्तानामेव ।
अतस्तत्समासः। तासां सझेपेण कथनमित्यर्थः । ,
गर्गसंहितायाम,
सूर्येन्दुमाणसङ्काशा विविधस्नेहसंयुता।
कान्ता दीप्ता प्रसन्ना च प्रभा नृणां प्रशस्यते ॥
विवर्णा परुषा रूक्षा भस्मवर्णा तथाऽऽकुला।
श्यामा दुग्धोल्मुकाभासा प्रभा नृणां न शस्यते ॥
भूम्यन्यम्बरवाय्वम्भःसम्भूताः पञ्च कीर्तिताः। :
छाया विष्ण्विन्द्रचन्द्रार्कयमानां च तथा परा ॥ इति ।
हेमाद्रावपि स्मयते।
रक्ता तेजोमवा छाया नभोनीला तु नाभसी ।
वैडूर्याभाम्भसी श्वेता छाया श्यामा च पार्थिवी ॥
भस्मामा बहुरूक्षा च वायवी सा न पूजिता ।
असमौरसकलं समग्रैः सकलं फलम् ॥
पूर्वोक्तैर्लक्षणैस्तेषां नृणां छायाः सुनिदिशेत् । इति ।
इति छायालक्षणम् ।
अथ गन्धलक्षणम् । :

ર
वीरमित्रोदयस्य लक्षणप्रकाशे
गर्गसंहितायाम्,
आम्लो वा कटुको धन्यः पलाण्डुलशुनोपमः ।
मेदोरक्तवसामज्जाविण्मूत्राणां तथा खलु ।।
स्यागन्धः सहशो येषां न च शस्ताः कदाचन ।
नरा भयङ्करा नित्यं समुद्रेणातिनिन्दिताः ॥
वसा मांसस्नेहभागविशेषः।
शुद्धमांसभवः स्नेहो वसा सङ्घीयते बुधैः ।
इति वाग्भटेऽभिधानात् ।
कषायो मधुरो हृधः सुरभिः कुसुमाश्रयः ।
स्याद्गन्धः सदृशो येषां ते सौम्याः शुचयो नराः ॥
सत्यधर्मतपोयुक्ता दानव्रतपरायणाः । इति ।
सामुद्रतिलके,
गन्धो वपुषि नराणां प्रजायते नासिकेन्द्रियग्राह्यः ।
श्वासस्वेदादिभवो ज्ञेयः स शुभाशुभो द्विविधः ।।..
कर्परागरुमलयजमृगमदजातीतमालदलगन्धाः ।
द्विजमदनभूमिगन्धाः पुरुषाः स्युर्भोगिनः प्रायः ।।
मत्स्याण्डपूयशोणितनिम्बवसाकाकनीडबकगन्धाः।
दुर्गन्धाश्र नरास्ते दुर्भगतानिःस्वताभाजः ॥ इति ।
इति गन्धलक्षणम् ।
अथ रुधिरलक्षणम् ।
भविष्ये,
पद्मवर्ण भवेद्रक्तं स नरो धनवान् भवेत् ।
पनवर्ण रक्तोत्पलनिभम् ।
किञ्चिद्रक्तं तथा कृष्णं भवेद्यस्यं तु शोणितम् ।
अधमः स तु विज्ञेयः पापकर्मरतः सदा ।।

पुरुषलक्षणप्रकरणे. पादलक्षणम् । किश्चिद्रक्तं तथा पीतं भवेद्यस्य तु शोणितम् । मध्यमः स तु विज्ञेयः मुखदुःखस्य भाजनम् ।। प्रवालसदृशं स्निग्धं भवेद्यस्य च शोणितम् । राजानं तं विजानीयात्सप्तद्वीपाधिपं गुह ।। इति उत्पले समुद्र, अलक्तसदृशं रक्तं जायते यस्य शोणितम् । धनवान् भोगवांश्चैव स नरः परिकीर्तितः । पद्मपत्रनिभं यस्य देहे भवति शोणितम् । जनयेत् बहुधा कन्या दुःखितश्च सदा भवेत् ।। इति । पद्म सितोत्पलं नीलोत्पलं वा । इति रुधिरलक्षणम् । ' इह पुरुषसामान्यलक्षणान्यभिधाय अधुना प्रत्यङ्गविशेषल- क्षणानि पादादिक्रमेण वक्ष्यन्ते । ननु सर्वेषु गात्रेषु शिरः प्रधानम् । . इत्यादिना सर्वावयवेषु शिरसःमाधान्यावगमात्तस्यैवादौ ल- क्षणं वक्तुं युक्तमिति कथं पादलक्षणस्य प्राथम्यमिति । उच्यते । अतः परं प्रवक्ष्यामि देहावयवलक्षणम् । इत्युपक्रम्य, पादौ समांसलौ स्निग्धौ रक्तौ सौम्यौ सुशोभनौ । इति भविष्ये पादलक्षणस्यैवादावुक्तत्वात्तत्पूर्वकमेव लक्ष- णकथनमिति । तत्र तावत् पादलक्षणमुक्तम्- भविष्यगरुडपुराणयोः पादौ समांसलौ स्निग्धौ रक्तौ सौम्यौ सुशोभनौ । अस्वेदनौ मृदुतलौ कमलोदरसन्निभौ ।। श्लिष्टाङ्गुली च सुनखौ मुपाणी व्योमकेशज ।

४४
वीरमित्रोदयस्य लक्षणप्रकाशे
पाणिः पादमूलम् । पादपश्चाद्भाग इति यावत् ।
उष्णौ शिराविरहितो गूढगुल्फो च भीमज ।।
गूढगुल्फो समपादग्रन्थी।
कूर्मोन्नतौ च चरणौ प्रख्यातो पार्थिवस्य तु ।
यस्य पादतले रेखा साकुशेव प्रकाशते ।।
सततं हि सुखं तस्य पुरुषस्य न संशयः ।
शुर्पाकृती महावाहो श्वेतरूक्षनखौ तथा ।।
वक्रौ शिरासन्ततौ च संशुष्कौ विरलाङ्गुली ।
दारिद्यूदुःखदौ ज्ञेयौ चरणौ भीमनन्दन ।
ब्रह्मघ्नों देवशाईल पक्षमृत्सहशौ च तौ।
पीतावगम्यानिरतौ कृष्णौ यानरतौ सदा ।।
यानं गमनम् ।
अभक्ष्यभक्षणौ श्वेतो ज्ञेयो सेनाधिपोत्तम । इति ।
अभक्ष्यं लशुनपलाण्ड्वादि।
स्कान्दे काशीखण्डे,
पादौ समांसलौ रक्तौ समौ सूक्ष्मौ सुशोभनौ ।
समगुल्फों स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ ॥ इति
इति पादलक्षणम् ।
अथ पादतललक्षणम् ।
गर्गसंहितायाम्,
पद्मरतोत्पलनिभैस्तथा क्षतजसन्निभैः ।
नृपाः पादतलैज्ञेया ये चान्ये सुखभागिनः ॥ इति ।
सामुद्र तिलके,
रेखाहीनं कठिनं रूक्षं दुःखाय विस्फुटितम् ।
तलमन्तःसंक्षिप्त स्वीकार्ये मृत्युमादिशति पुंसाम् ।। .

. पुरुषलक्षणप्रकरणे पादतलाङ्गुष्ठलक्षणे । ४५. रोगाय विगतमांसं मार्गाय ज्ञेयमुत्कटकम् । उत्कटकमसकलभूमिस्पृक् । रेखाः शङ्खच्छन्त्राङ्कुशकुलिशासिध्वजादिसंस्थानाः । अच्छिन्ना गम्भीराः स्फुटास्तले भागधेयवताम् ॥ ध्वजादीत्यत्रादिपदेन पद्मधनु शरपताकादीनां ग्रहणम् । नन्द्यावर्तेन्दुपद्मशङ्खवज्राङ्कुशशरशक्तिध्वजपताकोरंगव्यजनचामर- शूर्पव्यक्तोरेखोपाचितौ चरणौ च राज्ञांधनधान्यवतां महात्मनां च ज्ञेयाविति हेमाद्रिणा उक्तत्वात् । ताः शङ्खाद्याकृतयः परिपूर्णा मध्यभेदिता येषाम् । स्त्रीभोगभाजनं ते जायन्ते पश्चिमे वयसि ।। सेधासरिभजम्बुकमूषकशुककाककङ्कसमाः। रेखाः स्युर्यस्य तले तस्य न दूरेऽस्ति दारित्र्यम् ॥ इति । सेधा श्वावित् । मध्यदेशभाषया साहीति प्रसिद्धा । जम्बुक: शृगालः । कङ्को लोहपृष्ठः । मध्यदेशभाषायां कुरकुंचि इति प्रसिद्धः। इति पादतललक्षणम् । अथागुष्ठलक्षणम् । इह यद्यप्यङ्गुलीनखादीनामवयवावयविनोरभेदोपचारेणा- न्तःपातित्वात्तल्लक्षणेनैव. गतार्थता । तथापि विशेषतः शुभा- शुभफलज्ञानार्थ तत्तल्लक्षणानि पृथक् निरूप्यन्ते । तत्राङ्गुष्ठळक्ष- णमुक्तम्- भविष्ये, वृत्तैस्ताम्रनखै रक्तैरङ्गुष्टै राज्यभागिनः । अङ्गुष्ठाः पृथुला. येषां ते नरा भाग्यवर्जिताः॥: :. क्लिश्यन्ते विकृताङ्गुष्ठास्ते नरा वनगामिनः । ,

,
वीरमित्रोदयस्य लक्षणप्रकाशे. ...:
चिपिटैक्षितैर्भग्नैरङ्गुष्ठरतिनिन्दिताः ॥
व, रूक्षस्तथा इस्वैरङ्गुष्ठैः क्लेशभागिनः । इति ।
सामुद्रतिलके,
वृत्तो भुजगफणाकृतिरुत्तुङ्गो मांसलः शुभोऽङ्गुष्टः।
सशिरो इस्वश्चिपिटो वक्रो विपुलः स पुनरशुभः ।। इति ।
इत्यङ्गुष्टलक्षणम् ।
अथालिलक्षणम् ।
भविष्ये,
मृदुवृत्तघनस्निग्धास्तूबतागुलयः समाः। .
येषां प्रदक्षिणावर्त्ता पार्थिवास्ते न संशयः॥
यस्य प्रदेशिनी दीर्घा अङ्गुष्टं समतिक्रमेत् ।
स्त्रीभोग लभते नित्यं पुरुषो नात्र संशयः ॥
कनिष्ठायां तु दीर्घायां सुवर्णस्य तु भागिनः ।
चिपिटा विरलाः शुष्का यस्याङ्गुल्यो भवन्ति वै ।
स भवेत् दुःखितो नित्यं धनहीनश्च जायते । इति ।
जगन्मोहने समुद्र,
यस्य प्रदेशिनी दीर्घा अङ्गुष्ठश्च व्यतिक्रमेत् ।
स्त्रीभोग लभते सोऽपि पुरुषो नात्र संशयः ॥
भार्या च म्रियते तस्य पुत्रो वा प्रथमोऽपि वा।
सा च इस्वा भवेद्यस्य तं विद्यात्कलहमियम् ।।...
मध्यमायां तु दीर्घायां विद्याभोगी भवेन्नरः।
सा च इस्वा भवेद्यस्य भार्याहानिमवाप्नुयात् ।।
अगुली मध्यमा. यस्य समा श्लिष्टा च शोभना ।
पुत्रांश्च जनयेत्सोऽपि अल्पायुश्चैव जायते ॥
अत्र दीर्घत्वं प्रदेशिन्यपेक्षया । इस्वत्वमनामिक्यपेक्षया ।

पुरुषलक्षणप्रकरणे नखलक्षणम् ।
समत्वं प्रदेशिन्या सह । एवमग्रेऽपि द्रष्टव्यम् ।
अनामिकायां दीर्घायां स्वर्णभागी भवेन्नरः ।
सा च इस्वा भवेद्यस्य तं विद्यात्परदारंगम् ।।
यस्य प्रदेशिनी स्थूला तथा चैव कनिष्ठका।
बाल्ये च म्रियते माता समुद्रवचनं यथा ।।
असक्ताभिईस्वाभिरालीभिस्तु मानवः ।
दासो वा दासकर्मा वा भवेन्मयो न संशयः ।।
इत्यङ्गुलिलक्षणम् ।
अथ नखलक्षणम् ।
भविष्ये,
इन्द्रगोपकसङ्काशै खैर्नृपतयः स्मृताः ।
शङ्कावर्त्तप्रतीकाशैनखैर्भवति पार्थिवः ।।
तार्नखैस्तथैश्वर्यं वन्याः पद्मनखा नराः।
श्लक्ष्णैनखैस्तथैश्वर्यं पुष्पितैः सुभगो भवेत् ॥
' पुष्पितैः पुष्पकमलाकारैरिति केचित् । शुभ्रबिन्दुयुतैरि-
.
त्यन्ये ।
सुक्ष्मैः कूर्मोन्नतैः स्निग्धैर्विमलैः सौख्यभार भवेत् ।
श्वेतैनखैर्विरूःश्च पुरुषा दुःखजीविनः ।।
कुशीकाः कुनखैज्ञेयाः कामभोगविवर्जिताः ।
विकृतैः स्फुटितैः स्थूलै खैदारिद्यभागिनः ।।
ब्रह्महत्यां च कुर्वन्ति पुरुषा-हरितैर्नखैः।
बन्धुभिर्विप्रयुज्यन्ते कुलक्षयकराश्च ते ॥ इति ।
सामुद्रतिलके,
स्थूलै खैर्विदीर्णैः शूर्पाकारैः खराश्वनखदीधैः ।
आसितैः सितैर्दरिद्रा भवन्ति तेजोमजारहितैः ॥ इति ।
.

