Jayakar Library , Pune

Shivstrotavali

Mitra Kalicharan · 9/12/05

PDF Proofread

Front matter

चौखम्बा-संस्कृत-ग्रन्थमाला।
(अन्यसंख्या १५)
शिवस्तोत्रावली।
श्रीमदीश्वरप्रत्यभिझाकाचार्यचक्रवत्ति-
वन्द्याभिधानोत्पलदेवाचार्यविरचिता।
महामाहेश्वरश्रीक्षेमराजीवरीचतीवतिसमेता।
•0-
ककिकाताप्रयागविश्वविद्यालयसभासदा स्वर्गवासिना रायबहादुराख्येन
श्रीयुतप्रमदादासमित्रेण तत्पुत्रेण च बी०ए०इत्युपाधिधारिणा
श्रीयुतकालीचरणमित्रेण परिशोधिता।
TRAN
Pay:
14HIP
Aween
WAVE
श्रीकाश्याम्
ताराचन्यालये हरिदासगुप्तेन फ्रीमेन-कम्पनी लिमिटेड-द्वारा
मुद्रयित्वा प्रकाशिता ।
१९०३ खिष्टीयाब्द।
१९५६ विक्रमीयाब्दे।
शुभम् ।

प्रस्तावना । ईषदूनं वर्षद्वयं जातं यत्परमशिवभक्तैर्विद्वच्छ्रेष्ठैः प्रातस्मरणीयैर्म- पितृचरणैर्निरतिशयभक्तिसहकारेणानल्पायासेन च काश्मीरनगरात् तुरी- याश्रमस्थस्योदासीनस्य श्रीमद्गोविन्दानन्दस्यातिप्रयत्नद्वारा संगृह्य सुप्र- सिद्धस्य सी० आई०ईति संज्ञया राजसम्मानितस्य राजोपाधिभूषितस्य श्रीयुतपण्डितसूर्यकौलस्यातियोग्यस्य सूनोः काश्मीराधिपतेः प्रधानामा- त्यस्य कौलोपाहश्रीयुतपण्डितदयाकृष्णस्य परमसाहाय्येन च लेखयित्वाऽ- तिरमणीयस्यास्य ग्रन्थस्य मुद्रापणे प्रवृत्तैरभूयत । दुर्लभातिप्राचीनसंस्कृत- ग्रन्थानां लोके प्रचारणार्थ कृतोद्योगः श्रीयुतहरिदासगुप्तश्च ग्रन्थ- मिमं कृपया स्वकीये "चौखम्भा-संस्कृत-सीरीसाख्ये" काव्यसंग्रहे मुद्र- यित्वा प्रकाशयितुं स्वीकृतवान् । परन्त्वस्मद्भाग्यदोषात्कतिपयान्येव पत्राणि मुद्राप्य तातपादा मे इहलोकं परित्यज्य शिवैकतां गताः । आर- ब्धमुद्रणस्यास्यासाधारणभक्तिरसपूर्णस्यास्मत्पित्रा परमसमादृतस्य चास्य ग्रन्थस्य मुद्रण यथाकथञ्चित् समापनीयमेवेति मत्वात्यल्पबुद्धिरप्यहमत्र समापनकार्ये उद्युक्तोऽभवम् । देवादिदेवस्य श्रीकाशीपतेः परमकारुणिक- दृष्टया ग्रन्थोऽयं कथमप्यद्य समाप्तिमगमदित्यात्मनः कृतकृत्यतां मन्ये । उपकतोऽस्म्यस्य शोधने नित्यं वेदान्तानुशीलनशीलेन परमदेवनिष्ठेन सा- धुना पण्डितेन बापटोपाह्वश्रीयुतयज्ञेश्वरशास्त्रिणा । ग्रन्थकस्तिहीका- कर्तुश्च जीवनवृत्तान्तस्य जिज्ञासा भवेत् सहृदयानां पाठकजनानामिति मत्वा तं लब्धं मत्प्रार्थनया मित्रं मे कृतविद्योऽतिसज्जनः काश्मीरराजधान्यां विद्याविभागऽध्यक्षपदप्राप्तः श्रीयुतजगदीशचन्द्रचट्टोपाध्यायः मासद्वया- दधिकं तत्र प्रवृत्तोऽभूत् । किन्तु नानोपायेन बहुप्रयत्ने कृतेऽपि तस्या- लाभादत्र न दातुं समर्थोऽहमिति खिन्नोस्मि । आदर्शपुस्तकस्यैकस्यैव प्राप्त- त्वान्मम चाल्पविद्यत्वान्मुद्रणदोषाच्च पुस्तकेऽस्मिन् भान्तयोऽनेका भवेयु- स्तास्सर्वाः शोधयित्वा ग्रन्थस्यास्य रसं गृहीत्वा भक्तजनाः समुल्लसन्तुतरां श्रमं च मे सफलीकुन्त्वित्यहं प्रार्थये पाठकवृन्दानां कृपापात्रम् श्रीकाश्यां, यधिकैकोनविंशतिशततमे श्रीकालीचरणमित्रः । कृष्टीयाब्दे । .

1 श्रीश्रीशिवस्तोत्रावली। श्री उत्पलदेवाचार्य विरचिता । ॐ तत्सत् ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥१॥ ॐ तत्सत् । श्रीविघ्नहर्ने नमः । श्रीगुरवे शिवायाँ नमः। ॐ उद्धरसन्धतमसाद्विश्वमानन्दवर्षिणी। परिपूर्णा जयसेका देवी चिच्चन्द्रचन्द्रिका ॥ अथितोस्मि बहुभिर्बहुशो भक्तिशालिभिः । व्याकरोमि मनाक् श्रीमत्प्रसभिज्ञाकृतः स्तुतीः॥ईश्वरप्रसभिज्ञा- कारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसा- क्षात्कृतस्त्रात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजि- घृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तव्यामिश्राणि लब्ध्वा श्रीराम आदिसराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवे- शयत्।श्रीविश्वावर्त्तस्तु विशसा स्तोत्रैः स्वात्मोत्मेक्षितनामभिर्व्य- वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि मू- तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्ट व्याकुर्मः।मोक्षलक्ष्मी- समाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांद- शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो- २ --- शिवस्तोत्रावल्याम् । त्रमाह न न्यायत इति । यस्यैवमेव मायीयोपायं विना शिवा- भासः शिवरूपस्वात्मप्रथा स्यात्तं भक्त्यैव समावेशमय्या शालिनं श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं नमो भक्तिचमत्कारवशमथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तद- भिन्नशिवावेशमया भवाम इति यावत् । एवमेवे"सनेन सूचितमलौ- किकक्रमं दर्शयति “न ध्यायत" इसादिना । सर्वस्य हि ध्यानजप प्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनु- पायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति । अत एवाह "अविधिपूर्वक"मिति । विधीयत इति विधि- रिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां सं- कुचितत्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशध- नैरेव प्रतिभाप्रसादनप्रमुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे “न चात्र विहितम् किञ्चि"दिसादि, “अकिञ्चिचिन्तकस्ये"सादि, गीतास्वपि "मय्यावश्ये"सादिकं । ध्यानजपाभ्यांप्रकाशविमर्श- स्वरूपाभ्यां पूजनहवनादि सर्व संगृहीतमिति प्राधान्यात्तावेवे- होक्तौ ॥ १॥ 41 श्रात्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् । लोकयात्रारजोरागात्पलितैरिव धूसरः॥२॥ "आत्मेति । हे महेश्वर ममात्मा जीवो भवद्भक्तिसुधापानेन युवा समुत्तेजितसहजीजाप्रकर्षोऽपि सँल्लोकयात्रयैव रजसा लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पलितानि जरामकारास्तेषूसरो विच्छाय इव न तु वस्तुटतेन, भक्तिमुधापानेन निसतरुणीकृतत्वात्, यथा च तरुणस्य धूलि- धूसरतया सातपलितमिव दृश्यमानं नान्तानि मनागप्या- भक्तिविलासाख्यं प्रथम स्तोत्रम् । दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोक- व्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदा- भावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियँ स्तोत्रशय्येति श्री- विश्वावर्त एव प्रष्टव्यः वयं तु सूक्तव्याख्यानोद्यताः ॥ २ ॥ लब्धत्वसंपदा भक्तिमतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥३॥ "लब्धत्व"दिति । ये समावेशमयप्रशस्तभक्तियुक्ताः अत एव लब्धत्वत्संपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः तेषां लोकमार्गे ऽपि यः सञ्चारो व्यवहारः स तयैव समावे- शरसानन्दमय्या विजृम्भया विकस्वरतया स्यात् भवसेव । अथ च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः ते सर्वे स्पृहणीयत्वात् सदा सदा विभूतिमुदिता इति समासोत्त्या गमयति ॥३॥ साक्षाद्भवन्मये नाथ सर्वस्मिन भुवनान्तरे किंन भक्तिमतां क्षेत्रमन्त्रः कैषां न सिद्ध्यति॥४॥ "साक्षाद्भव"दिति । भक्तिमतां व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं परसिद्धिसमुदयस्थानं कच एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति यतः "साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्व भुवनमेषाम् ॥४॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः । अद्वितीया अपि सदा त्ववितीया अपि प्रभो ॥५॥ जयन्ति भक्ति इति । भक्तिपीयूषरस एवासववरः उत्कृष्टं पानं तेन उद्गतहर्षाः ये ते जयन्ति सर्वोत्कर्षेण वर्तन्ते कीदृशाः .

४ शिवस्तोत्रावल्याम् Prhi अद्वितीया असाधारणस्वरूपा अपि त्ववितीयाः त्वमेव द्वितीय- स्तुल्यरूपो येषां अथ च त्ववितीया अपि भक्तिसमावेशेनासन्त- मभेदासाधनत्वात्त्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथा- भूता अपि अद्वितीयाः विश्वाभेदिनः ।अद्वितीयाश्च कथं त्ववि- तीयाः त्ववितीयाश्च कथमद्वितीया इति विरोधच्छाया॥५॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते । तादृशा एव ये सान्द्रभक्त्याऽऽनन्दरसाप्लुताः॥६॥ भत्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आर्द्राशयाः अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वावद्रूपसरूपाः तव तत्वं जानन्ति । यो हि यत्र विद्वान् स हि तद्वत्त्येव ॥६॥ त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् । इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेजनः ॥७॥ त्वमेवात्मेश इति । सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः केवलं समावेशशत्त्या तां जानाति तज्जयेत् सर्वोत्कर्षेण वर्तत एव नियोगे लिङ्॥७॥ नाथ वेद्यलये केन न दृश्योऽस्येककः स्थितः। वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः ॥८॥ नाथ वेद्यक्षय इति । अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि । भक्तैः पुनः संसार- पातेऽपि वेद्यवेदकसंक्षोभे असि त्वं(सुदर्शनः)मुखेन दृश्यसे समावे- शकाष्ठाधिवासितैर्हि सततमेतैः "भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थित" इति नीसा शिवमयमेव विश्वमीक्ष्यते।वेद्यविलापनप्रया- ५ - भक्तिविलासाख्यं प्रथम स्तोत्रम् । सव्युदासाय सुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे "मोक्षोपायमनायास- लभ्य"मिति ॥८॥ अनन्तानन्दसुरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥९॥ अनन्तानन्द इति । उपमाश्लेषोत्या परमेश्वरसाम्यमाशास्ते। भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता। अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भत्त्या अवियुक्तः स्यामिति वक्तव्ये मम अवियुक्तास्तु इति भक्ति प्रति प्रेमप्रसरः प्रकाशितः ॥९॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो। संविन्मार्गोऽयमाहाददुःखमोहस्त्रिधा स्थितः॥१०॥ सर्व एव भवल्लाभ इति । व्याख्यातमकृष्टभक्तिशालिनां अयमाहाददुःखमोहैरुपलक्षितो लोके यः संविन्मार्गः नीलपीता- दिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्माप्तिहेतुः । वेद्यसो- पाननिमज्जनक्रमेण परमवेदकभूमिलाभात् ॥ १० ॥ भवहत्यमृतास्वादाबोधस्य स्यात्परापि या। दशा सामांप्रति स्वामिन्नासवस्येवशुक्तता॥११॥ हे स्वामिन् त्वच्छक्तिपातसमावेशमयभत्त्यानन्दास्वादमना साध बोधस्य परा देहपातमाप्या प्रकृष्टाऽपि या शान्तशिवप- दात्मा दशा स्यात् कैश्चित् सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता पर्युषितता तथा भातीति यावत् । यतस्तैर्भत्त्यमृतमनास्वाद्यैव शुक्तीकृतं । यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आ- . i शिवस्तोत्रावल्याम स्वादादिति ल्यब् लोपे पञ्चमी । अथ वा त्वगत्त्यमृतास्वादा- दपि परा मोक्षरूपा या काचिद्दशास्तीति सम्भाव्यते सा मह्यं न रोचते भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादिसेवं परमेतत् ॥ ११ ॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता। विद्याऽविद्योभयस्यापित एते तत्त्ववेदिनः॥१२॥ भवद्भक्ति इति । विद्याविद्योभयस्यापीति विद्याऽविद्याल- क्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्या- रूपस्य विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूप- स्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रक- र्ष प्राप्ता । महत्पदेन शब्दविद्यातोऽपि भक्तरुत्कर्षात्तत्तत्त्ववेद- कत्वम् ॥ १२ ॥ अामूलाद्वाग्लता सेयं क्रमविस्फारशालिनी । त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे ॥१॥ आमूलाद्वागिति। मूलं पराभूमिः, क्रमविस्फारित्वं पश्य- न्यादिप्रसरः, तद्रसो भत्त्यानन्दरस एव आढ्य स्फीतं त्वदा- म्यैक्यापत्तिलक्षणं फलं यस्याः ॥ १३ ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुःसारं भक्तैरवयशोधितम् ॥१४॥ शिवोभूत्वा इति । "शिवो भूत्वा शिवं यजे"दिति यदाना- येपूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेषां सात देहे शिवीभावाभावाद्यजमानतानुपपत्तेः स्वस्वरूपशिवसमावेशभक्ति- शाल्येव यजनं जानातीवितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः . भक्तिचिलासाख्यं प्रथम स्तोत्रम् । सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शो- धितं निर्मलीकृतं भक्तैरिति ॥ १४ ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः। तदसिये निकृष्टानां कानिनावरणानि वा ॥१५॥ व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः यतो मूढेरुदीर्यमाणान्याप शिवाद्वयदृषणानि दृषयत्स्वभावचि- दूपशिवस्वरूपसिद्धि विना न कानिचित् स्युरिति युक्त्या भ- तानां साधनान्येव पर्यवस्यन्ति । निकृष्टानां तु भेदमयानां तद- सिद्धयै शिवायसाधनाभावाय कानि नावरणानि तीक्ष्णतमयु- त्यस्त्राण्यपि समावेशरसविमुषोऽप्यनभिज्ञत्वादसञ्चेसमानानि म- हान्धकारपातयितॄण्येव ॥ १५ ॥ कदाचित्वापि लभ्योऽसि योगेनेतीश वञ्चना। अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥ . हा कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां, कापि हृदयचक्रादौ, योगेन चित्तवृत्तिनिरोधेन, ईश स्वामिन, असि त्वं लभ्य इसेषा वञ्चना । अन्यथा समाधिव्युत्थानाद्यभि- मतामु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम् । योगिभ्योभक्तिभाजां ययुत्थाने ऽपिसमाहिताः॥११॥ विषयेभ्य इन्द्रियाणा प्रयास नियमनं प्रसाहारः आदिश- ब्दायानधारणादयः तैरसंस्पृष्टः अकर्थितः तनिष्ठेभ्यो यो- गिभ्यो महानसामान्यः विशेषः अतिशयो भक्तिभाजामस्ति य- U शिवस्तोत्रावल्याम् देते योग्यपेक्षया व्युत्थानाभिमते ऽपि समये समाहिताः "मय्या- वेश्य मनो ये मा"मिति गीतोक्तनीसा निसयुक्ताः ॥ १७ ॥ न योगो न तपो नाच क्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते॥१८॥ न योगो न इति । शिवमार्गे परे शाक्त पदे अस्मिन्निति निरतिशय स्वानुभवैकसाक्षिके मायोयनियतयोगाद्युपायपरि- पाटी न काचिदुपदिश्यते तस्याः मायामयत्वेन अन्धतमसप्रख्या यास्त्वत्र शुद्धविद्याप्रकाशातिशायिन्युपायत्वाभावात् भक्तिरेव प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते उपायत्वेनोच्यते ॥१८॥ सर्वतो विलसद्भक्तितेजोवस्तावृतेर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥१६॥ सर्वतोविलसदिति । अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितजसा समावेशप्रकाशेन ध्वस्ता आइतिः अख्यातिर्यस्य तत एव मायीयभूमिविस्मृतेः प्रसक्षभैरवमुद्राप्रवेशयुक्त्या आ- लोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्ताया विकल्पहत्तस्य नामा ऽपि अभिधानमपि नश्यतु नियमेव सा- क्षात्कृतपरभैरवस्वरूपानुपविष्टो भूयासमिसर्थः ॥ १९ ॥ शिव इत्येकशब्दस्य जिह्वाग्रे वसतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो॥२०॥ शिव इयेक इति। उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्व- रूपपरामर्शात्मा शिव इसेकः असामान्यः सदा शिवोस्ति अहो आश्चर्य तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्द- च्याप्तिदायित्वात्समस्तविषयास्वादो जगदानन्दचमत्कारः को- .......

भक्तिविलासाख्यं प्रथम स्तोत्रम् । ६ ऽपि स्वानुभवसिद्धोऽस्ति एका च शब्दलक्षणे विषये जिह्वा- ग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गण्यते ॥२१॥ शान्तकल्लोल इति । शान्ताः निवृत्ताः विकल्पमयाः कल्लो- ला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिबिम्बाश्र- यत्वादच्छे निर्मले, आनन्दविकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेशचमत्कारे, मुखेन तिष्ठन्ति सुस्थाः, तैः भेदगलनात् को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चि- दप्यप्रतिभासात् । मुखस्थिताः न किञ्चिद्गणयन्तीत्युचितै- वोक्तिः ॥ २१ ॥ मादृशैः किं न चर्येत भवद्भक्तिमहौषधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः॥२२॥ मादृशैरिति । मादृशैःभक्तितत्त्वज्ञैः, तादृशी इति अलौकिकी भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधिः, किं न चर्येत किं न धार्यत विचारेणास्वाधेत इति यावत् । कीदृशी। यस्याश्चर्वणपरा- मर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः अव्यवहितो रसश्चर्व- णानन्दः॥२२॥ ता एव परमर्थ्यन्ते सम्पदः सगिरीश याः । त्वद्भक्तिरससम्भोगविरम्भपरिपोषिकाः ॥२३॥ ता एव इति । सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्स- मावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः।की- दृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्र- : 2 शिवस्तोत्रावल्याम् म्भं स्वैरं स्वीकारं पुष्णन्ति । अत्र प्रियासम्भोगपोषिका एव सर्वस्य सम्पदोऽर्थनीया इसनुरणनव्यङ्ग्योपमाध्वनिः॥ २३ ॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः। वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥ चित्रं निसर्ग इति । नाथ स्वामिन् इदं चित्रं दुःखकारण- मिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः अतस्त्वद्भक्तरेवायमलौकिकः क्रम इति ध्वनित इति शिवम् ॥ २४ ॥ इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचा- र्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वर- श्रीक्षेमराजविरचिता विवृतिः ॥ प्रथमम् १॥ ॐ तत्सत् अथ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम- स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ १ ॥ अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरू- पस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावर- जङ्गमाभ्यामधिष्ठितस्य प्रमेयममातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः धामन्त्रणमिदं स्वरूपेसन्तं । तेन अनीषोमरविब्रह्मविष्णुस्थावर- जङ्गमस्वरूप हे परमेश्वर । पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात्। एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल- सवात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युक्तम् । एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्वनिर्भरत्वम् ॥१॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः ॥ २ ॥ विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः । कीदृशाय। विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारे- णापि प्रमात्रुत्तेजनं, शुचि शुद्धमद्रयरूपं वर्चस्तेजो यस्य तस्मै । अथ “शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययो"रिसागमिकभा- षया शुचिनाम्ने तेजसे । विश्वमेकं हविः यस्यसनेन असन्तदी- सत्वमुच्यते । श्रीमतङ्गाद्यागमस्थिया रहस्यचर्यार्थस्यात्र सूचना- द्विरोधच्छायाऽपि ॥२॥ परमामृतसान्द्राय शीतलाय शिवाग्नये। कस्मै चिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥३॥ परमामृत इति । चिदानन्दघनत्वात्परमामृतसान्द्रत्वम् । भवतापहारित्वाच्छीतलत्वम् । अग्नेश्च कथमाईत्वशीतलत्वे इति विरोधाभासच्छाया । कस्मै चिदिसलौकिकस्वरूपाय ॥ ३ ॥ महादेवाय रुद्राय शुक्रराय शिवाय ते । महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥४॥ देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः अशेषव्यवहारमावर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीव्यतेः क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि- ૨ . शिवस्तोत्रावल्याम हेतुत्वात् विश्वस्य । चित्पदे रोदनाद्रावणाच्च रुद्रः । पूर्णाs- हन्तापरामर्शमयत्वान्मन्त्रमूर्तिः ॥४॥ नमो निकत्तनिःशेषत्रैलोक्यविगलद्वसा-। ऽवसेकविषमायाऽपि मङ्गलाय शिवाग्नये ॥५॥ नमो निकृत्त इति । निकृत्तं अख्यातिलक्षणान्मूलात्मभृति खण्डशः कृतं भवाभवातिभवलक्षणं यत्रैलोक्यं तत्संबन्धिनी बोधानलोद्दीपिनी आन्तररससाररूपा या वसा तत्कृतो योऽव- सेकः आहुतिः ततो विषमायासन्तं जाज्वल्यमानाय अत एव संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः । शरीर- प्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयाम इयर्थः । सर्ववसा- वसेकविषमः इमाशानिकाग्निः कथं मङ्गल इति विरोधच्छाया॥५॥ समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥६॥ समस्तलक्षणेति । समस्तानां लक्षणानामभिज्ञानानां च त- थाऽधिगमहेतूनामुच्चारकरणध्यानादीनां यः अयोगः असम्ब- न्धः स एव यस्य उप इसात्मसमीपे लक्षणं हृदयङ्गमीकरणं समस्तचिन्ताविस्मरणस्यैव तत्प्राप्तिहेतुत्वात् अत एव कस्मै चि- दिति संदृतिवक्रतया स्वात्मविस्फुरद्रूपायेति ध्वनति ॥६॥ वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥ वेदागमइति । निःशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदवि- रुद्धः यश्चयद्विरुद्धः स कथं तद्विधत्ते तस्य च सतत्त्वरूपः चिचा- १३ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्प- रमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७ ॥ संसारकनिमित्ताय संसारकविरोधिने । नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥ मायादेः क्षिसन्तस्य संसारस्य एक एव निमित्तं तस्य विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चि- दूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसा- रानिष्क्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये । क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥६॥ मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्था- नत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युग- पदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि किञ्चिच्चिन्मात्रैकरूपत्वात् । अत एव सर्वसहत्वात्पूर्णः। विरोधा- भासः प्राग्वत् ॥९॥ नमः सुकृतसंभारविपाकः सकृदप्यसौ। यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥ नमः सुकृत इति । यस्य सकृदेव नामग्रहः असाविति लो- कोत्तरः पूर्णविश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्ल- भायति महायोगिगम्याय नमः ॥ १० ॥ नमश्चराचराकारपरेतनिचयैः सदा । क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥१३॥ -- १४ शिवस्तोत्रावल्याम् .. . नमश्चराचरा इति । कपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्त- स्वतो व्यनक्ति । चराचराकाराः जङ्गमस्थावररूपाः ये परेताः परं चिन्मयस्वरूपं इताः प्राप्ताः । तद्विना च निर्जीवत्वादपि परेताः । तेषां निचयैः सदा युगपच क्रीडते तत्संयोजनवियोज- नवैचित्र्यसहस्रविधायिने चिन्मयाय चित्परमार्थाय कपालिने निःशेषकपालयुक्ताय अस्थिशेषीभूतविश्वधारिणे नमः ॥११॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने । सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥ मायाविने इति । भेदोल्लासहेतुः स्वातन्त्र्यशक्तिः माया य- स्यास्ति स चिद्पत्वाद्विशुद्धः । मायावी व्याजी च कथं विशुद्ध इति विरोधाभासः। एवमन्यत्र । गुह्यः सर्वस्यागोचरः। प्रकटः प्रकाशघनस्वात्मरूपः । सूक्ष्मो ध्यानादिनिष्ठुरप्यलक्ष्यः । विश्व- रूपः स्वातन्त्र्याग्रहीतविश्वाकारः । अत एव चित्रो विचित्र आश्चर्यरूपश्च ॥ १२ ॥ ब्रह्मेन्द्रविष्णुनियूंढजगत्संहारकेलये। श्राश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥१३॥ ब्रह्मेन्द्र इति । ब्रह्मेन्द्रविष्णुभिः सृष्ट्यधिष्ठितिस्थितिकरैः कथमपि निर्वाहितत्वाद्यत् नियूढं संपन्नं जगत् । तस्य सर्वैः सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकर- णीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्षाभा- वाभावमुखप्रेक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः ॥१३॥ तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः । नमस्तुभ्यमगाधहरसिन्धवे ॥१४॥ -- यस्य तस्मै ९५ सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । तटेष्वेव इति । तेटष्वेव मन्त्रमुद्राचक्रभूमिकादिज्ञानेषु चिद्र- सप्रसरबाह्यभूमिषु परिभ्रान्तैः । “पवनभ्रमणप्राणविक्षेपादिकृत- श्रमाः कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे" इसाम्नाय- स्थिया अन्तःसारानासादनाद्ब्राम्यद्भिः । तास्ता इति भेदम- योऽणिमादिकाः । अगाधहरासन्धवे अपरिच्छेद्यान्तस्त- त्वाय महेश्वरसमुद्राय । समुद्रे च तटेष्वेव ये भ्राम्यन्ति ते तन्मौ- क्तिकाद्याप्नुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानितिपद- ममृतमप्यनन्तीति रूपक श्लेषेण ध्वनति ॥१४॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥ मायामय इति । माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिने ऽपि व्यापकत्वात्तव्याप्नुवतेऽपि अलेपाय शुद्धचिदेकरूपाय । शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः। पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्धनत्वेन तदसंस्पर्शादिति विरोधाभासः ॥१५॥ मङ्गलाय पवित्राय निधये भूषणात्मने । प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥१६॥ मङ्गलायोत । मङ्गलेसादि स्पष्टं । सर्वोत्कृष्टायेति सर्वत्र योज्यं । येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्ट- त्वात् ॥ १६ ॥ नमः सततबहाय नित्यनिर्मुक्तिभागिने। बन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे ॥१७॥ नमः सतत इति । भगवत एव बद्धमुक्ततयाऽवगमात्तथा- . शिवस्तोत्रावल्याम् त्वम् वस्तुतस्तु चिदनत्वात्तद्धीनत्वम् । विरोधाभासः पूर्ववत् । एवमुत्तरत्रीप ॥ १७ ॥ उपहास कसारेस्मिन्नेतावति जगत्रये। तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥ उपहासैक इति । तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति अतिवितते जगत्रये भवाभवातिभवात्मनि । अद्वितीयाय असाधा- रणैकरूपाय नियमुखासिने आनन्दघनायोपादेयतमाय तुभ्य- मेव नमः ॥१८॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे । सर्वाचाराय शर्वाय निराचाराय ते नमः॥१९॥ दक्षिणाचार इति । दक्षिणाचारो भैरवतन्त्र अविपरीतानु- ष्ठानं च सारः सारत्वेनाभिमतो यस्य । वामाचारं वादितन्त्र वि- परीतक्रमं चाभिलषति यस्तस्मै । सर्व आचारो निजः परिस्पन्दो यस्य । निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजा- दिभ्यो निष्क्रान्तो यस्तस्मै । अथ च श्रीमदाचारनिराचाररूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १९ ॥ यथा तथाऽपि यः पज्यो यत्र तत्राऽपि योऽर्चितः योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥ यथा तथा इति। येन येन प्रकारेण यत्र कचिद्यत्किञ्चिदा- चर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा . . . .

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । - + तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथा- गमः “यथालाभं प्रपूजयेदि"ति ॥२०॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवाराय वरदाय ते ॥२१॥ मुमुक्षु इति । साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव स- मनन्तरोक्तयुक्सा नियन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेना- तिस्पृहणीयत्वात् । वारः समूहः “समूहनिवहव्यूहवारसङ्घातस- चया"इसमरः । वरदाय सविनैर्मल्यसारप्रसादप्रदाय ॥ २१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल-। त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥ सदा निरन्तरानन्द इति । प्राग्वत्रिलोकस्य विश्वस्य स्वस्या- नन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः।निसपर्वणे सदा वि- श्वपूरकरूपाय। पर्व पूरणे इसस्यप्रयोगः।सर्वश्च पर्वणि आनन्दर- सनिर्भरितं निखिलं करोति ॥ २२॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२३॥ मुखप्रधानं यत् शक्तिद्वन्दं संविद्देवीचनं, चमत्कारेणानन्द- धनप्रमातृविश्रान्सा सुखप्रधानसंवेद्यसंभोगैः आनन्दसारविषय- ग्रासास्वादैः, त्वामेव भजते त्वय्येव विश्वमर्पयति। तस्मै घोराय सर्वसंहर्ने ते तव सम्बन्धिने नमः ॥ २३ ॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचोष्टिताः । आलिङ्गन्यापि यं तस्मै कस्मै चिद्भवते नमः २४ १८ शिवस्तोत्रावल्याम् मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातु- मशक्यं । भक्तिसम्बन्धचेष्टिताः समावेशरसानुविद्धव्यापाराः।आ- लिङ्गन्यपि दृढावष्टम्भयुक्सा स्वसम्भोगपात्रं कुर्वन्यपि यं तस्मै कस्मै चित्स्वात्मनि स्फुरते नमः ॥ २४ ॥ परमामृतकोशाय परमामृतराशये। सर्वपारम्यपारम्यप्राप्याय भवते नमः॥ २५॥ परमामृत इति। परमानन्दरसस्य कोशो गमिव, अतस्त- त्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात् ।सर्वस्य मायादेः पारम्यं परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कार: शाक्तः समुल्लासः, तेन प्राप्याय ॥२५॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वामोदसुभगं परामृतरसाल्वणम् ॥ २६ ॥ महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति प्राग्वत् । स्वच्छं विश्वप्रतिबिम्बधारणात् । शीतलं संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्या- पिपरिमलेन हादिना स्वरूपेण।सुभगं स्पृहणीयं । परमामृतरसेन परमानन्देनोल्वणं बंहितम् ॥ २६ ॥ स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तनौमि तव शासनम् ॥२॥ स्वातन्त्र्या इति।स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रताआनन्द- घना या त्वदैक्यख्यातिः भवदभेदप्रथा सैव विश्वचित्रतन्तु- व्याप्या महापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्य- प्रथनसारेऽपि चित्रं नानारूपं नास्येव, त्वदैक्यख्यातिप्रतिपादन- .

. १ ९ - T . च " न सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । परत्वात्, चित्रमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभा- वनाभूमित्वात्, अथ च पटे स्थितं शासनमविचित्ररूपं चेति चित्रम् ॥ २७॥ सर्वाऽऽशङ्काशनिं सर्वाऽलक्ष्मीकालानंल तथा। सर्वाऽमगंल्यकल्पान्तं मागं माहेश्वरं नुमः॥२८॥ सर्वाशंकाइति । सर्वासामाशङ्कानां द्रव्यपूजामन्त्रादिसङ्की- र्णत्वाद्युक्तानां विचित्रसंसारबीजभूतानां चित्तवृत्तिम्लानिदानां अशनि स्वरूपध्वंसकं आम्नायेऽपि शङ्कापि विशङ्केत निश्शंकत्वमिदं स्फुट"मित्युक्तं । अलक्ष्मीणां अनान- न्ददशानां कालानलं महादाहकं, सर्वामङ्गल्यानामशुभसूचकानां कल्पान्तं निःशेषेण नाशकं, माहेश्वरं मार्ग शाक्तं प्रसरं नुमः॥२८॥ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाधितम् । जगतां परमेश्वरो भवान परमेकः शरणागतोऽस्मि ते ॥ २९ ॥ जयदेवेति । परमेकोस्मीति देहायभिमानेन त्वन्मायाश क्तिकृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः, अत एव शरण- मागतः। युक्तं चैतत् यतो विश्वमिदं तवाश्रितं चिन्मयत्वत्स्वरू- पमग्नं, ततश्च जगतां भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशि- वान्तेभ्यः उत्तमः, अत एव हे देव क्रीडादिशील, जय देहाध- भिमानमिममुदस्य स्वरूपेण प्रथस्व इति प्राग्वत् ॥ २९ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावना- नामकं द्वितीयस्तोत्रम् ॥ २॥ - '.

