Svclrc

Esevyopanishad Bhashyam

Veeraragava Achariya · 31\05\2003

PDF Proofread

Front matter

॥ श्रीः ॥ श्रीकवितार्किकसिंह-सर्वतन्त्रस्वतन्त्र श्रीमन्निगमान्तमहादेशिकविरचित ईशावास्योपनिषदाष्यम्॥ तव्याख्यानं आचार्यभाष्यतात्पर्य च ॥ जगद्विख्यातश्रीपरमहंसपरिव्राजक (कोळियालम्) श्रीमद्रारामानुजमहादेशिकपदपद्मद्वन्द्वपरिचरण- प्राप्तसकलेवेदान्तरहस्यार्थेन तन्त्रादिनिष्णातेन 'तीर्णवेन' शिरोमणिना' (उत्तमूर्) ति. वीरराघवाचार्येण विरचितम् श्रीतञ्जापुरसन्निकृष्टपञ्चनदस्थे श्रीनिवासमुद्रणालये मुद्रितम् । मूल्यम् ] 1933 [रू १-८-० ध

Wide
ONIX
SAN VAR
WWW.TOP
Q22:25
N133
Printed at
THE SRINIVASA PRESS
Tiruvadi,
Qu127:25
N33
2523
KRIT
5
DYA
6
PEETA
TRUFATI.
LIBRARY

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

ईशावास्योपनिषद्भाष्यम् । कर्मवश्यत्वेन च सम्प्रतिपन्ने रुद्रे सर्वावास्यत्वसर्वाधारत्वादेरसम्भ- चात् । तद्वत्तया प्रसिद्धेऽनवच्छिन्नैश्वर्ये सर्वेश्वरे यौगिकोऽयं शब्दः प्रत्येतव्यः। यद्यपि प्रसिद्धवनिर्देशाभावादाकाशादिवाक्यवैषम्यम् तथाऽप्यन्द्रीन्यायाविरुद्धार्थविषयतयैव रूढिभङ्गोपपत्तिः । न चान सर्वत्वमाधिकारिक' मिलि न्यायः, सङ्कोचादृष्टेः । प्रवाहेश्व- । . श्चिदस्ति । येनाकाशादिशब्दस्य दृष्टान्तत्वं स्यादिति शकते यद्यपीति । रूढिबाधमात्र दृष्टान्तः । न हेत्वैक्यमपि विवक्षितम् । वस्तुतोऽस्मदु- क्तस्तत्र दृष्टान्तवाक्येऽप्यक्षत इत्यभिप्रेत्य परिहरति तथापीति । ऐन्द्री. न्यायादिति । 'कदाचनस्तरीरसि नेन्द्रसश्चसि दाशुषे । उपोपेन्नु म- घवन्भूय इन्नु ते दानं देवस्य पृच्यते' इतीयमैन्द्री ऋक् । अस्या अर्थ:- हे इन्द्र, त्वं कदाचिदपि स्तरीहिंसको नासि । दाशुषे (हविः) दत्तवते (यजमानाय फलप्रदानाय) उपोपेन्नु यजमानसमीप एव सश्चसि गच्छसि । भूय इन्नु पुनरेव च देवस्य ते दान देयं (हवि:) पृच्यते सम्बध्यते, यजमानेन दीयत इति यावदिति । 'वचनात्त्वयथार्थमैन्द्री स्यादि'त्यधिक- रणे (३ २ २) इयमृक् रूढ्यबाधेनेन्द्रप्रतिपादिका सतीन्द्रोपस्थानाङ्गमिति पूर्वपक्षयित्वा 'ऐन्या गार्हपत्यमुपतिष्ठत' इति श्रुत्या गार्हपत्योपस्थाने विनि- युक्तत्वात् तदुपस्थाने चेन्द्रस्यान्वयासम्भवादृग्गतमिन्द्रपदं गौण्याऽन्यया वा कयाऽपि वृत्त्या गार्हपत्यपरम्, न तु चयनानुपयोगीन्द्र परमिति सिद्धान्ति- तम् । तन्न्यायादित्यर्थः । सर्वत्वमाधिकारिकमिति । पूर्णाहुत्या सर्वान् कामानवाप्नोतीति वाक्यं यदि प्रमाणम्, तर धानाङ्गभूतया पूर्णाहु- त्यैव सर्वफलसिद्धेरन्यानि कीण्यनर्थकानि स्युरिति पूर्वपक्षं प्रतिक्षेप्तुमिदं सूत्रम् (१ २ १) । अस्यायमप्येकोऽर्थः । यथा सर्वमोदनं भुङ्क्त इत्यत्र सर्वशब्दोऽधिकृतापेक्षो न त्रैलोक्यवर्तिनमोदनं गृह्णाति, तथैवायमपि

No text on this page.

८ ईशावास्योपनिषद्भाप्यम् । याऽनन्यथासिद्धवाक्यनिर्धारितम् , 'एप सर्वभूतान्तरात्माऽपहतपा- प्मा दिव्यो देव एको नारायणः' इत्यादिषु सर्वान्तर्यामित्वेन प्रख्यातं, तत एव ‘स ब्रह्मा स शिव' इत्यादिषु विभूतिभूतानां ब्रह्माश- चेन्द्रादीनां 'विश्चमेवेदं पुरुपः' इत्यत्र विश्वस्येव विशेष्यतयोक्तं ना- रायणमेव सर्वस्य वास्यमीशं वक्तुमुचितमेतद्वाक्यमित्यलमन्यरूढि- प्रसङ्गरहितासमस्तपदाध्ययनानभिज्ञाश्रोत्रियचौद्योपालम्भेन । एवं मुमुक्षारीश्वरपारतन्त्र्यवोधमुत्पाद्य चैराग्यभूषितां वृत्तिमुपदिशति- तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यविद्धनमिति । तेन जगता भो- ग्यताभ्रमविषयेण त्यक्तेन दोपभूयस्त्वदर्शनात् परित्यक्तेन उपलक्षि- तः सन् भुञ्जीथाः अप्रतिषिद्धयोगधर्मोपयुक्तदेहधारणमात्रौपयि- के भोग्यवर्गमित्यर्थप्रकरणाभ्यां सिद्धयति । यद्वा सर्वावास्यत्वेन किमित्यैक्यमेव नोक्तं स्यादित्यत्राह विश्वमेवेद पुरुष इत्यत्र विश्वस्यवेति । ऐक्यं चेत् स्वारस्यबुद्धया स्वीक्रियते तार्ह विश्वमिति पूर्ववाक्येन चिदचित्प्र- पश्चैक्यं पुरुषस्य सम्मन्तव्यम् । न च जडाभेदो ब्रह्मण इष्टः । तद्व- न्मूढाभेदोऽपि न युज्यते । अशक्यं चैकेन विश्वपदेन चिद्विषये ऐक्यम- न्यत्रान्यविधत्वं च बोधयितुम् । अतः सर्वत्रकविध एव निर्वाहो युक्त इति । ये तु जडैक्यमपि खीकुर्वन्ति ते निर्विकारत्वादिश्रुतिविरोधेन नि- राकायी एवेति । दोषभूयस्त्वेति । ऐश्वर्यफलं हि- दुःखमूलं दुःखमिश्र दुःखोदकमथास्थिरम् । अल्पं देहात्मधीमूलं दायप्राप्तविरोधि च ॥ इति दोषसप्तकदूषितम् । कैवल्ये च यावत्सम्भावितं द्रष्टव्यम् । अर्थ- प्रकरणाभ्यामिति । अन्यथाऽनुपपत्त्या सर्वत्यागप्रकरणाच्चेत्यर्थः । केवला भोजनान्यथाऽनुपपत्ति ग्यमात्रमाक्षिपेत् । त्यागप्रकरणसहिता तु निरु- कृमिति भावः । यद्वा अर्थःखवाक्यस्थ तेन त्यक्तेने'ति पदान्तरान्वययोग्य-

No text on this page.

१० ईशावास्योपनिषद्भाप्यम् । तरकृत्स्नविषयवैराग्योपलक्षणम् । स्मयते हि- 'परमात्मनि यो रत्तो विरक्तोऽपरमात्मनि' इति ॥ १॥ तः भिप्रायेण । एवं चायं मन्त्रो विद्याविधायकः, अनन्तरश्च तदङ्गकर्मविधा- यक इति रमणीयमित्येको निर्वाहः । अन्यस्तु—भुजेरुपासनार्थत्वं क्लिष्टम् । सकलेतरभोगपरित्यागेन परमात्मभोग इह कथ्यमानः फलरूप एव स्वरसप्रती- । न च फलस्य विध्यसम्भवः । अप्रवृत्तप्रवर्तनरूपविधेस्तनासम्भवे. ऽपि अज्ञातज्ञापनरूपविधानस्य सम्भवेन भुञ्जीथा इत्यस्योपपत्तेः । वक्ष्य. माणेत्यादिसूक्तिश्चाक्लेशेनास्मिन् पक्षे निरूढा । विद्या विधानं तु यस्तु सर्वाणीत्यत्र । अनुवादरूपतया प्रतीतावघ्यप्राप्तत्वेन विधिकल्पनं नायु- क्तम् । उपासनार्थकपदसत्त्वात् । सांप्रतिकप्रयोजनप्रदर्शकत्वोक्तिर्मु- मुझुप्रशंसथित्वोक्तिश्चोत्तरार्धाभिप्रायेण । शास्त्रजन्यज्ञानपरत्वं चानुपश्यती- त्यस्य यद्यप्युक्तम् , अथापि विद्याविधायिवचनान्तराभावादेव तत्पक्षत्यागेनो- पासनपरत्वोक्तिः । मोक्षोपायोपदेशप्रकरणेष्वित्यादिना चान्तरविवक्षणा- योगो भाषितः । तद्विदः सांप्रतिकं प्रयोजनमाहे' त्यस्य च तद्विद्या विधाय तज्जन्यं सांप्रतिकं फलमोहीत विशिष्टार्थपरत्वम् । अतोऽन्यत्रै व विद्याविधानं न प्रथममन्त्र । किं त्विहैहिकामुष्मिकतदनुभवमालाभिधानमि- ति । परमसुहृदीति । परमात्मनीति । 'सर्वेपणाविनिर्मुक्तः स भैक्षं भो. क्तुमहती'त्युत्तरार्धम् । यत्पुनरस्य मन्त्रस्यान्यथा व्याख्यानम् - इदं सर्व खतरत् कृत्सं जगत् ईशा पास्यं चसितुमाच्छादयितुं वस्त्रादिवत् स्वातिशयाधायकतया धारयितुं योग्यम् । वस आच्छादन इत्युक्तमाच्छादनं न तिरोधानप्रयो- जकव्यापाररूपमपवारणम् , अपि तु स्वातिशयाधायकतया धारणमेव, वस्त्रं वस्ते इत्यादौ तस्यैव बोधात् । तथा च वस्त्रादिवत् धार्यत्ववाचिवास्य- आचार्यभाष्यतात्पर्यसमेतम् । . शब्देन शेषत्वगर्भितं पारतन्त्र्यमुक्तं भवति । अतो जगत्यां यत्किञ्च यत्किञ्चित् जगत् ; इदं द्वितीयान्तं भुञ्जीथा इत्यस्य कर्म । यद्वा ईशा वास्यमिदं सर्वमिति तत्कर्म। जगत्यां यत्किञ्च जगदस्ति ईशावास्य. मिदं सर्व भुञ्जीथा इत्यन्बयः । त्यक्तेन फलममताकर्तृत्वविषयत्रिविधीतो- क्तयागसंस्कृतेन तेन तद्वस्तुना वखामिभावसम्बन्धनापलक्षितस्त्वमिति भु. जीथा इत्यनेन कर्तृत्वेनान्वितमिति ; यदप्याचार्यपादभाषितार्थदूषणम्-वसतेरकर्मकत्वेन ण्यत्प्रत्ययासम्भ- वात् वास्य मित्यस्य व्याप्यर्थिकत्वं न युक्तम् । उत्तरवाक्यार्थानुपकारकत्वा- च्चायमों वासयितव्यमित्यर्थश्च न विवक्षितुमर्हः । भुञ्जीथा इत्यस्य कर्माध्या- हारः करणाध्याहारश्च क्लिष्टं कल्पितः । त्यक्तेनेति वैराग्यवशेन स्वरूपत्या- मस्यैव विवक्षिततयोपलक्षणतृतीयाऽपि न घटते । तात्कालिकवैशिष्ट्य- रूपोपलक्षितत्वस्थल एवेत्थंभूतलक्षणतृतीयाविधानात् । यथा--अपि भवान् कमण्डलुना च्छात्रमद्राक्षीदिति ; तदुभयमनुपपन्नम् । तथा हि-व्याख्यानानुपपत्तिस्तावत्- भुञ्जीथा इत्यन्तं यथाकथंचिद्वाक्यद्वयम् , न तु वाक्यत्रयमिति ह्य- भिप्रायः । तत्र प्रथमयोजना न युज्यते, यत्किञ्चपदस्य तच्छब्दसापेक्षत्वा- त् । यद्यपि यत्किञ्चित्पदस्य न तच्छब्दसापेक्षत्वनिर्बन्धः; अथापि यत्कि- श्च शब्दस्तच्छब्दघटितवाक्यान्तरसापेक्ष एव सर्वत्र दृश्यते । यथा- यः कश्च शब्दो वागेव सा । ये के चास्मत्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना इत्येवम् । न च 'तेन त्यक्ते नेति तच्छब्दस्तत्प्रतिसम्बन्धी, यच्छब्दघटितवाक्यघटकत्वात् । अतः श्रय पदानामन्यथा योजितत्वेन तच्छदघटितस्य वाक्यान्तरस्य समस्तस्य कल्प- श्रूयमाण-

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । १३ प्राप्तभोगादशेन त्यागस्यैव विधेयत्वात् तेन सहेशावास्यत्वस्यापि विधाने वा- क्यभेदप्रसङ्गात् । अपि चेशावास्यत्वस्यदशब्दार्थविशेषणत्वात् तस्य च यत्किंच जगत्यां जगदिति वाक्यबलेनोद्देश्यत्वेनान्वयस्यैव ज्ञातत्वात् तदुद्दे- शेन त्यागविशिष्टभोगविधानेऽपि नोद्देश्यविशेषणस्य वास्यत्वस्य विधिः सम्भ- वति । इदमदशेन वास्यत्वस्य विशिष्टभोगस्य च विधावभ्युपगते पुन- ग्रहोदेशेनैकत्वसम्मायोर्विधान इव तदवस्थ एव वाक्यभेदः । अतो ब्रह्म- विद्योपक्रमे ईशावास्यत्वस्य विधेयत्वमावश्यकमिति भुञ्जीथा इत्यस्य नेदं कर्म भवितुमर्हति । किं चशावास्यत्वत्यागविशिष्टद्रव्यभोगविधानानन्तरमार्थिक- विधिनेशावास्यत्व विधानं तावत् त्यागस्येवाङ्गतया न भवति । अरुणया गवा क्राणातीत्यादावारुण्यादरिव नीलादिव्यावर्तकतयेतरव्यावर्तकतयेशावा- स्यत्वस्याङ्गत्वासम्भवात् । तस्य स्वरूपतः सर्वदा सत्वाच्च नायोगव्यावृत्त्या- ऽपि विशेषणत्वम् । यत्किं च जगत्यां जगदिति वाक्येन मध्ये व्यवधाना- च पूर्वापरांशयोर्वाक्यद्वयत्वमेव स्वरसप्रतीतिकम् । ऋग्लक्षणं च तेषा- मृग्यत्रार्थवशेन पादव्यवस्थेति जैमिनिसृत्रितं प्रत्येकपरिसमाप्तार्थकपाद- बद्धमन्त्रत्वरूपमिह स्वरसतः सम्भवन्न युक्तं हातुम् । तस्माद्वाक्यत्रयमि- त्येव समुचितन् । त्यक्तेनेत्यस्य गीतोक्तत्रिविधत्यागपरत्वकथनमप्ययुक्तम् । कर्मविष- यो हि स त्यागः । न चेह कर्मत्यज्यमानत्वेन कथ्यते । विविधपरिणामास्पद- स्य चेतनाचे तनात्मनो व्यत्यैव यत्किच जगदित्युक्त वन तस्यैव त्यागकथ- नात् । ननु स्वकीयेनात्मना स्वकीयैश्चोपकरणैस्स्वयमेवकर्माणिकारयतीत्यनु- संधानबलात्कर्मणीव तत्कर्तृतदुपकरणेष्वपि स त्यागोऽस्तीति गम्यते । एवञ्च कर्मणि त्यागकथने कर्जदावपि यथा स उक्त एव भवति तथा द्रव्यत्याग- कथने कर्मत्यागोऽपि कथित एवेति । न । वैषम्यात् । कर्म हि प्रधानम् । -

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

अचायभाष्यतात्पर्यसमेतम् । २३ कुर्वन्नेवेह कर्माणि जिजीविषेच्छनं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ एवं पिदुषः फलसङ्गकर्तृत्वादित्यागयुक्तं निन्यनैमित्तिकरूप कर्न यावजीवमनुष्टयमित्याह कुर्वन्नवेह कर्माणि जिजीविपेच्छा समा इति। ब्रह्मविदोऽपि पावद्विद्यापूर्ति जीवनमिष्टं भवतीति ज्ञा- पनाय सत्प्रयोगः । शतमि त च प्राधिविषयन् । शतं सता जी. वन्नधिकारानुगुणानि कर्माणि कुवि । न कदाचिदपि विद्याङ्गं , संहितान्त एवास्य निवन्धो यदर्थत इत्र दर्शयतीति द्वितीयमन्त्रमव- तारयति एवमिति । यदत्रोक्तम्-अस्मिन् भाप्ये मन्त्रस्यास्य विद्याङ्गभूत- कर्नविधानपरत्ववर्णनम् , नाविशेषात् इति सुत्रस्य तत्र प्रनाणीकरणम् । स्तुनयेऽनुपतिति सूत्रस्य पूर्वसूत्राभिसंहिताद दीन्तरवर्णनपरत्वकथनम् , मन्त्रोत्तरार्धव्याख्यानप्रकारश्च न युज्यते । तथा हि ---अन्य मन्त्रस्य वि- द्याङ्गकर्मानुमतिमात्रपरत्वेन विधानपरत्वं न सम्भवति । विधिपरत्वे हि स- ईपि विद्वद्रवश्यकर्तव्यत्वं प्रसज्यते । अतो गार्हस्थ्य स्थित्वाऽनुष्ठेयम- न्यदा च नेत्यनुनतिपरत्वमेव । सुत्रपौविभिन्नार्थको चोत्तरसुत्रे भाये 'वाशब्दोऽवधारण' इति न सङ्गच्छो । तथा सति कल्यान्तरपरत्वस्यव वक्तव्यत्वात् । 'अर्थस्वाभाव्येन चाध परिहृत्य कुर्वन्नेवोत वाक्यस्याथमा. हे'त्युत्तरसूत्रावतरणभाष्यपर्यालोचने च पूर्वपत्र य चौघपरिहारमानपरत्वम्, उत्तरस्यत्र चार्थवर्णनपरत्वं स्पष्टन् । किन्चात्तरस्यार्थान्तरपरत्वेन तद्विहाय पूर्वस्त्रार्थस्य कर्मविधानरूपत्वेनाभिमतस्नेह समादरणमयुक्तम्, अन्ततः सुत्रकारनिष्कृष्टार्थस्या चीनस्यागायोगात उत्तरार्धव्याख्यानप्रकारश्च विधिपरत्वाभावादेव व्युदसनीयः । अनुमतिपरत्वस्यैव प्रतिपादितत्वेन तदा कर्मानुष्ठानस्याननुष्ठानस्योभयोरपि सद्भावेन 'नान्यथतोऽस्ति' इति वक्तु-

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । ३५ , न्तरसूत्रोक्तार्थ एव तत्राप्यभिमतस्स्यात् तद्दनन्तरसूत्रकरणवैयर्थ्य च । वि- द्याङ्गकर्मविषयकत्वांशस्य पूर्वसूत्रेणैवोक्तत्वेनाभिमताथवर्णनस्य सुकरत्वेन पृथ- प्रयत्नस्यानावश्यकत्वात् । नाविशेषात् स्तुतयेऽनुमतिवेत्यैकसूत्र्यमेव वा भाष्यकृद्भिरेषितव्यं स्यात् । न च शङ्काविशेषपरिहारपरतया तत्सार्थक्यम् । अदर्शनात् । न च न कर्म लिप्यते नर इति वाक्यशेषप्रदर्शनार्थं तदिति विमृश्यम् ; तथा सति यथा 'चमसवदविशेषा'दिति सूत्रेण 'अजामेकां लोहि- तशुक्लकृष्णाम्' इत्यत्र केवलतन्त्रसिद्धप्रकृतिग्रहणे विशेषहेत्वप्रतीतरित्युक्त्यैव प्रकृतब्रह्मात्मकत्वस्य सिद्धतया ज्योतिरुपक्रमात्विति सूत्रं विशेषहेतुसद्भाव- प्रदर्शकम् , न तु ब्रह्मात्मकत्वज्ञापनतत्परम् , तथा प्रकृतेऽप्यविशेषवचना-. देव विद्याङ्गकर्मानुमतेस्सिद्धतया स्तुतये इति सूत्रं वाक्यशेषप्रदर्शनपरं ना मन्त्रार्थबोधनतत्परमित्येव वक्तव्यतया, यथा तत्र ज्योतिरुपक्रमात्वित्येताव- त्यनुपरम्य तथा ह्यधीयत एक इत्यधिकं सूचितम् , तद्वदिहापि स्तुतयेऽनु- मतिवी तथा हि वाक्यशेप इति सूत्राणायवप्रसङ्गात् । भाष्यकारैश्च वा- क्यस्यार्थमाहेत्यवतरणं विहाय तवेव अनुमत्यर्थग्रहणे विशेषहेतुरस्तीत्याहेत्य- वतरणस्य भाषितव्यत्वप्रसङ्गात् । अतः सूत्रतदवतरणस्वारस्यादर्थमात्र- कथनपरत्वमेव संमन्तव्यम् । तच्च पूर्वसुत्रस्याप्येतदर्थतात्पर्यकत्वे पृथक्स- बकरणवैयापत्त्या न युक्तं स्यात् । वाक्यस्यार्थमाहेति भाषितं च पूर्वसू- त्रस्य निगूढार्थस्य पूर्वपक्षिणैवोक्तत्वन खोक्तत्वाभावात् खेन तत्र मात्रया परिष्कारमात्रस्य कृतत्वात्स्वमतविरोधाभावेन सम्भवमात्रेण तस्याप्यर्थस्याङ्गी- कृतत्वात् स्वाभिमतान्तरस्यैवात्रैव कथ्यमानत्वादुपपद्यते । यदपि वाशब्दोऽवधारण इति भाष्यव्याकोप इति तदपि न । नाविशे- पादित्यत्रार्थान्तरस्य विवक्षितत्वे कोऽर्थो भाषितव्यः । पक्षान्तररूपश्चेत् तार्ह सूत्रद्वयविवक्षितार्थद्वयस्य तुल्यबलत्वमापद्यत । अस्त्विति चेन्न । तथासति नाविशेषादिति सूत्रणव विद्याङ्गकर्मविधिपरत्वं ब विद्यामनुत्युपयोगिकर्मानु

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । हारः” यथा 'आदित्यादिमलयश्चाङ्ग उपपत्तेः, ' 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च, स्तुतोऽनुमति' ति । यत्र तु साध्यान्वयाविवक्षया साध्यवाचिस- मभिव्याहाराभावः तत्रार्थान्तरणरत्वम् । तत्र च सिद्धान्तप्रथमसूत्रस्थत्वे पूर्व- पक्षनिराकरणारम्गात् पक्षव्यावृत्यर्थकत्यम् । यथा 'भोगेन वितरे क्षपथि. स्वाथ सम्पद्यते, ' 'विज्ञानादिभावे वा तदप्रतिवेध' इत्यवम् । गुणसूत्रान्तः- पाते च चोद्यसंभवे तव्यावृत्यर्थत्वम् । यथा "रसभावान्तु गृहिणोपसं- 'पहिस्तूभयथापि स्मृतेराचाराचे'त्यवम् । एवमवधारणवाचिपदान्त- रसत्वेऽपि तद्विवक्षापरत्वासंभवात्पक्षव्यावृत्यर्थत्वमिष्यते । यथा-"अन्तरा चापि तु तहटः" "विधिवतुनिरिणाद्दर्शनाच" "मायामालन्तुकास्न्र्थनान- भिव्यक्तम्वरूपत्वा" दित्येवम् । तत्रावधारणपराणां चकारैवकारमात्रपदानां सत्वात् । एवं साध्यवाचिसमभिव्याहाराभावपि यत्समभिव्याहारोक्ति तेन सह सत्यन्वययोग्यत्वे तदनुगुणोथै इष्यत । यथा 'अमिहोत्रादि तु तत्काया- दियत । तल तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थ इति भापितत्वात् । पूर्ववद्वेति सूत्रेऽवधारणसम्भवेऽप्यहिकुण्डलवद्भावशङ्काप्र- सङ्गपरिहाराय पशद्वयल्यावृत्तिरूपार्थाभिधानम् । एवं यथासम्भवमूह्यम् । ततश्च पक्षान्तरपरत्वासम्मवादवधारणाथकत्येऽप्यवधार्यमाणेतरव्यावृत्तिसिद्धया साध्यवाचिसममिव्याहारबलेन तत्वीकारस्योचितत्वाच्च वा शब्दोऽवधारणा- थे इत्यभापीति न तस्य पूर्वसूत्रेऽर्थान्तरविवक्षाबाधकत्वम् । तथा मध्यस्थकृतनयमयूखमालिकायां 'न विद्यायाः काङ्गत्वसि द्धिः, नियमस्य विद्याङ्गकर्मविषयतयाऽप्युपपत्तेः । वस्तुतस्तु विद्यास्तुतये कर्मानुतिरवेय' मिति वाक्यमपि सूत्रयोरभिप्रेतमर्थभेदं स्पष्टयति । नन्वस्मदुक्तानुमतिपरत्वस्य दूपितत्वाद्विद्या ङ्गकर्मविधिपरत्वस्य च सो- पपत्तिकं साधितत्वात् कथमनन्तरसूत्रघटनेति चेत्-उच्यते । मन्त्रस्य वियागकीविषयकत्वे :विधिरेव युक्तो न त्वनुमतिः सुवचेत्युक्तम् । तथा यैव तदर्शना"

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । ४९ विधृतः स मातरिश्वा तच्छक्त्यैव पाथम्पयोधरनक्षत्रग्रहतारका- दिकं बिभर्तीत्युक्तं भवति । स्मर्यते हि द्यौः सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः।' इति ॥ ४ ॥ तदेजति तदु नैजति तद्रे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥ अनेजदेकं मनसो जवीय इत्युक्तमर्थमादान्मुखान्तरेणानुशास्ति तदेजति तदु नैजतीति । तत् व्याप्तं तत्त्वं पूर्वोक्तप्रकारेण जवीय स्त्वादिना एजति कम्पते कम्पत इवेत्यर्थः । तदु नैजति संदेव वस्तुवृत्त्या न कम्पते । तदूरे तद्वन्तिके तदूरेऽन्तिके च वर्तते। मूढप्रतिबुद्धपुरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः । यथाऽऽह शौनकः , 'पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूरा दूरतरे स्थितम् ॥ तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेय च तदन्तिके' इति । केचित् पदार्थाः कस्यचिदन्तर्भवन्ति, न बहिः । केचित् बहिर्भव- न्ति , नान्तः । तदुभयव्यावृत्तिमाह तदन्तरस्य सर्वस्य तदु सर्व- स्यास्य बाह्यत इति । तत् सर्वव्याप्तमुक्तं परं ब्रह्म अस्य विचित्रचि- पयोग्रहणमेव युक्तम् । अविशेषात्तु प्रामाणिकत्वे तस्यापि ग्रहणं स्वय- मेव सिद्धयतीति । एवं सकलजलग्रहणे च वायुधार्यत्वाविशेषादन्योपलक्षणत्व- मपि युक्तमेवेत्याशयेनाह पाथःपयोधर नक्षत्रेति ॥ ४ ॥ एजनं कम्पनम् । तच्च चलने वाऽनेकदिगवच्छेदेन वस्तुन आ- वृत्तस्संयोगो वा । न च तत् सर्वत्रनित्यसंयुक्ते परमात्मनि संभवति, अत आह कम्पत इवेति । कम्पनस्थल इव संबन्धमात्रसद्भावेन तथा प्रयोग इति भावः । न च विग्रहविशिष्टवेषेण तदुपपत्तिरिति वाच्यम् । तथापि विग्रह एव तद्विश्रान्तरात्मस्वरूपे तदभावात् । केवलात्मस्वरूपस्यैव प्रतिपादन- प्रकरणात्, पूर्वमन्त्रोक्तदिशोपचारस्यैव युक्तत्वात् , तद्दूरे तदन्तिक इत्यत्र 7I

No text on this page.

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । ५३ यदपि व्यासायवचनद्वयमुपातम्- 'आत्मनि तिष्ठन्नित्युक्ते वेद्याम- मिस्तिष्ठति, तिले तैलं तिष्ठतीतिवद्वहिरबहिस्स्थितिसाधारण्यात् तद्वेशद्यार्थमाह आत्मनोऽन्तर इती'ति, अन्तःप्रविष्टश्शास्तेत्येतत् सर्वात्मशब्दव्याख्यानरूप'- मिति च; तदप्यसाधकम्, विपरीतसाधकं च । अस्मदिष्टार्थस्यैव तन वर्णि- तत्वात् । अर्थश्चैवम्-भूतले घटस्तिष्ठति, वेद्याममिः, वृक्षाग्रे श्येन इत्यादौ तत्तदधिकरणं यत्प्रदेशावच्छेदेनास्ति तद्देशावच्छेदेनासंबध्य तस्मात्परत एव थितमाधयमवगम्यते । तिले तैलं तिष्ठतीत्यत्र तु यद्देशावच्छेदेन तिलस्य सद्भावः, तद्देशावच्छेदेनैव सौक्ष्म्यविशेषेण तैलं तिलसम्बन्धमनुभवतीति, तिले बाह्याभ्यन्तरसर्वावयवावच्छेदेन तैलसद्भावात् । तत्रात्मनि परमात्म- संबन्धः किं आत्मनः परस्तादेव स्थितस्य केवलमात्मना संवन्धरूपः, उता- माऽणुरपि यद्देशावच्छेदेनास्ति तद्देशावच्छेदैनवाप्रतिहन्यमानतया संबन्ध- रूप इति विचिकित्सा आत्मनि तिष्ठन्नित्यतावता न शाम्यति । अविशेषा- दुभयविधस्थित्यङ्गीकारसंभवेऽपि विशदमनवगम्यमानत्वात् । अत आल- नोऽन्तर इत्यनेन तद्वैशा क्रियत इति । यदि पुनरात्मनामन्तरवयवसद्भावं च्यासान्यन मुस्यन्त तर्हि बहिरबाहिरित्यनुक्त्वाऽन्यथैवावर्णयिष्यन् । अत आत्मनि थितेषु पेषातर इति भावाभावदेशपरमित्येव प्रथमवचनतात्पर्यम् । एतेन द्वितीयमपि वचनं निर्मूढम् । अत्र जनानामित्यनेन न तावत्केवल- देहाहणं संभवति, तस्य तताप्रसिद्धत्वात् । अतो देहभृतामेव ग्रहणम् । तन किमन्तःशब्देन तदीयदेहान्तरवयवभूतहृदूपदेशो गृयते किं वाs सनामेव कश्चिदन्तरवयवः। आये, न काचिदमा क्षतिः। अन्त्ये तु सूक्तिविरोधः । व्यासायैरेव हि 'अन्तःप्रविश्य नियाम्यत्वं हि शरीरत्वं, मन्त:- प्रवेशशास्तिभ्यां नृपयगनव्यावृत्ति' रित्युक्तम् । यदि पुनरन्तःप्रवेशं भव- दभिमसमभिसमधास्यन्त, न तर्हि नियाम्यत्वदलस्य गगनन्यावत्यर्थता-

No text on this page.

आचार्यभाप्यतात्पर्यसमेतम् । चर्तित्वस्येव तस्यापि तदन्तर्वर्तित्वस्याभ्युपगतत्वात् । 'परमात्मान्तरन्येषां तदायत्ततथैव स्थितिश्च श्रुत्यादिप्रमाणवलेनैव दुरपह्नवे' ति खल्वभिहि- तम् । अतो दुर्घहत्वरूपं सौक्ष्म्यं विवक्षितम् । तच्च तस्य तस्य परमात्म- संकल्पायत्तम् । न तु स्थौल्याभावादि तत्र प्रयोजकम् । स्थूल- स्यापि भगवदिव्यविग्रहादरग्रहणात् । सूक्ष्मस्यापि त्रसरेण्वादेग्रहणात् । आनुभविकं चदं, यत् बाह्यविषयप्रवणमिन्द्रियं नाचेतनं विहाय सटिति चेतनं गोचरयति, नतरां च तमतिक्रम्य तस्यापि नियन्तारं परं पुमांसमिति । अत एवाचेतनचेतनपरमपुरुषोपासनेपु क्रमेण दौकर्ये तारतम्यमवगम्यते । अता दुर्ग्रहाद्दुर्घहतर इति तदर्थः । यद्वा सूक्ष्मत्वमप्रतिहन्यमानत्वम् । सलिलादौ तणिकिरणादेरप्रतिहन्यमानतया तस्य ततस्सूक्ष्मत्वम् । सलि- लम्य किरणादौ प्रतिहन्यमानत्वाच्च स्थूलत्वम् । ननु भवन्मत आ- स्मनामन्तरवयवस्य कस्यचिदभावाज्जीवात्मनि परमात्मनः कास्न्यन संवन्ध- वत्तस्य तथा सम्बन्धाईत्वमस्तीति कथं जीवात्स सुक्ष्मतर इति चतु सत्यम् । एष तावद्दोषोऽन्तरवयवमङ्गोकुर्वतो निखिलस्य परमात्मान्तस्सद्भाव वदतो भवतोऽपि समरतीति प्रागेवोक्तम् । अत उभाभ्यामेवं परिहारो वाच्यः । यथा नित्यानामीश्वरस्य चाविशिष्टेऽपि सार्वश्यादावनुपाधिकत्वमात्रणेश्वरीये कश्चिदतिशयः, तत्सङ्कल्पोपाधिकतया च नित्यगते तत्र निकर्ष इप्यते, यथा च 'नान्योतोस्ति द्रष्टे'ति श्रुतिष्टन्तरे नित्यादौ विद्यमानेऽपि नियन्त- त्वविशिष्टदष्टन्तराभावमात्रेण प्रवर्तत इत्यङ्गीक्रियते, तथैवाप्रति- हन्यमानत्वस्याऽऽत्मपरमात्मसाधारण्येप्यनुपाधिकत्वरूपस्य नियन्तृत्ववैशिष्टय- रूपम्य चातिशयस्य परमात्मसौक्ष्म्ये, परेच्छायत्तत्वरूपस्य नियाम्यतया तन्नियन्तृत्ववैशिष्टयाभावरूपस्य च निकपस्यान्यसौक्ष्म्ये च विद्यमानतयाऽ णोरणीयानिति श्रुतिप्रवृत्तिरिति शक्यमेपितुमिति । अतोऽन्यथा सिद्धतया ईशावास्योपनिषद्भाष्यम् । नेदं न्यायसिद्धस्याप्यन्तरवयवराहित्यस्य बाधकम् , किमुत प्रमाणसिद्धस्य । एतेन महतो महीयानित्यपि नियूंढम् । अणोरणीयानित्यणुपरिमाणं माया- हीत्यनन्तरवचनप्रवृत्तिः, यतो महदस्य परिमाणमतो नाणुपरिमाणं ग्राह्य- मिति श्रुतिहृदयम् । अथवौपाधिकमणुपरिमाणमुपासनदशायामस्य अणी- यान्त्रीहेवी यवाद्वे'त्यादौ संप्रतिपन्नम् , तदाहाणोरणीयानिति । व्योम- चदेवायं व्यपदेश्य इत्याह महतो महीयानिति । पदस्वारस्य पुनरल्पतर- परिमाणतामेव ग्राहयति । सा तु विरोधात् सर्वैरप्यनङ्गीकृतेति कथञ्चि- निर्वाहस्य कर्तव्यत्वे मानान्तराविरोधेन निर्वाह एवोचित इति नेयं श्रुतिर- -न्याशीमन्ताप्तिं साधयिष्यति । यदप्यणुषु कथमन्ताप्तिः,अन्तर्व्याप्तिप्रयोजकविवराभावादित्याशंक्य यथा दर्पणायःपिण्डादिष्वालोकानलप्रवेशप्रयोजकविवरसद्भावः प्रत्यक्षप्रतिप- तथा परमात्मप्रवेशस्य प्रमाणसिद्धतया तत्प्रवेशप्रयोजकविवरसद्भावोs प्यणुषु प्रतिपन्न एवेति समाधानम् , तन्न भवति , विवरस्वरूपस्य दुर्निरू- पत्वात् । न तावद्दर्पणादिष्विवाकाशात्मकमेव विवरं भवितुमर्हति, अचेत- नापेक्षया चेतनस्य सक्ष्मत्वेन तस्य तदन्तःप्रवेशासम्भवात् । न चाभाव एव विवमिति युक्तम् अभावस्याधिकरणसापेक्षत्वस्य भावातिरिक्ताभावाभा- वेनाधिकरणादिरूपत्वस्य वा स्वीकार्यत्वेन तस्य तत्त्वायोगात् । न च पर- मात्मप्रदेश एव विवरम् , तत्प्रवेशप्रयोजकविवरस्येवेदानी चिन्त्यमानत्वात् । अता विवरासम्भवादपि नान्तयाप्तिः । वस्तुतो विवरमन्तैरव वस्तुष्वप्र- तिहन्यमानतैयैव व्याप्तिखीकारस्य सलिलादौ श्रुतप्रकाशिकायां प्रदर्शितत्वे- न वृथैवायं भवतो विवरविचार इत्यलमत्र । यदप्यन्ताप्त्यभावात्प्रत्यगात्मनां परमात्मव्याप्तिप्रतिघातकत्वखी- कारे विभौ परमात्मनि तिष्ठद्भिः सञ्चरद्भिश्च प्रत्यगात्मभिश्छिद्रकरणमावश्य-

No text on this page.