४८
वीरमित्रोदयस्य लक्षणप्रकाशे
इति नखलक्षणम् ।
अथ पादपृष्ठलक्षणम् ।
सामुद्रतिलके,
मांसोपचितं स्निग्धं गृढशिरं कोमलं चरणपृष्ठम् ।
रोमस्वेदविरहितं पृथुलं कमठोनतं शस्तम् ।। इति ।
कमठ: कच्छपः।
इति पादपृष्ठलक्षणम् ।
अथ गुल्फलक्षणम् ।
जगन्मोहने समुद्रः
नराः शूकरगुल्फास्तु नित्यं बन्धनभागिनः ।
समैर्भवन्ति गुल्फैस्तु पुरुषाः सुखभागिनः ।।
गुल्फैस्तु महिषाकारर्वधवन्धनभागिनः ।
वस्तु दु:खिता नित्यं रोमनिरपत्यता ॥ इति ।
इति गुल्फलक्षणम् ।
अथ पाणिलक्षणम् ।
जगन्मोहने समुद्रः,
महापाणिस्तु दीर्घायुः समै?ःखसुखानि च ।
अल्पपाणिरिद्रश्च मोनतैश्चैव दुर्जयः ।। इति ।
भवतीति शेषः।
इति पाणिलक्षणम् ।
अथ जवालक्षणम् ।
जङ्घा तु गुल्फजान्वोर्मध्यदेशः।
भविष्य,
वर्द्धन वाश्वजवानामैश्वर्यं चैव निर्दिशेत् ।
मगजाश्च राजानो.जायन्ते नात्र संशयः ॥

. काकजङ्घा नरा ये तु ते वै दुःखस्य भागिनः । पुरुषलक्षणप्रकरणे.जनालक्षणम् । ४९ मीनजङ्घास्तथैश्वर्य प्राप्नुवन्ति न संशयः । सिंहव्याघ्रसमा जङ्घा धनिनः परिकीर्तिताः ।। रोमशैश्च तथा जबॅ१ःखदारिद्रयभागिनः । शृगालजवाः पुरुषा नित्यं भाग्यविवर्जिताः । दीर्घजङ्घाः स्थूलजङ्घा नित्यं भाग्यविवर्जिताः ।। इति । गारुडे, जका विरलरोमिका। मृदुरोमा समा जवा तथा करिकरप्रभा॥ इति । प्रशस्तेति शेषः । उत्पले समुद्र जङ्घाभिरतिवृसाभिरैश्वर्यमभिनिर्दिशेत् । शृगालजङ्घा दुःखार्ताः श्वजङ्घा नित्यमध्वगाः ॥ इति । सामुद्रतिलके, जङ्घा ऋतसदृक्षा वधबन्धौ निःस्वतां प्रायः । स्थूला दीर्घा मार्ग वितरत्युद्धपिण्डिका जङ्घा ।। ऋक्षो भल्लूकः। श्वशृगालकरभरासभवायसजङ्घोपमा त्वशुभा । इति । इति जङ्घालक्षणम् । अथ जङ्घालक्षणावसरे जका विरलरोमिका" मृदुः रोमा समा जङ्घा " इत्युक्तम् । तत्प्रसङ्गात् रोमलक्षणमुच्यते । तथा च- भविष्यगरुडपुराणयोः, पार्थिवानां भवेद्रोममेकैकं रोमकूपके । पण्डितश्रोत्रियाणां च द्वे द्वे शेये महामते ॥ ७

वीरमित्रोदयस्य लंक्षणप्रकाशे
त्रिभित्रिभिस्तथा निःस्वा मानवा दुःखभागिनः ।
केशाश्चैवं महावाहो निन्दिताः पूजितास्तथा ॥ इति ।
सामुद्रतिलके,
ललितानि स्निग्धानि भ्रमरश्यामानि देहरोमाणि ।
जायन्ते भूमिभुजां मृदुनि विसतन्तुमूक्ष्माणि ॥
सुभगो रोमयुतः स्याद्विद्वान् घनरोमसंयुतो मनुजः ।
रोमैकै नृपतेर्दै द्वे श्रोत्रियधनान्यबुद्धिमताम् ।।
आदीन्येतानि पुनर्निर्विन्यात् मूर्द्धजेष्वेवम् ।
रोमरहितः परित्राट् स्यादधमः स्थूलरूक्षखररोमा ।
पापः पिङ्गलरोमा निस्वः स्फुटिताग्ररोमापि । इति ।
इति रोमलक्षणम् ।
अथ जानुलक्षणम् ।
जानुर्जबोरुमध्यग्रन्थिः।
भविष्ये,
निम्नैः सजानुम्रियते प्रवासे भीमनन्दन ।
सौभाग्यमल्पः कथितं दारिद्यं विकटस्तथा ।।
निम्नस्तु स्त्रीजिता ज्ञेयाः समांस राज्यभागिनः । इति
विकटैः विकरालैः।
.
उत्पले समुद्र
अतिस्थूलौश्चिरं कालं जीवेदेश्वर्यसंयुतः । इति
जानुभिरित्यनुपङ्गः ।
सामुद्रतिलके,
कुञ्जरजानुर्मनुजो भोगयुतः पीनजानुरवनीशः ।
संश्लिष्टसन्धिजातुर्वर्षशतायुर्भवेत्प्रायः ।।
कुम्भनिभं दुर्गततां तालफलाभं तु बहुदुःखम् ।

पुरुषलक्षणप्रकरणे जरुकटिलक्षणे ।
५१
जानुद्वितयं हीनं यस्य सदा सेवते स वधवन्धौ ॥
इंदमेव यस्य विषमं स पुनः प्राप्नोति दारिश्यम् । इति ।
विषमम् एकत्र मांसलं महत् अन्यत्र कृशं स्वल्पमिति ।
इति जानुलक्षणम् ।
अथोरुलक्षणम् ।
जगमोहने समुद्रः,
वृत्तोरुईसितोरुश्च नरः सर्वगुणान्वितः।
अरुभ्यां विकटाभ्यां च स भवेत् स्त्रीषु वल्लभः ॥
स्थूलाग्रमध्यनिम्नेन ते नरोऽध्वनि गामिनः । इति ।
सामुद्रतिलके,
ऊरू यस्य समांसे रम्भास्तम्भभ्रमं वितन्वाते ।
कोमलतनुरोमचिते स जायते भूपतिः प्रायः ।।
स्निग्धावूरू मृदुलौ क्रमेणं पीनौ प्रयच्छतो लक्ष्मीम् ।
विकटौ स्त्रीवल्लभतां गुणवत्तां संहतौ वृत्तौ ॥
स्थूलाग्रे मध्यनते स्यातां मार्गानुसन्धिनी पुंसाम् ।
कठिने चिपिटे विपुले निर्मासे दुर्भगत्वाय ॥ इति ।
इत्यूरुलक्षणम् ।
अथ कटिलक्षणम् ।
वराहसंहितायाम्,
सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः । इति ।
जगन्मोहने समुद्रः,
सिंहव्याघ्रसमा येषां कटिस्ते .दंण्डनायकाः ।
ऋक्षवानरतुल्यामा कटिर्येषां न ते शुभाः ॥ इति ।
उत्पले समुद्र,
१ नृशब्दस्य बहुवचनम् ।
.

५२ वीरामित्रोदयस्य लक्षणप्रकाशे :
सिंहतुल्या कटिर्यस्य स नरेन्द्रो न संशयः।
श्वशृगालगजेन्द्राणां तुल्यां यस्य स निर्धनः ॥ इति ।
सामुद्रतिलके,
यस्य कटिः स्यात् दीर्घा पीना पृथुला भवेत्स वित्तान्यः ।
रोमशकटिदरिद्रो इस्वकटिर्दुर्भगो मनुजः ॥ इति ॥
इति कटिलक्षणम् ।
अथ स्फिग़लक्षणम् ।
स्फिचौ कट्यधस्तनमांसपिण्डौं ।
भविष्यपुराणे,
स्थूलस्फिमण्डलो यश्च निःस्वो भवति मानवः ।
व्याघ्रस्फिमण्डलो राजा मण्डूकस्फिक् नराधिपः ।।
भूमण्डले महाबाहो सिंहस्फिक् सार्वभौमताम् ।
उष्ट्रवानरयोर्यस्य सदृशौ भवतः स्फिचौ
धनधान्यविहीनोऽसौ विज्ञेयो भीमनन्दन ।। इति ।
स्कान्दे,
विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ । इति ।
उत्पले समुद्र
अर्द्धस्फिङ्मनुजो यस्तु व्याघ्रान्तः स तु कीर्तितः । इति ।
व्याघादन्तो मृत्युर्यस्येति ।
इति स्फिगलक्षणम् ।
अथ गुदलक्षणम् ।
सामुद्रतिलके,
यतमांसो गम्भीरः सुकुमारः संवृतः समः शोणः ।
पायुः शुभो नराणां पुनरशुभो भवति विपरीतः ॥ इति ।
इलि गुदलक्षणम् ।

पुरुषलक्षणप्रकरणे वृषणलिङ्गलक्षणे ।
५३
अथ वृषणलक्षणम् ।
भविष्य,
यस्त्वेकवृषणस्तात जले प्राणान् स मुश्चति ।
स्त्रीचञ्चलस्तु विषमैः समै राजा प्रशस्यते ॥
स्त्रीचञ्चलः परदारलम्पटः ।
उदृत्तैश्चापि इस्वायुः शतजीची प्रलम्बकैः।
मणिभिश्चापि रक्तस्तु धनवन्तो भवन्ति वै ।।
उदृत्तैरलम्बैः । मणिभिर्वर्तुलैः ।
सामुद्रतिलके,
शुष्काः स्वयं वा सततं जायन्ते सुप्रतिष्ठिता यस्य ।
स भवति भर्ता नूनं भूमेः सप्ताब्धिवलयायाः ॥
जलमरणमद्वितीयैर्मनुजानां कुलविनाशोऽपि ।
स्त्रीलोलत्वं विषमैः प्राक् पुत्रो दक्षिणोन्नतैषणैः ।।
वामोन्नतैश्च तैरपि दुःखेन समं भवति दुहिता ।
निस्वाः शुष्कस्थूलैरगम्यरमणीरतास्तुरङ्गसमैः ।।
पुनरोषणैर्भवन्ति न चिरायुषः पुरुषाः । इति ।
गुरुडपुराणे विशेषः।
प्रलम्बाभ्यां च धीमत्ता ।
उद्धाभ्यां बहुस्वामी । इति ।
हषणाभ्यां भवतीति, शेषः।
इति वृषणलक्षणम् ।
अथ लिङ्गलक्षणम् ।
भविष्ये,
दक्षिणावर्तलिङ्गस्तु नरो वै पुत्रवान् भवेत् ।
वामावर्ते तथा लिङ्गे नरः कन्यां प्रसूयते ।।
:

५४ वीरमिन्त्रोदयस्य लक्षणप्रकाशे : सिंहव्याघ्रसमो यस्य इस्वो भवति मेहनः। मेहनो लिङ्गम् । भोगवान् स तु विज्ञेयो नरो यो इस्वमेहनः ।। भूमौ पादोपविष्टस्य गुल्फो स्पृशति मेहनः । ईश्वरं तं विजानीयात्प्रमदानां च वल्लभम् ।। ऋजुभिर्वर्तुलाकारैः : पुरुषाः पुत्रभागिनः । स्थूलैः शिरालैर्विषमर्लिङ्गैदारिद्यमादिशेत् ।। निम्नपादोपविष्टस्य भूमि स्पृशति मेहनः । दुःखितं तं विजानीयात्पुरुष नात्र संशयः ॥ इति । स्कान्दे काशीखण्डे, लिङ्गेन कृशहस्वेन राजराजो भविष्यति । इति । वराहसंहितायाम्, लिङ्गेऽल्पे धनवानपत्यरहितः स्यूले विहीनो धन- मेंद्र वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान् । दारियं विनते त्वधोऽल्पतनयो लिङ्गे शिरासन्तते स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ।। अस्यार्थः । अल्पे लिङ्गे धनी सन्ततिहीनश्च | स्थूले धन- हीनः । वामभागविनते लिङ्गे पुत्रद्रव्यरहितः । अन्यथावक्रे दक्षिणभागविनते पुत्रवान् । अघोविनते दरिद्रः । शिराव्याप्ते स्वल्पपुत्रः । स्थूलग्रन्थियुक्त सुखी । लिङ्गे इति सर्वत्र सम्बन्धः। भवतीति, शेषः । मृदु कोमलं लिङ्ग प्रमेहादिरोगैर्मृत्युं करो- ति । प्रमेहाः धातुविकाराः ते च विंशतिः श्लेष्मोद्भूताः दश- पित्तोद्भूताः षट् वातोद्भूताश्चत्वार इति । तथाच- गरुडपुराणे, धन्वन्तरिरुवाच ।

पुरुषलक्षणप्रकरणे लिङ्गलक्षणप्रसङ्गेन प्रमेहनिदानम् ॥५५
प्रमेहाणां निदानं ते वक्ष्येऽहं शृणु सुश्रुत ।
प्रमेहा विशतिस्तत्र श्लेष्मणो दश पित्ततः ।।
षद् चत्वारोऽनिलात्तेषां क्रमाद्वक्ष्यामि लक्षणम् ।
अच्छे बहुसितं शीतं निर्गन्धमुदकोपमम् ।।
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् ।
आविलं कलुषम् ।
इक्षो रसमिवात्यर्थ मधुरं चक्षुरोहतः ॥
सान्द्रीभवेत्पर्युषितं सान्द्रमेहेन मेहति ।
सुरामेही मुरातुल्यमुपर्यच्छमधोद्यतम् ।।.
सहृष्टरोमा पिष्टेन पिष्टवद् बहलं सितम् ।
पिष्टेन पिष्टमेहेन ।
शुक्राभं शुक्रमिकं वा शुक्रमेही प्रमेहति ॥
मूत्रयेत्सिकतामेही सिकतारूपिणोत्पलम् ।
शीतमेही मुबहुशो मधुरं भृशशीतलम् ॥
शनैः शनैः शनैर्मही मन्दं मन्दं ममेहति ।
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ।।
गन्धवर्णरसस्पर्शः क्षारेण क्षारतोयवत् ।
नीलमेहेन नीलाभ कालमेही मषीनिभम् ।।
हारिद्रमेही कटुकं हरिद्रासन्निभं दहत् ।
विध माञ्जिष्टमेहेन मञ्जिष्ठासलिलोपमम् ।।
विश्रमुष्णं सलवणं रक्ताभं रक्तमेहतः ।
वसामेही वसामिश्रं वसामं मूत्रयन्मुहुः ॥
मज्जा मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ।
कषायं मधुरं रूक्षं क्षौद्रमेहं वदेवुधः ।।
हस्तिमस्तद्रवाजसंमूत्रं वेगविवर्जितम् ।

