Central Archaeological Library_asi_new Delhi
Sri Dashavtar Charitam 1930
Front matter
श्री
दशावतारचरितम
HARYANMAMIRSITMENIMAINom
Maavenone-NPackaiseasur
जयपुरमहाराजाश्रितेन पण्डितब्रजलालसू.
दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपा
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च
संशोधितम् ।
(द्वितीयावृत्तिः)
मुम्बय्यां
पाण्डुरङ्ग जावजी
इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा
प्रकाशितम् ।
शाकः १८५२, खिस्ताब्दः १९३०.
मूल्यमेको . रूप्यकः।
No text on this page.
काव्यमाला। महाकविश्रीक्षेमेन्द्रप्रणीत दशावतारचरितम् । mod मत्स्यावतारः प्रथमः । अशेषविश्ववैचित्र्यरचनारुचये नमः । मायागहनगूढाय नानारूपाय विष्णवे ॥ १ ॥ देवः पायादपायात्रिभुवनभवनस्तम्भभूतः स युष्मा- नायुष्मान्यस्य भक्त्या प्रभवति पुरुषः वर्गमार्गेऽपचगें । मत्स्यः कूर्मों वराहः पुरुषहरिवपुर्वामनो जामदग्न्यः काकुत्स्थः कंसहन्ता स च झुगतमुनिः कर्किनामा च विष्णुः ।। आदिमत्स्यः स जयतायः श्वासोच्छ्वासितैर्जलैः । गगने विदधेऽम्भोधि गगनं च महोदधौ ॥३॥ तं नमस्कुर्महे कूर्म यः कवाटमसंकटम् । अतीतसर्वब्रह्माण्डमवशेषमिवावहत् ॥ ४ ॥ वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् । अधोधृतार्थच्छत्रेव तलस्थार्कातपासहा ॥ ५ ॥ १. काव्यस्यास्य पुस्तकचतुष्टयमस्माभिरासादितम्. तत्र पुस्तकद्वयं डॉक्टर बूल- रेण कश्मीरदेशादानीतं सांप्रतं पुण्यपत्तनस्थराजकीयपुस्तकालये स्थितं भाण्डारक- रोपाहरामकृष्णशर्मपण्डितेन्द्रः कृपया प्रहितम्, तत्र प्रथमं शारदाक्षरौर्लिखितं १०९ पन्त्रात्मकं क-संज्ञम्. द्वितीयं नागराक्षरलिखितं नवीनं ६७ पत्रात्मकं स्व-संज्ञम्. पुस्त- कद्वयं चास्मत्परमसुहृद्भिः कश्मीरमहाराजाश्रितैः श्रीविश्वेश्वरदैवज्ञवरैः प्रहितम्. तत्र प्रथमं ५३ पत्रात्मकं नवीनं ग-संज्ञितम्. द्वितीयं ८८ पत्रात्मकं समाप्तौ किंचित्रुटितं नवीनं नाविशुद्धं च घ-संज्ञम्. एतत्पुस्तकचतुष्टयमसन्मुद्राणधारतां गतमस्ति. २. 'शंभवे' ग. ३. 'भस्य कीया' ख. ४. 'सुकृतमतिः' ग. ५. 'यच्छासोल्लसितै- जलैः । गगने विदधेऽम्भोधिः' ग. ६. 'नमस्यामहे' ग. ७. 'भतीतमर्थ' तमब्रह्माण्डमर्धशेष इवावहन्' स; 'अतीव' घ. ८. 'अतो' ग. का काव्यमाला। जयाय नृहरिवोऽस्तु दैत्योरःशोणितार्णवे। हारमौक्तिकगर्भास्ताश्चेरुयन्नख°क्तयः ॥ ६ ॥ त्रिविक्रमोऽस्तु भूत्यै वः प्राग्लध्वी मध्यमा ततः। यस्य पश्चादनन्ताभूत्सत्संगतिरिवाकृतिः ॥ ७ ॥ अभग्नं जामदग्यो वः प्रयच्छतु जयोदयम् । यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥ ८ ॥ नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः । होमानलशिखारूढमिव वक्रवनं पुनः ॥ ९॥ शौरिर्जयति कंसस्य जीवितप्रथमातिथिः । यश्चक्रे चक्रदानेन ब्राम्माबाहुप्रतिग्रहम् ॥ १० ॥ यस्य सभ्रूम्रमाकम्पा माररोमाः सुसैनिकाः । चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोस्तु पः॥ ११ ॥ खच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः । कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु वः ॥ १२ ॥ अवतारकथायुक्त्या भक्त्या भगवतो हरेः । श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥ १३ ॥ खजनस्थितिखिन्नस्य पुण्यारण्यविहारिणः । हरिभक्तिरसांसिक्ताः श्रूयन्तां मम सूक्तयः ॥ १४ ॥ संतोषो यदि किं धनैः सुखशतैः किं यद्यनायत्तता वैराग्यं यदि किं ब्रतैः किमखिलैस्त्यागैर्विवेको यदि । सत्सङ्गो यदि किं दिगन्तगमनप्रस्थानतीर्थश्रमैः श्रीकान्ते यदि भक्तिरप्रतिहता तकि समाधिक्रमैः ॥ १५ ॥ लसति हसति हर्षात्तीबदुःखे परेषां स्खलति गलति मोहादात्मनः क्लेशलेशे। १. संचेः' ग. २. 'पतयः' क.. ३. 'हेमानल' घ. ४. 'बाणेन, क-ध 'प्रोल्लसन्' घ. ६. 'कुरुते क्षेमेन्द्रः' क-ख-घ. ७. ७. 'सज्जन' क-ख; 'सुजन' : ८. "विद्यया यत्तता' का 'विद्यया यत्नता' ख.
१ मत्स्यावतारः] दशावतारचरितम् । नदति वदति निन्धं मानिनां किं न नीचः परुषवचनमल्पं श्रावितो हन्तुमेति ॥ १६ ॥ पुण्यान्यहीनहरिणानि तपोवनानि सत्संगतानि शमधर्मविवेचनानि । एतानि तानि भवबन्धविमोचनानि चोंचितानि चरितानि च चक्रपाणिः ॥ १७ ॥ मान्यः किल मनुर्नाम जगज्ज्येष्ठः प्रजापतिः । चचार पूर्वा यः सर्वतीर्थपथातिथिः ॥ १८ ॥ स बदर्याश्रमं प्राप्य नरनारायणाश्रयम् । हरिसंदर्शनधिया चकार सुचिरं तपः ॥ १९ ॥ तं कदाचिदतिखल्पतनुस्तनुतरेऽम्भसि उवाच तलसंलीनस्त्राँसान्मत्स्यशिशुः शनैः ॥ २० ॥ भीतोऽहं स्थूलमत्स्येभ्यो रक्ष मां करुणानिधे । भक्षयन्ति क्षुधा नित्यं दुर्बलं बलवत्तराः ॥ २१ ॥ आश्वासनं विषमशोकविमोहितस्य भीतस्य भीतिशमनं कृशपक्षपातः । धृत्यै विपन्निपतितस्य करावलम्बः संपूर्णपुण्यनिचेयस्य समुच्चयोऽयम् ॥ २२ ॥ मुनिः श्रुत्वैतदाश्चर्यकारि मत्स्यशिशोर्वचः । दयास्तं समादाय जलकुम्भान्तरेऽक्षिपत् ॥ २३ ।। अवर्तमानं कालेन तत्र वृद्धिमुपागतम् । समीपवाप्यां चिक्षेप गङ्गायामथ सागरे ॥ २४ ॥ कालेन सकलाम्भोधिव्यापी विपुलविग्रहः । कौतुकालोकनायातं मनुं मत्स्यः समभ्यधात् ॥ २५ ॥ १. 'उर्वया' ग-घ. २. 'महत्तीर्थ' क-ख. ३. 'सत्' ग. ४. 'क्षिप्रं ग-घ. 'निचयोच्चसमुच्चयः' घ. ६. 'कुण्डान्तरे' ग-घ. ७. 'आवर्तमान' इति सर्वेषु पुस्तकेषु.
काव्यमाला। अधुना विषमः कालः कलुषः प्रत्युपस्थितः । विपरीतनिमित्तानि प्रवृत्तानि प्रजापते ॥ २६ ॥ परदारपरप्राणपरवित्तापहारिणः । विचरन्ति नराः कामक्रोधलोभपरायणाः ॥ २७ ॥ धनं नास्त्यस्ति वा स्तोतं तदधयं न तिष्ठति । मुष्णाति दक्षिणं पाणिं वामो वामं च दक्षिणः ॥ २८ ॥ दास्यं द्विजः श्रयति शूद्रतपस्विशिष्यः शूद्रान्वयः कृषिवणिक्रियया कृतार्थः । वैश्यः खजात्यरुचिविप्रविवाहकारी होता गुरुर्वदति मन्त्रपदानि शूद्रः ॥ २९ ॥ शौचं नास्ति कुतः परोपकृतयः सत्यस्य वातैव का रौद्रः क्षुद्रतया परं परधनद्रोही दरिद्रो जनः । लेशेनापि सुखं खपुष्पसदृशं खैरापचाराः स्त्रियः संपूर्ण युगसंक्षयस्य पुरतः संलक्ष्यते लक्षणम् ।। ३० ॥ कल्पान्तघनसंघातनिर्घातसँलिलाहतम् । जगदेकार्णवीभूतमचिरेण भविष्यति ॥ ३१ ।। सर्वबीजभृतां तस्मिन्काले सप्तर्षिभिः सह । मत्सृष्टां नावमारुह्य स्थातव्यं स्थितये त्वया ॥ ३२ ॥ मनः प्रकम्पनं श्रुत्वा मत्स्यस्य वचनं मनुः । तत्तथेति प्रतिश्रुत्य जगाम निजमाश्रमम् ॥ ३३ ॥ अथोद्ययौ दिशां देहपरित्यागाग्निमण्डली । कालजिहासमूहाभा द्वादशार्कोदयद्युतिः ॥ ३४ ॥ अनेकोचण्डमार्तण्डप्लुष्टे भुवनमण्डले । चराचरजगत्सर्गः सहसा भस्मसादभूत् ॥ ३५ ॥ १.'प्रचरन्ति'ग-घ. २ 'क्षुद्रान्वयः क-ख-घ. ३. 'क्रिययाहितार्थः ख-ग. ४ 'सलिलावहम्' ग-घ. ५. 'संदृष्टां' घ. ६. 'विनिश्चित्य ग-घ.
१ मत्स्यावतारः] दशावतारचरितम् । अथादृश्यत कार्तान्तमहिषस्येव संततिः । निर्दग्धजगदङ्गारमलिना मेघसंहतिः ॥ ३६ ॥ ततः पपात नीरन्ध्रधारासारभरः क्षितौ । विश्वसंक्षयशोकाश्रुप्रवाहः ककुभामिव ।। ३७ ॥ संवर्तकानलप्लष्टे सप्तपातालमण्डले । कल्पान्तपवनापातभने ब्रह्माण्डमण्डपे ॥ ३८॥ पुष्करावर्तकाम्भोमृत्सृष्टवृष्टिसमुत्प्लवैः । जगदेकार्णवीभूतं क्षणेन समपद्यत ॥ ३९ ॥ (युग्मम् ) विपुले विप्लवे तस्मिन्मत्स्यस्य वचनं सरन् । भुजविक्षिप्तसलिलस्तं द्रष्टुमगमन्मनुः ॥ ४० ॥ स ददर्श महामत्स्य चण्डांशुशशिलोचनम् । कृतैक्यमिव संहारे दिनरात्रिप्रकाशयोः ॥ ११॥ बिभ्राणं मेरुसंकाशं शृङ्गं शिरसि काञ्चनम् । अम्भोभिरावृतस्थानं निर्यान्तमिव वाडवम् ।। ४२ ।। पुच्छाच्छोटोच्छलितसलिलालोलकल्लोलजालैः श्वासाभ्यासप्रसरदमलोत्तुगरङ्गत्तरङ्गैः । खं कुर्वाणं श्रितमिव धनोल्लासकैलासले:- दृष्ट्वा मत्स्यं हरिरिति मनुस्तत्प्रणामानतोऽभूत् ॥ १३ ॥ तदुचशृङ्गसंलग्नां नावं धृतिमिवायताम् । आरुरोह गिरा तस्य सह सप्तर्षिभिर्मनुः ॥ ११ ॥ तसिन्काले निरालम्बे मार्कण्डेयो निराश्रयः । देवर्षिः सलिलपस्तं दृष्ट्वा जगदचिन्तयत् ॥ ४५ ॥ अहो बत महानेष कालः संकलिताखिलः । जगद्रासरसाभ्यासादनिशं न निवर्तते ॥ ४६॥ १. 'संततिः' क-ख-ब. २. 'मण्डले' क-ख-घ. ३. 'सृष्टि' क-ख-घ, ४. 'युग्मम्' -घ-पुस्तकयो स्ति. ५. 'मुनिः' ग-घ. ६. 'सलिलालोक क-ख-घ. ७. 'तुझ्वाद' क; 'तुङ्गतुः' ख. ८. 'ऋतं' क; 'धृतं' ग-घ. ९. 'लक्ष्यैः' क-ख-ग-घ.
काव्यमाला। २ क स सनगरपामग्रामः समग्रगिरीश्वरः प्रथितभुवनाभोगः सेन्दुग्रहार्कगतिर्गतः । अहह कुटिलखप्नोत्पन्नैरिवाश्रितविभ्रमै- भ्रमयति भवे भावैः कालः कृतैरथ संहृतैः ॥ १७ ॥ मान्यास्ते मुनयस्तपोवनभुवस्तास्तीर्थसार्थार्थिताः शौर्योत्साहमहोदयाः क्व बत ते भूभूषणं भूमिपाः । अन्ते सज्जनमन्युनीचविनयस्त्रीचित्तधूर्तभ्रम- खमाकारमधर्मलब्धधनवत्कष्टं न किंचित्स्थितम् ॥ ४८ ॥ इति संचिन्तयन्दोा विक्षिप्तसलिलस्तरन् । तामासाद्य मुनि वमाललम्बेऽम्बरोन्मुखीम् ॥ १९ ॥ आकृष्यमाणः स तया मत्स्यशृङ्गाग्रकृष्टया। मनोन्मग्नः प्रपेदेऽन्तं संसारस्येव नाम्भसः ॥ ५० ॥ त्वगत्तुङ्गतरङ्गभङ्गविहितव्योमाङ्गनालिङ्गने वाताघातविभक्तयोजनशतावर्ते च निम्नेऽन्यतः । अक्षोभस्थितिनिश्चले स्फटिकभूतुल्ये प्रसन्ने क्वचि- नासालग्नजलः श्वसन्मुनिवरस्तोये श्रमार्तोऽभवत् ॥ ५१ ।। अनर्कचन्द्रनक्षत्रे दिनरात्रिविवर्जिते । अप्रमाणे गते काले मध्यं प्रापाम्भसो मुनिः ॥ ५२ ।। तत्र सप्तर्षिभिर्जुष्टां मनुना च प्रजासृजा । नावं मत्स्यं च नापश्यन्मुह्यमानर्मंना मुनिः ॥ ५३ ॥ अथ विद्रुमवैदूर्यहेमशाखासहस्रिणः । उद्भुतस्याम्भसो मध्यान्न्यग्रोधस्य महातरोः ॥ ५४ ॥ अङ्के पर्यङ्कबन्धेन स्थितं कमललोचनम् । ददर्श श्यामलं बालं दीप्ताभरणभूषितम् ॥ ५५ ॥ (युग्मम्) १. कुतः' ख. २. 'आशृत' का 'आहत' ख, 'स्मित' ग; 'आवृत' घ. ३. 'स्थिरम्' ग-घ. ४. 'तुजोत्तुङ्ग' स्व. ५. 'प्रसक्ते' ख. ६. 'तनुर्मुनिः' क-घ.
कूर्मावतारः] दशावतारचरितम् । तत्समीपमवाप्तोऽथ स मुनिर्जलविह्वलः निपीतः शिशुना तेन पयश्चलकलीलया ॥ ५६ ॥ तस्योदरे सगिरिगंहरसागराणि द्वीपापगानगरतीर्थतपोवनानि । पश्यन्नशेषभुवनान्यनिशं महर्षि- नैवान्तमन्तरचरः कचिदाससाद ॥ ५७ ॥ प्रयाते विपुले काले निष्क्रान्तस्तन्मुखान्मुनिः । अपश्यन्नाभिजाम्भोजे तस्य जातं प्रजासृजम् ॥ ५८ ।। ब्रह्मणो मानसाज्जातैः प्रजापतिभिरद्भुतः । मनुमुख्यैः कृतः प्राग्वत्सर्गः पुनरदृश्यत ॥ ५९ ॥ अथ बहुविधवर्णाकारचेष्टानुभावं समविषमविर्भागं कर्मरेखाविभागैः । नवविधिविहितं तद्विश्वनिर्माणचित्रं भुवनभवनभित्तिव्यक्तसंसक्तमासीत् ॥ ६० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते मत्स्यावतारः प्रथमः। कूर्मावतारो द्वितीयः। दक्षस्ततः सर्गविधानदक्षः प्रजापतिः कान्तिविभूषिताशः । एकाधिकाः सर्वगुणोन्नतेभ्यः शतार्धसंख्याः प्रददौ खकन्याः ॥ १ ॥ ज्येष्ठामुमाख्यां भगवान्पिनाकी त्रयोदशान्याः किल कश्यपश्च । सप्ताधिकां विंशतिमत्रिपुत्रश्चन्द्रः प्रपेदे दशकं च धर्मः ॥ २ ॥ असूत देवानदितिः समस्तान्दैत्यान्दितिः कश्यपतः क्रमेण । कश्च नागान्गरुडारुणौ च खगाधिनाथो विनताभिधाना ॥ ३ ॥ दनुस्तथा दानवसंघमुग्रं शूनां जनित्री सरमा बभूव । अन्यासु चाभूदथ कश्यपस्य हंसादिभेदेन विहंगसर्गः ॥ ४॥ १. "गिरिसागरगहराणि' क-ख. २. 'निर्गतः ग घ. ३. 'अद्भुतै' क-ख. 'विराग' ग. ५. 'विमावैः' क.
4 काव्यमाला। ततः सुराणां बलवत्तराणां दितेः सुतानां च भुजोर्जितानाम् । दुग्धोदधौ मन्दरभूधरेण सुधाप्तये मन्थमनोरथोऽभूत् ॥ ५ ॥ अथार्थितोऽभ्येत्य हिताय विष्णुः सुरासुरैः प्रीतिधृतैककार्यैः । - मन्थक्षम मन्दरमादरेण दलद्दरीकंदरमुज्जहार ॥ ६॥ तटे निविष्टेषु सुरासुरेषु तार्क्ष्यध्वजं क्षीरनिधिनिरीक्ष्य । प्रक्षेप्तुमभ्युद्यतमदिराजं कृताञ्जलिविग्रहवानुवाच ॥ ७ ॥ चतुर्मुखः सृष्टिमिमां तनोषि विष्णुः स्थितिं पासि जगन्निवास । अन्ते हरः संहरसि त्रिलोकीमेकस्त्रिधा कारणभेदतस्त्वम् ॥ ८॥ भवद्भुजोत्क्षेपरयेण मुक्तः खातड्यनिर्यब्रगतिः प्रमाथी । न सप्तपातालतलावभेदी काप्येष विश्राम्यति शैलराजः ॥९॥ मन्थप्रयत्नो यदि सर्वथैव तच्चिन्त्यतामस्य धृतिर्महाद्रेः । वोढुं दृढोपक्रमकार्यभारं धृत्या विहीनः किल कः समर्थः ॥ १० ॥ यथार्थमाकर्ण्य सुधार्णवोक्तं युक्तं विनिश्चित्य तथेति विष्णुः । मन्थोद्यमे मन्दरधारणाय द्वितीयरूपेण बभूव कूर्मः ॥ ११ ॥ घनप्रमोदप्रतिमेन तेन विस्तारिणान्तः परिपूर्यमाणः । तरङ्गदोभिर्गगनाग्रगङ्गां क्षीरोदधिः क्षीब इवालिलिङ्ग ॥ १२ ॥ क्षिप्तस्य सावेगमथाच्युतेन सेहे भरं भूमिभृतः स कूर्मः । नवेश्वरस्येव विशृङ्खलस्य खकार्यसिद्ध्यै मतिमान्विकारम् ॥ १३ ॥ गिरा गरीयान्गरुडध्वजस्य वक्रक्रियां वासुकिरादधानः । आकर्षयोग्यं हृदयग्रहेण चक्रे गिरिं मुग्धमिवातिधूर्तः॥ १४ ॥ अथाद्रिनाथे त्रिगुणानुबद्धं मन्थोत्थिता मन्थनकार्यसिद्ध्यै । भुजंगराजं जगृहुर्महेच्छाः पुच्छेन देवा वदनेन दैत्याः ॥ १५ ॥ अथ मथनविधाने क्षोभणेऽब्धेः प्रवृत्ते भुवनभवनभङ्गभ्रान्तिहेतुर्बभूव । १. 'बलोर्जितानाम्' ग. २. 'दरत' क-घ. ३. 'गतिः' क. ४. 'क्षोभने Tity २ कूर्मावतारः] दशावतारचरितम् । कठिनकमठपीठप्रष्ठपृष्ठप्रतिष्ठ- प्रेविलुठदचलेन्द्रोद्धातनिर्यातघोषः ॥ १६ ॥ ततः श्रियः स्फाटिकमण्डपाभं दन्तायतस्तम्भचतुष्टयाङ्कम् । मन्थोत्थमैरावणमिन्दुशुभ्रं द्विपेन्द्रमिन्द्राय ददावुपेन्द्रः ॥ १७ ॥ ससत्त्वमुच्चैःश्रवसं च सप्तिं निर्दोषमुत्साहगुणोपपन्नम् । प्रभाभिरामं सकलक्रियाह शूरप्रतापोदयसुप्रकाशम् ॥ १८ ॥ श्रमश्वसद्वासुकिसृग्वि(कि)निर्यद्विषानलोल्काविकरालवक्रान् । विलोक्य दैत्यान्पुरतः पयोधेरथोद्ययौ हास इवामृतांशुः ॥ १९ ॥ स्वयं समादाय हरिहिमांशुं हरस्य चूडाभरणीचकार । गुणोचितस्थानसमर्पणेन पुष्णन्ति मानं महतां महान्तः ॥ २० ॥ अथोदितं कौस्तुभमन्जनाभः स्वभावहy हृदये बबन्ध । संपूरिताशं विशदप्रकाशैः कृतज्ञधीः साधुरिवोपकारम् ॥ २१ ।। समुन्मिषद्विद्रुमहेमशाखासहस्रनिर्यन्नवरत्नपत्रः । जातः सुधाब्धेरथ पारिजातः स्वयं महेन्द्रोपवनं जगाम ॥ २२ ॥ अथोद्ययावुत्कटकालकूटः समीरसंमोहितदेवदैत्यः । दानोद्यतस्य स्वरसेन सिन्धोरत्यर्थमर्थार्थनयेव कोपः ॥ २३ ॥ विष्णोगिरा विश्वहितप्रवृत्तः शिवस्तदत्युग्रतरं निगीर्य । गौरीपरिष्वङ्गरसादिवाभूत्कपोलकालागुरुनीलकण्ठः ॥ २४ ॥ सुधाब्धिमध्यान्नवनीतमृद्वीमभ्युद्गतां कान्तितरङ्गिताङ्गीम् । ततः श्रियं श्रीरमणः प्रपेदे खयंवरक्षिप्तकटाक्षमालाम् ॥ २५ ॥ अथौषधीनां घनसौरमेण श्रमापहारी त्रिदशासुराणाम् । हर्षाय धन्वन्तरिराविरासीत्पीयूषपूर्णः कलशश्च पश्चात् ।। २६ ॥ सुरापनीतद्विरदाश्वरत्नशशाङ्कलक्ष्म्यक्षमिणोऽतिजिह्माः । दिवौकसां मूलवधे प्रवृत्ता दैत्याः सुधां जगुरलक्ष्यवेगाः ।। २७ ॥ १. 'प्रविष्ट' ग. २. 'प्रविचलत्' ग. ३. 'निर्घोष' घ. ४. 'सुप्रतापम्' ग. ५. 'सुधांशु' ख-ग. ६. 'भव्यं क-घ. ७. 'उद्धत' घ. ८. 'लक्ष्मीक्षमिणः' ख-ग. दशा०२ काव्यमाला। पीयूषपूर्ण कलशं जवेन हृत्वा प्रयातेष्वसुरेषु विष्णुः । मन्थाचलेन्द्रं स्वपदे निधाय क्षणं प्रदध्यौ विबुधार्थसिद्धिम् ॥ २८ ॥ सुनिर्मलाङ्गी सुरवैरिवामां वामाकृति कामकृपाणवल्लीम् । तनीयसी विश्वतनुस्तनुं खां लावण्यलीलालहरी चकार ॥ २९ ॥ तरलवलनलीलामित्रनेत्रत्रिभागैः श्रवणकुवलयस्य क्लैब्यमांपादयन्ती । अमृतहरणहेलादृप्तदैत्येश्वराणां हृदयहरणसज्जा सा समीपं जगाम ॥ ३० ॥ शृङ्गारिणी भगवतस्तनुमच्युतस्य दृष्ट्वाद्भुतां त्रिभुवनाभिमतां बभूव । भव्यप्रभावविभवाय मनोभवस्य तद्विभ्रमप्रभवभावभवोऽभिमानः ॥ ३१ ॥ मनसिजविजयोद्यद्वैजयन्तीविलासां तुहिनकिरणहासां तां विलोक्यैव दैत्याः । झटिति गतविवेकाः शेकुराँश्चर्यमोहा- दमृतमनृतलब्धं नैव पातुं न हातुम् ॥ ३२ ॥ संत्यज्य लब्धामृतपानतृष्णां ते प्रेमलब्धाधरपानलुब्धाः । गाढाभिलाषोष्णविषानुबन्धादूचुर्मिथः प्रस्खलितप्रतापाः ॥ ३३ ॥ पूर्णेन्दुर्वदने गतौ गजपतिर्लावण्यसारे सुधा श्रीर्गात्रे मधुराधरेऽरुणमणिः संभाव्यते सुभ्रवः । नीतं यत्रिदशैरहो सुमतिना भीतेन दुग्धाब्धिना तत्सर्वं परितोषणाय वनिताव्याजेन नः प्रेषितम् ॥ ३४ ॥ तीव्रश्रमाप्तममृतं यदि बुद्धिमोहा- देतत्कराम्बुरुहदत्तमिदं न पीतम् । १. 'निवेश्य' ग. २. 'उत्पादयन्ती' ख-ग.' ३. 'ऐश्वर्य' ग. ख-ग ४. 'सुमनसा' HAIVARANAMAMIN ३ वराहावतारः] दशावतारचरितम् । तत्किं वृथा दलितकंदरमन्दराद्रि- मन्थैरुपद्रवशतैः परिखेदितोऽब्धिः ॥ ३५ ॥ इत्युक्त्वामृतपूर्णरत्नकलशं तस्यै दुर्दानवाः साप्यादाय तमम्बरेण सहसा धामामराणां ययौ । अन्यायेन यदर्जितं कथमिह स्वास्थ्येन तद्भुज्यते यत्नात्तोऽपि पलायते विहगवन्मूढस्य हस्तान्निधिः ॥ ३६ ॥ प्रत्याहृतं तत्कमलाधवेन पातुं प्रवृत्तेष्वमृतं सुरेषु । विवेश राहुः सुररूपगूढस्तन्मध्यमाखादविशेषलुब्धः ॥ ३७ ॥ जिह्वाग्रलग्नं रससारमाधमास्वादयन्विस्मयलोलवत्रः । राहुर्मुहुः कातरतामवाप्तः संसूचितः सोमदिवाकराभ्याम् ॥ ३८ ॥ अर्धग्रोत्कार(?)रावप्रविलुठदमृते कण्ठपीठेऽथ राहो- वक्रस्य क्रूरकोपात्क्रमरहिततया चक्रिचक्रेण कृत्ते । निर्यान्ती व्यक्तरक्तस्रतिभरशबला शेषपीयूषधारा हारामालीनपीनारुणमणिकिरणश्रेणिशङ्कां चकार ॥ ३९ ॥ इति स भगवान्विष्णुः कूर्माकृतिधृतभूधरः सुरहितविधौ बद्धश्रद्धः सुधां विदधेऽम्बुधेः । अविचलतया संसक्तानां परोपकृतित्रते भवति महतां स्फीतोत्साहे मनागपि न श्रमः ॥ ४० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते कूर्मावतारो द्वितीयः । वराहावतारस्तृतीयः । अथामृते विष्णुहृते दितेः सुतः कृती हिरण्याक्ष इति प्रभावभूः । तपःश्रिया सर्वजगज्जयोर्जितामवाप भूतिं परिभूतवासवः ॥ १ ॥ कदाचिदास्थानसभाभुवं श्रितः स विप्रचित्तिद्रुमभौमतारकान् । निसुम्मसुम्भान्यकजम्भशम्बरान्महासुरान्वृत्रमुखानभाषत ॥ २ ॥ १. 'यमाप्तः' ग. २. 'अर्धामोत्कार' ग. ३. 'शंभरान्' ग-घ.
१२ काव्यमाला। अपि श्रुतं दृष्टमदृष्टमीदृशं सुरैः कृतं वक्रतया कुकर्म यत् । न मर्मसंलग्नविषोक्षितेषुवत्करोत्यहो दुःसहदाहलाघवम् ॥ ३ ॥ न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः । धियं कुमायासमयाभिचारिणीं विदग्धतामेव हि मन्यते खलः ॥ ४ ॥ रणाग्रभित्तिलिखितेव चक्रिणा दिगन्तपट्टेष्वयशोमषीभरैः । भुजाभिमानाभरणः करोति किं सुधापहारं वनिताकृतिच्छलात् ॥ ५॥ निपीय पीयूषमुपायमायया जराक्षयादक्षयकायतां गताः । ध्रुवं समुत्सारितसंपदः सुराः सदैव निन्दन्त्यतिदीर्घजीवितम् ॥ ६॥ अदानभोगेन धनोदयेन किं मदस्पृशा द्वेषजुषा श्रुतेन किम् । सदम्भसंभारवता व्रतेन किं विपद्विमानेन कुजीवितेन किम् ॥ ७ ॥ यस्मिन्नूर्जिततेजसा निजभुजोत्साहार्जिताः संपदो भुज्यन्तेऽल्पतरोऽप्यनल्पसुकृतैः पूज्यः स जीवक्षणः । याच्याक्लिष्टनिकृष्टचेष्टमनिशं कैप्टेऽप्यपुष्टाशनं काकानामिव पुण्यपिण्डकभुजां कस्येष्टमायुश्चिरम् ॥ ८॥ विवासिताः खर्गपदान्मयाधुना सुधानिबद्धायतजीवितद्विषः । व्रतानि देवाः कुगतिक्षताः क्षितौ चरन्ति तीर्थेषु तपोवनेषु च ॥ ९ ॥ घनावमानाशनिशातितौजसां वियोगिनां दैवनिपीतसंपदाम् । प्रतिक्रियाहीनरिपुप्रणामिनां प्रजायतेऽतीव तपोवनादरः ॥ १० ॥ रिपोर्गतस्यापि शरीरशेषतां न नाम युक्तं क्षणमप्युपेक्षणम् । अतः सुराणां व्यसनप्रवासिनां समूलनिर्मूलनकर्म कुर्महे ॥ ११ ॥ इति स्थिरान्तर्गतगूढमन्युना यथार्थमुक्तं सुरवैरिभूभृता । निशम्य दैत्याः प्रमदात्तमूचिरे सुधापहारोग्रनिकारदारिताः ॥ १२ ॥ वयं त्वदाज्ञापरतन्त्रवृत्तयः पराभवं शत्रुकृतं सहामहे । रिपुक्षमापङ्ककलङ्कितं यशो न नाकिकान्ताश्रुजलैः पुनीमहे ॥ १३ ॥ १. 'क्रिय' ख-ग. २. 'कुमारक्रियया क-ख-ग. ३. 'भीतिः' क-ख. ४.'क- टेष्ट' क-ख-ग. ५. 'चान्य ग. ENERARAMHENAWATRIKANNow we riveindean ३ वराहावतारः] दशावतारचरितम् । १३ स कुञ्जरेन्द्रः स हयः स कौस्तुभः प्रसह्य सा श्रीः स शशी स पादपः । हृताः सुरैरेव विलोकिताः पुरः प्रणष्टचेष्टैलिखितैरिवासुरैः ॥ १४ ॥ अमर्षिभिर्मर्षित एष दुःसहः सुधाशया दैत्यवरैर्व्यतिक्रमः । न सापि पीता बत निष्फलोदयः कृतोऽतिलोभादभिमानविक्रयः ॥१५॥ पुनः पुनः किं विपुलं विचार्यते समीहितं हन्त हिते विधीयताम् । भवत्यभावप्रभवे दिवौकसां न नाम नामापि यथा जगत्रये ॥ १६ ॥ इति पँवृद्धोद्धतमन्युमूछितैः सुरारिभिः क्रूरतरैरुदाहृतम् । प्रियं समाकर्ण्य हिरण्यलोचनः प्रमोददिग्धः सचिवानभाषत ॥ १७ ॥ अतीव युक्तं मतमायतिक्षमं भवद्भिरुक्तं हितयुक्तमुत्तमम् । विनाशसज्जः प्रथमं दिवौकसां क्षिति स्थिति देहधृति हराम्यहम् ॥१८॥ ममाज्ञया संप्रति सैन्यनायकाः प्रविश्य पातालतलं बलाधिकाः। क्षितिं समाक्षिप्य नयन्त्वदृश्यतामसंशयं संक्षय एव विद्विषाम् ||१९|| इति प्रभोद्भूभ्रमभीमशासनं निशम्य दैत्याः पृथिवीप्रवासनम् । समुच्चलन्तश्चरणैः प्रचक्रिरे क्षितिं क्षयत्रासविसंस्थुलामिव ॥ २० ॥ अथ दितिसुतसेना मज्यमानाननानां स्थितिविदलनलजां दिग्गजानां दिशन्ती। धरणिहरणसज्जा मज्जयन्ती दिगन्ता- नविशदतिविशालोत्तालपातालमूलम् ॥ २१ ।। क्षितौ हृतायां दितिजैः सदानवैर्जगत्सु जाते स्थितिलोपविप्लवे । भुवं समुद्धर्तुमथाच्युतः वयं वराहवक्रः प्रविवेश भूतलम् ॥ २२ ॥ स राजवर्ताचलतुल्यविग्रहः सशङ्खचक्रः शशिसूर्यवानिव । अकालसंध्यामिव पिङ्गलोचनः प्रभां बभार क्षयलक्षणां द्विषाम् ॥२३॥ स सप्तपातालतलान्तकोटरे निसूदिता,न्मददानवैर्महीम् । समुज्जहाराम्बुविहारलीलया तनीयसी शेवलवल्लरीमिव ॥ २४ ॥ १. 'अमर्षितैः' ख. २. “एव' ग-घ. ३. 'लोकात्' ख. ४. 'प्रबुद्ध'ग-घ. ५. 'असंशयः' ग. ६. 'प्रशासनम्' ग. ७. नीलवर्णो रत्नविशेषो राजवर्तः.८. 'समस्त' ग. ९. 'दुर्मद' ख.
काव्यमाला। पोत्रप्रान्तसमुद्धृता भगवतः क्रोडाकृतेः श्यामला दंष्ट्राने शशिनीव लक्ष्मलहरीशोभा दिशन्ती क्षणम् । वक्रालोकनकम्पभीतितरला खेदाम्बुतिभ्यत्तनु- Vलीलापल्वलमुस्तपत्रलतिकालीलामुवाह क्षितिः ॥ २५ ॥ अथाययौ भूमिसमुद्धृतिक्रुधा सुधापहारस्मृतिवर्धमानया । भैरेण दैत्याधिपतिश्चलच्चमूरजःपटग्रस्तसमस्तवासरः ॥ २६ ॥ ततस्तदुत्सृष्टशराश्ममुद्रत्रिशूलपाशाङ्कुशशक्तितोमरैः । बभूव देवः परिपूरिताकृतिर्महाप्रवरिव निश्चलोऽचलः ॥ २७ ॥ आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः । खस्थां धृत्वा स्थिरनिजपदे मां हिरण्याक्षमुग्रं क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ॥ २८ ॥ इति स भगवान्विष्णुर्जिष्णुर्जगत्कुशलक्रिया- प्रणिहितमतिः कृत्वा विश्वं समुद्धृतकण्टकम् । निजनिजपदे धृत्वा देवाञ्जगत्रितयस्थिति विभुरभिनवोत्साहां चक्रे पुनः प्रथमामिव ॥ २९ ।। इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते वराहावतारस्तृतीयः । नरसिंहावतारश्चतुर्थः । हते महावराहेण हिरण्याक्षे क्षितिद्रुहि । हिरण्यकशिपुः श्रीमानभवत्तत्सुतोऽधिकः ॥ १ ॥ नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना । दोर्दण्डपीडनक्रीडाब्रीडाकुण्डलितं धनुः ॥२॥ प्रतापकेसरी यस्य निःशेषीकृतविद्विषः । अलब्धयुद्धः सुष्वाप जगद्दिरिगुहागृहे ॥ ३ ॥ १. 'वक्र' ग. २. 'ताम्यत्' ख. ३. 'बलेन' घ. ४. 'सुस्था' ग. ५. 'कृत्वा' घ. ६. 'अधिकस्तत्सुतोऽभवत्' ग.
४ नरसिंहावतारः] दशावतारचरितम् । १५ स जम्भवृत्रनमुचिप्रमुखैर्दैत्यदानवैः। हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥ ४ ॥ प्रणमदैत्यसामन्तप्रतिबिम्बभरक्षमे । विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥ ५॥ (युग्मम् ) पार्थे हठहृतामर्त्यतरुणीचामरानिलैः । प्राणेशविरहोच्छ्वासैरिव लोलांशुकाञ्चलः ॥ ६ ॥ तस्याग्रे विग्रहग्रस्तसमस्तसुरसंपदः । तेजेसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥ ७ ॥ तस्मिन्निःशब्दसंचारे दैत्यवृद्धः सभातले । प्राह राहुः शिरःशेषः सुरवैरं वहन्मुखे ॥ ८॥ दैत्याधिनाथ धन्योऽसि युधि येनासिधारया । क्षमापङ्ककलङ्काकं कुलस्य क्षालितं यशः ॥ ९॥ सुरापकारशल्यानि भ्रूभेदेन तवाधुना । कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥ १० ॥ पूज्यं जन्म प्रथितयशसस्तस्य माहात्म्यपूतं मानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः । बद्धस्तेन स्थिरगुणकथाहेतुरौचित्यसेतु- यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥ ११ ।। अल्पागसां वृथासाभिः कृता हिंसा दिवौकसाम् । विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥ १२ ॥ तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी वक्र सौम्यं हृदयमदयं दूषितं चेष्टितं च । वैदग्ध्यं तद्वत मधुरिपोर्मायया मौग्ध्यदिग्धं वामामूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥ १३ ॥ १. "विमले' ख. २. 'ओजसा' ख. ३.'प्रभुः' ग-घ. ४.'सेतुरौचित्यहेतुः क-ग. ५. 'वक्रक्रूरं हृदयं' ग. ६. 'रामामूर्तेः' ग.
काव्यमाला। यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः । तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥ १४ ॥ दैत्येश्वरे हिरण्याक्षे क्षपिते तार्क्ष्यलक्ष्मणा । शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥ १५ ॥ साधारोदधिमन्थोत्थां लक्ष्मी वक्षसि कुर्वता । तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥ १६ ॥ लक्ष्मीकौस्तुभपरिजातहरणं स्त्रीमायया वञ्चनं मत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया । दैत्येन्द्ररवलेपविद्रुतमदैर्दैवेन वा मुद्रितै- वैकुण्ठस्य शठस्य कुण्ठमतिभिश्चिन्त्यं न तच्चिन्तितम् ॥१७॥ अधुना दानवपते खड्गपातपैवित्रितः । पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥ १८ ॥ इत्युक्ते राहुणा स्पष्टं दैत्याः क्लिष्टमुखत्विषः । बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥ १९ ॥ अमानमौनमूकेषु दानवेष्वभिमानिषु । उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥ २० ॥ साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् । दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥ २१ ॥ सर्वकषेण कालेन दैत्येन्द्रे कवलीकृते । किं मिथ्याकारणत्वेन नीयते विष्णुरुन्नतिम् ॥ २२ ॥ कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया । विलम्बं कुरुते तस्य कः कालस्य बलीयसः ।। २३ ।। यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः कोटीनां षण्णवत्या सुगणितवयसो वर्षसंख्या बभूव । ३. 'पवित्रितम्' ख-ग. १. 'मुद्रितपदैः' ख-ग. २. 'संचिन्तितम्' ख-ग. ४. 'श्राद्धकालाय दीयताम्' ख-ग. ५. 'मूढेषु' घ.
४ नरसिंहावतारः] दशावतारचरितम् । १७ निःशङ्काश्वासलीलालससरलमतेरसुप्तस्य मैत्र्या- श्चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतनः ॥ २४ ॥ दैवमेव वधे तस्य कारणं दैत्यभूभृतः । हरिर्हन्ति हिरण्याक्षमिति किं केन संगतम् ॥ २५ ॥ नियन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः । किं पात्यते न कीटेन शतशाखो वनस्पतिः ॥२६॥ बलवान्दुर्बलं हन्तीत्येष नास्त्येव निश्चयः । दीपं हन्ति पतंगोऽपि पन्नगं च पिपीलकः ॥ २७ ॥ भीरुर्जयति सङ्ग्रामे याँति वीरः क्षयं क्षणात् । एवंविधा एव भवे भवन्ति भवितव्यताः ॥ २८ ॥ दैत्येन्द्रस्यारिसंहारे प्रेरणा कोपयुज्यते । प्रेर्यते दन्तिदलने कानने केन केसरी ॥ २९ ॥ राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया । न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥ ३० ॥ इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् । साधुसाध्विति दैत्यानां निश्चेरुयुगपद्भिरः ॥ ३१ ॥ अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः । प्रह्लादः पितुरासन्ने यौवराज्यासने स्थितः ॥ ३२ ॥ तात तिष्ठत्सु वृद्धेषु षाड्गुण्यज्ञानमानिषु । मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥ ३३ ॥ प्रस्थितानाममार्गेण निपातभयशङ्कया। दूराद्वारणनादेन येनकेनचिदुच्यते ॥ ३४ ॥ अयुक्तं यद्भगवतो विष्णोनिन्दाभिनन्द्यते । अशक्तं वाङ्मयं पापमभ्यस्तं खस्तिनाशनम् ॥ ३५ ॥ यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते । सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥ ३६ ॥ १. 'तेन' ग. २. 'संश्रुतम्' ख. ३. 'यान्ति वीराः ख.
काव्यमाला। विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः। दोषे वैरं गुणे प्रीतिनिसर्गेण जगद्गुरोः ॥ ३७ ॥ गुणहीना वयं नूनं त्रिदशा गुणशालिनः । हरिः कुतोऽन्यथासासु विमुखस्तेषु संमुखः ॥ ३८ ॥ प्रयत्नः स्वगुणाधाने येन बुद्धिमता कृतः । भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥ ३९ ॥ मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते । गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥ ४० ॥ हिंसाविरहिता चेष्टा वाणी विनयकोमला । यस्यावैरं मनस्तस्य शत्रुशून्या दिशो दश ॥ ४१ ॥ न तु विश्वाकृतेर्विष्णोः कर्तुं शक्या प्रतिक्रिया । यस्योदरदरीकोणे लीना शेते जगत्रयी ॥ ४२ ॥ आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वः श्वासोल्लासावहेलातुलतरलतरोत्तालकल्लोलभाग्भिः । शुण्डोच्चण्डाभिघातस्फुटितमपि पुनः स्फाटिकस्फारवामि- श्चक्रे मंत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥ ४३ ॥ यस्याकरोद्विकचनाभिभवाजकोषे सामखरेण विदधद्भमराभिशङ्काम् । यज्ञोपवीतमुरसा धवलं दधानः संलग्ननालतनुतन्तुरिवाजयोनिः ॥ ४४ ॥ दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पः संपन्ने सर्वबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः । पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कूर्मरूपः कवाट यस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुति कश्च निन्दाम् ॥४५॥ १. "विद्यते' क-ख-ग-घ. २. 'जायते' ख-ग. ३. 'सप्ताब्धिलोकः क. ४. 'स्फा- टिक' क-ग. ५. 'वाग्भिः' ग. ६. 'तलतन्तु' क-ग.