५८ ईशावास्योपनिषद्भाष्यम् । यवत्वं स्वाभाविकावयवराहित्यरूपं स्वीक्रियते; सम्भावितोपाधिकाकारे सर्वत्र व्यापनशीलता चेत्यस्माकमेवायं दृष्टान्तः । यत्पुनरत्यल्पपरिमाणे वटपल्लवशायिनि भगवति निखिलजगदण्डम- ण्डलस्यान्तःस्थितिश्च प्रमाणसिद्धेति दृष्टान्तान्तरवर्णनम् ; तत्रेदं विम्रष्टव्यम् । उदरस्य सावयवत्वेन निरवयवत्वान्तरवयवराहित्यादेरप्रसक्त्या न त- मंशमादायायं दृष्टान्तः । अतोऽल्पपरिमाणे उदरान्तराले महापरिमाणज- गस्थितिवन्निरवयवे प्रत्यगात्मनि परमात्मनोऽन्तःस्थितिरित्येव विवक्षितम् । तत्राल्पे महतः स्थितिरेव कथं निर्वाह्यत इति पृच्छ्यते । अघाटतघटना- शक्यवेति चेत् कस्तर्हि भवतो भावः । किमल्पस्याप्युदरान्तरालस्य प्रमाणसि- द्धमहत्स्थितिबलेनाल्पत्वविरुद्धमपि महत्त्वं स्वीकर्तव्यमिति, किं वा महदन्त रालस्यैव महदावारकत्वमिति व्याप्ति प्रकृते भक्त्वाऽल्यान्तरालस्यापि महदा- वारकत्वमूरीकर्तव्यमिति ? नाद्यः, अल्पत्वमहत्त्वयोः परस्पराभावरूपत्वाद्भा- वाभावयोरसामानाधिकरण्यरूपविरुद्धत्वस्य वक्ष्यमाणत्वादेकस्योदरान्तरालस्य युगपदल्पत्वमहत्त्वाङ्गीकारासम्भवात् । नान्त्यः , तथा सति प्रकृते दृष्टा- न्तघटनस्याशक्यत्वात् , उदरान्तरालस्य ह्यल्पत्वविरुद्धं महत्त्वं न स्वीक्रियते । तदभावेऽपि तु महदाधारत्वमभ्युपगम्यते । प्रकृते पुनः प्रत्यगात्मन्यन्तः- स्थितिवचनेन निरवयवे तस्मिन्नन्तरवयववत्त्वमेव स्वीक्रियत इति भेदस्य जागरूकत्वात् । अत्र हि भावाभावयोः सावयवत्वनिरवयवत्वयोः सामा- नाधिकरण्यमेवापततीति । स्यादेतत् । वस्तुतत्त्वे विमृश्यमाने कथं पुनरल्पिष्ठ एव जठरे निखिलजगन्निक्षेप इति । नन्वयमेव व्याप्तिभङ्ग उपपादकः । यथा हि वस्तुषु परस्परप्रतिहन्यमानत्वे दृश्यमानेऽपि रूपरसादेस्तदभावः, द्रव्येष्वपि भूतान्तरेषु नभसः, स्पर्शवत्स्वपि सलिले पवनस्य, रूपवत्स्वापि तत्रैव तर-

No text on this page.

No text on this page.

No text on this page.

६२ ईशावास्योपनिषद्भाष्यम् । त्यादिनाऽन्तर्यामिरूपेण सर्वस्यात्मतयैक्याभिधान" मिति, "अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम् ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठ- तीति सर्वस्य चाहं हृदि सन्निविष्टः' इति च । 'अहमात्मा गुडाकेश सर्व- भूताशयस्थित' इति च तदवोच्यत'" इति च भाषितम् । यदि पुनरात्मनो ऽन्तरवयवं कञ्चिदङ्गीकृत्य तत्र परमात्मनः स्थित्यनभ्युपगमेऽन्तर्यामित्वमेव दुवैचम्, तर्हि कथं तादृशार्थवर्णनपरे वचने प्रमाणीकरणीये केवलमात्मस- बन्धिहृदयसम्बन्धमात्रोपपादकं वचनजातमुदाहृत्यान्तर्यामित्वभाषणं युज्येत । न च भूतशब्दसर्वशब्दयो/वपर्यन्तवाचित्वाज्जीवान्वय्यर्थकहृद्देशादिपदस्य तदीयान्तस्वयवपरत्वं वाच्यमितीष्टसिद्धिरिति मन्तव्यम् । अन्तथैव भूता- दिपदोत्तरषष्ठयुपपत्तौ शक्यार्थपरित्यागेन अन्यार्थकल्पनस्सायुक्तत्वात् । व्या- सायरन्यथा व्याख्यातत्वाच्च । अतस्तदन्तर्यामित्वोपपादनाय तत्सम्बन्धि- देशसम्बन्ध एवापेक्षितः । न तु तदन्तरवयवसम्बन्ध इत्येव भगवद्भाष्य- काराशयो विस्पष्टमवसीयते । अत्र गीताधभिहितं तत्सम्बन्धिदेशसम्बन्धि- त्वं च , मूर्तद्वयसमावेशासम्भवप्रयुक्तं घटपटयो दृशं भूतले गौण स्वीक्रि- यमाणम् , न तादृशम् । अपि तु अप्रतिहन्यमानतया साक्षात्तत्सम्बन्धि- प्रदेशसम्बन्धित्वमेव । इदमेव दर्शयितुं 'हृद्देशेऽर्जुन तिष्ठती'ति देशपद- मधिकं गीतायाम् । तथा च सर्वभूतशब्दवाच्यजीवावच्छेदकहृदेशस्थित्यु- क्या तादृशहृत्प्रदेशावच्छेदेन स्थित्युक्त्या वा हृदेशावच्छिन्नजीवसम्बन्धित्व- सिद्धौ, यद्वस्तु यत्प्रदेशावच्छेदेनास्ति तत्प्रदेशावच्छेदेन तत्सम्बन्धित्वमेवा- न्तर्यामित्वप्रयोजकमित्युक्तं भवतीति भाष्यकृदाशयः । इममाशयमाविष्कर्तुमेव व्यासायीः 'हृद्देशे-हृद्देशस्थ आत्मनीत्यर्थः' इति व्याचख्युः । न पुनर्हद्देश- पदस्य तादृशार्थलक्षकत्वे तेषां तात्पर्यम् । अयुक्तत्वात् । आत्मासम्ब- न्धिहृदयप्रदेशो मा ग्राहीत तात्पर्यवर्णनेन शक्यार्थग्रहणेनैव सर्वोपपत्तेः ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । ur लोकदृष्टप्रसङ्ग इति सर्वसाधारण्येन ब्रवीतीति । भाष्य च 'घटादौ दृष्टा धी' इति बहुवचनान्तधर्मपदन सावयवत्वादेरपि ग्रहणादयमर्थसिद्धयती- ति ध्येयम् । अतो यदधिकरणे सावयवत्वसाधकमुपात्तम् , तदधिकरण- सूत्रतद्भाष्यादिस्वारस्यनैव सिद्ध जीवात्मनोऽपि निरवयवत्यम् । किञ्च सूत्रकारैः ‘स्वशब्दोन्मानाभ्यां चेति सूत्रेण श्रुतावणुश- ब्दश्रवणाजीवस्याणुत्वमित्युक्तम् । अत्र च 'अणोरणीया' नित्यादी पर- मात्मनीवाणुशब्दस्य न गौणत्वम् , मुख्यार्थत्यागायोगादित्याशयः स्फुटोऽव- गम्यते । अन्यथा विभोराप जीवस्य सूक्ष्मतर्यवाणुव्यवहारापपत्तेः । एवं च यदि तस्य सावयवत्वम् , तर्हि तत्राणुशब्दो भाक्त एव भवति, विल्वाप- क्षयाऽऽमलक इवाणुशब्दः । न च सर्वस्यापि पदार्थत्य सावयवताया एवेष्टत्वेन जीवापेक्षयाऽल्पसंख्याकावयवशाल्यर्थान्तराभावेनाव मुख्यवृत्तोऽ णुशब्द इति वाच्यम् , प्रकृतिपरिणामभूतेषु तथाभूनेषु सावयवपु वस्तुन्व- वयवविशरणाभावे प्रमाणाभावात् । तादृशवस्त्वन्तराभावेऽपि जीवस्यावय- व एकैकस्मिन्नेवाणुशब्दमुख्यवृत्तत्वोपपत्तौ जीवे कृत्ले तद्व्यवहारस्य भाक्तत्व- सैवौचित्याच्च । न खलु पूर्ण एव वस्तुनि मुख्यवृत्तत्वं संपादनीयम् नत्वेकदेश इत्यत्र किञ्चित् प्रमाणमस्ति । अतः सूत्रकाराभिमतमुख्यवृत्त- त्वसंरक्षणाय निरवयवत्वमेव स्वीकार्यम् । अत एवोक्तं प्राणाणुत्वाधिक- रणे श्रुतप्रकाशिकायाम्-'अणुत्वं नाम परिच्छिन्नत्वे सत्युपलब्भ्यर्हस्थूलता- राहित्यमत्र विवक्षितम् । न तु जीवात्मस्वरूपवदत्यन्ताल्पत्व"मिति । अत्र चात्यन्तपदेन जीवतोऽप्यणुरंशा न कश्चिदिति ज्ञायते । एवमुन्मा- नश्रुतिरपि न भवत्पक्ष स्वरसा । 'वालाग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः' इति श्रुतेझयमभिप्रायः स्वरसः ‘यावन्तो भागा वालाग्रे कल्पयितुं शक्यास्तावत्सु कल्पितेपु तावदन्यतमस्य यत्परिमाणं त- ,

No text on this page.

No text on this page.

७२ ईशावास्योपनिषद्भाष्यम् । तया निश्चितमपि ग्रहीतुं प्रभवति । न च तर्हि परमात्मव्याप्तिः प्रत्यगा- स्मनि न सिद्धयतीति शंक्यं, प्रमाणान्तरेण तत्सिद्धेः । अतो यथा 'सर्व- स्यापि मनोरथमीश्वरो जानाती'त्यत्र सर्वपदेन नाचतनग्रहणं तथैवेहापीति । अत एव न तृतीया । किञ्चानान्तबहिश्चेत्यस्य केवलमनुवादरूप- त्वात् अनुवादस्य च सम्भावितावयवकपदार्थविषयतयाऽप्युपपत्तीवान्तरव- यवसाधकत्वं न सम्भवति । अत्र हि व्याप्येति श्रयेत । व्याप्तिश्च कृत्स्न- सम्बन्धः । एकदेशमात्रसम्बन्धे तत्प्रयोगादर्शनात् । अतस्तेनैव कृत्स्नसम्ब- न्धावगमात् सावयवे निरवयवे सर्वत्र कृत्स्नसम्बन्धलाभेनानुवाद एवान्तबहिः- पदद्वयम् । न चान्तर्बहिरित्येव विवक्षितम्, व्याप्यत्येव त्वनुवाद इति वाच्यम् । अन्तवहिरित्यस्य विवक्षितत्वे निरवयवपदार्थीग्रहणेन सर्वपदस- कोचस्य वा निरवयवस्यापि ग्रहणे निरवयवशब्दार्थान्यथाकरणस्य वा प्रस- ङ्गेन तादृशदोषाभावायैव व्याप्येत्यस्य ग्रहीतुमुचितत्वात् । सर्वमिति द्वि- तोयान्वयाय व्याप्येत्यस्य विवक्षणीयत्वाच्च । स्थित इति प्रधानक्रियान्व- यिल्यप्प्रकृत्यर्थविवक्षयैव फलसिद्ध्या तद्विशेषणीभूतान्तबहिश्शब्दार्थविधान- स्यैव युक्तत्वाच्च । अन्तर्वाहिश्शब्दार्थविधानेऽपि गृहस्यान्तबहिश्चद दारु वर्तत इत्यादाविव कतिपयान्तरवयवकतिपयबहिरवयवसम्बन्धेनापि वाक्यो- पपत्त्या कृरनव्याप्तेरवश्यसिद्धयभावन व्याप्यशब्दार्थविधानस्यावश्यकत्वाच्च । अत एवान्तर्बहिश्शब्दमात्रण व्याप्त्यलाभं मनसि कृत्वाऽऽचार्यपादैः 'तदे- तब्यक्तमुक्तं तैत्तिरीये' इत्यारभ्य व्याप्यपदघाटतमिदं वचनमुदाहृतम् । अतो वचनान्तरविहितस्य निरवयवत्वस्य नानुवादरूपान्यथासिद्धान्तबहिःप- दबाध्यत्वप्रसक्तिः । यदि पुनस्तद्व्यापित्वं न तदीययावत्प्रदेशसम्बन्धित्व- रूपम् ; किं तु तत्समानाधिकरणाभावाप्रतियोगित्वरूपम्, यथा 'धूमं व्याप्य स्थितो वह्नि रित्यत्र वढेधूमव्यापकत्वं धूमाधिकरणवृत्त्यभावाप्रतियोगित्वमेव ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । वस्तुन्याकाशस्येव भावदेशावच्छेदेन च परमात्मसम्बन्धोऽस्तील्याचार्यपाद- सम्मतार्थ एवेदं श्रुत्यनुगुणः । वस्तुतस्त्विह पञ्चमीबलादन्तरपदं बहियों- गार्थकम् । 'अन्तर बहिर्योगोपसंव्यानयोः' इति हि स्मृतिः । तथा चा- स्मनोऽन्तर इत्यस्यात्मनो बहिर्वर्तमान इत्येवार्थः । व्यासार्यमुक्केवायमर्थः- आत्मनि तिष्ठन्नित्यस्य बाहिरबाहस्थितिसाधारण्यात् आत्मनोऽन्तर इति वा- क्यमात्मबाहिरिस्थति वदनात्मनि तिष्ठन्निल्यस्यात्मसद्भावदेशस्थित्यर्थकत्वव्युत्पा- दनेन परमात्मनस्तत्तद्वस्तुभावाभावदेशस्थितिं विशदयतीति । तस्मादेत- च्छुतिप्रदर्शनेन तत्र तत्र जीवात्मन्यन्तःप्रदेशसद्भावस्थापनमत्यन्तानुपपन्नम् । अत एव सुनमायश्रुतकामिकाविद्धवावुतश्रुत्यानुगुण्यभङ्गप्र- सङ्गाच नान्यस्यामप्येवञ्जातीयकायां श्रुतौ सावयवत्वतात्पर्य कल्पयितुं श- क्यमिति । अपि च यत्परतया श्रुतीनामीदृशीनां प्रवृत्तिस्तस्यैवार्थस्य भङ्गो न युक्तः ; न तु यत्रांशे न तात्पर्य तस्यापि । न चेमा आत्मनोऽन्तरवयववाहि- खयवसद्भावं विधातुं प्रवृत्ताः । न हि यः पृथिव्यां तिष्ठन् पृथिव्या अ- न्तर' इत्यादेः पर्यायस्य प्रत्यक्षप्रमित पृथिव्यादिगतावयवविधायकत्वं दृष्टम् । श्रतो यावन्ति वस्तूनि प्रमाणसिद्धानि सावयवानि निरवयवानि वा तेषु स- र्वेषु कानन परमात्मसम्बन्धाऽस्ति । न कश्चित् प्रदेशोऽपि तादृशः, यः परमात्मसम्बन्धं नानुभवेदित्यत्रैव तात्पर्यम् । अन्यत्तु सर्वमनुवादरू- पम् । तस्माद्विवक्षितस्य शरीरशरीरिभावस्य कात्स्न्येन परमात्मसम्बन्धस्य.. वा निरवयवत्वसद्भावेऽपि सिद्धया न तत्परपुरोवादावगतनिरवयवत्वबाधनेना- तत्परानुवादगतसावयवत्वसमर्थनं युक्तम् । अतो यथा यस्य पर्णमयी जु- हूर्भवति न स पापं श्लोकं शृणोतीत्यत्र क्रत्वङ्गजुहथत्वेनावगतायाः पर्णता- या अपापश्लोकश्रवणार्थत्वे तात्पर्यासम्भवात् न स पापमित्यादेः प्राशस्त्य-

No text on this page.

No text on this page.

८२ ईशावास्योपनिषद्भाष्यम् । लाभो बोध्यः । अत्र चानधिकरणदेशभिन्नदेश इति नान्तःशब्दार्थो गौर- वात् । अपित्वधिकरणदेश इत्येव । तथा च भावदेशोऽभावदेश इत्या- चार्यपादोक्तार्थयोरेवान्तबहिःशब्दशक्तिरिति क क्लेशनिर्वाहः । अवश्य च बहिःशब्दस्यानधिकरणदेशमात्रार्थकत्वमूरीकर्तव्यम्, न पुनरनधिकरण- देशावच्छिन्नसंयोगवत्स्वप्रदेशार्थकत्वमेव । गृहाहहिर्गतो गोपाल इत्यादौ बहिःशब्दस्य गृहीयप्रदेशपरत्वाभावात्, गृहानधिकरणविपिनादिदेशपरत्वात् । तोऽवश्याङ्गीकार्यलध्वर्थशक्त्यैव सर्वनिर्वाहे न गुर्वर्थवाचित्वकल्पन युक्तम् । एवं च यत्रानधिकरणदेशरूपबाहिःशब्दार्थस्य क्रियासबन्धविवक्षा, तत्र गृहादि- त्येवमवधिसमर्पकपंचमीप्रयोगः । यत्र तु तस्य बहिःशब्दार्थस्यावयवाद्यन्व- यविवक्षा तदर्थे च तद्वाचिशब्दप्रयोगः, तत्र तस्मिन्नवयवेऽवयविसम्बन्ध- लाभाय पंचमी विहाय षष्ठीप्रयोगः । यथा घटस्थ बाहिरवयवे पिपीलि- केति । सा तु षष्ठी सर्वसंबन्धोपस्थापनक्षमतयाऽवयवशब्देनेव बहिःशब्दे- नाप्यन्वति । अत एव षष्ठ्याः सर्वत्र संभवादवंयवान्वयाविवक्षया क्रिया- न्वयविवक्षया बहि:शब्दप्रयोगेऽपि अवधिवाचिनः प्रातिपदिकात् षष्ठ्यपि क्वचित् प्रयुज्यते । पंचमीप्रयोगे तु न बहिरवयवसंबन्धः क्वचिदपि लक्ष्यते । एवं च वहिःशब्दस्यानधिकरणदशार्थकत्वात्तत्प्रतियोग्यर्थसमर्पकस्यान्तःशब्द- स्याधिकरणदेशार्थकत्वमेव युक्तम् । एवं बहिःशब्दस्य स्वसमभिव्याहृतपदा- यप्रदेशशक्तत्वाभावादेव 'बहिरन्तश्च भूतानामचरं चरमेव च' (14-15) इत्यत्र श्रीमति गीताभाष्ये 'पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहि- वर्तत' इत्यभाषि । तथाचाचार्यपादाभिमतार्थ एवं सिद्ध इति । यद्यपीदं विभाव्येत-अन्तःशब्दःसमभिव्याहृतपदार्थगतदशदिगव- च्छिन्नतत्तत्प्रदेशसंबन्ध्येकप्रदेशपरः । यथा शम्यन्तर्वहिरित्यादौ । बहिः- शब्दश्च तादृशैकप्रदेशानधिकरणदेशपरः । स च देशस्तत्पदार्थबाह्यावयव- आचार्यभाष्यतात्पर्यसमेतम् । ८३ रूपोपि भवति, पदार्थान्तरेदशरूपोपि । यत्र गृहाहहिरित्येवं पंचमीप्रयो- गः तत्र गृहस्य कृत्स्नस्यावधित्वेनान्वयात् गृहात्पदान्तरदेश एव गृह्यते । यत्र तु षष्ठीप्रयोगस्तत्र यथासम्भवं पदार्थान्तरदेशो वा प्रकृतपदार्थबाह्यप्रदेश एव वा सर्व एव वा गृह्यते । ततश्च तदन्तरस्य सर्वस्येत्यादावन्तःशब्द- स्य तत्तत्पदार्थीयदशदिगवच्छिन्नप्रदेशमध्यप्रदेशपरत्वात् प्रत्यगात्मनोऽपि तादृशप्रदेशस्वीकर्तव्य- इति ; अथापि प्रागुक्ताभिरुपपत्तिभिरन्तःशब्द- घटितवचनानामन्यथासिद्धत्वात्, 'यमन्तस्समुद्रे कवयो वयन्ती'त्यत्रेशप्रदे- शार्थकत्वं विना परितस्थितप्रदेशमध्यप्रदेशमात्रेप्यन्तःशब्दप्रयोगदर्शनात्, पटे भूमावास्तृते पटभूतलयामध्ये च पिपीलिकाप्रवेशे पटान्तश्चरति पिपी- लिकेति प्रयोगोपलम्भात्, यवनिकया पिहितमङ्गणं प्रविष्टे च नटे 'नटो- यवनिकान्तःप्रविष्ट' इति प्रयोगात् तत्र तत्र तादृशप्रदेशपरत्वासम्भवेन पटयवनिकाद्यावृतदेशार्थकत्वस्यैवान्तःशब्द स्वीकर्तव्यत्वात् तादृशार्थस्वी- कारेणैवोपपत्तौ निरवयवत्वबाधायोगात्, “य आत्मनि तिष्ठन्नात्मनोन्तर' इति श्रुतौ पंचमीप्रयोगेणात्मानधिकरणदेशतद्भिन्नदेशवृत्तित्वस्यैव विवक्षित- त्वेन तदनुसोरण सर्वत्र तथा विवक्षाप्रतीतेः, तथा, 'तस्मिन्यदन्तस्तदन्व- ष्टव्य'मिति श्रुतौ निरवयवे परमात्मन्यपहतपाप्मत्वादिकल्याणगुणकथन- स्थलेऽन्तःशब्दस्य प्रयोगेण तत्र प्रागुक्तप्रदेशरूपार्थग्रहणासम्भवात् ग्रहणे परमात्मप्रदेशान्तरेष्वपहतपाप्मत्वाद्यभावप्रसङ्गाच्च कृत्स्नपरमात्मग्रहणस्यैव कर्त- व्यतया तद्वदेवेहापि कृत्स्नतत्तद्वस्तुग्रहणोपपत्तेः बाहिःशब्दस्य च तदन- धिकरणदेशपरतया प्रयोगस्य संप्रतिपन्नतरत्वान्न कथमप्यात्मन्यन्तरवयव- स्वीकारसंभवः । अथैवमसंदिग्धार्थकतत्परपुरोवादनिरवयवत्वश्रुतिबलेनान्यथासिद्धात- परानुवादभूतान्तःशब्दधटितवचनानां वास्तवान्तरवयवसाधकत्वाभावऽप्यौ-

No text on this page.

No text on this page.

No text on this page.

No text on this page.

८८ ईशावास्योपनिषद्भाष्यम् । A इति युक्तमभ्युपगन्तुम् । तथा सति हि कश्चिद्वष्टि कश्चित् द्वेष्टि, कश्चि. त् प्रवर्तयति कश्चिन्निवर्तयति, कश्चित् तिष्ठासति कश्चिदुपविवक्षतीति ब- हुनायकस्येव राज्यस्य भूयिष्ठः क्षोभः स्यात् । अथ पाण्डवाः पाञ्चाली- मिव केनापि समयेन प्रत्येकमवयवास्तनुमिमां भोक्ष्यन्त इति ; यद्येवम् यस्मिन्नवसरे येनावयवेन यत् कर्म कृतं पुण्यं पापं वा तस्य फलं तेनैवानु- भोक्तव्यमित्यन्येऽवयवा विषमविपच्यमाननिजकर्मवैचित्र्येण पृथक्फलं भोक्ष्य- न्त इति कश्चिदवयवः स्वर्गमारोहेदन्यो नरकमियात् अपरश्च भुवं बम्भ्र- म्येतेति कदाचिदवयवविभागोऽपि प्रसज्यते । यथाऽर्जुनस्तीर्थयात्रायाम- न्यासु वराङ्गनासु व्यापृतस्तद्वत् । तथा चैकस्मिन्नवयवे योगबलेन मुच्यमा- नेऽन्येवयवा अननुष्ठितोपाया अपवर्गमलभमानाः पृथक्भूय संसरेयुः । जड- भरतस्य च महात्मनो मृगभावनापादितमृगमावस्यान्येऽवयवाः कान् देहा- नलकुन्तीति विचार्य स्यात् । एवं पाण्यवच्छिन्नात्मावयवस्पृष्टं पादाव- च्छिन्नात्मावयवः स्पृशन् , यदहं पाणिना पूर्वमस्प्राक्षम् , तदिदानी पादेन स्पृशामीति न प्रतिसन्दध्यात् । न च सर्वेषामवयवानां पृथग्भूतानि धर्मभूतज्ञानानि युगपदेव कृत्स्नं शरीरं व्याप्नुवन्ति युगपत् सर्वेपामेकरूपा- मेव प्रवृत्तिं निवृत्तिमन्यद्वा जनयन्तीति सर्वमुपपद्यत इति वाच्यम् । तथा सति पाथस्यनैव सर्वकायक्षमाणामेषामवयवानामीदृशः सङ्घात एव किमर्थ स्वीकार्य इति विचारणीयत्वात् । यद्येवं , अन्येऽपि जीवाः कदाचिदनेन नोवन संहता एकं देहं युगपदधितिष्ठेयुः । न च तेषामेषां च किञ्चिद्वै- लक्षण्यमम्ति , येनैतावद्भिरेवावयवभूतैर्भवितव्यम् नान्यरित नियम्येत । न च केचित् संहतिखभावाः केचित् पृथक्भावखभावा इति खरं वक्तुं श- क्यम् । तथा सति विभुत्वेनात्मानमभ्युपगम्य स देहान्तरुपलभ्यस्वभावो बहिरनुपलभ्यस्वभाव इति केषांचित् कल्पनस्यापि युक्तत्वप्रसङ्गात् । तथा 3

No text on this page.

No text on this page.

आचार्यभाष्यतात्पर्यसमेतम् । ९१ - राणवचनस्य भाष्यकृद्भिरत्रैव गीताभाष्य उदाहृतत्वेन तत्रापि नियमनशक्त्ये- कदेशार्थकत्वस्य स्पष्टतया न तस्यापि खाभिमतसाधकत्वसम्भवः । पि च वचनयोरनयोः स्वरूपैकदेशपरत्वेऽपि 'इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचर' मितिवदेवोपपत्तेन विशिष्य विभुत्वेन निर्धारितव्यक्त्यपे- क्षयाऽपि विभुतरत्वसाधकता । यत्तु तस्यापि वचनस्य प्रकृतार्थसाधक- लेनोपादानम् , तदत्यन्तमयुक्तम् । तत्र किमेकस्थमिति पदस्यात्मखरू- पैकदेशपरत्वमभिसंहितम् , विग्रहैकदेशपरत्वं वा ? नायः, 'मम देहे गु- डाकेशे' ति विग्रहस्य निर्दिष्टत्वात् । अन्त्येऽपि किं जगत्कृत्स्नमिति प्रा- कृतप्रपञ्चमात्रग्रहणम् उत नित्यविभूतिलीलाविभूत्युभयस्य ? नान्त्यः, यस्य देहस्यैकदेशे नित्यविभूतिरस्ति स देहः किमप्राकृत उत प्राकृताप्राकृतविलक्ष- णः ? नान्त्यः अपसिद्धान्तात् । नायः, तस्यापि नित्यविभूत्यन्तर्गततया तस्य तदेकदेशवर्तित्वाभावे कथं कृत्स्नविभूतेस्तदेकदेशस्थत्वम् ? नित्यविभू- त्यन्तर्गत नित्यविग्रहपरिणामविशेषस्यैव चेदेकदेशावृत्तिता, कथं तर्हि नित्यवि- भूतिस्तत्र मास्यति । नच प्राकृतप्रपञ्चमात्रमिति पक्षः तावता हि प्रकृत- वचनेन तदपेक्षया विभुत्वमेव सिद्धयेत् न तु सर्वापेक्षयेति । अवश्य चास्य वचनस्यैतावन्मात्रविषयत्वमेवाभ्युपेत्यम् । 'अमी हि त्वा सुरसङ्घन विशन्ति' 'रुद्रादित्या वसवो ये च साध्या' इत्येवं तदन्तर्गतमात्रस्य तत्र कीर्तनात् । अत एव तत्रैकस्थं जगत् कृत्यं प्रविभक्तमनकधे'त्यत्र भा- प्यम् 'अनेकधा प्रविभक्तं ब्रह्मादिविविघविचित्रदेवतिर्यङ्मनुष्यस्थावरादि- भोक्तृवर्गपृथिव्यन्तरिक्षखर्गपातालातलवितलादिभोगस्थानभोग्यभोगीपकरण- भेदभिन्न प्रकृतिपुरुषात्मकं कृत्स्नं जगत्' इति । न ात्र त्रिपाद्विभूति- विस्तारो व्युत्पादितः । ‘द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेने त्यत्रापि 'धुशब्दः पृथिवोशब्दश्चोभावुपरितनानामधस्तनानां च लोकानां प्रदर्श- - ९२ ईशावास्योपनिषद्भाष्यम् । नार्थी' विति । 'नमस्पृशं दीप्तमनेकवर्ण' इत्यत्रापि 'नभश्शब्दः कृत्यतीतपरमव्योमवाची । सविकारस्य प्रकृतितत्त्वस्य पुरुषस्य च सर्वाव- स्थस्य कृत्लस्याश्रयतया नमस्स्पृशमिति वचना'दिति । यदि नित्यविभूति- मपि व्याप्य विग्रहोऽयमस्ति तर्हि स्पृशमिति तदेकप्रान्तमात्रसम्बन्धाभिधायि- पदमपि न सङ्गच्छले । किञ्चह नित्यविभूतिग्रहणेऽपि कृत्लजगदाधारभू- तप्रकृतविग्रहापेक्षयाऽपि विभुत्वं परस्य कस्मात् प्रमाणादवगमिष्यते । वस्तु- त: पुनरिह प्राकृतप्रतञ्चमात्रकथनान्न सर्वीपेक्षया विभुत्वमनेन वचनेनावग- न्तुं शक्यामिति । किञ्च यदि कालादिषु विभुत्वव्यवहारः कतिपयमहाद्रव्यापेक्षया नि- कृष्टपरिमाणराहित्यमात्रण न तु परमात्मतुल्यपरिमाणतयेति, तर्हि 'प्रियशि- रस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेद' इति सूत्रं विरुद्धयते । ब्रह्मस्वरूपस्य शिरःपक्षपुच्छादिरूपत्वाङ्गीकारे बाधकाभावात् । न च शिरआदिरूपत्वे शरीरस्येवानित्यत्वप्रसङ्गः, नित्यविग्रहादिवदुपपत्तेः । न च सत्यं ज्ञानमनन्त- मिति श्रुतिविरोधः, देशकालापेक्षयाऽपि विभुत्वस्वीकारेण तदपरिच्छिन्नत्वा- व्याघातात् । ब्रह्म स्वमध्यकायात्मकनिजस्वरूपैकदेशेन देशकालादिकमखि- लमपि विभूतिवर्गमाक्रम्य ततो बहिःशिरःपक्षपुच्छात्मना समस्तीति स्वी- कारे हि नानन्त्यश्रुतिविरोधप्रसक्तिः । न च शिरःपक्षादौक मिथःपरि- माणतारतम्यदर्शनाद्ब्रह्मण्यपि तथैवैकदेशस्थौल्यान्यप्रदेशकार्यादिप्रसक्तिरिति सूत्राभिमतो दोष इति वाच्यम् इष्टप्रसक्तेः । अस्थूलत्वादिश्रुतिस्त्वश- रीरत्वादिश्रुतिवदेव निर्वाह्या । न च यत्र काश्य तत्र कचिद्वस्तुनि ब्रह्म- व्याप्त्यभावापत्तिरिति चोदनीयम् । सर्वस्मादपि वस्तुनो बहिरेव शिरःप- क्षाधङ्गीकारात् तत्र वस्त्वन्तराभावन तत्राव्याप्तेरप्रसक्तेः । ब्रह्मस्वरूपं तु बहिरेवं शिरःपक्षादिरूपं नित्यं चैव प्रमाणसिद्धमिति न किञ्चिद्धीयत इति ।

