Allahabad University
Gorach Sidhantsangraha
Front matter
SARASWATÍBHAVANA-GRANTHAMALE
( Vol. 110 )
General Editor
DR. BHĀGĪRATHA PRASĀDA TRIPATHĪ, VĀGIŚA ŚĀSTRI
Director, Research Institute,
Varanaseya Sanskrit Vishvavidyalaya,
Varanasi.
acara
ar Tort
श्रुतम
गोपाय
GORAKSA SIDDHANTA SANGRAHAH
Edited by
JANARDANA SASTRI PANDEYA
VARANASI
1973
Published by
Director, Research Institute
Varanaseya Sanskrit Vishvavidyalaya
Varanası-2
Available at
Publication Section
Varanaseya Sanskrit Vishvavidyalaya,
Varanası-2
First Edition--500 Copies
Price Rs 10 50
Printed by :
Sri Ghana Shyama Upadhyaya
Manager
Varanaseya Sanskrit Vishvavidyalaya Press
Varanasi-2
सरस्वतीभवन-ग्रन्थमाला
(११०)
प्रधानसम्पादकः
डॉ. भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
गवेषणालयसञ्चालकः
पाराणसेयसंस्कृतविश्वविद्यालये
गोरक्षसिद्धान्तसंग्रहः
(परिवधितं सशोधितं च संस्करणम् )
सम्पादकः
श्रीजनार्दनशास्त्री पाण्डेय
वाराणस्याम
१८९५ तमे शकान्दे
२०३० तमे वैक्रमाब्दे
१९७३ तमे खिस्तान्दे
प्रकाशक:
-
सञ्चालक:
गवेषणालयस्य
वाराणसेय-सस्कृत-विश्वविद्यालये
प्राप्तिस्थानम्-
प्रकाशनविभाग.
वाराणसेयसंस्कृतविश्वविद्यालयः
बाराणसी-२
प्रथमं संस्करणम् : ५०० प्रतिरूपाणि
मूल्यम्-१०.५० रूप्यकाणि
श्रीघनश्याम उपाध्यायः
प्रबन्धकः
-वाराणसेय-सस्कृत-विश्वविद्यालयीयमुद्रणालयस्य
प्रास्ताविकम् रोगजरामृत्युभयाकुलो जिजीविषुर्मानवो नीरुक्त्वस्यामरत्वस्य च समासादनाय चिराद् इश्यते प्रयतमानो भूमण्डले । रोगविखण्डनाय जरापसारणाय च ऋग्वेदोपवेद पायुर्वेदः प्रवर्तते सुपुरातनकालाद् भारत वर्षे । रुक्प्रतिक्रियात्मका नानाविधा आविष्कृता कोषधयः, साम्प्रत चाप्याविष्क्रियन्ते चिकित्सकैराविष्कारकै । यद्यपि मृत्युजयार्थमपि बहुविधा यत्ना आस्थिताश्चिकित्साक्षेत्रे, सम्प्रत्यपि विधीयन्ते, तथापि न क्वापि भाक्तिं साफल्यं तज्ज्ञः। 'जन्मौषधिमन्त्रतप.समाधिजा. सिद्धय.' इति पातञ्जलयोगसूत्राद् जन्मज- सिद्धिरोषधिजसिद्धिर्मन्त्रसिद्धिस्तपोजसिद्धि समाधिजसिद्धिश्चेति पञ्च सिद्धयो ज्ञायन्ते । तत्रा- मरत्वप्रतिपादनाय सिद्धिपरायणः सिद्ध संप्रदायानुयायिभिर्गोरक्षनाथादिभिरायुर्वेदे रसायनतन्त्रं पारदशक्तिप्रकाशकमाविष्कृतम्, अनादिकालत' प्रवर्तमाने योगमार्गे चाविर्भावितः पुरातन- परम्परात किञ्चिद्विलक्षणो हठयोगः। तत्र गोरक्षनाथेन योगमार्ग' सुव्यवस्थापित इति तद्ग्रन्थाना परिशीलनेन बुध्यते । तद्रचिता प्रायशोऽष्टाविशतिसंख्याका ग्रन्था संस्कृतभाषा- मया अन्ये च चत्वारिंशत्सख्याका हिन्दीभाषामया प्रथिताः । . - गोरक्षनाथ. यद्यपि विभिन्नः प्रमाणंर्गोरक्षनाथो दशमशताब्दीक एकादशशताब्दीको वा सिद्धथ- तीति लब्धवर्णनां मतम्, तथापि गोरक्षसिद्धान्तसग्रहकारानुसारेण ब्रह्माण्डपुराणे ललिता- पुरवर्णने ललिताखण्डेऽपि गोरक्षनाथस्योल्लेखो विद्यते- सिद्धदिव्यर्षयश्च व पवनाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्परा ॥ इति । श्रीकृष्णकृतगोरक्षनाथस्तोत्रे गोरक्षस्तुतिस्तत्रास्तीति तन्मतम् ( ३८ पृ०)। सिद्धमतपरम्परा (सिद्धो नाथोऽवधूतश्चेत्यनान्तरम् ) पपुराणमतकपिलागीतायां नवनाथानामुल्लेखः 'दत्तात्रेयादिसिद्धामा नवनाथास्तथैव [ ख ] ६. बटुक, - . च' इति । शाबरतन्त्रानुसारेण द्वादश सिद्धाः सन्ति । ते चेमे- १. आदिनाथः, २. अनादिः, ३. कालः, ४. अतिकालक, ५. कराल, १. विकरालः, ७. महाकाल , ८. कालभैरवनाथ १०. भूतनाथः, ११. वीरमाथः, १२. श्रीकण्ठश्चेति । शिष्यपरम्पराया द्वादश शिष्याः प्रसिद्धा । ते चेमे- १. नागार्जुनः, २. जडभरतः, ३. हरिश्चन्द्र., ४. सत्यनाथः, ५. भीमनाथः, ६. गोरक्षनाथः, ७. चर्पटः, ८. अवद्यः, ९. वैराग्य , १०. कन्थाधारी, ११ जलन्धर १२. मलयार्जुनश्चेति (द्र० १४,१५ पृ०)। सिद्धपरम्परायां तु नव सिद्धा. प्रथन्ते-१. श्रीगुरुरादिनाथ., २. मत्स्येन्द्रनाथः, ३. उदयनाथ , ४. दण्डनाथ , ५ सत्यनाथः, ६. संतोषनाथः, ७. कूर्मनाथः, ८. भवनाजिः, ९. गोरक्षनाथश्चेति । सिद्धा एव नाथरूपत्वेन प्रसिद्धा । अस्य ग्रन्थकारस्यानुसारेण मण्डनमिश्रः ( सुरेश्वरा चार्यः) शङ्कराचार्यश्चोभावेव सिद्धोपदेशेन गृहीतावधूतावस्थी जाती ( १४ पु० ) । कापालि- कास्तान्त्रिकाः शाक्ताश्चास्यैव सप्रदायस्य शाखारूपाः । समन्वयकर्ताऽवधूत एव गुरुः सिद्धसंप्रदाये यद्यपि सर्वेषा शास्त्राणा निन्दा कृता, तथापि हठयोगप्रदीपिकानुसारेण तत्र गुरुवाक्येन ज्ञान, मुक्तिः, स्थिति , मिद्धिरित्यादयो लभ्यन्त इति गुरुमहिमाऽङ्गीकृत एव (१२,३१ पृ.) । तस्मिन् मागें सर्वश्रेयोमूलभूतो गुरुरेव । स चावधूत एव, नान्यः । त्याग- भोगाभ्यामलिप्तोऽप्यवधूतस्त्यागभोगप्रदः । स चाविवर्णाश्रमी सर्वाधिकारिणा गुरूणामपि गुरुः प्रोक्त । पक्षपातविनिमुक्तः स एव ब्रह्म सपद्यते । अवधूतस्य व्यवहारस्त्वनियत एव । स क्वचिद् भोगी, क्वचित् त्यागी, क्वचित् पिशाचवद् नग्नः, क्वचिद् राजा, क्वचिच्चाचारी इत्येतादशलक्षणलक्षितोऽवधूतो विधीयते । एव च सर्वसाधनशिरोमणियोगमूर्तिभूतोऽवधूत एव परमपुरुषार्थविचक्षणो भवति (८ पु०)। योगस्तु कस्यापि सापेक्षो नास्ति । उत्तरावस्थाऽवधूत एवेति तान्त्रिकाणामयमेव सिद्धान्तः षट्शाम्भवरहस्ये दृश्यते (१४ पृ.)। अवधूतमार्गों दिव्यः । वेदान्ततात्पयं- लक्ष्य चावधूत एवास्ति ( १४ पृ.)। यः सर्वदर्शनाना स्वरूपदर्शनेन समन्वयं करोति 'सोऽवधूतः, स योगी स्यात् । प्रारब्धकर्मनिमूलकरणमवधूतानामेव कर्म (१२ पृ.)। यः - अकार तस्य n वकार [ ग ] सर्वान् प्रकृतिविकारान् अवधुनोति सोऽवधूत (१ पृ.) । तस्य व्युत्पत्तिरित्थ दृश्यते- अनन्तानन्दब्रह्मज्ञः लक्षणम् । वासना वजिता येन वक्तव्य च निरामयम् ।। वर्तमानेषु वर्तेत तस्य लक्षणम् । धूलिधूसरगात्राणि धूतचित्तनिरामयम् ।। ध्यानधारणनिमुक्त धूकार तस्य लक्षणम् । तत्त्वचिन्ता येन धूता चिन्ता चेष्टाविवर्जिता ।। तमहङ्कारनिर्मुक्तं तकार तस्य लक्षणम् । (२८ पृ.) भक्तिपूर्वकमेतादृशगुरुप्रणामेन परमपदावाप्तिर्जायते (६ पृ०)। देहाभिमान एव पक्षपात.। मुणातीतत्वेन पक्षपातरहितस्यात्याश्रमिण एव मुक्तिप्रदगुरुत्व नान्यस्य कस्यापि । कुलाचारविहीनस्तु गुरुरेको हि दुर्लभः- वर्णाश्रमाभिमानेन वर्तते श्रुतिकिङ्करः। अभिमानविहीनस्तु वर्तते श्रुतिमूद्धनि । शोषण्यं रत्नम्-योगः इह खलु संसारे योगो भोगश्चेति द्वौ पदार्थों स्त । एतद् द्वय विना किमपि न स्यात्, सर्वस्याप्येतयोरन्तर्भूतत्वात् । तयोर्मध्ये योगे लग्ना महासिद्धा., भोगे तु संसारिणः। योगस्य कलं मुक्तिः, भोगस्य तु बन्ध इति । यद्यपि भोगाद् बन्धस्तथापि नानाविलासविषयानन्दमनु- भवति मानव आदौ । योगिना तु प्रथमतो मनाग श्रमो भवेत् । 'क्लेशोऽधिकतरस्तेषामव्यक्ता. सक्तचेतसाम्' इति । पश्चात् तु महानन्द इति सन्मार्गों योगमार्ग. । 'वेदस्य त्वभ्यासेऽप्यवधूतानां दोष एव स्यात् । वेदस्य पूर्वभागस्तु वर्णानामेव, वेदान्तभागस्तु भिक्षूणामेव, योगमार्गोऽस्त्यवधूतानाम् । वेदान्ततात्पर्य लक्ष्य चावधूत एवास्तीति ग्रन्थकृन्मतम् । सर्वेषा वेदादिशास्त्राणामैदम्पर्य योग एवास्ति । योगशास्त्रं तु सूक्ष्मम् । समुद्र घेतर- वस्तु सुलभम्, रत्न तु श्रमेण लभ्यते । एवमेव वेदादिशास्त्र व्यवहारादि सुलभम्, योगस्तु भूरिश्रमेण लभ्यते । यथा रत्नखनौ रत्नमेव लभ्यते, तथा योगशास्त्र योग एव सभ्यते, नान्यदस्ति किञ्चिदसारं वस्तु । स च योगो गुरुकृपयाऽल्पश्रमेणैव प्राप्यः, सर्व परित्यज्य सेव- नीयः। योग एव पर साधनम् । श्रुतौ स्मृतौ च योगमार्गात् परो मार्गों नास्ति । यथोपायेन . दारु मथित्वोऽग्निदृश्यते, तथा शरीरस्थ आत्मा योगेनैव साक्षाक्रियते । . - [ घ ] योगिन श्रेष्ठाः । तेषाममृत स्थान ब्रह्मणः परम पदमस्ति । प्राणायामपरायणा न निवर्तन्ते । ते पर स्थान लभन्ते । एव सर्वनमस्कार्यमेतन्मतम् । क्षेत्रापरमात्मनो संयोगो योगः। मन्त्रयोगादीनि वेतस्यैव योगस्याङ्गानि । वेदादिज्ञान योगज्ञानादवाप्नोति पोगी (६ पृ.)। ध्यानयोगस्य परो महिमा त्वित्थं दृश्यते- अश्वमेधसहस्राणि वाजपेयशतानि एकस्य ध्यानयोगस्य कला नाहन्ति षोडशीम् ॥ इति । - क्रियायुक्तस्य सिद्धिः शास्त्रपाठमात्रेण कियाशून्यस्य सिद्धिर्न सपद्यते । प्रथम प्रकारे वायुनिरोध । चले वाते चित्तं भवति चलम्, निश्चले वाते तु चित्तमपि जायते निश्चलम् । द्वितीये प्रकारे तु- मनसः स्थैर्य वायुनिरोधः (प्राणायाम )। तत स्थिरबिन्दुतेति । हठयोगप्रदीपिकातो योगिनामनेका अवस्था ज्ञायन्ते । तत्रारम्भावस्था-घटावस्था, परिचयावस्था, निष्ठा- वस्थेत्यादयः। सिद्धयुत्तरं महानन्दः नाथसंप्रदायस्य मुख्यमाकर्षण सिद्धथुत्तरमहानन्दोऽस्ति । योगाद्यनुष्ठाने कष्टानुभव स्वाभाविक । कष्टोत्तरं स्वखण्डैकनाथरूपो ब्रह्मविष्ण्वाद्यधीश्वरो नानारूपो महानानन्दो भवत्येव । ब्रह्मादयः सर्वे तस्य पूजा कुर्वन्ति । योगारूढो नानाभोगान् भुनक्ति, न तु तेलिप्यते (१२ पृ.)। 'गोरक्षसिद्धान्तसंग्रहः' इति प्रस्तुते ग्रन्थे सिद्धान्तशब्दो नास्ति राद्धान्तवाचकः। स तु सिद्धमतस्य तात्पर्यमेव सिद्धान्त , न तु वादिप्रतिवादिभिनिर्णीतोऽर्थः सिद्धान्त. । सिद्धस्यैव तात्पर्य सिद्धान्तः । सिद्धस्यैव सिद्धान्तो न त्वन्यस्यात एव शङ्करेण सिद्धान्तविन्दुः कृतः (१४ पू०)। योगिनां मुख्यचिह्नानि १. मुद्रा, २. नाद', ३. विभूतिः, ४.बादेशधारणं चेति मुख्यानि चिह्नानि योगिनाम्।। १. मुद्राधारणं कर्णयोः क्षुरिकां विना न संभवतीति क्षुरिकोपनिषदि क्षुरिकाप्रसासा नियो' (पृ.) । एतादृशाः सिद्धा लोके 'कनफटा'-रूपेण प्रसिदा।। २. अनाहत चङ्गीति नाका. ३. त्रिपुण्ड्रधारणाय कालाग्निरुद्रोपनिषदि प्रशंसा । ४. सर्ववन्द्रक्षयावहा सदाणी आदेशः ।
[ ङ ] परमाद्वैतस्य भाव एव-आत्मा अस्ति कश्चित् परमाद्वैतस्य भावः । स एवात्मा मन्तव्यः ( १२ पृ.) परमात्मा अथ परमात्मा नाम यथाक्षरमुपासनीयः। न जायते, म्रियते," निष्कलो चिर- जनो निरभिमान निराकाङ्क । निष्क्रियस्तस्य संस्कारो नास्ति । ...... नादब्रह्म नाथसंप्रदाये यद्यपि वेदाना सर्वेषा च शास्त्राणामुपेक्षापरकाण्येव वचनानि (पृ० ४, ६, १०, ११, १२-१३, १८, १९, २०, २३, २४), तथापि 'प्रणववेद इत्यभ्युपगम्य तद्वारा तत्प्रवर्तकनादब्रह्मेत्यवलम्ब्य नादब्रह्मणो यन्मूलं तत् तत्त्वमिति विश्रान्तिमता मते का वा श्रुति साधिका न भवतीति प्रसिद्धतरमेव सर्वत्र' इत्यादिना नादब्रह्ममहिमाऽ- ङ्गीकृतः। योगिनां परमः पुरुषार्थः-मुक्तिः परमपुरुषार्थस्तु मुक्तिरभ्युपेया। सा चादिदेवपदेन नाथस्वरूपेणावस्थानम् । तत्स्वरूपं तु गोरक्षोपनिषदि-'अद्वतोपरि सदानन्ददेवता' इति बोध्यम् । आत्मनो बन्धोऽभिमानो ज्ञेयः। तन्निवृत्तिस्तु मोक्षः। सर्वसंकल्पनातीतत्वेन पर ब्रह्म भवति । द्वैताद्वैतविजितं पदं निश्चलं दृश्यते, तदेव सत्यमित्यभ्युपगन्तव्यम् । सत्यां शास्त्रनिन्दायां कथमिह शास्त्रप्रमाणानि ग्रन्थकारो ग्रन्थेऽस्मिन् पदे पदे वेदशास्त्रादिप्रमाणान्युपस्थापयन्नपि वेदशास्त्राणि निन्दत्येव । स तत्कारणमित्थं प्रकटयति-'एतद्ग्रन्थे बहुशास्त्राणा प्रामाण्यं दीयते । तत् त्वस्मदीयार्थ वा एतन्मार्गस्य शिष्याणा श्रद्धार्थ दीयत इति नास्ति । अस्मिन्नर्थे तु योगशास्त्र- स्यैव प्रामाण्यमेतच्छास्त्रज्ञानेन पूर्णम्, परन्तु वादिना हिताय भोः ग्रन्थान्तरेऽषि भवदीयनाना- मतान्तरेऽपि चायमेव मार्गः श्रेष्ठः सर्वस्य लक्ष्यभूतोऽवधूत एवेति हेतुर्न तु सिद्धान्तार्थः । अस्माकं त्वन्यप्रमाण उपेक्षेति ज्ञेयम्' इनि ( ४९ पृ.)। इतोऽये ग्रन्थकारो वेदादिवचनप्रामाण्यमनुत्यैव गद्येन गोरक्ष सिद्धान्तान् निरूपयति ।
[ ] ग्रन्थस्य भाषा ग्रन्थस्यास्य संस्कृतभाषा श्लथा विद्यते । भर्तृहरिनाम्ना प्रमाणरूपेण स्मृता केचन इलोका न तदीयेषु ग्रन्येषु लभ्यन्त इति ग्रन्थकारोऽधिका सामग्री कर्णपरम्परयाऽवगता- मुपस्थापति । 'सहस्राणामपि पुरुषाणा काट भवेत्' (१२ पृ०), 'शक्तवृत्तान्तं दृष्टम् (१३५०), 'नान्यदस्ति किञ्चिदसारम्' १५ पृ.), 'तत् तु अस्मदीयार्थ वा (४९ पृ.) इत्यादिषु भाषादोषा श्यन्ते । प्रस्तुतं संस्करणम् प्रसिद्धस्य सिद्धस्य श्रीगोरक्षनाथस्य सिद्धान्तानामात्र सग्रहो जिज्ञासूनां महते कल्याणाय जायतेति धिया सिद्धसप्रदायानुयायिना केनचित् सस्कृनज्ञेन 'गोरक्षसिद्धान्त- सग्रहः गयेन प्रणीत । स पञ्चविंशत्युत्तरेकोनविंशतितमे खीम्ताब्दे सरस्वतीभवनग्रन्थ- मालाया अपादशपुष्परूपेण प्रख्यातवैदुष्यमहामहोपाध्यायैर्गोपीनाथकविराजमहोदयग्रन्थगुण- गरिम्णा यथोपलब्धोऽपूर्ण एव सपादितो विदुषा पुरस्तादुपस्थापनाय । स चेदानी मुद्रणातीतो नोपलभ्यते जिज्ञासुभिरिति सरस्वतीभवनपण्डितप्रवरेण श्रीजनार्दनपाण्डेयेन संपादितपूर्व- सस्करणतो मनागधिकमश गवेषयित्वा तत्रागतवचनोद्धरणादिसंकेतान् परिश्रमेण योजयित्वा सूच्यादिभिन्न भूषयित्वा द्वितीयं सस्करणमिद सपाधमान विदुषा मोदकरं स्यादिति मन्यते । माघपूर्णिमायां भागीरथप्रसादत्रिपाठी 'वागीशः शात्री' संचालकः अनुसन्धानसंस्थानस्य ( १७-२-७३) किञ्चिनिवेदनम् अर्थतस्य गोरक्षसिद्धान्तसग्रहस्य द्वितीयं सस्करणमुपस्थापयतो मे भृश मोमुदीति चेतः। मन्ये ग्रन्थस्यास्य नाम “नाथसिद्धान्तसग्रहः' इति क्रियेत चेत् समीचीन स्यात् । यतो ह्यत्र प्रतिपादिता सिद्धान्ता गोरक्षनाथतः पूर्वस्मिन्नपि सिद्धमते प्रचलिता आसन् । गोरक्षनाथोऽस्य सम्प्रदायस्य कश्चिन्महापुरुषोऽभवत्, न तु प्रवर्तक , अस्य प्रवर्तकस्तु भगवान् आदिनाथः साक्षाच्छिव एव । यद्यपि घटेसमुद्रन्यायेन लघुकलेवरेऽप्यस्मिन् ग्रन्थे ग्रन्थकृता बहु विवेचितम्, तथापि भारतीयविचारसरणि तिरस्कृत्य पाश्चात्यपद्धतिप्रभावपिहितचक्षुषामाधुनिकविदुषामेतद्- विषयकविवेचनेषु बहुत्र विप्रतिपत्ति दृष्टवता मयाऽपि कश्चित् स्वकीयोऽभिप्रायोऽत्रोपस्था- प्यते । तत्र तथ्यातथ्य निर्णयस्तु नीरक्षीरविवेचकाना विद्वद्राजहसाना वशवर्तीति मन्ये । नाथशब्दस्य निरुक्तिः याज्ञोपतापैश्वर्यात्मकेऽर्थत्रये नाथति इति, आशीरर्थे च नाथते इति विग्रहेण नाथ घातोथिशब्दो निष्पद्यते । तत्र प्रथमोऽर्थो नाथस्य याचक इति । परस्वत्वनिवृत्तिपूर्वक स्वस्वत्वोत्पत्त्यनुकूलो व्यापारो याचनार्थः, एवं च महेश्वरस्यापि सतो भक्तानुग्रहार्थं स्वशक्ति- बलेन विविधविग्रहवतो भक्तभवनेषु भिक्षुकपरिपाटीमूरीकृत्य पर्यटतोऽस्य स्फुटमेव या 1कत्वम् । यद्वा स्वीकारानुकुलो व्यापारो याचना । यथा- अविनीतं विनयं याचते" इति। एवं स्वशिष्यान् योगविज्ञानादिविविधोपायसादगुण्यादेश स्वीकारयतीति स्फुटं तस्य नाथत्वम् । द्वितीयोऽर्थ उपनापक इति । अविद्यास्मिता गद्वेषाभिनिवेशा पञ्च क्लेशा शुक्लमशुक्लं शुक्लाशुक्लं चेति त्रिविधं कर्म, एतद्विपाकश्च जात्यायुर्भोगरूप , तत्तदुःखसुखाद्यनुभवजन्यो वासनाराशि, एते च ससारबन्धास्तेषामयमुपतापकः स्वेन संबन्धविच्छेदको नाथः। तृतीयो- ऽयं ईश्वर इति । अणिमाद्यष्टविधश्वर्यसम्पन्नो नाथ इति । चतुर्थश्चार्थ आशीर्वादक इति । आदेश इति प्रार्थयमानान् श्रद्धालुजनान् स्वकीयेनाशीर्वचसा स्वस्वाभीष्टप्रदानेन च सन्तोष- यतीति नाथ.। नाथमतस्य प्रत्नत्वम् इदं च मतं कियत. कालात् प्रचलतीति प्रश्नस्य विशुद्धभारतीयपद्धत्या यद्युत्तरं दीयेत तहीदमेवायाति यदनादिकालादेवेदं मत भारते प्रवर्तते । यतो ह्यस्य प्रवर्तक आदिनाथ- शिव स्वयमनादिरनन्तश्च । अथ चास्माक सार्वभौमानामुपास्यदेवानां जगन्नाथ-बदरीनाथ ज ] केदारनाथ-विश्वनाथ-सोमनाथादिनाथान्ताभिधानमेतस्य साक्षि यदस्य नाथसम्प्रदायस्यास्माकं संस्कृत्या जीवनेन च सहात्यन्त घनिष्ठः सम्बन्धोऽतिपुरातनकालात् प्रवर्तते । मत्स्येन्द्रनाथ- गोरक्षनाथादि-सिद्धमहापुरुषाणामवतरण तु काले-काले साधनापरिपाटया युगानुरूपं नूतन- दिशो दर्शनाय भवति, तेभ्यः प्रागपीद सिद्धमतमत्र प्रवृत्तमासीदित्यत्र नास्ति सदेहलेशोऽपि । विद्वासः प्रतापिनो वा पुरुषा जगति सर्वेषु देशेषु बभूवु सन्ति भविष्यन्ति च, किन्तु, भारतस्यैवेद गौरव यदिदं सिद्धानामपि जन्मभूः, न त्वन्य. कश्चिद् देशोऽनेन गौरवेणा- लक्रियते । इदमेव कारण यद् भारतवर्षे सिद्धेभ्यो यादृशं महत्त्व दीयते तादृशं नान्यस्मै कस्मैचिदपि । सकलशास्त्रपारङ्गत कश्चिद्वयसा वृद्धोऽपि विद्वान् कस्यचिदल्पवयस्कस्याक्षर- ज्ञानशून्यस्य सिद्धपुरुषस्य चरणयोर्दण्डवत्पतित्वा प्रणमति । विद्वत्त्व सिद्धिश्च द्वे पृथग् वस्तुनी विद्यते। स्वकीयपरिश्रमानुरूप कोऽपि जनो विद्वान भवितु शक्नोति किन्तु सिद्धो न सर्वो भवति, "अनेक जन्मसंसिद्धस्ततो याति परा गतिम्" इति गीतावाक्यस्येदमेव तात्पर्य यदनेकजन्मना साधनाया. फलस्वरूपमेव जनः सिद्धो भवति, सिद्ध सन् परा गति (मोक्ष- मिति यत्त्वत् ) लभते । सिद्धस्य कृते नेदमावश्यक यत् स ग्रन्थवितु शास्त्रज्ञो वा भवतु, यतो हि स्वीयोत्कृष्टसाधनावशात् स तामवस्था प्राप्नोति यल्लोकेभ्यस्तस्य प्रत्येकं वचनमेव शास्त्र प्रत्येकमाचरण च सदाचारो भवति । यदि च सिद्धो भूत्वा शास्त्रज्ञोऽपि भवेच्चेत् स्वर्णे सुगन्धः स्यात् । प्राक्तनाना वशिष्ठव्यासादीना का कथाधुनिकेऽपि भारतीयेतिहासे गुरुनानक-कबीरदासादयोऽनेके महापुरुषा अभवन् ये शास्त्राणा पण्डिता नासन् किन्तु तेषा सिद्धत्वे तु न कस्यचिद् विवादः। तैर्यदुक्त तदेव लोकेभ्य. शास्त्र सजात यच्चाचरितं तदेव सदाचारः संजात । एवमेव महावीर-शङ्कराचार्य-गोरक्षनाथादयो महापुरुषा सिद्धा अप्यासन् विद्वासश्चेति तेषा चरितैस्तत्प्रणीतशास्त्रश्च स्फुटमवलोकयितु शक्यते । नव नाथाः भारतीयसाधनापद्धतौ गुरोः सर्वाधिक महत्त्वमिति न तिरोहित कस्यापि । अत्रापि गोरक्षसिद्धान्तसङ्ग्रहे प्रारम्भ एव गुरोमहिमा प्रदर्शित । तमेव गुरु साधको नवात्मतया कल्प- येदिति स्पष्टो निर्देश , यथा गोरक्षसहिताया चतुर्विशे पटले । गुरुं नवात्मकं भद्रे नवभावैविभावयेत् । ( गो० स० २४।१३) तथाच- कलया भृगु-लाकुल-संवर्त-महाकाल-पिनाकिनः खड्गीश च भुजङ्गाख्यं बालीशमधिणा युतम् ।। अर्धेन्दुबिन्दुसंयुक्त चोवंदीपितम्। एतनवात्मकं देवि गुरु ॥ (गो० सं० २४.१७-१८) एतत्प्रतीकरूपा एव नव नाथा इति सिद्धसम्प्रदाये प्रसिद्धिः । सामान्योऽपि भारतीयः चतुरशीति सिद्धाः, द्विपञ्चाशद्वीरा., चतुःषष्टिर्ययोगिन्यः, नव नाथा इति रूच्या परम्परा- . - [ झ ] - ७. प्रचलितया परिचितोभवति । तत्र के ते नव नाथा इत्यत्र ग्रन्थकृता परस्पर नकमत्य दृश्यते । महार्णवतन्त्रे नवनाथाना पृथक् दिक्षु न्यासविधानं कृतं तदनुसारं च नव नाथा इमे- १. गोरक्षनाथ २. जालन्धरनाथ.. ३. नागार्जुन , ४. सहस्रार्जुन , ५. दत्तात्रेयः, ६. देवदत्तः, ७, जड़भरतः, ८. आदिनाथः, ९. मत्स्येन्द्रनाथश्च । योगिसम्प्रदायाविष्कृतिग्रन्थे नवनारायणा एव नवनाथरूपेणावतीर्णाः, येन च नारायणेन यो नाथावतारो धृतः स इत्थम्- १. कविनारायणः मत्स्येन्द्रनाथः २. करभाजननारायणः गहिनीनाथ ३. अन्तरिक्षनारायण ज्वालेन्द्र( जालन्धर)नाथ ४. प्रबुद्धनारायण करणिपानाथ ५. आविहाँत्रनारायणः नागनाथ: ६. पिप्पलायननारायण चर्पटनाथ चमसनारायणः रेवानाथ. ८. हरिनारायण भर्तृनाथ ९. द्रुमिलनारायणः गोपीचन्द्रनाथ इति । सुधाकरचन्द्रिकाया निर्दिष्टा नामावलिस्त्वित्थम- १. एकनाथः, २. आदिनाथः, ३. मत्स्येन्द्रनाथ., ४. उदयनाथ., ५. दण्डनाथ, ६. सत्यनाथ , ७. सन्तोषनाथ , ८. कूर्मनाथः, ९. जालन्धरनाथः । उपर्युक्तोभयोरपि ग्रन्थयोर्गोरक्षनाथस्य नाम न विद्यते, योगिसम्प्रदायाविष्कृतौ तु नवनाथोत्पत्त्यनन्तर महादेवेन गोरक्षनाथ उत्पादित इति स्पष्टमेवोक्तम् । (गोरक्षसिद्धान्तसग्रहे ) तु नामावलिरित्थम्- १. आदिनाथ, २. मत्स्येन्द्रनाथः, ३. उदयनाथः, ४. दण्डनाथ , ५. सत्यनाथ., ६. सन्तोषनाथ , ७. कूर्मनाथ, ८. भवनाजि , ९, गोरक्षनाथ. । परन्तु नाथपरम्परानुयायिनो नवनाथरूपेषु यासां मूलदेवताना ध्यानं कुर्वन्ति ता इत्थम्- १. आदिनाथ. महादेवः २. उदयनाथः पावंती ३. सत्यनाथ ब्रह्मा ४. सन्तोषनाथ. विष्णुः अचलनाथ: पतञ्जलिः ६. कन्थडिनाथ: যালয়: ७. चौरङ्गिनाथ चन्द्र (पूर्णकलः) ८. मत्स्येन्द्रनाथः मत्स्यावतारः ९. गोरक्षनाथः सदाशिवः प्रकृतग्रन्थे - भिन्नैव। [ न ] [ महादेवः-शिव सदाशिवश्च पृथक तत्त्वद्वयमिति संप्रदायसिद्धम् । ] स्थितिकालविषये किश्चित् पाश्चात्त्यशिक्षाप्रभावितेषु आधुनिकभारतीयग्रन्थकर्तृष्वपि नूतनोऽयं व्याधि, संक्रान्तो यत् कस्यापि पूर्ववर्तिन कवेर्महापुरुषस्य वा चर्चाया "स कदा प्रादुरभवत् कदा च तिरोभूत" इति विचारणायामेव तेषा ज्ञानस्याधिकोऽश व्यतीयते, तत्र च यानि प्रमाणानि दीयन्ते तानि केवलं कल्पनामाधृत्यैव । आडग्लशासनस्यायं दुष्प्रभावोऽस्मद् देशे । यतो हि तेषामाङ्ग्लाना केवल द्विसहस्रवर्षात्मकः खीष्टानन्तरवर्ती इतिहासो वर्तते । फलत अनयैव स्वीयया तुलया ते समग्रस्य विश्वस्य सभ्यतां संस्कृतिञ्च तोलयितु वाञ्छन्ति । अस्माकं भारतस्य तु स्थितिरतो नितरा । सृष्टेरादिकालादारभ्या- द्यावधिकोऽस्माक प्रामाणिक स्वीयेतिहासः स्वीया च संस्कृतिः। भारतीयविद्वद्भिः कालाय किमपि महत्त्व न दीयते । एते जीवनस्योपयोगिता स्वीकुर्वन्ति न तु जीवन्याः । बहवो महर्षयो महापुरुषा कवय. शास्त्रप्रणेतारश्चाभवन्, ते वाञ्छेयुश्चेत् स्वप्रणीतग्रन्थेषु स्वकीयं परिचय स्थितिकाल वाऽनायासेन दा , किन्तु तैनं स्वीकृतं तस्य किमप्युपयोगित्वम् , तेषा मतेन महत्त्वमासीद् ग्रन्थेषु प्रतिपादिताना सिद्धान्तानाम् । केवल तत्रैव ते स्वविद्वत्त्व प्रकटितम् । अस्तु, नाथपरम्पराया प्रादुर्भूताः सिद्धा अपि नैतदपवादभूता , पाश्चात्त्यैराधुनिक- भारतीयैश्च विद्वद्भिर्मत्स्येन्द्रनाथगोरक्षनाथादीनां स्थितिकाल ख्रीष्टाष्टमशतकाद् द्वादशशतक यावद् मध्यवर्तीतर्मन्यते, वैयक्तिकरूपेण मम तु मतमस्मानितरा भिन्नमेव । मन्ये नैतेषा कोऽपि कालः स्थिरीकर्तुं शक्यते, अत्र च हेतु:- एकत्र तु वयं भारतीयशास्त्राणां प्रामाण्यमुद्घोषयामोऽपरत्र तेषु यल्लिखितं तत्र न विश्वसिम । यथाऽमुकस्य रसस्य रसायनस्य वा सेवनेन अथवा योगसाधनायास्तन्त्रसाधनाया वाऽमुकप्रक्रियया मानवः शतायुः सहस्रायुरजरोऽमरो वा