Sringeri Sharada Peetham

Namamrutarasayanam

Sri Madvodhendrayatindra · 2007/01/10

PDF Proofread

Front matter

॥ श्रीः ॥
इदं किल,
श्रीमद्बोधेन्द्रयतीन्द्रविरचित
नामामृतरसायनम् -
तानगरपतिष्ठिताया।
"श्रीपुर्णचन्द्रोदयमुद्राक्षरशालायाम् "
मुद्रयित्वा प्रकाशित
विजयतेतराम् ।
१९२६.

॥ श्रीचन्द्रमालीश्वर ॥ स्वस्ति श्रीमदखिलभूमण्डालालंकारत्रयस्त्रिंशत्कोटिदेवतासेनितश्री- कामाक्षीदेवीसनाथ श्रीमदेकाम्रनाथ श्रीनहादेवीसनाथ श्रीहस्तिगिरिनाथसा- क्षात्कारपरमाधिष्ठानतत्यव्रतनानातिलाञ्चोरियो शारदामठसुस्थिता- नाम् अतुलितमुधारस माधुर्थकम नाजन शानिनी पनिछापुछनछिकामालिका - निप्यन्दमकरन्द झरीसोवस्तिकमागु भविमानतुन्दिलितमनीपिमण्ड। लानाम् अनवरताद्वैतविद्याविनोदरतिकानां निरन्तरालंकृतीकृत शान्तिदान्ति भूनां सकलभुवन चक्रप्रतितारकश्रीचतिठाविज्यानशोलंकतानां निखिल. पापण्डपण्डकण्टकोत्पाटनेन विशदीलावेदवेदानामावण्मतलतिष्ठापकाचा- र्याणां श्रीमत्परमहंसपरिवानकाचार्यलोजगद्गुरु मञ्छंकरभगवत्पादा- चार्याणामधिष्ठाने सिंहासनाभिषिक्तश्रीमन्महादेवेन्द्रसरस्वतीसंयमीन्द्राणा- मन्तेवासिवर्यश्रीमचन्द्रशेखरेन्द्रसरस्वतीश्रीपादैः अस्मदत्यन्त- प्रियशिप्यतञ्जापुराभिननदेवशंकरटाकर्विषये सर्वाभीरसिद्ध्यै क्रियते नारा- यणस्मृतिः । वयमिह विराच्चिलैग्रामे त्रिकालसमन्वर्णमानश्री ( चन्द्र- मौलीश्वर) स्वामिचरणारविन्दा अद्वैतानन्दतुन्दिलान्तःकरणाश्च सुखमास्महे । संप्रति श्रीभगवन्नामबोधेन्द्रसंयमीन्द्रविरचितं नामामृतरसायनं नाम अन्थरत्नं पण्डितप्रवराणां साहाय्येन संशोव्य मुद्राप्यास्मत्संनिधौ भवतोप- हारीळतं विलोक्य साधु महदुपकृतं लोकस्येति मोमुद्यामहे । एवं सत्कार्यों - घताः प्रवर्तकाः प्रोत्साहकाश्च भवन्तः श्रीचन्द्रमौलीश्वरकृपया श्रेयःपर- म्परामवाप्नुयरित्याशास्महे । मुखाम्-विराच्चिले। क्रोधनसं० मार्गशिर शुद्ध ६ स्थिरवासरे. नारायणस्मृतिः।

m भूमिका ॥ कदाचित्किल कालवशाच्छौतादिकर्ममाममितद्रव्यसाध्यतया निय- माध्ययनपरिगृहीतमन्त्रतदर्थविज्ञानश्रद्धाधनकपुरुषाधिकारिकतया च यथा- वदनुष्ठातुमशक्यत्वेन तत्रोत्साहविधुरान्स्वेष्टसाधकसाधनापरिज्ञानेन क्लिष्टा- दीनानालोक्य करुणातरङ्गितान्तरङ्गाःश्रीभमवद्बोधेन्द्रसंयमीन्द्रास्तदनुनिघृ- क्षया " ध्यायन्कृते यजन्य स्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदा- प्नोति कलौ संकीर्त्य केशवम् ॥” इति वचनान्नामकीतैनमेवेदानीं सकल- पुरुषार्थसाधनसमर्थमिति निश्चित्याहनिशमेकान्ततः श्रीरामपादपद्मचञ्चरी- कायमाणान्तःकरणास्तन्नामभजनलब्धसिद्धयः प्राचीनपुण्यवैभवेन स्वसंनि- धिमागतेषु साधुजनेषु नाममाहात्म्यं प्रकटीकृत्य तैः संप्रार्थिता नामवैभव- पतिपादकानि बहूनि ग्रन्थरत्नानि व्यरचयन् । तेप्वन्यतमः किलायं नामा- मृतरसायनाभिधो ग्रन्थमाणः । अस्मिन्हि श्रौतादिकर्मणामनेककारक- सापेक्षत्वेन देशकालनियमाद्यपेक्षतया च सहसैवानुष्ठातुमसुलभतया भगव- नामकीर्तनस्थ तावदपेक्षाराहित्येन सुखसंपाद्यतया च तस्मादेव निखिल- पुरुषार्थसिद्धिर्भवतीति सुनिपुणमुपपादितम् । अत्र च प्रमाणतया श्रुति- स्मृतीतिहासपुराणाभियुक्तोक्तयः प्रदर्शिताः। तत्रापि श्रीभगवत्पादविरचित- श्रीविष्णुसहस्त्रनामभाध्यमेवाढतं बहुशः । श्रीभगवत्पादाचाहि सहस्त्र- नामभाष्यव्याजेन नाममाहात्म्यमेव प्राधान्येन प्रकटितम् । यथा शारीरक- भाप्यस्य प्राधान्येन शारीराभिन्नब्रह्मविषयकत्वेऽपि शारीरकभाष्यत्वप्रसि- द्धिस्तथा प्राधान्येन नामवैभवप्रतिपादकस्यापि सहस्त्रनाममाप्यस्य सहस्त्र- भापत (2) नामभाप्यत्वप्रसिद्धिः । तत्र च श्रौतस्मातादिबहुविधधर्माणां मध्ये नाम- कीर्तनस्येवोत्तमयमंत्वं मुखमंपाद्यत्वमनन्तफलप्रदत्वं च विवृतं बहुधा ! "श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शांतनवं पुनरेवाभ्य- " इति श्लोके धर्मान् = अभ्युदयनिःश्रेयसहेतुभूतान्वेदलक्षणान्, अशेषेण = कात्स्न्थेन, पावनानि = पापक्षयकराणि च, सर्वशः - सी- प्रकारैः श्रुत्वा सकलपुरुषार्थसाधनभूतं मुखसंपादनमनुक्तमिति मत्वा पुनरेवाभ्यभाषत !” इति भाष्यव वनपालोचन या बहलायाससाधितमपि वैदिकं कर्मनातं प्रामादिकापराधलेशतो विगुणं सन्न केवलं फलाय न भवति प्रत्युत विपरीतं सदन यापि भवतीति साधनान्तरापेक्षया नामकीर्तनस्य प्राशस्त्यं प्रतीयते । इतरसाधनापेक्षया नामकीर्तनस्याभ्यहितत्वसिद्धावपि वैदिकधर्मजातापेक्षया कथमस्य प्राशस्त्यलाभ इति चेदुच्यते-लोके हि निर्धारणपष्ठयन्तप्रयोगस्थले 'अयं ब्राह्मणानां मध्ये श्रेष्ठः' इत्यादौ श्रेष्ट- स्यापि निर्धारणपठयन्तार्थसजातीयं ब्राह्मणत्वादिकमेव सिध्यति यथा, तथा पूर्वोक्त श्रौतस्मादिधर्माणां मध्ये कः परम इति प्रश्नस्य धर्माणां धर्मोऽधिकतमो मतः । यद्गल्या पुण्डरीकाक्षं स्तवैरचेन्नरः सदा ॥" इति प्रतिवचनस्य च परामर्श, इतरवैदिकधर्माद्यपेक्षयास्य नामकीर्तनस्य प्राशस्त्यं मिद्धमेव भवति । एवम् " नो देशकाचनियमः शौचाशौचवि- निर्णयः । परं संकीर्तनादेव राम रामेति मुच्यते ॥" इत्यादिवचनैनियमा- द्यनपेक्षता " हरिसंकीर्तनस्यास्य नोपदेशः कथंचन " इत्यादिना गुरूप- देशानपेक्षता च सौलभ्याय प्रपञ्चिता । इत्थं च नामकीर्तनस्य पुराणेति- हासादिमु कमपि नियममनपेक्ष्य सकलपापक्षयहेतुत्वव सकलाभ्युदयनिः- श्रेयसहेतुत्वस्य चाभिधायकवचनानां स्वार्थपरत्वं प्रदर्श्य, इममेदार्थ पुनः पुनरभिधानेन दृढीकर्तुमग्रिमसंदर्भेषु पञ्चषेषु स्थलेषु भाष्ये नाममाहात्म्य- प्रतिपादकवचनानि बहूनि दर्शितानि । एवं प्रख्यातवैभवस्य भगवन्नाम्नः सदुच्चारणेनापि पुरुपौरेयस्य सर्वप्रतिबन्धकरहितस्य भवति कृत. एप मे सर्व- ।

(3) कृत्यता । यस्य तु प्रतिबन्धकवशान्न द्रागिव सा सिध्यति तस्य नामकीर्तनावृत्त्या भवत्येव कृतकृत्यता । सरुदुच्चारणादेव सकलमपि दुरितं विनश्यतीति न पापत्रमनि स्वेच्छाप्रवृत्तिः शङ्कनीया यतः सन्निन्देत्या. दिनामापराधदशके निषिद्धाचरणमप्यन्तर्भावितम् । तादृशापराधयुक्तानां नामैव तन्निबह कम्, “ नामापराधयुक्तानां नामान्येवं हरन्त्यघम् । अवि- श्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥” इति पाद्मोक्तः । एवं पापकर्मतो निवृत्तिम्, सद्धर्मप्रवृत्तिम, नाम्नि प्रेम, नामसांतत्ये मोदाविर्भावम्, तत्र च बुद्धेर्लयम्, बायविपयास्फुरणम् , तदेवात्मतां च प्रसाध्य नामैव मुक्तिमाप साधयतीत्यतिसरलाइनखिजनालनीयं नामामृतरसायनं श्रीमद्बोधेन्द्र- यतीन्द्राः संजगृञ्जरित्वेदंयुगीनानामसाधारणी कापि भाग्यधोरणी पचेलिमापि न तथोपकाराय भवति यथास्य मुद्रापणेन विनिवार्य ग्रन्थदौलभ्यं संपाद्येत सर्वत्र तत्सुलभतेति विचिन्त्य कवीस्तालपत्रलिखिता मातृकाः संपाद्य शोध- यित्वा च पण्डितैः श्रीसुब्रह्मशास्त्रिभिर्मुद्रापितवानस्मि । तमिमं मदीयं चिरपरिश्रमं सफलयन्तु साधन इति संप्रार्थये । इति श्रीकामकोटिपीठाधिपतिजगहुरु- श्रीशंकराचार्य भगवत्पादानामन्तेवासी देवशंकरशमा।

शुद्धिपत्रम् । पृष्ठ पति पृष्ठ पति. ३ १७ दैवी ५ ४९ ५१ ५२ auri ४ रनुष्ठेयं ४ पदार्थे २१ मणव ६ अल्पाया क चाहं " ६४ ३२ २७ काश्चित्तु ६ मनन १९ निःश्रेयसो १५ नरन्तये १ सुखसंपाद्य ९ प्रायश्चित्तानां १४ उन्मूलय १५ वचना २२ चण्डाल २ शंसनस्य २५ नाम्नि बह १ नैव ३ मानर्थ ६६ २० माहात्म्ये ८ मङ्गीकार्य ६९ १३ लघुगुरु ७२ ३ केभ्यश्चिदः १७ सर्वाश्रमाण o wo wo wo w g ३३ ५ ॥ ॥ श्री। ॥ नामामृतरसायनम् ॥ सकृत्प्रपन्नजनतासंरक्षणदीक्षिताय श्रीरामब्रह्मगे नमः सदा सर्वेष्टदं जन्तोः सर्वारिष्टशनिवारकम् । श्रीरामनाम जयतु श्रेयोहेतुशिखामणिः ॥ १ ॥ सदानन्दः श्रीमाननुपधिककारुण्यविवशो जगत्क्षेमाय श्रीहरिगिरिशरूपं विधृतवान् । अपर्याप्तं रूपं जगदवन एतत्पुनरिति प्रभुर्जागति श्रीहरिगिरिशनामात्मकतया ॥ २ ॥ सकलभुवनरक्षापेक्षया यः परात्मा निरवधिदयया श्रीशेशनामात्मकः सन् । प्रविलसति सदासौ सोऽनुकम्पासुधाब्धि मम भवतु तदात्मा सुस्थिरो वक्तपो ॥ ३ ॥ सर्वस्य लोकस्य सदा सुगुप्त्यै नामात्मको भाति हरीशयोर्यः । दयासुधाब्धिः स तदात्मको मे रामः सदा वक्तसरोरुहेऽस्तु ॥ ४ ॥ यनामकीर्तनादेव दग्धदुर्जातिकिल्बिषः । किरातोऽभून्मुनिश्रेष्ठो वाल्मीकिरिति विश्रुतः ।। २ ।।

(2) विद्याधराख्यविप्रोऽपि यन्नाम्नः कीर्तनादगात् । मुक्ति तद्रामनाम्न्येव मम वागस्तु सर्वदा ॥ ६ ॥ सकलभुवनकर्ता सच्चिदानन्दरूपो गिरिशमुख सुरेन्द्रीतकीर्तिः परात्मा । सकृदुपगतरक्षादीक्षितः श्रीनिवासो मम हृदि निवसन्मां पातु सीतासमेतः ॥ ७ ॥ निर्माता स्थितिकारकोऽस्य जगतः सर्वेश्वरः सर्वगः सचिद्रूपसुखात्मको विजयते स्वात्माखिलानां च यः ! साक्षी वेदागिरेड्यमादकपलनाता प्रयतुः सक- देवोऽसौ कृपयास्तु रक्षणपरो रामो मुदा ये सदा ॥ ८ ॥ सकृत्मपन्नस्य जनस्य रक्षा कृपाम्बुधेयस्य महद् व्रतं सः । रामः सदाव्याद्रमणीयकीर्तिः सीतापतिर्मा शरणं प्रपनम् ॥ ९ ॥ सृष्ट्यादिहेतुराखिलस्य चराचरस्य दृष्ट्या निरस्तमदनाखिलगर्दाशिः । पाताखिलस्य जगतः परमो नियन्ता साम्मः सदा स्फुरतु मे हाद रामरूपः ॥ १० !! चेतनानां हि सर्वेषां यः सदा शंकरः श्रुतः । स शिवः शंकरो भूपात्सदा मम दयाम्बुधिः ॥ ११ ॥ सकलनतजनानां रक्षणे वदीक्षा वरवटतरुपले संनिविष्टोऽपिलात्मा । सकलमुनिजनानां ज्ञानदाता दयाब्धिः पविशनु सुमति ने दक्षिणानिदेव !! 22 !!

(3) 44 . विज्ञानवैराग्यपरात्मभक्तिशमादिभियोऽधिकता प्रपन्नः । विश्वाधिकाख्यामगमञ्च तेन गुरूत्तमं तं प्रणमामि मूर्ना ॥ १३ ॥ नवा गणेशं निखिलांस्तु विवामित्वामरास्तोपमियुस्तमेव । तत्त्वावबोधाय नमामि मनोनित्यं निहन्तुं निखिलांस्तु विनान् ।। या वेदशास्त्रात्मकबन्धदेहा सर्वैः सुरेन्द्रगुनिमिश्च पूज्या । श्रीभारती सा दयया मदीये जिहाग नृत्यतु सर्वदैव ॥१५॥ शास्त्रार्य मुविनिर्गमिष्टदं सर्वदेहिना । यतिरूपधरं नोमि. शंकरं लोकशंकरम् ॥ १६ ॥ श्रीरामस्य कृपादृष्ट्या तनामस्मृतिलपवा । रच्यते श्रीभगतो नामामृतरसायनर ॥ १७ ॥ इह खलु सकल जगदुदयहेतुत्वाद्यनन्तकरयाणगुगाकरो महेश्वरः सानिन्दकरस्वरूपत्वेन शंकर इति सकलनिगमादिषु लोकेषु च सुप्रसिद्धो निरुपमकरुणापारावारो भगवाशिवःसालोकानामिष्टानिष्टसाधनविषयक- प्रज्ञानप्रदानेन तान्सुथितुं शंकरनामकररमहंसमहामुनिरूपोऽभवन् । तद्रूपाश्च ते भगवत्पादाः स्त्रस्य केपांचिद्वैतवादिनामाचार्यमन्यानामिव यानीष्ट. साधनानि शास्त्रेप सुप्रसिद्धानि तान्यनिष्टसाधनानीति यानि चानिष्ट- साधनानि तानीष्टसा बनानीत्युपदिश्य कांश्चित प्रति न दुःखयितृत्वम्, किं तु सकलप्राणिनां यानीष्टसाधनानि यानि चानिष्टसाधनानि शास्त्रेषु सुप्र. सिद्धानि तानि सर्वाणि यथाशास्त्रमुपदिश्य सुखयितृत्वमेव, तञ्च सुखपितृत्वं स्थावरजङ्गमात्मकसकलप्राणिनां यानि सकलेष्टानिष्टसाधनानि तत्प्रदर्शनेन न तु केपांचित्प्राणिनामितीममर्थं शंकरभगवत्पादाचार्या इति स्वनाम्ना ख्यापयन्तः सन्तः, स्थावरजङ्गमात्मकसलप्राणिनां धर्मार्थकाममोक्षाख्य- सकलपुरुषार्थप्रदं विष्णुशिवगोनाम्नां मध्येऽन्यतमनाक, तच्च स्मृत वा कीर्तितं वा श्रुतं वा सर्वेपामिष्टदं भवत्येवेति निश्चित्य तन्नाममाहात्म्यं वक्तुं सहस्त्रनाममाप्यमारब्धवन्तः, सहस्रनामस्तोत्रपीठिकायां प्रभोत्तररूपेण भगवन्नामनीर्तनस्य सकलधर्मापेक्षयोत्कृष्टत्वाभिधाने तथा सहस्त्रनामस्तोत्रा न्तर्गताना केपांचिन्नाम्नां नाममाहात्म्यद्योतकत्वे तथा केषांचिन्नाम्नां व्या. ख्यानावसरे तेषां नामाहात्म्याभिधानसंगतिहेतुत्वे तथादावन्ते मध्ये मधे च बहुधा नामकीर्तनमाहात्म्याभिधायकैतद्भाष्यसंदर्भ च पालोचिते सकल प्राण्युपकाराय नामकीर्तनमाहात्म्याभिधाने संगतिरत्रास्तीति मत्वा नाम- कीर्तनमाहात्म्याभिधानायैव सहस्त्रनामभाष्यमारब्धं भगवत्पादरित्यर्थ विस्पष्टत्वात् । यथा शारीरकभाष्यस्य प्राधान्येन शारीरकाभिन्नपरब्रह्म- विषयकवेऽपि शारीरकभाष्यत्वप्रसिद्धिस्तथा सहस्त्रनामभाष्यस्य सहस्त्र नामान्तर्गतनामभ्योऽभिन्नानां विष्णुशिवनाम्नां माहात्म्यभाष्यस्य च सहस्र बामभाप्यत्वप्रसिद्धिरुपपनैत्र । विस्पष्टैवात्र मूले नाममाहात्म्याभिधान- संगतिः, अस्मिन्भाप्ये नाममाहात्म्योपपादनात् । तत्र श्रुत्वा धमान शेषेज पावनानि च सर्वशः । युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत ।। १ इति जनमेजयं प्रति वैशम्पायनवाक्यसंदर्भस्य व्या- ख्यानरूपे । धर्मान् अभ्युदयनिःश्रेयसोत्पत्तिहेतुभूतान्वेदलक्षणान् । अशेषेण कात्स्न्थेन पावनानि पापक्षयकराणि च सर्वशः सर्वप्रकारैः श्रुत्वा युधिष्ठिरः धर्मपुत्रः शांतनवं शंतनुपुत्रं भीष्मं सकलपुरुषार्थसाधनभूतं सुख- संपादनमनुक्तमिति मत्वा पुनः भूय एव अभ्यभाषत प्रश्नं कृतवात् ' इति भाष्ये 'चोदनालक्षणान् ' इति 'वेदलक्षणान्' इति च पाठद्वयस्यापि वेद- बोधितानित्येवार्थः। पापक्षयकराणि च प्रायश्चित्तानि चेत्यर्थः । सर्वप्रकारैः । सहेति शेषः । अयमर्थः-सकलधर्माणां सकलप्रायश्चित्तानां चाङ्गत्वेनापोक्षत- सकलनियमैः : सह सकलधर्मान्सकलप्रायश्चित्तानि च श्रुत्वेति । अत्र भाष्ये . १. चोदनालक्षणान् ' इति पाठान्तरम् ।

(5) धर्मानित्यस्याभ्युदयनिःश्रेयसोत्पत्तिहेतुभूतान्वेदलक्षणानित्युक्तं युक्तमेव । अध्ययनगुरुकुलवासपितृमातृशुश्रूषादिब्रह्मचारिधर्माणाम् अध्यापनज्योति- ष्टोमादियजनयाजनदानप्रतिग्रहपञ्चयज्ञाचरणादिगृहस्थधर्मागां बहुमियम- सूपवानप्रस्थधर्माणां गायत्यादिनपदेवतार्चनदहरोपासनादिसाधारणधर्माणां प्रणवनपादियतिधर्माणां नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमादिषसंपत्तिर्मुमुक्षुत्वं चेति साधनचतुष्टय श्रवणमनननिदिध्यासनप्रणवो- पासनादीनां परमहंस यतिधर्माणां वर्णधर्माणां स्त्रीधर्माणामन्येषां धर्माणां च वेदेषु कर्मकाण्डोपासनाकाण्डज्ञानकाण्डेषु विहिततया दृश्यमानानां भारते शान्तिपर्वाणि 'श्रुत्वा धर्मान- ' इति वैशम्पायनवाक्यात्प्रागानुशासनिकप- वण्युक्तानां तेषां सर्वेषामभ्युदयनिःश्रेयसहेतुभूतधर्माणां वेदोक्तताभि- धानस्यावश्यिकत्वात् 'यदिहास्ति तदन्यत्र यन्नेहास्ति न तक्वचित् ' इति प्रतिज्ञापूर्वकं भारते सकलधर्माणामुक्तत्वात् तत्प्रतिज्ञावाक्यस्य अत्र भारते यो धर्को नास्ति स वेदेऽपि नास्तीत्यर्थकताया विस्पष्टत्वात् शान्त्यानुशासनि. कपर्वणारेव सकलधर्माणामुक्तत्वातू इतरपर्वसु धर्माभिधानस्याल्पत्वात् सकल- धर्माणां प्रागभि हतत्वादेवात्र · श्रुत्वा धर्मानशेषेण---' इति वाक्ये परव- हंसयतिधर्मभिन्न धर्मा एव विवक्षिता इति वा गृहस्थधर्मव्यतिरिक्ता धर्मा विवक्षिता इति वास्य वैशम्पायनवाक्यस्य तद्भाष्यस्य च ताप्तयमिति करूप. नमयुक्तमेव । तथा कल्पने परमहंसयतिधर्मा वा गृहस्थधर्मा वा वेदोक्का न भवन्तीति वैशम्पायनवाक्यस्याभ्युदयनिः श्रेयसोत्पत्तिहेतुभूतान्वेदलक्षणा- धर्मान्कास्न्येन श्रुत्वेति भाष्यस्य चाशयकल्पमापत्तेः । पुरुषार्थसाधनभूतं सुखसंपादनमनुक्तमिति मत्वेति भाष्यम् 'श्रुत्वा धर्मान्-, इति वैशम्पायनवाक्यरूपोपक्रमे निर्णीतार्थाभिधायकमेव । तथा हि-- अयं हि वैशम्पायनवाक्यस्यास्य पर्यवसन्नोऽर्थोऽवगम्यते-सकलपुरुषार्थानां सकलपापक्षयाणां च बहुप्रकारसापेक्षसाधनानि सर्वाणि श्रुत्वा धर्मपुत्र: पुनः पृष्टवानिति । तथा च यथोपक्रमाधिकरणे ‘अग्नेऋग्वेदो वायोर्यजुर्वेद . अत्र सकल- आदित्यात्सामवेदः' इत्युपक्रम्य ' उच्चैर्ऋचा क्रियते उपांशु यजुषा उच्चैः साम्ना ' इत्युक्तश्रुतिसंदर्भ तत्रोपक्रमे वेदानामुत्पत्त्यभिधानात्तत्संस्पर्शेन किंचिद्विधास्यत इति निर्धारितमित्युक्तं तथा अत्रापि वैशम्पायनवाक्य- रूपोपक्रमें सकलपुरुषार्थानां सकलपापक्षयाणां चेति सकलप्रयोजनानां बहुप्रकारसापेक्षसाधनानि. सर्वाणि श्रुत्वा धर्मपुत्रः पुनः पृष्टवानित्युक्त्या सकलप्रयोजनानां प्रकारनिरपेक्षसाधनं पृष्टवानिति निर्धारितमिति तन्निर्धा- रितार्थ एव ' सकलपुरुषार्थसाधनभूतं. सुवसंपादनमनुक्तमिति मत्वा' इति भाष्येणोक्त इति ह्यवगम्यते । अथ वा 'श्रुत्वा धर्मान्-' इति वैशम्पायन- वाक्यस्यायं पर्यवसन्नोऽर्थ :-- सकलपुरुषार्थरूपाणां सकलपापक्षयरूपाणां च सकलप्रयोजनानां साधनानि बहुपकारसापेक्षतया दुःखसंपाद्यानि सर्वाणि श्रुत्वा पुनः पृष्टवानिति । तथा च यथा ऊपांशुयाजाधिकरणे जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ ' इत्युपक्रम्य — उपांशृयाजमन्तरा यजति विष्णुरुषांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽनामि- त्वाय अग्नीषोमावुमांशु यष्टव्यावनामित्वाय इत्युक्तश्रुतिसंदर्भ- स्योपक्रमेऽभिहितं पुरोडाशद्वयनरन्तर्ये जामितादोपाभिधानादुपक्रम एवैत- व्यवसिते नूनमन्तराले किंचिद्विधित्सितमिति तथात्रापि वैशम्पायनवाक्य रूपोपक्रमे सकलपुरुषार्थरूपाणां सकलपापक्षयरूपाणां च सकलप्रयोजना- नामङ्गोपाङ्गरूपत्रहप्रकारसापेक्षत्वातिपादनेन दुःखसंपाद्यत्वरूपदोषप्रदर्श- नात्तदोषरहितं प्रकारसामान्यनैरपेक्ष्येण सुखसंपाद्यं सकलपुरुषार्थानां सकलपापक्षयाणां च साधनं पृष्टवानिति निर्धारितम् । स च निधारितार्थ एव 'सकलपुरुषार्थसावन भूतम्' इति भायेगाभिहितः । अस्यार्थस्य भाष्य- विवक्षितत्वं सिद्धमेव । तथा हि-- सकलपुरुपार्थानां सकलपापक्षयाणां च. प्रकारसापेक्षसाधनानि सर्वाणि श्रुत्वा पुनः पृष्टवानित्युक्ते सकलपुरुषार्थ- साधनभूतं प्रकारनिरपेक्षसाधनं पृष्टवानित्येवात्र वक्तव्यम्, सापेक्षसाधनानि श्रुत्वा पृष्टवानित्युक्ते निरपेक्षसाधनं पृष्टवानित्यर्थस्य विस्पष्टतयावधारणात् , .

तथापि भाष्य झद्भिः सुतसंपाद्यत्वहेतुभूत प्रकारनिरपेक्षमित्यनुक्त्वा तत्साध्य 'सुखसंपाद्यत्वमेवोक्तम् , सुखसंपादनम् ' इति भाध्येण । एवं प्रष्टव्यधर्म- स्यात्र भाष्ये सुखपाद्यत्वोक्तिः श्रुतानां सके लधर्माणां सकलप्रायश्चित्तानां चः दुःखसंपाद्यत्वरूपदोष पत्तं वैशम्पायनवाकपेन दर्शितमित्यवगमनायै- वेति ह्यवश्यं बक्तव्यम्, अन्यथा प्रष्टव्यसाधनं प्रकारनिरपेक्षमित्यभिधान- माहाय 'मुबसंपादन । ' इत्युक्ते यापत्तेः । अतः सिद्धम् ' सुखसं- पादनम् ' इति भाष्येणास्मिन्वैशम्पायनवाक्येऽभिहितानां धर्माणां प्राय- श्चितानां च दुःखसंपाद्यत्वरूपदोष दर्शि नमिति, वैशम्पायनवाक्यो- क्तानां धर्माणां प्रायश्चितानां च वाक्येन दुःखसंपाद्यत्वरूपदोपवत्तं वैशम्पायनवाक्यगतेन सर्वप्रकारार्थव 'सर्वशः । इत्यनेन तद्वाक्योक्तान धर्माणां प्रायश्चितानां चेति सर्वेषां साधनानां प्रकारसापेक्षलप्रतिपादनेन तत्सापेक्षत्वस्य दुःश्वसंपाद्यत्वहेतुत्वेन च वैशम्पायनवाक्ये तदुःखसंपाद्यत्व हेतुप्रतिपादनेन तेषां दुःख संपाद्यत्वरूपदोषवत्त्वस्य दर्शितत्वात् । नन्वेतावन्मावेगात्रोपांशुयानाधिकरणोदाहरंगमसंगतमेव ; उपांशु- यानाधिकरणे हि ' जामि वा एतद्यज्ञस्य क्रियते । इति जामितादोषस्य प्रतिपादितत्वेन, अत्र तु वैशम्पायनवाक्ये दुःखसंपाद्यत्वरूपदोषं प्रति हेतु- मात्रस्यैव प्रतिपादितत्वेन वैलक्षण्यादिति चेत् ; नायं दोषः, अवगमितार्थ. स्यापि कण्ठरवेणोक्तार्थसमानत्वात् । तथा हि---- श्रुत्थावगमितार्थः किं केवलं न्यायकल्पितार्थ एव अथ वा श्रुत्युक्तार्थसमानः । नाद्यः, उपांशु. याजाधिकरणेऽन्तराले किंचिंद्विधित्सितमित्यर्थत्य न्यायलभ्यत्वाङ्गीकारा. पत्त्या उपक्रमनिर्धारितार्थविरोधेन 'विष्णुरुपांशु-' इत्यादिवाक्यानामर्थवा- दत्वांगीकारस्यायुक्तत्वापत्त्या तदधिकरणोच्छेदापत्तेः 'न हि वाचनिकार्थे न्यायः प्रवर्तते । इति मीमांसकानां प्रबादेन स्मृतिवचनापेक्षयापि न्यायानां दौर्बल्यप्रदर्शनेन श्रुत्यपेक्षया न्यायानां दौर्बल्यस्य कैमतिकन्यायसिद्धत्वात्। एवं वेदोपक्रमाधिकरणस्योच्छेदापत्तेश्च । द्वितीयपक्षे त्विष्टापत्तिः । अत .