आचार्यभाष्यतात्पर्यसमेतम् । ९३ अतः कालादिकतिपयद्रव्यसमपरिमाणत्वरैयव ब्रह्मणि सत्त्वाब्रह्मवत्तेषामपि शिरःपक्षादिरूपत्वे प्रमाणाभावेन सर्वत्रैकरूपतया विभुत्वम्यैवाङ्गीकार्यतया ब्रह्मणि शिरःपक्षाद्यङ्गीकारे तदेकदेशे कादिना ब्रह्मव्याप्त्यसम्भवादान- न्त्यश्रुतिविरोध इति सूत्रतात्पर्यस्य वर्णनीयतया न ब्रह्मणो विभुतरत्वास- द्धिरिति न कालादिविभुत्वबोधकप्रमाणषु लक्ष्यार्थग्रहणं युक्तम् । यदपि ब्रह्मतुल्यविभुद्रव्यविवेचनमारभ्योक्तम् 'नापि नित्यमुक्तध- मभूतज्ञानानि तथा, तेषां सङ्कोचविकासशीलतया कदाचित् सङ्कोच्याव- स्थापनस्यापि सम्भवेन तहहिःप्रदेशस्यापि सूपपादत्वा' दिति ; तदप्ययुक्तं विकल्पासहत्वात् । किमत्र धर्मभूतज्ञानस्य सङ्कोचो वस्तुतः कदाचिद- स्त्येवेति कृत्वा बहिःप्रदेश उपपाद्यते, उत तस्य सोचयोग्यतामात्रमस्तीति ? नाद्यः, कदाचित् संकुचितत्वेऽप्यसङ्कोचावस्थायां तदपेक्षया विभुतरत्वासिद्धेः। न च तद्गतविभुत्वस्य कादाचिकत्वात् परमात्मविभुत्वे सार्वकालिकत्वरूपा- तिशयोऽस्तीति महतो महीयानित्युपपद्यत इति वाच्यम् तथा सत्यधि- कदेशवर्तित्वरूपबहिःप्रदेशवर्तित्वमादायातिशयोपपादनसंरम्भस्य त्यक्तत्वाप- तेः । नित्यगतधर्मभूतज्ञानस्य कदाचिदपि सङ्कोचाभावेनेहशस्यापि वक्तमशक्य- त्वाच्च । नान्त्यः, तथासति जीवगतस्य ज्ञानस्य सङ्कोचयोग्यत्वं, परमात्मीयस्य तु न तत् । परमात्मनो हि स्वामित्वात् सर्वशक्तित्त्वाच्च जीवज्ञानं वस्तुतो विभ्वपि सङ्कोचयितुमस्ति सामर्थ्यमित्येवोक्तं भवतीत्यस्मदुक्तसोपाधिकत्वनि- रुपाधिकत्वरूपवैषम्यमेव भंग्यन्तरेणोपपाद्य महता महीयानित्यस्य समर्थन क्रियत इति बहिःप्रदेशोपपादनस्य चिकीर्षितस्यासिद्धिप्रसङ्गात् । तथा चास्मन्मतानुसरणान्नान्यादृशविभुतरत्वसिद्धिरिति । यदपि कालस्य जगदन्तर्गतकार्योपयोगितया सिद्धस्य जगदधिक. देशवर्तित्वस्यानपेक्षितत्वाज्जगतश्च गीतादिप्रामाण्येन परमात्मैकदेशवर्तित्वेन 30 ईशावास्योपनिषद्भाप्यम् । तत्र परिच्छिन्नत्वान्न परमात्मतुल्यविभुत्वमिति ; तदप्यनुपपन्नम् । गीतायुक्तस्य जगतो विभूत्येकदेशत्वस्य प्रागेव दार्शतत्वात्, विभूतिद्वयात्मना जगतश्च परमात्मैकदेशवर्तित्वासम्भवस्य वक्ष्यमाणत्वातदुपयोगिनः कालस्य परमा- त्मतुल्यविभुत्वस्वीकारस्यावश्यकत्वात् । यदपि- कालो लीलाविभूता- चनित्यः, नित्यविभूतौ नित्य इति कालभेदकल्पनम्, तदपि तथा नित्य- त्वानित्यत्वविभाग एव प्रमाणाभावात्, ‘गौरनाद्यन्तवती सा जनित्री'त्याद्य- न्तरहितत्वेनावगतायास्स्वरूपोच्छेदरूपासाम्प्रदायिकध्वंसस्यासम्भवेन समविषमपरिणामौपयिकतया कालस्य नित्यत्वावश्म्भावात्, उभयत्र च विभू- तौ क्षणरूपण कालपरिणामस्य तुल्यत्वात्, वैलक्षण्यस्य वक्तव्यत्वेपि ब्रह्मणीव श्रुतिमूलकतया प्रदेशभेदकल्पनयैवोपपत्तः, 'अनादिर्भगवान्कालो नान्तो- ऽस्य द्विज विद्यते' 'रूपान्तरं तद्विज कालसंज्ञ'मित्यादिना कालनित्यत्वैक- त्वावगमेन तद्विरुद्धकल्पनस्यायुक्तत्वात्, नैकस्मिन्नधिकरणे व्यासार्यैः अनेक- कालकल्पनमयुक्तमित्युक्तत्वात्, स्वाभीष्टब्रह्मविभुतरत्वसाधनमात्राय धर्मि- द्वयकल्पनस्यायुक्तत्वात्, एतत्कल्पनेऽपि धर्मभूतज्ञान तादृशविभुतरत्वाति- व्यापनस्यानपायाच्चपिक्ष्यमेव । इदमत्र बोध्यम्-विभूत्योः परस्परदेशव्यावृत्तत्वेऽपि लीलाविभूत- रधः परिच्छेदाभावस्य नित्यविभूतरूपारच्छेदाभावस्य च प्रामाणिकत्वा- देतदन्यतरानाक्रान्तब्रह्मप्रदेशाङ्गीकारासम्भवेन तयोरुभयोरपि विभूत्योः सर्व- त्र परमात्मसङ्कल्पायत्तकार्योपयोगितया कालस्य स्वीकार्यतया न तस्य परमा- त्मापेक्षया न्यूनपरिमाणत्वं सुवचम् । एवं 'सर्व ह पश्यः पश्यति सर्व- माप्नोति सर्वशः' इति श्रुत्या मुक्तस्य नित्यस्य च सावश्यस्य सम्प्रतिप- नत्वेन कृत्स्नविभूतस्तद्व्याप्तकालपरमात्मनोश्च ग्रहणाय धर्मभूतज्ञानसंयोगस्य सर्वप्रदेशावच्छेदेन स्वीकार्यतया ज्ञानस्य ब्रह्मतुल्यविभुत्वं दुरपहवम् । अ- आचायभाप्यतात्पर्यसमेतम् । ९५ न्यथा सत्यत्वज्ञानत्वानन्तत्वज्ञानशक्तिबलेश्वर्याद्यनेकगुणविशिष्टपरिपूर्णब्रह्मा- नुभव एव जीवानां न स्यात् । किञ्चित्प्रदेशावच्छेदेन सत्यत्वादिषु धर्म- भूतज्ञानासम्बन्धस्यापि भवन्मते वक्तव्यत्वात् । एवं सत्यत्वादयोऽपि गुणाः परमात्मनि कृत्स्लव्याप्ति न लभेरन् । परमात्मतुल्यविभुत्वस्य कुत्राप्यन- ङ्गीकार्यत्वात् । न खलु महता महीयानित्यत्र महत इत्यनेन द्रव्यस्यैव ग्रहणं न सत्यत्वादिरूपगुणस्येत्यत्र प्रमाणमस्ति । न हि नैयायिकैमहत्त्वं परिमाणामति तच्च द्रव्यमात्रगतमिति च गदितमिति तथैव स्वोकर्तव्यमिति निर्बन्धो युक्तः । न हि त्रिभुत्वं सर्वमूर्नद्रव्यसंयोगित्वमिति तदुक्तं यु- क्तम् , तन्मत एव जातरविभुत्वापत्तेः । सर्वत्र व्यापिनी गोत्वादिजाति- रेकैव । न तु गोव्यक्तिभेदेन भिन्नति तैरप्युक्तत्वात् । अतः सर्वप्रदे- देशावच्छेदेन वस्तुसम्बन्धित्वमेव विभुत्वं । तच्च परमात्मगते सत्यत्वादा- वप्यक्षतमेवेति तस्यापि महदादिशब्दग्राह्यत्वं भवत्येव । न च कचित् प्र- देशे सत्यत्वनिर्दोषत्वादेरनङ्गोकारो युक्तः । तथा सति 'अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एवे'त्युक्तरीतिपरित्यागेन जडत्वसदोषत्वनिर्गुणत्वाद्यापत्तः । स्वरूपनिरूपकधाभावे स्वरूपस्यैवासम्भवप्रसङ्गाच्च । एवं परमात्मतद्गत- सत्यत्वादिप्रत्यक्षसिद्धये तदीयधर्मभूतज्ञानस्यापि विभुतरत्वं स्वीकार्यमिति महतो महीयानित्यस्य सङ्कोच आवश्यक एव । तथा परमात्मन इव श्रि- योऽपि विभुत्वस्य प्रमाणसम्प्रदायैरन्यत्राऽऽचार्यपादादिभिरकम्प्यं स्थापि- तत्वेन तदर्थेऽपि श्रुतिसङ्कोचोऽपरिहार्यः । तात्पर्यदीपिकायां च बहि- याप्तिर्विभुव्यतिरिक्तापेक्षयति व्यक्तमेवोक्तमिति भवत्सम्प्रदायविरुद्धभेव भ- वद्वचनम् । तस्मात् तदु सर्वस्य बाह्यत इत्येवरूपाणि वचनानि श्रीकालध- मभूतज्ञानरूपविभुवस्तुव्यतिरिक्तविषयाण्येव । सर्वथा परमात्मसम्बन्धरहि- त एकः प्रदेशोऽपि नास्तीति बोधन एव तत्परास्ताश्श्रुतय इति न ताभिः प्रमा- ईशावास्योपनिषद्भाष्यम् । यस्तु सर्वाणि भूतान्यात्मन्यवानुपश्यति । सर्वभूतेयु चात्मानं न ततो विजुगुप्सते ॥ ६ ॥ - एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् । अथ तद्विदः सांप्रतिकं प्रयो- जनमाह-यस्तु.... जुगुप्सत इति । ब्रह्मविन्माहात्म्ये विशेषद्योतनाय तुशब्दः । सर्वाणि भूतानि-ब्रह्मादिस्थावरान्तानि । अत्रात्मशब्दः सङ्कोचकाभावात् प्रकरणादर्थस्वभावाच्च सर्वान्तरात्मविषयः । पृथि- व्यादिभिर्धियमाणमपि तन्मुखेन परमात्मन्यवस्थितमित्येवकाराभि- प्रायः । अनुपश्यति अनुस्यूतं विशद निध्यायति । सर्वभूतेषु चा- णान्तरसिद्धपदार्थान्तरगताणुतमत्वमहत्तमत्वपरित्यागप्रसक्तिरिति 'अन्तः प्रवि- ष्टः शास्ता जनाना' मित्याधनुरोधेन 'तदन्तरस्य सर्वस्ये'त्यस्यान्यादृशान्तरव- यवानङ्गीकारणेवाण्वादिसर्ववस्तुविषयकत्वमुपरितनस्य च विभव्यतिरिक्तविष- यकत्वमित्याचार्यपादभाषितेमव प्रमाणतर्कसर्वसत्सम्प्रदायसम्मतमिति कृतं बहुना ॥ ५॥ नन्वात्मशब्दो जीवात्मपरः स्यादित्यत्राह अनेति । आत्मशब्दः स्वपर्यायो न भवति, अन्तः प्रविश्य नियन्तरि तस्य मुख्यत्वादिति । सङ्को- चकाभावादिति । आप्ल. व्याप्ताविति धातुनिष्पन्ना ह्यात्मशब्दो विशेष- शब्दाश्रवणात्सर्वव्याप्तिमेव स्वरसतो वक्तांति भावः । न च जावातिरि- तात्मनाऽप्रसिद्धतया न सर्वव्याप्तग्रहणसम्भव इति वाच्यम्, भूयिष्ठं श्रु- तिषु सर्वान्तरात्मनः कस्यचिदुपदशेनेहापि प्रथममन्त्रेणापदिष्टत्वेनाप्रसिद्धत्वा- भावात् । प्रकरणात् ईटप्रकरणात् । अर्थस्वभावाश्चेति । सर्वा- णि भूतानोति सर्वभूतानिर्देशाजीवस्य च सर्वभूतवार्तित्वासम्भवात्सर्वभूताधार- ताह एव ग्राह्य इति । न चैकस्यैवात्मनो जीवस्य ब्रह्मादिसर्वशरीरवृत्तित्वाङ्गी- कारात्तदुपपत्तिरिति वाच्यम् ; भूतशब्दस्य 'न हिंस्यात् सर्वा भूतानी'त्या- धनुसारेणाचननविशिष्टचेतनपरत्वन जीवाधारस्यान्यस्यैव वक्तव्यत्वात् । न ।

आचार्यभाष्यतात्पर्यसमेतम् । स्मानमिति व्याप्तिमानपरम् । तस्य तैर्धार्यत्वाभावात् । स इति प्रतिनिर्देशोऽध्याहार्यः । ततो न विजुगुप्सते ब्रह्मात्मकत्वेनानुदृष्टेषु सर्वेषु स्वात्मविभूतिन्यायात् कुतश्चिदपि न विजुगुप्सते , क्वचिदपि निन्दा न करोतीत्यर्थः ॥ ६ ॥ यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तल को मोहः करशोक एकत्वमनुपश्यतः ॥ ७॥ पुनरपि सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येन द्रढयति । त. थानुदर्शनस्य सद्यः शोकनिवर्तकत्वमाह यास्मिन्- पश्यत इति । यस्मि- चात्मनीति सप्तम्यभेदार्थिका, अप्रसिद्धेः । एवं 'सर्वभूतात्मके तात जग- नाथ जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः' इत्युक्तरीत्या ऽमित्रत्वादिप्रयुक्तमनोविकाररूपा हि निन्दा चेतनविषय एव सम्भवति । यद्यप्यचेतनस्याप्यनिष्टसाधनत्वमस्तीत्यनिष्टसाधनत्वज्ञानरूपा वा तदधीनमनो- निवृत्तिरूपा वा निन्दा तद्विषयेऽपि न न भवति । अथाप्यचेतनस्य खात- व्येणानिष्टसाधनत्वाभावाच्चतन एव सा विश्राम्यति । अत एव चेतनप- यन्तत्व एव स्वरसतो निन्दाप्रसक्तिमालोच्य वस्तुतः परमात्मात्मकमप्यचे- तनप्रपञ्चं विहाय चेतनग्रहणाय भूतानीत्याह । अतस्तत इति तच्छ- ब्दार्थको भूतशब्दश्चेतनपर्यन्तः । तस्मात् सर्वभूताधारतारूपार्थस्वभावा- दात्मशब्दः सर्वान्तरात्मविषय इति भावः । पश्यतीति दर्शनसमाना- कारज्ञानविवक्षेत्याशयेनाह विशदं निध्यायतीति । स्वात्मविभूतिन्या- यादिति । यथा खभृत्यस्य स्वभृत्यान्तरेण प्रहारे खन कार्यमाणे प्रहृतो भृ- त्यः प्रहर्तरि भृत्ये निन्दा न करोति तद्व्यापारस्य स्वाम्यायत्तत्वात् । तथा सर्वभूतव्यापारस्य परमात्मायत्तत्वावगमेन खयं तेष्वहितकारिष्वपि न निन्दा करोतीति भावः ॥ ६॥ 13 I ईशावास्योपनिषद्भाष्यम् । न् प्रणिधानसमये । विजानतः स्वतन्त्रपरतन्त्रवस्तुभेदं सम्यगु- पदिष्टेन मार्गेण शास्त्रेण विविच्य जानतः । आत्मैव सर्वाणि भूतान्य- भूत् परमात्मैव सर्वविशिष्टः प्रतीत इत्यर्थः । देवोऽहमित्यादिवत् लोकवेदमर्यादया शरीरात्मभावेन जगब्रह्मसामानाधिकरण्ये सम्भ- वति बाधोपचारस्वरूपैक्यादिपक्षा बहिष्कार्याः । तत्न तदा को मोहः खतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवतीत्यर्थः । का शो- - अभूदित्येकवचनानुसारेणात्मेत्यस्योद्देश्यबाचकत्वं युक्तमित्याशयेन विपरिवर्त्य पठति आत्मैव सर्वाणि भूतान्यभूदिति । सर्वविशिष्टभावस्य सा- र्चकालिकत्वादाह प्रतीत इति । स्वतन्त्रात्मभ्रमादिलक्षण इति । आ- दिना राजभृत्यन्यायेन पृथक्सिद्धत्वभ्रमो गृह्यते । यत्तु मोह आत्मान्तरेषु स्वा- तन्त्र्येण स्वखेदजनकत्वानुसन्धानमिति ; तन्न ; विपरीतज्ञानस्य मोहशब्दार्थ- त्वादिह शरीरात्मभावादिनिबन्धनकत्वविज्ञाननाश्यस्य विपरीतज्ञानस्य सर्वस्य मोहशब्दार्थत्वे सम्भवति खेदजनकत्वानुसन्धानमात्रस्य तत्त्ववर्णनायोगात् । 'अद्वेष्टा सर्वभूताना' मित्यत्र 'ईश्वरप्रेरितान्येतानि भूतानि द्विषन्त्य- पकुर्वन्ति चेति गीताभाष्योक्तरीत्या आत्मनां परमात्मपारतन्व्येणापि खेदज. नकत्वसद्भावेन खदजनकत्वानुसन्धानांशे मोहत्वासम्भवेन स्वातन्त्र्यानुसन्धा- नांश एव तस्य वक्तव्यतया स्वतन्त्रात्मानुसन्धानं मोह इत्येव वक्तुमुचितत्वे- न खेदजनकत्वमोदजनकत्वरूपविशेषविस्तरस्य व्यर्थत्वाच्च । यदपि शोक- श्च परैः स्वपरिभवे कृते परदुःस्वजननप्रवृत्तिहेतुदुःखविशेष इति ; तदपि शोकस्य परदुःखजननप्रवृत्तिहेतुत्वनियमाभावात् । देववशा- ऽऽपतितपुत्रमरणादौ परदुःखप्रवृत्त्यनुपलम्भादसम्भवाच्च । अत इष्टवस्तु- विश्लेषजनितं दुःखमेव शोकः । न चेह सर्वभूतेषु परमात्मात्मकत्वानुस- न्धाननिवर्त्यत्वं दैवायत्तपुत्रमरणादिजनितशोकस्य कथमिति शंक्यम् । पर- कर्तृकपरिभवादिव्यापारे परमात्मायत्तत्वज्ञानस्य तदुःखंजननप्रवृत्तिप्रतिबन्ध- न 5 T N , आचार्यभाष्यतात्पर्यसमेतम् । कः परविभूतिभूते सर्वस्मिन्निर्ममत्वसिद्धया पुत्रमरणराज्यहरणादा- वपि न कश्चिच्छोकः स्यादित्यर्थः । यथाह- 'अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किंचित् प्रदह्यते ॥ इति । एकत्वमनुपश्यतः सर्वविशिष्टैक्यमनुपश्यतः । न ह्ययमे- कशब्द एकव्यतिरिक्ताभावपरः। 'ईशावास्यमिदं सर्व'मितीश्वरव्याप्त- त्वेन प्रक्रान्तस्य कस्यचित्केचिद्वाधायोगात् । सर्वभेदमिथ्यात्व- वेदनावेदनयोः कथंचिदपि तादृशैक्योपदेशादिप्रवृत्ययोगाच्च । न चासौ परस्परविरुद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्साद- ने स्वपरमतविवेकादिविप्लवप्रसङ्गात् । विशिष्टैकत्वविवक्षा तु सर्वप्र- माणानुगुण्यात् भाव्यते । ततोऽपि वरमत्र प्रकृतसामानाधिकर- ण्यनिर्वाहानुगुणसम्बन्धविवक्षा । प्रयुज्यते हि सम्बन्धविशेषविव- कत्वेऽपि शोकनिवर्तकत्वाभावात् तत्रापि शोकनिवृत्तिः सर्वभूतेषु परमात्म- शरीरत्वानुसन्धानप्रयुक्तपरमात्मीयत्वविज्ञानापादितया स्वाभीष्टे स्वात्मनि पुत्रमित्रकलत्रादौ च, अहं मे, पुत्रादयश्च मे इत्यवरूपस्वीयत्वबुद्धिनिवृत्त्यैव वाच्येति भवत्येव तादृशपुत्रमरणादिजनितशोकस्यापि ग्रहणमिति । इदं सर्वमिह 'परविभूतिभूते सर्वस्मिन्निर्ममत्वसिद्धया पुत्रमरणराज्यहरणादावपि न कश्चिच्छोकः स्या'दिति भाष्ये द्रष्टव्यम् । वेदनावेदनयोरिति सप्त- मी । वेदन उपदेशादिप्रवृत्त्ययोगः उपदेश्यपुरुषान्तराद्यभावात् । अवे- दने तदयोगश्च स्वयम ज्ञत्वात् । भेदे सत्यप्यभेदमाचक्षाणानां भास्करादी- नां पक्षमाशंक्य परिहरति न चेति । विशिष्टैकत्वविवक्षाविति रूप- रसगन्धादिविशेषितेऽपि पुरोवर्तिनि पनस इदमेकमिति व्यवहारगोचरं यदे- कत्वं तदिव सर्वभूतविशिष्टपरमात्ममिगतं यदेकत्वं तद्विवक्षेत्यर्थः । सम्ब- न्धविशेषेति । एकविशिष्टान्तःपातित्वमेव विशेष्यविशेषणयोः परमात्म- जीवात्मनोः सम्बन्धविशेषः । अथ वा आत्मा भूतान्यभूदित्यत्र भूतानी- १०० ईशावास्योपनिषद्भाष्यम् । क्षया रामसुप्रीवयोरैक्यमित्यादिष्वेकशब्दः । एतौ च श्लोकौ यद्य- पि मुक्तविषयतया नेतुं शक्यौ , तथाऽपि पूर्वानुगुण्यान्मुमुनुप्र. शंसार्थत्वमुचितम् । ततश्च वैशद्यातिशयविवक्षया शास्त्रजन्यज्ञानेन तन्मूलोपासनात्मकज्ञानेन वा दर्शनवाचोयुक्तिः । समाधिविशेष. फलभूतस्त्वद्यतनसाक्षात्कार उपायत्वेनाभिहितत्वान्नात्र संशयनीयः मोक्षोपायोपदेशपरेषु सर्वेषु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाष्ये प्रत्यपादि ॥ ७ ॥ स पर्यगाच्छुक्रमकायमणमस्ताविरं शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूयाथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ।। पुनरप्येनमीशशितव्यतत्त्ववेदिनं वेदितव्यविशेषबोधनेन च वि- शिनष्टि । स पर्यगात् समाभ्य इति । सः सर्वभूतान्तरात्मभूतब्रह्म- दर्शी पर्यगात् प्राप्नुयात् इत्यर्थः, ब्रह्मविदाप्नोति परमिति न्यायात् । समाधिलब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादो ना 'अन्न ब्रह्म स- मश्नुते' इतिवत् । शुक्रम् , अवदातं प्रकाशरूपम् । अकायम् स. . ति विशेषणविभक्त्युपात्ताभेद एकत्वम् । भूतशब्दश्च विशिष्टपरः । वि- शिष्टाभेदश्च विशिष्टत्वमेव । तच्च शरीरशरीरिभाव एवेति स एवेहैकत्वं सम्ब- न्धविशेष इति । पश्यतीति शक्यार्थप्रत्यक्षग्रहणलोभप्रयुक्तां शङ्कामनुवद- ति एतौ चेति । अत्रोमिषट्के शोकमोहयोरेव वचनादशनायापिपासे ज- रामृत्यू च नैनं जहतीति प्रतीयमानतया योगिग्रहणमेव युक्तम् । तं हि ते न जहति । शोकमोहौ तु जहित इत्यर्थो यद्यपीत्यनेन व्यञ्जितः । पूर्वा- नुगुण्यादिति । 'न कर्म लिप्यते नर' इति मुमुक्षोरेव प्रशंसितत्वादिति भावः । अद्यतनसाक्षात्कारः परज्ञानाद्यात्मकः ॥ ७ ॥ लकारार्थाविवक्षायां दृष्टान्तमाह ब्रह्मविदिति । तद्विवक्षया योगज- नैहिकानुभवपरतया योजयति समाधीति । शुक्रमित्यस्य निष्कलङ्क-

आचार्यभाष्यतात्पर्यसमेतम् ।
१०१
शरीरकमपि कर्मशरीररहितम् । अत एव अव्रणमस्त्राविरं च ।
शुद्धम् अनाघ्राताज्ञानादिदोषं । अपापविद्धं अज्ञानादिकार्यकारण-
भूतपुण्यापुण्यरूपकर्मानालीढमित्यर्थः । 'न सुकृतं न दुष्कृत'मित्या-
रभ्य 'सर्वे पाप्मानोऽतो निवर्तन्ते' इति हि निगम्यते । एवमशेष-
हेयप्रत्यनीकः परमात्मा मुमुक्षोः प्रायः प्रापक उपास्यश्च स्यात् ।
स इत्युक्तं ब्रह्मविदं सर्वार्थदर्शित्वेन विशिष्टि कविः कान्तदर्शी ।
व्यासादिवत् परतत्तद्गणबोधनानुगुणप्रबन्धनिर्मातेति वाऽर्थः ।
मनस ईशित्री बुद्धिर्मनीषा तद्वान् मनीषी, अभ्यासवैराग्याभ्यां
नि गृहीतान्तःकरण इत्यर्थः । परितो भवतीति परिभूः विद्यान्तर-
वतः सर्वानतिक्रम्य वर्तते कामक्रोधलोभादीन् दुर्जयानरातीनभि-
भवतीति वा । स्वयम्भूः अन्यनिरपेक्षसत्ताकः नित्यात्मस्वरूपदर्शी-
ति यावत् । याथातथ्यतोऽर्थान् व्यदधात् परमपुरुषार्थतदुपाय-
तद्विरोधिप्रभृतीन् सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् ।
शाश्वतीभ्यः समाभ्यः यावद्ब्रह्मप्राप्ति सर्वप्रत्यूहशमनार्थमिति भावः ।
यद्वा प्रथमान्तं च द्वितीयान्तं च पदजातं क्रमात् परावरात्मविषय.
तया व्याख्येयम् । तदा शुक्रमित्यादिकं सर्वोपाधिविनिमुक्तपरि-
शुद्धजीवपरम् । तमपि च सः परमात्मा पर्यगात् परितो व्याप्य स्थि-
तः । कविरित्यादिकं सुगमम् । याथातथ्यत इत्यादि । अर्थान्
कार्यपदार्थान् शाश्वतीभ्यः समाभ्यः यावद्विलयमवस्थातुं याथा-
तथ्यतो व्यद्धात् न पुनरैन्द्रजालिकवत् केवलं प्रकाशितवान् ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते य उ विद्यायां रताः ॥ ९॥
एवं विचित्वशक्तिपरमात्मविषयां कर्माङ्गिका विद्यामुपदिश्या-
नन्तर केवलकर्मावलम्बिनः केवलावद्यावलाम्बनश्च निन्दन् वर्णा-
श्रमधर्मानुगृहीतया विद्ययैव निःश्रेयसावाप्तिमाह अन्धं तमः प्रवि-
मित्यर्थवर्णनं तु शुद्धमित्यनेन पुनरुक्त्या त्याज्यम् ॥ ८ ॥
मन्त्रत्रयमवतारयति एवमिति ॥ ९ ॥

१०२ ईशावास्योपनिषद्भाष्यम् । शन्ति येऽविद्यामुपासत इत्यादिना । ये भोगैश्वर्यप्रसक्ता आवद्या कर्म शानविधुरकर्ममात्रम् । 'अविद्या कर्मसंज्ञान्या तृतीया शक्तिरि- ध्यते' इति हि स्मर्यते । उपासते एकान्तमनसोऽनुतिष्ठन्तीत्यर्थः । अन्धं अतिगाढम् तमः अज्ञानम् त्रिवर्गाभिषङ्गानान्तरीयकं नरकं तमो वा । केवलकर्मनिरतानां दु.खानुवृत्तिमधीयते चाथर्वणिकाः 'प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापियन्ति ॥ इति । ततो भूय इव ते तमो य उ विद्यायां रताः। कर्ममाननिष्ठप्रा- प्यादन्धतमसादन्धं तमः स्वाधिकारोचितकर्मपरित्यागन विद्या- माने रताः प्रविशन्ति । इवशब्दस्तमस इयत्ताया दुर्घहत्वं द्योतय- ति । उकार उत्तरपदेनान्वेतव्य. विद्यायामेव रता इति ॥९॥ 5 अन्यदेवाहुविद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणा ये नस्तव्याचचक्षिरे ।। १० ॥ कि तर्हि मोक्षसाधनमित्यत्राह अन्यदेवाहुर्विद्ययाऽन्यदाहुर- विद्ययेति । अत्र व्यत्ययानुशासनात्पञ्चम्यर्थे तृतीया, अन्यशब्दा. नन्वयात् । अन्यदेवाहु. सम्भवादिति वक्ष्यमाणसारूप्याच्च । केव- पञ्चम्यर्थ इति । अन्यशब्दार्थेकदेशभेदान्वययोग्ये प्रतियोगित्वरू- पे पञ्चयथ इत्यर्थ । वक्ष्यमाणसारूप्याच्चेति । यत्त्वत्र सारूप्यरक्ष- णाय न व्यत्ययानुशासनमाश्रयितव्यम् । हेतौ तृतीयापञ्चम्योरुभयोरनुशा- सितत्वेन हेत्वर्थग्रहणेनैव सारूप्यरक्षणसम्भवात् । मुमुक्षोश्च विद्या विद्ययोर- ङ्गाङ्गिभावेनानुष्ठानस्यैव स्थापनीयतया तयो पृथक्पृथगनुष्ठानेनौचित्य पूर्व- मन्त्रेणैकप्रकारेण वर्णितम् । सम्प्रति तयो फलभेदप्रदर्शनरूपप्रकारान्तरे- णापि तदनौचित्यमनुवर्ण्यते । तथा चायमर्थ 'विद्यया परविद्यया अविद्या- अन्यफलादन्यदेव फलमाहु । अविद्यया कर्मणा विद्याजन्यफलादन्यदेवा- आचार्यभाष्यतात्पर्यसमेतम् । १०३ लकर्मणः कर्मनिरपेक्षविद्यातश्चान्यन्मोक्षसाधनमित्युक्तं भवति । आहुः पूर्वाचार्या इति शेषः। औचित्यादुपनिषद इति वा । पूर्वपूर्व- हुः । धाराणामिति वचनमश्रौष्म । ये धीराः तत् तयोः फलभेदविषयं वचनमस्मभ्यं व्याचचक्षिर इति । तन्न । एवञ्जातीयस्यार्थस्य शङ्करभाष्य एवोक्तत्वादनानुपपत्तिपरामर्शेनैवाचार्यपादैरस्यार्थस्योपेक्षितत्वात् । अनुपपन्नता चास्यैषम् – यद्यपि हेतौ तृतीयापञ्चम्यौ स्तः । अथा- पि ससम्बन्धिकस्थले पक्षितसम्बन्धप्रत्यायकत्वमेव विभक्तेः स्वरसम् । न हि चैत्रस्य गुरुरित्यादौ चैत्रस्य कयाऽपि विधया गुरौ धर्मिण्यन्वयमङ्गोकृत्य चै- त्रातिरिक्तकिञ्चिन्निरूपितगुरुत्वविवक्षा क्रियते । नो खलु घटादन्य इत्यु- ते सत्यां चान्यत्वप्रतियोग्याकांक्षायां प्रतियोगिसमर्पकत्वं विहाय जनकस- मर्पकत्वं घटादित्यस्य स्वीक्रियते । अन्यशब्दार्थोपस्थित्यनन्तरं तस्य किं जनकमित्यपेक्षामत्यन्तानियतामपेक्ष्यान्यशब्दार्थविशेषणतयोपस्थितस्यान्यत्वस्य प्रतियोगि किमित्यपेक्षाया एवं नियतशीघ्रभावित्वेन तच्छामकत्वस्यैव तत्पदे स्वीकर्तव्यत्वात् । अतोऽन्यदेवाहुः सम्भवादित्यत्रावधिपञ्चमोस्वी- । एवं प्रकृतमन्त्रऽपि माध्यन्दिनपाठे विद्याऽविद्यापदोत्तर पञ्चम्या एव श्रवणात् तत्रापि स्वरसेोऽवधिरूपार्थो ग्राह्यः । अतः सम्भवा- दिति काण्वमाध्यन्दिनपाठयोः प्रकृतमन्त्रे च माध्यन्दिनपाठे त्रिषु स्थलेष्वख- रसार्थकल्पनमपेक्ष्यैकत्र तृतीयाव्यत्ययानुशासनाङ्गीकार एव युक्तः । किञ्चास्य फलभेदप्रतिपादकत्वमयुक्तम् । केवल विद्यायाः केवलाs विद्यायाश्च फलभेदस्य तत्तदन्धतमसप्रवेशरूपस्य प्रागेवोक्तत्वात् । समुच्चि- त्यानुष्ठीयमानयोस्तयोस्तस्मिन् प्रयोगे यः फलभेदस्तत्प्रतिपादकोऽयमिति चेन्न । नैष्फल्यात् । समुच्चित्यानुष्ठानेऽवधारिते , समप्राधान्ये दर्शपूर्णमासाभ्यां यजेत स्वर्गकाम इत्यादिषु बहूनामपि समुच्चयदर्शनात्तथैव फलसाधनत्वमव- गमिष्यते । अङ्गाङ्गिभावे च दर्शे प्रयाजादेरिव कर्मणोंऽग्युपकारात्मकं फलं कार एव स्वरसः १०४ ईशावास्योपनिषद्भाष्यम् । Januarter हीयेव विद्यायाः प्रधानफलं च भोत्म्यत इति फलैक्ये फलमेदे वा सर्वथा समस्यासमविलवाभावेन फलभेदकथनस्यानावश्यकत्वात् । उत्तरम- न्त्र फलभेदस्य विशेषरूपेणैव कथ्यमानत्वेनेह सामान्यरूपेण तत्कथनस्यानपे- क्षितत्वात् । उत्तरमन्त्रो विद्याऽविद्यासमुच्चयविधानार्थः । फलभेदस्त्विहो- क्त एव विशेषरूपेणानूयत इति चन्न । सामान्यरूपणोक्तस्य विशेषरूपे- णानुवादासम्भवात् । समप्राधान्यानाङ्गिभावान्यतरनिष्कर्षीय फलविशेष- प्रतिपत्तये तत्र विधानस्यैव युक्तत्वात् । पूर्वी यच्छब्दोपबन्धन निन्दा- बलाच्च समुच्चयस्यानूद्यमानत्वावगमेन फलभेतस्यैव विधेयत्वाच्च । अताऽस्य फलभेदपरत्वाभावात् मोक्षसाधनपरत्वमेव युक्तं स्वीकतुम् । एवं कर्ममात्रानुष्ठाने विद्यामानानुष्ठाने चानिष्टे कथिते किञ्चित्समु- ञ्चितस्य कर्मणः किञ्चित् समुच्चितायाश्च विद्याया अनुष्ठेयत्वावगतौ समुच्च- यापेक्षायामनुपस्थितपदार्थान्तरकल्पनामपक्ष्य समभिव्याहारमहिम्ना विधाकर्म- णोरेवोपस्थितयोः परस्परसमुच्चये प्रतीयमाने भवतीयमाशङ्का-काम्यानि हि कर्माणि त्रिवर्ग फलन्ति पुंसः संसृतौ भ्रामयन्तीत्यन्धतमःप्रवेशकान्यु- च्यन्ते । तानि कवं विद्यया समुच्चित्यानुष्ठीयमानानि तथा न भविष्यन्ति । प्रत्युत विद्यावियोभयसाध्यमुभयमपि तमः प्रविशेदनुष्ठाता । तथा विद्यया सह कर्म न शक्यमनुष्ठातुम् । विद्यां प्रति कर्म विरुद्धमिति टेके वर्ण- यन्ति । अतः समुच्चयेनापि नैनयोर्मोक्षसाधनत्वमिति किं तर्हि मोक्षसाध- नमिति । अस्यामाशङ्कायामुच्यते-केवलाऽविद्या यादृपा ततः, केवला च कर्मविरोधिनी तन्निरपेक्षा या विद्या ततश्चान्यदेव (फलाभिसन्धिरहितकर्म- परिकर्मितं तदत्यन्तापेक्षं विद्यारूपम्) मोक्षसाधनमिति । अनन्तरे मन्त्रे च कर्मणो मृत्युतरणरूपफलान्तरोपदेशेन त्रिवर्गानाधायित्वस्य विद्याप्रतिब- न्धकविधूननत्वकथनेन विद्याविरुद्धत्वाभावस्य प्रत्युत तदपेक्षितत्वस्यैव च व्यु- आचार्यभाष्यतात्पर्यसमेतम् । १०५ १ त्पादनात् फलाभिसन्धिरहितकर्मपरिकर्मिता तदत्यन्तापेक्षा विद्यैव मोक्षसाध- नमित्युक्त भवति । तस्मादवश्यपरिहरणीयैवविधशङ्कापरिहारकत्वे सम्भ- वति नानपक्षितान्यथासिद्धफलभेदप्रतिपादकत्वमस्य मन्त्रस्य युक्तम् । सर्वमिदमवहितमनसामिहोत्तरत्र च मन्त्रे 'केवलकर्मण कर्मनिरपेक्षविधातश्च' 'परस्परविराधप्रसङ्गरहित' मित्यादिभाष्यस्थपदलभ्य शक्य ज्ञातुम् । अपि च न भवदभिमता मन्त्रेण प्रतिपादयितु शक्यते । अ- न्यदेवाहुर्विद्ययत्यत्राहुरित्युक्त वचने किमन्यदित्यर्थाद्देशेन विद्ययेत्येतदर्थो वि- धीयते उत वैपरीत्यम् । नाद्य अस्य मन्त्रस्य फलभेदज्ञापनपरत्वस्य भवदुक्तत्वनान्यत्वस्य विधेयतया तभ्योद्देश्यन्वायम्भवात् । अत एव हि पाठक्रममुल्लध्याद्देश्यवचन पूर्व विधेयस्य तत परमिति न्यायमनुसृत्य विद्यये- ति पद प्रथाना भवता व्याख्यातम् , पश्चादन्यदिति । किश्च विधयेत्यस्य विद्याजन्यत्वमित्यर्थ । तस्य न तावदन्यदित्यर्थेनान्वय । तथा सत्युद्देश्य- भूतान्यशब्दार्थविशेषणत्वेन विधेयत्वासम्भवात् । उद्देश्यावधेययो परस्परान्वयं विना प्रथमत क्रियान्वयस्यावश्यकत्वात् । नाप्याहुरित्युक्तवचनेनान्वय । वचनस्य विद्याजन्यत्वाश्रयत्वाभावात् । न च बोधानुकूलशब्दप्रयोगरूप- वचनकदशे बाधेऽन्यशब्दार्थस्य विशेष्यतयाऽन्वयाद्विद्याजन्यत्वस्य विद्य. येत्युक्तस्य तत्र प्रकारतयाऽन्वय इति वाच्यम् । हेतौ तृतीयाया हेतुम- द्वाचकपदनैवान्वयस्य वक्तव्यत्वात् । यथा हि कारकाणा क्रिययैवान्वय. तथोपपदविभक्त्यर्थस्योपपदार्थ एव प्रतिसम्बन्विन्यन्वयो दृष्ट । यथा हेतुत्व- स्य हेतुमति प्रतियोगित्वस्यानुयोगिनीत्येवम् । अन्यथा घटविशेष्यकदण्ड- जन्यत्वप्रकारकज्ञानविवक्षया घटो दण्डात् ज्ञायत इति प्रयोगस्य घटवृत्तिभे- दविशेष्यकपटप्रतियोगिफत्वप्रकारकज्ञानादिविवक्षया घटवृत्तिभेद पटात् ज्ञा- यत इत्यादेश्चापत्त । अतो विद्यया सम्भवादित्याद्यर्थस्याहुरित्येतदर्थेकदशे 141 '१०६ ईशावास्योपनिषद्भाप्यम् । प्रकारतयाऽन्वयासम्भवादन्यशब्दार्थ एवान्वयो वक्तव्यः । स च न स- म्भवतीत्युक्तम् । यदि पुनरन्यत्फलं विद्ययेत्याहुरित्युच्यत तहीतिशब्दाध्या- हारप्रसङ्गः । ननु भवन्मतेऽपि विद्ययाऽन्यदित्युभयोरपि विधेयसमर्पकत्वेन मोक्षसाधनं विद्याभिन्नमाहुरित्यर्थस्यैव वाच्यत्वन मोक्षसाधनपदाध्याहारोऽस्ती- ति चेत् भवन्मतेऽप्यन्यशब्दार्थस्य प्रतियोग्याकांक्षाशान्तये अविद्याजन्यफ- लादिति प्रतियोगिवाचकपदाध्याहारोऽपि कश्चिदस्त्येव । विद्याफलमन्यदाहुः अविद्याफलं चान्यदाहुरित्युक्ते समभिव्याहारमाहिम्ना' तादृशप्रतियोगिसि- द्विरित चेत् अस्माकमपि मोक्षसाधनं ये प्रोक्तवन्तस्तेभ्यो विद्यातोऽविद्यात- श्च पृथग्भूतमाहुरिति श्रुतमित्युक्ते समभिव्याहारमाहग्नैव मोक्षसाधनरूपो- द्देश्यसिद्धिः । इयांस्तु विशेषः । भवताऽन्यदिति पदस्य सममिव्याहारल- भ्यप्रतियोगविशेषभिन्ने लक्षणा स्वीक्रियेत । अस्माभिरन्तिमपादस्थस्य तदित्यस्य प्रांगप्यपकर्षः क्रियत इति । अत इतीत्यध्याहारः कश्चिदधिक एव । आख्यातं विना वाक्यसमाप्त्यभावात् अन्यद्विद्यया भवतीत्या- हुरिति भवत्यध्याहारोऽपि कश्चिद्भवति । नान्त्यः, विद्ययेत्यस्य विद्या- जन्यत्वमित्येतावन्मात्रबोधकत्वेन विद्याजन्यफलामति धर्मिपर्यन्तार्थालाभन विद्याजन्यमविद्याजन्यभिन्नमिति विवक्षितार्थस्य दुर्वचत्वात् । उपपदविभ- क्त्यर्थस्योपपदार्थ एवान्वयस्य वक्तव्यत्वेन तद्भिन्नक्रियान्वयस्यासम्भवेन विद्य. येत्यस्योद्देश्यत्वासम्भवाच्च । यदि तु फलमित्यध्याहृत्य विद्यया फलमन्य- दाहुरित्यर्थ उच्यते तयध्याहार एव दोषः । अथ चेदित्थं मन्यते- रीयपादगततच्छब्दार्थः फलम् विद्ययाऽन्यदित्यस्य विद्यासाध्यभिन्नमित्यर्थः । एवं चाविद्याफलं विद्यासाध्यभिन्नमित्यर्थलाभं इति ; तदपि न युक्तम् । तदित्यस्याविद्याफलं विद्याफलमिति हि विशिष्यार्थद्वयपरत्वमाश्रयितव्यम् । विद्ययाऽन्यदित्यस्य विद्यासाध्यभिन्नमित्यर्थश्च न सम्भवति । अत एव 'त्रया- - तु- आचार्यभाष्यतात्पर्यसमेतम् । १०७ संप्रदायसिद्धोऽस्माकमर्थ इत्याह- इति शुश्रुम धीराणां ये नस्तद्ध्या- चचक्षिरे । ये पूर्वाचार्याः नः प्रणिपातादिभिः सम्यगुपसन्नानाम: स्माकम् । तत् मोक्षसाधनम् । व्याचचक्षिरे विविच्योपादिक्षन् । णामपि चैवमुपन्यासः प्रश्नश्चेति सूत्रश्रुतप्रकाशिकायां अन्यत्र धर्मादित्यु- ते धर्मसाध्यभिन्न इत्यर्थो न लभ्यत इत्युक्तम् । यदपि तच्छब्दस्य फलभेदविषयं वचनमित्यर्थवर्णनं तदप्ययुक्तम् । व्याचचक्षिर इत्युक्तवचनस्यार्थकर्मकत्वस्यैव मुख्यतया शब्दकर्मकत्वकथनस्य हेयत्वात् । किं च ये फलभेदविषयं वचनमवोचन तेभ्यः फलं भिन्न ब्रुवन्तीति श्रुतमित्युक्तौ स्वारस्यमपि हीयते । तथा भवदभिमतासिद्धिश्च । अयं मन्त्रः फलभेदप्रतिपादनार्थ इति हि भवदभिमतम् । सम्यक् परामर्श च फलभेदवचनमुपदिष्टवद्भयः फलं भिन्नमाहुरिति श्रुतमित्यर्थवर्णने प्रमाणान्तरप्राप्तस्य फलभेदस्य सांप्रदायिकत्वमात्रतत्परतवावगम्यत इति । अत एव तच्छब्दस्य फलभेदपरत्वमस्त्विति शङ्काऽपि परास्ता । न च फल- परत्वं तदश्शक्यम् । तथा सति विद्याऽविद्यासाध्ययोः फलयोर्द्वयोः कथ- नाय ते इति द्विवचनस्यैवावश्यकत्वात् । अतो मुमुक्षुप्रकरणात् साधन- द्वयनिन्दायाः प्राक्कृतत्वाच्च मोक्षसाधनाजज्ञासायामेवैतन्मन्त्रावतारात् तदि- त्यस्य मोक्षसाधनपरत्वमेव युक्तम् । एवमवधिपञ्चमीस्वीकार एव श्रुतिस- माधिरापि न भज्यते । यथा—'अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम धीराणां ये नस्तव्याचचक्षिरे' इति । दृष्टश्च पञ्चम्यर्थे तृतीयानिर्दे- शः । 'यथाऽऽपस्तम्बपरिभाषासूत्रे 'अन्यत्राऽऽश्रुतप्रत्याश्रुतप्रवरसंवादसं- प्रैषैश्चे' ति । अत्रैतेभ्योऽन्यत्र उपांशुयजुर्वेदेनेत्युपांशुखरो विधीयते । एव- मन्यत्रापि भारतादौ बहुलं प्रयोगः । तस्माद्बह्वनुपपत्तिग्रस्तत्वेनास्यार्थस्या- समञ्जसत्वादाचार्यपादवर्णितार्थ एव सम्यगुपपन्नत्वाच्छ्रुत्यर्थ इति । ननु धीराणामित्यस्य कुत्रान्वयः ? न तावदितीत्यनेनं, इतिशब्दस्या- १०८ ईशावास्योपनिषद्भाष्यम् । तेषां धीराणा परमात्मध्यानपराणा वचनमित्यध्याहार्यम् । नट- स्य शृणोतीतिवद्वा कथचित् पञ्चम्यर्थे षष्ठी । इति शुश्रम एव- प्रकारमनीष्म । ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणाशक्य - त्वाभिप्रायोऽत्र लिड्डुत्तम ॥ १० ॥ विद्या चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते ॥ ११ ॥ अन्यदिति संग्रहणोक्तं विवृणोति विद्यां चाविद्यां च यस्तढेदोभयं सहे'ति । य यथावस्थितोपदेशवान् । विद्यां परमात्मोपासनरूपां अविद्या तदङ्गभूतकर्मात्मिकां च । एतदुभयं परस्परविरोधप्रसङ्गर- हितम् । सह वेद-अङ्गाङ्गिनोरनुष्ठेयत्वसाम्यादुभयं सह वेदेत्यविशे- षेण वेदनीयतोक्तिः। न पुनर्हेयोपदिययो ज्ञातव्यत्वसाम्यात् । पूर्व- विद्याया निन्दनात्तदोचित्यमिति चेत् तर्हि विद्याया अपि निन्दि- ततया हेयद्वयसमुच्चयोक्तिप्रसङ्ग । तथा सन्युत्तरवाक्यमपि विघ- टते । अविद्यया मृत्यु तीर्खा विद्ययाऽमृतमश्नुत इति । अयमर्थ:- विधागतया चोदितकर्मणा मृत्यु ज्ञानसङ्कोचरूपमृत्युहेतुं प्राक्तनक म तीर्वा निरवशेषमुल्लंघय । विद्यया पूर्वोक्तपरमात्मानुदर्शनरूप- या । अमृतमश्नुते तदमृतमभयरेतद्रह्म इत्यादिषु सर्वदोषरहि- तत्वेन प्रतीत परमात्मग्न प्रापनातीत्यर्थ । अत्रामृतशब्दस्य मोक्षप- । - भेदार्थकत्वे प्रकारार्थकले वा येनाभेदो यस्य प्रकारश्च विवक्षित तस्यैव त- त्रान्वयस्य व्युत्पन्नत्वात् । नापि शुश्रुमेत्यनेन, अयोग्यत्वात् तत्राह वचनमिन्यध्याहार्यमिति । शुश्रुमेत्यनेनाप्यन्वय समर्थयते नटस्येति । दृष्टान्ते कर्मैव न श्रुतम् । तच्छ्रवणे हि नटस्येति षठ्यास्तत्रैव खरसोऽ न्वया भविष्यति । अत्र तु सत्यपि कर्मपरतिशब्दश्रवणे तथाऽन्वय स्वी- कर्तव्य अथ वेतीत्यस्यानेनप्रकारणेत्यर्थविवक्षया, अनेन प्रकारण धी- रेभ्योऽश्रौष्मेत्यर्थो वर्णनोय इत्यभिप्रेत्य क्थञ्चिदित्युक्तम् । ब्रह्मविद्याया इत्यादि । अत एव सम्भवन्त्या गतौ व्यत्ययानुशासनमाश्रितमयुक्तमिति ध्येयम् ।। १०।