--
२०
शिवस्तोत्रावल्याम्
.
ॐ सदसत्त्वेन भावानां युक्ता या द्वितयो गतिः ।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥१॥
ॐ सदसत्वेनेति।भावानां प्रमेयादीनां जन्मसत्तादिरूपतया
प्राक्मध्वंसाभावादिरूपतया च द्वितयीरूपा द्वितयीयुक्ता यतस्ते
भावाभावनीयाः सम्पादनीयाः, तामुल्लङ्घ्य उज्झित्वा यस्तृतीयः
सदसत्ताभ्यामच्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्यःस्थितः,
तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति प्राग्वत् ॥१॥
श्रासुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्रये ।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः॥२॥
आसुरर्षि इति । जगत्रयं प्राग्वत् । सुरर्षिजनात् मरीच्या-
दिदेवर्षिजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्व सृष्टिसंहार-
गोचरत्वं । स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः । तस्य च ये ऽनु-
जीविनः तदात्मकस्वात्मसाक्षात्कारिणः ते ऽपि तत्समावेशात
स्वतन्त्रा एव ॥२॥
अशेषविश्वखचितभवद्वपुरनुस्मृतिः।
येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३ ॥
अशेषेति । भवरुजां सांसारिकोपतापानां। भेषजमौषधं। वि-
श्वखचितत्वात्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः चिदात्म-
नस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येषामस्ति, ते
मुखासिनः।सत्स्वपि देहादिनान्तरीयकेषु दुःखस्पर्शेषु परमानन्द-
घने मुख एव तिष्ठन्ति ॥ ३ ॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वधुनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । २१ . . सितातपत्रमिति । इन्दुः सर्वमेयरूपः, प्रकाशदशायां स्वप्र- भाभिश्चैतन्यमरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं, स्वात्मलग्नत्वाच्च बद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात् आ- तपात् त्रायते इसातपत्रं । तथा स्वः स्वर्ग तदुपलक्षितं च निरयं धर्माधर्मफलं धुनोति स्वर्धनी मध्यवाहिनी चिच्छक्तिः, सैव प्रस- रद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यप्रथाहेतुः। स एको न तु अन्यः परम ईश्वरः। स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुः गङ्गा च यस्यासाधारणं छत्रं चामरं चेति स्पष्टम् ॥ ४ ॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥५॥ प्रकाशां शीतलामिति । प्रकाशां स्वप्रकटां, शीतलां सन्ता- पहरां, शुद्धां भेदशङ्काशातिनी च, एकामद्वितीयां, कामप्यपूर्वा, अमृतवाहिनीं च अमृतस्यन्दिनी, दृशं संविदं, मे मां, नाथ, वितर प्रयच्छ । शशिकलापक्षे श्लिष्टोक्तेः स्पष्टोऽर्थः ॥५॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविपुषः। इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥६॥ स्वच्चिदानन्द इति । त्वत्तः चिदानन्दसमुद्रात, याः संवि- त्तिविपुषः नीलमुखादिज्ञानकणिकाः, प्रकाशमानत्वाच्चिदान- न्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दराः, इमा विस्फुरन्यो, नो कथं भवन्ति, भवन्सेवेसर्थः ॥ ६॥ त्वयि रागरसे नाथ न मनं हृदयं प्रभो। येषामहृदया एव तेऽवज्ञास्पदमीदृशाः॥७॥ त्वाय रागेति । त्वद्विषये रागरसो भक्तिप्रसरः। तत्र येषां हृदयं न मग्नं समाविष्ट, ते अविद्यमानतात्त्विकहृदयाः . .

૨૨ . . शिवस्तोत्रावल्याम् ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमता- मगणनीया एव ॥ ७॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥ प्रभुणेति ।उक्तार्थमातिपक्ष्येणोक्तिः। यस्येति कस्यचिदेव । अहृदयास्तु प्रायो बहव इति बहुवचनमत्र नोक्तं । हृदयमेलनं समावेशेनैकत्वम्।विभूतयः अद्वयानन्दसम्पदः। यस्य च लौकिके- श्वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य इति श्लेषेण ध्वनति ॥ ८ ॥ हर्षाणामय शोकानां सर्वेषां प्लावकः समम् । भवद्ध्यानामृतापूरो निनानिम्नभुवामिव ॥६॥ हर्षाणामिति । भवद्ध्यानं समावेशरुपं त्वचिन्तनमेव अमृ- तापूरः। स यथा निम्नानिम्नभुवामशुद्धतररूपमायाविद्याभूमीनां समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहर्षा- दीनामपि। समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते । जलापूरश्च निम्नोन्नताश्च भूमीः प्लावयति ॥९॥ केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा । येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥१०॥ केव न स्याद्दशति । येषामात्माधिकेनेश, देहादि निमज्ज्य चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां मुखसम्भारनिर्भरा परमानन्दपूर्णा का इव दशा न स्यात् सर्वैव भवतीयर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा मुखिनो भवन्ति ॥ १० ॥ । -- . प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । २३ .. गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः। स्वामी ममेष घटितो यत्त्वमत्यन्तरोचनः॥११॥ गर्जामि बतेति ।अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः। असन्तं रोचनः अतिशयेन प्रियः । एष इति वक्तुमशक्यः स्वानुभवसंसि- द्धः। तथा च असन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशव- पुर्यतस्त्वं स्वामी मम घटितः समावेशेन मयाऽऽसादितः। ततोगर्जा- मि महारवमुच्चारयामि, नृसामि हर्षप्रसरभरेण सर्वतोमायाममा- दभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः निराकासोस्मि जात इसर्थः। बत इति अनुत्तरचित्स्वरूपप्रसभि- ज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥ नान्यदेद्य क्रिया यत्र नान्यो योगो विदा च यत् । ज्ञानं स्यातू किन्तु विश्वकपूर्ण चित्त्वं विजृम्भते॥१२॥ नान्यद्वेद्यमिति । तथाविधो मम स्वामी धटितो यत्र स्वामिनि सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा संविनास्ति, घटितस्वामिव्यतिरिक्तं मम न किं चिदपि भाती- सर्थः। क्रिया विदा इसत्र अन्या इति योजना। तत्र पूर्ण त्वस्ये- वेति आह । किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बो- धाग्निप्रज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति यावत् । यच्चेक्ज्ञानं तदेवं चित्त्वं शिवप्रकाशरूपत्वं विजृम्भते नान्यत् । यथागमः “न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेसभिधीयते" ॥१२॥ दुर्जयानामनन्तानां दुःखानां सहसैव ते । हस्तात्पलायिता येषां वाचि शवच्छिवध्वनिः॥१३॥ .

२४
शिवस्तोत्रावल्याम
दुर्जयानामिति । हस्तात्पलायिता इसनेन शिवध्वनिशून्यवा-
चः सर्वदुःखाक्रान्ता इति ध्वनति । तथा चोच्यते आब्रह्मणश्च
कीटाचेसादि । “आब्रह्मणश्च कीटाच्च न कश्चित् तत्त्वतः सुखी।
करोति तास्ता विकृतीः सर्व एव जिजीविषुः" ॥ १३ ॥
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥
उत्तमः पुरुष इति । हरिः पुरुषोत्तम इति प्रसिद्धः, स यु-
मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषुममातृषु च लब्धा-
दन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः ।
तथा चागमः-"वैष्णव्यास्तु स्मृतो विष्णु"रिति ।त्वं सकलादिस-
दाशिवान्तनिःशेषपुरुषाश्रयत्वान्महापुरुषः । अन्यशब्दः कश्चिद-
र्थः। एकः अद्वितीयः । इति एकःश्लोकार्थः। अपरस्तु व्याकरणप्र-
क्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेषाभ्यां मध्यमप्र-
थमपुरुषाभ्यां विशेषितः सनातविशेषोऽस्ति, तस्य च तटस्थप-
रामृश्यात्पथमपुरुषाशुष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः
यदशेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वं । सर्वस्येदन्ताविमृश्यस्या-
हन्तायामेव विश्रान्तेः । स पचति त्वं पचसि अहं पचामीति वि-
वक्षायां वयमेव पचाम इसादौ प्रयोगेऽयमेवाशय इसास्तां । त्वं
तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पितानामकल्पि-
तचिद्रूपाश्रयः । यथोक्तं प्रसभिज्ञायां "ग्राह्यग्राहकताभिन्नावों
भातः प्रमातरि" इति अत एव महापुरुवो महेश्वरो, महादेववन्म-
हच्छब्दस्य त्वय्येव प्रवृत्तत्वात् ॥ १४ ॥
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो।
संसारार्णव एवैष येषां क्रीडामहासरः ॥१५॥

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । २५ जयन्तीति । जगद्वन्द्यत्वं शिवसमावेशमात्रत्वात् । जगतां विभो, तव दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इसतिघोरोऽपि चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासरःकल्पः। यथोक्तं "इति वा यस्य संवित्तिः क्रीडावेनाखिलं जगत्, सम्पश्यान्न"सादि॥१५॥ अासतां तावदन्यानि दैन्यानीह भवज्जुषाम् । त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥१६॥ आसतां तावदिति । अन्यानि दैन्यानि अणिमादिपार्थना । भवज्जुषां सततसमावेशपथमानत्वत्स्वरूपाणामतएवार्थनीया- न्तरविरहात्मकटीभूया इसनेनैक कदाचित्समाविष्टैः प्रार्थनीयेन यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव नास्ति ॥१६॥ मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः । तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥ . मत्परं नास्ति तत्रेति । महेशितुरपि जयं देवतान्तरमस्ति अक्षमालायोगादिति ये मुह्यन्ति तान् बोधयितुमाह । मत्परं ताव- नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन चिदभेदेन, परमार्थतो जपः पूर्णाहन्ताविमर्शात्मा नियोदितो भव- तीति अक्षमालया कचिद्गौरीश्वराधाकृतौ दिशसि कथयसि । तच्छब्दाद्यच्छब्द आक्षेप्यः । अथ वा अक्षयालया करणेश्वरीपं- त्या समस्तार्थसाथै सर्गसंहारपरम्परासम्पत्तये पुनः पुनरावर्त- मानया ऐक्यतो महार्थनया भेदसारेणैकत्वेन च जपोऽनुत्तर- विमर्शसारो भवतीयक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्ष- यसि ॥ १७॥ ।

शिवस्तोत्रावल्याम् ए सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो। त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः॥१८॥ सतोवश्यमिति । भावाभावौ परस्परभिन्नौ । त्वमसतः खपु- ष्पादेः, सतश्च नीलमुखादेरन्यो विलक्षणः चिदानन्दघनः, अत एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मक- स्त्वं, “नतु सद्रूप एव वा असद्रूप एव वा उभयोज्जित एव वा। तथा श्रीभर्गशिखायां-"न सन्न चासत्सदसन्नैव तदुभयोज्ज्ञितमि"त्युप- क्रम्य, दुर्जेया हि साऽवस्था किमप्येतदनुत्तरमि"सनिर्वचनीयत- यैव विश्वोत्तीर्णविश्वमयचिदानन्दघनमनुत्तरस्वरूपं सदसत्त्वेनेति श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्यमुक्तम्, अनेन तु सर्व- भावाभावोत्तरत्वम् ॥ १८ ॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् । अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥ सहस्रसूर्यकिरणेभ्योप्यधिकः, तेषामपि तत्प्रकाशत्वात् । शुद्धश्चिदेकरूपः प्रकाशो भूम्ना प्राशस्येन च यस्य । अत एव सर्वभुवनव्यापकत्वं । मायाव्यामूळे न दृश्यसे भासमानोऽपि न प्रसभिज्ञायसे इति यावत् ॥ १९ ॥ जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः। विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥२०॥ जडे जगतीति । जगति क्षिसादिसदाशिवावसाने जडे वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः सर्वोत्तमोसीति सम्बन्धः ॥ २० ॥ ..

२७ सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् । अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः। तीनं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥२१॥ अलमिति । व्युत्थानदशापरवशः समावेशतत्त्वं जाननपि मुखामीति व्युत्थाने समावेशवशो भवामीति शिवम् ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ प्रणयप्रसादनामके तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ ॐ चपलमसि यदपि मानस तत्रापि श्लाध्यसे यतो भजसे । शरणानामपि शरणं भुवनगुरुमम्बिकाकान्तम् ॥१॥ ॐ चपलमसीति । चापलाद्यद्यपि भगवद्गजने न प्ररोहसि तथा ऽपि कृतार्थमसि ।क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिपद- त्वात् । अत एव शरणानामपीससामान्यतां भगवतः प्रथयति । शरणानां ब्रह्मविष्ण्वादीनामपि शरणं समाश्रयं त्रिभुवनगुरुं विश्वस्योपदेष्टारं पूज्यं च । अम्बिका परा शक्तिः ॥१॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेयशिवचरणान् । प्राश्रित्याप्यधरतरां भूमिं नाद्याऽपि चित्रमुज्ज्ञामिार उल्लयति ।विविधानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपा- णि दैवतान्येव सोपानक्रमः, तमुल्लङ्घ्य विश्रान्तिपदीकृस, उपे- ॥

२८ . . शिवस्तोत्रावल्याम् यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य, चरणान् मरीचीन, आसमन्तात् श्रिवा समावेशयुक्त्या स्वीकृयापि, चित्रं यदद्यापि अधरतरां भूमि व्युत्थानपतितां मायीयदेहादिप्रमा- तृतां न सजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाध्यतां ध्वनति ॥२॥ प्रकटय निजमध्वान स्थगयतरामखिललोकचरितानि । यावद्भवामि भगवं- स्तव सपदि सदोदितो दासः ॥३॥ प्रकटयति । निजमध्वानं स्वंशाक्तं मार्गम्। अखिलस्य लो- क्यलोकयितृरूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि स्थगयतरां निःशेषेण शमय । यावत् तव सदोदितो दासो भवा- मि त्वचरणसपर्यापरो निससमाविष्टः स्फुरामि इति यावत् ॥३॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणां । तव चरणकमलयुगल- स्मरणपरस्य हि सम्पदो ऽदूरे ॥ ४ ॥ शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं । सम्पदः समावेशसाराः परमानन्दमय्यः । अदूरे निकटे ॥ ४ ॥ तावकाशिकमलासनलीना ये यथारुचि जगद्रचयन्ति ।

२९ . सुरसोइलाख्यं चतुर्थ स्तोत्रम् । ते विरिञ्चिमधिकारमलेना- ऽऽलिप्तमस्ववशमीश हसन्ति ॥ ५॥ तावकाङ्ग्रीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादितस्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, ये जगद्रचयन्ति ते विरिश्चिं ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वादस्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति कमलासनोऽपि तेषां हासास्पदमियर्थः ॥ ५ ॥ त्वत्प्रकाशवपुषो न विभिन्न किं च न प्रभवति प्रतिभातुम् । तत्सदैव भगवन्परिलब्धो ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥ त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदुरोऽपि स्वगोपनादप्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः । यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासते तत्त्वत्तः प्रकाशवपुष- श्चिद्रूपात् न भिन्न प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं- "यस्मात्सर्वमयो जीव" इसादि “भोक्तव भोग्यभावेन सदा सर्वत्र संस्थित" इसन्तम् ॥ ६॥ पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिमुपेताः। के चनाऽपि रसयन्ति तु सद्यो भातमक्षतवपुढयशून्यम् ॥ ७ ॥ पादपङ्कजेति । तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं ३० -- शिवस्तोत्रावल्याम् के चित् द्वैतनिष्ठाः, भेदेन पर्युषिता, झगिति उपभोगानासा- दनेन शुक्तीकृतप्राया वृत्तिः स्वरूपं यस्य तमुपेताः प्राप्ताः, न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिताः सद्यो भातं झगिति उपनतं अक्षतवपुषं निसस्फुरत्स्वरूपं द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति । केचिदिसपकर्षः केचनापीत्युत्कर्ष ध्वनति ॥ ७ ॥ नाथ विद्युदिव भाति विभा ते या कदा चन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत पूजितोऽसि विधिवत्किमुतान्यत् ॥८॥ नाथ विद्युदिवेति । हे नाथ तव विभा परः शाक्तः स्पन्दः । अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्रं कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि बलवद्व्युत्था- नमपहस्य निसोदिता स्यात्तद्विधिवद्यथातत्त्वं पूजितोऽसि । कि- मुतान्यत् परिसमाप्तं करणीयं कृतकृसता च जायते इसर्थः ॥८॥ सर्वमस्यऽपरमस्ति न किंचिद् वस्त्ववस्तु यदि वेति महत्या । प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥ सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि धा ऽवस्तु न किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात् इसेवं शुद्धविद्यामय्या यथैव महसा प्रज्ञयाऽत्रजगति त्वं .....

b
'.
सुरसोइलाख्यं चतुर्थ स्तोत्रम् ।
निश्चितस्तथैव मे मुष्ठु व्युत्थानेऽपि समावेशवशात् प्रकटो
भव ॥ ९ ॥
खेच्यैव भगवन्निजमार्ग
कारितः पदमहं प्रभुणैव ।
तत्कथं जनवदेव चरामि
त्वत्पदोचितमवैमि न किं चित् ॥ १० ॥
स्वेच्छयैवेति । हे भगवन् अहं प्रभुणैव न तु अन्येन केन
चित् ।स्वेच्छयैव निरपेक्षशक्तिपातयुक्त्या।निजमार्गे विकस्वरश-
क्तिवर्त्मनि । पदं कारितः विश्रान्तिं लम्भितः। तत्कथं जनवदेव
लोकवदेव।चरामि व्युत्थाने व्यहरामि। त्वत्पदोचितं त्वन्मरीचि-
परिचयसमुचितं समावेशवशान किं चिदवगच्छामि ॥ १० ॥
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः।
स्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम् ॥ ११ ॥
कोपीति । हे देव तेषु केषु चित् प्रागुक्तभक्तिमत्सु हृदि ता-
वकः उत्तमः उत्कृष्टः सुभगभावः कोऽपि उच्छलदानन्दरसोल्बण-
त्वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि,
अत एव त्वत्कथैव अम्बुदनिनादः तत्र चातका इव समावेश-
शालिमतन्यमानशिवकथाssकर्णनप्रहृष्टहृदया अपि चिरं मुभ-
गीकृताः समावेशभूमि लम्भिताः। यत्कथामात्रेण समावेशोऽव-
तरतीयर्थः॥ ११ ॥

d . .. शिवस्तोत्रावल्याम् वज्जुषां त्वयि कयाऽपि लीलया राग एष परिपोषमागतः । यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥ त्वज्जुषामिति । कयापीति अनुत्तरसमावेशशालिन्या लील- या त्वज्जुषां त्वां प्रीसा सेवमानानाम् । एष इति असामान्यो रागः परिपोषं प्राप्तः। त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च की सम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्सवमि- त्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥ यो विचित्ररससेकवर्धितः शङ्करोति शतशोऽप्युदीरितः । शब्द आविशति तिर्यगाशये- वप्ययं नवनवप्रयोजनः ॥ १३ ॥ ते जयन्ति भ्रमन् अस्ति येषु नियतं शिवध्वनिः। यः शशीव प्रस्टतो ऽमृताशयात् स्वादु संस्रवति चामृतं परम् ॥ १४॥ यो विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु सु खमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः स्वादु परं चामृतं सम्यक् स्रवति आनन्दरसं समुच्छलयति । कीदृक् अमृताशयात साक्षात्कृतचिदनपरमेश्वररूपात्ममृतः स्व- रसेनोचारितः। यथा अमृताशयात, शशी चन्द्रमाःप्रसृतः मण्ड- सुखमण्डले 4 सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् । ३३ ले स्फुरन्, परं स्वादमृतं स्रवति, यचैव विचित्रेण समावेशरस- सेकेन वर्धितोऽत एव शतशोप्युदीरितः शङ्करेसयं शब्दः, तिर्य- गाशयेषु पशुहृदयेष्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वच- मत्कारकारी, आविशति परिस्फुरति ॥ १३ ॥ १४ ॥ परिसमाप्तमिवोग्रमिदं जगद् विगलितोऽविरलो मनसो मलः । तदपि नास्ति भवत्पुरगोपुरा- गेलकवाटविघहनमण्वपि ॥ १५॥ परिसमाप्तमिवेति । स्फुरत्प्रसग्रसमावेशसंस्कारस्य व्युत्था- नभूमिमवतितीर्पोरियमुक्तिः। उग्रं भेदमयत्वादीषणं । जगद्विश्वं, परिसमाप्तमिव । समाविष्टस्य हि न बाह्यं विश्वं विभाति अथ च संस्कारशेषतयाऽऽस्ते इति इव शब्दः । मनसश्च अविरलो घन: मलः अविद्याकलात्मा विगलितः । तथाऽपि निःशेषशान्ताशेष- विश्वमयप्रफुल्लमहाविद्योद्यजगदानन्दमयस्य पूरकत्वात्पुररूपस्य, यदोपुरं पुरद्वारं परमशक्तिरूपं, तत्रार्गलयुक्तकवाटविघटनमति- दृढाख्यातिपुटविपाटनं मम मनागपि नास्ति । अनेन प्रविगलितनिः शेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति । यदुक्तं "सर्वथा त्वन्तरालीने"सादि श्रीप्रसभिज्ञायां । “सर्वातीतः शिवो शेयो यं विदित्वा विमुच्यते" इति पूर्वशास्त्रे ॥ १५ ॥ सततफुल्लभवन्मुखपङ्कजो- दरविलोकनलालसचेतसः । किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः॥१६॥ ५ . Tuli . . शिवस्तोत्रावल्याम् सततेति । सततं फुल्लं निसं विकसितं यत्वन्मुखकमलं,"ौवी- मुखमिहोच्यते इति"स्थिया, त्वत्पराशक्तिरूपं यत्पनं तस्य यदुदरं मध्यं, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलो- कनं समावेशः, तत्र लालसं सातिशयामिलापं चेतो यस्य, तस्य मे, किमपि तदसम्भाव्यमुपायप्रदर्शनं, मनागिव हेलामात्रेण कुरु, येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥ त्वदविभेदमतेरपरं न कि सुखमिहास्ति विभूतिरथाऽपरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहत्य ताम् ॥ १७ ॥ त्वदविभेदमतेरिति ।समावेशस्फुरितायास्त्वदद्वयसंविदः अ- परं मुखं विभूयादि च न किं चिदस्ति। तस्या एव सर्वातिशा- यित्वात् । ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं परिहृस, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरा- दविरतं रसयेयमहं न चेत् ॥ १८ ॥ क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वा- दयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् । आन- न्दघनत्वत्स्वरूपापरिचितत्वात् ॥ १८ ॥ न किल पश्यति सत्यमयं जन- स्तव वपुईयदृष्टिमलीमसः। .

सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् । तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ १९ ॥ न किलेति । अयं तावज्जनः भेददृष्टिमलीमसत्वात्तव ससं चिद्घनं वपुः न पश्यति । तथाऽपि त्वं सर्ववित्सर्वज्ञः, आश्रित- वत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदाने ऽपि मे किमिसारटितं आक्रन्दितं न शृणोषि । दर्शनं तावज्झ- गिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु श- विति प्रार्थयते ॥ १९ ॥ स्मरसि नाथ कदा चिदपीहितं विषयसौरव्यमथापि मयाऽर्थित म् सततमेव भवद्वपुरीक्षणा- मृतमभीष्टमलं मम देहि तत् ॥ २० ॥ स्मरसीति । ईहितं प्रयत्नेनार्जितं अथाप्यर्थितं कासितं कदा चिदपि मया विषयसौख्यमिति नाथ स्मरसीति नियन्त्र- णोत्या गाढमभुपरिचयं ध्वनति । केवलं मम देव भवद्वपुरीक्ष- णामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं । तदेव च देहि प्रयच्छ ॥ २० ॥ किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया। शुभशतान्युदितानि तदेव मे किमपरं मृगये भवतः प्रभो ॥ २१ ॥ किलेति । शिवाध्वनि श्रेय शतशालिनि । परमे शाक्ते मार्गे । कृतपदः प्राप्तविश्रान्तिः ॥ २१ ॥ ॥

३६ शिवस्तोत्रावल्याम . . . यत्र सोऽस्तमयमेति विवस्वाँ- श्चन्द्रमःप्रभृतिभिः सह सर्वैः । काऽपि सा विजयते शिवरात्रिः स्वप्रमाप्रसरभास्वररूपा ॥ २२ ॥ यवेति । सा कापि लोकोत्तरा शिवरात्रिः शिवसमावेश- भूमिः । समस्तमायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः । कीदृशी, स्वमभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्याः, तादृशी । स इसशेषप्रपञ्चप्रथमाङ्कुरः विवस्वान माणः। चन्द्रमः- प्रभृतिभिरपानादिभिः सहाऽस्तमेति प्रशाम्यति । यदि वा। विव- स्वान् प्रमाणप्रकाशः। चन्द्रमा प्रभृतयः प्रमेयादयः ॥ २२ ॥ अप्युपार्जितमहं त्रिषु लोके प्वाधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदति- स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥ अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्श विना विरसं मन्ये ॥ २३ ॥ बत नाथ दृढोयमात्मबन्धो भवदख्यातिमयस्त्वयैव क्लप्तः । यदयं प्रथमानमेव मे त्वा- मवधीर्य श्लथते न लेशतोऽपि ॥ २४ ॥ बतेति।आश्चर्यं अयमात्मबन्धो देहादिषु प्रमातृताभिमानः त्वदप्रथारूपः । त्वयैव अतिदुर्घटकारिणा दृढः क्लुप्तः । न तु अ- । .

पूज्यमानो सुरसोइलाख्यं चतुर्थ स्तोत्रम् । ३७ न्यस्य शक्तिः । यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अव- धीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवाव- लम्बते इसर्थः ॥ २४॥ महताममरेश ऽप्यनिशं तिष्ठसि पूजकैकरूपः। बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टशरीर एव शश्वत् ॥ २५॥ महतामिति । बहिरन्तः पूजाधवसरे।आपातभेदेनैव प्रकाश- मानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां भक्तिमतां पूजकैकरूपो द्रष्टशरीरश्च, समावेशसामरस्यारोधमय- प्रमात्रेकरुपस्तिष्ठसि स्फुरसि चेति शिवम् ॥ २५ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सुरसोद्बलनामक- चतुर्थस्तोत्रे क्षेमराजकता विवृतिः ॥

३८
शिवस्तोत्राल्याम् ।
-
ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ १ ॥
ॐ त्वदिति । पादाः मरीचयः। सम्पर्कमात्रसम्भोगः समा-
वेशास्वादः। गलेपादिका हठशक्तिपातक्रमः । स्ववेश्म चित्स्व-
रूपं, औचिसात् ॥ १॥
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः।
अपाररभसाऽऽरब्धनर्तनः स्यामहं सदा ॥ २ ॥
भवदिति । भवदीयेन पादाम्बुजरजसा ऽनुग्रहप्रवृत्तपरश-
क्तिकमलपरागेण ।रञ्जितमूर्धजः अधिवासितान्तः। प्रसरङ-
ष्टशत्त्यकुरः । तत एव प्रहर्षवशादपारमपर्यन्तं, रभसाऽऽरब्धं
झगिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाप्रमातृताविधूननं येन ।
निससमावेशविकस्वरतामाशास्ते ॥२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिद्को भवयं माऽन्यथा बुधः॥३॥
त्वदेकनाथ इति । इयदेव नापरमर्थये । यत्त्वमेवैको नाथो ना-
थ्यमानः समभिलषणीयो यस्य सः । त्वदन्तर्वसतिश्चिद्धनत्वत्स्व-
रूपसमाविष्टो मूकोऽपि स्याम् । अन्यथा बुधोऽपि विद्वानपि
माभूवम् ॥ ३ ॥
अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन ।
ग्रहो खादो विरूपाक्षेयेव नृत्येयमारटन् ॥४॥
अहो इति । प्राग्वन्निससमाविष्टतामाशास्ते । सुधानिधे आन-
न्दाब्धे । मृष्ट चमत्कारपदपतित । स्वादो अविच्छिन्नमाधुर्य । नृसे-
यमिति माग्वत् । आरटन् स्फुटं परामृशन् ॥ ४॥

३६ ॥ स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः । विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः ॥ ५ ॥ त्वत्पादपति । त्वच्छत्यानन्देन अन्तर्मुखीकृतकरणः।वि- जृम्भेय चित्स्वरूपोन्मज्जनागात्रं विनमयेय चिद्गुणीभावं नययम् । कीहक्-भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिरामदः कादम्बरीचमत्कारः, तेन घूर्णितो महाव्याप्ति लम्भितः ॥ ५ ॥ चित्तभूशृद्भुवि विभो बसेयं क्वापि यत्र सा । निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ६॥ चित्तभूभृदिति । चित्तमेव अनुल्लङ्घयत्ववासनाश्रयत्वकठो- रत्वाभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदायां भुवि भूमिकायां । वसेयं । यत्र सा इति प्राक् परिशीलिता, महा- रसा समावेशानन्दमयी, निरन्तरो घनः, त्वत्प्रलापो भवत्पराम- शः, प्रकृतं रूपं यस्यास्तादृशी दृत्तिः स्थितिः॥ ६ ॥ यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपः स्थितस्तस्मिन्बास्तव्यः स्यामहं पुरे॥७॥ यत्त्रेति । तस्मिन् पुरे त्वदीये पूरकेचिदात्मनि रूपे।वास्त- व्यः समाविष्टः स्याम् । यत्र आसौधादान्तरात्सुधासमूहरूपात्म- तिभालक्षणादुच्चाद्धान्नः । आच गोपुरादिन्द्रियविषयरूपा द्वारान् । त्वं देव्या परशक्त्या समेतो निसप्रमुदितो, “न सा जीव- कला का चि"दिसादि नीसा वससि। बहुरूपो विश्वात्मा । अत्र अनुरणनशत्त्या लौकिकैश्वार्य्यपरिचार्यर्थः स्पष्टः । तथोत्तरत्रा- प्यनुसर्तव्यः ॥ ७ ॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ८॥ . ॥

४०
शिवस्तोत्रावल्याम
समुल्लसन्विति । मरीचयः अनुग्राहिकाः शक्तयः। विकसतु
व्याप्तिमासादयतु । तव पूजनाय त्वत्पदसमावेशाय ॥ ८॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥
प्रसीदेति । प्रसादोंभस इव
स्वयमेवाविलीभावशान्या नैर्म-
ल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे, पतितं लुठितं, तत्तदिति
ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो
ध्वनति।क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षयासम्भावनालिङा
च स्वानुभवसाक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति ॥१॥
प्रहर्षादाऽथ शोकाद्वा यदि कुड्याद्रटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥१०॥
प्रहर्षादिति। वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव ना-
स्माकं कचिद्रहः इसाह । प्रभो सर्वतः प्रभवनशील ॥ १० ॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥११॥
बहिरपीति । पादाम्बुजं शीतलमिति माग्वत् ॥ ११ ॥
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमज्जनम् ।
कोप्येष सर्वसम्भोगलची भोगोऽस्तु मे सदा ॥१२॥
त्वत्पादसंस्पर्श इति । त्वत्पादसंस्पर्शो रुद्रशक्तिसमावेशः।स
एव सुधासरः रसायनाब्धिः। तत्र अन्तनिमज्जन ब्रुडनं यत्, एष
मम कोऽपि असामान्यः भोगः सदाऽस्तु । कीदृक् । सर्वान् सदा-
शिवपर्यन्तान् भोगान् लङ्घते विरसत्वादाभिभवति, तच्छीलः॥१२॥

खबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । ४२ निवेदितमुपादत्स्व रागादि भगवन्मया । आदायचामृतीकृत्य भुक्ष्व भक्तजनैःसमम्॥१३॥ निवेदितमिति । हे भगवन् चिन्मयस्वात्मन् । आसंसारं यत् मयार्जितं रागादि, तद्वित्तशाट्यविवर्जनया निवेदितं त्वय्यर्पितं, निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशा- स्मतामधिष्ठाय समीपे कुरु । अमृतीकृति परशक्तिस्पर्शामृतेन आप्लाव्य । भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्त- भक्तानामपि तन्मयतामाशंसति ॥ १३ ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् । ॥१४॥ अशेषेति । हे स्वामिन् अशेषभुवनाहारेण निसतृप्तः परमा- नन्दघनः । दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण प्रकाशाईत्वमधिष्ठापय । कीदृशं-मुखेन आस्यते यत्र तत् आन- न्दव्याप्तिमयम् ॥ १४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयन स्यां तृणान्यपि ॥१५॥ अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलि- तेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृ- णान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगर्भवेयमवियोजितः ॥१६॥ अपीति । लब्धो भवद्भावः त्वदैकात्म्य येन । अत एव स्वा-

शिवस्तोत्रावल्याम्
त्मनः शिवरूपस्योल्लास एव प्रकृतं रूपं यस्य तथाविधं जगत्
विश्वं पश्यन्, भक्तिरसाभोगैः समावेशप्रबलचमत्कारैः अवियो-
जितः स्याम् । “तमनियेषु भोगेषु योजयन्ति विनायकाः" इसा-
नायस्थिया मा कदा चित् स्वात्माभिमानविनायको भत्त्य-
न्तरायं मे कार्षीदिति यावत् ॥ १६ ॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णता ॥१७॥
आकाङ्क्षणीयमिति । सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण
इसर्थः ॥ १७॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥
हस्यत इति । नृसते अन्तः प्रहर्षभरेण देहादिममातृता दो-
घूयते । भुज्यते ग्रस्यते रागद्वेषादीसनेन पुर्यष्टकममातृताया गु-
णीभावउक्तः। पीयते चमत्क्रियते भक्तिपीयूषरसः समावेशानन्द-
प्रसरः। सर्वस्य च हासनृसप्रधानभोजनपानक्रिया स्पृहणीया सा
विह अलौकिकत्वेनोक्ता ॥ १८ ॥
तत्तदपूर्वामोदत्वञ्चिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥१९॥
तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो
हर्षो यस्याः त्वचिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना । दृढतां
प्ररूढत्वं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥
कनुरागादिषुरागःक्कच हरचरणाम्बुजेषुरागित्वम्।
इत्यं विरोधरसिकंबोधय हितममरमेहृदयम्॥२०॥

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । कन्विति । मम हृदयं विरोधरसिकं समावेशे त्वत्परं व्यु- स्थाने तु विषयोन्मुखं । हितं बोधय विवेकितं कुरु येन व्युत्थाने रागादिरसिकतां यत्का त्वदनुरक्तमेवास्ते ॥ २० ॥ विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि । त्वचिन्तामदिरामदतरलीकृतहृदय एवस्याम्॥२१॥ विचरनिति । योगदशाःभूमिकाज्ञानानि विषयेभ्यो व्यार- तयः इन्द्रियेभ्यः प्रसाहाराः। तत्र वर्तमानः। त्वचिन्ता त्वत्प्राप्ति- रेव मदिरामदः । तेन तरलीकृतं साजितमितभूमिकामरूढि क्षीव- स्येव घूर्णमानं, निजचमत्कारव्यतिरेकेण कुत्र चिदपि भूमिका- ज्ञानादावरोह हृदयं यस्य, ताहगेव स्याम् । अपिशब्देन प्रसङ्गा- पतितत्वेन अनादरणीयतामाह ॥ २१ ॥ वाचिमनोमतिषु तथा शरीरचेष्टासु करणरचितासु। सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥२२॥ वाचीति । मनोमतयः कल्पनाप्रधाना धियः। करणरचितासु बुद्धिकर्मेन्द्रियकार्यासु । दर्शनश्रवणादिपूर्वकत्वात्सर्वप्रवृत्तीनां । सर्वत्र सर्वावस्थासु । पुरःसर आदावेव स्फुरन् । भक्तिरसः समा- वेशचमत्कारः ॥ २२ ॥ शिव शिव शिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । प्रास्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ २३ ॥ शिवेति । जप्यमाने प्रकृष्टमन्त्रमयतया परामृश्यमाने।अस्मि- :-- ॥

- ४४ शिवस्तोत्राल्याम् । निति स्वानुभवकसाक्षिके अनुत्तरे। भूयो नामग्रहणं समावेशवै- वश्यं ध्वनति । कमपीति अलौकिकम् ॥ २३ ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजड़ाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचेरयमहं भवतोऽचिंता ॥२४॥ स्फुरदिति । स्फुरत् अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं भुवन विश्वविश्रान्तिस्थानं तत्र । कीदृशे-परितः समन्तानिपीतः समस्तो निःशेषो जडो वेद्यरूपो ध्वान्तत्वादिप्रसरो येन । तथा न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र । शिवात्मकचिद्रू- पव्यतिरेकेणान्यस्याभावात् । अनेन भिन्नशिक्वादनिरासउक्तः। तत्र प्रकर्षेण विचरेयं समावेशेन प्रसरेयं । कीदृक् । भवतः प्रभोर- चिंता अद्वयरूपत्वत्पूजैकनिष्ठः ॥ २४ ॥ स्ववपुषि स्थितिकृते न किमप्युपयुज्यते। इति मतिः सुदृढा भवतात् परं मम भवच्चरणाजरजःशुचेः ॥ २५॥ स्ववपुषीति। स्वस्मिन् अनपायिनि वपुषि चिदात्मस्वरूपे । स्फुटभासिनि प्रकाशघने। शाश्वते निसे स्थिति कतुन किमपि ध्यानजपादिकमुपयुज्यते उक्तरूपत्वादेव । एतादृशी । मम भवचर- णाम्बुजरजःशुचेः त्वच्छक्तिकमलप्रसरपरिशीलनेनशुद्धस्य । मुह- दामतिः निश्चलनिश्चयरूपाधीः। परमतिशयेन भवेत् । नियोदित- स्फुटभासिनि शाश्वते

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् ।
४५
समावेशैकघनः स्यामिति यावत् ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६॥
किमपीति । हे नाथ भवदङ्घितलस्पृशां त्वच्छक्तिस्पर्शशा-
लिनां । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि
स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयी-
भवति । तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ । यथा
निससमावेशानन्दघन एव भवामि इति शिवम् ॥ २६ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली स्वबलनिदेशनाभिधाने
पञ्चमस्तोत्रे श्रीक्षेमराजकता विवृतिः ।।
ॐ तत्सत् ॐ
क्षणमात्रमपीशान वियुक्तस्य त्वया मम।
निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥७॥
क्षणमात्रमिति।व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुराग-
वैवश्यान्निविडमसर्थ तप्यमानस्य स्वयमेव सन्तापमनुभावयतो
न तु विषयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूया:
परिस्फुरेसर्थः ॥ १ ॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
अवियुक्तः सदैव स्यां जगताऽपि वियोजितः॥२॥

शिवस्तोत्रावल्याम् . वपुः स्वरूपं न स्यात् ॥ ९ ॥ भवदङ्ग परिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्ते किं नाथ न जितं मया ॥१०॥ भवदिति। अङ्गपरिष्वङ्गः परमसमावेशस्पर्शः। स्वेच्छया न तु कादाचित्कत्वेन । किं न जितं सर्वोत्कृष्टेन मयैव स्थित- मिसर्थः ॥१०॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः। कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥११॥ प्रकटीति। अन्याभिरर्थनाभिर्याचनाभिः कदर्थनाः व्याकु- लताः तव चिद्रूपरस्य स्वात्मनः न कुर्मः, यतस्ताम्यन्तो गाढानु- रागविवशाः त्वमिव चिद्रूपं न त्वन्यं कं चित्, मृगयामहे अन्वि- ष्यामः, अतः प्रकटीभव प्रकाशस्वति शिवम् ॥११॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अध्वविस्फुरणाख्ये षष्ठे स्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ ६ ॥ . ॐत्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः। परिहरतु सकृदियन्तं भेदाधीनं महाऽनर्थम् ॥ १ ॥ त्वयीति। आनन्दसरस्वति हर्षसमुद्रे । समरसतां समावेशकै- वल्यं । सकृदेकवारं । परिहरतु यथा न पुनर्भवतीयर्थः । इयन्तमप- र्यन्तम् ॥ १॥ एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले । नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ २ ॥ .