४ नरसिंहावतारः] दशावतारचरितम् । परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया । राहोाहरतो देहविरहात्तस्य शोभते ॥ ४६ ।। न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति । कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥ ४७ ॥ आक्रान्तिभरवक्रेण क्रूरचक्रेऽस्य चक्रिणः । किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥ ४८॥ उचितं दैत्यवीरेण तारकेण महात्मना । कथितं यत्स कालेन दलितो मत्पितामहः ।। ४९ ॥ कालश्च भगवान्विष्णुर्विश्वव्यापी सनातनः । अनाद्यन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥ ५० ॥ पूज्यतां विनेयाद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः । रक्ष्यतां यक्षिणी (2) लक्ष्मीः खहिते धीनिधीयताम् ॥ ५१ ।। मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता । प्रभविष्णुविरोधश्च विधिवैर्मुख्यलक्षणम् ॥ ५२ ।। प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः । अङ्कुशाकर्षकषणक्लेशी वन्य इव द्विपः ॥ ५३ ॥ सोऽवदद्वत दैत्यानां दुनिमित्तमुपस्थितम् । यदादिशति वृद्धानामुपदेशमयं शिशुः ॥ ५४॥ कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा । पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥ ५५ ॥ खकुलत्यागनिःलेहाश्चपला मलिनाः खलाः । कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ॥ ५६ ॥ कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते । यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥ ५७ ॥ १. 'परोक्षाधोक्षजा' क-घ. २. 'राहोरतितरां' क-ख. ३. 'धारापथ' ख, 'धारा- पृथु ग. ४. 'आक्रान्ततरवक्रेण क्रूरचक्रेण चक्रिणा' ग-घ. ५. 'विनयी' क-ख-ग. ६. 'वैधुर्य' ग. ७. 'अङ्कुशाकर्षणक्लेशी वने' ग. ८. 'नव इव' ग-घ.
२० काव्यमाला। तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् । जायते शत्रुषु त्रासाक्लीबानामिव 'संनतिः ॥ ५८ ॥ वंशक्षयक्षमः कृष्णवां भवति दारुणः । दाहाय जनकस्यादौ टीकारमुखरः खलः ॥ ५९ ॥ सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः । वक्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥ ६०॥ कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः । तस्यैव निर्मानतया मूढः पतति पादयोः ॥ ६१ ॥ कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः । विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ॥ ६२ ॥ भवन्त्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् । ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥ ६३ ॥ अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदा पीत्वालम्बनशून्यमम्बरतलं व्याप्यातताः शेरते । तद्गर्भाम्भसि विस्फुरन्ति दहनोद्दारोद्गता विद्युतः संसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥ ६४ ॥ वृत्रे शत्रुहरे मधौ जयनिधौ सुम्भासुरे भासुरे मायाधाम्नि मये रणार्णवयशःसंतारके तारके । जम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरे वातापिन्यपि तापने प्रतपति खस्तिच्युतः काच्युतः ॥ ६५ ॥ उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात् । जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥ ६६ ॥ विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन । एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥ ६७ ॥ १. 'शत्रुसंत्रासात्' ग. २. 'संततिः' ख-ग. ३. 'झांकार' ग. ४. निर्माणया' क- ख-घ. ५. 'व्याप्य ततः' ख-घ. ६. 'संतानके' घ. ७. 'कोऽच्युतः' ग-घ.८.'लया- वाप्तः घ.
४ नरसिंहावतारः] दशावतारचरितम् । २१ ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनं शूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् । मूर्खत्रासनमुन्नतासनमतिप्रहस्य पादार्पणं धूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥ ६८॥ विश्वव्यापी स चेद्देवः सर्वस्यात्मा हृदि स्थितः । न तद्विरहितं किंचिदचरेषु चरेषु च ॥ ६९ ॥ योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः । अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥ ७० ॥ इत्युक्ते दितिजेन्द्रेण सहसा महसां निधिः । दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ॥ ७१ ॥ सुवर्णशुक्तिद्वन्द्वाभं बिभ्राणः श्रवणद्वैयम् । अन्तःस्फुरत्प्रकोपाग्निनिर्यज्ज्वालायुगोपमम् ॥ ७२ ॥ सितः केसरभारोऽस्य बभौ स्कन्धद्वयाश्रयः । मेरुशृङ्गयुगासङ्गिशुभ्राभ्रवलयप्रभः ॥ ७३ ।। जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः । कल्पान्तानललेखेव हेमाचलगुहागृहे ॥ ७४ ।। नखास्तस्य बभुीतिभग्नैणाङ्ककलोज्ज्वलाः । दैत्यासृक्पानसंनद्धमृत्युस्फटिकशुक्तयः ॥ ७५ ।। तस्य रौद्रतयोन्निद्ररोमाञ्चोत्कटकण्टकाः । असूचयन्बहिर्घोरक्रौर्यकर्कशतामिव ।। ७६ ॥ दैत्यकल्पान्तकालेन द्वादशार्कोदयत्विषा । तत्तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥ ७७॥ करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः। ते भमवदनोत्साहा ययुर्मददरिद्रताम् ॥ ७८ ॥ 3. 'गहनं घ. २. 'दनुजेन्द्रेण' ख, 'दैत्यराजेन' ग. ३. 'दुयी' क-च. ४. 'प्रताप' क-ग. ५. 'विलसत्' ग. ६. 'त' क-घ.. दशा०३ २२ काव्यमाला। तद्दर्शनाद्भुताक्रान्तः किमप्यातङ्कशङ्कितः। आसनादुच्चलन्नूचे हिरण्यकशिपुः श्वसन् ॥ ७९ ॥ नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारः | क्षिप्रोपेक्षाक्षमास्मिन्नहि नहि तरसा गृह्यतां गृह्यतां भोः । आस्तां सज्जोऽहमस्य स्वयमिहं दमनायेत्युदीर्यासुरेन्द्र- स्तं चक्रे शस्त्रवृष्टया निचितमुपचितोदञ्चिरोमाञ्चपूर्णम् ॥ ८० ॥ व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः । हरिदैत्येन्द्रमादाय विस्फुरन्तमपीडयत् ॥ ८१ ॥ उत्तानमके विन्यस्य पिङ्गभ्रूभङ्गया दृशा । अकालसंध्यामसृजन्नृहरिस्तं विलोकयन् ॥ ८२ ॥ दैत्येन्द्रहाररैनाङ्के । खवकं प्रतिबिम्बितम् । करालक्रूरमालोक्य सोऽभूदुद्भूतविस्मयः ॥ ८३ ॥ अयं मां योद्भुमायात इतीव हसितच्छलात् । दैत्यवक्षसि चिक्षेप हरिनखपरम्पराम् ॥ ८४ ॥ तस्योग्रसिंहनखशुक्तिशिखावखात- वक्षःस्थलवणगुहाप्रतिशब्दधीरः । भोस्तिष्ठ तिष्ठ चपल क गमिष्यसीति कण्ठे खनः सह ययावसुभिः समाप्तिम् ॥ ८५ ॥ विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरे- श्वकाशे रक्ताक्तत्रुटितततहाराप्रगलितः । शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचि- व्रजद्भिर्जीवांशैश्चित इव लुठन्मौक्तिकभरः ।। ८६ ।। वृत्रश्चित्राप्तिाभस्तिमिततमनमत्तारकस्तारकोऽपि ध्वस्तः स्तम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराग्रे । १ 'क्षुद्रोपेक्षा ग-घ. २. 'इति' ख. ३. 'व्यलोकयत्' क-ग-घ. ४. 'रत्नाझेख-ग. ५ "तिमिरमित' ख, 'स्तिमितमितमित' घ.
. ५ वामनवतारः] दशावतारचरितम् । वातापिः सानुतापः क्षतधृतिरभवन्निर्ममः कालनेमि- दैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ॥ ८७ ।। हत्वा हिरण्यकशिपुं हरिहरिणलीलया । हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ॥ ८८ ॥ मीभग्नैरावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानु- स्त्रस्तं तत्याज वाहं महिषमपि यमश्चन्द्रमा निर्मूगोऽभूत् । पार्थे वत्रं विविग्नं गणपतिरकरोदित्यमत्योत्तमाना- मग्रे तस्योग्रमूर्तेः स्थगितगतिरभूत्संभ्रमः सप्रहर्षः ॥ ८९ ॥ इति स भगवान्कृत्वा विष्णुर्जगज्जनितोदयं कुशलमचलं प्रह्लादाय प्रदाय सहायुषा । निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालने दयितमगमत्सौम्यां मूर्ति विधाय सुधाम्बुधिम् ॥ ९० ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते नरसिंहावतारश्चतुर्थः । वामनावतारः पञ्चमः। भक्त्याभिषिक्तः प्रह्लादः स्वयं देवेन विष्णुना । विदधे धर्ममर्यादां दितिजानां विभूतये ॥ १॥ : विकासहेतुर्गुणिनां मित्राभ्युदयकारिणः । प्रभातस्येव तस्य श्रीनिर्दोषाभिमताभवत् ।। २ ॥ कालेन दैत्यमातङ्गाः संजातनिजदुर्मदाः। तच्छासनाङ्कुशाकर्षक्लेशलेशं न सेहिरे ॥ ३ ॥ राज्येऽभिषिच्य प्रह्लादः पात्रं पुत्रं विरोचनम् । भेजे संतोषसाम्राज्ये निःसंख्यसुखसंपदम् ॥ ४ ॥ कालेनासुरराज्येऽथ दैत्यदोषासहिष्णुना । त्यक्ते विरोचनेनापि तत्सुतोऽभूद्विभुर्बलिः ॥ ५ ॥ २. 'भीभग्नैरावणायः' ग-घ... ३. 'धूला देवान्. खंघ. १. 'हारिण' ख. ४. 'निःसङ्ग' ग.
काव्यमाला। विक्रमप्रभवा संपत्संपन्नाभिनवोदया । सहस्रगुणतामेति धर्मेणाप्यायिता यदि ॥ ६ ॥ मार्गणापूरणासक्तिविस्तीर्णगुणसंततिः । खचापतुल्यस्त्रैलोक्यमजयल्लीलया बलिः ॥ ७ ॥ ससत्त्वतातिगाम्भीर्य तेजः स्फूर्जितमूर्जितम् । तत्तस्य भूषणमभूषणं यन्महोदधेः ॥ ८ ॥ न बाणदानपूर्णेन शत्रुणा याचकेन च । प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥९॥ क्षीणदोषस्य तस्याथै विभिर्वा दिनैरिव । न ग्रीष्मान्तदिनाभस्य महत्त्वेऽनुकृतं परैः ॥ १० ॥ शासनोल्लासितस्तस्य भ्रूविलासाभ्रविभ्रमः । चकार सुरहंसानां सहसैव विवासनम् ॥ ११ ॥ विपन्नविभवोत्पन्नदैन्याः शून्यवनाश्रयाः । गुणाप्तजनरागेण तेन विस्मारिताः सुराः ।। १२ ।। अतपत्तपनो भूत्वा सोमो भूत्वासृजत्सुधाम् । उवाह हव्यं भूत्वाग्निर्वायुर्भूत्वा ववौ स्वयम् ॥ १३ ॥ स दधार धरां धीरः शेषात्मा संचराचराम् । विधिर्भूत्वासृजद्विश्वं कुर्वन्सर्वामरक्रियाः ॥ १४ ॥ मौलौ कमलजन्यस्तां हेममालामुवाह सः । संध्यामिव जगद्वन्द्यां प्रतापार्कोदयाग्रजाम् ॥ १५ ॥ तस्यातपत्रैर्यात्रासु गन्धर्वगणगीतिभिः । ननूतुः षट्सहस्राणि सुरवारमृगीदृशाम् ॥ १६ ॥ तं सभाम्मोजिनीराजहंसं सिंहासनस्थितम् । सेवाप्ताः सप्तलोकेशमसुरेन्द्राः सिषेविरे ॥ १७ ॥ १..'या' ख-ग. २. 'शासनोल्लासनः ख.. ३. "विपत्ति' क-घ. ४. 'सधराधराम्' ग-घ. ५. 'सृष्टिं' क-घ. ६.'सर्व' ख.
५ वामनावतारः] दशावतारचरितम् । २५ तारकस्त्रिशिरा वृत्रः शम्बरस्तुरगाननः । विप्रचित्तिर्द्वमः सुन्दः सुबन्धुर्बन्धुरन्धकः ॥ १८ ॥ वातापिनमुचिर्जम्भः सुम्भः शंभुर्जलोद्भवः । मायावी महिषः क्रौञ्चः कैटभो मधुरिल्वलः ॥ १९ ।। - राहुर्गजासुराद्याश्च तत्सभासभ्यतां ययुः ॥ २० ॥ स बभौ जाह्नवीधूतव्यजनेनोपवीजितः । सेवाप्तेनेव लोलांशुकलापेन हिमत्विषा ॥ २१ ॥ बिम्बितानन्तसामन्तलोकमौक्तिकशोभिना । स हारेण हरेश्चक्रे विश्वरूपप्रतिक्रियाम् ॥ २२ ॥ मणिकङ्कणकेयूरकिरणैः सोऽदिशदिशाम् । दारिद्यद्रावणोन्निद्रां सृष्टिं रत्नमयीमिव ॥ २३ ॥ मौलौ तस्य सितोष्णीषपल्लवश्वपलाञ्चलः । शुशुभे भुवनाक्रान्तिहर्षहास इव श्रियः ॥ २४ ॥ वज्रदन्तः प्रतीहारस्तस्याग्रे विदधे दिशः। हेमवेत्रांशुभिः पिङ्गभ्रूभङ्गैरिव निश्वलाः ॥ २५ ॥ सभा निःस्पन्दनिःशब्दां स कृत्वाङ्गुलिसंज्ञया । प्रसादप्रणयोत्साही दैत्यराजं व्यजिज्ञपत् ॥ २६ ॥ पतति विनयपूते यस्य यस्य त्वदीयः शिरसि नखमयूखोत्केसरः पादपद्मः । उपविशति सहर्षा तत्र तत्रातपत्र- व्यजनतिलकहासा हारझांकारिणी श्रीः ॥ २७ ॥ एते बहिः प्रतीक्षन्ते देव सेवार्थिनस्तव । शैक्र_शनिरालम्बाः सिद्धगन्धर्वकिंनराः ॥ २८ ॥ दृशं देहि प्रसादाः प्रणमत्येष मातलिः । प्रवेशप्रतिषेधोऽस्य नारदेन निवारितः ॥ २९ ॥ १. 'स्कन्दः' खग-घ. २. अत्रार्घश्लोकबुटितः सर्वेषु पुस्तकेषु. ३. 'हारण ख. ४. 'शत्रु' ख.
काव्यमाला। एष विज्ञापयत्यग्रे हयग्रीवो हयाधिपः । उच्चैःश्रवाः श्रीसहजः कस्यां धुरि निधीयताम् ॥ ३० ॥ आज्ञामर्थयते देव गजाध्यक्षो गजासुरः। वास्तामैरावणो गन्धं सहते नान्यदन्तिनाम् ॥ ३१ ॥ भार्गवस्य गिरा लब्धतत्तुल्याभ्यर्चनासनः । मान्यतामवधानेन प्रस्तुताशीवृहस्पतिः ।। ३२ ॥ विज्ञप्त्यवसराकाङ्क्षी राहुर्बहुमतस्तव । कमलाकेलिसदनं वदनाजं निरीक्षते ॥ ३३ ॥ प्रभोरभिमुखः कृत्वा क्षणं विज्ञापनामिति । परिवृत्ताननोऽग्रस्थान्प्रतीहारोऽब्रवीत्पुनः ॥ ३४ ॥ रम्भे स्तम्भय विभ्रमभ्रमकरी निभदिनी मेखलां गीतं संवृणु चित्रसेन चतुरं खैरं पुनर्गास्यसि । आशीर्न प्रतिषिध्यते कुरुत तां संक्षिप्य सप्तर्षयो राहुदैत्यमहत्तमः प्रकुरुते विज्ञप्तिमने प्रभोः ॥ ३५ ॥ द्रष्टा खर्गपुरे धृतः क्षितितले दत्तोऽधिकारी क्षमः पाताले विहितश्च तत्समुचितास्तत्रैव विज्ञप्तयः । देवः संप्रति निर्वृतिप्रणयिनी निश्चिन्ततां सेवते 'पर्याप्तां सुखसुप्तसप्तभवनव्यापारपारंगमः ॥ ३६॥ इत्युक्ते वज्रदत्तेन तद्भनिर्दिष्टवेत्रिभिः । कृते सभाग्रे निःशब्दे भ्रूलेखाङ्गुलिसंज्ञया ॥ ३७ ॥ बलिः स्तोकनमन्मौलिरभिनन्ध बृहस्पतिम् । तन्मानालोकनोत्साहादुच्चैरुच्चारिताशिषम् ॥ ३८ ॥ कृत्वा दृक्संविभागेन प्रणतानां कृतार्थताम् । विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥ ३९ ॥ स !सादादरस्निग्धस्मितदिग्धाधरद्युतिः । चक्रे श्रवणसंनद्धं राहोरभिमुखं मुखम् ॥ ४०॥ १. 'द्वारि' क-ग-घ. २. "विभ्रमभ्रमरकं निर्हादिनी मेखला' ख. ३. 'निश्चिन्यतां सेव्यते' ख. ४. 'प्रसादादरोदारस्मित' ख.
५ वामनावतारः] दशावतारचरितम् । २७ क्षणं कुण्डलयोस्तस्य चण्डरश्मिशशित्विषोः । राहुसंदर्शनत्रासादिवाभूत्कम्पविप्लवः ॥ ४१ ॥ उच्यतामिति तेनोक्तः प्राह राहुरदेहताम् । दंष्ट्रांशुपटलस्पर्शपटेनाच्छादयन्निव ॥ ४२ ॥ जीर्णत्वादतिवृद्धानां क्लेशाय चिरजीवितम् । सर्वभाववियोगेन सदा येषामनिवृतिः ॥ १३ ॥ रम्य किं त्वेकमेवास्ति विस्तीर्णस्यायुषः फलम् । दृश्यते यत्कचित्किंचित्सोत्कर्षचरिताद्भुतम् ॥ १४ ॥ सर्गारम्भदिने जातै स्माभिदृष्टमीदृशम् । तदैश्वर्यं त्वदैश्वर्यभावस्योपमाक्षमम् ॥ ४५ ॥ इयं श्रीरपरिश्रान्ता प्रभावोऽयं भुजोद्भवः । इयं शक्तिर्यशःसिक्ता कस्यान्यस्य यथा तव ॥ ४६॥ सर्गारम्भानिसर्गेण नैव दृष्टो न च श्रुतः । अदर्पसंपत्प्रणयी निर्लोभविभवो जनः ॥ ४७ ॥ नतिमूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वमुज्ज्वलम् । मौलिकुण्डलहारास्ते पुनरुक्तं विभूषणम् ॥ ४८ ॥ यशः सप्तसु लोकेषु श्रीराश्रितगृहेषु च । प्रोषितारातिचित्तेषु प्रतापानिस्त्वयार्पितः ॥ ४९ ॥ श्रुतमाश्रितवात्सल्यं कस्य वा सदृशं तव । प्रभोः प्रापयतो भृत्यान् वैव भुवनेशताम् ॥ ५० ।। त्वत्पादाजप्रणामे नखकिरणमिलन्मौलिपट्टेन बद्धे जम्भेनोत्तम्भिता भूः सुरभवनवती शातकौम्भाद्रिभर्तुः । पातालं तालकेतोः सकलमुपनतं तारकेणाहृता भूः कौबेरः कोष एव प्रविशति नमुचेर्वेश्म युष्मद्विलब्धः ॥५१॥ प्रसादभूमयः सर्वे दैत्यास्ते भुजशालिनः । महोत्साहास्त्वयं राहुरबाहुः कोपयुज्यते ॥ ५२ ।। १. 'प्रभवस्य ख. २. 'प्रथयतः ख.
२८ काव्यमाला। अहं हि हितमात्रैकचिन्तालब्धप्रजागरः । त्वपितामहमुख्यानां भोगभागी निरर्गलः ॥ ५३ ॥ अत्यन्तस्थविरः कायापायसंकुचितोद्यमः। चित्तग्रहं न जानेऽहं तारुण्यतरलस्य ते ॥ ५४ ॥ तुहिनातपतुल्योऽयं वीणापटहसंनिमः । न सङ्गः श्लिष्टतामेति वृद्धस्य तरुणस्य च ।। ५५ ।। केशोत्तालनमङ्गभङ्गवलनं ध्रुविभ्रमोल्लासनं यत्तत्कथनमप्रसङ्गहसनं दन्तप्रभादर्शनम् । उसिक्तैः प्रकटीकृतं विटनटैः कौटिल्यनाट्यायितं यूनां वृद्धमतिद्विषामभिमतं प्रायः प्रभूणामिदम् ।। ५६ ॥ भवानभिमुखायातै त्यैरभिमुखीकृतः । उत्सङ्गवर्धितमपि त्वां न जानामि सेवितुम् ॥ ५७ ॥ कोषप्रवेशकुशलाः सकलां कमलश्रियम् । मधुपा मधुरालापनिपुणा एव भुञ्जते ॥ ५८ ॥ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरं व्याकोशकोषोन्मुखैः । आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरै- दूरादेष निमेषशून्यनयनः पद्मं समुद्रीक्षते ॥ ५९ ॥ दैवेन पक्षपातोऽयं कृतः कायव्ययाय मे । त्वत्कृतः पक्षपातस्तु न मयाप्तः शरीरदः ॥ ६० ॥ ऐन्द्रं वारुणमानेयं याम्यं सौम्यं च पावनम् । प्राजापत्यं च कुर्वाणः कर्म सर्व त्वमास्थितः ॥ ६१ ॥ आस्तां शरीरविरहक्लेशप्रशमनं मम । त्वद्विभूतिप्रभावेऽसिन्प्रकृतं हारितं मया ॥ ६२ ॥ पीयूषपानपैशुन्यमन्युशल्यानुबन्धिनः । विधिना मम निर्दिष्टौ चन्द्राकौं जातु भोजनम् ॥ १३ ॥ १. 'देहमात्रैक' ख. २. 'आयातैः' क-ग-घ. ३. 'सपावनम् ख.
वामनावतारः] दशावतारचरितम् । २९ भवद्भूभङ्गसिंहेन त्रासितो हरिणाश्रयः । न वेनि विद्यते केन्दुर्विद्रुताश्वः क्व भास्करः ॥ ६४ ॥ चिरसेवापरिश्रान्तः क्षीणवृत्तिनिरुद्यमः । विशेषलाभत्यक्ताशः खेनैवार्थेन तुष्यति ॥६५॥ तस्मान्ममानुरोधेन क्रियतामर्कचन्द्रयोः । त्वदादेशविमुक्तैव निर्विघ्नों गगने गतिः ।। ६६ ॥ इत्युक्ते राहुणा नासान्यस्ताङ्गुलितलः क्षणम् । आलुलोके बलिः क्षोणी वैलक्ष्यक्षामलोचनः ॥ ६७ ॥ सोऽवदन्मुखमुद्यम्य शनैर्मुकुलितस्मितम् । दिशन्दिक्षु प्रसादा दृष्टिं चन्द्रमयीमिव ॥ ६८ ॥ मदाज्ञाप्रतिषिद्धोऽपि खाधिकारोऽर्कचन्द्रयोः । अधुना निर्विबन्धेन वज्रदन्त विमुच्यताम् ॥ ६९ ।। इति शासनमम्लानप्रसादप्रभवं विभोः । प्रतीहारः समादाय वेत्रिमण्डलमादिशत् ॥ ७० ॥ अत्रान्तरे समासन्नखानावसरसूचकः । उदभूर्भुवनव्याप्तिमुखरः शङ्खनिःखनः ।। ७१ ॥ राहोराश्रितवत्सलः फलवतीं कृत्वार्थनां मानदः सर्वाशापरिपूरकः प्रणयिनामुन्निद्रकल्पद्रुमः । वेत्रित्रातनिवेद्यमानविनमत्सामन्तचूडामणि- व्याकीर्णाशुविचित्रितादुचलत्सिंहासनाग्राहालिः ॥ ७२ ॥ अथ कीर्तिसुधाधौतसुकृतः स्वपनं विधिम् । विधाय प्रययौ श्रीमान्दानस्थानभुवं बलिः ॥ ७३ ॥ तत्र त्रिवेदीविद्वभ्यः काञ्चनप्रचयान्बहून् । मेरुभ्रमोपविष्टाभ्रानदभ्रान्प्रत्यपादयत् ॥ ७४ ॥ १. 'हरिणो यथा' क-ग. २. 'त्यक्तविशेषलाभाशः' क-ख. ३. "निर्मुखा' ग-घ. ४. 'क्षणातू' क-ख. ५. 'व्यापी' ख. ६. 'मानसंविधिम् ख.
३० काव्यमाला। मुहुर्विप्रार्घ्यमाणानां हयानां हेममालिनाम् । स्खलत्खलीनफेनौधैर्यशःसिक्तेव भूरभूत् ।। ७५ ॥ दन्तिदानक्षणे तत्र घटासंघघट्टिताः । संश्लिष्टघण्टाटंकारैर्ययुर्मुखरतां दिशः ।। ७६ ॥ रत्नभारानताश्चेयस्यां यस्यां दिशि द्विजाः । सन्तः संतोषिताश्चक्रुस्तस्यै तस्यै नमो नमः ॥ ७७ ॥ तस्याग्रे रोहणाद्रिः शिरसि धृतमहारत्नसंपूर्णपात्रः कैलासः शक्रशैलः सह बहलतरैः कल्पवृक्षैः सदेहः । भूमिश्चिन्तामणिः श्रीविविधनिधिगणः कामधेनुः सुधाब्धि- भूक्षेपाज्ञाविलासे प्रचरणचतुरा दानकाले बभूवुः ॥ ७८ ॥ संपूर्णेष्वर्थिसार्थेषु याचकाभावदुःखिनः । विश्रान्तपाणेश्चिन्तान्तर्मुहूर्तमभवबलेः ॥ ७९ ॥ दानोद्यमेऽर्थिविरहाद्विपलां विभूति स क्षिप्रमूषरमहीमिव मन्यमानः । दृष्टिं मुहुर्दिशि दिशि प्रदिदेश दीर्घा- मस्तोकलोककरुणामृतवृष्टिमिष्टाम् ॥ ८० ॥ सर्वार्थानथिसार्थेभ्यः परिकल्प्याविकल्पधीः । निजजीवितदानेन बलिश्चक्रे मनोरथम् ॥ ८१ ॥ अथ त्यक्तजलासङ्गः प्रसन्नगगनद्युतिः । प्रतिबुद्धः शरत्कालः श्रीकान्तः समुपाययौ ॥ ८२ ॥ मयूरा मौनिनोऽरण्ये ययुर्दैन्यनिलीनताम् । शरत्कालेन बलिना सुरा इव हृतश्रियः ॥ ८३ ॥ ववुर्देवकदम्बेषु यातेषु विशरारुताम् । धुलोकशोकनिःश्वासा इव सप्तच्छदानिलाः ॥ ८४ ॥ १. "विलासप्रवरण ख. २. 'अफला ख. ३. 'प्रतिबुद्धशरत्काल:' ख.
५ वामनावतारः] दशावतारचरितम् । ३१ तीव्रशूरप्रतापेन नष्टमाना समाययौ । विलुप्तावरणोत्साहा हीनतां सुरवाहिनी ॥ ८५ ॥ सदानवप्रभोल्लासं बभौ भ्राजिष्णुतारकम् । शरन्निशासु विपुलं दैत्यैश्वर्यमिवाम्बरम् ॥ ८६ ॥ लोकपालवियोगिन्यः ककुभः काशपाण्डुराः ।। फुल्लैः कमलकहारैः कृतशय्या इवावभुः ॥ ८७ ॥ शुशुभे शैलशीर्षेषु नक्तं दीप्तौषधिव्रजः । नश्यतामिव मेघानां विद्युल्लेखाचयश्च्युतः ॥ ८८ ॥ भने नभौ सहस्राक्षे पयोदास्त्यक्तकार्मुकाः । ययुस्तीव्रतेनेव तनुतां भस्सपाण्डुराः ॥ ८९ ॥ बलिराज्योपमे तीव्रप्रतापे शरदुद्भवे । नाक्रान्तिः शक्रचापस्य भ्रष्टस्यादृश्यत कचित् ॥ ९ ॥ ययुः शुकमृगापाते कलमक्षेत्रपतयः । विधवा इव तारुण्ये कृच्छ्रसंरक्षणीयताम् ॥ ९१ ॥ काशेन्दुहंसकुमुदैर्महीव्योमसरिद्दिशः । दोनोदितैरिव बलेयंशोभिः शुभ्रतां ययुः ।। ९२ ॥ अथास्मिन्समये जग्मुः सुराः शरणमच्युतम् । निवारितार्चाबलिना बलिना बलिना जिताः ॥ ९३ ।। घनावमानसंतप्ता मानलोपाप्तलाघवाः । प्रकाशाशाप्रणयिनः शारदा इव वासराः ॥ ९४ ॥ ते क्षीरोदधिमासाद्य ददृशुः शेषशायिनम् । सप्रसादं सकमलं शरदारम्भसंनिभम् ।। ९५ ॥ समुच्छ्सत्फणाग्रस्य फुल्लफेनाम्बुधेरिव । शेषस्योपरि पर्यकबन्धेन सुखमास्थितम् ॥ ९६ ॥ प्रभाभिरामं श्रीकान्तं पीताम्बरमनोहरम् । प्रभातमिव लोकानां कल्याणोदयकारणम् ॥ ९७ ॥ १. "विलुप्तरवणो क, विलुप्तरचनो' घ. २. 'विप्रहाः ग.३. 'दानोद्यतैः ख-ग-घ.
३२ काव्यमाला। तं प्रणम्य सहस्राक्षप्रमुखास्त्रिदिवौकसः । धृतिसंजीवनं प्रापुस्तत्प्रसादावलोकनम् ॥ ९८ ॥ प्रवासव्यसनोद्विमान्भगवान्भूतभावनः । तान्विभाव्याभवक्षिप्रं वैलक्ष्यविनताननः ॥ ९९ ॥ शनैश्चिन्ताविषावेशप्रशमासङ्गिनी गिरम् । उज्जगारामृतोद्वारगुर्वी गरुडलाञ्छनः ॥ १०० ॥ चिरप्रवासनिःश्रीकशोकशल्यशलाकया । चिन्तया व्यथिता यूयं सततं प्रथमानया ॥ १०१॥ दैत्यदौरात्म्यसंजाता सह्या सर्वात्मना विपत् । ते कथं भाजनं भूतेर्ये सहन्ते न दुर्दशाम् ॥ १०२ ॥ सुखलवदशाहर्षक्लैब्ये खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिकाम् । भवति न सतां दर्पोद्दामा न दैन्यमयी मंति- र्दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥ १०३ ॥ त्यक्त्वा श्रीर्दुर्जनान्दैत्यान्साधून्युष्मानुपैष्यति । स्थिरा सतां न विपदः खलानामिव संपदः ।। १०४ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे खभावोऽयं महात्मनाम् ।। १०५ ॥ खाम्ये पेशलता गुणे विनतता हर्षे निरुत्सेकता मन्ने संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । साधौ सादरता खले विमुखता पापे परं मीरुता दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥ १०६ ॥ उक्त हिते भगवता पद्मनाभेन भूतये। सुरास्तमूचिरे बाला इव वात्सल्यलालिताः ॥ १०७ ।। देव त्वय्यपि संनद्धे हितचिन्तासु नः परम् । इयती कर्मवैचित्र्याहूर्वारा दुःखसंततिः॥ १०८ ॥ 1."निःशूक' ख. २. 'गतिः' क. ३. 'सुखेषु दुःखेषु च ख.
३३ ५ वामनावतारः] दशावतारचरितम् । जीवामः क्लिष्टसंक्लिष्टा निश्चेष्टा नष्टवृत्तयः । वनान्तविवरालीनाः शिशिरे मधुपा इव ॥ १०९ ।। बलिना वयमाक्रान्ताः प्राक्तनेनेव कर्मणा । त्वत्प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे ॥ ११० ॥ बलिप्रभावादस्तोकैस्त्रिलोकी लोककण्टकैः । इयं त्वद्भुजगुप्तापि लुण्ठ्यते दैत्यदस्युभिः ॥ १११ ।। सा नन्दनोद्यानवती हृता तेनामरावती । वने विनोदयत्यस्मान्मनोरथपथागता ॥ ११२ ।। वने स्वर्गपुरीमेव चिन्तयन्त्यः सुराङ्गनाः । काङ्क्षन्त्युत्कण्ठया निद्रां खमसंदर्शनाशयाः ॥ ११३ ॥ अग्रे समग्रसैन्यानां बलिसंश्रयनिर्भयः । अहो बाहुविहीनोऽपि राहुराहवमीहते ॥ ११४ ॥ देवेनेवार्पिताक्रान्तिर्बलिनाश्चर्यकारिणा । सहस्राक्षस्य निर्बन्धादन्धकः श्रीविबन्धकः ॥ ११५ ॥ जृम्भते तारकः कामं त्रिदशश्रीप्रतारकः । दुःशीलः स बलेः शक्त्या लीलातरलतारकः ॥ ११६ ॥ गजासुरः कथायाते स्पर्धाबन्धे मदान्धधीः । बलेरने गणपतेरेकदन्तस्य लज्जते ॥ ११७ ॥ शोचन्सिंहनखोत्खातं हिरण्यकशिपुं रुरुः । असंनिधानानुशयी हरिणा योद्भुमिच्छति ॥ ११८ ॥ सहस्रदोष्णा बाणेन बालेन बलिसूनुना । गुहवाहमयूरोऽपि नीतः क्रीडाशिखण्डिताम् ॥ ११९ ॥ वह्विवाहशुकस्तेन न्यस्तः काञ्चनपञ्जरे। गृहोपवनवापीषु राजहंसाश्च वारुणाः ॥ १२० ॥ २. 'निबन्धकः' घ. ३. ख-पुस्तके पूर्वोत्तरार्धयोर्व्यलयः, १. 'स्थितां पुरीं ख. ४. 'कनक' ख. wiNayaNAustfly-tvber दशा०४ काव्यमाला। सोऽपि प्रतापशिखिना युगपत्संयुगोन्मुखः । अचिरात्रिपुरप्लोषं रौद्रो बाणः करिष्यति ॥ १२१ ।। शम्बरोऽम्बरचित्राभं दर्शयत्यद्भुतं रणे । यदस्य शत्रुहृदये शक्तिर्बजति शूलताम् ॥ १२२ ।। यान्ति निष्फलतामेव तेषूपायाः प्रकल्पिताः । उपकाराः कृतघ्नेषु सज्जनेष्विव मन्यवः ॥ १२३ ॥ समतां सामविमुखः सामखनविधायिनः । स तवाप्यश्वशीर्षस्य हयग्रीवः समीहते ॥ १२४ ।। सुरसर्ववहारिभ्यस्तेभ्यः किं वा प्रदीयते । मेरुरत्नाकरवती कोषो येषां जगत्रयी ॥ १२५ ॥ बलिशासनवश्यानां भेदो नास्ति सुरद्विषाम् । आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥ १२६ ॥ भवद्भूभङ्ग एवैकस्तेषां दण्डः क्षयक्षमः । सोऽप्यस्मद्भाग्यलेशेन मन्ये विस्मारितस्तव ॥ १२७ ॥ बलिः करोति भगवॅल्लोकपालक्रियाः खयम् । लोके द्रष्टासि निःशेषे शेषे शेषे नु केवलम् ॥ १२८ ॥ इत्युक्ते त्रिदशैरूचे विचार्य चिरमच्युतः । सुराणां विभवभ्रंशं बलेश्च गुणगौरवम् ॥ १२९ ॥ बलिः पुण्यप्रवृत्तत्वान्नोच्छेद्यः सत्त्वसागरः । चिरं क्लेशादिता यूयमिति दोलायते मनः ॥ १३० ॥ विचार्यमाणस्तु बले त्मदोषः प्रदृश्यते । दैत्यदुर्जनसङ्गेन स गतश्चिन्तनीयताम् ॥ १३१ ॥ शमयति यशः क्लेशं सूते दिशत्यशिवां दशां जनयति जनोद्वेगायासं नयत्युपहास्यताम् । भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं गिलति सकलं कल्याणानां कुलं खलसंगमः ॥ १३२ ॥ १. 'तेन माया' ख. २. 'समत्वं ख. ३.'बले' ख-ग-घ. ४. 'लोलायते' ख/ ५ वामनावतारः] दशावतारचरितम् । ३५ सर्वात्मना गुणनिधिर्न वध्यः सुकृती बलिः । किं त्वस्य विभवभ्रंशं करोमि भवतां हितम् ॥ १३३ ॥ हितक्रियासु युष्माकं न कार्य गणयाम्यहम् । गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलाय वः ॥ १३४ ॥ इत्युक्ते विश्वगुरुणा तं प्रणम्य ययुः सुराः । अचिन्तयच्च तत्कार्य भगवान्गरुडध्वजः।। १३५ ।। अत्रान्तरे भृगुसुतः षाड्गुण्यज्ञानलोचनः । शुक्रः प्रोवाच वात्सल्यान्निर्जनावसरे बलिम् ॥ १३६ ॥ औचित्याभरणं चित्तं सत्याभरणमाननम् । गुणाभरणमैश्वर्यं भुवनाभरणस्य ते ॥ १३७ ॥ लोके त्वत्सदृशी लक्ष्मीन श्रुता न विलोकिता। शक्यानुकर्तुं लेशेन या न पूर्वैर्न चापरैः ॥ १३८ ॥ गुणक्षये पलायन्ते धीवराणामिव क्षणात् । एताश्चपलचारिण्यश्चमर्य इव संपदः ॥ १३९ ॥ क्षीयते श्रीः प्रमादेन शरत्कालेन निम्नगा। ग्रीष्मागमेन रजनी कृष्णपक्षेण चन्द्रिका ॥ १४० ॥ नीतेरश्रवणं हिते विहसनं धूर्तव्रजावर्जनं दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनम् । लोकानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनं साधूनां दलनं खलेषु ललनं मित्रादिसंदूषणम् ॥ १४१ ॥ दोषा अपि न बाधन्ते विचारविमलीकृताः । गुणा अप्यगुणायन्ते गाढग्रहधनीकृताः॥ १४२ ॥ न शरीरविकाराय खल्पमात्राहृतं विषम् । देहं चन्दनलेपोऽपि निबिडः पीडयत्यलम् ॥ १४३ ।। १. 'नीरश्रवणं हते विहसनं सत्यच्युताकर्णनं विद्वद्वर्जनमार्जवोपहननं धूर्तव्रजावर्ज- नम् । दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनं लोलानां विनिपातलक्षणमिदं श्रीभो- गनिर्वासनम् ॥' ख. २. 'विरलीकृताः' ख.
काव्यमाला। गुणरत्नावलीमध्ये सारभूतं गुणद्वयम् । तवैतद्दोषतां यातमतिनिर्बन्धसेवया ॥ १४४ ॥ श्लाघ्यमाश्रितवात्सल्यं दानं च श्रीविभूषणम् । विभवायासतां नीतं भवतात्यन्तवर्धितम् ॥ १४५ ।। कुर्यादाश्रितवात्सल्यात्पक्षपातं न दुर्जने । कृष्णपक्षाश्रयेणैव पक्षे पक्षे क्षयी विधुः ॥ १४६ ॥ चित्रं चारित्रचित्रं ते दिग्भित्तिलिखितं महत् । दैत्यदुर्जनवात्सल्यधूमेन मलिनीकृतम् ॥ १४७ ॥ भूतेदुर्व्यसनं धृतेरसहनं मानोन्नतेर्याचनं प्रीतेर्विस्मरणं तनोनिकषणं नीतेरसन्मन्त्रणम् । कीर्तेर्लोभधनं स्थितेः प्रवसनं वृत्तेरसंचिन्तनं शक्तेर्दुर्जनपक्षपातकरणं निःशेषनिर्मूलनम् ॥ १४८ ॥ अतिप्रंदाननिर्बन्धः सर्ववक्षपणक्षमः । छिनत्त्यन्यार्थिवैफल्याद्धर्मवृक्षं क्रियाफलम् ॥ १४९ ॥ सर्वोपजीव्यं सर्वखं सकृयेन व्ययीकृतम् । पुनः सर्वार्थिदानस्य तेन मूलक्षयः कृतः ॥ १५० ॥ वित्तायत्तः सदा धर्मः कामो वित्तनिबन्धनः । वित्तायत्तानि चित्तानि वित्तं जीवितवर्धनम् ॥ १५१ ॥ धनं रूपमवैक्लव्यं धनं कुलमसंकुलम् । धनं यौवनमम्लानं धनमायुर्निरामयम् ॥ १५२ ॥ रूपं वेषैर्बलं भृत्यैरुत्तमैर्मानमर्थिभिः । महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान् ॥ १५३ ॥ भिषग्भैषज्याभ्यां तरति धनवान्रोगविपदं धनेनान्धश्चक्षुर्युत इव चरत्यर्पितकरः । १. 'प्रधान ख. २. 'क्रियालताम्' ख. ३. 'वर्तनम्' ख, 'बन्धनम् -ग. ४. 'अ- वैरूप्यं ख.
५ वामनावतारः] दशावतारचरितम् । धनैः सत्काराची जगति गतजीवोऽपि लभते धनेन प्राप्नोति प्रगुणगुरुमाराध्य सुगतिम् ॥ १५४ ॥ श्राद्धोत्सवलसद्वन्धुर्जीवतीव शवः श्रिया । भोज्योपचारविरहाद्वन्धूनां निर्धनो मृतः ॥ १५५ ॥ क्लेशलभ्यं धनं येन क्षपितं नातिमात्रया । कुलमानगुणाचारनिधनं तेन रक्षितम् ॥ १५६ ॥ गुणा धनेन लभ्यन्ते न गुणैर्लभ्यते धनम् । धनी गुणवतां सेव्यो गुणी न धनिनां कचित् ।। १५७ ।। सेव्यन्तेऽर्थार्थिभिर्भूपा जयजीवेति वादिभिः । स्यान्चेन्न धनसंबन्धः कः सेव्यः कश्च सेवकः ॥ १५८ ।। सदृशे पुरुषत्वेऽपि तुल्यपादकरोदरे । एकः प्रभुः परो दास इति वित्तविजृम्भितम् ॥ १५९ ।। सर्वे धनमदान्धस्य प्रातःप्रातर्धनाशया। . सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ।। १६० ।। सिद्धौ वेतालवद्यस्य भोग्यस्तस्यैव भूपतिः । शेषाः शीतातपश्रान्ता दिनान्ते यान्ति निष्फलाः ॥ १६१ ॥ दिशति कथमप्यन्तस्तारां दृशं मदमन्थरां वदति विरलं देवोऽस्मीति प्रमूढमदो नृपः । प्रणमति च तं भीत्या भृत्यस्तदुत्तरकातर- स्तूदिदमखिलं दानादानं धनोपनिबन्धनम् ॥ १६२ ।। क्षीणे धने गुणे ग्लाने म्लाने माने गते जने। कलत्रमपि वैमुख्यमचिराद्याति निश्चितम् ॥ १६३ ।। धनवैक्लव्यवैराग्यादपक्काः प्रव्रजन्ति ये । धनोपायव्रतं तेषां धने ध्यानं धने जपः ॥ १६४ ॥ १. 'भूपतेः' क-ग-घ. २. 'प्रमूढपदं' ग. ३. 'मानामानं' ख. ४. 'कलत्रमत्रपैर्या- वत्परोपकरणीकृतम्' क.
