Svi-ksri-chennai

Nalavilaasanaat'akamuu

Ramachandra Suri

PDF Proofread

Front matter

No text on this page.

KAEKWAD'S ORIENTAL SERIES
'ublished under the authority of
he Government of His Highness
he Maharaja Caekwad of Baroda
General Editor :
B. BHATTACHARYYA, M.A., Ph.D.
0. XXIX (GOLDEN JUBILEE NUMBER)
NALAVILASA

No text on this page.

श्रीरामचन्द्रमूरिविरचितम्
नलविलासनाटकम्।
NALA VILÁSA
OF
RÄMACHANDRA SÛRI
EDITED BY
G. K. SHRIGONDEKAR, M.A.,
Sanskrit Librarian, Central Library, Baroda
AND
LALCHANDRA B. GANDHI,
Jain Pandit, Central Library, Baroda
WITH AN INTRODUCTION BY THE LATTER
1926
CENTRAL LIBRARY
BARODA

Printed by C. S. Doole at the Bombay Vaibhav Press, Servants of India Society's Home,
Sandhurst Road, Girgaon, Bombay,
AND
Published by Newton Mohun Dutt, Curator of Libraries, for the Government of His
Highness the Maharaja Gaekwad of Baroda.
Price Rs, 2-4-0

No text on this page.

H. H. THE MAHARAJA SAYAJIRAO GAEKWAD OF BARODA. Golden Jubilee 1875-1925.

PUBLISHED
ON THE OCCASION OF THE
GOLDEN JUBILEE
OF
HIS HIGHNESS
SIR SAYAJI RAO GAEKWAD,
G.C.S.I., G.C.I.E., HON. LL.D.,
Sena Khaskhel Shamsher Bahadur,
MAIIARAJA OF BARODA

No text on this page.

[७]
15173
नलविलासनाटक-पात्रपरिचयः।
नल:-
-निषधाधिपतिः
दमयन्ती-विदर्भाधिपतिभीमरथम्य पुत्री नलनृपस्य पत्नी
किम्पुरुषः--नलनपस्यामात्यः
कूबरः--युवराजो निषधम्य मुतः
भीमरथ:--विदर्भाधिपतिर्दमयन्त्याः पिता
पुष्पवती-भीमरथस्य पत्नी दमयन्त्या माता
कलहंसः-नलवयस्यः
खरमुखः-विदूषकः
कोरकः-राजभाण्डागारिको नलसत्कः
सिंहलकः ।
-राजपुरुषौ नलपरिग्रहे
माकन्दः
शेखरः-मत्तमयूरोद्यानरक्षकः
लम्बोदरः-कापालिको बोरघोणस्य शिष्यः
चित्रसेनः-कलचुरिपतिः-चेदिपनि
मेषमुखः-चित्रसेनस्य प्रणिधि?रघोणनामधारी कापालिकः
कोष्ठकः----लम्बोदरनामधारी कापालिकः, चित्रसेनम्य चरः, बोरघोणस्यानुचरः
मकरिका-करकवाहिनी नलपरिग्रहे
कपिञ्जला-~~-विदर्भराजचामरग्राहिणी दमयन्त्याः सवी
घोरघोण:-कापालिकः, चित्रसेनस्य
लम्बस्तनी--कापालिकघोरघोणम्य माया
कुरङ्गकः--विदर्भराजपुरुष
चर:

[८]
-विदर्भराजपुरुषो
मुकुल:
-विदर्भराजोद्यानरक्षकः
कौशलिका-दमयन्त्या दासी
वसुदत्तः-भीमरथस्यामात्यः
मङ्गलकः।
भद्रः
माधवसेनः-विदर्भराजान्तःपुरकञ्चुकी
बल:-काशीक्षितिपतिः
विजयवर्मा-मथुराधिपतिः
दधिपर्ण:-अयोध्याधिपतिरिक्ष्वाकुकुलीनः
सपर्णः--दधिपर्णस्यामात्यः
जीवलकः--दधिपर्णनृपपुरुषः
बाहुकः दधिपर्णस्य सूपकारो विपर्यम्तरूपधारी नल:
ऋतुपर्ण:--अचलपुरस्वामी
धनदेवः--अचलपुरनिवासी सार्थवाहः
-धनदेवसार्थवाहस्य मनुष्यौ
पिङ्गलकः
भस्मक:--लम्बोदरः कापालिकः

प्रस्तावना " भो भो गीर्वाणवाणीगौरवाभिज्ञा नाटकादिप्रवन्धप्रणयिनः प्राज्ञाः ! सुप्रसिद्धस्य पुण्यश्लोकस्य श्रीमतो नैषधम्य नलनृपस्य चारुचरितानि प्राचीनैरर्वाचीनभू- रिभिर्भारतभूषणैभारतीभक्तैर्भारतीयैः कृतिभिः संस्कृत-प्राकृतादिभापामु काव्य-कथा-चम्पू-नाट- कादिभिन्नभिन्नप्रकारैः संक्षिप्त-विस्तृतया भिन्नभिन्नशैल्या विरचितानि हाष्ट-श्रुतिपथमवतरन्ति । महासत्या दमयन्त्याः पातिव्रत्यपवित्रचरितपूतानि द्यूतादिदोषदर्शकानि चैतानि जैनेनेतरैश्च कैः कैविबुधैः किं किमभिधानमभिधाय विहितानीति जिज्ञासया कृतायां गवेषणायामद्यावध्यम्माभिदृष्टानि ज्ञातानि श्रुतानि चात्र नामोल्लेखपुरःसरं प्रदर्शितानि विज्ञजनप्रमोदावहानीति विचार्य प्रदश्यन्ते । नल-साहित्यम् (सं.)। नलोपाख्यानम्- ( महर्षिव्यासप्रणीतमहाभारताद्यन्तर्गतम् ) ( गुणाढ्यकविविरचितबृहत्कथान्तर्गतम् ) ( क्षेमेन्द्रकविविहितभारतमञ्जर्यन्तर्गतम् ) ( क्षेमेन्द्रकविनिर्मितबृहत्कथामञ्जर्यन्तर्गतम ) ( सोमदेवभट्टकृतकथासरित्सागरान्तर्गतम् ) नैषधीयचरितम् (महाकविश्रीहर्षरचितम्) नलचरितकाव्यम्- नल-दमयन्ती-कथा-चम्पू:-(त्रिविक्रम- संहृदयानन्दम्- ( कृष्णानन्दकविकृतम् ) भट्टकृता) रोघव-नैषधीयम्- ( हरदत्तसूरिरचितम् ) नलोदयकाव्यम्- ( कविकालिास ? रवि- नल-यादव-पाण्डव-राघवीयम्- देवकृतम् ) नलस्तोत्रम्- नलाभ्युदयः-( महाकविवामनभट्टवाणविर- दमयन्तीपरिणयकाव्यम्- नलचरितनाटकम् ( नीलकण्ठदीक्षितकृतम् भैमीपरिणयनाटकम्- ( नलविजयापराभिधं सें. ला. सं. पु. संग्रहस्थम् ) महिसूरराजशास्त्रिमण्डिकलामशास्त्रिविरचि- नलानन्दनाटकम्--( जीवविवुधकृतम् ) तमाधुनिकम् ) नलवर्णनकाव्यम् -- ( लक्ष्मीधरविरचितम् ) पुण्यश्लोकोदयनाटकम्- ( देवीशरणकवि- नलभूमिपालरूपकम्- चक्रवर्तिनिनिमाधुनिकम् ) नलविक्रमनाटकम्-( अष्टाङ्कम् ) नल-दमयन्तीयम्- ( इदानीन्तनम् ) १ निर्णयसागरादिभ्यः प्रसिद्धिं गतम् । २ निर्णयसागरमुद्रणालयतः प्रसिद्धम् । ३ जीवानन्दविद्यासागरा- दिभिः प्रसिद्धिं नीतम् । ४ अनन्तशयनसंस्कृतग्रन्थावल्यां प्रसिद्धम् । ५ ऑफटकृतसूचिपत्र निर्दिष्टम् । ६ बुल्हर- सूचिपत्रे (नं. २८६) निर्दिष्टम् । ७ एतन्निर्दिष्टं ऑपर्टसूचिपत्रे २,८८६९ । ८ शारदातनयविरचिते भावप्रकाशे (गा. ओ. सिरीद्वारा प्रकाश्यमाने) नाम दृश्यते । ९ आपर्टक्यॉटलॉगपुस्तके ( नं. २८६५, ३७९९) नाम वीक्ष्यते । १० काव्यनामैतत् ऑपर्टपु० ६५९५ क्रमाङ्के सूचितम् । ११ ऑपर्टसूचिपत्रे (नं. ७४७५) सूचितम् । १२ कोल्हॉर्न- पूचिपत्रे (नं. ५८ ) सूचितम् । १३ महिशूरपुरे राजकीयशाखामुद्राक्षरशालायां मुद्रितम्। चितः) २ [१०]] (२) जैनविदुषां सं. प्रा. कृतयः। * नलचरितम्- ( प्रा० गद्य धर्मसेनगणिविरचितवसुदेवहिण्डी-मध्यमखण्डान्तर्गतम् ) नलचरितम्-(श्रीहेमचन्द्राचार्यविरचितंत्रिषष्टिशलाकापुरुषचरित्रान्तर्गतम् पर्व ८,स०३) * नलायनमहाकाव्यम्- (कुबेरपुराणेत्यपराझं महाकविमाणिक्यसूरिविरचितम् ) नलविलासनाटकम्-(प्रस्तुतं रामचन्द्रसूरिविरचितम् ) दवदन्तीचरितम्--( सोमप्रभाचार्यविरचितकुमारपालप्रतिबोधान्तर्गतम् ) नलोपाख्यानम्- (देवप्रभसूरिविरचितँपाण्डवचरितान्तर्गतम् ) दवदन्तीचरितम् --(विनयचन्द्रसूरिरचितमल्लिनाथमहाकाव्यान्तर्गतम् ) * दवदंतीचरियं—(प्रा० पत्तनभाण्डागारीयसूचिपत्रे सूचितम् ) * दमयन्तीप्रबन्धः-(गद्यः ) जैनग्रन्थावल्यां सूचितौ। (पद्यः) । दवदन्तीकथा--(सोमतिलकसूरिविरचितशीलोपदेशमालावृत्त्यन्तर्गता) ( जिनसागरसूरिविरचितायां कर्पूरप्रकरटीकायाम् ) दमयन्तीकथा-( शुभशीलगणिविरचितमरतेश्वर-बाहुबलिवृत्त्यन्तर्गता ) नलचरितम्--(देवविजयगणिविहितपाण्डवचरितान्तर्गतम् ) ( गुणविजयगणिगदित-गद्यनेमिनाथचरितान्तर्गतम् ) सूचितेभ्योऽन्यत्रापि *हरिवंशपुराण-पाण्डवपुराण-नेमिनाथपुराण-त्रिषष्टिलक्षण- पुराण-जैननैषधीयचरित-कथाकोप-कथावली-नेमिनाथचरित्र-वसुदेव-कनकवत्यादि- कथान्तर्गतं स्वतन्त्रकथा-चरितरूपं च नल-दमयन्त्याख्यानं सम्भाव्यते । * " " * एतचिह्नाङ्किता ग्रन्था यावज्ज्ञातमद्यावधि मुद्रणेनाप्रसिद्धाः । १ अत्रत्यजैनज्ञानमन्दिरे मुनिराजश्रीहंसविजय-शास्त्रसङ्ग्रहे प्रतिः (कनकवतीलम्भकः प. १३५-१४९) २ भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशितम् । ३ अनया 'गा. ऑ. सिरीझ ' संस्थया प्रकाशितम् । ४ निर्णयसागरमुद्रणालयतः प्रसिद्धम् । ५ यशोविजयजैनग्रन्थमालया, अम्बालास्थंयाऽऽत्मानन्दसभया च प्रसिद्धिमानीतम् । ६ आमनगरस्थेन पं. हीरालालेन प्रकाशिता। ७ अहम्मदावादस्थया जैनविद्याशालया गूर्जरभाषानुवादरूपा प्रकाशिता । पण्डितामृतलालेन ( ए. एम. एण्ड कम्पनी संस्थया) प्रकाशितम् [११] , - नलमहिमप्रख्यापकं . नलपाकशास्त्रमपि श्रूयते । गूर्जरभाषायां ऋषिवर्धन( वि. स. १५१२ )-मुनिमेघराज( वि. सं. १६६४)-नयसुन्दर(वि. सं. १६६५)-समयसुन्दर(वि. सं. १६७३ ).ज्ञानसागरा(वि. सं. १७२० )दिजैनकविभिर्भालण( वि. सं. १५४५ ? )-नाकर-- (वि.सं. १५८१)-प्रेमानन्दा(वि.सं. १७२८ ? ४२)दिभिश्च जैनेतरकविभी रासाख्यानादिरूपेण नल-दमयन्तीवृत्तानि पप्रथिरे । महाराष्ट्रभाषायां पं. रघुनाथादिभिरेवमन्यासु देशभाषास्वपीतराण्यपि सम्भवेयुर्लभेरंश्च प्रयत्नशीला गवेषणायां प्रयतेरन् । नलचरित-भेदः। महाभारतान्तर्गतनलोपाख्यानादन्यनलचरितग्रन्थेभ्यश्च नलविलासस्य रचनायां विभिन्नता विलोक्यते । महाभारतादौ नलजनकस्य नाम · वीरसेन ' इति, नलविलासे नलायनं विहाय जैनकर्तृकान्यनलचरितग्रन्थेषु च ' निषध ' इति, नलभ्रातुरभिधा पुष्कर' इति महाभार- तादौ, युवराज — कूबर' इति वसुदेवहिण्डी-नलविलासादा; महाभारतादौ नलविलासेऽपि च नलदेशो 'निषध' इति, वसुदेवहिण्डीप्रभृतिषु तु · कोशल ' इति दृश्यते । महाभारतादौ दमयन्तीजनन्या अभिधानं नेक्ष्यते, वसुदेवहिण्डीप्रभृतिषु ‘पुप्पदन्ती' इति, नलविलासे तु · पुष्पवती ( पुप्फवदी )' इति निरदेशि । ' दमयन्ती' इत्यभिधानं महा- भारतादौ नलविलासे च समानम्, वसुदेवहिण्डी-हैमत्रि. श. पु. चरित्रादौ तु — दम(व)दन्ती' इत्यपि वीक्ष्यते । महाभारतादौ नल-दमयन्त्योरनुरागे हंसपक्षी निमित्तकारणम्, नलविलासे कलहंससंज्ञको नलवयस्यः समसूचि । महाभारतादौ वर्णितं लोकपालैः कारितं नलदौत्यं, स्वयंवरे पञ्चनलीत्यादि च नलविलासे वसुदेवहिण्डीप्रभृतिषु च न प्रपञ्चितम् । महाभारतादौ दमयन्त्याः कामुको ब्रूतद्वारा नल-दमयन्त्योर्वियोगादिदुःखदर्शकश्च कलि: सूचितः, नलविलासे तु तत्स्थाने दमयन्त्यभिलाषुकस्य चेदिराज( कलचुरिपति )चित्रसेनस्य चर- कापालिकानां विलसितं विलोक्यते । महाभारतादौ दमयन्तीभ्रातॄणां नामानि दर्शितानि नल-दमय-योः सन्ततिसंज्ञा 'इन्द्रसेन' इन्द्रसेना' चेति, वसुदेवहिण्डीप्रभृतिषु केवलं 'पुष्कर( ल )' इति पुत्रनाम, नलविलासे तु तदप्युपेक्षितम् । महाभारतादौ नलरूपविकृतिकारणं कर्कोटकनागः सूचितः, नलविलासे वसुदेवहिण्डी- प्रभृतिषु च- देवभूयत्वं गतो नलपिता निषधो भुजगरूपं विधाय नलं विकृतरूपं कृतवान् , देव- रूपेण च तद्धेतुं निजस्वरूपं द्वादशवर्षीयं दमयन्त्या वियोगं च सूचितवान् । , [१२] . नलो विपद्ययोध्याधिपते ऋतुपर्णस्य पार्थेऽवसदिति महाभारतादौ, दधिपर्णस्य निकटे इति नलविलासे, संसमारपुरस्वामिन ऋतुपर्णस्य सन्निधाविति वसुदेवहिण्ड्याम्, सुंसु( शिशु )मारपुर- स्वामिना दविपर्णस्य समीपे इति हैमत्रि. श. पु. चरित्रादौ दृश्यते । नलवियोगे दमयन्ती चेदिराजसुबाहुगृहमाश्रयदिति महाभारतादौ, अचलपुरस्वामिनो रिपुशत्रो(?)हमिति वसुदेवहिण्ड्याम्, ऋ पर्णस्य गृहमिति ‘नलविलासे; वसुदेवहिण्डीप्रभृतिषु रिपुशत्रोः( ऋतुपर्णस्य ) पत्नी चन्द्रयशा दमयन्त्या मातृप्वसेति च निरदेशि । नलस्य रूपविकृतौ — बाहुक ' इति नाम महाभारतादौ, नलविलासेऽपि तदेव, वसुदेव- हिण्डीप्रभृतिषु तु ' हुण्डिक ' इति पठ्यते । धनदेव' इत्यचलपुरगामिसार्थवाहस्याभिधा नलविलासे वसुदेवहिण्डीप्रभृतिषु च समाना । महाभारते — जीवल ' इति ऋतुपर्णनृपसारथिनः संज्ञा, नलविलासे तु दधिपर्णराजपुरुषस्य । हैमात्र. श. पु. चरित्रे नलविलासे च विदर्भराजपुरुषस्य ' मङ्गल' इति समाना संज्ञा । शीघ्रं शतयोजनगमने नलस्याश्वविद्यायाः प्रभाव इति महाभारतादौ, दिव्यतेजस्वितातप्र- भावात् पवनजयिनो वाजिन इति नलविलासेऽवर्ण्यत । कुण्डिनपुरे नल-ऋतुपर्णयोः प्रवेशः सायंकाले इति महाभारतादौ, तत्र प्रातःकाले प्रवेश इति वसुदेवहिण्ड्यादौ, नल-दधिपर्णयोरिति तु नलविलासेऽवर्णि ! नल-दमयन्त्योः पुनः सङ्गमश्चतुर्थे वर्षे इति महाभारतादौ, द्वादशे वर्षे इति नलविलासादौ समसूच्यत । महाभारतादौ-' ऋतुपर्णार्थ प्रेषितं बाहुकरूपिनलोपसंस्कृतं पाशवं मांसं प्राश्य नलसिद्ध- मांसपरिचिता दमयन्ती नलमुपलक्षितवतीत्यादि, वसुदेवहिण्डीप्रभृतिषु तु सूर्यपाकामोदनरसव- तीमुपभुज्येति; नलविलासे तु दधिपर्णसूपकारस्य सूर्यपाकविद्याप्रसिद्धिं श्रुत्वा दमयन्ती तत्परीक्ष- णार्थं कलहंसादीन् प्रेषयति स्म । पश्चादलीकस्वयंवरप्रवादं कारयित्वा दधिपर्णमामन्व्य नलमाक- पितवती, नलमरणप्रवादं श्रुत्वा तु चिताऽधिरोहणं प्रगुणयति, तदैव च दधिपर्णसारथीभूतो नलः कुण्डिनपुरपरिसरं प्राप्य, वृत्तान्तं चाधिगम्य दमयन्त्याः प्रेमप्रकर्ष परीक्ष्य पितृदेवस्मरणाद् बाहु- करूपं विहाय स्वस्वरूपं प्रकाशयति स्मेत्यादि समीक्ष्यते । एवमन्योऽपि चरितभेदो दृश्यते नलविलासस्य नाटकत्वात् तदुचितानीतरपात्राभिधानानि तु कविकल्पितानि प्रतीयन्ते, जैनकर्तृकान्यनलचरितभ्योऽपि च क्वचिदशे भिन्नताऽत एवावलोक्यते । , THE KUPPUSWAMI SASTR RESEARC, . MAT: . . [१३] नलविलासस्य वैशिष्ट्रयम् । रसोर्मिभिः परिप्लुतं रसिकजनरञ्जकं माधुर्याञ्चितं :लालित्यललितमलङ्काराद्यलङ्क- तमोजः-प्रसादप्रभृतिभिः समुचितैः समग्रगुणैः समुपेतं वैदर्भीरीतिप्रधानं सप्ताङ्कसङ्कलितं गर्भाङ्क- गौरवितं धीरललितन टनायकं पुनर्दमयन्तीसङ्घटनापर्यन्तसम्बद्धं रमणीयतमं प्रस्तुतमेतन्नलविलास- नाटकं त्वपूर्वमिवाद्भुतं प्रतिभास्यति प्रतिभावतां प्रेक्षावतामित्यस्मदाकूतम् । दण्डि–वामन रुद्रट-राजशेखर-भोजदेव-विश्वनाथ-जगन्नाथादिविद्वद्भिर्यस्या रीतेः प्रकृष्टत्वं स्वीयकाव्यादर्श काव्यालङ्कार-काव्यमीमांसा-सरस्वतीकण्ठाभरण-साहित्यदर्पण-रस- गङ्गाधरादिग्रन्थेषु प्रादर्शि; तामेव वैदर्भीरीति " वैदी रीतिमहं लभेय सौभाग्यसुरभितावयवाम् । दमयन्ती वैरस्यं दिशति गिरां या परां लक्ष्मीम् ।।" इत्यनेन प्रारम्भश्लोकेन संसूच्य स्वाभिप्रेतां च तामुररीकृत्य कविपुङ्गवेनैतत् प्रारेभे, सथैव च नियूंढमिति विज्ञातचरं भविष्यति विचक्षण-विशारदानाम् । . १ अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भ-गौडीयौ वयेते प्रस्फुटान्तरौ । श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः-कान्ति-समाधयः॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः । एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ -आचार्यदण्डिनः काव्यादर्श (प्रथमपरिच्छेदे श्लो० ४०-४२) २ रीतिरात्मा काव्यस्य ॥६॥ विशिष्टा पदरचना रीतिः ॥ ७॥ विशेषो गुणात्मा ॥ ८॥ सा त्रिधा ॥९॥ सा चेयं रीतिस्त्रिधा भिद्यते वैदर्भी गौडीया पाञ्चाली चेति । किं पुनर्देशविशेषे द्रव्यवद् गुणोत्पत्तिः काव्यानाम् ? येनायं देशविशेषव्यपदेशः । नैव, यदाह-विदर्भादिषु दृष्टत्वात् तत्समाख्या ॥ १० ॥ विदर्भ-गौड-पाञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात् तत्समाख्या, न पुनर्देशैः किञ्चिदुप- क्रियते काव्यानाम् । तासां गुणभेदाद् भेदमाह--समग्रगुणा वैदर्भी ॥ समोरोजः-प्रसादप्रभृतिभिर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र च श्लोको- अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपश्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ अलङ्कारादिसौभाग्यां तामेकामेव स्तुवन्ति कवयः- सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ।।

[१४] - ६) तासां पूर्वा ग्राह्या गुणसाकल्यात् ॥ १४ ॥ न पुनरितरे स्तोकगुणत्वात् ॥ १५ ॥ तामां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या, गुणानां साकल्यात् । -वामनाचार्यकृतौ काव्यालङ्कारसूत्रवृत्तौ (प्रथमेऽधिकरणे द्वितीयाध्याये ) ३ असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी। वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया ॥ वैदर्भी--पाञ्चाल्यौ प्रेयसि करुणे भयानकाद्भुतयोः । लाटीया-गौडीये रौद्रे कुर्याद् यथौचित्यम् ॥" -रुद्रटकृते काव्यालङ्कारे ( अ. १५, श्लो० २०) आख्यातान्युपसर्गः संसृज्यन्ते कदाचिदर्थाय । वृत्तेरसमासाया वैदर्भी रीतिरकव ।। -रुद्रटका. (अ. २, लो० ४ यदत्यर्थं च स ( काव्यपुरुषः) तया (साहित्यविद्यावध्वा) वशंवदीकृतः स्थानानुप्रासवदसमास योगवृत्तिगर्भ च जगाद सा वैदर्भी रीतिः। तां ते मुनय इति समानं पूर्वेण । तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासविन्या- सक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः । -काव्यमीमांसायां तृतीयाध्याये (पृ. ९) राजशेखरः । ५ वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः। रोङ गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ।। वैदर्भी साऽथ पाश्चाली गौडीयाऽवन्तिका तथा । लाटीया मागधिका चेति षोढा रीतिर्निगयते ॥ तत्रासमासा निःशेषश्लेषादिगुणगुम्फिता विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ तासु वैदर्भी यथा- मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से ! क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ सेयमसमस्तपदा समस्तश्लेषादिगुणवती वैदर्भी रीतिः । -महाराजभोजदेवकृते सरस्वतीकण्ठाभरणे (द्वितीयपरिच्छेदे) ६ माधुर्यव्यञ्जकैवर्णे रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरुच्य(रिष्य )ते ॥ -साहित्यदर्पणे ( नवमपरिच्छेदे ) विश्वनाथः । ७ एभिर्विशेषविषयैः सामान्यैरपि च दूषण रहिता। माधुर्यभारभङ्गुरसुन्दरपवर्णविन्यासा ॥ व्युत्पत्तिमुगिरन्ती निर्मातुर्या प्रसादयुता। तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥ + अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम् , अन्यथा तु परिपाकभतः स्यात् । -40 जगन्नाथविरचिते रसगङ्गाधरे (पृ. ७३) ..

ऑ. सिरीद्वारा प्रकाशिते) तदन्तर्गतनलचरिते स्वल्पांशपरिवर्तनेन*समुदतारयत् । तदानीन्तनानां [१५] नलविलासस्य माधुर्यम् । अस्य प्रस्तावनायां कौमुदी-मित्राणन्दस्यामुखे च सूत्रधारमुखात् कविना यथोच्चारि- तम्-' प्रबन्धानाधातुम्-' (जल० श्लो० ३) तथैव खल्वत्र नाट्यप्राणाः सर्वेऽपि रसाः स्वस्वभमिकायां परकोटौ घरिताः, प्रतिभान्ति । किञ्च विशेषतोऽत्र पञ्चमे षष्ठेऽङ्के च प्रवाहितः करुणरसस्य प्रकर्षः पर्यायत्यभिप्रायविदः पाषाणहृदयानपि । नलविलासस्यातीव मनोज्ञं स्वयंवरवर्णनं त्वेतत्कविसमकालीनः मुमतिनाथचरित्र(प्रा.)- कुमारपालप्रतिबोध(प्रा.)-शतार्थवृत्त-सूक्तमुक्तावल्यपरनामसिन्दूरप्रकरादिसमर्थग्रन्थकारः सोम- प्रभाचार्योऽपि वि. सं. १२४ १ वर्षे प्रणीते जिनधर्मप्रतिबोधापरनामकुमारपालप्रतिबोधे ( गा. प्रौढग्रन्थकाराणामप्यनुकरणीयत्वेनादरपात्रमिति किं न चेतोहरं प्रभवेदिदमिदानीमिदानीन्तनानाम् ? (१) दम०-अज ! परवंचवसणिणो कासिवासिणो सुच्चंति । माधव०- मेऽस्मिन् मनोरतिरिति xx -नलविलासे पृ. ४८ (१) भद्दे ! परवंचणवसणिणो कासिवासिणो सुव्वं( चं )ति ता न मे इममि रमइ मणं ति xx -कुमारपालप्रतिबोधे पृ. ४९ (२) अणिमित्तरोसिरो एस, ता न पारेमि पए पए अणुकूलिहूँ । -नल० पृ. ४९ (२) + अकारणकोवणा कुंकणा, ता न पारेमि इमं पए पए अणुकूलिउं। कुमारपाल• पृ० ४९ (३) + + तुसारसंभारपणयभीरुयं मे सरीरयं न किं तुमं जाणा( ण )सि ? -नल० पृ.४९ (३) + तुसारसंभारभीरुयं मे सरीरयं किं न तुम जाणसि? । -कु० पृ. ४९ (४) दम-कपिंजले ! अदिरमणीया तुमए वरमाला विणिम्मिदा । माधव०-अप्रतिवचनमेवास्य. भपतेः प्रत्यासः । -नल० पृ. ४९ (४) + कविंजले ! अइरमणीया वरमाला विणिम्मविया। + + अप्पडिवयणमेव इमस्स नरिंदस्स पडिसेहो -कु० पृ. ५० (५) + तादसमाणवयपरिणामस्स नमो एतस्स । नल० पृ. ५० (५)+ + तायसमाणवयपरिणामस्स नमो एयस्स । -कु० पृ. ५० (६) अम्मो ! ईदिसं पि कसिणभीसणं माणुसरूवं भोदि ! अन ! दरिदमग्गदो वच, वेवदि मे हिदयं । -नल० पृ. ५१ (६) अम्मो! एरिस पि कसिणभं(भी)सणं माणुसाणं रूवं होइ त्ति सुरियं अग्गओ गच्छ । वेवइ --कुमार० पृ. ५० (७) हीमाणहे ! परिस्सत म्हि एदिणा सयंवरमंडवभूमिविहरणेण, किचिरं अज वि अजो माधव- सेणो जंपिस्सदि? -नल० प. ५२ ( . ) हद्धि । परिस्संत म्हि इमिणा सयंवरमंडवसंचरणेण, ता किच्चिरं अज वि भद्दा पिस्सइ ? -कुमारपाले० पृ. ५० - , मे हिययं ।

-- नलविलास-सूक्तयः। नलविलासे वर्णितानि सन्ध्या-चन्द्रोदयादिवर्णनानि, नायक-नायिकादीनां वक्रोक्ति- गूढभणिति-वैदग्ध्यविलसितानि, प्रसङ्गोचितानि व्यवहारोपयोगीनि शिक्षासूत्राणीवार्थगाम्भीर्यभृतानि सुभाषितानि पद्यानि, हृद्यानि च गद्यानि विचारकपाठकानामतीवप्रमोदप्रदानि विज्ञानकलाकौशल. प्रवर्धकानि च प्रभवेयुः । नाट्यादिविषयकाणि कानिचित् तु तत उद्धृत्य वर्णिकामात्रमत्रापि प्रदर्श्यन्ते । नाट्योपयोगि- नाट्ये रसस्यैव प्राधान्यमिति स्वाभिप्रेतं मतं समसूचि नाट्यलक्षणनिर्माणनिष्णातेनानेन सूरिणाऽत्र प्रसङ्गतः । तद् यथा--- " सपर्णः-देव ! रसपाणो नाट्यविधिः । वर्णार्थवन्धवैदग्धीवासितान्तःकरणा ये पुनरभिनेयेष्वपि प्रबन्धेषु रसमपजहति विद्वांस एव ते, न कवयः । न तथा वृत्तवैचित्री श्लाघ्या नाट्ये यथा रसः । विपाककम्रमप्याम्रमुद्वेजयति नीरसम् ॥ प्रसङ्ग्रेचिताश्चान्या अपि नाटक-रूपक-नटादिभावगर्भिता उपमा उपक्षिप्ताः प्रेक्ष्यन्तेऽत्र -- -नल० पृ. ७७ यथा- - " नाटकस्येव प्रमदाद्भुतरसशरणं सम्भावयामि निर्वहणम् । " -नल० पृ.४५ " आमन्त्रिता वयमतः प्रमदः परेऽपि सन्त्यागताः क्षितिभुजोऽथ विषादतापः । अङ्ग विधानमिव सन्धिषु रूपकाणा तुल्यं स्वयंवरविधिः सुख-दुःखहेतुः ॥ -नल० पृ.३० " तदिदमनिशं स्मारं स्मारं कुशीलववन्मनो हसति रमते रोदित्युच्चैर्विषीदति सीदति ॥"-नल० पृ. ४५ कलहंसः- अहो ! विकटस्य संसारनाटकस्य परस्परविरुद्धरससमावेशवैरस्यम् ! शृङ्गाराद्भुतरसनिस्यन्दसुन्दरः क्व नाम स स्वयंवरविवाहमहोत्सवाडम्बरः, क्व चैष परम- करुणरसप्रावीण्यप्रणयपिच्छिलो दुरोदरप्रवर्तितो दमयन्तीमात्रपरिकरस्य देवस्य निषधाधिपतेः प्रवासवैशसोपलवः।" -नल० पृ. ५५ " [१७] अनेकान्तवादः- 1573 " भजन्ते कार्याणि प्रकृतिविभवं कारणगतं प्रवादो लोकानां ध्रुवमयमनेकान्तकलुषः । मृदुत्वं तत् किञ्चिज्जलदपयसां विश्वविदितं स कश्चिन्मुक्तानामथ च किल काठिन्यनिकषः ॥"--नल० पृ. २७ 'सुस्थे हृदि सुधासिक्तं दुःस्थे विषमयं जगत्। वस्तु रम्यमरम्यं वा मनःसंकल्पतस्ततः।।" -नल० पृ. ५९ कर्मसत्ता- " तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पथ्यतया विभाति । यावत् पुरा कृतमकर्म न सर्वपर्व- प्रत्यूहकारि परिपाकमुपैति जन्तोः ॥ -नल० पृ. ५५ " तैस्तैः शुभैरशुभैर्वा कर्मभिभिन्नवर्तनीसच्चरिष्णवः सर्वे जन्तवः । -नल० पृ. ८२ विद्याजीविनामल्पवेतनिकत्वम्- " अल्पवेतना हि विद्याजीविनः प्रायेण । देवीं वाचमविक्रेयां विक्रीणीते धनेन यः । कुद्धेव तस्मै सा मूल्यमत्यल्पमुपढौकयेत् ॥" -नल० पृ. ८ प्रेम- यस्त्रिजगद्वन्धनेन प्रेम्णा न बध्यते, तस्य मृणालतन्तुपेशलमम्बरं किमादधीत ? नल० पृ. ६३ राजधर्मः- " यतो द्रष्टुं स्त्रीणां वधविधिमयोग्याः क्षितिभुजः।" -नल० पृ. ७६ द्यूतम्- दुरोदरकृतः का वा त्रपा का कृपा ?" -नल० पृ. ६६ स्थानमहिमा- • दोषा अप्यतिशेरते क्वचिदपि स्थाने प्ररूढा गुणान् " -नल० पृ. ५१ सदाचारः " एगागिणो परमहिलांणं मज्झे गमणं न समुचिदं ।" नल० पृ. ५३ . - - - - ३ [१८] -- . तपस्विधर्मः- " अनुचितं गृहस्थकृत्यचिन्तनं तपस्विनः ।" -नल० पृ. ६१ स्त्रीबन्धनम्-- यद्वा स्त्रियो बन्धनम् नल० पृ. ६६ भुजमात्रपरिच्छदैर्यत्रैव तत्रैव यथैव तथैव स्वैरमास्यते, स्त्रीबद्धानां कुतः कामचारः ?" -नल० पृ. ६१ दाक्षिणात्याया अभिज्ञानम्- " यथेदं मौक्तिकप्रायमाभरणम, यथा दन्तपत्राञ्चितौ कर्णपाशौ; तथा जाने दाक्षिणा त्यायाः कस्या अपि योषितः प्रतिकृतिरियम् " -नल० पृ. १० सूर्यग्रहणसमयः- " न नाम सैंहिकेयोपरागे सवितैव केवलं क्लाम्यति, किन्तु तदधीनाशेषव्यवहारविशेष मखिलमपि काश्यपीवलयम् । -नल० पृ. ५५ कैतवम्- " सर्वथा कैतवं निन्द्यं प्रवदन्तु विपश्चितः । केवलं न विना तेन दुःसाधं वस्तु सिध्यति ॥ निर्मायो यः कृपालुर्यः सत्यो यः सनयश्च यः । प्रायेण तत्र लोकस्य क्लीबबुद्धिर्विजृम्भते ॥" -नल० पृ. १० दुर्जनः- छिन्नेषु रावणे तुष्टः शम्भुर्दशसु मूर्द्धसु । शतेऽपि शिरसां छिन्ने दुर्जनस्तु न तुप्यति ॥" सूक्ति-गीतिगौरवम्- " अजलप्यं जल्पामः किमपि किल पाषाणसुहृदां सदा तेषां भूयाज्जगति पुरुषाणामजननिः । असारं संसारं विदधति न सारं प्रतिमुहुः पिबन्तो ये सूक्तीरथ च कलगीतीमधुमुचः ।। न गीतशास्त्रमर्मज्ञा न तत्त्वज्ञाश्च ये किल । अपौरपशुदेश्येभ्यस्तेभ्यः पुम्भ्यो नमो नमः ॥ -नल० पृ. ३१ - दु -..-.-नल० १.८५ - [१९] नलविलासस्य समुदाहरणानि । नलविलासरचयित्री श्रीमता रामचन्द्रसूरिणा पं. गुणचन्द्रेण साधं विरचितायां स्वोपज्ञना- ट्यदर्पणविवृतौ नाटक-प्रकरण नाटिका-प्रकरणी-व्यायोग-समवकार-भाण–प्रहसन-डिमाङ्के- हामृग-वीथीसंज्ञकद्वादशरूपकस्वरूपनिरूपणाय *पञ्चपञ्चाशन्नाटकादिप्रबन्धानामुदाहरणानि प्राद- यन्त । तन्मध्ये च स्वोपज्ञकृतीनामपि दृष्टान्तानि प्रदर्शितानि । किञ्च प्रयोज्य-हेतु-विरुद्ध- वर्जन-बिन्दु-चूलो-पताकाऽवस्था-प्रयत्न-प्राप्त्यांशा-विलास-नम -प्रतिवाश्रेणि-'पैरिभाषा-- व्याहार-गुण-दोषव्यत्यय-प्ररोचेंनाऽऽदिनिदर्शनाय नलविलासस्यांशानुपयोज्य कविरेतस्य गौरवं विशेषतः प्राख्यापयत् । * नलविलासका नाट्यदर्पणोदाहृतौ निर्दिष्टानि निजान्यनाटकादिनामानीमानि । (१) अनङ्गवतीनाटिका ( २ ) अनङ्गसेना-हरिनन्दिप्रकरणम् ( श्रीशुक्तिवासकुमारविरचितम् ( ३ ) अन- यराघवम् ( ४ ) अभिज्ञानशकुन्तलम् ( ५ ) अभिनवराघवम् ( भटेन्दुराजशिष्यक्षीरस्वामिविरचितम् ) ( ६ ) अर्जु- नचरितम् (७) इन्दुलेखानाटिका (.८ ) उत्तर( उत्तररामचरितम् (९) उदयनचरितम् (१०) उदात्त- राघवम् ( ११) कादम्बरी ( १२) कुन्दमाला ( वीरनागनिबद्धा ) (१३) कुमारसम्भवम् ( १४ ) कृत्यारावणम् (१५) कोशलिकानाटिका ( भट्टश्रीभवनुतचूडाविरचिता ) ( १६ ) चित्रोत्पलावलम्बितकप्रकरणम् ( अमात्यशङ्कु. कविरचितम् ) (१७) छलितरामम् ( १८ ) तरङ्गदत्तम् ( १९) तापसवत्सराजम् (२०) दरिद्रचारुदत्तरूप- कम् ( २१ ) देवीचन्द्रगुप्तम् ( विशाखदेवकृतम् ) ( २२ ) नागानन्दम् ( २३ ) पाण्डवानन्दम् ( २४ ) पार्थ- विजयम् ( २५ ) पुष्पदूषितकम् ( २६) प्रतिमानुरुद्धम् ( श्रीभीमदेवसूनुवसुनागकृतम् ) ( २७ ) प्रयोगाभ्युदयम् (२८) बालिकावञ्चितकम् ( २९) बृहत्कथा ( ३० ) भारतम् ( ३१ ) मनोरमावत्सराजम् ( भीमटविरचितम् ) (३२) मायापुष्पकम् (३३) माल(वि)काऽग्निमित्रम् (३४) मालती-माधवम् (भवभूतिरचितम् ) ( ३५) मुद्रा. राक्षसम् ( ३६ ) मृच्छकटिका ( श्रीशूद्रकविरचिता) (३७) रत्नावली (३८) राधाविप्रलम्भम् ( रासकाई भेजलविरचितम् ) ( ३९ ) विक्रमोर्वशी ( ४० ) विधिविलसितम् ( ४१ ) विलक्षदुर्योधनम् ( ४२ ) वीरचरित. नाटकम् ( ४३ ) वेणीसंहारम् ( ४४ ) स्वप्नवासवदत्तम् । यत् पुनरुत्तररामचरिते रामोत्सङ्गनिषण्णायाः सीतायाः, अस्मदुपज्ञे नलविलासे अरण्ये दम- यन्त्माश्च शयनं प्रयुक्तं तत् प्रस्तुतोपयोगित्वात् रञ्जकत्वाच्च न दुष्टम् । -नाट्यदर्पणविवृतिः ( आग्रास्थविजयधर्मलक्ष्मीज्ञानमन्दिरीया प्रतिः प. ७ ) यथा रत्नावल्यां लवगसम्पातः सागरिकानुरागबीजस्य फलकस्य सम्प्राप्तिहेतुः, यथा वाऽस्मदुपर्ने नलविलासे कापालिक -विदूषकनियुद्धं राज्ञोऽनुरागमूलस्य दमयन्तीप्रतिकृतिदर्शनस्य हेतु ।" -ना. द. वि. प. ८ यथा नलविलासे धीरललितस्य नायकस्य दोषं विना समचारणीपरित्यागोऽनुचित इति कापा- लिकप्रयोगेण निबद्धः।" -ना द. वि. प. ९ यथा वा नलविलासे चतुर्थे स्वयंवराले नेपथ्ये बन्दी विन्यस्य-[लो. २४ ] इति । -ना. द वि. प. १० यथा वा नलविलासे द्वितीयाङ्कस्यादौ 'स्वागतं सपरिच्छदाय कलहंसाय । ततः प्रविशति कलहमा मकरिकाप्रभृतिकश्च परिवारः।' अत्र नेपथ्यपात्रेण पुंसा शेखरेण कलहंसादिवस्तुनः सूचनात् चूलेति । -- ना. द. वि. प. १४ १ . २ ३ ." ४ [२०] नलविलासीयं स्वयंवरवर्णनं सोमप्रभाचार्येण स्वीये कुमारपालप्रतिबोधे समवतारितमिति पूर्व प्रदर्शितं तथा च सुमतिगणिना वि. सं. १२९५ वर्षे विरचितायां गणधरसार्धशतकवृहद्वृत्तौ (पृ. ३०९-११) नामग्राहं नलविलासनाटकस्थानि विदूषकादिवचांसि समुद्धृतानि दृष्टिपथे निपतन्ति । तथाहि- " तथा च नलविलासनाटके विदूषकहास्यद्वचांसि । यथा किल निषधाधिपतिर्दृष्ट- स्वप्नः प्रकृतयुगादिदेवसपर्यः कलहंसादिपरिवार उद्यानक्रीडासरसीसीकरासारस्निग्धच्छायं तरुख- ण्डमवलोक्य स्वगतं समुचितोऽयं प्रदेशः । " इत्यादिनाऽऽरभ्य " बीहामि एआओ बंभरक्ख- साओ।" इति यावत् ( प्रकाशिते नल० पृ. ४-७ ) " पुनरत्रैवाग्रतो नलविलासे w " ८ " यथा वा नलविलासे विदूषक-कापालिकनियुद्धनिवारणायोद्यतस्य राज्ञो दमयन्तीप्रतिकृतिलाभ इति।" -ना.प. १७ यथा वा नलपिलासे प्रथमेऽङ्के नेपथ्यतूर्यध्वनिः । + + + + + यातु । इत्यादीति ।" -ना. प.२१ यथा वा नलविलासे तृतीयेऽङ्के 'राजा ( सत्वरम् )-मकरिके ! प्रभवसि xxx यतस्व इत्यादीति। -ना.प. २१ ९" यथा वा नलविलासे चतुर्थे स्वयंवराङ्के ‘नल:-कलहंस ! मकरिके ! फलितः xxx स्वप्नार्थ- प्रत्याशा ।' इति । --ना.प.११-२२ यथा वा नलविलासे तृतीयाङ्के 'दमयन्ती राजानमवलोक्य स्वगतम् xxx अङ्गचङ्गिमा' इति।" -ना. प. ३३ ११ “ यथा वा नलविलासे 'विदूषकः लम्बस्तनी विलोक्य सभयकम्पं भो रायं !xx तथा राजा लम्ब० Xxxx तिष्ठति' इति । -ना.प.३५ १२ " यथा वा नलविलासे तृतीयेऽङ्के भुजमवलम्बिते राजनि दमयन्ती क्रमादाह 'जइ xx जादा' -ना. प. ३७ १३ “ यथा वा नलविलासे दमयन्ती प्रति नल:--' न प्रेम xx' [अ. १, श्लो० ९] -ना.प.५१ १४ " यथा नलविलासे लम्बस्तनीकापालिकी प्रति विदूषकः-'एकं दाव XX का वि' [अ. २, --ना.प. ७२ १५ " यथा नलविलासे 'राजा-देवि ! उपालभ्यसे xx' [अ. ३, पृ. ४०-४१] अत्र स्तब्धता स्तनगुणो दोषीकृतः। -ना. प. ७९ १६ “ यथा वा नलविलासे ' सर्वेषामपि xx' [अ० ३, श्लो० १३ ] अत्र पण्यस्त्रीत्वदोषः शृगार- पुष्ट्यर्थ गुणीकृतः।” -ना.प. ७९ १७ " यथा वा नलविलासे 'कविः काव्ये रामः- [अ. १, श्लो० २] --ना.प.८४ " इति । . " पृ. २५ ] इत्यादीति।" १ शर-निधि-दिनकरसइन्ख्ये राधे पूर्णीभूता वृत्तिरियं विक्रमवर्षे गुरौ द्वितीयायाम् । नन्दतात् सुचिरम् ॥ --गणधरसार्धशतकबृहद्वृत्तिप्रान्ते ।