आचार्यभाष्यतात्पर्यसमेतम् । १०९ रत्वेऽपि न पुनरुक्तिः । मृत्यु तीधैत्यस्योपायविरोधितरणपरत्वा- त्, अमृतमश्नुत इति प्राप्तिविरोधिनिवृत्तिलाभोक्तेः । अत्र 'अवि- धया मृत्यु प्राप्य स्थित' इति व्याचक्षाणा निर्वाध पदवाक्यस्वारस्य. मुपवृहणं च प्रस्मृत्य खाविद्यया स्वयमेव मृत्युं प्राप्य स्थिताः। एत. देव वाक्यमनुसंहितं वैष्णवे पुराणे 'इयाज सोऽपि सुबहून् यशान् ज्ञानव्यपाश्रय । ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया ॥' इति । इह त्वविद्याशब्दः प्रकरणादौचित्याश्च विद्याङ्गकर्मविषय इ- त्यभाषि भाष्यकारैः 'अनाविद्याशब्दाभहितं वर्णाश्रमाविहितं कर्म' इति 'मृत्युतरणोपायतया प्रतीताऽविद्या विद्यनरद्विहितं कमैव' इति च । विद्यां पर्युदस्यन्नयमविद्याशब्द क्षत्रियादिविषयाब्राह्मणशब्दा- दिवदासन्नतदनन्तरवृत्तिरन्तरङ्गकर्मविषय इति भावः । एवं 'तपो विद्या च विप्रस्य निश्श्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ॥ इत्याधुपबृंहणान्यपि सुसङ्गतानि भवेयुः । ये पुनरिह विद्याकर्मा- ख्यसाधनवयसमुच्चयं मृत्युतरणामृतत्वप्राप्तिरूपसाद्वित्वं च व- जयन्ति, तेषां कर्मशानयारङ्गाङ्गिभाव विद्ययैव मृत्युतरणं च व्यक प्रतिपादयद्भिः श्रुतिस्मृतिसूत्रगणैर्यथाभाष्यमुत्तर देयम् । विषम समुश्चयवादेऽपि यथाभागं सन्निपत्योपकारकत्वसम्भवे गत्यन्तरग- मनिका नीतिविद्भिर्न सम्मन्यते ॥ ११ ॥ सं. केशिध्वज । यादवप्रकाशमतमनद्याह-ये पुनरिति । भा- स्करमतं दूषयति विषमेति सन्निपत्योपकारकत्वेति । रजस्तमीनि- बर्हणेन शोधकतया ध्याननिष्पत्तिसाधनमन संस्कारकत्वेत्यर्थे । गत्यंन्तरम् आरादुपकारकत्वम् । प्रयानादीनां यागशरीरनिष्पादनमन्तरेण केवलं निष्पन्नयोग फलजननयोग्यताधायकत्वमिवोत्पन्नायां विधाया ब्रह्मप्राप्तिजनन- योग्यताधार्यकत्वम् '। नीतिविनिरिति । सन्निपत्योपकारकत्वे सम्भव- त्यांरादुमकारकत्वाश्रयणमयुक्तम् । अंत एंव स्थाणौ स्थावाहुति जुहाती- ११० ईशावास्योपनिषद्भाप्यम् । अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासत । ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥ तदेवमुपास्यं परमात्मतत्वं साङ्गतदुपासनरूपं च परमहितं परमपु. रुषार्थपर्यन्तमुपदिश्यानन्तरं त्रिभिः श्लोकैः प्रतिवन्धनिवृत्तिपरब- तत्वात त्यत्र यूपव्रश्चनस्थाणुसंस्कारकत्वमेव स्थावाहुतेः स्वीकृतम्, न त्वारादुपकार- कत्वम् । सम्भवति दृष्टार्थवेऽदृष्टार्थत्वकल्पनं चायुक्तम् । अत एव खाध्यायाध्ययनस्यार्थज्ञानार्थत्वमक्षरग्रहणार्थत्वं वा स्वीक्रियते न स्वर्गार्थत्व- मिति भावः ।। ११ ।। प्रतिबन्धेत्यादि । यद्यपीह पूर्वोक्तविद्याफलमेव सम्भूत्यर्थः,अ- थापि नाविद्याफलस्य विधाप्रतिबन्धकनिवृत्तेः प्रागुक्ताया असम्भूतिपदेन ग्रहणम् । विद्यानुष्ठानकाले तादृशफलानुसन्धानकरणस्याप्रसक्तत्वात् । कर्मानुष्ठानकाले तस्य प्रसक्तकेपि न तस्यानुसन्धानस्याङ्गत्वमस्ति, अविाह- । विहितं ह्यङ्गं भवति । ब्रह्मप्राप्तिप्रतिबन्धकसुकृतदुष्कृतनिवृत्त्य- नुसन्धान तु 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि ॥ इत्युत्तमपुरुषबलात्कर्तव्यं प्रतीयते । अत एव हान्याधिकरणे सुकृतदुष्कृत- हानितदुपायनयोः सर्वत्र विद्यासु समुच्चित्यानुसन्धानमभिहितम् । न च क- मनिवृत्तरभावरूपाया ब्रह्मानुभवात्मकभावरूपतया भेदाभावेन कथमेकस्यैवा- थस्य पदद्वयन वर्णन भवतीति शंक्यम्, वस्तुत एकत्वेऽपि मतान्तरेषु कर्म- निवृत्तिरूपमोक्षाङ्गीकारेऽपि ब्रह्मानुभवानङ्गीकारात् परिपूर्णब्रह्मानुभवरूपपर- ज्ञानादौ तदनुभवसत्त्वेऽपि कृत्स्नकर्मनिवृत्त्यभावात् त्रय्यन्ताभिमतयथावस्थित- मोक्षस्पष्टप्रतिपत्तये एकस्यैव फलस्य प्रतियोग्यन्वितवेषेण स्वरूपेण च पर्व- आचायभाप्यतात्पर्यसमेतम् । १११ ह्मानुभवरूपयोः फलपर्वणोः समुच्चित्यानुसन्धान विद्याङ्गत्वेनोपा. देयमित्युच्यते । तत्र प्रथममेकैकमानानुसंधानं निन्दति अन्धंतमः रता इति । एतमितः प्रेत्याभिसम्भविताऽस्मि धूत्वा शरीरम- कृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यादिषु ब्रह्मप्राप्तिरूपा सम्भूतिरुक्ता । तां पर्युदस्यन्नयमसम्भूतिशब्दः तदासन्न प्रतिबन्ध विनाशमभिधत्ते । 'सम्भूतिं च विनाशं च' इत्यापि ह्यनन्तरमेवो. च्यते । न चात्रासम्भूतिशब्देन सम्भूतेरनुत्पत्तिर्विनाशो वा प्रति- पाद्यः, अमृतप्राप्तिहेतुतयोक्तायाः सम्भूतेः प्रागभावस्य प्रध्वंसस्य वा मृत्युतरणहेतुत्वेन वक्तुमयुक्तत्वात् । अत्रापि तरतेः प्राप्तिव- चनत्वं पूर्ववत् प्रतिक्षेप्यम् ॥ १२ ॥ अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तव्याचचक्षिर ॥ अन्यदेवेति । अत्र तच्छब्दः समुच्चित्यानुसन्धेयतया वक्ष्यमाणद्वि- तयं वक्ति ।। १३॥ भेदकल्पनया ग्रहणसम्भवात् । वस्तुतोऽनुसन्धेयतया विहितायाः सुकृत- दुष्कृतहानर्देहवियोगकालिकमात्रत्वे ब्रह्मानुभवस्यार्चिरादिगमनानन्तरभावित्वे- न तयोर्भेदोऽपि सुवचः । अतो विद्याफल एवं पूर्वापरभावित्वेन पर्वद्वया- मना स्थितयोरत्यन्तसन्निहितयोः अश्व इव रोमाणीत्येकवाक्योपात्तयोः पाप- विधूननब्रह्मसम्भूत्योरिह ग्रहणमित्याशयेनाह फलपर्वणोरिति । अयुक्तत्वा- दिति । इह हि सम्भूतिमृत्युतरणयोर्युगपत् स्थितिरङ्गीकर्तव्या । यदि सं- भूतिप्रागभावः सम्भूतिध्वसो वा मृत्युतरणहेतुः स्यात् सम्भूतिकाल मृत्युत- रणं न स्यादिति भावः ॥ १२ ॥ वक्ष्यमाणद्वितयमिति । विद्याफलमिति सामान्यरूपेण तच्छब्देन ग्राह्यमिति भावः । इदमत्र मन्त्रतात्पर्यम् ---केचन नैयायिकादयो मुमु- क्षवः स्वात्मानमेवोपासीना ईश्वरमुपासीना अपि वा ब्रह्मानुभवं मुक्तिका लेड १.१२ ईशावास्योपनिषद्भाष्यम् । सम्भूति च विनाश च यस्तद्वेदोभय सह । विनाशेन मृत्यु तोबा सम्भू याऽमृतमश्नुते ॥ १४ ॥ अत्राप्यन्यदित्युक्तं विवृण्वन् विद्यागमुभयानुसन्धानमाह संभू- ति-सहेति । तस्यैव फलप्रदर्शनेनावश्यकर्तव्यता स्थापयति वि- नाशेन-अश्नुत इति । अनुसन्धीयमानेन विनाशेन प्रतिबन्धमपो. ह्य सम्भूत्याऽनुसन्धीयमानया ब्रह्म प्राप्नोति । सम्भूतिविनाशानु- सन्धानरूपेऽङ्गे स्तुत्यर्थ यथोचितमङ्गिफलनिर्देश । यद्वा विनाशेन मृत्यु तीवेति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशश- ब्देन मानदम्भादीना हिंसास्तेयादीनां बहिर्मुखन्द्रियवृत्तीनां च नङ्गोक य केवलात्मस्थितिमेव सङ्गिरमाणा केवला कर्मनिवृत्रिं फलत्वेना- नुसन्धते । अन्ये च राहुमीमासका निर्गुण किमपि कल्पयन्त. कर्मोप- लिष्टविधाफलत्वेन सगुणब्रह्मानुभव स्वीकुर्वाणा अपि तस्य भौमविलक्षणख- गाधनुभववत् किश्चिद्विशिष्टता केवलमभिप्रयन्त परममुक्तिमन्यामातिष्ठमा- ना 'जक्षत्क्रीडन् रममाण' इत्यादिदर्शनेनाशेषाविद्यकबन्धनिवृत्तिमनभ्युपग- च्छन्ता यथावत् कर्मनिवृत्त्यनुसन्धान न कुर्वते । तदुभयवैलक्षण्यनाशेषावि- धकनिवृत्त्यनुसन्धान ब्रह्मानुभवरूपमोक्षानुसन्धान च कर्तव्यम् । अब्रह्मानु- भवरूपतयाऽशषाविद्यकानिवृत्तिरूपतया च तत्तदङ्गीकृतात्फलादन्यदेवाविद्या- सहकृतविद्याफलम् । एव च विषयवैलक्षण्यात् तत्तत्पृथगनुसन्धानापेक्षये- दृशविधाफलानुसन्धानमन्यदेवेति ॥ १३ ॥ विनाशादेस्तत्तत्साध्यामिन्नत्वेन साधनत्वासम्भवात्तदुपपत्तये असम्भू- तिमुपासते इत्याद्यवगतानुसन्धानविषयत्वाकारण साधनत्व समर्थयितु विशि- नष्टि अनुसन्धीयमानेनेति अनुसन्धीयमानयेति च । यत्त्विहोतं सभूत्यसम्भूतिशब्दयोर्विग्रहपरिग्रहतन्निवृत्तिरूपार्थखारसिकयोब्रह्मप्राप्त्याद्यर्थ- परताकल्पनमनावश्यकम् । अभिसम्भविताऽस्मीत्यादौ सर्कर्मकत्वौचित्याया- भ्युपसर्गवलात्प्राप्तिरूपार्थखीकोरऽपोहोपसर्गाभावान्न तदर्थवर्णन शक्यम् ।