काव्यमाला। १ पुंसां निवृत्तवित्तानां प्रवृत्ते वित्तयाचने । उत्तानपाणिदीनानां मन्ये मरणमुत्तमम् ।। १६५ ।। जीवत्यर्थक्षये नीचो याच्यापचयवञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवितम् ॥ १६६ ॥ अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति खं दारियं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्चलति न पुनः पार्श्वयोर्नापि पश्चा- निःस्वः खेदं दिशति धनिनां व्याधिवदुश्चिकित्स्यः ॥ १६७ ॥ तस्मात्सर्वप्रयत्नेन रक्ष्यं मानार्थिभिर्धनम् । महाव्ययपरिष्कारैर्विशेषेण नरेश्वरैः ॥ १६८ ॥ अश्वमेधस्त्वयारब्धः क्रतुः सर्वखदक्षिणः । एवमेव त्वमुद्दामवर्षी यज्ञे विशेषतः ॥ १६९ ॥ दृश्यन्ते दुनिमित्तानि प्रवृत्तानि समन्ततः । दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रियः ॥ १७० ॥ इत्युक्तं कविना श्रुत्वा बभाषे तं शनैर्बलिः । सत्त्वोदधिः सृजन्दन्तकान्त्या चन्द्रकलामिव ॥ १७१ ॥ युक्तं कल्याणसंयुक्तमुक्तमुन्मुक्तसंशयम् । भगवन्भवता सर्वमखर्वप्रतिभोद्भवम् ॥ १७२ ॥ न जातु मे भुजच्छायाविश्रान्तिसुखशायिषु । अपत्येष्विव दैत्येषु पक्षपातो निवर्तते ।। १७३ ॥ चिराश्रितपरित्यागे मतिर्यस्य प्रवर्तते । भूमि रं वहन्ती तं मन्ये मज्जति लज्जिता ॥ १७४ ।। खजनद्रोहरौद्रस्य चितामेरिव भीषणा। भूतिः सर्वजनोद्वेगकारिणी कोपयुज्यते ॥ १७५ ॥ 'दैन्यानां ख. २. 'जीवन्त्यर्थक्षये नीचा याच्ओपप्लव' ख. ३. 'इत्युक्ते' का. ४. 'चिराश्रय' क-ग-घ. ५. 'भीतिः क-ग.
५ वामनावतारः] दशावतारचरितम् । ३९ आशाप्ताश्रितपक्षपातविकला या शक्तिरुज्जृम्भते दीर्घा वेतसवल्लरीव विफला कस्योपकाराय सा । वन्द्यश्चन्दनपादपः पृथुभुजच्छायाश्रया यस्य ते संतापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥ १७६ ॥ प्रदानफलशून्याभिः किमेताभिर्विभूतिभिः । दृश्यते यासु भग्नाशाविमुखं मुखमर्थिनाम् ॥ १७७ ॥ आयाति धातुरादेशात्तदादिष्टं पलायते । न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥ १७८ ॥ निर्बन्धादपि लुब्धेन निरुद्धं बद्धमुष्टिना । निर्यात्यलक्षितं क्षिप्रं मत्स्यपुच्छोपमं धनम् ॥ १७९ ॥ कुर्वन्ति सुधियो यत्नादेतदर्थं धनार्जनम् । आर्तोपकारसंतोषः कदाचिल्लभ्यते धनात् ॥ १८० ॥ क्षणेन वृद्धिं बजतां क्षणात्क्षयमुपेयुषाम् । धनानां च धनानां च केन विज्ञायते गतिः ॥ १८१ ।। गुप्तं विनष्टं प्रकटं विनष्टं कीर्णं विनष्टं मिलितं विनष्टम् । खयं विनष्टं परतो विनष्टं दीनार्तदैत्तं द्रविणं न नष्टम् ॥ १८२ ।। मृत्पाषाणगुणैः सुवर्णमणिभिः शुंक्त्यस्थिभिर्मौक्तिकै- लोके मूढतमे धनं धनमिति व्यक्त्या प्रसिद्धिं गतैः । यः कोषः क्रियते न तस्य रुचिरं पश्यामि किंचित्फलं निःशेषाश्रितभृत्यबान्धवसुहृद्दीनार्थिदानं विना ॥ १८३ ॥ त्यक्ता मर्त्यभुवं स्थितस्य विजने मेरोः सुवर्णश्रियं विश्रान्तां खशरीर एव वहतः किं निष्फलेनायुषा । एकस्योन्नतिरेव सत्त्ववसतेर्विन्ध्यस्य वन्ध्या न सा दत्त्वा यः किल तामनन्यमहिमा शेते सुखं भूसमः ॥ १८४ ॥ इत्युक्तं बलिना श्रुत्वा चिन्तयन्भवितव्यताम् । किंचिदालक्ष्य वैलक्ष्यः शुक्रश्चक्रे नतं शिरः ॥ १८५ ॥ १. 'अति' ख. २. 'अर्थ' ग. ३. 'मुक्त' ख. ४. 'शुक्त्यस्थिकैः' घ.
४० काव्यमाला। अथाश्वमेधसंभारः प्रावर्तत महान्बलेः। पुनः प्रदानदक्षस्य दक्षस्येवापरिक्षयः ॥ १८६ ॥ ततः प्रजापतिगणे प्राप्ते सप्तर्षिभिः सह । अभूत्सुरर्षिभिर्जुष्टं ब्रह्मलोकनिभं सदः ॥ १८७ ।। तस्मिन्क्रतौ महादानपरिपूर्णेऽर्थिमण्डले । बभूव याचकाभावाबलेश्चिन्तैव केवलम् ॥ १८८ ।। अत्रान्तरे दैत्यजयासहिष्णुर्विष्णुस्त्रिलोकीकुशलप्रवृत्तः । देवस्तनुं खां बलिवञ्चनाय विश्वाकृतिमिनतां निनाय ॥ १८९ ।। धृतैव चित्ते लघुतां करोति या धैर्यमानाहरणैकभूमिः । सा दुर्दशेवातिशयेन याच्या न कस्य मानक्षतिमातनोति ॥ १९० ॥ श्यामः शिशुः कुञ्चितकृष्णकेशस्त्रिदण्डिकालंकृतपाणिपद्मः । सकङ्कणः कुण्डलवान्किरीटी स ब्रह्मराज्य(?)प्रतिमश्चकाशे ।। १९१ ॥ स मञ्जुसामखरसारणोद्यद्दन्तांशुसूत्रत्रयसंनिवेशम् । यज्ञोपवीतं धवलं दधानः शनैर्बलेयज्ञमहीमवाप ॥ १९२ ।। स वेत्रिभिस्तत्र सुदुर्लभार्थिसंदर्शनात्यादरविस्मयेन । असंनिरुद्धः प्रसभं प्रविश्य वृतं मुनीन्द्रैवलिमालुलोके ॥ १९३ ।। बलिश्च तं पद्मदलायताक्षं विलोक्य लक्ष्मीनिलयं प्रहृष्टः । अदापयत्तस्य सुवर्णपीठं समुन्नतं मानमिवादरेण ॥ १९४ ।। सामखरेणाशिषमभ्युदीर्य क्षणं स विश्रम्य जगाद धीरः । संदर्शयन्दन्तरुचान्तरस्थजगत्रयश्चान्द्रमिव प्रकाशम् ॥ १९५ ।। इन्द्रस्य चन्द्रस्य चतुर्मुखस्य रुद्रस्य दक्षस्य मनोश्च यज्ञाः । पुरा बभूवुर्न बभूव कश्चिदाश्चर्यकृत्त्वत्सदृशस्तु यज्ञः ॥ १९६ ॥ अहो महात्मा सुकृती जगत्सु जातस्त्वमेवाद्भुतसत्त्वसिन्धुः । यश्चारुरत्नाश्वगजेन्द्रचन्द्रलक्ष्मीप्रदानेष्वपि निष्प्रकम्पः ॥ १९७ ।। धवस्त्रिलोक्यास्तिलकः कुलस्य सर्वखदानेष्वतिमुक्तहस्तः । दत्त्वाप्यशोकः सरलः प्रकृत्या त्वं श्रीफलोऽप्यर्थिषु कल्पवृक्षः ॥१९८॥ १. 'पद्मदलायतेक्षणं' ख. २. 'सुवर्ण' इति क-पुस्तके टिप्पणम्.
५ वामनावतारः] दशावतारचरितम् । इत्युक्तमत्यर्थसुधाखभावं तेनान्तरस्थामृतसिन्धुनेव । श्रुत्वा बलिः प्रीतिविकासिताक्षस्तमस्यधादागतपक्षपातः ॥ १९९ ॥ अल्पं वयः खल्पशरीरतेयमनल्पकल्पः प्रतिभाविकल्पः । कर्णानुकूलं च वचस्तवैतत्कस्याद्भुतार्थं न मनः करोति ॥ २० ॥ हर्ष वर्षति दर्शनं नयनयोः सूते श्रुतौ वाक्सुधां चित्तं चन्दनपेशलश्च सहसा स्नेहः परं लिम्पति । बघ्नन्त्यन्यमनस्कतामपि गुणा भाग्यैर्भवत्संगमः संजातः सुकृताय मे सुमहते कीर्तिप्ररोहाय च ॥ २०१ ॥ निरर्गलं संप्रति कथ्यतां तद्यदीप्सितं प्रीतिपदोपयुक्तम् । सर्वखमेतन्मम जीवितं वा न नाम किंचिद्भवतेऽस्त्यदेयम् ॥ २०२ ।। इति प्रयत्नात्प्रथमादरेण सोऽभ्यर्थितः सर्वपरिग्रहाय । दैत्याधिपेन प्रथमानमानमहोदयाय प्रणयात्तमूचे ॥ २०३ ॥ त्वदर्शनात्प्रीतिसुधानिधानात्परं किमस्मादुपयुज्यते मे । न नाम वन्ध्यं क्रियते वचस्ते पदत्रयीं देहि वसुंधरायाः ॥ २०४॥ श्रुत्वैवमाश्चर्यतरं वचस्तद्वालिः सवैलक्ष्यमिवाबभाषे । अहो भवान्संकुचितार्थवादी विडम्बनायैव मम प्रवृत्तः ॥ २०५ ॥ अहं प्रदाता त्वमुदारशीलः प्रतिग्रहीतात्र पैदत्रयी किम् । प्रदीयते यद्यवमानलीला विनिर्मिता नर्ममयी स्मिताय । २०६ ॥ गृहाण सर्वं मम विद्यते यत्त्वदर्शनानन्दसमुद्भवस्य । मनःप्रसादस्य हि सत्यमस्य न तुल्यमूल्या सकला त्रिलोकी ॥२०७॥ इत्यर्थितः पूर्णपरिग्रहाय पुनः प्रयत्नाबालिनापि देवः । यदाग्रहीनाभ्यधिकं तदासै पदत्रयीमेव बलिदिदेश ॥ २०८॥ प्रतिग्रहाग्रावसरेऽथ विष्णोरुत्तानहस्ताम्बुरुहेऽम्बुधाराम् । सुवर्णभृङ्गारमुखात्पतन्तीमस्तम्भयदैत्यहिताय शुक्रः ॥ २०९ ॥ १.'अत्यन्तसुधाखभावः' ग-घ. २. 'विकासिचक्षुः' घ. ३. वपुषि' क-पुस्तके पाठान्तरत्वेन धृतः. ४. 'प्रीतिपदप्रयुक्तम् ख. ५. 'सवैलक्ष्यः' ख. ६. 'प्रतिग्रही तत्र पदत्रयी' ख. ७. 'प्रतिग्रह'.
४२ काव्यमाला। तं शुक्रवक्रक्रममाकलय्य चक्री त्रिलोक्याक्रमणाभिकामः । तोकस्मिताङ्कः कुशतूलिकाग्रभेदेन चक्रे कविमेकनेत्रम् ॥ २१० ॥ विश्वाकृतिर्दानजलं गृहीत्वा लोकत्रयाक्रान्तिविवर्धमानः । बभौ जगन्मण्डपमानदण्डशोभाभिरामोदितदण्डपादः ॥ २११ ॥ त्रैलोक्याक्रान्तिलीलाप्रविसृतवपुषः श्रीपतेर्दण्डपादः प्रौढोत्क्षेपोगवेगोल्लसदतुलबलोद्भान्तकल्पान्तवातः । निःशेषाशाप्रबन्धप्रचलनभुवनाखण्डनाकाण्डकम्प- भ्रश्यब्रह्माण्डरक्षानिहितमरकतस्तम्भशोभा बभार ॥ २१२ ।। प्रवर्धमानस्य विलम्बिहारपर्यन्तसक्तस्तरणिर्मुहूर्तम् । विष्णोर्बभौ नाभिभवाजचुम्बी कुर्वन्मुहुर्लोहितरत्नशङ्काम् ॥ २१३ ॥ प्राप्तेऽथ विष्णोश्चरणारविन्दे विरञ्चिलोकं त्रिदशाभिनन्छ । पादार्घ्यदानावसरेऽजमन्मा कमण्डलुं निर्जलमालुलोके ॥ २१४ ।। धर्मे द्रुते तत्क्षणमम्बुभावं यातेऽथ पाद्ये कमलासनेन । भक्त्या प्रदत्ते बलिकीर्तिशुभ्रा तरङ्गभङ्गैरुदियाय गङ्गा ॥ २१५ ॥ किं विष्णोः पादपद्मस्फुटनखकिरणश्रेणिरच्छोच्छलन्ती विश्वव्याप्तिप्रजातोर्जितविजयलसद्वैजयन्ती सिता किम् । किं स्वर्गश्रीप्रहर्षोचितहसितरुचिः प्रोन्मिघत्संशयाना- मित्युच्चैः खेचराणां चिरममरसरित्संभ्रमेऽभूत्रवादः ॥ २१६ ॥ एकक्रमावृतसमस्तजगत्रयस्य शेषक्रमद्वितयदानविशुद्धिधीरः । निर्व्याजधर्मधवलः स्थिरसत्त्वसत्य- स्तत्याज दैत्यतिलकः सकलां त्रिलोकीम् ॥ २१७ ॥ तस्याथ सैत्यसमयप्रतिपन्नसर्व- त्यागस्य दीर्घगुणपाशनियन्त्रितस्य । धीरस्य सप्तमतलान्तसुतालनानि पातालधाम्नि भगवान्स्थितिमादिदेश ॥ २१८ ॥ १. 'वेलोल्लसत्क-ग-घ. २. 'चारविशुद्धः क-ग-घ. ३. 'सत्त्व' ख.
६ परशुरामावतारः] दशावतारचरितम् । ४३ जातो जगत्युचितकृद्वालिरेक एव तस्यैव सप्तभुवनाभरणं यशांसि । येनातिदानविततद्रविणावशेष- शुद्धिः कृता खतनुबन्धसमर्पणेन ।। २१९ ॥ अश्रद्धया कुहकदम्भभरेण यद्य- त्पित्र्यक्रतुव्रतजपादि करोति लोकः । तत्तबलेनियमसंकलितात्मवृत्ते- वृत्त्यै विचार्य परिकल्पितमच्युतेन ॥ २२० ॥ साश्चर्य युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्नोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्य स्खकराप्तसप्तभुवनं लब्धाब्धिपारं यशः सर्व दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥ २२१ ॥ सशरशबरत्रासत्वङ्गन्मृगीतरलाः श्रियः सुखमपि कपिप्रेङ्खवल्लीदलाञ्चलचञ्चलम् । प्रतिदिनमियं भुङ्क्ते जन्तोरभावविधायिनी प्रसभपतिता भावं भावं भवे भवितव्यता ॥ २२२ ॥ इति स भगवान्विष्णुः कर्तुं सुराश्रयिणीं श्रियं बलिभुजतरुच्छायाहीनान्विधाय महासुरान् । अपि खलजनासङ्गाद्भूमेर्गतस्य तलं बले: प्रणयरचितां पुण्यैः कीर्ति निनाय समुन्नतिम् ।। २२३ ॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते वामनावतारः पञ्चमः। परशुरामावतारः षष्ठः। बद्धे बलौ निश्चलधर्मसेतौ भनेषु दैत्येषु निराश्रयेषु । बभूव निर्विघ्नमहोत्सवश्रीनिःशल्यकल्याणवती त्रिलोकी ॥ १ ॥ १. 'उत्' ख. २. 'प्राश्चत्' क-ग-घ. ३. 'भावे भावे' घ. ४. 'रचना' ख. ५. 'घनोत्सव' ख.
४४ काव्यमाला। शक्रेण वृत्रे निहते सजम्भे सुम्भे निसुम्भे प्रसभं भवान्या । जीर्णेऽप्यगस्त्येन समस्तलोकशोकेऽथ वातापिनि सेल्वले च ॥ २॥ चामुण्डया चण्डपराक्रमे च ग्रस्तेऽथ पातालतताननेन । रुरौ रणप्रच्युतरक्तबिन्दुवृन्दोदरोद्यगुरुकोटिलक्ष्ये ॥ ३ ॥ गुहेन भिन्ने युधि तारके च गजासुरे धूर्जटिनान्धके च । दैत्येषु चान्येषु हतेषु देवैर्निःशङ्कमासीत्सुरराजराज्यम् ॥ ४ ॥ यातेऽथ काले शनकैर्विशाले दैत्येश्वराः क्ष्मामवतीर्य सर्वे । क्रमेण ते दुर्मददस्युरूपाः सपापशापाः क्षितिपा बभूवुः ॥ ५ ॥ शशास तस्मिन्समये महीयान्महीपतिहैहयवंशजन्मा । प्राज्योर्जितश्रीर्जगदर्जुनाख्यः सहस्रबाहुः कृतवीर्यसूनुः ॥ ६ ॥ स्पर्धानुबन्धोद्धतदर्पयुद्धसंनद्धधीरं दशकंधरं यः । गदाग्रहेलाहतिनष्टचेष्टं शय्याङ्कपर्यङ्कतले बबन्ध ॥ ७ ॥ अत्रान्तरे शौर्यनिधि गूणां कुले विशाले जमदमिपुत्रः । हरिस्तमःकुञ्जरपुञ्जभेदी प्रतापदीप्तोऽवततार रामः ॥ ८ ॥ तस्योपदेष्टा भगवान्बभूव शाङ्गै धनुर्वेदविधौ पिनाकी । आदानसंधानदृढातिदूरलक्ष्येषु दत्ताद्भुतलक्षशिक्षः ॥ ९ ॥ शस्त्रास्त्रविद्याविदितप्रकर्षसंघर्षयुद्धे जिततारकारिः । पुत्राधिका वल्लभतां गुणेन जगाम रामस्त्रिपुरान्तकस्य ॥ १० ॥ मदग्रहोदग्रगजासुरास्थिविसंस्थुलाखण्डनखण्डधारम् । ददौ त्रिशूली परशुं खमस्मै क्रूरं कुमारावजयेन तुष्टः ॥ ११ ॥ ततः कदाचिन्मृगयारसेन स कार्तवीर्यः प्रविसारिसैन्यः । वनं विगाह्य क्षयमक्षयेषुश्चक्रे मृगद्वीपिमृगेश्वराणाम् ॥ १२ ॥ मन्त्रद्विषां दुःसहमोहहेतुर्दयादरिद्रं हृदयं सदैव । कर्षत्यलं शोणितमांसलुब्धा धराधराणां मृगयापिशाची ॥ १३ ॥ तुरङ्गसेनामृदितस्थलानि शराहताशेषमृगद्विपानि । विश्चद्रुतोपद्रुततापसानि प्रविश्य चक्रे स तपोवनानि ॥ १४ ॥ १. 'हेहय' क-ग-घ. २. 'संघ' ख. ३. "विश्वद्रवोपद्वत' ख.
६ परशुरामावतारः] दशावतारचरितम् । अथाश्रमानं जमदग्निजुष्टं भग्नगुमं रुग्णविविग्नसत्त्वम् । कृत्वा शनैः श्रान्तहयः स तस्थौ विश्रामकामः कुसुमस्थलीषु ॥ १५ ॥ होमावशेषैः सकुशैः पयोभिः संवर्धितानां स कुरङ्गकाणाम् । मुनीन्द्रशिप्यैरपि वार्यमाणः सैन्यैः क्षयं निष्करुणश्चकार ॥ १६ ॥ स कामधेनुं मुनिहोमहव्ययोग्यां सवत्सां गुणगौरवेण । कण्ठे गृहीत्वा जमदग्निनापि रुद्धां मदान्धस्तरसा जहार ।। १७ ॥ क्रौर्येण कीर्तिर्व्यसनेन लक्ष्मीद्वेषेण विद्या विनतिर्मदेन । क्षमातिकोपेन धृतिर्भयेन प्रयाति लोभेन च सर्वमेव ॥ १८ ॥ यातः स हृत्वा मुनिहोमधेनुं लोभेन विक्रीतविवेकसत्त्वः । यशांसि लोकत्रयविश्रुतानि चकार धिक्कारकलङ्कितानि ॥ १९ ॥ निरुद्धाशाः सर्वे दधति भृशमुद्वेगकलनां विवेकालोकस्य प्रभवति न लेशः क्वचिदपि । न मित्रस्यालोको भवति परिहारेण वदने (2) घने लोभे जन्तोः स्थितिमुपगते कस्य सुगतिः ॥ २० ॥ गतेऽथ तस्मिन्नृपतौ स्वदेशं महामुनीनां विहितापकारे । रामः समभ्येत्य गजाश्वभग्नं तपोवनं निर्मंगमालुलेके ॥ २१ ॥ निवृत्तवेदस्मृतियज्ञविद्यापुराणवादं विरताग्निकार्यम् । भमाननोद्विग्नजनं विलोक्य तपोवनं प्राप चे शोकशङ्कुम् ।। २२ ।। विज्ञाय राज्ञा तदशर्म कर्म स कार्तवीर्येण कृतं सकोपः । शुश्राव तेनैव पितुः सवत्सां बलेन नीतामपि होमधेनुम् ॥ २३ ॥ स निःश्वसन्दुःसहकोपकम्पलुठज्जटाभारभृतांसफॅटः । क्षत्रक्षयोत्कण्ठमकुण्ठधारं कुठारमादाय जवाजगाम ॥ २४ ॥ स हैहयीं हेममयीमवाप्य प्रतापदीप्तामिव राजधानीम् । युद्धाय संनद्धभुजासहस्रमस्रस्तधैर्योऽर्जुनमाजुहाव ॥ २५ ॥ तयोः प्रवृत्ते भुवनप्रकम्पदीक्षाक्षमे संक्षयधाग्नि युद्धे । क्षोभः प्रभूताद्भुतसंभ्रमोऽभूदभूतभूताभिभवप्रंगल्भः ॥ २६ ॥ १. "अथावसान्त' ग-घ. २. 'स' ख. ३. 'पीठः ख. ४. 'प्रकम्पः' क-ग-घ. दशा०५ काव्यमाला। तस्याषण्ढप्रतापः कठिनमदभराकुण्ठकण्ठस्य वेगा- निक्षिप्य स्कन्धपीठे गिरिदलनसहं घोरंधारं कुठारम् । भूभर्तुर्धेनुचौर्याचरणघनरुषा कार्तवीर्यस्य रामः जैस्तांसं दोःसहस्रं युधि नवनलिनीनाललावं लुलाव ॥ २७ ॥ प्रतापमित्रे निहते सहस्रकरेऽथ तस्मिन्भुवनैकशूरे। रामस्य निर्यननिपातितारेमर्मप्रसारी न शशाम मन्युः ॥ २८ ॥ द्विबाहुना बाहुसहस्रदीप्ते हते नृशके मुनिना प्रसह्य । स शृङ्गभङ्गः क्षितिभृत्कुलस्य तीव्रः परं मानविनाशनोऽभूत् ॥२९॥ कालेन तन्मन्युर्घनानुतापाः पापाय सर्वे मिलिताः क्षितीशाः । वैरप्रतीकारविधानसज्जा जग्मुर्वनं भार्गवकुञ्जरस्य ॥ ३० ॥ रामे फलेष्माहरणाय याते शून्यं प्रविश्याथ तपोवनं ते । निष्कृत्तकण्ठस्रतशोणितौघमनं निजघ्नुर्जमदग्निमेव ॥ ३१ ॥ रामस्ततः पितृवधोद्धतशोकवडूः शान्ति न बाप्पजलबिन्दुभिरप्यवेत्य । आसीत्क्षणं क्षितिपजीवितजातलज- स्तद्रक्तसागरनिमज्जनसज्ज एवं ॥ ३२ ॥ गत्वा जवेन रणयज्ञविधानदीक्षा- क्षेत्रं क्षणात्क्षितिपवंशवनोग्रवह्निः । कृत्वा समस्तनृपसंहृतिमेकवारं वैरक्षयेण न मनाग्विरराम रामः ॥ ३३ ॥ स स्नात्वा रक्तपूर्णे रणसरसि सत्कीर्तिधौतोत्तरीयः क्रोधानृण्यं विधातुं कृतसकलजगत्क्षत्रवंशाग्निकार्यः । श्राद्धश्रद्धाविधानं व्यषित शरकुशाकीर्णभूपालमौलि- श्रेणीहेमांशुनिर्यत्तिललवकलितन्यस्ततन्मुडपिण्डः ॥ ३४ ॥ १. 'तस्याकुण्ठ' ख. २. 'कर्मभारं' ख, 'कर्मधार' घ. ३. 'संत्रस्त ख. ४ घनाभितापाः' ख. ५. 'निकृत्त ख.. 'जीवन' ख. ७. 'वैरि' ख. ८. 'स' ग. ९. 'लुठत' क. १०. "तिम्यतू' ख.
७ श्रीरामावतारः] दशावतारचरितम् । निक्षत्रां क्षत्रियारिजलनिधिपरिखामेखलान्तामखिन्नः कृत्वा त्रिःसप्तकृत्वः पितृवरनिधनक्रोधनः मां क्षणेन । यः प्रादादेकविप्रार्पितजलचुलुकस्तोकदानातिलज्जा- मज्जन्मानाननाब्जः मितसितयशसस्तस्य किं वर्ण्यतेऽन्यत् ॥३५॥ इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते दशावतारचरिते परशुरामावतारः षष्ठः । रामावतारः सप्तमः। कालप्रवाहे महति प्रयाते तन्मध्यवेगाभिरते गते च । तरङ्गलोलाद्भुतभाववर्गे रक्षःकुलैरियुताभवद्भूः ॥ १॥ अत्रान्तरे सालकटङ्कटानां वंशे विशाले क्षणदाचराणाम् । पुष्पोत्कटा नाम बभूव कन्या तारुण्यदर्पेऽपि विवाहहीना ॥ २ ॥ सा मेरुपार्श्वे मणिहेमवल्लीविलासरम्योपवने चरन्ती। सुतं पुलस्त्यस्य तपोनिधानं संध्याक्षणे विश्रवसं ददर्श ॥ ३ ॥ ध्यानावसाने मुनिना सकम्पा प्रीत्याथ सा तेन विलोकितैव । नवाभिलाषोद्भवविह्वलेव भावान्विता गर्भवती बभूव ॥ ४ ॥ क्रमेण तेनैव मुनेः सपर्याविधायिनी तस्य तपोवने सा । असूत पुत्रत्रितयं विचित्रकर्मप्रकारेण विभिन्नरूपम् ॥ ५॥ दशाननाद्याः परिवर्धमानाश्चश्चिरं घोरतरं तपस्ते । पितामहप्रीतिवरादवापुर्येन त्रिलोकीक्षपणक्षमत्वम् ॥ ६ ॥ महेश्वराराधनहोमवह्नौ छित्त्वा दशास्यः खशिरांसि हुत्वा । जम्भारिसाम्राज्यजयी जगाम जगत्रयीलुण्ठनकण्टकत्वम् ॥ ७ ॥ त्रैलोक्यपुण्यैरथ कुम्भकर्णस्तपोवराप्तौ विपरीतवाचा । अक्षीणनिद्रः सततं बभूव प्रबोधनादेकदिनाप्तभोज्यः ॥ ८ ॥ वरप्रदानेऽथ विधिं ययाचे बिभीषणो धर्ममति मनीषी। तद्वाक्यतुष्टेन पितामहेन नीतः स धीमानमरत्वमेव ॥ ९॥ २. 'भार्गवावतार' क-ग-घ. ३. 'कटो- १. 'निःक्षत्रांक-ग, 'निष्क्षत्रां' घ. कटानां ख.
काव्यमाला। भ्रातुर्बलाद्वैश्रवणस्य लङ्कां हत्वा पुरीं रत्नहिरण्यहाम् । दशाननः पुष्पकमुज्ज्वलं च विमानराजं विजयोद्यतोऽभूत् ॥ १०॥ जित्वा स विश्वं विगतारिचिन्तः संजातसङ्ग्रामवियोगखेदः । लोकत्रये चित्तविनोदनाय विमानमारुह्य चिरं चचार ॥ ११ ॥ स निर्झरोदारतुषारशैलसुवर्णरत्नोज्ज्वलतुङ्गशृङ्गे । क्षणं न्यषीददिवसावसाने तद्भीतिलीनाखिव पद्मिनीषु ॥ १२ ॥ तापं मुहुर्दिक्पतिवल्लभानां करावमषैः ककुभां विधाय । कुमुद्वतीबन्धनपापशापाजगाम दुःशील इवास्तमर्कः ॥ १३ ॥ सांध्यं प्रकाशं परिपीय रक्तं निजौजसा लोकनिमीलनानि । निशागमोत्साहपदं क्रमेण तमांसि रक्षांसि च तुल्यमापुः ॥ १४ ॥ अथोद्ययावग्रसरप्रकाशभ्रश्यत्तमःस्तोकयुतान्तरिक्षे । सुधातरङ्गाकुलकालकूटकरम्बिते क्षीरनिधाविवेन्दुः ॥ १५ ॥ तमःसमूहस्तरुकुञ्जपुञ्जतलस्थितश्चान्द्रमसं प्रकाशम् । बभौ दशग्रीव इव प्रयत्नात्कैलासमुल्लासयितुं प्रवृत्तः ॥ १६ ॥ जहार लक्ष्मी कमलाकराणां चकार भङ्गं सुरचक्रनाम्नाम् । बभार दोषाश्रयवान्कलङ्क लङ्कापतिर्दिग्विजयीव चन्द्रः ॥ १७ ॥ हृन्मर्मसंलगशिलीमुखेषु दीर्णेषु सद्यः कुमुदबजेषु । सरःसु चन्द्रप्रतिबिम्बमूर्तिर्दशास्यभीत्येव मुहुश्चकम्पे ॥ १८ ॥ समीराः सोत्कण्ठा इव ललितवल्लीकुलवधू- समाकषैः क्रीडानिबिडदशकण्ठानुकृतयः । विचेापीनां कुमुदमधुमाद्यन्मधुकरा- कुलश्रेणीवेणीहठहरणहेलातरलिताः ॥ १९ ॥ उन्निद्रचन्द्राभरणे निशीथे तस्मिन्महानन्दघनप्रकाशे । प्रीतिः सुखस्पर्शमयी बभूव वैराग्यभाजामनुरागिणां च ॥ २० ॥ लङ्केश्वरस्तत्र शशाङ्करत्नशिलातले रश्मिविलासहासे । सुखं शयानः पुरतः प्रयान्ती जितेन्द्रलक्ष्मी ललनां ददर्श ॥ २१ ॥ 1. 'हित्वा' स्व. २. 'निमीलितानि' ख. ३. 'मुखी' क-ख. ४. 'वनितां' ख.
७ श्रीरामावतारः] दशावतारचरितम् । दशाननोत्सादितनाकलोकलक्ष्मीमिवैकां विजने भ्रमन्तीम् । मैत्रीमिव प्रेमभराभिरामां तारुण्यलावण्यमनोभवानाम् ॥ २२ ॥ विलोक्य लङ्कापतिरङ्कमुक्तशशाङ्कशङ्काजननाननां ताम् । खप्नेऽप्यदृष्टां मनसाप्यचिन्त्यां हर्षामृत:व्यमिवाससाद ॥ २३ ॥ अचिन्तितापातकिरातभीतां मृगीमिवालम्ब्य बलेन पाणौ । स तां बभाषे विभवाभिमानं तद्भोगशून्यं विफलं विचिन्त्य ॥ २४ ॥ कस्यान्तिकं कुञ्जरगामिनि त्वं प्रयासि धन्यस्य रणोज्झितासोः । आराधितः केन तपोविशेषैः सौभाग्यभूमिभगवान्मनोभूः ॥ २५ ॥ न त्यज्यसे सुभ्रु कुरु प्रसादं लब्धां सुधां मुञ्चति मन्दपुण्यः । त्यक्तान्ययत्नोपनतानि मोहात्पुनर्न लभ्यानि समीहितानि ॥ २६ ॥ इति ब्रुवाणेन दशाननेन तन्वी घनालिङ्गनपीडिताङ्गी । काञ्चीविमुक्तिप्रतिषेधदिग्धं वैलक्ष्यमुग्धाक्षरमाचचक्षे ॥ २७ ॥ बलेन नीवी ननु न प्रमोच्या विमुञ्च मां दुर्व्यसनस्पृहां च । अशीललीलाशकलीकृतां त्वं ह्वियं श्रियं रक्ष यशः कुलं च ।। २८ ।। रम्भाभिधानां सुरलोककान्तां त्वद्भातृसूनो डैकूबरस्य । प्राणोपमानां धनदात्मजस्य न वेत्सि किं मां सुमते सुषां त्वम् ॥२९॥ इति ब्रुवाणामबलां बलेन संदूष्य मातङ्ग इवाजिनीं ताम् । म्लानाननाजामवमानलीनां लज्जानिमज्जद्वदनां मुमोच ॥ ३० ॥ उच्छिष्टाधरपल्लवां नखमुखोल्लेखावखातस्तनी विस्रस्तांशुककेशपाशकुसुमामुत्कम्पिनी मन्युना । श्वासायासवती सबाष्पनयनां तन्वीं वहन्ती तनुं सा गत्वा नडकूबरस्य विदितं पौलस्त्यवृत्तं व्यधात् ॥ ३१ ॥ दृष्ट्वाभिभूतां नडकूबरस्तां श्रुत्वा कुवृत्तं च निशाचरस्य । अकामकान्तारतिसंगमान्तं तस्यास्तु दुर्जीवितमित्युवाच ॥ ३२ ॥ १. 'त्याज्यसे' क-ग-घ. २. 'उपगतानि' क, 'उपहितानि' ख. ३. 'धनदात्म- जस्य ख. ४. 'नडकूबरस्य' ख. 'नडकूबरस्य' ख. ५. 'वं सुमते नुषां माम्' ख.
काव्यमाला। नक्तंचरैस्तत्क्षणवर्ण्यमानं तच्छापमाकर्ण्य भृशं दशास्यः । अन्तर्वहन्दुश्चरितानुतापं विमानमारुह्य शनैर्जगाम ॥ ३३ ॥ सुखव्यक्षामाः प्रकटमवटापातगतयः क्षिपन्तः शीलाख्यं व्यसनमविलक्ष्याः क्षतधियः । स्खलन्तः कुर्वन्ति प्रसभमवलेपेन किल त- द्यदुद्भूतस्तापः प्रचलति न जीवान्तनियतः ॥ ३४ ॥ व्योम्ना वजन्तं पुरतस्तमेत्य माहेश्वरः प्राह गणः सकोपः । हंहो निवर्तख भजख नीतिं व्योम्ना गतिर्नेह नभश्चराणाम् ॥ ३५ ॥ सतीसहायः स्फटिकाद्रिशृङ्गे देवो मृडः क्रीडति चन्द्रचूडः । पार्थेन यात्यत्र मरीचिमाली भयेन नोचैर्मरुतोऽपि वान्ति ॥ ३६॥ श्रुत्वा मदोद्गारगिरं गणस्य दुष्टद्विपः कृष्ट इवाङ्कुशेन । दष्टाधरः कोपकषायचक्षुर्नोवाच किंचित्स हरानुरोधात् ॥ ३७ ॥ श्वसन्विमानादवरुह्य सज्जः स मज्जयन्भूमिमिवाभ्युपेत्य । स्कन्धेन पातालतलान्तमूलात्कैलासमुल्लासितमुज्जहार ॥ ३८ ॥ विघूर्णमानाद्रिगुहागृहेभ्यः समन्ततः संभ्रमविद्रुतानाम् । संत्रस्तविद्याधरसुन्दरीणां काञ्चीरवैः खं मुखरीबभूव ॥ ३९ ॥ क्ष्मान्तोत्क्षेपातिवेगप्रसरदनलसोल्लासकैलासकम्प- क्षोभे बिभ्यद्भवानीनिभृतभुजलतालिङ्गितश्चन्द्रचूडः । दाशास्यैहर्षहासं व्यभजत चरणाकुञ्चिताङ्गुष्ठपीडा- व्रीडानिर्भुग्नमीलन्नयनगलगलगुर्गरोद्गाररावैः ॥ ४० ॥ अत्युग्ररावेण दशाननस्य प्रसादवान्रावण इत्यभिख्याम् । चक्रे पिनाकी प्रियतां प्रयान्ति प्रायः प्रभूणां विपरीतचेष्टाः ॥ ४१ ॥ तुष्टात्पुनः प्राप्य वरं त्रिनेत्रात्रैलोक्यलक्ष्मीपरिभोगभव्यम् । वजन्विमानेन दशाननः खे सकौतुकः पुष्पकमित्युवाच ॥ ४२ ॥ १. 'तदा' ख. २. जगामेत्यनन्तरं 'इति नडकूबरशापः' इति ख-पुस्तकेऽधिकम- स्ति. ३. 'सहसानुरोधात्' क-ग-घ. ४. 'स्कन्देन' सर्वेषु पुस्तकेषु.
16661 . ७ श्रीरामावतारः] दशावतारचरितम् । य एष दूरात्कनकोचलस्य संलक्ष्यते दक्षिणपार्श्वदेशे शृङ्गाग्रलनोज्ज्वलरत्नशैलस्तदङ्कविश्रान्तिसुखे ममेच्छा ॥ ४३ ॥ इति ब्रुवाणः क्षणदाचरेन्द्रः क्षणाद्विमानेन जवेन नीतः । तस्याद्भुताद्रेविचचार पञ्चां रत्नस्थले कल्पलतावृतान्ते ॥ ४४ ॥ वैदूर्यगारुत्मतपद्मरागवजेन्द्रनीलामलशैलशृङ्गम् । पश्यन्नवालोकनहर्षमानी न रावणः कौतुकतृप्तिमाप ॥ ४५ ॥ कचित्स्खलन्निर्झरराजवन्तं गुहागृहोगीर्णमहाट्टहासम् । भीत्येव नीहारपटावृतानि निमीलयन्तं ककुभां मुखानि ।। ४६ ॥ समुल्लसन्नीलमणिस्थलोरुस्थूलांशुपुञ्जोन्नतदण्डपादम् । पुनः प्रवृत्तं बलिवञ्चनाय व्याप्ताम्बरं विष्णुमिवाप्रमेयम् ॥ ४७ ॥ बलान्वितोद्यद्धनकालनेमि प्रहादसंरब्धजलोद्भवोग्रम् । सतारकाग्रं कटकं वहन्तं यातं हिरण्याक्षमिवाचलत्वम् ॥ ४८ ॥ सविस्मयानन्ददृशा समन्तान्निवर्णयन्नेव मुहुर्महाद्रिम् । तदुच्चशृङ्गाश्रमधान्नि दिव्यां कन्यामपश्यत्स तपःप्रसक्ताम् ॥ ४९ ॥ तन्वीं स्तनाभोगभरावाप्तसंसक्तकृष्णाजिनगाढबन्धाम् । लतामिवोद्यत्स्तबकाभिलाषनिःस्पन्दलीनालिकुलाभिरामाम् ॥ ५० ॥ पौलस्त्यविध्वस्तसमस्तलोकघनावमानानलतीचिन्ताम् । शक्रश्रियं स्वर्गवियोगखिन्नां रक्षःक्षयायेव तपःप्रवृत्ताम् ॥ ५१ ।। तां वीक्ष्य रक्षःपतिरक्षयेन्दुमुखीं सखीनेत्रसुधां निपीय । मेने तदुच्छिष्टरुचापि शिष्टां स्पृष्टां न संक्लिष्टनिकृष्टसृष्टिम् ॥ ५२ ॥ पुनः सदाचारपरम्पराईपाद्यासनादिप्रणयप्रवृत्ताम् । तामब्रवीदद्भुतरूपसंपत्संपन्नपूजः क्षणदाचरेन्द्रः ॥ ५३ ॥ का त्वं मनोजन्मविवर्जितेव रतिर्विरागवतदुर्ग्रहेण । मदेन विद्या कपटेन मैत्री लोभेन लक्ष्मीरिव लुप्तशोभा ॥ ५४ ॥ ध्यानावधानं परमोऽवमानस्त्रपाकरं पात्रमथाक्षसूत्रम् । वने निवासस्तव यौवनेऽस्मिञ्जपश्च शापः कुसुमायुधस्य ॥ ५५ ॥ १. 'सुखी' ग, 'सखी' घ.
५२ काव्यमाला। त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्वि त्वमेव सत्यं यदि युक्तमेतत् । बिम्बाधरे चुम्बनकेलियोग्ये जपेन पापार्जनमेव मुग्धे ॥ ५६ ॥ निरञ्जनत्वं कुसुमप्रसक्तिश्चित्रं जटाबन्धनकारणं ते । अनङ्गरागं कुरु मा शरीरमनङ्गरागं वह चेतसि त्वम् ॥ ५७ ।। भोगोत्सवं मानय मा नय त्वं क्लेशैरदोषं कृशतां शरीरम् । अहं हि ते तन्वि समीहिते च हिते च संपादनबद्धकक्षः ॥ ५८ ।। शृङ्गारस्य गतैव भाग्यगुरुतानङ्गस्य नाङ्गस्पृहा लावण्यं धनमन्युदैन्यमलिनं का यौवनस्योन्नतिः । नोद्यानं दयितं मधुर्विधिहतः कस्येन्दुरानन्दनः कान्ते ते तपसि स्थिता यदि मतिस्तत्सर्वमस्तं गतम् ॥ ५९॥ श्रुत्वैतदुक्तं दशकंधरेण सा किंचिदाकुञ्चितचेतनेव । जगाद खेदेन विनिःश्वसन्ती ह्रियावमानेन च मन्युना च ॥ ६० ॥ व्रते विवादं विमति विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ ६१ ॥ कचस्य वाचस्पतिसंभवस्य खाध्यायजा वेदवती सुताहम् । देया मयेयं स्वयमच्युताय मनोरथोऽभूत्पितुरित्ययं मे ॥ ६२ ॥ कालेन दैत्यैः स हतः पिता मे मातानलं शोकमिव प्रविष्टा । वरार्थिनी देवमनन्यचित्ता तपःप्रवृत्ता हरिमर्थयेऽहम् ।। ६३ ।। इति ब्रुवाणां दशकंघरस्तां गाढानुबन्धेन घनाभिलाषः । पुनःपुनः क्षीब इव प्रलापी कोपामिसंतापवती चकार ॥ ६४ ॥ स्मृत्वा स शापं नडकूबरोक्तं संत्यक्तकान्ताहठसङ्गवाञ्छः । नखक्षतोच्छिष्टकुशस्थली तां कृत्वा जगाम स्वपुरी सकामः ।। ६५ ॥ सा मानिनी दुर्विषहावमानं रक्षःकरस्पर्शममृष्यमाणा । कुलाभिमानेन्धनमात्मशुदै पूर्व प्रकोपामिमिवाविवेश ॥ ६६ ॥ चिरं विचिन्त्याच्युतमच्युताशा जन्मास्तु मे राक्षससंक्षयाय । उक्त्वेति दृष्ट्वा रविमदिशृङ्गात्तापेन तन्वी तनुमुत्ससर्ज ॥ ६७ ॥ १. "भिमान ख.
