Central Archaeological Library_asi_new Delhi

The Manushyalaya Chandrika 1917

T Ganapati Sastri

PDF Proofread

Front matter

TRIVANDRUM SANSKRIT SERIES.
NO. XXXV.
THE
MANISÁRA
(ANUMANAKHANDA)
GOPÎNÂTHA
EDITED
T. GANAPATI SÂSTRÎ
Curator of the Department for the publication of Sunskrit manuscripts,
TRIVANDRUM.
22911
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE,
72842
SalN
Gopi San
TRIVANDRUM:
PRIN TXD AT THE TRAVANCORE GOVERNMENT PRESS.
1914
(All Rights Reserved.)

CENTRA. AINOLOGICAL
LIBRAR)
DELBIL.
2391)
te
2..7. 56.
Wall No...
Sal N...Gefal Game

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ३५.
मणिसारः
(अनुमानखण्डः)
श्रीगोपीनाथविरचितः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिश्यस्त्रिणा
संशोधितः ।
NE
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोळम्बाब्दाः १०८१, क्रस्ताब्दाः १९१४.

No text on this page.

PREFACE. The Manisara gives a description of the substance Tattva chintamani, the well-known work on Nyaya of Gangesopådhyâya ; and the Amumå mukhanda of this work is now placed be fore the public. The Pratyaksha-Khanda of the work is often referred to in this volume lay the word 2ATIUUR, but this has not come to our hands; while the Sabda-Khanda obtained by us is incomplete. The clition of Anumankhauda is based on two palm-leaf manuscripts, one of which (marker s.) in Malayalam character belongs to Panthralaun Palace, and it is incomplete and somewhat incorrect. The other manuscript (marked a.) lent by Mr. Sakti Sastrial of Avikkudi is in Tamil Grantha character, and complete and correct. The author of the Manisára is Gopinatha. The colophon in the Tarkabhashaprakasika, a conumentary on Tarkabháshå of Kesavamisri. Heye;" "सोमसुतकुलसमुद्भतमहोपाध्यायभवनाथकुमारसुतगोपीनाथ- विरचित्तायां तर्कभाषाप्रकाशिकायो" shows that the commentary was written by a Gopinátha, son of Bhavanathakumara. The author of the Manisåra and of Tarkablashåprakasikå might be identical ; for in dealing with the subject Arthápatti sperifer) in Tarkabháshaprakásika, the author says:- " अर्थापत्तिनप्रमाणं मानाभावात् । यथा चैतत् qui slaniran aforait, that is, the subject has been explained by him in Manisara. Gopinatha often refers to Pakshadharamisri, the author of Aloka, a commentary on Tattnachintamani, and Pakshadhara - misra who is the same as Jaya leva, the author of the play calleil Prasanmaraghava lived in the 16th Century A. D. The father of Sankara nisra, the author of Kanādarahasya and other works on Nyaya is known as Bhavanatha. If the Bhavanatha mentioned by Gopinatha be identical with the father of Sankaramisra, Gopinátha mnight then be a contemporaneous kinsman of Sankara - misra. The latter (Sankaramisra) is the fourth in the succession of the pupils of Vasudeva Bhattacharya, the fellow-student of Jayadeva, and might therefore be placed a century later than Jayadeva. Trivandrum. T. GANAPATI SÍSTRÍ.

No text on this page.

निवेदना। एष श्रीगङ्गशोपाध्यायेन प्रणीतस्य तत्वचिन्तामणिनाम्नो न्यायग्रन्थस्य सारप्रतिपादको मणिसारो नाम , यस्यायमनुमानखण्ड इदानी प्रकाश्यते । अनुमान- खण्डे प्रत्यक्षमणिसारशब्देन तत्र तत्रास्य प्रत्यक्षखण्डः स्मयते । किन्त्वसौ नोप- लब्धोऽस्माभिः । शब्दखण्डस्त्वस्मद्वशेऽस्ति । परं तु सोऽसमन्नः । अनुमानखण्डस्य संशोधनाधारभूतावुभावादी । तत्रैकः पन्तलराजसम्बन्धी केरलीयलिपिरसमग्रो नातिशुद्धः क. संज्ञः । अन्यस्तु आयकुटि शक्तिशास्त्रिस्वामिकः समनः शुद्धो द्रमि- लग्रन्थलिपिः ख. संज्ञः। अस्य प्रणेता श्रीगोपीनाथः । केशवमिश्चकृतायास्तर्कभाषाया व्याख्यायां तर्कभाषाप्रकाशिकायां " सोमसुतकुलसमुद्भुतमहोपाध्याय भवनाथकुमारसुतगोपी- नाथविरचितायां तर्कभाषाप्रकाशिकायां प्रमाणपरिच्छेदः समाप्तः” इति सविशे षणो यो गोपीनाथः कीर्त्यते , म एवायमिति प्रतिभाति . यस्मात् तर्कभाषामका- शिकायां स्वकर्तव्यतया प्रसक्तमर्थनिरूपण स मणिसारे कृतं मन्यते । तत्र ह्या- पत्तिविचारे स एवमाह --- "अर्थापत्तिर्न प्रमाणं , मानाभावात् । यथा चैतत् तथा प्रतिपादितं मणिसारे" इति । एष मणिसारे पक्षधरमिश्रं तच्चचिन्तामणिव्या- ख्यानस्यालोकस्य कर्तारं बहुशः स्मरति । पक्षधरमिश्र इति जयदेवमिश्र एवो- च्यते । तमेव प्रसन्नराघवनाटकस्यापि कर्तारं वदन्ति । स च ऊस्ताब्दीये षोडशे शतके स्थित इति प्रसिद्धम् । कणादरहस्यादिकः शङ्करामिश्रस्य पिता कश्चन भवनायः श्रूयते । अयं गोपीनाथनिर्दिष्टाद् भवनाथाद् यदि न भिन्नः , तर्हि गोपीनाथेन शङ्करमिश्रस्य समकालेन दायादेन भवितव्यम् । शङ्करमिश्रस्तु जय- देवसहाध्यायिनो वासुदेवभट्टाचार्यसार्वभौमस्य शिष्यपरम्परायां चतुर्थो गण्यत इति जयदेवाच्छतावरवर्षीर्वाचीनः सम्भाव्यते । । अनन्तशयनम् . त. गणपतिशास्त्री. * सप्तमं पृष्ठ दृश्यताम् ।

No text on this page.

॥श्रीः॥ गोपीनाथविरचितः मणिसारः। अनुमानखण्डः। सङ्गतिग्रन्थः। क्रीडाकोपकथायमायतमपाक मते शहरे सद्यः स्मरचमूरुलाञ्छनकलासम्पर्कसङ्कोचिताः । सावष्टम्भसुरारिसविविधामकारकुटच्छिदो रुद्राणीचरणारविन्दरुचयो विघ्नं विनिघ्नन्तु नः ॥ निर्गलितं मणिमध्यादालोकादौ च विस्तीर्णम् । निष्कृष्य युक्तिसारं गोपीनाथस्ततस्तनुते ॥ प्रत्यक्षानुमानयोरुपजीव्योपजीवकभावसङ्गत्या प्रत्यक्षानन्तरमनुमानं निरू- प्यते । यद्यपि लिङ्गपक्षव्याप्त्यादिज्ञानानामनुमितिरूपत्वनियमेऽनवस्थाप्रसङ्गेन प्रत्यक्षरूपत्वमङ्गीकरणीयमेव । अतीन्द्रियमाभ्यकादिस्थलेऽपि परम्परया प्रत्यक्षापे- क्षित्वमिति यथा , तथानुमित्युपनीतप्रत्यक्षे अदृष्टद्वारा जन्यप्रत्यक्षमात्रे चानुमि. तेरप्युपजीव्यत्वमस्तीति तन्निरूपणमेव प्रथममस्तु । तथाप्यनुभवत्वव्याप्याया यज्जा- तेः प्रमाणविभाजकत्वं, तदवच्छिन्नं प्रत्युपजीव्यत्वमिह विवक्षितम् । अस्ति चानुमितित्वावच्छिन्ने प्रत्यक्षस्य तथात्वं , न तु प्रत्यक्षत्वावच्छिन्नेऽनुमितेरपि, ईश्वरप्रत्यक्षे तदभावात् । एवमनुमितिकरणस्य व्याप्त्यादिज्ञानस्यापि प्रत्यक्षोपजीव- कतानियम एव, न तु प्रत्यक्षकरणस्यापि तदुपजीवकत्वं नियतं, श्रोत्रादौ तद- भावादिति । वस्तुतस्तु प्रत्यक्षानुमानयोरुभयोरप्युपजीव्योपजीवकभावादुभयत्रापि सङ्गतिरस्तु । न चैवमनुमाननिरूपणस्यापि प्राथमिकत्वापातः । निरूपणप्राथm. 1 मणिसारानुमानखण्डे भ्यस्येच्छाधीनतया सत्यनियम्यत्वात् । सङ्गतेश्च पूर्वापरग्रन्थैकवाक्यतामात्रप्र- योजकत्वात् । अन्यथा दश दाडिमानीतिवद् उपेक्षणीयतापत्तेः । यद्वा आनन्त- याभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयः सङ्गतिः । तच्च यद्यपि कारणत्ववत् कार्यत्वमपि , कारणे निरूपिते किमस्य कार्यमिति जिज्ञासावत् कार्ये निरूपिते किमस्य कारणमिति जिज्ञासाया अपि भावात् , तथापि निरूपणप्रा- थम्ये इच्छैव नियामिकेत्युक्तम् । एवमनुमानोपमानयोरप्युपजीव्योपजीवकभाव एव सङ्गतिः । लाघवज्ञानसहकारेण गवयपदस्य गवयत्वविशिष्टे शक्तिज्ञान- मेव ह्युपमितिः । सा च शक्तेः पूर्व ज्ञाने सति स्यात् । तज्ज्ञानं च नानुमान- मन्तरेण , शक्तेरीश्वरेच्छाया अतीन्द्रियत्वात् । तथा चोपमितित्वावच्छिन्नो- पजीव्यत्वमेव तत्रापि नियामकमिति क्वचिदनुमानस्यापि तदुपजीवकत्वे न दोषः । यद्वा सङ्गतरुभयसाधारण्येऽपि प्रागुक्तरीत्या अनुमाननिरूपणप्राथम्यामिति दिक् ॥ इति सङ्गतिग्रन्थः। अथानुमितिलक्षणम् । 'तत्रानुमितिकरणत्वमनुमानत्वम् । अनुमितिश्च व्याप्तिविशिष्ट पक्षधर्मता- ज्ञानजन्यं ज्ञानमिति मणिकृतः । नन्विह कः समासः । न तावद् व्याप्तिविशिष्टः पक्षधर्मश्चेति द्वन्द्वः । प्रमानुमित्यव्याप्तेः । वास्तवपदार्थभेदस्थल एव तस्य भा- वात् । अत्र च तदभावात् । न च ज्ञाप्यपदार्थभेदे द्वन्द्व इत्यपि । तथा सत्य- संभवात् । परामर्शस्याभेदावगाहितयान्योन्यभेदानवगाहित्वात् । नापि कर्मधार- यः । तथा सति भ्रमानुमित्यव्याप्तेः । कर्मधारयस्य पदार्थाभेद एव भावात् । तत्र च तदभावात् । अत एव न षष्ठीतत्पुरुषोऽपि । भ्रमानुमित्यव्याप्तेर्दुष्परि- हरत्वादिति। । अत्र पक्षधरमिश्राः ---द्वन्द्व एव समासः । न चोक्तदोषः । पदार्थभेद इव पदार्थतावच्छेदकभेदेऽपि तस्य साधुत्वात् । प्रयोगानुरोधेन व्याकरणस्मृति- प्रवृतेः । तस्य चोभयत्र दर्शनात् । अन्यथा नीलघटयोरभेदः संसर्ग इत्यादौ । अनुमितिलक्षणम् । साधर्म्यवैधाभ्यां तत्त्वज्ञानं निःश्रेयसहेतुरित्यादौ च का गतिः । तथा च प्रमा- नुमितावपि पदार्थतावच्छेदकभेदसत्त्वाद् नाव्याप्तिः । यद्वा व्याप्तिविशिष्टादिपदं व्याप्तिविशिष्टत्वादिपरम् । तथा च पदार्थभेदेनैव द्वन्द्व इति पक्षेऽपि नानुपपत्तिः । न चैवमन्यत्र व्याप्तिविशिष्टत्वमन्यत्र पक्षधर्मत्वं च गृहीतं यत्र , ततस्तदनुव्य- वसायः, तत्रानुव्यवसायेऽतिव्याप्तिरिति वाच्यम् । एकत्र धर्मिणीति विशेषणदा- नात् । अत एव व्याप्तिविषयकं पक्षधर्मताज्ञानमित्यपि । ज्ञानेन सह एकत्रेति विशेषणस्य तत्राप्यावश्यकत्वादिल्याहुः । अत्रेदं शङ्कयते एवं सत्येकशेषस्य द्वन्द्वापवादकता न स्यात् । पदा- थतावच्छेदकस्य घटत्वस्य भेदाभावेन द्वन्द्वप्रसक्तेरेवाभावात् । निषेधस्य प्रसक्ति- पूर्वकत्वात् । किञ्च ‘सर्वो द्वन्द्वो विभाषैकवद् भवती'त्यपि व्यर्थ , पदार्थतावच्छे- दकभेदस्थलीयद्वन्द्वे धर्मिण एकत्वाद् एकवद्भावस्य स्वत एव सिद्धत्वात् । अपि च नीलघटयोरित्यादौ द्वित्वान्वयानुपपत्तिः , धर्मिणस्तदन्वयायोग्यत्वात् । न चात एवावच्छेदकान्वितं तत् . तथाव्युत्पत्तेः । विभक्त्युपस्थाप्यसङ्ख्यादेविशेप्या- न्वयनियमात् । अन्यथा एकत्र दण्डिपुरुषावित्यादिप्रयोगापत्तिः । न चेष्टा- पत्तिः । तथा सति 'न ह्येकत्र दाण्डिनि दण्डिपुरुषो गच्छत इति वक्तारो भव- न्तीति वार्तिकविरोधात् । न चैव नीलघटयोरिति प्रयोगानुपपत्तिः । तस्य नील- त्वघटत्वयोरित्यर्थात् । अभेद इत्यस्याप्याश्रयाभेद इत्यर्थात् । किं बहुना, एवं सति कर्मधारयोच्छेद एव, पदार्थतावच्छेदकभेदस्य तत्रापि भावेन द्वन्द्वस्या- प्रतिहतत्वादिति । यद्वेत्यनुपपन्नम् । एकत्र धर्मिणीति विशेषणप्रक्षेपेऽपि धूमत्वेन वहिव्याप्तिग्रहे द्रव्यत्वेन पक्षधर्मताज्ञानेऽनुमित्यनुदयात् तज्जन्यसमूहालम्बनाति- व्याप्तिः । न च यद्धर्मविशिष्टत्वेन ज्ञायमाने धर्मिणि व्याप्तिविशिष्टत्वधीः , त- धर्मवत्त्वेन पक्षधर्मताधीविवक्षितेति नोक्तदोष इति वाच्यम् । द्रव्यं धूमो वहि- व्याप्यो द्रव्यवांश्चायमिति ज्ञानजन्यानुव्यवसायातिव्यातेस्तथापि भावात् । न च यावद्धर्मविशिष्टत्वेनोपस्थिते व्याप्तिवैशिष्ट्यधीः , तावद्धर्मावच्छिन्नपक्षधर्मताधी- विवक्षिता। तत्र च धूमत्वेनाप्युपस्थिते व्याप्तिबुद्धेः, तस्य च पक्षधर्मताबुद्धाववि- षयत्वादिति वाच्यम् । तथा सत्युदाहृतस्थल एव द्रव्यत्वपरित्यागेन पक्षधर्मता- ज्ञानादनुमितिर्न स्यात् , उक्तविवक्षायास्तत्राभावात् । न च यद्धर्मपुरस्कारेण व्यातिधीः, तद्धर्मपुरस्कारेण पक्षधर्मताधीरित्यर्थः। द्रव्यं धूम इत्यत्र द्रव्यत्वस्य ।

मणिसारानुमानखण्डे न पुरस्कार इति वाच्यम् । तथाप्येकत्र धर्मिणीत्यत्रैकत्वं वास्तवं वा ज्ञातं वा विवक्षितम् । नाद्यः। भ्रमानुमित्यव्याप्तेः । नान्त्यः। परामर्श धम्क्यभाने माना- भावेनासंभवात् । किञ्च, एताविशेषणे दत्तेऽपि पक्षतासहकृतत्वविवक्षाया आवश्य- कत्वेन तत एवोक्तसमूहालम्बनातिव्याप्तिवारणमिति किमुक्तविशेषणेनेति । अत्रेदं प्रतिभाति -- नहि वयं पदार्थतावच्छेदकभेदत्वेन द्वन्द्वसाधुतां ब्रूमः, येन द्वन्द्वापवाद(त्वा)नुपपत्तिः स्यात् । किन्तु पदज्ञानजन्यप्रातिविषयभेद- त्वेन । तच्च विशेप्यविशेषणभेदसाधारणमिति विशेष्यभेदादेकशेषस्थलेऽपि द्वन्द्व- प्रसक्तौ सरूपेत्यादिसूत्रेण तदपवादात् । सर्वो द्वन्द्व इत्यत्र सर्वपदं संकुचितमेव । द्वित्वं चानन्वितमेव । द्विवचनं प्रयोगसाधु(त्व)मात्रं धयॆक्यस्थले । यद्वा अव- च्छेदकान्वय्येव तत् । विशेष्यान्वयस्योत्सर्गिकत्वात् तस्य च बाधकेन निरासात् । न चैकत्रापि दण्डिपुरुषावित्यादिप्रसङ्गः । साधुत्वे इष्टापत्तेः । पूर्वाप्रयोगाश्च न प्र. योग इति । कर्मधारयोच्छेदोऽपि नास्ति । पदार्थाभेदविवक्षायां तत्रैव च पदार्थ- तावच्छेदकभेदविवक्षायां कर्मधारयद्वन्द्वप्रवृत्तोरेति । एकत्र धर्मिणीत्यत्रापि नोक्तदो- षः । पक्षतासहकृतत्वविवक्षायामपि व्याप्तिविशिष्ट पक्षधर्मताज्ञानत्वेन जनकत्वम- वश्यं वाच्यमेव , वक्तव्ययुक्तेः । तथा च विशेषणं विनासम्भव एव, उक्तरूपेणा- तिप्रसक्तयाकारणतावच्छेदकत्वात् । किन्त्वेकधर्मिकतदुभयवैशिष्ट्यज्ञानत्वेनैव ज- नकत्वम् । अत एवैकत्वभानमावश्यकमिति दिक् । उपाध्यायास्तु ----व्याप्तिविशिष्टश्चासौ पक्षधर्मश्चेति कर्मधारय एव समा- सः । तदुत्परतल्प्रत्ययेन पदार्थतावच्छेदकद्वयसामानाधिकरण्यशक्तेन तदुभयसा- मानाधिकरण्यप्राप्तौ तत्र च ज्ञानान्वयेन सामानाधिकरण्यावगाहिज्ञानजन्यत्व- मर्थों लभ्यत इति न भ्रमानुमिताकव्याप्तिरित्याहुः । तच्चिन्त्यम् । अवान्तरवा. क्यार्थस्य व्याप्तिविशिष्टत्वपक्षधर्मत्वोभयसामानाधिकरण्यस्य बाधेन महावाक्या- र्थस्य ज्ञानान्वयस्य दूरपरास्तत्वाद् अमानुमित्यन्याप्तेरपरिहारात् । ज्ञानरूपसम्ब- न्धस्य यथाकथाञ्चत् सामानाधिकरण्यघटकत्वेन तव्याप्तिनिरसनेऽप्यसम्भवस्य दुरुद्धरत्वात् । तथाहि --- वहिव्याप्यधूमवानिति परामर्शोऽनुमितिहेतुः । न चासौ स्वप्रकारीभूतव्याप्त्यादेवैशिष्टयं संसर्गमर्यादया विषयीकुर्वन् तद्वैशिष्टयमपि सा- मानाधिकरण्यरूपं विषयीकरोति । तथा सति भासमानवैशिष्ट्यप्रतियोगितया । अनुमितिलक्षणम्। वैशिष्टयस्य प्रकारतापत्तेः । न च विशिष्टयुद्धौ विशेप्यविशेषणसंबन्धमात्र विषयत्वे दण्डीति बुद्धेः दण्ड पुरुषसंयोगा इति ज्ञानाद् भेदो न स्यादिति वैशिष्ट्यसम्ब- न्धोऽधिको विशिष्टधीविषयोऽङ्गीकार्य एव । अत एव भासमानवैशिष्टयप्रतियोगि- स्वपर्यन्तं प्रकारतालक्षणमिति वाच्यम् । तथापि दण्डपुरुषसंयोगतत्सम्बन्धा इत्यतो दण्डीत्यस्य भेदानुपपत्तेः समूहालम्बनाद् भेदकान्तरस्यैव वाच्यत्वात् । अत एव समूहालम्बने सम्बन्धतावच्छेदकगोचरत्वं विशिष्टबुद्धौ तदगोचरत्वमित्येव भेदक- मिति पक्षधरमिश्राः । यदि च विषयभेद एव धीभेदक इति मतं , तथापि नानु- पपत्तिः । विशिष्टबुद्धौ विशेषणप्रतियोगिकस्य विशेष्यनिष्ठस्य खरूपसम्बन्धस्य विषयत्वात् । विशेषणसंबन्धनिरूपितखरूपसंबन्धापेक्षया विशेषणसंबन्धस्य लघु- त्वात् । यथा च विशेषणादिनिरूपितखरूपसम्बन्धस्य विशिष्टधीविषयत्वेऽप्युपजी- व्यतया लघुतया च समवायसिद्धिः, तथा प्रत्य(क्षं निरूपित क्ष)मणिसारे विवे- चितम् । ननु तथापि व्यभिचारिहेतुकानुमिती लक्षणमिदमव्याप्त, व्याप्तस्तत्रास- तया ज्ञानाभावात् । श्रमस्यापि प्रमापूर्वकत्वात् । न च अन्यत्र गृहीतव्याप्तेस्तत्रा- प्यारोप इति वाच्यम् । व्याप्तिर्हि प्रतिसाध्यं प्रतिसाधनं च तत्तद्वयक्तिघटिततया भिन्ना । तथा च तत्साधने तत्साध्यनिरूपितव्याप्तिज्ञानमेव वाच्यम् । अन्य- थातिप्रसङ्गात् । तच्चाप्रसिद्धमिति चेद्, न । तत्साधनाधिकरणे साध्यं साध्ये च तन्निष्ठात्यन्ताभावाप्रतियोगित्वमवगाहते यद् ज्ञानं, तम्यैव व्याप्तिज्ञानप- देन विवक्षितत्वात् तस्य तत्रापि सत्त्वादिति । नन्वेवमपि व्यतिरेक्यनुमितौ लक्षणमिदमव्याप्तं, तत्रान्वये पक्षधर्मतायाः व्यतिरेके च व्याप्तेर्ज्ञानेन तदुभय- विशिष्टज्ञानाभावादिति चेद्, न । व्यतिरेकव्याप्तिज्ञानस्यापि साधनसाध्यव्याभिचार- धीविरोधितया खव्यभिचारधीविरोधिव्याप्तिज्ञानस्य विवक्षितस्य सत्त्वात् । न च तथापि परम्परासम्बन्धेन व्याप्तिपक्षधर्मतयोर्वैशिष्ट्याज्ञानस्य विवक्षितत्वे वहिव्याप्यधू- मजनकाइँन्धनवानयमिति ज्ञानादनुमित्यापत्त्या साक्षात्सम्बन्धेन तदुभयवैशिष्टय- ज्ञानं वाच्यम् । तच्च व्यतिरेकिणि नास्त्येवेत्यव्याप्तिरेवेति वाच्यम् । यादृशं वैशि- ष्टयज्ञानं पक्षधर्मे व्यभिचारधियं विरुणद्धि, साक्षात्परम्परोदासीनस्य तस्यैव व्या- प्तिवैशिष्टयज्ञानस्य विवक्षितत्वात् । यथा च व्यतिरेकव्याप्तिज्ञानमन्वय(स्य !)व्य- भिचारधीविरोधि(ता!) तथा वक्ष्यामः । यध्यतिरेकसहचारेणान्वयव्याप्तिाल इति मतेन लक्षणमिदम् । तेन नाव्याप्तिशङ्का । नन्वेवमपि संशयोत्तरप्रत्यक्ष लक्षण- मणिसारानुमानखण्डे मतिव्याप्तं, विशेषदर्शनजन्यत्वात् तस्य । तथा व्याप्तिविशिष्ट पक्षधर्मत्वाभावज्ञाने प्रतियोगिज्ञानत्वेन परामर्शजन्येऽतिव्याप्तिः । तथा व्याप्तिविशिष्टपक्षधर्मतावानय- मिति ज्ञाने विशेषणज्ञानत्वेन परामर्शजन्येऽतिव्याप्तिः । तथा परामर्शानुव्यव- साये विषयत्वेन परामर्शजन्येऽतिव्याप्तिः । तथा पूर्वानुभवत्वेन परामर्शजन्ये व्याप्तिविशिष्टपक्षधर्मत्वस्मरणेऽतिव्याप्तिः। तथा अतिदेशवाक्यार्थज्ञानत्वेन पराम- जिन्यायामुपमितावतिव्याप्तिः । तथा उपनयावान्तरवाक्यार्थज्ञानजन्यन्यायजन्य- शाब्दज्ञानेऽतिव्याप्तिः । किं बहुना, भगवद्व्याप्तिविशिष्ट पक्षधर्मताज्ञानजन्यतया जन्यज्ञानमात्र एवातिव्याप्तिरिति । अत्र केचित् ---तत्प्रत्यक्षानुमित्याजात्यादवश्यं सामग्रीवैलक्षण्यं वाच्यम् । तथा चानुमितौ परामर्शः , प्रत्यक्षे च करादि पुरुषत्वव्याप्यं करादिमांश्चायमिति ज्ञानद्वयं हेतुरिति संशयोत्तरप्रत्यक्षे परामर्शाजन्यतया नातिव्याप्तिरित्याहुः । त- चिन्त्यम् । लाघवेनानुमिताविव प्रत्यक्षेऽपि विशिष्टज्ञानस्यैव हेतुत्वाद् , अन्यथा वैपरीत्यापत्तेः , विनिगमकाभावादिति पक्षधरमिश्राः । अत्र प्रत्यक्षानुमित्योरुभयो- रपि परामर्शजन्यत्वे संशयोत्तरप्रत्यक्षेऽनुमित्यनुत्पत्तये प्रत्यक्षसामग्रीबलवत्त्वं कल्प्य- मिति महद् गौरवं स्यात् । तद्वरं ज्ञानद्वयमेव प्रत्यक्षहेतुरस्त्विति नव्यदूषणं भव्यम् । लाघवेन विशिष्टज्ञानहेतुत्वसिद्धौ प्रत्यक्षसामग्रीप्रतिबन्धकत्वकल्पनस्य फलमुखत्वादिति न किञ्चिदेतत् । अन्ये तु व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यमात्र- वृत्तिजातीयत्वमर्थः । अनुमितित्वं तथा, प्रत्यक्षत्वादिकं च न तथति न प्रत्यक्षादौ क्वाप्यतिव्याप्तिः। संशयोत्तरप्रत्यक्षत्वादिकं च न जातिः, चाक्षुषत्वादिना सङ्करादि- त्याहुः । तदपि चिन्त्यम् । व्याप्यधर्मपुरस्कारप्रवृत्तातिदेशवाक्यप्रभवोपमितिमन्त- रेण यत्रोपमित्यन्तराभावः, तत्र शरीरजन्यतावच्छेदकजातेरुपमितिवृत्तेस्तथात्वेन तादृशोपमित्यतिव्याप्तेस्तादवस्थ्यात् । न च शरीरजन्यतावच्छेदकजातिः सर्वज्ञान- साधारण्येकैच , तथा च तस्याः प्रत्यक्षादिवृत्तितया न तज्जन्यमात्रवृत्तित्वमिति नातिव्याप्तिः , प्रत्यक्षत्वादेरेव तव्याप्तस्य नानात्वेन सङ्करशङ्काविरहादिति वाच्यम् । तथा सति नानापुरुषानुमित्यादावनुगतव्यवहारानापत्तेरिति पक्षधरमिश्राः । एवं सति शरीरजन्यतावच्छेदकजातिनानात्वेऽपि प्र- स्थक्षानुमित्यादिसाधारणस्य शरीरजन्यत्वानुगतव्यवहारस्योच्छेद एव । यथाकथ- चिदनुगतोपाधिना तत्समर्थनेऽनुमित्यायनुगतव्यवहारेऽपि समानमिति । अत्र शङ्कयते Jourism अनुमितिलक्षणम् । अत्रेदं प्रतिभाति-अनुमितित्वादिजातिरनुमित्यादिपवाच्यतावच्छेदक- तया अनुमिनोमीत्याद्यनुव्यवसायेन च सिद्धा । सा च सिद्धिनैकत्वबाधे बाधितैव स्यादिति नानात्वेऽनुमितित्वाद्यसिद्धिप्रसङ्ग एव । शरीरजन्यतावच्छेदकजातेश्च व्याप्यतावच्छेदकतया सिद्धिरिति धूमत्वालोकत्ववदननुगमेऽप्यदोष इति विनि- गमकम् । किञ्च, शरीरजन्यतावच्छेदकजाते(नै ? क्ये प्रत्यक्षत्वादेस्तद्वयाप्यस्या- नेकत्वे प्रतिशरीरमन्यत्राक्लप्तशरीरजन्यतावच्छेदकजातेः तव्याप्यजातिचतुष्टयस्य च कल्पने जातिपञ्चककल्पनापत्तिः । शरीरजन्यतावच्छेदकनानात्वे चान्यत्राक्लप्त- जातिचतुष्टयमेव कल्प्यमिति लाघवम् । वस्तुतस्तु शरीर जन्यतावच्छेदकजातेरै- क्येऽपि तद्व्याप्योपमितित्वमादाय लक्षणातिव्याप्तिर्दुवोरैवेति नायं पन्थाः । तस्मादिदमत्राभिप्रेतं मणिकृतः अप्रामाण्यशङ्काशून्यव्याप्तिविशिष्टप- क्षधर्मतानिश्चयत्वावच्छिन्नकारणताप्रतियोगिककार्थताश्रयज्ञानमनुमितिरिति । संश- योत्तरप्रत्यक्षे च नाप्रामाण्यशङ्काशून्यपरामर्शत्वावच्छिन्ना कारणता । तथा सति पीतः शङ्ख इति ज्ञानकाले चैत्यव्याप्यशसत्यवानिति परामर्शात् श्वैत्यप्रत्यक्षा- पत्तेः । किन्तु ग्राह्यविपरीतज्ञानविरोधिविशेषदर्शनत्वेन प्रत्यक्षहेतुत्वमिति न तत्रा- तिव्याप्तिः । अभावज्ञानेऽपि विशिष्टज्ञाने च प्रतियोगिज्ञानत्वेन विशेषणज्ञान- त्वेन च हेतुता, न तु तत्त्वेन । यथाकथञ्चित् तथा भावेऽपि नाप्रामाण्यशङ्का- शून्यत्वाद्युपयोग इति न तत्रातिव्याप्तिः । यत्तु तत्र विशेषणविषयकत्वमेव हेतु- तावच्छेदके न तु ज्ञानत्वान्तर्भावोऽपीति गौडसमाधानं , तत्तु न , प्रकृतेऽपि तथात्वात् । ज्ञानभिन्ने विषयत्वं नास्तीति प्रत्यक्षमणिसारे प्रतिपादितत्वात् । तस्माज्ज्ञानत्वनियतं तदिति सर्वत्र ज्ञानत्वान्तर्भावः, न तु व्यावर्तकतया । उपमि- तिशाब्दयोरपि अवान्तरवाक्यार्थज्ञानत्वेनातिदेशवाक्यार्थज्ञानत्वेन च हेतुत्वान्नाति- व्याप्तिः । न च तद्विषयकप्रत्यक्षे तत्त्वेनापि हेतुत्वमिति वाच्यम् । परामर्शानुव्यव- साये व्याप्तिज्ञानं पक्षधर्मताज्ञानं च विषयः । तच्चान्यत्र व्याप्तिज्ञानत्वेन तदनु- व्यवसाये पक्षधर्मताज्ञानत्वेन तदनुव्यवसाये च क्लप्तहेतुतयैवार्थसमाजमाहन्ना संभवतीति न परामर्शत्वेन तत्र हेतुतेति । अनुमितौ चातिप्रसङ्गीत्या तथा हेतुत्वम् । अत एव न स्मृतावतिव्याप्तिः । अप्रामाण्यशङ्कयापि स्मृतेरुत्पादेन तत्र तथा जनकत्वाभावात् । यत्तु तत्र निश्चयरूपानुभवत्वपर्यन्तं हेतुतावच्छे- दकामिति , तन्न । अनुभवत्वपर्यन्तस्य गौरवेण स्मृत्यनन्तरमपि स्मृतिदर्शनेन माणिसारानुमानखण्डे तत्र विचार्यते Halimenews व्यर्थत्वात् । भगवज्ज्ञानमादायापि नातिव्याप्तिः, तस्योपादानप्रत्यक्षतया हेतुत्वे- नोक्तरूपेणाजनकत्वादिति । पक्षधरमिश्रास्तु - पक्षतासहकृतपरामर्शजन्यत्वं विवक्षितम् । प्रत्यक्षादौ कापि न पक्षता हेतुरिति नातिव्याप्तिः । न च पक्षतासहकृतव्याप्तिज्ञानजन्यत्व- मेवास्तु । तदुभयप्रत्यक्षेऽतिव्याप्तेः । न च परामर्शपक्षतोभयप्रत्यक्षे तथाप्यति- व्याप्तिः। तदुभयोरनुमित्युत्पादनियततया प्रत्यक्षानुत्पादात् । न च पक्षताजन्यत्व- मेव लक्षणमस्तु । सामान्यप्रत्यासत्तिभू (य? तया) तया जनिते प्रत्यक्षेऽतिव्याप्तेः , सिद्ध्यभावरूपपक्षताया योग्यतया विषयत्वेन तज्जन्यप्रत्यक्षेऽतिव्याप्तेश्च पक्षता- त्वेन जनकत्वस्य लक्षणाप्रवेशादित्याहुः । यत्र बाधाद्यवतारेण पक्षतापरामर्शाभ्यामनुमितिर्न जनिता, तत्र तदुभयसमूहालम्बनेऽतिव्याप्तिर्दुवारा । न च हेतुतावच्छेदकभेदा- दुभयोर्जनकत्वं विवक्षितं, समूहालम्बने च न तथा, विषयत्वस्यैव हेतुतावच्छे- दकत्वादिति वाच्यम् । सामान्यतस्तथात्वेऽपि स्वप्रत्यक्षे स्वत्वेन हेतुत्वादति- व्याप्तेस्तादवस्थ्यात् । किञ्च, पक्षताजन्यत्वमेवास्तु, व्यर्थमन्यत् । पक्षताप्रत्यास- त्तिकप्रत्यक्षे पक्षताया अहेतुत्वात् , सामान्यज्ञानस्यैव प्रत्यक्षहेतुत्वादिति वक्ष्य- माणत्वात् । अन्यथा पक्षतापरामर्शोभयप्रत्यासत्तिकप्रत्यक्षातिव्याप्तेर्दुष्परिहर- त्वात् । पक्षतायाः सिद्धयभावरूपाया योग्यप्रतियोगिकत्वेऽप्यप्रत्यक्षत्वाच्च न तत्प्रत्यक्षातिव्याप्तिवारणार्थमपि परामर्शपदसार्थकता । न च सिद्धयभावरूपपक्षता कुतो न प्रत्यक्षेति वाच्यम् । प्रतियोगियोग्यतामात्रस्याभावयोग्यतायामतन्त्र- त्वात् । अन्यथा गुरुत्वावच्छिन्नघटाभावस्यापि प्रत्यक्षत्वापातात् । तथा च प्रतियोगितावच्छेदकावच्छिन्नयोग्यता तन्त्रं वाच्या । सा च नेह । सिद्ध!). साधयिषानन्तरसिद्धयननुगुणानन्तारितकालस्य प्रतियोगितावच्छेदकप्रविष्टस्यायो- ग्यत्वादिति । अत्र प्रतिभाति अनुभवत्वसाक्षायाप्यजात्या यज्जातीयज्ञानं प्रति पक्ष- तापरामर्शयोरन्यतरमन्तरेणान्यतरस्य न जनकत्वं , तत्त्वमिह विवक्षितम् । पराम- पक्षताप्रत्यक्षादौ च न तथा । केवलस्यापि परामर्शादेः प्रत्यक्षजनकत्वात् । अनुमिति- त्वावच्छिन्नं प्रति तु मिलितयोरेव जनकत्वामिति न काप्यतिव्याप्तिशङ्का । यद्वा Hasanshumanit अनुमितिलक्षणम्। Huaweission परापरभावापन्नकार्यतावच्छेदकवति कार्यतावच्छेदकैक्ये वा पक्षतापरामर्शयोः सहकारित्वं विवक्षितम् । समूहालम्बने तु न तथा । स्वप्रत्यक्षत्वस्य कार्यतावच्छे- दकतया व्यभिचारेण व्याप्यव्यापकभावाभावादैक्याभावाच्च आर्थः समाजः। न चैवं सति पक्षतासहकृतव्याप्तिज्ञानजन्यत्वं तत्सहकृतपक्षधर्मताज्ञानजन्यत्वं वास्तु , किं विशिष्टज्ञानजन्यत्वेनेति वाच्यम् । विशिष्टज्ञानत्वावच्छिन्नकारणताया व्याप्तिज्ञान- त्वाद्यवच्छिन्नकारणतापेक्षया भिन्नाया एव लक्षणप्रवेशात् तत्र च वैयर्थ्याभावात् । लक्षणद्वय एव तात्पर्यमित्यपि केचित् । वस्तुतस्तु व्याप्तिविशिष्टपक्षधर्मताज्ञा- नत्वेन जनकता विवक्षितेति न परामर्शानुव्यवसायादावतिव्याप्तिः । न चैवं पक्ष- तासहकृतत्वविशेषणवैयर्थ्यम्। संशयोत्तरप्रत्यक्षातिव्याप्तिवारणाय तदावश्यकत्वात् । पक्षतापदेन च प्रकृते सिद्ध्यभाव एव विवक्षितः । स च योग्य एवेति तत्प्रत्यक्षा- तिव्याप्तिवारणाय परामर्शजन्यत्वमपि विशेषणमावश्यकमिति न कोऽपि दोष इति दिक् । उपाध्यायास्तु-विरोध्यनुपरागकालीनस्वजनकस्वरूपयोग्यपक्षतोपरागकाली- नपरामर्शाव्यवहितजन्यत्वं लक्षणार्थः । पक्षता च सिषाधयिषाविरहसहकृतसि- ख्यनुमानातिरिक्तसाधकमानान्यान्याभावरूपा । (न च ? सा च न) प्रत्यक्षरूपमान- स्थले संशयोत्तरप्रत्यक्ष इति न तत्रातिव्याप्तिः । विरोधिज्ञानानुपरागकालीनत्व- विशेषणाच बाधादिकालीनपरामर्शानुव्यवसायवारणम् । अव्यवधानेन च ततो न स्मृत्यनुव्यवसायाविति न तयोरप्यतिव्याप्तिः। अवान्तरवाक्यार्थज्ञानं च न महा- बाक्यार्थधीहेतुरिति न न्यायजन्यशाब्दज्ञानेऽप्यतिव्याप्तिः । उक्तोपमितावपि नातिव्याप्तिः । अनुमितिसामग्रीबलवत्त्वेनानुमितेरेव प्रथमं तत्रोत्पादात् । उत्तरकाले उपमित्युत्पत्तावप्यन्यवधानाभावात् । न च तत्पदादिना यत्र व्याप्तिविशिष्टपक्षधर्म- बोपस्थितिः, तत्र पदार्थोपस्थितित्वेन शाब्दबुद्धौ परामर्शस्य हेतुत्वादतिव्यावि- रिति वाच्यम् । तत्र परामर्शरूपसामग्र्याः शाब्दानुमितिसाधारण्येन विनिगमना- विरहेणैकस्यानुत्पत्तेः । परामर्शानन्तरमनुव्यवसायापत्त्या भिन्ने विषयेऽनुमिति- सामग्रीबलवत्त्वस्य योग्यताज्ञानाद्यनुव्यवसायापत्त्या शाब्दधीसामग्रीबलवत्त्वस्यापि बाच्यत्वात् । यदा शाब्दबोधेच्छया तत्र शाब्दबोधोत्पत्तिः, तदा शब्दाव्यापार- स्वमपि परामर्श विशेषणमिति वदन्ति । तचिन्त्यम् । एवं सत्यपि यो बहिव्याप्यवान् स बहिमानिति महाव्याप्ति- १० मणिसारानुमानखण्डे प्रत्यक्षेऽतिव्याप्तेः । तत्रापि व्याप्यतावच्छेदकव्याप्यत्वप्रकारकज्ञानस्य सहचारज्ञा- नत्वेन हेतुत्वात् । पक्षताद्युपरागसत्त्वाच । किञ्च, यत्रालोकेन वयनुमितीच्छा धूमे च व्याप्यत्वपरामर्शः, तत्रापि साध्यसिद्धीच्छाघटितपक्षतासत्त्वेऽपि लिङ्गा- न्तरसिषाधयिषाप्रतिबन्धेनानुमित्यनुत्पन्न परामर्शानुव्यवसायातिव्याप्तिः । अपिचेदं वह्निज्ञानं प्रमा वहिन्याप्यवति तज्ज्ञानत्वादित्यत्र यः परामर्शस्तत्रातिव्याप्तिः । न चेह लिङ्गज्ञानतया परामर्शस्य जनकत्वेऽपि वहिज्ञानसत्त्वान्न पक्षतोपराग इति वाच्यम् । तज्ज्ञानस्याप्रामाण्यशङ्काकलङ्किततयासत्कल्पत्वात् । अन्यथा प्रामाण्या- नुमितिवैयर्थ्यापातात् , तद्धटकार्थनिश्चयादिति पक्षधरमिश्राः । अत्रेदं शङ्कयते---भिन्ने विषये प्रत्यक्षापेक्षया अनुमितिसामग्रीबलवत्त्वेन महाव्यप्तिप्रत्यक्षपूर्वमनुमित्युत्पादेन पक्षताविरहान्न तत्रातिव्याप्तिः । प्रत्यक्षमाना- भावस्यापि पक्षताघटकत्वेन तत्सत्त्वेनापि तत्र पक्षताविरहादतिव्याप्त्यभावः । कि- श्वेत्यपि न । तल्लिङ्गकतत्साध्यकसिद्धीच्छात्वेन पक्षताघटकत्वात् तस्य च तत्रा- भावात् , तल्लिङ्गकत्वपर्यन्तस्य पक्षत्वाघटकल्वेऽपि तावद्दरपर्यन्तस्य लक्षणप्रवेश इत्युपाध्यायाभिप्रेतत्वात् । अपिचेत्यपि न । अप्रामाण्यशङ्काशून्यत्वपर्यन्तस्य गु- रुत्वेन लाघवात् सिद्धयभावमात्रस्य पक्षतात्वात् तस्य च तत्राभावादतिव्याप्त्यभा- वादिति । अत्रेदं स्फुरति-यत्र महाव्याप्तिप्रत्यक्षम् , अनन्तरमनुमितिर्मेऽस्त्वितीच्छा, तत्र प्रथमं महाव्याप्तिप्रत्यक्षे बाधकाभावेन पक्षतासत्त्वेन चा(ति)व्याप्तेर्दुष्परि- हरत्वात् । प्रत्यक्षमानाभावस्य पक्षताघटकत्वेऽपि समानविषयकप्रत्यक्षाभावस्यैव तद्धटकत्वात् तस्य तत्र सत्त्वात् । वस्तुतस्तु उपमित्सादिना यत्र प्रथममुपमितिः, तत्रोक्तविशेषणैरप्यतिव्याप्तेवारयितुमशक्यत्वात् तदर्थमपि विशेषणान्तरं देयमिति अनन्त(र?)विशेषणदानापेक्षया पक्षताज(नकान्य)त्वमात्रमेव लघु लक्षणे प्रवेश्य- तामिति मिश्राभिसन्धिः । अत एव बहुविशेषणप्रवेशोऽप्येवं न स्यादिति कण्ठर- वेण तैरेवोक्तमिति दिक् । इदं पुनरवशिष्यते-व्याप्तिः साध्यसाधनाधिकरणभेदेन भिन्ना । तथा चैकसाध्यनिरूपितव्याप्तिप्रवेशेऽपरसाध्यकानुमित्यव्याप्तिः । सर्वव्याप्तयनुगतं च न । + अनुत्पन्नानुमितिकेत्यर्थः स्यात् ।

ध्यातिवादः। किञ्चिदेकमस्ति, येन तथा लक्षणप्रवेशः स्यादिति । अत्रेदं तत्त्वं - यत्किञ्चित्साध्यनिरूपितव्याप्तिविशिष्टयक्षधर्मताज्ञानजन्य- वृत्त्यनुभवत्वाव्यापकजातिमत्त्वस्य लक्षणार्थत्वाद् हेतुत्वं चात्र तत्त्वेन विवक्षित- मिति न काप्यतिव्याप्तिरिति । यद्वा तत्त्वेनापि जनकता न विवक्षिता । किन्तु येन परामर्शनानुमितिमात्रमुत्पादितं, तत्परामर्शजन्यज्ञानवृत्त्यनुभवत्वाव्यापकजाति- मत्त्वं लक्षणमिति न काप्यतिव्याप्तिः । गौडास्तु-परामर्शे चरमकारणत्वं लक्षणार्थः । चरमत्वं तु स्वोत्पत्त्युत्त- रभाविप्रतिबन्धकाभावातिरिक्तानपेक्षत्वम् । न च प्रत्यक्षादी परामर्शस्य तदस्ति । इन्द्रियसन्निकर्षादेस्तादृशस्यापेक्षणादिति न काप्यतिव्याप्तिरित्याहुः । तच्चिन्त्यम् । यत्रेन्द्रियसन्निकर्षानन्तरमुत्पन्नपरामर्शन संशयोत्तरप्रत्यक्षजनन , तत्रातिव्याप्तेः । अनुभवत्वसाक्षायाप्यजात्या यजातीयज्ञानजनने कापि परामर्शो नाचरमं कारण- मित्यर्थे तु गौरवम् । अनुभवत्वसाक्षाच्याप्यजात्या यजातीयज्ञानत्वावच्छिन्नं प्रति परामर्शः कारणमित्यस्यैव लघुत्वे(न:)नाविकलत्वात् । यत्तु संशयोत्तरप्रत्यक्षे विशेषदर्शनं हेतुरेव न , तम्यापरकोटिज्ञानप्रतिबन्धकमात्रत्वात् । कोटिप्रत्यक्ष सामान्यसामग्रीत एवेति न तत्रातिव्याप्तिरिति । तन्न । संशयोत्तरप्रत्यक्षे विशेष- दर्शनम्याहेतुत्वे(न!) अपरकोटिज्ञानप्रतिबन्धकत्वस्यैवानुपपत्तेः । विरोधिज्ञानसा- मप्रीत्वस्यैव तत्प्रतिबन्धकत्वयुक्तित्वात् । संशयोत्तरप्रत्यक्षे गुणानुरोधेनावधारणादि- व्यवस्थानुरोधेन च तद्धेतुत्वस्य सिद्धत्वात् । यथा चैतत् तथा प्रत्यक्षमणिसारे प्रतिपादितं, प्रतिपादयिष्यते चाम इति सङ्केपः ॥ इत्यनुमितिलक्षणम् । अथ व्याप्तिवादः। तत्र व्याप्यवृत्तिसमानाधिकरणव्यधिकरणान्यतरधर्मावच्छिन्नग्राह्यसम्बन्धा. रोप्यकसाध्याभा(वा)वच्छिन्नाधिकरणवृत्तितज्जातीययावदभावप्रतियोगित्वं व्याप्तिः। वृक्षः संयोगी द्रव्यत्वादित्यत्र पक्षे साध्याभाववति तज्जातीयहेत्वभावासत्त्वेऽपि नाव्याप्तिः । तत्र साध्याभावस्याव्याप्यवृत्तित्वात् । केवलान्वयिसाध्यकेऽपि ना- १३ मणिसारानुमानखण्डे । व्याप्तिः, व्यधिकरणधर्मावच्छिन्नसाध्याभावस्य तत्रापि प्रसिद्धतया तद्वति तज्जा- तीयहेत्वभावसत्त्वात् । समवायसम्बन्धेन वह्नित्वावच्छिन्नवहयभाववति धूमत्वाव- च्छिन्नधूमाभावासम्बन्धिनि च धूमावयवे व्यभिचारेऽपि न तत्राव्याप्तिः, तदभा- वस्य ग्राह्यसम्बन्धानारोप्यकत्वात् । संयोगस्य तत्र ग्राह्यसम्बन्धत्वात् । यावत्पदेन धूमवान् वह्नरित्यत्रापि नातिव्याप्तिः । व्यधिकरणधर्मावच्छिन्नधूमाभाववति ताह- शवयभावेऽपि धूमत्वावच्छिन्नधूमाभाववत्ययोगोलके वह्नित्वावच्छिन्नवहयभावा- सत्त्वेन व्यभिचारात् । यद्वा ग्राह्यसम्बन्धारोप्यकव्याप्यवृत्तियत्समानाधिकरणसाध्यतावच्छेदकभि- नसाध्यतावच्छेदकान्यूनानतिरिक्तवृत्तिधर्मानवच्छिन्नयावत्साध्यतावच्छेदकाश्रयमा- त्रप्रतियोगिकाभावत्वावच्छिन्ने व्यधिकरणधर्मावच्छिन्नप्रतियोगिकत्वं तत्र व्याप्तिः । समवायसम्बन्धावच्छिन्नवह्नयभावस्य धूमसमानाधिकरणस्य व्यधिकरणधर्मावच्छि- नाप्रतियोगिकत्वेऽपि न तत्राव्याप्तिः। तस्य ग्राह्यसम्बन्धानारोप्यकत्वात् । व्याप्य- वृत्तित्वविशेषणाच नाव्याप्यवृत्तिसाध्यकाव्याप्तिः । धूमसमानाधिकरणयावद्वह्निमा- त्रप्रतियोगिकव्यासज्यवृत्त्यभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकान्यूनानति- रिक्तवृत्तिधर्मानवच्छिन्नत्वं विशेषणम् । तस्य च साध्यतावच्छेदकान्यूनानातीरक्त- वृत्तिबहुत्वाद्यवच्छिन्नत्वात् । एवमपि व्यभिचारिणि धूमत्वावच्छिन्नधूमाभावस्य साध्यतावच्छेदकधूमत्वान्यूनानतिरिक्तवृत्तिधूमत्वावच्छिन्नतया तत्तद्धमाभावस्य च यावत्साध्यतावच्छेदकधूमत्वाश्रयप्रतियोगिकत्वाभावेन व्यधिकरणधर्मावच्छिन्नधू- माभावस्यैवोक्तसकलविशेषणावच्छिन्नतया तत्र च व्यधिकरणधर्मावच्छिन्नप्रतियो- गिकत्वसत्त्वादतिव्याप्तिः स्यादिति साध्यतावच्छेदकभिन्नत्वं साध्यतावच्छेदकान्यू- नानतिरिक्तवृत्तिधर्मविशेषणम् । तथा च धूमत्वावच्छिन्नाभावस्यापि साध्यताव- च्छेदकभिन्नसाध्यतावच्छेदकान्यूनानतिरिक्तवृत्तिधर्मानवच्छिन्नत्वसत्त्वेन विशेषणा- न्तरसत्त्वेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिकत्वस्य च तत्राभावेन न तत्राति- च्यातिः । पर्वतीयधूमसमानाधिकरणमहानसीयवह्नयभावस्य न व्यधिकरणधर्माव- च्छिन्नप्रतियोगिकत्वमित्यव्याप्तिभिया यावत्त्वं विशेषणम् । मात्रपदं च घटवड्यु- मयवृत्तिद्वित्वावच्छिन्नाभावमादायाव्याप्तिवारणाय । व्यभिचारिणि नैवम् । वहि- समानाधिकरणधूमाभावस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगित्वाभावात् । केवलान्व- यिनि च नाव्याप्तिः । व्यधिकरणधर्मावच्छिन्नाभावस्य तत्रापि प्रसिद्धत्वादिति च्यातिवाद। इदं तु लक्षणद्वयं व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावं दूषयन् मणिकृत् तात्पर्यतो दूषयाश्चके । तथाहि घटनिर्विकल्पकाद् घटाभावाग्रहेण प्रतियोगि- तावच्छेदकविशिष्टप्रतियोगिज्ञानं फलीभूतज्ञानसमानप्रकारकप्रतियोगिज्ञानं वाभा- वज्ञानं प्रति कारणं वाच्यम् । न चैतद् व्यधिकरणधर्मावच्छिन्नाभावेऽस्ति । शशीयत्वावच्छिन्नतया शृङ्गस्याज्ञानात् । शृङ्गं शशीयं नेति प्रतीतो सत्यामेवैताह- शाभावप्रतीतेः । तस्माच्छृङ्गे शशीयत्वाभावमात्रं विषय इति । अत्र वदन्ति-आहार्यानाहार्यसाधारणप्रतियोगितावच्छेदकविशिष्टज्ञा- नमेवाभावज्ञानहेतुः । तथा च विशेषदर्शनेऽप्याहार्यप्रतियोगितावच्छेदकवैशिष्य- ज्ञानादस्तु व्यधिकरणधर्मावच्छिन्नामावधीः । विशेषादर्शने त्वनाहार्यभ्रम एव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानरूपः । न च तत्राभावबुद्ध्यसम्भवः, प्रतियोगितावच्छेदकविशिष्टप्रतियोगिन एवाधिकरणे ज्ञानादि(ति) वाच्यम् । गवि शृङ्गप्रत्ययदशायामेव शशीयत्वावच्छिन्नतया गृह्यमाणशृङ्गाभावधीसम्भवात् । न च शृङ्गत्वावच्छिन्नाभावो धीविषयो न तु व्यधिकरणधर्मावच्छिन्नाभाव इति वा- च्यम् । सामग्रीसत्त्वे तद्विषयतायामपि बाधकामावादिति । अत्राहुः-ससम्बन्धिकपदार्थग्रहे सम्बन्धितावच्छेदकविशिष्टसम्बन्धिज्ञा- नमनाहार्य हेतुः । कथमन्यथाहार्यघटज्ञानाद् न घटसंयोगप्रत्यक्षम् । अत एव शृङ्गे शशीयत्वग्रहकालेऽपि शशशृङ्गं नास्तीति प्रतीतिर्न विशिष्टाभावमवगाहते । शृङ्गे शशीयत्वग्रहकालीनप्रतीतेस्तदाकारायाः कारणबाधेन शृङ्गे शशीयत्वाभावमा- त्रविषयत्वकल्पनात् । तस्यास्तद्विषयत्वेनैवोपपत्तेः । नहि समानाकारप्रतीतेः सम- यपुरुषादिभेदाद् विषयभेदं काप्याकलयाम इति न कापि व्यधिकरणधर्मावच्छिन्ना- भावः प्रतीतिविषय इति । अत्र शक्यते-संयोगस्थले पृथकल्पनावश्यं वाच्यैव । अन्यथाती- न्द्रियस्यापि संयोगः प्रत्यक्षः स्यात् । तथा च तत्रानाहार्यप्रतियोगिप्रत्यक्षत्वेन विशेषहेतुत्वेऽपि सामान्यसामग्र्यामनाहार्यत्वविशेषणप्रवेशो गौरवपराहतो प्रस्तश्व व्यभिचारेण | आहार्यज्ञानानुव्यवसाये आहार्यज्ञानस्यैव सम्बन्धिज्ञानात्मकस्य हेतु- त्वात् । न च तत्राप्याहार्यधीजनकमनाहाविशेषणज्ञानमेव हेतुरिति वाच्यम् । विनश्यदवस्थाविशेषणधीजन्यस्याहार्यज्ञानस्यानुव्यवसाये तथापि व्यभिचारात् । आहार्यज्ञानसम्बन्धिविशिष्टगोचरत्वाभावेन पूर्वविशेषणज्ञानस्य सम्बन्धिज्ञानस्वाभा- मणिसारानुमानखण्डे Goa । वाच । यच्चोक्तं समानाकारप्रत्ययस्य समानविषयत्वनियम इति । तदप्यसत् । विभक्ताविति प्रत्ययस्य विभागसत्त्वकाले तद्विषयकत्वात् । तन्नाशकाले च संयो- गनाशविषयकत्वात् । संयोगवन्नति प्रतीतेद्रव्यगुणाधिकरणभेदेन भिन्नविषयक- त्वाच्च । यदपि योग्यानुपलब्ध्यभावान्न व्यधिकरणधर्मावच्छिन्नाभावधीः । तथाहि- प्रतियोगितद्व्याप्येतरयावत्प्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्युपलम्भंकसमवधाने सत्युपलब्ध्यभावोऽभावधीहेतुः । इह तु प्रतियोगितावच्छेदकविशिष्टप्रतियोग्युपल- म्भस्य भ्रमतया दोषोऽप्युपलम्भको वाच्यः । तथा च तत्सत्त्वेऽनुपलब्धिरेव न, तदसत्त्वे च योग्यतैव नेति कथमभावधीः । न च प्रतियोग्युपलम्भकसमवधानमात्रं योग्यता, न तु प्रतियोगितावच्छेदकावच्छिन्नोपलम्भकपर्यन्तमिति वाच्यम् । तथा सति गुरुत्वावच्छिन्नघटाभावप्रत्यक्षतापत्तेः । तदुक्तमाचार्यचरणैः दृष्टोपलम्भसामग्री शशशृङ्गादियोग्यता। न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने ।" इति । तस्माद् व्यधिकरणधर्मावच्छिन्नाभावस्थले विशेषणाभावमात्रं विषय इत्येव (जायत : ज्याय) इति । तदप्यसत् । प्रतियोगिताप्येतरेत्यस्य साधारणप्रतियो- ग्युपलम्भकेत्यर्थो वाच्यः । अन्यथा संयोगादिनाशजन्यसंयोगाभावप्रत्यक्षाव्याप्तेः । तथा च दोषस्याप्यसाधारण्येन तत्समवधानस्य योग्यतायामप्रवेशेनोक्तदोषाभावात् , मणिकृन्मते प्रतियोगिसत्त्व(प्रसञ्जन)प्रसज्जितप्रतियोगिकानुपलब्धेरादराच्च । न च शशीयत्वावच्छिन्नशृङ्गाप्रसिध्या यदि. शशीयत्वावच्छिन्नशृङ्गं गवि स्यादित्याका- स्मापादकं कथमिति वाच्यम् । शशीयत्वं शृङ्गे आरोप्य तद्विशिष्टशृङ्गस्य गव्या- पादनसम्भवात् । केचित्तु नेहानुपलब्धिरस्ति । अनाहार्यप्रतियोगितावच्छेदकप्रतियोगिसंस- र्गज्ञानाभावरूपत्वात् तस्याः । शृङ्गं शशीय नेति विशेषदर्शनवतः तादृशज्ञानरू- पप्रतियोग्यप्रसिध्या कथं तदभावः । न च परकीयज्ञानमादाय प्रसिद्धस्य प्रतियो- गिनः तदात्मन्यभावः कारणमिति वाच्यम् । तथा सति पराज्ञातव्यक्तिद्धये पर- स्परल्यावृत्तधर्मावच्छिन्नपरस्पराभावप्रत्ययो न स्यादिति तत्र विशेषणाभाक्मानं प्रतीतिविषय इत्यन्यत्रापि तथा समानाकारप्रतीतेः समानविषयकत्वादिति । तदपि १. 'म्भस' क. पाठ..

ब्याप्तिवादः। । चिन्त्यम् । तत्कालीनतत्पुरुषीयप्रतियोग्यधिकरणगोचरतदिन्द्रियजन्यसंसृष्टबुद्धा- वनाहार्यत्वाभावस्यैवानुपलम्भत्वात् । तस्य च प्रकृतेऽपि सम्भवात् । यथा चैतत् तथा प्रत्यक्षमणिसारे व्यक्तमुक्तम् । किं बहुना, पराज्ञातव्यक्तिद्वयस्थले उक्तानुप- लम्भरूपहेतुबाधेन तादृशप्रतीतेर्विशेषणाभावविषयकत्वकल्पनेऽप्यन्यत्र विशिष्टाभा- वविषयकत्वे बाधकाभावः । अन्यथा प्रत्यभिज्ञानस्य शब्दादौ तज्जातीयविषयक- त्वकल्पनाद् घटादावपि तथा स्यादिति जितं क्षणिकतावादिनेति । यदपि च प्रतियोगितावच्छेदकप्रकारकप्रतियोग्युपलब्ध्यभावो नाभावधी- हेतुः । कम्बुग्रीवादिमति घटत्वं नेति धीकालेपि अत्र घट इति ज्ञाना(न)न्तरं कम्बु- प्रीवादिमान्नास्तीति प्रतीत्यनापत्तेः । गौरवेण कम्बुग्रीवादिमत्त्वस्य घटाभावप्रति- योगितानवच्छेदकत्वात् । प्रतियोगितावच्छेदकघटत्वावच्छिन्नस्य चोपलम्भात् । तस्मात् प्रतियोगिमात्रवृत्तित्वेन गृह्यमाणधर्मप्रकारकप्रतियोगिज्ञानाभावः कारणं वाच्यः । न च व्यधिकरणधर्मावच्छिन्नाभावे तदस्ति । शृङ्गमात्रवृत्तित्वेन गृह्यमा- णशृङ्गत्वावच्छिन्नस्यैवोपलम्भादिति । तदपि न । एवं सति घटत्वं घटभिन्नेऽप्य- स्तीति भ्रमदशायामत्र घट इति ज्ञानेऽपि घटो नेहेति प्रतीत्यापत्तेः । प्रतियोगि- मात्रवृत्तित्वेन घटत्वस्याज्ञानात् । तस्मात् फलीभूताभावप्रतीतौ प्रतियोग्यंशे या- वान् प्रकारः, तन्मध्ये तस्याधिकाधिकरणत्वेनागृहीतो यत्किञ्चित्तद्धीप्रकारः, तत्प्रकारकप्रतियोगिज्ञानाभावोऽभावधीहेतुः । अत एव घटोऽस्तीति ज्ञानानन्तरं प्रमेयघटो नास्तीति न प्रतीतिः । अभावप्रतीतिप्रकारयोः प्रमेयत्वघटत्वयोरधिका- धिकरणत्वेनागृहीतघटत्वप्रकारकज्ञानसत्त्वात् । अत एव च घटोऽस्तीति ज्ञानान- न्तरं नीलघटो नेहति मतिः । घटत्वप्रकारकप्रतियोगिज्ञानेऽपि घटत्वस्य नीलवाधि- काधिकरणकत्वेन ग्रहात् । अस्ति चैतद् व्यधिकरणधर्मावच्छिन्नाभावेऽपि । अभा- वप्रतीतिप्रकार (क!) शशीयत्वाधिकाधिकरणकत्वेन गृहीतशृङ्गत्वविशिष्टशृङ्गमहेऽपि विशिष्टाभावसत्त्वादिति । यच्च कश्चिदवोचत्-शृङ्गे शशीयत्वाभावग्रहात् कथमभावप्रतीतेः प्रति- योगिनि तयैशिष्टयधीरिति । तदप्यसारम् । अभावप्रतीतावपि तद्वैशिष्टयज्ञानस्था- ॥ १. 'कप्रकारकप्र' क. पाठ:. २. 'दित्वस्य' ख. पाठः. ३.'क' ख. पाठः. त्वाधिक क. पाठः. ५. 'वाधिक क. पाठः, ६. 'गत्वे' क. पाठः, १६ Minomimmiting मणिसारानुमानखण्डे हार्यत्वात् । तत्र च बाधस्याविरोधित्वादिति न किञ्चिदेतत् । यत्तु एवं सति घटत्वावच्छिन्ने पटे द्रव्यत्वं नेति प्रतीत्या व्यधिकरण- धर्मावच्छिन्नाधिकरणताकोऽप्यभावः सिध्येदिति यथा तत्राधिकरणे विशेषणाभाव- मात्रं विषयः तथेह प्रतियोगिन्यपि । अन्यथानन्ताभावकल्पनापत्तेरिति । तदपि न । अधिकरणतावच्छेदकभेदादभावभेदस्य प्रतियोगितावच्छेदकभेदादिवानभ्युपग- मेन प्रतिबन्धभावात् । भवतु वा प्रतीतिबलात् सोऽपि, किं नश्छिन्नम् , भनुभवेन वस्तुव्यवस्थायां गौरवस्याकिञ्चित्करत्वात् । अन्यथा बहु व्याकुलीस्या- दित्यलं बहुना। यञ्च मान्यैरुक्तं-जनकीभूतारोपविषयस्यैव प्रतीतिविषयाभावप्रतियो- गित्वमिति नियमः । न चेह,शृङ्गस्यारोपः, तस्य गवि सत्त्वात् । न च विशिष्टस्या- रोपोऽसत्त्वादिति वाच्यम् । विशिष्टस्यानतिरेकेण विशेषणमात्रस्यैवारोप इति त- स्यैवाभावो धीविषय इति । तदपि न भव्यमिव । शुद्धविशेषणविशेष्ययोर्विशिष्टव्य- वहाराभावेन विशेषणावच्छिन्नविशेष्यस्य विशिष्टतया वाच्यत्वात् । तस्य च विशे- प्यमानसत्त्वेऽप्यसत्त्वादारोपसम्भवात् । न च विशेषणावच्छिन्नविशेष्यस्य प्रकृ- तेऽत्यन्तासत्त्वान्नारोप इति वाच्यम् । विशेष्ये विशे(?षणा)रोपेण विशि- टप्रसिद्धौ तदनन्तरं तस्याप्यारोपे बाधकाभावात् । किञ्च, आरोपपदेनाहार्यज्ञानमेव वाच्यम् । अन्यथा घटाभावभ्रमे विद्यमानतया घटस्यानारोपेण भासमानाभाव- प्रतियोमित्वं न स्यात् । न स्याञ्चाभावबुद्धेर्धमत्वम् । तथा चाहार्यज्ञानं शृङ्गस- त्वेऽप्यविरुद्धमेवेति व्यधिकरणधर्मावच्छिन्नाभावे बाधकाभाव इति । अत्राहुः -प्रतियोगित्वं स्वरूपसम्बन्धः । स च जनकत्वगर्भः । न चा- सतः शशीयत्वावच्छिन्नशृङ्गस्य जनकता । पूर्ववर्तित्वाभावादिति न व्यधिक- रणधर्मावच्छिन्ने प्रतियोगितासम्भव इति न तादृशाभावसिद्धिरिति । अत्र शङ्कयते । प्रतियोगित्वं शृङ्गे न तु विशिष्टे । येनोक्तदोषाशङ्का स्यात् । तन्निष्ठायां च प्रतियोगितायां शशीयत्वमवच्छेदकमात्रं प्रतीतिबलादास्थी- यत इति । अत्रायमाभसन्धिः -कारणतावच्छेदकरूपेण कारणस्य पूर्वसत्ता मृग्यते। tani .."ध्या' क. पाठः व्याप्तिवादः । अन्मथानियसमात् । नचान न सम्भवति विशिष्ट यासत्यात । यद्वा लाघवेन प्रति- योगितायेण सहामानव विरोध इति न शृङ्गमात्रवृत्तिः प्रतियोगिता । तथा सत्य भावासत्वासनात् । प्रतियोगिनस्तस्य सत्त्वात् । तस्मादवोदकावच्छिन्ननिष्ठा प्रतियोगिता वाच्था । लच प्रकृते न सदिति किं प्रतियोगिता समाश्रयेदिति । वस्तुतस्तु भावाभावाविरोधस्य प्रमाणसिद्धतया यथासम्भव विरोधः कल्पयत इति कथमेकन शृङ्गतदभावयोः सम्भवः । नास्तीति प्रतीतेश्च विशेषणा- भावविषयमेनाध्युपपत्तेः । यत्र चोपपत्तिास्ति तत्रागत्या सामानाधिकरण्यं तयोः श्रीक्रियत सब संयोगतदभावबोरिन । तदनुरोधाचाबक्यमपि तन्त्र विरोधे तन्त्रमभ्युपंचते । अत एन तद्वति सम्बन्धान्तरेण तदभाव इत्यपि नास्ति । तत्रा- पि सम्बन्धाभावमाविषयतया पतीतरूपपतविरोधस्यात्यागात । अत एव व्यास- व्यवृत्तिप्रतियोगिकामाचाऽपि न । नति साहित्यामावनैवोपपत्तेरिति बदन्ति । इद वननिष्यने ... धमपि व्यधिकरणधर्मावच्छिन्नान्योन्याभावे बाधका- भावः । प्रतियोगितारच्दकन सह तम्य विरोधात् । तस्य च प्रकृतेऽप्यविकल- स्वादिति । अत्र प्रतिभाति तत्रापि प्रतियोगितावच्छेदकन सह न विरोधः । कि- तु प्रतियोगिनव, लाघवात् । सर्वत्रारोप्येण सह विरोधाशीकारात् । आरोप्यता च प्राचिन नाडाल्यावधिनस्य, कांचन संसर्गावचिन्नस्य प्रतियोगिन इत्यन्यदेतत् । न च शशायर मतादात्म्यम् । तस्य स्ना साधारणधर्मयाभावात् । किंबहुना, तवसाधारयो धर्मलमतियोंगिकान्योन्याभावमाने विरोधी । स च धर्म इह शृङ्ग- नामिति केनाप रुवेग तहति न झान्योन्याभावः । अत एव वृक्षे न संयोग- गहन्योन्यानावः । असाधारमधर्मस्य तत्वस्य प्रतिबन्धकस्यात् । कालादौ च जनाधारताहानिनिया कालवेन जान्योन्याभावाधारस्वं . न तु देशतया । तथा- वे काल: कालो नानि मा परिति । अत्र च नृतले शश नास्तीति प्रतीते. व्याधिकरणथमीमच्छिन्नामावविषयको बायकाभावः । शृङ्गस्य प्रतियोगिनस्तत्रा- सरवादिति (देवनानामेयं गवि तादृशप्रतीतविशेषणाभावविषयत्वेऽन्यत्रापि नयात्वात् समाजप्रकारकमतीतर्वाधिक विना समानविषयकवनियमादिति । । १. दाव' क. पा. 'दम्। क. पा. । 'देश्यमनादेयम्' इति पाठयं भाति ।

मणिसारानुमानखण्ड अम्मत्पितृचरणास्तु ---- अवच्छेदकत्वं स्वरूपसम्बन्धो वान्यद् वा सर्वथा- बच्छेद्यानतिरिक्तवृत्तेरेव । अन्यथा द्रव्यत्वस्य दण्डजन्यताबच्छेदकत्वं मेयत्वस्य घटजनकतावच्छेदकत्वं च स्यादिति भूयानतिप्रसङ्ग आपद्येत । तथा च शशीयत्वं कथं शृङ्गाभावप्रतियोगितावच्छेदकं , तदवृत्तित्वात् । अत एव मणिक- ताप्युक्तं 'प्रतियोग्यवृत्तिश्च ध न प्रतियोगितावच्छेदक' इति । न च व्यधिकर- णधर्मावच्छिन्नविषयताप्रतियोगिज्ञानत्वस्य भ्रमलक्षणत्वेनाभिधानादिदमसङ्गतमिति वाच्यम् । तत्रावच्छिन्नेत्यस्य प्रकारकेत्यर्थात् । वस्तुतोऽतिरिक्तविषयता नास्त्येव । अनतिरिक्तायां तु समानाधिकरणेदन्त्वाद्यवच्छेदकं , न तु व्यधिकरणो धर्मः । न च प्रमुष्टत(त्त्वाता) कनान्तस्मृतौ समानाधिरणधर्मस्याप्रकारत्वात् किमवच्छेदक- मिति वाच्यम् । तत्राप्रकारीभूतस्याप्यनतिप्रसक्तधर्मस्यावच्छेदकत्वादित्याहुः । तस्माद् व्यधिकरणधर्मावच्छिन्नाभावघटितं व्याप्तेरसम्भवीति लक्षणान्तरं मणिकृत ऊचुः । तथाहि ---"प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ता- भावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति , तेन सह तस्य सामानाधिकरण्यं तदवच्छिन्नस्य सर्वस्यापि व्याप्तिरि"ति । अत्र वदन्ति -- तत्तट्टमसमानाधिकरणविशेषाभावप्रतियोगितावच्छेदकत- तद्रहित्वावच्छिन्नत्वाद् वहीनां प्रसिद्धानुमानाच्यातिः । न च यन्न भवतीत्यस्य यदवच्छिन्नं न भवतीत्यर्थः, तथा च बहित्वावच्छिन्नं प्रति तत्तद्वहित्वं नावच्छे- दकमिति नाव्याप्तिरिति वाच्यम् । तत्तद्वह्नित्वन्य बहित्वावच्छिन्नानतिप्रसक्तत्वेन तद्रवच्छिन्नं प्रत्ययवच्छेदकत्वादिति । अत्र पक्षधरमिश्राः --- नव्यत्यासेन प्रतियोगितानवच्छेन्द्रकावच्छिन्नल- मर्थः । तथा च तत्तद्वहिल्यस्य प्रतियोगितावच्छेदकत्येऽपि साध्यतावच्छेदकवाहि- स्वम्य प्रतियोगितानवच्छेदकत्वाद् नाव्याप्तिशङ्केत्याहुः । अत्र शकयते---- एवं सति व्यभिचारिण्यतिव्याप्तिः । धूमत्वस्यापि तार. शात्यन्ताभावप्रतियोगितानवच्छेदकत्वात् । प्रतियोगितायाः तत्तत्म्वरूपरूपायाः धूमत्वानवच्छेद्यत्वात् । अतिरिक्तवृत्तेरनवच्छेदकत्वात् । न च ताशात्यन्ताभाव- प्रतियोगितात्त्रावच्छिन्न प्रतियोग्यनवच्छेदकत्वं विवक्षितम् । तच्च धूमत्वे नास्त्येव । तादृशात्यन्ताभावप्रतियोगिसकलधूमवृत्तितया धूमत्वस्य तादृशावच्छेदकत्वसत्त्वा- १. 'गित्वा' क, पाटः, व्याप्तिवादः। १२ दिति वाच्यम् । एवं सत्यव्याप्तेदप्परिहारत्वात् । धूमवन्निष्ठयावद्वहिविशेषाभावप्र- निपागिसर्वचह्निवृत्तिलया बद्रित्वस्याधि प्रतियोगितात्वावच्छिन्नप्रतियोग्यवच्छेदक- पकत्वमभावविशेषणम् । तथा च हेतुसमानाधिकरण- कामाचप्रतियोगितानवच्छेदकत्वमर्थः । लन मत्वस्य नास्ति । बहिसमानाधि- करणमसामान्याभावप्रतियोगिताबन्दकत्वात् । बहिवे च नैवम् । धूमवति वहि सामान्याभावामावन तथा भूतकाभाव प्रतियोगितानवच्छेदकत्वात् तस्य । अत एक नामान्यानावसावनयपि गणिकतो युध्यत इति नाव्यामिन बालिव्याप्तिरिति JANMINARONOMein ani अत्र चिन्त्यम अवमन्धकाराभावबानेलत्यादिति व्यभिचारिण्यति- त्यानिः । अन्धकारमय याबदतरूपवत्तेजस्संसर्गाभावस्यैकत्वाभावेन हेतुस- काधिकरणका मानमतियोगितानब कस्वाद अन्धकाराभावत्वस्य । न चोद्ध- तरुपले जस्लान्निसामान्यामा कपकान्धकार इति न तत्रातिव्याप्तिगिते आचाम् । कन्यचिन तेजसः प्राजभावन्य अभ्यचिद् सभ्य सत्येनात्यन्ताभावास वात् । अत्यन्ताभावम्य प्रतियोगिनेव प्रागभावादिनापि विरोधात् । ननु वि- रोषः फलबलकल्यः । स च घटज्ञाने तधिकरणे तदत्यन्ताभावाग्रहात् तेन सदान्तु । न तु प्रागभावादिनानि. मानाभावात् । प्रत्युत ध्वंसप्रागभावकाले इदानी कपाषु पो नाम्नीति प्रतीन्या अविरोध एवेति चंद . एवं सत्यपाल- दान्त वातात् । अम्त बायकार: सामान्याभावः । तथापि यत्र तावद् विशेषाभाव: साध्यः, संनेय व्यभिचारिण्यतिव्याचिन बारा । किंबहुना . यदा घटत्वं तदा घट इति कान्टिकच्याप्स्यतित्याप्त लक्षणम् । घटत्वसमानकालीनकध्वंसप्रतियो- गितालबच्छेदकत्वाद घटत्वम्य । बसस्य सामान्यामा का? बला)भावन एकविरो- पाभावयव प्रातः . तत्प्रतियोगितायाश्चैकवटमात्रवृत्तित्वेनातिरिक्तवृत्तिघटत्यान- बच्चयादिति । तम्मादिदमत्राकृतम् ----- कन्वं हेत्वधिकरणविशेषणम् । तेनैक- हेत्यधिकरणनिष्ठयाबदभावप्रतियोगितात्वावच्छिन्नानवच्छेदकत्वमर्थः पर्यवस्यति । च सद्धेतावान्येव । एकधूमाधिकरणमहान सवृत्त्यत्यन्तायावसमूहप्रतियोगि- तानाश्रयमहानसीयवद्विवृत्तित्वेन वनित्यम्य तथाभूताभावप्रतियोगितानवच्छे- । स १. गित्वा' क. पा. 'चः क. पा.