आचार्यभाष्यतात्पर्यसमेतम् । ११३ विनाशो विवक्षितः । अतो विरुद्ध निवृत्तिरूपाङ्गसेवनेन समाधिधि. रोधिपापमपाकृत्य समाधिनिष्पत्तिरूपब्रह्मसम्भूत्या तदेवाश्नुते । अ. प्र सम्भूतिविनाशशब्दाभ्यां सृष्टिप्रलयादिविवक्षया मृत्युतरणामृत- प्राप्तिरूपफलविभागवचनस्यौचित्यलवोऽपि नोपलभ्यते ॥ १४ ॥ - असम्भूतिशब्दस्य सम्भूतिनिवृत्तिपरत्वे स्वरससिद्धे सम्भूतिप्रतिबन्धकविना- शपरता सुतरामेव दुर्वचेति । तत्सर्वमक्षरध्यधिकरणश्रुतप्रकाशिकाग्रन्थाश्रवणविजृम्भितम् । तत्र हि स्वविवक्षितार्थस्य वारसिकत्वं विद्यान्तरवारस्यानुगुण्यं चाभिधायोक्तम् 'सम्भूतिशब्दः सम्भवत्यनेनेति सम्भूतिरिति व्युत्पत्त्या मार्गपरः । एत- मितः प्रेत्याभिसम्भविताऽस्मि, ब्रह्मलोकमभिसम्भवानीति च प्रयोगात् । वि- नाशशब्दश्च सुकृतदुष्कृतविनाशविषयः । अतो मार्गस्य कर्मविनाशस्य च चिन्तनं विद्याङ्गत्वेन समुच्चित्य विधीयत' इति । किं च भवदुक्त एव मन्त्रत्रयार्थः किय१र समञ्जस इति शोधनी_ यम् । स खल्वेवम् । सम्भूतिः सम्भवो विग्रहपरिग्रहस्तन्निवृत्तिरसम्भू- तिः । विग्रहपरिग्रहनिवृत्तिमात्रोद्देश्यकोपासननिष्ठाः कैवल्यमेव प्रविशन्ति । तल हि केवलात्मानुभवे न भवति शरीरपरिग्रहः । पुनः पुन गोपकरण- शरीरपरिग्रहोद्देश्यकोपासननिष्ठाश्चैश्वर्यमेव लभन्ते । सम्भूतिसाध्यमैश्वर्य- लक्षणं फलमसम्भूतिसाध्यात् कैवल्यादन्यत् । असम्भूतिसाध्यं कैवल्यं च सम्भूतिसाध्यादैश्वर्यादन्यत् । शरीरपरिग्रहं तन्निवृत्तिरूपं च विनाश- मसम्भूति यो वेद, स विनाशेन विग्रहपरिग्रहयोग्यतानिवृत्त्या प्रकृतिसं- म्बन्धमतिलंघय सम्भूत्या विग्रहपरिग्रहयोग्यतासिद्धया परं ब्रह्माश्नुते । अ- शेषशेषतैकरतिरूपनित्यकैर्यप्राप्तिपर्यवसायिनमनुभवं लभत इति । तत्र सम्भूत्यसम्भूतिशब्दौ किं विग्रहपरिग्रहतन्निवृत्तिपरौ किं वा विग्रहपरिग्रहयोग्यतातन्निवृत्तिपरौ । नाद्यः; तथा सति विग्रहपरिग्रह निवृ- 15 I ११४ ईशावास्योपनिषद्भाप्यम् । .. तावपि प्रलयसमये प्रकृतिसम्बन्धसत्त्वेन तत्तरणासम्भवेन मृत्यु तोर्वेत्यस्य प्रकृतिसम्बन्धमतिलंध्येत्यर्थवर्णनासम्भवात् । दिव्यविग्रहपरिग्रहाभावेन ख- रूपमात्रेण स्थितावप्यभ्यासाधिकरणोक्तरीत्यैव सतोऽकर्माधीनस्य च ब्रह्मा- नुभवस्य विग्रहपरिग्रहसाध्यत्वाभावाच । न चाश्नुत इति परिचरतीत्यर्थ- कम् ; स्वाम्यभिमताचरणस्यैव परिचर्यारूपतया विग्रहमन्तरेण परिपूर्णब्रह्मा- नुभवस्य क्रियमाणस्यापि परिचर्यात्वसम्भवेन तत्रापि तत्परिग्रहावश्यकत्वाभा- वाच्च । विग्रहसाध्यकैकर्यग्रहणे चाश्नुत इति पदस्य शक्यार्थत्यागः। स्वकृत- कैकर्यजन्यभोगभाक्त्वेन स्वकृततदनुभवजन्यभोगभाक्त्वेन च ब्रह्मानुभवतीति कृत्स्नार्थग्रहणे सम्भवति एकदेशग्रहणात्संकुचितार्थकत्वापत्तिश्च । नान्त्यः ; वि. गृहपरिगृहये ग्यतानिवृत्त्युद्देश्यकोपासन कैवल्यप्राप्त्यसम्भवात् । कैवल्यस्यानि- त्यतया तत्प्राप्नुवतो विगृहपरिग्रहयोग्यतानिवृतौ प्रमाणाभावात् । न च योग्य- तासत्त्वेऽपि सामग्यभावन कैवल्यकाले विगृहपरिगहस्यानुपहितत्वात्कियन्तम- पि कालं सामगीविघटनमेव योग्यतानिवृत्तिरित्युच्यत इति वाच्यम् । तथा सति प्रलयकालेऽपि तादृशयोग्यतानिवृत्तिसत्त्वेन प्रलयोत्पत्त्याप्युपासनचारितार्थेन कैवल्यसिद्धयवश्यम्भावस्य दुर्वचत्वात् । न चासम्भूत्युपासनं नाम विग्र- हपरिग्रहनिवृत्तिपूर्वककिञ्चिदनुभवरूपफलोद्देश्यकोपासनमिति न दोष इति वाच्यम् । असम्भूतिशब्दस्य तावदर्थस्वारसिकत्वाभावात् । तथा तृती- यमन्त्र विग्रहपरिग्रहयोग्यतेत्यत्र योग्यतापदेन किं गुणाष्टकाविर्भावग्रहणम् , उत विग्रहपरिगहौपयिकसङ्कल्पविशेषगहणम् ? नाद्यः ; तस्य विग्रहसम्बन्ध- मात्रसाधनत्वाभावेन विग्रहपरिग्रहयोग्यतति विशेषपदेन तदुक्तेरयुक्तत्वात् । नान्त्यः ; पूर्ववदश्नुत इति पदस्य शक्यार्थत्यागसंकुचितार्थकत्वादिप्रसङ्गात् । एवं सम्भूतिशब्दस्य योग्यतापर्यन्तार्थवाचित्वाभावादपि न सम्भूत्यसम्भूतिश- ब्दयोरीदृशार्थवर्णने युज्यते । किं च शरीरपरिगहाद्देश्यकं तद्योग्यतोद्दे- आचार्यभाष्यतात्पर्यसमेतम् । ११५ श्यकं वोपासनमेव न भवति । उपासनकालेऽपि तस्य तद्योग्यतायाश्च सत्त्वेन तदिच्छाया असम्भवात् । न खल्वशरीर एव कश्चिदुपास्ते । अनु- पासनेऽपि बद्धस्य किञ्चित्शरीरसम्भवनियमाञ्चतदुपासनं व्यर्थम् । न चेतः कल्याणतरविग्रहपरिग्रहोद्देशेनोपासनं सम्भवतीति वाच्यम् । तथा सति सम्भूतिशब्दस्य तादृशविग्रहपरिग्रहे लक्षणापत्तेः । असम्भूतिशब्देन ताह- शविग्रहनिवृत्युद्देश्यकोपासनस्यैव वक्तव्यतया प्रकृतोपासनावच्छेदकविग्रहस- दृशतन्निकृष्टान्यतरविग्रहापादनेनाप्युपासनाचारितार्थेन कैवल्यसिद्धरनाव- श्यकत्वाच्च । न च कल्याणतरेऽपि विरक्तस्य कथमीदृशविग्रहजिक्षेति वाच्यम् । एतदिच्छाया अकिश्चित्करत्वात् । यदि तत्रेच्छाभावान्न तदुत्प- त्तिः तार्ह यः कैवल्यमप्यनिच्छन् विग्रहपरिग्रहयोग्यतानिवृत्त्युपासनं कुरुते तेन मोक्ष एव लब्धव्यः स्यात् । तथा च मोक्षार्थ विगहपरिगहोपासन- समुच्चयविधानं व्यर्थम् । अन्ततः सर्वविघविगहपरिगहयोग्यतानिवृत्तावेवा- सम्भूतिशब्दतात्पर्यवर्णने प्रकृतमन्त्रसम्भूतिशब्दार्थो यस्तन्निवृत्तिपरत्वखा- रस्यमसम्भूतिशब्दे प्रतीयमानं त्यक्तमेव भवति । एवं मुमुक्षुणा समुच्चित्य विगृहपरिगृहतदभावोपासने क्रियमाणे न सामान्यतो विगृहपरिगृहाभावोपास- नं कर्तुं शक्यते , विग्रहपरिग्रहस्याप्युपास्यमानत्वेन विरोधादिति कर्माधान- विग्रहपरिग्रहाभाव एवोपास्यः । तत्र च योगिनामिव मुक्तानामपि सर्व- शक्तानां कर्माधीनपरकीयविगृहप्रवेशोऽपि खीकार्य इति न सामान्यतः कर्मा- धानविग्रहस्यापरिगृहः शक्योपासन इति खकर्माधीनो यो विग्रहपरिग्रहस्त - निवृत्त्युपासनं कर्तव्यम् । सर्वमिदं भवद्ग्रन्थपरामर्शेनैव सुज्ञानम् । एव. श्वेशनिवृत्त्युपासनेनैवाकर्माधीनविग्रहपरिग्रहस्य स्वरूपेणावस्थानस्य चावस्था- द्वयस्य मुक्तिकालिकस्य लाभे विग्रहपारग्रहोपासनं पृथक्क्रियमाणं व्यर्थम् । कर्माधीनविग्रहपरिग्रहनिवृत्तः स्वरूपेणावस्थाने पर्यवसानमिति पृथग्विग्रहपरि- ११६ ईशावास्योपनिषद्भाष्यम् । ग्रहोपासनमुपदिष्टमिति चेत् तस्या दिव्यविगइपरिगह एव पर्यवसानं विधाय खस्वरूपेणोपासनमेव कुतः पृथङ्नोपदिष्टमिति । यत्तु प्रथमतः परिगह- तन्निवृत्तिपरतामुभयोः पदयोरुक्त्वा तृतीयमन्त्रेऽर्थोचित्याय योग्यतातन्निवृत्ति- परत्वाश्रयणम् । तदेकविधार्थस्यैव सर्वत्र वक्तव्यत्वादयुक्तमेव । यापि द्वितीयमन्त्रार्थवर्णनबैखरी, साऽपि भवत्कृतपूर्वमन्त्रत्रयान्त:पा- त्यन्यदेवाहुविधयेत्यादिमन्त्रार्थवर्णनवैखरीवैषम्यादगाद्या । तन हि केवल- विद्याफलस्य केवलाविद्याफलस्य चान्धतमसप्रवेशयोमिथो भेदस्य प्रथमम- न्त्र एव स्पष्टतया द्वितीयमन्त्र पुनस्तदुक्तेरयुक्ततया समुच्चित्यानुष्ठीयमानयो- विद्याऽविद्ययोर्ये फले ब्रह्मप्राप्तिविद्योपकाररूपे तृतीयमन्त्रे वक्ष्यमाणे तद्गत- मिथोमेदपरत्वमेव द्वितीयमन्त्रे भवदभिमतं लक्ष्यते । एवं सति तामेव री- तिमवलम्ब्य प्रकृतमन्त्रत्रयेऽपि तृतीयमन्त्रे वक्ष्यमाणयोः प्रकृतिसम्बन्धहा- निब्रह्मप्राप्त्योमिथोमेदवर्णनपरत्वं द्वितीयमन्त्रस्य वक्तव्यं विहाय तत्तत्केव- लोपासनफलभूतकैवल्यैश्वर्यद्वयभेदपरत्ववर्णनं कथं पुनरौचित्यमावहति । अथा- त्र प्रकृतिसम्बन्धहानरेवाभावरूपाया ब्रह्मप्राप्तिरूपभावरूपत्वावश्यकतया त- योर्भदवर्णनासम्मवादेवं वर्णनमिति चेत् तर्हि पूर्वमन्त्रत्रयान्तर्गतद्वितीयम- वे वैतदानुगुण्यं सम्माधताम् । अथ पुनरुक्तिभिया तत्परित्याग इति चेत् सैषा पुनरुक्तिरिहामि तदवस्थेवेति नैवं मन्त्रत्रयार्थो वर्णनीयः । ननु सम्भूतिशब्दः प्राप्त्यर्थको न भवति । शरीरपरिगहे तु स्वरस इति चेत् , लन्न , विहगपरिगेहऽपि तस्य शक्तत्वाभावात् । 'सम्भवाम्या- ममायया' 'सम्भवामि युगे युगे' इत्यादौ विग्रहपरिगहे प्रसिद्ध इति चेत् घटः सम्भवति, पटः सम्भवति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इत्यादौ का वाती ; न हि तत्र कस्यचिद्देहपरिग्रहः प्रतिपिपादयिषितः । अत उत्पत्तिरेव सम्भूतिः । सा च घटादौ मुख्या । तस्याश्चोत्पत्ती- आचार्यभाष्यतात्पर्यसमेलम् । वात्मनि बाधितत्वाद्विग्रहसंयोगस्यैवोत्पत्तित्वाश्रयणमिति सम्भूतिशब्दस्योत्पत्ति- परत्वमेव मुख्यम् । देहसंयोगपरत्वं पुनरमुख्यम् । एवञ्चोत्पत्यर्थकस्य सम्भू. तिशब्दस्य देहप्राप्त्यर्थकत्ववत् ब्रह्मप्राप्यर्थकत्वमपि सम्भवति । यथाऽऽत्मनि देवो जातो मनुष्यो जात इत्यादिव्यवहारः, तथा मुक्तो जात इति व्यवहा- रोऽप्यस्त्येव । अवस्थाविशेषस्यैवोत्पत्तिंशब्दार्थत्वात् स्वभावविकारभाजो जीवस्य ज्ञानसङ्कोचविकासयोरेव ध्वंसजन्मरूपतया मुक्तिकालिकपरिपूर्णज्ञान- विकासस्य ब्रह्मानुभवात्मनो जन्मरूपत्वमत्यन्तमुचितमिति विग्रहपरिग्रहापेक्ष- याऽपि ब्रह्मप्राप्तः सम्भूतिशब्दार्थत्वं युज्यतेतराम् । अतो भवदीयेनैव पथा प्राप्त्यर्थत्व सूपपादम् । यदप्यसम्भूतिशब्दस्य सम्भूतिप्रतिबन्धकविनाशपरता सुतरामेव दुर्वचेति तदपि वार्तम् । न खलु नञः प्रतिबन्धकविनाशवाचित्वमारोप्यासम्भूति- शब्देन सम्भूतिप्रतिबन्धकविनाशरूपमर्थ साधयामः , येनैवमुच्यते । कि तु असम्भूतिशब्दः सम्भूत्यभावपरः । स च प्रतिबन्धकविनाश एव पर्य- वस्यतीति बमः । कथमिति चेत् उक्तं तावत् सम्भूतिशब्दस्य न विग्रह- परिगहे शक्तिरापि तुत्पत्ताविति । तथा चासम्भूतिरनुत्पत्तिः । अनुत्प- तिशब्दश्वोत्पत्तिप्रागभावपरतवैव भूम्ना प्रयुज्यते । अतः शरीरपरिग्रहरूपामु- ख्योत्पत्तिस्वीकारेऽपि तत्परिग्रहप्रागभाव एव तदर्थः स्वरसः । न तु परि- ग्रहनिवृत्तिः । किं चात्मनो यानि शरीराण्येतावदुत्पन्नानि , न तदुत्पत्ति- निवृत्तिमुद्दिश्य किमप्युपासनमनुष्ठेयम् । उत्पत्तेराद्यक्षणभावित्वेन द्वितीय- क्षणे स्वयमेव निवृत्तेः । एवं तत्परिग्रहनिवृत्तिरपि नोपासनोद्देश्यभूता । तस्या आपि 'जातस्य मरणं ध्रुव'मिति स्वयमेव जायमानत्वात् । अत इतः परं शरीरोत्पत्तिः परिगहो वा मा भूदित्यवोद्देश इति प्रागभावस्यैवोद्देश्य- त्वम् । न तु ध्वंसरूपनिवृत्तेः । प्रागभावश्च भाविनो वस्तुनः पूर्व वर्त- - 151 ११८ ईशावास्योपनिषद्भाप्यम् । मानोऽभावः न च मुक्तिभान आत्मनः कर्माधीनविग्रहपरिग्रहस्य मुक्तिकाले जातु भावित्वं सुवचम् । येन तस्मिन्नुत्पत्तित्रागभावो नाम काश्चत् प्रसिद्धः सुपपादः स्यात् । अत उत्पत्तिप्रागभावो नामोत्पत्तियो- ग्यतानिवृत्तिरिति वक्तव्यम् । एवं हि सति तृतीयमन्त्रे विग्रहपरिग्रहयो- ग्यतानिवृत्तिरसम्भूतिशब्दार्थ इति भवदुक्तेरपि समञ्जसो निर्वाहः सम्प्रति भवताऽपि ग्राह्यः । सा च योग्यता विचार्यमाणा पुंसः कर्मसम्बन्ध एव । तथा च ब्रह्मप्राप्तिरूपसम्भूतिप्रतिबन्धकं यत् पुण्यपापरूपं कर्म तन्निवृत्ति- रेवासम्भूतिरिति भवद्रीत्यैव निराबाधं सुवचमिति निरीक्ष्यताम् । तस्मा- न्मुमुक्षारपेक्षिता ब्रह्मानुभवात्मकज्ञानविकास रूपोत्पत्तिः कर्माधीनोत्पत्तियोग्य- तारूपब्रह्मप्राप्तिप्रतिबन्धककर्मनिवृत्तिश्च सम्भूत्यसम्भूतिशब्दार्थाविति नात्र शङ्काशंकुशकलस्याप्यवकाशं पश्यामः । वस्तुतस्तु ब्रह्मलोकमभिसम्भवानीत्यादौ सकर्मकत्वदर्शनात्सम्भूति- शब्द उत्पत्त्यर्थक इव प्राप्त्यर्थकोऽपि भवतीति ज्ञायते । न च समुपसृ- ष्टत्वे भवतेरुत्पत्तिरेवार्थ इति नियन्तुं शक्यम् । अर्थान्तरस्यापि दर्शनात् । यथा पूर्वपक्षे कस्मिन्नपि प्राप्ते सिद्धान्तमारभमाणा वदामः नैतत्सम्भवतीति । यथा च नित्यत्वमात्मनः सम्भवतीति । एवं 'उत्पत्त्यसम्भवादिति सू- त्रादौ सर्वत्र द्रष्टव्यम् । इह हि सर्वत्र सम्भवतीत्यस्य भवितुमर्हतीत्यर्थः । तथा च सत्तायोग्यत्वं सम्भूतिः । तथा प्राप्तिरपि सम्भूतिर्भवितुमर्हति । अथ कथमभ्युपसर्गाभाव प्राप्तिवाचित्वमिति चेत् तत्किमभ्युपसर्गमात्रेण भव- तेः प्राप्त्यर्थकत्वमित्याशयः उताभिसमुभयोपसृष्टत्व एवेति । नाद्यः । अ- भिभवतीत्यादावन्यस्यैवार्थस्य दर्शनात् । नान्त्यः; अभ्युपसर्गाभावेऽपि प्राप्तिपरतया प्रयोगदर्शनात् । यथा-उभौ 'सम्भूयाऽऽगता' वित्यादौ मिलित्वा परस्परं प्राप्येत्यर्थे प्रयोगः । गच्छतरिव संभवतेरापि जातु सक- आचार्यभाष्यतात्पर्यसमेतम् । ११९ - .... मकत्वं जात्वकर्मकत्वं च युज्यते । न च संभवतेरेव गच्छतिपर्यायवे अ- भाति प्रयोगासम्भवः, येनोभयोरुपसर्गयोरेव गमनतात्पर्यग्राहकत्वमषितव्य स्यात् । अत एव वाय्वधिकरणे भाष्य प्रकृतविषय एवाभिपूर्वस्य गच्छतेमूना प्रयोग इति युक्तं समुपसर्गमात्रस्य तात्पर्यग्राहकत्वम् । छान्दो- ग्य च (५, १०) ते धूममभिसम्भवन्ति धूमाद्रात्रि रात्रेरपरपक्षं.... संवत्सरमभिप्राप्नुवन्तीति, अभिसम्भवन्तीत्यस्य स्थानेऽभिप्राप्नुवन्ती- ति श्रयमाणमभ्युपसर्ग विनैव प्राप्त्यर्थकत्वं दर्शयतीत्यलम् । यथा च-- बृहदारण्यके (३, ३) तां समभवत् ततो मनुष्या अजायन्तेत्येवं बहुवार प्रयोगः । तत्र हि मैथुन्येन प्राप्तवानिति तदर्थः । स्त्रीवाचिपदसमभि- व्याहारादिबलान्मैथुन्येनेति विशेषो लभ्यते । सम्भवतिस्तु प्राप्तिमात्रवचनः; अन्यथा शक्यार्थगौरवापत्तेः । यथा चार्चिरादिविषय एवानियमाधिकर. णश्रुतप्रकाशिकायां स्मृतिवचने- 'य एवमेनं जानन्ति ये चारण्यकमाश्रिताः । उपासते तपः सत्यं श्रद्धया परया युताः ॥ क्रमाते सम्भवन्त्यर्चिरहः शुक्ल तथोत्तरम् । इति विस्पष्टमभिमन्तरेण प्राप्त्यर्थे प्रयोगः । अतो नूनं श्रुतप्रकाशिकायपराम- दोषादापतितः सर्वोऽयं संरम्भः । स्यादेतत् । यदि सम्भूतिशब्द इह प्राप्तिवचनः, कथं तहसम्भूतिशब्दः प्रतिबन्धकविनाशपर इति । अत्रोत्तरमाचार्यपादैरेवाभाषि 'तां पर्युदस्यन्नय- मसम्भूतिशब्दम्तदासन्नप्रतिबन्धकविनाशमभिधत्ते' इति । अयं भावः-पूर्वम- न्त्रत्रयानुरूप्य तावदस्मिन्नपि मन्त्रत्रये युक्तं स्वीकर्तुम् यावत् सम्भवति । तत्र भगवता भाष्यकृतव 'अविद्या विद्येतरद्विहितं कर्मैवेत्यविद्याशब्दो न विद्यानिवृत्तिपरः । अपि तु विद्येतरपरः सन् नञः सजातीयप्रकृतेतराभि- १२० ईशावास्योपनिषद्भाष्यम् । घायकत्वस्वाभाव्याद्विद्यावददृष्टद्वारा साधनं विहितं कर्माहे ति व्युदपादि । अंतस्तंदानुरूप्यांयासम्भूतिशब्दोऽपि सम्भूतोतरपर एवं सन् सम्भू- तिवदेव मुमुक्षुचिन्तनीयं तद्वदेव विद्याङ्गचिन्तनविषयभूतं तयैव सह 'अश्व इव रोमाणी'त्येकवाक्योपात्तं सुकृतदुष्कृतविनाशं वक्तीत्यभ्युप- गन्तव्यमिति । अंतः पूर्ववैरूप्यप्रसङ्गेनापि नो निवृत्तिपरत्वं भवदु- क्तमयुक्तमेवं । नन्वेवं पूर्वसारूप्यसंरक्षणावश्यकत्वे तत्र यथा मृत्युतरण- स्याविद्याशब्दशक्यार्थसाध्यत्वं अमृतत्वप्राप्तेश्च विद्याशब्दशक्यार्थसाध्यत्वं वर्णितम् । तथेहापि वक्तव्यम् । तच्च विनाशसम्भूतिशब्दशक्यार्थयोरेव साध्यभूतप्रतिबन्धविनाशब्रह्मानुभवरूपत्वादुष्करम् । अतोऽन्य एवार्थश्चि- न्तनीय इति चेत् उच्यते । सुघटमेव तावत् सम्भूतिशब्दस्य प्राप्त्यर्थक- स्वग्रहणेनैवेदमप्यस्माकम्, यदि वक्तव्यं स्यात् । तथा हि—विनाशः प्र- तिबन्धकसुकृतदुष्कृतनाशः । मृत्युतरणं तत्साध्यं प्रकृतिलङ्घनम् । यो मृ- त्युमन्तरे सञ्चरन् यं मृत्युनं वेदेति हि सुबालोपनिषदि प्रसिद्धं मृत्युशब्द- स्य प्रकृतिवाचित्वम् । सम्भूत्याऽमृतमश्नुत इति क्रमेण 'परं ज्योतिरुपस- म्पद्य वन रूपेणाभिनिष्पद्यते' इत्युक्तार्थद्वयपरम् । अथ वा सम्भूतिर्न ब्रह्म- प्राप्तिः । अपि तु 'ब्रह्मलोकमभिसम्भवानी'त्युक्तब्रह्मलोकप्राप्तिः । अमृतम- श्नुत इति तत्साध्या ब्रह्मप्राप्तिरुच्यत इति । तर्हि कथमाचार्यपादरित्थमर्थों न वर्णित इति चेदुच्यते । प्राचीनस्य मन्त्रत्रयस्य समुच्चित्य विधाकर्मानुष्ठा- नप्रतिपादकत्ववदस्यापि समुच्चित्य किञ्चिदनुष्ठानप्रतिपादकत्वं युक्तम् । न तु मुक्तस्य कर्मनाशः सम्भूतिश्च भवत इति केवलकथामात्रत्वमिति मनसि- कृत्य व्यासायेंः 'मार्गस्य कर्मविनाशस्य च चिन्तनं विद्याङ्गत्वेन समुच्चित्य विधीयत इति व्याहृतम् । अत एव किल भवताऽप्युपासनविधानमिह व- र्णितम् । एवं च यत्किञ्चिदुपासनद्वयस्य समुच्चित्य विधौ स्वीकृते विधेययो- आचार्यभाष्यतात्पर्यसमेतम् । ये फल तत्सङ्कीर्तनमेव पूर्ववद्युक्तम् । अन्यथा परम्पराभाविफलकथनस्ये- ष्टत्वे कर्मनाशापासनेन कर्मनाशलाभस्तन प्रकृतिसम्बन्धत्यागः तेन ब्रह्मलो- कप्राप्तिस्तया ब्रह्मप्राप्तिरिति कर्मनाशोपासनस्यापि ब्रह्मप्राप्तिः फलत्वेन वक्तुं युक्ता स्यात् । अतः सर्वस्यापि फलस्य विद्यासाध्यत्वेऽपि विदुषा कर्मनाशा- चिरादिगमनब्रह्मलोकादिप्राप्तिप्रभृतिसर्वचिन्तनस्य क्रियमाणत्वेन तत्क्रतु- न्यायेन तत्तदंशोपासनस्य तत्तदंशोपयोगित्वौचित्याद्विनाशादिपदेन प्रकृतवि- धेयकर्मनाशाद्युपासनविवक्षया कर्मनाशादरेव तत्साध्यत्वं युक्तं वर्णयितुमिति, पूर्वस्मादस्मिन् मन्त्रलये क्वचित् क्वचित् पदार्थवैषम्येऽपि यत्र विषये तात्पर्य- मनुष्ठेयार्थद्वयसमुच्चयस्यावश्यकत्वे समुच्चितयोश्च पृथग्भूतापेक्षयाऽन्यत्वे तत्साध्यफलभेदे च, तदंशे वैषम्यं न स्वीकर्तुमुचितमिति च मनसिकृत्याचा- र्यपादैरन्यथैव वाक्यार्थोऽवर्णि । पदार्थवैषम्यं हि सम्भूत्यसम्भूतिपदयोर्विन- हपरिग्रह तन्निवृत्तिपरत्वं प्रथमतोऽभिधायान्तिममन्त्र तद्योग्यतातन्निवृत्तिपर- तां अवतो भवतोऽप्यस्त्येव । प्रथमे मन्त्रलये उपासत इत्यस्यानुतिष्ठन्तीत्य- र्थः । इह तूपासनं कुर्वत इति । वेदेत्यस्य नानातीति उपास्त इति । एवं पदार्थवैषम्यमुभयैरपि स्वीकृतम् । अत्यन्तानुरूप्येणार्थवर्णनं चाचार्यपादा द्वितीययोजनया करिष्यन्तीति न किञ्चिदनुपपन्नम् । नन्वेवं व्यासार्याभिमतं सम्भूतिशब्दस्यार्चिरादिमार्गपरत्वमाचार्यपादैः कथभुपेक्षितमिति चेत् नात्यन्तमुपेक्षितमेव । श्रीमति न्यायसिद्धाञ्जने तस्या- प्यर्थस्याभिहितत्वात् । परं त्विह सम्भूतिशब्दस्य क्तिनुप्रत्ययान्तस्य प्राप्ति- साधनमार्गपरत्वापेक्षया प्राप्तिरूपभावार्थखारस्यात् अश्व इव रोमाणीत्यादौ प्राप्तेरेवैकवाक्योपात्तत्वात् अर्चिरादिमार्गस्यानुपात्तत्वात् अभिसम्भवानि, अ- भिसम्भविताऽस्मीत्युत्तमपुरुषबलेन प्राप्त्यनुसन्धानस्यापि स्पष्टत्वादुक्तरीत्या चिन्तनस्य विधेयतया तृतीयमन्त्रोत्तरार्धस्य चिन्तनरूपविधेयफलसङ्कीर्तनपर- 16 I १२२ ईशावास्योपनिषद्भाष्यम् । अथ स्यात् तया ब्रह्मप्राप्त्यनुसन्धान प्रति ब्रह्मप्राप्तेः फलत्वोपपत्तेश्च प्राप्तिरूपयथाश्रु- तार्थ एवाऽऽहतः । अतो भवदुक्तार्थस्यानुपपन्नत्वाद्यथाभाष्यमेव श्रुत्यर्थः । एवं व्यासार्यबर्णितमर्थमौचित्येन मात्रया परिष्कृत्योपवाथ पूर्व- मन्त्रत्रयानुरूप्यस्य कात्स्न्येन सम्पादनायैवञ्जातीययोजनाखनाश्वासात् यो- जनान्तरमाह यद्वेति । समाधिनिष्पत्तिरूपब्रह्मसम्भूत्येति निष्पत्तिशब्द- प्रयोगेण , ब्रह्मेति कर्मनिर्देशेन च सम्भूतियब्दस्योत्पत्त्यर्थकत्वे वा प्राप्तयर्थ- कत्वे वोभयथाऽपि मुमुक्ष्वपेक्षितोपायविशेषपर्यवसानं सुगममिति सुचितम् । अन दूषितव्याख्याने यच्च यावच्चोक्तं तच्च तावच्च तथैव न ग्राह्यम् । प्रमेयमात्रग्रहणेन खबुद्धयेत्थं परिष्क्रियताम् । पर- विद्यायाः प्रागुक्ताया ऐश्वर्यकैवल्यापवर्गरूपपुरुषार्थत्रितयहेतुत्वात् विद्यामनु- तिष्ठन्नापि यद्यैश्वर्यकैवल्ययोरन्यतरदपेक्षते, न तावता परमपुरुषार्थलाभ इति तदुपेक्षापूर्वमपवर्गमपेक्षयतीदं मन्त्रत्रयम् । तत्र सम्भूतिशब्द उत्पत्ति- वचन एव शरीरपरिग्रहपूर्वमनुभवनीयैश्वर्यसिद्धिपरः । असम्भूतिशब्दः कैव- ल्यपरः । इमे फले उद्दिशतामन्धतमसप्रवेश एव । ननु सम्भूत्यसम्भू- त्युभयोद्देशे तदुभयप्राप्त्या भूयिष्ठमनिष्टमापद्यते । नैवम् । प्रत्येकमुद्दि- श्यमानसम्भूत्यसम्भूत्यपेक्षया समुच्चयेनोपास्यमानसम्भूत्यसम्भूतिपदार्थद्वयस्या- न्यत्वात् । य एवं समुच्चयेन गुणाष्टकाविर्भावरूपां सम्भूतिं निखिलकर्मवि- नाशरूपामसम्भूति चोपास्ते स तयोपास्यमानयाऽसम्भूत्यैश्वर्यकैवल्यात्मकं संसार प्रकृतिसम्बन्धमतिलङ्घय सम्भूत्या ब्रह्म सर्वप्रकारेणानुभवतीति । एवं परिष्क्रियमाणेऽर्थे को दोष इति । सन्तु नामैवमन्यथा च परिष्कारस्य पन्थानः । तथाऽपि संपूर्वकस्य भूधातोरनात्मनेपदिनोऽपि प्राप्तयर्थकत्वस्य दर्शितत्वात् , विद्याप्रकरण उपा. स्यत्वेनोक्तस्य सम्पूर्वकभूधात्वर्थस्य विद्यान्तरप्रकरण उपास्यत्वेन प्रसिद्धतदर्थ- आचार्यभाष्यतात्पर्यसमेतम् । १२३ रूपत्वौचित्यादिनोपपन्नतरस्यार्थीदेव कैवल्यैश्वर्यव्यावनिक्षमस्य साम्प्रदायिक- स्यास्यार्थस्य प्रहाणमयुक्तमितीत्थमेवाचार्यपादा व्याचकुरिति सुस्थमेतत् । अत्र शङ्करभाष्ये सम्भूतिशब्द उत्पत्तिवाचकः सम्प्रति तद्वति हि- रण्यगर्भे वर्तते । असम्भूतिशब्दस्तदन्यकारणभूताव्यक्तप्रधानपरः । विनाश- शब्दो लयशक्तस्तद्वत्कार्यब्रह्माहिरण्यगर्भपरः । तृतीयमन्त्रे सम्भातीमत्य- त्राकारप्रश्लेषः । तीत्वसम्भूत्येत्यत्रासम्भूत्येति पदच्छेदः । मृत्युतरणं हिर- ण्यगर्भोपासनेनाणिमाद्यैश्वर्यलाभादनैश्वर्यतरणम् । अमृतशब्दार्थः प्रकृत्यु- पासनजनितप्रकृतिलय इति व्याख्यातम् । अस्यातिवयात्यमूलत्वादत्यन्त- मुदासितुमपारयन्नाह अनेति । सृष्टिप्रलयादोत्यादिपदात्तत्तदर्थपर्यवसान- भूतहिरण्यगर्भग्रहणम् । विवक्षयेत्यादि। विवक्षापूर्वकवचनस्येत्यर्थः । तथा च विवक्षायां वचने चौचित्यलवोऽपि नास्तीत्यर्थः । विभागशब्देन हिरण्यगर्भोपासनजनिताणिमाद्यैश्वयमेव विद्ययाऽमृतमश्नुत इति पूर्वत्रेव क- स्मादमृतप्राप्तिरूपं न भवति । सांसारिकदुःखहान्या प्रकृतिलयस्यैव कथं न मृत्युतरणरूपत्वम् । उभयस्योभयशब्दार्थत्व एकतरशब्दप्रयोग एव कस्मान्न कृतः । उपासकद्वयस्य चेदिदं फलद्वयम्, एकस्य पुंस इत्थमेकदाऽवान्तर- फलविभागवचनं कथं घटतामित्येवमर्थः स्फुटितः ॥ १४ ॥ अत्र यदुक्तं—सत्यशब्दस्य जीवापेक्षया परब्रह्मणि मुख्यत्वात् तद्वा- त्वमेव खीकर्तव्यम् । अर्थश्चैवम्-हिरण्मयेन पात्रेण चिदचिद्रूपभोग्यव- र्गेण सत्यस्य ब्रह्मणो मुखं प्राप्तिद्वारं प्राप्तिहेतुभूतज्ञानमार्गरूपं सद्दर्शनमपि- हितम् । सत्यधर्माय दृष्टये समीचीनपूर्वोक्तदर्शनाय सत्यशब्दवाच्य- परब्रह्मप्राप्तिसाधनधर्मभूताय वा दर्शनाय तदर्शनमपावृण्विति तदप्याचा- र्यपादभाषितपरित्यागेनाभिनवार्थकल्पनाभिनिवेशविलसितमेव । आपिहित- मित्यस्य ह्यदृश्यं कृतमिति वा निरुद्धवृत्तिकमिति वाऽर्थः । यथा चन्द्रमा १२४ ईशावास्योपनिषद्भाष्यम् । हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ अथैवं फलपर्यन्तलाङ्गब्रह्मविद्यानिष्ठस्यानुसन्धेया मन्त्रा उपदिश्यन्ते । तेषु च पूषादिशब्दाः सर्ववाच्यं परमात्मानमनुसन्दधतां तत्तद्देवता- प्रणाड्या साक्षाद्वा तत्पर्यन्ताः । अत्र हि यमसूर्यादिशब्दानामेक- विषयत्वं खरसावगत तथा सत्येवोपपद्यते । तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगवन्तं प्रति प्रस्तुतां समाधिप्रतिबन्धनिवृत्ति प्रार्थयते हिरण्मयेन-दृष्टय इति । सत्यशब्दोऽत्र जीवपरः । 'स. त्यं चानृतं च सत्यमभवत्' 'अथ नामधेयं सत्यस्य सत्यं प्राणा चै स- त्यं तेषामेष सत्यम्' इत्यादिषु जीवेऽपि तत्प्रयोगात् । तस्य मुखं अनेकेन्द्रियावष्टम्भतया मुखपदवस्थितं मनः हिरण्मयेन पानेणा- पिहितम् रागात्मकतया हिरण्मयसदृशेन रजोमयेन पानेण परमा- त्मविषयवृत्तिप्रतिरोधकेन च्छादितम् । हृदि निहिते परमात्मविषये निरुद्धवृत्तिकमित्यर्थः । रजाकथनं तमसोऽप्युपलक्षणम् । हिरण्म- यशब्देन कर्माधीनभोग्यवर्गप्रदर्शनम् । तत् जीवस्य मुखस्थानीय । पूषन् आश्रितपोषणस्वभाव अपावृणु निरस्तपिधान कुरु । कस्य हेतोः? सत्यधर्माय दृष्टये सत्यस्य जीवस्य धर्मभूताय पूर्वो- क्तब्रह्मानुभवदर्शनायेत्यर्थः॥ १५ ॥ अभ्रेण पिहितः, चक्षुः पिहितमित्यादि । इदं चादृश्यीकरणं निरुद्धवृ- त्तिकत्वं वा विद्यमानस्यैव वस्तुनो, नाविद्यमानस्य । यदि मुखशब्दस्य ब्रह्मद- र्शनं ब्रह्मसाक्षात्कारोऽर्थः, तार्ह स हिरण्नयपात्ररूपप्रतिबन्धकवशादनुत्पन्न इत्येव वक्तव्यमित्यपिहितशब्दोऽस्वरसः । यद्येवमर्थविवक्षा तर्हि सत्यमपि- हितमित्येतावदेवालमित्यन्यद्यर्थ च । तथा द्वितीयसत्यशब्दस्य समीची- नार्थकत्वे सम्भवदैकार्थ्यत्यागो दोषः । यदि ब्रह्मप्राप्तिहेतुदर्शनपरं सत्यधर्मीय दृष्टय इति पदद्वयम् , तदा तस्यार्थस्य सत्यस्य मुखामिति पदद्वयेन प्रागुक्त- तया तस्मा इत्येवालम् । अथ वा तुरीयः पाद एव व्यर्थः । तदपावृण्वि- त्यस्यैव पर्याप्तत्वात् । दर्शनाय दर्शनमपगततिरोधानं कुर्विति प्रयोगश्च न आचार्यभाष्यतात्पर्यसमेतम् । १२५ पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमास्मि ॥ १६ पुनरपि तया दृष्ट्या द्रष्टव्यं विशिषन् दृष्ट्या गुणमभ्यर्थयते पूषने- कर्षे पश्यामीति । एकर्षे अद्वितीयातीन्द्रियद्रष्टः । यम सर्वान्तर्या- मिन् । सूर्य स्वभक्तचुद्धीनां सुष्टु प्रेरक । प्राजापत्य प्रजापतिप्रसूतस्य सर्वस्यान्तर्यामिन् । अविवक्षितप्रत्ययार्थो वा प्राजापत्यशब्दः । प्र- जानां पत इत्यर्थः । व्यूह रश्मीन् समूह तेजः स्वस्वरूपप्रकाशनौपयि- कान् खोग्ररश्मीन् व्यपोह प्रभात्मकं च तेजः समूहीकुरु । यत् समञ्जसः । दृष्टय इत्यस्य दर्शनप्रवृत्तिसिद्धय इत्यर्थवर्णनमपि क्लिष्टम् । अस्माकं तु मनसो विद्यमानत्वात् तद्वृत्तिनिरोधस्यैव कृतत्वात्तस्यापिहितत्व- मुपपन्नम् । निरम्तपिधानेन मनसा सम्पाद्यस्याभिधानाय च तुरीयपाद आवश्यकः । सत्यधर्मायेति च कर्माधीनविकारविरहितस्य जीवस्य यद्ब्रह्मद- शन तस्य स्वाभाविकत्वं स्वरूपानुरूपधर्मत्वं च दर्शयति । किञ्च मन्त्रे- ऽस्मिन्नप्रकृतोऽपि कश्चिदर्थः स्वरसतः प्रतीयते । यथा कश्चिदत्यर्थग्रहण- लोलुपश्चक्षुषाऽपेक्षितवस्तुदर्शनस्य विलोपमपि सोढ्वा हिरण्मयेन पात्रेण स्वमुखापधानमप्यादावनुमन्यते । पश्चादन्धवद्भावेनात्यन्तं खिन्नः प्रार्थय- ते 'पात्रमिदमपनीयतां अस्तु मे सहजं दर्शन' मिति । एवं दृष्टान्तभावन निविष्टस्यार्थस्य वर्णनाय सत्यस्य मुखमिति कस्यचित्पुंसो मुखं ग्राह्यमिति त- द्वद्दाष्टन्तिकेऽपि कस्यचिज्जीवस्य मनो ग्रहीतुं युक्तम् । तदैकार्थाय द्वितीय- सत्यपदमपि जीवपरमेव । तस्मादिहाप्याचार्यपादभाष्यमेव ज्याय इति॥१५ दृष्ट्या द्रष्टव्यमिति । पूर्वश्लोकोक्ता दृष्टिदर्शनसमानाकारध्यानरूपा । तत्साध्यो यो वास्तबस्साक्षात्कारस्तद्विषय इहोच्यते । अर्थाच्च ध्यानविषयोऽ पि स इति सिद्धयति । यदि साऽपि दृष्टिः साक्षात्काररूपैव, तर्हि द्रष्टव्य- मित्यस्य विषयीकर्तव्यमित्यर्थः । दृष्ट्या गुणमिति । दृष्टरुपयुक्तमित्यर्थः ।

१२६ ईशावास्योपनिषद्भाष्यम् । आदित्यवर्णामत्यादिप्रसिद्धम् सर्वेभ्यः कल्याणभ्योऽतिशयितंकल्या. णं शुभाश्रयभूतं ते दिव्यं रूपं तत् पश्यामि । अत्र वर्तमानव्य- पदेशे उत्तरवाक्यवत् तात्कालिकानुसन्धानानुवादः । प्रार्थनाप्र- करणानुरोधे तु व्यत्ययेन पश्येयमिति लिस्र्थों ग्राह्यः । ते इत्यस्य पुनरुक्तिस्तदसाधारण्यज्ञापनार्थम् । त्वदर्थ सदा पश्यामीति वा नि- रुपाधिकशेषत्वानुगुणोक्तिः । अथान्तरात्मनोऽहंग्रहेणानुसन्धानमाह योसावसौ पुरुषः सोऽहमस्मि इति । वीप्साऽत्यादरव्यञ्जनार्था । यद्धा 'योसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयो अत्र 'लिङर्थो ग्राह्य इत्येतदनन्तरं 'इत्यपुनरुक्तिः तदसाधारण्यज्ञापनार्थ सदा पश्यामीति वा निरुपाधिकशेषत्वानुगुणोक्ति' रिति पाठो दृश्यते । स च न शुद्धः । अतो मूले ते इति पदद्वयश्रवणात् पुनरुक्तिरित्याशंक्य दि- व्यमङ्गलविग्रहस्य तस्य भगवदसाधारण्यज्ञापनार्थमित्थम् । अथ वा त्वद्पं त्वदर्थ सदा पश्यामि । एतद्दर्शनजन्यं प्रधानं फलं तवैवेति शेषत्वानुगुणो- क्तिरितितात्पर्यकः पाठो युक्त इति निशितः । अहग्रहेणैकबुद्धिशब्दाभ्यां स्वात्मापृथक्सिद्धतयैव सर्वदा त्वामनुसन्दधानस्य मेऽत्यन्तपारतन्ध्यं सुनि- रूढम् । यत एवं त्वदर्शनमपि त्वदर्थमित्यध्यवस्यामीति सूचनाय प्रवृत्तम- न्तिमं पादमवतारयति अथेति । यद्यप्यस्य वाक्यत्रयात्मत्वाङ्गीकारणासावा- दित्यमण्डलान्तर्वर्ती योऽस्ति, असौ पुरुषः पुरुषसुक्तादिप्रसिद्धः सर्वत्र पुरि शयानः सर्वान्तयामी भवति; सोऽहमस्मीत्यर्थवर्णनेन द्वितीयवाक्योक्तार्थस्यैव विशेष उपसंहारस्तृतोयवाक्येन तत्त्वमसीत्यनेनेव क्रियत इति वक्तुं शक्यम् । अथापि सम्भवति वाक्यद्वयरूपत्वे वाक्यत्रयरूपत्वस्वीकारस्यायुक्तत्वात् मा- ध्यन्दिनपाठे वाक्यद्वयस्यैव दर्शनाच्चान्यथैवाह घीप्लेति । माध्यन्दिनपाठे 'योसावादित्ये पुरुषः सोसावह मिति यच्छब्देन तच्छब्देन च प्रत्येकमद- श्शब्ददर्शनात् तदनुरोधेनादश्शब्दद्वयान्वयं समर्थयते यद्वेति । माध्यन्दि- नपाठे तथाऽङ्गोकारेपीह यच्छब्दघटितवाक्यप्रविष्टस्यादश्शब्दस्य तच्छब्द- घटितवाक्ये समाकर्षणमस्वरसमिति कृत्वाऽर्थभेदमाह सर्वेति । क्रमेणादश्श- आचार्यभाष्यतात्पर्यसमेतम् । १२७ ब्दद्वयेनातीन्द्रियत्वप्रमाणसिद्धत्वयोरुक्तिः । पूर्णत्वं 'तेनेदं पूर्ण पुरुषेण सर्वम्' इत्यत्र दर्शितम् । पूर्वसत्त्वं 'पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरु- षत्व'मित्यत्र । आदिना- 'पूस्संज्ञे तु पुरे तस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥ इति स्मृतं पुरिशयत्वं ग्राह्यम् । यत्त्विह स इत्यस्य ब्रह्मात्मक इत्यर्थ एव -खीकार्यः । भगवद्रूपदर्श- नस्य प्राक्प्रार्थिततयाऽत्र स्वस्य तच्छरीरत्वरूपतन्नियाम्यत्वप्रदर्शनेन तद्रूप- दर्शनाधिकारस्यैव ज्ञापनीयत्वादिति ; तन्न ; तच्छरीरत्वमात्रस्य तद्रूपदर्श- नाधिकारत्वासम्भवात् । सर्वेषां स्थावरतिर्यगादीनामपि तच्छरीरत्वस्य वस्तु- तो विद्यमानत्वात् । अथ तन्नियाम्यत्वानुगुणवर्तनं सोऽस्मीति पदद्वयेन बोध्यत इति चेत् तदपि न । तन्नियाम्यतया भवनमेव हि तत्पदद्वयार्थः स्यात् । न तु तदनुगुणवर्तनमिति । अतो लक्षणव तादृशार्थो प्रायः । तावताऽपि परविद्याधनुष्ठानमेव तदनुगुणवर्तनं भविष्यति । तदपेक्षयाड स्मीत्युत्तमपुरुषबलावगतमहंशब्दार्थे - स इति पदार्थाभेदानुसन्धानं - गृहीत्वा अहं ब्रह्मेत्यनुसन्धानस्य मया क्रियमाणतयाऽहं यत्ते रूपं कल्याणतमं तत्ते पश्यामीति भाववर्णन वरम् । न चाहमित्यस्य मदन्तर्यामीत्यर्थमुक्त्वा तस्या- द्देश्यसमर्पकत्वं न सुवचं तथा पूर्वमनवगतत्वादिति वाच्यम् । अनुसन्धा- नस्यवेदानी क्रियमाणत्वन ततः प्रागेव शास्त्रार्थश्रवणावश्यकतया तथा ज्ञा- तत्वोपपत्तेः । पुरुष इति पदेन सर्वान्तर्यामित्वस्य ज्ञातत्वाच्च । 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानत' इति प्रागुक्तत्वाच्च । अतस्तत्त्वमसीतिवदुपसंहार- रूपेऽस्मिन् वाक्येऽहंशब्दस्यैव त्वंशब्दस्येव विशिष्टपरत्वं युक्तम् । अन्यथा हि अहं ब्रह्मशरीरभूत इत्युक्तौ परविद्यावत्त्वप्रदर्शनं न स्यात् । यस्मिन् सर्वा- .

१२८ ईशावास्योपनिषद्भाष्यम् । णि भूतान्यात्मैवाभूदिति ब्रह्मविशेष्यकपरविद्याया एवेह प्रागुक्तत्वात् पञ्चाग्निविद्याया इव जीबविशेष्यकविद्यारूपत्वे प्रमाणाभावात् । तद्य इत्थं दिदुर्ये चमेऽरण्ये श्रद्धा तप इत्युपासत इति वाक्ये पृथनिर्देशबलेन पञ्चा- ग्मिविद्यातिरिक्तविद्यासामान्यस्य ब्रह्मविशेष्यकत्वावधारणेनात्र तहांध प्रमाणा- भावात् । न च नान परविद्यावत्वं प्रदश्यते अपि तु परविद्याङ्गमूतवा- स्मानुसन्धानमेवेति वाच्यम् । तथा सति स्वात्मानमनुसहितवानस्मि । अत- स्त्वद्रूप मे प्रदर्शनीयमिति प्रार्थनस्याघटमानत्वात् । कथञ्चिद्धटनेऽपि त- दपेक्षया मच्छरीरिणं त्वामनुसन्दधानोऽस्मि त्वद्रूपं दर्शयेत्यस्यैव सुलग्नत्वात् । अत एव योसावसौ पुरुषः जीवो यादृग्रूपः सोऽहमस्मि तादृपोऽहमस्मि ता ग्रूपतां विद्वानस्मीति व्याख्यानमपि नादृतम् । सर्वमिदं 'परविद्याङ्गभू- तखात्मानुसन्धानपरत्वेऽपि' इति भाष्येण ध्वनितम् । अतो ब्रह्मशरीरत्वं स्व- स्मिन्निह न विधेयम् । अपि तु पूर्वावगतस्वशरीरिब्रह्मानुसन्धानमेवेह ज्ञाप्य- मिति अहंशब्द एव विशिष्टपरः । अन्यथा लक्षणाप्रसङ्गाच । यत्तु स इति भगवद्वाचिनस्तदात्मकपरत्वे लक्षणा नास्तीति, तदध विचारयामः । यद्यप्यद्वतिनां इत्थमपि किञ्चिदुचितं मुखपिधानमिति नास्मा- भिरयं पक्षो बहिष्करणीयः ; अथापि परदूषणप्रसक्तिकुण्ठनाय तत्त्वस्थिति- शोधनाय च विचार व्यप्रियते । यदिह शरीरवाचिनां शब्दानां शरीरिबोधकत्वमिव शरीरिवाचिनां शरीरबोधकत्वमस्तीत्यभिधानम् , तत्किं सम्प्रदायप्रामाण्यादाहो साधकयुक्ति- पुरस्कारादिति चिन्तनीयम् । नाद्यः ; तत्र किं 'ज्ञान विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् । एक सदैक परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ।।

आचार्यभाष्यतात्पर्यसमेतम् । १२९ . । एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ।। ज्योतींषि विष्णुर्भुवनानि विष्णुवनानि विष्णुविदिशो दिशश्च । नद्यः समुद्राश्च स एव सर्व यदस्ति यन्नास्ति च विप्रवर्य ।। इति विष्णुपुराणवचनार्थवर्णनपरं तच्च वासुदेवशरीरामिति तदात्मकम् ; ज. गदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मक'मित्येवंरूपं भाष्यं प्रमाणम् । किं वा सर्वत्रप्रसिद्धयधिकरणभाष्यम् , यद्वा क्षेत्रज्ञं चापि मां विद्धी'ति गीताभाष्यम् , अन्यद्वा किञ्चित् । सर्वमपि प्रायः फलितार्थकथनरूपं न तत्र प्रमाणं भवितुमर्हति । विशिष्य चोच्यते । न तावदत्र प्रथमः ; सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्व पराशराभिसंहितं भाषित्वा तत्रत्य तानि सर्वाणि तद्वपुरित्यादिशरीरात्मभावबो- धकं वचनमुदाहृत्य किं भगवद्वाचिशब्दस्य तच्छरीरपर्यन्तबोधकत्वात् सामा- नाधिकरण्यमुपपद्यते, किं वा जगद्वाचिशब्दस्य शरीरिपर्यन्तबोधकत्वादिति शङ्कायां स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः' इति वचनमुदाहृत्य विश्वशरीरकत्वाद्विश्वतादात्म्यामिति विश्ववाचिशब्दस्यैव विश्वशरीरिपरत्वमि- त्यर्थ प्रदर्य तदिदमुक्तवचनोपपादितं तादात्म्यं ज्योतींषि विष्णुरित्यादिनो- व्यत इति भाषितत्वाच्छरीरवाचिनामेवेहाणि शरीरिपरत्वं सम्मतं निश्चीयत इति । ज्योतींषि विष्णुः –'यदस्ति यन्नास्ति च विप्रवर्य'ति श्लोकेऽस्त्या- स्मकनास्त्यात्मकचिदचिदशेषविशिष्टतादात्म्यस्य विष्णावुक्तत्वात्स वासुदेव इत्यत्रापि तच्छब्द एव जीवविशिष्टपरः । न च ज्योतिरादिपदानां पूर्व विशिष्टपरत्वं नावगन्तुं शक्यमिति वाच्यम् । यदम्बु वैष्णवः कायस्ततो विप्रवसुन्धरेत विष्णुशरीरभूताम्बुजन्यत्वेन कृत्स्वस्य ब्रह्माण्डस्य विष्णुशरीर. त्वावसायात् शरीरवाचिनां शरीरिपर्यन्तगामित्वस्य लोकसिद्धत्वात् पूर्वावग- 17 I १३० ईशावास्योपनिषद्भाष्यम् । .. तस्यैवार्थस्य समानाधिकरणनिर्देशरूपेण भणयन्तरेणोपबृहणरूपेऽत्रानुद्यमा- नत्वस्य भाष्यकृत्सम्मतत्वात् । ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिन तु वस्तुभूत इति वाक्येनाशेषक्षेत्रज्ञशरीरकत्वस्य भगवति ज्ञातत्वेन प्राग्वदनु- वादरूपत्वस्य स वासुदेव इत्यत्राव्याहतत्वाच्च । किं बहुना-जगत्परमात्मनोः शरीरात्मभावे प्रागप्रतिपन्न एव यद्वाक्यं प्रथममुपदिश्यमानम् , तत्रापि सदेव सोम्येदमग्र आसीदित्यादौ इदं शब्दः कार्यावस्थब्रह्मपर इति पद- द्वयस्य समानाधिकरणस्थले ब्रह्मपर्यन्तत्वमेव भाष्यादिषु सुस्पष्टमुक्तमिति, का कथा यत्र मानान्तरप्रतिपन्नमनूद्यते । न चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा- यास्तत्र कृताया उपपत्तिर्जगद्वाचिपदस्य ब्रह्मपर्यन्तत्वाभाव एकवस्तुप्रतिपाद- नाभावान्न भवतीति तथा भाष्यादावुक्तमिति वाच्यम् । प्रतिज्ञोपपत्तये वा स्यात् , अन्यथा सामानाधिकरण्यनिर्वाहासम्भवाद्वा ; सर्वथेदमादिपदानां वि- शिष्टब्रह्मपरत्वमुद्देश्यसमर्पकत्वं चेष्टमिति स न्यायः सर्वत्र भविष्यति । अ- न्यथा हि को भवानिति प्रश्नप्रतिवचनरूपे अहमेकः प्रथममासं वामि भ- विष्यामि चेति रुद्रकर्तृकोपदेशे का गतिः ? तत्र ह्यामिति पदं जीववाच्य- पि ब्रह्मपर्यन्तमेव स्वीकर्तव्यम् । न चेदं प्रतिपाद्यानां प्रागेव ज्ञातमिति कथमुपदेशो घटताम् ? प्रतिपाद्यानां तद्ज्ञानाभावेऽपि प्रतिपादयितुझीतत्वेन सर्वस्य पदस्य ब्रह्मपर्यन्तत्वशिक्षणाय तथा गूढोपदेशे कृते कथमिदमिति बु- भुत्सवः प्रतिपाद्याः पश्चाद्विवरणेन वा वाक्यान्तरबलेन वा भोत्स्यन्त इति नानुपपन्नमिति चेत् तार्ह स एव प्रकारः सर्वत्र सुवच इति वृथैव शरीरि- वाचिनां शरीरपर्यन्तत्वकल्पनमिति । यञ्चह 'सोहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम्' इत्युदाहृत्य 'चेतनाचेतनवाचिशब्दानां परमात्मवाचिशब्दैश्च' इति बहुवच. ननिर्देशेन स इति पदानामच्युतार्थकत्वाध्यवसानम्, तत् 'सोऽहं स च त्वमिति ?