m. वीरमित्रोदयस्य लक्षणप्रकाशे . सलसीकं विद्धं च हस्तिमेही प्रमेहति । इति । प्रमेहादिभिरित्यत्रादिपदेन मूत्रकृच्छ्रादिगुह्यरोगग्रहणम् । कोशनिगूढैर्भूपा दीधैर्भग्नैश्च वित्तपरिहीनाः ।। ऋजुवृत्तशेफा लोलशिरालशिश्नाश्च धनवन्तः ।। इति । कोशो लिङ्गाच्छादनकी त्वक् । शेफो लिङ्गम् । सामुद्रतिलके, स्थूलशिरेण विशालच्छिद्रवता प्रजननेन दारिभ्यम् । इति । इति लिङ्गलक्षणम् । अथ लिङ्गाग्रलक्षणम् । भविष्ये, सुवर्णरजतप्रख्यैर्मणिमुक्तासमप्रभैः । प्रवालसदृशैः इलक्ष्णैर्मणिभिः पार्थिवो भवेत् ।। अनोत्तरो मणिशब्दो लिङ्गारवाचकः। पार्थिव इति जास्य- भिप्रायेणैकवचनम् । रत्नाकृतिमणिर्यस्य समः स्निग्धो विराजते । पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा ॥ समैस्तथोन्नतश्चापि मुस्निग्धैर्मणिभिमुह । धनवन्तस्तथा स्त्रीणां भोक्तारस्ते भवन्ति वै ॥. सोल्वणैश्चापि धनिनो नरा वीरा भवन्ति ते । कर्कशैलिनै रूदीर्घः श्यामर्दिशो व्रजेत् ।। इति । वराहसंहितायाम्, रक्तैराढ्या मणिभिनिद्रव्याः पाण्डुरेमलिनैश्च । बहुपशुभाजो मध्योन्नतैश्च नात्युल्वणैनिनः ।। इति । गारुडे, ५७ पुरुषलक्षणप्रकरणे मूत्रलक्षणम् । समैः खीरवैर्धनिनो मध्यनिम्नश्च कन्यका । इति । भवतीति, शेषः। सामुदतिलके, विद्महेमोपमया महामणौ रेखया नरो धनवान् । दौर्भाग्यवान् शबलया धूसरया जायते निःस्वः ।। इति । इति लिङ्गाग्रलक्षणम् । अथ मूत्रलक्षणम् । भविष्य, मूत्रधारा पतेदेका वलिता दक्षिणा यदि । स भवेत्पार्थिवः पृथ्व्यां समुद्रवचनं यथा ॥ द्वे धारे च तथा स्निग्धे स नरो भोगवान् स्मृतः । बहुधारास्तथा रूक्षाः सशब्दाः पुरुषाधमाः ॥ इति । इदमशुभं फलं सशब्दरूक्षसूत्रधारावहुत्वे ज्ञेयम् । सशब्द- मूत्रधाराल्पत्वे तु शुभं फलं वेदितव्यम् । तथा चोक्तम्- वराहेण, सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च । इति । विशेषान्तरमप्युक्तं तेनैव । द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः । पृथिवीपतयो ज्ञेया विकीर्णमृत्रा धनविहीनाः ॥ इति । यत्तु वराहसंहितावचनम्- एकैव मूत्रधारा वलिता दुःखमदा न सुनदात्री । इति । तदमादक्षिण्यवलितमूत्रैकधाराविषयम् । प्रादक्षिण्ये तु पू- वोदाहृतं भविष्यपुराणोक्तं शुभं फलं वेदितव्यामित्यविरोधः । अनान्यो.विशेप उक्तः- १ लिङ्गाप्रैः। , वीरमित्रोदयस्य लक्षणप्रकाशे उत्पले समुद्रेण, द्विधारं पतते मूत्रं स्निग्ध शब्दविवर्जितम् । भोगवान् स तु विज्ञेयो गवान्यो नात्र संशयः ।। इति । इति मूत्रलक्षणम् । अथ शुक्रलक्षणम् भविष्ये, मीनगन्धं भवेद्रेतो धनवान् पुत्रवान् भवेत् । हविर्गन्धं भवेद्यस्य सर्वाधः श्रोत्रियः स्मृतः ।। मद्यगन्धिर्भवेद्यज्वा पनगन्धितृपः स्मृतः। लाक्षागन्धिर्भवेनिःस्वो बहुकन्या प्रजायते ॥ मधुगन्धिर्भवेदान्यो क्षारगन्धे दरिद्रता । मधु क्षौद्रं न मद्यम् । तत्फलस्य पूर्वमेवोक्तत्वात् । तनुशुक्रः स्त्रीजनको मांसगन्धे च भोगवान् ।। शीघ्रमैथुनगामी यः स दीर्घायुरतोऽन्यथा । अल्पायुर्देवशाल विज्ञेयो नात्र शंसयः ।। इति । शीघ्रमैथुनगामी. मैथुने यस्य शीघ्रं रेतश्च्यवते, रेतोबहु- त्वात् । तथा च- सामुद्रतिलके, यस्य च्यवते रेतो लघु मैथुनगामिनो बहु स्निग्धम् । दीर्घायुः सम्पत्तिं पुत्रानपि विन्दते स पुमान् ॥ निपतति शुक्रं स्तोकं चिरमैथुनसङ्गतस्थायि ! दारेचं सोऽल्पायुवहुकन्याजनकतां भजते ॥ इति । शीघ्रमैथुनेच्छावानिति के चित् । वराहसंहितायाम्, कुसुमसमगन्धरका विज्ञातव्या महीपालाः । इतिः।

पुरुषलक्षणप्रकरणे शुक्रलक्षणपुंस्त्वपरीक्षे। ५९ सामुद्रतिलके, सुरभिद्रव्यसुगन्धे श्रियोऽन्यगन्धे तु दारिधम् । जम्बूवर्णेन सुखी दुग्धसवर्णेन रेतसा नृपतिः ॥ धूमेण दुःखसहितः स्यात् दुःस्थः श्यामवर्णेन । इति जगन्मोहने समुद्र, भीनगन्धन शुक्रेण धनवान् श्रोत्रियो भवेत् । इबिर्गन्धेन शुक्रेण गवाढ्यो जायते नरः ।। मधुगन्धेन शुक्रेण नरः स्त्रीजनवल्लभः । लाक्षागन्धों भवेभिःस्वो मांसगन्धेन तस्करः ।। व्यसनी च वसागन्धे मेदोगन्धेन दुःखितः । श्यामवर्णेन शुक्रेण देशभागी भवेवरः ॥ इति । इति शुक्रलक्षणम् । अथ प्रसङ्गात्पुंस्त्वपरीक्षा उच्यते । तत्राह मिताक्षराया- नारद, पस्याप्सु प्लवते वीर्य हादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरतविपरीतस्तु षण्डकः ।। इति । एतदावश्यकत्वमप्याह- प्रयोगपारिजाते नारदः, अपत्यार्थ स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः। क्षेत्र वीजवते देयं नावीजा क्षेत्रमर्हति ॥ इति । अर्थ वस्तिलक्षणम् । वसत्यस्मिन् मूत्रादिकमिति वस्तिलिंगोपरितनो ना- भेरधोभागः। भविष्ये, ..

६०
वीरामित्रोदयस्य लक्षणप्रकाशे
विस्तीर्णा मांसला स्निग्या वस्तिः पुंसां प्रशस्यते ।
निर्मामा विकटा रुक्षा वस्तिर्यपां न ते शुभाः ॥
गोमायोः सदृशा यस्य श्वानोष्ट्रमहिपस्य च.।
स भवत् दुःखितो नित्यं पुरुषो नात्र संशयः ॥ इति ।
बराहसहितायाम्,
परिशुष्कत्रस्तिशीर्या धनरहिता दुर्भगाश्च विज्ञेयाः ॥ इति ।
उत्पले समुद्र
गोमायोः सदृशा यस्य खरोष्ट्रमहिपस्य च ।
स भवेद् दुःखितो नित्यं धनहीनश्च मानवः ॥ इति ।
सामुद्रतिलके,
श्वशृगालकरभसारभतुल्या बस्तिनता भवति येषाम् ।
सङ्कीर्णा लिन्नास्ते धनहीनाः स्युनराः प्रायः ।। इति ।
इति वस्तिलक्षणम् ।
अध नाभिलक्षणम् ।
भविष्यगरुडपुराणयोः,
विस्तीर्णमण्डलाभिश्च प्रोन्नतामिश्च नामिभिः।
भवन्ति सुखिनो बीर नरा नान्यसमन्विताःत्रा
धनधान्यसमन्विता इति पामन्तरम् ।
निनाभिरय चाल्पाभिः क्लेशभानो भवन्ति ।।
बलिमध्यगता वीर विषमा च विशेषतः।
धनहानि तथा शुलं नित्यं जनयते विभो ।।
वामावर्चा सदा शाठ्यं करोतीति बिदुर्बुधाः ।
करोति मा दक्षिणतः सम्प्रत्ता मनीपिणम् ॥
मनीषा त्रुद्धिः सा चाष्टाङ्गगुणयुक्ता विवक्षिता तथा चोकम्-
गुथ्रपा श्रवणं चव ग्रहणं धारणं तया ।
..

पुरुषलक्षणप्रकरणे नाभि-कुक्षिलक्षणे । ६१
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।। इति ।
श्रोतुमिच्छा शुश्रूषा।
पायता दीर्घमायुरैश्वर्य चोर्ध्वमायता।
गवाढ्यं तमधस्तात्तु करोतीति विदुर्बुधाः ।।
शतपत्रकार्णिकामा नाभिर्यस्य महामते ।
सूपतिं कुरुते सा तु पुरुष नात्र संशयः
वर्नुला यदि गम्भीरा नाभिः पुंसां प्रशस्यते ।
उत्ताना विरला नाभिः सर्वदा दुःखितो भवेत् ।। इति ।
यस्यति, शेषः ।
इति नाभिलक्षणम् ।
अथ कृक्षिलक्षगम् ।
उदरपार्श्वभागौ कुक्षी।
भविष्ये,
समकुक्षिभवद्भोगी निम्नकृतिर्थनापहः ।
मायावीभसमा कुतिस्तया कुद्दककुत्सदा ॥
कुदकं कपटम् ।
राना चोन्नतकुझिन्नु सार्वभौमो महाबलः । इति :
सामुद्रतिलके,
कुतिर्यस्य गभीरा विनिपात सलमत नरः प्रायः।
उचाना रस्य पुनर्नागइन जीवन मोडति ।। इति ।
इनि कुझिटक्षणन् ।
अय पावलदान
पासौ कमायोमागौ।
भविष्ये.
मांजनि पा राका साशन संशयः

६२
वीरमित्रोदयस्य लक्षणप्रकाशे
गारुडे,.
धनिनो विपुलैः पाश्वैः निःस्वा वनव निम्नगैः ।
नृपः पाश्र्वैः समांसलैः॥
मृदुभिः सुसमैश्चैव दक्षिणावर्तरोमाभिः ।
विपरीतैः परमेष्या निद्रव्याः सुखवर्जिताः ।। इति ।
इति पावलक्षणम् ।
अथोदरलक्षणम्।
भविष्ये,
मृगोदरो नरो धन्यो मयूरोदर एव च ।
व्याघ्रोदरो नरपती राजा सिंहोदरो भवेत् ॥
मण्डूकंसदृशो यस्य पुरुषस्योदरो भवेत् ।
स भवेत्पार्थिवः पृथव्यां समुद्रवचनं यथा ।।
समोदरो भवेद्भोगी निःस्वः स्याद्वै घटोदरः। इति ।
वराहसंहितोयाम्,
समजठरा भोगयुता घटपिठरनिभोदरा निःस्वाः ।
सर्पोदरा दरिद्रा भवन्ति बहाशिनश्चैव ॥ इति ।
जठरमुदरम् । घटः प्रसिद्धः । पिठरः उषा, मृन्मयपात्रम् ।
मध्यदेशभाषायां इण्डीति प्रसिद्धा ।
सामुदतिलके,
जठरं यस्य समं स्यादभितः स पुमान्महान्यः ।
भेकांदरो नरपतिवृषभमयूरोदरो भोगी।
वृत्तचोदरः सुखी स्यान्मीनव्याघ्रोदरः सुभगः।
भुजगजठरो भुजिष्यो बहुभोजी जायते मनुजः ।
श्ववृकोदरो दरिद्रः शृगालतुल्योदरोपेतः ॥
पापः कृशोदरः स्यान्मृगशिशुसशोदरचौरः । इति ।

पुरुषलक्षणप्रकरणे मध्य-बलि-हृदयलक्षणानि । ६३
इत्युदरलक्षणम् ।
अथ मध्यलक्षम्..
सामुद्रतिलके,
जायते यस्य मध्यं मुशलोदरसोदरं तनुत्वेन ।
स पुमान्नृपतियो विपर्यये भवति विपरीतः ॥ इति ।
इति मध्यलक्षणम् ।
अथ बलिलक्षणम् ।
वराहसंहितायाम्,
शास्त्रान्तं स्त्रीभोगिनमाचार्य बहुसुतं यथासङ्घयम् ।
:. . एकद्वित्रिचतुर्भिलिभिर्विघान्नृपत्वमबलीभिः॥ ..
विषमवलयो मनुष्या भवन्स्यगम्याभिगामिनः पापाः ।
ऋजुबलयः मुखभाजः परदारदेषिणश्चैव ॥ इति ।
,
उत्पले समुद्र,
अवलिस्तु नृपः प्रोक्तो यज्वा दानकतत्परः । इति ।
इति बलिलक्षणम् ।
अथ हृदयलक्षणम् ।
भविष्ये,
. समोमतं तु हृदयमकम्पं पृथुरेव हि ।. .
अरोमशं मांसलं च पार्थिवानां न संशयः॥
विस्तीर्ण हृदयं येषां मांसलोपचितं भृशम् ।
शतायुषो विजानीयाद्भाग्यवतो महीपतीन् ।
खररोमचितं वीर शिरालं च विशेषतः ।
अधमानां भवेदेवं हृदयं च षडानन ॥ इति ।
इति हृदयलक्षणम् ।
अथवक्षोलक्षणम् ।

• वीरमिनोदयस्य लक्षणप्रकाशे
.
भविष्ये,
समवक्षसोऽर्थयुताः पीनैः शूराः स्मृता बुधैः ।
तनुभिर्द्रव्यहीनाः स्युरसमैश्चाप्यकिञ्चनाः ।।
वध्यन्ते चापि शस्त्रेण नात्र कार्या विचारणा । इति ।
गारुडे,
सुपुत्राः समवक्षोभिः पीनवक्षोभिरूजिताः । इति ।
सामुद्रतिलके,
पृथुलं भवत्युरःस्थलमचलशिलाकटिनमुन्नतं नृपतेः।
मृगनाभिपत्रलतासपानमुरो रोमराजिचितम् ।।
उरसा समेन धनवान् पीनेन भटस्तथाईरोम्णा स्यात् । इति ।
इति वक्षोलक्षणम् । :
अथ स्तनलक्षणम्
जगन्मोहने समुद्रः,
उन्नतोपचिता येषां घनाः स्निग्धाः पयोधराः।
पुरुपा धनिनः शूरा भोगवन्तश्च कर्मभिः ।। इति ।
सामुद्रतिलके,
वृत्ताः स्तनाः प्रशस्ताः सुस्निग्धाः कोमलाः समाः पुंसाम्।
विपमाः परुपा विकटाः प्रायो दुःखाय जायन्ते ।। इति ।
इति स्तनलक्षणम् ।
अथ चूचुकलक्षणम् ।
चूचुकं स्तनाग्रम् ।
भविष्ये,
उद्वद्धचूचुका ये तु मुभगास्ते प्रकीर्तिताः ।
निर्द्धना विपमघर्भवन्तीह मुवीरज ॥
पानरुपचिनिम्नरचूचुकदेवसत्तम ।
:

