Sri Sringeri Sharada Peetham

Chanakyasutram

Pt Vijayasankara Misra · 2004/10/20

PDF Proofread

Front matter

N
॥श्रो॥
* हरिदास-संस्कृत-ग्रन्थमाला
८५
नीतिविद्यावतारेण श्रीकौटिल्येन प्रणीतं
चाणक्यसूत्रम्
(प्रथमाध्यायमात्रम् )
बालबोधिनी-सरला-संस्कृत-हिन्दी
टीकाद्वयोपेतम् ।
R
प्रकाशक:-
जयकृष्णदास-हरिदास गुप्तः-
चौखम्बा संस्कृत सीरिज आफिस,
बनारस सिटी।
[अस्य प्रन्थस्य सर्वेऽधिकाराः प्रकाशकाधीनाः]
وع

सिद्धान्तकौमुदी जेबी-गुटका सिद्धान्तकौमुदीका ऐसा सुन्दर जेबी गुटका का मनोहर संस्करण यह प्रथम बार ही छपा है। प्रति दिन सिद्धान्तकौमुदी की आवृत्ति करना विद्यार्थियोंके लिये श्रावश्यक है। सुबह-शाम घूमते-फिरते समय तथा परदेश-यात्रा करते समय विद्याथियोंका बहुत ही समय व्यर्थमें व्यतीत होजाता है। अब जहाँ कहीं जाना हो इस संस्करण को जेबी में रख लीजिये और जब चाहें सिद्धान्तकौमुदी की श्रावृत्ति कीजिये। सूत्रसूची-धातुसूच्यादि परिशिष्ट सहित । सिंद्धान्तकौमुदी-५० गोपालशास्त्रीनेनेकृत परीक्षोपयोगी 'सरला' टीका तथा रूपलेखनप्रकार-पंक्तिलेखनप्रकार आदि परीक्षोप. योगी विविध परिशिष्ट सहित स्त्रीप्रत्ययान्त १॥) काराकान्त २) प्रबन्ध-पारिजातः इसमें परीक्षार्थी छात्रोंको संस्कृत प्रबन्ध रचना लिखने के नियम अत्यन्त सरल रूपमें समझाये गये हैं और तदनुसार परीक्षोपयोगी 'प्रबन्ध लेखनप्रकार' (परीक्षामें श्राने योग्य निबन्धों का उत्तर) इस तरह सरल और संक्षिप्त में लिखा गया है कि अभ्यास कर लेने पर भी विद्यार्थी परीक्षामें पूरी सफलता प्राप्त कर सकते हैं। इतना ही नहीं अन्तमें(१) पत्र लेखन प्रकार (चिट्ठी-पत्री, श्रावेदन पत्र आदिका उल्लेख ) तथा प्रसंगोपयुक्त (२) 'सुभाषितगद्यावली'(३) सुभाषित. पद्यांशावली' और (४) लौकिक न्यायमाला' आदि विषयोंका समावेश करके श्राधुनिक चतुरस्त्र विद्वान् बननेका सुगम रास्ता दिखाया गया है। विश्वास है कि आजतक के प्रकाशित प्रबन्धोपयोगी प्रन्थों में इस 'प्रबन्धपारिजात' के समान दूसरी कोई भी पुस्तक नहीं है। शीघ्रता कीजिये कठिन परिस्थिति के कारण इसकी बहुत कम प्रतियाँ छपी हैं विदुलोपाख्यानम् सान्वय-लीला विलास-संस्कृत-हिन्दीटीकाद्वयोपेतम् । सन् ४८ के नवीन पाठयक्रम के अनुसार यह अन्य प्रकाशित किया गया है। इस प्रन्थकी 'लीला' नामक संस्कृत व्याख्यामें अन्वय, पर्याय, समास, कोशादि देकर श्लोकोंकी अति सरल व्याख्या कर दी गयी है। साथमें 'विलास' नामकी विस्तृत हिन्दी भाषा टीका होनेसे तो इस संस्करणकी उपयोगिता और भी अधिक बढ़ गयी है। प्रथमाके सुकोम-लमति विद्यार्थियोंके लिये यही एक सर्वोत्तम संस्करण सिद्ध हो चुका है। शीघ्रता कीजिये इसको बहुत ही कम प्रतियाँ बर द्वितीय संस्करण प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय,बनारस । २"" गयी हैं। THANKala-isastim INTS

॥श्री॥
--* हरिदास-संस्कृत-ग्रन्थमाला *
८५
नीतिविद्यावतारेण श्रीकौटिल्येन प्रणीत
चाणक्यसूत्रम्
(प्रथमाध्यायमात्रम् )
पण्डितश्रीविजयशङ्करमिश्र एम० ए० कृतया
बालबोधिन्याख्यया संस्कृतव्याख्यया भूमिकया च सहितम् ।
पण्डितवेतालोपाहानन्तरामशास्त्रिणा साहित्याचार्येण
सरलाख्यया भाषाटीकया प्राक्कथनेन च
सनाथीकृत्य संशोधितम् ।
प्रकाशक:-
जयकृष्णदास-हरिदास गुप्ता-
चौखम्बा संस्कृत सीरिज आफिस,
विद्याविलास प्रेस, बनारस सिटी।
मूल्य =)
तृतीयं संस्करणम् ]
[ संवत् २००४
[अस्य प्रन्यस्य सर्वेऽधिकाराः प्रकाशकायत्ताः]

पाप्तिस्थानम्-
चौखम्बा-संस्कृत-पुस्तकालय,
बनारस सिटी।
१६४७
मुद्रका-
विद्याविलास प्रेस,
बनारस सिटी।

॥श्रीः ॥ प्रास्ताविकं वक्तव्यम् । अद्या, चाणक्यसूत्रस्य प्रथमाध्यायं परोक्षोपयोगिनं पंशोध्य संमुधु सप्रमोद पुरस्कर्तुं प्रस्तुताः स्मो वयम् । विष्णुगुप्तापरनामधेयनीतिविन्सूर्धन्यमतिमत्तम- श्रीमदार्यचाणक्यप्रणीतस्य सकलोपयोगसाधनीभूतनीतिसारसङ्ग्रहस्याध्यायपञ्च- कात्मकस्यैतद्ग्रन्धरत्नस्य टीकैका कलिकातानगयों मुद्रितोपलभ्यते । एतत्प्रथमा. ध्यायस्य कलिकातासंस्कृतप्रथमपरीक्षापाठ्यपुस्तकान्यमतस्य सटीकमुभाम्यां कल्पित- मुभयत्र सञ्जातं सस्करणं नयनगोचरतां गच्छति । काश्यामन्यत्र च प्रकाशित तदेतत्पुस्तकद्वयमनन्यसामान्यबुद्धिसम्पनप्राज्ञवरप्रणीत संस्कृतहिन्दाभाषामयव्याख्या दयेन सम्भूषितं वर्तते । 'अस्माभिरपि प्रयतनीयं विद्यार्थिनां मनस्तोषायेति सविशेषमान्तरं भा' वहन्तस्तस्प्रेरिताः श्रीमद्विधाविलासमुद्रणालयस्वामिनः संस्कृतभाषोद्धारबद्धादराः ओष्टिवरश्रीजयकृष्णदासातमहोदयास्तदर्थमेतत्प्रथमाध्यायस्य संस्कृतहिन्दीभाषाद्वय. मयी टीका प्रणेतुमस्मान् बहुशोऽन्वन्धन् । प्रत्यहविधीयमानविद्यालयीयकार्य- विशेषव्यापृतिवशात्पांक्षावकाशसोकांद्यनुकूलसाधनाभावादस्मदीयमुस्साहशून्य चेतो न नाम स्थैर्य कार्यऽन्न किञ्चित्कलयाचके। यथाप्रसङ्ग च कदापि समुपस्थितेषु वार्तालापव्यतिकरेषु नूतनोपजातपरिचया अपि प्रकृतिसुन्दरं प्रगाढं सौहार्द प्रकटयन्तः सहृदयाः प्रश्रयभूषणाः श्रीविजयशङ्कर- मिश्र एम्. ए. महोदयाः सहजसौजन्यभूमयः प्रकृतमिदं कार्य करणीयमुपलभ्य तदौपयिकमात्मनो भूयांसमुत्साहं व्यक्ततां निन्युः । उत्साहाध्यवसायसम्परसमन्वि. तानामुदारबुद्धीनाममीषां प्रकृतकार्यानुरूपः सोऽयमुत्साहो बलवदस्मदीयेऽपि मनसि तदारोपणं कर्तुं पारितवान् । परस्परोत्साहसमन्विताभ्यामकैकव्याख्याप्रणयनसमयेन च तदनु सप्रमोदं प्रवृत्तमावाभ्यामत्र । गीर्वाणवाङ्मयीं व्याख्यां प्रणेतुमुत्साहविशेष दधानेषु श्रीमत्सु मिश्रमहोदयेषु तदवशेषभूतं हिन्दीभाषया सूत्रार्थ प्रकाशनं नाम २ प्रास्ताविकं वक्तव्यम् । कार्यान्तरमस्मस्कर्तव्यपक्षं शिश्रिये । सपरिश्रमात्र यथासमयं प्रवृत्तयोरावयोरा टीकाप्रणयनमुद्रणोचितसंशोधनादिकमखिलं कार्यमखिलानन्दकन्दकरुणाकरपरमेश्वर- करुणाकटाक्षेण परिपूर्ण जातमितीदं परतरप्रमोदस्थानम् । इदं किल सर्वतः प्रत्यक्षमेद-"न तावत्कार्यस्य कस्यापि स्वरूपं यथावस्परि. चोयते, न यावदुपक्रम्यते तत् । उपक्रान्ते च तत्र तदीयं रहस्यं शनैः शनैसवाटितं भवतीति । अत्र हि टीकाचिकीर्षापथे प्रथमं निराकुलेऽपि तमिमांणसमये पुनस्तत्र तत्र तत्तत्पयोलोचनीयगम्भीर विषयसांमुख्यमापतितं बलवदस्मन्मनो व्याकुलत्व- मध्यजीगपत् । अन्येऽस्मिन् कौटिल्यबुद्धविलसितानां कुत्रापि सूत्राणां भावगाम्भीर्य भृशं दुर्गमम् , तस्खलु सूचमयैव बुद्धया निपुणं पर्यवेक्षणीयम् । इतरे च टीकायमहो. दया: स्थलविशेषे स्वकीयं पाण्डित्यं पूर्ण प्राचीकटन् , परमिदं न तावत्समुचित पन्थानमारोहति स्मेति बलवत्तरोऽस्माकं विद्यासः । यस्किमपि प्रलपितमिव प्रतीयते तत् । तत्र विद्यार्थिनो विरुद्ध बोधिताः स्युरित्येव तावन्मनो दुनोतितमाम् । तादृशेषु स्थलेषु तत्तट्टीकाकृतां चेष्टितं भावगाम्भीर्य चं परिवीक्ष्य प्रसह्य मुह्यतां प्रकृतां संस्कृतव्याख्यां विदधतां मिश्रमहोदयानां मनः कामपि चित्रामेव दशा प्रतिपेदे । तन्त्र किल स्वतोऽन्तरशतप्रतिमयैव किमपि निश्चित्य कृतं विचारसाहचर्य - मेव नौ कमपि मार्ग प्रादर्शयत् । इस्थमेव तत्तत्पर्यालोचनया प्रायो विचारं स्वीयमे- घोचितमवलम्ब्य यदिदमुपक्रान्तमावाभ्यां कार्य लघुशरीरमपि गम्भीरनीतिविचार- सापेक्षं निर्विघ्नं पूर्णतामानिन्ये, स चायं श्रीमद्गुरुवरकरुणायाः परतराचिन्तनीय- शतरव नियतं वाचामगोचरोऽनुभावः । आस्तां तावत् , स चायं संस्कृतव्याख्यानरूपो ग्रन्थः सर्वतोऽस्माभिर्निपुण सावधानं च निरीक्षतो यथामति संशोधितः प्राक्कथनेनानेन सनाथीकृतो हिन्दी. भाषया च सम्भूषितः प्रकाशमायातः साम्प्रतं कलिकातास्थानीयप्रथमपरीक्षार्थिनां विद्यार्थिनामुपकाराय भूयसे जागतमाम् । 'इदमेव नूनं विजयते व्याख्यान विद्यार्थिनामुपयोगायेति पक्षपातरहित निःशङ्ख निःसङ्कोचं च संसूच्य यथाबुद्धि संशोधितेऽप्यन्त्र मुद्रणालयादिदोषोपजातोपलब्धस्खलितविषयोपेक्षणाय सुजनान् सम्प्राथ्य प्रणाय संस्मृत्य सादरं परमेश्वरं सद्गुरुं च विरम्यते वृथावकव्यपल्लवना. दिति शम्। .. पौषशुक्लिद्वतीया, सं० १९९५ अनन्तरामशास्त्री वेतालः।

भूमिका। प्रस्तुत पुस्तकमिदं कलिकातास्थानीयप्रथमपरीक्षायां पाठ्यपुस्तकस्वेन निर्धा- रितम् । मूलग्रन्थस्तावत्पश्चाध्यायपरिमितः, किन्तु प्रथमाध्याय एवोक्तपरीक्षायां स्थापितः । नीतिशास्त्ररहस्यविदां चूडामणिभूतो विदुषामग्रणीर्विद्यासमुदमन्यन- मन्दरायमाणमतिर्विष्णुगुतो नाम श्रीचाणक्यस्तत्तच्छास्त्राण्यवगाय तेभ्यश्च सार गृहीत्वा, लघुकायान्यप्प्रतिगभीरविस्तृतार्थानीमानि सूत्राणि व्यरचयत्। एतानि सूत्राणि खलु विदुषां साहाय्येन विना नहि स्वल्पधियां विद्यार्थिनां सुबोधानि । अत एप बहूनां नीतिजमन्यानां टीकाटिप्पण्यादिविधानेन तदर्थ माविकतुं प्रयासो दृश्यन्तेऽत्र विषये । परन्तु तेषु तत्र तत्र त्रुटिबाहुल्यादतिखिचदया मदीयज्येष्ठसहो. दरस्थानीयाः प्राप्तसाहित्याचार्यपदवीकाः सहृदयाः पण्डितवराः श्रीमन्तो वेताला. ऽनन्तरामशास्त्रिण इमं जनं काञ्चित्सुगमां सरलां सुविचार्य च प्रणीतां टीका विद्या. र्थिवर्गक्षामाय विरचयितुं प्रेरितवन्तः। विद्योदधिपारगाणां तेषामेव शास्त्रमहोद. यानां प्रेरणया साहाय्येन चास्यैकाध्यायमात्रकायस्य ग्रन्थस्य बालबोधिनीति दीका मया प्रणीता । एकाकिना मया न कथमप्येतस्मिन् ग्रयत्ने साफल्यमवगन्तु. मपारयिष्यत यदि शास्त्रिमहोदया अतिस्नेहपुरःसरं यथोचितविचारसूचनैरेतां टीका हृदयङ्गमा नाकरिष्यन् । प्रथमप्रयास एव मासकीनोऽयं गीर्वाणवाणीमाश्रित्य कस्य. चिद् ग्रन्थस्य रहस्योद्धाटने । अत एवोदारहृदयमनीषिभिर्मानुष्यकमावसुलभदोष बाहुल्येऽन्न क्षन्तव्योऽस्मीति प्रार्थये । अथेदानों प्रसङ्गावशाद ग्रन्थं ग्रन्थकारं चाधिकृत्य किञ्चिस्पस्तौमि । पञ्चाध्याय. परिमिते मूलमन्थेऽस्मिन् बहूनां नीतितत्त्वानां विमर्शो दृश्यते । स्वीयकर्तव्यप्रधा- नभूतं प्रजापालनरूपं धर्ममाश्रित्यैव राजा सदा वर्तितुमहति । प्रसङ्गोचितं कूटनी- स्याश्रयणमपि प्रजापालनं लक्ष्यीकृत्यैव समीचीनं राज्ञः । स्वार्थपरं प्रजाहितविरो- धिनं च राजानं विनापि प्रकृतयो राष्ट्र सञ्चालयितुं समर्थाः। परन्तु नीतिकोविदं प्रजारक्षकं समर्थ च नृपं प्राप्य राष्ट्र क्षिप्रमेवातितरामुन्नति गच्छति । अत एव राष्ट्रो. चतौ राज्ञ उपादेयतां प्रतीयते । प्रकृतयश्च पुनः सर्वथैव भक्तिपुरःसरं राजानमुपसेवे. रन् । राजा खलु सर्वासां प्रकृतीनां पितेव रक्षकः, अतः पितेव स तासां पूज्योऽप्य. स्ति । एवं नानाविधानि राज्ञः प्रकृतीनां च कर्तव्यानि निर्दिष्टानि ग्रन्थररनेऽस्मिन् । अमुमेव सूत्रभूतं ग्रन्थमाश्रिस्य श्लोकबद्धं चाणक्यनीतिदर्पणनामधेयख्यात. मपरं पुस्तकमपि प्राकृतजनेषु चाणक्यकृतमिति प्रसिद्धम् । परन्तु तस्मिन्नुपदिष्टा- विचारा एव चाणक्यबुद्धिनिःसृताः न तु ते श्लोकाः । अतो न समीचीन कौटिल्यस्य बाचां वैदग्ध्य भाषायाः पाण्डित्यं वानुमातुं तं श्लोकवद्धग्रन्थमाश्रित्य । .

