Asr,melkote

Samayuka Bhatta Chinthamani

No Author · 2004/12/26

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

समयूखभाचिन्तामणी प्रथमाध्याये द्वितीयः पादः। अकार्यबोधकवाक्यप्रामाण्याधिकरणम् । आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मा. दनित्यमुच्यते १ शास्त्रदृष्टविरोधाच २ तथा फला. भावात् ३ अन्यानर्थक्यात् ४ अभागिप्रतिषेधात् ५ अनित्यसंयोगात् ६ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ७ तुल्यं च साम्प्रदायिकम् ८ अप्राप्ता चा- नुपपत्तिः प्रयोगे हि विरोधः स्याच्छाब्दार्थस्त्वप्रयोग- भूतस्तस्मादुपपद्येत ९ गुणवादस्तु १० रूपात्प्राथात् ११ दूरभ्यस्त्वात् १२ रूथपराधाकर्तुश्च पुत्रदर्शनम् १३ आकालिकेप्सा १४ विद्याप्रशंसा ५ सर्वत्वमाधिकारिकम् १६ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् १७ अन्त्ययोर्यथोक्तम् ॥ १८॥ प्रभा विधिरूपस्य वेदभागस्य धर्माधर्मयोः प्रमाण्यं पूर्वपादे सिद्धम् । विभ्यतिरिक्तवेद. वाक्यप्रामाण्यव्यवस्थापनार्थमयं पाद आरभ्यते । अतदथार्नाम् इष्टानिष्टसाधनावषयकप्रवृत्तिनिवृत्यन्यतररूपक्रियायास्तदन्वायनो वार्थस्याप्रतिपादकानां 'वायुई' इत्याद्यर्थवादवाक्यानां आनर्थक्यं धर्म प्रमि तिजनकत्वाभावः धर्म अप्रामाण्यमिति यावत्, कुतः आम्नायस्य धर्माधर्मप्रमाणभूत- स्य वेदस्य क्रियार्थत्वात् इष्टानिष्टसाधनविषयकप्रवृत्तिनिवृत्यन्यतररूपक्रियाप्र. तिपादकत्वनयत्यात् तस्मात् अर्थवादानामप्रामाण्यात् आम्नायस्य प्रामाण्यम् अनित्यम् अनियतमुच्यतेपूर्वपक्षिभिरितिशेषः वेदत्वावच्छेदेन प्रामाण्यं न सम्भवतीति यावत् ॥१॥ तदेवं सर्वेषामर्थवादानामप्रामाण्ये साधारणं हेतुमुक्त्वा अर्थवादविशेषाणामप्रामाण्ये हेतूनाह-शास्त्रदृष्टविरोधाच-स्तेनं मनः' 'अनृतवादिनी वाकू' इत्यादीनामर्थवा.

२ समयूख मादृचिन्तामणी- क दानां स्तेयं कर्तव्यं मृषोद्यं कर्तव्यं इत्यादिविधिपरताकल्पनया प्रामाण्योपपादने नानृतं वदेत् इत्यादिना शास्त्रेण तस्माद् धूम एवानेर्दिवा ददृशे नार्चिः इत्यस्य बाक्यस्य देवा वह्निदर्शनादिरूपं यद् दृष्टं प्रत्यक्षं तेन च विरोधात कथञ्चिदपि न स्वार्थे प्रामाण्यम् न चैतद्विो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा इत्यपरं दृष्टविरोधस्योदाहरणम् ॥ २ ॥ तथा इति दूषणान्तरसमुच्चायकम् फलाभावात् गर्गत्रिरात्रब्राह्मणप्रकरणे शोभते अस्य मुखं य एवं वेद इति श्रुतस्य गर्गत्रिरात्रब्राह्माणाध्यनफलस्य मुखशोभायाः तद्बा ह्मणाध्यायिन्यपि कुमुखे अदर्शनात् न तद्वाक्यस्य स्वार्थे ग्रामाण्यम् ॥ ३ ॥ पूर्णाहुतेरेव सर्वफलावाप्तिसाधनत्वे अन्यानर्थक्यात-तदितरेषामग्निहोत्रादीना मनुष्ठाननष्फल्यप्रसङ्गात् पूर्णाहुत्या सर्वान्कामानवाप्नोति इत्यादीनां न प्रामाण्यसम्भवः ॥४॥ न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि इत्यादीनां अभागिप्रतिषेधात् भागी प्रतिषेधभागी प्रतिषेधार्हः, भजनं भागः प्राप्तिस्तद्वान् इति वा प्रसक्त इति यावत्स न भवती त्यभागी अप्रसक्तः तस्य अन्तरिक्षचयनादेः प्रतिषधस्य प्रत्यायकत्वान्न प्रामाण्यम् ॥ ५॥ बवरः प्रावाहाणरकामयत इत्यादीनां न प्रामाण्यं अनित्यदर्शनात अनित्यानां जन्यानां प्रवाहणतदपत्यबबरादीनां तत्र प्रतीयमानत्वात् तद्वाक्यानां तत्तत्पुरुषानन्तर• भावित्वावश्यकतया पौरुषेयत्वेन भ्रमप्रमदादिशङ्काकलङ्कितत्वात् ॥६॥ सिद्धान्तमाह विधीनां विधेयानां स्तुत्यर्थेन स्तुतिरूपार्थेन विधेयान्वयिस्तु. तिरूपार्थप्रतिपादकत्वेन अर्थवादानां वायु क्षेपिष्ठा इत्येवमादीनां विधिना वायव्यं श्वेतमालभेत इत्यादिना एकवाक्यत्वात् अर्थवादा धर्माधर्मयोः प्रमाणानि अर्थवादवाक्यानां स्वातन्येण धर्माधर्मप्रतिपादकताविरहेऽपि स्तुत्युपस्थापकतया विधि- वाक्यसहकारेण धर्माधर्मप्रामाण्यं नानुपपनमिति भावः ॥ ७ ॥ विध्यर्थवादयोः साम्प्रदायिकं सम्प्रदायासद्धं अध्यायानध्यायगुरुमुखाधिगमादिकं तुल्य समानमव । तथा च तत्सामान्यादितरेषु तथात्वमिति न्यायेन विधिसाध. र्येण हेतुनार्थवादषु प्रामाण्यं सिध्यतीति भावः ॥ ८ ॥ द्वितीयसूत्रोकानुपपत्तिं परिहरति शास्त्रदृष्टविरोधात् इत्युक्ता अनुपपतिः अप्रा. प्ता च असम्बद्धा प्रयोगे हि स्तेनं मनः इत्यादिना स्तेयाद्यनुष्ठाने विधीयमाने हि नानृतं इत्यादिना विरोधः स्यात् तदेव तु न शब्दार्थस्तु स्तेनं मनः इत्यादिशब्दप्रति- पाद्यत्वेनाभितार्थस्तु अप्रयोगभूतः नस्तेयाउनुष्ठानविधिरूप: नातो विरोध इति भावः ॥९॥ काचदर्थवाद आपो वै शान्ता इत्यादौ वेतसशाखया चावकाभिश्चाग्निविकर्षति इत्यादि विधिसनिहिते विधेययोः वेतसशाखाऽवकयोस्स्तुतरदर्शनेऽपि तदाधारभूतानामपां स्तुतिरपि गुणवादस्तु विधेयगुणवाद एव अभिजनसंस्तवेन अभिजातस्तुतेः पर्यवसानस्य लोक सिद्धत्वात् ॥ १०॥ हिरण्यं हस्ते भवति अथ गृह्णाति इति विधिसन्निहिते स्तेनं मनः इत्यत्र रूपात् अर्थ. वादरूपात प्रयत्नसंचारत्वेन रूपेण स्तेनसारूप्यात स्तेनत्ववादा तथा तद्विधिसन्निहिते अन. स्युः।

प्रथमाध्याये द्वितीयः पादः ।
तैवादिनी वाक् इत्यर्थवादे प्रायात् अनृतवादित्ववाहुल्यात् अनृतवादित्ववादः उच्यते
हि प्रायेणानृतवादित्वात्पुसां इत्यादि । तथा च इतरनिन्दया विधेयभूतस्य हस्तस्य तदुभ-
यविलक्षणत्वात् भवति स्तुतिः ॥११॥
अभिज्योतिज्योतिरनिस्स्वाहेति सायं जुहोति इत्यादेः मन्त्रनियमविधेः
सनिहिते तस्माद्धुम एवानेर्दिवा ददृशे नार्चिः इत्याद्यर्थवादे दिवा वयदर्शनस्य
रात्रौ धूमादर्शनस्य च प्रतिपादनं दूरभूयस्त्वात् दूरभूयस्त्वमभिप्रेत्य अतिदूरदेशस्थत्वे
हि दिवापि वहिर्न दृश्यते धूमः परं दृश्यते एवं रात्री द्रदेशस्थत्वे अमेरेव दृश्यते
न धूमः इति न दृष्टविरोधप्रसङ्गः ॥ १२ ॥
प्रवरे प्रत्रियमाणे देवाः पितर इति ब्रूयात् इति विधिसन्निहिते न चैतद्विद्भो वयमब्रह्मणा
ब्राह्मणा वा इत्यर्थवादे अज्ञानवचनं दुनित्वेन गौणं दुनिता च यतःस्यपराधाकर्तुश्च
पुत्रदर्शन दृश्यते हि स्यपराधात् अब्राह्मणपुत्रत्वं यागकर्तरि । प्रवरानुमन्त्रणेन च
अब्राह्मणो ब्राह्मणस्सम्पद्यते इति प्रवरानुमन्त्रणस्य विधेयस्य स्तुतिर्भवति ॥ १३ ॥
दिवतीकाशान् करोति इत्ययं ज्योतिष्टोमे प्राग्वंशशालायाश्चतुर्दिक्षु द्वारकरण.
विधिः तत्सन्निधौ को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेति इत्याम्नाते-
ऽर्थवादे आमुष्मिकस्य सन्दिग्धतया निन्दनं तात्कालिकधूमव्याप्त्यादिजन्यखेद.
प्रतिबन्धकस्य द्वारकरणस्य आवश्यकत्वेन स्तुत्यर्थ यतः आकालिप्सा आकालिके
तात्कालिके फले ईप्सा उत्कटेच्छा भवति ॥ १४ ॥
गर्गत्रिरात्रविधिसन्निधावानातः शोभतेऽस्य मुखं य एवं वेद इत्यर्थवादः
विद्याप्रशंसा गर्गत्रिरात्रविधिवेदनप्रशंसारूपः क्रतोर्वेदनमेवेदृशं किमुत सदनुष्ठानमिति
क्रतुं स्तोतुम् , अतो 'न फलाभावात्' इत्युक्तो दोषः ॥ १५ ॥
आधानप्रकरणे पठितस्य पूर्णाहुतिं जुहुयात् इत्यस्य विधेः सन्निधावाम्नातं पूर्णाहुत्या
सर्वान्कामानवाप्नोति इत्यर्थवादे श्रुते सर्वस्वम् अधिकारिक अधिकारः प्रकरणम्
प्रक्रान्तऋतुसाध्यफलगतयावत्वरूपम् यथा सर्वे ब्राह्मणा भोजयितव्याः इत्यत्र सर्वत्वं
गृहागतब्राह्मणगतयावस्वरूपम् अतो नेतरकतूनामानर्थक्यम् ॥ १६ ॥
फलस्य स्वर्गादिरूपस्य कर्मनिष्पत्तेः कर्मभिनिष्पत्तेः तेषां कर्मणां परिमाणत:
लघुगुरुभावेन फलविशेषः फलेऽपि तत्तत्कर्मजन्ये लघुगुरुभावः स्यात् लोकवत्
सेवातारतम्यारफलतारतम्यवत् ॥ १७ ॥
अन्त्ययोः पञ्चमषष्ठसूत्रोक्तयोराक्षेपयोः यथोकम् उक्तप्रकारेण दूषणं वेदि.
तव्यम् तत्र न पृथिव्यामग्निश्चेतव्यो भान्तरिक्षे न दिवि इत्यस्यार्थवादस्य हि
रण्यं निधाय चेतव्यम् इति विधिशेषतया तद्विध्याका
|काङ्कितस्तुतिबोधकत्व
मिति स्तुत्यर्थेन विधीनां स्युः इति सूत्रोक एव परिहारः । प्रावाहणिशब्दस्य प्रवाह
णापत्यं प्रकृष्टवहनशीलः ववरध्वनियुक्तः वायुरकामयत इत्यर्थस्यैव विवक्षणात् नानित्य.
संयोगप्रसङ्गः इति परन्तु श्रुतिसामान्यमितिसूत्रोक्त एव परिहारः ॥ १८ ॥

समयूख भादृचिन्तामणौ- विधेः प्रामाण्यं (१)निरूप्य धर्मप्रमाणनिरूपणप्रसङ्गादर्थवादादि प्रामाण्यं निरूप्यते, "विध्यर्थवादमन्त्राणा"मितिवार्तिकस्थं विधिपदं(२ नामधेयपरं, स्तुतिस्तुत्यसम्बन्धप्रामाण्यप्रतिपादनपरम् ,अर्थवादकल्पय विधिपरं (३)वा व्याख्येयम् । नन्वस्तु स्वस्ववाच्यप्रवर्तना (निवर्तना) विषयभावनाविशेषणीभूत यागादाविष्टानिष्टसाधनताबोधनेन बिधिनिषेधयोर्धर्माधर्मप्रामाण्यः "वायुर्वै क्षेपिष्टा देवता" (8)इत्याद्यर्थवादानां तु सत्यप्यपौरुषेयत्वे न मयूखः (१) प्रथमाध्याये पादचतुष्केण क्रमेण विध्यर्थवादस्मृतिनामधेयानां धर्म प्रामाण्यं प्रतिपादनीयं तत्र प्रथमपादे विधेः प्रामाण्यं निरूप्य अर्थवादादीनां प्रामाण्यं निरूपयितु. कामः पूर्वापरप्रन्थयोरेकवाक्यताप्रतिपत्तये प्रसङ्गसङ्गतिं दर्शयितुमाह-विधेः प्रामाण्य. मिति । प्रसङ्गश्च स्मृतिनिष्ठोपेक्षानस्तावच्छेदको धर्मः। संगतित्वं च अनन्तराभिधान. प्रयोजकजिज्ञासाजनऋज्ञानविषयत्वम् । अत्र धर्माधर्मयोः प्रमाणनिरूपणाध्यायसंगतिः, विध्यतिरिक्तवेदवाक्यप्रामाण्यनिरू. पणात् पादसंगतिः, अनन्तरसङ्गतिस्तु पूर्वाधिकरणे विध्यर्थमपि अपौरुषेयत्वे निरूपिते क- त॒स्मरणाभावरूपयुक्तिसाम्यादर्थवादेषु प्रसते तद्वदेव धर्मप्रमोत्पादकत्वमस्ति न वेति वि. चारादवगन्तव्या। (२) ननु प्रथमपाद एव विधः प्रामाण्यस्य निरूपितत्वे द्वितीयपादारम्भे-- सिद्धप्रमाणभावस्य धर्म वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥ इति वार्तिकेन विरोधोऽत आह-विध्यति । नामधेयपरमिति । तेन च तुर्थपादे नामधेयनिरूपणेन न न्यूनता । (३)विधिपरमिति । विधौ सत्येव समाहितसाधनत्वप्रतीतिरिति विध्यमावा. दौदुम्बरताया ऊर्गवरोध प्रति साधनत्वं न सम्भवतीति औदुम्बराधिकरणे विध्युपयोगस्य प्रदर्शनादिति भावः । एतत्पक्षद्वयेऽपि विधिपदं नामधेयस्योपलक्षणं बोध्यम् । केचित्तु वार्तिकस्य विध्यर्थवादमन्त्राणामुपयोग इदानीमुच्यते इति नार्थः येन विध्युपयोगस्य इदानी वक्तव्यत्वमावश्यकं स्यात्किन्तु इतिशब्दाध्याहारेण 'विध्यर्थवादम न्त्राणामुपयोग इति इदानीमर्थवादप्रामाण्यकथनेनोच्यते' इत्यर्थः ततः अर्थवादमन्त्रोप. योगकथनं विना त्रयाणामुपयोगोऽस्तीत्यर्थस्यासिद्धरिदानीमर्थवादादिमात्रोपयोगकथने- ऽपि त्रयाणामुपयोगोऽस्तीति इदानीमुच्यते इत्युक्तिरुपपन्नेति वदन्ति । (४) 'वायव्यं श्वेतमालभेत भूतिकामः' इति विधिसन्निधौ ‘वायुर्वं क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इत्यर्थवादः (तै० सं०२० - प्रथमाध्याये द्वितीयः पादः। तयोः प्रामाण्यं सम्भवति तदनवगतः, नवानधिगतार्थगन्तृत्वरूपप्रामाण्य- सम्भवस्तदर्थस्य (१)लोकादवगतः, नायबाधितार्थत्वम् प्रजाप- तिरात्मनो वपामुदखिददित्यादावसत्वात् , वाक्यार्थमर्यादया इष्टसा. धनप्रमाजननासम्भवादनुपपचिज्ञानाभावेन (२)लक्षणाध्याहाराद्यसम्म वाश्च दूरापेतं धर्माधर्मप्रामाण्यमिति चेत् । लक्षितप्राशस्त्यप्रकारकष्टसाधनयागादिविशेष्यकशाब्दप्रमितिजन कत्वेन प्रामाण्यसम्भवात शाब्दप्रवृत्ती प्रवर्तनाज्ञानस्येव प्राशस्त्यज्ञा- नस्यापि हेतुताया बहुक्षीरादिवाक्यजन्यप्रवृत्तौ क्लसत्वात् अध्ययन विधौ प्रयोजनवदर्थज्ञानजनकत्वेन स्वाध्यायस्य भाव्यत्वान्वयानुपप. तेर्वा लक्षणाबीजत्वात् निष्कम्पप्रवृत्तिसिद्धथै विध्यपेक्षितप्राशस्त्यल. क्षणाया विधिनिषेधलक्षणापेक्षया लघुत्वात(३) । प्राशस्त्यं चाननुगतमेव तत्तद्वाक्यबोध्यक्षेपिष्ठादेवतासाभ्यताहेतु. काविलम्बितफलजनकत्वादिकं फलतारतम्यं वा बलबदनिष्टाननुब. न्धित्वं वा, तश्च(४) तत्कर्मजनकव्यापारापेक्षया तत्फलाधिक्यरूपमिष्टो. त्पत्तिनास्तरीयकदुःखाधिकदुःखाजनकत्वं वा, तञ्च वाक्यार्थ इव सर्वैः पदैरन्त्यपदेन वा लक्ष्यते, न चान्यानर्थक्यम् , आर्थवादिकपदार्थसं: सर्गस्य सतोऽसतो(५) वा प्राशस्त्यलक्षणोपपादकत्वात, न च केवल विधाविव सर्वत्र विधिनेष्टसाधनताबोधकेन तदाक्षेपः । ऋतुविधीना. मयूखः । १-१) पठ्यते । तस्य वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता वैशब्दः प्रसिद्धौ स्वेन भागध- येन स्वसम्बन्धिना श्वेतपशुरूपेण हविषा यजमानस्तं प्रीणयति स च तुष्टो वायुः एनं भा. गप्रदं यजमानं भूतिमैश्वर्थ गमयति प्रापयत्येवेत्यर्थः । (१) तदर्थस्य-वायोः क्षिप्रगामित्वरूपस्य । (२) अनुपपत्तिज्ञानामावेनेति । यथाश्नुतार्थप्रतिपादनेनोपपत्त्या इति शेषः । मीमां. सकमते अनुपपत्तिज्ञानमेव लक्षणवीजम् न तु तात्पर्यांनुपपत्तिर्वेदस्यापौरुषेयत्वेन तात्पर्या- सम्भवादिति भावः । वस्तुतस्तु तात्पर्यग्रहकाभावात्तात्पर्यानुपपत्तेरप्यसम्भवो बोध्यः । ( ३ ) लघुत्वादिति । प्रयोजनं-पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादपि फल. सिद्धिः, सिद्धान्ते मन्त्रवत् अर्थवादानामेव प्ररोचकत्वनियमात्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ सेति बोध्यम् । (४) तच्च-बलवदनिष्टाननुबन्धित्वं च । (५) सत:-वायुक्षेपिष्ठत्वादेः । अलत:- देवा वै देवयजनमध्यवसाय दिशो न भ्राजन्' इति दिङ्मोहादेः ।

समयूख भादृचिन्तामणौ-
HD
मन्यप्रयोजकत्वस्येव सार्थवादकविधीनां तदनाक्षेपकत्वादिति सम्प्रदायः ।
प्रवर्तनामात्रविधिबोध्येष्टसाधनत्वादित्रितयस्य बाधोऽर्थबाधादित्युच्छ्र-
प्राशस्त्यज्ञानं यागादिविशेष्यकं शानेच्छाप्रवृत्तीनां समानविशे.
ध्यप्रकारकत्वनियमादिति केचित् ।
भावनायामेव प्राशस्त्यान्वयः प्रवर्तनान्वयवदित्यन्ये । क्वचित्तु
विध्यपेक्षितफलद्रव्यादिविशेषप्रमापकताप्यनीक्रियते ।
एतेन स्तेनं मनोऽनृतवादिनी वाक्, धूम एवाग्नेर्दिा दहशे नार्चिः,
न चैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा, कोहि तद्वेद यद्यमुषिमल्लो-
केऽस्ति वा नवेति, पूर्णाहुत्या सर्वान् कामानवाप्नोति, न पृथिव्याम.
ग्निश्चेतव्यो नान्तरिक्षे न दिवि, बबरः प्रावाहणिरकामयत, इत्यादे.
यथाश्रुतार्थप्रतिपादकत्वे लक्षणादिना वा विधिकल्पनशास्त्रदृष्टविरोधक.
मन्तिरानर्थक्याप्रसक्तप्रतिषेधानित्यसंयोगादिदूषणमपास्तम् ।
अर्थवादाः अलौकिकेष्टसाधनीभूतार्थज्ञानजनकाः स्वाध्यायविधि
बोधितप्रयोजनवदर्थप्रतिपादकत्वाविधिवत् तत्रापि तत्तद्विध्येकवा.
क्यत्वात स्तुतिप्रकारकताहशार्थप्रमितिजनका इति सूत्रार्थः ॥
विधिवनिगदाधिकरणम् ।
विधिर्वा स्यादपूर्वस्वादादमानं बनर्थकम् १९ लोक-
अदिति चेत् २० न पूर्वत्वात् २१ उक्तन्तु वाक्यशेषत्वम्
२२ विधिश्वानर्थकः कचित्तस्मात्स्तुतिः प्रतीयेत तत्सा.
मान्यादितरेषु तथात्वम् २३ प्रकरणे सम्भवन्नपकर्षों न
कल्प्येत विध्यानर्थक्यं हि तं प्रति २४ विधौ च वाक्य.
भेदः स्यात् २५ ।
'औदुम्बरो यूपो भवतीति विधिसन्निधौ पठितः 'ऊग्वा उदुम्बर ऊपशव ऊर्जे-
वास्मा ऊर्ज पशनवरुन्धे' इत्यर्थवादः अपूर्वत्वात्-ऊर्गवरोधे फले औदुम्बरतायाः
साधनस्य प्रमाणान्तरेणाप्राप्तत्वात् विधिर्वा पश्वादिफलोद्देशेन औदुम्बरत्वादिविधिरूप
एव स्यात् हि यतः वादमात्रं-अर्थवादमात्ररूपं चेद्वाक्यं प्राशस्त्यलक्षणया स्वार्थ-
परित्यागात् अनर्थकं स्यात् विधायकवाभावात् ॥ १९ ॥
अत्र शकते लोकवदिति चेत् यथा लोके 'इयं गौः क्रेतव्या' इतिविधिसन्निधौ
पव्यमानं 'इयं गौर्बहुक्षीरा' इति वाक्यं विधायकत्वाभावेऽपि स्तावकत्वेनैव सार्थ-
कम् तथा प्रकृतोऽर्थवादोऽपि विध्यपक्षितस्तुतिपरतयैव सार्थक इति चेत् . ॥ २० ॥

प्रथमाध्याये द्वितीयः पादः। परिहरति न पूर्वत्वात्-बहुक्षीरत्वादेः प्रत्यक्षप्रमाणान्तरावगतत्वात् अपूर्वस्वा. भावेन विधायकत्वासम्भवेनागत्या लक्षणया स्तुतिपरताकल्पनेऽपि प्रकृते प्रमाणान्तरा- नवगतपश्वादिफलजनकत्वप्रतिपादकस्य विधिरूपत्वसम्भवे स्तुतिपरत्वकल्पनस्यायुक्तव. मिति भावः ॥ २१ ॥ सिद्धान्तमाह-उक्तं 'विधिना त्वेकवाक्यत्वात्' इत्यत्रोपपादितं वाक्यशेषत्वं तु विधिवाक्यशेषत्वमेव 'ऊग्र्बा' इत्यादेः युक्तम् , आश्रयाभावेन गुणफलविधित्वा. सम्भवादिति शेषः ॥ २२ ॥ क्वचित् 'वायव्यं श्वेतमालभेत' इति विधिसन्निहिते 'वायुर्वा क्षपिष्ठा' इत्यादि. वाक्ये विधिः-'वायुः क्षिप्रगामी कर्तव्यः' इत्येवं रूपः अनर्थकः-असम्भवदर्थकः तस्मात् स्तुतिः विधेयप्रशंसैव लक्षणया प्रतीयेत तत्सामान्यात् असम्भव द्विधिकार्थवादत्वात् इतरेषु विधिवन्निगदध्वपि ऊर्वा इत्यादिषु तथात्वम् स्तावकतया विधिशेषत्वम् ॥ २३ ॥ दर्शपूर्णमासप्रकरणे 'यो विदग्धः स नैऋतो योऽशृतस्स रौद्रेः यः शृतः स सदेव. स्तस्मादविहता शृतं कृत्यस्सदेवत्वाय' इत्येतद्वाक्ये 'यो विदग्धः स नैऋत' इत्यादि 'अविदहता' इत्यादिविधिशेषतया अर्थवादरूपं चेत् प्रकरणे स्वीये एवं सम्भवन् निविशेत अपकर्षः प्रकरणादन्यत्र निवेशश्च न कल्प्येत नैऋतयागानुवादेन विद- ग्धत्वविधाने तु अपकर्षः स्यादेव हि-यतः तं प्रति सन्निहितं दर्शपूर्णमासयागमु. द्दिश्य विध्यानधक्यम् विदग्धत्वविधैरसम्भवदर्थकत्वं प्रकृतयागे निऋतिदेवताविरहेण प्रकृतकर्मानुवादासम्भवात् ॥ २४ ॥ विधौ च 'यो विदध' इत्यादि वाक्ये गुणविधौ स्वीक्रियमाण वाक्यभेदः स्यात् स च न युक्तः तस्मादित्यनेनैकवाक्यत्वावगमात् ॥ २५ ॥ (१)सौमापौष्णं त्रैतमालभेत (२)पशुकाम इति विकृतिविधिसन्निधौ औदुम्बरो यूपो भवत्यूर्वा उदुम्बर उ पशव ऊर्जेवास्मानूर्ज पशूना- मयूखः। । (१) पूर्वाधिकरणे स्तावकत्वेन सर्वेषामर्थवादानां विध्येकवाक्यतयाऽनर्थक्यं परिहृतं सांप्रतं केषां चिदन्यविधयापि आनर्थक्याभावः इत्याक्षिप्य समाधातुमाक्षेपस. गत्या अधिकरणमारचयति सौमापोष्णमिति । अधिकरणसंगतिस्तत्र सप्तधा। पूर्वमाक्षिप्यत यत्र तत्र साक्षेपिका मता । पूर्वन्यायात्ययो यत्र प्रत्युदाहरणा तु सा । प्रसङ्गाच्चिन्त्यते यत्र तत्र प्रासाङ्गेको मता । बुद्धिस्था चिन्त्यते यत्र बुद्धिस्थानात्मिका तु सा । कृत्वा यत्रा. धिकां शङ्का पूर्वमेवातिदिश्यते । तत्रातिदेशिकी प्रोका सङ्गतिायवेदिभिः । चिन्ता प्रकृत. सिद्ध्यर्थामुपोद्धातं प्रचक्षते ॥ २) त्रिभिः सहजैः इतः त्रीतः यो वा तिस्रः पिबति ततः स्वार्थिकोऽण् । -- ८ समयूख भादृचिन्तामणौ- प्नोत्यू|ऽवरुध्या(१) इति समास्नातम् , किमिदं विधिनिरपेक्षं प्रवृत्तिजनकलाध्यसाधनभावप्रमाजननेन प्रमाणमुत भवत्यन्तेन विहितस्यौदुम्बरत्वस्यान्तिमो भागः स्तावक इति चिन्ता, तत्र चतुर्युपस्थितसाध्यत्वस्य निरूपकापेक्षायां समभिव्याहृ. तौदुम्बरत्वस्य तद्विशिष्टयूपस्य च निरूपकत्वेनान्वयादिष्टसाधनत्वा. वगतौ प्रवृत्तिसिद्धविधिनिरपेक्षस्य प्रवृत्तिहेतुशानजनकत्वेन प्रामा- ण्यमिति पूर्वपक्षः । सिद्धान्तस्तु भवत्यर्थे कर्तृत्वेनान्वितस्यौदुम्बरत्वस्य कल्पितक- रोत्यर्थकर्मत्वेनान्वयेन साध्यत्वनिरूपकत्वायोगात् , अतो विधिराव श्यकः, तत्सद्भावे प्रवर्तनान्वयार्थ विधेयस्य करणत्वेनान्वयकल्पनात् । न च विधीयमानस्यौदुम्बरत्वस्योर्गवरोधो रात्रिसत्रस्य प्रतिष्ठेवा- थवादिकं फलं भवत्विति वाच्यम् , यूपोहेशेन विहितस्य तस्य परार्थ- त्वेन फलानपेक्षतया दृष्टान्तवैषम्यात् । न च फलोद्देशेन तस्य विधौ यूपस्याश्रयत्वमस्त्विति वाच्यम् , तत्प्रकरणाभावेन यूपत्वेन तस्यानुपस्थितेः । अतिदेशेन प्रा. तस्योपकारकत्वेनोपस्थितेर्जुहादिसाम्येन तस्याप्याश्रयत्वापत्त्या यूप: पदस्य पाक्षिकानुवादत्वापत्तिः । अतो न विहितस्यौदुम्बरत्वस्य ऊर्वा इत्यादि स्तावकम्(२) । एतेन(३) पर्णमय्यधिकरणं ब्याख्यातम् ।। मयूखः। (१) यूप इति । अस्मै इति षष्ठ्यर्थे । तथा च अस्य यूपस्य ऊर्जा उग्रूपेण उदुम्बरेण प्रकृतिद्रव्येण ऊर्पूपान्पशूनाप्नोति ऊ वलं जीवनं वेत्यर्थः औदुम्बररूपं यूपं यो भावयति यजमानाय पशून् धारयति सोऽध्वर्युरिति यावत् । ( २ ) यागफलात्फलान्तरकामनायामौदुम्बरो यूपः अन्यथा खादिर इति प्रयोजनं पूर्वपक्षे, सिद्धान्ते तु औदुम्वर एवेति बोकम् । ( ३ ) एतेनेति । यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति इत्यत्र यद्य पिपर्णताया अनारभ्याधीतत्वेन प्रयोगवचनोपस्थाप्यक्तूपकारकत्वस्य विप्रकृष्टत्वमिति स्ववाक्यगतत्वेन मन्निहितमपापश्लोकश्रवणमेव यः पापं न शुश्रूषति स पर्णमयी जुहूं कुर्यात् इति विपरिणामेन फलमाश्रयितुं युक्तं रात्रिसत्रप्रतिष्ठावत् तथापि शृणोतीत्यस्य वर्तमानापदेशतया पापश्रवणाभावस्य फलत्वं न प्रतिपत्तुशक्यम् , न च विपरीणामेन फल परत्वं यथावस्थितस्वरूपहानप्रसङ्गात् पर्णतायाश्च जुहूपस्थितक्रत्वर्थत्वेन निराकाहत्वाद. युक्तं शब्दस्वरूपबाधनम् । नच पर्णत्वस्य फलं प्रति विधीयमानस्याश्रयः प्रकृतेऽस्ति ९ प्रथमाध्याये द्वितीय पादः। हेतुवन्निगदाधिकरणम् । हेतुर्वा स्यादवत्वोपपत्तिभ्याम् २६ स्तुतिस्तु शब्द पूर्वस्वादचोदना च तस्य २७ व्यर्थे स्तुतिरन्यारयति चेत् २८ अर्थस्तु विधिशेषत्वाद्यथा लोके २९ यदि च हेतुरवतिष्ठेन निर्देशात् , सामान्यादिति चेदव्यवस्था विधीनां स्यात्३० प्रभा चातुर्मास्ये वरुणप्रघासपर्वणि श्रुतः 'शूर्पण जुहोति' इत्यादिविधिसन्निधौ पवितः 'तेन ह्यन्नं क्रियते' इत्यादिहेतुवन्निगदः हेतुर्वा हेतुत्वविधिरेव स्यात् अर्थवस्वो. पपत्तिभ्याम् तदा कुमः शक्तिलक्षकतया तेन हि अन्नं कर्तुं शक्यते इत्येवं रीत्या तद्वाक्यस्याथवस्वम् साक्षादनकरणत्वस्य शूऽसम्भवेऽपि परम्परयाऽनकरणसाधनत्वात् यतः शूर्पमन्नकरणमतस्तेन होतव्यम् इत्युक्त्या येन येनान्नं क्रियते तेन तेन दीपिठ. रादिना होतव्यमित्यधिकार्थलाभेन हेतुवादस्य प्रयोजनवत्वात् प्रणाडिकया अन्नकरण. स्वत्योपपत्तिश्च भवतीत्यर्थः ॥ २६ ॥ सिद्धान्तमाह-स्तुतिस्तु स्तुतिपर एव स हेतुवन्निगदः कुतः शब्दपूर्व त्वात्-शब्दो विधिशब्दः तेन तद्गता स्तुत्यपेक्षा लक्ष्यते विध्यनपेक्षितहेतुपरत्व कल्पना- पेक्षया विध्यपेक्षितस्तुतिपरत्वाश्रयणमेव न्याय्यमित्यर्थः तस्य अन्नकरणत्वगतहेतुत्वस्य अचोदना च न विधिः दीपिठरादेः साधकतमत्वविरहेण तद्वतान्नकरणत्वस्य हेतु . त्वविधैरसम्भवात् ॥ २७ ॥ पूर्वपक्षी शङ्कते-पेऽपि साधकतमत्वाभावेन व्यर्थ स्तुत्यालम्बनान्नकरणत्वरूपा. र्थरहिते स्तुतिः अन्याय्या अनुपपन्ना इति चेत् ॥ २८ ॥ समाधते-अर्थस्तु स्तुत्यालम्बन्नकरणस्वरूपार्थस्तु भवत्येव सिद्धान्ते शूर्पस्य स्थाल्यपेक्षया साधकतमस्वाभावेऽपि लाङ्गलाद्यपेक्षया यथा साधकतमत्वं लोके दृश्यते तथाविधसाधकतमत्वस्य लक्षणया प्रतिपादनेन विधिशेषत्वात् स्तावकतया विध्येक. . वाक्यत्वात ॥ २९ ॥ मयूखः। अनेनैव वाक्येनैवाश्रये दीयमाने वाक्यभेदः तस्मादपापश्लोकश्रवणमर्थवादः पशूनाप्नोति इति वदिति भावः । नन्वेवमनेनैवाधिकरणेन सिद्धे चतुर्थे तृतीयपादे पर्णमय्यधिकरणानर्थक्यमिति चेन्न औदुम्बराधिकरणसिद्धस्याप्यर्थप्रयुक्तत्वरूपप्रयोजनसूचनार्थत्वात् यद्वा भवतीत्यस्य वर्तमानापदेशतया विधिप्रत्ययाभावादुदुम्बरतायाः साधनत्वं न सम्भवतीति विध्युन्मो. लनाय पशूनाप्नोतीत्यस्यसाध्यसमर्पकत्वमङ्गीकृत्यौदुम्बरतायाः साधनत्वं न सम्भवतीत्यत्र विचारः चतुथ तु पर्णतादेः साधनवमभ्युपेत्यानादृत्य वा विचारः इत्यपौनकृत्यम् । भा० चि०२ समयूख भादृचिन्तामणौ- . तुष्पत्विति न्यायेन हेतुविधिमभ्युपेत्याह-यदि च अयं हेतुः हेतुविधिः स्यात् तदा शूर्पगतस्यैवान्नकरणत्वस्य हेतुत्वम् अवतिष्ठेत न दीपिठरादिगतस्यापि शूर्पस्यैव हेतुसाधनस्वेन निर्देशात् पूर्वपक्षी शङ्कते---सामान्यादिति चेत् सामा. न्यतः ( प्रकृत्यनपेक्षया) प्रबलया तृतीयाश्रुत्या दुर्बलपदश्रुतिबाधात् अन्नकरणसामा. न्यस्यैव हेतुत्वं स्यादिति चेत् समाधत्ते---तथा सति विधीनां 'ब्रीहिभिर्यजेत' इत्यादीनां प्रत्ययश्रुत्या पदश्रुतिबाधेन द्रव्यसामान्यस्यैव परिप्रहप्रसङ्गात् अव्यवस्था स्यात अतः आनर्थक्यप्रतिहतानां विपरीतं वलावलमिति न्यायेन तृतीयाश्रुतेर्दु बैलपदश्रुत्यनुरोधो न दोषायेति भावः ॥ ३० ॥ वरुणप्रघासेषु करम्भपात्राणि(१) जुहोतीत्युपक्रम्य शुर्पण जुहोति तेन ह्यग्नं क्रियते इत्याम्नातम् । तत्र विहितस्य शूर्पकरणत्वस्यान्नकरणत्व. रूपहेतुप्रतिपादकोऽयमर्थवादः । चतुगृहीतान्याज्यानि भवन्तीतिविधिः विहितचतुगृहातस्य न ह्यत्रानुयाजान्यश्यन् भवतीत्यनूयाजाभावहेतु प्रतिपादकवत् । तेन यत्रानूयाजाभावः तत्र चतुगृहीतानीतिवद्यद्यदन्न करणं तत्तद्धोमसाधनमिति व्यापत्या दर्विपिठरादिसाधनप्रापकोऽयमर्थ- वाद(२) इति चेन्न- श्रुतिविहितम्य शूर्पस्यानुमानिकदादिभिर्विकल्पासम्भवेन त. च्छब्दीनर्दिष्टशूर्पनिष्ठान्नकरणत्वस्यैव हेतुत्वापत्या च हेतुप्रतिपा. दनस्य व्यर्थत्वात् । वर्तमाननिर्देशेन (३)वर्तमानान्नकरणत्वस्य हेतोः साध्यसामानाधिकरण्याभावाच अतः प्राशस्त्यपरः प्राशस्त्यपरत्वं च क्वचिद्गौणवृत्त्या, क्वचिदनुवादतया क्वचिद्भतार्थपरत्वेन, तदुक्तं-- विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादनुवादस्त्रिधा मतः॥ इति, एकार्थकताविरोधे गुणवादो गौणी वृत्तिः । यथा 'यजमानः प्रस्तरः' इत्यत्र। तद्धानं विरोधावधारणाभावे यथा 'सत्यं विज्ञानमानन्द ब्रह्मेति' 'यन्न दु.खेन सम्भिन्नमित्यादि च देवताफलदातृत्वार्थवादस्तु विरोधिविरोधागौण एवेति ॥ मयूखः। (१) करम्भपत्राणि -यवमयसक्तुपात्राणि । (२) अर्थवाद इति । विगै शुर्पपदं चोपलक्षणमवयुत्यानुवादो वा स्यादिति भावः । (३) वर्तमाननिर्देशेनेति । क्रियते इति चावर्तमाने वर्तमाननिर्देशः प्ररोचनार्थत्वे युक्तो भवति नहि भूते भाविनि वा तादृशी प्रीतिर्जायते यादृशी वर्तमाने तेन रुच्यर्थत्वेन लक्षणया वर्तमानर्निर्देशो युक्तो विध्यर्थत्वे व निष्नमाणकं लक्षणाश्रयणमिति भावः ।