पुरुषलक्षणप्रकरणे
जत्रु-स्कन्धलक्षणे।
६५
राजानः सुखिनश्चापि भवन्तीह न संशयः ॥ इति ।
गारुडे,
अनुद्धतैश्चूचुकैश्च भवन्ति सुभगा नराः । इति ।
इति चूचुकलक्षणम् ।
अथजत्रुलक्षणम् ।
जधुणी स्कन्धसम्धी।
भविष्ये,
जत्रुभिर्विषमैीर जातिहीनो भवेन्नरः ।
यस्योन्नतं भवेदङ्ग स भोगी नात्र संशयः ।।
निर्मासविषमैर्वीर निःस्वो निम्नैः प्रचक्ष्यते ।
धनवांश्च भवेत् हीनैः सुखभोगसमन्वितः ।। इति ।
गारुडे,
विषमैजत्रुभिनि:स्वा अस्थिवद्धैश्च मानवाः । इति ।
इति जत्रुलक्षणम् ।
अथ स्कन्धलक्षणम् ।
भविष्ये,
अव्युच्छिन्नौ तथा श्लिष्टौ विपुलौ च सुराधिप ।
शूराणमीशावंसौ नगजानन्दवर्द्धनः ।।
निर्मासौं रोमशौ भग्नावल्पौ वापि विशेषतः ।
निर्द्धनस्येदृशावंसौ प्रख्यातौ व्योमकेशज-॥ इति ।
जगन्मोहने समुद्र,
वृषस्कन्धा गजस्कन्धाः कोलस्कन्धाश्च ये नराः।
सर्वे ते पार्थिवा ज्ञेया महाभोगा महाधनाः ॥ इति ।
उत्पले समुद्रः
कदलीस्तम्भसङ्काशा अजस्कन्धाश्च ये नराः ।

६६
वीरमित्रोदयस्य लक्षणप्रकाशे
राजामस्ते हि विज्ञेया महाकोशा महाबलाः ॥ इति ।
इति स्कन्धलक्षणम् ।
अथ कक्षालक्षणम् ।
पाहुमूले कक्षे ।
भविष्य,
अस्वेदनोन्नते वत्स तथा पीने षडानन ।
समरोमसुगन्धे च कक्षे नित्यं क्षमाभृताम् ॥ इति ।
गारुडे,
कक्षाऽश्चत्थदला श्रेष्ठा मुगन्धमूदुरोमिका ।
अन्यथा त्वर्थहीनानाम् । इति ।
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिता।
नृपाश्चोन्नतकक्षाः स्युणिमा विषमकक्षकाः ।। इति ।
इति कक्षालक्षणम् ।
अथ बाहुलक्षणम् ।.
भविष्ये,
उद्बद्धवाहुर्यस्तु स्याद्वधवन्धमवाप्नुयात् ।
दीर्घवाहुर्भवेद्राजा समुद्रवचनं यथा ॥
प्रलम्बवाहुर्विज्ञेयो नरः सर्वगुणान्वितः ।
इस्ववाहुर्भवेदासः परमेष्यकरोऽपि वा ।।
समवृत्तभुजो यस्तु दीर्घपीनभुजाश्रयः ।
सम्पूर्णबाहू राजा स्यादित्याह स पयोनिधिः ।।
इभानसदृशौ वृत्तौ समौ पीनौ च सुत्रत ।
आजानुलम्बिनौ वाहू पार्थिवानां न संशयः॥
इभाङ्गं गजकरः।
दरिद्राणां रोमशौ इस्वौ बाहू यो सुरोत्तम ।

।
पुरुषलक्षणप्रकरणे माणिवन्धलक्षणम् । ६७
तस्कराणां च विषमौ स्थूलो सूक्ष्मौ च सुव्रत ॥ इति ।
स्कान्दे
वामावत्तौं सुमलम्बी दोषौ दिनक्षणोचितौ । इति ।
दोषौ हस्तौ।
सामुद्रतिलके,
गोपुच्छाकृति पीनं हीनं खररोमभिर्दीर्घम् ।
निर्मग्नशिरासन्धि प्रशस्यते भुजयुगं पुंसाम् ।। इति ।
इति बाहुलक्षणम् ।
अथ मणिबन्धलक्षणम् ।
मणिबन्धः पाणिमूलम् ।
गारुडे.
मणिबन्धैनिगूढैश्च सुश्लिष्टैश्च सुसन्धिभिः ।
नृपा हीनः करच्छेदः सशब्दैनवार्जिताः ॥ इति ।
वराहसंहितायाम्,
मणिबन्धननिगूढैः सुश्लिष्टमुसन्धिभिर्भूपाः ।
हीनैहस्तच्छेदः श्लयैः सशब्दैश्च निद्रव्याः।। इति ।
सामुद्रतिलके,
रेखाभिः पूर्णाभिस्तिमृभिः करमूलमङ्कितं यस्य ।
धनकाञ्चनरत्नयुतं श्रीः पतिमिव भजति लुब्धं च ॥
त्रिपरिक्षेपा व्यक्ता यवमाला भवति यस्य मणिवन्धे ।
नियतं महार्थसहितः स सार्वभौयो नराधिपतिः॥
करमूले यवमाला द्विपरिक्षेपा मनोहारा यस्य ।
मनुजः स राजमन्त्री विपुलमतिर्जायते मतिमान् ॥
सुभगैकपरिक्षेपा यवमाला यस्य पाणिमूले स्यात् ।
भवति धनधान्ययुतः श्रेष्ठो जनपूजितो मनुजः ॥
.

६८.
वीरमित्रोदयस्य लक्षणप्रकाशे
1.
यदि तिस्रो यवमालाः मणिवन्धादुभयतो विनिःसृत्य ।
परिवेष्टयन्ति पृष्ठं तदधिकमपीह फलं ज्ञेयम् ।। इति ।
विवेकविलासेऽपि,
मणिबन्धे यवश्रेण्यः तिस्रश्चेत्स नृपो भवेत्
यदि ताः पाणिपृष्ठेऽपि ततोऽधिकतरं फलम् ।।
द्वाभ्यां तु यवमालाभ्यां राजमन्त्री धनी बुधः।
एकया यवपक्त्या तु श्रेष्ठो बहुधनोचितः ।। इति ।
इंति मणिबन्धलक्षणम् ।
अथ करलक्षणम् ।
गारुडे,
कपितुल्यकरा भूपा व्याघ्रतुल्यकरा मलाः ॥ इति ।
मलाः पापिनः । स्कान्दे-
काशीखण्डे,
कमठीपृष्ठकठिनावकर्मकरणौ करौ ।
राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ ॥ इति ।
कमठ:.कच्छपः।
सामुद्रतिलके,
पाणी नृपतेः श्लक्ष्णौ निःस्वेदौ मांसलावपच्छिद्रौ ।
अरुणावकर्यकठिनावृष्णो दीर्घाङ्गुली स्निग्धौ ।।
विस्तीणों ताम्रनखौ स्यातां कपिवत्करौ धनाढ्यस्य ।
शार्दूलवंद्विरुक्षौ विकृतौ निःस्वस्य निर्मासौ ॥ इति ।
इति करलक्षणम् ।
अथ करपृष्ठलक्षणम् ।
सामुद्रतिलके,
अथ शस्तं करपृष्ठं विस्तीर्ण पीनमुन्नतं स्निग्धम् ।
.

--
१९
पुरुषलक्षणप्रकाशे करतललक्षणम् ।
निगूढशिरं परितः क्षोणिपतेः फणिफणाकारम् ।।
मणिवन्धसमं निम्नं निर्मासं रोमसञ्चितं सशिरम् ।
करपृष्ठं निःस्वानां रूक्षं परुषं विवर्ण स्यात् ।। इति ।
विवेकविलासेऽपि,
करपृष्ठं तु विस्तीर्ण पीनं स्निग्धं समुन्नतम् ।
श्लाघ्यं गूढशिरं नृणां फणभृत्फणसन्निभम् ।।
विवर्ण परुषं रूक्षं रोमशं मांसवर्जितम् ।
मणिबन्धसमं निम्नं न श्रेष्ठं करपृष्ठकम् ॥ इति ।
इति करपृष्ठलक्षणम् ।
अथ करतललक्षणम् ।
भविष्ये,
निम्नं करतलं यस्य पितृवित्तं च तस्य वै ।
स भवेद्देवशाल तथा हीनश्च मानवः ।।
अतिवृत्तेन निम्नेन धनी करतलेन वै।
उत्तानकतलो दाता भवतीह न संशयः ॥
विषमा भवन्ति विषमैनि:स्वाश्चापि विशेषतः।
विषमाः क्रूराः।
करतलैर्देवशार्दूल लाक्षाभैरीश्वराः स्मृताः ॥
अगम्यागामिनः पीते रूक्षेनिर्द्धनता स्मृता ।
अपेपयानं कुर्वन्ति नीलकृष्णैस्तथैव च ॥ इति ।
सामुद्रतिलके,
बहुरेखापरिकलितं पाणितलं भवति यस्य मनुजस्य ।
यदि वा रेखाहीनं सोऽल्पायुर्दुखितो निःस्वः ॥ इति ।
विवेकविलासेऽपि,
पाणेस्तलेन शोणेन धनी नीलेन मयपः ।

वीरमित्रोदयस्य लक्षणप्रकाशे
.
पीतेनागम्यनारीगः कल्माषणावरेप्सितः ।।
दातोन्नते तळे पाणेनिम्ने पितृधनप्सितः ।
धनी संवृतनिम्ने स्याद्विषमे निर्धनः पुनः ॥ इति ।
इति करतललक्षणम् ।
अथ रेखालक्षणम् ।
भविष्यपुराणे,
निम्नस्निग्धा भवेन्नृणां रेखा करतले गुह ।
धनिनां न दरिद्राणामित्याह स पयोनिधिः ॥
यस्य मीनसमा रेखा कर्मासद्धिस्तु दृश्यते ।
धनवान् स तु विज्ञेयो बहुपुत्रध.मानवः ।।
तुला यस्य तु वै दीर्घा करमध्ये हि दृश्यते ।
वाणिज्यं सिध्यते तस्य पुरुषस्य न संशयः ॥
सूर्यः पाणितले. यस्य द्विजस्य तु विशेषतः ।
सोमः पाणितले यस्येति.पाठान्तरम् ।
यजयाजी भवेन्नित्यं बहुवित्तश्च मानवः ।।
औलो वाप्यथवा वृक्षः करमध्ये हि दृश्यते ।
अचला श्रियमाप्नोति बहुमृत्यसमन्वितः ।।
शक्तितोमरवाणासिरेखा चापोपमा भवेत् ।
यस्य हस्ते महाबाहो स जयेद्विग्रहे रिपून् ।
ध्वजो वाप्यथ:वा शङ्खः करमध्ये तु दृश्यते ।
समुद्रयायी स भवेद्वली च सततं गुह ॥
श्रीवत्समय वा पद्म वजं वा चक्रमेव वा।
रयो वाप्यय वा कुम्भो यस्य हस्ते प्रकाशते.॥
श्रीवत्सं चक्राकारो रेखाविशेषः । मदुरोमावर्तविशेषः
श्रीवत्समिति तु रायमुकुटे ।
.

N
पुरुषलक्षणप्रकरणे करतलरेखालक्षणम् । ७१
राजानं तं विजानीयात्परसैन्यविमर्दनम् ।
दक्षिणे तु कराङ्गुष्ठे यवो यस्य तु दृश्यते ॥
सर्वविद्याभवक्ताऽसौ भवेदै नात्र संशयः। इति ।
वराहसंहितायाम,
अङ्गुष्ठयवैराळ्याः सुतवन्तोऽङ्गुष्ठमूलजैश्च यवैः ।
तिस्रो रेखा मणिबन्धनोत्थिताः करतलोपगा नृपतेः ।।
मीनयुगाड़ितपाणिनित्यं सत्रदो भवति ।
वज्राकारा धनिनां विद्याभाजां तु मीनपुच्छनिमा ।
शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः ।
कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति भूपालाः ।।
दामनिर्भश्च गवाढ्याः स्वस्तिकरूपाभिरैश्वर्यम् ।
स्वस्तिकश्चतुष्कः।
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः ।
कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ।।
मकरध्वजकोष्ठागारसाभिभाभिर्महाधनोपेताः ।
कोष्ठागारं कोशगृहम् ।
वेदीनिभेन चैवामिहोत्रिणो ब्रह्मतीर्थेन ।
अङ्गुष्ठमूळे ब्रह्मतीर्थम् । तचेत् यज्ञवेदीसदृशं तदाऽमिहोत्रि-
पो भवन्ति ।
वापीदेवकुलाढ्यै कुन्ति च त्रिकोणाभिः ।
देवकुलं देवमासादः । आदिपदेन सिंहासनरथहयादीनां
ग्रहणम् । त्रिकोणाः शृङ्गाटकामा इति यावत् ।
अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः ॥ इति ।
गरुडपुराणे,
कुलरेखा तु प्रथमा अङ्गुष्ठादनुवर्तते ।

७२
वीरमित्रोदयस्य लक्षणप्रकाशे
मध्यमा धनरेरवा तुं आयूरेखा ततः परम् ।।
यः सुमीनाङ्कितकरो भवेत्सत्रपदो नरः।
वज्राकारश्च धनिनां मत्स्यपुच्छोऽणिमा बुधः ॥
वज्राकारः वज्रसदृशरेखाङ्कितः । अणिमा ऐश्वर्यम् । बुधो
विद्वान् । भवतीति, शेषः । स्कान्दे-
काशीखण्डेऽपि,
श्रीवत्सवज्रचक्राब्जमत्स्यकोदण्डदण्डवान् ।
तथाऽस्य करगा रेखा यथा स्युस्त्रिदिवस्पतेः ॥ इति ।
जगन्मोहने समुद्रः,
कनिष्ठामूलसम्बद्धा आयुरेखा च कीर्तिता।
द्वितीया धनरेखा च तृतीया कुलवर्द्धिनी ।।
यदि पूर्णाश्च रेखाः स्युः पूर्ण तस्य सुलक्षणम् ।
त्यक्त्वाऽधो मणिवन्धं या रेखा स्यात्करगामिनी ।।
सुवर्णरत्नराज्यश्रीदायिका सा न संशयः ।
अङ्गुष्ठस्यापि मध्येऽपि ब्रूते नृपतिमुत्तमम् ।।
मध्ये तर्जन्यङ्गुष्ठान्तराले।
सैव तर्जनिकां प्राप्य दत्ते साम्राज्यमग्रिमम् ।
सेनापतिधनशो वा मध्यमागतरेखया ।।
अनामिका पुनः श्रेष्ठधनवान् सर्वदा नरः।
सुखिनं सुभगं वापि सम्पाप्ता सा कनिष्ठिकाम् ।।
करोति सत्यमेवैपा यद्यच्छिन्ना मुवर्णभाक् ।
भवतीति, शेषः।
यावन्त्यो मणिवन्धायुर्लेखयोरन्तरे स्थिताः ॥
रेखा इति, शेषः।
सहोदरगणस्तावान् विज्ञेयः पाणिपल्लवे ।
,