२० मणिसारानुमानखण्डे दकत्वात् । अतिरिक्तवृत्तेरनवच्छेदकत्वात् । व्यभिचारिणि च नैवम् । एकव- यधिकरणायोगोलकवृत्त्यत्यन्ताभावानां यावजूमप्रतियागिकानां याः प्रतियोगि- ताः, तासां धूमत्वावच्छेद्यत्वात् । तादृशप्रतियोगितात्वावच्छिन्नानतिरिक्तवृत्तित्वाद् धूमत्वस्य । एवं कालिकव्याप्तावपि नातिव्यातिशङ्केति । नन्वेकाधिकरणकत्वम- व्यावर्तकं , सर्वेषां प्रत्येकमेकत्वादिति चेद् , न । बदधिकरणनिष्ठाभावप्रतियो- गिवृत्तित्व , तदधिकरणनिष्ठाभावाप्रतियोगिवृत्तिभिन्नत्वस्योक्तप्रतियोगितावच्छेदक- त्यस्यात्र विवक्षितत्वादिति न किञ्चिदनुपपन्नम् यत् त्वेकत्वं हेतुविशेषणमेवेति नोक्ताव्याप्तिरिति , तन्न । इयं गन्धवती पृथिवीत्वादित्यादौ विशेषाभावमादायाव्याप्तेस्तथाप्यनुद्धाराद् , हेतोरेकत्वादिति न किञ्चिदेतत् । अत्र चायमेतत्कपिसंयोगी एतत्त्वादित्यादावव्याप्तिः । एतत्त्वरू पहेतुसमानाधिकरणैतत्कपिसंयोगाभावप्रतियोगितावच्छेदकत्वादेतत्संयोगत्वस्येत्यत उक्तं प्रतियोग्यसमानाधिकरणेति । तथा च तदभावस्य प्रतियोगिसमानाधिकर णत्वात् प्रतियोग्यसमानाधिकरणघटाद्यभावप्रतियोगितानवच्छेदकत्वं तत्रास्त्येवेति नाव्याप्तिः । केचित्तु -- यावद्विशेषाभावव्यापकत्वात् सामान्याभावस्य तद्वति संयोग सामान्याभावोऽप्यस्तीति तमादाय वृक्षः संयोगी द्रव्यत्वादित्यत्राव्याप्तिवारणाय तत्पदमिति वदन्ति । तच्चिन्त्यम् । वृक्षे संयोगसामान्याभावसत्त्वे वृक्षे संयोगो नेति धीः स्यात् , न त्वग्रे वृक्षे संयोगो नेति । न चैकावच्छिन्नयावद्विशेषाभावः सामान्याभावव्यञ्जक इति सन्नपि संयोगसामान्याभावस्तत्रैकावच्छिन्नयावद्वि- शेषाभावाभावान्न प्रतीयत इति वाच्यम् । एकावच्छिन्नयावद्विशेषाभावस्या तत्सत्तायामेव नियामकत्वात् । अन्यथा यत्किञ्चिद्विशेषाभाव एव सामान्याभाव- व्याप्योऽस्तु , एकावच्छिन्नयावद्विशेषाभावरूपठ्यञ्जकविरहान्न तस्योपलब्धिरिति तत्केवलान्वयित्वमेव किं न ब्रूयाः । ननु वृक्षे संयोगसामान्याभावोऽङ्गीकार्य एव । वृक्षत्वावच्छेदेन संयोगस्य कस्याप्यभावेन वृक्षत्वस्य संयोगाभाववृत्त्यव- च्छेदकत्वात् । यो यवृत्त्यवच्छेदको न भवति , स तदभावन्त्यवच्छेदक इति व्याप्तेः । अन्यथा द्रव्यभिन्नत्वस्य गुणवृत्त्यनवच्छेदकस्यापि गुणाभाववृत्त्यन- च्छेदकत्वापातादिति चेद् , न । त्वदुक्तव्याप्तेः प्रमेयत्वादी व्यभिचारात् । तस्य न्यत्ववृत्त्यनवच्छेदकस्य द्रव्यत्वाभाववृत्त्यनवच्छेदकत्वात् । किञ्च , वृक्षत्वं व्याप्तिवादः। । संयोगवृत्त्यवच्छेदकमेवास्तु । न च संयोगाभावसमानाधिकरणत्वात् कथं संयोग- वृत्त्यवच्छेदकं तद् , अतिप्रसक्तत्वादिति वाच्यम् । हन्तैवं संयोगसमानाधिक- रणत्वात् कथं संयोगाभावावच्छेदकमित्यपि दीयतां दृष्टिः । किंबहुना , वृक्षत्वा- पच्छदेनाकाशादिसंयोगसत्वात् कथं तदवच्छेदेन संयोगसामान्याभावः । याव- द्विशेषाभावमन्तरेण सामान्याभावसत्त्वस्य केनाप्य(न)ङ्गीकारात् । न च संयो- गत्वेनैवाव्याप्यवृत्तित्वात् कथमाकाशादिसंयोगोऽपि वृक्षं व्याप्य वर्ततामिति बाच्यम् । अव्याप्यवृत्तित्वस्य स्वाभावसमानाधिकरणत्वरूपस्यान्यथानुपपत्त्यैव कल्पनात् । तस्याश्च मूले हरिसंयोगो न शाखायामित्यादिप्रतीत्या दृश्यसंयोग एय भावेन तत्राव्याप्यवृत्तिताकल्पनात् । न चान्यथानुपपत्त्या कचिंदव्याप्यवृत्ति- तायां कल्प्यमानायां संयोगत्वेनैव तत्कल्पना लाघवात् प्रसरतीति वाच्यम् । पतादृशकल्पनायां लाघवस्याकिञ्चित्करत्वात् । अन्यथा संयोगत्वापेक्षयापि गुण- त्वसत्यादिकं सामान्यत्वाइव्याप्यवृत्तितावच्छेदकमहित्वत्येव किंन रोचयेः । यदि च वृत्तिमत औत्सर्गिकं व्याप्यवृत्तित्वमापवादिकमव्याप्यवृत्तित्वमिति न गुणत्वं तत्रावच्छेदकमभ्युपैषि , तदा संयोगत्वेऽपि दृक्यातरतादृशोऽस्तु । अस्तु वा सं- योगत्वेनाव्याप्यवृत्तितानियमः , तुप्यतु दुर्जन इति न्यायात् । तथापि नानुप- पतिः । स्वाधिकरणनिष्टाभावप्रतियोगित्वमव्या(प्य)वृत्तित्वम् । तच्चाकाशवृक्ष- संयोगस्य घटाद्यवच्छिन्नाकाशनिष्ठाभावप्रतियोगित्वेनैवोषपन्नं , लाघवेन स्वाधि- करणनिष्ठाभावप्रतियोगित्वस्यैवाव्याप्यवृत्तित्वपदार्था ? अत्वा )त् । यावदधिक- रणगर्भत्वे गौरवादित्यास्तां बिस्तरः । अत एव वृक्षे मास्तु संयोगसामान्याभावः , तथापि वृक्षः संयोगी द्रव्यत्वादित्यत्रैवाव्याप्तिवारकं प्रतियोग्यसमानाधिकरणप- दम् । द्रव्ये यावद्विशेषाभावसत्त्वेन संयोगत्वस्य तत्प्रतियोगितात्वावच्छिन्नं प्रत्यब- च्छेदकलादव्याप्तिसम्भवादित्यपि कस्यचित् प्रलपितमपास्तम् । वृशे यावत्सं- योगाभावस्याभावात् । आकाशादिसंयोगस्य वृक्षत्वावच्छेदेनैव सत्त्वादित्युक्त- त्वात् । तस्मादयमेतत्संयोगी एतत्त्वादित्यादावव्याप्तिवारणाय प्रतियोग्यसमानाधि- करणपदमित्येव तत्त्वम् । नन्वत्र व्याप्तिरेव नास्ति, कथमव्याप्तिः, अलक्ष्यत्वात् । व्याप्तिसत्त्वे संयोगावच्छिन्नप्रदेश इव संयोगाभावावच्छिन्नप्रदेशेऽप्यनुमित्युदयापातात् । किञ्च, साध्याभावसामानाधिकरण्यसत्वाद्धेतुरयं व्यभिचार्येवेति चेद् ,न । पक्षतावच्छेद- २२ मणिसारानुमानखण्डे कसमानाधिकरण (बा ? सा)ध्यस्यानुमितिविषयतया तदवच्छेदेन साध्यसिद्धावापा- दकोसम्भयात् । किञ्च, पक्षधर्मताबलात् साध्यसिद्धिरनुमितो. पक्षधर्मता च पक्षे हेतुसत्ता पक्षीयसाध्यं विनानुपपन्ना तमाक्षिपतीत्याकारा पक्षतावच्छेदकावच्छेदेने न साध्यं विषयीकरोति, किन्तु तदाश्रये । किञ्चेत्यपि न । प्रतियोगिविरुद्ध- साध्याभावसहचारस्य व्यभिचारवादित्युपाध्यायाः । अत्र पक्षधरमिश्राः पक्षतावच्छेदकसामानाधिकरण्येन हेतुज्ञाने पक्षता- वच्छेदकसामानाधिकरण्येन साध्यभानम् , एवं पक्षतावच्छेदकावच्छिन्ने हेतुज्ञाने तु पक्षतावच्छेदकावच्छिन्न एव साध्यभानमित्यङ्गीकार्यमेव । अन्यथा कचित् पक्ष- तावच्छेदकसामानाधिकरण्येन कचित् पक्षतावच्छेदकावच्छेदेन साध्यानुमिति- रिति स्याद् , नियामकाभावात् । तस्माद् येन रूपेण हेतुज्ञानं. तेन रूपेण साध्यं सिध्यतीति नियम इति संयोगाभावावच्छिन्न प्रदेश संयोगानुमाने आपाद- कसत्त्वेऽपि बाधादेव तदवच्छेदेन न संयोगानुमानमिति तत्त्वम् । यच्च बाधानुपपत्त्या साध्यसिद्धिरित्युक्तं . तदपि न । स्वरूपसदनुपपत्तेर्भमानुमित्यव्या(प्ति ? सेः,)ज्ञाना- नुपपत्तेश्चासम्भवात् , पक्षीय साध्यामाने तद्विनानुपपत्ते तुमशक्यत्वादित्याहुः । अत्र शङ्कयते यत्र यत्र हेतुधीस्तत्रतत्र साध्यं सिध्यतीत्येव नियमः, न तु येन रूपेणेत्यादि, मानाभावात् । पश्चतावच्छेदेन साध्याय काप्यमानात् । अनुपपत्तिज्ञानं न सम्भवति पक्षीय साध्यामानादिति यदुक्तम् : तदपि न । पक्ष हेतुः साध्यं विनानुपपन्न इति ज्ञानस्य पक्षीयसाध्यज्ञानं विनापि सम्भवात् । तस्मात् संयोगाभावप्रदेशे संयोगानुमिताचापादकाभाब इत्युपाध्यायोक्तमेव सम्यम् , न तु तत्र बाधप्रतिबन्धवशादनुमित्यनुदय इति । अत्र प्रतिभाति ---- संयोगाभावप्रदेशे संयोगानुमिता सामग्र्येवापादिका । न च पक्षतावच्छेदकसमानाधिकरणसाध्यज्ञानमात्रं सामग्रीत इत्युक्तमेवेति वा- च्यम् । सत्यम् । परं तु तदेव सामानाधिकरण्यं संयोगाभावप्रदेशमादाय सिध्यतु, यदि तत्र बाधो न विरोधीति मिश्राशयात् । अनुपपत्तिज्ञानं च यद्यप्यु(क! क्त- क)मेण सम्भवति, तथापि तस्य हेतुत्वे मानाभावः । व्याप्त्यादिज्ञानेनान्यथासि- १. 'क' क. पाट:. २. 'न सा' क. पाठा.

व्याप्तिवादः। द्वत्वादिति । वस्तुतस्तु पर्वते प्राग्भागाद्यवच्छेदेन धूमदर्शनानन्तरम् अप्राग्भागा- बुच्छेदेन प्रवर्तेत, यदि पर्वतमात्रे वह्निभानम् । तस्माद् यदवच्छेदेन हेतुज्ञानं, तवच्छेदेन साध्यं भासत इत्यवश्यमभ्युपेयम् । नन्विदमयुक्तम् , इदं द्रव्यं संयोगादित्यत्र व्यभिचारात् । तत्र संयोगम्य हेतोः शाखाद्यवच्छेदेन द्रव्यत्वस्य साध्याय च सर्वावच्छेदन ग्रहादिति चेद्, न । वाधकाभावे सत्युक्तनियमानी- कारात गनु प्रतियोग्यसमानाधिकरणपदाने शुद्धपुरुषाविनाभूतेन दण्डविशिष्टपु- रुषव्याभिचारिणा तद्गृहत्वादिना दण्डावच्छिन्नपुरुषस्य व्याप्त्यापत्तिः। तद्गृहत्वा- दिसमानाधिकरणदण्डावच्छिन्न पुरुषाभावस्य प्रतियोगिसमानाधिकरणतया विशि- ट्राभावप्रतियोगितानवच्छेदकत्वस्य दण्डावच्छिन्नपुरुषत्वे सत्त्वादिति चेद्, न । प्रतियोग्यसामानाधिकर(ज्येन ? ण्यपदेन) प्रतियोगितावच्छेदकावच्छिन्नासामाना- धिकरण्यम्य विवक्षितत्वात् । भवति च पुरुष समानाधिकरणत्वेऽपि दण्डावच्छिन्न , पुरुषत्वरूपप्रतियोगितावच्छेदकावच्छिन्नासमानाधिकरण एव सोऽभाव इति ना. निव्यातिः । नन्वेवमपि अयं भूतत्वमूतत्वोभयवान् मूर्तत्वादिति व्यभिचारिण्यति- व्याप्तिः । मूर्तत्वसमानाधिकरणस्य मनोनिष्ठभूतत्वमूर्तत्वोभयाभावस्य द्वित्वाव- च्छिन्नमूतत्वसमानाधिकरणतया प्रतियोगितावच्छेदकावच्छिन्नासामानाधिकरण्यवि- रहादिति चेद्, न । प्रतियोगितावच्छेदकपर्याप्त्यधिकरणासामानाधिकरण्यस्य तदर्थत्वात् । अस्ति च मनसि द्वित्वावच्छिन्नभूतत्वमूर्तत्वाभावः प्रतियोगितावच्छे. बद्वित्वपर्याप्त्यधिकरणमिलितासमानाधिकरण इति न तत्रातिव्याप्तिः । ननु तथा- प्यसम्भवः, काले सर्वेषामभावानां प्रतियोगिसमानधिकरणतया प्रतियोग्यसमाना- धिकरणाभावाप्रसिद्धः । आकाशादेरवृत्तितापक्षे आकाशाद्यभावस्य प्रतियोगिव्यधि- करणम्य सिद्धावपि व्यभिचारिण्यतिव्याप्तिः, प्रतियोग्यसमानाधिकरणबहिसमा- नाधिकरणाकाशायभावपतियोगित्वात् साध्यधूमादेः । न च वचिदधिकरणे प्रति- योग्य सामानाधिकरण्यं विवक्षितम् । तच्च धूमाभावादेः कालेऽभावेऽपि अयःपिण्डा- दावस्त्येवेति नाप्रसिद्धिर्न वातिव्याप्तिरिति वाच्यम् । एवं सति संयोगाभावस्यापि गुणाद्री प्रतियोग्यसामानाधिकरण्यात् संयोगसाध्यकाव्याप्तितादवाथ्यात् । तस्माद्धे- १. 'का' क. पाठः मणिसारानुमानखण्डे २४ S त्वधिकरणत्वावच्छेदेन प्रतियोग्य सामानाधिकरण्यं वाच्यम् । तच्च धूमाभावादी ना त्येव । काले सामानाधिकरण्यात् । न च कालभिन्नाधिकरणे प्रतियोग्यसामा- नाधिकरण्यं विवक्षितमिति न तदादायाप्रसिद्धिरिति वाच्यम् । तथा सति कालो जगदाधारः कालत्वादित्यादिकालमात्राधिकरणनिष्ठव्याप्त्यव्याप्त्यापत्तेः । कालय- रूपहेत्वधिकरणस्य कालभिन्नस्याप्रसिद्धया कालभिन्नहेत्वधिकरणत्वावच्छेदन प्रति- योग्यसामानाधिकरण्यस्य कुत्राप्यभावेनाप्रसिद्धिरिति । मैवम् । हेत्वाधिकरणे कचिद् प्रतियोग्यसामानाधिकरण्यस्य विवक्षित- त्वात् । तच्च धूमाभावादी काले विरहेऽपि अयःपिण्डादिरूपाधिकरणेऽस्त्येवेति न कालमादायाप्रसिद्धिय॑भिचार्यतिव्याप्तिर्वा । अत एवं न संयोगसाध्यकाच्या- तिः । द्रव्यत्वाधिकरणे संयोगाभावस्य प्रतियोगिसामानाधिकरण्यनियमात् । अत एव वृक्षः संयोगी सत्त्वादित्यत्रापि नातिव्याप्तिः । सत्त्वाधिकरणीभूतगुणादौ संयो- गाभावस्य प्रतियोग्यसामानाधिकरण्यात् । केचित्तु ग्राह्यसामानाधिकरण्यप्रविष्ट सम्बन्धेन प्रतियोग्यसामानाधिकरण्य- मार्थ इति काले(पक्ष ? न प्रति)योग्यसामानाधिकरण्याप्रसिद्धिः । तत्र स्वरू- पसम्बन्धेन सर्वेषां सत्त्वेऽपि ग्राह्यसामानाधिकरण्य(ग्रह ? प्रविष्ट संयोगादिना सत्त्वाभावेनोक्तप्रतियोग्यसामानाधिकरण्यसत्त्वात् । अत एव धूमबति समवायाव- च्छिन्नवढ्यभावसत्त्वेऽपि नाव्याप्तिः । तस्य ग्राह्यसामानाधिकरण्यप्रविष्टसंबन्धन प्रतियोग्यधिकरणवृत्तितया विशिष्टाभाव(त्वा)सत्त्वादिति । तचिन्त्यम् --- एवं सति कालो जगदाधारः कालत्वादित्यव्याप्त्यापत्तेः । तत्र ग्राह्यसामानाधिकरण्यप्रविष्टजगदाधारताप्रयोजकम्वरूपसम्बन्धेन प्रतियोग्यस- मानाधिकरणकालत्वसमानाधिकरणाभावाप्रसिद्धः । तेन सम्बन्धेन सर्वेषां कालवृत्ति त्वादिति । पक्षधरमिश्रा:- आरोप्न सम्बन्धन प्रतियोग्यसामानाधिकरण्यं विवक्षि- तम् । तथा च न कालमादायाप्रसिद्धिः । तत्रारोप्यसमवायादिना प्रतियोग्यसामा- नाधिकरण्यसत्त्वात् । न चैवं समवायसम्बन्धावच्छिन्नवयभावमादाय सहनुमाना- १. 'वसं क. पाट:

व्याातवादा MAPTEASNA व्याप्तिः । आरोप्यसम्बन्धन समवायावच्छिन्नवयभावस्यापि प्रतियोग्यसमानाधि- करणत्वादिति वाच्यम् । ग्राह्यसामानाधिकरण्यप्रविष्टसम्बन्धावच्छिन्नत्वस्याभावे विशेषणत्वात् । समवायावच्छिन्नवढ्यभावस्तु न तथा । संयोगस्य ग्राह्यसामाना- धिकरण्यप्रविष्टत्वादित्याहुः । अत्र शङ्कयते-कालो जगदाधारः कालत्वादित्यत्र हेतुसमानाधिकरणस्य ग्राह्यसामानाधिकरण्यप्रविष्टसम्बन्धावच्छिन्नाभावस्याप्रसिद्धचा लक्षणस्याव्याप्ति- रिति । अत्रायमाशयः आरोप्यसम्बन्धेन प्रतियोग्यसमानाधिकरणहेतुसमाना- धिकरणाभावप्रतियोगितानवच्छेदकग्रामसामानाधिकरण्यप्रविष्टसम्बन्धावच्छिन्नसा- ध्यतावच्छेदकावच्छिन्नत्वमर्थः । अस्ति च धूमसमानाधिकरणसमवायसम्बन्धाद- च्छिन्नवह्नयभावप्रतियोगितानवच्छेदकत्वं संयोगसम्बन्धावच्छिन्नवदित्वस्यति ना- व्याप्तिः । अत एव कालत्वहेतावपि नाव्याप्तिः । कालनिष्ट घटत्वाद्यभावस्य सम- वायसम्बन्धारोप्यकस्य स्वरूपसम्बन्धावच्छिन्नसाध्याप्रतियोगिकत्वादिति । ननु तथापि प्रसिद्धानुमानाव्याप्तिः। धूमसमानाधिकरणस्य धूमावयवनिष्ठस्य प्रतियोग्य- समानाधिकरणवढ्यभावस्य या प्रतियोगिता तदवच्छेदकत्वाद् वहित्वस्येति चेद् , न । ग्राह्यसामानाधिकरण्यप्रविष्टसम्बन्धेन हेत्वधिकरणस्य विवक्षितत्वात् । धूमाव- यवश्च न संयोगेन धूमाधिकरणमिति नाव्याप्तिः । नन्वेवमपि प्रतियोग्यसमाना- धिकरणाभावाप्रसिद्धिः । सर्वाभावस्य सर्वप्रतियोगिकत्वात् । तथाहि - घटा- भावे पटो नास्तीति प्रतीतिः सर्वानुभवसिद्धा पटाभावविषयिणी च । तथा च तत्र पटाभावस्य भिन्नस्य विषयता न सम्भवति । अभावाधिकरणकाभावानजीका- रात् । किन्तु घटाभाव एव पटाभावरूपस्तत्र विषय इत्यङ्गीकार्यम् । तथा च सिद्धं घटाभावस्य पटाभावत्वम् । एवमन्याभावत्वमपीति धूमसमानाधिकरणस्य पटाद्यभावस्य प्रतियोगिधूमसमानाधिकरणत्वादसम्भव इति चेद् , न । घटाभा- वेऽप्यन्यत्र सिद्धस्य पटाभावस्य वृत्तौ बाधकाभावात् । अभावमात्राधिकरणाभाव- स्यैवास्माभिरनङ्गीकारात् । यदि च सिद्धान्तश्रद्धाजाड्यादभावाधिकरणकाभावान- ङ्गीकारः, तथापि नानुपपत्तिः । प्रतियोगिव्यवहारविषयासामानाधिकरण्यस्य घटाद्यभावस्य विवक्षितत्वात् । अस्ति च घटाद्यभावप्रतियोगिव्यवहारविषयता घटे, न तु पटे । व्यवहारस्यापर्यनुयोज्यत्वात् । ननु तथापि विकल्पासहविशेषणमिदम् । तथाहि प्रतियोग्यसामाना- । । 1.

२६ मणिसारानुमानखण्डे धिकरण्यं यावत्प्रतियोग्यसामानाधिकरण्यं यत्किञ्चित्प्रतियोग्यसामानाधिकरण्यं वा विवक्षितम् । नाद्यः । अयं संयोगसामान्याभाववान् सत्त्वादित्यत्रातिव्याप्तेः। सत्त्व- समानाधिकरणस्य संयोगरूपाभावस्य विशेषाभावरूपप्रतियोगिसमानाधिकरणतया यावत्प्रतियोग्यसामानाधिकरण्याभावात् । प्रतियोग्यसमानाधिकरणघटाभावादिप्र- तियोगितानवच्छेदकत्वात् साध्यतावच्छेद (क)स्य । नापरः । अयं संयोगविशेषा- भाववान् वृक्षत्वादित्यादावव्याप्तेः । वृक्षत्वसमानाधिकरणसंयोगरूपस्य साध्याभा- वस्य सामान्याभावरूपप्रतियोग्यसमानाधिकरणतया संयोगविशेषाभावत्वस्य सा- ध्यतावच्छेदकस्य तत्प्रतियोगितावच्छेदकत्वादिति । मैवम् । यत्किञ्चित्प्रतियोग्यसामानाधिकरण्यमेव विवक्षितम् । न चोक्तदो- षः । यत्प्रतियोग्यसामानाधिकरण्यं , तद्वृत्तिप्रतियोगितानवच्छेदकत्वस्यं विवक्षि- तत्वात् । अयं संयोगसामान्याभाववान् सत्त्वादित्यत्र सत्त्वसमानाधिकरणस्य सं- योगरूपस्य साध्याभावस्य सामान्याभावात्मकप्रतियोग्यसमानाधिकरणत्वात् , सं. योगसामान्याभावत्वस्य संयोगसामान्याभाववृत्तिप्रतियोगितावच्छेदकत्वादतिव्याप्ति- विरहात् । संयोगविशेषाभाववान् वृक्षत्वादित्यत्र हेतुसमानाधिकरणस्य संयोगरूप- साध्याभावस्य सामान्याभावात्मकप्रतियोग्यसमानाधिकरणत्वेऽपि संयोगविशेषाभा- वत्वस्य सामान्याभाववृत्तिप्रतियोगितावच्छेदकत्वविरहादव्याप्तिविरहात् । विशेषा- भावत्वस्य विशेषाभाववृत्तिप्रतियोगितायामेवावच्छेदकत्वात् । तथा च स्वाश्रयास- मानाधिकरणहेतुसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वं पर्यवसानार्थः । स्व- पदेनावच्छेद्यप्रतियोगितापरामर्शादिति न काप्यनुपपत्तिः । नन्विदं लक्षणं द्वि- त्वावच्छिन्नवयभावादिकमादाय सदनुमानाव्याप्तम् । अथ द्वित्वावच्छिन्नवय- भावः प्रतियोगिसमानाधिकरण एवेति न. तमादायाव्याप्तिरिति चेद् , न । प्र- तियोगितावच्छेदकावच्छिन्नासामानाधिकरण्यस्य तदर्थस्योक्तत्वात् । तस्य च द्वि- त्वा(वच्छिन्न)वह्नयभावेऽपि सत्त्वेनाव्याप्तितादवस्थ्यात् । अथ प्रतियोगितावच्छेद- कावच्छिन्नासामानाधिकरण्यमित्यत्र सामानाधिकरण्याभावोऽर्थः । स च यत्कि- श्चित्प्रतियोगिसत्तयैव- नास्ति । तथा च द्वित्वावच्छिन्नाभावप्रतियोगितावच्छेदकं द्वित्वं वह्नित्वं च । तन्मध्ये वह्नित्वरूपप्रतियोगितावच्छेदकावच्छिन्नसामानाधिक- १. 'प्तिः क, पार व्याप्तिवादः। Kawarence रण्यसत्त्वान्न द्वित्वावच्छिन्नाभावमादायाव्याप्तिरिति चेद् , न । एवं सति वह्निघटो- भयवान् धूमादिति व्यभिचारिण्यतिव्याप्तेर्दुष्परिहैरत्वात् । धूमसमानाधिकरणद्वि- त्वावच्छिन्नाभावप्रतियोगितावच्छेदकवहित्वावच्छिन्नसमानाधिकरणत्वाद् द्वित्वाव- च्छिन्नाभावस्य । अत एव द्वित्वावच्छिन्नाभावमादायाव्याप्तिवारणायाव्यासज्ज्यवृत्ति. प्रतियोगिकत्वमभावविशेषणमित्यपि कस्यचित् कल्पनमपास्तम् । एवं सत्युक्तव्य- भिचारिण्यतिव्याप्तेर्दुष्परिहंरत्वात् । वह्निघटोभयवृत्तिद्वित्वस्य धूमसमानाधिकरणा- व्यासज्ज्यवृत्तिप्रतियोगिकाभावप्रतियोगितानवच्छेदकत्वात् । तस्माद् द्वित्वावच्छि- नाभावमादाय लक्षणाव्याप्तिर्दुष्परिहरेति । अत्र केचित् द्वित्वावच्छिन्नाभावानङ्गीकारेण लक्षणमिदम् । तेन धूमवति वह्नयभावस्याभावान्न धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकं वह्नि- त्वमिति नाव्याप्तिः । नन्वेवं घटपटोभयवानयं धूमादिति व्यभिचारिणि लक्षण- स्यातिव्याप्तिरिति दोषः । धूमसमानाधिकरणस्य घटाभावस्य पटाभावस्य च प्रति- योगिताया द्वित्वस्य व्यासज्ज्यवृत्तितया अतिप्रसक्तत्वेनानवच्छेदकत्वादिति चेद् , न । घटाभावपटाभावयोधूमसमानाधिकरणतया तादृशाभावप्रतियोगितात्वेनानुगत- प्रतियोगितानतिप्रसक्ततया द्वित्वस्य तदवच्छेदकत्वात् । नन्वेवमपि अयमात्मत्व- द्रव्यत्वोभयवान् गुणवत्त्वादित्यादावतिव्याप्तिः । गुणवत्त्वमसमानाधिकरणात्म(त्व)- विरहसत्त्वेऽपि द्रव्यत्वविरहासत्त्वेन तदुभयवृत्तिद्वित्वस्य तादृशाभावाप्रतियोगिवृत्ते- स्तदनवच्छेदकत्वादिति चेद्, न । तत्राव्यभिचारसत्त्वेऽपि द्वित्वावच्छिन्नेन हेतोः सामानाधिकरण्याभावादतिव्याप्त्यनवकाशात् । न च तादृशाभावप्रतियोगितानव- च्छेदकद्वित्वावच्छिन्नद्रव्यत्वसामानाधिकरण्यस्य हेतौ सत्त्वात् कथं नातिव्याप्तिरिति वाच्यम् । प्रतियोगितानवच्छेदकपर्याप्त्यधिकरणसामानाधिकण्यस्य तदर्थत्वात् । तस्य च तत्राभावात् । द्वित्वपर्याप्त्यधिकरणमिलितासामाधिकरण्यात् । नन्वेवमपि घटत्वद्रव्यत्वोभयवानयं गुणवत्त्वादित्यत्रातिव्याप्तिः । द्वित्वस्य हेतुसमानाधिकर- णाभावाप्रतियोगिनि द्रव्यत्वेऽपि वृत्त्या प्रतियोगितानवच्छेदकत्वात् । तदवच्छि- न्नघटत्वद्रव्यत्वोभयसामानाधिकरण्यसत्त्वाच्च गुणवत्त्वस्येति चेद्, न । हेतुस- मानाधिकरणाभावप्रतियोगितानधिकरणपर्याप्तवृत्तिकेतरधर्मत्वस्यैवोक्तप्रतियोगिताव- १. 'हा' क. पाठः १. 'हा' क. पाठः, ३. 'वयो' क. पाठः, मणिसारानुमानखण्डे च्छेदकत्वेन विवक्षितत्वात् । भवति घटत्वद्रव्यत्वोभयवृत्ति द्वित्वं हेतुसमानाधिक- रणाभावप्रतियोगितानधिकरणद्रव्यत्वपर्याप्तवृत्तिकभिन्नं , द्वित्वस्यैकमात्राश्रयापर्या- प्तवृत्तिकत्वात् । तथा च तत्र द्वित्वं प्रतियोगितावच्छेदकमेवेति नातिव्याप्तिरिति । वस्तुतस्तु व्यासज्ज्यवृत्त्यभावाङ्गीकारपक्षेऽपि द्वित्वावच्छिन्नप्रतियोगिकव- यभावमादाय न लक्षणाव्याप्तिः । तथाहि -हेतुसमानाधिकरणाभावप्रतियोगि- तावच्छेदकावच्छिन्नाभाववदवृत्तिस्वविशिष्टकत्वमेवात्रोक्तप्रतियोगितावच्छेदकत्वेन विवक्षितम् । अस्ति च धूमसमानाधिकरणद्वित्वावच्छिन्नवह्नयभावप्रतियोगिताव- च्छेदकद्वित्वावच्छिन्नाभाववद्वद्धिमति वह्नित्वावच्छिन्नस्य वृत्तिरिति वह्नित्वे तदनव- च्छेदकत्वम् । प्रतियोगितावच्छेदके च यावत्त्वं विशेषणम् । तेन वह्नित्वरूपप्रति- योगितावच्छेदकावच्छिन्नाभाववदवृत्तिस्वविशिष्टकत्वस्य वह्नित्वेऽपि भावादव्याप्ति- रिति दूपणं निरस्तम् । वह्नित्वस्य द्वित्वरूपप्रतियोगितावच्छेदकावच्छिन्नाभावबढ़- त्तिस्वावशिष्टकतया यावत्पदेन तदोषनिरासात् । अत एवायं वह्निघटोभयवान् धू- मादित्यत्र नातिव्याप्तिः । धूमसमानाधिकरणद्वित्वावच्छिन्नाभावप्रतियोगितावच्छेद- कानां वह्नित्वघटल्यबघिटोभयवृत्तिद्वित्वानामवच्छिन्नस्याभाववति द्वित्वविशिष्ट- स्यावृत्तितया द्विवे निरुक्तप्रतियोगितावच्छेदकत्वसत्त्वात् । यद्धा हेतुसमानाधिकरणाभावप्रतियोगितात्वावच्छिन्नान्यूनानतिरिक्तवृत्तित्व- मिह तत्प्रतियोगितावच्छेदकत्वं विवक्षितम् । धूमसमानाधिकरणद्वित्वावच्छिन्नव- हृयभावप्रतियोगितात्वावच्छिन्नस्य वह्नित्वं न्यूनवृत्त्येव , तदाश्रयघटावृत्तित्वात् । तथा च न वह्नित्वं द्वित्वावच्छिन्नाभावप्रतियोगितावच्छेदकमिति नाव्याप्तिशङ्का । द्वित्वावच्छिन्नसाध्यकव्यभिचारिणि च द्वित्वं तादृशप्रतियोगितात्वावच्छिन्नान्यूना- नतिरिक्तवृत्त्येवेति नातिव्याप्तिरिति । अथवा प्रतियोग्यसामानाधिकरण्यपदस्य साध्यतावच्छेदकावच्छिन्नासामा- नाधिकरण्यमर्थः । व्यासज्ज्यवृत्तिप्रतियोगिकवयभावस्तु न बहित्वावच्छिन्नासमा- नाधिकरण इति न तमादाय सद्धेत्वव्याप्तिशङ्का । न चैवं सद्धेतौ सर्वत्राव्याप्तिः, धूमसमानाधिकरणामावस्य वह्नित्वावच्छिन्नवह्निसामानाधिकरण्यनियमेनोक्तार्थस्य तत्राप्रसिद्धरिति वाच्यम् । आरोप्यसम्बन्धेन साध्यतावच्छेदकावच्छिन्नेनासामाना- धि करण्यस्य विवक्षितत्वात् । तच्च सद्धेतस्थलेऽप्यस्त्येव । अन्ततः समवायसम्ब- धावच्छिन्नवयभावस्यैव तादृशत्वात् । न च तथा. सत्यव्याप्तिः, तादृशाभावप्र. ।

व्याप्तिवादः । लियोगितावच्छेदकत्वाद् वह्नित्वस्येति वाच्यम् । तादृशाभावे ग्राह्यसामानाधिकर- ण्यप्रविष्टसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिकत्वाभावस्यैव विवक्षि- तत्वादिति प्रागेवोदितत्वात् । अत एव संयोगसामान्याभाववान् सत्त्वादित्यत्र ना- तिव्याप्तिः, संयोगरूपस्य साध्याभावस्य साध्यतावच्छेदकसामान्याभावत्वावच्छि- नासामानाधिकरणबनियमात् । संयोगविशेषाभावसाध्यके नाव्याप्तिः, संयोगस्य साध्याभावस्य विशेषाभावत्वावच्छिन्नसामानाधिकरण्यनियमात् । वस्तुतस्तु प्रतियोग्यसमानाधिकरणमित्यत्र प्रतियोगित्वसामानाधिकरण्यो- भयाभावावच्छिन्नसाध्यकत्वमर्थः । द्वित्वावच्छिन्नाभावस्तु न तथा । साध्यताव- च्छेदकावच्छिन्नेन सह प्रतियोगित्वसामानाधिकरण्ययोरुभयोरपि सत्त्वेन तदुभ- याभा(वा)वच्छिन्नसाध्यकत्वस्य तादृशाभावेऽभावात् । सद्धेतौ घटाद्यभावस्ता- दृशः । साध्यस्य तेन सह प्रतियोगित्वासत्त्वेन तदुभयाभा(वा)वच्छिन्नत्वस्य स- त्वात् । एकसत्त्वेऽपि द्वित्वावच्छिन्नाभावसत्त्वात् । व्यभिचारिणि तु साध्याभाव एव तादृशः । प्रतियोगित्वसत्त्वेऽपि साध्यस्य तत्सामानाधिकरण्याभावेन तदुभया- भावावच्छिन्नत्वसत्त्वात् । अत एव संयोगसामान्याभावसाध्यकेऽपि नातिप्रसङ्गः । संयोगस्य सामान्याभावरूपसाध्येन सहासमानाधिकरणतया तस्य प्रतियोगित्वसा- मानाधिकरण्योभयाभावावच्छिन्नत्वात् । संयोगविशेषाभावसाध्यके च नाव्याप्तिः । संयोगस्य विशेषाभावसामानाधिकरण्यप्रतियोगित्वयोरुभयोरपि सत्त्वेनोभयाभावा- वच्छिन्नत्वाभावादिति युक्तमुत्पश्यामः । ननु द्रव्यत्वसाध्यके गुणकर्मान्यत्वविशिष्ट सत्त्वे हेतौ लक्षणाव्याप्तिः । सत्त्वरूपहेतुसमानाधिकरणाभावप्रतियोगित्वाद् द्रव्यत्वस्य । न च गुणकर्मान्यत्व- विशिष्टसत्त्ववति न द्रव्यत्वाभाव इति नाव्याप्तिरिति वाच्यम् । एवं सति व्याभ- चारिण्यतिव्याप्तेः । आर्टेन्धनप्रभवत्वविशिष्टचह्निमति धूमाभावाभावादिति चेद् , न । यद्धर्मावच्छिन्नसाधनसमानाधिकरणाभावाप्रतियोगित्वमित्यर्थाद्, गुणकर्मा- न्यत्वविशिष्टसत्त्वसमानाधिकरणाभावप्रतियोगित्वं न द्रव्यत्वस्येति नाव्याप्तिः । व्यभिचारिण्याइँन्धनप्रभववद्भित्वेन धूमव्याप्यतास्त्येव, वह्नित्वेन तु नास्त्येवेति नातिप्रसङ्गः । अत्यन्ताभावपदं च विरोध्यभावपरम् । अन्यथा अयं घटाभाव- वान् पटाभाववत्त्वादिति व्यभिचारिण्यतिव्याप्तिप्रसङ्गात् । अत्यन्ताभावत्वस्य सा- धनसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वात् । अभावप्रतियोगिकाभा- मणिसारानुमानखण्डे गो गो गि newwwwimd यो कारात् । भावप्रतियोगिकाभावप्रतियोगितायाश्चाभाववृत्तिधर्मानवच्छेद्य- विरोधिपरत्वे च भावस्यैवाभावविरोधित्वात् प्रतियोगितावच्छेदकमभावत्वं ति नातिप्रसङ्गः। पक्षधरमिश्रास्तु अत्यन्ताभावपदं ग्राह्यसामानाधिकरण्यविरोधिसंसर्गा- मवश्यं वाच्यम् । तेन दैशिकसामानाधिकरण्येऽत्यन्ताभावस्य, कालिकसा- करण्ये ध्वंसप्रागभावयोर्लाभः । अन्यथा यदा घटत्वं तदा घट इति का. तिव्याप्यता जाती प्रसज्ज्येत । महाप्रलये घटत्ववति घटध्वंससत्त्वेऽपि ताभावाभावेन घटत्वस्य तादृशात्यन्ताभावप्रतियोगितानवच्छेदकत्वात् । न प्रलये घटध्वंसवत् तदत्यन्ताभावोऽप्यस्त्येव, तत्प्रतियोगितावच्छेदकमेव दु: ति नातिव्याप्तिरिति वाच्यम् । तथा सति गोत्वाश्वत्वयोरपि कालिकव्या- यात् । गोत्ववति कालेऽश्वत्वात्यन्ताभावस्यापि सत्त्वादिति वदन्ति । अत्र शङ्कयते---- प्रलयेऽत्यन्ताभावसत्त्वेन तस्य चात्यन्ताभावस्य तत्का- व्यक्त्यसमानकालत्वेन प्रतियोग्यसमानाधिकरणहेतुसमानाधिकरणात्य- य, प्रतियोगित्वेन व्यक्तेर्जातिनिरूपितव्यापकताया अप्रसङ्गः, जातौ तु विद्यमानस्यापि जात्यत्यन्ताभावस्य सकलकालोपाधौ प्रतियोगिसमान- नियमाद् विशिष्टाभावप्रतियोगित्वस्य तत्रासत्त्वादव्याप्तिनिरासादिति । पक्षधरमिश्राणां कालिकव्याप्तावेन्वयव्यतिरेकाभ्यां ध्वं. वगर्भव्यभिचारज्ञानस्य, दैशिकव्याप्तावत्यन्ताभावगर्भव्यभिचारज्ञानस्य(च) अकत्वाद् ग्राह्यसामानाधिकरण्यविरोधिसंसर्गाभावपरत्वमावश्यकम् । तदुक्तं मित्रैः तत्र तदत्यन्ताभावसत्त्वेऽपि ध्वंसप्रतियोगित्वज्ञानस्य विरोधि- अत्रायमाशयः harnevaan me Kareli WANTHANI "HI अत्र कश्चित् ---- अत्यन्ताभावपदमावश्यकम् , अन्यथा संयोगवान् गुरु- यत्र गुरुत्ववति काले यत्किञ्चित्संयोगावश्यंभावेन पूर्वसंयोगध्वंससत्त्वेऽपि सामान्यस्य गुरुत्वव्यापकता कालिकी हीयेत । गुरुत्वसमानाधिकरणसक- गध्वंसस्य तत्तत्कालोत्पन्नस्यानतिप्रसक्ततया संयोगत्वस्य प्रतियोगितायाम- कत्वात् । अत्यन्तपददाने तु न दोषः । गुरुत्वकाले संयोगात्यन्ताभाव- पि तस्य प्रतियोगिसमानकालत्वात् । प्रत्य ! ति)योग्यसमानकालात्यन्ता- तयोगितानवच्छेदकत्वस्य संयोगत्वे सत्त्वादिति । तदसत् । एकत्वस्याधि- व्यातिवाद। करणविशेषणतायाः प्रागेवोक्तत्वात् । तथा च गुरुत्वाधिकरणीभूतयत्किञ्चिदेक- कालवृत्तिग्राह्यसामानाधिकरण्यविरोध्यभावप्रतियोगितावच्छेदकभिन्नत्वं.पर्यवस्यति तच्च संयोगत्वेऽस्त्येव । भिन्नभिन्नकाले गुरुत्वाश्रयीभूते सर्वसंयोगध्वंससत्त्वेऽपि एकस्मिन् गुरुत्वाधिकरणकाले ताव«सासत्त्वादिति । (अत्राभावे ग्राह्यसामानाधिकरण्यविरोधित्व) ग्राह्यसामानाधिकरण्यविरोधि- तावच्छेदकावच्छिन्नत्वम् । विरोधि(क ? )तावच्छेदकं च दैशिक्यामत्यन्ताभाव- त्वादि, कालिक्यां तु ध्वंसत्वं प्रागभावत्वं च । व्याप्तौ च वस्तुतो विरोधितावच्छेदकं प्रविष्टं, न तु विरोधितावच्छेदकत्वेन तस्य ज्ञानमपेक्षितं, येन विरोधित्वस्य सहानवस्थाननियमलक्षणस्य प्रवेश आत्माश्रयादिशङ्का स्यात् । नन्ववच्छेदक- त्वमवच्छित्तिधीजनकत्वम् । तच्च नियमगर्भत्वेन व्याप्तिगर्भमित्यात्माश्रयादि दुर्वा- रमिति चेत्। अत्र केचित् अवच्छेदकत्वं स्वरूपसंबन्धात्मकमेव । अन्यथा घट- जनकतावच्छेदकं दण्डत्वं, न चक्रभ्रमजनकत्वमनतिप्रसक्तमित्यन नियामका. भावप्रसङ्गात् । तथा चात्रापि स्वरूपसंबन्धात्मकमेवावच्छेदकत्वम् । यथा च तथा सति नात्माश्रयादि तथा वक्ष्यत इति वदन्ति । तच्चिन्त्यम् । एवं सति अयं प्रमेयधूमवान् वढेरित्यत्र वद्विसमानाधि- करणाभावप्रतियोगितावच्छेदकत्वस्य स्वरूपसंबन्धात्मकस्य लघुनि धूमत्व एव भावेन प्रमेयधूमत्वे गुरुणि तदभावेन व्यभिचारिण्यतिव्याप्तेर्दुष्परिहरत्वात् । अत एवानतिप्रसक्तलधुधर्मान्तराघटितशरीरत्वे सत्यनतिप्रसक्तत्वमवच्छेदकत्वं नीलधूमत्वादिव्यावृत्तम(त्य ? न्य)ोतीहापि तदेव विवक्षितमिति निरस्तम् । प्रमे- यधूमत्वादावनतिप्रसक्तधूमत्वघटितशरीरतया प्रतियोगितानवच्छेदकत्वप्रसङ्गेन व्य- भिचारिण्यतिव्याप्तेस्तादवस्थ्यात् । तस्मादनतिप्रसक्तत्वमात्रमिहावच्छेदकत्वं लघु- गुरुसाधारणमवधेयम् । न च प्रतियोगिता तत्तत्वरूपरूपा , तदतिप्रसक्तमेव धूमत्वादीति व्यभिचारिण्यतिव्याप्तिरिति वाच्यम् । प्रतियोगितात्वेनानुगमस्य प्रागेवोक्तत्वात् । ननु प्रतियोगितात्वमपि तासु नानुगतमेकमस्तीत्यननुगमः सर्व- थापि भवत्येवेति चेद् , न । तादृशात्यन्ताभावनिरूपितत्वस्यानुगतधर्मस्य सर्वत- १. 'स' क. पाठः ३२ मणिसारानुमानखण्डे प्रतियोगितासाधारणस्य सत्त्वादनुगमसंभवात् । नन्वेवमपि यदा गोत्वं तदा गौरित्यत्रातिव्याप्तिः । गोत्वसमानकालीननानागोध्वंसप्रतियोगितानवच्छेदकत्वाद् गोत्वस्य । नहि तत्राप्यभाव एकोऽस्ति , येन तत्प्रतियोगितात्वेनानुगतप्रतियो- गितानां गोत्वमवच्छेदकं भवेदिति चेद्, न । ऐकाधिकरण्यावच्छिन्नत्वेन तत्रापि ध्वंससमुदायानुगमात् । तेन च प्रतियोगिताया अनुगमसंभवात् । अत एव प्रतियोगितात्वेनानुगमे आत्माश्रयः, प्रतियोगितात्वस्य खरूपसंबन्धघटितस्य व्याप्तिघटितत्वादित्यपि दूषणमपास्तम् । अभावनिरूपितत्वेनैव तत्रानुगमन प्रति- योगितात्वस्याप्रवेशात् । नन्वयं वह्निमदाश्रयो धूमवदाश्रयत्वादित्यादौ नानाव्यक्तिसाध्यतावच्छे- दकसद्धेतावव्याप्तिः । हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वात् तत्तद्व- हीनाम् । किञ्च , पर्वतो वह्निमानित्यत्राप्यव्याप्तिरेव । धूमसमानाधिकरणा- भावप्रतियोगितावच्छेदकमहानसीयत्वावच्छिन्नवह्नित्वादिप्रविष्टतया वह्नित्वस्य तद- नवच्छेदकत्वाभावादिति चेद् , न । तादृशाभावप्रतियोगितानवच्छेदकत्वं यद्धर्मावच्छिन्नमित्यर्थो भवति । उक्तस्थले तत्तद्वः प्रतियोगितावच्छेद- कत्वेऽपि वह्नित्वावच्छिन्नत्वेन न प्रतियोगितावच्छेदकता, किन्तु तत्तद्व- हित्वावच्छिन्नत्वेनैव । तेन रूपेण व्यापकतावच्छेदकत्वं नास्त्येवेति न तत्र दोषः । वह्नित्वमपि महानसीयवहित्वत्वाद्यवच्छिन्नं प्रतियोगितावच्छेदकं न तु वह्नित्वत्वावच्छिन्नम् । अतो न तत्राव्याप्तिः । नन्वन्योन्याभावस्य व्याप्यवृत्तित्वाद् यदि वह्नित्वे(न!) तत्तद्वहित्वघटकतया प्रतियोगितावच्छेदकत्वं, तदा वह्नित्वत्वावच्छिन्नवह्रित्वेऽपि प्रतियोगितावच्छेदकभिन्नत्वमसंभवाति चेद्, न । वह्नित्वत्वावच्छेदेन वह्नित्वे प्रतियोगितावच्छेदकत्वात्यन्ताभावस्य विवक्षित- त्वात् । प्रतियोगितावच्छेदकत्वत्वविशिष्ट प्रतियोगितावच्छेदकत्वसापेक्षज्ञानतयास्य प्रतियोगितावच्छेदकभेदापेक्षया गुरुप्रतिपत्तिकत्वेऽप्युक्तयुक्त्या आवश्यकत्वात् । ननु सामानाधिकरण्यं समानेनाधिकरणेन सम्बन्धः । सम्बन्धत्वं च विशिष्टप्रत्य- यजनकत्वगर्भमित्यात्माश्रयादिस्तथापि दुर्वार एवेति चेद् , न । सम्बन्धस्य प्रवेशे- ऽपि सम्बन्धत्वस्याप्रवेशेनोक्तदोषाभावात् । ननु तथापि शुद्धस्य सम्बन्धस्य कथं भानमिति सम्बन्धत्वभानं प्रकारतया वाच्यमेवेति चेद्, न । संयोगत्वादिना गृहीतस्य सम्बन्धस्य व्याप्तिघटकत्वात् । ननु व्याप्तिज्ञानस्यानुमितिजनकताग्रहो व्याप्तिवादः। .. न सम्बन्धत्वज्ञानमन्तरेण । नहि संयोगज्ञानत्वादिनानुमितिहेतुताग्रहः, व्यभि- चारादित्युक्तदोषस्तदवस्थ एवेति चेद्, न । भ्रान्तोऽसि । अनुमितिकरणताग्रहे ग्राह्यकारणताप्रविष्टव्याप्तेरिव संबन्धत्वप्रविष्टव्याप्तेरपि प्रवेशे क्षत्यभावात् । प्राथ- मिकव्याप्तिग्रहे तत्प्रवेशस्यैव वारणीयत्वात् । किञ्च , व्याप्तिन सर्वसाधारण्यकेति तत्तद्व्याप्तिज्ञानत्वेन तत्तदनुमितित्वेन हेतुहेतुमद्भावो ग्राह्यः । स च संयोगज्ञान- त्वादिनापि ग्रहीतुं शक्यत एवेति न तत्रापि संबन्धत्वज्ञानापेक्षा । ननु व्यधिकरणधूमवढ्योः सामानाधिकरण्यं नास्तीति तयोर्व्याप्तिन स्यात् । न च समानाधिकरणवृत्तिधर्मवत्त्वमित्यर्थः । तच्च धूमत्वमादाय सर्व- त्राप्यस्तीति वाच्यम् । तादृशयत्किञ्चिद्धर्मवत्त्वस्य मेयत्वमादायातिप्रस(क्ता ? क्त- त्वा)त् । यावद्धर्मवत्त्वस्य चात्राप्यभावात् । तद्धमत्वादेरन्यधूमावृत्तित्वात् । न च सामानाधिकरण्यावच्छेदकधर्मवत्त्वमर्थः, तच्च धूमत्वमेवेति नातिप्रसङ्ग इति वाच्यम् । तथा सति तावन्मात्रस्यैवादुष्टतया पूर्वदलवैयापातादिति । मैवम् । यद्धर्मावच्छिन्नसमानाधिकरणाभावप्रतियोगितानवच्छेदकावाच्छ- नस्य साध्यस्य सामानाधिकरण्यं, तद्धर्मावच्छिन्नत्वस्य लक्षणार्थत्वात् । तच्च व्याधिकरणधूमस्याप्यस्तीति नोक्तदोषः । यदि च समानाधिकरणयोरेव व्याप्ति- रिति मतं, तदा यथाश्रुतमेवादरणीयम् । न च तथा सत्यवच्छेदकपर्यन्तधावनवै- यर्थ्यम् । तावता साधनसमानाधिकरणाभावाप्रतियो(न्य : गि)साध्यसमानाधिकरण- त्वस्यैवाविकलत्वात् । अत एव मणिकृतापि यद्वेत्यादिना समानाधिकरणमात्रव्या- प्तिलक्षणं कुर्वता तथैव लिखितमिति वाच्यम् । इयं गन्धवती पृथिवीत्वादित्यत्रा- व्याप्तेस्तथा सति दुर्वारत्वापातात् । पृथिवीत्वसमानाधिकरणाभावप्रतियोगित्वात् सर्वगन्धानाम् । तस्मादत्राप्यवच्छेदकविवक्षावश्यिकेति नोक्तशङ्कावकाशः । मणि- कारस्यापि व्यधिकरणयोः सामानाधिकरण्याभावान्न व्याप्तिरित्येवाभिमतं, न त्वत्रा- वच्छेदकविवक्षा न कार्येति । पक्षधरमिश्रास्तु-समानाधिकरणव्याप्तिपक्षेऽवच्छेदकविवक्षा मणिकार- स्यानभिमतैव । न चैवमियं गन्धवती पृथिवीत्वादित्यत्राव्यप्तिः कथमुद्धर्तव्येति बाच्यम् । स्वाधिकरणीभूतयद्वयक्तिनिष्ठाभावाप्रतियोगिनी या साध्यव्यक्तिः, तद्वयक्त्या सह स्वाधिकरणीभूततत्तद्वयक्तिवृत्तित्वं (इति !) व्याप्तिरित्यर्थात् । अस्ति च पृथिवीत्वाधिकरणभूतघटनिष्ठाभावाप्रतियोगित्वं घटीयगन्धव्यक्तेरिति ।

३४ मणिसारानुमानखण्डे Maanusmrakuri घटीयगन्धेन सह पृथिवीत्वस्य घटरूपाधिकरणवृत्तित्वमेव व्याप्तिः । एवं पटादि- गन्धेनापि सह तत्तदधिकरणवृत्तित्वमेव व्याप्तिरिति न काप्यनुपपत्तिः । न चैवं पृथिवीत्ववद् द्रव्यत्वमपि गन्धव्याप्यं स्यादेवेति वाच्यम् । द्रव्यत्वस्य घटादिरू- पाधिकरणावच्छिन्नस्य व्याप्यत्वापादन(मि ? इ)ष्टापत्तेः । द्रव्यत्वत्वेन च न तस्य गन्धव्याप्यता । द्रव्यत्वत्वावच्छिन्नद्रव्यत्वस्य गन्धं विनापि जलादौ सत्त्वात् । पृथिवीत्वत्वावच्छिन्नपृथिवीत्वं न गन्धं विनापि क्वाप्यस्तीति भवति तेन रूपेण तस्य व्याप्यतेत्यप्याहुः । अत्र शङ्कयते ---- द्रव्यत्वमेकमेव, तच्चोक्तक्रमेण च गन्धव्याप्यं भवत्ये- वेति व्याप्यमात्रवृत्तेद्रव्यत्वत्वस्य कुतो न गन्धव्याप्यतावच्छेदकत्वमिति । अत्रायमाशयो मिश्राणां यद्धर्मावच्छिन्नसाधनाधिकरणीभूतयावद्वय क्तिनिष्ठाभावाप्रतियोगिता साध्यतावच्छेदकाश्रयस्य, तद्धर्मस्य तत्साध्यतावच्छेद- काश्रयव्याप्यतावच्छेदकत्वम् । अस्ति च पृथिवीत्वत्वावच्छिन्नपृथिवीत्वाधिकरणी. भूतयावद्वयक्तिनिष्ठाभावाप्रतियोगित्वं गन्धत्वाश्रयस्य । पृथिवीत्वाधिकरणे यत्कि- श्चिद्गन्धावश्यकत्वात् । अतो भवति पृथिवीत्वत्वं तद्वयाप्यतावच्छेदकं, न तु द्रव्य- त्वत्वावच्छिन्नद्रव्यत्वाधिकरणेऽपि सर्वत्र गन्धावश्यकत्वं, येन द्रव्यत्वत्वं तद्व्या- प्यतावच्छेदकं भवेदिति दिक् । एवमन्योन्याभावगर्भव्याप्तिलक्षणम् । अन्यच्च साध्यसामानाधिकरण्यावच्छे- दकरूप(व)त्त्वं, साध्याधिकरणतावच्छेदकाधिकरणताप्रतियोगि(क.)त्वं , स्वाधि- करणतान्यूनवृत्त्याधिकरणताप्रतियोगिसाध्यसामानाधिकरण्यादिकमपि व्याप्तिलक्षण- मूह्यम् । एवं च साध्याभाववदवृत्तित्वं, साध्यवत्प्रतियोगिकान्योन्याभावासामाना- धिकरण्यं, साध्याभावव्यापकाभावप्रतियोगित्वं, साध्याविनाभूतत्वमित्यादि प्राची- नव्याप्तिलक्षणानामप्युक्तलक्षणकथनपरतया केवलान्वयिसाध्यकाव्याप्त्यादिकं सा- ध्यत्वादिप्रवेशेनात्माश्रयादिकं च न शङ्कनीयामिति संक्षेपः । इदन्त्ववधेयं-संसर्गाभावः क्वचिदत्यन्ताभावः । स च सति संभवे सामान्याभाव एवं प्रवेश्यः । यावद्विशेषाभावापेक्षया लघुत्वाल्लघुप्रतिपत्तिकत्वाच्च । अत एव सामान्यावच्छिन्नप्रतियोगिकश्चाभावः पृथगेव । अन्यथा वायौ प्रसिद्धरू- १. 'गिकत्वं च. पाठः, व्याप्तिवादः। । MeroNINDREN पत्रयाभावनिश्चयेऽपि वायौ रूपं न वेति संशयो न स्यात् । निश्चिते तदभावा- दिति मणिकृतः । अत्र वदन्ति एतावन्त्येव रूपाणि । तानि न सन्ति वायाविति निश्च- यदशायां संशयस्यासिद्धतया रूपान्तरसंभावनाकाले संशयो वाच्यः । तथा च यथा रूपकोटौ रूपत्वेन संभावितं व्यक्त्यन्तरं विषयः, एवं तदभावकोटावपि व्यक्तयन्तराभावो विषयोऽस्तु, किं सामान्याभावेन । किञ्च, समानप्रकारकसंश- यस्य तादृशनिश्चयनिवर्त्यतया विशेषतस्तद्रूपाभावत्वेन निश्चयेऽपि रूपाभावत्वे- नास्तु तेषामेव संशयविषयत्वं तत्तद्रूपत्वेन व्यतिरेकनिश्चयेऽपि रूपत्वेन रूपा- णामिति । अत्राहुः -- एतावन्त्येव रूपाणीत्यवधारणभावेऽपि रूपान्तरसंभावनाविर- हेऽपि संशयस्यानुभवसिद्धतया तदभावस्य संशयविषयत्वाभावः । किञ्चेत्यपि न । रूपत्वाश्रयाभावत्वेन निश्चयात् । रूपत्वावच्छिन्नाभावत्वेन तथात्वे सामान्याभा- वसिद्धेः । न च रूपत्वाश्रययावदभावत्वेन संशयः, रूपत्वाश्रयण केनापि सह यावदभावस्थाविरोधेन तेन रूपेण संशयायोगात् । स्वस्वाभावयोरेव विरोधात् । विरोधिनोरेव संशयकोटित्वादिति विशेषाभावस्य स्वप्रतियोगिकस्य निश्चये सामा- न्याभाव एव संशयकोटिः, स्वप्रतियोगिकत्वादिति पक्षधरामिश्राः । अत्रेदं शङ्कयते ----प्रसिद्धरूपातिरिक्त रूपत्वसंशयं विना संशयोऽयमसिद्ध एव । तथा च रूपत्वेन शङ्कितस्याभावः संशयकोटिरस्तु । अस्तु वा यावदभावत्वेनापि संशयः । सहानवस्थाननियतत्वेन ज्ञातयोरेव संशयकोटित्वात् । यावदभावस्यापि प्रतियोगिसहानवस्थाननियतत्वेन ज्ञानात् । किञ्च, संशयो द्वेधा । एको रूपत्वा- वच्छिन्नरूपकोटिकः । अपरस्तु तत्तद्रूपत्वावच्छिन्नरूपकोटिकः । तत्रान्ते तत्तद्रू- पौभावस्य प्रत्येक(स्यै मे)व विरोधितया संशयकोटिता, प्रथमे तु रूपत्वाश्रययावद- भावस्यैव विरोधितया संशयकोटित्वं, फलबलेन तथैव विरोधनिश्चयात् । नहि यावदभावस्याधिकरणे निश्चये सति सामान्यावच्छिन्नकोटिकसंशयोऽस्ति । न (याव?वा यत्किञ्चिदभावनिश्चये तादृशसंयोगो नास्तीति । तस्मात् सामान्याभावे मानाभाव इति । । । १. 'पत्वाभा' क. पाठः, मणिसारानुमानखण्डे mmmm अत्र पक्षधरमिश्राः प्रतियोगिभेदेनाभावो न भिद्यते । तथा सति घट- प्रतियोगिकाभावचतुष्टयस्य भेदो न स्यात् । किन्तु प्रतियोगितावच्छेदकभेदात् । तचात्राप्यस्त्येव । अन्यन्ताभावे संसर्गस्यान्योन्याभावे तादात्म्यस्य प्रागभाव- ध्वंसयोः प्रतियोग्युत्तरकालपूर्वकालयोरवच्छेदकत्वात् । तथा च रूपसंसर्गप्रति. योगितावच्छेदकावच्छिन्नाभावः सामान्याभाव एव । बाधकं विना संबन्धितावच्छे. दकभेदात् संबन्धि(क)पदार्थभेदस्वीकारादिति । अत्र शङ्कयते- अन्योन्यात्यन्ताभावयोर्द्वयोरपि प्रतियोगितावच्छेदकं लाघवाद् घटत्वमेव । तथा च तस्याभेदा(द) भेदापत्तिः । ननु तादात्म्यसंसर्गयो- रारोप्यसंसर्गत्वात् तद्भेदात् तयोर्भेद इति चेद्, न । तर्हि क्वचित् प्रतियोगिता- वच्छेदकभेदः, कचिदारोग्यसंसर्गभेदोऽभावभेदक इत्यननुगमः । न चारोपविषय- भेदत्वेन भेदकत्वं , तच्च प्रतियोगितावच्छेदकसंसर्गप्रतियोगिभेदसाधारणमिति नाननुगम इति वाच्यम् । तथा सति अधिकरणस्याप्यारोपविषयतया तद्भेदादप्य- भावभेदेऽपसिद्धान्तापातादिति । अत्र प्रतिभाति - अधिकरणभेदादभावभेदेऽभाव एव धर्मिभिन्नो न सिध्येत् । अधिकरणेनैव तद्व्यवहारोपपत्तेः । नाधिकरणाननुगमेनानुगतघटात्य- न्ताभावव्यवहारोऽनुपपन्न इत्यतो युक्त्यन्तरमास्ति भिन्नाभावसाधकम् । अतो बाधकादधिकरणभिन्नारोपविषयभेदेनाभावभेद इति कल्प्यते । गौरवस्य प्रामाणि- कत्वात् । प्रतियोगितावच्छेदकभिन्नत्वविशेषणे मानाभावात् । सामान्याभावस्वी- कारापत्तेश्च फलमुखत्वात् । किञ्च , दण्डी पुरुषो नास्तीत्यत्र शुद्धपुरुषाभावस्या- सत्त्वेऽपि दण्डविशिष्टपुरुषाभावस्यानुभूयमानतया प्रतियोगितावच्छेदकभेदेनाभाव- भेदोऽवश्यमङ्गीकरणीयः । अपि च घटो नास्तीति सामान्याभावावगाहिबुद्धौ विशेषाभावसहस्रस्य विषयतया कल्पने गौरवमिति लाघवादेकाभावसिद्धिः । न च विशेषाभावानामननुगमेऽपि क्लप्तत्वं साधकमिति वाच्यम् । अननुगमापेक्षया कल्प्यत्वगौरवस्य हीनत्वात् । अन्यथा स्वरूपसंबन्धस्य विशिष्टधीविषयत्वे गतं समवायेन | कर्तृजन्यतायां च घटत्वादेरननुगतस्यापि क्लप्तत्वा(द)वच्छेदकत्व- प्रसङ्गेन कल्प्यक्षित्यादिकापि गतमेव । किं बहुना, द्रव्यत्वगुणत्वकर्मत्वाभाव- समूहस्य सत्ताविरहव्यवहारकत्वापाताद् भिन्नसत्ताविरहोऽपि न स्यात् । न स्याच्च द्रव्यत्वाद्यभावोऽपि । पृथिवीत्वाद्यभावकूटादेव तद्वयवहारोपपत्तेः । एवं पृथिवीत्व- । ।

व्याप्तिवादः। । घटत्वादेरप्यभावः पृथङ् न स्यात् । तस्माद् विशिष्टबुद्धौ समवायवत् सामान्या- भावबुद्धौ हेतुतया लाघवादेकाभावसिद्धिः । किञ्च , द्रव्यं नेति बुद्धिव्याभाववि- षयिणी । घटो न , द्रव्यं नेति बुझ्योरन्यतरत्वाद् , घटो नेति बुद्धिवदित्यनुमाने लाघवादेकोऽभावो विषय इति स एव द्रव्यत्वावच्छिन्नान्योन्याभाव इति दिक् । केचित्तु - मिलिते घटद्वये रूपं नास्तीति बुद्ध्यापत्तिः, यावद्विशेषाभावस्य सामान्याभावं प्रति प्रयोजकस्य प्रत्येकं सत्त्वादित्यतिरिक्तसामान्याभावोऽङ्गीकार्य इत्याहुः । तच्चिन्त्यम् । ऐकाधिकरण्यावच्छिन्नयावद्विशेषाभावस्य सामान्याभाव- स्य व्यवहारजनकत्वादिति । नव्यास्तु -- एकघटसत्त्वे घटसामान्याभावो नास्तीति प्रतीतिर्न स्यात् । यावद्विशेषाभावस्य सामान्याभावरूपतया तदभावस्य यावद्विशेषरूपस्य तत्राभावात् । तथा च सामान्याभावो यावद्विशेषाभावापेक्षया भिन्नोऽङ्गीकार्यः । न चैवमेकालोक- सत्त्वे अन्धकारो नास्तीति प्रतीतेरन्धकारस्यापि तत्रभावात् (तथा च !) सामान्या- भावत्वावच्छिन्नत्वापत्तिरिति वाच्यम् । अन्धकारो नास्तीति प्रतीतेर्यावदुद्भूतरूप- तेजोविरहो नास्तीत्यर्थः । तथा च यावत्त्वावच्छिन्नाभावस्याभावो व्यासज्यवृत्तिप्र- तियोगिक एकसत्त्वेऽप्यविरुद्ध एव । न चात्रापि स एव प्रकारः, व्यासज्यवृत्त्य- भावस्वीकारेऽपि सामान्याभावस्य सिद्धत्वादिति वदन्ति । यत्तु इह रूपं नेति सामान्याकारैव (प्रतीतिः) रूपत्वावच्छिन्नाभावे प्रमाणमिति , तत्तुच्छम् । इयं प्रतीतिरधिकरणेऽभावं, तत्र च रूपप्रतियोगिकत्वं, रूपे च रूपत्ववत्तां विषयीकरोति । तच्च विशेषाभावविषयत्वेऽप्युपपद्यत एवेति न सामान्याभावे मानमिति । इदं तु विचार्यते प्रतियोगितावच्छेदकभेदादत्यन्तान्योन्याभावयोरिव प्रागभावध्वंसयोरपि सामान्याभावत्वमस्तु । न च प्रागभावस्य प्रतियोगिकालवि- रुद्धकालतयानादौ संसारे प्रतियोगियत्किश्चिद्धटस्य सर्वदा सत्त्वाद् घटत्वावच्छि- न्नप्रागभावस्यासं(भाविनि ? भवेन) यत्किञ्चित्प्रतियोगितावश्य(क)तया च एक- घटोत्पत्त्या नाशाप(त्ते ! त्तिरिति वाच्यम् । घटत्वावच्छिन्नप्रागभावस्य घटो भवि- प्यतीति प्रतीतिसि(ध ! द्ध)स्य प्रतियोग्यविरुद्धकालतया यावत्प्रतियोग्युत्पत्तिना- श्यतया च महालये विनाशाद् ध्वंससामान्याभावत्वे बाधकाभावाच्च । न च ध्वंस- स्य प्रतियोगिजन्यतया घटत्वावच्छिन्नयावतां च एकदासम्भावि(त)तया कथं तद- मणिसारानुमानखण्डे वच्छिन्नध्वंसस्योत्पत्तिरिति वाच्यम् । यावत्प्रतियोगिजन्यतायां गौरवेण यत्किञ्चि- प्रतियोगिजन्य(त्वं ? त्वस्य) महालयकाले सम्भवेन तदा घटत्वावच्छिन्नध्वंसोत्पत्तौ बाधकाभावात् । किं बहुना, दशघटानामेकदण्डोत्पन्नानां दशसंख्यावच्छिन्नप्राग- भावे बाधकाभावः । एवमेकदा नष्टानां तेषां तद्धर्माबच्छिन्नप्रतियोगिकध्वंसे बाध- काभावादिति । अत्र ब्रूमः -- तत्तद्धटप्रतियोगिकप्रागभावत्वेनैव तत्तद्धटनाश्यता तत्तद्धट- विरुद्धकालता च , न तु तन्मात्रप्रतियोगितागभावत्वेन , गौरवात् । तथा च घटत्वावच्छिन्नप्रागभावः कदा वर्ततां , संसारस्यानादितया यत्किञ्चिद्धटस्य सर्व- दा सत्त्वात् । एवं ध्वंसेऽपि तत्तद्धटध्वंसत्वेनैव तत्तद्धटजन्यता , न तु तन्मात्र- ध्वंसत्वेन , गौरवादिति पर्यवसितं यावत्प्रतियोगिजन्यत्वं ध्वंसस्येति यावद्धट- स्यैकदा सत्त्वाभावात् कथं ध्वंसोत्पत्तिः । किञ्च , ऐकाधिकरण्यावच्छिन्नयावद्वि- शेषाभावं विना न सामान्याभाव इति सर्वानुभवसिद्धं, प्रागभावध्वंसौ प्रतियो- गिसमवा(यवृत्तिरि ? यिवृत्ती इ)त्यपि । तथा च विशेषाभावानामैकाधिकरण्याभा- वात् कथं सामान्याभावयोः ध्वंसप्रागभावयोः सत्तेति न तयोः सामान्याभाव- त्वम् । अत एव किं बहुनेत्यपि निरस्तम् । किञ्च , तत्प्रागभावध्वंसाधारस्य तदाधारतानियमेनान्यवटाधारतान्यकपाल आपद्येत । प्रसज्यते च घटानामभेदः । तत्प्रागभावजन्यस्य तत्त्वनियमात् । न च सामान्यप्रागभावो न प्रतियोगिजनक इति वाच्यम् । तथा सति प्रागभावत्वव्याकोपात् । दशघटत्वावच्छिन्नध्वंसस्यापि तत्तद्विशेषध्वंससामग्रीप्रसूतत्वेन तदभेदप्रसङ्गात् । ननु विशेषध्वंसाजनकघटान्त- रजन्यत्वेन ततोऽस्य भेद इति चेद् , न । एवं सत्यपि विशेषध्वंससामग्र्यामधि- कप्रवेशेन तदुत्पत्त्या प्रमाया ज्ञानविशेषत्ववत् तस्य विशेषध्वंसविशेषत्वापत्ते- रित्यास्तां पल्लवेन । इदं त्ववधेयम् --- अन्योन्याभावगर्भव्याप्तौ प्रतियोग्यसामानाधिकरण्यं न विशेषणम् । अन्योन्याभावस्याव्याप्यवृत्तित्वविरहेणाव्याप्त्यप्रसङ्गात् । न च तदे- वासिद्धम् । अभेदस्याबाधितप्रत्यभिज्ञानात् । भेदाभेदयोः परस्परविरोधादिति माणकृतः । अत्र शङ्कयते ---वृक्षत्वेन भेदाभावेन तेन रूपेणाभेदप्रत्यभिज्ञा । संयो- गित्वेन भेदधीरस्तु । को दोषः । भेदाभेदयोः परस्परविरोधोऽप्येकावच्छेदेनैव । - भूयोदर्शनवादः। कल्प्यः, मूले वृक्षः संयोगवानग्रे नति प्रतीतेः । अन्यथा घटतदत्यन्ताभावयोवैय- धिकरण्यदर्शनात् संयोगतदत्यन्ताभावयोरपि तथात्वं स्यादिति (वल्लभाचार्यमते सर्वापेक्षया बलवत्त्वादिति ! ।) अत्र वदन्ति-संयोगात्यन्ताभावविषयत्वेनैव संयोगवान् नेति बुद्धेरुपपत्ती न परस्परविरुद्धसंयोगतद्वदन्योन्याभावयोरेकत्र समावेशकल्पना । संयोगवदन्योन्या- भावग्रहकाले संयोगत्वावच्छिन्नसंयोगग्रहस्य तदत्यन्ताभावग्रहहेतोरावश्यकत्वात् । अत एवान्योन्याभाव एवं सति क्वापि विषयो न स्याद् , धर्मात्यन्ताभावविषयत्वेनै- व तद्बुद्धयुपपत्तेरिति अत्र दूषणमपास्तम् । घटान्योन्याभावधीकाले घटत्वत्ववि- शिष्टघटत्वज्ञानस्य तदत्यन्ताभावधीहेतोरनियमेनान्यथासियभावाद् , भावाभावसा- मानाधिकरण्यस्यान्यथानुपपत्तिकल्प्यतया प्रकृतेऽन्योन्यात्यन्ताभावयोरन्यतरविष- यताविनिगमकचिन्तायां संयोगात्यन्ताभावग्रहसामग्रीसत्त्वात् तन्मा(त्रा ? त्र)विषय- त्वेन तत्प्रतीत्युपपत्तेरुक्तत्वाच्च । न चैवं विशिष्ट प्रतियोगित्वेनोल्लेखो न स्यादिति वाच्यम् । विशेषणमात्रविषयकस्यापि स्वर्गीत्यत्रैव तादृशोल्लेखदर्शनात् । अत एव गुणे संयोगवदन्योन्याभावो विषय एव तत्प्रतीतेः । संयोगवदभिन्नत्वेनाज्ञानादिति । वस्तुतस्तु यदि संयोगवति तद्वदन्योन्याभावः , तदा घटपटौ भिन्नावितिवदिमौ भिन्नाविति प्रत्ययापत्तिः । द्रव्यभेदे सति द्वित्वादिसङ्ख्योत्पत्तेरिति तत्त्वम् । यत्तु अभिन्ने धर्मिणि भिन्नधर्मावच्छेदेन वृत्तिरव्याप्यवृत्तिता । न चैत- दन्योन्याभावस्य सम्भवति , तस्मिन् सति धर्म्यभेदस्यैवाभावादित्यन्योन्याभावो नाव्याप्यवृत्तिरिति । तत्तु न । वृक्षत्वेन धर्म्यभेदस्य सत्त्वादिति सङ्केपः । इति व्याप्तिवादः। अथ भूयोदर्शनवादः। नन्वस्तु तावद् व्याप्तिः । तद्रहो न भूयोदर्शनेन । भूयोधिकरणदर्शनस्य १. 'तोर्निय' क. पाठः, मणिसारानुमानखण्डे भूयोरूपदर्शनस्य भूयोनिरूपितदर्शनस्य वा व्यभिचारिसाधारणतयाव्यभिचारिण्य- सत्त्वेन चानिश्चायकत्वाद् , भूयस्त्वस्याननुगमाच्च । अत एव सकृत्सहचारदर्शन- मपि व्यभिचारिसाधारणतया न तन्निश्चायकम् । तथा च सवंदसकृदंदासीनसह- चारदर्शनमपि । तर्कस्तु व्याप्तिग्रहमूलकतयानवस्थाकलित एवेति न व्याप्तिग्राहकः । कि बहुना, सहचारस्य व्यभिचार्यच्यभिचारिसाधारणतया संशायकतया न व्याप्ति- निश्चायकत्वं, संशयसामग्र्या निश्चयप्रतिबन्धकत्वात् । यत्तु व्यभिचारसंशय एव तज्जन्यो व्याप्तिनिश्चयप्रतिबन्धकः (न च ? इति तन्न । ) ग्राह्यसंशयस्य प्रतिबन्धकत्वे मानाभावेनोत्तेजकाकल्पनाद् , विशेषदर्शनकालीनसंशयकाले निश्च- यानुत्पादस्य संशयसामग्रीप्रयुक्तत्वाद् एकमात्रकोटिविशेषादर्शनसहकृतसंशयत्वेन प्रतिबन्धकत्वकल्पनापेक्षया संशयसामग्रीत्वेन प्रतिबन्धकताकल्पनाया लघुत्वाद् , विरोधिसामग्रीत्वेन संशयसामग्र्याः प्रतिबन्धकत्वकल्पनाच । न च ग्राह्याभावनि- श्चयत्वेन प्रतिबन्धकत्वे गौरवमिति लाघवात् तज्ज्ञानत्वेनैव तथात्वमिति संशय- स्यापि प्रतिबन्धकत्वसिद्धिरिति वाच्यम् । तथा सति विशेषादर्शनविशिष्टग्राह्याभा- वज्ञानाभावस्य निश्वयं प्रति हेतुत्वमिति बाधे सत्यनुमित्यापत्तेः । बाधस्य विशेषदर्श- नविशिष्टतया विशिष्टाभावस्य सत्त्वात् । तथा च विपरतिनिश्चयस्य ग्राह्याभावान- श्चयत्वेन संशयस्य च विशेषादर्शनविशिष्टग्राह्यसंशयत्वेन प्रतिबन्धकत्वं वाच्यम् । तथा च द्वितीयकल्पनायां गौरवम् । वस्तुतस्तु विपरीतज्ञानत्वेन यत्र प्रतिबन्ध- कता, तत्र प्रतिबन्ध्यतावच्छेदकं ग्राह्यज्ञानत्वं, तन्निश्चयत्वं वा । नाद्यः । संशया- नन्तरं संशयानुत्पत्तिप्रसङ्गात् । संशयात्मकग्राह्याभावज्ञानसत्त्वात् । नान्त्यः । विपरी- तनिश्चयानन्तरं संशयोत्पत्तिप्रसङ्गात् । विपरीतज्ञानस्य ग्राह्यनिश्चय एव प्रति- बन्धकतया संशयोत्पत्तौ बाधकाभावादिति न संशयनिश्चयसाधारणी प्रतिबन्धक- ता भवतीति तत्त्वम् । तस्मात् सहचारादिधर्मदर्शनस्य व्यभिचारसंशयसामग्रीत्वेन व्याप्तिग्रहप्रतिबन्धकत्वमिति । अत्र मणिकृतः-व्यभिचारज्ञानविरहसहकृतं सहचारज्ञानं व्याप्तिग्राह- कम् । व्यभिचारज्ञानं निश्चयः शङ्का च । सा च क्वचिदुपा(दिःधि)सन्दे(हाहात्) क्वचित् साधारणधर्मदर्शनादेः । तदभावश्च क्वचित् तर्कात्, कचित् स्वतः सिद्ध एवेति न वानवस्था न वा व्याप्तिग्रहानुपपत्तिरिति । , १. कृत्सकृ' क. पाठः.