२ भूमिका। सोऽयं नयपारगः कौटिल्यः श्रीविष्णुगुप्तो नाम चाणक्य ईशवीयवासरेभ्यः प्राक् चतुर्थे शतके देशमिमं स्वजन्मनाऽलञ्चकारेति निर्विवादम् । तस्यैव महत्तमप्रयत्नेन पाटलिपुत्रराज्यसिंहासनाच्छूद्रकुलोद्भूता राजानश्च्याविताः। मौर्यः श्रीचन्द्रगुप्त आर्यावर्तस्य चक्रवतिराजाभूत्कौटिल्यस्यैव बुद्धिविलासबलेन । श्रीविशाखदत्तकृतमुद्राराक्षसानुसारेणासौ। राक्षसंचन्द्रगुप्तस्य प्रधानामात्यं कृत्वा पुनर्राप स्वकीयमाश्रमं भेज इति सर्वेषां विदितम् । तस्कथमार्यचाणक्येन शूदनुपानु- न्मूल्यापि शूद्र एव वृषलश्चन्द्रगुप्तः पुनर्मगसिहासनाधिरूढः कृत इत्यत्र शङ्कोत्था- प्यते। विशाखदत्तकृतग्रन्थमनुसृत्यैव चन्द्रगुप्तस्य शूदस्यमधुना प्रथितं लोके, किन्त्व. धतनपुरातत्त्वविदस्त पिप्पलीकाननस्थितानां शाक्यवंशीयानां मौर्योपाह्वानां क्षत्रि याणामेवान्यतमं मन्यन्ते। शौयसाहसकुशाग्रबुद्धित्वादिगुणैरुपेतः क्षत्रिय एवं श्रीविष्णुगुप्ठेनार्यावर्तचक्रवतिपदे स्थापितो न पुनः कश्चिच्छूदः । आर्यराज्यवैजयन्ती. मार्यावर्त स्थापयित्वासौ तपस्वी पुनरपि विरक्त इव स्वाश्रमपदं प्रपेदे। अनेनास्य महती कार्यक्षमता ब्राह्मणसुलभनिःस्पृहता च धोत्येते। अस्य महात्मनो जन्मभूमिविषयविचारोऽपि विवादग्रस्त एव । केचित्तु तमिर्म तक्षशिलावासिनं मन्यन्ते । अपरे पाटलिपुत्रीय एवासीदसाविति कथयन्ति । यस्कि मष्यास्तामेतत् , परमिदं तावनिर्विवादं यत्तेन तक्षशिलायां तत्तच्छास्त्रशिक्षा लब्धा पाटलिपुत्रे च तदीयः प्रयोगः कृतः । तक्षशिला फिल सर्वासां विधानामुद्र गमस्थानमिवासीत्तदा । सुदूरदेशेभ्य आगत्यान्तेवासिनस्तत्र जङ्गमपाण्डित्यस्वरू- पेभ्य आचार्यभ्यश्चेतःप्रसादजनयित्रीर्बुद्धिविकासकत्रीश्च सास्ता विद्याः कलाश्च सम्यग्गृहीत्वा स्वस्वजन्मानि सफलीकृतवन्तः । अगाधबुद्धिसागरः सकलविद्यापारङ्ग- तश्चाणक्यः पुनरेवम्भूतां तक्षशिलां विहाय कुत्रान्यन्न विद्या अभ्यस्येत् ? मगधदेश एवं तदानीन्तनं सर्वसमृद्धं शक्तिमत्तमं च राष्ट्रमासीत , किन्तु शूद्रनृपात्याचाररति. बाधिता आसन् प्रजास्तत्र । एतन्महद्रा मेवानुकूलराजसद्भावेनाधिकशक्तिशालि कृत्वाऽलक्षेन्द्रप्रभृतयो यवनाः पराजेतुं सुशका इति सम्यक पर्यालोचितं तेन मनी. षिणा । एवं महता प्रयासेनानुपमबुद्धिविलासेन चासौ महामना अस्माकं जननी- स्वरूपां जन्मभूमि यवनपदाघातेभ्यो रक्षितवान् । एवंविधस्या संस्कृतिरक्षकस्य महात्मनश्चाणक्यस्य अन्थोऽयं सूत्ररूपः स्वल्प- कायोऽपि विद्यार्थिनां हस्तामलकत्वं भजेच्चेत्तेषां महानुपकारो जायेतेति विश्वस्य वायं मदीयः प्रयत्नः । यधनया बालबोधिन्या विद्यार्थिनां कश्चिल्लाभो भवेत्तर्हि कृत- कृत्यमहमात्मानं मस्ये। सकललोकश्रेयोविधायको भगवान विश्वनाथो नः शं तनोतु । इत्यलम् । पौषकृष्णचतुर्दशी विदुषां विधेयः- संवत् १९९५, विजयशङ्करमिश्रः। -

॥ श्रीगणेशाय नमः ॥
चाणक्यसूत्रम् ।
बालबोधिन्याख्यया संस्कृतव्याख्यया सरलाख्यया
भाषाटीकया च समेतम् ।
क्षीराम्भोनिधिसिक्तयत्सुवसनामर्दैन शुक्लोकृताः
सान्द्रानन्दभरेण मानसगृहा मुक्तानुरक्ताः स्थिताः।
यद्वीणाकणनात् प्रबोधहरिणो दूरात् समाकृष्यते
सा नः पातु समस्तलोकवरदा पद्मासना शारदा ॥१॥
येनाऽदायि भवस्ततश्च विनयः स्नेहार्द्रचित्तेन मे
सद्विद्या च सदा सुबोधमनसामह्नाय मोदप्रदा।
यो वंशस्य सुकीर्तिकल्पलतिका संवर्धयन संस्थितो
वाक्पीयूषजलेन, पूज्यजनक स्वर्गङ्गतं तं भजेत ॥२॥
चरणकुसुमधूलियस्य लोके विकीर्णा
प्रभवति विधुराणां चेतसो मोदतत्यै ।
गलति मतितमिस्रं यस्य पादप्रसादाद्
गुरुवरसवितारं सादरं तं नतोऽहम् ॥ ३॥
चाणक्यो नयपारगो मतिमतामग्रेसरः काऽग्रणी-
धीराणां, क च नीतिलेशविदसावप्रौढबुद्धिर्जनः ।
किन्त्वद्यारचिता गुरोः करुणया चेद् बालबोधिन्यसौ
स्याद् बालोपकृतिक्षमात्र, विजयो नूनं कृतार्थस्ततः ॥ ४॥

चाणक्यसूत्रे- - ॥श्रीः॥ बन्दि विनयाक गुरु सुमिरि ईश अनादि अनन्त । सूत्रन को चाणक्य के भाषा करह अनन्त ॥ १ ॥ मन्थारम्भे निर्विघ्नपरिसमाप्त्य मङ्गलं निबध्यते । अमुमेव शिष्टाचारमनुसर- नौतिपयोधिमन्थनमन्दरायमाणप्रगादप्रतिभः प्रेक्षावान् श्रीमान् विष्णुगुप्तो नाम कौटिल्यभागस्यः सकललोकव्यवहारमूलभूतां श्रियमेव तावत्प्रार्थयितुं प्रक्रमते- सा श्रीर्वोऽव्यात् ॥१॥ सा श्रीरिति । सा-सर्वत्र प्रसिद्धा सर्वैरनुभूता प्रस्तावसङ्गता च, श्रीः- लक्ष्मी, वा-युग्मान् सांसारिकान्, अन्यात-पायात् । श्रियं विना जगति किञ्चिदपि केनापि साधयितुं न शक्यते । अत एव नीतिज्ञोप्रन्थकारस्तामेव प्रथमं रक्षणोपयो- गिनी सम्भावयंस्तदर्थ प्रार्थयते । लक्ष्मीकृपाकटाक्षरक्षिताः सर्वेऽपि दुष्करमप्यर्थ सुकरतां नयन्तीति तत्कर्तृकजगद्रक्षणप्रार्थनं प्रासङ्गिकमेव ॥ १ ॥ वह (प्रसिद्ध ) लक्ष्मी तुमलोगों की रक्षा करे ॥१॥ इह खलु जगति सुखैषणा सर्वेषामेव प्रत्यक्षतो दृष्टिपथ नीयते । लक्ष्म्याः करुणया सम्पाद्यं तच्च सुखं कुतो लभ्यतेति तत्कारणं धर्ममेव प्रतिपादयन्नाह- सुखस्य मूलं धर्मः ॥२॥ सुखस्येति । सुखस्य-निवृतेः, मूलम्-प्रधानकारणम्, धर्मः भवति । सुखं नाम सर्वैरभिलष्यमाणः परतरप्रसादजनको दुःखाद् बहिर्भूतश्चित्तवृत्तिविशेषः । धर्म- स्तावदैहिकामुध्मिकसकलार्थप्रापको वेदवोधित कर्तव्यताको विधिविशेषः। वस्तुतो लोके धर्मेणैव सुखं लभ्यते । अधर्मसंमिश्रं सुखं दुःख एव पर्यवस्यति । धर्म एव मनुष्यान् समुन्नतेः पन्थानं प्रापयतीति धर्मस्य सुखजनकत्वं निर्विवादम् ॥ २ ॥ सुख का प्रधान कारण धर्म है॥२ अधुना सुखस्यापि प्रधानकारणमर्थ निरूपयति- धर्मस्य मूलमर्थः ॥ ३ ॥ धर्मस्येति । धर्मस्य-ऐहिकामुष्मिककल्याणसम्पादकस्य श्रुतिविहितकर्तव्य. विशेषस्य, मूलम्-मुख्यहेतुः, अर्थः-सकलव्यापारसिद्धिबीजभूतं धनम् , भवतीति शेषः । सर्वापदामासदर भजमानस्य दारिद्रयस्य निराकरणायाऽमोधशस्त्रमिवार्थः सर्वेरभिलप्यते । न कदाचिदर्थमन्तरेण कामपि सिद्धिं लग्धुं कस्याप्युपकारं वा प्रथमोऽध्यायः। ३ कर्तुमीश्वरो नरः। किं वहुना, स धर्मसाधनप्रधानकारणीभूतस्य स्वशरीरस्थापि -रक्षणे समों न स्यात् । अतोऽर्थों धर्मस्य जीवितमेवेति स्पष्टम् ॥ ३ ॥ धर्म का प्रधान कारण धन है॥३॥ धर्मोपादानम्तमर्थे निरूप्य तदुद्भवहेतुं राज्यं वर्णयति- अर्थस्य मूलं राज्यम् ॥ ४॥ मर्थस्येति । अर्थस्य-सकललोकव्यापारसाधकस्य घनस्य, मूलम्-प्रधानकार- णम्, राज्यं भवति । राज्यं तावत्-स्वस्वकर्तव्येषु दत्तचित्ताभिः सुशासनेन विनी- ताभिः प्रकृतिभिः परिपूर्णः केनचिदपि वैदेशिकशासकेनाऽवाध्यमानो देशविशेषः । तत्तद्वस्तुव्यापारेण कृषिकर्मणा वा धनमुत्पाद्यते । व्यापारादिकं च पुनः कस्मिंश्चित् सुव्यवस्थिते देश एव सम्भवति । अतो धनोत्पादने राज्य मेव प्रयोजकम् ॥ ४ ॥ धन का प्रधान कारण राज्य है ॥ ४ ॥ अर्थोत्पत्तिमूलभूतं राज्यं निर्दिश्य तत्प्रधानकारणमिन्द्रियजयं प्रतिपादयति- राज्यमूलमिन्द्रियजयः ॥ ५॥ राज्यमुलमिति । राज्यमूलम् -राज्यस्य दृढशासनसम्पन्नस्य देशस्य मूलम् आधारभूतः, इन्द्रियजयः-इन्द्रियाणां मनश्चक्षुःप्रभृतीनामेकादशानां जयः वशीकरणम्, भवतीति शेषः । किञ्चिदपि राज्यमधिगन्तुं तद्रक्षितुं वा महती शक्ति- -रपेक्षिता । सा च शक्तिर्न कदाचिदसंयमिना लम्यते । अतो राज्यार्थिनेन्द्रियजिता भवितव्यमित्युपदिष्टं भवति ॥ ५ ॥ राज्य का प्रधान कारण इन्द्रियों का वश में करना है॥५॥ इन्द्रियजयस्य मुख्यहेतुं विनयं निरूपयति- इद्रियजयस्य मूलं विनयः ॥ ६ ॥ इन्द्रियजयस्यति । इन्द्रियजयस्य-इन्द्रियाणां तत्तद्विषय विशेषज्ञानसाध. नानां पञ्चशनेन्द्रियाणां तत्तन्छरीरव्यापारसम्पादनसाधनानां पञ्चकर्मेन्द्रियाणां च जयस्य, मूलम् -प्रधानकारणम् , विनयः-सुशिक्षया कुलीनत्वेन धर्मरतत्वेन चोत्पन्नाऽहङ्कारहन्त्री नम्रता, भवति । 'विनयाद् याति पात्रता'मिति विनयं विना न कोऽपि किञ्चिन्महत्कार्य सम्पादयितुं समर्थः। प्रबलानामिन्द्रियतुरङ्गमाणां वशीकरणं न खलु लघु कार्यम् । तत्खलु विनयसम्पत्त्यैव सम्पाद्यम् । अत इन्द्रिय- जयैषिणा विनयसम्पन्नेन भवितव्यमिति नीतिकारोपदेशः॥६॥ -

४
-
-
.
चाणक्यसूत्रे-
इन्द्रियों को वश में करने का प्रधान कारण नम्रता है ॥ ६ ॥
विनयस्याधारभूतां वृद्धोपसेवां निरूपयन्नाह-
विनयस्य मूलं वृद्धोपसेवा ॥७॥
विनयस्येति । विनयस्य-सदाचारशिक्षोत्पन्नाया नम्रतायाः, मूलम्-मुख्य.
हेतुः, वृद्धोपसेवा-वृद्धानां विद्यया वयसा सदाचारेण चोनतिं गतानां पूज्यानाम्
उपसेवा ज्ञानार्जनाय समीपगमनपूर्वक परिचर्या, भवति । अहङ्कारराहित्यं नीति-
कुशलानां केषाञ्चिदुपदेशेनैव सजायते । त उपदेशाः पुनराप्तजनपरिचर्यामन्तरेण
कथं लन्धुं शक्याः ? तस्मान्नम्रतालाभाय वृद्धजनपरिचर्या कर्तव्येति स्पष्टम् ॥७॥
नम्रता का प्रधान कारण पूजनीय वृद्ध लोगों का उचित सेवन है ॥
वृद्धसेवायाः फलं वक्ति-
वृद्धसेवाया विज्ञानम् ॥ ८॥
वृद्धसेवाया इति । बृद्धसेवायाः-वृद्धानां ज्ञानवयः शीलसम्पन्नाना सेवायाः
प्रणिपातपुरःसरं परिचर्यायाः, विज्ञानम्-विशेषेण नीतिदर्शनशिल्यादिज्ञानम् ,
जायत इति शेषः । शिल्पादिशास्त्राणां ज्ञानं तज्ज्ञेभ्य एवं प्राप्यते । तज्ज्ञानं विना
मनुष्यो हस्तपादादिसम्पन्नोऽपि किमपि कार्य सम्पादयितुं न क्षमते । अतो विज्ञान-
लिप्सुभिर्वृद्धाः समाश्रयणीया इति ॥ ८॥
वृद्ध लोगों के उचित सेवन से विज्ञान (नीतिदर्शनशिल्पशा-
स्त्रादि ) की प्राप्ति होती है ॥ ८॥
विज्ञानात्को लाभ इति विवक्षुगह-
विज्ञानेनात्मानं सम्पादयेत् ॥९॥
विज्ञानेनेति । विज्ञानेन-शिल्पशास्त्रादेः सम्यज्ज्ञानेन, श्रात्मानम्-स्वम् ,
सम्पादयेत्-समुन्नतं कुर्यात् , सर्व एवेति शेषः। तत्तजीवनव्यापारेषु सिद्धिलब्धये
प्रथमतस्तावदात्मनः समुन्नतिर पेक्षिता। सा च पूर्णरूपेण शास्त्रानुभवेन विना न
हि सम्पादयितुं शक्यते । तस्माद् विज्ञानमाश्रित्य लोक आत्मानं विवेकसम्पत्तिपूर्ण
कुर्यादित्यत्रोपदिष्टम् ॥६॥
विज्ञान (शास्त्र के पूर्ण ज्ञान ) से अपने को सम्पन्न (बुद्धि-विवेक
आदि से युक्त ) बनाना चाहिये ॥ ६ ॥
आत्मोन्नतिसन्पन्नः पुरुष श्रात्मानं जयतीत्याह-
सम्पादितात्मा जितात्मा भवति ॥१०॥

प्रथमोऽध्यायः। ५ सम्पादितात्मेति । सम्पादितात्मा-सम्पादितः अर्थवाःशिल्पशास्त्रादि. जनितेन ज्ञानेन समुन्नतिं प्रापितः आत्मा येन स पुरुषः जितात्मा-जितो वशीकृत आत्मा येन तादृशः, भवति-जायये । समुन्नतात्मा पुरुषः स्वात्मनि प्रभुर्भवतीति भावः। अत्र च-सुसम्पन्नेन चेतसा किं स्यादिति पूर्व तत्फलमन्विष्यते । सुसम्प- नात्मनो हि फलं मनोनिग्रहः। मनोनिग्रहश्च तावत्परमोपादेयोऽस्मिञ्जगति । मनसो निग्रहेण दुःसाधनमप्यर्थ साधयितुं पारयति पुमानिति ॥ १० ॥ बुद्धि-विवेक आदि से युक्त मनुष्य मपने ऊपर शासन करता है॥१०॥ मनो वशीकृत्य पुरुषः किं फलं लभत इति कथयति- जितात्मा सर्वार्थैः संयुज्यते ॥ ११ ॥ जितात्मेति । जितात्मा-जितो वशीकृत श्रात्मा चेतो येन सः पुरुषः, सर्वार्थ:-सर्वैनिखिलैः अर्थैः साधनैः, संयुज्यते-संयुक्तो भवति । सर्वकार्यसाधनानां प्राप्तिर्वश्यात्मनां सुलभेत्यर्थः । सर्वेषु व्यापारेषु सिद्धिलब्धये कानिचित् साध- नान्यपेक्ष्यन्ते । तानि साधनानि पुनर्नाऽस्थिरचेतसा लभ्यानि । चेतो वशी- कृत्यैव पुरुषः सर्वसाधनसम्पन्नो जायत इति तदर्थ पुरुषेण जितात्मना भवितब्य- मिति भावः ॥ ११ ॥ अपने ऊपर (मन पर) शासन करने वाला मनुष्य सभी उपयोगी साधनों से युक्त हो जाता है ॥ ११ ॥ प्रकृतिसम्पदः कारणीभूतां स्वामिसम्पदं विवर्णयिषुराह- स्वामिसम्पत् प्रकृतिसम्पदं करोति ॥ ११ ॥ स्वामिसम्पदिति । स्वामिसम्पत्-स्वामिनो राज्ञः सम्पद् ऐश्वर्यम् , प्रकृतिसम्पदम्-प्रकृतिनां सचिवादीनां प्रजानां च सम्पदमैश्वर्यम् , करोति- जनयति, उन्नति नयतीत्यर्थः अयं भावः-राज्ञः सम्पत्या प्रकृतिसम्पद् वधते । राजा सकलैश्वर्यसम्भृतः सन् !प्रकृतीस्तथा कर्तुं प्रभवति । कोषबलहीने राजनि किमप्युपकर्तुमक्षमे नूनं प्रकृतयोऽप्यकिञ्चनाः स्युः। अतो राजकीयमैश्वर्य प्रकृ. तौनामैश्वयं जनयतीति सुस्पष्टमेव ॥ १२ ॥ राजा का ऐश्वर्य मन्त्री तथा प्रजा के ऐश्वर्य को ॥१२॥ प्रकृतिसम्पदो गुणोत्कर्षमाह- प्रकृतिसम्पदा ह्यनायकमपि राज्यं नीयते ॥१३॥ बढ़ाता है