10. विधुरविजयनामधेयं सप्तमं स्तोत्रम् । एतदिति । एतत्सुखं तद्धेतुरूपं मम अस्तु, इदं तु दुःखं तद्धे- तुरूपं मम माभूदियेवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य बन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये प्रत्ययः चि- दैक्यप्रतीतिरेव परशुः कुठारः ॥ २ ॥ गलतु विकल्पकलंकावली समुल्लसतु हृदि निरर्गलता। भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः॥ ३ ॥ गलत्विति । विकल्पानां भेदभाधान्यात्कलङ्कता।निरर्गलता निःशङ्कता स्वातन्त्र्यं । मम चिन्मयी मूर्तिः प्रमातृता आनन्दरस- प्लुता समावेशानन्दोच्छलिता अस्तु ॥ ३ ॥ रागादिमयभवाण्डक- लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः । आप्याययतु रसैमा : परमान- प्रवृद्धपक्षो यथा भवामि खगः॥४॥ रागादीति।रागादिमये भवाण्डके संसारगोलके । लुठितम- धोधः पतन्तं मां। त्वद्भक्तिभावनैवाम्बिका माता । तैस्तैः न्दसारैः रसैराप्याययतु तर्पयतु । यया पद्धपक्षः प्रकर्षणासा- दितव्याप्तिज्ञानक्रियामयस्वात्मपक्षः। खगो निर्मलदिग्गगनगति- भवामि । अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खे गच्छतीति श्लेषोपमाध्वनिः ॥ ४॥ त्वच्चरणभावनाऽमृत- रससारास्वादनैपुणं लभताम् ।

४६ शिवस्तोत्रावल्याम् . वियोगेति । अवियुक्तः समाविष्टः । जगता लिसादिशि- वान्तेन विश्वेनापि वियोजितो विश्लेषितः । समावेशे च विश्वं प्रसस्तमयो वस्तुतो भवसेव ॥ २ ॥ कायवाङ्मनसै यत्र यामि सर्व त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥३॥ कायेति । यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इसेष परमार्थ इति “यत्र यत्रे" त्युपक्रम्य “सर्व शिवमयं यत" इसा- नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥ निर्विकल्पो महानन्दपूर्णो यहद्भवाँस्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वाड्मम ॥ ४ ॥ निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्वि- कल्पा महानन्दमयी च । अत एव स्तुसे समुचितत्वादनुरूपा॥४॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ५॥ भवदिति ।भावं भावमिति वीप्सया विश्वाक्षेपः । निराकाङ्क्ष इति विशेषणद्वारको हेतुः प्रहर्षेसादिः। प्रकृष्टेन महानन्दात्मना हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति ॥ ५॥ भगवन्भवता पूर्णं पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥ भगवनिति । भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्चेति स्थिसाऽखिलं जगत् पूर्ण पश्येयम् ।भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः। सन्तुष्टः ..

विभान्तु मे ... . . एवं प्रसृतास्तत्रैव विलीयन्ते । शश्वत्सदा, क्रमेण नैर्मल्यं अध्वविस्फुरणाख्यं षष्ठं स्तोत्रम् । परमानन्दमयीं प्रीतिमितः। अतो हेतोर्न परिखिद्यसे, हे भगवन चिद्रूपस्वात्मन्, अणिमादिप्रार्थनाभिः न व्याकुलीक्रियसे इसथैः ॥ ६॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव । भावा शश्वत्क्रमनैर्मल्यगामिनः ॥७॥ विलीयमाना इति । यत एवोल्लासताः तत्र वंय्येव क्रमाक्रम संस्कारशेषतया विगलन्ते । यथा व्योम्नि मेघलवाः । ते हि तत शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इसनेन चिदात्मतैव तेषां तात्त्विकं रूपमिति ध्वनति ॥ ७ ॥ स्वप्रभाप्रसरध्वस्तपर्यन्तध्वान्तसन्ततिः। सन्ततं भातु मे कोऽपि भवमध्याद्भवन्माणः ॥८॥ स्वप्रभेति । भवमध्यात् विश्वस्य मध्यतः । कोऽपीति शुद्धचिद्रपः । भवानेव मणिः सर्वाभिलाषपूरकत्वान्मम सन्ततम- व्युत्थानं कृत्वा भातु समावेशेन स्फुरतु । स्वसभामसरेण निज- रश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्र- त्तिर्येन ॥८॥ कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न वपुः। श्रान्तस्तेनाऽप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥९॥ कामिति।श्रान्त इसप्रसभिज्ञातस्वरूपत्वाचिरं संसारेखिन्नः। त्वां चिद्रूपमप्रयासेन ध्यानपूजाद्यायाम विना । सर्वतो यतः कुतश्चिदवाप्नुयाम् समावेशेन स्वीकुर्याम्। यतः कां भूमिकामव- स्थिति नाधिशेषे नाधितिष्ठसि । तद्वाह्यमान्तरं वा वस्तु किं यत्तव - ते शिवस्तोत्रावल्याम् . . चितमिदं निःशेषित- विषयविषासङ्गवासनाऽवधि मे ॥५॥ त्वदिति। त्वचरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्ध्यं, ममेदं चित्तं लभताम् । कीदृशम्-निःशेषितः समाप्तो विषयविषासं- गवासनानां वेद्यहालाहलव्यसनसंस्काराणामवधिर्मर्यादा येन॥५॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् । चेतोमाणिर्विमुञ्चतु रागादिकतप्तवन्हिकणान् ॥६॥ त्वदिति। मम चेतोमणिरौचिसाच्चित्तमूर्यकान्तरत्नं, त्वद्भ- क्तितपनदीधितिसंस्पर्शवशाद्वत्समावेशसूर्यकरासङ्गाद, रागा- दिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान, दूरतर- रमसथै, मुञ्चतु जहातु ॥ ६॥ तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः। हरिहर्यश्वविरिचा अपि यत्र बहिः प्रतीक्षन्ते॥७॥ तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लो- कयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः। बहिः प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥ भक्तिमदजनितविभ्रम- वशेन पश्येयमविकलं करणैः । शिवमयमखिलं लोक क्रियाश्च पूजामयीः सकलाः ॥८॥ .

विधुरविजयनामधेयं सप्तमं स्तोत्रम् । भक्तीति । भक्तिमदेन समावेशपहर्षेण जनितो यो विभ्रमो लोकोत्तरो विलासस्तदशेन । करणैश्चक्षुरादिभिः। अविकलं पूर्ण कृत्वा । करणप्रसरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोकं शिवमयं, क्रियाश्च वामनःकायव्यापृतीः सकलाः पूजामयीश्चिन्मयस्वरूपोल्लास- रूपाः पश्येयम् ॥ ८॥ मामकमनोगृहीत- वद्भक्तिकुलाङ्गनाऽणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ६ ॥ मामक इति । मामकेन मनसा गृहीता प्राणेशत्वेन स्वीकृता येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाच कुलाङ्ग- ना पत्नी, अथ च आगमभाषया कुलेश्वरीरूपा।सा आणिमादीनेव सुतान् सूत्वा, अन्तः स्थितानेव अभिव्यक्तिं नीत्वा, महाव्याप्सा सुस्फुटतया परामृश्य, सुष्ठु बद्धमूला प्ररूढा सती, मम इयद्विश्वं न तु अन्यस्योत बुद्धिं दृढीकुरुतां प्ररूढिं नयतु । अत्र च अभेदसारा अणिमादयोऽभिप्रेताः। तथाहि चित्पद एव स चान्तर्भावक्षमत्वादणिमा । व्यापकत्वान्महिमा ।भेदमयगौरवा- भावाल्लघिमा । विश्रान्तिस्थानत्वात्माप्तिः । विश्ववैचित्र्यग्रहणा- त्याकाम्यं । अखण्डितत्वादीशित्वं । सर्वसहत्वाद्यत्रकामावसायित्वं च । सयतः परिपूर्णतया विद्यते,ऽन्यत्र तु त्वत्प्रसादादतिपरिमित मितिकृत्वा पूर्णमेवात्र तदभिहितं, न वन्यत्, पूर्णत्वेन नैराका यात् । “आसतां तावदन्यानि दैन्यानी"त्युक्ते व्याघातम- शिवस्तोत्रावल्याम् 14 सङ्गाच्च । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम्* ॥ ९ ॥ इति श्रीमदाचार्योत्पलविरचितायां स्तोत्रावलौ विधुरविजय- नामधेये सप्तमस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ d . - ॐ यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी। तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः॥१॥ यइति । मायाकालुष्योपशान्या चितो नैर्मल्यं प्रसादः । तस्य लवः अल्पता । पूर्णतायां तु देहापगमाच्छिवतैव । इश्वर इति सप्तम्यनन्यभावे । ईश्वरे एव स्थितइयर्थः स एव हि चिद्रूपः तथा स्वयमेव प्रसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्य- झ्यत्वम् । इवशब्दो भक्तेः परिमिततामाह । काष्ठामाप्ता ह्यसौ मोक्षास्वादमय्येव। उपेयुषी उपगतवती । तौ भक्तिप्रसादौ परस्पर सम्यगन्वितौ तरुणाविव प्रेमनिर्भरतया स्वानुरूप्येण सम्बद्धौ । तादृशे वपुषीति परानन्दघनतैकमये पूर्णे स्वरूपे. । रूढि विश्रान्तिमा ॥१॥ -- . . * स्फुटार्थस्त्वयमेव प्रतिभाति यया-कुलाङ्गनायां कुलवत्यां सत्यां पन्यां पुत्रवत्यां जातायां यथा पत्युर्ममता दृढ़तरा भवति तथा स्वभावतो न तु मदिच्छया प्रसूताणिमा- दिकायां भक्त्यां मम चेतसो ममता सुदृढ़ा भवतु मम मनास तव भक्तिः परां स्थिरता लभतामिति यावत् । अस्य पद्यस्य भक्तिदाये तात्पर्य्यमिति शिवम् ।। + यः प्रसादकणो मविषयक ईश्वरे स्थितः । ईश्वरप्रसादकणिकां विनाअल्पीयस्या भपि भत्तेरसम्भवात् । या च भक्तिरिव, अपूर्णत्वाद् भक्त्याभासो, मयि स्थिता। ईश्वर- प्रसादकणिकैव गाणभक्तिरूपेण या मां प्राप्तवतत्यिर्थः। ते इमे प्रसादभक्ती परस्परं वर्द्ध- यन्त्या का पूर्णस्वरूपलाभात् परमानन्दकवपुषि परिणति गमिष्यत इति स्पष्टोऽर्थः ।।

५३ . अलौकिकोदुलनाण्यमष्टमं स्तोत्रम् । त्वत्प्रभुत्वपरिचर्वणजन्मा कोप्युदेतु परिपोषरसोऽन्तः । सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ २ ॥ त्वदिति । त्वत्मभुत्वस्य त्वत्स्वामिकत्वस्य “गामि बतेति" मागुक्तश्लोकयुक्त्या यत्परिचर्वणं ततो जन्म यस्य । मम कोप्यलौकिकः परितोषरस आनन्दप्रसरः । इहेति जगति । सर्वकालं पुस्थानावसरे ऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं विश्वमयस्वात्मप्रतिपत्तिः । योगस्तत्तद्भूमिकालाभः । तयोमहिमा प्रकर्षः । आदिपदात्तत्सिद्धयुदयरूपः फलम् ॥ २॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः। केवलं तव शरीरतयैतान् लोकयेयमहमस्तविकल्पः ॥ ३ ॥ लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः। हे भगवन् मम लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो गलितभेदप्रतिपत्तिः सन्, तव चिदात्मनः शरीरतया अहंता- सारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते।

- . - शिवस्तोत्रावल्याम् संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ४ ॥ देहभूमिषु इति । जरामरणाद्यवस्थासु । मनसि कल्पनासारे। माणवर्त्मनिदुःखसुखादिस्पर्शमये। संविदः पथिषु नीलादिज्ञानेषु। तेषु इति विचित्रेषु । भेदमुपेते इति नपुंसकशेषः। सर्वस्मिन्नस्मि- नभिहिते प्रकारे भेदमये सतीति यावत् । तेनेति स्वात्मनि चमत्कृतेन । चिद्धनेन स्वात्मना स्वरूपेण । मम स्फुटरूपः स्वप्राधान्येन स्फुरन् भव ॥ ४ ॥ निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम । क्षणमपीश मनागपि मैव भृत त्वदविभेदरसक्षतिसाहसम् ॥ ५॥ निजेति । इमाः मम करणवृत्तयश्चक्षुरादिसंविद्देव्यः । उल्ल- सिताः अलौकिकेन निजौजसा सोल्लासाः। स्वेषु स्वेषु रूपादिषु विषयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः समावेशच्युतिः सैव साहसमविमृश्यकारिता मैवाभूत् । सर्वत्र विषयेषु परि- तर्षः आकाङ्क्षा। इह तु तत्र संविदाम्पसर इति विशेषः ॥ ५ ॥ लघुममृणसिताच्छशीतलं भवदावेशवशेन भावयन् । वपुरखिलपदार्थपद्धते- यवहारानतिवर्तयेय तान् ॥६॥ - अलौकिकोइलनाख्यमष्टमं स्तोत्रम् । लविति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु, मुखस्पर्शत्वान्ममृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति प्राग्वत्, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृ- मेयराशेः सम्बन्धिनो व्यवहारान् लौकिकान् परिस्पन्दान, अतिवर्तयेय निवर्तयेय ॥ ६ ॥ विकसतु स्ववपुर्भवदात्मक समुपयान्तु जगन्ति ममाङ्गताम् । सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७॥ विकसत्विति।स्वं चिन्मय भवदात्मकं, वपुः स्वरूपं, विक- सतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अङ्गता- मभिन्नता, सम्यक् अपुनरुत्थानेनोपयान्तु । ततश्च सर्व द्वयवल्गित भेदविजृम्भितं, स्मृतिपथोपगमे अनुपाख्यतां स्मृतेविषयतां, व्रजतु ॥ ७॥ व्रजतु ॥ समुदियादपि तादृशतावका ननविलोकपरामृतसंप्लवः। मम घटेत यथा भवदद्वया- प्रथनघोरदरीपरिपूरणम् ॥ ८॥ समुदियादिति । भवदद्वयाप्रथनं चिदैक्याप्रथा, सैव घोरा दुष्पूरा संसारभयप्रदा दरी खदा, तस्याः परिपूरणम् चिदै- क्यसाक्षात्कारः, मम यथा घटेत तथा तादृशं, परमानन्दनदी- प्रसरहेतुः यत्तावकमाननं शैवीमुखमिसादि स्थिया परशक्ति- ॥

. ५८ शिवस्तोत्रावल्याम् स्फुटमेव परमेश्वरेति । कृच्छ्रेषु केवलेषु केवलमहं गतभीः सक्त- भयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात, यावदुपजातः अधिकः प्रकृष्टः सम्मदो हर्षो यस्य तागपि भवेयम् । अधिकशब्दस्या- यमाशयः। यत् तत्तदुःखेष्वप्युदितेष्वविलुप्तस्थितिः ॥ १२ ॥ भवदात्मनि विश्वमुम्भितं यद्भवतैवाऽपि बहिः प्रकाश्यते तत् । इति यदृढनिश्चयोपजुष्टं तदिदानी भासताम् ॥ १३ ॥ भवदिति । यद्विश्वं व्योमकलातः कालानलान्तं भवदा- त्मनि उम्भितं त्वच्चित्सूत्रप्रोतं, तद्भवतैव न तु अन्येन । बहिरिति तत्पमात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहिःप्रकाश- नेऽपि अन्तःप्रकाशाविरहमाह । इति यद्वस्तु वाक्यार्थरूपं हढेन निश्चयेन उप आत्मसमीपे, जुष्टं पीसा सेवितं समावेशेना- स्वादित, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् प्रस- क्षीभवतु इति शिवम् ॥ १३ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावलौकिकोद्बल ननामाष्टमस्तोत्रे श्रीक्षेमराजकृताविवृतिः ॥ ॐ तत्सत् । कदा नवरसाई- सम्भोगास्वादनोत्सुकम् । प्रवतेत विहायान्यन्- मम त्वत्स्पर्शने मनः॥१॥ कदेति । नवरसेन नूतनभक्तिप्रसरेण, आर्द्रः सातिशयं स्पृहणीयो यः समावेशात्मा सम्भोगः, तदास्वादे उत्सुकं .

५६ .. स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् । मोत्कण्ठं, मम मनः, अन्यत् कल्पनाजालं, विहाय त्वत्स्पर्शने प्रवर्तत त्वत्समावेशमयं भवेत् ॥ १ ॥ त्वदेकरक्तस्त्वत्पाद पूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥२॥ त्वदिति । त्वय्येवैकत्र न तु विभूतिषु रक्तः, अत एव त्वत्पादपूजामानं त्वन्मरीचिसपर्यैव महत् स्फीतं धनं यस्य । "प्रमा समाप्तोत्सव" मितिस्थिया क्षणमात्रमपि व्युत्थानमस- हमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥२॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटितिविघटिताखिल- महार्गलस्त्वामुपेष्यामि ॥ ३ ॥ गाहेति । निरपेक्षीभूतमुच्चारकरणध्यानाधन्तर्मुखं तत्सर्व परिहरत् मानसं यस्य स तथाविधः । कदा त्वामुपेष्यामि ऐकध्येन प्राप्स्यामि । कोहक-पटपट इति विघटितानि झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपा शा यस्य । पटपटितीसाधुक्त्या अपुनरुत्थानं त्रुटितपाशा- न्तरसाधर्म्यमुक्तम् ॥ ३ ॥ वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः। कदा नाथ वशीकुर्या भवद्भक्तिप्रभावतः ॥ ४॥ स्वसंविदिति । स्वसंवित्सारं प्रकाशविमर्शात्मकं हृदयमधि- ष्ठानमाश्रयो यासान्ताः, सर्वाः ब्राह्मयादिकाः देवताः, “या- भिःशक्तिचक्रस्य भोग्यतां गत" इति स्थिसा पशवः पाशिताः। -- ६० शिवस्तोत्रावल्याम् पू -- ताः कदा भवद्भक्तेः समावेशात्मनः प्रभावाद्वशीकुर्यां तच्चकै- श्वर्यं प्राप्नुयामिति यावत् ॥ ४ ॥ कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः । यदाऽऽलोकसुखाऽऽनन्दी पृथकामापि लप्स्यते॥५॥ कदेति । भूरि प्रभूतः। उत्सवोत्या अतिस्पृहणीयत्वात्तदे- कव्यग्रमात्मानमाशास्ते । पृथङ्गामेसनेन परं सामरस्य सूच- यति ॥५॥ ईश्वरमभयमुदारं पूर्णमकारणमपन्हुतात्मानम् सहसाऽभिज्ञाय कदा स्वामिजन लजयिष्यामि ॥६॥ ईश्वरमिति । अशेषविभूसास्पदत्वादीश्वरम् । अप्रतियो- गित्वादभयम् । सर्वमदत्वादुदारम् । निराकाङ्कत्वात्पूर्णम् । निसत्वादकारणम् । अथ च अकारणं निनिमित्तमेव जगद्रप- ताग्रहणे स्वरूपगोपनसारत्वादपन्हुतात्मानम् । यो हि अनीश्व- रादिरूपः स गोपायतामात्मानं भगवांस्तु नैव । अथ च गोपि- तात्मैवेति । ईदृशं स्वामिजनं निजप्रभु, सहसेति शाम्भवावेशयु- त्या, कदाऽभिज्ञाय साक्षात्कृस, लज्जयिष्यामि।अपन्हुतिप्रधा- नतद्रूपगुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेसर्थः ॥ ६ ॥ कदा कामपि तां नाथ तव वल्लभतामियाम् । यथा मां प्रति न कापि युक्तं ते स्यात्पलायितुम् ॥७॥ कदेति । तव वल्लभतामित्युक्त्या इदमाह-मम तावदसन्त- वल्लभोसि, तव तु अहमलौकिकभक्तिप्रकर्षात्कदा कामप्य-

.
स्वातव्यविजयाख्यं नवमं स्तोत्रम् ।
६१
सामान्यां, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मां प्रति
सदा आभिमुख्येन तव न कापि पलायितुं स्वात्मानं गोपायि-
तुं युक्तं स्यात् । सततमेवान्तराविश्य तिष्ठेरिसर्थः ॥ ७ ॥
तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् ।
दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो ॥८
तत्वत इति । सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणा:
स्वात्मदेवताविश्रान्तिसारभवत्पूजामयाः । एतेषां सम्बन्धि-
न्या तत्वतो दृष्टया, त्वदनुग्रहमहिमोक्तेन स्वात्मप्रसभिज्ञानेन
हेतुना, तैरेवानुमोदितः श्लाघितो यो रसो भत्त्यानन्दप्रसर-
स्तेन आप्लावितो व्याप्तः कदा स्याम् । तत्त्वत उसासा यो-
ज्यम् । अथ वा अशेषजन्तूनामिति कर्मणि षष्ठी । ततश्चायम-
र्थः । कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्ट्वा अनुमो-
दनरसेन आनन्दप्रसरेणाप्लावितः स्यामिति । अत्रानुमोदित
इति भावेक्तः । उभयत्रापि व्याख्याने मत्समः सर्वोस्त्विसाशं-
सातात्पर्यम् ॥ ८॥
ज्ञानस्य परमा भूमिर्योगस्य परमा दशा ।
त्वद्भक्तिर्या विभो कर्हि पूर्णा मे स्यात्तदर्थिता ॥९॥
ज्ञानस्येति । सर्वशास्त्रेषु ज्ञानं. मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च
समावेशसतत्वतयैव व्यवस्थापनात्, तद्रूपा या भक्तिः ज्ञानस्य
परमा भूः । “योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुने" सा-
गमलक्षितस्य विचित्रसमावेशात्मनो योगस्य परचैतन्यभैरवैक्या-
पत्तिरूपा दशा च या त्वद्भक्तिः, तदर्थता कदा कहिं पूर्णा
कृतकृया स्यात् ॥ ९ ॥

शिवस्तोत्रावल्याम् . . आनन्दबाष्पपूर- स्खलितपरिभ्रान्तगद्गदाक्रन्दः। हासोल्लसितवदन- स्वस्पर्शरसं कदाऽऽप्स्यामि ॥ १६ ॥ आनन्देति । चिरव्युत्थानान्तरितां समावेशदशामेवाका- सति । आनन्दवाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुस- न्तसा, स्खीलतः अस्थानप्रतिहतः, परिभ्रान्तश्चिरमनुरणन्, गद्दः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य । हासेन वि- कासेनोल्लसितं वदनं शक्तिमार्गो यस्य । अत एव हासेनोल्ल- सितं व्यात्तं शोभितं च वक्रं यस्य ॥ १६ ॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो। प्रासादयय तावकभक्तोचितमात्मनो रूपम् ॥१७॥ पश्चिति । व्युत्थानपतितभेदमयीमियामिति स्फुटं भान्ती दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वाङ्गावधूननेना- भिभूय, तावकभक्तोचितं निसोदितपरमानन्दमयमात्मनो, न तु अन्यस्य कस्यचिद्, रूपं स्वरूपं, कदा आस्वादयेय चमत्कुर्याम् ॥ १७ ॥ लब्धाऽणिमादिसिद्धि- विगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपान- क्रीडानिष्टः कदाऽऽसीयं ॥ १८ ॥ लब्धेति । अणिमादिसिद्धिः माग्वदभेदमयी । अत एव विगलितः शान्त उपतापः सन्त्रासश्च यस्य । ब्रह्मादीनान्तु -- . . मूर्ति अविच्छेदभङ्गाख्य दशमं स्तोत्रम् । भेदमयाणिमादियोगेऽपि मरणादित्रासस्यावश्यंभावात् । तथा- भूतोऽपि त्वद्भक्त्यमृतपानप्रमोदपरः स्याम् ॥ १८ ॥ नाथ कदा स तथाविध अाक्रन्दो मम समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी ॥ १६ ॥ नाथेति । चिरव्युत्थितस्योक्तिः । स तथाविध इति वक्तु- मशक्यः । आक्रन्दो महानादः समुच्चरेत् स्वयमेवोल्लसेत् । स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥ गाढगाढभवदङ्घिसरोजा- लिङनव्यसनतत्परचेताः । वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ २० ॥ गादेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिमकर्ष- वैवश्यमाह । वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयनत एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्त्वतोऽवलो- कयितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वातन्त्र्यविनयना- मधेये नवमे स्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ९ ॥ ग '. Hc ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् माहेश्वराश्च लोकानामितरेषां समाश्चयत् ॥ १ ॥ नेति । माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद- ॥

હર शिवस्तोत्रावल्याम सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् त्वचरणावरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥ सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्ता- त् स्वात्मसम्भोगपात्रीकृस, तथा गाढमवष्टभ्य व्युत्थानपरिक्ष- यार्थ प्रयत्नेनात्मीकृस, तत एव हर्षविवशः परमानन्दनिर्भरोऽहं, कदा त्वचरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधि, सर्वस्य प्रकटयिष्यामि, छन्नतयान्तःस्थितमपि सूचितोपदे- शयुक्त्या उन्मुद्रयिष्यामि । परप्रतिभाबलप्रयत्नावष्टम्भपूर्वमनुग्र- हावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु- ग्रहसमर्थ स्यादिसर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजि- घृक्षापरतां सूचयति ॥ १० ॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा । स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत्॥११ परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदा- लोकश्चित्प्रकाशः तन्मयः कदा स्याम् । यथा मायाछायाबिल- मद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत । छायाशब्देन मायाबिलस्यावास्तवतामाह । मायाछाययाऽऽविलं कलुष न किंचिदिति वा योज्यम् ॥ ११ ॥ अात्मसात्कृतनिःशेषमण्डलो नियंपेक्षकः । कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥१२॥ आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशे- पाणि सदाशिवादिक्षिसन्तानि मण्डलानि भुवनानि येन । नि- यंपेक्षकः अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदा स्याम् ॥ १२ ॥ ।' . .. .

•".
स्वातन्त्र्यविजयाख्यं नवम स्तोत्रम् ।
नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् ।
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥१३॥
नाथेति । "स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा
पण्डितः शूरो यज्ञवानस्मि" इति नानाविधानां रुद्रक्षेत्रज्ञाभि-
मानानां त्वमेव चिद्रूपो निबन्धनं कारणम् । अपूर्व निनिमित्तं
कृत्वा स्वस्वातन्त्र्येणैवेति यावत् । वस्तुतो हि तवैव सर्वक-
र्तृत्वान्न ब्रह्मादीनां स्रष्टुत्वादि न वा पाण्डिसादि कस्य चित् ।
केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा
कर्हि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दघ-
नः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्या-
सः स्याम् । भक्तिरसपूरित इति वदतो ऽयमाशयः यदासादित-
महाभिमानस्यापि समावेशास्वादमयः प्रभुविषये दासभाव ए-
वोचितः ॥ १३ ॥
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः ।
शयीयमिव शीताड्डिकुशेशययुगे कदा ॥१४॥
अशेषेति । शीताशिकमलयुगे प्राग्वत् शयीयं विश्राम्याम्
कीदृक्-अशेषविषयाशून्या विश्वनिर्भरा येयं श्रीभक्तिलक्ष्मीः
तत्कृतेन समाश्लेषेण दृढावष्टम्भेन मुस्थितः । काव्यार्थः स्पष्टः॥१४॥
भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः
कदा पारं गमिष्यामि भविष्यामि कदा कृती॥१५॥
भत्त्यासवेति भत्त्यासवेन सेवारसेन, समृद्धा स्फीता या
त्वत्पूजाभोगसम्पत् समावेशविश्रान्तिश्रीः, तस्याः पारं प्रान्त-
कोटि कदा गमिष्यामि, अत एव कदा कृतार्थः स्याम् ॥१५॥

६६ .. . शिवस्तोत्रायल्याम् मयानां ब्रह्मादीनां समा इति इदं ते तव न सोढव्यं त्वयैवतन्त्र सद्यते स्वभावसिद्धमेवैतत् । यतस्त्वमेवैकः अद्वितीयो जगतः प्रभुः । चकारौ विरोधहेतुमाहतुः । इतरेषां लोकानां समा इति तव न सोढुं युक्तमिसन्ये ॥ १॥ ये सदैवानुरागेण भवत्पादानुगामिनः । यत्र तत्र गता भोगांस्ते कांश्चिदुपभुते ॥ २ ॥ य इति। अनुरागेण आसत्त्या, ये त्वन्मरीचिसंबद्धास्ते यत्र तत्रेति सर्वावस्थास्थिताः कांश्चित्परानन्दमयान्भोगानुपभुञ्जते॥२ भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः। तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥३॥ भर्तेति । कालान्तक इसनेन महाकालसञ्चार्यमाणाः सर्वा रुजः कालग्रासिनि प्रभौ सति कुतः।मूलोच्छेदान्नैव भवन्तीय- र्थः । इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित् यत्र, भेदस्य ग्रस्तत्वात् । लक्ष्मीरद्वयप्रकाशसम्पत् ॥ ३ ॥ क्षणमात्रसुखेनापि विभुयेनापि लभ्यसे । तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४ ॥ क्षणमात्रेति । येन भक्तेन क्षणमात्रेण समावेशस्पन्देन हेतुना ऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते । अकालकलित चिदानन्दस्वरूपानुप्रवेशेन तन्मयीक्रियते । उत्तरकालश्च तत्सं- स्कारेणाप्लाव्यते । विभुः स्वामी व्यापकश्च ॥ ४॥ आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि । सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥५॥ .