७ श्रीरामावतारः] दशावतारचरितम् । अम्लानं कुशलं कुलं च विमलं सत्सङ्गगण्या गुणा मान्या मानधनोन्नतिर्विनिधनं धर्मावधानं धनम् । कीर्तिमूर्तिरसंक्षयाद्भुतवती शक्तिश्च संरक्ष्यते जन्तोरिन्द्रियसंयमेन सकलं नष्टं न यस्यास्ति सः ॥ ६८ ॥ प्रविश्य लङ्कामलकां विजित्य हृत्वा पुनर्वैश्रवणस्य कोशम् । काले विशालेऽनिलवत्प्रयाते लङ्कापतिः पुष्पकमित्युवाच ॥ ६९ ॥ दृष्टः पुराश्चर्यगिरिमया यः पुनस्तदालोकनकौतुकं मे । रम्यं निपीतं बत नेत्रपार्न विस्मरत्येव मनः कदाचित् ॥ ७० ॥ इत्यादराभ्यर्थनयन्त्रितेन नीतः क्षणेनैव स पुष्पकेण । तं देशमेत्यायतकालजिह्वालीढं न तं प्रौढगिरिं ददर्श ॥ ७१ ।। उत्पत्तिवृद्धिक्षयपाकयुक्त्या क्षणे क्षणे दृष्टविनष्टसर्वः । प्रायः प्रपञ्चप्रणयी भवोऽयमभावसद्भावसमस्तभावः ।। ७२ ॥ तत्राभ्यपश्यन्नगराण्यगण्यरत्नप्रयत्नक्रयविक्रयाणि । परस्परारब्धविरोधयुद्धसंधानसन्नद्धधराधिपानि ॥ ७३ ॥ दृष्ट्वा तवाश्चर्यमचिन्त्यरूपं चक्रभ्रमारूढ इँवापरूढः । प्रौढोऽपि मूढत्वमिवानुभूय शनैः स संप्राप्तधृतिः प्रदध्यौ ॥ ७४ ॥ अहो नु नानाद्भुतविभ्रमाणां हर्ता च कर्ता च सदैव कालः । येनानिशं दर्शयता विचित्रं निपीतमन्यद्बत वान्तमन्यत् ॥ ७५ ॥ क्षणं विचिन्त्येति ययौ पुरी खामनित्यतानष्टधृतिर्दशास्यः । गिरेवियोगादचलं द्वितीयमिवोद्वहन्विस्मयभारमन्तः ॥ ७६ ॥ गते निगीर्णाद्भुतचक्रवाले काले विशाले बहुमोहजाले । स्मृत्वा समारुह्य विमानराजं तमेव देशं स पुनर्जगाम ॥ ७७ ॥ स तत्र चित्राणि पुराणि तानि न हेमहाणि न मन्दिराणि । खामान्तराणी कृतप्रमाणि जन्मान्तराणीवं गतान्यपश्यत् ।। ७८ ॥ १. 'दृब्ध' ग. २. 'नियोग' न. ३. 'इव प्ररूढः ग-घ. ४. 'एव' क-ग-घ. ५. “एवं' क-ग-घ.
काव्यमाला। तत्रालुलोके स तमालतालतालीसहिन्तालनिरन्तरालम् । वनं विशालं विवलपियालमालावलीसंततनक्तमालम् ॥ ७९ ॥ घोरैघुरच्याघ्रधनप्रघोषैरिवोच्चरोमाञ्चचयाञ्चितानाम् । विशङ्कटैरुत्कटकण्टकानां व्याप्तं समूहैः खदिरद्रुमाणाम् ॥ ८० ॥ अन्तःश्वसन्निश्चलदुष्टसत्त्वैः कम्पप्रदं पिप्पलपल्लवानाम् । तमःपिशाचाचितमर्कभासा भीत्येव दूरात्परिवर्ण्यमानम् ॥ ८१ ॥ गतेप्वभावं नगरेषु तेषु दृष्ट्वा तदुग्रं गहनं गभीरम् । रक्षःपतिम्रस्तसमस्तलोककुलाय कालाय नमश्चकार ॥ ८२ ॥ सोऽचिन्तयत्कालविहंगमोऽयमलक्ष्यदाक्ष्यक्रमपक्षवेगः । दिवानिशं याति विचित्रशक्तिरहो कदाचिन्न चलत्यखिन्नः ॥ ८३ ॥ अत्युच्चापातनिम्नोन्नतिकरणपटुः श्लिष्टदूरस्थिताना- मिष्टानिष्टव्रजानां सततमिव धनाश्लेषकेलिप्रसक्तः । पर्यन्ताभावभूमिप्रपतनचतुरानन्यथा सर्वभावा- न्प्रातः प्रातर्विधत्ते नवनवरचनाश्चर्यकृत्कालपाकः ॥ ८४ ॥ इत्यद्भुतामाकलयन्नचिन्त्यां कालस्य शक्तिं स विसंस्थुलोऽभूत् । अनित्यताचिन्तनभङ्गभाजां नाङ्गानि केषां शिथिलीभवन्ति ॥ ८५ ।। प्राप्तः स लकां विभवोपभोगहर्षोत्सवैर्विस्मृतकाललीलः । मेने सुखक्षीबतयाक्षयाणि संभोगलीलाधनजीवितानि ॥ ८६ ॥ शनैः प्रयातं क्षणसंख्ययापि प्रवर्धमाने युगदीर्घकाले । पुनर्विमानेन तमेव देशं कुतूहलात्तः प्रययौ दशास्यः ॥ ८७ ॥ स तत्र निर्घातघनप्रवाहदीर्णोरानिष्क्रमणक्रमेण । ददर्श पातालमिवान्तहीनं खातं प्रजातं भुवनव्रणाभम् ॥ ८८ ॥ क्षणं तदालोकनभुमकण्ठः स्थित्वा प्रयातः स पदं खमेव । काले प्रयाते पुनरागतोऽथ सरः समुद्रोपममभ्यपश्यत् ॥ ८९ ॥ अनन्तपद्मान्वितमप्रमेयमुदग्रनागेन्द्रसहस्रसेव्यम् । परागपुञ्जेन भुजंगलोकमिवान्तराले कपिलेन जुष्टम् ॥ ९० ॥ १. 'निष्क्रुथण' क-ख, "निष्कृषण' ग.
७ श्रीरामावतारः] दशावतारचरितम् । हंसांसकण्डूयनलोलनालफुल्लारविन्दोत्थितषट्पदानाम् । मुहुः समूहैर्विहितान्धकार क्रोशन्निशाशङ्कितचक्रवाकम् ॥ ९१ ॥ खादूदकं कोमलवीचिवातं पद्मोज्ज्वलं भृङ्गगणोपगीतम् । ससौरमं पुण्यवतामिवैकं सर्वेन्द्रियाणामुपभोगपात्रम् ॥ ९२ ॥ सविभ्रमं श्रीरमणं परागपीताम्बरं नाभिभवाद्भुताजम् । नीलोत्पलश्यामलमाकलय्य सरः स निःस्पन्दतनुः प्रदध्यौ ॥ ९३ ॥ अहो नु नेत्राप्तिकौतुकानि वैचित्र्यमेत्रीकृतविस्मयानि । पिवत्ययत्नेन कियन्ति कालः सृजत्यजस्रं च महागुतानि ॥ ९४ ॥ क्षणं विचिन्त्येति लसद्विवेकः स शंकरार्चारससादरोऽभूत् । अनित्यताचिन्तनखेदजन्मा न सद्विचारः कुशलाय कस्य ॥ ९५ ॥ अयःपिण्डक्रूरं श्रयति न मनः क्वापि मृदुतां न यावत्संस्पृष्टं सकलभवभावक्षयधिया । मनाक्तस्मिन्याते प्रशमलवपाकप्रणयितां नमत्येतत्कस्य द्विजगुरुहरार्चासु न शिरः ॥ ९६ ॥ सरस्तटे टङ्कितरत्नपीठे लिङ्गं विधाय स्फटिकाद्रिशृङ्गम् । सपुप्पकोपाहृतदिव्यपझैरा चकारामृतरश्मिमौलेः ॥ ९७ ॥ स त्र्यम्बकस्याम्बरचुम्ब्यमानां विधाय पूजां कमलोपचारैः । हृदस्य विष्णोरिव मध्यजातं समादधे(दे) मूर्ध्नि विधातुमजम् ॥ ९८॥ तस्यान्तरे काञ्चनकर्णिकस्य विचित्ररत्नोज्वलपल्लवस्य । . स दिव्यपद्मस्य ददर्श कन्यां तद्भीतिलग्नामिव जात(तु) लक्ष्मीम् ॥९९॥ आदाय कन्यां कमलं विधाय तच्चन्द्रचूडस्य किरीटकोटौ । प्रीतिं वहन्विस्मयगर्भगुर्वी लङ्केश्वरः खां नगरी जगाम ॥ १०० ॥ मन्दोदरी तद्दयिताथ तत्र तेनार्पितां कल्पितपुत्रिकां ताम् । अनन्यलावण्यवतीं विलोक्य कन्यामभूद्विस्मयनिश्चलेव ॥ १०१ ॥ कदाचिदुत्सङ्गगृहीतकन्यां तां नारदोऽभ्येत्य मुनिर्जगाद । पत्युस्तवेयं चपलेन्द्रियस्य कन्या भविष्यत्यभिलाषभूमिः ॥ १०२ ॥ १. 'विन्दोदित' क-ग. २ 'भव' क.
काव्यमाला। श्रुत्वैतदाच्छाध महार्हपट्टैः सुवर्णमऋषभृतां कुमारीम् । मन्दोदरी भूमितलावखाते तत्याज रत्नाकरपारतीरे ॥ १०३ ॥ काले प्रयाते जनकेन राज्ञा यज्ञाङ्गने हैमहलेन कृष्टे । लब्धा समृद्धेन्दुमुखी सुता सा सीतेति नान्ना भुवने प्रसिद्धा ।। १०४॥ ततः कदाचिन्मणिमन्दिरस्थं दशाननं शूर्पणखाभ्युपेत्य । सद्यःप्रकृत्ताखिलकर्णनासा खसा श्वसन्ती विजने जगाद ॥ १०५ ॥ अहो प्रमादस्तव दुर्जयस्य जनत्रयीराज्यजयोर्जितस्य । यत्त्वं प्रजातारिनवाङ्कुरोऽपि धत्से सुखी क्षीव इवातिनिद्राम् ॥ १०६ ॥ मन्त्रद्विषः शक्तिमदेन यस्य निश्चेतनस्येव दिनानि यान्ति । दुर्वृत्तगोष्ठीपतितेव पत्नी न तत्र तिष्ठत्यपरोन्मुखी श्रीः ।। १०७ ॥ रामः पितुर्निश्चलशासनेन भ्रात्रा जटाभृत्सह लक्ष्मणेन । सीताख्यया चारुडशा च पल्या धन्वी वने दाशरथिः स्थितोऽस्ति १०८ यस्याङ्गना सा सुरसिद्धसाध्यगन्धर्वविद्याधरसुन्दरीणाम् । साश्चर्यसौन्दर्यमदं वहन्ती दृष्टा मया त्वद्भवनोचितैव ॥ १०९ ॥ तां त्वत्कृते हर्तुमहं प्रवृत्ता यावन्मनोजन्मजयप्रशान्ति(शस्ति)म् । रामानुजात्तावदयं मयाप्तः पराभवः कर्तितकर्णनासः ॥ ११०॥ मन्मन्युशल्यव्यथयाभिभूताः सुरासुरश्रीहरणप्रगल्भाः । त्वद्भातरस्ते खरदूषणाद्या रामेण सर्वे निहताः ससैन्याः ॥ १११ ॥ सुखोन्मुखः कृष्णभुजङ्गमोऽपि विषोष्मशान्त्यै बिलवेश्मशायी । पिपीलकेनोदररन्ध्रयुक्त्या विदार्यते निश्चलकल्प एव ॥ ११२ ॥ आगुप्तचारः खपरप्रदेशे जगत्रयीराज्यगृहीतभारः । अहो प्रसिद्धां भुवनत्रयेऽपि त्वं दण्डकारण्यकथां न वेत्सि ।। ११३ ॥ इति खसुर्मर्मविदारणोग्रां श्रुत्वा गिरं दुर्विषहां दशास्यः । जवेन पारं जलधेर्जगाम कालेन कामेन च कृष्यमाणः ॥ ११४ ॥ ३. सुखक्षीब' ख-घ. १. 'भूमितले सुखाते' ख. २. 'भूमितले निकृष्टे' ख. ४, "अच्युत' ख. ५. 'अनुप्त' क-ग-घ.
५७ ७ श्रीरामावतारः] दशावतारचरितम् । स प्राप्य मारीचममात्यमुख्यमरण्यपर्यन्ततपःप्रसक्तम् । न्यवेदयन्मयविकारमस्मै सीतापहारव्यसनोद्यमं च ॥ ११५॥ लक्ष्मीशरीरक्षपणाभियोगे गाढानुबन्धेन मदप्रमूढम् । साचिव्यमन्त्रावधि याच्यमानो विचार्य मारीचमुनिस्तमूचे ॥ ११६ ॥ अहो बतायं तव मोहमन्त्रः खतन्त्रवाचा च्युतनीतितन्त्रः । किं शत्रुणा पुत्रकलत्रमित्रदेहापहारी व्यसनाय दत्तः ॥ ११७ ॥ धूतैर्यदुक्तं हृदयग्रहाय निन्द्यं मदोत्तुङ्गमसङ्गतं च । तदीश्वराणां परिणामकष्टं निर्दिष्टदुर्वेदमनिष्टमिष्टम् ॥ ११८ ॥ सर्वापकारः सुकृतप्रहारः क्लेशावतारः कुशलापसारः । शीलापचारः कुपदामिसारः पापप्रकारः परदारहारः ॥ ११९ ।। पथ्यं न जिघ्रन्त्यथ चर्वयन्ति स्पृशन्ति शृण्वन्ति विलोकयन्ति । विनाशकाले चपलेन्द्रियाणां सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥ १२० ॥ रामस्य हर्तुं कथमिच्छसि त्वं पत्नीमयत्नक्षतराक्षसस्य । यद्धीतिनीत्येवं तपस्ततं मे क रक्षसामस्ति विवेकपाकः ॥ १२१ ॥ जातः कृती तततपश्चयऋष्यशृङ्ग- मन्त्राहुतिप्रसृतांगविधिप्रभावात् । पृथ्वीपतेर्दशरथस्य पितुर्नियोगा- द्यः कौशिकस्स मखरक्षणदीक्षितोऽभूत् ॥ १२२ ।। शूरः शिशुः कौशिकशासनेन मन्मातरं वर्त्मनि ताटकां यः । हत्वा प्रपेदे मुनिना वितीर्णा सजृम्भकामस्वरहस्यविद्याम् ॥ १२३ ॥ अस्त्रोद्यत्पक्षपातैः कुशिकसुतमखत्राणसज्जस्य यस्य प्रक्षिप्तो योजनानां शतमुदषितटे मूच्छितः प्रैच्युतोऽग्रे । वृक्षेष्वद्यापि बाणासनचकितमिया रामनामादिवर्णे राकारामादिशब्देष्वपि भयसमयान्न कचिन्निवृतिमें ॥ १२ ॥ १. 'स दिव्यमन्त्रावधियाचमान' ख. २. 'सूतैः' ख; 'दूतैः' घ. ३. 'सर्वापहारः सकतापकारः' ख. ४. नित्सेव' क, निन्येव' ग, "नीच्येव' घ. ५, 'तपःस्थित' काग, ६.योग' कग.७, प्रत्युताने मा. इशा.
काव्यमाला। यः प्राप यज्ञे जनकस्य पुत्रीं चण्डीशचापाक्रमणेन सीताम् । नीतां त्रिलोकीविजयाशयेव शक्तित्वमेतां कुसुमायुधेन ॥ १२५ ॥ आकर्णाकृष्टभङ्गोद्भवरवमुखरोच्चण्डचण्डीशचाप- क्रोधाध्मातस्य सर्वक्षितिपवधविधेर्द्वन्द्वयुद्धातिथिर्यः । चापश्रीकुञ्जनेन व्यधित भृगुपतेः सर्वधर्मस्य गोप्ता पुण्यब्राह्मण्यजन्मापचयपरिचयक्षत्रवृत्तेर्निरोधम् ॥ १२६ ॥ यः सत्यपाशग्रथितस्य मुक्त्यै पितुर्गिरा निर्जनसंश्रयाय । ययावरण्यं सह लक्ष्मणेन भ्रात्रा समानव्रतया च पत्न्या ॥ १२७ ॥ वियोगशोकात्पितरि प्रतप्ते स्वर्ग प्रयाते भरतेन यत्नात् । अभ्यर्थ्यमानोऽपि निजं न राज्यं जग्राह रामः स्थिरसत्यकामः॥१२८॥ तत्पादुके मूर्ध्नि निधाय धीमान्करोति शत्रुघ्ननिषेव्यमाणः । राज्यं जटाभृद्भरतस्तदीयं वनान्तवासावधि तत्प्रदिष्टम् ॥ १२९ ॥ सहायतां ते कुपदे करोमि कथं शरीरप्रतिकूलकार्ये । अकुर्वतस्त्वद्विशिखैर्विनाशस्ततस्तु रामान्निधनं वरं मे ॥ १३० ।। श्रुत्वेति मारीचवचः प्रहृष्टस्तं राक्षसेन्द्रः प्रथमं विसृज्य । मायानिधानं खविनाशसज्जः पश्चाद्ययौ कल्पितभिक्षुवेषः ॥ १३१ ।। अर्थानर्थक्षयभयजयान्सर्वथा वेत्ति सर्वः श्रेयः प्राप्तुं किमपि यतते वर्जयत्येव दोषान् । तज्ज्ञोऽप्यन्ते पतति विवशः क्लेशशोकार्तिगर्ते देवादिष्टे पतनसमये लङ्घने कस्य शक्तिः ॥ १३२ ॥ अथ कनककुरङ्गं विद्रुमोत्तुङ्गशृङ्गं रुचिरमणिविचित्रं लोचनानन्दमित्रम् । द्युतिमिव विकिरन्तं संनिकर्षे चरन्तं जनकनृपतिपुत्री कौतुकाचं ददर्श ॥ १३३ ॥ तञ्चमलोभात्प्रणयप्रयत्नैरभ्यर्थितो मैथिलराजपुत्र्या । धृत्वाश्रमे लक्ष्मणमात्तचापः ससार सारङ्गवधाय रामः ॥ १३४ ॥ १.'शापात्' ख. २. "विरोधम्' क-ग, 'निषेधम् ख. ३. 'विधाय' क-ख-ग.
७ श्रीरामावतारः] दशावतारचरितम् । ५९ मायामृगस्तीक्ष्णतराननेन स पत्रिणा रामधनुश्च्युतेन । विद्धः पतन्राक्षसरूप एव हा लक्ष्मणेत्यारिवं रुराव ॥ १३५ ।। श्रुत्वा प्रलापं सहसैव सीता भर्तुविरुद्धं परिशङ्कमाना । उत्कम्पिताङ्गी विससर्ज यत्नात्ससंभ्रमं लक्ष्मणमीक्षितं तम् ॥ १३६ ॥ अभ्येत्य सीतामथ कूटभिक्षुर्दशाननश्चन्द्रमुखीं ददर्श । सुरासुराणां कलहोपशान्त्यै सुधां सदेहामिव निर्जनस्थाम् ॥ १३७ ॥ प्रणामिनी खागतवादिनीं तां पाद्यासनातिथ्यविशेषसज्जाम् । उवाच कौटिल्यनिलीनमायः प्रच्छन्नकायः क्षणदाचरेन्द्रः ॥ १३८ । लावण्यं सकलाङ्गसङ्गसुभगं माधुर्यधुर्यं वच- स्तीक्ष्णान्ता नयनद्वयी च सुतरां प्रान्ते कषायच्छविः । मूर्तिः कान्तिसुधाचिता रसमयी चित्रं चमत्कारिणी यत्नेनाप्यभिलक्ष्यमम्लकटुकं किंचिन्न ते चेष्टितम् ॥ १३९ ॥ एकाकिनी निर्जनकाननेऽस्मिन्करोषि किं रत्नविमानयोग्या । घोरं घुरघ्याघ्रगुहाग्रमेतत्कस्मात्तवेष्टं विषमाश्मकाष्ठम् ॥ १४० ॥ एता निर्भरदर्भसूचिनिचयैर्दुःसंचरा भूमयः शुल्क्षुण्णाजगरोग्रकोपविषमश्वासोष्मशुष्यद्रुमाः । ग्रीष्मग्लानिनिमममत्तमहिषझिंप्यत्करीषोन्मिष- त्पङ्कव्याकुलविक्लवत्तॄणकुलक्लेदातितिक्तं पयः ॥ १४१ ॥ दिव्या रत्नहिरण्यहर्म्यरुचिरा रम्या तव श्रीसखी लङ्का स्फाटिकमन्दिरांशुनिवहैः खर्ग हसन्ती मुहुः । तस्याः सुदृ विभात्यशोकवनिकालंकारभूता मरु- त्वङ्गत्कल्पलतापरागपटलीसंसँगैरङ्गा रतिः ॥ १४२ ॥ जगंजयोद्योगरणाङ्कितश्रीलङ्काधिनाथः प्रणयी तवाहम् । यं त्रासलोलांशुकपल्लवाना भ्रूभङ्गभनास्त्रिदशा नमन्ति ॥ १४३ ।। १. 'विद्धोऽपतत्' ख. २. 'आर्तरवैः' ख-ग. ३. 'तत्' क-ग-घ. ४. 'क्लिश्यत्' कमग. ५. "विडवत्तृण' क-ग-घ. ६. 'श्रीमुखी ग. .७. 'संसा' क-ग-घ.
काव्यमाला। श्रुत्वैतदुक्तं दशकंधरेण भयेन कोपेन च कम्पमाना। जगाद जिह्म जनकात्मजा तं समुद्भवबाहुशिरःसहस्रम् ॥ १४४ ॥ अहो प्रशान्तव्रतकष्टकूटस्त्वं शष्पसंच्छन्न इवान्धकूपः । पापाप्लुतं जल्पन जल्पतस्ते किं नाम भूमौ पतिता न जिह्वा ॥ १४५॥ इति ब्रुवाणां कपटाकृतिस्तां करेण मातङ्गनिभः प्रमाथी। आकृष्य रम्भामिव वेपमानां जहार मत्तः पिशिताशनेन्द्रः ॥ १४६ ॥ तारप्रलापां शरणैषिणी तां दयाभिमानी न ररक्ष कश्चित् । प्रायः स्वरक्षाप्रणयी जनोऽयं परार्तिकाले विरलप्रयत्नः ॥ १४७ ॥ सीतां हरन्तं रजनीचरेन्द्र लतामिवोग्रानिलमम्बरेण । धीरः कृपावानरुणस्य सूनुरभ्याद्रवद्धपतिर्जटायुः ॥ १४८ ॥ निकृत्तवर्मायुधमौलिवाहं कृत्वा दशास्यं नखचञ्चुपक्षैः । दैवप्रमाणे विजये जटायुर्जुहाव जीवं निजमाजिवहौ ॥ १४९ ॥ जायन्ते निधनं प्रयान्ति सततं जन्मभ्रमे जन्तवः कोऽप्येकः किल जायते स सुकृती यः पीतपुण्यामृतः। आतंत्राणपवित्रितेन तृणवनीतेन जातु व्ययं व्याप्ताशेषयशोमयेन वपुषा कल्पस्थिति वति ॥ १५० ॥ लाधिनाथः समुपेत्य लङ्कामशोकनाम्नी वनिकां प्रविश्य । न्यवेशयन्मैथिलजां क्षयाय कुलस्य मानस्य च जीवितस्य ॥ १५१ ।। दिनेषु यातेष्वथ रामवृत्तं ज्ञातुं विसृष्टः प्रणिधिनिगूढः । सुकेतुनामा दशकंधरेण विज्ञाय सर्व स समाजगाम ॥ १५२ ॥ स तापसव्यञ्जनरञ्जितेन वेषेण लङ्कापतिमभ्युपेत्य । खैरं बभाषे भुवनत्रयेऽपि समस्तकार्येषु कथान्तरङ्गः ॥ १५३ ॥ न युज्यते वक्तुमसंमतं यन्न चाहितं न प्रकटं न गुप्तम् । प्रायः प्रभूणामतिसंनिकर्षः क्षुराग्रधारे नवपादचारः ॥ १५१ ॥ श्रुतं च दृष्टं च निवेद्यमानं सत्यं वचः प्रीतिकरं नैं राज्ञाम् । तुष्यन्ति भूपाः स्तवकस्तवेन शून्येन वेश्याप्रणयोपमेन ॥ १५५ ॥ १.जाम न क..२. "कृत्येषु' ख. ३. 'वन' ग-घ. ४. 'मराणाम् ख..
७ श्रीरामावतारः] दशावतारचरितम् । कर्णानुकूलं हृदयग्नहाय यदुच्यते तत्क्षणदृश्यदोषम् वाल्लभ्यभावप्रभवाय भृत्योहप्रकारः परमं प्रभूणाम् ।। १५६ ॥ सहायहीनस्य पदच्युतस्य क्षामस्य कान्ताविरहान्वितस्य । रामस्य वृत्तं शृणु देव सर्वं श्रुत्वा विचार्य क्रियतां हितं यत् ॥१५७॥ हत्वा स मारीचममेयमायं त्यक्त्वाश्रमं लक्ष्मणमाप्तमग्रे । विलोक्य सीताहरणाभिशङ्की ध्यात्वापतत्तन्मुखदत्तदृष्टिः ॥ १५८ ॥ दृष्ट्वाश्रमं शून्यमचिन्तितोग्रशोकाभिघाताप्तमुहूर्तमोहः । आसाद्य संज्ञां शनकैः प्रपेदे चक्रनमारूढ इवाकुलत्वम् ॥ १५९ ।। जटायुषस्तत्क्षणमुक्तजीवशेषस्य कृत्वान्त्यविधि विधिज्ञः । तद्दुःखतापं दयितावियोगे रामः क्षते क्षारमिवाससाद ॥ १६० ।। शैले शैले स्थलजलबिलप्रायपुञ्ज निकुञ्ज कृत्वा कृत्वा हृदयमसकृज्जीविताशाविहीनम् । शोकेनान्तर्विहितवसतिः प्रस्खलद्वाष्पवर्षी रामः सीतां धृतिमिव वने हारितां नाससाद ॥ १६१ ।। सरः फुल्लैाप्तं विकचकुमुदेन्दीवरवनै रजःपुष्पालेख्यं स खलु निखिलेन्दुद्युतिमुखः । वहन्नन्तद्वेषादिव कमलखण्डेषु विमुखः क्षपामन्तश्चक्रायसदृशवृत्तिः समनयत् ॥ १६२ ॥ दृष्ट्वा श्रियः पुत्रमवाप्तघोरकबन्धरूपं स विमोच्य शापात् । राकावियोगग्लपितः शशीव ययौ तदुक्तेन पथा हितेनें ॥ १६३ ॥ शनैरवाप्याचलमृष्यमूकं सुग्रीवनाम्ना प्लवगेश्वरेण । परस्पराबद्धहितप्रतिष्ठं स प्राप विख्यातबलेन सख्यम् ॥ १६४ ॥ तस्याग्रजेनातिबलेन राज्यं हृतं समाकर्ण्य स वालिनाना । चकार मित्रोपकृतिप्रयत्नसंनद्धधीस्तन्निधने प्रतिज्ञाम् ॥ १६५ ॥ किष्किन्धामेत्य रामः प्रथितभुजबलं वालिनं शौर्यशाली सुग्रीवाहूतमुग्राननविशिखहतं कीर्तिशेषं चकार । १. 'परमः ख. २. 'मुझे ख. ३. 'सखल' ग-ध. ४.'च तेन ख. "किष्किन्दा क-ख-ग-घ.
६२ काव्यमाला। संनद्धः सप्तसिन्धूद्धतसलिलचयाशान्तिसंतोषवृद्ध्या . संध्याध्यानाय धीरः क्षणगमनपटुर्यः सदैवात्र दृष्टः ॥ १६६॥ सुग्रीवं हनुमन्मुखैः परिवृतं राज्येऽभिषिच्य खयं कृत्वा वालिजमङ्गदं तदनुगं तद्यौवराज्योर्जितम् । रामः प्रस्रवणे गिरौ समनयद्विद्युत्प्रभापिङ्गल- श्मश्रुव्याकुलमेघसंघकलिले कालं वियोगाकुलः ॥ १६७ ॥ संरम्भोर्जितगर्जितं जलधरं क्षिप्रोद्यतां विद्युतं खद्योतस्फुटनं कदम्बपवनं तां सस्मितां केतकीम् । सेहे सर्वममोघमेघचरितं रामः सुहृन्निर्मितां सीतान्वेषणसंविदं धृतिमयीमाशां निवेश्याशये ॥ १६८ ॥ ततः प्रयाते घनमेघकाले प्रशान्तबाष्पेषु दिशां मुखेषु । मित्रोदयश्रीरिव हर्षहेतुः पद्माकराणां शरदाजगाम ॥ १६९ ॥ उद्योगकालेऽपि निरर्गलस्य वक्तुं सुरौघैः सुहृदच्युतस्य । क्रुद्धेन सौमित्रिरथाग्रजेन ययौ विसृष्टः कपिराजधानीम् ॥ १७० ॥ श्रीभोगसक्तं दयितानुरक्तं हरीश्वरं विस्मृतमित्रकार्यम् । अभ्येत्य लज्जावनतं जगाद रामानुलः कोपकषायनेत्रः ॥ १७१ ॥ आश्चर्य निजकार्यकालविततः पर्याप्ततात्पर्यवा- कौौदार्यमनार्य व कुलस्य चक्लेशाश्मशय्याश्रयम् । उच्छिष्टं पि सि प्रियाघरातुं स्यालग्नगं मधु प्रातः तः केरमहृदयाये पाषाणपट्टे कृषिः ॥ १७२ ॥ सोल्लासाः कृपालासकूर्मशोट ग्लाहिजिह्वालता- संध्यावर्णपलाशपर्णकरिणीकर्णानुकारामाः। विद्युन्नृत्तनरेन्द्रवृत्तवनिताचित्तासबोमनधी- दुर्नीतोन्नतिचारणस्तुतिकलालोलाः खरर पीतयः ॥ १७३ ।। स लक्ष्मणेनेति विडम्ब्यमानः खदोषवैलक्ष्यविषाणचित्तः । प्रसाद्य तं संवरणप्रणामैश्चके खसैन्यं विजयाय सज्जम् ॥ १७४।- १. 'सोल्लासंकृकलास' का-घ.
७ श्रीरामावतारः] दशावतारचरितम् । नम्रः समभ्येत्य ततः कपीन्द्रः प्लवंगसङ्घः परिपूरिताशः। राम प्रसादाभिमुखं विधाय दिशो विजेतुं बलमादिदेश ॥ १७५ ॥ सीतान्वेषणशासनप्रणयिनां दर्पण संसर्पतां संपूर्णे भुवने कपिक्षितिभृतां सैन्येन दिग्व्यापिना । मेघग्रस्तमिवाम्बरं घनतमःसंघातपीतं दिनं दिक्चक्रं च बभूव विन्ध्यशिखरप्राकारसंपूरितम् ॥ १७६ ॥ वेगेनाङ्गदमैन्दनीलहनुमन्मुख्याः प्लवङ्गास्ततः प्राप्ता दक्षिणसिन्धुमुद्धततरत्वङ्गत्तरङ्गोत्तरम् । आलिङ्गन्तमिवाम्बरप्रणयिनीं गङ्गां दिगन्तादिमि(!)- दृष्ट्वा वन्ध्यपरिश्रमाः प्रमुमुचुश्चिन्तानिमग्ना धृतिम् ॥ १७७ ॥ ततोऽब्रवीद्वालिसुतः समुद्रसंदर्शनत्यक्तजवाभिमानः । सीता न लब्धाब्धिरयं न लवयः कपिप्रभोः कः सहते प्रकोपम् १७८ इहैव नस्त्यक्तपरिग्रहाणां युक्तं तपः संगलितग्रहाणाम् । भोऽभिमाने विततेऽवमाने वनं विना भेषजमस्ति नान्यत् ॥ १७९ ॥ मिथ्यापुत्रकलत्रमित्रभरणारम्भाभियोगग्रहै- राशापाशजुषां प्रभुप्रणयिनां सेवाव्रतैः शुष्यताम् । अन्ते हन्त दिशन्ति संततमहामोहप्ररोहावहा वेश्याविभ्रमचञ्चला भ्रममदोन्मत्तक्रमं संपदः ।। १८० ।। धन्यो जटायुर्जगति प्रवीरो जीवत्यलोमोज्झितजीवितोऽपि । छिन्नस्य यस्योचितराजकार्ये लोके प्ररूढा किल कीर्तिलक्ष्मीः ॥१८॥ इत्यङ्गदेनाभिहिते समीपं संपातिनामा शनकैरवाप्तः । प्लवंगमान्गृध्रपतिर्जगाद नवोद्भवत्तत्क्षणलक्ष्यपक्षः ॥ १८२ ॥ प्राता जटायुर्मम पूर्वमर्कपथे ब्रेजन्मत्सहितो जवेन । स्पर्धानुबन्धी स मया खपक्षैः संरक्षितः प्रज्वलिताखिलाङ्गः ॥ १८३ ।। १. 'सेन्द्र' क-ख. २. 'तरसोद्धतम्' क-ग-घ. ३. 'वेश्याविभ्रममाशु शोकनिवहं विद्युद्विलोलाः श्रियः' ख... ४. 'जटायुः सफलाततायुः' ख. ४. 'जटायुः सफलाततायुः' ख. ५. 'व्रजन्सत्वहितो मदेन' क.
काव्यमाला। निर्दग्धपक्षं पतितं क्षितौ मां दिवाकराख्यो मुनिरित्युवाच । भविष्यसि प्रौढगतिः सपक्षस्त्वं रामवृत्तामृतपूर्णकर्णः ॥ १८ ॥ इहाद्य मे रामकथामृतेन पक्षैः प्रजातैर्विगतः स शापः । पश्यामि लकोपवने निरुद्धां सीतां निगंद्येति जगाम गृध्रः ॥ १८५॥ महामतेर्जाम्बवतो मतेन प्लवंगमैः सादरमङ्गदायैः । अभ्यर्थितोऽब्धेस्तरणेऽभिमानी समीरसूनुर्ववृधे हनूमान् ॥ १८६ ॥ महेन्द्रमारुह्य गिरिं स पादभरेण गुर्वीकृतमुत्पपात । आदातुमिच्छन्निव नाकचुम्बि दिनेशबिम्ब पुनरम्बरापात् ॥ १८७ ।। खच्छाम्बुप्रतिबिम्बितेऽस्य वपुषि क्रूरप्रकोपाकुलै- दंष्ट्राकोटिविपाटनेन मकर्मिथ्याभियोगे कृते । दूरोद्गारितदूरुवात विधुतस्फीतैस्तंटाम्बुस्फुट- च्छुक्तिव्यक्तसृतैहास जलधिर्मुक्तासमूहैर्मुहुः ॥ १८८ ॥ व्रजन्स धीरः शतयोजनान्तं क्रमेण तद्भासविवर्धितास्याम् । जधान घोरामथ सिंहिकाख्यां क्षपामिवार्कस्तमसो जनित्रीम् ॥ १८९॥ मानाय मैनाकमथार्णवेन विश्रान्तये रत्नगिरि विसृष्टम् । करेण संस्पृश्य स लजिताब्धिलङ्काङ्कशैलस्य तटे पपात ॥ १९० ॥ अथ निशि शशिहासोल्लासशुभ्रासु दिक्षु स्फुटमाणिकिरणेषु(वे.)तत्प्रियान्तःपुरेषु । प्रतिपदमतियत्नात्तेन सर्व विचित्य द्रुततरमभिपत्य खैरमाभाष्य सीताम् ॥ १९१ ॥ सुरतरुवैनिकाया मूलभङ्गं विधाय प्रविधुतकुलशैलान्किकरान्मन्त्रिपुत्रान् । सुरपुरभयदीक्षादक्षमक्षं च हत्वा. खयमभिसरता तामिन्द्रजियुद्धभूमिम् ॥ १९२ ॥ तृणमिव वहता तच्छद्मना ब्राह्ममस्त्रं हुतवहहुतलङ्कातङ्कनिःशङ्कशक्त्या । १. 'तटान्त' ख. २. 'वनिकायों क-ख-ग.
७ श्रीरामावतारः] दशावतारचरितम् । ६५ कृतमिह कपिना यत्तच्च देवेन दृष्टं तदपि कुमतिसृष्टं दैवदिष्टं न नष्टम् ॥ १९३ ।। (तिलकम्) यद्भक्तियुक्तं विनयप्रमुक्तं विज्ञाप्यसे शक्तिलवेन देव । आकुञ्चितभ्रूभ्रमकारि वक्र न तत्र कार्य स्वहितं विचार्यम् ॥ १९४ ॥ श्रुत्वैतदुक्तं प्रणधिव्रतेन रक्षःपतिः क्ष्मां क्षणमीक्षमाणः । न किंचिदूचे चरणाञ्चलेन समुल्लिखन्स्फाटिकपादपीठम् ।। १९५ ।। अथ प्रभाते किल मन्त्रिमुख्यनिषेव्यमाणं क्षणदाचरेन्द्रम् । माता सभाग्रस्थितमभ्युपेत्य विभीषणः संप्रति तं बभाषे ॥ १९६ ।। अत्यल्पकेऽपि व्यसनांशलेशे न संवृतिः क्रियते प्रयत्नात् । । तेषां प्रमादादवमानपूर्णाः सत्तापवादा विपदो भवन्ति ॥ १९७ ॥ न धीमतां घावति घीः कुकार्ये क्षणादकार्याद्विरमन्ति भव्याः । । कुर्वन्त्यकार्य विरमन्ति नैव हितं न शृण्वन्ति च दैवदग्धाः ॥ १९८ ॥ पराभवं यत्स कपिस्तवापि चकार सोऽयं कुनयप्रभावः । सीतापहारप्रभवावमाने तत्त्याग एव प्रशमाभ्युपायः ॥ १९९ ॥ अहो नु चारैर्न निवेदितं भो रामः समुद्रस्य तटीमवाप्तः । यद्धृत्यसुग्रीवविधौ विधेयः स मारुतिस्तत्पृतनापदातिः ॥ २० ॥ प्रसाद्यतामात्महिताय रामः सीतार्पणेनैव स शान्तिमेति । अयं प्रमादस्य शरावपातः(१) सीतापरित्यागकरावलम्बः ॥ २०१ ॥ हितं तवैते न वदन्त्यमात्यास्त्वद्भूलताधीनविभूतिभोगाः। चित्तग्रहाय प्रियतामवाप्तुं कर्णानुकूलं कथयन्त्यतथ्यम् ।। २०२ ॥ सत्ये शङ्काचकितमतयो वञ्चकग्रामलीनाः शैलस्थूलोपकृतिविफलाः खल्पदोषेऽतिकोपाः । मन्त्रोद्विनाः पिशुनवचना धर्मनर्मोक्तिहृष्टाः साधुद्विष्टाः प्रखलसुहृदः सर्वदा भूमिपालाः ॥ २०३ ॥ १. "विनति' ख. २. 'मुख्यैः' ख. ३. 'संप्रहित' खपा. ४. 'दुष्टाः' ख. छ. योगाः ख. 'दुष्टाः' ख.
काव्यमाला। इति ब्रुवाणं कुशलानुबन्धाद्विभीषणं भ्रूभ्रमणप्रकोपः । आकृष्य खङ्गं चरणाञ्चलेन न्यपातयन्निर्विकृति दशास्यः ॥ २०४ ॥ स वेत्रिभिस्त्रासितसर्वलोकैर्निष्कासितः सज्जनसंश्रयार्थी ।. गुणाभिसारी गगनं विगाह्य जगाम रामस्य समीपमेव ॥ २०५॥ अन्येधुरन्तःपुरसौधशृङ्गस्थितं समेत्य प्रणिधिर्दशास्यम् । सुग्रीवसैन्यार्णवमध्यचारी जगाद विज्ञातसमस्ततत्त्वः ॥ २०६॥.. इतः प्रयातस्य विभीषणस्य प्रणामिनः पादनखांशुपट्टम् । रामेण मौलौ प्रविसार्य दत्तो लङ्काधिपत्ये प्रथमाभिषेकः ।। २०७ ॥ मन्त्रान्तरङ्गत्वमतीव यातः स तस्य निर्व्याजहितोपदेष्टा । न बान्धवत्वं सहजं जनस्य स एव बन्धुः किल योऽनुरक्तः ॥ २०८॥ विभीषणस्यानुमते त्रिरात्रं रामेऽब्धितीरेऽथ कृतव्रतेऽपि । गाम्भीर्यनिःस्पन्दतयाम्बुराशिन किंचिदूचे तैरणाभ्युपायम् ॥ २०९ ।। रामस्य चापाक्रमणेन सिन्धुर्भयादथामन्यत सेतुबन्धम् । मृदोरवज्ञामुखभङ्गकारी लोकः किलायं भयभोज्य एव ॥ २१० ॥ अथाम्बुधौ मन्दरतुल्यशैलैः सेतुर्निबद्धोऽद्भुतकृत्प्लवंगैः । प्रभावशक्त्या दृढनिश्चयानां शिलाः प्लवन्ते सलिले किमन्यत् ॥२११॥ रक्षःकुले सेतुरभावहेतुर्दैवेन सृष्टः सलिलपचारः । नूनं स निर्विघ्नगतागताय लङ्कापदां राघवसंपदां च ॥ २१२ ॥ तीर्वार्णवं सेतुपथेन रामस्ततस्त्रिकूटस्य तटे निविष्टः । प्लवंगसैन्येन धनेन यस्य त्रस्ता इव वापि दिशः याताः ।। २१३ ॥ इत्युक्त्वा प्रणिधौ मनागपसृते लङ्कापति तरं ध्यायन्मानुषसेवक क्षतकुलं प्रम्लानमानाननः । संकल्पैरपि दुष्करेऽद्भुतनिधौ सेतौ निबद्धेऽम्बुधौ लज्जाद्वेषविमर्शकोपकलनाव्याकीर्णचित्तोऽभवत् ॥ २१४ ॥ अथोच्चचारोद्धतयुद्धशंसी भैरीनिनादः क्षणदाचराणाम् । शिलाहताट्टालपरम्पराणां झांकाररावश्च घनः कपीनाम् ॥ २१५ ॥ १. 'तोयाय' ख. २. 'तरणे ख.३. 'भीरी' क-ख-ग-घ.
७ श्रीरामावतारः] दशावतारचरितम् । युद्धे प्रवृत्तेः कपिराक्षसानां द्रुमाद्रिशस्त्रास्त्रसमाहता भूः । पुनः प्रजाताखिलदाहशङ्का लङ्का चकम्पे भयविह्वलेव ॥ २१६ ॥ ततः प्रतीहारपतिः प्रविश्य विद्युन्मुखाख्यः क्षणदाचरेन्द्रम् । व्यजिज्ञपत्संगररङ्गभङ्गं प्रत्यक्षमालोक्य निशाचराणाम् ॥ २१७ ॥ देवद्वन्द्वरणे प्रसक्तसुभटे तुल्यत्वमासीत्क्षणं रक्षोवानरसैन्ययोरथ मनाग्ग्लाने बले रक्षसाम् । वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ।। २१८ ।। दिव्यप्रभावौ गरुडेन साक्षात्स्पृष्टौ विनष्टाखिलपाशबन्धौ । अथोत्थितौ दाशरथी वृथैव किं पौरुषैर्दैवमलङ्घय मेव ॥ २१९॥ लब्धाधिकोत्साहबलैः प्लवंगैर्निपीड्यमानेषु निशाचरेषु । प्रहस्तधूम्राक्षमहोदाराद्याः प्राप्ता रणे मन्दबलत्वमेव ।। २२० ॥ भग्नेऽथ सैन्ये क्षणदाचराणां मानानुबन्धादविलुप्तधैर्याः । हस्ताः प्रहस्तप्रमुखाः क्रमेण ते संगरोर्वीकुलभूधरेन्द्राः ॥ २२१ ॥ त्वदाज्ञया देव विबोधनाय प्रमृद्यमानोऽपि गजाश्वसैन्यैः । अत्यन्तनिद्रातरुणीकरालो न कुम्भकर्णो विजहाति निद्राम् ॥ २२२ ॥ श्रुत्वा प्रतीहारगिरं दशास्यः संख्ये तनुत्यागसमुद्यतोऽभूत् । चित्तानुवृत्तान्तसहायहीनं कस्येष्टमैश्वर्यमरण्यतुल्यम् ॥ २२३ ॥ स्नानार्चनादि प्रविधाय तूर्ण कार्यानुरोधादथ कुम्भकर्णः । श्रुत्वाखिलं रामविरोधवृत्तं पौलस्त्यमेत्य प्रणतोऽभ्युवाच ॥ २२४ ॥ अहो महान्दुःसहदुर्ग्रहोऽयं सन्मन्त्रिमन्त्रैर्न निवारितस्ते । क्रोधेन्धने किं भवता स्मरामौ हुता विभूतिर्गणिता न नीतिः ॥२२५॥ लीलानिबद्धाम्बुधिमध्यसेतोः शक्तिर्मनुष्यस्य न चिन्तिता किम् । भूभङ्गभीतिस्तिमिताम्बुराशौ यस्याज्ञया भूमिधराः प्लवन्ते ॥ २२६ ॥ १. 'म्लाने क-घः २. च सहसा' ख. ३. 'तथैव ख... 'मदोद्धतास्ते विविध रणोवीम् ख-ग-घ. :: ..