आचार्यभाष्यतात्पर्यसमेतम् । १३१ सर्वात्मनां पूर्वोक्तं ज्ञानाकारं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं स्वमित्यादीनां ज्ञानमेवाकार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोह परित्यजेत्याह' इति भाष्यविरुद्धमित्यवधेयम् । न द्वितीयः । तत्रापि सर्वं खल्विदं ब्रह्मेत्यत्र ब्रह्मशब्दस्य ब्रह्मात्मक- रूपार्थेकान्तता नैव लक्ष्यते । प्रत्युत सर्वशब्दस्य ब्रह्मपर्यन्तत्वाभिसन्धिरेव भाष्यकृतां स्वीकर्तव्यो भवति । तथा हि-यदि सर्वशब्दस्य चिदचिन्मा- त्रपरतया ब्रह्मशब्दस्य ब्रह्मात्मकपरत्वं स्यात्, तज्जलानिति तच्छब्दोऽपि ब्रह्मा- त्मकमेव व्यादित्यनन्वितार्थता । किं च तज्जलानिति हेतुनिर्देशेन हि सर्वब्रह्मपदार्थयोरैक्यं कार्यकारणभावनिबन्धनं शरीरात्मभावनिबन्धनं चेत्यवग- म्यते । कार्यत्व कारणत्वं च विशिष्टस्य ब्रह्मण एवेति सुनिरूढम् । अ- तम्तन्निबन्धनैक्यवर्णनाय सर्वपदं विशिष्टपरं स्वीकर्तव्यमिति शरीरात्मभाव- निबन्धनमैक्यमपि तथैवोपपादनीयमिति कथमनान्यथावर्णनसम्भवः । अपि च सर्व स्खल्विदं ब्रह्म तज्जलानितीत्यस्यानुवादरूपत्वात् पुरोवादभूते सदेव सो- म्येदमित्यादौ यथा सामानाधिकरण्यं निरवाह्यत, तथैव निर्वाह्यामिति न ब्रह्म शब्दो ब्रह्मात्मकपरः । भाष्ये च 'अत्रैवोपासनं विधीयते, सर्वात्मकं ब्रह्म शान्तः सन्नुपासीते'ति, 'अतः सर्वप्रकारं सर्वशरीरं ब्रह्म शान्तो भूत्वोपा- सीत'ति, परं ब्रह्म हि कारणावस्थं कायर्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरी- रतया सर्वदा सर्वात्मभूत'मिति च सर्वपदस्यैव विशिष्टपरत्वमवसीयते । श्र- तप्रकाशिकायाञ्च 'आकृत्यधिकरणन्यायेन प्रकारिपर्यन्ताभिधानसिद्धयर्थमाह सर्वप्रकारमितीत्यवतारितम् । वृत्तिकृतश्च सर्व खल्विति सर्वात्मा ब्रह्मेश- इति व्याचक्षाणाः सर्वशब्दं विशिष्टपरं दर्शयन्ति । जिज्ञासाधिकरणे च तत्त्वमसि विचारघट्टे श्रुतप्रकाशिकायां 'अतः सर्वशब्दः कार्यावस्थचिद- चिच्छरीरकपरमात्मपरः--ब्रह्मशब्दः कारणावस्थचिदचिद्विशिष्टपरः । एवमुभ- १३२ ईशावास्योपनिषद्भाष्यम् । यावस्थचिदचित्प्रकारिणो ब्रह्मण एकत्वं सामानाधिकरण्यप्रतिपाद्यमिति कार्य- कारणावस्थप्रकार्येकत्वमस्य वाक्यस्यार्थ' इति विस्पष्टमुक्तम् । न च तृतीयः । तत्र मां विद्धि मदात्मकं विद्धोति भाष्यस्य फलि. तकथनरूपत्वात् । अन्यथा 'यथा क्षेत्र क्षेत्रज्ञविशेषणतकस्वभावतया तद- पृथक्सिद्धस्त सामानाधिकरण्येनैव निर्देश्यम् । तथा क्षेत्रं क्षेत्रज्ञं च मद्विशे. षणतकस्वभावतया मदपृथक्सिद्धेमसामानाधिकरण्येनैव निर्देश्ये विद्धी'ति भवदुपात्तापरितनभाष्यमेव न सङ्गच्छते । अत्र हि विशेषणतापदनिर्देशब- लात् विशेष्यत्वाभावः स्पष्टः । एवं दृष्टान्ततयोक्तं क्षेत्रस्य क्षेत्रज्ञसामानाधि- करण्यं हि देवोऽहं मनुष्योऽहमित्यादिरूपम् । तत्र च नाहंपदस्य जीवश- रीरपरत्वं युक्तम् । देवादिशब्दानां पिण्डविशिष्टात्मपर्यन्तताया एव बहुशो भाषितत्वात् । देहात्मकविवेकशालिनां देवादिपदादेव विशिष्टप्रतीतिस- म्भवात् । अहंशब्दस्यान्यस्य वा कस्यचिदात्मवाचिशब्दस्य शरीरपर्यन्ततया कुत्रापि प्रयोगादर्शनात् । अस्य भाष्यस्य पूर्वश्लोकभाष्यभाषितार्थदृष्टान्त- दर्शनपरतया पूर्वश्लोकभाष्ये 'सामानाधिकरण्येन प्रतीतिस्तु वस्तुतः शरीर- गोत्वादिवदात्मविशेषणतकस्वभावतया तदपृथक्सिद्धरुपपन्नति भाषितत्वात क्षेत्रवाचिन एव विशिष्टपरताया अवगम्यमानत्वात् । अन्यथा गोशुक्लादि- शब्दानां गोत्वशौक्ल्यादिप्रकारमुखेन प्रकारिपर्यन्ततावत् क्षेत्रशब्दस्यापि प्रकारिपयन्ततेति व्युत्पादनार्थप्रवृत्तगोत्वादिवदितिदृष्टान्तवचनासाङ्गत्यप्र- सङ्गात् । अहंशब्दस्यात्मशरीरपर्यन्तार्थ स्वीकृत्य देवादिशब्दस्य शरीरमात्र. वाचित्ववर्णनाभिनिवेशे 'देयोऽहं मनुष्योहं घटादिकं जानामी'ति तत्रत्यभा- ष्यदर्शितज्ञानाधाराहमर्थबोधकवचनार्थवर्णनासम्भवाच्च । अतो दृष्टान्ते प्रकारवाचिनः प्रकारिपर्यन्तगमनमेवेष्टमिति दाष्टन्तिकेऽपि तथैवेति क्षेत्रज्ञ एवं विशिष्टपरः । उपरि चात्र श्लोके परमतं निराकृत्य 'सर्वे वाचकाः आचार्यभाष्यतात्पर्यसमेतम् । १३३ शब्दा अचिज्जीवविशिष्टपरमात्मन एव वाचकाः' इत्येव भाषितमिति नेदं शरीरिवाचिनः शरीरपर्यन्तत्वे प्रमाणमिति । एवमन्यत्रापि भाव्यम् । साध- कप्रमाणाभावश्च भवदुक्तकृत्स्नपरिशोधनेनैव दर्शितो भवति । वक्ष्यते च । यदपि चिदचिद्वाचिशब्दानामपृथक्सिद्धिसम्बन्धेन चिदचिद्विशिष्टप- रमात्मपरत्वमिव परमात्मवाचिनामपि तेनैव सम्बन्धेन तद्विशिष्टचिदचिद्वाचि- त्वं नामरूपव्याकरणश्रुतिलभ्यमिति ; तदप्ययुक्तम् । अपृथक्सिद्धिसम्बन्ध- स्य परमात्मनिरूपिताधेयतायाश्चिदचितोः प्रामाणिकतया चितमचितं च प्रति वृत्तिनियामकसम्बन्धरूपत्वेऽपि परमात्मनश्चिदचिन्निरूपिताधेयताया अ- प्रामाणिकतया तं प्रति वृत्त्यनियामकत्वात् वृत्त्यनियामकसम्बन्धेन वैशिष्ट्य- स्य च स्वारसिकानुभवविरुद्धत्वात् परमात्मवाचिनां तद्विशिष्टजगत्परत्वकथ- नस्य सहृदयैः स्वीकर्तुमशक्यत्वात् । यदपि 'इत्थं च नद्यः समुद्रान्तःप्रविष्टाः समुद्र एव भवन्ति । प. ल्लवपुष्पफलशाखादिकं सर्व वृक्ष एवेत्यादयः स्वारसिकनिर्देशा अपि मुख्य- तयैव निरूढा भवन्तीति ; तत्र कः पुनरित्थं चेति शब्दार्थः ? किं शरी- रिवाचिनोऽपि शरीरपर्यन्तत्वसिद्धाविति, किंवा तद्वाचिशब्दस्य तदपृथक्स्थि- तवाचित्वसिद्धाविति ; न द्वयमपि युक्तम् ; नदीजल समुद्रशरीरत्वस्य समु- द्रापृथक्स्थितत्वस्य चाभावात् । समुद्रस्याचेतनत्वात् । नदोजलस्य पूर्व पृ- थक्स्थितत्वात् , पश्चादपि पवनवेगपरिक्षिप्यमाणतया ग्रीष्मातपशोष्यमाण- तया च पृथकस्थितत्वात् । मुख्यतया निर्वाहस्तु अस्मत्पक्ष एव स्थलविशे- षपरिच्छिन्नजलवाचित्लात् समुद्रपदस्य, तत्त्वस्य च नदीजलेऽपि सम्प्रत्य- नपायादुपपन्नः । मास्तु वा मुख्यतया निर्वाहः ; यदि समुद्रपदं विल- क्षणजलसमुदायवचनं स्यात् । ननु समुद्रपदस्य समुदायवचनत्वान्नदी- जलस्य च तत्र घटकत्वात् घटकघटितयोरपि सामानाधिकरण्याङ्गीकारान्मु- १३४ ईशावास्योपनिषद्भाष्यम् । ख्यतयैव निर्वाह इति चत् तावतेत्थं चति शब्दस्य कस्तावदर्थ इष्टो भवति ? समुदायवचनस्य घटकवाचित्वसिद्धाविति चेन्नायमर्थः प्रकृतः । प्राक् सम- नन्तरं वाम्यानुपपादितत्वात् । ईदृशनिर्वाहस्य मुख्य बासम्भवश्च वक्ष्यते । अनेन वृक्षोदाहरणमपि व्युदस्तम् । अतो वाक्यमिदमिह न सम्बद्धार्थक- मिति । यत्तु अहं स पुरुपास्मीत्यत्र पुरुषपदस्य पुरुषात्मकपरत्वे स इति पदार्थस्य पुरुषपदार्थकदशे पुरुषे कथमन्वयः ? पदार्थः पदार्थनान्वति न तु तदेकदेशेनेत्याशंक्य शब्दान्तरप्रयोज्यप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति शव्दान्तरप्रयोज्यप्रकारताभिन्नविशेष्यतासम्ब- न्धेनोपस्थितिः कारणमित्यत्र प्रकारतायामपृथक्सिद्धिसम्बन्धानवच्छिन्नत्वं निवेशनीयम् । अन्यथा गौरश्चैत्रो जानातीत्यादौ चैत्रादिपदार्थैकदेशे शरीरे गौराद्यन्वयानापत्तेः । प्रकृते च पुरुषपदस्यापृथक्सिद्धिसम्बन्धन पुरुषवि- शिष्ट इत्यर्थकतया तत्सम्बन्धानवच्छिन्नप्रकारताभिन्नापुरुषनिष्ठविशेष्यतेति न दोष इत्युक्तम् ; तत्रेदं वक्तव्यम् । यद्येवमपृथसिद्धिसम्बन्धानवच्छिन्नत्वं निवेश्यते , तार्ह नित्या गौरित्यादौ गोत्वे नित्यत्वान्वयापत्तिः । गौरत्वं रू- पवान् जानातीत्यादौ रूपेऽभेदेन गौरत्वान्वयप्रसङ्गः । अतोऽपृथक्सिद्धि- सम्बन्धानवच्छिन्नत्वमनिवेश्य गौरश्चैत्रो जानातीत्यादौ गौरो जानातीत्यत्रेव गौरपदस्य रूपविशिष्टपिण्डविशिष्टात्मपर्यन्तत्वमेव स्वीकृत्य गौरपदार्थस्य वि- शिष्टस्य चैत्रपदार्थेन विशिष्टनाभेदमेवोक्त्वा विशिष्टयोरभेदस्थलऽसति चाधके विशेषणयोरप्यमेदान्वयव्युत्पत्तिमङ्गीकृत्य चैत्रशरीरस्य गौरत्व निर्वाह्यमिति । अत एव 'अयमात्मा ब्रह्मेत्यलायंशब्दस्यापि विशिष्टपरत्वं 'प्रकाशादिवत् तु नैवं परः' इत्यत्र भाषितम् । यत्राप्येवं विशिष्टवेषेण परमात्मपर्यन्तता विशेषणवाचिनः शब्दस्य न सम्भवति, तत्रापि तस्य विशेषणस्य प्रकारमा- आचार्यभाप्यतात्पर्यसमेतम् । १३५ B लगतत्वे प्रामाणिकेऽपि यथावत् प्रथमतः समभिव्याहृतपदोपात्त प्रकारवि- शिष्ट एवान्वयः । पश्चात् तु सविशेषणे हीति न्यायेन विवेचनेन प्रकारे पर्यवसानसम्पादनमिति नानुपपत्तिरिति । यश्च शरीरवाचिनां शरीरविषयकवृत्तिज्ञानपूर्वकमेव शरीर्युपस्थापकत्व- मिति , पूर्व जायमाने वृत्तिज्ञाने शरीरस्य शरीरिणश्च यथाक्रमं विशेष्यत्वात् तस्य पदार्थत्वानपायात् गौरश्चैत्रो जानाति, अहं स पुरुषोऽस्मीत्यत्र च न 'पदार्थः पदार्थेनान्वेती' ति नियमभङ्ग इति वास्तविकः पक्षः ; सोऽप्ययुक्तः एकसामग्रीवेद्येषु वस्तुषु प्रथमतः प्रकारोपस्थापनं पश्चात् प्रकारिण इति निर्बन्धस्य निर्निबन्धनत्वात् । अत एव भाष्यकृद्भिः नैयायिकमतनिर्विकल्पक- निरासे चक्षुरादिसामग्रया युगपदेव जात्यादिविशिष्टव्यक्तिप्रत्यक्षमुपापादि । अतः प्रत्यक्ष इव शब्देऽपि युगपदेव विशिष्टोपस्थितिरिति न विशेषणोपस्थितेः प्राग्भावित्वमस्माकमिष्टम् । नागृहीतविशेषणाबुद्धिर्विशिष्टे प्रवर्तत इति वि- शेषणबुद्धेः प्राग्भावितां जात्या व्यक्त्याक्षेपवादिन एव ब्रुवते । वयं तु वि- शिष्टबुद्धिर्विशेषणविषयिण्येव भवतीत्येव ब्रुवन्तो विशिष्ट शक्तिमेव स्वीकृत्या- क्षेपपक्षमाक्षिपामः । शरीरवाचिनः शब्दाः शरीरिपर्यन्तवाचिन इति वाक्य- स्य च ये परबुद्ध्या शरीरवचनास्तेऽस्मद्बुद्धया विशिष्टवचना इत्येवार्थः । तथा च जिज्ञासाधिकरणभाष्यम्, 'आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दः सहैव प्रकारतया प्रतिपादयतीति । यदप्यत एवं गभीरायां नयां घोष इत्यादौ पश्चाल्लक्षणया तीरोप- स्थितावपि पूर्वोपस्थितनद्यां गभीरपदार्थान्वयः सङ्गच्छत इति ; तदपि न युक्तम् । युगपत् वृत्तिद्वयविरोधात् प्राथमिकशक्यार्थोपस्थितेर्लक्षणाकल्पनोप- क्षीणत्वेन शाब्दबोधप्रयोजकन्वायोगात् । अन्यथा गभीरायां नदोवर्तिघोषः ऋद्धस्य राजमातङ्ग इत्यादिप्रयोगप्रसङ्गाच्च । तत्रापि प्रथमतो मुख्यविशे- १३६ ईशावास्योपनिषद्भाष्यम् । प्यतयोपस्थितनदीराजादौ गभीरऋद्धादेरभेदेनान्वयस्य सुवचत्वात् । अतो गभीरायामित्यस्य तात्पर्यग्राहकत्वं वा बोध्यसम्बन्धरूपलक्षणा वा समाश्रयणी- यमित्यन्यदेतत् । यदप्यहं स पुरुषोऽस्मीत्यतैकदेशान्वयदोषपरिहाराय पुरुषपदार्थस्य भगवतोऽहंशब्दार्थे जीवे तदन्तर्यामित्वलक्षणतादात्म्येनान्वयवर्णनम् ; 'सर्वत्र च सर्वं खल्विदं ब्रह्म,' 'क्षेत्रज्ञं चापि मां विद्धि,' 'विश्वमेवेदं पुरुषः' इत्यादा- वीदृशतादात्म्येनान्वय एव भाष्यकृदभिप्रेत इत्यभिधानं च, तदत्यन्तमन्दम् । भाष्यकृद्भिः स्वरूपैक्यलक्षणतादात्म्यस्यैव सामानाधिकरण्यानिबन्धनता- याः सनिर्भरं साधितत्वेन स्वाभिप्रायस्य तेष्वारोपणस्यात्यन्तमयुक्तत्वात् । अन्यथा तत्त्वमसीत्यादावत्यन्तभिन्नयोर्जीवपरमात्मनोः कथं समानाधिकरण- पदनिर्देश्यत्वमित्याशंक्योद्देश्योपादेयभावासम्भवशङ्कापादकमन्यादृशसमाधान न परिगृह्णीयुः । प्रतर्दनविद्यायां च 'मामेवायुरमृतमित्युपास्खे'त्यत्र मा- मित्यस्येन्द्रमानपरत्वाङ्गीकारेण परब्रह्मणस्तदन्तर्यामिकत्वलक्षणतादात्म्येना- न्वयमेवाभिदध्युः । प्रतर्दनेन पूर्वमिन्द्रान्तर्यामित्वस्य ब्रह्मण्यनवगततया तथैवोद्देश्योपादेयभावौचित्यात् लाघवाच्च । न च तथा भाष्यकृद्भिरभिहित- म् । 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' इति सूत्रे जीवात्मवाचिनामहत्व- मादिशब्दानामपि परमात्मन्येव पर्यवसान ज्ञात्वा—स्वात्मशरीरकं परमात्मा- नमेवोपास्यत्वेनोपदिदेशेति शरीरवाचिनः शरीरिपर्यन्तत्वाङ्गोकारेण सामाना- धिकरण्यनिर्वाहस्यैव विहितत्वात् । सुत्रकृतश्च वामदेववदिति दृष्टान्तय- न्तः यथा 'अहं मनुरभवमित्यादावहमादिशब्दानां विशिष्टवाचित्वं तथा प्र- तर्दनविद्यादिष्वपीति सर्वत्र विशिष्टवचनतामेव विस्पष्ट यन्ति । अहं मनुर- भवमित्यादौ विशिष्टवचनतैव शरणामति भवतैवोक्तम् । अत एवात्रैव भाष्ये-- 'सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्व मयि सर्व सनातने ।'

आचार्यभाष्यतात्पर्यसमेतम् । १३७ ऽचिन्त्यस्स एष स्वयमुद्वभौ' इत्यादिवाक्यच्छायया यत्तच्छब्दाभ्याम- दाशब्दौ विभज्यान्वेतव्यौ, सर्वातीन्द्रियप्रमाणसिद्धत्वद्योतनार्थों वा । पुरुषः पूर्णत्वपूर्वसत्त्वादिगुणक आदित्यवर्णविग्रहविशिष्टस्सर्ववेदप- ठितानन्यपरपुरुषसूक्तादिप्रसिद्धो महापुरुषः। सोऽहमस्मि अहंशब्दो ऽत्र जीवद्वारा तदन्तरात्मपर्यन्तः । अत एवास्मीत्यपि प्रत्यग्रपस्व- विशिष्टे परमात्मनि विश्राम्यति । 'अस्मद्युत्तम' इत्येतावदेव ह्यनुशि- ष्टम् । न पुनरमच्छब्दस्य प्रत्यगात्मद्वारा परमात्मपर्यन्ततायामुत्त. मानिवृत्तिः। एवं तत्त्वमसीत्यादिष्वासिशब्दो निर्वाह्यः। तत्रापि 'युष्म- धपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इत्येतावदेव द्वि स्मर्य- ते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्त- त्वे मध्यमनिवृत्तिः । लोके तु अहं त्वमस्मि, त्वमहमसीत्याद्यपचारे- द्देश्यानुसारेण मध्यमोत्तमयोर्व्यवस्था । तद्वदनापि व्यवस्थोपप- द्यते ; उद्देश्यविषययोरेवान युष्मदस्मच्छब्दयोरुपपदत्वेन सूत्रपदा- भिप्रेतत्वात् । भाष्ये तु तत्त्वमसिनिरूपणावसरे 'नात्र किंचिदुहि- श्य किमपि विधीयत' इत्युक्तिरप्राप्तांशनिषेधाभिप्राया व्यक्का , उप- संहारत्वोपपादनात् । इति प्रह्लादवचनमुदाहरन्तो भाष्यकृतः तत्रापि वचने विशिष्टपरतामेवाऽऽक- लयन्तीति तद्विरुद्धमेव भवतः स एवाहमित्यत्र स इति पदार्थस्य विलक्षण- तादात्म्येनान्वयवर्णनम् । 'मत्तः सर्वमहं सर्व'मित्युत्तरार्धेऽस्मच्छब्दस्य वि- शिष्टपरत्वावश्यकत्वेन पूर्वार्धेऽन्यथाकरणस्यायुक्तत्वाच । भवदुपात्तासु भाष्य- सूक्तिषु न काऽप्यभिमतं साधयति । कुत्रापि तादृशतादात्म्यस्य सम्बन्ध- रूपताया अनुक्तत्वात् । अहिकुण्डलाधिकरणभाष्ये च विशिष्टवस्त्वेकदे- शत्वेनेति पदेन पदस्य विशिष्टवाचित्वं घोतितमेव । अपि चास्य भाष्यस्यां- शाधिकरणभाष्यसंग्रहरूपत्वात् तत्र च 'प्रकाशादिवत्तु नैवं परः' इति सूत्रे "अभेदनिर्देशास्तु पृथक्सिद्धयनहविशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्य- त्वेनोपपद्यन्ते । 'तत्त्वमसि' 'अयमात्मा ब्रह्मे' त्यादिषु तच्छब्दब्रह्मशब्दवत् त्वमयमात्मति शब्दानामपि जीवशरीरकब्रह्मवाचकत्वनैकार्थाभिधायकत्वा- 18 I १३८ ईशावास्योपनिषद्भाष्यम् । ये पुनस्तत्त्वमसि, सोऽहमस्मीत्यादिषु कार्यकारणोपाध्याकार- विधूननेन निर्विशेषस्वरूपैक्यं वाक्यवेद्यमाहुः, तेषामसिवदस्मिरपि खण्डकः । श्रोतर्थनुसन्धातरि च युष्मदस्मदी हि परित्यक्ते । न ह्यसिना कश्चित्प्रतिबोधनीयः, न च कश्चिदस्मिना विशिष्यानुसन्धे. यः । विधूननीयोपाधिविषयव्युत्पत्तिमच्छब्दसन्निधिमानोपजीवनेन क्वचिन्मध्यमोत्तमसम्पत्तिरिति चेत्-ततो वरमपरित्यक्तप्रवृत्तिनि- मित्तमस्माकं निर्वहणमनुसर्तुम् । सन्मात्रस्यांशिनोंऽशद्वविशिष्टता- प्रतिपादनं वदतामपि , सन्मानविवक्षायामत्र वाक्ये त्वमहम्भावा- योगात् , त्वंताऽहन्ताविशिष्टं सदिति विशिष्टविवक्षायामपि प्रथम- पुरुषोपनिपातप्रसङ्गात् , दृश्ययोश्च युष्मदस्मदर्थयोर्मुत्पिण्डांशे म- णिक इव घटशरावाकारयोः सदंशभूतेश्वराकारेऽपि समन्वयायो- गात् , त्वमहमर्थयोः सत्ताधाकारस्य नित्यप्रतिपन्नतया विशेषतोऽ निर्देश्यत्वादननुसन्धेयत्वाच्च न कथंचिदपि तत्त्वमासि सोहऽमस्मी- त्यादेनिर्वाहः शक्यः । दृष्टिविधिस्तु मोक्षाविद्यासु वेदान्तवेदिना नाङ्गीक्रियते । यद्यप्यत्र 'त्वं राजाऽसि, अहं राजाऽस्मी' त्यादिवत् तादधीन्याद्यपचारविवक्षया मध्यमोत्तमयोः सामञ्जस्यम् ; तथाऽपि लोकवेदयोः चेतनपर्यन्तदेवमनुष्यादिव्यवहारन्यायेन जातिगुणशब्द- गतिलाभात्तदुपेक्षा । नन्वेवं पुरुपाख्यखेतरात्मसामानाधिकरण्य- क्लेशं परित्यज्य 'योसावसौ पुरुषः सोऽहमस्मी' ति परिशुद्धस्व- रूपमानानुसन्धानपरमिदं वाक्यमस्तु ; मैवम् , तत्त्वमास, त्वं वा अहमस्मि इत्यादिषु तदनुपपत्तेरत्नापि तत्समानन्यायतया तथैवाऽ नुसन्धानस्यौचित्यात् । ब्रह्मात्मकोऽहमास्मि इति परविद्याङ्गभूत- स्वात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधीन्यादिकं लक्षणीयं स्यात् ॥ १६॥ दिति विस्पष्टं विशिष्टवचनत्वस्य भापितत्वात् स्वरूपैक्यलक्षण तादात्म्यमेव सामानाधिकरण्ये निबन्धनामति दर्शितत्वाद्भवदभिमतबाधकत्वमेव । कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तयामिकतया च तदात्मकत्वनै- क्यादिति जिज्ञासाधिकरणभाष्येऽपि ब्रह्मकार्यतया प्रयोज्यस्यैक्यस्य स्वरूपै- गत्तदन्तर्यामिकत्वनिबन्धनमैक्यमपि समानाधिकरणपदद्वयस्य विशि- आचार्यभाष्यतात्पर्यसमेतम् । १३९ टपरतया स्वरूपैक्यरूपमेवोचितम् । अस्य भाष्यस्य श्रुतप्रकाशिकायामपृ- थाक्सद्धत्वरूपैक्यपरतया योजनान्तरस्य कृतत्वेऽपि न समानाधिकरणवाक्थेषु तादृशतादात्म्यस्य सम्बन्धतागमकत्वम् । समानाधिकरणस्थले विशिष्टपर- त्वव्युत्पादकभाष्यविरोधात् । 'तदिदं शरीरात्मभावायत्तं तादात्म्यं सामानाधिकरण्येन व्यपदिश्य- त' इति पुराणघट्टभाष्येऽपि शरीरात्मभावरूपमित्यभाषित्वा आयत्तमिति भाषणात्तदतिरिक्त शरीरात्मभावप्रयुक्तविशिष्टवाचित्वनिबन्धनं स्वरूपैक्यलक्ष- णतादात्म्यमेव विवक्षितमवगम्यते । अंशाधिकरणे च जीवस्य ब्रह्मांशत्व ऐक्यनिर्देशस्य हेतुत्वाभिधानं वा ऐक्यनिर्देशस्य तत्त्वमसीत्यादिरूपत्वाभिधानं वा जीवोयं ब्रह्मणोंश इत्युक्तिर्वा कथं तादृशतादात्म्यं संबन्धं बोधयतीति न विद्मः । तदधिकरणभाष्य एव विशिष्टवचनत्वकण्ठोक्तेः प्राग्दर्शितत्वात् । 'तमः परे देव एकीभवतीति श्रुत्या पृथक्सिद्धयनहसंबन्धविशेष- स्यकत्वरूपत्वकथनमाप न युज्यते । भवदभिमतस्यापृथक्सिद्धत्वरूपैकत्वस्य तमसि तत्कार्यप्रपञ्च च परं देवं प्रति सर्वदेव वक्तव्यत्वेन प्रलयदशावर्णित- स्यैकीभावस्य भवदभिमतस्य चैकरूपत्वाभावात् । तत्र श्रुत एकीभावस्तु अयःपिण्डसंपृक्तजलस्येव पूर्ववत्स्पष्टोपलम्भावस्थाप्रहाणेनात्यन्तसूक्ष्मावस्था- न्तरापत्त्या देवे संबध्यमानत्वरूप इत्यन्यत्र द्रष्टव्यम् । अविभागेन दृष्टत्वाधिकरणभाष्येऽपि स्वयमेव विशिष्टपरतया स्थापि- तानां तत्त्वमसीत्यादीनामुपादानाद्विशिष्टवाचित्वस्थापकस्य ‘अवस्थितेरित काशकृत्स्नः' इति सुत्रस्य धरणात् तत्प्रकारभूतमिति जीवस्य प्रकारताया ब्रह्मणः प्रकारितायाश्च कथनेन विशिष्टवाचित्वबोधनाच्चाहं ब्रह्मास्मीत्यहंश- ब्दस्य विशिष्टपरत्वमेवाभिमतं लक्ष्यत इति न किञ्चिदनुकूलम् ।

१४० ईशावास्योपनिषद्भाष्यम् । यत्तु भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्न वृत्तिः सामानाधि- करण्यमित्यत्रैकशब्दार्थ एकत्वमपृथक्सिद्धत्वरूपमपीति; तन्न; स्वरूपक्यलक्ष- णैकत्वस्यैव भाष्यादिषु प्रपञ्चितत्वात् । भिन्नप्रवृत्तिनिमित्तानामित्यत्र भिन्न- पदस्यान्योन्याभावरूपभेदवदर्थकत्वेनैकशब्दस्य तादृशभेदराहित्यरूपस्वरूपै- क्यवदर्थकत्वस्यैव वक्तव्यत्वात् । पृथक्सिद्धत्वरूपभेदस्य चात्राविवक्षितत्वात् । ज्ञानी खयप्रकाशः घटवव्यमित्यादौ ज्ञानस्वयंप्रकाशत्वघटद्रव्यत्वादिरूपं. प्रवृत्तिनिमित्तपृथसिद्धयभावेन सामानाधिकरण्यामावप्रसङ्गेन तस्य विवाक्षतु- मशक्यत्वाच्च । तेन शब्देन तस्य शब्दस्य सामानाधिकरण्यं नाम तच्छब्द- प्रयोज्यविषयतानिरूपिताभेदनिष्ठसंसर्गतानिरूपितविषयताप्रयोजकत्वमेव अत्र चाभेदः स्वरूपैक्यमेव । अपृथक्सिद्धत्वस्याप्यभेदपदार्थत्वे आत्मनि ज्ञा- ने परमात्मनि जगत् , जगाति परमात्मेत्यादावपृथक्सिद्धत्वस्यैव सप्तम्यर्थत्वेन सामानाधिकरण्यव्यवहारप्रसङ्गात् । शंख पोतं जानातीत्यादिनिर्वाहाय च न स्वरूपैक्यातिरिक्तमेकत्वं ग्राह्यम् । तत्र शंखविशेष्यकपीतप्रकारकज्ञाना- श्रय इति बोधे सत्यपि अहं स पुरुषोऽस्मीत्यादावस्मीत्यनेनान्वितपुरुषपदा- र्थस्याहमित्यनेनाप्यन्वयस्य भवदिष्टतया तयैव रीत्या शंखपीतपदयोमिथाऽ- न्वयमप्यङ्गीकृत्य शंखपीतपदयोरभेदसम्बन्धावगाहिबोधस्याध्यङ्गीकारात् । न चैवमपीते शंखे पोतबोधजननाद्वाक्याप्रामाण्यप्रसङ्गः । परकीयभ्रम- ज्ञानबुबोधयिषापूर्व प्रयुक्तत्वेन तद्बोधनेन च प्रामाण्यस्यानिवार्यत्वात् । अपीते पीतज्ञान तु शब्दातिरिक्तप्रमाणादिव शब्दादपि भ्रान्तस्य भ्रमरूप- मभ्रान्तस्य चाहार्यरूपमिष्यते । न चाहार्यः शाब्दबोधो नास्तीति शं- क्यम् , वैयाकरणादिभिस्तदभ्युपगमात् । मास्तु वा तत्र सामानाधिक- रण्यम् । विशेषणविशेष्ययोः परस्परान्वयस्थल एव तदङ्गीकारात् । समान- विभक्तिकत्वादिकं पुनन्तिकर्तृके शंखः पीत इति व्यवहार इवेष्यते । तद्वि- आचार्यभाष्यतात्पर्यसमेतम् । १४१ - शेष्यकत्वविशिष्टज्ञानविशेष्यकाभेदसम्बन्धावच्छिन्नतन्निष्ठप्रकारताकत्वप्रकार कबोधे तद्वाचिपदसमानविभक्तिकत्वादिविशिष्टतद्वाचिपदसमभिव्याहारज्ञानस्यै- व कारणत्वमनुभवबलात्स्वाकतव्यमिति । अथ वा यत्र शव शुक्लं जाना- ति शंख पीतं जानातीत्यादौ विशेषणविशष्ययोः पृथक्पृथक्जानात्यर्थज्ञाना- दावन्वयः प्रतीयते तत्र विशेष्यविशेषणनिष्ठविशेष्यत्वप्रकारत्वयोनिरूप्यनिरू- पकभावोऽपि स्वीक्रियत इति न कश्चिद्दोषः । अतः स्वरूपैक्यलक्षणमेकत्वमेव सामानाधिकरण्ये निबन्धनम् । अन्यथाऽपृथक्सिद्धत्वादरपि सामानाधिकरण्यप्रयोजकैकत्वपदार्थत्वाश्रयणे अ- ग्निर्माणवक इत्यादावपि अग्नयादिपदे गौण्यादि न खीकर्तव्यं स्यात् । सा- दृश्यादिसम्बन्धेनामयादेर्माणवकादायन्वयसम्भवात् । एवं राजैव पुरोहितः राम एव सुग्रीव इत्यादावपि भाव्यम् । न च सादृश्यस्य भेदगर्भत्वात्सादृश्यज्ञाने भेदज्ञानस्य नियतत्वन न समानविभक्तिगम्याभेदज्ञानं सम्भवतोति वाच्यम् , अपृथक्सिद्धत्वज्ञानेऽपि भेदज्ञानस्य नियतत्वात् अभिन्नत्वे सत्यपृथक्सिद्धिसम्ब- न्धेनान्वयासम्भवात् । अन्यथा घटापृथक्तिद्धो घटः घटो घट इत्यादौ तथा बोधप्रसङ्गात् । अत एव भेदव्यपदेशाच्चे' त्यत्र ‘य आदित्ये तिष्ठन्नादि- दित्यादन्तर' इति शरीरशरीरिभावबोधकं वाक्यमुदाहृतं भाष्ये । योऽसौ साऽहमित्यहमपृथक्सिद्धतयाऽऽत्मत्वेनोपासनेऽपि 'पृथगात्मानं प्रेरितारं च मत्वति' श्रुतपृथक्त्वानुसन्धानं रक्षितं भवतीत्यप्यात्मत्वोपासनाधिकरणे भा- षितम् । किं च तादात्म्यं हि तदन्तयामिकत्वम् । तच्च शरीरात्मनो- भेर्दज्ञानमन्तरेण कथमिव सम्भवति । अथान्योन्याभावरूपभेदज्ञाने सत्य- प्यन्यादृशाभेदज्ञानं न न सम्भवतीत्युच्यते तद्यग्निर्माणवक इत्यादौ सादृश्य- बलादन्योन्याभावज्ञानेऽपि तत्र सम्भवतोऽन्यादृशाभेदस्य ज्ञान किं न सम्भ- वेत । एवं च यावन्तः सामानाधिकरण्यव्यवहारास्तावतामाप मुख्यत्वस- १४२ ईशावास्योपनिषद्भाष्यम् । म्भवात् चोरः स्थाणुरित्यादौ आरोप्यत्वमपि तादात्म्यं स्यात् । सेयं दीप- ज्वालेत्यपि मुख्यप्रयोग एवेति सोऽयं घट इत्यादिकमपि तथैवेति क्षणभङ्ग- वादिनो बौद्धस्य न प्रत्यभिज्ञया भङ्गः स्यात् । अतोऽन्योन्याभावरूप- भेदाभाव एकत्वमेव सामानाधिकरण्यनिबन्धनम् । न पुनर्भिदिर विदारण इति भेदः पृथस्थितिरभेदोऽपृथक्स्थितिस्तदेवैकत्वमित्याद्युच्यमानमेकत्वमपि । यदि पुनरेको घट इत्यादावपृथक्स्थितत्वमेकत्वं प्रतीयत इति पुष्पितो वृक्ष इत्यादौ तादृशमपृथस्थितत्वमेव सम्बन्धः, तर्हि शरीरावयवानां वृक्षावयवानां च मिथः पृथक्स्थितत्वाभावेन उदरं वक्षः, वक्षःकण्ठः, कण्ठशिरः, मूलं स्क- न्धः, स्कन्धः शाखा, शाखा पर्णमित्यादिसमानाधिकरणव्यवहारप्रसङ्गः । अथ समुदायनिष्ठमपृथक्सिद्धिसम्बन्धेन स्वघटितत्वमेवैकत्वम् । पुष्पितो वृक्ष इत्यादौ पुष्पितावयवघटितसमुदायो वृक्ष इति बोध इति चेत् तार्ह अहं स पुरुषोऽस्मीत्यत्र प्रकृते पुरुषरूपावयवघटितसमुदायत्वस्याहमर्थे जीवे बाधान्न सामानाधिकरण्यं स्यात् । अथ तदनुरोधात् केवलापृथक्सिद्धत्वमपि सम्बन्धः, तटुंदरं वक्ष इत्याद्यापत्तितादवस्थयम् । किं चैवं शिरःशरीरं, शिरः पाण्यादिसमुदायः, शाखा वृक्षः, शाखा मूलस्कन्धशाखादिसमुदायः, तन्तुः पटः, सास्ना गौरित्यादिव्यवहारप्रसङ्गः । सम्बद्धावयवसङ्घातवृत्तिसमुदाय- त्वमेकत्वमित्यप्ययुक्तम् । एको घटः एकः पटः एकः सङ्घातः अयमेकः समुदाय इत्यादौ समुदायत्वस्यैव तत्तत्पदप्रवृत्तिनिमित्ततया एकपदस्यापि तदर्थकत्वे घटो घट इतिवच्छाब्दबोधानापत्तः । अतः पुष्पितो वृक्ष इत्या- दौ पुष्पितप्रातिपदिकं पुष्पवदवयवघटितपरमेव । मषीलाञ्छितः पट इत्य- न तु लाञ्छन नामैकदेशे विलक्षणवस्तुसम्बन्ध इति लाञ्छितशब्दः संयुक्तै- कदेशवदर्थक एवेति न कथमपि तदुदाहर्तुं शक्यम् । समुदायघटकैकदेशे तादृशविशेषणसद्भावमात्रेण तादृशन्यवहारो न सम्भवतीत्यपि न । पटैक- आचार्यभाष्यतात्पर्यसमेतम् । १४३ देशे दग्धेऽपि पटो दग्ध इति व्यवहारसद्भावस्य भाषितत्वात् । अत एक- देशवृत्तिविशेषणाश्रयत्वमाप समुदायस्य प्रतीतिवलसिद्धम् । न चैवं पृथि- वीजलद्वयं गन्धवदिति व्यवहार आपादनीयः ; भवन्मतेऽपि गन्धवद्धटितस- मुदायवृत्तिसमुदायत्वरूपैकत्वस्य तनाव्यहितत्वेन तदापत्तिसम्भवात् । अपृ- थक्सिद्धिसम्बन्धन सम्बद्धावयवसङ्घातत्वमेवैकत्वमिति चेत् । तर्हि तथाविध- सङ्घातैकदेशे विशेषणसद्भावमात्रेण तादृशव्यवहार एवास्माभिस्स्वीक्रियत इति न किञ्चित् । किञ्च यद्यपृथक्सिद्धत्वमेकशब्दमुख्यार्थः , तह्मपृथकसिद्ध- प्ववयवेषु इम एक इति व्यवहारस्स्यात् इमेऽपृथक्सिद्धा इति व्यवहारवत् । नन्वत्र किमेकशब्द एकवचनान्त उत बहुवचनान्त इति चेत् किं तावता यधेकशब्देनैकवचनान्तेनैव भाव्यम् , तार्ह तथैवास्तु । यद्यपृथक्सिद्ध. वाचित्वेन संख्यावाचित्वाभावाद्वहुत्वं युक्तम् , तर्हि तथैवेति । यद्यपृथ- क्सिद्धावयवघटितसमुदायत्वमेकशब्दार्थः , तार्ह सर्व स्खल्विदं ब्रह्मेत्यादि- व्यवहारोऽनुपपन्नः । किं चैको घट इत्यादावुच्यमानमपृथक्सिद्धत्वं कस्य केनेति वक्तव्यम् । न तावद्यथा परमात्मा चिदचिद्भयां चिच्च देहेन या- वदाधेयसत्तमपृथाक्सद्धः , तथा घटः केनचिदपृथक्सिद्धोऽस्ति । घटपटा- द्यवयवास्तु कदाचित् पृथगापि स्थातुमलमिति न तेषामपृथक्सिद्धत्वम् । अ- तो धारणाकर्षणयोग्यविलक्षणसंयोगविशेष एव तत्रावयवानाम् , न पुनर्जी- वेश्वरयोरिव तादृशमपृथक्सिद्धत्वम् । यत्तु एवं तादात्म्यसम्बन्धनैव सर्वत्र बोधसम्भवेऽपि परमात्मवाचि- शब्दाप्रयोगेण 'अहं मनुरभवम् , तं पृथिव्यब्रवी'दित्यादिचिदचिद्वाचिमात्र- प्रयोगनिर्वाहायैव शरीरवाचिनां शरीरिपर्यन्तत्वं भाषितमिति, तत्रोच्यते परमात्मवाचिशब्दसद्भावस्थलेऽपि भाष्यकृद्भिः सर्वत्र विशिष्टवाचित्वस्य भा- षितत्वेनेदृशवाक्यमात्रे सङ्कोचकल्पनस्य तद्विरुद्धत्वात् । 'प्रह्लादश्चास्मि दै- ..