अविच्छेदभङ्गाण्यं दशमं स्तोत्रम् ।
बलि
यामस्तृतीयाय नेत्रायास्मै तव वि(प्र)भो।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥६॥
आनन्देति । ते तव, भुवि अग्नीषोमात्मकमध्यशक्तिमार्गे,
आनन्दरसविन्दुर्यः स एवाडादकारित्वाच्चन्दमाः। गलितो द्रुतस्व
भावः । बिन्दुश्चन्द्रमाश्च गलितः। मनःप्रमेयराशिसहितं तत्रैव विली-
नं। तथा तत्रैव संहारी भेदग्रासी, तेजसः कणः परमाग्निस्फुलिङ्गो
यः स एव प्रकाशकत्वतमोपहत्वादेः सूर्यः प्रसृतः । सूर्यश्च माणे
विलीनः। द्रावितसोमसूर्याहि परा शक्तिभूमिः । अस्मै शक्ति
रूपाय नेत्राय बलि यामः । अपि च भुवि यश्चन्द्रमाः स त्वदीय
आनन्दबिन्दुः गलितः स्रुतः, सूर्यश्च तव सम्बन्धिनः तेजसः
कणः प्रसृतः स्फुरितः । यथागमः “ज्ञानशक्तिः प्रभोरेषा तप-
सादिसविग्रहां । तपते चन्द्ररूपेण क्रियाशक्तिः परस्य सा"
इति । अस्मै एतदर्थ सूर्यचन्द्रोल्लासनाय तव तृतीय नेत्रं तस्मै
वलिं यामः । अत्रैव महावन्हिमये मायीयदेहादिममातृतां समर्प-
यामः। कीदृशाय कस्याप्यसामान्यस्य ब्रह्मोपेन्द्राधगोचरस्य अ-
लौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिज्ञानाय । अस्मै
इति तादर्थे चतुर्थी ॥५॥६॥
तेनैव दृष्टोऽसि भवदर्शनादयोति हृष्यति ।
कथं चिदयस्य वा हर्षः कोऽपि तेन त्वमीक्षितः॥७॥
तेनेति । “उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्" इति
शाक्तसमावेशयुक्त्या भवन्तं दृष्ट्वा यो ऽतिहृष्यति आनन्दमयो
भवति, तेनैव कापि अभेदोपासनापरेणासि त्वं दृष्टः । कथं चि-
दिति अकिञ्चिचिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य
कोऽपि हर्षो न तु भेदोपासापरेण हर्षः । तेन कोऽपि इति
चिद्धनस्त्वमीक्षितः प्रसभिज्ञातः ॥ ७ ॥

शिवस्तोत्रावल्याम् * येषां प्रसन्नो ऽसि प्रभो यैर्लब्धं हृदयं तव । श्राकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥८॥ येषामिति । प्रसनोऽसीति प्राग्वत् । अत एव हृदयं प्रकाशा- विमर्शात्मकं रूपं लब्धमात्मीकृतं यैस्तैस्त्वत्पुरात्त्वदीयात्पूरका- चिद्रूपादाकृष्य विस्फार्य, देहाद्यपेक्षया वाह्य विश्वमिदं पुनरा- भ्यन्तरीकृतं चिन्मयीकृतं “मृष्टिं तु मुम्पुटीकृस" इति श्री त्रिंशकोक्ततत्वार्थदृशा संविद उदितं संविदभेदन चाभासमानं विश्वचिन्मयमेवैषामिति यावत् । अनुरणनशक्त्या लौकिकेश्वरार्थः माग्रत् ॥ ८॥ ॥ त्वहते निखिलं विश्वं समग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥ त्वहते इति । समांगति समा तुल्या भेदमयीहक्सवित्ति- यस्य तत् द्विनयनं चेक्ष्यतां प्रमेयतां यातं । एक इसद्वितीयः। विष- में भेदप्लोषकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च ॥९॥ आस्तां भवत्प्रभावेण विना सत्तेव नास्ति यत् । त्वहूषणकथा येषां त्वदृते नोपपद्यते ॥ १० ॥ आस्तामिति । येषां बौद्धसांख्यमीमांसकादीनां, स्वदूषण- कथा दूषयित्रात्मकप्रस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते सेषां विचित्रतनुकरणमज्ञानां बुद्धिमत्मभावं विना सत्तेव नास्ती- सादि युक्तिन्दं पतितपााघातकल्पमास्ताम् ॥ १० ॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः। स्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥७॥ पाखेति । बाबा शरीरममातृतापेक्षतचदस्तुसंयोगोषयो- .

. अविच्छेदभङ्गाख्यं दशम स्तोत्रम् । १९ गादयः, आन्तरा बुद्धयायपेक्षका मन कल्पनादयः, ये अन्तरा- याः स्वविश्रान्त्युपरोधिनः, तेषामाली पङ्किस्तया केवले रहिते, स्वद्विषये चेतसि यदि मम स्थितिः समावेशैकाग्रता स्याद, तत्किमन्यदुपयुज्यते, प्राप्तव्यस्यैव माप्तत्वात् ॥ ११ ॥ अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः । अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१२॥ अन्य इति । नैरात्म्यजडात्मवादिनः संसारिणश्च, आत्मनि निज एव स्वरूपे, भ्रमन्ति विपर्यस्यन्ति जन्ममरणादिपरम्परा मपर्यन्तां भजन्ते । अतिदुःस्थितास्तत्त्वज्ञत्वाभावालिश्यन्ते। अन्ये इति केचिदेवापश्चिमा आत्मन्येव चिद्रूपे, न तु परत्र कचिदपि, अतिमुस्थिताः परमानन्दैकघनाः सन्तो, भ्रमन्ति विहरन्ति ॥१२॥ अपीत्वाऽपि भवद्भक्ति- सुधामनवलोक्य च। स्वामीश त्वत्समाचारमात्रात् सिद्ध्यन्ति जन्तवः ॥ १३ ॥ अपीत्वेति । त्वद्भक्तिसुधां शाक्तसमावेशानन्दरसमपीत्वा- ऽपि अचमत्कृसाऽपि, अनवलोक्य च त्वामिति चित्स्वरुपं त्वां मनागप्यप्रसभिज्ञाय, जन्तवो जन्मादिभाजोऽपि त्वत्समाचा- रमाशादिति तत्तदानायचर्यापादोक्तात्सिद्धयन्ति परसिद्धिभा- जो भवन्ति । अपिशब्देन मात्रशब्देन च विस्मयो ध्वन्यते । तथा- यागमे “कदाचिद्भक्तियोगेन चर्यये"त्युपक्रम्य “संसारिणोऽनु- गृह्णाति विश्वस्य जगतः पति"रिसन्तम् अस्मद्गुरुभिरपि तन्त्रसारे- ऽभिहितं “परमेसरू सच्छन्दु बहुकोणविअ अप्पाइइच्छ चरि- आसि तु गणिजजपाहुं कि अभवणो अइअच्छेति" ॥१३॥ H ' शिवस्तोत्राघल्याम् भृत्या वयं तव विभो तेन त्रिजगतां यथा । बिभर्ष्यात्मानमेवं ते भर्तव्या वयमप्यलम् ॥११॥ भृसाइति।त्रिजगतामिति । प्राग्वत् । बिभर्षीतिधारयसि पो- षयसि च । आत्मानं स्वं रूपं । वयमप्यलमियत्रायमाशयः-यथा त्वया विश्वमन्तरभेदेन बिभ्रताऽपि देहायभिमानग्रहणेन वस्तु तस्त्वन्मया अपि वयं व्यतिरेकोचिताइव, यत् न मिन्नमेव विश्व जानीमः, ततो ऽलमसर्थ ते वयं धारणीयाः पोषणीयाश्च, यतो भृसाः स्मः॥ १४ ॥ परानन्दामृतमये दृष्टे ऽपि जगदात्मनि । त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मिते ॥१५॥ परेति । त्वयि परमानन्दसारे नीलपीतादिरूपेण जगदात्मनि स्टेऽपि, व्युत्थाने तन्मुखेन प्रसभिज्ञाते ऽपि, स्पर्शरसे गाढस- मावेशस्पर्शप्रसरे, ते तव भृशमुत्कण्ठितो ऽस्मि ॥ १५ ॥ देव दुःखान्यशेषाणि यानि संसारिणामपि । धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१६॥ देवेति। हे देव क्रीडादिस्वभाव, अशेषाणि कीटब्रह्मादिविस्प- न्दितानि तावदुःखानि भेदमयत्वाद, तान्यपि संसरणपराणां प्रमातॄणां सोढव्यतां यान्ति । यतो धृयाख्येन “इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्" इसाघभिमानावष्टम्भग्राहिणा त्वदीयेनात्मना युक्तानि संपृक्तान्येतानि ॥ १६ ॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये। सर्वथाप्यसतो नाथ युक्ता ऽस्य जगतः प्रथा॥१७॥ सर्वज्ञ इति । अस्य जगतो विश्वस्य सर्वथा ऽपि देशकाला

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् ।
कारार्थक्रियाकारित्वादिना स्वरुपेण प्रकाशवावस्यानुपदृश्य-
मानत्वादविद्यमानस्य, त्वयि चिन्मये सर्वशक्तौ स्वतन्त्रे सर्वाव-
भासके च सति, सर्वथाऽपि प्रथा युक्ता । सर्वथेत्युभयत्र यो-
ज्यम् ॥१७॥
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि ।
नृत्यन्ति पवनोद्भूताः कार्यासपिचवो यथा॥१८॥
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १९ ॥
त्वत्पाणिता इति । गुणाः बुद्धयादिपरिस्पन्दाः लोटोपमा
अपि जडाः त्वत्माणिताः त्वज्जीविताः सन्तः स्फुरन्ति । अन्यथा
न कथञ्चित्काः स्युः। अत्र दृष्टान्तः । यथा कापसानां पिचवः
लेशाः पवनेन वायुनोच्चै—ताः सन्तो नृसन्ति नभासे विलसन्ति ।
एवं च हे नाथ यदि भक्तेषु गुणेषु त्वन्मयः शक्तिदत्त आत्माभि-
मानो न भवेत्ततोऽस्य जगतः त्वदेकात्मतया त्वदभेदेन या
प्रथा सा केन हेतुना हीयते, न केन चिनिवार्यते। भक्तानां वि-
श्वस्य त्वदैक्येन स्फुरणात् । “गुणादिस्पन्दनिष्पन्दाः स्युस्यि
परिपक्तिनः" इत्युक्तम् ॥ १८ ॥ १९ ॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ २० ॥
वन्द्या इति । तेऽपीति कालकामत्रिपुरान्धकाद्याः । न केवलं
साक्षादनुगृहीताः भक्तिमन्त इसपिशब्दार्थः। महीयांस इसलौ-
किकमाहात्म्ययुक्ताः, प्रलयं विनाशमुपगता अपि ये तव श्री-
कण्ठाद्यवतारवपुषः सम्बन्धिना निग्रहद्वारकानुग्रहात्मना क्री-
डाकोपग्निस्पर्शेन पवित्रिताः ॥ २० ॥

કર
शिवस्तोत्रावल्याम्
.
महाप्रकाशवपुषि विस्पष्ट भवति स्थिते ।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥२१॥
महामकाशेति । व्युत्थानवैवश्यात्साक्षात्कारभूमिमलभमा-
नस्योक्तिरियम् । यतः कानिचिदत्र समावेशोत्कर्षशंसीनि,
अन्याने व्युत्थानप्रहाणाकांक्षापराणि । अपराणि सार्वात्म्यप्रथा-
प्रथयितृणि । पराणि निःशेषभेदोपशममयशिवताशंसापराण्यस्य
सूक्तानि । तानि च यथायोगं संयोजितानि नियोजयिष्यन्ते च
झते नास्य सत्परमेष्ठिन ईदृगुक्तिषु पूर्णता मन्तव्या । विस्प-
ऐपीति विश्वप्रकाशमये । तमसि प्रसरामीतिव्युत्थानविवशो
भवामीति ॥ २१॥
अविभागो भगनेव स्वरूपममृतं मम ।
तथाऽपि मर्यधर्माणामहमेवैकमास्पदम् ॥ २२ ॥
अविभाग इति । इयमप्युक्तवदेवोक्तिः । भवानेवेति न तु
अन्यत्किञ्चिदमृतमानन्दघनं । मर्सधर्माणां हानादानादिप्रयासा-
नां । अहमिति व्युत्थाने देहायभिमानमयः, न तु चिद्रूप एक
एवेति प्राग्वत् ॥ २२ ॥
महेश्वरेति यस्यास्ति नामाकं वाग्विभूषणम् ।
प्रणामाङ्कश्च
शिरसि स एवैकः प्रभावितः ॥२३॥
महेश्वरेति । नामाकं यद्वन्दिनः पठन्ति तत् महेश्वर ब्रह्मा-
दिविश्वेश्वर प्रभो इति यस्य च वाचो विभूषणमस्ति, तथा
शिरसि प्रणामाङ्कः परस्वभावपहृताभिज्ञानं च यस्यास्ति सए-
वैकः अद्वितीयः, प्रभौ महेश्वरे, इतः सम्बद्धः। अथ वा अयं प्रणा-
माङ्कितः समाविष्टो भक्तिशाली भगादभेदस्पर्शमाप्तेः नामाङ्क-
वात्मभावितः प्रख्यातः ॥ २३ ॥

शिवदासः शिवैकात्मा अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् । सदसच्च भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥ सदसदिति । भावाभावरूपं विश्वं त्वमेव यतः ततो मम अपयासत उपायजालं विना स्वरसेनैव नियोदितत्वेन कथं तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥२४॥ किं यत्रासादयेत्सुखम् । तोऽस्मि देवमुख्यानामपि येनामृतासवैः॥२५॥ शिवदास इति । यत एव शिवदासः तत एव समावि- ष्टत्वाच्छिवैकात्मा किं यत्सुखं नासादयेत् परमानन्दमयो भव- सेवेसर्थः । यतो देवमुख्यानामन्यैस्तर्पणीयानामपि ब्रह्मादीनां हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेय- प्रथासमयस्फूर्जदद्वयप्रकाशानन्दपसरैः, तर्प्यः परिपूरणीयो- ऽस्मि न तु पशुवनोग्यः ॥ २५ ॥ हनाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः। अस मे त्वं महावह्निः सर्वं स्थावरजङ्गमम्॥२६॥ हृन्नाभ्योरिति । हन्नाभ्योरन्तराले घटस्थाने स्थितः प्रा- णिनां सर्वेषां पित्तविहग्रः पित्तरूपः उष्णान्नाद्याहरणाद्वाह्यस्ते- जसोऽपि ग्रसनान्महावह्निस्त्वमत एव स्थावरजङ्गममश्नासि त्वम् अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एव परमेश्वरः परमार्थसनिति शिवम् ॥ २६ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अविच्छेदभङ्गाख्ये दशमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १० ॥ Desmesc - १० . ७४ शिवस्तोत्रावल्याम् । ॐ जगदिदमथ वा सुहृदो बन्धुजनो वा भवति न मे किमपि । त्वं पुनरेतत्सर्व यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥ ॐ जगदिदमिति।ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रका- शमयत्वादेतत्सर्वं त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किञ्चित, जगदपि स्वरूपमेवेति यावत् ॥ १॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्वमेवेति । वस्त्वेव सिद्धिमेत्विति यात्रा तत्रापि याच्चैव ॥२॥ स्वामिनिति । महेश्वर इति प्राग्वत्, साक्षादिति अद्वयदृष्टया चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत्, तत्रापि एवमेव स्थिते ऽपि, एतत्सिद्धिमेत्विति या याज्ञा सा याचझव त्वमेव प्रकटी भूया इसनेनैव लज्ज्यते इति स्थिया न युक्तैवेसर्थः, “होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो याज्ञाशब्दः अचारु- त्वनिष्प्रयोजनत्वादिमाव्रताघ्वननपुरःसरः ॥२॥ त्रिभुवनाधिपतित्वमपीह य- तृणमिव प्रतिभाति भवज्जुषः । किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाहते ॥३॥ त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान इति प्रतियोगे शस, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु- औत्सुक्यविश्वसितनामैकदशं स्तोत्रम् । ७५ वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभान- लक्षणस्य शुभकर्मणो भवत्स्मरणाहते भवत्स्मरणं विना, किं फलं, न किञ्चिदन्यत् व्यतिरिक्तमस्तीति यावत् प्राप्तव्यस्यैव माप्तत्वात् ॥ ३ ॥ येन नैव भवतोऽस्ति विभिन्न किञ्चनापि जगतां प्रभवश्च । त्वद्विजृम्भितमतोद्भुतकर्म- स्वप्युदेति न तव स्तुतिबन्धः ॥ ४ ॥ येनेति । त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाश- रूपत्वाद, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतु- 'नाऽतः अद्भुतेषु विश्वसर्गसंहारादिष्वपि कर्मसु तव न स्तुतिवन्धः स्तोत्रादिभेदाभावात्, त्वमेव स्तुसस्तोत्रस्तुतिरूपतया भासी- सयमत्र तत्वार्थः॥४॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् । भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ५॥ त्वन्मय इति । त्वमेव प्रकृतं रूपं यस्य तथा भूतो ऽस्मि, त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठ इसविराम कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव स्वेच्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वप्नेऽपि सं- स्कारप्रबोधसारेऽपि जागरवत्त्वदर्चापरो न भवामि न समा- वेशामि इति यावत् ॥ ५॥ ॥

शिवस्तोत्रावल्याम् ये मनागपि भवञ्चरणानो- दूतसौरभलवेन विमृष्टाः। तेषु विस्तमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥६॥ य इति । चरणाब्जं प्राग्वत्, सौरभम् अवस्थास्नुरा- मोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्ण रूपं, तेन ये वि- मृष्टाः मनामात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोग- जातं देवैरमार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च पूर्णसमावेशशालिनां दण्डापूपिकयैव दूरोत्सारितः सिद्धयभि- लाषः ॥६॥ हृदि ते न हुचने कर्मणि चान्यदेव शम्भो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ७ ॥ हृदीति । चिदद्वयप्रथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः तत्र हृदयानुष्ठानपर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति न तु शबलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे नि- ग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकारा- विति श्लेषच्छायाऽपि ॥ ७॥ मूढोऽस्मि दुःखकालतोऽस्मि जरादिदोष- भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि। तु विद्यतेऽन्यदन्य- ७७ औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् । शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमा धुरमपोज्झितदुःखमार्गः ॥ ८॥ मूढोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तमायं, तवाश्रितो ऽस्मीयत्र भङ्गं कृत्वा उत्तरार्धं योज्यं, कलय सम्पादय, सर्वोत्तमा सम्पूर्णसमावेशमयीम् ॥ ८॥ त्वत्कर्णदेशमधिशय्य महार्घभाव- माक्रन्दितानि मम तुच्छतराणि यान्ति । वंशान्तरालपतितानि जलैकदेश- खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥ त्वदिति । अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छ- तराणीति अनौद्धसं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चि- तपतिपत्तित्वात, वंशान्तरे इसर्थान्तरन्यासः स्पष्टः ॥ ९ ॥ किमिव न लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः । शिशिरमयूखशेखर तया कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥१०॥ किमिति । कैतवाद्वयाजादपि ये जनास्तव नानि न तु तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्काराद्यभी- ष्टमपरिज्ञाततदाशयेभ्यः सकाशात्माप्यत एव, ये तु परमार्थतः सततं च त्वयि रताः ते अर्थादेव परमार्थमया एवातो हे शिशि- रमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा पारव्याख्या- तरूपाणिमादिकं विभवमुपैषि, क्षतमरणः अकालकलितः, अस्य .

शिवस्तोत्रावल्याम् . : पदस्यायमाशयः यहह्मादयः अणिमादिविभूतियुक्ता अपि मृतिधर्माण एव यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदा- शिवपदेऽपि गतोग्रकाली, भीमोत्कट कुटिरेष्यति भङ्गभूमिः" इति अतो मां क्षतमरणं चिदानन्दघनमद्वयाणिमादिपात्रं कुरु । ये तु विभूतिस्पृहणीयत्वेनैतदयाकुर्वते तेषां स्मरसि नाथ कदाचिदपीहितमिति ससेन भगवनिति विस्रमिव भाति समस्त- भोगजातमियादि च व्याहतमेव ॥ १० ॥ शम्भो शर्व शशाङ्कशेखर शिव व्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसगीमत्रिशूलायुध । कारुण्याम्बुनिधे त्रिलोकरचनाशीलोन शक्त्यात्मक श्रीकण्ठाशुविनाशयाशुभभरानाधत्स्व सिद्धिं पराम्११ शम्भो इति । उग्राणि भीषणानि अशेषब्रह्मादिसम्बन्धीनि कपालानि लाञ्छनं यस्य, अशुभभरान भेदोल्लासान, परां पर- माद्वयानन्दरूपाम् ॥ ११ ॥ तत्कि नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावःस्यात्किमु तस्य चेतनवतोनाशास्ति यं शङ्करः। इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तरादिविधुरः क्लिश्याम्यहं केवलम्१२ तत्किमिति । तत्वभूतभावो भुवनादिभावः सत्ता चेत- नवतः सकलादर्मन्त्रमहेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूता- नामैश्वरीति स्थिसा सर्वप्रमातृनियामकरूपं शासितृत्वं भगवत एव सदति । न तु कदाचित् निरन्तराधिविधुरत्वं व्युत्थाने समावेशानासादनात् अहं केवलम् इसत्रायमाभप्रायः मायीयेऽयं

७६
.
.
।
.
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् ।
देहादिप्रमातृता चेदालता तत्समिदं त्वन्मयमेवोच्यते देहा-
यहन्तैवोन्मूलनीया वर्तते ॥ १२ ॥
यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थानवे
भोगास्वादयुतत्वदनिकमलध्यानाग्यजीवातवे ॥१३॥
यद्यप्येति । अत्रेति संसारे, उद्धततमा असह्याः, क्षणमासतां
साम्प्रतं तिष्ठन्त्विति लौकिक्युक्तिः, बहुमतो विश्वस्याभिलषि-
तः, सन्ततमद्वयानन्दरूपं मुखमाकाङ्क्षतीति तच्छीलः, चिरस्था-
नवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, की-
दृशाय, भोगास्वादयुतत्वदङ्गिकमलध्यानाग्याय परमानन्दच-
मत्कारयुक्तत्वन्मरीचिपद्मचिन्तनप्रधानाय, अत एव स्पृहणीय-
त्वम् ॥ १३ ॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे सांप्रतम् ।
तच्चेष्टव यथा मनोज्ञविषयावादप्रदा उत्तमाः
जीवनेव समश्नुवेऽहमचलाःसिद्धीस्त्वदर्चापरः॥१४॥
हे नाथेति । मनोज्ञ चिदानन्दसुन्दरं विषयाणां
दी-
नां चमत्कारास्वादं ददति यास्ता, उत्तमा, अचलाः, सिद्धीरिति,
प्राग्वत् जीवन्नेवेति न देहपाते अपि तु जीवदवस्थायामेव,
समाविष एवाहं त्वदर्चापर इति त्वयि चिदात्मनि विश्वार्पण-
परः ॥ १४ ॥

८० शिवस्तोत्रावल्याम् नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे । सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥१५॥ नमो मोहेति । महामोहध्वान्तस्य मायातमसः ध्वंसने अनन्यकर्मा सदोद्युक्तः, सर्वान् अग्नीषोमसूर्यप्रकाशानतिशेते यस्तथाभूतः प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे, चानुगुणमभिधानमिन्दुलक्ष्मणे इति शिवम् ॥ १५ ॥ . इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ औत्सुक्यविश्वसितनामन्ये- कादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविरचिता विवृतिः ॥ ११ ॥ .

८१ .. रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । ॐ सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृशि । भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १ ॥ ॐ सहकारीति । भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्स- हकार्यायभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयति- व्युत्थाने नेक्षसे न प्रकाशसे ऽस्माकमियर्थः, भवत इति कर्मणि षष्ठी ॥१॥ अपि भावगणादपीन्द्रिय- प्रथमादप्यवबोधमध्यतः। प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ २ ॥ अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सका- शात्त्वामेव प्रभु निसं परितः समन्तात्पश्ययं कथम् अपोढविश्वकं तिरस्कृताशेषभेदम् कृत्वा ॥ २ ॥ कथन्ते जायरन्कथमपि च ते दर्शनपथं बजेयुः केनापि प्रकृतिमहता केन खचिताः। तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थाद्यान्सृष्टिस्रवदमृतपूर्विकिरसि ॥ ३॥ कथमिति । अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा, तथेसलौकिकेन प्रकारेणोत्थायोत्थायेति, तत्तद्वेद्यदशायां भेदं

२
शिवस्तोत्रावल्याम्
निमज्ज्य चिद्रपतया स्फुरित्वा यान् ज्ञानात्मकमसरदमृतो-
करैः आच्छुरयसि, ते केनापि प्रकृतिमहता इति नियविकसित-
रोमाञ्चितत्वादिना प्रकाशेन चिह्नन प्रकाशिताः न जन्मभाजो
नापि लोकैः लक्ष्यन्ते कथमिससंभावनायाम् ॥ ३ ॥
साक्षात्कृतभवद्रूपप्रसृतामृततर्पिताः।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥४॥
साक्षादिति । अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्था-
नेन शमिता तृट् विभूसादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण
विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एवं ॥ ४ ॥
न सदा न तदा न चैकदे-
त्यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनम्
न च नित्यं न च कथ्यतेऽन्यथा ॥ ५ ॥
नेति । सदा इति एकदा इति परस्परपयोगितया एक-
देसस्य प्रकारस्तदा इसपि एवंप्रकारा अपि, यदेति इदानी-
मिसादिका च यत्र न सा काचित् कालधीरकालकलितत्वात
तदिससामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न निसं कथ्यते,
नाप्यनिसं, निसत्वानियत्वयोः परस्परप्रतियोगित्वात् सर्वात्म-
कसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥ ५ ॥
त्वद्विलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे ।
यदिशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥६॥

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । त्वदिति । इयती इति, न तु परिमितफलोन्मुखी अभिस- धिमात्रतः इच्छामात्राव, त्वदीयं सुधासदनं परमानन्दधाम, सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं प्राग्वत् ॥ ६ ॥ Vie '. निर्विकल्पभवदीयदर्शन- प्राप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥ निर्विकल्पेति । कवलितविकल्पत्वदीयसाक्षात्कारमाप्सा विकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति । यदागमः “दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसागरात् । तारयि- ष्यन्ति वीरेन्द्राः कुलाचारप्रतिष्ठिताः" इति ॥ ७ ॥ भगवन्भवदीयपादयो- निवसन्नन्तर एव निर्भयः। भवभूमिषु तासु तास्वहं । - प्रभुमर्चेयमनर्गलक्रियः ॥८॥ भगवन्निति । पादयोः ज्ञानक्रियाशत्योः, मध्य एव निव- सन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः सन्, अनियन्त्रितचेष्टितः सर्वदशासु माग्वत्पूजापरः स्याम् ॥८॥ भवदनिसरोरुहोदरे परिलीनो गलितापरैषणः ।

शिवस्तोत्रावल्याम्
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छया ॥ ९ ॥
भवदङ्घीति । अङ्घिसरोरुहोदरं माग्वत्, तत्र परितः सम-
न्ताल्लीनः, क्लिष्टः सन्, इच्छया विचरेयं पदात्पदं तदाक्रान्ति-
भाग्भवेयम्, कीदृशः, गलिताः शान्ता अपराः त्वन्मरी-
च्याश्लेषाभिलाषव्यतिरिक्ताः एषणा आकाङ्क्षा यस्य ताक्,
यतोऽतिमात्र भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,
परितस्तृप्तः ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥१०॥
यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्दैन्यैकभ-
क्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्रसम्प-
नलिङ्गाचापरिरक्षितसकलनरकपातस्त्रिलोकीजनो दृष्टान्तः, उ-
चितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥
भगवनितरानपेक्षिणा
नितरामेकरसेन चेतसा ।
सुलभं सकलोपशायिनम्
प्रभुमातृप्ति पिवयमस्मि किम् ॥ ११ ॥
भगवन्निति । किमस्मि, त्वां प्रभु, सकलोपशायिनं सर्वग-
तमत एव मुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, की-
दृशेन चेतसा, नितरामतिशयेन एक त्रैव त्वत्समावेशभक्तौ न तु
कचिदपि फले रसोभिलाषो यस्य तेन, अनेन विशेषणेन प्रागु-
क्तश्लोकार्थवैपरीसेन निर्व्याजभक्तिरुक्ता ॥ ११ ॥

८५ रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । त्वया निराकृतं सर्वं हेयमेतत्तदेव तु। त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥१२॥ त्वयेति । यत्किञ्चित्त्वदैक्यप्रसभिज्ञां विना हेयं तदेव स्वन्मयं प्रसभिज्ञातमुपादेयम्, सारसङ्ग्रह इति सर्वसम्पदायसत- त्वम् ॥१२॥ भवतोन्तरचारि भावजातम् प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान भवेत्समय॑ते वा ॥१३॥ भवत इति । भवतोन्तरचारि त्वदैक्येन स्थितं, यद्भावजातं तत् मुख्यतया प्राधान्येनैव, प्रभुरिति पूजितं भवति तत्त्वज्ञेन भवतस्तु प्रकाशात्मनो बहिरप्यप्रकाशात्मनो बहिरास्तांभावः अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्च्यते सर्वस्य चित्म- काशात्मनैव सत्वादन्यथात्वाचत्वात् मात्रशब्दोऽतिशयोक्ति- परः, अभावोऽपि बुद्धयमानो बोधात्मैवेसादि हि प्रसभिज्ञायां निर्णीतमेव, अनेन भेदवादिनामर्चनानुपपत्तिः सूचिता ॥ १३ ॥ निःशब्दं निर्विकल्पं च निाक्षेपमथानिशम् । क्षोभेप्यध्यक्षमीक्षेयं ध्यक्ष त्वामेव सर्वतः ॥ १४ ॥ निःशब्दमिति । हे ध्यक्ष, क्षोभेऽपि ग्राह्यग्राहकप्रसरेऽपि, अध्यक्षमविकल्पं कृत्वा त्वामेव चिद्रूपमनिशं सदा, निविक्षेपं प शिवस्तोत्रावल्याम् वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द, वैयाकरणायुक्तशब्दब्रह्मविलक्षणं, "मम योनिमहद्ब्रह्म" इति नीसा भगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्योभा- वनादिरूपेभ्यो निक्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥ प्रकटय निजधाम देव यस्मि- स्त्वमसि सदा परमेश्वरीसमेतः । प्रभुचरणरजःसमानकक्ष्याः किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥ प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भृया इति, धार्याः पोष्याश्च, प्रभुचरणयादि दासस्योचितैवोक्तिः, रजस्समानकक्ष्यत्वेन निससंलग्नतामाह ॥ १५ ॥ दर्शनपथमुपयातोऽप्यपसरसि- कुतो ममेश भृत्यस्य । क्षणमात्रकामह न भवसि कस्य न जन्तोदृशोर्विषयः ॥ १६ ॥ दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो, मम भृसस्य आश्वस्तस्य दासस्य, कुतोऽपसरसि नैवापसरसि त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्वैव किं न तुष्यसीसत आह, कस्य जन्तोदृशो ज्ञानस्य अज्ञातोऽपि क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेखादिभूमिषु विषयो ननु भवसि सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृसः, क्षणमपि न त्वां सजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु- त्थानावरोहणे किमिात मे भृसस्य आश्वस्तस्यापि अपसरसीति योज्यम् ॥ १६ ॥ - . रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । ८७ - ऐक्यसंविदमृताच्छधारया सन्ततप्रस्तया सदा विभो प्लावनापरमभदमानयं- स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७॥ ऐक्येति । ऐक्यसंविदद्वयदृष्टिः, सैवामृतस्य परमानन्दस्य सम्बन्धिनी अच्छा विश्वप्रतिविम्बनक्षमा धारा तया सन्ततम- विच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां स्वं च वपुः सङ्कुचिताभिमतं स्वरूपं परमतिशयेन अभेदमे- कात्मतामानयन् कदा मुदं सन्तोषमाप्नुयाम् ॥ १७ ॥ अहमित्यमुतोऽवरुद्धलोका- द्भवदीयात्प्रतिपत्तिसारतो मे । अणुमात्रकमेव विश्वनिष्ठम् घटतां येन भवेयमचिंता ते ॥ १८ ॥ अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र सर्वत्रावरुद्धलोकं स्वीकृताशेषनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र प्रतिपत्तीनां सारम् उत्कृष्ट स्वरूपं, ततोऽणुमात्रकं मृगमद- कणकल्पमपि किंचिन्मयं घटतामुपतिष्ठतां, येन घटितेन तत्त- द्वेद्यग्रासीकारक्रमेण तव अचिंता भवामि, अणुमात्रकमिति अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति ॥१८॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् । त्वामेव विश्वरूपं निजनार्थ साधु पश्येयम् ॥१९॥ अपरिमितेति । तं तमिति यं कंचित् त्वामेवति तस्य प्रकाशमानत्वेन त्वद्रपात, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति शिवस्तोत्रावल्याम् स्थिया पूर्ण, साध्विति निष्प्रयास ससस्वरूपतया च ॥ १९ ॥ भवदङ्गगतं तमेव कस्मा- न्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथाऽस्य मम चेच्छापरिपूर्तये परैव ॥ २० ॥ भवदिति । तमेवेति यं यमभिलषितमर्थ मनः पर्यटति ते तं भवदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्थं किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीयर्थः, एवं सति अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाताभावात्, मम च परैव चिद्घनस्वरूपलिप्सासारेच्छा परिपूर्यते । अनेनैतदाह मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा स्यामिति ॥ २० ॥ शतशः किल ते तवानुभावा- द्भगवन्केप्यमुनैव चक्षुषा ये। अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥ शतश इति । हालिकचेष्टयाऽपि चरन्तः तवानुभावात् त्वत्प्र- युक्तादनुभवनव्यापारात् भवद्वपुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा करणोन्मीलनदशायामपि सदाऽग्रे परितः, पश्यन्ति समाविशन्ति, शतशः सहस्रमध्याकेऽपि विरला अलौकिका इसर्थः ॥२१॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमयेतरद्भगवतैवमाचर्यते । - '.