- (3) एवं मिसकैरश्वप्रतिग्रहेष्ट्यधिकरणे प्रजापतिरुणायाश्वमनं यत् , से स्वां देवतामार्छन्, स पदीर्यत' इत्युपको यस्य दोषोऽभिहितः तस्यैव तदोषपरिहारोऽपि कण्ठरवेणोक्तः स एतं वारुणं चतुष्कपालम- पश्यत्, तं निरवपत् , ततो वै स वरुणाशादमुच्यत' इति । एवमुपक्रपे कण्ठरवेणोक्तार्थे यावदलमाश्रित्य तदनुसारेणोपसंहारे लक्षगाङ्गीलता । तथैवोपांशुयानाधिकरणे जामितादोषतद्धेतुभूतपुरोंडाशनैरन्तर्ययोरभिधागा. न्यथानुपपत्त्या तद्दोषनिवृत्तये अन्तराले किंचिद्विधित्सितमिति कल्पिते श्रुत्यावगमितार्थे, तथा वेदोपक्रमाधिकरणे उपक्रम एव वेदानां किंचि. द्विवित्सितमिति कल्पिते श्रुत्यावगमितार्थे च ततोऽधिकबलमाश्रित्य तदनु. सारेण 'उपांशुयाजम्--' इत्यत्र विधिकल्पना 'विष्णुरुपांशु-- , इत्यादीनामर्थवादता — उच्चैर्ऋचा क्रियते ' इत्यादिषु लक्षणा चाश्रिता । प्रत्युताश्वप्रतिग्रहेष्ट्यधिकरणे उपक्रमे कण्ठरवेणोक्तार्थवलापेक्षयाधिकवलमे- षोपांशुयाजाधिकरणे उपक्रमे कल्पितार्थे प्रतीयते । अश्वप्रतिग्रहेष्टयधि- करणे उपक्रमेऽभिहितार्थविरोधेन ‘यावतोऽश्वान्प्रतिगृह्णीयात् इति वाक्ये 'प्रतिगृहीयात् ' इत्येकपदस्य स्वार्थपरित्यागेन लाक्षणिकार्थस्यैव ग्रहणात् उपांशुयाजाधिकरणे उपक्रमे कल्पितार्थविरोधेन विष्ण्वादीनां त्रयाणां वाक्यानां स्वार्थपरित्यागेन लाक्षणिकार्थस्य ग्रहणात् । अतः कण्ठरवेणोक्तार्थसामीपेक्षयावगमितार्थसामर्थे न्यूनताकल्पनागन्धस्यापि नावकाशः । किं च बहुप्रकार सापेक्षाणां सकलधर्माणां सकलप्रायाश्चत्तानां च दुःखसंपाद्यत्वरूपदोषवत्त्वस्य प्रत्यक्षप्रमाणसिद्धत्वेन तदोषवत्त्वमत्र विवक्षितमित्यर्थज्ञापकस्यैवापेक्षितत्वेन प्रमाणान्तरसिद्धदोषवत्त्वाभिधायक- वाक्यस्यात्रानपेक्षितत्वेन वैयर्थ स्यादित्यत्र दोषवत्त्वं नोक्तमित्यर्थस्य विस्पष्टत्वेन चात्र कण्ठरवेण दोषवत्त्वोक्यभावो दोष इति कल्पनागन्ध- स्यापि नावकाशः । अतः सिद्धमत्र वैशम्पायनवाक्ये बहुप्रकारसापेक्षतया दर्शितानां सकलधर्माणां सकलप्रायश्चित्तानां च दुःखसंपाद्यत्वरूपदोषवत्व प्रदर्शनम् । अत एचात्रोपांशुयाजाधिकरणस्यायावतरणं च सिद्धमेवेति सर्वज्ञशिखामणिभिराचार्यैरवगमितार्थे च काप्यनुपपत्तिः । तथा च वैशम्पा- यनवाक्यरूपोपक्रमे सकलपुरुषार्थसाधनानां सकलपापक्षयप्ताधनाना-च बहूप्रकारसापेक्षत्वहेतुना दुःखसंपाद्यत्वरूपदोषवत्त्वपदर्शनाचदुपक्रम एवं तदोषवत्तरहितं सुखसंपाद्यं सकलपुरुषार्थानां सकलपापक्षयाणां च साधनं किंचित्पृष्टवान्युधिष्ठिर इत्यर्थः सिद्धः । स एवोपक्रमे निर्णीतार्थोऽभिहितः 'सकलपुरुषार्थहेतुभूतं सुखसंपादनम्' इति भाष्येण । अत्र 'सकलपुरुषार्थ- हेतुभूतम् ' इति भाष्यं सकलपापक्ष यहेतुभूतमित्यर्थोपलक्षणमित्यवश्यं वाच्यम्, अत्र वैशम्पायनवाक्ये पुरुषार्थसाधनानां सर्वेषामिव पापक्षय- साधनानां सर्वेषामपि दुःखसंपाद्यत्वरूपदोषवत्त्वप्रदर्शनस्य समानत्वेन सकलपुरुषार्थानां निर्दुष्टसाधनकल्पनस्येव सकलपापक्षयाणामषि निर्दुष्ट- साधनकल्पनस्यावश्यिकत्वेन ' सकलपुरुषार्थ-' इति भाष्यस्य सकलपाप. क्षयसाधनाभिधायकताया अप्यावाश्यकत्वात् । तथा चास्य भाष्यस्य सकलपुरुषार्थानां सकलपापक्षयाणां च हेतुभूतं सुखसंपादनमनुक्तमित्यर्थ पृष्टवानित्यर्थः सिद्धः । यस्य धर्मस्य सकदनुष्ठानेनैव सकलधर्मरूपसाधनानि सकलप्रायश्चित्तरूपसाधनानि च सर्वाण्यनुष्ठितानि स्युः तत्साधनं प्रकार- सामान्यानपेक्षं पृष्टवानिति पर्यवसन्नोऽर्थः । कथं पृष्टवान्धर्मपुत्र इत्याकाङ्क्षायामुक्तम्- 'को धर्मः सर्वधर्माणां भवतः परमो मतः' इति । एतत्प्रश्नवाक्यस्य व्याख्यानरूपमिदं भाष्यम्- ' को धर्मः पूर्वोक्तलक्षणः सर्वधर्माणां सर्वेषां धर्माणां मध्ये भवतः परमः प्रकृष्टः मतः अभिप्रेत इति पञ्चमः प्रश्नः ' इति । अस्मिन्भाष्ये ' पूर्वोक्त- इत्यस्याभ्युदयनिःश्रेयसहेतुत्वेन सकलदुरितनिरासकत्वेन वेदबोधित इत्यर्थः, पूर्वम् ' श्रुत्वा धर्मानशेषेण-' इत्यस्य व्याख्यान भाष्ये । धर्मान् अभ्युदयनिःश्रेयसोत्पत्तिहेतुभूतान्वेदलक्षणान् ' इत्युक्त त्वात् वैशम्पायनवाक्यरूपपरमोपक्रमे सकलपुरुषार्थानां सकलपापक्षयाणां - लक्षणः . 2.

(10) . च सावनभूतः प्रकारमियमानपेक्ष एव प्रष्टव्यधर्म इति मिर्धारितत्वेनात्रापि तस्यैव धर्मस्य प्रष्टव्यताया आवश्यिकत्वाच्च । तथा च सकलपुरुषार्थानां सकलपापक्षयाणां च हेतुभूतस्य प्रश्नविषयीभूतधर्मस्यास्योत्कृष्टत्वं नाम दुःखसंपाद्यत्वात्मकदोषराहित्यरूपं सुखसंपाद्यत्वमेव, सकलधर्माणां दुःख- संपाद्यत्वात्सकदोपवत्त्वरूपनिकृष्टताया दर्शितत्वात् । देवदत्ते दोषवत्तं यज्ञदत्ते दोषराहित्यं च वदता विष्णुमित्रेण दोषवति निकृष्टत्वं दोषरहित उत्कृष्टत्वं चोक्कमेक्त्ययस्य सानुभवसिद्धत्वात्, दोषवत्पदार्थापेक्षया दोष- रहितपदार्थ उत्कृष्ट एवेत्यर्थे सिदचत्कृत्वैव मूले भाष्ये च प्रष्टव्यधर्म- स्योत्कृष्टत्वमुक्तमित्यर्थस्य विस्पष्टत्वात् । अस्मिन्निईष्टत्वरूपोत्कृष्टत्वे को हेतुरित्याकाङ्क्षयपूरकः प्रकारशब्दोक्ताङ्गनियमलेशस्याप्यनपेक्षत्वरूप एव हेतुरित्यवश्यमङ्गीकार्यम्, परमोपक्रमे सकलधर्माणां सकलप्रायश्चित्तानां च दुःखसाध्यत्वात्मकदुष्टत्वरूपति कृष्टत्वे प्रकारशब्दिताङ्गनियमसापेक्षत्वरूप- मेव हेतुं वदता वैशम्पायनवाक्येन तन्निरपेक्षत्वमेव प्रष्टव्यस्य निर्दुष्टत्वे हेतुरित्यर्थस्य निश्चितत्वात् । अत एव भाष्य कृद्भिर्धर्मपुत्रकृततत्प्रश्नस्य प्रतिवचनरूपे “ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः" इति भीष्मवचने अभिहिताधिकतमत्वरूपोत्कृष्टत्वे क्यिमानपेक्षत्वरूपहेतुरुक्तः 'हिंसाद्रव्या- न्तरपुरुषान्तरदेशकालादिनियमानपेक्षत्वमाधिक्ये कारणम् । इति भाष्येण अत्र प्रष्टव्यधर्मे परमोपक्रमेण निर्णीत निर्दुष्टत्वमेव प्रश्नवाक्यरूपोपक्रमोक्त- परमत्वं तद्भाप्योक्तोत्कृष्टत्वं चेत्यवश्यं वक्तव्यत्वेन एतत्प्रश्नरूपोपक्रमानु- सारेणात्रोक्तमुत्कृष्टत्वमेव तत्प्रतिवचनोक्तमधिकतमत्वं तद्भाष्योक्तमाधिक्यं चेत्यवश्यं वक्तव्यत्वेन च तदाधिक्येऽभिहितनियमानपेक्षत्वरूपहेतुरत्र निर्दुष्टत्वरूपोत्कृष्टत्वे हेतुरुक्त इत्यर्थः सिद्धः । तथा चात्र वैशम्पायन- वाक्यतात्पर्याभिधायकभाष्ये 'सुखसंपादनम् ' इति प्रष्टव्यधर्मस्य निर्दृष्टत्व- प्रतिपादनेन सकलधर्माणां सकलप्रायश्चित्तानां च दुःखसंपाद्यत्वरूपदोष- पत्त्वमवगतमिति पूर्वमेवोक्तम् । तथा प्रतिवचनविषयकभाष्येऽस्मिन्निर्दुष्टत्व.