ईशावास्योपनिषद्भाष्यम् । त्यानाम् , रसोऽहमप्सुइत्यादिपु मवदुक्ततदन्तयामिकत्वरूपतादात्म्यस्याभा- वेन प्रहलादरसादः परमात्मनि तथाऽन्वयासम्भवेन तत्रापि विशिष्टवाचित्व- स्यावश्यकतयेदृशस्थलमालपरत्वोक्त्यसम्भवात् । न च प्रहलादादिः परमात्मनोऽ न्तर्यामी । न चैकत्वमपृथक्सिद्धत्वरूपमस्त्येवेति वाच्यम् ; अभेदतादाम्यक- त्वशब्दानां सर्वेषां यदर्थवाचित्वं तस्यैव सामानाधिकरण्यप्रयोजकत्वात् अन्य- था तादृशस्थले तादात्म्यं नास्तीति वक्तव्यत्वापातात् । एवमहं स पुरुषोऽ स्मीत्यादौ भवदुक्ततादात्म्याभावादपि सर्वत्र विशिष्टवाचित्वमेव स्वीकर्तव्यम् । न चाहमर्थे पुरुषान्तर्यामिकत्वरूपं पुरुषतादात्म्यमस्तोति वाच्यम् । तथाऽपि पुरुषेऽहमर्थतादात्म्याभावात् । समानाधिकरणवाक्ये हि नीलमुत्पलमित्यादाव- र्थयार्मिथस्तादात्म्य मिथ एकत्वं मिथश्चाभेदः प्रतीयते । अतो यत्रैकत्वाभेद- तादात्म्यानि मिथो भवन्ति तत्रैव सामानाधिकरण्यम् । तच्च स्वरूपैक्य- लक्षणैकत्वाश्रयण एव भवति । अथोच्यत--तादात्म्यं नाम न केवलं तद्- न्तयामिकत्वम् , तच्छरारकत्वमपि । अतो जीवब्रह्मामिथ एकरूपता- दात्म्याभावेऽपि ब्रह्मणि जीवशरीरकत्वरूपतादात्म्यं जीवे ब्रह्मान्तर्यामिकत्व- रूपतादात्म्यमिति प्रयोगानुसारेण सर्वविधतादात्म्यग्रहण कर्तव्यम् । एवं च प्रह्लादश्चास्मीत्यादौ तच्छरीरकत्वरूपतादात्म्येनान्वयः । रसोऽहमप्स्वि- त्यादौ तदाश्रयापृथक्सिद्धत्वरूपतादात्म्येनेति तत्र विशिष्टवाचित्वं नापक्षित- मिति ; तर्हि प्रयोगानुरोधादहं मनुरभवमित्यादौ यथायथं स्वाश्रयपरमात्मा- पृथक्सिद्धत्वादिसम्बन्धस्यैव सुवचत्वेन कुत्रापि विशिष्टवाचित्वं नापेक्षितमि- ति भाष्यस्य दत्त एव जलाञ्जलिः । अतो यथाकथञ्चित्तादात्म्यकल्पनं परित्यज्य स्वरूपैक्यमेव भाष्यकृत्सम्मतं युक्तिसहं स्वीकर्तव्यमिति । यत्पुनरहं स पुरुष इत्यत्र पुरुषशब्दस्य तदात्मकपरत्वे वा तदर्थस्य तदात्मकत्वेनान्वये वा सत्येव कल्याणतमरूपदर्शनाधिकारज्ञापनं कृतं भव- आचार्यभाष्यतात्पर्यसमेतम् । १४५. तीति ; तत्र तज्ञापनाऽसम्भवः, अहंशब्दस्य विशिष्टपरत्वे वाक्यसङ्गतिश्च प्रागेव वर्णितौ । किञ्च पुरुष इत्यस्य पुरुषात्मकः पुरुषशरीरभूत इति विव- क्षितार्थो न वाच्यार्थी भवति । नामरूपव्याकरणश्रत्याद्यवगतनियमस्य तद्वाचिशब्दानां तच्छरीरवाचित्वमित्येवंरूपत्वाभावात् । तथा सति चिद- चिद्वाचिशब्दानां ब्रह्मपर्यन्तत्वासिद्धेः । शरीरशरीरिभावस्य परं भाननियमे जातिगुणवाचिनां विशिष्टक्चनत्वं न क्रोडीकृतं भवति । तस्मात्तद्वाचिशब्द- स्य तदपृथक्सिद्धवाचित्वमित्येष नियम इति पुरुषशब्दः पुरुषापृथक्सिद्ध- परः । तावता तन्नियाम्यत्वादिकं न कण्ठोक्तम् ; नियाम्यस्येव नियन्तु- रप्यपृथक्सिद्धत्वात् , नियन्तृनियाम्यभावाभावेऽपि जातिगुणतदाधाराणां सु- खदुःखादिगुणतदाधारात्मनां चापृथक्सिद्धिसत्त्वाच । तस्मात् प्रमाणान्त- रालोचनया वा लक्षणयैव वा तादृशोऽर्थ इह ज्ञातव्यः स्यादिति निष्प्रयोज- नमेतत् । अस्माकं पुनरहंशब्दमेव विशिष्टपरमाचक्षाणानां विशिष्टे ब्रह्मणि प्रकारविधयाऽहमर्थमाने तत्प्रकारतकस्वभावता तत्परतन्त्रता स्पष्टमनुसं- हिता भवतोति युक्ततरमेतत् । अतो भवदुक्तरीत्या ब्रह्मादिशब्दानां ब्रह्मा- पृथक्सिद्धमात्रार्थकत्वात् तदन्तामिकत्वरूपतदात्मकत्ववाचिस्वाभावात् 'क्षेत्रज्ञ चापि मां विद्धी' त्यादौ मदात्मकमित्यादिभाष्यं भवद्भिरपि फलितकथनरूप- मेष्टव्यम् , लक्षणयैव वा निर्वाह्यमिति न तादृशभाष्यस्य तादृशार्थशक्तत्वग- मकत्वम् । अत एव च 'ब्रह्मात्मकोऽहमस्मीति-तादधीन्यादिकं लक्षणीय स्या'दित्याचार्यपादभाषितमिह सुतरां साधु लक्ष्यते । अपृथक्सिद्धवाचित्व. पक्षेऽपि पुरुषापृथक्सिद्ध इत्येतावत एव लाभात् परमपुरुषपरतन्त्रत्वतन्निया. म्यत्वादिभवदपेक्षितार्थस्य लक्षणयैव लभ्यत्वात् । यञ्च तत्त्वमसीत्यादाविमं निर्वाहमुपेक्ष्य महता प्रबन्धन भाष्यकृद्भिस्त्वं- शब्दस्य विशिष्टपरत्वाश्रयणमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तये, कार्यकार- 19 I १४६ ईशावास्योपनिषद्भाष्यम् । णयोः खरूपैक्यस्य तत्प्रकरणे प्रक्रान्तस्योपसंहारः कर्तव्य इत्याशयनेति क- ल्पनम् , तदप्यनादरणीयम् । तत्त्वमसीत्यस्य ऐतदात्म्यमिदं सर्वमिति वाक्यप्राप्ता नुवादरूपत्वस्य विशेष उपसंहारात्मकत्वस्य भाष्यकृद्भाषि- तत्वेन ऐतदात्म्यमिदं सर्वमित्यत्रेव त्वं तदात्मक इति प्राप्तरीत्यैवानुवादस्य युक्ततरत्वात् । ऐतदात्म्यमिति वैयधिकरण्यनिर्देशेऽपि सर्वस्मिञ्जगति पर- मात्मक्यमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च यथा भवतस्तथा त्वमर्थे त- दात्मकत्वान्वयेऽपि शरीरात्मभावावगमे सति लोकतो नामरूपव्याकरणश्रुत्या च विशिष्टवाचित्वज्ञानात्त्वमर्थगतपरमात्मखरूपैक्यप्रतिज्ञोपपत्त्योः सम्भवादु. द्देश्योपादेयभावासम्भवशङ्कावकाशप्रदविशिष्टवाचित्वपक्षस्याखीकर्तव्यत्वात् । लाघवेन तादाम्यसम्बन्धेनान्वयस्याभ्युपगन्तव्यत्वाच्च । अतोऽन्यथोपपादने मुख्यं सामानाधिकरण्यं न निर्वहति, परमत इव लक्षणेवापद्यतेत्येव विशिष्ट- वाचित्वं तत्र स्वीकर्तव्यामति भाष्यकृतामाशय इति न कुत्रापि विशिष्टवा- चितामनङ्गोकृयान्यथा निर्वाहो युक्तः । उपनिषद्भाष्यकृतां क्वचित् कचि- दपृथक्सिद्धयोः सामानाधिकरण्यसम्भवकथनमाप लक्षणया निर्वाहेऽपि श्रु- त्यन्तराद्यबाधेन परमतात् तस्य ज्यायस्त्वन तावतैव परमुखपिधानं भवतीत्य. भिप्रायेण ; न पुनीष्यविरुद्धप्य स्वरूपक्यातिरिक्तस्यापि सामानाधिकरण्य- निर्वाहपक्षस्य सम्मत्यति ध्येयम् । इदमत्रावधेयम् --तत्तदर्थवाचिशब्दानामपृथक्सिद्धिसम्बन्धेन तत्त- दर्थाश्रयवाचित्ववत् तेन सम्बन्धेन तत्तदर्थविशिष्टतत्तदाधेयवाचित्वमपि यदि स्वीक्रियते तर्हि घटपटादिशब्दानां व्यक्तिमन्तरेणाकृतिमात्रस्य विशेष्य- तयोपस्थापनमपि शक्त्यैव स्यात् । तथा च घटवत् द्रव्यमित्यादावपि घटत्व- वत् द्रव्यमित्येवं बोधापत्तिः । एवं घटो जातिरिति व्यवहारः स्यात् घटा- दिपदानां तत्तदपृथक्सिद्धार्थकत्वात् । कम्बुमीवादिमत्त्वं घटः , सामादि- आचार्यभाष्यतात्पर्यसमेतम् । १४७ मत्त्वं गौः, वाल्यं डित्थः, यौवनं डपित्थ इत्यादि च व्यवहर्तव्यं प्रसजति । एवमात्मादिशब्दानामपि तत्तदपृथक्सिद्धार्थकत्वात् देह आत्मा देहो जीव इत्यादि च स्यात् । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वे शरीरमात्मेति प्र- योगापत्तिरित्याशंक्य शरीरादिशब्दानां निष्कर्षकशब्दत्वात् निष्कर्षकशब्दा- नां च विशिष्टवाचित्वानभ्युपगमान्न दोष इति भाष्यकृतां परिहारोऽकिञ्चि- स्कर एव स्यात् । तेषां विशिष्टवाचित्वाभावेऽपि आत्मादिशब्दानामपृथ- क्सिद्धवचनत्वेन तादृशप्रयोगप्रसङ्गतादवस्थ्यात् । न चात्मादिशब्दानाम- पृथक्सिद्धवाचित्वाभावः सुवचः । अयमात्मा ब्रह्मेत्यादौ दर्शनात् । न च तेषां शब्दानामाश्रयवाचिसामानाधिकरण्येऽपृथक्सिद्धवाचिता, धर्मवाचिसा- मानाधिकरण्ये तु न सेति स्वीक्रियत इति शंक्यम् ; अहं स पुरुष इत्यादौ पुरुषपदस्य आत्मैवेदं सर्वमित्यत्रात्मशब्दस्यान्यस्य चैवमादेराश्रयवाचिसामा- नाधिकरण्याभावेनापृथक्सिद्धवाचित्वासम्भवप्रसङ्गात् । तथा च विवक्षिता- सिद्धिः । न च खल्विदम्परत्वाभिसन्धिपूर्वकमन्वययोग्यपदसमभिव्याहारण प्रयुज्यमानोऽपि यश्शब्दो यस्यार्थस्य कदाचिदनुपस्थापकः, तस्य शब्द- स्य तस्मिन्नर्थे शक्तिरिति विपश्चिता वक्तुं शक्यम् । ननु यथा केषांचन शब्दानां शरीरमाकृतिः गुणो रूपमित्यादीनां नियतनिष्कर्षकत्वेऽन्येषां च गौर्मनुष्यो देवो यज्ञदत्त इत्यादीनां पिण्डविशि- ष्टजीववाचितया नियतानिष्कर्षकन्वे च सत्यप्यनियतनिष्कर्षका अपि शब्दा अङ्गीक्रियन्त । अत एव कचिनिष्कर्षेण, 'यः पृथिव्यां तिष्ठन्', 'योऽप्सु तिष्ठन् 'यस्तेजसि तिष्ठन्' इत्यादिनिर्देशः; अनिष्कर्षेण च परमात्मपर्यन्तत- या, 'तत्तेज ऐक्षत ता आप एक्षन्त, तं पृथिव्यब्रवी'दित्यादिश्च सङ्गच्छेते; तथाऽऽत्मादिशब्दा अपि कचिदपृथक्सिद्धपर्यन्तवचनाः कचिच्च निष्कर्षका एवेति स्वोकर्तव्यमिति चेन्न । वैषम्यात् । अनियतनिष्कर्षकता हि शब्दानां ईशावास्योपनिषद्भाष्यम् । शुक्लः पटः पटस्य शुक्ल इत्येवमादिप्रयोगद्वैविध्येन पारगृह्यते तत्र च नाना- र्थकहर्यादिशब्देष्विव क्वचित् किञ्चिदविवक्षया प्रयोग उपपद्यते। न पुन- विवक्षायां विद्यमानायामपि विवक्षितार्थावाचित्वं तत्र स्वीकुर्मः । इह पुन- रपृथक्सिद्धपर्यन्तार्थविवक्षायामपि बाल्यं देवदत्तः जातिर्घटः शरीरमात्मेत्या- दि न शक्यते प्रयोक्तुमिति कथं तत्र तस्य शक्तिः ? येऽपि रसगन्धादिश. ब्दाः स्वाश्रयद्रव्यपर्यन्ततारहिता निष्कर्षकाम्तेऽपि परमात्मवाचिपदसामाना- धिकरण्येन 'रसोऽहमप्सु कौन्तय, पुण्यो गन्धः पृथिव्यां चेत्येवं प्रयुज्यमानाः परमात्मपर्यन्तत्वे विशिष्ट वचना एव स्वीक्रियन्ते । तथा च सर्वेषामपि श- ब्दानामपृथक्सिद्धधर्मवाचिनामाकृत्यधिकरणन्यायसिद्धस्य धर्मिपर्यन्तवाचित्व- स्य रसादिशब्देप्वपवादः क्रियमाणो न सर्वधर्मिविषयः क्रियते, किं तु पर- मात्मव्यतिरिक्तद्रव्यविषय एव । एवं च घटपटादिशब्दास्साक्षात्परम्परासा- धारण्येन स्वनिरूपितापृथक्सिद्धसम्बन्धेन घटत्वपटत्वाद्याश्रयवचनाः । देव- मनुष्यादिशब्दा अपि 'पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृ- तिभेदास्तु मूते कर्मयोनयः' इति वचनबलेन यदि पिण्डमात्रवचना अपि भवन्ति तर्हि साक्षात्परम्परया वा स्वनिरूपिततत्सम्बन्धेन देवत्वमनुष्यत्वादि- विशिष्टवाचिनः । यदि पिण्डलाक्षणिकास्तहि तेन सम्बन्धेन विलक्षणपिण्ड- वाचिनः । एवं जीवादिशब्दा अपि तथैव जीवत्वविशिष्टाभिधायिनः । रसग- न्धादिशब्दास्तु परमकाष्ठापन्नपरम्परया साक्षाच स्वनिरूपितापृथाक्सद्धिस- म्बन्धेन रसत्वगन्धत्वाद्याश्रयवाचका इति यथायथं सर्वप्रयोगसामरस्यम् । भवतश्च किमात्मशब्द आत्ममात्रवाची, किं वा तत्तदपृथक्सिद्ध- धर्म्युभयमात्रवाची, आहो तत्तदपृथक्सिद्धसर्ववाची ? नाद्यः, अयमात्मा ब्रह्मेत्यादौ विशिष्टब्रह्मपर्यन्तत्वस्यांशाधिकरणे भाषितत्वन तद्विरोधात् । न द्वि- तीयः यत्र गौर देहं निर्दिश्य तस्य किञ्चिज्जीवापृथक्सिद्धत्वविधानार्थमुच्यते आचार्यभाष्यतात्पर्यसमेतम् । १४९ गौरोऽयमात्मेति तत्र आत्मैवेदं सर्वमित्यत्र चापृथक्सिद्धधर्मवचनत्वस्य भव- दभिमतत्वात् । न तृतीयः, देह आत्मेति प्रयोगापत्तेः । अतो नापृथक्सि- द्धधमपर्यन्तता शब्दानाम् । यदा तु 'चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो भाक्तस्तद्भावभावित्वा'- दिति सूत्रं सर्वशब्दानां परमात्मन्येव मुख्यवृत्तिसद्भावस्यान्यन भाक्तत्वस्य च स्थापकं योज्यते तदा विशिष्टब्रह्मपर्यन्तत्वस्य सर्वत्र तुल्यतया पृथिव्यादिश- ब्दानामेवाचतनद्रव्यादौ भाक्तः प्रयोगः, न तु रसदिशब्दानामिति कथं नि- यम इति चदुच्यते । न खल्वेकः शब्दो लक्षणयकत्र प्रयुज्यत इति शब्दा- न्तरस्यापि लक्षणया प्रयोग आपादयितुं युक्तः । आप चोच्यते, शब्दा आकृतिप्रवृत्तिनिमित्तका विशिष्टब्रह्मपर्यन्तार्थाभिधायिनो येषु येष्वर्थेषु मक्त्वा प्रयुज्यमाना दृश्यन्ते तेषां तेषामर्थानां प्रकारविधयोपस्थापकाः, येषु च न प्रयुज्यन्ते तेषां सम्बन्धविधयैव । यथा गोशब्दोऽपृथक्सिद्धिसम्बन्धेन गोत्व. विशिष्टपिण्डविशिष्टजीवविशिष्टवाची, रसशब्दस्तन सम्बन्धेन रसत्वविशिष्टं यत् तदाश्रयापृथक्सिद्धिसम्बन्धेन तद्विशिष्टपरमात्मवाचीति । अतो ये प्रका- रविधया भासमानास्तेबेव भक्त्वा प्रयोगो नान्यनेति नियम उपपद्यते । अ- तः प्रकारविधया भासमानवव भक्त्वा प्रयोगस्य निरूढत्वान्न रसः पृथिवी- ति निरूढलक्षणया प्रयोगः । भवतस्तु सर्वशब्दानामपृथक्सिद्धवाचित्वेन पृथिव्यपृथक्सिद्धवाचित्वं पृथिवीपदे विवक्षित्वा स प्रयोग आपद्यते । किं च चराचरव्यपाश्रय इत्यनेन सर्वेषां ब्रह्मणि मुख्यवृतत्वमन्यत्र भाक्तत्वं चाभिाह- तं भवत्पक्षे न घटते । तथा हि-ब्रह्मभगवदादिशब्दा हि अपृथक्सिद्धपर्य- न्तवाचिनो ब्रह्मणि भाक्ता एव भवताऽभ्युपेतव्याः । तथा च ब्रह्मशब्द- स्तत्रैव मुख्यवृत्तस्तस्मादन्यत्र तद्गुणलेशयोगादौपचारिक' इति भाष्यविरोधोऽ पि सोढन्यः । एवमेव चराचरवाचिनोऽप्यपृथक्सिद्धिसम्बन्धेन ब्रह्मपर्यन्त १५० ईशावास्योपनिषद्भाष्यम् । गच्छन्तः पुनरप्यपृथक्सिद्धिसम्बन्धेनैव ब्रह्मतश्चराचरषु प्रतिनिवर्तमानास्तेष्वे- व मुख्यवृत्ताः स्युः ब्रह्मणि च भाक्ताः । अहं मनुरभवमित्यादावह मन्व- थक्सिद्धब्रह्मापृथक्सिद्ध इति खरसार्थवर्णनायेदृशार्थवचनत्यमपि भवता खीक- तव्यमेव । अन्यथा आत्मवेदं सर्वमित्यादावपि सर्वशब्दस्य विशिष्टवाचित्व- प्रसङ्गादर्धजरतीयकल्पनाया अयुक्तत्वात् । एवञ्च 'वचसां वाच्यमुत्तम मिति 'सर्ववचसा प्रतिष्ठा यत्र शाश्वती' ति च चेतनाचेतना एव स्तोतव्याः, रूप- रसादयो वा, रूपत्वरसत्वादयो वा ये केचन धर्मकाष्ठायामवतिष्ठमानाः । ब्रह्म- भगवदादिशब्दानामपृथक्सिद्धवाचितया तत्रैव विश्रान्तेः । रूपरसादिश- ब्दानामपि सर्वेषां ब्रह्मपर्यन्तं गत्वाऽपि पुनस्तत्रैव प्रतिनिवर्तनाच्च । वस्तु- तो वाच्यार्थविश्रान्तिरेव न भवति; ब्रह्मादिशब्दानामवोधः समागत्योर्ध्वमू- यमुत्क्रमणस्य, अन्येषां चोर्ध्व ब्रह्मपर्यन्तं गत्वा पुनरवतरणस्य च शक्यतया यथायथमपृथक्सिद्धिसम्बन्धेन सर्वदेवोर्ध्वगमनाघोगमनप्रवृत्ताः सर्वे शब्दाः कुत्र विश्राम्येयुरिति । अतो घटशब्दो ब्रह्मपर्यन्तं गच्छति पुनरागच्छती- त्येवमनवस्था ; एवं ब्रह्मशब्दादयोऽपीति चक्रवद्रमणमेवेति । एवं घटादि- शब्दानां पटादयोऽपि वाच्याः स्युः । घटशब्दस्य घटापृथक्सिद्धब्रह्मा- थक्सिद्धवाचित्वात् पटस्य च तत्त्वादिति सर्वे सर्वस्य वाचका इति स्यात् । तस्मादनुपपत्तिशतजरितमत्यन्तदुःस्थमिदमपृथक्सिद्धसामान्यवाचित्वम् । आप चात्मैवेदं सर्वम् । सर्वं खल्विदं ब्रह्मेत्यादिसामानाधिकरण्यद. र्शनमात्रेणापृथक्सिद्धवाचित्वं पदानां वक्तुमयुक्तम् ; चोरस्स्थाणुरित्यादिवा- धार्थसामानाधिकरण्यदर्शनमात्रेण न चोर इत्यर्थस्यापि वाच्यार्थत्वापत्तः । ततश्चाद्वैतिमतेनैव सुनिर्वहं सर्वमपि समानाधिकरणवाक्यमिति तस्यापि त- मतेऽनुपपन्नत्ववर्णनमशक्यं स्यात् । प्रमाणं तु शब्दरूपमपृथक्सिद्धसामा- न्यकाचित्वस्थापकं नोपलभ्यते । यथा हि तन्नामरूपाभ्यां व्याक्रियतेति आचार्यभाष्यतात्पर्यसमेतम् । १५१ ब्रह्मणो बहुप्रपञ्चरूपत्वं तत्तन्नामवाच्यत्वं च शब्देन समप्यते, न तथा ब्रह्म- भगवदादिशब्दानां प्रपञ्चपरत्वं क्वचिदनुशिष्टमस्ति । युक्तिश्चाकृत्यधिकरण- गता लौकिकी जातिगुणादिनयेन धर्मवाचिनां धर्मिपर्यन्तत्वमेवावगमयति । न खल्वपृथक्सिद्धाधारवाचिन आधेयपर्यन्तता कुत्रापि लोके लक्ष्यते । आधेय- वचनानामाधारपर्यन्तता पुनः, गामानय शुक्लः पट इत्यादौ सर्वत्र दृष्टा । आधेयपर्यन्तत्वे बाधकं चाधस्तादभ्यधाम । अत एव भगवता भाष्यकृता जिज्ञासाधिकरणादौ प्रकारवाचिनां शब्दानां प्रकारिपर्यन्तत्वं जातिगुणयोरिव द्रव्यस्य शरीरभूतस्य प्रकारतकखभावत्वं च प्रपञ्चितम् । धर्मिवाचिनां ध- मपर्यन्तत्वं तु कुत्रापि नोक्तम् । लोके चाधेयस्य प्रकारतयाऽऽधारस्य प्र. कारितया चानुभव एव खारसिकः । अयं घटोऽयं पट इति घटत्वपटत्वा- देः प्रकारतयैव प्रायो भानात् । अत एव जातिगुणादीनामेव प्रकारतक- खभावत्वमभाषि । न पुनर्जीतिगुणादि प्रति धर्मिणः प्रकारतकस्वभावत्वम् । जात्यादेः प्रकारतया व्यक्त्यादः प्रकारितया च भाननियमादेवेमं विशेषण- विशेष्यभावमादाय जात्यादेर्व्यक्त्यादिपारतन्त्र्यव्यपदेशः व्यक्त्यादेर्जात्यादि प्रति स्वातन्त्र्यव्यपदेशश्च लोके भवतः । तस्माजातिगुणशरीरभूतप्रकार- वाचिनां व्यक्तिगुण्यात्मभूतप्रकारिवाचित्वस्यैव भाष्यकृद्भिर्बहुशः कण्ठरवणो- तत्वाद्वैपरीत्यसम्भवस्य कुत्रासि मात्रयाऽप्यदर्शितत्वात् न्यायस्यापि तत्रैव प्रसरादन्यथा बहुबाधकप्रसङ्गाच्चापृथक्सिद्धाधारवाचिनामावयपर्यन्तत्वं नैव सम्भवति । एवं तावद्भवदभिमतांशो दूषितः । अथ स्यात्-तदधीनसत्ताकस्य वस्तुनस्तद्वाचिशब्देन व्यपदेशो युक्तः । यदाहुः 'यदधीना यस्य सत्ता तत्त- दित्येव भण्यत' इति । अत एव प्राणशब्देनेन्द्रियाणामपि व्यपदेशो दृश्यते । श्रुतिरपि त एतस्यैव सर्वे रूपमभवन् तस्मादेत एतेनाख्यायन्त' इति ।