भवतीत्यादि । अतीव हास्यास्पदेयं स्थितिरस्माक यदि वयं स्वीकुर्महे यन्नाथमार्गीयसिद्धान्ते जीवन्मुक्तिरेव कैवल्यं न तु विदेह- मुक्ति , मन्यामहे च षडङ्गयोगेन सह नेति-धौतीत्यादिषट्कर्मद्वारा कायशोधन कृत्वा रसादि-पारदादिप्रक्रियाभिश्चैते देहं तामवस्था प्रापयन्ति यत् स जरा व्याधि मृत्यु वा जयेत्, सदा एतत्स्वीकरणे कास्माकं विप्रतिपत्तिर्यद् गोरक्षनाथादयो महासिद्धाः शत-सहस्रायुषोऽमरा वा भवितु शक्नुवन्ति, इति । एतत्तु समीचीन यत. नाथमार्गस्थाः सर्वे सिद्धास्तामवस्था न प्राप्नुवते किन्तु विशिष्ट- साधनापराणा महापुरुषाणां विषये तु वक्तु शक्यत एव । अत्रेदमपि विशेषेण विचारणीय भवति यद् गोरक्षनाथो मत्स्येन्द्रनाथो जालन्धरोऽन्यो वा सिद्धो दिवसैकस्य कृतेऽपि क्वापि प्रकटित कुत्रापि विहृतवांश्चेत्तत्र तस्य किमपि स्मारक चिह्नमवश्यं वर्तते । स्वजीवनकाले ये सिद्धा इयती प्रसिद्धिमुपगता, यत् समग्रेऽपि भारते शत- [ ८ لا . शस्तेषा साधनास्थलानि, विहारभूमयः, चमत्कारक्षितयश्च दृश्यन्ते किन्तु तैः कुत्रापि जीवन- स्येहलीला ममापितेति सूचकं समाधिस्थलं न क्वचिद् दृश्यते न च श्रूयते । यै समग्रमपि भारतं परिक्रान्तं कोटिशो येषामनुयायिन आसन् ते तूष्णी क्वचिद्देहं जहुरिति प्रत्याययितु नास्मच्चेतः प्रभवति । अतो बलाद्बाध्या वयमेतद्विश्वसितु यत् ते जितमृत्यवः कस्मिन्नपि काले कस्मिन्नपि देशे केनापि रूपेण प्रकटितु समर्था भवन्तीति नात्र सन्देहः कर्तव्यो न चा- श्चर्यमिति । तन्त्रशास्त्रेण सम्बन्धः इदानीन्तनैर्ग्रन्थकृद्धि कैश्चिन्नाथसिद्धेषु शैवतन्त्राणामपरैश्च शाक्ततन्त्राणामन्यैश्च बौद्ध- तान्त्रिकाणा प्रभावोऽस्तीति प्रकटितम्, किन्तु कल्पनैव तेषामेषा । नाथमार्गीयाः सिद्धास्तन्त्र- स्याप्युपासका अभवन् इति तु तथ्यम् । अनयोर्गियोः कस्तावत्सम्बन्ध इति विचारणायां गोरक्षसिद्धान्तसंग्रहकृता दत्तमुत्तरम् (द्राव्यं १४ पृष्ठे) तस्यायमभिप्रायो यत् 'नाथमार्गों यद्यपि विशुद्धयोगसाधनापरस्तथापि कोलकापालिकादयोऽपि मार्गा नाथेनैव प्रकटिता" इति । अयमत्राशयः-अन्तरङ्गसाधनापरो योगमार्गः, बहिरङ्गसाधनापरश्च तन्त्रमार्ग । बहिरङ्ग- साधना विना नान्तरङ्गसाधना सिद्धयति । अत केनापि साधकेन प्रथम बहिरङ्गसाधनायाः कोऽपि प्रकारोऽवश्य स्वीकर्तव्य इति कृत्वा भगवता आदिनाथेन शैवाना शाक्ताना च तन्त्राणा प्रवर्तनं विहितम् । एषु साधक स्वयोग्यतानुरूप शक्तयनुरूपं प्रवृत्त्यनुरूप वा कमपि मार्गमुप- चिनोति, तेन च मार्गेण बहिरङ्गसाधना ममापयन् सोऽन्तरङ्गसाधनाभिमुखो भवति । नास्ति किमपि बन्धनं तस्मै यत् सोऽमुकसाधनामेवाङ्गीकुर्यादिति । मत्स्येन्द्रनाथो योगिनीकौलाख्यस्य सम्प्रदायस्य प्रवर्तक एवासीदिति प्रसिद्धिः, किन्तु भगवता गोरक्षनाथेन गोरक्षसहिताया प्रति- पादितः सिद्धान्तस्तस्माद् भिन्न एवास्ति । एव जालन्धरनाथादीनामन्येषामपि पन्थान. सन्ति, परन्तुद्देश्यं सर्वेषामेकमेव, बहिरङ्गसाधना कुर्वन्तस्ते तां स्थिति प्राप्नुवन्ति यदन्तरङ्गसाधनाया- मनायासेन प्रवृत्ता भवेयुः। एतत्तु साधकस्य योग्यता साधनां चापेक्षते यत् स कियता श्रमेण कालेन बा तामवस्था प्राप्नोतु । उच्चैःकोटिकाः साधका एव बहिरङ्गसाधनां निस्तीर्य योगभूमि प्राप्नुवन्ति, न्यूनकोटिकास्तु कोला कापालिका अन्ये वा भूत्वैव तिष्ठन्ति । दार्शनिक स्वरूपम् अयं च नाथमार्गो विशुद्धयोगसाधनापर इति निर्विवादम, पाशुपतैः सहास्य न कोऽपि सम्बन्धः प्रतीयते किन्तु रसेश्वरैः सह वर्तते इति बहूना नाथसिद्धानां रसविषयकैरतीवमान्य- तांगतैः प्रसिद्धग्रन्थैः प्रतीयते । यथा सिद्धनागार्जुनस्य “नागार्जुनतन्त्रम्", नित्यनाथस्य "रसरत्नाकर.", शालिनाथस्य "रसमजरी", मन्थानभैरवस्य "रसरत्नम्", स्वयं गोरक्षना- थस्य “गोरक्षसंहिताया भूतिप्रकरणम्", अन्ये च भूयासो ग्रन्था दृश्यन्ते, चर्पटनाथस्य रससिद्धत्वं विश्रुतमेव । एतन्मार्गीया सिद्धाः आगमनिर्दिष्टामेव योगसाधनां विदधति, योगसाधनेवास्य - [ 8 ] मतस्यादिमध्योऽन्तश्च । इयं चैतेषा साधना पातञ्जलयोगस्यैव विकसित रूपमुच्येत चेन्मन्ये न कापि विप्रतिपत्तिः। अस्मिश्च पथि ऊर्ध्वरेतस्त्वं सर्वातिशायि । वामश्च मार्ग ईश्वरं वदति, अतस्तत्रेश्वरः सदिति मन्यते, बौद्धाश्चानीश्वरवादिनो- ऽतस्तत्रेश्वर शून्यमसद्वा, किन्तु नाथास्तं सदसदुभाभ्यां व्यतिरिक्तं मन्यन्ते । उपनिषदां "नास- दासीनो सदासीत्" इति सिद्धान्त' पूर्णतया तैरङ्गीकृतः । गोरक्षनाथस्योक्तिः श्रयते- बस्ती न शुन्यं शुन्यं न बस्ती अगम अगोचर ऐसा । गगनशिखर महं बालक बोलेहुं ता का नाम धरहुगे कैसा ॥ गोरख-शबद ।। एभिमन्यते परमात्मा केवलोऽस्ति (न सत् न चासत्)। अनेन परमात्मना जीवस्य य कोऽपि सम्बन्धो भवेत, तस्य तेन सम्मिलनमेव योग कैवल्यं मोक्षो वा । अस्य च कैव- त्यस्य अस्मिन्नेव जन्मनि अनेनैव देहेनानुभूतिभवेदित्येतेषा चरमं लक्ष्यभूतम् । अस्य लक्ष्यस्य प्राप्त्यै कायसाधनं प्रथम सोपानम् । एते सिद्धा कायं शत्रुवन्न क्लेशयन्ति, न च विषये- ज्वासक्ताः सन्तस्तमखलीनं मुञ्चन्ति, प्रत्युत देहं परमात्मन आवासं मत्वा तदनुरूपा साधनां कुर्वन्ति, अनेनैव देहेन कैवल्यमनुभवन्ति, जन्ममरणजीवनान्यधिकुर्वन्ति, जराव्याधिकालादीन् निजित्य तिष्ठन्ति, कायशोधनरूपस्योद्देश्यस्य पूर्तये योगाङ्गैर्यमनियमादिभिः सहैते षट्कर्माणि (नेति-धौति-वस्ति-नौलि-कपालभाति-त्राटकाख्यानि ) अपि कुर्वन्ति । विशुद्धहठयोगस्य राजयोगस्य च क्रियाकलापमस्मिन् मार्गेऽनुशिष्ट वर्तते । योगसाधनाया प्रतीकरूपेणैवैते मुद्रा विभूति नादमादेश च बाह्यस्वरूपेऽपि धारयन्ति । गुरोरेवात्र सर्वाधिक महत्त्व वर्तते । नाथस्वरूपेणावस्थानमेव मुक्तिः । एवमस्य नाथमतस्य बाह्यमाभ्यन्तर च स्वरूपं बहुधा महत्त्वपूर्ण विवेचनाहं च किन्तु विस्तरभयान्नात्राधिकं विविच्यते, अत परं नाथसाहित्ये केषाञ्चिद् ग्रन्थाना नामान्युट्टङ्कि- तानि तेभ्यः पूर्णतयाऽस्य स्वरूपावगतिजिज्ञासुभिः कर्तव्येति निवेद्यते । नाथसाहित्यम यद्यपि भारतीयवाङ्मयस्य विपुलोंऽशो नाथसाहित्येऽन्तर्भवति, यतो हि पातञ्जलं योगदर्शनमस्याधारभूतमेव, हठयोगस्य प्रक्रिया अप्यङ्गभूता., रसशास्त्रेण प्रत्यक्ष एव सम्बन्ध , कुलागमादिकमप्यनेन सपृक्तमिति कृत्वा सर्वमेतद्विषयकं साहित्यं नाथसाहित्यमेवेति वक्तु शक्यते तथापि प्राचीना अर्वाचीनाश्च केचन ग्रन्था. सन्ति येषामध्ययनेनास्य मतस्याध्यात्मिकी व्यावहारिकी साम्प्रदायिकी, ऐतिहासिकी च स्थितिमा॑तु शक्यते, तेषु केषाचिन्नामावलि- रत्र दीयते- अमनस्कयोग. कोलज्ञाननिर्णयः अमरौधशासनम् कौलावलीतन्त्रम् अवधूतगीता कौलावलीनिर्णयः आदिनाथसहिता कौलोपनिषत् [3] क्षुरिकोपनिषत् पृथ्वीनाथसंहिता खेचरीसंहिता बाधूलनाथसूत्रम् गरीबनाथसंहिता भर्तृहरिसहिता गोरक्षकल्पम् मत्स्येन्द्रसहिता गोरक्षकवचम् महार्थमञ्जरी गोरक्षकीमुदी महेशसहिता गोरक्षगीता मेघमाला गोरक्षनाथस्तोत्रम् योगबीजम् गोरक्ष पद्धति. योगमञ्जरी गोरक्षमञ्जरी योगशास्त्रम् गोरक्षशतकम् योगिनरहरिनाथप्रमृतिभिःसंपादिता योगप्रचा- गोरक्षसहिता. रिणी सभा काशीतः प्रकाशिताः प्रायः गोरक्षसिद्घान्तसंग्रहः पञ्चाशद ग्रन्या गोरक्षोपनिषत् योगिवंशावली गोरखबानी ( - सबद) योगिसम्प्रदायाविष्कृति. घेरण्डसंहिता वर्णरत्नाकरः चतुरशीतिसिद्धानामितिहासः (मानसिंहकृतः) विवेकमार्तण्ड जालन्धरसंहिता शिवसहिता धोरंगनाथकथा सिद्धकोशः सिद्धसिद्धान्तपद्धतिः-गोरक्षनाथकृता नवनाथकथा नाथचरितम् सिद्धसिद्धान्तपद्धति'-नित्यताथकृता नाथतीर्थावलिः सिदसिद्धान्तसग्रहः नाथपुरण सुधाकरचन्द्रिका हठयोगप्रदीपिका नाथसूचस् हठयोगरत्नावली निरञ्जनमुराणम् हठसंकेतस्-गोरक्षनाथमतः ॐ अस्य प्रन्थस्य पुषिका ( COLOPHON) एवं वर्तते- "इति श्रीमहामन्थानविनिर्गते सप्तकोटपर्बुदे स्वच्छन्दशक्तावतारित गोरक- सहितायां शतसाहस्रखण्डान्तर्गते श्रीमतोत्तरखण्डे कादिभेद कुलकोलिनीमते नवकोटयवतारमेरे श्रीकण्ठनाथावतारे विद्यापीठे योगिनीगुह्ये पटलः । 'एतेन प्रतीयते कियवेशयमस्य ग्रन्थस्य भवेत् कियां विषयोऽत्र 'प्रतिपादित स्यादिति । एतदन्तर्गतस्य कादिप्रकरणस्य कश्चित्खण्डितोंऽशो मयाधिगत मासीद कायम श्रुटितोंऽशः सरस्वतीभवनग्रन्थालये विद्यते, उभयोमिलित्वापि प्रत्यस्तु,, पूरें सामवन किन्तु प्रायः षट्सहनमिताः श्लोका उपलब्याः, अतीव दुर्लभस्यास्य ताइशख्येव प्रकाशन फोन "नाम' ..... ...........
]] . [ ढ इदानीन्तनैरपि लेखकैरत्रविषये बहुविवेचितम् , तत्र विशेषेण द्रष्टव्यम्- नाथ सम्प्रदाय -डा० हजारीप्रसाद द्विवेदी नाथसिद्धो की बानियाँ नाथसप्रदायेर इतिहास, दर्शन ओ साधना-डा० कल्याणी मलिक सिद्धसिद्धान्तपद्धति एण्ड अदर वर्क्स आफ नाथयोगीज -डा० कल्याणी मलिक कौलज्ञाननिर्णय भूमिका -डा० प्रबोधचन्द्र बागची नाथ और सन्तसाहित्य का तुलनात्मक अध्ययन -डा. नगेन्द्रनाथ उपाध्याय गोरखनाथ और उनका युग --डा. रागेयराघव गोरखबानी --डा. पीताम्बरदत्त बड़थ्वाल नाथयोग -प्रो. '• अक्षयकुमार बनर्जी गोरखनाथ एण्ड कनफटा योगीज -डा० ब्रिग्स एतदतिरिक्त म. म. डा. गोपीनाथ कविराज महोदयै , योगिराज श्रीनरहरिनाथ- राहुल साकृत्यायन-शिवकुमार 'मानव' प्रभृतिभि. भूयसा ग्रन्थाना भूमिकासु, लेखरूपेण विविधपत्रिकासु च पर्याप्त साहित्यं प्रकाशित विद्यते । गोरक्षसिद्धान्तसंग्रहः, प्रस्तुतसंस्करणञ्च लघुकलेवरोऽप्यय ग्रन्थः स्वस्मिन् जनाना कियदुपकरोतीति तु स्वसवेद्यमेव वर्तते । भगवता गोरक्षनाथेनान्यैर्वा सिद्धर्महापुरुविद्वद्भिश्च प्रणीता यावन्तो ग्रन्था दृश्यन्ते ते सर्वे प्राय. साधनोपयोगिविधिपरा एव । यतोहि व्यावहारिकतत्थ्यानामपि तेषु तदुपयोगाणिा मेव सकलन वर्वति, नाथमार्गीयदार्शनिकविचाराणा लौकिके सामाजिके वा जीवने कियानु- पयोगो भवितु शक्नोतीतिप्रतिपादकास्तु ग्रन्था प्रायोऽङ्गुलिगणनीया एव । एतदृष्टयाऽस्य महनीयं महत्त्वं वर्तते । अत्र प्रतिपादिता विषयास्तु विषयसूचीतोऽत्रगन्तव्या', विशेषण गुरोमहत्त्वम्, नाथलक्षणम् , मुक्तेनाथस्वरूपेणावस्थितिः, योगप्रशंसा, योगिना चिह्नानि तेषा- माध्यात्मिक रहस्यम् , वेदाना तन्मूलकशास्त्राणा च प्रवृत्तिनिमित्तत्त्वम् , ज्ञानोपासनयोर्योग- साधनत्वनिरास', द्वैताद्वैतयोव्यर्थता, अद्वैतपराजयः, नाथस्य तन्त्रप्रवर्तकत्वम् , ज्ञानिनो मरणोत्तरगतिः सर्वदर्शनाना स्वरूपदर्शने समन्वयः, मुद्राणामवस्थाना च भेदा., नाथ- सिद्धान्तस्य स्वरूप तन्महत्त्वञ्च, नाथपरम्परा, नाथाम्नायवर्णनम् शिष्यस्य ३९ गुरोश्च . - MPARA संस्कृत विश्वविद्यालयीयप्रकाशूनविभागतः क्रियते । सम्प्रति भूतिप्रकरणमप्युपलब्धम्, [योगप्रकरणं २८३५ खीष्टे श्रीप्रसन्नकुमारवन्धोपाध्यायेन वंगानुवादेन सह प्रकाशितमासीत् । तदपीदानी दुर्लभमेव ] अतः अस्य प्रकरणदयस्य मुद्रण चात्र समाप्तप्रायमेवाचिरात पाठकानां दृष्टिपथमुपयास्यतीति निवेधते ।
[ ण ] ३६ लक्षणानि, सिद्धानामाचारविधि , देवाना भगवत्तानिरासो नाथस्य सर्वोपरिवर्तित्वम् , योगस्यात्मधर्मत्वनिरूपणं चेति विशेषेण द्रष्टव्या वर्तन्ते । एतत्प्रसङ्गेनावान्तरविषयाणामपि प्रचुरतयात्र संनिवेशोऽस्ति । अस्य च ग्रन्थस्य प्रणेता नाम्ना अज्ञातोऽपि नातिप्राचीन इति तदीयोद्धृतप्रमाण- प्रन्थसूचीतः प्रतीयते । किन्तु विपश्चिद्वरेणानेन यया रीत्या स्वकीयो विषय प्रतिपादित यावन्ति च प्रमाणानि स्वमतपोषकाणि ग्रन्थान्तरेभ्य उद्धृतानि तेरस्य बहुश्रुतत्वं प्रौढ पाण्डित्यं च स्फुटं परिलक्ष्यते । अस्य ग्रन्थस्यैकामपूर्णां मातृकामुपलभ्यातीवमहत्त्वपूर्णेति मत्वा श्रद्धेय म० गोपीनाथकविराजमहाभागैः सम्पाद्य सरस्वतीभवनग्रन्थमालाया प्रकाशितमेकं सस्करणम् , तदपि बहुवर्षेभ्यो दुष्प्रापमेव । ममैकेन मित्रेण पुस्तकान्तरभ्रान्त्या स्वीयैकामातृका मह्यमुप- दर्शिता, पूर्वस स्करणापेक्षया तस्याः पाठो मया बहुत्रशुद्धोऽधिकश्च व्यलोकि, अतो यथामति संशोध्य शुद्धमुचित च पाठ मूले संस्थाप्य तदितरपाठश्च टिप्पण्या दत्त । मूलग्रन्थे येषा ग्रन्थानमुद्धरणानि सन्ति तानि प्रकाशितेम्योऽप्रकाशितेभ्यश्च सम्यङमेलयित्वा तेषामङ्क संख्यापि यथोपलब्धा दत्ता । एव यथामति यथासभवं च कृतेऽपि संशोधने व्यस्ततावशात् मानवस्वभावसुलभचपलतया च यास्त्रुटयः स्युस्ता ममानवधानमिति क्षन्तव्याः संशोध्या- श्चेति भूयोभूय. प्रार्थये कृपाघनान् विदुषः- म. , १ सरस्वतीभवनम् मकरसंक्रान्तिः सं० २०२९ विद्वच्चरणचञ्चरीका जनार्दनशास्त्री पाण्डेयः Prefatory Note The following pages, which embody the doctrines of Goraksanātha and the Nātha sect in general and represent an ancient collection of essays by members of the same sect, are presented to the public for the first time, I believe, in the hope of removing a long-felt want. The study of Nāthism--so it is called by Mahamahopādhyáya Haraprasad Šāstri who had occasions to write upon the subjects more than once-has been sųffering for a long time from paucity of adequate literary data Besides the Hathayoga Pradipıkā, Goraksa Sataka, Goraksapaddhati, Gheranda Samhitā, and more, very little is known of the Sanskrit Literature of the Nathas. The contributions of Wilson, Aksayakumāra Datta, Farquhar and others have all been consequently more or less incomplete. The publication of the present work, therefore, must be considered as a welcome addition to our Library, specially in view of the fact that it comprises many Iskort tracts attributed to the venerable sages themselves, e.g. Goraksanātha, Matsyendranātha, Jalandharanātha, Bhartriharı etc. The greatest defect in the Sanskrit writings of the sect is the frequent violation of the rules of grammar, metrics etc. Unnecessary repetition, ambiguity of expression and incoherent presentation are also to be noticed. But all these defects, and others not mentioned here and arising from insufficient Mss materials, are insignificant in comparison with the high importance of the work, from the historical as well as religious and philosophical points of view. The book is full of inaccuracies. But it has been allowed to come out in its unvarnished form, for the editor has no right to step beyond his limits and introduce corrections or alterations in the
[ ]
language of the original author It is hoped, however, that the readers
will appreciate this attitude and make allowance for these defects
Further details regarding the work and the sect will be found
in the General Introduction which will follow and in my 'Studies in
Nathism' ( to appear shortly ).
Sanskrit College
Benares
Gopinath Kaviraj
विषय-सूची विषयः पृष्ट १ २ ३ ३-७ ८ ८ ८ १०-११ अव पूतस्य स्वरूप लक्षण च पक्षपातस्य लक्षणं स्वरूपं च नाथसाक्षात्कारादेव मुक्तिर्न वर्णाश्रभाचारवत इति विवेचनम् अवधूतस्यैव गुरुत्व नान्यस्य योगप्रशसा योगिनो मुख्यचिह्नानि मुद्रानिरुक्ति क्षुरिकाप्रशसा च आदेशधारणे प्रमाणानि नादधारण, विभूतिधारणप्रकार. प्रशंसा च एतेषामनियतव्यवहारत्वम् मुक्तिरूपपरमपुरुषार्थेऽवधूतानामेव विचक्षणत्वप्रतिपादनम् नाथलक्षणम् अन्यमतवादिनां परस्परक्लेशननिरूपणम् शाकरीमुद्राप्रशंसा वेदाना तन्मूलकशास्त्राणा च प्रवृत्ति निमित्तकत्वमेवेति निर्धारणम् योगभोगयोः योगस्य श्रेष्ठत्वं भोगस्य चावरत्वप्रतिपादनम् कर्माधुपासनस्य योगसाधनत्वनिरासः ज्ञानस्यापि योगसाधनत्वनिरास: द्वैताद्वैतयो प्रकृतिविस्तरत्वाद्वयर्थता द्वैताद्वैतरहितत्वाद्योगिनो निश्चलत्वम्, शङ्कराचार्यस्याद्वैतपराजयदृष्टान्तः सिद्धान्तशब्दनिरुक्तिः नाथानुगमेऽपि कापालिकस्य भिन्नत्वम् शैवशाक्तयोस्तन्त्रानुसारिता नाथस्य च तत्प्रवर्तकत्वम् अवधूतस्य सर्वश्रेष्ठत्वम्, सम्प्रदायेषुत्तरोत्तरवरीयता कापालिकोत्पत्तिकारणं तस्यापि योगे पर्यवसाननिरूपणम् मोक्षारक्षक-व्यवहारक्षकत्वेन शास्त्राणां वैविध्यम् नाथस्यैव कर्तृत्वम् ११ १२ १२ १२ १५ -~ १७ [ ध ] पृष्ठे १८-२३ २३-२४ २५ २६ २६ २६-३० ३२ ३३-३५ विषयः योगिना तन्मतस्य च श्रेष्ठत्वम् श्रुत्याश्रयणस्य विवेचनम् प्रणवाश्रये कृते वेदाश्रयणस्य नावश्यकतेत्यत्रोत्तरचतुष्टयम् नाथमार्गादेव जीवस्य बन्धविमुक्तिः योगस्य प्रयोजनम् ज्ञानिनो मरणोत्तरगतिनिरूपणम् महासाका पण्डस्य मूर्त्यष्टकम् सर्वदर्शनाना स्वरूपदर्शने समन्वयः खेचरीमुद्रास्वरूपम् आरम्भावस्था घटावस्था परिचयावस्था निष्ठावस्था च नादानुसन्धानेन राजयोगप्राप्ति नाथसिद्धान्तस्य महत्त्व तत्स्वरूपञ्च गोरक्षपर्यन्त नाथपरम्परा अजपाप्रशंसा, महाभूतधारणाप्रकारश्च गोरक्षशब्दनिरुक्तिः स्तवनं च गोरक्षमन्त्रं विना न कर्मसिद्धिः चत्वारो युगनाथाश्चतुर्विधा मुक्तिश्च शिवद्रोहिणा विष्णुभक्तिराहित्य दुर्गतिश्च नवनाथाना वासभूमयः रासायनी महाविद्यासिद्धिप्रकार प्रणवमहिमा परमधर्मनिर्णयश्च शिवस्य श्रेष्ठत्वम् रुद्राक्षमहिमा ललितामहिमा च ब्रह्मतन्तुधारणम् शास्त्राभ्यासापेक्षया योगाभ्यासस्यौचित्यप्रतिपादनम् नाथानायवर्णनम्, सिद्धसिद्धान्तनिरूपणं च नाथादिपञ्चकस्तवनम् वैद्यवधूदृष्टान्तेनेतरशास्त्रनिन्दनं योगप्रशसा च गुरुशिष्यलक्षणमवधूतशिष्यस्य भेष्ठत्वं च शिष्यस्य द्वात्रिंशल्लक्षणानि ३९ ३९-४० ४०-४१ ४१-४२ ४३ ४८ ५. ५१ ५२ [ न ] गुरोश्चत्वारि लक्षणान्यधिकानि ॐकारमहिमा. योगसप्रदाये पुत्रापेक्षया शिष्यवैशिष्टयम् वर्ण-आश्रम-पदार्थ तत्त्व-रस-देवादीना योगोक्तोऽनुक्रम भर्तृहरि-नागेशयोरन्योन्यं शापप्रदानम् सिद्धानामाचारविधिः योगेन प्रारब्धखडन आचारापेक्षया विचारस्य प्राधान्यं च गुरुवचन न लोपनीयमिति विवेचनम् स्मार्तादीनां मिथ्याधर्मत्वम् महासिंद्धमतेन द्वैताद्वैतनिरसन सिद्धाना लौकिकत्वेऽपि न दोष इति विवेचन च अवधूताना त्यागभोगोभयशक्तिमत्तानिरूपणम् षट्पदार्थनिरूपण देवाना भगवत्तानिरासः नाथस्य तद्योग्यत्वनिरूपण च निर्गुणसगुणादीनां स्थाननिरास नाथस्य सर्वोपरिवत्तिता नाथाद् विप्रकारकसृष्टे प्रवर्तनम् मङ्गलश्लोकव्याख्यानम् नाथम श्रुति साधिका न वेति विचार. सांप्रदायिकग्रन्थानुपयोगित्वम् परमहंसधर्म प्राशस्त्यम् योगस्यात्मधर्मस्वनिरूपणम् ५४ ५५ ५६ ५७-५९ ५९ ५९-६१ ६२ ६२-६५ ॥ॐ श्रीगणेशाय नमः॥ ॥ ॐ भगवते आदिनाथाय नमः ।। ॥ श्रीगोरक्षनाथो विजयतेतराम् ॥ ॥ गोरक्षसिद्धान्तसङ्ग्रहः ॥ ॥ निर्गुणं वामभागे च सव्यभागेऽद्भुता निजा ।। मध्यभागे स्वयं पूर्णस्तस्मै नाथाय ते नमः॥ १॥ मुक्ता लुण्ठति पादाने नखाने जीवजातयः ।। मुक्तामुक्तगतेमुक्तः सर्वत्र रमते स्थिरः ॥२॥ वामभागे स्थितः शम्भुः सव्ये विष्णुस्तथैव च ॥ मध्ये नाथः परं ज्योतिस्तज्ज्योतिर्मे तमोहरम् ॥ ३॥ अस्मिन्मार्गे सर्वश्रेयोमूलभूतो गुरुरेव, स चावधूत एव नान्यः, स कोऽवधूत इत्यपेक्षायामाह- वचने वचने वेदास्तीर्थानि च पदे पदे । दृष्टौ दृष्टौ च कैवल्यं सोऽवधूतः श्रियेऽस्तु नः ।। एकहस्ते धृतस्त्यागो भोगश्चैककरे स्वयम् । अलिप्तस्त्यागभोगाभ्यां सोऽवधूतः श्रियेऽस्तु नः॥ सिद्धसिद्धान्तपद्धतौ- यः सर्वान् प्रकृतिविकारान् अवधुनोतीत्यवधूतः। (सि० ६।१) प्रसरं भासयेच्छक्तिः सङ्कोचं भासयेच्छिवः । तयोर्योगस्य कर्ता यः स भवेत्सिद्धयोगिराट् ।। इति ॥ (सि० ६।६३) अवधूतगीतायाम्- आब्रह्मस्तम्बपर्यन्तं सम्पूर्ण परमात्मनि। भिन्नाभिन्नं न पश्यामि तस्याऽहं पश्चमाश्रमी ।। इति ॥ सूतसहितायामू- अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम् । न कस्यापि भवेच्छिष्यो यथाऽहं पुरुषोत्तमः॥ (सू० सं० मुक्ति खं० ५।१४) २ गोरक्षसिद्धान्तसङ्ग्रहः, 'यथाऽहं पुरुषोत्तमः' इति विष्णुं प्रति शिववचनम् । अतिवर्णाश्रमी साक्षाद् गुरूणां गुरुरुच्यते । तत्समो नाधिकश्चास्मिल्लोकेऽस्त्येव न संशयः ॥ इति ॥ (सू० सं० मु० खं० ५।१५) ब्रह्म बिन्दूपनिषदि- पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा। स्वरेण 'साधयेद्योगमस्वरं भावयेत्परम् ।। अस्वरेण हि भावेन भावो नाऽभाव इष्यते । तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म,सम्पद्यते ध्रुवम् ।। (२१६-८, ई० अ० पृ० १२७) तत्राऽऽशङ्कते-पक्षपातः क इति? देहाभिमान एव सः। सोऽपि क इति ? अहं ब्राह्मणोऽहं आंत्रयोऽहं वैश्योऽहं शूद्रोऽहं पुनरन्त्यजोऽहं ब्रह्मचार्यहं गृहस्थोऽहं वानप्रस्थोऽहं संन्यास्यहमुत्तमोऽहं मध्यमोऽहमधम इत्यादि सङ्कल्प एव सः। तं सङ्कल्पं विहाय सर्वब्यापकं परमनाथ याथातथ्येन पश्यत्यथ मुक्तो भवति तादृश एव स्यादिति । तथा च वर्णाश्रमादिव्यवहारमतीत्य नाथं साक्षात्कुर्वतो मुक्तिरिति । यदि कोऽपि वदेद्वर्णाश्रमाचारव्यवहारं त्यक्तवतः परमयोगिनो मुक्तिर्भवतु नाम, वर्णाश्रमाचारवतः सा कथं न भवेत् ? "कर्मणैव हि ससिद्धिमास्थिता जन- कादयः” इत्यादीनि कानिचिच्छास्त्रवाक्यान्यवलम्ब्य वदन्ति चामुको गृहस्थो मुक्तो मुक्तश्चामुको भिक्षुरिति ? तत्रोच्यते-गुणानतीत्यैव मुक्तो भवति' न तु गुणाभि- मानीति सर्वसम्मतः सिद्धान्तो भवत्येव । वर्णव्यवहारे तु न सम्भवति गुणाती- तत्वम् । कथम् ? वर्णमात्रस्यापि गुणनिर्मितत्वादिति । उक्तश्च गीतायाम्- चातुर्वर्ण्य मया सृष्ट गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ।। (गी ४।१३) तथा च कथं गुणसत्त्वे मुक्तिरिति ? तत्र वादी वदति--वर्णाभिमानिनः किं न त्यजन्ति गुणानिति ? सत्यम् ; यदि गुणांस्त्यजेयुस्तहिं कथं वर्णसद्भावः ? गुण- मूलकत्वादेव वर्णत्वस्य । तथा चामित्वं स्यात् ? तदा वादी वदति-भवद्भिस्त्वा- श्रमिणोऽपि गुणातीतत्वाभावान्मुक्तिर्नेत्युच्यते । सा च भवद्वचनक्रमेण त्वायास्यति । तत्र किमुत्तरमिति ? उच्यते; नैवमाश्रमिणा मुक्तिरायाता । कथम् ? आश्रमाणामपि गुणलेशत्वात् । प्रथमतो वर्णव्यवहारेण गुणभजनम् । गुणवृत्तिषु च सत्त्वगुणवृत्तय १. सन्धयेत्-मु० पा० । २. भवेत्.-पा०. ३. गुणमूलकत्वात्-पू० सं० ? ? ?