-
चाणक्यसूत्रे-
प्रकृतिसम्पदेति । हि-पतः निःसंशयं वा, प्रकृतिसम्मदा प्रकृतिनामैश्व
यण, अनायकम् अपि-नायकेन शासकेन राज्ञा हीनमपि, राज्यम्-राष्ट्रम्, नीयते
शास्यते सञ्चाल्यत इति यावत् । सम्मन्नाः प्रकृतयो राज्ञा विरहितेऽपि राज्ये स्वयं
शासनं कर्तुं प्रभवन्ति । शासकेन विनाकृताभिः प्रकृतिभिरैश्वर्यमन्तरेण शासन-
मुचितं कर्तुमक्षमाभिर्दुरवस्यैव नूनमनुभाव्या। सम्पद्विहीनाः किमपि कर्तु
नालम्, किं पुना राज्यं शासितुम् । अतोऽनायकं राज्यं नेतु प्रकृतिसम्पत् सुतरां
प्रयोजिकेति ॥ १३॥
मन्त्री तथा प्रजा के ऐश्वर्य से राजा के बिना भी राज्य चलाया
जा सकता है ॥ १३॥
प्रकृतीनां कोपः सर्वतोऽधिक इत्याह-
प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ॥ १४ ॥
प्रकृतिकोप इति । प्रकृतिकोप:-प्रकृतीनां सचिवप्रभृतीनां सर्वेषां कोपः
अप्रसन्नता, सर्वकोपेभ्यः सर्वेभ्यो देवादिदोषेभ्यः, गरीयान् गुरुतरः विशिष्टो
भवतीत्यर्थः । श्रानुकूल्यं सम्पाद्य राज्ञा प्रकृतयः प्रसादनीयाः। सतीषु प्रकृतिषु
राज्ञोऽवस्थितिभवति । प्रकृतिभिः शासनीयाभिर्विना शासको राजैव कः ? ताः
प्रकृतयः प्रतिकूलाचरणे राजनि कुपिताः सत्यो मूलभूतं राज्यमेवोच्छेत्तु प्रभवेयुः ।
दुर्भिक्षादयो दोषा हि प्रकृतिकोपादत्यल्पा एव । देवादिदोषाणां परिहारो हि
युक्तिभिः प्रकृतिप्रियस्य राज्ञः सुकर इत्युचितमेव प्रकृतिकोपस्य सर्वतोऽभ्यधिकत्वम् ।
प्रकृतिकोपेन महाननर्थः सम्भवतीति भावः ॥ १४ ॥
मन्त्री तथा प्रजा का कोप (देवादि) सब दोषों से बढ़कर है॥१४॥
राज्ञा च विनीतेन भाव्यमित्याह-
अविनीतस्वामिभावादस्वामिभावः श्रेयान् ॥१५॥
अविनीतस्वामिभावादिति । अविनीतस्वामिभावात् -अविनीतस्य शि.
क्षाविनयाभ्यां होनस्य स्वामिनो राशो भावात् अस्तित्वात् , अस्वामिलामः-रा.
ज्ञोऽप्राप्तिः,श्रेयान्-अतिप्रशस्तः। अविनीतः स्वीयैश्वर्यमदमत्तो राजा प्रजासुखं ना.
पेक्षेत । अतस्ताहग्राजापेक्षया राज्ञोऽलाभ एवाधिकं श्रेष्ठः । प्रजया कामं राजहीनयैव
स्थातव्यम् , किन्तु विनयविहीनो राजा नापेक्षणीयः । राज्ञा च विनयसम्मन्नेनैव
भाव्यमित्याशयः॥ १५ ॥

. प्रथमोऽध्यायः। उद्धत मथवा अशिक्षित राजा के होने से राजा का न होना अच्छा है ॥१५॥ सम्पन्नस्य राज्ञः सहायापेक्षित्वमाह- सम्पाद्यात्मानमन्विच्छेत् सहायान् ॥ १६ ॥ सम्पाद्येति । अात्मानम्-स्वम् , सम्पाद्य-शक्तिसम्पन्नं कृत्वा, सहायान्- साहाय्यकरान् पुरुषान् , अन्विच्छेतू-अपेक्षेत सम्पादयेदित्यर्थः । पूर्वमात्मानं स. वतः सम्पन्नं कृत्वा ततः स्वीयकार्यार्थ तयोग्यान् सहायकान् पुरुषान् सगृह्णी- यात् । असम्पन्नेनाऽसहायेन च राज्ञा किं तावत्कतुं शक्यम् । सम्पन्नः सहायसम- न्वितो हि स भूमौ सर्वार्थान् साधयितुमीष्टे ॥ १६ ॥ अपने को सम्पन्न बनाकर (राजा ) सहायक ढूंढे ॥ १६ ॥ सहायः कौहशः स्यादिति तत्स्वरूपं निर्दिशति- सहायः समो दुःखसुखयोः ॥ १७ ॥ सहाय इति । दुःससुखयोः-विपत्ती सम्पत्तौ च, समः-समानरूपः, सहायः- सहायकः भवति । राज्ञा दुःखे यो दुःखी सुखे च सुखी भवति, स एव सहायो भवितुमर्हतीत्यर्थः । अन्यथा राज्ञोऽवस्थां वस्तुतो ज्ञातुमसमर्थस्तदीयं साहाय्यं किनाम कुर्यात् सः। सुखे सहवासिनो दुःखे च दूरवासिनः सहाया भवितुं नाहन्ति । राजसमदुःखसुखेनैव सहायेन भाव्यमिति ॥ १७ ॥ सुख में समान भाव रखने वाला मनुष्य ( राजा का) सहायक हो सकता है ॥ १७ ॥ असहायस्य राशः कार्यहानि दर्शयति- नाऽसहायस्य मन्त्रनिश्चयः॥१८॥ नाऽसहायस्येति । असहायस्थ-कमपि सहायकं विना तिष्ठतो राज्ञः, मन्त्र निश्चयः-मन्त्रस्य सुगूढराजकीयकार्याकार्यविशेषस्य निश्चयो निर्णयः, न भवति । राजा हि कमपि सचिवादिकं बुद्धिमन्तं स्वीयकार्येषु समुचितविचारकर्तारं सहा- यकं कृत्वैव कार्याकार्यविशेष निर्णेतुं प्रभवति । सचिवादिसाहाय्यं विना केवलो राजा कस्यापि गूढार्थस्य समीचीनं निर्णयं कर्तुं न क्षमो भवतीत्यसहायस्य राज्ञः प्रधानकार्यासिद्धिदर्शिता ।। १८ ॥ सहायक के बिना राजा को गुप्त विचार का निश्चय नहीं होता १८ दुःख मौर .

- - - ६ चाणक्यसूत्रे- असहाय एकाकी राजा मन्त्रनिश्चयं कर्तुं न शक्नोतीति पूर्वोत्तमर्थमुदाहरणेन द्रढयति- नैकं चक्रं परिभ्रमति ॥ १९॥ नकमिति । एकम्-एकसंख्याकम् , चक्रम्-रथाङ्गं रथचालनकारणीभूतम् , न परिभ्रमति-न समन्ततो भ्राम्यति । अयं भावः-रथे चक्रद्वयं संयुज्यते । तेनैव रथचाल्यते । तत्रैकं चक्रं यथा न भ्रमति, अपि तु चक्रद्वयं सहैव भ्रमद् दृश्यते, तथैव नृपतिरेको गूढार्थनिर्णये न प्रभुः । सचिवादिसमन्वितस्यैव च तस्य तत्का- यानुकूला शक्तिरस्तीति ॥ १६ ॥ ( रथ का ) अकेला पहिया नहीं घूमता ॥ १६ ॥ मन्त्रणोचित राज्ञो गुणद्वयं प्रदर्शयन् सूत्रकारो 'मन्त्रकायै स्वयं राजापि साह. चर्य कुर्या' दित्याशयेनाह- मानी प्रतिपत्तिमानात्मद्वितीय मन्त्रिणमुत्पादयेत् २० मानीति । मानी-मान आत्माभिमानोऽस्यास्तीत्येतादृशः, प्रतिपत्तिमान्- प्रतिपत्तिनि शास्त्रविज्ञानमिति यावत् तदस्यास्तीत्येताहशो राजा, श्रात्मद्विती- यम्-अात्मनः स्वस्य सकाशाद् द्वितीयम् , अथ वा आत्मा स्वयमेव द्वितीयो विचारकर्ता यस्य तादृशम् , मन्त्रिणम्-सचिवम् , उत्सादयेत्-कुर्यात् । 'अहं कोऽस्मि, कीदृशं मे कर्तव्य' मित्येवमात्माभिमानसम्पन्नः शास्त्रविज्ञानशाली च भवन् भूपालः स्वयं मन्त्रविचारे साहाय्यं कुर्वन् मन्त्रिणं सम्पादयेत् । तथा चोक्त- म्-'आत्मना द्वितीयेन मन्त्रः कार्यों महीभृता' इति । राजा मन्त्री चेति द्वाभ्या- मेव गुप्तविचारः कर्तव्यस्तत्र नापेक्षा तृतीयस्येति भावः ॥ २०॥ श्रात्माभिमान तथा विज्ञान से सम्पन्न राजा मन्त्रकार्य में सहायक एक अपने स्वयं रहकर दूसरा सहायक मन्त्री को बनावे ॥२०॥ गूढकार्याकार्यविचारणे सहायक कमपि मन्त्रिणं नृपतिः कुर्यादिति पूर्वसूत्रो- 'तार्थमनुसृत्य 'कीडशो मन्त्री करणीयः इत्याह- अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ॥ २१ ॥ अविनीतमिति । अविनीतम् - विद्याविनयवर्जितमनुरागरहितं च मन्त्रिणम् , स्नेहमात्रेण-पूर्वपरिचयोद्भूतानुरागस्मरणमात्रेण, मन्त्रे-गुप्तविचारकायें, न कुर्वी- 'त-न नियोजयेत् । 'असौ मम बाल्यात्मभृति सहचरोऽतो मम स्नेहपात्र' मिति ।

प्रथमोऽध्यायः। -- कृत्वा तमविनीतं मन्त्रिणं राष्ट्रोन्नतिरक्षणोपायविमर्श न स्थापयेद्राजेति भावः । युक्ताऽयुक्तविवेकसम्पन्न एव राजा स्वकीयं राज्यं सम्यनियन्तुं समर्थः । युक्ता- युक्तविवेकश्च पुनर्बुद्धिमता स्वार्थरहितेन स्वामिभक्तेन मन्त्रिणेव राज्ञः पुरस्तादुप- स्थाप्यते । स्ववं विवेकरहितः सचिवो राजानं कथं विवेक शिक्षयेत् । तेन सहाय- भूतेन राजा क्षिप्रमेव स्वकार्य विघातयेत् । 'ननु यदि सोऽपार्थकस्तहि कथं सर्वथैव न त्याज्यः इत्येवं न शङ्कयम् । यतश्चिरपरिचितत्वात्किञ्चिद्रहस्यं जानात्येवासौ । सर्वथा त्यक्तः शत्रुतां भजमानो रहस्यमुद्घाटयन् हानिकारक एव स्यात् । अतोऽ. विनीतं सचिवं सद्वयवहारमात्रेण पालयेन तं रहस्ये नियोजयेदित्युपदिष्टं भवति २१ विद्या और विनय से रहित मनुष्य को केवल पूर्व स्नेह के कारण गुप्त मन्त्रणा में सम्मिलित नहीं करना चाहिये ॥ २१ ॥ अधुना मन्त्रोपयोगितां निरूपयति- मन्त्रमूलाः सर्वारम्भाः॥ २२ ॥ मन्त्रमुला इति । सर्वारम्भाः-सर्वे प्रारम्भाः प्रारम्भमाणानि कार्याणि, मन्त्रमूला:-मन्त्रो बिचारो मूलं निदानभूतो येषाम् , तथा भवन्ति । अयमाशयः- किञ्चिदपि कार्य सम्पादयितुं प्रथम तावत्तदुचितोपायचिन्तनमपेक्षितम् । तेनैव सर्वेषां कार्याणां सिद्धिर्भवति । अविवेककृतं कार्य पश्चात्तापं जनयति । यथोक्तं भारविणा-'सहसा विदधीत न क्रिया' मिति ॥ २२ ॥ सब कार्यों के प्रारम्भ में गुप्त विचार करना आवश्यक है ॥ २२ ॥ कार्यसिद्धये मन्त्री गोपनीय इत्येतदुपक्षिपन्नाह- मन्त्रसंवरणे कार्यसिद्धिर्भवति ॥ २३ ॥ मन्त्रसंवरणे इति। मन्त्रसंवरणे -मन्त्रस्य संवरणे गोपने, कार्यसिद्धिः कार्याणां कर्मणां सिद्धिनिष्पत्तिः, भवति सजायते । मन्त्रगोपनेन कार्य सफलं भव- तीत्यर्थः । कार्योपायचिन्तनं प्रकाशमानीतमन्येषामीयांद्वषादिसमुत्थापनेन कार्य- सिद्धिं विघातयति । ततस्तत् सिद्धिं यावद्गोपनीयमवश्यं भवति। कृत्यैव तत्कार्य- समये प्रकाशं लभेत , न तु तत्र पूर्व वक्तुं किमप्यावश्यकम् । कथितं सत् तत्काथै- साफल्यं न गच्छेदिति भावः ।। २३ ।। मन्त्र के गुप्त रखने से कार्यों की सिद्धि होतो है ॥ २३ ॥ मन्त्रप्रकाशनं सर्वनाशायेत्याह- मन्त्रनिस्राव सर्व विनाशयति ॥ २४ ॥ - -- - १० चाणक्यसूत्रे- मन्त्रनिस्राव इति । मन्त्रनिस्राव:-मन्त्रस्य गुप्तविचारस्य निस्राव इतस्ततः प्रसरणं प्रकाशन मिति यावत् , सर्वम्-सकलं मन्त्रितं कार्यम , विनाशयति विधा- तयति । मन्त्रप्रकाशनात्सकलं तरकार्य विनश्यतीति भावः। प्रकाशिते हि मन्त्रे तज्ज्ञानेन परैरुत्पादिते तत्र विघ्ने कार्यस्य नाशः सर्वतोऽवश्यं भावी, कोशीपुन- स्तत्र कार्यसिद्धराशा ॥ २४ ॥ मन्त्र का प्रकाशित होना सब काम को बिगाड़ देता है ॥ २४॥ मन्त्रप्रकाशनाद्भविष्यन्तीमन्यामपि हानि दर्शयति- प्रमादाद् द्विषतां वशमुपयास्यति ॥ २५ ॥ प्रमादादिति । प्रमादात्-अनवधानतायाः कारणात् , द्विषताम्-शत्रूणाम् ,. वशमुपयास्यति-वशंवदो भविष्यति, अर्थाद्राजा । मन्त्रगोपने भूयोऽवधानं देयम् । मन्त्रप्रकाशनं तावत्प्रमादादेव सञ्जायते । एतत्प्रमादसत्त्वेन शत्रवो मन्त्रितमर्थ बुद्- ध्वा तत्कार्यविनाशोपायं च कृत्वा राजानमाक्रम्य वशीकरिष्यन्ति । स च नैः श- त्रुभिर्वशीकृतो राजा कष्टमेवानुभविष्यतीति भावः ॥ २५ ॥ असावधानी के कारण मन्त्र के प्रकाशित होने से (रामा) शत्रुओं के वश में हो जाता है ॥ २५ ॥ सर्व मन्त्रं रक्षणीयं प्रतिपादयति- सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः॥ २६॥ सर्वद्वारेभ्य इति । सर्वद्वारेभ्यः-प्रमादादिभ्यः सकलेभ्यो मन्त्रप्रकाशन- कारणेभ्यः, मन्त्रः-गुप्तविचारः, रक्षितव्यः-पालनीयो गोपनीय इति यावत् । इदमत्रावगन्तव्यम्-द्वारा निर्गमनं भवति । मन्त्रप्रकाशनं च राज्ञो मन्त्रिणः सका- शान्मन्त्रस्य निर्गमनमेव । मन्त्रप्रकाशने कारणानि यानि प्रमादादीनि सम्भवन्ति, तानि तवाराण्येव कथ्यन्ते । तेभ्यश्च मन्त्रस्य रक्षणमत्रोपदिश्यते । प्रमादादिभ्यो मन्त्ररक्षणस्योपदेशेनात्र प्रमादाद्यभावैर्मन्त्रः सुरक्षितो भवतीति गूढं सूचितम् २६ (प्रमादादिक मन्त्र प्रकाशन के ) सब कारणों से मन्त्र का,रक्षण करना चाहिये ॥ २६॥ मन्त्ररक्षणाद्भावि फलं सूचयति- मन्त्रसम्पदा हि राज्यं विवर्धते ॥ २७ ॥ मन्त्रसम्पदेति । हि-यतः मन्त्रसम्पदा-मन्त्रस्य सम्पदा वैभवेन, राज्यम्- प्रथमोऽध्यायः। - राष्ट्रम्, विवर्धते-विशेषेणोन्नति प्राप्नोति । मन्त्रस्य स्थिरीकरणं रक्षणमेवात्र मन्त्र. सम्पत् । मन्त्रे रक्षिते सति निर्विघ्नं राष्टाभ्युदयकारणानि मन्त्रितानि कार्याणि सिद्धिं गच्छन्ति। ततश्चाऽऽफलोदयं मन्त्रस्य गोपनाद राज्योन्नतिरूपा कार्यसिद्धिः स्पष्टव। अरक्षितो हि मन्त्रः प्रकाशं गतो राज्योन्नतेः प्रतिबन्धायैव भवतीति ॥ २७॥ मन्त्र को सम्पत्ति ( मन्त्रगोपन ) से राज्य को उन्नति होती है । इत्थमत्र बहुभिः प्रकारैर्मन्त्रस्य गोपनमावश्यकमुपदिश्य परेषां नीतिकाराणां मतेनापि तदीयं श्रेष्ठत्वं प्रतिजानीते श्रेष्ठतमा मन्त्रगुप्तिमाहुः ॥ २८॥ श्रेष्ठतमामिति । मन्त्रगुप्तिम् -गुप्तविचारस्य रक्षणमप्रकाशनम् , श्रेष्ठतमाम्- अतिप्रशस्ताम् , आहुः-कथयन्ति, अन्ये नीतिकारा इति शेषः । इतरैर्नीतिकारै. रपि पूर्वापरपर्यालोचनया मन्त्रगोपनस्य सुतरां श्रेष्ठत्वं प्रतिपादितम् । तदेवात्र प्रन्थ- कारेण स्वमते प्रमाणितम् ॥ २८ ॥ (दूसरे नीतिकार भी) मन्त्र के गोपन को अत्यन्त श्रेष्ठ कहते हैं॥२८॥ इदानी मन्त्रस्य स्वरूपं निरूपयति- कार्याकार्यप्रदीपो मन्त्रः ॥ २९ ॥ कार्याकार्यप्रदीप इति । मन्त्रः-गुसविचारः, कार्याकार्यप्रदीप:-करणीया- ऽकरणीयविषययोः प्रकाशकः भवति । 'किं कर्तव्यं किञ्चाकर्तव्यम्' इति येन प्रका- श्यते, स तावन्मत्र उच्यते । कार्याकार्ययोः प्रकाशनं चात्र तद्विषयको विचार एव अतः कार्याकार्यविचारं मन्त्रपदेन व्यवहरन्तीत्यर्थः ॥ २६ ॥ 'क्या करना चाहिये और क्या नहीं करना चाहिये। इस बात को बतलाने वाला मन्त्र होता है ॥ २ ॥ द्वेषभावं दूरीकृत्य मन्त्रं कुर्यादित्युपदेशानुसारं ब्रूते- मन्त्रकाले न मत्सरः कर्तव्यः ॥ ३० ॥ मन्त्रकाल इति । मन्त्रकाले-कार्याकार्यविचारावसरे, मत्सरः-अन्यशुभद्वेषः न कर्तव्यः नाचरणीयः । अयं भावः-परोत्कर्षा सहिष्णुतैव मत्सर उच्यते । विचा- रकाले यदि परेषां कल्याणाभिलाषश्चित्ते न स्यात्तर्हि समीचीनो न स्यात् कृतः स विचारः । अतो मन्त्रं कुर्वन् परेषां शुभस्य विद्वेषं न कुर्यात् । मन्त्रणावसरे परे- षामशुभं न चिन्तनीयं, परहितभावनयैव मन्त्रणीयमिति भावः ॥ ३० ॥ २चा० सू०