प्रथमाध्याये द्वितीयः पादः । मन्त्रप्रामाण्याधिकरणम् । तदर्थशास्त्राबाक्यनियमावुद्धशास्त्रादविद्यमानव. चनादचेतनाऽर्थबन्धनादविप्रतिषेधात्स्वाध्यायवदच- नादविज्ञेयादनित्य संयोगान्मन्त्रानर्थक्यम् ॥३१॥ अवि. शिष्टस्तु वाक्यार्थः ।।३२।। गुणार्थी वा पुनः श्रुतिः॥३३॥ परिसख्या ॥३४॥ अर्थवादोचा ॥३५॥ अविरुद्धं परम्॥३॥ सम्प्रेषे कर्मगहींनुपालनमः ॥३७॥अभिधानेऽर्थवाद॥३८॥ गुणादप्रतिषेधः ॥ ३९ ॥ विद्याऽवचनमसंयोगात् ॥४०॥ सतः परमाविज्ञानम् ॥४१॥ उक्तश्चानित्यसंयोगः ॥४२॥ लिङ्गोपदेशश्च तदर्थव ।। ४३ ॥ अहः ॥ ४४ ॥ विधिश- ब्दाश्च ॥ ४५ ॥ अर्थवादानां स्तावकत्वेन विध्येकवाक्यतया प्रामाण्यं साधितमिति तत्प्रत्युदाहरण. सङ्गत्या मन्त्राणां प्रामाण्यं चिन्त्यते। तदर्थशास्त्रात् तस्य मन्त्रस्य अर्थो योऽभ्रया टामादि तद्विषयकस्य 'चतुर्भिर भ्रमादत्ते' इत्यादेश्शास्त्रस्य दर्शनात् मन्त्रानर्थक्यम् मन्त्राणां 'देवस्य स्वा' 'अभिरसि' 'बधिरसि' 'हस्त आधये' एषामन्यादानप्रकाशार्थी. नामानर्थक्यमर्थप्रकाशनरूपप्रयोजनकराहित्यम् । अन्यथा लिङ्गेनैव तत्र मन्त्रस्य प्राप्ति सम्भवात् 'चतुर्भिरभ्रिमादत्ते' इत्यस्य वैयर्थं स्यात् अविवक्षितार्थकत्वे तु अदृष्टार्थ मन्त्राणां तत्र विनियोगाय च विधेः सार्थक्यम् । एवं वाक्यनियमात् पदसमूहात्म मन्त्रवाक्यस्य 'अग्निमूर्धा' इत्यादेर्यः क्रमनियमः तस्मादपि मन्त्राणामविवाक्षितार्थत्व. मन्यया व्युत्क्रमपाठेऽपि अर्थबोध कत्वसम्भवानियमो व्यर्थः स्यात् अदृष्टार्थत्वे तु क्रमेण पठिता एपादृष्टं जनयन्ति नान्यथेति नियम उत्पद्यते । एवं बुद्धशास्त्रात् अनधेिण अध्यनकाले एक 'आमीघ्राद्धिष्णियान् विहरति' इति । अग्निविहरणादिक स्वकर्तव्यतया ज्ञातमिति तस्यैव अग्नीदग्नीन्विहर' मन्त्रण शासनादविवक्षितार्थत्व मन्त्राणाम् । एवम् अविद्यमानवचनात् 'चत्वारि जा त्रयोऽस्य पादा' इत्याविद्यमानस्य चतुःशृद्धत्वायु. पेतस्य वृषभस्य प्रतिपादनात् अचेतनार्थबन्धनात् 'शृणोत प्रावाण.' इत्यादी अचे. तनानामर्थनमर्थः प्रार्थना बन्धनं सम्बोधनं तस्मात् अर्थविप्रतिषेधात् 'अदितियोरि- दितिरन्तरिक्षम्' इत्यादौ प्रतिपादितयोदितौ धुत्वान्तरिक्षत्वयोरर्थयोर्विरोधात् स्वाध्या यवदवचनात् अध्ययनकाले स्वाध्यायस्य वेदत्य यथाभ्यासस्तथार्थज्ञानस्यावचना. दनभ्यासात् आंवयात् 'सूण्येव जर्फरी तुर्फरी तू' इति अविज्ञेयार्थकाना जर्फरीत्या दीनां प्रतिपादनातू अनित्य संयोगात् 'किन्ते कृण्वन्ति कीकदेषु गावो नाशिरं दुढे

१२
समयूख भादृचिन्तामणौ-
न तपन्ति धर्मम् आनो भर प्रमगन्दस्य वेदो नैचाशाखम्मघवनन्धयानः' इत्यादौ पौर-
षेयत्वप्रसञ्जकात नचाशाखरूपनगरस्य प्रमगन्दस्य राजश्व संयोगातू प्रतिपादनात् । अ.
निस्यस्य मन्त्राणामानर्थक्यमविवक्षितार्थत्वं तथा च न पूर्वोक्तदोषप्रसङ्ग इति भावः ३१
सिद्धान्तमाह-वाक्पार्थः वाक्यस्य लोके वेदे च अर्थः अविशिष्टस्तु तुल्य एवे.
स्यर्थः, तथा च लोक इव वेदेऽपि पदानामर्थज्ञानार्थत्वमेव नादृष्टार्थत्वं 'दृष्टे सम्भवति'
इति न्यायादिति भावः ॥ ३२ ॥
'तदर्थशानात्' इत्युक्कानुपपत्तीस्त्रिभिः परिहरति लिङ्गेन प्राप्तस्य 'तो चतुर्मिः' इति
पुनः श्रुतिः गुणार्थी वा चतुःसंख्यारूपगुणविधानार्थैव, पाठादेव चतुष्ट्वसिद्धौ चतु.
मिरितिवचनं समुच्चयासियर्थमन्यथा विकल्पः स्यादिति भावः ॥ ३३ ॥
'इमामगृभ्णत्रशनामृतस्येत्यश्वाभिधानीमादत्त' इति विधानं लिनेनैव रशनादाने
मन्त्रप्राप्त्या परिसंख्या गर्दभरशनातो मन्त्रस्य परिसंख्यार्थम् ॥ ३४ ॥
लिङ्गादेव सिद्ध 'उरुप्रथा उरुप्रथस्वेति पुरोडाशं प्रथयति' इति पुनः श्रवणम् अर्थ:
वादो वा 'यज्ञपतिमेव तत्प्रथयति' इत्यर्थवादार्थत्वादर्थवाद एव । अयं भावः अत्र
'पुरोडाशं प्रथयति' इत्यनेन पुरोडाशप्रथनं विधीयते उरुप्रथस्वेति मंत्रस्य पुनरुपादानं
तु एतन्मन्त्रकरणकत्वात्प्रवनं यज्ञपतेर्यजमानस्य प्रजापशुवृद्धिसाधनमिति स्तोतुमिति
नानर्थ पुनरुपादानमिति ॥ ३५॥
परं द्वितीयं वाक्यनियमरूपं मन्त्राणामर्थपरत्वेऽपि अविरुद्धम् नियमादृष्टार्थ.
मावश्यकं मन्त्राज्जायमानमर्थज्ञानं च नोपेक्षणीयमिति भावः ॥ ३६ ॥
संप्रेषे अमीदग्नीन्विहर' इत्यादौ कर्मगही बुद्धबोधनरूपकर्मणः गर्दा दूषणम् बुद्ध-
स्यापि मन्त्रेण पुनर्वोधनस्य कर्मग आग्नीधे संस्कारवान ब्रीहिनोक्षणादिवत्संस्का.
रजननार्थत्वेन संस्कारकर्मत्वाङ्गीकारात अनुपालम्भः अदूषणम् ॥ ३७ ॥
अभिधाने अभिधीयतेऽनेनेति अभिधानं मन्त्रः तस्मिन् अविद्यमानवचनत्वेनो
दाहृते 'चत्वारि शमा' इत्यत्र अचेतनार्थबोधनत्वेनोदाहृते 'शृणोति प्रावाणः' इत्यत्र च
अर्थवादः अर्थवादवत् गोण्या वृत्या यागस्तुतिः अचेतने चैतन्यारोपेण श्रवणप्रार्थनया
'ग्रावाणोऽपि शृण्वन्ति किमुत विद्वांस' इति श्रवणस्तुतिश्च । वार्तिकाभिमतदेवताचैत.
न्यपक्षे प्रावशब्दस्तदभिमानिदेवताविशेषे गौण इति वा ॥ ३८ ॥
अदितो द्युत्वान्तरिक्षत्वयोर्विरोधः गुणात् गुणवृत्या स्तुतिविवक्षणात् 'स्वमेव
माता च पिता त्वमेव' इतिवत् अविप्रतिषेधः अविरोधः स्यात् ॥ ३९ ॥
अध्ययनकाले विद्याऽवचनम् विद्याया अर्थज्ञानस्य अवचनमनभ्यसनम् असं.
योगात् अभ्यासरूपसंयोग विनापि सुकरत्वात् दुर्घहत्त्वात्तु अक्षराभ्यास इति भावः ४०
'मृण्येव जर्फरी' इत्यत्र सतः विद्यमानस्यैवार्थस्य निरुताध्ययनाभावे सति
विज्ञानं परम् प्रमादालस्यादिनाऽनववोध एव न तु तत्राथै नास्तीति भावः यथाचैतत्तथा-
वार्तिके स्पष्टम् ॥४१॥

प्रथमाध्याये द्वितीयः पादः। 'क्रिन्ते कृण्वन्ति' इत्यत्रत्यः अनित्यसंयोगः उक्तः 'परन्तु श्रुतिसामान्य. मात्रमित्यत्रादोषत्वेनोक इत्यर्थः॥ ४२ ॥ मन्त्राणामर्थज्ञानार्थत्वे बाधकान्युद्धृत्य साधकान्याह-लिङ्गोपदेशश्च 'अमे नय' इ. त्यस्या ऋच अग्निदेवताप्रकाशकत्वेन लिङ्गेन 'आमेय्या आनीध्रमुपतिष्ठते' इत्यत्र उपदेशः च एव तत् मन्त्रवाक्यम् अर्थवत् इति बोधयति । अन्यथा मन्त्रं प्रति देवतात्वं त. प्रतिपाद्यत्वमन्तरा किं स्यादिति देवतातद्धितानुपपत्तिरेव स्यादिति भावः ॥ ४३ ॥ ऊहः ऊहदर्शनमपि मन्त्रवाक्यस्यार्थवत्ता गमयति अन्यथा सौमे चरौ 'अग्नये स्वा जुष्ट निर्वामि' इति मन्त्रे अग्निपदस्थाने सूर्याय इति ऊहः किमिति स्यात् मन्त्राणां विवक्षितार्थत्वे तु तदर्थाभिधाननिबन्धनः ऊहः सिध्यतीति भावः ॥ ४०॥ विधिः विधानं व्याख्यानं तदर्थाः शब्दा विधिशब्दा मन्त्रव्याख्यानाय प्रवृत्ता वा. क्यशेषाः च अपि मन्त्राणां विवक्षितार्थत्वं गमयन्ति । तथा हि दर्शपूर्णमासयोगार्हपत्यो. पस्थाने 'भन्ने गृहपते' इति मन्त्रो विनियुक्तः । तत्र 'शतं हिमा' इति पठ्यते तत्र हिम. शब्दार्थः 'शतं हिमा इत्याह शतं त्वा हेमन्तान्धिषायेति वावैतदाह' इतिब्राह्मणवाक्यं ध्याचष्टे । अविवक्षितार्थत्वे व्याख्यानमपार्थकं स्यात् । शतं हिमा इति यद्यजुराह तत् शतं हेमन्तानित्यर्थमेवाह इति तस्यार्थः । एतद्विचारप्रयोजनं तु मीमांसाकौस्तुभे द्रष्टव्यम् । अत्रेदमवधेयम् एतावता मन्त्राणामर्थप्रत्यायकत्वसिद्धावपि सा प्रतिपत्तिः प्रयोक्तुः श्रो. तुर्वेति संशये प्रयोक्तुरेवेति भाष्यवार्तिकारादयः, श्रोतुरेवेति कुतुहलवृत्तिकारः एवं च अर्थ- ज्ञानशून्यस्यापि मन्त्रप्रयोगः सिद्धः परं तु फले किचिन्न्यूनता अर्थज्ञानसखे तु 'योऽर्थज्ञ इत्सकलं भद्रमते' श्रुतेः पूर्णता इति । इति जैमिनिसूनवृत्तौ प्रभायां प्रथमाध्याये द्वितीयेः पादः। इदानीमपौरुषेयाणां स्वाध्यायविध्यध्यापितानां मन्त्राणां धर्म प्रा. माण्यमुत नेति(१) चिन्ता । तदर्थ किम् अर्थप्रकाशनद्वाराङ्गत्वम् उतोचारणद्वारेति । तत्र मन्त्राणां नार्थप्रापकत्वम् । विधिप्रमानुवादत्वात् । प्रदेशा. स्तरस्थविध्येकवाक्यत्वाभावेन च न स्तावकत्वम्। अनुष्ठेयार्थस्मार. णमपि फलप्रकाशकानुमन्त्रणक्रियमाणानुवादिकरणमन्त्रैकदेशजपम- त्रसामस्वव्यापकम् । अतः श्रुत्यादिभिरवगताङ्गत्वानां प्रकरणसन्नि- । मयूखः। (१)चिन्तेति । ननु मन्त्राणामपि अर्थवादधिकरणे एव विचारितात्वात्तद्विचारोऽसं. संगत इति चेन तत्र सामन्यतोऽर्थवत्वमात्रसाधनेन पादार्थविधया प्रामाण्यमानं साधिः तमिदानीमर्थप्रकाशनरूपप्रयोजनविशेषनिरूपणेन शब्दविधयाप्युपयोगलक्षणं प्रामाण्यं साध्यमिति विशेषात् ।

१४ समयूख भादृचिन्तामणौ- धिपठिताना च स्वरूपेण ग्रहणग्रहणासम्भवात्प्रकरणोपस्थितस्वरादि. विधिकल्पितपाठद्वारकत्वम् । अत एव येषां प्रकरणे वारद्वयं पाठस्तषां वारद्वयमुचारणं सिध्यति । सिध्यति च हविष्देहीत्यत्र त्रित्वादिनि. यमविधिः । पाठस्य चाष्टार्थतया मन्त्राणा(ममन्त्राणा)मप्य दृष्टार्थत्वम् । किञ्च-एषामर्थावबोधनद्वाराङ्गत्वे 'उरुप्रथा उरुप्रथस्वेति पुरोडाशं प्रथ यति 'चतुर्भिरभ्रि(१)मादत्ते' 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधा. नामादत्ते , इत्याद्यङ्गताबोधकविधियांपत्ति२) अत एषां स्ववा. क्यार्थेऽप्यप्रामाण्यमिति धर्माधर्मप्रामाण्यं दूरापेतमिति । उच्यते-उच्चारण स्याङ्गत्वेन पुंन्यापारतया मन्त्रव्यापारस्वाभावेन च सर्वत्र द्वारत्वात् अर्थप्रकाशनस्य तु मन्त्रव्यापारतयानुष्ठेयस्तुतिरू. पत्वेनाङ्गतया च द्वारत्वं युक्तम, एवं च दृष्टार्थत्वं(३), मन्त्राणां च शब्दरू. तया प्रकाशितानामेव स्वार्थबोधकत्वात पाठस्मरणयोः प्रकाशकत्वेऽपि उपस्थितपाठत्यागेमानाभावात् खादिरादिविधिदर्शनाच्च पाठविशिष्टा. नामेधार्थप्रकाशनद्वाराङ्गत्वावधारणात् । नचोक्तविधिययम् । अध्वर्युकर्तृकत्वमातिफलकप्रथनविधी मन्त्रविनियोगस्य यश्चपतिमेव तत्प्रजया पशुभिश्च प्रथयतीति यज्ञपति. निष्ठप्रथनप्रकाशकमन्त्रकरणकपुरोडाशप्रथनं यक्षपतिप्रथनतुल्यामिति स्तुत्युपपत्त्यर्थत्वात् , द्वितीयस्य(५) चतुष्वरूपगुणविध्यर्थत्वात् तृती यस्य(४) गर्दभाभिधानीतो मन्त्रे परिसंख्यार्थत्वात् । अतो मन्त्राणाम. र्थप्रकाशन(६)द्वाराङ्गतयासिद्धं प्रामाण्यम् । ननु तथापि कीदृशं प्रमितिजनकत्वमिति चेत्, इष्टसाधनया- गेदवतादिविशेष्यकमन्त्रप्रकारकशाब्दबोधजनकतैव मन्त्रविशिष्टं कर्म मयूखः (१) आनः स्यात्काष्ठकुद्दालम् इत्यमरः । २ ) वैयर्थ्यापत्तिरिति । सामदेिव तत्र तत्र मन्त्राणां विनियोगसिद्धौ पुनस्तेषां कचिद्विनियोगकरणं व्यर्थमिति भावः । (३) दृष्टार्थत्वमिति । यत्र तु अपमन्त्रादौ दृष्टार्थत्वं न सम्भवति तत्र तु अदृष्ट कल्पनेऽपि न दोष इति ध्येयम् । ( ४ ) द्वितीयस्य-चतुर्भिरभ्रिमादत्त इत्यस्य । (५) तृतीयस्य-इमामगृभ्णन् इत्यस्य । ( ६ ) अर्थप्रकाशनेति । ननु जिज्ञासासूत्रे अध्ययनस्यार्थज्ञानार्थत्वसाधनादिर्द पुनरुक्तमिति चेन्न इहैवाध्ययनस्यार्थज्ञानार्थत्वसाधनात् तत्र तु अध्ययनस्यार्थज्ञानार्थत्वं न सम्भवति विध्यसम्भवानियमासम्भवाच्चेति विशेषःशङ्कानिराकरणमात्रम् ।

प्रथमाध्याये द्वितीयः पादः। कर्तव्यमित्याद्याकारकविधिकल्पनात् । तादृशशाब्दे मन्त्रज्ञानस्येव ज्ञातमन्त्रस्यापि करणत्वादिति मिश्राः । अर्थप्रकाशनस्याङ्गत्वेनेष्टसाधनत्वावगमादेष्टसाधनप्रकाशनविशे. प्यको मन्त्रप्रकाशकशाब्दबोधो जन्यते । इष्टसाधन प्रकाशनं मन्त्र- वदित्यन्ये । अविसंवादिफलकत्वरूपमेव प्रामाण्यं । मन्त्रादीनां, न प्रमिति. करणत्वरूपं हुंफडादिशब्दे तस्यावश्यकत्वादिति केचित् । अग्न्यादिदेवताविशिष्ट्रनिर्वापवाक्यार्थप्रमितिजनेनेति वयं प्रतीमः । एतेन फलप्रकाशकानुमन्त्राणां क्रियमाणानुवादिनामुत्साहाविस्म रणजनकप्रकाशनार्थतया दृष्टार्थत्वं व्याख्यातम् । साम्नस्त्वर्थप्रकाश कर्गक्षराभिव्यक्त्यर्थत्वेन दृष्टार्थत्वं स्पष्टमेव । तत्रार्थाभिव्यक्तः स्पष्ट स्तोत्रभुत्येत्यन्यदेतत् । एवं सर्वत्राप्यूह्यम् । इति भादृचिन्तामणावर्थवादपादाभिधो द्वितीयः पादः। . 4 प्रथमाध्याये तृतीयः पादः। स्मृतिप्रामाण्याधिकरणम् धर्मस्य शब्दमूलस्वादशब्दमनपेक्षं स्यात् ॥१॥ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ।।२।। प्रमाणाध्यायेऽस्मिन् प्रथमपादे साक्षाद्धर्मप्रमाणत्वाद्विधिभागस्य द्वितीयपादे तदेक. देशभूतयोरर्थवादमन्त्रभागयोः प्रामाण्यं विचारितम् । इदानी वेदातिरिक्तधर्मप्रमाण्यव्यव. स्थापनमेतत्पादार्थः वेदातिरिक्तं च धर्मप्रमाणं स्मृतिः शिष्टाचारश्च तत्राचारापेक्षयाभ्यः हितत्वात्स्मृतिप्रामाण्यं चिन्त्यते-- धर्मस्य शब्दमूलत्वात् वेदैकप्रामाणकत्वात् अशब्दम् अनुपलभ्यमानवेदमू- लकम् 'अष्टकाः कर्तव्याः' इत्यादिस्मृतिवाक्यजातम् अनपेक्षम् सम्भावितभ्रा. न्त्यादिमूलकतया सन्मूलकल्पनापक्षोरहितम् अप्रमाणं स्यात् अनपेक्ष्यमिति पाठे अना. दरणीयमित्यर्थः॥१॥ सिद्धान्तमाह--अपि वा इति पूर्वपक्षव्यावृत्तिं द्योतयति अनुमानम् स्मृ. तिमूलभूतश्रुत्यनुमापकलिङ्गं स्मृतिः प्रमाणं स्यात् स्भृत्या स्वमूलभूता श्रुतिरनुमीयत इति यावत् । ननु भ्रान्त्यादिमूलकत्वमेव स्मृतेः कुतो नेत्याह-कर्तृसामान्यात् प्रत्यक्षवेदमूल.

१६ समयूख भादृचिन्तामणौ- . कस्मृतिविहितकर्मसु अस्मदाद्यनुपलब्धवेदमूलकस्मृतिविहितकर्मसु च तस्कर्तृणां सकल. वैदिकशिष्टानां समानत्वात् वेदमूलकतयैवोभयविधस्मृत्योस्तैः परिग्रहणं भ्रान्त्यादिमूल कत्वे नोपपद्यत इति भावः । अत्र अष्टकादिकं कर्मवेदमूलकं वेदमूलकतया वैदिकढ़ा. रिगृहीतस्मृतिविहितत्वात् अस्मदादिप्रत्यक्षवेदमूलकस्मृतिविहितप्रपावत् इत्यनुमाना कारो बोध्यः ॥ २॥ विध्यर्थवादमन्त्राणां धर्मप्रामाण्यं निरूप्य तन्मात्रमूलकत्वेनोपस्थि. तस्मृत्याचारयोर्निरूप्यत इति(१) प्रसङ्गः । मन्वादिस्मृतिग्रन्थानाम. निबन्धनानां सदाचाराणां च मूलभूतश्रुतिरूपप्रमाणोपस्थापनेन धर्म- प्रमाप्रयोजकत्वं न वा। तदर्थ (तेषां) भ्रान्स्यादिमूलत्वं श्रुतिमूलत्वं बेति चिन्ता । तत्रानुपलब्धिनिश्चिताभावाना श्रुतीनां मूलत्वासम्भवात् पौरु. षेयतया भ्रान्त्यादिमूलकत्वसम्भवाच्च न(२) प्रामाण्यमिति चेन्न- दृश्यमानसकलशिष्टपरिग्रहानुगुणाया मूलकल्पनाया युक्त तया श्रुतिमूलत्वसिद्धबहूनां भ्रान्तिकल्पनापेक्षया श्रुतिकल्पनायां लाघवात्। न चैवमाचाररूपशिष्टपरिग्रहेण स्मृतिमूलकल्पनम् : तस्य चाचा. रस्य स्मृतिमूलत्वमित्यन्योन्याश्रय इति वाच्यम् । प्रामाणिकस्य तस्य बाधकाभावात् तेन दृढसकलशिष्टपरिप्रहलिङ्गाकानुमानं तदन्यथा. नुपपत्तिप्रसूतार्थापत्तिर्वा श्रुतिमूलत्वे मानम् । तच मन्वादिस्मृतिर्धमः प्रमितिजनिका वेदार्थानुष्ठायिभिरनुष्ठीयमानार्थकत्वात् वेदवत स्मृ. त्याचारवदिति । नन्वासां श्रुतिमलत्वे उत्पन्नश्चतिमूलत्वं पठ्यमानश्रुतिमूलत्वं वा स्यात् , तत्र पठ्यमानशाखानाम् "एकविंशतिशास्त्रं तु ऋग्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेकशताधिकम्(३) । नवधाथर्वणो. । मयूखः (१) निरूप्यत इतीति । निरपेक्षतया धर्मप्रमितिजनकत्वाच्चोदनायाः प्रथमं प्रा. माण्यं विचारितम् तदेकवाक्यता तपन्नानामर्थवादीनामित्येवं कृत्स्नस्य वेदस्य प्रामाण्यं विचार्य तन्मूलतया प्रमाणत्वात्स्मृत्यादीनां प्रामाण्यं विचार्यत इत्यर्थः । ननु स्मृत्यादीनामपि धर्मप्रमाणत्वे चोदनैव प्रमाणमिति प्रतिझाव्याकोप इति चेन्न तन्मूलस्वेन तदन्तर्भावेण वा स्मृत्यादीनां प्रमाणत्वेऽपि स्वातन्त्र्येण प्रमाण्याभावात् । (२) भ्रान्त्यादिमूलकत्वेति । यदाहुः प्रायेणानृतवादित्वात्पुंसां भ्रान्त्यादिसम्भ. वात् । चोदनानुपलब्धेश्च श्रद्धामात्रात् प्रमाणता ॥ इति । (३) एकशताधिका-एकाधिकं शतमित्यर्थः ।

प्रथमाध्याये तृतीय पादः । १७ ऽन्ये तु प्राहुः पञ्चदशाध्यकम्” इति परिगणनेन शाखोच्छेदासम्भवाद. त्यन्तसावधानाध्यतृकाणां वाक्योत्सादासम्भवाच्च न तावदाद्यः, स्मृतिप्रणयनवेयर्थ्यांपत्तेश्च न द्वितीयः, अतः कथं श्रुतिमूलत्व. मिति चेत- एकशाखाध्ययनस्य विहिततयाऽऽलस्यादियुक्तानामपौरुषेया. णामुपायान्तरण शाखान्तरोयश्रुत्युपलम्मालम्भवादेकशाखागताना. मपि ऋतुपुरुषधर्मत्वनिर्णयस्य न्यायविवेकाभावेनासंभवादर्थवादादिक- लप्यत्वस्य सुतरां ज्ञानासम्भवात्तदर्थतया स्मृतिप्रणयनसार्थक्यात् (१) अतः पठ्यमानश्रुतिमूलत्वम् । उपलभ्यन्ते च तथाभूताः श्रुतयः, यथा-"यां जना प्रतिनन्द म्ति रात्रिं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गलीः" "अष्टकासु राधले स्वाहा" इत्यष्टकाकर्माङ्गभूतरात्रिदे- वताप्रकाशको मन्त्रः । एष वै संवत्सरस्य पत्नी यदष्टकेत्यर्थवादश्च । प्रपादिस्मृतेमूलं 'धन्वग्निव प्रपा असीति, तटाकादिस्मृतेः 'स्थ. लयोदकं परिगृहन्तीति अत्र कृत्रिमजलस्थानवाची टाबन्तस्थलशब्दः, शिखाकर्मस्मृतेश्च 'कुमारा विशिखा इवेति लिङ्गं, गुवनुगमनादीनाम: ग्निप्रकरणे 'अश्वमनु गर्दभं यन्तीति विधेः 'तस्माच्छ्रयांसं पूर्व तं पा. पीयाननुयातीत्यर्थवादो मूलभूतः, प्रपादीनां च न केवलं दृष्टार्थत्वम् किन्त्वष्टार्थत्वमपि, एवं चाध्ययनानिच्छोरपि गुवनुगमनाइयो धर्मा इति । एवं शिष्टाचारस्य(रात्मतुष्ट्योरपि) प्रामाण्यम् , तथाहि वेदप्रामा. ण्याभ्युपगन्तृत्वं शिष्टत्वम् , इष्टलाधनत्वेन शिष्टप्रवृत्तिविषयत्वं तदाचारत्वम्-तेन वसन्तोत्सवादी धर्मस्यानुमानम् , यद्यपि शिष्ट प्रवृत्तिविषयत्वस्य न धर्मत्वव्याप्तिलौकिकसिद्धा(२) तथापि "धर्मशस. मयः प्रमाणं तद्विदां च स्मृतिशीले" इत्यादिस्मृतिरेव तत्र मानम् । मयूखः। (१) स्मृतिप्रणयनेति । अयम्भावः स्मृतिमूलभूता अपि स्मृतयो वेदे पठ्यन्त एव परन्तु काश्विक्वचित्कस्यां चिच्छाखायां विप्रकीर्णा इति शाखान्तराज्यायिभिः शाखा. न्तरगतानामनुपलम्भात्तादर्सेन सार्थकं स्मृतिप्रणयनं तदुलम्भेऽपि वा मन्दधीभिरुपसं. हमशक्यत्वात् उपसंहारार्थ च स्मृतिप्रणयनमिति । (२) लोकसिद्धति । विश्वामित्रस्य चाण्डालयाजनं वसिष्ठस्य पुत्रशोकातस्य ज. लप्रवेशादात्मत्यागसाहसं लौकिके दृष्टं तत्र च धर्मत्वाभावात्यभिचारेण व्याप्तिमहासम्भ- वादिति भावः । अधिकं तु बार्तिके द्रष्टव्यम् । भा०च०३ समयूख मादृचिन्तामणौ- तस्याश्च स्वतः प्रामाण्यायोगात् तन्मूलभूतश्रुत्यनुभवो मन्वादेः क. कायते' सा च श्रुतिः-सदाचारविषयो धर्म' इत्येवं लपैका, एकैकतत्त. द्विषया नाना घेवग्यदेतत् । अत एव शिष्टाचारस्य स्मृत्यपेक्षया दौर्बल्यं(१) वक्ष्यते । एवं शिष्टात्मतुष्ट्या अपि(२), 'यथा गर्माष्टमेऽष्टमे वादे' इत्यादि विकल्पविषयेषु सन्दिग्धार्थनिर्णायकतया भोजनव्यतिरेकेण जलपाना भावे चोत्कटेच्छाविषयतया धर्मत्वानुमानम् , इच्छाविषयत्वस्य च तद्धमत्वब्याप्तिोंके सिद्धति आत्मनस्तुष्टिरेव च' इत्यादिस्मृतिरेव तत्र मानम् , तस्याश्च पूर्ववदेव प्रातिस्विकश्रुतिमूलत्वं 'यदेव किश्व-'नानू. चानोऽभ्यूहत्थार्ष तद्भवतीति प्रत्यक्षश्रुतिर्वा मूलमित्यन्यदेतत् , तस्मारिसद्ध स्मृत्यादीनां प्रामाण्यम् । विरोधाधिकरणम् । विरोधे वनपेचं स्थादसति धनुमानम् ॥ ३ ॥ हेतुदर्शनाच ॥४॥ प्रभा। 'भोदुम्बरी स्पृष्ट्वोदायेत्' इति प्रत्यक्षश्रुत्या औदुम्बरी सर्वा वेष्टयितव्या' इति स्मृतेः विरोधे सति तु प्रत्यक्षश्रुतिविरुद्धस्मृतिरूपम् अनपेक्षं सन्मूलानपेक्षं सदप्रमाणम् वि. रोधे असति हि अनुमानं स्मृतेः सन्मूलकल्पकमनुमान प्रवर्तते ॥ ३ ॥ श्रुतिविरुद्धस्मृतिषु हेतुदर्शनात् वझलाभलोभमूलकत्वस्य दृष्टस्यैव हेतोर्दर्शनात् च अंपि न श्रुतिमूलकल्पनेत्यप्रमाणमेवंजातीयका स्मृतिरिति भावः ॥ ४ ॥ औदुम्बरी स्पृष्टवोद्रायेदित्यादिप्रत्यक्षश्रुतिविरुद्धामा(३)मौदुम्बरी मयूखः। (१) दौर्बल्यामिति । यदाहुः-आचारात्तु स्मृति शात्वा स्मृतेश्च श्रुतिकरुपनम् । तेन धन्तरितं तेषां प्रामाण्यं विप्रकृष्यते ॥ इति । (२) शिष्टारमतुष्ट्येति । यद्यपि श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिति स्मृतम् ॥ इति स्मृतिवचने स्वस्य च प्रियमात्मन इत्येवोतं न तु शिष्टात्मतुष्टिस्तथापि तत्रैव तत्तार्पयमवसेयम् । यदाहुवार्तिककारपादाः- एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविमिनिरूपितम् । सतां हि सन्देहपदेषु वस्तुषु प्रामाणमन्तः करणप्रवृत्तयः ॥ इति । स्मृतिकाराश्च 'आचारश्चैव साधनां देशजातिकुल- धर्माश्चाम्नायैरविरुद्धाः प्रमाणम्' इति वदन्ति । (३)शिष्टत्रैवर्णिकपरिगृहीतस्वादष्टकादिस्मृतीनां श्रुतिमूलकत्वमाश्रितम् तथा प्रत्य. क्षश्रीतविरोधेऽपि शिधत्रैवर्णिकपरिगृहीतत्वसामान्यात् श्रुतिमूलत्वमेवास्तु इति उत्सूत्रपूर्व प्रथमाध्याये तृतीयः पादः। १९ सर्वा वेष्टयितव्येत्यादिस्मृतीना(१)मप्युक्तहेतुनै(२)वोक्तरूपं प्रामाण्यम स्त्विति चेन्न; विरुद्ध प्रत्यक्षश्रुतिदर्शनेन त्वगिन्द्रियजन्यज्ञानविषयत्वरूपेणोदुम्ब. र्याः परिच्छिन्नतया रूपान्तरवेष्टनाद्याकाङ्क्षाया अभावेन सत्यप्यनुमाः पके मूलश्रुतिकल्पनाया (३)असम्भवाल्लिङ्गकल्प्यश्रुतिक्त्(४) तेनात्र कल्पनामूलोच्छेदकृतो(५) बाधः। न च कल्पनामूलं स्मृतेर्मूलाकाङ्खास्तीति वाच्यम् , तत्सत्वेऽपि रूपान्तरजिज्ञासाया अभावादनुमितिमात्रे जिज्ञासाया हेतुत्वात् । एतेन परम्परास्पर्शनाविरोधः परास्तः। न चैवं चाण्डालस्पर्शनैमित्तिकस्नानविधावपि परम्परास्पर्शस्य नि: मित्चत्वाभावापत्तिः, तत्स्पृष्टस्पर्शिनामपि स्नानानानात् , न चेदं पुण्य. मयूखः। पक्षेविरोधे वनपेक्षमिति सिद्धान्तसूत्रगततुशब्दनिरसनीयेनाधिकरणविचार दर्शवितुमु. दाहरणमाह-प्रत्यक्षश्रुतिविरुद्धानामिति । यथा मन्वादिस्मृतीनां प्रामाण्य तथा विरूद्धा. नामपि प्रामाण्यमित्याक्षेपनिरासेनापावादिकी संगतिरत्र बोध्या । सदो मण्डपे उदुम्बरवृक्षस्य काठमूर्ध्वतया यजमानसंमितं निखम्य स्थाप्यते तत् औदुम्बरी। (१) आदिस्मृतीनामिति । आदिपदेन-जातपुत्रः कृष्णकेशोऽमीनादधीत इति श्रुतिविरुद्धा अष्टाचत्वारिंशद्वर्षपर्यन्तं वेदब्रह्मचर्यम् इति स्मृतिः अग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमितिश्रुतिविरुद्धा कोतराजको भोज्यान इति स्मृतिह्यते । (२) उक्तहेतुनेति । शिष्टत्रैवर्णिकपरिगृहीतत्वहेतुनेत्यर्थः । नन्वत्र प्रत्यक्षश्रुतिवि. रोधस्य श्रुतिमूलकत्वाभावसाधकस्य सत्वान्मन्वादिस्मृतिषु च तदभावान तद्वदासां श्रु- तिमूलकत्वं किन्तु भ्रान्तिमूलकत्वं लोभमूलकत्वं वेति चेन्न ग्रहणाग्रहणादिश्रुतीनां दर्शने. न प्रत्यक्षश्रुतिविरोधस्य व्यभिचरितत्वेन श्रुतिमूलकत्वाभावसाधकत्वायोगात् । तथा च विकल्पेन सर्ववेष्टनं स्पर्शनं च स्यादिति पूर्वपक्षिणोऽभिप्रायः । (३) असम्भवादिति । अनुमाने ऽनुमेयजिज्ञासा कारणम् इति प्रत्यक्षश्रुत्या स्प. शविधानेनावेष्टितस्वरूपेणौदुम्बर्याः परिच्छिन्नत्वाजिज्ञासाभावेन नौदुम्बरीवेधनविषयक. श्रुत्यनुमानसम्भव इति भावः । (४) श्रुतिवदिति । यथा प्रत्यक्षया 'ऐन्या गार्हपत्यमुपतिष्ठते' इति श्रुत्या आका- झानिवृत्या इन्द्रप्रकाशनसामर्थ्यरूपलिङ्गेन 'ऐन्द्या इन्द्रमुपतिष्ठत' इति श्रुतेर्नानुमानं तद्व. प्रत्यक्षश्रुत्या वेष्टनस्मृतेर्बाध इति भावः । (५) कल्पनामूलेति । कल्पनामूलमाकाङ्क्षा तस्या उच्छेदः शान्तिः तस्कृतो बाधा मूलभूतश्रुत्यकल्पनमित्यर्थः।