गोरक्षसिद्धान्तसङ्ग्रहः ३ , उत्तमा, रजस्तमोवृत्तयस्ततो निकृष्टा, इति कृत्वा गुणेष्वप्युत्तमादित्वं स्यात्, परन्तु गुणवृत्तित्व तु सर्वसाधारणमतो नास्ति गुणवृत्तीनां मुक्तिसाधकत्वम् । तत्र दृष्टान्त यथा द्वे स्त्रियौ रूपवत्यौ भवतस्तयोयोरपि संयोगे न भवेद्गर्भोत्पत्तिः १ किन्तु तद्धर्मभिन्नत्वेन पुरुषेणैव सा भवेत् , किश्च सौन्दर्यतारतम्येनैकस्या अपरा अधिका न्यूना वा भवतु नाम, परन्तु भोक्ता तु तयोर्द्वयोरपि पुरुष एव, नास्ति तयोरन्योन्यं भोक्तभोग्यत्वम् । तथा नास्ति वर्णानां साक्षान्मुक्तिविषयेऽन्योयं गुरुशिष्यत्वम् । किश्वाश्रमिणोऽपि प्रथमतो वर्णाभिमानेन गुणभाज एवेति चोत्तरत्रापि प्रारब्धम- भिमत्य भोगभाजो भवन्ति । तेन च प्रारब्धकर्मणां भोगोऽवश्य इति कृत्वा कर्मणां सत्यत्वं तावद् दर्शयति-यतो गुणलेश एतेषामपि न निवृत्तो यतो मुक्तत्वपुरुषार्थ- विहीनास्तेऽपि नपुसकप्रायाः सन्तो न मुक्तिस्त्रियमर्हन्ति । यद्यपि नपुंसकाः पुरुषवेषिणो वर्तन्ते, तथापि पुरुषत्वेन सन्ततिसम्पादका न भवन्ति, एवं वेषमात्रेणाश्रमिणोऽपि सम्मानपूजाद्यहन्तु नाम गुरुत्वम् । अतो गुणातीतत्वेनात्याश्रमिण एव मुक्तिप्रदगुरुत्वं नान्यस्य कस्यापीति बहुधा शास्त्रे निरूपितम् । कैवल्योपनिषदि- विविक्तदेशे सुखमासनस्थः शुचिः समग्रीवशिरः शरीरः । अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।। (कै० उ० ११५, ई० अ० पृ० १२८) तेजोबिन्दूपनिषदि- लोभं मोहं भयं दपे कामं क्रोधं च किल्विषम् । शीतोष्णे क्षुत्पिपासे' च सङ्कल्पं सविकल्पकम् ॥ न ब्रह्मकुलपर्व'च न मुक्तं' ग्रन्थसञ्चयम् । न भयं सुखदु:खं च तथा मानापमानयोः॥ एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ।। इति ॥ ( ते० उ० १२-१४; ई० अ० पृ० २२३) अमनस्के- कुलाचारविहोनस्तु गुरुरेको हि दुर्लभः । (अम० २।१७) इति वर्णाश्रमित्वमुक्तम् । नास्ति वर्णाश्रमाचारे सर्वारम्भपरित्याग इति । पुनः एवं चावधूत एव सन्मार्गदर्शनशीलो भवति । स एव गुरुर्मुमुक्षुभिः कर्तव्यः। - - - १. मुक्तिश्रियम्,-पू० सं०। ३. दप-मु० पा०। २. शीतोष्णं क्षुत्पिपासं च-मु०पा० । ४. मुक्तिप्रन्थि-मु० पा०॥
गोरक्षसिद्धान्तसङ्ग्रह. 4 - सिद्धसिद्धान्तपद्धतौ- फलितानेकपुण्यानां ममुक्षणां हितावहम् । साधनं साधनश्रेष्ठमाह योगमतः परम् ॥ सन्मार्गश्च योगमार्गस्तदितरस्तु पाखण्डमार्गस्तदुक्तमादिनाथेन- योगमार्गेषु निष्णाता दीक्षिता ये तु दूषकाः। ते हि पाखण्डिनः प्रोक्तास्तथा तैः सह वासिनः ॥ योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ । शास्त्रग्रन्थेषु सर्वेषु शिवेन कथितं पुरा । विवेकमार्तण्हे- योगशास्त्रं पठेन्नित्यं किमन्यः शास्त्रविस्तरैः। यत्स्वयं चादिनाथस्य निर्गतं वदनाम्बुजात् ।। खेचरीसहितायाम्। उत्सृज्य सर्वशास्त्राणि जपहोमादि कर्म च । धर्माधर्मविनिर्मुक्तो योगी योग समभ्यसेत् ॥ वर्णाश्रमाभिमानेन वर्तते श्रतिकिङ्करः । अभिमानविहीनस्तु वर्तते श्रुतिमूर्द्धनि । न वेदो वेद इत्याहुर्वेदावेदो निगद्यते । परात्मा विद्यते येन स वेदो वेद उच्यते ।। वर्णधर्म च सन्ध्या विहिता, तत्प्रतिरूपकमाह- न सन्ध्या सन्धिरित्याहुः सन्ध्या सन्धिर्निगद्यते। सुषुम्णासन्धिग प्राणः सा सन्ध्या सन्धिरुच्यते ।। ध्यानबिन्दूपनिषदि- यदि शैलसमं पाप विस्तीर्ण योजनान्बहून् । भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ।। (१, ई० अ० पृ० २४५) विवेकमार्तण्ड- द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजत सत्तमाः॥ (वि०६१) १. त्तांच-पा०। ३. मुद्रितेषु नोपलभ्यते । २. शास्त्रेष्वन्येषु-मु० पा० । ४. नास्ति-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रह ५ - - - मुण्डकोपनिषद्यङ्गिरसं प्रति शौनकवचनं प्रश्नरूपम्- "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ? इति । तस्मै स होवाच- द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च । तत्रापरा- ऋग्वेदो यजुर्वेद, सामवेदो 'ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष- मितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीति परा यया तदक्षरमधिगम्यत इति ।” (१३-५, ई० अ० पृ० १४) यदक्षरं यया प्राप्यत इत्युक्तं सा योगविद्येव । कथम् ? श्रुतिस्मृतिपुराणादि- सर्वविद्यानामपरविद्यायामेवोक्तत्वाद्योगविद्यायाश्चानुक्तत्वात् पृथक्त्वमर्थात् सिद्धम् । तदुक्तमात्मोपनिषदि- "अथ परमात्मा नाम यथाक्षरमुपासनीय । स च प्राणायामप्रत्याहार- धारणाध्यानसमाधियोगानुमानाध्यात्मचिन्तकवटकणिका वा श्यामाकतन्दुलो वा बालाप्रशतसाहस्र कल्पनादिभिः स लभ्यते, नोपलभ्यते, न जायते, न म्रियते, न शुष्यते, न दह्यते, न कम्पते, निर्गुणः, साक्षीभूतः शुद्धो निरवयवात्मा केवल सूक्ष्मो निष्कलो 'निरज्जनो 'निरभिमानः शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निरा- काङ्कः सर्वव्यापी सोऽचिन्त्योऽवर्ण्यश्च, पुनात्यशुद्धान्यपूतानि । निष्क्रियस्तस्य संस्कारो नास्ति ( संस्कारो नास्तीत्येष परमात्मेति)६।” (१, ई० अ० पृ० ४५१) सा चामृतबिन्दूपनिषदि स्पष्टमाह- शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः। परम ब्रह्मविद्याया उक्त्वा नान्यमथोत्सृजेत् ।। ॐकारं रथमारुह्य विष्णुं कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः॥ यावद्रथेन गन्तव्यं तावद्रथपथि स्थितः। स्थित्वा रथं यथास्थानं रथमुत्सृज्य गच्छति ।। मात्रालिङ्गपद त्यक्त्वा शब्दव्यञ्जनवर्जितम् । अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ।। शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् । चिन्तयेदात्मनो रश्मीन् प्रत्याहारः स उच्यते ।। प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा। तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ इत्यादि यावत्समाप्ति । १. अथर्ववेदः-मु० पा० । २. यथाक्षर-मु० पा०॥ ३. विकल्पनाभिः-मु० पा० । ४. निर्ममो-मु० पा० । ५. निर्विकारः-मु० पा०। ६. () मास्ति-मुः। - ६ गोरक्षसिद्धान्तसङ्ग्रहः - मनुस्मृतौ- क्षरन्ति सर्वा वैदिक्यो जुहोति-यजति-क्रियाः । अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ (म० २।८४) उत्तरगीतायाम्- यथाऽमृतेन तृप्तस्य पयसा कि प्रयोजनम् । एवं तत्त्वपदे प्राप्ते वेदे नास्ति प्रयोजनम् ।। (११२२) पुराणं भारतं वेदा धर्मशास्त्राण्यनेकशः। पुत्रदारादिसंसारो योगमार्गस्य विघ्नकृत् ॥ (३२) मुहूर्तमपि योगस्थो नासाने मनसा अपि । सर्व तरति पापं च तस्य जन्मशतोद्भवम् ॥ (२०१०) अश्वमेधसहस्राणि वाजपेयशतानि च। एकस्य ध्यानयोगस्य कलां नाहन्ति षोडशीम् ।। वायुपुराणे- ऋचो यजूंषि सामानि वेदोपनिषदस्तथा । योगज्ञानादवाप्नोति ब्राह्मणोऽध्यात्मचिन्तकः ।। मार्कण्डेय पुराणे- एतत्ते कथितं ज्ञानं योगं चेम निबोध मे। यं प्राप्य ब्राह्मणो योगी शाश्वतान्नान्यतां ब्रजेत् ।। एवं बहुधा शास्त्रेषु योगस्य प्रशंसा विदितैव, तस्या दिङमात्रमिद दर्शितम् । तस्य योगस्य लक्षणं तु विवेकमार्तण्ड उक्तम्- योगं चात्र प्रवक्ष्यामि योगं चाष्टाङ्गसंयुतम् । संयोगं योगमित्याहुः क्षेत्रज्ञपरमात्मनोः॥ एतस्यैव योगस्य मन्त्रयोगादीन्यङ्गानीति ज्ञेयम् । सन्मार्गत्वेन योगस्तु सेव्यो हित्वाऽन्यसाधनम् । मुमुक्षुभिर्यतस्तेषां पदप्राप्तिः परा पदप्राप्तिः परा भवेत् ।। योगिनो वीतसङ्कल्पा निर्द्वन्द्वा पुण्यदर्शनाः । योगरत्नकरण्डास्ते जयन्त्यविधिगोचराः ॥ तद्वतामेव परमपदप्राप्तिरिति तेषां स्वरूपं प्रशंसां चाह कैवल्योपनिषदि- विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरः शरीरः। अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।। १. घृतेन-मु० पा। २. ब्रह्मणो-मु. पा. ३. मान्यता-पू० सं०। - गोरक्षसिद्धान्तसङ्ग्रहः हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् । ,अनन्तमव्यक्तमचिन्त्यरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ तमादिमध्यान्तविहीनमेकं २विभुं चिदानन्दमरूपमद्भुतम् । उमासहायं परमेश्वरं विभु त्रिलोचन नीलकण्ठं प्रशान्तम् ।। ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षि तमसः परस्तात् । स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः सः प्राणः स आत्मा परमेश्वरः ।। स एव सर्व यद्भूतं यच्च भाव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ।। (कै० ११५-९, ई० अ० पृ. १२८) गीतायां च- तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्वाधिको योगी तस्माद्योगी भवार्जुन ॥ (गी० ६।४६) महार्णवे- योगी ब्रह्मा योगिनो विष्णुरूपं योगी देवो देवदेवो महेशः । योगी मोक्षः पूर्णतत्त्वस्वरूपो योगी ध्यानं सृष्टिकर्ता च हर्ता । इत्यादि वचनं सन्दर्भेण योगिनामेव परमश्रेयः । तेषां मुख्यचिह्न किमित्यपेक्षायां मुद्रा-नाद-विभूति-आदेशधारणं मुख्यमिति तत्प्रशंसामाह मिद्धसिद्धान्तपद्धतौ- मुदमोदे तु रादाने जीवात्मपरमात्मनोः । उभयोरैक्यसंभूति मुद्रेति परिकीर्तिता ।। मोदन्ते देवसङ्घाश्च द्रवन्ते सुरराशयः । मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥ (सि० ६।३०-३१) तद्धारणं कर्णयोर्विना क्षुरिकां न सम्भवतीति क्षुरिकाप्रशंसामाह क्षुरिकोपनिषदि- क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये । सम्प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ इत्यादि । (क्षु० १ ई० अ० पृ० २१२) वृहदारण्ये-अथात आदेशो नेति नेतीति । छान्दोग्ये च-उत तमादेशमित्यादि। १. अचिन्त्य-मु० पा०। २. कवि-मु० । ३. प्रभु-मु० पा०। ४. अमुष्य-पू० सं०। ५. सवित्ति -मु० पा० । ६. यां प्राप्य-मु० पा०। .
गोरक्षसिद्धान्तसङ्ग्रह - - तेषामन्योऽन्यमन्यत्रापि च यो वाग्व्यवहारस्तमाह- [सिद्धसिद्धान्तपद्धतौ- आत्मेति परमात्मेति जीवात्मेति विचारणे । त्रयाणामैक्यसम्भूतिरादेश इति कीर्तितः ।। आदेश इति सद्वाणी सर्वद्वन्द्वक्षयावहाम् । यो योगिनं प्रतिवदेत्सवेत्त्यात्मानमीश्वरम् ।। इति । (सि० ६९४-९५) नाधारणमाह गोरक्षोपनिषदि-अनाहतशृङ्गीति । ] तेषां भस्मोद्धूलनमपि तत्रिपुण्ड्रमपि च तैर्धार्यमिति तद्धारणप्रकारप्रशंसे प्राह कालामिरुद्रोपनिषदि- "कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवंत्रिपुण्ड्रं सविधि सतत्त्वं किं द्रव्यमित्यादि प्रश्ने तं होवाच भगवान्-यद्रव्यं तदाग्नेयं भस्मसद्यदिदं ब्राह्मणैः परिगृह्य “अग्निरिति भस्म' इत्यभिमन्व्य" इत्यादि "प्रकुर्वीत व्रतमेव तच्छा- म्भवं समाचरेन्मुमुक्षुर्न भवाय यथा सनत्कुमार" इत्यन्तं “समस्तपातकोपपातकेभ्यः पूतो भवति, तेन सर्वे देवा ध्याता भवन्ति, स सर्वैर्देवैख़तो भवति, स सर्वतीर्थेषु स्नातो भवति, देहं त्यक्त्वा शिवसायुज्यतामेति, न स पुनरावर्त्तते, न स पुनरावर्त्तते, इत्याह कालाग्निरुद्र इति ।"२ (का. १, ई० अ० पृ० २००) तेषामनियत एव व्यवहार इत्याह सिद्धसिद्धान्तपद्धतौ- कचिद्भोगी कचित्त्यागी कचिन्नग्नः पिशाचवत् । कचिद्राजा कचाचारी सोऽवधूतो विधीयते ॥ (सि० ६।२०) एवं सर्वमयः सर्वेभ्यो विलक्षणः पृथगिति बहुधा सिद्धसिद्धान्तपद्धत्यादि- योगग्रन्थेषु प्रपश्चितम् । तद्विशेषं जिज्ञासुभिर्द्रष्टव्यं विस्तरभयानात्र लिख्यते । एवञ्च सर्वसाधनशिरोमणियोगमूर्तिभूता अवधूता एव परमपुरुषार्थविचक्षणा सर्वशिरो- मणयो जयन्ति । सन्मार्गसाधका वर्णाश्रमाचारानपेक्षकाः । योगिनो अवधूता ये ते संक्षेपान्निरूपिताः ॥ परम. पुरुषार्थस्तु मुक्तिरुक्ता ह्यतस्तु सा । निरूप्यतेऽवधूतानां योगसाधनजं फलम् ।। परमपुरुषार्थस्तु मुक्तिरित्युक्तम् । सा च नाथस्वरूपेणावस्थानम् । तत्स्वरूपं तु गोरक्षोपनिषदि-"अद्वैतोपरि सदानन्ददेवता।" १.[] अयमंशो नास्ति पूर्व संस्करणे। २. मध्ये मध्ये विच्छिद्य गृहीतः पाठः, द्र०-ई० प्र० पृ० २०० । - गोरक्षसिद्धान्तसग्रहः है - ब्रह्मोपनिषदि- "स्वयममनस्कमश्रोत्रपाणिपाद ज्योतिर्विदितं तत्र लोका न लोकाः, वेदा न वेदाः, देवा न देवाः, यज्ञा न यज्ञाः, माता न माता, पिता न पिता, स्नुषा न स्नुषा, चाण्डालो न चाण्डालः, पौष्कसो न पौष्कसः, श्रमणो न श्रमणः, पशवो न पशवः, तापसो न तापस इत्येकमेव परमिति ।" (ई. अ. पृ. १५१) ब्रह्मविन्दौ च-"नैव चिन्त्यं न चाचिन्त्यमचिन्त्यं चिन्त्यमेव च ।" इत्यादि । (२।६ ई अ. पृ. १२७) सर्वोपनिषत्सारे- "कथं बन्धः कथं मोक्षः" इत्यादिप्रश्ने "अनात्मनो देहादीनात्मत्वेनाभिम- न्यते सोऽभिमानः, आत्मनो बन्धस्तन्निवृत्तिर्मोक्षः" (१११; ई. अ. पृ २१५) इत्यनेन स्वरूपेणावस्थानमिति सिद्धम् । अमनस्के- भावाभावविनिर्मुक्तं नाशोत्पत्तिविवर्जितम् । सर्वसङ्कल्पनातीतं परं ब्रह्म तदुच्यते ।। (अम० १।१२) अवधूतगीताया च-- अद्वैत केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे। समं तत्त्वं न विन्दन्ति द्वैताद्वैतविलक्षण ॥ (१।३६) यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः। अहो माया महामोहो द्वैताद्वैतविकल्पना ।। ( १।६१) श्रीनित्यनाथकृतसिद्धसिद्धान्तपद्धतौ- न ब्रह्मा विष्णुरुद्रौ न सुरपतिसुरा नैव पृथ्वी न चापो नैवाग्निर्नापि वायुनं च गगनतलं नो दिशो नैव कालः । (१२) नो वेदा नैव यज्ञा न च रविशशिनौ नो विधि व कल्पाः। स्वं ज्योतिः सत्यमेकं जयति तव पदं सच्चिदानन्दमूर्ते ॥ (१३) सा मूर्तिः का वा ? तथाह श्रीनित्यनाथकृतसिद्धसिद्धान्तपद्धतौ- आदिनाथं महासिद्धं शक्तियुक्तं जगद्गुरुम् । तं वन्दे नित्यतो वक्ष्ये सिद्धान्त स्वानुभावतः ।। पुनरत्रैव प्रवृत्तौ आदिदेवमेतत्पदेनावस्थानं मुक्तिरिति । नाथस्य लक्षणं तु राजगुह्ये- नाकारो नादरूपं च थकार. स्थाप्यते सदा। भुवनत्रयमेवैकः श्रीगोरक्ष नमोऽस्तु ते॥ १. परब्रह्म-पू० स०; पर तत्व-मूलमातृकायां । २. विवर्जितम्-मु० पा० । - - २ गोरक्षसिद्धान्तसङ्ग्रहः -- शक्तिसङ्गमतन्त्रे- श्रीमोक्षदानदक्षत्वान्नाथ [द] ब्रह्मानुबोधनात् । स्थगिताज्ञानविभवाच्छ्रीनाथ इति गीयते ॥ इत्यादीनि वाक्यानि' प्रमाणानि । तस्य निदर्शनं शास्त्राणि सूर्यस्य दीपा 5व कथं करिष्यन्ति । तत्तु पदं तादृग्योगिनामेवापरोक्षमिति सिद्धान्तः। अन्ये तु मतवा- दिनस्तत्पदमनालम्बमाना स्वाभिप्रायानुसारि तत्पदं विधाय विवादभाराकान्तमतयः क्लिश्यन्ति न तु शाम्यन्तीत्याह सिद्धसिद्धान्तपद्धतौ- वेदान्ती बहुतर्ककर्कशमतिम्रस्तः परं मायया । भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः । अन्ये भेदरता विवादविकलास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमतं स्वभावसमय धीरः परं संश्रयेत् ॥ (सि०६।७३) अस्यार्थः-वेदान्तो वेदोत्तरभागशास्त्रवादी अद्वेतवस्तुन्यध्यारोपापवादाभ्यां दैतकल्पनां कुर्वन् बहुभिस्तकः कर्कशा कठोरा मतिर्यस्य सोऽत एव परं केवलं ग्रस्तो यतो निर्मायिक वस्तु वदन् मायादूषणं च तत्र ददाति । पुनः भाट्टाः मीमांसका अनीश्वरवादमारोपयन्तः कर्मफलेष्वेवाकुलिताः सन्तो गतधियो भवन्ति । तथा द्वैतेन द्वैतवादेन वैशेषिका अपि गतधिय एव । तदन्येऽपि ये भेदवादरतास्तेऽपि विवादविक्ला एव भवन्ति । यत एते तत्त्वतो वञ्चिता भवन्ति न तु तत्त्वमालम्बन्ते इत्यर्थः। तस्मान्महासिद्धानां स्वाभाविकं सहजावस्थामयं मतं धोरः पुमान् संश्रयेत् । तदेव श्रेयस्करमिति मान्यम् । साङ्ख्या वैष्णववैदिका विधिपराः संन्यासिनस्तापसाः सौराश्चीरपराः२ प्रपश्चनिरता बौद्धा जिनाः श्रावकाः। एते कष्टरता वृथापथगतास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमत स्वभावसमयं धीरः परं संश्रयेत् ॥ (सि० ६७४) अस्यार्थः-साङ्ख्याः प्रकृतिकारणवादिनः कपिलमतानुयायिन इति यावत् , वैष्णवाः पाश्चरात्राः, वैदिका वेदानुवर्तिनस्ते च विधिपरा वाक्यकोविदा इत्यर्थः । स्पष्टमन्यत् । आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः नानातीर्थनिषेवका जिनपरा मौने स्थिता नित्यशः। एते ते खलु दुःखभारनिरतास्ते तत्त्वतो वञ्चिताः तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत् ॥ (सि०६७५) १. पुराणवाक्यानि-भू० स० । २. वीरवरा-मु. पा.।
गोरक्षसिद्धान्तसङ्ग्रहः ११ अस्यार्थः-आचार्या मन्त्रव्याख्यातारो बहुदीक्षिता अग्निहोत्रादिकर्तारः, त एवाहुतिपरा न तु तत्त्वपरा', अजिनपरा वल्कलवाससस्ते तीर्थनिषेवका यद्वा जप- पराः, शेषं स्पष्टम् । इत्यादि । हठप्रदीपिकार्या च- केचिदागमजालेन केचिनिगमसंकुलाः । केचित्तण मुह्यन्ति नैव जानन्ति शाङ्करीम् ॥ (४।४०) अस्यार्थः--केचिद्वैखानसाद्यागमोक्ततत्त्वभ्रमास्तत्र तत्त्वाभिमानिनो देहा- स्मवादिनचार्वाकसधर्माणस्ते मनुष्यास्तप्तचक्राद्यङ्किता जीवन्तोऽपि मृतकमिव शरीरं सत्कर्मानहं कुर्वाणा देवनिन्दका इति । केचिच्च ऋग्यजुरादिवेदासक्ताः कर्मज्ञानरताः कर्मणैवायुः पूर्ण कुर्वन्ति, अथ च तत्त्ववञ्चिताः साधनेऽशक्तास्ते हि कातर्येण प्रारब्ध- शरणा भूत्वा शरीरसुखार्थमहं ब्रह्मेति वदन्तस्तिष्ठन्ति, तदेवात्मानं चेद्विजानीया- दित्यादावुक्तम् । एवं निगमसङ्घला इति । केचिच्चातक्यैश्वर्ये परमपदे वस्तुनि शुष्कतर्कानाश्रित्य पण्डितम्मन्या भवन्तीति कृत्वा शाङ्करी न जानन्तीति । सा शाङ्करी स्तूयते हठप्रदीपिकायाम् - वेदशास्त्रपुराणानि सामान्यगणिका इव । मा पुनः शाङ्करी मुद्रा प्राप्ता कुलवधूरिव ॥ ऋग्यजुरादयो वेदा धर्मार्थकाममोक्षोपदेष्टारो 'ब्रह्मचर्यगृहस्थवानप्रस्थभिक्षु- काश्रमोपदेष्टारश्च भवन्ति । ते च मुख्ये वस्तुनि गौणत्वमापादयन्त्यमुख्ये च मुख्यत्व- मतो यत्र तादृशा अधिकारिणो बहवो लमास्ते चोत्तमपुरुषैरसेवनीया द्रव्यस्पृहः प्रवृत्तावेवासक्ता भवन्ति । शास्त्राणि च वैशेषिकादीनि । तैर्धममूलकैः कदापि विश्रान्ति स्ति । पुराणानि च नरानात्मसाधनेष्वशक्तत्वं प्राय आपादयन्ति । यतो बालकानामिव रुचिरतरासु कथासु लोकानां चित्तवृत्तिं गमयन्ति । तेऽपि सर्वे सामान्यगणिका इव भवन्ति । तद्यथा-गणिकागृहे शृङ्गारप्रधाना एव वार्ता मुख्याः स्युरैश्वरी वार्ता तु गौणी, ताश्च गणिका बह्वथो बहूनां धूर्तानां लम्पटानामुपरि सत्यवादिनामकामिनां प्रियेश्वरकथानामुपरि नासक्तिं कुर्वन्ति, इति । किञ्च इह खलु संसारे योगो भोगश्च द्वौ पदार्थो स्तः । एतवयं विना किमपि न स्यात् , सर्वस्याप्येतयोरन्तर्भूतत्वादिति । तयोर्मध्ये योगे लग्ना महासिद्धाः, भोगे तु सर्वे संसारिणः । योगस्य फलं मुक्तिर्भोगस्य तु बन्ध इति । यद्यपि भोगाद्वन्ध- स्तथापि नानाविलासैविषयानन्दं विलुण्ठयति। यदि दुःखमपि भवेत्तर्हि भवतु १ “सडकुलै.-मु० पा० । २ तारक-मु० पा०, ३. नास्ति-पू० स०। ४. ब्रह्मचारि-पू० स०। ५. श्रममू०पू० सं०। चासत्ता भवन्त्यः .
गोरक्षसिद्धान्तसङ्ग्रहः - , नामेति । योगिनां तु पुनः प्रथमतः किञ्चिच्छ्रमो भवेत् "क्लेशोऽधिकतरस्तेषाम- व्यक्तासक्तचेतसाम्' इत्याधुक्तत्वादिति, पश्चात्तु महानानन्द । तत्र बहवः कथयन्ति- किश्चिदिति कथ; योगे तु क्लेशोऽधिकतर इत्युक्तम् । तदुपरि मया तु कथ्यते- भो पुरुषा. ! गुरुहीनानां तेषा कष्ट भवेत् ; यदा तादृशः पूर्वोक्तः पूर्णो गुरुर्लभ्येत तदा महदपि कष्टं स्वल्प भवेत् । तत्र दृष्टान्तः यथा महाभारयुक्ता या शिला भवेत् तस्या उत्थापने सहस्राणामपि पुरुषाणां कष्टं भवेत् , सा च बुद्धिमता पुरुषेण कृत- काष्ठादियत्नेनाप्रयासेनैवोत्थाप्यते, तथा गुरुमय्या कुश्चिकया स्वल्पेनापि कष्टेन सहजसिद्धिर्भवति, यदि च महत्कष्टमपि भवेत् तदा कष्टोत्तरे त महानानन्दो भव- त्येव, यस्त्वखण्डैकनाथरूपो भवति । ब्रह्मविष्ण्वाद्यधीश्वरो भवति । नानारूपो भवति । ब्रह्मादयः सर्व तस्य पूजां कुर्वन्ति, योगारूढ़ो नानाभोगान् भुनक्ति, न तु तैर्लिप्यते, योगं विना भोगी रोग्येव स्यात् , भोग्यपि योगी संसारीव दृश्यते, न तु संसारीव बन्धन प्राप्नोति । ननु केचिच्छास्त्रिणः कर्माद्युपासनं साधनं कथयन्ति, तदा मया कथ्यते- तेषां कथनं मया न निवार्यते, तदेव कुवन्त नाम, परन्तु तत्करणे फलं किमिति । कथं कर्मणामवधिर्मीमांसकास्ते तु पठनपाठनोत्तरं पठनपाठनदोषनिवृत्त्यर्थमिष्ट- स्मरणं कुर्वन्ति । यस्य शास्त्रस्य पठने पाठने चापि दोषस्तस्य सेवनेन किं भविष्यति इति । पुनः य स्वामिनं भजेत् स स्वतन्त्रो भवेत् , यश्च प्रसन्नः स्वयमेव यदिच्छति तहदाति मन्त्रिभ्यः। अन्यस्य तु पुरुषस्य न कस्याप्यपेक्षां करोति, अयं देहः कर्म- रचितः, कर्माणि च सर्वाणि त्रिगुणाना सन्ति, गुणाश्च मायायाः । एवञ्च यदि अनेन प्राणिना प्रारब्धं कर्माभिमतं तदा मायाऽभिमता, तदभिमाने च तत्रेव समये ब्रह्म- तत्वात् पृथग्भूतः । ततश्च पूर्व पश्चादपि गुणलेशो विद्यत एव, स च बाधक एव, तस्मात्प्रारब्धकर्मनिर्मूलकरणमवधूतानामेव कर्म । वेदान्ती चित्तशुद्धयर्थ कर्माभिमत्य तदनन्तरं ज्ञानं साधनमित्युपदिशति, अतः सोऽपि सापेक्ष एव । मीमांसको मन्त्रीव राजसापेक्षः, परन्तु सापेक्षता तूभयोरेवास्ति, कस्याप्यपेक्षामकुर्वन योग आवश्यकः सर्वेषां कर्तव्यो यः सर्वदा स्वतन्त्रोऽस्ति । मीमांसको द्वैतमभिमन्यते, वेदान्ती त्वद्वैतमभिमन्यते, तदुपरि च बदामः-एतदुभयमपि प्रकृतिविकारः। प्रकृत्तिविकारश्च सदा चञ्चलो नास्ति कदापि स्थिरः। ब्रह्म तु सर्वदा स्थिरमेवास्ति । तत्र द्वैतवादिनो निश्चलं नास्तीति वदन्ति, तथैवाद्वैतमभिमन्यतां निश्चलं नास्तीति कथम् ? यदि ब्रह्माद्वैतमस्ति तर्हि द्वैतं कुत आगतम् ? तदा मायाकल्पितमिति ते वदेयुस्तर्हि तान्वदतो वयमवाचोऽक्रियांश्च कुर्मः', तत्किमिति चेदुच्यते-अद्वैतं तु १. कर्म-पू० सं०।
गोरक्षसिद्धान्त सङ्ग्रह ३ निष्क्रियादि त्याग्यस्ति । यतः कस्यापि वस्तुनो भोगोऽपि युष्माभिर्न कर्तव्य इत्या- घनेकविधिभिरद्वैतखण्डन करिष्यामः । महासिद्धैरुक्तम्-यद् द्वताद्वैतविवर्जितं पदं निश्चलं दृश्यते तदेव सत्यमित्यभ्युपगमिष्यामः, तत्त उग्रभैरवनामककापालिकरूपतः श्रीभैरवेण शङ्कराचार्योपरि कृतम् । कथम् १ चतुर्भिः शिष्यैः संयुक्तः शङ्कराचार्यो नदीतीरे स्थितः। तस्मिन्स्थले कापालिकः समुपागत्योक्तवान्-भो त्वं तु संन्यासी, मित्रारिपक्षे तुल्यः, सुख- दुःखादिद्वन्द्वपदार्थरहितोऽस्यस्माकं चायमभिप्रायो वर्तते- यत् तव शिर उच्छिद्य' पश्चात् श्रीभैरवार्पण करिष्यामि तदा मम प्रतिज्ञा पूर्णा भविष्यति, अतो भवान् शिरो ददातु-इति । तदा शङ्कराचार्येणालोचितं नैवं करिष्यते तदा त्वद्वतहानिः शत्रुमित्रपक्षे तुल्यत्वं न स्यात् , कृते च पराजयो भवेत् । एतद्द्वयविचारेऽपि पराजय एवेति मत्वा न किमपि तेनोक्तम् । शैथिल्यं जातम् । तदा 'पद्मपादाचार्येण नृसिंह- स्मरणं कृतम् । उग्रभैरवोपरि नृसिंहेण प्रहारः कृतो यस्तु महासिद्धः तच्छरीरं त्यक्त्वा तादृशमेव च शरीरं गृहीत्वा सम्मुखे संस्थितो भूत्वा प्रसन्नवदनो मेघगम्भीरया गिरोवाच--भो अद्वैतपराजयोऽतपराजय इति । शत्रुमित्रपक्षे [ तुल्यत्व यदवदस्त- कुत्र गतमद्वैतमेवाद्वत] यदवदस्तत्कुत्र गतम् । मदीयं त यथा मल्लो नियुद्धे स्वयमेव निपत्यान्यस्य पातनं करोति तथा स्वशरीर त्यक्त्वा परसिद्धान्तहानिः कृतैवेति चरितं पुनः साम्प्रत त्वदीयहानिरतः परमपि क्रियते । उत्तिष्ठोत्तिष्ठ युद्धं कुर्व इत्याह, तदा प्रारब्धकर्माचरणं वर्तते न्यासिनां मते यतः क्रियाकरणमिति सिद्धान्तो नास्तीति कृत्वा युद्धेऽशक्तो जातः। कापालिकोपदेशेनाक्रियैव स्वसिद्धान्तेऽद्वतस्थिति- वस्थितः। तदा कापालिकेन योगमाया निर्मिता, तया च चतुःशिष्यसंयुक्तस्या- चार्यस्य मस्तकं छिन्नम् , पश्चाच्च सजीवितः कृतस्तर्हि विरागो जातः । पश्चिमायां दिशि गतः शक्तिस्मरणं कृतवान् । पूर्ववार्ता। शङ्कराचार्यस्योत्पत्तिर्दक्षिणस्यां दिशि । तत्र तु कर्मसेवनमेव कृतं विष्णूपासनादि । यदा चित्तशान्तिनं जाता तदा पृथ्वीपरिक्रमा करणार्थ प्रयाणं कृतम् । पूर्वस्यां दिशि चागत्य तत्र वैद्यनाथाख्यस्थलं गत्वा पूजां चकार । तदेश्वरेण नाङ्गीकृता पूजा । किमर्थं त्वया विष्णुभक्तिः कृता । अहं तु साक्षादीश्वरः स तु त्वया विस्मृत इति । तदा शङ्करेणापराधक्षान्तयेऽपराधक्षमापननामक स्तोत्रं कृतम् , पुनरपि शिवभक्ति विशेषेण कृता, तथापि चित्तशान्तिनं जाता। पश्चाच्च पश्चिमां दिशं गतस्तत्र शक्तिरहितो जातः, शक्तवृत्तान्तं दृष्टम् । तदा शक्त्योक्तं शिव एव mme- १. उच्छिन्न-पा० । ३. [] नास्ति पू० सं०। ५. प्रदक्षिण° पू० सं०। २. पद्माचार्यण-पा० । ४. कुवि -पू० स०।
गोरक्षसिद्धान्तसङ्ग्रहः १ सर्व करिष्यतीति । तेन भयाकुलो जातः । सौन्दर्यलहरीनाम स्तोत्रं कृत्वा शाक्तो जातस्तथापि पूर्णा शान्तिनं जाता। तत उत्तरां दिशं गतः । सात महासिद्धसमुदायेन सर्वाऽपि दिग्व्याप्ता। यत्र यत्र गतस्तत्र तत्र सर्वैरुपहासः कृतस्तत्र श्रीतारानाथे- नोक्तम्-तीर्थाटनमेव करिष्यते किमप्यात्मसाधनमपि करिष्यते ? तदा शङ्करेणोक्तम्- भवद्भिर्यत्कथ्यते तन्मया करिष्यते । तदा महासिद्धेन योगोपदेश. कृतस्तेन सर्वा- बाधानिवृत्तात्मा च प्रसन्नो जातस्तदा वज्रमू चिकोपनिषत् कृता। सा तु सर्वाऽपि नाथमार्गानुसारिण्येव । तत्र श्रीसिद्धसिद्धान्तपद्धतिप्रमाणं दत्तं "वेदान्ती बहुतर्क- कर्कशमतिः इत्यादि "तस्मात्सिद्धमतं स्वभावसमयं धीरः परं संश्रयेत्” इत्य- न्तानि पद्यानीति, यथा मण्डनमिश्र. सुरेश्वराचार्यो जातस्तथाऽयमपि सिद्धो भूत्वा सिद्धान्तबिन्दुप्रभृतिग्रन्थांश्चकार सिद्धान्तस्तु सिद्धस्य तात्पर्यार्थ एव सिद्धान्तो न त वादि-प्रतिवादिभि- निर्णीतोऽर्थः सिद्धान्तः। तन्मध्ये न चैकं तदन्यद्वितीयं कुतः स्यात्तत्तु द्वैताद्वैत- विलक्षणत्वेनैव सिद्धान्तो जातः। न्यासिनां त्वद्व तमेव सिद्धान्तो भवतीत्येषा रीतिज्ञेया। अन्यैः सिद्धान्तः कथ्यते । तेषां मुख्य सिद्धान्तशब्दप्रवृत्तिमहासिद्धानां मुखा- दागतोऽन्यमुखे सिद्धान्तः केवलं रूढित एव । सिद्धानां मते रूढियौगिकं च द्वयमपि वर्तते । तर्हि सिद्धान्तः सिद्धस्यैव तात्पर्यम् । एतत्कारणात् सिद्धस्येव सिद्धान्तो न त्वन्यस्यात एव शङ्करेण सिद्धान्तबिन्दु. कृतः। प्रथम तु दक्षिणदेशे कर्मसेवने विष्णूपासना कृता, पश्चात्पूर्वदेशे शिवदर्शने संन्यासो गृहीतः, पश्चिमे च शक्तिदर्शने शाक्तो जातस्तन्त्रविषयकं प्रपञ्चसारादि प्रन्थं कृतवान् , पश्चादुत्तरदेशे सिद्धोपदेशेनावधूतावस्था गृहीता । तेन सर्व श्रेयो जातम् इति । ननु कापालिकप्रसङ्गकथनातेदेषां कापालिकमतमिति कैश्चिज्ज्ञायते, इति; तत्त नास्त्येवास्माकं मतं त्ववधूतमेव । परन्तु कापालिकमपि मतं नाथेनैव प्रकटीकृतमेत- न्मार्गस्य प्रकटकर्ता नाथ एव । तदुक्तं शाबरतन्त्रे- आदिनाथो ह्यनादिश्च कालश्चैवातिकालकः । करालो विकरालश्च महाकालश्च सप्तमः॥ कालभैरवनाथश्च बटुकस्तदनन्तरम् । भूतनाथो वीरनाथः श्रीकण्ठो द्वादशो मतः ॥ - १. क्रियते-पू० स०।