.
पुरुषलक्षणप्रकरणे कररेखालक्षणम् ।
स्थिताश्चान्ते च या रेखाः कनिष्ठाजीवरेखयोः ।।
तावन्त्यो महिलास्तस्य स्त्रियास्तावन्मिता धवाः । इति ।
महिलाः स्त्रियः।
उत्पले समुद्रः,
.
रक्ते पाणितले यस्य द्विजस्य तु विशेषतः ।
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः ॥
श्रीवत्समथ वा पगं वजं चामरमेव वा ।
यस्य हस्ते तु दृश्येत स भवेत्पृथिवीपतिः ॥ इति ।
हेमाद्रौ-
नारदीयसंहितायाम्,
पद्ममष्टदलाकारमच्छिन्नं पाणिपल्लवे ।
अपि हीनकुले जातः क्षितिपालो भवेन्नरः ।।
अभ्यन्तरमुखं मत्स्यं यस्य पाणितले भवेत् ।
स तु लक्ष्मीमवाप्नोति समुद्रस्य वचो यथा ॥
अमत्स्यस्य कुतो विद्या अयवस्य कुतो धनम् । इति ।
प्रयोगपारिजाते,
अङ्गुष्ठोदरमध्यस्थो यवो यस्य विराजते ।
उत्पन्नभक्ष्यभोजी तु स नरः मुखमेधते ॥
रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता ।
रक्ताभिः सुखमाप्नोति कृष्णाभिर्दुःखितो भवेत् ॥
अङ्कुशं कुण्डलं चक्रं यस्य पाणितले भवेत् ।
तस्य राज्यं विनिर्दिष्ट समुद्रवचनं यथा ॥
मत्स्ये शतं विजानीयान्मकरे तु सहस्रकम् ।
पझे कोर्टी विजानीयाच्छङ्के कोटिसहस्रकम् ।। इति ।
सामुद्रतिलके,
१०

७४
वीरमित्रोदयस्य लक्षणप्रकाशे
अधुना मीनाद्याकृतिरेखाणां लक्षणं स्फुटं वक्ष्ये ।
वामकर नारीणां दक्षिणपाणी नराणां तु ॥
जीवितमरणं लाभालाभं सुखदुःखमिह जगत्यखिलम् ।
कररेखाभिः प्रायः प्राप्नोति नरोऽथ नारी वा ॥
अन्तर्मुखन मीनद्वयेन पूर्णेन पाणितलमध्यम् ।
यस्याङ्कितं भवेदिह स धनी सत्रप्रदो मनुजः ॥
अच्छिन्ना गम्भीरा पूर्णा रक्ता जदलनिभा मृदुला ।
अन्तर्वृत्ता स्निग्धा कररेखा शस्यते पुंसाम् ।।
मधुपिङ्गाभिः सुखिनः शोणाभिस्त्यागिनो गभीराः स्युः ।
सूक्ष्माभिध(मन्तः समाप्तमूलाभिरथ सुभगाः ॥
पल्लविता विच्छिन्ना विषमाः परुषाः समाः स्फुटितरूक्षाः।
विक्षिप्ताश्च विवर्णा हरिताः कृष्णाश्च पुनरशुभाः ।।
आ पाणिमूलकरभानिःसृत्याङ्गुष्ठतर्जनीमध्ये ।
नूनं भवन्ति तिस्रो गोत्रद्रव्यायुषां रेखाः ॥
भिन्नाभिश्छिन्नाभिः स्वल्पाभिर्भवन्ति कुलधनायूंषि ।
रेखाभिर्दीर्घाभिर्विपरीताभिस्तु विपरीतम् ।।
मणिवन्धानिर्गच्छति रेखा यस्य प्रदेशिनीमूलम् ।
वहुवन्धुजनाकीर्णस्तस्य पुनर्जायतेऽभिजनः ॥
लघ्व्या पुनर्नराणां लघुरिह दी? दीर्घया वंशः ।
परिभिन्नो विज्ञेयः प्रभिन्नया छिन्नया छिन्नः ।।
न च्छिन्ना न स्फुटिता दीर्घतरा न पल्लवा पूर्णा ।
ऊर्ध्वा रेखा कुरुते सहस्रजनयोपमेकाऽपि ।
सा ब्राह्मणस्य रेखा वेदकरी क्षत्रियस्य राज्यकरी ।
वैश्यस्य महार्थकरी सौख्यकरी भवति शूद्रस्य ।।
आलिखितं काकपदं धनरेखायां तु दृश्यते यस्य ।

पुरुषलक्षणप्रकरणे कररेखालक्षणम् । ७५
अर्जयति धनानि पुनस्तल्लक्षमपि स व्ययं कुरुते ॥
इह ताभिः पूर्णाभिः पूर्णां प्राप्नोति सम्पदं सदसि ।
मध्याभिर्वा मध्यां इस्वाभिर्वा पुमान् इस्वाम् ।।
यदि रेखा सर्वाङ्गुलिसमस्तपर्वान्तरे स्थिता व्यक्ता ।
स्पष्टो यवोऽपि पुंसां महीयसां तन्महाशत्वम् ।।
रेखाः कनिष्ठिकायुर्लेखामध्ये नरस्य यावत्यः ।
तावत्यो माहिलाः स्युमहिलायाः पुनरपि मनुष्याः ॥
रेखाभिर्विषमाभिविषमास्समाभिरथ सपशीलाः ।
हीनतरा हीनाभिधुवमधिकतराः समधिकामिः ।।
पुष्टाभिर्हि पुनः कन्या रेखाभिरथ सुदीर्घाभिः ।
सुभगा सूक्ष्माभिः स्यात्स्फुटिताभिर्दुभंगा नारी ।।
मूलेऽङ्गुष्ठस्य नृणां स्थूला रेखा भवन्ति यावत्यः ।
तावन्तः पुत्राः स्युः सूक्ष्माभिः पुत्रिकास्ताभिः ।।
यावत्यो मणिबन्धायुलेखान्तःमतिष्ठिताः स्थूलाः ।
तावत्सङ्ख्याकान् भ्रातॄन् वदन्ति सूक्ष्माः पुनर्भगिनीः ।।
रेखामिश्छिन्नाभिः सम्भावितमृत्यदो ज्ञेयाः ।
यावत्यस्ताः पूर्णा नियतं जीवन्ति तत्सङ्ख्याः ।।
मीनो मकरः शङ्खः पनो वाऽन्तर्मुखः सदा फलदः ।
पाणौ वहिर्मुखो यदि तस्य फलं पश्चिमे वयसि ।।
छिन्नैर्भिः स्फुटितरव्यक्तैः किमपि नास्ति फलमेतैः ।
जायन्ते पाणितले प्रायोऽमी सार्वभौमानाम् ।।
उडुपं वा नौका वा पोतो वा यस्य करतले पूर्णः ।
धनकाञ्चनरनानां पानं सांयात्रिकः स स्यात् ।।
सांयात्रिका पोतवणिक् ।
जायन्ते गोमन्तः मासादैामभिः स्फुटं मनुजाः ।

७६
वीरमित्रोदयस्य लक्षणप्रकाशे
.
-
निधिनायकाः कमण्डलुकलशस्वस्तिकपताकाभिः ॥
यस्य सदण्डं छत्रं चामरयुग्मं प्रतिष्ठितं पाणौ ।
सोऽम्बुधिरसनावासा. भुनक्ति भूमि भुजिष्योऽपि ॥
विषस्य यस्य यूपो वेदिनिभं ब्रह्मतीर्थमपि हस्ते ।
विश्वाधिपतिनियतं स भवेदथ वाऽग्निहोत्रीशः ॥
भाग्येन भवन्ति यवाः पुंसामगुष्ठपर्वसु स्पष्टाः ।
योषाविशेषनिमितं कर्म कृशं यशस्तुरङ्गस्य ।
सुतवन्तः श्रुतवन्तो जायन्तेऽङ्गुष्ठमूलजैस्तु यवैः ।
मध्यगतैर्धनकाञ्चनरत्नाढ्या भोगिनः सततम् ।।
त्रिपरिक्षेपा मूलेऽङ्गुष्ठगता भवति यस्य यवमाला ।
द्विपसुसमिद्धः स पुमान् राजा वा राजसचिवो वा ।।
यस्य द्विपरिक्षेपा सैव नरो राजपूजितः स स्यात् ।
यस्यैकपरिक्षेपा यवमाला सोऽपि वित्ताढयः॥
अङ्गुष्ठस्याधस्तात्काकपदं भवति यस्य विस्पष्टम् ।
स नरः पश्चिमकाले शूलेन विपद्यते सद्यः॥
अव्यक्ताः स्युस्तनवः खण्डा रेखाः करे स्थिता यस्य ।
तिग्मांशोरिव रजनी श्रीस्तस्य पलायते सततम् ।। इति ।
विवेकविलासेऽपि,
सूक्ष्माः स्निग्धाश्च गम्भीराः प्रलम्बा मधुपिङ्गलाः ।
अव्यावृत्तगतिच्छेदाः करे रेखाः शुभा नृणाम् ।।
त्यागाय शोणगम्भीराः सुखाय मधुपिङ्गलाः ।
सूक्ष्माः श्रियै भवेयुस्ताः सौभाग्याय समूलकाः ।।
छिन्नाः सपल्लवा रूक्षा विपमाः स्थानकच्युताः ।
विवर्णाः स्फुटिताः कृष्णा नीलास्तन्व्यश्च नोत्तमाः ।।
क्लेशं सुपल्लवा रेखा छिन्ना जीवितसंशयम् ।
-

७७
पुरुषलक्षणप्रकरणे कररेखालक्षणम् ।
कदन्नं परुषा द्रव्यविनाशं विषमार्पयेत् ।
मणिबन्धात् पितुलेखा करभात् विभवायुषोः ।
द्वे लेखे यान्ति तिम्रोऽपि तर्जन्यङ्गुष्ठकान्तरम् ।।
येषां रेखा इमास्तिस्त्रः सम्पूर्णा दोषवर्जिताः ।
तेषां गोत्रधनायूंषि सम्पूर्णान्यन्यथा न तु ॥
मणिबन्धोन्मुखा आयुर्लेखायां ये तु पल्लवाः ।
सम्पदे ते बहिर्ये ते विपदेऽगुलिसम्मुखाः ।।
गत्वा मिलियोः प्रान्ते द्रव्यपित्रोच रेखयोः ।
गृहबन्धो विनिर्देश्यो गृहभङ्गोऽन्यथा पुनः ।।
आयुर्लेखावसानाभिलेखाभिर्मणिबन्धतः ।
स्पष्टाभिर्धातरोऽस्पष्टतराभिर्जामयः पुनः ।।
जामयो भगिन्यः।
अस्पष्टाभिरदीर्घाभितजाम्यायुषस्त्रुटिः।
यवैरङ्गुष्ठमूलोत्यैस्तत्सङ्ख्याः सूनवो नृणाम् ॥
यवैरङ्गुष्ठमध्यस्थैविद्याख्यातिविभूतयः ।।
शुक्लपक्षे तदा जन्म दक्षिणाङ्गुष्ठजैश्च तैः ।
कृष्णपक्षे नृणां जन्म वामाङ्गुष्ठगतैर्यवैः ।
एकोऽप्यभिमुखस्तस्यावश्यं श्रीवृद्धिकारणम् ॥
सम्पूर्णौ किं पुनस्तौ द्वौ पाणिमूले स्थितौ नृणाम् ।
सिंहासनदिनेशाभ्यां नन्द्यावर्तेन्दुतोरणैः ॥
पाणिरेखास्थितैर्माः सार्वभौमा न संशयः।
आतपत्रं करे यस्य दण्डेन सहितं पुनः ॥
चामरद्वितयं चापि चक्रवर्ती स जायते ।
त्रिकोणरेखया सीरमुसलोलुखलादिना ।।
वस्तुना हस्तजातेन पुरुषः स्यात्कृषीवलः।

७८ वीरमित्रोदयस्य लक्षणप्रकाशे . गोमन्तः स्युनराः सौधैर्दामभिः पाणिसंस्थितैः ।। कमण्डलुध्वजौ कुम्भस्वस्तिको श्रीमदौ नृणाम् । अनामिकान्त्यपर्वस्था प्रतिरेखा प्रभुत्वकृत् ।। ऊर्ध्वा पुनस्तले तस्या धर्मरेखेयमुच्यते । रेखाभ्यां मध्यमास्थाभ्यामाभ्यां प्रोक्तविपर्ययः । तर्जनीगृहवन्धान्तलेखा स्यात्सुखमृत्युदा । अङ्गुष्टपितरेखान्तास्तिर्यग्रेखाः पदप्रदाः ॥ अङ्गुष्टस्य तले यस्य रेखा काकपदाकृतिः । तस्य स्यात्पश्चिमे काले विपत्तिः शूलरोगतः ।। अत्र हेमाद्रिणा आयुरेखामणिबन्धमध्ये प्रदेशिनी प्रापि- णीभिस्तिमृभिलेखाभिः शतमायुरित्युक्तम् । तच्चोदहृतबहुवचन- विरुद्धत्वान्मूलानुपलम्भाच्चोपेक्षणीयम् । इति कररेखालक्षणम् । अथाङ्गुष्टलक्षणम् । सामुद्रतिलके, ऋजुरङ्गुष्ठः स्निग्धस्तुङ्गो वृत्तः प्रदक्षिणावर्तः । अङ्गुष्टेऽपि धनवतां सुघनानि समानि पर्वाणि ॥ इति । इत्यङ्गुष्टलक्षणम् । अथाङ्गुलीलक्षणम् । भविष्य, विरलाङ्गुलयो ये तु तान् दरिद्रान् प्रचक्षते । धनिनस्तु महाबाहो ये घनाङ्गुलयो नराः ।। विरलाश्च तथा रूक्षा दृश्यन्तेऽङ्गुलयः करे । स भवेत् दुःखितो नित्यं नरो दारियभाजनम् ॥ इति । गारुडे, . ,

पुरुषलक्षणप्रकरणे अङ्गुलिलक्षणम् । ७९
हस्ताङ्गुलय एव स्युरायुर्दावलिताः शुभाः।
मेधाविनां च सूक्ष्माः स्यु त्यानां चिपिटाः स्मृताः ॥
अवलिताः अवक्राः । आपत्वात्सन्धिः । मेधा अतीतानु-
स्मृतिः। तथा चोक्तम्-
'' अतीतानुस्मृतिर्मेधा तत्कालग्राहिणी मतिः ।
शुभाशुभविचारज्ञा प्रज्ञा धीरैरुदाहृता ॥ इति ।
स्थूलाङ्गुलीभिनिःस्वाः स्युनताभिः शस्त्रमृत्यवः ।
नताभिः बहिः, करपश्चाद्भागे इत्यर्थः । बहिर्नम्राभिरगु-
लीभिः शस्त्रघातेन मृत्युर्जायत इत्यर्थः । तथा चोक्तम्-
विवेकविलासे,
यच्छन्ति विरलाः शुष्काः स्थूला वक्रा दरिद्रताम् ।
शस्त्रघातं बहिर्नम्राश्चेटत्वं चिपिटाश्च ताः ॥ इति ।
अङ्गुष्ठमूलजैः पुत्री स्यादीर्घागुलिपर्वकः ।
दीर्घायुः सधनश्चैव निर्धनो विरलाङ्गुलिः ॥ इति ।
सामुद्रतिलके,
नियतं कनिष्ठिकाङ्गुलिरनामिकापर्वयुगलमुल्लङ्ग्य ।
यद्यधिकतरा पुंसां धनमधिकं जायते प्रायः ॥
दीर्घाभिरङ्गुलीभिः सौभाग्ययुतः सदीर्घपर्वाभिः ।
विरलाभिः कुटिलाभिः शुष्काभिर्भवति धनहीनः ।।
छिद्रं मिथः कनिष्ठाऽनामामध्यामदशिनीनां स्यात् ।
वृद्धत्वे तारुण्ये वाल्ये क्रमशो नरस्य सुखम् ॥ इति ।
विवेकविलासे,
अनामिकान्त्यरेखायाः कनिष्ठेह यदाधिका ।
धनवृद्धिस्तदा पुंसां मातृपक्षो बहुस्तथा ॥
मध्यमामान्तरेखाया अधिका यदि तर्जनी ।