..
-
चाणक्यसूत्रे-
कार्याकार्य का विचार करते समय
दूसरों के हित का विरोध
नहीं करना चाहिये ॥३०॥
शत्रोः कस्याप्यन्यम्य वा दोषाणां ज्ञानं मन्त्रेण भवतीति प्रतिपादयति-
मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ॥३१॥
मन्त्रचक्षुषेति । मन्त्रचतुषा-मन्त्र एव चक्षुर्नेनं तेन, परच्छिद्राणि-परेषा.
मन्येषां छिद्राणि दोषान् , अवलोकयन्ति-पश्यन्ति जानन्तीति यावत् । नेत्रस्य
कार्य दर्शनम् । मन्त्ररूपेण नेत्रेण परदोषाणां दर्शनं भवतीत्यर्थः । अन्यैः कृता-
नामनुचितकर्मणां परिज्ञानं मन्त्रेणैव राज्ञां भवति, नान्यः कोऽपि तथाविधस्त.
परिज्ञानोपाय इति भावः ॥ ३२ ॥
मन्त्ररूपी नेत्र से (गजा) दूसरों के दोषों को जान लेते हैं ॥३१॥
षट कर्णान् गतः अर्थात् त्रिभिः कृतो मन्त्रः सुरक्षितो न तिष्ठतीत्याह-
षट्को मन्त्रश्छिद्यते ॥ ३२ ॥
षटकर्ण इति । षट्कर्णः-षट् कर्णा अर्थात् त्रयो मनुष्या यत्र सः, मन्त्रः गु-
सविचारः, छिद्यते-भिद्यते भिन्नो भवति । त्रिभिः कृतो मन्त्रः प्रकाशरूपतां गच्छ-
तीत्यर्थः । अनेदं रहस्यम्-राजानं मन्त्रमप्रकाशयन् मन्त्री शासकस्य राज्ञोऽनुमति
विना किं नाम कर्तुं शक्नोति ? राज्ञः समोप्य स्वेच्छयैव कथञ्चित्किञ्चित् कदा.
चित् कुर्वन् स मन्त्रिणामघमः कथ्यते । अतो मन्त्रणकार्ये राज्ञः समावेशोऽनिवा-
। अथ पुनस्तृतीयस्यापि कस्यचित् समावेशः केनापि कारणेन तत्र क्रियते तदा,
चतुर्थस्य कुतो नेत्यनवस्था स्यात् । अन्यच्च-द्वाभ्यां राज्ञा मन्त्रिणा च कृतो वि.
चारो 'यथायं मामेव नान्यं कथयति तथाऽहममुमेव कथयिष्यामि नान्यम्' इति
परस्परभावनया तत्रैवोभयत्र तिष्ठेत् , न ताभ्यां स विचारः कुत्रचित्प्रकाश्येत ।
इतः परं तत्र यस्तृतीयादिकः सम्मिलितो भवेत् , स च 'यथास्माभिरयं विषयो
ज्ञातस्तथान्येऽपि कुतो न जानीयु’रित्येवं विचारयन् तदितरत्रापि तं विषयं कदा-
चित्प्रकाशयेत् । तेन मन्त्रगोपनरूपं मूलमेव व्याहन्येत । अतो नीतिः साध्वेव
सूचयति-'षटकर्णो भिद्यते मन्त्र' इति ॥ ३२ ॥
छ कान में गया हुश्रा अर्थात् तोन मनुष्यों का किया हुआ मन्त्र
फूट जाता है ॥ ३२॥
त्रिभिः कृते मन्त्रे सम्भवद् दूषणमप्याह-
त्रयाणामैकवाक्येऽसम्प्रत्ययः ॥ ३३ ॥

प्रथमोऽध्यायः। १३ त्रयाणामिति । त्रयाणाम्-मन्त्रणावसरे मन्त्रं कुर्वतां त्रित्वविशिष्टानां पुरु- षाणाम् , ऐकवाक्ये = एकवाक्यतायाम् ऐकमत्य इति यावत् , अविश्वासः भवति । अयं भावः-"द्वाभ्यामेव मन्त्रयितव्यम् , रहस्योद्घटनाभिया तृतीयस्तत्र मन्त्रणे न समावेशनीय इत्येवं तावत्पूर्वसूत्रे सिद्धान्तितम् । इत्यं सत्यपि कथञ्चित् सम्मिलितास्नयो मन्त्रयेयुस्तहिं तेषां त्रयाणां तदानीमेकवाक्यता भवेन्न- वेति सन्देहास्पदमेव । परस्परं विवदमानेषु तेषु सर्वेषामेकमेव सम्मतं भवेदित्यत्र यदि विश्वासो नास्ति तहिं कस्यापि निर्णयस्य तत्र वातव का? उच्यते च लोके- त्रिक विकट"मिति । इदं च सूत्र' नूतनोपलब्धपुस्तकेषु 'त्रयाणामेकवाक्ये सम्प्रत्यय' इत्येवमुपल- ब्धम् । प्रकृते विरुद्ध एष पाठो न सङ्गच्छते । श्रस्य व्याख्यानकौशलं दर्शयन्तो नूतनाः सर्वेऽपि टीकाकृतो यत्किञ्चित्प्रलपन्तो भ्रान्ता एव । अस्माभिस्तु विचार- पुरःसरं तत्र 'असंप्रत्यय' इत्यकारप्रश्लेषात्पूर्वसूत्रानुसरणेन सोऽर्थः सङ्गतिं नीतः। निपुणमेतन्निरूपणीयं प्राशेरित्यलम् ॥ ३३ ॥ तीनों की एकवाक्यता (एकमत) होने में विश्वास नहीं होता ॥३३॥ इदानीं मन्त्रिणो लक्षणमाह- अकामबुद्धयो मन्त्रतत्वार्थदर्शिनो मन्त्रिणः ॥ ३४॥ भकामबुद्धय इति । अकामबुद्धयः-निरपेक्षबुद्धयः, मन्त्रतत्त्वार्थदर्शिनः- मन्त्रस्य तत्त्वार्थं वास्तविकं सारभूतमर्थ द्रष्टुं विचारयितुं शीलं येषां तादृशाः, मन्त्रिण:-मन्त्रिपदमारूढा भवेयुः । येषां मनसि कोऽपि कीदृशोऽप्यों नास्ति, ये च यथार्थरूपेण कर्तुं समर्थाः सन्ति, त एव मन्त्रिणो भवितुमर्हन्ति । पातसहिताः सापेक्षबुद्धयो मन्त्रस्य तत्वमजानन्तो मन्त्रिपदं प्राप्ताः सम्यनयं कर्तुमपारयन्तः कार्यमेव सर्व विघातयेयुः । अतस्तादृशा मन्त्रकायें वर्जनीया इति भावः॥ ३४ ॥ जिनकी बुद्धि में कोई अपेक्षा (इच्छा) न हो और जो मन्त्र का यथार्थ रूप जानने में समर्थ हों, वे ही मन्त्री होने योग्य हैं ॥ ३४ ॥ बलार्थिनो राज्ञः कर्तव्यतया वक्ष्यमाणे मित्रसमहे 'मित्रं कीदृशं स्या'दित्येत- निरूपयति- आपत्सु स्नेहयुक्तं मित्रम् ॥ ३५ ॥ श्रापरिस्वति । आपत्सु-शत्रुकृतदैविकाद्यसु विपत्तिषु सतीसु, मित्रम्-मुढ- पक्ष- -

-
चाणक्यसूत्रे-
त् , स्नेहयुक्तम्-स्नेहभावेन समन्वितं भवेत् । सम्पत्तिसमये किल स्वार्थपरवशा:
परेऽपि मित्रभावं दशयन्ति, परं विपत्तिसमये यः किल स्नेहभावं पूर्ववत् प्रकट-
यति, स एव मित्रपदवीं वस्तुतः प्राप्नोति । आपत्तिरेव मित्रस्य परीक्षाया निक
पोपलः । तत्र स्नेहं त्यजन्मित्रं न भवतीत्यर्थः ॥ ३५ ॥
विपत्ति के समय मित्र को स्नेहयुक्त होना चाहिये ॥ ३५॥
प्रापदि स्नेहसंयुक्तानां मित्राणां सद्महे को लाभ इति निर्दिशति-
मित्रसङ्ग्रहणे बलं सम्पद्यते ॥ ३६ ॥
मित्रसङग्रहण इति । मित्रसमहणे-मित्राणां सुहृदां समहणे प्राप्तिकर्म-
णि, बलम्-शक्तिः, सम्पद्यते-संवर्धते । शक्तिस्तावत्रिविधा-प्रभुमन्त्रोत्साहरू-
पेति । अयमाशयः-अनन्यभावानां स्निग्धानां कर्तव्यशीलानां समर्थानां मित्राणां
साहाय्येन दुर्बलोऽपि राजा बलवान् भवति । प्रबलो हि सर्वकर्मणि समर्थः । अतो
भूतिमिच्छता राशा सन्मित्रसमहः कर्तव्य इत्युपदिष्टं भवति ॥ ३६ ॥
मित्र का सङ्ग्रह करने से बल बढ़ता है ॥३६॥
बलयुक्तः कि कुर्यादित्याह-
बलवान् अलब्धलाभे
प्रयतेत ॥ ३७॥
बलवानिति । बलवान्-शक्तिसम्पन्नो राजा, अलब्धलाभे-
अलब्धलामे-अलब्धस्या-
ऽनधिगतस्यार्थस्य लामेऽजेने, प्रयतेत-सयत्नो भवेत् । अलब्धमर्थ लब्ध्वा बलं
सार्यकं कुर्यादिति भावः । अयमाशयः-शक्तिसम्पन्नेन राज्ञा स्वतेजसा रिपूनाक्रम्य
वशीकृत्य च तेषां राज्यं प्राप्तुं सयत्नेन भाव्यम्। अयमेव राज्ञोऽलब्धलाभः।
अलब्धं पराधिकारे स्थितं राज्यं स्वायत्तं कर्तुमेव बलस्योपयोगः॥ ३७ ॥
बलवान् राजा को अप्राप्त की प्राप्ति के लिये यत्न करना चाहिये ३७
अप्राप्तप्राप्तावनधिकारिणं वर्णयतिः-
अलब्धलाभो नालसस्य ॥ ३८ ॥
अलब्धलाभ इति । अलसस्य-कार्यमकुर्वतो मन्दस्य, अलब्धलाभ:-अ.
प्राप्तवस्तुनः प्राप्तिः, न भवति । 'बालस्यं हि मनुष्याणां शरीरस्थो महान् रिपु'.
रित्याज्ञस्यरूपे महति शत्रावतिसन्निकृष्टे सत्यलब्धलाभे न कदाचिदपि प्रभू राजा।
तस्मात्सर्वप्रयत्नविघातकमालस्यं स्तोकमपि न समाश्रयणीयं भूतिमिच्छता राज्ञा-
जनेन वेति ॥ ३८ ॥
आलसी को अप्राप्त वस्तु की प्राप्ति नहीं होती॥ ३८॥

प्रथमोऽध्यायः। - - अलसः पुरुषो दैवाल्लब्वस्यापि रक्षणेऽसमर्थ इति कथयति- अल मेन लब्धमपि रक्षितुं न शक्यते ॥ ३९ ॥ अलसेनेति । अल सेन-उत्साहहीनेन मन्देन, लब्धम्-प्राप्त राज्यादिकमपीति यावत् , रक्षितुम् , पालयितुम् , न शक्यते-न पार्यते । पानस्यं यथाऽप्राप्तं प्राप- यितुं न क्षमते तथैव प्राप्त रक्षितुमपि । 'अलब्धलाभे प्रयत्न एवान्याय्योऽतः सन्तो. षवृत्तिना भवितव्यं धर्मशीलेन पुरुषेणे ति केषाञ्चिद्वचः । युक्तेऽपि सत्येतस्मिन् वचसि स्वाधिकारगतस्य रक्षणं स्वजीवनस्य रक्षणमिवेति । तत आत्मानमपि रक्षितुमालस्यत्यागोऽपेक्षित इत्युक्तं भवति ॥ ३१ ॥ श्राललो राजा मिली हुई वस्तु की भो रक्षा नहीं कर सकता ॥३६॥ यदि दैवादालस्ययुक्तेन लब्धं रक्षितं भवेत्तथापि वृद्धिमगच्छत् तन्न किञ्चि- दुन्नतिकरमिति ब्रूते- न चालस्पयुक्तस्य रक्षितं विवर्धते ॥१०॥ न चेति । आलस्ययुक्तस्य-पालस्येन मान्छन युक्तस्य समन्वितस्य, रक्षितं च-पालितमपि, चकारोऽप्यर्थे, न विवर्धते-न वृद्धि प्राप्नोति । प्रकृतीनामतिस्ने' हात् पित्रादिकृतशत्रुच्छेदेन वा रक्षि नमपि राज्यकोषादिकं राज्ञो मान्द्येन न कदा. चिद् वृद्धिं गच्छति । अनुन्नतं च राष्ट्रमन्यराष्ट्राणामुमहासभाजनं भवति । अत आलस्यं त्यक्त्वैव राजा समुन्नति प्राप्तुं शक्नोतीत्येतावदर्थ जातमत्र ॥ ४० ॥ श्रालसी राजा द्वारा रक्षित होने पर भो ( राज्य-कोषादि को) वृद्धि नहीं होती ॥४०॥ अलसस्य भृत्यपोषणशक्तेरप्यभावं वक्ति- न भृत्यान् पोषयति ॥४१॥ न भृत्यानिति । भृत्यान्-सेवकान् , न पोषयति-न पालयति यथोचितरूपे- णेति यावत् । स्वमपि रक्षितुमसमर्थो योऽलसः, स किल कथं परान् भृत्यान पोषण- द्वारा रक्षितुं क्षमतामिति भावः । इदं तात्पर्यम्-अपोषिता भृत्या असन्तुष्टा भूत्वा कार्यहानि कुर्युरन्यं कश्चित्योषयितारं राजानं समाश्रयेयुर्वा । अयोग्या अलसा एव भृत्यास्तत्सेवने चिरप्रवृत्ताः स्युः । अयोग्य परिवश्विामी सदा दुःखी स्यात् । अत आलस्यं त्यक्त्वा कोषादिकं वर्धयित्वा च राजा सुभृत्यानां सम्यक पोषणे समर्थो भवेदित्युपदिष्टं भवति ।। ४१ ॥ - - । चाणक्यसूत्रे- (वह ) नौकरों का पोषण नहीं कर सकता ॥ ४१ ॥ श्रालस्ययुक्तो राजास्मिल्लोके शान्ति न प्राप्नोति, श्रामुष्मिक्यै शान्त्यायपि यतितुं न पारयत्यसाविति वक्ति- न तीर्थ प्रतिपादयति ॥ ४२ ।। न तोर्थमिति । अलसो राजा, तीर्थम्-काश्यादिस्थानम् ,न प्रतिपादयति- न साधयति । तीर्थाटनेऽपि न समर्थोऽलस इति भावः । अयमाशयः-शास्त्रावर. विद्यासदनभूनानि नानि तानि प्रसिद्धानं पुण्यक्षेत्राण्युपगम्यैव सत्सङ्गतिलभ्यते । सत्सङ्गतिरेव धर्मानुरागं जनयति वर्धयति च। तीर्थाटनद्वारा वृद्धि गतेन धर्मा- ऽनुरागेण परमा शान्तिरधिगन्तुं शक्या। अतस्तीर्थयात्रासम्पादनाय मान्द्यं त्याज्यमेवेति स्पष्टमुक्तं भवति ।। ४२॥ आलसो गजा तीर्थयात्रा भी नहीं कर सकता ॥ ४२ ॥ राज्यतन्त्रस्वरूपम्धुना निर्दिशति- अलब्धलाभादिचतुष्टयं राजतन्त्रम् ॥ ४३ ।। अलब्धलाभादिचतुष्टयमिति । अलब्धलाभादिचतुष्टयम्-अलब्धलाम आदौ येषां तेषां चतुष्टयं चतु:संख्यापरिमितिः, राज्यतन्त्रम् - राज्यस्य राष्ट्रस्य तन्त्रं सिद्धान्तोऽस्ति । पूर्वोक्तविधया राज्यसिद्धान्तस्वरूपं चतुर्विधम् तथथा- अलवस्य लाभ , लब्धस्य संरक्षणम् , रक्षितस्य संवर्धनम् , संवर्धितस्य सम्यक् प्रयोगश्चेति । एत एव चत्वारोऽर्था राज्यसिद्धान्तपदेन व्यवह्रियन्ते । अयमाशयः- मूलभूतमेतच्चतुष्टयमाश्रित्यैव राजा राज्य सञ्चालयितुं समर्थः । एतेषां स्वरूपोप- योगिते तु प्रागुक्ते व ॥ ४३ ॥ अप्राप्त को प्राप्ति आदि-अप्राप्त को प्राप्ति, प्राप्त की रक्षा, रक्षित की वृद्धि तथा बधित का सत्प्रयोग-यही चार राज्य के सिद्धान्त हैं ॥४३॥ राज्यतन्त्रमनुसृत्यैव नातिशास्त्रं प्रवर्तत इत्याह- राज्यतन्त्रायत्तं नीतिशास्त्रम् ॥ ४४ ॥ राज्यतन्त्रायति । राज्यतन्त्रायत्तम्-पूर्वोत्तराज्यतन्त्राणाम् अायत्त- मधीनम् , नीतिशास्त्रं भवति । निखिलं नीतिशास्त्रं पूर्वोक्तान् सिद्धान्तानेवाश्रि. त्य प्रवर्तते । तेषां विमर्श एव नीतिशास्त्रविषयः खलु । अतो नीतिशास्त्रजिज्ञासुना पर्यायेण चत्वारः सिद्धान्ता अनुसरणीया इत्युक्तं भवति ।। ४४ ॥ राज्य के मूल सिद्धान्तों के आधार पर ही नोतिशास्त्र चलता है। - ।