२० समयूख भाचिन्तामणी- परम् , सचेलस्नानविधिनैव वस्त्रादेरपि तत्स्पृष्टस्याशुचित्वकल्पनात् । अत एव न तत्स्पृष्टस्य गवादेरशुचित्वम् । प्रक्षालनानानाभावादित्य- न्यदेतत् । तत्सिद्धं कल्पनामूलोच्छेदेन विरुद्धस्मृतीनां न श्रुतिमूल- त्वम् , अयमेव बाधप्रकार:-सामान्यविशेषातिदेशोपदेशादावूहनीयः । अन्योऽपीह प्रमेयापहारनिबन्धनो बाधः, स च परस्परात्यन्ता. भावसमानाधिकरणयोरन्यतरनिर्णयेनान्यानुमित्यसम्भवरूपः । यथा बढेरोष्ण्येन शैत्यस्य , एवं वेष्टनस्पर्शनयोः श्रौतस्पर्शचाने वेष्टनरूपप्र. मेयबाध इत्याहुः । सामान्यविशेषादी प्रमेयापहारनिबन्धनः श्रुतिलिङ्गादौ कल्पनामू- लोच्छेदकृत इत्यपरे । अत: श्रुतिमूलत्वासम्भवात्किञ्चिन्मूलं कल्प्यम् । तच वेष्टनस्मृते. पखलोभः जातपुत्रः कृष्णकेशोऽनीनादधीतेति श्रुतिविरुद्धाष्टाचत्वारिं- शर्षब्रह्मचर्यस्मृतेनपुंसकत्वप्रच्छादनम् , हुतायामग्नीषोमीयस्य वपा. यामशितव्यमिति श्रुतिविरुद्धाया क्रीतराजको भोज्यान इति स्मृतेर्बु- भुक्षा। " न चात्र विकल्पाङ्गीकरणं युक्तम्, अष्टदोषयुक्तत्वात् तथा हि इष्टा. यत्वेन निरपेक्षसाधनत्वेन वावगतयोहियवयो ह्यनुष्ठानवलायां यवः विषयकविधौ क्लुप्तप्रामाण्यत्यागप्रमाजनकत्वाभावरूपाप्रामाण्यकल्पनं चोपलभ्यमान चोपलभ्यमाने प्रामाण्येऽनुपलम्भभावेनाप्रमाणिकम् । एवं द्वौ दोषौ यवशास्त्रनिष्ठौ, ततो यवानुष्ठानवेलायां त्यक्तप्रामा- ण्यजीवनं कल्पिताप्रामाण्यत्यागश्चेति यवशास्त्रनिष्ठा एव चत्वारो दोषाः । एवं व्रीहिशास्त्रनिष्ठौ अपीत्यष्टौ, तदुक्तं- प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनम् । प्रत्युज्जीवनहानाभ्यामेवं(१) स्यादष्टदोषता ॥ वस्तुतो दोषचतुष्टयमेव सम्यक् , न चैतयोः प्रयोगविधिना समुच्च. यसम्भवः तस्य विनियोगविध्युपजीवकतया कल्प्यतया विलम्बित. प्रवृत्तिकतया च दुर्बलत्वात् , तुल्यबलविरोधे चागत्या तदङ्गीकारात अत्र सापेक्षस्मृत्या निरपेक्षश्रुतेः पाक्षिकाप्रामाण्यकल्पनासम्भवाजि. शासां विना मूलभुत्यनुमानानुदयाच न तदङ्गीकारः, अतोऽप्रामाण्यं श्रुतिविरुद्धस्मृतीनाम् । (१) जिज्ञासाया इति । सिषाधयिषामात्रं पक्षता इति वादिनो मतेनेदम् । (२) प्रत्युज्जीवनं त्यक्तस्य स्वीकारः । हानं-स्वीकृतस्य त्यागः । , प्रथमाध्याये तृतीयः पादः । २१ येत्तु(१)श्रुत्यविरुद्धानां वैसर्जनहोमीयं वालोऽध्वर्युगृहातीत्यादी. नामपि लोभमूलकत्वेनाप्रामाण्यं भाज्यकारेणोक्तं; तत्सर्वस्मृतीनाम- प्रामाण्यापते(२) श्चिन्त्यम् । वार्तिककारस्तु-न प्रत्यक्षश्रुतिविरुद्धानामध्यप्रामाण्यम् , विरुद्ध स्मृतिमूलश्रुत्यभावनिश्चयासम्मवात(३), स च द्वेधा साधकाभावाद्वा- धकसद्भावाद्वा, नाद्यः-शिष्टपरिग्रहस्य सत्वात् , न च जिज्ञासा सा. धिका । अजिशासितस्यापि वढेरनुमित्युदयात् किमियं स्मृतिः प्रमाणं न वेति जिज्ञासासम्भवाच्च, अतो न साधकाभावः, नापि बाधकस. द्भावः । तदपि किं विरुद्धश्रुतिदर्शने मूलादर्शनं वा विरुद्धश्रुतीनां बहु- शो दर्शनात् । नाद्यः सर्वशाखोपलम्भाभावात् । न द्वितीयः । न हि स्वाप्रत्यक्षेण श्रुत्यभावनिश्चयः । शाखान्तरविहितपदार्थसमुच्चयस्यानु: पपत्तेः । अतो न मूलाभावसम्भवः। किञ्च-व्यवस्था(४)कल्पनयाऽविरो. मयूखः। (१) विरोधे त्वनपेक्षमिति न्यायेन श्रुतिविरोधभमप्रसराया स्मृतौ श्रुत्यनुमान. तिबन्धादाकाङ्कितं मूलान्तरं प्रदयितुं हेतुदर्शनाच्चेति सूत्र पूर्वाधिकरणशेषतया व्या- ख्याय श्रुतिविरुद्धत्वरूपहेतुनैव बलवता बाधसिद्धावन्वाचयहेतु तीव प्रयोजनवानित्यपरि- तोषात हेतुदर्शनाच्चेति अधिकरणान्तरं प्रत्यक्षश्रुत्यविरुद्धानामपि दृष्टलोभमूलिकानां वै. सर्जनहोमीयं वासोऽध्वर्युगृह्णातीत्यादीनामप्रामाण्यसाधनायारचितं भाष्यकृता तदुषयि- तुमनुवदति यत्विति । (२) चिन्त्यमिति । अविरुद्धानामपि लोभमूलकत्वकल्पने दानादिस्मृतेरपि तदा. पत्त्याऽप्रामाण्यापत्तिरित्यर्थः। किं च अपि वा कारणाग्रहणे इत्यधिकरणे दृष्टमूलासम्भव. मात्रेणाचारप्रामाण्यं न साधितमपि तु धर्मबुद्ध्यानुष्ठीयमानत्वेनैव अन्वाचयहेतुमात्रं तु दृष्टमूलासम्भव उपन्यस्त इति भावः। ३) निश्चयासम्भवादिति । वस्तुतस्तु सर्ववेष्टनस्मरणं छान्दोग्यानुपदे प्रन्ये 'वै. 'टुतं वै वासः श्रीवासः श्रीः सामेति स्तोत्रीयापरिगणनार्थानामौदुम्बरीणां प्रादेशमात्राणां कुशाना स्थापनार्थ वास उत्क्का भौदुम्बरीवेष्टनवाससोऽपि तामूर्ध्वदेशेन परिवेष्टयतीति शाव्यायनशाखाब्राह्मणगतप्रत्यक्षश्रुतिमूलामति जैमिनिनोक्तम् । तथा च- ततश्च श्रुतिमूलत्वाबाध्योदाहरणं न तत् । विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥ इति । वार्तिकम् । (४) व्यवस्थेति । सा चेत्थम्-वेष्टनस्पर्शनयोरात्मीयपरकीयप्रत्यक्षश्रुतिसि. योः 'आत्मीयात्परकीयस्य दौर्बल्यं न कथंचन । प्रत्यक्षत्वाविशेषेण स्वप्रत्यक्षसमं हि २२ समयूख भादृचिन्तामणौ- घसम्भवेनावश्यं विरोधेनाप्रामाण्यं युक्तम् , सा च सर्वपदाश्रय, [ वार्तिककारस्तु न जिज्ञासाया अनुमित्यङ्गत्वमन्याद्यजिज्ञासायामपि तदुदयात् सत्यपि वा तस्याः कारणत्वे अनुमितिविषयश्रुतेर्जिज्ञा. सितत्वाच प्रत्यक्षश्रुतिविरोधाभावेऽपि लोभादिमूलकल्पाङ्गीकारे च अष्टकादिस्मृतेरपि तदापत्ते, अतश्च प्रत्यक्षश्रुतिविरोधेऽपि स्मे. तेः शिष्टत्रैवर्णिकपरिग्रहाविशेषेण श्रुतिमूलकल्पकत्वनोपपत्तेर्युक्त मेव प्रामाण्यम् परन्तु यावच्छृतिदर्शन वेष्टनं नानुष्ठेयमर्थवादायुनीत विधिमूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृतेऽपि तन्मूलकत्वस्य सम्मा वितत्वात् तस्य चोन्नयनस्य प्रत्यक्षश्रुतिविरोधे आभासत्वसम्भवात् अतश्च यावच्छ्रुतिदर्शनम् अननुष्ठानलक्षणमप्रामाण्यामित्याभिप्राय सूत्र मिति प्राह । यद्वा शाक्यादीनामपि क्षत्रियत्वप्रसिद्धर्वेददर्शनसम्भवेन तत्प्रणी तस्मृतीनामपि वेदमूलकत्वं तन्मूलभूतवेदश्चेदानी प्रलीन इति प्राले- शिष्टत्रेवर्णिकानां धर्मत्वेन परिग्रहस्य पूर्वाधिकरणमुख्यतोरभा. बात् प्रत्युताप्रामाणत्वेनैव तेषां स्मरणावेदाप्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकारावेदमूलकत्वकल्पनानुपपत्तेरप्रामाण्यमिति सूत्रार्थः । शिष्टाकोपाधिकरणम् । शिष्टाकोपेऽविरुद्धमिति चेन्न शास्त्रपरिमाणत्वात् ॥५॥ अपिवा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ ६ ॥ प्रभा। शिष्टाकोपे शिष्टानां वेद कृत्वा वेदि करोतीत्यादिश्रुत्या विहितानामकोपेऽविरोधे अविरुद्धम् क्षुते आचामेत् इत्यादिस्मृतिवचनं प्रमाणमिति चेन्न शास्त्रपरिमाणत्वात् मयूखः । तत्' इतिरीत्या तुल्यत्वेऽपि आत्मीयप्रत्ययस्य विश्रम्भणीयत्वात् परप्रत्ययस्यादृष्टमूलस्य न्यायामासमूलत्वसम्भवात् स्वप्रत्यक्षश्रुतिपिहितस्यैवानुष्ठानं न तु परप्रत्यक्षश्रुतिविहित. स्थेत्यननुष्ठानलक्षणमप्रामाण्यं वेष्टनस्मृतेः नतु सर्वथाऽप्रामाण्यम् तदुक्तं यावदेकं श्रुतौ कर्म स्मृतौ चान्यत् प्रतीयत । तावत्तयोविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ इति । तेन अन. मुष्ठापकत्वलक्षणमेवाप्रामाण्यं श्रुतिविरुद्धस्मृतीना न तु बाधितार्थकत्वलक्षणम् इति । सूत्रार्थस्तु-श्रुतिस्मृत्योतिरोधे यत्प्रमाणान्तरानपेक्षं श्रुतिवाक्यं तदेव प्राह्यमसति यात्मप्रत्यये परप्रत्ययानुमानक्लेशाश्रयणमिति । * इतभारभ्य भाषचन्तामणे. सप्ततिश्लोकमितो प्रन्थस्त्रुटित इति भादी पिकाप्रन्थः [ ] एतादृशरेखामध्यस्थो वेदिव्यः।

प्रथमाध्याये तृतीयः पादः। २३ शास्त्रेण क्रमबोधकश्रुत्या अवगतं यत्परिमाणं वेदकरणवेदिकरणयोरव्यवहितकालसम्बन्धरूपं तत्वात् श्रुतिविरोधेनाप्रमाणमुदाहृतस्मृतिरिति पूर्वपक्षः ॥५॥ सिद्धान्तमाह-अपि वा कारणाग्रहणे अप्रामाण्यकारणानां श्रुतिविरोधस्य स्मृति. षु लोभादीनां तत्तत्स्मृतिकारेषु च अदर्शने सति प्रयुक्तानि स्मृतिबोधितान्याचमनादी. नि पदार्थरूपतया तद्धर्मक्रमापेक्षया प्रबलानि प्रतीयेरन् तथा च नाप्रमाणमुदाहृतस्म. तिः । न च क्त्वाप्रत्ययेनाव्यवधानोपस्थानात मध्ये क्षुनिमित्तकाचमनानुष्ठाने श्रुतिविरोध इति वाच्यम् , क्वाप्रत्ययेन पूर्वकालत्वप्रत्यायनेऽपि अव्यधानप्रत्यायनाभावेन ताद्वरोधा. भावात् ॥६॥ स्मार्तानामाचमानादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोधे श्री. तत्वात्क्रमादीनामेव प्राबल्यातद्विषयस्मृतीनामप्रामाण्यम् , न हि 'क्षुते आचामेत्' इति विहितस्य स्मातीचमनस्य वेदवेदिकरणमध्येऽनुष्ठान 'वेदं कृत्वा वेदिं करोति' इति श्रुतियोधितः क्रमोऽनुष्ठातुं शक्यते स्मा. तपदानां च बहुत्वात्पूर्वाह्नादिः कालः प्रयोगविध्यवगतं च परिमाणं न शक्यतेऽनुग्रहीतुम् , न च श्रौतत्वेऽपि क्रमादेः पदार्थधर्मत्वात् पदार्थ- भूतेभ्यः आचमनादिभ्यो दौर्बल्यं प्रमाणपूर्वकत्वात्प्रमेयावगमस्य प्रथ. मावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्यादिति प्राप्ते- पदार्थप्राप्त्यपेक्षत्त्वात् क्रमादरुत्तरकालिकस्य यावत्प्रमाणगम्यपदा. विरोधनव कल्पनीयत्वान तावत्पदार्थविरोधित्वम परिमाणं तु न कस्यचिच्छास्त्रस्यार्थः इति न तस्य श्रौतत्वम् विरोधेऽपि आचमाना. दानां पदार्थत्वात् प्राबल्यमेव, प्रमाणानां हि न स्वरूपतो विरोधोऽपि तु प्रमेयविरोधनिबन्धनः, तद्यदैव प्रमेयविरोध अलोच्यते तदैव तद्रतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकमिति प्रमा. णमेव तत्स्मृतिः। यद्वा(१) यच्छाक्यादिनन्थेषु वेदाविरुद्धं दानादिवचनं तस्य भवतु प्रामाण्यमिति प्राप्त- 'स्वाध्यायोऽध्येतव्यः' 'वेदोऽखिलो धर्ममूलं तद्विदां च स्मृ तिशीले' 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्था. नानि विद्यानां धर्मस्य च चतुर्दश' इत्यादिवचनैर्नियतप्रमाणप्रतिपा. , मयूखः । (१) शिष्टाकोपमिति सूत्रं वर्णकान्तरेण व्याचष्टे यद्वेति । यद्धि शाक्यवचनं श्रुति स्मृतिशिष्टं न कोपयति तत्प्रमाणं भवत्विति चेन्न शास्त्रस्य पुराणन्यायेत्यादिना परिच्छि. नत्वादिति सूत्रार्थः ।

समयूख भादृचिन्तामणौ- धानामेव धर्मस्वामेतेरन्यतः प्रमितस्य फलसाधनस्वाभावात् तेषाम. प्रामाण्यामिति । आचारप्रामाण्याधिकरणम् । अनिबद्धानां (२)वसन्तोत्सवाद्याचाराणां प्रमाण्यमप्रामाण्यं वे. ति सन्देहे एतेषां वेदमूलत्वेऽष्टकादिवन्मन्वादिभिर्निबन्धनापत्तेः सा. मान्यतस्तद्विदां च स्मृतिशीले इत्यादिना निबन्धनेऽपि विशेष. तोनिवन्धनेन तेषां श्रुतिदर्शनाभावादप्रामाण्यमिति प्राप्ते- धर्मबुया वैदिकैरनुष्ठीयमानत्वात्स्मृतिवदेव वैदिकत्वम् विशेषतो ऽनिबन्धनं तु गौरवाभीत्या न दोषः, व्यतिक्रमसाहसदर्शनं तु धर्मबुद्ध्या वैदिकैरननुष्ठीयमानत्वात न वैदिकम् न चैतावता सर्वस्याप्यवैदि कत्वम् , अत आचाराणामपि धर्माधर्मयोः प्रामाण्यम् । ] आर्यप्रसिद्धिनियामकताधिकरणम् । तेष्वदर्शनाद्विरोधस्यसमा विप्रतिपत्तिः स्यात् ॥ ७ ॥ शास्त्रस्था वातन्निमित्तत्वात् ॥ ८॥ तेषु यवादिशब्दार्थेषु आर्यानार्यप्रसिद्धषु विप्रतिपतिः विशिष्टा प्रतिपत्तिः अर्था वगतिः समा तुल्या स्यात् विरोधस्य एकतरबाधहेतोः प्रवलदुर्वलभावस्य अदर्श. मात् तथा च आर्यैः यज्ञे स्वप्रासचा दीर्घशूकः अनार्यैः स्वप्रसिध्या कङ्गुश्च व्यवस्था या गृीतेति भावः ॥७॥ शास्त्रस्था वा वेदशास्त्रानुसारिणां या प्रत्तिपत्तिः सा प्रवला तेषां प्रतिपत्तेः त. निमित्तत्वात् देदमूलकत्वादित्यर्थः ॥ ८॥ • [स्मृत्यधिकरणसिद्धस्मृत्याचारप्रामाण्यस्य विरोधाधिकरणेनापो. दितस्य शिष्टाकोपाधिकरणे प्रतिप्रसवकरणेनाचारप्रामाण्यस्यापि प्र. स्तुतत्वादनन्तरसङ्गतिमभिप्रेत्य भाष्यकृता यत्र-यवमयश्चरा, वाराही उपानहौ, वैतसे कटे प्राजापत्यान् सचिनोति, इत्यादी यववराहवैतस मयूखः। २) अपिवेति सुत्रमधिकरणान्तरपरतया ब्याचष्टे अनिबन्धनानामिति । वसन्तो. सवाद्यनुष्टातॄणां विप्रलिप्सादिरूपाप्रामाण्य कारणांग्रहण प्रयुक्तानि वर्तव्यानीति प्रतीयेरनित्यर्थः * भारचितामणौ भाष्य कृन्मतस्योपन्यासात् भादीपिकायों चानुपन्यासातू तथैव निर्माय भाष्यकृन्मतं [ ] एतादृशरेखामध्ये निवेशितम् ।

प्रथमाध्याये तृतीय पादः। शब्दानामर्थप्रयोगाचारविप्रतिपत्तिः यथा बहुभिर्यवादिशब्दाः प्रियङ्गु- वायस-जम्बूवृक्षेषु बहुभिश्च दीर्घशूक-सूकर-वजुलेषु प्रयुज्यन्ते तंत्र সামথয়ামাহিৗষালু ভযম আলেৰিয়া भयस्य विकल्पेन ग्रहणमिति पूर्वपक्षे-अनेकत्र शक्तिकल्पने गौरवादे- कत्र शक्तिरपरत्र गौणी तत्र वाक्यशेषवलेन यवादिपदानां दीर्घशू. कादौ शक्तिः प्रियङ्ग्वादी लक्षणेति वास्यशेषानुगृहीतार्यप्रसिद्धिरेव. बलीयसीति सिद्धान्तितम् ।] (१)शक्तिशक्तिद्वयेन युगपद्वोधो वेत्यन्यदेतत् , यवमानयेत्यादी स. न्देहापत्तिः, विकल्पस्तूकदोषः-अतो यत्रार्याणां विरोधस्तत्र वाक्य. शेषानुगुणप्रसिद्धिप्रयोगरूपाचारस्य धर्मत्वं, सन्ति चात्र वाक्यशेषाः 'य. दा वा अन्या ओषधयो म्लायन्तेऽथैते मोदमाना घोत्तिष्ठन्ति' इति 'यव. मयीभिरद्भिः रौद्रं चरुं प्रोक्षतीति विधेयवमयानि करम्भपात्राणि भव. तीतिविधेर्वा शेष: 'वराह गावोऽनुधावन्ति 'अप्सुजो वेतस' इत्याद्याः, एतैश्चात्र शक्तिमिश्च (बोध्यते) यद्वाक्य शेषानुगुणाचारस्य बलीयस्त्वम्। वार्तिककारमतेनाधिकरणस्वरूपनिरूपणम् । आचार्यस्तु(२)-नत्वेवमधिकरणं 'सन्दिग्धेषु वाक्य शेषादि'त्याधिक रणेनास्यानेन वा तस्य पौनरुक्त्यापत्तः, अतः पिकनमाधिकरणवक्ष्य माणसमानतया म्लेच्छप्रसिद्धरार्यप्रसिद्धिविरोधे किं तुल्यत्वमुत दौर्बल्यामिति चिन्ता। ननु पीलुशब्दस्य 'पैलवादुम्बरौ दण्डौ वैश्यस्येति गौतमस्मृती वृक्षविशेष प्रयुज्यमानस्य म्लेच्छैहस्तिनि प्रयुज्यमानस्य प्रयोगप्रत्यया. विशेषेणोभयत्र शक्तिरिति चेन्न- पूर्वोक्तानेकशक्तिकल्पनाद्यापत्तेः म्लेच्छप्रयोगस्य भ्रान्त्याप्युपप. तेः, न च विनिगमकाभावः, शब्दैकसमधिगम्यधर्माधर्मजिज्ञासया मयूखः। (१) इतो भादृचिन्तामणिप्रन्थः । २) आचार्यस्त्विति । वार्तिककारस्त्वित्यर्थः । अयं भावः 'सारस्वतं मेषम्' इ. त्यत्र 'वाग्वै सरस्वती' इति वाक्यशेषेण सरस्वतीशब्दप्रकृतिनिर्णयस्येव यवादिशब्देष्वपि वाक्यशेषादेवार्थनिर्णये इदमधिकरणं 'संदिग्धेषु वाक्यशेषादि'त्यधिकरणेन गतार्थ स्यात् किश्च वाक्यशेषाभावेऽभियुक्तानभियुक्तप्रसियोस्तुल्यबलत्वापातश्चेतिभाध्यकारीयाधिकरण रचनाऽयुक्तेतिमत्वा पिकनेमाधिकरणे वक्ष्यमाणम्लेच्छप्रयोगाचारप्रमाण्यालोचनेन प्रासङ्गि की सजतिमभिसन्धायार्यम्लेच्छविप्रतिपत्तिविषयशब्दप्रयोगरूपाचारोदाहरणेनापि आर्यप्रसिद्धे.. बलीयस्त्वं सिद्धान्तनीयमिति । भा००४ २६ समयूख भादृचिन्तामणौ-- शब्दार्थाविप्लुतिसिद्धावभियोगप्रयोगविशेषस्यैव नियामकत्वात् । दृष्टार्थव्यवहारमात्रप्रयोजनकेषु म्लेच्छेषु तदभावात्। अत(१) आर्य. प्रसिद्धिविरोधे म्लेच्छप्रसिद्धिर्दुर्बलेति । स्मृतिविरुद्धाचाराप्रामाण्यपरं द्वितीय वर्णकम् । प्रभा। यद्वा तेषु स्मृतिविरुद्धाचारपरिगृहीतेषु मातुलसुतापरिणयादिषु विप्रतिपत्तिः धर्मत्वावगतिः समा स्यात् स्मृत्याचारयोरुभयोरपि श्रुतिमूलकत्वाविशेषेण विरोधस्य प्रवलदुर्वलभावस्य अदर्शनात् ॥ ७ ॥ शास्त्रस्था वा विधिप्रत्ययघटितस्मृतिवाक्यानुसारिणी प्रतिपत्तिवलीयसी आचार- स्य तनिमित्तत्वात् स्मृतिकल्पकत्वात् ॥ ८॥ यद्वा स्मृतिविरुद्धाचारस्य दौर्बल्यं प्रतिपाद्यते । ननु- "मातुलस्य सुतामूवा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत् ॥" इति स्मृतिविरुद्धस्याचारस्यापि शिष्टपरिग्रहादाद्यनयेन(२) स्मृतिव न्मूलश्रुतिकल्पकतया तुल्यत्वेनानुष्ठानात्मकस्याचारस्याननुष्ठानरूपबा धासम्भवन वाक्यात्मकतया यथाश्रुतार्थत्यागलक्षणबाधासम्भवेन च स्मृतितो बलीयस्त्वम् , न च मिथ्यात्वरूपबाधस्य खपुष्पायमाणत्वा, प्रामाण्यमिति चेन्न अर्वाचीनाचारस्य स्मृतिमूलकत्वकल्पनायां स्मृतिविरोधस्य प्रतिबन्धकत्वात् । न च मन्वादीनामीदृशाचार उपलभ्यते(३) ये मयूखः (१) अत इति । असत्यपि वाक्यशेषे न क्षतिः। यत्र तु अभियुक्तयोरेवोभयत्र प्रयोगस्तत्र वाक्यशेषस्य नियामकतेत्यर्थः । (२) आद्यनयन-स्मृतिप्रामाण्याधिकरणेनेत्यर्थः । (३) उपलभ्यते इति । ननु 'आयाहीन्द्रपथिभिरीडितेभिर्यज्ञमिमं नो भागधेयं जु. षस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वज्ञेयी वपामिव' (ऋ. सं. प. ५-४- २३) इति मन्त्रेण हेइन्द्र इंडितेभिः प्रशस्तैर्मागर्नोऽस्माकमिमं यज्ञमायाहि तृप्तामाज्यसिक्तां वां स्वीयं भागधेयं जुषस्व यथा मातुलस्य जहुरपत्यमर्थात् भागिनेयस्य योषा स्त्रीरूपत्वेन भागः यथा पैंतृष्वज्ञेयी अर्थान्मातुलपुत्रस्य भागः तथा तव वपेत्यर्थकेन मातुलकन्यापैतृष्व- नेयीपरिणयविध्यनुमानात् प्रत्यक्षश्रुतलिङ्गमूलकाचारस्य शिष्टस्मृतिविरोधोऽकिश्चित्कर इति चेन्न-योऽयं श्रौतलिङ्गनिमित्तो विधिः स किं नियमविधिरूपः ऋतौ भार्यामुपेयादितिवत् अभ्यनुज्ञविधिरूपो वा नाद्यः 'ऋतुस्नातां योभायां सन्निधौ नोपयच्छति । घोरायां भ्रणहत्यायां ।

प्रथमाध्याये तृतीयः पादः। २७ न स्मृतिकल्पना स्यात्, आचार्यवचः प्रमाणमित्यादिवेदावधारि- तसत्यवचस्तया मन्वादिप्रणीतस्मृतेराचारविरोधे मूलस्मृतिकल्प नाप्रतिबन्धस्य वक्तुमशक्यत्वाच्च । किञ्च-अर्वाचीनानां शाखान्तरप्रकरणान्तरगतविप्रकीर्णश्रुत्युप लम्भासम्भवात्तदाचारेण न साक्षाच्छृतिकल्पनं संम्भवति किन्तु तै- वृद्धमन्वाद्याचारकल्पनद्वारा तन्मूलभूतस्मृतिद्वारा न मूलश्रुतिः क. हप्येति लिङ्गवाक्ययोरिव तदेवार्थविप्रकर्षेण दौर्बल्यम् । एवमाचारशिष्टात्मतुष्ट्योरपि दौर्बल्यं विशेषविषयेणाचारेण 'यदेव किं चनानूचानाभूहत्यार्षत इव तद्भवतीति .शिष्टात्मतुष्टिप्रामाण्यबो. धकश्रुतेः सामान्यविषयतया विरुद्धविषयसंकोचोपपत्तेर्बाधः, इह च कामादिहेत्वन्तरसम्भवान्मूलभूतवाक्यकल्पनमपि दवीयः, न च तत्स. म्भवति निषेधेनानिष्टसाधनतया बुद्धस्येष्टसाधनस्वेन बोधासम्भवात् , वस्तुनि विकल्पासम्भवात् ,न वाचारकल्पितविधेरभ्यनुज्ञापरतया विरो. धपरिहारः निषेधोपजीवकत्वाभावेनाभ्यनुज्ञाविधित्वासम्भवात् , तथा हि-निषेधोपजीवको विधिरभ्यनुशाविधिः, तदुपजीवकत्वं च तद्बो- धितानिष्टसाधनत्वाभावबोधनफलकतया यथाऽनृतवदननिषेधोपजविको ब्राह्मणप्राणत्राणार्थाऽनृतवदनविधिः । एवं च पूर्वप्रवृत्तस्मृत्यानिष्टसाधनत्वे बुद्ध आचारकल्पितविधेस्त- दभावबोधासम्भवान्नाभ्यनुज्ञात्वेन विरोधपरिहारसम्भवः, नापि देश भेदेन व्यवस्थाकल्पनया विरोधपरिहार:-'पञ्चधाविप्रतिपत्तिदक्षिणतः पञ्चधोत्तरत इति देशभेदेनानाचारानुक्त्वा इतर इतरस्मिन् कुर्वन् दुष्यति नेतर इतरस्मिन्' इत्याद्यापस्तम्बवचनादिति वाच्यम् , स्मृति सङ्कोचस्यान्याय्यत्वात्(१) । एतन्मूलकमेव मिथ्यैतदिति गौतमः शि. मयूखः। पात्यते नात्र संशयः' इतिवदकरणे निन्दाश्रवणाभावेन नियमत्वानुपपत्तेः । नापि द्वितीयः तथा सति विनैव विधिकरुपनं रागप्राप्तस्य पाक्षिकानुवादत्वेनैवोपपत्तेः अन्यथा 'प्रजापति रूषसमभ्येत् स्वां दुहितरमित्यादावपि अभ्यनुज्ञाविधिकल्पनापत्तेः । अत एव बौधायनेनैतत्प. रिणयनेऽनाचारत्वस्मृतिः एतेन न्यायसुधास्मृतिचन्द्रिकाकारणानां मातुलसुतापरिणयनस्य सदाचारत्वसमर्थनमपास्तम् । अधिकं कौस्तुभे द्रव्यम् । (१) अन्याध्यत्वादिति । अत एव बौधायनेन ‘पञ्चधा विप्रतिपत्तिदक्षिणतः अनुप. नीतेन भार्यया च सह भोजनं पर्युषितभोजनं पितृवसमातुलदुहितपरिणयनमिति तथोत्त रतः पञ्चचा कणांविक्रयः सीधुपानम् उभयतो दद्भिर्व्यवहारः आयुधीयकं समुद्रयानमिति ३ समयूख भाचिन्तामणौ- ष्टस्मृतिविरोधादिति गौतमवचनम् । अतो विरोधपरिहारालम्भवा. दप्रामाण्यमेवंजातीयकाचाराणाम् । राणकस्तु-अस्याचारस्य 'गर्भ(१)नु नौ जनिता दम्पती कः। देवस्त्व. टर्जनिता स विश्वरूपः' 'आयाहीन्द्र पथिभिरीडितभिर्यचमिमं(२) नो भागधेयं जुषस्व । तृप्तां जहुमातुलस्येव योषा भागस्ते पैतृण्वस्त्रेयी व. पामिव' 'तस्मात्समानादेव (३) पुरुषादचा चाद्यश्च जायते । उत तृतीये सङ्गच्छावहै उत चतुर्थे सङ्गच्छाव है तदेवं दीव्यमाना जात्या आसत" इत्यादिप्रत्यक्षश्रुतलिङ्गमूलकतया बलवत्वात्स्मृतिकल्पितश्रुतेव्याप्या थनिश्चयाभावेन दुर्बलत्वात् , स्मार्तनिषेधस्य पुत्रिकापुत्रकरणे असुरा. दिविवाहेषु च दुहितुर्जामाने दानाभावेन स्वत्वनिवृत्त्यभावाद्वोत्रानिवृ. त्या सदुद्वाहनिषेधप्रवृत्तेस्तद्विषयत्वेन व्यवस्थया विरोधपरिहारास म्भवानेदमुदाहरणम् किन्त्वन्यदुदाहरणं गवेषणीयमित्याह । यत्तु माधवेन गान्धर्वविवाहेऽदानागोत्रानिवृत्तिः "पितृगोत्रेण कर्तव्या मयूखः। इतरः इतरस्मिन्कुर्वन् दुष्यति नेतर इतरस्मिन्देशप्रामाण्यात मिथ्येतदिति गौतमः उभयन्त्वे. तन्नाद्रियन्ते शिष्टस्मृतिविरोधात् , इत्यनेन निराकृतम् । आपस्तम्बवचनं गहानिराकरण. मात्रपरमितिबोध्यम् । (१) गर्भ नु इति । कः प्रजापतिः विश्वनिरूपको देवः त्वष्टा सवनशीलः नौ आवयोगर्भ उदरे दम्पती जायापती रूपे अपत्ये जनिता जनयिष्यतीति । अतश्च मम 'पुरुषान्तरात् तव च स्यन्तरे जनयिष्यमाणयोस्तावत्स्त्रीपुंसयोर्दम्पतीत्वमवश्यभावि तद्वरमावयोरेव तदन्योन्यसम्भोगादस्तु' इति यमयमीसम्वादेन भ्रातृभगिन्यपत्ययोद म्पत्यैचित्यद्योतनान्मातुलकन्यापैतृष्वज्ञेयोपरिणये लिङ्गमिदम् तच्चाप्राप्तस्यानुवादायो. गादागादपि च नियमेनाप्राप्ते नित्यवदनुवादः प्रापकं विधिमनुमापयति । ( २) आयाहीति । हे इन्द्र ईडितेभिः प्रशस्तैः पथिभिः मार्गेनोऽस्माकं इमं यज्ञमायाहि तृप्तामाज्यसिकां वां स्वीयं भागधेयं जुषस्व यथा मातु: लस्य जहुः अपत्यं अर्थात् भागिनेयस्य योषा स्त्रीरूपत्वेन भागः यथा च पैतृष्व नेयी अर्थान्मातुलपुत्रस्य भागस्तथा वपेत्यर्थाभिधानेनेदमपि लिङ्गं विध्यनुमापकम् । (३) तस्मादिति । समानादेकस्मात्पुरुषात अत्ता भाया भोका पुरुषः आद्यश्च भोग्यो भार्यालक्षणो जायते इत्युक्त नचैवं सत्येकस्मादुत्पनयोर्धातृभगिन्योरेव जायापतित्वमुक्तं स्यात् तत्राह---उत तृतीय इति । उतशब्दः शहानिराकरणार्थः तेन कूटस्थाजाते तृतीये चतुर्थे वा विवाहाख्यां सङ्गतिं कुर्मः इत्येवं दीव्यमानाः क्रीडमानाः जात्या कुलीना अम्बालते इदमपि च मातुलकन्यापैतृण्वोयीपरिणय लिङ्गम् । ।

प्रथमाध्याये तृतीयः पादः। । । बान्धवैरुदकक्रिया" इत्यादिस्मृतेस्तद्विषयत्वमुक्तं तद्धेमाद्रिलिखि. तैः-"गान्धर्वेण विवाहेन यस्तु कन्यां प्रयच्छति" इत्यादिवाक्यैर्विरो. धादुपेक्ष्यम् । लोकवेदप्रसिद्ध्यधिकरणं तृतीयं वर्णकम् । यद्वा-लोकवेदयोः शब्दार्थविप्रतिपत्तौ चिन्त्यते । यथा त्रिवृश्चर्वश्व वालक्षवादिशब्दानां त्रैगुण्यस्थाल्यश्वकेशेक्ष्ववयवेषु प्रयोगेण लोके गृ: हीतशक्तिकानामुदाहरिष्यमाणवाक्यशेषैः स्तोत्रीयानवकोदनकाशतः न्मूलेषु शक्तिरवगम्यते । तत्र द्वयोस्तुल्यबलतया विकल्प उत वाक्यशे. षजन्या प्रतिपत्तिर्बलीयसीति चिन्ता । यववराहादिशब्देषु वाक्यशेषस्य शक्तिनिर्णायकत्वमिह तु वा. क्यशेषस्य शक्तिप्राहकत्वमिति विशेषः । अत एव यववराहाधिकरणे. नाकाधिकरणेन च गतार्थतासन्देहाभावः, न च तथापि वृहद्वय वहाररूपाचारस्य श्रुत्यपेक्षया दौर्बल्यस्य स्मृत्याचारविरोधाधि. करणे चिन्तनात्तेन गतार्थतेति वाच्यम् , आचारस्यात्यन्तबाधाभा. वात् त्रिवृता यूपं परिव्ययतीत्यादावाचरस्यानुग्राह्यत्वात , दृष्टार्थप्रयोगे तुल्यबलता वाक्यशेषगम्यार्थस्य वाक्यशेषार्थावधारण. पूर्वत्वेनानन्यापेक्षलौकिकप्रसिद्धर्वा बलवत्त्वमिति चेन्न, अविरोधेपर्थवादस्य शक्तिग्राहकत्ववाद्विरोधेऽपि शक्तिग्राहकत्वे बाध- काभावात् , एवं च त्रिवृहिष्पवमानमिति श्रुतस्य त्रिवृच्छब्दस्योपास्मै गायता नर इति तृचत्रयानुक्रमणेन नवभिःस्तुवन्तीति वाक्यशे. षेण च स्तोत्रीयानवके शक्तिग्रहाभिवृच्छब्दोच्चारणम्, एवमादित्यःप्राय णीयः पयसि चरुरित्येतद्विधायादितिमोदनेनेत्योदने शक्तिग्रहात्सर्व- चरुमित्यादावप्योदनद्रव्यकत्वसिद्धिः, एवं ते बालाकाशनं प्राप्ता इति वाक्यशेषेण काशेषु शक्तिः, ऐक्षवीशब्द्देऽपि काशमूलशक्तिग्रहवा. क्यशेषोऽनुमीयते, एवं स्तोमशब्दस्य समुदाये प्रसिद्धस्य स्तोत्रसाध. नीभूतऋकूसंख्याकृतस्तोत्रपरिमाणवाचित्वं 'स्तोमे डविधिः पञ्चदशाद्य- थे' इति व्याकरणात त्रिवृत्पञ्चदशः सप्तदश एकविंश एतस्य स्तोमा इति वाक्यशेषाचावसीयत इति। आर्यप्रसिद्धयविरोधे म्लेच्छमसिद्धार्थपरिग्रहाधिकरणम् । चोदितं तु प्रतीयताविरोधातु प्रमाणेन ॥९॥ प्रभा। यत्रार्याणां न कचिदर्थविशेष व्यवहारस्तत्र पिकादिशब्देषु म्लेच्छप्रसिध्या पिकादि.

समयूख भाचिन्तामणौ- शब्दवाच्यतया चोदितम् अवगतं तु एव कोकिलादिकं प्रतीयेत वलवता प्रमा- णेन अविरोधात् ॥९॥ नन्वायज्वप्रसिद्धानां(१) पिक, नेम, सत, तामरसा, दिशब्दानां को. किला, ध, धतुलशताछिद्रपात्र, कमला, दिषु म्लेच्छप्रसिद्धानामपि न तत्र शक्तिः किन्तु निगमनिरुक्तादिना तत्तत्प्रकरणानुगतार्थकल्पनम् । तेषु शब्दविप्लवादियोगाभावेन पदार्थाविप्लवाभियोग्यभावेन प्रतीय- ते विरोधात्प्रमाणे शक्तिनिर्णयासम्भवात् वाक्यनिगमानरुक्तादानामा. नर्थक्यापत्तेश्च , न च म्लेच्छ प्रसिद्धेः क्लुप्तत्वान्निगमादिनार्थप्रसिद्धेः कल्प्यतया दुर्बलत्वेन शिष्टाकोपाधिकरणविरुद्धप्रमेयबलाबलेन निर्णय इति वाच्यम् , निगमादिवैयापत्त्या(२) क्लप्ताया, अपि दुर्बलत्वात् । अतो म्लेच्छप्रसिद्धिर्दुबैलेति चेन्न- एतेषां वेदमध्यपाठेन निश्चितसाधुत्वानां मुख्याभावेन(३) शक्तिभ्रम गौण्योरसम्भवात् म्लेच्छप्रसिध्यवार्थनिर्णये बाधकामावाद , प्राणि वधादियुक्तम्लेच्छप्रसिद्धः क्लोमादिपदार्थनिर्णयस्यावश्यकत्वाव(४) कूट दक्षिणेत्यादौ च तत्पदार्थनिर्णयस्य तद्यवहारिभ्यः(५)प्रसिद्धेऽर्थे निमित्तो. तौ निगमादे(६)व्यापारादध्ययनविधिवलाच्चाभ्युदयशिरस्कत्वकल्प. नया नानर्थक्यं वाक्यादीनाम् । अतोऽविरुद्धा म्लेच्छप्रसिद्धिःप्रमाणम् । - । मयूखः। (१) इह शास्त्रस्थप्रसिद्धः कम्प्यतयाऽप्रामाण्यकथनायापवादिकी सजतिबोध्या। (२)क्लप्ताया इति । यद्यपि म्लेच्छप्रसिद्धः क्लप्ततया निगमादिप्रसिद्धः कल्प्यतया रथकाराधिकरणन्यायेन बलीयस्त्वं प्राप्तं तथापि आनर्थक्यप्रतिहतानां विपरीतं बलाब- लमिति न्यायेन निगमादिप्रसिद्धरेव बलीयस्त्वमिति भावः। (३) मुख्याभावेन-मुख्यार्थान्तराप्रसिब्बा । (४) आवश्यकत्वादिति । अन्यथा विशस्तपश्ववयवाधिकारात् सामान्यतः पश्व- वयववाचित्वज्ञानसत्वेऽपि निरुक्तादिभ्यो विशेषनिर्णयस्य कर्तुमशक्यतयाऽनुष्ठानासम्भवः स्यादितिभावः। (५) तयवहारिभ्य इति । यथा य एव एतेन द्रव्यान्तरमिश्रहिरण्यरूपेण कूटेन व्यवहरन्ति तेभ्य एवार्थतत्त्वं ज्ञायते तथा बेदप्रयुक्तानां आर्येष्वप्रसिद्धानां म्लेच्छेभ्य एवार्थ- निर्णय इति भावः । (६) निमित्तोकाविति । निरुकादीनां हि निमित्तकथनरूपस्वव्यापाराविधातेन म्लेच्छप्रसिद्धार्थाजीकारेऽपि आनर्थक्याभावः । ननु तेषामपूर्वार्थप्रतिपादनपरत्वाभावे नि- मित्तमात्रप्रतिपादनपरत्वे प्रयोजनामावादामर्थक्वमत माह भध्ययनबलादिति । षडङ्ग.