८०
वीरमित्रोदयस्य लक्षणप्रकाशे
प्रचुरस्तत्पितुः पक्षः श्रीश्च व्यत्ययतोऽन्यथा ॥
अङ्गुष्ठस्याङ्गुलीनां च यद्यूनाधिकता भवेत् ।
धनैर्धान्यैस्तथा हीनो नरः स्यादायुषाऽपि च ।।
तर्जनीमध्यमारन्धे मध्यमानामिकान्तरे।
अनामिकाकनिष्ठान्तश्छिद्रे सति यथाक्रमम् ।।
जन्मतः प्रथमे त्वंशे द्वितीयेऽथ तृतीयके ।
भोजनावसरे दुःखं केऽप्याहुः श्रीमतामपि ॥
आवर्ता दक्षिणाः शस्ताः साङ्गुष्ठाङ्गुलिपर्वसु । इति ।
इत्यङ्गुलीलक्षणम् ।
अथ नखलक्षणम्।
गरुडपुराणे,
तुषतुल्यनखाः क्लीबाः कुटिलैः स्फुटितैनराः ।
निःस्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः ।।
तानै पा धनाढ्याश्च । इति ।
परतर्ककाः परोपजीविनः, अस्वतन्त्रा इति यावत् ।
गर्गसंहितायाम्,
शूर्पशुक्तीतुषनखा नैकवर्णा महावलाः ।
स्फुटिताधनखाश्चैव स्मृता द्रव्यविवर्जिताः ॥
निर्मलैलोहिताभैश्च नलैर्भवति पार्थिवः । इति ।
सामुद्रतिलके,
विद्रुमरुचयः श्लक्ष्णाः पाणिनखाः कच्छपोन्नताः स्निग्धाः।
सशिखाः क्रमेण विपुलाः पर्वार्धमिता महेशानाम् ।।
सशिखाँः साग्राः ।
दीर्घाः कुटिला रूक्षा शुक्तिनिभा यस्य करनखा विशिखाः।
तेजोमृजाविहीनाः स हीयते धान्यधनभोगैः ।।
• .

पुरुषलक्षणप्रकरणे नखादिलक्षणानि । ८१ पुष्पयुतैर्दुःशीलाः श्वेतैः श्रवणास्तुषोपमैः क्लीवाः । पुष्पयुतैः श्वेतबिन्दुयुक्तैः । श्रवणाः परवा कर्णनतत्प- राः, सूचका इत्यर्थः। अपसव्यसव्यकरयोनखेषु सितविन्दवचरणयोर्वा । आगन्तवः प्रशस्ताः पुरुषाणां भोज़राजमतम् ॥ इति । विवेकविलासेऽपि, ताम्रस्निग्धोच्छिखोत्तुङ्गापर्वार्धोत्था नखाः शुभाः। श्वेतैर्यतित्वमस्थाननखैः पीतैः सरोगता ॥ पुष्पितैर्दुष्टशीलत्वं क्रौर्य व्याघ्रोपमैनखः । शुक्त्याभैः श्यामलैः स्थूलैः स्फुटितात्रैश्च नीलकैः । अधोतरूक्षवक्रश्च नखैः पातकिनोऽधमाः । तर्जन्यादिनर्भग्नैर्जातमात्रस्य तु क्रमात् ॥ अर्द्धव्यंशचतुर्थाशाष्टांशाः स्युः सहजायुषः । अङ्गुष्ठस्य नखे भग्ने धर्मतीर्थरतो नरः ॥ कूर्मोन्नतेऽङ्गुष्ठनखे नरः स्याद्भाग्यवर्जितः । इति । इति नखलक्षणम् । अथ पृष्ठलक्षणम् । भविष्ये, व्याघ्रपृष्ठो नरो यस्तु सेनायाश्चैव नायकः। सिंहपृष्ठो नरो यस्तु बन्धनं तस्य निर्दिशेत् ।। कूर्मपृष्ठास्तु राजानो धनसौभाग्यभोगिनः । भवेदरामशं पृष्ठं धनिनां रोमसंहतम् ॥ इति । रोमसंहतं रोमशम् दरिद्राणामिति शेषः । जगन्मोहने समुद्रः, अश्वव्याघ्रसमः. पृष्ठः स नरोऽवनिनायकः । इति । ११ .

वीरमित्रोदयस्य लक्षणप्रकाशे खत्पले समुद्र, सुस्निग्धं मांसलं पृष्ठमभग्नं च अलोमशम् । सपनानां विपर्यस्तं निधनाना प्रकीर्तितम् ॥ इति । विपर्यस्तमुक्तलक्षणविपरीतम् । इति पृष्ठलक्षणम् । अथ कृकाटिकालक्षणम् । कुकाटिका अवटुः। सामुद्रातिलके, नियतं कृकाटिका रोमशिरासंयता नृणां सापि । कुरुते कुटिला विकटा विसकटा रोगदारिद्यम् ।। इति । इतिकृकाटिकालक्षणम् । अथ ग्रीवालक्षणम् । भविष्ये, चिपिटग्रीवो हि कशो मतो लोकस्य वै गुह । चिपिटग्रीवको निःस्वः शिरालग्रीव एव च इति पाठान्तरम् । शूरः स्यान्महिषग्रीवो मृगग्रीवो भयातुरः। इस्वग्रीवस्तु धनवान् स सुखी भोगवांस्तथा ॥ ग्रीवायां विरला यस्य कम्बुरेखाः समाहिताः। स भवेत्पार्थिवो भूमौ सर्वदुष्टनिवईणः ॥ दीर्घग्रावा: बकग्रीवाः शशविाश्च ये नराः । शुष्कग्रीवा कृशग्रीवाः सर्वे ते निर्दनाः स्मृताः । इति । कम्युग्रीवलक्षणं स्पष्टमेवाह- . . उत्पले समुद्र, वलित्रयचितग्रीवः कम्युग्रीवो हि कथ्यते । इति ।

पुरुषलक्षणप्रकरणे ग्रीवादिलक्षणानि ।
८३
गरुडपुराणे,
निम्नश्चिपिटकण्ठः स्यात् शिराशुष्कगलः सुखी ।
निम्नो नीचः निकृष्ट इति यावत् । शिराशुष्कगलः शिरा-
शुष्कः शिरारहितः गलः कण्ठो यस्येति सः।
शुरः स्यान्महिषग्रीवः शस्त्रान्तो मृगकण्ठकः ।
कम्बुग्रीवोऽथ नृपतिर्लम्बकण्ठोऽतिभक्षणः ॥ इति ।
जगन्मोहने समुद्र,
श्रीवा स्यादर्जुला यस्य पूर्णकुम्भसमा भवेत् ।
सुधनं तं विजानीयादायुष्मन्तं. च मानवम् ॥ इति ।
उत्पले समुद्र,
शूरस्तु महिषग्रीवः शस्त्रान्तो वृषकन्धरः । इति ।
सामुद्रतिलके,
पिशुनो बक्रग्रीवः शस्त्रविनाशो मृगग्रीवः ।
रासभकरभग्रीवो दुःखी स्याहाम्भिको चकग्रीवः ।।
शुष्कशिरालग्रीवश्चिपिटग्रीवश्च धनविहीनः । इति ।
इति ग्रीवालक्षणम् ।
अथ चिवुकलक्षणम् ।
अधरादधः कण्ठोपरि चिबुकम् । तल्लक्षणमुक्तम्-
उत्पले समुद्रेण,
निमांसैश्चिबुकैर्दीनिद्रव्याश्चाध्ववासिनः ।
समांसलैर्धनोपेता बहुपुत्रसमन्विताः ॥ इति ।
सामुद्रतिल के,
पुण्यवतामिह चिबुकं वृत्तं मांसलमदीर्घलघुमृदुलम् ।
अतिकशदीर्घस्थूलं द्विधानभागं दरिद्राणाम् ॥ इति ।
इति चिवुकलक्षणम् ।

८४
वीरमित्रोदयस्य लक्षणप्रकाश
अथ हनुलक्षणम् ।
सामुद्रतिलके,
हनुयुगलं मुश्लिष्टं चिबुकोभयपास्थितं पुंसाम् ।
दीर्घ वक्रं शस्तं पुनरशुभं भवति विपरीतम् ॥ इति ।
इति हनुलक्षणम् ।
अथ कूर्चलक्षणम् ।
सामुद्रतिलके,
कूर्च प्रलम्वमुज्ज्वलमस्फुटिताग्रं निरन्तरं मृदुलम् ।
स्निग्धं पूर्ण सूक्ष्मं सुमेचकं विशिष्यते पुंसाम् ॥ इति ।
इति कूर्चलक्षणम् ।
अथ कपोललक्षणम् ।
भविष्य,
यस्य गण्डौ च सम्पूर्णौ पश्नपत्रसमप्रभौ ।
कृषिभोगी भवेन्नित्यं बहुवित्तश्च मानवः ।।
सिंहव्याघ्रगजेन्द्राणां कपोल: सदृशो यदि ।
महाभोगी स विज्ञेयः सेनायाश्चैव नायकः ॥ इति ।
गारुडे,
भोगी त्वनिम्नगण्डः स्यान्मन्त्री सम्पूर्णगण्डकः । इति ।
आनिम्नगण्ड उन्नतगण्डः ।
सामुद्रतिलके,
मुखिनः समुन्नतैः स्युः परिपूर्णभोगिनश्च मांसयुतैः।
सिंहद्विपेन्द्रतुल्यैर्गण्डैर्देशाधिपा धन्याः ॥
निम्नौ यस्य कपोलो निर्मासौ स्वल्पकूर्चरोमाणौ ।
पापास्ते दुःखजुपो भाग्यविहीनाः परप्रेष्याः ॥ इति ।
इति कपोल लक्षणम् ।

पुरुषलक्षणंप्रकाशे मुखलक्षणम् । ८५. -- - अथ मुखलक्षणम् । तत्पशंसा च हेमाद्रौ स्मर्यते, अथ लक्षणसम्पन्नं शरीरं यस्य देहिनः । मुखं चेल्लक्षणोपेतं स सुखी मुखजैर्गुणैः ॥ इति । गर्गसंहितायां मुखमधिकृत्य- परमेतत् शरीरस्य प्राणायतनमुच्यते । मुखमालपनं श्रेष्ठं मुखं च पुरुषः स्मृतम् ॥ यन्मुखं मांसलं स्निग्धं सुप्रभं प्रियदर्शनम् । वर्णान्यं सन्धिविश्लिष्टमजस्रं मुखभोगिनाम् ।। इति । भविष्ये, वदनं मण्डलं यस्य धर्मशीलं तमादिशेत् । मण्डलं व लम् । महावक्रा नरा.ये तु दुर्भगास्ते न संशयः ।। हरिवका जिह्मवका विकृतास्यास्तथा नराः। हरिरश्वः । भगवत्राः करालास्याः सर्वे ते तस्कराः स्मृताः । सम्पूर्णवका राजानो गजसिंहाननास्तथा ।। छागवानरवक्राश्च निर्द्धनाः परिकीर्तिताः । वदनं तु समं श्लक्ष्णं सौम्यं संवृत्तमेव हि ।। पार्थिवानां महावाहो विपरीतं च दुःखिनाम् । स्त्रीमुखं पुत्रनाशाय मण्डलं सौम्यतां व्रजेत् ॥ द्रन्यनाशाय वै दीर्घ पापदं भयद तया । धूर्तानां चतुरनं स्यात्पुत्रदारहरं शृणु ।। निम्नं वक्रं तु देवेश पुत्रदारहरं भवेत् । इस्त्रं भवति नाशाय पूर्ण कान्तं च भोगिनाम् ।। इनि ।

. ८६ वीरमित्रोदयस्य लक्षणप्रकाशे गरुडपुराणे, महामुखं दुर्भगानां स्त्रीमुखं पुत्रमाप्नुयात् । भीरुवक्त्रं पापिनां स्याद् धूर्तानां चतुरस्रकम् ॥ निम्नं वक्त्रमपुत्राणां केपणानां च इस्वकम् । इति । स्त्रीमुखं मातमुखसदृशमुखं शेयम् । तस्य तु- जननीमुखानुरूपं मुखकमलं भवति यस्य मनुजस्य । पायो धन्यः स पुमानित्युक्तमिदं समुद्रेण ।। इति सामुद्रतिलके प्राशस्त्याभिधानात् । यत्तु पूर्वोदाहृतं भविष्यवचनम्- स्त्रीमुखं पुत्रनाशाय- इति, यदपि वराइवचनम्- स्त्रीमुखमनपत्यानां शाठ्यवां मण्डलं परिज्ञेयम् । इति, तदुभयमपि मातृव्यतिरिक्तस्त्रीसहशमुखविषयमित्य- विरोधः। जगन्मोहने समुद्र मगमूपकवक्त्राश्च ते नरा दुःखभागिनः । इति । - उत्पले समुद्र, कृपणानां तथा इस्वं चिपिटं परजीविनाम् । इति । सामुद्रतिलके, रासभकरभप्लवगव्याघ्रमुखा दुःखभागिनः पुरुषाः । जिह्ममुखा विकृतमुखाः शुष्कमुखा हयमुखानिःस्वाः॥इति। इति मुखलक्षणम् । अथाधरलक्षणम् । भविष्ये, रक्ताधरो नरपतिर्धनवान् कमलाधरः । इति ।

पुरुषलक्षणप्रकरणे अधरादिलक्षणानि। .८७ गारुडे, सुस्निग्धैरधरैर्नृपाः। बिम्बोपमैश्च स्फुटितरोष्टै रूक्षैश्च खण्डितैः॥ विवर्णैर्धनहीनाश्च । इति । वराहोऽप्याह- बिम्बोपमैरवरधरैर्भूपास्तनुभिरस्वाः । इति । सामुद्रतिलके, बिम्बाधरो धनाढ्यः प्रज्ञावान् पटलाधरो भवति । प्राज्यं राज्यं लभते प्रवालवर्णाधरस्तु नरः ।। यस्याधरोत्तरोष्ठौ बङ्गुलमानौ सुकोमलौ महणौ । मृदुलसमममृणकोणौ स जायते प्रायशो धनवान् ॥ इति । इत्यधरलक्षणम् । अथोत्तरोष्ठलक्षणम् । वराहसंहितायाम्, ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः। इति । उत्पले समुद्र, . उत्तरोष्ठ्ठोहितैश्च धनिनः सौख्यसंयुताः। इति । सामुद्रतिलके, पीनोष्ठः सुभगः स्याल्लघ्वोष्ठो भोगभाजनं मनुजः। : अतिविषमोष्ठो भीरुलध्वोष्ठो दुःखितो भवति ॥ इति । इत्युत्तरोष्ठलक्षणम् । अथ श्मश्रुलक्षणम्। भविष्ये, अस्फुटिताग्रं स्निग्धं श्लक्ष्णं तथा गुह । सम्पूर्ण च तथा कृष्णं श्मनु भूमिपतेर्गुह ।।

'८८
वीरमित्रोदयस्य लक्षणप्रकाशे
रक्तैः स्वल्पैस्तथा रूक्षः श्मश्रुभिर्भीमनन्दन ।
नराश्चौरा भवन्तीह परदाररतास्तथा ।। इति । '
इति श्मश्रुलक्षणम् ।
अथ दन्तलक्षणंम् ।
भविष्ये,
कुन्दकुड्मलसङ्काशैः प्रकाशैर्दशनैर्नृपाः ।
ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः ॥
हस्तिदन्ताः खरदन्ताः स्निग्धदन्ता गुणान्विताः ।
सर्वे ते धनिनो ज्ञेयाः समुद्रवचनं यथा ।
करालैर्विरलै रूक्षैर्दशनैर्दुःखभागिनः।
द्वात्रिंशदन्ता राजानः सैकत्रिंशश्च भोगवान् ॥
त्रिंशदन्ता नरा नित्यं सुखदुःखस्य भागिनः ।
ऊनत्रिशैश्च दशनैः पुरुषा दुःखभागिनः॥
गारुडे,
दन्ताः स्निग्पा धनाः शुभाः।
तीक्ष्णदंष्ट्राः समाः श्रेष्ठाः । इति ।
जगन्मोहने समुद्रः,
दक्षिणोन्नतदन्ताश्च महाभोगा महाबलाः। ..
स्तोकदन्ता अदन्ताश्च ये नराःश्यामदन्तकाः॥
मूषिकोपमदन्ताश्च ते पापाः परिकीर्तिताः । इति ।
मूषिका अल्पमूषकाः।
सामुद्रतिलके,
द्वात्रिंशता नरपतिर्दशनैस्तैरेकविरहितैर्भोगी।
स्यात्रिंशता तनुधनोऽष्टाविंशत्या सुखी पुरुषः ।।
दारिधदुःखभाजनमेकोनत्रिंशता सदा दशनैः ।
.