[२१] THE KUPPUSWAMI SASTI RESEARCH TITUTF MAD. पृ. ४ ५ " " " ज्ञायते नूनं " " " ६ ६ " पुनः ससम्भ्रम २२ वने " यथा किल " ' कलहंसः-ततो दमयन्त्या ' इत्यादिनाऽऽरभ्य " लम्बम्तनी x x निष्क्रान्ता" इति यावत् ( नल० पृ. २३-२६) । तत्रत्य उपयुक्त पाठभेदश्चात्र समुद्धियते-- पं. ' नलविलासे. गणधरसार्धशतकवृहद्वृत्तौ (पृ. ३०९-११) '२० समन्ततो वि समन्ततोऽवलोक्य खल्वयम् खल्वसौ भाव्यम् भवितव्यम् गन्तुमिच्छति पदमुत्क्षिपति १३ -मकाण्डे -मकाण्ड एव ज्ञायते २० -चतुर्भागे -चतुर्थभागे कमप्य- किमप्य- मत्प्रसादस्य फलं मत्प्रसादफलं १७ ससम्भ्रमं २० दुवारे दारे कानने २३ -देवावटुंभेण तुझे -देवदेवदावटुंभेण तुब्भे इध य्येव चिटुध । इह जेव चिट्ठध अहं उण नि(न)स्सिस्सं । ३ निस्सरिस्सं नस्सिस्सं तत उत्थायं तदुत्थाय १० कलहंसो निष्क्रम्य पुनः कलहंसो निष्क्रम्य पुनः प्रविश्य च देव प्रविशति तपोधनो द्वारि । राजा-सम्भवन्ति तपोधना देवतायतनपावनेषु वनेषु । शीघ्रं प्रवेशय । कल- हंसो निष्क्रम्य सतपोधनः प्रविशति । १२ एआओ बंभरक्खसाओ एदाउ बंभणरक्खसाओ। २३ यथा यदि यदि १९ सा तातं कदा तातं सा चित्रसेन कदा- २३ क्वासौ २४ अस्ति मत्त- २४ ४ एयाओ एदाउ कडियर्ड नच्चावंती कडिअडं नच्चाविंती १३ जेव य्येव २४ १६ -सियत्वं -सिदत्वं " ९ " ॐ " तामौ स्वाती मत्त- " " [२२] २५ " " २ गोहिं मुद्दे (टे) हिं [वा] गोणेहि मुदेहि २२ –र्गुणैमूटकैरे [1] षा [ –गोभिर्मतरेषा ६ तदस्य तदेतस्य ८ मुखं मुखं च १२ पि पिअजणं संपाडेमि अंजणं संघडावेमि पत्तकत्तके (2) वि ५ भो भाण्डागारिषु भो भाण्डागारिकेषु देव एषोऽम्मि " २६ ४ इत्थ को वि " ७. एषोऽस्मि " महाकविरामचन्द्रः। नलविलासरचयितुः कविरत्न-रामचन्द्रस्य कदा कुत्र जन्म-दीक्षाऽऽदि ?, का ज्ञातिः ? का जन्मभूमिः ? माता-पित्रोः किमभिधानमित्यादि विज्ञातुं न किञ्चित् साधनमुपलभामहे । किञ्च प्रबन्धादिषु सिद्धहस्तः कविकर्मकुशलोऽसाधारणप्रतिभासम्पन्नोऽयं कवीश्वरो रामचन्द्र- श्वातुर्वैद्यविशारदस्य स्वोपज्ञवृत्तिन्याससमुपेतसाङ्गसं. प्रा.शब्दानुशासन-काव्यानुशासन-छन्दो. ऽनुशासन-वादानुशासन-धातुपारायण-द्वयाश्रयमहाकाव्य-देशीनाममालाऽभिधानचिन्तामण्यने- कार्थसङ्ग्रह-निघण्टु-सप्तसन्धानमहाकाव्य-त्रिषष्टिशलाकापुरुषचरित—परिशिष्टपर्व-योगशास्त्र- -वीतरागस्तोत्र-महादेवस्तोत्र-द्वात्रिंशिकाद्वयार्हन्नीति--प्रमाणमीमांसाप्रभृतिप्रणेतु रेश्वरसिद्ध- राजसम्मानितस्य कुमारपालभूपालप्रतिबोधकस्य सुप्रसिद्ध जैनाचार्यश्रीहेमचन्द्रस्य शिष्यत्वं तु स्वयं प्रतिपादयति सूत्रधारमुखेनात्रान्यत्र च स्वकृतिमन्दर्भ + । + १ सूत्र.--दत्तः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण रामचन्द्रेण विरचितं नलविलासाभिधा- नमाद्यं रूपकमभिनेतुमादेशः । --नलविलासस्य आमुखे। श्रीसिद्धहेमाभिधानशब्दानुशासनवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण रामचन्द्रेण विरचितं सत्यहरिश्चन्द्राभिधानमादिरूपकमभिनीय सभाजनमनुरञ्जयिष्यामः । '--सत्यहरिश्चन्द्रस्य प्रस्तावनायाम् । ३ मारिष. ! श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्ये( प्यं ) रामचन्द्रमसि( ? भि )जानासि ? । चन्द्र०--( साक्षेपम् )-- पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् । किन्तु द्रव्यालङ्कारनामा प्रबन्धोऽनभिनेयत्वेन तावदास्ताम् । अपरेषां राघवाभ्युदय-यादवाभ्युदय- नलविलास-रघुविलासानां चतुर्णा रमणीयतम-सद्ध्यनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजाना- -रघुविलासस्य प्रस्तावनायाम् । ४ श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तुमहाकवे रामचन्द्रस्य भूयांसः प्रबन्धाः । --निर्भयभीमव्यायोगस्य प्रस्तावनायाम् । ५ अस्ति खलु श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणापातावगाढसाहित्याम्भोधिना विशीर्णकाव्यनिर्माणतन्द्रेण ० -- मनुरागः ?

[२३] हेमचन्द्रसूरेः पट्टधरत्वम् । श्रीसिद्धराजराजेन जिज्ञासया पृष्टे श्रीहेमचन्द्राचार्येण · स्वपट्टयोग्यो गुणाधिकः शिप्यः कृतिशेखरो रामचन्द्र ' इति न्यवेदि दिदृक्षायां तं च प्रादर्शीत्यादिवृत्तान्तो वि. सं. १३३४ वर्षे प्रभाचन्द्रसूरिणा रचितस्य प्रभावकचरितम्य निम्नदर्शितोल्लेखाधिगम्यते- " राज्ञा श्रीसिद्धराजेनान्यदाऽनुयुयुजे प्रभुः । भवतां कोऽस्ति पट्टम्य योग्यः शिप्यो गुणाधिकः ? ।। तमस्माकं दर्शयत चित्तोत्कर्षाय मामिव । अपुत्रमनुकम्पार्ह पूर्वं त्वां मा स्म शोचयन् ॥ आह श्रीहेमचन्द्रश्च न कोऽप्येवं हि चिन्तकः । आद्योऽप्यभूदिलापाल: सत्पात्राम्भोधिचन्द्रमाः ॥ सज्ञानमहिमस्थैर्य मुनीनां किं न जायते ? । कल्पद्रुमसमे राज्ञि त्वयीदृशि कृतस्थितौ ॥ अस्त्यामुप्यायणो रामचन्द्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूपः सङ्के विश्वकलानिधिः ॥ अन्यदाऽदर्शयंस्तेऽमुं क्षितिपस्य स्तुतिं च सः । अनुक्तामाद्यविद्वद्भिहलेखाधायिनी व्यधात् ॥ तथाहि- * ' मात्रयाऽप्यधिकं किं( क )चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥' शिरोधूननपूर्वं च भूपालोऽत्र दृशं दधौ । रामे वामेतराचारो विदुषां महिमस्पृशाम् ॥ एकदृष्टिर्भवान् भूयाद् वत्स ! जैनेन्द्रशासने । महापुण्योऽयमाचार्यो यस्य त्वं पदरक्षकः ॥" --प्रभावकचरिते ( नि. सा. प्रकाशिते पृ.) सिंहस्य शिशुः सिंह एव ' इति लोकोक्ति सफलयन् प्रौढपाण्डित्यशालिनः शिप्यो- ऽयमपि तथैवेति न नाम विस्मयावहम् । किञ्च श्रीमद्भिर्गुरुभिः स्वपट्टधुरन्धरत्वेन प्रकल्पितो गुरुगौरवकार्यसौ गुर्वभीष्टकार्यनिर्वहणेन निजां पधुरन्धरतां प्रद : पत्येव । मन्ये नाटकप्रबन्धा- दिषु सफलप्रयत्नं पटिष्ठमेनं स्वशिप्यरत्नं विज्ञायैव तत्र गुरुभिर्न प्रयातं स्यात् । श्रीमता रामचन्द्रेण विरचितं कुतूहलसहस्रनिधानं कौमुदी-मित्राणन्दाभिधानं निःशेषरसभाषप्रदोपकं --कौमुदी-मित्राणन्दस्य आमुखे। शब्द-प्रमाण-साहित्य-छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ॥ --नाट्यदर्पणविवृतिप्रान्ते। द्वितीयं रूपकम् । * अयं श्लोकः सिद्धहेमबृहद्वृत्ति( अ. ५, पा. ३ )प्रान्तेऽपि दृश्यते [२४] कविरामचन्द्रस्य सतीर्थ्याः। कलिकालसर्वज्ञहेमचन्द्राचार्यस्य शिष्या महेन्द्रसूरि-गुणचन्द्रगणि-वर्धमानगणि- देवचन्द्रमुनि-यशश्चन्द्रोदयचन्द्र-बालचन्द्रादयः पं. रामचन्द्रस्य सती• आसन् । तत्र च- महेन्द्रमूरिः-अनेन सूरिणाऽनेकार्थकैरवाकरकौमुदीसंज्ञिता हैमानेकार्थसङ्ग्रहटीका गुरुनाम्नैव प्रतिष्ठितौ । सोमप्रभाचार्येण वि. सं. १२४१ वर्षे समापितो जिनधर्मप्रतिबोधापरनाम- कुमारपालप्रतिबोधग्रन्थोऽनेन सूरिणाऽश्रीवि । गुणचन्द्रगणिः-पं. रामचन्द्रस्य परमप्रीतिपात्रं समविद्यागुणशीलः प्रतीयते, यतोऽनेन साकं कविरामचन्द्रेण स्वोपज्ञद्रव्यालङ्कारवृत्ति-नाट्यदर्पणविवृती विहिते विलोक्येते । एतेन गणिनाऽपि सोमप्रभाचार्यसन्दर्भितः कुमारपाल( जिनधर्म )प्रतिबोधः श्रुत आसीत् । वर्धमानगणिः-अयमपि पूर्वोक्तं प्रतिबोधग्रन्थमश्रौषीष्टै । कुमारविहारप्रशस्तिकाव्य- व्याख्यादिकमनेन निर्ममें । देवचन्द्रमुनिः-चन्द्रलेखाविजयप्रकरणमनेन प्रणीतम् । जेसलमेरभां० सूची पृ० ६४ इत्यत्रायमस्माभिः परिचायितः । यशश्चन्द्रगणिः-वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा विरचिते प्रबन्धचिन्तामणौ ( स. ४, पृ. २०६-२३३ ) एतस्य नामोपलभ्यते उदयचन्द्रः-अस्योपदेशाद्देवेन्द्रसूरिशिष्यो मनीषी कनकप्रभो हैमन्याससारं समुदधरत् । बालचन्द्रः----अयं रामचन्द्रसूरेः प्रतिस्पर्धी, पूर्वमजयपालनरेशस्य मित्रमासीत् । रामचन्द्रसूरिमरणमेतत्कृतमन्त्रभेदादिति प्राचीनप्रवादोऽये प्रदर्शिप्यते । ' स्नातस्याप्रतिमस्य ' इत्यादिका प्रसिद्धा स्तुतिरेतस्य कृतिरूपा श्रूयते । इतरेऽप्यविदिता अनेके सम्भवेयुः, इतिहासरसिकसज्जनानां सुप्रयत्नेन सुविदिता भविष्यन्ति । १ श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रसूरिणा । भक्तिनिष्ठेन लीकेयं तन्नाम्नैव प्रतिष्ठिता ॥ --अनेकार्थकैरवकौमुदी। २ शशि-जलधि-सूर्यवर्षे शुचिमासे रविदिने सिताप्टम्याम् । जिनधर्मप्रतिबोधः क्लुप्तोऽयं गुर्जरेन्द्रपुरे॥ -कुमारपालप्रतिबोधप्रशस्तिः। ३ हेमसूरिपदपङ्कजहंसैमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ -कु. प्र. ४ श्रीहेमचन्द्रसूरिशिष्येण वर्द्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुष्मिन् पूर्व षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं शतं व्याख्यानं चक्रे । P. P. ३, ३१६ ५ भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रो मुनीश्वरः ॥ तेषामुदयचन्द्रोऽस्ति शिष्यः सङ्ख्यावतां वरः । यावजीवमभूद् यस्य व्याख्या ज्ञानामृतप्रपा ॥ तस्योपदेशाद् देवेन्द्रसूरिशिष्यलवो व्यधात् । न्याससारसमुद्धारं मनीषी कनकप्रभः ॥ -हैमशब्दानुशासनबु. न्यासप्रान्ते ।

[२५] . कविरामचन्द्रस्य स्वातन्त्र्याप्रियत्वम् । नलविलासस्य प्रस्तावनायां सूचितमेतत्-' भाव ! अयं कविः स्वयमुत्पादक उताहो परोपजीवकः?' इति नटप्रश्नस्य प्रत्युत्तरे " सूत्रधारः-अत्रार्थे तेनैव कविना दत्तमुत्तरम्-- जनः प्रज्ञाप्राप्तं पदमथ पदार्थ घटयतः पराध्वाध्वन्यान् नः कथयतु गिरां वर्तनिरियम् । अमावास्यायामप्यविकलविकासीनि कुमुदा- न्ययं लोकश्चन्द्रव्यतिकरविकासीनि वदति ॥ अपि च शपथप्रत्येयपद-पदार्थसम्बन्धेषु प्रीतिमादधानं जनमवलोक्य जातखेदेन तेनेदं चाभिहितम्-- स्पृहां लोकः काव्ये वहति जरठैः कुण्ठिततमै- वचोभिर्वाच्येन प्रकृतिकुटिलेन म्थपुटिते । वयं वीथीं गाढुं कथमपि न शक्ताः पुनरिमा- मियं चिन्ता चेतस्तरलयति नित्यं किमपि नः ॥ अनेन पद्यद्वयेन कविप्रवरस्यास्य स्वतन्त्रनूतनकृतिपटुता प्रतीयते, तथा च कविकीर्त्यस- हिष्णुजनस्याश्रद्धेयप्रलापोऽपि ध्वन्यते । कविसमयेऽप्येतादृशः कविनामधारिणोऽभूवन् , येऽन्यकविकृत्यंशानुपादाय स्वनामकीर्तनम कुर्वन् । एतदर्थ कविनाऽन्यत्रापि म्वहृदयोद्गारः प्रकाशितोऽवलोक्यते-- विद्वानपि यथा हास्यः परकाव्यैः कविर्भवन् ।' -जिनस्तोत्रे । " अकवित्वं परस्तावत् कलङ्कः पाठशालिनाम् । अन्यकाव्यैः कवित्वं तु कलङ्कस्यापि चूलिका ॥ -नाट्यदर्पणविवृतिप्रारम्भे । " परोपनीतशब्दार्थाः स्वनाम्ना कृतकीर्तयः । निबद्धारोऽधुना तेन को नौ क्लेशमवेप्याते ? ॥ -नाट्यदर्पणविवृतिप्रान्ते । " परोपनीतशब्दार्थाः स्वनाम्ना कृतकीर्तयः । निबद्धारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ? ॥ -कौमुदीमित्राणन्दस्यामुसे। १ - ? " [२६] - किञ्च काव्यप्रबन्धादिवर्त्मनि स्वतन्त्रेण प्रायः सर्वामपि स्वां कृतिं स्वातन्त्र्यमुद्राङ्कितां कुर्वताऽनेन कविरत्नेन स्वीयं स्वातन्त्र्यप्रियत्वं प्रख्यापितम् । तच्च निम्नोद्धृतांशदर्शनेन पाठकानां प्रतीतं प्रभविष्यति- काव्यं चेत् सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत् कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् ? । स्वातन्व्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवं वैदर्भी यदि बद्धयौवनभरा प्रीत्या सरत्याऽपि किम् ? ॥ -नलविलासे ( अ० २, श्लो० २) अनुभूतं न यद् येन रूपं नावैति तस्य सः । न स्वतन्त्रो व्यथां वेत्ति परतन्त्रस्य देहिनः ॥ -नल० (अ० ६, श्लो० ७) नलविलासप्रान्ते- दुरोदरकलङ्कतः कृतविराम चन्द्रोज्ज्वला- मवाप्य निजसम्पदं पदमचिन्त्यशमश्रियः । यशोभिरनिशं दिशः कुमुदहासभासः सृजन् अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ सत्यहरिश्चन्द्रप्रान्ते- परप्रणयदैन्यतः कृतविराम चन्द्रोज्ज्वला- मवाप्य निजसम्पदं पदमचिन्त्यशर्मश्रियः । यशोभिरनिशं दिशः कुसुमहासभासः सृजन् अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ यादवाभ्युदयप्रान्ते- कल्याणं भूर्भुवःस्वः प्रसरतु विपदः प्रक्षयं यान्तु सवोः सन्तः श्लाघां भजन्तामपचयमयतां दुर्मतिर्दुनानाम् । धर्मः पुष्णातु वृद्धिं सकलयदुमनः प्राप्य स्वातन्त्र्यलक्ष्मी मुदमथ वहतां शाश्वती यादवेन्द्रः ।। निर्भयभीमव्यायोगप्रान्ते-- भूयासुः सत्कवीनां रसरसनपराः काव्यवाचः प्रवाचः प्रत्याशं यान्तु हेलाविफलितसुजना दुर्जना नाशमाशु । धर्मः पुष्णातु वृद्धिं कुरुकुलकमलारामचन्द्रः सुधाद्री प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वती भीमसेनः ।। - कैरवारामचन्द्रः [२७] कौमुदी-मित्राणन्दप्रान्ते--- उपनतमित्रकलंत्रः सन्तप्तारामचन्द्रकरविशदाम् । आसाद्य यशोलक्ष्मी परां स्वतन्त्रश्चिरं भूयाः ॥ द्रव्यालङ्कारप्रान्ते- पूर्वैर्यस्य समुद्धृतिर्न विहिता धीरैः कुतोऽप्याशया- दावाभ्यां स समुद्धृतः श्रुतनिधेव्योत्करो दुर्लभः । एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत् कोविदाः ! स्वातन्त्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि । -- जेसलमेरभां० सूची (पृ. ११) जिनस्तोत्रप्रान्ते- स्वतन्त्रो देव ! भूयास सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तस्त्रिलोकस्यापि नायकः ॥ स्वामिन्ननन्तफलकल्पतरोऽतिराम चन्द्रावदातचरिताञ्चितविश्वचक्र ! । शक्रस्तुतांहिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ जिनम्तव( पोडशिका )प्रारम्भे-- स्वातन्त्र्यश्रीपवित्राय परमब्रह्ममूर्तये । साधिताशेषसाध्याय नमो भगवतेऽहते ॥ अन्यत्रापि- सूक्तयो रामचन्द्रम्य वसन्तः कलगीतयः । स्वातन्त्र्यमिदयोगश्च पञ्चैते हर्षवृ( स )ष्टयः ॥ -सत्यहरिश्चन्द्रप्रस्तावनायाम् । -निर्भयभीमव्यायोगेऽपि ( श्लो० २) कविरामचन्द्रस्य 'कविकटारमल्ल ' बिरुदम् । पं. रामचन्द्रस्य बाल्येऽपि शीघ्रकवित्वशक्ति परी, प्रसन्नेन गूर्जरेश्वरचौलुक्य- श्रीसिद्धराजजयसिंहदेवेनास्मै ' कविकटारमल्ल ' विरुदं सर्तसमक्षमुपदाकृतमित्यवसीयते वि. सं. १५१७ वर्षे भोजप्रबन्धादिप्रणेतू रत्नमन्दिरगणेरुपदेशतरङ्गिण्यन्तर्गतोलेखत:--- ." तथा रैवतोद्धारकारकश्रीसज्जनदण्डनायक-२४ प्रासादकारकमं० आभट-देव- गुरुदृढभक्तमं० आलिग-मं० सांतू-९९ लक्षहाटकस्वामी श्रे० छाडा-षट्कोटिद्रव्यस्वामि- कुबेरदत्तादि-कोटीध्वजाष्टादशशतव्यवहारि-शाकम्भरीपति-अर्णोराज-लाटाधिपगनमांगूझा- [२८] ? लकप्रभृति ७२ राणकपरिकरितश्रीजयसिंहदेवेन ग्रीप्मे क्रीडोद्यानं गतेन मार्गमिलितश्रीरामचन्द्र- क्षुल्लः पृष्टः-कथं ग्रीष्मे दिवसा गुरुतराः ? । रामचन्द्रः प्राह- देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् ( ली ) । वातोद्भूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली- दूर्वाचुम्बनचञ्चुरा रविहयास्तेनाति( नैव ) वृद्धं दिनम् ॥ चमत्कृतेन सिद्धराजेनोक्तम्-सद्यो नगरं वर्णय पत्तनाभिधानम् । एतस्यास्य पुरस्य पौरवनिताचातुर्यतानिर्जिता मन्ये नाथ ! सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोच्चदण्डरुचिरामुत्सूव्य वाहावली- तन्त्रीकां गुरुसिद्धभूपतिसरस्तुम्बी निजां कच्छपीम् ॥ तुष्टेन सर्वसमक्षं कविकटारमल्ल ' इति बिरुदं दत्तम् ॥ वि. सं. १३६१ वर्षे विरचिते प्रबन्धचिन्तामणौ मेरुतुङ्गसूरिः संक्षिप्ततया सिद्धराज- रामचन्द्रयोः प्रश्न–प्रत्युत्तरमेव केवलमसूचयत्- एकदा श्रीसिद्धेन रामचन्द्रः पृष्टः- ग्रीष्मे दिवसाः कथं गुरुतराः ? रामचन्द्रः प्राह-" देव श्रीगिरिदुर्गमल्ल." इति । कविकटारमल्लविरुदधारिणाऽनेन रघुविलासस्य प्रस्तावनायाम् 'अचुम्बितकाव्यतन्द्रम्' इति, कौमुदीमित्राणन्दस्यामुखे च 'विशीर्णकाव्यनिर्माणतन्द्रेण' इत्यादीनि विशेषणानि सूत्रधारमुखेनात्मनि नियोजयता निजं काव्यप्रेम, काव्यक्रियासु स्वस्य सर्वदाऽप्यविश्रान्तपरिश्रमशीलत्वं च प्रचकाशे । किञ्च कविनाऽनेन नाट्यदर्पणविवृतिप्रारम्भे नाट्य-प्रबन्धकवित्वविषयमधिकृत्य कविशिक्षारूपा विदुषां विचारणीया मनन-परिशीलनाश्चि हृद्या हृदयोद्गाराः प्रकाशिताः । - : * अलङ्कारमृदुः पन्थाः कथाऽऽदीनां सुसञ्चरः । दुःसञ्चरस्तु नाट्यस्य रसकलोलसङ्कुलः ॥ न गीत-वाद्य-नृत्तज्ञा लोकस्थितिविदो न ये । अभिनेतुं च कर्तुं च प्रबन्धास्ते बहिर्मुखाः ॥ स कविस्तस्य काव्येन मा अपि सुधान्धसः । रसोर्मिघूर्णिता नाट्ये यस्य नृत्यति भारती ॥ नानार्थशब्दलौल्येन पराञ्चो ये रसामृतात् । विद्वांसस्ते कवीन्द्राणामर्हन्ति न पुनः कथाम् ॥ श्लेषालङ्कारभाजोऽपि रसा निःस्यन्दकर्कशाः । दुर्भगा इव कामिन्यः प्रीणन्ति न मनो गिरः ॥ आरङ्काद् भूपतिं यावदौचिती न विदन्ति ये । स्पृहयन्ति कवित्वाय खेलनं ते सुमेधसाम् ॥ प्राणाः कवित्वं विद्याना लावण्यमिव योषिताम् । विद्यवेदिनोऽप्यस्मै ततो नित्यं कृतस्पृहाः ॥ नासिकान्ते द्वयं श्वित्रं द्वयोम्डा रसज्ञयोः । कुचाभावः कुरङ्गाक्ष्याः काव्याभावो विपश्चितः ॥ अकवित्वं परस्तावत् कलङ्कः पाठशालिनाम् । अन्यकाव्यैः कवित्वं तु कलङ्कस्यापि चूलिका ॥ कवित्ववन्ध्याः क्लिश्यन्ते सुखाकर्तुं जगन्ति ये । नेत्रे निमील्य विद्वांसस्तेऽधिरोहन्ति पर्वतम् ॥ -नाट्यदर्पणविवृतिप्रारम्भे ( श्लो० ३-१२) THE KUPPUSWAN SASTR RESEARCH [२९] rr कविरामचन्द्रस्य काव्यप्रबन्धादिगुणदोप- परीक्षणविचक्षणता। एकदिनप्रणीतमहाप्रबन्धेन सिद्धराजप्रतिपन्नबन्धुना हेमचन्द्रसूरीयाद्विसन्धानमहाकाव्य- संशोधकेन श्रीपालकविराजेन सिद्धराजनृपकारितसहस्रलिङ्गसरोवरम्य रचितायां प्रशस्तावन्य- विदुषामगोचरं दूषणद्वयं दर्शितमासीदनेन विपश्चितेत्यवगम्यते प्रबन्धचिन्तामणित:- अथ श्रीपालकविना सहस्रलिङ्गसरोवरम्य रचितायां प्रशस्तिपट्टिकायामुत्कीर्णायाम । तत्स्थकाव्यमिदम---- न मानसे माद्यति मानसं मे पम्पा न सम्पादयति प्रमोदम् । अच्छोदकाच्छोदकमत्र सारं विराजते कीर्तितसिद्धभर्तुः ॥ १ ॥ तत्प्रशस्तिशोधनाय सर्वदर्शनेप्वाहूयमानेषु श्रीहेमचन्द्राचार्यैः सर्वविद्वज्जनानुमते प्रशस्ति- काव्ये भवता वैदग्ध्यं किमपि न प्रकाश्यमित्युक्त्वा पण्डितरामचन्द्रोऽनुशिप्य तत्र प्रहितः । १ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती सुधीरिमं शोधितवान् प्रवन्धम् ॥ -हेमचन्द्रसूरीयद्विसन्धानमहाकाव्यप्रान्ते । प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्ग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ -सोमप्रभाचार्यायसुमतिनाथचरितप्रान्ते, कुमारपालप्रतिबोधप्रान्तेऽपि । सोमप्रभाचार्यण सुमतिनाथचरित-कुमारपालप्रतिबोधयो रचनैतच्छीपालकविसूनोः कुमारपालभूपालप्रीति- पात्रस्य सिद्धपालकवेवसतावकारीति प्रतिपाद्यते तेनैव सूरिणा निजकृतिप्रान्ते- सूनुस्तस्य कुमारपालनपतिप्रीतेः पदं धीमता- मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकार-करुणा-सौजन्य-सत्य-क्षमा- दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनैर्मन्यते तस्य पौषधशालायां पुरेऽणहिलपाटके निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं.......... ....॥-सुमतिनाथचरितप्रान्ते । पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता- मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । क्लप्तं तद्वसताविदं किमपि यच्चायुक्तमुक्तं मया तद् युष्माभिरिहोच्यतामिति बुधा वः प्राञ्जलिः प्रार्थये ॥ -कुमारपालप्रतिबोधप्रान्ते -- " [३०] ततः सर्वविद्वद्भिः शोध्यमानायां प्रशस्तौ नृपोपरोधात् श्रीपालकवेर्दक्ष्य-दाक्षिण्याच्च सर्वेषु काव्येषु मन्यमानेषु । कोशेनापि युतं दलैरुपचितं नोच्छेत्तुमेतत् क्षम स्वस्यापि स्फुटकण्टकव्यतिकरं पुंस्त्वं च धत्ते नहि । एकोऽप्येष करोति कोशरहितो निष्कण्टकं भूतलं मत्वैवं कमला विहाय कमलं यस्यासिमाशिश्रियत् ॥' विशेषेणास्मिन् काव्ये प्रशस्यमाने श्रीसिद्धराजेन पृष्टः श्रीरामचन्द्रश्चिन्त्यमेतदित्यवा- दीत् । अथ तैरेव सर्वैरनुयुक्तः । एतस्मिन् काव्ये सैन्यवाचको दलशब्दः कमलशब्दम्य नित्य- क्लीबत्वमिति दूषणद्वयं चिन्त्यम् । ततः सर्वानपि पण्डितानुपरुध्य दलशब्दो राजसैन्यार्थे प्रमा- णीकारितः । कमलशब्दस्य तु लिङ्गानुशासनसिद्धं नित्यक्लीबत्वं केन निर्णीयत इति पुंस्त्वं च धत्ते न वेत्यक्षरभेदः कारितः ।" । - कविरामचन्द्रस्य समस्यापूर्तिशक्तिः। वाराणसीवासिकविर्विश्वेश्वरो रामचन्द्रसूरेः समस्यापूर्तिशक्तिं पर्येक्षत पर्यतुष्यच्चेति प्रतीयते प्रबन्धचिन्तामणि-कुमारपालचरितादिप्रेक्षणात् । वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा रचिते प्रबन्धचिन्तामणौ ( स० ४, पृ. २२६-२२७ ) उपलभ्यतेऽयमुल्लेखः-- " कस्मिन्नप्यवसरे विश्वेश्वरनामा कविर्वाराणस्याः श्रीपत्तनमुपागतः श्रीहेमसूरीणां संसदि प्राप्तः । तत्र कुमारपालनृपतौ विद्यमाने सः पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । इति भणित्वा विलम्बमानो नृपेण सक्रोधं निरक्ष्यत । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ इत्युत्तरार्धपरितोषितसमाजलोकः श्रीरामचन्द्रादीनां [ समस्यां ] समर्पयामास ।" वि. सं. १९[ २५ ? ] वर्षे विनिर्मिते कुमारपालचरितमहाकाव्ये चारित्रसुन्दरगाणिरिमं सम- स्याप्रसङ्गमधिकृत्येत्थमुल्लिखति स्म- " पञ्च लक्षाणि द्रम्माणां दश चोच्चैस्तुरङ्मान् । विश्वेश्वराय कवये तुष्टः श्रीकुमरो ददौ ॥ सार्धं नृपतिना सोऽथ विश्वेश्वरकविर्ययौ । श्रीहेमसूरिशालायां विद्वद्गोष्ठीरसेरितः ॥ आलोक्य संसदं सूरे रिसूरिजनावृताम् । स ब्रह्मपरिषत्तुल्यामेनां मेने कवीश्वरः ॥ ] [३१] सरिशिष्यपरीक्षायै द्वे समस्ये समार्पयत् । व्यापिद्धेति ' प्रसिद्धाऽऽद्या ' शृङ्गाग्रेणेति ' चापरा ।। तामाद्यां निरवद्यपद्यरचनाह्वयः *कपर्दी महा- मात्यः पूर्वभपूरयद् गुरुतरप्रज्ञाप्रकर्षोद्धरः । कुर्वस्तन्मनसीति विस्मयभरं श्रीसूरिशिष्यः क्षणाद् अन्यां मान्यतमोऽनिशं मतिमतां श्रीरामचन्द्रोऽभ्यधात् ।। नैतस्याः प्रसूतिद्वयेन सरले ! शक्ये पिधातुं दृशो सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितानैरियम् । इत्थं मध्यगता सखीभिरभितो दृग्मीलनात् केलिपु व्याषिद्धा नयने मुखं च रुदती स्वे गर्हते कन्यका ॥' ' त्वं नो गोत्रगुरुस्तवेन्दुरधिपस्तस्यामृतं तत्करे तेन व्याधशरातुरां मम प्रियामेनां समुज्जीवय । इत्युक्ते मृगलाञ्छनस्य हरिणे कारुण्यमाजल्पतः शृङ्गाग्रेण मृगस्य पश्य पतितं नेत्रात्रु भमण्डले ॥' स जहर्ष निजार्थेन ते निपीयाशु परिते । अहो ! जानाति विश्वेऽम्मिन् कविरेव कवेः श्रमम् ॥" कविरामचन्द्रस्य विद्यविज्ञत्वम् । प्रचुरप्रबन्धप्रबन्धकेनानेन विपश्चिता रघुविलासस्य प्रस्तावनाप्रसङ्गे- पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ? ।। इति चन्द्रवक्त्रात् प्रोच्चारितेऽस्मिन् श्लोके स्वस्य विद्यात्रयीवित्तत्वं स्पष्टं निवेदितमेव । नाट्यदपर्णविवृतिप्रारम्भे- प्राणाः कवित्वं विद्यानां लावग्यमिव योषिताम् । विद्यवेदिनोऽप्यस्मै ततो नित्यं कृतस्पृहाः ॥ इत्यत्र — विद्यवेदिनः ' इति विशेषणं भावगर्मितं व्यज्यते । त्रैविद्यवेदिनोऽस्मा-- देशोऽपीत्येवं ध्वन्यते । * मेरुतुङ्गसूरिः प्रबन्धचिन्तामणावस्य विनोदप्रबन्धमित्थं निर्दिशति स्म- कदाचित् प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं हस्ते किमेतदिति पृष्टः स प्राकृतभाषया — हरडइ ' ति विज्ञापयामास । प्रभुभिरुक्तं 'किमद्यापि ?' आहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् इदानीं न । कुतः ? अन्त्योऽप्याद्योऽभूत् , मात्राधिकश्च । हर्षाश्रुपरिपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात् तचातुरों प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो ' ह रडइ ' शब्दच्छलेन हकारो रडइ। किमद्यापीत्यभिहितमा- त्रेण वचस्तत्त्वविदा नेदानीमुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते; अत एव ह रडइ। साम्प्रतं त्वस्मन्नाम्नि प्रथमतया मात्राधिकश्च । इति हरडइप्रबन्धः ॥ • [३२] . " नाट्यदर्पणविवरणप्रान्ते तु-- शब्दलक्ष्म-प्रमालक्ष्म-काव्यलक्ष्मकृतश्रमः । वाग्विलासस्त्रिमार्गो प्रवाह इव जाह्वजः ॥ उपन्यस्तेऽस्मिन् श्लोके प्रकटं समसूचि गुणचन्द्रेण साकं स्वस्य शब्द-प्रमाण-काव्यरूप- विद्यात्रयीव्यासङ्गित्वम् । तत्र च सिद्धहेमशब्दानुशासनन्यासरचनयाऽस्य शब्दविद्यापरिश्रमः, स्वोपज्ञद्रव्यालङ्कारवृत्तिविरचनेन प्रमाणविद्याप्रयत्नः, नाट्यदर्पण-प्रबन्ध-स्तोत्रादिप्रणयनेन च काव्यसाहित्यविद्याप्रयासः प्रेक्षणक्षणीक्रियते । - " १ कवि-प्रशंसा। चमत्कृतिप्रियस्य प्रबन्धाब्धिप्रबन्धकस्यास्य रामसाम्येन स्तुतिं विदधाति स्म काव्यप्रका- शसङ्केत-( रचना सं. १२१( ४ )६ )-पार्श्वनाथचरित( रचना सं. १२७६ )-शान्ति- नाथचरितादिरचयिता माणिक्यचन्द्रसूरिरपि निजे शान्तिनाथमहाकाव्ये- स रामः कविरुद्दामः प्रबन्धाब्धि प्रबध्य यः । प्रियां चमत्कृतिं प्रत्याहरति प्रीणयति क्षमाम् ॥ -पत्तनभां० सूची किञ्च प्रबन्धशतविधात्राऽनेन विपश्चिता न्याय्यो निजविद्वत्तापरिचयो व्यधायि सूत्रधारादिद्वारा तत्तत्प्रवन्धेप्वपि । समुचितं स्वल्पमत्र तदुद्धरणम्- 'कविः काव्ये रामः सरसवचसामेकवसतिः नलविलासे श्लो० २ प्रबन्धानाधातुं नवभणितिवैदग्ध्यमधुरान् कवीन्द्रा निम्तन्द्राः कति नहि मुरारिप्रभृतयः ? । ऋते रामानान्यः किमुत परकोटौ घटयितुं रसान् नाट्यप्राणान् पटुरिति वितर्को मनसि नः ॥ ___-नलविलासे श्लो० ३, कौमुदीमित्राणन्दे श्लो० ४ व्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वयेते ? सौरभ्यप्रसवा नवा भणितिरप्यस्त्येव काचित् क्वचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परः ॥ -सत्यहरिश्चन्द्रे श्लो० ३ प्रबन्धा इक्षुवत् प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः ॥ —नलविलासे, सत्यहरिश्चन्द्रे, कौमुदीमित्राणन्देऽपि श्लो० ४ सूक्तयो रामचन्द्रस्य वसन्तः कलगीतयः । स्वातन्त्र्यमिष्टयोगश्च पञ्चैते हर्षवृ( स )ष्टयः ।। -सत्यहरिश्चन्द्रे श्लो० ५, निर्भयभीमव्यायोगेऽपि श्लो० २ ? [ ३३ ] पश्चप्रवन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यम्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम ? ॥ -रघुविलासे कविरामचन्द्रस्य प्रबन्धशतकर्तृत्वम् । प्रस्तुतकविना कौमुदी-मित्राणन्दस्यामुखे 'प्रबन्धशतविधाननिष्णातबुद्धिना' इत्यादि, तथा निर्भयभीमव्यायोगस्य प्रस्तावनायां : प्रबन्धशतकर्तुमहाकवे रामचन्द्रस्य ' इति विशेषण- मात्मनि प्रयोजयता स्वस्य प्रबन्धशतकर्तृत्वं प्रकटं पर्यचायि। किन्तु करालकालविलमितेन माम्प्रतं निम्नसूचितानेव प्रबन्धान् तन्मध्यात् कथञ्चिदभिजानीमोऽन्येषां नामान्यपि सम्यग् न जानीमहे । गुणचन्द्रद्वितीयेनानेन महाकविना विहितायां स्वोपज्ञनाट्यदर्पणविवृतौ द्वादशरूपकम्वरूप- निरूपणाय प्रदर्शितेषु निजान्यनाटकप्रकरणादिप्रबन्धानामुदाहरणेषु निम्नदर्शितानामेकादशकृतीनां स्वोपज्ञता समदर्यस्मदुपज्ञादिशब्दव्यवहरणेन । ताश्चैताः- ( १ ) नलविलासनाटकम् ( एतदेव ) ( २ ) सत्यहरिश्चन्द्रनाटकम् ( निर्णयसागरमुद्रणालयतः प्रसिद्धम् ) ( ३ ) कौमुदी-मित्राणन्दप्रकरणम् (भावनगरस्थयाऽऽत्मानन्दसभया प्रकाशितम् ) ( ४ ) मल्लिका-मकरन्दप्रकरणम * (५) रोहिणी-मृगाङ्कप्रकरणम् * (६ ) यादवाभ्युदयम् * (७) राघवाभ्युदयम् * ( 2 ) रघुविलासम् * (९) वनमालानाटिका * (१०) निर्भयभीमव्यायोगः ( यशोविजयजैनग्रन्थमालया प्रसिद्धिं नीतः ) (११) सुधाकलशः * एतदतिरिक्ता इमा अपि ज्ञाताः सन्ति- (१२) द्रव्यालङ्कारः ( सवृत्तिकः ) * गणचन्द्रेण सह (१३) नाट्यदर्पणम् ( सविवरणम् )* (१४ ) यदुविलासम्र * ( रघुविलासे कविना सूचितम् ) (१५) कुमारविहारशतकम् ( भा. आ. सभातः प्रसिद्धम् ) (१६) युगादिदेवद्वात्रिंशिको * (१७) व्यतिरेकद्वात्रिंशिको * ( १८) प्रसादद्वात्रिंशिको अ (१९) आदिदेवस्तवैः * (२०) मुनिमवतदेवस्तवैः * (२१) नेमिस्तवैः * (२२-३७) षोडरिकाः साधारण जिनस्तोः * (३८) जिनस्तोत्राणि * ( ३९ ) हैमबृहद्वृत्तिन्याँसः ग्रन्थरत्नगवेषिणो गवेषयिष्यन्ति कविरत्नस्यास्यान्यामप्यज्ञातां कृतिसंहतिम् । एतच्चिह्नाकिता ग्रन्था यावज्ज्ञातं मुद्रणादिद्वारा प्रसिद्धाः। १ 'सुधाकलशाख्यसुभाषितकाशेः पं. रामचन्द्रकृतः पत्र......'-बृहहिपनिकायाम् २ वटपद्रीय ' झव्हेरी अंबालाल नानाभाई ' श्रेष्ठिगृहसद्ग्रहे प्रतिः । ३ 'रामचन्द्रकृतन्यासः ५३००० न ।'-ब. * , ५ [३४] नलविलासस्य रचनासमयः । - " " (अ. ४, " " (अ. १०, " " " अवगाढागाधसाहित्याम्भोधेर्नाट्यलक्षणनिर्माणविचक्षणस्य प्रबन्धशतकर्तुमहाकवे रामच- न्द्रस्यास्यां रचनायां किमिव वक्तव्यमस्मादृशैः स्वल्पप्रज्ञैः ? । किञ्चात्र तत्कृतीनां पौर्वापर्य परामृश्य प्रस्तुतनाटकम्य प्रणयनसमयो विचार्यते । नलविलासान्तर्गतानि कानिचित् पद्यानि पात्रनामानि च कवेरन्यकृतावपि दृष्टिगोचरीक्रियन्ते । तथाहि- अकृताखण्डधर्माणाम्— नलविलासे ( अ. १, श्लो० १०) कौमुदी-मित्राणन्दे (अ.१ श्लो० ६,७) अपकृत्योपकार्येषु (अ. ७, श्लो० ३) सत्यहरिश्चन्द्र (अ. ३, श्लो०१५) अस्तमयति ( अ. ५, श्लो० ८ ) कौमुदीमित्राणन्दे ( अ. १, श्लो० ८) अ(य)स्यां श्लोक ०७) (अ. १०, श्लो०१२) एते निर्झरझात्कृतैः (अ. ५, श्लो० ९) निर्भयभीमव्यायोगे ( श्लो० ९ चलकमलविलासा- (अ. २, श्लो० ५ ) कौमुदी-मित्राणन्दे ( अ. ८, श्लो० ८) परिमलभृतो वाताः (अ. ३, श्लो० २) श्लो० ०३) प्रबन्धानाधातुम् ( अ. १, श्लो० ३) (अ. १, श्लो०३) मा विषीद (अ. ५, श्लो० ५) सर्वथा कैतवं निन्द्यम् ( अ. २, (अ. १०, श्लो० ४) स्फुरन्त्युपायाः (अ. ५, श्लो०३) ( अ. २, श्लो० ९) स्वमेकः पर- (अ. ७, श्लो० ७) सत्यहरिश्चन्द्रे (अ. ५, श्लो० ११) तथा च घोरघोणनाम नलविलासे कौमुदीमित्राणन्देऽपि प्रयुक्तम्, एवं लम्बस्तनीनाम नलविलासे सत्यहरिश्चन्द्र-कौमुदीमित्राणन्दयोरपि व्यवहृतम् । न चैतावता प्रबन्धानां पौर्वापयं वक्तुं सुशकम् । तथाप्येतेषु नलविलासस्य किञ्चित् प्राचीनत्वं प्रतीयते । नाट्यदर्पणे नलविलासस्योदाहरणानि दृश्यन्ते यानि पूर्व प्रादयन्त । कौमुदीमित्राणन्द- निर्भयभीमव्यायोगयो रचनासमये कविना प्रबन्धशतं प्रणीतं भवेद् वा प्रणीयमानं सम्भवेद् यतस्तत्र । प्रबन्धशतविधाननिष्णातबुद्धिना' ' प्रबन्धशतकर्तुः ' इति विशेषणेन तत् प्रकाशितम् । नल- विलासादौ च तादृग् विशेषणं न दृश्यते। नाट्यदर्पणविवृतौ कौमुदी-मित्राणन्दस्योदाहरणानि विद्यन्ते । कौमुदीमित्राणन्दस्य प्रस्तावनायां चोपन्यस्तेन नाट्यलक्षणनिर्माणापातावगाढसाहित्याम्भोधिना विशेषणेन कौमुद्रीमित्राणन्दप्रणयनममये नाट्यदर्पणविवरणरचनायाः सजता सम्भाव्यते । रघुवि. ( अ. ४, श्लो० १७) " श्लो० ११) " .