(11) रूपोत्कृष्टत्वे नियमसामान्यानवेक्षस्वरूपहेतुप्रतिपादनेन सकलधर्माणां सकर प्रायश्चित्तानां च दुष्टत्वरूपनिकृष्टत्वे बहुनियमसापेक्षत्वरूपहेतुर्दर्शित एवेत्यनेनाप्यन्वयसंदर्भ उपांशुयानाधिकरणन्यायोक्तो नोपपादनीय इति भाष्यकाराणामाशयो विस्पष्टः, भाष्ये प्रष्टव्यधर्ने निर्दुष्टतायास्तन्निर्दुष्टते हेतोश्च प्रतिपादनेनात्र सकलधर्माणां सकलप्रायश्चित्तानां च दोषवत्त्वं तद्दो- षवत्ले हेतुश्च दर्शित एवेत्यर्थस्य विस्पष्टत्वात् । अतः परमोपक्रमे, निर्धारित एव सकलपुरुषार्थानां सकलपापक्षयाणां च हेतुभूतो नियमान क्षत्वेन निर्दष्टः प्रष्टव्यधर्मः को धर्मः सर्वधर्माणां परमः' इति प्रश्नवाक्य. रूपोपकमे पृष्ट इति सिद्धम् । तथा च सर्वधर्माणां मध्ये सरभः क इति प्रश्नस्य सर्वधर्माणां. मध्ये निर्दुष्टः कः इत्येवार्थः । तेनात्र प्रश्नेऽभिहितसर्व- धर्मागां सकलाभ्युदयनिःश्रेयसहेतुत्वं सकलपापक्षयहेतुल्वं चावगमितम् । परमोपक्रमेऽभ्युदयनिःश्रेयसहेतुभूतधर्माणां सकलप्रायश्चित्तानां च . दुःखसं. पाद्यत्वरूपदोषवत्त्वं प्रदर्श सकलाभ्युदयनिःश्रेयससकलापक्षयाणां हेतुभूतं निर्दुष्टं साधनं प्रष्टव्यमिति. निर्धारितम् । तेनात्रापि प्रश्नवाक्यरूपोपक्रमे पावनानां मध्ये चेति. पृथक्प्रायश्चितानां कल्पनागौरवापेक्षया. सर्वधर्माणा- मित्यत्रोक्तधर्माणामभ्युदयनिःश्रेयसहेतुत्वस्येव. सकलपापक्षयहेतुत्वस्याप्यः वश्यं कल्पनीयताया युक्तत्वात्, अन्यथा प्रश्नवाक्ये प्रष्टव्यधर्मस्य सकल. पापक्षयहेतुत्वाभावापत्न्या परमोपक्रमविरोधापत्तेः। निर्धारणषष्ठयन्तप्रयोग:- स्थले 'अयं ब्राह्मणानां मध्ये श्रेष्ठः' इत्यादौ श्रेष्ठस्यापि निर्धारणषष्ठ्यन्ता- थसजातीयं ब्राह्मणत्वादिकमेव सिध्यति । अतः प्रश्न वाक्योक्तप्तर्वधर्माणाम, भ्युदयनिःश्रेयसहेतुत्वमात्राङ्गीकारे प्रष्टव्यधर्मस्याप्यभ्युदयनिःश्रेयसहे. तुत्वमेव लभ्येत । अत एव तेषां धर्माणां सकलपुरुषार्थहेतुत्वं सकलपापक्षय.. हेतुत्वं चावश्यं कल्पनीयम् । तेन प्रष्टव्यधर्मस्य. सकलपुरुषार्थहेतुत्वं सकलपापक्षयहेतुत्वं निर्दुष्टत्वं च सिध्यति । अत्र सर्वेषां धर्माणां मध्ये इति भाष्यस्य परमहंसमुनिवरप्रभृतीनां गृहस्थप्रभृतीनां च सकलवर्गा- - -- +- (12) श्रमाणामन्येषां च प्राणिनां ये वेदोक्तधर्माः सकलाभ्युदयनिःश्रेयसहेतुभूताः सकलपापक्षयहेतुभूतास्तेषां सर्वेषां मध्य इत्यर्थः, परमोपक्रमेऽस्यार्थस्य स्फुटीकृतत्वात् । तत्प्रश्नस्य प्रतिवचनरूपे एष मे सर्वधर्माणाम्-- इति भीष्मपाक्ये 'सर्वधर्माणाम् ' इत्यस्याप्ययमेवार्थो ग्राह्यः, उपक्रमानु- रोधात् । संथा चास्य प्रश्नभाष्यस्य सर्वस्यायं भावः-- परमहंसयतिवर- गृहस्थप्रभृतीनां सकलपाणिनी सकलाभ्युदयनिःश्रेयसहेतुत्वेन सकलपाप- क्षयतृत्लेन च वेदोक्ता ये सर्व धर्मास्तेषां सर्वेषां मध्ये सकलपरमहंसयति- वरप्रभृतीनां गृहस्थप्रभृतीनां च वैदिकादोनां सकलस्त्रीणां सकलवर्णाश्रमा- णामन्येषां च सकलपाणिनां सकलाभ्युदयसकलनिःश्रेयससकलपापक्षय- हेतुत्वेन नियमसामान्यानपेक्षतया सुखसंपाद्यत्वेन च वेदोक्तो धर्मः क इति परमहंसयतिवरिष्ठगृहस्थश्रेष्ठादिभिरनुष्ठेयत्वेनोक्तसकलधर्माणां मध्ये क उत्कृष्ट इति पर्यवसन्नोऽर्थः । न च युधिष्ठिरः सकलपुरुषार्थसाधनं सुखसंपाद्यं प्रष्टुमुद्युक्तः सुख - संपाद्यं केशसंपाद्यं चेत्युभयविधसाधनविषयकान्षट् प्रश्नान्कृतवानित्यर्थ- प्रदर्शकभाष्यं कथमुपपन्नमिति वाच्यम्, धर्मत्वावच्छिन्नसकलधर्मागां मध्ये उत्कृष्टधर्ममेकमेव प्रष्टुमुद्युक्तस्यापि युधिष्ठिरस्यार्थादन्यानपि श्रेष्ठान्प्रष्टु- मिच्छायामुत्पन्नायामन्यान्पञ्च पृष्टवानितितात्पर्यकत्वनैताप्यस्य सृष्टूप- पन्नत्वात् ॥ एष मे सर्वधर्माणां एवमेतत्प्रश्नं प्रति प्रतिवचनत्वेन प्रवृत्तस्य धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥” इति भीष्मदाक्यसंदर्भस्य व्याख्यानरूपे पञ्चमः प्रश्नः परिवियते । सर्वेषां वेद- लक्षणानां धर्माणाम् एषः वक्ष्यमाणः धर्मः अधिकतमोऽभिप्रेतः यत् भक्त्या तात्पर्येण पुण्डरीकाक्षं हृदयपुण्डरीके प्रकाशमानं वासुदेवं स्तवैः गुणसंकीर्तन- * (18) लक्षणैः स्तुतिभिः सदा अर्चेत् सत्कारपूर्वकमर्चनं करोति नरः मनुष्यः इति यत् एष धर्म इति संवन्धः । ' अस्य स्तुतिलक्षणस्यार्चनस्याधिक्ये किं कारणम् ? उच्यते-हिंसाद्रव्यान्तरपुरुषान्तरदेशकालादिनियमानपेक्षत्व- माधिक्य कारणम् । “ ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदा प्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥” इति विष्णुपुराणवचनम् ' इति भाष्यसंदर्भे 'सर्वेषां वेदलक्षणानाम् ' इत्यस्य ब्रह्मचारिंगृहस्थपरम- हंसयतिवादिभिः सकलवर्णाश्रमैः स्त्रीभिरन्यैश्च : सकलप्राणिभिरनुष्ठेयत्वेन वेदोक्तानां सकलाभ्युदयसकलनिःश्रेयससकलपापक्षयहेतुभूतसकलधर्माणां मध्ये इत्यर्थः, उपक्रमानुसारादित्यनुपदमुक्तत्वात् । 'यद्भक्त्या-' इत्यादा- वरुणाधिकरणन्यायेन । भक्त्या पुण्डरीकाक्षं स्तवैः' इति कारकाणाम् अर्चन ' इति क्रिययान्वयः। 'सदा' इति विशेषणस्यापि · अर्चेत् । इति प्रधानेनान्वयः । तथा चात्र विशेषालंकारमाश्रित्य वाक्यार्थो वर्णनीयः। तथा हि-विशेषालंकारस्वरूपादिकं दर्शितं कुवलयानन्दे- 'किंचिदारम्भ- तोऽशक्यवस्त्वन्तरकृतिश्च सः । त्वां पश्यता मया लब्धं कल्पवृक्ष- निरीक्षणम् ।। स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिमाः समृने नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ अत्राचे राजदर्शना- रम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्तरकृतिः, द्वितीये राजसृष्टचारम्भेण मनोमवादिसृष्टिरूपाशक्यवस्त्वन्तरकृतिः' इति संदर्भणः । अत्र कुवल- यानन्दसंदर्भमूलभूतचन्द्रालोकोक्तविशेषालंकार एव ' - वस्त्वन्तरकृतिश्च सः' इत्युदाहृतकुवलयानन्दसंदर्भगत- 'सः'- इति तच्छब्दार्थः । 'आद्ये राजदर्शनारम्मेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्तरकृतिः' इति वाक्यस्य राजदर्शनारम्भ एव राजदर्शनाय कृतः प्रयत्न एव कल्पवृक्ष- दर्शनरूपाशक्यवस्त्वन्तरारम्भः अशक्यवस्त्वन्तरलाभाय प्रयत्नः राजदर्शन- कर्तुः कल्पवृक्षदर्शनेनेष्टसिद्धिरूपं यत्फलं तत्फलं राजदर्शनेनैव स्यादिति पर्यवसन्नोऽर्थः । एवमेव हि द्वितीयोदाहरणेऽपि । तथा 'यद्भक्त्या पुण्डरीकाक्षम्' इत्यादिसंदर्भ तभाष्ये च पुण्डरीकाक्षस्तवारम्भण भक्तिसा- (14) तात्यादरान्वितपुण्डरीकाक्षार्चनरूपाशक्यवस्त्वन्तरकृत्यात्मको विशेषालंकारः सिद्धः । अस्यापि संदर्भस्य पुण्डरीकाक्षस्तवारम्भ एक पुण्डरीकाक्षस्तक्कर- णमेव भक्तिसातत्यादरयुक्ताईनकरणं भक्तिसातत्यादरयुक्तार्चनफलप्रदमिदं केवलस्तवमात्रमिति हि पर्यवसोऽर्थः, 'त्वां पश्यता मया लब्धं कल्पवृक्ष- निरीक्षणम्' इत्यादिषु सर्वसमतविशेषालंकारलक्षणलक्ष्यत्वस्येव पुण्डरी- काक्षस्तककरणेन भक्तिसातत्यादरयुक्त त्रिविधं पुण्डरीकाक्षार्चनं करोतीत्य. सिमचर्येऽपि समानतयैव विशेषालंकारलक्षगलश्यत्वस्य दृश्यमानत्वात् , तत्रोकराजदर्शनकल्पवृक्षदर्शनयोरभिन्नयोः कार्यकारणभावावगमस्येवात्रापि पुण्डरीकाक्षविषयकयोः सतकरणार्चनकरगयोरभिन्नयोः कार्यकारणभावाव- गमस्य समानत्वात् । एवं च भक्ति सातत्यादरसहितत्रिविधार्चनफलहेतु केवलस्तवमेव ' यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा' इत्यनेनानूदितस्य 'एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः' इत्यनेन सर्वधर्माधिक्यं विहित. मिति सिडम् । अत्रोकार्थः सः ऽपि अस्प स्तुतिलक्षणस्यार्चनस्याधिक्ये किं कारणम् ' इति प्रभभाष्ये विस्मष्ट एव । अस्मिन्माष्ये । स्तुतिलक्षणस्यार्चनस्य' इत्यनेन स्तुतिरेवात्रार्चनशब्दार्थोऽपि, न तु स्तुतिशब्दार्थव्यतिरेकेणार्चनशब्दार्थोऽन्योऽस्तीत्यर्थः। तथा केवल स्तुतेरेवात्र सर्वधर्माधिक्यं विवक्षितमित्यर्थश्च विस्पष्ट इति सिद्धमत्र ।। केवलस्तवस्य सर्वधर्माधिक्ये कारणं चोक्तम् ‘हिंसाव्यान्तरपुरुषा- न्तरदेशकालादिनियमानपेक्षत्वमाधिक्ये कारणम् ' इति भाष्येण । अस्मि. न्माप्ये प्रकृतस्तवस्य सर्वधर्माधिक्यहेतुमूतनियमानपेक्षत्वाभिधानेन हिंसा- व्यान्तरादिषाविशेषणैः सकलनियमानपेक्षत्वं कतिपयनियमसापेक्षत्वं च दर्शितमिति पक्षे उपक्रमविरोधो विस्पष्टः, उपक्रमे नियमसामान्यापेक्षारहित- धर्म एव दृष्ट इत्यर्थस्य सम्यग्दर्शितत्वात् । एवमेतैः षड्भिरपि विशेषणैः प्रकृत. स्तवस्य नियमलेशोऽप्यनपेक्षित इत्यर्थः सहदवगमित इति पक्षे तु भाष्ये 'नियमसामान्यानपेक्षत्वमाधिक्ये कारणम्' इत्येव पाठापत्तिः, षड्विशेषण- अस्य (15) पाठस्य वैयथ्यापत्तिथी अनोऽस्मिन्याव्ये नियमसामान्यानपेक्षवटीकरणाय नियमसामान्यानपेक्षत्वं हिंसादिषड्विशेषणैबहुधा दर्शितमित्यर्थ एक युक्तः । अत्र हिंसानपेक्षत्वरूपविशेषणेनास्यार्चनस्य पत्रपुष्पादिसमर्पणत्व- रूपार्चमविशेषत्वं वारितम्, तथा प्रकृतार्चनं स्तुतिविशेषरूपमेवेत्यवगमितं च, अर्चनविशेषे पत्रपुष्पफलहिंसापेक्षायाः सिदत्वेन प्रकलाचं ने हिंसासापेक्षार्चन- विशेषत्ववारणाय स्तुतिरूपाचनविशेषत्वानर्णयाय च हिंसानपेक्षत्वमुक्तमिति तद्भाष्ये स्वरसतोऽवगमात्, प्रकृतार्चनेऽर्चनत्वमादाय पत्रपुष्पादिहिंसा विना हिंसान्तरस्य प्रसक्त्यभावात् प्रकृतार्चनावशेषेऽर्चनस्वसामान्येन प्रसक्तधर्मव्यावृत्त्यर्थकानीमानि षड्विशेषणानीत्यवश्यं वक्तव्यत्वात् , एतेषां षड्विशेषणानामपि प्रकृतार्चनविशेषे प्रसक्तधर्मव्यावर्तकत्वं विनाप्रसक्तवर्म- व्यावर्तकत्वाङ्गीकारेऽस्य भाष्यस्यासंमतत्वापत्तेः । अतः सिद्धमस्यार्चनस्य हिंसानियमानपेक्षत्वप्रतिषादकभाष्येण स्तुतिरूपत्वम् । एवम् ' द्रव्यान्तर- नियमानपेक्षतम्' इति भाष्येण स्तुतिरूपार्चनमेव प्रकृतार्चनं न वन्यदप्य. चनमित्यर्थोऽवगमितः । कायिकमानसिकवाचिकार्चनानां बाह्यद्रव्यमानप्ति- कद्रव्यवाचिकद्रव्यापेक्षायाः सिद्धत्वेन प्रकृतार्चनविशेषे तत्त्रिविधार्चन- विशेषविलक्षणकेवलस्तुतिरूपस्खमेवेत्यवगमयितुमेतद्भाष्येण द्रव्यान्तरनिय- मानपेक्षत्वमुक्तमित्यवश्यमङ्गकिर्तव्यत्वात् अन्यथा द्रव्यान्तरनियमानपेक्षत्वप्र- तिपादकभाष्यस्य प्रयोजनान्तरप्रसक्त्यमावेन वैयर्थ्यापत्तेः । अतः सिद्धं हिंसानियमानपेक्षतस्य द्रव्यान्तरनियमानपेक्षतस्य च प्रतिपादकमाप्याम्यां प्रकृतार्चनस्य स्तुतिरूपत्वमेव दर्शितामिति ॥ एवं पुरुषान्तरनियमानपेक्षत्वप्रतिपादकभाष्येणास्य स्तुतिरूपार्चन- स्योपदेष्टरूपपुरुषान्तरनियमानपेक्षत्वमेव दर्शितम्, अन्यथा पुरुषान्तर- नियमापेक्षत्वाभिधायकभाष्यस्योपरोधापत्तेः । श्रौतस्तुतिरूपार्चनानां स्मार्त- स्तृतिरूपाचनानां चोपदेष्टनियमापेक्षायाः सुप्रसिद्धत्वेन स्तुतिविशेषरूपार्चने- - (16) - अपि स्तुतिकपार्चनत्वेन प्रसकोपदेष्टुपुरुषान्तरनियमापेक्षत्वव्यावर्तकत्वस्या- वश्यिकत्वात् ॥ एवमुपदेष्टनियमानपेक्षत्वप्रतिपादनेन प्रकृतस्तवस्य देशनियमकाल- नियमाधिकारिविशेषनियमपूर्वोत्तराङ्गनियम श्रद्धाभक्तिवैराग्यादिनियमसामा न्यापेक्षाराहित्यं दर्शितम् । यत्किंचिनियमापेक्षत्वेऽपि वन्नियमोपदेशायोप- देष्टनियमापेक्षित्वस्यावाश्यकत्वेन पुरुषान्तरनियमानपेक्षित्वाभिधायकभाष्य- स्थापरोधापत्तेः उपक्रमानुगुणतयैतदर्थाभिधानम्यावश्यिकत्वाच्च । एवं यत्किंचिन्नियमापेक्षाया अपि राहित्यप्रदर्शनेनास्य स्तवस्य नामकीर्तनरूपत्वमेव दर्शितम् 'हरिसंकीर्तनस्यास्य नोपदेशः कथंचन । किं तु ब्रवीमि सौम्य त्वं कथयस्वाशुचिर्न च ॥' इति ब्रह्माण्डपुराणादौ नामकोर्तनस्योपदेशानपेक्षतायाः सुप्रसिद्धत्वात् । एवं देशनियमानपेक्षत्वा- भिवायकभाष्येण प्रकृतस्तुतिः स्तुतिरूपार्जनत्वेन प्रमक्तो देशनियमः सर्वोऽपि वारितः, वैदिकस्तुतिरूपार्चनं स्मातस्तुत्यादिरूपार्चनं च श्मशान- चण्डालवाटिकादिनिषिद्धदेशेषु न कार्यमनिषिद्धदेशष्वेव कार्यमिति वैदिक- स्तुत्यादिरूलार्चनस्य देशनियमापेक्षायाः सुप्रसिद्वत्वेन प्रकृतस्तुतौ तत्सा- पेक्षत्ववारणस्यावश्यिकत्वात्, उपक्रमानुसारेणास्यार्थस्यावश्यं वक्तव्यत्वाच्च। एवं प्रकृतस्तवस्य देशनियमसामान्यानपेक्षत्वप्रदर्शनेनास्य स्तवस्य नामकीर्तनरूपत्वमवगमितम, नामकीर्तनादन्यस्तुतेर्देशनियमसामान्यानपेक्ष- त्वसंभवात, ' नो देशकालनियमः शौचाशौचविनिर्णयः । परं संकीर्तनादेव राम रामेति मुच्यते ॥' इति वैश्वानरस्मृत्यादिवचनेषु भगवन्नामकीर्तनस्य देशीनयमानेपक्षतायाः सुप्रसिद्धत्वात् । एवं कालनियमानपेक्षत्वप्रतिपादक. माष्येणापि प्रकृतस्तुतेर्नामकीर्तनत्वं दर्शितम् , अत्र श्रुतिवाक्यादिभिः क्रियमाणं स्तुतिरूपमर्चनं सूतककालाशौचकालाधरात्रकालादिषु न कर्तव्य- मिति प्रातःकालादिप्रशस्तकालेष्वेव कर्तव्यमिति च तदर्चनस्य काल- (17) नियमापेक्षायाः सुप्रसिद्धत्वेन स्तुतिरूपाचनत्वमादाय प्रसक्तकालनियमस्य स्तुतिविशेषरूपार्चमस्य प्रतिषिद्धवसंभवात्, ‘नो देशकालनियमः' इति दर्शितवचनादौ नामकीर्तनस्य कालनियमानपेक्षतायाः सुप्रसिद्धत्वात, 'एवमादिनियमानपेक्षत्वम्' इति भाप्येण प्रकृतस्तवस्य शास्त्रीयेतिकर्तव्य- तानपेक्षत्वमवगमितम् । अस्मि-भाप्ये पुरुषान्तरनियमानक्षत्वं देशनियमानपेक्षत्वं कालनि- यमानपेक्षत्वमिति त्रिभिवाक्यस्त्रिवारं प्रकारभेदेन प्रकृतस्तवस्य नियमसामा- न्यानपेक्षत्वप्रतिपाइनेनैव तद्वाक्य त्रयाबोधितनियमापेक्षत्वाभावोऽसिद्ध इति सष्ठ ज्ञातुं शक्यमेवेति । अत एव तद्वायत्रयाबोधितनिधमानपेक्षत्वमादि. शब्दावगमितान यमानपेक्षत्वमिति भाष्याभिमतमित्यभिधानस्यासंभावितत्वेन अत एव तद्वाक्यत्रयावातनियमसामान्यानपेक्षत्वस्यैव तद्वाक्यत्रयावगत- प्रकारत्रयापेक्षया प्रकारान्तरेण बोधनमादिशब्दावगमितनियमानपेक्षत्व- भाप्याभिमतमियपश्यमङ्गीकर्तव्यत्वात् । इतिकर्तव्यतानियमानपेक्षत्वाभि- धानस्य नियनसामान्यानपेक्षत्वामिधाने पर्यवसन्नत्वात् । एवं नियम- सामान्यानपेक्षत्वप्रतिपादकेन 'आदिनि पभानपेक्षत्वम्' इति भाष्येण चास्य स्तत्रस्य नामकीर्तन रूपत्वमेव दर्शितम् । विहितमाखसकने ब्राह्मणानां मुनन्द्रिविधिनियमसमेतं शक्यते नैव कर्तुम् । तदखिलमपि हित्वा यो महा- देवशब्दं पठति फलमशेषं प्राप्नुयात्सोऽनवद्ये ॥' इति ब्रह्मकै वर्तवचनादिषु नामकीर्तनस्य नियमानपेक्षतायाः सुप्रसिद्धत्वात् । तत्रैतैः षड्विशेषगैर्नाम- कीर्तनरूपस्तवस्य नियमसामान्यानोसत्वप्रतिपादनेन धर्मत्वावच्छिन्नसकल- धर्माणां स्नानसंध्यावन्दनाध्ययनजपज्योतिष्टोमवेदान्त श्रवण प्रणवजपादी- नामाश्रमचतुष्टयधर्माणां वर्णचतुष्टयधर्माणामन्यजनधर्माणां स्त्रीधर्माणां चेति वेदोक्तसकलधर्माणामसिता ये नियमास्तन्नियनगन्योऽप्यस्य स्तवस्य नोपक्षित एवेत्यर्थोऽसिद्धः । एवं नामकीर्तनस्य नियमसामान्यानपेक्षत्वप्र- 3 (18) तिपादनात् स्त्रीपुंनपुंसकान्यतमेन येनकेनचिजनेनावशेन वोन्मादेन वा श्रद्धया वा श्रद्धां दिना वा चोरव्याघ्ररोगादिकृतातिनाशाय वा धर्मार्थकामा- न्यतमात्मकानित्यफलाय वान्यप्रयोजनाय वा यथाकथंचित्कृतनामकीर्तनेन सकळपापक्षयो मुक्तिश्च भवत्येवेत्यर्थी दर्शिनः 1. पुरुषान्तरानपेक्षत्वप्रदर्श- कभाष्येण 'हरिसंकीर्तनस्यास्य नोपदेशः कथंचन' इति ब्रह्माण्डपुराणवच- नेन च वामकीर्तनस्योपदेशानपेक्षत्वनिर्धारणादनित्यफलाय कृतनामकीर्तने- नाापे मुक्तिः सिध्यत्येव । तथा हि-नामकीर्तनेतरधर्मेऽनित्यफलाय प्रयुक्ते तत्प्रयोगेणानित्यफलमेव सिध्यति न तु तेनैव प्रयोगेण मुक्तिरपीति मुमुक्षणां मोक्षोद्देशनैव सर्वे धर्माः कार्या न त्वनित्यफलायेत्युपदेशो नामकीर्तनेतरध- माणामपेक्षितः सुप्रसिद्धः । स चोपदेशविशेषो नामकीर्तनस्य नापेक्षित इत्यर्थो दर्शितः । यथा 'नायं ब्राह्मणः इति ब्राह्मणत्वसामान्यनिषेधेन 'नायमात्रेयगोत्रब्राह्मणः ' इति ब्राह्मणत्वविशेषनिषेधस्योपदेशसामान्य- निषेधेनैवोपदेशविशेषनिषेधस्य सिद्धत्वादिति नामकीर्तनस्योपदेशानपे- क्षत्वप्रतिपादनेनानित्यफलाय कृतनामकीर्तनेन मुक्तिर्भवत्येवेति सिद्धम् । उक्तश्चायमर्थः श्रीमद्गीताशास्त्रे सप्तमाध्याये-'दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥' इति मायातरणहेतृभूतं प्रपत्तिशब्दितभजनमुपक्रम्य ' चतुर्विधा भजन्ते मां जनाः मुकृतिनोऽर्जुन । आर्तो निज्ञामुरार्थी ज्ञानी च भरतर्षभ ॥ इति बचनेनातिनाशार्थिधनादिय एते चतुर्विधाधिकारिणो नामकीर्तनादिरूप तद्भजनं कृत्वा आर्तिनाशधनादिकं प्राप्य तदनुभूय पश्चाच्चित्तशुद्धिं प्राप्य मायां तरन्तीत्यर्थ उक्तः । अयमर्थः सर्वोऽप्यद्वैतसिद्धिनामकग्रन्थकारम- धुसूदनानन्दसरस्वती श्रीचरणैर्भगवत्पादीयभाष्यानुसारिण्यां गीतागूढार्थ- दीपिकायां कण्ठरवेणोक्तः । अस्मत्कृतगीतासारामृताख्यअन्थे भगवत्पादीय- भाप्यव्याख्यानरूपे न्यायविदां हृदयंगमोऽयमों भवतीत्यभिहितः । पुराणादिवचनान्यस्मिन्नर्ये शतशः सन्ति, अन्यविस्तरभियात्र न प्रदर्शि- (19) कानि । तथा च वचनशतौनस्ति एव प्रयोजनान्तरमुद्दिश्य कृतनामकी- सेनेनापि मुक्तिर्भवत्येत्यर्थो भाष्यकारैर्दशित इति सिद्धम् । न च मूलेन वा भाष्येग वा न प्रतिपादितमप्रामाणिकं सताब्दि- तेस्तोरर्चनवमत्र कथं व्यवस्थितमिति वाच्यम्, मूछेन भाष्येण च स्तवश- किंदास्तुरचनायाः सम्यक्त्रतिमादितत्वात् । तथा हि- 'कमचन्तः- ' इति प्रश्नस्योपरत्वेन प्रवृते भीष्मवाक्यसंदर्भ ‘तमेव चायन्नियं भक्त्या पुरुषमव्ययम्' इत्यनेन सामान्यतोऽर्चनमुक्ता तस्यैवार्चनात्य मानसवाचिक- कायिकभेदेन त्रैविध्यमु कम् ‘ध्यायन्तुवन्नमस्यश्च' इति । एवं मूलेनोक्त सा तद्भाष्ये विशदीकृतम् । अतो मूलभाष्याभ्यामुक्तम् । अतः प्रामाणि- कमेव स्तुतेरर्चनत्वमिति तय म्हारे न कोऽपि दोषः । अत्र स्तवरूपधर्म- स्थ सर्वधर्माधिक्ये कारणं न केवलं नियनसामान्यानपेक्षत्वमेव, किंतु सकधर्भकलहेतुते सति नियमतामान्यानपेक्षसमेत्र कारणम् । लोके येषां पदार्थानां मध्ये यस्य वस्तुन आधिक्यं दृश्यते तस्य वस्तुन आधिक्ये तत्तक उपदार्थफलहेतुत्वे सति स्वार्थानामपेक्षितनियमानपेसनाया एवं हेतुत्वदर्शनात् । तथा हि-लोके कंचन माधुकरप्रदातारः कालदेशनियम- पत्रपुष्पाद्यानयनादिनियमानपेक्ष कलयपरिमितमन्नं प्रयच्छन्ति । अन्ये तु नियमं कमप्यनपेक्ष्य यदा कदा च वा गृहे आगमनमात्रेण झटित्यर्धकवलमात्रं माधुकरं प्रयच्छन्ति । तथापि तेषामाधिस्यं न वर्णयन्ति, नियमानपेक्षते सत्यपि महाफलाभावात् । यस्तु नियमं करप्यनपेक्ष्य यश कदा वा गृहे आगमनमात्रेण पुरुषाहाराय पर्याप्त माधकरं झटिति प्रयच्छति तस्य सर्वेभ्य आधिक्यं वर्णयन्ति, तत्र महाफलइवे सति नियमानपेक्षतायाः सत्वात् । अत आधिक्ये कारणं महाफलहेतुत्वं नियमानपेक्ष चेत्यु भयम- पौत्युक्तं , युक्तमेव । कश्चिद्धनार्थिमिाह्मगैर्दशवर्षपर्यन्तमहोरात्रं कृनसेवानियमैस्तुष्टा. धनिकाः केचन दातारः शतनिष्कादिकं सहस्त्रनिष्का- (20) दिक वा प्रयच्छन्ति, अन्यस्तु कर्णसदशः स्वनिकटागमनमात्रेणैवान्यत्रा- पेक्षितं नियम कम्प्यनपेक्ष्य सहखनिष्कादिकं प्रयच्छति । तेषां दातॄणां मध्ये सेवारूपनियमं कमप्यनपेक्ष्य सहस्त्रनिष्कादिदातुरेवाधिक्यं वर्णयन्ति, धनार्थिनियमसापेक्ष दातृन्निन्दन्ति च । एवमौषधानां मध्ये कायक्लेशवित्तव्य- योग्रपथ्यादिनियमं कमप्यनपेक्ष्य झटिति सकलारोग्यप्रदौषधस्यैव सकलौष. धानां मध्ये उत्कृष्टत्वं वदत्त्यारोग्यार्थिनः, नियमसापेक्षौषधानि निन्दन्ति च । एवं केचन भूप्रदेशविशेषाः बहुवनम्पयादिभिः संस्कारकरणबहुवा- कर्षणपत्रप्रेक्षागरूबहनियमानपेक्ष्य सस्य वन्तः फलन्ति । तेषां भू. प्रदेशानां मध्ये यस्तु भूप्रदेशः सत्यशाली सन्नुक्तनियम कमप्यनपेक्ष्य बहु फलति तस्यैवंभूतम्य भूप्रदेशस्याधिक्यं वदन्ति कृषिचतुराः । अतः सिद्ध- मुभयमप्याधिक्ये कारणनिति । अत्र भाष्यकृद्धिः सकलपुरुषार्थहेतुभूतं मुखसंपादनमनुक्तम्' इति भाष्येणोपक्रमे एवाधिक्यहेतुभूतस्य सकल- पुरुषार्थहेतुत्वस्योक्तत्त्वेनात्र नियमानक्षत्व राधिकभे कारणमित्युक्तं भाप्ये तयुक्तमेव । एवं नियमानपेक्षः स्तवो नामकीर्तनरूपं एव वेदमन्त्रैः पौराणिक- मन्त्रः स्मार्तमन्त्रैश्च क्रियमाणम्यान्यस्य च स्तवस्य देशकोपदेशकादि- नियमापेक्षायाः सिद्धत्वेन नियमसामान्यानपेक्षत्वासंभवात्, भगवन्नाम्नः सर्वेषां गुणवाचकत्वेन नामोच्चारणस्य गुणिनिष्ठगुणाभिधानरूपस्तवतायाः सिद्धत्वात् , भगवन्नाम्नां गुणवाचित्वस्य ' यानि नामानि गौणानि विख्यातानि महात्मनः , इत्यत्रैव मूलन 'गौगानि गुणयोगात्मवृत्तानि' इति भाप्येण च कण्ठरवेणोक्तत्वात् अस्यैव सहस्त्रनामभाप्यस्यान्ते एकैक- नामस्तवनस्यापि विशेषफलसाधनत्वं सकलफलसाधनत्वं च प्रतिपादयतो विष्णुवर्माध्यायस्यैकदेशोऽत्र विष्णुनामसहस्रभाष्ये पव्यते' इति भाष्ये एकैकनामस्तवनस्य' इति नामोच्चारणे स्तवनशब्दप्रयोगस्य विस्पष्ट- त्वाच्च । तस्मादत्रोक्तनियमनिरपेक्षः स्तवो भगवन्नामकीर्तनरूप एवेति सिद्धम् । - (1) अथवा : यद्भक्त्या पुण्डरीकाक्षम्' इत्यादिमूलस्य तथाप्यस्य च श्रीधरवेंकटेश्वरशास्त्रिंभिर्भगवन्नामभूषंगेऽभिहितोऽर्थ एवास्तु । तत्र स्तवन रर्चेन्नरः सदा " इति मूलतात्पर्याभिधायकम् ' स्तुतिलक्षणस्यार्चनस्य' इत्य। तद्भाष्यम् । स्तुतिर्लक्षणं विशेषणतया ज्ञापकं यस्य' इत्यर्थकं सत् 'स्तवैरर्चेत् ' इति मूले स्वरसप्रतीयमानस्तवनविशिष्टार्चनपरं न मन्तव्यम् ; तथा सति सर्वधर्माधिकत्वेनोक्तत्य प्रकृतधर्मस्य तादृशार्चनरूपताया एवं भाष्याभिमतस्यापत्त्या तस्याधिक्ये हिंसाद्रव्यान्तरपुरुषान्तरादिनियमान- पेक्षताया हेतुत्वपर- ' हिंसापुरुषान्तर'-इति भाष्यविरोधापत्तेः अर्चनस्य पत्रपुष्पादिहिंसा पत्रपुष्पादिद्रव्यान्तरमुपदेष्ट्ररूपपुरुषान्तरं देशनियमः कालनियम इत्यादिसापेक्षताया विस्पष्टत्वात् । किं तु तद्भाप्यं स्तुत्यात्म- कार्चनाभिधानपरं सन्मूले ' स्तवैरर्चेत् ' इत्यत्र स्तवनमेव विवक्षितम , स्तवनविशिष्टार्चनं तु शब्दतः प्रतीयमानमपि न विविक्षितमिति प्रत्यायना- लंकृतधर्मः स्तवनरूप एव, न तु तद्विशिष्टार्चनरूप इति प्रत्यायनार्थम् । एवं सत्युक्तार्थप्रत्यायनार्थमत्र मूले स्तवनमेव विवक्षितं न तु तद्विशि- ष्टाचैनम् । इत्येव वक्तव्ये 'स्तुतिलक्षणस्यार्चनस्य' इत्येवमर्चने स्तवनात्म- कत्वाभिवानं मुखचन्द्रः इत्यत्र चन्द्रे मुखात्मकत्वाभिधानं मुखे चन्द्राभेदारोपेण नियतं तथा स्तवनेऽर्चनाभेदारोपेण नियतमेवेति तस्मिन्स्तवनेऽर्चनाभेदारोप प्रत्याययति, तत्प्रत्यायनेनार्चने स्तवनात्मक- त्वाभिधानं तदारोपस्य स्तवनेऽर्चनफलसाधनत्वमादाय प्रवृत्तत्वप्रत्यायनं संपादयति । तथा संपादयत्सत् अर्चने स्तवनात्मकत्वाभिधानं तदेवार्चन- फलसाधनत्वमादाय 'स्तवैरर्चेत् । इत्येवं स्तवनेऽर्चनसाधनत्वोक्तरुपपन्नत्व- प्रत्यायनार्थम् । दृश्यते हि लोके । फलाहारेण मेऽनेन जातं मिष्टान्न- भोजनम् ' इत्यादौ दृढफलाहारादौ मिष्टान्नभोजनादिजन्यतृप्त्यादिफल. साधनत्वमादाय तत्साधनत्वव्यवहारः। दृश्यते च श्रीमद्रामायणे आरण्य. काण्डे लक्षाशेन निर्मितां पर्णशालां दृष्ट्वा तं प्रत्यत्यन्तप्रहृष्टस्य श्रीराम . तु यथा (22) क्यने भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ।। ' इत्यत्र मम पिता न संवृत्तो न विनष्ट इत्यनेन विवक्षितं यद्दशरथ नीव इवस्थानं तत्कलभूनायां श्रीरामस्न स्वभयत्ननिरपेक्षम्वाभिमत- सकहातिद्वौ लक्ष्मणस्य साधनतामादाय तस्मिलक्ष्मण 'त्वया न संवृत्तः पिता मम ' इति दशरथनीववस्थानत्वव्यवहारः । तथा च स्तवैरर्चेत् । इत्यत्र स्तवनमे विक्षिां न तु तहिशिष्टार्चन मिति प्रत्यायनाम् । तथै भिवाने सावन्मानं सिध्येत् , न तु स्तवनेऽर्चनफ ठप्ताधनत्वमादाय तत्सातत्वोक्तरुपपन्नत्वात्यायनं च सिध्यदिति प्रत्यायनद्वय लाभार्थमपि स्तुति लागाय' इति भाष्पांशेनाचने सवनात्मकत्वाभिवानमिति पर्यव. स्थति । न त्वनेनाभिवानेन यथा ' कानिमान्मुख कन्द्रः' इति चन्द्रे मुखात्मकत्वाभिधानेन चन्द्रेऽन्त्रिस्यापि कान्तिमत्वस्य मुखे प्रतीतिःसिध्यति । तथा मूळे : भक्त्या सदा' इत्येतदुक्तयोभक्तिसातत्ययोः स्तवैरर्चेत् इत्यत्रार्चनको प्रधानभूतवात्वर्थेऽन्वितयोरप्यु पदार्थ स्ताने प्रतीतिः कि न सिध्येदिति शङ्कयम् , 'कान्तिमान्मुख वन्द्रः' इत्यत्र मुखे चन्द्राभेडा- रोपस्य सिद्वतया तत्र तदलाच्चन्द्रेऽन्त्रितस्यापि कान्तिमत्वस्य मुखे प्रतीतियुज्यते । 'स्तवैरर्चेत् ' इति मूले तु स्तवनेऽनताध नत्वमेवाभिवीयते । तदर्भदारोपस्य तु नास्ति प्राप्तक्तिरिति न तबलादर्चनान्वितयोक्तिसातत्ययोः स्तवने प्रतीत्यवकाशः, भाष्येऽत्रने स्तवनात्मकत्वाभिधानं चोक्तप्रत्यय- द्ववार्थतामादाय तावतैव चरितार्थमिति भाव्ये उक्ताभिधानस्य मूलेऽर्चना- न्वितयोस्तयोः स्तवने प्रतीत्यर्थत्वकल्पनाया अयुक्तत्वात् । ततश्च ' स्तवै. रर्चत् ' इत्यत्र स्तवनेऽर्चनसाधनत्वस्य शब्देनाभिवानेऽपि तदभिधानस्य लत्फलसाधनवनिबन्धनताया उक्ततया तत्यार्चनफले वैशिष्टयमेव तात्पर्य विषयीभूतम् । अर्चने वैशिष्ट्यं तु शब्दतः प्रतीयमानमपि तात्पर्यविषयी. भूतमिति पवसानादत्र स्तवनमेव विवक्षितम् , न तु तद्विशिष्टार्चनमित्यु- सार्थस्य न क्षातरिति । तथा च भक्ति सातत्ययोरर्चने एवान्वयस्य सिद्ध- वन स्तवनयोक्तमर्चनफलसाधनवं तद्विशिष्टाचनकलसांधनत्वरूपमित्ये. तावदेव न तु तयोः स्तवने संबन्ध इत्युक्तम् । तत्र' यथा स्वर्गादिसाधनी- भूतापूर्वसाधनत्वमेव ज्योतिष्टोमादीनां स्वर्गादिसाधनत्वमिति कल्पनस्योप- पन्नत्वं तथा 'स्तवैरर्चेत् ' इत्यत्र तत्रिविधार्चनफलसाधनत्वमेव स्तवनस्य तत्त्रिविधार्चनसाधनत्वमित्यस्याप्युपनत्वात् , तथा 'स्तवैरर्चेत् । इत्यत्र सर्वधर्माधिकत्वेनोक्तो धर्मः स्तवनविशिष्टार्चनं न भवति किं तु केवलस्तवन- मेवेत्युक्तमित्येतत् । तथा ' स्तवैरर्चेत् ' इत्यत्रैव भक्तिमातत्ययोरर्चनान्वितत्वमेव, न तु स्तवनान्वितत्वमित्युक्तमित्येतच्च युक्तमेव, · श्रुत्वा धर्मानशेषेण- ' इति वैशम्पायनवाक्यरूपपरमोपक्रमानुसारात् , तस्मिन्परमोपक्रमे हि प्रष्टव्य- धर्मस्य नियमसामान्यानपेक्षत्वेन सुखसंपाद्यताया दर्शितत्वात् . । . अन्यथा तदुपक्रमविरोधापत्तेः । तथा नियमसामान्यानपेक्षत्वेन सर्वधर्माधिकत्वेन चौक्तस्य केवलस्तवस्य ' हिंसाद्रव्यान्तरपुरुषान्तर '- इत्यादिभाष्ये नाम- कीर्तनरूपत्वमवगमितमित्यनुपदमवोक्तम् । अयं नियमनिरपेक्षः सर्वोत्कृष्ट स्तवो नामकीर्तनमेवेत्यर्थो विस्पष्टुं दर्शितः * ध्यायन्कते यजन्यस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ इति विष्णुपुराणवचनम्" इति भाष्येण । भाष्यकाराणामस्य स्तवस्य नामकीर्तन- रूपत्वप्रतिपादनतात्पर्याभावेऽत्र विष्णुपुराणवचनोदाहरणस्यासांगत्यापत्ति- रनिवार्यैव । विष्णुपुराणषष्ठांशद्वितीयाध्यायगतात् 'ध्यायन् इति वचनात्प्राक्प्रवृत्तः कृत्स्नप्रथमाध्यायरूपो द्वितीयाध्यायैकदेशरूपश्च संदर्भः तद्वचनानन्तरं प्रवृत्तो द्वितीयाध्यायैकदेशरूपसंदर्भश्चेत्युभयोः संदर्भयोः ध्यायन ' इति वचनस्य च पर्यालोचनायां परमहंसादियतीनां गृहस्थानां सकलवर्णाश्रमाणां स्त्रीणामन्येषां च सकलप्राणिनां मंतिपूर्वकं प्रकाशकृत- मन्पञ्चेतीत्येतत्सकलपापनाशकः सकलाभ्युदयप्रदः सकलमुक्तिप्रदश्च सक- (24) armada इति सिद्ध त्र'ध्याय - ' इति वचने 'चायन्' इत्यनेनावगते ध्यानं निदिध्यासनका निर्गु मध्यानं सगुणध्यानं चेति ध्यानत्वावच्छिनं सर्व ध्यानं गृह्यो। कृतवेताद्वापरग्रहणेन सिद्धनिरतिशय- ध्यानम जनार्यावत्फलं तावत्फझं केशवस्य सहनामकीर्तनेनैव स्यादिति प्रतिपादनात्तकृत्कीतनत्य प्रत्येकं निरतिय ध्यानयजनार्चनम्प आविषय दर्शित । एवं निरतिशयनिदिध्यासनापेक्षया सन्नामकीर्तनस्यात्यन्ता- विस्यप्रतिपादनात्परमहंसयतिवरिष्ठेन सम्यक् कृतवेदान्त श्रवणमनननिदिध्या- सनादिप्तकलभ्यः सकृन्नामकीर्तनमत्यन्तोत्कृष्टमित्यर्थः सिद्ध एवेत्यत एव सकृनाम कीर्तन मतिबद्वापरोक्षज्ञाननन कमित्यर्थः सिद्धः । अयमों विष्णुपुराणपठाशे प्रथमाध्यायको द्वितीयाध्याये च तात्पर्यग्राहकैः षड्डि घलिङ्गरपि दृढोकत इत्याः सम्पम्बिस्तरे गोपपादितो भगवन्नामामृतार्ण वाख्य ग्रन्ये अन्यविस्तरराभियात्र न विस्तरेण दर्शितः । श्रुत्वा धर्मान्-' इति वैशम्पायनवाक्यरूपोपक्रने तद्भाध्ये 'एष में सर्वधर्माणाम्' इत्युसंहारे तदाप्पे च पोलोचित संकृत्स्नवशब्दोंक्त- सहनामकीर्तने सकलवर्मफलहेतुत्वे सति नियमसामान्यानपेक्षत्वहेतुकस्य सफलवर्मोत्कृष्टत्वस्य प्रतिपादनेन परमहंसयतिवरिष्ठैरनुष्ठितवेदान्तअवग- मनननिदिध्यास नादिसकलयर्मेभ्योऽपि स नामकीर्तनस्योत्कृष्टतायाः सिद्ध- त्वेन श्रवणमनननिदिध्यासनानीव सकृनामकीर्तनमप्रतिबद्धमपरोक्षमात्म. ज्ञानं जनयत्येवेत्यर्थो निप्प्रत्यूहं सिद्धः । अत्र मूलेन भाष्येण च यस्तु स्तवः सकृत्कृत एव कमपि नियममनपेक्ष्य सकलपापक्षयहेतुः सकलाभ्युदय हेतुः सालोक्यादिसकलमुक्तिहेतुीनद्वारा विदेहमुक्तिहेतुश्च स्यादिति प्रति- पादितः, तस्य स्तवस्य नामकीर्तनरूपत्वं नामकतिनत्य विदेहमुक्त्यन्त- सकलफलहेतुत्वं च सम्यगवामितम् । पुनरप्यस्मिन्नेव भाष्ये सकृन्नाम- कीर्तनस्य नियमसामान्यापेक्षारहितायैव सतः सकलपापक्षयायुक्तफलहेतुत्व- प्रतिपादकस्य विष्णुपराणसंदर्भस्य प्रदर्शनेन प्रकृतस्तवस्य नामकीर्तन- ( e रूपत्वं नामकीर्तनस्य विदेहमुक्त्यन्तसकलफलहेतुत्वं च दृढीकृतम् । पुनश्चास्मिन्नेव भाष्ये विश्वनामव्याख्यानानन्तरं विष्णुनाम्नो व्याख्यानात्प्रा- क्प्रवृत्तेऽस्मिन्भाष्यसंदर्भे सकृन्नामकीर्तनमेव कमपि नियममनपेक्ष्य सकल- पापक्षयहेतुः सकलाभ्युदयहेतुर्विदेहकैवल्पहेतुश्च स्यादित्यर्थप्रतिपादक- वचनानामुदाहरणेन प्रकृतस्तवस्य नामकीर्तनरूपत्वं नामकीर्तनस्य विदेह- कैवल्यान्तसकलफलहेतुत्वं च स्थूणानिखननन्यायेन दृढीकृतम् । सोऽयं भाष्यसंदर्भः 'अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहवस्तैगैरिव ॥ यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ! मैत्रयो- शेषपापानां धातूनामिव पावकः ॥ कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् । प्रयाति विलयं सद्यः सकृद्यस्य च संस्मृतेः ॥ ज्ञानतोऽज्ञानतो वापि वास- देवस्य कीर्तनात् । तत्पापं विलयं याति तोयस्थलवणं यथा ॥ सकृत्स्मृतोऽ. पि गोविन्दो नृणां जन्मशतार्जितम् । पापराशिं दहत्याशु तूलराशि- मिवानलः ॥ सदुच्चरितं येन हारेरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामो न पुनर्भवाय ॥ मा ऋचो मा यजुस्तात मा साम पठ किंचन । गोविन्देति हरेनीम गेयं गायस्व नित्यशः।। नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्य- तदद्भुतम् ॥ नरके पच्यमानस्तु यमेन परिभाषितः । किं त्वया नाचितो देवः केशवः क्लेशनाशनः ॥ कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ गोकोटिदानं ग्रहणेष काशीप्रयागगङ्गायुतकल्पवासः । यज्ञायुतं मेरुमुवर्ण- दानं गोविन्दकीर्तेर्ने समं शतांशे ॥ हत्यायुतं पानसहस्त्रमुग्रं गुर्वङ्गनाकोटि- निषेवणं च । स्तेयान्यसंख्यानि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यः ।। कृष्णानुस्मरणादेव पापसंघातपारम् । शतधा भेइमायाति गिरिर्वजहतो यथा ॥ इत्यादिवचनैः श्रन्द्राभक्त्योरभावेऽपि नामसंकीर्तनं सकलदुरितं 26) नाशयतीत्युक्तम् । 'मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति । यद्धि मनसा ध्यायति तद्वाचा वदति ' इति श्रुतिभ्यां संस्मरणं ध्यानं च नामसंकीर्तनेऽन्तर्भूतम् । यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि पच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदधं पयाति विलयं तत्राच्युते कीर्तिते ॥' इति श्रीमता पराशरेणोपसंहृतम् । भालोज्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमकं सुनिष्पन्नं ध्येयो सरायणः सदा ॥' इति श्रीवेदव्यासेनोपसंहृतम् । ' हरिरेकः सदा ध्येयो बद्रिः सत्त्वमास्थितैः । ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् || इति श्रीहरिवंशे कैलासयात्रायाम् 'हरिरेकः सदा ध्येयः' इत्युक्तं महेश्वरेणापि । एतत्सर्वमभिप्रेत्य 'एष मे सर्वधर्माणाम्-' इत्याधिक्य. मुक्तमिति । एतत्सर्वमभिप्रेत्य ' इति अत्रोदाहृतवचनानामर्थ नामकीर्तन- माहात्म्यरूपं सर्वमभिप्रेत्य नामकीर्तनस्य सकलधर्मभ्य आधिक्यमुक्त- मित्यर्थः। अत्र भाष्ये दर्शितवचनानां मध्ये केषांचिद्वचनानामर्थः कण्ठरवेणोक्तः । अन्दाभक्त्योरिति । 'अनेनेदं फलमवश्यंभावीति विश्वासः श्रद्धा, भक्तिस्त- त्परत्वम् ' इति — यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेत् ' इतेि वाक्यभाष्ये दर्शितम् । एवं नामकीर्तनस्य श्रद्धानियमभक्तिनियमानपेक्षत्वप्रदर्शनेन पूर्वम् हिंसापुरुषान्तर' इत्यादिभाष्येण दर्शितनियमसामान्यानपेक्षत्वमत्रापि दर्शितमेव । अत्र श्रद्धानियमानपेक्षत्वोक्त्या नामकीर्तनस्य सन्नामकीर्तन- त्वं दर्शितम्, आवृत्तेः श्रद्धाहेतुकत्वेन श्रद्धाऽभावे आवृत्तेरसंभवात् । उपक्रमे वक्तव्यनामकीर्तनस्य सकलदुरितनाशकत्वमत्र कण्ठरवेणोक्तमादर- मूचनार्थम् । अत्र ' इति श्रुतिभ्याम् ' इत्यादिभाष्येण स्मरणध्यानयो- नामकीर्तनेऽन्तर्भूतत्वोक्त्या, तथा पूर्वभाष्ये ध्यायन्कृते-' इति विष्णु- (27). पुराणवचनोदाहरणेन नामकीर्तनस्य ध्यानयजनार्चनफलहेतुत्वप्रदर्शनेन चात्र 'कलिकल्मषमत्युग्रम् -' इति वचनेन • सलत्स्मृतोऽपि गोविन्दः- इति वचनेन च स्मरणस्योक्तं सकलपापक्षयहेतुत्वं, कीर्तनस्याप्युक्तमेव स्मरणस्य कीर्तनेऽन्तर्भूतत्वात् । एवम् ' नरके पच्यमानस्तु- ' इति वचने- नार्चनस्योक्तं कीर्तनस्योक्तमेव । एकोऽपि कृष्णस्य कृतः प्रणामः- " इति वचनेन नमस्काररूपार्चनस्योक्तं फलं च कीर्तनस्योक्तमेव । नमस्कारस्य कीर्तनान्तर्भूतत्वात् । यस्मिन्न्यस्तमतिः । इत्युदाहृतविष्णुपुराणवचनस्यार्थो विस्तरेण दर्शितो नामामृतार्णवे ग्रन्थविस्तरभियात्र संग्रहेण प्रदश्यते- अत्र न्यस्त- मतिरित्युक्तोऽच्युते मतिन्यासो धारणाय । यचिन्तने इत्युक्ताच्युतचिन्तनं ध्यानम् । निवेशितात्ममनस इत्युक्तोऽच्युते मनोनिवेशः समाधिः । चेतसि यः स्थित इत्युक्तमच्युतस्य चेतस्यवस्थानं साक्षात्कारः । तथा च यस्मिन्य- स्तमतिः नरस्य कं सार्वभौमसुखं न प्राप्नोति, तत्सुखं तद्वारणाया अनन- रूपं फलम् , मुक्तिरेव तस्या अनुरूपं फलमिति भावः । यत्राच्युते निवेशि- तात्ममनसो ब्राह्मोऽपि लोकोऽल्पक: मुक्तिरेव फलम् । पुंसां चेतसि यः स्थितोऽव्ययो मुक्तिमेव ददाति । एवं यदच्युतविषयकधारणादिचतुर्णा नियमेन मुक्तिरेव फलं तस्मिन्नच्युते कीर्तिते सकलमवं विलयं प्रयातीति यत् , तत्किं चित्रं किमाश्चर्यम् । धारणाध्यानसमाधिसाक्षात्कारेभ्य उत्कृष्टस्य नामकीर्तनस्य सकलाघविलयनहेतुत्वं किमाश्चर्यमिति भावः । इदं च कीर्तनस्य यदाधिक्यम् ' श्रुत्वा धर्मानशेषेण-' इति परमोपक्रमे 'को धर्मः सर्वधर्माणाम् – ' इति प्रश्नपचने - गुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावममं धर्म्य सुसुखं कर्तुमव्ययम् । अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ॥' इति भगवद्गीतानवमाध्यायसंदर्भ च विस्पष्टम् । एवं नामकीर्तनस्य 'धारणादिचतुर्थ्य भाधिक्यबोधकस्य — यस्मिन्न्यस्त- ' इति वचनम्यार्थ- (28) , . वादत्वशङ्कावारणायोक्तमिति श्रीमता पराशरेणोपसंहृतमिति । विष्णुपुराण- षष्ठांशान्तिमाध्याये ‘अवशेनापि यन्नाम्नि कीर्तिते ' इत्युपक्रम्य 'यस्मि- न्यस्तमतिः-' इत्युपसंहृतत्वेन नार्थवादत्वमिति भावः । अत्र धारणादिधर्म- चतुष्टयान्नामकीर्तनस्याधिक्यप्रतिपादनेन कीर्तनस्य सर्वधर्माधिक्यं दर्शित- मेव । एतदर्मचतुष्टयस्य सर्वधर्मेभ्योऽधिकत्वात् । यस्मिन्न्यस्त इत्यस्मिन्वचने नामकीर्तनस्य दर्शितध्यानाद्यपेक्षयाधिक्यं सर्वधर्माधिस्यमेव ध्यानस्यैव सर्वधर्माधिकल्वेन ध्यानादधिकनामकीर्तनस्य सर्वधर्माधिकतायाः कैमुतिकन्यायसिद्धत्वादित्यभिप्रेत्य ध्यानस्य सर्वधर्माधिक्यं दर्शितमुनर भाष्ये भारतहरिवंशवचनयोरुदाहरणेन । अत्र भारतवचनस्यायं भाव:- सकलधर्मप्रतिपादकसकलशास्त्राणां पुनः पुनार्वचारेण सगुणनिर्गुणरूपध्यान- मेकमेव सुनिष्पन्नमित्यभिधानस्य सकलधर्माधिकतायाः सगुणनिर्गुणध्यानमेकं सुनिप्पन्नमित्यर्थं विनान्तरस्यात्यन्तायुक्तत्वेन ध्यानस्य सर्वधर्माधिकतायाः सिद्धत्वात्, ध्यानत्वावच्छिन्नध्यानस्यं सगुणध्यानत्वमेवेति संकोचकल्पने मानाभावादिति । श्रीव्यासेनोपसंहृतम् इति भाप्यस्यायं भाव:- भारते नारायणध्यान- मुपक्रम्य पुण्डरीकनारदसंवादरूपेण महता संदर्भेणोपपाद्य 'आलोड्य- इति वाक्ये ध्यानस्योपसंहृतत्वेनास्य वाक्यस्य स्वार्थपरताया अनिवार्यत्वेन नार्थवादत्वमिति । हरिवंशवचनेऽपि — हरिरेकः सदा ध्येयः' इत्युक्ते हरिध्यानन्य सर्वधर्मोत्कृष्टत्वं सिद्धमेव "हरिरेकः सदा ध्येयः इत्युक्तं महेश्वरेणापि' इति भाष्यम्यायं भावः-विधिप्रत्यययुक्तस्य महेश्वरवाक्य. स्याम्य विधायकत्वमेव नार्थवादत्वमिति । अत्र कीर्तनस्य दर्शितं मूलाविद्या- विनिवारकज्ञानादाधिक्यं सलत्कीर्तनस्यैव तत्राच्युते कीर्तिते ' इत्युक्त झटिति सकृत्कीर्तनस्यैवावगमात्, अत्र भाप्ये ' यस्मिन्न्यस्त-' इति वचनोदाहरणात्प्राग्ज्ञानद्वारा मुक्तिप्राप्तिप्रतिपादकस्य ‘सकृदुच्चरितं येन' (29) इति वचनस्य दर्शितत्वाच्च । तद्वचने 'बहः परिकरस्तेन मोक्षाय गमनं प्रति ' इत्यनेनोक्तः परिकरबन्धस्तु मूलाविद्यानिवर्तकज्ञानसंपादनमेंक, तत्परिकरबन्धानन्तरमेव मुक्तिप्राप्तिप्रतिपादनात् । अतः सिद्धमेव संकृत्की- र्तनस्य ज्ञानादुत्कृष्टत्वं भाष्यामिमतमेवेति । ननु ज्ञानादाधिक्यं कोर्तनस्यायुक्तमेव ज्ञानं विना कीर्तनस्य मुक्ति- हेतुत्वासंभवात् प्रत्युत ज्ञानस्य नामकीर्तनादाधिक्यमेवोचितम् , ज्ञानस्य साक्षान्मुक्तिहेतुत्वादिति चेत् ; सत्यं ज्ञानं विना कीर्तनस्य मुक्तिहेतुत्वं नास्त्येव ; तथाप्यत्र दर्शितं कीर्तनस्य ज्ञानाधिक्यं युक्तमेव, कीर्तने ज्ञानादाधिक्यं ज्ञानस्य कीर्तनाधीनत्वमेवेत्यङ्गीकारात्, लोके यद्वस्तुनो यत्पदार्थाधीनत्वं तद्वस्त्वपेक्षया तत्पदार्थेऽधिकताया दृष्टत्वात् वैद्यशास्त्रार्थ- ज्ञानसामान्याभावेन रोगनिवर्तनसामर्थ्यरहिते मण्डलेश्वरे महाराजे तन्महा- राजाधीनजीवनाद्वैद्यशास्त्रनैपुण्यजन्येन सकलरुनिवर्तनकौशलेन तन्महा• राजस्याशक्यकार्यकरणसमर्थाद्वैद्यश्रेष्ठात्तन्महाराजस्योत्कृष्टतया दृष्टत्वेन नामंकीर्तने शास्त्रेण दर्शितस्य ज्ञानादुत्कृष्टत्वस्योपपन्नताया अनिवार्यत्वात् । अतः सिद्धमेव सकृन्नामकीर्तने ज्ञानादाधिक्यम् । विहितं च सकृत्कीर्तनमप्रतिबद्धापरोक्षज्ञानसाधनत्वेन ऋग्वेदे आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ' इनि संदर्भेण । अस्याः श्रुतेरर्थः श्रीधरवेंकटेश्वरशास्त्रिभिर्भगवन्नामभूषणे विस्तरे- णोक्तः । ग्रन्थविस्तृतत्वभियात्र संग्रहेणोच्यते-तच्छूतौ जानन्तः अप्रति- बद्धापरोक्षज्ञानार्थिनः अस्य विष्णोः नाम चित् नामैव आ विवक्तन ईषत्कीर्तयत । सकृत्कीर्तयतेति भावः । अप्रतिबद्धापरोक्षात्मज्ञानोद्देशेन सकृन्नामकीर्तनमत्र विहितम् , 'श्येनेनाभिचरन्यजेत' इतिवदस्य वाक्यार्थ- स्योपपन्नत्वात् । अत्र विधेयविशेषणसमर्पक ईषदर्थको वाभिव्याप्त्यर्थको .. वेति संशयवारणहारात्रोद्देश्यत्वेनावगतं ज्ञानं मूलाविद्याविनिवारकमप्रति- बापरोक्षज्ञानभेवेत्यर्थ ढढीकरोति ' महस्ते- ' इत्यादि वाक्यशेषः । भत्र मनामहे'. इति लङ्कतमानसमीपार्थकः । ' इति निश्चयवन्तः इति पदद्वयमध्याहर्तव्यम् । हे विष्णो महः त्रिविधपरिच्छेदरहितस्य ते तव सुपति शोभनां मतिम् अप्रतिबद्धापरोक्षात्मज्ञानं भजामहे प्राप्नुमः इति निश्चयवन्तः आ विवक्तनेत्यन्वयः । अयमर्थः-भगवन्नामकीर्तने कृते ज्ञानं कालान्तरे प्राप्स्याम इति न मन्ध्वम्, किं तु कीर्तनस्य वर्तमानकालसमीप काल एव कीर्तनसमनन्तरकाल एव ज्ञानं प्राप्नुमः सकृत्कीर्तनेनैव मूलाविद्या- विनिवर्तकज्ञानं प्राप्नुन इति निश्चियवन्तः सन्तः कीर्तयतेति सकृत्कीर्तने - नैकापतिबद्धापरोक्षात्मज्ञानं जायत इति भावः । एवमत्र वाक्यशेषे सकृत्कीर्तनस्यैवाप्रतिवद्वापरोक्षात्मज्ञानसाधनत्वप्रतिपादनेन दर्शितः संशयो निवर्तितः तज्ज्ञानं च दृढीकृतमित्यर्थः सिद्धः । एतदृग्वेदवाक्यस्येव 'आस्य जानन्तो नाम चिद्विवक्तन बृहत्ते विष्णो सुमतिं भजामहे ' इति यजुर्वेद- वाक्यस्याप्यों वाच्यः। उभयोवाक्ययोः शब्दैक्यस्य दर्शनात् । अत्र 'बृहत् ' इति लुप्तषठीकं पदम् । बृहत इत्यर्थः। ' एवम् ' -राज्याहाणां महामृताम् । धर्ममार्ग चरित्रेण ज्ञानमार्ग च नामतः । स्वस्य ध्यानेन वैराग्य- मैश्वर्य स्वस्य पूजनात् । रामो रात्यस्य रामाख्या भुवि स्यात् ' इति राम- तापन्याख्याथर्वणवेदोपनिषत्संदर्भ तु सहन्नामस्मरणस्य सहन्नामकीर्तनस्य सकृन्नामश्रवणस्य चाप्रतिबद्वापरोशज्ञानसाधनत्वं दर्शितम् । तथा हि-ज्ञान- रूपमार्ग येन ज्ञानेनावश्यं मुक्ति प्राप्नोति तदप्रतिबद्धापरोक्षमात्मज्ञानं राति ददाति नामतः । पञ्चम्या हेत्वर्थे तसिः । तथा च तज्ज्ञाने रामस्य नाम हेतुरित्यर्थः । नाम्नो हेतुत्वोक्त्या नामस्मरणस्य नामकीर्तनस्य नाम- अवमस्य वा ज्ञानहेतुत्वं स्यात् । तेन च सकृन्नामस्मरणं वा सकृनामकीर्तनं वा सकृन्नामश्रवणं वा अप्रतिवद्धापरोक्षज्ञानसाधनत्वेन विहितमित्यर्थः । अस्याः श्रुतेरयों विस्तरेण दर्शितो नामामृतार्णवे । ग्रन्थविस्तृतत्वभियात्र (31) संग्रहेण दर्शितः । तथा च ऋग्वेदे. यजुर्वेद आथर्वणवदे बाप्रतिवद्धापरी- क्षात्मज्ञानोद्देशेन सकृन्नामकीर्तनं गतिसामान्येन किहितमित्ययमर्थः स्थूणा- निखननन्यायेन दृढीकृतः, ब्रह्ममीमांसायामीक्षत्यधिकरणे 'गतिसामान्यात्' इति गुणसूत्रभाष्ये महच्च प्रामाण्यकारणमेतद्यत्प्रमाणानां गतिसामान्यम् ' इत्यर्थस्य प्रतिपादितत्वात् । अत्र भाष्येऽनुपददर्शितम् ' सकृदुश्चरितं येन हरिरित्यक्षरद्वयम् ' इति वचनमासां श्रुतीनामुपबृंहणं स्यात् । एतज्जाती- यानि पुराणवचनानि बहून्युदाहर्तुं शक्यानि ग्रन्थविस्तृतत्वभिया नात्र दर्शितानि । मन्त्राणां विधायकत्वमङ्गीकृतं धर्ममीमांसावार्तिककारैः-'विधि- शक्तिर्न मन्त्राणां नियोगेनापनीयते । स्वतो विधास्यति ह्येष नियोगात्स्मार- यिष्यति' इति वार्तिकेन । अत्र वैशम्पायनवाक्यरूपोपक्रमादीपत्तत्स्वार- सिकार्थनिर्णयप्रस्तावे सकृत्कीर्तनं ज्ञानद्वारा मुक्तिसाधनमिति निर्णीतत्वेन तत्संदर्भः । तथा विष्णुपुराणषष्टांशान्तिमाध्याये — यस्मिन्न्यस्तमतिः ' इत्यादिसंदर्भे सकृन्नामकीर्तनमप्रतिबद्धापरोक्षज्ञानसाधनमिति प्रतिपादितत्वेन तत्संदर्भश्चासां श्रुतीनामुपबृंहणं स्यादेव ! ‘यन्नामसकृच्छ्रवणात्पुल्कसोऽपि विमुच्यते संसारात् ' इति सिद्धान्तसिद्धाजनकर्तृभिः श्रीबालकृष्णानन्द, चरणैः पुरुषार्थ रत्नाकरे नामतरङ्गे दर्शितश्रुतौ तु सकृन्नामश्रवणस्य मुक्ति, हेतुत्वं कण्टरवेणोक्तमिति ज्ञानं विना मुक्त्यसंभवेन तस्यां श्रुतौ ज्ञानद्वारा मुक्त्युद्देशेन भगवन्नाम्नः सकृच्छ्रवणं विधीयते । अतोऽत्र भाष्ये दर्शित. वचनैरयमर्थः सिद्ध एव । नियमं कमप्यनपेक्ष्य सकृन्नामकीर्तनमेव सकल- पापनिवर्तकं सकलाभ्युदयसाधनं मुक्तिसाधनं चेत्येतत्सर्वमभिप्रेत्य 'एष मे सर्वधर्माणामित्याधिक्यमुक्तम् ' इति भाष्यस्यायमर्थः । अत्र भाष्ये दर्शित- वचनैरन्यैश्च भगवन्नाम्नां यद्यन्माहात्म्यमुक्तं तत्सर्व तथ्यमेव न गुणवाद- रूपमित्यभिप्रेत्य ' एष मे सर्वधर्माणाम्-' इति नामकर्तिनस्य सर्वधर्मा- धिक्यमुक्तामिति । भारते तु ' श्रुत्वा धर्मान्-' इति वैशम्पायनवाक्येन को धर्मः सर्वधर्माणाम् ' इत्यादिप्रश्नोत्तररूपमंदर्भेण च भगवन्नाममु एष मे सर्वे. (32) दर्शितमाहात्म्यापेक्षयाधिकमाहात्म्यस्य श्रुतिपुराणेतिहासादिषु क्वापि वक्तु- मशक्यत्वादिति भावः । अन्यथात्र वक्तव्यस्य वैशम्पायनवाक्यमारभ्य मे सर्वधर्माणाम् - ' इति भीष्मवचनवाक्यान्तमूलार्थस्य सर्वस्यापि प्रागेवोक्तत्वेन पुनरपि मूलार्थस्यात्र भाष्येऽभिधानाभावेन बहूनि नामकीर्तन- माहात्म्याभिधायकवचनान्युदाहृत्य एतत्सर्वमभिप्रेत्य । धर्माणाम् ' इत्याधिक्यमुक्तमिति भाष्योक्तेर्वैयर्थ्यांपत्तेः । एवं नामकीर्तनस्य पुराणेतिहासादिषु कमपि नियममनपेक्ष्यैव सकलपापक्षयहेतुत्वस्य सकलाभ्यु- दयहेतुत्वस्य मुक्तिहेतुत्वस्य चाभिधायकवचनानां स्वार्थपरत्वं प्रदर्थ इममर्थ पुनः पुनरभिधानेन दृढीकर्तुमस्मिन्नेव सहस्रनामभाष्येऽग्रिमसंदर्भ पञ्चसु स्थलेषु नामकीर्तनमाहाम्यप्रतिपादकवचनानि बहूनि दर्शितानि । अत्र 'पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ' इति वाक्ये 'पवित्राणां पवित्रम् । इत्यस्य व्याख्यानरूपभाष्ये प्रथमप्रश्नोत्तरमाह- पवित्राणां पवित्रं पावनानां तीर्थादीनां पावनम् , परमस्तु पुमान्ध्यातो दृष्टः कीर्तितः श्रुतः पूजितः स्मृतः प्रणतः सर्वान्पाप्मन उन्मलयतीति पवित्राणां पवित्रमित्युक्त्वा तत्र प्रमाणत्वेन बहूनि पुराणादिवच-न्युदाहृतानि । तेन नामकीर्तनस्य सकलपापक्षयहेतुत्वं दृढीकृतम् । एवं नारायणनामव्याख्यान- रूपभाप्ये च 'नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी। तथापि नरकं घोरे पतन्तीत्येतदद्रुतम् ॥ ' इति वचनमुदाहृतम् । तेन नामकीर्तनस्य सकलपापक्षयहेतुत्वं दृढीकृतम् । एवम् ' सुव्रतः' इति नाम्नो व्याख्यान- रूपे सुव्रत इति शोभनं व्रतमस्येति सुव्रतः श्रीरामायणे इति भाष्ये सकृन्नाम. कीर्तनस्य सर्वाभयप्रदानहेतुत्वं दर्शितम् । अस्य वचनस्यार्थो नामामृतार्णवे विस्तरेण दर्शितः । एवम् ‘क्षितीशः पापनाशनः' इत्यत्र पापनाशननाम- व्याख्यानरूपे भाष्ये ' कीर्तितः पूजितो ध्यातः स्मृतः पापराशिं विनाशय- तीति पापनाशनः इत्युक्त्वा तत्र प्रमाणत्वेन पुराणवचनमुदाहृतम् । तेन प्रवृत्तभाष्ये एकैकनामस्तवनस्यापि विशेषफलसाधनत्वं सकलफलसाधनत्वं चं नानकीर्तनस्य पापराशिविनाशकत्वं दृढीकृतम् । एवं सहस्त्रनामभाष्यांन्ते प्रतिपादयता श्रीविष्णुधर्माध्यायस्यैकदेशोऽत्र श्रीविष्णुनामसहस्तव्याख्याने पश्यते इत्यादिकमुक्त्वा नामकीतने सकलपुरुषार्थसाधनत्वविधायकानि सकलपापक्षयसाधनत्वविधायकानि च विष्णुधर्मवचनानि बहूनि दर्शितानि । तेनास्मिन्सहस्रनाममाप्येऽभिहितं भगवन्नामकीर्तनस्य सकलपापक्षयहेतुत्वं अत्र भाष्ये दर्शितवचनानामर्थः सर्वोऽपि सम्यग्दर्शितो भगवन्नामामृतार्णवे । साधनत्वं चोक्तं तदनुपपन्नमेव, सकृन्नामकीर्तनेनात्र पशुपुत्रवित्तादिरूप- फलस्य वा अप्रतिवद्धापरोक्षात्मज्ञानस्य वादर्शनात् केषांचिदभवदिति सकलमपि प्रयोजनम् । रागादिभिरत्यन्ताक्रान्तचित्तस्यात्यन्तदुराचारिणोऽ. जामिलस्य पुत्रोपचरितेन सहन्नामकीर्तनेन विषयेषु दृढवैराग्यदुर्वासना- राहित्यं दृढध्याननामकीर्तनादिरूपं भगवद्भजनं च जातमित्युक्तं भागवत दानां वचनेन ' एतावतालमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्म- जहार विवशो नाम स्वस्त्ययनं हरेः ॥' इति यमदूतान्प्रति श्रीविष्णुपार्ष- नाम्नाम् । आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम् ॥' इति स्वदूतान्प्रति यमवाक्येन च । स्कान्दपुराणे तु मागवड- भिहितादजामिलादन्यस्य चण्डालस्त्रिया उदरात्स्वस्माज्जातायो स्वपुयां दश पुत्रानुत्पादितवतोऽत्यन्तदुराचारिणोऽप्यजामिलस्य पुत्रोपचरितेनैव नारायणेति सकृन्नामकीर्तनेन श्रीविष्णुपार्षदैहमविमाने समारोपितस्यात्म- (23) सकलपुरुषार्थहेतुत्वं च स्थूणानिखननन्यायेन दृढीकृतमिति सर्व नन्वत्र सकृन्नामकीर्तनस्यैव सकलफलसाधनत्वमप्रतिबद्धापरोक्षज्ञान- पुराणादिभ्योऽश्रवणाच्चेति चेत् । उच्यते-प्रतिबन्धकाभावे पष्ठस्कन्धे। तस्याजामिलस्य तदेवसकृत्कीर्तनं क्रममुक्तिप्रदं चाभवदित्ययों पि दर्शितः। तत्रैव • अयं हि कृतनिवेशो जन्मकोव्यंहसामपि । यच्या- मुस्थम् । दृश्यत एवं 5 (34) ज्ञानेन सायुज्यप्राप्ति तेत्यर्थः कण्ठरवेणोक्तः । इत्युक्त्वा भगवद्भक्ति- मालम्ब्यात्मानमात्मनि । ततः सायुज्यपदवी लेभे तन्नामकीर्तनात् ॥' इति संदर्भेण । अस्थायमर्थः :-मया बहूनि पापानि रुतानि पुत्रोपचरितेनापि भगवन्नामकीर्तनेन तीर्णोऽस्मीत्यर्थमुक्त्वा तन्नामकीर्तनात् भगवन्नामकीर्तनात् भगवद्भक्तिमालम्ब्य भगवति प्रेमरूपभक्तिं प्राप्य, तया भक्त्या शुद्धचित्त सन्निति भावः, आत्मनि परमात्मनि आत्मानं जीवात्मा नमेकीभूतं विज्ञाय ततः तदात्मज्ञानात् सायुज्यपदवीं लेभे इति । एवं सहन्नामकीर्तनेन बहूनां नानाविधफलानि जातानीति पुरागेतिहासादिषु बहुधोक्तम् । तत्सर्वमत्र अन्धविस्तृतत्वभिया नोदाइतमिति नोक्तदोषस्यावकाशः । नामकीर्तनफलप्रतिबन्धकं च केषांचित्प्रारब्धरूपं केषांचिन्नामापराध- रूपं केषांचिदुभयं च । नामापराधदशकं तन्नाशकत्वेनाविरतकीर्तनं चोक्तं पाद्मपुराणसंदर्भे । स च संदर्भः 'ध्रुवासो अस्य कीरयो जनास उरु क्षिति सुजनिमा चकार', प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ' इति ऋग्वेदमन्त्रसंदर्भस्य । प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ' इति यजुर्वेदमन्त्रसंदर्भस्य वोपबृंहण- तया प्रवृत्तः । अनयोः श्रुत्योरर्थः श्रीधरवेङ्कटेश्वरशास्त्रिभिर्भगवन्नामभूषणे विस्तरेणोक्तो ग्रन्थविस्तृतत्वाभियात्र संग्रहेण प्रदाते- प्रसिद्धो विष्णुः मुजनिमा सन् वामनरूपेणावतीर्णः सन् क्षितिम् उरु विस्तीर्णां चकार असुरा- क्रान्तां भूमि मनुप्याणां विस्तीर्णां कृतवानिति भावः । अस्य एतादृशस्य विष्णोः कीरयः नामकीर्तनकतीरः जनासः स्त्रीनपुंसकात्मकाः सर्वे जनाः ध्रुवासः ध्रुवा भवन्ति निर्विशेपमुक्ति प्राप्नुवन्ति, हे शिपिविष्ट हे विष्णो तत् मुक्तिसाधनीभूतस्तुतिरूपकीर्तनकर्मभूतं ते तव नाम अद्य प्रशंसामीत्युक्त्या नामव्यतिरिक्तकर्मकप्रहालायाः प्रतीत्यभावेन नामव्यतिरिक्तं सर्वमपहाय नाममात्रं नाम्ना स्तुति मात्रं नामकीर्तनमात्रम् अर्यः स्वामी मामकीर्तनसाध्य- हाय नामकीर्तने 'छागो वा (85) फलस्य, तत्फलकाम इत्यर्थः, अद्य प्रशंसामि नामकीर्तने प्रकृष्ट प्रवृत्त्यर्थ मिति भावः । शंसनस्म स्तुतेः प्रवृत्ति हेतुतायाः सिद्धत्वेन प्रशंसायाः प्रकृष्ट- प्रवृत्तिहेतुतम्या वक्तव्यत्वात् अन्यथा प्रशब्दस्य वैयपित्तेः । किं सर्वाणि मुक्तिसाधनान्य जानन्मुक्ति साधनाभूतनामकीर्तनं प्रशंससि अथवा जानन्नित्या- काङ्क्षायामुक्तं वयुनानि विद्वानिति । वयुनानि धर्मात्मकानि ज्ञानात्मकानि च सकलमुक्तिसाधनानि विद्वान् जानन्नेव तानि मुक्तिसाधनानि सर्वाण्यप- प्रकृष्टतया प्रवर्तमानः प्रशंसामीत्यर्थः । अत्र तन्नामेति नामविशेषणीभूततच्छब्देन 'ध्रुवासो अस्य कीरयः' इति पूर्वबाक्योक्त- मुक्तिसाधनीभतस्तुतिकर्मपरामर्शात्तत्रोक्तमुक्तिसाधनीभूतस्तुतिकर्म नामैवेति अत एव सा स्तुतिः स्तुतित्वावच्छिन्ननाम कीर्तनरूपैवेति च मन्त्रवर्णात्' इत्यत्रोक्तच्छागपशुन्यायेन निर्धारितम् । अत एव 'प्र तत्ते--' इति मन्त्रे ' नाम इत्यस्य मुक्तिसाधनीभूतनामकीर्तनमित्यर्थः सिद्धः । ध्रुवास:-' ' इति वाक्ये मुक्तिसाधनत्वेन दर्शितनामकीर्तनस्यैवात्र नाम- विशेषणीभूततच्छब्देन परामृष्टत्वात् उपक्रमानुसाराच्च । तथा च नाम- कर्तिनव्यातिरिक्तमुक्ति साधनानि सर्वाणि जाननाम प्रशंसामीत्युक्त्या नाम- कीर्तनव्यतिरिक्तानि मुक्तिसाधनानि सर्वाणि दोषवत्त्वेन जानन् तानि परि- त्यज्य नाम प्रशंसामीत्यर्थः सिद्धः । तथा हि- नाम प्रशंसामीत्युक्त्या नामव्यतिरिक्तसाधनान्यपि प्रशंसामीत्यर्थस्य प्रसक्त्यभावेन नामव्यतिरिक्त- साधनानां परित्यागं विना नाममात्रप्रशंसाया अनुपपनत्वेन नामव्यातरिक्त- साधनान्यपहाय नाम प्रशंसामीत्यर्थोऽवश्यमङ्गीकार्य इत्यनेन च नामव्यति- रिक्त साधनानि सर्वाणि सम्यग्जानन् तानि विहाय नाम प्रशंसामीत्यर्थः सिद्धः। तथा च तेषां साधनानां परिज्ञानपूर्वकं कृतः परित्यागस्तेषु तेषु दोषं विनानुपपन्न इति तेषु दोषस्तदोषहेतुश्चावश्यं कल्पनीय इत्यर्थस्य तथा नामप्रशंसा नाम्नि प्रकृष्टप्रवृत्त्यर्थमेवेत्यर्थस्य दर्शितत्वेन नाम्नि प्रकृष्ट प्रवृत्त्यर्थं मानिं प्रकृष्ट गुणस्तद्गुणहेतुश्च कल्पनीय इत्यर्थस्य च - (36) सिद्धत्वेन तेषु स दोषस्तदोषहेतुश्च क इति नाम्नि स च प्रकृष्टगुणस्तहुण- हेतुश्च क इति चाकाकायाः सिद्धत्वेन श्रीमहाभारते श्रुत्वा धर्मान्- इति वैशम्पायनवाक्यरूपेण · को धर्मः सर्वधर्माणाम् ' इत्यादिप्रश्नोत्तर- रूपेण च संदर्भेण तद्भाष्येण च नामकीर्तनव्यतिरिक्तसाधनेषु दुःखसंपाद्यत्व- रूपदोषो बस सापेक्षत्रूपतहेतुश्च (दर्शित इति तद्रीत्यात्रापि नाम- कीर्तनव्यतिरिक्तमुक्तिसाधनेषु सर्वेषु दुःखसंपाद्यत्वरूपदोषो बड्वङ्गसापेक्षत्व- रूपतद्धेश्च ) तथा नामकीर्तने सुखसंपाद्यत्वरूपप्रकृष्टगुणः असामान्य- 'निरपेक्षत्क्रपतहेतुश्च उक्ताकाङ्क्षापूरणायावश्यं कल्पनीयः । अतस्तद्भारत- संदर्भोऽस्याः श्रुतेरुपबृंहणं स्यादेव । नामकोर्तनकर्मकप्रवृत्तेः प्रकृष्टत्वं च मैरन्तर्यमेव । अद्यैव सर्वं विहाय नामकीर्तने प्रकृष्टतया प्रवर्तितव्यमित्यर्थ- प्रदर्शनेन तत्प्रवृत्तौ निरन्तरप्रवृत्तिरूपताया विस्पष्टत्वात् । तथा चाद्यैव मामव्यतिरिक्तानि मुक्तिसाधनानि सर्वाण्यपहाय निरन्तरनामकीर्तने प्रवर्तित इति पर्यवसनोऽर्थः । एतदृग्वेदे प्र तसे अद्य शिपिविष्ट-' इति मन्त्रस्येव य वेदे 'प्र तत्ते अद्य शिपिविष्ट-- ' इति दर्शितमन्त्रस्या- प्यर्थोऽवश्यं वाच्यः उभयत्र प्रकरणस्य समानत्वात् । ऋग्वेदे पठितस्ये- वास्य मन्त्रस्यैकवर्णस्यापि व्यत्ययरहिततया अन्यूनाधिकतया च यजुर्वेदे पठितत्वात् बाधकाभावाच्च । अतः सिद्धमृग्वेदयजुर्वेदयोः स्थितस्य 'प्र तत्ते , इंति मन्त्रस्यैक एवार्थ इति । तथा चास्मिन्नुग्वेदे यजुर्वेदे च स्थलान्तरे ' आस्य जानन्तः-' इति मन्त्रे अप्रतिवद्धापरोक्षज्ञान- मुद्दिश्य सकृन्नामकीर्तनस्य विहितत्वेऽपि बहुभिः कृतसकृनामकीर्तनफलस्य प्रतिबन्धकसदावं सिद्धवत्कृत्य तत्प्रतिबन्धकनिरासायनेई निरन्तरनाम- कीर्तनमाभ्यां श्रुतिभ्यां दर्शितमित्यर्थः सिद्धः । अन्यथा सकृन्नामकीर्तन- निरन्तरनामकीर्तनप्रतिपादकश्रुतीनां विरोधापत्तेः । अद्य- (37) बथा च मोक्षेच्छूनां निरन्तरनामकीर्तनप्रतिपादक श्रुतिभ्यां सहन्नाम- कीर्तनफले प्रतिबन्धकं बहुनामस्तीत्यर्थः प्रदर्शित इति तत्प्रतिवन्धकं किमित्याकाडानयोः श्रुत्योरस्त्येवेति तदकाङ्कापूरको दशनामापराधाभि- धायकः लद्दशापराधनाशायाविश्रान्तनामकीर्तनाभिधायकश्च पाद्मपुराण. संदर्भः स्यादेव, तत्संदर्भस्य तदाकाङ्कापूरणसमर्थत्वात् । तस्मिन्नामापराधा. भिधायकपाद्मपुराणसंदर्भ कानिचिद्वचनान्यत्र प्रदर्श्यन्ते । तत्र 'नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः । नाम्नोऽपि सर्वसुहृद अपराधात्पलत्यधः।। इति श्रीनारदं प्रति श्रीसनत्कुमारवचने नामाश्रयणवतोऽपि नामापराधे- नाधःपतनमुक्तम् । दृढीकृतश्चायमर्थ एतत्समनन्तरं प्रवृत्तेन · के तेऽ- पराधा विप्रेन्द्र नाम्नो भगवतः स्मृताः । विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥' इति श्रीनारदकृतप्रभवाक्येन । एवं प्रष्टेन सनत्कु- मारेण नामापराधा दर्शिताः- ‘सतां निन्दी नाम्नः परममपराधं वितनुते यतः ख्यातं जातं कथमु सहते तद्विगर्हाम् । शिवस्य श्रीविष्णोर्य इह गुणनामादि सकलं धियाभिन्नं पश्येत्स खलु हरिनामा हितकरः ॥ गुरोरवज्ञा श्रुतिशास्त्रानन्दनं तथार्थवादो हरिनाम्नि कल्पनम् । नाम्नो बलाद्यस्य च पापबुद्धिर्न विद्यते तस्य यमविशुद्धिः ॥ धर्मन्नतत्यागहुतादि- सर्वगुणक्रिया साम्यमपि प्रमादतः । अश्रद्दधाने विमुखेऽप्यनृण्वति यश्चोप- देशः स च नामापराधः ॥ श्रुत्वापि नाममहात्म्यं यः प्रीतिरहितोऽधमः । अहं ममेति परमो नाम्नः सोऽप्यपराधकृत् ॥ एवं नारद शंकरेण कृपया मह्यं मुनीनां पुरः प्रोक्तं नाम शुभावहं भगवतो वयं सदा यत्नतः । ये ज्ञात्वापि न वर्नयन्ति सहसा नाम्नोऽपराधान्दश क्रुद्धां मातरमप्य- भोजनपरां क्लिश्नन्ति ते बालवत् ॥ अपराधविनिर्मुक्तौ नाम्नि यत्ने समुद्धर। नाम्नैव तव देवर्षे सर्व सेत्स्वति नान्यथा ॥' इति । कस्व साधनस्या- चरणेनोक्ता नामापराधा अनिष्टं दातुं न प्रभवन्ति न समर्थाः स्युः तत्साधनं नामापराध- ' व्रीहीन- 133) बहीति पृच्छति मारदः- सनत्कुमार प्रियसाहतानां विवेकवैराग्यविव- नितानाम् । देहान्नजायात्मनतत्पराणामुक्तापराधाः प्रभवन्ति नो कथम् ॥' इति वाक्येन । नामापराधनाशक साधनमाह सनत्कुमार:- युक्तानां नामान्येव हरन्त्यघम् । अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥' इति वचनेन । दश नामा पराधाः संग्रहणोक्ताः सन्निन्दासति नामवैभवकथा श्रीशेशयोर्भेदधीरश्रद्धा श्रुतिशास्त्रदेशिकगिरी नाम्न्यर्थ- वादभ्रमः । नामास्तीति निषिद्धवृत्तिविहितत्यागौ च धर्मान्तरैः साम्य नामनि शैकरस्य च हरेनीमापराधा दश ॥' इत्यभियुक्तवचनेन । अत्र पापुत्रवित्तादिप्राप्तिचित्तशुद्धिविरागब्रह्मज्ञानादिदृष्टफलेषु वहन्ति ' इत्यादाविव यावत्फलं भगवन्नाम्न आवृत्तिरित्यविश्रान्तप्रयुक्ता- नीति सनत्कुमारवाक्यतात्पर्यार्थोऽवगम्यते । ननु नामकीर्तनस्य नियमसामान्यानपेक्षत्वप्रदर्शनेन तस्य सुखसंपाद्यत्वं प्रागुक्तम् । अधुना तु ' नामास्तीति निषिद्धवृत्तिविहितत्यागौ च* इत्यादौ नामकीर्तनस्य विहिताचरणं निपिद्धयजनं चापोशितमित्युक्त्या तस्य दुःख- संपाद्यत्वमेव समर्थितमिति विरोधस्य कथं परिहार इति चेदुच्यते-विहिता- चरणं निपिद्धवर्जनं च नामकीर्तनस्याङ्गत्वेन नापेक्षितमेव, किंतु प्रतिबन्ध- काभावसिद्ध्यर्थमवापेक्षितम् , सर्वनिरपेक्षस्यापि तत्त्वज्ञानस्य प्रतिबन्ध- काभावापेक्षास्त्यवेत्यर्थस्य सुप्रसिद्धत्वात् । अयमर्थो विस्तरेण दर्शितो नामामृतार्ण ग्रन्थविस्तृतत्वभियात्र संग्रहेण प्रदर्शितः । प्रतिबन्धकाभावसिद्ध्यर्थमपि निषिद्धवर्जनं स्वधर्माचरणं च केषांचि- देवापेक्षितं न सर्वेषाम् । तथा हि- विविधा हि जना लोके नामकीर्तन- प्रवृत्त्यभिमुखा दृश्यन्ते । तत्र ये तु स्त्रकुन्दनस्त्रीधनधान्यादिविषयेष्वत्य- तासकचित्ता दृढरागादिवासनावासितप्रकृतिपरवशाः सन्तो निषिद्ध- वर्जने यदकरणे प्रत्यवायस्तस्य स्वधर्मस्याचरणे चासमर्थास्तैः कृतपापस्य (39) . कस्यापि न नामापराधरूपत्वम्, पोपकर्तृणां तेषां पापकर्मवर्जने सामर्थ्या- भावात् । अतस्तैबहुधा कृतमपि पापं सर्वं सहन्नामकीर्तनेन नश्यत्येव । अत एव दुष्टप्रकृतिपरवशानां तेषां नाभास्तीति कृतमपि निषिद्धाचरणरूपं स्वधर्मपरित्यागरूपं चेति नामापराधौ न स्तः । तद्भिन्ना अष्टी नामापराधास्तु उक्ताशक्तानामपि बाधका अवश्यं वर्जनीयाश्च । तेषामेव श्रीभगवद्गीतासु 'अपि चेत्सुदराचारो भजते मामननन्यभाक् साधुरेव : स मन्तव्यः सम्यव्यवसितो हि सः । क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निमच्छति । कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्वति ॥ ' इति नवमाध्यायसंदर्भः । सर्वकर्माण्यपि सदा कु णो मद्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्' इत्यष्टादशाध्यायसंदर्भः तद्भाष्यसंदर्भः तदानन्दगिरीयसंदर्भः पाद्मपुराणे अनन्यगतयो मत्या भोगिनोऽपि परंतपे । ज्ञानवैराग्यरहिता ब्रह्मचर्यादि- वर्जिताः ॥ सर्वधर्मोज्झिता विष्णोनाममात्रैकजल्पकाः । सुखेन यां गति यान्ति न तां सर्वेऽपि धार्मिकाः । इत्यादिपुराणेतिहासादिवचनसहस्राणि स्वधर्मत्यागमात्रे 'प्र तत्ते अद्य' इति दर्शितश्रुतिद्वयं च प्रमाणम् । ये पुनरत्यन्तविरक्ता देहपोषणेऽप्यासक्तिरहिता ऐहिकमुखासक्त्यभावेन नि- षिद्धाचरणप्रसक्तिरहिताः सदा नामकीर्तनादिना सकलेन्द्रियैर्भगवत्परास्तेषां मध्ये केचन स्वधर्ममाचरन्त एव नामकीर्तनादिना भगवत्पराः स्युः । अन्ये तु भगवति परमात्मनि सुतरामासक्तहृदयाः स्वधर्मानुष्ठानायावकाशरहिताः स्वधर्मोपेक्षां कुर्यस्तेन तेषां न दोषलेशोऽपि । तेषामेव भागवते 'देवर्षि- भूताप्तनृणां पितृणां म किंकरो नाधमर्णी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥' इति वचनम् ' ज्ञाननिष्ठो विरक्तो वा मद्भक्तोवानपेक्षकः । सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥ इति वचनम्, ब्रह्मकैवर्ते 'विहितमखिलकर्म ब्राह्मणानां मुनीन्द्रविधिनियम- (40) , मा ऋचो मा यजुस्तात समेतं शक्यते नैव कर्तुम् । तदखिलमपि हित्वा यो महादेवशब्दं पठति फलमशेषं प्राप्नुयात्सोऽनवद्ये ॥ इति वचनं चेत्यादिपुराणेतिहासादिवचन- भातं स्वधर्मत्यागमात्रे 'प्र तत्ते अद्य' इति दर्शितश्रुतिद्वयं च प्रमाणम् । अयमों भाष्यकाराणामपि एतत्सर्वमभिप्रेत्य 'एष मे सर्वधर्माणाम् इत्याधिक्यमुक्तम् ' इति भाष्यात्प्राक्तनमाष्ये मा साम पठ किंचन । गोविन्देति हरेर्नाम गेयं गायस्व नित्यशः ॥ इति वचनमुदाहरतामभिमत एवेत्यर्थो विस्पष्टः । ये तु नात्यन्तविषयासक्ता नात्यन्तविरकाः कथंचिनिगृहीतप्रकृतिका निषिद्धवर्जने स्वधर्माचरणे च समर्थास्तेषां दशसंख्याकनामापराधा अपि बाधका वर्जनीयाश्च । अत्यन्त. वैराग्यरहिता ये तेषां निषिद्धाचरणविहितत्यागयो मापराधत्वाभिधायकानि ' नामास्तीति निषिद्धवृत्तिविहितत्यागौ च ' इत्यर्थकानि पुराणानि वच- नानि । 'वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ हरिध्यानरतो वापि हरिकीर्तनतत्परः । भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ।। श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घय वर्तते । अज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥' इत्यादिपुराण- वचनानि प्रमाणम् । न च सर्वाणि मोक्षसाधनान्यपहाय नामकीर्तनं सदा कार्यमित्यर्थः 'प्र तत्ते अद्य' इति श्रुतिस्मृतिदर्शितः, उदाहृतपाद्मपुराण. वचनैस्तु स्वधर्मत्यागेन पतित एव स्यादतः स्वधर्म कुर्वन्नेव नामकीर्तनं कुर्यादित्यर्थो दर्शित इति कथमेतेषां श्रुतिविरुद्धपुराणवचनानां स्वार्थपरत्व- मिति वाच्यम्, अत्यन्ताशक्तजनानामत्यन्तविरक्तानां च नामकीर्तनपराणां स्वधर्मत्यागप्रतिपादकयोः सावकाशयोः श्रुत्योः कांस्यभोजनन्यायेन सं- कोचमङ्गीकृत्य दर्शितपुराणवचनार्थस्यावकाशकल्पनाया आवश्यिकत्वात् । तथा हि- 'प्र तत्ते अद्य'' इति श्रुत्योः ‘आस्य जानन्तो नाम चि- द्विवक्तन' इति अतिद्वयापेक्षितस्य प्रतिबन्धकनिरसनाय निरन्तरनाम- (41) कीर्तनस्य समर्पणेन 'प्रतते' इति श्रुत्योः आस्य जानन्तः । इति श्रुतिभ्यामेकवाक्यत्वं सिद्धमेव । तथा च आस्य जानम्तः । इति श्रुतिभ्यां ज्ञानोद्देशेन सकृन्नामकीर्तनस्य विहितत्वेन सकृनामकीर्तनाद्बहून झानं कुतो न जायत इत्याकाङ्कायां येषां प्रतिबन्धकमस्ति तेषामेव न मायत इति श्रुत्योराशयकल्पनस्यावश्कित्वेन किं तत्प्रतिबन्धकमित्या- काङ्कायाः सिद्धत्वेन तत्प्रतिबन्धकस्वरूपज्ञानाभावेन तत्प्रतिबन्धकसिद्ध्य भावे ज्ञानोद्देशेन सकृन्नामकीर्तनविधायक श्रुत्योरनुपपन्नतायाः सिद्धत्वेन आस्य जानन्तः' इति श्रुत्योरपेक्षितार्थपूर्णाय प्रागुदाहृतः । दशनामा पराधाभिधायकपाद्मपुराणसंदर्भ उपवृंहणं स्यादेवेति तच्च तच्छुत्योरुपबृंहणम् । तच्छुत्यारेकवाक्यतापन्नयोः ‘प्र तत्ते' इति श्रुत्योरप्युपबृंहणं स्यादेव । अतोऽयं दशापराधाभिधायकः संदर्भः दर्शितश्रुतिचतुष्टयस्याप्युपबृंहणं स्यादेवेति 'प्र तत्ते ' इति श्रृत्योरपेक्षया दौर्बल्याभावात् , कांस्यभोजन- न्यायाच स्वधर्मत्यागात्पातित्यप्रदर्शन श्रुत्युपबृंहणरूपेण स्वधर्मत्यागी नामापराध इत्यभिधायकपुराणवचनेन सावकाशस्य नामकीर्तनेतरधर्मत्यागस्य 'प्रतत्ते' इति श्रुत्योरर्थस्य विस्तरेणाचरणत्यागरूपत्वाश्रयणमेव युक्तम् । अत एव दृढवैराग्यरहितानां स्वधर्मस्य सवैस्य संकोचेनाचरणपूर्वकं सदा नामकीर्तनपरत्वमाश्रयणीयम्, संकोचाश्रयणेनाभ्युदयाभावेऽपि प्रत्यवाय- प्रसक्त्यभावात् । गायत्र्यधिकारिणां दशगायत्रीजपेनाभ्युदयाभावेऽपि प्रत्यवायाभावस्य सुप्रसिद्धत्वेन तथा सकलधर्माणां शास्त्रेण दर्शितसंकोच- कल्पने बाधकाभावेन नामकीर्तनस्य सकलधर्मोत्कृष्टतायाः श्रुतिसिद्धत्वेन च सर्वोत्कृष्टधर्माचरणाय ततो निकृष्ट धर्माणां संकोचकल्पनस्य युक्तत्वात् स्वाध्यायाद्यपेक्षयोत्कृष्टज्योतिष्टोमादियज्ञानुष्ठानाय स्वाध्यायजपादीनां सं. कोचाश्रयणस्य सुप्रसिद्धत्वात् 'काम्यं नित्यस्य वाधकम् ' इत्यस्य सुप्रसिद्धत्वेन विजातीयमपि काम्यं विजातीयस्यापि नित्यस्य संकोचकमेवे. 6 (42) त्यर्थस्य सिद्धत्वात् । अत एव ज्योतिष्टोमादिकाम्याचरणाय स्वाध्यायादि. संकोचाश्रयणस्य सिद्धत्वात् परमहंसयति श्रेष्ठानाममि ' यति दशंसाहनं नासाग्रन्यस्तलोचनः । अथ वा दशसाहस्र नित्यं प्रणवमभ्यसेत् ॥ सहस्त्रं श्रवणार्थी चेन्निदिध्यासी शतं जपेत् । निर्विकल्पसमाधिस्थो न जपत्किंचिद- हयात् ॥' इति मनुवचनेन श्रवणादिकर्तृणां प्रणवजपसंकोचस्य कण्ठरवेणो- क्तत्वात् । तथैव परमहंसमहामुनीन्द्राणाम् ‘स्वसासोपनिषद्गीता विष्णोर्नाम. सहस्रकम् । श्रीरुद्र प्रणवं चैव नित्यमावर्तयेद्यतिः ।। ' इति स्वशाखाप. निषदादीनां द्वादशसहस्रप्रणवजपस्य चेति पञ्चानामाचरणायावकाश - सिद्ध्यर्थं वेदान्तश्रवणस्य संकोचकल्पनाया आवश्यिकत्वात् एतत्पञ्चानाम- वकाशाय वेदान्तश्रवणसंकोचाकालायाः तथा भगवत्पादैर्वेदान्तसारभूतार्थ सर्वमपि पञ्चीकरणाख्यग्रन्थे प्रतिपाद्य स च पञ्चीकरणाख्यग्रन्थी नित्य- नित्यमावर्तयितव्य इति कृतनियमस्य च पर्यालोचनया तत्पश्चीकरणमात्र- पारायणे कृते तत्पञ्चीकरणव्यतिरिक्तवेदान्तश्रवणकरणाभावेन प्रत्यवायो न भवत्येवेति भाष्यकाराणामाशयोऽवगम्यते । उक्तप्रयोजनं विना पञ्चीकरणस्य प्रयोजनान्तराभावात् काम्याचरणाय नित्यानां संकोचाङ्गीकारो न दोषायेत्यु. कत्वाच्च । सकलधर्मोत्कृष्टत्वेन वेदोक्तस्य नामकीर्तनस्याचरणाय नित्या. नित्यसंकोचाश्रयणेन न कोऽपि दोष इत्ययमर्थोऽपि 'प्र तत्ते' इति श्रुत्यर्थ एवेत्यर्थोऽपि सिद्ध एव । एवं च परमहंसयतिवरोऽपि वेदान्त- श्रवणं किंचिदप्यकृत्वा नामकीर्तनं करोति चेत्तद्यते रुद्रयातनारूपदुर्गति. १वीरेति कश्चिदभियुक्तैरुक्तमनुसृतमेव भवति । पञ्चीकरणपठनरूपं संकुचि- तवेदान्तश्रवणमपि यो यतिन करोति तस्यैव सा दुर्गतिर्नान्यस्य पञ्चीकर- भक्तो नामकीर्तनपरस्येति सिद्धत्वात् स्वधर्म सर्वं संग्रहेण कुर्वन्नामकीर्तन करोति चेत्तस्य दोषकश्पनासंभवात् ।