--
-
.
पुरुषलक्षणप्रकरणे जिहांलक्षणम् ।
ऊर्ध्वमधः शस्तैरपि विहीनसङ्खौनरो दुःखी ॥
स्यातां द्विजावधः प्राक् द्वादशके मासि राजदन्वाल्यो ।
शस्तावूर्वं न शुभौ जन्मन्येवोद्गतौ तद्वत् ।।
सर्वे भवन्ति दशनाः पूर्णे वर्षद्वये जनिप्रभृति ।
आसप्तमदशमान्तं निपत्य पुनरुद्गमं यांन्ति ॥ इति ।
इति दन्तलक्षणम्।..
अथ जिहालक्षणम् ।
भविष्ये,
कृष्णजिह्वो भवेत्प्रेष्यः शवलया तु जिह्वया।
भवेत्पापस्य कर्ता वै स्थूलजिहश्च रूक्षकः ।।
प्रेष्यो दासः । रूक्षको रूविक्ता ।
पद्मपत्रसमा जिहा श्लक्ष्णा दीर्घा सुशोभना.।..
न स्थूला न च विस्तीर्णा येषां ते मनुज़ाधिपाः ॥
निम्ना स्निग्धा च इस्वा च रक्ताग्रा रसना यदि ।
सर्वविद्याप्रवक्तारो भवेयुर्नात्र संशयः ॥ इति ।
गारुडे,
जिहा रक्ता.समा शुभा । इति ।
उत्पले समुद्र,
श्वेतजिह्वा नरा ज्ञेयाः शौचाचारविवर्जिताः । इति ।
सामुद्रतिलके,
जिहा पीता स पुमान् मूल् दुःखाकुलः सततम् । इति ।
जगन्मोहने समुद्र,
कृष्णजितो भवेच्छेष्ठो रक्तजिवस्तु: नायकः ।
श्वेतजिहो नरो ज्ञेयः शौचाचारसमन्वितः ।।
अत्र कृष्णजिब ईषत्कृष्णनिहा, श्वेतजिह ईषत् .श्वेत्रजिह

९०
वीरमित्रोदयस्य लक्षणप्रकाशे;
:..
इति व्याख्येयम् ।
ईषत्कृष्णा तथा दीर्घा जिद्दा यस्य नृपो भवेत् ।
अतिश्वेतातिकृष्णा च गर्हिता रसना बुधैः ।।
इति समुद्रोक्तेः।
पद्मपत्रसमा जिहा अतिसूक्ष्मा च शोभना ।
सर्वविद्याप्रवक्तारस्ते भवन्ति नरोत्तमाः ।। इति ।
इति जिह्वालक्षणम् ।
अथ घण्टिकालक्षणम् । ..
घण्टिका गलच्छिद्रमध्यगता प्रसिद्धा ।
सामुद्रतिलके,
अरुणतला गुणयुक्ता तीक्ष्णाग्रा घण्टिका शुभा स्थूला।
लम्बा कृष्णा कठिना सूक्ष्मा चिपिटा नृणां न शभा॥इति।
इति घण्टिकालक्षणम् ।
अथ तालुलक्षणम् ।
भविष्ये,
कृष्णतालुनरो यस्तु स भवेत्कुलनाशकः ।
दुःखभागी च सततं धनक्षयकरस्तथा ।
सुखभागी च विज्ञेयः पीततालुनराधिपः ।
आरक्तं चैव पृथुलं शोभनं गुह तालुकम् ।।
विकृतं स्फुटितं रूक्ष तालुकं न प्रशस्यते ।
सिंहतालुनरपतिर्गजतालुस्तथैव च ।।
पद्मतालुर्भवेद्राजा श्वेततालुर्धनेश्वरः । इति ।
पद्मं रक्तोत्पलम् ।
सामुद्रतिलके,
रक्ताम्बुजतालुदलो भूमिपतिर्विक्रमी भवति मनुजः।
:

.:
पुरुषलक्षणप्रकरणे ताल्वादिलक्षणानि । ९१.
वित्तादयः सिततालगंजतालुमण्डलाधीशः ॥
रूक्षं शबलं परुषं मलान्वितं न प्रशस्यते तालु।
कृष्णं कुलनाशकरं नीलं दुःखावहं पुंसाम् ॥ इति ।
इति तालुलक्षणम् ।
अथ हंसितलक्षणम् ।
भविष्ये,
अकम्पं शुभदं ज्ञेयं नराणां हसितं गुह ।
निमीलिताक्षं पापस्य हसितं हि सुरोत्तम ।। इति ।
वराहसंहितायाम्,
हसितं शुभदमकम्पं सम्मीलितलोचनं तु पापस्य ।
दुष्टस्य हसितमसकृत्सोन्मादस्यासकृत्प्रोक्तम् ।। इति ।
सामुद्रतिलके,
हसितमलक्षितदशन किञ्चिद्विकसितकपोलमतिमधुरम् ।
पुंसां धीरमकम्प प्रायेण स्यात्प्रधानानाम् ॥ इति ।
इति हसितलक्षणम् ।
अथ नासिकालक्षणम् ।
भविष्ये,
पार्थिवाः शुकनासाः स्युर्दीर्घनासास्तु भोगिनः ।
ऋजुनासा नरा ये तु धर्मशीलास्तु ते मताः ॥:
हस्त्यश्वसिंहनासाश्च सूचीनासास्तु ये नराः ।
वाणिज्यं सिध्यते तेषां हयानां चैव विक्रयः॥
विकृता नासिका यस्य स्थूलाग्रा रूपवर्जिताः।
पापकर्मा स विज्ञेयः समुद्रवचनं यथा ॥ इति ।
वराहसंहितायाम्,
सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च । .

. . वीरमित्रोदयस्य लक्षणप्रकाशे छिन्नानुरूपयाऽगम्यगामिनो दीर्घया तु सौभाग्यम् ।। आकुञ्चितया चौराः स्त्रीमृत्युः स्याचिपिटनासः। .. धनिनोऽग्रवक्रनासा दक्षिणवक्राः प्रभक्षणाः क्रूरः॥ अग्रवक्रनासाः प्रान्तकुटिलनासाः। प्रभक्षणा:-बहाशिनः । अथ वा द्रव्याद्यसञ्चयशीला। ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा मुभाग्यानाम् । इति । सामुद्रतिलके, तिलपुष्पतुल्यनासः शुकनासो भवतिः भूपतिर्मनुजः। क्रमविस्तीर्णसमुद्भूतवंशनासा महेशितुर्भवति ॥ द्वेषास्थिताग्रभागाऽतिदीर्घहस्वा च.नि:स्वस्य । इति । इति नासालक्षणम् । अथ क्षुल्लक्षणम् । वराहसंहितायाम्, धनिनां क्षुतं संकृत् द्वित्रिपिण्डितं हादि सानुनादं च । दीर्घायुषां प्रयुक्तं विज्ञेयं संहतं चैव ॥ इति । अस्यार्थः । धनिनामान्यानां क्षुतं सकृदेकवारमेव विज्ञेयम् । दीर्घायुषां तु द्वित्रिपिण्डितं हादि सानुनादं प्रयुक्तं संहतं च विशे- यम् । पिण्डितं गुणितं, द्विपिण्डितं द्विगुणितं द्विवारमित्यर्थमा त्रि- पिण्डितं त्रिगुणितं त्रिवारमित्यर्थः । तथा हादि शब्दान्तरयुक्त- म् । तथा सानुनादम् अनुनादिशब्दयुक्तम्। दूरादपि शनैरुच्चार्य- माणो यः श्रोत्रपथमायाति सोऽनुनादीति स्वरलक्षणे भागभि- हितमस्माभिः । तथा प्रयुक्तमतिदीर्घम् । तथा संहतं संहतशब्द- युक्तम् । तत्र उदीरित एवादिमध्यावसानतुल्यो यः स संहतः। उत्पले पराशरोऽपि, सकृत्तं भोगवतां द्वित्रि हादि चिरायुषाम् । ... ..

पुरुषलक्षणप्रकरणे नेवलक्षणम् । ९३
चतुः स्याद्भोगनाशाय परमस्मान्न शोभनम् ॥ इति ।
सामुद्रतिलकेऽपि,
निहादि सानुनादं सकृतक्षुतं भोगवतां धनवतां द्वि ।
दीर्घायुषां प्रयुक्तं सुसंहतं त्रिभवेत्पुंसाम् ।।
स्खलितं लघु च नराणां क्षुतं चतुर्भवति भोगनाशाय ।
दोषदमतः परं स्यानिन्दितमनुनादसहितमपि ।। इति ।
इति क्षुल्लक्षणम् ।
अथ नेत्रलक्षणम् ।
भविष्ये,
दाडिमीपुष्पसङ्काशे भवेतां यस्य लोचने ।
भूपतिः स च विज्ञेयः सप्तद्वीपाधिपो गुह ।।
व्याघ्राक्षाः कोपना ज्ञेयाः कुक्कुटाक्षाः कलिप्रियाः ।
विडालनेचा हिंस्राश्च भवन्ति पुरुषाधमाः ॥
मयूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः।
-"..न श्रीस्त्यजति सर्वत्र पुरुषं मधुपिङ्गलम् ॥
आपिङ्गलाक्षा राजानः सर्वभोगसमन्विताः।
रोचनाहरितालाक्षा गजपिङ्गा धनेश्वराः॥
रोचना गोरोचना।
बलसर्वगुणोपेताः पृथिवीचक्रवर्तिनः । इति ।
गर्गसंहितायाम्-
मुखप्रशंसामुक्त्वा,
तत्र भ्रूनासिके श्रेष्ठे प्रोक्ते तत्रापि चक्षुषी ।
सये गोक्षीरवर्णाभे सुवृत्ते कृष्णतारिके।
प्रसने च विशाले च स्निग्धे चैवायते शुभे ।
व्याघ्राक्षाः कुक्कुटाक्षाश्च शशाक्षाश्चैव. ये नराः ।।
..

वीरमित्रोदयस्य लक्षणप्रकाशे
निघृणाः पापिनः क्रूरा दुरन्ताः कलहाप्रेयाः ।
शस्त्रवध्याश्च नयनैर्गाई मर्माहिषोरगैः॥
येषां चार्चिष्मती नेत्रे श्वेतशङ्कासमप्रभे ।
विद्युत्सूर्यमुवर्णाग्निमुक्तावैडूर्यवत्तथा ।।
मल्लिकाक्षौद्रवच्चापि लाजास्फटिकसनिभे। :
पाटलाक्षाश्च ये मास्ते धन्याः पुरुषाधमाः ।।
महद्भिनयनर्वाः स्त्रीजिताः पुरुषाः स्मृताः।
वामैः वः।
उष्ट्राभैयनैनूनं निघृणाः पापकारिणः ।
एतदेव तु श्रेष्ठं च नेत्रे स्यालक्षणं तृणाम् ॥
कर्णात्मभृति या रेखा नेत्रे नृणां प्रशस्यते ।
तया विरहिनं रूक्षं म्लानं निम्नं कृशं च यत् ।।
परुषं निष्पकाशं च सन्दिग्धं पुत्तिकानिभम् ।
चक्षुर्न शस्यते नृणां द्रव्यक्षयभयावहम् ।।
सन्दिग्धं झटिति विषयाग्राहकम् । पुत्तिका मधुमक्षिका-
विशेषः।
पिङ्गैरेतैः प्रशस्यन्ति नृणां नेत्रान्तरैस्तथा ।
अर्कमर्कटपिङ्गं च तारावद्यस्य पिङ्गलम् ॥
कृष्णं पर्यन्तरक्तं च मङ्गल्यं ब्रह्मवर्चसम् ।
श्वेतं नीलं च मङ्गल्यं शितिनीलं च यद्भवेत् ।।
रक्तैः सुनयनधर्मः कृष्णतारैः सुखैधिता ।
भोगवानथ मत्स्याक्षश्चकोराक्षो नराधिपः॥
वृपद१रक्रौञ्चाक्षाः कुरराक्षा नरेश्वराः।
दर्दुरो मण्डूकः।
स्निग्धै रक्तैश्च पिङ्गैश्च पक्षावद्भिः समैः स्थिरैः ।।
:

९५
4
पुरुषलक्षणप्रकरणे नेवलक्षणम् ।
आयतैः पृथुभिस्तुजैः कृष्णशुलैः समङ्गलैः ।
रक्तहंसकरीराश्वनयनैः पार्थिवाः स्मृताः॥
करीरः पक्षिविशेषः।
प्रजापालनदक्षैश्च सौख्यप्रीतिकरैः शुभैः । इति ।
गरुडपुराणे,
क्रूराः केकरनेत्राश्च हरिणाक्षास्तु कल्मषाः ।
जिझैश्च लोचनैश्चौराः सेनान्यो गजलोचनाः ॥
केकरस्तिर्यग्दृष्टि।
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ।
नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यामचक्षुषाम् ॥ इति ।
वराहसंहितायाम्,
पद्मदलाभैनिनो रक्तान्तविलोचनाः श्रियोभाजः ।
अतिकृष्णतारकाणामक्षणामुत्पाटनं भवति ॥
मन्त्रित्वं स्थूलदृशां श्यामाक्षाणां भवति सौभाग्यम् । इति ।
महाभारते,
वरमन्धो न काणः स्यात्काणः स्यान तु केकरः ।
वरमन्धश्च काणश्च केकरो न तु पिङ्गलः ॥
एष दुर्योधनो राजा कर्कशो मधुपिङ्गलः ।
न केवलं कुलस्यान्तं क्षत्रस्यान्तं करिष्यति ।। इति ।
जगन्मोहने समुद्रः,
कुक्कुटाक्षः सदा द्वेषी मातृपुत्रैर्न संशयः ।
न श्रीस्त्यजति रक्ताक्षं पुरुषं मधुपिङ्गलम् ॥ इति ।
सामुद्रतिलके,
अधमा मण्डूकाक्षाः काकाक्षा. धूसराक्षाश्च ।
बहुवयसो धूम्राक्षाः समुन्नताक्षा भवन्ति तनुवयसः॥ इति ।