[ ३५ ] लासस्य प्रस्तावनायां — पञ्चप्रबन्धमिषपञ्चमुखानकेन ' श्लोकानन्तरं द्रव्यालङ्कार-राघवाभ्युदय-या- दवाभ्युदयाभिधानन्तरं नलविलासस्य नामोपात्तम् । नलविलासस्यामुखे च-- संङ्ख्यायामिव काकुत्स्थ-यादवेन्द्रप्रवन्धयोः । वर्धमानैर्गुणैरङ्काः प्रथमानतिशेरते ॥" इत्यभिधानात् नलविलासरचनायाः पूर्व काकुत्स्थ-यादवेन्द्रप्रवन्धयोः ( राघवाभ्युदय- यादवाभ्युदययोः ) रचनाऽभिहिता भवति । किञ्च प्रबन्धशते नाट्यदर्पणदर्शितानां द्वादशाना- मपि रूपकाणां प्रत्येकमष्टौ पञ्च वा न्यूनाधिकाः कृतयो निर्मिताः सम्भवेयुः । तन्मध्ये यदि क्रमेण रूपकनिर्माणं कृतं स्यात् , तदाऽऽदिरूपकम्य नाटकस्य प्रथमं निर्माणं सम्भवेत् । अद्यावधि मूरि- वर्यस्यास्यादिरूपकोदाहरणरूपं कृतिद्वयं ज्ञातम, एक मत्यहरिश्चन्द्रम, द्वितीयं नलविलासमेतत् । तत्रापि नलविलासम्य प्राग् रचनाऽनुमीयते पूर्वोक्तेषु मुख्येषु पञ्चसु प्रबन्धेप्वम्य संस्मरणात् । रघुविलासस्य प्रस्तावनायामभिहिते प्रबन्धपञ्चके कविना यस्याभिधानं प्रागुपात्तम, तस्य द्रव्या- लङ्कारस्यादर्शपुस्तकमेकं ताडपत्रीयं वि. सं. १२०२ वर्षे लिखितमुपलभ्यते जेसलमेरञ्जनभाण्डा- गारे ( जेसलमेरभां. सूची पृ. ११)। , वि. सं. ११४५ वर्षे जन्मभानः, वि. सं. ११५० वर्षे संयतम्य, वि. सं. ११६६ वर्षे सूरिपद- प्रतिष्ठितस्य, वि. सं. १२२९ वर्षे दिवंगतस्य सुप्रसिद्धस्य श्रीमतो हेमचन्द्राचार्यस्य पट्टधुरन्धरस्त- समकालीनश्चायं महाकविरामचन्द्रो गूर्जरेश्वरसिद्धराज-कुमारपालयोः सत्तायां विद्यमान आसीद्, ययोः सत्तासमयो वि. सं. ११४९-९९-- १२३ ० वर्षेषु विदितः । इत्यादिविचारणय' लविलासम्य विरचनं विक्रमीयद्वादशशताब्याः प्रान्तभागेऽथवा त्रयोदशशताब्याः प्रारम्भे प्रकल्प्यमानं नानु- चितं प्रतिभाति । किञ्च वि. सं. १२४ १ वर्षे विरचिते कमारप, निबोधे वि. सं. १२९५ वर्षे विनिर्मिते गणधरसार्धशतकवृहद्वृत्तौ च नलविलासस्यावतरणमपि दृश्यते यत् पूर्वमत्र प्रदर्शितम । १' रामचन्द्रकृतं प्रबन्धशतं द्वादशरूपकनाटकादिस्वरूपज्ञापकम् ।' -प्राचीनपत्रे [ ३६ ] कविरामचन्द्रस्य नेत्रनाशः। वि. सं. १३३४ वर्षे विरचिते प्रभावकचरिते प्रभाचन्द्रसूरिः सिद्धराज-रामचन्द्रयोः परिचयसूचनानन्तरं रामचन्द्रस्य दक्षिणदृष्टिविनाशविषयमित्थमुदलिखत्---- इत्युक्त्वा विरते राज्ञि रामस्यादुष्यदेशकम् ( ? )। नेत्रदृष्टिर्हि दुर्मप्या सुकृतातिशयस्पृशाम् उपाश्रयाश्रितस्यास्य महापीडापुरःसरम् । व्यनशद् दक्षिणं चक्षुर्न रत्नमनुपद्रवम् ॥ कर्मप्रामाण्यमालोच्य ते शीतीभूतचेतसः । स्थितास्तत्र चतुर्मासीमासीनास्तपसि स्थिरे ॥" वि.सं. १३६१ वर्षे मेरुतुङ्गसूरिणा रचिते प्रबन्धचिन्तामणावेतद्विषयेऽयमुल्लेख उपलभ्यते--- " तदा श्रीसिद्धराजस्य सजातदृष्टिदोषेण पं. रामचन्द्रस्य वसतौ प्रविशत एव लोचन- मेकं स्फुटितम् ।” कविरामचन्द्रविहितेषु नैकेषु जैनस्तोत्रेषु दृष्टिदानप्रार्थनया तत् किञ्चिद् ध्वनितं व्यज्यते । तथाहि नेमिस्तवप्रान्ते- नेमे ! निधेहि निशितासिलताभिराम चन्द्रावदातमहसं मयि देव ! दृष्टिम् । सद्यस्तमांसि विततान्यपि यान्तु नाशमुज्जृम्भतां सपदि शाश्वतिकः प्रकाशः ।। पोडशपोडशिकाप्रान्ते- स्वामिन्ननन्तफलकल्पतरोऽतिराम चन्द्रावदातचरिताञ्चितविश्वचक्र ! । शक्रस्तुतांहिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ व्यतिरेकद्वात्रिंशिकाप्रान्ते तु- जगति पूर्वविधैर्विनियोगजं विधिनतान्ध्य-गलत्तनुताऽऽदिकम् । सकलमेव विलुम्पति यः क्षणादमिनवः शिवसृष्टकरः सताम् ॥ इत्थङ्कारमकारणैकसुहृदं विश्वस्य पार्वं जिनं तं स्तोतुस्त्रिजगद्विलक्षणगुणग्रामाभिरामाकृतिम् । यः कश्चिद् विकचीबभूव बत मे भाग्यातिरेकस्तत- स्तल्लोकव्यतिरिक्तमुक्तियुवतिप्रेमप्रमोदोत्सवः ।। इत्याधुच्चारणेन स्पष्टं ध्वनितम् ।

15173 [ ३७ ] कविरामचन्द्रकृतं कुमारपालनृपस्य शोकशमनादि । वि. सं. १२२९ वर्षे रामचन्द्रगुरोर्हेमचन्द्राचार्यस्य स्वर्गमनमजनीति नैकग्रन्थेषु पठ्यते । तदनन्तरं तत्प्रतिबोधितपरमार्हतस्य तदनन्यभक्तस्य चौलुक्यकुमारपालभूपालस्य शोकशान्ती रामचन्द्रादिभिरकृतेति निम्नदर्शितात् वि. सं. १४२२ वर्षे निप्पन्नात् कृष्णर्षिगच्छीयजयसिंहस्- रिरचितकुमारपालचरितान्तर्गतोल्लेखाद् विज्ञायते- हेमाचार्यवियोगेन शून्यात्मेव समन्ततः । विदाञ्चकार चौलुक्यो न किञ्चित् कृत्यमात्मनः ।। ततः स रामचन्द्राद्यैर्बुधैः सम्बोध्य नित्यशः । दिनैः कतिपयैश्चक्रे स्तोकशोकः कथञ्चन ॥ वि. सं. १२३० वर्षे हेमाचार्यस्वर्गमनानन्तरं पट्सु मासेषु व्यतीतेषु निनभ्रातृव्याजय- पालार्पितविषसङ्कमे कुमारपालभूपालः पर्यन्ताराधनां रामचन्द्रभूरिमाकार्याकादित्यपि तत एव कुमारपालचरिताद्- अथ राजर्षिराकार्य रामचन्द्र मुनीश्वरम् । पर्यन्ताराधनां कर्तुं विधिनैवं प्रचक्रमे ॥” इत्यादिनाऽवसीयते । कविरामचन्द्रस्य मृत्युः। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यपट्टधुरन्धरस्य गूर्जरेश्वरश्रीसिद्धराज-कुमारपालपृथ्वीपाला- दिसम्मानितस्य प्रबन्धशतकर्तुत्रैविद्यवेदिनः कविकटारमलोपपदधारिणः स्वतन्त्रमहाकवेरीदृशस्य विद्वद्रत्नस्य श्रीमतो रामचन्द्रसूरेर्मरणं श्रुतमप्यतिकम्पजनकममानुषोचितनत्यिाऽजयपालकुनृपकद- र्थनयाऽजनीति निम्नावतारितचरितग्रन्थोल्लेखादवगम्यते । मेरुतुङ्गसूरिः प्रबन्धचिन्तामण्यन्तर्गतरामचन्द्रप्रवन्धे ईदृग् ज्ञापयति स्म- " अथ श्रीप्रबन्धशतकर्ता रामचन्द्रस्तु तेन भूपापसदेन तप्तताम्रपट्टिकायां निवेश्यमानः • मेहिवीढह सचराचरह जिण सिरि दिण्हा पाय । तसु अत्यमणु दिणेसरह होउत होइ निसय ॥ इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न व व्यापादयानके कविरत्नरामचन्द्रर्षिहत्याऽऽद्यधर्मविधायकस्याजयपालस्य मरणविषयमेवमुल्लिखति स्म स एव प्रबन्धचिन्तामणिकारः- १ " श्रीविक्रमनृपाद् द्वि-द्वि-मन्वन्देऽयमजायत । ग्रन्थः ससप्तत्रिशती षट् सहस्राण्यनुष्टुभाम् ॥" २ महीपीठस्य सचराचरस्य येन शिरसि दत्ताः पादाः । तस्यास्तमनं दिनेश्वरस्य भवितव्यं भवति चिराय ॥ .. - - [ ३८ ] " त्रिभिर्वत्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिमिर्दिनः । अत्युग्रपुण्य-पापानामिहैव फलमश्नुते ॥ इति प्रमाणोक्तप्रामाण्यात् स कुपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्था- नपातकी कृमिभिर्भक्ष्यमाणः प्रत्यहं नरकमनुभूय परोक्षतां प्रपेदे । सं. १२३० पूर्ववर्षादजयदेवेन वर्ष ३ राज्यं कृतम् ॥" वि. सं. १४०५ वर्षे विरचिते प्रबन्धकोषे राजशेखरसूरिरेवं निर्दिशति स्म-" एवं व्रजति काले राजा कुमारपालदेवः श्रीहेमश्च वृद्धौ जातौ । श्रीहेमसूरिंगच्छे विरोधः । रामचन्द्र-गुणचन्द्रादिवृन्दमेकतः, एकतो बालचन्द्रः । तस्य च वालचन्द्रस्य राजभ्रातृव्येना- जयपालेन सह मैत्री । एकदा प्रस्तावे राज्ञो गुरूणामाभडस्य च रात्रौ मन्त्रारम्भः । राजा पृच्छति-भगवन् ! अहमपुत्रः कं स्वपदे रोपयामि ? गुरवो ब्रुवन्ति-प्रतापमल्लं दौहित्रं राजानं कुरु धर्मस्थैर्याय, अजयपालात् तु त्वत्स्थापितधर्मक्षयो भावी । अत्रान्तरे आभडः प्राह-भगवन् ! यादृशस्तादृश आत्मीयो भव्यः । पुनः श्रीहेमः-अजयपालं राजं मा कृथाः सर्वथैव । एवं मन्त्रं कृत्वोत्थितास्त्रयः । स मन्त्रो बालचन्द्रेण श्रुतः, अजयपालाय च कथितः; अतो हेमग- च्छीयरामचन्द्रादिषु द्वेषः, आभडे तु प्रीतिः । हेमसूरेः स्वर्गमनं जातम्, ततो दिनद्वात्रिंशता राजा कुमारपालोऽजयपालदत्तविषेण परलोकमगमत् । अजयपालो राज्ये निषण्णः । श्रीहेमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोहविष्टरासनयातनया मारणं कृतम् । राजविहाराणां बहूनां पातनम् । लघुक्षुल्लकानाह्वाय्य प्रातः प्रात{गयां कर्तुमभ्यासयति, पूर्वमेते चैत्यपरिपाटीमकार्षुरित्यु- पहासात् । बालचन्द्रोऽपि स्वगोत्रहत्याकारापक इति ब्रुवद्भिाह्मणैर्मनस उत्तारितः, लज्जितो मालवान् गत्वा मृतः । पापं पच्यते हि सद्यः । " वि. सं. १४९२ वर्षे विरचिते कुमारपालप्रबन्ध जिनमण्डनगणिरपि रामचन्द्रादिष्वजय- पालस्य द्वेषहेतुमित्थं सूचयति म्म- " अथैवं काले कवलितानेकपुरुषरत्ने श्रीकुमारपालभूपालः श्रीहेमसूरिश्च कृतकृत्यौ महसा तपसा वयसा च वृद्धौ जातौ । परं हेमसूरिगच्छे विरोधः । रामचन्द्र-गुणचन्द्रवृन्दमेकतः, एकतो बालचन्द्रः; तस्य च राजभ्रातृव्याजयपालेन सह मैत्री । - १ शर-गगन-मनुमिताब्दे ज्येष्टामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ २ प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्य-पद्यैर्नवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः ॥ श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना द्वयङ्क-मनुप्रमितवत्सरे रुचिरः ॥

[ ३९ ] अथ वार्धक्यमालोक्य चौलुक्यपृथिवपितिः । स्थित्वाऽनु रहसं ( स्थित्वैकदा रहो ) रात्रौ गुरुं प्रत्येवमूचिवान् ॥ १ ॥ सत्यपि त्वादृशे सर्वविद्याम्भोधौ गुरौ मम । फलं गार्हस्थ्यधर्म(वृक्ष )स्य नाभाग्यैस्तनयोऽजनि ॥ २ ॥ दिने दिने जरा चैषा जनयन्ती कृशाङ्गताम् । ओजायते समं राज्यलक्ष्मीदानाहचिन्तया ॥ ३ ॥ [ राज्यसूत्रमतः किञ्चिदासूत्र्य भगवन्नहम् । हंसायितुमभीप्सामि समतारसवारिधौ ॥ ४ ॥] दाम्यजयपालाय स्वराज्यं भ्रातृसूनवे । उत प्रतापमल्लाय दौहित्राय निवेद्यताम् ॥ ५॥ * ततो विमृश्य सूरिभिरभाणि-राजन् ! भ्रातृव्यो न योग्यो दुराशयत्वात् , सत्सङ्गरहित- स्वादधर्मनिष्ठत्वादिकारणैर्न बहुराजवर्गीय-प्रजासम्मतः, भ्रातृव्यात् तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति । प्रतापमलः प्रजाप्रिय-न्याय-धर्मनिष्ठत्वादिगुणैयोग्यः । यदुक्तम्- धर्मशीलः सदा न्यायी पात्रे त्यागी गुणादरः । प्रनानुरागसम्पन्नो राजा राज्यं करोति सः ॥' एवं मन्त्रे कृते बालचन्द्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य च तदनु रामच- न्द्रादिषु श्रीचौलुक्ये च महान् द्वेषः ॥" अजयपालाधिपत्ये मोहराजपराजयनाटकादिनिर्माता जैनमन्त्रियशःपालो राजसचिवपदे नियुक्तो विज्ञायते । एवमन्येऽपि जैना अधिकारिणो राजमान्याश्च धनाढ्याः श्रेष्ठिन आभडा- दयस्तदा सम्भवेयुः । तथाप्येतादृश्या अतीवनिन्द्यान्याय्यप्रवृत्तितस्तं सत्ताऽधीशं निवारयितुं निष्फलप्रयत्ना भवेयुरित्यतीव शोचनीयं विषादजनकमतिदुःखकरं दुर्दैवदुश्चेष्टितम्, येनेदृग्विधस्य विद्वद्वत्नस्येत्यमपमरणप्रसङ्गः !!! . ॥ * इमे पञ्च श्लोकाः प्रबन्धकारेण जयसिंहसूरिरचितात् कुमारपालचरिताद् (स. १, लो० १०६) उद्धृता ज्ञायन्ते। १ सूत्रधारः-" आर्थे ! अस्त्येव श्रीमोढवंशावतंसेन श्रीअजयदेवचक्रवर्तिचरणराजीवराजहंसेन मन्त्रि- धनदेवतनुजन्मना रुक्मिणीकुक्षिलालितेन सर्वतोमुखनिस्तुषशेमुषीविलासवासभवनेन निर्व्याजराजनीतिनितम्बि- नीवदनविभ्रममणिदर्पणेन व्यापारिकमलाकुचकलशमुक्ताफलहारयष्टिना सारसारस्वतोदारसारणीसेकसुकुमारस्मेर- काव्यकन्दलप्ररोहेण परमार्हतेन यशपालकविना विनिर्मितं मोहराजपराजयो नाम नाटकम् ॥ --मोहराजपराजयनाटके ( गा. आ. सिरीझ संस्थया प्रकाशिले पृ. ३) [ ४० ] उपसंहारः। नलविलासं तत्कर्तारं कविरत्नं रामचन्द्रं चाधिकृत्य यथामति यथाशक्ति यथाज्ञातं यथासाधनं यथोपयुक्तं न्यवेदि । नलविलाससंशोधनकर्मणि आदर्शपुस्तकत्रयंमस्माभिरुपलब्धम् । तत्रैकं तावत् प्रतिकृति( प्रेसकॉपी )सदृशं १४३ पत्रं सं. १४८४ वर्षे लिखितादर्शान्नूतनं लेखितं प्रायः शुद्धं कसंज्ञितम, द्वितीयं ५२ पत्रात्मकं नृतनं क्वचिदशुद्धं खसंज्ञितम; द्वयमप्येतदत्रत्य- संस्कृतपुस्तकालयसङ्ग्रहसत्कम् । तृतीयं १९ पत्रपरिपूर्ण प्रायः शुद्धं खसंज्ञकेन समं गसंज्ञितं छाणीजैनज्ञानमन्दिरसत्कं प्रवर्तकश्रीकान्तिविजयजैनमुनिराजस्य कृपया द्वितीयाङ्कमुद्रणसमये सम्प्राप्तम । तथा च नाट्यदर्पणस्य सविवरणस्यादर्शपुस्तकमाग्रास्थश्रीविजयधर्म-लक्ष्मीज्ञानमन्दिरतः समधिगतम । वसुदेवहिण्डी-गणधरसार्धशतकवृहद्वृत्त्यादर्शपुस्तके पंन्यासपदाङ्कितसम्पद्विजय- मुनिराजस्य कृपयाऽत्रत्यजैनज्ञानमन्दिरान्तर्गतात् श्रीहंसविजयमुनिराजीयशास्त्रसङ्ग्रहादधिगते । रामचन्द्रसूरिरचितस्तोत्रप्रतिस्त्वत्रत्य ' झव्हेरी अंबालाल नानाभाई संज्ञकश्रेष्ठिसङ्ग्रहादधिगता । यतोऽत्र महत्त्वं सौरभं च प्रसृतमतः कृतज्ञतासंसूचकमेतेषामुपकृतं संस्मरामः । पूर्वोक्तपुस्तकसाहाय्येन सावधानतया संशोधिते, पाठान्तरादिभिः परिष्कृते, प्राकृ- तपाठानां संस्कृतच्छायया संस्कृते, प्रस्तावना-पद्यसूचिप्रभृतिभिर्यथौचित्यमुत्तेजितेऽस्मिन् मतिमान्यतया प्रमादेन दृष्टिदोषेण वा स्थिता जाता वा स्खलनाः सुमनसः सम्मार्जयिष्यन्तीत्याशास्ते- ८ गान्धीत्युपाह्वो भगवान्दासतनयः श्रीमत्सयाजीरावमहारानस्य शतार्धवर्षीयसौराज्य- सुवर्णमहोत्सवस्य सुवर्णप्रभाते, वटपढ़े ता. ११-१-२६ लालचन्द्रः

॥श्रीः॥
श्रीरामचन्द्रसूरिविरचितं
नलविलासम् ।
वैदर्भी रीतिमहं लभेय सौभाग्यसुरभितावयवाम् ।
दमयन्ती वरस्यं दिशति गिरां या परां लक्ष्मीम् ॥ १ ॥
( नान्द्यन्ते )
सूत्रधारः-( सप्रमोदम् )
कविः काव्ये रामः सरसवचसामेकवसति-
नलस्येदं हृद्यं किमपि चरितं धीरललितम् ।
समादिष्टो नाट्ये निखिलनटमुद्रापटुरहं
प्रसन्नः सभ्यानां कटरि ! भगवानेष स विधिः ॥२॥
तद् गृहं गत्वा ग्ङ्गोपजीविनः प्रगुणयामि ( इति परिकामति । पुरोऽवलोक्य )
कथमयमित एवाभिपतति वयस्यों मन्दारः !
(प्रविश्य )
नटः-भाव ! दत्तः कोऽपि सामाजिकैरभिनयादेशः ?
सूत्रधारः-दत्तः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण रामचन्द्रेण विरचितं
नलविलासाभिधानमायं रूपकमभिनेतुमादेशः ।
नटः-भाव ! एतस्यां रामचन्द्रकृतौ सम्भाव्यते कोऽपि सामाजिकानां
रसास्वादः?
सूत्रधारः-मारिष ! सम्भाव्यत इति किमुच्यते ? यतः-
प्रबन्धानाधातुं नवभणितिवैदग्ध्यमधुरान्
कवीन्द्रा निस्तन्द्राः कति नहि मुरारिप्रभृतयः ।
ऋते रामानान्यः किमुत परकोटौ घटयितुं
रसान् नाट्यप्राणान् पटुरिति वितर्को मनसि नः॥३॥

३ नलविलासे अपरं च- प्रबन्धा इक्षुवत् प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः ॥ ४ ॥ नटः-भाव ! अयमर्थः सत्य एव । यत:- सङ्ख्यायामिव काकुत्स्थ-यादवेन्द्रप्रबन्धयोः । वर्धमानैर्गुणैरङ्काः प्रथमानतिशेरते ॥ ५ ॥ किन्तु रघु-यदुचरितं निसर्गतोऽपि रमणीयम्, अतस्तत्र सुकरो रसनिवेशः । नलचरितं तु न तथा, ततः साशङ्कोऽस्मि । सूत्रधारः-मारिष ! मा शङ्किष्ठाः श्रुतीनां पीयूषं कविकुलगिरां कीर्तिपटहो रसापीतेः पात्रं रघु-यदुचरित्रं विजयते । परं किञ्चित् किञ्चिन्नलललितमप्येतदमृत- स्रवन्तीं श्रोतॄणां श्रवसि विनिधातुं प्रभवति ॥ ६ ॥ नटः-(विमृश्य ) भाव ! अयं कविः स्वयमुत्पादक उताहो परोपजीवकः ? सूत्रधारः-अत्रार्थे तेनैव कविना दत्तमुत्तरम्- जनः प्रज्ञाप्राप्तं पदमथ पदार्थ घटयतः पराध्वाध्वन्यान् नः कथयतु गिरां वर्तनिरियम् । अमावास्यायामप्यविकलविकासीनि कुमुदा. न्ययं लोकश्चन्द्रव्यतिकरविकासीनि वदति ॥ ७ ॥ अपि च शपथप्रत्येयपदपदार्थसम्बन्धेषु प्रीतिमादधानं जनमवलोक्य जात- खेदेन तेनेदं चाभिहितम्- स्पृहां लोकः काव्ये वहति जरठैः कुण्ठिततमै- वैचोभिर्वाच्येन प्रकृतिकुटिलेन स्थपुटिते । वयं वीथीं गाडं कथमपि न शक्ताः पुनरिमा- मियं चिन्ता चेतस्तरलयति नित्यं किमपि नः ॥ ८॥ . नटः-(क्षणं विमृश्य ) भाव ! अद्य नटी विषादिनी । सूत्रधारः-जानासि किमपि विषादस्य कारणम् ?

प्रथमोऽः। - नटः-जानामि । या भवत्पुत्री कुन्तला नाम सा भी स्वगृहानिर्वासिता । सूत्रधारः-हुँ ! कुन्तला भर्ना गृहान्निर्वासिता ? नटः-अथ किम् । सूत्रधारः (विमृश्य ) अवयं किमप्युद्भाव्य उताहो मुधैव ? नटः-मुधैव । सूत्रधारः-अनवसरस्तर्हि विषादस्य । किश्च कृतेनापि विषादेन सा गृहप्रवेश न लभते । यतः- न स मन्त्रो न सा बुद्धिर्न स दोष्णां पराक्रमः । अपुण्योपस्थितं येन व्यसनं प्रतिरुध्यते ॥ ९॥ यदि च सा निरवद्या, तदा तां पुनरपि पतिः सम्भावयिष्यति । नटः-पुराप्ययमों जातोऽस्ति । किन्तु परमं गृहाधिपत्यमवाप्य साम्प्रतं सा कर्मकरवृत्त्या तिष्ठतीति नटी विषादमुद्वहति । सूत्रधारः-( साक्षेपम् ) मारिष ! त्वमप्येवमभिदधासि ! ननु- अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् । सापदः परिपच्यन्ते गरीयस्योऽपि सम्पदः ॥ १० ॥ ( नेपथ्ये) वयस्य कलहंस ! परमेश्वरस्य युगादिदेवस्य सपर्यया वयमतीव श्रान्ताः । तदादेशय खरमुखम् । येनास्मद्विश्रामहेतुं सच्छायं कमप्युद्यानप्रदेशमवलोकयति । सूत्रधारः-( समाकर्ण्य ) कथं नलनेपथ्यधारी नटो वदति ? तदेहि मारिष ! वयमप्यनन्तरकरणीयाय सज्जीभवाम । ( इति निष्क्रान्तौ ) . आमुखम् । ( ततः प्रविशति राजा कलहंसादिकश्च परिवारः ) •राजा-( वयस्य कलहंस इत्यादि पुनः पठति ) कलहंस:--हंहो ! खरमुख ! गवेषय कमपि देवस्य विश्रामहेतुमारामप्रदेशम् । १ ख ज्ञातो० ।

ON नलविलासे (प्रविश्य ) विदूषकः (१) भो कलहंस ! अणेगकरालवालविहुरे आरामकुहरे एयंमि एगागी भयामि, ता न गवेसइस्सं । राजा (स्मित्वा ) वयस्य ! महावीरः खल्वसि, ततस्त्वमेव( वं ) बिभेषि । विदूषकः--( २ ) साहु पियवयस्सेण सुमराविदम्हि । मए जाणिदं अहं भोयणलंपडो बंभणो न गवेसइस्सं ( इति परिकामति ) राजा--(समन्तादवलोक्य कलहंसं प्रति ) कटरि! आराममण्डनानां तरुखण्डानां नेत्रपात्रकलेह्यः कोऽपि चारिमा । तथाहि आपाकपिञ्जरफलोत्करपिङ्गभासो भास्वत्करप्रसररोधिगुलुञ्छभाजः । कूजपिकीकुलकुलायकलापवन्तः प्रीणन्ति पश्य पथिकान सहकारवृक्षाः ॥ ११ ॥ विदूषकः-(३) एदं उज्जाणकेलिसरसीसीकरासारसिणिद्धच्छायं तरुखंडं, ता इत्य एदु पिअवयस्सो। राजा-(विलोक्य स्वगतम् ) समुचितोऽयं प्रदेशः । पवित्रसरसप्रदेशप्रकाश- नीयः खलु शुभोदर्कः स्वमः । ( प्रकाशम् , अपवार्य कलहंसं प्रति ) किमद्यापि चिर- यति नैमित्तिकः ? कलहंसः--एष इदानीमायाति । राजा-( समन्ततो विलोक्य ) दात्पूहकुकभकपिजलचक्रवाक सारङ्गभृङ्गकलकूजितमञ्जुकुजाः । उद्यानकेलिसरसीनवफुल्लमल्ली- वल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥ १२ ॥ ( १ ) भो कलहंस ! अनेककरालव्यालविधुरे आरामकुहरे एतस्मिन् एकाकी विभेमि, तन्न गवेषयिष्यामि । (२) साधु प्रियवयस्येन स्मारितोऽस्मि । मया ज्ञातम्, अहं भोजनलम्पटो ब्राह्मणो न गवेषयिष्यामि । ( ३ ) एतदुद्यानकेलिसरसीसीकरासारस्निग्धच्छायं तरुखण्डम, तदत्रैतु प्रियवयस्यः ।

प्रथमोऽङ्कः । (प्रविश्य ) प्रतीहारः-देव ! निषधाधिपते ! एको ब्राह्मणो द्वारि वर्तते । राजा--( स्वगतम् ) नैमित्तिकः खल्वयम् । ( प्रकाशम् ) वयस्य ! क्षणमे- कमिदानी मङ्गलाभिधायिना भवता भाव्यम् । विदूषकः- (सरोषम् ) ( १ ) किं अहं तए सव्वदा अमंगलभासगो ज़ाणिदो? ता न इत्थ चिट्टीस्स। ( इति गन्तुमिच्छति ) राजा-वयस्य ! न गन्तव्यम् । विदूषकः-(२) न तुह सयासे वि चिहिस्सं, किंतु गरुअनिअवंभणीए चल- णाण सेविस्सं । ( इति गन्तुमिच्छति ) कलहंसः-खरमुख ! यदादिशाते देवस्तत् क्रियताम् । ( विदूषको निःश्वस्य यथास्थानमुपविशति ) राजा-(स्वगतम् ) यथाऽयमकाण्डे कुपितः प्रसन्नश्च, तथा ज्ञायते प्रत्यूहगर्भः स्वप्नार्थः । तथापि यन्नैमित्तिको व्याख्यास्यति तत् प्रमाणम् । ( प्रकाशम् ) प्रियङ्कर ! शीघ्रं प्रवेशय । प्रतीहारी-यदादिशति देवः ( इत्यभिधाय निष्काम्तः ) (प्रविश्य ) नैमित्तिकः--स्वस्ति महाराजाय । राजा-इदमासनमास्यताम् । ( नैमित्तिक उपविशति ) अद्यास्माभिस्त्रियामा- तुर्ययामचतुर्भागे स्वप्नो दृष्टः । यथा कुतोऽप्यागत्यास्मत्करतलमारूढा प्रथममेका मुक्तावली, पुनः प्रभ्रष्टा, पुनरप्यस्माभिरादाय कण्ठे निवेशिता । ततो वयं तया प्रकामं कान्तिमन्तः सजाताः। नैमित्तिकः--( विमृश्य ) देव ! प्रशस्ततमोऽयं म्बमः । स्त्रीरललाभेन महता प्रतापेन च फलिष्यति । किन्तु प्रत्यूह-( इत्यर्धोते समय ) राजा--दैवज्ञ ! मा भैषीर्यथाज्ञातमावेदय । नैमित्तिकः-किन्तु प्रत्यूहगर्भः । ( १ ) किमहं त्वया सर्वदाऽमङ्गलमाषको ज्ञातः ! । ततो नात्र स्थास्यामि । ( २ ) न तव सकाशेऽपि स्थास्यामि, किन्तु निजगुरुब्राह्मण्याश्चरणौ सेविष्ये ।

नलविलासे विदूषकः--( दण्डमुद्यम्य ) ( १ ) अरे दासीए पुत्ता ! नेमित्तिआ ! खरमुहे वि सन्निहिदे पियवयस्सस्स पच्चूहो ? राजा-अस्तु प्रत्यूहगर्भः, पर्यन्ते चेच्छुभोदकः'। नैमित्तिकः कः सन्देहः ? राजा-दैवज्ञ ! स्वप्नार्थपरिज्ञानप्रत्ययहेतुं कमप्यचिरभाविनमर्थमावेदय । नैमित्तिकः-परमप्रीतिहेतुरचिरादेव देवस्य कोऽप्यर्थः सम्पत्स्यते । राजा-(विमृश्य ) कोऽत्र भोः ? ( प्रविश्य ) पुरुषः-एषोऽस्मि । आज्ञापयतु देवः । राजा--अये सिंहलक ! दर्शय मत्प्रसादस्य फलं नैमित्तिकाय । सिंहलकः--यदादिशति देवः । ( इत्यभिधाय सनैमित्तिको निष्क्रान्तः ) ( नेपथ्ये ) कोऽत्र भोः १ निवेद्यतां निषधाधिपतयेऽस्मदागमनम् । राजा--( समाकर्ण्य ) वयस्य ! विलोकय गत्वा कोऽयम् । विदूषकः-(२) जं आणवेदि भवं ( इत्यभिधाय निष्क्रम्य, ससम्भ्रमं प्रविश्य ) भो लहुं उत्थेहि उत्थेहि, जेण पलायम्ह । राजा--विश्रब्धमभिधीयतां किं भयस्य कारणम् । विदूषकः---(३) एगो पिसाओ दुवारे चिढदि । गजा--असम्भावनीयोऽयमर्थः । कुतो नामात्र भगवद्युगादिदेवतायतन- पावने बने पिश चानां सम्भवः ? विदूषकः-(सरोषम् ४ ) युगादिदेवावटंभेण तुझे इह ज्जेव चिध । ( १ ) अरे दास्याः पुत्र ! नैमित्ति क ! खरमुखेऽपि सन्निहिते प्रियवयस्यस्य प्रत्यूहः ( २ ) यदाज्ञापयति भवान् । भो ! संस्वृत्तिष्ठोत्तिष्ठ, येन पलायामहे । (३) एकः पिशाचो द्वारे तिष्ठति । ( ४ ) युगादिदेवावष्टम्मेन यूयमिहैव ति " ? स्नात।

प्रथमोऽङ्कः । राजा--वयस्य ! क्षणं मर्षय यावत् सम्यग् निर्णयामि । विदूषकः-(१) भो ! ता न निस्सरिस्सं । नियबंभणीचलणसमरणेण नहें मह भयं । कलहंसः-( विहस्य ) अतीव ब्राह्मणीभक्तोऽयम् । राजा--कलहंस ! स्थितिरियं जगतः । आत्मन्यपत्ये ( त्य-) दारेषु प्राणेषु विभवेषु च । इतो नृप इतो रङ्कस्तुल्या प्रीतियोरपि ॥ १३ ॥ तत उत्थाय स्वयं विलोकय कोऽयं द्वारि । ( कलहंसो निष्क्रम्य पुनः प्रविशति ) विदूषकः-- ( २ ) भो रायं ! अहं तुह पिडिभाए चिहिस्सं । बीहामि एआओ बंभरक्खसाओ। राजा-( विलोक्य ) कथं खटाङ्गसङ्गी कापालिकः ? स्वागतं तपोधनाय कलहंसः-मुने ! इदमासनमास्यताम् । कापालिक:-( स्वगतम् ) अयमपि तावद् द्रष्टव्यः । कदाचिदेतदीयमपि चरितं कलचुरिपतिः पृच्छति । ( प्रकाशम् ) स्वस्ति महाराजाय । राजा---कुतस्तपोधनः? कापालिकः-साम्प्रतं विदर्भमण्डलात् । राजा-कियदवधिगमनम् ? कापालिकः--जीवितावधि । राजा-(स्वगतम् ) वचनशठस्तापसच्छमा चर इव लक्ष्यते । ( प्रकाशम् ) देशावधिं पृच्छामि । कापालिकः--नवनवतीर्थदर्शनश्रद्धालूनां तपम्दिना कुत एव देशावधिः । राजा--( स्वगतम् ) नियतमयं चरः । अनुचितमाचरितमस्माभिर्यदस्मिन्नना- वृते वने समीपीकृतः । कदाचिदयं घातकोऽपि स्यात् । भवतु तावत् । ( प्रकाशम् ) कुतो भवति दीक्षासक्रमः ? ( १ ) भोः ! तन्न निःसरिष्यामि, निजब्राह्मणीचरणस्मरणेन नष्टं मम भयम् । (२) भो राजन् ! अहं तव पृष्ठभागे स्थास्यामि, बिभेमि एतस्माद् ब्रह्मराक्षसात् । . ) नलविलास कापालिक:--रामगिरिनिवासिनः कापालिकचूडामणेश्चन्द्रशेखरात् । विदूषकः --- ( १ ) दिहिया महं सालो समागदो । सो खलु चंदसेहरो मह बंभणीए पिआ। कलहंसः-(विहस्य ) मुने ! महोपाध्यायोऽसौ निषधायां, तदमुना भगि- नीपतिना भवद्भिर्न लज्जितव्यम् । कापालिकः-( सरोषम् ) सम्पदापि निवेदितमस्य महोपाध्यायत्वम् । राजा-(स्मित्वा ) अल्पसम्पत्तिकत्वमहेतुरमहोपाध्यायत्वे । अल्पवेतना हि विद्याजीविनः प्रायेण । देवीं वाचमविक्रेयां विक्रीणीते धनेन यः। क्रुद्धव तस्मै सा मूल्यमत्यल्पमुपढौकयेत् ॥ १४ ॥ कापालिकः-( सोपहासम् ) किमभिधानोऽयं महोपाध्यायः ? राजा-खरमुखाभिधानोऽयम् । कापालिकः-( सोपहासम् ) आकारानुरूपमभिधानम् । राजा-मुने ! किमभिधानमलङ्करोषि ? । कापालिकः-लम्बोदराभिधानोऽस्मि । विदूषकः---(२) आगिदीए सग्सिं नामं । राजा---( सस्मितम् ) वयस्य ! सर्वस्याभ्यागतो गुरुरिति नैनं हसितुमहसि। विदूषकः--( ३ ) समाणे वि बंभचारित्तणे किं मे एस हसदि, अहं कीस न हसिस्सं ? राजा-अप्रयोजकः सामान्योपन्यासः परिहासस्य । समेऽपि देहदेशत्वे तृलमप्यक्षि पीडयेत् । पाषाणघर्षणेनापि पादाः कान्तिमुपासते ॥ १५ ॥ विदूषकः ( ४ ) भो कावालिया ! जैइ मे पत्थणं विहलं न करेसि, ता किंपि पत्थेमि । ( १ ) दिष्टया मम श्यालः समागतः । स खलु चन्द्रशेखरो मम ब्राह्मण्याः पिता । (२) आकृत्याः सदृशं नाम । ( ३ ) समानेऽपि ब्रह्मचारित्वे किं मामेष हसति ? अहं कथं न हसिप्यामि ? ( ४ ) भोः कापालिक ! यदि मे प्रार्थनां विफलां न करोषि, तदा किमपि प्रार्थये । १ क. जय।