गोरक्षसिद्धान्तसङ्ग्रहः एते कापालिकाः प्रोक्ता वीरतुम्बीमहाफलैः । शिष्याणां सूर्यसङ्ख्या च तानिहो वच्मि संशृणु ॥ नागार्जुनो जड़भरतो हरिश्चन्द्रस्तृतीयकः । सत्यनाथो भीमनाथो गोरक्षश्चर्पटस्तथा ॥ अवद्यश्चैव वैराग्यः कन्थाधारी जलन्धरः । मार्गप्रवर्तका ह्येते तद्वच मलयार्जुन ॥ पुनः शैव' शाक्तोऽपि मार्गस्तन्त्रानुसारी। तस्याप्युपदेष्टा नाथ एव । नाथेनैव रचितानि तन्त्राणि । तदुक्तं षोडशनित्यातन्त्र कादिसज्ञा भवद्रपार सा शक्तिः सर्वसिद्धये । तन्त्रं मदुक्तं भुवने नवनाथैरकल्पयत् ॥ तया तैर्भुवने तन्त्रं कल्पे कल्पे विज़म्भितम् । अवसाने तु कल्पानां सा ते. सार्द्ध ब्रजेच्च माम् ।। नामपर्यायतो व्याप्तं कालावाप्तमिदं द्वयम् । प्रसिद्धं बाह्यतो यञ्च त्रीणि नामानि साधके ।। नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धथै स्वीकृतानेकविग्रह ॥ परमार्थंकरूपिणे। सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते॥ दयाशक्तिविग्रहाय रसात्मने । परतन्त्राय शाक्तानां भव्याय भव्यरूपिणे ।। पुनः योगस्तु कस्यापि सापेक्षो नास्ति, परन्त तान्त्रिकाणामयमेव सिद्धान्तो वर्त्तते यत्रोत्तरावस्थाऽवधूत एव । तदुक्तं षट्शाम्भवरहस्ये-- अथान्यत्सम्प्रवक्ष्यामि सम्प्रदायस्वरूपकम् । आदितो वैदिकः प्रोक्तस्ततो हि वैष्णवः परः॥ ततो गाणपतः प्रोक्तः क्रमेण हि मया तव । गाणपत्यं च द्विविधं ततः सौरं प्रकीर्तितम् ॥ सौराच्छ्रेष्ठं शैवशास्त्रं शैवाच्छाक्तं महेश्वरि । शाक्ताद्वामं महादेवि श्रेष्ठं ते परिकीर्तितम् ॥ नवाय नवरूपाय स्वतन्त्राय १. एके--प० स०। २. भवेद्रूपा-ए० सं०।
गोरक्षसिद्धान्तसङ्ग्रह . वामात्त दक्षिणं श्रेष्ठं दक्षिणाद्वीर एव त । अथ वीराच्चावधूतः कौलः पूर्व प्रकीर्तितः ॥ अवधूतादिव्यमार्गो दिव्याच्छ्रेष्ठो न विद्यते ॥ इति । (पट- १३१४०-१४४) तान्त्रिकानुष्ठानस्य फलमपि योग एव । योगिनां पूर्वावस्थायामपि योगित्व- मुत्तरावस्थायामपि योगित्वमेव न त्ववस्थाभेदाद् गौणमुख्यभावौ। तन्त्रादि यस्य- कस्यापि सापेक्षं, परन्तु तान्त्रिकाणां पूर्वावस्था तन्त्रानुष्ठानं बहिरङ्गमुपासनं, योगि- नान्त्वन्तरङ्गमुपासनम् । इयं रीतिस्तान्त्रिकाणाम्-तान्त्रिकः प्रथमतो बहिरङ्गपूजनं स्थूलशक्तेः करोति, पश्चादवधूतपदे प्राप्तेऽन्तरङ्गपूजनं सूक्ष्मशक्तेः कुण्डलिन्याः करोति । अतः कारणात्तान्त्रिकाणामपि तात्पर्यमवधूतपद एव । कापालिको मार्गः किमर्थं प्रकटीकृतः ? इत्यपेक्ष्ययाह-विष्णोश्चतुर्विशति- सङ्ख्याका अवतारा जातास्ते च कार्यान्ते मदोन्मत्ता जाता । कथम् ? यथाऽन्ते तिर्यग्योनयो जन्तवः क्रीडाः कुर्वन्ति तथा वराहो नृसिंहश्चेत्यादयो भूदारण-वन्य- भयदानादिकरणे प्रवृत्ताः। पुरप्रामादिताडनं केषाञ्चित समुद्रपातोऽपि । तत्रापि कृष्णेन व्यभिचारिभावो विशेषेण धृतः। परशुरामैणैकक्षत्रियदोषेणानेकेषां क्षत्रि- याणां नाशः कृत इत्यादि विरुद्धाचारोपरि नाथेन कोपं कृत्वा चतुर्विशत्यवतारोपरि चतुर्विशति कापालिकरूपाणि धृतानि । धृत्वा च चतुर्विशत्यवतारैः सह समरं कृतम् । तत्र सर्वेषामवताराणां कपालानि छिन्नानि कृतानि । स्वकरैस्तानि धृतानि । तेन कापालिका जाताः। पुनस्ते सर्वे कपालच्छेदान्मदहोना जातास्तदा वरं दत्वा कपालानि तच्छरीरे धृतानि तेन जीविता बभूवुरिति । कानिचिच्छास्त्राणि मोक्षरक्षकाणि कानिचिच्च व्यवहाररक्षकाणि । तत्र मोक्ष- रक्षकाणि श्रुति-स्मृत्यादीनि । मुमुक्षवः पुरुषाः कोटीनां मध्ये द्वित्रा एव भवन्ति, व्यवहारिणस्तु कोटिकोटिरेवातः कारणाद्वयवहारार्थ विधिवाक्यशास्त्राणि बहूनि सन्ति, कथम् ? व्यवहारिणां बाहुल्यात् , योगशास्त्र तु सूक्ष्मम् । कथम् ? मुमुक्षु- पुरुषाणामल्पत्वात् , वेदादिशास्त्राणामपि योगो वर्तत एव, सर्वेषां च तात्पर्य योग एवास्ति, परन्त्वेतद्रीत्या यथा समुद्रे रत्नानि शडूखाः, पाषाणखण्डानि, जलं जल- जन्तवश्चेत्याद्यनेकवस्तूनि सन्ति, तथा वेदादिशास्त्रेष्वपि योगादीनि सन्ति, समुद्र चेतरवस्तु सुलभ, रत्नं तु श्रमेण लभ्यते । एवं वेदादिशास्त्रे व्यवहारादि सुलभं, योगस्तु भूरिश्रमेण लभ्यते । योगशास्त्रे तु योग एक लभ्यते, नान्यदस्ति किञ्चिदसारं, यथा रत्नखनौ रत्नमेवेति । स च योगो गुरुकृपयाऽल्पश्रमेणैव प्राप्तो भवेदतोऽन्यत्सर्व परित्यज्य योग एव सेवनीयः, इति । षट्म्याम्भवरहस्ये- ? - गोरक्षसिद्धान्तसङ्ग्रह पृथ्वी की महादेवी नाथाः शास्त्रस्य बन्धकाः । ब्रह्मतत्त्वविदित्याद्याः शरभाद्यास्तु रक्षकाः।। (-१५६) ननु श्लोके तु पृथ्वी कर्चीत्युक्तं भवद्भिस्तु नाथः कर्त्तत्युच्यते, तत्कथमिति चेत् । उच्यते; 'नाथाः शास्त्रस्य बन्धकाः' इत्यनेन शास्त्रप्रबन्धकत्वं तूक्तमेव, पुनः कर्तृत्वं तु पृथिव्या अपि नाथरूपत्वेनैव, चतुरशीतिसिद्धगणनायामादिकुमारीनामकस्य सिद्ध- त्वेनोक्तत्वात् । सिद्धाश्च नाथरूपत्वेन प्रसिद्धा एवेति । तथैव यत्साधनं कर्त्तव्यं यत्तेनैव साधनेन सिद्धिर्भवेदित्येवं तु योग एव परं साधनमित्याशयेनोक्तम्- योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ इति । तद्वन्तश्च श्रेष्ठा उक्ता इति सर्वत्र लभ्यते । एवञ्च योगिनः श्रेष्ठास्तेषां श्रेष्ठ गम्यत्वेनाप्याह पद्मपुराणे- मर्यादां स्थापयामास यथास्थानं यथागुणम् । वर्णानामाश्रमाणां च धर्माधर्मभृतां वर ।। लोकांश्च सर्ववर्णानां सम्यक् धर्मानुपालिनाम् । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं तु पार्थिव ।। स्थानमैन्द्रं क्षत्रियाणां यतीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ।। सप्तर्षीणां च यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्राह्मसंज्ञितम् ॥ योगिनाममृतं स्थानं ब्रह्मणः परमं पदम् । एकान्तिनः सदोद्युक्ता व्यापिनो योगिनो हि ये॥ तेषां तत्परमं स्थानं यन्न पश्यन्ति सूरयः । गत्वा गत्वा निवर्तन्ते चन्द्रादित्यादयो ग्रहाः॥ अद्यापि नो निवर्तन्ते प्राणायामपरायणाः । (सृष्टिखण्डे ३३१५३-१६१) गीतायाञ्च वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ इति (गी० ८।२८) एवं सर्वनमस्कार्यमेतन्मतमिति । तत्र यूयं केऽपि वदेत-भवन्मते श्रुतिः साधिका नास्तीति तेषामज्ञात्वा मत- नहस्यमेवं वदतां युष्माकं तात्पर्यमस्माभिर्विदितप्रायमेवेति । तदेवमस्ति । एवं प्रतोद्य- १. ध्यायिनो-मु. पा० । २. यत्तत्-मु० पा० । ३. गता गता-मु० पा० । - १८ गोरक्षसिद्धान्तसङ्ग्रहः माना अपि कदाचिच्छ्रत्याश्रयत्वमङ्गीकुर्वन्तु नामैते, किन्त्वेतत्साक्षादनिर्वचनीयं तत्सत्यस्वरूपं तत्त्वं सर्वस्य विदितमेवेति तस्यैव प्रवृत्तिशास्त्राश्रयत्वं केन प्रकारेणा- ङ्गीक्रियते । यदस्माकमत्र श्रत्याश्रयाङ्गीकरणं राज्ञामिव मन्त्र्याश्रयाङ्गीकरणं भवति । तथोक्तं महाभारते मोक्षधर्म- ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः। जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः ।। न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् । न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवित् ॥ ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते । अन्तश्चादिमतां दृष्टो न त्वादिब्रह्मणः स्मृतः ।। अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् । अव्ययत्वाञ्च निर्दुःख द्वन्द्वाभावस्ततः परम् ॥ अन्यच्च-अग्निर्यथाह्य पायेन मथित्वा दारु दृश्यते । तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥ पुनः-आदिज्ञानी भवेद् ब्रह्मा युगादिज्ञानियोगिनः ।। गीतायाम्- यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ।। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगति प्रति॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धि' समाधौ न विधीयते ।। (गी० २।४२-४४ येन च परमवेदप्रणवस्थाश्रयोऽङ्गीकृतो वा तेन स्थूलवेदस्याश्रयो नाकी- कर्तव्यः। उत्तरगीतायाम्- चतुर्वेदविदो विप्राः सूक्ष्मब्रह्म विदन्ति न । वेदभारभराक्रान्तास्ते वै ब्राह्मणगर्दभाः ।। एतदेवाभिप्रेत्य कावषेयगीतायाम्-दुर्वासा कश्चिन्मुनिर्बहुविधशास्त्रपुस्तकभारैः सह महादेवं नमस्कर्तुमागत्य तत्सभायां नारदेन केनचिन्मुनिना भारवाही गईभ- साम्यमापादितः, कोपात् पुस्तकानि लवणार्णवे परित्यज्य महादेवेनात्मविद्यायां प्रवर्चित इति । १. ते विप्राः पुरुषाधमाः-५० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः गृहे गृहे पुस्तकभारभाराः पुरे पुरे पण्डितयूथयूथाः । वने वने तापसवृन्दवृन्दा न ब्रह्मवेत्ता न च कर्मकर्ता ॥ एवं बहवः प्रस्तावाः सन्तीत्येकमुत्तरम् ॥ १ ॥ पुनः भवद्भिस्तु श्रुतयः पुनः पुनरुच्यन्ते, तत्किमिति ? वेदास्तु कर्मनिरूपका- स्तदधिकारिणामेवौचित्यं दर्शयन्ति । एते योगिनस्त संसारत्यागिनो निष्कर्माणः । किञ्च, वेदेषु मख्यत्वेनाग्निहोत्रादियज्ञकर्माणि दृश्यन्ते, तानि चाग्निसाध्यानि, एते तु नाग्नेः स्पर्शमपि कुर्वन्ति । अग्नेरेव गृहपतित्वमाह--'अग्ने गृहपते' इत्यादि श्रुतिः। यत एतेषां किमाचरणमुपधाय्यतान् निरूपयन्ति । बाहुल्येन वेदविदांश्चैते किं प्रयोजनमङ्गीकृत्याङ्गोकुर्युर्वाचोविग्लापनं हितत्' इत्यादि श्रुतिवाक्यैरेव “एवं विमृश्य सुधियो विरमन्ति शब्दाद्” इत्यादिपुराणवाक्यैरेव च तदनङ्गीकरणं दर्शितम् । किञ्च “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन' इति श्रुतेः । बहुशास्त्रकथाकन्यारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्ञैर्योतिरान्तरम् ॥ इति । उत्तरगीतायाम् अधीत्य चतुरो वेदान धर्मशास्त्राण्यनेकशः। ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ इत्यादि । (उ० २।४१) किश्चैतेषां सत्यस्वरूपभूतानां महिमान निरूपयन्तो वेदा मुह्यन्तीव च । अवृत्तिविषयत्वात् । तथा च कर्मकाण्डे मुख्यमपि ज्ञानं न मुख्यत्वेन दर्शयन्ति । दर्शिते च तस्मिन् कर्ममोह एव स्यात् । एव ज्ञानकाण्डे च योगतन्महिम्नि दर्शिते ज्ञानं मोहः स्यात् । तथा च वेदेषु तन्महिमा नोपलभ्यते-इत्येतदेवाभिप्रेत्योद्योगपर्वणि सनत्सुजातीये प्रोक्तम्- आभाति शुक्लमिव लोहितमिवाथो कृष्णमायांजनं काद्रवं वा । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ न तारकासु न च विद्युताश्रितं न चाभ्रेषु दृश्यते रूपमस्य । न चापि वायौ न देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्य ।। नैवर्तु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु । रथन्तरे बाहद्रथे वापि राजन् महाव्रते नैव दृश्येद्ध्वं तत् ॥ १. विप्लावनं-पू० सं० २. नास्ति-पू० सं०। ३. आलोच्य-मु. पा. ४. यो वै ब्रह्म-मु० पा० । ५. नाज्ञ-पू० स० ६. कृष्णमायसमर्कवर्णम्-इति मातृका पाठः । ७. नैतद्य०-मु. पा० । ८. महावतस्यामनि-पा०. । - २० गोरक्षसिद्धान्तसङ्ग्रहः अपारणीयं तमसः परस्तात् तदन्तकोऽप्येति विनाशकाले । अणीयरूपं क्षुरधारया समं महच्चरूपं तद्वैः पर्वतेभ्य ।। (स० ३।२०-२३) "सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ ( स० ४।२३) अनामयं तन्महदुद्यतं यशो वाचोविकारं कवयो वदन्ति । तस्मिन्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ।। ननु तद्विदुरित्यनेन योगोपसर्जन ज्ञानमेवोक्तमिति चेन्नैतस्यैव शास्त्र. स्याग्रिमेऽध्याये- यत्तच्छुक्लं महज्ज्योतिर्दीप्यमानं महद्यशः । त देवा उपासन्ते तस्मात्सूर्यो विराजते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ (स० ४।१) इत्यादि सविस्तरमुक्तमतो ग्रन्थभारवहनं वृथैव । किन्तु तदन्तर्गतं स्वोपयुक्तं सारमात्रं गुरुवाक्याद् गृहीत्वा योगेन कृतकृत्यो भवेदिति- आत्मनस्तत्त्वमज्ञात्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षागते छागे कूपे पश्यति दुर्मति ।। वदन्तो वाऽऽत्मनोभावं वदन्त्युपनिषद्गिरः । रहस्युपदिशन्त्यन्ये स्वयं नानुभवन्ति ते ॥ विहाय योगशास्त्राणि नाना गुरुमतानि च । अहङ्कारावृताः केचिल्लात्वा शाखसमुखयम् ।। उपदेशं न जानन्ति न च ग्रन्थशतैरपि । इति द्वितीयमुत्तरम् ॥२॥ पुनः तदेव मुख्यतयोच्यते-श्रुतिस्त्वस्मिन्नपि मते साधिकैवास्ति, परन्त्वेतन्म- तस्य बोधो युष्माकं नास्ति । तेन यूयं शक्कर-वैष्णवप्रवर्तितमार्गानुसारितत्त्वमालम्ब्य बदथ श्रुतिः साधिका नास्तीति । तत्सत्यम् , शङ्कररामानुजादिश्रुतयश्चात्र साधिका मा भवन्तु नाम, श्रुतयस्तु भविष्यन्त्येव साधिका इति । - १. अवारणीयं-म०पा० । ३. च तथाप्यणीय-मु. पा० । ५. तत्-मुपा०॥ ७. वदन्तोप-पू० सं०॥ २. तोऽभ्येति-मु० पा०। ४. स्वरूपं त्वयि-मु० पा० । ६. गोपकक्षागतच्छाये-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रहः ૨૨ - अयम्भावः वेदस्तु शाखाभेदैरनेकधा विस्तृतः। तत्र पञ्चाशदुपनिषदां निबन्धः कृतस्ततोऽप्यधिका उपलभ्यन्ते । परन्तु न तेन निबन्धेन प्रायो निर्णयव्यव- हारः । तत्रापि शङ्करेण दशैवाभिमता उपनिषद् ईश-केनेत्यादयः प्रसिद्धाः। रामा- नुजप्रभृतिभिस्तु दशस्वपि शङ्कराभिमतादन्योऽर्थ इति स्पष्टमुदीर्यते । एवमन्येऽपि स्वाभिप्रायानुसारि वेदस्य तात्पर्य वर्णयिष्यन्ति। एतावता तत्तात्पर्य तेषामेव न तु वेदस्येति । यथा विरोचनः प्रजापतिनाऽनुशिष्टोऽपि स्वचित्तदोषेण देह आत्मत्वबुद्धिं दृढ़ीकृत्यासुरान् सर्वाननुशशासेति छान्दोग्ये स्पष्टाख्यायिकाऽस्ति । यतो योगिनां स्थूलवेदे प्रयोजनमेव नास्ति । सर्ववेदमूलभूत ॐकार एव प्रयोजनं तात्पर्यश्च । तत्र सर्ववेदानां लयोदयौ भवतः, यतः ॐकारप्रतिपादिकाः सर्वाः श्रुतयोऽत्र साधिकाः । तथाहि- “वेदस्य सारतरः प्रणवः भूरित्येव ऋग्वेदादजायत, भुव इति यजुर्वेदात् , स्वरिति सामवेदात्तानि शुक्राण्यभ्यतपत्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति । तानेकधा समभरत्तदेतदोमिति” बहृचब्राह्मणे । अस्य च प्रणवस्य ॐ इत्येत- दक्षरमिदं सर्वमिति सर्वात्म्यश्रुतौ तन्मात्राणां चाकारोकारमकाराणां क्रमात् स्थूल- कारणप्रपञ्चवाचकयोरभेदात् पूर्वस्योत्तरोत्तरत्र प्रविलापने गुरुयुक्त्या क्रियमाणे स्थूलस्य जगतो वेदस्य वा सूक्ष्मे लवणोदकन्यायेन प्रविलयो भवति । तथा सूक्ष्मस्य कारणे कारणस्य तुरीयेऽर्द्धमात्रावाच्ये मात्राख्ये "शिवमद्वैतं चतुर्थ मन्यन्ते” इति श्रुते- गलिताखिलद्वैतभावे वाङ्मनसातीते प्रविलयो भवति । अतः प्रणववेद इत्यभ्युपगम्य तद्वारा तत्प्रवर्तकनादब्रह्मेत्यवलम्ब्य नादब्रह्मणो यन्मूलं तत्तत्त्वमिति विश्रान्तिमतां मते का वा श्रुतिः साधिका न भवतीति प्रसिद्धतरमेव सर्वत्र । प्रणवप्रशंसा च ४शिखोपनिषदि- "प्रणवः सर्वान्प्राणान् "प्रणामयति वै तस्मात्प्रणवश्चतुर्द्धा ऽवस्थित इति वेददेवयोनिः सर्ववाच्यवस्तु प्रणवात्मकम् । देवाश्चेति सन्धर्ता सर्वेभ्यो दुःसहेभ्यः सन्वारयति । तारणात्तानि सर्वाणीति । [अथर्वशिखोप० १-२, ई० अ० पृ०१५८] ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदैवत्यः प्रणवः परिपठ्यते ॥ तत्राधिक क्षणमेकमास्थाय ऋतुशतस्यापि फलमवाप्नोति । कृत्स्नमोकारगतं च सर्व- ज्ञानेनेति । माण्डूक्योपनिषदि- १. निबन्धाः कृता-पू० सं० । ३. सर्वदेवानां-पू० सं०.। ५, परमात्मनि प्रणाययति-मु०पा० । ७ वेददेवयोनिध्येयाश्चेति संधत्तां--पू० सं० । २. तावता-मु०पा० । ४. शिवोप-पू० सं०। ६, चतुर्था --मु. पा. 5. दुखभयेभ्यः-मु० पा० २२ गोरक्ष सिद्धान्सङ्ग्रहः ॐकाराच्छन्दसो' ज्ञात्वा न किञ्चिदपि चिन्तयेत् । युजीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ॥ प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचिद् । प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ॥ अपूर्वोऽनन्तरोऽवाह्योऽनपरः प्रणवोऽव्ययः । सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च ॥ एवं हि प्रणवं ज्ञात्वा फलते तदनन्तरम् । प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ॥ सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिव ॥ ॐ कारो विदितो येन समुनिर्नेतरो जनः॥ इति । (मा० आगम०२४-२८) वृहदारण्यके-स यथार्द्रधाग्नेरभ्याहितस्येत्यादि । (४।५।११, ई० अ० पृ० १०८) छान्दोग्ये-एतदक्षरमुद्गीथेत्यादि । (१।४।१, ई० अ० पृ० ३३) एतदेवाभिप्रेत्य महाभारते सनत्सुजातीयवचनम्- यतो न वेदा मनसा सहैव मैनं प्रविशन्ति ततोऽथ मौनम् । यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ (स० २।२) भागवते चाप्येकादशस्कन्धे- स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रास्वरो वर्ण इति स्थविष्ठः ॥ (भा० ११।१२।१७) शब्दब्रह्म सुदुर्बोध प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्य समुद्रवत् ॥ मयोपबृंहितं भूना ब्रह्मणाऽनन्तशक्तिना। भूतेषु घोषरूपेण विसेषूर्णेव लक्ष्यते ॥ यथोर्णनाभिहृदयापूर्णामुद्वमते मुखात् । आकाशाद्धोषवान्प्राणो मनसा स्पर्शरूपिणा ॥ १. ओङ्कार पादशो-मु० पा० । २. चापरा-पू० स० । ३. व्यश्नुते-मु० पा० ४. सहैनमनु-मु० पा० । - गोरक्षसिद्धान्तसङ्ग्रहः २३ प्रभुः। - छन्दोमयोऽमृतमयः सहस्रपदवीं ॐ काराद्वथञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ भा० ११।२१।३६-३९) इत्यादि, अन्यच्च- वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्विषाः ॥ त्रेतायुगे महाभाग प्राणान्मे हृदयात्त्रयी। विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः । विप्रक्षत्रियविशुद्रा मुखबाहूरुपादजाः ॥ इत्यादि । (भा० ११३१७१११-१३) गीतायाञ्च- ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ (गी० ८।१३ ) एवमन्यत्रापि बहुधा प्रपश्चितम् , तदत्र विस्तरभयान्न लिख्यते। इति तृतीयमुत्तरम् ॥३॥ पुनः वेदार्थस्य बोधस्तु केषाञ्चिन्नास्त्येव । केवलमभिमानमेव पुरस्कृत्य ये वदन्ति तान् प्रति चतुर्थमिदमुत्तरम्-यद्भवद्भिर्वेदो वेद इति पुनः पुनरुच्यते । तस्य वेदस्य त्वभ्यासेऽप्यवधूतानां दोष एव स्यात् । कथमिति चेदुच्यते-वेदस्य पूर्वभागस्तु वर्णानामेव, वेदान्तभागस्तु भिक्षुणामेव, योगभागोऽस्त्यवधूतानाम् । वेदस्य पूर्व- भागे ज्ञानं वाच्यार्थेन न दर्शितम् । किन्तु तात्पर्ये तदस्तीति भवद्भिरेवोच्यते । एवश्च वेदस्य पूर्वभागे यथा ज्ञानं तात्पर्येऽस्ति तथा वेदान्तभागे योगस्तात्पर्या- र्थोऽस्ति । यद्यपि बहुधा वाच्यार्थेनापि दर्शितो योगस्तथापि मुख्योत्तरं तु मुख्य- तात्पर्य एवास्ति । यतो वेदान्ततात्पर्य लक्ष्यं चावधूत एवास्ति । “सर्वे वेदास्तत्पद- मामनन्ति” इत्यादि श्रुतयो “वेदैश्च सर्वैरहमेव वेद्यों” इत्यादि स्मृतयश्च । रूपे इमे सदसती तव वेद सृष्टे/जाकुराविव न चान्यदरूपकस्य । युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ इत्यादिपुराणवाक्यानि चात्र साधकानि । चात्र साधकानि । एतदेवाभिप्रेत्य महाभारते सनत्सुजात आह- न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान बुध्यते वापि राजन् । यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ।। न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । यो वेद वेदं सच वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥ यो वेद वेदान् सच वेद वेद्य न तं विदुर्वेदविदो न वेदाः । तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो वदन्ति । १. विप्राः-पा०।
२४ गोरक्षसिद्धान्तसङ्ग्रहः धामांशभागस्य तथाहि वेदा यथा च शाखा हि महीरहस्य । संवेदने चैव यथामनन्ति तस्मिन् हि सत्ये परमात्मनोऽर्थे ।। (स० २।४१-४४) धृतराष्ट्र उवाच- आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः । तथा चान्ये चतुर्वेदात्रिवेदाश्च तथा परे । द्विवेदाश्चैकवेदाश्च अनृचश्च तथा परे । तेषां तु कतर. स स्याधमहं वेद वै द्विजम् ॥ (स० २।३५-३६) सनत्सुजात उवाच- एकस्य वेदस्याज्ञानाद्वेदास्ते बहवः कृताः । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ ( २३७) एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते । दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ सत्यात्प्रच्यवमानानां सङ्कल्पश्च तथा भवेत् । ततो यज्ञः प्रतीयेत सत्यस्यैवावधारणात् ॥ (२।३८) धृतराष्ट्र उवाच-- ऋचो यजूंषि यो वेद सामवेदं च वेद यः। पापानि कुर्वन् पापेन लिप्यते कि न लिप्यते ॥ [ स० २।३] सनत्सुजात उवाच- नैनं सामान्यूचो वापि न यजूंष्यविचक्षणम् । त्रायन्ते कर्मणः पापान ते मिथ्या ब्रवीम्यहम् ॥ न छन्दांसि वृजिनाचारयन्ति मायाविनं मायया वर्तमानम् । नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येन प्रजहत्यन्तकाले ॥ (स. २।४५) एवञ्च स्थूलवेदतात्पर्युष्माभिः सूक्ष्मवेदतात्पर्याणामस्माकं मतमविज्ञा योऽनुयोगस्तत्प्रतिवाक्यमिदं चतुर्थमुत्तरम् ॥४॥ योगवीजे- बद्धा येन विमुच्यन्ते नाथमार्गमतः परम् । तमहं कथयिष्यामि तव प्रीत्या सुरेश्वरि ॥ (यो० बी०७ अनेकशतसङ्ख्याकैःस्तर्कव्याकरणादिभिः । पतिताः शाखजालेषु प्रज्ञया ते विमोहिताः ।। १. संकल्पा वितथाभवन्-मु० पा०। २. कर्म प्रतायेत सत्यस्य नवधा-मु. पा. ३. यजूंष्यधीते यः-मु० पा०। ४. पावव्यत्यासः-मु. पु० । - गोरक्षसिद्धान्तसङ्ग्रहः २५ नानामागैस्तु दुष्प्राप्यं कैवल्यं परमं पदम् । सिद्धमार्गेण लभ्येत नान्यथा शिवभाषितम् ।। अनिर्वाच्यपदं वक्तुं न शक्यं तैः सुरैरपि । स्वात्मप्रकाशरूपं तत् किं शास्रण प्रकाश्यते ॥ (यो० बी० ७-१०) विशुद्ध एव परमात्मा जीवाभिध इत्युक्त्वा जीवस्य दोषाः कामक्रोधभचि- न्तेत्यादयश्चोक्ताः। तस्माद्दोषविनाशार्थमुपायं कथयामि ते । ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये ।। योगहीनं कथं ज्ञानं मोक्षदं भवतीश्वरि ॥ ( यो० बी० १८, १९) अज्ञानात्संसारो ज्ञानेन मुच्यते । तत्र योगस्य कि कार्यमिति देव्या पृष्ट ईश्वर उवाच-(योगबीजे) असौ दोषैविमुक्तः किं कामक्रोधभयादिभिः। सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते ।। २३ ।। ज्ञाननिष्ठो विरक्तो हि धर्मज्ञो विजितेन्द्रियः। विना योगेन देवोऽपि न मोक्षं लभते प्रिये ॥ ३३ ।। अपक्काः परिपक्वाश्च द्विविधा देहिनः स्मृताः। अपक्का योगहीनास्तु पक्का योगेन देहिनः ॥ ३४ ॥ तस्माज्ज्ञान च वैराग्यं जपः स्यात्केवलं श्रमः॥ ४१ ॥ शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् ।। तत्कथं कुरुते तेषां सुखदुःखादिजं फलम् ॥ ४९ ॥ देवैरपि न लभ्येत योगदेहो महाबलः ॥ छेदबन्धविमुक्तोऽसौ नाना शक्तिधरः परः॥५१॥ यथाऽऽकाशस्तथा देह आकाशादपि निर्मलः ॥ सूक्ष्मात्सूक्ष्मतरो देहः स्थूलात्स्थूलो जड़ाजड़ः ॥ ५३॥ इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः ॥ क्रीडति त्रिषु लोकेषु लीलया यत्र कुत्रचित् ॥ ५४॥ अचिन्त्यशक्तिमान् योगी नानारूपाणि धारयन् ।। संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः॥ ५५॥ पुरैव मृत एवासौ मृतस्य मरणं कुतः। मरणं यत्र सर्वेषां तत्रासौ सखि जीवति ।। ५७ ।। कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते । जीवन्मुक्तः सदा स्वस्थः सर्वदोषविवर्जितः ।
२६ २ गोरक्षसिद्धान्तसङ्ग्रहः विरक्ता ज्ञानिनश्चान्ते देहेन विजिताः सदा ॥ ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः ।। ६० ॥ देव्युवाच- ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी। गतिः कथय देवेश कारुण्यामृतवारिधे ॥ ६१ ।। ईश्वर उवाच- देहान्ते ज्ञानिनः पुण्यात्पापान्न फलमाप्यते । यादृशं तु भवेत्तत्र मुक्तो ज्ञानी पुनर्भवेत् ।। ६२ ।। पुण्यात्पुण्येन लभते सिद्धेन सह सङ्गतिम् । ततः सिद्धस्य कृपया योगी भवति नान्यथा ॥ ६३ ॥ ततो नश्यति संसारो नान्यथा शिवभाषितम् ॥ ६४ ॥ महाविष्णुमहेशानां प्रलयेष्वपि योगिनाम् ।। नास्ति पातो लयस्थानां महातत्त्वे विवर्तिनाम् ।। ६५ ।। वेदान्ततर्कोक्तिभिरागमेश्च नानाविधैः शास्त्रकदम्बकैश्च ।। ध्यानादिभिः सत्करणे गम्यं चिन्तामणिं त्वेकगुरुं विहाय ॥ ६॥ (योगबीजे) सिद्धसिद्धान्तपद्धतौ-शिवाद् भैरवः, भैरवाच्छीकण्ठः, श्रीकण्ठात् सदाशिवः, सदाशिवादोश्वरः, ईश्वराद्रुद्रः, रुद्राद्विष्णुः, विष्णोर्ब्रह्मा, इति । महासाकारपिण्डस्य' मूर्त्यष्टकम् । (सि० २३७) आचारे ब्राह्मणा वसन्ति, शौर्ये क्षत्रियाः, व्यवसाये वैश्याः, सेवाभावे शूद्राः । अनन्तसिद्धा मतिप्रकाशे । अस्ति कश्चित्परमाद्वैतस्य भावः । स एवात्मेति । शिवस्याभ्यन्तरे शक्तिः शक्तरभ्यन्तरे शिवः। अन्तरं नव जानीयाचन्द्रचन्द्रिकयोरिव ॥ (सि०४।२६) तज्ज्ञेयं सद्गुरोर्वक्त्रान्नान्यथा शास्त्रकोटिभिः । न तर्कशब्दविज्ञानात नाचारावेदपावनात् ॥ वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् । देवार्चनाश्रयाद् भक्त्या नाश्रमाणां,चपालनात् ॥ स्वस्थो योगी स्वयं कर्ता लीलया चाजरामरः । अवध्यो देवदैत्यानां क्रीडते भैरवो यथा ॥ (सि० ५।३१-३४) न गुरोरधिकं न गुरोरधिकं शिवशासनतः शिवशासनतः ॥ (सि० ५।६६) १. साकारस्य-पू० स०। २. पारगात्-मु० पा० । ३. "न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात्" इति मु० पा० । ४. स्वेच्छो-मु० पा०।
गोरक्षसिद्धान्तसग्रह करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः। सम्यगानन्दजनकः सद्गुरु' सोऽभिधीयते ॥ (सि०५।६८) पुनर्वागादिना शास्त्रद्रष्टाऽनुमानात्तर्कमुद्रया भ्रामको गुरुस्त्याज्यः । स्वविश्रान्ति न जानाति परेषां स करोति किम् । शिलया किं पर पारं शिलाजालं प्रताय॑ते । स्वयं तीणे भवेद्योऽसौ परान्निस्तारयत्यलम् । (सि० ५/७३-७४) सर्वदर्शनानां स्वरूपदर्शनेन समन्वयं करोति-सोऽवधूतः स योगी स्यात् । अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः। ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ॥ जितेन्द्रियश्च भगवान् स सुधीः कोविदो बुधः। सर्वेषां दर्शनानां च स्वरूपं स पकाशयेत् ।। (सि० ६।२०-२२) सर्वतो भरिताकारं निबद्धं येन' हितम् । चरते ब्रह्म तद्यस्तु ब्रह्मचारी स कथ्यते ॥ गृहिणीपूर्णता नित्यं गेहं व्योम सदाऽचलम् । यस्तया निवसत्यत्र गृहस्थः सोऽभिधीयते ॥ सदाऽन्तःप्रस्थितो योऽसौ स्वप्रकाशमये वने । वानप्रस्थः स विज्ञेयो न धने मृगवच्चरन् । परमात्मा च जीवात्मा चात्मन्येव स्फुरत्यलम् । तस्मिन्न्यस्तः सदायेन संन्यासी सोऽभिधीयते ॥ (सि०६।३३-३७) न वन्दनीयास्तत्काष्ठा दर्शनभ्रान्तिकारकाः । वर्जयेत्तान् गुरून् दूराद्धीरः सिद्धमताश्रयः ॥ (सि० ६७२) पद्मपुराणे कपिलगीतायाम- दत्तात्रेयादि सिद्धानां नवनाथास्तथैव च । शङ्करं गुरुरूपेण बोधितश्चात्मतत्त्वभिः (१) ॥ ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः । सूक्ष्मवेदो हि अध्यक्षः पञ्च वेदाः प्रकीर्तिताः ॥ ईश्वर उवाच- ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः। तस्मिन्मध्ये स्थितं तत्त्वं प्रदर्शयति सद्गुरुः ॥ १. निजबोधेन-मु० पा०॥ २. स्ते काष्ठा-मु. पा.)