1. रहस्यनिर्देशनाम द्वादश स्तोत्रम् । अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन स्थितोऽनिशमबाधितत्वदम लाशिपूजोत्सवः ॥२२॥ नेति । सर्वेषां ज्ञानानां प्रथमेन पादेन परमार्थतः शिवभ- क्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा तथेति गतसङ्कोचम्, अबाधितों न केनचिदप्यपसारितस्तन्मरी- च्यर्चनप्रमोदो यस्य ॥ २२ ॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः । तदनुष्टितशक्तिरप्यतस्त- द्भवदीव्यसनं च निर्विरामम् ॥ २३ ॥ भवदीयेति । गभीरभाषितेष्विति । मुख्ये भेदार्थत्वेन भा- समानेष्वपि गर्भीकृतरहस्यार्थेषु वाक्येषु तावकेषु, मम पुरः पूर्व, प्रतिभा नवनवोल्लेखिनी प्रज्ञा, सम्यगविपर्यस्तत्वेनोदेतु, अतोप्य- नन्तरं, तदिति अलौकिकं, निर्विरामं कृत्वा भवदर्चायां व्य- सनमुदेतु ॥ २३ ॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् । भवतोवयवो यथा न तु खत एवादरणीयतां गतः ॥ २४ ॥ व्यवहारेति । एषः अर्थकलापः व्यवहारेऽपि भगवतश्चि- मयस्य, यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव सुखा- दिहेतुत्वेनादरणीयतां गतः ॥ २४ ॥ :- १२ ९० शिवस्तोत्रावल्याम '. मनसि स्वरसेन यत्र तत्र प्रचरत्यन्वहमस्य गोचरेषु । प्रसृतोप्यविलोल एव युष्म- परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥ मनसीति । यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे महत्तोऽपि, अविलोलः अलम्पटः, युष्मत्परिचर्या त्वदर्चा तंत्र चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः ॥ २५ ॥ भगवन्भवदिच्छयैव दास- स्तव जातोऽस्मि परस्य नात्र शक्तिः। कथमेष तथापि वक्रबिम्ब तव पश्यामि न जातु चित्रमेतत् ॥२६॥ भगवन्निति । भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्रवि- म्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहा- दिनमातृरूपः, जातु कदाचित, व्युत्थाने न पश्यामि नासादया- मि ॥ २६॥ समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति । तेषामहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत् तत् ॥ २७ ॥ समुत्सुका इति । सम्यगुत्सुकाः भक्तिभरणोत्कण्ठिताः, प्रसर्थरूपादिति विषयं विषयमासाद्य, किं तदिति, तेनैवानुभाव्यं न बक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम् ॥२७॥ ।

'ndh रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । भावाभावतया सन्तु भवद्भावेन मे भव । तथा न किंचिदप्यस्तु न किंचिद्भवतोऽन्यथा॥२८॥ भावाभावेति । ये भावा इसभिधीयन्ते ते मम त्वन्मयत्वेन भावा विद्यमाना भवन्तु, यत्र किंचिदुच्यते तत् त्वन्मयतां विना न किंचिदस्तु ॥ २८ ॥ यन किंचिदपि तन्न किंचिद- प्यस्तु किंचिदपि किंचिदेव मे । सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ २९ ॥ यन्नेति । लोकेन न किंचिदपीति यत् न किञ्चिदेवानु- पादेयतया कथ्यते तत् मम न किंचित् अपि तु सर्वभेदमयं न किंचिद्भवतु, यत्तूपादेयतयाऽभिमत किञ्चिदिति भण्यते तन्मम किञ्चिदेव किञ्चिदिससामान्य स्वानुभवैकसाक्षिकं वस्तु सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिच्चिद्घनं रूपं यत् तदप्रसभिज्ञा- नात् न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किंचित् तन्मा- याव्यामोहात्किञ्चित्वेन स्फुरति, मम तु न किञ्चित् किचिच न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदियर्थः, एतावता भवान् चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ॥ २९ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक- द्वादशस्तोत्रे श्रीक्षेमराजकता विवृतिः ।।

૨ शिवस्तोत्रावल्याम 1" ॐ तत्सत् । संग्रहेण सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो। सौख्यमेव भवता समागमः स्वामिना विरह एव दुःखिता ॥१॥ संग्रहेणेति । अथ स्तोत्रकाररचितचारुरचनाविशिष्ट संग्रह- स्तोत्रं व्याकुर्मः। अत्र तु या प्रयोगरूढिरिति संज्ञा पुस्तकेषु दृश्यते साऽवान्तरैव साक्षात्कारेण चिरैरवं समाविश्य व्युत्थानेऽपि ब- लवत्तसंस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह ।हे प्रभो मां प्रति स्थितं न तु अन्यस्य कस्यापि स्फुरितं, संग्रहेण संक्षेपेण, सुखदुःखलक्षणं शृणु, प्रभो इसामन्त्रणम्, स्वात्मसमावे- शक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपादशब्दान्तर- हस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिनाचिन्नाथेन, एष इति साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं मुखं स्वार्थे ष्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित एवशब्दः इहाप्युभयथा योज्यः, प्रभुणा हि यो विरहः प्रभु- स्वरूपाप्रसभिज्ञानं स एव दुःखिता ॥ १ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकाऽस्ति मे तामपीश परिमृज्य सर्वतः खं स्वरूपममलं प्रकाशय ॥ २ ॥ अन्तरिति । यत एवं ततः, अपिभिन्नक्रमः, अतितरामणीय- स्यपि या मम त्वदप्रथनकालिका भवदख्यातिमलिनता, अन्त- A . --- .

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
६३
:
रिति, समावशे प्राणादिसंस्काररूपाऽस्ति, तामपीति, बह्वी ताव-
दसौ शक्तिपातात्मभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि
तां परिमृज्योत्नोंछ्य, सर्वत इति, अन्तर्बहिश्च स्वं चिन्मय
सर्वस्यात्मीय स्वरूपं निमल प्रकाशय स्फारय ॥२॥
एतदेव च मे परमभिलषितमियाह-
तावके वपुषि विश्वनिर्भरे
चित्सुधारसमये निरत्यये।
तिष्ठतः सततमर्चतः प्रभु
जीवितं मृतमथान्यदस्तु मे ॥ ३ ॥
तावक इति । यत्प्रकाशते तत्प्रकाशरूपमेव सत्प्रकाशयि-
तुमर्हति प्रकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूप-
मेव सम्भेदकं नोपपद्यते इसयत्नसिद्धम् विश्वरूपत्वं, चिदा-
हादात्मनः स्वरूपे निरसये अविनाशिनि तिष्ठन्नेवा समर्थः
अर्चन्नेव च स्थातुं क्षम इति हेतौ शतारौ तौ च निसप्रवृत्ततां
व्यतः, स्थितिस्तत्तद्भमिलाभः,
अर्चा तदेकपरामर्शव्यग्रत्वम्,
एवमुत्तरत्र अन्यदिसनेन चिद्रूपतास्थितिबहुमानेन अवस्थावि-
षयमनादरं ध्वनति ॥ ३ ॥
ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्ते
इसाशङ्कय त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्का-
रयुक्ता एव, इतरथा तु निरभिमानताऽपि न काचिदिति वक्तुमाह--
ईश्वरोहमहमेव रूपवान
पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते
मानिता त्वदनुरागिणः परम् ॥ ४ ॥

शिवस्तोत्रावल्याम् -- 4. ईश्वरोऽहमिति । त्वदनुरागिणः त्वत्समावेशेन प्राप्तत्वदै- क्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम् अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः, पण्डा सम्यक् तत्त्वर्दीशनी प्रज्ञा साता यस्य सोऽस्मि, सुभगः परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणीयोऽस्मि, तत्कि बहुना मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दात्मना विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिता- ऽपि मलिनैव “स्वसोपानपदारूढ्याभर्तुःस्यादन्तिके स्थितिः । इतरस्तु विकल्पानां वैमुख्याद्बाह्यभूमिग इति", त्वदनुरागिणो यत एवं मानिताऽपि शोभते ततः ॥४॥ देवदेव भवदद्वयामृता- ख्यातिसंहरणलब्धजन्मना । तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥५॥ देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्याते: त्वदैक्यानन्दाप्रथायाः संहरणेन लब्धं जन्म यया तया यथास्थि- तानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यचिंतं कुरु, तच्छब्दः पूर्वश्लोकापेक्षया हेतौ ॥५॥ कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तं सम्भा- वयन् आह- ध्यायते तदनुदृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् । यत्र पूजनमहोत्सवः स मे सर्वदाऽस्तु भवतोनुभावतः॥६॥ ."

९५ AN संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । ध्वायत इति । “उच्चाररहितं वस्तु चेतसैव विचिन्तयन्" इति स्थिया ध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेषणैकीक्रियते स्वयमेव न तु उच्चार- करणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अन- न्याकारविशेषेण, यत्रेति पूजनमहोत्सवे, महोत्सवशब्देनास- न्तमुपादेयतामस्य वदनात्मनस्तदासत्त्या प्रमोदनिर्भरतां ध्वनात, अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६॥ एतदेव श्लाघमान आह- यद्यथास्थितपदार्थदर्शनम् युष्मदर्चनमहोत्सवश्व यः। युग्ममेतदितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥ यदिति। यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमिती- दं द्वयमितरतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्यो- भयस्य युगपत्यकाशात् ॥ ७ ॥ तत्तदिन्द्रियमुखेन सन्ततम् युष्मदर्चनरसायनासवम् । सर्वभावचषकेषु पूरिते- वापिवनपि भवेयमुन्मदः॥८॥ तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या चिदैक्यामृतेन पूरितेषु भूतेषु, तदाहरणक्रमेण तुर्यारोहरूपं ७ '।

. ९६ शिवस्तोत्रावल्याम युष्मत्पूजारसायनपानं आसमन्तात्पिवन, उद्तमदोऽपि नाम भवेयम् एतत्प्रार्थये प्रभुमेवार्थये ॥ ८ ॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते। यत्र नाथ भवतः पुरे स्थितिम् तत्र मे कुरु सदा तवार्चितुः ॥ ९ ॥ अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे, व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्याद्भन्नं वेद्यम् अणुमात्र- मपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थिति गाढगाढसमावे- शरूपां करु ॥९॥ दासधानि विनियोजितोप्यहम् खेच्छयैव परमश्वर त्वया । दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणाऽपि वा ॥ १० ॥ दासधाम्नीति। एवमर्थितेऽपि जगतीप्तितमनाप्नुवन् खिन्न इवाह दासेति। स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षो हि शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षा- स्कारानुप्रवेशेन पात्रितो भाजनीकृतः, पादसंवहनकर्मणा रुद्रश-- क्तिसमावेशालादनेन अनुरणनोत्त्या लौकिकेश्वरार्थः प्राग्वत् १० शक्तिपातसमये विचारणम् प्राप्तमीश न करोषि कहिंचित् । .........

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥११॥ शक्तिपातति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपा- तोतमाप्तमित्युचितम, ईशेसामन्त्रणं स्वतन्त्रशक्तिपातफमानुरूपं, कहिचिस् कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्ति- पाते किमागतमिति क एष प्रकारः यत् चिदात्मकस्वात्मप्रका- शात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेप करोषि, मा कृषाः ॥ ११ ॥ तत्र तत्र विषये बहिर्विभा- त्यन्तरे च परमेश्वरीयुतम् । त्वां जगत्तितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥१२॥ तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति। बहि- रिति, बाह्ये नीलादौ आन्तरे च मुखादौ, च विभासति त्वां पारमेश्वर्या परशक्त्या युतं निससम्बद्धं, प्राग्वज्जगत्त्रयेण विश्वेन निर्भरं, लोकयेय साक्षात्कुर्यो, निजेन पाणिना पञ्चावर्तमध्यमध्य- मप्राणशक्तयुद्धोधनक्रमाद्धृतविश्वार्पणसमेधेनार्चितम्, अत्र पाणिः शक्तिः यथोक्तमानाये "हस्तः शक्तिः प्रकीर्तित" इति, एत- त्पूजोचितम् ॥ १२॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा। स्यां प्रसादपरमामृतासवा- पानकेन परिलब्धनिर्वृतिः ॥ १३ ॥ " शिवस्तोत्रावल्याम् '. -- स्वामीति । निसोदियसमावेशरूपमेव फलमाकासन्नाह स्वा- मीति । स्वामिनः सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमू- हमत्युच्चैः शाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाचनपेक्षम् इ- च्छामात्रेणैव विनिर्वन्धं कृत्वाऽधिरुह्य देहादिभूमिन्यम्भावेन स्वी- कृस, मारव्याख्यातप्रसादपरमामृतासवापानक्रीडया परिल- ब्धनितिः आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशत्या दृष्टा- न्तालङ्कारध्वनिना लौकिकेश्वरार्थः प्राग्वत् ॥ १३ ॥ यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् । तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः॥ १४ ॥ यदिति । प्रतिपादितपूजोपायमाह यदिति । मायाशत्त्या यद्यपि हेयोपादेयताभाजि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्था- निमुभगप्रयोजनान्येव समस्तानि वस्तूनि तेषु विषयभूतेषु, यत्कि- चिदिन्द्रियपथगतं तदीयरूपस्पर्शादि, स्पर्शमात्रविधिना संवि- सङ्कल्पविकल्पेन संवियापारेण, तामिति असामान्यां चमत्कृ- ति, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण, ते वपुश्चिन्मयरूपम्, अचलभत्त्या नवनवसमावेशेन शालमानाः, पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति ॥ १४ ॥ स्फारयस्यखिलमात्मना स्फुरन विश्वमामृशसि रूपमामृशन् । यत्स्वयं निजरसेन घूर्णसे तत्समुल्लसति भावमण्डलम् ॥ १५॥ .

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । स्फारयसीति । ननु मलिनैरथैः कथं शुद्धस्वरूपभगवदर्चा इसाशङ्य सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह स्फारयसीति । आत्मना चिन्मयेनं, स्फुरन् भासमानः, अखिलं विश्वं स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा स्वरूपमामृशन्निजस्वरूपं चमत्कुर्वन्, निखिलं विश्वमामृशसि आस्वादनेन आनन्दघनं घटयसि, यश्च स्वयं निजेन चिद्रसेन घूर्णसे पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलमखिलं पदार्थजातं, समुल्लसति चिद्भूमावुन्मीलति, एवमनेन विश्वस्याभेदसाराः पर- दशोचिता:स्थितिसंहारसर्गाःज्ञानेच्छाक्रियाशक्तिपरिस्पन्दरूपाः क्रमेणोक्ताः, अक्रमेऽपि हि संवित्तत्वे व्यात्तिभेदेन सृष्टिस्थि. तिसंहारशत्यवियोगः सनातनत्वेन वयेतापि यदपेक्षयाऽयं क्रमव्यवहारः । तथा च श्रीपूर्वशास्त्रेषूक्तम् “सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः । इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि पञ्चधा॥" इति । सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मय- खेनाक्रमतापरमार्थप्रकाशनाय ॥ १५ ॥ यो विकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवहपुः। स्वात्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥ य इति । ननु परमेश्वरभूभावभिन्नानामर्थानामस्तु शुद्धत्वं मायापदे तु भेदविघ्नव्याकुलिते कथमेतदियाशङ्का भेदविनप्रस- रक्षयमाह य इति । हे ईश अर्थमण्डलं प्रमेयजातमविकल्प कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थिया योयोगिवरो भवद्वपश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनम- । स शिवस्तोत्रावल्याम् . तिबिम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परितः समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलना- निसमुखिनः परमानन्दघनस्य, कुतो भयं न कुतश्चिदेवेतियुक्त- मुक्तं प्राक्तेन ते वपुः पूजयन्यचलभक्तिशालिन इति ॥ १६ ॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवदपु- आंदवृत्ति यदि मे न रोचते ॥ १७ ॥ कण्ठेति । इमामेवाद्वयदृष्टिं प्रशंसन्नाह कण्ठेति । कालकूटं महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वद- भेदेन प्रथमानं, मे महामृतं, परमव्याप्तिपदत्वात्, उक्तं हि "विषम- प्यमृतायते” इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्वपुपो भेदत्ति चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते नाभिलाषपदं ममेति यावत् ॥ १७ ॥ त्वत्प्रलापमयरक्तगीतिका- नित्ययुक्तवदनोपशोभितः स्यामथापि भवदर्चनक्रिया- प्रेयसापरिगताशयः सदा ॥ १८ ॥ त्वदिति । एवमद्वयसमावेशमात्मान सदोचितत्वेनेप्सन्नाह त्वदिति । समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्पलापम- यीभिर्भक्त्यनुरागाभिव्यञ्जनाद्वक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिनि- सयुक्तेन वदनेनोपशोभितोऽतिसुन्दररुचिः स्याम्, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परमव- . .

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । १०१ " लभया परिगतः स्वीकृतः आशयश्चित्तं यस्य, तस्याश्च परिगतः सम्यग्ज्ञातः आशयः स्वरूपं येन तथा भूतः सदा स्याम् ॥१८॥ ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे । दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा ॥ १९ ॥ ईहितमिति । ननु च लब्धसमावेशचमत्कारोऽपि किमर्थं भूयो भूयः समावेशाकाङ्क्षापरोऽसीति शङ्कित्वेवाह ईहितमिति । परमे- श्वरसम्बन्धीहितं विलसितं बताश्चर्य,गणयितुं कलयितुं,न शक्यते, तथा च मे मह्यममृतीनर्भरमानन्दघनं, वपुः स्वरूपं, पातु रसयितुं, दत्तमपि प्रसादीकृतमपि, तथेति यथारुचि निर्विरामं, पातुं, नानु- मन्यते नाङ्गीकरोति, पुनर्युत्थानभूमिमेव प्रेरयतीसत इयमा- काङ्ग्रेसर्थः, यत एवं ततः ॥ १९ ॥ त्वामगाधमविकल्पमवयं स्वस्वरूपमखिलार्थघस्मरम् । प्राविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ २० ॥ स्वामिति । अगाधमपरिच्छेद्यमावकल्पंचिद्रपमद्वयमभेदसारं, स्वं सर्वस्यात्मीयं स्वरूपमखिलानां षडध्वमयानामर्थानां घस्मर- मदनशीलं, त्वामाविशन्, हे उमेश पराभट्टारिकास्वामित्रहं सदा पूजयेयं, “सा पूजाह्यादराल्लयः" इति स्थिसार्चये, अभितः समन्तात्सम्यगभेदपरामर्शसारतया स्तुवीय चेति शिवम् ॥२०॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सङ्ग्रहस्तोत्रनामनि त्रयोदशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ १३ ॥ .

૨૭૨ शिवस्तोत्रावल्याम ॐ जय लक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः । जयोद्घोषणापीयूषरसमास्वादये क्षणम् ॥ १ ॥ जय लक्ष्मीति । इदमपि जयस्तोत्रं ग्रन्थकाराशय्यमेव । जय- लक्ष्म्याः सर्वोत्कर्षश्रियो, निधानं समुचितमास्पदं,पुर इति साक्षा- कारसमनन्तरमेव, जयोदोषणमेवानन्दप्रदत्वात्पीयूपरसमास्वा- दये चमत्करोमि, क्षणं मुहुर्मुहुः, क्षणशब्दश्चास्यास्वादस्य सुल- भतां ध्वनति ॥ १ ॥ जयैकरुद्रैकशिव महादेव महेश्वर । पार्वतीप्रणयिशर्व सर्वगीवाणपूर्वज ॥ २ ॥ जयैकेति । प्रथममामन्त्रणद्वयमद्वयताप्रथनाय "एको रुद्र" इति श्रुतिरस्ति, एकः शिवो न तु भेदवादस्थिसा बहवः, पार्वती परा शक्तिः, सर्वेषां गीर्वाणानां देवनां पूर्वज आद्य ॥२॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन । जय पीतार्तलोकार्तिकालकूटान्कन्धर ॥ ३ ॥ जय त्रैलोक्येति । त्रैलोक्यनाथत्वे एकमद्वयसूचकाद्वितीय- मलौकिकं लाञ्छनमलिकलोचनं ललाटनेत्रं यस्य, भगवद्यतिरेके- णान्यस्याधोमुखाचोलोचनानुन्मीलनात्पीतमार्तलोकानां सर्वेषां मुरासुराणामार्तिहेतुत्वात्तद्रूपं कालकूटं महाविषं तदङ्का कन्धरा यस्य, कालकूटमार्तिरूपतयोत्पेक्षितम्, अथ च कालकूटगलत्वेन भगवतः सर्वसंसारातिहरत्वं सूच्यते ॥ ३ ॥ जय मूर्तत्रिशक्त्यात्मशितशूलोल्लसत्कर। जयेच्छामात्रसिद्धार्थपूजार्हचरणाम्बुज ॥ ४ ॥ जय मूतति । मूर्ताः तिस्र इच्छाज्ञानक्रियारूपाः शक्तय .

१०३ ... जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । आत्मा यस्य तथाभूतेन शितेन संसारच्छेदकेन शूलेनोल्लसन् करः पाणिर्यस्य, अनेन शक्तित्रयस्य भगवदेकाधीनत्वमुक्तम्, इच्छामात्रेण सिद्धोऽर्थः प्रयोजनं याभ्यां सकाशात् तथाभूते अत एव पूजार्हे माग्वच्चरणाम्बुजे यस्य ॥ ४ ॥ जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर । जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ ५ ॥ जय शोभेति । शोभाः प्रकाशालादरुचयः वपुः स्वरूपम्, अल्पैकजटा एकजटिका तत्र क्षीणा येयं गङ्गाकृतिस्तदेवात्तं भस्म येन तथामूतं कं शिरो यस्य, भगवतः शिरास भस्मास्ती- साद्यमविगीतमेव ॥ ५॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन । जयेश्वराङ्गसङ्कोत्थरत्नकान्ताहिमण्डन ॥६॥ जय क्षीरोदेति।क्षीरोदे पर्यस्ता प्रस्ता याऽसौ ज्योत्स्नाचन्द्र- कान्तिस्तच्छायं शुभ्रमनुलेपनं यस्य, अङ्गसङ्गोत्थैः रत्नैः कान्ताः अहयः शेषवासुकिप्रभृतयो मण्डनं यस्य, ईश्वराङ्गसङ्गाद्भुजङ्गमानां रत्नप्राप्तिरिति ह्यागमः ॥ ६ ॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय । जय गङ्गासदारब्धविश्वैश्वर्याभिषेचन ॥ ७ ॥ जयाक्षयकेति । अक्षयायाः अमानाम्न्याः एकस्याः शीतां- शुकलायाः सदृशोऽनुरूपो भगवानेव संश्रयः, तस्याप्यक्षयैकरूप- त्वात, चन्द्रकलया हि भगवतः एतत्परमार्थतैव मूच्यते, गङ्गया सदाऽऽरब्धं विश्वैश्वर्याभिषेचनं यस्य ॥ ७ ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल । .

शिवस्तोत्रावल्याम् जय भक्तिमदारब्धगोष्ठीनियतसनिधे ॥८॥ जयाधराङ्गेति । अधराङ्गं पादस्तत्स्पर्शन पवित्रीकृत गो- कुलं येन भगवता वृषभवाहनेन, यतो वृषभः पद्यां स्पृष्टस्ततः सर्वत्र गोजातेः पवित्रत्वमविगीतं, भक्तिमद्भिः आबद्धायां गोष्ट्यां नियतोऽवश्यंभावी सन्निधिर्यस्य ॥ ८ ॥ जय स्वेच्छातपोवेषविप्रलम्भितबालिश। जय गौरीपरिष्वजयोग्यसौभाग्यभाजन ॥ ९ ॥ जय स्वेति । स्वेच्छया क्रीडया कृतेन उपमावेशेन च वि- प्रलम्भितास्त्रासिताः बालिशा येन, क्रीडामात्रेण भगवता जटा- दि विधृतं यत्तन्मूर्खाः ब्रह्मशिरश्छेदोत्थकिल्विषशुद्धयर्थमिति प्रतिपन्नाः, सिद्धयर्थमेतदिसपरे, इदमेतद्भगवतः ससं रूपमिति परे, तन्न सत्, भगवतः स्वतन्त्रचित्परमार्थस्यैवं रूपत्वानुपपत्तेः, गौरी परा शक्तिः तत्परिष्वङ्गयोग्यसौभाग्यस्य सर्वस्पृहणीय- त्वस्य भाजन ॥ ९ ॥ जय भक्तिरसाभावोपायनलम्पट । जय भक्तिमदोदामभक्तवाङ्नृत्ततोषित ॥१०॥ जय भक्तिरसेति । भक्तिरसेनाः सरसो गलितो यो भाव आशयः स एवोपायनं दौकनिका तत्र लम्पट झटिसा- त्मसात्कारिन्, भक्तिमदेनोद्दामाः गाँजता ये भक्ताः तदीयेन वाङ्ऋत्तेन स्फूर्जवस्तुतिमालाभिस्तोषित ॥ १० ॥ जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय । जय लोकेश्वरश्रेणीशिरोविधृतशासन ॥ ११ ॥ जय ब्रह्मोते । ब्रह्मादिदेवेशानां यः प्रभावः सृष्ट्यादि- सामर्थ्य तस्य प्रभवव्ययौ उत्पादनाशौ, यतः लोकेश्वरश्रेण्या .

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । . इन्द्रादिलोकपालमालया शिरसा विधृतं शासनमाज्ञा यस्य, पर- मेशाज्ञानुवर्तिभिरिन्द्रादिभिर्दीक्षादौ स्थीयत इति शतशः आग- मोक्तयः सन्ति ॥ ११ ॥ जय सर्वजगन्न्यस्तवमुद्राव्यक्तवैभव । जयात्मदानपर्यन्तविश्वेश्वर महेश्वर ॥ १२ ॥ जय सर्वेति । सर्वत्र जगति न्यस्तया स्वमुद्रयाऽऽनन्दसा- रज्ञानक्रियाशक्तिव्याप्तिमय्याऽवष्टम्भरूपया व्यक्तं वैभवं व्या- पकत्वं प्रभुत्वं च यस्य । यदागमः “न चक्राङ्का न वज्राङ्का दृश्यन्ते जन्तवः कचित् । भगलिङ्गाङ्कितं विश्वं तेन माहेश्वरं जगत् ॥” इति । आस्तां तावद्ब्रह्मादीनां विभूसादिदानं त्वत्तः सर्वस्य त्वमात्मानं सत्तामपि ददासि स्वप्रकाशमयत्वत्स्वरूपं विना नीरूपत्वापत्तेरियात्मानं पर्यन्तं कृत्वा विश्वेश्वर, अत एवान्यस्यैवं रूपत्वाभावात्वं महानीश्वरः ॥ १२ ॥ जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक । जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ १३ ॥ जय त्रैलोक्येति । त्रैलोक्यसर्गावसरेऽसन् द्वितीय उपा- दानसहकार्यात्माऽपेक्षणीयो यस्य, द्वितीयश्चेन्नास्ति।कथं शक्तिः शक्तिमांश्चेत्युद्घोष्यते इसाह ऐश्वर्यभरोद्वाहे स्वेच्छावभासिता- शेषलोकयात्रात्मने इति नयेन देवीमात्रं निजसामर्थ्यात्मा परा- शक्तिरेव सहायो यस्य, ऐश्वर्यं पञ्चविधकृसकारित्वम् ॥ १३ ॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय । जयाविगीतमाबालगीयमानेश्वरध्वने ॥१४॥ जयाक्रमेति । साक्षाद्विभातत्वाद्युगपत्सदा सम्यगाक्रान्तं समस्तं निरवशेषं प्राग्वद्भुवनत्रयं येन, विष्णुना क्रमाभ्यां भूर्भुव:- १४ शिवस्तोत्रावल्याम् स्वराक्रान्तमधिष्ठितं भगवता त्वक्रममेव भवाभवातिभवत्रयं व्याप्तम् इति व्यतिरेकध्वनिः अविगीतमविप्रतिपत्ति कृत्वा आवालं गीयमान ईश्वर इति ध्वनिः नादामों यस्य ॥१४॥ जयानुकम्पानुगुणानपेक्षसहजोन्नते। जय भीष्ममहामृत्युधटनापूर्वभैरव ॥ १५॥ जयानुकम्पेति । अनुकम्पादिगुणानपेक्षा सहजा स्वाभा- विकी अविच्छिन्ना उन्नतिर्माहात्म्यं यस्य, अन्येषां तु “यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमुच्यते" इसाम्नायस्थिया अपू- वैवोन्नतिः भीष्मस्य सकलजगत्कम्पकारिणो महामृयोः घटने स्वरूपचलनात्मनि असने अपूर्वोऽपि भैरवः भीषणीयस्यापि भीषणीयः भीरूणां भयमिति तद्धितेन मृत्युभीतानां हृदि स्फुर नभयपदश्च ॥ १५॥ जय विश्वक्षयोचण्डक्रियानिष्परिपन्थिक । जय श्रेयःशतगुणानुग नामानुकीर्तन ॥१६॥ जय विश्वेति । विश्वक्षये संहारे उच्चण्डायां क्रियायां नि- र्गतः परिपन्थिको निरोद्धा यस्य, श्रेयांसः शतगुणा अनुगाः पश्चाद्धाविनः यस्य, तथाविधं नामानुकीर्तनं यस्य ॥ १६ ॥ जय हेलावितीर्णेतदमृताकरसागर । जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे ॥१७॥ जय हेलेति । हेलया वितीणों भक्तेभ्यो दत्तः एतदिसेष श्रेयः शतगुणानुगः अमृताकरसागरो येन, उपमन्यवे क्षीरोदो वितीर्णः “येन विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणि" क्षणिकोऽपि कोपाग्निर्यस्य ॥ १७ ॥ . .

-- . जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । जय मोहान्धकारान्धजीवलोकैकदीपक । जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥१८॥ जय मोहेति।मोहान्धकारेण अख्यातितिमिरेण अन्ध उपसं- हृताभेददृष्टिर्यो जीवलोकस्तस्यैकः अद्वितीयो दीपः परमार्थप्रका- शकः, प्रकर्षेण मुप्तायां मायामस्वापजडीकृतायां जगयां विश्वप्र- जागरूको निसमबुद्धोऽतएवाधिपूरुषोधिष्ठातृस्वरूपः ॥ १८ ॥ जय देहादिकुञ्जान्तनिकूजज्जीव जीवक। जय सन्मानसव्योमविलासिवरसारस ॥१९॥ जय देहादीति । देह एव जडत्वादद्रिकुआं पर्वतदरी- गृहं तत्र निकूजतः क्रन्दतो जीवान् प्राणिनो जीवयति जीवतां लम्भयति यः पर्वतगुहायां च निकूजन्तो जीवजीवाख्याः पक्षिणो भवन्तीयनुरणनशक्त्या क्षिप्तोर्थोऽपि सतां भक्तानां मानसं चित्तमेव निर्मलत्वादिधर्मत्वाघोम तत्र विलसत्तच्छीलः वरसारसः परमात्मराजहंसश्च शोभमानश्च व्योमचारी भवति ॥ १९ ॥ जय जाम्बूनदोदप्रधातूद्भवगिरीश्वर । जयपापिषु निन्दोल्कापातनोत्पातचन्द्रमाः॥२०॥ जय जाम्बूनदेति । जाम्बूनदं कनकं तेन उदग्र अर्जितो धातूद्भवश्च रसधातुसम्भूतो गिरीश्वरो मेय॑स्य, तथा च अवधूतः येनामलस्फुरितेसादि, पापिष्वतिशयविलयशक्तिगोचरेषु नि- न्दैव विषमदशाहेतुत्वादुल्का विद्युत्, भगवद्विलयशक्तिपातेन हि पापिनो भगवन्तं निन्दन्ति, उत्पातने उत्पातचन्द्रमा इव अशुभसूचक इन्दुरिव इन्दुरूपेण निसमाह्लादहेतुत्वं सूच्यते ॥२०॥ जय कष्टतपःक्लिष्टमुनिदेवदुरासद। जय सर्वदशारुढभक्तिमल्लोकलोकित ॥२१॥ -- " शिवस्तोत्रावल्याम् --- जय कष्टेति । कष्टतपः क्लिष्टत्वादेवागस्यब्रह्मादिभिर्दुःखेना- साद्यते, उक्तं हि माग्वत् न योगो न तप इति भक्तिरेव तत्रो- पाय इसाह सर्वासु जाग्रदादिदशास्वारूढेन प्राग्व्याख्यातेन भक्तिमल्लोकेनं लोकित साक्षात्कृत ॥ २१ ॥ जय स्वसम्पत्प्रसरपात्रीकृतनिजाश्रित । जय प्रपन्नजनतालालनैकप्रयोजन ॥२२॥ जय स्वसम्पत्यसरेति । परमानन्दसारे स्वसम्पत्यसरे पा- त्रीकृतस्तदास्वादभाजनता प्रापितः निजाश्रितो भक्तजनो येन, लालन “तेषां निसाभियुक्तानां योगक्षेमं वहाम्यहम् " इति स्थिया योगक्षेमोद्वहः ॥ २२ ॥ जय सर्गस्थितिध्वंसकारणैकावदानक । जय भक्तिमदालोललीलोत्पलमहोत्सव ॥२३॥ जय सर्गस्थितीति । सृष्टयादिकारणं "सदा सृष्टिविनो- दाय" इति न्यायेन एकमेवावदानमुत्तमं चरितं यस्य, भक्तिम- देन समावेशोद्रेकेण आलोला स्पृहणीया व्याप्ता च लीलाप- रिस्पंदो यस्य तथा भूतस्योत्पलस्यैतन्नाम्नः अस्मत्परमेष्ठिनो महोत्सवः ॥ २३ ॥ जय जयभाजन जय जितजन्म- जरामरण जय जगज्ज्येष्ठ । . . जय जय जय जय जय जय जय जय जय जय जय जय जय ज़्यक्ष ॥२४॥ जय जयेति । जयभाजनत्वं चिद्रूपत्वेन सर्वोत्तमत्वात स्वात्मन एव चिद्रूपेश्वरस्य वस्तुतः सर्वोत्कर्षवृत्तेरपि स्वातन्त्र्येण --

.
जयस्तोत्रनाम चतुर्दशं स्तोत्रम् ।
विषयव्यग्रतावस्थायां गूहितात्मत्वात्पराङ्मुखस्येव सम्मुखीक-
रणात्मकप्रार्थनारूपो जयेति, लोडर्थ इहाद्वयनये ऐवोचित इसा-
शयेनापि उक्तं जयभाजनेति, द्वयनये तु भेदमयत्वादेवेश्वरो न
सर्वोत्कर्षेण वर्तते ततो जयेसाशीर्व्यथैव, अथापि वर्तेत किं परकृ-
तया प्रार्थनया विध्यादिश्च लोडर्थ ईश्वरविषयेऽनुचित एवोति
भेदेन यज्जयेत्युदीरणमनुपपन्नमेव, जितानि जन्मजरामरणानि
जयमाश्रियेऽर्थः, जगज्ज्येष्ठता अनादित्वात् भूयो भूयो जय जये-
त्युद्घोषणमुद्घोषयितुर्भक्तिसमावेशवैवश्यं सूचयति, यक्षेसाम-
न्त्रणं निःसामान्योत्कर्षशालितां प्रकाशनायेति शिवम् ॥ २४ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ जयस्तोत्रे
श्रीक्षेमराजविरचिता विवृतिः ॥
तदेतेश्चतुर्दशभिरेकदेशैः सहजोन्मुद्रणानाम स्तोत्रम् ॥१४॥