भूयोदर्शनवादः। , अत्र वदन्ति - व्यभिचारज्ञानमिह साध्याभाववद्वृत्ति(त्व)ज्ञानं हेतौ वा, स्वसमानाधिकरणाभावप्रतियोगित्वज्ञानं साध्ये वा। नाद्यः। केवलान्वयिनि साध्यामा- वाप्रसिद्ध्या तदभावववृत्तित्वज्ञानासम्भवेन तदभावासम्भवाद् व्याप्त्यग्रहप्रसङ्गात् । नान्त्यः । व्यभिचारव्याप्त्योः न परस्पराभावरूपत्वमित्यग्रे मणौ प्रतिपादनात् तद्विरोधः, उक्तव्याभिचारविरहरूपत्वाद् व्याप्तेः । न च व्याप्तेर्व्यभिचाराभावविशिष्ट- सामानाधिकरण्यरूपतया न व्यभिचारविरहरूपत्वमिति न तद्विरोध इति वाच्यम् । तथापि व्यभिचारज्ञानाभावमात्रं वा व्याप्तिनिश्चायकम् , उत तन्निश्चयाभावः । आये हेतुमत्तया निश्चिते साध्यसन्देहात्मकव्यभिचारज्ञानसत्त्वान्न वाप्यनुमान- (प्र)वृत्तिः स्यात् । अन्त्ये सन्दिग्धानकान्तिकोच्छेदः । किञ्च , अत्यन्ताभावगर्भा- यामन्योन्यामावगर्भव्यभिचारज्ञानस्यापि प्रतिबन्धकत्वाद् आभासाधिक्यापत्तिः । किं बहुना , साध्याभाववद्वृत्तित्वज्ञानस्य क्वचिद् , हेत्वधिकरणनिष्ठाभावप्रतियोगि- त्वज्ञानस्य कचित् प्रतिबन्धकत्वमित्यननुगमः । अपि च परकीयव्यभिचारज्ञाने सत्यपि व्याप्तिग्रहणात् स्वव्यभिचारज्ञानस्याभावः कारणं वाच्यः । तथा च यस्य व्यभिचारज्ञानं नास्ति , तस्य व्याप्तिग्रहो न स्यात् । न च व्यभिचारज्ञान- मात्रं स्वपरसाधारणं प्रतियोगि, तदभावो यदात्मनि , तत्र व्याप्तिग्रह इति परकी- यव्यभिचारज्ञानाभावमादायैव तत्र व्याप्तिग्रह इति वाच्यम् । प्रत्युत्पन्नव्यक्तिद्वये पुरुषान्तरीयज्ञानाविषये व्याप्त्यग्रहप्रसङ्गात् । व्यभिचारज्ञानाप्रसिद्ध्या तदभावा- सम्भवात् । न चैश्व(यरिं) व्यभिचारज्ञानं तत्र नास्तीति वाच्यम् । अव्यभिचा- रिणि व्यभिचारग्रहे ईश्वरस्य भ्रान्तत्वापत्तेरिति । अत्राहुः – हेत्वधिकरणत्वेन ज्ञायमानधर्मिनिष्ठाभावप्रतियोगित्वनिश्चय- विषयत्वाभावो यत्र साध्ये यस्य यदास्ति , तस्य तदा तद्व्याप्तिग्रहः । प्रत्युत्पन्नस्थले तत्प्रतियोगित्वाभावघटितव्याप्तिग्रहस्य तत्प्रतियोगित्वज्ञानमन्तरेणासम्भवाद् अभा- वज्ञानस्य प्रतियोगिज्ञानजन्यतानियमाद् अन्ततस्तत्पुरुषीयव्यभिचारज्ञानमेवास्तीति न कोऽपि दोषः। अत एव पक्षीयव्यभिचार(ज्ञान)संशयो न प्रतिबन्धकः, न वा सन्दिग्धानेकान्तिकोच्छेदः । न चैवमुपाधिसन्देहाद्याहितव्यभिचारसंशयोऽपि नि- श्चितहेतुमति साध्यसन्देहरूपः प्रतिबन्धको न स्यादिति वाच्यम् । अन्याहितस- १. 'वयोर्यदा' क. पाटः. 6 मणिसारानुमानखण्डे न्देहाभावत्वेनापि व्याप्तिग्रहहेतुत्वमित्यग्रे वक्ष्यमाणत्वात् । अत एव साध्याभाववठ्ठ- त्तित्वज्ञानमप्युक्तक्रमेणैव प्रतिबन्धकं , न पृथग् ग्राह्याभावज्ञानत्वेन । अन्यत्र क्ल- प्तप्रतिबन्धकत्वातिक्रमे बीजाभावात् । अत एव चात्यन्ताभावगर्भव्याप्तौ नान्यो- न्याभावगर्भव्यभिचारज्ञानं साक्षात्प्रतिबन्धकं , किन्त्वत्यन्ताभावगर्भव्यभिचारज्ञान- द्वारेत्यग्रे वक्ष्यते। ननु व्यभिचारज्ञानाभावो भवतु प्रतिबन्धकाभावत्वेन व्याप्तिग्रहहेतुः । सहचारधीस्तु कुतः । व्याप्तौ सहचारस्य विशेष्यतया तत्सन्निकर्षस्यैव हेतुत्वात् । अन्तरा तज्ज्ञानकल्पने मानाभावात् । अन्यथा सर्वत्र विशेष्यज्ञानहेतुताप्रसक्ताव- पसिद्धान्तापातात् । न च व्याप्तिविशेषणकप्रत्यक्षे विशेषणज्ञानतया सहचारधी- हेतुः, तथापि व्याप्तिप्रत्यक्ष त्वावच्छेदेन तद्धेतुत्वासिद्धेः । तद्विशेष्यकप्रत्यक्षे अहेतुत्वात् , सहचारज्ञानत्वेन हेतुत्वालाभाच्च । अन्यथा व्यभिचारग्रहस्यापि विशे- षणज्ञानतया हेतुत्वे कुतो विशेषाभिधानं सहचारधीहेतुरिति । सिद्धं चतैद् वि- शिष्टधीविशेषणधीजन्येति । तथा च साधनानर्थक्यम् । न च व्यतिरेकसहचार- स्थान्वयव्यातिनिश्चायकतया न विशेषणधीत्वेन तस्य हेतुता, किन्तु सहचारज्ञा- नत्वेनैवेति वाच्यम् । सहचारधीहेतुत्वसिद्धौ व्यतिरेकसहचारस्यान्वयव्याप्तिनि- श्वायकता कल्प्या। तस्यैवाद्याप्यासद्धरासिद्धमासद्धेनेति न्यायापातात् । किञ्च , सहचारज्ञानस्य हेतुता न सहचारज्ञानत्वेन , अतिप्रसङ्गात् । नापि स्वसहचारज्ञान- त्वेन , व्यतिरेक्यव्याप्तेः । न च व्यभिचारज्ञानविरोधित्वेन स्वस्वाभावसहचार- ज्ञानानुगमः, अन्वयसहचारज्ञानस्य व्यभिचारघटकसाध्याभावधीविघटकत्वेन व्यतिरेकसहचारज्ञानस्यापि व्यभिचारघटकहेतुज्ञानविरोधितया व्यभिचारधीविरो- घि(त्वा)दिति वाच्यम् । सहचारग्रहेऽप्यधिकरणान्तरे व्यभिचारज्ञानेन तस्य व्यभि- चारज्ञानविरोधित्वाभावात् । न च तदधिकरणनिष्ठव्यभिचारज्ञानविरोधित्वं विव- क्षितमिति वाच्यम् । तथा सति वह्निघटसहचारज्ञानस्यापि धूमवह्निव्याप्तिग्राहक- तापत्तेः । तस्यापि वयभावघटितव्यभिचारधीविरोधित्वात् । एवं रासभधूमाभा- वसहचारज्ञानस्यापि धूमज्ञानविरोधित्वेन तव्यभिचारज्ञानविरोधित्वेन धूमवहिव्या- तिग्राहकतापात इति । अपि च, व्यभिचारज्ञानविरहसहकृतसहचारधीरनुमिता- वेव तऽतोरिति न्यायाद्धेतुरस्तु । किमन्तरा व्याप्तिग्रहणेनेत्यलं विस्तरेणेति । अत्र पक्षधरमिश्राः विरुद्धे सहचारभ्रमाद् व्याप्तिभ्रम इत्यनुभवसिद्धम् । Hemlamisab भूयोदर्शनवादः। अत्र नव्याः तथा च यद्विशेषयोरिति न्यायेन सहचारज्ञानमात्रस्य व्याप्तिप्रत्यक्षहेतुता कल्प्य- ते । यच्च तद्धेतोरिति न्यायाद् व्यभिचारधीविरहसहकृतसहचारधीरनुमितावेव हेतुरस्त्वित्युक्तं, तदपि न । अनुमितौ व्याप्तिज्ञानस्याहेतुत्वे व्यभिचारज्ञानप्रति- वन्धकत्वस्यैवासिद्धेः । ग्राह्याभावानवगाहिज्ञानस्य जनकधीविघट(क?)नद्वारैव प्र- तिवन्धकत्वादिति वदन्ति । अत्र शङ्कयते-व्याप्तिभ्रम एव सहचारभ्रमो न त्वनयोहेतुहेतुमद्भावो- ऽस्ति , मानाभावात् । अपि च , व्यभिचारिणि सहचारभ्रमं विनापि व्याप्तिभ्र- मदर्शनाद् न तद्भमो व्याप्तिभ्रमहेतुः । यच्च व्यभिचारधीप्रतिबन्धकत्वान्यथानुप- पत्त्या व्याप्तिधीहेतुत्वमवादि , तदप्यसारम् । साक्षादप्रतिबन्धकेन प्रतिबन्धकरणे जनकज्ञानविघटनापेक्षणात् । व्यभिचारधियस्तु साक्षादेव प्रतिबन्धकत्वात् । न च ग्राह्याभावाविषयकतया प्रतिबन्धकस्य जनकधीविघटकत्वमिति नियम इति वाच्यम् । तथा सति शाब्दबोधे असाधुत्वधीः प्रतिबन्धकी ? न्धिका) न स्यात् । साधुत्वज्ञानस्य तत्राहेतुत्वेन जनकज्ञानविघटकत्वाभावादिति । भ्रमो दोषजन्यः । स च सति सम्भवे अनुगत एवं कल्प्यो बाधकाभावात् । तथा च विरुद्धस्थलीयव्याप्तिभ्रमत्वावच्छेदेन सहचार- भ्रमस्य दोषतया हेतुत्वं सिद्धम् । यद्विशेषयोरिति न्यायेन व्याप्तिप्रत्यक्षत्वावच्छे- देन सहचारज्ञानत्वेन हेतुत्वं कल्प्यते । न च सहचारभ्रमजनक एव तत्र दोषो- ऽस्तु , आवश्यकत्वादिति वाच्यम् । तस्याननुगमात् । सहचारभ्रमजनकत्वेन चानुगमे लाघवाद् धर्मिधीवत् सहचारभ्रमस्यैव हेतुत्वौचित्यादिति समादधते । नन्विदमप्यसत् । साधारणस्थले व्याप्तिभ्रमं प्रत्यव्यभिचारभ्रमस्य प्रयो- जकत्वावश्यकत्वेन व्याप्तिभ्रमत्वावच्छेदेन तस्य दोषता कल्प्यतां , तत एव विरुद्धस्थलीयव्याप्तिभ्रमस्याप्युपपत्तौ तदवच्छेदेन सहचारभ्रमरूपदोषान्तरकल्प- नायां मानाभावादिति । अत्र ब्रूमः ---- आकाशादाववृत्तिपदार्थे अव्यभिचारभ्रमं विनापि व्याप्तिम्र- मदर्शनाद् विरुद्धस्थलीयव्याप्तेर्भमत्वमेव सहचारभ्रमजन्यतावच्छेदकं कल्प्यते । न च तत्राप्यव्यभिचारभ्रम एव प्रयोजकोऽस्तु । प्रतियोग्यधिकरणानधिकरण- हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याव्यभिचारस्यावृत्तिपदार्थे सत्त्वेन तद्भ- माभावाद्, अवृत्त्यभावस्य प्रतियोग्यधिकरणाप्रसिद्ध्या तादृशाभावाप्रतियोगित्व- मणिसारानुमानखण्डे अन्ये तु स्याकाशादौ सत्त्वात् । यद्वा साध्यसामानाधिकरण्यावच्छेदकरूपत्वलक्षणव्याप्ति- ज्ञानहेतुत्वाभिप्रायकः सहचारधीहेतुताप्रवादः । तज्ज्ञाने सहचारस्य विशेषणस्व- नियमेन विशेषणज्ञानतया तद्धेतुत्वात् । अव्यभिचरितसामानाधिकरण्यव्याप्तिपक्षेऽपि सामानाधिकर- ण्यस्य व्यधिकरणवह्निधूमयोरभावेन सामानाधिकरण्याश्रयवृत्तिधर्मत्वमर्थों वाच्यः । तज्ज्ञाने च सामानाधिकरण्यज्ञानस्य विशेषणज्ञानतानैयत्येन हेतुत्वमित्याहुः । यत्तु भूयम्सहचारज्ञानमुत्सर्गविधया व्याप्तिग्राहकं, भूयः सहचरितस्य औत्सर्गिकव्या- प्तियोगादिति । तन्न । उत्सर्गस्य बाधकैकापोद्यनियमरूपतया नियमस्य च व्या- प्तिरूपतया ग्रहीतुमशक्यत्वात् । तस्यैव प्रकृते चिन्त्यमानत्वादिति न किञ्चिदेतत् । असाधुत्वज्ञानस्य शाब्दज्ञान इव व्याभिचारज्ञानस्याप्युनुमितौ साक्षात्प्रतिबन्धक- त्वमस्तु, किं व्याप्तिधीहेतुतयेतीदन्त्ववशिष्यते । अत्रोच्यते व्याकरणव्युत्पाद्यत्वस्य साधुत्वस्य ज्ञानं न शाब्दज्ञानहेतुः सम्भवति , व्याकरणाप्रतिसन्धानदशायामपि शाब्दबोधात् । तथा च तत्रागत्या- साधुत्वज्ञानस्य साक्षात्प्रतिबन्धकता । तदभावस्य हेतुता दृष्टचरी कल्प्यताम् । इह तु व्यभिचारज्ञानस्य ग्राह्याभावावगाहितया अन्यत्र कुप्तप्रतिबन्धकतयैवोप- पत्तावदृष्टचरप्रतिबन्धकतायां मानाभावेन व्याप्तिधीविघटकतयैव प्रतिबन्धकत्वक- ल्पनात् । किञ्च, परामर्शानन्तरजातव्यभिचारज्ञानेऽप्यनुमित्यप्रतिबन्धेन न तत्र तस्य साक्षात्प्रतिबन्धकता । न च परामर्शानन्तरं व्याभिचारज्ञानासम्भवः । ग्राह्याभावा- वगाहिप्रत्यक्षस्यैव ग्राह्यप्रत्यक्षप्रतिबन्धकतया शाब्दादिपरामर्शनन्तरं प्रात्यक्षिक- व्यभिचारज्ञाने बाधकाभावात् । अपि चानुमितौ व्यभिचारज्ञानाभावो हेतुरव्याभि- चारज्ञानं वेति विचारे लाघवादव्यभिचारज्ञानमेव हेतुतया कल्प्यते । अन्यथायो- ग्यताज्ञानाभावस्य शाब्दबुद्धौ, प्रवृत्तौ च बलवदनिष्टाजनकताज्ञानाभावस्य हेतु- त्वापत्तौ बहुविप्लवः प्रसज्येतति । यच्च तदधिकरणनिष्ठव्यभिचारज्ञानविरोधिसह- चारज्ञानत्वेन हेतुताथामतिप्रसक्तमभ्यधायि , तदबोधात् । तदधिकरणपदेन व्य- भिचारप्रयोजकसाध्याभावहेतुरूपदलद्वयान्यतरवत्तयोपस्थिताधिकरणस्य विवक्षित- त्वात् । तथा च घटवह्निसहचारग्रहकाले घटधूमाभावसहचारग्रहस्थले वा धूमव- त्तया वयभाववत्तया वाधिकरणोपस्थितौ व्यभिचारधीविरहे च भवत्येव व्याप्ति- ग्रह इति न काप्यनुपपत्तिः । । ENA भूर्योदर्शनवादः । केचित्तु - सहचारधालेनैव व्याप्तिग्राहकता । तस्याश्च व्यभिचारधीवि- रहो द्वारम् । तेन सा यत्र व्यभिचारधियं प्रतिबध्नाति तत्र व्याप्तिग्रहं जनयति । अत एव व्यभिचारधीविरहसहकाले तथोक्तद्वारिणो द्वारसाहित्येनैव फलजनकत्वा- दित्यवोच(त् ? न्)। तच्चिन्त्यम् । सहचारज्ञानस्य तदधिकरण एव व्यभिचारधीवि. रोधित्वात् , व्याभिचारधीविरहस्य च सकलाधिकरणीयस्य व्याप्तिबुद्धिहेतुतया अत- द्वारत्वात् । तस्मात् सहचारज्ञानं व्याभिचारप्रयोजकरूपवत्त्वोपस्थिताधिकरणनिष्ठ- व्यभिचारज्ञानविरोधिसहचारज्ञानत्वेन व्याप्तिधीहेतुः । सकलाधिकरणीयव्यभिचा- रधीविरहश्च तत्सहकारीत्येव तत्त्वम् । स्यादेतत् । व्यातेः प्रत्यक्षत्वे सर्वमिदं सङ्गच्छते । तदेव तु नास्ति । साध- नवनिष्ठाभावप्रतियोगिसामान्यान्योन्याभावस्य योग्यायोग्यप्रतियोगित्वेन योग्यानुप- लब्ध्यग्राह्यत्वादिति । मैवम् । अयोग्यप्रतियोगिकामावस्यापि योग्यप्रतियोगिताव- च्छेदकरूपेण प्रत्यक्षत्वात् , तेन रूपेणापादनसम्भवात् । प्रकृतेऽपि तादृशाभाव- प्रतियोगित्वस्य प्रतियोगितावच्छेदकस्य योग्यत्वात् । अत एव घटादावितरभेदः प्रत्यक्ष इति वक्ष्यति मणिकारः । यदि च तादृशप्रतियोगित्वाभाव एव व्याप्तिप्र- विष्टः, तदा प्रतियोगिनस्तस्य योग्यत्वादनुपपत्तिरेव नास्ति । यत्तु ---- व्याप्ते- रयोग्यत्वेऽप्युपनीतप्रत्यक्षत्रं सम्भवत्येव । न चोपनयोऽप्यनुमानेनेव, प्रत्यक्षासम्भ- वात् । तथा च व्याप्तिबुद्धावुपनयापेक्षायामनवस्थेति वाच्यम् । अन्यथानुपपत्त्या जन्मान्तरीयसंस्कारोपनीतव्याप्तिग्रहस्य क्वचिद्भावेन तद्विरमादिति गौडैदूषितम् । तन्न । उक्तक्रमेण व्याप्तेलौकिकप्रत्यक्षस्यैवोपपत्तावुपनीतभानानुरोधेन जन्मान्तरी- यसंस्कारानपेक्षणात् । तस्य जीवनान्यथानुपपत्तिकल्प्यत्वादिति । ननु तका(व्य ? व्य)भिचारशङ्कापाकरणे व्याप्तिग्रह इति अनुपपन्नं , तर्क- स्यापि व्याप्तिग्रहमूलत्वेनानवस्थाप्रसङ्गात् । न चोक्तं क्वचियभिचारशङ्काविरहः स्वतः सिद्ध एव, कोट्याधुपस्थित्यभावेनापि संशयाभावादिति नानवस्थेति वाच्यम् । कोट्युपस्थितिविरहे हेतुमन्निष्ठाभावाप्रतियोगि(क )त्वस्याप्यग्रहप्रस- ङ्गाद् व्याप्तिग्रहस्यानुपपत्तेरिति चेद्, न । हेतुमन्निष्ठाभावप्रतियोगितावच्छेदका- वच्छिन्नोपस्थितौ तद्भिन्नत्वस्य पूर्वाज्ञातस्यापि भानसम्भवेन व्याप्तिग्रहसम्भवात् । संशयस्य कोटिद्वयोपस्थितिसाध्यतया व्यभिचाराव्यभिचारकोट्युपस्थिति विना- mymanineer १. 'तिव्यभिचारसाध्यतयाव्यभिचारको' क. पाढ़ः, UE मणिसारानुमानखण्डे सम्भवात् । कचित् तद्वयभिचारशङ्कावारणार्थ तर्कापेक्षायामपि सर्वत्र तदपेक्षा नास्तीति नानवस्था । ननु स्वस्य कोट्यस्मृत्यादिना शङ्काविरहादस्तु व्याप्तिग्रहः । यस्त्वनुमानप्रामाण्यप्रतिकूलश्चार्वाको ममावश्यं व्यभिचारशङ्कास्तीति न व्याप्तिग्रह इत्यनुमानं न प्रमाणमेवेति ब्रूते , तं प्रति किमुत्तरमिति चेद्, न । धूमवयोः कार्यकारणभाव(ग्रा ! प्रहस्यैव शङ्कापनायकत्वात् । न च शङ्कायां कार्यकारणभा- वोऽपि दुर्ग्रहः । तत्रानन्यथासिद्धान्वयव्यतिरेकसहकृतप्रवक्षस्य ग्राहकत्वात् , तस्य च तर्कविशेषसहकारेण निर्णायकतया शङ्कानवकाशात् । स च तर्कः धूमो यदि वयसमवहितसामग्र्यजन्यत्वे सति वह्निसमवहितसामग्र्यजन्यः स्याद् , नोत्पन्नः स्याद् आकाशवदिति मणौ व्यक्तम् । अत्र च विपर्ययापर्यवसानमनाशङ्कयं , प्रत्यक्ष- सहकारित्वादस्य । अनुमानसहकारिण एव तर्कस्य तदपेक्षणात् । वयसमवहि- तसामग्र्यजन्यत्वं पक्षविशेषणमित्यपि केचित् । अत्र तर्के उत्पन्नत्वस्य सुदृढप्रमा- णावधृततया इष्टापत्तिशङ्का नास्त्येव । वयसमवहितसामग्र्यजन्यत्वासिद्धिमूल- शैथिल्ययोः सम्भावना परैर्वाच्या । सापि तव नास्तीति परं प्रति वाच्यम् । तत्र चेत् परो ब्रूयाद् अस्त्येव मम शङ्केति , तदा तं प्रति व्याघातो देयः। तथा सति (नियमतो!) धूमार्थ वढेः, परप्रतिपत्त्यर्थं शब्दस्य , तृप्त्यर्थं भोजनस्योपादानं नियमतो न स्यात् । नहि यद्व्यतिरेकेण यत् सम्भाव्यते तदर्थं नियमात् तदुपादी- येतेति । तथा च नियतं तदुपादानमेव तादृशशङ्कापिशाच्युत्थानप्रतिबन्धकमिति परार्थानुमानमपि सम्भवति । एतदभिप्रायक एव · उपादानं शङ्काप्रतिबन्धकमिति मणिरिति बिभावनीयम् । यत्तु - स्वार्थानुमान एवोपादानं शङ्काप्रतिबन्धकमि- त्यभिप्रायको मणिः । न चोपादानं यत्नो न शङ्काप्रतिबन्धकः, विरोधिनिश्चय- स्यैव तत्प्रतिबन्धकत्वाद् , उपादानजनकीभूतहेतुताग्रहस्य चोपादानपदार्थत्वे अ- न्योन्याश्रयः, शङ्काप्रतिबन्धे हेतुताग्रहात् तेन च शङ्काप्रतिबन्धादिति वा- च्यम् । उपादानपदेन वयसमवहितानुपादानप्रयोजकवयसमवहिताजन्यत्व- ज्ञानस्य विवक्षितत्वादिति । तन्न । वयसमवाहिताजन्यत्वज्ञानाद् वह्नयसमबहितज- न्यत्वशङ्काव्युदासेऽपि अहेतुक(त्व)शङ्काया अप्रतिबन्धात्। न च वयसमवहिताज- न्यत्वधीः कार्य सहेतुकमित्यनुमितिसहाया सर्वशङ्कापनायिकेति वाच्यम् । तस्या अनुमितेर्व्याप्तिग्रहमूलकतयानवस्थानात् । शङ्काव्युदासस्य तत एव भावे तर्कान- र्थक्यापत्तेश्च । । ।

भूयोदर्शनवादः। केचित्तु-उपादानप्रयोजकीभूतान्वयव्यतिरेकशालित्वज्ञानमेव शङ्काप्रति- बन्धकत्वेन विवक्षितम् । यद्धविच्छेदेन यद्धर्मावधारणं तद्धर्मावधारणस्य तत्र तच्छङ्काप्रतिबन्धकत्वात् । धूमत्वावच्छेदेन वहिव्याप्त्यवगमाद् धूमत्वज्ञानस्यैव वह्निव्याप्तिसंशये तथा(च ? )वह्नयन्वयन्यतिरेकशालित्वावच्छेदेन वह्निजन्यत्वाव- धारणात् तज्ज्ञानस्य (च) तत्संश(य? ये) विरोधित्वम् । न चैवं तर्को व्यर्थः, शङ्का- प्रतिबन्धस्य तत्फलस्यान्वयादिज्ञानादेव सिद्धरिति वाच्यम् । तर्कस्यैवान्वयादिज्ञान- रूपत्वात् । वयसमवहितसामग्र्यजन्यत्वे सतीत्यनेन व्यतिरेकस्य, वह्निसमवहित- सामग्र्यजन्यत्वेनार्थादन्वयस्य विषयीकरणात् । यदभावे यदभावः, तद्भावेऽपि तदभावे तदनुत्पादप्रसङ्गात् । तथा च तर्कतयान्वयादिज्ञानतया च स एव शङ्का- प्रतिबन्धक इति न व्यर्थ इत्याहुः । अत्रेदं चिन्त्यम् ---- अन्वयादिकं नियतं शङ्काप्रतिबन्धकमनियतं वा । नाद्यः । सहचारदर्शनस्य नियतान्वयव्यतिरेकज्ञानरूपत्वाभावे तदसिद्धेः। नान्त्यः । व्यभिचारिसाधारणतया शङ्का(यां ? याम)प्रतिबन्धकत्वात् । अत एव नान्वयाद्यनु- विधायित्वज्ञानमवच्छेदकधर्मज्ञानत्वेन शङ्कापनायकम् । अन्वयाद्यनुविधायित्वज्ञान- स्य व्यभिचार्यन्यथासिद्धसाधारणतयावच्छेदकधर्मत्वाभावात् । न चावच्छेदकध- मत्वाभावेऽपि तत्त्वेन ज्ञानात् शङ्काप्रतिवन्धो भूयादेव, तावतैव तर्कस्य सार्थक्य- मिति वाच्यम् । भ्रमरूपावच्छेदकत्वज्ञानस्य विवाक्षितत्व एतावत्प्रयासवैफ- ल्यात् । भ्रमेण यत्किञ्चिद्धर्मस्यैवावच्छेदकत्वग्रहसम्भवात् । किं न्वयविषयत्वमेव नास्ति । यदभावे यदभावस्तद्भावेऽपि तदभावे तन्नोत्पद्यतेत्यस्य व्याप्त्यन्तरत्वात् । नव्यास्तु - अन्वयाद्यनुविधायित्वज्ञानं तर्कमूलभूतं तर्कभिन्नमेव शङ्काप्र- तिबन्धकम् । तथा च तस्यान्वयादिविषयत्वांभावेऽपि न क्षतिः । न चैवं शङ्का- प्रतिबन्धस्य तर्कप्रयोजनस्यान्वयादिज्ञानादेव सिद्धेः किं तर्केणेति वाच्यम् । तर्कस्यानिष्टप्रसञ्जनात्मकस्य शङ्काजन्यावरोधिजिज्ञासानिवारकत्वेन सार्थत्वादिति वदन्ति । तन्न । अन्वयादिज्ञानस्य व्यभिचार्यादिसाधारण्येन शङ्कानपनायकत्वादि- त्युक्तत्वात् । शङ्कापनायकत्वे च शङ्काविरहादेव जिज्ञासानुत्पादे तर्कवैफल्यात् , पूर्वजिज्ञासानाशस्य च विरोधिगुणमात्रसाध्यत्वादिति । तस्मात् स्वार्थस्थले कोट्य- नुपस्थित्यादेरेव शङ्कानवश्यंभाव इति परार्थस्थल एवोपादानं शङ्कोत्था(प.)नप्रति- बन्धकमिति दिक् । बहुना, तर्कस्या- ४८ माणसारानुमानखण्डे ननु व्याप्तरत्यन्तान्योन्याभावादिगर्भतया कथं तज्ज्ञानमनुमितिहेतुः, पर- स्परव्यभिचारादिति चेद्, अन्योन्याभावगर्भव्याप्तिज्ञानस्य लाघवेनानुमितिहेतु- त्वादिति मणिकृतः। अत्र केचिद् --- अत्यन्ताभावस्य प्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्या- रोपपूर्वकधीविषयत्वम् , अन्योन्याभावस्य तु प्रतियोगितावच्छेदकारोपपूर्वकधीवि- षयत्वमात्रमिति शीघ्रोपस्थितिकत्वमेवात्र विवक्षितम् । न च ग्राहकलाघवं न विनिगमकं , किन्तु ग्राह्यलाघवमेवेति वाच्यम् । ग्राह्ययोरत्यन्तान्योन्याभावग- भयोः साम्ये विनिगमकचिन्तायामन्योन्याभावगर्भायां प्रा(ह्य ? ह)कलाधवस्य विनिगमकत्वसम्भवादिति मणिकृतोऽभिसन्धि वर्णयाञ्चक्रिरे । तदमञ्जुलम् । तदभावज्ञानत्वावच्छेदेनैव तदारोपस्य लाघवाद्धेतुतयात्यन्ताभावज्ञानवदन्योन्या- भावज्ञानस्यापि प्रतियोग्यारोपजन्यत्वाद् , उक्तविनिगमकस्यासम्भवात् । इयांस्तु विशेषः, यदेकत्र संसर्गावच्छिन्नप्रतियोग्यारोपः कारणमपरत्र तादात्म्यावच्छिन्न- तदारोप इति । (यत्किञ्चिदेतत् । ।) प्रतियोग्यसामानाधिकरण्यांशस्यान्योन्याभा- वगर्भायामप्रवेशेनात्यन्ताभावगर्भव्याप्त्यपेक्षया लाधवमित्यन्ये । तदप्यभद्रम् । अन्योन्याभावोऽव्याप्यवृत्तिरिति भ्रमदशायामव्याप्यवृत्तिव्याप्तिज्ञानानुपपत्त्या प्रति- योगितावच्छेदकसमानाधिकरणत्वेनाज्ञायमानत्वस्यात्रापि देयत्वात् । तादृशो भ्रम एव न सम्भवतीति तु साहसम् । भ्रमस्य विशेषादर्शनसमुत्थस्य निवर्तयितुम- शक्यत्वात् । किं बहुना , प्रतियोग्यसामानाधिकरण्याज्ञानदशायां धूमसमानाधि- करणाभावाप्रतियोगी वह्निरिति व्याप्तिघटकाविशिष्ट पदार्थभानेनानुमित्यभावापत्त्यानु- भवविरोधात् तदंशज्ञानमनुपयुक्तमेव वाच्यम् । तथा च स्वरूपसत्या व्याप्तेरनुमि- त्यजनकतया ज्ञेयांशस्यात्यन्तान्योन्यामावगर्भयोः साम्येन विनिगमनायाः कर्तुमश- क्यत्वाद् नान्योन्याभावगर्भव्याप्तिज्ञानमात्रस्य हेतुता । अत एवान्योन्याभावग- र्भायां प्रतियोगिवृत्तित्वेनाज्ञायमानत्वं विशेषणम् , अत्यन्ताभावगर्भायां च प्रति- योग्यधिकरणवृत्तित्वेनाज्ञायमानत्वं विशेषणमिति पूर्वस्य लघुत्वमिति गौडानां काल्पतं परास्तम् । ज्ञेयभागस्य साम्येनोक्तस्यानियामकत्वात् । पक्षधरमिश्रास्तु --विनिगमनाविरहात् सर्वस्या अपि व्याप्तेः ज्ञानमनु- मितिहेतुः, ग्रन्थस्तूपलक्षणपरः । न च परस्परव्यभिचारः । तत्तदनुमितिविशेषे १. 'यां प्रक, पाठ:.

भूयोदर्शनवादः। तत्तद्व्याप्तिज्ञानस्य हेतुत्वात् । न चैवमनुमितित्वावच्छिन्ने अनुगतहेत्वलाभः । व्यभिचारधीविरहसहकृतसहचारधिय एव तत्रानुगतहेतोः सत्त्वात् । यद्वा , अन्योन्याभावगर्भवेत्यस्यान्योन्यं. साध्यसाधने अभावश्च इत्येतन्मात्रगर्भव्याप्तिः प्रयोजिकेत्यर्थः । तेनानौपाधिकत्वे उपाधेरधिकस्य प्रवशात् तदेव व्यवच्छेद्यम् । अत्यन्तान्योन्याभावगर्भाः सर्वा अपि संग्राह्या एव । न चैवमननुगमः । व्यभि- चारज्ञानविरोधिव्याप्तिज्ञानत्वेन सर्वानुगमात् । अथवा शीघ्रोपस्थितिकत्वाद् अन्योन्याभावगर्भव प्रयोजिका । हेतुसमानाधिकरणान्योन्याभावप्रतियोगिनोः सा- ध्यसाधनयोरवश्योपस्थित्या तादृशात्यन्ताभावप्रतियोगिनश्च उपस्थित्यनियमेना- त्यन्ताभावज्ञानापेक्षयान्योन्याभावज्ञानस्य प्रतियोगिज्ञानसत्त्वेन शीघ्रोत्पत्तिकत्वात् । हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिनोः साध्यतावच्छेदकहेतुतावच्छेदकयोरुप स्थितिनियमेऽपि अत्यन्ताभावग्रहप्रयोजकप्रतियोगितावच्छेदकविशिष्टतयोपस्थित्य- नियमात् । अधिकरणस्याधिकरणतावच्छेदकविशिष्टस्योपस्थितावपि तन्निष्ठात्य- न्ताभावप्रतियोगित्वानियमेन व्याप्तिग्रहानुपयोगात् । केवलान्वय्यधिकरणकव्याप्ति- ग्रहे स्वस्थ स्ववृत्तितथा स्वनिष्ठात्यन्ताभावाप्रतियोगित्वात् । तथा च शीघ्रोपस्थि- तिलाघवेनान्योन्याभावगर्भेव व्याप्तिरनुमितिहेतुरिति यथाश्रुत एव मणिः साधीयान् । वस्तुतस्तु व्याप्तेर्भेद एव न । हेतुसमानाधिकरणधर्माविरोधिसाध्यसामानाधिकर- ण्यस्य व्याप्तित्वात् । हेतुसमानाधिकरणधर्मश्च व्यभिचारिणि साध्यात्यन्ताभाव- स्तद्वदन्योन्याभावश्चेत्यत्यन्तान्योन्याभावगर्भत्वस्य व्यपदेशः । वस्तुत उक्तक्रमणेव हेतुत्वमिति न व्यभिचार इत्याहुः । अत्राद्यपक्षो न क्षोदक्षमः । तथाहि -- व्यभिचाराननुगमात् तज्ज्ञानाभावो- ऽपि कथमनुगत इति दोषः प्रतिबन्धकाभावकटस्य हेतुतया समाधीयतां तावत् । परामर्शानन्तरजातव्यभिचारज्ञाने सत्यनुमित्यभावापत्तिः कथं समाधेया । इष्टाप- त्यैवेति चेत् , तर्हि व्यभिचारज्ञानाभावस्यैवानुमितिहेतुत्वे विशेषेऽपि तत्तद्वया- प्तिधीहेतुत्वं न स्यादिति महानिष्टापत्तिः प्रसज्येत । किं बहुना , सामान्यहेतुता लाघवात् सहचारज्ञानस्यैवास्तु , किं व्यभिचारीविरहेणावच्छेदकेन । अतिप्रस- अस्तु विशेषहेतुतत्तद्व्याप्तिज्ञानेनैव वार्य इति । द्वितीयपक्षेऽपि यद्यपि व्यभिचार- धीविरोधित्वम् । यत्किञ्चित्चद्विरोधित्वं , यावत्तद्विरोधित्वं वा । नाद्यः । अत्यन्ताभा- वगर्भव्याप्तिज्ञानस्य तद्गर्भव्यभिचारधीविरोधिनः सत्त्वेऽन्योन्याभावगर्भव्यभिचार- ज्ञाने सत्यनुमित्यापत्तेः । यावद्वयाप्तिज्ञानत्वेन हेतुत्वे चान्यतरव्यातिज्ञानसत्त्वे m7 मणिसारानुमानखण्डे अन्यतरव्यभिचारास्फूर्तावप्यनुमित्यनापत्तेः । तत्र चेष्टापत्तेरनुभवविरोधेनानुक्ति- सम्भवात् । नान्त्यः । एकस्या अपि व्याप्तेाह्याभावताविरहेण यावत्तद्विरोधित्वा- सम्भवादिति । तथाप्युभयव्याप्तिज्ञानेऽप्यनुमितेरनुभवसिद्धतया ग्राह्याभावानवगा- हित्वेऽप्यत्यन्ताभावादिगर्भव्याप्तिज्ञानेनान्योन्याभावादिगर्भव्यभिचारधीः प्रतिरुध्यत एव, अनुभवबलात् । तथा च यावद्वयभिचारज्ञानविरोधित्वेन उभयव्याप्त्योरनु- गमः सम्भवत्येवेत्यभिसन्धिः । तृतीयपक्षस्तु न मनोज्ञः । यत्र क्वचिच्छीघ्रोपस्थि- तिकत्वस्यात्यन्ताभावसाधारण्यात् सर्वत्र शीघ्रोपस्थितिकत्वस्यान्योन्याभावेऽप्यभा- वात् सामग्रीबलेन कचिदत्यन्ताभावस्यैव शीघ्रोपस्थितेः । किं बहुना, सकलसा- धारणी व्याप्तिरेका नास्त्येवेति प्रागुक्तमेव । तथा च धूमादिव्याप्तिज्ञानस्थलेऽन्यो- न्याभावप्रतियोगिनः साध्यादेरिवात्यन्ताभावप्रतियोगिनोऽधिकरणस्याप्युपस्थितत्वान्न प्रतियोग्युपस्थित्यनुपस्थितिकृतमुपस्थितिलाघवादिकमिति । चतुर्थपक्षोऽपि न रम्यः । हेतुमन्निष्ठसकलधर्माविरोधित्वं तदनधिकरणाधिकरणभिन्नत्वम् । तत्प्रका- रकज्ञानस्य हेतुत्वे हेतुमन्निष्ठात्यन्ताभावाप्रतियोगित्वादिप्रकारकज्ञानादनुमितिर्न स्यात् । न स्याञ्चात्यन्ताभावादिगर्भव्यभिचारधीप्रतिबन्धकता, ग्राह्याभावानवगा- हित्वात् । प्रत्येकमेव तत्प्रकारकव्याप्तिज्ञानस्य हेतुत्वे चोक्तक्रमेणानुगमस्याकि- ञ्चित्करत्वादिति । नव्यास्तु सकलव्याप्तिज्ञाने सत्यनुमितिरित्यनुभवसिद्धा। परन्तु साक्षाद् व्याप्त्यन्तरज्ञानद्वारा वेति संशये लाघवं निर्णायकम् । तच्च प्रकृतेऽन्योन्याभावगर्भाया- मेव । हेतुमन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नसामानाधिकरण्यापेक्षया हेतुमन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकसामानाधिकरण्यस्यैकावच्छेदकशून्य- तया लघुत्वात् । न च हेतुमन्निष्ठा(न्योन्या)भावप्रतियोगितावच्छेदकतया तत्तद्वह्नेः प्रसिद्धानुमानेऽव्याप्तिप्रसङ्गेन यद्रूपावच्छिन्नमन्योन्याभावप्रतियोगितानवच्छेदकमि- त्यर्थों वाच्यः । तथा च क्वात्यन्ताभावगर्भापेक्षया लाघवमिति वाच्यम् । हेतुमन्नि- ष्ठात्यन्ताभावप्रतियोगितानवच्छेदकं यद्रूपावच्छिन्नमित्यस्य तत्राप्यावश्यकत्वात् । अन्यथा दण्डिमत्त्वादिसाध्यके हेत्वधिकरणनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकता दण्डादे(र ? रित्य)व्याप्तिप्रसङ्गात् । विशेषणदाने च दण्डत्वावच्छिन्नं नावच्छेदक- मिति नाव्याप्तिः । तथा चैतद्विशेषणस्योभयत्रापि साम्यमेव । अन्योन्याभावगर्भायां प्रतियोगितानवच्छेदकत्वमात्रं प्रविष्टम् , अत्यन्ताभावगर्भायामेकं तदवच्छिन्नपद- । ।

भूयोदर्शनवादः। मधिकमेवेति तदपेक्षयान्योन्याभावगर्भव्याप्तिर्लघीयसीति तज्ज्ञानमवानुमितिहेतु- रिति यथाश्रुत एव मणिनिष्कलङ्क इति वदन्ति । वस्तुतस्तु हेतुतानिर्णयो लाघ- वानुरोधाद्' अनुभवानुरोधाद् वा । आये सामानाधिकरण्यावच्छेदकधर्मलक्षणव्याप्ति- धीरेव सर्वापेक्षया लघुविषयतया हेतुः । अत एव सहचारधीर्व्याप्तिग्रहहेतुः, सह- चारस्योक्तव्याप्तौ विशेषणस्य नियमादिति प्रागेवावदत् । न चावच्छेदकत्वं नान- तिरिक्तवृत्तितामात्रम् । नीलधूमत्वादिसाधारण्यात् । अपि तु तादृशलधुध(मर्मा-) घटि(त)त्वादिघटितशरीरं वाच्यं , तथा च क्वान्यापेक्षया लाघवमिति वाच्यम् । अत्यन्ताभावादिगर्भव्याप्तावप्यवच्छेदक(त्व)स्य प्रवेशाद् , अप्रवेशेऽपि तदपेक्षया ला- घवात् । उदाहरणवाक्यप्रतिपाद्यत्वं तस्यापि नास्तीत्यवच्छेदकत्वघटकधर्मावभास- काभावादित्युपाध्यायमताभेदः । अन्त्ये सर्वासां व्याप्तीनां ज्ञानमनुमितिहेतुः, अनुमितिविशेषे तत्तद्वयाप्तिहेतुरिति नाननुगमः, अनुमितित्वावच्छिन्ने तु लिङ्गधीः सामानाधिकरण्यधीति न किञ्चिद्विशेषः । इदन्त्ववधेयम् --- अत्यन्ताभावादिगर्भव्याप्तिधीर्यावयभिचारधीप्रतिबन्धि- का । ग्राह्याभावावगाहनेनैव प्रतिबन्धकत्वं ज्ञानस्पति तु परिभाषामात्रं, सिद्ध्या- दावनुमित्यादिप्रतिबन्धक इवेहापि फलबलेन म (या ? ण्या) दिन्यायेनान्यधियः प्रतिबन्धकताकल्पनात् । अन्यथात्यन्ताभावगर्भव्यभिचारज्ञानेऽन्योन्याभावग़र्भव्या- प्तिज्ञानादनुमित्यापत्तेः । (अन्यथा ?) अत्यन्ताभावगर्भव्यभिचारज्ञानादन्योन्याभा- वगर्भव्यभिचारानुमानाद् न तद्गर्भव्याप्तिधीरिति चेद् , न । अनुमानस्यासार्वत्रि- कतया क्वचित् तथात्वापत्तेरनुत्तरीयत्वात् । ननु म(या : ण्या)दिन्यायाज्ज्ञानस्य प्रतिबन्धकत्वे व्यभिचारधीः साक्षादेवानुमितौ प्रतिबन्धिकास्तु । तथा च तदभाव एवानुमितिहेतुरस्तु, किं व्याप्तिज्ञानहेतुत्वेनेति चेद् , न। अनुमितौ व्यभिचारज्ञाना- भावापेक्षया लाघवेनाव्यभिचारज्ञानस्य हेतुत्वात् । अन्यथा शब्दबुद्धौ योग्यता- ज्ञानस्य, प्रवृत्तौ कृतिसाध्यताज्ञानस्य हेतुत्वं न स्यादिति संक्षेपः । ननु पर्वतीयधूमस्य वहिव्याप्त्यनवगमात् कथं तस्मादनुमितिः । न- ह्य(न्य)त्र व्यातिज्ञानमन्यत्र पक्षधर्मताज्ञानं चानुमितिहेतुः, अतिप्रसङ्गादिति ? १.कमहव्या' क. पाठः. * ईषदित्यर्थः । 'कश्चिदिति वा पाठयम् ।

मणिसारानुमानखण्डे SeaawaRESS चेद्, अत्र प्राञ्चः महानसीयधूमे धूमत्वदर्शनानन्तरं तयैव सामान्यप्रत्या- सत्त्या धूमत्वावच्छिन्नोपस्थितौ व्याप्तिग्रहादनुमितिसम्भवात् । अन्यथा तदनु- त्पादसम्भवात् । इदमेव च सामान्यस्य प्रत्यासत्तित्वकल्पकमित्याचक्षते । तदेत- न्मानान्तरसिद्धायां सामान्यप्रत्यासत्तौ घटते । अन्यथा न्यायनये महानसधूमे धूमत्वपुरस्कारेण व्याप्तिग्रहे पर्वतीयधूमे धूमत्वदर्शनानन्तरमुपनीतव्याप्तिभाने बाधकाभावात् । यद्धर्मपुरस्कारेण यद्धर्मग्रहः, तद्धर्मग्रहस्यैव तत्र तदुपनायकत्वात् । परनये च समानप्रकारत्वेनैव व्याप्तिपक्षधर्मतयोञ्जनस्यानुमितिहेतुत्वाद् धूमत्व- प्रकारकव्याप्तिज्ञानात् तत्प्रकारकपक्षधर्मताज्ञानाच्चानुमित्युत्पत्तौ वाधकाभावात् किं सामान्य प्रत्यासत्त्येति । मणिकृतस्तु ---- सामान्यलक्षणां विना विशेषदर्शनदशायां धूमो वहिव्यभि- चारी न वेति संशयो न स्यात् । प्रसिद्धधूमे वह्निसंबन्धावगमात् । भवगते च संशयाभावात् । अन्यथातिप्रसङ्गात् । अप्रसिद्धधूमस्य चाज्ञानात् तद्धर्मिकसंशयानु- त्पादाद् , धर्मिज्ञानस्य संशयहेतुत्वात् । तस्माद् धूमत्वप्रत्यासत्त्या प्रसिद्धाप्रसिद्ध- धूमोपस्थितौ प्रसिद्ध विहायाप्रसिद्धसंशय उत्पद्यत इत्यवश्यं सामान्यप्रत्यासत्तिर- गीकार्येत्याहुः । अत्र वदन्ति कोटिद्वयस्मृतिधर्मीन्द्रियसन्निकर्षश्च संशयहेतुरस्तु , न तु धर्मिधीरपीत्यप्रसिद्धधूमस्याज्ञानेऽपि तद्धर्मिसंशये बाधकाभावः । न च तेन सहन्द्रियसन्निकर्षाभावाज्ञानमेव सन्निकर्षों वाच्यः , तदर्थमेव सामान्यप्रत्या- सत्तिरङ्गीकार्येति वाच्यम् । धर्मितावच्छेदकप्रकारकज्ञानस्यैव प्रत्यासत्तित्वात् , तस्य च सामान्यलक्षणां विनापि सम्भवात् । अस्तु वा धर्मिधीः संशयहेतुः, तथापि न संशयानुपपत्तिः । तथाहि तत्तख़्मत्वेन निश्चितवह्निसम्बन्ध एव प्रसिद्ध- धूमे धूमत्वेन तत्संशये बाधकाभावात् । समानप्रकारकनिश्चयस्यैव संशयपरिप- न्थित्वात् । न च समानविषयत्वेनैव संशयप्रतिबन्धकत्वं निश्चयस्येति निश्चितव- हिसम्बन्धे केनापि रूपेण न संशयः, समानप्रकारकत्वेन विरोधित्वाभ्युपगमेऽपि विशेषप्रकारकनिश्चयत्वेन सामान्यप्रकारकसंशयप्रतिबन्धकताभ्युपेयैव । अत एव इदम्पर्वतत्वेन वहिनिश्चये पर्वतत्वेन न तत्संशय इति स्वीकृतम् । तथा च तत्तख़्मत्वेन विशेषतो निश्चये कथं धूमत्वेन तत्संशय इति वाच्यम् । तथापि धूमत्वेन सन्दिग्धव्यक्त्यन्तरमेव संशयधर्म्यस्तु । किं बहुना , यथा प्रामाण्यसन्दे- Duramestein भूयोदर्शनवादः। हाहितसंशयो निश्चिते विषये औचित्यावर्जितोऽङ्गीक्रियते, तथा प्रसिद्धधूम एव धूमत्वं वहिव्यभिचारिवृत्ति न वेति संशयाहितव्यभिचारसंशये बाधकाभावः । कथमन्यथा सामान्यलक्षणाभ्युपगमेऽप्येतच्चन्दनखण्डप्रभवदशधूमव्यक्तिनिष्ठप्रत्ये- कतत्प्रभववह्निसम्बन्धग्रहे एतच्चन्दनखण्डजन्यधूम एतच्चन्दनखण्डवह्निव्यभिचारी न वेति संशयः । न झत्रेव तत्राप्यनवगतवह्निसम्बन्धः सामान्योपस्थाप्यः कश्चिद धर्म्यस्ति , येन तद्धर्मिकत्वं संशयस्य कल्प्यमिति । अत्र पक्षधरामिश्राः- धूमत्वं वह्निव्याभिचारिवृत्ति न वेति संशयो न वहिव्यभिचारित्वेनोपस्थितघटादौ धूमत्वं विषयीकरोति, तत्र धूमत्वाभावनिर्णयात्। किन्तु वह्निव्यभिचारित्वेन सामान्यप्रत्यासत्त्या प्रसिद्धाप्रसिद्धवह्निव्यभिचार्युपस्थिती प्रसिद्धं परित्यज्याप्रसिद्धतदृत्तित्वं धूमत्वे विषयीकरोति । अयमपि संशयः सा- मान्यप्रत्यासत्यधीन एवेति सावश्यमभ्युपगन्तव्यति समादधते । अत्रेदमालोचनीयं-दोषात् प्रसिद्ध एव कचिद् वह्निव्यभिचारिणि धूमत्व- व्यतिरेकानिश्चयेन सामान्यलक्षणां विनापि धूमत्वं वहिव्यभिचारिवृत्ति न वेति संशय उपपद्यते । ततश्च तदाहित एव धूमो वहिव्यभिचारी न वेति संशयः सम्भवत्येव । न च धूमभिन्ने धूमत्वं नास्तीति निश्चयदशायां कथं वहिव्यभिचा- रिणि प्रसिद्धघटादौ धूमत्वसंशय इति वाच्यम् । धूमभिन्नत्वेनापि दोषाद् व्यक्ति- विशेषानुपस्थितेस्त्वयापि स्वीकार्यत्वात् । कथमन्यथा सामान्यलक्षणाङ्गीकारेऽपि चन्दनखण्डजन्यधूमभिन्ने न तळूमत्वमिति निश्चये चन्दनखण्डप्रभवधूमस्तज्जन्य- वहिव्यभिचारी न वति संशयः । केचित्तु प्रसिद्धधूमेऽत्यन्ताभावादिगर्भव्याप्तिनिश्चयेऽपि साध्यसामा- नाधिकरण्यावच्छेदकधर्मवत्त्वलक्षणव्याप्तिसन्देहे बाधकाभावः । तस्यानिर्णयात् । नह्यन्यनिर्णयोऽन्यसंशयपरिपन्थीति न व्यभिचारसंशयान्यथानुपपत्तिः सामान्य- लक्षणायां मानम् । किञ्च , सम्बन्धितावच्छेदकभेदात् सम्बन्धि(क)पदार्थभेद इति तत्तद्धृमत्वावच्छिन्नव्याप्त्यपेक्षया धूमत्वावच्छिन्नव्याप्तिर्भिन्नेति तख़्मत्वाव- च्छिन्नव्याप्तिनिश्चयेऽपि धूमत्वावच्छिन्नव्याप्तिसंशये बाधकाभाव इति । तच्चिन्त्यम् । धूमो वहिव्यभिचारी न वेति संशयस्य यथाकथञ्चिद् एवमुपपादनेऽपि धूमः शुक्लो न वेत्यादिसंशयस्य सामान्यलक्षणां विनासम्भवाद्, व्याप्तिभेदवत् शुक्लत्वादिभे- दाभावात् । तस्मात् प्रसिद्धधूम एव धूमत्वप्रकारकः (स्वारसिः) स्वारसिकः सं- MAANIamaareams मणिसारानुमानखण्डे शय इति वा , अन्याहितसंशय इति वा , घटादावेव धूमत्वादिरूपेण तद्धर्मिकसं- शय इति वा , प्रसिद्धधूम एव कचिद् धूमत्वादर्शनाद् वढिसामानाधिकरण्यादर्श- नाद् वा संशय इति कल्प्यतां, कि सामान्यप्रत्यासत्त्येत्येव तत्र दूषणम् । पक्षधरमिश्रास्तु-सामान्यलक्षणां विनान्धकारप्रत्ययो न स्यात् , यावदुद्भूतरूपतेजस्संसर्गाभावरूपस्य प्रतियोगिरूपयावत्तेजोज्ञानाधीनत्वात् , तस्य च तया विना असम्भवाद्, अतीतानागततेजसां सन्निकर्षान्तराभावादिति । किञ्च , ज्ञानेच्छाकृतीनां कार्यकारणभावग्रहार्थमपि सामान्यलक्षणाभ्युपेया । अन्यथा कृतिकालोत्तरं ज्ञानस्याभावात् तद्धेतुताग्रहानुपपत्तेः । न च स्मृत्युपनीते ज्ञाने कृतिहेतुताग्रहो मनसेति वाच्यम् । स्मृतेरनुभवपूर्वकत्वाद् , अनुभवस्य च कृतिजनकीभूतज्ञानानन्तरमुत्पादाङ्गीकारे कृतिकाले जनकीभूतज्ञानाभावेन कृतिरेव नोत्पद्येत , किंहेतुता तत्र (ग्रा.गृह्येत । सामान्यप्रत्यासत्त्यङ्गीकारे चायं घट इति ज्ञानानन्तरं तदनुव्यवसायगृहीतघटविषयकज्ञानत्वप्रत्यासत्या सकलघटविषयक- ज्ञाना(भानुभ)वे जाते पुनर्घटविषयक(इति)ज्ञानादिच्छाकृती भवतः । तदन. न्तरं पूर्वानुभवाद् घटविषयकज्ञानस्मृतिः, तदुपनीते तत्र मनसा कार्यकारणभाव- परिच्छेद इत्याहुः। तदपि परं प्रति न प्रमाणीकर्तुं शक्यम् । विशिष्टवैशिष्वज्ञाने विशे- षणतावच्छेदकप्रकारकज्ञानस्याभावज्ञाने प्रतियोगितावच्छेदकप्रकारकज्ञानस्य फली- भूतज्ञानप्रकारप्रकारकज्ञानस्य वा हेतुत्वाभ्युपगमात् । तच्च तेजस्त्वमिति तत्प्र- कारकज्ञानं सामान्यलक्षणां विनापि सम्भवतीति किं सामान्यलक्षणया । यदपि ज्ञानप्रयत्नयोः कार्यकारणभावग्रहाथै सामान्यलक्षणाङ्गीकार इत्युक्तं, तदप्यकोम- लम् । अयं घट इति ज्ञानानन्तरमेतदनुव्यवसायेन घटविषयकज्ञानत्वविशिष्टत- ज्ज्ञानं , ततः प्रवर्तकीभूतज्ञानोत्पादादिच्छाद्युत्पादः , तदनन्तरं घटविषयकज्ञान- त्वप्रकारकपूर्वानुभवजनितघटविषयकज्ञानत्वप्रकारकस्मृत्योपनीते ज्ञाने घटविषयक- ज्ञानं घटविषयककृतिहेतुरिति ग्रहः सम्भवत्येव , समानप्रकारकानुभवस्य तत्प्रका- रकस्मृतिहेतुत्वादिति किं सामान्यलक्षणया । किञ्च, ज्ञानं तदनुव्यवसायः , ततो विनश्यदवस्थज्ञानादिच्छा, तज्ज्ञानतत्संस्कारयोस्तृतीयक्षणे उत्पत्तिः कृतिः, ततस्तदनुव्यवसायानुभूतज्ञानस्मृतिः, ततः स्मृत्युपनीते ज्ञाने कृतिहेतुता- ग्रहः सम्भवत्येव । न चैवं कृत्युत्पत्तिरेव न स्यात् , कृतिपूर्वक्षणे ज्ञानस्याभावा- , ततः भूयोदर्शनवादः। दिति वाच्यम् । ज्ञानस्याभावेऽपीच्छारूपतद्व्यापारसत्त्वेन कृत्युत्पत्तिसम्भवादिति यत्किञ्चिदेतत् । साम्प्रदायिकास्तु - सामान्यलक्षणां विना सुखादाविच्छा, पाकादौ च चिकीर्षा न स्यात् । इच्छायाः समानविषयकज्ञानसाध्यत्वात् , सिद्धस्येच्छावि- षयत्वाभावाद्, असिद्धस्य चाज्ञानादित्यसिद्धज्ञानार्थ सामान्यलक्षणाङ्गीकार्येति वदन्ति । तदपि परो न क्षमते । तेन ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुत्वाङ्गी- कारात् । सिद्धपाक एव पाकत्वादिप्रकारकज्ञानात् पाकत्वादिप्रकारकेच्छाया इच्छा- स्वाभाव्यादसिद्धविषयिण्या उत्पादसम्भवेनासिद्धविषयकज्ञानोत्पादार्थ सामान्यल- क्षणाङ्गीकारस्य व्यर्थत्वात् । किं बहुना, समानप्रकारकसिद्धरेवेच्छोत्पत्तिविरोधितया तत्तत्सुखत्वादिप्रकारकसिद्धावपि सुखत्वादिनासिद्धसुखादावेवेच्छोत्पत्तौ बाधका- भावात् । किञ्च , पाकत्वं सुखत्वाव्यावृत्तवर्तमानपाकसुखातिरिक्तवृत्ति जातित्वाद् घटत्वादिवदित्यनुमानेनानागतज्ञानं सम्भवत्येव । अत एव कृत्यनन्तरभविष्यत्त्व- रूपकृतिसाध्यताज्ञानं प्रवृत्तिहेतुः, तच्चासिद्ध एवेति तज्ज्ञानार्थं सामान्यप्रत्यासत्तिः कल्पनीयेत्यपास्तम् । पाको मत्कृतिसाध्य इत्याद्यनुमानेनानागतपाकज्ञानस्य शब्द- खण्डे वक्ष्यमाणत्वादित्यविचारितरमणीयमेव सामान्यप्रत्यासत्तिकल्पनमिति । अत्र प्रतिभाति । प्रसिद्धाङ्गकमेव प्रमाणमिति न नियमः। (अ)प्रसिद्धाङ्गक- स्यापि प्रमाणत्वसम्भवात् । तथा च प्रतियोगिज्ञानस्याभावज्ञानहेतुतयान्धकारप्र- त्ययस्य सामान्यलक्षणां विनासम्भव एव । यावदुद्भूतरूपतेजोज्ञानस्य प्रकारान्तरे- णासम्भवात् । एवञ्च विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वानुरोधेनापि सामान्यलक्ष- णाङ्गीकार्या । अन्यथा पर्वतो वह्निमानित्यनुमितेरनुत्पादप्रसङ्गात् । पर्वतीयवह्वे- विशेषणस्य प्रागज्ञानाद्, वह्नित्वरूपसामान्यप्रत्यासत्ति विना तज्ज्ञानोपायस्यामा- वात् । न चानुमानात् तद्वह्निधीः । तथा सत्यनवस्थाप्रसङ्गाद् , अनुमानस्य व्या- प्त्यादिज्ञानविलम्बेन सर्वत्रानावश्यकत्वाच्च । क्रिञ्च, सामानाधिकरण्यं व्याप्तिः । सा च प्रत्येकं धूमस्य भिन्नैव । तथा च पर्वतीयधूमव्याप्तेस्तत्संयोगरूपायास्तद्- धूमज्ञानमन्तरेण ज्ञानासम्भवः । न च तज्ज्ञानमन्तरेणानुमितिः । लाघवेन समा. नविषयकव्याप्तिज्ञानस्य हेतुत्वात् । पूर्वगृहीतमहानसीयवहिव्याप्तेः पर्वतधूमवृत्ति- तयोपनीतभाने भ्रमत्वापत्तेः । एवं प्रतिव्यक्ति शक्तिग्रहानुरोधादपि सामान्यलक्ष- ।

मणिसारानुमानखण्डे , , णा । अन्यथा घटपदात् शक्यत्वेन गृहीतघटव्यक्तरेवोपस्थितिः स्यात् , न त्वपू- वघटव्यक्तेः । समानविषकज्ञानस्य तादृशपदार्थोपस्थितौ शाब्दबोधे च प्रयोजक- त्वात् । न च समानप्रकारकत्वं तत्र नियामकं , न तु समानविषयत्वमिति वा- च्यम् । तथा (च ? सति) घटत्वप्रकारकशक्तिज्ञानाद् घटत्वेन प्रकारेण पटादेरप्यु- पस्थितिप्रसङ्गात् । तत्र नियामकान्तरकल्पनापेक्षया समानविषयत्वस्य नियामकत्व- कल्पनायां लघुत्वात् । अत एव सम्प्रदायमतमप्यनवा , ज्ञानेच्छयोः समानप्र- कारकत्वे सति समानविशेष्यकत्वेन हेतुहेतुमद्भावादिच्छाविशेष्यभूतानागतपाक- ज्ञानार्थ सामान्यलक्षणाया आवश्यकत्वात् । न च ज्ञानेच्छयोः समानप्रकारतामा- त्रेण हेतुहेतुमद्भावो न समानविशेष्यकत्वेनापि , गौरवादिति वाच्यम् । तथा सति घटत्वप्रकारकज्ञानात् तत्प्रकारकपटविशेष्यकेच्छोत्पादप्रसङ्गात् । न चेच्छायाः स्व- जनकज्ञानप्रकाराश्रयविशेष्यकत्वनियमाद् न पटविशेष्यकत्वं घटत्वप्रकारकेच्छाया इति वाच्यम् । तथा सति भ्रमस्थले रजतत्वप्रकारिकायाः शुक्तिविशेष्यकेच्छाया अनुत्पादप्रसङ्गात् । न च स्वजनकज्ञानप्रकारागृहीतासंसर्गधर्मिविशेष्यकत्वमिच्छाया इति वाच्यम् । एतदपेक्षया स्वजनकज्ञानसमानविशेष्यकत्वस्यैव लघुत्वेन निया- मकत्वकल्पनाया औचित्यात् । वयं तु ब्रूमः- सामान्यलक्षणां विना घटो नास्तीति सामान्याभावधीन स्यात् । प्रतियोगिज्ञानं विनाभावंबुद्ध्यनुत्पादात् । प्रतियोगिनां च घटत्वावच्छि- नानां प्रकारान्तरेण ज्ञातुमशक्तेः । न चाभावबुद्धौ प्रतियोगिज्ञानत्वेन तुता न तु यावत्प्रतियोगिज्ञानत्वेन , गौरवादिति वाच्यम् । विशेषाभावग्रहस्थले तत्तत्प्र- तियोगिज्ञानत्वेनैव तत्तत्प्रतियोगिज्ञानस्य हेतुत्वकल्पनात् सामान्याभावस्यापि यावद्विशेषप्रतियोगित्वेनावश्यं तावज्ज्ञानसापेक्षज्ञानतया यावत्प्रतियोगिज्ञानस्य तज्ज्ञानहेतुत्वावश्यकत्वात् । यदि च यावद्विशेषाभावस्यैव घटो नास्तीति प्रत्य- यविषयत्वमङ्गीक्रियते , तदा सामान्यलक्षणा सुतरामुररीकार्या । त(ह ? दू)रीक- रणं विना तत्प्रतियोगिसहस्रस्य ज्ञानाभावेन तत्प्रत्यक्षासम्भवादिति । अस्मपितृचरणास्तु-- अनुमितिविषयतायां नियामकान्तरस्य वक्तुमशक्य- तया व्यापकत्वेन गृहीतत्वस्य तन्नियामकत्वं वाच्यम् । तच्च पर्वतीयवहः सामा- न्यलक्षणां विना न सम्भवति । अनुमानस्यानवस्थादुःस्थत्वात् , प्रणालीसहस्रक- ल्पने गौरवाच्च । न च व्यापकतावच्छेदकत्वेन गृहीतधर्माश्रयत्वं नियामकम् ।