१८ गोरक्षसिद्धान्तसग्रहः ॐ मित्येवं परं ब्रह्म सर्वतत्त्वानुदर्शनम् । आब्रह्मस्तम्बपर्यन्तं सर्वानुग्रहकारकम् ॥ तारकं च भवेद् ब्रह्मा दण्डकं विष्णुरुच्यते । कुण्डल्यां हि तथा रुद्रो अर्द्धचन्द्रः स ईश्वरः ।। बिन्दुः सदाशिवः साक्षात्प्रणवे पञ्चदेवताः । निरञ्जनस्तदतीत उत्पत्तिस्थितिकारणम् ॥ दुर्लभो विषयत्यागी दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ विचारदर्पणं यस्य अवलोकनमीक्षितम् । दृश्यते तत्स्वरूपं च तत्रैकं पृच्छ कि नहि ॥ हृदयं दर्पणं यस्य मनस्तत्र विलोकयेत् । दृश्यते प्रतिबिम्बेन आत्मरूपं सुनिश्चितम् ।। धूतगीतायाम्- आब्रह्मस्तम्बपर्यन्तं सम्पूर्ण परमात्मनि । भिन्नाभिन्नं न पश्यामि तस्याऽहं पञ्चमाश्रमः ।। आशापाशविनिर्मुक्तमादिमध्यान्तनिर्मलम् । अनन्तानन्दब्रह्मज्ञः अकारं तस्य लक्षणम् ॥ (८६) वासना वर्जिता येन वक्तव्यं च निरामयम् । वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ॥ धूलिधूसरगात्राणि धूतचित्तनिरामयम् । ध्यानधारणनिर्मुक्तं धूकार तस्य लक्षणम् ॥ (८७) तत्त्वचिन्ता येन धूता चिन्ता चेष्टाविवर्जिता । तमहंकारनिर्मुक्तं तकारं तस्य लक्षणम् ।। ( ८।६-०.) शिवं न जानामि कथं वदामि शिवं च जानामि कथं वदामि । अहं शिवश्चेत् परमार्थरूपं स्वच्छस्वभाव गगनोपमं च ॥ (११२७) वेदा न लोका न सुरा न यज्ञा वर्णाश्रमौ नैव कुलं न जातिः। न धूममार्गो न च दीप्तिमार्गो ब्रह्मव रूपं परमार्थतत्त्वम् ।। ( ११३४) व्याप्यव्यापकनिर्मुक्तं त्वमेकः सक्लं यदि । प्रत्यक्षं चापरोक्षं च आत्मानं मन्यसे कथम् ॥ (११३५) १. विचारो-पू० सं०। २. सम्पूर्ण-पृ० सं०। ३. आनन्दे वर्तते नित्यं-मु. पा.। ४. परमार्थतत्त्वं च समस्वरूपं-मु.पा. ।
गोरक्षसिद्धान्त सङ्ग्रह. २६ आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्ध इति मे निश्चला मतिः ॥ (१।४४) न बद्धो नैव मुक्तोऽह न चाहं ब्रह्मणः पथक् । न कर्ता नैव भोक्ताऽहं व्याप्यव्यापकवर्जितः ॥ (११५०) न जातोऽहं मृतो वापि न में कर्म शुभाशुभम् । शुद्धोऽहं निर्गुणं ब्रह्म बन्धमुक्ती' कथं मम ॥ (१२५९) यदि सर्वगतो देवः स्थिरः पूर्ण इति स्मृतः । अन्तरं न हि पश्यामि सवाह्याभ्यतरः कथम् ॥ (श६०) भावगम्यं निराकारं साकारं दृष्टिगोचरम् । भावाभावविनिमुक्तमन्तरालं तदुच्यते ॥ (२०१८) साकारं च निराकारं नेति नेतीति सर्वथा। भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवः ॥ दिवानक्तं न ते चित्त उदयास्तमयौ नहि । विदेहस्य शरीरित्वं कल्पयन्ति कथं बुधाः ॥ न ते च माता न पिता न बन्धु न ते च पत्नी न सुहृन्न पुत्रः । न पक्षपातो न विपक्षपातः कथं हि सत्ताऽसि रजो हि चेतः॥ धर्मार्थकाममोक्ष च द्विपदादि चराचरम् । मन्यते योगिनः सर्व मरीचिजलसन्निभम् ।। विन्दति विन्दति नहि नहि मन्त्रश्छन्दो लक्षणमिह नहि तन्त्रः । समरसमन्नो भावितपूतः प्रलपितमेतत्कथमवधूतः ॥ (५।३२ ) अद्वैतरूपमखिलं हि कथं वदामि नित्यं सत्यमखिलं हि कथं वदामि । सत्यं सत्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ (३५) ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति । यद्यकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ॥ (२२४) मायाप्रपञ्चरचना न च मे विकारः कौटिल्यदम्भरचना न च मे विकारः। सत्यानृतेतिरचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ( ३१२७) शुन्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किश्चित् स्वरूपरूपं परमार्थसत्त्वम् ।। ( ४५) नावाहनं नैव विसर्जनं च पत्राणि पुष्पाणि कथं भवन्ति । ध्यानानि मन्त्राश्च कथं भवन्ति समासमं सर्व शिवार्चनं च ॥ (४१) न १. बन्धमुक्तो-१० सं० । ३. प्रलयति तस्वं परमवधूतः-मु० पा० । २. पूर्णो निरन्तर:-मु० पा०। ४. चैव-मु० पा० ।
गोरक्षसिद्धान्तसङ्ग्रहः नाहं न च पण्डितोऽहं मौनं च वार्ता' न च मे कदाचित् । वितर्क च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ॥ ( ४।२०) नैव सदोदितोऽहं तमश्च तेजो न च मे विभाति । के कर्म कथं करोमि स्वरूपनिर्वाणमनामयोऽहम् ।। (४।२२) तत्त्वमसिप्रभृतिश्रतिभिः प्रतिपादितमात्मनि तत्त्वमसि । गविवर्जितसर्वसमं किमु रोदिषि मानस' सर्वसमम् ॥ (५।२) कल्पितभागविभाग इति नहि रागविराग विचार इति । विवर्जितसर्वसमं किमु रोदिषि मानस' सर्वसमम् ॥ (५।४) विवेकमबोध इति अविकल्पविकल्पविबोध इति । चैकनिरन्तरबोध इति किम रोदिषि मानस सर्वसमम् ॥ (५।१०) श्रुतयः प्रविदन्ति यतो वियदादिरिदं मृगतोयसमम् । चैकनिरन्तरसर्वसमं किमु रोदिषि मानव सर्वसमम् ॥ ( ५।३१) क्तिविभक्तिविहीनपरमणुकायविका विहीनपरम् । चैकनिरन्तरसर्वशिवं यजनं च कथं स्तवनं च कथम् ।। (६२) त्रिविभेदनिराकरणमुदितानुदितस्य निराकरणम्। चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ॥ (६४) न च आश्रमवर्णविहीनपरो न तु कारणकर्तृविहीनपरः। यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारवचांसि कथम् ॥ पिकायाम्- क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ वर्जयेद्दर्जनप्रीति वहिस्त्रीपथिसेवनम् । स्नानोपचारादि कायक्लेशादिकं तथा ॥ चले वाते चलं चित्तं निश्चले निश्चलं तथा । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ ब्रह्मादयोऽपि त्रिदशा पवनाभ्यासत्तत्पराः। तेन सिद्धिं गतास्ते च तस्मात्पवनमभ्यसेत् ॥ विमोनं-मु० पा० । २. वदामि-मु० पा०। मानव सर्वसमः-मूलमातृकायाम् । ४. कारणकार्य०-मु• पा० । . अवि०-मु० पा०। ६. ननु कार्य विकार्य-मु०पा.। शिवः-प० सं० । ८. तपनं-मु. पा.। चन्द्रमसोज्वलन-पू० स०। प्रातः ( ५६ ) पक्षपावा तया समपक्षपातया ( बहुव्रीहिसमास.) भवत्या, अनुरागपूर्वकम् । स- तम्-अनासक्तम्, अव्यसनितया अर्थात् बिना किसी आसक्ति के, निस्सङ्ग भाव से । सङ्ग् + क्त कर्तरि = सक्तः, न सक्तः असक्तः (नञ् तत्पुरुष ) तत् यथा स्यात्तथा असक्तम् (क्रियाविशेषण) । श्रारावयत. अस्य-सेवमानस्य दुर्योधनस्य । आ + राध् + लट् लकार-शतृ प्रत्यय, षष्ठी एकवचन । अर्थात् सेवन करते हुए उस दुर्योधन का । त्रिगणः-त्रिवर्ग. । त्रयाणा, धर्मार्थकामाना गणः (षष्ठी तत्पु०) इवि त्रिगराः । धर्म, अर्थ एव काम-इन तीनो को त्रिवर्ग कहते है। नाटक से इन्ही तीनो की सिद्धि बताई गई है-'त्रिवर्गसाधन नाट्यम् ।' त्रिवर्ग मे 'मोक्ष' को भी सयुक्त कर देने पर 'पुरुषार्थचतुष्टय' संज्ञा बनती है। त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गः समोक्षक: इत्यमरः । गुणानुरागात्-गुणवदाश्रयलोभात् । गुणो मे अनुराग होने के कारण अथवा ( दुर्योधन के ) गुगणानुरोधवश । गुणेषु अनुराग ( अनु + रङ्ग् + घन भावे ) इति गुणानुराग ( सुप्सुपा), तस्मात् । 'हेतौ पञ्चमी' इस नियम से हेतु ( कारण ) के अर्थ में पञ्चमी विभक्ति हुई है किन्तु 'विभाषा गुणेऽस्त्रियाम्' नियम से वह वैकल्पिक ही है। सूत्रका अर्थ यह है कि- 'स्त्रीलिङ्ग से भिन्न लिङ्ग वाले गुणवाचक शब्दो मे हेत्वर्थक पञ्चमी विभक्ति विकल्प से ही होती है ।' सख्यम्- मैत्रीभावम् । मित्रता को। सख्युर्भाव सख्यम् (सखि + य प्रत्यय-'सख्युर्यः' स्त्र से )। ईयिवान् इव प्राप्तवान् इव । प्राप्त किये हुये से । इण् गतौ +लिट्- क्वसुः सु विभक्ति । परस्परम्- अन्योऽन्यम् । एक दूसरे को । परम्-परम् इति परस्परम् । 'कर्म का व्यतिहार अर्थात् क्रिया की अदलाबदली सूचित करने के लिये प्राय सर्वनाम शब्द का द्वित्व हो जाता है और प्रायः उनमे समास भी कर दिया जाता है ऐसा वातिककार आचार्य कात्सायन का मत है- 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्' । परन्तु आचार्य भट्टोजि दीक्षित अन्य तथा पर शब्दो मे समासवभाव मानते ही नहीं 'अन्यपरयोः न समासवत्' । इस प्रकार कर्मव्यति- हार के कारण सर्वनाम 'पर' को द्वित्व तो हुआ 'परस्परम्' किन्तु समास नहीं हुआ ( अन्यथा 'परपरम्' रूप बनता) अब, जब 'परम्-परम्' के बीच समास नही हुमा तो पूर्वपदस्थ (पहले पर मे स्थित ) सुप् को सु हो गया, वार्तिक है- असमासवद्भावे पूर्वपदस्थस्य सुपः सुवकाव्यः । इस प्रकार-पर + सु+ परम् = परस्परम् । न बाधते-विरोध नहीं करता है (बाध धातु, लट्लकार प्रथमपुरुष, एकवचन)। प्रस्तुत श्लोक मे 'ईयिवान् इव' आदि शब्दो द्वारा एक सम्भावना व्यक्त की गई, है अतएव यहाँ उत्प्रेक्षा अलङ्कार है-'सम्भावनमथोत्प्रेक्षा' ।
३२ गोरक्षसिद्धान्तसङ्ग्रहः ७ -- दिव्यगन्धो दिव्यचक्षुस्तेजस्वी' स्यादरोगवान् । सम्पूर्णहृदये शून्ये आरम्भो योगवान् भवेत् ॥ ( ७१।१ ) अथ घटावस्था- द्वितीयायां घटीकृत्य वायुर्भवति मध्यमः । हदासनो भवेद्योगी ज्ञानी देवसमस्तथा ॥ ७२ विष्णुप्रन्थिर्यदा भिन्नः परमानन्दसूचकः। अतिशून्यविभेदश्च भेरीशब्दस्तथा भवेत् ॥ ७३ ॥ अथ परिचयावस्था- तृतीयायां ततो भित्त्वा विमायो मलध्वनिः । महाशून्यं तथा याति सर्वसिद्धिसमाश्रयम् ॥ ७४ ॥ चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः । दोषदुःखक्षुधानिद्राजरामृत्युविवज्जितः ॥७५॥ अथ निष्ठावस्था- रुद्रग्रन्थि ततो भित्वा सर्वपीठगतोऽनिलः । निष्पन्नो वैष्णवः शब्दः कणद्वीणाकणो भवेत् ॥७६ ॥ अस्तु वा माऽस्तु वा मुक्तिरत्रैवाऽखण्डितं महत् । लयामृतमिदं सौख्यं राजयोगादवाप्यते ।। ७८ ॥ राजयोगपदं प्राप्तं सुखोपायं सुचेतसाम् । सद्यः प्रत्ययसंधायी जायते नादजो लयः।। ८०॥ नादानुसन्धानसमाधिभाजां योगीश्वराणां हृदये प्ररूढ़म् । आनन्दमेकं वचसामवाच्यं जानाति तं श्रीगुरुनाथ एव ॥ नादकोटिसहस्राणि बिन्दुकोटिशतानि च । सर्वे तत्र लयं यान्ति यत्र देवो निरञ्जनः ।। योगिनां ज्ञानविदुषामन्येषां च महात्मनाम् । प्राप्तं तं कालपुरुष सुविज्ञाप्यं विचक्षणैः ॥ यावन्नैव प्रविशति मरुद्विज्वरो मध्यमार्गे यावद्विन्दुनं भवति दृढ़ः प्राणवत्सुप्रबद्धः । १. दिव्यदेहश्च तेजस्वी दिव्यगन्ध -मु० पा० । २. हृदयः शून्य-मु० पा० । ३. मध्यगः-मु० पा० । ४. अतिशून्ये विमर्दश्च-मु० पा०, ५ तु विज्ञेयो विहायो-मु० पा० । ६. तदा-मु० पा० । ७. दोषदुःखजराव्याधिक्षुधानिद्रा-मु० पा० । ८. शर्वपीठ-मु. पा० । ९. पायोल्प-मु० पा० ।
गोरक्षसिद्धान्तसङ्ग्रहः ३३ यावद्वयोम्नः सहजसदृशं जायते नैव तत्त्वम् तावत्सर्व वदति यदिदं दम्भमिथ्याप्रलापः॥ हठप्रदीपिकायां दशमोपदेशे-- आदिनाथोदित सर्वमष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं महतामपि । पीड्यते न तु रोगेण न च लिप्यत कर्मणा । बाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम् ।। ऊवं षोडशपत्रपनगलितं प्राणादवाप्तं हठा- दूर्ध्वास्यो रसनां नियम्य विवरे शक्ति परां चिन्तयेत् । उत्कल्लोलकलाजलं च विमलं धारामृतं यः पिबेत् निर्दोषः स मृणालकोमलवपुर्योगी परं जीवति ॥ यत्पाताले विशति सुषिरं मेरुमूले तदस्ति तस्मिस्तत्त्वं प्रविशति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः सवति वपुषस्तेन मृत्युनराणां तं बध्नीयात् सुकरणमथो नान्यथा कायसिद्धिः॥ वद्धं मूलबिलं येन तेन विघ्नो विदारितः। अजरामरतां याति यथा पञ्चमुखो हरः॥ तत्रास्ति कारणं दिव्यं सूर्यस्य मुखबन्धनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः॥ येन सञ्चालिता शक्तिः स योगी सिद्धिभाजनम् । किमत्र बहुनोक्तेन कालं जयति लीलया। ज्ञानं कुतो मनसि जीवति देवि यावत् , प्राणेऽपि जीवति मनो नृपते न तावत् । प्राणो मनोद्वयमिदं विलयं प्रयाति, मोक्षं स गच्छति नरो न कथञ्चिदन्यः॥ इन्द्रियाणां मनो नाथो मनोनाथश्च मारुतः। मारतस्य लयो नाथः स लयो नादमाश्रितः ॥ अन्तर्लक्ष्य बर्हिष्टिनिमेषोन्मेषवर्जितः। एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता॥ शक्तिमध्ये मनः कृत्वा शक्ति मनसि मध्यतः । मनसा मन आलोक्य धारयेत्परमं पदम् ।। अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्ण कुम्भ इवाम्भसि ।। १. हठप्रदीपिकायाश्चत्वार एवोपदेशा उपलभ्यन्ते ।
४ गोरक्षसिद्धान्तसङ्ग्रहः सङ्कल्पमात्रकलनैव जगत्समग्रं सङ्कल्पमात्रकलना हि मनोविलासः । 'सङ्कल्पमात्रकलनैव कृतिस्तु नित्या सङ्कल्पनिश्चयमवाप्नुहि चात्मशान्तिम् ।। (४।५८) ज्ञेयं सर्वमतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं मनश्चैव नान्यः पन्था द्वितीयकः । (४।६०) श्री आदिनाथेन सपादकोटिलयप्रकाराः कथिता जयन्ति । नादानुसन्धायकमेव नान्यं मन्यामहे धन्यतमं लयानाम् ।। (४।६६) मनःस्थैर्य स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्योदयात्सत्यं पिण्डस्थैर्य प्रजायते ॥ न्यासतः सुप्रसन्नात्मा निर्द्वन्द्वो विजितेन्द्रियः । कुरुते युक्तकर्माणि नित्यनैमित्तिकानि च ॥ योगेन पदमात्मानं गुहायां प्राप्यते च सा । तारकं जपते नित्यं जितासुः कामवजितः ।। युक्तासने समारुह्य समकायशिरोधरः। नासाग्रदृष्टिरेकाकी जपेदोङ्कारमक्षरम् ॥ भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्यामिदेवताः। यस्य मात्रासु तिष्ठन्ति तत्परज्ज्योतिरोमिति ।। अकारश्च उकारश्च मकारो बिन्दुसंज्ञकः । त्रिधा मात्रा स्थिता यत्र तत्परज्योतिरोमिति ॥ त्रयः कालानयो वेदास्त्रयो देवालयोऽग्नयः । त्रयो लोकाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ इच्छा क्रिया तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी । त्रिधी शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ।। वचसा च जपेद्विद्वांश्चक्षुषा च समभ्यसेत् । मनसा संस्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ शुचिर्वाप्यशुचिर्वापि यो जयेत्प्रभवं सदा । नस लिप्यति योगेन पनपत्रमिवाम्भसा ।। शरीरं नों त्यजेंदेवं कालः कस्यापि कुत्रचित् । अन्तःशरीररक्षार्थ यत्नः कार्यस्तु योगिना ॥ ततो लक्ष्यमनोऽभ्यासमहंभावविवजितम् । सर्वाङ्गकल्पनाहीनं कथं कालो जयेत तम् ॥ १. सङ्कल्पमात्रमतिमुत्सृज निर्विकल्पमाश्रित्य-मु०पा० । २. शान्तिः पू० सं०॥ ३. समं नष्ट-मु० पा०। ४. न सन्ति-पू००।
गोरक्षसिद्धान्तसङ्ग्रहः ३५ स एव काले स शिवः स सर्वो नापि किञ्चन । क. केन हन्यते तत्र म्रियते वापि कश्चन ॥ ततो व्यतीते समये कालस्य भ्रान्तिरूपितम् । योगी सुप्तोत्थित इव बोधं याति निबोधतः ॥ एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः। कालं कलितसंसारं पौरुषेणाद्भुतेन च ॥ तत्रापि भवने योगी विहरत्येक एव सः । पश्यन्संसारवैचित्र्यं स्वेच्छया निरहकृतिः ॥ द्वाराणां नवकं निरुद्धथ मरुतं पीत्वा दृढं धारितम् नीत्वाऽऽकाशमपानवह्निसहितं शक्त्या समुच्चालितम् । आत्मध्यानयुतस्त्वनेन विधिना विन्यस्य मूनि ध्रुवम्' यावत्तिष्ठति तावदेव मरुतां सङ्घन संस्तूयते ॥ (वि०मा० ६१००) दृष्टिः स्थिरा यस्य विनापि दृश्यं वायुः स्थिरो ग्रस्य विना प्रयत्नम् । चित्तं स्थिरं यस्य विनावलम्बं स एव योगी स गुरुः स सेव्यः । गोरक्षोपनिषदि- आदौ देवो महानन्दानिर्ममे देवता स्वयम् । तस्मादिच्छासुसम्पन्ना इच्छा ज्ञानं ततः क्रिया ।। ततो व्यधां वरारोहे पिण्डब्रह्माण्डबुबुदम् । अव्यक्तान्यक्तभावेन बिचरामि जगत्त्रये ॥ एवं श्रीगुरुः आदिनाथः, मत्स्येन्द्रनाथः, तत्पुत्र उदयनाथः, दण्डनाथः, सत्य- नाथः, सन्तोषनाथः, कूर्मनाथः, भवनार्जिः, तस्य श्रीगोरक्षनाथः, ईश्वरसन्तान आदिाह्मणः सूक्ष्मवेदी, अद्वैतोपरि सदानन्द देवता, अनाहतशृङ्गी, खेचरीमुद्रा । विवेकमार्तण्डे- अन्तर्निरचलितात्मदीपकलिकास्वाधारबन्धादिभि'- र्यो योसी युगकल्पकालकलनात्वं च यो गीयते । ज्ञानामोदमहोदधिः समभवद्यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिक-तमनिशं श्रीमीननाथं भजे ॥ - १. प्रणामविधिनावष्टभ्य मूर्ना भ्र व-मु० पा० । २. तावदायनगत श्रेयः फल विन्दति-मु. पा० । १. बेधादिभिः--पू० स०।
ar गोरक्षसिद्धान्तसङ्ग्रहः अजपानाम गायत्री योगिनां मोक्षदायिनी। अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ अनया सहशी विद्या अनया सहशो जपः। अनया सदृशं ज्ञानं न भूतो न भविष्यति ॥ (६६३५-३७) अनया सदृशं तीर्थमनया सशः क्रतुः । अनया सदृशं पुण्यं न भूतं न भविष्यति ॥ अनया सहशं स्वय॑मनया सदृशं तपः। अनया सदृशं वेद्यं न भूतं न भविष्यति ॥ एतत्कालभयाद् ब्रह्मा प्राणायामपरायणः। योगिनो मुनयः सर्वे ततो वायुं नियन्त्रयेत् ॥ यत्सर्व द्वन्द्वयोरैक्यं जीवात्मपरमात्मनोः । समस्तनष्टसङ्कल्पः समाधिः सोऽभिधीयते ॥ अवेद्यः सर्वशास्त्राणामभेद्य सर्वदेहिनाम् । अग्राह्यो मन्त्रयन्त्राणां योगी युक्त. समाधिना ॥ हेतुदृष्टान्तनिमुक्तं मनोबुद्धयाद्यगोचरम् । व्योमविज्ञानमानन्दं तत्त्व तत्त्वविदो विदुः ।। यथा घृते घृत क्षिप्तं घृतमेव हि जायते । क्षीरे क्षीरं तथा योगी तत्त्वमेव हि जायते ।। यावद्विन्दुः स्थितो देहे तावन्मृत्युभय कुतः। यावद्वद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति ॥ (६६१) बिन्दुः शिवो रजः शक्तिबिन्दुरिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ( ६६५) या पृथ्वी हरितालहेमरुचिरा तत्त्वं लकारान्वितम् संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी । प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेत् एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ।। (वि० ६१४६) अर्द्धन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितम् यत्पीयूषवकारबीजसहितं युक्त सदा विष्णुना । प्राणं तत्र विलीय पञ्चटिकं चित्तान्वितं धारयेत् एषा दुःसहकालकूटजरणा स्याद्वारुणी धारणा ॥ १४७॥ यत्तालस्थित इन्द्रगोपसदृशं तत्त्वं त्रिकोणं ज्वलत्- तेजो रेफयुतं प्रवालरुचिरं रुद्रेण यत्सङ्गतम् ।
गौरक्षसिद्धान्तसग्रहः ३७ प्राणं तत्र विलीय पञ्चघटिक चित्तान्वितं धारयेत् एषा वह्निजयं सदा विदधती वैश्वानरी धारणा ॥ १४८ ॥ यद्भिन्नाञ्जनसन्निभं मिदं वृत्तं भ्रवोरन्तरे तत्त्व वायुमयं यकारसहितं तत्रेश्वरो देवता । प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारयेत् एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ १४९ ।। आकाशं सुविशुद्धवारिसदृश यद्ब्रह्मरन्धो स्थितम् यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम् । प्राणं तत्र विलीय पञ्चघटिक चित्तान्वितं धारयेत् एषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा ॥ १५० ।। स्नातं तेन सहस्रतीर्थसलिले दत्तं द्विजेभ्यो धनम् यज्ञानां च हुतं सहस्रमयुतं देवाश्च सम्पूजिताः। सत्यं तेन सुतर्पिताश्च पितरः स्वर्ग च नीता पुनर्- यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोति धैर्य मनः ॥ राजगुझे भीकृष्णकृतगोरक्षनाथस्तोत्रे- गकारो गुणसंयुक्तो रकारो रूपलक्षणः । क्षकारेणाक्षयं ब्रह्म श्रीगोरक्ष नमोऽस्तुते ।। ब्रह्मणां च परं ब्रह्म रुद्रादीनां शिरोमणे । त्रैलोक्यं निर्मितं येन श्रीगोरक्ष नमोस्तु ते ॥ सर्वगुणो गुणाभावो निर्गुणश्च गुणस्थितः । साकारो वा निराकारः श्रीगोरक्ष नमोस्तु ते ॥ स्वः पूजयन्ति देवास्तं मर्त्यलोके च मानवाः। पाताले नागलोकाश्च श्रीगोरक्ष नमोस्तु ते ॥ एकाकी वर्तते नित्यं भवपाशविवर्जितः। परं ब्रह्माक्षयं ज्योतिः श्रीगोरक्ष नमोस्तु ते ।। श्री गोरक्षस्येदं स्तोत्रं स्वयं कृष्णेन निर्मितम् । भक्तिभावविनिर्मुक्तो दासोऽहमिति भावयेत् ॥ आकाशं मन्दिरं यस्य नानारत्नोपशोभितम् । हस्तमध्ये स्थितं शम्भोरभय वरदायकम् ॥ नमन्ति ब्रह्मा विष्णुश्च सुरा नृमुनयस्तथा । ज्ञानसाराखिलाः सिद्धाः श्रीगोरक्ष नमोस्तु ते॥ श्री नाथं तु महात्मानं न जानाति स्वयं हरिः। किञ्चित्किञ्चिद्विजानाति महादेवनमस्कृतम् ॥
३८ गोरक्षसिद्धान्तसङ्ग्रहः श्रीनाथश्चाक्षयो देवो देवानामप्यगोचरः। तत्पादौ चिन्तयेद्योगी अक्षयो योगनिश्चलः ॥ कल्पद्रुमतन्त्रे श्रीगोरक्षकवचे- योगीश्वरं चादिकाथं सर्वव्याप्यं महेश्वरम् ॥ कल्पदुमतन्त्र श्रीगोरक्षसहस्रनामस्तोत्रे शुद्धस्फटिकसङ्काशं जटाजूटं त्रिलोचनम् । निरञ्जनं निराकारं निविकल्पं निरामयम् ।। त्रिमूर्ति च त्रिलोकीशं विधिविष्णुमहेश्वरम् । विश्वरूपं सदाकारं गोरक्षं नाथदैवतम् ॥ विद्यापतिर्मन्त्रनाथो ध्याननाथो निरञ्जनः । नित्यनाथो भूतपतिर्नित्यानन्दो महीपतिः ॥ सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः । सृष्टिनाथः स्थितिनाथो हारनाथो महागुरुः॥ रमणो रामभद्रश्च रामनाथो जनाईनः। घटस्थापनका-णि मुक्तिकाय्ये विशेषतः ॥ विना गोरक्षमन्त्रेण न कर्तव्य कदाचन । आगमोक्तानि कर्माणि वेदिकानि तथैव च । विना गोरक्षमन्त्रेण न सिध्यन्ति कदाचन ॥ सारसङ्ग्रहे ब्रह्माण्डपुराणे ललितापुरवर्णने ललिताखण्डे- तस्य चोत्तरकोणे तु वायुलोको महाद्युतिः । तत्र वायुशरीराश्च सदादाममहोदयाः।। सिद्धदिव्यर्षयश्चैव पवमाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः॥ द्वात्रिंशत्तमेऽध्याये- नाथान्तरमितिप्रोक्तं हस्तविशति चोन्नतम् । चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ।। तत्र नाथा महादेव्या योगशास्त्रप्रवर्तकाः। सर्वेषां मन्त्रगुरवः सर्वविद्या महातपाः ॥ चत्वारो योगनाथास्तु लोकानामिह गुप्तये । तुष्टाः कामेशदेवेन तेषां नामानि मे शृणु ॥ - ॥ १. साधक्तवा-प. सं। २. मच्छण-पू० सं०। - गोरक्षसिद्धान्तसङ्ग्रहः ३६ ... - 'मित्रीशोड्डीशषष्ठीशचऱ्याख्या कुम्भसम्भवाः। तैः सृष्टा बहवो लोका रक्षार्थ पादुकात्मकाः ॥ दिव्यौधा तेषां नामानि मे शृणु । २मित्राद्या मानवौघाश्च सिद्धौघाः सुरतापसाः ।। प्रायः सालोक्यसारूप्यसायुज्यादिकसिद्धयः । महान्तो गुरवस्तांस्तु सेवन्ते चतुरो गुरुन् ॥ (उ० भा० उप० पा० ३७।३६-३१) स्कन्दपुराणे काशीखण्डे- मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषन्ति वै । विद्विषो मम ते झेयाः पिशाचपदगामिनः ॥ अध्यासतेऽन्धतामिस्रं मृतास्तेऽन्यत्र सन्ततम् । शिवनिन्दापरा ये च ये पाशुपतनिन्दकाः ॥ विद्विषो मम ते ज्ञेयाः पतन्तो नरकेऽशुचौ । अष्टाविंशतिकोटीषु नरकेषु क्रमेण हि ॥ कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिन्दकाः । विश्वेशानुग्रहं प्राप्य मुनेऽहमपि मुक्तिदः ।। मद्भक्तस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम्। इयं वाराणसी ज्ञेया पशुपातरथस्थली ॥ तन्त्रमाणवे- रक्तनेत्रं हीनछाया रक्तं गात्रं तपस्विनः। मूर्तिः प्रसन्नवदना स्वल्पवाणी च कथ्यते ॥ चतुरशीतिसिद्धानां पूर्वादीनां दिशां न्यसेत् । एकविंशतिसङ्ख्याकं स्थानं नानां च कथ्यते॥ मवनाथा दिशो 'यष्टावेको मध्ये व्यवस्थितः। नवनाथस्थितिश्चैव सिद्धथागमेन कारयेत् ॥ गोरक्षनाथो वसेत्पूर्व जगन्नाथवने स्थितः। क्रोशत्रये वसेन्नित्यमको नाथः स उच्यते ॥ जालन्धरो वसेन्नित्यंमुत्तरापथमाश्रितः। ज्वालामुखी पञ्चक्रोशवनमुत्तरमाश्रितः ॥ १. मित्री च शोदिशश्चैव चर्याख्यः कुम्भ:-पू० स० २. दिव्यविद्यामानवोध-पू०सं० । ३. प्राप्तः। ४. संवेताश-पू० सं०। ५. पाशुपत -पू० सं०। ६. दिशाद्यष्टा-पू० सं०। - ५० गोरक्षसिद्धान्तसङ्ग्रहः - नागार्जुनो महानाथोज्वालायेशानसंश्रितः(१)। सप्तकोशे वने चैव तपस्यति महातपः॥ सहस्रार्जुनो दक्षिणे च गोदावरीवने स्थितः। दशक्रोशप्रमाणेन तपस्यति महातपः॥ दत्तात्रेयो महानाथ पश्चिमायां वसेदिशि । सरस्वतीपश्चिमे च नवक्रोशं समाश्रितः ।। देवदत्तो वसेन्नित्यमग्निकोणं समाश्रितः। पञ्चकोशसमाने तु वायव्यां भरतो जड़ः ।। सप्तकोशप्रमाणेन आदिनाथो वसेद्भुवि । कुरुक्षेत्रे मध्यदेशे क्रोशत्रयवने स्थितः ॥ नैऋतेतु दिशां भागे मत्स्येन्द्रस्त्वेव वारिधे । नाथस्थानानि वक्ष्यामि महागोप्यं न कथ्यते ॥ षोडशनित्यातन्त्रे- कादिसंज्ञा भवेद्पा सा शक्तिः सर्वसिद्धये । तया तैर्भुवने तन्त्रं कल्पे कल्पे विजम्भते ॥ अवसाने तु कल्पानां सा तैसा बजेषमाम् । नामपर्यायतोऽवाप्तं कालावाप्तमितिद्वयम् । प्रसिद्धं बाह्यतो यच्च त्रीणि नामानि साधके। नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिद्धथै स्वीकृताऽनेकविग्रह ।। नवरूपाय परमार्थंकरूपिणे। सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ।। स्वतन्त्राय दयाशक्तिविग्रहाय रसात्मने । परतन्त्राय शक्तानां भव्याय भब्यरूपिणे ॥ रुद्रयामले रससाधनप्रकरणे- शिवरात्रिदिने प्राप्ते आरभ्यं कार्यसाधकैः । चतुःषष्टिप्रमाणेन कोष्ठं कृत्वा तु भैरवम् ।। पार्श्वयोर्मूर्तिमालाश्च मध्ये मूर्तिश्च विन्यसेत् । तस्याने जुहुयात्पश्चाद्धेमसिद्धिः प्रजायते ॥ रतोपवीतवासस्तु दद्याद्वै द्विजपुङ्गवम् । कोष्ठसख्या तदर्वार्द्धयोगिनीयंत्र पूजयेत् ।। शृङ्गीनादेन ते सर्वे मनसाहादकारिणा । १. मत्स्येन्दरस्तु--पू० सं०। नवाय - - गोरक्षसिद्धान्तसङ्ग्रह रक्तो नस्वहकः १ श्रेष्ठः स्कन्धाने शृङ्गमाश्रितः ॥ मुखं कमलया युक्तं नेत्रे कमलभूषणम् । पृष्ठे च कमलाकारं हंसगत्या विराजितम् ।। रक्तवासोत्तरीयेन वरमन्त्रं पुरो न्यसेत् । रक्तचन्दनसंघृष्टमपूपस्योपरि न्यसेत् । स्वादयेत्पञ्चदिवस पश्चात्पुण्ये समर्पयेत् । रसायनी महाविद्या सिद्धिर्भवति निश्चितम ।। तारासूक्तौ- प्रणवो निर्गुणः प्रोक्तः सर्वाद्यो वेदगोचरः । वेदमाता तु गायत्री तदाद्यः प्रणवः स्मृतः ॥ कुलार्णवतन्त्र द्वादशोल्लासे- श्रीनाथचरणाम्भोज यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः। नास्ति शाक्तात्परो मार्गों न पुण्यं कुलपूजनात् ॥ (१२।११-१२) वायुपुराणे शिवस्तोत्रे- अप्रमेयाय गोप्ने च निर्गुणाय गुणाय च । वादप्रियाय सभ्याय मुद्रामणिधराय च ॥ वायु० २४|१४९ । देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ।। अतिः स्मृति. सदाचारः स्वस्य च प्रियमात्मनः सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ इज्याचारमा हिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ।। चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा। सा ब्रूते यं स धर्मः स्यादेकों वाऽध्यात्मवित्तमः ।। पटशाम्भवरहस्ये- पृथ्वी कौ महादेवी नाथाः शास्त्रस्य बन्धकाः। ब्रह्मतत्त्वविदित्याद्याः शरभाधास्तु रक्षकाः॥ १. नम्वहक:-पू० सं० । २. सप्तदिवसं-पू० सं०। ३. नहि शाक्तात्परा दीक्षा-मु. पा० । ४. अप्रमेयाय दीप्ताय दीप्तये निर्गुणाय च । नम प्रियाय वामाय मुद्रामणिधराय च ॥ -म• पा० । ६ - ૪૨ गोरक्षसिद्धान्तसङ्ग्रहः - नाथान्तो वा महेशानि' त्रितयं त्रितयं त्रिषु । ईशाख्यस्तु महेशानि केरलान्तर्गतो' भवेत् ॥ सूतसंहिताया यज्ञवैभवखण्डे द्वितीयेऽध्याये- विष्ण्वादीनां तु देवानां ध्यानं चाधममिष्यते । अतो मोक्षार्थिभि. प्राज्ञैः शिव एकः शिवङ्करः ।। ध्येयः सर्व परित्यज्य शिवादन्यत्तु दैवतम् । अस्मिन्नर्थे श्रतिः साध्वी समाप्ता वेदवित्तमाः॥ अपक्कचित्तैर्मोक्षार्थ देवाविष्ण्वादयोऽपि च । ध्येयाः पक्कैः शिवो ध्येयः साक्षात्संसारमोचकः।। रुद्रं विश्वाधिकं विष्णुं ब्रह्माणं चान्यमेव च । समं चिन्तयतः साक्षात्संसारः परिवर्तते ॥ महापापवतां पुंसां पूर्वजन्मसु सुव्रताः। विष्णुः सर्वाधिको भाति न साक्षात्परमेश्वरः ।। विष्णुः सर्वाधिको नान्य इति चिन्तयतां नृणाम् । नास्ति संसारविच्छित्ति. कल्पकोटिशतैरपि ।। तेषां नैव च मोक्षाशा कल्पकोटिशतैरपि । ब्रह्मादिदेवतानां च विश्वाधिक्यं वदन्ति ये। अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।। सं० य. वै० खं० २०५३-६१) आदिनाथसहितायाम्- कौलिकान्कुलमार्ग च कुलद्रव्यं कुलाङ्गनाः । ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ।। येऽसूयन्ते च शकन्ते मिथ्येति प्रवदन्ति ये। ते शाकिनीमुखे यान्ति सदारसुतबान्धवाः ।। पिबन्ति शोणितं तस्य चामुण्डा मांसमुत्त्वचः । अस्थिनी चर्वयन्त्यस्य योगिनीभैरवीगणाः ।। (सू० १. वामदेशानि-पू० सं० । २. केरलान्तरतो-प० सं० । ३. संसारे-मु० पा० । ४. अतः परं "विष्णुः सर्वाधिको भाति नारकी स न सशयः । इति पू० सं० अधिक: पाठः ।
- ( ६८ ) का प्रयोग है यहाँ] । क्षेमम्-भव्यम्, कल्याण को, मङ्गल को । वितन्वति-आवहति (सति), वितरित करते रहने पर । आचार्य मल्लिनाथ लिखते है- 'क्षेमङ्करे सति' अर्थात् कल्याणसाधक बने रहने पर (वि + तन्+शत, सप्तमी एकवचन) । अदेव- मातृका-अवृष्ट्यम्बुजीविनः, वर्षाजल के भरोसे न रहने वाले । इन्द्र को वर्षा का देवता माना जाता है यदि प्राकृतिक वर्षा न हो तो कृषिकार्य का होना सवथा असम्भव हो जाता है । अतएव 'वर्षा का देवता' (इन्द्र या पर्जन्य) ही किसानो के लिए 'माता के समान है । क्योकि मी ममतामयी होती है, शिशु को भूखा मरता नही देख सकती । इस प्रकार वर्षा- देव ही जिनकी मां हो उन किसानो को 'देवमातृक' कहा जायेगा और जो वृष्टिदेवता के भरोसे न रहकर स्वय खेतीबारी कर ले, राज- कीय सेचनसाधनो से वे 'अदेवमातृक' है। अमरकोष ऐसे प्रदेश को 'नदी मातृक' की सजा देता है-'देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालत. । स्यान्नदीमातृको देवमातृ- कश्च यथाक्रमम् ।' यद्यपि देवमातृक प्रदेश नदीमातृक प्रदेशो से कही अधिक सुख- सम्पन्न होते है फिर भी सुयोधन ने अपने साम्राज्य मे सिचाई आदि का इतना सुखद प्रबन्ध किया है कि कुरुप्रदेश मे कोई कष्ट नहीं है । यह भी उसकी लोकप्रियता का परिचायक है। देव. वृष्टिरूप माता येषा ते देवमातृकाः (बहुव्रीहिसमास. समासान्त कप् प्रत्ययः ) न देवमातृकाः इति अदेवमातृकाः (नन तत्पु०) । कुरव कुरूणा निवासा कुरवो जनपदविशेषा., सुयोधन द्वारा प्रशासित कुरुजाङ्गल-प्रदेश (कुरु + अ + जनपदे लुप्) । अकृष्टपच्या इव- अयत्नपरिणताः इव कर्ष- शादि ( जुताई ) के बिना ही पकी हुई, (सस्यसम्पद का विशेषण) खेत की जुताई आदि करके जो फसल पकाई जाय, प्राप्त की जाय उसे 'कृष्टपच्या' कहते हैं-कृष्टेन कृष + क्त कर्मणि + टा) कर्षरणेन पच्यन्ते इति कृष्टपच्या (कृष्ट + पच् + क्यप् कर्मकर्तरि-'राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथा ' सूत्र से निपात- नात् क्यप् प्रत्यय का प्रयोग । न कृष्टपच्या इति अकृष्टपच्याः (नम् तत्पु० )। इव का प्रयोग उत्प्रेक्षा के अर्थ मे हुआ है । कृषीवलैः-कर्षके इत्यर्थ. अर्थात् कृषकगणो द्वारा । जिनके पास खेतीबारी हो वे कृषीवल है-कृषि अस्ति एषाम् इति कृषीवला: ( कृषि + वलच् प्रत्यय मत्वर्थीय ), तैः कृषीवलैः ( अनुक्ते करि तृतीया ) मत्वर्थीय वलच् प्रत्यय यहाँ ‘रज कृष्यासुतिपरिषदो वलच्' सूत्र से हुआ है । तात्पर्य है-रजस् कृषि, आसुति और परिषद्-इन शब्दो से मत्वर्थ मे वलच् प्रत्यय हाता है । वस्तुत. इस नियम से भी रूप बनना चाहिये था-'कृषिवलैः' परन्तु कृषि का ह्रस्व इकार दीर्घ हो गया है 'वले' सूत्र से, जिसका अर्थ है-वलच प्रत्यय परे रहने पर पूर्ववर्ती स्वर दीर्घ हो जाता है । कृषीवल का अर्थ है किसान-'क्षेत्राजीवः - .