११० शिवस्तोत्रावल्याम् ॐ , सतत्वरूढिः तत्सत् त्रिमलशालिनो ग्रन्थाः सन्ति तत्पारगास्तथा । योगिनः पण्डिताःस्वस्थास्त्वद्भक्ता एव तत्वतः॥१॥ त्रिमलेति । त्रीन् आणवमायीयकार्ममलान क्षालयन्ति ये ते ज्ञानक्रियायोगचर्यापदरूपा, ग्रन्थाः पारमेश्वराः, तथा तत्पार- गास्तेषामाद्यन्तदर्शिनो व्याख्यात्रादयोऽपि,सन्ति सयतः पुनस्त्व- द्भक्ता एव तत्पारगा: यतस्तएव तत्वतो योगिनः पण्डिताःस्वस्थाश्च तत्पारगाः तत्वत इति चावृत्या योज्यं, तत्र “योगमेकत्वमिच्छ- न्ति" इति "मय्यावेश्य मनो ये माम्" इसादि योगिनो निस- समावेशयुक्ताः प्रशंसायां निययोगे चेनिः अनेन योगपादरहस्य- निष्ठत्वमेषामुक्तम्, पण्डितत्वं विद्यापादक्रियापाद तत्र विद्यापादेन 'ज्ञायतेऽनेनेति' व्युत्पसा उपायात्मकं परशक्ति- शिवस्वरूपं ज्ञानमेकं ज्ञप्तिज्ञानमिति व्युत्पसोपेयात्मकं चिदा- नन्दघनस्वरूपं विश्रान्तिसतत्वं द्वितीयमभिधीयते, क्रियापादे- नापि वीर्यसारमन्त्रतन्त्रतदिति कर्तव्यतायुपायरूपा तदुपायक्र- मावाप्तस्वात्मविमर्शसारा च क्रियाऽभिधीयते, तन्त्रमन्त्राणां सम- स्तवाच्यवाचकभेदामर्शसारपरमानन्दघनशब्दराशिसतत्वमहं वि- मर्शसारं परं वीर्यम्, एतदभिन्नस्फुरतामयी च महासामा- न्यस्पन्दरूपा प्रतिभात्मा विमर्शशक्तिः सृष्टिसंहारप्रधानपरवी- र्यम्; अपरं तु विश्लेषणादियुक्तिवशस्फुरिततत्तद्ध्येयदेवताकारा भेदप्रतिपत्तिः मुद्रणा तत्तत्सवित्सारतैव हृदयं कुण्डमण्डलेतिक- तव्यतादेरपि परमेशज्ञानक्रियाशक्तिव्याप्तिरेव तत्त्वम्, एवं विद्यापरमार्थसतत्वविश्रान्तिपाण्डिसम्, स्वस्थत्वं तु चर्यापा- दाभिधेयोक्तं करणोन्मीलननिमीलनक्रमेणैव परमेश्वरवत्सततं भक्तिस्तोत्रनाम पश्चदशं स्तोत्रम् | १११ 'M सृष्टिसंहारादिकारि स्वस्वरूपावस्थितत्वम्, एतच्च सर्वं त्वद्भ- क्तानामेव तत्वतोऽस्तीसलम् ॥ १ ॥ मायीयकालनियतिरागाद्याहारतर्पिताः । भवन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥२॥ मायीयेति । कालादीनां पञ्चानां ग्रसनेन तर्पितत्वं तत्पा- तिपक्ष्येण यदकालकलितव्यापकनिराकाङ्क्षसर्वकर्तृसर्वज्ञस्व- स्वरूपप्राप्तिः, मुखिन आनन्दघनास्तृप्ताश्च सुखसञ्चारिणो भवन्ति ॥ २॥ रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी। भक्ताः स्तुतिपदोञ्चारोपचाराः पृथगेव ते ॥३॥ रुदन्त इति । अमी इति समावेशशालिनो भक्ता, रुद: न्तो वा हसन्तो वेति सर्वावस्थावर्तिनस्त्वामुच्चैरुत्कृष्टतया प्रल- पन्ति स्फुटं विमृशन्ति, अमी भक्ताः, स्तुतिपदो- चार एवोपचारः सेवाप्रकार उपरञ्जनप्रकारो येषां ते, पृथगेव भक्ता जनेभ्यो बाह्या एवेसर्थः ॥ ३ ॥ न विरक्तो न चापीशो मोक्षाकाङ्की त्वदर्चकः । भवेयमपि तृद्रिक्तभक्त्यासवरसोन्मदः ॥४॥ विरक्तो निवृत्तिधा ईशो वा विभूतियुक्तः सन् । निजनिजेनौचित्येन त्वदर्चको मोक्षमाकांक्षन॥५॥ नेति । विरक्तः निवृत्तिधर्मा, ईशो विभूतियुक्तः, निज- निजेनौचिखेन त्वदर्चको मोक्षमाकाङ्क्षन् न तु जीवन्मुक्तः न भवेयं मा भूवमियर्थः, अपि तु उदिक्तेन ऊर्जितेन भत्त्यासवर- सेन समावेशचमत्कृतिप्रकर्षणोन्मद उद्भूतानन्दो भवेयम् ॥४॥५॥ . एव सत्यतो शिवस्तोत्रावल्याम् सुखदुःखात्मनोभक्ताः बाह्यं हृदय एवान्तरभिहत्यैव योऽर्चति । त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥६॥ बाह्यमिति । हृदय एव प्रकाशपरामर्शात्मनि स्वरूप एवा- न्तर्मध्ये विश्वं बाह्यमभिहस समन्तात्स्वीकृयैव न तु किञ्चिदव- शेष्य, हे ईश स्वामिन्, यस्त्वां भक्तिरेव परमाहादविकासहेतु- त्वात्पीयूषपूरास्तैरर्चति, तं भक्तिशालिनं नमामीति पूर्ववत् ॥६॥ धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा । किमप्यास्वादयन्यहो ॥७॥ धर्मेति । लोके शुभाशुभरूपतया प्रसिद्धत्वेन धर्माधर्मत्वं न तु भक्तिमद्भिस्तथाऽनुष्ठीयमानत्वात्, अन्तरिति मध्ये स्थिता, अपि किमपीति असामान्यपरमानन्दकरूपम् ॥ ७ ॥ चराचरपितः स्वामिन् अप्यन्धा अपि कुष्टिनः। शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥८॥ चराचरेति । अप्यन्धा अपि, कुष्ठिन इति, लोकेसन्तं गर्हिता अपीयर्थः ॥ ८॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो। भवद्भक्तिमहोष्माणो राजराजमपीशते ॥९॥ शिलोच्छेति । शिलोच्छमुञ्छितं शिलं पिच्छं पक्षः कशि- पुः भोजने आच्छादने शिलोञ्छपिच्छे एव कशिपुस्तेन विच्छा- यान्यङ्गानि येषां ते, एवमतिकृशत्तयोऽपि यतो भवद्गत्त्या महोष्माणः अतिदीप्तोजितस्वरूपास्ततो राजराजं वैश्रवणमीशते ऐश्वर्येणाभिभवन्तीयर्थः ॥९॥ . ता . ११३ भक्तिस्तोत्रनाम पञ्चदर्श स्तोत्रम् । सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा । चेतसैवविभोऽर्चन्ति केचित्त्वामभितःस्थिताः॥१०॥ मुधार्द्रायामिति । सुधा परमानन्दरसः, आर्द्रा सिक्ता, भक्ति- समावेशः तत्र, लुठता सम्यक् तत्पादानाक्रमात्स्थिति जहताऽपि, आरुरुक्षुणा अकृतकावष्टम्भजिघृक्षुणा, चेतसैव न तु बाह्येन कु- मुमादिना केचिदिति, परमयोगिनः त्वामभितः स्थिता अन्त- बहिश्च सर्वत्र त्वय्येव विश्रान्ताः ॥ १० ॥ रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो । संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥११॥ रक्षणीयमिति । रक्षणं व्युत्थानेनानपहारः, वर्धनं क्रमा- क्रममन्तरमनुप्रवेशे स्फीततापादनम्, बहुमानः सर्वोत्कृष्टत- याऽऽदरः ॥ ११ ॥ नाथ ते भक्तजनता यद्यपि त्वयि रागिणी। तथापीयां विहायास्यास्तुष्टाऽस्तु स्वामिनी सदा १२ नाथेति । भक्तजनता रागिणी नायिकेव ईर्ष्यासागः अव- दानं, तुष्टा विकसिता, स्वामिनी परशक्तिरिति प्रकृते अप्रकृते तु स्वामिनी महादेवी ॥ १२ ॥ भवद्भावः पुरोभावी प्राप्त त्वद्भक्तिसम्भवे । लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता॥१३॥ भवद्भाव इति।भक्तिसम्भवे त्वत्समावेशे, भवद्भावःपुरोभावी त्वदूपता समासन्नैव, न तु प्रार्थनीया, यतो महति क्षीरघटे प्राप्ते दनि या गृध्नुता अभिलाषुकता सा हता व्यथैव, दुग्धेनैव दनो गर्मीकारात् ॥ १३॥ :-- १५ ११४ शिवस्तोत्रावल्याम् किमियं न सिद्विरतुला किंवा मुख्यं न सौख्यमास्रवति । भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥१४॥ किमिति । शम्भोभक्तिरुपचीयमाना परांधारां प्राप्यमाणा या सदातनी भवति पराभक्तिरूपतामासादयति, किं नेयम- तुला सिदिरपि त्वतुलैव परैव भक्तिः, मुख्यं सौख्यं परमानन्दं, वा किं न आसमन्तात्स्रवति स्वसेवेत्यर्थः॥ १४ ॥ मनसि मलिने मदीये मना त्वद्भक्तिमणिलता कष्टम् । न निजानपि तनुते तान् अपौरुषेयान्स्वसम्पदुल्लासान् ॥१५॥ मनसीति । मलिने व्युत्थानकलङ्किते मना व्युत्थानाच्छा- दिता त्वद्भक्तिरेव मणिलता सर्वसिद्धिमनः रवशाखाः निजान् सहजान् तानिति समावेशेन स्फुरितान् अलौकिकान् सर्वाका- बक्षापरिहारिपरमानन्दमयान् नमिताणिमादिरूपान् किमिव न सिद्धिरतुलेतीदानीमेवोक्तत्वात् ॥ १५ ॥ भक्तिभंगवति भवति त्रिलोकनाथेन तूत्तमासिद्धिः । किन्वणिमादिकविरहात् सैव न पूर्णेति नास्ति चिन्ता मे ॥१६॥* * आदर्शपुस्ककेऽस्य श्लोकस्य टीका मोपलभ्यते । 1.

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । बाह्यतोऽन्तरपि चोत्कटोन्मिष- व्यम्बकस्तवकसौरभाः शुभाः। वासयन्यपिविरुद्धवासनान योगिनो निकटवासिनोऽखिलान् ॥१७॥ भक्तिरिति । उत्कटमतिदीप्तम् , उन्मिषत उल्लसतः ऽयम्ब- कस्तवकस्य शिवकुसुमगुच्छस्य सम्बन्धि सौरभमामोदो येषां योगिनां ते शुभाः बहिरन्तश्च पूजनेनाधिवासिताः विरुद्धवासनान् अनाश्वस्तानपि अखिलान्निकटवासिनो जनान् वासयन्ति तु भवत्पूजोन्मुखान् सम्पादयन्ति बाह्ये ऽयम्बकार्थं स्तवकः अन्तस्तु ध्यम्बक एव स्तवक एवं सौरभमामोदश्चमत्कारश्च अथ च उत्कटेन व्यम्बकस्तवकस्य धत्तूरकस्य सौरभेणाधिवासिताः निकटस्था- विभिन्नामोदानपि वाटमर्चयन्तीति अनुरणनव्यङ्गयोर्थः॥१६॥१७ ज्योतिरस्ति कथयाऽपि न किं- चिद्विश्वमप्यतिसुषुप्तमशेषम् । यत्र नाथ शिवरात्रिपदेऽस्मि- नित्यमर्चयति भक्तजनस्त्वाम् ॥१८॥ ज्योतिरिति । ज्योतिर्वाह्यान्तरजं ज्ञानं यत्र नाना किश्चि- नास्ति समस्तमायीयप्रथायाः संहरणाद्विश्वमपि सकलमतिमु- सम्, अत्र शिवरात्रिपदे शिवसमावेशभूमौ समस्ताख्यातिम- थायाः संहरणाद्रात्रिरिव रात्रिस्तस्याः पदे स्थाने ॥ १८ ॥ सत्वं सत्यगुणे शिव भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शम्भुचरणप्रोछद्रजःसञ्चयाः। . ।

. शिवस्तोत्रावल्याम् रागादिस्मृतिवासनामपि समुच्छेत्तुं तमोजृम्भताम शम्भो मे भवतात्त्वदात्मविलये त्रैलोक्यवर्गोथवा १९ सत्वमिति । ससाः पारमार्थिकाः सर्वज्ञत्वादयो गुणा यस्य, तत्र शिवे भगवति यदर्चनं चिद्विश्रान्तिपरमार्थस्वरूपं तत्र सत्वं प्रकाशः स्फारीभवतु । चूडायां मध्यशिखायां शिवशक्त्युदिताः रजः प्रकाशप्रवृत्तिनियमार्था इति सत्त्वरजस्तमःप्रसराः, किरणनिकराः स्वरूपोन्मीलकाः विकसन्नु । तनुश्चाख्यात्मा मोहः रागादिस्मृतिहेतुं वासनामपि सम्यगुच्छेत्तुमपुनर्भवाय जृम्भताम् । अथवा त्रैगुण्यवतस्त्वदात्मनि यो विलयः निःशेषमु- पशान्तिस्तत्र भवतात् त्वय्येव विलीनो भूयादिसर्थः ॥१९॥ संसाराध्वा सुदूरः खरतरविविध- व्याधिदग्धाङ्गयष्टिः भोगानेवोपभुक्त्वा यदपि सुखमभू- जातु तन्नो चिराय। इत्थं व्यर्थोऽस्मि जातः शशिधरचरणा- क्रान्तिकान्तोतमाङ्ग- स्त्वद्गक्तश्चेति तन्मे कुरु सपदि महा- सम्पदो दीर्घदीर्घाः ॥ २० ॥ संसारेति । सुदूरः कृच्छ्रमाप्यपर्यन्तः, भोगा इति उत्तमा इह विवक्षिताः, जातु कदाचिनो निषेधे, अस्मीति देहादिम- मातृरूपः, यतस्तु शशिधरचरणाक्रान्सा ईश्वरशक्तिपातेन का- न्तं दीमं संविधानम् अत एवोत्तमाङ्गं स्वरूपं यस्य त्वद्भक्त- : . ।

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । श्चेति । तथा भूतोऽपि त्वामेव सेवमानः तस्मान्मे दीर्घदीर्घाः शा- श्वतीमहासम्पदः प्राग्वदद्वयमयीः कुर्विति शिवम् ॥ १९ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ भक्तिस्तोत्रनामनि पञ्चदशे स्तोत्रे श्रीमद्राजानकक्षेमराजाचार्य- विरचिता विवृतिः ॥११॥ ...

शिवस्तोत्रावल्याम्
ॐ न किञ्चिदेव लोकानां भवावरणं प्रति ।
न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥१॥
न किञ्चिदिति । भवदावरणं प्रति चिन्मयत्वत्स्वरूपावर-
णाय लोकानां संसारिणां न किञ्चिदेव काक्वा अपि तु सर्व-
मेव भेदेन विश्वमेव पर्यन्तसमस्तशक्तिचक्रव्यवहितत्वाद, भक्ता-
नां तु न किञ्चिदेव नैव किञ्चिदित्यर्थः शिवतत्वपर्यन्तस्याशे-
षस्य स्वाङ्गकल्पनया प्रमेयीकृतत्वात् ॥ १॥
अप्युपायक्रमप्राप्यः सङ्कलोऽपि विशेषणैः।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते॥२॥
अप्युपायेति । उपायक्रमस्तत्तच्छास्त्रोक्तज्ञानक्रियायोगच-
र्यादिविशेषणैः सर्वज्ञत्वसर्वकर्तृत्वसर्वशक्तिमयादिभिरसंख्यैः, य-
थोक्तमपि “सर्गसिद्धिवाचः क्षयेरन्" इसादि च, तथाभूतानां
शक्तिभाजां सकृत्सन्ततं शुद्धचिदेकपरमार्थोऽवभासते, समावे-
शेन स्फुरति यश्च क्रमप्राप्यः सङ्कुलश्च स कथं सकृच्छुद्धश्च
भातीति विरोधाभासः ॥२॥
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च
भवहक्तिसुधापानमत्ताः केप्येव ये विभो ॥३॥
जयन्तोऽपीति । जयन्त इति भेदानास्पदीकरणेन समा-
विशन्तः, हसन्ति विकसन्ति, जिता अपीति, व्युत्थानेवाकृष्य-
माणा अपि समावेशसंस्काराबहिश्च विकसन्ति लोकजयपरा-
जययोर्हसन्येव मत्ता हृष्टा अथ च ये मत्ताः क्षीवास्ते जयपरा-
जययोर्हसन्तो भवन्ति केपीसलौकिकाः ॥ ३ ॥
शुष्ककं मैव सिद्धेय मैव मुच्येय वाऽपि तु ।
स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः॥४॥

पाशानुद्भेदनाम षोड़शं स्तोत्रम् । शुष्ककमिति । शुष्कमेव शुष्ककं क्रियाविशेषणं, शुष्क भक्तिसमावेशरहितं कृत्वा तादृशौ भोगमोक्षौ भेदवादिनां स्वा- दिष्टौ निरतिशयचमत्कारो धारादिरूढश्च, यस्त्वत्समावेशरस: तेन निर्भरं पूर्ण कृत्वा अत एव शूष्कतानित्तिः ॥ ४ ॥ यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम । घटितस्तद्वदीशान स एव परिपुष्यतु ॥ ५ ॥ यथैवेति । अज्ञातपूर्व इति, जन्मकोटिमध्येऽप्यविदित अय- मिति स्फुरद्रूपः भक्तिरसः समावेशपसरः, ईशान स्वतन्त्र तद्वदिति, झटिसज्ञातपूर्वः यथैवेति, यं प्रकारं त्वमेव जानासीयर्थः ॥५॥ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे। केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा॥६ सखेनेति । अतिप्रणयपरिचयादियमुक्तिः । अन्य इति, प्रार्थनातो व्यतिरिक्तः स तथा कोऽपीति, वाग्विकल्पातीतः भत्त्यावेशः समावेशकैवल्यम् ॥ ६॥ भक्तिक्षीवोऽपि कुप्पेयं भवायानुशयीय च । तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥७॥ भक्तीति । भवाय संसाराय कुप्येयं ग्राम्यत्वेन संसारमव- लोकयेयमियर्थः, अनुशयीयेति, कथमियन्तं कालं व्यामूढ़ आ- समिति पश्चात्तापमनुभवेयम्, हसेयं प्रमोदेन विकसेयम्, रुद्यां आनन्दाश्रुप्लुतः स्याम्, रटेयमिति शिव शिवेति मुखरः स्या- म्, क्षीवस्येव मे नानादृत्युदयो भवतु ॥ ७ ॥ विषमस्थोऽपि सुस्थोऽपि रुदन्नपि हसन्नपि । गभीरोऽपि विचित्तोऽपि भवेयं भक्तितःप्रभो॥८॥ - .

१२०
शिवस्तोत्रावल्याम
,
विषमस्थ इति । विषमस्थोऽपि दौर्गसोपहतोऽपि, भक्ति-
तः स्वानन्दविश्रान्तः, सूचीपुओपविष्ट इव लौकिकं मुखं दुःख-
रूपेण पश्यन्, तथा बान्धवमरणाद्यवस्थायां रुदन्नपि तथा
अन्तश्चिद्विकासलाभात्प्रहृष्यन्, तथा सांसारिकप्रमोदेषु तथा
हसन्नपि रुदन शोचनीयतां मन्यमानस्तथा लौकिकव्यवहारे गभी-
रोऽपि परैरनालक्ष्योऽपि विचित्तः तां दशामुत्पातमिव मन्यमा-
नस्तथा विचित्तोऽपि क्वचन सन्निपाताधवसरे नष्टस्मृतिरपि
गभीरः परैरालोचितोप्यन्तर्दशाव्याप्तिप्रमोदनिर्भरः स्याम् ॥८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः।
चिद्धर्मा यत्र न भवानिर्विकल्पः स्थितः स्वयम्॥९॥
भक्तानामिति । संवेद्यं संसारलीलादि, चिद्धर्मा चित्स्वय-
मिति साक्षात्स्फुरन् नान्याधिष्ठानेन ॥ ९ ॥
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव ।
हृष्यन्त्येवान्तरा विद्धास्तीक्षणारोमाञ्चसूचिभिः॥१०
भक्ता इति । तव निन्दानुकारेऽपि उपहतजन्तूपक्लप्ताम-
प्रशंसामनुकुर्वन्तो भक्ता हृष्यन्येव, स्फुरत्तात्विकरूपाः परमा-
नन्दव्याप्तिं लभन्त एव अत एव पाशनिर्भेदिनीभिस्तीक्ष्णाभी
रोमाञ्चमुचिभिरासमन्ताद्विद्धाः ॥ १० ॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते
येषां सुधार्दा सर्वैव संवित्त्वञ्चन्द्रिकामयी ॥११॥
दुःखापीति । वेदना संवित्, दुःखापि दुःखकारिण्यपि, भो.
गायेति दुःखस्य चमत्कार्यत्वाञ्चमत्कर्तृतासारानन्दधनप्रमातृपद-
वित्तये तत एवाहं सर्वैव संवित् चितिशक्तिः, येषां सुधार्दा पर-
मानन्दघनत्वाचन्द्रिकामयी पराशक्तिरूपा ॥ ११ ॥

पाशानुद्भेदनाम षोडशं स्तोत्रम् । १२१ यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे । निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्॥१२॥ योति । सुखदुःखतद्धत्वादिरूपे उपरुद्धानामवस्थितानां भक्तानां निर्व्याजमन्तर्विचित्रवासनाकालुष्यशून्यं त्वद्वपुश्चिन्मय- त्वात्वत्स्वरूपस्य संबन्धि यत्स्पर्शरसास्वादमुखं तत्समं सर्वतुल्यं, उक्तं च “समवुद्धिर्विशिष्यते" इति ॥ १२ ॥ तवेश भक्तरायां दैन्यांशं द्वयसंश्रयम् । विलुप्यास्वादयन्येके वपुरच्छं सुधामयम् ॥१३॥ तवेति । तवार्चायां प्राग्व्याख्यातायां या भक्तिः सेवा तस्याः द्वयसंश्रयं भेदसम्बद्धं दैन्यांशं दीनतालेशमपि विलुप्य छित्वा एके केचिदेव भेदविगलनादच्छं निर्मलं तद्वदेव सुधाम- यमानन्दरससारं वपुरास्वादयन्ति चमत्कुर्वन्ति दैन्यांशमिति । अत्रायमाशयः द्वैतभक्तेरद्वैतभक्तिः सद्यः समावेशमयी द्वैतभक्ति- स्त्वतथावाच्छिवताऽऽकाङ्क्षामयी ॥ १३ ॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तरेव हि भिन्नता। निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजस॥११॥ भ्रान्ता इति । तीर्थदृशः शास्त्रदृष्टयो यतो भ्रान्तास्ततो भिन्नाः, यस्माद्भिन्नता नाम भ्रान्तेरैक्याख्यातेहेतुर्भवति न तु वस्तुतः, भक्तानां तत्त्वमेकमद्वितीयं वस्तुतत्वं निष्पतिद्वन्द्वित्वा- निचचं राजसे दीप्यसे ॥ १४ ॥ मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौ भक्तिमाल्लोकस्तुल्यशीलः कथं भवेत्॥१५॥ मानावमानेति । यस्य भक्तिमतो मानावमानयोः रागादीनां १६ १२२ शिवस्तोत्रावल्याम् P । च यो निष्पाकः निःशेषेण पचनं दग्धवीजकल्पतापादनं, तैन हेतुना मनः स्वान्तं विमलमकलङ्कम् ॥ १५ ॥ रागद्वेषान्धकारोऽपि येषां भक्तित्विषा जितः । तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥१६॥ रागेति । महीयसामिति, ईयसुनोऽयमाशयः समव्याप्ति- कत्वं ज्ञानिनां भक्तानां च, तत्र भक्तानां तु रागद्वेषान्धकारस्य जयाद्विशेषः ॥ १६ ॥ यस्य भक्तिसुधास्नानपानादिविधिसाधनं। तस्य प्रारब्धमध्यान्तदशासूच्चैःसुखासिका॥१७॥ यस्येति । भक्तिरेव सुधा अमृतं सा यस्य स्नानपानादि- विधेः शुद्धतृप्यादिफलस्य ब्यापारग्रामस्य साधन, प्रारब्धमध्या- न्तदशासु, आदौ मध्ये चान्ते चात्सर्वव्यापाराणामुच्चैः मुखा- सिका परमानन्दविश्रान्तित्वम् ॥ १७ ॥ कीय॑श्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् । भवद्भक्तिमतांश्लाघ्या लोकयात्राभवन्मयी॥३८॥ कीर्स इति । येनेति हेतौ उदिति तस्माल्लोकयात्रा च कीर्तनादिमती च ॥ १८॥ मुक्तिसंज्ञा विपक्कायाः भक्तरेव त्वयि प्रभो। तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः॥१६॥ मुक्तिरिति । विपक्वायाः परंपरिपूर्णाया, आद्यदशारूढेति उत्तरोत्तरप्रकर्षसाधनायोद्युक्ता अपि प्रथमभूमिकायां लब्धस्थि- तयः मुक्तकल्पा इति मनाङ्मात्रेण सम्पूर्णमुक्तयो न तु मुक्ताः॥१९॥ .

१२३ । पाशाजुद्भेदनाम घोडशं स्तोत्रम् । दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः। तत्पराची विभो माभूदपि सौख्यपरम्परा ॥२०॥ दुःखागम इति । त्वत्पराची त्वत्पराङ्मुखी ॥ २० ॥ त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्। तदन्योन्याश्रयं युक्तं यथा वेत्य त्वमेव तत् ॥२१॥ त्वमिति । यावन्न परमेश्वरः प्रीयते न तावद्भक्तिः यावच्च समावेशमयी भक्तिः न तावत्परमेश्वरः प्रीयते, भक्तिमतश्चिदान- न्दमयं वपुः प्रकटयति, तदेतदन्योन्याश्रयं यथा येन प्रकारेण यथा युक्तं भवति तथा त्वमेव अतिदुर्घटकारिणः स्वातन्त्र्यादु- भयं घटयसि न त्वत्र पुरुषयुक्तयः प्रभवन्ति ॥ २१ ॥ साकारोवा निराकारो वान्तर्वा बहिरेव वा । भक्तिमत्तात्मनां नाथ सर्वथाऽसि सुधामयः॥२२॥ साकारइति । भत्त्या मत्तः प्रहृष्ट आत्मा येषां तेषां, सर्वत्र वं सुधामयः ते हि सर्वात्मत्वेन पश्यन्ति ॥ २२ ॥ अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति । हर्षः प्रकाशनफलमन्यदेव जगत्स्थितम् ॥२३॥ अस्मिन्निति । सर्वजनातिघोरे तेन आपातमात्रे यद्यपि भक्तिमतां लोकवदेव जगद्गाति तथाऽपि मृग्यमानयेतदेषां प्र. काशानन्दघनमेव ॥ २३ ॥ गुह्ये भक्तिः परे भक्तिभक्तिर्विश्वमहेश्वरे । स्वयि शम्भो शिवे देव भक्तिर्नाम किमप्यहो॥२४॥ गुह्ये इति । गुह्ये रहस्यरूपे, परे पूर्णे, असाधारणनामोदीरणं निरतिशयताख्यापनाय किमिससामान्यं वस्तु ॥ २४ ॥ . .. .

शिवस्तोत्रापल्याम्
भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा ।
तारं विरौषि यत्तीबा भक्तिर्मेऽस्तु परं त्वयि ॥२५॥
भक्तिरिति । वीप्सायामेव वैवश्यं प्रथयति, परं तीवा धा-
रारूढा समुत्कटा अभ्यासाद्यनपेक्षं प्रदीप्ताग्निज्वालावज्झटित्यु-
ल्लसन्ती, युक्तं चैतत् ॥ २५ ॥
यतोऽसि सर्वशोभानां प्रसवानिरीश यत् ।
त्वाय लग्नमनघं स्याद्रत्नं वा यदि वा तृणम् ॥२६॥
यतोऽसीति । असि त्वं यतः सर्वासां शोभानां दीप्तानाच
प्रसवभूः अतो लोकापेक्षया यनमिति जात्युत्कृष्टं तृणं वेखनुपा-
देयं वा, तत्त्वयि चेल्लग्नं समावेशेन सम्बद्धं, तदनर्घमेव भवति॥२६॥
आवेदकादाचक्द्यायेषां संवेदनाध्वनि ।
भवता न वियोगोऽस्ति तेजयन्तिभवज्जुषः॥२७॥
आवेदेति। संवेदनाध्वनि संविन्मये वेद्यवेदकक्षोभेऽपि येषां
त्वया न वियोगः ते भवन्तं प्रीसा सेवमाना जयंति ॥ २७ ॥
संसारसदसो बाघ कैश्चित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥२८॥
संसारेति । संसारसदसो बाह्ये संसारसभामुल्लङ्घ्य, नियत
एक पदे, कैश्चिदिति द्वादशान्तादिपदस्थैः निमीलनसमाधिपरै-
योगिभिः, परिरभ्यसे समालिङ्ग्यसे, परैरनुभावतो युक्तितत्वज्ञ-
तयोन्मीलनसमाधानविदग्धैः, पुनस्तत्रैव संसारसभामध्ये एव
सक्तयन्त्रणैः परिहृतध्यानोच्चारकरणाद्यायासैः ताम्यद्भिर्गादा-
नुरागविवशैः गाढानुरागिणां हीदृश्येव स्थितिः ॥ २८ ॥

पाशानुद्भेदनाम षोडशं स्तोत्रम् । १२५ पानाशनप्रसाधन- सम्भुक्तसमस्तविश्वया शिवया । प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे ॥ २६ ॥ पानाशनेति । शिवया दृढमुपगूढं आश्लिष्टं, शिवं चिद्भरवं, वन्दे नौमि समाविशामीति यावत्, कीदृश्या पानाशनप्रसाधन- सम्भुक्तसमस्तविश्वया, पानेन रक्षणेन स्थिसा, अशनेन कव- लीकारात्मना संहारेण, प्रसाधनेन प्रकर्षेण सिद्धिसम्पदादिना सर्गेण च, सम्यक् मुक्तं पालितमभ्यवहृतं च, तथा समस्तं स- म्यक् क्षिप्तं विश्वं यया तुर्यरूपया श्रेयःस्वभावया शिवया अत एव प्रलयोत्सवेन संसृष्टिस्थितिसंहाराणामपि संहरणात्मनाs- भ्युदयेन सरभसया सातिशयं स्फारयन्सा तथा पानेन सारा- हरणेन, अशनेन अवशिष्टशल्कमायवस्तुभक्षणेन, प्रसाधनेनैत- दवशिष्टं समस्तं संस्कारशेषमपि विश्वं यथा अत एव विश्वस्य मलयोत्सवे सरभसया सत्वरया बाह्यक्रमेणापि तकादेः पानेन, मांसादेरशनेन, अस्थ्यादेः प्रसाधनेन भूषणताकरणेन, सम्भुक्तं स्वोपयोगपात्रीकृतं, सम्यगस्तं चात्मन्येव क्षिप्तं समस्तं च षट्- त्रिंशत्तत्वमयं विश्वं यया, प्रलयोत्सवे कल्पितसंहर्तृपदमलीनता- करणक्रीडायां सरभसया प्रोद्युक्तया अनुरणनशक्तयाऽपि पान- चर्वणमण्डनैः संभुक्तं सम्भोग्यतां नीतं, समस्तं विभवरूपं विश्व यया सुन्दर्या सा लयोत्सवे उभयानन्दसमापत्त्यात्मनि सरभसा सती शक्तिमन्तमाश्लिष्यन्ती भवति ॥ २१ ॥ परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या ।

१२६ शिवस्तोत्रावल्याम् अपराऽपि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ ३० ॥ परमेश्वरेति । हे विश्वेश, तव अपूर्वा परमा प्रकृष्टा परम- शिवरूपा, ईश्वरता जयति यद्यस्मादियमीशितव्येन भिन्न ईश- नीयेन वस्तुना शून्या स्वात्मसात्कृताशेषविश्वत्वाद, अपराऽपि परमशिवापेक्षया स्थूलाऽपि सदाशिवेश्वररूपा तव सम्बन्धि नीश्वरता तथैवेति अपूर्वा जयति इसर्थः, ययेदं जगद्यथेति- नीलमुखादिदेहादिभेदेन आभाति तथा तेनैव प्रकारेण भासमानं सत् अहन्ताप्रकाशसमरसीभूतत्वादेवमात्मन्यसङ्कल्पाः प्रकाशन स्यैव सन्यमी जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिरिति स्थिया भातीयर्थः ॥ ३० ॥ इति शिवम् ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ पाशानुद्भेदनामनि षोडशे स्तोत्रे श्रीक्षेमराज- विरचिता वितिः ॥

१२७
दिव्यक्रीडाबहुमाननाम सप्तदश स्तोत्रम् ।
ॐतत्सत्। अहो कोऽपिजयत्येष स्वादुपूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १ ॥
ॐ अहो इति । एष इसनुभवसाक्षिकः, स्वादुरानन्दमयः,
कोऽपीति समावेशात्मा पूजोत्सवो जयति यतः पूजामहोत्स-
वादणि वाष्पा अपि अमृतास्वादमलं ददति आनन्दप्रभ-
वाच्चमत्कारमेव पुष्णन्ति ॥ १॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥२॥
व्यापारा इति । ये त्वत्पूजोपक्रमव्यापारास्ते तावत्सिद्धिदाः।
भक्तानां तु साक्षात् एव सिद्धयः त्वन्मयत्वेन प्रकाशमानत्वात् ॥२॥
सर्वदा सर्वभावेषु युगपत्सपर्वरूपिणम् ।
त्वामर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः ॥३॥
सर्वदोत ।युगपत्सर्वरूपिणम् अक्रमक्रोडीकृताशेषनिर्भरं त्वा
सर्वकालं सर्वत्र ये अविश्रान्तं कृत्वा अर्चयन्ति ते मम अधिष्ठात-
देवरूपाः ॥ ३ ॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदाऽस्तु मे ॥४॥
ध्यानायासेति । ध्यानमुच्चारकरणादीनप्युपलक्षयति तेन
तेनोच्चारकरणध्यानाद्यायासस्य तिरस्कारेण अपहस्तनेन यस्त्व-
स्पर्शनोत्सवः सिद्धो प्रयत्नासद्धः स एव भक्तानां पूजाविधिरिति
ख्यातः, यथोक्तम् "निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्ल-
यः" इति एप स एव पूजाविधिर्मम सदाऽस्तु ॥ ४ ॥

१२८ शिवस्तोत्रावल्याम् . भक्तानां समतासारविषुवत्समयः सदा । त्वद्भावरसपीयूषरसेनैषां तदर्चनम् ॥ ५॥ भक्तानामिति । विषुवति पूजाकर्तव्यत्वेनाम्नाता सैव विषुवत्समयः शिवैक्यपथात्मसमतासारभक्तानां सदैवास्ति, तथा त्वद्भावनारस एव पीयूषरसः तेन सदैषामर्चनमस्ति ॥५॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो । पूजात्माऽसौ क्रिया तस्याःकर्तारस्त्वज्जुषः परम६॥ यस्यानारम्भेति । न च कालक्रम इति मध्येऽपि क्रमवत्ता नास्ति, असौ समावेशविश्रान्सात्मा क्रिया, तस्याश्च त्वज्जुषः त्वत्समावेशतत्वज्ञा एव परं कर्तारो नान्ये ॥ ६ ॥ ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः। येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥७॥ ब्रह्मादीनामिति । निःसामान्यमहेश्वरसमावेशशालित्वाद्र- मादीनामपीश्वरा इति वस्त्वेवैतत् न त्वर्थवादः, सौभाग्य भागिन इति आनन्दरसनिर्भरत्वात्सर्वस्पृहणीयाः, स्वप्नेऽपि मोहेऽपीति न केवलं जाग्रति “यावत्स्वप्नसुषुप्तयोरिति" स्वर- सोदितस्त्वत्स्पर्शनोत्सवस्त्वत्समावेशाभ्युदयः ॥ ७॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् । भक्तानां भवदभ्यर्चामहो वाऽवद्यदा तदा ॥८॥ जपतामिति ।जपध्यानादिपदे तावदीश्वरपूजापरा भवन्ति भक्ता पुनः सदैव त्वत्पूजनोत्सवाविष्टाः ॥ ८ ॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा। ब्रह्मादीनामथा ब्रह्ममुख्यानामस्ति कः समः॥९॥ .