"वीरमित्रोदयस्य लक्षणप्रकाशे
अत्र पुरुषाणामनेकदुर्लक्षणसद्भावे यदि नेत्रे उक्तलक्षणे
भवतस्तदा सर्वदुर्लक्षणनिरासो भवति । तदुक्तम्-
गर्गेण,
एकतो दुर्लक्षणशतं सौम्यं चक्षुस्तथैकतः ।
दुर्लक्षणशतं हन्यानरः सौम्येन चक्षुषा ।
तस्मान्नेत्रे प्रयनेन लक्ष्यं पश्येत कालवित् । इति ।
इति नेत्रलक्षणम् ।
अथ दृष्टिलक्षणम् ।
गर्गसंहितायाम्,
दृष्टिः पीता सिता धन्या दीना वै. निःस्वकारिका ।
गूढा महत्वतां कुर्यादान्याः स्युः स्निग्धदृष्टयः ॥
सर्पदृष्टिर्नरः क्रूरो दुःशीलः स्यात्तथैव च ।
अधोदृष्टिनरः क्रूरो विद्वानासाग्रमीक्षते ।।
कदम्बदृष्टिः सुभगो लक्षणैः परिकीर्तितः । इति ।
कदम्बदृष्टिः स्थूलदृष्टिः।
सामुद्रतिलके विशेषः।
श्यावशां सुभगत्वं स्निग्धदृशां भवति भूरिभोगित्वम् ।
स्थूलदृशां धीमत्त्वं दीनदृशां धनविहीनत्वम् ।।
ऋजु पश्यति सरलमनाः पश्यत्यूर्व सदैव पुण्याख्याः!
पश्यत्ययः स पापस्तिर्यक् पश्यति नरः क्रोधी -
दुष्टो दारुणदृष्टिः कुक्कुटदृष्टिः कलिपियो भवति ।
अहिदृष्टियोगी विडालदृष्टिः सदा पापः ।। इति ।
इति दृष्टिलक्षणम् ।
अथ पक्ष्मलक्षणम् ।
. सामुद्रतिलके,

1 .. पुरुषलक्षणप्रकरणे पक्ष्मनिमेषादिलक्षणानि । ९७ सुदृढैः कृष्णैर्नयनच्छदस्थितैः पक्ष्मभिर्धनैः सूक्ष्मः । सौभाग्यं चिरमायुलभते मनुजो धनेशत्वम् ॥ पक्ष्मभिरधमा विरहिताः पुनरगम्यनारीरताः पापाः । इति पक्ष्मलक्षणम् । अथ निमेषलक्षणम् । सामुद्रतिलके, अनिमेषो धनरहितः पुरुषः स्यादेकमात्रनिमेपोऽपि । नियतं द्विमात्रनिमेषः परजनमाश्रित्य जीवति सः ॥ धनिनस्त्रिमात्रनिमेषास्तथा चतुर्मात्रनिमेपवन्तोऽपि । ननु पञ्चमात्रनिमेषाश्चिरायुषो भोगिनो धनिनः ।। इति । अत्र मात्राशब्देन अल्पः कालविशेष उपलक्ष्यते । तत्प- रमाणं च सामुद्रतिलके उक्तम्- तार्नु प्रदक्षिणीकृत्य यत् छोटिकां करो दत्ते । दिदमिह समयमानं मात्राशब्देन निर्गदितम् ।। इति । स्तेन जानुपादक्षिण्यन यच्छोटिकादानं तत्परिमितः कालो मात्रेत्यर्थः। भविष्ये,. . द्विमात्रोन्मेषिणो नित्यं जीवन्ति परमाश्रिताः । त्रिमात्रास्पन्दना ज्ञेयाः पुरुषाः सुखभागिनः ॥ चतुर्मात्रावशेषैश्च निमेषैरीश्वराः स्मृताः। दीर्घायुषो धर्मरताः पञ्चमात्रानिमेषिणः ॥ इति । इति निमेषलक्षणम् । अथ रुदितलक्षणम् । भविष्ये,.. शुभावह मनुष्याणां रोदनं स्यात्तथा शृणु।::

वीरमित्रोदयस्य लक्षणप्रकाशे
अदीनमभुस्निग्धं च सस्मितं च विशेषतः ।।
साश्रु दीनं तथा रूक्षमस्निग्धं च तथा गुह ।
अशुभावई विज्ञेयं नराणां वारिधारणम् ।। इति ।
इति रुदितलक्षणम् ।
अथ भूलक्षणम् ।
भविष्ये,
ध्रुवौ वालेन्दुसदृशे धनिनामृषभोत्तम ।
दीर्घाभिर्धनिनो ज्ञेयाः संसक्ताभिश्च सुव्रतः ।।
खण्डाभ्यां त्वर्थहीनाः स्युनरा भ्रूभ्यां सुरोत्तम ।
मध्ये नते ध्रुवौ येषां परदाररतास्तु ते ॥ इति ।
घराहसंहितायाम्,
विषमभुवो दरिद्रा-बालेन्दुसमभुवः सधनाः । इति ।
सामुद्रतिलके,
बालेन्दुनते वृत्ते दीर्घ पृथुलोन्नते. सुखं श्यामे ।
नासावंशविनिर्गतदले इव भूदले दिशतः ।।
नृणामयुते स्निग्धे मृदुनतरोमान्विते ध्रुवौ शस्ते ।
हीने स्थूले सूक्ष्मे खरपिङ्गलरोमके न शुभे ।। इति ।
इति भूलक्षणम् ।
अथ कर्णलक्षणम् ।
वराहसंहितायाम्,
निर्मासैः कर्णैः पापमृत्यवश्चिपिटेः सुबहुभोगाः
कृपणाश्च इस्वकर्णाः शङ्कुश्रवणाश्च भूपतयः॥
रोमशकर्णा दीर्घायुषोऽथ धनभोगिनो विपुलकर्णाः।
क्रूराः शिरावनदैालम्बर्मांसलैः सुखिनः ॥ इति ।
भविष्य,
. .

पुरुषलक्षणप्रकरणे कर्णललाटलक्षणानि। .९९
दीर्घायुषो दीर्घकर्णा लम्बकर्णास्तपस्विनः । इति ।
सामुद्रतिलके,
परिपूर्णकर्णपालीपिप्पलिकाद्यवयवाः सुसंस्थानाः ।
लघुविवरा विस्तीर्णाः कर्णाः मायेण भूमिभुजाम् ॥
आढ्यः प्रलम्बकर्णः मुखी शुभावर्त्तपीनमृदुकर्णः ।
मतिमान्मूषककर्णश्चमूपतिः शङ्कुकर्णः स्यात् ॥
येषां पृथुलच्छिद्राः कर्णाः स्युः कर्णशष्कुलीलीनाः ।
स्वल्पायुषो दरिद्रा विलोक्यमाना विरूपास्ते ।। इति ।
इति कर्णलक्षणम् ।
अथ ललाटलक्षणम् ।
भविष्ये,
ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः ।
विपुलेन ललाटेन महानरपतिः स्मृतः ॥
इलक्ष्णेन तु ललाटेन नरो धर्मरतस्तथा ।
श्लक्ष्णं स्निग्धम् ।
त्रिशूलं पद्दिशं वापि ललाटे यस्य दृश्यते ।
ईश्वरं तं विजानीयाद्भोगिनं कीर्तिमाश्रितम् ।।
विपुलैरुन्नतैः शङ्खर्धन्याः स्युनर्नात्र संशयः ।
शलो ललाटास्थि ।
निम्नैः सुतार्थसन्त्यक्ता उन्नतैश्च नराधिपाः ।
विषमललाटा निःस्वाः सदा स्युर्देवसत्तम ।।
आचार्याः शुक्तिसदृशैनराः स्युनर्नात्र संशयः । इति ।
वराहसंहितायाम्,
शुक्तिविशालराचार्याः शिरासनतरधर्मरताः।
शुक्तिविशालैः शुक्तिवद्विस्तीर्णैः।

१००... चीरामित्रोदयस्य लक्षणप्रकाशे
.
उन्नतशिराभिराव्याः स्वस्तिकवत्संस्थिताभिश्च ।।
ललाटगताभिः शिराभिः स्वस्तिकाकाराभिः चशब्दाद्धनि-
नो ज्ञेया।
निम्नललाटा वधवन्धभागिनः क्रूरकर्मनिरताच ।
अभ्युनतैश्च भूपाः कृपणाः स्युः सङ्कटललाटाः ॥ इति ।
जगन्मोहने समुद्र
निःस्वा विषमभालेन दुःखिता ज्वरजर्जराः।
परकर्मकरा नित्यं प्राप्यन्ते वधबन्धनम् ॥
ज्वरजर्जराः ज्वरपीडिताः ।
अल्पेन तु ललाटेन अल्पायुस्तु भवेन्नरः । इति ।
सामुद्रतिलके विशेषः ।
श्रीवत्सकार्मुकाया यस्य शिरारोमभिः कृता भाले।
रेखाभिर्वा नृपतिर्भोगी वा जायते संपदि ॥ इति ।
इति ललाटलक्षणम् ।
अथ शिरोलक्षणम् ।
भविष्ये,
उचैरनिम्नं तु शिरः श्लक्ष्णं संहतमेव च ।
छत्राकारं नरेन्द्राणां गवाढ्यं मण्डलं स्मृतम् ।।
संहतं दृढम् ।
विषमं तु दरिद्राणां शिरोदैर्ये तु दुःखिताः ।
गजकुम्भनिभं सक्तं समं सर्वत्र भोगिनः ।।
चिपिटं तु शिरो यस्य हन्याद्धि पितरौ नरः ।
घटाकृति शिरोऽध्वानमसकृत्सेवते नरः॥
निम्नं शिरोऽनर्थदं स्यानराणामृषभोत्तम । इति ।
वराहोऽपि,
,

... ६ ... ३ २ ... (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेयरलार्णवच श्रीक्षेमराजविरचितचिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशा: णिकृतदीधित्या जागदीशी टीका । १२ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः । (मीमांसा) मिश्रविरचितः परिभाषा-संस्कारप्रका- (१०) प्रकरणपश्चिका प्रभाकरमंतानुसारि-मी- शात्मकः। २० मांसादर्शनम् । महामहोपाध्यायत्रीशाले- | (३१) वीरमित्रोदयः । महामहोपाध्यायत्रीमि- कनाथमिश्रविरचितम् . श्रीशङ्करभट्टकृता प्रमिश्राविरचितः आहिकप्रकाशः मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठि- (१८) अद्वैतासीद्धसिद्धान्तसारः । पण्डितमवर संकलितः श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (२३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्त- मलङ्कृतः। (वेदान्तः) माचार्यकृता। (१९) कात्यायनश्रौतसूत्रम् .। महामहोपाध्याय- (१४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोन- श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ मजीमहाराजविरचित (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- चितं असम्पूर्णम् (वेदान्तः) भाष्यं श्रीनिम्बार्काचार्यविरचितम्। १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखायम् । आ- | (६६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खएडनफक्किकावि नाराणतीर्थावरचित-योगसिद्धान्तचन्द्रि- भजनाख्यया व्याख्यया विद्यासागरीतिप्र- कासमाख्यया व्याख्यया संवलितम् । २ सिद्धया समेतम् । (वेदान्तः) १३ | (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजका- (२२) आख्यातचन्द्रिका श्रीमहमल्लविरचितार चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य ऽमृतवर्षिणीसमाख्यव्याख्यासंवलितम् ।। याऽवतरणिकया च साहितम् (१८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ- हेश्वरमूरिविरचितः। ट्टकृता (वेदान्तः) २ | (१९) श्रीमुबोधिनी | श्रीषलभाचार्यविनिर्मिता (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसि श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- द्धान्तवागीशविरचितानि अनुमानजागदी थदीक्षितविरचितटिप्पणीसहिता। २ क्या: प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- मानमाधुर्या व्युत्पत्निवादस्य शक्तिवादस्य अमिश्रविचितः पूजाप्रकाशः। मुक्तिवादस्य शब्दशक्तिप्रकाशिकायाः कु-(४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- सुमाञ्जलेश्च क्रोडपत्राणि २ रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- (२६) बझसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ चितः। द्वैताद्वैतदर्शनानुगतः। २ ट्टरचितसिद्धान्तसेतुकाभधटीकासहि- (५२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिबाज- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्र काचार्यनारायणाश्रमाशिष्यमाधवाश्रमावरे- (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका चितः । स्वकृतटीकाविभूषितश्च । १ पिलजैनवैशेषिकजैमिनीयदर्शनसंक्षेपः । (४३) याज्ञवल्कस्मृतिः । वालम्भट्टीसमाख्य- मणिभद्रकृतटीकया सहितः । हरिभद्मू व्याख्यासमलतमिताक्षरासहिता व्य- रिकृतः। वहाराध्याय (६८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः। (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- ८ २ ४ ।

२
तिकृता । श्रीगने शोपाध्यायविरचिततत्त्व ध्यायोपनामक गीनागेशमविरचित
चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि श्रीमदुर्यलाचार्यविरचितकुञ्जिकाटीको
विचितदीधित्या च गर्भिता।
'श्रीमद्वालम्भट्टविरचितकलाटीका इति
(५५) शास्त्रदीपिका । श्रीपार्थसारथिमिश्र प्रणि टीकाव्यसंबलिता।
ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या- (४७) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय
ख्यव्याख्ययातथांसोमनाथकृतया मयुख विश्वेश्वरसूििवरचितः।
मालिकया च व्याख्यया संमलङ्कृता ।। | (१८) विरमित्रोदयः । लक्षणप्रकाशः ।
(१६) वैयाकरणसिद्धान्तमञ्जूषा । श्रीमदुपा महामहोपाध्यायधीमित्रमित्रविरचितः।।
,
एत्त्रादिप्रेषणस्थानम्
हरिदासगुप्ता,
चौखम्बा बनारस सिटी।

No text on this page.

Veer Metroday

Author
Pandita, Vishnu Prasad
Title
Veer Metroday
File name
Veer Metroday
Text
OCR done
Published
2010/04
Publisher
Banaras, Hari Das Gupta Chokhmba.
Language
Sanskrit
Pages
104
Library
Central Library, University Of Rajasthan
DLI number
325521
Barcode
99999990003408.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
wjubH34dJy6
Download PDF

Veer Metroday