प्रथमाध्याये तृतीयः पादः। ३१ कल्पसूत्राणामस्वतःप्रामाण्याधिकरणम् । प्रयोगशास्त्रमिति चेन्नासन्नियमात् ॥ १०॥ अवाक्यशे- पाच ॥११॥ सर्वत्र प्रयोगात्सन्निधानशास्त्राच ॥१२॥ प्रभा। प्रयोगशाखं प्रयोगस्य क्रत्वनुष्ठानस्य साक्षाद् बोधकं शास्त्रं कल्पसूत्रादिकं वेदव. त्साक्षादेव धर्म प्रमाण न तु वेदमूलकतया गौरवादिति चेत् न असनियमात् पूर्वमसद्भिर्जनिमद्भिबौधायनादिभिर्नियमात् निबन्धनात् पौरुषेयतया अपौरुषेयवेदतुल्या. स्वासम्भवात् ॥१०॥ अत्रैव युक्त्यन्तरमाह--अवाक्यशेषात् । वाक्यशेषस्य अभावोऽवाक्यशेष त स्मात् कल्पसूत्रेषु अर्थवादवाक्यस्यादर्शनात् वेदेषु च दर्शनात् न वेदतुल्यत्वम् ॥११॥ ननु वेदतया वेदमूलकतया वा कल्पसूत्राणां प्रमाण्य विशेषाभावादयं विचारो निष्फल इत्याह सर्वत्र निदानसूत्रे 'पूर्वपक्षे सर्वासु तिथिषु अमावास्याया' प्रयोगात प्रयोगवि. धानात् सन्निधानशास्त्राज्ञ सन्निधानं दर्शपूर्णमासन्निधौ विद्यमानम् 'अमावास्यायामा वास्यया यजेत' इति श्रुतिवचनं तु वर्तते एवं च कल्पसूत्राणां वेदत्वे विकल्पः स्यात् वेदमूलकत्वे च श्रुतिविरोधेऽप्रमाण्यमिति सफलो विचारः ॥ १२ ॥ इह कल्पा:(१) सूत्राणि स्मृतीरङ्गानि शाक्यवाक्यानि चोदाहृत्य किमेषां स्वातन्त्र्येण प्रामाण्यमुत वेदमूलकतयेति सन्देहः । प्रयोगप्रतिपादकाः कल्पाः, संशापरिभाषादिरूपेण प्रयोगविशेषोना यकलक्षणप्रतिपादकानि सूत्राणि, तत्र शिष्टपरिग्रहानुपपत्तिकल्प्यवेदमू लत्वापौरुषेयत्वयोरपौरुषेयत्वस्य लघुत्वात् (२) (तेषां)वेदत्वं तच्छन्दप्र योगाभावाद्वा वेदतुल्यत्वं युक्तम् , एवं च साक्षाद्धर्मप्रमाजनकत्वम् । अन्यथा प्रयोजकत्वेन प्रामाण्यविधाता, (३)अङ्गानांतु'षडङ्गमेक'इति . , मयूखः । वेदाध्ययनविधिबलेन निरुक्कादिजन्यपदार्थनिर्वचनज्ञाने सत्येव तत्पूर्वककर्मानुष्ठाने फलं नान्यतो निर्वचनज्ञान इति कल्पनेन सार्थक्यमितिभावः । (१) कल्पा:-प्रयोगं कल्पयन्तीतिव्युत्पत्त्या प्रयोगप्रतिपादका ग्रन्थाः बौधा- यनीयादयः, सूत्राणि-सूचयन्तीति ब्युत्पत्त्या संज्ञापरिभाषादिरूपेण प्रयोगविशेषो नायकलक्षणप्रतिपादकाः आश्वलायनादयः। (२) लघुत्वादिति । वेदमूलत्वकल्पने पुरुपः, तन्मूलप्रमाणं वेदः, तन्नित्यत्वं, चेति त्रयं कल्प्यम् इति अकर्तृकत्वकल्पने तु नेति लाघवमित्यर्थः । (३) अजानामिति । 'मन्त्रब्राह्यणयोर्वेदनामधेयं, षडङ्गमेक' इति गौतमेन वेद. त्वस्मरणादितिभावः।

३२ समयूख भावचिन्तामणौ- वेदत्वस्मृतेनित्यब्रह्मयज्ञविधिविषयत्वेन चासन्दिग्धमेव वेदत्वम् , मा. नवादिलमाख्यानं काठकादिवत्प्रवचननिमित्तत्वेनोपपन्नम् । अन्यत्रापि समाख्यायाः सामान्यप्राप्तकर्तृनियामकतया कर्तृप्रापकत्वाभावात् , ननु मशकेनेदं कृतमिति स्मरणमपि करोतेर्गन्धनावक्षेपणहतिः स्मृत्याऽनेकार्थत्वावगते प्रवचनार्थत्वेनोपपादनीयम् 'शिशुर्वा अङ्गिरसां मन्त्रकृतां मन्त्रविदासीदि तिवत्, एवं शाक्यादिग्रन्थानामपीति पूर्वपक्षः। सिद्धान्तस्तु-लाघवस्य तर्कविधया प्रमाणानुग्राहकत्वेनानादिप्र. सिद्धिरूपाचारप्रमाणसिद्धलकर्तृकत्वबाधकत्वायोगात् (१) वेदेऽपि न लाघवमात्रेणाकर्तृकत्वसिद्धिः किन्तु ताशप्रसिद्धिः कर्तृस्मरणद्वाराह श्यादर्शनस्याभाव साधकत्ववस्मर्तव्यास्मरणस्यापि तदभावसाधक स्वात् , एवं च मानान्तरसिद्धापौरुषेयत्वे वेदे मन्त्रकदासीदित्यादौ प्रकथनार्थत्वेन व्याख्यानं युक्तम् , स्मृत्यादीनां तु कर्बभावसाधकमा नाभावाचद्विरुद्ध लकर्तृकत्वलाधकमानसद्भावान कृषः प्रकथनार्थत्वेन व्याख्या युक्ता-एवं चात्रापि समाख्याया कर्तृविशेषनियामकत्वम् । अत एव धर्ममूलत्वस्मरणेनापि नापौरुषेयत्वसिद्धिः वेदमूलकतया धर्मप्रमाप्रयोजकत्वेनाप्युपपत्तेः । 'षड्ङ्गमेक' इति स्मरणं तु परमतोपन्यासेन सिद्धान्तत्वाभावप्रतीतेरप्रमाणम् । अतो नापौरुषेयत्वं स्मृतीनामङ्गानाञ्च । शाक्यादिग्रन्थानां तु तन्मतविरुद्धमपौरुषेयत्वम्-ते हि ध्वंसप्रा. गभावयोरावरणभङ्गरूपाकाशस्य च वस्तुत्वेन नित्यत्वं तदन्यस्य ल वस्य क्षणिकत्वमिच्छन्ति । तेषां वर्णपदवाक्यसमुदायस्य नित्यत्वं नोपपद्यते प्रवाहनित्यत्वं च तनिष्ठजात्यादनित्यतयाङ्गीकारं विना नो पपत्तिमत् । अतोऽपौरुषेयत्वालम्भवादविरोधित्वेन वेदमूलत्वास म्भवाच्चाप्रामाण्यमेव । अवशिष्टानांकल्पादीनां तु वेदमूलत्वम् । न चैषां प्रत्यक्षश्रुतिमूलत्वे. प्रणयनांपत्तेः शाखान्तरत्वं कल्पनीयमिति वाच्यम् , शाखान्तरी याविरुद्धाजोपसंहारात् साङ्गानुष्ठानज्ञानप्रयोजनकत्वात् , श्रुतिस्मृती तिहासविषयभूतार्थविषयप्रमाजननेन प्रामाण्य सम्भवाच । न च वेदजन्यावगमस्याभ्युदयजनकत्वनियमेन कल्पसूत्राणां तदु- तस्य मयूखः। (१) अयोगादिति । लाघवं हि प्रमाणानुप्राहकं न स्वतः प्रमाणम् अन्यथा लाघ वेन कालिदासादिवाक्येष्वप्यकर्तृकत्वापत्तिरितिभावः ।

प्रथमाध्याये तृतीय पादः। पस्थापकत्वासभवः, स्वाध्यायविधिनेव 'षडङ्गो वेदोऽध्येतत्य इति वि धिनाङ्गजन्यावगमस्याभ्युदयहेतुत्वावगमात्, धर्मज्ञाने वेदनियमेन ज्ञान- कार्यानुष्ठानसौकर्ये कल्पादीनां (१)हेतुत्वेन भिन्नकार्यतया ब्रीद्वाज्यादि वत्समुच्चयसम्भवाच्च, स्वशाखाया इव स्वकल्पस्वगृह्याणामुपस्था- पकतया न वैय्यर्थ्यशङ्कापि। नित्यब्रह्मयज्ञविधिविषयत्वं (२)च प्रवाहनित्यताङ्गीकारादुपपन्नम् , प्रवाहनित्यत्वं च सजातीयप्रागभावसमव्याप्तसजातीयध्वंसकत्वम् , (कल्पत्वादीनां जातिवाङ्गीकारो नृसिंहत्ववत , तशानुमानं न वि. द्यत(४)इति वचनमपि प्रत्यक्षश्रुतिमूलत्वेनानुमेयश्रुतिमूलत्वं न विद्यत इति व्याख्येयम् , (५)अतः कल्पादीनां वेदमूलकत्वेन प्रामाण्यं न स्वातन्त्र्येणेति सिद्धम् । प्रयोजनं तु प्रत्यक्षश्रुतिविरुद्धकल्पानामुपन्यस्यमानन्यायादिहेतु मूलानां न्यायानां च मीमांस्यमानानामभासत्वावधारणे तेषामप्रामा. ण्यसिद्धिः। यथाऽऽधानाङ्गगोपिण्डपितृयज्ञबोधकबोधायनसूत्र पिण्डपितृय. शविधायकश्रुत्यर्थभ्रान्तिमूलम् न वचनमूलम् , इष्टौ वेदग्रहत्वे. त्यादिपिण्डपितृयञ्चविधायकसार्थवादकश्रुतस्तेनैवोदाहृतत्वेन श्रुत्य. मयूखः । (१) कल्पादोनामिति । कल्पयन्ति वेदार्थ प्रन्टनन्ति इति कल्पाः। वेदार्थप्रथ. नेन अनुष्ठानसौकये तेषां हेतुत्वमिति भावः । (२) ननु अहरहा स्वाध्यायमधीयतेत्युपक्रम्य 'यहचोऽधीते यद्यजूंषि यद् ब्रा. ह्मणानीतिहासान् पुराणानि कल्पान्' इति नित्योऽनादिसिद्धो ब्रह्मयज्ञविधिः कल्पानामा: धुनिकत्वे नोपपद्यतेत्यत आह-नित्यब्रह्मेति । अयं भावः एतन्निर्माणात्पूर्वमस्य कल्पस्यामा वेऽपि वेदार्थकल्पकत्वरूपोपाधिनवजातीयकानां ग्रन्थानों केषांचित् सर्वदैव सत्वात्प्रवाह निस्यतया नित्यसंयोगाविरोधोपत्तेन दोष इति । (३) प्रवाहनित्यत्वमिति । सजातीयस्य या प्रागभावस्तेन समव्याप्तो यः सजाती यस्य ध्वंसस्तत्प्रतियोगित्वमित्यर्थः यस्य कस्यचित्कल्पस्य प्रागभावः यस्य कस्यचिद् धंसश्च सर्वदास्ति कल्पान्तरस्य नाशेऽपि कल्पान्तरं प्रवाहान्तरस्य नाशेऽपि प्रवाहान्तरमिव तिष्ठत्येवेति भावः। (४) माशकं प्रकृत्य लाटदाह्यायणसुत्रकारीयमिदं वचनम्। (५) व्याख्येयमिति । कौस्तुभकारस्तु माशकस्य अस्मदादिप्रत्यक्षश्रुतिमूलत्वेन तत्रानुमानमितिवचनं स्मृतिपुराणादिवैषम्यप्रतिपादनपरं दृष्टव्यमिति व्याख्यौ तस्या- प्युक्त एवार्थः। भा०चि०५ - समयूख भादृचिन्तामणौ- न्तराभावनिश्चयात् , तत्र च कर्मलाक्षणिकामावास्यापदसमाभिव्या. हारेण यज्ञनिष्क्रयार्थवादेन च पिण्डपितृयज्ञविधायकत्वनिश्चयात् , अ. धानस्यायज्ञत्वाञ्च। तथा 'अक्रियामेकेऽन्यत्र (१)तदर्थवादवदनात्' इति सवनी. यपशुपुरोडाशविकल्पबोधकाश्वलायनसूत्रं श्रुत्यर्थभ्रान्तिमूलं न वच नमूलमार्थवादेकफलवस्वन्यायस्य मूलतया तेनैवोक्तेन मूलश्रुत्यभाव. निश्चयात् । एवम् 'अङ्गं वा समभिव्याहारादिति पिण्डपितृयज्ञस्याङ्गता बोधककात्यायनकल्पसूत्रं श्रुत्यर्थभ्रान्तिमूलं समभिव्याहारहेतोस्तेनै वोक्तत्वेन मूलश्रुत्यभावनिश्चयात् । एवं न्यायविरुद्धानामप्यानेयीसुब्रह्मण्यायां न्यायविरुद्धोहप्रतिपाद ककल्पानाम् , इति न कल्पादीनां वेदवदपौरुषेयत्वम् , सन्नियमात् इति सूत्र तु पूर्वमलतां कल्पादीनां निबन्धनरूपनियमस्मृतेरपौरुषे. यत्वमिति व्याख्येयम् । सामान्यश्रुतिकल्पनाधिकरणम् । अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥ १३ ॥ अपि वा सर्वधर्मः स्थात्तन्न्याय्यत्वाद्विधानस्य ॥ १४ ॥ दर्शनाद्विनियोगः स्यात् ॥ १५॥ लिङ्गाभावाच्च नित्यस्य मयूखः । (१) तथेति । सवनीयपशुपुरोडाशं प्रकृत्य अक्रियामेकेऽन्यत्र तदर्थवादवदनात् इत्याश्वलायनसूत्र तस्यायमर्थः--अग्निषोमीये हि पशुपुरोडाशस्य च्छिद्रपिधानार्थत्वं रात्रिसत्रवत् 'सुषिरो वै तर्हि पशुर्यर्हि वपामुरिखदति यद् व्रीहिमयः पुरोडाशो भवत्यपिधा- नाय' इत्यर्थवादात्प्रतीयते अतश्च सवनीये चोदकेन नित्यकर्तव्यतया प्राप्तस्य पशुपुरो. डाशस्य 'अनुसवनं सवनीयाः पुरोडाशा निरूप्यन्ते अपिहित्या अच्छिद्रतायै' इत्यर्थवादादेव च्छिद्रापिघानार्थत्वेन विधीयमानः सवनोयपुरोडाशैरेव कार्यासद्धेः प्रत्याम्नानेन बाधात् 'व. पया प्रातः सवने चरन्ति' पुरोडाशेन माध्यन्दिने अझैस्तृतीयसवने इति लिङ्गेन प्रतिप्रस. वाद्विकल्प इति । अस्य च द्वादशाधिकरणन्यायेनाभासत्वम् तथाहि 'अग्नीषोमीयस्य वपया प्रचाँग्नी- षोमीयं पशुपुरोडाशं निवपति' इतिविहितस्य पुरोडाशस्य वाक्येन देवतासंस्कारकत्व. स्य दशमे स्थापनात् छिद्रापिधानार्थत्वं पर्णमयोन्यायेन प्रत्यक्षविरोधाचार्थवादमात्रमिति नित्यमेवातिदेशेन पुरोडाशः सवनीये कर्तव्य इत्युक्तम् , एवं च सूत्रोक्तस्य न्यायस्य न्यायेनैवाभासत्वकरणाद्यावच्च्छ्रुतिदर्शनमननुष्ठानलक्षणमप्रामाण्यम् ।

प्रथमाध्याये तृतीयः पादः। ३५ ॥१६॥ आख्या हि देशसंयोगात् ॥१७॥ न स्याद्देशान्तरे. वितिचेत्स्याद्योगाख्या हि माथुरवत् ॥ १८ ॥ कर्मधर्मों वा प्रवणवत ॥ १९ ॥ तुल्यं तु कर्तृधर्मेण ॥ २० ॥ प्रभा अनुमानव्यवस्थानातू-अनुमीयते मूलभूता श्रुतिरनेनेति अनुमान गौतमादि. धर्मशास्त्र होलाकादिराचारश्च तस्य व्यवस्थानात् छन्दोगादिभिः उदीच्यादिभिरेवानुष्ठान- स्य दर्शनात् तन्मूलतया कल्प्यमानं प्रमाणं श्रुतिरू तत्संयुक्तं छन्दोगोदांच्याद्यधि. कारिवाचकपदघटितं स्यात् ॥ १३ ॥ अपि वा इति पूर्वपक्षव्यावृत्तौ तत्तत्स्मृत्याचाराभ्यामनुमितः श्रुतिरूपोऽर्थः सर्व धर्मः छन्दोगादिपदाघटितः स्यात् विधानस्य विधीयतेऽनुमीयते यत्तद्विधानं मूलभूतश्रुतिवाक्यं तस्य तन्न्यायत्वात् सर्वधर्मत्वौचित्यात् सङ्कोचे प्रमाणाभावेनासति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायादिति भावः ॥ १४ ।। शिखाकर्मादिषु तु 'मुण्डा भृगवः' इति व्यवस्थापकवचनस्य दर्शनात् विनि. योगः भृग्वाद्यधिकारिविशेषान्वयः स्यात् ॥ १५॥ होलाकाद्याचारोऽनुष्ठातृषु नित्यस्य व्यवस्थितस्य कस्य चिदपि लिङ्ग लिङ्गस्य अ- भावाच न व्यवस्थितविषयकत्वमाचाराणाम् लिङ्गत्यविभक्तिको निर्देशः ॥ १६ ॥ ननु उदीच्यादिसमाख्यैव व्यवस्थितं लिङ्गमस्तु अत आह-आख्या प्राच्यादिस. माख्या हि देशसंयोगात् प्राच्यां भव इत्यादिव्युत्पत्त्या देशसम्बन्धनिमित्तिका सा च न व्यवस्थिता प्राग्देशं परित्यज्य दक्षिणदेशं गतैरपि होलकाद्याचारस्यानुष्ठानात् दक्षि. णदेशं परित्यज्य प्राग्देशं गतैरपि अननुष्ठानात् ॥ १७ ॥ प्राच्यादिसमाख्यानस्य देशसम्बन्धनिमित्तकवे देशान्तरेषु स्थितेषु प्राच्यादिव्यव. हारो न स्यात् अतः प्राच्यत्वादिकं जातिः इति चेत् हि यतः प्राच्यादिसमाख्या योगाख्या माथुरवत् मथुराया आगतः न तु मथुरायां भवस्तद्वत् प्राच्या आगत इति स्यात् तथा च कल्पकाभावान प्राच्यत्वादिकं जातिः॥ १८ ॥ ननु अव्यवस्थितत्वात्प्राच्यादिपीटतश्रुतिकल्पनस्यासम्भवेऽपि 'कृष्णमृत्तिकापाये अडीनैबुकापरपर्यायं करजवृक्षपूजनं कुर्युः' इत्येवं रीत्या श्रुतिकल्पनं सम्भवत्येव प्रव. णवत् 'प्राचीनप्रवणे वैश्वदेवेन यजेत' इत्यत्रेव कृष्णमृत्तिकाप्रायादिदेशविशेषः कर्मधर्मों अहीनैबुकादिकर्माङ्ग स्यात् ॥ १९ ॥ समाधत्ते-देशविशेषः कर्मधर्मतयोक्तः कर्तृधर्मेण प्राच्यवादिना तुल्यं तु तुल्य एव कृष्णभूमि परित्यज्य रक्तमृत्तिकाप्रायदेशनिवासिभिरपि तदनुष्ठानात् ॥ २० ॥ अत्र प्रसङ्गात्स्मृतिमूलश्रुतिगतविशेषचिन्ता। तथा हि-होला. काद्याचाराणां प्राच्यगतत्वेन, करजपूजारूपाहीनैबुकाचाराणां दाक्षि.

- समयूख भादृचिन्तामणौ- णात्यगतत्वेन, उद्धृषभयशादि(१)रूपाणामौदीच्यगतत्वेन, तथाविधानां (२)निषेधानां गौतमादिस्मृतिपाठस्य गृह्याणां च व्यवस्था(३) दृष्ट्वा तन्मूलश्रुतिरपि 'प्राच्यैरनुष्ठेयम्' इति कल्प्यते उत इदमनुष्ठयम्' इति सामान्यरूपेति । एतेन(४) होलाकादि प्राच्यैरनुष्ठेयमुत सर्वैरिति चिन्तायाः षष्ठः विषयत्वेनासङ्गतिरपास्ता । केचित्तु-होलाकाद्याचारा गौतमादिस्मृतिश्चान्यान् प्रति प्रमाणमुत नेति विचारं प्रदर्शयन्ति- तन्न निर्दुष्टशानोत्पादकत्वरूपप्रामाण्यस्य राजसूयवाक्य इव बाध. काभावात(५)। राणकस्तु-नानागृहाप्रतिपाद्यस्थालीपाकादीनां शाखान्तराधिकर. णनयेनाभेदात्तदङ्गानामपि सर्वविषयत्वावगमेन व्यवस्थाशङ्कानुपपत्तिः, तत्तच्छाखाध्ययनेतिकर्तव्यतात्वेन तत्तच्छाखाम्नातोपनयनोपाकरणा. दीना(६) तत्तदङ्गत्वाङ्गीकरणात लिद्धान्तानुपपात्तश्च । अतो यत्पुरुष- - मयूखः (१) उदषभयज्ञादीति । ज्येष्ठायां पौर्णमास्यां वलोवर्दानभ्यर्च्य धावयन्तीत्युदृष. भयज्ञ उदीच्यैरेव तथा अयमेवोत्सवो भाद्रपदामावास्यायां दाक्षिणात्यैरेव क्रियते सोऽय. मुद्रुषभयज्ञ इत्युच्यते। (२) तथाविधानामिति । क्वचिद्देशाविशेषे कैश्वेिदेव किंचिद्वय॑ते इति तादृशनिषेधा. नामित्यर्थः (३) व्यवस्थामिति । गौतमीयं गोमिलीयं च छन्दोगैरेव, वासिष्ठं बरेव, श. हलिखितोक्तं वाजसनेयिभिः, आपस्तम्बबौधायनीयं तैत्तैरीयैरेवेति व्यवस्थामित्यर्थः । (४) ननु प्राच्यैरेवानुष्ठेयमुत सर्वरित्येवं विचारस्य अधिकारविषयकत्वात्षष्ठाध्या- ये एव सङ्कतिरत आह-एतेनेति । व्यवस्थिताव्यवस्थितश्रुतिमूलकत्वीवचारस्य प्रमाणल. क्षणे संगतत्वेनेत्यर्थः । अयं भावः आचारमूलभूता श्रुतिः प्राच्यैरेवानुष्ठेयमित्येवंरूपा क- हप्या उत सवैरेवानुष्ठेयामित्येवरूपा कल्प्येति विचारस्य प्रमाणविषयकत्वेन प्रमाणल. क्षणे संगतिरिति । (५) बाधकामावादिति । अयं भावः प्रमाण्यं हि आलोकक्सर्वपुरुषसाधारणं न हि राजसूयवाक्यस्य ब्राह्मणं प्रत्यप्रवृत्तावपि तं प्रत्यप्रामाण्यमिति निर्दुष्टज्ञानोत्पादकत्वरू. पप्रामाण्यस्य ब्राह्मणं प्रत्यपि सत्त्वं तद्वदिति। (६) उपनयनेति । उपनयनोपाकरणादीनां वेदाध्ययनाङ्गत्वात् तत्तच्छाखाध्ययनस्य भेदेनेतिकर्तव्यतापेक्षायो भेदेनैव तत्तद्गृह्याम्नातोपनयनादीनामङ्गत्वावगम इति भावः । ।

प्रथमाध्याये तृतीयः पादः। . धर्मत्वेन कचिदेव (१)गृह्ये विहितं यथा 'कपालं भगालमिति बयादिति तदुदाहरणमित्याह- तन-स्थालीपाकादिकर्मणोऽभेदेऽपि तदङ्गानां नाराशंलप्रयाजव यवस्थाशङ्कोपपत्तेः । एवमध्ययनोपनयनादीनां तेनैव नयेनामेदे सिद्ध शाखास्वरूपेऽन थकानां विघ्ननिवृत्तिद्वाराध्ययनाङ्गानामव्यवस्थोपपत्चेश्च(२), अतो अतः सर्वविषये ) गृह्यादिकमत्रोदाहरणम् । (पूर्वपक्षः ) तत्र एतन्मूलश्रुतेराचाररूपलिङ्गानुमेयत्वाल्लिङ्गस्य व्यवस्थित. त्वात् तत्समानाधिकरणसाध्यसिद्धिः, अन्यथा श्रुतेः सामान्यविष. यत्वे तत्प्रवर्तिताचारस्य सामान्यविषयत्वापत्तिः, तेन स्मृत्याचार- योनियतकर्तृकत्वान्यथानुपपत्त्या नियतविषयश्रुतिकल्पनं युक्तम् प्रा. च्यैरिदं कर्तव्यमित्यादि, तत्र प्राच्यत्वम् 'अहं प्राच्य' इत्यभिमानविषय त्वम् तैत्तरीयत्वादि तु प्रसिद्धमेव अतो व्यवस्थेति चेन्न- (सिद्धान्तः) उपपदप्रतिषेधसामर्थ्यानामभावेन(३) व्यवस्थाया असम्भवात् , न ह्यत्र राजा राजसूयेनेत्यादिवत्प्राच्यरिदं कार्यमित्युपपदसम्भवः तत्र जातः तत आगतः सोऽस्य निवासः तत्र भव इति विहिततद्धितान्त. प्राच्यपदप्रकृतिभागमाग्देशस्य दिशो वाऽव्यवस्थितत्वेन सर्वत्र सत्त्वा. इक्षिणादिगवस्थितेऽपि व्यवहारसत्त्वेनोपपदत्वासम्भवात् , न हि के. पुचित्प्राच्यत्वं जातिस्तदुपलक्षणं वा किञ्चिदस्ति, भवो गर्भसम्भवः, जात उत्पन्न इति भेदः, तैत्तिरीयस्वादिकं (४)सम्भवदप्यर्थापत्तिकल्पि. मयूखः । (१) काचिदेव-गौतमे । २) अव्यवस्थोपपत्तेश्चेति । द्वादशे अध्ययनाङ्गानामुपनयनादीनां विघ्ननिवृत्य र्थत्वेनोपयोगस्य वक्ष्यमाणत्वात् तस्य च शाखान्तरन्यायेनैकत्वावगमेन भेदेनाङ्गग्राहित्वा- योगातूदव्यवस्थेत्यर्थः। (३) उपपदेति । सर्वत्र कर्तृविशेषज्ञानमुपपदात्प्रतिषेधात्सामर्थ्याद्वा भवति यथा राजोपपदात् राजसूये क्षत्रिय एव, यथा पतितेषु निषेधात् वैदिके कर्मणि तद्भिन्ना एव, यथा द्विजानामेवाहिताग्नित्वात् शुद्रादेस्तदभावादग्निहोत्रादिषु समर्था द्विजा एवा कर्तारः तथेह उपपदं निषेधो वा नास्तीति प्राच्यादिव्यतिरिक्तानामपि कर्तृत्व सामर्थं तु सर्वेष्वविशि- टमिति भावः। (४) तैत्तरीयत्वादिकमिति । यद्यपि स्मृतिमूलश्रुतिषु चरणविशेषवाचितैत्तरीयाद्यु.

WAS समयूख भादृचिन्तामणी- तश्रुत्याकासाभावानाश्रीयते, अध्ययनव्यवस्थाया अर्थसमानासिद्ध. त्वेनोपपत्तेः, छन्दोगो गौतमः कर्ता स्वशिध्यान छन्दोगानध्यापया- मास, तेऽप्यन्यान् छन्दोगानित्यार्थिकी व्यवस्था, नैतावता व्यवस्थि. तश्रुतिकल्पनम् गौरवात् अतो नोपपदवशेन व्यवस्था, नापि स्त्रीशूद्रौ नाधीयातामित्यादिवत्प्रतिषेधः, नाप्याग्निविघातजन्यक्रतुषु तदभाववतः शूद्रस्येवासामर्थ्यम् , अतोऽव्यवस्थेति । यत्र मुण्डा भृगवः पञ्चशिखा वालिष्ठा इत्यादिस्मृतिवशेन सोपप. दश्रुतिकल्पनम्, यत्र वा कुलधर्माद्याचारेण कुलधर्मः कर्तव्य इति सस. म्बन्धिक पदार्थघटितेश्रुतिकल्पनम्, तत्र भवत्येव व्यवस्था, तत्र तत्त. त्कुलधर्ममूलानन्तश्रुतिकल्पनायोगेऽपि 'कुलधर्मः कार्य' इति कल्पित. श्रुतौससम्बन्धिककुलपदस्य सत्त्वात्स्वीयकुलधर्मः कार्य इति तस्यार्थः एवं च 'स्वाध्यायोऽध्येतव्य इतिवद्यवस्थासिद्धिः। होलाकादीनां(१) तु कुलधर्मत्वाप्रसिद्ध्या न ताहशोपपदयुक्तश्रुतिकल्प नासम्भवः, नापि होलाकाधनुष्ठातृषु पिङ्गेक्षणत्वादिसामान्यं किञ्चित् . अनुगतस्य तस्या भावात्, नापि प्राच्य इत्यनुगतप्रतीत्या प्राच्यत्वं जा. तिःतस्य शब्दस्य तद्धितान्ततया यौगिकत्वात्, अत एषामव्यवस्थेति । व्याकरणप्रामाण्याधिकरणम् । प्रयोगोत्पत्त्यशास्त्रत्वाच्छन्देषुन व्यवस्था स्थात् २१ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥२२॥ अन्या. यश्चानेकशब्दत्वम् ॥ २३ ॥ तत्र तत्वमभियोगविशेषात् स्यात् ॥३४॥ तदशक्तिश्च तदनुरूपत्वात् ॥२५॥ एकदेश स्वाच्च विभक्तिव्यत्यये स्यात् ॥ २६ ॥ प्रयोगोत्पत्यशास्त्रत्वात्-व्याकरणस्य प्रयोगे साधुशब्दप्रयोगे उत्पत्तौ स्वभावे मयूखः। पपदं सम्मवति तथापि तत्कल्पनायो भनाभावः श्रुतिकल्पकं स्मृतिवाक्यं हि तत्कल्पक स्यात्तत्र च नोपपदश्रवणं तैत्तरीयादिमात्रव्यवस्थितपाठस्य तु न कल्पकत्वं पाठं विनापि अवगतमात्रस्य श्रुतिकल्पकत्वोपपत्तरिति भावः । (१) होलाकादीनामिति । आभियुक्तानां होलाकादिषु न कुलधर्मत्वव्यवहारोऽपि तु देशधर्मत्वव्यवहारः इति मूलश्रुतौ कुलोपपददाने तदनुपपत्तिरिति न कुलोपपदश्रुति कल्पनसंभवं इति भावः।

प्रथमाध्याये तृतीयः पादः। ३९ साधुत्वे इति यावत् औत्पत्तिक इत्यत्रोत्पत्तिशब्दस्य स्वभावपरत्वदर्शनात्' अशास्त्रत्वाद् अनियामकत्वात् शब्देषु गोगाव्यादिषु व्यवस्था साध्वसाधुविभागः न स्यात् व्या. रणेन 'साधुः प्रयोकव्यः' 'अयं शब्दः साधुः' इति बोद्धव्यं तच्चाशक्यं साधुत्वस्य नर्वस्तुमशक्यत्वादिति शेषः ॥ २१ ॥ समाधत्ते शब्दे गवादिशब्दे प्रयत्ननिष्पत्तेः कण्ठताल्वादिप्रयत्नेन निष्पत्तेर्दर्शने. न गाव्यादिशब्दानाम् अपराधस्य अयथोच्चारणस्य भागित्वं गम्यते एवं च अनप. भ्रष्टत्वं यथोच्चारणाभिव्यङ्गयत्वं वाचकत्वं वा साधुत्वं तज्ज्ञापकं च व्याकरणमिति साध्व. सामाधुविभागे व्याकरणं प्रमाणम् ॥ २२॥ ननु गोशब्दवद् गाव्यादिशब्दानामपि वाचकत्वादिकमस्त्वत आह-अनेकशब्द. त्वम् एकस्य गवादिरूपार्थस्य वाच्यत्वसम्बन्धेनानकशब्दवत्तम् अन्यायश्च अनु. चितम् ॥ २३ ॥ तत्र गवादिशब्देषु तत्त्वं साधुत्वम् इतरेष्वपभ्रष्टत्वं च अभियुक्तानां माणिन्यादीना मभियोगविशेषाद उपदेशविशेषात् स्यात् अवगन्तुं शक्यमित्यर्थः ॥ २४ ॥ तदशक्तिश्च गाव्यादिशब्दानामवाचकत्वं च तदनुरूपत्वात् गवादिशब्दानुरूप. त्वात् अयं भावः गाव्यादयः शब्दाः कथञ्चिद्वसाजात्येन गवादिशब्दमनुमायैवार्थबोधकाः इति तेषु वाचकत्वकल्पनमयुक्तमिति ॥ २५॥ विभक्तिव्यत्यये च अश्मकेभ्य आगच्छामीति वक्तव्ये अश्मकैरागच्छामि इति विभक्तिविपर्यासेऽपि एकदेशात अश्मकशब्दात्प्रतिपदिकात् अश्मकेभ्य स्मृत्वाऽर्थ प्रतियन्ति तद्वदूव्यादिशब्दतोऽपि गवादिशब्दस्मृत्यार्थस्य प्रत्ययो युक्तः स्यात् ॥ २६॥ . (पूर्वपक्षः) इदानी व्याकरणमूलश्रुतौ प्राच्यत्वादिवत्साधुत्वस्य निर्वक्तुमश. क्यतयोपपदासम्भवाद्याकरणस्मृतेः श्रुतिमूलत्वासम्भव इत्याक्षेपः(१) समाधीयते-साधूनेव प्रयुञ्जीत नासाधून , गवादय एव साधवो न गाव्यादय इति नियमद्वयार्थ व्याकरणं तत्र गोपदंप्रयोज्यमित्याकारकाणि नानन्तवाक्यानि मूलं गौरवात्, न च पूर्वोक्तवाक्यसदृशं वाक्यम्(२)अनु. गतस्य साधुत्वस्यासम्भवेनोपपदासम्भवात्। न तावद्याकरणानुगतत्वं साधुत्वं वचन्तीत्यादावसम्भवात् (३),नवार्थप्रत्यायकत्वम् गाव्यादिपदे. मयूखः । (१) आक्षेपः इति । स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यं न सम्भ. तीत्याक्षेपादाक्षेपसङ्गतिरत्र बोध्या। (२) वाक्यद्वयीमीत । मूलमितिशेषः । (३) असम्भवादिति। वचन्तीत्यस्य व्याकरणानुगतत्वेऽपि असाधुत्वादिति भाकः ।

समयूख भादृचिन्तामणौ- ध्वपि तत्सत्त्वात्, अनाधर्थप्रत्यायकत्वस्य चाधुनिकसङ्केतितडित्यादिप- देषु पाणिनिलङ्केतितरिघुभादिष्वव्यातेः, अवध्यस्मरणेन गाव्यादिपहे. ध्वपि तदभावस्य वक्तुमशक्यत्वात् , अतः साधुत्वनिर्वचनासम्भवे तद्घाटितमूलश्रुतिकल्पनासम्भवान्निमूलत्वेन व्याकरणमप्रमाणम्, एवं कालेय वामदेव्यादिपदव्युत्पादकप्रत्ययप्रतिपादकस्य कलेढ वामदेवा. ड्ड्यड्याविति व्याकरणस्य (१)यदकालयत्तत्कालेयस्य कालेयत्वं वाम वा इदं देवेभ्योऽजनि तस्माद्वामदेव्यमिति वेदविरोधात् वाक्यस्फेाटा. दिप्रतिपादकव्याकरणस्य न्यायविरोधाद(२)प्यप्रामाण्यमिति चेन्न- (सिद्धान्तः) अनादिवृत्ति(३)प्रमाप्रयोज्यार्थप्रतिपादकत्वरूपसाधुत्वस्य वृत्तिभ्रमे णार्थप्रत्यायकत्वरूपासाधुत्वस्य च वक्तुं शक्यत्वात्, भाषाशब्दानां तु प्रयोगप्रत्यययोरशक्तिशक्ति(जत्व)भ्रमाभ्यामुपपत्तेर्लक्षणागौण्योश्च श. क्यार्थान्तराभावादनुपपत्तेर्न वृत्तिप्रमेति न तत्तत्साधुत्वम् , डित्यादि- पदानां टिघुभादीनां च 'द्वादशेऽहनि पुत्रस्य नाम कुर्यादिति पुत्रत्वना मत्वोपाधिना 'व्याकृता वागुद्यत' इति विधिना व्याकृतत्वव्याकरणस्यो. पाधिना चानादिवृत्तिप्रमासम्भवान्नाव्याप्तिः । पौरुषेयसङ्केतविरहविशिष्टत्वं साधुत्वम् दिघुभादिशब्दानां तु साध्वसाधुबहिर्भूतत्वमेवेति सोमेश्वरः(३)। अतः श्रुतिमूलत्वसम्भवात्प्रामाण्यम् , साधुत्वग्रहश्च व्याकरणा. . मयूखः। (१) व्याकरणस्येति । कलिना दृष्टं साम कालेयं वामदेवेन दृष्टं साम वामदेव्यम् इति व्याकरणेन प्रतिपाद्यते श्रुत्या तु अन्यथेति विरोध इति भावः । (२)न्यायविरोधादिति । अखण्डं वाक्यं वाक्यार्थे शक्तमिति वैयाकरणमतम युक्तं तद्यथा अखण्डं वाक्यं हि शुद्धवर्णव्यङ्गयमानुपूर्वीविशिष्टवर्णव्यङयं वा नाद्यः सरो रस इत्यादौ वर्णभेदाभावनार्थविशेषप्रतीत्यनापत्तेः नात्यः आनुपूर्वीविशेषविशिष्टानां वर्ण पदादीनामेव वाक्यत्वोपपत्तावखण्डवाक्यस्वीकारे मानाभावात् पदवर्णादिप्रत्ययस्य वाक्ये भ्रान्तित्वकल्पनस्यान्याय्यत्वाच्चेति न्यायविरोध इति भावः । (३) वृत्तीति । सा च शक्तिलक्षणागौण्यन्यतमरूपा । (३) सोमेश्वर इति । हरिरप्याह-~यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टि. धुभादयः । कथं तु तासां साधुत्वं नैव ताः साधवो मताः ॥ अनपभ्रंशरूपत्वान्नाप्यासा. मपशब्दता । हस्तचेधा यथा लोके तथा सङ्कतिता इमाः ॥ ततश्वासां नाभ्युदयः प्रत्यवा. योऽपि वा भवेत् । लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलम् ॥ इति ।