(43) किं च 'विप्राणां यतियोगिनां श्रुतिमतां वेदान्सिनां कर्मिणां चण्डालादिषु यौवनं च भजतामेकान्ततोवासिनाम् । हत्यापानसुवर्णचौर्य- गुरुदारासंगम कुर्वतां सर्वेषामिदमेव नाम शरणं विष्णोः परं मङ्गलम् ।' इति ऋतुस्मृतिवचनेन सकलवर्णानां सकलाश्रमिणां च नित्याचारसंकोच. पूर्वकं नामकीर्तनं कार्यमित्यर्थः स्फुटं दर्शितः । तथा हि- अस्मिन्वचने ' चण्डालादिषु यौवनं च मनताम् ' इत्यादिनोक्तानां नानाविधसकल- पापकर्तृणां विष्णोर्नाम परममुत्कृष्टं शरणं तत्पापेभ्यो रक्षकं पापनिवर्तकानां सकलप्रायश्चित्तानां मध्ये मामैक परमं प्रायश्चित्त मिति तथा 'विप्राणाम् ' इत्यादिनोक्तानां श्रेयःसाधनाचरणपराणामिदं नामैव परमं मङ्गलं मङ्गल- साधनं सकलश्रेयःसाधनानां मध्ये नामैव नाममात्रमुत्कृष्टमिति चार्थोऽवश्य वाच्यः । नाम्नो विध्यसंभवेन नाम्नः स्मरणकीर्तनश्रवनान्यतमग्रहणे विनि- गमकाभावेन च नामस्मरगादित्रयमप्यत्र विधेयमित्यर्थश्च । तथा च 'श्रुत्वा धर्मान् । इति वैशम्पायनवाक्यादिभारतसंदर्भतद्धाप्ययोरिवास्मिन्वचनेऽपि नामस्मरणं नामकीर्तनं नामश्रवणं चेति त्रयाणां प्रत्येकं सकलपापक्षयं प्रत्यप्रतिवद्धापरोक्षात्मज्ञानान्तसकलश्रेयःप्राप्ति प्रति च परमं साधनत्वं विधीयते । तेन सकलपापक्षयसाधनानां सकलाभ्युदयनिःश्रेयससाधनानां च मध्ये सर्वोत्कृष्ट साधनं नामेत्यर्थः सिद्धः । नामकीर्तनस्य तदुत्कृष्ट साधनत्वं च सकलकलसाधनत्वे सति सुखसंपाद्यत्वरूपं दर्शितभाप्योक्तमेवेति सिद्धम् । एवं चात्र 'श्रुतिमतां वेदान्तिनां कर्मिणाम् ' इति पदत्रयसार्थक्याय नित्य- त्वेन विहितं श्रुतिपारायणं वेदान्तश्रवणं कर्माचरणं च संकोच्य सकल श्रेयः- साधनापेक्षयोत्कृष्ट साधनरूपं नामकीर्तनं कुर्यादित्यर्थोऽवश्यमभ्युपगन्तव्यः । अन्यथा तत्पदत्रयस्य वैयर्थ्यांपत्तेः । विप्राणां यतियोगिनाम् ' इति पदद्वयेनैव चतुर्णामाश्रमिणां नामकीर्तनेऽधिकारस्य दर्शितत्वात् काम्थैः श्रुतिपारायणवेदान्तश्रवणकर्मभिः नामकीर्तनस्य विकल्पासिद्धयर्वम् ' श्रुति- (14) मताम् ' इत्यादिपाठोऽस्त्विति वाच्यम्, सकलपापक्षयहेतुत्वेन सकल श्रेयः साधनत्वे च विधानमात्रादेव नामकीर्तनस्य सकलप्रायश्चित्तैः केवलकाम्यरूप सकलश्रेयःसाधनैश्च विकल्पसिद्धिसंभवात् 'श्रुतिमतां वेदान्तिनां कर्मिणाम्' इत्येकादशाक्षरस्थाने ' श्रुतिमतां श्रयोर्थिनाम् ' इत्यष्टाक्षरपाठापत्तेश्च । अत: सिद्धमेवानेन वचतेन नित्यमपि श्रुतिपारायणं नित्यमपि वेदान्तश्रवणं नित्यान्यपि सकलकर्माणि यथाशास्त्रं संकोच्य नामकीर्तनं कार्यमिति । किं च मोक्षेच्ळूनां नामकीर्तने कृतेऽपि यस्य मूलाविद्यानिवर्तकज्ञानं नोत्पद्यते तस्य तज्ज्ञानप्रतिबन्धकतया नामापराधोऽस्त्येवेति सिद्धत्वेन नामकीर्तनादि- तरमुक्तिसाधनानां नामापराधनाशने नामकीर्तनसामर्थ्यसमानसामर्थ्याभावेन च ज्ञानेच्छूनां नामापराधनाशनाय निरन्तरनामकीर्तनमवश्यं कार्यमेवेति सिद्धम् । नामकीर्तनेन तत्वज्ञानोत्पत्तिश्च नामकीर्तनेन सम्यक्परिशुद्धकरण- ग्रामाणामत्यन्तविरक्तानां मध्ये केषांचिज्जगदीश्वरकृपावशात्सच्चिदानन्दं बव जीवस्वरूपं नान्यदिति ज्ञानेन मुक्तिः स्यादित्यद्वैतवादिनां प्रवादः श्रूयते । तत्प्रवादानुसारेणाहं किं ब्रह्मैवान्यो वेति पर्यालोचनया तत्त्व. ज्ञानं जायत इत्यङ्गीकर्तव्यम् । तैत्तिरीयोपनिषदि तद्भाप्ये तद्वार्तिके च भगवतो भृगुमहर्षेस्तपःशव्दितपर्यालोचनयैव तत्त्वज्ञानमभवदित्युक्तत्वात् , उक्तविरक्तानां मध्ये केपांचिदुक्तप्रवादश्रवणेन 'कोऽहम् ' इति पर्यालोचन- पराणां परमात्मनो नामात्मकप्रमाणेनैव तत्त्वनिश्चयः स्यादेवेत्यङ्गीकार्यम्, प्रसिद्धानां भगवन्नाम्नां सर्वेषां त्रिविधपरिच्छेदरहितपरब्रह्मार्थकत्वात् । सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ' इति सहस्त्रनाम भाष्ये दर्शितविष्णुधर्मवचनेन ' रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ।।' इति रामतापन्युपनिषद्वाक्येन च भगवन्नाम्नैव ब्रह्मसाक्षात्कारः स्यादित्यर्थः कण्ठरवेणोक्तः । च्यवनस्मृतौ - उक्तं च . .