प्रथमोऽङ्कः । कापालिकः यथेच्छं विज्ञपय । विदूषकः- ( १ ) जई मे इमं खटंग समप्पसि, ना तुह वहिणीए खंडणांवग- रणं मुसलं भोदि। कापालिकः - (सरोपम ) आः पाप ! ब्राह्मणव ! मामासादिनपरमब्रह्माणं तपोधनमवजानासि ? एपं ने खटाङ्गन शिरः पातयामि । विदूषकः - ( सरोपमुत्थाय ) ( २ ) अंगे दामीपुत्न ! कावालिया ! लहु इदा एहि, जेण दे एदिणा जन्नोपवित्तेण मन्थयं नोडमि । ( उभी नियुध्यत ) राजा-~अलमलमनुचिनाचग्णन । कलहंम ! निवाग्य निवारय । कलहंसः- (परिक्रम्य) किमिदं युध्यमानम्य कापालिनः कक्षातः पनितम् ? राजा--( विलोक्य ) कलहंस : किमिदम् ? कलहंसः---देव ! अनेकवस्त्रग्रन्थिनिवद्धा मात्रयं काँपालिनः सम्भाव्यत । राजा--मध्यमवलोकय । ( कलहंमः तथा करोति ) कापालिकः-- ( विलोक्य समयमात्मगतम् । हा : हनोऽम्गि । ( युद्धाद विरम्य प्रकाशमुच्चैःस्वरम् ) भो भो ! नालोकनीयं मन्मन्त्रपम्नकम् । कलहंसः-( विलोक्य । कथं बनान्तर लेग्यः ? राजा-(गृहीत्वा वाचयति ) म्वम्ति । महाराजचित्रसनं मपमुग्वः प्रणम्य विज्ञपयति यथा सर्वमपि युष्मन्मनोरथानुरूपं सम्भाव्यते । इयं च कोष्टकहस्तान तत्प्रतिकृतिग्राह्योति । कलहंस:---कोऽयं चित्रसेनः ? को मेपमुग्वः ? कः कोष्टकः ? का वा सा ? यस्याः प्रतिकृतिः। राजा-अव्यक्तस्थानचारलंखोऽयं न शक्यते ज्ञातुम् । भवतु तावत, पुरा- ) ऽवलोकय । ( १ ) यदि मे इदं खटाङ्गं समर्पयसि, तदा तर भगिन्याः खण्डनोपकरणं मुशलं भवति । (२) अरे दासीपुत्र ! कापालिक ! लघु इत एहि, येन त एतेन यज्ञोपवीतेन मस्तकं त्रोटयामि। } ऋ, यथेष्टं। २क. जय। ३ ख. कपा० ।

१० नलविलासे ( कलहंसः तथा करोति ) कापालिकः-( समयमुच्चैःस्वरम् ) तदेव व्याहरति । कलहंसः-( विलोक्य सहर्षमात्मगतम् ) अहो ! स्त्रीरत्न सेयं स्वमदृष्टा मुक्ता- वली । स चैव नैमित्तिकावेदितः स्वप्नार्थज्ञानप्रत्ययहेतुरर्थः । (प्रकाशम् ) देव ! सफलीक्रियता नेत्रनिर्माणं लोकोत्तरवस्तुदर्शनेन । राजा-(विलोक्य सहर्षप्रकर्षम् ) अहो ! बहूनां वस्तूनामेकत्र वासः । वक्त्रं चन्द्रो नयनयुगली पाटलाम्भोजयुग्मं नासानालं दशनवसनं फुल्लवन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बो गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमेतत् ॥ १६ ॥ किञ्च-- लावण्यपुण्यतनुयष्टिमिमां मृगाक्षी जाने स्वयं घटितवान् भगवान् विधाता । स्वयोंषितामपि चिरस्पृहणीयमङ्ग- विन्याससौरभमिदं कथमन्यथाऽस्याः ॥ १७ ॥ ( पुनर्विमृश्य ) मुने ! किमिदम् ? कापालिकः- ( सरोषमिव ) यथेदं मौक्तिकप्रायमाभरणं, यथा दन्तपत्राश्चितो कर्णपाशी; तथा जाने दाक्षिणात्यायाः कस्या अपि योपितः प्रतिकृतिरियम् । राजा-(विलोक्य सस्पृहम् ) अशेषाणां मध्ये जलनिधिमणीनां गुणजुषः परं मुक्ता व्यक्तं दधतु हृदि दर्प किमपरैः? अयं यासां मल्लीमुकुलनवदामद्युतिहरः प्रभातारो हारः स्वपिति सुखमस्याः स्तनतटे ॥ १८ ॥ किञ्च- दासस्तस्य गजान्वयार्णवमणेः स्तम्वेरमस्य स्वयं पौलोमीकृतचित्रकर्बुररदः सोऽप्यभ्रमूवल्लभः । यद्दन्तान्तविनिर्मिते प्रचलनप्रेडोलिनी कुण्डले काण्डीरस्मरपाण्डुगण्डफलकावस्याश्चिरं चुम्वतः॥१९॥ ( पुनः सविनयम् ) मुने ! सर्वथा कथय किमिदम् ? 1॥

प्रथमोऽङ्कः। १ कापालिकः-प्राणात्ययेऽपि किमसत्यमाभाष्यते ? राजा-भवतुं तावत् , कथय कुत्रेयं समासादिता ? कापालिकः-अत्रैप कानने । राजा-यद्येवं ध्रुवंमियं देवताप्रतिकृतिः काऽपि कस्यापि युगादिदेवदेवता- यतनवन्दनार्थमागतस्त्रि (स्य-त्रि ) दशस्य हस्तान्निपतिता, अनेन च समासादिता । विदूषकः-(१) भो ! दाव पच्छा एदा जाणेयब्बा, पढमं एदाए समीवे मं धरेध; जेण दिह्रिदोसो से न भोदि । राजा-(साप्रमोदम् ) साधु वयस्य ! साधु सर्वथा केलिकुशलोऽसि । (दिशो- ऽवलोक्य ) काऽत्र नोः ! करङ्कवाहिनीषु ? ( प्रविश्य ) युवतिः--(२ ) एसा चिट्ठामि । राजा--अयि मकरिके ! वयस्याय प्रसादताम्बूलं प्रयच्छ । मकरिका-( तथा कृत्वा ) (३) भट्टा ! किं एवं महगा पयत्तेण अवलोईयदि ? राजा--आयुष्मति ! देवताप्रतिकृतिरियम् । मकरिका---( विलोक्य, विमृश्य च ) ( ४ ) भट्टा ! न एसा देवयापडिकिदी। राजा -( ससम्भ्रमम् ) तर्हि किमेतत् ? मकरिका-( ५ ) जइ मे पारितोसिअं किंपि भट्टा पैयच्छदि, ता कहेमि । राजा-(सादरम् ) निषधां तुभ्यं पारितोषिक दास्यामि । भृशमावेदय । मकरिका-(६) भट्टा ! एसा विदब्भाहिवइणो भीमरहस्स पुत्तीए दम- यंतीए पडिकिदी। ( १ ) भोस्तावत् पश्चादेषा ज्ञातव्या । प्रथममेतस्याः समीपे मां धरत, येन दृष्टिदो- षोऽस्या न भवति । ( २ ) एषा तिष्ठामि । ( ३ ) भतः ! किमेतत् महता प्रयत्ननावलोक्यते ? ( ४ ) मर्तः ! नैषा देवताप्रतिकृतिः । ५) यदि मे पारितोषिकं किमपि भर्ता प्रयच्छति, तदा कथयामि । ( १ ) मतः ! एषा विदर्माधिपतेभीमरथस्य पुज्या दमयन्त्याः प्रतिकृतिः । १क. पअच्छदि। २ नलविलासे राजा-कथं पुनर्ज्ञानवती भवती ? मकरिका-(१) भट्टा ! कुंडिणपुरे मे मादिकुलं । तदहं सव्वं पि विदब्भ- वुत्तंतं जाणेमि । राजा-(स्वगतम् ) सम्भवत्येतत् । उक्तं चानेन कापालिकेन यथाऽहं साम्प्रतं विदर्भमण्डलादायातः । (प्रकाशम् ) मुने ! दमयन्तीप्रतिकृतिरियम् ? कापालिकः-ब्रह्मचारिणो वयम् , न योषित्कथां प्रथयामः । राजा-( सरोषम् ) पाखण्डिचाण्डाल ! कौक्कुटिक ! तापसछद्मा प्रणिधिरसि । कोत्र भोः ? ( प्रविश्य) दण्डपाणिः पुरुषः----एपोऽस्मि । राजा-~-अये भीम ! एनं नियम्य कागयां क्षिप । पुरुषः--यदादिशति देवः (इत्यभिधाय कापालिकं जटासु गृहीत्वा भीमो निष्क्रान्तः ) कलहंसः-मूर्त्या शान्तात्भवायं परमतीव दुष्टः । भद्रया मुद्रयैव प्रतिहतम- मृदृशां पाखण्डिनां शान्तात्मत्वम् । अपि च ...- शान्तात्माऽपि ग्वलः ग्वलः कथमपि च्यारूढवाढावमो- ड्रेदम्यापि सतो न वन्म चरितुं जलालकेलिक्रमः । इन्दोः कुन्दसितैश्चितापि परितो दोपत्र दोपा करै- उछन्नम्यापि पयोधर्मः प्रतिदिशं नानः श्रियं गाहते ॥ २० ॥ ( पुनर्विमृश्य ) मकरिके ! सन्यं मानुपीप्रतिकृतिरियम् ? मकरिका---( २ ) किं अन्नहा भट्ट(हिणो चिन्नवीयदि ? राजा- कामं कामं कुसुमधनुपोऽप्यावहन्ती सशाके लोकेऽप्यम्मिन यदि मृगदृशामीदशी रूपलक्ष्मीः । केशाकीर्ण तपसि विपुलम्बगभोगान्मुकानां मन्दीभूता ग्वलु नदधुना प्राणभाजां प्रवृत्तिः ॥ २१ ॥ ( पुनर्विमृश्य ) वयस्य ! त्वत्प्रयन्नकृतोऽयमस्माकं रत्नलाभः । कोऽत्र भोः ? ( १ ) भर्तः ! कुण्डिनपुर में मातृकुलम्, तदहं सर्वमपि विदर्भवृत्तान्तं जानामि । ( २ ) किमन्यथा भर्तुर्विज्ञप्यते ? १ ख, गैद्रया। ) प्रथमोऽङ्कः । १३ ( प्रविश्य) पुरुषः-एषोऽस्मि । राजा--अये माकन्द ! खरमुग्वाय कनकालङ्कारं प्रयच्छ । ( यदाज्ञापयति देव इत्यभिधाय माकन्दो निष्क्रान्तः ) विदूषकः--( १ ) जिदं मए जिदं मए । ( उर्द्धवाहुः प्रनृत्यति ) राजा-(स्मित्वा) संयोगे श्रीमदो भोगे वैकल्यस्य निबन्धनम् । ततस्तु वस्तुचिन्तायां शक्त्या श्रीरधिका मदात् ॥ २२ ॥ ( पुनः साभिलाषं प्रतिकृतिमवलोक्य म्वगतम् ) विफल एव ममावतारो जगति यदेतया सह सलीलमत्रोपवने न विहगमि । ( प्रकाशम ) मकरिके ! दमयन्ती कन्यका? मकरिका-(२) अध इं। -अनुगृहीतोऽस्मि वेधसा ( पुनरपवार्य ) कलहंस ! त्रिजगतोऽप्यसुलभं वस्तु सम्पादयितुं न शक्नोपि ? कलहंसः-किमपरमुच्यते ? यदि मन्माणैरपि सम्पद्यते, तदा सम्पादयामि । ( नेपथ्ये सूर्यध्वनिः ) कलहंसः-देव : युगादिदेवदेवतायतनसन्ध्यावलिपटहध्वनिरयम् । राजा--( स्वगतम् ) अहो ! परमं शकुनम् । ( पुनर्विमृश्य ) प्रेषयाम्येनं दमयन्त्याः पार्श्वे । इयं च मकरिका विदर्भभाषावेषाचारकुशला सहैव यातु । ( पुनर्नेपथ्ये ) भो भो गन्धर्वलोकाः ! स्वकार्याणि कुल्ग शीघ्रमा गलत युगादिदेवसन्ध्या- सङ्गीतकमनुष्ठातुम् । राजा--( सप्रमोदमात्मगतम् ) अहो ! प्रयोजनसमर्थः शब्दपातः । ध्रुवमयं कलहंसः प्रयोजनमाधाय शीघ्रमायास्यति । भवतु । (प्रकाशम् ) कलहंस ! चित्र- (१) जितं मया जितं मया । (२) अथ किम् ।

१४ नलविलासे कर्मालङ्कर्मीणान्युपकरणानि प्रगुणयितुं व्रज । मकरिके ! वैदर्भीप्रतिकृति त्वं गृहाण वयस्य ! दर्शय पन्थानं येन सन्ध्याविधिमाधाय सौधमलकुमेहे। ( इति निष्क्रान्ताः सर्वे ) ॥ प्रथमोऽङ्कः॥ द्वितीयोऽङ्कः। ( नेपथ्ये) स्वागतं कलहंसाय सपरिच्छदाय । ( ततः प्रविशति कलहंसः मकरिकाप्रभृतिश्च परिवारः ) कलहंसः-कथं मत्तमयूरोद्यानरक्षकः शेखरोऽस्मदागमनमनुमोदते ? ( प्रविश्य ) शेखरः--आर्य कलहंस ! युष्मदागमनोत्कण्ठितोऽतीव देवो वर्तते । तदई गत्वा निवेदयिष्यामि । ( इति निष्क्रान्तः ) कलहंस:--अयि मकरिके ! कच्चिदिदमभिहिता त्वया लम्बस्तनी ? यथा यावद् वयं त्वदागमनं देवाय विज्ञापयामः, तावत् त्वया मत्तमयूरोद्यान एव स्थातव्यम् । मकरिका--(१) अध इं। कलहंस:--अपि प्रगुणीकृतानि देवस्योपायनीकर्तुं विदर्भमण्डलोद्भवानि वस्तूनि ?। मकरिका--(२) समाचरिदं । ( नेपथ्ये ) भो भोः सभाचारिणः ! प्रगुणीक्रियतां सिंहासनम्। अहो गन्धर्वलोकाः ! प्रार- भ्यतां सङ्गीतकम् । इदानीमास्थानमलङ्करिष्यति देवः। ( १ ) अथ किम् । ( २ ) सर्वमाचरितम् । १ ख. अयि । २ क, • स्योपनयनी ।

द्वितीयोऽङ्कः।
कलहंसः--कथमयममात्यः किम्पुरुषो वदति ?
( नेपथ्ये)
(१) इदो इदो पियवयस्स !।
कलहंसः--मकरिके ! यथाऽयं खरमुखो व्याहरति, तथा जाने समायाति
देवः । तदास्थानमुपसाव । ( इति परिक्रामतः )
.( ततः प्रविशति सिंहासनस्थो राजा, किम्पुरुष-वरमुखादिकश्च परिवारः )
राजा--(स्मृत्वा विदूषकं प्रति ) वयस्य ! प्राप्तः कनकालङ्कारः ?
( प्रविश्य )
शेखरः--देव ! प्राप्तः।
राजा--( ससम्भ्रमम् ) कः प्राप्तः ?
शेखरः-देव ! दिष्ट्या वैधसे । प्राप्तो मत्तमयूरोद्यानं सपरिच्छदः कलहंसः
किम्पुरुषः-न केवलमुद्यानं सभां च ।
मकम्किया सह प्रणमति)
राजा-(बाहुभ्यामाश्लिप्य) अपि कुशलवान् कलहंसः? कुशलवती मकारिका ?
कलहंसः-देवस्य प्रतापेन ।
राजा-( सौत्सुक्यम् ) समर्थितमनोरथः समायातोऽसि ?
कलहंसः-न समर्थितमनोरथः ।
राजा-हताः स्मः।
कलहंसः-किश्च सम्भावितमनोरथोपायः समायातोऽस्मि ।
राजा--( सहर्षम् ) अनुगृहीताः स्मः । उपायसम्भावनायामुपेयमपि सम्भाव्यते ।
भवतु तावत् । दृष्टवानसि विदर्भराजात्मजाम् ?
कलहंसः--देव ! अदृष्टविदर्भराजात्मजस्य कलहंगमय विदर्भगमनं निष्फलम् ।
राजा-न केवलमदृष्टविदर्भराजात्मजस्व कलहंसर - विदर्भगमनं निष्फलं,
जन्मापि । तदलं वाचालताविस्तरेण । प्रथमं तावद् दमयन्तीतनुचारिमाणं सगा.
कलहंस उपसृत्य
सतो विज्ञपय ।
(१) इत इतः प्रियवयस्य !।
१ ख. वयस्सो । २ ख. वर्धाप्यसे । ३ ख. अयि । ४ ख. विदर्भाधिरा ।

१६ नलविलासे कलहंसः- अयं समासः। राजा--( सप्रमोदम् ) वैदर्भीतनुवर्णनां रसघनश्रोतव्यसीमामिमा- माकर्ण्य श्रवणौ ! युवां गमयथः स्वं जन्म तावत्फलम् । त्रैलोक्याद्भुतरूपदर्शनसुधासम्पर्कहेतुः पुनः पुण्यं वां नयने ! फलिष्यति वपुलावण्यपुण्योत्सवे. ॥ १ ॥ कलहंस ! सावधानोऽस्मि । कलहंसः-देव ! काव्यं चेत् सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत् कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् ? स्वातन्त्र्यं यदि जीवितावधि मुधा स्वभूभुवो वैभवं वैदर्भी यदि वद्धयौवनभरा प्रीत्या सरत्याऽपि किम् ? ॥ २ ॥ राजा-(सहर्षमात्मगतम् ) यदि सयौवनायां विदर्भराजतनयायां रति-प्रीत्योः पुनरुक्तार्थता, तदानीम( मे )व स्थाने नलस्योत्कलिकाकापेयम् । (पुनर्दिशोऽवलोक्य )कथ- मास्थानीजनबहलकोलाहलेन कर्णयोः सप्रत्यूहो विदर्भराजात्मजोलावण्यसौरभवर्णना- मृतास्वादः ? ( प्रकाशम् । सरोषम् ) मञ्जीराणि रणन्ति वारयत हुँ वाराङ्गनाश्चामर- ग्राहिण्यो मणिकङ्कणावलिझणत्कारं चिरं रक्षत । पूर्ण पञ्चमगीतिरीतिभिरहो ! गन्धर्वलोकाः ! कथं वैदभींगुणसङ्कयां खरतरैमुष्णाथ पापाः ! स्वरैः ॥ ३ ॥ कलहंस:-अपि च देव ! विश्वस्य श्रवणेन्द्रियं सफलतां नेतुं पुरा भारती वाचां रूपमुपास्य निर्मितवती वासं विदर्भक्षिता बद्धेष्येव नरेन्द्रभीमतनयावेषं विधृत्याधुना साफल्यं नयनेन्द्रियं गमयितुं देवी स्मरस्य प्रिया ॥४॥ . १क. जासौ० । २ ख . वलिरणत्कारं ।

द्वितीयोऽङ्कः। ? विदूषकः--(१.) ही ही भो कलहंस ! मुडु तए दमयंतीए अंगचंगत्तणं समासेण कहिदं, ता सत्थि भवढे भोदु । कलहंसः-( ससम्झमम ) कथमायः वरमुखः? खरमुग्व ! नमस्ते । विदूषकः-( २ ) मह समाणविहयो होहि । प्रकरिका-( ३ अज्ज ! पणमामि । विदूषकः-(४) मम सरिसं रूविणं पई लहसु । राजा-(स्मित्वा ) अहो ! परमसम्पत्तिहतुराशीवादः । विदूषकः-(५) भो ! तए मह जोगं न कि पि विदब्भमंडलादो आणीदं ? कलहंसः... अस्त्यानीतम् । राजा-(स्मित्वा सौत्सुक्यम् ) अलमप्रस्तुतेन । सविस्तरं विदर्भराजतनया- स्वरूपमावेदय । कलहंसः-देव ! चलकमलविलासाभ्यासिनी नेत्रपत्रे दशनवसनभूमिवन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमागूढरूढ- युतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥ ५॥ राजा-यथायं कलहंसो वर्णयति, तथैव यदि तस्या अङ्गसन्निवेशो यदि च भगवाननुकूलो विश्चिस्तदा न निषधाधिपतेरपरो भूर्भुवःस्वस्त्रयेऽपि पुण्यप्रागल्भ्यवान् । विदूषकः-(६) भो कलहंस ! ताए कन्नगाए मह वत्ता कावि पुच्छिदा ? मकरिका--(७) पुच्छिदा । विदूषकः-( सहर्षम् ) ( ८ ) किं ताए भणिदं ? ( १ ) अहो अहो ! भोः कलहंस ! सुष्ठु त्वया दमयन्त्या अङ्गचङ्गत्वं समासेन कथि- तम् । तत् स्वस्ति भवते भवतु । (२) मम समानविभवो भव । ( ३ ) आर्य ! प्रणमामि । ( ४ ) मम सदृशं रूपिणं पति लभस्व । ५) भोः ! त्वया मम योग्यं न किमपि विदर्भमण्डलादानीतम् ? () भोः कलहंस ! तया कन्यकया मम वार्ता काऽपि पृष्टा ? ( . १) पृष्टा । ( ८ ) किं तया भणितम् ? . ? ३ १८ नलविलासे मकरिका-(१) एदं भणिदं, सो गद्दहमुहो किं करेदि ? विदूषकः-( सरोषम् ) ( २ ) हुँ सा मं गद्दहमुहं भणदि, ता न तस्स वनणं सुणिस्सं । कलहंसः-अपरं च। कार्कश्यभूः स्तनतटी न गिरां विलासः केशाः परां कुटिलतां दधते न चेतः । तस्याः कुरङ्गकदृशो नृपचक्रशक्र ! जाड्यं गतौ न तु मतो विधृतावकाशम् ॥ ६॥ किम्पुरुषः-(स्वगतम् ) ध्रुवमीदृशस्य स्त्रीरत्नस्य सम्पाप्तिर्भरतार्द्धराज्य- मुपनयति । कलहंसः-अपि च स्वयं विमृश्य सोऽयमवयवानां सौन्दर्यलेशो देवाय विज्ञपितः । परमार्थेन तु- वदनशशिनो नेत्राम्भोजद्वयस्य कपोलयोः स्तनकलशयोर्दोष्णो भेनितम्बतटस्य च । तनुतनुलताज्योत्स्नावीचीनिमग्नदृशा मया न खलु कलितो दोषः कश्चिद् गुणो न च कश्चन ।। ७ ॥ विदूषकः-( सहर्षम् ) ( ३ ) ही ही भो ! तीए अयं जेव महतो दोसो जं सरीरे तेएण पिखि पि न सकीयदि । राजा-(सस्पृहमात्मगतम् ) आः ! किं भविष्यति स कोऽपि कदापि विश्व- कल्याणकन्दजलदप्रतिमो मुहूर्तः । यस्मिन् विदर्भतनयावदनेन्दुसङ्गा- दुत्फुल्लमक्षिकुमुदं तदिदं मम स्यात् ॥ ८ ॥ कलहंसः-किञ्चिनिनिमेपनेत्रविषय एव वैदर्भीरूपप्रकर्षः प्रत्यक्षीकृतोऽपि न शक्यते वाचा वर्णयितुम् । ( १ ) एतद् भणितम्, स गर्दभमुखः किं करोति ? ( २ ) हुं ! सा मां गर्दभमुखं भणति, ततो न तस्या वर्णनं श्रोष्यामि । : ( ३ ) अहो अहो ! मोः ! तस्या अयमेव महान् दोषो यत् शरीरे १ ला प्रेक्षितु- मपि न शक्यते ।

द्वितीयोऽङ्कः। राजा--(सप्रश्रयमात्मगतम् ) निर्निमेषनेत्रविषय एव वैदर्भीरूपप्रकर्ष इति पदमस्माकमुपश्रुतिः । ध्रुवं भविष्यति तदर्शनं नः । किम्पुरुषः- ( सासूयमिव ) नदस्ति किं किमपि यत्कविगिरामप्यगोचरः ? राजा-(सरोषममात्यं प्रति ) अयुक्तमभिदधासि । यतः- अधिका वर्णना धात् कचिद् वर्ण्य ततोऽधिकम् । वण्यस्याकान्ति-कान्तिभ्यां द्वयमप्युपपद्यते ॥ ९ ॥ अत्यन्तकमनीयं हि स्तोतुं वाचोऽपि नेशते । स्वरूपतः सुधास्वादं वक्तुं ब्रह्मापि न क्षमः ॥ १० ॥ तदलमतिविस्तरेण । कलहंस ! कथय तावदितः स्थानाद गतेन किमाचरितं त्वया ? कलहंसः-देव ! देवप्रतिकृति दमयन्तीप्रतिकृतिं चादाय देवपादान् प्रणम्य कतिपयैरेवाहोभिरहं कुण्डिनमधिगतवान् । राजा-(सत्वरम् ) ततस्ततः । कलहंसः-अनन्तरमनया मकरिकया स्वाभिजनद्वारेण कथमप्यात्मनः कन्यान्तःपुरे प्रवेशः कृतः। राजा-( सस्पृहम् ) आयुष्मति मकरिके ! तत्रभवती भवती प्रथमं वैदर्भी दृष्टवती? मकरिका-(१) अध इं। राजा-ततस्ततः । मकरिका-(२) तदो पडिदिणं सेवाववएसेण दमयंतीपासं गच्छामि, जधावसरं च देवस्स रूव-लावण्ण-विक्कमसमलंकिदं चरिदं विन राजा-(सत्वरम् ) ततस्ततः । मकरिका-(३) एगदा हरिसिदहिययाए दमयंतीए जांपदं जधा-तुमं ज्जेव एगा निसढाहिवइणो इह अत्थि ? आदु अन्नो वि को वि ? तदो मए भाणदं- ( १ ) अथ किम् । ( २ ) ततः प्रतिदिनं सेवाव्यपदेशे, दमयन्तीपाच गच्छामि, यथावमरं च देवस्य रूप-लावण्य–विक्रमसमलङ्कृतं चरितं विज्ञपयामि । ( ३ ) एकदा हर्षितहृदयया दमयन्त्या जल्पितं यथा-त्वमेवैका निषधाधिपतेरिहासि, अथवाऽन्योऽपि कोऽपि ? ततो मया भणितम्- । १क. तत्रभवती प्र० ।

नलविलासे अन्नो वि सव्वरहस्सट्टाणं दुदियं पिव हिदयं निसढाहिवइणो पियवयस्सो कलहंसो नाम अत्थि । किम्पुरुषः-मकरिके ! वाग्मिनी खल्वसि । सर्वरहस्यस्थानं द्वितीयमिव हृदयं वदन्त्या त्वया रहस्यालापेषु निःशङ्का कृता राजपुत्री । राजा-ततस्ततः। कलहंसः-अस्वस्थशरीरा दमयन्तीति प्रघोषं विधाय वैद्यव्याजेनाहमनया विदर्भदुहितुरभ्यणं नीतः। राजा-( सप्रमोदम् ) मकरिके ! चतुराऽसि विकटकपटनाटकघट- नासु । ( विमृश्य ) सर्वथा कैतवं निन्यं प्रवदन्तु विपश्चितः । केवलं न विना तेन दुःसाधं वस्तु सिध्यति ॥ ११ ॥ किम्पुरुषः- देव ! किमपरमुच्यते ? कामं शाठ्यव्यपोहेन परलोकः प्ररोहतु । इहलोकप्रतिष्ठा तु शाठ्यपण्यैव निश्चितम् ॥ १२ ॥ कलहंसः-देव ! निर्मायो यः कृपालुयः सत्यो यः सनयश्च यः । प्रायेण तत्र लोकस्य क्लीवबुद्धिर्विजृम्भते ॥ १३ ॥ राजा-(सत्वरम् ) ततस्ततः । कलहंसः-समलङ्कतासने मयि राजपुत्री सलीलमिदमभिहितवती-स भवान् कलहंसोऽसि ? (स्ति ? ) राजा-अहो ! गिरां मधुरिमा । ततः । कलहंसः--मयोक्तम्-यथा जानाति देवी । ततो राजपुत्री 'समासतो विवक्षित- मर्थमावेदय' इति निगदितवती । अनन्तरमहमुक्तवान् । राजा-(सौत्सुक्यम् ) किमुक्तवानसि ? कलहंसः--इदमुक्तवानस्मि । अन्याऽपि सर्वरहस्यस्थानं द्वितीयमिव हृदयं निषधाधिपतेः प्रियवयस्यः कलहंसो नामास्ति १ क.०पुण्येव ।

द्वितीयोऽङ्कः। २१ शौण्डीरेषु भयोज्ज्वलेषु सुभगोत्तंसेषु च ग्रामणी- देवो नैपधभूपतिः श्रुतमिदं स्वर्भूर्भुवो भूरिशः । एतच्च प्रथितं विदर्भतनया यद् विश्वविश्वम्फुर- च्छौर्यादिप्रसरं वरं स्पृहयति ब्रूमः किमन्यत् ततः ? ॥ १४ ॥ राजा--( स्वगतम् , आः ! किमतः परं राजतनयाऽभिधास्यतीति यत्सत्य- माकुलोऽस्मि । भवतु ( प्रकाशम् ) ततः किमुक्तवती ? कलहंस:--राजतनया न किंचित् । राजा-( सखेदमात्मगतम् ) हा ! हताः स्मः ! कलहंसः--किन्तु कपिजला नाम विदर्भराजचामरग्राहिणी समीपस्थितेद- मुक्तवती । राजा--( ससम्भ्रमम् ) किमाह स्म सा ? कलहंसः-इदमाह म्म सा । अनुरूपं योगं कर्तुमीहते स भगवान् कलहंसः। राजा--( सहर्षमात्मगतम् ) इयत्प्रत्युज्जीविताः स्मः । जानाति तावदेत- परिकरलोको यथा दमयन्त्या निषधपतिरनुरूपो वरः । ( प्रकाशम् ) ततस्ततः । कलहंसः-अनन्तरं च स्मितं कृत्वा राजतनया देवस्य प्रतिकृतिपटं मम करतलादादाय पुनः प्रतिकृतिं पुनः पुलककोरकितमात्मानं सुचिरमालोकितवती । राजा-( ससम्भ्रमम् ) लक्षितः कोऽप्यवलोकनस्याभ्युपायः कलहंसेन ? विदूषकः-( सरोषम् ) ( १ ) भो ! किं पुच्छेसि? पुलकिदेणं अंगेणं जेव निवेदिदं । कलहंसः--लक्षितः कपिञ्जलावचनात् । राजा-( ससम्भ्रमम् ) किं तत् कपिञ्जलावनः ? कलहंसः---इदं वचो यथा देवि ! किमर्थमत्यर्थमायास्यते पुनः पुनरवलोकनन दृष्टिः १ सर्वथाऽनुहरत्येवैषा प्रतिकृतिदेवीवपुषः । राजा--साधु कपिञ्जले ! भावज्ञानकुशले ! साधु, ततस्ततः । कलहंसः-अत्रान्तरे च देवी प्रतिकृत्या सह निरूप्यते न पुनर्मूलरूपेणेति वदन्ती मकरिका कापालिकानीतां प्रतिकृति राजपुध्या दर्शितवती । ( १ ) भोः ! किं पृच्छसि ? पुरकितेनाङ्गेनैव निवेदितम् ।

२२ नलविलासे ? राजा-समीचीनमाह मकरिका। यथा मुख्यस्य सौन्दर्य प्रतिबिम्बस्य नो तथा । मूर्याचन्द्रमसौ वारिसङ्क्रान्तौ क्लान्ततेजसौ ॥१५॥ कलहंसः--ततो मकरिके ! मत्करलिखितेयं प्रतिकृतिः कुतस्तवैतस्याः प्राप्तिरिति सरोषं राजपुत्री व्याहरत् । राजा-(समयम् ) कोऽयमुत्पातः ? ततस्ततः । कलहंसः-अनन्तरं च कपिञ्जले ! प्रतिकृतिमेतां ताताय दर्शय, चित्रपटमे- तं च देवतागृहे निधेहीत्यभिधाय राजतनया मां विसृष्टवती । राजा-( सभयम् ) कथं न किमपि प्रत्युत्तरम् ? कलहंसः-किन्तु देवप्रतिकृतिपटस्य देवतागृहविमोचनेन दत्तमेव राजपुत्र्या प्रत्युत्तरम् । राजा--वाचिकं श्रोतुमिच्छामि । मकरिका-(१) इदं पच्छा मम कहिंदं । जहा- इह अस्थि घोरघोणो जहत्थनामा कवालिओ एगो । कूरत्तणस्स कवाडित्तणस्स पढमं पइहाणं ॥ १६ ॥ लंबत्थणी त्ति नामं भज्जा तस्सत्थि खुजतणुलट्ठी । सयलाणं दोसाणं ठाणं दूई य मिहुणाणं ॥ १७ ॥ राजा--( कलहंसं प्रति ) असंस्कृतवागियं मकरिका न स्फुटमर्थमावेदयति । ततस्त्वमेव कथय । कलहंसः-घोरघोणेन च भीमरथाय सन्दिष्टम्, यथेयं दमयन्ती कलचुरि पतेर्भार्या भविष्यति । (१) इदं पश्चात् मम कथितम् । यथा--- -स्ति घोरघोणो यथार्थनामा कापालिक एकः । राजा-(सा. कापट्यस्य प्रथमं प्रतिष्ठानम् ॥ मथेमार ३६।।7:--इदमुक्तयो भार्या तस्यास्ति कुब्जतनुयष्टिः । क्रूरत्वस्य ५. लम्बस्तनीति नाम सकलानां दोषाणां स्थान पनं द्वितीयमिवं दूती च मिथुनानाम् ॥ १ख.ग. जद्री द्वितीयोऽङ्कः । राजा--( समयमात्मगतम् ) मुषिताः स्मः (प्रकाशम् ) स घोरघोणः किमती- न्द्रियमर्थ जानाति ? कलहंसः-दाम्भिकोऽयं न किमपि जानातीति तत्रत्याः कथयन्ति । मया पुनर्गवेषयतापि न कोऽपि दंम्भो लक्षितः । राजा--अत्रार्थे तंत्रत्याः प्रमाणं न भवान् । यतः-- आगन्तुकोऽनुरागं नेतुमविज्ञातदूपणः शक्यः । विज्ञातदूषणः खलु जनस्तु शक्यो न सहवासी ॥ १८ ॥ किन्तु कथय सहवास्यपि राजा केन हेतुना तस्य दम्भं नावधारयति । कलहंसः-राज्ञो व्यामोहो घोरघोणस्य च भाग्यमनवधारणे हेतुः । राजा--उपपन्नमिदम्- जन्मिनां पूर्वजन्माप्तभाग्यमन्त्राभिमन्त्रितः । अचेतनोऽपि वश्यः स्यात् किं पुनयः सचेतनः ? ॥ १९ ॥ ततस्ततः॥ लहंसः- ततो राजापि कापालिकप्रत्ययेन स्वदुहितरं चित्रसेनाय दातुमिच्छति। राजा-ततस्ततः। कलहंसः--ततो दमयन्त्या मकरिकाभिहिता यथा यदि निषधाधिपतिलम्ब- स्तनी कथमप्यनुकूलयति, तदा पुनरपि सा तातं कांग्रहान्निवर्तयति, मां च निष- धाधिपतये दापयति । राजा-( सत्वरम् ) किं पुनर्लम्बस्तनी सहैव नानीता ? कलहंसः--आनीताऽस्ति । राजा--कासौ ? कलहंसः-अस्ति मत्तमयूरोद्याने । राजा---अये शेखर ! लम्बस्तनी शीघ्रमाकारय । शेखरः---यदादिशति देवः ( इत्यभिधाय निष्क्रान्तः ) ( ततः प्रविशति कटितटं नर्तयन्ती लम्बस्तनी ) राजा--( विलोक्य ) आकृत्या कृत्येव लक्ष्यते । १क. कदाग्रहग्रहा० ।

नलविलासे
कलहंसः- ( अपवार्य ) न केवलमाकृत्या कर्मणाऽपीयं कृत्या । ( पुनर्विदूषकं
प्रति ) तवापि योग्यमिदं मया विदर्भदेशादानीतम् ।
विदूषकः-( विलोक्य सभयकम्पम् ) ( १ ) भो रायं ! अहं एयाओ
ठाणाओ उहिस्सं ।
राजा-किमिति ?
विदूषकः-(२ ) जइ एसा थूलमहिसी कडियडं नच्चावंती ममोवरि पडेदि,
ना धुवं मं मारेदि ।
राजा-वयस्य ! अस्मास्वनुग्रहेण राजपुत्र्येयं प्रेषिता, तदेतामवज्ञातुं नार्हसि ।
विदूषकः-(३) भो! न मए एदाए अवन्ना कीरदि, किन्तु अप्पणो रकवा ।
राजा--( सरोषमिव ) सर्वथा परिहासावसरं न वेन्सि ।
विदूषकः-( निःश्वस्य ) ( ४ ) जदि मए मुदेण कावि फलसिद्धी भोदि,
ता भोदु, इह ज्जेव चिहिस्सं ।
राजा-लम्बस्तनि ! इदमासनमास्यताम् ।
विदूषकः- ( ५ ) भोदी लंवत्थाए दुबलं बु एदं आसणं । ता तुमए
सावहाणाए उवविसियव्वं ।
( कलहंसः संज्ञया विदूषकं वारनति )
राजा-लम्बस्तनि ! कुशलवत्यसि ?
लम्बस्तनी--( मुखं नर्तयित्वा ) ( ६ ) अत्तणो जोगस्स पैसादेण ।
विदूषकः-(७) भोदी ! किं अइदुब्बला सि ?
लम्बस्तनी--(८) मग्गपरिस्समेण ।
( १ ) भो राजन् ! अहमेतस्मात् स्थानादुत्थास्यामि ।
( २ ) यद्येषा स्थलमहिषी कटितटं नर्तयन्ती ममोपरि पतेत् , तदा ध्रुवं मा मारयेत् ।
( ३ ) मोः ! न मयैतस्या अवज्ञा क्रियते, किन्त्वात्मनो रक्षा ।
( ४ ) यदि मया मृतेन काऽपि फलसिद्धिर्भवति, तदा मदतु, इहैव स्थास्यामि ।
(५ ) भगवति ! लम्बस्तन्या दुर्बलं खल्वेतदासनम्, ततस्त्वया सावधानया उपवेष्टव्यम् ।
( ६ ) आत्मनो योगस्य प्रसादेन । (७) भगवति ! किमतिदुर्वलाऽसि ?
(८) मार्गपरिश्रमेण ।
क. एयं । २ क. उववमि । ३ क. पसाएण।

द्वितीयोऽङ्कः । विदूषकः--(१) भो कलहंसा ! कित्तिएहिं गोणेहिं मुद्दे (है) हिं [ वा ] एसा इध संपत्ता? ( कलहंसो विहम्याधोमुग्वम्तिष्ठति ) राजा--( सभयमात्मगतम ) ध्रुवमयमेतां दुरात्मा कोपयिष्यति । भवतु ( प्रकाशम् ) लम्बस्तनि ! अकुंटिलहृदयः प्रकृतिपरिहासशीलाऽयं ब्राह्मणः । तदस्य वचोभिने कोपितव्यम्। लम्बस्तनी-( कटितटं करतलेनाहत्य. मुग्वं वक्रीकृत्य ) ( २ ) नाहमीदिसाणं गद्दहमुहाणं उत्तरं देमि । राजा--( विहम्य ) महाप्रभावा श्रूयते भवती । नदावेदय किमपि । लम्बस्तनी--( मगर्वम ) ( ३ ) भो महाराय ! अपुत्ताणं पुत्तं देमि, अणायारसंजादे गम्भे पाडेमि, दुल्लहं पि पिअजणं संपाडेमि । किं बहुणा ? जं तिहुयणे वि असझं तं साहेमि । राजा--( अपवार्य कलहंमं प्रति ) अहो धृष्टता ! अहो निलंजता ! विमृश, संवदति किमप्येतदुक्तम् ? कलहंसः-न किमपि, गर्भपातं पुनर्जानाति । राजा----( सविचिकित्सम्' ) अदृश्यमुखेयं तर्हि । विदूषकः-( ४ ) भोदी ! एगं दाव मे संसयं भंजेहि । मह बंभणीए माया धूलकुट्टिणी जा पाडलिपुत्ते वसदि, सा किं तुम आदु अन्ना का वि ? राजा-(सरोपम ) अयि मुखरब्राह्मण ! नाद्यापि परिहासाद् विरमसि ( पुमर्लम्बम्तनीं प्रति ) भविष्यति नः किमपि भवद्दर्शनफलम् ? ( १ ) भो कलहंस ! कियद्भिर्गुणैर्मूटकरे [ 1 ] षाऽत्र सम्प्राप्ता ? ( २ ) नाहमीदृशानां गर्दभमुखानाभुत्तरं ददामि । ( ३ ) भी महाराज : अपुत्रेभ्यः पुत्रं ददामि । नानारसंजातान् गर्भान् पातयामि । दुर्लभमपि प्रियजनं सम्पादयामि । किं बहुना ? यत् त्रिभुवनेऽप्यमाध्यं तत् साधयामि । ( ४ ) भगवति ! एकं तावन्मे संशयं भव । मम ब्राह्मण्या माता स्थूलकुदिनी या पाट- लिपुत्रे वसति, सा किं त्वमथवाऽन्या काऽपि ? ) ) १ ख, गुणेहिं मुदेहिं । २ ख. ग. श्रूयते त । ३ क. संजाए। ४ क. संपडावेमि २६ नलविलासे लम्बस्तनी-(१) अवस्सं भविस्सदि । राजा-( अपवार्य ) तर्हि विदर्भजां सम्पादय । लम्बस्तनी-(२) इत्थ को वि किं संदेहो ? एसा संपाडेमि । राजा-( सहर्षम् ) कोऽत्र भो भाण्डागारिषु ? ( प्रविश्य ) पुरुषः-एषोऽस्मि । राजा-अये कोरक ! एतस्याः सर्वाङ्गीणं कनकाभरणं प्रयच्छ । कोरकः-आदेशः प्रमाणम् ( इत्यभिधाय निष्क्रान्तः ) राजा-लम्बस्तनि ! त्वमपि स्वदेशे विजयस्व । लम्बस्तनी--(३) सत्थि महारायस्स । ( इत्यभिधाय कटितटीं नर्तयन्ती निष्क्रान्ता) राजा--(म्मृतिमभिनीय ) अमात्य ! लम्बोदरः कापालिकः कथं वर्तते ? किम्पुरुषः-देव ! लम्बोदरो युवराजकूवरेण क्रीडापात्रं कर्तुं नीतोऽस्ति । राजा-एवम् ( विमृश्य ) दुष्टसङ्गः कुमारस्य सोऽयं तेजःक्षयावहः । मार्तण्डमण्डलस्येव सैहिकेयसमागमः ॥ २० ॥ कलहंसः-दुरात्मनः कापालिकस्य संसर्गाद् दुष्पकृतिरपि काऽपि कुमा- रस्य सम्भाव्यते । किम्पुरुषः-प्रतिहतोऽयं वितर्कः । यत:- शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा परेषां संसर्गान खलु गुण-दोपौ प्रभवतः । अपां पत्युमध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् ॥ २१ ॥ A ७ अवश्यं भविष्यति । ( २ ) अत्र कोऽपि किं मन्देहः ? एपा मम्पादयामि । ( ३ ) स्वस्ति महाराजाय। १क. राजा विक द्वितीयोऽङ्कः। अपि च देवस्य निपधस्यापि सन्ततिर्दुष्पकृतिर्भवतीति श्रद्धालेवोऽपि न प्रतिप- द्यन्ते, किमङ्ग ! हृदयालवः ? कलहंसः-( सरोपम् ) प्रतिहततमोऽयं वितर्कः। भजन्ते कार्याणि प्रकृतिविभवं कारणगतं प्रवादो लोकांनी ध्रुवमयमनेकान्तकलुषः । मृदुत्वं तत् किञ्चिजलदपयसां विश्वविदितं म कश्चिन्मुक्तानामथ च किल काठिन्यनिकषः ॥ २२ ॥ राजा-किमपरमुच्यते ? असौ पाखण्डिचाण्डालो युवराजस्य निश्चितम् । वातापितापकारीव विन्ध्यस्योन्नतिघातकः ॥ २३ ॥ ( नेपथ्ये) अखिलानां विसिनीनां कमलमुखान्येकहेलया द्रष्टम् । गगनाचलगर्भमसावधिरोहति कमलिनीनाथः ॥ २४ ॥ राजा-(स्वगतम ) कथमयं मागधो मध्यन्दिनवर्णनापदेशेन प्रियामुखदर्शनं पिशुनयति ! भवतु (प्रकाशम ) कलहंस ! दर्शय मार्ग, येन मध्याह्नस्नानाय व्रजामः । ( इति निष्क्रान्ताः सर्वे ) ।। द्वितीयोऽङ्कः॥ १ क. लवो न।