. - ( ६ ) कर्षकश्च कृषकश्च कृषीवल:' इत्यमरः । सुखेन लभ्या -बिना किसी आयास या क्लेश के प्राप्त होने योग्य । सुखेन अक्लेशेन लभ्या. ( लभ् + यत् कर्मणि ) लन्यु सक्या. । 'प्रकृत्यादिभ्य उपसख्यानम्' इस नियम से 'सुखेन' मे तृतीया विभक्ति । सस्यसम्पद.- सम्पन्नानि सस्यानि, अर्थात् कृषिसमृद्धियो को । सस्याना ( सस् + क्यप् ) सम्पद इति सस्यसम्पदस्ता' (षष्ठी तत्पु० ) ! 'वृक्षादीनां फलं सस्यम्। इत्यमरः । दधत धारयन्तः, धारण करते हुए (धा+लट् + शतृ प्रथमा बहुव०) चकासति-सवोत्कर्षेण वर्तन्ते अर्थात् शोभित हो रहे है (चकास्+ लट लकार, प्रथमपुरुष बहुवचन )। ननु एव जनपदानुवतिनः कथमर्थलाभ इत्यत आह उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसपमानस्य वसूनि मेदिनी ॥१८॥ उदारेति । उदारकीर्तेर्महायशस । 'उदारो दातृमहतोः' इत्यमरः दयावत: परदु खप्रहाणेच्छो अतएव प्रशान्तबाघ प्रशमितोपद्रव यथा स्यात्तथेति क्रियाविशेषणम् उदयविशेषणम् वा । 'वा दान्त शान्त'-इत्यादिना शमिधातोर्यन्तान्निष्ठान्तो निपा- ता। अभिरक्षया सर्वतस्त्राणेनोदय वृद्धि दिशत: सम्पादयतो वसूपमानस्य कुबेरोप- मस्य । 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः । अस्य दुर्योधनस्य गुणैर्दयादाक्षिण्यादि- भिरुपस्नुता द्राविता मेदिनो वसूनि धनानि । 'वसु तोये धने मणौ' इति वैजयन्ती। स्वय प्रदुग्धे अवलेशेन दुह्यत इत्यर्थः । दुहे कर्मकर्तरि लट् । 'न दुहस्नुनमा यक्चिणौ' इति यक्प्रतिषेधः यथा केनचिद्विदग्धेन नवप्रसूता रक्षिता च गौ. स्वय प्रदुग्धे तद्वदिति भाव । अलकारस्तु-विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्ति.' इति सर्वस्- वकार । अत्र प्रतीयमानया गवा सह प्रकृताङ्गया भेदलक्षणातिशयोक्तिवशाहोह्यत्वे- नोक्तिरिति सक्षेपः ॥१८॥ श्लोकान्वय-उदारकीर्ते प्रशान्तबाधम् अभिरक्षया उदय दिशत वसूपमान- स्य अस्य गुणैः उपस्नुता मेदिनी वसूनि स्वय प्रदुग्धे । अनुवाद-महायशस्वी दयावान् निर्विघ्न प्रजासरक्षण द्वारा वृद्धि प्राप्त करने वाले, कुबेर के समान इस सुयोधन के गुणो से द्रवीभूत पृथ्वी स्वयमेव सम्पदाओ को प्रस्तुत कर रही है। है गोरक्षसिद्धान्त सङ्ग्रह .. बहिः सूत्रं त्यजेद्विद्वान् योगमुत्तममास्थितः। ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः ॥ धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत्। सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः। ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् ।। अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तै संघाय मिदं सूत्रं क्रियाङ्गं तद्धि वैस्मृतम् ।। शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः॥ इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान् यज्ञोपवीतो स्यात्स यज्ञः स च सर्ववित् ॥ इति ॥ (ई० अ०, पृ० १५१) परमहंसोपनिषदि- परमात्मात्मनोरेकत्वाज्ञानेन तयोर्भेद एक एव विभग्नो या सा संध्या सर्वान् वा कामान्परित्यज्याद्वैते परमस्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।। x X x स याति नरकान्घोरान्महारौरवमेव च ।। इति ।। (ई० अ० पृ० १५०) शास्त्रोक्तविषयाभ्यासमजानन्तः केवलं शास्त्रपाठमात्रेणैवाभिमानिनस्तान्प्रति वाक्यमेतदित्याह-द्वादशवर्षो भूत्वा विद्याभ्यासमर्हति, ततश्च यावद्द्वादशवर्ष शब्द- बोधार्थ व्याकरणशास्त्रमध्येतव्यं ततश्च यावत् द्वादशवर्षमर्थबोधार्थ न्यायशास्त्र- मध्योतव्यं ततश्च यावत् द्वादशवर्ष वेदोऽध्येतव्यस्ततश्च षट्सु वर्षेषु वेदान्ताभ्यासः कर्तव्यः, एवं षट्सु वर्षेषु शास्त्रीयरीतिर्ज्ञातव्या । पुनरभ्यासश्च कर्तव्यः, एवमायुषोऽर्द्ध तु गतप्रायमेव । ततः पुनरिन्द्रियाणां शैथिल्येऽरिष्टे च सत्यभ्यासासक्तत्वं भवेत् । अतः प्रथमतः साक्षरतामात्रं पाण्डित्यमापाद्य मनुष्योगाभ्यासः कर्तुमुचित इति । १. भेद एव-मु० पा० ।
४६ गोरक्षसिद्धान्तसङ्ग्रहः ये त्वाचारबाहुल्यं दधतोऽपि वेश्या उपगम्य तत्सङ्ग कुर्वन्ति तान् प्रत्यस्माक- मिदं कथनं बाह्यविषयिकामुज्ज्वलतां प्रदर्य मानसी मलिनता धार्यते । ततस्त्विदं श्रेयो यत् वेश्यासङ्गोऽपि न कर्तव्यो, 'बह्वाचारस्यापि प्रयोजनं नास्ति गौणोऽय- मित्याचारं ज्ञात्वा तस्य त्यागोऽपि न कार्यः, यथायोग्यत्वेन विवेकपूर्वकं सेवनं चास्यकर्तव्यमिति । भवेयं मनुष्यो यदैकस्तु राजा यदा जन्तुरेको भवेयं मृगेन्द्रः । यदा शास्त्रमेकं तदा योगमेव यदा देव एकस्तदा नाथ एव ।। अस्मिन् मार्गे अद्वैतोपरिवर्ती नाथो देवता, प्राप्या निराकारज्योति थो ध्येयः, साकारनाथ उपास्योऽथ च आदिगुरुः, साधनं योगः । अत्याश्रमी योगी गुरुः, मुमुक्षुः साधकः अवधूतगुरोर्मुख्यं चिह्न नादो मुद्रा भस्म- शैली ऊर्णायज्ञोपवीतमित्यादि । शक्तिर्जगत्की। शिव. पालकः। कालः संहारकः । नाथो मुक्तिदायकः। प्रणवा वेदः । नादः सन्तानं । नव नाथाः। बिन्दुः सन्तान- मीश्वरः । मनः शरीरं । जीवो अनुभवः । चत्वारो गुरवः - मत्स्येन्द्र ईश्वरश्चतुरङ्गी गोरक्ष इति स्वरूपाः। अपक्षवास्तविकपक्षमङ्गीकृत्येतरकल्पितपरपक्षपाखण्ड- खण्डनमित्यादिविपयः परमहंस इति परमहसं वदन्ति । तत्किम् , उत्कृष्टहंसोऽस्ति यतो निकृष्टहंसत्वं तु परमात्मा। उत्कृष्टहंसत्वं तु परमहसस्य कुत आगत यदा ब्रह्म- स्वरूपत्वं प्राप्तः। ब्रह्मस्वरूपत्वं च कुतः प्राप्तो यदि मायागुणरचितप्रारब्धकर्माणि मन्यते, एवं चायं तु निकृष्टहंस एव जीवोऽस्ति, ततश्चैतस्य हंसत्वं मरालत्वं कुतः किन्तु काकत्वमेव । यदि काकत्वं तॉयमेकाक्षो जातः । एकाक्षः को य एकेनैव चक्षुषा पश्यति । यद्ययं वर्ण तदा मायामेव मायाशाऽपश्यत् यदा चाश्रमी जातस्तदाह्य- द्वैतदृशैव पश्यन् वर्त्तते । इयमप्येकैव दृष्टिस्तया पश्यति । यतो महासिद्धैनिश्चयः कृतोऽयं काकतुल्यो यदेवमेकाक्षः कर्त्तव्य । सत्यं प्रपञ्चं कुर्वन्तो ब्रह्मणग्छादनं केचिद्रजोदृशः प्राप्ता विषयासक्तमानसाः।। मिथ्यामिथ्येति कुर्वन्तः केचिन्मायाविमोहिताः। लयं सर्वस्य कुर्वन्त आगता विश्वनाशकाः॥ देदीप्यमानस्तत्त्वस्य कर्ता साक्षात्स्वयं शिवः । संरक्षन्तो विश्वमेव धीराः सिद्धमताश्रयाः ।। तत्त्वं रक्षन्ति चाद्वैते द्वैते रक्षन्ति संमृतिम् । एकीभावे ततो भिन्नं द्वैताद्वैतविवर्जितम् ।। मिथ्या वदन्ति यतयः सत्यं चापि विरागिणः । सिद्धानामेव सिद्धान्तः सत्यमिथ्याविवर्जितः ।। १. बद्धाचार-पू० सं० । २. पश्येत् पू० स०। तथा।
गोरक्षसिद्धान्तसङ्ग्रहः चेत्कथं वृथा। meer म्रियते चत्कथं सत्यं वर्तते मृतिजीवनहीनं यत्कथं सत्यं कथं वृथा ॥ एककाले भवेत्सत्यमेककाले तथा वृथा। कालभेदाद् वृथा सत्यं नसत्यं न वृथा पृथक् ।। मनोवागतीतो मनोवाङ्मयश्च नाथः १। नाथः २। शक्तिः ३। कर्ता ४। अकर्ता ५। एतत्पश्चकमिति, क्रमेणैतत्पञ्चकं स्तौति- अवाच्यमुच्येत कथं पदं तदचिन्त्यमप्यस्ति कथं विचन्तयेत् । अतो यदस्त्येव तदस्ति तस्मै नमोऽस्त कस्मै वत नाथतेजसे ।। अकर्तृतत्कर्तृ च तत्परं पद वदन्ति योगामृततृप्तचेतसः । अकर्त्तता कर्तृतया निरूप्यते न वास्तवी वस्तुनि तद्वयी कुतः ॥ अवाच्यरूपा सदसद्विलक्षणा विचक्षणा सा कृतलक्षणापि सा। नमामि तां शक्तिमकर्तृतामयी स्वतः करोत्येव च कर्तृतामयीम् ।। निजेच्छया काण्डस उद्भवाप्ययाऽनुमानया दर्शितकर्तृतं शिवम् । नमाम्यभित्तावपि चित्रितं जगद्विचित्रमेतत्त्वनपेक्ष चेतरम् ।। ममेदमस्याहमहं मदक्रियः' सदैव कर्त्तत्यभिसंधिपूरितम् । करोत्यकर्तारमुदारलीलया य उच्यते नाथ इति श्रियेऽस्तु नः ।। प्रसङ्गजं कर्त पदं विहाय यः फणीव निर्मोकमना पदास्थितम् । नमाम्यकर्त्तारमकर्तृतामय यदस्तिसोऽस्मीत्यगुणः स्वयं स्थितः ॥ यस्य साक्षादनुभव शास्त्रज्ञानेन तस्य किम् । चेष्टा स्वभावजास्त्रीणां कविभिर्वर्ण्यते श्रमैः॥ जातमात्रं पिबेद्वत्सो बालको वाप्यपाठितः। यथा मातुःस्तनं पक्षी न तथा पाठितोऽपि सन् ।। पिबन्तोऽप्यमृतं नित्यममरा नामरा इह । सिद्धावधूता अमरा गृह्णन्तो विषया विषम् ।। ज्ञानेन छिद्यमानं तु कर्माकुरमुपाददे । तदेव योगच्छिन्न तु यान्ति निमूलतां द्रुतम् ।। संचितं क्रियमाणञ्च कर्म नश्यति तन्मते। प्रारब्धं न पुनस्तत्र प्रमाणं श्रुतिरुच्यते ।। भूतकालोद्भवं कर्म भाट्टाः सत्यं कुर्वते । कालत्रितयज कर्म त्यजत्यत्याश्रमी द्रुतम् ॥ पत्रं पुष्पं फलं शाखा छिद्यतेऽपि पुनः पुनः। न यावच्छिद्यते मूलं ताववृक्षः प्ररोहति ।। १. महाक्रिय -पा०। २. भट्टा.-पू० सं० ।
गोरक्षसिद्धान्तसङ्ग्रह पुन पुन तो वारा सूक्ष्मछिद्रेण संयुतः । कलशो रिक्ततां याति विफलः श्रम एव सः । यान्त गङ्गां गयां यान्तु नमन्त्वश्ममयान सुरान् । कायालये विभात्यको जगदात्मा स विस्मृतः ॥ संन्यासिनो विजानन्तु कथयन्तु च पण्डिताः। अवधूताः क्रियासिद्धास्तत्त्वरूपा निरञ्जनाः ।। योगदेहं सृजत्येतं कालभीत्या त्ववत्ययम् । हन्ति वैषयिकं देहं तन्नाथः को हरीश्वरः॥ सृजत्यब्जो हरिः पाति हरः संहरते जगत् । तेभ्योऽन्यो मुक्तिदस्तत्र संकेतः सिद्धयोगिनाम् ।। चतुर्भिः पथिभिर्यान्ति चत्वारो ज्योतिरालये । योगिनो वैदिका लोकास्तान्त्रिका व्यवहारिणः।। योगिनो योगयज्ञेन केवलं ज्योतिरुत्तमम् । इष्ट्वा यानीष्टमार्गेण द्रुतं तत्खेचरा इव ॥ स्ववर्णाश्रमधर्मेण वैदिका समुपास्य तत् । निवृत्तिपरमा यान्ति तद्भूमाविव मानुषाः ॥ तान्त्रिकाः शुद्धविपणिं विषयान्परिहाय तत् । दुर्गमेन पथा यान्ति जरा इव जने जनाः॥ संसारिणस्तु संसारप्रलये प्राप्नुवन्ति तत् । कृतयात्रमिवाधीशं सर्वे लोका निरर्गलाः ॥ न कुर्याद् बुद्धिमान् प्रीतिं वृथा वस्तुनि फल्गुनि । मृगतृष्णामयं मायाजालं कि मन्यते यतः॥ मोक्षशास्त्रकृतो नैव दृष्टा मुनिजना नृपाः। नीतिशास्त्रकृतः कान्ताः शृङ्गारग्रन्थकारिकाः ।। मूले मोक्षस्यावधूतो नीतिमूलं नराधिपः । कान्ता शृङ्गारमूलं यद्वाचारम्भणमस्ति नः ॥ एवं ते त्रयोऽपि क्रियायामेव प्रसन्ना क्रियायुक्तेति कथनेनापि प्रसन्नाः, परन्तु न तु क्रियारहितकथनेत प्रसन्नात्रयेण त्रयोऽपि पुरुषाः स्वसङ्गवजितास्त- द्यथा अवधूत इति, विनानुभवेन शास्त्रारभ्भकाः पुरुषा इति, राजनीतिकर्तव्यता- होना भृत्या इति, स्त्रीजन इति, पुरुषार्थहीनाः पुरुषा इति, तान्त्रीस्त्रयो हसन्ति, कथं एकेन केनापि पुरुषेण मन्दकामेन कस्यापि वैदथस्य गृहेंगत्वा तं प्रति स्वचेष्टोक्का, तदा वैद्येनोक्तं यत्नं करिष्यामि इति । तस्य वैद्यस्य वधूः पार्श्ववर्तिनी सहासा जाता तस्या गोरक्षसिद्धान्तसङ्ग्रहः अभिप्रायोऽयम्-अयं मम भर्त्ता वैद्यः स्वयमपि नपुंसकोऽन्यस्य कामोदययत्नं कथं करिष्यतीति, स्वयमसमर्थोऽन्यसामोपायं करिष्यतीति प्रतारणमात्रमिति । ब्रह्माभूतो मुनिर्व्यासो मिथ्यामायोपदेशतः ।। कृतानेकपुराणोऽभूत्तस्यौ माये नमोस्तु ते ॥ वशिष्ठादिमुनिव्रातस्त्यागस्यैवोपदेशकृत् ॥ स्वयमङ्गीकृतस्त्रीकस्तस्मै भोगाय ते नमः ।। दासाः प्रेमातुरा भक्तिं पुरुषार्थे वदन्त्यहो । सशरीरे गते चित्ते भक्तिः प्रेम्णा समं गताः॥ योगः स्मार्तो वैष्णवश्च धर्मा भूपास्त्रयस्त्विमे ।। कर्मारिभ्यस्त्रिधाऽवन्ति स्वात्मदेशं त सुस्थितम् ।। वैष्णवो नृपतिर्धर्मः सत्यं प्रारब्धमात्मगम् ॥ कर्मद्विषः समाश्रित्य पाति स्वं देशमात्मना ॥ स्मातस्त नृपतिर्धर्मः सत्यं प्रारब्धमात्मगम् ।। कर्मारिभ्यो बलिं दत्त्वा पाति स्वं देशमात्मना । योगधर्मो नृपः सर्वान् जित्वा कर्मद्विषो बली ॥ मनश्च किंकरं कृत्वा पाति स्वं देशमात्मना ।। एतद्ग्रन्थे बहुशास्त्राणां प्रामाण्यं दीयते तत्त अस्मदीयार्थ वा एतन्मार्गस्य शिष्याणां श्रद्धार्थ दीयत इति नास्ति । अस्मिन्नर्थे तु योगशास्त्रस्यैव प्रामाण्यमेतच्छास्त्र- ज्ञानेन पूर्णम् , परन्त वादिनां हिताय भो अन्यग्रन्थान्तरेऽपि भवदीय नानामता- न्तरेऽपि चायमेव मार्गः श्रेष्ठः सर्वस्य लक्ष्योऽवधूत एवेति हेतुर्न तु सिद्धान्तार्थः । अस्माकं त्वन्यप्रमाण उपेक्षेति ज्ञेयम् । अवधूतशिष्यं विनेतरसंप्रदायकशिप्या मुग्धा वर्तन्ते । अवधूतसंप्रदायस्येयं रीतिः-पत्रिंशल्लक्षणसंपन्नो गुरु त्रिशल्लक्षणसंपन्नः शिष्यस्ततश्चतुर्लक्षण- न्यूनः। गुरुशिष्यलक्षणं च अधिकतत्त्वो गुरुन्यूनतत्त्वः शिष्यः । एताह न्यूनत्वं तु योग्यं न तु मूर्खशिष्योऽ धिकलक्षणहीनो मोक्षभाग्भवेत् । पुराणे शौच- क्रियादिकरणपर्यन्तक्रिया उपदिशतीति तन्महासिद्धा हसन्ति । अहो बुद्धिमन्तः शिष्यास्तान् गुरुन् एतादृक्रिया अपि कथयन्ति । शिष्यस्य बुद्धेः परावधिरिति । एता- दृशशिष्यकरणे गुरूणां दोषः प्रवर्तते । अत एव महासिद्धा बहून दीक्षितान्न कुर्वन्ति । कथं १ बहवो विवेकिनो न भवन्ति । यतः स्त्रियां भ्रष्टायां पत्युर्लज्जा, तथा शिष्ये भ्रष्टे गुरूणां लज्जा निन्दा पातकं च प्रवर्तते । अत एव बहुदीक्षिता आचार्या गुरव १. धर्मद्विषो-पू० स०।
गोरक्षसिद्धान्तसङ्ग्रहः , स्त्याज्याः, महासिद्ध एव गुरुः कर्त्तव्यः, महासिद्धरपि चतुर्लक्षणं न्यूनः शिष्यः कर्तव्यो बहवश्च शिष्या वर्जनीयाः, इति सिद्धान्तः । अथ पुरुषस्य द्वात्रिंशल्लक्षणानि लिख्यन्ते-प्रथमतो ज्ञानपरीक्षा-निरालम्बः १, निर्धमः २, निवासी ३, निःशब्दः ४ । विवेकपरीक्षा-निर्मोहः ५,निर्बन्धः ६, नि शङ्कः ७, निर्विषः ८ । विचारपरीक्षा-सर्वागी ६, सावधान. १०, सन् ११, सारग्राही १२ । निरालम्बपरीक्षा-नि प्रपञ्च १३, निस्तरङ्ग १४, निर्द्वन्द्वः १५, निर्लेपः १६ । संतोषपरीक्षा- अयाचकः १७, अवाञ्छकः १८, अमानः १९, अस्थिर. २० । शीलपरीक्षा-शुचिः २१, संयमी २२, शान्तः २३, श्रोता २४ । सहजपरीक्षा-सुहृत् २५, शीतलः २६, सुखद. २७, स्वभावः २८ । अष्टमे शून्यपरीक्षा-लयः २९, लक्ष्यं ३०, ध्यानं ३१, समाधि ३२ । इति द्वात्रिशल्लक्षणानि पुरुषस्य समाप्तानि । [पुनरपि पुरुषस्य चत्वारि लक्षणान्ये- तानि, किमपि वस्तु नास्तीत्यनवरतबोधः ३३, एतानि लक्षणानि तदितराण्यलक्षणानि तेषामुभयेषामेकीकरणं ३४, एतद्द्वयोरैक्य यत्तत्तत्त्वमिति ३५, अत परमप्यस्तीत्यनु. भव. ३६]। अद्वैतोपरिवर्तिनाथ उदितो यत्र ध्वनिः सन्ततो नाथो बिन्दुरुतापि शक्तिरुदिता सा चार्द्धमायात्मिका । ऊरुद्रो हरिरो विधिर्मिति स मे ध्योयोऽस्तु नित्यं महा- नोंकारोखिलशब्दबीजमबुधैरज्ञातरूपो मुदे ॥ अयमोंकारो महासिद्धानां ध्येयस्तस्य स्वरूपम्-उकारोऽत्र रुद्रस्वरूपमर्द्ध- मात्रा शक्तिस्वरूपं बिन्दु थस्वरूपमर्द्धमात्राया जातोऽकारो विष्णुस्वरूपं बिन्दोर्जातो मकारो ब्रह्मस्वरूपं ध्वनिर्निराकारनाथस्वरूपं व्यापकं ध्वनिवर्णश्चोभयमपि मिलितं पूर्ण यद्वैताद्वैतविलक्षणं साकारनिराकारातीतमद्वैतोपरिवर्ति महानाथस्वरूप- मिति । किंचात्रौंकारे उकारबिन्द्वर्द्धमात्रयोर्योगादेव । बिन्दुयोगान्मकारोऽर्द्धमात्रा- योगादकार इति । तथा चौकारे नाथशिवशक्तिरूपप्राबल्यं विष्णुब्रह्मस्वरूपयोर- प्राबल्यमत एवात्रेतद्देवतात्रयध्यानं महासिद्धैर्मुख्यत्वेन क्रियते, पुनर्वनिर्निराकार- नाथरूपं ध्वनिवर्णश्चोभयात्मकः पूर्णनाथस्तु सांप्रतमस्ति तथान्त्येवेति ब्रह्मविष्णु. ध्यानतो नाथशिवशक्तीनां ध्यानमुत्तममुक्तं, तत्रापि नाथध्यानं बलिष्ठम् । उकारो यद्यों- कारः स्यात्तदा मात्राशक्त्येव । उकारोपि यद्योंकारःस्यात्तर्हि बिन्दुशक्त्यव, बिन्दुश्च यद्यपि वर्णस्तथापि तत्र स्वरस्याधिक्यम् , स्वरश्च वर्णापेक्षया बलवानेव । कथं १ तत्र ध्वनिभागस्याधिक्यात् , ध्वनिश्च नाथरूपमेवातो नाथध्यानं बलिष्ठमित्युक्तम् । तदुक्तं योगशास्त्रे- १. शिष्यस्येत्यर्थ । ३. गुरोरित्यर्थ.। २. [ ] अयमशो नास्ति पूर्व सस्करणे ।
( ७६ ) कोपेन (कुप् - टिप्पणो-न तेन-न ( तो ) सुयोधन द्वारा । क्वचित्-कुत्रापि, कही भी । सज्य धनु.-प्रत्यञ्चा या डोरी चढा हुआ धनुष् । ज्या का तात्पर्य है धनुष की डोरी-'ज्यया मौा सह इति सज्यम्' (बहुव्रीहिः ) तृतीयान्त शब्द के साथ तुल्ययोग होने पर 'सह' का बहुव्रीहि-समास होता है । सूत्र है-'तेन सहेति तुल्य- योगे।' इस नियम से 'मज्यम्' मे बहुव्रीहि समास हुसा । समस्तपद मे 'सह' के स्थान पर 'स' आदेश हो गया है-'वोपसर्जनस्य' नियम से । 'मौर्वी ज्या शिजिनी मुण.' इत्यमरः । सज्य 'धनुः' का विशेषरण है-'धनुश्चापौ धन्वशरासनकोदण्डकामु- कम्' इत्यमर.। उद्यतम् -ऊर्वीकृतम् उत्तोलितम् अर्थात् उठाया गया । उद् + यम् + क्त कर्मणि । न वा- अथवा न ही। आननम्-वदनम्, मुख को। 'वक्त्रास्ये वदन तुण्डमानन लपन मुखम्' इत्यमर. । पविजिह्मम्-कोपेन कुटिलम् अर्थात् क्रोधवश विकृत । जिह्म का अर्थ है कुटिल (जिह्मस्तु कुटिल मन्दे-इतिकोशः) घभावे + टा) विजिह्मम् (विशेषेण जिह्म विजिह्मम् प्रादितत्पुरुष ) इति कोपविजिह्मम् ( तृतीया तत्पु० ) । कृतम्-किया गया। गुणानुरागेण -- दयादाक्षिण्यादिप्रेम्णा ! सुयोधन के गुणो के प्रति अनुरागभाव होने के कारण । गुणेषु अनुराग. इति गुणानुराग तेन, हेतौ तृतीया ( सप्तमी तत्तु.)।' माला के पक्ष मे गुणानुराग का तात्पर्य होगा-गुण अर्थात् सूत्र मे अनुषङ्ग ( प्रवेश ) होने के कारण अथवा सौरभ्यगुण के अनुराग ( लोभ ) वश । नराधिपै.--भूपाले: राजाओं द्वारा । अस्य शासनम--सुयोधनस्य आज्ञा । शासन (शास+ल्युट भावे) का अर्थ है आज्ञा, नियोग । सुयोधन की आज्ञा । माल्यमिव-मालेव माला की भाँति । माला एव माल्यम् :माला+ध्या स्वार्थे ) जैसे चातुर्वर्ण्य शब्द 'चतुर्वर्ण' के ही अर्थ मे व्या प्रत्यय से निष्पन्न होता है, ठीक वैसे ही 'माल्यम्' मे भी ष्यत्र प्रत्यय स्वार्थ मे है-'चातुर्वर्यादित्वात् स्वार्थे ष्यन्' । शिगेभिरुह्यते-शीर्षे धार्यते । अर्थात् सिर-माथे लगाई जाती है (वह - लट् = त कर्मणि) । 'माल्यम् इव' अश मे 'इव' साधर्म्य ( साम्य) प्रस्तुत करता है-माल्य तथा शासन के बीच । अतएत्र प्रस्तुत पद्य मे उपमालङ्कार मान्य है-'साधर्म्यर उपमाभेदे ।' सम्प्रति अस्य धार्मिकत्वमाह 'स यौवगज्ये नवयौवनोद्धत निशय दुःशासनमिद्धशासनः । .