। तस्मा- (45) प्रायश्चित्तप्रकरणे : श्रुतिस्मृतिपुराणेषु रामनाम समीरितम् । तन्नामकीर्तनं भूयस्तापत्रयविनाशनम् ॥ सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ नामसंकीर्तनादेव तारकं ब्रह्म दृश्यते । ' इति संदर्भेण भगवन्नामात्मकप्रमाणेन तत्वज्ञानं भवेदेवेत्यर्थो दर्शितः । श्रीनृसिंहाश्रमचरण दधिक्कारे नृसिंह : ति नामैव ब्रह्मात्मैक्यं बोधयतीत्यर्थं प्रतिपादयद्भिः उक्तविरक्तानां मध्ये केषांचिदुक्तप्रवादश्रवणेन संदिहानानां जगदीश्वरानुग्रहवशादुपनिषन्महावाक्यमुपस्थितं स्यात् , तेन तत्त्वज्ञानं स्यादित्यभ्युपगन्तव्यम् । उक्तश्चायमर्थः । सोऽविभेत् , देकाकी बिभेति ' इत्यादिवृहदारण्योपनिषत्संदर्भतद्भाष्यतद्वार्तिकतदानन्द- गिरीयेषु हिरण्यगर्भस्य जातभात्रस्य प्राक्तनसुकृतवशादत्यन्तपरिशुद्धकरण- ग्रामस्योपनिषद्वाक्यमुपस्थितं तेन तत्वज्ञानमभवदिति प्रतिपादनेन । अन्येषां तु नामकीर्तनेन साधनचतुष्टयसंपत्तिः स्यात् तदनन्तरं वेदान्त श्रवणमनन- निदिध्यासनैस्तत्त्वज्ञानं स्यादित्युक्तोऽयमर्थः मात्स्ये 'विष्णोर्नामैव पुंसः शमलमपनुदत्पुण्यमुत्पादयञ्च ब्रह्मादिस्थानभोगाद्विरतिमथ गुरोः श्रीपद- द्वन्द्वभक्तिम् । तत्त्वज्ञानं च विष्णोरिह मृतिजननभ्रान्तिबीजं च दग्ध्वा पूर्णानन्दैकबोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ।। ' इति वचनेन । अन्येषां तु कृतवेदान्तश्रवणमननानां निदिध्यासनस्थाने नामकीर्तने कते तन्नामकीर्तनेनाप्रतिबद्धापरोक्षात्मज्ञानं भवेदेव, नामकीर्तनेन निदिध्यासन- फलं भवेदित्यर्थप्रतिपादकस्य · ध्यायन्कृते यजन्यज्ञैः' इति विष्णुपुराण- वचनस्य तदर्थस्य च प्रागेव दर्शितत्वात् । अन्येषां तु प्रायणकाले नाम- कीर्तनेनैवाप्रतिबद्धापरीक्षात्मज्ञानं भवेदेव । एतदर्थाभिधायकस्य ' तन्नाम- कीर्तनादेव तारकं ब्रह्म दृश्यते । इति च्यवनस्मृतिवचनस्यानुपदं दर्शित- त्वात् । अन्येषां तु नामकीर्तनपराणां प्रायणकाले जगदीश्वरस्तत्त्वज्ञानोप- देशं करोति, तेन तत्त्वसाक्षात्कारः स्यादित्यङ्गीकार्यम् । दर्शितश्चायमर्थः स्कान्दे श्रीरामगीतासु- ' यावज्जीवं प्रणवमथ वा वर्तयेद्वृद्रियं वा (46) अजुर्वेदं वसतिमथ वा वारणस्यां विदध्यात् । त्यक्त्वा लज्जां कलिमल- विषच्छेदकानीरयेद्वा विष्णो मान्यनिशममृतप्राप्तिरेषा चतुर्धा ॥' इति वचनेन काश्यां मरणकाले परमेश्वरस्तारकमुपदिशतीत्यर्थस्य काशीखण्डादौ सुप्रसिदत्वेन तस्मिन्वचने नामकीर्तनस्य काशीवाससमभिव्याहारान्नाम- कीर्तनपराणामपि मरणकाले तारकोफ्देशकल्पनस्यावश्यिकत्वात् , अन्यथा तत्समभिव्याहारस्य वैयापत्तेः । एते पक्षाः सर्वेऽपि ज्ञानसाधनत्वेन सकृन्नामकीर्तनविधायकानाम् ' आस्य जानन्तः ' इति ऋग्वेदयजुर्वेदमन्त्री 'ज्ञानमार्ग च नामतः' इति रामतापन्युपनिषद्वाक्यं चेति त्रयाणां श्रुति- वाक्यानां संमताः । अत एव तत्पक्षाः सर्वे श्रौता एवेति सर्व सुस्थम् । .. नन्वत्र सकलपापक्षयसाधनैः सकलाभ्युदयसाधनैः सकलमुक्तिसाधनैश्च विकल्पेन साधनमिदं सकृन्नामकीर्तनमङ्गसामान्यानपेक्षमेवेत्युक्तं तदनुपपन्न- येव लघुगुरुसाधनयोषिकरूपाङ्गीकारे गुरुसाधने कस्यापि प्रवृत्तिर्न स्यादिति गुरुसाधनाभिधायकशास्त्रस्य सर्वस्याप्यननुष्ठानलक्षणाप्रामाण्यापत्तेः । अतो नामकीर्तनशास्त्रस्य सकलगुरुसाधनाभिधायकशास्त्राणां च विरोधस्य प्रती- यमानत्वेन कस्य शास्त्रस्य स्वार्थपरत्वं कस्य शास्त्रस्यान्यथानयनमिति पर्या- लोचिते बहुनामनुग्रहन्यायेन गुरुलाधनाभिधायकशास्त्राणामत्यन्तबहुत्वेन तच्छास्त्राणामनुसारेणात्यन्तस्वल्पस्य नामकीर्तनशास्त्रस्यान्यथानयनमेवो- चितम् । किं च मीमांसकैरेमिहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिद्यागानां स्वर्गसाधनत्वेनोक्तानामायासतारतम्येन कण्ठरवेणैव स्वर्गफले तारतम्यस्यो- क्तत्वेन साधनायासतारतम्येन फलतारतम्यं सर्वत्र कल्पनीयमेवेत्युक्तप्राय - लात् । अत एव हि निबन्धनकारैलवुपापे लघुप्रायश्चित्तमेव गुरुपापे मुरुप्रायश्चित्तमेवेति प्रायश्चित्तायासतारतम्येन पापक्षयतारतम्यं कल्पितम् । अतः सर्वथानुपपन्न एव लघुगुरुसाधनयोच्छिकविकल्प इति चेत् ;- अत्रो. च्यतेवबुक लघुगुरुसाधनविकल्पाङ्गीकारे गुरुसाधनेषु प्रवृत्तिर्न स्यादिति (47) तदसत् , दृश्यमानप्रवृत्ते रुचिवचिच्यादुपपन्नताया वक्ष्यमाणत्वेनोपरि कम- बोधकशास्त्रेष्वननुष्ठानलक्षणाप्रामाण्यस्य प्रसक्त्यभावात् । ननु नामकीतनं सकलपापक्षयसाधनं सकलपुरुषार्थसाधनं चेति प्रशंसन्तो विद्वांसोऽविद्वांसश्च स्वल्पा जनास्तत्र प्रवर्तन्ते । बहवस्तु विद्वांसोऽविद्वांप्तश्च नामकीर्तन कस्मिन्नपि फले स्वतन्त्रसाधनं न भवत्येवेति नामकीर्तनं निन्दन्तो गुरुसाधनेप्वेव प्रर्वतमाना दृश्यन्ते । तथा चान्यतरजनानां भ्रान्तिरवश्यं कल्पनीयेति बहू- नामनुग्रहन्यायेन नामकीर्तने प्रवृत्तिपरस्वरूपजनानां भ्रान्तिः कल्पनीया । तथा च नामकीर्तनस्य स्वतन्त्रसाधनत्वं न सिध्यत्येवेति चेत् ; सत्यं निन्द- न्त्येव बहवः । तथापि नामकीर्तनस्य साधनत्वमपलपन्तीति तदनुसारेण नामकीर्तनशास्त्रस्यान्यथानयनमसंगतमेव, सर्वेषां शास्त्रोक्तसाधनानामसाधन- त्वाभिधानेन निन्दका बहको जनाः सन्येवेति सकलालौकिक श्रेयःसाधना- नामसाधनत्वाङ्गीकारापत्तेः । तथा हि-ब्रह्मज्ञानस्य प्रशस्यता तज्ज्ञानस्य साधनत्वाभिधानेन तन्निन्दकानामनर्थप्राप्तिश्चोक्ता भगवद्गीतानवमाध्याये 'राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्य सुसुखं कर्तु. मन्ययम् ।। अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि' इति वचनद्वयेन । दृश्यन्ते चाद्वितीयब्रह्मज्ञानस्य मुक्ति प्रत्यसाधनत्वाभिधानेन तन्निन्दका गौतमकाणादमिनिपातालकापिल. तन्त्राभिमानिनो माध्वरामानुजशैवशाक्तहैरण्यगर्भाश्चेति वेदान्त्येकदेशिनश्च बहषः । एवमद्वितीयब्रह्मात्मनावस्थानरूपसुक्तिसिद्धयर्थं सकलधर्माचरण- पराणां मोक्षः तद्धर्मेष्वभ्यसूयया तद्धर्माणामसाधनत्वाभिधानेन तद्धर्मनिन्दका- नामनर्थो योक्तव्यः 'ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धा- वन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मत्तम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥' इति भगवद्गीतायां भगवद्वचनद्वयेन । दृश्यन्ते च तन्निन्दका गौतमकाणादादितन्त्राभिमानिनो माध्वरामानुजादयो वेदान्त्येकदेशिनश्चानुपदमुक्ताः । सर्वेषामेतेषां ब्रह्मा- (43) मनावस्थानरूपकैवल्यमीश्वरार्पणकुद्धया कृतसकलधर्माणां तत्कैवल्यहेतु. स्ववचनमभिमतमेक्त्यस्यार्थस्य सुप्रसिद्धत्वात् । एवं गौतमकाणादादिभिः कृतान्कांश्चिसिद्धान्तान्मानरामानुनादिभिः कृतान्कांश्चिसिद्धान्तांश्च बहवो निन्दन्त्यवेत्यर्थः मुप्रसिद्धः । मतो बहवो निन्दन्तीति भिया शास्त्रस्यान्यथा- मयनं केनापि न कृतमिति सर्वज्ञशिखामाणिभिर्भगवत्पादौनीतार्थस्य श्रीमद्विद्यारण्यप्रभृतिभिरीश्वरकल्पैरङ्गी रूतस्य नामकीर्तनमाहात्म्यस्याज्ञाने- नारुच्या च निन्दकानुसारादन्यथानयनशङ्कात्यन्तबुद्धिमान्यतैवेत्यर्थो विस्पष्टः । यत्पदार्थे येषामरुचिस्तेषां तत्पदार्थनिन्दकत्वं यत्पदार्थे येषां रुचिस्तेषां तत्पदार्थे प्रवृतिश्च लोके दृश्यते । तथा हि द्रविडदेशादा स्थित- जनानां मध्ये केभ्यश्चिन्मरीचिलवणमिश्रितेन मरीचिरससंज्ञकेन तप्तोदके. नान्नभोजनं रोचते ते तत्र प्रवर्तने च । अन्येभ्यस्तु तन्न रोचते ते तत्र न प्रवर्तन्ते प्रत्युत तन्मरीचिरसं निन्दन्ति च । अतस्तेभ्यः प्रागुक्तमरीचिर- रसापेक्षयाधिकवित्तव्ययाधिकशरीरायाससाध्येन बसम्लबहुमरीचियुक्तेनाम्ल- मरीत्रिरसप्तज्ञकेनान्नभोननं रोचते ते तत्र प्रवर्तन्ते । बड्वम्लरसश्च केभ्याश्चिन्न रोचते भोलुमशक्यश्च । अतस्ते तमम्लरसं निन्दन्ति चामुरयोग्योऽयमम्लरस इति । अन्यभ्यस्तु तक्रान्नभोजने उपदंशनार्थ निम्बपत्रचूर्णं रोचते । इतरे- भ्यस्तु तद्भोजने तच्चूर्ण न रोचते, तच्चर्णमशक्यं भोक्तुमतस्ते तन्निन्दन्ति च । एवं कुस्तुम्बरीसंस्कृतशाकादिक मरीचितिन्त्रिणीयुक्तं कुस्तुम्बरीपत्रपिष्टं चेत्युभयं केभ्यश्चिद्रोचते ते तत्र प्रवर्तन्ते च । अन्येभ्यस्तु तदुभयं न रोचते मोक्तुमशक्यमाघ्राणेनापि वमन करं चातस्तदुभयं निन्दन्ति च । अत्यन्ताम्लं दधि केन्याश्चिद्भोक्तुं रोचते केभ्यश्चिन्न रोचते भोक्तुमशक्यं च, अतस्ते तन्निन्दन्ति च । तथा च केषांचिदशक्येऽन्येषां रुचिः प्रवृत्तिश्च अन्येषाम- शक्ये केषांचिद्रुचिः प्रवृत्तिश्च दृश्यते । तथा च लोके येषां यत्पदार्थेऽ. रुचिन्ते तत्पदार्थान्निन्दन्ति, तैर्निन्दितेऽपि पदार्थे येषां रुचिस्ते तत्र प्रवर्तन्ते तत्पदार्थनिन्दकान्नैव गणयन्ति अरुचिवशान्निन्दकानां वाक्यं न श्रोतव्य- (49) मेवेति निन्दकानेव निन्दन्ति च । तथा अरुच्या बहुमिनिन्दितेऽपि शास्त्रोक्त- साधने येषां रुचिस्तेषां जनानां तत्र प्रवृत्तिरुचितैव, अरुच्या निन्दकस्य वार्ता न श्रोतव्येति लोकरीत्या सिद्धमेव । दर्शितश्चायमर्थः शास्त्रप्वपि । तत्र भगवद्गीतायामरुचिवशाबहुभिर्निन्दितेऽपि ब्रह्मज्ञाने रुच्या येऽधि- कारिणः प्रर्वतन्ते तेषां न कापि हानिः, तज्ज्ञानं मुक्तिहेतुर्भवत्येवेत्यर्थों दर्शितः ' राजविद्या राजगुह्यम्-' इत्यनुपदमुदाहृतवचनद्वयेन । एवम- रुच्या बहुभिनिन्दितेषु ब्रह्मात्मनावस्थानरूपमुक्त्यर्थकसकलधर्मेषु रुच्या येऽधिकारिणः प्रवतन्ते तेषां न कापि हानिः तैः धर्मैः सा मुक्तिर्भवत्येव, तत्रैव भगवद्गीतायाम् 'ये में मतमिदं नित्यम्-' इत्यनुपदमुदाहृतवचन. हयेन । एवमरुच्या भगवदजनमकृत्वा बहवो भगवन्तमवजानन्ति, ते महा. न्तमनर्थं प्राप्नुवन्ति, बहुभिरवमतस्यापि भगवतः सततं कीर्तनादिरूपभजन ये रुच्या कुर्वन्ति तेषां न कापि हानिः, प्रत्युत ते महात्मानों देवी प्रकृति- माश्रिता इत्यर्थों दर्शितः · अवजानन्ति मां मुढा मानुषी तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोवकर्माणो मोवज्ञाना विचेतसः । राक्षसीमालुरी चैव प्रकृति मोहिनी श्रिताः ॥ महात्मानस्तु मां पार्थ दैर्वी प्रकृतिमाश्रिताः । मजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्य. युक्ता उपासते ॥' इति श्लोकचतुष्टयेन । एवम् ‘सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यद्वाभिरोचते नाम तत्सवार्थेषु कीर्तयेत् । सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ॥ , इति सहस्त्रनाममाप्यान्ते भगवत्पादैर्दशितविष्णुधर्मवचनेन 'यद्वाभिरोचते नाम ' इत्युक्त्या भगवन्नाम्नां मध्ये किंचिन्नाम रोचते केम्यश्चित् एकमपि नाम केभ्यश्चिन्न रोचत इत्यर्थो दर्शित इत्यनेनं । येषामरुचिस्ते भगवन्ना; 7 (50) मानि निन्दम्ति, येषां रुचिर्भगवन्नाममु ते प्रवर्तन्ते, तेषां भगवन्नामभिः सर्वार्थसिद्धिः स्यादेवेत्यर्थो दर्शितः । अतः सिद्ध नामकीर्तने प्रवृत्तिमतां नामकीर्तने रुच्यभाववद्भिः कृतनिन्दया न कोऽपि दोष इति । एवं दृश्य- मानलघुकर्मरूपनामकीर्तनमपहाय वहूनां गुरुकर्मसु प्रवृत्तिरचोपपन्नैव, नामकीर्तने रुचिरहितानां गुरुकर्मस्वेव रुचियुक्तानां गुरुकर्मस्वेव प्रवृत्तेरवश्यं- भावित्वात् । शारीरकमीमांसायां देवताधिकरणे दर्शितेन तेषां ये यानि कर्माणि प्राक्सृष्टयां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिलाहिंले मृदुरे धर्माधर्मों ऋतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥' इति वचनसंदर्भेण लौकिकेवलौकिकेषु गुरुषु लघुषु च कर्मत्वा- वच्छिन्नसकलकर्ममु रुचिवैचित्र्यात्प्रवृत्तेदर्शितत्वात् । तथा हि तेषां सृष्ट- प्राणिनां मध्ये ये प्राणिनः प्राक्मृष्टयां यानि कर्माणि लौकिकान्यलौकिकानि लचूनि गुरूणि च प्रतिपेदिरे प्राप्तवन्तः, येषु कर्मसु प्रवृत्ता इति भावः । पुनः सृज्यमानास्ते प्राणिनः तान्येव प्रागाचरितकर्मण्येव पुनः प्रपद्यन्ते प्राप्नुवन्ति, पूर्वतकर्मननितवासनावशात्प्रागाचरितकर्मस्वेव पुनः प्रर्वतन्ते इति भावः । तेषां ये यानि । इत्याद्यवचनोक्तकर्माणि लौकिकान्य. लौकिकानि चेत्यष्टविधानीत्यर्थप्रदर्शनपूर्वकं प्रागाचरितकर्मजनितवासना- वशादेव जातसचिवैचित्र्यात्प्रागाचरितकर्मस्वत्र प्रवर्तन्ते इत्यर्थं दर्शयति 'हिंसाहित्रे' इति द्वितीयवचनं धर्माधर्मावित्यलौकिककर्मणामुक्तत्वात् , हिंस्त्राहिंस्र इति हिंवाहिस्त्रकर्मणोरुक्तत्वेन मृदुङ्करे इत्यनेनोक्तमृदुकूर- कर्माणि लघुगुरूण्येव अत्र मृदुकूराणि क्रियात्मकान्येवेति सिद्धत्वेन मृदु- शब्दः मृदुस्पर्शद्रव्ये मुख्यः स्पर्शरहितपदार्थे गौणः इत्यर्थस्य तथा क्रूर- शब्दः चेतनरूपघातुके मुख्यः अचेतनरूपक्रियायां गौण इत्यर्थस्य च सिहत्वेन कर्मणो मृदुत्वं सुलभत्वम् , तच्च सुखसंपाद्यत्वमेव, कर्मणि क्रूरत्वं च दुर्लभत्वमेव, तच्चात्यन्तायाससाध्यत्वमेव । अत एवात्यन्तायासेन यत्किं. चित्कर्म कुर्वन्तं दृष्ट्वा अत्यन्तक्रूरकर्म करोत्युदरंनिमित्तमिति अत्यन्तरं (51) तपश्चरति परलोकार्थमिति च व्यवहारो दृश्यते । यथा भगवद्गीतायाम् ' अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामराग- बलान्विताः !! कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥' इति संदर्भेण । घोरं तपः तथात्यन्तदुरनुष्ठेयं तत्स्वरूपं चोक्तम् । तथास्य कर्मणः क्रूरत्वमायासमाव्यत्वमेवेत्यवगम्यते । किं चात्र तेषां ये यानि इति प्रथमवचने येषां ये यानि कर्माणीति सामा- न्येन कर्मत्वावच्छिन्नकर्माणि सर्वाण्युक्त्वा तेषामेव कर्मणां विशेषरूपत्वा- भिधानायारभ्य — हिंसाहित्रे' इत्यादिना अष्टविधताया उक्तत्वेन एते- प्वष्टविधकर्मसु नानाविधभेदभिन्नानि कर्माणि सर्वाण्यन्त तानीत्यवश्यं वक्त. व्यत्वेन मृदुरे इति वाक्यस्य लघगुरुकर्मपरत्वमनिवार्यमेव । एवं लघुगुर्वा- ८ दिभेदभिन्नेप्वष्टविधकर्मसु प्रवृत्तिहेतुरुक्तः 'ताविताः' इत्यादिना । तद्भाविता अष्टविधकर्मस्वेकेन वा द्वाभ्यां बहुभिर्वा यैः कर्मभिर्षे जना भाविता वासिताः तान्यन वासनोत्पादककर्माण्येव ते जनाः प्रपद्यन्ते । यत्कर्मजातवासनाश्रया ये जनास्ते तद्वासनावशात्तेप्वेव कर्मसु प्रवर्तन्ते इति भावः । तद्वासनानां प्रवृत्तिजनकत्वं च तत्कर्मसु रुच्युत्पादनद्वारेत्याशयेनाह --तस्मादिति । तस्मात् तत्कर्मवासनावासितत्वात् तत्कर्म तस्मै जनाय रोचते तद्रुचिवशात्तद्वासनोत्पादककर्मणि प्रवर्तते इति भावः । हिनेति श्लोक- स्यायं भावः-हिंस्राद्यष्टविधकर्मसु पूर्व गुरुकर्माचरणेन गुरुकमवासनावासित- प्रकृतिका ये जनास्तेषां गरुकर्मस्वेव सचिरुत्पद्यते, तद्रुनिवशात्ते जना त्ति गुरुकर्मस्वेव प्रवर्तन्ते । एवं लघुकर्मणि हिंस्रकमादी चेत्यष्टविधकर्मस्वपि प्रवर्तन्ते इति । तथा च तेषां ये यानीत्यादिश्लोकद्वयेन यस्मिलघुनि वा गुरुणि वान्यस्मिन्वा कर्मणि वासनावशानुचिरुत्पद्यते यस्य जनस्य स तस्मिन्नेव कणि प्रवर्तत इत्यर्थः सिद्धः । किं च न्यायोपवृहितं चैतद्वचन- द्वयम् । तथा हि-मधुराम्ललवणकटुकपायतिक्तरसवत्पदार्थानां मध्ये यस्मिन्पदार्थे भोजनार्थिनो यस्य सचिः स तस्मिन्पदार्थे प्रवर्तते यम्य -- (52) ? यस्मिन्पदाथै रुच्यभावः स तस्मिन्न प्रवर्तते । तथा च कश्चन पदार्थः केषांचिदरुच्या अशक्य एव भोक्तुम् अतस्ते तत्र न प्रवर्तन्ते केषांचिद- शक्ये पदार्थेऽन्येषां प्रवृत्तिश्च दृश्यते इत्यर्थः प्राग्विस्तरेण दर्शितः । तथा च यस्य यस्मिन्पदाथें रूचिः स तस्मिन्पदार्थे प्रवर्तते यस्य यस्मिन्वस्तुनि रुच्यभावः स तस्मिन्सर्वथा न प्रवर्तते इत्यर्थः । 'लोके तेषां ये यानि इति वचनद्वये च समानतया दृश्यत इति तद्वचनद्वयस्यैतल्लौकिकन्यायोपबृंहि- तत्वमनिवार्यम्, न्यायोपबृंहितवचनं न्यायविरुद्धवचनजातादपि प्रबलमित्ये- तत्सकलशास्त्राभिमतमित्यर्थः सुप्रसिद्ध इति न्यायोपबृंहिततया प्रबलाभ्याम् 'तेषां ये यानि । इत्यादिदर्शितवचनाम्यां वासनावशाद्यस्य यत्र रुचिः स तत्र प्रवर्तते इत्यर्थाभिधानेनात्यन्तलघुभूते नामकीर्तने रुच्या स्वल्प- जनानां विदुषामविदुषां च प्रवृत्तेः। तथा नामकीर्तनेऽरुच्या अत्यन्तगुरु- भूतधर्मेष्वेव रुच्या बहूनां विदुषामविदुषां च प्रवृत्तेश्वोपपन्नत्वं दर्शितम् । सितशर्करान्वितासन्तोत्तमगोक्षीरे उत्तमसितशर्करागोघृताम्यां विनिर्मिते गोधूमपिष्टविकाररूपलकोत्तमे चारुच्या केपांचित्तद्भोजनप्रवृत्त्यभावस्य दर्शनात् वहूनां द्रावेडदेशस्थानां निम्बपत्रचूर्णे रुचिवशादत्यन्तारुचिहर- मिदं चूर्णमिति श्वाचनपूर्वकं तत्र प्रवृत्तेर्दर्शनात् । एकस्मिन्नेव कुस्तुम्बरी- पत्रपिटे दृढरुचियुक्तानां महाराष्ट्राणामत्यन्तश्लाघनपूर्वकं तत्र प्रवृत्तेः तथा तस्मिन्नेव पिष्टेऽत्यन्तारुचियुक्तानां बहूनामत्यन्तनिन्दनपूर्वकं वमनपूर्वकं च निवृत्तेश्च दृश्यमानत्वात् । महिम्नःस्तवेऽप्ययमों दर्शितः-'त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचिच्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामणव इव ॥' इति श्लोकेन । तद्वचने कुटिलमार्गे रुचिमास्तन्मार्ग परामिदमदः पथ्यमिति स्तुवन्प्रवर्तत इत्यर्थप्रतिपादनेन कुटिले रुचिमानृजुमार्गमपीदम- श्रेष्ठमिदमपथ्यमिति निन्दन्नुजमार्गानिवर्तत इत्यर्थो दर्शितः। एवमृजुमार्गे रुचिमान्कुटिलं निन्दन्नृजौ प्रवर्तत इत्यर्थोऽपि दर्शितः । अतो नामकीर्तनेऽ- (53) रुचिवशाहूनां तन्निन्दनपूर्वकं ततो निवृत्तेर्गुरुकर्मसु ढकाविशात्तत्कर्मसु प्रवृत्तेश्च युक्तत्वं सिद्धमेव । सौलभ्यस्य सुलभसाधनेष्वनादरहेतुत्वं तदनादरणस्य सुलभसाधने केवलासाधनत्वबुद्धिजनकत्वं च दर्शितं स्कान्दे पुराणे । तत्र केनचिद्राज्ञा जलदानमवश्यं कार्यमिति श्रीवसिष्ठादिभिर्बोधितेनापि तज्जलदानाकरण. पूर्वकमुक्तेन — यज्जलं सर्वतो लभ्यं तद्दाने किं फलं भवेत् ' इति वचनेन लघुसाधनेषु जातारुचिस्तलघुसाधनेष्वनादरणमसाधनत्वभ्रान्ति तेषु प्रवृत्त्य- भावं च जनयतीत्यर्थों दर्शितः । विस्पष्टं दर्शितश्चायमर्थः श्रीमद्भागवते दशमस्कन्धे । तत्र कदाचित्सूर्योपरामसमये श्रीकृष्णस्य निकटे समुपविष्टा नारदादयो महर्षयः 'नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनीहारो यथा स्यान्नस्तदुच्यताम्' इति वसुदेवेन पृष्टाः किमयं स्वाधीनं सर्वज्ञमीश्वरमपहायास्मान्पृच्छतीत्याश्चाविष्टा आसन् । तान्प्रत्युक्ते 'नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ संनिकर्षों हि मानामनादरणकारणम् । गङ्गां हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ॥' इति नारदवाक्यसंदर्भ अनुपमसुकृत- शालिनोऽपि वसुदेवस्य नित्यसिद्धसर्वेश्वरत्वसर्वज्ञत्वाद्यनन्तकल्याणगुणाकरे श्रीकृष्णे अनीश्वरत्वासवैज्ञत्वव्याप्यार्भकत्वबुद्धिरनादरणशब्दितपरिभवश्च सनिकर्षवशादभवदिति तथा गङ्गातीरस्थमनुष्याणां संनिकर्षवशादनादरण- शब्दितपरिभवो निरुपमपावनपटीयसि गङ्गाम्भासि सकलतीर्थवरेभ्यो गरी- यसि सामान्यतीर्थापेक्षयापि निकृष्टत्वबुद्धिर्जायते मनुष्याणामेष स्वभाव इति चार्थों दर्शित इति वसुदेवादीनां तद्भगवदुपेक्षया गङ्गातीरस्थानां तङ्गोपेक्षया च सकलमनुष्याणां सर्वत्र सदात्यन्तसनिकृष्टे भगवन्नाम्नि तत्सनिकर्वशादहूनां नराणां तन्नाम्नि हि परिभवः, स्वतन्त्रतया साधन- त्वाभावभ्रान्तिश्च स्यादेवेत्यर्थः कैतिकन्नायसिद्ध एव । तथा चैतद्भागवत- (54) संदर्भेण दृश्यमानस्य भगवन्नाम्न्यसाधनत्वभ्रमस्य परिभवस्य प्रवृत्त्यभावस्य चात्यन्तसंनिकर्ष एव हेतुरिति दर्शितं भवति । एवं च स्वनेदिष्ठं तीर्थ जगति समकालः कवयिता निजस्त्रीलावण्यं निजभवनसीमौषधिलता । जगत्ख्यातो मन्त्रः सकलसुलभो निस्कृतिविधिर्न गण्यन्ते लोकैरतिपरिचयाल्पी- कृतगुणैः ।।' इत्यभियुक्तवचनम् , तथा 'प्रथमदिवसचन्द्रः सर्वलोकैक कपूज्यः स तु सकलकलाभिः पूर्णबिम्बोऽपि नाहः । अतिपरिचयदोषः कस्य नो हन्ति मानं नवनवगुणरागी प्रायश्नः सर्वलोकः ॥' इत्यभियुक्तवचनम् , तथा ' अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिल्लपुरंध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥' इत्यभियुक्तवचनं चानुसृतं भवति । यदप्युक्तं सर्वत्रायासाधिक्यात्फलाधिक्यकल्पनं मीमांसकैरवगमितमिति तदत्यन्तभ्रान्तिमूलकमेव, सर्वत्र तत्कल्पनम्य पूर्वमीमांसकानामुत्तरमीमांस- कानां चाभिमतविरुद्धत्वात् । दना जुहोति ' इति श्रुत्या क्रत्वङ्गत्वेन ऋतूपकारायैव दधिस्वीकारायासापेक्षया दध्नेन्द्रियकामस्य जुहयात् इति श्रुत्येन्द्रियलक्षणफलसाधनतयार्थात्क्रतूपकाराय च दधिस्वीकारे आया. साधिक्यलेशस्याप्यभावेऽपि ऋतूपकाररूपफलापेक्षयाधिकस्येन्द्रियलक्षण- फलस्य पूर्वमीमांसकैरङ्गीकृतत्वेन, तथा । चमसेनापः प्रणयेत्। 'गोदोहनेन पशुकामस्य इत्यत्र पलाथै गोदोहनस्वीकारे आया- साधिक्यगन्धस्याप्यभावेऽपि ऋतूपकाररूपफलस्य पशुलक्षणफलस्य चेति फलद्वयस्याप्यङ्गीकृतत्वेन, 'खादिरो यूपी भवति । खादिरं वर्यिकामस्य ' इत्यत्र फलसाधकत्वेन खादिरत्वोपादानेऽप्या- यासाधिक्यलेशस्याप्यभावेऽपि कृतूपकाररूपफलस्य वार्यलक्षणफलस्य चेति फलढयस्याङ्गीकारेण, तथा द्वादशाध्यायचतुर्थपादे 'सत्रे गृहपतिर- संयोगाद्धौत्रवत् ' इत्यधिकरणे, गृहपतेः फलभूयस्त्वमञ्जनादि फलिसंस्कारा- त्मककर्माधिक्यादिति पूर्वपक्षं प्रापय्य सिद्धान्ते तु फलिसंस्काररूपकर्माणि सत्रफलभोक्तृभिः सर्वैरपि कार्याणि गृहपतेः फलभूयस्त्वं तु यो वै सत्रे १ तथा .