) तृतीयोऽङ्कः। ( ततः प्रविश्य ) कुरङ्गकः-( उच्चैःस्वरमाकाशे ) अये मुकुल ! बकुलप्रभृतीनि प्रगुणय सुरभि- कुसुमानि । उपनय पाकाताम्राम्रप्रमुखानि फलानि । ननु पश्चबाणायतनमिदानी देवी दमयन्ती सगन्धर्वलोका समलङ्करिष्यति । (प्रविश्य ) मुकुल:- आर्य कुरङ्गक ! सर्व प्रगुणमेव पूजोपकरणम् , किन्तु कथय किन्नि मित्तोऽयमद्य सकलेऽपि राजकुले संरम्भः ? कुरङ्गकः-( सरोपमिव ) अये सरल मुकुल ! वैदेशिक इव लक्ष्यसे । एत दपि न जानासि, ननु देव्या दमयन्त्याः श्वः स्वयंवरविधिः । मुकुल:-श्वः स्वयंवरविधिः ? कुरङ्गकः-अथ किम । मुकुल:-( विचिन्त्य ) ननु दमयन्ती चेदिपतये चित्रसेनाय दातुमभिलाषुको विदर्भपैतिरासीत् । कुरङ्गकः-आसीत् प्रतिकृतिदर्शनात् पूर्वम् । मुकुल:--( मसम्भ्रमम ) विततमावेदय । कुरङ्गकः-तां निषधादागतां दमयन्तीप्रतिकृतिमालोक्य कथमियं निष. धायां गतेति गवेषयता देवेन ज्ञातं यथा-घोरघोणः कापालिको दमयन्तीपरिण यनोत्कण्ठितस्य चित्रसेनस्य मेषमुखनामा प्रणिधिः । सोऽपि लम्बोदरो स्यानुचर कोष्टकनामा चार एव । मुकुल:-( मत्वरम ) ततस्ततः । कुरङ्गाकः-ततो धर्मकर्मविप्लवमवधार्य छिन्नकणाँष्टनासिकया लम्बस्तनि कया सह गर्दभमारोप्य देवेन घोरघोणा निर्विषयः कृतः। मुकुल:-( साश्चर्यम ) पश्य मलिनकर्माऽपि कियती प्रतिष्ठामधिरोपितो देवे नायं घोरघोणः। : १क. मुकुल मुकुल. २ क०लायो। ३ क. पते।

तृतीयोऽङ्कः । २९ कुरङ्गकः--विस्मयनीयं नैवैतत् । आस्तां क्षयं किमिह पातकिनो न यान्ति यान्ति श्रियं समधिकां किमु धार्मिकेभ्यः । तेनासमञ्जसमसौ रचयन विशङ्को लोकाश्चिरं ममास वाचि तनौ च हृष्येत् ॥ १॥ मुकुल:--साम्प्रतं कासो ? कुरङ्गकः–साम्प्रतमसौ निषधामधिवसतीति श्रूयते । ( नेपथ्ये ) भोः ! कः साम्प्रतं निषधामधिवसति ? कुरङ्गकः-(प्रणम्य ) देव ! कापालिकघोरघोणः । राजा-(म्वगतम ) लम्बोदरोपजनितवासनेन युवराजकूबरेण समाहृतः । भवतु ( प्रकाशम ) भो भोः सैन्याः ! वहिः स्थातव्यं वहिः स्थातव्यम् । न खलु सहकारनिकराभिरामः सोढुमलमयमारामश्चक्रावमर्दम् । कुरङ्गकः--( मुकुलं प्रति ) एहि स्वस्थानं व्रजामः । । इति प्रणम्य निष्क्रान्तौ) राजा--अहो ! वसन्तावतारव्यतिषङ्गारङ्गत्परिभोगमखिलं जगत् । परिमलभृतो वाताः शाखा नवाकुरकोटयो मधुकररुतोत्कण्ठाभानः प्रियाः पिकपक्षिणाम् । विरलविरलस्वेदोद्गारा वधूवदनेन्दवः प्रसरति मधौ धान्यां जातो न कस्य गुणोदयः ? ॥२॥ ( दिशोऽवलोक्य ) अभिनभः प्रसूतैर्नवमल्लिकाकुसुमपुञ्ज नोभिरयं । युः । यवनिकां विदधाति वियोगिनां शशिकरव्यतिषङ्गनिवृत्तये ॥ ३ ॥ कलहंस ! विदितवृत्तान्तः स भवान् विदर्भाणाम् । तद् विलोकय किमप्यतिरम- णीयमत्र कुसुमाकरोद्यानेऽस्माकमावासस्थानम् । कलहंसः--यदादिशति देवः ।

३० नलविलासे विदूषकः-(१) ही ही ! पडिपुन्ना मे बंभीए मणोरधा । सत्थि- वायणगं पि किं पिदाणं मे रायदुहिया पडिवादयस्सदि । अधवा न सत्थिवायणं करिस्सं, सा मं गद्दहमुहं भणदि । भोदी मयरिए ! णं पुच्छामि, सव्वकज्जे वि विदब्भपुत्ती में गद्दहमुहं वाहरदि? मकरिका-(स्मित्वा ) ( २ ) न परं गद्दहमुहं; मकडकन्नं वंकपायं च । विदूषकः-(३) हला मुहरे ! सुमरेसि ऐदं भणिदं ? राजा-(स्वगतम्) आमन्त्रिता वयमतः प्रमदः परेऽपि सन्त्यागताः क्षितिभुजोऽथ विषादतापः । अङ्गं विधानमिव सन्धिषु रूपकाणां तुल्यं स्वयंवरविधिः सुख-दुःखहेतुः ॥ ४ ॥ कलहंस:-अयं तरुणतरणिकिरणकरणिधारिचारुपवालपटलपुलकितानेक- शाखापतानविनिवारितातपप्रचारः सहकारस्तदाम्यतामस्यालवालवारिशीकरासारो- पगूढपरूढहरितोपजातपरंभागे मूलभागे देवेन । राजा-( तथा कृत्वा ) कलहंस ! पश्य सहकारशाखासनीडे नीडे । प्रियतमावदनेन्दुविलोकितैरसुहितः कलकण्ठ्युवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तलाद वलति याति वलन्यथ यात्यथ ।। ५ ॥ अपि च- उत्तंसकौतुकनवक्षतदक्षिणाशा- शाखाग्रपल्लवलवा सहकारवीथी। सेयं समादिशति नः स्फुटमङ्गनानां सद्यः सलीलगतमश्चिनगौवनानाम् ॥ ६ ।। ( १ ) अहो अहो ! प्रतिपूर्णा मे ब्राह्मण्या मनोरथाः । म्वस्तिवाचनकमपि किमपि दानं मे राजदुहिता प्रतिपादयिष्यति । अथवा न स्वस्तिवाचनं करिष्ये, मा मां गर्दभमुखं भणति । भवति मकरिके ! त्वां पृच्छामि-मर्वकार्येऽपि विदर्भपुत्री मां गर्दभमग्वं न्याहरति । ( २ ) न परं गर्दभमुखम, मर्कटकर्ण वक्रपादं च । ( ३ ) अरे मुखरे ! म्मरसि एतद् भणितम् ? १ क, एवं । २ ख. ग. परभागे दे० तृतीयोऽङ्कः। ३१ कलहंस:- स्विद्यन्नितम्बभरपूरनिमग्नपाणि- भागातिनिम्नफ्दपद्धतिबन्धुराङ्गी । स्त्रीणां न केवलमसौ सहकारवीथी यातं दिशत्यरनिरध्यवनीशचन्द्र ! ॥ ७ ॥ राजा-( कर्ण दत्त्वा स्वगतम ) कथमनक्षरगीतध्वनिः ? ( प्रकाशम् ) कल- हंस ! शृणोषि किमपि ? विदूषकः-- ( १ ) चीरीयाणं महुरं रसिदं सुणेमि । राजा-धिग् मूर्ख ! नन्वेष- उत्कर्णयन वनविहारिकुरङ्ग-यूथा- न्याश्लेपयन विरहकान कलिकाकलापैः । सम्पूर्णपञ्चमकलासुभगम्भविष्णुः कों विनिद्रयति मुद्रितगीतनादः ॥ ८ ॥ कलहंसः-यथाऽऽदिशति देवः । राजा-अहह ! सहृदयहृदयापहारिहारितम (मा) शेपविषयशेखरा गीतनादः । कलहंस! अजलप्य जल्पामः किमपि किल पाषाणसुहृदां सदा तेषां भूयाजगति पुरुषाणामजननिः । असारं संसारं विदधति न सारं प्रतिमुहुः पिवन्तो ये मूक्तीरथ च कलगीतीमधुमुचः ॥ ९॥ अपि च- न गीतशास्त्रमर्मज्ञा न तत्त्वज्ञाश्च ये किल । अपौरपशुदेश्येभ्यस्तेभ्यः पुम्भ्यो नमो नमः ॥ ५ ॥ कलहंसः-देव ! आस्तां ममपरिज्ञानं येषां गीतस्पृहाऽपि न । कुरङ्गेभ्योऽपि हीनेषु मर्त्यत्वं तेषु वैशसम् ॥ ११ ॥ ( १ ) चीरीकाणा मधुरं रसितं शृणोमि । M - (- ३२ नलविलास राजा-अलमलमतिविस्तरेण । जानीहि कुतस्त्योऽयं पञ्चमोद्गारसारः समु- च्छलति गीतामृतासारः ? कलहंसः--(किञ्चित् परिक्रम्य पश्यति ) देव ! 'दवीयसि काननोद्देशे बहल- पल्लवाविलानेकतिलकचम्पकप्रभृतितरुतिरोहितं देवताऽऽयतनम् । राजा-न केवलं देवतायतनं पण्याङ्गनाचक्रं च सङ्गीतकमादधानमवलो- कयामि । ( सर्वे निपुणमवलोकयन्ति ) कलहंस ! पश्य पश्य । प्रेङ्खगविघटनरुषा कलहायमान- दोबल्लिकणरणत्कृतिपातगीतम् । नृत्यं कुरङ्गकदृशां विलसद्विलास- मुल्लासयेत् स्मरमते दृषदोऽपि रन्तुम् ॥ १२ ॥ ( विमृश्य ) कलहंस ! सर्वेषामपि सन्ति वेश्मसु कुतः कान्ताः कुरङ्गीदृशो न्यायार्थी परदारविप्लवकरं राजा जनं वाधते । आज्ञां कारितवान् प्रजापतिमपि स्वां पञ्चवाणस्ततः कामार्तः क जनो व्रजेत् परहिताः पण्याङ्गनाः स्युन चेत् ॥ १३ ॥ पुनः कामसर्वस्वगर्भम् । यदि वा- शृङ्गारसौरभरहस्यजुषां विधातुं पण्याङ्गनाः समुचितं किमु नेत्रपात्रम् ? कुर्वन्ति याः कुसुमकार्मुकजीवितस्य शर्म श्रियो रतिभुवः किल मूल्यमात्रम् ॥ १४ ॥ कलहंसः—एवमेतत् । विटचेष्टया या किल कुलसुदृशो दृष्टयापि लजन्ते । सैव च यासां देश्यों वेश्यास्ताः कि कृती स्पृहयेत् ? ॥ १५ ॥ राजा-कलहंस ! निरूपय, किमस्ति काऽप्यस्मिन् पण्याङ्गनारङ्ग विदर्भ हितुः सखी वा चेटी वा ? कलहंसः--यदादिशति देवः । ( इति परिक्रामति ) - १ क. नृत्तं। २ ख. ग. देशा।

तृतीयोऽङ्कः। ३ विदूषकः--(१) भो ! न गंतव्वं, अच्छरापेडयं खु एदं, न माणुसी- - पेडयं । राजा-( सरोषम् ) खरमुखवचनमपि भवान् कर्णे करोति ! अनर्गलवदनोऽयं ब्राह्मणः, तद् गम्यताम् ।। विदूषकः--(२) जय (इ) वि अहं अणग्गलवयणो बंभणो, तहावि एदस्स कलहंसस्स एगागिणो परमहिलाणं मज्झे गमणं न समुचिदं । ता एसा मयरिया गच्छदु। राजा-(विहम्य ) वयस्य ! चिरादुपपन्नमभिहितवानसि । मकरिके ! त्वं व्रज । मकरिका--( कतिचित् पदानि गत्वा प्रतिनिवृत्त्य मरभयम ) (३) भट्टा ! दिहिया दिहियों। राजा-किं किं सुमुखि ? मकरिका--(४) एसा कविंजलादत्तावलंबा देवी दमयन्ती संगीदयं कारयंती कामायदणमंडवे चिहदि । राजा--( सरभसमवलोक्य ) मकरिके ! एषा देवी दमयन्ती । कलहंसः-सत्यमेतदनुभूतं तर्हि रूपदर्शनमात्रकेणापि निषधाधिपतिना निजस्य जन्मनः फलम् । विदूषकः-(५) भो ! जया एसा पुणो पुणो इदो दिहिं पढवेदि, तधा जाणे मं नवजुन्नणं वंभणं निख्वेदि । ( १ ) भोः ! न गन्तव्यम, अप्सरःपेटकं खल्वेतत. न मानुपीपटकम । ( २ ) यद्यप्यहमनगलवदनो ब्राह्मणः, तथाप्येतम्य कलहंमम्थैकाकिनः परमहिलानां मध्ये गमनं न समुचितम्; तदेषा मकरिका गच्छतु । ( ३ ) भर्तः ! दिष्टया दिष्ट्या । ४ ) एषा कपिञ्जलादत्तावलम्बा देवी दमयन्ता मंगीतक यन्ती कामायतनम- पे तिष्ठति। ( ५ ) भोः ! यथैषा पुनः पुनरितो दृष्टिं प्रस्थापयति. तथा जाने मां नवयौवनं ब्राह्मणं निरूपयति । १ ख. ग. भट्ठा दिदिया ।

३४ नलावलास मकरिका---( अपवायं ) ( १ ) पडिहदो सि । राजा- सहकारतिरोहितास्तिष्ठामो येनयं स्वरं विहरति, वदति, विलोक- यति च । ( मवे तथा कुर्वन्ति । ततः प्रविशति यथानिर्दिष्टा दमयन्ती ) दमयन्ती-(२) सहि कविजले ! कुसुमायरे निसिढावइणो आवासं जाणिय कामपूयाववएसेण अहं दाव इह समागदा । गवेसिदो य मए तरुनिरूवणा- मिसेण सयलो वि आरामो । परं न को वि कहिं पि दिहो । ता किं नेदं, किं न किं पि मयरियामंतसरिसं भविस्सदि ? कपिञ्जला-( ३ ) भट्टिणि ! मा उत्तम, आराम परिमलणसंकाए न को वि मज्झे पइहा । किं न पिक्खादि देवी आरामपरिसरेसु समावासिदं सिन्नं ? अवि य सहयारवीहियाए माणुसाई पि दीसति । राजा-कथमस्मान् कपिजला दर्शयति ! अहह पञ्चवाणवाणः कटाक्षविक्षेपः ! भयतरलकुरङ्गीनेत्रसब्रह्मचारी विकचकुवलयश्रीरेष दृष्टेविलासः । परिणतपरिवोधोद्रोधधाम्नां मुनीना- मपि मनसि विकारोबारमाविष्करोति ॥ १६ ॥ कपिञ्जला-( ४ ) भट्टिणि ! जाव को वि कुदो वि समागच्छदि, दाव मयणस्स पूयं निवत्तेहि । कोसलिए ! उवणेहि भट्टिणीपूओवगरणं । १ ) प्रतिहतोऽमि । ( २ ) सखि कपिञ्जले ! कुमुमाकरे निषधपतेरावामं ज्ञात्वा कामपूजान्यपदेशनाहं तावदिह समागता । गवेषितश्च मया तरुनिझपणामिपेण सकलोऽप्यारामः. परं न कोऽपि क्वापि दृष्टः । तत् किं न्वेतत् . किं न किमपि मकरिकामन्त्रसदृशं भविष्यति ? ( ३ ) भत्रि ! मा उत्ताम्य. आरामपरिमर्दनशङ्कया न कोऽपि मध्ये प्रविष्टः । किं न प्रेक्षते देवी आरामपरिमरेषु समावामितं मैन्यम ! अपि च महकारवीथिकायां मनुप्या अपि दृश्यन्ते । ( ४ ) भत्रि ! यावत् कोऽपि कुतोऽपि ममागच्छति. तावत् मदनम्य पूजां निवर्तय । कौशलिके ! उपनय भर्तीपूजोपकरणम ।

तृतीयोऽङ्कः । दमयन्ती-(१) अहं सयं उवचिणिय कुसुमाई मयणं पूयइस्सं । ता चिढदु कोसलिया, पयट्टावेह दाव संगीयं । राजा-यथेयं पञ्चमस्य सुश्लिष्टमूर्छना तानेषु प्रतिमुहुः सुखायते, तथा जान गीतमर्मज्ञा। अविदितमा कर्मसु न शर्म तज्जन्म चुम्बति प्रायः । अकलितहृदयस्त्रीणां स्मरोपनिषदो बहिः प्लवते ॥ १७ ॥ ('सत्वरम ) मकरिके ! प्रभवसि राजपुत्रीमिह समानेतुम् ? मकरिका-(२) अहं दाव पयदिस्सं, आगमणं पुण दिव्वस्स आयत्तं । राजा--तर्हि यतस्व । ( मकरिका परिकामति) दमयन्ती-(३) कविंजले ! न को वि दाव समागदो, ता अंतेउरं वच्चामो । कपिञ्जला-(४) भट्टिणि ! दिट्ठिया दिहिया समागदा मयरिया । ( मकरिका उपसृत्य प्रणमति ) दमयन्ती-( सहर्षमालिङ्गय ) (५) मयरिए ! अन्नो वि को वि समागदो, आदु तुमं जेव? मकरिका-(६) अन्नो वि । दमयन्ती-(अपवाये ) ( ७ ) कधं राया नलो ? मकरिका--(८) अध इं। दमयन्ती-(सत्वरम् ) (९) कहिं सो ? मकरिका-(१०) एसो सहयारचीहियाए । ( १ ) अहं स्वयमुपत्रीय कुसुमानि मदनं पूजयिप्यामि । ततस्तिष्ठतु कौशलिका, प्रवर्तयत तावत् संगीतम् । ( २ ) अहं तावत् प्रयतिष्ये, आगमनं पुनर्दैवस्य आयत्तम् । ( ३ ) कपिञ्जले ! न कोऽपि तावत् समागतः, ततोऽन्तःपुरं बजामः । ( ४ ) भत्रि ! दिष्टया दिष्ट्या समागता मकरिका । ( ५ ) मकरिके ! अन्योऽपि कोऽपि समागतः, अथवा त्वमेव ? ( ६ ) अन्योऽपि । (७) कथं राजा नल: ? (८) अथ किम् । ९) क्व सः ? (१०) एष सहकारवीथिकायाम् ।

३६ नलविलास दमयन्ती-( भुनमुत्क्षिप्य ) ( १ ) मयरिए ! एसो नलो (पुनः सभयमात्म- गतम ) मा नाम विलासिणीलोएण दिट्टम्हि । भोद एवं दांव (प्रकाशम् ) मयरिए ! एदस्स वि नामं तुमं न जाणासि ? णं निणविसेसो एस्रो नलो । कपिञ्जला--( विहम्य ) ( २ ) सञ्चं एसो नलो, न उण तिणविसेसो, किंतु तिणविसेसीकद अवरराजलोओ। दमयन्ती-( ३ ) कविजले ! तुमं वंकभणियाई जाणासि । राजा-( उपमय ) कलहंस ! सग्वीशङ्काशङ्कुप्रणयपरितापव्यसनिनी त्रिभागाभोगाग्रप्लवनवहलीभूतशितिमा । द्रुमालोकव्याजाद् विषमपरिपाता मम वपुः समं सेयं दृष्टिर्जडयति च संरम्भयति च ॥ १८ ॥ ( विमृश्य ) कुचकलशयोवृत्तं नृत्तं भ्रुवोमृदुता गिरां दृशि तरलता वक्रे कान्तिस्तनौ तनिमा तथा । तदिढमखिलं वेषश्चेतस्यहं यदि वल्लभो ध्रुवमपरथा दोपः स्वार्थ जनो बहु मन्यते ॥ १९ ॥ कलहंसः- मांसदृशो गुण-दोषौ ब्रुवते स्वार्थास्तिभङ्गसापेक्षाः। ज्ञानदृशम्तु यथास्थितपदार्थवृत्तान्तमनुरुध्य ॥ २० ॥ मकरिका-( ४ ) भट्टिणि ! पसन्ना होहि । दमयन्ती-(५) मयरिए ! अहं कया वि किं अप्पसन्ना, जं एवं मंतेसि ? ( १ ) मकरिके ! एष नलः ? मा नाम विलासिनीलोकेन दृष्टास्मि । भवतु एवं तावत् । प्रकरिके ! एतस्यापि नाम त्वं न जानासि ? ननु तृणविशेष एष नलः । २ ) सत्यमेषो नलः, न पुनस्तृणविशेषः, किन्तु तृणविशेषीकृतापरराजलोकः । ३) कपिञ्जले ! त्वं वक्रमणितानि जानासि ( ४ ) भत्रि ! प्रसन्ना भव । ( ५ ) मकरिके ! अहं कदापि किमप्रसन्ना, यदेवं मन्त्रयसे ? -परमार्थोऽयम् ! ।

तृतीयोऽः। ३७ मकरिका-(१) कहं नाम न अप्पसन्ना, जं हिदयवल्लहं जणं पिच्छिय दूरं चिट्ठसि ? दमयन्ती-(२) • मयरिए ! नाहमिदिसं कन्नाजणस्स अणुचिदं अणहिदुं साहसिणी । किं च- आलाव-हाँस-परिरंभणाई पेमस्स परियरो एसो । पेमं उण नयणतिभागभूरिपरिघोलिरा दिही ॥ २१ ॥ अन्नं च असरिससिणेहं जणं सयमणुसरंती कविंजलाए वि लज्जेमि । मकरिका-(सरोषम् ) (३) सहयारवीहियं पि अणुसरंती सरिससिणेहा, महाराओ उण विदब्भेमु वि समागदो असरिससिणेहो ? दमयन्ती-( ४ ) मयरिए ! न पारोमि तए सह जंपि, ना मयणपूया- निमित्तं कुसुमाइं उवचिणिस्सं । ( इति सर्वाःपरिकामन्ति ) राजा-कथमितोऽभिवर्तते देवी ? दृष्टे ! द्रष्टुमितः स्पृहां कुरु पुरः पुत्री विदर्भेशितु- नत्वागच्छति बिभ्रती स्मरकरिक्रीडावनं यौवनम् । यद्ववेन्दुविलाससम्पदमतिश्रद्धालुरालोकितुं पौलोमीपतिरुद्रहत्यनिमिषं चक्षुःसहस्रं किल ॥ २२ ॥ कलहंस ! उपनय पत्रमेकम् । कलहंसः-इदम् । ( १ ) कथं नाम नाप्रसन्ना, यद् हृदयवल्लभं जनं दृष्ट्वा दूरं तिष्ठसि ? ( २ ) मकरिके ! नाहमीदृशं कन्याजनस्यानुचितमनुष्ठातुं साहसिनी । किञ्च--- आलाप-हास-परिरम्भणानि प्रेम्णः परिकर एषः । प्रेम पुनर्नयनत्रिभागभूरिपरिघूर्णमाना दृष्टिः ॥ अन्यच्च, अमदृशस्नेहं जनं स्वयमनुसरन्ती कपिञ्जलाया अपि लजे । ( ३) महकारवीथिकामप्यनुसरन्ती मदृशस्नेहा, महाराजः पुनर्विदर्भेष्वपि समागतो- ऽसदृशस्नेहः । ( ४ ) मकरिके ! न पार यामि त्वया सह जल्पितुम् । ततो मदनपूजानिमित्तं कुसुमान्युपचेप्ये , ३८ नलविलासे ( गजा किमपि पत्रकं लिखित्वा समर्पयति ). दमयन्ती-(१) कपिजले ! कहिं वणोदेसे वियइल्लवल्लियाओ चिहति ? मक्ररिका-(२) एदासि सहयारनिगुंजे । ( दमयन्ती पुप्पावचयं नाटयति.). राजा-( उपमृत्य ) अलमलमनुचिताचरणेन । ननु ललाटन्तपे भगवति कमलिनीनाथे परमानुरागवेतनकीने च सविधभाजि सर्वकर्मीणे जने कोऽयं स्वयं विचकिलकलिकावचयक्लेशोपद्रवः ? दमयन्ती- ( तिर्यग् विलोक्य म्वगतम् ) (३) कहमेस सयं भयवं पंचवाणो? अहवा वरायस्स अणंगस्स कुदो ईदिसो अंगसोहग्गपब्भारो? ता कदत्यो दमयंतीए अंगचंगिमा । ( प्रकाशम् ) कविंजले ! को एस मं वारेइ ? कपिञ्जला-( ४ ) जस्स कदे तुम इध समागदा । दमयन्ती--( ५ ) कस्स कदे अहं इध समागदा ? कपिञ्जला-( ६ ) हिययदइयस्स । दमयन्ती--(७) ता किं भयवं मणसिजो ? कपिञ्जला-(विहस्य ) (८) भट्टिणी जाणादि । दमयन्ती-( सरोषमिव ) (९) हंजे ! उवहसेसि , ता उवचिणिसं, न चिहिस्सं। ( राजा भुजलतामालम्व्या ‘अलमलम्' इत्यादि पठति ) कलहंसः-देवि ! दूरादागतस्य प्रणयिनो जनस्याभ्यर्थनां नावज्ञातुमर्हसि । दमयन्ती (१० ) कथं कलहंसो : कलहंस ! मोयावेहि मे पाणिं । ( १ ) कपिञ्जले : कस्मिन् वनोद्देशे विचकिलवल्लयस्तिष्ठन्ति ? ( २ ) एतस्मिन् महकारनिकुञ्ज । ( ३ ) कथमेष म्वयं भगवान् पञ्चबाणः ? अथवा वराकस्यानङ्गम्य कुत ईदृशोऽङ्ग- सौभाग्यप्राग्भारः ? तत् कृतार्थ दमयन्त्या अङ्गनङ्गत्वम् । कपिञ्जले ! क एप मां वारयति ? ( ४ ) यम्य कृते त्वमत्र ममागता । ( ५ ) कस्य कृतेऽहमत्र समागता ? ( ६ ) हृदयदयितस्य । (७) तत् किं भगवान् मनमिजः : (८) भी जानाति । ( ९ ) हले ! उपहमसि माम. तद् उपचेप्यामि. न स्थास्यामि । १० ) कथं कलहंसः : कलहंस : मोचय मे पाणिम ।

तृतीयोऽङ्कः। कलहंसः-देवि ! कलहंसः पाणेाहयिता, न पुनर्मोचयिता । दमयन्ती-(१) हीमाणहे ! न को वि मह पक्रवपायं करेदि । राजा-शान्तं शान्तम् । हे मृगाक्षि ! नन्वयमस्मि तव पक्षपाती । समा- दिश कृत्यम् । दमयन्ती-(२) जइ एवं ता मुंच मे पाणिम् । नल:-कथमपराधकारी मुच्यते ? दमयन्ती-(३) किं एदिणा अवरद्धं ? राजा-अनेन त्वत्प्रतिकृतिमालिख्यायमियति विरहानले पातितः । दमयन्ती-( स्मित्वा ) (४) जइ एवं ता अहं पि ते पाणिं गहिस्सं । तव पाणिलिहिदेण पडेण अहं पि एदावत्थसरीरा जादा । राजा--नन्वयं पाणिग्रहणार्थ एव सर्वः प्रयासस्तदनुकूलवादिन्यसि नलस्य । विदूषकः--(५) भोदी ! तए अप्पण जेव अप्पा समप्पिदो, ता दाणिं न छुट्टीयदि । ( दमयन्ती सात्विकभावान् नाटयन्त्यधोमुखी भवति ) राजा-( विलोक्य ) इमो प्रेझे कर्णों वदनमिदमिन्दुः स्फुटकलः । कलः सोऽयं नादस्तरुणकलकण्ठीकलकलः । इयं मल्लीवल्लीपुलकमुकुलाङ्कन भुजलता वसन्तश्रीः साक्षात् त्वमसि मदिराक्षि ! ध्रुवमतः ॥ २३ ॥ ( सहर्ष च-) चन्द्रोद्यानसरांसि सुन्दरि ! मनः कर्षन्ति तावद् गुणे- यावन्नेत्रदले तवास्यकमले दृष्टिन विश्राम्यति । ( १ ) अहो ! न कोऽपि मम पक्षपातं करोति । ( २ ) यद्येवं तदा मुञ्च मे पाणिम । ( ३ ) किमेतेनापराद्धम ? ( ४ ) यद्येवं तदाऽहमपि ते पाणिं ग्रहीप्यामि, तव पाणिलिखितेन पटेनामप्ये- तदवस्थशरीरा जाता। ( ५ ) भवति ! त्वयाऽऽत्मनैवात्मा समर्पितस्तदिदानीं न छुट्यते । , नलविलासे तावत् कोऽपि कलालवो विजयते खद्योतपोतविपां यावन्नात्मकरीधिनोति धरणिं देवः सुधादीधितिः ॥ २४ ॥ दमयन्ती-(१) अजउत्त ! (पुनः मलजम ) महाराय ! अधवा इदि देआंगे पतंगनावो, ना विरम पाणिग्गहणादो । राजा--अयि कातरकुरङ्गनेत्रे! कोऽयं वाङ्-मनसयोविवादः। ननु यथाम- नसमेवाभिधीयतामार्यपुत्रेति । अपि च शतपत्रपत्रत्त लाक्षि ! यदि पतङ्गता- पावाधासाध्वसेन पाणिग्रहणाद विरमामि, तदानीमनङ्गतापा मां वाधते । किञ्च--- चित्रं त्रस्तैणशावाक्षि ! त्वत्पाणिग्रहणोत्सवः । सन्तापस्य निहन्ता नः प्रतापस्य तु कारणम् ॥ २५ ॥ कपिज्जला--(२) भट्टिणि! लजमुज्झिय पयडाणुरायं किंपि अणुचिट्ठ । दमयन्ती--( मरोषमिव ) ( ३ ) हंजे ! तुमं पि कन्नगाजणविरुद्धे कम्मे मं निजोजयसि ? राजा--अयि चन्द्रमुखि ! न त्वां कपिञ्जला योजयति । किन्तु कृतमानिनी- मानभङ्गः स भगवाननङ्गः । अनङ्गाधीनो हि कुसुमाकरोद्याने सर्वस्य सर्वो व्यापारः। ( पर्वाङ्गीणमवलोक्य ) कुन्ददति ! किञ्चिदुपालभ्यसे । दमयन्ती- (स्वगतम ) ( ४ ) हीमाणहे ! अप्पाणमि वि आदिधेईकदे उवालंभो न मुंचदि। कपिञ्जला ( समयमात्मगतम ) ( ५ ) किं मए किमवि अवरुद्धं ? राजा-ननु ब्रवीमि, उपालभ्यसऽभ्यन्तरपरिजनापराधेन । दमयन्ती--( ६ ) कहं विय । राजा- वक्रेन्दुः स्मितमातनोदधिगते दृष्टी विकासाश्रयं बाहू कण्टककोरकाण्यविभृतं प्राप्ता गिरो गौरवम् । ( १ ) आर्यपुत्र ! महाराज ! अथवा एति देवाङ्गे पतङ्गतापः. तद विरम पाणिग्रहणात् । ( २ ) भत्रि ! लज्जामुज्झित्वा प्रकटानुरागं किमपि अनुतिष्ठ। ( ३ ) हले ! त्वमपि कन्यकाजनविरुद्धे कर्मणि मां नियोजयमि : ( ४ ) अहो ! आत्मन्यपि आतिथेयीकृते उपालम्भो न मुच्यते । ( ५ ) किं मया किमप्यपराद्धम : ( ६ ) कथमिव :

तृतीयोऽङ्कः। ४१ ) किं नाङ्गानि तवातिथेयमसृजन् स्वस्वापतेयोचितं ? सम्प्राप्ते मयि नैतदुज्झति कुचद्वन्द्वं पुनः स्तब्धताम् ॥ २६ ॥ दमयन्ती सलज्जमधोमुखी भवति ) यदि वा देवि ! शाश् । सत्यमहमेवोपालभ्यो यो गुणमपि दोपमभिदधामि । कपिञ्जला--(१) भट्टिणि! कदं कालविलंबेण, रहस्सं किं पि मंतेहि । दमयन्ती-(२) नाहं रहस्सं मंतिदु सिक्खिदा । राजा--अयि स्मरनागरिक ! किमात्मानं वैदग्थ्यवन्ध्यमावेदयसि ? अपि चाहमस्मि शिक्षितः । कलहंस ! दर्शय रहस्यमस्मदीयम् । ( कलहंसः पत्रमर्पयति । दमयन्ती वाचयति ) अमीभिः संसिक्तैस्तव किमु फलं वारिदघटे! यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तस्वः । अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु- एप ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरात् ॥ २७ ॥ दमयन्ती-(विमृश्य स्वगतम ) त्वदेकशरणोऽहमित्युत्तं भवति । ( प्रकार म ) ३) कलहंस ! मुद्धा खु अहं, न गूढमणिदीणमत्थं जाणागि । राजा-किमेवमभिदधासि ? यतः- मुग्धाङ्गनानयनपातविलक्षणानि दक्षैरपि क्षणमलक्षितविभ्रमाणि । आलोकितान्यपि नताङ्गि ! निवेदयन्ति वैदग्ध्यसम्पदमनन्यतमां भवत्याः ॥ २८ ॥ यदि वा व्यक्तमपि विज्ञप्यते । ये ( १ ) भत्रि ! कृतं कालविलम्बेन, रहस्यं किमपि मकर । (२) नाहं रहस्यं मन्त्रयितुं शिक्षिता । ( ३ ) कलहंम : मुग्धा ग्वल्व हम, न गृढभणितीनामर्थं जानामि । ६ नलविलासे कान्तस्तवाहमधरीकृतविश्वरूपः सौन्दर्यविभ्रमवती भवती प्रिया मे । प्रेमावयोरनधिगम्यदशाधिरूढं जानीहि नप सुकरो विधिनापि योगः ॥ २९ ॥ ( प्रविश्य ) चटी-(१) भट्टिणि ! देवी तुमं हकारेदि । ( राजा मभयं भुनमपनीय तिरोधत्त ) दमयन्ती-(२) अंबा मं आणवेदि ? एसा समागच्छामि । ( इति सर्वाः परिक्रामन्ति ) राजा-(सविषादम् ) कलहंस ! न कोऽपि कार्यनिव्यूहः समभूत् । हा ! हताः स्मः । कुतो नाम पुनरपि रहःसङ्गमः ? विदूषकः-(३) भो ! अहं से संगम पुणरवि करेमि । राजा-(सादरम् ) अस्मदनुरोधेन प्रवर्तस्व । ( विदूषकः ग्वरनादितं करोति ) दमयन्ती-( आकर्ण्य ) ( ४ ) कधं एस झपखंतरिदो खरो वामं वाहरदि ? हला मयणिए! असउणं मे, नाव गच्छ तुमं, अहं पुण सहयारवीहीए गड़य आगमिस्सं। ( मदनिका निष्क्रान्ता । दमयन्ती प्रतिनिवर्तते ) विदूषकः-( ५ ) भोदी ! न तए मे वंभणस्स सत्थिवायणं दिन्नं, तदो असउणं । ) ) । ( १ ) भत्रि ! देवी त्वामाह्वयति । ( २ ) अम्बा मामाज्ञापयति ? एषा समागच्छामि । ( ३ ) भोः! अहमस्याः सङ्गमं पुनरपि करोमि ( कारयामि )। ( ४ ) कथमेष वृक्षान्तरितः खरो वामं व्याहरति ? हले मदनिके ! अशकुनं मे, तावद गच्छ त्वम्, अहं पुनः सहकारवीश्या गत्वाऽऽगमिप्यामि । ( ५ ) भवति : न त्वया मे ब्राह्मणस्य स्वस्तिवाचनं दत्तम, ततोऽशकुनम ।

तृतीयोऽङ्कः । ४३ ) दमयन्ती-(पत्रके किमपि लिखित्वा ) (१) एदं दे सत्यिवायणं ( षकस्य प्रयच्छति । राजानं प्रति ) महाराय ! सुदे ( सुवे ? ) पुणो वि संगमो । राजा- कर्णेजपं क्षतमुदो. विपदो वचस्त्वं श्वःसङ्गमः पुनरतिप्रलयस्य शङ्का । त्वद्विप्रयोगशरणं क्षणमप्यहं तु वर्षाणि देवि ! किल यामि पर शतानि ॥ ३०॥ दमयन्ती-(२) अओ परं न पारोमि चिहिदुं, ता गमिस्सं ( निष्क्रान्ता) ( राजा पत्रकं वाचयति ) सौदामिनीपरिष्वङ्ग मुञ्चन्त्यपि पयोमुचः । न तु सौदामिनी तेषामभिष्वङ्गं विमुञ्चति ॥ ३१ ॥ कलहंसः-देव ! अनयाऽप्यात्मनोऽनन्यशरणत्वमावेदितम् । राजा-नन्वयमुत्तरार्धस्यार्थः । कलहंसः-पूर्वार्धस्यार्थोऽनिष्टं सूचयति । राजा-( सभयम् ) किं तत् ? कलहंसः-परिणयनानन्तरं दमयन्तीपरित्यागम् । राजा-शान्तम् । ननु नलो यदि दमयन्ती परित्यजति, तदा निषधामभिजनं च । तदेहि शिबिरं व्रजामः । ( इति निष्क्रान्ताः सर्वे ) . ॥ तृतीयोऽङ्कः॥ ( १ ) एतत् ते स्वस्तिवाचनम् । महाराज ! इवः पुनरपि सङ्गमः । ( २ ) अतः परं न पारयामि स्थातुम, ततो गमिष्यामि ।

चतुर्थोऽङ्कः। ( नेपथ्य ) (१) उसले : भो अगदहा उसलेध । ( ततः प्रविशति गजा भीमग्थोऽमात्यवमुदत्तादिकश्च परिवारः ) राजा-अमान्य ! दर्शय मार्ग येन स्वयंवरशोभामालोकयामः । वसुदत्तः-इन इनो देवः परिक्रामतु । राजा-अमान्य ! वन्साप्रतिकृतिदशनेनापि वयं स्वयंवरं विधातुमीषन्मनसः समभवाम । घोग्घोणवचनविरोधिलम्बस्तनीवचनेन पुनः सविशेषमुत्साहिताः । वसुदत्तः-देव ! लम्बम्ननी किमुक्तवती ? राजा-निपधाधिपतिपत्नी दमयन्ती भविष्यतीत्युक्तवती । वसुदत्तः-चित्रसेनपत्नीप्रतिपादकन घोरघोणवचनेन सह सर्वथा विरुध्यते लम्बस्तनीवचः । राजा-ततोऽग्माभिस्तदेतं वरविष्ठवमाशङ्कमानैः स्वयंवरविधिरनुष्ठितः। वसुदत्तः- देव ! खराधिगेहणक्रुद्वेन दुरात्मना घोरघोणेन किमप्यश्रद्धे- यमश्रोतव्यं च प्रतिज्ञातम् । राजा-(मभयम ) किं तत् ? वसुदत्तः-यो दमयन्तीं परिणेष्यति, तस्य राज्यभ्रंशम् ( इत्यधोक्ते तूप्णीमास्ते ) राजा-शान्तं शान्तं प्रतिहतममङ्गलम् , ननु दमयन्तीपतिस्त्रिखण्डभरतपतिरिति मुनयः समादिशन्ति । ततः कथं स तापसापसदो राज्यभ्रंशं करिष्यति ? वसुदत्तः--यदेव ज्ञानचक्षुपः समादिशन्ति तदेवास्तु । ( विलोक्य ) अयं स्वयंवरमण्डपः, इदं सिंहासनमान्यता देवेन । राजा-( तथा कृत्वा विलोक्य च ) अमात्य ! समायाताः काशीपतिप्रभृतयः क्षोणिपतयः, परमद्याप निपधाधिपति याति । कोऽत्र भोः ? ( १ ) अपमरत भोः ! अग्रतोऽपमरत ।

चतुर्थोऽङ्कः। (प्रविश्य ) पुरुषः-आदिशतु देवः। राजा-अये मङ्गलक ! कुसुमाकरोद्यानान्निषधाधिपतिमाकार्य शचीपतिदिशि विनिवेशिते कार्तस्वरसिंहासने समुपवेशय । ( ' आदेशः प्रमाणम्" इति ब्रुवाणो मङ्गलको निष्क्रान्तः । ततः प्रविशति मङ्गलकेना- दिश्यमानमरणिर्नलः कलहंस-खरमुख-मकरिकाऽऽदिकश्च परिवारः) मङ्गलकः-इत इतो निषधाधिपतिः । इदं सिंहासनमास्यताम् । नल:-( समुपविश्य स्वगतम् ) आकुञ्चितैर्विकसितैश्चकितैः प्रहृष्टै- रुत्कण्ठितैः कुटिलितैललितविनीतैः । आलोकितैमगदृशो बदनप्रवृत्ति- वृत्तजितोऽस्मि मुपितोऽस्मि हृतोऽस्मि तुल्यम् ॥ १ ॥ (प्रकाशम् ) कलहंस ! कृतमिषशतं यद् गच्छन्त्या मुहुर्मुहुरीक्षितं यदपि च सखीशङ्काभीत्या गता न विरागतः । तदिदमनिशं स्मारै स्मारं कुशीलववन्मनो हसति रमते गेदित्युच्चैर्विषीदति सीदति ॥ २ ॥ ( विमृश्य ) कीदृशमस्य स्वयंवरस्य निर्वहणं सम्भावयसि ? कलहंसः---पत्रकश्लोकविमर्शनेन नाटकस्येव प्रमदाद्भुतरसशरणं सम्भाव- यामि निर्वहणम् । नल:-वयस्य खरमुख ! खरनादितेन राजपुत्रीं प्रतिनिवर्तयता त्वया वयम- धमर्णीकृताः । जाने भगवता विरश्चेन भवानेतदर्थमेव गर्दभवदनः कृतः । विदूषकः-- ( मरोपम ) ( १ ) अदो जव ता. कदन्नुचूडामणिना खर- मुहस्स पडिकदं कदं । नलः- वयस्य ! राजपुत्रीललितमीमांसादुललितचेतोभिरस्माभिर्न किमपि रजनावनुस्मृतम् , तदिदानी गृहाणेदं ग्रैवेयकम् । ( १ ) अत एव त्वया कृतज्ञचूडामणिना ग्वरमुखम्य प्रतिकृतं कृतम् ।