६८ काव्यमाला। स दीर्घदर्शी हितकृन्मनीषी विभीषणः किं भवता निरस्तः । मन्त्रागमज्ञं प्रथमं निहत्य पश्चाद्विषं भक्षितमप्रमेयम् ॥ २२७ ॥ व्यसनपतनसक्तिस्तद्विरामेऽप्यसक्ति- हितसचिवविरक्तिर्दुर्जनेष्वेव भक्तिः । उचितमतिवियुक्तिर्दुग्रहाणाममुक्तिः क्षितिपरिवृढलक्ष्मीसंक्षये लक्षणानि ॥ २२८ ॥ श्रुत्वानुजोक्तं हितयुक्तमेतन्नक्तंचरेन्द्रो न विवेद युक्तम् । निपातकाले किल नैव बुद्धिर्भवेद्यया मोहरजोविशुद्धिः ।। २२९ ।। स तं जगाद प्रतिबोधितोऽद्य शिक्षाप्रदानाय न पण्डितस्त्वम् । मिथ्या भुजौ भूरिभुजस्तवेमौ भजख गत्वा घनमोहनिद्राम् ॥ २३० ॥ इत्यग्रजेनाभिहितो विचिन्त्य प्रभावशक्तिं भवितव्यतायाः। संनद्धबुद्धिर्निधने रिपूणां न कुम्भकर्णस्तमुवाच किंचित् ॥ २३१ ।। संप्राप्ते कुम्भकर्णे रणभुवमभवायाससंमन्त्रितानां भने सैन्ये कपीनां दिशि दिशि रजसा भूयसा संवृतायाम् । तत्कायच्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारै- रके साकारराहुग्रहणसमयधीः खेचराणां बभूव ॥ २३२ ॥ ततः प्रविश्याविरलपहारो विदीर्णकायः सुतशोणितौधः । नक्तंचरः कुञ्जरकर्णनामा व्यजिज्ञपत्संसदि राक्षसेन्द्रम् ॥ २३३ ॥ देव त्वदाज्ञापरुषाक्षराणि ध्यायन्कपीनां युधि कुम्भकर्णः । चक्रे महन्मन्युमनन्तमन्तः प्रारब्धकल्पान्तकृतान्तलीलः ॥ २३ ॥ भमाशङ्कं दधाने जैगति स गगनासङ्गितुङ्गोत्तमाङ्गः पन्यो भूकम्पकारी भयनिबिडमिलद्वारणायूंषि पिंषन् । सुग्रीवं विग्रहोगं लघुविहगमिवादाय मुष्टिग्रहेण ग्रीवाकर्वभा द्रुमवदवगतिव्याहतानङ्गदाद्यान् ॥ २३५ ।। क्षिप्रं विभीषणमतेन निकृष्टचाप- सं राघवः खकटकोपरि भूषराभम् । 'संवतानाम्ख. २. 'प्रारम्भ' ख. ३, "त्रिजगति' ग-यः ७ श्रीरामावतारः] दशावतारचरितम् । बाणैर्निपात्य घनकायभरावपिष्ट- रक्षःकुलं भुवनविस्मयमाततान ॥ २३६ ॥ हते विकीर्णे युधि कुम्भकर्णे निकुम्भकुम्भादिषु च च्युतेषु । मानानुबन्धादपराङ्मुखानां क्षणं क्षयोऽभूत्क्षणदाचराणाम् ॥ २३७ ॥ शोकप्रकोपानललिह्यमानः कुलक्षयादिन्द्रजिदभ्युपेत्य । सैन्यं कपीनां निखिलं क्षणेन स रामसुग्रीवमुखं जघान ॥ २३८ ॥ हतेषु सर्वेषु हरीश्वरेषु कण्ठावकीर्णक्षणजीवितेन । अभ्यर्थितो जाम्बवता हनूमानेको विसृष्टः कपिजीविताप्त्यै ॥ २३९ ।। स योजनशतत्रयीं दिवि विलय भाखत्प्रभः सपुष्करमपाहरत्सकलमौषधिक्ष्माधरम् । यदग्रसरसौरभैरभवदाप्तजीवं क्षणा- त्सराघवकपीश्वरं हैरिसुसैन्यमत्यद्भुतम् ॥ २४० ॥ मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं कीर्ति हन्ति कलङ्कयत्यपि कुलं सोत्कर्षविद्वेषवान् । यद्यत्कर्म विधीयते सुमतिना कार्यानुबन्धोद्यमै- स्तत्तत्सर्वमलक्षितः क्षयपति क्षिप्रं विरुद्धो विधिः ॥ २४१ ।। अथेन्द्रजित्सर्वजगज्जयोग्रब्रह्मास्त्रसिद्ध्यै विहितापचारः। वनं समागत्य निकुम्भिलाख्यं यागोग्रवह्नौ रुधिरं जुहाव ।। २४२ ॥ यागार्धविघ्ने युधि वध्य एष नैवान्यथेत्याशु विभीषणेन । उक्ते हिते राघवशासनेन तं लक्ष्मणो योद्भुमथाजगाम ॥ २४३ ॥ अथेन्द्रजिल्लक्ष्मणयोर्मदेन युद्धे प्रवृत्ते कपिराक्षसानाम् । परस्परं दीर्घमहास्त्रदीप्तं सैन्यद्वयं प्रेक्षकतामवाप ॥ २४४ ॥ क्रोधाकुलेनेन्द्रजिता प्रसह्य शक्त्याथ हृन्मर्मणि दारितोऽपि । तं पत्रिणा कण्ठनिकृत्तवत्रं सौमित्रिराश्चर्यनिधिश्चकार ॥ २४५ ॥ श्रुत्वैतदुप्राशनिपाततुल्यं शोकेन निर्मिन्नधृतिर्दशास्यः । व्याप्तः स्फुटद्भिः कटकाग्ररत्नैः पपात कल्पान्त इवाचलेन्द्रः ॥ २४६ ॥ १. 'मुखान्' क-ख. २. 'वतीर्ण' ख. ३. 'प्रवरसैन्य' ख. ४. 'सुमतिभिः ख. दशा०७ काव्यमाला। स लब्धसंज्ञः प्रियपुत्रशोके भ्रातृक्षयस्योपरि मर्मलग्ने । सीताभिलाषं सहसा विहाय बबन्ध चित्ते मरणाभिलाषम् ॥ २४७ ॥ मात्रा भुजेन सकलोद्यमदक्षिणेन पुत्रेण सर्वगुणसंगमवल्लभेन । मानेन मौलिमणिना रहितस्य जन्तोः किं जीवितेन शितशल्यताचि(यि)तेन ॥ २४८ ॥ प्राप्तस्ततः समरभूमिमभग्नमानो भृत्यानुजात्मजनिकृत्तशरीरपूर्णाम् । लकेश्वरः पृथुविषादभरश्रमेण विश्रान्तये निजवपुःक्षयमाचकाङ्क्ष ॥ २४९ ॥ संनद्धे दशकंधरे युधि भयव्याघूर्णदिङमण्डले पैशाचाश्वरथस्थिते हरिरथारूढे च रामे पुनः । बाणेषु प्रसरत्सु देहदलनव्यापारपाराप्तये टेकस्य खतनुक्षये रिपुवधे चान्यस्य लोभोऽभवत् ॥ २५० ॥ अग्रे शरीरनिरपेक्षमरक्षिताङ्गं रक्षःपति घनरणक्षयमीक्षमाणः । रामः क्षणं स्थगितनिश्चलचापपाणिः साश्चर्यशौर्यभरविस्मयवान्प्रदध्यौ ।। २५१ ॥ कायः कैलासमूलोद्धृतिविपुलशिलोल्लेखविख्यातसार- स्तेजः शक्रेभकुम्भस्थिरशरशकलक्लेशनिःश्वासदीप्तम् । मानश्चाशेषलोकेश्वरमुकुटतटीलालिताज्ञाविलासः सर्व साश्चर्यमस्य त्रिभुवनजयिनः पापशापेन नष्टम् ।। २५२ ।। ध्यात्वेति निर्विवरमार्गणवर्षिणोऽस्य दष्टौष्ठमाकुलितकुण्डलदीप्तगण्डम् । रामः शरेण दहनाचितदुनिमित्त- क्रूरार्धचन्द्रवदनेन शिरश्चकर्त ॥ २५३ ॥ १. तेन रण' ख. २. 'शताश्रितेन' ख. ३. 'लोकस्य' क-ग.
७ श्रीरामावतारः] दशावतारचरितम् । रोमाञ्चसंचरणपीनकपोलभित्ति यद्यत्पपात वदनं दशकंधरस्य । आजन्मनोऽन्यमुखतत्क्षणदर्शनेन प्रीत्येव विस्मयमयद्युति तत्तदासीत् ।। २५४ ॥ दृष्ट्वा च्युतानि वदनानि नव क्रमेण कण्ठस्खलत्कनकपुङ्खशराचितानि । व्याप्तानि दीप्तहरहोमहुताशलेशैः संस्मारितानि दशमं दशकण्ठवक्रम् ॥ २५५ ॥ कृत्ते च मूनि दशमे दशशेखरस्य प्रत्यक्षदृष्टवदनच्युतमन्युवह्निः । शान्तोऽपि कण्ठविगलद्धनशोणितौघै- रासीत्सशेष इव कुण्डलरत्नभाभिः ॥ २५६ ।। हत्वाथ रामः समरे दशास्यं विभीषणं तद्विभवेऽभिषिच्य । लङ्काकलङ्केन परस्थलस्थां सीतामवाप्तामपि नाभ्यनन्दत् ॥ २५७ ।। तीने वियोगदहने तनुतां गतापि भार्पिता विषमधाम्नयनपायवह्नौ । कोपानले निपतिता विपुलेऽथ सीता शुद्ध्यै विवेश हिमसंहतिशीतमग्निम् ॥ २५८ ।। पतिव्रतां तां खयमेव दोर्ध्यामादाय रामाय ददौ हुताशः । स लोकपालस्तुतशीलसत्त्वां तां प्राप्य लक्ष्मी प्रययावयोध्याम् ॥२५९॥ तत्र प्रणामैर्भरतेन हर्षबाष्पोभिषेकार्चितपादपद्मः । सुग्रीवलङ्कापतिसेव्यमानः स प्राप राज्यं त्रिदशाभिषिक्तः ॥ २६० ॥ काले प्रयाते प्रणिधिः प्रजानां वृत्तान्तवेदी विजने समेत्य । व्यजिज्ञपह्रतरप्रवासे लोकापवादं जनकात्मजायाः ॥ २६१ ॥ जायां स जानन्नपि शुद्धशीलां लोकापवादप्रसरासहिष्णुः । सौमित्रिमादिश्य सगर्भभारां तत्याज वाल्मीकितपोवने ताम् ॥ २६२ ।। १. 'संतति' ख. २."भिषेकाञ्चित' क-ग.
काव्यमाला। नित्यादुःखे जनजीवितेऽस्मिन्सुखान्यनित्यानि सयौवनानि । धनानि विद्युद्द्युतिचञ्चलानि क्षणक्षयाणि प्रियसंगमानि ॥ २६३ ॥ बाल्ये भूमितलेऽर्पिता तदनु च क्लिष्टा वने भीषणे पौलस्त्येन हृता भयक्षतधृतिर्ब(ती रु)द्धाथ लङ्कावने । लब्धाशुधनले च्युता पुनरपि त्यक्ता सती जानकी संसारे सततानुपातिनि नृणां चिकित्यदुःखस्थितिम् ॥ २६४ ॥ आश्वास्यमाना जनकोपमेन वाल्मीकिना दीनदयान्वितेन । कालं तनुत्यागमनोरथैः सा नित्याश्रुपाताकुचा निनाय ॥ २६५ ।। सासूत भर्तृप्रतिबिम्बरूपौ पुत्रौ तनुत्यागविशेषविघ्नौ । वाल्मीकिना क्षत्रियसंस्क्रियाभिः कुशो लवश्चेति कृताभिधानौ ॥२६६॥ प्रवर्धमानौ मुनिना स्वकाव्यमध्यापितौ गीतिविभक्तवर्णम् । पूर्वं भविष्यच्चरितं निबद्धं रामायणं कर्णरसायनं तौ ॥ २६७ ॥ निरास सीताविरहे द्वितीये शशीव रामस्तनुतामवाप्तः । प्रदीप्तदुःखामिचितां विवेद श्मशानभूमिप्रतिमां विभूतिम् ॥ २६८ ॥ किं भोगरोगैः किमयत्नरत्नैः किं नन्दनैश्चन्दनचन्द्रसौधैः । वियोगशल्यैर्हृदयेऽवसन्ने किं नित्यशोकेन कुजीवितेन ॥ २६९ ॥ कदाचिदास्थानसभासनस्थं रामं प्रहारक्षतमस्तकः श्वा । व्यजिज्ञपद्देव यतिव्रतेन हतोऽस्मि विप्रेण विनापराधम् ॥ २७० ॥ भिक्षुर्विलक्षः क्षतकारणं तत्पृष्टोऽपि किंचिन्न यदाचचक्षे । तद्दण्डमूकेषु सभास्थितेषु तदा पुनः प्राह स निश्चितं श्वा ।। २७१ ।। देव द्विजन्मा खमठेऽधिकारी पुराहमासं विगतस्पृहोऽपि । केनाक्रमेणोपग(न)ता न जाने तथापि मे निन्द्यतमा श्वजातिः॥२७२॥ कालञ्जरे देवमठाधिकारी विधीयतामेष विवेकहीनः । न यस्य कोपप्रशमेऽपि शक्तिर्लोभप्रहाणेऽपि स किं समर्थः ॥ २७३ ॥ एकोदरा मोहमहीप्रजाता मदरसरक्रोधविषादलोमाः । एकानुमानेन भवन्ति जन्तोः सर्वे सदा स्थूललघुक्रमेण ॥ २७४ ॥ १. 'काव्य ख.
७ श्रीरामावतारः]] दशावतारचरितम् । श्रुत्वैतदुद्दामगजाधिरूढं भिक्षु नृपः स्फीतमठाधिनाथम् । चक्रे चलच्चामरचारुचञ्चद्विकुञ्चितोष्णीषविलासहासम् ॥ २७५ ।। धर्मस्य गोप्ता च्यवनेन रामः प्रीत्यार्थितः क्रूरतरासुरस्य । त्रैलोक्यशत्रोलवणाभिधस्य वधाय शत्रुघ्नमथादिदेश ॥ २७६ ।। शूलायुधे तेन हतेऽथ दैत्ये तत्कानने काञ्चनतोरणाङ्का । दिव्येव शत्रुघ्ननिवेशिताभूत्युरी प्रथार्हा मधुराभिधाना ।। २७७ ।। काले प्रयाते सुतमष्टवर्ष स्कन्धे समादाय मृतं द्विजन्मा । उच्चैः प्रचुक्रोश सभाङ्गनापद्वारान्तिके वेत्रिभयानभिज्ञः ॥ २७८ ॥ अयं शिशुर्मे स्थविरस्य सूनुर्व्यसुत्वमाप्तस्तिलतोयदाता । नृपापचारेण भवत्यवश्यमकालमृत्युव्यसनं प्रजानाम् ।। २७९ ॥ धर्मद्रोहिणि विद्रुताकरुणे क्षुद्रैः प्रजोपद्वै- धूर्भुक्तधने प्रधानविमुखे विज्ञप्तिनिद्राजुषि । कायस्थैरजितैर्जिते क्षितिपतौ लब्धोदयैरिन्द्रियै- टुर्भिक्षानलचौरवारिमकरैर्दीनो जनः पीड्यते ॥ २८० ॥ नाथे दिक्षु भगीरथे शुभकथे पुण्याप्ततीर्थप्रथे क्रान्तखर्गपथे पृथौ दशरथे याते यशःशेषताम् । कष्टं नष्टधृतिः प्रकृष्टविपदामाधारभूताधुना देवी मज्जति राजदूंष्कृतिभरै राभिभूतेव भूः ॥ २८१ ॥ विप्रार्तनादेन विचार्यमाणकारुण्यदैन्यव्यसनेऽपि रामे । सम्येषु मूकेषु मुनीश्वरेषु समभ्यधान्नारद एव वाग्ग्मी ॥ २८२ ॥ शूद्रस्तपस्तीव्रतरं करोति शम्बूकनामा दिशि दक्षिणस्याम् । स एव वर्णाश्रमधर्मलोपः पुत्रक्षये कारणमग्र्यजातेः ।। २८३ ।। श्रुत्वोदितं नारदवाक्यमेतत्स्मृताप्तमारुह्य विमानराजम् । अदक्षिणं धर्मपथस्य राजा गत्वावधीदक्षिणदिस्थितं तम् ॥ २८४ ।। रामासिपट्टेन निकृत्तकण्ठे शूद्वे विमानेन दिवं प्रयाते । निजात्मजे तत्क्षणलब्धजीवे ममार्ज निन्दा स्तुतिमिर्द्विजातिः ।। २८५॥ १. 'करणे' का. २. 'धनैः' क-ग-घ. ३. 'दुष्कृत' ख. ४. 'श्रुत्वोचितं' ख.
७४ काव्यमाला। हैमी कृता तस्य सुवर्णकारैरभिन्नरूपा रघुराजपत्नी । अभूत्परित्यागधनावमानमन्युव्रता मौनवतीव सीता ॥ २८६ ॥ वाल्मीकिशिष्यानुगतौ कुमारौ रामात्मजौ तत्र लवः कुशश्च । अगायतां श्रोत्रसुखं नृपाग्रे खरेण रामायणमादिकाव्यम् ॥ २८७ ॥ पुत्रौ परिज्ञाय मुनीन्द्रवाक्यात्तौ तुल्यरूपानुभवेन रामः । करोतु सीता पुनरेव शुद्धिमित्यर्थनां तत्र मुनेश्चकार ।। २८८ ॥ वाल्मीकिशिष्यैरथ रामपत्नी तां प्रापिता यज्ञभुवं क्षणेन । लज्जावती राजसहस्रमध्ये मन्युप्रगल्भां गिरमुज्जहार ॥ २८९ ॥ यद्यार्यपुत्रान्न परः प्रेमृष्टश्चित्तेन वाचा मम कर्मणा वा । तत्सत्यसंकल्पगुणेन तेन ददातु माता वसुधावकाशम् ॥ २९० ॥ अथोत्थिता मूर्तिमती क्षितिस्तामङ्के समादाय तलं विवेश । काकुत्स्थहृद्भङ्गभियेव काञ्च्या सुताररावेण निवार्यमाणा ॥ २९१ ॥ रामस्ततः प्राप्तवधूनिराशः पातालसंहारविलाससज्जः । निवारितः पद्मभवेन साक्षात्लेहार्द्रतां पुत्रयुगे बबन्ध ॥ २९२ ।। अथाश्वमेधे विधिभाजि पूर्णे कालेन साक्षाद्विजने समेत्य । संस्मारितो वैष्णवधाम रामः सहानुजैर्दिव्यपदं प्रपेदे ॥ २९३ ॥ अथ स भगवान्विष्णुः कृत्वा जगन्निरुपप्लवं दशमुखभयं हृत्वा हर्षप्रदस्त्रिदशश्रियः । पवनतनयं धृत्वा धीरोन्नतं सविभीषणं भुवनभवने कीर्तिस्तम्भं जगाम सुधाम्बुधिम् ।। २९४ ।। इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीरामावतारः सप्तमः । श्रीकृष्णावतारोऽष्टमः । अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसंतताः । मज्जन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ।। ॥ १. 'प्रसृष्टः क-ग-घ.
७५ ८ श्रीकृष्णावतारः] दशावतारचरितम् । युगदीर्घ प्रयातेऽथ काले दिनक्ष(ग)णक्रमैः । कैटभारं पुनर्भूमि रार्ता शरणं ययौ ॥ २ ॥ सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् । विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥ ३ ॥ सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः । मुनिभिर्नारदाद्यैश्च प्रैणतैः परिवारितम् ॥ ४ ॥ पादसंवाहनव्यग्रां श्रियं प्रेमामृतदे। वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥ ५॥ मही मरकतश्यामा व्यक्तमौक्तिकभूषणा । खलक्ष्मीलक्ष्यनक्षत्रमालेव प्रणनाम तम् ॥ ६ ॥ सा प्रणामचलत्कर्णोत्यलालिखनसंनिभाम् । विज्ञप्ति ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥ ७ ॥ भगवन्भवतः सर्वलोकचिन्तातिहारिणः । वात्सल्यपेशलस्याने पुनरुक्तं निवेद्यते ॥ ८॥ हिरण्याक्षबलास्क्षिप्ता निक्षिप्तक्षितिभृत्कुला । समुत्क्षिप्ताक्षयैवाहं वराहवपुषा स्वयम् ॥ ९ ॥ कालनेमिप्रभृतयः पुरा मद्भारशान्तये । ये हता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥ १०॥ उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः । वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥ ११ ॥ अनन्तदैत्यभूपालबलभारभरार्दिता । अधर्मबहुलं कालं न सहे वोढुमक्षमा ॥ १२ ॥ श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः । करिष्याम्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥ १३ ॥ पृथिव्यामथ यातायां विधा(ज्ञा)य हृदयस्थितम् । विष्णोः समीहितं सर्वं सुरान्प्राह पितामहः ॥ १४ ॥ १. 'अथोद्गता' ख. २.'समन्तात् ख.
काव्यमाला। भूमिभारावताराय देवोऽवतरति क्षितिम् । यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥ १५ ॥ यूयमंशावतरणं कुले कुरुत भारते । इत्युक्ते पद्मगर्भेण तथेत्युक्त्वा ययुः सुराः ॥ १६ ॥ ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् । खच्छन्दवादनिरतः कलिकेलिकुतूहली ॥ १७ ॥ स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत् । धर्ममार्गेण वर्तख रक्षेमां विद्रुतां श्रियम् ॥ १८ ॥ पितृष्वसुस्ते देवक्या यः समुत्पद्यते सुतः । स सुनिश्चितोऽन्ताय विभूतेर्जीवितस्य ते ॥ १९ ॥ उक्त्वेति याते देवर्षों कंसः पापी पितृष्वसुः । देवक्याः किंकरान्गर्भनिधनाय समादिशत् ॥ २० ॥ हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ । सपत्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥ २१ ॥ स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः । अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥ २२ ॥ अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि । गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥ २३ ॥ नन्दपल्या यशोदायाः कन्यां विनिमयेन सः । आदाय गूढसंचारी निजजायान्तिकेऽक्षिपत् ॥ २४ ॥ सा कन्या करुणाहीनैः प्रबुद्धैरथ किंकरैः । शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥ २५ ।। साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा । कंसस्यायुः पिबन्तीव भेजे विन्ध्यवसुंधराम् ॥ २६ ॥ रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् । वसुदेवः क्षयभयान्नन्दगोपगृहेऽत्यजत् ॥ २७ ॥ १. 'कुर्वन्तु क. २. 'मथुरां नारदः' ख. ३. 'विदितः' ख. ४. 'शिशु क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । तौ संकर्षणकृष्णाख्यौ यशोदा दधती ययौ । विश्रुता दानसंभोगौ श्रीरिव स्पृहणीयताम् ॥ २८ ॥ संकर्षणः शशिसितः कृष्णो मरकतद्युतिः । बभतुः प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥ २९॥ खदेहरक्षायत्नेन बालोद्दलनशालिना । कंसेनान्यत्कृतं मोहादन्यदेवेनं निर्मितम् ॥ ३० ॥ कलयति धिया स्वार्थ सर्वः सदाभ्युदयेच्छया किमपि यतते तावद्यावत्फलं परिदृश्यते । तदनु च विधिः क्रीडोन्मत्तः करोति तदश्मना जलभृतघटं भङ्क्त्वा दूरादिवाशु जैलस्थितिम् ॥ ३१ ॥ राज्याही गोकुले बालौ कंसः श्रुत्वा तयोः क्षये । चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥ ३२ ॥ स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः । पादप्रहारेणाविद्धं बभञ्ज शकटं महत् ॥ ३३ ॥ विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् । विषास्तनदां कृष्णश्चक्रे निप्पीतजीविताम् ॥ ३४ ॥ किंचित्संचरणाभ्यासे पाणिमालम्ब्य यत्नवान् । दत्तद्वित्रिक्रमश्चक्रे हर्ष मातुस्त्रिविक्रमः ॥ ३५ ॥ ततः कुमारयोः पातभीत्या हरिणवेगयोः । अविश्रान्तानुसरणे यशोदा श्रममाययौ ॥ ३६ ॥ उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात् । बलिबन्धनधीरस्य दाम्ना बन्धमुलूखले ॥ ३७॥ दामोदरस्ततो नाम्ना समाकर्षन्नुलूखलम् । मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥ ३८ ॥ संल्लमोलुखलाकर्षात्पेततुस्तौ महाद्रुमौ । यमुनाक्षोभसंभूतभयकम्पितगोकुलौ ॥ ३९ ॥ १. "विनतादान' ख-T. २. 'दैवविनिर्मितं' ख-ग. ३. 'जन' कगः
७८
काव्यमाला।
ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना ।
खभावरमणीयेऽपि रमणीयतराभवत् ॥ ४० ॥
स्निग्धश्यामास्तरुतृणभुवः संपतन्निर्झरौघा
मेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।
गायगोपीस्तिमितहरिणीहारिणः काननान्ताः
कान्ताश्चक्रुः प्रमदसमय(मसम) 2
यामुनाः कूलकच्छाः॥४१॥
ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।
माधवस्याभवत्किंचिदुन्मुखी यौवनद्युतिः ॥ ४२ ॥
ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।
बभूव कन्दुकोदामक्रीडासु निबिडो रसः ॥ १३ ॥
पतिते यमुनाकूलसलिले केलिकन्दुके ।
ददर्श कालियस्योगं नागस्य भवनं हरिः ॥ ४४ ॥
व्याप्तं कल्पान्तरजनीकवलीकारविभ्रमैः ।
कृतान्तमहिषश्यामैर्निस्त्रिंशविमलै लैः ॥ ४५ ॥
कालः कथं वसतीह(त्येष) भयस्यापि भयंकरः ।
स तैराकृष्यमाणोऽपि कृष्णस्तद्दर्शनोद्यतः ॥ ४६॥
- कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।
पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥ १७ ॥
भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।
आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥ १८ ॥
पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनः
कोपक्लेशविशेषदन्तकषणप्रोद्भूतधूमैर्हरेः ।
कालभ्रूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैः
कालैः कलियबान्धवैरिव जलं साहायकाभ्यागतैः ॥ १९ ॥
पीडितः शरणं शौरि स यातस्तद्विरा ययौ ।
रौद्रः समुद्रं तत्पादमुद्रया तायनिर्भयः ॥ ५० ॥
८ श्रीकृष्णावतारः]
दशावतारचरितम् ।
ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।
जघान गोकुले विघ्नं हेलयैव हलायुधः ॥ ५१ ॥
अथ गोपालरूपेण प्रलम्बो नाम दानवः ।
कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥ ५२ ॥
कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।
रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥ ५३ ।।
अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।
भक्ष्यभोज्यमहारम्भसंभारो गोकुलेऽभवत् ॥ ५४ ॥
पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।
निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत् ॥ ५५ ॥
ततः प्रम्लानमानेन मन्युना शतमन्युना ।
प्रेरिता धननिर्घोषघोरमेघाः समाययुः ॥ ५६ ॥
तैस्तवासरालोकैनिंगीर्णभुवनैर्धनैः ।
आहूतेव महारावैः कालरात्रिरदृश्यत ॥ ५७ ॥
विरावकृतहृद्धट्टमेघसंघट्टविप्लवे ।
खं क्षितौ जलरूपेण भयभग्नमिवापतत् ॥ ५८ ॥
ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।
सद्यः पीतमिवाम्भोधि वमन्तः क्ष्मामपूरयन् ॥ ५९ ॥
संरम्भेण धनाघनैर्घनतरैः संपीड्यमानैमिथः
प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।
भीत्या कापि ययुः क्षितिच्युतनभःसंभावनाकम्पिताः
कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥ ६०॥
धारासाराशनिनिपतनक्लेशसंपीडितानां
सीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् ।
वेगक्षोभागतगिरिनदीनाददीनाननानां
प्राणत्राणं क्वचिदपि गवां नाभवद्विहलानाम् ॥ ११ ॥
काव्यमाला। अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः । त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत् ॥ ६२ ॥ छत्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले । गोगणानां सगोपानां पुनर्जीवागमोऽभवत् ॥ ६३ ।। उत्क्षिप्तेऽसुरवैरिणा क्षितिधरे क्षीरोदधिः क्षोभवा- न्भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः । विन्ध्यस्यासमयोद्मं विगणयन्मन्ये श्वसन्कम्पवा- न्हस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत् ॥ ६४ ॥ अवहदहतधैर्ये दोष्णि कृष्णस्य भार- श्रमशमनधियेव क्ष्माधरः सोपरोधः । अविरतनिपतद्भिर्निर्झराणां सहस्रैः स्फटिकविकटर्जम्भस्तंभसंभारशोभाम् ॥ ६५ ॥ गोवर्धनस्य धरणे व्रजसुन्दरीणां साहायकोच्चचरणोचितदोलतानाम् । अप्राप्तिलोलकरविभ्रममाकलय्य कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत् ॥ ६६ ॥ कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते । लजयेव न्यवर्तन्त पवनोच्छासिनो घनाः ॥ ६७ ॥ ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् । कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥ ६८ ॥ अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः । सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥ ६९ ॥ तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते । बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥ ७० ॥ तस्य निर्भरतारुण्यलावण्यं नयनामृतम् । पिबन्तीनामभूगोपकान्तानां मदविभ्रमः ॥ ७१ ॥ १. 'करुणालयः क-ग. २. 'जम्ब' ग; 'जुम्भ' घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । व्यामूढस्खलितार्धविक्लवपदा वाणी गतिश्चास्फुटा चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् । निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा सरे टैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत् ।। ७२ ॥ खैराचारस्मरपरिचये तत्र शौरेः प्रवृत्ते वेषालापोद्धतगतितयान्योन्यसंभाव्यमाने । आसीलज्जाविनयनिभृता व्यक्तसंसक्तमन्यु- स्तासामन्तः कलुषकलनानल्पसंकल्पजल्पः ॥ ७३ ॥ कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्रानना- स्त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् । यासामेष हरिर्मनोरथशतैरर्थी क्षणालोकने किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ॥ ७४ ॥ अन्तर्लोचनयोविंशत्यविरतं लग्नश्च पाणौ गति निर्बन्धेन रुणद्धि धावति मुहुर्दशामिकामोऽधरे । सख्यः किं करवाणि वारणशतैनॆवापयाति क्षणं कृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विनताम् ॥ ७५ ॥ कर्षत्यंशुकपल्लवं परिहृतः प्रत्याहृति नोज्झति प्रक्षिप्तश्वरणे लैंगत्यविरतं तिष्ठत्यदृश्यः पथि । अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचि- किं शौरिर्धनकुञ्जवञ्जुललताजालान्तरे कण्टकः ।। ७६ ॥ खच्छाम्बुप्रतिबिम्बवऋतिलकोल्लेखादरालोकनं । यनेनोच्चितचूतपल्लवलवे कर्णावतंसस्पृहा । एतस्याः कुसुमेषु बन्धन धिया केशावकाशक्रिया केनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ॥ ७७ ॥ १. 'भूढप्रस्खलिख-ग. २. 'लीलायितम् ख-ग. ३. 'गलति' कन्स. ४. 'वन' ग; 'नग' ख.
काव्यमाला।
कोऽयं याति लघुक्रमेरहमहं कस्त्वं सखि श्यामला
श्वासायासवती क यासि तिमिरे तं नष्टमिष्टं मृगम् ।
अन्वेष्टुं यमुनातटीमुपगता भीतासि भूतभ्रमा-
न्मूढे कृष्णभुजंग एष विटपे कौटिल्यलीनः स्थितः ॥ ७८ ॥
संतप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया
लब्धं मौग्ध्यफलं भुजंगनिकटं वक्रां द्विजिह्वां सखीम् ।
विग्दूती तरुणीं करोति किल या खीकृत्य दूरे प्रियं
हस्तोत्सृष्टखगः प्रयत्ननिचयै याति तृप्तोऽन्यतः ॥ ७९ ॥
जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया
प्रत्यक्षागसि निवासहनया कोपेन दुष्टोऽधरः ।
श्वासायासविसंस्थुला न च कुचोत्कम्पं विमुञ्चस्यहो
मोहादुःसहविप्लवे चपलया किं प्रेषिता त्वं मया ॥ ८० ॥
न स सखि यमुनायास्तीरवानीरकुले
गहनभुवि भवत्या मत्प्रियः क्वापि दृष्टः ।
सुमुखि फलमियत्तु नेहमोहात्त्वयाप्त
कुचमुखलिखितेयं कण्टकोल्लेखरेखा ।। ८१ ॥
इत्यभून्मदनोद्दामयौवने कालियद्विषः ।
गोपाङ्गनानां संरम्भगर्भोपालम्भविभ्रमः ॥ ८२ ॥
प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बिनः ।
जाती मधुकरस्येव राधैवाधिकवल्लभा ।। ८३ ॥
लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं
तन्वाना द्युतिदिग्धदुग्धघवलां मुग्धस्मितांशुच्छटाम् ।
माघद्यौवनकुम्भिकुम्मसुभगाभोगस्तनोत्तम्भिता
धैर्य कस्य न दीर्घनेत्रवलनमश्चन्ति गोपाङ्गनाः ॥ ८॥
कदाचिदथ यातेऽस्तं गभस्तिमति शर्वरी ।
आययौ गोपकान्तेन शनैः कृष्णाभिसारिणी ॥ ८५॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । शशाङ्काकृतसंकेतसमागमविलोकिनी । क्षपा प्रतीक्षमाणेव तमःश्यामाम्बरा बभौ ॥ ८६ ॥ अथोद्ययौ सुधास्यन्दखेदाईप्रसरत्करः । तुल्यालिङ्गनजामीD दिशन्निव दिशां शशी ।। ८७ ॥ ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् । मुखं चुचुम्ब श्यामायाः कराकृष्टतमःपटः ॥ ८८ ॥ त्यक्त्वा पूर्वां स्पृशन्किचिदक्षिणां च तथोत्तराम् । शिश्रिये पश्चिमामाशां सुधांशुबहुवल्लभः ॥ ८९ ॥ अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितः । जङ्गमः शृङ्गवानगिरिव दैत्यो वृषाकृतिः ॥ ९०॥ किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादप- प्रोद्भूतोत्कटटांकृतैर्गललुठद्गम्भीरघोरखनैः । सीत्कारश्वसितैः खुराप्रविषमोत्खातावकीर्णक्षिते- स्तस्योद्गारभरेण भममभवत्कम्पाकुलं गोकुलम् ॥ ९१ ।। तद्भीतिच्युतगर्भासु गोषु गोपगणे गते । कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥ ९२ ॥ शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् । निपीड्य कण्ठे कुण्ठेच्छं चकार गतजीवितम् ॥ ९३ ॥ निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि । सत्कथा पप्रथे लोके पृथुविस्मयकारिणी ॥ ९४ ॥ ततः प्रभाते कंसस्य सुहृत्केशी महासुरः । आययौ हयरूपेण खुराघातक्षतक्षितिः ॥ ९५ ॥ करालो मांसलः शृङ्गी कृष्णतालस्त्रिकर्णवान् । लक्षितः ककुदावर्ती जगत्संक्षयलक्षणैः ॥ ९६ ॥ १. 'यामिन्याः' ख. २. 'चेतनः' घ. ३. 'सीत्कारोच्चसितैः' ख.
८४ काव्यमाला। तस्य हेषितनिर्घोषैरैः खुररवेण च । त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥ ९७ ॥ शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थिति- तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथःपतिः । निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः सोऽभूदाकुललोकपालविभवावष्टम्भकृदुःसहः ॥ ९८ ॥ दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् । उत्क्षिप्ताग्रंखुरस्याशु न्यदधद्भुजमच्युतः ॥ ९९ ॥ तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः । कृष्णप्रसारितो बाहुः केशिवकं द्विधा व्यधात् ॥ १००॥ भने निपतिते तस्मिन्कंसस्येव मनोरथे । अभूज्जम्भारिभवने ता_ध्वजजयखनः ॥ १०१॥ अत्रान्तरं वृष्णिवृद्धैः सह खसचिवक्षयम् । चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन् ॥ १०२ ॥ इयं जनितलजेव मानम्लानिर्महीयसी । यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥ १०३ ॥ उद्धवः शनिरक्रूरः शतधन्वा विदूरथः । भोजाद्याश्च ममापूर्वं शृण्वन्त्वसमविग्रहम् ॥ १०४ ॥ पितुः वसुः पतिर्वृद्धः स्नेहसंमानवृत्तिभिः । वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥ १०५ ॥ खसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ । शोकातकाङ्कुरौ यो मे विषपादपतां गतौ ॥ १०६ ॥ ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः । विभीषणमतोपायैर्हन्यमानो दशाननः ॥ १०७ ॥ १. 'मन्त्रि' क-घ. २. 'न कृतं' ख. ३. 'शङ्कातङ्काकुलौ' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः । शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥ १०८॥ सदा दारूणि दह्यन्ते दारुजेन चे बहिना । क्रिमिणा वाङ्गजातेन पात्यन्ते प्रौढपादपाः ।। १०९ ।। मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही। खजातैर्निरैनीताः कषद्भिर्भूधराः क्षयम् ।। ११० ॥ ज्ञातिप्रहारो निःशर्ममर्मपाती पराधिकः । लोहाधिका व्यथामस्नः करोत्यस्थिसुखः शरः ॥ १११ ।। सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् । कान्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥ ११२ ॥ किं कृतं सुकृतं तावद्वसुदेवेन धीमता । बन्धुद्रोहविदग्धेन गोपालौ कुर्वता सुतौ ॥ ११३ ।। उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया । भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥ ११४ ॥ कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम । तद्धात्रा मुष्टिना पिष्टः प्रलम्बः स च धेनुकः ।। ११५॥ अधुना कोपविवलझूलतां नीतिमेतयोः । करोम्यहं यथा बालौ पुनर्नैवं करिष्यतः ।। ११६ ।। इति कंसेन सावज्ञमन्तर्गम्मीरमन्युना । उक्ते तमुद्धवः प्राह पागुण्यविनयेद्धधीः ॥ ११७ ॥ राजन्न खजने कोपं कुपितः कर्तुमर्हसि । खीकार्याः सर्वथा क्रुद्धलुब्धभीतावमानिताः ।। ११८ ।। क्रुद्धान्प्रसादनैर्लुब्धान्धनैर्भीतांश्च सान्त्वनैः । माननैरवमानार्तान्नयेद्भिन्नानभिन्नताम् ॥ ११९ ॥ विभिन्नखीकारः शमयति नृपाणां रिपुभयं निजैर्जीवोच्छित्तिर्भवति कुपितैर्धातुभिरिव । १. 'समन्युः' ख. २. 'एव' ख. ३. 'चर्म घ.
८६ काव्यमाला। न वैरं वैरेण प्रशममुपयाति कचिदपि प्रदीप्तोऽग्निः शान्ति व्रजति जलपुञ्जन शिखिना ॥ १२० ॥ बान्धवौ पुत्रसदृशौ रामकृष्णौ न ते परौ । लक्ष्मीरक्षा क्षितीशानां राजपुत्राभिरक्षणम् ।। १२१ ॥ समीपे सभः परमुपसरन्मेषहननः खलग्रामे मूर्खः (मुख्यः) परपुरगतः शत्रुबलकृत् । हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहति- ने दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजः ॥ १२२ ।। निरस्तः क्ष्माभुजा बन्धुः क्षीणवृत्तिर्विपद्तः । तन्नामविक्रयोत्क्षेपैलक्षितो दिक्षु भिक्षते ॥ १२३ ॥ परमं श्रीमतामेतन्माननामविनाशनम् । यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥ १२४ ॥ त्वद्वन्धुसुतयो व युक्ता गोपकुले स्थितिः । न यावद्विप्रकिरें तो तावत्खीकरणक्षमौ ॥ १२५ ॥ इत्युद्धवेनाभिहिते हिते सुविहिते श्रियः । अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात् ॥ १२६ ॥ एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः । तस्यात्मपोषतोषस्थकोषक्केशाय संपदः ॥ १२७ ।। त्यागभोगभरोद्धृष्टा मानोन्मृष्टा महात्मनाम् । भान्ति मृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ।। १२८ ।। भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः । गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥ १२९ ।। रत्नाकरसमृद्धश्रीबन्धुर्यस्य त्वमीदृशः । स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥ १३०॥ १. 'त्वद्वन्धु' क-का-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम्। खकर्मभागिनः सर्वे निष्फलः खजनोऽर्थवान् । नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥ १३१ ॥ ज्ञातिर्नदीनः कृष्णस्तु दयया संविभज्यते । हेलोमिनिर्मितं मन्ये तेनैश्वर्यं दिवौकसाम् ॥ १३२ ।। धेनुत्राणे शिखरिपतिना कृष्णदोष्णि स्थितेन श्रान्ते शक्रे विफलजलदे लजिते शैलशत्रौ । लब्धाकाशप्रसभगतिना निर्झरोद्धातघोषै- हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥ १३३ ।। मददलनविधाने कालियस्याहिभर्तु- दमनशमितशक्तेर्देहसंदेहभाजः । शरणगमनदैन्यम्लानमानस्य कृष्णः शिरसि चरणमुद्रां तार्थ्यरक्षां चकार ॥ १३४ ॥ नाम्ना मानमहोन्नतिं प्रतनुते बध्नाति शोभा गुणैः पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः । हर्ष वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥ १३५ ।। अवन्ध्यसंगतिबन्धुः कृष्णतुल्योऽस्ति कस्तव । येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥ १३६ ॥ उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे । तत्त्वद्रािहं गच्छामि कृष्णाहानकृतार्थताम् ॥ १३७ ।। विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः । करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥ १३८ ॥ इत्यङ्करवचः श्रुत्वा कंसः कुटिलचेष्टितः । बजेति निःश्वसन्नुष्णमभ्यधात्तमधोमुखः ॥ १३९ ॥ १. 'तद्विरा तव' ख.
८८. काव्यमाला। T अथ सज्जरथे हन्तुमक्रूरे ब्रजमुद्यते। भभूञ्चन्द्रोदयोद्भूत इव वृष्णिकुलाम्बुधिः ॥ १४०॥ अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी । अवापाग्रसरत्सैन्यः पर्यन्तग्राममेखलाम् ॥ १४१ ॥ प्रत्यग्रपाकविनमत्कलमक्षेत्रपतिभिः । हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥ १४२ ॥ कदलीश्यामलारामवटवाटलतावृताम् । लम्बमानधनालावुतुम्बकूष्माण्डमण्डलाम् ॥ १४३ ॥ वलत्कुटिलकल्लोलकुल्याकलकलाकुलाम् । द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥ १४४ ॥ अध्वन्यजग्धपूर्वेक्षुशल्कशुक्लीकृतस्थलाम् । पाकपिङ्गलनारङ्गीवनैः संध्यान्वितामिव ।। १४५ ॥ ययौ स पश्यन्निःशङ्कशुकाशननिवारणे। उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥ १४६ ॥ स व्रजन्गोकुलोपान्तवनमालां व्यलोकयत् । उत्सरन्निर्झरासारस्निग्धश्यामलशाद्वलाम् ॥ १४७ ।। गोरक्षादक्षशबरैः कृतक्षुद्रक्षेसंक्षयाम् । घोरव्याघ्रपथावद्धयन्त्रकूट(टावटाम् ॥ १४८ ॥ | तालीतालतमालसालकदलीपथ्यामलीश्यामलं खर्जूरार्जुनसर्जबिल्वबकुलप्लक्षाक्षलक्षाकुलम् । पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां निःश्वभ्रस्थलपुष्पशष्पशवलं निःसङ्कुलं गोकुलम् ॥ १४९ ।। अच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रम- आभ्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः । १. 'पथि तां' ख. ५. 'निःसहलो ख-ग. २. 'द्रोणी' क. ३. 'सर्वेक्षुक. ४. 'घटापटाम्' ग..