(55) बहूनां यजमानानां गृहपतिः सत्रस्य प्रत्येता स हि भूयिष्ठामृद्धिमाप्नोति' इति वचनबलाद्भवति नं संस्काराधिक्यादित्युक्त्या अध्वर्वाद्यपेक्षया गृहपतेरायासाल्पत्वेऽपि तद्ध्वर्वाद्यपेक्षया गृहपतेः फलभूयस्त्वाङ्गीकारेण च सर्वत्रायासानुसारेण फलकल्पनं मीमांसकैरङ्गीलतविरुद्धमवेत्यर्थस्य विस्पष्टत्वात् । अनायासाभावेऽपि वचनोक्तफलाङ्गीकारे, तथा अग्निहोत्र- दर्शपूर्णमासादावायासाधिक्यात्स्वर्गरूपफलाधिक्यकल्पने, तथा अल्याया- 4 सवतो गृहपतेरधिकफलाङ्गीकारे, तथा भीमांसकानां न हि वाचनिकार्थे न्यायः प्रवर्तते । इति प्रवादे, तथा न हि वचनस्यातिभारोऽस्ति ' इति प्रवादे, तथा 'किं हि वचनं न कुयात् ' इति प्रवादे च । पर्यालोच्य हि यत्र वचनविरोधाभावस्तत्रैव लौकिकन्यायानां प्रवृत्तिः इति सकललोकरीत्या आयासतारतम्येन फलतारतम्यं कल्प. नीयम् । यत्र वचनस्य फलाभिधाने तात्पर्य तत्र वाचनिक फलमवश्यमङ्गीकर्त- व्यं वाचनिकार्थे लौकिकन्यायानां प्रवृत्त्यभावादिति मीमांसकानामाशयोऽ- वधीयते, अन्यथामिहोत्रदर्शपूर्णमासादावायासतारतम्येन फलकल्पनस्य दध्नेन्द्रियकामस्य जुहुयात् ' इत्यादावायासाधिक्यं विनवाधिकफलाङ्गी- कारस्य च परस्परविरोधाङ्गीकारापत्तेः, 'न हि वाचनिकार्थे न्यायः प्रवर्तते । इत्युदाहृतप्रवादत्रयस्याप्यनृतत्वापत्तेश्च । मुप्रसिद्धमेव लोके क्वचिदाया. साधिक्ये फलाधिक्यं क्वचिदायाससाम्ये फलाधिक्यं क्वचिदायासस्याल्पत्वेऽ- पि फलाधिक्यं च । तथा हि-कश्चन भूप्रदेशविशेषः करीषपत्रादिप्रक्षेप- रूपायासं विना यावत्फलति स एव भूप्रदेशविशेषः करीपपत्रादिप्रक्षेप- रूपायासाधिक्येऽधिकफलो दृश्यते । एवमीपत्सारवद्भूमिर्यावत्फलति समानेऽपि पुरुषायासेऽत्यन्तसारवद्भूमावधिकफलं दृश्यते । एवमत्यन्तसार- वमिरत्यन्तायासं विनैव यावत्फलति उषरभूमिबहुकरीषप्रक्षेपादिरूपात्य- न्तायासेनापि तावन्न फलति, किंतु तन्न्यूनमेव फलं तत्र दृश्यते । एवमेक- (56) भूप्रदेशे यावत्फलं तत्समानसारवति तद्द्विगुणभूप्रदेशे तद्विगुणं फलं दृश्यते । एवमत्यन्तसारवति भूप्रदेशे यावत्फलं दृश्यते तद्वत्साररहिते तट्विगुणेऽप्यू- परभूप्रदेशे ततो न्यूनमेव फलं दृश्यते । एवं गजशिरःपरिमितं समीचीन- दृढपाषाणं योजनपर्यन्तं नीत्वा विक्रेतुर्यावत्फलं दृश्यते कपित्थफलपरिमितं समीचीनं दीपवत्प्रकाशमानं माणिक्यं योजनपर्यन्तं नीत्वा विक्रेतुस्ततोऽयुत- गुणं लक्षगुणं ततोऽप्यधिकं च फलं विज्ञायते । तथा चलोके क्वचिदाया- साधिक्यात्फलाधिक्यं तथा क्वचिदायाससाम्येऽपि फलाधिक्यं क्वचिदाया- सस्यात्यन्ताल्पत्वेऽपि फलाधिक्यं च सिद्धमेव । अत एव मीमांसकैरपि अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादावायासाधिक्यात्फलांधिक्यं कल्पितम् । दधिगोदोहनखादिरत्वादिप्वायासप्ताम्येऽप्यायासाल्पत्वेऽपि फलाधिक्य- मङ्गीकृतम् । उत्तरमीमांसाकारभगवत्पादैस्तु भगवद्गीतासप्तमाध्याये ' अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥' इति वचनभाप्ये 'समानेऽप्यायासे मामेव न भजन्तेऽनन्त. फलायाहो खलु कष्टं वर्तत इत्यनुक्रोशं दर्शयति भगवान् ' इत्युक्तम् । तद्भाप्ये समानेऽप्यायासे देवतान्तरभजनपराणामन्तवत्फलं भगवद्भजन- पराणां मुक्तिरूपमनन्तफलं च कण्ठरवणोक्तम् । नवमाध्याये ' यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्या- जिनोऽपि माम् ॥ ' इति वचनतात्पर्याभिधायके 'समानेऽप्यायासे मामेव न भजन्तेऽज्ञानात् तेन तेऽल्पफलभाजो भवन्तीत्यर्थः, न केवलं मद्भक्ताना- मनावृत्तिलक्षणमनन्तफलं किं तु सुखाराधनश्वाहम् कथं पत्रं पुष्पं फलं तोय- मित्युक्तम् ? तत्रावतारिकारूपभाप्ये देवतान्तरभजनस्यात्यन्तायाससाध्य- स्याल्पफलम् अनायाससाध्यस्य भगवद्भजनस्य मुक्तिरूपमनन्तफलं च विस्पष्टं दर्शितम् । बृहदारण्यकोपनिषत्पञ्चमाध्याये-'अथ संपदः' इत्यारम्य (37) बहुविषसंपदुपासनाभिधायकश्रुतात्यानरूपे। अथ संपद उच्यन्ते-संपन्नाम केनचित्सामान्येनामिहोत्रादीनां कर्मणां फलवतां कर्तुस्तत्फलाय संपादनं संपत् । फलस्यैव सर्वोत्साहन फलसाधनानुष्ठाने प्रयतमानानां केनचि- द्वैगुण्येनासंभवस्तदानीमाहिताग्निः सन्किचित्काग्रिहोत्रादीनां यथा संभव- मादायालम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति तदेव संपादयति, अन्यथा राजसूयाश्वमेधपुरुषमेवसवमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि केषांचिदसंभवात्तेषां तत्पाठ स्वाध्यायाधः केवलः स्यात् । यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् तस्मात्तेषां संपदव तत्फलप्राप्तिः; तस्मात्संपदामपि फलवत्त्वम् अतः संपद आरभ्यन्ते इत्यादिभाष्ये तद्भाष्य- व्याख्यानरूपे ' फलवकर्मणां क्वापि किंचित्सामान्यसंश्रयात् । संपत्ति- महतां संपदस्पीयः कर्मसूच्यते । यदि वाक्यफलस्यैव किंचित्सामान्य- वर्त्मना । संपादनं भवेत्संपदग्निहोत्रादिकर्मणि || संपदा चेत्फलप्राप्ति- रग्निहोत्रादिकर्मणाम् । त्रयाणामपि वर्णानां तत्पाठः फलवान्भवेत् ॥ नातिभारोऽस्ति नो बुद्धेः शास्त्रं चेत्परमं भवेत् । विदुषां श्रेयसे तेऽध्वा न क्वचित्पतिहन्यते ॥' इत्यादिवार्तिके च । अल्पायाससाध्येनानिहोत्रादि- कर्मणात्यन्तमहायाससाध्याश्वमेधादिरूपमहाऋतुफलं स्यादित्यर्थः कण्ठरवे- गोक्तः । अन्याश्च संपदुपासना अत्यन्तमहायाससाध्या देवलोकादिफलप्रदा बचः प्रतिपादिताः । अत्र वार्तिके ' नातिमारोऽस्ति-' इति वार्तिक- लोकस्यायमर्थः--शास्त्रं तत्परं संपदुपासनस्याश्वमेधादिफलसाधनत्वाभि- धानपरं भवेच्चेत् नः अस्माकं चतुर्मुखब्रह्मणोऽवताररूपाणां सर्वज्ञशिखा- मणीनां वार्तिकाचार्याणां बुद्धरुक्तसाध्यसाधनभावाङ्गीकारे अतिभारः अत्यन्तदृढशङ्कारूपभारो नास्त्येव । किं तु क्वचिन्मीमांसकैरायासानुसारेण फलं न्यायैः कल्पितमतोऽत्रापि तथा कल्पनीयमिति मन्दाशङ्कारूपाल्प- भारोऽस्ति, स चाल्पभारः शास्त्रताप्तीर्थे न्यायानां प्रवृत्त्यभावेन निराकृत इति तन्निराकरणस्य 'शास्त्रं चेत्तत्परं भवेत् । इत्यनेन दर्शितत्वादिति 8 भावः । (58) अतः शास्त्रतात्पर्यार्थाङ्गीकारे ब्रह्मणोऽवताररूपाणामस्माकं शङ्कारूपभाराभावादेव विदां समीचीनज्ञानवतां श्रेयसे अल्पायासलभ्य महाश्रेयसे अध्वा उक्तसंपटपासनारूपमार्गः क्वचिदपि न प्रतिहन्यते । मीमांसकैः क्वचिदायासानुसारेण पालमुक्तमिति तन्नायैरवं संपदुपासना- रूपमार्गः श्रुतितापसिद्धत्वान्न पाध्यते इति भावः । तथा च समानायास- स्थलेऽन्यतरसायनत्व अधिककलानिधानकशास्वं तथा आयासावहसाधन- फलापेक्षया लघुसाधनस्याधिकालानिमायकशास्त्रं चोपमृध सर्वबायासानु- सारेण लकल्पनपक्षल सकलपूर्वमीमांसकमतविरुद्धत्वं सकलोत्तरमीमांस- कमतविरुद्धत्वं च विस्पटम् । यदप्युक्तं गुरुपापे गुरु प्रायश्चित्तं लघुपापे लघु प्रायश्चित्तमिति प्राय- श्चित्तायासानुसारेण निवन्धनेषु व्यवस्थारितामति तत्तिं वचनैरेव गुरुपापे गुरु प्रायश्चित्तं लघुपापे लघु प्रायश्चित्तं चोक्तम् अतस्तद्वचनस्वारस्यानुसारेणैव व्यवस्थापितमित्युच्यते, अथवा तालणैव प्रवृत्तवचनस्वारस्यं क्वचिन्न्या. यैरुपमा प्रायश्चित्तानामायासतारतम्यानुसारेग व्यवस्थापितमित्युच्यते, तत्राद्यपक्षे तावदिष्टापत्तिः तात्पर्येण प्रवृत्तवचनानां स्वारस्वानुसारेण व्यव. स्थापनस्य पूर्वोत्तरमीमांसकानां सर्वेषामभिमतत्वेन तदर्थाीकारस्यावश्यि. कत्वात् ; द्वितीयपक्षस्तु श्रीमद्विद्यारण्यचरणैबृहन्माधवीयाख्यनिबन्धनस्यादौ सम्यनिराकृतः । उक्तं च तत्रैव माधवीये- सर्वथापि त्वया प्रोक्तां निर्मूलां बुद्धिकल्पिताम् । कामाकामादिभेदेन नाङ्गीकुर्मों व्यवस्थितिम् ॥ वचनेप्येव कामादिव्यवस्था लभ्यते यदि। मुखेनाभ्युपगच्छामो वाक्यैक- शरणा वयम् ॥ ' इति । कामछतपापे महत्प्रायश्चित्तमकामकृतपापेऽल्प. प्रायश्चित्तमित्यर्थः । प्रायश्चित्तयोरलगत्वं महत्त्वं चानायासमहायासकृत- मित्येतत्पूर्वपक्षे विवक्षितमित्यर्थो दर्शितस्तत्रैव माधवीये - इदमल्पं महच्चेद- मिति ते किं नियामकम् । अनायासमहाचासौ यद्यल्पत्वमहत्त्वयोः । हेतु- (59) महाव्रतास्तहि भवेयुः कर्षकादयः ॥' इति । स्मृतिव्याख्यातृभिः कृतव्य- वस्थायाः प्रयोजनमुक्तं तत्रैव माधवीये ‘स्मृतिव्याख्यावृभिः सर्वैर्वचनानां व्यवस्थितिम् । युवाणन्दमतयो व्युत्पाद्यन्ते हि केवलम् ॥' इति । केवलं मन्दमतिव्युत्पत्त्यर्थमेव सा व्यवस्था न प्रामाणिकीति भावः । तद्व्यवस्थाया अप्रामाणिकले हेतुरुक्ततत्रैव माधवी कारिपता मानुषी बुद्धिः सा च न व्यवतिष्ठते । अत एव निवन्वेषु दृश्यते नैकवाक्यता ॥' इति । हेत्वन्त- राणि चोक्तानि 'देशभेदात्कालभेदात्पुभेदादन्यथान्यथा । विपर्यस्यति शास्त्रार्थ इति पूर्वमवादिषम् ॥ ' इति । देशभेदादित्यस्य · अयोध्या मधुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती सेतुबन्धो रामे- श्वरश्च सः॥' इति इत्यादिषु महापुण्यक्षेत्रेषु अन्येषु सामान्यभूपदेशेषु च कृतजपदानवासादीनामायाससाम्ये समानपुण्याङ्गीकारापत्तेः, गङ्गागोदावरी- कृष्णवेणीकावेरीधनुष्कोट्यादिमहातीर्थेषु सामान्यतीर्थेषु च कृतस्नानतर्पणा- दीनामायाससाम्ये समानपुण्याचीकारापत्तेः, तत्क्षेत्राणां तत्तीर्थानां च महामाहात्म्यबोधकानां श्रुतिपुराणस्मृत्यादीनां तच्छ्रुतिपुराणाद्यनुसारेण कृतानामभियुक्ताचाराणां चाप्रामाण्याङ्गीकारापत्तेः प्रणवगायत्रीनारायणा- टाक्षरीशैवपञ्चाक्षर्यादिमहामन्त्राणां जपस्य भाषामन्त्राणां जपस्य चायास- साम्ये फलसाम्याङ्गीकारापत्तेश्चेति भावः। कालभेदादित्यस्य अर्धोदयमहोदय- सूर्योपरागसोमोपरागादिमहापुण्यकालेषु सामान्यकालेषु कृतानां स्नानदान- जपहोमादीनां सकलपुण्यकर्मणामायाससाम्याङ्गीकारापत्तेः, अर्धोदयादि- कालेषु कृतकर्मणां महाफलसाधनत्वाभिधायकशास्त्राणां तथा तच्छास्त्र- प्रामाण्याङ्गीकारपूर्वकं प्रवृत्तशिष्टाचाराणां चाप्रामाण्याङ्गीकारापत्तेश्चेति भावः पुंभेदादित्यस्य वसिष्ठसढशमहाश्रोत्रियेभ्यः सनकादिसहशब्रह्मनिष्ठेभ्यश्च दत्तदानस्य व्रात्यभिन्नसामान्यबामणेभ्यो दत्तदानस्य च आयाससाम्ये फल. साम्याङ्गीकारापत्तेः, महाश्रोत्रियेभ्यो दत्तदानस्य महाफलसाधनत्वाभि- धायकश्रुतिस्मृत्यादिशास्त्रस्य तथा तच्छास्त्रानुसारेण प्रवृत्तशिष्टाचाराणां शृण (60) चाप्रामाण्याङ्गीकारापत्तेः परमहंसमहामुनिभ्यो ब्रह्मनिष्ठेभ्यः क्षुधितेभ्यो दत्तान्नदानस्य व्रात्यभिन्नब्रह्मचारिभ्यः क्षुधितेभ्यो दत्तान्नदानस्य चायास- साम्ये फलसाम्याङ्गीकारापत्तेः ' अनुपनीतशतमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमेकमेकेन गृहस्थेन तत्समम् । गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समम् । वानप्रस्थशतमेकमेकेन यतिना तत्समम् ॥' इति नृसिंहतापिनी- श्रुतेः । तथा तच्छ्रुत्यनुसारेण प्रवृत्तशिष्टाचारस्य चाप्रामाण्याङ्गीकारापत्ते- श्रेति भावः । तत्र देशभेदात्कालभेदात्पुभेदादिति हेतुत्रयाभिधानस्यार्य भावः- उक्तरीत्या बहुश्रुत्यादिशास्त्रसंदर्भाणामुपरोधानीकारे न्यायसाम्या- सकलवेदशास्त्राणामुपरोधापत्तेरिति । तहि शास्त्रार्यः कथं निर्णेतव्य इत्याकाङ्कायामुक्तं तत्रैव ' निर्णयमत्र त्वं स्वतःप्रामाण्यवादिनः । प्रतीतेऽर्थेऽखिलं शास्त्रं प्रमाणे बाधया विना ॥' इति । तत्रैव स्थलान्तरेऽप्युक्तम् ' अथापास्यार्थ- वादांशं विधिवाक्येषु यद्यथा । प्रतीतं तत्तथा ग्राह्यं बाधं वाचनिक विना॥' इति । मीमांसाविरोधशङ्कायामुक्तं तत्रैव स्थलान्तरे ' मीमांसकत्वमेतत्स्या- द्वाक्यानुसरणेन यत् । व्यवस्थापनमन्यत्तु पाण्डित्यख्यापनं परम् ॥" इति । अन्यान्यपि बहूनि दूषणान्युक्तानि माधवीये । तान्यत्र ग्रन्थवि. स्तृतत्वभिया न दर्शितानि । युक्तमेवेदं तात्पर्येण प्रवृत्तवचनस्वारस्योपमर्दन- पूर्वकमायासानुप्तारेण कृतव्यवस्थाया दुष्टत्वम् । सकलपूर्वोत्तरमीमांसक- मतविरुद्धताया दर्शितत्वात् । अतः सिद्धमेव नामकीर्तनस्य वचनैस्तात्पर्ये- णोक्तफलाङ्गीकारस्य तथा स्वल्पजनानामेव नामकीर्तनरूपलघुधर्मे दृश्य- मानप्रवृत्तेबहुनां गुरुधर्मेषु दृश्यमानप्रवृत्तेश्वोपपन्नत्वम् । मनु प्रागाचरितकमजनितवासनावशात्तत्कर्मणि रुचिर्जायते, तद्रुचि- वशात्तस्मिन्नेव कर्मणि प्रवर्तत इत्यर्थः । तस्मिन्नर्थे 'तेषां ये यानि कर्माणि' इत्यादिसंदर्भरूपप्रमाणप्रदर्शनपूर्वक सम्यगुपपादितः । अस एव (81) अन्मनि कृतनामकीर्तनजनितवासनावशात्तदधीना नामकीर्तने रुचिः तद्राच- दशान्नामकीर्तने प्रवृत्तिश्च जातेत्यङ्गीकर्तव्यम् । तदङ्गीकारे सकनामकीर्त- नस्य मुक्तिसाधनत्वाभावः सिद्ध एव, पूर्वजन्मनि कृतनामकीर्तने मुक्ति- साधनत्वाभावाङ्गीकारस्यावश्यिकत्वात् । किं च अस्मिक्षन्मनि नामकीर्तन- पराणां पूर्वजन्मनि नामकीर्तनपरत्वं वक्तव्यम् , पूर्वजन्मनि नामकीर्तन- प्रवृत्तिसिद्धये ततः पूर्वजन्मनि नामकीर्तनपरत्वं कल्पनीयम्, तत्पूर्व- जन्मनि नामकीर्तनप्रवृत्तये ततः पूर्वजन्मनि नामकीर्तनपरत्वं कल्पनीय- मित्यधुना ये नामकीतैनपरा दृश्यन्ते ते ह्यनादिकालमारभ्यानेक- कोटिब्रह्मकल्पेषु धृतानन्तकोटिशरीरेषु नामकीतैनपरा एवेत्यवश्यं कल्प. नीयम् । अन्यथा नामकीर्तने प्रवृत्तिसिद्ध्यभावापत्तेः । तथा चावृत्त. नामकीर्तनस्यापि श्रेयःसामान्यं प्रत्यसाधनत्वं सिध्यति । अतः कोटि- शरीरेषु बहुधावृत्तनामकीर्तनस्यासाधनत्वे एकस्मिञ्जन्मनि आवृत्तनाम- कीर्तनस्यासाधनतायाः कैमुतिकन्यायसिद्धत्वादिति चेत् नामकीर्तने प्रवृत्ते- रिव सकलधर्मप्रवृत्तेरुपपादनीयतायाः समानत्वेन नामकीर्तनप्रवृत्तिसिद्धये नामकीर्तनस्यापादितानवस्थायाः सकलधर्मेषु प्रवृत्तिसिद्धये सकलधर्माणा त्वदुक्तानवस्थापत्या सकलधर्माणामसाधनत्वापत्त्या कृत्स्नम्यापि शास्त्रस्या- प्रामाण्यापत्तेः । वस्तुतस्तु कस्यापि शास्त्रोक्तसाधमस्य त्वदुक्तानवस्था- गन्धस्यापि नावकाशः। तथा हि-' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ' इति श्रुत्या यज्ञादिमिर्जातमहापुण्येन तत्त्वज्ञाना- पेक्षया विजातीयेन तत्त्वज्ञाने प्रवृत्तिदर्शिता । एवं विजातीयसुकृतवशा- ज्ज्ञाने प्रवृत्तिप्रदर्शनदृष्टान्तेनैव सकलधर्मेप्वनवस्थावारणाय तेषु विजातीय- धमैरपि प्रवृत्तिकल्पनं युक्तभेव, ज्ञान इव नामकीर्तने विजातीयसुलतं प्रवृत्त्युत्पादकमित्यर्थप्रतिपादकवचनानि बहूनि दृश्यन्ते । तत्र श्रीमद्भागवते (62) 'अहो बत श्वपचोऽतो गरीयान्यज्जिताने वर्तते नाम तुभ्यम् । तेपुस्तपस्ते मुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृहन्ति ये वै ।। ' इति वचनेन ये भगवन्नाम गृहन्ति ते पूर्व तपः तेपुः कृतवन्तः जुहुवुः सर्वं होमं कृतवन्तः सस्नुः सकलतीर्थेषु स्नानं कृतवन्त आर्याः सकलस्वधर्माचरनं कृतवन्तः ब्रह्मानूचुः सकलवेदाध्ययनं कृतवन्त इति त्वन्नामग्रहणमहाभाग्योदयरूपलिङनानुमातुं शक्यते इतितात्पर्यकेण नामकीर्तनादितरधभैरेव नामकीतने प्रवृत्तिदर्शिता । तथा वामनपुराणे 'अश्वमेधादिभिर्यनिस्मेषैस्तथैव च । याजितं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥' इति वचनेन अश्वमेधादिसकलय नामकी- तैनप्रवृत्तिर्दर्शिता । तथा श्रीविष्णुधर्म वाराणस्यां कुरुक्षेत्रे नैमिशे पुष्करे तथा । तद्गतं तन येनोक्तं हरिरित्यक्षरद्वयम् ।। ऋग्वेदो हि यजुर्वेदः साम वेदोऽप्यथर्वणः । अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् !! अश्वमेधादि- भिर्यज्ञैर्नरनेवैः सदक्षिणैः । यानितं तेन येनोक्तं हरिरित्यक्षरद्वयम् ।। गवां कोटिसहताण कन्यानामयुतानि च । दत्तानि तानि येनोक्तं हरिरित्यक्षर- द्वयम् ॥' इति वचनैः वाराणस्यादिक्षेत्रवासेन ऋग्वेदादिसकलवेदाध्ययनेन अश्वमेधादिसकलय र्यजनेन बहुसहस्त्रकोटिगोदानादिना च यः सुमहा- न्सुकृतनिचयस्तेन नामकीतने प्रवृत्तिरित्यर्थः सम्यग्दर्शितः। एवं शिवरहस्ये 'अनेकजन्मभिनित्यं पुण्यं बहु कृतं यदि । तदा शिवेति शब्दोऽयं सादरं निःसरिप्यति ॥ इति वचनेन बहुजन्मसु दिने दिने स्वधर्माचरणैः सकल- वेदाध्ययनैर्महातपश्चरणैः काश्यादिमहाक्षेत्रवासैः गङ्गादिसकलतीर्थस्नानैश्च महासुकृतराशिं यः संपादयति तदा जगदीश्वरस्य नामादरो जायत इत्यर्थों दर्शितः। तथा चैवं बहुजन्मसु संपादितमहासुकृत शालिनः य इह जन्मनि पूर्वजन्मनि वा ततः पूर्वजन्मनि वा केनचित्क्रियमाणं नामकीर्तनं शृणुयाद्वा अवशादिना नामकीर्तनं कुर्याहा तदवशनामकीर्तनादिना नामकीर्तनवास- नोत्पत्तिः स्यात् तद्वासनावशानामकीर्तने रुचिः स्यात् तद्रुचिवशान्नाम- कीर्तने परिदृश्यमाना श्रद्धा प्रवृत्तिश्चोपपन्नैपेति त्वदुक्तानवस्थाशङ्कागन्ध (63) स्यापि नावकाशः । तथा च स्वल्पानामेव विदुषामविदां च नामकीर्तने परिदृश्यमानायाः श्रद्धायाः प्रवृत्तेश्व, तथा विदुषामविदुषां च बहूनां नामकीर्तनमपहायान्यत्र परिदृश्यमानायाः श्रद्धाचाः प्रवृत्तेश्च कारणं दर्शितम् । अनुपदमुकसकलमुकृतशालिनो भगवन्नाम्नि प्रवृत्तिः तत्र किंचिन्यूनसुकृतशालिनोऽन्यत्र प्रवृत्तिरित्यर्थस्य दर्शितवचनैः सम्यग्ज्ञातुं शक्यत्वात् । ननु सकल जनानां सकृदवशनामकीर्तनस्य सकलफलहेतुत्वा- ङ्गीकारे तन्नामकीर्तनभिन्नानां सकलाभ्युदयनिःश्रेयससाधनरूपसकलधर्माणां सकलप्रायत्तिानां च कदापि फलं नारत्येवेत्यङ्गीकारापत्तिः । सकृदवश- नामकीर्तन व सकलकलापि सिजत्वात् । किं च सर्वे धर्मा आचमन- पूर्वकं संकल्पपूर्वकनाचरणीचा इति आचमनमङ्गरूपाणां तथा संकल्पावयव. रूपाणां तथा कृच्छ्रप्रतिनिधितवा स्वशाखात्मकस्य यद्वेदस्य पारायणं विहितं तद्धदावयवरूपाणां तथा स्नानदानहोमाद्यङ्गरूपाणि जप्यमन्त्ररूपाणि च यानि वेदवाक्यानि तछेदवाक्यावयवरूपाणां च भगवन्नाम्नामुच्चारणेन सकलफलसिद्धयहीकारे कृच्छ्रस्नानदानहोमजपादिसकलधर्माणां फलाभा- वाङ्गीकारापत्तिः तदवयवरूपभगवन्नाम्नामुच्चारणेनैव पापक्षयरूपस्य वाम्यु. दयरूपस्य पा मुक्तिरूपन्य वा सकलफलस्यापि सिद्धत्वादिति चेदुच्यते। यदुक्तं सकृदवशनामकीर्तनेन सकलप्रायश्चित्तानां सकलाभ्युदयसाधनानां मुक्तिसाधनानां च कदापि फलं नास्तीत्यङ्गीकारापत्तिरिति तन्न, सकृदवश- नामकीर्तनस्यापि प्रतिबन्धकाभावे मुक्तिहेतुतायाः सिद्धत्वेन चे स्वर्गाद्य- नित्यफलं प्राप्तवन्तः ये प्रास्यन्ति तेषां सर्वेषां सकृदवशनामकीर्तनमपि नासीन भविष्यतीत्यर्थस्व सम्यग्विज्ञातुं शक्यत्वेनान्याङ्गत्वविनिमुक्तनाम- कीर्तनरहितजनान्प्रति सकलप्रायश्चित्तानां सकलाभ्युदयसाधनानां सफल- ताया अनिवार्यत्वात् ; येषां जनानामत्यन्तायासावहसाधनानुष्ठाननैव पापक्षयरूपमभ्युदयरूपं मुक्तिरूपं चेति त्रितयान्यतमं फलं प्राप्तुं सकृत- मासीत् अत्यन्तसुखसंपाद्यसाधनेन तत्रितयान्यतमं फलं प्राप्तुं सुकृतसंघो (64) भासीत्तेषां जनानां मुखसंपाद्यं सकृदवशनामकीर्तनं न भवत्येवेत्यर्थस्य सुष्टु ज्ञातुं शक्यत्वेन ताञ्जनान्प्रति नामकीर्तनभिन्नानां मुक्तित्रितयान्यतमफल- साधनानां सफलतायाः सिद्धत्वाच्च । दर्शितं च सकृदवशनामकीर्त. नस्यापि पूर्वमुकृतसाध्यत्वं पुराणेषु । तत्र भागवते षष्ठस्कन्धे ' अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ अन्वया म्रियमाणस्य नाशुषलीपतेः । वैकुण्ठनामग्रहणं जिवां वक्तुमि. हार्हति ॥ चाहं कितवः पापो ब्राह्मणो निरपत्रपः । क्व च नारायणेत्ये- तद्भगवन्नाम मङ्गलम् ॥' इत्यजामिलवाक्यसंदर्भे । यद्यप्यस्मिञ्जन्मनि महा- पापमेव कृतवानथापि दुर्भगस्य मे विबुधोत्तमदर्शने तद्दशननिमित्तं तद्दर्श- नार्थ मङ्गलेन जन्मान्तरसुकृतेन भवितव्यम् । येन विबुधोत्तमदर्शनेनात्र मे प्रसीदति अन्यथा जन्मान्तरसुकृताभावे म्रियमाणस्याशुषलीपतेः गृह्यते वशीक्रियते चित्तं येनेति ग्रहणम् वैकुण्ठनाम इह अस्मिञ्जन्मनि जिवा वक्तुं नार्हति । तदेव नाहतीत्युक्तमर्थ विवृणोति क चाहमित्यादिना इत्यर्थके अन्यथा म्रियमाणस्य ' इति श्लोके अजामिलकृतसकृदवशनामकीर्तनस्य जन्मान्तरसकृतसाध्यत्वं सम्यक्प्रतिपादितम् । एवं ब्रह्मोत्तरखण्डे च ' भीता शिव शिवेत्याह केनचित्पुण्यकर्मणा' इति श्लोकेन काचिद्ब्राह्मणविधवा कस्यचिच्छूद्रस्य भार्यात्वेन स्थिता कदाचित्सुरापानेन मत्ता खड्थेन गोवत्सं हत्वा पश्चाद्विज्ञाय भाता शिव शिवत्याहेत्यर्थ केन अवशनामकीर्तनमपि महापुण्येनैव साध्यमित्यर्थः स्फुटं प्रतिपादितः। अनुपदमुदाहृतेषु 'वाराणस्यां कुरुक्षत्रे , इत्यादिविष्णुधर्मवचनेषु सकृत्कीर्तनस्य सकलसुकृतसाध्यत्वं प्रतिपादितम् । तत्रत्येषु येनोक्तं हरिरित्यक्षरद्वयमिति वाक्येषु 'अक्षरद्वयम्' इत्युक्त्या अक्षरद्वयस्यावृत्तेरनुक्त्या च महासुकृतसाध्यत्वेन तत्रोक्तनाम- कीर्तनस्य सकृत्कीर्तनताया दर्शितत्वात् । अतः सिद्धमायासरहितेन नाम- कीर्तनरूपसाधनाचरणेन पापक्षयादिमोक्षान्तफलप्राप्तये येषां महासुकृतं स्वात्तेपामेव सकृन्नामकीर्तनमपि स्यान्नान्येषामिति न कोऽपि विरोधः ।