५२ गोरक्षसिद्धान्तसङ्ग्रहः जातः । कथं ? एकैकगुणलक्षणहीनो हासक्रमेण संभूतं सन्तानमेवेति मन्यते । पथमतो गौणमुख्यप्रक्रिया कथिता । तत्र काचिदुत्पत्तिक्रमतो मुख्या गौणी वा ज्ञेया, काचिच्च फलवृक्षरीत्या मुख्या गौणी वेति ज्ञेयम् । एकदा श्रीमहासिद्धविचारनाथेन भर्तृहरिनृपेण व्याकरणशास्त्रोपरि लक्ष- संख्याकाः कारिकाः कृता । नागेशेन ताः श्रुताः, तदा प्रसन्नो भूत्वा ब्रह्माण्डे विहरन् समागतो यस्तत्र स्थितो महावधूत आगत्य चादेशादिव्यवहारकरणानन्तरं तेनोक्तम-हे स्वामिन्नहं तुष्टोस्मि यतः कांचिद्याचनां कुरु, तदा महासिद्धेनोक्तं तव मिलने सुखं जातमन्यत्तु नास्त्यपेक्ष्यं कृतकृत्य एवास्मि, पुनः पुनस्तेन शेषेणोक्तं याचनीयमेवेति । तदा भर्तृहरिणोक्तं किं याचे यदेश्वर्यच्छा भवेत्तत्तु महाराज्यं त्यक्त्वावधूतो जातः। पुनर्मोक्षस्य यदि वान्छा भवेत् , सा तु अवधूतभावे सिद्ध्यत्येव संशयो नास्तीति । तदा शेषोऽसन्तुष्टो भूत्वा ममापमानः कृतो यतः शापं दद्मि, भवदीयकारिकाः प्रसिद्धा न भविष्यन्तीति । तदावधूतेनाप्युक्त त्वदीयकृतव्याकरण- शास्त्रं कलौ वृत्त्यर्थ भविष्यति पुनर्यत्र कुत्रापि स्थले ससंशयं भविष्यति तदा मम- कारिकां विना निर्णयो न भविष्यतीति । एवं परस्परं शापो जातस्तेनाधुनिकसमये व्याकरणादिसाधनशास्त्रं परमार्थे न्यूनं भवति चातुर्यादि प्रकारं प्रायशो भवतीति । आचार आचार इति वदन्ति । य आचारोऽत्याचारः सन् कथं निर्वहति ? भोजने यद्धतं तत्तु चर्मपात्रेणैवायाति, गमने यत्पादत्राणं तदपि चर्मजमेव स्पृश्यते, शयने स्त्रीसंगो भवति तस्य कथैव का। प्रातःकाले यद्यपि शुद्धयर्थं स्नानं क्रियते तथापि चतुषु प्रहरेषु करादिकस्य मुखादिस्पर्शनं स्वभावत एव सर्वदा जायते । किं च सूर्यादिग्रहणे मृत्तिकापात्राणि जलं चाशुचित्वेन त्यज्यते न तु धान्यघृतादिकं वस्तु । तदा एवं ज्ञायते जलाशये जलं बहु लभ्यते कुलालानां गृहेषु मृत्पात्राणि चाल्प- व्ययेन लभ्यन्ते, तेन तदशुचित्वं कथं न क्रियते । घृतधान्यादिनिवारणे तु बहुद्रव्य- व्ययो भवेदित्याद्यनेकप्रकारकं किं किं लिख्यते । तस्मादाचारवस्तु कल्पितमेव तद् बुद्धिमन्तो जना न किंचिदपि वस्तु जानन्ति । विचार एव मुख्य इति सिद्धान्तः। तत्र चैवं न ज्ञेयमत्र सिद्धान्त आचारो नास्तीति । कथं ? आचारोऽस्माकं मते वर्त्तते, स च विचारपूर्वक इति । अन्य आचारं कुर्वन्ति तादृशस्तु क्रियत एव । नास्ति, यथायोग्यास्त क्रियाते च स चापि गौणं मत्वा क्रियते मुख्यास्तु तत्त्वविचार इति कृत्वायमपि ब्यवहारः सर्वथा त्याज्यो नास्तीति । आचारविधिः- प्रातरुत्थाय गुरुस्मरणं कृत्वा अकालं स्मृत्वा शौचादिक्रियां दन्तधावनं स्नानं च कृत्वा नाथालये गत्वा पूजा कर्त्तव्या, पूजानन्तरं भोजनं कर्तव्य, सायंकाले च १. मन्ये-पू० सं०॥ २. च देशादि-पू० स०। - ( ७८ ) . (युवराज + ष्यन् कर्मणि), तस्मिन् । युवराज शब्द ब्राह्मणादि गण मे पठित है, अन व्यञ् प्रत्यय यहाँ गुणवचनब्राह्मणादिभ्य कर्मणि च' सूत्र से प्रयुक्त हुआ है। निवाय-नियुज्य, नियुक्त करके (नि+धा ल्यप्) । पुरोधसा-पुरोहित द्वारा । धार्मिक कार्यों में अग्रेसर अथवा पुरोगामो जो हो वही पुरोधा या पुरोहित है- पुर धत्ते धीयते वा इति पुगेधा. (पुरस् • धा + असि कतरि कर्मगिण वा) तेन पुरोध सा । 'पुरोधास्तु पुरोहित ' इत्यमरः (अनुके कत्तरि तृतीया)। अनुमत अनुज्ञात , अर्थात् अनुमोदित होकर, समर्थित होकर (अनु+ मन् क्त कर्मणि) । पारन्तः-अनलस , आलस्य अथवा श्रान्ति-विहीन होकर, अर्थात् सोत्साह । न खिन्नः (खिदु-+क्त कतरि) इति अखिन्न: (नञ् तत्पु०)। मखेषु--ऋतुषु, यज्ञो मे । आगरकाषे–'यज्ञ सवोऽध्वरो याग सुप्ततन्तुर्मख ऋतु.' । हव्यन--हविषा, पुराडा- शादि हवन सामग्रो द्वारा । जिसका अग्नि मे हंबन (दान) किया जाय वही हव्य है-- हूयते भक्ष्यत्वेन दीयते इति हव्यम (हु+ यत् कर्मणि), तन । करणे तृतीया । हिरण्यरेतसम् - अनलम् । अग्निदेव को । हिरण्य अथवा स्वर्ण ही जिसका रेतस् हो वह । हिरण्य रेतो यस्य स. हिरण्यरेता , (बहु०) तम् अग्निम् । 'हिरण्यरेता हुतभुग्दहनो हव्यवाहन ' इत्यमर । धिनोति-प्रीणयति । प्रसन्न करता है (धिवि धिन्व+लट् प्रथमपुरुष एकवचन) धकार,शकार एव हकार को आवृत्तिवश अनुप्रास अलङ्कार द्रष्टव्य है । 'वर्णसाम्यमनुप्रासः' आदि लक्षण । सचेन् तादृश. उद्यागो तहि अस्माभिनिरुधागै मिनिस्याशङ्कय उद्यागाशा दर्शयति :- मलीनभूपालमपि स्थिरायति, प्रशासदावारिधि मण्डलं भुवः स चिन्तयत्येव भियस्त्वदेप्यती- रहो दुरन्ता बलवद्विरोधिता ।।२३॥ प्रलीनेति । स दुर्योधनः प्रलोनभूमालम् नि.सपत्नमित्यर्थ । स्थिरायति चिर स्थायीत्यर्थः । भुवो मण्डनम् आधारिविन मावारिधि 'आइ मर्यादाभिविध्यो इत्यध्ययोभाव । प्रशासदाज्ञापयनरि। 'जभित्पादन षट' इत्यभ्यस्त्रसज्ञा । 'नाभ्य स्ताच्छतुः' इवि नुमागमप्रतिषेध । त्वत्त्वत एष्यवोरागमिष्यतोः । धातूनामनेकार्थ स्वादुक्तार्थसिद्धि. । अथवाइपूर्व. पाठ । 'एत्येधत्यूठसु' इति वृद्धि. । 'ल ट. सद्वा' हा शतृप्रत्ययः । 'उगितश्च' इति डीप् । 'आच्छीनद्यो म्' इति विकल्पान्नुमभाव. - ५४ गोरक्षसिद्धान्तसङ्ग्रहः येन च प्रणवयोगेन स्वरूपानुभवः प्रकटितः सोऽप्रकटः कृतः । अध्यारोपापवादादि- प्रकारेण यदमायिकवस्तु तत्र मिथ्याकल्पना बहुविधानेन कृता, मिथ्यैवाश्वो मिथ्यैवा- श्ववारो मिथ्यैव धावनमिति किं प्रलप्यते । पके हस्तनिमजनकरणानन्तरं पुनः प्रक्षा- ल्यते ततस्तु प्रथमं तत्र हस्तनिमजनमेव किमर्थमिति योगिनां सिद्धान्तो विस्मृत एव । एकदेवस्तुतावन्यदेवनिन्दा एकनिन्दायां चान्यदेवस्तुतिरित्यनया रीत्या धर्मोऽपि प्रवर्तित । स चान्योन्यविरुद्धस्तेन सर्वे जीवा भ्रमन्तः सन्तो बन्धकारका भवन्ति । तदुक्तं नाथसूत्रे-ब्राह्मणे वेदाः प्रवृत्ताः, न्यासिनि तीर्थानि प्रवृत्तानि न कोऽपि निर्वाणभावं प्राप्त इति । कथं सूक्ष्मप्राप्त्यर्थ तु एकाक्षरः प्रणवः सूक्ष्मवेद एव कृतः। पुनः सूक्ष्मैवाक्षरद्वयात्मिका गायत्री कृता। पुन साकारः सन्नपि साकार- स्वाभिमानराहित्येन निराकारतुल्यमेव सूक्ष्म नाथरूपं कृतवान् । तेनोपदेशः सूक्ष्म एव योगाभ्यासयोगः कृतः। तदुद्धारकः सूक्ष्म एवावधूतः कृतः। अथ मायाशबल- स्थूलब्रह्मप्राप्त्यर्थमेकाक्षरावेदादनेकाक्षराः स्थूला वेदाः कृता । अक्षरद्वयात्मिकागा- यत्र्याश्चतुर्विशत्यक्षरा गायत्री कृता । योगात् स्मृतिपुराणादीन्यनेकशास्त्राणि कृतानि, तदुद्धारका ब्राह्मणाः परमहंसादय इतर संसारिणोऽपि कृताः। नाथसूत्रे- एकवारं वचनं लुप्यते तेन युगे युगे लुप्यत इतिहेतोगुरुवचनं कदापि काले न लोपनीयं कर्तव्यमेव, ये पुरुषा अभ्यासहीना अभिमानेन सभायां यस्य कस्यापि देवस्य धर्मस्य वा पक्षं गृहन्ति । स पक्षः स्वार्थे त्यज्यते, तादृशः कथ मोक्षभाग्भवेत् । तादृशाश्च सद्गुरुभिरपि कथमङ्गोकरिष्यन्ते तेषामिष्टदेवोऽपि चाप्रसन्नो भवेत् , केनचित्कथ्यतेऽहं स्मार्तोऽहं वैष्णवोऽहं यः कश्चिद् । यदा मया कथ्यते त्वं स्मार्तोऽसि तर्हि स्मृत्युक्ताचरणं सर्वमपि त्वयि वर्तते ? तदा स कथयति सर्वाचरणं तु नास्ति, यदा मया कथ्यते स्मार्तोऽहमिति कथनमेवाचरणं तु नास्ति यतस्तद्धर्माना- चरणेन प्रत्यवायो न स्यात् पुनः मिथ्यादोषश्च न स्यात् तदा स कथयति अहं स्मार्तो नास्मि । यदा पुनर्मया कथ्यते स्मातकुलोत्पन्नः स्मार्तधर्मा न भवेत्तर्हि धर्म- विरुद्धत्वमापतेदिति । तदा स कथयति यत्प्रारब्धं तत्तादृशोऽहम् । यदा मया कथ्यते प्रारब्धे श्रद्धास्थैर्यमागृह्णाति । कथं ? प्राणिनां यत्प्रारब्धं तथैव भवेत् , परन्तु प्रथम- कथने तत्र धैर्य नायाति, कस्यापि प्रारब्धं कूपे पतनं भविष्यतीतिरूपं, स चाज्ञतया पततु नाम परन्तु यदा ज्ञायते तदा तु तस्य निवृत्तेरिवोपायं करिष्यतीति । तेन हेतुना त्वदुक्तं यादृक् प्रारब्धं तादृशोऽहमस्मीति यत्तन्न भवत्येव । तदा स पुनः कथयति- यद्गुरुराज्ञापयति तत्करोमीति, यदा मया कश्यते गुरुरुत्तमाधिकारी त्वं तु मन्दा- धिकारी, गुरुवाक्ये तव विश्वासः स्यादिति तदा तेन नोक्तमितिरीत्या बहुधालापे किमपि चिहं वर्णरूपमाश्रमरूपं वा स्त्रीरूपं पुंरूपं वा नयतेऽव्यक्तलिङ्गत्वमत्या- १. 'सूक्ष्म' इति नास्ति-पू० स० । २. स्थूलवेदा-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः श्रमित्वमेव स्थीयते, यतः किमर्थमसत्ये वस्तुनि कल्पना क्रियते महासत्यस्वरूपमेक- मवधूतत्वमेव गृह्णीयादिति । पुनरपि सर्वाचरणं नास्ति तदा स्मार्तोऽहमिति कथं कथ्यते, तदा स कथयति कश्चन स्मार्तो धर्मो मयि वर्तते, तदा मया कथ्यते कश्चन स्मात्तॊ धर्मस्तहि कश्चनान्यः कस्य धर्मस्तदा स कथयति-कश्चन मनोनुकूल एव धर्मस्तदा मया कथ्यते तव मनोनुकूलो भवतु नाम धर्मः परन्तु कस्यापि तु धर्म एव स भविष्यति, तथा च धर्मसकरोसीति । तदा स कथयति नाहं स्मार्त्तः । तदा मया कथ्यते स्मातकुलोत्पन्नत्वेन च यदि स्मार्तो न भविष्यति तहि समस्तमेव धर्म भ्रष्टं भविष्यतीति, स कथयति तात्पर्यमिदमिदं कर्म ईदृशं वर्तते यत्तद्वमिति, तदा- तत्करणं विना किं भवेत् । केवलज्ञानेन कथं सिद्धिः । ज्ञानमपि कमैव वर्तते अन्तःकरणस्य धर्मत्वात्तत्रापि करणं वर्तते एवेति । द्वैतवादिनः कथयन्ति-अस्माभिः किं प्रेरक प्रति कथ्यते द्वैतमिति नास्तीति, सत्गद्वैत एव परन्तु द्वैतं शरीरं, यतः शरीर-शरीरिभावेन सोऽपि द्वैत एवास्ति, इति कथ्यते। अद्वैतवादिनच किं कथयन्ति-अद्वैतमेवास्ति यच्छरीरं द्वैतं दृश्यते तत्त मिथ्यैवेति । महासिद्धाः कथयन्ति-चैतन्य जडञ्च शरीरादि उभयमपि मिलित्वा एकमेव पूर्ण वस्तु, यतः परमाद्वैतं यत्किमपि नाथतेजस्तच्चक्रवर्ति सर्वोपरि वर्तते । केचित्कथयन्ति-ज्ञानिनो ज्ञानं निरपेक्षमेव कर्मणोऽपेक्षा पूर्वकालेऽपि न करोति तत्तु नास्त्येव । भवदीयमतानि सर्वाण्यपि शास्त्राण्यूर्द्धबाहुतयैवमेव वदन्ति-कर्मणा चित्तशुद्धिः स्यादनन्तरं तत्त्यागस्त्यागाच्च ज्ञानप्राप्तिर्ज्ञानान्मुक्तिरियं घण्टाघोष- वद्विद्यत इति । गृहकर्म समासक्तमहं ब्रह्मेति वादिनम् । कर्म-ब्रह्मोभयभ्रष्टं तं त्यज्येदन्त्यजं यथा इति ॥ तदा कर्मनिरपेक्षं ज्ञानं कथं जातम् । सहस्रावधिस्थले त्वेवमेव कथितम् यदेकेन शाकरभाष्ये एकस्मिन् स्थले लिखनेन कथमप्रमाणं भविष्यतीति । वेदा गृहस्थधर्म वर्णयन्ति तस्य रीतिर्मया कथ्यते । गार्हस्थ्यं विना स्त्रियं तु प्रवर्तत एव नहि, स्त्रीमूलकत्वादेव गार्हस्थ्यस्येति । पुनः कथ्यते मासे मासे रात्रित्रयमार्तवं तत्र सन्तानार्थ- मृतदानं देयमन्यच्च सुखाय विषयसंभोगो न सेव्य इत्यपि तेषामुपदेश इति । यद्येवं तर्हि प्रथमं गृहे वासकरणं तत्राहारादिसेवनं तेन च शरीरे पुष्टिस्तक्रमेण शरीरे कामोद्रेकाभवनं नास्ति कदाचित्स्वशरीरं वशे क्रियते।तथापि तावत् स्त्रियाश्चित्तं तु विनाकामोपभोगं क्षणमपि न तुष्टं भवेत् । कथं तासां काम एवेष्टस्ततश्च तस्याः पोषणं विना तच्चित्ते व्यभिचार एवं वसति । तेन पापेन सर्व नष्टमेव भवेत् , लोके चोपहासो भवेत् । अतः कारणात् महासिद्धा गार्हस्थ्यं न कुर्वन्ति । सिद्धानामिष्टो नाथः, सोपि स्त्रियं नाङ्गीचकार । सर्वे ब्रह्मविष्णुरुद्रादयो देवाः शेषादयो नागा १. सर्ववर्ण-पू० सं०।
गोरक्षसिद्धान्तसङ्ग्रहः . मन्वादयो नरा अन्ये च पशुपक्षिणो यावज्जीवं सर्वे स्त्रीजिताः, एको नाथ एव माया- जेता । तदुक्तं महासिद्धश्रीविचारनाथेन भर्तृहरिणा- शंभुस्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः॥ वाचामगोरचरित्रपवित्रिताय तस्मै नमो भगवते मकरध्वजाय ।। (शृङ्गार शतक १) अतः कारणाद् यदा गार्हस्थ्यं कृतं तदा स्त्रीपोषणमवश्यमेव कतव्यं यदा च विरागेच्छा तदात्ववधूतेनैव भाव्यमिति। परमहंसास्तु काम निषेधयन्ति स निषेधो न भवत्येव कथम् ? तदुक्तं श्री मीननाथेन हरकोपानलेनैव भस्मीभूतः कृतः स्मरः । अर्धगौरीशरीरो हि तेन तस्मै नमोस्तु ते ॥ अतो महासिद्धा विपयरीत्या तु त्यागमेव कुर्वन्ति । पुनः प्रकृतिरपि ब्रह्मव वर्त्तते शिवशक्त्योरस्माकं मते ऐक्यमेव वर्तते । तदुक्त-सिद्धसिद्धान्तपद्धतौ- शिवस्याभ्यन्तरे शक्तिः शक्तरभ्यन्तरे शिवः ॥ अन्तरं नैव जानीयाच्चन्द्रचन्द्रिकयोरिव ॥ (सि० ४।२६) प्रसरं भाषयेच्छक्ति. संकोचं भासयच्छिवः ।। तयोर्योगस्य कर्त्ता यः स भवसिद्धयोगिराट् ॥ (सि० ६१६३) एवं त ऐक्यं ज्ञात्वा काममपि भजन्त्येव । अत एवोक्तम्- 'कचिद्भोगी कचित्यागी' इत्यादि । त्यागिनामपेक्षया त्याग एव एतादृश एतैः क्रियते, यादृशस्त्यागिनामपि न भवेत् । कथं ? कर्मराहित्योपरि त त्यागो नास्ति तदैतैः प्रारब्धमपि त्यज्यते । शून्ये लग्नैः प्रारब्धमपि त्यज्यते । यदा च भोगं कुर्वन्ति तदा संसारिणोऽपि यादृशं न कुर्वन्ति तादृशमेते कुर्वन्ति । कथं प्रकृतिलग्नाः एतदुभयं मिलित्वा पूर्णे लग्ना अतस्तेषां रीतिर्विलक्षणैव । भोगिभिस्तु भोग एवैकः क्रियते तेषां त्यागो न भवति ।१ [ भोगिनां त्वेको भोग एव भवति न त ते त्यागे समर्थाः ।। पुनस्त्यागिनो ये भवन्ति तैः प्रथममेव त्यागः कृतोऽत एव त्यागिन इति येषां नाम तैः पुनर्भोगः कथं क्रियेत । करणे च सर्वमेव नष्टं स्यादिति । अथ चावधूतास्त्या- गिनामपि लोके त्यागस्याधिक्यं दृष्टिगोचरं कृत्वा पुनः स्वेच्छया भोगमपि कदा- चित्कुर्वन्ति तथापि तेषां भोगो बाधको न भवेत् । भोगिनो भोगमेव कुर्वन्त्येवं त्यागिनस्त्यागमेवेत्यवधूतानां तु त्यागभोगयोयोरपि पदार्थयोः सामर्थ्यम् । त्यागं कया रोत्या कुर्वन्ति ? युगपर्यन्तमप्याहारादिकं न गृह्णन्त्येवं त्यागिनां न भवति । १ 0 नास्ति-पू० स०।
गोरक्षसिद्धान्तसङ्ग्रहः ? कथं ते देहेन विजिता एते तु देहाधीना सन्ति यत इति दिक् । अनया रीत्या- परमार्थस्तु प्रथममेव नष्टः । कथं ? यदा स्त्री गृहीता, पश्चादयं लोको नष्टः । कदा यदा स्त्रीग्रहणेन गार्हस्थं जातम् , तत्र च गृहस्थरीत्या प्रवृत्तो न । एवं च द्वावपि लोकौ नष्टौ, भोगोऽपि नास्ति मुक्तिरपि नास्ति । चञ्चलेन मनसा सर्वमपि नष्टी- कृतम् । कथ गार्हस्थ्य त्यक्त्वा श्रमान्तरं गृह्णाति । तत्रापि पुनः श्रमेण कातरो भूत्वा दुःखेन सीदन्सन प्रारब्धाङ्गीकारात् यद्यद्यथा प्रारब्धं तत्तत्सर्वमपि कर्म करोति, तदा कर्मणः साकुरत्वादेव कदापि काले मुक्तिभाग न भवत्येव । यथा ग्राम गईभा वने वा शूकरास्तथा विषयवशो वारं वारं जन्मादि गृह्णाति । पुनश्चञ्चलेन मनसा युक्तो हस्ती ग्रामाद्वनं गच्छति, किचित् सुखं मे भविष्यतीति, वनात् शृगालो प्राममागच्छति मृतकास्थ्यादिभक्षणार्थमिति निर्देशः इति । यथा राजस्रीगणोऽनेको स्वयन्तु राजा एक एव, स तासां समस्तानां कामवृत्तिं पूर्णा कथं कुर्यात् । स्वचित्तप्रसादेनैव यथेच्छं क्रीडति नाम यतस्तासां तु महत्तरं दुःखमेव स्यात् तेन दुःखजनितापध्यानेन राज्ञोऽ- कल्याणमेव भवेत् । अत एवोक्तं राज्यान्ते नरक इति । तथैवैतादृश एवाचार्य एक एव शिष्यास्तु बहवः कृतास्तेपु कस्य कस्य पापं संहरेत् । पापहरणासमर्थो बहूनां शिष्याणां पापेनाचार्योऽपि दुर्गतिमेव प्राप्नुयात् । तदुक्त सिद्धसिद्धान्तपद्धतौ आचार्या बहुदीक्षिता इत्यादि, ते तत्त्वतो वञ्चिता इत्यन्तम् । यदा तत्त्वतो वञ्चिता- स्तदा मुख्य नरकमाज एवेत्यर्थादागतम् । अतो हेतोर्बहुशिष्यकरण सिद्धानां मते वर्जितम् । षट् पदार्थाः यत्र भवन्ति स भगवान् । के ते षट् पदार्थाः १ अमी-सम- प्रैश्वर्य १ धर्म २ यशः ३ श्रीः ४ ज्ञानं ५ वैराग्यम् ६, इत्येषां मध्य एकोपि रुद्र- विष्ण्वादिना भगवत्पद्वाच्येषु न । प्रथमं तु समग्रमैश्वर्य योगरूपं तदेव नास्ति, कथं ? सर्व कामवशा स्त्रीसंगिनो यान् लोकाः योगिनो कथयन्ति तेषां स्त्रीसंग एतत्तु हास्यमेव । पुनः धर्म यत्र यत्र स्थले छलः क्रियते तदाधर्मभाव. कथं ? छलस्तु नारदस्य वानरमुखकरणादिना विष्णोः प्रसिद्धमेवेति । पुनः यशस्तदपि कथं रावणवधे लोककल्याणे यशो जातं तथैव स्त्रीहरणेऽपयशोऽपि जातम्। कथ रावणस्य पामरस्य वधेन किं तस्य बालिवानरेण बन्धनं कृतं, सहस्रबाहुनार्जुनेन च बन्धनं कृतं, पुनः रामस्तु भगवानिति कथ्यते, जगत्कर्ता च कथ्यते, तस्य स्त्रीहरण- मेतत्तु महदयशः। पुनः श्रीः यस्य परमार्थे मुक्तिर्नास्ति ऐहिके च यशो नास्ति तस्य श्रीः कथम् । पुनः ज्ञानं यदा ज्ञानस्वरूपास्ते तदा अज्ञानकार्ये संसारकार्ये किमर्थ प्रवृत्तास्ततो ज्ञानं कथम् । पुनः वैराग्यं तत्तु सर्वथैवैतत् कल्पितेष्वीश्वरेषु नैव नैबेति । कथं ? पुराणे एतेषां लौकिकया त्वेवमायास्यति तत्तु वक्तुमशक्यं दास्यां वेश्यायामा- सक्ता इत्यादि किं किं लिख्यते । तदा वैराग्यं कुत्र। अतः कारणात् षडेव पदार्था नाथेष्वत एव तिष्ठन्ति । समग्रेश्वर्य तु योगः, स त सहजसिद्ध एव । पुनः धर्मोऽपि स ? - , ५८ गोरक्षसिद्धान्तसङ्ग्रहः . एव यो मुक्तिरूपः, एनद्वयतिरिक्तस्मृत्यादिशास्त्राणि यं धर्म वर्णयन्ति स त्वधर्म एव । पुनः यशोऽपि यो मुक्तरूपस्तस्यैव बन्धनरूपस्य कथं यशः। पुनः श्रीः शोभापि तस्यैव यो मुक्तो बन्धरूपस्य छविः कथं भवेत् यो लौकिकसुखदुःखे मग्नः । ज्ञानं तस्यैव ज्ञानं पुनः वैराग्यं तस्यैव वैराग्यमेवं च सर्वेषामाधारो नाथ एवातः कारणा- न्महासिद्धानां तात्पर्य नाथपरमेवेति । कोऽपि कथयति-कि नाथ एव मुक्तिरूप एते ईश्वरा मुक्ता न सन्ति ? तत्त प्रथममेवोक्तं ये स्त्रीसंयुक्ताः संसारकार्ये चासक्तास्ते कथं मुक्तरूपा इत्यत एवाग्रे एतेषां मुक्तिबन्धरूपत्वं कथयिष्यते । भगवच्छब्द- निर्णयोऽपि करिष्यते । अस्माकं मते शक्तिः सृष्टिं करोति, शिबः पालनं करोति, कालः संहरति, नाथो मुक्ति ददाति । ब्रह्मविष्ण्वोस्तु शिवशक्तिकालानामवान्तरभेदेन कर्तृत्वादि- शक्तिर्न तु स्वसत्तया । यदा शिवादयः संसारप्रवर्तका जातास्तदा बन्धरूपा एव भूताः। कथं? जीवरूपेण बन्ध ईश्वररूपेणापि बन्धनं ददाति' भेदोऽतएव जीवात्मा परमात्मेति, परन्तु शुद्ध आत्मा नास्ति, स तु शुद्ध आत्मा नाथ एव । एते संसारमज्ञानं प्रवर्त्तयन्ति । नाथस्त्वज्ञानं निवर्तयति । नाथरूपेण सृष्टि- करण उपेक्षा । आचार्याणां तु खण्डेषु पाण्डित्यं वर्तते पूर्णो धर्मो नास्ति । संसार- प्रवृत्तिकरणरूपं वस्तु चैकं पूर्णो धर्मो न तु मोक्षधर्मो यथा राज्ञामेकं स्वार्थसम्पा- दकत्वमेव पूर्ण नत्वन्ये धर्माः । धर्माश्च ते के इति ? यज्ञो वैराग्यं तपस्तीर्थ व्रतं त्यागो शानं योग इत्यादयः, शौर्यमौदार्य पुण्यं यशोभिलाषः शस्त्रधारणमित्यादयः। ब्रह्मचर्या गृहीतं पुनर्गार्हस्थ्यं करोति पुनर्गाहस्थ्यं किचित्संसेब्य त्यागं करोत्यत एतदन्तरे यद्धर्मरहितत्वेन कालो जातस्तत्र धर्मो न्यून एव जायते तथाापदिशति । द्वैतवादिनः क्रियावद्ब्रह्मेति' कथयन्ति, अद्वैतवादिनो निष्क्रियं तदिति कथयन्ति तत्तु द्वयमपि निरन्तरं न भवति चाक्षरं न भवति [निश्चलं न भवति] । कथं सर्वदा क्रियैव न भवति सर्वदा ह्यक्रियेव चन भवति,यूयं वयं चापिगृहेषु प्रातःकालादौ स्नानभोजनादिक्रियां कुर्मो मध्याह्नादावक्रियावसरे स्वस्वचित्तेऽक्रियतयैव स्थीयते, पुन. कार्यावसरे क्रियाकरणमेव भवेत् । तथैवेश्वरोऽपि । क्रियाक्रिये द्वेऽपि शक्ती तत्स्थ एव । निरन्तरं निश्चलमक्षरं भवति न तु एकदिशा ब्रह्म पूर्ण भवति । तदुक्त- मवधूतगीतायाम्- "अखण्डं यत्स्वाज्ञानेन खण्डयतीति । तदुक्तम् “अखण्डं खण्ड्यते कथम् ?” (अ॰ गी० १११२) अतो द्वैतवादिनां कैलासवैकुण्ठादिस्थानमद्वैतवादिनां मायाशबलं ब्रह्म च बन्धमुक्तिरहितपरमसिद्धान्तवादिनां योगिनां नित्यपिण्डावधूतानां तु १. दत्तम्-पू०सं०। २. क्रिया ब्रह्मेति-पू० स० । - ३. [] नास्ति-पू० स० ।
गोरक्षसिद्धान्तसङ्ग्रहः ५६ ? स्थानं, बन्धमननानन्तर मुक्तिभवनादिति । योगिनां तु निर्गुणस्थानमथ निर्गुणसगुणातीतमद्वैतोपरिवर्ति यत्सर्वोपरिवत्यैव स्थानं परमहंसाः कथयन्ति । अस्मदीयं निर्गुणस्थानं तत्त कथनमात्रमेव । कथं एते तु निर्गुणब्रह्मणि अमायिक- ब्रह्मणि 'मायाया गुणानां च स्थापनं कुर्वन्ति पुनर्नानाप्रकारेण सृष्टिक्रियादि तत्रा- रोपयन्ति, अनेकस्तोत्रैः स्तुवन्ति च । तथा च तत्कथं निर्गुणममायिकं च जातम् । माहात्म्यार्थ स्वप्रशंसाथ च कथने निर्गुणं ब्रह्म लक्ष्यं कथयन्ति नत्वाचरणे तद् दृश्यते। पुनः कथने निगुणं ब्रह्म इष्ट तथापि पूर्णता न भवति, यथा योगिनामिष्टे वर्तते तया रीत्या । कथं ? प्रथमं त ब्रह्मशब्दस्य व्युत्पत्तिकरणमव स्थगितम् । ब्रह्म तु व्यापक तन्निर्गुणं ब्रह्म सर्वब्यापकं न भवति कथं चैतन्यरूपेणैतद् व्यापकं कथ्यते तदा पञ्च- भूतेषु व्यापकम् । पुनः निगुर्ण त शक्तिरहितमेव । तदा व्यापकधर्म एव कथं कथ्यते । एतद्रीत्या निर्गुणमेव ब्रह्मेव द्वयमपि परात्परं ब्रह्म न भवति, तस्मात् परम- हंसापेक्षयाप्यवधूता उत्तमाः । कथं ? परात्परः पूर्णो नाथो लक्ष्य इति । अद्वतोपरिवर्तिनिराकारसाकारातीतनाथात् निराकारज्योति थो जात- स्ततः साकारनाथो जातस्तदिच्छया सदाशिवो भैरवो जातस्ततश्च शक्तिभैरवी च जाता, तस्माद्विष्णुर्जातस्तस्माद् ब्रह्मा जातस्तेन सर्वा सृष्टिरुत्पन्ना । नाथाद् द्विप्रकारा सृष्टिर्जाता-नादरूपा बिन्दुरूपा च । नादरूपा शिष्यक्रमेण बिन्दुरूपा च पुत्रक्रमेण । नादानवनाथा जाता, बिन्दुतः सदाशिवो भैरवो जातः । पुनः शब्दसृष्टिप्रकार- माह-एका सूक्ष्मरूपिणी द्वितीया स्थूलरूपिणी। सूक्ष्मरूपिणी प्रणवो महागायत्री योगशास्त्रमिति । स्थूलरूपिणी ब्रह्मगायत्री वेदत्रयीति । पुनः योगशास्त्रतस्तन्त्रशास्त्र जातम् । वेदात्स्मृत्यादिशास्त्रं जातम् । पुनः नवनाथानां पश्चाद् द्वादशसिद्धाश्चतुर- शीतिश्च, द्वादशपन्थानोऽनन्तसिद्धाश्च जाताः। सदाशिवभैरवाद्विष्णुब्रह्मासूर्य्यश्चन्द्र- इन्द्रादिदेवता जाताः। पुनः योगात् शेषयोगसांख्ययोगादयोऽनेकयोगा अनेक भेदैर्जातास्तेन यांगेन ज्योतिषन्यायादिकं शाखं श्रुतितः स्मृतिशास्त्रव्याकरणपुराणा- नेकेतिहासा जाता एवं विग्रहसृष्टिनिवृत्तिप्रवृत्तिरूपिणी जाता । पुनः नादसृष्टिरपि सूक्ष्मस्थूलरूपिणी प्रकारद्वयात्मिका जाता। मङ्गलश्लोकानां व्याख्या- निर्गुणमिति । निर्गुणं ब्रह्म तद् यस्य सर्वोपरिवर्तिनाथस्य वामभागे एक- व्यवहारे । वामभागेन कोऽर्थः ? यथेतरं शास्त्रं कथयति । कश्चित् पुरुष उद्ध्वगति- ब्रह्मपदं प्राप्तः तदा कथ्यते निर्गुणस्य सर्वव्यापकस्यैकरूपस्य ऊर्ध्वमध इति । भागकल्पना कुत्र कस्यां वा दिशि कुतो वा वाचना। तथा च कल्पनां विना व्यवहारो न सिद्धयेत् । तया रीत्या निर्गुणं वामभागे इति । तस्य साक्षात्स्व- रूपस्य एकभाग एकव्यवहारे निर्गुणम् । पुनः सव्यभागे अद्भुता निजा च इच्छाशक्तिः १. अमायि ब्र० पू० सं० - ६० गोरक्षसिद्धान्तसङ्ग्रह सर्वसाकारब्रह्मकारणीभूता सव्यभागे एकभागे एकव्यवहार इत्यर्थः। सगुणब्रह्म- मूलभूता सा यस्येति । पुनः मध्यभागे सर्वस्याधारो वा सर्वशिरोमणियंत्र निर्गुण- सगुणमुभयमपि चैक्यं प्राप्नोति सत्यमसत्यं जडं चैतन्यं च सर्वमपि भावजात यत्र साम्यं प्राप्नोति द्वैताद्वैतभेदो यत्र दूरीभवति । यदैतादृशः सर्वोपरिवर्ती वाङमनो- गोचरो वाङमनोमयश्च द्वैताद्वैतविवर्जितः। पुन: यादृश एव तादृश एवेति सर्वविल- क्षण एवैतादृशो नाथो महासिद्धानां लक्ष्यः पूर्णः स मम श्रियेऽस्तु कल्याणं करोतु । मोक्षमार्गे दक्षभागतो वामभाग उत्तमोऽस्ति तस्माद्वामभागे निर्गुणमुक्तम् । पुनः जीवाः निर्गुणास्तत्त्वरूपा अद्वैतरूपा मुक्तास्ते चरणाग्रे रमन्ते, एतद्वये तु व्याव- हारिकं दर्शितम् । तत्त कल्पनामात्रमेवेति, वास्तविकं तु बन्धमुक्तिरहितम् इति । तत्त्वानुभाविकास्ते मुक्ता नाथस्य सर्वपिण्डे रमन्ति इति किं नाथरूपा एव न त्वन्ये। अग्रे उक्तं वामभागे स्थितः शंभुर्यो निर्गुणस्य ब्रह्मणोंऽशरूपः साकारतया संसार- कल्याणार्थ जातः स शिवो वामभागे । पुनः मध्यभागे स्वयं पूर्णो निर्गुणसगुणातीतः सर्वशिरोमणि थस्तस्य यः साकाररूपो नाथो मध्यमभागे स नाथो ज्योतीरूपो मम हृदयान्धकारनिवर्तनं करोतु । विश्वस्योत्पत्ति करोति स्वस्याप्युत्पत्तिं कथयति । एवं ब्रह्मण इच्छया पुरुषो जातः स नर इति । तेन तपस्तप्तं, नरशरीराज्जलानि नारा इति जातास्तत्र तेन शयनं कृतं तेन नारायण इति संज्ञको जातः । पुनरस्यैवावान्तररूपाणि रामकृष्णादीनि जानि तेषामपि रामनवमी जन्माष्टमी इत्यादि जन्मकर्मोत्सवा इति मन्यन्ते तथा च य उत्पत्तिवान् स नाशवान् पुनयत्र लोके गतास्ते पुनरायान्ति । कथं ? जयविजयौ शापासुरौ जातौ तर्हि तेषां स्थानं निर्भयं कथम् अथ च विश्वस्योत्पत्तिकारण- मेवोक्तं तनैवं ज्ञायतेऽन्यदेवापेक्षया संसारापेक्षया च सर्वोत्तमः शिव एव, परन्तु स्वस्मात्त निकृष्ट खेति कृत्वा मङ्गल तु नाथात्मकमेव कृतम् । आदिनाथो गोरक्षनाथश्चांशांशिभावेन वा स्वयमेक एव, परन्तु व्यवहारार्थमङ्गाङ्गिभावेन सेव्यसेवकभावेन नाथात्मकमेव मङ्गलं कृतम् । तेनैव सूचितं सर्वस्मादुत्तमः शिवः शिवादुत्तमो नाथ इति । योगे देवानामथ च संसारे सर्वोत्तमो नाथइति संकेतरीत्या। नाथस्योत्पत्तिरेव योगशास्त्रे न' कथिता, यतो जन्मकर्मापि न गीयतेऽत एव सिद्धसिद्धान्तपद्धतौ-श्रीगोरक्षनाथेन विश्वस्य कर्तृत्वं शिवस्य लिखितं नाथस्य तु न लिखितम् । कथं ? विश्वकरणे सगुणत्वमायाति, सोपाधीश्वरत्वं चायाति, नाथस्तु निर्गुण एव निरुपाधिरूप एव, तस्य प्राकृतिककार्यकरणेन किं माहात्म्यं कि वा श्रीरिति । यदि पुनः शिव एव मुख्यो देवो भवेत्तर्हि मङ्गलं शिवात्मकं किमर्थन कृतम्, एवंरीत्या कथनं महासिद्धानां सिद्धान्तो वर्तते न तु स्थूलरीत्या । प्रवृत्तिरीत्या कथन ? १. योगशास्त्रेण-१० सं० ।