। MADANEn । भूयोदर्शनवादः। भ्रमानुमितावव्याप्तेः । न च तत्राप्यन्यत्रस्थ एव वह्निविषयः । पर्वतातिरिक्तवृत्ति- वह्निः पर्वते नास्तीति ज्ञानानन्तरं पर्वतो वह्निमानिति भ्रमानुमितौ गुञ्जापुञ्जादे- रेव तत्त्वेन विषयत्वात् । किञ्च गौरवमपि , व्यापकत्वेन गृहीतत्वापेक्षया व्यापक- तावच्छेदकत्वेन गृहीतधर्माश्रयत्वस्यातिगुरुत्वादित्याहुः नव्यास्तु घटत्वात्यन्ताभावप्रत्ययानुपपत्तिरेव सामान्य प्रत्यासत्तौ प्रमा- णम् । तथाहि प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानमभावधीहेतुः । तच्चेह घटत्वत्वम् । तच्च घटेतरावृत्तित्वे सति सकलघटवृत्तित्वम् । तज्ज्ञानं च सकलघटज्ञान- मन्तरेण न सम्भवति । तदर्थ सामान्य प्रत्यासत्तिः कल्पनीयेति वदन्ति । त- चिन्त्य , घटेतरावृत्तित्वे सति घटनिष्ठात्यन्ताभावाप्रतियोगित्वस्यैव घटत्वत्वपदा- थतया तज्ज्ञानस्य तया विनापि सम्भवादिति । ननु सामान्यलक्षणाङ्गीकारे सर्वसावयापत्तिः, संशयानुपपत्तिश्च । न च तेन रूपेण सार्वश्यसंशयाभावावङ्गीक्रियेत एव , रूपान्तरेण त्वापादकाभावः । तत्प्रकारकज्ञानाभावादिति वाच्यम् । भासमानवशिष्टय प्रतियोगित्वस्यैव प्रकारत्वरू- पतया प्रमेयमिति ज्ञाने घटत्वादिसकलवैशिष्टयभानेन प्रकारत्वस्य घटत्वादावन- पायात् । तत्प्रकारकसंशयानुपपत्तरेवापाद्यत्वात् । न च जनकज्ञानविषयत्वमपि प्रकारताघटकं , तच्च प्रमेयमिति ज्ञाने प्रमेयत्वस्यैव , न तु घटत्वादेरिति नाति- प्रसङ्ग इति वाच्यम् । प्रमेयवानिति ज्ञाने प्रमेयमात्रस्यैव जनकज्ञानविषयत्वेन प्रकारतया घटत्वादिप्रकारकसंशयविरोधित्वापातस्य वज्रलेपत्वादिति । मैवम् । तत्प्रकारकं ज्ञानं संशयविरोधीति सत्यं , परंतु प्रकारो द्विविधः किञ्चिदवच्छिन्नः, अन्यानवच्छिन्नश्च । तत्राद्ये यपोपस्थितयत्प्रकारकं ज्ञानं तपोपस्थिततत्प्रका- रकसंशयविरोध्येव , न तु शुद्धतत्प्रकारकसंशयविरोध्यपि । यथा दण्डिमद् गृहमिति ज्ञाने पुरुषस्य चैत्रादेः प्रकारत्वेऽपि दण्डावच्छिन्नस्यैव तथात्वाद् दण्डिमन्न वेति संशयो न भवति । अन्यादृशस्तु भवत्येव चैत्रवद् गृहं न वेति । तथाच प्रकृतेऽपि प्रमेयत्वोपस्थितसर्व(प्र)मेयप्रकारकनिश्चयः प्रमेयवान् न वेति संशयं प्रतिबध्नात्येव । घटो वा न वेत्यादिसंशयप्रतिबन्धाय तन्नालमिति न दोषशङ्कापि । अन्त्ये तु तादृशसं- शयप्रतिबन्धक एव , यथा घटोऽयमिति ज्ञानं शुद्धघटत्वप्रकारकं घटो न वेति तादृशव्यावर्तकमिति । वस्तुतस्तु प्रकारत्वं ज्ञाननिरूपितम्वरूपसम्बन्धविशेषः सं- शयादिविरोधेन कल्प्यत इति फलबलेन घटोऽयमिति ज्ञाने घटत्वस्य स सम्ब. । 1.8 मणिसारानुमानखण्डे Menimamaees न्धः, न तु प्रमेयमिति ज्ञाने घटत्वस्य । तथा संति घटो न वेति घटत्वप्रकारक- संशयविरोधित्वापातादिति । इदंतु ध्येयम् सामान्यप्रत्यासत्तेरिन्द्रियसम्बद्धविशेषणतायामन्तर्भावः । इन्द्रियसम्बद्धे सामान्यव्यक्तीनां विशेषणत्वात् । न केवलं सामान्यस्यैव विशेषणता- यामन्तर्भावः, अपि तु ज्ञानलक्षणयोगजलक्षणयोरपीति न षोढाप्रत्यासत्तिपरिगणन- विरोधः । न च विशेषण(त? ता)या लौकिकप्रत्यासत्तितया वर्तमानमात्रविषयग्रा- हकतयातीतानागतव्यक्तिभानानुपपत्तिः । इन्द्रियसम्बद्धाधेयतालक्षणविशेषणता- यास्तथात्वेऽपीन्द्रियसम्बद्धाधारतालक्षणविशेषणतात्मकसामान्यप्रत्यासत्तेविलक्षणस्व- भावतया तथानियमात् । यद्वा वैलक्षण्यस्यावश्यकतयातिरिक्तप्रत्यासत्तिरेवैषा । ज्ञानलक्षणयोगजलक्षणे अपि विशेषगतापेक्षया भिन्ने (इ ? ए)व । पोढाप्रत्यासत्ति- परिगणनं तु लौकिकप्रत्यासत्त्यभिप्रायेण । सा चैवं ज्ञायमानैव प्रत्यासत्तिः, स्व- प्रकारकज्ञानजनकत्वनियमात् । अज्ञातस्य च प्रकारत्वायोगात् । वस्तुतस्त्वतीता- नागतसामान्यधर्मस्यापि ज्ञाने तदाश्रयप्रत्यक्षान्न ज्ञायमानसामान्यं प्रत्यासत्तिः, किन्तु सामान्यज्ञानमेव । न च सामान्यस्य नित्यत्वादतीतानागतत्वमसिद्धमिति वाच्यम् । सामान्यप्रत्यासत्तिरित्यत्र सामान्यत्वं (च ? न) जातित्वं, तथा सति मेयत्वादेरतथाभूतस्यानासत्तित्वप्रसङ्गात् । किन्त्वनेकवृत्तिधर्मत्वम् । तच्च बहुत्व- संयोगादिसाधारणमिति सम्भवत्येव तेषामतीतानागतत्वमिति न तेषां प्रत्यक्षहेतुता, अपि तु तज्ज्ञानस्यैव । न चैवं ज्ञानप्रत्यासत्यभेदः । तस्य समानविषयकस्यास्य च भिन्नविषयकस्यासत्तितया भेदस्या(दि? ति)स्फुटत्वादिति सङ्केपः । इति भूयोदर्शनवादः। अथोपाधिवादः। उपाधिज्ञानं च व्यातिज्ञाने ग्राह्याभावावगाहितया न प्रतिबन्धकम् , अनौ- पाधिक(त्व)स्याव्याप्तित्वात् । किन्तु व्यभिचारानुमितिद्वारा । अत एव तज्ज्ञानस्य व्यभिचाराननुमितिदशायामनुमित्यप्रतिबन्धकत्वान्न तत्प्रतिबन्धकतानियमघटितहे- वाभासतोपाधेरिति वक्ष्यते । अत एव 'ययभिचारित्वेन साधनस्य साध्यव्यभि- उपाधिवादः। १ चारित्वं , स उपाधि रिति लक्षणं मणिकृत ऊचुः । ननु यथाश्रुतमिदमनुपपन्नम् । न ह्युपाधिव्यभिचारेण साध्यव्याभिचारः क्रियते । न च यद्यभिचारेण साध्यव्य- भिचारानुमितिः स उपाधिः । तथा सत्यनुमितिकाल एवोपाधेर्दोषतायामनित्यदोष- तापत्तेः । घटव्यभिचारेणापि धूमरूपसाध्यव्यभिचारस्य व्याप्तिभ्रमेणानुमातुं शक्य- त्वाद् घटस्यापि धूमसाध्यके वह्निहेतुक उपाधितापत्तेः । न चानुमितेः प्रमात्वपर्य- न्तविवक्षायामपि तत्प्रतीकारः । वह्निधूमव्यभिचारी घटव्यभिचारित्वाद् इत्यनुमिते- रसल्लिङ्गजन्याया अपि विषयाबाधेन प्रमात्वात् । किं बहुना , आकाशादिसाध्यके घटादीनां तदव्यापकानां सर्वेषामप्युपाधितापत्तेः । आकाशादिव्यभिचारस्य घटा- दिव्यभिचारेण प्रमातुं शक्यत्वात् । अवृत्तिव्यभिचारस्य केवलान्वयित्वात् तत्साधने व्यभिचाराद्यभावात् । किञ्च , शुद्धयद्यभिचारित्वं साध्यव्यभिचारानुमापकमित्यर्थो वा, इतरसमभिव्याहारेणापि यद्यभिचारः साध्यव्यभिचारानुमापक इत्यर्थो वा विवक्षितः । नाद्यः । साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तेः । शुद्धतव्य- भिचारस्य साध्यव्यभिचारव्यभिचारितया तद(न)नुमापकत्वात् । नान्त्यः । गौः शुक्ल: पशुत्वादित्यत्र गोत्वावच्छिन्नशुक्लत्वव्यापकस्य सानावत्त्वस्योपाधितापत्तेः । न च तत्र व्यभिचारानुमानासम्भवः, पशुत्वस्य गोत्वव्यभिचारितया गोत्वाव्यभि- चारित्वे सति गोत्वावच्छिन्नशुक्लत्वव्यापकव्यभिचारित्वस्य साध्यव्यभिचारानुमाप- कस्य तत्राभावादिति वाच्यम् । पशुत्वं शुक्ऋत्वव्यभिचारि गोकृष्णच्छागान्यतर- स्मिन् सास्नावत्त्वव्यभिचारित्वादित्येवं व्यभिचारानुमितिसम्भवात् । एवमयं गन्धो गुणत्वादित्यत्र सुरभित्वस्य गन्धत्वाव्यापकस्याप्युपाधितापत्तिः , गुणत्वं गन्धत्व- व्यभिचारि असुरभित्वतव्याप्यगन्धत्वान्यत्वे सति सुरभित्वव्यभिचारित्वादित्येवं व्यभिचारानुमितिसम्भवात् । न च व्यभिचारस्थानान्यत्वाविशेषितेन ययभिचारि- त्वेन साध्यव्यभिचारित्वानुमितिरित्यर्थः । अत्र त्वसुरभित्वतद्व्याप्यगन्धत्वानां व्य- भिचारित्वस्थाना(नां न? नामन्य)त्व(स्य ?)विशिष्टत्वान्नोपाधित्वमिति वाच्यम् । व्यभिचारस्थानान्यत्वाविशेषितेनेत्यस्य यथाश्रुतम्यासुरभित्वात्यन्ताभाववत्त्वविशेषि- तव्यभिचारेण व्यभिचारानुमानमादायातिप्रसङ्गे व्यभिचारस्थानव्यावर्तकविशेषणा- घटितत्वमर्थो वाच्यः । तथा च साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपा- ध्यव्याप्तिः। विशेषणाव्यभिचारित्वेन व्यभिचारस्थानव्यावर्तकविशेषणेन घटितस्यैव तव्यभिचारस्य साध्यव्यभिचारानुमापकत्वात् । किं बहुना , गुणत्वं गन्धत्वव्यभि- मणिसारानुमानखण्डे है चारि रूपे सुरभित्वव्यभिचारित्वाद रूपत्ववदिति क्रमेण व्यभिचारानुमानसम्भवात् सुरभित्वेऽतिव्याप्तेर्दुष्परिहरत्वादिति । अत्र प्रतिभाति-साध्यनिष्ठोपाधिव्याप्यतावच्छेदकधर्मवत्त्वतदव्यभिचा- रित्वातिरिक्तधर्माविशेषितं ययभिचारित्वं हेतौ साध्यव्यभिचारित्वसाधने व्याप्ति- पक्षधर्मतोभयवत् , (कदापि ? ) स सर्वथा तत्साध्यकतद्धेतावुपाधिः । अत एव नानित्यदोषता , न वा घटादावतिप्रसङ्गशङ्का , धूमव्यभिचारित्वसाधने घटव्य- भिचारित्वस्य व्याप्त्यभावात् । न चावृत्तिसाध्यके तथापि घटादेरुपाधित्वं स्यादेव, अवृत्तिव्यभिचारित्वव्याप्यत्वाद् घटव्यभिचारित्वस्येति वाच्यम् । अवृत्तिव्यभिचारव्याप्यतायां वृत्तित्वमात्रस्यैव लाघवेनावच्छेदकत्वाद् , घटव्य- भिचारित्वत्वादेरतथात्वात् । नीलधूम(त्व)स्यावच्छेदकत्वाभावेन नीलधूमस्य व्याप्त्यभाववद् घटव्यभिचारस्यावृत्तिव्यभिचाराव्याप्यत्वात् । अत एव गौः शुक्ल: पशुत्वादित्यत्र न सास्नावत्त्वं गोत्वावच्छिन्नशुक्लत्वव्यापकमुपाधिः । पशुत्वं शुक्ल- खव्यभिचारीत्यत्र गोत्ववति गोत्वाव्यभिचारित्वे सतीत्यन्यतरघटितसाखावत्त्व- व्यभिचारीत्य ! रित्व)स्याहेतुत्वात् । उभयथापि स्वरूपासिद्धत्वात् । पशुत्वस्य गोत्ववति सास्नावत्त्वव्यभिचारित्वाभावाद् गोत्वव्यभिचारित्वाच्च । अत एव 'घटः पृथिवी द्रव्यत्वादित्यत्र घटान्यत्वावच्छिन्नसाध्यव्यापकं घटावृत्तिगुणवत्त्वमुपाधिः म्यात् । द्रव्यत्वं पृथिवीत्वव्यभिचारि द्रव्यत्वमेयत्वपटत्वानीतिधीविशेष्यत्वे सति घटावृत्तिगुणवत्त्वव्यभिचारित्वाद् मेयत्ववदिति क्रमेण व्यभिचारानुमितिसम्भवात् । हेतौ द्रव्यत्वपदं पक्षधर्मत्वसियर्थम् । मेयत्वपदं च दृष्टान्तसिद्ध्यर्थम् । पटत्वपदं पटत्वे सत्यन्तसिद्यर्थम् । न च तदेव व्यर्थमिति वाच्यम् । घटावृत्तिगुणवत्त्वव्य- भिचारित्वस्य विशेष्यभागस्य तथा सति वैयर्थ्यप्रसङ्गाद्, द्रव्यत्वमेयत्वे इतिधी- विशेप्यत्वस्यैव पृथिवीत्वव्यभिचारव्याप्यत्वात् । तस्माद् द्रव्यत्वमेयत्वपटत्वानीति- धीविशेष्यत्वस्य पटत्वेऽपि सत्त्वेन तत्र पृथिवीत्वज्यभिचारित्वरूपसाध्याभावेन व्यभिचारः स्यादिति घटावृत्तिगुणवत्त्वव्यभिचारित्वपदम् । न चैवमपि द्रव्यत्व- मेयत्वे इतिधीविशेष्यत्वस्यैव व्याप्यत्वे तद्धटितद्रव्यत्वमेयत्वपटत्वानीतिधीवि- शेप्यत्वघटितहेतोः नीलधूमवदव्याप्यत्वमेवेति वाच्यम् । द्रव्यत्वमेयत्वपटत्वगो- चरज्ञानस्याखण्डस्य हेतुशरीरप्रविष्टत्वेन वैयर्थ्यशङ्काविरहात् । एवं पर्वतो वह्निमान् धूमादित्यत्र व्यञ्जनवत्त्वमुपाधिः स्यात् । धूमो वहिव्यभिचारी धूममेय- उपाधिवादः। ara , स्वमहानसत्वानीतिधीविशेष्यत्वे सति व्यञ्जनवत्त्वव्यभिचारित्वाद् मेयत्ववदिति व्यभिचारानुमितिसम्भवादिति दूषणमपास्तम् । साध्यनिष्ठोपाधिव्याप्यतावच्छेद- कघटान्यत्ववतीत्यस्य , घटान्यत्वाव्यभिचारित्वे सतीत्यस्य वा हेतौ प्रवेशयितुमश- क्यत्वात् । घटान्यत्ववति द्रव्यत्वस्य घटावृत्तिगुणवत्त्वव्यभिचारित्वाभावाद् घटा- न्यत्वव्यभिचारित्वाच्च द्रव्यत्वस्य । अत एव न प्रसिद्धानुमाने व्यञ्जनवत्त्वेऽति- प्रसक्तिः । उक्तहेतोर्वहिव्यभिचारव्याप्यत्वाभावाद् , धूम एव व्यभिचारात् । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् प्रमेयत्वाद् वेत्यत्र च बहिर्द्रव्यत्वावच्छिन्नप्रत्य- क्ष(त्व)व्यापकमुद्भूतरूपवत्त्वमुपाधिरेव । बहिव्यत्वाव्यभिचारित्वबाहिव्यत्वव- त्त्वान्यतरगर्भोद्भूतरूपवत्त्वव्यभिचारित्वस्य हेतुत्वसम्भवात् । अयं गन्धो गुण- त्वादित्यत्रासुराभित्वाभावावच्छिन्नसाध्यव्यापकस्य सुरभित्वस्य तूपाधित्वमेव । गुणत्वं गन्धत्वव्यभिचारि असुरभित्वाभाववति सुरभित्वव्यभिचारित्वाद् रूपत्व- बदित्यनुमानसम्भवात् । इदमेव सर्व मनासिकृत्य पक्षधरमित्रैः सास्नावत्त्वस्यानु- पाधित्वं सुरभित्वस्य चोपाधित्वमवादीति । ननु शुद्धसाध्यव्यापक उक्तलक्षणमव्याप्तं , साध्यतावच्छेदकावच्छिन्नसा- ध्यनिष्ठोपाधिव्याप्यतावच्छेदकधर्मस्य तत्राभावेन तद्धटितलक्षणासम्भवादिति चेद्, न । व्याप्यतान्यूनवृत्तिमात्रस्य व्याप्यतावच्छेदकत्वेन विवक्षितत्वाद् , न तु स्वरूपसम्बन्धविशेषोऽनतिप्रसक्तोऽवच्छेदकान्तरासमानाधिकरणो वा उपाधि- व्याप्यत्वावच्छेदकत्वेन विवक्षितः । तथा च शुद्धसाध्यन्यापकेऽपि द्रव्यत्वादिक- माईन्धनादिव्याप्यतावच्छेदकं भवत्येवेति न कोऽपि दोषः । वस्तुतस्तु साध्यनिष्ठोपाधिव्याप्यतावच्छेदकमात्रमेव प्रकृतलक्षणे प्रविष्टम् । तच्च शुद्धसाध्य- व्यापके साध्यतावच्छेदकमेव । साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकयोस्तु साधनपक्षधर्माविति नाव्याप्तिगन्धोऽपि । यद्वा साध्यनिष्ठोपाधिव्याप्यतावच्छेदक- धर्मवति ययभिचारस्थले साधनस्य साध्यव्यभिचारनियमः, स तत्रोपाधिः । अत एव वायुः प्रत्यक्षः प्रमेयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः । बहिर्द्रव्ये वाय्वादावु- द्भूतरूपव्यभिचारिणि मेयत्वे प्रत्यक्षत्वव्यभिचारित्वात् । अत एव उपाध्याया नियमार्थे तृतीयेति व्याख्यातवन्तः । यत्तु -- यद्यभिचारित्वेन साध्यव्यभिचार इत्यत्र व्यभिचारपदमुभयत्राप्यव्याप्यत्वपरम् । अन्यथा इद द्रव्यमाकाशादित्यत्र परिमाणवत्त्वोपाधौ स्वाव्याप्यत्वेन द्रव्यत्वाव्याप्यत्वसाधने उपाधिलक्षणाभावेना- मणिसारानुमानखण्डे व्याप्तिप्रसङ्गादिति । (तं च ? तन्न ।) तत्र व्यर्थतयोपाध्यव्याप्यत्वस्याकाशे साध्याव्याप्यत्वासाधकत्वाद् , (घट ? अ)वृत्तित्वेन वा अव्याप्यत्वेन वा तत्सा- धनात् । किञ्च , उपाधिव्यवस्था पारिभाषिकी। सा च व्यभिचारोन्नायक एव शास्त्र- कारस्य नान्यत्रेति , अव्याप्यत्वानुमानेऽपि न तस्य संग्राह्यता । अन्यथा हेत्वाभासान्तरोन्नायकेऽव्याप्तिरित्येव कुतो नाशङ्केथाः । शास्त्रकाराव्यवहारश्च समान एवेति दिक् । ननु साध्यव्यभिचारोन्नायकः कस्यचिद् व्यभिचारः कस्यचिन्नेत्यत्र निया- मकाभावः । न च साध्यव्यापकव्यभिचार एव तथा । साधनावच्छिन्नपक्षधर्मा- वच्छिन्नसाध्यव्यापकत्वस्थलाव्याप्तेरिति चेद्, न ! पर्यवसितसाध्यव्यापकव्यभि- चारस्य तथात्वात् । पर्यवसितत्वं च साध्यप्रसिद्धयवच्छेदकधर्मावच्छिन्नत्वम् । साध्यप्रसिद्धयवच्छेदकत्वं च साध्यप्रसिद्धयधिकरणवृत्तित्वम् । तेन बहिर्द्रव्य- स्वादौ पक्षधर्मे नाव्याप्तिः । एवं च साध्यप्रसिद्धयधिकरणवृत्तिधर्मावच्छिन्नसा- ध्यव्यापकत्वे सति साधनाव्यापकत्वमपि लक्षणान्तरं पर्यवस्यतीति मणिकृतः । अत्र वदन्ति एवं सति प्रसिद्धानुमाने महानसत्वावच्छिन्नसाध्यव्या- पकं व्यञ्जनवत्त्वमुपाधिः स्याद् , महानसत्वस्यापि साध्यप्रसिद्धयधिकरण- त्तित्वात् । न चेष्टापत्तिः । सर्वेषामेव हेतूनामेवं सोपाधित्वे सोपाधिनिरुपाधिव्य- वस्थाभङ्गप्रसङ्गादिति । अत्रोपाध्यायाः- साधनवति साध्यप्रसिद्धचन्यूनवृत्तिधर्मावच्छिन्नसाध्य- व्यापकत्वं विवक्षितम् । बहिर्द्रव्यत्वादिकं च तथा , प्रत्यक्षस्पर्शाश्रयत्ववति प्रत्य- क्षत्वप्रसिद्ध्यन्यूनवृत्तित्वात् । अतस्तदवच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वमुपाधि- रेव । महानसत्वं च धूमवति वहिप्रसिद्धिन्यून(तिरे?त्त्ये)वेति न तदवच्छिन्नवह्निव्या- पकं व्यञ्जनवत्त्वमुपाधिः । यद्वा, साधनव्यापकीभूतत्वं साध्यप्रसिद्धयवच्छेदकधर्म- विशेषणं , बहिर्द्र(व्यं ? व्यत्वं) च प्रत्यक्षस्पर्शाश्रयत्वव्यापकम् , अतो बहिद्रव्य- त्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वमुपाधिः । महानसत्वं च न धूमव्यापकं, पर्वतादौ व्यभिचाराद् , इति न महानसत्वावच्छिन्नवह्निव्यापकं व्यञ्जनवत्त्वमुपा- धिरिति समादधुः । तच्चिन्त्यम्- वायुः प्रत्यक्षः वायुत्वादित्यत्रोद्भूतरूपवत्त्वोपाधा(व)व्याप्तिः, साधनवति साध्याप्रसिद्धः । किञ्च , वायुः प्रत्यक्षः मेयत्वादित्यत्रोद्भूतरूपवत्त्वमु- उपाधिवादः। , पाधिर्न स्यात् । बहिर्द्रव्यत्वस्य मेयत्ववति प्रत्यक्षत्वप्रसिद्धिन्यूनवृत्तित्वाद् मेयत्वा- व्यापकत्वाच्च । न च तत्र प्रत्यक्षसामग्र्या एवोपाधित्वं, न तूद्भूतरूपवत्त्वस्येति वाच्यम् । स्वयमसामयेन तथोक्तावविश्वासात् । न च विशेषणाव्यभिचारि(त्व)- सहकारेण यद्यभिचारः साध्यव्यभिचारानुमापकः , स एवात्र लक्ष्यत इति प्रमे- यत्वहेतुके प्रमेयत्वं प्रत्यक्षत्वव्यभिचारि बहिर्द्रव्यत्वाव्यभिचारित्वे सति बहिर्द्रव्य- त्वावच्छिन्नप्रत्यक्षत्वव्यापकोद्भूतरूपवत्त्वव्यभिचारित्वादित्यस्यासिद्धतया साध्यव्य- भिचाराननुमापकत्वादुपाधित्वाभावस्तस्येष्ट एवेति वाच्यम् । विशेषणवति यद्वय- भिचारः साध्यव्यभिचारानुमापक इत्येव लाघवाल्लक्ष्यताप्रयोजकं, तच्च प्रमेयत्व- हेतुकेऽप्यस्त्येव, प्रमेयत्वं प्रत्यक्षत्वव्यभिचारि , बहिर्द्रव्यत्ववति उद्भूतरूपवत्त्वव्य- भिचारित्वादित्येवं व्यभिचारानुमानसम्भवादिति तत्राव्याप्तिः कथं न दोषाय भवे- दिति न किश्चिदेतत् । इदं तु सम्भाव्यते-- पर्यवसितपदमुभयत्रापि साध्ये साधने च देयं , तथा च यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वं लक्षणार्थः । महानसत्वावच्छिन्नवह्निव्यापके तदवच्छिन्नधूमव्यापके च व्यञ्जनवत्त्वे तदभावा- नातिव्याप्तिः । पक्षधर्मावच्छिन्नसाध्यव्यापके चोद्भूतरूपवत्त्वोपाधौ बहिर्द्रव्यत्वाव- च्छिन्नप्रत्यक्षत्वव्यापके वहिव्यत्वावच्छिन्नप्रत्यक्षस्पर्शाश्रयत्वाव्यापकत्वसत्त्वान्ना- व्याप्तिः । यद्वा , यत्र साधनाव्यापकत्वं, तवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वं विवक्षितम् । व्यञ्जनवत्त्वन्तु पर्वतादौ धूमाव्यापकं तद्वृत्तिधर्मावच्छिन्नवहिव्यापकं न भव(ती ?)ति, पर्वतादावेव व्यभिचारादिति न तत्रातिव्याप्तिः । अथवा, उपा- ध्यनधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकलं विवक्षितम् । व्यञ्जन- वत्त्वं च न तथा, स्वानधिकरणधूमाधिकरणगोष्ठादिवृत्तिधर्मावच्छिन्नसाध्यव्यापक- स्वाभावादिति न तत्रातिव्याप्तिरिति । अत्र कश्चित् --- गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादि- त्यत्र एतद्गन्धप्रागभावकालीनरूपवत्त्वमेव तद्गन्धप्रागभावकालीनत्वावच्छिन्नगन्ध- व्यापकमुपाधिः स्यात् । एतद्गन्धप्रागभावकालीनत्वावच्छिन्नगन्धव्यापकस्यैतद्- धप्रागभावकालीनरूपवत्त्वस्यैतद्गन्धप्रागभावकालीनत्वावच्छिन्नपृथिवीत्वाव्यापक - Hariram १. 'रानु' क. पाठः, मणिसारानुमानखण्डे त्वात् , पक्ष एव व्यभिचारात् । एवमेतत्कालीनरूपवत्त्वस्य पक्षे पृथिवीत्वाव्याप- कस्य तद्वत्येतद्गन्धप्रागभावकालीनत्वावच्छिन्नगन्धव्यापकत्वसत्त्वाद् द्वितीयलक्षण- स्यापि तत्रातिव्याप्तिः । एवमेतत्कालीनरूपवत्त्वानधिकरणपृथिवीत्वाधिकरणपक्षीभू- तघटवृत्त्येतद्गन्धप्रागभावकालीनत्वरूपधर्मावच्छिन्नसाध्यव्यापकत्वसत्त्वादेतत्काली- नरूपवत्त्वस्य तृतीयलक्षणमपि तत्रातिव्याप्तमेव । किञ्च, घटः पृथिवी द्रव्य- त्वादित्यत्र घटान्यत्वावच्छिन्नपृथिवीत्वव्यापकस्य घटावृत्तिगुणवत्त्वस्योपाधित्वा- भावापत्तिः । घटान्यत्वावच्छिन्नपृथिवीत्वव्यापकस्य तदवच्छिन्नद्रव्यत्वव्यापक- त्वाद्, घटे द्रव्यत्वाव्यापकस्य तद्वृत्तिधर्मावच्छिन्नसाध्याव्यापकत्वाद् , घटावृ- त्तिगुणवत्त्वानधिकरणद्रव्यत्वाधिकरणघटवृत्तिधर्मावच्छिन्नसाध्याव्यापकत्वाच्चेति दू- घणमाह । तदमञ्जुलम् । तद्धर्मावच्छिन्नेत्यस्य तद्धर्मसामानाधिकरण्यावच्छि. नेत्यर्थः । तथा च तद्धर्मसामानाधिकरण्यावच्छिन्नसाध्यव्यापकत्वमर्थः । न चैत- देतद्गन्धप्रागभावकालीनरूपवत्त्वेऽ(स्तीति ? स्ति।) एतद्गन्धप्रागभावकालीनत्वसामा- नाधिकरण्यावच्छिन्नगन्धस्यैतद्धट एव पक्षीभूते सत्त्वेन तत्रैतत्कालीनरूपवत्त्वाभा- वेन व्यभिचारात् । एवमग्रिमलक्षणद्वयेऽपि न तत्रातिप्रसङ्गः , धर्मावच्छिन्नपदस्य सर्वत्र सामानाधिकरण्यावच्छिन्नार्थत्वकल्पनात् । यच्च किश्चेत्यादिना दूषणमुक्तं, तदपि न । घटावृत्तिगुणवत्त्वानुपाधित्वस्य प्रागेव प्रतिपादिततया तत्राव्याप्तेरदोष- त्वात् । यदि च तदुपाधित्वमवश्यं स्वीक्रियत एव , तदा स्वविशिष्टोपाध्यनधिक- रणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वं लक्षणम् । स्वपदं च साध्यपरम् । तथा च पृथिवीत्वविशिष्ट घटावृत्तिगुणवत्त्वानधिकरणं यद् द्रव्यत्वाधिकरणं जलादि, तत्तद्वृत्तिघटान्यत्वावच्छिन्नपृथिवीत्वव्यापकत्वमस्त्येव घटावृत्तिगुणवत्वस्येति न त- त्राव्याप्तिरिति । पक्षधरमिश्रास्तु --- यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वमेव लक्षणार्थः । न चैवं सति व्यञ्जनवत्त्वे महानसत्वावच्छिन्नसाध्यव्यापकेऽतिव्याप्तिः । महा- नसत्वावच्छिन्नवह्नौ साध्ये तस्याप्युपाधित्वेन संग्राह्यत्वात् । व्यभिचारानुमापक- तावच्छेदकस्योक्तलक्षणस्य विशिष्टव्यभिचारोन्नायके व्यञ्जनवत्त्वे सत्त्वस्यादोषत्वा- दित्याहुः । तत्तु न बुध्यते । शुद्धसाध्यव्यभिचारोन्नायकतावच्छेदकस्य प्रकृते विचा- १. 'स्वा' क. पाठः.

उपाधिवादः। ६५ यत्वात् , तम्य च यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक- त्वरूपस्य व्यञ्जनवत्त्वेऽपि सत्त्वेन ततोऽपि शुद्धसाध्यव्यभिचारोन्नयनापत्तेार यितुमशक्यत्वादिति । वस्तुतस्तु-- यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति शुद्धसाध्यव्या- पकव्यभिचारिसाधनाव्यापकत्वं लक्षणम् । अत एव न व्यञ्जनवत्त्वादावतिप्र- सङ्गः, तत्र शुद्धवसिव्यापकव्यभिचारित्वस्य धूमेऽभावात् । साधनावच्छिन्नपक्ष- धर्मावच्छिन्नयोरपि शुद्धसाध्यव्यापकं प्रत्यक्षसामग्र्यादि , तद्वयभिचारिप्रत्यक्ष- स्पर्शाश्रयत्वादिरूपसाधनाव्यापकत्वमुद्भूतरूपवत्त्वादेरुपाधेरस्त्येवेति नाव्याप्तिः । एवं च घटः पृथिवी द्रव्यत्वादित्यत्र घटावृत्तिगुणवत्त्वं घटान्यत्वावच्छिन्नसाध्य- व्यापकमुपाधिरेव । तत्र द्रव्यत्वस्य साधनस्य पृथिवीत्वरूपसाध्यव्यापकगन्ध- वत्त्वव्यभिचारित्वात् । गौः शुक्ल: पशुत्वादित्यत्रापि गोत्वावच्छिन्नशुक्लत्वव्यापक सास्नावत्त्वमुपाधिरेव । एवमन्यत्राप्यूह्यम् । यद्वा , यत्किञ्चिद्धर्मावच्छिन्नव्यभि- चारिसाध्यव्यापकत्वे सति साधनाव्यापकत्वं लक्षणम् । व्यञ्जनवत्त्वादी व्यभिचा- रिसाध्यव्यापकत्वाभावान्नातिव्याप्तिः । साध्यव्यभिचारिसाधनाव्यापकत्वे सति यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वं वा लक्षणार्थः । अथवा , यत्किञ्चिद्धर्माव- च्छिन्नसाध्यव्यापकत्वे सति साध्यानधिकरणे साधनाव्यापकत्वं विवक्षितम् । न च व्यञ्जनवत्त्वं तथा , तस्य धूमाव्यापकत्वेऽपि वचनधिकरणे तदभावात् , तत्र धूमस्यासत्त्वादिति दिक् । इदं तु विचार्यते व्यभिचारघटितोपाधिज्ञानं वा प्रतिबन्धकं , साध्य- व्यापकत्वादिघटितं तज्ज्ञानं वा । नाद्यः | साधने साध्यव्यभिचारस्य साध्यव्या- पकत्वादिग्रहोत्तरकल्प्यत्वात् , व्यापकव्यभिचारिणो व्याप्यव्यभिचारित्वनिय- मात् । न तु प्रथममेव तद्हः, उपाधेय॑र्थतापत्तेः । नापरः । यत्किञ्चिद्धर्मावच्छि- नसाध्यव्यापकत्वज्ञानस्य प्रतिबन्धकत्वे व्यञ्जनवत्त्वस्यापि तद्रहात तेनापि वय- नुमितिप्रतिबन्धापत्तेः । शुद्धसाध्यव्यापकत्वज्ञानस्य प्रतिबन्धकत्वे साधनावच्छि- नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यप्रतिबन्धकत्वप्रसङ्गः । न च यद्धर्मावच्छिन्न- साध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वज्ञानं प्रतिबन्धकमिति नाप्रसङ्गाति- प्रसङ्गाविति वाच्यम् । तथा सति भिन्नभिन्नधर्मावच्छेदेन साध्यव्यापकत्वसाधना. व्यापकत्वयोमेहे प्रतिबन्धानापत्तेः, शुद्धसाध्यव्यापकत्वेन ग्रहे प्रतिबन्ध (का ? कत्वा) मणिसारानुमानखण्डे - भावप्रसक्तेश्च । न च शुद्धसाध्यव्यापकत्वेन गृहीतो व्याभिचारानुमानसमर्थोऽपि उपाधिविधया न गमकः, तद्धर्मावच्छिन्नेत्यादिरूपोपस्थितस्यैवोपाधित्वेन दूषक- त्वादिति वाच्यम् । एवं सति पक्षधर्मावच्छिन्नसाध्यव्यापकव्यभिचारात् साध्यव्य- भिचारानुमितावपि स उपाधित्वेन दूषण एव नेत्युक्त्वा निवृत्तो भव । किमिति सर्वसाधारण्याय प्राणांम्त्यजसि । महदिदमाश्चर्यं यच्छुद्धसाध्यव्यापक(मे ! एव) न तत्तया दूषक इति । तत्र केचित् - इदं सर्वमुपाधेस्त्रिविधस्यापि संग्राहकं लक्षणम् । प्रति- बन्धकं तु क्वचित् साध्यव्यापकत्वज्ञानं , कचित् पक्षधर्मावच्छिन्नसाध्यव्यापकत्व- ज्ञानमित्यननुगम एव दूषकतायामुपाधेरिति वदन्ति । ननु परमाणुरूपं प्रत्यक्षं प्रमेयत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्नसाध्यव्याप- कमुद्भूतरूपवत्त्वं भवत्युपाधिः । स च न शुद्धसाध्यव्यापकः, न वा साधनाव- च्छिन्नसाध्यव्यापकः, न वा पक्षधर्मावच्छिन्नसाध्यव्यापकः, बहिर्द्रव्यत्वस्या- साधनत्वादपक्षधर्मत्वाच्च । तथा चायं तुरीयः स्यात् । तथा चापसिद्धान्तः । न च परमाणुरूपबहिर्द्रव्यान्यतरत्वावच्छिन्नसाध्यव्यापक एवोपाधिरिति पक्षधर्माव- च्छिन्नसाध्यव्यापक एवेति वाच्यम् । घटरूपपक्षत्वे तथाप्युक्तदोषात् । नहि घटरूपबहिर्द्र(व्यत्वा व्या)न्यतरत्वावच्छिन्न प्रत्यक्षत्वव्यापकता उद्भूतरूपवत्त्वस्य सम्भवति, घटरूप एव व्यभिचारादिति । अत्र केचित् ---साधनसमानाधिकरणधर्मस्यैव पक्षधर्मपदेन विवक्षित- स्वाद् बहिर्द्रव्यत्वमपि प्रमेयत्वरूपसाधनसमानाधिकरणत्वेन पक्षधर्म एवेति नोपा- धिचातुर्विध्यम् । न चैवं साधनस्यापि पक्षधर्म एवान्तर्भावः स्यात् , स्वस्यापि स्वसमानाधिकरणत्वात् । तथा च तुरीयत्वं निराचिकीर्षुणोपाधेस्त्रितयत्वमपि व्याहतमिति पुत्रार्थ गता भर्तारमपि भुक्त्वा समागतेति जातमिति वाच्यम् । साधनेतरसाधनसमानाधिकरणधर्मस्य गोबलीवर्दन्यायेन पक्षधर्मपदेन विवक्षित- त्वादिति समादधते । तचिन्त्यं घटरूपं प्रत्यक्ष कर्मत्वादित्यत्र बहिरेव्यत्वावच्छिन्नसाध्य- व्यापकस्योद्भूतरूपवत्त्वोपाधेः तुरीयतापत्तेर्वज्रलेपत्वाद् बहिर्द्रव्यत्वस्यासाधनत्वात्, साधनासमानाधिकरणत्वाच्च । Sonam.insan उपाधिवादः। । । Howwe अन्ये तु तस्मादिदमत्र तत्त्वं वायुः प्रत्यक्षः वायुत्वादित्यादौ पक्षधर्मावच्छिन्न- साध्यव्यापकत्वमेवोद्भूतरूपवत्त्वादेः, साधनावच्छिन्नसाध्यस्याप्रसिद्ध्या तद्व्यापक- स्वासम्भवात् । प्रागभावो विनाशी जन्यत्वादित्यादौ साधनावच्छिन्नसाध्यव्याप- कत्वमेव भावत्वाद्युपाधेः । पक्षधर्मावच्छिन्नसाध्यस्य पक्षेऽपि सत्त्वात् , तत्र च भावत्वाद्युपाधेरभावात् पक्षधर्मावच्छिन्नसाध्यव्यापकत्वस्यासम्भवात् । न चैवं त्रैविध्यव्यवस्थितावपि घटरूपादिपक्षकप्रत्यक्षत्वसाध्यककर्मत्वादिहेतावुक्तचातुर्वि- ध्यं न निराकृतमिति वाच्यम् । तत्र तस्योपाधित्वेनादोषत्वेऽप्यक्षतेः । उक्तत्रैवि- ध्यस्थल एव शास्त्रकारस्योपाधित्वव्यवहारात् । यदि च तत्राप्युपाधित्वेन सङ्ग्रा- झता, तदा शुद्धसाध्यव्यापकत्वे(त्यने)न साधनपक्षधर्मानवच्छिन्नसाध्यव्याप- कत्वं विवक्षितमिति न काप्यनुपपत्तिः । ऋजवस्तु उदासीनधर्मावच्छिन्नसा- ध्यव्यापकस्तुरीय एव । विभागस्तूपलक्षणपर इति समादधुः । यदभावात् साधनवति क्वचित् साध्याभावः साधयितुं शक्यते, स एवोपाधिः । तथा च साधनाधिकरणं साध्याभावाधिकरणमुपाध्यभावाधिकरण- त्वादित्यनुमितिर्जायमानान्यत्र साधनाधिकरणे साध्याभावस्य बाधावधारणात् पक्ष एव साध्याभावं गोचरीकरोतीति सत्प्रतिपक्ष एव पर्यवसानमित्याहुः । तच्चिन्त्यं क्वचिदेवं सत्प्रतिपक्षपर्यवसानेऽपि यत्र पक्षे साध्यसाधनो- पाधीनां निर्णयः, अनुमित्सया चानुमानप्रवृत्तिस्तत्र पक्षे साध्याभावविषयत्व- स्यासम्भवेन भिन्नविषयतया सत्प्रतिपक्षासम्भवाद् व्यभिचारानुमान एव पर्यवसा- नमिति दिक। ननु साध्यव्यापकोपाधिव्यभिचारितया हेतौ कथं साध्यव्यभिचारित्वानु- मितिः। यतः साध्यव्याप्यहेत्वव्यापकतया उपाधेरेव साध्याव्यापकत्वानुमित्या सा- ध्यव्यापकत्वज्ञानासम्भव इति चेद्, न | उपाधौ साध्यव्यापकताग्राहकस्य बलव- त्त्वेन तत्र साध्यव्यापकताग्रहात् तद्वयभिचारेण हेतौ साध्यव्यभिचारानुमितिस- म्भवात् । यदि च हेतुसाध्ययोः साध्योपाध्योश्च तुल्यमेव व्याप्तिप्राहकं , तदोपाधौ साध्यव्यापकत्वसन्देहेन हेतावपि साध्यव्यापकव्यभिचारित्वसंशयाहितसाध्यव्यभि- चारसंशय इति भवत्येव तथाप्यनुमितिप्रतिबन्धः । इदं त्ववधातव्यं -- परामर्शोत्पत्तिपूर्वमुपाधिप्रतिसन्धाने तेन व्यभिचारो व्याप्त्यभावो वा ज्ञायत इति करणविघटनादनुमितिप्रतिबन्धकत्वमुपाधेः, परामर्श JANINowini मणिसारानुमानखण्डे उत्पन्ने तु समबलतादशायां सत्प्रतिपक्षद्वारा, अधिकबलतादशायां तु बाधद्वारा प्रतिबन्धकत्वम् । न चोपाधिव्यभिचाराद् व्यभिचारानुमित्यनावश्यकत्वेन तद्धटि. तोपाधिलक्षणव्याहतिरिति वाच्यम् । तत्स्वरूपयोग्यताघटितत्वात् तल्लक्षणस्येति पूर्व- मेवोक्तत्वादिति । व्यभिचारज्ञानं चोपाधिव्यभिचारित्वरूपविशेषदर्शनजन्यं क्वचिल्लो- किकप्रत्यक्षं, क्वचिदुपाधिव्यभिचारित्वेन साध्यव्यभिचारानुमितिरू(पः ? पम् )। न च साक्षात्कारनिश्चये साक्षात्कारविपरीतज्ञानस्य विरोधित्वात् कथं व्यभिचारानुमिति- याप्तिप्रत्यक्षविरोधिनीति वाच्यम् । अन्यत्र तथात्वेऽपि व्यभिचारज्ञानस्य तज्ज्ञा- नत्वेनैव प्रतिबन्धकत्वात् । अन्यथान्यत्र ग्राह्यसंशयस्याप्रतिबन्धकत्वात् सन्दिग्धा- नैकान्तिकमप्यप्रतिबन्धकं स्यात् । तथा च व्यभिचारानुमितिरप्यव्यभिचारप्रत्य- क्षप्रतिबन्धिकैव। इदं तु शङ्कयते - व्यभिचारानुमितिसामग्रीभूतस्य परामर्शस्यैवाव्यभिचा- रप्रत्यक्षप्रतिबन्धकत्वमस्तु । यद्धीर्यत्र प्रतिबन्धिका , तत्र तत्सामग्र्यपीति युक्तेस्त- त्प्रतिबन्धकतावश्यकत्वस्योभयसिद्धत्वात् । अन्यथा विशेषदर्शनादीनां संशयादि. प्रतिबन्धकतापि न स्यादिति । अत्रोच्यते अनुमितिप्रतिबन्धकत्वं विना तत्सामग्रीभूतपरामर्शस्य प्रति- बन्धकत्वे मानाभावः । प्रतिबन्ध (क)धीसामग्रीत्वरूपविपक्षबाधकतर्काभावात् । न च पूर्वमेव तत्सामग्र्यैव प्रतिबन्धे जाते व्यभिचारानुमितिः किं प्रतिबध्नात्विति वा- च्यम् । प्रतिबन्धयोग्यतासत्त्वे परामर्शनाशकालीनव्याप्तिप्रत्यक्षस्य प्रसक्तस्य तया प्रतिबन्धसम्भवादिति दिक् । उपाधिश्च द्विविधः - निश्चितोपाधिः सन्दिग्धोपाधिश्च । तत्राद्यस्य दूषक- तोक्तैव | अन्त्यस्य तु साध्यव्यापकत्वसाधनाव्यापकत्वान्यतरसन्देहेन व्यभिचार- संशयाद्यासञ्जकतया दूषकत्वम् । नन्विदमनुपपन्नम् । स श्यामो मित्रातनयत्वादि. त्यादौ शाकपाकजत्वस्य साधनाव्यापकत्वसंशयः पक्ष एव वाच्यः । अन्यत्र मित्रा- तनये श्यामत्वनिश्चयेन शाकपाकजन्यत्वनिश्चयात् । तथा च तत्संशयेन पक्ष साध्याभावसंशयात्मकव्याभिचारसंशयो जननीयः । स च न दोषः, हेतुमत्त्वेन निश्चिते साध्यसंशयात्मकव्यभिचारसंशयस्यादोषत्वात् । अन्यथानुमानमात्रविल- यप्रसङ्गादिति । । " मेत' क. पाठः ६९ पक्षधर्मतावादः। namaARUNNAT Aasamasuth अत्रोपाध्यायाः व्यभिचारसंशयमात्रमेव दूषणं, व्यभिचारज्ञानत्वेनैव लाघवात् प्रतिबन्धकत्वात् । तथा च हेतुमति साध्यसन्देहोऽपि प्रतिबन्धक एव । तर्कादिना तदपनये सत्यनुमानप्रवृत्तिरिति न तन्मात्रोच्छेद इति समादधुः । तत्र पक्षधरमिश्राः व्यभिचारसंशयमात्रस्य प्रतिबन्धकत्वेऽनुमानमात्र एव पक्षीयव्यभिचारशङ्कापनोदनार्थ तर्कापेक्षापत्तेः , तर्कमूलभूतव्याप्तेरपि निश्चया- थै तर्कान्तरानुसारेणानवस्थाप्रसङ्गाच्चेति दूषणमाहुः । अत्र केचित् --- साध्यसंशयः सर्वत्र भविष्यत्येवेत्यत्र मानाभावः , कोटि- स्मृत्यादिहेत्वनियमात् । तथा च सर्वत्र न तर्कापेक्षेति नैतद् दूषणमिति । अत्राय मिश्राणां समाधिः- सन्दिग्धसाध्यवति सर्वत्र तर्कापेक्षापत्तिः । नहि सर्वत्र तोपेक्षेति कश्चिद् ब्रूते , अनुभवसाक्षिकं वा । किञ्चैवं तत्र तर्कमू- लभूतव्याप्तेरपि पक्षीयसाध्यसन्देहेन निश्चयासम्भव इत्यत्रापि तर्कान्तरापेक्षायामन- , वस्थेति । Himnew तस्मादत्रायं समाधिः अनुमानमात्रोच्छेदापत्त्या सर्वत्र संशयः प्रति- बन्धक इति मास्तु । पक्षताघटकसंशयान्यसंशयत्वेन प्रतिबन्धकत्वात् । तथा च म्वारसिकसाध्यसंशयस्य पक्षताघटकतया न प्रतिबन्धकत्वमिति नानुमानमात्रो- च्छेदः । अन्याहितसंशयस्तु न पक्षताघटक इति प्रतिबन्धकः स्यादेव । वस्तुत- स्तूपाध्यादिसन्देहाहितसन्देहस्य पृथगेव विरोधित्वम् , अन्याहितसंशयस्य प्रामा- ण्यसंशयाहितार्थसंशयादेरिव प्रतिबन्धकतौचित्यादिति । इदं त्ववधेयं --परामर्शात् पूर्वमुपाधिसंशयस्य व्यभिचारादिसन्देहाधा- यकत्वेन दूषकत्वं, परामर्शानन्तरं च बाधसंशयाधायकतया दोषत्वम् । न च ग्राह्यसंशयतया बाधसंशयो न विरोधीति किं तदाधायकत्वेनेति वाच्यम् । अन्या. हितव्यभिचारसंशयवत् तादृशबाधसंशयस्यापि प्रतिबन्धकतायां युक्तिसाम्यादिति संक्षेपः ॥ उपाधिवादः समाप्तः । अथ पक्षधर्मतावादः। व्याप्त्यनन्तरं पक्षधर्मता निरूप्यते । सा च पक्षताश्रयवृत्तिता। पक्षता च १. “ति त क. पाठः.

मणिसारानुमानखण्डे सन्दिग्धसाध्यकत्वमिति प्राञ्चः । तन्न । साध्यसंशयस्योपलक्षणत्वे निश्चितेऽप्यनु- मित्यापातात् । विशेषणत्ने चानुमितिपूर्व नियमतः सत्ता वाच्या, सा चास(म्भा:- म्भ)विनी , व्याप्तिस्मृत्यादिव्यवहितत्वात् । अत एव सिसाधयिषितसाध्यधर्मकत्वं तदित्यपि निरस्तम् , उक्तक्रमेण विशेषणतोपलक्षणत्वविकल्पग्रासादिति मणिकृतः । अत्रेदं शङ्कयते --- संशये विशेषणतोपलक्षणत्वविकल्पोऽस्तु, न तु सि- साधयिषायामपि । सा हि सिद्धिजनकीभूता सिद्धिविषयकेच्छा ईश्वरसाधारणा विवक्षितेति भवति विशेषणमेव । न चैवं सिद्धसाधनोच्छेदः, भगवदिच्छाया नित्यतया तद्धटितपक्षतासत्त्वस्य दुर्वारत्वादिति वाच्यम् । फलीभूतसिद्धीच्छाया एव पक्षताघटकत्वात् सिद्धसाधनस्थले फलीभूतसिद्धयनुत्पादेन तद्गोचरभगवदि- च्छाविरहात् तस्याः फलैककल्प्यत्वात् । अत एव घनगर्जितादावव्याप्तिर्निरस्ता । तत्रानुमितेरनुभूयमानत्वेन तद्गोचरभगवदिच्छासत्त्वादिति । अत्र ब्रूमः -- एवं सति सिद्धसाधनस्थलेऽनुमितिदुर्वारा, प्रहरानन्तरो- त्पत्स्यमानसिद्धिगोचरभगवदिच्छायास्तदापि सत्त्वेन पक्षतायाः सत्त्वात् । न च तस्यां सत्यां पक्षतासत्त्वेऽपि भाविप्रहरानन्तरक्षणस्यैव हेतोस्तदानीमभावान्न तस्यास्तदोत्पत्तिरिति वाच्यम् । तथा सति सिद्धसाधनस्थले सर्वत्रानुमित्यनुत्पादः क्षणविशेषरूपहेतुविलम्बादेवास्त्विति पक्षता कारणमेव नेति कृतं भगवदि- च्छायास्तत्कुक्षिनिक्षेपेण । किञ्च , सिद्धिसामग्रीसमवहितभगवदिच्छारूपसि- साधयिषाघटिता पक्षता ज्ञानमात्र एवाव्यभिचारा तुरस्तु । तथा चानुमि- त्यसाधारणजनकत्वव्याघात इति सिद्धिसमानाधिकरणसिसाधायषाघटिता वाच्या । तथा च विशेषणत्वोपलक्षणत्वविकल्पो निर्विकल्प एव मणिकृतामिति नायं पन्था इति । अत्र माणिकृतः सिसाधयिषाविरहसहकृतसाधकमानाभावः पक्षता । (सास) च विशिष्टाभावः कचित् साधकमानरूपविशेष्यविरहात्, कचित् सिसा- धयिषाविरहरूपविशेषणविरहात्मकसिसाधयिषातः, क्वचिदुभयत इत्याहुः । अत्रोपाध्यायाः मानं मितिः तत्करणं च। तथा च सिद्धितत्करणान्या- न्यत्वावच्छिन्नाभावत्वेन तदुभयाभावस्य हेतुत्वं पक्षतापदवाच्यत्वं च । तथा च सिद्धसाधनस्थले संशयोत्तरप्रत्यक्षस्थले च क्वापि न पक्षतेति नानुमितिरि- त्याहुः ।

पक्षधर्मतावादः। अत्र मिश्राः AIMIMROHA एवं सति तृणादीनामप्यन्यान्यत्वेन वहिजनकत्वापत्तौ शक्तिवैजाल्यान्यतरकल्पना भज्येत । न चानुगतकारणतावच्छेदकासम्भवात् तत्र वैजात्यकल्पनमिति नार्थः , किन्त्वनुभवसिद्धत्वादिति वाच्यम् । क्लप्तेनान्यान्यत्वे- नोपपत्तावतीन्द्रियशक्तिकल्पनायास्तथाप्यप्रसक्तेः। तस्मादन्यान्यत्वं नावच्छेदक- मिति वाच्यम् । तथा चात्रापि सिध्यभावः साधकमानाभावश्च प्रत्येकमेवानमिति- हेतुः पक्षता च । लाघवात् सिध्यभाव एव पक्षपदप्रवृत्तिनिमित्तमिदमुक्तमित्युपसं- हारम्य मणौ दर्शनादिति । अत्र केचित् - तृणान्यान्यत्वेन हेतुत्वे तृणफूत्काराभ्यामिवाराणि (मणि :) फूत्काराभ्यामपि वह्निप्रसङ्गात् । हेतुतावच्छेदकावच्छिन्ने सहकारिसमवधानस्यैव कार्यापादकत्वात् । अत्र तु अन्यान्यत्वस्य हेतुतावच्छेदकप्रवेशे बाधकाभावः । प्रत्युताभावद्वयापेक्षयैकाभावहेतुतैव ज्यायसी । यच्च पक्षपदप्रवृत्तिनिमित्तत्वलाघव- मभ्यधायि , तदज्ञानात् । नह्यत्र परमेश्वरसङ्के(ति !)तः , येन स लघुन्येव कल्प्येत । अपि तु शास्त्रपरिभाषा । तत्र च गौरवमतन्त्रम् । अत एव मणि(कण्ठे ? ग्रन्थे) संशयोत्तरप्रत्यक्ष सामग्रीसत्त्वादनुमितावापादितायां पक्षताविरहान्नानुमितिरिति करण्ठाव ? ण्ठ)रवेणाभिहितमिति । अत्रायमभिसन्धिर्मिश्राणाम् -- अरणिफूत्काराभ्यां कार्यापत्तेरनेकशक्तिम- त्वेन कारणतायामपि साम्याद् दृष्टेनान्यान्यत्वेनैवोपपत्तावतीन्द्रियशक्तिकल्पनायां मानाभावाद् अन्यान्यत्वमवच्छेदककोटिप्रविष्टं न भवतीत्यवश्यं वाच्यम् । किञ्च, एककारणताकल्पना कारणताद्वयकल्पनाविरोधिनी तत्रैव , यत्र प्रत्येककारणता- वच्छेदकद्वयाघटितं कारणतावच्छेदकम् । इह तु प्रत्येकाभावकारणतावच्छेदक- स्यैकाभावनिष्ठकारणतावच्छेदके प्रवेशाद् अतिरिक्तान्यपदार्थप्रवेशाच्च कुत्रैकाभा- बहेतुतायां लाघवशङ्कापि । यच्चोक्तं शास्त्रकारपरिभाषायां गौर(वं ? वम) किञ्चि- करामिति । तदत्यन्ताबोधात् । शास्त्रकारतात्पर्यस्य कल्प्यत्वस्थले तत्रापि लाघ- वादरात् । संशयोत्तरप्रत्यक्षेऽनुमित्यभावस्य पक्षताविरहात् प्रत्यक्षसामग्रीबल- यत्त्वाद् वा सम्भव इति संशये, समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वादित्यादि- मणिग्रन्थानुसारेण लाघवानुसारेण च पक्षतात्वे सिद्ध्यभावस्यैव प्रमाणप्रसरात् । किं बहुना, एवं सति कार्यमात्र एवैकमन्यान्यत्वमवच्छेदकसस्त्विति गतं मणिसारानुमानखण्डे दण्डत्वादेः कारणतावच्छेदकत्वेन । यदि च दण्डचक्रान्यान्यत्वं दण्डत्वादिघटि- तमिति तदेव लाघवादवच्छेदकमङ्गीक्रियते, तदा प्रकृतेऽपि दीयतां दृष्टिः । तस्मात् सिसाधयिषाविरहसहकृतसिद्ध्यभाव एव पक्षता, सिसाधयिषा चानुमि- तिगोचरेच्छामात्रं, सा च सिद्धित्वप्रकारानुमितित्वप्रकारिका वेति विशेषो नाद- रणीयः । नन्विदं लक्षणमनुपपन्नम् । सिसाधयिषा हि तल्लिङ्गकतत्पक्षकतत्साध्यक- तत्पुरुषीयेच्छा पक्षताघटिका वाच्या, अन्यथातिप्रसङ्गात् । तथा च यस्य घनगर्जिताद्यनुमितौ नेच्छा, तस्य तत्सिसाधयिषाविरहेण पक्षताविरहाद् गर्जि- तेन धनानुमानं न स्यादिति चेद्, न । फलीभूतसिद्धावीश्वरेच्छा स्वेच्छा च प्रयोजिका । तथा च फलीभूतसिद्धिप्रयोजकतत्पक्षक(तत्)साध्यकेच्छाविरहसमाना. धिकरणसिध्यभावो यदात्मनि , तदात्मनि पक्षताङ्गीकारादू धनगर्जितादावपीश्वरे- च्छामादाय प्रसि( द्विद्धे)रदुष्टत्वात् । न च सिद्धसाधनस्थलेऽप्यनुमितिः स्याद् , ईश्वरेच्छाविरहविशिष्टसिद्धयभावस्य सिद्धिसत्त्वेऽपि सत्त्वादिति वाच्यम् । ईश्वरे- च्छाविरहसमानाधिकरणसिद्धेरेव सिद्धिमदात्मनि सत्त्वेन तदभावाभावात् । अन्ये- च्छाया अन्यात्मन्यवृत्तेः । अस्तु वा तल्लिङ्गकतत्पक्षकतत्साध्यकसमानाधिकरणे- च्छैव पक्षताघटिका, अतो न सिद्धसाधनस्थलेऽतिप्रसङ्गशङ्कापि । न चैवं यत्र क- दापि स्वस्य तादृशेच्छा नास्ति, तत्राप्रसिद्धिरिति वाच्यम् । तत्र विशिष्टाभाव- रूपपक्षताया हेतुत्वे मानाभावात् । नहि सर्वत्रेकरूपण तस्या हेतुत्वं , तल्लिङ्गक- त्वादिप्रवेशेनाननुगमात् । तथा च तत्र सिद्धयभावमात्रमेव कारणं , लाघवादन- तिप्रसङ्गाच्च । अन्यत्र तु विशिष्टाभाव इति काप्रसिद्धिशङ्कापीति युक्तमुत्पश्यामः । ननु तथापि विशेषणाभावप्रयुक्तविशिष्टाभावः कारणं कापि न सम्भवति , सिद्धिपरामर्शसिसाधयिषाणामेकदैकत्रासम्भवात् । योग्यात्मविशेषगुणत्रयस्यैकदा- नवस्थितेः । न च सिसाधयिषायोग्यताप्रयुक्तो विशिष्टाभावः । तथा सति सिद्ध- साधनस्थलेऽप्यनुमित्यापातात् । योग्यतायास्तत्राप्यक्षतेरिति चेद्, न । यत्र सि- द्धिपरामर्शसिद्धीष्टसाधनताज्ञानात्मकसमूहालम्बनाव्यवधानेन सिसाधयिषोत्पत्तिः, तत्रैव विशेषणाभावप्रयुक्तविशिष्टाभावस्य हेतुत्वसम्भवात् , सिद्धिपरामर्शयोरेकत्वेन गुणत्रयानवस्थानशङ्काविरहादिति प्राञ्चः । , 'बतान्या' क. पाठः.

पक्षधर्मतावादः। पक्षधरमिश्रास्तु ----- द्विवक्षणान्तरितायामपि सिसाधयिषायामनुमितिदर्श- नात् सिद्धिसामान्येच्छायां परामर्शोत्पत्त्युत्तरजातायामप्यनुमितिद्वयादर्शनाच्च सिसाधयिषोत्पत्त्युत्तरकालीनस्वविषयसिद्धयनुत्पादकाल एव तद्योग्यतारूपः पक्षता- घटकः । यद्वा सिसाधयिषोत्पत्त्युत्तरकालीनत्वमपि न विशेषणम् । न चैवं सिद्धौ जातायां सिसाधयिषातोऽनुमितिर्न स्यात् , सिसाधयिषाविषयीभूतपूर्वसिद्धयनुत्पा- दकालाभावादिति वाच्यम् । इच्छायामनागतविषयकत्वनियमेन पूर्वसिद्धेः सिसा- धयिषाविषयत्वाभावेनैवानतिप्रसङ्गात् । तथा च सिसाधयिषाविषयसिद्धयनुत्पाद- काल एव सिसाधयिषायोग्यतारूपः पक्षताघटकः । वस्तुतस्तु सिसाधयिषाविष- यसियननुगुणानन्तरितानुत्पादकाल एव तद्योग्यतारूपः पक्षताघटकः । अत एवा- द्य सिसाधयिषायां जातायामपि दैवात् सिध्यनुत्पादे श्वस्तद्धटितपक्षतातो ना- नुमितिः , अन्तरायकालस्य सिद्धयननुगुणत्वात् । फलबलात् तथा कल्पनादित्या- हुः । अत्र च प्रथमपक्षेऽद्य सिसाधयिषायां दैवात् सिद्धयनुत्पादे श्वस्तद्ध- टितपक्षतातोऽनुमितिप्रसङ्गः । सिसाधयिषाविषयसिद्धयनुत्पादकालसत्त्वादिति दूष- णाचरमपक्ष एव साधीयानिति द्रष्टव्यम् । अत एव यावज्जीवमनुमिनुयामिती- च्छायामपि न यावजीवमनुमित्युदयः । तादृशसिसाधयिषायां सत्यामप्यनुमित्यु- त्पादस्यानुभवासिद्धतयान्तरायकालस्य सिद्धयननुगुणान्तरितत्वकल्पनात् । फलब- लस्यैव तत्कल्पकत्वादिति । नन्वेवं संशयोत्तरप्रत्यक्षस्थलेऽनुमितिरेव स्यात् , सिसा- धयिषाविरहसहकृतसियभावरूपपक्षतापरिपूर्णानुमितिसामग्र्याः परामर्शात्मिका- याः सत्त्वादिति चेद् , न । समानविषयकसिद्धिकरणान्तराभावस्याप्यनुमितिसाम- ग्रीघटकत्वात् । संशयोत्तरप्रत्यक्षे च समानविषयकानुमानातिरिक्तसिद्धिकरणस्य प्रत्यक्षस्यैव सत्त्वान्नानुमितिः । तत्रापि संशयानन्तरमनुमितिरस्त्वितीच्छायामनुमि- तिदर्शनादनुमित्सोत्तेजिका । तथा चानुमित्साविरहसहकृतानुमानातिरिक्तसाधंक- मानाभावः पक्षतापदाप्रतिपाद्योऽप्यनमितिहेतुरिति नातिप्रसङ्ग इति वदन्ति । Ammanue तत्रेद शङ्कयत तत्रानुमित्सा किमनुमितिगांचरेच्छामात्रम्, उतानुमि- तित्वप्रकारेच्छा । नाद्यः । सिद्धिर्मेऽस्त्वितीच्छायामपि साधकमानस्थलेऽनुमित्या- पत्तेः । उत्तेजिकाया अनुमितिगोचरेच्छायाः सिद्धित्वप्रकारिकायाः सत्त्वात् । ना- न्त्यः । संशयानन्तरं प्रत्यक्षान्यसिद्धिर्मेऽस्त्वितीच्छायामनुमितिर्न स्यात् । तदि- । m. 10 ७४ माणिसारानुमानखण्डे , अत्र ब्रूमः च्छाया अनुमितित्वाप्रकारकत्वेनानुत्तेजकत्वात् । न च प्रत्यक्षाविषयकानुमितिवि- षयकेच्छोत्तेजिका , सा चानुमितित्वप्रकारकेच्छावत् प्रत्यक्षान्यासिद्धित्वप्रकारिका- पीति वाच्यम् । तथा सति शाब्दधीसामग्रीसत्त्वे प्रत्यक्षान्येन जानीयामितीच्छा- यामनुमित्यापत्तेः । अनुमानातिरिक्तसिद्धिसामग्रीमात्रस्य तत्र प्रतिबन्धकतया इष्टापत्तेः कर्तुमशक्यत्वात् । न चानुमितिमात्रविषयकेच्छैवोत्तेजिका , प्रत्यक्षान्येन जानीयामितीच्छा तु अन्यविषयिणीति नोत्तेजिकेति वाच्यम् । एवं सति संश- योत्तरं प्रत्यक्षान्येन जानीयामितीच्छायां शाब्दधीसामग्र्यभावेऽप्यनुमितिर्न स्याद् , अनुमितिमात्रविषयकेच्छाविरहादिति । प्रत्यक्षसामग्र्यां केवलप्रत्यक्षानिवर्त्यानुमितिविषयकेच्छोत्ते- जिका। संशयोत्तरं सिद्धिरस्त्वितीच्छा च केवलप्रत्यक्षेणापि निवर्त्यत इति सा नोत्तेजिका । प्रत्यक्षमनुमितिश्चास्त्वितीच्छा तु केवलप्रत्यक्षानिवर्त्यत्वाद् उत्तेजि- कैव । एवं शाब्दसामग्र्यामपि केवलशाब्दानिवांनुमितिविषयकेच्छोत्तेजिका । तत्तत्सामग्र्यभावश्च प्रत्येकमेव हेतुः, प्रतिबन्धकाभावकूटस्य हेतुत्वेनाननुगमस्य निरासात् । यद्वा , स्वनिवर्तकतापर्याप्त्यधिकरणप्रत्यक्षादिसिद्धिसामग्रीसमवहिता- नुमित्साभिन्नानुमित्सा सर्वत्रोत्तेजिका । प्रत्यक्षादिसिद्धिसामग्रीकाले सिद्धिरास्त्विती- च्छा न तादृशांति नोत्तेजिका । तदन्यकाले तूत्तेजिकैव। अनुमितित्वप्रकारिका अनुमितिरस्त्वितीच्छा सदोत्तेजिका , प्रत्यक्षादिसिद्धेः स्वनिवर्तकत्वाभावाद् विशि- ष्टाभावसत्त्वात् । प्रत्यक्षमनुमितिश्चास्त्वितीच्छास्थलेऽपि प्रत्यक्षादेः स्वनिवर्तकता- पर्याप्त्यधिकरणत्वाभावाद् विशिष्टाभावोऽस्तीति तत्राप्अनुमितौ न कश्चिद् । - दोष इति । इदं त्ववशिष्यते संशयोत्तरप्रत्यक्षे अन्वयव्यतिरेकाभ्यां विशेषदर्शन- वदत्रापि सिद्ध्युत्तरानुमितौ सिसाधयिषा विशेषसामग्र्यस्तु । तत एव सिद्धसाधन- स्थले. चातिप्रसङ्गाभावात् किं विशिष्टाभावकारणतया , तदपेक्षया विशेषसामग्रीक- ल्पने लाघवादिति । अत्र मिश्राः एवं सति मणिकालीनदाहे उत्तेजकं हेतुरास्त्विति विशि- ष्टाभावकारणता सर्वत्राप्युच्छिद्येत , युक्तिसाम्यादिति । यदि च मणेः प्रतिबन्ध womense । १. व न.नु' क. पाटः, पक्षधर्मतावादः । कत्वमनुभवासद्धमिति गुरुरपि विशिष्टाभावः कारणत्वेनाङ्गीक्रियते , तदा प्रकृते- ऽपि तुल्यमिति । अत्रेदं विचार्यते ---- एवं सति विशेषादर्शनविशिष्टसंशयाभाव एव प्रत्यक्षे हेतुरस्त्विति तदुत्तरप्रत्यक्षे विशेषदर्शनं हेतुरिति न स्यात् । तथाच विशेषसामग्र्यु- छेदप्रसङ्ग इति समोऽयमनुयोगः । किञ्च , मण्यादिस्थले उत्तेजकानामननुगत- त्वान्न विशेषसामग्रीकल्पनं, प्रकृते च सिसाधयिबाहेतुत्वे बाधकाभावात् । यत्तु -सिद्धेः प्रतिबन्धकत्वज्ञानं विना सिसाधयिषायां विशेषकारणता निश्चेतुं न शक्यते , सामान्यसामग्रीत एव कार्यसम्भवात् । प्रतिबन्धकत्वं च कारणीभूता- भावप्रतियोगित्वमित्युपजीव्यतयोत्तरकाले तन्न बाध्यते । किन्तु तत्रोत्तेजक(त्व)- मानं कल्प्यते । एवमप्रामाण्यादिस्थलेऽपीति । तन्न। सिद्धिस्थलीयानुमितौ सिसा- धयिषाया अन्वयव्यतिरेकाभ्यामेव हेतुतानिश्चयान्न (तु?) तदर्थ सिद्धिप्रतिबन्धक- त्वज्ञानं पूर्व(मु?म)पेक्षितं, येनोपजीव्यविरोधः स्यात् । अस्तु वा तदपेक्षा । उत्त- रकालीनलाधवप्रति(बस)न्धानेन तत्यागे वाधकाभावात् । अन्यथा जितं कार्या- न्वितशक्तिवादिनेति । यदपि ----- सिद्ध्यभावस्यानुमितावहेतुत्वे सिद्धसाधनस्थलेऽनु- मित्यापत्तिः । न च सिद्ध्युत्तरानुमितो सिसाधयिषा हेतुरिति तदभावात् तदभाव इति वाच्यम् । सिद्धयनुत्तरानुभितौ तथापि बाधकामावात् तत्सामग्रीसत्त्वात् । न च सिद्धयनुत्तरानुमितौ सिद्धयभावः कारणमिति तदभावादेव तदभाव इति वा- च्यम् । तथा सति सामग्रीद्वयकल्पने विपरीतगौरवाद् विशिष्टाभाव एव हेतुर- स्त्विति नव्यदूषणम् । तदपि न । विशेषदर्शनप्रतिबन्देरनुद्धारात् । अत एव निश्चि- तार्थसंशये प्रामाण्यसंशयो विशेषसामग्रीति सिद्धान्तः । अन्यथा तत्रापि विशिष्टा- भावहेतुतापत्तेरिति । अत्राचीनाः -यत्रोत्तेजकस्य फलं प्रति हेतुत्वं प्रमाणान्तरेण सिद्धम- स्ति , तत्र विशेषसाम(ग्र्यै ग्ये)व कल्प्यते । न विशिष्टाभाव. , यथा संशयोत्तर- प्रत्यक्षे । तत्र गुणत्वेन विशेषदर्शनप्रमायाः संशयोत्तरप्रमा प्रति हेतुत्वकल्पनात् । उत्तरकालेऽपि सिद्धकारणभावस्यैव विशेपदर्शनस्य हेतुत्वं कल्यते । यत्र तु नैवं, तत्रानुगततया विशिष्टाभाव एव हेतुः कल्प्यते दाहे मण्यभाव इव । तदत्र सिसाधयिषायाः कथमप्यनुमित्यहेतुत्वाद् विशिष्टाभावो हेतुत्वेन कल्प्यत इति वदन्ति ।