. (65) यत्तूक्तमाचमनादेरङ्गरूपाणां सकलधमा लयमाङ्गभूतवेदवाक्यावयवरूपाणां च नाम्नां कीर्तनेन म्नानदान जपत्राजापन्य कच्छ्राद्यश्वमेधान्तसकलधर्माणा- मानक्यापत्तिः म्यादिति तदसन, अङ्गानामा युतकारकावापफलं विना फलान्तराकाङ्गा नाम्त्येवेनि अङ्गषु फलश्रवणमस्ति चदपि अङ्गेषु फलश्रवण- मर्थवाद इति च मीमांसकानां प्रवादन्य मुप्रमिद्धत्वेन अवयत्रानामवय- विवटकत्वरूपफलं विना फलान्तरा का भावन्य कैगुतिकन्यायसिद्धत्वेन आचमनादेरङ्गरूपनाम्नां कीर्तनस्य सकलय भूतवाक्वा याकानाम्नां कीर्तनस्य च फलाकाङ्कायाः असत्यभावेन अन एव नान्नां तनस्य स्वतन्त्रफलमाधनत्वकल्पनायाः प्रमक्त्यमावेन स्वतः फ कल्पनेनाभावेन च स्वतःफलरहितेन तन्नाम्नां कीर्तनेन सकलधर्मवैफल्यापत्तरापादनस्य प्रतक्त्य- भावात्, यथा वेदवाक्यावयवभूतनाम्नां कीर्तनस्य फला झोकारे नवेदवाक्यानां तवेदवाक्याङ्गधर्माणां च फलम्य वैयपिशि रूपवाधकं स्यात् तथा लौकिकवाक्यानामलौकिकफलहेतुत्वाभावेन ललकिकवाक्यावयवरूपनाम्नां कीर्तनस्य वचनरुक्तफलाङ्गीकारे न किंचिद्वाधकम् , अन्यथा तद्वचनाना- मानर्थक्यापत्तेरितिं न कोऽपि विरोवः । एवं च विष्णौ रूदनाम्नां सर्वेषां सकलफलसाधनत्वं समानमेव । दर्शितश्यायमर्थो नामाहत्वभाप्ये दर्शितेन ' सर्वार्थशक्तियुक्तस्य देवदेवस्य चाकेशः । यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥ सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ॥ इति विष्णुधर्मवचनेन । अत्र विष्णुनाम्नां सर्वेषां फलसाधनसामर्थ्यमाम्ये हेतुरुक्तस्तत्रैव — नाम्नामेकार्थता यतः' इति । अस्यायं भावः-नाम्नां विष्णुवाचकत्वेनैव माहात्म्यं वक्तव्यम् । तथा च विष्णुवाचकनाम्नां मध्ये केषांचिदधिकसामर्थ्यन्य केयांचिन्न्यूनसामर्थ्यस्य च प्रसक्त्यभावादिति । एवं विष्णौ रूढनाम्नां शिव रुढनाम्नां च फलादानसामर्थ्य समानमेव । स्फुटमुक्तश्चायमर्थः नामसहस्रभाप्ये दर्शितेन : आदयोरन्तरं नास्ति शब्दैरथैर्जगत्पते ।। इति वचनसमनन्तरं प्रवृत्तेन नामानि तब मोविन्द 9 (66) यानि लोके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा ॥ इति हरिवंशे कैलासयात्रायां महेश्वरवचनेन । तत्र महेश्वरः स्वस्य विष्ण्व- भेदाभिधानपूर्वकं 'तान्येव मम नामानि ' इति बिष्णुनाम्नामेव स्वनामस्व- निधारणकरणेन स्वनाम्नां विष्णुनाम्नां च फलप्रदाने तारतम्याभावं दर्शित- वान् । ' अन्यथा तान्येव मम नामानि , इत्यस्य मात्र कार्या विचा- रणा' इत्यस्य च वैयापत्तेः । एवं विष्णुनाम्नां सर्वेषां फलप्रदत्व- रूपनामर्थ्यसाम्ये उपपत्तिरूपो यो हेतुरुक्तः स एवोपपत्तिरूपहेतुरत्रापि हरिवंशे विष्णुशिवयोनाम्नां फलमदत्वसामर्थ्यसाम्ये दर्शितो नामापराधाभि- धायके प्रागुदाहृतपाद्मपुराणसंदर्भ । 'शिवस्य श्रीविष्णोर्य इह गुणनामादि सकलं धिया भिन्नं पश्येत्स खलु हरिनामाहितकरः ।' इति वाक्ये तु विष्णुशिवयोर्नाम्नां फलप्रदानसामर्थ्य सामर्थ्य विनोत्कर्षापकर्षाङ्गीकारो नामापराध इत्युक्तितो विष्णो शिवे च रूढनाम्नां पापक्षयहेतृत्वे सकल- पुरुषार्थहेतुत्वे च सामर्थ्य समानमेवत्यर्थसिद्धमेव । ननु नामकीत बहुधनवैयापादकं भवतीति तद्बहुधर्मवैया. पेक्षया एकस्यैव नामकीर्तनस्य वैयर्यमेवोचितमिति नामकीर्तनस्य सकल. फलहेतुत्वे शास्त्राणां न तात्पमित्यर्थ एवोचितः, एवं नामकीर्तनादन्यो धर्मः कश्चन बहुधर्माणां वैयथ्यशङ्कोत्पादकः प्रसिद्धोऽस्ति चेच्छास्त्र तदृष्टान्तेन नामकीर्तनमाहात्म्येऽपि शास्त्रतात्पर्य वक्तुं शक्यम् । तदृष्टान्ताभावान्न तत्र शास्त्रतात्पर्यमिति सिद्धम् । किं च नामकीर्तनस्य सकलफलसापनत्वे सकलफलेषु लघुगुरुसाधनवविकल्पाङ्गीकारापत्त्या शास्त्रस्य न नाममाहाम्ये तात्पर्य वाच्यम् । अत्रापि शास्त्रीयदृष्टान्तोऽस्ति चेन्नाममाहात्म्येऽपि तात्पर्य वक्तुं शक्यम् । तदभावादेव नाममाहात्म्ये तात्पर्यम् । अपि च लवुगुरुसाधनविकल्पमड़ी कृत्य गुरुसाधनेष्वनमुष्ठानलक्षमाप्रामाण्यवारणाय गुरुसाधनेषु बहुजनानां दृश्यमानप्रवृत्तिमादाय लघुसाधनं विना गुरुषु प्रवृत्त्युपपादनं कृतं तदप्यनुपपन्नम्, अस्मिन्नर्थेऽपि दृष्टप्रवृत्त्याश्रयणा, (67) भावेऽनुपपद्यमानस्य शास्त्रीयदृष्टान्तस्याभावात् । अतोऽपि न नाममाहात्म्ये शास्त्र तात्पर्यम्, नामकीर्तने साधनत्वनिश्चयाभावादन्यत्र प्रवृत्तिरिति वक्तुं शक्यत्वात् । किं च नाममाहात्म्ये शास्त्रम्य तात्पर्यमस्ति चद्धास्त्रं नाम. कीर्तनकलेषु गुरुसाधनानि न वदेदेव नामकीतनव्यतिरिक्तलघुसाधने सत्यपि तत्फले गुरुसाधनाभिधायकशास्त्रस्य काप्यदर्शनात् । मकलफलसाधनन्यन नामकीर्तनमात्रमभिहितं चेत्तत्तकलार्थिनामास्निकानां सर्वेषां तत्र प्रवृत्तिः स्थादेव । विकल्पतया कर्मान्तराभावेनावस्वं कर्तव्येषु नित्यकर्मसु सर्वेषां प्रवृत्तदर्शनादिति चेदुच्यते । यदुक्तं बहुधर्मवैयर्थ्यापादकधर्मरूपदृष्टान्ताभावान्न नाममाहात्म्ये शास्त्रतात्पर्यमिति तन्न, ब्रह्मचारिणा कृतसंन्यासरूपदृष्टान्तस्य सत्वात् । सथा हि-'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् ' इति — अथ पुनरवती वा व्रतीवा को वा' इति च श्रुत्या अध्ययनमकृतवतः कृतवतो वा ब्रह्म- चारिणोऽपि विहितसंन्यासो नामकीर्तनमिव 'यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः' इत्यादिच्छान्दोग्यश्रुत्युक्त्या आश्रमत्रयेऽभि. हितधर्माणां सर्वेषां वैयर्थ्यशङ्कोत्पादक इत्यर्थरय सुप्रसिद्धत्वेन त्वत्पक्षे नाममहिमाभिधायकशास्त्राणामिव ब्रह्मचारिणं प्रति मुक्तिसाधनत्वेन संन्याल- विधायक श्रुतेः स्वार्वतात्पयाभावाङ्गीकारापत्तिः । ब्रह्मसंन्योऽमृतत्वमेति' इति च्छान्दोग्यश्रुत्यादिभिमुक्तिसाधनत्वेन संन्यासो विहित इति सूत्र- कारमाप्य कारवार्तिककारादिभिः सिद्धान्तितत्वात्, संन्यासेऽपि ब्रह्मचारिणा कृतसंन्यास एव श्रेष्ठ इति भगवत्पादाचार्यादिभिरुतत्वात् । किं च काम्यकभीमः प्रायश्चित्तैश्च नामकीर्तनस्य विकल्पितसाधनत्वमेवं शास्त्राभि. मतमित्यर्थस्य दर्शितत्वेन विकल्पितसाधनानां सर्वेषां पाशिकवैयर्थ्यस्वानि- वार्यत्वेन नामकीर्तनं सकलवर्णाश्रमेषूक्तकाम्यकर्मणां प्रायश्चित्तानां च प्रसिद्धानां वैयांपादकमेव न कृतं तत् जनानामुक्तनित्यकर्मयामपि सदा नामकीर्तनपरेणापि जनेन तत्तद्वर्णाश्रमोक्तनित्यकर्माण्यवस्थं कर्तव्या- (98) হামুন नीत्यर्थस्य नामान्तीति नित्यकर्म न कृतं चेत्तदकरणजनितदोषो नामापराध एव । स च नामापराधः तपःकर्मात्मक प्रायश्चित्तशतैरपि न नश्यती- त्वर्थस्य सम्यग्दर्शितत्वात् । ब्रह्मचारिणो विहितसंन्यासस्तु नैष्ठिकब्रह्मचा- रिगृहस्थवानप्रस्थान्त्रत्युक्तनित्यकाम्यप्रायश्चितरूपसक लधर्माणां वैयर्थ्या- पादको विज्ञायते । यस्तु ब्रह्मचारी संन्यस्यति तस्य गृहस्थाद्याश्रमत्रयोक्त- धर्मानुष्ठानस्यायुक्तत्वात् । एवमाश्रमत्रयोक्तसकलधर्मवैयापादकसंन्यासे तात्पर्यमस्त्येवेत्यङ्गीकारवत्सकलकाम्यकर्मपायश्चित्तानामेव पाक्षिक- वैयापादकनामकीतने शास्त्रतात्पर्यमङ्गीकार्यमेवेत्यर्थः कैमुतिकन्याय. सिद्धः । ननु विरक्ता एवं संन्यासं कुर्वन्ति अन्येषां तत्राधिकाराभावात् । बैराग्यं हि वहुजन्भभिः कृतमहासुकृतसंघपरिपाकलभ्यमेवेति शास्त्रं बक्ति । अत एव दृढवैराग्येण कृतसंन्यासशालिनो विरला एव दृश्यन्ते । अत एव प्रविरलास्ते संन्यासिनः केचनेव तदाश्रमत्रयोक्तधर्मान्न कुर्वन्ति, बहवस्तु कुर्वन्त्य गति और करणं न दोप इति चेत्ममानमत्रापि नामकीर्तनश्रद्धा- शालिन एव नानकीतमं कुर्वन्ति अन्येषां तत्र प्रवृत्तेरसंभावितत्वात् । नामकीतने श्रद्धा तु बहजन्म मु कृतमहासकृतसंवपरिपाकलभ्यैवेति शास्त्रं वक्ति । अत एव दृढीभूत श्रद्धया नामकीतनंपरा अत्यन्तविरला एव दृश्यन्ते । अत एव प्रविरला नामकोर्तनपराः केचनैव काम्यकर्माणि प्रायश्चित्तानि च न कुर्वन्नि ! बहवस्तु कुर्वन्त्येवेति तैनामपरैः काम्यकर्म- प्रायश्चित्ताकरणं न दोप इति समानमित्यर्थस्य विस्पष्टत्वात् । तथा च यावता मुकतेन देणग्यं स्यात्तावत्नुकतेनैव श्रवणकीर्तनादिरूपभजने श्रद्धा स्यादित्ययों दर्शितः 'नायकमाणि कुर्वीत न निविद्येत यावता । मत्कथा- श्रवणादौ का श्रद्धा यावन आयते ॥' इति भागवतवचनेन । अनेन वच- नेन भगवद्भजनश्रद्धावैराग्ययोबहुपुण्यसाध्यत्वं समानमित्यर्थो हि दर्शितः ।