दृष्ट्वा दामोदरं ८ श्रीकृष्णावतारः] दशावतारचरितम् । निःस्यन्दस्थितमुक्तशष्पकवलक्लीबाङ्गसारङ्गक प्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ॥ १५० ॥ ततस्तत्सैनिकैः कृष्णः प्रथमाप्तैर्निवेदितम् । पितः पितृव्यमक्रूरं शुश्रावाभ्यर्च्यमागतम् ॥ १५१ ।। घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः । प्रणम्यमानं गोपात्र्यैर्ददर्शाङ्करमच्युतः ॥ १५२ ॥ रथायादवरुह्याथ लोलकुण्डलकङ्कणः(णम्) । दूरादक्रूरः समचिन्तयत् ॥ १५३ ।। अयं स भगवान्विष्णुरवतीर्णः सनातनः । भुवो भारावताराय मां जगादेति नारदः ॥ १५४ ॥ एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः । स्निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥ १५५ ॥ वृष्णियादववंशस्य कियती स्पृहणीयता । अवतीर्णः खयं यस्मिन्भगवानेषु केशवः ॥ १५६ ॥ इति ध्यायन्प्रहर्षाश्रुसंरुद्धनयनः स्खलन् । अकुण्ठोत्कण्ठया शौरेरक्रूरोऽन्तिकमाययौ ॥ १५७ ॥ पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः । गाढालिङ्गनसंगत्या हृदयं प्रविशन्निव ॥ १५८ ॥ प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन् । प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ।। १५९ ॥ कृष्ण त्वदर्शनानन्दसुधासंपूरिते हृदि । त्वत्संभाषणहर्षस्य क्वावकाशो विधीयताम् ॥ १६० ॥ वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता । यस्त्वां तनयमासाद्य खदृशाद्यापि नेक्षते ॥ १६१ ॥ १. "क्लेवा' क-ख-ग.
काव्यमाला। भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः । गूढजन्मकथा केन कथ्यते सर्ववेदिनः ॥ १६२ ॥ सततं सहते तीव्रां त्वत्कृते कंसवाच्यताम् । वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥ १६३ ॥ जगद्धरणधीरेयं धन्या देवी वसुंधरा । भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥ १६४ ॥ विस्मृता देवकी किं ते त्वन्नाम्नापि नुतस्तनी । त्वां विना या सुतं रामं कौसल्येवावसीदति ॥ १६५ ॥ धनुर्यागे विसृष्टोऽहं कंसेन त्वनिमन्त्रणे । त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥ १६६ ॥ तत्सर्व करमादाय प्रातः कंसस्य शासनात् । आयान्तु नन्दगोपाद्याः सर्वे समयवर्तिनः ॥ १६७ ॥ इत्यङ्करवचः श्रुत्वा तमाभाषत केशवः । प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घयते ॥ १६८ ॥ ततः प्रभाते संनद्धं रथमारुह्य सानुगाः । मथुरां ययुरक्रूरसंकर्षणजनार्दनाः ॥ १६९ ॥ कथं राधामनामन्त्र्यागतोऽहमिति माधवः । अरतिं म्लानतां चिन्तां व्रजन्भेजे विनिःश्वसन् ॥ १७० ॥ यच्छन्गोकुलगुढकुजगहनान्यालोकयन्केशवः सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः । राधाया न न नेति नीविहरणे वैक्लव्यलक्ष्याक्षराः सस्मार सरसाध्वसाद्भुततनो रावोक्ति(?)रिक्ता गिरः ॥ १७१ ॥ गोविन्दस्य गतस्य कंसनगरी व्याप्ता वियोगामिना स्निग्धश्यामलकूललीन]रिणे गोदावरीगहरे (४)। १. 'संहार' ख. २. 'मन्ये क-ख. ३. 'कुजगूढ' ख. ४. 'हरिणी' ग-घ.
८ श्रीकृष्णावतारः]
दशावतारचरितम् ।
रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं
गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ।। १७२ ।।
ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदने
अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने।
केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे
कस्य न नयनयुगं रतिसज्जे मज्जति मनसिजतरलतरङ्गे वररमणीरमणे १७३
उद्गीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरेः ।
गोपाङ्गना गूढरसानुरागा मुहुर्मुहुमोहहता बभूवुः ॥ १७४ ॥
गोविन्दे गुरुसंनिधौ परवशावेशादनुक्त्वा गते
सुप्तानां बकुलस्य शीतलतले खैरं कुरङ्गीदृशाम् ।
खप्नालिङ्गनसंगतेऽङ्गलतिकाविक्षेपलक्ष्या मुहु-
मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चेरुरुच्चैर्गिरः ॥ १७५ ॥
राधा माधवविप्रयोगविगलज्जीवोपमानैर्मुहु-
बर्बाष्पैः पीनपयोधराग्रगलितैः फुल्लत्कदम्बाकुला ।
अच्छिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः
पुरः
सर्वाशाप्रतिबद्धमोहमलिना प्रावृण्नवेवाभवत् ॥ १७६ ॥
ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ ।
चाणूरमुष्टिको मल्लौ विदधे तद्वधोद्यतौ ॥ १७७ ॥
अथ राजपथं प्राप्तौ बलात्संकर्षणाच्युतौ ।
राजाहं चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥ १७८ ॥
तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ ।
जनतानन्दजननौ राजद्वारमवापतुः ॥ १७९ ॥
हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् ।
बाष्पसंरुद्धनयना मुमोह प्रसुतस्तनी ॥ १८० ॥
अथ राजाज्ञयोत्सृष्टं महामात्राड्डशेरितम् ।
गजं कुवलयापीडं ददर्शायान्तमच्युतः ॥ १८१ ॥
काव्यमाला। क्रोधान्धं ममदोषदुःसहतरं भूभारभूताकृति कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः । मातङ्गं कुनृपोपमं मुररिपुर्दृष्ट्वा प्रहारोद्यतं हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥ १८२ ॥ अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिको । कुमारयोरभिमुखौ चक्रतुर्जनसंक्षयम् ॥ १८३ ॥ जानुबन्धभुजाकर्षतलाघातघने रणे । कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥ १८४ ॥ भुजयोरिव कंसस्य मल्लयोश्युतयोस्तयोः । भ्रूभङ्गभीषणस्योचैरुच्चचारोत्कटं वचः ॥ १८५ ।। वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः । विधीयतां च गोपानामुचितं राजशासनम् ॥ १८६ ॥ कंसस्येति ब्रुवाणस्य मदोद्दामस्य गर्जतः । दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत् ॥ १८७ ॥ संत्रस्ते वेत्रिसंघे नवमयसमयोद्धान्तसामन्तचके हस्तसस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः। कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः क्रोधाग्ने—ममालामिव कुसुमचलद्धृङ्गमालां दधानम् ॥ १८८ ॥ आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युति- मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः । व्यक्तोऽभून्नरसिंहशुभ्रमखरव्यापारविश्रः क्षणं दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः सुतासृग्भरः ॥ १८ ॥ हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् । उग्रसेनं प्रैविदधे राज्ये तज्जनकं हरिः ॥ १९० ॥ १. मौष्टिक कन्चे. २. 'पुरोक-ख. ३. 'च विदधे' क-ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । पादयोर्वसुदेवस्य देवक्याश्चाच्युतः पतन् । बभूवानन्दनिस्पन्दनिबिडालिङ्गनातिथिः ॥ १९१ ।। आविर्भूताः खयं विद्या कलाश्च सकलास्ततः । निनाय स्पृहणीयत्वमवधानेन माधवः ॥ १९२ ॥ दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः । जहार रुक्मिणी कन्यां लक्ष्मी जन्मान्तरागताम् ॥ १९३ ।। रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः । जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥ १९४ ॥ सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः । बभूवुस्तासु पुत्राणां लक्षसंख्योऽभवद्गणः ॥ १९५॥ नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् । यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥ १९६ ॥ ततः शक्रगिरारुह्य गरुडं गरुडध्वजः । गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥ १९७ ।। मुरसुन्दहयग्रीवनरकाद्या महासुराः । प्रययुश्चक्रिचक्रानौ क्षिप्रासङ्गपतङ्गताम् ॥ १९८ ।। जरासंधेन संरुद्धां मागधेन प्रमाथिना। मथुरामथ संतज्य सानुगः प्रययौ हरिः ॥ १९९ ।। द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात् । जितलङ्कालकानाकनागेन्द्रनगरी पुरीम् ॥ २०० ।। बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः । हृत्वा शक्रपुरोद्यानाद्वारकायां न्यवेशयत् ॥ २०१॥ अत्रान्तरे कंससुहृत्करालः कालविग्रहः । प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ॥ २०२ ॥ कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः । बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥ २०३ ।। दशा०९ ९४ काव्यमाला। हेमरत्नमयं तस्य प्रविश्य भवनं हरिः । भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥ २०४ ॥ सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे। मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत् ॥ २०५ ॥ तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः । न च पश्चाचचालास्य यवनः पूर्वकर्मवत् ॥ २०६ ॥ चतुःसमुद्ररशनां विगाह्यापि महीं हरिः । दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥ २०७ ।। तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः । यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥ २०८॥ अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति । स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात् ॥ २०९॥ तस्य शय्याङ्कपर्यवक्रपादतलान्तरे । तस्थावलक्षितः शौरिः शङ्कासंकोचिताकृतिः ॥ २१०॥ प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् । कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥ २११ ।। प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः । दृशा ददाह निःशेषं निद्राशेषकषायया ॥ २१२ ॥ निर्दग्धे कालयवने पर्यतचरणाञ्चले । कायसंकलनालीनं दृष्ट्वा कृष्णमभाषत ।। २१३ ॥ कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः । बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥ २१४ ॥ इयती इखतां याता सृष्टिः कालनिमीलिता । मद्गुल्फपरिमाणं यद्वपुः खल्पतरं तव ॥ २१५ ॥ इत्युक्तो मुचकुन्देन प्रश्रयप्रणयी हरिः । खवृत्तं लोकवृत्तं च सर्व तस्मै न्यवेदयत् ॥ २१६ ॥ १. 'उत्तमम्' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । कालं विशालं विज्ञाय मापालः क्षणवद्गतम् । दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयत् ॥ २१७ ॥ अहो कालगलत्सर्वभावभोगाभिमानभूः । खमप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥ २१८ ॥ भूमिः संकुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत् । वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥ २१९ ॥ तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः । परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ।। २२० ॥ यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशल्कोपमम् । आमाम्रप्रतिमस्य नास्त्यभिनवस्याखादने खादता नेदानीं मम कृत्यमस्ति महता राज्येन भोगेन वा ॥ २२१ ॥ मेलिनाक्षमतां() भूतिः सा भूतिः शोभतेऽधुना । मुक्तिकान्ताधवलतां करोत्युलनेन या ॥ २२२ ॥ इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ । गत्वा कृष्णश्च वृष्णिभ्यः खवृत्तान्तं न्यवेदयत् ॥ २२३ ॥ बलेर्बाणासुरः सूनुरासीद्दाहुसहस्रवान् । यस्यास्थानसभासभ्यो भगवानभवद्भवः ॥ २२४ ॥ दीप्तरत्नगृहालोकैः सृजन्संध्यामिवानिशम् । बभूवाकाशगं यस्य नगरं शोणिताभिधम् ॥ २२५ ॥ उषा नामाभवत्तस्य कन्या लावण्यवाहिनी । आललम्बे स्तनतटीं यस्यां मजन्निव मरः ॥ २२६ ॥ युद्धं विना मे मिथ्यैव भाराय भुजकाननम् । इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात् ।। २२७ ।। १. 'मनूपम ख-ग, २, 'मलिनं क्षमता' घ, काव्यमाला। हरं कदाचिदुद्याने देव्या सह विहारिणम् । दृष्ट्वोषा खविवाहाय स्पृहां चक्रे घनस्तनी ॥ २२८ ॥ यः करिष्यति ते खप्ने कन्याभावव्यतिक्रमम् । भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥ २२९ ।। अथाययौ यौवनकृडल्लीनां कुसुमाकरः । कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥ २३० ॥ चञ्चबूतरजःपुञ्जपीताम्बरमनोहरः। अतसीकुसुमश्यामः शुशुभे नवमाधवः ।। २३१ ॥ नम्रानना नवोद्भूतरजसा स्तबकस्तनी । मालती यौवनवती कन्येवोच्छ्रासिनी बभौ ॥ २३२ ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः । पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ।। २३३ ॥ कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं चूतामोदमदाकुलालिपटलीवीणाखनखादुताम् । शिक्षाचक्षणदक्षदक्षिणमरुद्दत्तोपदेशक्रमै- मञ्जर्यो ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥ २३४ ॥ हेमहर्म्यप्रसुप्ताथ नीता खप्ने मनोमुषा । उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥ २३५ ॥ तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् । हेलाहरणभीत्येव हारस्तरलतां ययौ ॥ २३६ ॥ लज्जामज्जनविह्वला ननननेत्यल्पप्रलापोगति- नींवीमुक्तिनिरोधनिईतिविधौ पाणिः कणकङ्कणः । शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता तस्या भ्रंशभयोच्चलत्कलकला काञ्ची सकम्पाभवत् ।। २३७ ।। १ 'घटखनी' ख. २. 'दक्षिण' ख-ग. ३. 'धीवृत्ति' क. ४. 'शूत्कारिता' ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । प्रबुद्धा वृत्तकर्तव्या सा मुग्धा खमसत्यताम् । मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥ २३८ ॥ शयनं विप्लवस्थानं भयेनेव विहाय सा । हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलज्जिता ॥ २३९ ॥ सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा । मुमूर्छाच्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥ २४० ॥ सा निशश्वास बाप्पाम्बुबिन्दुभिर्मोक्तिकैरिव । छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ।। २४१ ।। प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् । क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥ २४२ ॥ किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् । का गतिः केन दृष्टाहं कुतस्तत्संगमः पुनः ॥ २४३ ॥ इति संदेहनिःस्पन्दां चिन्ताविक्रीतचेतनाम् । विलोक्य चित्रलेखाख्या सखी प्राणसमावदत् ॥ २४४ ॥ तन्वि कः खेदभारोऽयं भीरु किं भयकारणम् । पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ।। २४५ ॥ किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदै- लीनैः कामकृपाणलेशसदृशैाप्ता तवेयं तनुः । भ्रश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमं स्पष्टोऽयं रतिसंगमव्यतिकरः कस्येति मे संशयः ॥ २४६ ॥ इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी । उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥ २४७ ।। दृष्टः स्वग्ने मया कोऽपि रमणस्तनुकम्पनः । पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥ २४८ ॥ जाने कम्पतरङ्गिताङ्गलतिका स्वप्नेऽहमालिङ्गिता संस्पर्शे कुचयोर्निरर्गलतया हारोऽपि पार्थे कृतः । १. 'न लज्जिता क-ख-घ. २. 'कन्येति' ख..
STOREDMINISHERMERASHANIGHREE PRAMANEPARIN काव्यमाला। एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परं धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥ २४९ ॥ मूर्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते कम्पः सूचवतीव जीवगमनं मोहे मनो मज्जति । प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा नो जानामि स केन मे धृतिहरः कण्ठे भुजंगोऽर्पितः ॥२५०॥ त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता । गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥ २५१ ॥ इयं शीलविलुप्तिम मानम्लानिर्महीयसी । दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥ २५२ ।। इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् । संतापपिशुनोच्छासां चित्रलेखावदत्सखीम् ॥ २५३ ॥ किं न स्मरसि मुग्धे त्वमहो विरहकातरा । देव्यादिष्टः स ते खमदृष्ट एव वरो वरः ।। २५४ ॥ समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते । करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥ २५५ ॥ उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव । सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ।। २५६ ॥ इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्मना । उषा जीवमिवापेदे प्रियसंदर्शनाशया ॥ २५७ ।। साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत् । किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥ २५८ ॥ उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान् । ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ।। २५९ ॥ अयं स सखि मे धैर्यहारी हृदयतस्करः । इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥ २६० ।। १. 'अश्रान्तविपुलोच्छ्वासां ख.
इन्दोः संक्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता ८ श्रीकृष्णावतारः] दशावतारचरितम् । दिष्टया धन्यासि सुभगे यस्यास्ते नवमन्मथः । लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥ २६१ ॥ प्रद्युम्नतनयस्यास्य लावण्यामृतदीवितेः । कान्त्या झेब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥ २६२ ॥ रूपेणाप्रतिमेन नेत्रसुखदः कंदर्पदर्पच्छिदा शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् । अस्यामर्त्यमृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥ २६३ ।। पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः । सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥ २६४ ॥ तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः । आनीयते कथं तावदिति दोलायते मनः ॥ २६५ ।। त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन ताम् । हेलार्पिताद्भुतनिधिर्विधिः सिद्धिं विधास्यति ॥ २६६ ॥ इत्युक्त्वाकाशमाविश्य सा ययौ द्वारका क्षणात् । कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥ २६७ ।। सा गूढमायया हृत्वा रत्नपर्यशायिनम् । आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ।। २६८ ॥ खम्मवृत्तान्तमावेद्य स कन्यान्तःपुरान्तरम् । प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥ २६९ ।। स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः । अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥ २७० ॥ किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः । किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥ २७१॥ १. 'प्रधास्यति' क.
१०० काव्यमाला। कटाक्षः संधत्ते कुवलयकुलक्लैव्यकलनां मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः । असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरो- रहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ।। २७२ ॥ इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन् । अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥ २७३ ॥ सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः । विलोक्य प्रत्ययासत्ये पुनः खग्नमशङ्कत ॥ २७४ ॥ सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् । मुहुर्मोनवतीं चक्रे पैशुन्यचकितेव सा ॥ २७५ ॥ नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः । दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ॥ २७६ ॥ यस्त्वया प्रेमकुसुमैर्देवैश्चित्रपटेऽर्चितः । अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥ २७७ ।। खप्नसंपादितप्रीतिर्योऽर्थितस्तैमनोरथैः । प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥ २७८ ॥ मौनमालम्बसे पृष्टा दृष्टा क्षोणी निरीक्षसे । लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ॥ २७९ ॥ मानस्तत्क्षणशासनागतजने सुभ्र व संभाव्यते खप्नाभ्यस्तसमागमेऽपि नववत्ति लज्जया लीयसे। का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८०॥ इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् । निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥ २८१ ॥ तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः । मन्मथेन यदादिष्टं खैरं तत्तदभूत्तयोः ॥ २८२ ॥ १. "धवः'ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०१ दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा । उषाभूदभिमानाकव्यक्तसंभोगलक्षणा ॥ २८३ ॥ व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललितेऽक्षिणी कण्ठे कङ्कणलक्ष्म हारविरतिर्दशोऽधरे निर्वणः । प्रातः प्रच्युतचन्दना स्तनतटी सायं स्ववेषक्रिया संभोगाभरणा तनुर्वरतनोः शङ्कास्पदत्वं ययौ ॥ २८४ ॥ किंचिन्मुकुलिते लोके कन्यायाः कामलक्षणे । फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥ २८५ ॥ ततस्तप्रमादिष्टाः किंकराः क्रूरकारिणः । आययुर्युद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥ २८६ ।। निरुद्धः प्रियया यत्नादनिरुद्धोऽथ सस्मितः । घोरकिंकरसंघाताञ्जघान परिघायुधः ॥ २८७ ।। हतेऽयुते किंकराणां वयं बाणः समाययौ । रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥ २८८ ॥ शस्त्रवृष्टिं तदुत्सृष्टां प्राथुन्निः खगचर्मभृत् । छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥ २८९ ॥ उषा संत्रासतरला पितुः पत्युश्च संगरे । प्राणेशपक्षपातेन भेजे संदेहसाध्वसम् ॥ २९० ॥ बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् । आदाय तस्मै प्राथुम्निस्तामेव प्राहिणोद्बली ॥ २९१ ॥ परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा । निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥ २९२ ॥ वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् । आदाय तामसी मायामदृष्टः प्रविवेश खम् ॥ २९३ ॥ २. अत्र संधिरनुचितः. ३. 'अपि' ख. १. 'मानातु' ख; 'मानार्थ' घ. ४. 'चर्मखग ख.
HIMysuagram १०२ काव्यमाला। निरन्तैरसदुत्सृष्टैर्वेष्टिताङ्गं भुजंगमैः । दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥ २९४ ॥ बद्धेऽनिरुद्धे तनयां बाणः खैरापचारिणीम् । आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत् ॥ २९५ ॥ असंस्पृष्टं याच्चावचनघनदैन्येन वदनं न कृच्छ्रेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् । असेवासंतापं वपुरननुभूतप्रभुभयं कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥ २९६ ॥ अत्रान्तरे द्वारकायामनिरुद्धापहारजः । वृष्णीनामभवत्क्षोमः शोकचिन्तानुबन्धवान् ॥ २९७ ॥ बाणस्य नगरे रुद्धमनिरुद्धं सहोषया । विज्ञाय नारदगिरा सस्मार गरुडं हरिः ॥ २९८ ॥ हलायुधेन सहितः प्रद्युम्नेन च सूनुना। प्रययौ शोणितपुरं तार्थमारुह्य माधवः ॥ २९९ ।। खे योजनसहस्राणि विलय गरुडध्वजः । दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥ ३०० ।। अग्निमाहवनीयाख्यं तायः प्राकाररक्षिणम् । पीतोद्वान्तखगङ्गाम्बुनिझरेण न्यवारयत् ॥ ३०१ ॥ पुरद्वारमथोन्मथ्य प्रविष्टं शाङ्गिणं बलात् । निःसंख्याः संख्यसंनद्धा दितिजाः पर्यवारयन् ॥ ३०२ ॥ चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् । चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृशमम् ॥ ३०३ ॥ अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः । बद्धोऽनिरुद्धः सस्सार दुर्गा स्तुतिपदार्चिताम् ॥ ३०४ ॥ निष्पिष्टमत्तमहिषासुरमस्तकाग्र- प्रत्यग्रनिर्गतघनतिशोणिताम् । PARAM ८ श्रीकृष्णावतारः] दशावतारचरितम् । पादाम्बुजं पुनरलक्तकभक्तिचित्रं वन्दे भवप्रभवतापहरं भवान्याः ॥ ३०५ ॥ शूलपहारसृतरक्तभरैकबिन्दु- संजातघोररुरुलक्षगुरुप्रमाथे । पातालमूलगगनान्तविकासितास्य- ग्रस्तोगदानवतनुं प्रणमामि कालीम् ॥ ३०६ ॥ भीमोद्भवद्विभवशुम्भनिशुम्भकाय- निप्पेषदुःसहतराशनिघातघोराम् । कात्यायनी खकरकृत्तशिरःशरीर- वीरोपहारपरितोषवतीं नमामि ॥ ३०७ ॥ क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा- काण्डभ्रंशप्रेभसरमसः सप्तपातालभेदी । धैर्योन्माथी जयति चकिताशेषलोकेश्वराणां चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलीट्टहासः ॥ ३०८॥ इति स्तुता भगवती दुर्गा दुर्गापहारिणी । खकरस्फोटितोग्राहिपञ्जरं तममोचयत् ॥ ३०९ ॥ भुजंगपाशनिर्मुक्तः प्राथुम्निः समराङ्गणम् । प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥ ३१० ॥ अथ कल्पान्तपर्जन्यगर्जितोर्जितविनमः । बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥ ३११ ॥ दैत्येन्द्रायुधवृष्टिनष्टगगने सेनारजःस्फूर्जित- ग्रस्ताग्रेर्के) प्रसरपिनाकिविशिखबातावकीर्णे रणे । कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥ ३१२ ॥ २. 'वीरोपहारनमितां प्रणमामि कालीम' ख. १. खवर' ख; 'खशर' ग. ३. 'असर' ख. ४. 'हेला' ख.
काव्यमाला। गरुडादवरुह्याथ बलेन बलिना रणे । हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥ ३१३ ।। ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिंशिखज्वरः । क्षिप्तेन भस्मना रामं भ्रममूर्छाकुलं व्यधात् ।। ३१४ ॥ संतापमूच्छितं कृष्णस्तं परिष्वज्य विद्रुतम् । कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥ ३१५ ॥ कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चकर्कशः । असृजद्वैष्णवं घोरं ज्वरं रौद्रंज्वरापहम् ॥ ३१६ ॥ ज्वरयोः संप्रवृत्तेऽथ भुवनाकम्पने रणे । वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयत् ॥ ३१७ ॥ कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ । प्रयातः शरणं कृष्णमवदद्वाष्पगद्गदः ॥ ३१८ ।। देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः सृष्टः स्पष्टविनष्टधैर्यसरणिर्देव त्वयाहं कृतः । त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर- क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित् ॥३१९॥ इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः । शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥ ३२० ॥ ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेही बभूवतुः । पिनाकशार्ङ्गनिर्गच्छवाणजालैर्निरन्तरैः ॥ ३२१ ॥ क्षणं तुल्ये तयोयुद्धे जगत्संक्षयकारिणि । घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥ ३२२ ।। ग्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे । रक्षायै शंभुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥ ३२३ ॥ अथ बाणः स्वयं योद्धं मधुसूदनमाययौ । क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥ ३२४ ॥ १. 'बलिना' ख-ग. २. 'त्रिशिराः ख. ३. 'कञ्चकः' क-घ. ४. 'रुद्र' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०५ सहस्राश्वं रथं तस्य मनोरथमिवायतम् । ससूतं शरवर्षेण प्रममाथ मुरान्तकः ।। ३२५ ॥ उपनीतं गणैस्तूर्ण शासनात्रिपुरद्विषः । मयूरमारुरोहाथ बाणः षण्मुखवाहनम् ।। ३२६ ।। यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा। मुक्तकेशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ।। ३२७ ।। रक्षायै कोटवीं सृष्टां तस्य देवेन शूलिना । वञ्चयित्वाच्युतश्चक्रं पार्थाञ्चितमथासृजत् ।। ३२८ ॥ चक्र क्रमेण पतितं स्कन्धयोः कीर्णपावकम् । चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥ ३२९ ।। चक्रोत्कृत्तभुजद्रुमत्रणमुखोद्भूतैर्घनासृग्भरैः प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् । अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभव- व्याप्तः संततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः ॥ ३३० ॥ बाणश्छिन्नभुजोऽभ्येत्य शंभोर्भगवतश्विरम् । ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥ ३३१ ।। भक्त्याभवद्भगवतः स भवस्यातिवल्लभः । वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥ ३३२ ॥ कल्याणं तनुते यशःपरिचितां लक्ष्मी ददात्यक्षया- माक्रान्ति विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् । संसारं कुरुते विकारिनिकर निःशेषमेव क्षणा- द्भक्तिः कल्पलता चराचरागुरोः किं किं न सूते फलम् ॥३३३॥ उषासहितमादाय प्रद्युम्नतनयं ततः । द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥ ३३४ ॥ कदाचिदथ देवर्षिरकामेत्य नारदः । अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात् ॥ ३३५ ॥ १. 'निकरी' ख-ग; 'निरतं' घ.. २. 'अब्रवीतू' क-घ. .. दशा० १०
काव्यमाला।
गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।
भरतस्य कुले जातः शंतनुः प्रतिपात्मजः ॥ ३३६ ॥
गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।
वसिष्ठशापपतितै)मधेनुनिकारतः ॥ ३३७ ॥
खजन्मनेऽर्थिता जाता वधाय च महीं गता।
खतीरोपवनोपान्ते विचचार सुलोचना ॥ ३३८ ॥
तत्र शंतनुना गङ्गा संगमं गजगामिनी ।
भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥ ३३२ ॥
सा जातानवधीत्सप्त वसूखेच्छाविधायिनी ।
जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥ ३४० ॥
देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।
सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥ ३४१ ॥
दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।
शंतनुर्दाशतनयां तत्पितुर्याचकोऽभवत् ॥ ३४२ ॥
गाङ्गेयस्त्वत्सुतः क्ष्माभूद्दौहित्रो मे न राज्यभाक् ।
इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवतीं सुताम् ॥ ३४३ ॥
देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।
गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥ ३४४ ॥
दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।
तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात् ॥ ३४५ ॥
भीषणीयप्रतिज्ञात्वाभीष्मोऽयमिति खे चिरम् ।
विचचारोदिताश्चर्य खेचरोच्चारितं वचः ॥ ३४६ ॥
आनीतामथ भीष्मेण कन्यामासाद्य शंतनुः ।
परितोषाद्ददौ तस्मै खच्छन्दनिधनं वरम् ॥ ३४७ ॥
कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।
तस्यां विचित्रवीर्यं च शंतनुस्तनुमत्यजत् ॥ ३४८ ॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । १०७ ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना । चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥ ३४९ ॥ शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते । जहार काशिराजस्य भीष्मः कन्याः खयंवरे ॥ ३५० ॥ भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः । त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ।। ३५१ ।। राजचूततरौ तस्मिन्नवयौवनमाधवे । कान्तालतावलयिते पातिते कालदन्तिना ॥ ३५२ ॥ विच्छिन्ने शंतनोवंशे तत्पुत्रक्षेत्रजार्थिना । मीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥ ३५३ ॥ कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात् । संजातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥ ३५४ ॥ तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् । उक्त्वेति सा भीष्ममते तं सस्मार स चाययौ ।। ३५५ ।। अम्बाश्वश्वा विसृष्टाथ तेजोराशिं विलोक्य तम् । निमीलिताक्षी तदृष्टिस्पृष्टा गर्भ समाददे ॥ ३५६ ॥ अन्धोऽक्षिमीलनात्सूनुर्भावीत्युक्ते महर्षिणा । द्वितीयं जनयापत्यमिति माता जगाद तम् ॥ ३५७ ।। भयपाण्डुरवान्या लेभे गर्भ मुनेदृशा । अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥ ३५८ ॥ तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसंभवे । धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥ ३५९ ।। जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि । माण्डव्यशापभूधर्मः शूद्रायां विदुरोऽभवत् ॥ ३६० ॥ ३. 'माता' क-घ. ४. 'उका ख. १. 'कान्त ख. २. 'हस्तिना' ख-ग. ५. 'जालन्धे' ख-ग.
१०८ काव्यमाला। धृतराष्ट्राय गान्धारी सुबलस्तनयां ददौ । कुन्तिभोजसुतां कुन्तीं पाण्डुर्माद्रीमवाप च ॥ ३६१ ॥ युवा दिग्विजयी पाण्डुम॒गयाव्यसनी वने। मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥ ३६२ ॥ भविष्यसि त्वं दयितारतिपर्यन्तजीवितः । तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥ ३६३ ॥ ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् । ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥ ३६४ ॥ कुन्ती मुनिवरावाप्तमन्ना भर्तुरनुज्ञया । धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत् ॥ ३६५ ॥ युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान् । सपत्न्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥ ३६६ ॥ स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे । आलिङ्ग्यानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥ ३६७ ॥ प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यजैः । वृद्धिं गता धार्तराष्ट्रः सह दुर्योधनादिभिः ॥ ३६८ ॥ भीष्मः पितामहस्तेषां चापाचार्य कृपं व्यधात् । द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥ ३६९ ॥ अश्वत्थामा प्रियः सूनुयॊणस्य तनयोऽभवत् । यथार्जुनः समस्तास्त्रविद्याविमलदर्पणः ॥ ३७० ॥ कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवखतः । प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात् ॥ ३७१ ॥ संस्पर्धयार्जुनरणाबानधीरोऽस्त्रदर्शने । नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥ ३७२ ॥ ततः कर्णेन संमइय भ्रात्रा दुःशासनेन च । दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात् ॥ ३७३ ॥ १. 'सुभद्रक-ख-ग. २. 'राज' ख-ग. ३. 'किन्दिर' क-ख-ग.४.'तत्र' ख-य.
८ श्रीकृष्णावतारः] दशावतारचरितम् ।
ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः ।
विदुरेण रहः स्नेहान्निर्दिष्टबिलनिर्गमाः ॥ ३७४ ।।
युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः ।
नकुलं सहदेवं च विवेश निशि काननम् ।। ३७५ ॥
तत्रोप्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् ।
भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ।। ३७६ ॥
जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे ।
एकचक्रां पुरी जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ॥ ३७७ ।।
प्रजाक्षयक्षमस्तत्र राक्षसोऽभूहकाभिधः ।
यस्सै राजान्नशकटं प्राहिणोत्सनरं सदा ॥ ३७८॥
स्थिता विप्रगृहे कुन्ती सह भिक्षाशनैः सुतैः ।
बकवारे द्विजस्याप्ते भीमं तद्दययादिशत् ॥ ३७९ ॥
व्रजन्भीमोऽन्नशकटं भुलानः क्रोधसंमुखम् ।
बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥ ३८० ॥
अथ दूरपथायातैः कथितं पथिकद्विजैः ।
नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनाः ॥ ३८१ ॥
पाञ्चाल्यो द्रुपदः पूर्व द्रोणस्य सुहृदः शिशुः ।
व्यधादास्यामि ते प्राप्तराज्यामिति संविदम् ॥ ३८२ ।।
द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत् ।
मिक्षाभुग्ब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन् ।। ३८३ ॥
इति द्रोणः कृतस्तेन राज्ञा भग्नमनोरथः ।
अर्जुनेन रणे बद्धं तं राज्यार्धमदापयत् ।। ३८४ ॥
ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् ।
अभिचारोग्रयागेन द्रुपदः समवाप्तवान् ॥ ३८५ ॥
यागाग्निमध्याजातोऽस्य धृष्टद्युम्नाभिधः सुतः ।
कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥ ३८६ ॥
काव्यमाला। वयं तत्रैव गच्छामः सर्वराजसमागमे । प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥ ३८७ ॥ ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि । गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ॥ ३८८ ॥ विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः । व्यधादग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥ ३८९ ॥ युधिष्ठिरेण कृपया रणे रक्षितजीवितः । सख्यं करीटिना कृत्वा जितश्चित्ररथो ययौ ॥ ३९० ।। ततः प्रभाते प्रच्छन्नाः पाण्डवा विप्ररूपिणः । प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥ ३९१ ॥ इत्युक्त्वा नारदे याते संकर्षणजनार्दनौ । जग्मतुर्लक्ष्यभेदाङ्कं द्रष्टुं कृष्णास्वयंवरम् ॥ ३९२ ।। तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे । पूज्यमानौ विविशतुः स्वयंवरसभागृहम् ॥ ३९३ ॥ हेमासनोपविष्टेषु द्रौपदी सर्वराजसु । जगजयपताकेव कंदर्पस्य समाययौ ॥ ३९४ ॥ राधावेधपणे तस्मिन्भुजलभ्ये स्वयंवरे । अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥ ३९५ ॥ विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः । विवा धनंजयो लक्ष्यं क्षितौ क्षिप्रमपातयत् ॥ ३९६ ॥ हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते । युद्धोद्धताः समुत्तस्थुः क्रुद्धाः सर्वे क्षितीश्वराः ॥ ३९७ ॥ जित्वाथ शल्यकर्णादीन्वीरान्भीमधनंजयौ । पुरः कृष्णां समादाय ययतु तृभिः सह ।। ३९८ ॥ भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति । चक्रुस्ते शासनान्मातुः सह भोगाय संविदम् ॥ ३९९ ।। १. "विलीनताम्' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । रामकृष्णौ निशि खैरं कुम्भकारगृहे स्थितान् । पाण्डवानेत्य सानन्दौ प्रेम्णा संभाष्य जग्मतुः ।। ४०० ॥ अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् । कृष्णाया बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ।। ४०१ ॥ ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः । पञ्चेन्द्राः समदाः पूर्व क्रुद्धा बद्धाः पिनाकिना ॥ ४०२ ॥ ते एव पाण्डवा जाताः खर्गश्रीस्तव चात्मजा । तेषामेकैव सा पत्नी नैवायं धर्मसंकरः ॥ ४०३ ॥ इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिनरेश्वरः । सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ॥ ४०४ ॥ ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवान्प्राप्तसंश्रयान् । हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत् ॥ ४०५ ॥ इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः । गुणैः श्रियं श्रिया धर्म धर्मेण प्राप्तवान्यशः ॥ १०६ ॥ निर्दिष्टां नारदेनाथ मुनिमा भेदभीरुणा । भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥ ४०७ ।। अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः । अविश्रान्तः स तीर्थानि व्रजेवादशवत्सरीम् ॥ ४०८ ॥ चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः । आजहार समादाय धर्मजान्तःपुराद्धनुः ॥ ४०१ ॥ स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले । मज्जन्नुलूपीं पाताले नागकन्यामवाप्तवान् ।। ४१० ॥ जनयित्वा सुतं तस्यामिरावन्तं जगाम सः । नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥ ४११ ।। प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् । चित्रागदां सुतं तस्यां बभ्रुवाहनमाप्तवान् ॥ ४१२ ॥ १. 'त एव पाण्डवा नाथ' का 'उवाच पाण्डवा नाथ' घ. २. 'लोचनः' क-ख-ग.
काव्यमाला। सर्वतीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः । रैवताचलयात्रायां प्राप वृष्णिसमागमम् ।। ४१३ ।। अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे । उत्साहोच्छलितं चेतः सानुगस्य हरेय॑धात् ॥ ४१४ ॥ तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् । कन्यामनुमते शौरजहार श्वेतवाहनः ।। ४१५॥ युद्धोद्धतान्वृष्णिवीरान्पेरिसान्ल्य जनार्दनः । निःसंख्यं द्रविणं दातुमर्जुनाय ययौ खयम् ॥ ४१६ ॥ इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः । प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥ ४१७ ॥ अभिमन्यु सुभद्रायां पार्थः पुत्रमजीजनत् । द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान् ।। ११८॥ ततः कदाचिद्यमुनाजलकेलिविहारिणम् । सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥ ४१९ ॥ उचितं दीयतां मह्यं भवभ्यां भोजनं हितम् । अर्थिनामर्थनावन्ध्या न भवन्ति भवद्विधाः ।। ४२० ।। श्वेतकेतृपतेः पूर्वं यज्ञे द्वादशवार्षिके । अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥ ४२१ ॥ वनं स्वास्थ्याय सत्त्वाढ्यं दग्धुमिच्छामि खाण्डवम् । रक्षतीन्द्रः सुहृन्मेषैस्तक्षकस्यास्पदं हि तत् ॥ ४२२ ॥ व्यस्तमेघौधविघ्नोऽहं भवत्सायकसंचयैः । अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥ ४२३ ॥ इति वहिर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः । धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥ १२४ ॥ तद्दत्तं रथमारुह्य तदीयाक्षयसायकः । हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥ ४२५॥ १. 'दयानन्दः क-घ. २. 'परिमन्न्य' क. ३. 'महत्' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । अग्नौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां निष्पीतायुषि गाढलीढगगने दैत्याहिदेहगुहि । रुद्धे मेघजलेऽर्जुनास्त्रपटलैयुद्धोद्धतं वज्रिणं वि(जि)ष्णुः सायकवर्षिणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥ सुतमथ भयलोलं तक्षकस्याश्वसेनं जठरमपि जनन्याः संप्रविश्य द्रवन्तम् । अकृत दिवि किरीटी पत्रिणा खण्डपुच्छं मयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥ ४२७ ॥ ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः । विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥ ४२८ ॥ तस्यां सभायामाश्चर्यनलिनी निर्ममे मयः । नीलरत्नोत्पलवती हेमाजां स्फटिकोदकाम् ॥ ४२९ ॥ सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत् । राजन्न लोकपालानां त्वत्सभासदृशी सभा ॥ ४३० ।। यजख राजसूयेन कुरुष्व सफलां श्रियम् । इति त्वामवत्पाण्डुः पिता शक्रसमास्थितः ॥ ४३१ ॥ इत्युक्त्वा नारदे याते राजसूयमनोरथम् । अकुण्ठोत्कण्ठया राजा वैकुण्ठाय न्यवेदयत् ॥ ४३२ ॥ कृष्णस्तमूचे श्लाघ्यैषा धर्मधीः किं तु मागधे । न जीवति जरासंधे क्रतुः कर्तुं स शक्यते ॥ ४३३ ।। रुद्रयागोपहाराय तेन रूद्धा गिरिव्रजे । षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ।। ४३४ ॥ शरीरार्धद्वयं जातं जरा निशि निशाचरी । संधाय विदधे बालं जरासंघ तमुत्कटम् ॥ ४३५ ॥ तत्संनिरोधविश्वस्ताः संत्यज्य मथुरां वयम् । विधाय द्वारकां दुर्गा पश्चिमाब्धितटे स्थिताः ॥ ४३६ ॥ १. 'चक्र' ख-ग.
काव्यमाला। इति वैरं ब्रुवाणेन नृपः संमन्य शौरिणा। व्यादिशन्मागधवधे भीमपार्थों भुजाविव ॥ ४३७ ॥ ततः स्नातकवेषेण प्रच्छन्नक्षत्रवृत्तयः । जरासंधपुरी जग्मुः कृष्णभीमधनंजयाः ॥ ४३८ ॥ तत्र त्रयोदशाहानि युयुधाते भुजायुधौ । वीरौ भीमजरासंधौ श्रान्तोऽभून्मगधस्ततः ॥ ४३९ ॥ ततः संधि द्विधा कृत्वा हते भीमेन मागधे । मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥ ४४० ॥ भीमः किरीटी नकुलः सहदेवश्च दिग्जये। आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षमम् ॥ ४४१ ॥ कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु । राजसूयसमारम्भः प्रावर्तत महीपतेः ॥ ४४२ ॥ प्राप्ता निमन्त्रितास्तस्मिन्मीष्मद्रोणादयः क्रतौ । धृतराष्ट्रः सविदुरः सामात्यश्व सुयोधनः ॥ ४४३ ।। अशेषदेवर्षि ते सर्वराजमये मखे । अाचितं हरि सेहे शिशुपालो न भूपतिः ॥ ४४४ ॥ तस्याधिक्षेपदक्षस्य क्षमापतेः क्षयलक्ष्मणा । न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥ ४४५॥ क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च । तस्थौ दुर्योधनस्तत्र शकुनिश्वास्य मातुलः ॥ ४४६ ॥ पद्मिन्यां विहरवारिशङ्कया स्फाटिके जले । चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥ ४४७ ॥ तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः। जहसुीमसेनश्च बभूवाङ्कुरितस्मितः ॥ ४४८ ॥ लज्जावमानमलिनः कौरवः स्वपुरं व्रजन् । पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥ ४४९ ॥ १. 'शान्तो' ख-ग. २. 'वृते' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । ११५ - धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः संख्यातीतं च तद्दानं मर्मशल्यायते मम ॥ ४५० ॥ पद्मिन्यामुपहासो मे पद्मस्येव हिमाशनिः । पतितः क्षीयते जाने न शरीरक्षयं विना ॥ ४५१ ॥ इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः । वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥ ४५२ ॥ परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभ- श्युतश्चित्ते दाहं दिशति निशितक्लेशमसताम् । परोत्साहे चन्द्रप्रचयसचिवः किं च महता- मनन्तः संतोषश्चरति हृदये चन्दनरसः ॥ ४५३ ।। ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः। निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥ ४५४ ॥ कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे । अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ।। ४५५ ॥ स धर्मजं राजसूयसमयादनिवर्तिनम् । आहूय विदधे छद्मद्यूतं शकुनिमायया ॥ ४५६ ॥ कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः । पणं भ्रातृनथात्मानं कृष्णां च विदधे नृपः ॥ ४५७ ॥ दुःशासनकराकृष्टकेशीमथ रजखलाम् । कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥ ४५८ ॥ तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने । युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥ ४५९ ।। वने द्वादशवर्षाणि निवासाय पणे कृते । त्रयोदशे तथाऽज्ञाते विजिताः पाण्डवा ययुः ॥ ४६० ।। हाराहें तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवे धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् । १. 'कूट' क-ख. २. 'अतिवर्तनम्' ग-घ. ३. 'तुरङ्गोद्भवे' ख-ग.