मणिसारानुमानखण्डे ७ अत्र ब्रूमः mesartanda तदपि चिन्त्यं -यद्धर्मावच्छेदेन विशेष प्रति हेतुता , तद्धर्माश्रयस्य यावतः सिद्धकारणभावत्वं विशेषसामग्रीकल्पने तन्त्रम् , उत यत्किञ्चिदाश्रयस्य सिद्धकारणभावत्वम् । नाद्यः । भ्रमरूपस्य विशेषदर्शनस्य गुणत्वेनाहेतुत्वात् । न च तस्य गुणत्वेनाहेतुत्वेऽपि दोषत्वेनैव हेतुत्वमस्त्विति वाच्यम् । विशेषभ्रमे सत्यपि व्यापकज्ञानस्य विषयाबाधेन प्रमात्वेन तत्र दोषान्तरस्यैव वाच्यत्वात् । नान्त्यः । ईश्वरेच्छाया अपि सिसाधयिषात्वेन तस्याश्वानुमिति प्रति हेतुत्वकल्पनाद् दुर्वारैव विशेषसामग्रीति । -यत्र कार्येऽवान्तरवलक्षण्यं तत्रैव विशेषसामग्री, अन्यत्र विशिष्टाभाव इति तद्विभागः । तथा च संशयोत्तरप्रत्यक्षे च विशेषदर्श- नप्रयुक्तसावधारणत्वदर्शनाद् विशेषसाम(ग्र्यै ? ग्र्ये)व कल्प्यते, पुरुष एवायं न स्थाणुरित्यनुभवात् । सिसाधयिषोत्तरानुमितौ मन्त्रादिस्थलीयदाहादौ च न बैल- क्षण्यमस्तीति तत्र सर्वत्र विशिष्टाभाव एव हेतुः । प्रामाण्यसंशयस्थलेऽप्युक्तानुरो- धेन विशिष्टाभावस्यैव हेतुता। अन्यथा नियामकान्तराभावेन क्वचिद् विशिष्टाभावः क्वचिद् विशेषसामग्री हेतुरिति वैलक्षण्यानुपपत्तेरिति दिक् । ननु - सिद्धयभावस्यानुमितिरूपकार्यकालावृत्तित्वात् कथं हे(तुः? तुत्वं) प्रतिबन्धकाभावस्य कार्यसहभूतस्यैव हेतुत्वात् । अन्यथातिप्रसङ्गादिति चेद्, न । ज्ञानातिरिक्तप्रतिबन्धकाभावस्यैव फलबलेन सहभावेन हेतुताकल्पनादिति केचित् । वस्तुतस्तु प्रतिबन्धकाभावत्वेन न हेतुतेत्यग्रे वक्ष्यते, किन्तु मण्याद्यभावत्वादिना । तथा च यत्रातिप्रसङ्गः, तत्र सहभावे प्रवेशितेऽपि सर्वत्र तत्प्रवेशे मानाभावः । इतरकारणवत् पूर्वभावमात्रेण कार्योत्पादसम्भवादिति तत्त्वम् । इदं तु शङ्कयते---सिद्धेर नुमिति(प्रति)बन्धकत्व एव मानाभावः , क्षादौ सिद्धस्तदविरोधित्वात् । न चैवमनुमिनोमीत्यनुव्यवसायो न स्याद् , अनु- मित्यनन्तरमनुमित्यन्तरसामग्र्या भिन्ने विषये प्रत्यक्षसामग्र्यपेक्षया प्रबलायाः सत्त्वेनानुमित्यन्तरस्यैवोत्यत्तेरिति वाच्यम् । द्वितीयानुमित्यनन्तरमनुमिनोमीत्यनु- व्यवसाये बाधकाभावात् । तदा परामर्शरूपकारणाभावेनानुमित्यन्तरसामग्रीविर- प्रत्य- GINulnavrtainguigai १. 'णा', २. 'णा' क. पाठः, ঢাকা। पराम- हात् । अत एवानुमितिधाराप्रसङ्गभिया सिद्धिः प्रतिबन्धिकेति निरस्तं, भावादेव तदभावसम्भवात् । न चानुमितिरेव लिङ्गविषयकतया परामर्श इति वाच्यम् । लिङ्गोपहितलैङ्गिकभानस्याग्रे निरस्यत्वादिति कथं पक्षतानुमितिहे- तुरिति । अत्रोच्यते --- एवं सति संशयोत्तरप्रत्यक्षानन्तरं साक्षात्करोमीत्यनुव्यव- सायो न स्याद् , न स्याच तदनुरोधात् प्रत्यक्षतामग्रीवलवत्त्वकल्पनं , त्यक्ष व्याप्यस्यापि जनकीभूतविशेषदर्शनविषयस्य विषयतया परामर्शरूपतत्प्रत्य- क्षादनुमित्युत्पादस्यैव सम्भवात् । भिन्ने विषयेऽनुमितिसामग्रीबलवत्त्वात् । तस्मात् तत्र सिद्धिसत्त्वान्नानुमितिरिति वाच्यम् । ततस्तदभावोऽवश्यमनुमितिहेतुः । किञ्च, यत्र व्याप्यवत्वं पक्षतावच्छेदकं , तत्रानुमितिपरम्परैव स्याद्, नानु. मित्यनुव्यवसायः । पक्षतावच्छेदकतया च्याप्यस्यानुमितौ भानेन पूर्वपूर्वानुमितेः परामर्शात्मिकायाः सत्त्वादित्यवश्यं सिद्धयभावस्तत्र कारणमिति संक्षेपः ।। इति पक्षधर्मतावादः। अथ परामर्शवादः । पक्षधर्मभ्य व्याप्तिवैशिष्टयधीरनुमितिहेतुः । ननु व्याप्यतावच्छेदकरूपेण व्याप्तिधीस्तेनैव रूपेण पक्षताधारप्यनुमितिहेतुः । न तु व्याप्तिविशिष्टपक्षधर्मता- धीस्तत्र हेतुः । तद्धेतोरिति न्यायेन तज्जनकादुक्तादेवानुमितिसम्भवात् । न च व्याप्तिस्मृतौ धूमत्वरूपोपनायकदर्शने च पक्षधर्मे व्याप्तिवैशिष्टयज्ञानमावश्यक- मिति तदेव हेतुरिति वाच्यम् । भिन्न विषयेऽनुमितिसामग्र्या बलवत्त्वेन पराम- त्पित्तिक्षणेऽनुमितिसामग्रीसत्त्वेनानुमितेरेवोत्पादात् । न च पक्षधर्मे व्याप्यभेद- ज्ञाने सत्यनुमितिर्नेति तदभेदधीहेतुरिति वाच्यम् । धूमत्वरूपव्याप्तिनियतधर्मज्ञाने व्याप्यभेदज्ञानस्यैवासम्भवात् । न च समानप्रकारकज्ञानं विरोधिधीप्रतिबन्धक- मिति धूमत्वेन व्याप्तिज्ञानेऽपि तमत्वेन तदभावज्ञानमस्त्विति वाच्यम् । यद्धर्मावच्छेदेन यन्निश्चयः , तद्धटितधर्मप्रकारकतद्वयतिरेकज्ञानस्यासम्भवात् । अन्यथा घटत्वावच्छिन्नं द्रव्यमिति ज्ञाने सत्ययं नीलघटो द्रव्यं न चेति ज्ञाना- मणिसारानुमानखण्डे पत्तेः । भवतु वा व्याप्यपक्षधर्मयोर्मेंदाग्रहोऽप्यनुमितिहेतुः, अभेदज्ञानजनकत्वेन तस्यावश्यकत्वात् तत एवानुमित्युत्पत्तावन्तराभेदज्ञानकल्पनायां गौरवात् । न च भेदग्रहस्यानुमितौ प्रतिवन्धकतायामभेदज्ञानस्य तत्र हेतुत्वमावश्यकं , जनकज्ञानं विघटयत एव ज्ञानत्य प्रतिबन्धकत्वादिति वाच्यम् । तथा सति परामर्शे भेदधीः प्रतिबन्धिका न स्यात् , तत्राभेदधीहेतुत्वस्य त्वयाप्यनभ्युपगमाद् , व्याप्ती विशेषणान्तरप्रवेश स्वप्रयोजकत्वादिति । Ramang । अत्र मणिकृतः अयमालोको वा धूमो वा । उभयथापि वह्निव्याप्य इति ज्ञानादनुमितिर्न स्याद् , धूमत्वालोकत्वयोाप्यतावच्छेदकयोः पक्षधर्म- वृत्तितयानिर्णयात् । व्याप्यतावच्छेदकप्रकारकपक्षधर्मतानिर्णयस्य च त्वया हेतु- त्वाङ्गीकारात् । धूमालोकान्यान्यत्वस्य च गौरवेण व्याप्यतानवच्छेदकत्वात् । किञ्च, वहिव्याप्यवानयमित्यादिशाब्दपरामर्शादनुमितिर्न स्याद्, व्याप्यताब- च्छेदकस्य धूमत्वस्यानिर्णयात् । अपि च यत्र स्मृते—मत्वव्याप्ती युगपत् पक्षधर्मे भासेते । तत्रास्ति व्याप्यत्वप्रकारकत्वम् । अस्ति च व्याप्यतावच्छेदकप्रकारकत्वम् । तत्र व्याप्यत्वप्रकारकपक्षधर्मताज्ञानत्वेन हेतुता कल्प्यते, लाघवात् । न तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन , गौरवादिति । अत्र वदन्ति व्याप्तिनियतधर्मावच्छिन्नपक्षधर्मताज्ञानत्वेन हेतुता , व्याप्तिनियतं च धूमालोकान्यान्यत्वमपि भवत्येवेति तेन रूपेण ज्ञातेऽप्यनुमिति- रिति न कश्चिद् दोषः । अत एव व्याप्यवानित्यत्राप्यनुमितिरविकलैव , व्याप्तेरेव व्याप्तिनियतत्वात् । न चैतदपेक्षया व्याप्त्यवच्छिन्नपक्षधर्मताज्ञानत्वमेव लाघवाद- वच्छेदकमास्त्विति वाच्यम् । उक्तापेक्षया तस्य विशेषत्वात् । गुरुण्यपि सामान्ये प्रमाणपक्षपातात् । कथमन्यथा घटत्वादिजातिसत्त्वेऽपि कर्तृजन्यतावच्छेदक कार्यत्वमेवाङ्गीक्रियत इति । अत्राहुः - सामान्यविशेषयोस्तुल्यशरीरत्व एव सामान्य विशेषापेक्षया लघु, यथा पृथिवीत्वापेक्षया द्रव्यत्वम् । इह तु सामान्यस्य विशेषापेक्षया गुरुशरीरत्वान्न तेन रूपेण हेतुत्वम् । अत एवाख्यातवाच्यतावच्छेदकं न व्यापा- रत्वं, किन्तु यत्नत्वमेवेति सिद्धान्तः । कर्तृजन्यतायां तु घटत्वादेरवच्छेदकत्वं न विशेषत्वात् त्यज्यते , किन्तु बहुत्वगौरवेण । तस्माद् व्याप्यत्वप्रकारकपक्षधर्मता- परामर्शवादः। ७९ ज्ञानत्वेनैव हेतुता, न तु तन्नियतधर्मप्रकारकपक्षधर्मताज्ञानत्वेनेति पक्षधर- चरणाः। वस्तुतस्तु नीलधूमत्वादेरपि व्याप्त्यनतिप्रसक्तत्वरूपव्याप्तिनियतत्वस- त्यात् तत्प्रकारकज्ञानादप्यनुमितिः स्यात् । तथा च व्यर्थतादोष रख न स्यात् । न च तादृशलघुधर्माघटितत्वमपि नियतत्वषटकम् । तथा सति व्याप्यतावच्छेदक- प्रकारकज्ञानस्यैव हेतुतागमनाद् , अनतिप्रसक्तत्वे सति तादृशलवुधर्माघटितस्यै- वावच्छेदकपदार्थत्वात् । तथा च धूमालोकान्यान्यत्वेन पक्षधर्मताज्ञानेऽनुमितिर्न स्यादिति मणिकृपणं वज्रलेपायितम् । किञ्च , व्यासिनियतत्वेन ज्ञायमानधर्मप्र- कारकत्वमतिप्रसङ्गभीत्या वाच्यम् । तथा बातिगौरवमननुभवश्च । नहि धूमो वहि- व्याप्य इति ज्ञाने सति धूमत्वस्य वह्निव्याप्तिव्याध्यत्वाजानेऽनुमितिर्न भवति । धूमस्य वह्निव्याप्तिग्रहसामग्रीतो धूमत्वस्य वहिव्याप्तिव्याप्यत्वज्ञानसामग्र्या भिन्न- त्वादिति सिद्धं लापवादनतिप्रसशाच्च व्याप्तिप्रकार कपक्षधर्मताज्ञानन्यानुमितिहेतु- । त्वमिति । ननु व्याप्तिवैशिष्टयं पक्षधर्मे बोद्धुमशक्यं , पक्षीरसाध्यासन्निकर्पण तन्नि- यतसामानाधिकरण्यात्मकव्याप्तेरिन्द्रियेणाग्रहात् । न च व्याप्तेरुपनीतभानमपि , पूर्वमज्ञानाविति चेद् , न । महानसीयधूमवलितहचारदर्शनादिना व्याप्तेः प्रागेव धूमत्वपुरस्कारेण ग्रहणात् पक्षधर्मधूमे धूमत्वदर्शनानन्तरं तदुपनयात् । यद्धर्माव- च्छेदेन यद्धर्मग्रहः, तद्धर्मग्रहस्य तदुपनाय(क)त्वात् । विशेषाज्ञानविशेष्यन्द्रिय- सन्निकर्षतदुभयासंसर्गाग्रहरूपविशिष्टप्रत्यक्षसामग्र्याश्चाविकलयात् । न च व्याप्ति- रूपविशेषणं न ज्ञातमिति वाच्यम् । व्यारेकलया महानसीयचह्निधूमबहादेव पूर्व ग्रहणादिद्वानी च तत्स्मरणानन्तरं पक्षधर्मधूमे तद्विशिष्टज्ञाने वाधकाभावादिति मणिकृतः। अत्र वदन्ति व्याप्तिः सामानाधिकरण्यात्मिका। सा च प्रत्येकं भिन्नति पर्वतीयवद्विधूमसामानाधिकरण्यस्य प्रागज्ञानेन कथं तस्योपनमः ! न च सामाना- धिकरण्यावच्छेदकरू पवस्वं परम्परासम्बन्धेन व्यधिकरणासामानाधिकरण्यमपि व्याप्तिः, तस्य च प्रागपि ज्ञानादुपनय इति वाच्यम् । सामानाधिकरण्यज्ञान यैव तदुभयापेक्षया लघुत्वेन हेतुत्वात् । न च तज्ज्ञानासम्भवः । विशिप्याज्ञानऽपि धूम- ८० मणिसारानुमानखण्डे , केचित् तु .... वह्निसामानाधिकरण्यत्वेन ज्ञानस्य प्राक् सम्भवादिति महानसीयधूमपर्वतीयधूमयो- रेकव्याप्तिपक्षोऽनुपपन्न इति । अत्रोच्यते --- व्यर्थविशेषणताहेत्वाभासताया अवच्छेदकलक्षणव्याप्तिपक्ष एवोपपत्तेस्तदनुरोधात् तज्ज्ञानमेवानुमितिहेतुरिति वाच्यम् । तथा च तदभिप्रायेणै- कैव हि सा व्याप्तिरिति मणिः । यद्वा , एकैव व्याप्तिरित्यस्य महानसीयधूमव्या- प्त्या पर्वतीयधूमव्याप्तेरैक्यमिति नार्थः, किन्तु पूर्वानुभूतेदानीमनुभूयमानयोरै- क्यम् । महानसीयधूमव्याप्तिग्रहन्थले 'धूमव्याप्तित्वेन पर्वतीयधूमव्याप्तेरपि ग्रहात् तदुपनये बाधकाभाव इति । व्याप्त्या सह ज्ञानं न प्रत्यासत्तिः, प्रत्यभिज्ञानभिन्नगुणप्रत्यक्षे संयुक्तसमवायस्यैव प्रत्यासत्तितया ज्ञानस्यानासत्तित्वात् , किन्तु पर्वतधूमसंयोग- रूपव्याप्त्या सह संयुक्तसमवाय एवं प्रत्यासत्तिरिति वदन्ति । तत्तु चिन्त्यम् । गुणाभावप्रत्यक्षे संयुक्तसमवायं विनापि गुणस्य भानेन त्वदुक्तनियमस्य व्यभिचा- रात् । न च तद्भिन्नत्वमपि विशेषणम् । सामान्यलक्षणादिजन्यप्रत्यक्ष तथापि व्यभि- चारात् । न चासत्त्यन्तराभावे सत्येव ज्ञानस्यासत्तित्वमितीह संयुक्तसमवायसत्त्वा- न तदासत्तिरिति वाच्यम् । आसत्त्यन्तराभावस्थले ज्ञानस्यासत्तिता कल्प्यते । तत्र चासत्त्यन्तराभावस्य गौरवेणासत्तितावच्छेदकता न कल्प्यते । मानाभावात् । तस्मादिह ज्ञानं संयुक्तसमवायश्चोभयमपि प्रत्यासत्तिरिति । इदं त्ववधेयम् - विशिष्टसामानाधिकरण्या(त्मि! त्म)कव्याप्त्या सह ज्ञा नमेवासत्तिः , तावदंशे संयुक्तसमवायासम्भवात् । तदेकदेशेन संयोगेन सहोमय- मपीति । यत्तु विशेषणसन्निकर्षः कारणमेव नेति किं व्याप्तिसन्निकर्षेणेति । तन्न । घटसन्निकर्षे सति पटप्रत्यक्षापत्त्या तत्प्रत्यक्षे तदिन्द्रियसन्निकर्षहेतुतासिद्धौ विशेषणसन्निकर्षस्यापि हेतुतासिद्धिरित्युक्तं प्रत्यक्षमणिसार इति दिक् । यथा धूमत्वावच्छेदेन व्याप्तिनिर्णयात् पक्षधर्मे धूम- स्वनिर्णयोपनीतव्यप्तिभानं , तथा धूमवत्त्वावच्छेदेन वह्निमत्त्वनिर्णयात् पर्वते धूम वत्त्वनिर्णयानन्तरं प्रत्यक्षमेवास्तु , समानविषये प्रत्यक्षसामग्रीबलवत्त्वस्थ सर्वाभ्यु- पग(म ? त)त्वादिाते । अत्र केचित् --- पर्वते वह्निप्रत्यक्षं लौकिकं न सम्भवति , लौकिकद्रव्यप्र- त्यक्षे इन्द्रियसंयोगस्य हेतुत्वाद्, वह्येश्वासंयुक्तत्वात् । नाप्यलौकिकम् । तथा सति नियतलिङ्गपरामर्शापेक्षा न स्यात् । उपनीतभानान्तरवदुपपत्तेः । REAK इदं तु विचार्यते परामर्शवादः। , किञ्च , मानान्तरविलयापत्त्या सर्वत्रोपनीतभानप्रत्यक्षसामग्री दुर्बलेति कल्प्यम् । तथा च कथं प्रत्यक्षमिति समादधते । तत्र शङ्कयते--- उपनीतवहिप्रत्यक्षमस्तु । अस्तु च परामर्शापेक्षा। उप- नायकधर्मज्ञानस्योपनीतभानेऽपेक्षितत्वात् । व्याप्यवत्त्वस्य चोपनायकत्वात् । न च धूमवत्त्वावच्छेदेन वह्निमत्त्वग्रहणात् तन्मात्रज्ञानमपेक्ष्यता, न तु व्याप्त्युपनय- पर्यन्तमिति तात्पर्यमिति वाच्यम् । प्रत्यक्षत्वाविशेषेऽपि चाक्षुषादिप्रत्यक्षे तत्तच्चक्षु- राद्यसाधारणापेक्षावदनुमितिरूप उपनीतप्रत्यक्षे तृतीयलिङ्गपरामर्शापेक्षायां दोषा- भावात् । पक्षधर्मधूमे धूमत्वज्ञानमात्रमपेक्षितं , न तु व्याप्त्युपनय इति वदन्तं प्रत्युक्तापादनस्येष्टापत्तिपराहतत्वाच्च । यच्च किञ्चेत्युक्तं , तदपि न । उपनीतभाने- नान्यथासिद्धिमापादयतो मानान्तरविलोपस्येष्टत्वात् । किञ्च, उपनीतभानसामग्र्या इतरज्ञानसामग्र्यपेक्षया दुर्बलत्वे संशयानन्तरं भ्रमरूपविशेषदर्शने सति भ्रमरूप- व्यापकप्रत्यक्षं न स्याद्, अनुमितिसामग्रीसत्त्वात् । न च दोषाघटितोपनीतप्रत्य- क्षसामग्र्यपेक्षयानुमित्यादिसामग्री बलवतीति वाच्यम् । तथा सति भ्रमानुमितिः क्वापि न स्याद् , दोषघटितोपनीतप्रत्यक्षसामग्र्या एव तत्र सत्त्वात् । यदपि समा- हितमुपनीतप्रत्यक्षाङ्गीकारे धूमवान् वह्निमानित्यनुमितिरेव स्यान्न तु पर्वतो वह्नि- मानिति , उपनायकधर्मावच्छिन्नत्वेनैव ज्ञाते धर्मिण्युपनीतप्रत्यक्षसामग्र्याः सत्त्वा- दिति । तदपि न । उपनायकधर्मविशिष्टे धर्मिण्युपनयो न तु तद्विशिष्ट एव, गौरवादिति पर्वतत्वभानसामग्र्या तद्भानमपि स्यादेव । किञ्चैवमिदं चन्दनं सुर- भीत्युपनीतं प्रत्यक्षं न स्याद् , इदन्त्वावच्छेदेन सौरभ्याज्ञानादिति । अत्र नव्याः-वह्निमनुमिनोमीत्यनुव्यवसायेनानुमितित्वजातिः सिद्धा। सा च न मानसत्वव्याप्या। तथा सति साक्षात्करोमीति तदाकारापत्तेः । वहि न साक्षात्करोमि किन्त्वनुमिनोमीति तदाकारविरोधाच्च । तथा चानुमितिरूपविलक्ष- णज्ञानसिद्धावुपनीतप्रत्यक्षसामग्र्यास्तत्सामग्र्यपेक्षया दौर्बल्यं कल्प्यमिति । न चैवं सति प्रागुक्तदोषः । प्रत्यक्षमात्रप्रयोजकदोषाघटितोपनीतभानसामग्र्या अनु- मित्यादिसामग्र्यपेक्षया दुर्बलत्वात् । संशयोत्तरभ्रमे च प्रत्यक्षस्यानुभूयमानतया तन्मात्रप्रयोजकदोषघटितैव सामग्रीति नानुपपत्तिः । अत एव न भ्रमानुमित्युच्छे- दोऽपि , तत्रानुमितेरनुभूयमानतया प्रत्यक्षमात्रप्रयोजकदोषाघटिततया तादृशोप- नीतभानसामग्र्या दुर्बलत्वाद् , दोषस्य फलबलकल्प्यत्वादिति वदन्ति । m. 11 मणिसारानुमानखण्डे तञ्चिन्त्यम् । उपनीतवह्निप्रत्यक्षे साक्षात्त्वजातिसत्त्वेऽपि तदभिव्यक्तेलौं- किकसन्निकर्षजन्यज्ञानस्थल एव भावेन तत्राभावात् । अन्यथोपनीतपरमाणुज्ञाना- नन्तरं (तत् ? तं) साक्षात्करोमीति प्रत्ययापत्तेः । अत एव वहिं न पश्यामीति धीर- पि परमाणुं न पश्यामीति प्रतीतिवल्लौकिकत्वाभावमवगाहते । प्रत्यक्षसामग्रीस- त्वेन तदुत्पत्तिसिद्धौ तथा कल्पनादिति न किञ्चिदेतत् । यदपि कश्चिदवोचद्- अनुमिनोमीत्यनुव्यवसायानुगमात् पक्षतादिजन्यतावच्छेदकतया च सिद्धानुमिति- त्वजातिरेकैव । सा च न साक्षात्त्वव्याप्या , चाक्षुषत्वादिना परापरभावानुपपत्तेः । न च तद्व्याप्यमानसत्वव्याप्या । प्रमाणान्तरासहकृतमनोजन्यत्वस्य मानसत्वप्र- योजकत्वाद् , अत्र च व्याप्तिज्ञानरूपप्रमाणान्तरसहकारादतथात्वात् । तस्मादन- न्यगत्यैवानुमितिः प्रत्यक्षविलक्षणाङ्गीकार्येति सिद्धमनुमानप्रामाण्यमिति । तदपि न भव्यम् । सन्निकृष्टमनोजन्यत्वस्यैव मानसत्वप्रयोजकत्वात्। तस्य ज्ञानरूपसान्नि- कर्षेण प्रकृतेऽपि सम्भवात् । अनुमितौ मनस एव प्रमाणतया व्याप्तिज्ञानस्य प्रमाणत्वाभावेन प्रमाणान्तरासहकृतमनोजन्यत्वस्यापि सत्त्वाच्च । अपरे तु- अनुमिनोमीत्यनुव्यवसाया(द)नुमितित्वजातिः सिध्यति । सा चानुभवत्वव्याप्यैव साक्षात् । न त्वनुभवत्वव्याप्यप्रत्यक्षत्वव्याप्यमानसत्वव्याप्या, गौरवादिति पृथक् प्रमाणमनुमानमिति । तन्न । एवं सत्यर्थापयामीत्यनुव्यवसायाद- पत्तित्वजातिः सिद्धा, तस्याश्च साक्षादनुभवत्वव्याप्यत्वापत्त्यार्थापत्तेरपि प्रमाणा- न्तरत्वप्रसङ्गात् । अनुमितिसामग्रीजन्यत्वेनानुमितित्वमर्थापत्तेर्यदि , तदा प्रत्यक्ष- सामग्रीजन्यत्वेनानुमितेरपि तत्त्वमवर्जनीयमिति । यत्तु ---सिद्धिरनुमितौ प्रतिब- न्धिकैवं सति न स्याद् , धारा(वगा ? वा)हिकप्रत्यक्षानुरोधेन प्रत्यक्षे सिद्धिप्रतिब- न्धकत्वानङ्गीकारादिति । तन्न । अनुमितित्वावच्छेदेनैव सिद्धेः प्रतिबन्धकत्वात् , प्रत्यक्षान्तरे तत्प्रतिबन्धकत्वे मानाभावादित्युपनीतप्रत्यक्षेणान्यथासिद्धमनुमानं न पृथक् प्रमाणमिति । अत्रोच्यते यव्यापकतया हेत्वभावो गृहीतः, हेतुना तदभावोऽप्र- सिद्ध एव सिध्यतीत्यप्रसिद्धसाध्यकव्यतिरेकिस्थले साध्यस्य पूर्वाज्ञाततयोपनी- तभानसामुग्रीविरहादनुमानस्य पृथक्प्रामाण्यमित्यन्यत्राप्यनुमिनोमीत्यनुव्यवसा- यादुपनीतसामग्र्या दुर्बलत्वं कल्प्यत इति पर्वतादावपि न वयनुमितिदुर्भिक्षम् । किञ्च , अनुमितेरुपनीतान्तरवैलक्षण्यमुभयसिद्धम् । अन्यथा परामर्शाधनपेक्षापत्तेः । Nominantimi परामर्शवादः। ८३ । तथा च ज्ञानरूपोपनीतान्तरप्रत्यक्षसामग्र्या तादृशं प्रत्यक्षं कुतो न स्याद् , यद्यनुमितिसामग्री तत्र न प्रतिबन्धिका । न चास्तु तादृशोपनीतप्रत्यक्षे उपनी- तप्रत्यक्षविशेषरूपानुमितिसामग्र्याः प्रतिबन्धकत्वमिति वाच्यम् । अनुमितिसा- मग्रीप्रतिबन्ध्यतावच्छेदकतया तत्रोपनीतप्रत्यक्षत्वस्यैव कल्पनाद्, न त्वनुमिति- भिन्नोपनीतप्रत्यक्षत्वस्य , गौरवात् । तद्बलाच्चानुमितेः प्रत्यक्षभिन्नत्वमपि कल्प्य- ते । अत एवानुमितित्वजातेरनुभवत्वसाक्षाद्वयाप्यत्वकल्पनापेक्षया तद्व्याप्यप्रत्य- क्षत्वव्याप्यमानसत्वव्याप्यताकल्पनागौरवमपि न भवति । अत एव च वहिं न साक्षात्करोमीत्यस्य न लौकिकप्रत्यक्षत्वाभावविषयत्वकल्पना , सामान्याभाववि- षयत्वेनोपपत्तेः । अनुमितेः प्रत्यक्षवैलक्षण्यम्योक्तयुक्त्या साधितत्वादिति दिक् । ननु तथापि व्यापकत्वपरामर्शापेक्षया व्याप्यत्वपरामर्शस्यांनुमितिहेतुत्वे किं विनिगमकं , प्रत्युत व्याप्यत्वे सामानाधिकरण्यभागस्याधिकस्य प्रवेशेन गौरवम् । न चैवं पर्वतवृत्तिधूमव्यापको वहिरिति परामर्शाकारः स्यात् । तथा च तत्रोपसर्जनीभूतस्य पर्वतम्यानुमितौ विशेष्यता न स्याद् , जनकज्ञानोपसर्जनी- भूतस्य जन्यज्ञानेऽपि तथात्वादिति वाच्यम् । भूतले घटाभाव इति ज्ञानजन्ये घटाभाववद् भूतलमिति ज्ञाने व्यभिचारेणोक्तव्याप्तेरभावात् । परामर्शस्वभावादे- वानुमितेः पक्षविशेष्यकत्वोपपत्तेः । अत्र मिश्राः --पर्वतवृत्तिधूमव्यापकत्वं वह्नौ तदा ज्ञातुं न शक्यते , वहर्विशेष्यस्य लौकिकसन्निकर्याभावेन बहिरिन्द्रियाप्रवृत्तेः । मनसश्च बहिरर्थे स्वातन्त्र्याभावात् । न च ज्ञानान्तरोपनीतपर्वतीयधूमव्यापकत्वं मनसा ग्राह्यमिति नास्वातन्त्र्यमिति वाच्यम् । यदि पर्वतीयधूमव्यापकत्वं स्मृतं सद् वहावुपनेयं , तदा तस्यापि वह्निवदनुमितिविषयतापत्तौ सर्वत्र तस्याः समूहालम्बनत्वापातात् । किञ्च, साध्यसामानाधिकरण्यं व्यापकत्वेऽपि प्रवेश्यमेव । अन्यथाकाशस्यापि व्यापकतापातात् । धूमवन्निष्ठाभावस्य प्रतियोग्यसमानदेशस्य घटाभावादेरप्रति- योगित्वादाकाशस्य । आकाशाभावस्य प्रतियोगिदेशाप्रसिद्ध्या समानदेशत्वाभा- वात् । तस्मादनियमादुभयपरामर्शो हेतुरिति वदन्ति । तत् तु विचार्यम् । पर्वतीयधूमव्यापकत्वमुपनीयतां स्मृत्या । न चैता- वता तद्धर्मिणोऽप्युपनयनियमः, येन तस्यानुमितौ भाने समूहालम्बनत्वं स्यात् । न चैकानुभव एव विशिष्टसंस्कारद्वारा विशिष्टस्मारक इति वाच्यम् ।

मिति विशेष्ये विशेषणमिति न्यायावताराद् ग्रहणमिति । यच्च किञ्चेत्युक्तं, मणिसारानुमानखण्डे कुण्डलादिविशिष्टदेवदत्तानुभवे सति विशेषणसंस्कारानुबोधवदुपपत्तेः । प्रमुष्टत- त्ताकस्मृतिवदुपपत्तेश्च । गृह्यतां वा पर्वतीयधूमव्यापकं तद्रूपादेः(?)। न चैतावता तस्यानुमितिविषयतास्ति । तेषां प्रत्यक्षसिद्धतया सिद्धसाधनेनानुमित्युदयायोगात् । अस्तु वा प्रत्येकं स्मृतानां पदार्थानां वह्नौ धूमव्यापकत्वं धूमे च पक्षवृत्तित्व. अत्र मिश्राः तदपि न । आकाशस्य व्यापकत्वेऽपि क्षत्यभावः । बाधादेव तदननुमितेः । वस्तुतो व्यापकत्वमेव न, स्वप्रतियोगिसमानदेशभिन्नत्वस्याकाशाभावेऽपि स- त्त्वात् । स्वोपादानेत्यादौ (!) तथैव स्वीकारात् । भवतु वाकाशव्यावृत्त्यर्थ साधि- करणत्वं विशेषणम् । तावतापि व्याप्यत्वापेक्षया लाघवमागतमेवेति । उपाध्यायास्तु ---- साध्याप्रतियोगिकसमानाधिकरणाभावकत्वमेव व्याप्य- त्वमस्तु , तथा चात्रापि सामानाधिकरण्याप्रवेशान्न तदपेक्षया व्यापकत्वं लध्विति न तद्धीहेतुः । किञ्च, कारणीभूतज्ञाने यावद्विषयकतया हेतुत्वं, तत्रोपसर्जनतया भातस्य कार्यभूतज्ञानेऽपि तथात्वमिति नियमः । भूतले घटाभाव इत्यादौ घटाभावादिविषयकत्वेन हेतुत्वान्न व्यभिचारः । तथा च व्यापकत्वपरा- मर्शहेतुतापक्षे पक्षविशेष्यकानुमितिर्न स्यादिति व्याप्यत्वपरामर्शो हेतुरित्याहुः । व्याप्यत्वे सामानाधिकरण्याप्रवेशेऽपि व्यापकत्वापेक्षया विनिगमकमप्राप्तमेव । किञ्च, व्याप्यत्वे साध्याप्रतियोगिकसमानाधिकरणयावद- भावकत्वं प्रवेश्यम् । अन्यथा व्यभिचारिण्यतिव्याप्त्यापातात् । स्वसमानाधिकर- णाभावाप्रतियोगित्वस्य सामान्याभावरूपस्य प्रवेशान्न तत्साधारण्यमिति न या. वत्प्रवेश इति व्यापकत्वमेव लध्विति तद्धीरेव हेतुरिति । यच्च जनकेत्यादिव्या- प्त्या पक्षविशेष्यकत्वं न स्यादित्युक्तं , तदपि न । भूतले घटाभाव इत्यादिज्ञानज- न्यज्ञानवद् विशेषणविशेष्याभावोपपत्तावुक्तव्याप्तेरप्रयोजकत्वादिति वदन्ति। (य?अ). त्र यद्यपि व्यापकत्वेऽपि यावत्त्वं प्रवेश्यमेव , अन्यथा हेतुसमानाधिकरणघटाभावप्र- तियोगित्वसामान्याभावस्य व्यभिचारिण्यपि सत्त्वेनातिव्याप्त्यापातात् । तथा च व्यापकत्वे क लाघवम् । तथापि विनिगमनाविरह एव तात्पर्यम् । वस्तुतो भवतु सामानाधिकरण्याविशेषिता व्याप्तिः, तथापि सामानाधिकरण्यगर्भव्याप्तिधीहे- तुत्वसिद्धान्तो गत एवेति तात्पर्यम् । तस्माद् व्याप्यत्वापेक्षया सामानाधिकर- ण्यागर्भत्वेन व्यापकत्वं लध्विति तद्धीरेव हेतुरस्तु । ।

लिङ्गकरणतावादः। अत्रोच्यते--- सामानाधिकरण्यसंशये तद्व्यतिरेकनिश्चये च सति नानुमि- तिरित्यनुभवसिद्धम् । तथा च यत्संशयेत्यादिव्याप्त्या तद्धीरेव हेतुः । अत एव विरुद्धो हेत्वाभासः। अन्यथा जनकीभूतज्ञानाविरोधितया तस्याप्रतिबन्धकतापत्तेः। न च विरुद्धत्वेनाव्यभिचारज्ञानविघटनम् । ग्राह्याभावानवगाहित्वात् । न च विरु- द्वत्वेन व्यभिचारानुमानम् । व्याप्तिज्ञानदशायां तदभावेनानुमित्यप्रतिबन्धापत्त्या प्रतिबन्धनियमघटितहेत्वाभासतानुपपत्तेः । एवं व्यभिचारधीप्रतिबन्धकत्वानुरोधा- दव्यभिचारांशधीरपि हेतुरित्यव्यभिचरितसामानाधिकरण्यधीहेतुत्वसिद्धिरिति । गौडास्तु सामानाधिकरण्यग्रहविषयीभूतसाध्यसम्बन्धस्यैवानुमितौ भा. नात् तद्धीरवश्यं हेतुः, न व्यापकताधीमात्रम् । तथा सत्यनुमितौ साध्यसम्बन्धभाने नियमाभावेन सम्बन्धान्तरेण सामानाधिकरण्यज्ञाने सम्बन्धान्तरेण साध्यभाना- पातात् । न च यत्सम्बन्धेनाव्यभिचारग्रहः , तत्सम्बन्धेनानुमितौ साध्यभानमिति वाच्यम् । सम्बन्धद्वयेनाव्यभिचारग्रहेऽपि सामानाधिकरण्यविषयीभूतसम्बन्धस्यैव भानादिति वदन्ति । तच्चिन्त्यम् । सम्बन्धद्वयेन सामानाधिकरण्यद्वयग्रहस्थले सम्बन्धद्वयस्याप्य- नुमितौ भानापातात् । तत्र चेष्टापादने अव्यभिचारधीविषयसम्बन्धद्वयस्यापि भाने तमात्वस्य वक्तुं शक्यत्वादिति संक्षेपः । इति परामर्शवादः। अथ लिङ्गकरणतावादः। , अनुमितौ च लिङ्गपरामर्शः करणं, न तु परामृश्यमानलिङ्गम् । न च परामर्शमात्रं न हेतुः, किन्तु लिङ्गपरामर्श एव। तथा च विशिष्टकारणताग्राहकस्थ विशेषणेऽपि कारणताग्राहकत्वम्। कथमन्यथा दण्डसंयोगहेतुतासिद्धिरिति वाच्यम्। तत्र हि दण्डं विना संयोगासत्त्वादुभयोरपि विनिगमनाविरहाद्धेतृत्वमुपपद्यते । ज्ञानविद्यमानता न विषयविद्यमानतानियता, येनात्रापि तथा सम्भाव्येत । अती- तादिलिङ्गज्ञानादप्यनुमितेः । न च तत्रापि लिङ्गध्वंसादिरपि व्याप्य एवेति स एव हेतुः । तस्याज्ञानात् । ज्ञातस्य च धूमस्यासत्त्वात् । अत एव धूमात्यन्ताभा- Sapanese मणिसारानुमानखण्डे , वात्यन्ताभावत्वमेव त्रितयसाधारणं व्याप्यतावच्छेदकमिति निरस्तम् । धूमत्वप्र- कारकज्ञानादनुमित्यनुत्पादापातात् । किञ्च, यत्र पर्वते धूमभ्रमाद् वह्निभ्रमः , तत्र व्याप्यं किमपि नास्तीति कथं तस्यानुमितिहेतुता । तथा च तत्र परामर्शस्य हेतु- त्वात् तत्सत्यत्वादेव प्रमानुमित्युपपत्तेर्न यत्किञ्चिव्याप्यस्य प्रमानुमितौ गुणत्वेनापि हेतुत्वकल्पनम् । किं बहुना, यत्र भाविसृष्टयभावः सर्वमुक्त्यानुमीयते , तत्र भाविव्यतिरिक्तव्याप्याभावेनानुमितिर्न प्रमा स्यादिति लिङ्गकरणतापक्षो न क्षोदक्षम इत्युपेक्ष्यते । नन्वनुमितौ परामर्शश्चरमकारणतया निर्व्यापार इति न करणं, करणान्तरं च नास्त्येवेति कथमनुमानं प्रमाणमिति चेद्, न । व्याप्तिज्ञानस्य परामर्शव्यापारकस्यानुमितिकरणत्वादिति मणिकृतः । अत्र वदन्ति - पर्वतवृत्तिधूमे वह्निव्याप्तिरिति परामर्श व्याप्तिविशेष्यके व्याप्तिज्ञानं न हेतुरिति तज्जन्यानुमितौ व्याप्तिज्ञानस्य व्यभिचारः । किञ्च, विश- कलितव्यभिचाराभावसहचारदर्शनयोः सत्त्वे पर्वतीयधूमे वह्निसामानाधिकरण्यं वह्नौ धूमसमानाधिकरणभावाप्रतियोगित्वं च विशेष्ये विशेषणमिति न्यायेन यत्र गृहीत्वा परामर्श उत्पद्यते , तत्र परामर्शपूर्व व्याप्तिज्ञानं नेति व्यभिचारः । अपि च , स्मृतिरूपपरामर्शादनुमितौ व्याप्तिज्ञानं व्यवहितत्वान्न हेतुः, संस्कारस्यानुमि- त्यहेतुतया तद्वाराव्यवधानस्यासम्भवात् । किं बहुना , व्याप्तिज्ञानहेतुत्व एव मा- नाभावः , परामर्श एव जनकत्वादन्यथासिद्धेः । न चानुमितेः सकरणत्वानुरोधात् तद्धीहेतुताकल्पनम् । पक्षधर्मताज्ञानादेरेव करणादनुमित्युपपत्तेरिति । अत्राहुः -- व्याप्तिपक्षधर्मतादेः सर्वस्यापि ज्ञानमनुमितौ करणम् । तच्च न प्रत्येकम् , अननुगमात् । किन्तु, परामर्शजनकज्ञानत्वेन । तथा च यदेव यत्र परामर्श- जनकीभूतं ज्ञानं , तदेव तत्र करणमिति न व्यभिचारः । न चानेन रूपेण हेतुत्वेऽन्यं प्रतीत्यन्यथासिद्धिरिति वाच्यम् । अन्यमित्यस्य व्यापारान्यमित्यर्थस्य बहुशो निवे- दितत्वात् । अन्यथा दण्डत्वस्य हस्तादिसाधारण(स्य?)चक्रप्रमिजनकत्वातिरिक्तस्य निर्वक्तुमशक्यतया तत्राप्यन्यथासिद्धयापत्तेः । यत्तु-तत्रापि चक्रभ्रमिजनकता येन रूपेण , तेनैव घटजनकताप्यस्तु । सा च न चक्रभ्रमिजनकत्वेन, आत्माश्र- यादित्यन्यदेव तज्जनकतावच्छेदकमङ्गीकार्यमित्यन्यमित्यत्र व्यापारान्यत्वार्थत्वे मा- नाभाव इति । तन्न । प्रमि प्रत्यननुगतरूपेण विशेषतो हेतुत्वेऽपि घटत्वावच्छि- नकार्य प्रति भ्रमिजनकत्वेनानुगमे दोषाभावात् । न च स्मृतिरूपपरामर्शस्थले किं .

लिङ्गकरणतावादः। केचित् तु Home ज्ञानं करणमिति वाच्यम् । पूर्वानुभवस्यैव तत्र करणत्वात् । न च संस्कारव्यवहितः स इति वाच्यम् । संस्कारद्वारा परामर्श प्रति परामर्शद्वारा चानुमितिं प्रत्यव्यव- धानात् । अस्तु वा परामर्शजनकत्वेनैव हेतुता , न तु ज्ञानत्वान्तर्भावः। तथा च संस्कार एव तत्र कारणम् । न च तज्जन्यत्वे स्मृतित्वापत्तिः । तत्त्वेन जन्यत्वस्यैव स्मृतित्वप्रयोजकत्वात् । अन्यथा तद्ध्वंसेऽतिप्रसङ्गात् । न चैवं परामर्शजनकस्य कालादेरपि करणत्वापातः । इष्टत्वात् । व्याप्तिज्ञानत्वेन लाघवात् करणत्वे निश्चिते व्याप्तिविशेष्यक- परामर्शादेर्नानुमितिरित्येव कल्प्यत इति वदन्ति । तच्चिन्त्यम् । पक्षधर्मताज्ञानत्वा- दिनापि करणत्वे लाघवतौल्यात् । तस्माद् विनिगमनाविरहात् सर्वेषां करणत्वमि- त्युक्तक्रमेणैवानुगम इति तत्त्वम् । अत एवानुमितेः क्रियात्वेन करणजन्यत्वानुमाने लाघवान्मनःकरणत्वं विषय इति परामर्शव्यापारकं मनस्तत्र करणमित्युपाध्याय- मतमपास्तम् । करणजन्यत्वानुमाने लाघवात् कालकरणत्वस्यैव विषयत्वापातात् । मनसामनेकत्वात् तदपेक्षया कालस्यैकत्वेन लघुत्वात् । एवं दिकरणत्वेऽपि लाघ- वम् । तस्माद् विनिगमनाविरहात् सर्वेषामपि करणत्वमिति । मिश्रास्तु - मनःकरणत्वे मानसत्वापत्तिः । मानसत्वे मानान्तरासहकृत- मनोजन्यत्वस्य तन्त्रत्वात् । न च सन्निकृष्टमनोजन्यत्वं तत्र प्रयोजकं , तच्च नेहेति वाच्यम् । परामर्शस्यैवात्र ज्ञानरूपसन्निकर्षत्वान्मानसत्वस्य दुर्वारत्वादित्याहुः । तत् तु न सम्यक् । वह्निमनुमिनोमि न साक्षात्करोमीति प्रतीत्या साक्षात्त्वाभावस्य निर्णयात् परामर्शस्यासत्तित्वाकल्पनात् सन्निकृष्टमनोजन्यत्वाभावेन मानसत्वा- भावादिति । ननु परामर्श एवानुमितौ करणमस्तु । न च तस्य व्यापाराभावः । विष- यपरिशोधकतर्कस्यैव तद्व्यापारत्वात् । न च तर्कः परामर्शाजन्य इति न तद्व्यापार इति वाच्यम् । यदि निर्वह्निः स्यान्निधूमः स्यादित्याकारस्य तस्य धूमाभावापादन- रूपस्य स्वारसिकधूमवत्त्वज्ञानजन्यतया तादृशतर्कस्य परामर्शजन्यत्वावश्यकत्वा- दिति चेद् , न । येन रूपेण कारणता, तेन रूपेण व्यापारस्य वाच्यत्वात् । का- रणतायाश्च व्याप्तिविशिष्ट पक्षधर्मताज्ञानत्वेन विवक्षितत्वात् । तर्कस्य च धूमवत्त्व- ज्ञानमात्रजन्यत्वात् । किञ्च , तर्कः शङ्काविधूननद्वारोपयोगी । शङ्का च न सर्व- माणिसारानुमानखण्डे अत्र प्राश्चः वेति नानुमितौ तस्य नियतपूर्वसत्तारूपहेतुतेति न परामर्शव्यापारत्वमिति तत्त्वम् । केचित् तु-विषयपरिशोधकतर्कस्यानुपयोग एव । क व्यापारता । न च विरोधिशङ्कानिवर्तकतया तदुपयोगी। ग्राह्यसंशयस्याविरोधित्वात् । विरोधित्वे वा परामर्शरूपविशेषदर्शनाच्छङ्काया एवाभावः, येन तन्निवृत्त्यर्थ तर्कान्तरापेक्षा स्यादिति वदन्ति । विरोधिजिज्ञासानिवृत्त्यर्थ तर्कोऽपेक्ष्यते, तस्यास्त्वनिष्टप्रस- झात्मकतर्कना(व)श्यत्वात् । न च विरोधिजिज्ञासायाः प्रतिबन्धकत्वे मानाभावः । कामिनीजिज्ञासादिप्रतिबन्धकत्वानुरोधेन तदावश्यकत्वादित्याहुः । तच्चिन्त्यम् । कामिनीजिज्ञासावयभावजिज्ञासासाधारणस्य विरोधिजिज्ञासात्वस्यैकस्य ब्रह्मणापि निर्वक्तुमशक्यत्वात् । तस्मात् कामिन्यादिजिज्ञासायाः फलबलेन तद्रूपेण प्रतिब- न्धकत्वेऽपि साध्याभावजिज्ञासायाः प्रतिबन्धकत्वे मानाभावादिति । मिश्रास्तु -शङ्का द्विविधा स्वरसवाहिनी आहिता च । तत्राद्याया अप्रतिबन्धकत्वेऽपि चरमायास्तथात्वमस्त्येव । अतः प्रकृतेऽपि साध्याभावसाधक- निबन्धना साध्याभावशङ्कानिष्टमुपनयता तर्केण निवर्त्यते । साध्याभावसाधकं किमपि नास्तीति तर्कावतारेण निर्णयाद् , आधायकशङ्काविरहे सत्याहितशङ्कानु- त्पत्त्या चानुमानोपपत्तेरित्याहुः । अत्र कश्चित् - विरोधिनिर्णयत्वेनैव प्रतिबन्धकत्वात् स्वारसिकी अन्या- हिता वा शङ्का न प्रतिबन्धिकेत्याह । तदसत् । एवं सत्युपाध्यादिसन्देहाहितव्य- भिचारादिसन्देहस्य प्रतिबन्धकत्वाभावप्रसङ्गात् । तथा चान्याहितशङ्का प्रतिबन्धि- कैवेति दिक्॥ इति लिङ्गकरणतावादः। अथ केवलान्वयिवादः। लिङ्गं च त्रिविधं केवलान्वयिसाध्यकं केवलव्यतिरेक्यन्वयव्यतिरेकि चेति । तत्राद्यं यथा घटः प्रमेयो द्रव्यत्वादिति । अत्र केवलमन्वयसहचारे- केवलान्वयिवादः। गैव व्याप्तिग्रहः । साध्यव्यतिरेकाप्रसिद्धया व्यतिरेकसहचारासम्भवात् । विचार- प्रयोजकसंशयोऽपि मेयत्वं घटनिष्ठाभावप्रतियोगि न वेत्येव , साध्यसिद्धिनिवर्त्य संशयस्यैव तत्प्रयोजकत्वात् । ननु किमिदं केवलान्वयित्वम् । अत्यन्तामा(व! वा). प्रतियोगित्वमिति चेद्, न । संयोगाभावाकाशाभावादावव्याप्तेः । तस्यापि सं- योगादिरूपात्यन्ताभावप्रतियोगित्वाद् , अभावाभावस्य भा(वा ? वत्वा)दिति । अत्र कश्चिद्-अभावाभावो न प्रतियोगिरूपः । तथा सति घटवति भूतले घटान्योन्याभावबुद्धिर्न स्यात् , तदभावात्मकस्य प्रतियोगिनः सत्त्वात् । तम्मादभावाभावाभिन्ने एव । स च संयोगाभावादेर्नास्तीति नाव्याप्तिरित्याह । तन्न। अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वाद् , अन्योन्याभावाभावस्य प्रतियोगिताव- च्छेदकधर्मरूपत्वात् , तेनैव सह तस्य विरोधाद्', अभावप्रतियोगिकपृथगभाव- कल्पनायां गौरवादनवस्थाप्रसङ्गाचेति प्राञ्चः । अत्र पक्षधरमिश्राः -- अत्यन्ताभावाभावो न प्रतियोगिमात्रम् । तथा साति संयोगेन घटसत्त्वे समवायेनापि तदभावस्यासत्त्वप्रसङ्गात् । प्रतियोगिनो विरोधिनः सत्त्वात् । न च तत्र मास्तु समवायारोप्यकघटाभाव इति वाच्यम् । तथा सति समवायेन घटो नास्तीति प्रतीतिविरोधात् । तथा चारोप्यसम्बन्धावच्छिन्नप्रतियो- ग्येवाभावाभावो वाच्य इत्यावश्यकत्वादारोप्यसम्बन्ध एवाभावाभावोऽस्त्विति वदन्ति । अभावाभावस्यारोप्यसम्बन्धरूपत्वे रूपसमवायवति वायौ रूपाभावो न स्यात् । समवायरूपम्याभावाभावस्य सत्त्वादिति दूषणमाहुः । तदभ- व्यम् । विशेषणताविशेषविशिष्टसमवायम्य तत्रारोप्यसम्बन्धत्वात् , तस्य च तत्रा- भावेन रूपाभावसत्त्वाविरोधादिति । इदं तु विचारयामः सम्बन्धमात्रमपि नाभावाभावः । केवलपुरुषे भूतलसंयुक्ते सति दण्ड्यभावो न स्यात् । आरोप्यपुरुषसंयोगस्य सत्त्वात् । तथा च प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकारोप्यसम्बन्धो वाच्यः । तथा च विनिगमनाविरहेणारोप्यसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्न एवाभावा- भावोऽस्तु । न चान्योन्याभावाभावत्वं तादात्म्यरूपारोप्यसम्बन्धस्य कृप्तमस्तीत्य- न्यत्रापि तथैव कल्प्यत इति वाच्यम् । तत्रापि तादात्म्यावच्छिन्नप्रतियोगिन एव तथात्वात् । किञ्चारोप्यसम्बन्धस्य विरोधनिर्वाहकत्वं, न तु प्रतियोगिकोटि- तत्र नव्याः mony २० मणिसारानुमानखण्डे , प्रदेशोऽपि । अन्यथा समवायावच्छिन्नाकाशाभावाभावस्याकाशसमवायस्य समया- यावच्छिन्नाकाशस्य वाप्रसिद्ध्यापातात् । अपि च , यो यदभावः स तदभाव इति व्याप्त्या प्रतियोग्येवाभावाभावः, न त्वारोप्यसम्बन्धः । प्रतियोगिनश्वारोप्यसम्ब- न्धेन (सह ? )अभावविरोध इत्येकसम्बन्धेन प्रतियोगिसत्त्वे तदन्यसम्बन्धेन तद- भावो न विरुद्धः । तस्मादभावाभावः प्रतियोग्यवेति संयोगाभावाकाशाभावादे- रपि संयोगाकाशादिरूपाभावप्रतियोगित्वाढत्यन्ताभावाप्रतियोगित्वं केवलान्वयिल- क्षणमनुपपन्नामिति । अत्र मणिकृतः ---- वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । आ. काशश्च न वृत्तिमानिति नाकाशाभावाव्याप्तिरित्याहुः । नन्विदमनुपपन्नम् । वृत्ति- मत्यदे दत्तेऽप्याकाशाभावाव्याप्तिस्तदवस्था । इदानीमाकाश इति प्रतीत्याकाश- स्यापि वृत्तिमत्त्वात् संयोगेनाकाशस्य भूतलादिवृत्तित्वाच्च । एवं संयोगाभावेऽप्य- व्याप्तिः, संयोगरूपाभावप्रतियोगित्वात् , संयोगस्य च वृत्तिमत्त्वादिति चेद् , न। स्ववृत्तिविरोधिवृत्तरेव वृत्तिपदेन विवक्षितत्वात् । भवति च स्वरूपसम्बन्धाद्यव- च्छिन्नाकाशवृत्तिः समवायावच्छिन्नाकाशाभावाविरोधिनीति विशिष्टाभावसत्त्वान्ना- व्याप्तिः । अत एव संयोगाभावेऽपि नाव्याप्तिः, संयोगवृत्तेः संयोगाभाववृत्त्यविरो- धित्वात् । न चैवं वृत्तिमत्पदमव्याप्तिवारकतया भागासिद्धिवारकत्वाद् व्यर्थम् । विशिष्टाभावतया सार्थकत्वादित्येके । अव्याप्तिवारकस्यापि व्यवहारे साध्ये प्रसि- द्धिवारकतया व्याप्तिग्रहोपाधिकवादित्यन्ये । वस्तुतोऽत्यन्ताभावाप्रतियोगित्वापे- क्षया वृत्तिमदत्यन्ताभावाप्रतियोगित्वमधिकदेशवृत्तीति प्रमाविषयत्ववद् विकासक- विशेपणत्वान्न व्यर्थतेति प्रत्यक्षमणिसारे विवेचितम् । मिश्रास्तु-वृत्तिमदिति विशेषणं नाव्याप्तिवारकं , किन्त्वप्रसिद्धिवार- कम् । तथाहि -- मेयत्वादेरपि समवायसम्बन्धारोप्यकात्यन्ताभावप्रतियोगित्व- सत्त्वादत्यन्ताभावाप्रतियोगिनोऽप्रसिद्धिरेव । न च मेयत्वस्य सर्वत्र सत्त्वात् कथं तदत्यन्ताभाव इति वाच्यम् । समवायसम्बन्धेन तस्य क्वाप्यसत्त्वात् । तेन सम्ब- न्धेन तदभावस्य सर्वत्र सत्त्वात् । प्रतियोग्यवृत्तिसम्बन्धावच्छिन्नाभावस्य केवलान्व- यित्वात् । न चैवं व्यधिकरणधर्मावच्छिन्नाभावाभ्युपगमापातः । प्रतियोगिताव्य- धिकरणस्य तदवच्छेदकत्वानगीकारात् । आरोप्यसम्बन्धत्वाङ्गीकारे बाधकामा- वात् । प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिनोऽप्रसिद्धतया ज्ञानासम्भवेन व्यधि.

केवलान्वयिवादः। करणधर्मावच्छिन्नाभावानङ्गीकारः । इह त्वारोप्यसम्बन्धस्य न ज्ञानमपेक्षितं , येन व्यधिकरणसम्बन्धावच्छिन्नाभावोऽपि न स्यात् । संसर्गस्य सर्वत्राप्रसिद्धम्यैवारो- प्यत्वादिति वदन्ति । अत्र शङ्कयते आकाशसमवायस्याप्रसिद्धस्य कथमारीपः । भूतलादी च घटादिसंयोगोऽन्यत्र प्रसिद्ध एवारोप्यते । किञ्चाहार्योऽयमारोपः। स चाहरण. साध्यः । न चेच्छात्मकं तदज्ञाते सम्भवतीति न समवायसम्बन्धावच्छिन्नाकाशा- । द्यारोप इति । .. अत्र प्रतिभाति---घटसंयोगमात्रं नारोपविषयः , किन्तु भूतले घटसंयोगः स च पूर्वाप्रसिद्ध एव । अप्रसिद्धावपि तस्यारोपे प्रमायां वा कापि नापेक्षा । संस- र्गप्रसिद्धेरनगत्वात् । न च संसर्गप्रसिद्धरनङ्गत्वेऽप्याकाशसमवायस्यालीकम्य कथमा. रोप इति वाच्यम् । आकाशस्यैव समवायलक्षणसम्बन्धेनारोप्यत्वात् । आकाशस्य समवायस्य च सत्त्वेनालीकत्वाभावात् । अत एव किञ्चेत्यपास्तं , संसर्गज्ञानस्ये- च्छायां तन्त्रत्वाभावात् । अन्यथा मुखत्वप्रकारकज्ञानानन्तरं मम सुखमस्त्वि- तीच्छा न स्यात् , सुखसमवायस्य पूर्वमज्ञानादिति । वस्तुतोऽन्योन्याभावप्रतियो- गितानवच्छेदकत्वं केवलान्वयित्वम् । घटाद्यवच्छिन्नान्योन्याभाववन्मेयत्वाद्यवच्छि- नान्योन्याभावाभावादिति न काप्यव्याप्तिरिति तत्त्वम् । वयं तु--- एकजातीयसम्बन्वेन सर्ववृत्तित्वं केवलान्वयित्वम् । अस्ति च मेयत्वादस्तात्वं , स्वरूपसम्बन्धेन जगवृत्तिस्यात् । घटादेतु न तथात्वं , कचित् संयोगेन कचित् समवायेन कचित् स्वरूपसम्बन्धेन वृत्तः । न चैवं घटाभावस्यापि जगदृत्तित्वात् केवलान्वयित्वापातः । कपालादावधि सम्बन्धान्तरेण तदभावनियमा- दिति वाच्यम् । घटाभावत्वादिना केवलान्वयित्वस्येष्टत्वात् । संयोगाद्यवच्छिन्नघ- टाभावत्वादिना त्यतथात्वं , भूतलादाववृत्तेरिति ब्रूमः । ननु प्रमेयत्वं कथं केवलान्वयि, प्रमाविषयत्वरूपस्य तत्य प्रमातद्विपयत्य- यारननुगमेनाननुगतत्वादिति चेद्, न । प्रमालेनोपस्थिताः प्रमाव्यक्तय स्तद्धि षयत्वानुगमिका इति प्राञ्चः । तत्र शेयते-प्रमात्वमपि यत्तद्गर्भवेनाननुगतं कथं प्रमाव्यक्त्यनुगमक- मस्तु । किञ्च, विशेप्यतावच्छेदकं यद्येकं तदा परं विशेषणानुगमेनानुगमस्वीका- रः । अन्यथा देवदत्तयज्ञदत्तौ छत्रिणावित्यत्रापि छत्रित्वेनोभयानुगमप्रसङ्गात् । तथा च विषयत्वानुगमः कथं प्रमात्यानुगतप्रमयेनि ।

माणसारानुमानखण्डे । अत्र प्रतिभाति - अचेतनाविकरणक(?)प्रमापदवृत्तिनिमित्तत्वेन प्रमात्व- स्यानु गमेनाबदोषनिरासः । किश्चेत्यपि न । समासेनैकपदत्वे विशेषणानुगमे तन्नि- रूप्यस्याननुगतस्याप्यनुगमाङ्गीकारात् । अत एव छत्रिगमनमित्यादौ छत्रत्वेनानु- गत छत्रं गमनमनुगम(ये? य)त्येव । कथमन्यथा गन्धवत्त्वाद्युपाधीनामप्यनुगमः , गन्धादेरनेकत्वात् । यदि च गन्धत्वेनानुगमस्तदा प्रकृतेऽपि तुल्यम् । किञ्च, विष- यत्वमपि ज्ञानमेव । तत्र च ज्ञानत्वमेवानुगमकमिति नानुपपत्तिः । वस्तुत ईश्वर- प्रमाविषयत्वमेव प्रमेयत्वं , तस्या एकत्वेनाननुगमाभावात् । किं बहुना , सर्वभि- त्याद्यस्मदादिप्रमाविषयत्वस्यापि तथात्वे दोषगन्धाभावात् । यत्तु-घटत्वादिट्ट- ष्टान्तेन प्रमेयत्वादीनामपि धर्मत्वेन हेतुनात्यन्ताभावप्रतियोगित्वमनुमीयत इति के वलान्वयिधर्म एव नेति । तन्न । धर्मत्वस्यापि केवलान्वयितया तेनाकेवलान्वयि- त्वस्य व्याघातेन साधनासम्भवात् प्रमाविषयत्वाभावेऽसत्त्वापत्त्यानुमानस्य बाधित- त्वाच । ईश्वरप्रमाया धर्मिग्राहकादेव जगद्विषयत्वसिद्धया तद्विषयत्वाभावाय सा- धयितुमशक्यत्वाच । केचित् तु --- अत्यन्ताभावप्रतियोगित्वमत्यन्ताभावप्रतियोगि , न वा । आये यनिष्ठात्यन्ताभावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं , तत्यैवात्यन्ताभावाप्रति- योगित्वेन केवलान्वयितया तत्रैव धर्मत्वस्य हेतोर्व्यभिचारः । अन्त्येऽत्यन्ताभाव- प्रतियोगित्त्र एवं व्यभिचार इति नेदमनुमानं सम्भवतीत्याहुः । इति केवलान्वयिवादः। अथ व्यतिरकिग्रन्थः। Mubihave केवलव्यतिरेकि तु व्यतिरेकसहचारग्राह्यव्याप्तिक इति मणिकृतः । तत्र शङ्कयते अन्वयव्यतिरेकिणि लक्षणमिदमतिव्याप्तम् । न च व्यतिरेकसहचार- मात्रग्राह्यव्याप्तिकत्वं तदर्थः । अन्वयव्यतिरोकिण्यपि कदाचिद् व्यतिरेकसहचार- मात्रेण व्याप्तिग्रहात् । न च तदा स केवलव्यतिरेक्येवेति वाच्यम् । तथा सति यो यदा व्यतिरेकसहचारमात्रग्राबव्याप्तिकः, स तदा केवलव्यतिरेकीत्यर्थः पर्यव- स्यति । तथा चायं संयोगाभाववान् विभागाभाववत्त्वादित्यत्र व्यतिरेकव्याप्तिग्रह- व्यतिरेकिग्रन्थः । ९३ काले व्यतिकित्वप्रसङ्गः । न चेष्टापत्तिः । तदा तस्य केवलव्यतिरेकित्वादेवेति वाच्यम् । केवलान्वयिसाध्यकत्वेन केवलान्वयितया तद्विरुद्धकेवलव्यतिरेकित्वायो- गादिति । अत्र प्रतिभाति ---- केवलान्वयिभिन्नत्वे सति केवलव्यतिरेकसहचारग्राह्य- व्याप्तिकत्वं यस्य यदा, स तदा केवलव्यतिरेकी । संयोगाभावसाध्यकं च केव- लान्वय्येवेति न तत्रातिप्रसङ्गः । न च केवलव्यतिरेकिभिन्नत्वे सति केवलान्वयिसा- ध्यकत्वमेव केवलान्वयित्वमस्त्विति संयोगाभावसाध्यकः केवलव्यतिरेक्येवास्त्विति वाच्यम् । अन्वयसह चारमात्रेण व्याप्तिग्रहदशायां तस्य तदा केवलव्यतिरेकसह- चारमात्रग्राह्यव्याप्तिकत्वाभावेन केवलव्यतिरेकित्वासम्भवेन केवलान्वयित्वस्यावश्यं वाच्यतया केवलव्यतिरेकिभिन्नत्वघटितलक्षणायोगादव्याप्तिः । अन्योन्याभावस्य तद्वत्यभावात् । न च तदातनकेवलव्यतिरेकिभिन्नत्वमर्थः । तच्चान्वयसहचारमात्र- प्रायव्याप्तिकतादशायामन्त्येवेति नाव्याप्तिरिति वाच्यम् । एतदपेक्षया केवलान्व- यिभिन्नत्वस्यैव लघुतथा व्यतिरेकिलक्षणे प्रवेशौचित्यात् । तदातनत्वस्य तत्राप्रवे- शात् । एवं सति केवलान्वयित्वकेवलव्यतिरैकित्वयार्न सङ्करशङ्कापीति युक्तमु- त्पश्यामः । अन्वयव्यतिरकित्वं तु अन्वयव्यतिरेकोभयसहचारग्राह्यव्याप्तिकत्वमिति सर्व । तदापि चिन्त्यते--- प्रत्येकमन्वयो व्यतिरेकश्च यत्र व्याप्तिग्राहकस्तत्त्वमि- त्य वा मिलितो यत्र तद्राहकावित्यथ वाभिमतः । नाद्यः । केवलान्वयिनि केवलव्यतिरेकिणि चातिव्याप्तेः । नान्त्यः । वह्निसाध्यकेऽन्वयसहचारमात्रेण व्याप्तिग्रहदशायां तुरीयतापत्तेः । केवलान्वयित्वस्य केवलव्यतिरेकित्वस्य वा लक्षणाभावादिति । केवलान्वयिभिन्नत्वे सति केवलव्यतिरे(कि ? क)सहचाराग्रा- ह्यव्याप्तिकत्वदशावर्तित्वमन्वयव्यतिरेकित्वम् । इदं लक्षणं च केवलमन्वयसहचा- रेण सहचाराभ्यां (वा) व्याप्तिग्रहदशायामस्तीति न कोऽपि दोषः । इदं त्ववधेयं - केवलव्यतिरेकित्वान्वयव्यतिरेकित्वयोः कालभेदेन सङ्क- रोऽस्त्येव । केवलान्वयित्वस्य केनापि सङ्करो नेति दिक् । ननु व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वेनानुमितौ हेतुत्वाद् व्यतिरेकिस्थले व्याप्तिपक्षधर्मताज्ञानयोः व्यतिरेकान्वयविषयकत्येन भिन्नविषयकत्वनियमात् कथ- अत्र ब्रूमः मणिसारानुमानखण्डे मनुमितिरिति चेद्, न । व्यतिरेकसहचारेणान्वयव्याप्तिग्रहणाद् व्याप्तिविशिष्ट- पक्षधर्मताधीसम्भवात् । न चान्यसहचारात् कथमन्यव्यातिधीरिति वाच्यम् । प्रतियोग्यनुयोगिभावस्य नियामकत्वाद् । यहा, व्यतिरेकसहचाराद् व्यतिरेक- व्याप्तिधीरेव । न चैवं परामर्शाभावादनुमित्यनुदयापातः । व्याप्तिज्ञानस्यानुमिति- त्वावच्छेदेन हेतुत्वाद् अन्वय्यनुमितौ परामर्शस्य व्यतिरेक्यनुभितौ साध्याभाव- व्यापकाभावप्रतियोगित्वज्ञानस्य विशेषसामग्रीत्वादिति मणिकृतः । अत्र वदन्ति व्यतिरेकसहचारादन्वयव्याप्तिधीः कथम् , अधिकरणा- द्यसन्निकर्षात् । न च यत्राधिकरणादिसन्निकर्षस्तत्परः प्रथमः पक्षः , अन्यत्र तु द्वितीयः पक्ष इति वाच्यम् । तथाप्यन्वयसहचारव्यतिरेकसहचारयोरननुगमाद् व्याप्ति(त?)ग्राहकत्वानुपपत्तिः । किञ्च, यत्र सहचाराभ्यां मिलित्वा व्याप्तिग्रहस्तत्र प्रत्येकसहचारधीजन्यव्यातिधियोलक्षण्यं वाच्यम् । तच्च विषयकृतं नेति जातिकृत बाच्यम् । तच्च चाक्षुषत्वादिजात्या सङ्करादसम्भवीति । अत्राहुः ---अन्वयव्यतिरेकसहचारयोर्न प्रत्येकं प्रयोजकता, येनोक्तदोषः प्रसज्ज्येत । किन्तु व्यभिचारज्ञानविरोधिसहचारज्ञानत्वेनानुगतेनैवेति नाननुगमो न वा जातिसङ्करोऽपि । नोकदण्डजन्यघटापेक्षया दण्डद्वयजन्यघटस्य वैलक्षण्य- मस्ति । तथा च सहचारद्वयधीजन्यव्याप्तिज्ञाने तथैवेति । यत् त्वत्र दूषणं सह- चारज्ञाने विद्यमानेऽपि वढ्यादौ धूमव्याभिचारज्ञानान्न सहचारज्ञानं तद्धीविरोधीति कथमुक्तक्रमेणानुगम इति । तन्न । खाधिकरणे व्यभिचारीविरोधित्वस्य विवक्षि- तत्वादिति प्रागेवोक्तत्वात् । यथा चैवं नातिप्रसङ्गस्तथा सहचारग्रन्थ एव व्युत्पा- दितम् । अत एव सहचारधीर्व्याप्तिग्रहे विशेषणज्ञानत्वेन हेतुरित कथमविशेष- णीभूतव्यतिरेकसहचारस्यान्वयव्याप्तिग्राहकत्वमिति कस्यचित् प्रलपितमपास्तम् । विरुद्धस्थलीयव्याप्तिश्रमानुरोधेन सहचारधीत्वेनापि हेतुत्वस्य प्राग् व्यवस्थाप- नात् । न चैवमपि स्वसहचारज्ञानत्वेनैव हेतुत्वेऽपि स्वव्यतिरेकसहचारज्ञानस्य हेतुत्वे मानाभाव इति वाच्यम् । स्वसहचारज्ञानस्यैव व्यभिचारज्ञानविरोधिसह- चारज्ञानत्वेन सामान्येन हेतुत्वात् । न च तस्य सामान्यत्वेऽपि स्वसहचारज्ञान- स्वस्य विशेष्यस्य लघुशरीरत्वमिति वाच्यम् । तथा सति प्रमेयत्वादिना स्वसह- चारज्ञानेऽपि व्याप्तिग्रहप्रसङ्गात् । तस्माद् व्यभिचारज्ञानविरोधिसहचारज्ञानं हेतु- वर्वाच्यः । तथा च अतिरेकसहचारस्यान्वयन्याप्तिग्राहकत्वमवर्जनीयमिति दिक् ।

আনন্দ। . द्वितीयपक्षे तु शङ्कयते ---- विशेषसामग्रीद्वयकल्पने मानाभावः । व्यतिरे- कसहचारेण व्यतिरेकव्याप्तिग्रहपक्षेऽपि व्यतिरेकिण्यपि परामर्शस्यैव हेतुत्वसम्भ- वात् । हेतुनिष्टव्यभिचारज्ञानविरोधिव्याप्तिवैशिष्ट्यविषयकपक्षधर्मताज्ञानस्यैव परा- मर्शत्वात् तस्य च सर्वानुमितिसाधारण्यादिति । अत्र मिश्रा: - अन्वयनुमितौ व्यापकतावच्छेदकप्रकारकत्वस्य व्यति- रेक्यनुमिती व्याप्यतावच्छेदकावच्छिन्नाभावत्वप्रकारकत्वस्य चानुभवसिद्धकार्यवै- लक्षण्यस्यान्यथानुपपत्त्या विशेषसामग्रीद्वयमवश्यं कल्प्यमेव । अन्यथा कार्यवैजा- त्यमाकस्मिकं स्यात् । तथा च तत एवातिप्रसङ्गभङ्गे सामान्यसामग्र्यनुगमे माना- भावः । अत एव टीकादौ सर्वत्र नेदं निरात्मकं जीवच्छरीरमिति व्यतिरेकमुखे- नैव व्यतिरेक्युपदर्शनमित्याहुः । तत्रेदं विचार्यते-- एवं सत्यन्वयव्यतिरोकिणि व्यापकतावच्छेदकप्रका- रिका व्याप्यतावच्छेदकावच्छिन्नाभावत्वप्रकारका चैकानुमितिः स्यात् । तथा चानुभवविरोधः । न च व्यतिरे कसहचारात् तत्रान्वयव्याप्तिधीरेव , तत्सामग्रीभू- ताधिकरणसन्निकर्षसत्त्वादिति तत्र व्यापकतावच्छेदकवाहित्यादिप्रकारिकैवानुमितिः, न बढ्यभावाभावत्वादिप्रकारि केति वाच्यम् । व्यतिरेकसहचारस्यान्वयव्यतिरेको भयव्याप्तिमहं प्रति कतकारणभावत्वेनेतरसामग्रीसनवधाने सत्युभयव्याप्तिग्राह- कत्वाविरोधादिति । न चान्वयव्यतिरेकिणि परस्परविरोधेनानुमितिरेव नोभयव्या- प्तिग्रहदशायामिति वाच्यम् । अनुभवविरोधादिति । उभयव्याप्तिग्रहदशायामपि वह्निमानित्याकारानुमितेरेवो- त्पत्त्या लाघवेन वह्नित्वप्रकारकानुमितरेव निश्चयेन तत्सामग्र्या वयभावाभावत्व- प्रकारकानुमितिप्रतिवन्धकता कल्प्यते । प्रतिबन्धकताया मण्यादिवत् प्रतिबन्धैक- कल्प्यत्वात् । यचात्र नव्यैर्दूषणमदायि --- प्रतिज्ञानुमित्योः समानाकारतयेतरभे- दाभावाभावत्वप्रकारकानुमितिसमानाकारा इतरभेदाभावाभाववती पृथिवीति प्र- तिज्ञा स्यान्न वितरभेदवतीति । तदज्ञानात् । व्यतिरेकसहचारादन्वयव्याप्तिग्रहप- क्षे इतरभेदवतीत्याकाराविरोधात् । व्यतिरेकव्याप्तिग्रह पक्षे तु नेदं निरात्मकं जीव- च्छरिमित्येव प्रतिज्ञा कारादिति । यतु व्यतिरेकस्थले व्याप्यतावच्छेदकाव- च्छिन्नाभावत्वप्रकारकानुमितिर्वाच्यैव । अन्यथा यन्त्र भ्रमेण प्रमेयत्वादिव्यतिरेक- ग्रहाद् व्यतिरेकसहचारज्ञानं , तेन व्यतिरेकव्याप्तिग्रहः, तत्र प्रमेयत्वप्रकारकानु- अत्र बेभः Ministenerayne:

मणिसारानुमानखण्डे मितिः स्यात् । न चेष्टापत्तिः । जनकीभूतव्याप्तिज्ञानस्य भ्रमत्वेन प्रमानुमित्यस- म्भवादित्यनुमितिभ्रमत्यनिर्वाहार्थं प्रमेयत्वाभावाभावत्वप्रकारकत्वमनुमितेरङ्गीकार्य- मेवेति । तत्तु न । वह्निमति धूलीपटले धूमभ्रमेण वह्नयनुमितेविषयाबाधेन प्रमा- त्ववत् प्रमेयत्वप्रकारकानुमितेरपि प्रमात्वे बाधकाभावादिति न किञ्चिदेतत् । इदं तु शङ्कयते--व्यतिरेकिाण साध्याभावव्यापकाभावप्रतियोगित्वं न नि- यामकम् । संयोगेन रूपानुमानापातात् , रूपाभावव्यापकसंयोगाभावप्रतियोगित्वात् संयोगस्य । संयोगाभावस्य केवलान्वयितया सर्वव्यापकत्वात् । एवं द्रव्यत्वेन संयोगानुमानं न स्यात् । संयोगाभावान्यापकत्वाद् द्रव्यत्वाभावस्येति । अत्राहुः -प्रतियोगिविरुद्धसाध्याभावव्यापकप्रतियोगिविरुद्धाभावप्रतियो- गित्वं नियामकम् । तथा चाद्याभावविशेषणादव्याप्तेद्वितीयाभावविशेषणादतिव्या- तेश्च निरास इति । अत्रेदं चिन्त्यते-- एवं सत्ययं संयोगविशेषाभाववान् विभागविशेषा- भाववत्त्वादित्यत्र व्यतिरेकव्याप्तिग्रहदशायामनुमितिर्न स्यात् । साध्याभावहेत्व- भावयोः संयोगविभागरूपयोः प्रतियोगिविरुद्धत्वाभावादिति । अत्र कश्चित् -- तत्रानुमितिर्न भवत्येव , उक्तहे (तु.)त्वसंभवादिति । तत् तुच्छम् । निर्वचनासामर्थ्यमात्रेणैवानुभवापलापस्य बालप्रलापत्वादिति । संयोगाभावसाध्यकस्य केवलान्वयित्वेन तत्र व्यतिरे कसह- चारादन्वयव्याप्तिग्रह इत्येव वाच्यम् । तथा च तत्र परामर्श एवं हेतुः, न तू- क्तं, तस्य व्यतिरेकसाध्यकानुमितावेव हेतुत्वात् । यद्वा, यत्राव्याप्यवृत्तितानियता- भावप्रतियोग साध्यं हेतुर्वा, तत्र प्रतियोगिविरुद्धत्वं न विशेषणम् । अनतिप्रस- ङ्गालाघवाच । सकलसाधारणैकनियामकस्य ब्रह्मणापि वक्तुमशक्यत्वादिति । इदं तु विचारणीयं-किं वस्तुगत्या साध्याभावव्यापकत्वज्ञानमुपयोगि , उत साध्याभावत्वेन ज्ञायमानस्य व्यापकताज्ञानं वा । नाद्यः । यत्र पटादौ घटा- भावत्वमारोप्य तव्यापकतया लोष्टत्वादि गृहीतं , तत्र लोष्टत्वाद्यभावेन घटाननुमा- नापातात् । नान्त्यः । अप्रसिद्धसाध्यकाव्याप्तेः, तत्र साध्याप्रसिद्ध्या तदभावत्वेन ज्ञानासम्भवात् । एवं हेत्वभावेऽपि विकल्पनीयमिति । अत्र ब्रूमः Mamiti व्यतिरोकिग्रन्थः । अत्रायं समाधिः यद्रूपावच्छिन्नव्यापकतया यद्रूपावच्छिन्नं ज्ञायते , तद्रूपावच्छिन्नाभावत्वप्रकारिका तद्रूपावच्छिन्नोपस्थितिकाभावज्ञानादनुमितिः । अ- स्ति चैतदप्रसिद्धसाध्यकेऽपि । अप्रामाण्यत्वेनोपस्थिताप्रामाण्यव्यापकताज्ञानात् त- दभावत्वेनानुमितेरारोपस्थलेऽप्युक्तमन्त्येवेति न काचिदनुपपत्तिः । अधिकं च प्रत्यक्षमणिसारे सुव्यक्तमिति नेह तन्यते । इदं त्ववधेयं-व्यतिरेकिणि व्यतिरेकव्याप्तिग्रहपक्षे पक्षतावच्छेदकस्य हेतुत्वे दोष एव ना(स्ति ? स्तीति) पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यनु- मानमविरुद्धम् । अन्वयव्याप्तिग्रहपक्षेऽपि नानुपपत्तिः । पृथिवीत्वमितरभेदव्याप्य- मिति ज्ञानेऽपि पृथिवीविशेष्यकेतराविशेषणेतरभेदविशेषणकज्ञानस्योद्देश्यस्याभावेन पक्षतावच्छेदकहेत्वभेदनिबन्धनसिद्धसाधनानवकाशात् । अनुमितिसमानाकारसि. ढेरेव प्रतिबन्धकत्वात् । व्याप्तिबुद्धौ पृथिवीत्वस्य विशेष्यत्वात् । इतरभेदस्य सामानाधिकरण्यविशेषणतया भानाच्चानुमितिसमानाकारताविरहात् । अस्तु वा समानविषयसिद्धिमानं प्रतिबन्धकम् । तथापि पृथिवीविशेष्यकेतरभेदाविशेषण कसि- ढेरुद्देश्याया असिद्धत्वात् सिसाधयिषागर्भपक्षतासत्त्वमस्तीति नानुपपत्तिः । प्राञ्च- स्तु-गन्धवत्त्वमेव पक्षतावच्छेदकं , न पृथिवीत्वमिति नोक्तदोष इत्याहुः । ननु पृथिवी इतरेभ्यो भिद्यते इत्यादिव्यतिरेकिणि साध्याप्रसिद्धया पक्ष- ताघटकसंशयसाध्यरूपविशेषणज्ञानान्वयव्यतिरेकान्यतरव्याप्तिज्ञानात्मकानुमितिप्र- योजकानामभावात् कथं सेति चेत् । अत्र काश्चिद् --- इतराप्रतियोगिकभेदाभाव एव साध्यः । इतराप्रतियोगिकभेदस्य घटभेदस्याभावो घट एव प्रसिद्धः । स च पृथिवीत्वावच्छेदेन सिध्यन्नेक एव सिध्यतीति न तत्तत्पृथिव्यां स्वबभेदाभावमा- दाय सिद्धसाधनम् । न चैवमुक्तो विशिष्टाभावः सिध्यतु , न वितरभेद इति वाच्यम् । भेदरूपविशेष्यवति विशिष्टाभावस्येतराप्रतियोगित्वरूपविशेषणाभावमा- दाय सिद्धयेतरभेदसिद्धिरिति । तन्न । एवमपि विशिष्टाभावत्वप्रकारिकानुमितिः स्याद्, न वितरभेद(त्व)प्रकारिकेति । अत्र प्राञ्चः -- पृथिव्यामेव साध्यप्रसिद्धिः । पृथिवी जलभिन्ना न वेत्या- दित्रयोदशकोटिकैकसंशयेन तस्यां त्रयोदशभेदावगतेः । न चैवं पक्ष एव साध्यप्र- सिद्धया सिद्धसाधनम् । निश्चयार्थं व्यतिरेकि प्रवृत्तेः । अन्यथा पक्षे साध्यसन्देह- स्य सर्वत्र सत्त्वेनानुमानमात्रविलयापातादित्याहुः । m. 13 मणिसारानुमानखण्डे तत्र मणिकृतः --- साध्यनिश्चये सति साध्यव्यतिरेकनिश्चयो भवति । त- संशये तु तत्संशयस्यैवोत्पत्तेर्न व्यतिरेकव्याप्तिनिश्चयः सम्भवति । संशयरूपसा- ध्यप्रसिद्धयभिधानं शिष्य(*यन्धन ?)मात्रमिति वदन्ति । अनोपाध्यायाः --- अभावज्ञानं प्रति लाघवात् प्रतियोगिज्ञानत्वेन हेतुता, न तु तन्निश्चयत्वेन । तथा च भेदसमुदायस्य पृथिव्यां सन्दिग्धस्य जलादौ व्यति- रेकनिश्चये बाधकामावः । किञ्च , जलं जलादित्रयोदशान्योन्या (भावा)भाववत् तदेकदेशस्वभेदाभाववत्त्वात् यद्यदेकदेशाभाववत् तत्तत् समुदायाभाववदिति सा मान्यतो व्याप्तिरिति व्यतिरेकव्याप्तिधीरानुमानिकी सम्भवत्येवेति संशयरूपसाध्य- प्रसिद्धौ शिष्यबन्धनत्वाभिधानं शिष्ययन्धनमित्यवोचन् । तत्र मिश्राः --- साध्यनिश्चयं विना योग्यानुपलम्भाभावेनाभावनिश्चय एव न सम्भवति । प्रतियोगिनिश्चायकसमवधानस्यात्र योग्यानुपलम्भसम्पादकत्वात् । तन्निश्चयाप्रसिद्धौ निश्चायकस्याप्यप्रसिद्धेर्योन्यानुपलम्भासम्भव एवेति न व्यतिरे- कच्यातिनिश्चयः । तथा च संशयरूपसाध्यप्रसिद्धौ शिष्ययन्धनत्वाभिधाने शिष्य. यन्धनत्वाभिधानं स्वस्यैव शिप्ययन्धनमिति । किञ्चेत्यप्यसत् । यत्तभ्यामनुगत- व्याप्यतावच्छेदकव्यापकतावच्छेदकपुरस्कारं विना व्याप्तिग्रहाभावादित्याहुः । अत्रेदं विचारणीयं-- योग्यानुपलब्धिः स्वरूपसती हेतुः न ज्ञाता । तथा चेदानी ननिश्चयागसिद्धावप्यग्रे भा(व? वि)निश्चयमादाय निश्चायकसमवधानगर्भा- नुपलब्धिः साध्यसंशयदशायामप्यस्तीति कथं न जलादी साध्याभावग्रह इति संश- यरू पसाध्यप्रसिद्धयभिधानमाचार्याणां न शिष्ययन्धनमिति तत्र शिष्ययन्धनत्वा- रोप एव महतामनुचित इति । आचार्यमते व्यतिरेकसहचारादन्वयव्याप्तिर्गृह्यते । तच्च पक्षे साध्य संशये सति न भवति , तत्र साध्यसाधनसामानाधिकरण्यसंशयात् । तन्निश्चयस्य च्यातिनिश्चायकत्वादिति । तदनतिकोमलम् । तत्र साध्याभावसहचा- रनिश्चयाय व्यालिनिश्चायकस्य सत्त्वात् । तस्य च जलादावुक्तक्रमेण भावात् । न हि व्यतिरेकसहचारेण व्याप्तिग्रहस्थले साध्यसाधनसहचारनिश्चयस्तन्त्रामिति कोऽपि PLAINALISAR 'यन्धन' इत्यस्य स्थाने 'यन्त्रण' इति वा 'बन्धन' इति वा पठनीयं भाति ।

व्यतिरोकिग्रन्थः। ब्रूते । अथायमाशयः साध्यसाधनसामानाधिकरण्यसंशयः प्रतिबन्धक इति । तदपि न । ग्राह्यसंशयस्याप्रतिबन्धकत्वात् । केचित् तु-विशिष्टज्ञाने विशेषणनिश्चयत्वेन हेतुता वाच्या । अन्यथा स्थाणुर्वा पुरुषो वेति संशयानन्तरं स्थाणुत्वविशेषणज्ञानात् स्थाणुरिति निश्चयज्ञा- नापातात् । तथा च प्रतियोगिनोऽप्यभावविशेषणतया तनिश्चयं बिना नामावनि- श्चय इति संशयरूपसाध्यप्रसिद्धिरकिञ्चित्करीति । तदप्यमव्यम् । संशवोत्तरं स्थाणुरिति विशिष्टप्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तन्ननुत्पादात् । तत्सत्त्वे चेष्टापादनात् । किञ्चैवं संशयानन्तरं संशयो न स्यात् । निश्चयरूपविशे- षणज्ञानाभावात् । गौडास्तु-पृथिव्यां तदितरभेदसंशये कथं व्यतिरोकिमवृत्तिः , हेतोः साध्याभावसामानाधिकरण्यात्मकव्यभिचारसंशयात् । न चानुमानमानोच्छेदकतया हेतुमति साध्यसंशयो न विरोधीति वाच्यम् । व्यापकाभाववत्तमा निश्चिो व्या प्यसंशयात्मकव्यभिचारसंशयस्य सन्दिग्धानकान्तिकतानुरोधेन प्रतिबन्धकल्लाजी- कारात् प्रकृतेऽपि पृथिवीत्वाभावरूपव्यापकाभाववत्तया निश्चयादितरभेदाभावरूप- व्याप्यसंशयस्यावश्यं प्रतिबन्धकत्वात् । तथा च संशयरूपसाध्यप्रसिद्धिर्न तनं, प्रत्युत विरोधिनीति वदन्ति । तदपि न भद्रम् । भवत्येवं , तथापि व्यतिरेकन्या- प्तिर्मा गृह्यतां, तत्रोक्तव्यभिचारसंशयस्य प्रतिबन्धकत्वात् । आचार्यास्तु व्यतिरे- कसहचारादन्वयव्याप्तिग्रहं वदन्तो नैवं पर्यनुयोज्याः, निरनुयोज्यानुयोगप्रस- ङ्गात् । तस्मान्मात्सर्यमुत्सार्य सम्यग् विचारणीयमेतत् सूरिभिरिति । मणिकृतस्तु-नेह साध्याप्रसिद्धिः। घटादावेवेतरभेदस्य प्रत्यक्षसिद्ध- त्वात् । घटो न जलादिरिति प्रतीतेः । न चेतराकाशादेरयोग्यतया कथं तझेदः प्रत्यक्ष इति वाच्यम् । अयोग्यप्रतियोगित्वेऽपि योग्यानुपलब्धिसत्त्वेन ब्रहणसम्भ- वात् । प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकानुपलब्धेरेव तत्त्वात् । तस्याश्चा- त्रापि घटो यदि तत् स्यात् , तत्तयोपल(भे?भ्ये )तेत्यादिना सत्त्वात् । अत एवं स्तम्भे पिशाचान्योन्याभावः प्रत्यक्षः । न चैवं सिद्धसाधनं, घटस्यापि पक्षतया तत्र साध्यस्य सिद्धत्वादिति वाच्यम् । एकदेशे साध्यसिद्धावपि सर्वा पृथिवी इतर- मिन्नेत्युद्देश्यप्रतीत्यभावेन सिद्धसाधनानवकाशात् । पक्षतावच्छेदकनानात्व एवां- शतः सिद्धसाधनात् । अत एवानित्ये वाङ्मनसे इत्यत्र अनित्या वागिति सिद्धेरुद्दे.