प्रथमाध्याये तृतीय पादः। भ्याससहकृतेनार्थप्रत्ययानुपपत्तिसहकतेन च श्रोत्रेन्द्रियेणेति नानुपपत्तिः एवं च सोमप्रकरणस्थः तस्माद् ब्राह्मणेन न ग्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः' इति नानृतं वदेत्' इति चापश ब्दनिषधः संगच्छते' न चाय म्लेच्छभाषाविषयः-हऽलयो हेऽलय इत्यु বন্ধমাখা বকখান কার্যালযহলাজৰিকা स्वात् । यदि चैतस्य(१)ऋत्वर्थत्व, तदा 'यस्तु प्रयुङ्के' (२)इतिभद्रकारिको तसाधुभाषणनियमापशब्दनिषेधयोः पुमर्थत्वम् , तस्मादीशवेदमू लत्वेन व्याकरणामृतेः प्रामाण्यम् , वेदन्यायविरोधे स्वप्रामाण्य मिष्टमेव । মা মাঘি মহললাঃলাদাৰ হকি भ्रमरूपापराधभागित्वम् अतोन सर्वेषां वाचकत्वमित्यर्थः। लोकवेदाधिकरणम् । प्रयोगचोदनाशावादकत्वमविभागात्स्यात् ॥२७॥ प्रभा : उत्तराधिकरणोपोद्घातसंगत्या लोकवेदयोः शब्दकार्थत्वमिह प्रतिपाद्यते-प्रयोग. चोदनाभावात् प्रयोगेषु याश्चोदना गां दद्यात् इत्यादयस्तासां भावात्सद्भावात् अविभागात् प्रत्यभिज्ञया 'यो लोकेऽस्माभिः श्रुतः स एवायं गोशब्दः' इत्येवंरूपया लौकिकवैदिकशब्दयोरेकत्वावगमात् अर्थैकत्वम् अर्थस्य वैदिकगवादिशब्दार्थस्य लौकि. कगवादिशब्दार्थेन सह एकत्वमभिनत्वं स्यात् ॥ २७ ॥ ( संशयः) प्रसङ्गाल्लौकिकवैदिकपदानां भेद उताभेद इति (३)चिन्ता । मयूखः । (१) एतस्य-नानृतं वदेदिति निषेधस्य । (२) यस्तु प्रयुते कुशलो विशेषे शब्दान्यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥ इति कारिका । (३) प्रसङ्गादिति । एवं व्याकरणप्रामाण्ये समाहिते इदानी कात्यायनादिप्र. तिपादितस्य व्यक्तिरेव वाच्येति पक्षस्य प्रसकं प्रामाण्यमपोयते इति अपवादसंगतिरत्र बोध्या । प्रसङ्गादिति च अपवादसझतेरप्युपलक्षणम् । नन्वेवमाकृत्यधिकरणमेव प्रथम निरूपणीय न तु लोकवेदाधिकरणमिति चेन-आकृत्यधिकरणोपाद्घातत्वेन मध्ये लो. कवेदाधिकरणस्य सङ्गतत्वात् । भा०चि०६ समयूख भादृचिन्तामणौ- ( पूर्वपक्षः ) यूपाहवनीयादिपदानामर्थ(१)भेदेन, सरोरल इत्यादिषु क्रमभेदेन, ब्रह्म ब्राह्मण इत्यादौ वर्णन्यूनत्वाधिकाम्या, स्थूलपृषतीमित्यादौ कर्मधा. रयबहुब्रीहिनिर्णायकस्वरभेदेन, हरि भजते देहीत्यत्र व्यधिकरणपदल. निधानेन कृदन्ताकृदन्तपदनिर्णयेन च प्रसिद्धयूपगोघटाग्म्यादि पदानामभेदेऽपि स्वरस्वा प्रयपाठादिधर्मभेदेनाप्रसिद्धयूपादिपद. सामानाधिकरण्येन 'उत्ताना वै देवगवा वहन्ती'त्यार्थवादिकोत्ता. नवहनकर्तरि गोपदवाच्यताबोधादर्थान्यत्वेन च पदान्यत्वमिति चेन्न- (सिद्धान्तः) प्रत्यभिज्ञानबलेन तदैक्याधारणात् , अर्थभेदानापादकस्वरादेयूंपा. दिपदसामानाधिकरण्यस्य चाप्रयोजकत्वात् , उत्तानवाक्यस्यार्थवाद. स्वादिति(२) अतः पदेक्यम्(३) ॥ आकृत्यधिकरणम् । अद्रव्यशब्दत्वात् ॥२८॥ अन्यदर्शनाच ॥ २९ ॥ आ. कृतिस्तु क्रियार्थत्वात् ॥३०॥न क्रिया स्यादिति चेदान्तरे विधानं न द्रव्यमिति चत् तदर्थत्वात्प्रयोगस्याविभागः ३१॥ प्रभा पूर्वाधिकरणे सिद्धान्तसूत्रमपि तन्त्रेण पूर्वपक्षसूत्रम् प्रयोगचोदनाऽभावात् जा. तो प्रयोगचोदनायां गौरनुबन्ध्य इति गवानुबन्धनानुष्ठानविधेरभावात् असंभवात् अर्थेकत्वं व्यक्तरेव पदार्थत्वं न जातेः स्यात् अविभागात् क्वचिज्जातिः क्वचिद्य किरर्थ इति विभागस्यान्याय्यत्वात् ॥ २७ ॥ प मयूखः। (१) पदैक्यमिति । नन्वयं विचारो निष्फल इति चेदुच्यते यदि लोकवेदयोः श. ब्दान्यत्वं तदोपायाभावेन वैदिकशब्दशक्तिप्रहस्यासम्भवाद् जाती व्यक्ती वा शक्तिरित्येवं भूतस्याप्रिमाधिकरणस्यानुत्थितिः स्यात् एकत्वे तु लोके बृद्धव्यवहारेण गृहीता शक्तिवेदे. फालेष्यतीति युक्तानिमाधिकरणचिन्तेत्यग्रिमाधिकरणस्योपोद्धात इदमधिकरणमिति बोध्यम् । (३) यूपाहवनीयेति । तदाहुः-पदावधारणोपायान् बहूनिच्छन्ति सूरयः । क्रम. न्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीः ॥ इति वार्तिककृतः। वाक्यं व्यधिकरणपदसन्निधिः श्रुतिः-समानाधिकरणपदसन्निधिः यथा यातः पुनरायातीत्यत्र यात इत्यस्य कृदन्तत्व. निर्णयः । स्मृतिर्व्याकरणं यथा अश्वस्त्वं देवदत्तेत्यत्र आगच्छेत्यर्थकं न स्वश्वार्थकम् । (३) अर्थवादत्वादिति । रोदनार्थवादवदन्यार्थपरत्वमितिभावः ।

प्रथमाध्याये तृतीयः पादः। .. m अद्रव्यशब्दत्वात-गवादिपदानां जातिवाचकत्वे द्रव्यशब्दत्वाभावप्रसङ्गः स्या। त् तथा च लिङ्गसंख्याअन्वयायोग' स्यात् हात 'एकां गां दद्यात्' इति श्रुत्यसगतिः॥२८॥ 'यदि पशुरुषाकृतः पलायेतान्य तद्वर्ण तद्वयसमालभेत' इत्यत्र अन्यदर्शनाच्च अन्यपदश्रवणादपि आकृतेनं वाच्यत्वमाता (पशुत्वे ) आकृति (पशुत्व) मेदासंभवा. दिति व्यक्तिरेव वाच्या ॥ २९॥ सिद्धान्तयति आकृतिस्तु जानिरेव गत्रादिशब्दार्थः न व्यक्तिः कुतः क्रियार्थ. त्वात् आकृतेर्वाच्यत्वे 'श्येनचितं चिन्वीन' इत्यादिवाक्यानां श्येन सदृशाग्न्याख्यस्थ ण्डिलविशेषनिष्पाइकचयनादिन्छियाप्रतिपादकत्वमम्भवात् व्यक्तेर्वांच्यत्वे तदसम्भवात् ॥३०॥ क्रिया प्रोक्षणादिरूपा जातौ न स्यादति चेत् एवं 'यदि पशुरुपाकृतः पलाये. तान्य तद्वर्ण तद्वयसमालभेत' इति अपान्तरे अन्यस्मिन्पशुपदार्थे विधानमुपा करण. विधिन स्यादिति चेत् तथा द्रव्य 'एकां गां दद्यात्' इत्यादौ लिङ्गसंख्याछन्वय योग्य द्रव्य च न प्रतीयते इति चेतू न प्रयोगस्थ प्रोक्षणादेः तदर्थत्वात् लक्षणया ध्यक्तिरूपार्थपरत्वात् अविभागः जातिशक्तिपक्षभ न ॥ ३१ ॥ इति जैमिनिसुत्रवृत्तौ प्रभायां प्रथमाध्यायस्य तृतीयः पादः । ( संशयः) इदमिदानी चिन्त्यते घटादिपदानां जातिविशिष्टव्यक्ती व्यक्तिमा. ने जातिमात्रे वा शक्तिः॥ (पूर्वपक्षः) ननु क्रियाद्वित्वादिसख्यालिक्षाघवययोग्यत्वाद्यक्तिरेव वाच्या, न च शक्त्यानन्त्यं जातेरुपलक्षणत्वात् , एवं च शक्यतासम्बन्धेन गो पदप्रकारकगोविशेष्यकशक्तिग्रहो गोत्वविशिष्टबोधजनकः न तु पदप्रकारकगोत्वविशेष्यका गोस्वत्वस्य धर्मितावच्छेदकत्वे गौरवात् । उपलक्षणत्वेन त्वनमिधेयमिति धर्मितावच्छेदकस्य गोत्वादर्भानम् । विशिष्टवाचित्वे तु न कोऽपि दोष इति चेन्न- (सिद्धान्तः ) व्यक्तीनामनन्तत्वेनानन्तशक्तिकल्पनापत्तेः । न चोपलक्षणैक्येन तदनापत्तिः । अक्षाविपद इव शक्यतावच्छेदकतया शक्त्यानन्त्यात् । किश्श(१) पविशेष्यकगोत्वप्रकारकशक्तत्वसंसर्गनिश्चवस्य वि. - मयूखः । (१) किञ्चेति । गोत्वशक्तं गोपदमिति पदविशेष्यकशक्तिमहस्य विशिष्टबोधे हेतुत्व. म् । न च गोत्वस्य स्वरूपत. प्रकारता समवायेनैवेति वाच्यम् 'अय गौ.' इत्यनन्तरं गोस्वे. नेमं जानामीतिगोत्वप्रकारकज्ञानवानहमित्यनुव्यवसाये प्रकारितासम्बन्धेन स्वरूपत एव गोत्वस्य प्रकारतावगाहनेन त्वदुक्तनियमस्यासम्भवात् । न च समवायेन धर्मिविशेषणस्यैव B समयूख भादृचिन्तामणी- शिष्टबोधहेतुत्वकल्पने जाती निरवच्छिन्नप्रकारताङ्गीकारद्वात्वत्वस्य प्रकारतावच्छेदकत्वकल्पनाभावाल्लाघवम् । न चैवं पदं गौरिति प्रत्य यापत्तिः, पदवती गौरितिवादिष्टत्वात् । अतो जातिरेव वाच्या। वि- शिष्टवाचित्वं तु नागृहीतविशेषणान्यायपरास्तम् । व्यक्तिमानस्य (१) तु जात्यात्मना व्यक्ती शक्त्यङ्गीकारणोपपत्ति रिति सोमेश्वरः । जाति(२) शक्तय॑क्युद्देश्यकत्वेन व्यक्तिभानमिति भवदेवः । लक्षः णया(३) व्यक्तिभानम् । न च युगपत्तिद्वयविरोधः । क्रमिकबोधे तस्य दोषत्वादिति नव्याः। विवृतं चेदं प्राक् ॥ इति गागाभट्टविरचिते भादृचिन्तामणौ प्रथमाध्यायस्य स्मृतिपादाभिधतृतीयः पादः । मयूखः । गोत्वादेः स्वरूपतः प्रकारत्वमिति वाच्यम् । गोत्वशक्तं गोपदमित्यत्रापि गवादिविशे. षणतापन्नस्य गोत्वस्य निरूपितत्वसम्बन्धेन गवादेश्च स्वसमवेतनिरूपितत्वसम्बन्धन शको विशेषणत्वोपगमेनादोषादिति । (१) ननु यदि शब्दाना जातात्रेव शक्तिस्तर्हि व्यक्तिबोधः कथमत आह-व्य. क्तिभानस्येति । अयम्भावः यथा घटे घटत्वम् इह शुक्लत्वम् इत्यादिप्रत्ययाज्जातिव्य. क्योर्भेदस्तथा अयं गौः अयं शुक्ल इत्यादि प्रतीत्याऽभेदोऽपि, न चैवं व्यक्त्यभेदे जाते- रनित्यत्वं स्यादिति वाच्यम् जात्यात्मना नित्यत्वेऽपि व्यक्त्यात्मनाऽनित्यत्वस्यत्वेना. दोषात् एवं च घटादिपदानां जातिवाचित्वेऽपि जातिव्यक्त्योरभेदाज्जात्यैव व्यक्तिप्रती तिरिति । नन्वेवं व्यक्तर्जात्याऽभेद व्यक्तरपि वाच्यत्वापत्याऽधिकरणवैयर्थंमत आह- जात्यात्मनेति । व्यक्तर्वाच्यत्वेऽपि न व्यक्त्यात्मना वाच्यत्वमपि तु जात्यात्मनेति नाधिक- रणवैयर्थ्यमिति भावः। (२) जातिशोरिति । अयम्भावः जातिव्यक्त्योरभेदेऽपि जातिशक्तः साक्षाद्विष. यतासम्बन्धो जातौ उद्देश्यताख्यविषयतासम्बन्धस्तु व्यक्तौ सर्वैयक्तिमुद्दिश्यैव शब्दप्रयो. गात् ततश्च यथा 'यजेत स्वर्गकाम' इत्यत्र एकैव यागकृतिः यागविषयिणी स्वर्गादेश्यिका चेति न भेदं प्रतिपद्यते उभयोत्पादिका च भवति तथा एकैव घटपदशक्तिः घटत्वविषयिणी घटोद्देश्यिका च न भेदं प्रतिपद्यते उभयप्रतिपादिका च एवं च घटत्वबोधं घटबोधं च प्रति घटत्वशक्तिज्ञानं करणमिति स्वीकारात् जातिशाब्दबोधत्वमिव व्यक्तिशान्दवोधत्व. मपि घटत्वशतिज्ञानस्य कार्यतावच्छेदकमिति । ३) ननु कार्यतावच्छेदकद्वय कल्पने गौरवं जातिव्यक्ोबोधस्य मिकत्वापत्तिः प्रथमाध्याये चतुर्थः पादः। अथ प्रथमाध्यायस्य चतुर्थः पादः॥ ( नामधेयपादः) (१) उद्भिदधिकरणम् । उक्तं समाम्नायैदमयं तस्मात्सर्व तदर्थ स्यात् ॥ १ ॥ अपि (१)वानामधेयं स्थाघदुत्पत्तावपूर्वमभिधायकत्वात्॥२॥ प्रभा प्रमाणाध्यायस्य प्रथमे पादे विधेः द्वितीये पादे अर्थवादमन्त्रयोः तृतीये पादे विध्यर्थवादमन्त्रमूलकस्मृत्यादीनां प्रामाण्यं विचार्य चतुर्थे पादे नामधेयभागस्य प्रामाण्यं विचार्यते तेन विध्युद्देशगतपदविशेषप्रामाण्यनिरूपणमेतत्पादार्थः । समानायैदमर्थ्य-समानायस्य कृत्स्नस्य वेदस्य ऐदमर्थ्यम् धर्मप्रमितिजनना र्थत्वम् उक्तम्-तद्भूतानामिति अर्थवादाधिकरणे व्यवस्थापितम् तस्मात्-तथा- व्यवस्थापितत्वात् सर्व-गुणवाचित्वेन नामधेयत्वेन वाऽभिमतं कृत्स्नमेव उद्भित्सोमा. दिपदं तदर्थ-गुणत्वेन नामत्वेन वा धर्मप्रमितिजननार्थ स्यातू ततश्चाध्ययनविधिप रिगृहीतस्य नामधेयस्यापि विध्येकवाक्यतया प्रामण्यमित्येतावदिहाधिकरणे स्थितम् ॥१॥ यत्-यतः उत्पत्तौ उद्भिदा यजेतेत्यादौ विधिवाक्ये अपूर्व ज्योतिष्टोमाद्यागा- स्तरपरमुद्भिदादिपदम् अपि वा नामधेयम्-नामधेयं स्यात् नतु गुणविधिः कुतः अविधायकत्वाव नामत्वसम्भवे गुणविधायकत्वस्य मत्वर्थलक्षणादिभयेनासम्भवात् ॥२॥ मयूखः कमिकत्वाङ्गीकारे च वैशिष्ट्यबोधाभावेन निर्विकल्पकस्वरूपापत्तिरतो नव्यमतमाह-लक्षण. येति । दोषत्वादिति । अयम्भावः यथा गङ्गापदाच्छक्यप्रवाहोपस्थितावपि तस्य घोषाध- न्वयप्रमितेः प्रागेवानुपपत्त्या तीरलक्षणायामपि न वृत्तिद्वयविरोधः एवमत्रापि शक्त्या जात्युपस्थितावापि तस्याः कर्मत्वान्वयप्रमितेः प्रागनुपपत्तिवशायक्तिलक्षणायामपि न क्रमि- कवृत्तिद्वयविरोधः सकृदुश्चरितः शब्दः सदर्थं गमयतीति न्यायस्यापि नाथं विषयः यत्रा- न्वयप्रमोत्तरं तस्यैव पदस्य वृत्त्यन्तरेणार्थान्तरप्रत्यायकत्वं तत्रैव तत्प्रवृत्तरिति । इति भावचिन्तमणिमयूखे प्रथमाध्यायस्य तृतीयः पादः समाप्तः। (१) भाष्यकारेण उक्तमिति सूत्रेण पूर्वपक्षं कृत्वा अपिवेति सूत्रेण नामधेयत्व सिद्धान्तितं तदनुरोधेन भाचिन्तामणिकतापि एकमिदमधिकरणमित्यजीकृतम् । वार्तिक. कारेण तु सूत्रद्वयनाधिकणद्वयमित्यङ्गीकृतम् ।

AKSHAR समयूख भाचिन्तामणौ- ०० ( संशयः) 'उद्भिदा यजेते" इत्यादिविधिश्रुतानामपौरुषेयाणां (१)स्वाध्याय. विध्यध्यापितानामुद्भिदादिपदानां योगेन कथञ्चि(२)त्खनित्रादिसमर्प काणां विधेयगुणसमर्पकत्वमुत कर्मनामत्वमिति चिन्ता । (पूर्वपक्षः) ननु 'अथैष भू वैश्वदेव' इत्यादिविहितेष्वनेकदेवतादिगुणविशिष्ट कर्मकद्रव्यकेषु गुणविधिः(३), अव्यक्तत्वानुमानापेक्षया बलवत्वात् , एतेन लौकिकर्मापेक्षयाऽप्रामाण्यापत्तिरपास्ता। अस्तु वा विशिष्टवि. धि:(४) गुणफलसम्बन्धविधिः(५) विशिष्टकर्मान्तरविधिति(६) चेश- (सिद्धान्तः) प्रकरणसन्निध्या(७)धभावेन तदुपस्थितेः, धात्वर्थविधिसम्भवे मयूखः। (१) गुणे कर्मणि च तुल्यवत्तिकोद्भिदादिपघटितानाहाधिकरणे विषयः । (२) कथं चिदिति । उद्भिनत्ति भनेनेति उद्भित्खनित्रमिति योगेनेत्यर्थः । (३) गुणविधिरिति । 'भिदिर विदारणे' इति स्मृत्या विदारणे समर्थखनित्रादिवच. नत्वप्रसिद्धर्नामधेयत्वे वैयर्थ्यप्रसङ्गाच्च गुणविधिस्वमुचितं तत्रैषां वाक्यानां ताग्यशाखायां ज्योतिष्टोमानन्तरमेव पाठात् प्रकृतज्योतिष्टोमयागानुवादेनैव दध्रा जुहोतीति गुणविधान भविष्यतीति भावः। (४) अस्तु वा विशिष्टविधिरिति । स्वर्गनिरूपितत्वेन यागस्य गुणस्यापि व्यापार भेदेन भावनायां करणत्वेनान्वयोपपत्त्या यागस्य फलनिष्पादनद्वारा भावनाकरणत्वेऽपि सोमादेः करणान्तरस्य 'समे दर्शपूर्णमासाभ्यां यजेत' इत्यादिना समादेरधिकरणान्तरस्यैव यागनिष्पादनद्वारा भावनासम्बन्धे बाधकाभावात्तथैव प्रथमावगताभावनासम्बन्धनिर्वाहाय अरुणैकहायनीवद्यागस्य पार्टिको यागसम्बन्धः कल्प्यते तेन न मत्वर्थलक्षणापत्तिरिति वि. शिष्टविधानं युक्तमिति भावः । (५) गुणफलसम्बन्धविधिरिति । प्रकृतसोमयागाश्रितः खनित्रादिगुण एव फलोद्दे. शेन विधीयते काम्यत्वादेवं च नित्यसोमबाध इति गुणफलसम्बन्धविधिरित्यर्थः । (६) विशिष्टकर्मान्तविधिरिति । उद्भिद्वता यागेन पशून भावयेदित्येवं विशिष्टक- मन्तिरविधिीरति भावः। (७) प्रकरणसन्निध्यभावादिति । ताण्ड्य के अग्निष्टोमसंस्थाकस्य ज्योतिष्टोमस्य षष्ठे. ऽध्याये पठितत्वेन तदनन्तरपठितैः द्वादशाहादिभिः प्रकरणस्य विच्छेदात् षोडशे स्तुत्यर्थ दक्षिणाविधानार्थ च पुनरुपादानेऽपि तदनन्तरपठितैः एकाहादिभिः राजसूयादिभिश्च पुनः प्रकरणस्य विच्छेदात् एकोनविंशे पठितानामुद्भिदादीनां प्रकरणं नास्तीति भावः ।

प्रथमाध्याये चतुर्थः पादः। तृतीयविधि(१)प्रकारस्यान्यायवाच, फलपदस्यानन्वयापत्तेश्च गुण' फलसम्बन्धविधिस्त्वाश्रयालाभादेवायुक्तः सप्तमविधिप्रकारोपपत्तेश्च, नापि विशिष्टविधि -मत्वर्थलक्षणापत्तेः तथा हि सर्वकारकाणां व्यु: त्पत्तिसिद्ध भावनान्वये फलकर्मत्वस्य धात्वर्थकरणत्वस्य निरूपकापे क्षायां फलनिरूपितधात्वर्थकरणत्वं प्रतीयते, नथोपश्लेषेण शीघ्रोप स्थितत्वात् , एवं च करणत्वेन प्रतीयमानस्य धात्वर्थस्य कर्मतया মাথাব্যালান্ত কাগ লাফালাৱিাখা ভ্য मानाधिकरण्यायोगात्प्रतीतसम्बन्धसामान्योपपस्यर्थ मत्वर्थलक्षणावर श्यकीति करणद्वयासमवेशात्मत्वर्थलक्षणेनि । अन्ये-खले कपोतन्यायेन सर्वकारकाणां भावनायामेवान्वयः, तत्र च कस्यचित्लाक्षात्सम्बन्धेन कस्यचित्परम्परासम्बन्धेनान्वयसिद्ध मत्वर्थलक्षणाया नोपयोग इत्याहुः । परं स्वतन्मत सोमादेरिन्द्रियार्थदध्न इव स्वर्गाद्यङ्गतापत्या प्राधा- न्यापत्तिः, एवं च प्रतिनिध्युपादानं न स्यात् , न च विशेषणविधिना আকাঙ্গনায়ঃ-স্বাম্বাই বিমাথলিকা - नावश्यकत्वात् , मम तु मत्वर्थलमणया सम्बन्धसामान्यसिद्धावप्यङ्गत्व: रूपसम्बन्धविशेषसिध्यर्थे तत्कल्पनमावश्यकम् , एवं च तुल्यविभक्ति ककारकयोः परस्परविशेषणविशेष्यभावापन्नयोरेव भावनायामेवान्वय इति वेदितव्यम्। न चास्तु कारकाणां क्रियायामेवान्वयः सोमकरणकयागकरणिका भावनेति बोध इति वाच्यम्-कारकप्रकारकबोधे मुख्यविशेष्यताल. स्बन्धन भावनोपस्थितेहेतुत्वकल्पने लाघवात न च तेन सम्बन्धेन क्रियोपस्थितेरेव हेतुत्वं वक्तुं शक्यम्-धात्वर्थानुवादेन गुणविधौ फ लसम्बन्धविधौ च भावनान्वयावश्यकतयाननुगतान्वयस्य तदनुरोधे. मयूखः। (१) तृतीयविधिप्रकारस्येति । शुद्धधात्वर्थकरणकभावनाविधिराद्यः। यथाग्नि- होत्रं जुहोति । अन्योद्देशेन धा-वर्थकरणकभावनाविधिर्द्वितीयः। यथा-अग्निहोत्रं जुहुया स्वर्गकामः इति, वाहीन् प्रोक्षति इति च । धात्वर्थान्यकरणकभावनाविधिस्तृतीयः। यथा दध्ना जुहोति । धात्वर्थ साधुत्वार्थमनूद्यापि अन्योद्देशेनान्यकरणकभावनाविधिश्चतु. र्थः । यथा दध्नेन्द्रियकामस्य जुहुयात् । गुणविशिष्टधात्वर्थकरणकभावनाविधानं पञ्चमः। यथा सोमेन यजेत। अन्यत्र गुणविशिष्टधात्वर्थकरणकभावनाविधिः षष्ठः। यथा सौर्य चरु निर्वब्रह्मवर्चसकामः । तत्र तृतीयविधिप्रकारो गुणविधिपक्षो न युक्त इत्यर्थः ।

समयूख भादृचिन्तामणौ- नानुगतहेतुकल्पनस्य चान्याय्यत्वात् , अतो भावनान्वये मत्वर्थलक्षणा. वश्यकीति । इयं च प्रकृतिभागे। अन्ये तु तृतीयार्थकारस्यैव विधेयतया तृतीयया तृतीयान्तेन वा लक्षणेत्याहुः । पर विभत्तयतिरिक्ततृतीयाथलक्षणापत्त्या न युक्तम् । इयं च लक्षणा विधाने वानुवादे वेति वार्तिकाद्विशिष्टधात्वर्थविधौ धात्वर्थोद्देशेन गुण विधावपाति प्रतियन्ति बृद्धाः । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुश्वतीत्युत्तरार्धानुरोधेन तृतीया तानामेवोपपदवदनुवादवाक्य एव करणत्वेनाम्वयात् न सर्वत्रानुवाद वाक्ये लक्षणेति युक्तम् , अतो विशिष्टविधि मवानुवादवाक्ये लक्षात पितृचरणाः। अप्रसिद्धार्थकस्य (१)फलप्रकाशकत्वादिरूपयोगेन प्रसिद्धयजिसा. मानाधिकरण्येनान्वयसम्भवात्सोमादिपदवज्ञानुपपत्तिः, श्रोत्रोपस्थित ভাষা এ আশাবানা আলী হানাদালাহাঙ্গ मत्वर्थलक्षणापत्तिः, अतो यागनामत्वमुद्भिदादिपदानाम् प्रयोजनं गुण- फलादिसम्बन्धविध्यर्थबोधः कर्मभेदः सङ्कल्पादिलाघवं च । बदुत्पत्ताविति (२)यदनुष्ठानेऽपूर्वोत्पत्तिः तत् नामधेयं गुणसमर्प. कत्वासम्भवादित्यर्थः। (२) चित्राधिकरणम् । यस्मिन् गुणोपदेश। प्रधानतोऽतिसम्बन्धः ॥ ३ ॥ प्रभा यस्मिन्-'चित्रया यजेत पशुकाम' इत्यादिवाक्ये चित्रादिपदे गुणत्वनामत्वस. न्देहे सति गुणोपदेशः-गुणान्तरस्यापि श्रवणेन अनेकगुणविधानं सम्भाव्यते तस्य चित्रादिपदस्य प्रधानतः-प्रधानेन धात्वर्थेन क्रियया अभिसम्बन्धः सामानाधिकर ज्यमन्यथा वाक्यभेदःस्यात् ॥ ३ ॥ मयूखः। (१) सम्भाव्यमानवाक्यभेदाः इह ये लोके जातिगुणवचनतया निरूढाः कर्मण्य पि योगवशेन सम्भववृत्तयः 'चित्रया यजेत पशुकाम' इत्यादयस्ते उदाहणम् । (२) आदर्शपुस्तकस्थोऽयं यदुत्पत्तावित्यादिकः पाठोऽपपाठः 'यत् उत्पत्ती प्रथमत एव अपूर्वम्-अर्थान्तरवाचकत्वेन निरूढं न भवति तत् नामधेयं गुणबि. धायकत्वासम्भवात' इति तु युक्तः पाठः ।

: प्रथमाध्याये चतुर्थः पादः। (पूर्वपक्षः) 'दधि मधु घृतं पयो धाना उदकं तण्डुलास्तरसंसृष्टं प्राजापत्यम्' इति प्रजापतिदेवताकतत्तद्रव्यकयागविधिसानध्याम्नात चित्रया यजत पशुकाम इति विधौ चित्रापदं विधेयगुणलमर्पकं स्त्रीत्वान्वययोग्यतया प्राणिद्रव्यकप्रकृतिभूताग्नीषोमीययागे चित्रत्वस्नीत्वरूपगुणविधिः । तयोश्च पशुपरिच्छेदकतयैव यागाङ्गत्वम् , (१)उभयविशिष्टैककारक. विधानाच्च न वाक्यभेदः, फलनिरूपित करणत्वस्याप्राप्ततया (२)गु. णफल लम्बन्धविधिर्वा, स्त्रीत्वानुवादसम्भवान्मेषीयागे (३)चित्रत्वगुण. विधिर्वा, तदाधितचित्रत्वगुणस्य फलसम्बन्धविधिर्धा , पशुकामपदं यागोपायकामनानुवादः, प्रकृतप्राजापत्ययागसाधनधानानुवादेन(४)चि. त्वविधिर्वा, निरूढत्वान्मत्वर्थलक्षणया (५)यागान्तरविधिर्वा । एवम् 'आज्यैः स्तुवते' इत्यत्राज्यपदं धृतरूपविधेयगुणसमर्पक रथ. न्तरेण स्तुवते' 'यज्ञायज्ञीयेन स्तुवते' इति प्राप्तस्तोत्रेषु घृनविधिः, साध. नत्वं च तस्य सन्निधिस्थापनादिद्वाराभ्यन्तरादिद्वारा वा लक्षणया प्रकाशकऋविधिर्वा, रथन्तरादीनां च तन्मन्त्राभिव्यञ्जकतयैव सा. धनत्वम् , एवं च तेषा स्तोत्रसाधनतया स्तोमत्वोपपत्तेः 'पञ्चदशान्या. ज्यानि' इति पञ्चदशत्वसंख्याविध्युपपत्तिा, 'स्तोमे डविधिः पञ्चदशा- द्यर्थः' इति डप्रत्ययोपपत्तिश्च । एवं 'पृष्ठैः स्तुवते' इत्यत्र पृष्ठयावयवविधिः तत्पदं न त्रीणि त्रित. १ मयूखः। (१) ननु प्राप्तकर्मानुवादनानेकचित्रस्त्रीत्वरूपगुणविधाने वाक्यभेदः स्यादत आह उभयेति । पशुना यजेतेतिवत् प्राप्तकर्मानुवादेनापि अनेकगुणविशिष्टतृतीयोपात्तैककरण. कारकविधानसम्भवान वाक्यभेद इति भावः । (२) ननु कारकस्याप्युत्पतिवाक्यादेवावगतिः तथाच तदनुवादेन गुणद्वयविधाने. वाक्यभेदतादवस्थ्यमत आह---फलनिरूपितेति । ( ३ ) मेषीयागे स्त्रीत्वस्य प्राप्ततया चित्रत्वमात्रस्य विधाने लाघवमित्यभिप्रेत्याह- स्त्रीत्वानुवादेति । नच मेषीयागे क्लुप्तोपकारकप्रकृतकृष्णसारत्वादिगुणावरुद्धतयानारभ्याधी. तचित्रताया निवेशासम्भव इति वाच्यम् कृष्णसारंगादिविधेः चित्रत्वाश्रयतया पक्षप्राप्त ष्णसारंगादिगुणनियमार्थतया विरोधाभावेन निवेशसम्भवात् । (४) यागानुवादेनेति । प्रकृते एव 'दधिमधुपयोघृतमुदकं धानास्तण्डुलास्तसंसृष्टं प्राजापत्यमितियागे धानासु स्त्रीत्वप्राप्त्या तदनुवादेन चित्रत्वरूपगुणविधिरित्यर्थः यागस्य मुख्यस्त्रीत्वाभावेऽपि शब्दगतत्वेन स्त्रीत्वव्यवहारः सिद्धान्तिनोऽभिमतः। भा०चि०७ ५० समयूख भादृचिन्तामणौ- यस्य धारयति मन्त्रविधिर्वा, सप्तदशानि पृष्ठानीत्यत्र सप्तदशत्वविधिः पूर्ववत् । एवं 'बहिष्पवमानेन स्तुवते' इत्यत्र बहिष्पवमानयोग्यद्रव्यविधिः तस्य त्रिवृद्धहिष्पवमानमित्यत्र त्रिवृत्त्वावधिना त्रिपुटी त्रिभण्डी(१) स्वनियमः विशिष्टस्तोमवविधिति पूर्वपक्षः । (सिद्धान्तः) सिद्धान्तस्तु-अग्नीषोमीययागे गुणयविधौ(२) वाक्यभेदः, रूपलिङ्ग মালামাস্কায় প্রাধান্য ল ঘি, মাখা चित्रत्वविधिरप्यनुपस्थितनिरस्ता, धानास्वपि तविधिरकत्वविधिति विनिगमकाभावन निरस्तः । सर्वत्र पशुकामपदानुपपत्तिः३) प्राजाप त्ययागे फलान्तरकल्पनागौरव तृतीयावधिप्रकाराय निश्चयगुणफलसं. बन्धावधिस्तु सप्तमाविधिप्रकारापत्त्या निरस्तः, अतश्चित्रावाक्ये प्रा. जापत्ययागानां फले विधानम , चित्रापदम्य चित्रद्रव्यकप्रक्षेपवत्व. योगनाएपदसामानाधिकरण्यनोपपन्नं स्त्रीलिङ्गत्वम् , एवं च प्राजाप- त्ययागविधिनैकवाक्यना भवति, अन्यथा वाक्यभेदास्यादिति । एवमाज्यैः स्तुवत इन्यत्र घृनाज्यपदवन्मन्त्रान्तरासम्भवात् , प. স্বাক্ষ্য নিরুমানামমালালুঘানালাঝাৰখী ৰা क्यभेदः, न चोक्तप्रकारेण तत्सम्मवः घृतनिष्ठसंख्याविधौ मन्त्रनिष्ठसं. ख्याविधौ वायवदशपददशपदम्य घृतमन्त्रनिष्ठसंख्यामिधायकत्वेन स्तोमानष्ठसंख्याभिधायकत्वाभावेन डप्रत्ययान्तत्वानुपपत्तेश्च, अत एव सप्तदशस्तोमं भवतीत्यादिप्रयोगः अनो गुणविधिनैकवाक्यत्वोप. पत्तेः, युक्तमाज्यपदस्थाभिपयन्तेऽर्थवादप्रसिद्धयोगेन स्तोत्रनामस्वम् एवं पृष्ठपदस्य 'आपो वा ऋत्वियमार्छन तासां वायुः पृष्ठे व्यवर्तत' इत्यर्थवादप्रसिद्ध स्पर्शजन्ये च योग स्तोत्रनामत्वम् । एवं स्तोत्र. वाचित्रिवृत्पदसामानाधिकरण्येन वहिष्पवमानशब्दस्यापीति डप्र. त्ययान्तौ॥ मयूखः। (१) निरूढेति । चित्रत्वस्त्रीत्वावच्छिन्नद्रव्यविशिष्टकर्मणः फले विधानमितिभावः (२) त्रिभण्डीति । त्रिभण्ड्यरपर्यायलतावचनस्त्रिवृच्छब्दो न तु त्रैगुण्यार्थक: अतस्त्रिभण्डिद्रव्यमेव पवनक्रियाविशिष्टं विधीयते इति न्यायसुधाकृतः। (३) ननु अर्थप्राप्तसाधनीभूतपशुकामनानुवादः अग्नीषोमीययागस्य सर्वफलार्थ ज्योतिष्टोमाङ्गतया पशुरूपप्रधानफलानुवादो वा पशुकामपदमत आह प्राजापत्येति।

प्रथमाध्याये चतुर्थः पादः। ५१ नवाज्यैः स्तुवत इत्यादौ घृतपृष्ठयोः स्तोत्रजनकत्वासमवाल्मा स्त्वाज्यादिरूपगुणविधिः, किन्तु पञ्चदशान्याज्यानीत्यादौ सख्याधु ताभयकरणकभावनाविधिरस्तु, आस्तां च तयोस्त्वाष्ट्रं पानीपतमित्या दाविवान्यतराकाङ्क्षाया अरुणया पिङ्गाक्ष्येत्यादाविवोभयाकालाया अ प्रये शुचय इत्यादाविव निराकाङ्क्षयोरपि एकक्रियान्वयेनैव परस्परम न्धयः, सा च भावनास्तोत्रावान्तरप्रकरणेन स्तोत्राङ्गम् , तदुत्पत्तिश्च स्थापनाभ्यजनादिरूपक्रियाकल्पनेनोत्पत्तिवाक्ये च ताशसम्बन्धानु बादः, तेनाज्यादिपदानां विधेयगुणसमर्पकत्वमिति चेन्न-अवच्छेद- कधात्वर्थाभावेन प्रयोजकव्यापाररूपभावनाविधानासम्भवात् , आक्षे. पलभ्यभवत्यादिवाक्यसत्तायाः प्रयोज्यव्यापारतया भावनात्वाभावात् । न चात्र कारकश्रवणम् , तद्बोधककृदन्तादिपदं वा, येन भावना का रूप्येत , अत एव न स्थापनादिक्रियाकल्पनमपि, आज्यानामङ्गत्वान. बगमात् । न चाचान्तरप्रकरणेनाङ्गत्वावगमः, अध्यापारात्मकत्वेन दू. व्यस्य करणेनाविनियोगात्। न च त्रिवृत्वादिगुणानां सन्निाधरशना. अत्त्वमिवाज्यानां स्तोत्राङ्गत्वं सम्भवति, तेषां रशनोपकारकत्वस्य लो कादवगमात , आज्यानां दृष्टादृष्टान्यतरद्वारा स्तोत्रोपकारकत्वस्यान. वगमात् , तेनावच्छेदकधात्वर्थाभावेन भावनाविधानासम्भवः, अतः पञ्चदशादिवाक्ये ध्वाज्यानुवादेन पाञ्चदश्यगुणविध्युपपत्तये तस्य स्तोत्रनामत्वम् , अन्यथा-स्तोत्रानुवादेनाज्यविधौ संख्याविधौ च वा. क्यभेदापत्तिः , वाक्यभेदापेक्षया शक्तिकल्पनस्यैव लघुत्वात् , 'यदा. जिमीयुस्तदाज्यानामाज्यत्वम्' इति वाक्यशेषबोधितत्वेन शक्तिकल्पन- स्यातिलधुत्वाच्च , तस्मादाज्यैः स्तुवत इति विधिः सान्निधिपठिताग्ने यमैत्रावरुणेन्द्रन्द्राग्नत्रित्वसाध्यसोत्राणामाज्यपदं नामधेयम् , पञ्चदशा. न्याज्यानीत्यादौ चतुर्वपि पञ्चदशत्वाविधानातू , एवं च पञ्चदशादिप- दानां डप्रत्ययान्तत्वोपपत्तिः । एवं पृष्ठपदस्थापि वाक्य भेदापत्त्या स्तोत्रनामत्वमुन्नेयम् । परं त्व. प्राज्यादिवद्योगसमर्पको नार्थवादः । तथापीदं सदमेव स्तोत्रनामधेयम् । न चापो वा ऋत्वियमार्छन् तासां वायुः पृष्ठे व्यवर्ततेति वाक्यशेषः वायुस्पर्शजन्यत्वेरूपयोगबोधक इति वाच्यम् , तस्य ततो वसु वामं स- मभवत्तद्वामदेव्यमित्यादि, तस्मात्पिता वामदेव्यं पुत्राः पृष्टानीत्यन्तस्य बालाहिकपृष्ठसाधनरथन्तरादिसामसु वायुस्पर्शजन्यवामदेव्ययोयुत्प. त्तिकत्वेन पृष्ठशब्दवाच्यताबोधकतया सौमिकमाहेन्द्रादिस्तोत्रेषु श. किबोधकत्वाभावात् , तत्र च निरूढलक्षणाङ्गीकारामानेकार्थत्वामिति । , .