१२६ . दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् । भवत्पूजेति । भवत्पूजैव सुधास्वादसम्भोगस्तेन यः मुखी भक्तिमान् तस्य ब्रह्मादीनां मध्यान कः समः न कश्चित् अत्र युक्तिरुक्तैव ॥ ९॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे । यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत्॥१०॥ जगदिति । जगतः षट्त्रिंशत्तत्वमयस्य स्थूलसूक्ष्मादेर्देहस्य तद्वारेण विश्वस्य क्षोभ विगलत्स्वरूपतया वैवश्यमेव जनयति यो .भवत्पूजामहोत्सवः तत्र यत्किञ्चित्परमानन्दात्मकं पूर्ण स्वं स्वरुपं प्रापणार्ह प्राप्यते तद्भक्ता एव विदन्ति ॥१०॥ त्वद्धानि चिन्मये स्थित्वा षट्त्रिंशत्तत्वकर्मभिः। कायवाकुित्तचेष्टाधरर्चये त्वां सदा विभो ॥११॥ त्वद्धाम्नीति । धाम तेजः षट्त्रिंशत्तत्वानां कर्माणि काय- वाक्चिनचेष्टाख्यानि तैरित्थं प्रसभिज्ञातव्याप्तिकैरहं प्रभो त्वाम- र्चये देहादिषट्त्रिंशत्तत्वमयं कठिनत्वद्वत्वप्रकाशमानत्वादाग- मेषु बहुषु प्रतिपादितं तथा त्रिशिरःशास्त्रे "सर्वदेवमयः काय" इत्युपक्रम्य “पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्" इसादि "त्रिशिरो भैरवः साक्षाध्याप्य विश्वं व्यवस्थितः" इसन्तमुप- दिष्टम् ॥११॥ भवत्पूजामयासङ्गसम्भोगसुखिनो मम । प्रयातु कालः सकलोऽप्यनन्तोपीयदर्थये ॥१२॥ भवदिति । भवत्पूजामयो य आसङ्गः तेन तत्परत्वेन यः सम्भोगस्तेन मुखिनो निर्दृतस्य मे सकलो निरवशेषः अनन्तो निरवधिः प्रयाविति इयदर्थये न त्वन्यत् ॥१२॥ ! -- षु :

- । : शिवस्तोत्रायल्याम् भवत्पूजामृतरसा भोगलम्पटता विभो विवर्धतामनुदिनं सदा च फलतां मम ॥१३॥ भवत्पूजेति । यावद्यावद्भवत्पूजामृतरससम्भोगो मया प्रा- थ्यते तावत्तम्बदधिकमधिकं तत्र स्पृहणीयालुतामेव विवर्धतां तदुत्कर्षसमासादनफलेन च सदा फलतु ॥ १३ ॥ जगद्विलयसजातसुधैकरसनिर्भरे। त्वदधौ त्वां महात्मानमर्चनासीय सर्वदा॥१४॥ जगदिति । जगतो विश्वस्य विलयेन संहारेण जातो यः सुधामय एक रसः तेन निर्भरे परिपूर्णे त्वत्समुद्रे, त्वामेव महात्मनं विश्वव्यापकं सदा अर्चन अहमासीय स्थेयाम् ॥ १४ ॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा। मनो निवेद्यते भक्तैः स्वादुपूजाविधौ तव ॥१५॥ अशेषेति । तव पूजाविधौ भक्तैः स्वादु चमत्कारसारं, सदा मनो निवेद्यते त्वय्येवार्यते, कीहक् अशेषा वासनात्मानो ग्रन्थयो बन्धास्तेषां विच्छेदेन विदलनेन सरलं स्पष्टं सक्तकु- मृतिकौटिल्यम् ॥ १५ ॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम् ॥१६॥ अधिष्ठायैवेति । इयाः करणतयोऽपि चक्षुरादिदेव्यः, विषयान् रूपादीनधिष्ठायैव आक्रम्यैव, सृष्टिरक्षादिदेवतोदयक्र- मेण भक्तानां त्वत्पूजार्थमन्तरममृतासवं प्रेषयन्ति ॥ १६ ॥ भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् । कोऽन्यो निर्वागहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७ ..

दिव्य क्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् ।
भक्तानामिति । भक्तिसंवेगमहोप्मा भक्त्युद्रिक्ततेजस्तेन विव-
शात्मनां प्रज्वलितात्मनां त्वत्पूजामृतमज्जनादन्यो निर्वाणहे-
तुर्न कश्चित् ॥ १७ ॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः ।
त्वत्प्रसादैकसम्प्राप्तिहेतुम नाथ कल्प्यताम् ॥१८॥
सततमिति । त्वत्पदार्चा प्राग्वत् सदैव आनन्दव्याप्तिप्रद-
वात्सुधापानमहोत्सवः, कीहक त्वत्प्रसादस्य चिदानन्दात्मक-
त्वात् स्वरूपनैर्मल्यस्येकः सम्प्राप्तिहेतुर्यस्य स मे सततं कल्पतां
घटताम् ॥ १८ ॥
अनुभूयासमीशान प्रतिकर्म क्षणाक्षणम् ।
भवत्पूजामृतापानमहास्वादमहामुदम् ॥ १६ ॥
अनुभूयति । प्रतिकर्म प्रतिव्यापारे, क्षणात् क्षणं भूयो
भूयः, भवत्पूजामृतापानस्य सम्बन्धी मंदप्रधानो हर्षप्रबलः आ-
स्वादस्तदुत्थां महामुदं परमानन्दमनुभूयासम्, आमुदं मुदः पर्यन्ते
महती मुत् पूजास्वादस्य च ॥ १९ ॥
दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥२०॥
दृष्टार्थ इति । प्राप्तव्यस्य प्राप्तत्वान्नैषामाकाङ्क्षा कचि-
दस्ति यतस्ततो दृष्टार्थ एव, त्वत्पूजायां महानुद्यमः तथा हि
तदैव पूजासमय एव, असम्भाव्यं मुखं परमानन्दं, ते भक्ता
आस्वादयन्ति ॥ २० ॥
यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः ।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥२१॥

१३२
शिवस्तोत्रावल्याम
यावदिति । लवोऽपीसत्रेदमाकूतं लौकिकसुखानि असुखा-
न्येव कृत्रिमत्वात् यस्त्वकृत्रिमः समावेशानन्दः सैव पारमार्थिकी
सुखसम्पत् ॥२१॥
भक्तानां विषयान्वेषाभासायासादिनैव सा ।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते॥२२॥
भक्तानामिति । पूजासु समावेशकालेषु, ध्यानादियत्न
विना सिद्धं प्रस्फुरन्ती त्वद्धामनि स्थितिः सेति लोकोत्तरा
भक्तानां जायते, कथं विषयाणां कुसुमधूपविलेपनादीनामन्वेषा-
भासो मार्गणप्रतीतिः स एवायासस्तं विनैव तद्विरहेणेत्यर्थः ॥२२॥
न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् ।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ २३ ॥
नेति । पूर्णशिवात्मकस्वस्वरूपलाभाद्भक्तानां प्रापणीय
दुर्लभं वा न किंचिदस्ति, भक्तयासवक्षीबाश्च केवलमप्रयोज-
नमेव विचरन्ति ॥ २३ ॥
अहो भक्तिभरोदारचेतसां वरदत्वयि ।
इलाध्यः पूजाविधिः कोऽपि यो न याआकलंकितः २४
अहो इति । उदारचेतस्त्वं तत्वत एषामेव ये वरदमापि त्वां
न किंचन याचन्ते, कोऽपीसलौकिकः ॥ २४ ॥
का न शोभा न को ह्रादः का समृद्धिर्नवापरा ।
कोवानमोक्षः कोऽप्येष महादेवो यदर्यते॥२५॥
का इति । कोऽपीति चिदात्मा महेश्वरो यदय॑ते सा
शोभादीप्तिः का न सर्वेसर्थः, एवमन्यत्, को वा न मोक्ष इति
सांख्यवैष्णवशाक्तनाकुलपाशुपातादिमोक्षातिशायिनः परमान-
न्दसारस्य विश्वपरिपूर्णतामयस्य मोक्षस्य लाभात् ॥ २५ ॥

.
दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् ।
अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ २६ ॥
अन्तरिति । अन्तः संवित्पदे उल्लसता अच्छाच्छेन वि-
श्वप्रतिबिम्बक्षमेण भक्तिपीयूषेण समावेशामृतेन पोषितं पार-
देन ताम्रमिव कालिकाक्षपणेन दिदीप्यमानकल्याणमयीकृतं इदं
मम शरीरं भवत्पूजोपयोगायास्तु, समावेशरसं सिद्धमपि त्वय्येव
चिदानन्दघने प्रविश्य विलीयताम् ॥ २६ ॥
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो।
भूयासं जगदीशान एकः स्वच्छन्दचेष्टितः॥२७॥
त्वदिति । जगतां कालाग्न्यादिसदाशिवान्तानामीशः
स्वामी, स्वतन्त्रोऽहं त्वत्पादपूजालादपरतन्त्रः स्याम्, एतदेव हि
तदसाधारणं जगदैश्वर्यं स्वातन्त्र्यं च ये त्वत्पादसमावेशवैवश्यम्
अन्यपादं पारतंत्र्येऽपि निःसामान्यमैश्वर्यं स्वातन्त्र्यं चेसद्भुतर-
सध्वनिः॥ २७॥
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो
जायते शीतलस्वादु भवत्पूजामहासरः॥२८॥
त्वयानेति । परमेश्वरं चिदानन्दघनमपि पश्येयमपि स्पृ-
शेयमिति यत्त्वद्धयाने दर्शनस्पर्शनतृट् तस्यां सत्यां केषामपीति
साक्षात्त्वदनुगृहीतानां शीतलस्वादु भवत्पूजामहासरो जायते
सन्तापहारिसचमत्कारत्वदर्चा परिपूर्णः समुद्रो नव एवोत्पद्यत
इयर्थः ॥ २८ ॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथैव भक्तिमानेव पूजासम्भोगभाजनम् ॥२९॥

शिवस्तोत्रावल्याम् . . " । - यथेति । जगतो विश्वस्य मध्यात्वमेव व्याख्यातरूपस्य पू- जासम्भोगस्य भाजनमाश्रयो यथा, हे ईश स्वामिन्, तथा भक्ति- मानेव समावेशशाल्येव तादृशः पूजासम्भोगस्य भाजनं निर्वर्तक इत्यर्थः ॥ २१ ॥ कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः। षट्त्रिंशतोऽपि तत्त्वानांक्षोभो यत्रोल्लसत्यलम्३० कोऽपीति। नीतिसमावेशशालीह्यसाविति स्वामिन्नितीरितः, पत्रिंशतोऽपीति देहाश्रयाणां तवारेण तद्वाह्यानां तत्वानां क्षोभ इति, संविदग्निप्लोषवैषम्यम् ॥ ३० ॥ नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा । पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥३१॥ नमस्तेभ्य इति । त्वत्पूजार्थमुपकरणानि कुसुमादीनि, येषां भक्तिपीयूषवारिणा समावेशामृतरसेन, पूज्यानि भवन्ति त्वदा- प्लवनेन शिवतादिव्यक्तेः पूजार्हाणि जायन्ते, तेभ्यो नमः ॥३१॥ पूजारम्भे विभो ध्यात्वा मन्त्राधेयांत्वदात्मताम् । स्वात्मन्येव परेभक्ता मान्ति हर्षेण न क्वचित्॥३२॥ पूजेति । मन्त्रेण मननत्राणधर्मेण चिन्माहात्म्यमकर्षकेण आधातव्यां शिवो भूत्वेति स्थिया सम्पाद्यां, त्वदात्मतां, पूजा- रम्भे ध्यात्वा चिन्तयित्वा मन्त्रोच्चिचारयिषात्मक पूजामविवृत्सा- यामेवायमेवोदयस्तस्येति नीसा भक्तिप्रकर्षाच्छिवीभूय भक्ताः स्वात्मन्येव परे पूर्णरूपेण न मान्ति न वर्तन्ते ॥ ३२॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे सुधासवेन सकला जगती संविभज्यते ॥३३॥ . - दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् । राज्यति । उत्फुल्लौरीति महाविकासयुक्त्या श्रीभैरवीय- मुद्रानुप्रविष्टैः सुधासवेनामृतपानेन, जगती समस्ता वेद्यवेदकभूः, सविभज्यते परिपूर्यते स्वानन्दमयीक्रियते, राज्यलाभोत्फुल्लैश्चो- सवे सर्वा भूः आसवेन संविभज्यते इति स्पष्टम् ॥ ३३ ॥ पूजाभृतापानमयो येबा भोगः प्रतिक्षणम् । किं देवा उत मुक्तास्ते किंवा केप्येवतेजनाः॥३४॥ पूजेति । भोगश्चमत्कारः, प्रतिक्षणमित्रविच्छेदेन केप्येवे- ति स्तोत्रशतैरपि स्तोतुमशक्याः॥ ३४ ॥ पूजोपकरणीभूतविश्वावेशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम्॥३५॥ पूजेति, पूजायां यदुपकरणाभूतं परिकरीभूतं, विश्व षट्त्रिंशत्तत्त्वरूपं शरीरं बाह्यं च तस्य य आवेशश्चिद्भमावनुप्रवे- शस्तेन, अत अहो आश्चर्य, किमप्यसामान्यं भक्तानां गौरवं प्रभावितत्वम्, लाघवं च प्रयत्नेनैवाशेषस्वीकारित्वमथ च मायी- यभेदभारनिवृत्तिः, गौरखे च कथं लाघवामिति विरोध- च्छाया ॥ ३५ ॥ पूजामयाक्षविक्षपक्षोभादेवामृतोदमः । भक्तानां क्षीरजलधिक्षोभादेव दिवौकसाम् ॥३६॥ पूजामयति । पूजामयानि विश्वस्य चिद्भमिविश्रान्तिदा- यीनि देवताचक्रोदयमयानि अक्षाणि इन्द्रियाणि तेषां विक्षेपः स्वविषयग्रहणपरत्वं स एव क्षोभो व्याकुलता तत एवाल्पबो- धापेक्षयाऽभिमतादपि भक्तानाममृतस्य महानन्दस्योदम उल्लासो ग्राह्यगाहकविप्लवेऽपि भक्तानां चिदानन्दाभिव्यक्तिरेवे- शिवस्तोत्रावल्याम " इति यथा सर्थः, तदुक्तम् ग्राह्यप्रवृत्तावपि तत्स्वभाव देवानां क्षीरसमुद्रक्षोभादमृतस्य सुधाया उल्लासः अत्रापि पूजा- सवस्य पूज्यस्य नागराजात्मनः अक्षस्य नेत्रस्य यो विक्षेपः आकर्षापकर्षक्रमः स एव क्षोभ इति ॥ ३६ ॥ पूजां केचन मन्यन्ते धेनुं कामदुघामिव । सुधाधाराधिकरसां धयन्यन्तर्मुखाः परे ॥ ३७ ॥ पूजामिति । यथा कामधेनुरभीष्टं पूरयति तथा केचित्फल- काङ्क्षिणः पूजां मन्यन्ते निश्चिन्वन्ति, परे केचिदेव, सुधाधारा- धिकः अमृतधारातिशायी रसःप्रसरो यस्यास्तां पूजामेव कामधे- नुमन्तर्मुखाः सन्तो, धयन्ति पिबन्ति सद्य एव चमत्कुंवन्ती सर्थः ॥ ३७॥ भक्तानामक्षविक्षेपोऽप्यष संसारसंमतः । उपनीय किमप्यन्तः पुष्णात्य महोत्सवम् ॥३८॥ भक्तानामिति । अक्षविक्षेपः इन्द्रियप्रसरो, लोके संसारत्वेन संमतः, किमपीसलौकिकमानन्दरूपम्, उपनीय प्रापय्य भक्तानां करणे श्रीचक्रप्रसरसमाविष्टानाम्, अर्चामहोत्सवं पूर्णस्वरूपबि- श्रान्ति पुष्णाति, तथा च ममैव " प्रज्ञामन्दरमक्तितासममहाभेदो- दधेरुगतान्यक्षक्षेपविवर्तनाभिरभितो दुग्धामृतान्यादरात् । व- श्चित्वा क विकल्पदैन्यविरहं भूतीरनाहस ये पायं पायमलं पिवन्ति जगति श्लाघ्यास्त एवामरा" इति ॥ ३८ ॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि । चित्रं दैन्याय नो यावदीनतायाः परं फलम् ॥३९॥ भक्तीति । त्वयि स्वात्मभूते यद्भक्तिक्षोभसमावेशवैवश्याद- र्चनं तच्चित्रमाश्चर्य, दैन्याय न भवति न कांचिद्दीनतां फलति, . -- . न A . दिव्यंक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् । अन्येषां ह्येतदाकाङ्क्षाप्रधानमेवं न केवलमेवं यावत्मत्युत दीन- तया लौकिक्याः स्पृहायाः परं पार्यन्तिकमानन्दरूपं विभवादि- फलस्यापि फलभूतं परं च पूर्ण फलम् ॥ ३९ ॥ उपचारपदं पूजा केषांचित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिर्वृतिप्रसरस्तु सः॥४०॥ उपचारेति । केषांचिदिति भेदनिष्ठानां त्वत्पदाप्तये त्वदीयं पदं प्राप्तमुपचारपदं क्रियाभूराराधनोपायमात्रमेव, भ- क्तानां तु भवदैकात्म्यरूपाया निर्दृतेः स प्रसरो विकासः स इति विधेयापेक्ष पुंलिङ्गम् ॥ ४० ॥ अप्यसम्बद्धरूपाऽर्चा भक्त्युन्मादनिरर्गलैः । वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥४१॥ अपीति । पूजायां मनागपीति, कर्तव्यताऽन्यथाभावे प्रसवायः यः प्रक्रियाशास्त्रे युक्तः, आश्चर्य पुनरिदं भक्त्युन्मादेन समावेशवैवश्येन निरर्गलैः विस्मृतेतिकर्तव्यतानियमैरसम्ब- दरूपापि असमअसाऽपि अर्चा, वितन्यमाना प्रसार्यमाणा, कामपीति क्रियानिष्ठैः सम्भावयितुमप्यशक्यामसामान्यां,प्रतिष्ठां सम्यगाभिमुख्येनावस्थिति त्वयि लभते इबद्भुतध्वनिः। ॥४१॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् । शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥४२॥ स्वाद्विति । स्वादुश्चमत्कारसारो यो भक्तिरसस्तस्या- स्वादनेन, स्तब्धीभूतं चलितचाञ्चल्यं यन्मनस्ततश्च्युत् च्यवनं प्रसरो यासां, पूजानां विश्वार्पणक्रियाणां, तासां ललितो हृद्युचितस्त्वमेव चिदात्मा, शम्भो श्रेयोनिधे, भाजनमाश्रया, १८

१३८
शिवस्तोत्रावल्याम्
यु
किलेति युक्तौ एतदेव युज्यत इसर्थः, अन्यस्य ब्रह्मादेर्भेदमयत्वे-
नेगर्चापात्रत्वाभावात् पूजानामिति बहुवचनं विचित्रविश्रान्ति-
सारतामथनाय ॥ ४२ ॥
परिपूर्णानि शुद्धानि भक्तिमान्ति स्थिराणि च ।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥४३॥
परिपूर्णानीति । भवतश्चिन्नाथस्य, पूजाविधौ अवश्यकार्या-
यामईयां,मम साधनानि चक्षुरादीनि अतएव चिन्मरीचिमयत्वा-
च्छुद्धानि, भक्तिमन्ति विश्वार्पणेन त्वत्सेवापराणि, कदाचिदपि
पाशववासनाऽस्पृष्टत्वात् स्थिराणि नियमीदृश्येव भवन्तु ॥४३॥
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो ।
अहो करणवृन्दस्य काऽपि लक्ष्मीविजृम्भते ॥४॥
अशेषेति । इमामेव दशां विमृशन्नाह, शक्तीनामुल्लासप-
सरादिप्रभवशीलप्रभो, अशेषाणां पूजानां विचित्राणां सत्कोशे
शोभनगारूपे, त्वत्पूजाकर्मणि पूर्णचिदानन्दघनश्रीमन्नाथभैर-
वस्वरूपविश्रान्तौ, करणन्दस्य रश्मिचक्रस्य, अहो, काऽपि
स्वसंवित्साक्षिका, लक्ष्मीः दीप्तिर्विजृम्भते स्फुरतीति, महार्थपरि-
पूर्णस्यास्य सारोपदेशवर्षीणि इमानि सूक्तान्युल्लसन्ति ॥ ४४ ।।
एषा पेशलिमा नाथ तवैव किल दृश्यते
विश्वेश्वरोऽपि भृत्यैर्यदय॑से यश्च लभ्यते ॥४५॥
एषा इति । तान्येवाह, पेशलिमा सरलता, तवैवेति चिद्घ
नत्वेन सर्वेषामात्मनो, विश्वेश्वरत्वेऽपि सदाशिवादीनामपि
स्वामी, अय॑से समाविश्यसे लभ्यसे निरर्गलमात्मीक्रियसे ॥४॥
सदा मूर्तादमूर्तावा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥४६॥

श्लोको
दिव्यक्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् । १३६
सदेति । मूर्तो भावो घटादिः अमूर्तः सुखादिः मूर्ती भावो
घटस्य कपालानि अभावो विकल्पकल्पितप्रसज्यप्रतिषेधात्मा तत,
उत्थेयादिति समस्तं भावाभावपदमधरीकस उन्मज्ज्यामियर्थः,
भवत्पूजामहोत्सवस्त्वद्विश्रान्त्युदयः, भावादियादिका ल्यब्लोपे
पञ्चमी ॥ ४६ ॥
कामक्रोधाभिमानस्त्वामुपहारीकृतैः सदा ।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः॥४७॥
कामक्रोधोत । सर्वचित्तवृत्तीनां कामादिभिः स्वीकारात्ते-
पामेवोपादानमुपहारीकृतैर्विचार्य त्वय्येवार्पितैः, तत्वतस्तुष्टोऽसि
"हर्षामर्षभयनोधैर्मुक्तो यः स च मे प्रियः" इसभिधानात् ,
ननु च श्रीमन्महार्थसारोक्तिमये
स्वकृतस्तोत्रेऽयं
दद्रुस्थानीयः ससम् अशेषवासनाग्रन्थीसादिकस्यापि स्मर्तव्यं
लोकवद्भवत्तमे निजनिजेषु अस्मिन्नेव जगात आवेदकत्पा-
नाशनसमुल्लास न कापि गत्वेऽत्यादयस्त्वनुगुणा अप्यत्र श्लोका
न सन्ति उदयमसमअसशय्याप्रस्तारिणः विश्वावर्तस्यैव प्रसादः,
एवमन्येष्वीप स्तोत्रष्वेवंपायं बहुराचितमस्ति न त्वस्माभिर्नोद्घा-
टितमियलम् सूक्तान्येवानुसरामः ॥ ४७ ॥
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते ॥४८॥
जयतीति । अपिभिन्नक्रमस्तेन तृणैराप क्रियमाणः यो
रत्नरेवोपकल्पते पूर्णविश्रान्तिप्रदो भवीत, स भगवद्भक्तिभाजां
त्वत्समावेशेन शालिनां, परः पूर्णः, पूजाधिर्जयतीति शिवम्॥४८॥
इति श्रीमदीश्वरप्रत्यभिज्ञाकारोत्पलदेवाचार्यविरचितमप्तदशस्तोत्रे
परमश्वरस्तोत्रावलौ दिव्यक्रीडाबहुमाननामनि
श्रीक्षेमराजविरचिता विवृतिः ॥ १७ ॥

१४० शिवस्तोत्रावल्याम् ॐ तत्सत् । जगतोन्तरतो भवन्तमाप्त्वा पुनरतद्भवतोन्तराल्लभन्ते । जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किंचित् ॥१॥ ॐ जगत इति । हे जगदीश ये तवैव चिद्रूपस्य स्वात्मनो, भक्तिभाजस्ते जगतो विश्वस्यान्तरतो मध्यात्, भवन्तमाप्त्वा प्रकाशमानव्यवहारपदादेव प्रकाशरूपं त्वां लब्ध्वा, पुनरस्य ते जगद्भवतश्चिद्रूपस्यान्तरतो मध्याल्लभन्ते, यस्मात्तेषां भक्ति- भाजां सम्यक् प्रसभिज्ञातविश्वात्मकत्वत्स्वरूपाणामिह जगति दूरे न किंचिदिति सर्वस्य स्वाङ्गकल्पत्वेन स्फुरणात, तदु- "यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।" इसादि गीतासु ॥१॥ कचिदेव भवान्क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना । परमार्थपदे नैव देव्या भवतो नापि जगत्रयस्य भेदः॥२॥ कचिदिति । मुक्तौ कचिदिति, तदुपायतायां भोगे च भवानी परा शक्तिः, सकलः कालादिक्षिसन्तः, अर्थक्रमः प्रमेय- राशिर्गर्भेऽन्तः, शिम्बिकाबीजवत्संस्पृष्टौ यस्याः परमार्थपदे गलितकल्पनायां तात्विक्यां दृष्टौ पुनः जगत्रयस्यापि भवाति- भवाभयात्मनः त्वत्तो भेदो नास्ति किं पुनः शक्तेः॥२॥ नो नानते सुभगमप्यवलेवपन्तो लोकाः प्रयत्नसुभगा निखिला हि भावाः तु .

. आविष्कारनाम अष्टादशं स्तोत्रम् । चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥३॥ नो जानत इति । लोकास्तावदवलेपवन्तः सन्तः, सुभगमपि चिदात्मकं रूपं भावानां न जानन्ति, यतः प्रयत्नने सर्वथा नि- श्चयेन, सुभगा उत्कृष्टा एव, निखिलाः सर्वे, भावाः प्रकाशमान- त्वेन चिन्मयत्वात्पुनरास्तां भावस्वरूपज्ञानं आश्चर्यमात्मनोऽपि रूपमुद्यतमपि चेतो यत्रैवावैति समावेशधारारुरुक्षारणकाक्रान्त- मपि यश्चिदैकात्म्यं न लभते तव हतोऽस्मि इति जगति समावेश- प्रकर्षमलभमानस्य ताम्यत इयमुक्तिः ॥ ३ ॥ भवन्मयस्वात्मनिवासलब्ध- सम्पद्रराभ्यर्चितयुष्मदनिः। न भोजनाच्छादनमप्यजस्त्र- मपेक्षते यस्तमहं नमामि ॥४॥ भवन्निति । भवान् चिद्रूपः प्रकृतं रूपं यस्य तथाभूते स्वा स्मनि निवासेन विश्रान्या लब्धेन सम्पद्भरेण परमानन्दभूति- प्रसरेणाभ्यचितौ गाढमभेदेनावष्टब्धौ युष्मदशो येन तथा भूतो- ऽजस्त्रं यो भोजनाच्छादनमपि नापेक्षते अनन्यद्वातद्वति स्थिया व्यवहारानपेक्षः पूजापर एव तमहं नौमि ॥ ४ ॥ सदा भवदेहनिवासस्वस्थो- प्यन्तः परं दह्यत एष लोकः। तवेच्छया तस्कुरु मे यथाऽत्र त्वदर्चनानन्दमयो भवेयम्॥५॥ सदति । सदा भवदीये देहे उपचिते स्वरूपेति वसनेन वस्तुतः स्वस्थः, आनन्दमयोप्येष लोकः, तवेच्छया भेदप्रवाहरू- शिवस्तोत्रावल्याम -- . पया त्वन्मय्या शक्त्या, अतः परमतिशयेन, दह्यते तदुःखैरायास्यत यत एवं यस्मात्तवेच्छयाऽनुजिघृक्षयाऽत्र कल्पिते विषये, त्वं मे भक्तस्य, तदिति तथा कुरु यथाऽहं त्वदर्चनानन्दमयः स्याम्॥५॥ स्वरसोदितयुष्मदाडपद्म- द्वयपूजामृतपानमुक्तचित्तः । सकलार्थचयेष्वहं भवेयं सुखसंस्पर्शनमात्रलोकयात्रः ॥६॥ स्वरसेति । स्वरसेनाप्रयत्नमेवोदिता या युष्मदधिपूजा त्वत्समावेशसम्पत्सवामृतपानं तत्र सक्तचित्तो विश्रान्तिमानसः, सकलेषु हेयोपादेयाद्यभिमतेषु अर्थचयेषु व्यवहारेषु, अहं सुख- स्यर्शनमात्रलोकयात्रो भवेयं स्वानन्दोल्लाससारजगद्व्यवहारः स्याम् ॥ ६॥ सकलव्यवहारगोचरे स्फुटमन्तः स्फुरति त्वयि प्रभो। उपयान्यपयान्ति चानिशम् मम वस्तूनि विभान्तु सर्वदा ॥ ७ ॥ सकलेति । सर्वदा सदाऽनिशं निर्विरामं, व्यवहारविषय- स्यान्तर्मम त्वयि चिद्रुपे, स्फुटं स्फुरति सति सर्वाणि वस्तूनि उपयान्त्यपयान्ति, च सृज्यमाणानि संहियमाणानि च, स्फुरन्तु त्वदाविष्टोऽहं सदा भावसर्गसंहारकृत्स्यामित्यर्थः, उपयान्स- पयान्ति चेति पाठे आगच्छन्तोऽपि दर्पणप्रतिबिम्बवद्विलीय- माना एव न त्ववस्थितिं मनागपि भजमाना भान्तु इति व्या- ख्येयं च एवार्थे उद्यन्तो विनश्यन्तश्च लोकवद्यथा भान्ति तथा भान्विति वा योज्यम् ॥ ७ ॥ - - आविष्कारनाम अष्टादशं स्तोत्रम् । . . सततमेव तवैव पुरेऽथवाऽ- प्यरहितो विचरेयमहं त्वया। क्षणलवोप्यथ मा स भवेत् स्म मे न विजये ननु यत्र भवन्मयः ॥ ८॥ सततमिति । तवैव सम्बन्धिनि पुरे पूरके शान्ते पदे, विचरेयं शाक्तसमावेशशाली स्याम्, अथवा त्वया विरहित इात शाम्भवसमावेशमयः अथवा भवन्मय इति, त्वद्रूपो विमुक्तस्व- भावो, यत्र न विजये न सर्वोत्कर्षेण वर्ते, स क्षणलवोऽपि में मा भूीदत्युत्तरोत्तरसातिशयदशाशंसापरमेतत्, ननु वितर्के ॥८॥ भवदङ्गपरिस्रवत्सुशीता- मृतपूरैर्भरिते समन्ततोऽपि । भवदर्चनसम्पदेह भक्ता- स्तव संसारसरोन्तरे चरन्ति ॥ ४ ॥ भवदिति । तव भक्ताः भवदर्चनसम्पदा त्वद्विश्रान्तिसम्प- दोपलक्षिता, इह संसारसरसो भवसमुद्रस्यान्तरे मध्ये, चरन्ति व्यवहरन्ति, कीशि भवदीयात्परशक्तिरूपादङ्गात्परितः सम- न्तात्स्रवद्भिः सुष्टु शीतलैः दुःखानलतापोपशान्तिदैरमृतपूरैरा- नन्दोल्लासैः समन्ताद्भरिते पूरिते इति यावत् ॥ ९ ॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने । निजात्मनि सदा नाथ वसेयं तव पूजकः॥१०॥ महामन्त्रेति । महामन्त्रः परवाग्रूपः शुद्धाऽहंविमर्श एव शक्तिशाखाशतैः प्रसृतत्वात्तरुस्तस्य छायया कान्त्या शीतले १४४ शिवस्तोत्रावल्याम् . भेदसन्तापहारिणि, त्वन्महावने त्वमेव चिदानन्दात्मा महावन विपुलं विश्रान्तिस्थानं तत्र, निजात्मनि स्वस्वभावे, नाथ सदा तव पूजकः त्वदर्चापरो, बसेयं स्थिति बतायाम् ॥ १०॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा । मम नाथ तथा पुरः प्रथां ब्रज नेत्रत्रयशूलशोभितः॥ ११ ॥ प्रतिवस्त्विति । प्रतिवस्तु प्रतिभावं, समस्तजीवतः सर्वेषां जीवानामसि, त्वं यथा प्रतिभामयः संविद्रूपः, नीलादिग्रहणान्य- थानुपपत्या प्रतिभासि अप्रत्यभिज्ञातोऽपि वस्तुतः स्फुरास, तथा मम दासस्य, नाथ पुरोऽग्रे सर्वत्र, नेत्रत्रयेण शूलेन च शोभितः निरतिशयासाधारणाभिज्ञानेन सम्यक् प्रत्यभिज्ञातः सन्, प्रथां व्रज प्रकटीभव समावेशेन स्फुरत्यर्थः, नेत्रत्रयशूले असाधारणाभिज्ञानोपलक्षणपरे न पुनरत्राकारे भरः समस्तजी- वत इति योगे शम् ॥ ११ ॥ अभिमानचरूपहारतो समताभक्तिभरण कल्पितात् । परितोषगतः कदा भवा- न्मम सर्वत्र भवेददृशः पदम् ॥१२॥ अभिमानेति । अभिमानोऽहङ्कार एव चरुः स्थालीपाकस्त- स्योपहारो भगवत्यर्पणं पराहंभावग्रहणं ततः, कीदृशान्मम महे- श्वरः स्वामी अस्तीत्येवं, समताप्रधानः यो भक्तिरसः सेवामा सरस्तेन कल्पितात्सम्पादितात्परितोषं गतः प्रसन्नः सन्, भवा- .