४६ नलविलासे विदृषकः-( १ ) कुविदो म्हि, न गिन्हिस्सं । नल:-मकरिके ! वयस्यमनुकूलयास्मासु । मकरिका--( २ ) अरे गद्दहमुहं ! किं भट्टिणमवजाणासि ? विदूपकः-(३) आ दासीए धीए ! मं बंभणमहिक्खिवसि ? नल:--वयस्य ! साम्प्रतमनवसरः क्रोधस्य । • • विदूषकः--( ४ ) जइ अणवसरो कोहस्स, ता गिन्हिस्सं पसादं । नलः-रसभङ्गः कृतस्त्वया, ततो न वयं ग्रैवेयकं प्रतिपादयिष्यामः | मकरिका--(विहम्य ) ( ५) इदिसस्स जेव संमाणस्स जुग्गो सि । विदूषकः--(६) भो ! पडिवादेहि आभरणं, न पुणो रुसिस्सं । ( नलो ग्रैवेयकं समर्पयति ) मङ्गलकः- अग्रतः परिक्रम्य ) देव विदर्भाधिपते! समायातो निषधाधिपतिः। राजा-अवशिष्यते कोऽपि नरपतिः ? मङ्गलकः-न कोऽपि । राजा--कोऽत्र भोः ? (प्रविश्य ) कञ्चुकी -एषोऽस्मि । राजा-माधवसेन ! वत्सां दमयन्तीं स्वयंवरमण्डपे समानय । ( ' आदेशः प्रमाणम् ' इत्यभिधाय माधवमेनो निष्क्रान्तः । ततः प्रविशति कञ्चुकिना निर्दिश्यमानमार्गा दमयन्ती, गृहीतवरमाला कपिजला च ) कपिज्जला-(७) तदो पुच्छिदा अहं रयणिवुत्तंतं रयणिवुत्तंतं मयारियाए, कहिदो य मए। ( १ ) कुपितोऽस्मि, न ग्रहीप्यामि । २ ) अरे ! गर्दभमुख : किं भर्तारमवजानामि ? ( ३ ) आः : दास्याः पुत्रि ! मां ब्राह्मणमधिक्षिपसि ? ( ४ ) यद्यनवसरः क्रोधस्य, तद् ग्रहीप्ये प्रमादम् । ( ५ ) ईदृशस्यैव सम्मानस्य योग्योऽमि । ( ६ ) भोः ! प्रतिपादय आभरणम्, न पुना रुषिप्यामि । (७ ) ततः पृष्टाऽहं रजनीवृत्तान्तं मकरिकया. कथितश्च मया ।

चतुर्थोऽङ्कः। ४७ दमयन्ती-(सरोषमिव ) ( १ ) कीस तए अहं लहुईकदा ? माधवसेनः--इत इतो देवी । देवि ! अयमेष देवो विदर्भाधिपतिः । एते च वरयितारः क्षमाभारः। कपिजला-( अपवार्य नलं दर्शयन्ती ) (२) एसो उण कुसुमावचय- पच्चूहकारी दुब्बिसहआधि 'वाधिनाडयपत्थावणासुत्तहारो सजणो। दमयन्ती--( समन्ततोऽवलोक्य, नलं च सविशेषं निर्वर्ण्य स्वगतम ) ( ३ ) कधं अहल्लेव गोदमस्स सावेण एदस्स दंसणेण जडीकदा मे ऊरुजुयली ! हीमाणहे ! कधं मयंवरमंडवे परिकमिस्सं? कपिजला-( स्वगतम् ) ( ४ ) अम्मो ! कधं भट्टिणीए नलं पिच्छि- उण ऊरुत्थंभो जादो ? भोदु एवं दाव ( प्रकाशम् ) भट्टिणि ! रयणिसंभूददाहजरेण नीसहाई दे अंगाई, ता मं अवलंबिय परिकमसु । नल:--( विलोक्य ) मकरिके ! केयं कपिञ्जलादत्तहस्तावलम्बा परिक्रामति ? मकरिका--(५) णं एसा दमयंती । नल:--अहो ! कौतूहलं राजपथेऽपि भ्रमः । नन्वियं विष्टपदृष्टिचकोरी- चन्द्रिका देवी दमयन्ती । मकरिके ! अधिकमधिवहन्ती गण्डयोः पाण्डिमानं तलिननलिननालान्यङ्गकैस्तर्जयन्ती । अलसचरणपाते/क्षितेश्चातिकान्तैः कथय कथमियं नः साम्प्रतं भात्यपूर्वा ? ॥ ३ ॥ ( १ ) कथं त्वयाऽहं लघुकीकृता ? ( २ ) एप पुनः कुसुमावचयप्रत्यूहकारी दुर्विषहाधि-व्याधिनाटकप्रस्तावनामूत्र- धारः स्वजनः । ( ३ ) कथमहल्येव गौतमस्य शापेनेतस्य दर्शनेन जडीकता मे ऊः युगली ! हा ! कथं स्वयंवरमण्डपे परिक्रमिष्यामि ? ( ४ ) अहो ! कथं भर्ध्या नलं दृष्ट्वा उरुस्तम्भो जातः ? जातः ? भवतु, एवं तावत् । भत्रि ! रजनीयम्भूतदाहज्वरेण निःसहानि ते अङ्गानि. ततो मामवलम्ब्य परिक्रमस्व । ( ५ ) नन्वेषा दमयन्ती ।

४८ नलविलासे मकरिका-( विहम्य ) ( १ ) भट्टा जेव संतावमुप्पाययंतो अपुरव- तणे कारणं। नल:--( महर्रम ) अयि ! रजनिवृत्तान्नमवधार्य वदसि ? मकरिका--( २ ) अध इं। नल:-किमजनि रजनी देव्याः ? मकरिका-( ३ ) जं रहंगधारिणीए । नल:-कचिनिपधाधिपतिभंगवता विरश्चेन मुभगश्रेणिं लम्भितः । ( दम- यन्ती विलोक्य ) मकम्केि ! सान्निध्यात् पितुगननं नृपजनव्यालोकलीलोन्ननं मद्वक्त्रेक्षणलालसात् प्रतिमुहः कोणाङ्ककलीचलम् । आगमम्मरणोद्गताद्भुतरमं वेपोचितीदर्शन- व्यग्रं नव्यसभाप्रवेशचकितं चक्षुः कुरङ्गीदृशः ॥ ४ ॥ राजा-अये माधवसेन ! प्रत्येकमवनीभुजा नय-विनय-क्रम-विक्रमानुत्कीर्तय पुगे वत्सायाः । माधवसेनः--( पुगे भूत्वा दमयन्ती प्रति ) म्मेराक्षि ! क्षितिचक्रविश्रुतवलः काशीक्षितीशो बलः मोऽयं स्कन्धतटेऽम्य मुश्च विकचन्मल्लीप्रसूनस्रजम् । उच्छालम्पृहयालशीकरभरव्यासगारङ्ग नगे गाङ्ग रोधसि सस्पृहा ग्लंपयितुं चेद् ग्रीष्ममध्यन्दिनम् ॥ ५ ॥ दमयन्ती-( ४ ) अज्ज ! परवंचणवसणिणो कासिवासिणो सुचंति । माधवसनः --न मेऽस्मिन् मनोरतिरिति व्यक्तमुच्यताम् । ( परिक्रम्य ) अयमवनिपतीन्दुर्भूपतिः कुणानां कलय वलयधाम्ना पाणिना पाणिमस्य | ( १ ) भतॆव मन्तापमुत्पादयन् अपूर्वत्वे कारणम । ( २ ) अथ किम । ( ३ ) यद् रथाङ्गगृहिण्याः । ( ४ ) आर्य : परवञ्चनव्यमनिनः काशीवामिनः श्रूयन्त । . १क. प्लव० चतुर्थोऽङ्कः । ४९ अधिजलधिगतानां गोत्रशत्रुर्मंगाक्षि ! क्षपयति नहि पक्षान् क्ष्माभृतां शङ्कितोऽस्मात् ॥ ६॥ दमयन्ती-(१) अणिमित्तरोसिरो एस, ता न पारेमि पए पए अणुकूलिहूँ । माधवसेनः-कुन्दति ! वयसैव लघीयसी, संसारोपनिषद्वैदुष्येण गरीयसी खास। अकाण्डकोपिनो भतुरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं ब्रह्मणापि न शक्यते ॥ ७ ॥ ( सर्वेऽग्रतः परिक्रामन्ति ) काश्मीरेश्वर एष शेषवनितासङ्गीतकीर्तिपित्- कान्तावक्त्रविचित्रपत्रमकरीहव्यैकधूमध्वजः । एतं कुन्ददति ! त्वमावह वरं यद्यस्ति कौतूहलं केदारेषु विकासिकुडमरजःपिङ्गेषु सङ्क्रीडितुम् ॥ ८ ॥ दमयन्ती-(२) अन्ज माधवसेण ! तुसारसंभारपणयभीरुयं मे सरी- रयं न किं तुमं जाणासि ? माधवसेनः-तर्हि पुरों व्रजामि । ( परिक्रम्य ) कलहंसगमने ! कौशाम्बीपतिरयमुन्नतांसपीठः शौण्डीर्यावसथममुं वरं वृणीष्व । यत्तेजोऽनलमसहिष्णुरुत्पतिष्णुः क्ष्मापालो वनमभिभूतवान् न कस्कः ? ॥ ९ ॥ दमयन्ती-(३) कपिजले ! अदिरमणीया तुमए वरमाला विणिम्मिदा । माधवसेनः--अप्रतिवचनमेवास्य भूपतेः प्रत्यासः । नल:-( कुसुमचापसन्तापमभिनीय स्वगतम् ) '( १ ) अनिमित्तरोषण एष, तन्न पारयामि पदे पदेऽनुकूलयितुम् । ( २ ) आर्य माधवसेन ! तुपारसम्भारप्रणयभीरुकं मे शरीरं न किं त्वं जानासि ? ३) कपिञ्जले ! अतिरमणीया त्वया वरमाला विनिर्मिता ।

५० नलविलास यस्यां मृगीदृशिदृशोरमृतच्छटायां देवः स्मरोऽपि नियतं वितताभिलाषः । एतत्समागममहोत्सववद्धतृष्ण- माहन्ति मामपरथा विशिखैः कथं सः ॥ १० ॥ माधवसेनः--(परिक्रम्य ) स एप सुभगाग्रणीः पतिरवन्तिभूमेः कला- कलापकुलकेतनं यदरिवामनेत्राजनैः । वसद्भिरधिपर्वतं किमपि पर्वतीयाधिप- स्त्रियो नृपतिनायिकाललितनाटकं शिक्षिताः॥ ११ ॥ तदकोशसहस्रपत्रपत्रलाक्षि ! पवित्रय निजेन पाणिना पाणिमस्य यदि सिपा- स्रोतसि स्नानाय स्पृहयसि । दमयन्ती-(१) माधवसेण! विवाहमंगलसंगलिदभूरितूररवपडिरव- जणिदजागरणभिंभलाई मे अंगाई, न तरामि पुणो पुणो मंतिदुं । माधवसेनः--( सभयमात्मगतम् ) कथमवन्तीपतिविद्वेषेण सरोषमाभाषते । भवतु, नृपान्तरमुत्कीर्तयामि । (प्रकाशम् ) कलकण्ठीकण्ठि ! न्यायैकधनमेतमनुमन्य- स्व पतिं कलिङ्गाधिपतिम् । पश्य पश्य- यथा यथा प्रतापाग्निचलत्यस्य महौजसः । चित्रं वर्णाश्रमारामाः स्निग्धच्छायास्तथा तथा ॥ १२ ॥ दमयन्ती--( विलोक्य ) ( २ ) तादसमाणवयपरिणामस्स नमो एतस्य । माधवसेनः--(स्वगतम ) वार्द्धककलङ्कपङ्किलः सत्यमनुपासनीय एवाय- मभिनवयौवनानाम् । भवतु ( पुनः परिक्रामति । प्रकाशम् ) मृगाङ्कमुखि ! दाध्यातविरोधिवीरकुरलीदोःकाण्डकण्डूक्लम- च्छेदच्छेकपराक्रमं पतिममुं मन्यस्व गौडेश्वरम् । ( १ ) माधवसेन! विवाहमङ्गलसङ्कलितभूरितूर्यरवप्रतिरवजातजागरणविह्वलानि मेऽङ्गानि, न शक्नोमि पुनः पुनमन्त्रयितुम् । (२) तातसमानवयःपरिणामाय नम एतस्मै -- चतुर्थोऽङ्कः। ५१ भ्रश्यद्भिन्दुतरङ्गभङ्गिपटलैयद्वाहिनीवारण- श्रेणीदानजलैर्बिभर्ति जगती कस्तूरिकामण्डनम् ॥ १३ ॥ दमयन्ती-(१) अम्मो ! ईदिसं पि कसिणभीसणं माणुसरूवं भोदि ! अज्ज ! तुरिदमग्गदो वच, वेवदि मे हिदयं । "माधवसेनः स्मित्वा परिक्रामति) नल:-( दमयन्तीमवलोक्य कलहंसं प्रति ) पश्य पश्य कौतूहलम् । चापल्यं दृशि शाश्वतं, कुटिलतां चूर्णालकेषु स्थिरा- मौद्धत्यं कुचयोरनन्यशरणं मध्ये परां तुच्छताम् । विभ्राणाऽपि विदर्भराजतनया प्रीत्यै सतां चेतसः कलहंसः--देव ! किमदः कौतूहलम् ? यतः-- दोषा अप्यतिशेरते कचिदपि स्थाने प्ररूढा गुणान् ॥ १४ ॥ माधवसेनः--आः ! दुर्विदग्धहृदये ! रेवासीकरवारिवेपथुवपुर्माहिष्मतीभूपतिः सोऽयं श्रीवनिताविलासवसतेरस्याङ्कशय्यां गता । शोल्लाघनघर्मघस्मरमरुन्मैत्रीनिपीतक्लम- स्वेदाम्भःकणिकासपे ! क्षिप शरच्चन्द्रातपास्ताः क्षपाः ॥१५॥ दमयन्ती-(स्मृतिमभिनीय ) (२) अंबहे ! एस अंबाए भादुणो तणुओ वकसेणो। माधवसेनः--( सलज्जं परिक्रम्य ) चन्द्रमुखि ! कालिन्दीसीकरासारसम्पर्क- सततझञ्झानिलीभूतवातपरिरम्भासम्भावितष्मिोष्माणं विजयवर्माणं मथुराधिपति पतिमेतमनुमन्यस्व, स्वैरं विहर्तुमुत्कण्ठसे यदि वृन्दावनपावनासु गोवर्द्धना- धित्यकासु। यात्रायां किल यस्य सिन्धुरघटाप्रायःप्रसर्पक्षम- मूर्छालावनिलोलमूलतरले चामीकरक्ष्माभूति । ( १ ) अहो ! ईदृशमपि कृष्णभीषणं मनुष्यरूपं भवति । आर्य ! त्वरितमग्रतो व्रज, वेपते मे हृदयम् । ( २ ) अहो ! एषोऽअम्बाया भ्रातुस्तनुजो वक्रसेनः । १क० प्राप्तः प्र० नलविलासे घूर्णन्तीपु विशृङ्खलं प्रतिकलं दोलामु दैत्यद्विषां कन्याः कुञ्चितपाणयो विदधते प्रेङ्खाविनोदोत्सवम् ॥ १६ ॥ दमयन्ती-(१) अन्ज माधवसेण ! णाहमारामभूरुहविहारकोदूहलिणी । माधवसेनः-(स्वगतम् ) अयमपि न मे मनः प्रीणयतीति निवेदितम् । भवतु । अग्रतः परिक्रमामि । ( परिक्रम्य प्रकाशम् ) पक्ष्मलाक्षि ! त्रलोक्योदरवत्तिकीर्तिकदलीकाण्डप्रकाण्डप्रथा-. पाथोदं दयितं विधेहि तममुं काञ्चीपतिं भूपतिम् । वाहिन्या प्रथितप्रतापघनया यस्मिन् समाजामति क्लान्तः क्षोणिभृतः कुतो न निरगात् सङ्कामगर्वोरंगः ? ॥ १७ ॥ दमयन्ती-(२) हीमाणहे ! परिस्संतम्हि एदिणा सयंवरमंडवभूमि- विहरणेण, किच्चिरं अज वि अज्जो माधवसेणो जपिस्सदि ? वसुदत्तः– ( राजानं प्रति ) देव ! पश्य- ताराविलासरुचिरं नयनाभिनन्दि नव्यं नरेन्द्रदुहितुर्मुखमिन्दुबिम्बम् । यस्याभिपगारहिताः कटकैः सहैव विच्छायतां क्षितिभृतः सहसा व्रजन्ति ॥ १८ ॥ ( प्रविश्य सम्भ्रान्तः) पुरुषः-देव विदर्भाधिपते ! लग्नघटिका वर्तत इति मौहर्तिका विज्ञापयन्ति । राजा-( ससम्भ्रमम् ) अये माधवसेन ! संवृणु वाचालतां विलम्बमसहिष्णु- लग्नसमयः । कपिञ्जले ! केयमरोचकिता वत्सायाः ? माधवसेनः--( सभयमग्रतः परिक्रम्य ) कुड्मलाग्रदति देवि ! प्रकर्षपदमन्तिमं द्रुहिणरूपशिल्पश्रियः स एप निषधापतिः सुभगकुञ्जरग्रामणीः । विलोक्य किल यं जगन्नयनकैरवेन्दुं चिरा- दमस्त परिकल्पिता मदनदाहवार्ता जनः ॥ १९ ॥ ( १ ) आर्य माधवसेन ! नाहमारामभूरुहविहारकौतूहलिनी । ( २ ) हा ! परिश्रान्तास्मि एतेन स्वयंवरमण्डपभूमिविहरणेन । कियचिरमद्याप्यायों माधवसेनो जल्पिप्यति ?

चतुर्थोऽङ्कः। दमयन्ती-(साश्चर्यमात्मगतम् ) (१) अहो ! मणोहरदा आगिदीए ! अहह चंगिमा अंगसंनिवेसाणं ! कटरि सूहवत्तणं ! कटरि विलासवियडिमा ! राजा-(विलोक्य ) कथमद्यापि वत्सा विलम्बते ? (पुनरुच्चैःस्वरम् ) वत्से ! स्थिरं कृत्वा चेतः सुदति ! वृणु रामैकशरणं तमेतं भूपालं य इह ननु नव्यः किल नलः । यदेतस्याक्रान्ताः क्षणमपि करेणाचलघने वने मज्जन्त्याशु स्फुटकटकवन्तः क्षितिभृतः ॥ २० ॥ नल:--(सर्वाङ्गीणमालोक्यात्मगतम् ) नयननलिनपेयं श्वेतिमानं वहन्ती श्रियमिह वदनेन्दौ दन्तपत्रे विदन्ती । यदयमथ दधानः कालिमानं विधत्ते कुटिलचिकुरभारस्तत् तु कौतूहलं नः ॥ २१ ॥ दमयन्ती--( सप्रमोदमात्मगतम् ) (२) हियय ! मुंच कापेयं । भोदु दमयंतीयाए सहलं मणुयलोयावयरणं । नल:-(सभयमात्मगतम् ) कथमियं चिरयति ? किं विस्मृतवती स्वयमारा- मदत्तं सङ्केतम् ? उताहो स भगवान् विधिरकाण्डे निषधाधिपतौ कोपमुपगतवान् । वसुदत्तः-(उच्चैःस्वरम् ) उन्मीलद्दलशतपत्रपत्रलाक्षि ! क्ष्मापालं नलमधिगम्य कामरूपम् । सप्रीतिस्मरतनुगोचराणि तूर्ण लोकानां सफलय नेत्रकौतुकानि ॥ २२ ॥ कपिञ्जला-(३) देवि ! किं अन्ज वि विलंबीयदि ? दमयन्ती—(स्मित्वा ) ( ४ ) कपिञ्जले ! जं तुम भणसि तं करेमि । वरमालामादाय नलस्य कण्ठे विन्यस्यति ) ( १) अहो ! मनोहरताऽऽकृत्याः ! अहह ! चङ्गताऽङ्गसंनिवेशानाम् ! कटरि सुभगत्वम् ! कटरि विलासवैदग्ध्यम् ! (२) हृदय ! मुञ्च कापेयम् । भवतु दमयन्त्याः सफलं मनुजलोकावतरणम् । ( ३ ) देवि ! किमद्यापि विलम्ब्यने ? (४) कपिञ्जले ! यत् त्वं भणसि, तत् करोमि ।

५४ नलविलास सर्वे-( सहर्षमुच्चैःश्वरम् ) अहो ! सुवृत्तं सुवृत्तम् । नल:-( सहर्षरोमाञ्चमात्मगतम् ) अद्याभूद् भगवान् विरश्चिरुचितव्यासङ्गनिष्णातधी- देवस्याद्य मनोभवस्य फलवान् कोदण्डयोग्यक्लमः । चन्द्रोद्यानवसन्तदक्षिणमरुन्माल्यादिकस्यात् कामोत्सेधविधायिनोऽद्य सफलो भूगोलचारश्चिरात् ॥ २३॥ ( प्रकाशं जनान्तिकम ) कलहंस ! मकरिके ! फलितः स एष वां प्रयासः । कलहंसः-देव ! नावयोः प्रयासः फलितः, किन्तु देवस्य स्वमः । नल:--समभूदिदानी स्वमार्थप्रत्याशा । ( नेपथ्ये ) हहो राजलोकाः ! प्रवर्त्यतां कौतुकविधिः, प्रतिरुध्यतां कोलाहलः, अवधी- यतां झल्लरीझात्कारः। राजा-(ससम्भ्रमम् ) माधवसेन ! नीयतां सवरा वत्सा देवी । ( नलदमयन्त्यौ सपरिकरे माधवसेनेन समं निष्क्रान्ते ) (नेपथ्ये) बन्दी-- विन्यस्याभिनवोदये श्रियमयं राज्ञि प्रतापोज्झितो द्यूतस्य व्यसनीव धूसरकरः सन्त्रुत्यदाशास्थितिः । निद्रायद्दललोचनां कमलिनी सन्त्यज्य मध्येवनं क्रामत्यम्बरखण्डमात्रविभवो देशान्तरं गोपतिः ॥२४॥ वसुदत्तः-( विमृश्य सविषादम् ) देव ! भ्रष्टराज्यस्य स्ववधू परित्यज्य वरस्य देशान्तरगमनमावेदयति सन्ध्यासमयवर्णनव्याजेन मागधः । राजा--शान्तं शान्तं स्वस्ति स्तात् । प्रतिहतजगत्रयदुरिततान्तिः सकलदे- वताधिचक्रवर्ती देवः श्रीशान्तिः शिवतातिरस्तु वधूवरस्य । अमात्यः-कृतमनिष्टशङ्कया । एहि विवाहकृत्यानि चिन्तयितुं व्रजामः । ( इति निष्क्रान्ताः सर्वे ।। चतुर्थोऽङ्कः॥ १ ख. ग. चिन्तया।

15173 पञ्चमोऽङ्कः। ( ततः प्रविशति कलहंसः ) कलहंसः-( सविषादम् ) अहो ! विकटस्य संसारनाटकस्य परस्परविरुद्ध- रससमावेशवरस्यम् ! शृङ्गाराद्भुतरसीनस्यन्दसुन्दरः क नाम स स्वयंवरविवाहमहो- त्सवाडम्बरः, क चैष परमकरुणरसप्रावीण्यप्रणयपिच्छिलो दुरोदरप्रवर्तितो दमय- न्तीमात्रपरिकरस्य देवस्य निषधाधिपतेः प्रवासवैशसोपप्लवः ! अहह ! किमिदमनार्यो- चितं कर्म समाचरितमिन्दुकुलकृतावतारेणापि देवेन ! अपि खलु पामरप्रकृतयोऽपि दुरोदरकर्मणो दुर्विपाकमाकलयन्ति, किं पुनः सर्वकर्माणबुद्धिर्देवो निषधाधि- पतिः। यदि वा-- कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो विभ्यतो- ऽप्यश्लाघ्यं पुरुषस्य दैववशतस्तत् किञ्चिदुज्जम्भते । माहात्म्यं विभवः कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्यकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥ १ ॥ न चैतदनात्मनीनमेव कर्म समाचरितं देवेन, किमुतासर्वजनीनम् । न नाम सैहिकेयोपरागे सवितैव केवलं क्लाम्यति, किन्तु तदधीनाशेषव्यवहारविशेषमखिल- मपि काश्यपीवलयम् । किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो घूतकर्मनिवा- रणाय प्रवृत्तः सकलराज्यदमयन्तीपणेन दीव्यता देवेन समावधीरितस्तदपि न सतां चेतश्चमत्कारकारि । यतः-- तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पथ्यतया विभाति । यावत् पुराकृतमकर्म न सर्वपर्व- प्रत्यूहकारि परिपाकमुपैति जन्तोः ॥२॥ अपि च-- स्फुरन्त्युपायाः शान्त्यर्थमनुकूले विधातरि । प्रतिकूले पुनर्यान्ति तेऽप्युपाया अपायताम् ॥ ३ ॥ १ क. द्यतनि० नलविलास सर्वथा विधिरेवात्र कर्मण्यलङ्कीणतामगमत् । अथवा दुरोदरचातुरीवि- निषधाधिपति विजेतुं कथमलम्भूष्णुरेप कूवरः ? खलु कृत्वाऽतीतशोचनम् । क एकः किल विधिविलसितविपाको मीमांस्यते । श्रुतं च मया यथा खरमुख-मकरिके अपि पुरीपरिसरारामवर्तिनो दमयन्तीसचिवस्य देवस्याग्तिकमधितिष्ठतः । तदहमपि गच्छामि । ( इति परिक्रामति । विलोक्य ) किमयं देवः क्षोणपत्यपथ्यपथिकनेपथ्यपङ्कि- लस्तिलकतरुतले निविष्टस्तिष्ठति ? ( मात्रम् ) कथमहमेतस्य दुरवस्थापातिनः स्वामिनः स्वमास्यं दर्शयामि ? तदित एव स्थानात् प्रतिनिवर्ते । यदि वां प्रवसन्तं स्वामिन- मालप्य पावकप्रवेशेन निरन्तरभक्तिसमुचितमाचरामि । (ततः प्रविशति राजा, दमयन्त्याद्रिकश्च परिवारः ) राजा--( सावष्टम्भम् ) देवि ! मा रोदीः प्रशस्तलक्षणा भवती । न खलु ते पतिरभूत्वा भूपतिर्विश्राम्यति । व्यसनोपपातश्चायमनागतायाः सम्पदः पदम् । उभयाभिमुख्यभाजां सम्पत्त्यर्थं विपत्तयः पुंसाम् । ज्वलितानले प्रपातः कनकस्य हि तेजसो वृद्धये ॥ ४ ॥ ( दमयन्ती मन्दं मन्दं रोदिति ) विदूषकः-( विलोक्य ) ( १ ) भट्टा ! कलहंसो पणमदि । राजा--( सखेदम् ) खरमुख ! भर्नेति पदमन्यत्र सङ्क्रान्तम् , तदिदानी नले- त्येवमामन्त्रणपदमहामि । प्रणमतीत्यप्यवस्थाविरुद्धमनुच्चारणीयम् । कलहंसः समाया- तोऽस्तीत्येवमेव रमणीयम् । ( कलहंसः प्रणम्य सास्रमधोमुखस्तिष्ठति ) राजा--( कलहंसं प्रति ) मा विषीद कृतं वाष्पैः फलं मर्षय कर्मणाम् । सत्यं विषाद-शोकाभ्यां न देवं परिवर्तते ॥ ५ ॥ कलहंस:--( वाप्पमवधूय ) देव ! सुमहान् मानभङ्गः कृतः कूबरेण । राजा-(साक्षेपम् ) न कूबरेण कृतः किन्तु वेधसा । अहंयूनामहङ्कारं वारिदानां समुन्नतिम् । विना विधिमृते वातं हन्तुं को नाम कर्मठः ? ॥ ६॥ ( १ ) भर्तः ! कलहंसः प्रणमति । १ क. सावक्षेपं ।

पञ्चमोऽङ्कः। ५७ कलहंसः-(प्रणम्य ) अनुयानाय मामनुजानातु देवो विदूषकमपि । गजा-देवीमपि मुमुक्षुरहं परमियमबलाऽऽग्रहेण मामनुगच्छति । अपि च सर्वस्वपणेन मां कूबरो जितवान् । ततः पथि पथिकवृत्त्यैव गन्तुमुचितम् । तदनु- जानीताम्मान् देशान्तरगमनाय । श्लथयत स्नेहबन्धम् । कुरुत निर्दयं हृदयम् । न क्षमामहे राज्यभ्रंशधूसरं परिचितपौराणामास्यं दयितुम् । व्रजामः कामप्येकां दिशम् । ( अग्रतः कृत्वा ) देवि ! दुर्विषहवातशीतातपक्लेशकारीणि प्रान्तराणि । राज्यभ्रंशेन विगतपरिच्छदवाहना वयम् । न शक्ष्यति भवती क्रमितुमशिक्षितपादचारा करालव्यालशैलसङ्कटासु वनभूमिषु । तद् विधेहि मे वचनमवलम्बस्व दीर्घदर्शिता- मिहैव कूबरान्तिके तिष्ठ पितृगृहं वा व्रज । ( सर्वे तारस्वरं रुदन्ति ) किमेतेन प्राकृत- प्रकृतिसब्रह्मचारिणा चेष्टितेन ? ननु धैर्यमवलम्ब्य समयोचितमाचरत । दमयन्ती--(१) अजउत्त ! अहं इध जेव चिहिस्सं । पाणा उण अज्जउत्तेण समं आगमिस्संति । कलहंस:-(प्रणम्य ) अनुव्रजतु देवी देवम् । राजा-अनुव्रजतु नाम परं परमक्लेशमनुभविष्यति । दमयन्ती-(२) जं मोदि तं भोदु, अहं दाव आगमिस्सं । राजा--कलहंस ! मर्षयितव्यं यदस्माभिः प्राभवान्धैः किमप्यपराद्धम् । वयस्य खरमुख ! सर्वदा क्रीडासचिवोऽसि नः । ततस्त्वयाऽस्माकमुपहासादिकं सोढ- व्यम् । मकरिके ! त्वदीयस्य दमयन्तीघटनाप्रयासस्य तदीदृशमवसानमभूत् । दमयन्ती-(३) पियसहि मयरिए ! कुंडिणं गडूय अंबाए तादस्स प एस पवासवुत्तंतो विनवेयन्यो । ( १ ) आर्यपुत्र ! अहामिहेव स्थास्यामि । प्राणाः पुनरार्यपुत्रेण सममागांमप्यन्ति । (२) यद् भवति तद् भवतु, अहं तावदागमिष्यामि । ( ३ ) प्रियसखि मकरिके ! कुण्डिनं गत्वाऽम्बायाः तातस्य चैष प्रवासवृत्तान्तो विज्ञपयितव्यः ।

नविलास मकरिका-( सास्त्रम् ) (१ ) भट्टिणि ! न सकेमि अत्तणो मुहं दंसिद्, ता कुंडिणं न गमिस्सं । दमयन्ती-(२) अन्ज खरमुह ! सहि मयरिए ! अहं तुज्झेहिं सुमरि- दव्वा ( कलहंसं प्रति ) महाभाय ! अणुजाणाहि मं वणयरिं भवितुं । ( सर्व मन्दं रुदन्ति ) राजा-देवि ! अतिकालो भवति । प्रयतस्व देशान्तरगमनाय । दमयन्ती-(सरभसमुत्थाय ) (३) एसम्हि पगुणीभूदा । राजा-( कलहंसादीन् प्रति ) अनुजानीत मां सुकृतं दुष्कृतं वाऽनुभवितुम् । ( सर्वे सायं प्रणम्य निष्क्रान्ताः ) देवि ! कमध्वानमनुतिष्ठामि ? दमयन्ती-(४) विदग्भाणुजाइणं । राजा-इत इतो देवी । ( उभौ परिक्रामतः ) दमयन्ती-( साम्वं विचिन्त्य ) ( ५ ) अजउत्त ! पुवचिंतिदं 'पिच्छ कह सव्वं पि अन्नहा जायं ! राजा-देवि ! अर्वाग्दृष्टितया लोको यथेच्छं वाञ्छति प्रियम् । भाग्यापेक्षी विधिदत्ते तेन चिन्तितमन्यथा ॥ ७ ॥ ( १ ) भत्रि ! न शक्नोम्यात्मनो मुखं दर्शयितुम्, तत् कुण्डिनं न गमिप्यामि। ( २ ) आर्य खरमुख ! सखि मकरिके ! अहं युष्माभिः स्मर्तव्या । महाभाग ! अनुजानीहि मां वनचरी भवितुम् । ( ३ ) एषाऽस्मि प्रगुणीभूता। ( ४ ) विदर्भानुयायिनम् । ( ५ ) आर्यपुत्र ! पूर्वचिन्तितं पश्य कथं सर्वमप्यन्यथा जातम् ! १क, कम० । २ ख. ग. पिच्छमहं पञ्चमोऽङ्कः। . अपि च देवि ! मा स्म विषीद सर्वमपि शुभोदकं भविष्यति । अस्तमयति पुनरुदयति पुनरस्तमुपैति पुनरुदेत्यर्कः । विपदोऽपि सम्पदोऽपि च सततं न स्थास्नवः प्रायः ॥ ८ ॥ दमयन्ती-(परिक्रय, सखेदम् ) ( १ ) अज्जउत्त ! परिस्संतम्हि ता खणं वीममिस्सं । ( राजा सबाप्पं स्वेदाम्भः प्रमृज्य सिचयाञ्चलेन वीजयति ) ( निःश्वस्य ) (२) अजउत्त ! कित्तियं अज्ज गंतव्वं ? राजा-यावद् देवि ! समाक्रमितुमलम् । ( दमयन्ती सखेदमुत्थाय परिक्रामति ) ( स्वगतम ) विनोदयाम्यस्याश्चेतः कान्ताररामणीयकोपवर्णनेन येनेयं चरण- चक्रमणखेदं न वेदयति । ( प्रकाशम् ) देवि ! पश्य पश्य- एते निर्झरझात्कृतैस्तुमुलितप्रस्थोदराः क्ष्माधराः किञ्चैते फलपुष्पपल्लवभरैर्ध्वस्तातपाः पादपाः । चक्रोऽप्येष वधूमुखार्द्धदलितवृत्तिं विधत्ते घिसैः कान्तां मन्द्ररुतस्तथैष परितः पारापतो नृत्यति ॥९॥ दमयन्ती-(३) अजउत्त! सुहावत्थाणमेदे कोदूहलकारिणो, दुहाव- स्थाणं उण विसेसदो संतावकारिणो । राजा-सत्यमाह देवी। सुस्थे हृदि सुधासिक्तं दुःस्थे विषमयं जगत् । वस्तु रम्यमरम्यं वा मनःसङ्कल्पतस्ततः ॥ १० ॥ ( १ ) आर्यपुत्र ! परिश्रान्तास्मि ततः क्षणं विश्रमिष्यामि । ( २ ) आर्यपुत्र ! कियदय गन्तव्यम् ? ( ३ ) आर्यपुत्र ! सुखावस्थानामेते कौतूहलकारिणः, दुःखावस्थानां पुनर्विशेषतः सन्तापकारिणः । १ ख. ग, यतोयं । २ क. कांतामंतस्त० । ३ ख. ग. दुहायत्थाणं ।

६० नलविलासे ) दमयन्ती-(१) अजउत्त ! परिस्समेण तिसिदम्हि । राजा-देवि ! उदन्या त्वां बाधते । कोऽत्र भोः ? अये ! सुरभिशीतल- जलकरकमुपनयत ( अवलोक्य ) कथं न कोऽप्यग्रतः पार्श्वतोऽपि न कश्चित् ! दमयन्ती-( मात्रम् ) (२) अजउत्त ! किं प्रेदं! राजा--( मलजम ) देवि ! पूर्वसंस्कारो मां विप्लवयति । ( दमयन्ती मन्दं मन्दं रोदिति ) देवि ! अहमिदानीं ते पतिश्च पदातिश्च । तद् यावत् कुतोऽपि शीतमम्भः समानयामि तावत् तिलकतरुतले तिष्ठ । ( दमयन्ती तथा करोति ) ( परिक्रम्य सखेदाश्चर्यम् ) क तद् भ्रूविक्षेपक्षिपितनृपतिक्ष्मापतिपदं क चावस्था सेयं मृगमिथुनलीलायितवती ! न यो वाचः पात्रं भवति न दृशोनापि मनस- स्तमप्यर्थं पुंसां हतविधिरकाण्डे घटयति ॥ ११ ॥ भवतु, विलोकयामि क्वचिदपि पयः । ( विलोक्य ससम्भ्रमम् ) कथं तापसाश्रम इव ! ( सम्यगवलोक्य ) कथं तापसः सदृशस्तस्य लम्बोदरनाम्नः कापालिनः । यदि वा नासौ सः । अयं खलु कुब्जः खञ्जश्व । ( ततः प्रविशति तापसः ) तापसः--निर्विष्णोऽस्मि मार्गविलोकनेन । परमद्यापि न स दुरात्मा समा- याति । अवश्यानुष्ठेयश्च गुरोरादेशः। तदितः सरःसेतौ स्थित्वा प्रतिपालयामि । ( साशङ्कम् ) ध्रुवमसौ प्रामुपलक्षयेत् । भवतु, वेषान्तरेण सञ्चरे । ( विलोक्य ) कथं प्राप्तः पापीयान) सा दुर्विनीता क ? । भवतु पुरो ज्ञास्यामि । ( अभिमुखमुपसृत्य ) स्वागमतिथये। . ? ( १ ) आर्यपुत्र ! परिश्रमेण तृषिताऽस्मि ( २ ) आर्यपुत्र ! किं न्वेतत् ! १ क. वां । २ ख. ग. कपा० । ३ क. अथवा ।

पञ्चमोऽङ्कः ? राजा--नमो मुनये। तापसः--भद्राणि पश्य । ( अपवार्य विपरीतलक्षणया ) महाभाग ! वपुर्लक्षण- विसंवादिनी ते दशा । तत् कथय कोऽसि ? कथं दुःस्थावस्थः ? राजा-(सवीडम् .) मुने ! भूपतिचरोऽस्मि । तापसः-( सादरमिव ) तर्हि सुतरामतिथयः स्थ । तदावेदय किमातिथेय- मनुतिष्ठामि ? राजा-बहुदृश्वानस्तपस्विनस्तत् कथयत विदर्भपथाभिज्ञानानि । एतदेव नः साम्प्रतमातिथेयम् । तापस:--किं तत्र वः ? राजा-श्वशुरकुलं तत्र नः। तापसः-तत्र वः सधर्मचारिणी ? राजा-अत्र नः सधर्मचारिणी । तापसः- ( सविचिकित्समिव ) स्त्रीसङ्गनिगडितो भवान् नाहः कामचारस्य । अपि च राज्यभ्रंशः स्त्रीसङ्गश्चेति महती व्यसनपरम्परा । राजा-(स्वगतम् ) सत्यमाह तापसः । भुजमात्रपरिच्छदैर्यत्रैव तत्रैव यथैव तथैव स्वैरमास्यते । स्त्रीवद्धानां कुतः कामचारः ? तापसः-अनुचितं गृहस्थकृत्यचिन्तनं तपस्विनः । तथापि साप्तपदीनसौहा- दोपहतहृदयो महाभागं किमप्यनुशास्मि । राजा--अनुगृह्णातु महात्मा । तापस:-भ्रष्टराज्यस्य भवतः श्वशुरकुलगमनमपत्रपावहं मे त्रपाकारि प्रति- भाति । त्वमप्यधिमनसमालोचय यद्ययमर्थः समर्थः प्रदर्शयितुमौनितीम् । राजा--( म्वगतम् ) इदमप्यस्य वचनं तथ्यं पश्यं च । तदानीं स्वयंवरे तथा चमूचक्रेण गत्वा पुनरिदानी दमयन्तीमात्रपरिच्छदः कुण्डिनं प्रविशंस्तत्रत्यपौरजना- नामपि हास्यपात्रं भविष्यामि । तदियमेवैका देवी ज्ञातविदर्भपथाभिज्ञाना कुण्डिनमुप- सर्पतु । ( प्रकाशम् ) भगवन् ! सौहृदसदृशमनुशिष्टवानसि । १ ख ग. ०पद्रुत० । २ क. ०शासितास्मि । ३ ख, ग, ०मर्थः प्रवहितुः ।

नलविलासे तापसः ( सहर्षमात्मगतम् ) अनुष्ठितस्तावदेको गुरोरादेशः । परमितो द्वितीयमनुतिष्ठामि । ( ऊर्ध्वमवलोक्य प्रकाशं सभयम् ) कथं ललाटन्तपस्तपनः ? अतो वर्तते सन्ध्याविधिः । महाभाग ! अनुजानीहि मां मध्याह्नसन्ध्यासेवनाय । अयं चोत्तरेण पर्वतमकुटिलः कुण्डिनस्य पन्थाः ( इत्यभिधाय निप्फ्रान्तः ) राजा-अस्मात् सरसः कमलदलपुटकैः सलिलमाहरामि, स्वयं च पिबामि ( सखेदम ) धिग् मां व्यसनोपपातविस्मृतीचित्याचरणम् । अनुपशान्तपिपासायां देव्यां कथमहं पयस्यामि ? भवतु, जलमादाय तत्र गच्छामि । ( तथा कृत्वा परिक्रम्य ) कथमियं मयाऽपहातव्या । आः ! ज्ञातम् , निद्रायितां सन्त्यज्य व्रजामि । (विलोक्य) इयं देवी, देवि ! इदं वारि उपस्पृशतु देवी । ( दमयन्ती उपस्पृशति ) देवि ! अयं ते विदर्भेषु वजन्त्याः ( पुनः सशङ्कम् ) अयं पुनः सशङ्कम् ) अयं विदर्भेषु गच्छतामध्वनीनाम- कुटिलः पन्थाः। दमयन्ती-( सभयमात्मगतम् ) ( १ ) हा ! हदम्हि मंदभाइणी । किं मं परिच्चइदुकामो अजउत्तो, जं एवं जंपेदि ? अहवा पडिहदममंगलं । एयं खु पिवा- साखिन्नकंठस्स अजउत्तस्स वयणखलिदं । राजा-देवि ! यद्यपेतपरिश्रमा, तदा पुरः प्रचलितुं यतस्व । दमयन्ती–(२) अजउत्त ! निदायंति में लोयणाई, ता खणं इह जेव सइस्सं। राजा-(सहर्षमात्मगतम ) प्रियं नः ( प्रकाशम् ) देवि ! प्रश्रान्ताऽसि तद् विनोदय निद्रया क्षणं चङ्गमणश्रमम् , अहमपि निद्रास्यामि । दमयन्ती-( स्वगतम् ) (३) मा णाम में पसुत्तं परिचईय कयाइ गच्छे, ता अत्तणो चीवरेपा अजउत्तं परिवेढिय निदाएमि । ) ( १ ) हा ! हताऽस्मि मन्दभागिनी। किं मां परित्यक्तुकाम आर्यपुत्रो यदेवं जल्पति ? अथवा प्रतिहतममङ्गलम् । एतत् खलु पिपासाखिन्नकण्ठस्य आर्यपुत्रस्य वचनस्खलितम् । ( २ ) आर्यपुत्र ! निद्रायेते मे लोचने, ततः क्षणमिहैव शेष्ये । ( ३ ) मा नाम मां प्रसुप्तां परित्यज्य कदाचिद् गच्छेत्, तदात्मनश्चीवरेण आर्यपत्रं परिवेष्टय निद्रामि ।