समयूख भाइचिन्तामणी- तत्प्रयोजनं च पृष्ठेरुपतिष्ठन्त इत्यादौ रथन्तरादिसामावाप्तिस्तद्धर्मा वाप्तिश्च स्तोत्रधर्मतृचत्वानवाप्तिश्च , अतः स्तौमिकस्तोत्रेवर्थवादबोध्या योगाभावात्पृष्ठपदं रूढमेव तच 'पृष्ठैः स्तुवत' इत्येतद्विधिसन्निधौ अभिवेतिषट्सु तृचेषु सामषट्कमाम्नातम् अभित्वेति तृचे रथन्तरं, स्वामिद्धीति तृचे बृहत् , कायान इति वामदेव्यम् , तं वो दस्मति नौधा सम्, अभि प्रवः सुराधसमिति श्यैतम्, तरोभिर्वो विदद्वसु इति कालेयम्, ता रथन्तरवृहतोर्वाचनिको विकल्पः, रथन्तरबृहधवस्थया व्यवस्थि. तनीधसश्यतयोर्विकल्पा, तत्रेष्टपदं पृष्ठपरम् । सप्तदशानि पृष्ठानीत्या. दिगुणविधिषु षट्स्वपि प्रयुक्तमपि न मुख्यम् , किन्तु-रथन्तरबृहत्सा. मसाध्यस्तोत्रा एव मुख्यम् , इतरेषु छत्रिपदवद्वोणम् , अन्यथा साप्त. मिकसर्वपृष्टाधिकरणविरोधः, तत्र हि विश्वजित्सर्वपृष्ठो भवतीत्यत्रा सर्वशब्दस्यानेकसापेक्षतया आतिदेशिक पृष्ठद्वयानुवादासम्भवात्, षा. डहिकपृष्ठस्तोत्रालाधनसामविधिः सिद्धान्तितः, अत: पृष्ठपदं द्वयोरेव मुख्यम् , अन्यत्र गौणमिति पार्थसारथिः, राणकोऽप्येवं परन्तु तन्मते 'रथन्तरं पृष्ठं भवति बृहत्पृष्ठं भवति' इति नोत्पत्तिवाक्ये किन्तु पृष्ठैः स्तुवत इत्येव पाशानितिवत् अविव. क्षितबहुत्वकं पृष्ठोत्पत्तिवाक्यम् , तेनैकमेव पृष्ठं लाघवात् , बृह- द्रथन्तरवाक्ययोस्तु विशिष्टविधिौरवापत्तेः साधनविधिः, तयो स्तु द्वारभेदेन समुच्चयापत्तर्विकल्पविधिः, एवं च पृष्ठस्तोत्रस्यैक्येन सर्वपृष्ठशब्देनानुवादासम्भबालाहिकपृष्ठविध्युपपत्तिरित्याह । अन्ये तु पृष्ठशब्दः षट्स्वपि मुख्यः साप्तदश्यादिविधौ पृष्ठशब्देन प्रकृती सर्वेषामनुवादात् , विकृतावपि वैरुप्यम् . मैत्रावरुणस्य पृष्ठे शाक्वरमच्छावाकस्येत्यनुवादाच्च , न च तत्र लक्षणा मानाभावात् । न चैवं विकृतौ वैराजं पृष्ठं भवतीत्यादौ चतुर्वपि वैराजनिवेशापत्तिः स्यादिति वाच्यम् , यत्र पृष्ठशब्देनानुवादो यत्र वा बहुब्रीहन्तसाम- शब्दप्रयोगः, तत्र रथन्तरवृहत्साध्यपृष्ठनिवेशाङ्गीकारात, रथन्तरं पृष्ठं भवति यदि रथन्तरसामा वृहस्सामेत्यादिनिर्देशतुल्यतया तदुप. पृष्ठैः स्तुवत इत्यनेन स्तोत्रप्राप्तः, सन्निधिना तृचानां सा. मान्यविधिना च साम्नः प्राप्तेरनन्यप्रयोजनकं रथन्तरपृष्ठं भवतीत्या. देरेतन्मात्रप्रयोजनकत्वात , अत एव कौत्सं भवति काण्वं भवतीत्यादौ कौत्सकाण्वादीनां स्तोत्रान्तरे निवेशो न पृष्ठसाधनत्वम् , न च सवैपृ. छाधिकरणानुपपत्तिः, सर्वपृष्ठ इत्यनुवादानर्थक्यस्यैव तत्र बीजत्त्वात् । स्थित , १ प्रथमाध्याये चतुथः पादः। S तेन सर्वेष्वपि पृष्टपदं मुख्यमित्याहुः- एवं बहिष्पवमानशब्दस्यापि , तत्रापि त्रिवृद्वहिष्पवमानमिति वा- क्ये त्रिवृत्पदवाच्यस्तोमस्य वहिरूपवमानवाच्यत्रिभिण्ड्यादेश्च विधौ वाक्यभेदात्। केचितु-वहिष्पवमानपदं यौगिकत्वादिह नोदाहरणम् किन्तु मत्व. थलक्षणापत्या तन्नामत्वस्योद्भिदधिकरणविषयत्वमित्याहुः ॥ यस्मिन्-चित्रादिशब्दयुक्त वाक्ये वाक्यभेदापादकस्य गुणस्योप- देशः तत्रा प्रधाने कर्मणि अभिलम्बन्धः नामधेयत्वमिति सूत्रार्थः । (२) तत्प्रख्याधिकरणम् । तत्प्रख्यं चान्यशास्त्रम् ॥ ४ ॥ प्रभा तत्प्रख्यम्-तस्य विधिसितस्य अग्न्यादिरूपस्य गुणस्य प्रख्या प्राप्तियस्मात् ताशम् अन्यशास्त्रम्-शास्त्रान्तरम् 'अमिज्योतिरित्यादिकं यत्र अमिहोत्रं जुहोती. त्यादौ वर्तते तत्रामिहोत्रादिपदं कर्मनामधेयं च-एव नतु अग्न्यादिगुणप्रापकम् ॥४॥ (पूर्वपक्षः) अथाग्निहोत्रं (१)जुहोत्याघारमाघारयतीति गुणविधिः, अग्नये होत्रं हूयमानद्रव्यमस्मिन्निति बहुव्रीहिलमासेनाग्निरूपदेवताविधिः , स च दर्विहोमेषु विशिष्टविधिर्वा लक्षणाननुगतस्यापि(२) समासस्याग त्याश्रयणात् । मयूखः। (1) इह ये रूढाः यौगिकाश्च सम्भावितविधित्सितगुणकाः शब्दास्ते उदाहरणम् । पूर्वाधिकरणोकवाक्यभेदात्मकगुणविधित्वनिराकारणहेतोरत्राभावेन पूर्वपक्षोत्थानात्प्रत्यु. दाहरणसङ्गतिरत्र । न च तद्यपदेशाधिकरणस्यापि प्रत्युदाहरणत्वाविशेषात चित्राधि. करणानन्तरमारम्भप्रसङ्गः इति वाच्यम् यस्य यस्य यत्र सङ्गतिः तस्य तत्य तत्रा- भिधानमिति न नियमः सम्भवति अपि तु यत्र यदभिधीयत तत्र तस्य सङ्गतिरावश्यिकी इत्येवेति चित्राधिकरणस्याभिधीयमानस्य सङ्गतिसत्वेन तथोक्तः । नुन उभयोः सङ्गति. सत्वे तदेव कुतो नोकमिति चेत् अशोकवनिकान्यायेनेति गृहाण । (२) लक्षणाननुगतस्येति । ननु जुहोतेरोणादिके कर्मणि बन्प्रत्यये कृते होत्र. शब्दनिष्पल्या तस्य द्रव्यवचनत्वात् अग्निहोत्रं यस्मिन्नितिसमानाधिकरणबहुव्रीयसम्भवः भनौ हौत्रमस्मिन्निति व्यधिकरणबहुव्रीहेः सप्तमीविशेषणे बहुवीहाविति कण्ठेकाल इति वस्कथं चित् संभवेऽपि अग्न्याख्यस्याधिकरणस्य यदमये जुहोति इत्यनेनैव प्राप्तेरविधीय- ५४ समयूख भादृचिन्तामणी- एवमाघारशब्दोऽपि कर्मव्युत्पत्या क्षारणसमर्थघृतादिद्रव्यपरः , न स्वाधारणमाघार इति भावव्युत्पत्या धात्वर्थपरः , प्रवृत्तिनिमित्तभेदा. भावेन नामत्वानुपपत्तेः(१), तस्याघारणरूपधात्वर्थसंस्कार्यत्वेनावगतः स्य विनियोगाभावेन तदसम्भवाद्विनियोगो द्रव्यसापेक्षे उपांशुयाजादौ कल्प्यते अनेन च सामान्यतः क्षारणसमर्थद्रव्यमाने विहिते विशेषप. रेण ध्रौववाक्येनोपसंहारःप्रयोजनं त्वभ्युदयशिरस्कत्वम्, इन्द्र ऊोs वर' इत्याघारयतीत्यनेनाधार मन्त्रः साधनतया विधीयते न तु देवता विधिः, तद्विधित्वेऽप्याश्रयिकर्मत्वोपपत्तिश्चतुर्ग्रहीतं वेति वचसि क्षार णान्तरविधिः वस्तुतः संस्कार्यत्वमा न विनियोगकल्पकम् सक्तुष्वपि तदापत्तेः द्रव्यस्य प्रकरणेन विनियोगोऽप्यसम्भवीति, तथापि विशिष्ट बिधितया पूर्वपक्षो द्रष्टव्यः । एवं चोभयत्र द्वितीयासंयोगे उपपद्यत अन्यथाधात्वर्थावाचित्वे त. स्य विधेयतया करणत्वेनान्वयेन तृतीयान्ततापत्तिः, न च तवाच्या घारशब्दस्य करणद्रव्यवाचित्वात्तदापत्तिः, एतस्याघारस्य देवतासंयो. गेन होमतया तृतीया च होश्छन्दसीति द्वितीयाया अपि करणत्वेऽनुः शासनात्, अस्मिश्च पक्षे चतुर्ग्रहीतक्यविहितसाधारणं ज्यसंस्कारः, इदं तु होमरूपपयःप्रभृतिकरणककनुवसाधनकमारादुप कारकमिति पूर्वः पक्षः॥ सिद्धान्तः) सिद्धान्तस्तु-विधित्सितगुणप्रापकशास्त्रान्तरसद्भावेन तद्विध्यानर्थ: क्यापत्तीमत्वम् , प्रापकशास्त्रान्तरं तु-अग्निज्योतिज्योतिरनिः स्वा हेति सायं जुहोति सूर्यो ज्योतियोतिः सूर्यः स्वाहेति प्रातरिति मन्त्र- विनियोगविधिः मन्त्रप्रकाश्यदेवताया होमसंबन्धं विना मन्त्रस्य कर• णत्वानुपपत्तेः, तत्राप्याग्नेयनयेनोपभृथनयेन बहुविषयकस्यैव विधायक स्वाचित्यान्मिश्रलिङ्गयोरेव प्रापकत्वमिति केचित् , प्रयाजा. मयूखः। मानत्वेन आश्रयणासम्भवः यश्चाश्रयितुं युक्तः अग्नये होत्रमस्मिन्निति चतुर्थीबहुप्रीहिः सच समासविधायकशास्त्राभावेन लक्षणाननुगतः अत आह-लक्षणाननुगतस्यापीति । दृष्टानुविधिश्छन्दसि भवतीत्याश्रित्य अगत्या चतुर्थीबहुव्रीह्याश्रयणमिति भावः । (१) नामत्वानुपपत्तेरिति । प्रवृत्तिनिमित्तभेदाभावेन उद्भिदादिवैषम्यान्नामत्वानुपप. तिरिति भावः । अत एव न तदधिकरणेन गतार्थतेति भावः ।

प्रथमाध्याये चतुर्थः पादः। तत्र प्रातामेऽनेदेवतात्वापत्तिः केवललिङ्गकमन्त्रवर्णविरोधश्च वि. भाषनीयः। तेन विधिनियुक्तयोमिश्रलिङ्गयोर्गौणवृत्त्यान्यतरप्रकाशक स्वाङ्गीकारात् , केवललिङ्गयोरेव प्रापकत्वमुचितम् , यदग्नये च प्रजाप तये च सायं जुहोति यत्सूर्याय च प्रजापतये च प्रातरिति वाक्यं सायं कालादिति भिन्न होमोहेशेन प्रजापतिविधिः, अग्नेः पूर्वाहुतिः प्रजापते. रुत्तरेति क्रमविध्यन्यथानुपपत्तिप्राप्तसमुच्चयानुवादकश्चकारः, निमिः चसम्बन्धफलं तु कौण्डपायिनामग्निहोत्र उपसदुत्तरकालीने निमि- ताभावेन प्रजापत्याहुतिनिवृत्तिः । एतेन विधिसमाभिव्याहृतचतुर्थी. प्राप्तदेवताकेन मान्नवर्णिकदेवताप्राप्तिसम्भवः, मन्त्रायोरेन्द्रीवगौणता. कल्पनादित्यपास्नमित मिश्राः । হাস-ম্বই ছানি অাইল নাম্যাব, ল ল আযম, আম্ব समुच्चयावशिष्टप्रजापतिविधानात , चादिानपातोपसर्गार्थानां समु. श्वया नामकारकतया साक्षाद्भावनान्वयाभावेन समाभिव्याहतपदा. विशेषणत्वव्युत्पत्ते, पदान्तरार्थस्यापि चार्थाद्यन्वयं विना भावना. विशेषणत्वायोगाच, यदि च निपातोपसर्गाणां द्योतकत्वं, तदा प्रजा. पतिपदलक्षिताग्निसाहित्यविशिष्टप्रजापतिविधानान वाक्यभेदशङ्कापि, न चैवं व्यासज्य देवतात्वापत्ति, चतुर्थीद्वयन निरपेक्षयोरेव देवतात्वबो. धात् , ऋग्विधानाच्च , अतो यदग्नये चेति वाक्यभेदेन देवताप्राप्तिमाह । दर्विहोमादिष्वपि मान्त्रवर्णिकदेवताप्राप्त्यैव न विधिः । एवं भिन्ने जुहोतीत्यादिष्वपि विशिष्टबिधिस्तु गौरवादेवायुक्तः। अतोनामत्वम् । एवमाघारवाक्यविहितकर्मणे चतुर्ग्रहीतवाक्येन क्षारणयोग्यजौ. हवरूपद्रव्यविधानान्मान्त्रवार्णिकेन्द्रदेवताकत्वेन यागरूपस्यानर्थक्याप. त्याघारपदं नामधेयं न जोहवस्याघारसंस्कार्यतया गुणत्वमिति वाच्यम् । संस्कार्यस्यापि जनकतया गुणत्वात् , नियमविधिला. घवेन संस्कार्यतयान्वयायोगाल्लक्षणया करणीभूतद्रव्याविधिः । तेन न संस्कारकत्वमित्यन्ये । अत एव सान्नाय्ययागेनेन्द्रसंस्कारत्वम् , इन्द्रमहेन्द्रयोर्वैकल्पिक त्वेन नित्यानित्यसंयोगविरोधाच्च , अतो नामधेयम् । द्वितीया त्वर्था क्षिप्तसाध्यात्मसमानाधिकरणकत्वे लाक्षणिकी साध्यत्वनिष्ठस्य वा कर णताबाधः , एवं साध्येनाग्निहोत्रणेति बोधः' तत्प्रख्यं विधेयगुणप्राप- कशास्त्रान्तरवत्पदं कर्मनाधेयमित्यर्थः । - समयूख भादृचिन्तामणौ- (४) तद्वपदेशाधिकरणम् । तयपदेशं च ५ ॥ प्रभा तस्य विधित्सितस्य श्येनादिरूपस्य गुणस्य व्यपदेशः उपमानोपमेयभावनिर्देशो यत्र वाक्ये तत् तद्वयपदेश 'यथा वै श्येनः' इत्यादि वाक्यं यत्र वर्तते तत्रापि 'श्येने. नाभिचरन्यजेत' इत्यादौ विधिस्सिगुणवाचकत्वेनाभिमतयेनादिपदं कर्मनामधेयम् अत्र वाच्ये श्येनपदस्य गुणपरत्वे भेदगर्भ उपमानोपमेयभावो नोपपद्यत कर्मनामत्वे श्येनपक्षि. णः श्येनयागेन उपमानोपमेयभावः उपपद्यत इति भावः॥५॥ (पूर्वपक्षः) श्येनानाभिचरन् यजेत गवाभिचरन् यजेतेति श्येनादिशब्दो गुण. विधिः कर्मनामेति चिन्ता, तत्र बढत्वात्सोमादिपदवद्गुणविधिः रिति चेन्न (सिद्धान्तः) 'यथा वैश्येनो निपत्यादत्ते एवमयं भ्रातृव्यं निपत्यादत्त' इति की. तितश्येनसाम्येन स्तुत्यनुपपत्तिः, अभेदे सादृश्यानुपपत्ते, उपमाना. न्तराभावरूपानन्वयोऽपि लक्षणापत्त्यैव निरस्तः, एवं समानमितर. च्छयेनेनेति श्येनस्योपमानत्वानुपपत्तिश्च, न चोपक्रमस्थवैधश्येनपदे निरूढगौण्यगीकारादुपसंहारस्थार्थवादिकोपमावाचकयथातथादिपदे लक्षणोचितेति वाच्यम् , एकपदलक्षणाया अनेकपदलक्षणातो लघु. स्वात् , उपक्रमन्यायस्य तुल्यत्वविषयकत्वात् , तेन मुख्येऽपि श्येन पदेऽर्थवादोऽस्तु सादृश्येन गौणी न्याय्येति , अतो विधीयमानगुणव्य. पदेशानुरोधेन नामधेयत्वम् । एवं यथा वै सन्दंशेन तद्दुरादानमादत्ते, यथा गावो गोपायन्तीत्या. थवादिकव्यक्त्युपदेशवशेन सन्दंशगोशब्दयो मत्वम् ॥ (५)वाजपेयाधिकरणम् । नामधेये गुणश्रुतेः स्थाविधानमिति चेत् तुल्यत्वा- किया ॥ ६ ॥ एकशब्दे परार्थवत् ।।७।। प्रभा। 'वाजपेयेन स्वराज्यकामो यजेत' इत्यादौ नामधेये नामत्वेनाभिमते वाजपेयादि- पदे वाजम् अन्नं पेयं यस्मिन्नितिव्युत्पत्या गुणश्रुतेः यावाग्वादिरूपस्य गुणस्य श्रवणात् तस्यैव विधानं यागक्रियायां स्यादिति चेत् न क्रिययोः इष्टिवाजपयेयोः तुल्यस्वा.

प्रथमाध्याये चतुर्थः पादः। ५७ तु अन्नद्रव्यकतया तौल्यप्रसङ्गात् नचेष्टापत्तिस्तथासति द्रव्यघटितसादृश्येनैष्टिकविध्यन्त. प्राप्ती 'सप्तदशदीक्षो वाजपेय' इति सौमिकविध्यन्तानुवादलिङ्गदर्शनमनुपपन्नं स्यात् ॥६॥ किञ्च एकशब्दे-एकस्मिन्नाख्यातरूपे शब्दे यदा ऐकशब्द्ये इतिपाठस्तदा एकः शब्दः उच्चारण यस्य यजेः स एकशब्दः तस्य भावः ऐकशब्छ तस्मिन्निति उक्त एवार्थः । गुणफलोभयान्वितार्थपरे स्वीक्रियमाणे तत् आख्यातपदं फलोद्देशेन स्वार्थस्य यागस्य विधा. नपरमिव परार्थवत् स्वार्थोद्दश्येन परार्थस्य गुणस्य विधायकमपि स्यादिति वाक्यभेदो विरुद्धत्रिकद्वयापत्तिा स्यादित्यर्थः ॥ ७॥ ( पूर्वपक्षः) मन्वस्तु वाक्यमेदतत्प्रख्यतव्यपदेशै मत्वम्, अत एवाथैष ज्यो. तिरित्यादौ ज्योतिरादिपदवाच्यगुणानां प्रथमान्तपदार्थानां यजतिस. मभिव्याहाराभावेन तदङ्गत्वेन विध्ययोगादेतेनेति धाक्यगतैतच्छब्देनोप. स्थितानांगुणानां सहस्रदक्षिणगुणस्यापि च विधौ वाक्यभेदापत्यैव(१) ज्योतिरादिपदानां नामत्वम्, 'आज्यैः स्तुवत' इत्यत्रापि तत्प्रकाशकमन्त्र- लक्षणापत्या नामत्वं मत्वर्थलक्षणापत्त्या नामत्वं तुन मृष्यामः, उद्भिदा बजेतेत्यादौ वाजपेयेन स्वाराज्यकामो यजेतेत्यादौ चोपपदार्थानां धा. त्वर्थान्वयाङ्गीकारण(२) भावनाकरणद्वयान्वयासम्भवकृतमत्वर्थलक्ष. णायोगात् , तथा हि-दध्यादीनां सर्वकारकाणां कृतिरूपमावनाजनक- स्वासम्भवात्तदन्वयासम्भवेन धात्वर्थ एवान्वयः, धात्वर्थस्यापि भावना. वक्रियारूपतयैवाभिधानं न कारकतया, अतो न कर्मत्वकरणत्वादिकृतं वैरूप्यम् , अत एव न तस्य(३) भावनायां कारकत्वेनान्वयः, किन्तु- मयूखः। (१) वाक्यभेदापत्यैवेति । अयं भावः 'अथैष ज्योतिः' इत्यादौ प्रथमान्तज्योति- रादिपदप्रतिपाद्यद्रव्यस्य यजतिपदसमभिव्याहारामावेन यागातया विधानासम्भव इति 'एतेन सहस्रदक्षिणेन यजेत' इति वाक्यघटकैतच्छब्देन ज्योतिरादिपदोपनीता गुणा ज्योति. टोमयागानुवादेन विधीयेरंस्तदा एतच्छन्दपरामृष्टगुणानां सहनदक्षिणायाश्च प्राप्तकर्मानुवा देन विधाने वाक्यभेदास्यादिति चित्रान्यायेन ज्योतिरादिपदानां नामस्वमिति । (२) धात्वर्थेति । अयमाशयः यदि धात्वर्थस्य यागस्य करणत्वमभ्युपगम्येत तदा गुनस्यापि करणत्वात् करणयोरन्वयो न भवेदिति तदर्थ मत्वर्थलक्षणाऽवश्यमभ्युपगन्तव्या स्यान्न चैवमस्ति यागस्य करणत्वप्रतिपादकशब्दाभावादिति यागस्य क्रियारूपत्वाशीका रात् तत्र कारकाणामन्वयसम्भवात् इति । (३) तस्य-धास्वर्थस्य । यदाहुपादाः 'सम्बन्धमात्रमुकं च श्रुत्या धात्वर्थभा. वयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते' इति । भा०चि०६ समयूख भादृचिन्तामणी- on- सम्बन्धलामान्येन, न च क्रियारूपायां भावनायां कारकातिरिक्तस्था. न्वयो नेति वाच्यम् , एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा' इत्यादी क्रियाद्वयस्यापि पूर्वकालत्वादिसम्बन्धेनान्वयदर्शनात् ॥ यद्वा-अस्तु कारकाणां भावनान्वयः प्रधानान्वयसम्भवात् , धात्वर्थ. स्य(१) सम्बन्धित्वेनैवान्वयः, एवं च वस्तुतः कर्मकरणत्वोमयरूपत्वे. ऽपि शब्देन युगपत्प्रतीत्यभावान वैरूप्यम् , अतो धात्वर्थस्य करणत्वे. नान्वयाभावान्न मत्वर्थलक्षणापत्तिरिति गुणविधित्वमस्त्विति चेन्न- (सिद्धान्तः) पचतीत्यादितः पाकं करोति पाकेनोदनं करोतीत्याद्यनुभवेन धास्वर्थ- स्थ सम्बन्धसामान्येन(२)भावनान्वयासम्भवात्प्रधानान्वयबाधकमाना. भावन कारकाणांधात्वर्थान्वयासंभवाञ्च, अतो यत्र प्रधानभूता भावना पचति यजतीत्यादौ यत्र वा पक्ता पाचक इत्यादावितरविशेषणभूता तत्रापि भावनायामेव कारकाणामन्वयः, धात्वर्थस्य विधिसमभिव्याहारे करणत्वेन तदभावे पुमर्थत्वावगतौ च कर्मत्वेन भावनान्वया, तस्य फल. निरूपितमेव करणत्वं गुणनिरूपितमेव कर्मत्वम् योग्यत्वादिति अ. न्यतरान्वयः स्यात् , उभयरूपत्वं युगपद्बोधे विरुद्धम् , क्रमिकबो. धद्वये त्वावृत्तिरिति वाक्यभेदा, विरुद्धत्रिकद्वयं च । तथा हि- फलान्वयवेलायां यागस्य करणत्वविधेयत्वोपादेयत्वानि, गुणा. न्वयवेलायां कर्मत्वानुवाद्यत्वोहेश्यत्वानि, अत्र कर्मत्वकरणत्वयोः स्पष्टो विरोधः, अज्ञातज्ञापनरूपविधेयत्वस्य ज्ञातज्ञापनरूपानुवाद्यत्वेन वि. रोधः, समवाय साध्यत्वेनाव्यापारितान्यतरसम्बन्धन प्रकृतभावनान्य यित्वे सति प्रकृतविधिप्रयोज्यत्वरूपस्योपादेयत्वस्य एतदन्यवि. षयत्वसम्बन्धेन भावनासम्बन्धित्वे सति प्रकृतविध्यप्रयोज्यत्वरूपस्यो. हेश्यत्वस्य च स्पष्टो विरोधः । कृतिविषयाश्रयान्यतरत्वमुपादेयत्वं त. 4200 मयूखः। (१) धात्वर्थस्येति । तथाच वाजपेय करणिका पागसम्बन्धिनी भावनेति बोधः । कमत्वकरणत्वोभयरूपत्वेऽपीति। वाजपेयेन यागं भावयेत् । यागेन च स्वर्ग भावयेत् इत्य. द्यागस्योभयरूपत्वं पर्यवसाने यद्यपि लभ्यते तथापि शब्दो युगपन्न प्रतीयते इति गुणादि. निरूपितकर्मत्वस्य फलनिरूपितकरणत्वस्य च यागे सत्वेऽपि न वैरूप्यमिति भावः । (२) भावनान्वयासम्भवादिति । किन्तु धात्वर्थस्य कर्मत्वकरणत्वान्यतरकारकत्वेनै वान्वयो भावनायामित्यर्थः । प्रधानान्वयेति 'न हि भिक्षुक' इति न्यायेन प्रधानभावनाया. मेव कारकाणामन्वयो न धात्वर्थ इति भावः ।

प्रथमाध्याय चतुर्थः पादः। ५९ दन्यत्वमुद्देश्यत्वम् । अतः कर्तुरुपादेयत्वं तदेकत्वस्यानुपादेयत्वमित्याहुः॥ केचितु-कृतिसमवायाघाटतसम्बन्धेन(१) प्रकृतभावनान्वयित्वे सति प्रकृतविध्यप्रयोज्यत्वमुद्देश्यत्वं तदन्यत्वमुपादेयत्वमिति विरोधमाहुः । इदं चोपपादितं पुरस्तात् । तेन श्रूयमाणस्य यजेयुगपत्क्रमेण चोभयपरत्वायोगाच्छ्रय- माणविधेरन्यतरपरत्वमभ्युपेत्यान्यतरस्यार्थिकत्वेऽभ्युपेयेऽपेक्षितयो ग्यत्वाभ्यां करणत्वस्यैव शाब्दत्वमिति गुणान्वयार्थमावश्यकी मत्वर्थलक्षणेति तत्परिहारायोद्भिदादिपदानां नामत्वमङ्गीर्कतव्यम् , वाजपेयपदे त्वयं विशेष:-वाजपेयं सुरा द्रव्यामिति तत्पुरुषप्रति. पादितसुराद्रव्यविधावौषधद्रव्यत्वेन द्रव्यसामान्यवलीयस्त्वेनेष्टि. कविध्यन्तप्राप्तेः, सप्तदशदीक्षो वाजपेय इति दीक्षानुवादानुपप. त्तिः, एवं चानुवादानुपपत्तेमत्वर्थलक्षणामयेन च बहुवीहिमाश्रित्य कर्मपरो वाजपेयशब्दः, यद्यपि सुराग्रहाणां साक्षान्न कर्मसम्बन्धः, तथापि सुराग्रहानुकम्पनाङ्गकत्वरूपसम्बन्धसत्वातद्वाच्यत्वोपपत्ति रिति सिद्धं नामत्वम् । (६) आमेयादीनामनामधेयताधिकरणम् । तद्गुणाश्च विधीयेरन्न चेदन्येन शिष्टाः ॥८॥ 'यदानेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इत्यादावामेय- पदं न कर्मधेयम् अपि तु तद्गुणास्तु स च गुणाश्च तद्गुणाः यागः अग्न्यादिरूपगु. णाश्च तद्गुणाश्च इति पाठे तु तत् कर्म गुणाः अग्न्यादिरूपगुणाः इति सरलोऽर्थः । विधीयेरन् विधानार्थे विधेये तत्तद्गुणविशिष्टतत्तत्प्रधानरूपे अविभागात् विशिष्टस्यैकत्वेन विधेयभेदप्रयुक्तवाक्यभेदाप्रसक्त ते गुणाः चेत् अन्येन वाक्यान्तरण न शिष्टाः न विहिताः विशिष्टघटकस्य विशेष्यस्य विशेषणस्य का यत्रान्यतः प्राप्तिरस्ति तत्र न विशिष्टविधानं सम्भवति इति भावः ॥८॥ 1 प्रभा नामत्वापवादः क्रियते, नन्धेवमाग्नेयोऽष्टाकपालो भवतीत्याग्ने. मयूखः (1) केचित्तु 'कृतिसमवायाघटितसम्बन्धेन प्रकृतभावनान्वयित्वे सति प्रकृत- विधिप्रयुक्त्यविषयत्वमुद्देश्यत्वम् । तदभावश्चोपादेयत्वम् । स्वर्गादिरूपफले, प्रात. रादिरूपे काले, सरस्वतीदक्षिणतीरादिरूपे देशे, राहूपरागादिरूपे निमित्ते च उद्देश्यत्वं तेषां यथोककर्मतासम्बन्धेन भावनासम्बन्धिनां कृतिविषयवाभावेन प्रकृतविध्यप्रयुक्त. त्वात् , इति कौस्तुभे परिष्कृतोऽयमर्थः।

६० समयूख भाइचिन्तामणौ- यशब्दो नामधेयम् । अत्राप्राप्तार्थकत्वाद्विधिभावनां(१) च प्रकल्प्य वि. नियोगभङ्गेनाष्टाकपालकरणकभावनायामग्नरपि देवतात्वेन विधौ वा. क्यभेदात् मानान्तरप्राप्तत्वाचा, तत्प्रख्यनयेन नामधेयं क्रमविनियुक्ता ग्निर्मू/ति मन्त्रेण(२) प्राप्तिरिति केचित् , न चात्र(३) ब्राह्मणमन्त्र पाठक्र. मयोलक्षण्येनक्रमो नास्तीति वाच्यम्, 'शिरो वा एतद्यज्ञस्य यदाग्नेयो हृदयमुपांशुयाजः पादावग्नीषोमीयः' इति वाक्यकल्प्यपूर्वानुष्ठानविधि- नानुष्ठानलादेश्येन तत्प्राप्तिसम्भवात् , एतद्वाक्यशेषे अग्नये घ्रियस्वेति चतुर्थ्या तत्प्राप्तिरित्यन्ये । अत आग्नेयपदं पुरोडाशकरणकभावनाया नामधेयम् , विधेयभाव. नावच्छेदकीभूतानिर्धारितविशेषधात्वर्थसामान्यस्यैव, ज्योतिगौरायुः रित्यादौ ज्योतिरादिपवत् । नामधेयप्रयोजनं(४) चाग्नेयं चतुर्धा करोतीत्यादौ कर्मण आवृत्तिः, आग्नेयमाज्यामित्यादौ नामातिदेशः। मयूखः। ७ । (१) विधिभावनामिति । यद्यपि भवतिः सत्तावचन इति विधेर्भावनायास्तदवच्छे. दयोग्यधात्वर्थस्य वा नोपादानं तथापि अप्राप्तार्थत्वाद्विधि प्रकल्प्य तस्य भूधातोश्च भाव. नां विनानुपपन्नत्वात् भावना भवतिनाक्षिप्यते तत्र च सक्तू होतीतिवदष्टाकपालस्य करणत्वेनान्वयः, अनीसितत्वेन कर्मत्वेनान्वयायोगात् , प्रथमान्तस्य तत्रान्वयासम्भ- वाञ्चेति भावः। (२) मन्त्रेण प्राप्तिरिति । 'अनिर्मूर्धा' इति याज्यानुवाक्यायुगलस्य स्थानेन अष्टा- कपालभावनाङ्गत्वावगतरुपांशुयाजवदेवतालक्षकत्वमिति अमेः प्राप्तिरित्यर्थः । (३) अमीषोमीययागस्तैत्तरीयब्राह्मणे पञ्चमप्रपाठके द्वितीयानुवाके 'ताभ्यामे. तममाषामायमेकादशकपालं पूर्णमासे प्रायच्छत्' इति पठितः आमेयस्तु षष्टप्रपाठके तृतीयानुवाके 'यदामेयोऽधाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इति पठितः मन्त्रपाठस्य तु वैपरीत्यमिति कथमानमूर्धति मन्त्रस्यानेन यगाङ्गत्वनिर्णय इत्याश- येन शङ्कते न चेति । पूर्वानुष्ठानेति । स्वस्थानादपकृष्य पूर्वमानेयस्यानुष्ठानमिति अनु. छानसादेश्यलक्षणस्थानक्रमात आमेयानत्वनिर्णयः इति भावः । (४) भवदेवमतेन नामस्वप्रयोजनमाह-आमेयं चतुर्धेति । ननु उत्पत्तिवाक्य- गतस्यामेयपदस्य नामत्वेऽपि चतुर्षाकरणवाक्यगतस्य तस्य पुरोडाशं चतुर्धा करोति' इति वाक्यान्तरानुसारेण आमिदेवतोपलक्षितपुरोडाशपरत्वात् तस्यैव विभागरूपचतुर्धाक. रणविधिप्रतीतिः कर्मण आवृत्तिन प्रयोजनमित्यपरितोषादाह-आमेयमाज्यामिति । 'आ. मेयमाज्यम्' 'ऐन्द्रः पुरोडाशः' इत्यादौ द्रव्यसादृश्यबलेन उपांशुयाजामेयविष्यन्ते प्रसके नामातिदेशबलेन आग्नेयसान्नाय्यविध्यन्तप्राप्तिः प्रयोजनमिति भावः ।

प्रथमाध्याये चतुर्थः पादः। ६१ एतेन(१) विशिष्टविध्युपादानार्थमिदमधिकरणं न नामत्वनिराला. र्थम् । नामप्रयोजनाभावादिति परास्तम् , अत अग्नेयादिपदानां नाम- त्वमिति चेन्न- (सिद्धान्त:) भवत्यर्थकर्तुः करोति(२) कर्मत्वनियेमनाष्टाकपालस्य कर्मत्वात्त. ज्जनकव्यापारे मन्त्रप्रकाश्याग्नेर्देवतात्वेनान्वयायोगेन भावनावच्छे दकयागकल्पनानुपपत्तेः, याज्यानुवाक्येसमाख्यासहकृतलिङ्गन स्था. नबाधेन मन्त्रोत्कर्षापचेश्च, आधारे वितिकरणेन मन्त्रविनियोगाद्वै. षम्यम् , अत आग्नेयपदं विधेयगुणसमर्पकम् , अत्राप्रातत्वेन तिपो लेट्त्वं परिकल्प्य लेट्त्वेनाभिधेयभावनायामष्टाकपालद्रव्यस्याग्नेर्देवता. त्वेनान्वयात्सकलकारकविशिष्टाक्षिप्तयत्किञ्चिद्धात्वर्थावच्छिन्नेष्टसामा. न्यभाव्यकभावनाविध्युत्तरं यागं विना हविः समभिव्याहृतदेवतात्वस्या. निर्वाहाद्यागरूपत्वेनास्यानुमितस्यापि यागस्य शाब्दत्वसिद्धये भूधातौ लक्षणाऽऽश्रीयते, अत एवैन्द्रवायवादिवाक्यैर्यागानुमानेऽपि सोमेन यजेतेति यागविधिरर्थवान् , एवं चात्रानेकगुणविशिष्टभावनाविधान. मिति गुणविधिराग्नेयपदम् । (७) बर्हिरादिशब्दानां जातिवाचिताधिकरणम् । बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥९॥ असंस्कारे संस्काराभावेऽपि बर्हिराज्ययोः लौकिकयोरपि शब्दलाभात् 'ब. हिरादाय गावो गताः' 'आज्यं ऋय्यम्' इत्यादौ बर्हिरादौ शब्दप्रयोगदर्शनात बहिरादिः अतच्छब्दः न संस्कारनिमित्तकः किन्तु जातिवाची ॥९॥ (संशयः) प्रसङ्गाद(३) बर्हिराज्यपुरोडाशशब्दानां संस्कारवाचित्वं जातिवा चित्वं वेति चिन्ता। प्रभा। मयूखः। (१) न्यायसुधाकृतस्तु प्राप्तेः प्रयोजनस्य चाभावने नामावपूर्वपक्षो न युक्तः किन्तु विशिष्टविष्यसम्भवः पूर्वपक्षे, तदुपपादनं च सिद्धान्त इत्येवाधिकरणशरीरामित्याहुस्तद् दूष- यति एतेनेति । विशिष्टविधिव्युत्पादनस्य प्रस्तुतनामघयत्वविचारनुपयुक्तत्वेनासङ्गतत्वमपि दोष इति ध्येयम् । (२) कर्मत्वनियमेनेति । 'भवत्यर्थस्य यः कर्ता करोतः कर्म जायते' इति हि न्यायशरीरम् । (३)प्रमादिति । आयेऽधिकरणे गुणविधित्वनामत्वान्यतरप्रकारेण सर्वेषामुपप- ।

६२ समयूख भादृचिन्तामणौ- (पूर्वपक्षः) न चाज्यमुत्पुनाति बर्हिर्जुनाति पुरोडाशं प्रथयतीत्यादिविधिषु सिद्धबर्हिषि संस्कारविधानं, संस्कारवाचित्वेऽन्योन्याश्रयापत्त्या नुपपन्नमिति(१) वाच्यम् । यूपाहवनीयादिवाक्य इव विपरीतवाक्या. ङ्गिीकारेण(२)पूर्वकरणात् तत्र शास्त्रस्था चेति नयेनाभियुक्तयाजि. कप्रसिद्ध्या संस्कारवाचित्वे(३) प्राप्ते, (सिद्धान्तः) संस्कारविशिष्टे शक्तौ गौरवाद्विशेषणीभूततत्संस्कारमाने शक्तावत. जातिमति ताशसंस्कारविशिष्ट प्रयोगापत्तेः संस्काररहितजातिमात्रप्र. योगसत्त्वाच लाघवाजातिवाचित्वम् , जातिमात्र प्रयोगस्य विरोधा- भावेन याज्ञिकप्रयोगाबाध्यत्वात , यूपादिपदानां तु संस्कारं विना न प्रयोग इति वैषम्यम् , प्रयोजनं यूपावटास्तरणबर्हिषि बर्हिःषु नोपदेशेन(१६) धर्मप्राप्तिरिति। (८) प्रोक्षण्यादिशब्दानां यौगिकताधिकरणम् - प्रोक्षणीष्वर्थसंयोगात् ॥ १०॥ प्रोक्षणीषु प्रोक्षणार्थास्वप्सु अर्थसयोगात् प्रोक्षणीशब्दार्थस्य प्रकृष्टोक्षण. साधनत्वरूपस्य समवायात प्रोक्षणीशब्दो यौगिक एव न जातिवाची नापि संस्कारवाची १० मयूखः। दानां प्रामाण्यं साधितं ततः व्युत्पादितप्रकारचतुष्टयेनैव सर्वत्र नामस्वमन्यथा तु गुणवि. धिरितिपूर्वाधिकरणेनोके प्रसङ्गात् बाहराज्यपुरोडाशादिशब्दानां संस्कारविशिष्टजातिम. द्रव्यविधायित्वम् उत तद्रहितकेवलजातिमद्रव्यविधायित्वमिति इहेदानी विधेयो गुणविशेषो विचार्यत इत्यभिप्रायः। (१) अन्योन्याश्रयेति । वहिलनातीत्यादिवाक्यबोहरायुद्देशेन लवनसंस्कारो वि. धीयते लवनसंस्कृताश्च कुशा बहिष इति अन्योन्याश्रय इति भावः । (२) विपरीतवाक्याथेति । यथा 'यूपं छिनत्ति' इत्यस्य यं छिनत्ति स यूप इति विपरीतवचनव्यक्त्या वाक्याथः क्रियते तथा यल्लुनाति तद्वर्हिरिति विपरीतवचनव्यक्त्य. जीकारेण अन्योन्याश्रयाभाव इति भावः । (३) धर्मप्राप्तिर्नेति । पूर्वपक्षे बहिरादिशब्दबलेन यूपावटास्तरणबहिषि लवन संस्कारः स्यात् सिद्धान्ते तु नेत्यर्थः ।