(69) नामकीर्तनं हि सकलभगवद्भजनापेक्षयोत्कृष्टमवेत्यर्थः प्राग्दर्शित एवेति दृढनामकीर्तनश्रद्धादृदृवैराग्योत्पादकसुकृतसंघापेक्षयाधिकमुकृतसंयोत्पन्नैवे - त्यर्थसिद्ध एव । दर्शितश्चायमर्थः प्राक् नामकीर्तनप्रवृत्तमहापुण्यसंघसाध्य. त्वप्रदर्शनप्रस्ताव दर्शितैः 'अहो यत श्वपचोऽतो गरीयान् । इति भागवत. वचनादिभिः । अतः सिद्ध संन्यासस्येव नामकीननस्यापि बहुधर्मवैया- पादकत्वं न दोष इति । वस्तुतस्तु यथा 'ब्रीहिभिर्यजेत ' 'यवेयनेत' इत्यादिविकल्पितलाधनानां परस्सरवैयर्थ्यस्य सिद्धत्वेऽपि तद्वैयर्थ न दोषाय यथा वा चतुर्णामाश्रमाणां मध्ये ब्रह्मचारिदृष्टयाश्रमत्रयस्य गृहस्थदृष्टयाश्रमत्रयस्य संन्यासिदृष्ट्याश्रमत्रयस्य चेति सर्वेषामाश्रमाणां परस्परबैयर्यस्य समानत्वेन तद्वैयर्थं न दोषायेति तथा काम्यधर्मप्रायश्चि- तानां नामकीर्तनस्य च वैयर्थ समानमेवेति तद्वैयर्थ न दोषायेति सिद्ध- मेव । यत्तु शास्त्रे वापि नामकीर्तनव्यतिरिक्तलघुगुरुसाधनविकल्पस्या- भावान्नामकीर्तनमादाय लवगुरुसाधनाविकल्प शास्त्रस्य तात्पर्यकल्पनमयुक्त- मित्युक्तं तन्न राजसूयाश्वमेधादिषु येऽधिकारिणोऽनधिकारिणश्चेति तत्सर्व- त्रैवर्णिकानधिकारिक राजसूयाश्वमेधादिषु फलसाधनमाग्निहोत्रविषयकसंप- दुपासनमिति भाग्यकारवात्र्तिककारादिभिरुक्त इत्यर्थः प्राग्दर्शित एवेति तदश्वमेधादिफलेषु अग्निहोत्रविषयकसं पडुपासनरूपलघुसाधनस्य अश्वमेधा- द्यन्यतमरूपगुरुसाधनस्य च विकल्पों दर्शित इत्यर्थस्य त्वत्पक्षेऽपि युक्त- ताया अनिवार्यतया तदृष्टान्तेन नामको त नगुरुसाधनयोर्विकल्पस्यापि य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमनोपा- प्नोति तावदुपाप्नोति य एवं विद्वान्पौर्णमाली बनते यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते यावदतिरात्रेणोपाप्नोति तावदपाप्नोति' इति यजुर्वे संदर्भ अग्निष्टोमेन यावत्फलं स्यात्तत्फलेऽग्नि- टोमरूपगुरुसाधनस्य अग्निहोत्रविषयकसंपदुपासनरूपलघुसाधनस्य च विकल्पः । तथा उक्थ्यविषयकसंपदुपासनरूपलघुसाधनमुक्थ्यरूपं गुरु- - युक्तत्वात् । किं च ।

* 170) साधन चेति लघुगुरुसाधनविकल्पः । तथा अतिरात्रफले संपदुपासनतया क्रियमाणामावास्यारूपलघु साधनमतिरात्ररूपगुरुताधनं चेति लघुगुरुसाधन- विकल्पश्च दर्शित इति तत्त्रितयदृष्टान्तेन नामकीर्तनादिस्थलेऽपि लघुगुरु- साधनविकल्पः सूपपन्न एव । ' य एवं विद्वानमिहोत्रं जुहोति ' इत्यादि- श्रुतिःसंपदुपासनप्रतिपादिकति श्रीमद्विद्यारण्यचरणैर्वेदभाष्ये कण्ठरवेणोक्तम् तद्भाष्यं सम्यग्विशदीकृतं च भगवन्नामभूषणे । ग्रन्थविस्तरभियात्र तत्सर्व न प्रदर्शितम् । . एवं भगवद्गीताहादशाध्याये तद्भाष्ये तदानन्दगिरीये च ' एवं सततयुका ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योग- वित्तमाः ॥' इत्यादिना उपासकस्य देहपतनानन्तरं सगुणनिर्गुणोपासन- योनिद्वारा विदेहमुक्तिहेतुत्वमुक्तम् । तत्रैव द्वादशाध्याये 'क्लेशोऽधिक. सरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ इति वचनेन । न तु देहवद्भिदेहाभिमानवद्भिः देहाभिमानत्यागनिमित्तं केशोऽधिकतरमवाप्यते' इति तद्भाष्येण च सगुणोपासकापेक्षया निर्गुणो- पासकस्य देहाभिमानत्यागनिमित्तमधिकलेशोऽभिहितः । अतस्तत्लेश- साध्यं निर्गमोपासनं केशसाध्यत्वादेवं गुरुसाधनम् । सगुणोपासनं तु लघुसाधनमिति गीताताप्यादिष्वपि लघुगुरुसाधनयोर्विकल्पो दर्शित इति तदृष्टान्तेन । एवं विद्यारण्यचरणैः कृतबृहन्माधवीयाख्यनिबन्धनस्यादी ब्रह्महत्याप्रायश्रित्तयोः सेतुदर्शनद्वादशाब्दयोलचुगुरुसाधनयोर्विकल्पः कण्ठरवेणोक्त इति तदृष्टान्तेन तथा नृसिंहाश्रमचरणैरद्वैतदीपिकायाम् 'भा पीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् । पातकान्यपि नश्यन्ति किं पुनश्वोपपातकम् ॥' इति वचनस्य स्वार्थपरत्वं सम्यग्दर्शितम् । तेन भगवन्सूर्तेः सकृदर्शनं सकलमहापातकोपपातकप्रायश्चित्तमित्यर्थो दर्शितः । बेन च महावाबकोषपातकक्षये भगवाद्विग्रहदर्शनरूपलघुसाधनस्य द्वादशा- ब्दादिगुरुप्रायश्चित्तानो च विकलो दर्शित इति तदृष्टान्तेन च नाम, कीर्तनादिरूपलघुगुरुसाधनविकल्पः सुष्टुपपन्न एव । यत्तुं नामकीर्तनरूप- लघुगुरुसाधनमपहाय गुरुसा धनेषु दृश्यमानप्रवृत्तेः शास्त्रीयदृष्टान्तामा सिद्धवस्कृत्य तत एव तत्प्रवृत्तेर नुपपन्नत्वमपि सिद्धवत्कृत्य तत्प्रवृत्तेरन्यथा- नयनं कार्यमित्युक्तं तदपि न । तथाले संपदुपासनारूपलघुसाधनत्यागपूर्वक गुरुसाधने दृश्यमानप्रवृत्तेरप्यन्यथानयनापत्तिः स्यादेवेति । तेन सकल- संपदुपासनारूपलघुसाधनानां सगुणोपासनरूपलवुसाधनस्य सेतुदर्शनरूप- लघुसाधनस्य भगवद्विग्रहरूपलधुसाधनस्य च प्रतिपादकशास्त्राणां स्वार्थ- परत्वाभावाङ्गीकारापत्त्या तच्छास्त्राणां स्वार्थपरत्वप्रतिपादकबहुप्रन्यविरो- धाङ्गीकारापत्तेः । तत्र बृहदारण्यकमाप्यं तद्वार्तिकं सदानन्दगिरीयं भगवद्गीतामाप्यं तदानन्दगिरीयमन्यानि भगवद्गीताव्याख्यानानि विद्यारण्य. कृतयजुर्वेदभाष्यं बृहन्माधवीयमद्वैतदीपिका चेत्येते ग्रन्थाम्तच्छास्त्राणां स्वार्थपरत्वं प्रतिपाइयन्तीत्यर्थत्य विस्पष्टत्वात् । यद्यतत्सकलग्रन्थ- प्रामाण्याय दर्शितलघुगुरुसाधनविषये दृश्यमानप्रवृत्तिरङ्गीक्रियते तर्हि तदृष्टान्तेन नाममाहात्म्यशास्त्राणां स्वार्थे प्रामाण्याय तथा लच्छास्त्राणि स्वार्थपराण्येवेत्यर्थप्रतिपादकानां सहस्त्रनामभाप्यनामकौमुदीपुरुषार्थरत्ना. करानन्तदेवीयादिबहुग्रन्थानां प्रामाण्याय च तन्नामकीर्तनरूपलघु- साधनत्यागपूर्वकं गुरुसाधनेषु बहुजनकर्तृकदृश्यमानप्रवृत्तेः प्रागुक्तरुचिवै- चित्र्यादुपपन्नत्वमनिवार्यमेव । किं च लघुगुरुसाधनेषु प्रत्यक्षप्रवृत्ते रुचिव- चित्र्यादुपपन्नत्वं प्राग्दर्शितमिति प्रमाणसिद्धप्रवृत्तेरुपपन्नत्वेऽपि तत्प्रवृत्त्य. नङ्गीकारो हि मौख्यकृत एव । यदप्युक्तं नाममाहात्म्यशास्त्रस्य स्वार्थ- तात्पर्यमस्ति चेदित्यादिकं तदपि न संपनुपासनादिप्वनुपदं दर्शितलघु- साधनेषु सत्सु तल्लघुसाधनसाध्यफलेप्वनुपदं दर्शितगुरुसाधनान्याभहितानि शास्त्रे दृश्यन्ते एवेति ताष्टान्तसत्त्वेन नामकीर्तनरूपलघुसाधने सत्यपि तत्फलेषु शास्त्रे गुरुसाधनान्याभहितानीत्यभिधानस्य मुटूपपन्नत्वात् ।

जनेम्यो । शास्त्रीयकर्मस्वाय नित्यकर्म स्वादूदकमित्र सकल- (72) काह समाचान स्वाददुक सकलजनेम्यो रोचते । नलमिव द्रवद्रव्यमपि अत्यन्तमधुरं क्षीरमत्यन्साम्लं तकं च सकलजनेभ्यो न रोचते किं तु जनेभ्यो रोचते । अत एव संध्यावन्दनादिनित्यकर्मभिर्विकल्पेन कर्मान्तरं न शास्त्रेण विहितं दृश्यते नित्यकर्मसदृशमपि मोक्षान्तरपुरुषार्थसाधनीभूत- काम्यकर्मप्रायश्चित्तरूपकर्म च तत्सीरमिव तत्तकामिव च सकलजनेभ्यो न रोको । कि तु केन्याश्रिदेन सेचते । तद्रुच्यनुसारेण लघुगुरुकमाणि सावं वति । तथा भगवन्नामकीर्तनरूपपरमधर्मो हि येभ्यो न रोचते तान्प्रति मोक्षान्तपुरुषार्थचतुष्टयसाधनतया गुरूणि काम्यकर्माणि गुरूणि प्राय- श्चित्तानि चोक्ताणि शास्त्रे । येभ्यस्तावन्महात्मभ्यो दैवी प्रकृतिमाश्रितेभ्यो बहुजन्ममु सम्यक्कृतमहासुकृतसंघपरिपाकलब्धेश्वरानुग्रहवशात्सर्वेश्वरस्य भगवतो नामकीर्तनरूपो वेदोक्ताकलधर्माधिकतमः परपे धर्मों रोचते तान्प्रति सकलप्रायश्चित्तत्वेन मोक्षान्तसकलपुरुषार्थसाधनत्वेन च शास्त्रे भगवन्नामकीतनरूपपरमधर्म एवोक्त इति सर्व समञ्जसम् । नामकीर्तनरूपो हि धर्मः श्रीपरमात्मनः । श्रुतिस्मृतिपुराणादिशास्त्रेषु विहितः क्रमात् ।। सर्वाश्रमणामन्येषां जनानां च गरीयसाम् । निकृष्टानां च सर्वेषां सर्वाघोषनिवारकः ॥ सर्वेष्टफलदो ब्रह्मविज्ञानस्य समुद्भवः । वेदोक्तः सर्वधर्मामां सकलाश्रमवासिपु ॥ अनुत्तमः श्रुतः कंचिनियमं नैव वाञ्छति । अतः सकलधर्मभ्यः सुलभः सर्वमङ्गलः ॥ इत्येतदर्थ सकलं स्पष्टीचक्रे स्वाक्यतः । सहस्रनामभाष्येऽस्मिन्भाध्यकारो दयाम्बुधिः ॥

Namamrutarasayanam

Author
Sri Madvodhendrayatindra
Title
Namamrutarasayanam
File name
Namamrutarasayanam
Text
OCR done
Published
2007/01/10
Publisher
Nirnaya Sagar Printing Press Bombay
Language
Sanskrit
Pages
78
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
486307
Barcode
1990030102944.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
xWmZREzjfn1
Download PDF

Namamrutarasayanam