आविष्कारनाम अष्टादश स्तोत्रम् । . कदा सर्वत्र मम दृशो दर्शनस्य, पदं विश्रान्तिभूभवेद, गलिते देहाभिमाने त्वन्मयमेव विश्वं साक्षात्कुर्यामित्यर्थः ॥ १२ ॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः । सकलं जनवृत्तमाचरेयं रसयन्सर्वत एव किंचनापि ॥ १३ ॥ निवसन्निति । अहं भवदर्चनविधिमात्रे मग्नचित्तः आसक्तः सन, परमामृताब्धिमध्ये चिदानन्दसमुद्रस्यान्तर्वसन, सकलं जनवृत्तं लोकचेष्टितमाचरेयं, कीदृक् सर्वतः सर्वस्यैव मध्याद, किंचनापि अलौकिकमानन्दस्वरूपमभीष्टं रसयन् ॥ १३ ॥ भवदीयमिहास्तु वस्तुतत्वं विवरीतुं क इवात्र पात्रमर्थे । इदमेव हि नामरूपचेष्टा- यसमन्ते हरते हरोऽसि यस्मात् ॥१४॥ भवदीयमिति । इह जगति, यावत्किंचिद्वस्तु तत्सर्वं भवदीयं त्वद्विभूतिरूपमिति, एतदोमिसेवास्तु, अत्रार्थतत्वं विवरीतुं क इव भक्तिमान पात्रं न कश्चित्, यतो यावद्वयं एतद्विचारयितुं प्रक्रमा- महे तावद्यदुपक्रमविचारः तत्त्वदीयमिदमेवासामान्यमनुभवसिद्धं नामरूपचेष्टादि महेश्वर इसादि नामचिद्घनं रूपं सर्वसृष्टिसंहार- कारिणी चेष्टादिग्रहणात्सर्वज्ञता स्वतन्त्रादिरूपस्तत्पथममेव स्फुरत् तद्धरते समावेशवैकल्यापादनेन विस्मृतव्यापारानस्मा- सम्पादयति, युक्तं चैतत् यतस्त्वं हरतीति हर इसन्वर्थनाना १४॥

शिवस्तोत्रावल्याम्
।
शान्तये न सुखलिप्सुता मना-
ग्भक्तिसम्भृतमदेषु तैः प्रभो।
मोक्षमार्गणफलाऽपि नार्थना
स्मर्यते हृदयहारिणः पुरः॥ १५॥
शान्तय इति। भक्त्या सम्भृतो मदो यत्र तेषु त्वदासेषु विषये,
शान्तये दुःखनिवृत्तये, या सुखलिप्मुता भोगस्पृहा, सा मनागपि
नास्ति, भक्तिसम्भृतमदत्वादेव, तैश्च पुरः प्रभो इति साक्षात्कृत-
स्याग्रे, मोक्षमार्गणफलाप्यर्थना न स्मर्यते, कीदृशपभोः हृदयहा-
रिणः मायाप्रमातृतां शमयतः, अत एव येषां हृदयमेव हृतं ते
कथमन्यत्स्मरेयुरिसेषां समावेशपरतैवोक्ता ॥ १५ ॥
जागरेतरदशाथवा परा
याऽपि काचन मनागवस्थितेः।
भक्तिभाजनजनस्य साऽखिला
त्वत्सनाथमनसो महोत्सवः॥१६॥
जागरेति । अवस्थितेर्जगद्व्यवस्थायाः सम्बन्धिनी या
काचित् जागरस्वप्नसुषुप्तदशा,मनागिति सङ्कुचिताऽपि,सा सर्वा,
भक्तिमतस्त्वत्सनाथमनसः त्वदधिष्ठितचित्तस्य, महोत्सवो
महाभ्युदयः, त्वत्सनाथत्वादेव ॥ १६ ॥
श्रामनोऽक्षवलयस्य वृत्तय-
सर्वतः शिथिलवृत्तयोऽपि ताः।
त्वामवाप्य दृढदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम् ॥१७॥

माविष्कारनाम अष्टादशं स्तोत्रम्। १४७ . आमन इति। हे नाथ, आमनो मनःपर्यन्तं, अक्षवलयस्येन्द्रि- यग्रामस्य, वृत्तयो व्यापाराः, सर्वत्र शिथिलत्तयश्चञ्चला अपि यास्ताः, भक्तिधनेन सोष्मणामूर्जस्विनां, त्वां चिद्रूपं,माप्य,दृढा अशिथिलाः दीर्घाश्च त्वदैकात्म्येन त्वद्वदेवावस्थाप्नवः शुद्धबोध- रूपाः, कथमिति स्वात्मन्येवास्य विस्मयः ॥ १७ ॥ न च विभिन्नमसूज्यत किञ्चिद- स्त्यथ सुखेतरदत्र न निर्मितम् । अथ च दुःखिच भेदि च सर्वथा- ऽप्यसमविस्मयधाम नमोऽस्तु ते ॥ १८ ॥ न चेति ।आदिसर्गादौ त्वया न च नैव, किंचिगिन्नम् अस- ज्यत सृष्टं नाप्यस्ति, स्वतो विभिन्नं किंचित, अथशब्दोऽप्यर्थे, सर्वस्य चेत्यमानत्वेन चिन्मयत्वाद्भेदासम्भवः, अथ च मुखे- तरदुःखरूपं न किंचिनिर्मितम् उक्तादेव हेतोः, किंचिच्छन्दस्त्रि- र्योज्यः, अथ चैवं सर्वथैव दुःखि च भिन्नं चापिरेव शब्दार्थः, त्वदैकात्म्याप्रत्यभिज्ञानाच्चैव, एवमसमविस्मयधाम असामान्या- श्चर्यभूमे, ते तुभ्यं, नमोऽस्तु ॥ १८ ॥ खरनिषेधखदामृतपूरणो- च्छलितधौतविकल्पमलस्य मे। दलितदुर्जयसंशयवैरिण- स्त्वदवलोकनमस्तु निरन्तरम् ॥ १९ ॥ खरेति । खरा विषमा या निषेधखदा त्वदख्यातिदरी तस्या अमृतेन त्वदद्वयपीयूषेण यत्पूरणं तेनोच्छलितमुत्प्लावितमत एव धौतं विकल्पमलं यस्य तस्य, तथा दलितश्चूर्णितो दुर्जयः संशय एव वैरी रिपुर्येन तादृशः, सतो मम, त्वदवलोकनं चिघ- नत्वदात्मस्फुरणं, निरंतरं घनमस्तु ॥ १९ ॥ , १४८ शिवस्तोत्रावल्याम् - - । :- स्फुटमाविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् । रभसेन वपुस्तवैव साक्षा- त्परमासत्तिगतःसमर्चयेयम् ॥२०॥ स्फुटमिति । हे नाथ, त्वं तावत्स्फुटं प्रकटं कृत्वा न तु गृहि- तत्वेन, समाविश, अथानन्तरमेवंविधे त्वयि सति, उपजातसाम- योऽस्मि अहं भवन्तं सततमाविशयं गाढावष्टम्भेन स्वीकरोम्ये- वेति नियोगे लिङ्, यस्मादिति एवं सति, परमासत्तिगतोऽति- निकटं प्राप्तस्तवैव, रभसेन त्वरया, साक्षाद्वपुस्तात्विकं स्वरूप, सम्यगर्चयेयं समाविशेयमिति यावत् ॥ २० ॥ त्वयि न स्तुतिशक्तिरस्ति कस्या- प्यथवाऽस्त्येव यतोति सुन्दरोऽसि । सततं पुनरर्थितं ममैत- द्यदविश्रान्ति विलोकयेयमाशम् ॥ २१॥ त्वयीति । कस्यापीति, ब्रह्मोपेन्द्ररुद्रादेरपि भेदमयत्वेन चिद्घनपरमेश्वररूपापत्यभिज्ञानात्, अतिमुन्दर इति, चिदा नन्दघनस्वात्मरूपत्वादतिस्पृहणीयो हृदयहारी, हृदयहारी, अतो यस्त्वा- मात्मानं प्रत्यभिजानाति, तस्य कस्याप्यसामान्यस्य, त्वयि स्तु- तिशक्तिरस्त्येव, कस्यापीत्यावर्त्य योज्यं, मम पुनः स्तोतुस्स- ततमेतदार्थतं बाञ्छितं, यदविश्रान्ति निर्विरामं, त्वामीशं समवलोकयेयम् साक्षात्कुर्यामिति शिवम् ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितौ स्तोत्रावलौ आविष्कारनाम्न्यष्टादशे स्तोत्रे श्रीराजानकक्षेमराजविरचिता विवृतिः ॥१८॥ -- उद्योतनाभिधानमेकोनर्विशं स्तोत्रम् । .. . . ॐ प्रार्थनाभूमिकातीतविचित्रफलदायकः। जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः ॥३॥ ॐार्थनेति । सङ्कल्पतरुर्बाञ्छितमेव ददाति शिवस्तु प्रार्थयितुमशक्यमपीत्यपूर्ववृत्तान्तः ॥ १॥ सर्ववस्तुनिचयैकनिधाना- स्वात्मनस्त्वदखिलं किल लभ्यम् । अस्य मे पुनरसौ निज प्रात्मा न त्वमेव घटसे परमास्ताम् ॥ २॥ सर्ववस्त्विति । त्वदिति, त्वत्तः स्वात्मनः सर्वार्थैकाश्र- यात्किल विश्वं लभ्यम् अस्येति, सदा स्वरूपनिभालनप्रवणस्य मम पुनः परं लभ्यमास्तां, त्वमेव निज आत्मा स्वं स्वरूपं न घटसे व्युत्थानसमये न प्रकाशसे इति यावत् ॥ २॥ ज्ञानकर्ममयचिहपुरात्मा सर्वथैष परमेश्वर एव। स्यादपुस्तु निखिलेषु पदार्थ- ब्वेषु नाम न भवेत् किमुतान्यत् ॥३॥ ज्ञानकर्मेति । सर्ववस्तुषु चिद्वपुर्ज्ञानक्रियात्मा परमेश्वर आत्मैव सर्वेण प्रकारेण त्वधिष्ठानेन वपुः स्वरूपं स्यादस्तीति सम्भाव्यते, एष इति स्फुरदूपः, नंनु विचित्रकार्यकरणानां ना- नादेशस्वरूपाणां कथमेकेश्वरात्मता सम्भाव्यते इत्याह एष वस्तुषु अन्यथा पुनर्नामैव संज्ञैव न भवेत्, किमुतान्यत्कार्यका- रणस्वरूपादिकं प्रकाशमयत्वं विना कस्याप्यासिद्धेरन्यथा इत्यध्याहार्यम् ॥ ३॥ ॥

१५० शिवस्तोत्रावल्याम् विषमातिमुषाऽनेन फलेन त्वङ्गात्मना । अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥४॥ विषमेति । विषमाति संसारतापं मुष्णाति यस्त्वदुगात्मा त्वत्साक्षात्काररूपः पन्था तेन, मे अभिलीय, फलेन फलतः, त्वन्मयी त्वदेकरूपा, गतिः प्राप्तिरस्तु, भुत्का देवदत्तगमनमिति वत्, अभिलीयेत्यत्र कामत्यये योजयित्वा परतोऽस्त्विति योज्यम् अभिलीलेति पाठे अभिलीलस्फुरच्चिदानन्दविलासेति व्याकर्तव्यम् ॥ ४॥ भवदमलचरणचिन्तारत्नलता- ऽलङ्कता कदा सिद्धिः। सिद्भजनमानसानां विस्मयजननी घटेत मम भवतः ॥५॥ भवदिति । भवतोऽमलाः शुद्धा चरणाः ज्ञानक्रियादि- मरीचयस्तेषु चिन्ता पुनः पुनर्निभालनं सैव सर्वसम्पत्पदत्वा- द्रबलता, अलङ्कता सम्प्राप्ततत्तदनेकशःशोभा, कदा मम पूर्णा सिद्धिर्घटेत भवतः सकाशात्कीदृशी सिद्धजनमानसानां योगि- चित्तानां विस्मयजननी ॥५॥ कर्हि नाथ विमलं मुखबिम्ब तावकं समवलोकयितास्मि । यत्स्रवत्यमृतपूरमपूर्व यो निमन्जयति विश्वमशेषम् ॥६॥ कहींति । व्युत्थानावस्थितस्येयमुक्तिः, कर्हि नाथ विमलं मुखविम्बं परं शान्तरूपं, तव समवलोकयितास्मि साक्षात्कार- ये .. . उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । ष्यामि, अमृतपूरमानन्दपसरमपूर्वमलौकिक लोकयितृलोक्य- रूपं विश्वं निमज्जयति ॥ ६॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः। पूरयेत्त्वदविभेद विमोक्षा- ख्यातिदूरविवराणि सदा मे ॥७॥ थ्यातमात्रमिति । त्वदविभेद एव मोक्षः भेदबन्धापगमः तस्याख्यातिरप्रथा तदीयानि दूराणि विवराणि गहनान्या- काङ्क्षामयानि गर्तानि, कर्हि कदा, मे ध्यातमात्रमुदितं चिन्त- नानन्तरमेव विकसितं, तत्तव सम्बन्धि रूपं कर्तृ, सदा परमा- मृतपूरैरानन्दविसरैः, पूरयेदाप्लावयेत् ॥ ७ ॥ त्वदीयानुत्तररसासनसन्त्यक्तचापलम् । नाद्यापि में मनोनाथ कर्हि स्यादस्तुशीघ्रतः॥८॥ त्वदीयेति । त्वदीयोऽनुत्तरो रसः परचित्मसरः तदासङ्गः तत्परत्वं तेनापि सन्त्यक्तचापलं गलितव्युत्थानम्, अद्यापीति असकृदास्वादितेऽपि समावेशे, कर्हि शीघ्रं स्यादित्यादि गाढोत्कण्ठापरत्वं सूचयति ॥ ८॥ मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा । तवोपहृत्यं लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥९॥ मेति । तवोपहृत्य लब्धानि चिन्मयत्वेन त्वय्यनुप्रविश्य व्युत्थाने समावेशसंस्काररसास्वादान्यासादितानि, परं सर्व- कालं, सर्वाणि द्वन्द्वान शीतोष्णादीन्यपि, आपतन्तु, शुष्कक- टुकान्येच पुनस्त्वदद्वयस्पर्शामृतपूर्णत्वादूक्षदुःस्वादपायाणि॥९॥ . . .

१५२ शिवस्तोत्रावल्याम् Nive नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः । यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥१०॥ नाथेति । सांमुख्यमायान्तु देहादिप्रथां निमज्य प्रस्फु- रन्तु, शुद्धा अनुग्रहपरा, रश्मयः शक्तयः कायमनस्तापतमोभि- रिति कायमनस्तापा एव तमांसि तैः, परिलुप्यतां समन्तान- श्यताम् ॥ १० ॥ देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः। परमार्थमुषो वश्या भवेयुर्गुणतस्कराः ॥ ११ ॥ देवेति । प्रसादः प्राग्वत्, त्वन्मार्गपरिपन्थिकाः परमार्थ- शाक्तभूमिप्रवेशरोधिनः, अत एव परमार्थं चिदभेदं मुष्णन्त्य- पहरन्त्यनुपभोग्यं सम्पादयन्ति ये, गुणाः सत्त्वादय एव तस्क- राः ते, वश्या भूयासुः, तदुक्तम् “गुणादिस्यन्दनिष्पन्दाः स्यु- स्यिापरिपन्थिनः" इति प्रसीद, भूयासुरिति लोड्लिङमै सम्भूय आशीविशिष्टां प्रार्थनां गमयतः, यथा लुनीहीत्यादौ लोड्वचने कर्मव्यतिहारादेवमन्यत्रापि स्मर्तव्यम्, स्वामिनि प्रसन्ने चौरा वश्या भवन्तीति लौकिकार्थः स्पष्ट एव ॥ ११ ॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो। यावदिभास्तुह्यन्ते निःशेषासारवासनाःप्लुत्वा॥१२॥ त्वद्भक्तीति । मानसं चित्तं सरश्च, असाराः कुत्सिताः, सरस्यप्यासारैः पूरित असारवासनाः कटूदकवासनाः, प्लुत्वो- त्पत्य, स्वयमेव तुह्यन्ते बहिनिःसरन्ति ॥ १२ ॥ मोक्षदशायां भक्ति- स्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा। -- .

१५३ . उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । राजात ततोऽनुरूपा- मारोपय सिद्धिभूमिकामज माम् ॥ १३ ॥ मोक्षेति। मोक्षदशा परमशिवता जीवन मुक्तता तन्त्रोक्तप्रा- यता यदनेनैवोक्तम् “तामासाद्य दशां रूढा मुक्तकल्पा वयं तत" इति, मर्त्यधर्मिण इत्यप्रत्यभिज्ञातात्मस्वरूपस्य, अनुरूपामिति प्राग्वद्रुद्रशक्तिसमावेशमयीं, परमसिद्धिभूमि तत्रैव प्रभुदासभा- वस्य स्फुटं स्फुरणात् ॥ १३ ॥ सिद्धिलवलाभलुब्धं मामवलेपन मा विभो मंस्थाः। क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १४ ॥ सिद्धीति । समावेशात्मक पूर्णसिद्धयपेक्षया भेदमयाणि- मादयः सिद्धिलवास्तल्लाभे लुब्धं मा स्थाः, अवलेपेनेति, सिद्धिलवलुब्धमाकलय्य मावलेपं कुर्या इति यावत्, ननु पार- मेशनये साधकानां सिद्ध्युपभोगानन्तरं "भुत्का भोगांश्छिवं व्रजेत्" इत्याम्नायेषु शिवतैव श्रूयते, तर्हि मन्दा रुचिरित्याशङ्कय युक्तिमाह प्रोल्लसदणिमादिपक्षादनन्तरं यो मोक्षस्त्वद्भक्तिमुखे त्वत्समावेशानन्दस्य पुरतः, क्षामः अत्यल्पः ॥ १४ ॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः॥ १५॥ दासस्येति । एतावदिति न तु आणिमादि, प्रसीदतु याचे। २० शिवस्तोत्रावल्याम् स इति, त्रिभुवनं प्राग्वत्, यस्येत्यसम्भाव्यस्य फलस्य तत्फलं समिति न मादृशां दृश इति बुद्धः ॥ १५ ॥ त्वदपुः स्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् । मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम् ॥ १६ ॥ त्वदिति । पादाम्बुजयुग्मं प्राग्वत्, विकसनेदसङ्कोचमुज्ज्ञ, मधु परमानन्दरूपं माधुर्यम्, अतिलोकमलौकिकं, रसपूर्णे च मानसे अम्बुजं विकसन्मधु स्रवति ॥ १६ ॥ अस्तु मे प्रभुरसौ जनकोऽध व्यम्बकोऽथ जननी च भवानी। न द्वितीय इह कोऽपि ममास्ती- त्येव निर्वृततमो विचरेयम् ॥ १७ ॥ अस्त्विति । असाविति चिद्घनो मे प्रभुरनुग्राहकः जनकः प्रमातृतोल्लासकश्च त्र्यम्बकस्तथा भवानी पराशक्तिः जननी प्रभ्वी चास्तु, ईदृशस्यैव प्रत्यभिज्ञातमहेश्वरस्वरूपस्य मे इह जगति न द्वितीयः कोऽप्यस्ति, ममेति शेषे षष्ठी, इत्येव एतावतैव, निस्ततमोऽत्यर्थं प्रमुदितो, विचरेयं विहरेयमिति शिवम् ॥ १७॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावुद्योतनाभिधानकोनविंशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ १९ ॥ m चर्वणाभिधानं विंशं स्तोत्रम् । -- ॐ नार्थ त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् । उपवीतीकृतभोगिन- मिन्दुकलाशेखरं वन्दे ॥ १ ॥ ॐ नाथमिति । त्रिभुवनं प्राग्वत्, भूतिविश्वमयी विभूति- स्तया सितं सम्बद्धं पिञ् बन्धने इसस्य सितशब्दः, त्रीणि इच्छाज्ञानक्रियाख्यानि नयनानि यस्य, भेदोद्दलनहेतोः प्रज्व- लज्ञानरूपस्य त्रिशूलस्य धारकम्, उप समीपे वीतीकृताः विशेषणेताः कृताः संहृताश्च भोगिनः प्रसरा येन, वीतः वी गतावि- सस्य प्रयोगः, इन्दुकला विश्वजीविनी चितिशक्तिः शेखरं मुख्य रूपं यस्य, समग्रमेयमयी इन्दुकला वा स्वातन्त्र्यप्रथने हेतुत्वात् शेखरः क्रीडार्थमाहार्य मण्डनं यस्य, तं वन्दे इति माग्वत, वाय- क्रमेण स्पष्टार्थः॥ १॥ नौमि निजतनुविनिस्सरदंशुक- परिवेषधवलपरिधानम् । विलसत्कपालमाला- कल्पितनृत्तोत्सवाकल्पम् ॥ २ ॥ नौमीति । निजतनुश्चिन्मयं रूपं ततो विनिःसरन् स्फुरन अंशुकपरिवेषो रश्मिपुञ्जप्रसर एव धवलं शुद्धं परिधानं प्रावरणं यस्य, प्रसरत्यकृतिः शिव इति स्थित्या स्वशक्तिचक्रेण सततमा- श्लिष्टमित्यर्थः, विकसन्त्या स्वात्मनियोजनेन देदीप्यमानया विलसन्त्या स्फुरन्त्या कपालमालया सदाशिवादिसकलान्ता- शेषप्रमातृमुण्डमालया कल्पितो नृत्तोत्सवे स्वातन्त्र्यविजृम्भा- भ्युदय आकल्पो मण्डनं येन, बाह्यक्रमः स्पष्टः ॥ २ ॥ - .

१५६
शिवस्तोत्रावल्याम्
वन्दे तान् दैवतं येषां
हरश्चेष्टा हरोचिताः।
हरैकप्रवणाः प्राणाः
सदा सौभाग्यसझनाम् ॥ ३ ॥
वन्दे इति । हरोचिताः सृष्टिसंहारानुग्रहादिरूपाः, हरैक-
प्रवणाः नित्यतत्समावेशरसिकाः, प्राणा जीवितमत एव सौभा-
ग्यसमत्वं परमानन्दपूर्णत्वेन विश्वस्पृहणीयत्वात् ॥ ३ ॥
क्रीडितं तव महेश्वरतायाः
पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदाने
प्वात्मना परमुपायमुपैमि ॥ ४ ॥
क्रीडितमिति । समावेशस्फारेण जगत्क्रीडात्वेन पश्यतेय-
मुक्तिः । तव महेश्वरतायाः पृष्ठत एवोपर्यवान्यदिदं क्रीडितं, य-
थैतदिति प्रदर्शनार्थे, इष्टमात्रघटितेषु इच्छामात्रसम्पन्नेषु, अव-
दानेषु अद्भुतकर्मसु त्वदीयपञ्चविधकृत्यात्मसु चरितेष्वहमा-
मना स्वयमेव, परिपूर्णमुपायं स्वबलाक्रमणमुखेऽपि प्राप्नोमि,
त्वत्समावेशात्स्वं चिद्रलमाक्रम्य त्वद्वदहं पञ्चविधकृत्यकारी यत्
तत्तवापरं क्रीडितमित्यर्थः, एवकारो भिन्नक्रमः ॥ ४॥
त्वद्धानि विश्ववन्येऽस्मि-
नियति क्रीडने सति ।
.
तव नाथ कियान् भया-
नानन्दरससम्भवः ॥५॥

चर्वणाभिधानं विंश स्तोत्रम् । त्वदिति । विश्ववन्धं यत्त्वद्धाम वन्महः तत्रान्तरियति विश्वात्मन्यस्मिन्नियति क्रीडने सति, तव भूयानिति अनल्पः, स्वानन्दानुरूपमेव सर्वः क्रीडति, यस्य चेद्विश्वं क्रीडा तस्य अपर्यन्त एवानन्द इति स्वात्मनस्तदासतया श्लाघां व्यनक्ति, अत एव नाथेत्यामन्त्रणम् ॥ ५ ॥ कथं स सुभगो मा भू- यो गौर्या वल्लभो हरः हरोऽपि मा भदथ किं गौर्याः परमवल्लभः ॥६॥ कथमिति । सुभगः सर्वस्य स्पृहणीयः, गौर्याः परस्याः शक्तेः, वल्लभः स्पृहणीयः स आनन्दधनः परया भट्टारिकयाऽऽलि- ङ्गित इत्यर्थः, हरः समावेशचमत्कारेण हृदयहारी द्वैतपदस्य संहर्ता च यः, परशक्तेः परमवल्लभ एव॥ ६ ॥ ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् । संविल्लतास्तथारूपा- स्तस्य कस्यापि सचरोः ॥ ७ ॥ ध्यानेति । यस्य समावेशशालिनः, स्वात्मनो मूलं कारणं, ध्यानामृतमयं स्वरूपगोपनोन्मुखचिदानन्दसारप्रत्यभिज्ञातशि- वभट्टारकस्वरूपं, यथोक्तमास्ति 'प्रभुरसौ जनको वा' इत्यादि, अनश्वरं चिद्रूपतयैव नित्यं, तस्य कस्याप्पतिदुर्लभस्य सत्तरोः सन्तापहारिणः शोभनपादपस्य, संविल्लताः नीलसुखादिज्ञानानि तथारूपा इति ध्यानामृतमय्य एव ॥ ७॥ ।

शिवस्तोत्रावल्याम् - भक्तिकण्डूसमुल्लासा- वसरे परमेश्वरः । महानिकषपाषाण- स्थूणापूजैव जायते ॥८॥ भक्तीति । भक्तिर्भगवदनुराग एवं वैवश्यदायित्वात्कण्डू- स्तस्याः समुल्लासे, पूर्वनिर्णीता पूजैव, महानिकषपाषाणस्थूणा निघर्षोपलमयो महास्तम्बः, भक्तिकण्डूं यः प्रशमय्य आनन्द- घनस्वात्मविश्रान्तिहेतुर्जायते इयर्थः ॥ ८ ॥ सदा सृष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहार- तृप्ताय स्वामिने नमः॥६॥ सदेति । “तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भा न्तमेवान्तराँघमिच्छया भासयेद्वहि " रिति स्थित्या देहादिमा- विशतोऽपि भगवतः प्रतिक्षणं तत्तदनन्तग्राह्यग्राहकाद्याभास- संयोजनावियोजनक्रमेण सृष्ष्ट्यादिहेतुत्वं च मया स्पन्दसन्दो- हे वितन्य निर्णीतमिति स एवावेक्ष्यः ॥ ९ ॥ न क्वापि गत्वा हित्वाऽपि न किंचिदिममेव ये। भवं त्वद्वाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ १० ॥ नेति । एकान्तद्वादशान्तादिपदं परलोकं चागत्वा, भोगा- ॥ - चर्वणाभिधानं विशं स्तोत्रम् । १५६ नधरभूमीः शरीरं च त्यत्का, इममेवाप्रबुद्धानां हेयाभिमतं, त्व- द्धाम चिद्धनं ये पश्यन्ति, भव्याः दिव्यमहार्थदृष्टयाविष्टा- स्तेभ्यो नमो नमः वीप्सयैषामेव परतत्त्ववित्वं ध्वनति ॥१०॥ भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् । एतया वा दरिद्राणां किमन्यदुपयाचितम् ॥ ११ ॥ भक्तीति । किमन्यदिति प्राप्तव्यस्य प्राप्तवान्नास्त्येवा- न्यद्याचितव्यं, किमन्यदिति परमार्थस्यानासादनाकिमन्येना- सारपायेणेत्यर्थः ॥ ११ ॥ दुःखान्यपि सुखायन्ते विषमप्यमृतायते । मोक्षायते च संसारो : सशाङ्करः ॥ १२ ॥ दुःखानीति । त्र्ययमप्येतच्चिदानन्दघननिजबलाक्रमणादेव भवति, मार्गपदं शाक्तपदवाचकम् ॥ १२ ॥ मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषां। तथाऽपि वयमीशान सीदामः कथमुच्यताम् ॥ १३ ॥ मूले इति । प्राग्वत् व्युत्थानावस्थितस्योक्तिः, मूले मध्ये ऽवसाने इति, संविदुदयप्रसरविश्रान्तिषु सीदामः व्युत्थानेना- भिभूयामहे ॥ १३॥ । यत्र मार्गः १६० शिवस्तोत्रावल्याम ज्ञानयोगादिनाऽन्येषा- मप्यपेक्षितुमर्हति । प्रकाशः स्वैरिणामेव भवान्भक्तिमतां प्रभो ॥ ११ ॥ ज्ञानेति । प्रभो केषांचित् ज्ञानयोगक्रियाद्युपायर्भवान् स्फुरति, भक्तानां पुनः स्वैरिणामुपायानपेक्षिणां त्वत्समावेशा त्याप्तत्वमहिम्नां च भवान्प्रकाशस्वभावः सदेति यावत् ॥१४॥ भक्तानां नार्तयो नाप्य- स्त्याध्यानं स्वात्मनस्तव । तथाप्यस्ति शिवेत्येत- किमप्येषां बहिर्मुखे ॥ १५॥ भक्तानामिति । आर्तयः क्लेशाः, आध्यानं प्राप्त्यभिलाषण चिन्तनं, तव स्वात्मन इति स्वात्मतयैव स्फुरतः, तथापीति भक्तत्वादेव किमपीति परमानन्दैकात्म्यव्यञ्जकं निनिमि- तं च ॥ १५ ॥ सर्वाभासावभासो यो विमर्शवलितोऽपि सन्। अहमेतदिति स्तौमि तां कियाशक्तिमीश ते ॥ १६ ॥ सर्वेति । अहमेतदिति अखिलं यः सर्वाभासाऽवभासः सदा विश्वेश्वरप्रकाशः, कीदृग् विमर्शेन परमानन्दचमत्कारेण वलितो बृहितः, क्रियाशक्तिमीशशक्तिमीश ते, स्तौमि इति पारवत् ॥१६॥ --- चर्वणाभिधानं विंशं स्तोत्रम् । १६१ म - वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः। ग्रस्यमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ १७ ॥ वर्तन्ते इति । अपि ब्रह्मेन्द्रविष्णव इति सृष्टिस्थितिका- रिणः प्रसिद्धाः आसतां रुद्रादयस्तेऽपि यावदशेषा जन्तवः क्षेत्रज्ञाः ग्रसमाणाः सदा स्वविषया अतिप्रवणावर्तन्ते ॥ १७ ॥ सतो विनाशसम्बन्धा- न्मत्परं निखिलं मृषा। एवमेवाद्यते नाथ त्वया संहारलीलया ॥ १८॥ सत इति । हे नाथ, संहारक्रीडया एवमेवोच्यते मत्तच्चिदे- करूपात्परमुल्लासितस्वभावत्वादधिकमिव यत्किञ्चित्सदाशिवान्तं तन्मृषा न पृथग्भवतीयर्थः, यतः सतोऽनधिकस्याप्याधिक्येन आ- भासमानस्य विनाशेन सम्बन्धाचिदात्मन्येव विगलितत्वेन स्थितिर्भवति, तदुक्तम् “यत्सदाशिवपर्यन्तम्" इसादि "विनाशो- त्पत्तिसंयुतम्" इसन्तं तथा “कार्यताक्षयिणी तत्र" इसादि॥१८॥ ध्यातमात्रमुपतिष्टत एव त्वदपूर्वरद भक्तिधनानाम् । अप्यचिन्यमखिलाद्भुतचिन्ता- कर्तृतां प्रति च ते विजयन्ते ॥ १९ ॥ ध्यातमात्रमिति । मितयोगिमिश्चिन्तयितुमशक्यमपि यत्स्वरूपं -- १६२ . शिवस्तात्रावल्याम् भक्तिधनानां ध्यातमात्रमुपतिष्ठते ध्यानसमनन्तरमेव सन्निधीयते इयर्थः, तेच भक्ताः आखिलायाः अद्भुतचिन्तायाः कर्तृतां प्रति वि- जयन्ते त एवासामान्यविस्मयप्रवर्तकाः सर्वोत्कर्षिण इयर्थः॥१९॥ तावकभक्तिरसासव- सेकादिव सुखितमर्ममण्डलस्फुरितैः। नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ २० ॥ तावकेति । बाह्योऽर्थः स्पष्टः । वीरजनः विदारितसंसारम- हापशुः भक्तलोको, निशि मायामध्य एव, नृसति चिद्विकासेन विलसतितराम्, कथं तावकभक्तिरसासवसेकात् त्वत्समावेशामृ- तसेकादिव, सुखितानि आनन्दनन्दितानि मर्ममण्डलानि पाशः सञ्चयास्तेषां सम्बन्धिभिः स्फुरितैरासनमुद्रासदृशैः वेतालकुलै- पशुहृदयाच दृक्प्रययोदयानुवर्तिशक्तिशतैः, कृतोत्साहः परि- पोषितचिदभ्युदय इति शिवम् ॥ २० ॥ प्रारब्धा भवदभिनति- रमुना येनाङ्गकेन मम शम्भो । तेनापर्यन्तमिमं काल दृढमखिलमेव भविषीष्ट ॥२१॥ आरब्धेति । कचिदप्यसदृशशैलीदर्शनादनार्ष इवायं श्लो- कस्तथाऽपिव्याख्यायते।अमुनाचिदद्वयसमावेशोत्कर्षप्रदर्शिना, येनाङ्गकेन सर्वजनासंलक्ष्येण प्रकारेण, शम्भो तव स्तुतिरा- रब्धा, तेन प्रकारेणापर्यन्तमिममखिलं, कालं दृढमविचलं, कृत्वा ऽसौ भविषीष्ट प्राप्नुयात्, भूमाप्तावियस्य रूपमिति शिवम्॥२१॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ चर्वणास्तोत्रे विंश श्रीक्षेमराजकृता विवृतिः ॥ २० ॥ . aar चर्वणाभिधानं विशं स्तोत्रम् । १६३ ॐ तत्सत् । क्लेशान्विनाशय विकासय हृत्सरोज- मोजो विजृम्भय निजं नरिनर्तयाङ्गम् । चेतश्चकोरचितिचन्द्रमरीचिचक्र- माचम्य सम्यगमृतीकुरु विश्वमेतत् ॥१॥ श्रुतिपथमितामुक्तिश्रेणी धुनोति भवातपं निरुपमपरानन्दव्याप्ति तनोति च तत्क्षण । इयमिति विभोः शम्भोर्भक्सा परं परमेष्ठिनो विहितललितव्याख्याऽस्माभिः कृतार्थिजनार्थितैः ॥२॥ विश्वत्रयेऽपि विशदैरसमस्वरूपैः शास्त्रैस्तथा विवरणैः ग्रथितैव कीर्तिः। तस्माद्गुरोरभिनवात्परमेशमूर्तेः क्षेमो निशम्य विकृति व्यतनोदमुत्र ॥३॥ ॐ तत्सत् ॥

Shivstrotavali

Author
Mitra Kalicharan
Other authors
--
Title
Shivstrotavali
File name
Shivstrotavali
Text
OCR done
Citation
1903
Published
9/12/05
Publisher
Tara Printing Press
Language
Sanskrit
Pages
163
Library
Jayakar Library , Pune
Classification
Religion
DLI number
496160
Barcode
1999990083035.00
Scanning centre
Pune University
Digital publisher
Jayakar Library , Pune
Rights
Author
VMLT id
wmlrtWqg0DS
Download PDF

Shivstrotavali