प्रथमाध्याये चतुर्यः पादः। ६३ 8 (पूर्वपक्षः) नन्वेवं(१) प्रोक्षणीशब्दस्योत्पवनादिसंस्कारवाचित्वासम्भवात्प्रो. क्षणीभिरुद्वेजिताः स्मः इत्यसंस्कृताप्सु प्रयोगादावन्त्वजातिवाचित्वम् । एवं च घृतं प्रोक्षणमित्यत्र घृतमासादयेत्यूह इति चेन्न- (सिद्धान्तः) प्रकृष्टोक्षणसाधनत्वरूपक्लप्तावयवयोगेन प्रवृत्त्युपपत्तावतिरिक्तरू ढिकल्पनानुपपत्तेः न चैवमुदासीनास्वप्सु प्रयोगो न स्यात् , स्याच तैलादिग्विति वाच्यम् , फलोपहितसाधनत्वाभावेऽपि योग्यतासत्त्वेन लुटश्च साधनसामानवाचित्वेन तत्रापि प्रयोगात्, तिलस्य प्रकृति- भूतप्रोक्षणपदवाच्यत्वेऽपि प्रत्ययार्थस्त्रीत्वानन्वयेन तत्राप्रयोगोपपत्तेः । न च समुदायशत्त्यावयवशक्तिर्बाध्यते इति वाच्यम् , समुदायशके. रसिद्धत्वात , रथकारशब्दस्य तु सुधन्वजात्यपरपर्यायऋभुशब्दवाच्य. जातिवाचित्वावगमालामान्यतः प्रवृत्तयोगबाधः, अतो यौगिकत्वम् । प्रयोजन (विकृतिविशेषे ) घृतं प्रोक्षण भवतीत्यत्र संस्कारवाचित्वे प्रोक्षणीरासादयेत्यविकृतः प्रयोगः जातिचाचित्वे घृतमासादयेति यौगि- कत्वे प्रोक्षणमित्यूहः। अवयवार्थसंयोगाद्यौगिकत्वमित्यर्थः(२) । (९) निमन्थ्यशब्दस्य यौगिकताधिकरणम्- तथा निर्मन्थ्ये ॥११॥ प्रभा निर्मन्थ्ये निर्मन्थनसाध्ये वही तथा मन्थनप्रयोज्यत्वरूपार्थसमवायात् यौगिक एव निर्मन्थ्यशब्दः स्वीकर्तव्यः ॥११॥ (पूर्वपक्षः) निर्मन्थ्येनेष्टकाः (३)पचन्ति' इत्यत्र निर्मन्थ्यशब्दोऽधिमन्थनशक. लाधिकरणत्वादिसंस्कारवाची पूर्वनयेन याशिकप्रयोगात्समुदायशक्त्या जातिवचनः, असंस्कृतेऽपिनिर्मन्थ्यमानय पक्ष्यामह इति प्रयोगान्मथ. नकर्मत्वरूपयोगस्य मथननिष्पन्नेऽनावमावेन योगस्यापि ब्याभिचारात् मथननिष्पन्नेन पाकासम्भवात् , अतो जातिवाचित्वमिति चेन्न- (सिद्धान्तः) कृत्यरूपण्यत्प्रत्ययस्य 'अर्हे कृत्यतृचश्च' इति अहर्थिकतया मन्थनप्र - (१) अपवादसनत्या प्रत्यवतिष्ठते नन्वेवामिति । (२) सूत्रस्येति शेषः । ( ३) अतिदेशसङ्गत्याह-निर्मन्थ्येनेति ।

समयूखभादृचिन्तामणौ- योज्यवह्निसन्तानस्य मथनाहत्वात्तदेव निमित्तत्वेनाधित्यक्लप्तावयवशः तैरवोपपत्तावतिरिक्तशक्तिकल्पनायोगात्, अतो यौगिकः । अत्र च पाकानुपपत्यैवाग्निप्राप्तौ पाकाङ्गत्वेन मथनविधिः । तत्प्रयो. जनं (१)तस्यैकदेशकालकर्तृकत्वम् ।। (१०) वैश्वदेवादिशब्दानां नामधेयताधिकरणम् । वैश्वदेवे विकल्प इति न प्रकरणात्प्रत्यक्षाविधानाच ॥१२॥ न हिप्रकरणं द्रव्यस्य मिथश्चानर्थसबन्धः ॥१३॥ परार्थत्वाद्गुणानाम् ॥ १४ ॥ वैश्वदेवे 'आग्नेयमष्टाकपालं निर्वपति सौम्यं चकै सावित्रं द्वादशकपालं सार. स्वतं च पौष्णं चहें मारुतं सप्तदशकपालं वैश्वदेवीमामिक्षा द्यावापृथिव्यमेककपालम्' इति विहितानामाष्टानां यागानां सन्निधावाम्नाते 'वैश्वदेवेन यजेत' इत्येतद्वाक्यघटको. भूते वैश्वदेवपदे अष्टसु यागेषु विश्वदेवदेवतारूपगुणविधिपरतया विकल्प इति चेत् न उत्पत्तिशिष्टगुणावरुद्धेषु प्रकरणात् देवतान्तरविधानासम्भवात् अमिक्षायागे विश्वदेव- देवतायाः प्रत्यक्षविधानात् प्राप्तत्वेन विध्यनुपपत्तेः च हि यस्मात् कारणात् प्रक- रणम् उत्पन्नशिष्टप्रकरणानुगृहीतविश्वदेवगुणः द्रव्यस्य उत्पत्तिवाक्येषु श्रुतस्य अग्न्या दिदेवतारूपगुणस्य न बाधकम् उत्पत्तिशिष्टगुणस्य उत्पन्नाशिष्टगुणापेक्षया प्राबल्यादिति भावः । अतो वैश्वदेवपदमष्टानां यागानां नामधेयमिति स्थितम् ।। १२ ।। यदि वैश्वदेवशब्दः आग्नेयादियागेषु देवताविधिः स्यात् तदा आमिक्षायागे विश्व- देवदेवताकत्वस्य प्राप्ततया तत्रानुवादोऽन्यत्र विधिरिति एकस्यैव वैश्वदेवशब्दस्य विधित्वा. नुवादत्वयोः अनर्थसम्बन्धः अयुक्तयोरर्थयोःसम्बन्धः च मिथः स्यात् ॥ १३ ॥ किं च गुणविधिपक्षे अष्टानामपि यागानां विश्वदेवदेवताकत्वे सति पुरोडाशच. दीनामष्टानामपि हविषामेकैवाहुतिः स्यात् गुणानां पुरोडाशादिद्रव्याणां यागं प्रति परार्थत्वात् गुणभूतानां स्वरूपेण प्रधानभूतयागानुष्ठानभेदप्रयोजकत्वानुपपत्तेः गुणावृत्त्या प्रधानावृत्तेरयोगात् देवताभेदस्तु तत्प्रयोजकः देवताप्रकाशकयाज्यादीनां युगपत्रयोगास. मयूखः (१) एकदेशकालर्कतृकत्वमिति । अयमत्र विवेकः अङ्गप्रधानयोः मन्थनपाकयोः एकदेशकालकर्तृकत्वाबगमात् प्रयोगमध्यपातित्वलाभाच्च अधिमन्थनशकलनिधाना. दिधर्मरहितं केवलं मन्थनं कृत्वा तेनामिना पाकः कार्यः यौगिकत्वपक्षे जातिपक्षे प्रयोग बहिर्भूतनामिना संस्कारपक्षे पशुप्रकरणविहिताधिमन्थनशकलनिधानादिरूपधर्मावशि- टस्य मन्थनस्य प्रयोगान्तः पात इति ।

प्रथमाध्याये चतुर्थः पादः। म्भवात् तथा सति 'नव प्रयाजा इज्यन्ते' 'नवानूयाजाः' 'अष्टौ हवींषि' 'द्वावाधारौ' 'द्वावाज्यभागो' 'त्रिंशदाहुतयः सम्पद्यन्ते' इत्याहुतीनां त्रिंशत्वसम्पत्तनित्यवदनुवादो वि. रुध्येतेति भावः ॥१४॥ (संशयः) वैश्वदेवे(१) पर्वण्याग्नयादीनष्टौ यागान विधाय वैश्वदेवेन यजेत' इति समाम्नातम् , तहेवताविधायकमुत नामधेयमिति चिन्ता । (पूर्वपक्षः) तत्र वैश्वदेवामिति सर्वनामार्थकतद्धितस्य वाक्योपात्तद्रव्यविशेषपर- स्वाभाववत्वे सति प्राकरणिक(२)द्रव्यपरत्वसंभवादुत्पन्नेषु(३) देवतावि. धानोपपत्तेर्गुणविधिः, न च तद्धितस्य स्ववाक्योपात्तयागपरत्वेनोपपत्तिः 'सूक्तहविषोः' इति तद्वितस्य नियतत्वात् (४)स चाष्टसुयागेष्वगत्या विकल्पः, अन्यथा यागनामधेययोरविधेयत्वेन समुदायानुवादप्रयोजना भावाद्वैयर्थ्यांपत्ते, नचैतद्वाक्याविहितदेवताविशिष्टयागे वैश्वदेव्यामि. क्षेति द्रव्यविशेषविधिरिति वाच्यम् आग्नेयादिवाक्यश्रुतानुषक्तनिर्वपति प्रत्यये विशिष्टविधित्वगुणविधित्वाभ्यां वैरूप्यापत्तेः(५), न चामिक्षा. यागे(६) निर्वापानुवादानुपपत्तेर्नानुषङ्गसंबन्ध इति वाच्यम्, प्रत्ययान्त. रकल्पनागौरवपरिहारायार्थप्राप्तपृथक्करणरूपनिर्वापानुवादोपपत्तेः(७), मयूखः । (१) वैश्वदेव इति । आमेयाधिकरणे तत्प्रख्यन्यायासम्भवेन गुणविधित्वे साधिते तत्प्रसङ्गेनान्यत्रापि गुणविधौ विधेयगुणविशेषे च विचारिते यत्प्रसङ्गेन यदागतं व. समाप्तौ तदेव बुद्धिस्थं भवति' इति न्यायेन आग्नेयाधिकरणोत्तगुणविधिले बुद्धिस्थे सति अत्रापि तत्प्रख्यन्यायाक्षेपेण गुणविधित्वपूर्वपक्षकरणात् मापवादिकी सङ्गतिः । (२) प्राकरणिकद्रव्येति । आग्नेयादिवाक्यस्थाष्टाकपालादिद्रव्येत्यर्थः । (३) उत्पन्चेषु-आग्नेयादिषु । (४) नियतत्वादिति । 'सूक्तहविषोः' इति कात्यायनस्मरणेन सूके हविषि च देवता. तद्धितस्य नियमात् वैश्वदेवशब्दस्य यागपरत्वं न सम्भवति लक्षणया विश्वदेवदेवताकहवि. कयागपरत्वं तु गौरवपराहतमिति न वैश्वदेवशब्दस्य यागनामधेयत्वं युक्तिमदिति भावः। (५) आग्नेवाक्यस्थस्य निर्वपेदित्यस्य सर्वत्रानुषजात अन्येषु विशिष्टविधिः आमिक्षावाक्ये च गुणविधिरिति वैरूप्यं स्यादिति भावः । (६) आमिक्षायागे इति । निर्वापस्यातिदेशेन प्राप्त्याभावादितिशेषः । (७) अनुवादोपपत्तेरिति । आग्नेयादिवाक्येषु अर्थप्राप्तनिर्वापानुवादेन आमिक्षा- वाक्येऽपि तदनुषङ्ग इति बोध्यम् । भा०चि०९ ६६ समयूख मादृचिन्तामणी- अतो गुणविधिरिति पूर्वपक्षः॥ (सिद्धान्तः) सिद्धान्तस्तु-उत्परयुत्युत्पन्नशिष्टगुण(१)योर्विकल्पायोगेनात्र गुणविध्यः संभावान्नामत्वम् , न च द्रव्यवाचिसर्वनामलमानार्थकतद्धितानुपपत्त्या विकल्पाङ्गीकारः, आग्नेयो ब्राह्मण' इत्यादिदर्शनेन 'तस्येदम्' इति संबन्धत द्धिताङ्गीकारेण यागविषयतयोपपत्तेः, सबन्धश्च विश्वदेवदेवताजन्यया. गघटितसमुदायाश्रितस्वरूपः, तेन संबन्धेन यजत्यनूदितयागसमुदाये विश्वदेवदेवताप्राप्तः, तत्पदवाच्यत्वेन नामत्वम् । यद्वा-विश्वपदस्य सर्वपर्यायत्वात्सर्वत्वस्याधिकारिकतया(२)देवप. दस्य च देवतावाचितया प्राकृताग्न्यादिदेवताकत्वमेव प्रवृत्तिनिमित्तम् । यद्वा-'यद्विश्वे देवाः समयजन्त तवैश्वदेवस्य वैश्वदेवत्वम्' इति वाक्यशेषोक्तविश्वदेवकर्तृकत्वं प्रवृत्तिनिमित्तम् , तेन सिद्धमुत्पत्तिशि. टगुणावरोधसहकृततत्प्रख्यनयेन (अष्टानामपि यागानां वैश्वदेवशब्दस्य) नामस्वम्। (प्रयोजनम् ) तत्प्रयोजनं 'प्राचीनप्रवणे वसन्ते वैश्वदेवेन यजेत'इत्यादिनाग्नेया. दियागाष्टकस्य देशकालसंबन्धः, अन्यथामिक्षायागमात्रसम्बन्धापत्तिः, आग्नेयादिसमुदायप्राधान्यासिद्धयामिक्षायागविकारे आग्नेयाद्यनतिदेश श्व(३)। एवं च 'वाजिनो यजत्याहुतीनां त्रिंशस्वाय' इत्यन्यार्थदर्शनोपप. त्ति अन्यथाष्टाकपालादिद्रव्याणां वैश्वदेवरूपैकदेवताकत्वन सह प्रक्षेपा. भावादनुपपन्नमिदं त्रिंशत्वम् , अतो नामत्वम् । न च वैश्वदेववाक्यविहि- तयागे आग्नेयादिवाक्यविहितविशिष्टनिर्वापाणां सामयागे प्रहाणा. मिवाङ्गत्वमिति वाच्यम् अव्यक्तत्वेन सोमधर्मकत्वापत्त्या 'नव प्रयाजा' इतिप्रयाजानुवाक्यानुपपत्तेः । मयूखः। (१) उत्पत्तिशिष्टो गुणोऽग्न्यादिः, उत्पन्नशिष्टो गुणो विश्वे देवाः । (२) आधिकारिकमिति । यथा सर्वमोदनं भुङ्क्त इत्यत्र सर्वत्वमाधिकारिकमधि. कारप्राप्तविषयकं प्रकृतविषयकमिति यावत् एवं प्रकृते सर्वत्वं प्रकृताग्न्यादिदेवताविषय- कमिति भावः। (३) अनतिदेशश्चेति । वैश्वदेवेन यजेतेति वाक्याभावे प्राचीनप्रवण इतिवाक्ये वैश्वदेवशब्देनाभिक्षायागस्यैव प्रहणे तस्यैव कालसम्बन्धापत्या फलसम्बन्धः स्यादित्या- ग्नेयादीनां तदङ्गत्वं स्यादिति भावः ।

प्रथमाध्याये चतुर्थः पादः। प्रभा सूत्रं तु प्रकरणेन देवतान्तरविधानासंभवात्पक्षविहित देवताकत्वा. च्च न गुणविधिरिति व्याख्येयम् । (११) वैश्वानराधिकरणम् । पूर्ववन्तोऽविधानार्थास्तसामर्थ्य समाम्नाये ॥१५॥ गुणस्य तु विधानार्थेऽतद्गुणाः प्रयोगे स्युरनर्थका न हि- तं प्रत्यर्थवत्तास्ति ॥१६॥ तच्छेषो नोपपद्यते इति चेदवि- भागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन ॥१७॥ कारण स्था- दिति चेदानर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थ विधीयते ॥ १८॥ ये 'वैश्वदेवेन यजेत' इत्यादौ वैश्वदेवपदायुपात्ता विश्वदेवादयः पूर्ववन्तः प्रमा. णान्तरेण सम्भवत्प्राप्तिकास्ते अविधानार्था अविधेया भवन्तु "वैश्वानरं द्वादशकपालं निर्वत पुढे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्च सेन पुनाति, इत्यादौ सा- माम्नाये तु तत्सामर्थ्यम् अष्टाकपालवादीनां विधानसामर्थ्यमस्त्येवेति अष्टाकपाला- दिशब्दाः गुणविधय एव ॥ १५॥ सिद्धान्तमाह-गुणस्येति । गुणस्य विधानार्थे अष्टाकपालादिपदस्य गुणविधा- यकत्वस्वीक्रियमाणे अतद्गुणाः तस्मिन् 'वैश्वानरं द्वादशकपालं निर्वपेत्' इति वाक्य. विहितयागे उत्पत्तिशिष्टगुणावरुद्धतया गुणत्वेनान्वेतुमनहींः अष्टाकपालादिपदार्थाः प्रयोगे अनुष्ठाने अनर्थकाः स्युः यागान्तरविधिस्वीकारे च न हि तं प्रति अर्थवचा ता. स्पर्यम् अस्ति यस्मिन् जाते एतामित्युपसंहारेण एकवाक्यतावगमात् । तस्मादष्टाकपा- लादिवाक्यमर्थवादत्वेन विधिशेष इति भावः ॥१६॥ आशङ्कते-अष्टाकपालादि वाक्यं तच्छेषः विधिशेषः अर्थवादतया नोपपद्यते द्वादशकपालकर्मणोऽष्टकपालादिपदेनाभिधानासम्भवेन तरस्तुतिपरताया असम्भवात् इति चेत् समाधत्ते-विधानार्थे विधेये द्वादशकपाले अष्टधाकपालादीनाम् अविभागात अन्तः पातित्वात् अवयुत्यानुवादकतया अष्टाकपालादिशब्दा: द्वादशकपालाभिधायकाः सन्तः स्तुत्यर्थेन उपपद्येरन ॥ १७ ॥ प्रकारान्तरेणाशकृते यत् अष्टाकपाल इत्यादेः गुणफलसम्बन्धविधित्वसम्भवेन वैश्वा- नरयागात्रितमष्ठाकपालादिकं ब्रह्मवर्चसादिफलं कारणं स्यात् इति चेत् समाधत्ते न अष्टाकपालादिः अकारणं पुत्रगतब्रह्मवर्चसादिफलकारणस्वेन विधानानहः आनर्थ- क्यात् यतः कर्तुः गुणाथै अनुष्ठातुसमवेतफलजननाय कारणानि गोदोहनादीनि विधीयन्ते गुणानां कर्तृसमवेतफलजनकत्वस्यैवान्यत्र दर्शनेनेह तथावाभावान गुण फलसम्बन्धविधित्वमाकपालवाक्यस्येति भावः ॥१८॥ .

६८ संमयूख भावचिन्तामणौ- (संशयः) 'वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते' इति निमित्ते यागं विधाय 'यदष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चलेन पुनाति यन्नवकपालो भव. ति निवृतैवास्मिस्तेजोद्धाति यदशकपालो भवति विराजैवास्मिाननाचं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्वादशकपालो जगत्यैवास्मिन्पशून् दधाति यस्मिन् जात एतामिष्टिं निर्वपति पूत एव से तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति' इति(१) श्रुतेऽष्टाकपालादिशब्दा किं प्रकृतयागस्य नामधेयमुत तत्र गुणविधयः, किं वा फलार्थेन तदा. श्रितगुणविधय उत द्वादशकपालस्तुत्यर्था इति चिन्ता। ( पूर्वपक्षः) दत्र द्वादशत्वेऽष्टत्वादीनामन्तर्गतत्वन कपालादिवत्प्राप्तेः तत्प्रख्यन. येन(२) वैश्वानरयागनाम अग्निहोत्रादिपदवञ्च लक्षणया (३)सामानाधि. करण्यम् । अत एव(४)'शतं ब्राह्मणाः सोमान् भक्षयन्ति दश दश एकैक चमसमनुप्रसर्पन्ति' इति विभागदर्शनान्महासंख्यायामवान्तरसंख्याङ्गी. कार उपपद्यते अतः कर्मनाम प्रयोजनं च तत्तन्नामकसंकल्पे तत्तन्नामाव- छिन्नेन यागेन पूतत्वादि भवतीति केचित् । न च नाम्ना(५)कर्मभेदापत्तिः पाचकलावकादिवद्यौगिकनाम्नामभेदेप्युपपत्तेः । अतो नामधेयमि. स्थेका पक्षः। द्वादशत्वे परिच्छेदकत्वेनाष्टत्वस्याप्राप्तेनमित्वासंभवादष्टत्वस्य कपा: लोहेशेनाष्टाकपालस्य वा यागोद्देशेन विधिः, न चोत्पत्तिशिष्टत्वेनः द्वादशकपालप्राबल्यम्, जातोपक्रमतदुपसंहाराभ्यामेकवाक्यतया मयूखः। (१) भवतीति । अपवादसङ्गीतरत्र नामत्वापवादात् पूर्वाधिकरणोकोत्पतिशिष्ट. चलीयस्त्वादिन्यायाभावेन द्वितीयतृतीयपूर्वपक्षोत्थानात् प्रत्युदाहरणसङ्गतिश्च । (२) तत्प्रख्यनयनति । अष्टाकपालादिपदैः अष्टत्वसंख्या कपालानि तदधिकरणका संस्कारः द्रव्यमित्येतावदेव शक्त्योच्यते न तु यागः तेषां सर्वेषां द्वादशकपालपदेनैव प्रा. तिरिति तत्प्रख्यन्यायस्य प्रकृते प्राप्तिरित्यर्थः । (३) लक्षणया-अष्टाकपालादिपदानामष्टाकपालादिघटितलक्षणया । (४) ननु अन्येषां प्राप्तत्वेऽपि अष्ठत्वादेर्न प्राप्तिरिति तद्विधिरयं स्यादित्यत आह- अत एवेति । तथा च द्वादशत्वेऽन्तर्गतत्वेनाष्टत्वस्यापि प्राप्तिरिति भावः। (५) नाम्ना-संज्ञया । अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः अनेन सहस्रदक्षिणेच यजेत' इत्यत्रेवेति भावः ।

प्रथमाध्याये चतुर्थः पादः। सर्वेषां तथात्वात् , वाक्यभेदेऽपि यद् द्वादशकपालो भवतीत्यनेन द्वादशकपालविधानेन सर्वेषामुत्पन्नशिष्टत्वावा, अतोऽष्टाकपालादि. वाक्येष्वष्टत्वादेष्टाकपालादेर्वा वैश्वानरवाक्यप्राप्ताष्टाकपालकर्मिकायां यागकर्मिकार्यावा भवत्यनूदितायां भावनायां विधिरित्यपरः। गुणफलसम्बन्धविधय एते तत्र कपालस्यावान्तरप्रकर. णेनानुपस्थितेर्यागपुरोडाशयोश्चायोग्यतयाश्रयत्वायोगादष्टत्वादीनां फ- लोद्देशन विध्यसम्भवेऽप्यष्टाकपालादिद्रव्याणां प्रकृतवैश्वानर. यागाश्रितानां फले विधिः, अप्राप्तत्वेन कल्पितविधिविहितस्याष्टाक. पालादिद्रव्यस्य स्तावकतया यस्मिन्नित्यादिभागे उपस्थितपूतत्वादेः रा. त्रिसत्रनयेन(१) फलत्वं कल्प्यते, एवं चोत्पत्तिशिष्टद्वादशकपालबाध. कत्वमष्टाकपालादीनां युज्यते, न चैवमनेकेषां पूतत्वादीनां फलानामु इश्यत्वाद्वाक्यभेदः, फलपदानां कल्पयत्वे ऽपि श्रूयमाणविधेरेव प्रत्युः इश्यं सम्बन्धात्तथा च एकोपक्रमोपसंहारावगतैकवाक्यत्वबाधा, निमिचफलबोरद्देश्यत्वेन तदङ्गीकारवदिष्टापत्तेः। न च तत्रोद्देश्यवै. जात्येन तत्परिहारः, तत्कल्प्यपापक्षयस्योद्देश्यतया विजातीयत्वाभाः वात , अतो गुणफलसम्बन्ध इति तृतीयः । (सिद्धान्तः) सिद्धान्तस्तु-उत्पत्तिश्रुतद्वितीयान्तकपालशब्दप्रतिपादितकपालोहे- शेनाष्टत्वादेन विधिः सम्भवति, उत्पत्तिवाक्ये पदश्रुत्यवगतबादशत्वाव. रोधे तद्वाधकत्वायोगात् , न च यत द्वादशकपालो भवतीति द्वादशक. पाल विधानादुक्तहेत्वभावेनाष्टत्वादिविधिसम्भवः, औत्पत्तिकबादशप- इस्यावयुत्यानुवादत्वापत्तेः, इष्टापचौ सापेक्षत्वात्समासानुपपत्तिः । अष्टाकपालादिपदेवेकप्रसरताभनापत्ति(२), अत एवातिदेशिककपालो. हेशेन न विधिः, प्रकृतयागानुवादेनाष्टाकपालादिद्रव्यविधिस्तूत्पत्ति शिष्टद्वादशकपालावरोधादयुक्तः। प्रथमान्तद्वादशकपालपदेन तद्विधौ तूत्पत्तिवाक्यनिष्ठतत्पदानर्थक्यं, प्रथमायां तृतीयार्थलक्षणा, अनेकद्रव्य विधानाद्वाक्यभेदश्च, अत एव न गुणफलविधिः, न चाख्यातमे मयूखः । (१) रात्रिसत्रनयेनेति । यथा रात्रिसत्रे'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति' इत्यार्थवादिकं प्रतिष्ठारूपं फलं स्वीक्रियते तथेह वैवानरयागेऽपि आर्थवादिकं पूतस्वा. दिकं फलं स्यादिति भावः । (२) एकप्रसरताभनेति । एकपदेनोपस्थापितयोरर्थयोरद्देश्यविषयमावेनान्वयो न भवतीति नियम एकप्रसरता तस्या भङ्गः कपालोद्देशनाष्टत्वविधौ स्यादित्यर्थः ।

समयूख भादृचिन्तामणी- दात्तस्या(१)दोषत्वम् । 'यस्य हिरण्यं नश्येदाग्नेयं निर्वपेतू इत्यादौ तदेतें. प्येकवाक्यत्वदर्शनात(२)। अतो निर्वपत्याख्यातेनाश्रयप्राप्ती भवत्याख्या तैस्तत्तद्गुणानां तत्तत्फलविधावैकार्थ्याभावेन दुरुद्धरो वाक्यभेदः । न च सिद्धान्तेऽपि निमित्तफलयोरुद्देश्यत्वेन सजातीयोद्देश्ययोरेकभावना. न्वयस्य विलक्षणाकालानिबन्धनतया वाक्यभेदो दुष्परिहर इति वाच्यम् निमित्तस्यावश्यकत्वरूपोद्देश्यत्वेऽपि ईप्सितत्वरूपोद्देश्यत्वा. भावात्फलस्यैव च तद्रूपत्वात् विजातीयोद्देश्ययोश्चैकेनान्वयेऽपि इतर विषयका काजोपशमाभावादुभयोन्वयोपपत्तेर्वाक्यभेदाभावात निमित्त वलेनोपस्थितनिषिद्धाचरणजन्यप्रत्यवायपरिहारस्य न भाव्यत्वं पूतत्वा दिभिस्तदाकाङ्क्षापूरणात् , अतो न तन्निबन्धनोऽपि(३) वाक्यभेदः, नापि पूतत्वादीनामनेकेषामुद्देश्यतया खः। अर्थवादोक्तफलत्वेनोद्देश्य- स्वाङ्गीकारात् । अत एवोद्देश्यतावच्छेदकताया व्यासज्यवृत्तित्वाङ्गी कारान योगसिध्यधिकरणन्यायः। एवं पूतत्वादिफलानां नानुष्ठापक. किन्तु-जन्यत्वमात्रम् । निमित्तेन तदाकाटोपशमात् । अत एव जननवत्पुत्रगतपूतत्वादिफलिकामिष्टिं कुर्यादितिबोधायनः मृते पुत्रे न जातेष्टिः संवलिताधिकारत्वात् । अतोवाक्यभेदापत्या स्तावका अष्टाकपालादिशब्दा। तत्र चावयवश्रुत्याधयविस्तुतिः। तत्राष्टाकपा. लादिपदान्यष्टाकपालादो मुख्यानि । द्वादशकपालावयवे गौणानि सन्ति । गौणगर्भलक्षणयावयविप्राशस्त्यपराणि । सूत्रंत्वष्टवादीनि पूतत्वादीनां नाकारणम् अवगम्यमानेकार्थत्वत्याग. प्रसङ्गादिमानि कर्तुरुपदिश्यन्ते किन्तु गुणार्थेन स्तुत्यर्थेन पठ्यन्ते इति व्याख्येयम्। ( तत्सिदिपेटिका) तसिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्रयाः ॥ १९ ॥ त्वम्, मयूखः। (१) तस्य-वाक्यभेदस्य । (२) एवं च यथा यस्य हिरण्यमिति वाक्ये यच्छब्दोपबन्धोदकवाक्यत्वमेवं यस्मिजाते इत्यत्रापि यच्छन्दोपबन्धादेकवाक्यत्वमिति युक्तं चैतत् स्तावकत्वपक्षे निर्वप. त्यतिरिकानां सर्वेषामेकस्तुतिलक्षकत्वाङ्गीकारादिति भावः । (३) अन्यथा प्रत्यवायपरिहारस्य पूतत्वादेव सजातीयतया पाक्यभेदः स्या- देवति भावः।

प्रथमाध्याये चतुर्थः पादः। प्रमा . ननु 'यजमानः प्रस्तर' इत्यत्र गुणविधिरर्थवादो वेति संशये अष्टाकपालादिशब्दर्य थाऽवयवद्वारा द्वादशकपालस्तुतियुज्यते तथा यजमानशब्दे प्रस्तरावयववाचकवस्य प्रस्तरशब्दे वा यजमानावयववाचकत्वस्याभावेन स्तावकत्वासम्भवात् असञ्जातविरोधि. त्वेन प्रथमश्रुते यजमानशब्दे लक्षणाऽसम्भवेऽपि चरमश्रुते प्रस्तरशब्दे प्रस्तरकार्यका. रित्वे लक्षणामङ्गीकृत्य प्रस्तरे सच आसादयति' इत्यादि प्रस्तरकार्य स्रग्धारणादिकं यजा मानः कुर्यादिति गुणविधिरभ्युपेयः न तु निरर्थप्रायमर्थवादत्वमिति पूर्वपक्षे यजमानस्य प्रस्तरकार्यकारित्वे प्रस्तरविधेरानर्थक्यम् , किं च 'प्रस्तरमाहवनीये प्रहरति' इत्याहवनीये प्रस्तरप्रहरणाम्नानात् यजमानस्याहवनीये एव प्रहरणे तदुत्तरभाविसर्वकर्मलोपप्रसङ्ग इति अगत्या यजमानशब्दस्य प्रस्तरस्तावकतया अर्थवादत्वमेवेति सिद्धान्तःतत्र यजमानश- ब्दस्य यागकर्तृवाचकस्य कथं प्रस्तरे वृत्तिरत आह तत्सिद्धीति 'यजमानः प्रस्तर' इत्यत्र तस्य मुख्यार्थस्य सिद्धिः कार्य साङ्गं प्रधानं तत्र प्रस्तरे यजमानकार्यकारित्वं, 'अग्निवै ब्राह्मण' इत्यत्र तस्य मुख्यार्थस्याग्नेः जातिः जन्म 'प्रजापतिरकामयत प्रजा. येति स च मुखतस्त्रितं निरमिमीत तमनिर्देवतान्वसृज्यत गायत्रीच्छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणामजः पशूनाम्' इति ब्राह्मणे मुखजातत्वं, आदित्यो यूपः' इत्यत्र तस्थ मुख्यार्थस्य आदित्यस्य सारूप्यं घृताते यूपे तेजस्वित्वं, 'अपशवो वा अन्ये गोऽश्वे- भ्यः पशवो गोऽश्वाः, इत्यत्रं तस्य मुख्यार्थस्य अपशुशब्दार्थस्य घटादेः प्रशंसा अजा. दौ गवाश्वगतप्राशस्त्याभावः, 'सृष्टीरुपदधाति' इत्यत्र तस्य मुख्यार्थस्य सृष्टिपदघाटत. मन्त्रस्य भूमा सृष्ट्यसृष्टिमन्त्रसमुदाये वाहुल्यम् , 'प्राणभृत उपदधाति' इत्यत्र तस्य मुख्यार्थस्य प्राणस्य लिङ्गं प्राणप्रतिपादनसामर्थ्य तस्य समवायः सम्बन्धमात्र, गुणाश्रयः गौणवृत्तिनिमित्तमित्यर्थः ॥ १९॥ (१२) तत्सिद्धयधिकरणम् । अष्टाकपालादिशब्दा गौण्या द्वादशकपालस्तावका इत्युक्ते गौण. वृत्तिनिमित्तानि कथ्यन्ते । यजमानःप्रस्तर यजमानः एककपाल इत्यत्र सामानाधिकरण्येऽपि नैकमितरस्य नामधेयम् रूढत्वात्, नापियेयजमा. ना इत्यादिवदन्त्यपदलक्षिततत्कार्य पूर्वपदार्थविधिः। विध्यश्रवणात्प्रस्त. रमुत्तरं वर्हिषः सादयतीति विध्यन्तरैकवाक्यत्वाच्च यजमानप्रहरणे सर्वकर्मलोपापत्या दर्शप्रतिबन्धापत्तेश्च । अतोऽयमर्थवादः । तत्र यजमा. नपदं गौण्या प्रस्तरस्तावकम् । स्वशक्यसमवेतगुणसजातीयगुणयोग निमित्तत्वं गौणत्वम् । न त्वारोपितार्थवृत्तित्वम् । आरोपकपुरुषाभावात् खपुष्पं भवसिद्धान्त इत्यत्र खपुष्पशब्दस्य खपुष्पे गौणत्वापत्तेश्च । खपुष्पशब्दार्थमङ्गीकृत्य तदारोपं विनापि सादृश्यविवक्षया सिंहश(द)स्य समयूखभाहचिन्तामणौ- - पुरुषे लोकवेदयोः प्रयोगदर्शनात् । एतत्वपुष्पं भवसिद्धान्त इत्यत्रापि कल्पितखपुष्पशन्दार्थमङ्गीकृत्य तनिष्ठमिथ्यात्वस्य सिद्धान्ते सत्वादी. ण्युपपत्तिः। एवं सिंहो देवदत्त इत्यत्रापि पूर्वकारोपितवृत्तिगुणसजा. तीमगुणवस्वम् । इह विद्यमानवृत्तिगुणसजातीयगुणवत्वं प्रवृत्तिनिमि समित्येतावान् विशेषः । न चैव लक्षणैवास्तु न गौणीति वाच्यम् । क्रू. रत्वादीनां सम्बन्धत्वेन भाने इष्टत्वात् । क्रूरत्वादिप्रकारकबोधस्थ गौ. णी विना असम्भवात् । एवं च स्वशक्यसमवेतधर्मलजातीयधर्मप्रका रकबोध एव गौण्याः कार्यम् । शक्यनिष्ठगुणसमवायवत्ता च गौणीति ते गुणास्तत्सिद्ध्यादयः षट् । यजमानशब्दो यजमानकार्यकरणत्वेन गुणेन प्रस्तरे गौण इति एवमग्रेऽपि । (१३) जात्यधिकरणम् । एकप्रभवत्वमपि क्वचिद् गुणः । यथाग्नि ब्राह्मण इत्यत्राग्निशब्दो ब्राह्मणेऽपि जनकब्रह्ममुखजन्यस्वेन गौणः। अग्निजननसमानजातीयज. ननमेव गुणः । (१४) सारूप्याधिकरणम् । सारूप्यात्-आदित्यो यूपः यजमानो यूप इत्यत्राप्यादित्य. यजमानशब्दाभ्यां यूपस्तुतिः । प्रवृत्तिनिमित्तं तु साहश्यत्वेन सादृश्यं तच चक्षुहस्तेजस्वित्वोयत्वादि पूर्वत्र शक्यवृत्तिगुणस्य स्वजातीयगुणवत्तासंसर्गेण प्रकारतया निमित्तता सारूप्यं तु संसर्गः। इह तु सारूप्यस्यैव समवायादिना प्रकारस्य निमित्ततेति भेदः ॥ (१५) प्रशंसाधिकरणम् । अग्नौ पुरस्तात्प्रतीचीनमश्वस्योपदधाति पश्चात्प्राचीनमृषभस्येति पुरुषोपधीतं विधायअपशवो वान्ये गोऽश्वेभ्यः पशवो गोश्वाः इति गवा. श्वभिन्नपशुनिन्दया गवां स्तुतिः। घटादिवाचकोऽपशुशब्दो गवाश्वभिः नछागादिषु न पशुत्वाभावप्रतिपादकः, बाधात् । अत एव न तत्कार्य: करणत्वाभावबोधकोऽपि किन्तु समासान्तर्गतपशुशब्दलक्षितप्राशस्त्या. भावप्रतिपादकतयान्यपशुनिन्दाद्वारा स्तुतिः । अत एवान्यत्र गौणवृत्तेः प्राशस्त्यप्रतिपत्तिः फलम् । इह तु प्रवृत्तिनिमित्तं फलं चति । (१६ ) भमाधिकरणम् । सृष्टीरुपद्धातीत श्रुतः सृष्टिशब्दः अकाण्डपठितसृष्टिप्रकाशका. सृष्टिप्रकाशकेषु बहुत्वेन गौणः सन् सृष्टिप्रकरणकोपधानेष्टकास्तावकः ।

प्रथमाध्याये चतुर्थः पादः। अत्रेष्टकानां चयनाङ्गत्वानुपपत्तिप्राप्तमुपधानं विधीयते(१) । तत्प्रयोजनं तु तस्येष्टकासंस्कारकत्वासिद्धिः प्रत्येकोपधानसिद्धिश्च(२) चयनसमान- कर्तृकत्वसिद्धिश्च(३)। सृष्टिपदं तु लिङ्गप्रकरणप्रातसृष्टयसृष्टिमन्त्रमात्रस्य गौण्यानुवाद इति भाष्यकारः । प्राणभृत उपदधातीत्याधनेकोपधानविधिवैयपिस्या नोपधानमा प्रविधिः , किन्तु उपधानानुवादेन मन्त्रमात्रविधिः (४)मन्त्रविशिष्टोप. धानविधि । मन्त्रविधेरुपधाने मन्त्रनियमो(१) मध्यमचितिसम्बन्ध. श्च(६) फलम् । सृष्टिपदं सृष्टिपदवन्मन्त्रकरणकोपधानवदिष्टकापरम(७)। यद्यपि (८)इदमृतव्या उपधातीत्यादौ यत्प्रत्ययमतुल्लोपयोः सन्नियोगः विशिष्टयोर्विधायकतया प्रकृतोदाहरणे न प्रवर्तते(९) । तथापि सन्नियो. मयूखः। (१)विधीयत इति । न तु उपधानानुवादेन सृष्टिपदार्थः । तथा सति "इष्टकाभिरग्निं चिनुते" इति विध्यवगतचयनसाधनतानिहाय अवान्तरण्यापारतया- क्षिप्तस्योपधानस्यष्टकासाध्यत्वावगमेन इष्टका संस्कारत्वाप्रतीतिः स्यात् । (२) प्रत्येकेति । प्रतिप्रधानं गुणावृत्तिरितिन्यायेन प्रतीष्टकमुपधानावृत्तिसि. द्विरित्यर्थः। (३) चयनेति । अनेन विधिना इटकासंस्कारद्वारा चयनात्वबोधने अङ्गप्रधा- नयोरेककर्तृकश्वसिद्धिरित्यर्थः। (४) इष्टकानामेव द्वितीययोद्देश्यस्वावगमेन उपधानस्यैव करणतया विधेयतावग- मान्मन्त्रमात्रविधानं न युक्तमतः पक्षान्तरमाह-मन्त्र विशिष्टेति । (५) मन्त्रनियम इति । मन्त्राणामिष्टकामन्त्रप्रकाशकतया प्रहणादिध्वपि प्राप्तिः स्यान्न नियमेनोपधाने एवेति भावः । (६) मध्यमचितीति । "यां वै काञ्चन ब्राह्मणवतीमिष्टकामभिजानीयात् तां मध्यमायां चितावुपदध्यात्" इति पचनेन प्रत्यक्षब्राह्मणवतीनामिष्टकानां मध्यम. चितिसम्बन्धस्य विधानात् अन्यथा तत्तचित्यवान्तरप्रकरणपाठरहिताना मन्त्राणां चय. नमहाप्रकरणेन सर्वचितिषु अन्तिमायामेव वा निवेशापत्तोरेति भावः । (७) इष्टकापदमिति । तत्र च विशेषणांशस्य मन्त्रस्य विधेयत्वात्तदिष्टका. नौ प्रत्यक्षब्राह्मणावस्वसिद्धिः । "तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः" इति सूत्रेण सृष्टिलिङ्ग कमन्त्रोपधेयास्विष्टकासु गम्यमानासु मतुपो लोपविधानेन सृष्टिश- शब्दस्य सृष्टिपदवन्मन्त्रोपधेयष्टकापरत्वमिति भावः । (८) इदं-तद्वानासामिति सूत्रम् । (९)न प्रवर्तत इति । तथा सति ऋतव्या इतिवत् सृष्ट्या इति स्या- दिति भावः। भा०चि०१० ChamII प्रभा समयूख मादृचिन्तामणौ- गशिष्टसहप्रवृत्तिपरिभाषाया अनित्यत्वमूह्यते । तत्र च विशेषणीभूत मन्त्रविधिः । तत्रैव (१)सृष्टिपदमगत्या सृष्ट्यसृष्टिसमुदायिषु गौणमि. तिवार्तिककारः। (१७) लिङ्गसमवायाधिकरणम् । एवं प्राणभृत उपदधातीत्यत्र प्राणभृच्छब्दः प्राणभृदप्राणभृच्छन्दवः त्सु मन्त्रेषु गौणः। अत्र चाल्पत्वं (२)निमित्तम्। मलयवनं चन्दनमितिवत्। इति तसिद्धिपेटिका । (१३) अक्ताधिकरणम्- सन्दिग्धेषु वाक्यशेषात् ॥ २० ॥ सन्दिग्धेषु अक्ताः शर्करा उपदधाति' इत्यादिविध्यर्थेषु सन्देहविषयेषु वाक्यशे. षात् 'तेजो वै घृतम्' इति सन्निहितादर्थवादरूपात् कल्पना निर्णय इत्यर्थः उत्तरसूत्रा- कल्पनेत्यस्यानुषङ्गः ॥२०॥ (पूर्वपक्षः) सावित्रच यने(३) अक्ता शर्करा (४)उपदधातीति तेजो वै घृतमिति स्तावकार्थवादसहिताअनविधिः श्रूयते । अत्राअनाविध्याक्षिप्ताअनयोग्य. घृततैलवसादिद्रव्यसामान्यस्य वैधतया तद्विरुद्धार्थवादेन घृतनियमस्य कर्तुमशक्यतया घृतपदलक्षणया सवद्रव्यस्य स्तावकोऽर्थवाद उपसं. हारदुपक्रमस्य प्राबल्याच्च(५) । न(६) चापच्छेदधिकरणनयेनोत्तरप्राब. मयूखः। (७) छन्दसि दृष्टानुविधिरिति मतुविधेरनित्यतया मतुबन्तप्रातिपदिकत्वाभावा. देव यत्प्रत्ययमतुब्लोपयोरप्रवृत्त्या लक्षणया सृष्टिपदमेव तदर्थमिति मतान्तरमाह-तत्रेति । (२) अल्पत्वमिति । भुम्नः पूर्व निमित्तत्वस्योक्ततया गोवलोवर्दन्यायेन तदतिरिक्तस्त्याल्पत्वस्य निमित्तत्वे तात्पर्य लिङ्गसमवायपदस्येत्यर्थः। (३) इदानी स्तावकत्वेन प्रमाणस्य 'तेजो वै घृतम्' इत्यर्थवादस्थस्य घृतादि. पदस्य 'अकाः शर्कराः उपदधाति'इति विध्यपेक्षिताजनसाधनीभूतदवद्रव्यादिनिर्णये प्रा. माण्यमास्ति न वेति विचार्यते-सावित्रचयन इत्यादिना । घृतपदे च लिगसम. वायेन घृताधृतरूपस्नेहव्यमात्रवृत्तित्वापवादादपवादसङ्गतिरत्रेति बोध्यम् । (४) शर्करा:-मृतिकामिश्राः क्षुद्रपाषाणाः । (५) प्राबल्याश्चेति । ननु कास्यभोजिन्यायेन अङ्गभूतार्थवादानुरोधित्वमेव. विधेरस्त्विति चेन यत्र गुणविधिना प्रधानस्य न किञ्चिद्वाध्यते तत्रैव कांस्यभोजिन्याय. प्रवृत्तेः प्रकृते तु प्रधानस्य संकोचरूपबाघापत्तेर्न तत्प्रवृत्तिरिति मन्तव्यम् । (6) अपच्छेदाधिकरणेति। तत्र हि ज्योतिष्टोमे श्रूयते 'ययुगातापच्छि.