काव्यमाला। कृत्वा रत्नकिरीटधानि च जटा जग्मुर्वनं पाण्डवा निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः संपदः ॥ ४६१ ॥ स्खलद्वियुल्लेखाङ्कुरमुखमयूखोपमसुखाः श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः । विवाहोत्साहाप्ताः क्षणमिव सुहृद्वान्धवजना न संसारे खप्नभ्रमपरिचये किंचिदचलम् ॥ ४६२ ॥ ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः । द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥ ४६३ ।। धृतराष्ट्र परित्यज्य भ्रातृजच्छद्मखेदवान् । विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ।। ४६४ ॥ सोऽवदद्भातरं राजन्पुत्रस्नेहवता त्वया । कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥ ४६५ ।। यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् । श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥ ४६६ ॥ बन्धुसंध्यर्थनाभङ्गकोपशापः क्षयक्षमः । मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥ ४६७ ॥ भीमादीमं भयं शङ्के येन रावणसंनिमः । स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥ ४६८ ॥ विदुरेणेत्यभिहितं नामन्यत महीपतिः । दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥ ४६९ ।। वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात् । अभिमन्यु सुभद्रां च समादाय हैरिययौ ॥ ४७० ॥ भीष्मद्रोणास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया । अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥ ४७१ ॥ १. 'धामनि जटा' ख. २. 'भोजनाः' ख. ३. 'पाण्डवाः काम्यके' ख. ४. 'ययौ हरिःख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । तीव्र तपस्यतस्तस्य सत्त्वसारपरीक्षकः । देवः किरातरूपेण त्रिपुरारिः समाययौ ॥ ४७२ ॥ एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः । युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत् ॥ ४७३ ।। स्मरारिशबरेणाथ ग्रस्तशस्त्रः प्रमाथिना। युयुधे बाहुयुद्धेन धैर्यराशिर्धनंजयः ।। ४७४ ।। निपीड्य चण्डीपतिना निश्चेष्टः पातितः क्षितौ । गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य ब्यक्षमब्रवीत् ॥ ४७५ ॥ दर्पोद्धतत्रिपुरकाननपावकाय भक्तार्तितापतुहिनद्युतिमण्डलाय । संसारघोरतिमिरोत्कटभास्कराय तुभ्यं त्रिधामशबलाय नमः शिवाय ॥ ४७६ ॥ इति स्तुतिकृतानन्दसुधासंपूर्णानसात् । अस्त्रं पाशुपतं तुष्टाकिरीटी प्राप धूर्जटेः ॥ ४७७ ॥ संप्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् । शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥ ४७८ ॥ प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः । तदासनाधं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥ ४७९ ।। पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः । तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥ ४८० ॥ प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् । तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥ ४८१ ॥ नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः । गन्धमादनशैलाकं बदर्याश्रममाययुः ॥ ४८२ ॥ पवनप्रेरितं तत्र दिव्यपद्म पुरश्च्युतम् । आदाय द्रौपदी भीमं कटाक्षेण निरक्षत ॥ १८३ ॥ १. 'अत्यद्भुतं' ख-ग. २. 'मानसः' क-घ. दशा० ११ काव्यमाला। अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः । ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ।। ४८४ ॥ स व्रजन्काञ्चनलतानिचयाचितवम॑ना । दिदेश मददारियं सिंहनादेन दन्तिनाम् ॥ ४८५ ॥ पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः । हनुमान्मार्गमाश्रित्य तस्थौ खल्पवपुः पुरः ।। ४८६ ॥ सोऽल्परूपं कपिं दृष्ट्वा जानुसंधिकृताननम् । चकारोत्सारणरवं घनं घट्टितदिक्तटः ॥ ४८७ ॥ शनैरुन्मील्य नयने तं जगाद प्लवंगमः । किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥ ४८८ ॥ नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् । दर्शितं कृशशूरेण भवता बत पौरुषम् ।। ४८९ ॥ इतःपरं न गन्तव्यं देशोऽयं सिद्धसेवितः । सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥ ४९० ॥ इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः । श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥ ४९१॥ को भवान्किमनन्तात्मा कि मेरुः किं हिमाचलः । मार्ग देहि न लढ्यो हि देही देहितनुस्थितः ॥ ४९२ ।। यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः । साचलं लङ्घयेय त्वां हनुमानिव सागरम् ॥ १९३ ॥ श्रुत्वैतत्कपिना पृष्टः क एष हनुमानिति । मीमोऽस्मै हनुमद्वृत्तं भ्रातृत्वं च न्यवेदयत् ।। ४९४ ॥ अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः । कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत् ॥ ४९५ ॥ संनिधानं करिष्यामि धनंजयरथध्वजे । इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ॥ ४९६ ॥ १.'आवृत्य ख-ग. २. 'जनार्दनः' ख-ग. ३. 'भ्रातृव्यं' क-घ.
८ श्रीकृष्णावतारः] दशावतारचरितम् । कुबेरनलिनी प्राप्य भीमः कनकपङ्कजम् । जहार हेमपद्मानि हत्वा गुह्यककिंकरान् ॥ ४९७ ॥ सानुगं स्वयमायातं जित्वा वैश्रवणं रणे। मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥ ४९८ ॥ द्रौपथै कनकाजानि दत्त्वा पवननन्दनः। मायाप्रच्छन्नमवधीद्यातुधानं जदासुरम् ॥ ४९९ ॥ अथ शक्ररथारूढः पार्थः पूर्णमनोरथः । आयातः पञ्चभिर्वर्षेः प्रणनाम युधिष्ठिरम् ॥ ५०० ।। हतान्यवेदयत्सोऽमै हिरण्यपुरवासिनः । निवातकवचान्दैत्यान्खशौर्याख्यानलज्जितः ॥ ५०१ ॥ वने महानजगरः कदाचिदचलोपमः ।। बद्ध्वा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥ ५०२ ॥ संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् । उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥ ५०३ ॥ को विप्रः किं च वेद्यं स्याब्रूहि भीमस्य मुक्तये । भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥ ५०४ ॥ क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः स शूद्रो विप्रत्वं प्रगुणगुणसङ्गेन भजते । द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥ ५.०५ ॥ सुखेन दुःखेन च वर्जितं यत्तदेव वेद्यं विदितात्मधाम । शीतोष्णहीनप्रतिमैव यत्र संतोषविश्राममयी प्रशान्तिः॥५०६॥ धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजंगमः । अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥ ५०७ ॥ अथः पाण्डुसुतान्द्रष्टुं सहितः सत्यभामया । मार्कण्डेयादिभिः सार्धं मुनिभिः शौरिराययौ ॥ ५०८ ॥ १. 'द्विजोऽपि व्यक्तात्मा' ख-ग; 'द्विजोऽप्यव्यक्तात्मा' घ. २. 'त्यक्खा क-ग.
काव्यमाला। नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् । सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥ ५०९ ॥ वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा । कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥ ५१० ॥ ममोपदिश जानासि यत्किंचित्प्रीतिकारणम् । इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥ ५११ ॥ अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् । वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहाईपातकम् ॥ ५१२ ॥ वश्यप्रयोगैयोंषिद्भिः कुष्ठापस्माररोगिणः । भग्नभाग्याश्च पतयो मूकान्धवधिराः कृताः ॥ ५१३ ॥ भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् । इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥ ५१४ ॥ यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान् । पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥ ५१५ ॥ वने विहारिणस्तस्य तुल्यावरणकारणे। रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥ ५१६ ॥ भनेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् । बबन्ध गन्धर्वपतिश्चित्रसेनः शरार्दितम् ॥ ५१७ ॥ बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः । भीमपार्थो विसृज्याजौ म्लानमानममोचयत् ॥ ५१८ ।। अपि विस्मृतवैरेषु प्राणदानोपकारिषु । द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥ ५१९ ॥ दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतुं सद्यो बक्रद्युतिरलसतामेति पद्माकरस्य । नान्तःस्यूता चलति रिपुता किं च संकोचभाजः प्रायेणैते खजनविमुखाः श्रीमदान्धा भवन्ति ॥ ५२० ॥ १. 'बन्धु क-ग. २. 'स्फीता' क-घ. ३. 'चरति' क-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । तेन तीवावमानेन राज्यत्यागनिबद्धधीः । से समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ॥ ५२१ ॥ अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात् । आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥ ५२२ ॥ स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः । जहार हारितमतिः करुणाकन्दिनी बलात् ।। ५२३ ॥ ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् । ध्वजिनीं च रजोग्रस्तगगनां समुपाद्रवन् ॥ ५२४ ॥ शराशनिविनिष्पिष्टसैन्यानालोक्य पाण्डवान् । रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥ ५२५॥ अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् । ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥ ५२६ ॥ पादेनालोडितं ग्र(स्र)स्तमुकुटं तस्य मारुतिः । क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥ ५२७ ।। रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना । वरमेकदिनं प्राप पाण्डवावरणं रणे ॥ ५२८ ॥ अत्रान्तरेऽर्जुनखेहात्कर्णमेत्य शतक्रतुः । ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥ ५२९ ॥ पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् । एकवीरँवधायास्मै शक्तिं वैकर्तनो ददौ ॥ ५३० ॥ शूरा भवन्ति विदुषामपि नास्ति संख्या पूर्ण वनं व्रतरतैर्विरलस्तु दाता । म्लानिं प्रयाति सितसत्त्वमयस्य यस्य देहप्रधानसमयेऽपि न चित्तवृत्तिः ॥ ५३१ ॥ अरणी हरिणेनाथ ब्राह्मणस्य हृतां वने । जबेन जग्मुराहतुं धन्विनः पाण्डुनन्दनाः ॥ ५३२ ॥ १. अपमानामितो' क-घ. २.'वर' ख-ग.३. फाल्गुणं ख-ग. ४.'वधायात्त'क-घ.
१२२ काव्यमाला। निर्जलारण्यतापातैरन्वेष्टुमथ तैः पयः । माद्रीसुतः प्रेषितोऽने ददर्श विपुलं सरः ५३३ ॥ प्रश्नमुक्तिकृता पेयमन्यथा नेति खाद्वचः । श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥ ५३४ ॥ क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे । युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥ ५३५ ॥ निर्जीवः कः सजीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः । खक्ष्माधिको को पितरौ किं लोलमनिलान्मनः ॥ ५३६ ॥ किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् । लाभात्किमुत्तमं खास्थ्यं किं सुखं चित्तनिर्वृतिः ॥ ५३७ ॥ संधि स्थिरः कैः सुजनैः किं शोककृदहंकृतिः । किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥ ५३८ ॥ किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः । उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥ ५३९ ॥ इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः । जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात् ॥ ५४० ॥ अथ वनसमयान्ते गूढवासप्रवृत्ताः प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् । प्रगुणगुणगणानामापदो दैवदिष्टाः सुरपतिसदृशानामप्यहो दुर्निवाराः ॥ ५४१॥ अथाभून्मत्स्यराजस्य राजराजशिरोमणेः । विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥ ५४२ ॥ सूदस्तस्याभवद्भीमः क्षमापतेर्वल्लभाभिधः । गायत्यलिकुलैः कीर्ति लोला यस्यालकाजिनी ॥ ५४३ ॥ श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः । शैण्ठाकृतिरभूजिष्णुर्तृत्तवृत्तिव॑हन्नडः ॥ ५४४ ॥ १. 'सलिलात ख-ग. २. 'षण्ढाकृति' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । मत्स्यपल्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत् । अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥ ५४५ ॥ इति ते तुरगाधीशसेव्याः सेवकतां ययुः । विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥ ५४६ ॥ अथायातं हतानेकमलं भूमिपतेः पुरः । मलं. जीमूतनामानं मारुतिः क्रीडयावधीत् ॥ ५४७ ॥ सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः । विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥ ५४८॥ व्याजेन प्रेषितां खस्रा भयसंभ्रमविद्रुताम् । कीचकस्तामभिद्रुत्य चकर्ष चरणाहताम् ॥ ५४९ ॥ सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् । राजापि कीचकस्नेहाचक्रे गजनिमीलितम् ॥ ५५० ।। आर्ताक्रन्दश्रवणबधिराः सेवकालोकनान्धाः प्रत्यालापप्रणयिनि जने निश्चलोत्सेकमूकाः । भूपाः प्रायः पिशुनदचनाकर्णने हस्तिकर्णा नीचप्रीतिप्रसृतनयनाश्चञ्चलानेकवाचः ॥ ५५१ ।। भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात् । बाष्पैः करतलस्पृष्टे क्षालयन्तीव वाससी ॥ ५५२ ॥ क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् । कीचकस्याकरोत्प्रातः संकेतं नाट्यवेश्मनि ॥ ५५३ ।। रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् । केसरीव द्विपं मत्तमवधीन्मूढ कामुकम् ॥ ५५४ ।। पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा । तैरेव निहतं मेने प्रभाते कीचकं जनः ॥ ५५५ ॥ १. भारते सुदेष्णेति नामास्ति. २. अस्मदीयं घ-पुस्तके 'की' इति पर्यन्तं वर्तते. ३. 'निमीलनम्' ख-ग.
१२४
काव्यमाला।
तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् ।
कृष्णां चितानले क्षेप्तुमनयदुःखदायिनीम् ॥ ५५६ ॥
भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान् ।
शतं वृक्षप्रहारेण कीचकानामपातयत् ।। ५५७ ।।
प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा ।
हतु कीचकहीनस्य विराटस्याययौ धनम् ॥ ५५८ ।।
संरुद्ध नगरे मत्स्यः पूर्वमेव सुशर्मणा ।
कङ्कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ॥ ५५९ ॥
ततः प्रवृत्ते समरे मिथः सुभटसंक्षये ।
जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥ ५६० ॥
भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः ।
पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत् ॥ ५६१ ॥
त्रिगर्तकटके भने सामात्यः कौरवेश्वरः ।
विराटगोधनं सर्व जहारान्येन वर्त्मना ।। ५६२ ॥
शूरशून्येऽथ नगरे विराटसुतमुत्तरम् ।
अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥ ५६३ ॥
सोऽब्रवीच्चौरचरितं कौरवं हन्म्यहं रणे ।
गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥ ५६४ ॥
किं तु मे सारथिर्नास्ति रणभारभरक्षमः ।
इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥ ५६५ ॥
उत्तरायाः खसुर्यस्ते नृत्ताचार्यों बृहन्नडः ।
स सारथिरभूत्पूर्व खाण्डवे सव्यसाचिनः ॥ ५६६ ॥
अथोत्तरार्थितः पार्थः प्रतिपन्नरथग्रहः ।
चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ॥ ५६७ ॥
अथोत्तरे रथारूढे जवेनाश्वानचोदयत् ।
क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥ ५६८ ॥
८ श्रीकृष्णावतारः] दशावतारचरितम् । १२५ दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् निवर्तखेति भीभग्नस्त्राणार्थी पार्थमभ्यधात् ॥ ५६९ ।। तमर्जुनोऽवदन्निन्धं क्षत्रियस्य पलायनम् । एकवारक्षये काये मरणं न पुनः पुनः ॥ ५७० ॥ श्रुत्वैतत्कातरतया रथमुत्सृज्य विद्रुतम् । आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ।। ५७१ ॥ योत्स्येऽहं कुरुभिधैर्य भजख भव सारथिः । अर्जुनोऽहं भवद्रोहे कङ्काद्याः पाण्डवाः स्थिताः ॥ ५७२ ॥ श्मशानान्तःशमीवृक्षस्कन्धे सन्त्यायुधानि नः । प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥ ५७३ ।। उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः । तप्रेरितरथस्तूर्ण विवेश कुरुवाहिनीम् ॥ ५७४ ॥ एकैकशः समस्तांश्च शराशनिधनागमः । भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥ ५७५ ॥ प्रखापनास्त्रसुप्तानां कुरूणामुत्तराकृते । जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥ ५७६ ॥ प्रत्याहृते गोधनेऽथ विजयेन जितारिणा । चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥ ५७७ ॥ बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः । वदन्निति विराटेन प्रहतोऽयुधिष्ठिरः ॥ ५७८ ॥ हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः । प्रविवेशार्चितः पौरैरवाप्तोन्नतिरुत्तरः ॥ ५७९ ।। अक्षाभिघातरक्तातललाटं वीक्ष्य धर्मजम् । स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥ ५८० ।। अज्ञातवाससमये पूर्णे पाण्डुसुतानथ । हृष्टः प्रकटतां यातान्विराटः समपूजयत् ।। ५८१ ।।
काव्यमाला। तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु । विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥ ५८२ ।। ते कृष्णसात्यकिहलायुधकुन्तिभोज- पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः । सार्थ सभाभुवमुपेत्य विराटजुष्टां प्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥ ५८३ ॥ अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः । अलङ्घयशासनं देवं मेने दलितपौरुषम् ॥ ५८४ ॥ तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः । दुर्योधनः प्रविदधे भूपालबलसंग्रहम् ॥ ५८५ ॥ पाण्डवार्थे समायातं पथि संमानभोजनैः । आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ।। ५८६ ॥ द्वारकायां ततः कृष्णं सुयोधनधनंजयौ । तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ।। ५८७ ॥ अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः । दत्त्वा कुरुपतेभीगमयोद्धा पाण्डवान्ययौ ॥ ५८८ ।। वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः । एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥ ५८९ ॥ अत्रान्तरे रणारम्भसंशयाकुलिताशयम् । धृतराष्ट्र समभ्येत्य प्रणम्योवाच संजयः ॥ ५९० ॥ अराज्यदानसंधानदूतोऽहं तव शासनात् । गतः पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जितः ॥ ५९१ ॥ मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः । देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥ ५९२ ॥ • इत्युक्त्वा संजये याते धृतराष्ट्रः खदुर्नयात् । तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥ ५९३ ॥ । १. 'संमान्य का ८ श्रीकृष्णावतारः] दशावतारचरितम् । १२७ प्रजागरगंदावस्थं द्वाःस्थाहूतः सुखोज्झितम् । ' तमेत्य विदुरः प्राह संजयोक्ताप्तसंशयम् ॥ ५९४ ॥ अयं ते सुमते कमान्निद्राद्रोही महाज्वरः । तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥ ५९५ ॥ त्यक्ताभिमानः संतोषी निद्वेषः शीलवान्क्षमी । दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥ ५९६ ॥ लोभाभ्यासव्यसनमसमं चिन्तया हन्ति निद्रां खस्थ शेते प्रसृतचरणः किं तु निर्लोभ एव । लोभः पुंसामसमविषमः कृष्णवां विधत्ते तीनं तापं जनधनघनस्नेहसंपूर्यमाणः ॥ ५९७ ।। असेवाप्ता वृत्तिः खलपरिभवायासरहिता. वचः सत्यस्वातं परगुणगणोदीरणपरम् । अनुत्तानः पाणिः परधनकणस्पर्शविमुखः प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥ ५९८ ॥ राज्याधं भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् । बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥ ५९९ ।। त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् । गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥ ६०० ॥ विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत् । युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥ ६०१ ॥ हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः । स्वातत्र्यचित्रचरितः केन वा लङ्घयते विधिः ॥ ६०२ ॥ श्रुतं न मृत्युरस्तीति मया किल वचः पुरा । तहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत् ॥ ६०३ ॥ खयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् । सनत्सुजातो योगीन्द्रः सर्वं ते कथयिष्यति ॥ ६०४ ॥ १. 'गरास्वस्थ क. २. 'निर्दोषः क. ३. 'च' क. ४. 'तीव्रः' क. ५. 'गोनसा' क-ख.
१२८ काव्यमाला। अभिधायेति विदुरस्तं सस्मार स चाययौ । प्राप्तपूजासनः पृष्टः माभुजेति तमभ्यधात् ॥ ६०५ ॥ राजन्देहभृतां मृत्युः क्रोधः स्ववंदनोदितः । येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥ ६०६ ॥ रागद्वेषादयो दोषा जनानां जन्मकारणम् । जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥ ६०७ ॥ न मुक्तिर्वेदवादेन देहान्ते स पलायते। वीणावशेषु भग्नेषु न कचित्तिष्ठते ध्वनिः ।। ६०८ ॥ आत्मप्रत्यवमर्शन पुनर्जन्म न विद्यते । आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥ ६०९ ॥ इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ । राजा राजसभां प्रातर्भेजे भीष्मादिभिः सह ।। ६१० ॥ आहूतः संजयस्तत्र पाण्डवोक्तिं न्यवेदयत् । श्रूयतामविरुद्धैर्वा क्रुद्धर्वा तैरुदाहृतम् ॥ ६११ ॥ खं राज्यं प्रददाति यद्यवनिपस्तत्किं हतैर्बान्धवै- डूंते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् । पाणिः किं च पितृव्यपादविनतौ चापे च धावत्यय तुल्यं चित्तममन्युमन्युशबलं संघौ च युद्धे च नः ॥ ६१२ ॥ श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा । भीष्माद्यैश्वार्थितः संधि बुबुधे न सुयोधनः ॥ ६१३ ॥ अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः । संध्यर्थी कौरवान्कृष्णः खयमेव समाययौ ॥ ६१४ ॥ भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः । सहितः स विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥ ६१५ ॥ हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः । नेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥ ६१६ ॥ १. 'क्ष्माभुजा च ख-ग. २. 'वचनो' क. ३. 'अलं' ख-ग. ४. 'पुरा' ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् । प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥ ६१७ ॥ हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे । भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ।। ६१८ ॥ अथ प्रथमजीमूतश्यामः सामसुधामयीम् । उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥ ६१९ ।। कौरवेन्द्र स्वपुत्रास्ते भ्रोतृपुत्रास्तु पाण्डवाः । सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥ ६२० ॥ भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः । अहो तत्राप्येषा प्रभवति मतिर्दुनयमयी न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ।। ६२१ ।। कलकं या दत्ते प्रसरदपवादास्पदतया सुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता । अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला सशापा सा संपद्विपदिव जनोद्वेगजननी ॥ ६२२ ॥ यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृ- चित्ते तत्किल संकलय्य सकलं लोकक्षयाशङ्किमिः । संधिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवै- ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ।।६२३॥ कौस्तुभाभरणेनेति भरतान्वयभूतये । सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥ ६२४ ॥ प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः । मदनिद्रालसः प्राह संधिद्वेषी सुयोधनः ॥ ६२५ ॥ मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः । किं मिथ्यानीतिचिन्ताभिर्दैवाधीना विभूतयः ॥ ६२६ ॥ १. 'श्यामः' क. २.'भातुः पुत्राश्च' क. ३. 'नारदभार्गवेः' क. दशा० १२ काव्यमाला। भवति भिषगुपायैः पथ्यभुङ्गित्यरोगी धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः । अनयचयविधायी निश्चलैश्वर्यधैर्यः खवशनियंतशक्तेः शासनेनैव धातुः ॥ ६२७ ॥ इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः । सभान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत् ।। ६२८ ॥ सह स्थितेन कथितं कर्णे सात्यकिना हरिः । ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥ ६२९ ॥ विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्र- ाप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः । निष्पर्यन्ताकृतिकृतजगद्वौरवः कौरवाणां निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥ ६३० ॥ विना भीष्मं सविदुरं मोहलीनेषु राजसु । सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥ ६३१ ॥ पश्चात्कर्णमथायातमारोप्य खरथे हरिः । प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥ ६३२ ॥ सहोदरान्पाण्डुसुतान्भजख त्यज कौरवान् । राज्यं तव क्रमायातं कुरु मद्वचनं हितम् ॥ ६३३ ।। इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत । सर्व वेद्मि न निन्धं तु मित्रद्रोहमहं सहे ॥ ६३४ ॥ देव त्वमेव वद कौरवभूमिभर्तु- रुत्सङ्गसक्तशिरसः कथमर्कजोऽहम् । व्यापारयामि सुहृदः परिपीय लक्ष्मी कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥ ६३५ ।। साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः । स दृष्टः श्वेतवाहस्थः खप्ने पायसभुङ्मया ॥ ६३६ ॥ १. "निशित' क. २. 'शैलस्थः' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः । रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥ ६३७ ।। इति वैकर्तनेनोक्तं विचिन्त्योचितमच्युतः । तं विसृज्य समामय प्रययौ पाण्डवान्तिकम् ॥ ६३८॥ प्रातः कुन्ती समभ्येत्य कर्ण सूर्यार्चनोन्मुखम् । मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥ ६३९ ॥ उवाच च विना जिष्णुं न हन्म्यन्यं तवात्मजम् । मयि तेन मया तस्मिन्हते त्वं पैञ्चपुत्रिका ॥ ६४० ॥ श्रुत्वैतत्प्रययौ कुन्ती भन्नार्थितमनोरथा । ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥ ६४१॥ बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः । भीष्मं सेनापति चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥ ६४२ ॥ रथसंख्याक्षणे कर्ण भीष्मोऽर्धरथमभ्यधात् । तयुद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥ ६४३ ॥ ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः । योद्धाहं त्वद्विपक्षाणामेकं मुक्त्वा शिखण्डिनम् ॥ ६४४ ॥ काशिराजसुतां पूर्व बलात्कन्याः खयंवरे । अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥ ६४५ ।। साल्वाभिलाषिणी नीता त्वयास्मीत्यार्तवादिनी । संत्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥ ६४६ ॥ पुनः प्राप्ता मया त्यक्ता भग्नमानमनोरथा । सा जगामोभय_शखिन्ना मुनितपोवनम् ॥ ६४७ ॥ ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः । अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥ ६४८ ।। आज्ञाभङ्गेन कुपितः स मया समरे जितः । ययौ क्षत्रोपदेशात्तनियमः खं तपोवनम् ॥ ६४९ ॥ १. 'उत्तो' ख-ग. २. 'नाई हन्मि' ख-ग. ३. 'पुत्रपञ्चका' क. ४. 'अब्रवीत् ख-ग.
पदस्य शिखण्डिनी॥ ६५० ॥ काव्यमाला। मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्किणी । प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाङ्क्षिणा । लेभे दशार्णराजस्य विवाह विधिना सुताम् ॥ ६५१ ॥ शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् । दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥ ६५२ ॥ दशार्णरुद्धे नगरे द्रुपदे विद्रवोद्यते । खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥ ६५३ ।। तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् । विधातृशक्तिवैचित्र्यात्सा लेभे लक्ष्म पौरुषम् ॥ ६५४ ॥ दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् । दृष्ट्वा विमन्युर्दाशार्णः खां ययौ लज्जितः पुरीम् ॥ ६५५ ॥ वनं वैश्रवणः प्राप्तस्तं समीपमनागतम् । स्थिरस्त्रीलक्षणं यक्षं शापेन विदधे क्रुधा ॥ ६५६ ॥ अगृहीतेऽथ यक्षेण खलक्ष्मणि शिखण्डिनी। पुरुषत्वं गता वर्व्यः स्त्रीपूर्वः स मया युधि ॥ ६५७ ॥ न संत्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते । न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥ ६५८ ॥ उक्त्वेति दिव्यतटिनीतनयस्तरखी वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः । प्रम्लानतां परबले निजकार्मुके ज्यां चित्ते च कौरवपतेधृतिमाबबन्ध ॥ ६५९ ॥ दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् । अगृहीतमैथ प्राप धृतराष्ट्रेण संजयः ॥ ६६० ॥ कुरुपाण्डवसङ्ग्रामं कुरुक्षेत्रे विलोक्य सः । धृतराष्ट्राय निखिलं दिव्यचक्षुर्व्यवेदयत् ॥ ६६१ ॥ १. 'देहा सा' ख-ग. २. 'विच्युवे' क. ३. 'अपि' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । अथ युद्धाय संनद्धे भूमिपालबलद्वये । गुरून्भीष्मकृपद्रोणमुखान्संबन्धिबान्धवान् ॥ ६६२ ॥ दृष्ट्वा युद्धोद्यतानग्रे श्वेताश्वः कृष्णसारथिः । मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥ ६६३ ॥ तं समाश्वास्य शोकात जगाद गरुडध्वजः । त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥ ६६४ ॥ मनुष्यजन्मजनिता केयं ते मोहवासना । क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥ ६६५ ॥ स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः । मिथ्याकलङ्ककलनां कायाहंकारसंकरः ॥ ६६६ ॥ मेघव्योमसमागमप्रतिनिधिधूमाग्निसङ्गोपमः श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् । छिन्नेच्छाघनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः संमोहः खपरावभेदरहितैर्युक्तैः स संत्यज्यते ॥ ६६७ ॥ इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् । अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत् ॥ ६६८ ॥ तत्सर्वदेवमयमद्भुतमच्युतस्य रूपं सहस्रकरकोटिनिभं बभासे । निःशेषभूपतितरङ्गितसैन्यसिन्धु- ग्रासाभिलाषवडवानलतुल्यवक्रम् ॥ ६६९ ॥ वचः श्रुत्वा वपुर्दृष्ट्वा दिव्यं मोहहरं हरेः । निर्विकल्पमतिर्जिष्णुः सभामाभिमुखोऽभवत् ।। ६७० ॥ रथाग्रादवरुह्याथ रणारम्भे युधिष्ठिरः। प्रणनाम प्रसादाान्भीष्मद्रोणमुखान्गुरून् ॥ ६७१ ॥ ते तमूचुर्गुणोदारं विधाय विजयाशिषम् । परं लज्जामहे राजन्प्रयातास्त्वद्विपक्षताम् ॥ ६७२ ।। १. 'युद्धोद्धतान्' २. 'प्रवृत्ता क्रिया' ख; 'प्रवृत्ता...' ग.
१३४ काव्यमाला। किं कुर्महे परायत्ता वेतनोत्तानपाणयः । कौरवस्य परं याताः सेवाकार्पण्यपण्यताम् ॥ ६७३ ॥ अग्रे संकुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभो- राशापाशनिवेशयन्त्रिततनुः संख्याक्षणे लम्बते । अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रति साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ।। ६७४ ॥ इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे । चेरुवीरा यशःपुष्पलुब्धा इव शिलीमुखाः ।। ६७५ ॥ प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि । पेतुर्भूभृत्कुले भीष्मशरधारापरम्पराः ।। ६७६ ॥ द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् । निनाय समरे शल्यः क्षयारम्भोपहारताम् ।। ६७७ ॥ नवमे युद्धदिवसे नागीतनयमा निम् । इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥ ६७८ ॥ प्रत्यहं युधि भीष्मेण भूभृतामयुते हते । दशमेऽहि क्षयाशङ्का पाण्डवानामजायत ।। ६७९ ॥ भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः । शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ।। ६८० ॥ स्त्रीपूर्वदेर्शनोद्वेगशिथिलीकृतकार्मुकः । प्राह दुःशासनं मीष्मः किरीटिशरपूरितः ॥ ६८१ ।। एते ते त्रिपुरारातिकिरातपतनोन्नताः । शराः खाण्डवशौण्डस्य चण्डा गाण्डीवर्धेन्वनः ॥ ६८२ ॥ एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः । जिष्णोर्लक्ष्यभिदः स्वयंवरमणे:(हे) क्ष्मापालवैलक्ष्यदा न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबाननाः सायकाः ॥ ६८३ ॥ १. 'मेघस्येवेषु वर्षिणः' ख-ग. २. 'दर्शनोद्योग' ख-ग. ३. 'धन्विनः' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः । स पपात रथादस्तशैलादिव दिवाकरः ॥ ६८४ ॥ पितुर्वरेण खच्छन्दमृत्युयोगपरायणः । उत्तरायणमाकाङ्क्षन्स जीवितमधारयत् ।। ६८५ ॥ दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः । शिरस्तस्य निराधारमुच्चिक्षेप शरैत्रिभिः ॥ ६८६ ॥ कर्णेन प्रणिपातकीर्णचरणः पूरेण बाप्पाम्भसा- माशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् । सस्मार स्मरणीयमन्तसमये संतोषविश्रान्तधीः शान्तानन्तविकल्पतल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥ अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः । सैन्यस्याधिपतिं चक्रे द्रोणाचार्य सुयोधनः ॥ ६८८ ॥ प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः । युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥ ६८९ ॥ ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृपक्षयः । इतोऽभूद्रोणविशिखैधृष्टद्युम्नशरैरितः ॥ ६९० ॥ द्वितीये युद्धदिवसे सारितः कुरुभूभृता । गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात् ।। ६९१ ।। ततः संशप्तकाः शूराः शपथादनिवर्तिनः । त्रिगर्ताः समराडूरं निन्युराइय फाल्गुनम् ॥ ६९२ ॥ कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः । त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥ ६९३ ॥ सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः । मृद्गन्गजरथानीकं पाण्डुसेनां व्यलोकयत् ।। ६९४ ।। १. 'निराधारं स चिक्षेप' ख-ग. २. 'विस्तारणम्' ख. ३. 'विश्रान्तये' ख. ४. 'जल्प' ख. ५. 'इति' क. ६. 'भूभुजा' क.
काव्यमाला। श्रुत्वास्य सैन्यसंमदं त्वरितः श्वेतवाहनः । मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥ ६९५ ॥ घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः । ऊर्ध्वाधःपातिनामासीत्संघर्षः पत्रिणामपि ॥ ६९६ ।। विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् । जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥ ६९७ ।। पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति । भन्मभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥ ६९८ ॥ तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः । चक्रव्यूहं व्यधाकुंद्धः संसारगहनं गुरुः ॥ ६९९ ।। पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया । सौभद्रः केसरिशिशुर्गजयूथमिवाविशत् ।। ७०० ॥ प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् । अवारयद्भर्गवरात्पाण्डुपुत्राञ्जयद्रथः ।। ७०१॥ अभिमन्युशरोत्कृत्तशिरसां कङ्कटक्षये। भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत् ॥ ७०२ ॥ नृपान्कर्णकृपद्रौणिशल्यहार्दिक्यसौबलान् । एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात् ॥ ७०३ ॥ कृत्तचापः स कर्णेन हताश्वः कृतवर्मणा । कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥ ७०४ ॥ हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये । मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥ ७०५ ।। व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् । अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात् ॥ ७०६ ॥ तत्प्रतिज्ञाभयागन्तुं रात्रौ सैन्धवमुद्यतम् । गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत् ॥ ७०७ ।। १. 'लुब्ध' का 'नृपकर्ण' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १३७ खप्ने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् । विधि पाशुपतास्त्रस्य तदादिष्टमवाप्तवान् ॥ ७०८ ॥ प्रभाते शकटव्यूहे सूचीपाशे जयद्रथम् । निवेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥ ७०९ ।। व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनंजयः । कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ।। ७१० ॥ मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः । शिरःसमूह आच्छिन्नः पपात भुवि भूभृताम् ॥ ७११ ॥ दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता । विवेश सात्यकि…हं विसृष्टो धर्मसूनुना ॥ ७१२ ॥ तस्य निर्दारितारातर्विशिखाशनिवर्षिणः । भूरिश्रवा धैर्यनिधिगं गिरिरिवाग्रहीत् ॥ ७१३ ॥ तौ कृत्तकार्मुकरथौ खड्गचर्मधरौ मिथः । युध्यमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥ ७१४ ॥ सात्यकेः पातितस्याथ शिरश्छेत्तुं समुद्यतम् । जिष्णोरदर्शयद्दूराद्भूरिश्रवसमच्युतः ॥ ७१५ ॥ पार्थस्तस्यार्धचन्द्रेण सखगं भुजमुद्यतम् । कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत् ॥ ७१६ ॥ स कृत्तबाहुर्घिकृत्य निन्दन्कृष्णकिरीटिनौ । तालुरन्ध्रोगतज्योतिर्योगेनात्मानमत्यजत् ॥ ७१७ ॥ अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः । धिकृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥ ७१८ ॥ युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः । द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥ ७१९ ॥ स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः । कृतायुधाश्वं पटकृत्वश्चकाराहतकौरवः ॥ ७२० ॥ १. 'प्रकरं' क; 'समूह' ख. २. 'षट्कृला' ख-ग.
१३८ काव्यमाला। ततः कर्णः समुत्कृत्तकवचायुधवाहनम् । तुदन्भीमं धनुष्कोट्या नावधीज्जननी सरन् ।। ७२१ ।। दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये । दृष्ट्वा जयद्रथं दूरात्संदधेऽस्त्रं धनंजयः ॥ ७२२ ॥ क्षितौ तस्य शिरः क्षेप्तुः शिरः पूर्वं पतेदिति । पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत् ॥ ७२३ ॥ कुरुक्षेत्राबहिर्जिष्णुः संध्यासीनस्य तत्पितुः । चिक्षेपाङ्के शरोत्कृत्तं शिरस्तस्मात्क्षितिं ययौ ॥ ७२४ ॥ अक्षौहिणीः सप्त हेत्वा जिष्णुना सैन्धवे हते। दैवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥ ७२५ ।। उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे । लजितेन समादिष्टं रात्रियुद्धमवर्तत ॥ ७२६ ॥ समुद्धततमः केशी रणे तरलतारका । ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥ ७२७ ।। अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः । शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥ ७२८ ॥ तस्याट्टहासविस्पष्टदंष्ट्रांशुपटलैर्मुहुः । पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥ ७२९ ॥ कुरुसैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः । कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥ ७३० ॥ एकवीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् । जघान घनसंमर्द कुमार इव तारकम् ॥ ७३१ ॥ पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः । प्रजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥ ७३२ ॥ 'अत्रानलशिलावर्षी १. 'दत्तवरंक.२. 'जिला' क. ३."अस्त्राननशरावर्षी' ग. ४. 'रुरावाघटितं' ख-ग. ५. 'क्षपाप्रजागरक्षीबान्' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् । ब्रह्मास्त्रेणाकरोद्रोणः कल्पन्ताविर्भवभ्रमम् ॥ ७३३ ॥ अश्वत्थामा हतः संख्ये स्पष्टमुक्त्वेति धर्मजः । हस्तीत्यसत्यचकितः पश्चात्खैरमभाषत ॥ ७३४ ॥ श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः । उत्क्रान्तधाम्नः खगेन धृष्टद्युम्नः शिरोऽहरत् ॥ ७३५ ॥ हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः । नारायणास्त्रमसृजज्ज्वालालीढजगत्रयम् ॥ ७३६ ॥ अस्त्रानले प्रज्वलिते वीराः सर्वे हरेगिरा । रथेभ्योऽवातरन्यस्तशस्त्राः पवनजं विना ॥ ७३७ ॥ एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः । हृतायुधं समाकृष्य रथापादनयद्भुवम् ॥ ७३८ ॥ शान्तेऽस्ने द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् । ब्रह्मास्त्रेणार्जुनः शान्ति निनाय प्रलयोद्यतम् ॥ ७३९ ॥ अथ मोहविषावेशसमनीलमणिप्रभम् । प्राप्तं दृष्ट्वा मुनिं द्रौणिः प्रणम्य व्यासमभ्यधात् ॥ ७४० ॥ कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता । मदनदहनान्मुक्तौ कस्मात्कृष्णधनंजयौ ॥ ७४१ ॥ तमब्रवीन्मुनिर्दोणे त्वमंशस्त्रिपुरद्विषः । नरनारायणौ देवौ जातौ कृष्णधनंजयौ ॥ ७४२ ॥ मूर्ती त्वयार्चितः शंभुराभ्यां लिङ्गे सुपूजितः । एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥ ७४३ ॥ मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः । दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥ ७४४ ॥ १. 'कल्पान्तविभव' ख-ग. २. 'वैक्लव्य' क. ३. 'दहनोन्मुक्ती' क. ४. 'द्रौणि' ख. ५. 'स पूजितः ख.
१४० काव्यमाला। भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः । अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥ ७४५ ॥ मुनिः प्राहार्जुन देवः स खयं शशिशेखरः । व्यम्बकस्त्रिपुरारातित्यक्षस्त्रिपथगाधरः ॥ ७४६ ॥ स्मर स्मरारिं तमुमासहायं शिवं जगद्भासविलाससक्तम् । भयापहं भीममनेकरूपमुक्त्वेति पार्थ प्रययौ मुनीन्द्रः ॥ ७४७ ।। हते द्रोणे प्रिय मित्रं कौरवश्चिरचिन्तितम् । कर्ण सेनापतिं कृत्वा जगज्जितममन्यत ॥ ७४८॥ अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः । रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधसम् ॥ ७४९ ।। कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् । शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ।। ७५० ॥ भीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान् । कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥ ७५१ ॥ असिकृत्तोरसस्तस्य भीमः शोणितमापपौ । प्रकोपराक्षसावेशविवशः कुरुते न किम् ॥ ७५२ ॥ कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरादितः । राधेयनिधनाधानसंनद्धोऽभूद्धनंजयः ॥ ७५३ ।। प्रवृत्ते संभृतामर्षे रणे कर्णकिरीटिनोः । मृगस्त्वं जिष्णुसिंहाग्रे कर्णमित्याह मद्रपः ॥ ७५४ ॥ खण्डपुच्छाभिधं नागमथ संधाय संचितम् । प्राहिणोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ।। ७५५ ॥ हरिगौरवनम्रश्च(स्य) विनतस्य स पन्नगः । जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥ ७५६ ॥ भूग्रस्तचक्रमुद्धर्तुमथ खरथमुद्यतः । क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥ ७५७ ॥ १. 'परः' ख-ग. २. 'वेधसा' ख-ग. ३. 'गिरार्पितः' ख-ग. ४. कण्ठांशः' ख-ग. ५. 'क्षमार्थी' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । कृष्णस्तमब्रवीद्रीडाकरशल्योक्तिपीडितम् । धर्मः स्मृतोऽद्य राधेय नाभिमन्युवधे त्वया ॥ ७५८ ॥ यथा तप्तस्यान्ते भवति मृदुता संनतिमयी तथा सा स्यात्पूर्व यदि जनमता वृत्तिरथ सः (१) । घनाघातोत्कर्षापरपुरुषहुंकारविहिता न तस्यासीत्पीडा निबिडजडतावाप्तविकृतेः ॥ ७५९ ॥ इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः । संदधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥ ७६०॥ बाणेन कृत्तगलमञ्जलिकाभिधेन तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् । वकं जहार पृथुहारविलम्बिशोण- रत्नप्नभानिभनभःप्रसृतप्रकाशम् ॥ ७६१ ॥ हते कर्णे वहन्नन्तःशोकशल्यं सुयोधनः । शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥ ७६२ ॥ शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः । भ्रूभङ्ककङ्कवाङ्कस्तं समुद्धर्तुमाद्रवत् ॥ ७६३ ॥ तस्येषुवर्षिणश्छित्त्वा रथसारथिकाच्कान् । पाहार्षीत्पाण्डवः शक्ति कालदंष्ट्रामिवोत्कटाम् ॥ ७६४ ॥ प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी। वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥ ७६५ ॥ खयं राज्ञा हते शल्ये सहदेवेन सौबले । सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥ ७६६ ॥ कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः । विरथस्तान्समामड्य विवेशालक्षितो हृदम् ॥ ७६७ ।। हृदस्यान्तर्नुपे तस्मिन्प्रविष्टे शत्रुशङ्किते । भीमं भीमभयेनेव पयश्चिरमकम्पत ॥ ७६८ ॥ १. 'प्राहैषीत्' क. २. "तले' ख-ग. दशा० १३ काव्यमाला। यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयो- स्तस्यारातिनिपातंशङ्कितमतेरेकाकिनोऽन्तर्जले । क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहति- क्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः संपदः ॥ ७६९ ॥ ऋणशेषमिव ध्यायन्धार्तराष्ट्र युधिष्ठिरः । लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥ ७७० ॥ स्तिमितं सलिलस्थं तं जगाद च तटस्थितः । राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥ ७७१ ॥ कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् । एकेन सह युध्यस्ख जिते तस्मिञ्जिता वयम् ॥ ७७२ ।। श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः । एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥ ७७३ ॥ न में राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित् । इत्युक्त्वा सहितः सर्वैः स कुरुक्षेत्रमाययौ ॥ ७७४ ॥ अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् । सारखतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥ ७७५ ॥ प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः । भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥ ७७६ ॥ वय॑मानेऽथ भीमेन प्रहारे कौरवेण च । तदाघातच्युते भीमे भीमाघातेन चापरे ।। ७७७ ॥ सुचिरं संशयतुलारूढे खभटमण्डले । न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥ ७७८ ॥ अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः । पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥ ७७९ ॥ पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् । शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥ ७८० ॥ १. 'क्लेशाकान्ति' ख-ग. २. 'जलान्तरे' ख-ग.