प्रथमोऽध्यायः। - । - पुनश्च किं फलं राज्ययन्त्रस्येति वक्ति- राज्यतन्त्रेष्वायत्ती मन्त्रावापौ ॥ ४ ॥ राज्यतन्त्रेग्विति । राज्यतन्त्रेषु-राज्यतन्त्राणामेव, आयत्तौ-अधीनो, मन्त्रावापौ भवतः । रहसि युकायुक्तविमों मन्त्रः, परराष्ट्रचिन्तनम् आवापः । राज्यतन्त्राण्येवाश्रित्य मन्त्रावापौ स्फुरत इति भावः । 'मन्त्रमूलाः सर्वारम्भा' इति मन्त्रस्योपयोगित्वं पूर्वमेव निर्दिष्टम् । परराष्ट्रचिन्ता च पुना राज्यरक्षणेऽति. हितकरी । न हि परराष्ट्रं तद्रहस्यज्ञानेन विना वशीकर्तुं शक्यते । परराज्याधिग. तिरेव पुना राज्ञां महल्लिामः । अतः स्वकीयं राज्यं रक्षितुं परकीयं राज्यमधिगन्तुं च राज्यतन्त्राणां सम्यग्ज्ञानं प्रयोगश्चावश्यको नृपस्येति स्पष्टम् ॥ ४५ ॥ मन्त्र (गुप्त विचार) और मावाप (शत्रु के कामों को जानना) ये दोनों उपर्युक्त राज्य-सिद्धान्तों के अधीन हैं ॥ १५ ॥ किमाश्रित्य मन्त्रस्योपस्थितिमवतीस्याह- मन्त्रं स्वविषये कृत्येष्वायत्तम् ॥ ४६ ।। मन्त्रमिति । मन्त्रम्---गुप्तभाषणम , स्वविषये -स्वस्यात्मनो विषये देशे, कृत्येषु-कार्येषु कार्याणामिति यावत् , भायत्तम् अधीनम , भवति । अत्र सूत्रे मन्त्रशब्दो मेदिनीकोषप्रामाण्येन क्लीबे प्रयुक्तः । स्वदेशवर्तिकार्यस्वरूपमनुसृत्यैव मन्त्रः प्रवर्तत इति भावः । याहरव्यापारः करणीयस्ताहगेव मन्त्रोऽपि समाश्रय. गीयः । “मन्त्रपूर्वः सर्वोऽप्यारम्भः क्षितिपतीना"मिति शुक्रनीतिरप्यमुमेवार्थे वनयति ॥ ४६॥ मन्त्र मपने देश के कार्यों के अधीन होता है ॥ ४६॥ पूर्वोक्तस्यावापस्य स्थितेरधिकरणं कथयति- आवापो मण्डले सन्निविष्टः॥४७॥ आवाप इति । भावापः-शत्रुविषयकचिन्तोद्भूतं तस्कार्यान्वेषणम्, मण्डले. द्वादशराजके राज्यसमूहे , सनिविधि:-स्थितः । भावापो मण्डले भवतीत्यर्थः । स्वदेशगतकार्याणि कर्तुं यथा सावधानतया तदुपायचिन्तनं युज्यते तथैव परराष्ट्रव्यापारान् सम्यग्ज्ञातुमपि तच्चिन्तनमावश्यकम । शत्रु कार्येषु दत्तदृधिरेव राजा स्वकार्येषु सफलो भवति । अतः परराष्ट्रचिन्तनरूप भावापो भूपतेरत्या- वश्यक इति ॥४॥ - OM - चाणक्यसूत्रे- मण्डल (बारह राजाओं के राज्य ) में मावाप (शत्रु के कामों का चिन्तन ) की स्थिति होती है ॥४७॥ मण्डलं सन्धिविप्रहयोः कारणमिति वक्ति- सन्धिविग्रहयोर्योनिमण्डलम् ॥ ४८ ॥ सन्धिविग्रहयोरिति । सन्धिविग्रहयोः-सन्धिः पणबन्धपुरःसरं शत्रुणा सह मैत्रीकरणम्, विग्रहोऽन्यमण्डले दाहलुण्ठनादिभिरुत्पन्नं युद्धम् , तयोईयोः, योनिः- उत्पत्तिस्थानम् , मण्डलम्, भवति । अयमाशयः-यदि शत्रुरधिकबलः तहिं पण. दानेन तोषयित्वा तेन सन्धिः क्रियते । तद्विजिगीषा वा भवेत्तहि समबलेनाधिक. वलेन वा केनाप्मपरेण सन्धिः सम्पायते । शत्रुजन्यापराधोद्भूतादमाद् युद्धं भवति । एतावुभौ मण्डल एव भवत इति कथितमत्र ॥ ४५ ॥ सन्धि और विग्रह (युद्ध ) का स्थान मण्डल है ॥ ४ ॥ राशा नीतिशास्त्रमनुसृत्यव वर्तितव्यमिति विवक्षुराह- नीतिशास्त्रानुगा राजा ॥ १९ ॥ नीतिशास्त्रानुग इति । नीतिशास्त्रानुगः-अर्थशास्त्रदण्डनीत्यादिमयी नीति- स्तत्प्रापकं शास्त्रं नीतिशास्त्रमुच्यते, तस्यानुगस्तदनुकूलकर्मकर्ता, राजा-नृपो भवेत् । नीतिशास्त्रमनुसृत्य राजा कार्येषु प्रवर्तेत । अयमाशय:-नीतिविरुद्धकर्मा, सका बहवो वेनप्रमृतयो राजानो नष्टाः । उक्तं च युक्तिकल्पतरौ- नोतिहीननरेन्द्राणी विनश्यन्न्याशु सम्पदः। अतो नीति: प्रयत्नेन श्रवणीया नृपोत्तमैः॥" इति । नीतिनैपुण्यादेव राज्य सञ्चालिकाः प्रभावोत्साहमन्त्रजास्त्रि विधाः शक्तयः प्रादुर्भवन्ति । अतः शक्तिमिच्छता राज्ञा नीतिशास्त्रानुवर्तिना भवितव्यमिति ॥४९॥ राजा को नीतिशास्त्र के अनुसार चलना चाहिये ॥ १६ ॥ शत्रुलक्षणं वक्ति- अनन्तरप्रकृतिः शत्रुः ।। ५० ॥ अनन्नतरप्रकृतिरिति। अनन्तरप्रकृतिः-अनन्तराऽव्यहिता प्रकृतिः स्थिति. देश इति यावत् यस्य सः, शत्रु:--शत्रुपद यवहार्यो भवति । अव्यवहितदेशस्य राजा स्वभावतः शत्रुता भजत इति भावः । निजराज्यममृद्ध्यर्थ यशोलाभाय च नृपः परराष्ट्राणि विजेतुं समत्नो भवति । भासन्नवर्तिनोरेव राज्ययोः परस्पराभियान -- प्रथमोऽध्यायः । सुकरम् । अतः समीपस्थ देशस्य राजैव स्वाभाविकः शत्रुरिति कथितम् ॥ ५० ॥ अत्यन्तसमीप के देश का राजा शत्रु होता है ॥ ५० ॥ शत्रुलक्षणं प्रोच्य मित्रलक्षणं निरूपयति- एकान्तरितं मित्रमिष्यते ॥ ५१ ॥ एकान्तरितमिति । एकान्तरितम् -एकेन राज्येन अन्तरितम् व्यवहितम् , मित्रम् -सुहृत् , इष्यते-वाछपते । एकराज्यव्यवहितं राजानं मित्रं कुर्यादिति भावः । अतिसन्निकृष्टो नृपः स्वभावत एव राज्यप्रसारलाभाच्छत्रुर्भवति । एक- राज्यव्यवहितोऽसौ समान शत्रुत्वादनायासेन मित्रत्वं भजते । अतः समानमेव शत्रुमुन्मूलयितुं तस्मादात्मानं रक्षितुं वैकराष्ट्रव्यवहितदेशस्याधिपतिमेव मित्रं कुयोदित्युपदिष्टमत्र ।। ५१ ॥ (अपने देश के अतिनिकट) एक राज्य से व्यवहित राजा को मित्र बनाना उचित है ॥ ५१ ॥ शत्रुत्वं मित्रत्वं च किमपि कारणमुद्दिश्यैव भात इति निर्दिशति- हेतुतःशत्रुमित्र भविष्यतः ॥ ५२ ॥ हेतुत इति । हेतुतः-कस्माच्चित्कारणादेव, शत्रुमित्र-शत्रुर्वैरी मित्रं सुहृच भविष्यत:-भवेताम् । किञ्चित्कारणमाश्रित्यैव कश्चिद्राजा शत्रुतां मित्रता वा भजत इत्यर्थः । 'हेतुं विना मन्दोऽपि न प्रवर्तत' इति किमपि कार्य कर्तु कोऽपि किच्चि. रफलमेव लक्ष्यीकृत्य प्रवर्तते । अपकाराच्छत्रुकाकारान्मित्रं च जायते इत्यर्थं जात. मत्र ॥ ५२ ॥ शत्रु और मित्र कारण से ही होते हैं ॥ ५२ ॥ हीयमानेन सह सन्धि निषेधनाह- हीयमानेन न सन्धि कुर्वीत ॥५३॥ होयमाननेति हीयमानेन--क्रमशोऽवनति गच्छता राज्ञेति यावत् सधिनम् -पणदानपुरःसरं सन्धानम् , न कुर्वोत-न विदधीत । अयं भावः- अधिकबलाच्छत्रोीतः कश्चिदपरं शत्रु विजिगीषुवा सन् केनचित् समानबलेना- •धिकबलेन वा नृपेण सह सन्धि कुयात् । होनबलेन राज्ञा सह मैत्रीकरणमपाथक. मेव, यतस्तस्मान्न किमपि भयं न चासो साहाय्यदाने क्षमः । तद्राज्यापहरणं च पुनरतिसुकरम् । तत्को नाम राजेवंविधो बालिशो यः स्वकीयराज्यस्याभियुद्धा- - चाणक्यपत्रे- चुदासीनः सन् विजितप्रायस्य राज्ञो राज्यमस्वायत्तीकृत्य सन्धानाय प्रवर्तेत ! मत एव हीयमानेन सह सन्धिनिषिद्धा नीतिकृता ॥ ५६ ॥ अनवति करते हुए राजा के साथ सन्धि नहीं करनी चाहिये॥५३॥ केन कारणेन सन्धिः क्रियत इति विवतुराह- तेजो हि सन्धान हेतुस्तदर्थिनाम् ॥ ५४ ॥ तेजो होति । तदथिनाम्-तस्य सन्धानस्य अर्थिनामिच्छुकानाम् , तेजः- बलं प्रतापो वा अन्यस्येति शेषः, हि निःसंशयम्, सन्धानहेतुः-सन्धानस्य अन्धेः हेतुः कारणं भवति । प्रताप एव हीनबलं सन्धाने प्रवर्तयतीत्यर्थः। अधिकबला- द्राज्ञः स्वकीयं राज्यमभिरक्षितुं तेन, अथ वा तच्छन्नुभूतेन केनचिदपरेण तेजस्विना नृपेण सन्धिमिच्छति न्यूनबलो राजा। उभाभ्यां सार्द्ध सन्धानस्य कारणं तयो. स्तेज एव भवति । तेजसो भीतस्तदवाप्तुमिच्छन् वा नृपः सन्धि कर्तुं प्रवर्तत इति भावः ॥ ५४ ॥ सन्धि चाहने वालों के लिये सन्धि करने का हेतु (दूसरे राजा) का)प्रताप ही है ॥ ५४॥ पूर्वोक्कमर्थमुदाहरणेन पोषयति- नातप्तलोहं लोहेन सन्धत्ते ॥ ५५ ॥ नातप्तलोहमिति । अतप्तलोहम्-अतप्तममिनाऽदग्धम् लोह धातुविशेषः, लोहेन-लोहखण्डेन, अतप्तेनेति यावत् , न सन्धत्ते-न मिश्रीभवति । अग्निसंयोगा- त्तप्तयोरेव लोहयोः परस्परं सम्मेलनयोग्यस्वादिति भावः । अग्निना तप्त एव कोहो द्रवत्वमापन्नोऽपरेण तथाविधेन लोहखण्डेन संयुज्यते । अभिरेव तयोः सन्धान- कारकः । एवं तेज एव द्वौ भिन्नौ राजानौ संयोजयतीति ॥ ५५ ॥ नहीं तपाया हुश्रा लोहा लोहे के साथ नहीं जुटता ॥ ५५ ॥ प्रबलस्य दुर्बलेन सह युद्धं विधास्थन्नाह- बलवान् हानेन विगृह्णीयात् ॥ ५६ ।। बलवानिति । बलवान्-शक्तिमान, होनेन-क्षीणबलेन सह.विगृह्णीयात्-युद्धं कुर्यात् । क्षीणशतिना राज्ञा सह बलवान् राजा युध्येतेत्यर्थः। बलवता युद्धं पर्व- थैव हानिकरम् । समानबलेनापि विग्रहो नातिलाभप्रदो जयस्यानिश्चितत्वातू । होनबलेन समं युद्ध न कदापि पराजयस्याशङ्का, प्रत्युत तद्राज्यलाभ एव स्यात् । - - .

प्रथमोऽध्यायः।
२१
२
D.
-
अतो हीनबलेनैव सह बलवान् युद्धं कुर्यादित्युक्तं भवति ॥ ५६ ॥
बलवान् राजा बलहीन राजा से युद्ध करे ॥ ५६ ॥
पूर्वोक्तमेवार्थमतिस्पष्टं चिकीर्षुराह-
न ज्यायसा समेन वा ॥ ५७ ।।
न ज्यायसेति । ज्यायसा-अधिकबलेन, समेन-समानबलेन वा राज्ञा.
'विगृह्णीयादिति पूर्वसूत्रेणानुवर्तनीयम् , न युध्येतेत्यर्थः । अयमभिप्रायः-अधिक-
बलेन सह विद्महे सर्वथैव हानिः, पराजयस्य तत्र निश्चितत्वात् । समानबलेनापि
विग्रहो हानिकर एव, यतो महतो धनस्य बलस्य च व्ययेनासौ सम्पद्यते। विजयो-
ऽपि तत्रैकस्यानिश्चित एव । जयमेव लक्ष्यीकृत्य धनादिव्ययो युज्यते । लाभस्या-
शंसयव पुरुषः कस्मिविस्कर्मणि प्रवृत्तो भवति । जयस्यानिश्चितत्वे सर्वथा तदभावे.
वा विग्रहो नीतिविरुद्ध इति ॥ ५७ ॥
अधिक बल-वाले अथवा समान बल-वाले से युद्ध न करें ॥५॥
बलिना सह युद्धं कीदृशं भवतीति दृष्टान्तेन दर्शयति-
हस्तिनः पादयुद्धमिव बलवद्विग्रहः ।। ५८॥
हस्तिन इति । बलवद्विप्रहः-बलवता प्रबलेन राज्ञा विग्रहो युद्धम् , हस्ति-
ना-करिणः, पादयुद्धम्-पादेन चरणेन सह युद्धम् , इच-तेन तुल्यं भवति । भय-
माशयः-यथा कठोरेण बलवता हस्तिपादेन युध्यमानो नरोऽवश्यमेव नाशमाप्नुया-
तथैव बलवताऽमईणेन च शत्रुणा युध्यमानस्य नृपस्य नाशोऽवश्यम्भाव्येव । अतो
न कर्तव्यो विप्रह आत्मानं नाशयितुं समर्थन बलवता रिपुणेति ॥ ५८॥
बलवान् से युद्ध करना हाथी के पैर के साथ युद्ध करने के
सदृश है ॥ १८॥
[ र्वोत्तममुदाहरणेन दर्शयति-
आमपात्रमापेन सह विनश्यति॥ ५९ ॥
श्रामपात्रमिति । आमपात्रम्-आममपरिपक्वं पात्रं भाजनं मृण्मयमिति
यावत् , आपेन-भपा समूहेन भद्भिरिति यावत् , सह-सार्धम् ,
वर्तमानमिति
शेषः, विनश्यति नाशं प्राप्नोति । जलपूर्णमामपात्रं नश्यतीत्यर्थः । यथा जलस्य
संयोगेनापरिपक्वं मृत्पात्रं क्षिप्रमेव भग्नं भवति, तथैव सर्वशक्तिसम्पन्ने प्रबले
शत्रावभियानेन नातिकालेन नाशं प्राप्नोति होनबलो नृपः । अतः स न युध्येत.
प्रबलेन वैरिणेति पोषितमनेनोदाहरणेन ॥ ५९ ॥

- चाणक्यसूत्रे- कच्ची मिट्टीका बर्तन पानी के साथ रहने से नष्ट हो जाता है॥५॥ पाश्रूणां स्वराज्याभियाने सति किं कुर्याद्राजेति वदति- अरिप्रयत्नमभिसमीक्ष्यात्मरक्षया वमेत् ॥३०॥ मरिप्रयत्नमिति । अरिप्रयत्नम्-अरीणां शत्रूणां प्रयत्नमुद्योगं सेनासङ्- ग्रहादिकमिति, यावत् , अभिसमीक्ष्य-सर्वतो निरीक्ष्य, आत्मरक्षया-आत्मराज्या- दिरक्षापूर्वकम् , वसेत् तिष्ठेत् , राजेति शेषः । शत्रोबलस्य सम्यनिरीक्षणं कृत्वा- स्मरक्षोपायं चिन्तयता भवितव्यं नृपेणेति भावः । यदा कश्चिच्छ राज्यमभिगच्छति विग्रहेच्छया, तदा तस्य बलं कार्य वा सम्यग्ज्ञात्वैव तेन सह सन्धि विग्रहं तदाश्र. यणं वा यथोचितं कुर्याद्राजा। तदीयं प्रयत्नं बलं चाशास्वैव सहसा मूढतया तेन सह योद्धु नोचितम् । तथा सति पराजयस्याशङ्का स्यात् । अतः शत्रुचेधितस्य- निरीक्षणं कुर्वतैवात्मरक्षोपायः कर्तव्यो नृपेणेति कथितं भवति ॥ ६ ॥ शत्रु के उद्योगका भलीभाँति निरीक्षण करके ( राजा को) अपनी रक्षा का उपाय करते रहना चाहिये ॥ ६०॥ शक्तिहीनो विग्रहसन्धिप्रस्तावं विहायातिप्रबलं राजानमाश्रयेदिति वक्ति- शक्तिहीनो बलवन्तमाश्रयेत् ॥ ६१॥ शक्तिहीन इति । शक्तिहीनः-सामयेन रहितः क्षीणो राजा, बलवन्तम्- शक्तिमन्तं भूपतिम् , भावयेत् अवलम्बेत । शत्रौ प्रबले सति तेन सह विप्रहः सर्वथैवाऽवाञ्छितः खलु सर्वनाशशङ्कया। सन्धिप्रस्तावमस्वीकुर्वतातिप्रबलेन तेन सह सन्धिविग्रहावुभावपि कर्तुं न युज्यते । तत्राश्रयणमेव वरं तत्र । तेनैव सस्य रक्षायाः सम्भवः । नान्यत्किञ्चिदुपायान्तरमिति ॥ ६१ ॥ बलहोन राजा बलवान् राजा का आश्रय ले ॥ ६१ ॥ दुर्बलाश्रयणं दुःखायेति प्रतिपादयितुं प्रकमते- दुर्बलाश्रयो हि दुःखमावहति ॥ ६२ ।। दुर्बलाश्रय इति । दुबैलाश्रयः-दुर्बलस्य क्षीणवलस्य नृपस्याश्रयोऽवलम्ब नम् , हि-निःसंशयम् , दुःखम्-कष्टम् , भावहति जनयति । स्वयं क्षीणवलो राजा स्वरक्षणेऽप्यसमर्थः कथं पुनराश्रितानामुपकृती प्रभवेत् ? तदाश्रये तिष्ठन् राजा तत्साहाय्यमनवाप्य सततमेव शत्रुभ्यो भीतः स्वराज्य रक्षितुं किमपि मुखं च लन्धुं न शक्नुयात् । तेन दुर्बलत्य नृपस्याश्रयणं नूनं दुःखकरमेवेति भावः ॥६२॥ - .