१०० मणिसारानुमानखण्डे meaniacter श्यायाः सिद्धावंशतः सिद्धसाधनम् । न च घटे साध्यनिश्चयात् संशयगर्भपक्ष- ताविरहः । घटत्वेन संशयाभावेऽपि पृथिवीत्वेन तस्य साध्यसंशयसम्भवात् । समानप्रकारकनिश्चयस्य तादृशसंशयप्रतिबन्धकत्वात् । यद्वा , घटादिभिन्नपृथि- वीत्वेन पातेति न काप्यनुपपत्तिरित्याहुः । अत्र वदन्ति --उक्तानुपलब्धेरभावग्राहकत्वे वायावुद्भूतरूपवदन्योन्या- भावस्यापि रूपात्यन्ताभाववत् प्रत्यक्षतापातः, घटे मनस्त्वात्यन्ताभावप्रत्यक्षता- पातश्च , उद्धृतरूपपरमाणौ महत्त्वाभावप्रत्यक्षतापातश्च । यदि वायुरुद्भूतरूप- वान् स्याद् उपलभ्यतेत्यादिना , घटे यदि मनस्त्वं स्याद् घटत्ववद् योग्यवृत्ति- जातितया गृह्यतेत्यादिना , उद्धृतरूपपरमाणौ यदि महत्त्वं स्यादवश्यं गृह्येते. त्यादिनोपलम्भापादनसम्भवादिति । अत्र मिश्राः तेऽप्यभावाः प्रत्यक्षा एव । उक्तयोग्यानुपलब्धिविषया- भावत्वेनैव योग्यत्वात् । योग्यानुपलब्धेः सहकारित्वेऽप्युद्भूतरूपादेरालोकसहका- रिणतन्त्रावच्छेदकत्ववत् तत्सम्भवात् । यद्वा , यत्र यत्सत्त्वं तर्कितं यदुपल- म्भापादकं, तत्रातियोगिकाभावन्तत्र योग्य इति नानुपलब्धेरवच्छेदकताप्रसङ्ग इत्याहुः । उपाध्यायास्तु घटे मनस्त्वाभावल्य वायौ रूपवदन्योन्याभावस्य उ. द्भूतरूपपरमाणौ महद्भेदस्य च योग्यानुपलब्धिरूपग्राहकसत्त्वेऽपि योग्यताविर- हान्न ग्रहः । संसर्गाभावे योग्यप्रतियोगित्वस्यान्योन्याभावे योग्याधिकरणत्वस्य योग्यतावच्छेदकत्वात् । फलानुरोधात् तथा कल्पनादित्याहुः । अत्र यथानुभवं व्यवस्था द्रष्टव्या । वस्तुतस्तूपाध्यायमतेऽप्युद्भुतरूपपरमाणौ महत्त्वाभावग्रहः किं न स्यात् । तत्र चेष्टापत्तौ किमपराद्धं महद्भेदेनेति मिश्रमतमेव सम्यक् । अनु- पलब्धिस्वरूपं च प्रत्यक्षमाणिसार एव विवेचितमिति नेह विविच्यते । नन्वाकाशभेदेऽपि घटस्यात्राकाशत्वमुपलभ्यतेत्यापादनं न सम्भवति, आकाशत्वस्यायोग्यत्वात् । तथा च कथमाकाशभेदो घटादौ योग्यानुपलब्धि- प्रायः । न चाकाशत्वस्य योग्यव्यक्तिवृत्तित्वेन योग्यताप्यापाद्यैवेति वाच्यम् | गुरुत्वे व्यभिचारात् । जातित्वे सतीति विशेषणे चासिद्धेः । तस्य जातित्वाभा- यात् । तथा चोक्तानुपलब्ध्यसम्भव एवेति चेत् । अत्र मिश्राः -आकाश- (त्व)न्य जातित्वे खल्वेकव्यक्तिवृत्तित्वमेव बाधकम् । तच्च बटाभेदापादने गतमेव | व्यतिरेकिग्रन्थः। तथा सति घटेऽप्याकाशत्वसत्त्वगमनादिति योग्यव्यक्तिवृत्तिजातितयोपलम्भापादनं तस्य घटे कर्तुं शक्यत एवेति कथं तद्भेदो न प्रत्यक्षः । एवं घटे यदि विशेष- (त्वंवत्त्वं) स्याद् , ऐन्द्रियकवृत्ति स्यात् । तथा च प्रत्यक्षं स्यात् । अतीन्द्रि- यमात्रवृत्तित्वेनैव तस्यायोग्यत्वादिति विशेषादिविरहोऽपि प्रत्यक्ष इति वदन्ति । अत्र शङ्कयते - यद्यापादितयोग्यतया उपलम्भापादनेनाभावः प्रत्यक्षः , तदा घटेऽणुपरिमाणाभावज्ञानापातः । अणुपरिमाणं यदि घटवृत्ति स्यात् , तदा योग्यवृत्तिपरिमाणत्वेन योग्यं स्यात् । तथा च गृह्यतेत्यापादनसम्भवादिति । अत्र ब्रूमः -- यदधिकरणे आपाद्यमानं तस्यायोग्यतां नापादयति , तत्र तदभावो योग्यानुपलब्धिाह्यः । अणुपरिमाणं च घटे आपाद्यमानं तस्यायोग्यता- मेवापादयति, अणुपरिमाणवत्त्वेनैवायोग्यत्वात्। पिशाचत्वाकाशत्वादिकं च जाति- रूपतयापाद्यमानमधिकरणयोग्यतान्तर्भूतयोग्यताकं न योग्याधिकरणे घटादावयो. ग्यतामापादयतीति तदत्यन्ताभावस्तद्वदन्योन्याभावो वा भवत्येव प्रत्यक्षः । अत एव यत्र प्रतियोग्यधिकरणयोरन्यतरस्मिन्नन्यतरसंसर्ग आपाद्यमानोऽन्यतरस्मिन् नायोग्यतामापादयति , तत्र तदधिकरणे तदभावः प्रत्यक्षो योग्यानुपलब्ध्या भव- त्येवेति योग्यानुपलब्ध्यर्थः । अर्थान्तरस्य निर्वस्तुमशक्तेः । अत एव वायावुद्भूत- रूपसंसर्ग आपाद्यमानस्तत्र योग्यतामेवापादयति , उद्भूतरूपवत्त्वेनैव बहिर्द्रव्यस्य योग्यतावत्त्वादिति तदभावः प्रत्यक्ष एव । अत एव च स्तम्भेऽपि पिशाचत्वसंस- आपाद्यमानस्तत्र नायोग्यतामापादयति , व्यक्तियोग्यतायां जातियोग्यताया अ- तन्त्रत्वात् । प्रत्युत व्यक्तियोग्यतया तत्र पिशाचत्वस्यैव योग्यतापाद्यत इति तद. त्यन्ताभावस्तद्वदन्योन्याभावो वा घटादौ प्रत्यक्ष इति किमधिकं पल्लवेनेति । यद्वा, आकाशत्वादिनाकाशभेदज्ञानाभावेऽपि पृथिवीतरत्वस्य पृथिव्यन्योन्याभाववत्त्वस्य योग्यतया तेन रूपेणोपलम्भापादनसम्भवात् तेन रूपेण भेदज्ञाने बाधकाभावः । येन रूपेण यत्र यदुपलम्भापादनं , तद्रूपावच्छिन्नतदभावस्य तत्र सामग्रीसत्त्वेन प्रत्यक्षत्वात् । अत एव घटो न रूपमित्यादिसर्वसाक्षिकः प्रत्ययः । अन्यथा रूपत्वावच्छिन्नाभावस्यातीन्द्रियप्रतियोगिकतयाप्रत्यक्षत्वापातात् । तस्मादुक्तमेव नियामकमिति । इदं तु ध्येयं-पृथिवी इतरभिन्नत्यत्रेतरत्वेनाभावस्याप्युपस्थितेस्तदन्यो- न्याभावोऽपि साध्यः, न तु तेन सह स्वरूपभेदः । साध्यभेदे मानाभावात् । न 당 , मणिलारानुमानखण्डे च पृथिवीतरत्वं पृथिव्यन्योन्याभाववत्त्वम् । तच नाभावेऽस्ति । अभावप्रतियो- गिकाभावाधिकरणयोरनङ्गीकारादिति वाच्यम् । पृथिवीत्वासामानाधिकरण्यावच्छि. नमेयत्वरूपभावाभावसाधारणाधिकरणतावच्छेदकावच्छिन्नस्याभावाधिकरणस्याप्य- भावस्याङ्गीकारे बाधकाभावात् । किं बहुना, पृथिवीभिन्नसर्वविषयकबुद्धिविषयत्व- रूपभावाभावसाधारणाधिकरणतावच्छेदकावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नत- या जलादिवदभावस्याप्यन्योन्याभावसाधनमप्रत्यूहमेव । युक्तं चैतत् । अभावप्र- तियोगिकोऽभावाधिकरणको वा नाभावोऽभ्युपेयत इत्यत्र क्लप्तप्रतियोगिनैव क्ल- साधिकरणेनैवोपपत्ते तिरिक्तकल्पनमित्येव बीजम् । भावाभावसाधारणधर्मावच्छि- न्नाभावप्रतियोगिकाभावाधिकरणकाभावातिरिक्ताभावस्यानङ्गीकारात् । अभावेन सह (स्व)रूपभेदस्य साध्यत्वादिति मणिकृद्वचनं चाभावप्रतियोगिकाभावानङ्गीकारेऽपि नानुपपत्तिरित्यभिप्रायेणेति । इदं तु विचार्यते-पक्षतावच्छेदकभेद एवांशतः सिद्धसाधनमिति यन्म- णिकृतोक्तं, तन्न सङ्गच्छते । पक्षतावच्छेदकाभेदेऽपि यदि तत्सामानाधिकरण्य- मात्रेण सिद्धिः साध्यम्योद्देश्या , तदैकदेशे साध्यसिध्यानुमितिप्रतिबन्धादंशतः सिद्धसाधनं भवत्येव । पक्षतावच्छेदकभेदेऽपि यदि समूहालम्बनानुमितिरुद्देश्या , तदा अनुमितिरेकपक्षतावच्छेदकावच्छेदेन साध्यसिद्धावप्युत्पद्यत एवेति नांशतः सिद्धसाधनमित्यंशतः सिद्धसाधने पक्षतावच्छेदकभेदो न तन्त्रं, अन्वयव्यतिरे- कव्यभिचारादिति। अत्र मिश्राः-सिसाधयिषागर्भपक्षतामाश्रित्य नायं विचारः , किन्तु सिद्ध्यभावांशमादाय । तत्र च समानप्रकारकसिद्धेः प्रतिबन्धकत्वात् तदभावः पक्षतात्वेन हेतुरिति वाक्त्वप्रकारकानित्यत्वज्ञानस्य जातत्वात् तत्र पक्षता ना- स्तीति तदंशेऽनुमितिप्रतिबन्धादंशतः सिद्धसाधनं पक्षतावच्छेदकभेदाद् भवति । पक्षतावच्छेदकाभेदे तु घटत्वेनेतरभेदज्ञानेऽपि पृथिवीत्वप्रकारकसियभावात् पक्ष- ता न क्षतेति नांशतः सिद्धसाधनमिति वदन्ति । वस्तुतस्तु ---- पृथिवीत्वसामा- नाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे तस्याश्च घटादावेव जाततया सिद्धसाधनमेव , उद्देश्यांशसिद्धेः । अथ पृथिवीत्वावच्छेदेन साध्यसिद्धिरुद्देश्या, तदा तदसिद्धया नांशतः सिद्धसाधनमिति पक्षतावच्छेदकाभेदे उभयथाप्यंशतः सिद्धसाधनं ना- स्त्येव । यत्र तु पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्या , तादृशस्थले पक्षता- , व्यतिकिग्रन्थः। बच्छेदकनानात्वे एकपक्षतावच्छेदकावच्छेदेन सिच्यापरपक्षतावच्छेदकावच्छेदेना- सिद्ध्या भवत्यंशतः सिद्धसाधनमिति पक्षतावच्छेदकनानात्वं तत्र तन्त्रमुक्तं , पक्ष- तावच्छेदकैक्ये सति सिद्धसाधनादेवेति दिक् । यच्चोक्तं मणिकृता-घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वेनेतरभेदसंशयो भविष्यतीति , तत् समानप्रकारकत्वेनैव संशयनिश्चययोः प्रतिबन्धकत्वमभिप्रेत्य । अत एव धूमवत्त्वेन वह्निमत्त्वनिश्चयेऽपि पर्वतत्वेन वह्निसंशय उदाहृतः । यद्यप्येवं सति घटत्वेन निश्चयानन्तरं प्रमेयघटोऽस्ति न वेति संशयापातः, एवं भूतले घट इति ज्ञानानन्तरं घटवद् भूतलं न वेति संशयापातः, निश्चयस्य भिन्नप्रकारकत्वे- नाप्रतिबन्धकत्वात् । तथा च समानविषयकत्वेन प्रतिबन्धकता वाच्या । तथा च पृथिवीत्वेनापि घटे कथमितरभेदसंशयः, घटत्वेन रूपेण तन्निश्चयसत्त्वादिति । तथापि समानविषयकत्वेनापि प्रतिबन्धकताङ्गीकारे घटत्वेन निर्णयानन्तरं नीलघ- टत्वेन संशयो न स्यात् । तस्माद् यद्रूपेण निर्णयस्तद्रूपव्यापकत्वेन गृहीतो यो धर्मस्तदवच्छिन्नत्वेनोपस्थिते न संशय इति वाच्यम् । तथा च यत्र घटत्वव्यापकता पृथिवीत्वस्य न गृहीता, तादृशस्थले पृथिवीत्वेन संशयो भविष्यतीत्येतत्परोऽयं मणिः। अत एवेदंपर्वतत्वेन वह्निनिश्चये पर्वतत्वेन न वह्निसंशय इति सिद्धान्तः। पर्वतत्वस्य इदंपर्वतत्वव्यापकतया ग्रहात् । अत एव यदा पृथिवीत्वे घट(त्व)व्यापक- तापि दैवाद् गृहीता, तत्र कथं पृथिवीत्वेन रूपेण संशय इत्याक्षेपं मनसि निधाय मणिकृता पक्षान्तरमुक्तं यद्वा घटादिभिन्नपृथिवीत्वेन पक्षतेत्यास्तां ग्रन्थविस्तरः। नन्वेवमपि आकाशमितरेभ्यो भिद्यते आकाशवादित्यादिव्यतिरेकिणि सा- ध्याप्रसिद्धिर्नोद्धृतैव । नहि पृथिव्येकदेशे घटादौ साध्यप्रसिद्धिवत् तत्राप्येक- देशे तथा अस्तीति चेत् । अत्र मणिकृतः - त्रयोदशान्योन्याभावास्त्रयोदशसु प्रत्येकं प्रसिद्धाः पृथिव्यादौ साध्यन्ते । यद्वा , जलं तेजःप्रभृतिद्वादशभिन्नप्रति- योगिकान्योन्याभाववद् द्रव्यत्वात् तेजोवदिति त्रयोदशभिन्नत्वस्य सामान्यतः सिद्धौ पृथिव्यां त्रयोदशभिन्नत्वं साध्यत इति न साध्याप्रसिद्धिरित्याहुः । अत्रोपाध्यायाः - प्रत्येकान्योन्याभावत्वमिह साध्यतावच्छेदकमुत समु- दिताभावत्वम् । नाद्यः, असाधारण्याद् , जलादिभिन्नवाय्वादेः सपक्षात् पृथिवी- त्वहेतोावृत्तत्वात् । नान्त्यः, अभावसमुदायस्याप्रसिद्धत्वादिति प्रथमपक्षे दूष- णं समर्पयन्ति ।

मणिसारानुमानखण्डे , । तत्र मिश्राः - साध्यतावच्छेदकावच्छिन्नसाध्यवघ्यावृत्त्या नासाधारण्य, किं त्वनुमितिविषयतावच्छेदकावच्छिन्नसाध्यवयावृत्त्या । तच्चेहाप्रसिद्धं, समुदित- स्थानुमितिविषयस्यान्यत्राप्रसिद्धरिति नासाधारण्यमिति भूषयन्ति । तचिन्तनी- यम् । असाधारण्यं सत्प्रतिपक्षतया दोषावहम् । न च प्रत्येकं साध्यवया- वृत्तत्वे तत् सम्भवति । अभावसमुदायरूपानुमितिविषयविरोधाभावादिति खलु मिश्राणामाभिसन्धिः । स चायुक्तः। प्रत्येकं साध्यवद्वयावृत्त्या प्रत्येकसाध्याभावसि- द्धिसामग्र्या मिलितसाध्यसिद्धेः प्रतिबन्धनियमात् । समुदायाभावज्ञानस्य समुदा- यज्ञानविरोधित्वात् । किं बहुना , प्रत्येकसाध्यसाधने मिलितसिद्धिवत् प्रत्येकसा. ध्यवद्व्यावृत्त्या प्रत्येकाभावे साध्यमाने मिलिताभावसिद्धिरप्यनुमितिविरोधिनी दुर्वा- रैवेति नायं पन्थाः । तस्मादसाधारण्यं दशाविशेषे दोष इतीह विशेषदर्शनसत्त्वान्न तदवतार इत्येव समाधानम् । वस्तुतस्तु - स्वम्वाधिकरणस्थितानामेव जलादिभेदानां त्रयोदशत्वं गृही. त्वा त्रयोदशत्वावच्छिन्नभेदाः पृथिव्यां साध्यन्ते । त्रयोदशत्वावच्छिन्नभेदवत्तया च न जलादेर्शानं , तद्भेदस्य तत्राज्ञानादिति नासाधारण्यम् । अत एव व्यतिरेक- व्याप्तिग्रहोऽपि नानुपपन्नः । जलादौ व्यासज्यवृत्तित्रयोदशत्वरूपधर्मावच्छिन्नभेदा- भावस्य सत्त्वात् । व्यासज्यवृत्तिधर्मस्य यत्किञ्चिदाश्रयासत्त्वेन सत्त्वाजलादौ स्व- भेदाभावेन विशिष्टाभावसत्त्वात् । अत एव च नान्वयित्वशङ्कापि, त्रयोदशत्वाव- च्छिन्नभेदवतः सपक्षस्याभावादिति युक्तमुत्पश्यामः । यद्वति द्वितीयपक्षे यद्यपि जलं तेजःप्रभृतिद्वादशभिन्नप्रतियोगिकान्योन्याभाववदित्यनेन पृथिव्यन्योन्याभावो जले सिध्यति , न तु जलान्योन्याभावः पृथिव्यामित्युद्देश्यासिद्धिः , तथापि तेजः- प्रभृतिद्वादशभिन्ननिष्ठान्योन्याभावप्रतियोगित्वं तदर्थ इति भवति पृथिव्यां जलभे- दस्यापि सिद्धिरिति मिश्राः । वस्तुतस्तूक्तानुमानानन्तरं यद् यद्भिन्नं , तत् तनिष्ठभेदप्रतियोगीति ज्ञान- सहितेन मनसोत्तरकालं जलभेदोऽपि पृथिव्यां गृखत इति मणिकृदाशयः । वस्तु- तस्तु इतरे भेदप्रतियोगिनः मेयत्वादित्यनुमानेन लाघवादेकभेदप्रतियोगित्वं वि- षय (इति) इतरत्वांवच्छिन्नभेदः सामान्यतः प्रसिद्धः पृथिव्यां साध्यत इति न कोऽपि दोष इति प्रतिभाति । प्राश्चस्तु-अभावसाध्यको व्यतिरेकी क्वचित् साध्यप्रसिद्धि विनापि सा ७ व्यतिरेकिग्रन्थः। ७ धयितुं शक्यते , यत्र भावः सुप्रसिद्ध इतीहापीतरतादात्म्यजलत्यादिव्यापकतया पृथिवीत्वाभावग्रहात् तदभावरूपेण पृथिवीत्वेन तद्भेदः पूर्वाग्रसिद्ध एव सिध्यति, सामग्री(स)त्त्वादिति नान्वयित्वं , नासाधारण्यं, न व्याप्तिग्रहानुपपत्तिति वदन्ति । अत्रेदं विचार्यते -- इतरतादात्म्यजलत्वादिव्यापकतया हत्यभावग्रहाद' हेतुना जलत्वा(द्यत्यन्ताभावसिद्धिरस्तु । जलाद्यन्योन्याभावसिद्विस्तु कुतः ।व्या- पकाभावेन व्याप्याभावस्यैव सिद्धेः, बयभावेन धूमाभाववादिति । अत्रोपाध्यायाः जलत्वाद्यत्यन्ताभाव एव जला(द्य)न्योन्याभावः , न तु भिन्नः, प्रमाणाभावात् कृप्तेनैव धर्मात्यन्ताभावेन धर्म्यन्योन्याभावबुद्धयुपपत्ती तन्नियामकधर्म्यन्तरकल्पनागौरवाच्चेति । अत्र मिश्राः -धर्म्यन्योन्याभावधर्मात्यन्ताभावयोरैक्यं न घटते । तथा सति घटे पटत्वं न, घटः पटो न इति प्रतीत्योर्वैचित्र्यं न स्याद् , विषयभेदाभा- वात् । किञ्च , वायौ रूपात्यन्ताभावः प्रत्यक्षः , रूपवदन्योन्याभावस्तु न प्रत्यक्षः, अन्योन्याभावे योग्याधिकरणत्वस्य योग्यतावच्छेदकत्वादिति स्वोक्तिविरोधः । एक- स्य योग्यत्वायोग्यत्वयोर्विरोधात् । अपि चैवं सति घटत्वात्यन्ताभावधीन स्याद् , घटत्वत्वरूपप्रतियोगितावच्छेदकप्रकारकधीसाध्यत्वात् । तस्य च घटेतरावृत्तित्व- घटितस्य घटत्वात्यन्ताभावधीसाध्यतयात्माश्रयाज्ज्ञातुमशक्यत्वादिति समादधते । अत्रेदं शङ्कयते -- घटे पटत्वं नेत्यत्र पटत्वसंसर्ग आरोप्यः । घटः पटो नेत्यत्र तु पटत्वमेव तादात्म्यरूपमारोप्यमित्येव भेदः । न त्वभावांशेऽपि भेदः । किञ्च : घटान्योन्याभावाभावो घटत्वमिति त्वयाप्युररीक्रियते । तथा च यो यदभावः स तदभाव इति व्याप्त्या घटत्वप्रतियोगिकत्वं तद्वदन्योन्याभावेऽवश्यमभ्युपेयमे- वेति प्रतीतिवैचित्र्यं यथाकथञ्चित् समर्थनीयम् । यच्च वायौ रूपवदन्योन्याभावा- प्रत्यक्षत्वेन स्वोक्तिविरोध इत्युक्तम् । तदपि न । अन्योन्याभावत्वप्रकारकप्रीता- वधिकरणयोग्यतायास्तन्त्रत्वस्य मयाङ्गीकाराद् वायौ रूपवदन्योन्याभावत्वप्रकारकप्र- तीतिर्नास्तीति तद्न्थार्थाद् विरोधगन्धाभावात् । यच्चोक्तं घटत्वात्यन्ताभावीन स्यादे- वमिति । तदपि न । घटत्वात्यन्ताभावत्वप्रकारकज्ञान एव घटत्वत्वज्ञानस्य हेतुतया घटत्वविशिष्टज्ञानाद् घटान्योन्याभावत्वप्रकारकप्रतीत्यनन्तरं घंटेतरत्व वटितघटत्व- त्वज्ञानसम्भवेन घटत्वात्यन्ताभाव(त्व)प्रकारकप्रतीतरुपपत्तेः । किं बहुना , प्रतियो- गितावच्छेदकप्रकारकज्ञानमेवाभावधियं जनयतीति न नियमः । तथा सति प्रमे- । mal मणिलारानुमानखण्डे .. अत्र नव्याः . यमिह नेति मत्यनापत्तेः । किन्तु सप्रकारकप्रतियोगिज्ञानमभावधीहेतुः । तथा च घटवृत्तित्वादिरूपातिप्रसक्तधर्मप्रकारकघटत्वज्ञानादपि घटत्वात्यन्ताभावधीः सम्भव- तीति न घटेतरावृत्तित्वज्ञानं नियमतोऽपेक्ष्यत इत्यलमतिविस्तरेणेति । यदि धर्मात्यन्ताभावधर्म्यन्योन्याभावयोरैक्यं , तदा वृक्ष संयोगाभाववत् संयोगवदन्योन्याभावोऽप्यस्तीति भेदाभेदापत्त्या सिद्धान्तव्याकोपः, भेदस्य स्वरूपभेदव्याप्यतया तस्य द्वित्वादिसङ्ख्योत्पत्तिनियामकतया द्वाविति बु- द्धिप्रसङ्गश्चेति वदन्ति । तच्चिन्त्यं ----सिद्धान्तव्याकोपस्यापि युक्त्यभावेन धर्मि- द्वयकल्पनागौरवेण च सोढव्यत्वात् । अत्यन्ताभावविशेषवदन्योन्याभावविशेषस्यैव स्वरूपभेदव्याप्यत्वाच्चैकस्मिन् वृक्षे द्वित्वाद्यनुत्पत्तेरित्यस्यापि वक्तुं शक्यत्वादिति । अत्रेदं प्रतिभाति -- बस्तुभेदे सर्वत्र प्रतीतिरेव प्रमाणम् । सा च यथा घटपटयोरयं घटः , अयं पट इत्याकारा विलक्षणेति तयोर्भेदः, तथा घटत्वात्य- न्ताभावे घटत्वप्रतियोगिकतया घटान्योन्याभावे घटप्रतियोगिकतयानुभूयमाने विलक्षणेति कथं तयोर्न भेदः । अन्यथा घटप्रतियोगित्वानुभवो भ्रा(न्तः? न्तिः) स्यात् । न चेष्टापत्तिः । प्रमात्वेनैवोपपत्तौ भ्रमत्वाकल्पनात् । न चात्यन्तान्योन्या- भावयोधर्मिणोर्भेदकल्पनागौरवात् प्रतीतेभ्रमत्वं कल्प्यमिति वाच्यम् । एवं सति घटपटयोरपि भेदो न स्याद् , वैलक्षण्यप्रतीतेरुक्तक्रमेण भ्रमत्वकल्पनात् । ध- मिहयकल्पनागैरवस्य प्रतीतिबलात् प्रामाणिकत्वमिति यदि , तदा प्रकृतेऽपि तु- ल्यम् । न च यो यदभावः स तदभाव इति व्याप्त्या घटत्वाभावो घटान्योन्याभा- व इति वाच्यम् । तादात्म्यसम्बन्धावच्छिन्नघटस्यैव घटान्योन्याभावाभावरूपतया घटत्वस्य तदभावरूपत्वाभावात् । किञ्च , सहभावनियतधर्मात्यन्ताभावधर्म्यन्योन्या- भावयोरैक्ये तथाभूतवस्तुद्वयोच्छेदः सर्वत्र प्रसज्येत । विलक्षणप्रतीत्योरपि त्वदु- क्तरीत्या धर्ममि)द्वयकल्पनागौरवेण वस्तुद्वयाव्यवस्थापकत्वात । व्यवस्थापकत्वे प्रकृतेऽपि स्यादिति दिक् । नन्वेवं सति प्रकृते कथं जलाद्यन्योन्याभावसिद्धिरित्याक्षेपस्य कथं परि- हार इति चेद् , इत्थं - तादात्म्यरूपसम्बन्धेनेतरं प्रति व्यापकतया पृथिवीत्वा- भावग्रहात् तदभावरूपेण पृथिवीत्वेन तादात्म्यसम्बन्धावच्छिन्नेत(र ? रा)भावस्य सिद्धेः । यत्सम्बन्धावच्छिन्नव्यापकतया यहः, तत्सम्बन्धावच्छिन्नाभावस्यैव तद- भावेनानुमितेः स एवान्योन्याभाव इति नानुपपत्तिः । किञ्च , यद्व्यापकतया अर्थापत्तिनिरासः। हेत्वभावग्रहः, तद्विरोध्यभावस्तद्धेतुना सिध्यतीति प्रत्यक्षमणिसारे व्युत्पादितम् । तथा च जलत्वा(द्य)त्यन्ताभाववद् जलाद्यन्योन्याभावोऽपि जलत्वादिविरोध्यवश्यं सिध्यतीति सङ्केपः । व्यतिरेक्युदाहरणस्थलान्तरं चातिविस्तारभिया नेह विशि- प्य विविच्यत इति वेदितव्यम् ॥ इति व्यतिरोकिग्रन्थः। अथार्थापत्तिनिरासः। एवं व्यतिरेकिणि निरूपितेऽर्थापत्तिानुमानान्तभूतेति भट्टादिमतमपा- स्तम् । अर्थापत्तेरपि केवलव्यतिरेक्यनुमानरूपत्वात् । नन्विदमयुक्तं --- ज्योतिः- शास्त्रोदितलिङ्गादिना देवदत्तः शतवर्षजीवीति ज्ञात्वा प्रत्यक्षेण जीवी गृह एवेत्य- वधार्य योग्यानुपलब्ध्या च गृहे नास्तीति यत्र निश्चितं, तत्र जीवित्वग्राहकगृह- सत्त्वनियमग्राहकप्रमाणयोर्विरोधे इदं वा प्रमाणमिदं वेति संशयात् स जीवति न वेति संशयः, तदनन्तरं जीवनकल्पने लाघवावतारे ज्योतिःशास्त्रप्रामाण्यरक्षादि- रूपतर्कावतारे च जाते जीवनोपपादकबहिःसत्त्वं तत्र कल्प्यते । तत्र प्रमाणसह- कारिता तर्कस्य , तच्चान्यन्नेति प्रमाणद्वयविषयकप्रामाण्यसंशयस्य तज्जन्यजीव- नादिसंशयस्य वा सहकारी स इति संशयकारणिकार्थापत्तिरवश्यमङ्गीकार्या, अनु- मितिसामग्रीविरहादिति चेत् । अत्र वदन्ति - 'प्रमाणयोरनयोरेकं बाध्यं , विरु- द्धार्थग्राहित्वादिति सामान्यतो दृष्टमवश्यमुभयसिद्धावतारमुररीकार्यम् । अन्यथा- थद्वयकल्पनाप्रसङ्गात् । तथा चात्रानुमाने जीवनतर्कादिसहकृते गृहनियमग्राहियो बाध्यत्वं विषय इति निष्परिपन्थिजीवनग्राहिप्रमाणाजीवित्वलिङ्गनिश्चयाद् अनु- मान एव बहिःसत्त्वं ज्ञायते देवदत्तो बहिरास्ति जीवित्वे सति गृहासत्त्वादिति (क- थोकृत)मर्थापत्त्या । नन्वनयोरेकं प्रमाणमिति ज्ञानानन्तरं जीवनादिसंशयानन्तरं च यत्र तो- वतारस्तत्र तदा सामान्यतो दृष्टावतारस्य नष्टत्वात् संशयसहकार्येव तर्क इति कुतो नार्थापत्तिानमिति चेद् , न । संशयानन्तरमपि तर्कावतारो विमर्श साध्य इति किञ्चिद् विलम्बावश्यकत्वे पुनः संशयस्त्वयापि कल्प्यः । तद् वरं कृप्तप्रमा- णभावस्य सामान्यतो दृष्टस्यैवावतारः कल्प्यतां , किमर्थापत्त्या मानान्तरेण ।

१०८ मणिलारानुमानखण्डे एवमनुपपत्तिकर(णता ? णा)प्यर्थापत्तिरपास्ता । जीविनो गृहासत्त्वं बहिःसत्त्वं विनानुपपन्नं तत् कल्पयतीति हि सा । सा व पूर्वानुमानेनैव गतार्था । ननु गृहे. ऽभावनिश्चयो बहिःसत्त्वं देवदत्ते कथमनुमापयतु, व्यधिकरणत्वात् । पक्षधर्मताज्ञा- नस्यानुमापकतायां तन्त्रत्वात् । न च गृहनिष्ठाभावप्रतियोगित्वं देवदत्तवृत्ति तत्र बहिःसत्त्वानुमायकमिति वाच्यम् । तस्य ग्रहणानियमादिति चेद् । अत्राहुः- गृहे देवदत्तस्याभाव इति ज्ञाने षष्ठ्यर्थसम्बन्धस्य प्रतियोगित्वस्य प्रकारतया गृहनिष्ठाभावप्रतियोगित्वस्व लिङ्गस्यावश्यमुपस्थानादनुमानप्रवृत्तिरिति न सामग्री- दुर्मिक्षमिति नापत्तिस्तद्वाहि तेति । अत्रेदमालोचयामः -- गृहे देवदत्तस्याभाव इत्यत्र षष्ठयर्थप्रतियोगित्वरूप- सम्बन्धमानेऽपि प्रतियोगित्वत्वभाने मानाभावः । षष्ठयाः सम्बन्धत्वेनैव सम्ब- न्धोपस्थापकत्वान् । अन्यथा नानार्थत्वप्रसङ्गात् । किञ्च , गृहे देवदत्तो नेति ज्ञा- नस्थलेऽनुमितिसामग्र्यसम्भव एव । संसर्गमर्यादया प्रतियोगित्वरूपलिङ्गस्य भाने- ऽपि प्रतियोगित्वत्वरूपलिङ्गतावच्छेदकप्रकारकज्ञानस्यानुमितिहेतोरसम्भवात् । न च बहिःसत्त्वं विना गृहनिष्ठाभावप्रतियोगित्वमनुपपन्नमिति ज्ञानमापत्तिवादिना- पि हेतुतया वाच्यं , तथा च प्रतियोगित्वत्व(रूप.)प्रकारकज्ञानमुभयसमाधेयमिति वाच्यम् । गृहे देवदत्ताभावो देवदत्ते वहिःसत्त्वं विनानुपपन्न इति ज्ञानस्यार्थाप- त्तिवादिना हेतुत्वेनाङ्गीकारेण तन्मते प्रतियोगित्वत्वप्रकारकज्ञानानावश्यकत्वात् । न च संसर्गमर्यादया प्रतियोगित्वभानानन्तरं मानसं तत्प्रकारकज्ञानमस्तु , प्रमा- णान्तरकल्पनातो लाववादिति वाच्यम् । सामग्रीबलेन प्रमाणान्तरसिद्धावीदृग्गो- रवस्य फलमुखत्वेनादोपत्वात् । अन्यथोपनीतभानेनान्यथासिद्धमनुमानमपि माना- न्तरं न स्यात् । अनुमिनोमीत्यनुव्यवसायवदर्थापयामीत्यनुव्यवसायस्यात्रापि सत्त्वात् । एवञ्च यदोपरि सविता तदा भूमेरालोकवत्ता , यदा नद्यां पूराधिक्यं तदा तत्पूर्वदेशे वृष्टिरित्यादिसर्वमीपत्तिरेव । व्यधिकरणेनानुपपत्तेरापत्तित्वात् । अत्र च सामानाधिकरण्यज्ञानाजन्यतयानुमितित्वजातेरभावात् । एवमिह साध्या- विकरणवृत्तिताज्ञानमनपेक्षितमित्यनुमित्यपेक्षया बैलक्षण्यम् । तस्मादनुमानं *सामा- नाधिकरण्येनावश्यम्भावधीः, अर्थापत्तिश्च व्यधिकरणेनावश्यम्भावधीरिति परस्पर- वैलक्षण्यात् तयोःलक्षण्यमिति पृथक् प्रमाणमेवार्थापत्तिरिति । समानाधिकरणन' इति वा स्यात ত্যাগ। १०९ अत्रेदं तत्त्वम् ---- अनुमितिस्थलेऽप्यवश्यम्भावधीहेतुरस्तु , न तु सामा- नाधिकरण्यधीः । तथा चानुमितिवैलक्षण्यं नागतमेवेति न पृथक् प्रमाणमेवार्था- पत्तिः । यत्राधिकरणे यत्सत्ता यत्र यत्सत्तां विना न सम्भवति , तदधिकरणे तज्ज्ञानं तस्मिन्नधिकरणे तत्सत्त्वं ज्ञापयतीत्येव समानाधिकरण व्यधिकरणानुपप- त्तिसाधारणमनुमितिकारणमिति सर्वत्राप्यनुमितेरेवोदयात् । भूमावालोक उपरि सवितारं विनानुपपन्नः तं व्यधिकरणमेव गमयति , धूमस्तु स्वाधिकरणे धूमध्वज विनानुपपन्नः तत्र स्वाधिकरणे तं बोधयति । उक्तसामग्र्या उभयसाधारण्यात् । यदि च सामानाधिकरण्यधीहेतुत्वे दुराग्रहः, तदापि नानुपपत्तिः । साक्षात्पर. म्परासाधारणसम्बन्धेन सर्वत्र तत्सत्त्वात् । न चातिप्रसङ्गः । यत्राधिकरणे यत्स- त्वमित्याद्युक्तविशेषसामग्रीत एव तद्भङ्गात् । नहि पर्वते वहिं न साक्षात्करो- मीतिवद् अत्र नानुमिनोमीत्यनुव्यवसाय इति जिगीषामन्तरेण वक्तुं शक्यते, येनात्रापि यथाकथञ्चिन्मानवैलक्षण्यं कल्पनीयमिति युक्तमुत्पश्यामः । इत्यर्थापत्तिनिरासः। amerative अथ न्यायलक्षणम् । तचेदमनुमानं पराहङ्कारशामकं न्यायतदवयवद्वारेति न्यायस्तदवयवाश्च निरूप्यन्ते--तत्रानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञान(जन)कवाक्यं न्याय इति मणिकृतः । अत्र मिश्राः अनुमितो कर्तव्यायां स्वोत्तरोत्पत्तिकज्ञानान्तरानपेक्षत्वं तच्चरमकारणत्वं , तद्वान् यः परामर्शः , तज्जनकजनकं यच्छाब्दज्ञानं, तज्ज- नकवाक्यत्वं लक्षणार्थः । तेन परामर्श जातेऽपि कामिन्याद्युत्कटवस्तुजिज्ञासायाम- नुमित्यनुत्पादाद् नानुमितिचरमकारणं तदिति दूषणं परास्तम् । प्रतिबन्धकामा- वापेक्षणेऽप्युक्तचरमकारणत्वस्य तत्राबाधात् । अनुमितिचरमकारणपदप्रयोजन चोपनयान्ते चतुरवयवे न्यायत्वं मा प्रसासीदित्येतदर्थम् । अनुमितिचरमकार- णत्वं च तत्र नास्ति , अबाधितत्वाद्यविषयकत्वाचतुरवयवप्रयोज्यपरामर्शस्य । अबाधितत्वादिविषयकस्यैव तस्य चरमकारणत्वात् । चरमकारणता च परामर्श- ।

मणिसारानुमानखण्डे अत- स्यैवेति तदुपात्तं , न तु तद्ध्यवच्छेदक(त्व)म् । तज्जनकजनकतापर्यन्तमसम्भवाप- नुत्तये । अन्यथानुमितिचरमकारणपरामर्शजनकीभूतं मानसज्ञानं, शाब्दं नेति तज्जनकवाक्यत्वमसम्भव्येव स्यात् । यथा च शाब्दज्ञानमेवाहत्य चरमकारण- परामर्श जनयति, तथा वक्ष्यते । शाब्दज्ञानपदं तु 'नायमाभासः , तल्लक्षणा- योगादिति न्यायबहिर्भूतकण्टकोद्धारवाक्यातिव्याप्तिवारणाय । तदपि चरमकार- ण(क?)परामर्शजनक(जनक)योग्यताजनकमेव । न च शाब्दमपि तज्ज्ञानं भवत्येवेत्य- तिव्याप्तिस्तदवस्थैवेति वाच्यम् । शाब्दज्ञानत्वेन तत्प्रयोजकत्वस्य विवक्षितत्वात् । न्यायजन्यज्ञानस्य शाब्दज्ञानत्वेनैव तथात्वात् । कण्टकोद्धारजन्यज्ञानस्य च योग्यताज्ञानत्वेनैव तत्प्रयोजकत्वाच्छाब्दमशाब्दं वा भवत्वित्यत्र न कश्चिद् विशेषः । वाक्यपदं चाप्तोक्ते वह्निव्याप्यवानयमबाधिताग्निरिति वाक्यावयवावय- वेऽतिव्याप्तिवारणाय । तदर्थश्च वाक्यान्तराघटकवाक्यत्वमिति नातिव्याप्तिः । नन्वेवमपि, पर्वते वह्निः, धूमो यतः, धूमश्च वह्निमन्मात्रवृत्तिः , स्तादृशधूमे पर्वतवृत्तित्वं, तस्मादस्ति पर्वते वह्निरित्यादिन्यायसमानार्थकन्या- यानात्मक(त्व :)वाक्येऽतिव्याप्तिरिति चेद्, न । तत्र सर्वसम्प्रदायमवमत्यानेन कृत इत्थं प्रयोग इति विरोधिजिज्ञासया परामर्शानुत्पादात् तत्प्रयोजकत्वगर्भल- क्षणाभावेनातिव्याप्तिनिरासादिति तात्पर्य वर्णयन्ति । न्यायजन्यज्ञानस्यापि विशेषणज्ञानत्वेनैव परामर्श प्रति प्रयोजकत्वं , न तु शाब्दत्वेनेत्यसम्भवः । न चान्वयव्यतिरेकाभ्यां वादिनस्तथा- विधपरामर्श प्रति शाब्दत्वेनैव प्रयोजकत्वम् । तथा सति कृतसमयवाद्युक्तप्रयोग- प्रयोज्यपरामर्श प्रति कण्टकोद्धारजन्यज्ञानस्यापि शाब्दज्ञानत्वेनैव प्रयोजकत्वमि- त्यतिव्याप्तितादवस्थ्यात् । किञ्च, पर्वते वह्निः, धूमो यत इत्यादिन्यायसमानार्थके वाक्येऽतिव्याप्तिस्तदवस्थैव । न च प्रागुक्तरीत्या तद्वारणम् । सभाक्षोभादिना तादृशसंप्रदायविस्मरणे विरोधिजिज्ञासानुत्पादेन तादृशवाक्यस्यापि परामर्शप्रयो- जकशाब्दज्ञानजनकतानपायादतिव्याप्तेर्वज्रलेपत्वादिति । अत्रेदं प्रतिभाति -- सम्प्रदायाभिज्ञासम्भ्रान्तवादिप्रयोगप्रयोज्यपरामर्श- स्वावच्छिन्नप्रयोजक यच्छाब्दज्ञानं , तजनकवाक्यत्वं विवक्षितम् । कण्टकोद्धार- वाक्यं तु न तथा । समयमन्तरेण वादप्रवृत्तौ तज्जन्यशाब्दज्ञानं विनाप्युक्तपरा- गोगायोकगमर्शत्वावच्छिन्नप्रयोजकज्ञानजनकताविरहात । एवं न्यायसमाना- अत्र नव्याः PANDware , न्यायलक्षणम् । थकवाक्येऽप्यतिव्याप्तिरपास्ता । सम्प्रदायाभिज्ञासम्भ्रान्तस्य तादृशवाक्यश्रवणादू विरोधिजिज्ञासया परामर्शानुत्पादात् । अत एवाबाल्यं न्यायसमानार्थकवाक्य एव व्युत्पन्नो यस्तस्य विरोधिजिज्ञासानुत्पत्त्यातिव्याप्तिरिति निरस्तम् । तस्य सम्प्रदा- यानभिज्ञत्वात् । तत्प्रति तन्न्यायत्वस्येष्टापत्तिपराधातादापादयितुमशक्यत्वादित्यपि कश्चित् । इदं तु शङ्कयते--ताशपरामर्शप्रयोजकत्वं फलोपधानं स्वरूपयोग्यता वा । नाद्यः । दैवात् प्रतिबन्धादिवशाद् यत्र न परामर्शोत्पादः, तत्र न्यायलक्ष- णाव्याप्तेः । नान्त्यः । स्वरूपयोग्यतावच्छेदकापरिचयात् । परिचये च तदेव लक्षणमस्तु । किमनेन । किञ्च , प्रतिज्ञादिप्ववयवेष्वतिव्याप्तिः । वाक्यसमुदाय- रूपस्य न्यायस्य समुदायिप्रतिज्ञाधनतिरिक्तत्वात् , तज्जन्यज्ञानस्य प्रतिज्ञादिज- न्यत्वादिति । अत्र ब्रूमः --- वाद्युक्तप्रयोगस्थलीयपरामर्शव्यतिरेकप्रयोजकव्यतिरेकप्रति- योगिज्ञानजनकतापर्याप्त्यधिकरणत्वं विवक्षितम् । तच्च क्वचित् परामर्शानुत्पादे- ऽप्यस्त्येवेति नाव्याप्तिः । प्रत्येकावयवानां च तादृशज्ञानजनकतापर्याप्त्यधिकर- णत्वं नास्तीति न प्रत्येकावयवातिव्याप्तिरिति दिक् । एतल्लक्षणेन प्रतिज्ञादिवाक्य- पञ्चकत्वमुपलक्ष्यत इति केचित् । तन्न । प्रतिज्ञादिवाक्यस्य न्यायघटितत्वेनात्मा- श्रयादिदोषप्रसङ्गात् । आकाडा (प्र! )क्रमोक्तवाक्यपञ्चकत्वमुपलक्ष्यत इत्यपरे । तदपि न । पर्वते वह्रिरित्यादिवाक्यपञ्चकातिव्याप्तेः, प्रतिज्ञावाक्यस्याकानाक्रम विनाप्यभिधानाचेति । ननु न्यायजन्यज्ञानं साक्षादेवानुमितिचरमकारणपरामर्श जनयतु , किंमध्ये ज्ञानान्तरेण । एवं च लक्षणे जनकत्वमेव प्रवेशयितुमुचितं , न तु जनकजनक- त्वमिति चेद् । अत्र मिश्राः न्यायजन्यज्ञानस्य वादिवाक्यजन्यतया नित्यमप्रा. माण्यशङ्काकलङ्किततया विशिष्टवैशिष्ट्यबोधे न सामर्थ्यमिति तेन पदार्थोपस्थितिरू- पेण धूमविशिष्टे वह्निवैशिष्वमित्यादिज्ञानं व्याप्त्यादिविषयकं जन्यते । तेन विशि- ष्टवैशिष्टयावगाहिपरामर्श उत्पद्यत इति न्यायजन्यज्ञानं परामर्शप्रयोजकमेव न तु तज्जनकामति नानुपपत्तिरिति वदन्ति । अत्र शङ्कयते - अप्रामाण्यसंशयोऽपि धर्मिज्ञानकोट्युपस्थित्यादिसाध्य- तया सर्वत्र नावश्यक इति यत्रैव न धादिधीः, तत्र तदभावेन न्यायजन्यज्ञाना- mymaalinstein मणिसारानुमानखण्डे दनुमितिचरमकारणपरामर्श एव साक्षादुत्पाद्यतां , किमन्तरा विशिष्टवैशिष्टयानव- गाहिपरामर्शस्वीकारेण । न चैवं शाब्दपरामर्श एवानुमितिहेतुरस्तु । व्यातिविशि- टलिङ्गे पक्षवैशिष्टयावगाहिपरामर्शस्यानुमितिहेतोः शाब्दरूपत्वाभावान्मानसपरा- मर्शस्वीकारात् । उदाहरणोपनीतव्याप्तेरुपनयोपनीतपक्षधर्मतायाश्चैकत्र द्वयमिति न्यायेन न्यायजन्यपरामर्शेन विषयीकरणात् तस्य विशिष्टवैशिष्टयानवगाहित्वात् । न चोपनयावयवोपनीतव्याप्तिविशिष्ट पक्षधर्मत्वं कुतो न विषयीकरोति तदिति वाच्यम् । उपनयस्योदाहरणोपनीतव्याप्त्यंशेऽनुवादरूपतया तदुपनायकत्वाभावात् । अननुवाद्यस्य वाक्योपनेयत्वाद् इत्युपाध्यायमतमेव रमणीयामति । भनेदं प्रतिभाति-- न्यायजन्यज्ञानेऽप्रामाण्यशङ्काविरहे तत एवानुमित्यु- त्पत्तौ मानसः परामर्शः सर्वथा व्यर्थ एव । न चोक्तगत्या तत्सार्थकता। अवान्त- रवा(क्यस्यो?क्यार्थस्यो)पस्थितत्वमात्रस्यैव महावाक्यार्थबोधविषयतायां तन्त्रत्वाद् , अननुवाद्यत्वस्य तत्प्रवेशे गौरवात् । न चैवमनुवाद्यस्यापि वाक्यप्रतिपाद्यत्वे 'लो- हितोष्णीषा ऋत्विजः प्रचरन्ती'त्यत्र लौहित्यवदुष्णीषस्यापि सोष्णीषा इति वाक्यान्तरप्राप्तस्य प्रतिपाद्यत्वापत्तिरिति वाच्यम् । लोहितोष्णीषा इति वाक्यज- न्यप्रतीतिविषयत्वस्य प्रतिपाद्यत्वस्य लौहित्यवदुष्णीषेऽपि सत्त्वेन तदापादनस्येष्टा- पत्तिपराहतत्वात् । तद्वाक्यतात्पर्यविषयत्वलक्षणप्रतिपाद्यत्वस्य त्वन्यतः प्राप्ते उ- प्णीषे लौहित्यवदभावात् । तस्मादुपाध्यायमतं न साधु । मिश्रमतमप्यप्रामाण्य- शङ्काक्रान्तत्वस्य परामर्शेऽनावश्यकतया काचित्कपरमेव । तथा च क्वचिन्न्याय- जन्यपरामर्शात् साक्षादेवानुमितिहेतुपरामर्शोत्पत्तिः, कचिन्मध्यवर्तिमानसपरा- मर्शजनकद्वारा । तथा चानुमितिचरमकारणपरामर्शव्यतिरेकप्रयोजकव्यतिरेकप्रति- योगित्वं जनकजनकसाधारणं लक्षणं विवक्षितमिति पक्षधरमिश्राभिप्रायः । नन्वेवमपि , यत्राप्रामाण्यशङ्काविरहेण न्यायजन्यपरामर्शादेवानुमितिः , तत्र न्याये लक्षणमिदमव्याप्तमेवेति चेद् , अत्र ब्रूमः वादिप्रतिवाद्यापन्नानुमितित्वा- वच्छिन्नं प्रति जनकत्वप्रयोजकत्वान्यतरवद् यच्छाब्दज्ञानं, तज्जनकत्वस्य लक्ष- णार्थत्वात् । तच्च साक्षादनुमितिजनकत्वात् तज्जनकपरामर्शप्रयोजकत्वाद् वेति न किञ्चिदनुपपन्नम् । नव्यास्तु शब्दपरामर्शस्याबाधितत्वादिविषयकत्वाभावेन ततो नानुमितिः, किन्तु मानसोऽवाधितत्वादिविषयकपरामर्शोऽवश्यं वाच्य एवे- त्याहुः । Heastern न्यायलक्षणम्। wagatiane इदं तु विचार्यते ----ईश्वरास्तित्वज्ञानवतो नैयायिकस्य तन्नास्तित्ववोध- कवादिवाक्यादन्वयबोध एव न , अयोग्यतानिर्णयसत्त्वात् । तथा च शाब्दज्ञान- जनकत्वं कथं न्यायलक्षणमिति । अत्रोच्यते ---- मदीयं येनेश्वरसत्त्वज्ञानं प्रमाणेन जनितं , तदेतदीयनास्ति- ताबोधकप्रमाणाद् दुर्बलं बलीयो वेति संशयेनाहितात् स्वज्ञानाप्रामाण्यसंशयादा- स्कन्दितं तदयोग्यताज्ञानं शाव्दज्ञानप्रतिबन्धाय न प्रभवतीति शाब्दज्ञानं न्याय- वाक्यादुत्पद्यत एव । बाधकाभावात् । नव्यास्तु बाधस्यानाहायज्ञानविरोधितया प्रत्यक्षादिवदनाहार्यशादा- दिविरोधित्वेऽपि वादिवाक्यादाहार्यशाब्दज्ञाने वाधकाभावः । एवं सत्प्रतिपक्षा- दावप्याहार्यानुमितिद्वयमुत्पद्यत एवेति समादधते । नन्विदमनुपपन्नम् । प्रत्यक्षे भिन्नरूपेण बाधस्य विरोधित्वमिति तत्राना- हार्यप्रत्यक्षत्वस्य तत्प्रतिबध्यतावच्छेदकत्वेऽपि परोक्षत्वरूपबाधसामान्यप्रतिबध्य. तावच्छेदकेऽनाहार्यत्वविशेषणे मानाभावात् कथमाहार्य परोक्षं बाथे सत्युत्पद्यतामिति चेद् , अत्र प्रतिभाति - साक्षात्का(रिटर)निर्णये साक्षात्का(रिःर)बाधत्वेन , साहा का(रिटर)निर्णयान्यज्ञाने बाधत्वेनावश्यं प्रतिबन्धकता बाच्या। अन्यथा संशयसा- धारणप्रतिबध्यतावच्छेदकालाभप्रसङ्गात् । तत्र विरोधिज्ञानमात्रस्यानुमित्यादिवत् प्र- तिबन्धकत्वात् प्रत्यक्षान्तरसाधारण्यविरहात् । तथा चा(हा)यसंशयानुरोधाद् द्वितीय- प्रतिबध्यतावच्छेदकेऽप्यनाहार्यत्वविशेषणमावश्यकमिति बाधे सत्यप्याहार्यशब्द- ज्ञाने बाधकाभाव इति । इदं तु चिन्त्यं-शाब्दज्ञानं प्रति योग्यताधीहेतुरिति कथमयोग्यता- निर्णये सति शाब्दधीः , योग्यताज्ञानविरहात् । न चाहार्ययोग्यताज्ञानादेवाहार्य- शाब्दधीरिति वाच्यम् । विशेषसामग्रीकल्पने मानाभावात् । फलस्याप्यानि- र्णयात् । न च लाघवाद् योग्यताज्ञानमेव हेतुः, तच्चाहार्यसाधारणमिति वाच्यम् । एवं सत्याहार्ययोग्यतानिर्णयादनाहार्यशाब्दधीप्रसङ्गात् । तस्मादाहार्यनिर्णय भिन्नयोग्यताज्ञानत्वेनानाहार्यशाब्दधीहेतुत्वमङ्गीकार्यम् । तत्र लाघवाच्छाब्दधीत्व- मेव तत्कार्यतावच्छेदकमस्तु । न त्वाहार्ययोग्यताज्ञानत्वेनाहार्यशाब्दज्ञानहेतुता प्रमाणाभावाद् गौरवाच्चेति दिक् । अनुमितिचरमकारणपरामर्शप्रयोजकशाब्दज्ञानजनकस्वरूपयोग्यतावच्छेद- माणिसारानुमानखण्डे कावच्छिन्नवाक्यत्वं लक्षणम् । तच्च बाधादिवशादजनितान्वयबोधेऽप्यस्त्येवेति नानुपपत्तिः । योग्यतावच्छेदकं तु प्रतिज्ञादिपञ्चकगोचरधीविशेष्यतापर्याप्त्यधि- करणत्वमिति वस्तुगतिरिति सङ्केपः ।। इति न्यायलक्षणम्। . अथावयवलक्षणम् । अवयवलक्षणं तु न्यायजन्यज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम् । न च न्यायावयवप्रतिज्ञाद्यवयवातिव्याप्तिः । तस्य न्यायजन्यज्ञानजनकशाब्दज्ञानाज- नकतया तज्जनकत्वाभावादिति केचित् । तन्न । प्रतिज्ञाजन्यज्ञानस्य तदवयवज- न्यत्वात् समुदायिभिन्नसमुदायाभावादतिव्याप्तितादवस्थ्यात् । तस्माद् न्याय- भिन्नवाक्यान्तराघटकवाक्यत्वं विवक्षितम् । तच्चावयवावयवे नास्तीति नातिव्या- प्तिः । अवयवावयवस्यावयवघटकत्वादिति नव्याः । तदपि न भव्यम् । न्यायान्त- भूतावयवद्वयरूपवाक्यघटकतयावयवेऽप्येतल्लक्षणासत्त्वात् । किञ्च , न्यायजन्यज्ञा- नजनकयोग्यताज्ञानजनके कण्टकोद्धारवाक्येऽतिव्याप्तिः । न च यज्जन्यज्ञानस्य वाक्यजन्यज्ञानत्वेन न्यायजन्यज्ञानजनकता, तत्त्वं विवक्षितम् । अत एव वाक्य- पदमपि। योग्यताज्ञानस्य च न वाक्यजन्यज्ञानत्वेन तथात्वमिति वाच्यम् । शा- ब्दज्ञानपदेनैव तदर्थलाभे वाक्यपदानर्थक्यप्रसङ्गात् । भवतु वा यथाकथञ्चित् तदोषोद्धारः । अवयवावयवातिव्याप्तिर्दुरुद्धरा । न च न्यायजन्यज्ञानजनकजनक- तापर्याप्त्यधिकरणत्वं लक्षणार्थः । तच्च नावयवावयवे, किन्तु समुदित इति नाति- व्याप्तिरिति वाच्यम् । तथा सत्यसम्भवापातात् । न्यायजन्यज्ञानजनकजनकतायाः प्रतिज्ञादिष्वपर्याप्तरिति । तस्मादिदमत्र तत्त्वं ---न्यायान्तर्भूतप्रतिज्ञादिपञ्चकस्य परस्परसाकाङ्क्षत्व- मिति सर्वसिद्धम् । तथा च न्यायान्तर्भूतप्रतिज्ञादिपञ्चकपरस्पराकाङ्क्षापर्याप्त्यधिकर- णत्वं लक्षणम् । अवयवावयवे च न तथा , प्रत्येकाकाङ्क्षायाः प्रत्येकावयव एव पर्याप्तेः । यद्वा , प्रतिज्ञादिपञ्चकप्रतियोगिकान्योन्याभाववत्प्रतियोगिकान्योन्याभा- ववत्त्वं प्रतिज्ञादिपञ्चकविशेष्यकधीविशेष्यतावच्छेदकधर्मवत्त्वं (वा) लक्षणम् । तच्च प्रतिज्ञात्वादिकमेवेति न कोऽपि दोष इति दिक् ।। इत्यवयवलक्षणम् ।

प्रतिशाग्रन्थः १२५ अथ प्रतिज्ञाग्रन्थः। -- अवयवाश्चोदाहरणान्तात्रय इति मीमांसकाः । उदाहरणोपनयौ द्वाववय- वाविति बौद्धाः । आकाङ्काक्रमानुरोधाद् अवयवपञ्चकमिति वृद्धाः । ते च प्रति- ज्ञाहेतूदाहरणोपनयनिगमनानि । तत्र प्रतिज्ञात्वं न्यायघटकल्वे सत्यनुमित्यन्यूना- नतिरिक्तविषयकशाब्दज्ञानजनकपदसमुदा(यः? यत्वम् ) । प्रतिजैकदेशे च समुदा- यत्वाभावान्नातिव्याप्तिः। सत्यन्तेनोदासीनप्रतिज्ञासमानाकारवाक्यव्युदासः । पाषा- णमयः पर्वतो वह्निमानित्यत्र पक्षोपस्थापकपदसमुदायेऽनुमित्यनतिरिक्तविषयकशा ब्दज्ञानजनकेऽतिव्याप्तिवारणायान्यूनपदम् । न चावयवान्तरस्य पक्षतावच्छेदका बोध(क)तयानुमित्यन्यूनपदादेव वारणेऽनुमित्यनतिरिक्तपदवेयर्थ्यमिति वाच्यम् । सर्वनामपदस्य बुद्धिस्थप्रकारवाचितया तस्मादयं वह्निमानित्यत्र पर्वतत्वप्रकारक- बोधादतिव्याप्त्यानतिरिक्तपदम्यावश्यकत्वात् । न चैवमपि अयं वह्निमान् इति निगमनैकदेशातिव्याप्तिस्तदवस्थैवेति वाच्यम् । निगमनैकदेशान्यत्वस्यापि विशेषणत्वात् । न च प्रतिज्ञायां ज्ञानलक्षणयानुमित्यनतिरिक्तविषयकज्ञानजनक- त्वासत्त्वादसम्भव इति वाच्यम् । तत्रापि प्राथमिकबोधस्य मुख्यार्थविषयकस्य (ज्ञानस्य ? जनक)तयैव लक्षणस्य नेयत्वात् । हेत्ववयवग्रहणानन्तरं चानुपपत्त्यो- त्तरकालं ज्ञानलक्षणाकल्पनात् । इदं तु शङ्कयते ---- मेयत्वं सर्ववृत्ति केवलान्वयिधर्मत्वादित्यादिप्रति- ज्ञायामव्याप्तिः । तत्र सर्वस्यैवानुमितिविषयतया तदतिरिक्ताप्रसिद्धरिति । अत्राहु :-अनुमितिविषयतासमव्याप्तिविषयताकत्वमन्यूनानतिरिक्तविषय- (कत्वे : केत्यने)न विवक्षितमिति न काप्यप्रसिद्धिन वातिव्याप्तिरिति । नन्वेवमपि व्यतिरोकिप्रतिज्ञायामव्याप्तिः । अनुमितेः साध्याभावाभावत्वप्रकारकतया प्रति- ज्ञाया न्यूनविषयकत्वादिति चेत् । तत्र प्रतिज्ञाया अपि नेदं निरात्मकं जीवच्छरी- रमित्येवमाकाराया एव प्रयोगात् । क्वचित् तथाप्रयोगस्तु व्यतिरेकसहचारादन्व- यव्याप्तिग्रहाभिप्रायेणेति द्रष्टव्यम् । यद्वा , यन्यायावयवत्वावच्छेदेन लिङ्ग- विषयकशाब्दज्ञानजनकतानियमः, तदन्यन्यायावयवत्वं प्रतिज्ञात्वमिति कापि नातिप्रसङ्गः । अत्र च विप्रतिपत्तिवाक्यादेव साध्यस्योपस्थितौ प्रतिज्ञावयवो व्यर्थ इति देश्यमनादेयम् । विप्रतिपत्तिवाक्यस्य पक्षपरिग्रहादिना व्यवधानात् । आवृत्ति- । ।