८ श्रीकृष्णावतारः] दशावतारचरितम् । प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः । निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥ ७८१ ।। मिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् । वारयन्तं गदाग्रेण गृध्रगोमायुवायसान् ॥ ७८२ ॥ तं दृष्ट्वा द्रौणिरवदत्तीब्रहृन्मर्मवेदैनः । किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ।। ७८३ ॥ अकृष्णपाण्डवं लोकं करोमि तव शासनात् । इत्युक्त्वा तद्राि गत्वा प्रविवेश महद्वनम् ॥ ७८४ ॥ कृपभोजसखस्तत्र रात्रौ काकान्निपातितान् । उलूकैर्वृक्षमूलस्थः स दृष्ट्वाचिन्तयच्चिरम् ॥ ७८५ ॥ काकान्कालबलेनैते घ्नन्त्येषारिवधे स्थितिः । हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव ब्रजाम्यहम् ॥ ७८६ ॥ ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा । क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ॥ ७८७ ॥ पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया । पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान् ॥ ७८८ ॥ तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् । प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥ ७८९ ॥ प्रीत्या भगवता तेन रुद्रेण खयमर्पितम् । द्रौणिनिस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥ ७९० ।। पञ्चामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः । शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणी क्षणात् ॥ ७९१ ॥ स सुप्तवधपापेन प्रलिप्तः शोणितेन च । कृतान्तरचरितः प्रययौ कौरवान्तिकम् ॥ ७९२ ॥ निःशेषशत्रुनिर्धेनं श्रुत्वा द्रौणिनिवेदितम् । खर्गेऽस्तु सङ्ग इत्युक्त्वा नृपस्तत्याज जीवितम् ॥ ७९३ ॥ १. 'छिन्नोरु' क. २. 'व्याघ्र' ख-ग. ३. 'वेदनम्' ख-ग. ४, 'मथनं' क.
काव्यमाला। A प्रातबन्धुवियोगातौं कृष्णाशोकाग्नितापितौ । भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥ ७९४ ॥ द्रौणिः सरखतीतीरे चरन्त्रणघृताप्लुतः । दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत् ॥ ७९५ ।। अर्जुनो ब्राह्ममस्त्रं च संघर्षेणास्त्रयोस्तयोः । अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥ ७९६ ॥ तद्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात् । अभिमन्युवधूगर्भे द्रौणिचूडामणौ परम् ॥ ७९७ ॥ पाण्डवाः पुत्रशोकात धृतराष्ट्र प्रलापिनम् । गान्धारीसहितं गत्वा प्रणेमुर्लज्जिताः शनैः ॥ ७९८ ॥ क्रमादोलिङ्गने भीमः शौरिबुद्ध्यायसः कृतः । चूर्णतामँगमगाढं धृतराष्ट्रेण पीडितः ॥ ७९९ ॥ युधिष्ठिरस्य गान्धारी सतीं प्रणमतः पुरः। तदृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत् ॥ ८०० ।। नुषाभिः सह गान्धारी खयं गत्वा रणावनिम् । दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥ ८०१॥ षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः । भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत् ॥ ८०२ ॥ पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते । अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥ ८०३ ॥ ततः कृतोदकविधिर्बान्धवक्षयदुःखितः । राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥ ८०४ ॥ कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे । स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत् ॥ ८०५ ॥ क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् । अस्त्रार्थी भार्गवं कर्णः प्रययौ विप्रवेषवान् ॥ ८०६ ॥ १. "द्रौणे:' क. २. 'आलिङ्गनात्' क. ३. 'प्रययौ' ख-ग.
८. श्रीकृष्णावतारः] दशावतारचरितम् । रामस्तदङ्कसुप्तोऽर्धनिद्रासंक्षयभीरुणा । क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥ ८०७ ॥ तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् । रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात् ॥ ८०८ ॥ गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः । घटोत्कचे नष्टशक्तिः शल्याषिक्षेपशल्यवान् ।। ८०९ ॥ द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः । हतः कर्णः कुरुपतेः कुमन्त्रकृतसंक्षयः ॥ ८१० ॥ नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः । कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥ ८११ ॥ राज्यं कथंचिजग्राह शल्यतुल्यं युधिष्ठिरः । कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥ ८१२ ॥ अभिषेकामुकुटं समेत्याथ युधिष्ठिरम् । उवाच ब्राह्मणाकारश्चार्वाको नाम राक्षसः ॥ ८१३ ।। छत्रं त्रपाकरमहो व्यजनं जनाये दुःखप्रदं प्रविस्ताश्रुकणानुकारः । हारः परं खजनमित्रवियोगशोक- पीडावतां बत विडम्बनमेव लक्ष्मीः ॥ ८१४ ॥ चार्वाकस्येति वचसा राज्यत्यागोद्यते नृपे । राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥ ८१५ ॥ ज्ञात्वोत्तरायणं प्राप्तं शरशय्याश्रयस्ततः । मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ॥ ८१६ ॥ दोषाश्रयाखिलतमःशमसूर्यधाम- संसारसर्पविषवारणसिद्धमन्त्रः। शुद्धात्मनां भवति पुण्यपणोपपन्नं पाथेयमन्तसमये सरणं मुरारेः ॥ ८१७ ॥ १. 'स्मरन् क.
काव्यमाला। स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः । सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥ ८१८ ॥ प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः। शरशल्यव्यथाहीनं स्निग्धक्सुधया व्यधात् ॥ ८१९ ॥ देहसंन्याससंनद्धं राजा लज्जानतः शनैः । शासनेन हरेभीष्मं श्रेयः पप्रच्छ धर्मजः ॥ ८२० ॥ सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् । धर्मः प्रजापरित्राणं कोषः सद्धृत्यसंग्रहः ॥ ८२१ ।। प्रजाकार्ये सक्तिः श्रवणमभिभूतार्तवचसां स्पृहा कामक्रोधप्रमदमदमानव्युपरमे । क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभृताम् ॥ ८२२ ।। विरक्तस्वीकारः कृतकविरतिः कोषभरणं बलाधिक्ये शत्रोः शरणगेमनं पादपतनम् । प्रहारश्छिद्राप्तौ निहतरिऍमिथ्याश्रुपतनं धिया दैवादिष्टं शरणमिदमापन्निपतने ॥ ८२३ ॥ आशापाशविमुक्तनिश्चलसुखा स्वायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः । चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥ ८२४ ॥ कारुण्याद्गलितं प्रदानसमये चित्तं प्रसन्नं सदा क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् । सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मार्जितं तद्दानं दयितं फलप्रियतया वाणिज्यसजं न यत् ॥ ८२५ ॥ इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसंग्रहम् । विष्णोर्नामसहस्राख्यं मन्त्रराजमुँदीर्य तम् ॥ ८२६ ॥ १. "क्षितिः ख-ग. २. 'गमने' ख-ग.३.'नृप'ख-ग.४. 'उदीर्यत'क; 'उदीयते'ख.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १४७ कमोदितबलोरिक्षप्तबिन्दुभेदपथोदितम् । तालुरन्ध्रोच्चलज्योतियोंगेनात्मानमत्यजत् ॥ ८२७ ॥ अथ भीष्मवियोगातः पापशान्त्यै युधिष्ठिरः । अश्वमेधाभिधे चक्के यज्ञे व्यासाज्ञया मतिम् ॥ ८२८ ॥ अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना । यत्प्राह समरारम्भे ज्ञानयोगं तदुक्तवान् ॥ ८२९ ॥ कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् । ऊचे मुनिरुतङ्काख्यः कुरुसंक्षयदुःखितः ॥ ८३० ।। शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः । न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत् ॥ ८३१ ॥ ततस्तस्सै स्मितमुखः शौरिदेहतमोहरम् । भासुरार्कसहस्रामं विश्वरूपमदर्शयत् ॥ ८३२ ।। अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा । मत्स्यराजसुतासूत भसीभूताकृति शिशुम् ॥ ८३३ ।। सुभद्रयार्थितः खस्रा भगवान्भूतभावनः । द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत् ।। ८३४ ॥ कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः । परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥ ८३५ ॥ अथ यज्ञाश्वरक्षायै व्रजञ्जिष्णुर्जगजयी । मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ।। ८३६ ॥ तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः । उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥ ८३७ ।। प्रययौ हयमादाय वपुरं भ्रातुरन्तिकम् । प्रावर्तत च भूभर्तुयज्ञः काञ्चनवर्षिणः ॥ ८३८॥ १. 'छन्दोदित' क. २. पथोत्थितम्' ख-ग. ३. योगज्ञान' ख. ४. 'कोपशापों क. ५. 'ससुराक' ख-ग. ६, 'पुत्रं' क. ७. 'परिक्षिदिति' क. ८. 'यज्ञ' ख-ग.
काव्यमाला। अथैकपाधै कनकद्युतिभृन्नकुलोऽद्भुतः । विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ॥ ८३९ ॥ सोऽब्रवीद्भूभुजा पृष्टः शिलोञ्छस्वच्छवृत्तिना । सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ।। ८४० ॥ तदुच्छिष्टजलस्पृष्टं पार्थ मे हेमतां गतम् । द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥ ८४१ ॥ निःसंख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः । जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ।। ८४२ ।। इत्युक्त्वा नकुले याते दानमानमहोन्नतिः । सर्वखदक्षिणे यज्ञे राजा(ज्ञः) शिथिलतां ययौ ॥ ८४३ ॥ अथ दैवतवन्नित्यं पूज्यमानोऽपि भूभुजा । भीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत् ॥ ८४४ ॥ स सदा पुत्रशोकेन भूमिशायी फलाशनः । मिथ्याराज्योपभोगाप्तिं धर्मजाय न्यवेदयत् ॥ ८४५ ॥ स जातगाढवैराग्यः पल्या सह वनं ययौ । व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ।। ८४६ ॥ दयितजनवियोगोद्वेगरोगातुराणां विभवविरहदैन्यम्लानमानाननानाम् । शमयति शितशल्यं हन्त नैराश्यनश्य- द्भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥ ८४७ ।। यातस्तपःस्थितं द्रष्टुं धृतराष्ट्र युधिष्ठिरः । ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥ ८४८ ॥ प्राप्तः खनगरं राजा शुश्राव कुरुपुंगवम् । सानुगं दावदहने प्रविष्टं संजयं विना ॥ ८४९ ॥ पत्रिंशेऽब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् । साम्ब स्त्रीवेषमादाय पप्रच्छुः सस्मिता मुनीन् ॥ ८५० ॥ १. 'वैराग्य' ख-ग. २. षट्त्रिंशाब्दे' क.
८ श्रीकृष्णावतारः] दशावतारचरितम् । १४९ भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः । क्रुद्धास्तान्मुनयः प्राहुभविष्यति कुलान्तकः ॥ ८५१ ॥ कालेन लोहमुसलं जातं साम्बस्य वृष्णयः । घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥ ८५२ ॥ तचूर्णजातघल्लीभिः क्षीबाः स्पर्धाकथाक्रुधा । निर्बन्धाधुध्यमानास्ते क्षणेन क्षयमाययुः ॥ ८५३ ॥ कृष्णः कुलक्षयोद्विग्नस्तेजः खं घानि वैष्णवे । हेम हेनीव निक्षिप्य प्रययौ कायशेषताम् ॥ ८५४ ॥ याते प्रविश्य पातालमनन्तत्वं हलायुधे । लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥ ८५५ ।। अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति य- न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने । तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया क्षयक्षीबः कालः किल गिलति नैवाभवदिति ॥ ८५६ ॥ अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः । शोकार्तस्तद्वधूवृन्दं वपुरं नेतुमुद्ययौ ॥ ८५७ ॥ व्रजतस्तस्य गोपाला बृहल्लगुडपाणयः । जडेराकृष्टजापस्य स्त्रैणमाकीर्णपत्रिणः ॥ ८५८ ॥ ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः । निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥ ८५९ ।। नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् । कलत्रं निर्धनस्येव विधेयं नामवद्धनुः ॥ ८६० ॥ रुद्राभिद्रवमुद्रितादिशिखराः शक्रोन्मुखाः खाण्डवे खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो । १. 'तेजस' ख-ग. २. 'अनन्त' ख-ग. ३. 'प्रदलने ख. ४. 'लडलगुड' क. ५. 'खण्डनाः' ख-ग. ६. 'निर्गुणस्येव' ख-ग.
१५० काव्यमाला। जग्मुर्जिष्णुशरा मुरारितरुणीत्राणे तृणक्लीबतां यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥ ८६१॥ युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् । भ्रातृभिः सह पन्या च महाप्रस्थानमाविशत् ॥ ८६२ ॥ कृष्णायाः पतने प्राह राजा विजयरक्तताम् । प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥ ८६३ ॥ सोऽवदत्यच्युतस्याथ सहदेवस्य धीमदम् । नकुलस्यादरं रूपे जिष्णोविजयदृप्तताम् ॥ ८६४ ॥ मीमस्य बह्वशनतां व्रजन्नेव शुना सह । पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥ ८६५ ॥ अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् । देवदूतार्पितं राजा नारुरोह शुना विना ॥ ८६६ ॥ तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः । तुष्टः खं रूपमास्थाय प्रशशंस पुनः पुनः ॥ ८६७ ॥ अथ राजा समारुह्य विमानं त्रिदिवं व्रजन् । ददर्श नरकं घोरं देवदूतप्रदर्शितम् ॥ ८६८ ॥ ततस्तद्दर्शनोद्विगं देवदूतस्तमब्रवीत् । राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ॥ ८६९ ॥ प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिना- मकर्णानां क्लाम्यत्कृपणकरुणाक्रन्दसमये । अवश्यं भूपानां भवति विभवोन्मादकुधियां दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥ ८७० ॥ इत्युक्ते देवदूतेन शकलोकं युधिष्ठिरः। धर्मधाम निजं भेजे खं खं चान्ये सुरांशजाः ॥ ८७१ ।। लक्ष्मीश्चामरतारहारहसिता मत्तेमकुम्भस्तनी त्रैलोक्याक्रमणः पराक्रमभरः संभोगयोग्यं वयः । १. "विहेयं च ख-ग. २. 'आदाय' ख-ग.
९ बुद्धावतारः] दशावतारचरितम् । पूर्व सर्वमखर्वगर्वसुखदं संचर्व्यमाणं पुनः पर्यन्ते परिणाममीलदखिलाखादं विषादास्पदम् ॥ ८७२ ॥ इति स भुवनभूत्यै भूतभर्ता विधाय प्रसभविभवशक्त्या भूमिभारावतारम् । अगमदमरसंधैः कीर्त्यमानप्रभावः सह नरमुनिना खं धाम नारायणांशः॥ ८७३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते श्रीकृष्णावतारोऽष्टमः । बुद्धावतारो नवमः। काले प्रयाते कलिविप्लवेन रोगग्रहोगे भगवान्भवाब्धौ । मजत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत् ॥ १॥ स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले । शुद्धोदनाख्यस्य नराधिपेन्दोधन्यस्य गर्भेऽवततार पत्त्याः ॥२॥ मायाभिधाना नरनाथपत्नी गर्भे हरि विश्वगुरुं वहन्ती । आसन्नचन्द्रेव सुधाब्धिवेला निधानधन्येव वसुंधराभूत् ॥ ३ ॥ कुक्षिं ततस्तत्क्षणमक्षताया विभिद्य मातुर्भगवान्प्रजातः । गर्भोदकास्पृष्टविशुद्धमूर्तिर्जाम्बूनदेनेव विनिर्मिताङ्गः ॥ ४ ॥ स जातमात्रस्त्रिदशप्रमुक्तनभोनदीवारिभराभिषिक्तः । पदत्रयी कम्पितसर्वलोकां दत्त्वा दिशन्दिक्षु भृशं जगाम ॥ ५ ॥ पूर्वा स्थितेयं मम निर्वृति, धीः सर्वसत्त्वोद्धृतिदक्षिणेयम् । जन्मस्थितिः संप्रति पश्चिमेयं संसारबन्धादियमुत्तरा च ॥ ६ ॥ इति ब्रुवाणं नृपतिस्तमेत्य दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् । स जातदिव्यानुभवाभिमानः कुलंस्य भूत्यै धृतिमाबबन्ध ॥ ७ ॥ तं लक्षणज्ञा जगदुः सहर्षमयं शिशुर्लक्षणलक्ष्यमाणः । प्रभुभविष्यत्यवनीश्वराणामनुत्तरज्ञाननिधिसुनिर्वा ॥ ८ ॥ १. 'सङ्गैः' का 'संख्यैः' ख-ग. २. 'रागोरगोने' क. ३. 'लक्ष्मणाङ्कम्' ख-ग. ४. 'भिमानं क. ५. 'स्म' ख-ग.
१५२ काव्यमाला। स सर्वविद्याविदितार्थसत्त्वः संप्राप्तशस्त्रास्त्रगजाश्वशिक्षः। सर्वार्थसिद्ध्या पितुराप्तकीर्तिः सर्वार्थसिद्धाभिधतां जगाम ॥ ९॥ सर्वखदानाभिमुखोऽर्थिसाथै स देहदाने तृणवत्कृतेच्छः । लीलाविहारी विचरन्रथेन ददर्श वृद्धं पथि जीर्णकायम् ॥१०॥ तं वीक्ष्य विच्छायमशक्तिलुप्तमवाप्तपर्याप्त विरक्तभावः । सोऽचिन्तयन्निश्चितमन्तसक्ता कायस्य निर्वेदमयी दशेयम् ॥ ११ ॥ अहो बतायं जरयाभिभूतः कुरूपतां क्लेशमयीं प्रयातः । तारुण्यमाकुञ्चितकृष्णकेशं शोचन्निवान्तः श्वसिति प्रेकामम् ॥ १२ ॥ महीनिविष्टाकृतिरल्पदृष्टिः किं कष्टचारी नगरे करोति । संतोषशीतं श्रयति प्रशान्त्यै किमाश्रमं श्रान्ततनुर्न वृद्धः ॥ १३ ॥ भ्रमः कासश्वासः कफभररवः कण्ठकुहरे श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता। अहो वृद्धाँस्सिन्सकलविरहक्लेशसमये प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ॥ १४ ॥ क्षणं विचिन्त्येति नरेन्द्रसूनुर्वजन्पुरप्रान्तविलोकनाय । शोकाश्रयं हर्षविषाधाम श्मशानमाकीर्णशवं ददर्श ॥ १५॥ स सारथिं प्राह विलोक्य लीनं शरीरिणां कायमपायभूमौ । अनित्यताचिन्तनजातखेदः संसारवरस्यविचारसक्तः ॥ १६ ॥ क्लेदामोदविविनवायसशुनः कुत्सापदस्याशुचे- रन्ते यस्य दशेदृशी क्षयमयी कायस्य भूशायिनः । मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति- व्यासक्तिं परदेहदारणघनद्रोहं नराः कुर्वते ॥ १७ ॥ नासत्यं न परापवादपिशुनं नो मर्मभिद्भाषते नैराश्येन विशेषशीतलतनुः सेवावासोज्झितः । १. 'निश्चयं ख-ग. २. 'प्रकाशम्' ख-ग. ३. 'आश्रय' ख-ग. ४. 'अस्य ख-ग. ५. 'प्रवासोज्झितःक.
९ बुद्धावतारः] दशावतारचरितम् । १५३ पापोपार्जनवर्जितः परगृहे द्वाःस्थैरसंतर्जितः कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ॥ १८ ॥ क्षितिप्रतिष्ठस्य कलेवरस्य पर्यन्तभूमावियमेव निष्ठा । यत्काष्ठपाषाणसमानचेष्टं प्रयाति मृद्भस्मशकृत्क्रिमित्वम् ॥ १९ ॥ उक्त्वेति वैराग्यमयीं प्रशान्ति श्रयन्विचिन्त्यान्तविनाशि सर्वम् । अन्तःपुराभ्यन्तरमेत्य सोऽभूद्विभूतिभोगे शिथिलाभिलाषः ॥ २० ॥ अन्तःपुरे तस्य नृपात्मजानां सहस्रषष्ट्या हरिणेक्षणानाम् । चित्राप्तिानामिव संगमोऽभून्न शान्तिसक्तस्य सुखानुभावः ॥ २१॥ ततः क्षितीशं समुपेत्य सर्वे मौहूर्तिकाः संसदि तत्त्वमूचुः । राजन्सुतस्ते भविता त्रिलोकीपतिः प्रभावे भगवाजिनो वा ॥ २२ ॥ श्रुत्वेति राजा भुवनाधिपत्यं पुत्रस्य यत्नेन समीहमानः । वनाभिकामस्य तपो निरोद्धं चक्रे पुरद्वारविशेषगुप्तिम् ॥ २३ ॥ अत्रान्तरे शान्तिपथं प्रवेष्टुमाशापरित्यागधृतावधानः । अस्ताद्रिशृङ्गाश्रमधानि सूर्यः संध्याकषायाम्बरमाललम्बे ॥ २४ ॥ रवौ प्रयाते ककुभां बभूव धनोऽनुरागः क्षणमात्रलक्ष्यः । प्रेमाणि चित्तानि च जीवलोके विद्युद्विलोलानि न कस्य नाम ॥ २५ ॥ रवेर्वियोगे गुणिवल्लभस्य शोकानुकारेण तमोभरेण । स्नेहेन साधोरिव बन्धुवर्गः पद्माकरः क्लेशनिमीलितोऽभूत् ॥ २६ ॥ दिक्केशपाशप्रतिमं तमस्तद्दीपावलीचम्पकमालिकाङ्कम् । लेभे वियोगाच्च(त)वधूस्मराग्निस्थानस्फुलिङ्गाकुलधूमलीलाम् ॥ २७ ॥ अथोद्ययौ सत्त्वसितप्रकाशः सुधां दधानः करुणामिवान्तः । निवारयन्मोहधनान्धकारं विश्वोपकाराय शशीप्रवृत्तः ॥ २८ ॥ चन्द्रोदयेऽन्तःपुरसुन्दरीणां प्रसाधनव्यग्रपरिग्रहाणाम् । शृङ्गारलीलासमयं विलोक्य क्षणं प्रदध्यौ नरनाथसूनुः ॥ २९ ॥ १. 'दोष' क. २. "विनं' ख-ग. इतः प्रभृति एकोनचलारिंशश्लोकस्य प्रथमपादप- चन्तं ख-ग-पुस्तकयोस्त्रुटितमस्ति. दशा०१४ १५४ काव्यमाला। इमाः संमोहाम्रप्रसरतडितश्चारुनयना यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः । सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥ ३० ॥ संचिन्तयन्नित्यवनीशसूनुर्दारेषु रुद्धेषु निशान्तपालैः । दिव्यप्रभावाप्तगतिर्विचार्य विनिर्ययौ हर्म्यपथेन तूर्णम् ॥ ३१ ॥ खच्छन्दकाख्यं प्रविबोध्य सूतं हयं समारुह्य च कन्थकाख्यम् । व्योम्ना जवावादशयोजनानि गत्वा वनं निर्जनमाससाद ॥ ३२ ॥ तत्रावरुह्याश्ववरात्प्रभाते केयूरहाराङ्गदकुण्डलानि । मुक्त्वा किरीटं च वितीर्य सर्व सूताय सत्त्वाभरणस्तमूचे ॥ ३३ ॥ हंहो निवर्तख हयं गृहीत्वा गृहाण सर्वाणि विभूषणानि । एतैर्न किंचिन्मम कृत्यमस्ति भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥ ३४ ॥ एको वनेऽस्मिन्निति नैव कार्यस्त्वया मयि नेहमयोऽनुतापः । संजायते जन्मनि जन्तुरेकः प्रयाति चान्ते परलोकमेकः ॥ ३५ ॥ द्रुमश्छत्रं मित्रं सरलहृदयोऽयं मम मृगः स्थली लीलाशय्या तनुतरतरुत्वनिवसनम् । खकोषः संतोषः कृपणकरुणैव प्रियतमा न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥ ३६॥ उक्त्वेति सूतं क्षितिपालसूनुः स्वयं कृपाणेन निकृत्तजूटः । तमश्रुधारार्द्रपटं विसृज्य शृङ्गं गिरेरुन्नतमारुरोह ॥ ३७ ॥ पर्यतबन्धेन सुखोपविष्टे समाधिसंनद्धविरुद्धचित्ते । तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः स भग्नशृङ्गः शकलीबभूव ॥ ३८ ॥ गिरीन्द्रभङ्गेन विविग्नवकं दृष्ट्वामरा व्योमचरास्तमूचुः । जगद्गुरुं त्वं गिरिरेष धर्तुं प्रभो प्रसीदात्र शुभं न शक्तः ॥ ३९ ।। ततः स निष्कम्पमवाप्य देशं वज्रासनाख्यं विकसद्विवेकः । अनुत्तरज्ञाननिधानमाप्तुं धीरः स्थिरध्यानधुरंधरोऽभूत् ॥ ४० ॥ १. 'प्रसीद कुशलं' क.
९ बुद्धावतारः] दशावतारचरितम् । १५५ जात्यैव मारः शमनिश्चलानां वैराग्यवैरेण विकारकारी । तस्येन्दुकान्त्येव कृताः समाधिभङ्गाय कान्ताः स समादिदेश ॥ ११ ॥ कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं सृजन्त्यः पादाजैः स्थलकमलमालामलिनताम् । दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं ययुस्तास्तस्याने धृतदृढसमाधेर्विफलताम् ॥ ४२ ॥ अथागतैर्दुःसहमारसैन्यैः शस्त्राश्मवह्निद्रुमपांसुवर्षेः । क्षिप्तैरनल्पप्रकरैः कुमारः पुष्पैरिवाकीर्णतनुर्बभूव ॥ ४३ ॥ खयं समुत्सृष्टशरे सरेऽपि याते विलक्षे घनदैन्यसैन्ये । वज्रासनध्यानधृतिः स सम्यक्संबुद्धतां सर्वविदाससाद ॥ ४४ ॥ ब्रह्मप्रधानैस्त्रिदशैः प्रदत्तं पात्रं समादाय स चीवरं च । संसारमुक्त्यै सुरमर्त्यनागसंघस्य सद्धर्ममथादिदेश ॥ ४५ ॥ यं समादाय चिरेण सूते शून्यासनं शाक्यपुरं प्रविष्टे । जनस्य सान्तःपुरमण्डलस्य समुद्ययौ तीव्रविषादनादः॥ ४६॥ महीपतिः पुत्रवियोगतप्तः प्रसुप्तजीवः क्षणमोहनिद्राम् । निद्रामिवासाद्य धनानुबन्धां निःस्पन्दवृत्तिर्न विवेद किंचित् ॥ ४७ ॥ अवाप्तसंज्ञं सुचिरात्तमूचुर्नभश्वरा मुञ्च विचार्य मोहम् । राजन्सुतस्ते सुगतत्वमाप्तः सुरासुरैर्वन्दितपादपद्मः ॥ १८ ॥ ततः क्षितीशस्त्रिजगत्प्रसिद्धं ज्ञात्वापि तं जैनवने जिनेन्द्रम् । द्रष्टुं ययौ हर्षसुधानिधानं सामात्यमित्रखजनः ससैन्यः ॥ १९ ॥ तदाश्रमोपान्तमहीमवाप्य वनं विलोक्य प्रशमाभिरामम् । शुद्धोदनः स्यन्दनपार्श्वसंस्थमुदायिनं बान्धवमित्युवाच ॥ ५० ॥ क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं क्रूराणामपि वैरवह्निविरहान्न क्रोधदिग्धं मनः । व्यालुम्पन्ति न तु स्वयं निपतितादन्यत्फलं वानरा निर्दोषावरणं वनं भगवतः शंभोः प्रसादादिदम् ॥ ५१ ॥ १. 'विकास' क. २. 'शस्त्रास्त्र' ख. ३. 'पुरी' क.
१५६ काव्यमाला। अक्षोभनिर्भरजलाः सरितो वहन्ति निर्विप्लवा विरजसः सुखयन्ति वाताः । सध्यानमौनमुनितां दधतीव वृक्षा निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः ॥ ५२ ।। उक्त्वेति भूपरिवृढः शमसंनिधानं प्राप्याश्रमान(य)मवरुह्य रथात्प्रहृष्टः । दूराद्ददर्श सुरसिद्धनरोरगाणां रागादिदोषशमने सुगतं प्रवृत्तम् ॥ ५३ ॥ भूनिर्गतप्रततकाञ्चनपद्मपृष्ठ- पद्मासनस्थमविसंस्थुलधामधीरम् । मेरुं सदेहमिव चन्द्रसहस्रकान्ति- पूरैर्नवामृतचितैः कृतरूपकायम् ॥ ५४ ॥ सद्धर्मकायमुपदेशदिशा दिशन्तं ज्ञानार्करश्मिहृतमोहमहान्धकारम् । सिंहोन्नतांसयुगमुन्नतबाहुनेत्रं बालप्रवालतरुपल्लवलोहितौष्ठम् ॥ ५५ ॥ लावण्यराशिवदनं सरलोरुनासं निर्भूषणश्रवणपाशविशेषशोभम् । तं निर्जितस्सरमुदारगुणं प्रणम्य लेभे प्रतिप्रणतिमानघनप्रमोदम् ॥ ५६ ॥ शक्रादिभिः सुरवरैरपि बिम्बसार- मुख्यैश्च भूमिपतिभिर्गुरुंगौरवेण । नागैश्च नम्रवदनैरभिनन्धमानः शुद्धोदनः कनकविष्टरमाससाद ॥ ५७ ॥ १. 'निर्झर' ख-ग. २. 'महोरगाणां' क. ३. 'दिगन्त' ख. ४. 'लोहिताङ्गम परि' ख.६.'नम्रश्च' ख-ग.
९ बुद्धावतारः] दशावतारचरितम् । आनन्दबन्धुमवलोक्य तथागतेन्दु चित्तप्रसादमसमं समवाप्य भूपः । तं प्राप्य हर्षसहजाश्रुनिरुद्धदृष्टि- स्तदर्शनामृतरसे सुतरामतृप्तः ॥ ५८ ।। देव प्रकामकरुणादृशा सहर्ष- निःशेषदोषरहिता विहिता त्रिलोकी। कस्सादहो निजजनस्य कृतस्त्वयायं संमोहकृद्विरहशोकदशोपदेशः ॥ ५९ ॥ नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन शय्यासु चीनवसनद्युतिसस्मितासु । शेषे कथं हरिणसंहतिदन्तदष्ट- शिष्टार्धशष्पपरुषासु वनस्थलीषु ॥ ६० ।। तचन्द्रकान्ति मणिशुक्तिषु सैक्तशैत्यं पीत्वा पयः कथमहो पिबसि त्वमद्य । ग्रीष्मोष्ममूढमहिषद्विरदावगाह- क्लिद्यत्करीषकलुषोदरतिक्तमम्भः ॥ ६१ ॥ कस्मादेष विहारतामुपगतः कण्ठः कठोरेण किं संवीतं मृगचर्मणानिलचलच्चीनींशुकाह वपुः । किं ते रत्नकिरीटधानि च जटाजूटो निबद्धादरः क्रूरक्लेशसखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥ ६२ ॥ इत्यार्जवाजनपतौ जनकाभिमाना- त्पुत्रोचितं सदसि रागमयं ब्रुवाणे । स्नेहोपलिप्तरजसा मलिनखभावं तं तापसंभवभिषग्भगवान्बभाषे ॥ ६३ ॥ ख. १. 'देवः' ख-ग. २. 'सकला' क. ३. 'स्वच्छशीतं' ख-ग. ४. 'चीनांशुकं ते वपुः ख-ग. ५. 'जटाजूटेन बद्धो भरः' क. ६. 'जनकाभिधानात्' ख-ग. ७. 'तहो बसंभव' ख-ग.
१५८ काव्यमाला। किं जीवावधिबन्धनैर्गुणगणेनाराधितैर्बन्धुभि- ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् । सद्धर्माधिगमः क्रियाव्युपरमः सत्संगमः संयमः पर्यन्तेऽप्यचला विरक्तमनसामेते सतां बान्धवाः ॥ ६४ ॥ आकृष्याटविकैः परैरपहृता सामन्तसीमान्तभू- रीार्ता मरणोद्यता प्रियतमा मुख्यस्तुरङ्गो मृतः । मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यात्तचिन्ताशतै- भूपालः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥६५॥ आशापाशनिवेशबन्धनपृथुग्रन्थिव्यथावर्जित- स्तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः । रागद्वेषविषप्रशान्तिसुखितश्चिन्ताविहीने वने पाषाणे घनदर्भसूचिनिचिते शेते सुखं निर्वृतः ॥ ६६ ॥ भोगी नित्यमजीर्णभोजनरुजा जिह्वां सदा दर्शय- न्वैद्यं पृच्छति तद्भयादभिमतं नानाति तृष्णातुरः । भुक्त्वा खल्पकमप्रयत्नपतितं मूलं फलं वा जलं पीत्वा जातु रुजं जनेश भजते कांचिन्न निष्किञ्चनः ।। ६७ ॥ शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थिति- स्ताः केयूरकिरीटहोररचनास्ते कुञ्जरास्ते हयाः । भोगास्तेऽभिमता न कस्य सुखदाः किं त्वक्षिपक्ष्माञ्चल- च्छेदे सर्वमनन्त्य(गण्य)मन्यवशगं दृश्यं न किंचित्कचित् ॥६॥ ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका *शीते राङ्कवकुङ्कुमाङ्कतरुणीपीनस्तनालिङ्गनम् । रात्रौ वेणुर्रवोग्रवाररमणीगीतं दिने सत्सभा यस्यैतक्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥ ६९ ।। १. 'गणैः' ख-ग. २. 'आकृष्याटविकैः परैपहृता सा सा न' क. ३. 'अल्पयत्नप- रितं' क. ४. 'जातु रुजं जनो न भजते किंचिन्न' ख-ग. ५. 'भार' ख-ग. ६. 'सर्व- TANTण्यवशगं' ग. ७.'तेऽमी' ख-ग. ८. 'रवापरावरमणी' क.
१० कळवतारः] दशावतारचरितम् । १५९ नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं कारुण्याभरणाभिरामहृदये हारेण भारेण किम् । रत्नालंकरणादिकं गुरुगिरामाकर्णनं कर्णयो- र्नेष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्बरम् ॥ ७० ॥ राजन्संत्यज मोहदुर्ग्रहमिमं स्नेहव्यथां मा कृथाः संसारस्य विचारय प्रचलतां मा मज जन्माम्बुधौ । नित्यापूर्वजेनोद्भवे भवपथे प्रस्थानपान्थश्रम- क्षिप्रालापसमागमप्रणयिनां को बान्धवः कः परः ।। ७१ ॥ इत्युक्त्वा भगवान्नृपस्य विदधे प्रबोधिनी वोधनां दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधम् । भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरो- त्संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥ ७२ ।। शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः सप्त प्राप्तविवेकपूर्वकुशलाश्चित्तप्रसादात्परम् । स्रोतःप्राप्तसकृत्समागमफलान्योगामिकाहत्पदा- न्यापुः सर्वज॑नाशयक्षयधिया सर्वज्ञसंदर्शनात् ॥ ७३ ।। अथ स भगवान्कृत्वा सर्व जगजिनभास्कर- स्तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिबान्धवः । जनकरुणया सद्धर्माख्यं निधाय परं वपु- स्तरणशरणं संसाराब्धावभूत्पुनरच्युतः ।। ७४ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते बुद्धावतारो नवमः । कळवतारो दशमः। अथ खं वैष्णवं धाम गते सुगतभाखति । कलौ प्रबलतां याते तमसीव सुदुःसहे ॥ १॥ १. 'नीलदुगूल' ख-ग. २. 'जनूद्भवे' क. ३. 'प्रावेविकी' ख-ग. ४. 'का भिधाना' ख-ग. ५. 'न्यागामिका तत्पदा' ख-ग. ६. 'जनाश्रम क.७. 'विधाय) काव्यमाला। मर्त्यभूमि परित्यज्य सदाचारविवर्जिताम् । जग्मुः कलापियामाख्यं दिव्यदेशं महर्षयः ॥ २॥ अवदन्मुनयस्तत्र मार्कण्डेयं चिरायुषम् । भगवन्कलिकालोऽयं कलुषः प्रत्युपस्थितः ॥ ३ ॥ अतोऽपि कीहक्पर्यन्ते मलिनत्वं प्रयास्यति । जानीमहि (हे) नहि मही भारार्ता किं करिष्यति ॥ ४ ॥ विप्रा मद्यघृतक्षीरलाक्षालवणविक्रयैः । जीवन्ति प्रेष्यनिरता निराचारा निरग्नयः ॥ ५॥ अश्रोत्रियाः क्रियाहीनाः श्रुतिस्मृतिविवर्जिताः । विप्राः सुखेन मोक्षाप्त्यै याताः पाषण्डिशिष्यताम् ॥ ६ ॥ वृषलीपतयः प्राप्ताः क्रीडाहासकतां द्विजाः । नृत्तगीतकलाजालशिल्पिचारणवृत्तयः ॥ ७ ॥ क्रोधलोभपराः क्रूरास्तमोमूढा द्विजातयः । त्यजन्ति जीवितं रज्जुविषशस्त्रानलाश्मभिः ॥ ८ ॥ अक्षत्रिया क्षितिः सर्वा क्षत्रसंज्ञाः क्षितीश्वराः । ये रक्षितारः पौराणां ते प्राणधनहारिणः ॥ ९ ॥ प्रजोपतापशापोष्णैः पापाप्तैर्भूभुजां धनैः । जलैः सलवणैः पीतैरिव तृष्णा प्रवर्धते ॥ १० ॥ कृपणाक्रन्दबधिरा मदान्धा न्यायमौनिनः । भूपालाः कुब्जहृदया लोकपीडारताः सदा ॥ ११ ॥ अलक्ष्यं भक्षयन्त्येव क्षितीशानां दिवानिशम् । समुद्र कोषमखिलं कायस्था वडवाग्मयः ॥ १२ ॥ गायनक्षपिता लक्ष्मीर्दस्युनिर्दलिता दिशः। कायस्थदुःस्था पृथिवी राज्ञामज्ञावृताः सभाः ॥ १३ ॥ २.१. 'वसु' ख-ग. २. 'प्रवर्तते' क. ३. 'मानिनः' ख-ग. ४. 'कुब्जवृतयः शत्रुस- जाः' क; 'कुब्जहृदयाः......' ग. ५. एतत्पूर्वार्ध ख-ग-पुस्तकयोस्त्रुटितम्.
१० कळवतारः] दशावतारचरितम् । १६१ मन्त्रिसेनापतिद्वाःस्थसभापतिपुरोहितैः । उत्कोचद्रविणोत्तानपाणिभिः क्षपिताः प्रजाः ॥ १४ ॥ वैश्यस्य क्रौर्यवक्रत्वकार्कश्यैः क्रकचोपमाः । सरलच्छेदिनो वैश्या वैरस्मरणतत्पराः ॥ १५ ॥ निर्माल्यमलिनां जाति वर्जयन्ति शनैः शनैः । वैश्या विप्रविवाहेन ब्राह्मण्याभिनिवेशिनः ॥ १६ ॥ दृश्यते सरलः शङ्खः फणी च विषवर्जितः । कृतान्तः करुणा” वा न तु वैश्यः कदाचन ॥ १७ ॥ जीव्यते कालकूटेन जीव्यते खदिराग्मिना । जीव्यते संनिपातेन न तु वैश्येन वैरिणा ॥ १८ ॥ निशिताः सविषा वैश्या रोषनिर्घर्षधूमिनः । दृश्यन्ते कलिकालस्य कठिना दशना इव ॥ १९ ॥ शूद्राः क्षत्रियतां याता वैश्यतामपरे श्रिताः। विप्रोही गुरुतामन्ये होतारो ब्रह्मवादिनः ॥ २० ॥ श्राद्धेषु शूद्राः शूद्राणां भुञ्जते गुरुतापसाः । ब्रह्मस्वदारहरणे प्रवृत्ताश्च महीभुजः ॥ २१ ॥ शूद्रस्य ब्राह्मणो दासः शिष्यश्च चरणच्युतः । भूमिश्च ब्रह्मदेयाख्या प्रवृत्तमधरोत्तरम् ॥ २२ ॥ इत्येष चातुर्वर्ण्यस्य जातः कलिविपर्ययः । प्रतिलोमेन दृश्यन्ते प्रजानां वर्णसंकराः ॥ २३ ॥ ब्रह्मचर्यमतिक्रान्तं गृहिणो वेश्ययोषितः । वानप्रस्थस्थितिर्नास्ति यतीनां संयतिः कुतः ॥ २४ ॥ उक्तं स्वयं भगवता गिरिशेन शास्त्रं यद्वेदविद्भिरधिगम्यमशेषविद्यैः । १. 'तत्कोश' ख-ग. २ 'वैश्यस्य' ख-ग. ३. एतदुत्तरार्धं ख-ग-पुस्तकयोत्रुटितम्. ४. ख-ग. पुस्तकयोः सर्वत्र ‘जीवते' इति पाठः. ५. 'विप्राईगुरुता' ख-ग. ६, 'मृदि शेषयोषितः' ख-ग. ७.'वानप्रस्थातिथिः' ख-ग. ८. 'अधीतवेदैः' ख काव्यमाला। तन्मे(?)प्रमूर्खगुरवः प्रविहाय कष्टं कुर्वन्ति कल्यकुरवै(?)रुपदेशचर्चाम् ॥ २५ ॥ चक्रस्थितौ रजकवायकचर्मकार- कापालिकप्रमुखशिल्पिभिरेकपात्रे । पानेन मुंक्तिमविकल्परतोत्सवेन वृत्तेन चोत्सववता गुरवो वदन्ति ॥ २६ ॥ लब्धं निर्मलमोक्षधाम मुनिभि ग्वङ्गिरःकश्यपा- गस्त्यात्रेयमुखैर्युगैरपि न यत्तत्प्राप्तमेवाबुधाः । मन्यन्ते खलु कौलगोलगुरुभिर्घस्तार्थधाराः क्षणा- दुच्छिष्टार्पणवेदधूननकथामात्रेण नियन्त्रणाः ॥ २७ ॥ दम्भः सर्वस्य लोभान्निरवधिरधिकक्रोधकामस्तपस्वी द्रष्टा मूढः सभायां वणिगतिधनतामल्पकालेन यातः । वैद्यः कायोपजीवी गृहपतिरदयः क्रूरकर्माधिकारी बन्धुर्दारीपहारी नवकलिकलिकाकोमलश्रेणिरेषा ॥ २८ ॥ श्माशानव्रततापसार्पितचिताभस्मास्थिचूर्णादिभिः सूनाबद्धपशूपमं निजपतिं निःशङ्कशुंन्याशयम् । कृत्वा गर्वगृहीतगेहविभवाः प्रागल्भ्यलब्धोदयाः खातव्येण चरन्ति शीलविरहव्यापारधीराः स्त्रियः ॥ २९॥ इत्येष विपुलः कालः कैलेः प्रबलतां गतः । भगवन्कीदृशः प्रान्ते भविता भविता जनः ॥ ३०॥ श्रुत्वैतदुक्तं मुनिभिर्देवर्षिस्तानभाषत । यास्यत्यतोऽपि मालिन्यं सहस्रगुणतां कलेः ॥ ३१ ॥ कलिविषतरोः प्रातः प्रातर्धनप्रसरः परं नवनवभरः पाके पाके प्रमोहकृदुत्कटः । १. 'कुदुरैः' ख, 'कुररैः' ग. २. 'मुक्तिः ख. ३. 'नृतेन चोत्पलवता' ख-ग १. 'गुरुभिः' ख. ५. 'मानापहारी' ख-ग. ६. 'नाना' ख-ग. ७. 'शुद्धाशयं' ख-गा पवाख-ग.
No text on this page.