प्रथमोऽध्यायः। दुर्वल का श्राश्रय दुखदायी होता है ॥ ६२ ॥ इयत्पर्यन्तं राज्ञोऽनुसरणीयं नीतितत्त्वमुपदिश्य सूत्रकारः साम्प्रतं लोककर्तव्य मुपदेश्यन् राजानं कथमाश्रयेदित्याह- अग्निवद् राजानमाश्रयेत् ॥ ६३ ॥ भग्निवदिति । राजानम्-शासकन रेशम् , अग्निवत्-अग्निमिव, आश्रयेत्- सेवेत । अनिर्यथा नाऽतिसमीपतो न चातिदूरतः संधीयते लोकः, तथैव राजापी- त्यर्थः। भतिसामीप्यादग्नेः सेवनं यथानर्थकरम्, अतिदूराञ्च सेवितोऽग्निर्यथा वा व्यर्थः, तथैव राजाऽप्यतिसन्निकर्षात् सेवितोऽतिपरिचयवशात् कदाचिदना- दरबुद्धिं वहेत् , मतिविप्रकर्षाच्च सेवितः कदाप्युपेक्षाभावं कलवेदिति मध्यगत्या तदीयमाश्रयणं युज्यते। राज्ञो वहेरिव नातिसमीपे नातिदूरे च स्थातव्यं जनः, किन्तु किञ्चित्समीपे किञ्चिद्दूरे च स्थितियुक्तेति भावः ॥ ६३ ॥ मग्नि के समान ( न बहुत समीप और न बहुत दूर से ) राजा का सेवन करना चाहिये ॥६३ ॥ राजविरुद्धं नाचरेदित्याह- राज्ञः प्रतिकूलं नाचरेत् ॥ ६४ ॥ राज्ञ इति । राज्ञः-स्वामिनः, प्रतिकूलम्-विरुद्धम् , न आचरेत-न कुर्यात् । राजकीयाज्ञा जगत्य निवार्या भवति । आज्ञाभङ्गरूपमपराधं कुर्वन्तो दण्डनीयाः शासकेन । नापि कर्तव्यं तत्तेषां, यत् स्वामिनोऽनभिमतं विरुद्धं वा स्यात् । एवं पति ते राजद्रोहिणः स्युः । अतः सर्वथा सर्वः सर्वात्मना राजानुसरणोणेन च प्रतिकूलाचरणैः प्रकोपनीय इति भावः ॥ ६४ ॥ राजा के विरुद्ध (कार्य) नहीं करना चाहिये ॥ ६४॥ इदानी लोकेन कथं वर्तितव्यमित्याह- न देवचरितं चरेत् ॥ ६५ ॥ नेति । देवचरितम्-देवानां सुराणो चरितम् आचरणम् , न चरेत्-नाश्रयेत् , असमर्थः-सर्वशक्तिसम्पन्नैर्देवैः यथावसरं यशदाचरितं तयदि लोकोऽप्यक्षमः कर्तु प्रवतेत, तहि सोऽवश्यमेवोपहास्यः स्यात् । इन्द्रादीनां चरितं प्रसिद्धमेव । श्रीकृ- हणलीलापि विदितव । तादृशमाचरणं तादृशामेव शक्तिमतां शोभते । अतस्तथा (देवचरितानुसरणं ) न कर्तव्यमित्येष गूढोपदेशः ॥ ६५ ॥ - - - - चाणक्यसूत्रे- देवों का किया हुमा कार्य नहीं करना चाहिये ॥ ६५ ॥ लोकस्वरूपमधुना वर्णयति- नोद्धतवेशधरः स्यात् ।। ६६ ॥ नोद्धतवेशधर इति । उद्धतवेशधरः-औद्धत्यसूचकम् उद्धतलोकसेवितं वा वेशं धारयन् लोकः, न स्यात्-न भवेत् । विनयाभावमसभ्यतां च दर्शयन्नद्धतः कथ्यते । वेशश्च स्वात्मालङ्करणानां वस्त्रादीनां धारणम् | अशिक्षितर्जनदृशं तस्त्रा- दीनो धारणं क्रियते, यच्च वस्त्रादिधारणं विनयाभावमसभ्यता वा सूचयति, न तथा वस्त्रादिकं परिधातव्यम् । तथा सति तत्र पुरुषे लोकानामनादरबुद्धिरप्रियता च स्यातामिति भावः ॥ ६६ ॥ असभ्यता को सूचित करने वाले मथवा असभ्य लोगों के वेश का ग्रहण नहीं करना चाहिये ॥ ईया कुर्वन्तौ द्वौ परस्परं भेदनीयावित्याशयेनोपन्यस्यति- द्वयोरपीय॑ताद्वैधीभावं कुवात ॥ ६७ ॥ द्वयोरिति । ईय॑तो:-ईयां कुर्वतोः परस्परोन्नतीरसहमानयोरिति यावत् , द्वयोरपि-पुरुषद्वयेऽपि, द्वैधीभावम्-द्विधात्वं भेदं पस्परं सम्बन्धविच्छेदम् इति यावत् , कुर्वीत-उत्पादयेत् । इदमत्र तात्पर्यम्-केनापि कारणेन यदि कौचित् पर- स्परमुन्नति न सहेते तर्हि तदीयाद्वेषवशान्मियः सम्बन्धशालिनावपि तो बहुतरो मिथो हानिमेवोत्पादयेताम् । विच्छिन्नसम्बन्धौ च तथा हानिकरौ न स्याताम् , यतः संसर्गेम्वेव लामहान्योः सम्भावना 1 अतः कोऽपि मध्ये स्थितः सज्जनस्तयोः परस्परमीयां कुर्वतोभेंदमुत्पादयेत् । तेनैव तयोः कल्याणम् । भेदे पति मिथो विरोधस्तयोद्धि गच्छेत् , तेन च हानिरेवाधिकेति शक्कायामेतदेवोत्तरं यद् भेद- मुलको विरोधः प्रकाशमागतोऽन्तःस्थितात् सुगूढाद् विरोधाद् वरीयानेव । ताह- श्यामवस्थायो द्वयोः सावधानता परस्परं साहाय्यं कुर्यादित्यलम् ॥ ६७ ॥ ईर्ष्या ( डाह ) करने वाले दो पुरुषों का आपस में भेद (सम्ब- न्ध विच्छेद ) करा देना चाहिये ॥ ६७ ॥ व्यसनेषु लग्नस्य जनस्य राज्ञो वा न कार्यसिद्धिर्भवतीति दर्शयति- न व्यसनपरस्य कायावातिः॥६८ ।। न व्यसनपरस्येति । व्यसनपरस्य-व्यसने लग्नस्य, व्यसनं तावत् कस्मि- प्रथमोऽध्यायः । RY श्चिदपि कर्मण्यतिमात्रासक्तिः, कार्यावाप्तिः कार्याणां कर्मणामवाप्तिः सिद्धिः, न भवति । व्यसनलिप्तो नरो न किमपि साधयितुं समर्थ इति भावः । व्यसनासका पुरुषो न क्वचिदन्यत्र निर्वृति लभते । कर्तव्य कार्येषूदासीन एवासो भवति । दासी- नतया हि तानि सम्पादयितुं यत्नं कथं कुर्यात् ? यत्नेन विना न किञ्चित् सिण्यति लोके । अतः कार्यसिद्धिमिच्छता पुरुषेण व्यसनरहितेन भाव्यमिति ॥ ६८ ॥ व्यसन में लगे हुए पुरुष को कार्य का सिद्धि नहीं मिलती ॥६॥ व्यसनासक्तस्य कार्याणामसिद्धिमुक्त्वाऽजितेन्द्रियस्यापि तथात्वमाह-- इन्द्रियवशवर्तिनी नास्ति कार्यावाप्तिः ॥ ६९ ।। इन्द्रियवशवर्तिन इति । इन्द्रियवशवर्तिनः-इन्द्रियाणां मनचक्षुःप्रमृतीना- मेकादशसंख्याकानाम् , वशे तस्कर्तृके शासने वर्तितं शीलमस्येत्येवम्भूतस्य पुरु- षस्य, कार्यावाप्तिः-कार्यसिद्धिः न अस्ति-न भवति । विषयवशंवदस्य न किञ्चित् सिग्यतीति भावः । बलवन्ति रढं प्रमाथीनि चेन्द्रियाणि भवन्ति । तानि च तेषु तेषु विषयेषु पुरुषं प्रसह्य प्रेरयन्ति । तत्तद्विषयेष्वासक्तः पुरुषो न कदापि विषये- तरानन् भजते । कर्तव्येवनभिरुचिः सञ्जायतेऽसौ । कर्तव्यं विहायाऽकर्तव्य कुर्वता जनेन न कदापि सिद्धिर्लभ्यते । अतो जितेन्द्रियेण भवितव्यं कार्यफल- लिप्सुना पुरुषेणेत्याशयः ॥ ६९ ॥ इन्द्रियों के वश में रहने वाले पुरुष के कार्य को सिद्धि नहीं होती॥६६॥ सहसा कार्य प्रवृत्तेनापि न सिद्धिर्लभ्यत इत्याह- नास्ति कार्य द्रुतप्रवृत्तस्य ॥ ७० ॥ नास्तीति । द्रुतप्रवृत्तस्य-द्रुतं शीघ्रं यथा स्यात्तथा अविचायति यावत् , प्रवृत्तस्य भारब्धकर्मणः पुरुषस्य, कार्य नास्ति-कार्यफल न भवति । अविचार्य कृतानि कर्माणि न सिद्धि प्राप्नुवन्तीति भावः । हानिलाभादिविचारमकृत्वैव कायें प्रवृता बालियाः पुरुषा न फलेन युज्यन्ते । फलं तावदूरे तिष्ठेत् , ते बहुमिरापद्भिः समाक्रम्यन्तेऽविवेकाश्रयेण । अयमेवार्थः समुद्घोषितः श्रीभारविगा-'सहसा विद- धीत न क्रियामविवेकः परमापदो पदम्' इति । अतः कार्यफलं लब्धुमिच्छन् न • सहसा कार्येषु प्रवर्ततेति ॥ ७० ॥ शीघ्रता से (बिना विचार किये) काम करने-वाले पुरुष का कार्य सिब नहीं होता ॥ ७० ॥ --

२६
चाणक्यसूत्रे-
मृगयासक्ति निषेधन्नाह-
मृगयापरस्य धर्माथों विनश्यतः॥७१ ॥
मृगयापरस्येति । मृगयापरस्य-आखेटासक्तस्य, मृगया तावाद् वन्यपशूनां
क्रीडया हननम् , धर्मार्थो-धर्मश्चार्थश्च, विनश्यत:-विशेषेण नश्यतः । मृगयासक्ति-
धर्मार्थों नाशयतीति भावः। हिसाणा वन्यपशूनामवादनं नानुचितम् । यतो
व्याघ्रादयो हिंसाः पशवो जनान् भृशं पीडयन्ति, तेषां हननं प्रजारक्षणमेवातो
नानुचितम् । किन्तु तत्र कर्तव्यभावोऽपेक्षितः। यदि तेषां हननेन राजा क्रीडा-
सुखं लभते तर्हि नोचितमेव तत् , काश्यवृत्तिजनकत्वात् । कार्कश्यवृत्तिरसौ
दयास्नेहादिभिर्धर्मप्राणभूतैर्गुणविरहितो भवेत् । एभिर्गुणैर्वियुक्तो राजा न कदापि
प्रजावत्सलः स्यात् । अप्रजावत्सलो राजा प्रजानां कमप्युपकारं कर्तुं न प्रवर्तेत ।
मृगयाव्यसनासकः पुनः कथं स धर्मशास्त्रादिश्रवणे तीर्थादिसम्पादने वा चेतो निद.
ध्यात् । एवं सर्वथैव धर्मरहितः स भवेत् । अथ च मृगयासक्त्या न केषु चिदर्थ-
लाभकरेषु व्यापारेष्वात्मानं योजयेत् सः। एवमर्थरहितोऽपि भवेदसौ। तस्माद्ध.
मौवधिगन्तुमिच्छन् राजा न मृगयासक्तको भवेदिति सुष्टूपदिष्टमत्र ॥ १ ॥
श्राखेट (शिकार ) में लगे हुए राजा के धर्म और अर्थ (दोनों)
नष्ट हो जाते हैं ॥ ७१॥
मदिरासेविनः कार्येषु नियोजनं प्रतिषेधन्नाह-
अर्थेषु पानव्यसनी न गण्यते ॥ ७२ ॥
भग्विति । पानव्यसनी-पानं मद्यादिसेवनं व्यसनम् आसक्तिमयो व्यापा-
रोऽस्येति एवम्भूतः, अर्थेषु-कायेंषु, न गण्यते-न युज्यते । मद्यपं न कायें विनि-
योजयेदिति भावः । अयमाशयः-मद्यसेवको जनः प्रमत्तो भवति । प्रमत्तो न किञ्चि-
द्रहस्यं गोपयितुं शक्नोति । रहस्यगोपनमेव तावत् कार्यसिद्धेर्मूलकारणम् । मद-
जनितबुद्धिविक्षेपादसौ विवेकं कर्तुमसमर्थः । विवेकरहितस्य न किमपि कार्य सि-
ध्यति । यदि कस्मिश्चिन्निश्चित एव समयेऽल्पमात्रकमेव समद्यादिकं सेवेत तहिन
महती हानिः । परन्तु व्यसनी खलु न कदापि समयविभागं मात्राया अत्पत्वं च
जानाति । सततमद्मपान निरतो जनः सर्वथैव कार्यसम्पादनेऽसमर्थः, अतो न म
नियोज्योऽयष्विति कथितं भवति ॥ ७२ ॥
मदिरासेवी कार्यों में नियुक्त नहीं किया जाता ॥ ७२ ॥