पञ्चमोऽङ्कः।
!
तथा कृत्वा शयनं नाटयति )
राजा-(विलोक्य ) कथं चरणचमणगाढपरूढगात्रपरिश्रमेण क्षणा-
देव निद्राप्रकर्षमधिरूढा देवी'। तदारभ्यते चण्डालकुलालङ्करणं कर्म । ( उत्थातुमि-
च्छति । साशङ्कम् ) कथमिति निबिडमापीड्य मामियं विरहकातरा शेते । तपस्विनी
मामवधारयति मुखमधुरमवसानदारुणं कालकूटफलम् । सरले ! मुश्च मुश्च त्रिजग-
त्परितापावापहेतुः सर्वभक्षी नलरूपेणानलोऽस्मि । अपि च भर्तृवत्सले !
विश्वासघातिनमकृत्यकरं श्वपाकं
मा मां स्पृश श्लथय दोःपरिरम्भमुद्राम् ।
अस्मादृशामकरुणैकशिरोमणीनां
सर्वसहाऽपि विरमत्यनुपङ्गपापात् ॥ १२ ॥
( शनैर्दोःपरिरम्भमुन्मुच्य साशङ्कम् ) कथमम्वरेण परिवेष्टितोऽस्मि । ( विहस्य )
अयि यत्नपरे! किमीदृशैः प्रयत्नरुपरुध्यति क्रूरकर्मपटीयान् नलः ? यस्त्रिजगद्वन्धनेन
प्रेम्णा न बध्यते तस्य मृणालतन्तुपेशलमम्बरं किमादधीत? एष तरवारिणा च्छित्त्वा
गच्छामि । ( कृपाणं प्रति ) सखे ! दर्शय फलमात्मसन्निधानस्य । ( सरोषम् ) कथं
कृपालुरिव विलम्बसे? किञ्च नलस्यासिरसि दयालुश्चेति व्याहतं चरितम् । अपि च-
धनं प्रेमग्रन्थि सदयमपि चिच्छेद हृदयं
कृपा केयं ब्रूहि स्फुरति हृदि निस्त्रिंश ! भवतः ?
यदद्यापि च्छेत्तुं न सहसि विदर्भेन्द्रतनया-
नितम्बस्तम्बामणयिपरिधानांशुकमिदम् ॥ १३ ॥
आः ! ज्ञातम् , हस्तं सखायमपेक्षते । ( दक्षिणहस्तं प्रसार्य सरोषम् )
त्वया तावत् पाणिः प्रसभमुपगूढः परिणये
त्वमेवास्याः पीनस्तनजघनसौरभ्यसचिवः ।
ततश्छेत्तुं वासः कृशकृप ! कृपाणं कर ! धर्म-
खुटन्मर्मोत्सङ्गः कथमहह ! नोपैषि विलयम् ? ॥ १४ ॥
?
अपि च--
देवीनीविच्छिदालोल ! निर्दाक्षिण्यशिरोमणे !
सवाच्यः स विरिश्चोऽपि हस्त ! त्वां दक्षिणं सूजन् ॥१५॥

२ नलविलासे ( विमृश्य ) यदि वा द्यूतकारस्य न नामाकृत्यमस्ति ते । आः ! गृहाण कृपाणं हुँ हुँ विधेहि द्विधांशुकम् ॥ १६ ॥ ( अंशुकं द्विधाकृत्य शनैरुत्थाय भ्रातचूत ! वयस्य केसर ! सखे पुन्नाग ! यामो वयं मा स्मास्माकमनार्यकार्यपरतां जानीत यूयं हृदि । द्यूतेच्छा क च कूवरस्य निषधाभर्तुः क चार्जयो वैदर्भीत्यजनं क्व चैष निखिलः कल्पः प्रसादो विधेः॥ १७ ॥ भवतु, चरमं देवीवदनेन्दुविलोकनं कृत्वा व्रजामि । ( विलोक्य सास्रम् ) स्पृशति न मणिज्योत्स्नाच्छन्नं निशान्तजुषः पुरा मुचिरमनिलोऽप्यङ्ग यस्या नलादिव शङ्कितः । विगतशरणा क्षुत्क्षामाङ्गी पटच्चरधारिणी वनभुवि हहा ! सेयं शेते विदर्भपतिप्रसूः ॥ १८ ॥ हे देवि ! एष कर्मचण्डालो नलः प्रयाति । ( कतिचित् पदानि दत्त्वा सरोषमात्मानं प्रति ) आः क्षत्रियापसद ! पुरुषसारमेय ! भर्तृजाल्म । श्वपाकनायक ! कृपाविकल ! हतनल ! कथमिमामेकाकिनीमात्मैकशरणां सधर्मचारिणीमस्मिन् गहने वने सन्त्यज्य प्रचलितोऽसि ? भवतु, वनदेवताः शरणं कृत्वा व्रजामि । (प्रतिनिवृत्य दिशोऽवलोक्य ) कञ्चित् काननदेवताः ! शृणुत मे यस्या वपुः कल्पयन् जातः शिल्पिगणाग्रणीः कमलभूः सेयं विदर्भात्मजा । अस्याः कर्कशकर्मणा प्रियतमाभासेन निष्कारणं त्यक्तायाः शरणं स्थ मा स्म नलवन्निस्त्रिंशतां गच्छत ।। १९ ॥ ( पुनरञ्जलिं बद्धा) निद्राच्छेदे क दयित ! गतोऽसीति तारं वदन्ती विन्यस्यन्ती दिशि दिशि दृशं बाष्पकल्लोललोलाम् । देव्यः ! सर्वा वनवसतयो मातरः ! प्रार्थये व- स्तत् कर्तव्यं कलयति तथा कुण्डिनाध्वानमेषा ॥ २० ॥ ?

पञ्चमोऽङ्कः। ( नेपथ्ये ) ( १ ) अज्ज ! एदं शिशिलशलिलपूलिदं शलं, ता एहि सत्थवाहस्स गडय कहेमि । राजा--कथं पकणवासी कोऽप्यागच्छति ( साशङ्कम् ) यदि कथमप्येषा शबरस्यास्य कोलाहलेन निद्रामपजह्यात् तदा मामववध्नीयात् । तदू व्रजाम्यहम् । देवि ! नदानी चरममाभाष्यसे । वनदेवतास्ते शरणम् । एष पापिष्ठश्रेष्ठो निस्त्रिंशशि- रोमणिः परवञ्चनाचतुरः क्षत्रियापदेशेन ब्रह्मराक्षसः क्रूरकर्मा चाण्डालचक्रवर्ती नलः प्रयाति । ( इत्यभिधाय पूत्कुर्वन् निष्क्रान्तः ) ( ततः प्रविशति पुरुषः) पुरुषः-(२) अज! एदं शिशिलशलिलपूलिदं शलं । ता एहि सत्यवाहस्स कहेमि (परिक्रम्य विलोक्य च) कथं इथिका! अम्मो ! अदिलूविणी! हीमाणहे कधं अल्लणे एगागिणी ( सदयम् ) मा एदं केवि भुक्खाकलाले लक्खसे भिक्खसे रो खाए । ता उत्थावए हगे । अज्जे अज्जे ! उत्थेहि उत्थेहि ( सरोषम् ) कहं अइनिदाए मुदा विव न सुणेदि शदं ? भोदु, उप्पाडिय एवं अन्नत्थ नएमि । ( तथा कृत्वा निष्क्रान्तः ) ॥पञ्चमोऽङ्कः ॥ - ( १ ) आर्य ! एतत् शिशिरसलिलपूरितं सरः, तदेहि सार्थवाहाय : या कथयामि । ( २ ) आर्य ! एतत् शिशिरसलिलपूरितं सरः, तदेहि सार्थवाहाय कथयामि । कथं स्त्रीः ! अहो ! अतिरूपवती, हा ! कथमरण्ये एकाकिनी ? मैनां कोऽपि बुभुक्षाकरालो राक्षसो भक्षको वा खादयेत् (१)। तदुत्थापयाम्यहम् । आर्ये ! आर्ये ! उत्तिष्ठ उत्तिष्ठ। कथ- मतिनिद्रया मृतेव न शृणोति शब्दम् ? भवतु, उत्पाट्यैतामन्यत्र नयामि । १ क. रक्खोए। ९ पष्ठोऽङ्कः। ( ततः प्रविशति नल: ) नल:-( दमयन्तीमनुस्मृत्य सानुतापम् ) राज्यं हारितवानहं नहि नहि व्याधत्त सर्व विधि- देवी हाऽत्यजमस्मि तत्र विपिने यद्वा स्त्रियो बन्धनम् । तां पश्येयमहं वनेऽथ गहने तस्याः कुतः पाणितं हीम नो न दया दुरोदरकृतः का वा त्रपा का कृपा ? ॥१॥ ( पुनः सखदेम ) नास्मार्ष नयमस्मि नाधिमनसं प्रेमाणमाशिश्रियं नाकार्ष कुलमुज्ज्वलं हृदि कृपां पापो न वाऽजीगणम् । तां तस्मिन् गहने वने विरहयन् कर्माचरं दुर्जरं धिग् मां नाहमवेक्षणीयवदनो नार्हामि पङ्क्तिं सताम् ॥ २॥ अहह ! कथमनिमित्तशत्रुर्दुरात्माऽहमात्मैकशरणां तां तपस्विनीमपाकृतवान ! ( ऊर्ध्वमवलोक्य ) न प्रेम नाप्यभिजनं न गुणं न सेवा चित्ते दधत्युपकृति किल ये श्रयन्तः । किं दैव ! नैव निहता भवता हतास्ते गर्भस्थिताः प्रसवमात्रभृतोऽथ माः ॥ ३ ॥ (स्मृत्वा सचिन्तम् ) स्फुरति तिमिरे घूकत्राते ध्वनत्यतिभैरवं ककुभि ककुभि व्यालानीके विसर्पति सध्वनौ । चरममचलं याते पत्यो रुचां चकितेक्षणा शरणमधिकं भीरुर्देवी करिष्यति किं वने ? ॥४॥ ( विमृश्य ) तातनिषधेन भुजगरूपमास्थाय समयोचितमनुशिष्टोऽस्मि । इदमप्यतिरमणीय- माचरितं तातेन यन्पम रूपं विपयोसितम् । अनुपलक्षितरूपो हि सुखमेवाहमिदानीम- योध्याधिपतेरभ्यणे सूपकारादिकर्माण्यादधानः स्थास्यामि । ( साश्चर्यम् ) अहह ! पश्य १ ख. ग. निहिता।

षष्ठोऽङ्कः। कीदृशी सुरसमसमृद्धिरासादिता तातेन । सर्वथा भूर्भुवःस्वस्त्रयेऽपि नासाध्यमस्ति तपसाम् । ( सविषादम् ) अहो ! मे महान् प्रमादः । नन्वहं जीवलकेन महीपतेर्दधिपर्ण- स्याज्ञया विदर्भागतभरतैः प्रयुज्यमानं नाटकमवलोकितुमाकारितोऽस्मि । तद् व्रजामि त्वरितम् । अपि नाम नटेभ्यः कापि दमयन्तीप्रवृत्तिरपि लभ्येत । (परिक्रामति । नेपथ्यमालोक्य ) कथमयमिक्ष्वाकुकुलतिलको देवो दधिपर्णः सपर्णनाम्नाऽमात्येन सह जल्पनारते । जीवलकोऽप्यत्रैव तिष्ठति । भवतु, प्रणमामि । ( ततः प्रविशति यथानिर्दिष्टो राजा ) राजा--अमात्य ! पश्याकृतिविरुद्धमस्य बाहुकनाम्नो वैदेशिकस्य कलासु कौशलम् । किमेतस्य सर्वाङ्ग वक्रस्य तदिदमश्वलक्षणवैलक्षण्यम् , सोऽयं मूर्यपाक्कविधिः, सेयमपरास्वपि क्रियासु चातुरी सम्भवति । सपर्ण:-अस्मिन् नयनोद्वेगाञ्जने कलाकलापमावपन्नसंशयं विरचिन्तः । जीवलकः--देव ! बाहुकः प्रणमति । राजा--बाहुक ! इत आस्यताम् । ( नलः प्रणम्योपविशति ) ( स्मृत्वा ) किमंद्यापि चिरयन्ति रङ्गोपजीविनः ? जीवलकः--भो भरतपुत्राः ! प्रस्तूयतां नाट्यम् । ( प्रविश्य ) सूत्रधारः--नलान्वेषणनामप्रबन्धाभिनयावधानाय महाराजं दधिपर्ण- मभ्यर्थये नल:--( स्वगतम् ) कोऽयं नलः ? किमहमेव ? यदि वाऽपारे जगत्पारावारे न दुर्लभो नामसंवादः। राजा--एष सावधानोऽस्मि । ततः प्रस्तूयताम् । ( नेपथ्ये ) १) हा अज्जउत्त! परित्तायाहि मं, भायामि एगागिणी करालवाल- विहुरे रन्नकुहरे । ( १ ) हा आर्यपुत्र ! परित्रायस्व मां, बिभेमि एकाकिनी करालव्यालविधुरेऽरण्यकुहरे । , ६८ नलविलासे नलः-(स्वगतम् ) मयेव दुरात्मना केनाप्येकाकिनी गहने वने किं प्रिया परित्यक्ता? राजा-अमात्य ! प्रथमेऽपि नाट्यारम्भे कष्टमतिकरुणो रसः । ( नेपथ्ये) अये पिङ्गलक ! तामनुकूलय तपस्विनी येन सार्थवाहान्तिकं नयामः । सूत्रधारः--यदमी दमयन्ती-गन्धार-पिङ्गलकनेपथ्यधारिणो रङ्गोपजीविनः संरभन्ते, तज्जाने प्रवृत्तं नाट्यम् । तदहमपि कार्यान्तरमनुतिष्ठामि । ( अञ्जलिं बद्धा) जयति स पुरुषविशेषो नमोऽस्तु तस्मै त्रिधा त्रिसन्ध्यमपि । स्वप्मेऽपि येन दृष्टं नेष्टवियोगोद्भवं दुःखम् ॥ ५ ॥ ( इत्यभिधाय निष्क्रान्तः) (ततः प्रविशति दमयन्ती गन्धारः पिङ्गलकश्च ) गन्धारः--आर्ये! अलमतिप्रलपितेन । आगच्छाचलपुरयायिनो धनदेव- नाम्नः सार्थवाहस्याभ्यर्णम् । दमयन्ती--(१) अज्ज ! अत्तणो भत्तारं गवेसइस्सं । गन्धारः---आर्ये । कस्ते पतिः? नलः -- ( ससम्भ्रममात्मगतम् ) किमेषाऽभिधास्यति ? दमयन्ती-(२) निसढाहिवदी नलो । नल:-( स्वगतम् ) आः पाप ! नलहतक ! विलीयस्व । किमतः परं प्राणिषि ? ध्रुवमुपरता देवी । कथमपरथा नाट्येषु तत्प्रतिविम्बेन व्यवहारः । पिङ्गालकः- ( सरोषम् ) (३) शिशिले ! किं तेण कूलकम्मणा चंडा- लेण कलिस्ससि ? ता सत्थवाहपासं एहि । ? ( १ ) आर्य ! आत्मनो भर्तारं गवेषयिष्यामि । (२) निषधाधिपतिनलः। ( ३ ) शिशिरे ! किं तेन क्रूरकर्मणा चण्डालेन करिष्यसि ? तत्सार्थवाहपार्श्वमेहि ।

षष्ठोऽङ्कः। राजा-(सहर्षम् ) साधु भो भरत ! साधु ! स्वमेऽप्यदृश्यवदनोऽसौ येने- यमेकाकिनी परित्यक्ता। नलः--( सरोषमिव ) अस्पृश्योऽश्रोतव्योऽग्राह्यनामा चेत्यप्यभिधीयताम् । गन्धारः-तर्हि गवेषय कापि । दमयन्ती-(१) एदस्सि सरे मह निमित्तं ससिलमाणेदुं गदो भवि- स्सदि । ता इत्थ गवेसिस्सं । गन्धारः-बाले ! मूढाऽसि । यस्त्वां सुप्तामपजहाति, स किं त्वन्निमित्त- मम्भः समानयति ? दमयन्ती-(२) अध मा एवं भण । अहं पाणेहितो वि अजउत्तस्स पियदरा । राजा-परित्यागेनाप्यमुना निवेदितं त्वयि भर्तुः प्रेम । दमयन्ती-(परिक्रम्य ) (३) कथं एदं सरो, न उण अजउत्तो दीसदि । भोदु, एदं चक्कवायघरणिं पुच्छामि । सहि ! चकवायदइए ! दइयं किं मह न साहसे सहसा ? पियविरहियाण दुक्खं पञ्चक्खं तुज्झमणुनिचं ॥ ६॥ राजा-उचितमुक्तवती । अनुभूतं न यद् येन रूपं नावैति तस्य सः । न स्वतन्त्रो,व्यथां वेत्ति परतन्त्रस्य देहिनः ॥ ७ ॥ दमयन्ती--(विमृश्य ) (४) पियपणयगन्विदा ण पडिवयणं पडि- च्छदि । ( सरोषम् ) हंजे रहंगिए ! केरिसो दे एस पियपणयदप्पो ? १) एतस्मिन् सरसि मम निमित्तं सलिलमानेतुं गतो भविष्यति। तदत्र गवेषयिष्यामि। ( २ ) अथ मैवं भण । अहं प्राणेभ्योऽपि आर्यपुत्रस्य प्रियतरा ( ३) कथमेतत् सरो न पुनरार्यपुत्रो दृश्यते ? भवतु एता चक्रवाकर हिणीं पृच्छामि । सखि चक्रवाकदायते ! दयितं किं मम न कथयसि सहसा ? प्रियविरहितानां दुःखं प्रत्यक्षं तवानुनित्यम् ॥ ( ४ ) प्रियप्रणयगर्विता न प्रतिवचनं प्रतीच्छति । सखि स्थाङ्गि ! कीदृशस्त एष प्रियप्रणयदर्पः ?

७० नलविलासे अहं पि पुरवं ईदिस यासं । संपदं जेव अणाहा जादा । गन्धारः-( सास्रम् ) आर्ये ! किमषा तिरश्ची वराकी जानाति ? दमयन्ती--(१) ता अन्नत्थ पुच्छिस्सं । ( विलोक्य संस्कृतमाश्रित्य च ) मातः कुञ्जरपत्नि ! तात हरिण ! भ्रातः शिखण्डिन् ! कृपा कृत्वा ब्रूत मनाक् प्रसीदत कृतो युष्माकमेषोऽञ्जलिः । दृष्टः कापि गवेषयनिह वने भीमात्मजा नैषधो भूपालः सरणिं सृजन्नविरलैर्वाष्पोर्मिभिः पङ्किलाम् ॥ ८ ॥ पिङ्गलकः-(२) अजे ! कीस उणं तेण पदिणा तुमं पडिचत्ता सि ? दमयन्ती-( मबाप्पम् ) ( ३ ) अज्ज ! दोसं न याणामि । अप्पा समप्पिओ पढमदंसणे वणमिणं च सह चलिया । सुवणेमि पई अन्नं न महेमि तहा वि परिचत्ता ॥९॥ अहवा पडिहदममङ्गलं । नाहं अज्जउत्तेण परिचत्ता, किं तु मह दुक्ख- विणोयणत्थं परिहासो कदो। (पुनराकाशे) (४) एगागिणी अहं भीलुगा य निम्माणुसं व वणमिणमो । ता एहि एहि पिययम ! अलाहि परिहासकीलाए ॥१०॥ अहमपि पूर्वमीदृश्यासम् । साम्प्रतमेवानाथा जाता। (१) तदन्यत्र प्रक्ष्यामि । २ ) आर्ये ! किं पुनस्तेन पत्या त्वं परित्यक्ताऽसि ? ३ ) आर्य ! दोषं न जाने । आत्मा समर्पितः प्रथमदर्शने वनमिदं च सह चलिता । स्वप्नेऽपि पतिमन्यं न काङ्गामि तथापि परित्यक्ता ॥ ९ ॥ अथवा प्रतिहतममङ्गलम् । नाहमार्यपुत्रेण परित्यक्ता, किन्तु मम दुःखविनोदनार्थ परिहासः कृतः । ( ४ ) एकाकिन्यहं भीरुका च निर्मानुषं च वनमिदम् । तदेहि एहि प्रियतम ! अलं परिहासक्रीडया ॥ १० ॥ , १ग. चेव ।

षष्ठाऽङ्कः। ( प्रतिरवमाकर्ण्य आकाशे) (१) किं मं वाहरसि ? एस आगच्छामि । ( सरभसं धावति ) गन्धारः-( सवाप्पम् ) आर्ये ! प्रतिश्रुतिरियम् । दमयन्ती-( सपदि स्थित्वा ) (२) अज्ज ! एसा पडंसुया ? गन्धारः-एषा प्रतिश्रुत् । दमयन्ती-(३) (स्वप्रतिच्छायामालोक्य, सहासमुच्चैःस्वरम् ) दिहिया दिहिया अज्जउत्त! दिट्टो सि दिहो सि कहिं दाणिं गच्छसि ? ( पुनः सरभसं धावित्वा ससीत्कारं च स्थित्वा गन्धारं प्रति सबाप्पम ) अज्ज ! दम्भंकुरेहिं विद्धो मे चलणो । ता अवणेहि एदो अहवा चिढ सयं ज्जेव अवणिसं । नाहं परपुरिसं फुसेमि । राजा-( सरभसमुत्थाय ) भगवति ! पतिव्रते ! नमस्ते । जीवलकः-देव ! किमिदम् ? सिंहासनमलङ्क्रियताम् । ननु कूटनटघटनेयम्। ( राजा सत्रीडमुपविशति ) नल:-( सदुःखमात्मगतम् ) श्रुते ! बाधिर्य त्वं कलय विभृतां किञ्च नयने ! युवामन्धीभावं द्रुतमनगदङ्कारविषयम् । शृणोम्यस्यास्तारं न रुदितमहं येन तदिदं न वा पश्याम्येतां विरहहरिणीं हारिललिताम् ॥ ११ ॥ गन्धार:-(सबाप्पम् ) अस्याः क्षोणि ! विधेर्वशादभिनवां संशिक्षयन्त्यास्त्वयि भ्रान्ति किं चरणौ चिरादतिखरैर्दाकुरैविध्यसि ? व्यापत्तौ वनितासु कर्तुमुचितस्ते पक्षपातः स्त्रियाः पारुष्यं पुरुषः स नाम विभृतां क्षोणीपतिनैषधः ॥ १२ ॥ ( १ ) किं मां व्याहरसि ? एष आगच्छामि । ( २ ) आर्य ! एषा प्रतिश्रुतिः? ( ३ ) दिष्टया ! दिष्टया ! आर्यपुत्र ! दृष्टोऽसि दृष्टोऽसि, कुत्रेदानी गच्छसि ? आर्य ! दर्भाङ्करैर्विद्धो मे चरणः । तदपनयेतोऽथवा तिष्ठ, स्वयमेवापनेप्यामि । नाहं पर- पुरुषं स्पृशामि। १ ख, ग. गच्छिसि।

७२ नलविलास सपर्णः-( मरोपमुत्थाय ) आः ! शैलूपापसद ! .येनेयं पतिव्रता गहने वने निनिमित्तमग्राद्यनाम्ना चण्डालेन परित्यक्ता, तमपि पापीयांसं क्षोणीपतिमभिदधासि ? राजा-अमात्य ! स्वस्थो भव, नाटकमिदम् ।' ( मपर्णः सलज्जमुपविशति ) नल:-( राजानं प्रति ) एनामरण्यभुवि मुक्तवतोऽपि दोपो- न्मेपो नलस्य न मनागपि किन्तु नेपाम् । राजा-(सभयम् ) येऽस्या एतामवस्थामवलोकयन्ति ? नल:-नहि नहि यैरेष कल्मपमयो न कृतस्तदानी- मेवाग्निसादपनयैर्हतलोकपालैः ॥ १३ ॥ राजा-(सरोपम् ) बाहुक ! वृथा भगवतो लोकपालानुपालम्भसे। ननु नलं पश्यन्तोऽपि पापेनोपलिप्यन्ते लोकपालाः, किं पुनर्व्यापादयन्तः ? पिङ्गलकः-(मास्त्रम् ) ( १ ) अज्जे ! न य से पाविढे तुह पदी, किं पुण एसा पडिच्छाया। दमयन्ती-(२) अज्ज ! एसा मम • ज्जेव पडिच्छाया, न उण अज्जउत्तो ? ता किं सच्चकं जेव परिचत्तम्हि ? आत्मानमवलोक्य सखेदम ). मुक्ताहार ! विहारमातनु ननु स्वैरं कचित् साम्प्रतं पुष्पापीड ! किमद्य पीडयसि मे सीमन्तसीमाङ्गणम् ? मञ्जीराणि ! रणन्ति किं श्रवणयोः पुष्णीथ दुःस्थां व्यथा ? त्यक्ता तेन यदर्थमर्थितवती युष्मासु मैत्रीमहम् ॥ १४ ॥ राजा-( सरभसमुत्थाय ) पतिव्रते ! पतिव्रते ! विशरारूणि प्रायेण शरीरि- प्रेमाणि । विशेषतस्तव तस्य भर्तुरकुलीनस्य । तदलममुना गवेषितेन । अस्माक- मभ्यर्णमुपैहि । इतः प्रभृति नस्तत्रभवती देवता वा माता वा सुता वा । ( १ ) आर्ये ! न च स पापिष्ठस्तव पतिः, किं पुनरेषा प्रतिच्छाया । ( २ ) आर्य ! एषा ममैव प्रतिच्छाया न पुनरार्यपुत्रः ? तत् किं सत्यमेव परित्यक्तास्मि?

षष्ठोऽङ्कः। ७३ ? सपर्णः-देव ! कोऽयं व्यामोहः? ननु विज्ञप्तं मया देवाय नटबिभीषिकेयम्। सिंहासनालङ्करणेन प्रसादः क्रियताम् । ( राजा सविलक्षमुपविशति ) नलः-( सखेदमात्मगतम् ) मातः ! प्रसीद वसुधे ! विहितोऽञ्जलिस्ते पातालभूलपथिकं विवरं प्रयच्छ । आशीलताशतघनेषु फणीन्द्रवत्र- कोणाश्रमेषु ननु येन भवामि शान्तः ॥ १५ ॥ दमयन्ती-( किञ्चित् परिक्रम्य ) (१) कथं मज्झण्हो वट्टदि ? न सकमि दिणेसरतावसंतावेण परिक्कमिदं । ( ऊर्ध्वमवलोक्य सबाप्पम् ) हा देव दिणेसर ! किं दहेसि किरणेहिं देहदहणेहिं ? जइ सो निसढाहिवई अदयमणो किं तुहं पि तहा ? ॥ १६ ॥ राजा-( सरभसं दमयन्ती प्रति ) आः स्त्रीरत्न ! पतिव्रते ! शठमतेः क्रूरस्य दुष्टात्मनः पत्युस्तस्य पुनः पुनः सकलुषां मा मा गृहाणाभिधाम् । तन्नामश्रवणाद् वयं च निखिला पर्षच्च सेयं नटा- चैतेऽसौ ननु बाहुकश्च महता पापेन संलिप्यते ॥ १७ ॥ नल:-( सरोषम् ) किमिदमपरिज्ञातमुच्यते देवेन । क्रूरचक्रवर्ती नलोऽस्मि, योऽहमकाण्डे देवीमेकाकिनी गहने वने निर्लजः सन्त्यजामि । तस्य महत्यपि पाप्मनि का किलाशङ्का ? राजा-(ससम्भ्रमम् ) कस्त्वमसि ? ( १ ) कथं मध्याह्नो वर्तते ? न शक्नोमि दिनेश्वरतापसन्तापेन परिक्रमितुम् । हा देव दिनेश्वर ! किं दहसि किरणैदेहदहनैः ? यदि स निषधाधिपतिरदयमनाः किं त्वमपि तथा ? ॥ १६ ॥ ? १० नलविलास नलः (स्वगतम् ) कथं विषादमूर्छालेन मयाऽऽत्मा प्रकाशितः ! भवत. (प्रकाशम् ) बाहुकम्पकारोऽस्मि । राजा--तत् किं नलोऽस्मीत्युक्तवानसि ? नल:-किमहं नलोऽस्मीत्युक्तवानुतानुक्तमपि नाट्यरसाकुलितचेता देव एव- मशृणोत् इति सन्देहः। राजा-ध्रुवमहमस्मि भ्रान्तः । अपरथा क स 'महाराजनिषधस्यापत्यं दर्शनीयरूपो नलः, क भवान् सर्वाङ्गविकृताकृतिः ! नल:-(ऊर्ध्वमवलोक्य स्वगतम ) कल्पान्तकल्पमुपकल्प्य महो दिनेश ! मां भस्मसात् कुरुतरामचिराय पापम् । विश्वासघातजनितेन न चेदनेन पापेन हन्त ! नियतं परिगृह्यसे त्वम् ॥ १८ ॥ पिङ्गलकः-(१) अज्जे ! जादि दिणेशलकिलणेहिं आदिचिलं संताविदा सि, ता एदम्मि सहयालनिकुंजे पविश । गन्धारः--(पुरो भूत्वा ) इत इत आर्या । ( सर्वे परिकामन्ति ) ( विलोक्य सभयं निवृत्त्य च ) आर्ये ! निवर्तस्व निवर्तस्व । चिरप्ररूढगाढबुभु- साक्षामकुक्षिः प्रतिनादमेदुरेण क्ष्वेडानिनादेन समन्ततः शोषयन् वन्यस्तम्बेरमाणां मदजलानि करालजिह्वाजटालवत्रकुहरस्तरुणगुजापुजारुणेक्षणः प्रतिक्षणं लोल- लाङ्गुलदण्डेन साटोपमाच्छोटयन्नवनिपीठमेकः केशरिकिशोरः सहकारनिकुञ्जाभ्यन्त- रमधिवसति । दमयन्ती-(२) अज्ज ! मझे केसरी चिट्ठदि ? दिद्विया करिस्सदि मे दुक्खमोक्खं । ( १ ) आर्ये ! यदि दिनेश्वरकिरणैरतिचिरं सन्तापिताऽसि, तदेतस्मिन् सहकारनिकुञ्ज AMAN प्रविश । ( २ ) आर्य ! मध्ये केसरी तिष्ठति ? दिष्टया करिष्यति मे दुःखमोक्षम् ।

षष्ठोऽक्षः। ७५ - ( पिङ्गलको विलोक्य सभयं नश्यति ) दमयन्ती-(१) भोदु, उवसप्पामि णं । नलः– ( विलोक्य ससम्भ्रममात्मगतम ) कथं देवीं पश्चाननो व्यापादयितु- मपक्रान्तः ! हा ! हतोऽस्मि । ( विमृश्य ) वीराग्रणीः खल्वसौ तदमुं सामप्रयोगेण वारयामि । ( सरभसमुत्थाय ) एकाकिन्यवला वियोगविधुरा घोरान्तरपान्तर- क्षोणीपादविहारनिष्ठितवपुस्त्वग्मांसरक्तस्थितिः । अस्यां कालकरालवत्रकुहरे प्रस्थापितायां हरे ! किं शौर्य भवतोऽतिशायि भविता को वा बुभुक्षाक्षयः १ ॥१९॥ ( विलोक्य ) कथं साम्ना न विरमति ? भवतु दानप्रयोगं दर्शयामि । अथ तीव्रक्षुधा सत्यमौचित्यमतिवर्तते । मुश्चैनां तर्हि मां भुझ्व पतितोऽस्मि तथा(वा)ऽग्रतः॥२०॥ ( इति रङ्गभूमौ पतितुमिच्छति ) राजा-अलमलमतिसम्भ्रमेण । बाहुक ! ननु नाव्यमिदम् । नलः-( सलज्जमात्मगतम् ) किमिदं मया शोकव्याकुलेन व्यवसितम् ! भवतु । (प्रकाशम् ) देव ! करुणारसातिरेकेण विस्मारितोऽस्मि । दमयन्ती-( उपसृत्य कण्ठीरवं प्रति ) मा वा प्रीणय नैषधस्य नृपतेः काश्चित् प्रवृत्तिं दिश- नात्मानं यदि वा दिवाकरकरैभृष्टेन देहेन मे । द्वावप्यद्य पथाविमौ मम मनःप्रीत्यै ततस्ते प्रियं यत् पुष्णात्यचिरात् तदाचर हरे ! मा स्माभिशङ्कां कृथाः ॥२१॥ ( विलोक्य ) (२) कथं एस परम्मुहो जादो? न किंपि पांडेवयणं परच्छदि। राजा-बाहुक ! ध्रुवमयं मृगारिरेतस्याः पतिव्रताव्रतप्रभावेण प्रतिहतः। ( १ ) भवतु, उपसर्पाम्येनम् । ( २ ) कथमेष पराङ्मुखो जातो ? न किमपि प्रतिवचनं प्रयच्छति ।

७६ नलविलासे नल:-( स्वगतम् ) दिष्टया स्वयमेव प्रतिनिवृत्तरिष्टम् । तदहमतः परमुत्थाय नाट्यं निवारयामि । येन मे पुनर्देवीविनिपातदर्शनं न भवति । ( ससंरम्भमुत्थाय साक्षेपम् ) अपारे कान्तारे व्यसनशतकीर्णे प्रतिदिशं. कियत्कृत्वः सत्त्वं स्फुरति भृशमस्याः फलति च । नटा ! नाट्यं हंहो ! तदिह खलु कृत्वोपरमत यतो द्रष्टुं स्त्रीणां वधविधिमयोग्याः क्षितिभुजः ॥२२॥ सपर्णः- ( विहस्य ) बाहुक ! किमिदं पुनः पुनरात्मनो विस्मरणम् । कथं नाट्यमपि साक्षात् प्रतिपद्यसे? तद् यथास्थानमुपविश । दमयन्ती-(१) कथं एदिणा वि न मे दुक्खमोक्खो कदो ! ता एयम्मि सहयारे अत्ताणं उब्बंधिय वावाएमि । (दिशोऽवलोक्य ) हा अजउत्त ! एसा तए निकारणनिकरुणेण परिच्चत्ता असरणा दमयन्ती विवजदि । अंबाओ वणदे- वयाओ ! कधिह अन्जउत्तस्स एदं मह वि (व) वसिदं। हा ! अंब पुप्फवदीए ! हा! ताय भीमरह ! कहिं सि ? देहि मे पडिवयणं । ( लतापाशं कण्ठे बध्नाति ) राजा-(सरभसमुत्थाय ) भगवति पतिव्रते ! अलमात्मनो विघातेन । सपर्णः–वाले ! किमिदमकृत्याचरणम् ? जीवलकः-आर्ये ! नार्हसि नवे वयसि दुरात्मनः स्वपतेनिमित्तमकाण्डे प्राणान् परित्यक्तुम् । नलः-( ससम्भ्रममुच्चैःस्वरम् ) देवि देवि ! अलमलमतिसाहसेन । नार्हसि मामात्मनो वधेन दुरात्मानं कलङ्कयितुम् । अपि च निस्त्रिंशस्य निर्मादस्य पापीयसः पत्याभासस्य मम कृते वृथा सतीचक्रावतंसमात्मानं व्यापादयसि । गन्धारः-(विलोक्य सभयसम्भ्रमम् ) अये पिङ्गल ! पिङ्गल! छिन्द्धि छिन्द्धि पाशमस्या यावदियमद्यापि श्वसिति । ( १ ) कथमेतेनापि न मे दुःखमोक्षः कृतः ! तदेतस्मिन् सहकार आत्मानमुद्दध्य व्यापादयामि । हा ! आर्यपुत्र ! एषा त्वया निष्कारणनिष्करुणेन परित्यक्ताऽशरणा दमयन्ती विपद्यते । अम्बा वनदेवताः ! कथयतार्यपुत्रायैतन्मम व्यवसितम् । हा ! अम्ब पुष्पवति ! हा ! तात भीमरथ ! कुत्रासि ? देहि मे प्रतिवचनम् ।

षष्ठोऽङ्कः। ७७ ( पिङ्गलकः सरभसं धावित्वा लतापाशं छिनत्ति । दमयन्ती मूर्छिता पतति ) पिङ्गल ! ध्रुवमियमपश्यन्ती प्रियं कापि विपत्स्यते । तदिदानीमुत्पाट्य सार्थवाहाय समर्पयावः । ( तथा कृत्वा निष्क्रान्तौ ) गर्भाङ्कः॥ ! राजा-परां काष्ठामधिरूढवान् करुणो रसः । सपर्णः-देव ! रसप्राणो नाट्यविधिः। वर्णीर्थवन्धवैदग्धीवासितान्तःकरणा ये पुनरभिनयेष्वपि प्रबन्धेषु रसमपजहति विद्वांस एव ते न कवयः । न तथा वृत्तचित्री श्लाघ्या नाट्ये यथा रसः। विपाककम्रमप्याम्रमुटेजयति नीरसम् ॥ २३ ॥ राजा-(स्मृत्वा ) बाहुक ! 'देवि ! नाहमात्मनो विघातेन कलङ्कयितव्यः' इत्यभिदधानो नल इव लक्ष्यसे । तत् कथय परमार्थं समर्थय नः प्रार्थनाम् । कस्त्व- मसि ? किमर्थं च दुःस्थावस्थः ? ( प्रविश्य ) प्रतीहारः-देव ! विदर्भाधिपतिप्रेषितो भद्राभिधानः पुरुषो द्वारि वर्तते । राजा-( ससम्भ्रमम् ) शीघ्रं प्रवेशय । प्रतीहारः--यदादिशति देवः ( इत्यपिधाय निष्क्रान्तः । प्रविश्य भद्रः प्रणमति ) राजा--भद्र ! किमर्थं भवत्प्रेपणेनास्मान् विदर्भाधिपतिः पवित्रितवान् ? भद्रः-महाराज ! भीमरथस्य प्राणेभ्योऽपि प्रिया पुत्री समस्ति । नल:-( ससम्भ्रमम् ) सा खलु दमयन्ती । भद्रः-ततस्तस्याः प्रातः स्वयंवरविधि विदर्भाधिपतिर्विध गति । नलः-(स्वगतम् ) अहो ! धर्मविप्लवः । ( पुनः सरोपम् ) आः ! कृतान्त- कटाक्षितो मयि प्राणति दमयन्ती कः परिणेष्यति ? राजा-ततः किम् ? भद्रः-तथा कथञ्चन प्रयतितव्यं यथा श्वः स्वयंवरमण्डपमयोध्याधिपतिर- लडूरोति ।

नलविलासे राजा-भद्र ! शतयोजनप्रमाणमध्वानं किमेकयैव त्रियामया वयं लयितुम- लम्भूष्णवः ? नलः--(स्वगतम ) अहं तत्र गत्वा धर्मविप्लवं निवारयामि । ( प्रकाशम् ) देव ! मा भैपीः, अहं ते सर्व समञ्जसमाधास्यामि । राजा--भद्र ! ' एते वयमागता एव ' इति निवेदय विदाधिपतेः । भद्रः-यथादिशति देवः ( इत्यभिधाय निष्क्रान्तः ) राजा--(उर्ध्वमवलोक्य ) कथमस्तं गतो गभस्तीनामधिपतिः? कथारसास्वादो. पहतचेतोभिरस्माभिः सन्ध्याविधिरप्यतिलतिः । ( नेपथ्ये ) प्रविशन्ती कैरविणीं सन्ध्यारागानले विरहदुःखात् । कुवलयपतिरयमेष प्रतिषेद्धमिवोर्ध्वकर एति ॥ २४ ॥ राजा-कथमेप बन्दी चन्द्रोदयं पठति ? अमात्य ! त्वं स्वं नियोगमशून्यं कुरु । वयमपि सकलदेवताधिचक्रवर्तिनो भगवतो नाभिनन्दनस्य सन्ध्यासपर्याविधि- मनुष्ठातुं प्रतिष्ठामहे । ( इति निष्क्रान्ताः सर्वे ) ॥ षष्ठोऽङ्कः॥

सप्तमोऽङ्कः। (ततः प्रविशति रथेन राजा बाहुकश्च ) राजा-बाहुक ! प्रभातपाया त्रियामिनी । सहस्रांशोर्धाम्नां दिशि दिशि तमोगर्भितमिदं कुलायेभ्यो व्योम्नि व्रजति कृतनादं खगकुलम् । दवीयस्तामेतान्यपि जहति युग्मानि शनकै रथाङ्गानामस्यां सपदि वरदायास्तटभुवि ॥ १॥ अपि च यथा पुरः प्राकारनगरागारसन्निवेशाः समुन्मीलन्ति तथा जाने प्राप्तः पताकी कुण्डिनस्य परिसरम् । नलः-(स्वगतम् ) अहो ! दिव्यस्य तेजसः सोऽप्यपूर्वः प्रभावः । स्मरणम- त्राभिमन्त्रितमात्रोऽपि तातस्तथा कथञ्चन वाजिनोधिष्ठितवान् यथा जवेन पवनमपि पराजयन्ते । ( सहर्षम् ) चिरादद्य देवी द्रक्ष्यामीति हर्षप्रकर्षेण पुलककोरकितगा- त्रोऽस्मि । (पुनः सविषादम् ) यदि वा- त्यक्ता यद् विपिने वनेचरघने निद्रालुरेकाकिनी तत् त्यक्त्वापि न जीवितं रहितवानस्मि प्रियप्राणितः । एतेनाद्भुतकीर्तिमुन्नमयता विस्फूर्जितेनोर्जितं वक्र दर्शयितुं श्वपाकचरितस्तस्याः कथं स्यां सहः ? ॥२॥ - अपि च- अपकृत्योपकार्येषु ये भवन्त्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं विधेर्वार्धकविक्रिया ॥ ३ ॥ राजा-बाहुक ! कचिदपि प्रदेशे पताकिनं विधृत्य मार्गश्रममपनयामः । नल:-( विलोक्य साशङ्कम् ) देव ! किमिदं स्वयंवरविधिविरु द्रमतिकरुण- मालोक्यते ? तथाहि- आक्रन्दः श्रुतिदुर्भगः प्रतिदिशं बाष्पागण्डस्थलो लोकः सर्वत एष वेषघटना पौरेषु शोकोन्मुखी । १ ख. ग. त्रियामा।

to नलविलासे विश्रान्ताखिलगीतवाद्यविधयः सङ्गीतशालाभुवो वार्ताक्षिप्तजनस्य पुञ्जिभिरितः पर्याकुला वीथयः ॥ ४ ॥ राजा-( विलोक्य ) बाहुक ! यथाऽयं मन्दमन्दरुदितः ससंरम्भमितस्ततः परिधावति पौरलोकस्तथा जाने सम्प्रत्येव कोऽपि विपत्स्यते । इतः प्रारभ्यन्ते निचितचितयः पश्य भृतक प्रयाति प्रत्याशं विषमतमतूर्यध्वनिरितः । द्विजन्मानोऽप्येते निधनधनविच्छेदचकिताः ससंरम्भं धावन्त्यपरिचितशूकास्तत इतः ॥ ५ ॥ नलः-देव ! एतं दृद्धब्राह्मणं पृच्छामि । ( ततः प्रविशति गृहीतयष्टिर्गमनाकुलचेता वृद्धो ब्राह्मणः ) ( उपसृत्योच्चैःस्वरम् ) आर्याय ! ब्राह्मणः-नियोजयतु यजमानः । नल:-वैदेशिकत्वादनभिज्ञोऽस्मि वृत्तान्तस्य, तत् कथय किमिदमति- तरां करुणम् ? बाह्मणः-महाभाग ! किं कथयामि मन्दभाग्यः ? अकाण्डक्रोधसंरुद्धचेतसा वेधसा सर्वसंहारः प्रारब्धोऽद्य विदर्भपतिकुटुम्बस्य । राजा-कथमिव ? ब्राह्मणः-प्राणेभ्योऽपि प्रिया विदर्भभतुरेकैव पुत्री । नल:-( स्वगतम् ) तत् किं देवी विपन्ना ? अतः परमपि विधिर्विकारं किं किमपि दर्शयिष्यति ? (प्रकाशम् ) तत् किं तस्याः ? ब्राह्मणः--अद्य प्रातरेकेन केनापि वैदेशिकेन राजकुले तत् किमपि प्रका- शितं येन सा चितामधिरोढुमध्यवसिता । पश्य पुरः पुरस्यादवीयसि देशे निकषा सहकारतरुखण्डं तस्याश्चितिर्वतते । अपरास्वप्येतासु तिसषु तस्या एव परिकरलोकः प्रवेक्ष्यति । तदनुजानीहि मां प्राणात्ययसमयप्रवर्त्यमानदानप्रतिग्रहणार्थमुपगन्तुम् । राजा-( सविचिकित्समात्मगतम् ) अहो ! सर्वातिशायी द्विजन्मनां निसर्गसिद्धो लोभातिरेको यदयमन्त्येऽपि वयसि वृथा वृद्धो निधनधनप्रतिग्रहान्न विरमति । नलः-जस्व सिद्धयै । ?