मणिसारानुमानखण्डे कल्पना च साध्योपस्थापकपदस्यैव । सैव प्रतिज्ञारूपति व व्यर्थता । किञ्च , वि- प्रतिपत्त्या साध्यतदभावोपस्थित्या क हेत्वन्वयः। योग्यतया वादिवाक्येऽन्वया- निश्रमात् । अपि च , प्रतिज्ञावाक्ये हेतुत्वान्यथानुपपत्त्या ज्ञानलक्षणेति वक्ष्यते । तथा च न विप्रतिपत्त्या तदन्यथासिद्धिः , भिन्नविषयकत्वादिति सङ्केपः ॥ इति प्रतिज्ञाग्रन्थः। अथ हेतुग्रन्थः। साध्यनिर्देशानन्तरं कुत इत्याकाङ्क्षायां हेतुताव्यञ्जकविभक्तिमल्लिङ्गवच- नमेवोचितं , पक्षधर्मतादेस्तदाकाङ्क्षाविरहेण तत्प्रतिपादकपदोपादानेऽप्राप्तकाल- तापातादिति प्रतिज्ञानन्तरं हेतूपन्यासः । हेतुत्वं च न्यायप्रविष्टत्वे सति साध्या- विषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वमिति मणिकृतः । नन्वत्र सत्यन्तेन हेतुसमानाकारोदासीनवाक्यं , साध्याविषयकत्वेन तस्मादिति निगमनांशः, हेतुविभक्तिमदित्यनेन यो यो धूमवानित्युदाहरणैकदेशश्च वार्यतां नाम । शब्दोऽनित्यः सामान्यवत्त्वे सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वादित्यत्र हेतुचर- मांशातिव्याप्तिः केन वारणीया । किञ्च , इदं प्रमेयवद् घटादित्यत्र हेताव- व्याप्तिः । प्रमेयरूपसाध्याविषयकज्ञानाप्रसिद्धेः । अपि च , वायुः प्रत्यक्षः प्रत्यक्षस्पशाश्रयत्यादित्यत्राव्याप्तिः, साध्यविषयकशाब्दधीजनकत्वादिति । अत्रोच्यते--चरमशब्दपदाद् य(द)वच्छेदेन हेतुविभक्तिसमभिव्याहारः, तदवच्छिन्नशब्दत्वं लक्षणं सूचितम् । सामान्य(व)त्त्वे सतीत्यत्र सतिसप्तम्याः सामानाधिकरण्यार्थिकाया बलेन विशिष्ट एव हेतुविभक्तिसमभिव्याहार इति न विशिष्टे लक्षणाव्याप्तिः । न च चरमांशेऽतिव्याप्तिः । साध्याविषयकत्वं च साध्यतावच्छेदकावच्छिन्नाविषयकत्वम् । तच्च प्रमेयसाध्य केऽप्यस्त्येवेति न तत्रा- व्याप्तिः । साध्याविषयकेत्यत्र न(न्तो ? जो) व्यत्यासः । तेन साध्यविषयकशाब्द- ज्ञानजनकता यस्य न्यायप्रविष्टस्य नियता, तद्भिन्नमित्यर्थः पर्यवस्यति । हेतुरू- पन्यायप्रविष्टस्य च न सर्वत्र साध्यविषयकज्ञानजनकत्वमिति प्रत्यक्षस्पर्शादित्यादौ नाच्यातिः । तस्मादिति निगमनांशस्य च सर्वत्र साध्यविषयकज्ञानजनकतेति तद्भिन्नत्वाभावान्न तत्रातिव्याप्तिरिति दिक् । , हेतुबन्धः । यच्च मणिकृता लक्षणान्तरमुक्तं पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्य- त्वमिति । तत्र वदन्ति ---- न्यायाप्रविष्टवाक्यमनुमितिपरपदेन न्यायप्रविष्टत्वार्थेन वार्यतां , निगमनातिव्याप्तिश्च लाक्षणिकपदेनापाक्रियतां, तत्र तस्मादिति सर्व-. नाम्नः सर्वशक्ततया च लक्षणाविरहात् । प्रतिज्ञायां चातिव्याप्तिवारणाय पञ्च- म्यन्तपदं यदुपात्तं , तत् कुतः । न च प्रतिज्ञायां ज्ञानलक्षणासत्त्वादतिव्याप्तिर्मा भूदित्ये(तत् ?)तदर्थ पञ्चम्यन्तपदमिति वाच्यम् । हेतुपदेन ज्ञापकहतोरभिधानात् पञ्चम्यापि ज्ञापकत्वस्य प्रतिपादनात् । तथा च धूमप्रयोज्यज्ञानविषयत्वं वह्नौ साध्यत्वमिति किं लक्षणया। एवं वह्निविषयकज्ञानजनकज्ञानविषयत्वरूपं वह्नि- ज्ञापकत्वं धूमे पञ्चम्या प्रतिपाद्य(त) इति हेतावपि न लक्षणेत्यसम्भवो लक्षणस्य । किञ्च , हेतुपदेन ज्ञानलक्षणायां वृत्तिद्वयविरोधापत्त्या ज्ञानमात्रस्योपस्थिति- वाच्या । तथा च लिङ्गस्यानुपस्थित्या तस्य गमकत्वाकाङ्क्षा न स्यात् । प्रत्युत ज्ञान एव गमकत्वाकाङ्का स्यात् । अपि च, 'स्वायत्ते शब्दप्रयोगे किमित्यवा- चकपदं प्रयो(ज्याम ? श्यामहे)' इति न्यायाद् धूमज्ञानादिति प्रयोगापत्तिः । तम्मात् प्रयोजकत्वे पञ्चमीत्येव साधु , न तु ज्ञानलक्षणेति । अत्र मिश्राः----हेतुत्वशक्तायाः पञ्चम्याः प्रयोजकत्वे न शक्तिः, माना- भावादिति लक्षणा वाच्या । तच्च न सम्भवति , सुब्विभक्तौ लक्षणाविरहस्य शब्दखण्डे प्रतिपाद्यत्वात् । न चैवं तत्त्वज्ञानान्निःश्रेयसाधिगम' इत्यत्र तत्त्वं ज्ञायतेऽनेनेति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रमिति व्याख्यानात् तस्य च निःश्रेयसाहे- तुत्वात् कथं पञ्चमीसङ्गतिरिति वाच्यम् । तत्रानन्यथासिद्धत्वांशविशेषणं परित्यज्य नियतपूर्ववृत्तित्वरूपविशेप्यांशोपस्थिती लक्षणाविरहात् । विशेष्ये चैकदेशेऽप्या- काङ्कासत्त्वेनान्वयात् । अस्तु वा तदनुरोधा(द्) नियतपूर्ववर्तित्वमात्रे पञ्चमीशक्तिः। उक्तरूपप्रयोजकत्वशक्तौ मानाभावात् । यच्च लक्षणापक्षे वृत्तिद्वयविरोधाद् न लिङ्गोपस्थितिरिति दूषणमदायि, तदपि न । ज्ञानलक्षणयैव तदुपस्थितेस्तत्र गमकत्वाकाङ्क्षासम्भवात् । अन्यथा पाकाद् रक्तमित्यनन्वितं स्यात् । पाकस्य रक्तिमगुण एव हे(तु)त्वान्वयात् । तस्य च गुणिलाक्षणिकरक्तपदाद् वृत्तिद्वय- विरोधादनुपस्थितेः । तस्माद् गुणिलक्षणयैव तदुपस्थितिर्वाच्या । तथा च प्रकृ- तेऽपि समानम् । न चैवं लक्षणया प्राधान्येनोपस्थिते ज्ञान एव गमकत्वाकाङ्का स्यादिति वाच्यम् । व्याप्तिविषयकत्वेन खलु ज्ञानं गमकम् । तच्च तदा , यदि धूमो ।

मणिसारानुमानखण्डे । व्याप्य इति । तद्गमकत्वाकाङ्क्षायामेवोदाहरणप्रवृत्तेः । अस्तु वा विशेषणतयाप्यु- पस्थिते लिङ्गे गमकत्वाकाङ्क्षा , उपस्थितिमात्रस्यैव तत्र तन्त्रत्वात् । यच्च धूम- ज्ञानादित्याकारकप्रयोगापत्तिरित्युक्तं , तदपि न । तथा सति तज्ज्ञानला- भापातान् । हेतुविभक्तिसमभिव्याहृतधूमादिपदे ज्ञानलक्षणाया निरूढत्वाङ्गीका- रात् । अत एव घटं करोतीत्यादाववयवलक्षणायामपि न घटावयवं करोतीति प्रयोग इति समादधते। तत्रेदं विचार्यते - प्रतिज्ञायामेका ज्ञानलक्षणा हेतौ चापरेति लक्षणाद्वयं कल्प्यताम् उत हेतुत्वशक्तपञ्चम्यां प्रयोजकत्वमात्रलक्षणेति । तत्रान्त्ये लाघवात् तदेवास्तु। तबलाच्च सुब्बिभक्तो लक्षणा नेत्यस्य तत्राभावः कल्प्यते । न च पञ्च- भ्या ज्ञापकत्वमुपस्थाप्यम् । तत्र चैकदेशो ज्ञानमिति साध्यस्य पदार्थस्य तेन कथ- मन्वयोऽस्तु , ‘पदार्थः पदार्थेने ति व्युत्पत्तेरिति वाच्यम् । ससम्बन्धिकस्थले एक- देशान्वयस्यापि स्वीकारात् । अन्यथा चैत्रमातेत्यादौ चैत्रस्य जनकत्वेन पदार्थंक- देशान्वयो न स्यादिति । यच्च ज्ञानलक्षणया विषयस्य लिङ्गस्याप्युपस्थितिरिति स- माहितं , तदपि न । अन्यवृत्त्यान्योपस्थितावतिप्रसङ्गात् । न चैवं पाकाद् रक्त- मित्यत्रापि गुणिलाक्षणिके गुणस्यानुपस्थितौ कथं तत्र पाकहेतुत्वान्वय इति वा- च्यम् । तत्र 'गुणे शुक्ल' इत्यनुशासनाद् गुणिन्यपि रक्तादिपदस्य शक्त्या तयै- वोभयोपस्थितौ पाकहेतु(क )त्वस्य गुणेऽन्वयसद्भावात् । यच्चोक्तं हे(तु !)त्ववयवे निरूढलक्षणेति , तदपि न । निरूढत्वानिरुक्तेः । नियततदर्थतात्पर्यमेव तदिति चेद्, न । तात्पर्यस्य पुरुषाधीनतया तदसम्भवात् । न चान्यत्रवृत्तित्वेऽप्यसाधु- त्वमित्येव निरूढत्वं , बहुव्रीह्यादिपदवदिति वाच्यम् । एवं सति धूमपदस्या- त्र निरूढतया स्वार्थे क्वापि साधुत्वं न स्यात् । न च न्यायप्रविष्टहेत्ववयवत्वा- वच्छेदेन तथा, न सर्वत्रोत वाच्यम् । एवं सति घोषादिपदसमभिव्याहाराव- च्छिन्नगङ्गादिपदानामपि निरूढत्वापत्त्या गतं निरूढानिरूढविभागेनेति । अत्र प्रतिभाति -विषयाधिक्याल्पत्वकृतं हि गौरवं लाघवं वावतरति , न तु लक्षणैक्यानैक्यकृतम् । तथा च प्रकृते प्रतिज्ञाहेतुपदयोनिलक्षणायां ज्ञान- द्वयं विषयः । हेतुत्वज्ञापकपदमात्रे प्रयोजकत्वलक्षणायाश्च ज्ञानजनकज्ञानविषयत्वं विषय इति ज्ञानद्वयं जनकत्वं विषयत्वं च विषय इति महद् गौरवमिति पद- यौव लघीयसी । न चैवं धूमपदाद् ज्ञानोपस्थितिरेच स्याद्, न तु धूमो- हेतुग्रन्थः। पस्थितिः , अन्यवृत्त्यान्योपस्थित्यभावादित्युक्तमिति वाच्यम् । किञ्चिन्नियाम- कसत्त्वेऽन्यवृत्त्याप्यन्योपस्थितेः । कथमन्यथा गङ्गांशस्यावच्छेदकतया भानम् । कथं वा तीरत्वांशभानम् । तत्र लक्षणाविरहस्य शब्दपरिच्छेदे सुव्यक्तत्वात् । तथा च यद्धीति न्यायाद् ज्ञानलक्षणया विषयोपस्थितिरस्तु । किञ्च , मणिकृ- न्मते वृत्तिद्वयविरोधो न दोषायेति शक्त्या धूमो लक्षणया ज्ञानमुपस्थितमस्तु । दोषाभावात् । भवतु वा वृत्तिद्वयविरोधः क्वचिद् दोषाय , न तु सर्वत्र । अन्यथा लम्बकर्णादिपदात् कर्णस्यानुपस्थितौ तदानयनाद्यभावप्रसङ्गात् । यच्च रक्तादिप- दस्य गुणिनि शक्तिरेवेत्युक्तं , तदपि न । किं रक्तपदस्य रक्तत्वविशिष्टरक्तगुण एका गुणिनि चापरा शक्तिः, तत्रापि शुद्धगुणिनि वा रक्तत्वविशिष्टरक्तगुण- विशिष्टगुणिनि बा, रक्तत्वविशिष्टरक्तगुणविशिष्टगुणिन्येवैका शक्तिर्न गुणांशे पृथक् शक्तिरिति । नाद्यः । एकयैव शक्त्योपपत्तौ शक्तिद्वये गौरवात् । न च सा गुणिन्येवास्तु । शुद्धस्य गुणिनो रक्तादिपदादनुपस्थितौ रक्तत्वादिविशिष्टरक्तादि- विशिष्टे सा वाच्या । तथा च लाघवाद् रक्तत्वादिविशिष्टे एव सास्तु । अत एवा- न्त्यपक्षोऽप्यपास्तः । न चैवमनुशासनविरोधः । अनुशासनम्य साधुत्वज्ञापकत्वात् । शक्तेश्चानन्यलभ्यत्वादिकल्प्यत्वात् । न चैव लक्षणया सर्व सर्वत्र साधु भवत्येवे- त्यनुशासनं विफलं स्यादेवेति वाच्यम् । लक्षणयापि तत्रैव साधुत्वमिति ज्ञापयि- तुमनुशासनाद् व्यत्ययानुशासनवदिति शब्दपरिच्छेदे वक्ष्यमाणत्वात् । किं बहुना, पाकाद् गन्धो घट इत्यादौ का गतिः । गन्धपदस्य गुणिनि शक्तः केनाप्यनङ्गी- कारात् । तस्मात् तत्र गुणिलक्षणयैव गुणम्योपस्थितौ पाकहेतुत्वान्वय इति । यञ्च निरूढत्वं निर्वस्तुमशक्यमित्युक्तं , तदपि न । हेतुपञ्चम्यन्तत्वावच्छेदेन ज्ञाने नियतानादितात्पर्यस्यैव निरूढत्वनियामकत्वाद् , अनादितात्पर्यपूर्वक- लक्षणाया एव निरूढलक्षणात्वात् , तादृशस्य पदस्य लक्ष्यादन्यत्रासामर्थ्य- नियमात् । न चैवं गङ्गापदं समभिव्याहारविशेषावच्छिन्नं निरूढलाक्ष- णिकं स्यादिति वाच्यम् । तादृशस्य सत्त्वे इष्टत्वात् । शुद्धस्य चातथात्वादित्य- लमतिविस्तरेण । एतेन 'पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं हेतुलक्षणम- नुपपन्नम् । अयमात्मा ज्ञानादित्यत्र ज्ञानज्ञानस्य शक्त्यैवोपस्थिती लक्षणावि- रहेणाव्याप्तेः । किञ्च , अयं सुखी कामिनीसाक्षात्कार(ब)त्त्वादित्यत्र सुखरू- पसाध्यं प्रति कामिनीसाक्षात्काररूपहेतोः कारणत्वमस्त्येवेत्यनुपपत्त्यभावात् । प्रति- ज्ञावाक्ये हेतुवाक्ये वा न लक्षणत्यव्याप्तिः । तत्त्वादित्यादिहेतावप्यव्याप्तिः ।

मणिसारानुमानखण्डे mawwala सर्वनामपदे लक्षणाविरहादि"त्यादिदूषणमपास्तम् । न्यायप्रविष्टहेतुपञ्चम्यन्त- त्वावच्छेदेनैव निरूढलक्षणाङ्गीकारात् । शक्तेस्तदपेक्षया दुर्बलत्वात् । अत एव सर्वनामपदेऽपि तत्र लक्षणास्त्येवेति न काप्यतिप्रसङ्ग इति सङ्केपः । अत्र च कथायां पक्षधर्मताप्रतिपादनाय मीमांसकवद् मतुपः प्रयोगो न कार्यः । अनाकाङ्कितपक्षधर्मताप्रतिपादनाय प्रथमं तदभिधानेऽप्राप्तकालतापातात् । एतदभिप्रायेणैव मणिकृतोक्तं कथायां धूमादित्येव प्रयोक्तव्यं न धूमवत्त्वाद् (इति), मतुपो व्यर्थत्वादिति । न च तत्र धूमवत्त्वे व्यर्थविशेषणतया व्याप्तिर्ग्रहीतुं न शक्यत इत्येवाभिप्राय इति वाच्यम् । धूमसम्बन्धस्यापि धूमवद् वह्निव्याप्यतया व्यर्थत्वासम्भवात् । समानाधिकरणलघुगुरुद्वयसन्निवेश एव व्यर्थत्वस्य दोषत्वादिति बहुशो निवेदनात् । न चैवमपि धूमवत्त्वादित्युक्ते परं प्रत्यप्राप्तकालत्वरूपो निग्रहो दातुं न शक्यते , यावता धूमवत्त्वमेवाहमत्र हेतुमकरवं न तु मतुपा पक्षधर्मतां प्रतिपादयामीति वादिना वक्तुं शक्यत्वादिति वाच्यम् । उदाहरणोपनयाभ्यां हेतुतानिर्णये निग्रहस्य दातुं शक्यत्वात् । नहि धूमवत्त्वे हेतुत्वेन विवक्षिते यो यो धूमवानित्युदाहरणं धूमवांश्चायमित्युपनयो वा युज्यते । अपि तु धूमवत्वा- नित्युदाहरणं, धूमवत्त्ववांश्चायमित्युपनय इति दिक् ॥ इति हेतुग्रन्थः । अथोदाहरणग्रन्थः। हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोरुपदर्शन- प्राप्तौ व्याप्तेरनुमितिजनकीभूतपरामर्शविशेषणतया प्रथमोपस्थिततया पक्षधर्मता- याश्च तत्संसर्गतयोपस्थित्यनियमात् प्रागुपस्थितिक्रमप्राप्ताकाङ्क्षावशात् प्रथम व्याप्ते : प्रदर्शनार्थमुदाहरणम् । तत्र यद्यप्युदाहरणे व्याप्तिरभावादिनानापदार्थ- गर्भा न पदार्थो न वाक्यार्थ इति तत्प्रदर्शनार्थमुदाहरणं न घटते , तथापि यो य इत्यादिना हेत्वधिकरणे सर्वत्र साध्यसंवन्धप्रतिपादनात् तत्र साध्याभावसंबन्ध- रूपव्यभिचारशङ्का न भवति । सहचारश्च साक्षादेवोदाहरणवाक्येन प्रतिपाद्यत इति व्यभिचारज्ञानविरहसहकृतसहचारज्ञानसहकृतेन मनसा भवति व्याप्तिग्रह उदाहरणप्रन्थः। अत्र प्राश्वः HIANTRdrawin MARRIA इत्युदाहरणं व्याप्तिग्रही (पाधि ? पथि) कं, न तु साक्षात् तत्प्रतिपादकमिति वृद्धाः । यावत्याधनाश्रमाश्रितसाध्य संबन्धो व्यातिः । सा चोदाहरणवाक्यात् साक्षादेवावगम्यत इति नव्याः । बाहरणलक्षणं व्याप्यतावच्छेदकावच्छिन्नवद्ध- मित्वावच्छिन्नमुद्दिश्य व्यापकतावच्छेदकावच्छिन्नवत्त्वविधायकन्यायावयवत्वम् । उपनये व्याप्यवति व्यापकसंबन्धन्याविधेयत्वात् तत्र पक्षधर्मतामात्रस्यैव विधेय- बाद व्याप्यत्यांशस्यानूयत्वान्नातिव्याप्तिः । अत एव वो नीलधूमवान् स वहिमानित्युदाहरणाभासेऽीि नातिन्यातिः । नीलधूमपन्य व्याप्यतानवच्छेद- कतया तत्रोक्तलक्षणाभावात् । उदाहरणसमानाकारवाक्यं च न न्यायावयव इति न तत्रातिव्याप्तिरिति तत्वम् । उदाहरणवाक्ये व्यभिचारशङ्कावारणाय यो य इति वीप्सा कार्या । सा च यत्र व्यभिचारशङ्का तत्रैव । अन्यत्र तु केवलान्वय्यादी व्यभिचारशका नास्तीति न तत्र वीप्सेत्याहुः । तेषां चायमाशयः यो य इसी बीप्सितशब्दश्रवणानन्तरमनुवादतया प्रयोजनजिज्ञासायां व्याप्तिग्रहप्रयोजन- कत्वेऽवसिते वो य इति प्रथमयत्पदोपन्थाप्यधूमाधिकरणभिन्नं सर्व धूमाधिक- रणं द्वितीययत्नदेन विशिन्य सामान्यतो बोपत्थाप्यते । तथा च सर्वत्र साध्यसं- वन्धज्ञानाद् व्यभिचारशका न भवतीति भवति मनसा व्याप्तिग्रह इति केवला- न्वयिस्थले वीप्लान कार्येति । (तत्) तु न सम्यक् । तथा सति तत्र सामाना- धिकरग्य प्रदर्शनमपि व्यर्थमेव स्यात् । केवलान्वयित्वेन ज्ञाते सामानाधिकरण्ये- ऽप्यविमतिपतेः । तस्मात् तत्रापि पी-सा कार्यैव वादिना । स्वकर्त-यत्य निर्वाह- यि मुचितत्वात् । कथमन्यथा केवलान्वयिसाध्यकतद्धेतुकन्याये उदाहरणाद्यवयव- प्रवृत्तिः । व्याप्तिपशवर्मलाबाधित वादिशकाविरहात् तद्बोधकावयवानां त्वदुक्तरीत्या वैयर्यस्य दुरु द्वरत्वात् । असावकताप्रयोगे सर्वसंप्रदायसिद्धतया न व्याप्त्यादि- प्रदर्शकावयवोपन्यास इति न तत् प्रतिबन्धकमिति दिक् । मगिकृतातु- - वीप्सायामपि व्यभिचारशङ्का तादवस्थ्याद् न सा कार्या । यदि वा कार्या, तदा यत्पद एव, न तु तत्पदेऽपि । नानायत्पदोपस्थाप्यस्यैक- तत्वदनै परामर्शसंभशात् । तथा च यद् यत् पापं प्रतिजहि उगनाथ ! नम्रस्य तन्मे' इत्यादाविति वदन्ति । तेषामयमभिप्रायः -वीराकामा सर्वाधिकरणोप- स्थि(तेति)रनुवादेन व्याप्तितात्पर्यकत्वग्रहद्वारा , न साक्षात् । तथा च यद्योगप्राथ. 16 मणिसारानुमानखण्डे । म्याभ्यामेव व्याप्तितात्पर्यकत्वग्रहोऽन्तु । तथा चैकयत्पदेनैव सर्वमपि हेत्वधिकरण. मुपस्थाप्यताम् । कृतं वीप्लायटितगुरुशरीरेणोदाहरणेनेति । यदि च कथकसंप्रदा- यसिद्धत्वादुपाययोपायान्तरादूपकत्याच यत्पदवीप्सादरः । त(था दा) च तत्पद- वीप्सायामतिगौरवम् । एकेनैव तत्पदेनोभयोपस्थितिसंभवादिति । इदं त्ववधेयं --यत्पदतत्पदयोरुभयोरपि समयबन्धेन वीप्सा कार्या । अन्य- तरसमयबन्धेनान्यतरवीप्सा वा । समयबन्धेन बिना वीप्सा कापि न कार्यवेति । अत्र च यो यो धूमवानित्युदाहरणवाक्यं न घटते । धूमः कथं गमक इत्याकालायामुदाहरणप्रवृत्तेन्तेन धूमसामानाधिकरण्यप्रतिपादनस्योचित- त्वात् । धूमवानित्यनेन मतुबर्थसामानाधिकरण्यप्रतिपतेः । मतुबर्थसंबन्धस्य पदा. र्थतया तत्संबन्धस्यैव वाच्यार्थत्वादिति यत्र यत्र धूम इत्येवोदाहरणमर्हतीति मिश्राः। तच्च न मनोज्ञम् । एवं सति पर्वतो वहिमान् इति प्रतिज्ञा वढि- व्याप्यधूमवांश्चायमित्युपनयो वह्निमानिति निगमनं च विरुध्येत , ततो वह्या- दिसंबन्धविधेयताया एव प्रतीतेः । तस्मादत्र कथकसंप्रदायानुरोध एव शरण- मिति दिक् ॥ इत्युदाहरणअन्थः । Mountap अथोपनयग्रन्थः। उदाहरणानन्तरं व्याप्तेः सहकारिणी पक्षधर्मता वर्तते न वेत्याकापायां तत्सहकारिणी पक्षधर्मतां प्रतिपादयितुमुपनयः । तत्रानुमितिकारणीभूतपरामर्शज- नकावयव उपनय इति मणिकृतः । नन्विदमयुक्तम् । अनुमितिहेतुमानसपरामर्शस्योपनयवाक्याजन्यत्वादिति चेद्। अत्र वदन्ति--अनुमितिहेतुपरामर्शसमानाकारपरामर्शजनकावयवत्वमुक्त- लक्षणार्थः । अस्ति चोपनय: यपरामर्शस्य व्याप्तिवैशिष्टयावगाहिनः तादृशमान- सपरामर्शस्य समानाकारतनि नासंभव इति । अत्रेदं शङ्कयते --- तस्माद् वद्विमानिति निगमने लक्षणमिदमतिव्या- प्तम् । तस्मादित्यनेन व्याप्तिविशिष्टपक्षधर्मतापरामर्शेनोक्तसमानाकारज्ञानजननात् । - निगमनग्रन्थः । किञ्च , समानाकारता यावत्तद्विषयविषयकतया यत्किञ्चित्तद्विषयविषयकतया वा । नान्त्यः । अतिप्रसङ्गात् । नाघः । मानसपरामर्शविषयावाधितत्यादेरुपनयजन्यप- रामर्शविपयतयासभवापातादिति । अत्र प्रतिभाति-अबाधितत्वासप्रतिपक्षितत्वातिरिक्तांशो यावान् मान- सपरामर्शत्य यथा विषयः , तावान् तजन्यपरामर्शस्य तथैव विषयः . तादृशाव- यव उपनयः। निगमनजन्यज्ञानेच साध्यांशस्य परामर्श व्यातिविशेपणतया विषयस्य स्वातन्त्र्येगापि भानाद् न तत्रातिब्यातिः । न च नगावियो तथाप्य- तिव्याप्तिरिति वाच्यम् । अवयवपदेनैव तादासान् । तन्यावयवावयवत्वात् । अत्र च हेत्ववयवेनैव पक्षधर्मता प्रतिपायलां , किं तत्त्रतिपादलोपनयेनेति देश्यमनादेयम् । हेलयवन्य कारणमात्रामालाप्रवृत्ततया पक्षधर्मताबोधकत्वा- भावात् । आकाङ्गाक्रमेणैव तदर्थत्य प्रतिपादयितुमुचितत्वादिति दिक। इत्युपनयनन्यः । अथ निगमनग्रन्थः। उपनयानन्तरं निगमनम् । तच्च न्यायावयवत्वे सति व्यानिविशिष्टपक्षधर्मता- ज्ञानप्रयुक्तसाध्य(ज्ञानज्ञान ? )धीजनकम् । पतिलावदत्रापि ज्ञानलक्षणासत्त्वाद- सिद्धिर्न भवति । प्रतिज्ञायां च न व्याप्त्यादिधीप्रयुक्तं तम्जनकत्यामेति न तत्रा- तिव्याप्तिः। ननु व्यातिविशिष्ट पक्षधपत्ययावयवान्तरेणेव प्रतिपादनाद् निगमनं किम- थमिति चेद्, न । अबाधितत्वादिति ? धीजनकत्वेनात्योपयोगात् । अबाधित- त्वाविज्ञानस्याप्यनुमिलितन्त्रत्वात्। यद् यादवगमे सति न भवति, तत् तदभावा- वगमसाध्यमिति मणिकृतः । सेपां चाय नाशयः -- अबाधितत्यादौ निगमनेन प्रतिपादिते सति न बाचाविज्ञानमनुमितिप्रतिबन्धकीभूतं जायत इति व्यातिविशि- एपक्षधर्मताज्ञानं बाधादिज्ञानाभाव तहतमनुमिति जनयतीति तदनुकूलत्वान्निग- मनं (न) व्यर्थमिति । एतेनाबाधि तत्वज्ञान-पानुमितिहेतुत्वे तद्विषयकत्वमपि परामर्श स्वीकार्यम् । तथा च परामर्शविषयाभावत्वेनासिद्धिमध्यातो बाधादेः E १२४ मणिसारानुमानखण्डे स्यादित्यपसिद्धान्तः । किञ्चाबाधितत्वज्ञानं साध्यज्ञानमेव । तथा च साध्यज्ञानं साध्यज्ञानहेतुरिति फलितमिति सिद्धसाबनादनुमित्यनवतार एव स्यादित्यादिदूष- णमपास्तम् । अबाधितत्वज्ञानहेतुत्वस्य मणिकारानभिप्रेतत्वेनोक्तदोषविरहात् । यथा चैवं सति न निगमनानर्थक्यं , तथा च व्युत्पादितमेव । केचित्तु - अनुमितावबाधितत्वप्रमाया गुणत्वेन हेतुत्वमिति संशयनिश्च- यसाधारणमबाधितत्वज्ञानमनुमितित्वावच्छेदेन हेतुरेव । अत एव न सिद्धसाधन- मपि । यथा चैवंसति नासिद्धावन्तर्भावस्तथाग्रे वक्ष्यत इति यथाश्रुत एव मणिः साधीयानित्याहुः। ननु निगमनेन कथमबाधितत्वासत्यतिपक्षितत्वभानम् । साथ्यप्रतिपादक- तामात्रेण तथात्वे प्रतिज्ञाया आपि तथात्वापातादिति चेद् , न । प्रतिज्ञावाक्येन साध्यस्य प्रतिपादनेऽपि साध्याभावांशव्युदालकल्यानुपदर्शनाद् न ततः साध्याभा- वव्युदासावगमः । इह तु तस्मादित्यनेन व्याप्यधूममुद्भावयता वहिव्यायदर्शन- स्यैव जननाद् नात्र वयभावोऽस्तीति ज्ञायते। तच्च ज्ञानं मानसमानुमानिकं वेति न कश्चिद् विशेषः । यद्वा, साध्ये पुनर्वचनस्यानुवादतया प्रयोजनजिज्ञासायां वाधाद्यभाव एव प्रयोजनं पारिशेप्यादवसीयते । तथैव व्युत्पत्तेः । बाधादिविरह- ज्ञानं च पूर्वोक्तयकारेणैव । साक्षान्निगमनासंभवात् । अपदार्थत्वादवाक्यार्थत्वाच । यंद्यपि व्युत्पत्तिस्तात्पर्यज्ञानं, तत् शब्दोपात्तं विना वादिवाक्ये न निर्वइति । तथाप्यनादितात्पर्य व्युत्पत्तिः । सा चानादिलक्षणावद् वादिवाक्येऽपि संभवत्ये- वेति न कोऽपि दोष इति । इदं तु ध्येयं-न्यायवाक्ये नायं हेतुराभासः तल्लक्षणायोगादिति कण्टकोद्धारकवाक्यं , यथा महानस इत्यादिदृष्टान्तप्रयोगश्च सामयिक इति सङ्कपः ॥ निनिगमनन्धः । । अथ हेत्वाभाससामान्यनिरुक्तिः । अथ हे वाभा स्तर निर्णयविजयप्रयोजकत्वानिलम्बन्ने ! तत्रानुमिति. चारणीभूतभावप्रतियोगियथार्थ ज्ञानविषयत्वं हेत्वासातत्वनिति मणिकृतः । नन्धि- খালালায়িকি। । दमयुक्तं , व्यभिचारादिनानामावत्यानमित्य सेतुत्वात् करणविघटकहेत्वाभासमात्रा- व्याप्तेः। न चानुभितिप्रतिव धनियतयथार्थना नविषयत्वमेव लक्षणार्थः , स च व्यभिचारादायप्यस्तीति नाव्यापिरिति वाच्यम् । यथार्थपदेन व्यभिचारित्वभ्रमवि- पयसद्धेत्यतिव्याप्तिनिरासेऽपि घटधूमौ बलिव्यभिचारिणावित्येकांशयथार्थविषय- तामादाय सद्धेनुभूमातिव्यातेत्तथापि दुर्वास्त्वात् । न च यल्लिङ्गविषयतया यज्जन्या- नुमितिप्रतिबन्धकरवं लल्लिमांशे यथार्थ ज्ञानन्य विवक्षितमिति वाच्यम् । बाधित- लिङ्गासङ्ग्रहापतेः । तन पक्षनिष्टसाध्याभावाविषयकतया तन्नानन्य प्रतिबन्धकतया लिङ्गाविषयतया प्रतिबन्धकस्वाभावात् । किञ्च , सत्प्रतिपक्षेऽध्यातिः । प्रतिवन्ध- कीभूनविरोधिव्याप्त्यादिनानन्यायथार्थत्मादिति । अत्र केचिद् ---बाधायामपक्षधर्मो हेतुरनैकान्तिको वेति न्यायाद् व्यभि- चारित्वायुवाधिनैव तम्य सङ्ग्रह इति मायातिः। सत्प्रतिपक्षेऽप्यसिद्धयादिसङ्की- र्णेऽसिद्धत्वादिनैव सङ्ग्रहः । सद्धेनुसत्प्रतिपक्ष तु स्वीयव्याप्त्यादिधीरेव दशावि- शेषे विरोधिनीति तद्यथार्थवादेव लक्षणं नेयम् । एवमसाधारणेऽपीति। तच्चि- न्त्यम् । यदि बाधितत्वेन सामान्यलक्षणेन न रवाहः , तदा विशेषलक्षणेनापि तेन रूपेण सङ्घहो न स्यात् । सामान्यलक्षणोपगृहीतस्यैव विशेष(लक्ष)णन परि- ग्रहात् । किञ्च, अग्रे वक्ष्यमागासङ्कीर्णवाघोदाहरणस्थलेऽव्याप्तिः सुदृढेव । तत्र व्यभिचारित्वाद्यभावेन तथा सहाभावात् । बच सद्धेतु प्रतिपक्षादौ स्वीयव्या- सिधारच विरोधिनीत्यवादि । तन्न । स्वीयव्याप्त्यादिज्ञानस्य स्वसाध्यानुमित्यनुकू. लतया तदप्रतिबन्धकत्वात्। न च विरोबिचाप्त्यादिधीसमवधानावच्छिन्नस्वीय- व्याप्यादिज्ञानत्वेनास्तु प्रतिवाचकतति वाच्यम् । तथा सल्यावश्यकतया विरो- धिव्याप्त्यादिषिय एव प्रतिबन्धकौचित्यात् । अन्वधा मणि समवधानावच्छि नव- हेरपि दाहमतिबन्धकस्नापातादित्य समान होगा। मिश्रास्तु ज्ञानेऽनुमितिप्रतिबन्धकतावच्छेदको धर्म इह यद्विशिष्टे ज्ञानेऽनुमितिप्रतिबन्धावश्यंभावः स विवक्षितः । स च प्रतिबन्धकज्ञान विषयस्तद- विषयश्च । तत्रायो व्यभि वारादिः । अन्त्यः सत्प्रतिपक्षादौ विरोविसामग्रीकालीन- त्यादिः । पारिभाषिकप्रतिबन्धकतावच्छेदकत्वन्य गुरुण्यपि तत्राविरोधात् । तथा चानुमिलियतिबन्धकलावच्छेदकधर्मवत्वगोचरयथार्थज्ञानविषयत्वन्य लक्षणार्थस्य सत्पतिपक्षादावनि सत्त्वान्न तत्राव्याति: । अत एव नोपाधावातिव्याप्तिः । उपाधि- - १२६ मणिसारानुमानखण्डे । । ज्ञानेऽपि व्यभिचाराज्ञानदशायामनुमितिप्रतिबन्धाभावेन तन्नियमघटितप्रतिबन्धक- तावच्छेदकशून्यत्वात् । अत एव न सिद्धिविषयसाध्यस्यापि हेत्वाभासता, प्रतिब- न्धानियमात् । सिद्धावपि सिसाधयिषायामनुमितेः । अत एव च नाज्ञानरूपासि- याद्यतिप्रसङ्गोऽपि । अनुमितिप्रतिबन्धनियमसत्त्वेऽपि ज्ञाननिष्ठप्रतिबन्धकताव- च्छेदकस्यात्र लक्षणे प्रवेशात् तस्याश्च स्वरूपसत्या एव तथात्वात् । यद्वा , प्रति- बन्धकज्ञानविषय एव ज्ञाने प्रतिबन्धकतावच्छेदकोऽस्तु । तथापि सत्त्रतिपक्षे नाव्याप्तिः । विरोधिव्याप्त्यादेरेव प्रतिबन्धकतावच्छेदकस्य प्रतिबध्यलिङ्गे ज्ञानल- क्षणसंबन्धेन वृत्तेः । तच्च ज्ञानं परामर्श एव । तेन संबन्धेन च तद्वत्त्ववीर्यथा- थैव । अथवा लिङ्गं स्वज्ञानद्वारानुमितिप्रयोजकम्। तच्च हेत्वाभासेन वार्यते । तथा च लिङ्गस्यानुमित्यप्रयोजकतावच्छेदकधर्मवत्त्वं तद्वत्त्वगोचरयथार्थधीविषयत्वं वा लक्षणार्थः । तथा च सत्प्रतिपक्षादावपि लिङ्गनिष्ठानुमित्यप्रयोजकतावच्छदको धर्मो लिङ्गनिष्ठ एव वाच्यः । अन्यनिष्ठाप्रयोजकत्वस्यान्यनिष्ठधर्मानवच्छेद्यत्वात् । समानाधिकरणस्यैवावच्छेदकत्वात् । तथा चानुमित्यप्रयोजकतावच्छेदकः सत्प्रति- पक्षे गुरुरपि विरोधिसामग्रीकालीनत्वादिरेव । एवं बाधितेऽपि साध्याभाववत्यक्ष- वृत्तित्वमिति नाव्याप्तिरित्याचक्षते । अत्रेदं शङ्कयत - भवत्वविषयीभूतमपि पारिभापिकप्रतिवन्धकतावच्छे- दकं, तथाप्यव्याप्तिः । यत्राततिना(ना)गतेन वा लिङ्गेन सत्प्रतिपक्षः, तत्र विरोधिज्ञानसामग्रीकालीनत्वस्य तादृशलिङ्गेऽसत्त्वात् । किञ्च , व्यभिचारित्वस्या- प्युक्तप्रतिबन्धकतावच्छेदकत्वाभावादव्याप्तिः । व्यभिचारज्ञाने परामर्शोत्तरजाते सत्यप्यनुमितिप्रतिबन्धाभावात् । करणम्य परिपूर्णतया तद्विवटनाभावात् । न च परामर्शानन्तरं व्यभिचारधीरसंभविनी , ग्राह्याभावज्ञानात् । किञ्च, तदानुमितिसा. मग्रीसत्त्वादनुमितिरेव, न तु व्यभिचारधीरिति वाच्यम् । शाब्दसिद्ध्यनन्तरं यत्र शाब्द एव परामर्शस्तदनन्तरं प्रात्यक्षिकव्यभिचारधीः , तत्र तद्दोषसंभवात् । तत्र परामर्शस्य शादतया प्रात्यक्षिकव्यभिचारज्ञानाप्रतिबन्धकत्वात् । ग्राह्यप्रत्यक्षे ग्राह्याभावप्रत्यक्षस्यैव प्रतिबन्धकत्वात् । न च व्यभिचारधीकालेऽनुमितिसाम- ग्र्यपि । परामर्शपूर्वोत्पन्न या परामर्शसमानकालीनया सिद्ध्या प्रतिबन्धादिति प्रथ- मपक्षो न घटते । द्वितीयपक्षोऽपि न क्षोदक्षमः । विरोधिव्याप्त्यादेः प्रतिब- ध्यलिङ्गेन सह ज्ञानसंबन्धकल्पने मानाभावः । भावे वा धूमो वहिव्यभिचारीति - हेत्वाभाससामान्यनिरुक्तिः । १२७ भ्रमस्यापि व्यभिचारेण सह धूमस्य संबन्धत्वं प्रसज्ज्येत । तथा च सद्धेतौ लक्ष- जातिव्याप्तिः । न च ज्ञानं न सर्वत्र सम्बन्धः , किन्तु फलबलात् क्वचिदेव । तथा चेदमनेन सत्प्रतिपक्षितमिति ज्ञानन्य यथार्थत्वव्यवहारात् तज्ज्ञानं संब(न्धे ? न्ध- स्वे)न कल्प्यते । धूमो बहिव्यभिचारीति ज्ञानस्यायथार्थत्वव्यवहारान्न तज्ज्ञानं तत्संबन्धरूपमिति नव्यदूषणं न भव्याभिति वाच्यम् । उक्तपरामर्शरूपज्ञानम्य विरोधिलिङ्गनिष्ठव्याप्त्यादिसम्बन्धये एकहती बाधावतारेऽपि सत्प्रतिपक्षम्य दुर्वा. रत्वापातात् । तज्ज्ञानस्य तदाप्यविशिष्टत्वात् । किञ्च, अनुमितिप्रतिबन्धकतावच्छेद- को धर्मो व्यभिचारित्वादिः, तद्वत्त्वमाश्रयाश्रयिभावेन, ज्ञानरूपप्रतिबन्धकतावच्छेद- कवत्त्वं च विषयविपयिभावनेत्यननुगमः । यथाकथञ्चित् तद्वत्त्वमात्रस्य चाति- प्रसङ्गपराहतत्वादिति । तृतीयपक्षोऽप्ययुक्तः, धूमस्यापि व्यभिचारभ्रमदशायां वढ्यनुमित्यप्रयोजकतया तन्निष्ठस्य व्यभिचारभ्रमकालीनत्वस्याप्यनुमित्यप्रयोजक- तावच्छेदकतया तद्वत्त्वज्ञानमादाय सद्धेतावतिव्याप्तेर्वज्रलेपायितत्वादिति । अत्रायमाशयो मिश्रागां---विरोधिज्ञानसामग्रीकालीनत्वं तत्कालीनव्या- प्त्यादिमत्तया ज्ञायमानत्वम् । तच्चातीतानागतलिङ्गस्थलेऽप्यन्त्येवेति न तत्र सत्प्र- तिपक्षेऽव्याप्तिः । यद्वा , तत्कालसम्बन्चो विरोधिसामग्रीवैशिष्ट (न:)तत्र प्रति- बन्धकतावच्छेदकम् | तच तत्राप्यस्त्येव, अनेनेदं सत्प्रतिपक्षितमिति प्रतीतेः । पच्च व्यभिचारज्ञाने सत्यपि प्रतिबन्धानियमात् तत्राव्याप्तिरित्यवादि , तदपि न । परामर्शानुत्पत्तिकालीनयद्विशिष्टज्ञानेऽवश्यं प्रतिबन्धनियमः , तद्वत्त्वस्यात्र प्रतिब- न्धकतावच्छेदकत्वेन विवक्षितत्वात् । अम्ति चैतद् व्यभिचारेऽपि । परामर्शपूर्व ज्ञातेऽनुमित्यनुत्पादानियमात् । न च बाधस्य परामर्शोत्तरं प्रतिबन्धकत्वात् तत्राव्याप्तिः । तदुत्तरं प्रतिबन्धकत्वेऽपि तत्पूर्वमपि प्रतिबन्धकत्वाविरोधात् । उपा- धौ तु परामर्शपूर्वं ज्ञाते अनुमिति प्रतिबन्धो नावश्यकः । व्यभिचारज्ञानानावश्य- कत्वात् । नन्विदमप्ययुक्तं- परामर्शपूर्वमन्योन्याभावगर्भव्यभिचारज्ञाने सत्यप्य- त्यन्ताभावगर्भव्याप्तिज्ञानादनुमित्युत्पत्तेरिति चेद्, न । अन्योन्याभावगर्भव्यभि- चारज्ञाने सत्यत्यन्ताभावगर्भव्याप्तिज्ञानम्यासम्भवात् । तच्च साक्षात् तद्गर्भव्य- तच असंभवनं च ।

१२८ मणिसारातुमानखण्डे meas- . भिचारोन्नायक(ता?तया) वेशि न कश्चिद् विशेषः । यच विषयीभूतप्रतिवःध- कताबच्छेदकस्य लिङ्गेन सह ज्ञानं विरोधिव्याप्त्यादेर्यदि सम्बन्धः, तदा बाधाब- तारेऽपि सत्प्रतिपक्षतापत्तिः, ज्ञानस्य तदापि सत्त्वादिति दूषणमुक्तम् । तदपि न । ज्ञानम्य हि व्यवहारबलादगल्या तत्सम्बन्धरूपत्वाभ्युपगमेन बाबावतार- दशायां तत्सम्बन्धरूपताविरहात् । घटसत्त्वदशायां भूतलस्य घटाभावसम्बन्ध- त्वानभ्युपगमवदनापि कदाचित् सम्बन्धरूपत्वे दोषाभावादिति । यदपि तद्व- त्ता कदाचिदाश्रयाश्रयिभावेन कचिच्च विषयविषयिभावेनेत्यननुगम इति दूषणम भ्यधाथि । तदपि न । यादृशसम्बन्धेन तद्वतामादाय व्यभिचारितमिदं सत्प्रतिप. क्षितमिदभिति धीः, तादृशसम्बन्धस्य लक्षणप्रवेशात् । स च कचिदाश्रयायिभावः, क्वचिद् विषयविषयिभाव इति । वन्तुतस्तु -सर्वत्रानुमितिप्रतिबन्धकतावच्छेद- कधर्मनिरूपितस्वरूपसम्बन्धविशेष एव तद्वत्तानियामकः । स च तादृशसम्बन्ध त्वेनानुगत इति ना(न)नुगमः । अत एव यत्र निरन्तरपरामर्शद्वयरूपसत्यतिपक्षः, तत्र विषयविषयिभावेऽपि विरोधिलिङ्गेन सह तज्ज्ञानमासत्तिरिति दिक् । इदं तु शङ्कयते लक्षणमिदं व्यभिचारादी धर्मेऽतिव्याप्तं, धर्मिण एवात्र लक्ष्यत्वात् । न च हेत्यभिमतत्वे सतीत्यपि तद्वारकाविशेषणं देयमिति वाच्यम् । कदाचित् कस्यचिद् व्यभिचारादिधर्मस्यापि हेत्वभिमतत्वात् । सर्वदा सर्वधर्मिणोऽपि हेतुत्वेनानभिमतत्वात् । किञ्च , ज्ञानविषयत्वं विशेषणमुपलक्षणं वा । नाद्यः । तादृशजानाभावकाले नित्यदोषस्व साधारणादेरहेत्वाभासत्वप्रस- ङ्गात् । नान्त्यः । असाधारणसत्प्रतिपक्षादेरनित्यदोषत्यापि विशेषदर्शन शाबा- मपि हेत्वाभासत्वापातात् । किञ्च, यत्पुरुषीयताहशजानविपयत्वं यस्य तस्य तं प्रत्येव हेत्वाभासत्वम् , अन्यं प्रत्यपि वा । नाद्यः । विरुद्धादेनित्यदोषस्य तथाग्राहिपुरुष प्रत्यनाभासताप्रसङ्गात् । नान्त्यः । असाधारणादेविशेषादर्शनात् तथा ज्ञायमा- नस्य विशेषदर्शिनं प्रत्यपि दोपताप्रसङ्गात् । अत्राहुः अनुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वगोचरयथार्थधीविशे- प्यत्वं विवक्षितम् । व्यभिचारादयस्तु धर्मास्तादृशधीविशेषणभूता इति नातिव्या- प्तिः । तादृशधीविशेप्यत्वं च विशेषणमेव । तच्च ईश्वरज्ञानविशेष्यत्वमादाय विरु- द्धादिनित्यदोषे सर्वदास्तीति नाव्याप्तिः । सत्पतिपक्षादौ त्वनित्यदोषत्वनिर्णया- दीश्वरधीविरहकल्पनात् । फलैकोन्नेयत्वात् तस्याः । पुरुषान्तरीयतादृशधियमा- -- हेत्वाभाससामान्यनिरुक्तिः । । दाय पुरुषान्तरे च नाभासता । विशेषतः पुरुषादेरत्राप्रवेशात् । तादृशज्ञानविष- यस्य हेत्वाभासत्वमित्येवाङ्गीकारात् । तत्पुरुषादिहेत्वाभासत्वस्य विशि(प्य ? प्या). निरूपणादिति । नन्वेवमपि बाधसामग्र्यां लक्षणमतिव्यापकमेव । तम्या अपि विरोधिज्ञा- नसामग्रीत्वेनानुमितिप्रतिबन्धकत्वात् । एवं प्रत्यक्षसामग्र्यामतिव्याप्तिः । संशयो- तरप्रत्यक्षे तम्या अनुमितिप्रतिबन्धकत्वकल्पनादिति चेद् , न । अनुमितिप्र- तिबन्धकत्वं हि न सर्वानुमितिप्रतिबन्धकत्वम् । असिद्धः । हेत्वाभासेनाप्यसा- धकतानुमित्युत्पादनात् । नापि प्रकृतानुमितिप्रतिबन्धकत्वं, सिद्धयसिद्धिव्याया- तात् । किन्तु तत्पक्षकतत्साध्यकतल्लिङ्ग कानुमितित्वावच्छिन्नप्रतिबन्धकत्वम् । तञ्च न प्रत्यक्षसामग्र्याः, तन्या भिन्नविषयकतादृशानुमित्यप्रतिबन्धकत्वात् । समानविषयकप्रत्यक्षसामग्र्या एवं बलवत्त्वात् । बाधसामग्र्याश्च विरोधिज्ञानसाम- ग्रीत्वेन प्रतिबन्धकता । तथा च सत्प्रतिपक्ष एवान्तर्भावः । न तु विरोधिबुद्धयु- पहितसामग्रीत्वं सत्प्रतिपक्षविलक्षणं तत्र प्रतिबन्धकतावच्छेदकम् । मानाभावाद्, अन्यत्र सिद्धधर्मावच्छेदेनैव त(त्र क ? कल्पनौचित्यात् । विरोधिबुद्धयुपधानमिह म्वकारणान्न सत्प्रतिपक्षस्थल इत्यन्यदेतदिति तत्त्वम् । अनुमितिप्रतिबन्धकतावच्छेदकधर्मपदामिह व्यभि- चारादिपश्चकपरमेव । सामान्यपदम्य विशेषपरत्वात् । तथा चैतत्पञ्चकरूपानु- मितिप्रतिबन्धकतावच्छेदकधर्मवदिदं पञ्चकं हेतुत्वाभिमतमिति *समूहालम्बनरूप- विशेप्यत्वमुक्तलक्षणार्थ इति नोपाध्यादौ कुत्राप्यतिप्रस(झात् ! ङ्ग)संभावनापीति । इदं त्ववश्यं वाच्यमेव । अन्यथोपाध्यादावतिप्रसङ्गो ब्रह्मणापि दुर्वार एव । तथा- हि -- ज्ञा(नाना)विषयीभूतप्रतिबन्धकतावच्छेदकपक्षे सत्प्रतिपक्षे विरोधिज्ञानसाम- ग्रीकालीनत्वस्य स्वरूपसतः प्रतिबन्धकतावच्छेदकत्ववद् उपाधावपि स्वरूपसद्वयभि- चारानुमित्युपाधानकालीनत्वस्य तादृशत्वेनातिव्याप्तेः । तादृशे सत्युपाधिज्ञानेऽनुमि- तिप्रतिबन्धकतानियमात्। किं बहुना, व्याप्तिज्ञानकालावच्छिन्नलिङ्गज्ञानेऽसत्यनुमि- त्यनुत्पादनियमादज्ञानरूपासिद्ध्यतिव्याप्तिः । एवं सिसाधयिषाविरहकालीनत्वविशि- ष्टे साध्यज्ञाने सत्यनुमितिप्रतिवन्धनियमात् सिद्धिविषयसाध्यस्यापि हेत्वाभास- वयन्तु विवेचयामः । * समूहालम्बनरूपेति समूहालम्बनरूपज्ञानेत्यर्थः । m.17 मणिसारानुमानखण्डे तापत्तिरित्येवं बहुविप्लवः प्रसज्येत । एवं प्रतिबन्ध कज्ञानविषयत्यैव प्रतिबन्धक- तावच्छेदकत्वमिति पक्षेऽपि किमेकदेशज्ञानस्य प्रतिबन्धकत्वे तद्विशिष्टस्यापरस्या- ज्ञायमान यापि प्रतिबन्धकतावच्छेदककोटिप्रवेशः, उत यावत एव ज्ञानं प्रति- बन्धकं तावत एव तत्र प्रवेश इति । नान्त्यः । साधारणत्वादेरपि प्रतिबन्धकताव- च्छेदकत्वं न स्यात् । साव्याभावांशनिश्च(यविष)यीभूतसाध्याभाववद्वामित्वस्य साधारणत्वम्य साध्यांश(स्य ? )निश्च(यविष)यीभूतसाध्यवद्वयावृत्तत्वस्यासाधारण- त्वस्य च साध्याभावनिश्चयसाध्यनिश्चयघटिततया तस्य चाज्ञायमानस्यैव तत्र प्रवेशाङ्गीकारात् । नायः । स्वरूपसद्वयभिचारानुमित्युपधानावच्छिन्न (स्य) साध्य- व्यापकत्वादेर्जायमानत्योपाधौ , स्वरूपसात्ससाधयिषाबिरहावच्छिन्नस्य साध्यस्य ज्ञायमानस्य सिद्धसायने, म्वरूपसदगृहीतव्याप्त्याश्रयत्वविशिष्टस्य (ज्ञायमानस्य) हेतोरज्ञानादावनुमितिप्रतिबन्धकतावच्छेदकत्वापातादित्यतिप्रसङ्गत्य दुर्वारत्वात् । तस्मादुक्तार्थ एव ग्राह्य इति सङ्केपः ॥ इति हेत्वाभाससामान्यनिरूक्तिः । अथ सव्यभिचारसामान्यनिरुक्तिः । ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च । तत्र सव्यभिचार- स्त्रेधा साधारणासाधारणानुपसंहारिभेदात् । तत्र व्यभिचारल्योभयकोट्युपस्था- पकतावच्छेदकरूपवत्त्वं लक्षणमिति मणिकृतः । अस्यायमर्थः --- साध्यव्याप्ति- निश्चयविरोधिसंशयजनकोभयकोट्युपस्थितिजनकज्ञानविषयतावच्छेदकधर्मवत्त्वम् । तेन केवलान्वयिसाध्यकानुपसंहारिणि नाव्याप्तिः । तत्र साध्यतदभावसंशयासम्भ- वेऽपि साध्य पक्षवृत्तत्वतदभावसंशयत्य व्याप्तिनिश्चवविरोधित्वात् । केवलान्व- यिसाध्यकानुपसंहार्यत्र लक्ष्य एव नेत्यपि कश्चित् । तादृशधर्मः सपक्षविपक्षवृत्तित्वं, सपक्षविपक्ष ! क्षावृत्ति)त्वं , साध्यसंशयविषयमात्रवृत्तित्वमिति त्रितयन(पि ! भि). संहितम् । नन्वात्मत्वादिसाध्ये सद्धतुभूतज्ञाने लक्षणमिदमतिव्याप्तं, साध्यसंश यजनककोटिद्वयोपस्थितिरूपप्रामाण्याप्रामाण्यकोट्युपस्थितिजनकज्ञानविषयतावच्छे- दकज्ञानत्वरूपधर्मवत्त्वाज्जान यापीति चेद् , न । साध्यसंशयविषप्रवृत्तितया य- सव्यभिचारसामान्यनिहक्तिः। ज्ज्ञानस्य तादृशकोट्युपस्थापकत्वमित्यात् । ज्ञानत्वज्ञानं तु प्रामाण्यसंशयविषय- वृत्तितया तादृशसंशयजनककोश्युपस्थापकं, न साध्यसंशयविषयवृत्तितया । विव- क्षितं च प्रकृते तदिति न ज्ञानत्वरूपधर्मवति ज्ञानेऽतिप्रसङ्ग इति वदन्ति । अत्र कश्चिद्-व्यभिचारत्वस्यापि साधारणधर्मदर्शनादित्वेनैव तादृशत- दुपस्थापकता. न तु संशयविषयवृत्तित्वं तदुपस्थापकतायां तन्त्रमित्यसिद्धं लक्षण - मिति दूपणमाह । तन्न । साध्यसंशयविशेष्यवृत्तितानियता यस्य तादृशकोट्यु- पस्थापकतेत्यर्थात् । भवति च साधारणे वट्यादौ गृहीते इदं धूमवन्न वेति संश- य इति तस्य साध्यसंशयधर्मिवृत्तितानियतैव तदुपस्थापकता । ज्ञानत्वं (नः) तु साध्यसंशयविशेष्यवृत्त्यपि प्रामाण्यसंशयविशेष्यवृत्तितामात्रेण तदुभयको चुप स्थापकमिति ज्ञानपक्षकानुमित्यादी ज्ञानत्वस्य संशयविषयवृत्तित्वेऽपि तन्नियमा भावान्नातिप्रसङ्ग इति तत्त्वम् । यत्तु यत्तुंभयकोट्यवस्थापकतावच्छेदकत्वं प्रा- माग्य एवातिप्रसक्तमित्याशङ्कयोक्तक्रमेण परिहरन्ति केचित् । तद्भान्त्या । प्रामा- घ्यायुपस्थितरेवोभवकोट्युपस्थितिरूपतया तज्जनकज्ञानविषयत्वस्य प्रामाग्येऽभा- बन शङ्कानुत्था (य)नादिति केचित् । तदापाततः । प्रामाण्योपस्थित्यनन्तरमर्थोप- स्थितेरपि भावेन तज्जनकज्ञानविषयत्व य प्रामाण्ये शङ्कितुं शक्यत्वात् । तस्मात् तत्रेदं दूषणं - प्रामाण्यस्यार्थमात्र कोट्युमत्थापकत्वमेव, अप्रामाण्यम्य चार्थाभाव. कोट्युपस्थापकत्वमेवति प्रामाण्ऽनामाण्ये वा नोभयकोट्यपस्थायकत्वं शङ्कितुं शक्यत इति । नन्वेवमपि शब्दोऽनित्यः शब्दत्वादित्यत्र पक्षे साध्यानिश्चयदशायां शब्दत्वस्यानित्यत्वव्याप्तियत्र शाब्दादिना गृहीता, लद्दशायामतिन्याप्तिः सपक्ष- घटादिव्यावृत्तत्वस्य शदत्य तदापि ज्ञानादिति चेद् , न । व्याप्तिग्रहम्यैव सपक्ष. वृत्तित्वज्ञानत्वेन तद्दशायां सपक्षव्यावृत्तत्वाज्ञानात् । न च तत्र व्यतिरेकसहचाराद व्यतिरेकव्याप्तिग्रहः , तद्दशायां सपक्षव्यावृत्तत्वज्ञानादतिव्याप्तिरिति वाच्यम् । व्यतिरेकसहचारादन्वयव्याप्तिग्रहमत एवास्य लक्षणत्वात् । अन्वयव्याप्तिग्रहस्य च साध्यनिश्चयं विनासम्भवात् पक्ष एव साध्यनिश्चय इति तयावृतत्वत्य तदा ज्ञानासंभवादिति । यद्वा, विशेषादर्शनदशायामेव सपशव्यावृत्तत्वज्ञानं संशय- 1. 'त्र भ' क. पाठः, मणिसारानुमानखण्डे me । कोट्युपस्थापकमिति विशेष दर्शनदशायां सपक्षव्यावृत्तत्वज्ञानेऽपि न लक्षणाति- व्याप्तिशङ्केति दिक् । यतु दूषणभिह नवैरभ्यधायि सपक्षव्यावृत्तत्वादिज्ञानं नोभयोपस्थापकम् । असाधारणे परम्परप्रतिबन्धेनैकस्याप्यनुपस्थितेरिति । नद सत् । कोट्युपस्थितौ परस्परप्रतिबन्धाभावात् । अन्यथा कापि न स्यादित्यसा धारणस्थले विशिष्य दोषाभिधानम्यात्यन्तासङ्गतत्वात् । न च संशये परस्परप्र- तिबन्धः । तथा सति संशयोत्पादः वापि न स्यादेव । विरुद्धनिर्णयसामग्र्यैव तदुत्पादनादिति न किञ्चिदेतत् । इदं तु दूषणमिह संभवति -- साधारगत्वं न सपक्षविपक्षवृत्तित्वम् । अयं गौरश्वत्वादिति विरुद्धसङ्कीर्णसाधारणाव्याप्तेः । किन्तु विपक्षवृत्तित्वमात्रम् । तच्च साध्याभावकोटिमात्रोपस्थापकं , तत्साहचर्यात् । न तु साध्यकोट्युपस्थापकमपी- त्युभयकोट्युपस्थापकत्वं तत्राव्याप्तमिति । अत्र प्रतिभाति ----विपक्षवृत्तित्वं दूषकताबीजम् । विभाजकोपाधिस्तु विरु- द्धव्यावृत्तं सपक्षविपक्षवृत्तित्वमेवः । एवमसाधारणस्यापि सपक्षविपक्षव्यावृत्तत्वमेव विभाजकोपाधिः । दूषकतोपाधिस्तु सपक्षव्यावृत्तत्वमेवेति तत्त्वम् । वस्तुतस्तु साध्यज्याप्यत्वनिश्चयविरोधिसाध्याभावववृत्तिमात्रवृत्त्यन्यहेत्वाभासतोपाधित्वमनै कान्तिकत्वम् । तादृशोपाधिश्च विपक्षवृत्तित्वादित्रयमेव । साध्यसमानाधिकरणेऽपि तत्रयस्य वृत्तेः साध्याभावववृत्तिमात्रावृत्तित्वात् । न चैवमपि व्याप्यत्वासिद्धय- तिव्याप्तिः । तदन्यत्वस्यापि विशेषणत्वादिति दिक् ।। इति सव्यभिचारसामान्यनिरुक्तिः । अथ साधारणग्रन्थः । तत्र साधारणत्वं विपक्षवृत्तित्वमिति माणिकृतः । विपक्षत्वमिह साध्यवद- न्यल्वम् । अन्योन्याभावगर्भव्याप्तिज्ञानस्यानुमितिहेतुत्वादिति केचित् । तन्न । अ. न्योन्याभावगर्भव्याप्तिज्ञानस्यैव हेतुत्वमिति पक्षेऽपि अत्यन्ताभावगर्भव्यभिचारज्ञा- नस्यान्वयव्यतिरेकाभ्यां ग्राह्याभावानवगाहिनोऽपि प्रतिबन्धकत्वात् । वस्तुतोऽत्य- 1. 'दन्त्यं स क. पाठ:.

साधारणग्रन्थः । meine न्ताभावादिगर्भव्याप्तिधीरपि हेतुरेवेति याबदभावगर्भा व्याप्तिताबदभावगर्भ विपक्ष- त्वम् । न चैत्रमननुगमः । सहचार ज्ञानसहकार्यभावप्रतियोगिज्ञानविषयतावच्छेद- कत्वेनानुगमात् । व्यभिचारज्ञानाभावसहकृतसह चारज्ञानस्य व्याप्तिधीहेतुत्वादि- त्यन्ये । तच्चिन्त्यम् । असहचरि(त)त्वनिश्चयाव्याप्यत्वनिश्च(य) योरप्यभावस्य व्याप्यत्वनिश्चयहेतुतया सहचारधीसहकारित्वम्य तदभावेऽपि सत्त्वेन विरुद्धव्या- प्यत्वासिद्धयतिव्याप्तेः । तस्मात् सहचाराप्रतियोगित्ते सतीत्यपि विशेषणं देयम् । असहचारविशिष्टासहचारयोश्च विरुद्धव्याप्यत्वासिद्ध्योः सहचारनिरूप्यत्वादति व्याप्तिनिरासात् । यद्वा , अनुमितिहेतुव्याप्तिज्ञाने ग्राह्याभावावगाहि यज्ज्ञानं संश- यसाधारणं प्रतिबन्धकं , तत्त्वं साधारणत्वम् । विरुद्धत्वादिसंशयश्च न प्रतिबन्धक इति नातिव्याप्तिरिति तत्त्वम् । अनोपाध्यायाः साध्याभावववृत्तित्वज्ञानमात्रं प्रतिबन्धक, लाघवात् । न तु निश्चयमानं , गौरवादिति वदन्ति । तन्न । तथा सति संशयरूपव्यभिचार- ज्ञानस्य पक्षीयस्य सर्वत्र सत्त्वादनुमानमात्रविलयापातादित्युक्तत्वात् । न च तर्का- च्छानिवृत्तावनुमानप्रवृत्तिः । अनुभवविरोधात् । सन्दिग्धसाध्यवति सर्वत्र तर्कापेक्षाया अदर्शनादिति प्रागेवोदितत्वात् । किञ्च , विद्यमानव्यभिचारशङ्का न तर्कनाश्या । तम्याः स्वोत्तरभाविगुणा(न ? )न्तरमात्रनाश्यत्वेन तर्कपर्यन्तानपेक्ष- णात् । नाप्यनागतशङ्कानुत्पादकत्वं तर्कस्येति वाच्यम् । तथा सति विद्यमानश- झाया अनुमानप्रतिबन्धस्य दुर्वारत्वापातात् । न च तर्काभावविशिष्टव्यभिचारधीः प्रतिबन्धिकेति व्यभिचारसंशयः सन्नपि तर्ककाले न प्रतिबन्धक इति वाच्यम् । तथा सति व्यभिचारनिश्चयस्यापि तर्ककाले प्रतिबन्धकता न स्यादिति संशय उत्तेजको वाच्य इति तस्य पृथक् प्रतिबन्धकताकल्पनेऽतिगौरवमिति । मिश्रास्तु - साध्याभावांशनिश्चयीभूतसाध्याभाववद्वृत्तित्वज्ञानत्वेन प्रति- बन्धकता । तेन व्यभिचारसंशयात् पक्षीयाद् नानुमानविलयः । नापि साध्या- भाववत्त्वेन निश्चिते हेतुसंशयस्याप्रतिबन्धकस्यमिति वदन्ति । तदपि चिन्त्यम् । व्याभिचारनिश्चयत्वेनैव घटाभावादि(ति ! )निश्चयवद् ग्राह्याभावनिश्चयत्वेन प्रति- बन्धकत्वम् । न तु संशयस्यापि । विशिप्य तथा कल्पने मानाभावात् । न चैवं १. 'का' क. पाठः.

माणसारानुमानखण्डे -- सति सन्दिग्यानैकान्तिकोच्छेदः । उपाध्यादिसन्देहाहितव्यभिचारसंशयस्य सन्दि. ज्यानकान्तिकत्वात् । तस्य चान्याहितसंशयत्वेन ग्राह्यान्तरसंशयसाधारण्येनैव प्रति- बन्धकत्वात् । तस्मात् स्वारसिकः साध्याभाववति हेतुसंशयो वा हेतुमति साध्याभावसंशयो वा न दोषः । अन्याहितस्तु प्रतिबन्धक एव । न केवलमिहेव तत् । किन्तु घटाभावादिसंशयेऽप्येषैव रीतिरिति प्रतिभाति । यत्त्वत्र कश्चिद् व्यभिचारज्ञानस्य न ग्राह्याभावज्ञानत्वेन प्रतिबन्धकता । तथा सत्यत्यन्ताभावग- भव्याप्तिज्ञानेऽन्योन्याभावगर्भव्यभिचारज्ञानं प्रतिबन्धकं न स्यादिति व्याभिचार- ज्ञानस्य पृथक् प्रतिबन्धकता वाच्या । तथा चान्यत्राकप्तो ग्राह्याभावसंशयः प्रति- बन्धकतया कल्प्यते । ज्ञानत्वेन प्रतिबन्धकतायां लाघवादित्यवोचत् । तदभद्रम् । व्यभिचारज्ञानत्वेन प्रतिबन्धकतायां पक्षीयव्यभिचारसंशयेनानुमानोच्छेदम्योक्त- त्वात् । साध्याभावांशनिश्चयीभूतत्वविशेषणे च विपरीतगौरवात् , तदपेक्षया साध्याभाववत्तित्वनिश्चयत्वस्य लघुत्वात् । किञ्च , कदाचिदस्तु व्याप्तिः । सर्व- स्यामपि हेत्वधिकरणत्वावच्छेदेन साध्यवत्त्वं ग्राह्यम् । तथा चात्यन्ताभावगर्भा- यामप्यन्योन्याभावगर्भव्यभिचारधीग्राह्याभावावगाहितयैव प्रतिबन्धिका । अत्यन्ता- भावज्ञाने ग्राह्याभावजानत्वेन प्रतिबन्धकत्वात् । साध्यवदन्योन्याभावाभावात्मक- सांध्यज्ञाने तद्वदन्योन्याभावज्ञानस्यापि तदत्यन्ताभावज्ञानवत् तत्त्वेन प्रतिवन्धक- त्वौचित्यात् । अवश्यं चैतदभ्युपेयमेव । अन्यथा घटान्योन्याभावज्ञानस्य घटत्व- ज्ञानप्रतिबन्धकता न स्यात् । तदन्योन्याभावम्य ग्राह्यघटत्वाभावानात्मकत्वादि. त्यलम् । किं बहुना , एवं च साध्याभावांशनिश्च(यविष)यीभूतसाध्याभाववद्वृत्ति- त्वम्य साधारणोपाधित्वे निश्चयांशस्यानित्यत्वादनित्यदोपताप्रसङ्गः । अन्यथा सपक्षव्यावृत्तत्वरूपासाधारणत्वोपाधिकस्यासाधारणस्याप्यनित्यदोषता न स्यादिति दूधणं शङ्कापथमेव नाधिरोहति । साध्याभाववद्वृत्तित्वस्यैव साधारणोपाधितया निश्चयस्याप्रवेशेनोक्तदोषाभावात् । न चैवमसाधारणत्वमपि साध्यवद्वयावृत्तत्व- मेवास्त्विति तत्रापि निश्चयाप्रवेशाद् नित्यदोषतापात इति वाच्यम् । एवं सति सद्धेतोः शब्दत्वस्यानित्यत्ववतः सर्वस्माद् व्यावृत्तत्वाभावेनासाधारणत्वाभावप्रसङ्गा दिति दिक् । यत्तु मित्रैः समाहितं -याविषयतया ज्ञान प्रतिबन्धकं , तद्विषय- । 1. 'त्यत्वदो' क. पाठ:.

असाधारणग्रन्थः । त्वावच्छिन्ने तस्मिन् सति यत्र प्रतिबन्धनियमन्तत्र तज्ज्ञानविषयस्य नित्यदोष- त्वम् । अस्ति चैतत् साधारणत्वे । तज्ज्ञाने सति व्याप्तिज्ञानस्य कदाप्यसंभवात् । असाधारणे तु सपक्षव्यावृत्तत्वज्ञानेऽपि विशेषदर्शनदशायामप्रतिबन्धान नित्यदो- पत्वमिति । तत्तु विचार्यम् । यादृशम्य ज्ञानस्य विरोधिता, तादृशे सति प्रतिब धनियमे सति नित्यदोषत्वमित्येव वाच्यम् । अन्यथा व्यभिचारज्ञाने यत्राप्रामा- ण्यशङ्का , तत्र प्रतिबन्धकत्वम्याभावात् तस्याप्यनित्यदोपतापातात् । अस्ति चैतदप्रामाण्यशङ्काशून्यत्यभिचारज्ञानवद् विशेषादर्शनविशिष्टसपक्षव्यावृत्तत्वज्ञा- नम्य प्रतिबन्धकत्वनियम इति नित्यदोपता तस्य दुरिवेति सङ्ग्रेपः ॥ इति साधारणग्रन्थः। अथासाधारणग्रन्थः । । असाधारणत्वं तु सपक्षविपक्षव्यावृत्तत्वम् । तत्र च विपक्षव्यावृत्तिरनुकू- लैव । सपक्षव्यावृत्तिर्दूषणम् । तच्च साध्यतदभावोत्थापकतया दूषणामिति मणि- कृतः । अत्र साध्यतदभावोभयानुमित्यनुकूलव्याप्तिविशिष्ट पक्षधर्मताज्ञान विषयत्व साध्यतदभावोत्थापकत्वम् । अनुमितिश्च परस्परप्रतिबन्धेन न जायते । अत एवायं तर्हि सत्प्रतिपक्ष एवेत्याशङ्कां मनसि निधाय सत्प्रतिपक्षे द्वौ हेतू अत्र त्वेक एवेति ततो भेद इत्युक्तं मणिकृतेत्युपाध्यायाः । अत्र मिश्राः हेत्वैक्यानैक्यमकिञ्चित्कर हेत्वाभासैक्यानैक्ये । किन्तु प्रतिबन्धकतावच्छेदकैक्यानैक्यम् । तब सत्प्रतिपक्षसमानमेवेति कथं तद्भेदः । किञ्च , एकस्य कथं परम्परविरुद्ध साध्यतदभावव्याप्तिग्रहः । एकत्र विरुद्धोभयाज्ञानादिति नैवं व्याख्या युज्यते । किन्तु साध्यतदभावोत्थापकत्वमिह तदुभयानुमित्यनुकूलतदुभयव्याप्तिग्रहसामग्रीसहकृतत्वम् । तथा चात्र साध्याभाव- हेत्वभावसहचारग्रहः साध्यहेत्वभावसहचारग्रहश्च साध्यतदभावव्याप्तिग्रहकारणे हेतौ (सत स्त) इति परस्परविरुद्धव्याप्तिग्राहकसामग्र्या नैकत्रापि व्याप्तिग्रह 1. 'यत्वस्थ' क पाट:.