प्रथमोऽध्यायः। २७ - राज्ञः कामाधीनता न श्रेयस्करीत्याह- न कामासक्तस्य कार्यानुष्ठानम् ।। ७३ ॥ न कामासक्तस्येति । कामासक्तस्य-मदनाधीनस्य विषयेषु प्रगाढप्रेम्णः, राज्ञ इति शेषः, कार्यानुष्ठानम्-कार्यसम्पादनम् , न भवति । कामी विलासी च राजा राज्य कार्य किमपि सम्पादयितुं नालम् । गूढार्थविचारस्तु विषयासक्तचेतस- स्तस्मात् सुदूरं पलायेत । स्वैरविहारसापेक्षा विषया गम्भीरविचारसहचारि राज्य- कार्य चेत्येतयोमहद्वैषम्यम् । अतो निजराज्योत्कर्षमिच्छता राज्ञा किल कामा- सक्तिर्दूरतस्त्याज्येति भावः ॥ ५३ ॥ कामो (विषयों में आसक्त रहने वाला, लम्पट) राजा (राज्य का) काम नहीं कर सकता ॥ ७३ ॥ परुषं वचो न प्रयोकव्यं राज्ञेत्याह- अग्निदाहादपि विशिष्टं वाक्पारुष्यम् ॥ ७४ ॥ मग्निदाहादपोति । वातारुण्यम्-वचनस्य कठोरता, नीरसं कठोरं वचन- मित्यर्थः, अग्निदाहादपि-वह्निसन्तापादपि, विशिष्टम्-अत्यधिकं भवति । बह्नः सन्तापः कष्टकरो लोके । राजा च राज्यमदात् किमप्यगणयन् यदि परुषाणि वा- सि प्रजासु प्रयोजयेत् , तर्हि तद् दुःखं प्रजानां वः सन्तापादपि गुरुतरम् । वह्नौ ज्वलनं वरं न परं कठोरवचःसहनम् । मधुरं भाषणमकुर्वन् राजा प्रकृतिभ्यो न रोचेत । प्रकृतीनां प्रेम च राज्ञा सम्पादनीयमेव । अतो मधुरभाषिणैव राज्ञा भवि- तव्यमित्येवं योतितं भवत्यनेन सूत्रेण ॥ ७४ ॥ वचन की कठोरता आग की जलन से भी बढ़कर होती है ॥४॥ लोकेष्वावश्यकतानुसारं मृदुर्दण्डः प्रयोक्तव्यो राज्ञेत्याशयेन ब्रूते- दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ॥ ७ ॥ दण्डपारुष्यादिति । दण्डपारुष्यात-कठोरदण्डप्रदानेन, राजेति शेषः, सर्व- जनद्वेष्यः-सकललोकशत्रुः, भवति-जायते । ऐश्वर्यगवितो राजा दमनीयेषु निष्टुर- तया तीक्ष्णान् दण्डान् प्रयोजयन् लोकाप्रियो भवति । अपराधिषु दण्डेनैव प्रयो- जैनम् , न च कठोरतादिकमपेक्षणीयं तत्र । मृदुतया दण्डप्रदो राजा यापाततो द्वेभ्योऽपि नीत्या व्यवहरन् प्रजावगैर्मनसा श्लाघ्य एष । अतः सर्वजनद्वेषजनक दण्डपारुण्यं नाश्रयेद्राजेति भावः ॥ ५५ ॥ - ३चा० स० चाणक्यसूत्रे- दण्ड की कठोरता ( तीक्ष्ण दण्ड देने ) से राजा सब लोगों का द्वेषी हो जाता है ॥ ७५ ॥ नियमिच्छन् राजा स्वीयमर्थ न दूषयेदित्यभिप्रायेणाह- अर्थदूषकं श्रीः परित्यजति ॥ ७६ ॥ मर्थदूषकमिति । अर्थदूषकम्-अर्थ धनं दूष षयति कुव्ययेन विध्वंसयति यस्तादृशं राजानम् , श्रीः लक्ष्मीः सम्पत्तिरिति यावत् , परित्यजति-सर्वथा त्य- जति । असद्ययं कर्तुं राज्ञः सकाशालक्ष्मीरपगच्छतीत्यर्थः । यो हि राजाऽपरि- मितं वृथा गर्हितञ्च धनस्य व्ययं करोति, स किल कालक्रमेण श्रिया विरहितो भवति । परिमितावश्यकश्लाघनीयव्ययेनैव लक्ष्मीः कथञ्चित् सुरक्षिता तिष्ठतीति भावः । अथ वा, श्रीः-राज्यलक्ष्मीः, अर्थदूषकम्-अर्थ विचारणीयमुपस्थितं विषयं दूषयति विनाशयति यस्तादृशं राजानम् , परित्यजति । राज्ञा हि समुपस्थितेषु विचारणीयेषु विषयेषु निष्पक्षपातमुचितं निर्मूतव्यम् । असद्विचारादिना यदि तमर्थ राजा विघातयति, तर्हि राज्योत्कर्ष कर्तुमशक्नुवन् स्वीयं प्रभुत्वमपि नाशयेत् सः। अतः श्रियमन्विच्छता पदसद्विवेकिना भाव्यं भूपेनेति भावः ॥ ७६ ॥ सम्पत्ति मथवा राज्य-लक्ष्मी, धन का अपव्यय करने वाले अथवा कार्य को बिगाड़ने वाले राजा को छोड़ देती है ॥ ७६ ॥ विद्वेष भजमानं जनं दण्डनीतिमाश्रित्य वशीकुर्यादिति निर्दिशति- अमित्रो दण्डनीत्यामायत्तः ॥ ७७ ॥ भमित्र इति । अमित्रो-विद्वेषीस्वामिभक्तिरहितः प्रजाजनेष्वन्यतमः पुरुषः, दण्डनीत्याम्-दण्डनीतेः अपराधिनियमनविधेः, वायत्त:-अधीनः । विद्रोही दण्डेन वशीक्रियत इति भावः । दण्डनीतिमाश्रित्येव राजापराधिनो वशीकरोति । विद्रो. हिणस्तु विशिष्टापराधिनः। न तेषु कदापि क्षमा कर्तुमुचिता। क्षमाकरणेन ते- ऽन्यान बहूनपि विद्रोहिण उत्पादयेयुः। अतो विद्रोहिणःसर्वथैव दण्डेन वशं नेतव्या नीतिचतुरेण राज्ञेति ॥ ७० ॥ विद्रोही दण्डनीति से वश में किया जाता है ॥ ७७ ॥ दण्डनीतेः प्रजारक्षणोपयोगित्वं निरूपयति- दण्डनीतिमनुतिष्ठन् प्रजा संरक्षति ॥ ७८ ॥ दण्डनीतिमिति । दण्डनीतिम्-अपराधिनियमन विधिम् , अनुतिष्ठन्-अनु. - प्रथमोऽध्यायः। २३ सरन् राजा, प्रजा:-प्रकृती:, संरक्षति- सम्यक् पालयति । स्वभावतः स्वार्थिनी भवन्ति मनुष्याः केचित्त्वतिस्वार्थिनः परार्थानिहत्य स्वार्थ साधयितुं यतन्ते । प्रबलो दुर्वलं बाधते । शरीरशक्तिसम्पन्नाश्चौरा लुण्टाका लम्पटाश्चान्यान् सरलान् जनान् भृशं पीडयन्ति । गुणिनः सुशीलाः सदाचारा विद्यारता धर्मभीरवः सन्त- स्तैरतितरां क्लिश्यन्ते । पदाचारनिरतादीनामेव प्रयत्नेन जनसमाजः सुखमुन्नतिं च नीयते। तेषां रक्षणं राज्योत्कर्षायात्यावश्यकम् । अपराधिनोऽदण्डयित्वा तेषां सम्यग रक्षणमशक्यम् । अतोऽपराधिनो दण्डयित्वा सज्जनानू रक्षितुं दण्डनीतेः परमावश्यकतेति भावः ॥ ७८॥ दण्डनीति का प्रयोग करने वाला (राजा) प्रजा की भली भाँति रक्षा करता है ॥ ७ ॥ दण्डनीतेः फलं निरूपयति दण्डः सर्वसम्पदा योजयति ॥ ७९ ॥ दण्ड इति । दण्ड:-कारागारप्रवेशनार्थादानादिरूपो विधिविशेषः, सर्वसम्प. दा सणैश्वर्येण, योजयति-युक्तं करोति, राजानमिति शेषः । दण्डेन सकलान्येश्व- र्याणि लन्धुं शक्यन्त इति भावः । दण्डभयेन हि स्वस्वकर्तव्यनिरताः प्राकृतजना भवन्ति । स्वकर्तव्यानुष्ठानमेव तेषां सर्वेषां राज्योन्नति सम्पादयति। उनतमेव राज्यं स्पृहणीयं भवति । दण्डभयेन विना दुष्टा दुधताया न विरमन्ति । दुष्टता- प्रसरणेन राज्यं विशृङ्खलं भवेद्विशृङ्खलं च राज्यं न सम्पदा संयुज्यते । अतो राज्याद् दुष्टता निष्कास्य तस्मिन् सज्जनतामुपस्थाप्य दण्डो नृपं सर्वेश्वयंसुख- सम्पन्नं करोतीत्यत्रोक्तं भवति ॥ ७९ ॥ दण्ड राजा को सब सम्पत्ति से युक्त करता है ॥ ७ ॥ दण्डस्य त्रिवर्गमूलत्वं दर्शयति- दण्डाभावे त्रिवर्गाभावः॥ ८॥ दण्डाभाव इति । दण्डाभावे-दण्डस्यापराधिनिप्रहणविधेः भभावे राहित्ये, त्रिवर्गाभावः-त्रिवर्गस्य धर्मार्थकामानाम् अभावः अप्राप्तिः, भवति । दण्डाधीना हि धर्मार्थकामा इति भावः । सर्वासो प्रकृतीनो स्वस्वधर्मेषु नियोजकस्य, भप- राधिनोऽपराधान्निवारकस्य राज्ये कलाविद्यावाणिज्यानां विकासकस्य दण्डस्य प्रयोग विना शान्ति समृद्धिञ्च नाप्नुयाद्राज्यम् । शान्तिसमृद्धिभ्याश्च विना न - ३० चाणक्यसूत्रे- कश्चिद्धर्मकार्याणि सम्पादयितुं सुखसाधनान्यर्जयितुं भोगानुपभोक्तुं वा प्रभवति । दण्डविधानमेव धर्मार्थकामप्रसूतानां व्यापाराणां प्रयोजकम् । तदभावे तेषामप्य- भावः स्यादिति विचिन्त्य न दण्डप्रयोगं त्यक्तुमर्हति धर्मार्थकामार्थी नृप इत्यत्र गुढं सूचितम् ॥ ८०॥ दण्ड के न होने से धर्म अर्थ और काम भी नहीं होते ॥२०॥ दण्डेन जना अकार्यभ्यो निवार्यन्त इति वक्ति- दण्डभयादकार्याणि न कुर्वन्ति ॥ ८१ ॥ दण्डभयादिति । दण्डयभात्- दण्डात् पूर्वोक्तान्निप्रहरूपाद् भयाद् भीत्याः, अकार्याणि-नीतिविरुद्धानि कर्माणि, न कुर्वन्ति-नाचरन्ति, प्रजा इति शेषः । दण्डः प्रकृतीहितकर्मभ्यो निवारयतीति भावः । आत्मनिष्ठस्य निर्मलीकृतान्त:- करणस्य योगिनो न कापि दण्डस्यावश्यकता । स स्वयमेव सदा कार्याण्येव कर्माणि करोति । किन्तु जनसमाजे न सर्व एतादृशाः । बाहुल्येन जना अज्ञानाभिभूताः कर्तव्याकर्तव्यविचारहीनाः स्वार्थपरा इन्द्रियवशंवदा एव । प्रकृत्यैव तेऽकार्येषु प्रवर्तन्ते । ते खलु दण्डभयादेव चौर्यलुण्ठनवधादिरूपादनाचाराद्विरमन्ति । अतो दण्दं प्रयुज्य राजा प्रकृतीः सन्मार्ग गमयेदियुक्तम् ॥ ८१ ॥ दण्ड के भय से लोग बुरे काम नहीं करते ॥ १ ॥ पूर्वेभ्यः सर्वेभ्यो विशिष्टं दण्डनीतेः फलमात्मरक्षणं सम्प्रति प्रतिपादयति- दण्डनीत्यामायत्तमात्मरक्षणम्॥१२॥ दण्डनीत्यामिति । दण्डनीत्याम्-दण्डविधेः, भायत्तम्-अधीनम् , आत्म- रक्षणम्-मात्मनः स्वस्य रक्षणं रक्षा भवति । न केवलं प्रजाः प्रत्युत राजानमपि रक्षितुं समर्था दण्डनीतिरिति भावः । पूर्वमेवोक्तं यद्विद्रोहिणो विशेषेण दण्ड- महन्ति । विद्रोहिणामभावे हि राजा निश्चिन्ततया राज्यं शास्ति। यदि दण्डी न स्यात्तेषाम् , तहिं ते राजानमचिरान्नाशयितुं यतेरन् । दण्डविधानेनैव पुनर्बल- स्य धनस्य च वृद्धिर्भवति । धनवळवृद्धथैव नृपः शत्रुभ्यो रक्ष्यते । अतो दण्डो राजानं सर्वतो रक्षतीत्येताक्दत्रार्थजातम् ॥ ८२ ॥ अपनी (राजा को) रक्षा दण्डोनति के मधीन होती है ॥ २॥ मात्मरक्षा सर्वरक्षातो वरीयसीति वक्तुं प्रक्रमते- आत्मनि रक्षिते सर्व रक्षितं भवति ॥ ८३ ॥ - - प्रथमोऽध्यायः ३१ + मात्मनोति । भात्मनि-राजनि, रक्षिते-पालिते सति, सर्वम्-राज्यप्रकृत्या- दिकम् , रक्षितम्-पालितं भवति । स्वयं रक्षित एव राजा सकलान् प्रजादोन् रक्षितुं समर्थ इति भावः । शरीरमायं खलु। 'धर्मसाधन मिति स्वशरीररक्षा खलु सर्वेषां धर्माणी जननी । अरक्षितः किमपि कर्तुं न शक्नोति, कथं स पुनरतिदुष्करी कस्यचिद्रक्षा सम्पादयेत् ? कथितं च नीतिविदा केनचित्-"आत्मानं सततं रक्षेद् दारैरपि धनैरपि । इति । अतो तृपेण सर्वरक्षणार्थ प्रथममात्मरक्षा विधेयेति ॥८३॥ मपने ( राजा के ) रक्षित रहने पर सभी रक्षित होता है ॥ ३॥ राष्ट्रस्य वृद्धिनायौ राजाधीनाविति वक्ति आत्मायत्ती वृद्धिनाशी ।। ८४ ।। आत्मायत्ताविति । आरमायत्तौ-मात्मनः स्वस्य राज्ञ इति यावत् आय. त्तावधीनी, वृदिनाशी-वृद्धिः समृद्धि यो विशेषेण क्षयश्व राष्ट्रस्येति यावत् , भवतः । राजैव राज्यं वृद्धि क्षयं वा नयतीत्यर्थः । नीतिवचक्षण्यधर्मपरत्वप्रजा- वात्सल्पशक्तिसम्पन्नत्वादिगुणविभूषितो राजैव दण्डप्रयोगेण रक्षिता सन् राज्य- मविरतोयोगेन वृद्धि नयति। राज्यबृद्धौ प्रथम राजसत्ताऽपेक्षिता। राजसत्तायो सजावायां समुचितगुणशालित्वं राज्ञोऽपेक्षितम् । राज्ञोऽभावेऽपि राज्यं स्थातुं शक्नोति, परन्तु न तत्सबलं भवति गुणशालिन शासकमन्तरेण । सबलमेव राष्ट्र खनु वृद्धिं प्राप्नोति। अतः सर्वत एव राजा राज्यस्य वृद्ध शस्य च करणं भवतीति स्पधम् ॥ ८४ ॥ (राज्य को ) उन्नति और भवनति दोनों ही अपने (राजा के) अधीन होती हैं । ८४॥ दण्डनीत्यादीनां चतसृणा विद्यानो प्रयोगो विज्ञाने भवतीत्याह- दण्डनीत्यादि विज्ञाने प्रणीयते ।। ८५ ॥ दण्डनोत्यादोति । दण्डनीत्यादि-दण्डनीतिर्दण्डविधायिनी नीतिरादिर्यस्य तत् , 'मान्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वतीति दण्डनीतिप्रभृतयश्चतस्रो विया भत्र विवक्षिताः, विज्ञान-विशिष्टज्ञाने शास्त्रानुशीलनादात्मानुभवाचोत्पन्ने ज्ञान इति यावत् , प्रमीयते-प्रयुज्यते । दण्डनीत्यादीनां प्रयोगस्तत्तच्छास्त्राणां परिज्ञानमवाप्यैव क्रियत इति भावः । नहि सम्यग्ज्ञानं विना कस्यापि शास्त्रस्य सुप्रयोगः क्रियते । पूर्वोकानां चत्तस्णा विद्यानामात्मानुभवसाधितं ज्ञानं ताः - - - चाणक्यसूत्रे- विद्याः सफलीकरोतीत्येवाभिप्रायोऽत्र ॥ ८५॥ विशिष्ट शान होने पर दण्डनोति मादि का प्रयोग किया जाता है। दुर्बलोऽपि राजा न तावदनादरणीय इति सूचयति- दुबलोऽपि राजा नावमन्तव्यः ॥ ८६ ॥ दुर्बल इति । दुर्बल:-क्षीणबलोऽपि सन् , राजा-नृपः, न अवमन्तव्यः-न तिरस्कार्गः । हीनबलमपि राजानं न तिरस्कुर्युः प्रकृतय इति भावः। प्रथमं ताव- दापाततो हीनबलो राजा स्वाभिमानो भवति । सोऽपि परकृतं तिरस्कारमसह- मानस्तिरस्कर्तु नि कर्तुं यतते । पुनश्च राजावमाननेन तदाज्यं विशृङ्खलं स्यात् । न कोऽपि कस्मादपि भीतः स्यात् । अधिकबलो न्यूनबलं ताडयितुं मारयितुं लुण्ठितुं वा यतेत । ईदृश्यां दुरवस्थायां सजातायां जनाना जीवनस्य धनस्य धर्मस्य वा परिरक्षणं दुष्करं स्यात् । ईदृशि भयग्रस्ते जनसमाजे न कापि कला परिस्फुरति न कश्चिदुयोगः सफलो भवति नच वाणिज्यादेरपि समुन्नतिः सम्भवति। एवं राष्ट्र क्षिप्रमेव विनाशोन्मुखं भवेत् । अत एव सर्वापद्भयो रक्षक दुर्बलमपि राजानं नावमन्येरन् प्रकृतय इत्युपदिश्यते ॥ ८६ ॥ . बलहीन राजा का भी तिस्कार नहीं करना चाहिये ॥ ६ ॥ राजा स्वभावत एवान्तनिहितप्रताप इति निरूपयति धान्तेन नास्त्यग्नेदौर्बल्यम् ॥ ८७ ॥ नास्तीति । अग्नेः-वढेः, दौर्बल्यम्-शक्तिहीनता, न अस्ति-न वियते । अमिरल्पोऽपि सन्नन्तर्दाहशक्तिसम्पन्नो भवतीत्यर्थः । यथा स्फुलिझावस्थोऽप्यग्नि- स्तृणकाष्ठादिकं भस्मसात्करोत्येव तथैवाल्पशक्तिरपि राजा तिस्कर्तृणामपकर- णाय प्रभवत्येव । अतः स्फुलिङ्गावस्थायां स्थितोऽग्निरिवाल्पशक्तिरपि राजा न तावदकिञ्चिरकरो भवतीत्युक्तम् ॥ ८७ ॥ अग्नि में दुर्बलता नहीं रहती ॥ ७ ॥ दण्डकस्य जीविकासम्पादकत्वं निर्दिशति- दण्डेन प्रणीयते वृत्तिः ॥ ८८ ॥ दण्डेनेति । दण्डेन-दण्डप्रयोगेण, वृत्तिः-आजीविका, प्रणीयते-सम्पाद्यते। समुचितदण्डप्रयोगेण जीवनसाधनानि लभ्यन्त इत्यर्थः । दण्डप्रयोगादेव निरुपद्रवं भवति राज्यम् । निरुपद्रवे च राज्ये कृषिवाणिज्यादीनां प्रसरो भवति। तेषा त्यर्थः प्रथमोऽध्यायः। प्रसरणक्रमेणोन्नतिरेख जीवनसाधनानि करोतीत्यतो पत्त्यर्थमपि दण्ड मावश्यक इति प्रोक्तमत्र ॥ ८८॥ दण्ड के प्रयोग से जीविका चलती है ॥८॥ अर्थप्रावृत्तिमूलत्वं दर्शयति- वृत्तिमूलोऽर्थलाभः ॥ ८९ ॥ वृत्तिमूल इति । अर्थलाभः-अथोनां धनानां लाभः प्राप्तिः, वृत्तिमूल:- वृत्तिराजीविका मूलं प्रधान कारणं यस्य एवंविधः अस्ति । वृत्तेरर्थलाभो भवती- । तन्तुवायः किल पटवयनेनैव धनमर्जयति । एवं कृषीवलः कृषिकर्माश्रित्य, वणिग् वाणिज्यमलम्ब्य, स्वर्णकार आभूषणानि कृत्वा, वर्धकिः काष्ठमयानि वस्तूनि निर्माय, व्याधः पशुपक्षिणो मारयित्वा च धनार्जनं करोति। काञ्चिदाजी- विकामाश्रित्यैव जनो धनार्जने समर्थो भवतीत्याशयः ॥ ८९ ॥ धन की प्राप्ति का प्रधान कारण जीविका है ॥ ८ ॥ अर्थ एव धर्मकामयोः प्रधानकारणमिति वक्ति- अर्थमूलौ धर्मकामौ ।। ९० ॥ अर्थमूलाविति । धर्मकामौ-धर्मश्च कामश्च, धर्मस्तावदैहिकामुष्मिकसकल- सुखसाधनीभूतः क्रियाविशेषः, कामः पुनः सांसारिकविषयाणां भोगेच्छा, एतौ द्वौ, अर्थमूलौ-अर्थो धनं मूलं प्रधान कारणं यमोस्तौ ताशौ भवतः। धनेनैव पुण्यकृत्यानि विषयभोगाश्च सम्पद्यन्त इत्यर्थः । धनेन हि जनो धर्मक्षेत्राणि निर्मा- पयितुं सरांसि निखानयितुं याचकान् भोजयितुं दीनान् भर्तुं कस्यचिदप्युपकारं च कतुं वा प्रभवति । धनेनैव पुनः स्वादु भोजनम् अभ्रङ्कषं हर्म्यम् अतिमृद्वी शय्या चेतस आह्लादकानि सुगन्धिद्रव्याणि चेत्येवं विविधानि भोग्यवस्तुनि प्राप्नोति नरः । धनमेव सकलकल्याणसुखजनकमित्येतदत्रार्थजातं गर्मितम् ॥ ९ ॥ अर्थ (धन) के द्वारा धर्म और काम सम्पन्न होते हैं ॥ १० ॥ अधुनार्थस्य प्रधान कारणं कार्य, कार्यस्य वा प्रधान कारणमर्थ निर्दिशति- अर्थमूलं कार्यम् ॥ ९१ ॥ अर्थमूलमिति । अर्थमूलम्-अर्थस्य धनस्य मूलं प्रधानकारणम् , कार्यम्- कर्मविशेषः तत्तदाजीविकाप्रयुक्तक्रियाशीलत्वमिति यावत् , भवति । क्रियाशीलते- वार्थ जनयतीति भावः । सत्यामप्याजीविकायामुद्योग विना न कोऽपि धनमर्ज- - - चाणक्यसूत्रे- यितुं प्रभवति । सावधानतयाऽऽलस्यं विहाय कार्याणि कुर्वन्नेव सिद्धिमवाप्नोति नरः । नाकुर्वतः कुतश्चित्कश्चिल्लाभः । अतः सतत क्रियाशीलेन भवितव्यं धना. र्थिनेति निर्दिष्टं भवति । अथवा, कार्यम्-किमपि कर्म, अर्थमूलम्-अर्थों धनं मूलं प्रधानकारणं यस्य तादृशं भवति । धनेनैव कार्याणि सिध्यन्ति । धनहीनः पुरुषः कार्यसाधने न क्षमः । अतः कार्यार्थिना धनमेव तत्पूर्वमर्जनीयं भवतीति भावः ॥११॥ धन का प्रधान कारण कार्य अथवा कार्यका प्रधान कारण धन है। इदानी कार्य सिद्धः साधनमुपायं लक्षयति-- यत्प्रयत्नात् कार्यसिद्धिर्भवति स उपायः॥ ९२ ॥ यत्प्रयत्नादिति-यत्प्रयत्नात्-यस्मात् प्रयत्नाच्चेष्टनात् , कार्यसिद्धिः-- कार्याणी तत्तत्कर्मणां सिद्धिः साफल्यम् , भवति-सजायते, स उपाय:-उपायसंज्ञा प्राप्नोतीत्यर्थः । कार्यसाधकः प्रयत्न उपायः खलु । सिद्धिरेवामीठा भवति सर्वेषा- मखिलकर्मजातस्य । यत्प्रयोगेण सिद्धिर्लभ्यते 1 उपाय इत्याशयः ॥ ९२ ॥ जिस प्रयत्न से कार्यों की सिद्धिहोता है उसे उपाय कहते हैं ॥२॥ उपायमाश्रित्य कृतं कार्य सुकरं भवतीत्याह- उपायपूर्व कार्य न दुष्करं स्यात् ॥ ९३ ॥ उपायपूर्वमिति । उपायपूर्वम्-उपायः कार्यसाधकः प्रयत्नः पूर्व प्राग यस्मात् तत् तथाभूतम् , कार्यम्-कर्म, दुष्करम्-दुःखेन कर्तुं शक्यम् , न स्यात्-न भवेत् । दुःसाधमपि कार्यमुचितोपायावलम्बनेन सुसाधं भवतीति भावः। कार्य- सम्पादनात्प्राक् तत्साफल्यविधायका उपायाः सम्यगालोच्याः। पूर्वमेवोपायाना पर्यालोचनेन समुचितप्रयोगेण च कष्टसाध्यमपि कार्य साधयितुं शक्यते । उद्योग कुर्वतः प्रायो न किञ्चिन्नास्त्यसम्भवमिति गूढार्थोऽत्र ॥ ९३ ॥ उपाय सोचकर किया गया कार्य दुष्कर (असम्भव) नहीं होता। उपायमपर्यालोच्य कृतं कार्य क्षिप्रमेव प्रणश्यतीत्याह- अनुपायपूर्व कार्य कृतमपि विनश्यति ॥ ९४ ॥ मनुपायपूर्वमिति । अनुपायपूर्वम्-अनुपाय उपायाभावः पूर्वम् प्राग् यस्मात्तत् एवम्भूतं कार्यम् , कृतम् अपि-विहितम् भपि, विनश्यति-सर्वथा नष्ट भवति न सिध्यतीति यावत् । उपायमचिन्तयित्वा कृतं कार्य न सिद्धिं गच्छतीति भावः । किमपि कार्य कुर्वद्भिस्तत्परिणामस्तस्साधनोपायाश्च पूर्वमवधार्याः। साधनaa- - - प्रथमोऽध्यायः॥ समहाभावे ह्यारब्धे कर्मणि सर्वथैव शक्तेहासो भवेत् । शक्तींसाच कार्यहानिः स्पष्टैव । अतो न कदाप्यविमृश्योपायान् किमपि कार्य कुर्यादिति तात्पर्यम् ॥१४॥ उपाय को न सोच कर किया गया भो कार्य नष्ट हो जाता अर्थात् वह सिद्ध नहीं होता ॥ १४ ॥ कर्यसम्पत्तिममिलषता पुरुषाणामुपाय एव सहायक इति वक्ति- कार्यार्थिनामुपाय एव सहायः ॥९५ ॥ कार्यार्थिनामिति । कार्यार्थिनाम्-कार्यमर्थः प्रयोजनं येषां तेषाम् , सहायः- साहाय्यप्रदायकः, उपायः-कार्यसाधकः प्रयत्न एव वर्तते । उपायाः कार्य सिद्धि- मभिलषता सहायका भवन्ति, उपायद्वारव कार्याणां सिद्धः स्फुटत्वादिति भावः । कार्यसाधनप्राणभूताः खलुषायाः । तस्त्यिक्त्वा न कश्चित्कार्यसिद्धिं लभते । स एव सहायो यः कार्य साधयति । उपायाः खलु कार्याणां साधकतमा इत्यतो मुख्या इस्युक्तं भवति ॥ ९५ ॥ कार्य की सिद्धि चाहनेवालों का एकमात्र सहायक उपाय ही है। उद्योगेन कार्य सिध्यतीति पूर्वोक्तजाततात्पर्यमाह- कार्य पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ९६ ॥ कार्यमिति । पुरुषकारेण-कार्यसाधकेन चेष्टाविशेषेण उद्योगेनेति यावत् , कार्यम्-साधनीयं कर्म, लक्ष्यम्-दृश्यम् प्रत्यक्षतां गतं प्रकटमिति यावत् , सम्पद्यते. सजायते । अथवा, लक्ष्यम्-उद्देश्यम् अर्थादुयोगस्य, कार्यम् पुरुषकारेण, सम्पद्यते. सिध्यति । अयं भाव:-कार्यस्य सिद्धिरुयोगेनैव जायते। विनोद्योगं किमफिर कार्य सिद्धि न गच्छति । 'कार्य मे सिभ्यता दितीच्लामात्रेण कुत्रापि कार्य सिद्धिर्न दृष्टा । तथा चोक्तम्-'उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै रिति ॥ ९६॥ कार्य उद्योग से सिद्ध होता है ॥ १६ ॥ पूर्वसूत्रेण कार्यस्योद्योगसाध्यत्वं निरूप्य सम्प्रति देवस्योद्योगसाहचर्य प्रतिपादयति- पुरुषकारमनुवर्तते दैवम् ॥ ९७ ॥ पुरुषकारमिति । देवम्-भाग्यम् पूर्वजन्मकृतं कर्मेति यावत् , पुरुषकारम्- उद्योगम् , अनुवर्तते-अनुगच्छति । उद्योगस्य पृष्ठतो लग्नं देवं वरीवर्तीत्यर्थः । भयमत्राशयः-उद्योग एव कार्य साधयति, नहि तेन विना कार्य सिध्यतीति निश्चित- ३। चा० - .