सप्तमाऽङ्कः। ८१ बाह्मणः-स्वस्ति महाभागाय ( इत्यभिधाय मन्दं मन्दं निष्क्रान्तः ) गजा--बाहुक! विप्रलब्धाः केनापि वयं स्वयंवरसमाह्वानेन । तद् यावत् कोऽ- प्यस्मानुपलक्षयति तावदित एव स्थानान्निवर्तय पताकिनम् । नलः-देव ! क्षणनस्मिन्नेव स्थाने श्रमोऽतिवाह्यताम्, यावदहमग्रतो गत्वा सम्यग् निर्णयामि । ( राजा तथा करोति ) ( परिक्रम्य विलोक्य ) कथमियं देवी प्राणपरित्यागसमयोचितनेपथ्या चिताभ्यणे कपिजलया सह वर्तते ! अयमपि कलहंसोऽसावपि खरमुख इयमपि मकारिका । ततः प्रविशन्ति यथानिर्दिष्टाः सर्वे ) दमयन्ती-(सास्त्रम्) (१) कपिजले ! पज्जालेहि जलणं जेण मे दुक्खमो- क्खं करेदि । कपिञ्जला-(२) भट्टिणि ! विलंबेहिं विलंबेहि कित्तियाई पि दियहाई, जाव भट्टा सव्वं सुद्धिं लहेदि । न हु पहियजणसंकहाओ अवितहाओ हवंति । दमयन्ती-(३) कपिञ्जले ! अलाहि विलंवेण । न हु एवं असुदपुव्वं वत्तं सुणीय पाणे धरेंदुं सकेमि । अवि य न हवंति अलियाओ असुहसंसिणीओ वत्ताओ। नलः-(स्वगतम् ) का पुनरशुभशंसिनी वार्ता ? भवतु पृच्छामि । ( उपसृत्य दमयन्ती प्रति ) आर्ये ! किमर्थं त्रैलोक्याद्भुतभूतरूपसम्पत्तिपावनं वपुरात्मनो वहावाहु- तीक्रियते ? विरम विरमास्मादध्यवसायात् । दमयन्ती--(४) वेदेसिग ! न संपदं अवसरो नियचरिदकहणस्स । ता जदि दे दाणेण इच्छा ता गिण्ह, आदु अन्नदो वच्च । ( १ ) कपिञ्जले ! प्रज्वालय ज्वलनं येन मे दुःखमोक्षं करोति । ( २ ) भत्रि ! विलम्बस्व विलम्बस्व कियतोऽपि दिवसान् यावद् भर्ती शुद्धिं लभेत । न खलु पथिकजनसङ्कथा अवितथा भवन्ति । ( ३ ) कपिजले ! अलं विलम्बेन । न खल्वेतदश्रुतपूर्व वृत्तं श्रुत्वा प्राणान् धार- यितुं शक्नोमि । अपि च न भवन्त्यलीका अशुभशंसिन्यो वार्ताः । ( ४ ) वैदेशिक ! न साम्प्रतमवसरो निजचरितकथनस्य । तद् यदि से दाने- नेच्छा तद् गृहाणाथवाऽन्यतो व्रज । ? ) ११ नलविलास कलहंसः- ( उपसृत्य ) वैदशिक ! शृणु वह्निप्रवेशनिमित्तम् । नलं रन्तुं चेतस्तरलमनलं वाऽस्य विरहे सतीभावो यस्यामथ च जगतां विश्रुनतमः । इयं सा क्षीराक्षी तदपि निषधक्षोणिपतिना विना दोपोन्मेपादधिवनमपास्ता कथमपि ॥ ६॥ नल:-आः ! कथमद्य प्रातरेव चण्डालचरितस्य तस्य पापीयसो निषधाभ- तुरभिधानं त्वया स्मारितोऽस्मि ! दमयन्ती-( मरोपमात्मगतम ) (१) को एस दुम्मुहो अजउत्तं निंददि ? ( प्रकाशम् ) वइदेसिग ! नाहमरण्णे पइणा परिचत्ता, किन्तु सयं मग्गदो परिभट्ठा । कपिञ्जला-(२) पहिय ! जं कलहंसो कहेदि तं सच्चं । कलहंसः-निपधाधिपतिरिदानी विपन्न इति श्रूयते । तत इयं देवी चिता- मधिरोहति । नल:-बाले ! यस्त्वामेकाकिनीमनिमित्तमरण्ये त्यजति तदर्थमेतत् त्रिलोकी- लोचनोत्सवो वपुरग्निसात् क्रियत इति न मे मनसि समीचीनमाभाति । अपि च मुग्धे ! किं पावकदग्धैः स एव प्रियः प्राप्यते ? तैस्तैः शुभैरशुभैर्वा कर्मभिभिन्नवर्तिनीसञ्च- रिष्णवः सर्वे जन्तवः । कलहंसः ::--पान्थ ! 'नायं तस्यैव प्रियस्य प्रात्यर्थ न च धर्मार्थ प्रयत्नः, किन्तु क्षत्रियाचारानुचारार्थ प्रियाप्रियनिवृत्त्यर्थं च । नलः-(स्वगतम् ) अहो ! कौतुकम् ! एतामहमरण्ये व्यालानां वलिं कृत- वान् । इयं पुनर्ममाप्रियनिवृत्त्यर्थ प्राणान् परित्यजति । स्वमेकः पररक्षार्थ विनिहन्ति विपत्तिः । स्वरक्षार्थ परं त्वन्यश्चित्रं चित्रा मनोगतिः ॥ ७ ॥ दमयन्ती-(३) कपिञ्जले ! उवणेहि हुयासणं जेण चिदं पज्जालेमि । ( १ ) क एप दुर्मुख आर्यपुत्रं निन्दति ? वैदेशिक ! नाहमरण्ये पत्या परित्यक्ता, किन्तु स्वयं मार्गतः परिभ्रष्टा । २) पथिक ! यत् कलहंसः कथयति तत् सत्यम् । ३ ) कपिञ्जले ! उपनय हुताशनं येन चितां प्रज्वालयामि । १ख, ग, चरणा सप्तमोऽङ्कः। कपिजला-(१.) भट्टिणि ! अहं वि हुयासणमणुसरिस्सं । दमयन्ती-(२) कपिञ्जले ! मा एवं भण । तए अंबा संधारियव्वा । कपिजला-(३) भट्टिणी पुप्फवदी वि तुह मग्गं अणुसरिदु- मिच्छदि, परं भट्टा वारेदि । दमयन्ती-(४) संतं संतं पडिहदममंगलं ! णं अंबा तायवुटुत्तणे वलणसुम्मूसिणी भविस्सदि । कपिञ्जला-(५) भट्टा वि तुह दुक्खेण थोवजीविदो संभावीयादि । नलः- ( स्वगतम् ) उपस्थितः सर्वसंहारस्तदतः परं नामि गोपयितुमात्मा- नम् । ( प्रकाशम् ) वाले ! यदि ते पतिः कुतोऽपि सन्निधीयते, तदा निवर्तसे साह- सादस्मात् ? दमयन्ती-(६) पहिय ! किं मं उवहसेसि ? नत्थि मे इत्तियाई भाग- धेयाई, जेहिं पुणो वि अजउत्तं पिच्छामि । कपिंजले ! उवणेहि जलणं । ( कपिञ्जला ज्वलनमुपनयति । दमयन्ती चितां प्रज्वालयति ) कलहंसः--देवि ! प्रथममहमात्मानं भस्मसात् करोमि । खरमुखः-(७) नहि नहि अहं पढमं । मकरिका-(८) चिटुंदु सव्वे वि, पढमं अहं चिदाए पविसिस्सं । न सकमि तुम्हाण मरणं पिच्छिदं । ( १ ) भत्रि ! अहमपि हुताशनमनुसरिप्यामि । (२) कपिञ्जले ! मैवं भण । त्वयाऽम्बा सन्धारयितव्या । ( ३ ) भर्ती पुप्पवत्यपि तव मार्गमनुमरितुमिच्छति, परं भर्ता वारयति । ( ४ ) शान्तं शान्तं प्रतिहतममङ्गलम् । नन्वम्बा तातवार्धक्ये चरणशुश्रूषिणी भविष्यति । ( ५ ) भर्तापि तव दुःखेन स्तोकजीवितः सम्भाव्यते । ( ६ ) पथिक ! किं मामुपहमसि? न मन्ति ममैतावन्ति भागधेयानि, यैः पुनरप्यार्यपुत्रं पश्यामि । कपिञ्जले ! उपनय ज्वलनम । (७) नहि नहि अहं प्रथमम् । ( ८ ) तिष्ठन्तु सर्वेऽपि, प्रथममहं चितां प्रवेक्ष्यामि । न शक्नोमि युप्माकं मरणं द्रष्टुम् ।

नलविलास नलः--(स्वगतम् ) उक्तं भुजगरूपधारिणा तातून 'यदि ते स्वरूपेण प्रयोजनं भवति तदा मामनुस्मरेः । ( पटं प्रावृत्य स्मरणं नाटयति । पुनरात्मानं विलोक्य ) कथं नल एवास्मि जातः। दमयन्ती-(१) भयवं हुयासण ! नमो दे । भयवंतो लोकपाला ! कधेहिं एदं मह चरिदं परलोगगयस्स अजउत्तस्स । ( नेपथ्ये ) हा वत्से ! क मामेकाकिनं चरमे वयसि परित्यज्य प्रयासि ? (२) हा हरिणनयणे ! मयंकवयणे ! सिरीससोमाले ! वत्से ! कि अत्तणो मरणेण भीम- रहं मारेसि ? दमयन्ती-(आकर्ण्य) ( ३) नूणं मं वारिदुं तादो अंबा य समागच्छदि, ता लहुं पविसेमि । ( चितां प्रदक्षिणीकृत्याधिरोदुमिच्छति ) नल:--( ससम्भ्रमं वाही गृहीत्वा ) येनाकस्मात् कठिनमनसा भीषणायां कराल- व्यालानां त्वं वनभुवि हतेनातिथेयीकृतासि । निर्लज्जात्मा विकलकरुणो विश्वविश्वस्तघाती पत्याभासः सरलहृदये ! देवि ! सोऽयं नलोऽस्मि ॥ ८ ॥ ( दमयन्ती प्रत्यभिज्ञाय परिरभ्य चोच्चैःम्वरं रोदिति । कलहंसादयः सर्वे प्रणम्य रुदन्ति ) न प्रेम रंचितं चित्ते न चाचारः सतां स्मृतः । त्यजता त्वां वने देवि ! मयाँ दारुणमाहितम् ॥ ९ ॥ ( १ ) भगवन् हुताशन ! नमस्ते । भगवन्तो लोकपालाः ! कथयतैतन्मम चरितं परलोकगतायार्यपुत्राय । ( २ ) हा ! हरिणनयने ! मृगाङ्कवढ़ने ! शिरीषसुकुमारे ! वत्से ! किमात्मनो मरणेन भीमरथं मारयसि ? ( ३ ) नूनं मां वारयितुं तातोऽम्बा च समागच्छति, तल्लघु प्रविशामि । , १ ख. ग. भुजंग० । २ ख. ग. विहि० । ३ ख. ग. महा० ।

सप्तमोऽङ्कः। यस्तवापि प्रेम्णा न प्रसाद्यते, सोऽहं सर्वथा खलु खलप्रकृतिरस्मि । न प्रेम नौषधं नाज्ञा न सेवा न गुणो न धीः । न कुलं न बलं न श्रीदुर्जनस्य प्रशान्तये ॥ १० ॥ किश्व- छिन्नेषु रावणे तुष्टः शम्भुर्दशसु मूर्द्धसु । शतेऽपि शिरसां छिन्ने दुर्जनस्तु न तुष्यति ॥ ११ ॥ कलहंसः-किमिदं विषादमूर्छालेनानौचित्यपिच्छलं विपठ्यते देवेन । न खलु सतामग्रणीनिषधाधिपतिः प्रलयेऽपि खलो भवितुमर्हति । नल:-देव्या अपि दाक्षिण्यमधिमनसमनादधानः कथं नास्मि खलः ? परसम्पत्समुत्कर्षद्वेषो दाक्षिण्यहीनता । द्वयमेतत् खलत्वस्य प्रथमं प्राणितं स्मृतम् ॥ १२ ॥ अलं कृत्वा वा दुष्टचरितस्मरणम् । कथय तावत् केनेदममङ्गलमावेदितम् ? कलहंसः-देव ! एकेन वैदेशिकेन भस्मकनाम्ना खञ्जकुण्टेन मुनिना । नलः- (सरोपम् ) तं दुरात्मानमिहानयत । (ततः प्रविशति नियन्त्रितभुजस्तापसः ) ( प्रत्यभिज्ञाय साक्षेपम् ) आः पाप ! स एवासि येनाहमरण्ये प्रतार्य देवीं सन्त्याजितः। तापसः-नाहमरण्ये जगाम, न च त्वां प्रतारयामास । नल:-(सरोपम् ) अरे ! अपसर्प कर्णेजप! आयून! ब्रह्मराक्षस ! अतिजाल्म ! अन्नदावानल ! साम्प्रतमपि मां प्रतारयसि ? ताडयत भोः ! दुरात्मानमेनं कशाभिः । ( प्रविश्य कशापाणयस्तापसं ताडयन्ति ) तापसः - ( साक्रन्दमुच्चैःस्वरम ) मा मा ताडयत, सत्यमावेदयामि । नल:--आवेदय । तापसः- लम्बोदर एवाहम् । मया विदर्भनिर्वासितः कूबरान्तिकं घोरघोणो नीतः। घोरघोणेनैव कपटकैतवं कूवरोऽध्यापितस्ततस्त्वं पराजितः । घोरघोणोपदेशेन च मया त्वमरण्ये दमयन्ती त्याजितः । इहागत्य त्वन्मरणप्रवादः कृतः ।

नलविलासे नलः-( सरोपम ) अये ! शूलामेनं दुरात्मानमारोपयन्तु । यदि वा तिष्ठतु, घोरघोणेन सहायं व्यापादयिष्यते । कलहंसः-देव ! दृष्टो दुरोदरविनोदविपाकः ? नल:- तुभ्यं शपे परमतो विरतोऽस्मि [ तस्माल .] तस्माद् दुरोदरविनोदकलङ्कपङ्कात् । यस्मात् प्रवृत्तमतिशायि विषादसाद- दैन्यापमानघटनापटु नाट्यमेतत् ॥ १३ ॥ देवि ! कथय तावन्मया त्यक्ता सती बने किमनुभूतवत्यसि ? दमयन्ती-( १ ) जं मए रन्ने अणुभूदं तं लदापाशच्छेदपेरंतादो नाडयादो अजउत्तेण दिटुं । अणंतरं सत्थवाहेण अयलउरे रिउवनस्स पासे अहं नीदा । नल:--ततस्ततः। दमयन्ती--(२) तदो कमेण इध समागदाए मए सुणिदं जधा-'दधि- वनस्स मूवगारो मुरियवागं करेदि ।' तदो मए चिंतियं 'अजउत्तं विणा न अन्नो मूरियवागविजं जाणादि ।' अणंतरं अजउत्तपरिक्वणत्थं नाडयं काऊण कलहंस- खरमुह-मयरियाओ पेसिदाओ। नल:-कलहंस ! कथय कथं त्वमत्रायातोऽसि ? कलहंसः---देवीमेकाकिनी विदर्भेषु समागतामाकर्ण्य खरमुख-मकरिकाभ्यां सहाहमिहायातोऽस्मि । दमयन्ती -( ३ ) पच्छा अन्ज उत्तस्स इहागमणत्थं अलियं सयंवरपवाद कठ्य पुरिसो पएसिदो। ( १ ) यन्मयाऽरण्येऽनुभूतं तलतापाशच्छेदपर्यन्तान्नाटकाद् आर्यपुत्रेण दृष्टम् । अनन्तरं सार्थवाहेनाचलपुर ऋतुपर्णम्य पार्थेऽहं नीता । ( २ ) ततः क्रमेणात्र समागतया मया श्रुतं यथा- दृधिपर्णस्य सूपकारः सूर्यपाकं करोति'। ततो मया चिन्तितम् - आर्यपुत्रं विना नान्यः सूर्यपाकविद्यां जानाति ' । अनन्तरमार्य- पुत्रपरीक्षणार्थ नाटकं कृत्वा कलहंस-खरमुख-मकरिकाः प्रेषिताः । ( ३ ) पश्चादार्यपुत्रस्येहागमनार्थमलीक म्वयंवरप्रवादं कृत्वा पुरुषः प्रेषितः ।

सप्तमाः। ८७ ! नल:-दवि ! क्षमस्व मया निनिमित्तमपाकृतासि । दमयन्ती--(१) मह निमित्तं घोरघोणेन इदिसमवत्थं णं अजउत्तो लभिदो । ता अहं अजउत्तम्स अवराहिणी, न उणो मह अजउत्तो । कलहंसः---साधु देवि ! साधु पतिव्रतानामेष एवं वाग्विभवः । देवोऽपि देवीमपहाय किमनुभूतवान् ? नल:--देवीमपहाय क्रमेणाहम् ' एहि महापुरुष ! त्रायस्व माम् ' इति प्रतिमु- हुाहग्न्तं दवानलज्वालाजटालवपुपमेकमाशीविपमद्राक्षम् । सर्वे--( सकौतुकम् ) ततस्ततः । नल:---ततः स दवानलाऋष्टो मां दष्टा विकृतरूपं कृतवान । देवतारूपं च विधाय ' सोऽहं तव पिता महाराजनिपधस्त्वत्कृपया समागतवान ' इति व्याहरत् । दमयन्ती--(२) तदो। नल:-'मा भैपीरतः परं द्वादशसु वर्षेषु पुनः प्रियादर्शनं ते भविष्यति' इत्यभिधाय तावत् तिरोऽभूत् । ततोऽहं क्रमेण म्पकारवृत्त्या दधिपर्णाभ्यणे स्थितवान् । ( नेपथ्ये ) प्रवर्त्यन्तां मङ्गलानि, प्रसाध्यन्तां मौक्तिकस्वस्तिकैः प्राङ्गणभुवः, प्रवर्त्यन्तां सङ्गीत- कानि । ननु मनोरथानामप्यभूपिवत्सायाः प्रिया प्रियप्राप्तिरभूत् । कलहंसः- ( समम्भ्रमम् ) कथं विदर्भाधिपतिरितोऽभ्यति ? ( ततः प्रविशति पुप्पवत्या सह राजा भीमरथः । सर्वे ससम्भ्रममुत्थाय प्रणमन्ति ) राजा---( नलं प्रति ) ' यो दमयन्ती परिणेष्यति तस्याहं राज्यभ्रंशं करि- प्यामि ' इति स्वप्रतिज्ञा घोरघोणेन समर्थिता । घोरघोणः पुनः किल कलचुरिपतेर्दम- यन्तीपरिणयनमामिलापुकस्य चित्रसेनस्य मेपमुखनामा प्रणिधिः । अयमपि घोरघो- णशिष्यो लम्बोदरश्चित्रसेनस्यैव कोष्ठकाभिधानश्चर एव । कलहंसः- देव ! निषधाधिपते ! तेऽमी चित्रसेन- गेपमुख-काएकाः, यान मत्तमयूरोद्यानस्थितिर्देवो लेखे दृष्टवान् । ( १ ) मम निमित्तं बोरघोणेन ईदृशीमवम्यां नन्वार्यपुत्रो लम्भितः। तदहमार्यपुत्रम्या- पराधिनी, न पुनर्ममार्यपुत्रः । (२) ततः ।

८८ नलविलास --निषधापत ! परिणतवयसो वयं धर्मकाहीः । तद् गृहाणेदमस्म- दीयं विदाधिराज्यम् । नल:--देव ! अहमान्मीयमेव राज्यं कपटकैतवहारितमादास्ये । पुष्पवती--(१) बन्स( च्छ ) ! एसा दमयन्ती पुणो वि तुह सम- प्पिदा । ता जं ते पडिहादि तं करिजामु । नल:--अहं देव्या दमयन्न्या पतिव्रताव्रतेनैव क्रीतस्ततः परं मामनुकूल. यन्ती देवी मल्लिकां धवलयति, घनसारं सुरभयति, मृगाई शिशिरयति । कलहंसः--किमतः परं प्रियतममाधीयते देवस्य ? नल:-कलहंस ! अतः परमपि प्रियमस्ति ? त्वयैव तावद् देवी प्रथममस्मासु परमानुरागमानीता। भवतैव कुसुमाकरोद्याने संघटिता। त्वमेवास्मान् नटकपटधारी ज्ञात- वान् । किमपरं त्वमेवाम्य दमयन्तीसङ्घटनानाटकस्य सूत्रधारः। कलहंसः--तथापीदमाशास्यते- दुरोदरकलङ्कतः कृतविराम चन्द्रोज्ज्वला मवाप्य निजसम्पदं पदमचिन्यशर्मश्रियः। यशोभिरनिशं दिशः कुमुदहासभासः मज- नजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ १३ ॥ ( इति निष्क्रान्ताः सर्वे ) ॥ सप्तमोऽङ्कः॥ इति नलविलासनाटकम् । कृतिरियं रामचन्द्रस्य । ( १ ) वत्स ! एपा दमयन्ती पुनरपि तुभ्यं समर्पिता । ततो यत् ते प्रतिभाति तत् कुर्याः । १ क. संवत् १४८४ वर्षे भाद्रसुदि १० लिखितम् । ख. ग. • नाटकं समाप्तं । छ । कृतिरियं श्रीहेमचंद्र- सूरिशिष्यश्रीरामचंद्रसूरीणां ॥ छ ।

नलविलासस्थानां पद्यानां सूची। पृष्टे पृ० ३ २७ २९ ३१ १८ ७३ ७५ ५४ ३९ २२ ३१ ३० ५३ ६९ ७९ ७६ ७५ २९ अकाण्डकापिनो भर्तुः अकृताखण्दधर्माणां अखिलानां बिसिनीनां अजलप्यं जल्यामः अत्यन्तकमनीयं अथ तीवक्षुधा अद्याभूद् भगवान् विरञ्चि- अधिकमधिवहन्ती अधिका वर्णना वर्ध्यात् अनुभूतं न यद् येन अपकृत्योपकार्येषु अपारे कान्तारे अप्पा समपिओ अभिनभः प्रसृतैर्नवमल्लिका अमीभिः संसिक्तैस्तव अयमवनिपतीन्दु पतिः अर्वागदृष्टितया लोको अविदितमर्मा कर्मसु अशेषाणां मध्ये असौ पाखण्डिचाण्डालो अम्तमयति पुनरुदयति अस्याः क्षोणि! विधेर्वशादभिनवां अहंयूनामहंकार आकुञ्चितैर्विकसितै- आक्रन्दः श्रुतिदुर्भगः आगन्तुकोऽनुरागं आत्मन्यपत्ये आपाकपिअर- आमन्त्रिता वयमतः आलावहासपरिरंभणाई १२ ४१ ४८ आस्तां क्षयं किमिह आस्तां मर्मपरिज्ञानं आः ! किं भविष्यति आः स्त्रीरत्न ! पतिव्रते ! इतः प्रारभ्यन्ते इमौ प्रेजे कर्णी इह अस्थि घोरघोणो उत्कर्णयन् वनविहारि उत्तंसकौतुकनवक्षत- उन्मीलद्दलशतपत्रपत्रलाक्षि उभयाभिमुख्यभाजां एकाकिन्यबला वियोगविधुरा एगागिणी अहं भीलुगा एते निर्झरझात्कृतैः एनामरण्यभुवि कच्चित् काननदेवताः कर्णेजपं क्षतमुदो कल्पान्तकल्पमुपकल्य कविः काव्ये रामः कान्तस्तवाहमधरीकृत- कामं कामं कुसुम- कामं शाठ्यव्यपोहेन कार्कश्यभूः स्तनतटी काव्यं चेत् सरसं काश्मीरेश्वर एष कुचकलशयोवृत्तं कृतमिषशतं यद कृत्याकृत्यविदोऽपि कौशाम्बीपतिरयमुन्नासपीठः क तद् भ्रूविक्षेपक्षिपित- ५८ ५९ હર ६४ ४३ ७४ १ ४२ ३५ २७ ७१ ५६ २० १८ १६ ७९ २३ ४९ ६० ३७ ९० नलावलास- पृ० पृ० ६३ ८५ २९ ५२ २ १ ७८ ८५ २ ३० २३ ६८ ५२ ३२ २७ ३४ - ७९ ५२ ७० घनं प्रेमग्रन्थिं सदयमपि चन्द्रोद्यानसरांसि चलकमलविलासा- चापल्यं दृशि शाश्वतं चित्रं त्रस्तैणशावाक्षि! छिन्नेषु रावणे तुष्टः जनः प्रज्ञाप्राप्त जन्मिनां पूर्वजन्माप्त- जयति स पुरुषविशेषो ताराविलासरुचिरं तावन्मतिः स्फुरति तुभ्यं शपे परमतो त्यक्ता यद विपिने त्रैलोक्योदरवर्तिकीर्ति- त्वया तावत् पाणिः दध्मातविरोधिवीरकुरली दात्यूहकुक्कभ- दासस्तस्य दुरोदरकलङ्कतः दुष्टसङ्गः कुमारस्य दृष्टे ! द्रष्टुमिति स्पृहां देवीनीविच्छिदालोल! देवीं वाचमविक्रेयां न गीतशास्त्रमर्मज्ञा न तथा वृत्तवैचित्री न प्रेम नाप्यभिजनं न प्रेम नौषधं नाज्ञा न प्रेम रचितं चित्ते नयननलिनपेयं नलं रन्तुं चेतस्तरलमनलं ६३ ५० ७३ परसम्पत्समुत्कर्षदेषो. परिमलभृतो वाताः प्रकर्षपदमन्तिभं प्रबन्धा इक्षुवत्. प्रबन्धानाधातुं. प्रविशन्तीं कैरविणीं प्रियतमावदनेन्दुविलोकितैः प्रेसाविघट्टनरुषा भजन्ते कार्याणि भयतरलकुरङ्गीनेत्र- भ्रातश्चूत ! वयस्य केसर ! मञ्जीराणि रणन्ति मांसदृशा गुणदोषौ मातः कुञ्जरपत्नि! मातः प्रसीद वसुधे ! मां वा प्रीणय नैषधस्य मा विषीद कृतं बाष्पैः मुक्ताहार ! विहारमारानु- मुग्धाङ्गन्ना नयनपात- यथा मुख्यस्य सौन्दय यथा यथा प्रतापाग्निः यदि वा द्यूतकारस्य यस्यां मृगीशि दृशो- यात्रायां किल यस्य येनाकस्मात् कठिनमनसा राज्यं हारितवानयं रेवासीकरवरिवेपथुवपुः लंबत्थणी ति नाम लावण्यपुण्य- वक्त्रं चन्द्रो ववेन्दुः स्मितमातनोद वदनशशिनो विटचेष्टया यया किल ७५ ५६ १० ७२ ८८ २६ ३७ ४१ २२ ५० ५० ५१. ७७ ८४ २२ - ५३ ८२ ३ न स मन्त्री १०. नास्मार्ष नयमास्म निद्राच्छेदे क दयित ! निर्मायो यः कृपालुर्यः १८ ३२ २० पद्यसूची। पृ० पृ० २० १६ ३२ १ ४८ . १२ २६ ५९ सर्वथा कैतवं निन्यं सर्वेषामपि सन्ति सहस्रांशोर्धाम्नां दिशि दिशि सहि ! चक्कवायदइए! सान्निध्यात् पितुरानतं सुस्थे हृदि सुधासिक्तं सौदामिनीपरिष्वङ्गं स्थिरं कृत्वा चेतः स्पृशति न मणिज्योत्स्नाच्छन्नं स्पृहां लोकः काव्ये स्फुरति तिमिरे घूकवाते ४३ ३२ विन्यस्याभिनवोदये विश्वस्य श्रवणेन्द्रियं विश्वासघातिनमकृत्यकरं वैदर्भीतनुर्णनां वैदर्भीरीति महं शान्तात्मा पि खलः शुभा वा लोकस्य शृङ्गारसौरभरहस्यजुषां शौण्डीरेषु भयोज्ज्वलेषु श्रुतीनां पीयूषं श्रुते ! बाधिर्य त्वं कलय संयोगे श्रीमदो स एष सुभगाग्रणीः सखीशङ्काशङ्कु- सङख्यायामिव समेऽपि देहदेशत्वे ५३ २१ २ २ ७१ १३ स्फुरन्त्युपायाः शान्त्यर्थ- ५० ३६ २ स्मेराक्षि ! क्षितिचक्रविश्रुतबलः स्वमेकः पररक्षार्थं स्विद्यन्नितम्बभरपूर- हा देव दिणेसर ! ८२ ३१ ७३

No text on this page.

GAEKWAD'S ORIENTAL SERIES, ... ... ... CRITICAL EDITIONS OF UNPRINTED SANSKRIT WORKS, EDITED BY COMPETENT SCHOLARS, AND PUBLISHED BY THE CENTRAL LIBRARY, BARODA. 1.. BOOKS PUBLISHED. 1. Kavyamimånså : a work on poetics, by Rajaſekara (880-920 A.D.) : edited by C. D. Dalal, M.A., and R. Anantakrishna Sastry, 1916. Re-issue, 1924 2-4 2. Naranarayaņånanda : a poem on the Paurānic story of Arjuna and Kșsna's rambles on Mount Girnar, by Vastupala, Minister of King Virad havala of Dholka, (A.!). 1221 and 1231): edited by C. D. Dalal and R. Anantakrishna Sastry, 1916 1-4 3. Tarkasangraha : & work on Philosophy (Refutation of Vaiseshika theory of automatic creation) by Anandajñâna or Anandagiri, the famous commentator on Sankarâchârya's Bhāsyas, who flourished in the latter half of the 13th century: edited by T. M. Tripathi, B.A., 1917 2-0 4. Parthaparakrama : a drama describing Arjuna's recovery of the cows of King Virata, by Prahla lanadeva the founder of Palanpur and the younger brcther of the Paramāra King of Chandrāvati, (a state of Marwår), and a fendatory of the kings of Guzerat, who was a Yuvarâja in Samvat "1220 (A. D. 1164): edited by C. D. Dalal, M.A., 1917 0-6 5. Râshtraudhavamga : an historical poem (Mahâkâvya) describing the history of the Bagulas of Mayûragiri, from Rashtraudha, king of Kanauj and the originator of the dynasty, to Narayana Shah of Mayûragiri, by Rudra Kavi composed in Saka 1518 (A. D. 1596): edited by Pandit Embar Krishnamacharya with introduction by C. D, Dalal, M.A., 1917 1-12 6. Lingân sâsana : on Grammar, by Vâmana, who lived between the last quarter of the 8th century and the first quarter of the 9th century : edited by C. D. Dalal, M.A., 1918 0-8 7. Vasantavilâsa : an historical poem (Mahâkâvya) de'::ibing the life of Vastupala and the history of Guzerat by Bâlachan 'racūri, from Modheraka (or Modhera in Kadi Prant, Baroilia State), contemporary of Vastupala, composed after his death for his son in Sampat 1226 (A. D. 1240) : edited by C. D. Dalal, M. A. 1917 1-8 8. Rûpakașațkam : six dramas by Vatsarâja, minister of Paramardideva of Kalinjara, who lived between the 2nd half of the 12th century and the 1st quarter of 13th century : edited by C. D. Dalal, M.A., 1918 ... ... .. : ... ... ... .. I. .. ...

94 ... ... ... ... .. 9. Moha parajaya : an allegorical drama describing the overcoming of King Moha (Temptation), or the conversion of Kumâra påla, the Chalukya King of Guzerat to Jainism, by Yasaha påla, an officer of King Ajayadeva, son of Kumâra påla, who reigned from A. D. 1229 to 1232 : edited by Mani Chaturvijayaji ; with Introduction and Appendices by C. D. Dalal, M. A,, 1918 2-0 10. Hammiramadamardana : a drama glorifying the two brothers Vastupala and Tejahpåla and their King Viradhavala of Dholka, by Jayasim hasûri, pupil of Vîrasûri and an Âcharya•of the temple of Munisuvrata at Broach, composed between Samvat 1267 and 1286 (A. D. 1220 and 1239): edited by C. D. Dalal, M.A., 1920 2-0 11. Udayasundarîkatha : a romance (Champu, in prose and poetry) by Soddbala, who was a contemporary of and patronised by the three brothers Chchittaraja, Nagarjuna, and Mummanirâja, successive rulers of Konkan, composed between A. D, 1026 and 1050 : edited by (. ). Dalal, M.A., and Pandit Embar Krishnamacharya. 1920 2-4 13. Mahavidyavidambana : d work on Nyaya Philosophy, by Bhatta Vadindra (A.D. 1210 to 1274): edited by M. R. Telang. 1920. 2-4 13. Prachinagurjarakâvysangrha : & collection of old Gujarati poems dating from 13th to 15th centuries A. D: edited by C. D. Dalal, 1920 2-4 14. Kumara pâlapratibodha : a biographical work in biographical work in Prikrita, by Somaprabhacharya composed in Samvat 1241 (A.D. 1195): edited by Jina vijayaji. 1920 7-8 Ganakiriki: a work on Philosophy (Pasupata School) by Bhâsarvajña Muni, who flourished in the 2nd half of the 10th century : edited by C. D. Dalal, M.A. 1921 1-4 16. Sangitamakaranda : a work on Music, by Närada : edited by M. R. Telang. 1920 2-0 17, Kavindráchirya List : List of Sanskrit works in the collection of Kavîndrâchirya, a Benares Pandit (1656 A. D.): edited by R. Anuntakrishna Sastry with a foreword by Dr. Ganganatha Jhu. 1921. 0-12 18. Váráhagrihyasútra; Vedic ritual (domestic) of the Yajurveda : edited by Dr. R. Shamashastry. 1920 0-12 19. Lekhapaddhati : & collection of models of state and private documents dating from 8th to 15th centuries A. D: edited by C. D. Dalal, M. A., and G. K. Shrigondekar, M.A. 1925 2-0 20. Bhavisayattakahî or Pañcamîkabi: romance in A pabhrana language by Dhanapála (circa 12th century): edited by C. D. Dalal, M.A., and Dr, P. D. Grine, M.A. 1923 6-0 M.A., ... ... 1 .. ... ... 15. ... ... ... ... ... ... ... ... .. 8 95 ... .. ... ... ... ... .. ... ... ... 21. A Descriptive Catalogue of the Palm-leaf and Important Paper MSS in the Bhandars at Jessalmer, compiled by C. D. Dalal, M.A. and edited by L. B. Gandhi. 1924 3-4 22, 23. l'aras'urâmakalpa shtra : & work on Tantra, with commentary by Klámes'vara and Paddhati by Umánanda : edited by Mahadeva Nästiy, B.A., 2 vols. 1923 11-3 24. Tantrara basya : & work on the Prabhákara School of Pârvamimamsá by Rámánujáchárya : edited by Dr. R. Shamasastry. 1923 1-8 25. Hamarángana : work on Architecture, town planning and engineering by King Bhoja of Dhara (11th century): edited by Mahamahopadhyaya T. Ganapati Sastry, Ph.D., etc., 2 vols. Vol. I, 1924 5-0 26. Sadhanamálá : a Buddhist Tantric text of rituals, dated 1185 A.D. consisting of more than 300 small works composed by distinguished writers : edited by Benoytosh Bhattacharyya, M.A., General Editor, Gaekwad's Oriental Series 2 vols, vol. I. 1927 5-0 27. A Descriptive Catalogue of MSS in the Central Library, Baroda. Vol. I (Veda, Vedalakhsana and Upanişads), compiled by G. K. Shrigondekar, M.A., and K. S. Ramaswami Sastry. 1925 6-0 28. Mánosollåsa or Abhilashitârthachintámani : an encyclopædic work divided into one hundred chapters treating of one huudred different topics by Sc.uus'varadeva, a Chalukya King of the 12th century : edited by G. K. Shrigɔndekar, M.A., 3 vols.-vol. I. 1925 2-12 29. Nalavilása : a drama by Ramachandra Sûri, disciple of Hemachandra Sûri, describing the Pauránik story of Nala and Damayanti : edited by Messrs. G. K. Shrigondekar, M.A. and L. B. Gandhi, 1926 ... 2-4 30, 31. Tattvasangraha : a Buddhist Philosophical work of the 8th century by Sántarakshita, (705-762 A. D.) « Professor at the Nálanda University, with Paõjika (commentary) by his disciple Kamalasílá, also a Professor in Nålandá: edited by Pandit Embar Krishnamacharya with a foroward by the General ditor, 2 vols. 1926 · (Shortly) 32. Samarányana, Vol. II, edited by Mm. T. Ganapati Sastri, Ph. D. of Trivandrun. 1925 5-0 33. Advayavajrasangraha : consisting of twenty short works on Buddhist philosophy by Advayavajra, a Buddhist savant belonging to the 11th century A.D. : edited by Mahámahopâd hyáya Pandit Haraprasad Sastri, M.A., 0.I.E., F.A.S.B., etc. ... (Shortly) ... ... ... ... ...

96 1 II. BOOKS IN THE PRESS. 1. Nvânya praveśa : the earliest work on Buddhist logic, by Dinnscal with commentaries of Haribhadrasûri and Pársvadeva : edited by Principal A. B. Dhruva, M.A., LL.B., Pro-Vice-Chanceller of the Hindu University Benares and Pandit Vidhusekhara Bhatta charyya of Santiniketana. 2. Salhanamálá Vol. II, edited by Benoytush Bhattacharyya, M.A. Ph.D., General Editor, Gaekwar's Oriental Series. Illustrated. 3. Nátyagastra : on dramaturgy, by Bharata with the commentary o Abhinavagupta of Kashmir : edited by M. Ramakrishna Kavi, MA Illustrated. 4 vols. 4. Kalpalrumakosa : a standard work on Sanskrit Lexicography edited by Pandit Ramavatara Sarma Sabityacharya, M.A. 5. Mána vagřihyasūtra : a work on Vedic ritual (domestic) of: Yajurveda with the Bhâśya of Aståvakra : edited by Pandit Rânia krishna Harshaji S'astri. 6. Apabhramsakávyatrayi : consisting of three works, the Carcar Upradeśarasáyana and Kálasvarûpa kulaka by Jinadatta Sûri (12t century) with commentaries : edited by L. B. Gandbi. 7. Mánasollåsa or Abhilasitarthachintamani. Vol. II., edited ? G. K. Shrigondekar, M.A. 8. A Descriptive Catalogne of MSS in the Jain Bhandars at Patta edited from the notes of the late Mr. C. D. Dalal, m. A., by Pand L. B. Gandhi, 2 vols. 9. Bháva prakás'anam of Śáralátanaya : an ancient work on Alamkára edited by Pandit Ramaswamy Sastri, Central Library, Baroda ai. His Holiness Yadûgiri Yatiraja Swami of Melkot. 10. Prajño páyavinisacyasidhi of Anangavajra and of Anangavajra and Jñánasiddhi Indrabhàti : two important works belonging to the little knov Vajrayana School of Buddhism (8th century A. D.): edited Benoytosh Bhattacharyya, M.A., Ph.D., General Editor, Gaekwad Oriental Series. 11. A Descriptive Catalogue of MSS in, the Central Library, Barod Vol. II (Śrauta, Dharma and Gạbya Satras) compiled by the Libra: Staff. 12. Mirat-i-Ahmadi with its Khatimae or Supplement: By Ali Mahar mad Khan, the last Moghul Dewan of Guzerat : edited in t] original Persian by Syed Nawabali, m. A., Professor of Persia Baroda College, 2 vols. JUST PUBLISHED. 1. Supplement (or Khatimae ) to the Mirat-i-Ahmadi, translated fro the Persian of Ali Mahammad Khan, the last Moghul Dewan! Guzerat, by Syed Nawabali, M.A., and C. N. Seddon, 1.c.s., (retired with notes, appendices and 3 illustrations, 270 pages, demy 84 cloth 1926 Rsi ... .. .O. ... ...

Nalavilaasanaat'akamuu

Author
Ramachandra Suri
Title
Nalavilaasanaat'akamuu
File name
Nalavilaasanaat'akamuu
Text
OCR done
Citation
1926
Publisher
Central Library ,baroda
Language
Sanskrit
Pages
139
Library
Svi-ksri-chennai
Classification
Drama. Plays
DLI number
369087
Barcode
5010010078829.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
xApJGHBRi1a
Download PDF

Nalavilaasanaat'akamuu