मणिसारानुमानखण्डे meanine -- इत्यसाधारणस्य दूषकताबीजम् । अत एव यद्येवं तदा सत्प्रतिपक्षे कथं पर- स्परविरुद्धव्याप्तिग्रह इत्याशङ्कायामुक्तं सत्प्रतिपक्षे द्वाविति । तथा चैकस्मिन् परस्परविरुद्धव्याप्तिग्रहो न संभवति , न तु भिन्नेऽपीति न विरोध इत्याहुः । अत्र चैतत् तत्त्वम् अन्वयव्याप्तिग्रहः प्रकृते शङ्कितोऽपि न । एकहेतोः साध्यतदभावोभयनियतसामानाधिकरण्यस्य साध्यतदभावयोरैकाधिकरण्ये पर्य- वसन्नस्य विरुद्धतया ज्ञातुमशक्तेः । व्यतिरेकव्याप्तिग्रहस्तु संभवति । शब्दत्वा- भावे नित्यत्वानित्यत्वव्यापकत्वग्रहे बाधकाभावात् । तदपि वृत्तिमत्त्वास्फूर्तिदशा- याम् । वृत्तिमत्त्वस्फूर्तावपि यद् वृत्तिमत् तन्नित्यानित्यान्यतरवृत्तिरिती)त्याकारक- व्याप्तिस्मृत्यभावे सत्युभयव्यापकत्वग्रहो न विरुद्ध इति तादृशम्थले सत्प्रतिपक्षत- यैवासाधारणन्य दोषता । तदभिप्रायिकैवोपाध्यायोक्तिरपि । यदि च वृत्तिमद् नित्यानित्यान्यतरवृत्त्येवेति स्फूर्तिः, तदा व्यतिरेकव्याप्तिग्रहोऽप्यसंभवी। सकल- नित्यव्यावृत्तत्वस्य सकलानित्यव्यावृत्तत्वस्य च शब्दत्वे वृत्तिमत्त्वेन ज्ञाते ज्ञातु- मशक्यत्वात् । तथा च सपक्षविपक्षव्यावृत्तत्वज्ञानरूपसाध्यतदभावव्याप्तिग्रहसा- मग्रीसंभवे सत्प्रतिपक्षान्न व्याप्तिनिश्चयः । किन्तु परस्परव्याप्तिसंशय इत्यसाधार- णस्य दूषकताबीजम् । इदमेवाभिप्रेत्य व्याप्तिग्रहसत्प्रतिपक्षः पक्षधरमिङ्रुक्त इति । इदं त्ववधेयं विरुद्धव्याप्तिग्राहकसामग्रीत्वेनासाधारणस्य दूषकतापक्षे- ऽपि हेत्वक्यमकिञ्चित्करम् । हेतुनानात्वेऽपि तत्संभवात् । यथा अमनित्यः पटत्वाद् , नित्योऽयं तन्तुसमवेतद्रव्यत्वादित्यत्र । इहैकत्रैवाधिकरणे उभय- हेत्वोरुभयसाध्यव्याप्तिग्रहप्रसक्तौ विरोधेन तदग्रहात् । अत्र त्वेक एवेति मणेरेका धिकरण एवेत्यर्थादिति दिक् ।। IHARomiya इत्यसाधारणग्रन्थः । अथानुपसंहारिग्रन्थः। अनुपसंहारी च केवलान्वयिधर्मावच्छिन्नपक्षक इति वदन्ति । अस्यार्थः wwwse १. 'क्यं कि' क. पाठः अनुपसंहारिग्रन्थः। स्वरूपसत्साध्यसिद्धिनिवर्त्यसंशयविषयोपस्थितैया(त! व)द्वस्तुवृत्तिस्वव्याप्तिप्राहक- सत्ताकत्वम् । अत एव केवलान्वयिसाध्यकानुपसंहारिण्यपि नाव्याप्तिः । साध्यसि- द्धिनिवर्त्यसंशयस्य प्रमेयत्वमिह न वेत्यादिरूपस्य तत्रापि प्रसिद्धेः । अत एव च यत्र वह्निसन्देहस्तत्र सर्वत्र धूमस्य सकलवृत्तित्वेनाज्ञानान्न (?)व्याप्तिसम्भावना, तत्रापि व्याप्तिग्राहक(त्व ? )स्य धूमसत्त्वस्य धूमाभावसत्त्वस्य च सर्वत्र ज्ञानात् । ननु तथापि सकलधूमाधिकरण एव यत्र वहिसन्देहः , तदनन्तरं सर्व धूमवद् वह्निमदित्यनुमितिः, तदानुपसंहारित्वं न स्यात् । यावदुपस्थितवस्तूनां साध्यसंश- याविषयत्वादिति चेद्, न । तत्र व्यतिरेकसहचारेणान्वयव्याप्तिग्रहसम्भवादनुपसं- हारित्वाभावस्येष्टत्वादिति । यथाश्रुते तु सर्व प्रमेयमित्यादीनां विशेषदर्शनदशा- यामपि केवलान्वयिधर्मावच्छिन्न पक्षकत्वेनानुपसंहारित्वापत्तिः, सर्व धूमवद्वह्निम- दित्यस्य विशेषादर्शनदशायामप्यनुपसंहारित्याभावापत्तिः, केवलान्वयिधर्मावच्छि- नपक्षत्वाभावादित्यादि दूषणं द्रष्टव्यम् । अत्र वदन्ति अनुसंहारी न हेत्वाभासः । हे तुमति सर्वत्र साध्यसं- शयात् सहचारनिश्चयाभावेन व्याप्तिनिर्णयाभावः । कारणाभावादेव कार्याभावोप- पत्तौ प्रतिबन्धकाकल्पनात् । किञ्च , हे तुमति साध्यसन्देहो व्यभिचारसंशयः । स च न प्रतिबन्धकः । पक्षीयसाध्यसंशयेनानुमानमात्रोच्छेदप्रसङ्गात् । भवतु वा प्रतिबन्धकः । तथापि साधारण एवायनन्तर्भूतो न पृथग हेत्वाभास इति । अत्र मिश्राः ---- हेतुमति सर्वत्र साध्यसन्देहोऽनुपसंहारी । स च हेतौ साध्यसामानाधिकरण्यसंशयसामग्रीत्वेन प्रतिबन्धकः । हेतुमति साध्यसंशयानन्तरं हेतुः साध्यसमानाधिकरणो न वेति संशयस्यौचित्यावर्जितत्वात् , प्रामाण्यमंशयव- दिति वदन्ति । अत्र कश्चित् ----संशयसामग्री न निर्णयप्रतिबन्धिका | कारणाभावादेव तदा निर्ण गाभावात् । तथा च सहचारनिश्चये कथमम्य प्रतिबन्धकत्वं, येन हेत्वाभासता स्यादित्याह । त(न्नि ! न्न । निश्चयद्वयसामग्र्या एव संशयजनकतया तदप्रतिबन्धकत्वे संशयकाले निर्णयापातस्य वज्रलेपायितत्वादिति । 1. 'तविषयात' क. पाठः, m. IR मणिसारानुमानखण्डे अन्ये तु-हेतुमति सर्वत्र साध्यसंशयः साध्यसामानाधिकरण्यसंशयसा- मग्रीत्वेन यदि प्रतिबन्धकः , तदा प्रथमसंशयसामग्र्यपि प्रतिबन्धिकास्तु । संश- यसामग्रीत्वाविशेषादिति । तदपि न । हेतुमति साध्यसन्देहस्य स्वारसिकस्याप्र- तिबन्धकतया तत्सामग्र्या न प्रतिबन्धकता । प्रतिबन्धकसामग्रीत्वाभावात् । हेतु- मात साध्यसन्देहाहितस्य हेतुसाध्यसामानाधिकरण्यसंशयस्यान्याहिततया प्रतिब- न्धकत्वेन तत्सामग्रीभूतस्य प्रथमसन्देहस्य प्रतिबन्धकत्वौचित्यादिति दिक् ॥ इत्यनुपसंहारिग्रन्थः। अथ विरुद्धग्रन्थः। weremon विरुद्धश्च साध्यव्यापकाभावप्रतियोगीति मणिकृतः । नन्विदं लक्षणमाका- शाद्यवृत्तिसाध्यकविरुद्धाव्याप्तम् । साध्याधिकरणाप्रसिद्ध्या हेत्वभावे तद्वयापकत्वा संभवात् । न च तस्यासंग्राह्यत्वमेवास्तु । दूषकताबीजसामानाधिकरण्यज्ञानविरो- धित्वस्य सत्त्वेनासंग्राह्यत्वाभिधानस्य निर्वचनासामर्थ्यद्योतकत्वात् । किञ्च , साध्यव्यापकाभावप्रतियोगिसंबन्धकत्वज्ञानमपि सामानाधिकरण्यज्ञानविरोधिहत्वा. भासान्तरं स्यात् । उक्तविरुद्धोपाध्यनन्तर्भावादिति । अत्र वदन्ति साध्यव्यापकाभावप्रतियोगित्वं न सकलविरुद्धसाधारणं विभाजकत्वेनोक्तम् । किन्तु क्वचिदेतत् कचिदन्यदित्युक्तदोषाभावः । न चैवं विभाजकोपाधिः मर्वसाधारणो न प्राप्त इति वाच्यम् । हेतुनिष्ठसामानाधिकर- ण्यधीप्रतिबन्धकनिश्चय(ता?)विषयतावच्छेदकधर्मवत्त्वेन सर्वसाधारणानुगमकर -- णात् । अत एव किञ्चेत्यादिदोषोऽपि निरस्तः । अत्र केचित् -हेतुमति साध्यस्य ग्राह्यतया हेतुमति साध्याभावज्ञानं (साध्य)ग्रह)प्रतिबन्धकं , ग्राह्याभा गवगाहित्वात् । न तु साध्यवति हेतुर्ग्राह्यः , येन साध्यवति हेत्वभावधीविरोधिनी स्यात् । किञ्च , सद्धेतावपि साध्य(वाक्य ? वत्य)योगोलकादौ धूमाभावसत्त्वात् तत्रापि सामानाधिकरण्यज्ञानं न स्यादिति । तद(प्यु ? प्यनु)पपत्तिविलसितम् । साध्यहेतुसामानाधिकरण्यस्य ग्राह्यस्य हेतुमति विरुद्धग्रन्थः। सर्वत्र साध्याभावज्ञानाद्वा साध्यवति सर्वत्र हेत्वभावज्ञानाद्वा विघटनात् । ऐकाधि- करण्यस्य तत्रापि विरोधे सत्यसंभवात् । अत एव न (सि ? सोद्धेतावतिप्रसङ्गः । तत्र साध्यवति कचिदेव हेत्वभावज्ञानात् । सर्वत्र तज्ज्ञानत्यैव सामानाधिकरण्य- ज्ञानविरोधित्वात् । अत एव च न व्यभिचारसङ्करोऽपि । हेतुमात साध्याभाव- ज्ञानस्य सामानाधिकरण्यज्ञानाविरोधित्वात् । अत एव हेतुमति सर्वत्र साध्याभाव- ज्ञानस्य व्यभिचारज्ञानत्वेनैव प्रतिबन्धकत्वम् । अन्यत्र कलानात् । (न) विरुद्ध- ज्ञानत्वेन' इत्यपि कम्यचित् प्रलपितमपास्तम् । हेतुमाते सत्र साध्याभावज्ञान- स्योभयरू(पत्वेना? पेणा)पि प्रतिबन्धकत्वात् । साध्यवति सर्वत्र हेत्वभावज्ञानस्य सामानाधिकरण्यधीविरोधिज्ञानत्वेन पृथक्प्रतिबाधकत्वकल्पनात् । व्यभिचारस्य तत्रासंस्पर्शात् । साध्याभावानवगाहित्वात् । केचित्तु --- हेतुमति साध्याभावज्ञानं व्यभिचारज्ञान तया, हेतुमति साध्या- धिकरणत्वाभावज्ञानं ग्राह्यसामानाधिकरण्याभावावगाहितया प्रतिबन्धकम् । तथा च नानयोः सङ्कर इत्याहुः । साध्याधिकरणत्वाभावज्ञानमपि हेतुमति साध्या भावावगा- हितया व्यभिचारज्ञानत्वेनैव प्रतिबन्धकं , न तु विरुद्धत्वज्ञानत्वेनेति दूषयन्ति । तन्न । हेतुमति साध्याभावज्ञानम्याव्यभिचारज्ञानविरोधित्वेन प्रतिबन्धकत्वाद् हेतुमति साध्याधिकरणत्वाभावज्ञानस्यापि सामानाधिकरण्यज्ञानविरोधितया प्रतिब- न्धकत्वात् । ग्राह्याभावावगाहित्वस्य समानत्वात् । विनिगमकान्तरस्याभावात् । वस्तुतः साध्याधिकरणे हेत्वभावज्ञानस्य व्यभिचारज्ञान(स्य ! त्व)शङ्कापि ना. स्तीति तत्रैव विरुद्धस्यासाकर्यमित्यवधेयम् । यत्तु ---- व्यभिचारज्ञानं संशयसाधा- रणं प्रतिबन्धकं, विरुद्धत्वज्ञानं च निश्चयरूपमेवेति भेद इति । तन्न | व्यभिचा- रज्ञानस्यापि संशयरूपस्य प्रतिबन्धकत्वे मानाभावात् । ग्राह्यान्तरसाधारण्येनैव प्रतिबन्धकत्वसम्भवे व्यभिचारज्ञानस्य पृथक् प्रतिबन्धमत्त्वाकल्पनादिति पूर्वमेवा- वेदितत्वादिति सङ्केपः ॥ अत्र नव्याः इति विरुद्धग्रन्थः। Publemiarte मणिसारानुमानखण्डे अथ सत्प्रतिपक्षग्रन्थः । अत्र मिश्राः meanik सत्प्रतिपक्षता च साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरु द्धकालिङ्गतेति मणिकृतः । अत्र बाधसामग्र्या प्रतिरुद्धकार्ये हीनबलवल्लिङ्गेऽति व्याप्तिर्मा भूत् । अतः समानपदम् । तदर्थश्च निर्णयाजनकत्वम् । बाधसामग्री च बाधरूपनिर्णयजनिकैवेति वदन्ति । अत्रोपाध्यायाः बाधसामग्रीमादाय हीनबलेऽतिव्याप्तिवारणाय समान- पदमित्युक्तम् । (तन्न ।) अधिकब लत्वल्य सापेक्षतयाधिकबलत्वस्य ज्ञानदशायामत्र न्यूनबलत्वज्ञानम्यावश्यकत्वात् तेनैव तत्रानुमित्यनुत्पत्तावधिकबलत्वज्ञानस्य प्रतिब- न्धको मानाभावात् । तस्मात् पारिभाषिकमिह प्रतिबन्धकत्वम् । सा च विरुद्धत्वे सति विद्यमानत्वम् । तच्चाप्रतिबन्धकीभूतायामप्यधिकबलोपस्थितावस्तीति तामा- दाय न्यूनबलातिव्यातिवारणाय समानपदमित्याहु । अधिकबलत्वं हि गृहीतप्रमात्वम् । तच्चैकलिङ्गस्य यदा तदापरलिङ्गस्य गृहीताप्रमात्वरूपं न्यूनबलत्वमित्यत्र मानाभावः । तदुभयलिङ्ग- ज्ञानप्रमात्वाप्रमात्वयोभिन्नविषयकतया समानग्रहसामग्रीत्वाभावात् । तस्मादधि- कबलत्वज्ञानं विरोध्येवेति प्राच्यं व्याख्यानं भव्यमेव । स्वीयपरिभाषा तु न भव्या । एवं सति हीनबलोपस्थितेरपि पारिभाषिकप्रतिबन्धकतामादायाधिकबलो- पस्थितौ ल क्षणातिव्याप्तेर्दुप्परिहरत्वात् । नहि समानपदाद् हीनबलोपस्थितिर्वार- यितुं शक्यते । निर्णयाजनकत्वरूपसमानत्वस्य तत्र सत्त्वादिति दूषयन्ति । यदा चैकपरामर्श प्रमा(त्व ग्रहः, तदापरपरामर्श (न च नाप्रमात्वग्रहः । तथासति प्रतिबन्धकत्वं सत्प्रतिपक्षतयैव । प्रमात्वांग्रहस्या- किश्चित्करत्वात् । अप्रामाण्यशङ्काशून्यत्वत्योभयसाधारणत्वात् । तथा च न तदातिव्याप्तिशङ्कापि | सत्प्रतिपक्षतथैव सङ्ग्राह्यत्वात् । अथ यदैकत्र प्रमात्वग्रहः तदा भिन्नग्रह सामग्रीकमप्यप्रमात्वं प्रतिबध्यलिङ्गपरामर्श गृह्यत इति मतं, तदा कारणीभूताप्रमात्वशङ्काशून्यपरामर्शाभावादेवानुमित्यनुत्पाद इत्यधिकबलोपस्थितेः । । अत्र नव्याः Rani सत्प्रतिपक्षग्रन्थः । अत्र अमः तत्सा- । प्रतिबन्धकत्वं नास्त्येवेति न तमादाय न्यूनचलोपस्थितावतिव्याप्तिरित्युपाध्यायो- क्तदूषणं समीचीनमेवेति वदन्ति । बनोभयोरपि परामर्शयोरप्रामाण्यशक्षा नास्ति , एकत्र च प्रमात्वं गृहीतं , तत्राप्रामाण्यशङ्काशून्यत्वस्योभयसाधारणतया प्रमावग्रहम्याधि- कबलत्वसम्पादकता संभवत्येव । विपक्षबाधकतर्कतत्त्वात् । तथा च तत्र गृहीत- प्रमात्वपरामर्शप्रतिरुद्ध कार्येऽगृहीतप्रमावे परामर्शान्तरेऽतिव्याप्तिः संभवत्योति तदर्थ समानपदामिति मिश्राशयात् । वस्तुतो यज्ञानं यत्र प्रतिबन्धकं, मग्र्यपि तत्र प्रतिबन्धिकेति बाधसामग्र्याः कथं न प्रतिवन्धकत्वन । बाधप्रतिब- न्धकत्वम्य व्यवस्थाप्यत्वात् । यथा च तथा सति बाधसामग्री न हेत्वाभासः, तथोक्तं हेत्वाभासलक्षणे । बत्तूपाध्यायपरिभाषापक्षे मिश्रर्दूषणमुक्तं --- हीनबलो- पस्थितिमादायाधिकवलोपस्थितावतिव्याप्तिरिति । तत्तु(न।) अन्यूनाधिकत्वरूपस्य समानत्वस्योपाध्यायाभिप्रेतत्वात् , तस्य च न्यूनबलोपस्थिताबधिकवलोपस्थितौ वा विरहेणानतिग्रसङ्गादिति दिक । अत्र च नायं व्यासपक्षधर्मः पर्वतवृत्तित्वादि- त्यत्रायं व्यासपक्षधर्म इति निर्णयाजनकवाधरूपवलोपस्थिया प्रतिरुद्वकार्ये पर्वत- वृत्तित्वरूपलिङ्गेऽतिव्याप्तिर्ना भूत् । अतः साध्यविरोध्ययस्थापनसमर्थति विशेषणम् । व्यातिविशिष्ट पक्षधर्मतोपस्थितिजननम्वरूपयोग्यत्वं प्रथमविशेषणार्थः । तेन केव- लान्वयिसत्प्रतिपक्षे नाव्याप्तिः । नन्वाद्यं विशेषणं तथापि व्यर्थमेव । व्याप्तिविशिष्टपक्षधर्म इति बाधरूपो- पस्थितेः बलोपस्थितित्वेन प्रतिबन्धकत्वाभावात् । तथा विवक्षायाश्चावश्यकत्वात् । अन्यथा अनित्यत्वव्याप्यं कृतकत्वमिति सत्पतिपक्षात्मके परामर्श नित्यत्ववि- रुद्धं जन्यत्वमित्यपि यत्र देवादवसितं, तत्र विरुद्धत्वेन ज्ञाते जन्यत्वेऽतिव्याप्ति- प्रसङ्गात् । विरुद्धत्वज्ञानस्य समूहालम्बनरूपत्वेन बलोपस्थितिरूपत्वसत्त्वादिति चेद्, न । बलोपस्थितित्वस्य म्व(वलो ! परो)पस्थितिसाधारण्येन प्रतिबन्धकतान- वच्छेदकतया साध्यविरो(धित्वा ? धीत्या)देरावश्यकत्वात्। तथा च तद्दलात् साध्य- विरोधिनोऽन्यूनबलोपस्थि(त: ति)त्वं प्रतिबन्धकतावच्छेदकं लभ्यते । तदयं लक्ष- णार्थः-साध्यविरोध्यन्यूनव्याप्तिपक्षधर्मतोपस्थितित्वावच्छिन्न प्रतिबन्धकता(यन्नि- ष्ठा,)निर्णयाजनकतादृगुपस्थितिप्रतिरुद्धकालिङ्गत्वामिति । सत्प्रतिपक्षे तु परामर्श- दूयं कचित् कचिदेक एव परामर्शः सामग्रीबलाद् भवति । न चाद्यपक्षे द्विती. । ।

१४२ मणिसारानुमानखण्डे यपरामर्शोत्पत्तिकाले प्रथमेनानुमितिरेव न कुत इति वाच्यम् । मिद्ध्यनन्तरं प्रथ- मपरामर्शोत्पादात् सिद्धिप्रतिबन्धेनाव्यवधानेनानुमित्यजननात् । द्वितीयपरामर्श (न) प्रतिबन्धे(न?) विनश्यदवस्थेन प्रथभेनानुमित्यजननात् । यद्वा द्वितीयपरामर्शोत्पत्ति- काले कार्यतः सहभूतस्य तदभावस्याभावेनानुमित्यनुत्पत्तिः । अन्यथा विशेषदर्श- नकाले संशयापत्तेरिति मगेरप्यत्र स्वरसात् । नन्वसंभवग्रस्तमिदम् , एकत्र परम्परविरोधिसाध्यतदभावयोरिव तद्व्या. प्ययोरपि ज्ञानासंभवादिति चेद्, न । उभयव्याप्यज्ञानानन्तरं साध्ययोर्यत्र विरो- वस्फूर्तिः, तत्रानुपपत्त्यभावात् । न चैवं विरो(धि ? ध)स्फूर्तिकाल एवानुामेत्या- पातः, परामर्शस्य वृत्तित्वादिति(?) वाच्यम् । विरोधज्ञानस्य प्रतिबन्धकत्वादिति बहवः । तच्चिन्त्यम् । तथा सति विरोधधियः प्रतिबन्धकत्वं, न तु परामर्शात्मक- सत्प्रतिपक्षस्य । मानाभावात् । तस्मात् साध्ययोर्विरोधावधारणेऽपि हेत्वोर्विरोधान- वधारणे एकत्रोभयोपनयः संभवत्येवेति ज्यायः । उत्तरकाले चानयोविरोधिव्या- प्यतायामैकाधिकरण्यानुयपत्तिः। तदुपपत्तौ च विरोधिव्याप्यतानुपपत्तिरिति व्याप्ति- पक्षधर्मतान्यतरभङ्गः कल्प्यते । न चैवं तदेव दूषणमस्तु । व्याप्त्यभावज्ञानस्य करणविघटकतयास्य च परामर्शोत्तरभावितया प्रतिबन्धकत्वायोगाद् ग्राह्याभाव- व्याप्यज्ञानस्याप्यन्यत्र प्रतिवन्धकतया कल्पनात् प्रतिबन्धकत्वाभावस्य वक्तुमश- क्यत्वाच्च । तस्मात् सत्प्रतिपक्षे परस्परव्याप्यज्ञानं परस्परनिर्णयाय यत्र वृत्तं , (तत्र) परस्परविरोधिव्याप्यज्ञानप्रतिबन्धान्नैकमपि ज्ञानं जनयितुमीष्ट इति सिद्धान्तः । अत्र र(क्त ? त्न)कोशकृतः विरोधिनिर्णयद्वयसामग्र्याः संशयजनक- त्वकल्पनात् परस्परगोचरा संशयरूपानुमितिरिहाय्युत्पद्यताम् । सत्प्रतिपक्षार्थोऽप्य- यमेव , यत् परस्परप्रतिबन्धाद् व्याप्ययुगलज्ञानं निर्णयाजनकमिति वदन्ति । अत्र माणिकृतः साध्यतदभावयोर्विरोधज्ञानाद् यथैकज्ञानं परज्ञान- विरोधि , तथा तद्वयाप्ययोरपि साध्यादिविरोधितया तज्ज्ञाने सति संशयरूपमपि साध्यादिज्ञानमसंभवि । प्रतिबन्धकसत्त्वे कार्योत्पादस्य वक्तुमशक्यत्वादित्याहुः । यथा ग्राह्याभावव्याप्यबुद्धेः अनुमितौ प्रतिबन्धकता, तथा विरुद्धनिर्णयसामग्र्याः संशयजनकतापि कल्पितेति संशयरूपानुमितिराव- रियका । न च विशेषादर्शनसमवहिता निर्णयसामग्री संशयजनिका , इह तु विशेषदर्शनसमवधानात् कथं संशयं जनयत्विति वाच्यम् । अन्यतरकोटिविशेषदर्श SAMAND अत्र वदन्ति wapnwimmittin सन्प्रतिपक्षग्रन्थः। नस्यैव संशयप्रतिबन्धकत्वात् । न तूभयकोटिविशेषदर्शनस्य । तथा सति स्थाणु- त्वपुरुषत्वोभयांशे विशेषदर्शने सति संशयानुत्पादप्रसङ्गात् । तस्माल्लाघवाद विरोधि- निर्णयसामग्रीत्वेन संशयजनकताकल्पनाद् अन्यतरव्याप्तिज्ञानस्यानुमित्यादौ प्रति- बन्धकता (न) कल्प्यत इति । अत्र केचिद् ---- यदि विरुद्धनिर्णयसामग्रीत्वेन संशयजनकता, तथा सति विरुद्धस्मृतिसामग्रीतः संशयरूपस्मृत्यापत्तेः । तादृशस्मृतेश्चाननुभवेनेष्टापत्तेः कर्तुमशक्यत्वात् । तस्माद् विरुद्धप्रत्यक्षसामग्रीत्वेन संशयजनकता कल्प्यत इति कथं विरुद्धानुमितिसामग्र्या संशय इाते । तच्चिन्त्यम् । एतावतापि विरुद्धानु- भवसामग्रीत्वेन संशयजनकतायां बायकाभावात् । परे तु ---गुणविरोधस्थले विरो- धिसामग्र्याः प्रतिबन्धकत्वं दृष्टम् । तत्र च परस्परप्रतिवन्येन गुणान्तरानुत्पत्ति- रेव दृष्टा । तथेहापि ज्ञानानुत्पत्तिरेव युज्यत इति न संशयरूपानुमितिरिति । तदपि चिन्त्यम् । तत्र विरोधिगुणसामग्रीत्वेन प्रतिबन्धकत्वाद् इह तु स्वाभाव- ज्ञानसामग्रीत्वेन प्रतिबन्धकत्वाद् उभयसाधारणन्य विरोधिसामग्रीत्वस्य निर्वस्तुम- शक्यत्वात् । यदपि कश्चित् समाहितं --- प्रत्यक्षे ग्राह्याभावप्रत्यक्षेणैव प्रतिव(न्ध- की ? न्धः)। अनुमित्यादौ तु ग्राह्याभावज्ञानमात्रेण प्रतिवन्धः । तत्रापि ग्राह्याभाव- ज्ञानत्वापेक्षया ग्राह्यविरोधिज्ञानत्वं लब्धिति तदेव प्रतिबन्धकतावच्छेदकं कल्प्यते। ग्राह्यविरोधित्वं च तदधिकरणानधिकरणत्वम् अभावतच्याप्यसाधारणमिति कथं विरोधिनिर्णयसामग्र्याः संशयजनकत्वेऽपि व्याप्यदर्शनरूपप्रतिबन्धके सति संश- यरूपानुमितिरिति । तदपि चिन्त्यम् । तदधिकरणानविकरणजानत्यानुमितिप्रति- बन्धकत्वे वहि(रु ? रनु)ण इत्यादि भ्रमानुमितिर्न स्यात् । वह्नित्वस्थानुप्णत्वाधि- करणानधिकरणस्य जानात् । तदधिकरणानधिकरणत्वेन ज्ञानस्य प्रतिबन्धकत्वे कथं ग्राह्याभावसाधारण्यं , तज्ज्ञानस्य तत्त्व नाप्रतिबन्धकत्वात् । ग्राह्याभावस्य तत्त्वेन ज्ञातस्य प्रतिबन्धकत्वमिति बहुशो निवेदितत्वात् । किञ्च , बाधम्याधिक- बलत्वार्थ पृथक् प्रतिबन्धकतावश्यिका । तथा च किं साधारणप्रतिबन्धकताकल्प- नेन । अपि च, व्याप्यज्ञानं भवतु प्रतिबन्धकम् । तथापि तत्प्रतिबध्यतावच्छे- दकं संशयसाधारणं तन्निश्चयरूपप्रत्यक्षव्यावृत्तं प्रत्यक्षनिश्चयभिन्नग्राह्यज्ञानत्वं वाच्यम् । तथा चोभयविशेषदर्शनकाले स्थाणुपुरुषसंशयानुत्पादप्रसङ्गः । तथा च' तदनुरोधादन्यतरव्याप्यदर्शनत्वं विरोधितावच्छेद(कत्वं ! क) वाच्यम् ।

मणिसारानुमानखण्डे ॥ भयव्याप्यदर्शनकाले नास्तीति कथं न संशयरूपानुमितिः । यदपि निश्चयद्वयसामग्रीत: संशय इति सत्यम् । किन्तु यादृशो निश्चयस्य ग्री, तादृशसंशयं प्रसूते । विशेषदर्शनं चावधारण त्मकनिश्चयसामग्रीत्यवधा- इयरूपसंशयः स्यात् । कोटिस्मृत्यादीन्द्रियसन्निकर्षादिकं तु प्रत्यक्षमात्रे साम- ने तैः प्रत्यक्षमात्रं जन्यते । तच्च संशयसामग्र्यभावे निश्चयरूपमेव । तत्सत्त्वे संशयरूपमेवेति तत्र नायं दोषः । न चोभयव्याप्यदर्शनस्थले तत्राप्यवधारण- संशयापत्तिरिति वाच्यम् । तत्रोभयव्याप्यदर्शनस्य परस्परप्रतिबन्धेन मूकत्वात् न्यसामग्र्या च संशयोत्पादादिति । तदप्यालोचनीयम् । अवधारणजानत्वं वैशेषदर्शनजन्यतावच्छेदकं , व्यर्थत्वात् । अनुभितौ च तदुपस्थापकाभावादु. तभानस्य तत्रानङ्गीकारात् । भवतु वा विशेषदर्शनबलादेवानुमितौ व्यवच्छेद- म् । तत् संशयरूपानुमितावप्यस्तु । विरुद्धयोः साध्यतदभावयोरिव व्यव- द(क)स्यापि भाने दोषाभावात् । अनुभूयते च किमयं स्थाणुरेव , किं पुरुष ते । (तस्माद् ) नायं युक्तिसहः पन्थाः । यत्तु-संश(य?ये) कोट्योर्विरो(धो)ऽपि ते । अनुभितो व्याप्तिपक्षधर्मतानुपनीततया न तद्भानमिति कथं संशयरूपा- तिरिति । तदपि न । संशयसामग्र्या एव विरोधभानम् । तत्र (तया !) तदु- याप्यदर्शनम्य तद्भानसामग्रीत्वात् । वस्तुतो विरुद्धत्वेन ज्ञातयोः संशयको- | विरोवमानं तु संशये सामग्रीसत्यासत्त्वाभ्यामनियतमित्येव तत्त्वम् । यच्च दुक्तम् -- अनुभवानुसारेण न तावत् संशयरूपानुमितिः सत्प्रतिपक्षस्थले । मनोमीत्य नुव्यवसायाभावात् । अत एव न विरुद्धानुभवसामग्रीत्वेन संशयज. कल्पनम् । तथा सति तत्रानुमिनोमीत्यनुव्यवसायापातात् । तस्मात् फलव- विरुद्धसत्प्रतिपक्षसामग्रीत्वेन संशयजनकतेति न संशयरूपानुमितिरिति । त- भारम् । एवं सति संशयस्थले साक्षात्करोमीत्यनुव्यवसायाभावात् तत्रापि सा- जातिर्न स्यात् । यदि च सामग्रीबलात् साक्षात्त्वसिद्धौ व्यञ्जकाभावान्न व्यक्तिः, तदा प्रकृतेऽपि मात्सर्यमुत्सार्य दीयतां दृष्टिः । तस्मात् संशयरू- त्यनङ्गीकारो निप्प्रमाणक इति । अत्र ब्रूमः -- निश्चयसामग्री संशयजनिकेत्येवासङ्गतम् । अन्यसामग्र्या जाजनकत्वात् । न चैवं संशयः क्वापि न स्यादेवेति वाच्यम् । घटतदभाव- आमच्या विशेषणज्ञानादिरूपायाः सत्त्वेन तदुत्पत्तौ बाधकाभावात् । घटवि- असिद्धिग्रन्थः । शिष्टज्ञानत्वादेरेव तद्विशेषणज्ञानादिजन्यतावच्छेदकत्वात् । तस्य च संशयसाधार- ण्यात् । इयानेव विशेषः---यद् भावाभावोभयज्ञानसामग्रीसत्त्वे तदुभयनानं संशया- त्मकम् । अन्यथा निश्चयात्मकमिति । न चात्रापि विशेपदर्शनद्वयरूपसाध्यतद- भावज्ञानसामग्र्या संशयात्मकतदुभयानुमितो बाधकाभाव इति वाच्यम् । विशेष- दर्शनस्य साध्यादिनिश्चयसामग्रीत्वेन संशयजनकत्वासंभवात् । संशयान्यज्ञानसा- मग्र्याः संशयजनकत्वस्य वक्तुमशक्यत्वात् । न च विशेषदर्शनमपि संशयसाधा- रणज्ञानमात्रसामग्रीति शकितुमपि शक्यते। तथा सति कोटिस्मृतिविशेषणज्ञा- नादिज्ञानसामान्य सामग्रीवद् विशेषदर्शनम्यापि संशयविरोधितानापत्तेः । न चैवं कोटिद्वयविशेषदर्शने सति स्थाणुपुरुषयोरपि (संशयो) न स्यादिति वाच्यम् । भावानवबोधात् । तत्रापि न निश्चयसामग्रीभूतविशेषदर्शनद्वयस्य कार्यजनकता । परस्परप्रतिबन्धात् । संशयस्तु सामान्यसामग्रीभूतकोटिम्मृत्यादरेव । न च तत्रैव विशेषदर्शनात् प्रतिबन्धः कुतो न भवाति वाच्यम् । नहि विशेषदर्शनत्वेन तम्य संशयविरोधिता । अपि तु विरोधिनिश्चयसामग्रीत्वेन । तच्चैक(विशे? वि- शेष)दर्शनस्य तदा नास्ति । विशेषदर्शनान्तरप्रतिबन्धात् । एवमपरविशेषदर्शन- स्यापि । तस्मादुभयविशेषदर्शनं तत्र विरोधिगुणस्थलवत् परम्परप्रतिरुद्धमेव । सामान्यसामग्र्या संशयः । इह तु विशेषदर्शनद्वयमनुमितिद्वयसामग्रीभूतं प्रतिरु- द्धमेव । अन्या च वानुमितिसामग्री नास्त्येवेति कथं संशयरूपानुमितिरुत्पद्यतां , सामग्रीविरहादिति दिक ।। इति सत्प्रतिपक्षग्रन्थः। अथासिद्धिग्रन्थः । असिद्धिभेदास्तु व्याप्यत्वासिध्याश्रयासिद्धिस्वरूपासिद्धयः प्रत्येकमेव दोषा इति मणिकृतः । इदमुपलक्षणम् । व्याप्तिविशिष्ट पक्षधर्मत्वाभावः, व्याप्ती साध्य- प्रतियोगिकत्वाभावः, हेतौ पक्षसम्बन्धाभावः, पक्षे हेतुसम्बन्धाभावः, व्याप्ति- पक्षधर्मतयोः सामानाधिकरण्याभाव इत्येवं परामर्शविषयीभूततत्तत्पदार्थप्रतियोगि- १. स्य न का' क. पाठ:. 19 १४६ मणिसारानुमानखण्डे । काभावाः सर्वेऽप्यसिद्धमध्यप्रविष्टा इति बोद्धव्यम् । नन्वेवं हेत्वाभासानन्त्यं स्यात् । अमीवितरव्यावृत्तपरस्परानुगतैकधर्माभावात् । न च परामर्शविषयाभावत्वं सर्व- साधारण मणिदुक्तमेबानुगतानिति वाच्यम् । अस्यानुगतत्वेऽपीतरव्यावृत्तत्वाभा- वात् । बाधविरुद्धव्यभिचाराणामुक्तधर्मवत्त्वात् । साध्यतत्सामानाधिकरण्या(म?). व्यभिचाराणां परामर्शावेषयत्वात् । न च यद्रूपावच्छिन्नविषयत्वेन परामर्शस्यानु- मितिहेतुता, (य ? त)द्रूपावच्छिन्नाभावो विवक्षितः । साध्यप्रतियोगिकव्याप्तित्व- प्रकारावच्छिन्नव्याप्तिविषयतथा परामर्शम्य हेतुतेति व्याप्तित्वावच्छिन्नव्याप्त्यभावो भवत्यसिद्धः, न तु तद्धटकीभूतसाध्यतत्सामानाधिकरण्याव्यभिचाराणामभावादय इति वाच्यम् । एवं सति व्याप्त्यभावस्याप्यसिद्धत्वं न स्यात् । परामर्शस्य व्याप्ति- विशिष्टपक्षधर्मतावगाहित्वेनैवानुमितिहेतुतया केवलव्याप्तित्वाद्यवच्छिन्नव्याप्त्यादि- विषयतया तस्यानुमित्यहेतुत्वात् । परामर्शस्यानुमितिहेतुतावच्छेदकशररिप्रवेशमा- त्रेण व्याप्तेरभावस्यासिद्धत्वे साध्याभावादेरपि तत्त्वं दुर्वारमेवेति । अत्रोच्यते-विरुद्धत्वान्यत्वे सति परामर्श प्रति ग्राह्याभावनिश्चयत्वाव- च्छिन्न प्रतिबन्धकताकज्ञानविषयतावच्छेदकपर्याप्त्यधिकरणत्वं व्यभिचारादिव्याव- तमुक्तसर्वा(द ? )सिद्धिसाधारणमसिद्धित्वम् । व्यभिचारज्ञानस्य संशयसाधारणस्य प्रतिबन्धकतया ग्राह्याभावनिश्चयत्वावच्छिन्नप्रतिबन्धकत्वाभावात् । बाधादेश्च परा- मर्श प्रति तथाप्रतिबन्धकत्वात् । विरुद्धस्य तथात्वेऽपि तदन्यत्वविशेषणादेव वारणात् । एवमपि व्याप्त्यादिप्रविष्टत(था ? या) व्यभिचारादावतिव्याप्तिर्मा भूत् । अतः पर्याप्त्यधिकरणत्वपर्यन्तमिति न कोऽपि दोषः । विरुद्धत्वादिहेत्वाभासचतुष्टयोपाधिभिन्नहेत्वाभासतोपाधित्व- मुक्तसर्वासिद्ध्यनुगमकम् । अतो नातिव्याप्तिरित्याहुः । आश्रयासिद्धश्च व्योमकमलं सुरभीत्यादाविति प्राञ्चः । तन्न । व्योमकमल- स्यालीकस्य सत्त्वाभावात् । तदुक्तं - 'सचेतसां मूकतैवाचितेति । कथं तर्खेता- दृशप्रयोगस्य दुष्टत्वम् । अपार्थत्वादित्यवधारय । यदि च कमले व्योमीयत्वं पक्षतावच्छेदकीकृय सुरभित्वं साध्यते, तदाश्रयासिद्धिः । आश्रयविशेषणासिया चाश्रयासिद्धिरसङ्कीणेति मणिकृताप्यभिधानात् । अत्र च पक्षतावच्छेदकाभावज्ञानं बाधान्तभूतमेव । तत्सामानाधिकरण्यस्य साध्ये ग्राह्यतया तत्रैव ग्राह्याभावावगाहि- तया तस्य प्रतिबन्धकत्वात् । न तु व्याप्यवत्त्वज्ञानेऽपीति परामर्शाविरोधित्वान्नासि- केचित् तु Hinmen । ।

असिद्धिनन्धः। । द्धावन्तर्भाव इति मूढानां प्रलापो नादर्तव्यः । हेतुपक्षतावच्छेदकसामानाधिकरण्य- स्य परामर्शेऽपि ग्राह्यतया हेतुमति पक्षतावच्छेदकाभावज्ञानस्य तत्र ग्राह्याभावज्ञा- नतया प्रतिबन्धकत्वात् । अत एव हेतुमति पक्षतावच्छेदकाभाव आश्रयासिद्धिः । पक्षतावच्छेदकवति हेत्वभाव. म्वरूपासिद्धिरिति । यत्त्वाश्रयविशेषणं पक्षता , तस्यासिद्धिः सिद्धसाधनमेवाश्रयासिद्धिरिति । तन्न | सिद्धेज्ञानगमलक्षणाभावेन हेत्वाभासत्वायोगा। सिद्धिविषयसाध्यस्य च यज्ज्ञाने सत्यनुमितिप्रतिबन्धानिय- म इति हेत्वाभासलक्षणविरहादिति वदन्ति । मम तु प्रतिभाति --सिसाधयिषाविरहविशिष्ट साध्यं भवत्वाश्रयासिद्धिः ज्ञानगर्भलक्षणसद्धावेन हेत्वाभासश्च । न च सिसाधयिषाविरहांशज्ञानस्याप्रतिब- न्धकत्वाद् न तद्विशिष्टं साध्यं हेत्वाभाम इति वाच्यम् । एवं सति व्यभिचारा- देरपि हेत्वाभासत्वाभावप्रसङ्गात् । तदुपाधिघटकसीशज्ञानस्य प्रतिबन्धकत्वाभा- वात् । साध्याभावांशनिश्चयीभूतत्वादे: स्वरूपसत एव तत्र प्रवेशात् । यथा चैवं सति व्यभिचारानुमित्युपहितस्योपारिष्टापत्त्यादिविरहसहकृतस्य प्रतिकूलतर्कविष- यस्य च न हेत्वाभासता , तथा ज्ञानविशेषगर्भहत्वाभासलक्षणकरणादेवोपपादि- तम् । नयुपाधौ हेत्वाभासत्वाभावव्यवहारवत् सिद्धिविषयेऽपि तथा व्यवहा- रोऽस्ति , येन तव्यावृत्तमपि हेत्वाभासत्वं वक्तव्यं स्यात् । यदि वा तत्रा! त्र) त- था व्यवहारः, तथापि पृथग् हेत्वाभा सत्वाभावमादाय समर्थनीयः । आश्रयासि- द्धावेवोक्तक्रमणान्तर्भावादिति । ननु पर्वतो धूमवान् वहेरित्यादिव्यभिचारिण विरुद्धे वा कथं व्याप्य- त्वासिद्धिः । सा हि न यत्किञ्चिध्याप्तिविरहः , सद्धेतुसाधारण्यात् । किन्तु वहिम- निष्ठाभावाप्रतियोगिधूमसामानाधिकरण्याभावः । स च प्रतियोग्यप्रसिद्धया न संभवतीति चेद् , न । साध्ये हेतुसमानाधिकरणाभावाप्रतियोगित्वविशिष्टहेतुसा. मानाधिकरण्यस्य हेतुव्यापके प्रसिद्धस्याभावो व्याप्यत्वासिद्धिः । तस्य च विशे. षणाद्यभाववद् ग्राह्याभावावगाहितया परामर्शप्रतिबन्धकज्ञानविषयत्वात् । न चैव- । १. 'द्वाभा'क. पाठः. सिसाधयिषा' इत्यकृतषत्वाः परश्शताः शब्दा इह प्रयुक्ताः । तेषां साधुत्वं काला- पानुसारेण बोद्धव्यम् । ते हि साधधानुमघोपदेशं पठन्ति । किन्तु ता षांपदेशलक्ष गविरुद्धमिति माधवो दूषयति ।

-- मणिसारानुमानखण्डे मप्यवृत्तिव्याप्यत्वासिद्धिसङ्ग्रहो नेति वाच्यम् । तस्य विरुद्धत्वादिनैव सङ्ग्राह्यत्वा- दिति केचित् । वस्तुतो हेतौ साध्यमातेयोगिकात्यन्ताभावासामानाधिकरण्यावच्छि- नस्य सामानाधिकरण्यस्य च साध्यव्याप्ये प्रसिद्धस्याभावो व्याप्यत्वासिद्धिरिति नावृत्तिहेतुकाव्याप्तिशङ्का । नन्वेवमपि व्याप्यत्वासिद्धेयभिचाराद्यसङ्करो नास्तीति न पृथग् हेत्वाभासतेति चेद्, न । वात्वसाकर्याभावेऽपि ज्ञानासांकर्यम्य सत्त्वात् । न च विशिष्टाभावरूपव्याप्यत्वाभावस्य विशेषणा(भावा)धन्यतरज्ञाननियतज्ञानतया न तदसङ्करोऽपीति वाच्यम् । विशेषणाद्यभावमजात्वापि शब्दादिना विशिष्टाभाव- ज्ञानसंभवेनासाङ्कर्यसंभवात् । वस्तुतस्तु --- व्यर्थविशेषणत्वव्यर्थविशेप्यत्वस्थल एव व्याप्यत्वासिद्धेभिचाराद्यसङ्करः । नहि नीलधूमे बहिव्यभिचारो वयसहचारो वास्ति । ननु नीलधूमे यथा न व्यभिचारादिः, त(दा ? था) व्याप्त्यभावोऽपि नेति कथमेतदिति चेद् , इत्थं बाहित्वावच्छिन्ने नीलधूमत्वावच्छिन्नव्याप्तिप्रतियोगि त्वाभावस्य धूमत्वावच्छिन्ने नीलधूमत्यावच्छिन्नव्याप्त्यभावस्यात्र विवक्षितत्वात् । तथा च नीलधूमत्वस्य व्याप्यतानवच्छेदकत्वाद् भवति तत्र व्याप्तिविरहः । नन्वे- तज्ज्ञानं व्याप्तिधीविरोध्येव नेति चेद् , न । धूमत्वावच्छिन्नव्याप्तिज्ञाने तस्याविरो. धित्वापादन इष्टापत्तेः । नीलधूमत्वावच्छिन्नव्याप्तिजाने च विरोधित्वं तस्य वज्रले- पायितमेव । न चाव्यभिचरितसामानाधिकरण्यात्मकव्याप्तेः कथमनेन विघटन- मिति वाच्यम् । व्यर्थविशेषणादिदूषकत्वानुरोधेन व्यधिकरणधूमवयादिसङ्ग्रहानु- रोधेन च सामानाधिकरण्यावच्छेदकतद्धर्मवत्त्वं व्याप्तिरिति प्रागेवोक्तत्वात् । तज्ज्ञाने चावच्छेदकत्वाभावज्ञानस्य साक्षादेव विरोधित्वात् । यदि चावच्छेदक लक्षणैव व्याप्तिः , तदानुपपत्तिरेव नेति । यथा च नीलधूमत्वस्यानतिप्रसक्त- त्वेऽपि तादृशलघुधर्मोपस्थितिकत्वान्नावच्छेदकत्वं , तथोपपादितम् । वक्ष्यते चाये। इदं त्ववशिष्यते -- यथा व्याप्त्यभावज्ञानं पक्षधर्मत्वाभावज्ञानं वा पराम- शविघटकामिति तयोर्हेत्वाभासता , तथा तदुभयव्याप्यज्ञानमपि तद्विघटकमिति तद्विषयस्यापि हेत्वाभासतास्तु । बाधकामावादिति । अत्र मिश्राः -व्याप्त्यादिविरहव्याप्यवत्ताधीः व्याप्त्यादिप्रत्यक्षविरोधि- तयानुमितिप्रतिबन्धिका व्याप्त्याद्यनुमितिविरोधितया वा । नाद्यः । प्रत्यक्षे ग्राह्याभावव्याप्यज्ञानस्याप्रतिबन्धकत्वाद् आह्याभावप्रत्यक्षस्यैव तत्र प्रतिबन्धकत्वा- । १. नस्यासांक' क. पाठः.

असिद्धिग्रन्थः। १४९ अत्र नव्या: दिति बहुशो निवेदितत्वात् । नान्त्यः । व्याप्तिव्याप्यपरामर्शासत्त्वे तदभावादेव कार्याभावेन प्रतिबन्धकत्वाभावात् । तत्सत्त्वे च सत्प्रतिपक्ष एवान्तर्भावात् पृथग् हेत्वाभासत्वासम्भवादिति बदन्ति । हेतुव्याप्त्यभावव्याप्यत्य हेतुव्याप्त्यनुमितो सत्प्रतिपक्ष- त्वेऽपि हेतुना साव्यानुभिताय सत्प्रतिपक्षत्वात् , साध्यानुमिती साध्यविरहव्याप्य- स्यैव सत्प्रतिपक्षत्वाद, व्याप्तिविरहव्याप्त्यादेरनुमितो परामर्शविघटकतया प्रति- बन्धकत्वेन साक्षात्प्रतिवन्धकत्याभावेन सत्प्रतिपक्षत्वासम्भवादिति व्याप्त्यभावव्या- प्त्यादेः साध्यानुमितो पृथग् हेत्वाभासत्वे बाधकाभाव इति वदन्ति । तच्चिन्त्यम् । विरोधिव्याप्तिग्राहकसामग्र्या प्रतिरुद्धव्याप्तिग्रहत्वस्यासाधारणलक्षणतया तत्रैव व्याप्त्यभावव्याप्यस्यान्तर्भावेन पृथग् हेत्वाभासत्वायोगादिति मिश्राभिसन्धानात् । पक्षधर्मत्वाभावव्याप्यव्यावर्तनाय तु तथापि गत्यन्तरं चिन्तनीयमेवेति तु चिन्त्यम् । केचित्तु -- यज्ञाने सत्यनुमितिप्रतिबन्धनियमः , स एव हेत्वाभासः । अत एवोपाध्यादिन तथा । तथा च व्याप्त्यभावादिव्याप्ये गृहीतेऽपि प्रात्यक्षि- कस्य व्याप्त्यादिज्ञानस्य सम्भवेनानुमित्युत्पादाद् न तयोर्हत्वाभासत्वमिति वद- न्ति । तदपि चिन्त्यम् । परामर्शोत्पत्त्यनन्तरं व्यभिचारज्ञाने सत्यप्यनुमित्यप्रति- बन्धकत्वात् तस्यापि हेत्वाभासत्वानापत्तेः । परामर्शात् पूर्वं यज्ज्ञाने सत्यनुमिति- प्रतिबन्धनियम इत्युक्तौ च सत्प्रतिपक्षाव्याप्तेः । तस्मात् स्वप्रतिबध्यप्रतिबन्धद्वारा हेत्वाभासता । तच्च व्याप्त्यभावादिव्याप्यस्याम्त्येव । व्याप्त्याद्यनुमितिप्रतिबन्धक- त्वादिति । वस्तुतस्तु व्याप्त्यभावादिव्याप्यम्य करणविघटकत्वमापाद्यते हेत्वाभासत्वपर्यन्तमपि वा । आद्य इष्टापत्तिः । अन्त्ये ज्ञानविशेषविशेष्यत्वमिति हेत्वाभासलक्षणायोगादप्रसक्तिरेव, सिद्धसाधनोपाध्यादिवत् । (ननु) त(दा ? था) लक्षणमेव किमिति कृतं , येन व्याप्त्यभावादिव्याप्यं व्यावर्त्यत इति चेद् , न । स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानहत्वात् । सत्प्रतिपक्षेतरम्यानुमितौ परामर्श ग्राह्याभावानवगाहितया प्रतिबन्धकस्य हेत्वाभासत्वेनासङ्ग्रहात् । अत एव सिद्धसा- धनोपाधिपक्षधर्मताभावव्याप्यव्याप्त्यभावव्याप्यप्रतिकूलतर्कविषयादीनां सर्वेषां व्यु- दास इति सङ्केपः ॥ इन्यसिद्धिग्रन्थः । ।

१५० मणिसारानुमानखण्डे अथ बाधग्रन्थ:। बाधः साध्याभाववत्त्वप्रमाविषयपक्षकत्वमिति प्राञ्चः । तन्न । वृक्षः संयो- गीत्यादावतिव्याप्तेः । केवलान्वयिसाध्याभावाप्रसिध्या तद्गर्भबाधासिद्धेरबाधितत्व- स्याभावप्रसङ्गात् । किन्तु पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वम् । अभावे च प्रतियोगिव्यधिकरणत्वं विशेषणम् । तेन न पूर्वोक्तातिव्याप्तिः । केव- लान्वयिनि च बाधितत्वस्योक्तरूपस्यान्यत्र प्रसिद्धस्थान्यत्वमस्त्येवेति नाबाधितत्व- व्या(पको ? कोपः।) न वा तदर्थकनिगमनवैयर्थ्यमिति । अत्र च पक्षे साध्याभावज्ञानदशायां हेतुतिश्चेद् व्यभिचारधारेव । अथ न ज्ञातस्तदा कारणाभावादेव कार्याभावः । अथ हेत्वभावादवृत्तिस्तदा स्वरूपा- सिद्धिरिति बाधो न पृथग् हेत्वाभास इति पूर्वः पक्षः । तत्र कश्चित् -- पर्वतो वह्निमान् धूमादित्यत्र सल्लिङ्गपरामर्शजन्यवय- नुमितौ यत्र वह्नयंशे उपनीतकाञ्चनमयत्वादिबाधितवस्तुभानं , तत्रा(सत्य ! )नुमि- तेरप्रमात्वम् । तच्च हेत्वाभासाधीनम् । न च व्यभिचारधीस्तत्रास्तीति काञ्चनमय- वयभाव एव दोष इत्याह । तन्न । काञ्चनमयवहेरप्रसिद्ध्या तदभावासम्भवात् । काञ्चनमयत्वरूपव्यधिकरणधर्मावच्छिन्नवह्नयभावमादाय बाधोपपादने(घु : तु) ताह- शव्यभिचारस्याप्युपपादयितुं शक्यत्वात् । किञ्चानुमितावुपनीतभानानङ्गीकारात् कथं काञ्चनमयत्वादिभानम् । अथानङ्गीकारमात्रं न वस्त्वभावसाधकम् , अतिप्रस- ङ्गात् । किन्तु प्रमाणाभावः । न चात्र सोऽस्ति । प्रत्यभिज्ञादौ तत्तादिभानानुरोधेना- वश्यमुपनीतभानमङ्गीकरणीयम् । तत्र चोपनयस्य प्रत्य(क्ष)मात्रे सहकारिता वा मानमात्रे वेति संशये सामान्यादुत्तरपक्षस्यैव प्रबलत्वादनुमितावप्युपनीतभाने बाध- काभावादिति । अत्र मिश्राः --उपनयः प्रत्यक्षे सहकारी सन्निकर्षतया सम्भवति । अनु- माने सन्निकर्षस्यातन्त्रतया व्याप्तिपक्षधर्मतोपनीतार्थस्यैव विषयतयोपनीतभानाभा- वादिति वदन्ति । तत्र केचित् - प्रत्यक्षेऽपि ज्ञानं सन्निकर्षतया न हेतुः । किन्तु सविक- ल्पकानन्तरं प्रमाणजन्यज्ञानत्वावच्छेदेनासंसर्गः ? गा)ग्रहे सति सविकल्पकविष- यवैशिष्ट्यं भासत इति सामान्यत एव नियमात् तदुपयोगः । तच्चानुमानादिसा- धारणमिति तत्राप्युपनीतार्थभाने बाधकाभाव इति ।

बाघमन्थः । अत्रोच्यते--सामान्यनियमस्वीकारेऽपि तत्तादिप्रत्यक्षे तदिन्द्रियसन्निक- र्षी वाच्य एव। (अ)सन्निकृष्टस्य प्रत्यक्षाविषयत्वात् । तथा च ज्ञानस्येन्द्रियसन्निक- प(जन्य ?)त्वमवश्यमभ्युपेयमेव । तथा च सामान्यनियमस्वीकारो गौरवपराहत इति । नन्वेवं लाघवोपनीतस्याप्यनुमितौ भानं न स्वादिति चेद् , न । सम्भवल्लघुगुरुवि- षयकमानत्वावच्छेदेनैव लाववज्ञानम्ब सहकारितया लायबोपनीतस्य सर्वत्र भान- सम्भवात् । उपनयान्तरम्य च तथात्वाभावादिति दिक। RamayaNAMAND अत्राय सिद्धान्तः साध्याभावनानप्रमात्वज्ञानं विना हेतुविषयकमपि साध्याभावज्ञानं प्रामाण्यशङ्काकवलितं न प्रतिबन्धाय समर्थम् । अतो व्यभिचार- ज्ञानत्वेनापि प्रतिबन्धकतायां साध्याभावज्ञानप्रमात्वज्ञानमवश्यमुपजीव्यम् । तथा च उपजीव्यतया तदेव दोषः । न च प्रमात्वज्ञानमपि साध्याभावविषयकतयैव दोषः, प्रमात्वस्य विषयघटितमूर्तितया तज्ज्ञाने तज्ज्ञाननियमादिति वाच्यम् । विषयघटितत्वेऽपि ज्ञाननिरूपितस्वरूपसम्बन्धविशेषविषयत्वस्यैव तत्र प्रयोजक- त्वात् । साध्याभावविषयत्वस्याप्रामाण्यशङ्काकलङ्किततज्ज्ञानसाधारणतया प्रतिब- न्धाप्रयोजकत्वात् । नन्वेवमप्रामाण्यशाशून्यसाध्याभावज्ञान प्रतिबन्धकमस्तु । न तु साध्याभावज्ञानप्रमात्वज्ञानमिति चेद् , न । अप्रामाण्यशङ्काशून्यत्वापेक्षया गृहीतप्रमात्वस्य लघुत्वात् । ननु गृहीतप्रमात्वसाध्याभावज्ञानस्य प्रतिबन्धकत्वे यत्र प्रमात्वज्ञान एवाप्रमात्वशङ्का, तत्रापि प्रतिबन्धापत्तिः । न च तत्रापि गृही- तप्रमात्वप्रमात्वज्ञानत्वेन प्रतिबन्धकता । तर्हि तत्राप्येवमेवेत्यनवस्थापातः । तस्मादनन्यगत्या क्वचिद्गत्वा अप्रामाण्यशङ्काशून्यत्वमनवस्थाभिया वक्तव्यम् । तर्हि प्रथममेव तदस्तु । किं प्रमात्वज्ञानप्रतिबन्धकत्वेनेति नायं सिद्धान्तो युक्तिसह इति चेद्, न । साध्याभावज्ञानस्य हेतुविषयकतानियमाभावेन बाधस्य व्यभिचारसाङ्क- यासम्भवात् । परामर्शानन्तरं स्मृत्या शब्देन वा यत्र साध्याभावोपस्थितिस्तत्र हेतूपस्थापकाभावात् । न च परामर्शानन्तरमनुनितिसामग्रीबल(व)त्वादनुमितिरेव, न तु साध्याभावस्मृत्यादिकमिति वाच्यम् । यत्र पूर्वक्षणे सिद्ध्यादिप्रतिबन्धक- सत्ता, तत्रानुमित्यनुदयेन स्मृत्यादिसम्भवात् । किञ्च, यथा व्यभिचारधीः प्रतिब- न्धिका, तथा साध्याभावधी पि । ग्राह्याभावज्ञानस्य शाब्दादौ प्रतिबन्धकत्वक- ल्पनात्। न चैवं साधारणप्रतिबन्धकस्यापि तया न हेत्वाभासता । साधारणप्रतिब- न्धकस्यापि हेत्वाभासलक्षणसत्त्वेन तत्त्वे बाधकाभावाद् हेतुनिष्ठत्वेनासाधारण्य- मणिसारानुमानखण्डे सम्भवाच्च । वस्तुतः परामर्शपूर्व साध्याभावधियः व्यभिचारज्ञानत्वेन प्रतिबन्धक- त्वसम्भवेऽपि तदुत्तरं तत्त्वेन प्रतिबन्धकत्वमसम्भवि । व्यभिचारज्ञानस्य करणवि- घटकतया दोषत्वात् । अत एव करणे परिपूर्णे किमसिद्धयेति हेत्वाभासलक्षणे मित्रैरुक्तम् । तस्मात् परामर्शोत्तरसाध्याभावज्ञानस्यानुमितौ ग्राह्याभावविषयकत्वे- नैव विरोधिता, न व्यभिचारज्ञानत्वेन । तत्प्रतिबध्यस्य परामर्शस्योत्पन्नत्वात् । न च तत्र परामर्शेऽप्रामाण्यशङ्का साध्याभावज्ञानेनाधीयत इति वाच्यम् । अप्रा. माण्यशङ्कायाः कोट्युपस्थित्याद्यनियमेनानावश्यकत्वाद् , बाधाप्रतिबन्धकत्वेऽप्रामा- ण्यशङ्काकाल एवानुमितिप्रसङ्गाच्च । न च संशयसामाग्र्या बलवत्त्वात् तत्र संशय एव, न त्वनुमितिरिति वाच्यम् । प्रत्यक्ष तथाभावेऽप्यनुमितौ तस्याः प्रतिबन्धक- त्वे मानाभावात् । प्रत्युत भिन्नविषयकानुमितिसामग्र्याः सर्वज्ञानसामग्र्यपेक्षया बलवत्त्वाद् अनुमितिरेव भवेद् यदि बाधो न प्रतिबन्धकः । किं बहुना , एवं सति सत्प्रतिपक्षेऽपि परामर्शाप्रामाण्यशङ्कवाधीयतामिति सोऽपि हेत्वाभासो न स्यात् । कोट्याद्यनुपस्थित्या संशयकालानुमित्यापत्त्या च तस्य पृथक् प्रतिबन्धक- त्वमङ्गीक्रियते यदि , तदा बाधेऽपि मात्सर्यमुत्सार्य दृष्टिराधीयतामित्यलं वाचा- लतया । मणिकृतस्तु -व्यभिचारेण सह न बावस्य सार्यनियमः । पर्वतो वहिमान् इत्यनुमितौ पक्षधर्मताबलाद् धूमेन वह्निः पर्वतीयः साध्यते यत्र , तत्र महानसीयवह्वेरेव सिद्धिः कुतो न स्याद् यदि बाधो न प्रतिबन्धकः । नहि वह्नौ साध्ये धूमस्य व्यभिचारोऽस्ति । न च पर्वतीयधूमस्य महानसीयवह्निना सह व्यभिचार एव । महानसीबवाहित्वेन साधने तथात्वेऽपि वह्नित्वेन साधने तदभा- वात् । साध्यतावच्छेदकावच्छिन्नसाध्याभावसामानाधिकरण्यस्य व्यभिचा(रि ? र)- त्वात् । तस्मात् तत्र महानसीयवढ्यादिभानं बाधेनैव प्रतिरुध्यत इति वदन्ति । अत्र वदन्ति यदि पर्वते महानसीयादिवह्निभानं , तदानुमितिरयथार्था स्यात् । न च भवदीयप्रयोजनक्षतिरकिञ्चित्करी, सामग्रीतः कार्यावश्यकत्वादिति वाच्यम् । सत्यलिङ्गपरामर्शस्य प्रमानुमितावेव योग्यतया तेनाप्रमानुमितेर्जनयितु- मशक्यत्वात् । नहि शालिबीजाद् यवाङ्कुरः संभाव्यतेऽपि । यदि च नैवं, तदा बाधप्रतिबन्धकत्वाङ्गीकारेऽपि महानसीयवह्नित्वेन बाधावतारात् तेन रूपेणा- नुमितिविषयता मास्तु । वह्नित्वेन बाधानवतारात् तेन रूपेण वह्नि(मान् ? भान) बाघग्रन्थः। दुर्वारमेव । न च बाधस्य समानविषयकतया प्रतिबन्धकत्वाद् महानसादिवहिर्न केनापि रूपेण भासत इति वाच्यम् । एवं सति प्रमेयत्वेन विश्वं जानतो घटत्वा- दिना संशयादिकं न स्यात् । तथा चानुभवविरोध इति । अनाहुः न सत्यलिङ्गपरामर्शस्य प्रमानुमितिजनकतानियमः । घटः सकर्तृकः कार्यत्वादित्यत्र लाघवभ्रमादेककर्तृकत्वविषयानुमितौ सत्यपरामर्श सत्यपि प्रमात्वाभावात् , कूटलिङ्गजानुमितौ विषयाबाधेन सत्यपरामर्श विनापि प्रमात्वाच्च । तस्मादबाधितत्वप्रमाभ्रमौ तत्प्रमाप्रमा(त्व)प्रयोजकौ । अत एव प्रति- बन्धकाभावत्वेनानुमित्यादौ बाधाद्यभावः प्रयोजकः , न त्वबाधितत्वादिज्ञानमित्य- पास्तम् । गुणानुरोधेनाबाधितत्वज्ञानस्यानुमित्यादौ हेतुत्वात् । यच्चोक्तं नविषयकत्वेन बाधस्य प्रतिबन्धकत्वे मेयत्वप्रकारकघटादिज्ञानानन्तरं घटत्वादिना संशयादि न स्यादिति । तदपि न । लाघवेन समानविषयकत्वेन बाधस्य प्रतिब- न्धकत्वसिद्धौ संशयादिविषयभिन्नस्यैव प्रमेयत्वेन ज्ञानं जातमिति कल्पनात् । अन्यथा समानप्रकारकतापक्षेऽपि भूतले घटो नास्तीति ज्ञानेऽपि घटत्वं भूतला- श्रितवृत्तीति ज्ञानस्य दुर्वारत्वापातात् । अत एव समानविषयकत्वेन प्रतिबन्धक- तापक्षे पर्वतातिरिक्तवृत्तिवह्निः पर्वते नास्तीति ज्ञानानन्तरं धूलीपटले धूमभ्र- मा(त्य? द् अन्य)भ्रमानुमितिर्न स्यात् । वयन्तरे बाधावतारात् । पर्वतीयवह्वेर्बा- (ध ? धित)त्वेनाविषयत्वात् । तस्मात् समानप्रकारकत्वेन प्रतिबन्धकत्वमङ्गीकरणी- यमिति वह्नित्वेनाबाधितस्यैव वह्वेस्त(त्रा ? त्र) भानमिति नि(स्तरं ? रस्तम्) । तत्रापि वह्नित्वेन वह्निभिन्नस्यैव पर्वतीयरूपादेर्भानादिति । इदं तु शङ्कयते यत्र वह्निभिन्ने वह्नित्वं नास्ति , पक्षान्यवहिश्च पक्षे नास्तीति धीः, तत्र भ्रमानुमितिः कथं स्यात् । विषयस्य वयवह्निसाधारणस्य बाधित्तत्वावगमादिति । अत्रेदं तत्त्वं-समानप्रकारकत्वेन विरोधपक्षेऽपि इदम्पर्वतत्वादिना निश्चये पर्वतत्वादिना वह्वयादिसंशयः स्यात् । तथा च निष्कम्पप्रवृत्त्यादिवि- रोधः । भूतले घटो नेति ज्ञानानन्तरं भूतलं घटवदिति ज्ञानापत्तिश्च । तस्मादु- क्तयुक्तया लाघवेन च समानविषयत्वेन प्रतिबन्धकत्वे सिद्धे पर्वतान्यवह्निः पर्व- (तो? ते) नास्तीत्यादिबाधोऽनुमितिविषयवह्निमवहिं वा न गोचरयतीति कल्प्यते । अत एव व्यतिरेकिणि यत्र घटे इतरभेदनिश्चयः, तत्र पृथिवीत्वेनापि रूपेण Mammalnews । m.20 मणिसारानुमानखण्डे संशयो न युज्यत इत्यभिप्रेत्यैव मणिकृतोक्तं- 'यद्वा घटादिभिन्नपृथिवीत्वेन पक्ष- तेति । अत एव च केवलान्वयिनि प्रमेयत्वं घटनिष्ठाभावप्रतियोगि न वेत्यादि- संशयः पक्षताघटक उक्तः । समानविषयसंशयत्वेन साध्यसिद्धिनिवर्त्यत्वात् । अन्यथा समानप्रकारकतापक्षे तदसतेः । वस्तुतस्तु समानविषयत्वेन प्रति- बन्धकत्वमित्युत्सर्गः । स च यावद्विषयबाधेन बाधकेनापोद्यते । तथा च यत्र यावद्विषये विशिष्य बाधग्रहेऽपि सामान्यतो ज्ञानं, तत्रागत्या समानप्रकारकत्वेन प्रतिबन्धकत्वेऽपि लाघवेनोक्तयुक्त्या समानविषयत्वेनैव प्रतिबन्धकत्वमिति विष- यविभागः । अत एव पर्वतान्यवह्निः पर्वते नेति ज्ञाने वह्निभिन्ने वह्नित्वं नेति ज्ञाने च भवति वह्नयनुमितिर्वह्नित्वेन रूपेण बाधितवह्निविषयिण्येवेति न काचि- दनुपपत्तिरिति । केचित्तु-गुणानुरोधादत्र परामर्शात् प्रमेत्यसङ्गतमेवेति महान- सीयादिवह्निभानं भवेदेवेति समानविषयकत्वेनैव बाधप्रतिबन्धकत्वमङ्गीकार्यम् । न च सत्यपरामर्शस्वभावादेव महानसीयादिवहिधीर्नेत्येव न कुत इति वाच्यम् । महानसीयादिवद्विभानेऽप्यनुमितौ प्रमात्वसंभवात् । वह्नित्वेन रूपेण महानसीय- वहेः पर्वते भानात् । यत्र यद्धर्मावच्छिन्नयदभावः, तत्र तद्धर्मावच्छिन्नतज्ज्ञानस्य भ्रमत्वादिति । तच्चिन्त्यम् । यत्र यदस्ति , तत्र तज्ज्ञानस्य प्रमात्वात् । न च पर्वते महानसीयवहिर्वह्नित्वेनापि रूपेणास्ति । तस्मादत्र तज्ज्ञानं भ्रमरूपं भवतु मा वा । प्रमारूपं (न) भवतीति निश्चितमेवेति न तदनुरोधात् समानविषयक- त्वेन प्रतिबन्धकत्वसिद्धिरिति दिक् । अन्यच्च बाधासङ्कीर्णस्थलान्तरमुक्तं मणिकृता 'गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादि'त्यादि । नहि तत्र पृथिवीत्वे गन्धव्याप्यताविरहो न वा पक्षधर्मताविरह इति बाध एव तत्र प्रतिबन्धकोऽसङ्कीर्ण इति । तत्र केचिद्-गन्धप्रागभावविशिष्टघटस्य पक्षत्वे तत्र गन्धाभावेन हेतोश्च सत्त्वे व्यभिचार एव । हेतोरसत्त्वे चासिंधिरेव । न च गन्धप्रागभावोप- लक्षि(ता ! तस्य पक्षत्वम्।) तदा तत्र साध्य(स्य) सिद्धत्वेन सिद्धसाधनमेव , न तु बाध इत्यसङ्गतामिदमिति । अत्राहुः -गन्धप्रागभावकाल एवात्र विशेषणतया पक्षतावच्छेदकत्वेन विवक्षितः । तद्विशिष्टे च घटेऽस्ति पृथिवीत्वं हेतुरिति नासिद्धिः, न वा सिद्ध- साधनं, तद्विशिष्टे साध्यासत्त्वात् । अतस्तत्र बाध एव प्रतिबन्धक इति । Neeta बाधग्रन्थः । अत्र नव्याः प्रागभावोपलक्षितकालस्य पक्षतावच्छेदकत्वे तद्विशिष्टघटे गन्धवत्त्वस्य सिद्धत्वात् सिद्धसाधनमेव , न बाधः । प्रागभावविशिष्टकालस्य पक्ष- तावच्छेदकत्वे तादृशकालविशिष्टे पृथिवीत्वहेतोरसिद्धिरेव । प्रागभावांशे तदस- त्वादिति नैतद्वा(ध ? धा)सङ्कीर्णस्थलमुक्तमिति । अत्र प्रतिभाति प्रागभावः स्वाधारकालविशेषपरिचायकः । तथा च कालविशेषविशिष्टो घटः पक्षः, तत्र पृथिवीत्वं हेतुरस्त्येवेति नासिद्धिर्न वा सिद्ध- साधनं , तद्विशिष्टे गन्धाभावादिति बाध एव तत्र दोष इति न किञ्चिदेतत् । अत एव प्रागभावकालावच्छिन्नघटे गन्धरूपसाध्याभावेन हेतोश्च सत्त्वेन व्यभि- चार एवात्र, न तु बाध इत्यपि दूषणमपास्तम् । पृथिवीत्वगन्धयोर्ग्राह्यसामाना- धिकरण्यप्रविष्टसम्बन्धस्य समवायतया तत्सम्बन्धावच्छिन्नहेतुमति तत्सम्बन्धाव- च्छिन्नसाध्यस्यापि सत्त्वेन व्यभिचाराभावात् । ग्राह्यसामानाधिकरण्यप्रविष्टसम्ब- न्धेन हेत्वधिकरणे तत्सम्बन्धारोप्यकसाध्यामावस्यैव व्यभिचा(रि ? र) त्वात् । अन्यथा धूमाधिकरणेऽपि समवायादिना वयभावेन व्यभिचारप्रसङ्गादिति । यच्चा- त्र दूषणं -- पक्षधर्मताबलाद् अनुमितौ साध्यादिभानं , सा च पक्षे हेतुस्तत्र साध्यं विनानुपपन्न इत्याकारेति पक्षीयसाध्यभाने पक्षतावच्छेदकसाध्यसामानाधि- करण्यमर्थादनुमितिविषय इति प्रकृतेऽपि प्रागभावकालीनत्वसामानाधिकरण्येन घटे गन्धः सिध्यत्येवेति नात्र बाधगन्धोऽपीति । तदपि न । पक्षतावच्छेदकविशिष्टे साध्यसिद्धेरौत्सर्गिकत्वात् । बाधेनैव तस्य बाधनात् । अत एव पर्वतो वह्निमा- नित्यादावपि पर्वतत्वाद्यंशेऽपि साध्यासिद्धौ बाधः प्रतिबन्धक एव । किं बहुना, प्रमाणमात्रस्यैव विशिष्टवैशिष्टयान्वयबोधजनकतायामुत्सर्गः । अत एवारुणया गवेत्यादावारुण्यादिविशिष्टगोरेव सोमक्रयसाधनत्वमिति सिद्धान्तः । वस्तुतस्तु वृक्षः संयोगी द्रव्यत्वादित्यादावव्याप्यवृत्तिसाध्यके सद्धेतो साध्याभावप्रदेशे सा- ध्यसिद्धिर्यत्र न भवति , तत्र बाध एव प्रयोजकः । प्रतियोगिविरुद्धसाध्याभावस- हचारस्य व्यभिचारतया तत्र तदभावात् । अत एव व्याप्तिलक्षणे पक्षधरामिषैरि- दमपि बाधासङ्कीर्णस्थलमित्युक्तम् । किञ्च , पक्षतावच्छेदकवति साध्याभावरूपस्य बाधस्य व्यभिचारसङ्करेऽपि साध्यवति पक्षतावच्छेदकाभावज्ञानस्य न व्यभिचार- ज्ञानसाङ्कर्यम् । साध्याभा(व ? वा)ज्ञानेन तत्र तद्गर्भव्यभिचाराज्ञानात् । अन्यच्च ज्ञानासाङ्कय प्रागुक्तमेवास्तीति नेह वितन्यत इति संक्षेपः ॥ इति बाधग्रन्थः ।

, मणिसारानुमानखण्डे अथ हेत्वाभासानामसाधकतासाधनम् । हेत्वाभासानामसाधकतासाधकतया सदुत्तरत्वम् । जात्यादीनां चै(स्य ? स्वा)साधकतासाधारण्येन परासाधकतासाधकतया असदुत्तरत्वम् । यद्यप्युद्देश्यप- रानुमितिप्रतिबन्धो व्यभिचारादिज्ञानादेवेन्यसाधकतानुमितिळा , तथाप्यसाधक- तानुमानेनात्यन्तापकर्षः प्रतिवादिनः सूच्यत इति कथकसम्प्रदायसिद्धस्यासाधक- त्वसाधनस्याप्युद्देश्यत्वामति तदपि कार्यम् । न चैवमितरानुमानवदत्रापि पञ्चाव- यवप्रयोगः किमिति न क्रियत इति वाच्यम् । अत्र दूषणस्यासाधकत्वव्याप्तेः वादिप्रतिवाद्युभयसम्मततया दूषणस्यासाधकत्वव्याप्तिास्त्विति शङ्कोत्थापने व्या- घातेन च व्याप्त्युपदर्शकावयवस्य व्यर्थत्वादिति वदन्ति । वस्तुतस्तु कथक- सम्प्रदायो यत्र यादृशः, तत्र तथा प्रयोग इत्येव मूलयुक्तिरनुसन्धया । अन्यथा पक्षधर्मत्वाबाधितत्वादिबोधकयोरुपनयनिगमनयोः करणं कुतोऽत्र न स्यादिति तत्त्वम् । असाधकत्वं चोद्देश्यानुमितिप्रतिबन्धकतावच्छेदकधर्मवत्त्वमेव । स च धर्मो विरुद्धत्वादिरेव । न चैवमिदमसाधकं विरुद्धत्वादित्यादौ साध्याविशेष इति वाच्यम् । रूपान्तरेणैकस्यापि साध्यसाधकभावाविरोधात् । इदं पिपासोप- शमनसमर्थतावच्छेदकरूपवत् तोयत्वादित्यादिवत् । समानप्रकारकसिद्धयादेरेव प्रतिबन्धकत्वेन साध्याविशेषदोपप्रयोज्यदोषस्यासम्भवादिति दिक् ।। इति हेत्वाभासानामसाधकतासाधनम् । इति श्रीगोपीनाथविरचिते मणिसारेऽनुमानखण्डः । शुभं भूयात् । 'चास्य' क. पाठः.

शुद्धिपत्रम् । पृष्टम् पङ्क्तिः अशुद्धम् २८ यद्य भव्यं सिद्धिनै यद्वा व्य (न) भव्यं ३ सिद्धिरे २२ २२ (वा) (वत्वा) दक दक (विशिष्ट) रिति रिति(न) त्मत्व त्वमसमानाधिकर- त्वसमानाधिक- णात्म(त्व) ग्रा (१) ग्रा सम्बन्धि (क) (स) सम्बन्धिक सुरभित्वा सुराभि(त्व)त्वा ये खें ८ GW रनेक ७३ पक्षता रेक राय (१) पक्ष (धर्म) al बो भिन्नए कृप्त ज्ञान (ज्ञान) ८९. वाभिन्ने । ९५ (ज्ञान ज्ञान ?)

The Manushyalaya Chandrika 1917

Author
T Ganapati Sastri
Title
The Manushyalaya Chandrika 1917
File name
The Manushyalaya Chandrika 1917
Text
OCR done
Citation
1914
Publisher
The Superintendent Gov Press
Language
Sanskrit
Pages
165
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
281060
Barcode
5990010902168.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In public domain
VMLT id
wtObRnWCUai
Download PDF

The Manushyalaya Chandrika 1917