मेव । परम्, । चाणक्यसूत्रे- उद्योगस्य कार्यसाधकरवे निश्चितेऽपि न स्वतन्त्रतयोद्योगस्तत्साधकः, तस्य देवपरतन्त्रत्वात् । दैवं किलोद्योगस्य सहचारि । दैवानुकूल्ये सत्येवोद्योगे कार्यसाधनानुकूला शक्तिः सम्पद्यते। अन्यथा व्यर्थ एव भवेदुद्योग इति । न चात्र पूर्वसूत्रोक्तमुद्योगप्राधान्यं खण्डितं भवतीति शङ्कथम् , देवसहचरितोद्योगस्य कार्य- साधनानुकूलशक्त प्रतिपादनादुयोगप्राधान्यस्य सर्वथाऽव्याहतत्वादित्यलम् ॥९॥ दैव (पूर्वजन्म का किया हुआ कर्म) उद्योग साथ रहता है ॥ ६ ॥ 'देवानुकूल्ये सत्येव कार्यसिद्धिरित्येवं पूर्वोक्कमर्थं द्रढयति- दैवं विना अतिप्रयत्नं करोति यत्तद् विफलम् ॥ ९८॥ दैवमिति । देवं विना-देवानुकूल्यमन्तरेणेति यावत् , जन इति शेषः, यद् अतिप्रयत्नं करोति-यत्किल प्रभूतमुद्योगमातनुते, तत्-उद्योगकरणम् , विफ-. लम्-निरर्थकं भवति । अनुकूलं देवं बिना विहितः सुमहानुद्योगो न तावत्कार्य साधयतीत्यर्थः । नन्वेवं सति दैवं विना कार्यसिद्धरदर्शनात किमित्युद्योगः करणीय इति चेन्न, उद्योगस्यैव मुख्यतः कार्यसाधकत्वाद्विनोद्योग दैवानुकूल्येऽपि कार्या- ऽनिष्पत्तेदर्शनात् । दैवं किलोद्योगस्य सहायकम् । उद्योगागीता अलसा एव देवमात्रावलम्बिनो भवन्ति । कार्यसिद्धिस्तु तेषां नास्त्येवेति भावः । प्रतिपादितं चैतत्-'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी रित्यत्र । अत्रेदं तत्वम्-न केवल उद्योगो नापि केवलं दैवं किन्तु द्वयोः साहचर्यमेव कार्यसाधकम् । तत्र यथावसरं द्वयोः प्राबल्यम् । प्रबलो दुलं बाधत एवेति क्वचिदुद्योगस्य कुत्रचिच्च दैवस्य विजयः । उद्योगेन भाग्यं परीक्षणीयमिति गूढोऽर्थः । अन्ये च टीकाकृतः-पूर्वसूत्रे पुरुषकारमनुवर्तते दैवमित्यत्र ‘देवस्य पुरुषकारानुसरणं नाम उद्योगानुकूलत्वम् , यादृश उद्योगस्तादृशमेव भाग्यं परि. 'गमती'त्येवमर्थ कल्पयन्त उद्योगप्राधान्यं स्फुटता नयन्ति । इत्थं च-दैवं विनेति सूत्रं दैवप्राधान्यबोधकं प्रकृतार्थविरुद्धं मन्यमानाः केनचिदत्र प्रक्षिप्तमिदमित्येवं प्रतिपादयन्ति । इतरे च-उद्योगप्राधान्यसाधनाय 'पुरुषकारोऽनुवर्तते देवामित्येवं पाठपरिवर्तनसाहसं दर्शयन्तो 'देवं विनेति सूत्रं दैवप्राधान्यपरं चाणक्य- यास्तिक्यभाव द्योतक मिस्येतत्कल्पयन्ति । अत्र च कियत्तेषां बुद्धिकौशलमिति तु स्वयमेव निपुणं निरूपणीयं बुद्धिमद्भिरित्यलं पराक्षेपप्रतिपादनेन ॥ ९८॥ देव के (भाग्य की अनुकूलता के ) बिना, मनुष्य जो विशिष्ट प्रयत्न करता है वह सब व्यर्थ हो जाता है। ।

प्रथमोऽध्यायः ।
उद्योगं कुर्वत एव जीवनं निर्वहतीत्याह-
अनीहमानस्य वृत्तिन सम्पद्यते ॥ ९९ ॥
भनीहमानस्येति । अनीहमानस्य-चेष्टामकुर्वतः, ईहा चेष्टा सा च कार्य-
साधनानुकूलः कार्यविशेषः, अळसस्योद्योगमकुर्वाणस्येति यावत् , बृत्तिः-जीवनम् ,
न सम्पद्यते न सम्भवति । स्वात्मरक्षायै किमपि प्रयतनं कार्यमेव । यदि तदर्थं न
किञ्चिच्चेष्टेत मनुष्यस्तर्हि जीवननिर्वाहस्तस्य दुःसम्भवः। केवलं भाग्यावलम्बन
जीवनं न सम्भवति । उद्योगो न क्रियेत चेद् भाग्यमनुकूलमपि किं नाम कर्तुं
शक्नुयात् । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः । अत उद्योगद्वारकमेव
जीवन मनुष्याणामिति नूनं निर्विवादम् ॥ ९९ ॥
चेष्टा (उद्योग) न करने वाले का जीवन-निर्वाह नहीं होता ॥8॥
विचारपुरःसरमेव कार्यमारभणोयमितीदं मुख्यं नीतितत्वमुपदिशत्यैतदध्याय-
समाप्तौ सुत्रकारचाणक्यः-
पूर्व निश्चित्य पश्चात्कार्यमारभेत ॥ १० ॥
इति चाणक्यसूत्रे प्रथमोऽध्यायः ।
पूर्वमिति । पूर्वम्-कार्यारम्भाप्राक , निश्चित्य-कार्यविषयकमुचितं विचारं
कृत्वा, पश्चात्-तदनन्तरम् , कार्यम् - कर्तुमिष्यमाणं कर्म, आरभेत-उपक्रमेत ।
अयमाशयः-'कार्यमिदमनेन रूपेण कर्तव्यम् , एवं कृत एवं भविष्यतीत्यादिक.
मावश्यकीपूर्व सर्व विचारणीयम् , ततः परं कार्यस्योपक्रमण श्रेयस्करम् । यदि नाम
स्वरयोपेक्षया वा करणीय कार्यविषयकं कमपि निश्चयमकृत्वा तत्कार्य कर्तुं प्रवतेत
जनस्तहि तत् कां दिशं गच्छेत् किं वा तत्स्वरूपं सिद्धं स्यादित्छेतत्सर्वमाकुलमेव
स्यात् । बिनायकं कर्तुमिच्छन् वानरमेव कदाचित्कुर्यात् सः। अतो मानसाभि
लषितं कार्य साधयितुं पूर्व तदुपक्रमात्तद्विचारः कर्तुमतितराभावश्यको मनुष्या
मित्यलं पल्लवितेन ॥ १०॥
यस्यागाधमतेरुदारचरितर्लोकः कृतार्थीकृतो
यः प्रज्ञाप्रमदाप्रियः प्रणयवान् नः संस्कृते रक्षणे ।
आर्याणां सुकृतं सदार्जवगुणं नीत्या च योऽपूपुषत्
क्लृप्तस्तेन हि विष्णुगुप्तविदुषा प्रन्थोऽयमुज्जृम्भते ॥ १॥

चाणक्यसूत्रम् । अत्रत्यानि चिरं विचारकुसुमान्याहृत्य यत्नान्मुदा टीकास्नग ग्रथिता मया मतिमयैः सूक्ष्मैर्गुणैः साम्प्रतम् । धीराणां सुचिरं चकास्तु हृदये सेयं गुणप्राहिणा- मस्त्वेतद् प्रथनं विसंष्ठुलमपि श्रीमद्गुरूणां मुदे ॥२॥ इति श्रोविजयशङ्करमिश्र एम० ए० कृतायां चाणक्यसूत्रव्याख्यायां बालबोधियां प्रथमोऽध्यायः समाप्तिमगात् । कार्य का निश्चय ( उचित विचार ) करने के बाद कार्य का श्रारम्भ करना चाहिये ॥ १०॥ नीतिसूत्र के अर्थ को सरता सरल बताव । अवसि देखिअहि सुजनगन, नाहिंत मन पछिताव ॥१॥ पं० अनन्तरामशास्त्रो वेताल साहित्याचार्य कृत सरला नामक भाषाटीका समाप्त । ॥ श्रीरस्तु॥ प्राप्तिस्थानम् चौखम्बा-संस्कृत-पुस्तकालय, बनारस सिटी

Chanakyasutram

Author
Pt Vijayasankara Misra
Title
Chanakyasutram
File name
Chanakyasutram
Text
OCR done
Citation
1947
Published
2004/10/20
Publisher
Chaukhamba Sanskrit Pratishthan
Language
Sanskrit
Pages
46
Library
Sri Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383630
Barcode
1990030051896.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sri Sringeri Sharada Peetham
Rights
Not Available
VMLT id
xRtAO6hNaFC
Download PDF

Chanakyasutram