१५२ ईशावास्योपनिषद्भाष्यम् । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । आ तो स्मर कृतं स्मर क्रतो सर कृतं स्मर ॥ १७ ॥ अनन्तरं तु परिशुद्धात्मस्वरूपमुच्यते वायुरानिलममृतामति विद्याकर्मानुसारेण तत्र तत्र गन्तृत्वाद्वायुः । निलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाचानिलम् । अमृतं म्रियमाणेऽपि देव. अतः क्षेत्रज्ञं चापि मां विद्धीत्यादौ मदधीनसत्ताकमित्यर्थो युक्त इत्यभिप्रत्यैव भाष्यकृद्भिर्मदात्मकमित्येवं विवृतम् । अतोऽपृथक्सिद्धसामान्यवाचित्वनि- बन्धस्य पदेष्वनभ्युपगमेऽपि निर्वाहोऽयं नातीवानुपपन्न इति ; उच्यते- यद्यपि लक्षणया निर्वाहे न काऽपि प्रमेयहानिः। अथापि प्रकारवाचिनां प्रकारिवाचित्वस्वाभाव्येन लक्षणां विनैव निर्वाहे लाक्षणिको निर्वाहो न यु- क्तः । इन्द्रियाधिकरणभाष्ये च 'प्राणाधीनधारणत्वात्त्विन्द्रियेषु प्राणशब्द- व्यपदेश' इति सूक्त्या प्राणशब्दस्य मुख्यप्राणशक्तत्वं तादृशशक्यार्थावीन- धारणत्वेनेन्द्रियेषु लाक्षणिकत्वं चानेकनक्तिकल्पनागौरवादिकमभिप्रेत्याविष्कृ- तमेव । श्रतप्रकाशिकायां च 'चक्षुरादीनां प्राणशब्दबोध्यत्वं लाक्षणिकम् । मुख्यप्राणस्य तु मुख्य' मित्युक्तम् । अतो मामित्यत्र मदात्मकमित्येवं भाष्य फलितकथनरूपमेव युक्तम् । सर्वथा, अहं स पुरुषोऽस्मीत्यत्र लाक्षणिक- निर्वाहस्यानावश्यकत्वादहंशब्दस्य विशिष्टपरत्वेन मुख्यो निर्वाह एव ग्राह्यः । सर्वमिदमभिप्रेत्यैव ब्रह्मात्मकोऽहमस्मीत्यादि भाषितमाचार्यपादैरिति सर्व निरवद्यम् ॥ १६ ॥ प्रथमपादमवतारयति अनन्तरं त्विति । आपातप्रतीतार्थव्यव- च्छदार्थस्तुशब्दः । यत्र निलीयते स्थिर स्थीयते तन्निलं तद्रहितमनिलम् । . अथ वा निलीयते एकत्र निवसतीति निलं तद्भिन्नमनिलभिति व्युत्पत्तिद्व- याभिप्रायेणाह निलयनेति । नन्वनिलशब्दस्य नपुंसकतया रूढ्यभावऽपि OM आचार्यभाप्यतात्पर्यसमेतम् । १५३ सन्ताने स्वयममृतम् । इदं विरजत्वादीनामुपलक्षणम् । परिशुद्ध- जीवविषये प्रजापतिवाक्ये 'बिजरी विमृत्युर्विशोक' इति पाठात् । अल वायुश्चान्तरिक्षं चैतदमृतमित्यादिपरामर्शाद्वाय्वादिशब्दानां भूतद्वितीयविषयत्वं न शङ्कनीयम् । पूर्वापराभ्यामसङ्गतेः । यद्य- प्यमीषां परमात्मविषयत्वं विशिष्ट्रवृत्त्या योगतो वा युज्यते, तथाऽपि वरामिह नश्वरस्य देहस्यानन्तरं वचनात्तध्यावृत्तप्रत्यगात्मपरत्वम् । प्राणविषयत्वेऽप्यन मन्दं प्रयोजनम् । श्वेताश्वतरीयाश्च भोक्त- भोग्यनियन्तॄणां विवेचने भाक्टशब्दविवक्षितप्रत्यगात्मानममृतशब्दे- वायुशब्दरूढ्यपरित्यागाय वायुभूतद्वितीयं सदागतित्वात् क्वचिदप्यनवस्थित- ममृतं च भवतीत्यर्थः किं न स्यादित्यत्राह अत्रेति । असङ्गतेरिति । न हि पूर्व परत्र वा वायुर्भूतान्तरं वा प्रस्तूयत इति । ननु प्रत्यगात्मनोव परमात्मनि निर्वाहसम्भवात्परमात्मप्रकरणभङ्गो न कार्य इत्याशंक्याह यद्यपी- ति । प्राणविषयत्वेऽपीति । अयं भावः- वायुशब्दो वायुविशेष- परः । अनिलमिति द्वितीयान्तम् । तथा च प्राणः अमृतं समीर प्रति- पद्यतामित्यर्थस्तावन्न सम्भवति । तमुत्क्रामन्तं प्राणोऽनूत्क्रामतोति जीवो- स्क्रमणकाले इन्द्रियवत् प्राणस्याप्युत्क्रमणस्य सहगमनस्य च श्रवणेन वायौ लयासम्भवात् । न चान्येषां प्राणस्य लयाभावेऽपि अचिरादिमार्गेण गच्छतो यः प्राणस्तस्य लयोऽस्त्विति वाच्यम् । तदीयस्याच्याविरजाप्राप्ति लयप्रस- क्त्यभावात् । न च तदनन्तरमेव कदाचिद्भवन् लय इह विवक्षित इति अथ भस्मान्तं शरीरामिति प्राणलयानन्तरमेव भस्मान्तत्वप्रतिपा- दनस्यासङ्गतत्वात् । खयमेव प्रागस्य वायौ लयसम्भवेन प्रार्थनोयत्वाभा- । ननु प्राणो वायुविशेषो न द्रव्यान्तरमिति तत्त्वकथनपरमस्त्विति चन प्रकृतसङ्गत्यभावात् । वायुविशेषत्वसिद्धौ प्राण आत्मत्वभ्रमो नास्ती- ति सिद्धयतीति चेन्न, इन्द्रियेषु ज्ञानमात्रे च तद्धान्त्यभावस्य तर्हि कथनीय- त्वात् । इदमेव सर्वोपलक्षणमिति चेत् अथेदं भस्मान्तं शरीरमित्येतदेवास्य 20 I वाच्यम् , १५४ ईशावास्योपनिषद्भाष्यम् । नामनन्ति 'क्षरं प्रधानममृताक्षरं हरः क्षरात्मानाविशते देव एकः' इति 'क्षरं त्वविद्या ह्यमृतं तु विद्याविद्याऽविद्ये ईशते यस्तु सोन्यः' इति च । एवं प्रत्यगात्मस्वरूपस्य 'न जायते म्रियते वा विपश्चित्' इत्या- दिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरस्य मृतत्वमवश्यम्भावीत्याह अथेदं भस्मान्तं शरीरामात । प्रकृतादर्थादर्थान्तरविवक्षयाऽथश- ब्दः । आत्मोत्क्रमणानन्तर्यार्थों वा । कर्मवश्यकात्स्य॑परो वा। तथा च स्मयते 'गङ्गायां सिकता धारा यथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः' इति ; 'ब्रह्मादिषु प्रलंनिषु' इत्यादि च । इदमिति विशेषणमीश्वरशरीरत्वेन नित्यत्वेन च प्रमाण- सिद्धानां व्यवच्छेदार्थम् । भस्मान्तमिति संस्कारमात्रव्यञ्जकम् । तस्य च सर्वस्योपलक्षणमस्त्विति व्यर्थमेतत् । अत आत्मस्वरूपकथन- परत्वे साक्षात् सम्भवति तेनैव च सकलभ्रमाभावज्ञापने सिद्धयति नैतदुपप- न्नम् । प्राणग्राहिणा वायुपदेनैव वायुविशेषत्वसिद्धौ अनिलममृतमित्यन- योर्वैयर्थ्य च । अतो वायुशब्दरूढ्यथग्रहणे प्राणरूपविशेषे सङ्कोचस्य कर्त- व्यत्वात् अनिलमित्यस्य प्रथमान्तत्वे नपुंसकानुपपत्ते रूढ्यथग्रहणासम्भवात् द्वितीयान्तत्वे प्रतिपद्यतामिति वा प्रतिपद्यत इति वाऽध्याहारावश्यम्भावात् अमृतमिति पदान्वयस्य च क्लिष्टत्वात् वाय्वादिपदं रूढिप्रहाणेन योगेनात्म- स्वरूपकथनपरम् अमृताक्षरं हर इतिवत् । तत्र वायुरित्यनेन गन्तृत्व- वाचिनाऽणुत्वसिद्धया परमात्मवैलक्षण्यं, अनिलमिति पदेन पितृपथघटीय- न्वाराहावरोह परिभ्रमो निरयपदवीयातायातक्रम इत्यादि, अमृतमिति स्वरू- पविकारराहित्यवाचिना देहन्द्रियमनःप्राणधीवैलवण्यं च सम्यग्दर्शितं भवती- ति । कर्मवश्यकात्य॑पर इति । इदंशब्दार्थ कर्मवश्ये कायमथशब्दे- नोच्यत इति भावः । संस्कारमात्रव्यञ्जकमिति । दाहखननादि तत्तत्संस्का- रककर्मीयत्तातिशयरूपः संस्कारो भस्मत्वाद्यवस्थाविशेषः तत्सामान्यज्ञापकम् । तथा चावस्थान्तरमापद्यमानमित्यर्थो भस्मान्तशब्दस्येति भावः । 'कृमिविड्भ- आचार्यभान्यतात्पर्यसमेतम् । १५५ कीटान्तत्वादेरन्यत्र प्रसिद्धस्योपलक्षणं वा । शरीरशब्दे व्युत्पत्तिनि- मित्तानुसारे विशरणस्वभावत्वं गम्यते । एवं भोक्ता भोग्यं प्रेरितार च मत्वेति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरितारं प्रकृतं महापुरुष प्रणवेनोपादत्ते ओमिति । यथामनान्त्याधर्वणाः 'यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत' इति । उक्तं च यो- गानुशासने 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषावशेष ईश्वरः, स पूर्वेषामपि गुरुः कालेनानवच्छेदात्, तस्य वाचकः प्रणव' इति । आह च सर्वज्ञः 'ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् इति । स्वयं- चागायत् । 'ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्' इति । एवं सर्वत्र द्रष्टव्यम् । अथ ऋतुरूपिणं भगवन्तं ज्ञानयज्ञगोचरमभि- मुखीकुवस्तदनुग्रहं याचते क्रतो स्मर कृतं स्मरेति । क्रतो क्रत्वा- स्मसंज्ञित' मिति श्रीभागवतप्रसिद्धयनुरोधेनावस्थाविशेषविस्पष्टबोधनमभिप्रेत्याह कीटेति । क्लेशकर्मविपाकाशयैरिति। अविद्याऽस्मितारागाभिनिवेशाः क्लेशाः। अस्मिता अहङ्कारः । कर्म पुण्यापुण्यरूपम् । विपाकस्तत्फलम् । आशयः वासना संस्कारः । अभिमुखीकुर्वन्निति । 'ज्ञानयज्ञेन चाप्यन्ये यजन्ता मामुपासते । एकत्वन पृथक्त्वेन बहुधा विश्वतोमुखम्' इति समष्टिव्याष्टि- रूपेण विश्वप्रकारस्य परमपुरुषस्वैकत्वेनोपासनरूपमाराधनं ज्ञानयज्ञमुक्त्वा अहं ऋतुरयं यज्ञ' इत्यारभ्य - 'सदसच्चाहमर्जुन' इति श्लोकचतुष्कण वि- श्वशरीरत्वमेव विवृतं गीतासु । तादृशविश्वशरिकपरमात्मोपासननिष्ठत्वात्प्र- कृताधिकारिणः क्रतो इति सम्बुद्ध्या तमभिमुखीकरोतीति भावः । यथाक्र- तुः यत्प्रकारकोपासननिष्ठः । सम्बुद्धयुपपत्त्यर्थमाह तदिति । यद्यपि ज्योतिष्टोमादिकत्वात्मकत्ववत् उपासनात्मकत्वमाप परमात्मनोऽस्तीति क्रतु- शब्दस्यापर्यवसानवृत्त्या परमात्मपरत्वं सुवचम्, अथाप्यन्यविषयकोपासनस्य ऋतुशब्दन ग्रहणेऽपि तदात्मकत्वस्य भगवत्यनपायात्तावता परमात्मोपास- नस्यालाभात् विशिष्य क्रतुशब्दप्रयोगस्य तस्य प्रसिद्धयागपरत्वत्यागेनोपा- सनपरत्वग्रहणस्य चोपासनेन भगवत आराधितत्वज्ञापनार्थत्वात् भगवद्विष- १५६ ईशावास्योपनिषद्भाष्यम् । यथाऽह अहं ऋतुरहं यज्ञ इति । 'यथाक्रतुरस्मिन् लो. . के पुरुषो भवति तथेत-प्रेत्य भवति' 'स क्रतुं कुर्वीत' 'एवं ऋतुई' इत्यादिष्विवानापि प्रकरणादेव क्रतुशब्द उपासनपरो वा.। तद्गोचरे तु भगवति तच्छब्द उपचारात् । स्मर-सानुग्रहया बुद्धया विषयी- कुरु । 'नेहपूर्णेन मनसा यन्न स्मरसि केशव' तिवत् । उकं च भग- वता स्थिते मनसीत्यारभ्य, 'ततस्तं म्रियमाणं तु काष्ठपाषाणल- निभम् । अहं स्मरामि मद्भक्तं नयामि परमां गतिम्' इति । सर्वदा सर्वे साक्षात्कुर्वतः सर्तृत्ववचनमिह पूर्वकृतप्रत्यवेक्षणाभिप्रायम् । यकोपासनग्रहण तद्विषयत्वं झटिति परमात्मन उपस्थितमिति च ऋतुशब्द- स्योपासनविषयभूतेत्यर्थ उक्तः अत्र 'स्थित मनसी' ति स्वयं रहस्यशि- खामणौ शरणागतिविषयतया योजितभगवद्वचनोपादानमहिम्नाऽस्यापि मन्त्रस्य तद्विषयत्वमप्याचार्यपादाभिमतं लक्ष्यते । यद्यप्यन्यार्थमुपादानम् । अथा- प्यन्यार्थेनैवैतत्सूचनमपि सम्भवन्नोपेक्षामर्हति । तदा चेत्थमर्थः । चिद- चिदीश्वरतत्त्वत्रयविवेक ओमित्यन्तेन कृतः । क्रतुशब्द उपासनपरो वति सूक्त्या भरभूतभक्तिरूपोपायान्तरवाचित्वं ऋतुशब्दस्योक्तम् । सम्बुद्धि- बलाच हे भक्ते ! भक्तिरूपोपायान्तरस्थानापन्नेत्यर्थः सिद्धयति । न हि त- स्थानापन्नत्वरूपौपचारिकार्थविवक्षां विना भक्ते इति सम्बुद्धिर्घटते। भगवतो भक्तिविषयत्वेन भक्तित्वाभावात् विषयविषयिणार्भेदात् । तदेवाह तन्द्रो- चरे तु भगवति तच्छन्द उपचारादिति । भगवतस्तगोचरतया तद्रूप- खासम्भवात् तत्स्थानापन्नत्वरूपौपचारिकार्थों ग्राह्य इति तदर्थः । एव- मुपायान्तरकार्यकारित्वरूपोपायान्तरस्थानापत्तिकथनेन भरन्यास उक्तप्राय इति । संस्कारजन्यज्ञानरूपस्मृतेरीश्वरे बाधात् अभिप्रायान्तरं वर्णयिष्यन् स्थलद्वये ईदृशप्रयोग प्रदर्शयति खेहेत्यादिना। स्थिते मनसीति ।....सुस्व. खें शरीरे सति यो नरः । धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजमि- आचार्यभाष्यतात्पर्यसमेतम् । १५. कृतं स्मरेत्यत्रापि तथैव विवक्षा । मत्कृतं यत्किञ्चिदनुकूलमनुस- न्धाय कृतज्ञस्त्वं मां रक्षेति भावः । एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि 'जायमान हि पुरुषन्' इत्यादि । स्वयमप्याह तेषां सततयुक्तानां' इत्यादि । क्रतो स्मर कृतं स्मर इत्यावृत्तिरुक्तार्थे त्वरातिशयात् ॥ १७ ॥ त्यवशिष्टांशः । अनुकूलमिति अनुसन्धायेत्यस्य कर्म ; अथवा अनुकू- लत्वेनानुसन्धायेत्यर्थः । कृतज्ञ इति । 'कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया' इति वचनमभिप्रतम् । यत्तु परमपुरुषप्रार्थनापरेऽस्मिन् मन्त्रद्वये कैवल्यपरिहारपरमाद्यम् ऐश्वर्य माभूदित्येतत्परं चान्त्यमिति विभजनम् । तत्र न किञ्चित् प्रमाण- म् । अस्मिन् मन्त्रे प्रकृतिवियुक्तजीवस्वरूपं संशोध्य खेन जप्यमानं प्रणव स्मरेत्युत्तरार्धे कथनात् 'ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्नि' ति गीतायां कैवल्यप्राप्तयर्थ प्रणवव्याहरणस्योक्तत्वाच्च कैवल्यप्रार्थनैव किमत्र न कृता स्यात् । यदि मुमुक्षुप्रकरणात्तदप्रार्थनाया अवगमस्तर्हि तेनैव प्रकर- णबलनैश्वर्याप्रार्थनाया अप्यवगम इति कथमयं विभागः ? कृतं स्मरे त्यस्य मया कृतं प्रणवजपं स्मर, मया यमर्थमभिसन्वाय प्रयुज्यते तं स्मेति व्या- ख्यानेनोपासकस्य कैवल्यानभिसन्धिश्चदाविष्क्रियते तर्हि तेनैव व्याख्यान - श्वर्यानभिसन्धिरपि कथं नाविष्क्रियते । उत्तरमन्त्रस्यैश्वर्यपरिहारकत्वमपि न भवति । राय इत्युक्ताश्वैर्यापेक्षाया एव सुवचत्वात् । सुपथेति चैश्चर्यसाध- नमार्गेष्वेव सन्मार्गपरं किं न स्यात् ? प्रकरणबलात्तन्निरासे च कैवल्यनिरा- सोऽपि सम्भवति । किञ्च सुपथेत्यचिरादिमागेकथनादैश्वर्यव्यावृत्तिः राय इति भोग्यस्यैश्वर्यस्य कथनात् कैवल्यव्यावृत्तिरिति भवतैवोक्तत्वादुत्तरमन्त्रस्यो- भयपरिहारकत्वमेव सिद्धयतीति विभागवर्णनमयुक्तमेव । यच्च ऐश्वर्यपरिहारात् पूर्व कैवल्यपरिहारस्य कथनादैश्वर्थप्राप्तावपि १५८ ईशावास्योपनिषद्भाष्यम् । ? तस्यानित्यत्वादनन्तरं परमपदप्राप्तिभवति । कैवल्यप्राप्तौ तु तस्य नित्यत्वान्न तल्लभ्यत इत्याशयः सुच्यत इति वर्णनम् , तदयुक्तम् , मानान्तरविरु- द्धार्थसूचकत्वस्यासम्भवात् । 'सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षमाक्' इत्यादिना कैवल्यस्याप्यनित्यत्वं सिद्धमिति तन्नित्यत्वकल्पनमसांप्रदायिकम- युक्तिसहमप्रामाणिकं चेत्यलं बहुना । यदपि कैवल्यं भेजुषां परमपदालाभरूपेदृशदुर्गत्यनुसन्धानेनैव श्री- भट्टनाथदिव्यसूरिणा खप्रबन्धप्रथमश्रीसूक्तचतुर्थगाथायामैश्वर्यार्थिभ्यः पूर्व कै- वल्यार्थिनामाह्वान कृतमिति तदप्यसत् । कुत इति चेत, अत्र पृच्छयत, तत्र गाथायां प्रथमे पादे शरीरस्य स्त्रकारणे विलयविधानतः प्रागागत्यास्म- परिषदं प्रविश्य' इत्येतावत एवार्थस्यावगम्यमानतया कैवल्यार्थिनामेव ग्रहण- मित्यत्र किं गमकम् ? न चोत्तरगाथाया ऐश्वर्यार्थिविषयकतया पारिशेष्याम- ति वाच्यम् , तत्रापि प्रमाणविरहात् । प्रथमतस्तृतीयगाथायां भगवत्कै- यनिष्ठानामाहानम् , अत्र चतुर्थगाथायामैश्वर्यादिकमनुभूयाननुभूय वा तत्र दोषपरामर्शनास्मिन्नेव जन्मान परमैकान्तिगोष्ठी प्रविश्य स्थातुमनसा- मेतावदलब्धकैङ्कर्यभोगानामाहानम् , अथ पञ्चम्यां , ये भगवद्भक्ता एक सन्तः प्रयोजनान्तरपराः 'आती जिज्ञासुरर्थार्थी' त्युक्तविधास्तेषामल्पास्थिर- पुरुषार्थबुद्धिप्रहाणेन पारमकान्त्यप्राप्त्यर्थमाहानमिति विभागस्यैव शब्दतो लाभात् । सर्वत्र निःश्रेयसकैवल्यैश्वर्याथिविधाग्रहणेनैव विभागो वक्तव्य इति निर्बन्धायोगादिति । अस्तु नाम कैवल्यार्थ्याहानमल, उत्तरत्र चैश्वर्यार्थि- मात्रस्येति । तथाऽपि तदाहानप्राथम्ये पश्चात्सर्वदा परमात्मालाभरूपतदी- यदुर्गत्यनुसन्धान मूलमिति निर्मूलम् । एवमाशयवर्णने कैवल्यैश्वैर्यार्थिभ्यः पूर्व कृते भगवदकपराणामाहानेपीतोऽप्यधिकदुर्गत्यनुसन्धानं मूलं वक्तव्यम् । तत्र चेत्तेषामितोऽतिशयितप्रभावभाक्त्वमात्रेणाऽऽदावाहानम् , तार्ह कैवल्या- आचार्यभाष्यतात्पर्यसमेतम् । १५९ र्थिनामैश्वर्यार्थ्यपेक्षया सूक्ष्म-प्रकृतिविलक्षण-परब्रह्ममञ्जूषायमाण-ज्ञानानन्द- रूपखरूपदर्शननिबन्धनातिशयशालितया ततः प्रागाह्वानमित्येव पूर्वानुगुण्या- द्युक्तम् । तथा च प्रथमतः प्रथमगोष्ठ्यहीन परमैकान्तिन एव स्थिताना- हूय तावता परिषदपूर्तिमालोक्य तत्सन्निकृष्टान् कैवल्यार्थिनोऽनन्तरस्थाना- हतया प्रबोधनसौलभ्याच्चाहूय तावताऽप्यपर्याप्तिमवेक्ष्य प्राकृतप्रवणानपि परिष्कृत्य वीचिकीर्षतीति यथावदवगम्यते । किं चैश्वर्य प्राप्तवतां देवभूयं गतानां 'तदुर्पयीप बादरायणः सम्भवादिति सूत्रोक्तनयेनार्थित्वसामर्थ्ययो- रक्षततया तदनुभवकाल एवोपासनानुभवप्रसक्तिरस्ति । कैवल्यभानां पुन- स्तदात्वे परमात्मोपासनानुभवप्रसक्त्यभावोऽधिककालानुभाव्यतया महान्विल- म्बश्चेत्याशय एवाहानप्राथम्ये प्रयोजक इति सर्वथाऽन्यथासिद्धतया नाप्रा- माणिकाथसूचनकल्पनप्रसक्तिरिति । अत्रेदमवधेयम्-अत्र गाथायां 'सूक्ष्मशरीरस्य प्रकृतौ विलयात् पूर्वमस्मद्गोष्ठी प्रवेष्टुमभिप्रयन्तः' इति वि- शेषणदानं यादृशाधिकारिग्रहणे सफलं भवति तादृशग्रहणमेव युक्तम् । भग- वकैकयनिष्ठानामिदानीमेवैतद्वेष्ठिीप्रवेशोऽस्तीति ते न ग्राह्याः । आतीर्था- थिभेदभिन्नानामैश्वर्यार्थिनां तु गीतायामपुनरावृत्त्यादेरनुक्तत्वात् सूक्ष्मशरीर- स्य प्रकृतिविलयात् पश्चादप्येतद्गोष्ठीप्रवेशनियमो नास्ति । तेषां प्रलये शरीरं विनैव स्थितः । अतो जिज्ञासुनधिकृत्येयं गाथा । तथा च जिज्ञासुनां भ- वतां विरजानद्यतिक्रमणेन सूक्ष्मशरारविलयात्पश्चादस्सादृशगोष्ठीप्रवेशोऽस्त्येव । ततः प्रागेव प्रवेशाभिप्राये कैवल्यमनपेक्ष्य प्रविशतेति गाथार्थः । अनेन च 'सूक्ष्मशरीरेण सह स्थानविशेषेऽनुभाव्यं कैवल्यम् । तदस्थिरम् । तदन- न्तर नियतमचिरादिगतौ शेषांशातिलङ्घनन सूक्ष्मशरीरत्यागः परमपदलाभ- च'त्यर्थसूचनेन कैवल्यनित्यत्वमनयाऽपि गाथया बाध्यत एवेति । अनन्तरं च यत् श्रीमत्पराङ्कुशदिव्यसूरिणा खप्रबन्धप्रथमकाण्डद्वि- १६० ईशावास्योपनिषद्भाप्यम्। तीयश्रीमुखसूक्तपञ्चमगाथायां 'कैवल्यप्रसङ्गं निर्धूय परमपुरुषार्थप्रेप्सायां प्रथ- ममेव भगवन्तं प्रपद्यते त्युक्तमिति । ततोऽपि कैवल्यनित्यत्वमवगम्यत इति ; तदतिस्थवीयः, बाधकत्वेन स्पष्टस्यैव साधकत्वनोपन्यासात् । तस्या हि गाथायाः ‘अपतो बाह्यसङ्गश्चेदाप्तं कैवल्यमात्मना । त्यक्त्वा तत्स्थिर- लिप्सायां विश्वस्ये(निश्चित्य)श्वरमाश्रये' त्येव यथावत् प्रतिपदानुपूर्वीति तत परमपुरुषार्थे स्थिरपदप्रयोगेण कैवल्यस्यास्थिरत्वं स्पष्टमेव दर्शितम् । अत्र स्थिरलिप्सायामित्यस्य स्थाने यदि स्थिरीभवितुमिच्छायां स्थैर्य लिप्साया- मिति वक्तव्यामत्यालोच्यते, तथाऽपि पुरुषार्थ स्थलिप्सेत्यस्य स्थिरपुरुषा- र्थलिप्सायामेव पर्यवसानात् सिद्धमेतस्थिरत्वेन कैवल्यस्यास्थिरत्वम् । न च स्थिरीभावितुमिच्छायामित्यस्थतोऽपि कश्चिदतिशयितः पुरुषार्थोऽस्तीति पुरुषाथीन्तरापेक्षाविरहरूपबुद्धिस्थैर्यकरपुरुषार्थलिप्सायामिति तात्पर्यमिति वाच्यम् ; क्लिष्टत्वात् , तथा सति कैपल्यव्यावृत्त्यसम्भवाच्च । कैवल्यका- मोऽपि हि तन्त्र पुरुषार्थे बुद्धिस्थैर्येणैव साधनमनुतिष्ठति । पश्चात् केवली- भूतश्च नित्यत्वेन भवदभिमते तस्मिन्नव पुमर्थे मनस्तदेकतृप्तो न परमात्म- प्राप्तिमपेक्षि तुमलम् । यत्तु तत्र केवलस्यापि भगवच्छेषजनभव्यकृत्यश्रव- णादपेक्षा भवतीति ; तदयुक्तम् । केवलो हि नाम प्राप्तकैवल्यः; स च निर्देह इति स्वोकृतम् । एवं सति तस्य कथं नाम श्रवणमपेक्षा च ? अन्यथा स तदानी सर्वज्ञोऽपि स्यादिति मुक्ताविशेषः प्रसज्यते । किंचैवं केवलस्य पुरु- पार्थान्तरापेक्षावर्णने कैवल्यस्यानित्यत्वमप्युक्तप्रायमेव । किं च कैवल्यत्यागेन स्थिरबुद्धिमत्त्वलिप्सायामिति तात्पर्यवर्णनेऽपि, कैवल्यस्यानित्यतया तत्र बुद्धिस्थैर्य न सिद्धयति। नित्यस्यापेक्षायां तु तल्लाभे न तदुपर्थपेक्षाप्रसक्तिरित कैवल्यानित्यत्वमप्यवसीयेतैव । अत एव * पदावशेषेव्याख्याकारेणात्र * अडैयवलन्दानरुम्पदविशेरम् ।

आचायभाष्यतात्पर्यसमेतम् । १६१ भगवत्प्राप्तिरूपमोक्षमात्रनित्यत्वं स्पष्टमवाचि । 'प्रथमतो विषयसङ्गत्या- गसमय एवं भगवन्तं प्रपद्य त्यागः कार्य' इति सूक्तिश्च न पश्चात् भगवत्प्राप्तियोग्यताविलयाभिप्राया, किं तु दीर्घकालभगवत्प्राप्तिविरोधितया विलम्बाधिक्याभिप्राया । तथा च विषयसङ्गभङ्गे केवलवरूपानुभवः ख- तः प्राप्नोति । तमुपेक्ष्य यदि स्थिरं लिप्स्यते तार्ह प्रथममात्मावलोकन- साधनविषयत्यागोपायानुष्ठानकाल एव भगवत्प्राप्तिरेव भवत्वित्यध्यवसाय भ- गवन्तं प्रपद्य तत्साधनाङ्गत्वबुद्धया कार्यकरणेन सङ्गत्यागः सम्पादनीयः । अन्यथा पुनरुपायसम्पादित आत्मानुभवः सुखरूपो बुद्धिमार्कषन् बहुप्रत्यूही- भविष्यतीति भावः । अत एवाचार्यपादैः श्रीतात्पर्यरत्नावल्यां च्यवन- वदितरप्राप्यवैषम्यवत्त्वा' दिति प्रकृतगाथार्थः संगृहीतः । श्रीसारसारे च प्रथमेऽधिकारे मोक्षे प्राप्तुरपि प्राप्यत्वमभिधाय तावता मोक्षकालिकात्मप्रा- तो केवलात्मप्राप्तावुक्तं च्यवनधर्मत्वं न सम्भवतीत्युक्त्वा तच्चयवनधर्मत्वमे- तन्नित्यत्वं च साधयितुमियं गाथोपात्तेति सूक्त्यर्थः सम्यगवगम्यतामिति । यदप्योमित्यस्य प्रणवस्वरूपपरत्वमुक्त्वा ओङ्कारं स्मर प्रणवप्रतिपन्नं त्वदनन्याहशेषत्वलक्षणं स्वरूपनिरूपकधर्म सम्यगनुसन्धत्स्वेति यावदिति वचनम् । तदपि न पेशलम् । इतिकारनिर्देशाभावस्थले ओमित्यस्य शब्दपरत्वे प्रमाणाभावात्, निरर्थकत्वाभावेनार्थपरत्वस्यैव युक्तत्वात् ; भवदुक्तफलि- तार्थकथनस्यापि भगवदनन्याहशेषभूतजीवमित्यर्थवर्णनेनैव सुकरत्वात् ; पूर्व चिदचिद्विवेचनादीश्वरविवेचनस्यापि कर्तव्यतया ओमित्यस्य वाक्यात् पार्थ- क्यविधानस्यैव युक्तत्वात् ; स्मरेत्येतत्प्रत्योमित्यस्य कर्मवे तदेकवाक्यत्वे वा सति चतुर्थपादेऽपि पदान्तराणामिव प्रणवस्यापि पठनीयतया तदभावस्यैव पृथग्भावज्ञापकत्वाच्च । अत एवास्य क्रतो इतिवत् सम्बुद्धिपरत्वमपि नेष्ट- माचार्यपादानाम् ॥ १७ ॥ 21 I १६२ ईशावास्योपनिषद्भाष्यम् । अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥ . पुनरप्याग्निशब्दवाच्यं भगवन्तं स्वापेक्षितं प्रापयेत्याह अग्ने नय- विधेमेति । अग्ने-अग्निशरीरक । यस्याग्निः शरीरमित्यन्तर्यामिब्रा- ह्मणम् । 'साक्षादप्यविरोध जैमिनि' रिति न्यायादग्रनयनादिगुण- युक्तेति वा । नय-प्रवर्तयेत्यर्थः । सुपथा-शोभनेन मार्गेण । प्रति. षेधस्पर्शरहितेनोपायनेति यावत् । राये विद्यार्थशरीरसंरक्षणत्वद- चनाद्यनुगुणाय धनाय। यद्वाऽर्थप्रकरणानुगुण्यात्, 'अतस्करकरग्रा- हमराजकवशंवदम् । अदायादविभागाह धनमार्जय सुस्थिरम् ।' सुपथेति । अत्रार्चिरादिमार्गपरत्वमप्याचार्यपादाभिमतमेति श्रीकूरनारा- यणखामिभिरेवोक्तम् । अणुः पन्था इत्यपि श्रुत्यन्तरम् । धूमादिमार्ग- व्यावृत्तये शोभनत्वोक्तिः । उपरि उपायेनेति भाषण तु राय इत्यस्य लौकि- कधनपरतया व्याख्यानस्य समनन्तरं क्रियमाणतया तदौचित्याय । अनन्त- नग्रहणपक्ष चार्चिरादिरभिमत एवेति । तदा च नयेत्यस्य प्रापयेत्यर्थः । कुण्ठामिति अर्थसिद्धम् । प्रतिषेधेति । परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः । 'न शूद्राय मतिं दद्यात्' 'कुलटा षण्डपतितवैरिभ्यः काकिणीमपि । उद्यतामपि गृह्णी- यान्नापद्यपि कदाचने' ति याजनाध्यापनप्रतिग्रहेषु प्रतिषिद्धमार्गो मा भूदि- । द्वितीयपक्षे प्रतिषेधस्पर्शरहितेनेति पदं श्रुतिस्मृत्यापातप्रती- ज्ञानातिरिक्तोपायो 'नान्यः पन्था' इति निषिद्ध इति स मा भूदित्यवं- । । यद्वाऽर्थप्रकरणानुगुण्यादिति । विद्यार्थप्रकरणानुगुण्यादिति No.: पेशलः । श्रीकूरनारायणभाष्य इव विद्याप्रकरणानुगुण्यादीत पाठश्चेत् एतत्पूर्व यद्वति वा अलौकिकं वेत्युपरि वाकारो वा निवेश्यः । . ति भावः आचार्यभाष्यतात्पर्यसमेतम् । १६३ 'बत मे वित्त' मित्यादिषूक्तमलौकिक धनमिह विवक्षितम् । एक एव मन्त्रःप्रकरणादिभिर्विशेषितस्तत्तदनुगुणमर्थ विवक्षतीति सम्य- न्यायविदः । अस्मान् त्वदनन्यभावान् अनन्यगतींश्च । विश्वानि देव वयुनानि विद्वान्-देव- अस्मदपेक्षितप्रदानानुरूपविचिनक्रीडायु- क्त । माया वयुनं ज्ञानमिति नैघण्टुकाः । अतो ज्ञानमुखेनोपाय- विशेषा इह वयुनशब्देन विवक्षिताः । सस्तित्तदधिकारानुगुणां- श्चतुर्विधपुरुषार्थोपायान्यथावद्विद्वांस्त्वभावदुषोऽस्मान् नेतुमहसीति भावः । युयोध्यमज्जुहुराणम्-बन्धनात्मकतया अचिन्त्यप्रकारको टिल्यवत्तया वा बाधमानमित्यर्थः एन:-अकृत्य करणकृत्याकरणादि- रूपं त्वदनुभवादिप्रतिबन्धकम् , अस्मत्तो युयोधि पृथक्कुरू, विना- शयेत्यर्थः । भूयिष्ठां ते नम उक्तिं विधम 'अनन्यगति रित्यादिगुणै. रावृत्तितश्च भूयसी 'नमउक्ति' विदध्महे । व्यत्ययो हि बहुलमनुशि- ष्टः । नमउक्तेरनुवृत्तिं वा नाथं प्रति नाथते । 'नम इत्येव वादिन' इति हि मुक्तलक्षणा अपि पुरुपा मोक्षधर्म प्रतिपादिताः । मानस- कायिकयोमसोरभावेऽपि नमश्शब्दमात्रेण प्रसत्तुमर्हतीत्युक्ति. शब्दाभिप्रायः । एवं परतत्त्वतद्विभूतियोगतदुपासनतद्विशेषान् सं. गृह्य संहितेयं समपूर्यत ॥ १८ ॥ बत मे वित्तमिति । 'अनन्तं बत मे वित्तं भाव्यं मे नास्ति किंचन । मिथिलायां प्रदीप्तायां न मे किंचन दह्यते' (मोक्षधर्मे २२३) इति पूर्णः श्लोकः । अत्र मन्त्रे त्वदनन्यभावानन्यगतींश्चेति ‘अविदुषोऽस्मा- न्' इति च भाषितत्वात् पूर्वमन्त्रस्येव प्रपत्तिपरत्वमपोष्टं प्रतायते । तदाऽ स्मानिति बहुवचनं प्रपत्तृपुरुषाश्रितानामपि कोड कारार्थम् । पूर्वमन्त्रे स्मरेत्यनेन स्मरामीत्यस्य प्रत्यभिज्ञानम् । अत्र च नयेत्यनेन नथामीत्य- स्य । जुहुराणमिति । 'हुछी कौटिल्य' इति धात्वर्थः कौटिल्यं वञ्चकत्वमिति मतेनाह बन्धनात्मकतयेति । कौटिल्यमपसरणमिति मतेन द्वितीयार्थः । अथ वा 'हृ प्रसह्यहरण' इति धात्वभिप्रायेण प्रथमोऽर्थः । बाधमानमिति सर्वथा पर्यवसितार्थः ॥ १८ ।।

१६४ ईशावास्योपनिषद्भाष्यम् । विद्वच्छात्रप्रीतय इति । विदुषां छात्राणां च प्रीतय इत्यर्थः । अथ वा विदुषां सतां छात्राणां प्रीतय इति । छात्राणामपि शास्त्रपरिश्रमविधु- राणामिदमर्थावगाहासम्भवाद्विद्वदिति । विदुषामप्यौपनिषदार्थविज्ञानस्य कृते कुत्रापि यथावच्छात्रभावमनधिगतवतामस्मदभिहितार्थधारण- निपुणप्राज्ञमाणिपरम्परामुखेनामदाशयमनवबुद्धवतां चात्यन्तगभी- राऽऽस्माकभाष्यभावार्थो न सम्यक् प्रकाशेतेत्युपदिशति छात्रेति । अल्पिष्ठस्याप्यनुवाकस्याखिलपरमतपरिमर्दकत्वातिशयं प्रथयति अभे- दमिति । अभेदं भोक्तॄणां जीवानां परस्परैक्यम् । भविनामेव परतां जीवब्रह्मैक्यम् । भेदाभेदं जिनसुगतनीतिं च जगति चेतनाचेतनात्मकप्र- पञ्चे ब्रह्मप्रतियोगिकं भेदाभेदं भास्करयादवमतम् , जिनादिवन्निरीश्वरत्वं कर्ममात्राधीनोत्पत्तिकत्वं च; तथाऽऽत्मनः स्वरूपविकारभाक्त्वं विज्ञानमात्रा- स्मत्वं च; आत्मनो जन्यत्वादेयादवमते दृष्टेः, जैनैरापि सङ्कोचविकासवर्ण- नात्, शङ्करमतेऽपि बौद्धवद्विज्ञानमात्रात्मवचनात् । असम्पाद्यां मुर्ति कण्ठस्थितकनकनयेन नित्यप्राप्तत्वम् । भवभयमलीकं मिथ्याभूतम् । 'य उ विद्यायां रताः, रायेऽस्मान, भूयिष्ठान्ते नमउक्ति विधेम, तस्मिन्नपः, ईशा- वास्यम् , याथातथ्यतोऽर्थीन् व्यधाच्छाश्वतीभ्यः समाभ्यः, वायुरनिल- ममृतम् , कविर्मनीषी परिभूः खयम्भूः, विद्ययाऽमृतमश्नुत इत्यादौ स्वार- स्यपालोचनया यथासम्भवमीदृशार्थप्रतिभटत्वं प्रतिमन्त्रं परिशीलनीयमिति । तदेवमखिलमहीमण्डलमण्डनायित-प्रबलजपतपःप्रभृति बहुविधप्रभा- वभावितप्रचण्डपाण्डित्यप्रतिभापरिकर्मितानत्यकल्पनाशिल्पसामर्थ्यसाम्राज्यधु- रन्धरसकलकविकथककुलकलितबहुलकोलाहलक्षपणनिपुणनिजविजयघोषणा- जङ्घालघणवणविद्रावितविशिष्टदिशानिद्रस्य, निखिलतन्त्रनिष्णातनिश्शेषज- नैनपुणनियन्त्रणनियन्त्रणनिष्कम्पनिखातनिजविजयस्तम्भविभाजितविविधषि - आचार्यभाष्यतात्पर्यसमेतम् । १६५ व्यक्ताव्यक्त वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् । वैश्वामित्रो विश्वामित्रं व्यतानीद् विद्वच्छात्रप्रीतये वेङ्कटेशः ॥ अभेद भोक्तृणामथ च भविनामेव परतां तथा भेदाभेदं जिनसुगतनीतिं च जगति । असम्पाद्यां मुक्तिं भवभयमलीकं च पठता- 'मसावीशेत्यादिर्न कथमनुवाकः प्रतिभटः॥ हरिः ओम् । इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वङ्केटनाथस्य वेदान्ताचार्यस्य कृतिषु ईशावास्योपनिषद्भाष्यम् । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ - रुदहारमध्यमणिवरायमाणश्रीरङ्गनायिकासवहुमानविश्राणितसर्वतन्त्रस्वतन्त्र ताविरुदस्य, वृत्तवर्तमानवर्तिष्यमाणसमस्तकुमतिमतसमूलोन्मूलनसाधिष्ठत्र- य्यन्ततत्त्वहितपुमर्थसम्प्रदायस्थापन, सकलसदाचार्यगुणगरिममुख, निखिल- रत्नरत्नाकरतानिरीक्षणसन्तुष्टस्वाभाविकसावश्यश्रीरङ्गनाथवितीर्णवेदान्ताचार्य- कस्याशेषजगद्गुरोरस्मदरोरस्य भगवतः सूक्तिषु सर्वार्थसिद्धितात्पर्यचन्द्रिकादिषु परिचयश्रद्धाधुर्यपरिकाल्पतो मिथ्यादूषणकल्पनाकोलाहलः सर्वोऽप्यसमञ्जसः केवलमनीपादक इत्यवधार्य तर्कप्रमाणसम्प्रदायसम्मतमस्यैव महात्मनों भाष्यमात्मक्षेमकामरशषैः परिग्राह्यभिति कृतं विस्तरेण ।

१६६
ईशावास्योपनिषद्भाष्यम् ।
प्रतितन्त्राविरोधेन भिन्नभिन्नार्थवर्णनम् ।
समस्तेष्वपि वाक्येषु सम्भवन्नैव दुष्यति ॥ १ ॥
तस्मादुपनिषद्भाष्यकृतां मन्त्रचतुष्टये ।
बृहदारण्यकोपान्त्ये सह्यमन्यार्थवर्णनम् ॥ २ ॥
अतश्चाचार्यपादोक्तेष्वर्थेष्वाग्रहयालुभिः ।
वृथा दूषणवैयग्री गृहीता नैव शस्यते ॥ ३ ॥
न हि सम्भवतः सर्वान् वक्तुमर्थानिमेऽप्यलम् ।
विस्तृणीते न सर्वज्ञोऽप्यर्थदिङ्मालदर्शकः ॥ ४ ॥
अभियुक्ताग्रगण्यानामाचार्याणां हि सूक्तिषु ।
अवधाय परामृश्य भावं बुद्धयेत बुद्धिमान् ॥ ५ ॥
विरुद्धभाषणं व्यर्थ विस्तरः पिष्टपेषणम् ।
ईदृशानि बहिष्कृत्य प्रबन्धा तु प्रशस्यते ॥ ६ ॥
क भाष्यमेतद्गहनं गुरोनः
क नाम मे बुद्धिरियं लविष्ठा ।
तदस्ति यत्सन्मतमत्र तस्मिन्
तस्यैव दासः करतूलिकाऽहम् ॥ ७ ॥
व्याख्यानमुद्रितसपुस्तकहस्तपमं
सत्त्वप्रवर्तकमपारकृपाम्बुराशिम् ।
विद्यामयं विहतहेयमुपैमि साक्षाद्
वक्त्र हयं विहितदेशिकभूमिकं च ॥ ८॥
भृशलब्धतन्त्रतर्कप्रसातिना परिचितान्यशास्त्रेण ।
अक्रियत वीरराघवसुधियेत्याचार्यभाष्यतात्पर्यम् ॥ ९ ॥

SANSKRIT VIDYA
LIBRARY. THI
आचार्यभाष्यतात्पर्यसमेतम् ।
१६७
यतः सर्वार्थलाभो नः प्रज्ञावैराग्यवारिधेः ।
श्रीरङ्गलक्ष्मणाभिख्या देवता प्रीयतामियम् ।। १० ॥
आचार्यभाष्यतात्पर्य सम्पूर्णम् ॥
श्रीगुरुभ्यो नमः ॥
श्रीमते हयवदनपरब्रह्मणे नमः ।।
श्रीरस्तु॥
श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥
2523
TIRUPATI.
Q22:25
N33
RIYA
REET
ONTS

Esevyopanishad Bhashyam

Author
Veeraragava Achariya
Title
Esevyopanishad Bhashyam
File name
Esevyopanishad Bhashyam
Text
OCR done
Citation
1933
Published
31\05\2003
Publisher
The Srinivasa Press ,tiruvadi
Language
Sanskrit
Pages
177
Library
Svclrc
DLI number
368286
Barcode
5010010000776.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL, T.T.D. Tirupati
VMLT id
xSdMKgPyv8X
Download PDF

Esevyopanishad Bhashyam