गोरक्षसिद्धान्तसङ्ग्रह ? रीतिः । कथमंते तु निर्गुणा ऐश्वर्य बहुधा गुप्तं कुर्वन्ति, अन्ये त्वैश्वयं प्रकटीकुर्वन्ति । अहो अहो विपरीता वार्ता तस्याः श्रवणेऽपि ज्ञानेऽपि चाप्रियं भवति । अस्मिन्मते श्रुतिर्न साधिका वेति वार्ता । श्रुतिश्चास्माकं मते साधिका न भवेत् , भवेदपि चेत्तर्हि- मेरुः कम्पते पृथ्वी चलति ? आकाशात्सर्व जायते तत्तु पृथिव्या एव सर्व जायते पितुः पुत्रो जायते स पिता पुत्राज्जायते चैवं सर्वमपि कार्य विपरीतरीत्या भवेत् । यत एवं न वक्तव्यं यन्महासिद्धानां तात्पर्य तदेव श्रुतिर्वक्तुमिच्छतीत्यूर्वबाहुर्ध्वनि चिकीर्षति, परन्तु नानाकर्मनिरूपणात्तत्त्वस्याप्यन्यथा कथनात् सूक्ष्मात्स्थूलरूपनिरूपणात्पात- किनी जाता भाराक्रान्ता च जाता तेन तत्तात्पर्य वक्तुं न शक्यते । यदि किंचिद् वक्तुं शक्यते तन्महासिद्धानां तात्पर्यमेव वदेत् । या श्रुतिः प्रणवानुसारिणी सा त्वस्माकं मतानुसारिण्येव, या च प्रणवविरोधिनी अतिः कर्मज्ञानप्रतिपादिका साम्माकं मतानुयायिनी मा भवतु नाम, किन्तु सूक्ष्मस्थूलस्य निरूपणम् । प्रथमत उक्तं श्रुतिरस्माक मते साधिका न साधिकेति द्वयमपि न स्यादिति । कथं ? तदाह-न साधिका भवेत्तत्त्वेवमस्माकं तु प्रयोजनमेव नास्ति, कथम् ? वयन्तु महावेदयोग- माश्रितास्तेन च न कस्याप्यपेक्षां कुर्मः, परन्तु येषां मते स्थूलवेदाः परमपदार्था इति मन्यन्ते ते च यदि साधका न भवेयुस्तदास्माकं मते दूषणारोपणं कुर्वन्ति, यथा स्त्रीजनो मुनीन् प्रति कथयति भो मुने भवान् सकाम' इति । एवं कथयन्मुनीनां तु सकामत्वं दूपणमेव परन्तु तस्य त्विष्टमेवेति कृत्वा मनसा तु मुनिस्तुष्यत्येव परंत तद्भिप्रायेण यो बाह्यवृत्त्याऽतुष्ट एव भवेत् । कथं ? यस्य यदि सङ्गः क्रियते तदा तु तस्योपयुक्तवार्ताकरणं विना यो भूषणोऽपि दूपणमारोपयति । यतो हेतोर्न साधिके त्युक्तं तद्वर्जन चैतद्रीत्येति । पुनः साधकत्वे को वा दोष इति चेत् , कथ्यते -साधिकेति तु ये कथयन्ति ते पुराणस्मृतिकिंकरा वयं तु स्थूलवेदानां पितृकारणस्य महावेद- स्यानुसारिणो योगसिद्धान्तिनस्ते कथं तदाश्रित्य भवेमेति रीत्या साधकत्वमपि- वर्जितम् । तत्र कथ्यते तृतीया वात्तैव क्रियते तदा कथ्यते पूर्वमप्युक्तमेव वयं तु महावेदयोगानुसारिण इति । अथ च श्रुतिर्यद्वदति तदस्माकं महासिद्धानां यन्मत तदेव वदति, सकलाया अपि तेस्तात्पर्य प्रणवयोगपरमेव तथा च याः श्रुतयः प्रणवानुसारिण्यस्ताः तु योगमेव वदन्ति ये च ये च श्रुत्यनुकूलास्ते ते प्रथममेव प्रयुक्ता इति । पुनः ब्रह्म वेदस्यैकोनविंशतिरुपनिषदो माण्डूक्यक्षुरिकाकैवल्यप्रभृतयः छान्दोग्यवृहदारण्यमैत्रायण्यादयोऽन्यवेदस्यापि योगपरा एवैतास्तु सर्वाः प्रत्यक्षतः । पुनः, वेदवेदान्तादिः सर्वः परोक्षवादो यतो हेतोस्तात्पर्ये तात्पर्य रक्षति, प्रत्यक्षतः । कथं ? तस्य तन्मर्यादा नास्ति यतो हेतोः कर्मोपासनां ज्ञानं च वर्णयति परन्तु क्रमतः सर्वस्य तात्पर्य योग एवेति । ? . ? १. अकाम-पू० स०।
६२ गोरक्षसिद्धान्तसङ्ग्रह कैश्चित्कथ्यते ब्रह्मा विश्वं सृजति विष्णुः पालयति रुद्रः संहरति स त्वनुक्रमो नास्ति, योगस्य त्वनुक्रमो यो वर्तते स प्रथममुक्त एव, यदि चैतेषामेवानक्रमो रक्षित- स्तदा त्वयमपि चानुक्रमो व्यतिक्रम एव यदा भवेत्तदा कं वानुक्रम करिष्यामि । कथं ? 'अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः' इत्यादौ । तेषां मध्ये भोक्ता तु रुद्र एवोक्त स एव बलिष्ट एतौ तु भोज्यमिति । तथैव रुद्रः सहरतीत्यत्र महाप्राब- ल्येन नैगुण्येन नित्यमुक्तस्वरूपेण च तदोषाद्वारको न भवति तदन्यौ तु गुणपर्य- वसानौ गुणावधीयत एतत्कार्यकरणं तद्बाधकमेव भवति । बद्धास्तास्त्वने वक्ष्यन्ते इति । सर्वे सम्प्रदायाः कथयन्ति सहस्रशो ग्रन्था जाता इति, तान्प्रति मया कथ्यते यदि ममोपदेशो मन्यतां तर्हि सर्वे ग्रन्थाः कूपे निपा- त्यताम् । कथं? आधुनिकसमये स्वयमपि मुक्ता न भवन्ति तेह्यन्येषां मोक्षोपदेशे कथं समर्था भवेयुयंतश्चातुर्यार्थमभिमानार्थं च जीविकाक्षं च यस्य कस्याप्यभिलाषार्थ यत् शास्त्रं करोति तत्परमार्थिक पुरुषाणामो कथं शोभनीयं भवेत् , तदुक्तं श्रीगोरक्ष- नाथेन-शिलया कि परपारमित्यादि । अतः कारणादाधुनिका अयुक्त पुरुषास्तैः कृतानि सहस्रशः शास्त्राणि तानि त्याज्यानि, एतच्छास्त्रस्याभिमानो भवद्भिर्न- रक्षणीय इति । शङ्करसम्प्रदाये विद्यारण्यस्त्यागी जातः पश्चाद्वेदभाष्यं कृतं तदनन्तरं काशी गत्वा कस्यापि पण्डितस्याने स्वकृतभाष्यवार्ता कृता, तदा तेन स निन्दितः । कथं त्यागी भूत्वा पुनरपि व्यवहार उद्युक्तः तदा पुनः परमहंसेनोक्तम्- मदीयः श्रमस्त्ववलोकनीय इति । यदा पण्डितेन दृष्ट्वाऽशुद्धिबाहुल्यमित्युक्तं तदा परमहंसो विरागो जातः। पुनः कदाचिद्वनभ्रमणे कस्यचित् प्रेतस्य कृपया व्यास मिलनं जातम् । तेन भाष्य कमण्डलौ धृत्वाऽशुद्धिर्दूरीकृता, इति वार्ता प्रसिद्धा । पुनः कौमुदीकारो भट्टोजिदीक्षितः, सोऽपि प्रेतत्वं गतः, पुनः वैष्णवसंप्रदाये ताताचार्येणाप्पय्यदीक्षितोपरि कोऽपि अभिचारः संचारित, सतु तेन शिवभक्तेन शिवस्मरणे कृते तस्यैव मरणाय जातः। एवं यदा, तदा मया कथ्यते यादृशानि प्रेतरूपै प्रेतप्रसादाभिलाषिभिः पुरुषैः कृतानि शास्त्राणि मोक्षाय कथं भवेयुरित्यतः कारणात् महासिद्धानां मते विद्याभ्यासेन कोपि ग्रन्थं न करोति कितु योगाभ्यासेन सिद्धो भूत्वा सिद्धत्वेन च शास्त्रं करोति, स स्वयमपि मुक्तोऽन्येषामपि मुक्ति ददातीति सिद्धान्त इति । ग्रन्थस्य प्रकरणबन्धनमादिरन्तोऽ पि च न क्रियते । कथम् ? इयमप्याशैव भवति नियमश्च भवति ज्ञाने तु क्षणस्यापि नास्ति तर्हि एतावत् सङ्कल्पः क्रियेत तस्याप्यहंकारविलसितत्वात्तद्रूपमपि कर्मेव लग्नं भवेत् । पुनः क्षणेन मरणे सत्यन्यत्कार्य, तावन्मात्रस्तु बन्धो जात एव यस्माद्यत १. धर्माथि-पू० सं०। २. 'व्यास' इति नास्ति-पू० स० । ? - गोरक्षसिद्धान्त सङ्ग्रह my . ततो नाव- आरम्भः कृतः स एवादियनकृतं तत्रैव समाप्तिः। स्वतन्त्राणां पुरुषाणां क्षणमात्रमपि बन्धनं प्रियं न भवेत् । पुनः संस्कृतो वर्तते । सोऽप्यघटितपदार्थस्तु नास्ति सर्वव्यापकोऽपि नास्ति । कथं ? स्वभावकर्मापि नास्ति । तदा शिष्यते तदायाति । पुनः यश्च शब्दः सोऽघटितोऽस्ति, विनापि शिक्षां यत आयाति भेद व्यापको नास्ति यत्परात्परमघटितस्वरूपं तथैव तदंश एष शब्द एवादिघटितो दृश्यते स एव ग्राह्य इति । अतः कारणादेव श्रीनाथेन शब्दमयी गिरेतिकृत्वा सर्वाभिरपि गिराभि सर्वाणि शास्त्राणि कृतानि, सा च संस्कृतप्राकृतनागरमागधीभाषाभिरथ च यवन- भाषापर्यन्ताभिरपि यत एतेन व्यवहारे तु सर्वज्ञत्वं सूचितं सिद्धान्ते शब्द एव मुख्य इति सूचितम् । योऽघटितपदार्थो विशेषव्यापक. स एव न तु संस्कृतो वा अन्योऽपि यः कश्चित् एकः साकेतिकभाषाशब्दः स एव सिद्धान्त इति न किन्तु शब्द एव सिद्धान्त इति, शदे ब्रह्मणि शुद्धत्वाशुद्धत्वेन स्वाऽव्यक्तलिङ्गोपर्येव तात्पर्यमिति यतस्तत्प्रकारेण सर्वमेकपदादेव चिन्तनोयम् । यदा देवश्चिन्तनीयः तदा तेषां शाबपठनेनापि किं, तदुक्तं भर्तृहरिण- तार्किका घटपटेति रटेयुः शाब्दिकाः खफछठेति पठेयुः ।। मादृशां तु सततं स्मरणीयौ चन्द्रचूडचरणौ रमणीयौ ।। इति । पुनः अवधूतेषु कैश्चिद्दोषारोपणं क्रियते निश्चितं वथा कुर्वन्तु नाम, धूतानां मनोविकारस्तदुक्तं भर्तृहरिणा- चाण्डाल २ किमयं द्विजातिरथवा शद्रोऽथवा तापस.। किं वा तत्त्वनिवेश पेशलमतिर्योगीश्वर. कोऽपि किम् ।। इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनै- ! क्रुद्धाः पथि नैव तुष्टमनसो गच्छन्ति ते योगिनः ॥ (वैराग्य श.५५) गालिप्रदानेऽपि नावधूतानां क्रोधादिरिति भर्तृहरिणोक्तमेव- ददतु ददत गालीलिमन्तो भवन्तो वयमिह तदभावाद्गालिदानेऽप्यशक्ताः। जगति विदितमेतद्दीयते विद्यमानं न हि शशकविषाणं दीयते यद्वदान्यैः । पुनः क्रोधो न क्रियते, इदमपि नास्ति । कथं ? अक्रोधस्त परमहसानां धर्मः पुनः क्रोधकरणमिति गृहस्थानां धर्मः। अस्माकं तु द्वयमपि धर्म एवेत्यत एव । १. किंचिद्-पू० सं०। २. चण्डाल-प. स.। ३. किं-मु. पा.। ४. विवेक-मु० पा०। ५. यान्ति स्वयं-मु० पा० ।
६४ गोरक्षसिद्धान्तसङ्ग्रहः . एकदा भर्तृहरिः स्वेच्छया सिद्धस्वरूपः कापोतीमाश्रित्य पण्यवीथिकायां कणा- नादाय चर्वन्नृपतिना विक्रमार्केण दृष्टः स ज्येष्ठो भ्रातैव तदापि सिद्धरूपस्तेनाज्ञातो यत उक्तम्-अहो अस्यापि जननी ययैतादृशः पुरुषो जनितो यश्च स्वोदरभरणेऽप्यसमर्थ इति । तच्छुत्वा किमुक्तं सिद्धेन-अहो तस्यापि जननीं धिक् यः समर्थोऽपि परोप- कारकरणेऽसमर्थ इति । यदा चैवं विवेकवचनं श्रुत्वा राजा महान विचक्षण. स्वकीयं जेष्ठभ्रातर परमं पुरुष ज्ञात्वा स्वतः शीघ्रमेवावतीयं तच्चरणे पतितस्तदा श्रीभर्तृहरिणो- पदेशो दत्तस्तदनन्तरं परोपकारकरणे नृपतिः प्रवृत्तस्तेन च महाप्रतापवान् जातः । ततः कथ्यते महासिद्धा अकामिनोऽप्यक्रोधिनो जिताहंकारास्ते वचनसहनं कथं न कुर्वन्ति, परन्तु परमहंसरीत्येमेतु परमहंसा न सन्ति गृहस्था अपि न सन्ति, यथा काक उल्लूक इति । तयोरेकस्तु दिन एव पश्यति तदन्यो रात्रावेव पश्यतीमे तु योगिनो यौगिक- परमहंसा मराला दृष्टिद्वयेनापि पश्यन्तो मुक्तिमुक्ताफलं गृह्णन्ति शिवशक्त्योर्द्वयमपि चैकीकृत्य चन्ति तेऽवधूतयोगिनो भवन्ति इति सिद्धान्तेन सर्वदा रमन्ते* । गृहस्थः क्रोध एवासक्तः परमहंसश्चाक्रोध एवासक्तो यत एतयोरेकैकस्मिल्लोकेऽवज्ञा भवेत् । गृहस्थस्य क्रोधादिकरणे परो लोको न सिध्येत् । परमहंसस्याक्रोधादिसेवनेनेहलोके सुखं न स्यात् । एते तु परमहसाधिकाः क्रोधालोकदृष्टिगोचरा इतिकृत्यालौकिक सेवनादयं लोकोऽपि रक्षतेऽक्रोधादिना परलोकोऽपि साध्यते । परमावस्थायां भेदा- भेदपरे द्वैताद्वैतपरे न कोऽप्ययं लोको न कोपि परो लोकोऽयं तु तेषां परम सिद्धान्त इति। वैदिकः स्मार्तस्तु कुमारीकन्या यस्योपरि चित्तमासज्येत तमेव वृणोति । अवधूतः परमहंसः शैवः शाको वा यः कश्चित् स कथं इष्टो मुख्यतया न मतो यदि मुख्यतया मतो भवेत्तदा परिणीतः स्यात् । यदा ये तूपरिलिखितास्तेषां बेष आश्रितो भवेत् । पुन. अन्यस्येष्टोऽन्यस्य पतिर्न भवेत् , तदा स भ्रष्ट एव स्यात् । यथा पुरुषः कोऽपि यवनो भवेत्तदा केन वार्यते । पतञ्जलिना शास्त्राणि त्रीणि कृतानि-योगसूत्रं, व्याक- रणभाष्यं, वैदि[ध]कशास्त्रमिति । तेन तच्छिष्याः प्रशंसां कुर्वन्ति अस्माकं गुरुणा शास्त्रत्रयेण त्रयाणां दोषा जिताः, योगेन मनसो मालिन्यम् , व्याकरणेन वाङमालि- न्यमशुद्धता, वैदि[य] केन शरीरमालिन्यमनामयतेति । यदावधूतशिष्याः कथयन्ति शाखत्रयेण त्रयाणां दोषा जिताः एतत्त्रयस्य प्रयासः कृतस्तोकेन योगेनैव ते दोषाजिताः स्युस्तत्रैव किमर्थं न कृतः । कथं ? योगेन मनोमालिन्यं दूरीभवति तत्तु तेनैवोक्तं, पुनः व्याकरणेन यदुक्तं तद्योगेन कि न भवति ? यादृशं यद्योगे न स्यात्तत्तादृशं त्वन्येन न भवत्येव । कथं? शब्दब्रह्मास्य योगिन इष्टमेव हि भवति,योगिनः सिद्धवाचो भवन्ति, यद्वदन्ति तदेव भवति । वैयाकरणो न कोऽपि दृष्टः सिद्धवागिति । पुनः वैदि[य] केन शरीररोगनिवर्तनं भवति तद्योगेन कथं न भवेत्। योगिनस्तु शरीरममृतं कुर्वन्ति, ? * एतावदेव पूर्वसस्करणे मुद्रितम् । १. चरकास्वमायुर्वेदशास्त्रमित्यर्थः ।
गोरक्षसिद्धान्तसङ्ग्रहः , असंख्ययुगकालपर्यन्तं शरीरं रक्षन्ति च, यदि शरीरं नीरोगं भवेत्तदा कथं ताव- त्तिष्ठति । एताहग्वैदि[य] कं न किमपि दृष्टं येनैकयुगमपि शरीरं रक्ष्यते । तथा चाव- धूतशिष्य एव भवतु, तेनैकेन योगेनैव सर्वसिद्धिर्भवति । पुनः पुनर्योगः प्रशंस्यते, तत्त प्रशंसनमनया रीत्या । कथं ? योगपदार्थत्वात्मधर्मः कथं स्वदेहे न भवेत् । स्वतन्त्र एव, मुख्य एव, पुरुषार्थ एव च । कया ? आसनप्राणायामध्यानधारणासमाधय एतेषां मध्ये इन्द्रियदमनं सहिष्णुता सत्यमिति सर्वेऽपि चागतास्ते सर्वे स्वत एव भवन्ति । अत आत्मधर्म एव स महाश्रेष्ठः । अन्यत्तु यज्ञादिकर्म द्रव्येण साध्यते । पुनः बहुपुरुषैर्मिलितैः साध्यते । पुनरन्यत्तीर्थाटनं व्रतं त्यागस्तपो विरागो ज्ञानमिति यद्यप्यात्मधर्म एव तथापि सुकरत्वात् संसारिभिरपि जनैः क्रियते, यतो बहवो दृष्टिगोचराः। तीर्थयात्रिणो व्रतकारकास्त्यागिनश्च तस्मादेतेऽपि संबन्धधर्मतुल्या एव दृश्यन्ते, न त्वात्मधर्मस्तत्र दृश्यताम् । पाणिनीयव्याकरणाश्रितानां जनानां पण्डितानामग्रेऽपि दृष्टं किमप्येकं प्रमाणं नियतं नास्ति । वैष्णवा यया रीत्या व्याख्या कुर्वन्ति तां तु स्मार्ताः कथयन्तीयं व्याकरणरीत्या शुद्धा नास्तीति । यद्वैकशास्त्रावल- म्बिनां बहुधैकधर्मिणां पुरुषाणां मध्येऽपि चैवं भवेत्तर्हि मया तु सिद्धव्याकरण- शैवव्याकरणावलम्बिनां तेषां धर्मतो भिन्नधर्मिणा तत्तत्कथनमेव किं गण्यते, तेषां भेदं दृष्टा दृश्यते चेति । अर्जुनमिश्रकृतभारतटीकायाम्- यान्युज्जहार माहेशाद्वधासो व्याकरणार्णवात् । तानि किं पदरत्नानि मान्ति पाणिनिगोष्पदे ॥ भर्तृहरिक्यिपदीये- शास्त्रेषु प्रक्रियाभेदैरविद्येवोपवर्ण्यते। समारम्भस्तुभावानामनादि ब्रह्म शाश्वतम् ॥ (वा० २।२३३) नीत्युपाये यथा राज्ञां धर्माःशौर्य तेजोबुद्धिर्भाग्यं स्वातन्त्र्यशक्तिरिति, एभ्यो दृशी राज्यकार्यषु सिद्धिर्भवति, यज्ञाश्च भवन्ति, तथा मन्त्रिबुद्धितः सेनासंपत्तिः शत्रूणां द्रव्यसमाधानमित्यादेः संबन्धधर्मान्न भवति । एवं शृङ्गारेऽपि तारुण्येन, पराक्रमेण, रूपेण च यादृशं सुखं स्त्रीजनानां प्रीतिश्च भवति ताहगनेकभूषणेन द्रव्येण हादिसामग्रीविशेषेणानेकगुणैरैश्वर्येण बुद्धिकुलीनतावेषरचनारागरचनादिभिश्चे- त्यादिसंबन्धधर्मेण न भवति । यद्यपि सर्वेऽपि संबन्धधर्मा मिलिता अपि कार्यकरा भवन्ति इति विशेषः । एवं च योग एव श्रेष्ठ आत्मधर्मस्तद्वन्तं मुक्तिरङ्गीकरोति । यथा पूर्वोक्तशौर्यादिः श्रेष्ठ आत्मधर्मस्तद्वन्तं राजानं पृथ्वी अङ्गीकरोति, यथैव च पूर्वोक्ततारुण्यादिः श्रेष्ठ आत्मधर्मस्तद्वन्तं स्त्रीजनः शृङ्गारेऽङ्गीकरोति । केचिन्नारायणात्सर्वोत्पत्ति कथयन्ति । सा च तदधिकारिणामुपासकानामेवार्थे न तु मुख्यतया । तदुक्तं शिर उपनिषदि- १. अनागमविकल्पा तु स्वयं विद्योपवर्तते-मु० पा० । -- गोरक्षसिद्धान्तसङ्ग्रहः - - "अक्षरात्संजायते कालः कालाद्वथापक उच्यते । व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्वसिते तमो भवति तमस आपो अप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मध्यमानं फेनो भवति फेनादण्डं भवति । अण्डाद् ब्रह्मा भवति ब्रह्मणो वायुयोरोंकार ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।" ( अथर्वशिर उ०६, ई० अ० उ० पृ० १५७) अत्र तु विष्णोर्नामगणनापि नास्ति । कथं स तु रुद्रस्यांशावतारगणनेऽपि तवान्तरत्वेनोक्त इति । विशेषरीतिस्तु शिवरहस्ये सविस्तरं लिखिता- सर्ववेदानां सर्वसंसारिणामपि च गुरुर्नाथ एव सर्वशाखप्रसिद्धोऽत एव तन्त्रोक्तेऽपि गुरुकवचे गुरुमण्डल निरूपणे मुख्यतया नाथस्यैव गुरुत्वमुक्त श्रीनाथादि गुरुत्रयमित्यादिना। श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धेभ्यो बटुकत्रयं पदयुगं इतिक्रमं शोभनम् । वीरेशाष्टचतुष्टषष्टिनवकं वीरावलीपञ्चक श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोमण्डलम् ।। महेशसंहितायाम्- सत्यं केचित्प्रशंसन्ति तपः शौचमथापरे। क्षमा केचित्प्रशंसन्ति तथैव शममार्जवम् ।। केचिदानं प्रशंसन्ति पितृकर्म तथापरे। केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम् ।। केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः । अग्निहोत्रादिकं कर्म तथा केचित्परं विदुः ।। एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम् । निरीश्वरमिदं प्राहुश्चेश्वरं च जगत्पते ॥ वदन्ति त्रिविधा भेदैः सद्युक्त्या स्थितिकारकाः । एते चान्ये च मुनयः संज्ञाभेदात्पृथग्विधाः ॥ शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः। एतद्विवादशीलानामलं वक्तुं न शक्यते ।। भ्रमन्त्यस्मिन् जनाः सर्वे मुक्तमार्गवहिष्कृताः। आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः॥ इदमेकं सुनिष्पन्नं योगशास्त्रामृतं परम् । यस्मिज्ञाते सर्वमिदं ज्ञातं भवति निश्चितम् ।। अस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम् । योगशास्त्रमिदं गोप्यमस्माभिः परिभावितम् ।।
गोरक्षसिद्धान्तसङ्ग्रहः ६७ , आचारस्य संस्कृतशब्दस्य प्रबन्धकरणस्य शुद्धशब्दस्य चेत्यादि सर्वपदार्थानां निषेधकरणेनैवं वादिभिः कदाचिदपि न ज्ञायतां यदेतेषां मते त्वाचारो नास्ति, संस्कृतं शास्त्रं च नास्ति, प्रबन्धो वा नास्ति, शुद्धशब्दस्योच्चारणं नास्ति, इति । किंत्वस्माकं मते त्वाचार ईदृशो वर्तते यस्तु प्राणान्तेऽपि न त्यज्यत आचारः । अन्येषां तु मत एवमपि कथ्यते शरीराथं कदापि काले हयधर्ममपि ग्राह्यम् किमर्थ ? यदिशरीरमरोगं भवति तदापुनरपि तेन धर्म संपाद्य तमधर्म निवर्त्य पुनर्धर्म करिष्यते येन सर्वश्रेयो भविष्य- तीति । अस्माकं तु मते यदा कष्टे विपत्तौ वा शरीरार्थमधर्म गृह्णाति तदायं कीहशोधर्मों यः कष्टे त्यजते धर्मस्तु स एव यः प्राणान्तेऽपि न त्यको भवेदिति हेतोर्योगिनो योग एव सर्वदा तिष्ठन्ति क्षणमपि न योग त्यजन्ति । अत्र योगेन योगाभ्यासो ग्राह्य इति । तत्कमैव कर्माचारं यन्न त्यज्यते । ननु वेदेऽपि लिखितं यावज्जीवमग्निहोत्रं जुहोति, अहरहः सन्ध्यामुपासीते- त्यादि । पुनः संस्कृतशब्दरीतिस्त्वन्यैव । संस्कृतरीतिं रचयन्ति पुन. प्रबन्ध इति । प्रबन्धस्तु य एतादृशो यद्वाक्यं मेरुश्चलति तथापि तन्न चलति वाक्यम् । पुनः शुद्धमिति शुद्धमेतादृशं यच्छुद्धाशुद्धकीकरणं तन्मोक्षरूपम् । शुद्धमेव स्यात्तच्च कदापि काले नाशुद्धं भवेदित्येतद्रीत्या याचारादयः पदार्था एतैर्योगिभिरेताहशाः क्रियन्ते यादृशा अन्यैः कत्तुं न शक्यन्ते परं त्वयं सिद्धान्तो नास्तीति । आचारो घनाचार इति संस्कृतमिति । प्रबन्धो प्रबन्ध इति । शुद्धमशुद्धमिति । द्वन्द्वमिलनेनैव सर्व सिध्यति न त्वेकेनेति । एकेन तु ब्रह्मादयोऽपि किमपि कत्तुं न शक्नुवन्ति तच कदापि काले न भवत्येवेति । एतेन बारंबारमस्माभिरेवं प्रदश्यते । अव्यक्तलिङ्ग एव अघटितपदार्थ एव अत्याश्रम एव निश्चलो भवति नवितरकलितपदार्थों निश्चलः क्षणमपि दृश्यते । यद्वारंवारं कथनेनाव्यक्तलिङ्गस्यात्याश्रमस्येदंकरणं श्रोतारस्त्वैश्वर्येण मचा भूता एकदा लिखनेन जानन्त्यपरेषां मत एते यदा न भवन्त्येवेति तन्नास्ति सर्वस्मादप्यतेऽधिका भवन्ति निषेधकरणे न तु अव्यक्तलिङ्गे तापर्यमिति सिद्ध क्रियत इति । प्रथममुक्तेन योगेन योगाभ्यास उक्त इति । तदा कोऽपि जानीयात् योगाभ्यासो योगश्चेति कियदर्थ- द्वयमायातीति तत्र कथ्यते योगस्तु जीवात्मपरमात्मनोरैक्यमेव योगाभ्यासस्तु तस्य योगस्य प्राप्त्यर्थ मानसप्राणायामाद्यभ्यासकरणमिति । पुनः प्रथमं यावज्जीवममिहोत्री- त्युक्तं तत्स्वन्यशास्त्रस्यापि रीतिरुक्ता नत्वेतदग्निहोत्रादि कर्म योगाभ्यासरूपं कर्मचैक- मिति शेयं तत्तु निष्कर्म इदं तु महोत्तममिति । अत एव श्रीगोरक्षनाथेनोक्तं गोरक्षो- पनिषदि-आदिब्राह्मण इति । को वा ब्राह्मण इति । ब्रह्म जानाति स ब्राह्मण इति । वैष्णवा ब्राह्मणाश्च रामकृष्णादयोऽपीतरं ब्रह्म । एवं जीवात्मापि चानुक्रमानुक्रमतो जीवो ब्रह्मेति कथनं भवतीति । एतयारीत्या अंशांशब्रह्म भजन्तस्ते मायाशबलं ब्रह्म पर्यायनारायणे समन्वयं ब्रजन्ति । पुनः वैदिकाः परमहंसाश्च ये ते मायाशबल- ब्रह्म भजंतो निर्गुणब्रह्मणि समन्वयं ब्रजन्तीत्येवं भवतु मा भवतु परन्त्वेवं ६८ गोरक्षसिद्धान्तसङ्ग्रहः ते कथयन्ति । महासिद्धास्तु निर्गुणं भजन्तो निर्गुणातीते पूर्णे नाथे समन्वयं ब्रजन्ति । अथो त्रयमप्येतत्केन मार्गेण ब्रजन्ति, तत्राह-वैष्णवा. पुराणपाश्च- रात्राद्यनुसारिणस्तदुत्तोपासनेन कर्मणा । वैदिकाश्च परमहंसाः स्थूलवेदानुसारिणो यज्ञादिकर्मकरणानन्तरत्यागज्ञानेन । महासिद्धाः सूक्ष्मवेदानुसारिणो योगकर्मणेति । एवं च यदा वैष्णवास्तु पुराणपाञ्चरात्रादीनां वेदमूलकत्वात् वैदिकब्राह्मणान्तर्भूता अतस्तेषां कथने किं प्रयोजनमथ च वैदिका ब्राह्मणाः परमहंसास्ते स्थूलवेदानुसारिणो मायाशवलं ब्रह्मोपास्य निर्गुणं ब्रह्म जानन्ति यतो हेतोब्रह्म जानन्तीति ब्राह्मणा इति । पुनः महासिद्धाः सूक्ष्मवेदानुसारिणो निर्गुणब्रह्मभजनेन पूर्ण ब्रह्म जानन्ति यत एते आदिब्राह्मणा इति । ब्राह्मणा ब्राह्मणा वेदिका वैदिकाः कथ्यन्ते । यदेते किंतु ब्राह्मणा वैदिका न वत्तेन्ते एतेत महाब्राह्मणा महावैदिकाः । अथ चैवं रीत्यास्माभिः कथ्यते तद्यथार्थमेव ज्ञेयं नत्वेते ज्ञातिब्राह्मणा ब्रह्म जानन्ति यतो ब्राह्मणा इति । एकदण्डिनः परमहसाखिण्डिनश्च परमहंसाः क्रियावद्ब्रह्मेति दृष्ट्रा एकयैव दृष्टथा पश्यति । एक- दण्डिनो निष्क्रियं ब्रह्मेत्येकयैव दृष्टया पश्यन्ति । यदा एकयैव दृष्ट्या। एकयैव व्यवस्थयात बहुबारमुक्तं चञ्चलत्वमेव तिष्ठति नतु निश्चलत्वं याति तदा मोक्ष भाक्त्वं न भवेत्तेषां च बन्धनमेव वर्तेत तदा गर्भो नरकश्च कथम् १. पुर्वमुद्रितासंस्करणादेतावन्ति पत्राण्यधिकान्युपलभ्यापि ग्रन्थोऽयमपूर्ण एव प्रतिभाति ।
क उद्धृतग्रन्थानुक्रमणी अमनस्कम् ३,९ अमृतबिन्दूपनिषत् ५ अवतगीता १, ९, २८, ५८ आत्मोपनिषत् ५ आदिनाथ सहिता ४, ४२ उत्तरगीता ६, १८, १९ कपिलगीता २७ कालाग्निरुद्रोपनिषत् ८ कावषेयगीता १८ कुलार्णवतन्त्रम् ४१ कैवल्योपनिषद् ३,६ क्षुरिकोपनिषत् ७ खेचरीसहिता ४ गुरुकवचम् ६० गोरक्षकवचम् ३८ गोरक्षनाथस्तोत्रम् ३७ (कल्पद्रुम तंत्रोक्त ) गोरक्ष- सहस्रनामस्तोत्रम् ३८ गोरक्षोपनिषत् ८, ३५, ६२ छान्दोग्योपनिषत् ७, २२ तन्त्रमहार्णवः ३९ तारासूक्तिः ४१ तेजोविन्दूपनिषत् ३ ध्यानविन्दूपनिषत् ४ नाथसूत्रम् ४६, ५३, ५४ पद्मपुराणम् १७, ४३ परमहंसोपनिषत् ४५ पुराणम् २३ बहवृच ब्राह्मणम् २१ बृहदारण्यकोपनिषत् ७, २२, ४४ ब्रह्मबिन्दूपनिषत् २. ९ ब्रह्मवैवर्तपुराणम् ४३ ब्रह्मोपनिषत् ९, ४४ भगवद्गीता २, ७, १७, १८, २३ भर्तृहरि (शतकम्).६३ भागवतम् २२ मनुस्मृति.६ महाभारतटीका (अर्जुन मिश्रकृता) ६५ महाभारत मोक्षधर्म पर्व १८ महार्णवः ७ महेशसंहिता ६६ माण्डूक्योपनिषत् २१ मार्कण्डेयपुराणम् ६ मीननाथ. ५६ मुण्डकोपनिषत् ५ योगबीजम् २४,२५ योगशास्त्रम् ५० राजगुह्यम् ९ रुद्रयामलतन्त्रम् ४० वाक्यपदीयम् ५९, ६५ वायुपुराणम् ६,४१ विवेकमार्तण्ड. ४, ६, ३५ वैराग्यशतकम् ५७ शक्तिसंगमतन्त्रम् १०, ४२ + २ गोरक्षसिद्धान्तसङ्ग्रहः शाबरतन्त्रम् १४ ( अथर्व ) शिखोपनिषत् २१ (अथर्व) शिर उपनिषत् ६५ शिवपुराणम् ४३ शिवरहस्यम् ६६ श्रुति १९, २१, २३ शृङ्गारशतकम् ५६ षट्शाम्भवरहस्यम् १५, १६, ४१ षोडशनित्यातन्त्रम् १५, ४० सनत्सुजातीयम् १९, २२, २३ सर्वोपनिषत्सारः ९ (ब्रह्माण्डपुराणोक्तः ) सारसग्रहः ३८ सिद्धसिद्धान्तपद्धतिः (गोरक्षनाथकृता) १, ४ ७ १०, १४, २६,५३, ५६, ५७ ६०,६२ सिद्धसिद्धान्तपद्धतिः (नित्यनाथकृता) ९,४६ सूतसहिता १, ४२ स्कन्दपुराणम् ( काशीखड.) ३९ स्मृति २३ हठप्रदीपिका ११, ३०, ३३ न उद्धृतनामानुक्रमणी अतिकालः १४ अप्पयदीक्षितः ६२ अर्जुनमिश्र ६५ अनादि: १४ अवद्यः १५ अवधूतः१, १५ आङ्गिरस: ५ आदिनाथ ९, १४, ३३, ३५, ४० ईश्वरः २६, ४६ उग्रभैरवः १३ उड्डीश. ३९ उदयनाथ.३५ कन्थाधरः १५ कपिल १० कराल १४ कापालिकः १३, १४ काल: १४ कालभैरवनाथः कूर्मनाथ. ३५ कृष्णः १६, ३७ गोरक्षनाथः ९, १५, ३५, ३७, ३८, ३९,४६ चत्तुरगी ४३ चर्पटनाथ: १५ चर्यानाथः ३९ जड़भरतः१५ जालन्धरः १५, ३९ ताताचार्यः ६२ तारानाथः दण्डनाथ.३५ दत्तात्रेयः ४० दुर्वासा १८ गोरक्षसिद्धान्तसङ्ग्रहः ३ ३ देवदत्तः ४० नागार्जुन १५, ४० रुद्र २६,५१ ललिता ४३ नागेश ५२ वटुक १४ . नाथ: १,८, ९, १४--१७, ३७, ३८, ४१, ४६,४७, ५०, ५५ नारद, १८ नित्यनाथः ९ नृसिंह १३, १६ पतञ्जलिः ६४ पद्मपादाचार्यः १३ परशुरामः १६ ब्रह्मा १२, २६, ५१ भट्टोजिदीक्षित.६२ भर्तृहरि. ५२, ५६, ६३-६५ भवनाजिः ३५ भीमनाथ १५ भूतनाथ १४ भैरवः १३, २६, ५१ मण्डनमिश्र.१४ मत्स्येन्द्रनाथः (मीननाथः ) ३५, ४०, ४६, ५६ मलयार्जुनः १५ महाकाल: १४ मित्रीशः ३९ राधिका ४३ रामानुजः वसिष्ठः ४९ विकरालः १४ विक्रमार्कः ६४ विद्यारण्य.६२ विरोचनः २१ विष्णुः १२, २६, ५१ वीरनाथ.१४ बैराग्यः १५ व्यासः ४९,६२ शक्तिः १३ शङ्कराचार्य १३, १४, २०, ६२ शिव.१३, २६, ५१ शौनकः ५ श्रीकण्ठः १४, २६,५१ षष्ठीशः ३९ सत्यनाथ १५, ३५ सदाशिव २६, ५१ सनत्कुमारः ८ सन्तोषनाथः ३५ सुरेश्वराचार्य. १४ सहस्रार्जुन ४. सीता ४३ हरिश्चन्द्रः १५