प्रथमाध्याये चतुर्थः पादः । ल्यम् । तस्य न्यायस्य भिन्नवाक्यविषयत्वात् । विध्यर्थवादयोरेकवाक्य. स्वस्य सिद्धत्वात् ।न चैकवाक्यत्वं वाक्यैकवाक्यत्वाभिप्रायेणेति वाच्या म् । स्वार्थबोधे (१)समाप्त्यभावेन वाक्यैकवाक्यत्वासम्भवात्। मुख्ये विशेष्ये इतरसंसर्गतात्पर्यकत्वमेव वाक्यस्य समाप्तिः । मुख्यविशेष्यश्च नैयायिकानां मते प्रथमान्तपदोपस्थाप्यः । अस्मन्मते च यच्छब्दाद्यल. मभिव्याहृततिङभिधेया क्रिया अतो नापच्छेदनय इत्युपक्रमनयेनैव निर्णय इति चेत्। (सिद्धान्तः) न निर्विशेषसामान्येन व्यवहारायोगेन द्रव्यविशेषोपस्थापकार्थवा. दस्य विध्यपेक्षितलमर्पकतया विरोधाभावात् । अतो घृतस्तुत्यन्यथा. नुपपत्तिकल्प्योघृतविधिः । स चाजनविधिरेव घृतेनेत्यध्याहतपदस. हितो भिन्नो धा । एवमपेक्षितफलादिसमर्पकत्वमपि । एवमुद्देश्य विशेषनिर्णायकत्वम् । यथा द्वयोः प्रणयन्तीत्यत्रोद्देश्यविशेषनिर्णयो वा. क्यशेषात् । इदं तु चिन्त्यम् । यागस्वर्गलाध्यसाधनभावबोधकविध्यपेक्षितद्वा- रविशेषसमर्पकतया देवताप्रसादोपस्थापकार्थवादानां तृप्त एवैनमिः न्द्रः प्रजया पशुभिश्च तर्पयति' इत्यादीनां प्रामाण्यापत्याऽपूर्वोच्छेदः मयूखः। येतादक्षिणो यज्ञः संस्थाप्यः अथान्य आहृत्यस्तत्र तयात यत्पूर्वस्मिन्दास्यन् स्यात् यदि प्रतिहर्तापच्छियेत सर्वस्वं दद्यात्' इति । अयमर्थः प्रातः सवने बहिष्पवमानेन स्तोष्यमा. णा ऋत्विजः शालायां पहिः प्रसर्पन्ति तदानीम् 'एकस्य पृष्ठतोऽन्यः' इत्येवं पिपालिकावरप- कथाकारेण गन्तव्यम् तत्र पुरतो गन्तुः कच्छ गृहीत्वैव पृष्ठतोऽन्यो गच्छेत एवं प्रति यदि प्रमादादुद्वाता गृहीतं कच्छं मुञ्चेत् तदा दक्षिणामदस्वा प्रक्रान्तो यज्ञः समापनीयः तं समाप्य पुनरपि स यज्ञः प्रयोक्तव्यः तस्मिन् प्रयोगे पूर्व यहित्सिनं द्रव्यं तद्दद्यात् यदा प्रतिहर्ता मुञ्चेत् तदा तस्मिन्नेव प्रयोगे सर्वस्वं दद्यात् इति तत्र उदातृप्रतिहर्तृकृतयोरपच्छेदयोर्योगपो समा नबलत्वात् विकल्पेपि क्रमेणापच्छेदे असं. जातविरोधिन्यायेन पूर्वस्य प्राबल्यमाशा निरपेक्षोत्तरज्ञानेन पूर्वज्ञानस्य बाधात् उत्तरस्य प्राबल्यमुक्तम्-यदाहुाधवाचार्याः 'अपरछेदकमे पूर्व प्रबलः स्यादुतोत्तरः । असंजा- तविरोधेन पूर्वणोत्तरबाधनम् ॥ निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया। न बाधकान्तरं तस्य तेन प्रबलमुत्तरम् ॥ इति । (१) स्वार्थबोध इति । यदाहुः-स्वार्थबोधे समाप्तानामज्ञाजितव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते इति ।

समयूख भाइचिन्तामणी- BduRANSLACES प्रमा स्यादिति(१)॥ (१४) अर्थसामाधिकरणम्- अर्थाद्वा कल्पनैकदेशत्वात् ॥ २१ ॥ अर्थात् सामर्थ्यात् वा एव 'हस्तेनावद्यति' 'सवेणावधीत' इत्यादौ कल्पना अ. वदेयद्रव्यनिर्णयः अर्थाद्यस्य यदवदानसामयं तेन तदवदेयम् । कुत एतदिति चेत् तत्राह-एकदेशत्वात्-शकेरपि सहकारित्वेन तदेकदेशत्वादित्यर्थः। यद्वा न च तन्निणीर्तस्यावैदिकत्वमत आह-एकदेशत्वात् तत्कल्पितपदस्य वेदैकदेशत्वात् वैदिकत्वमित्यर्थः ॥२१॥ इति सूर्यनारायणशुक्लकातायां जौमनिसुत्रवृत्तौ प्रभायां प्रथमाध्याये चतुर्थः पादः । (२)अर्थवादवदेव विधेयनिष्ठसामर्थ्यपरतयापि(३) सन्दिग्धोहेश्यार्थनि. यायथाखुणावधति स्वधितिनावद्यति हस्तेनावद्यत्यजलिना जुहोति सक्तून् जुहोतीत्यादौ सुवादिनिष्ठसामर्थ्येन घृतमांसपुरोडाशावदाना- नामुद्देश्यत्वम्। न च प्रमाणान्तरावगम्यवस्तुसामर्थ्यापेक्षत्वे वेदस्याप्रमा ण्यापत्तिरिति वाच्यम् । शक्तिग्रहादिवत्तदपेक्षत्वे बाधकाभावात्। शब्द सामर्थ्यस्यार्थसामर्थ्यानुरोधवृत्तित्वात् । अत्र च तत्तद्वाक्यमध्याहृत द्रवादिवाचकपदकं विधायकं कल्पितवाक्यान्तरं वेति । अर्थात्सामरिकल्पना निर्णय एकदेशत्वात्तत्कल्पितपदस्य वैदि. कत्वादिति सूत्रार्थः । विश्वामित्रकुलध्वजः समभवद्यो भट्टनारायण- स्तद्वंशस्य करीरतां भजति यो विश्वेश्वराख्यः कृती। गागाभट्ट इति प्रथां दिनकरात्प्राप्तः पितुलालना- तस्य ग्रन्थ इहामवत्प्रथमकः श्रीभादृचिन्तामणौ ॥ इति गागाभट्टक्तभाचिन्तामणौ प्रथमाध्यायस्य चतुर्थः पादः । समासश्च प्रथमोऽध्यायः मयूखः। (१) अपूर्वोच्छेद इति । उपस्थितस्य देवताप्रसादस्य रात्रिसत्रन्यायेन द्वार स्वसंमयेनानुपस्थितस्यापूर्वस्य न तत्कल्पनीयमिति भावः । (१) पूर्वाधिकरणोक्तनिर्णयकारणस्य वाक्यशेषस्याभावेन पूर्वपक्षोत्थानात् प्रत्यु. दाहरणसजत्योपतिष्ठते-अर्थवादवदेवेति । (३) सन्दिग्धेति । सन्दिग्धविषयतयोपस्थितत्वात्प्रसङ्गसङ्गतिरित्यर्थः । इति सूर्यनारायणशुक्लविरचिते भादृचिन्तामणिमयूखे प्रथमाध्याये चतुर्थः पादः समाप्तः ।

७७ द्वितीयाध्याये प्रथमः पादः। अथ भादृचिन्तामणौ द्वितीयाध्यायस्य प्रथमः पादः। अथ प्रथम प्रतिपदाधिकरणम्-- भावार्थाः कर्म शब्दास्तेभ्यः क्रिया प्रतीयत एष. ह्यर्थो विधीयते ॥१॥ प्रभा ये भावार्थाः भावः भावना अर्थोऽवच्छेद्योऽर्थों येषां ते भावनाविशेषणीभूतार्थाः कर्मशब्दाः कमैशब्दः क्रियावाचको धातुः अस्ति वाचकत्वेन येषां ते धात्वर्थाः तेभ्यः धात्वर्थेभ्यः एव क्रिया अपूर्वोत्पत्तिरूपा फलोत्पत्तिरूपा वा प्रतीयते कुत: एष हि अर्थः धात्वर्थः विधीयते विधेयफलभावनावच्छेदकत्वेन सम्बध्यते न तु द्रव्यगुणरूपो नामार्थः। यदा ये भावार्थाः प्रत्ययेन भावनाप्रतिपादकाः कर्मशब्दाःप्र. कृत्या कर्मवाचकाः 'यजेत' इत्यादयः तेभ्यः क्रिया कार्यमपूर्व प्रतीयत कल्प्येत न द्रव्यगुणशब्दभ्यः हि यस्मात्कारणात् एषः अर्थः धात्वर्थः विधीयते फलभावनाकरण. स्वेन विधीयते ॥ तथा च लोमेन 'यजेत' इत्यादौ फलभावनायां धात्वर्थस्यैव करण. त्वमिति तस्यैव फलसाधनीभूतापूर्वेण सम्बन्धः न सोमादेरुपपदार्थस्य तस्य धात्वर्थोप. पकारकत्वादिति भावः ॥ १॥ (उपाद्धावा) निरूपितेषु(१) धर्मप्रमाणेषु प्रमेयधर्मावगतौ तदनेकत्वरूपो भेदो निरवशेषधर्मस्वरूपज्ञानार्थ चिन्त्यते । तदुद्देश्यकोष्टिभावनाया एव धर्मतया तद्भेदोऽध्यायार्थः। स च यद्यपि शब्दान्तरादिप्रमाणका धात्वर्थभेदेन, तदभावे गुणफलाधिकारे साक्षाद्गुणेनैव, सर्वेभ्य इत्यादौ फलभेदेन भवति तथापि द्वितीयाध्यायप्रतिपाद्यकरणीभूतधात्वर्थ- भेदद्वारकभेदस्य धात्वर्थकरणत्वासिद्धावसम्भवाद्धात्वर्थस्य भावनायां मयूखः । (१) यद्यपि अथातो धर्मजिज्ञासा इति सूत्रेण धर्मस्वरूपजिज्ञासैव प्रथमतः प्रतिज्ञाता, तद्विवरणपरे को धर्मः किं लक्षणकः इति भाष्येऽपि प्रमाणाजिज्ञासात: प्राक् स्वरूपजिज्ञासैव प्रतिज्ञातेति तत्स्वरूपनिरूपणमेवादो कर्तुमुचितम् न प्रमाणनिरूपणम् , तथापि मेयसिद्धः प्रमाणाधीनत्वात् चोदनासूत्रे प्रमाणान्तर्भावेणैव स्वरूपोक्तेः कर्त यो. ग्यामपि स्वरूपचिन्तामुपेक्ष्य प्रमाणचिन्ता पूर्वाध्याये कास्न्येन कृता । यदर्थ च यदार. ब्धं तत्समाप्तौ तबुद्धिस्थं जायत इति न्यायेन प्रमाणचिन्तासमाप्तौ बुद्धिस्थस्य स्वरूपस्या- वसरलाभात् तन्निरूपणं क्रियते इत्यभिप्रेत्यावसरमति शब्दान्तरादिभिर्वि धेः कर्मोत्पत्तिपरत्वादुत्पन्नस्य पुनर्विधानानर्थक्यात् भेदसिद्धिरानर्थक्यनिरासाधीनप्रा. माण्यसिद्धावेव शक्या वक्तुमिति हेतुहेतुमद्भावसङ्गति वा दर्शयितुमाह-निरूपितविति।

- - समयूख भादृचिन्तामणौ- करणत्वं(१) चिन्त्यते । (विषयः) इह विधेयोपपदार्थकानि सोमेन यजेतेत्येवमादीनि वाक्यान्युदा. हरणम् , बीहीन् प्रोक्षतीत्यादौ सन्देहासम्भवात । (पूर्वपक्षः) ननु प्रधानलम्बन्धलाभात्सर्वेषां भावनान्वयः उपश्लेषकारकश्रु. त्योस्तुल्यत्वात्, अन्यथा फलान्वयिनो गुणान्वये वैरूप्यं मत्वर्थलक्षणा वा स्यात् , तत्र चैकवाक्योपात्तत्वात्साधनसमुच्चयो न समुच्चितानां साधनत्वम् , पृथक् तृतीयानिर्देशात् । यद्वा-एकार्थत्वाद्विकल्प इति चेत्:- (सिद्धान्तः) न, करणभेदेन भावनामेदे फलभेदे वाऽनेकाष्टकल्पनापत्तिः । करणानां समुच्चयेऽप्युत्पत्यपूर्वानेकत्वम् । न च द्रव्यक्रिययोः पर. स्परसापेक्षत्वेन क्रमिकाभावानोत्पत्त्यपूर्वभेद इति वाच्यम् । सह क्रियमाणदधिपयोयाग इव तृतीयावगतनिरपेक्षकरणत्वस्य फलनि पितत्वालम्भवेनोत्पत्यपूर्वनिरूपितत्वेन तद्भेदकत्वात् । अतः प्रधा. नसम्बन्धत्यागं मत्वर्थलक्षणां नामत्वं वाङ्गीकृत्यास्यैव भावनाक- रणत्वं युक्तम् । तत्र यागस्य फलान्वये सोमस्य तजनकतया सोमस्यान्वये यागस्याश्रयत्वेन दृष्टविधयैवोपकारकत्वम् ॥ द्वितीयं भावार्थाधिकरणम् - सर्वेषां भावोऽर्थ इति चेत् ॥ २॥ येषामुत्पत्तौ स्व प्रयोगे रूपोपलब्धिस्तानि नामानि तस्मात्तेभ्यः परा. काङ्क्षा भूतत्वात्स्वे प्रयोगे, येषां तूत्पत्तावर्थे स्वे प्र. योगो न विद्यते तान्याख्यातानि तस्मात्तेभ्यः प्रत्तीयेता. श्रितत्वात्प्रयोगस्य ॥३॥ प्रभा सर्वेषां द्रव्यगुणादीनां भावः भावना अर्थोऽवच्छेद्य इति चेत् ॥ २॥ न, यतः उत्पत्ती सोमेन येजेतत्याद्युत्पत्तिवाक्ये येषां पदानां स्वप्रयोगे स्वोचारण . मयूखः । (१)चिन्ता च स्वर्गादिफलं प्रति किं धात्वर्थस्य करणस्वमुत उपपदार्थस्य सो. मादेरपीत्येवंरूपा।

द्वितीयाध्याये प्रथमः पादः। वेलायां रूपोपलब्धिः स्ववाच्योपलब्धियोग्यता स्ववाच्यानां सिद्धत्वमिति यावत् तानि नामानि तस्मात् तेषां सिद्धार्थबोधकत्वात् तेभ्यः नामार्थेभ्यः आकाङ्क्षा स्वसाधना. काङ्क्षा परा दूरे नास्तीति यावत् कुत इत्यत आह भूतत्वात् तत्तन्नामार्थस्य स्वे प्रयोगे उत्पत्तिवाक्य एव सिद्धत्वेन प्रतीतः अतः नामस्य सोमादः फलसम्बन्धे स्वीक्रियमाणे यागो न दृष्टविधया सोमसाधनं तस्य सिद्धत्वात् किन्तु अष्टद्वारैवेति यागादकमाष्टं सोमार्थ सोमाच्चैकमष्टं स्वर्गार्थमित्यष्टद्वयं स्यात् सोमस्य तु यागार्थत्वे सोमेन साध्यस्य यागस्य निष्पत्तिदृष्टमेव फलं यागाच्चैकमेव स्वर्गार्थमदृष्ट कल्प्यमिति भावः । येषां पदानां उत्पत्ती उत्पत्तिवाक्योच्चारणवेलायां स्वेऽर्थ स्वप्रतिपायेऽर्थे यागादौ साध्यतया प्रयोगः इन्द्रियसम्प्रयोगो न विद्यते तानि आख्यातानि तस्मात् तेषां साध्यार्थः बोधकत्वात् तेभ्यः तदर्थेभ्यः स्वमाधनाकाङ्क्षा प्रतीयेत अतः उपपदार्थः दृष्टद्वारैव धात्वर्थोपकारकः धात्वर्थश्च अदृष्टद्वारा फलार्थ इति लाघवात् धात्वर्थस्यैव फलसम्बन्धो नोपपदार्थस्येति भावः। ननु उपपदार्थस्य फलसम्बन्धेऽपि धात्वर्थस्य आश्रयतया दृष्टविधयैव उपपदार्थोपकारकत्वं सम्भवतीति नाहष्टद्वयकल्पनेति धात्वर्थादेव फलमित्यत्र विनिगमका. भाव इत्याशङ्कायामाह-प्रयोगस्य प्रयुज्यमानायाः भावनायाः धात्वर्थेनैवान्वयस्समा. नपदोपात्ततया पूर्वम् आश्रितत्वात् औत्तरकालिकः फलान्वयोऽपि धात्वर्थस्यैव तथा च समानपदश्रुतिरेवात्र नियामिकेति भावः ॥ ३ ॥ (पूर्वपक्षः) यदैकं तदा सिद्धत्वरूपयोग्यतया कारकश्रुतेश्च सोमस्यैवेति चेत्, (सिद्धान्तः) न, अनेकाष्टकल्पनापत्तेः । यागस्य द्वारस्वरूपेऽप्याश्रयत्वे यागा. ददृष्टकल्पनाया आवश्यकत्वात् । जन्यत्वमात्रत्वे तदनुष्ठानवैयर्थ्यात् । संस्कारकत्वरूपे दृष्टाभावेनादृष्टसंस्कारकत्वापत्तिः । तेनाश्रयत्वस्या. सम्भवाद्धात्वर्थस्यैव फलजनकतया भाषनाकरणत्वेनान्वयः(१)। धात्वर्थातिरिक्तभावना च करणत्वेनाभिमतस्य फलजनकताव. च्छेदकशक्तिजनकव्यापारसामान्यम् । पचति यजति कुठारेण छि. नचीत्यादौ पाकेन कुर्यात्कुठारेण छेदनं कुर्यादिति पाकयागकुठार. मयुखः । (१) अन्वय इति । तथा च थागः फलसाधनं सोमो यागार्थ इति सिद्धम्। प्रयोजनं सोमापचारे न प्रतिनिध्युपादानं पूर्वपक्षे सिद्धान्ते तु तत् । (४) नन्विदं धात्वर्थतिरिक्तभावनासत्वे भवेत् न तु तस्यां प्रमाणमस्ति धातुना मेव विक्लित्यादिफले इव तत्प्रयोजकव्यापारमात्रे फूत्कारादौ यत्नादौ च शक्तत्वादि- त्याशङ्का परिहर्तुमाह-धात्वर्थेति ।

समयूखभादृचिन्तामणौ- maa निष्ठफलजनकव्यापारसामान्यप्रतीतेः । पचधातोश्च विक्लित्तिरयः । यजेश्च स्वत्वध्वंसे गमेश्चोत्तरसंयोगे त्यजे. पूर्वविभागे शक्तिः । एवं च धातूनां फल एव शक्तिः । उक्तव्यापारसामान्ये प्रत्ययस्य । तत्र च व्यापारोद्देश्यजनकत्वरूपं धात्वर्थस्य पारिभाषिकं करणस्वम् । व्यापारविशेषश्चेतिकर्तव्यता । एवं च तत्तद्धातुसममिव्याहृतप्रत्य. यस्य तत्तद्धात्वर्थनिष्ठफलजननानुकूलव्यापारे शक्तिः। सैव भावनेति पार्थसारथिः । मण्डनोऽप्येवम् । फलण्यापारश्च धात्वर्थः व्यापारश्चाधिश्रयणादिविकित्तिजनकव. ह्रिसंयोगान्तः तदनुकूलप्रयत्नो भावनेति राणकः । परे तु भावना न प्रत्ययार्थः, अपि तु धात्वर्थ एव तत्रैव च फल- रूपधात्वर्थस्य विधिसमभिव्याहारेण करणता, प्रत्ययार्थश्च कर्ता संख्या च , भावनाबोधवदेवात्र प्रक्रिया समेत्याहुः । तद्धातो नार्थवा. पत्तेश्चिन्त्यम् । धातोः साध्यत्वेन क्रियाभानं घान्तपाकादिपदासिद्धत्वेन क्रि. याभानमिति साध्यवसिद्धत्वव्यवहारः। ननु किमिदं सिद्धत्वं साध्यत्वं च । न तावत्कारकान्वययोग्यत्वा- योग्यत्वे, काष्ठैः पाको भवतीत्यादावपि कारकान्वयाङ्गीकारात् योग्य तावच्छेदकधर्मस्थानुगतस्याभावाच । नापि क्रियान्तरसाकाङ्कत्वा. नाकासत्वे, आकाङ्क्षावच्छेदकधर्मत्वस्य निर्वक्तुमशक्यत्वात् । किञ्च- पदस्य शक्यतावच्छेदकप्रकारकबोधजनकत्वनियमेन साध्यत्वसिद्धत्व. प्रकारकबोधापत्याग्निसंयोगादिप्रकारकबोधो न स्यात् । न हि पदस्य शक्यतावच्छेदकद्वयप्रकारबोधजनकत्वं क्वचिदस्ति । सिद्धत्वादीनां व्यापकतया व्यभिचारेण शक्यतावच्छेदकत्वानुपपत्तेश्चेति चेन्न- लिङ्गसंख्यान्वितयोग्यत्वायोग्यत्वयोः सिद्धत्वसाध्यत्वयोर्वक्तुमश. क्यत्वात् । योग्यतावच्छेदकं तु प्रातिपदिकजन्योपस्थितिसम्बन्धेन प्रातिपदिकवत्त्वम् । धातुनोपस्थितस्य प्रातिपदिकोपस्थाप्यत्वेऽपि प्रातिपदिकवत्त्वाभावात् । समवायसत्त्वेऽपि वायौ रूपाभाववत् । एवं केवलप्रत्ययोपस्थितभावनायाः कारकान्वययोग्यतावच्छेदकस्य ज. न्योपस्थितिसम्बन्धेन प्रत्ययवत्त्वं बोध्यमिति दिक् ॥ सूत्रं तु येषामुत्पन्चावुच्चारणे प्रयोगः सिद्धरूपेऽर्थे न विद्यते तेभ्यो धात्वर्थेभ्योऽपूर्वोत्पत्तिरिति व्याख्येयम् ' प्रयोजनं सोमापचारे प्रतिनि ध्युपादानं सिद्धान्ते पूर्वपक्षे तु नेति । .

द्वितीयाध्याये प्रथमः पादः। माpapta तृतीयमपूर्वाधिकरणम्- चोदना पुनरारम्भः ॥ ४ ॥ प्रभा A आरभ्यत यागेनोत्पाद्यते इति आरम्भः अपूर्व पुनः तु अङ्गीकार्यमेव यतो याग- स्वर्गयोः साध्यसाधनभावस्य ज्योतिष्टोमेन यजेत स्वर्गकाम इति वाक्येन चोदना उपलभ्यते । कालान्तरभविस्वर्गसाधनस्वान्यथानुपत्या तदुपपत्तये यागजन्यमपूर्व कल्प. नीयमिति भावः ॥४॥ (पूर्ववक्षः) नन्यपूर्वे (१)मानाभावाद्यर्थोऽयं विचार इति चेत्- (सिद्धान्तः) न-क्षणिकक्रियाया नष्टद्रव्यादीनां वा कालान्तरभाविफलजन. कत्वश्रवणानुपपत्तेर्मानत्वात् । न चेश्वरेच्छाया व्यापारत्वकल्पनेन तत्परिहारः। तस्या व्यधिकरणत्वात् । नित्यतया(१) व्यापारस्वासम्भ. धाश्च । नापि नाशस्य व्यापारत्वकल्पनया(२) यागस्य जनकीभूताभावप्र. तियोगितया (३)प्रतिबन्धकत्वापत्या श्रुतिबाधापत्तेः । तस्य ()नित्य. तया स्वर्गधारापत्तेः। "धर्मःक्षरति कीर्तनात्"इत्यादिस्मृतिबोध्यकी. तनादिनाश्यत्वानुपपत्तेश्च(५) । अतः कीर्तनादिनाश्यं यागादिजन्य- मात्मनिष्ठमपूर्वमेव व्यापारत्वेनाङ्गीकार्यम् । तब सौर्यादिकं यत्रैकमेव प्रधान, तत्र फलजनकापूर्वस्य साङ्गप्रधान. जन्यतया प्रधानानामङ्गानां च म्वरूपेण साहित्यासम्भवादपूर्वद्वारैव मयूखः। (१) नित्यतयेति । तज्जन्यत्वे सति तज्जन्यजनकस्यैव व्यापारस्वादिति भावः (२) कल्पनयति । निर्वाह इति शेषः। (३) प्रतिबन्धकत्वापत्येति । कारणीभूताभावप्रतियोगित्वं हि प्रतिबन्धकत्वं तद्यदि यागध्वंसः स्वर्गजनकः स्यात् तदा तत्प्रतियोगितया यागः स्वर्गप्रतिबन्धका स्यादिति श्रुतिबोधितयागस्य स्वर्गसाधनता विरुध्येतेति भावः। (४) ननु कारणीभूतसंसर्गाभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वान्न यागस्य प्रति. बन्धकत्वात्तिरित्यरुचेराह तस्यति । तस्य-यागध्वंसस्य, नित्यतया-नाशाप्रतियो. गितया, यथाश्रुतं तु न युक्त वंसत्य जन्यत्वेन तत्र प्रागभावाप्रतियोगिवे सति वंसा प्रतियोगित्वरूपनित्यत्वस्यासम्भवादिति बोध्यम् । (५)इदं च यागध्वंसस्य द्वारत्वाशनं तार्किकरीवा स्वमते तु अमावस्य कुत्रापि कारणत्वान्नेदं युज्यते इति मन्तव्यम् । भा०चि०११ ।

८२ समयूख मादृचिन्तामणौ- साहित्यमिति प्रधानोत्पत्यपूर्वम् , अङ्गानां चोत्पत्यपूर्वाणि कल्पयित्वा तजन्यं परमापूर्वमङ्गीकार्यम् । तत्रापि सन्निपत्योपकारिपूर्वाङ्गानामुत्प. स्यपूर्वोत्पादकत्वम् । तादृशोत्तराङ्गाणां तत्स्थापकत्वम् पूर्वोचराङ्गाना. मारादुपकारकाणां तदुपकारकत्वम् । उपकारश्च फलापूर्वजनने सहा कारित्वमिति। एवं दर्शजन्यमङ्गापूर्वसहितमुत्पत्यपूर्वत्रयं पौर्णमासजन्यं ताशमुत्पस्यपूर्वत्रयं च परमापूर्वजनकम् । तत्र च समुदायापूर्वद्वयम. धिकं स्वीकार्यम् । अन्यथा-फलवाक्यबुद्धजनकतायाः परमापूर्वनिरूपि. तत्वेनोत्पत्तिवाक्यबुद्धजनकतायाः प्रातिस्विकावान्तरापूर्वनिरूपितत्वे. नोपपत्तावपि समुदायवाक्यबुद्धसमुदायजनकतायाः समुदायापूर्वनि. अपितत्वं विना निर्वाहाभावात् । अतः समुदायापूर्वद्वयमावश्यकम् । यदि चोत्पत्तिवाक्यबुद्धकरणत्वानुवाद एव समुदायवाक्ये फलवाक्ये च क्रियते नापूर्वकरणत्वबोधः आरादुपकारकाणामुत्पत्त्यपूर्वोत्पा. दकत्वं स्थापकत्वं च सन्निपातिवदिति विभाव्यते तदा तदुत्त्यपूर्व रेवालमिति। सूत्रस्य-आरभ्यते इत्यारम्भोऽपूर्व तदस्ति यतो यागस्य काला. न्तरमाविफलार्थत्वेन चोदनेति अर्थः । अथ चतुर्थ तानि द्वैषाधिकरणम्-- तानि वैधं गुणप्राधानभूतानि ॥ ५॥ यैव्यं न चि- कीर्ण्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात ॥६॥ यैस्तु द्रव्यं चिकीयते गुणस्तत्र प्रतीयते तस्य द्रव्यप्र. धानत्वात् ॥७॥ -- प्रभा तानि धात्वर्थरूपक्रियाप्रतिपादकान्याख्यातानि पदानि द्विधैव द्वैधं द्विविधानि गुणप्रधानभूतानि कानिचिद्व्यं प्रति गुणभुतार्थप्रतिपादकानि कानिचिच्च द्रव्यं प्रति. प्रधानभूतार्थप्रतिपादकानि ॥५॥ यैस्तु कर्मभिः द्रव्यं यागीयं न चिकीर्यते न संस्कर्तुमिष्यते तानि कर्माणि सोमेन यजेतेत्यादिविधिविहितानि प्रधानभूतानि द्रव्यस्य सोमादेः तत्र गुण- भूतत्वात् ॥६॥ यैस्तु ब्राहीन् प्रोक्षतीत्यादिविधिविहितैः कर्मभिः द्रव्यं ब्रह्मादिकं चिकीर्यते संस्कर्तुमिष्यते तत्र तानि कर्माणि गुणः गुणभूतानीत्येवं प्रतीयेत तस्य तत्रत्याख्या. तस्य द्रव्यप्रधानस्वात् द्रव्यं प्रधानं यस्य तत्त्वात् ॥ ७ ॥ - द्वितीयाध्याये प्रथमः पादः। ८३ यथा (विषयः) तानि त्रैधं गुणप्रधानाश्रयाणीति । तिङन्तपदानि गुणकर्मप्रधा. नकर्माश्रयिकर्मबोधकतया त्रिविधानि । तत्र द्रव्यदेवतादिसं. स्कारकभावं यथावघातादि । अष्टमात्रजनकं द्वितीयम् । प्रयाजादि । अंशतस्तदुभयरूपं तृतीयम् । यथा स्विष्टकृद्याग:पशु. पुरोडाश उत्तमप्रयाजो मित्रावरुणदण्डदानं च । स्विष्टकृयागो हि देवतोहेशांशेनेष्टदेवतास्मरणं प्रक्षेपांशेन द्रव्यप्रतिपत्ति त्यागां. शेनादृष्टं जनयति । पशुपुरोडाशयागोत्तमप्रयाजौ च देवतास्मरणं च दृष्टं त्यागप्रेक्षेपोद्देशेनादृष्टं प्रक्षेपस्याप्यदृष्टजनकत्वादिति । ( पूर्वपक्षः) ननु सर्वत्र धात्वर्थस्यापूर्वजनकत्वेन द्रव्यस्य धात्वर्थजनकत्वेन म. स्वर्थलक्षणया भावनान्वयात्प्रधानकर्मस्वमेवास्तु कृतं वैरूप्येणेति चेत- (सिद्धान्तः) न-अनेकाष्टकल्पनापत्तेः। अवघातजन्यमेकम् । व्रीहिजन्यनियमेन द्वितीयम् । तदपेक्षयावघातनियममात्रजन्याष्टकल्पने लाघवात् । नन्वाश्रयाणि विधिवशादष्टार्थानि यक्ष्यमाणदेवतास्मरणाकीर्ण. करद्रव्यप्रतिपत्तिरूपहष्टार्थान्येव अदृष्टकल्पनाया अन्याय्यत्वादेक. प्रयोजननिराकासत्वाति चेन्न-अंशभेदेनोभयार्थत्वसम्भवात् । यजतिवाच्यदेवतोद्देशांशस्य स्मरणार्थत्वेऽपि प्रक्षेपांशस्य प्रतिपस्यर्थः स्वेऽपि च त्यागांशस्यानन्यप्रयोजनकस्यादृष्टार्थत्वात् । न च द्रव्यप्रक्षे. पयोर्यागावयवत्वेन कथं परस्परं गुणप्रधानत्वमिति वाच्यम् । स्विष्टक: धागे गुणभूतस्य यागान्तरीयद्रव्यप्रतिपस्यर्थत्वे बाधकामावात् । न चैवं स्विष्टद्यागाङ्गता होमस्य कथमिति वाच्यम् । स्विष्टकृद्यागीयच. तुरबत्तप्रतिपादनद्वारस्यार्थस्य भावात् ॥ अथ पञ्चमं समागाधिकरणम्- धर्ममात्रे तु कर्म स्यादनिवृत्तेः प्रयाजवत् ॥८॥ तुल्यश्रुतित्वावेतरैः सधर्मा स्यात् ॥९॥ द्रव्योपदेश इति चेत् ।। १० ॥ न तदर्थत्वाल्लोकवत्तस्य च शेषभूत स्वात् ॥११॥ धर्ममात्रे रष्टोपकाराजनके कृत्स्ने संमार्गादिरूपे कर्म प्रधामकर्मत्वं स्यात् द्रव्यनिष्ठोपकारस्य प्रयाजादिवत् प्रयाजादिभ्य इव अनिवृत्तेः अनिष्पादनात ॥८॥ - समयूख भाइचिन्तामणी- . सिदान्तमाह-वा शब्दः पूर्वपक्षव्यात्तौ इतरैः दृष्टोपकारजनकैः अवघातादिभिः सधर्मा गुणकर्मस्वेन तुल्यः स्यात् कुतः तुल्यश्रुतिस्वात् ब्राहीनवहन्तीतिवद् प्रहं संमार्टि ब्रीहीन्प्रोक्षतिइत्यादावपि द्रव्यगतप्राधान्यबोधकाद्वितीयाश्रुतेस्तुल्यत्वात् ॥ ९॥ शाइते-त्रीहीन् प्रोक्षतीत्यादौ द्वितीयया सक्तून् अहोत्यत्रेव करणत्वबोधनेन द्रव्योपदेशः द्रव्यस्य गुणतयैवोपदेश इति चेत् ॥ ११ ॥ न लोकवत् घटं करोतीत्यादिलौकिकप्रयोग इव ब्रीहीन् प्रोक्षतीत्यादौ “कर्म गिद्वितीया" इत्यनुशासनेन तदर्थत्वात् कर्मस्ववाचकत्वात् तस्य सक्तून् जुहोती. स्यादैः सक्त्वादेः च शेषभूतत्वात् भूतभाव्युपयोगासम्भवेन प्राधान्यस्य स्वीकर्तुम. शक्यतयागत्या द्वितीयायाः करणले लक्षणाश्रयणात् ॥ ११॥ (पूर्वपक्षः) (१)ननु यत्र द्रव्यनिष्ठदृष्टसंस्कारजनकत्वं धात्वर्थस्य तत्रास्तु गुण. कर्मत्वम् , तदभावे वीहीन् प्रोक्षति सुचः संमार्टीत्यादौ प्रधानकर्मत्व मरिस्वति चेत्- (सिद्धान्तः) म पोक्षणादिजन्यादृष्टस्य तत्र च ब्रीह्यादिसाधननियमाष्टस्य च कल्पने गौरवात् । तदपेक्षयैकादृष्टकल्पने लाघवात् साध्य तावाचकद्वितीयाबाधापत्तेश्च । “सक्तून् जुहोति" इत्यादौ सक्तूनां साध्यत्वायोग्यत्वात् द्वितीयाभङ्ग इति । न च सक्तुभिर्मलिनं श्री. णातीति श्रयणोपयुक्तसक्तुप्रतिपत्तिविधिः । श्रयणोपयुक्तप्रतिपत्ति संभवेन सक्तुपदस्य तदेकदेशे लक्षणापत्तेः ॥ अत्राहुः-सक्तुशब्देऽपि न विनियोगभङ्गः । सप्तविभक्तो लक्षणा नङ्गीकारात् । किन्तु सक्तूनां धात्वर्थे कर्मत्वेनान्वयः। तच्च धात्व. थतावच्छेदकफल शालिस्वरूपम् । न च धात्वर्थस्य क्रियादेः तदन्वयि सक्तूनामकारकतया कारकानुवृत्तिविहिता द्वितीया न स्यादिति वा. व्यम्। क्रियान्वयित्वधात्वर्थतावच्छेदकफलशालित्वान्यतरत्वस्य का. रकत्वात् । एवं च सक्तुकर्मकहोमेन प्रधानफलं भावयेदित्यर्थः। अत एवानीप्सितकर्मणोऽकथितादेश्च धात्वर्थतावच्छेदकफलद्वारेण धात्वर्थ एवान्वयो न भावनायाम्। विधिसमभिव्याहृतकर्मत्वस्य भावनान्वयित्व. नियमात् । एवं च चरुमुपदधातीति चरोः स्वाध्यायोऽध्येतव्य इत्यत्र मयूखः। (१) पूर्वाधिकरणे दृष्टोपकारकस्वलाभात गुणकर्मत्वे साधिते यत्र सा न लभ्यते तत्र प्रधानकर्मत्वं भवत्विति दृष्टोपकारकत्वरूपसिद्धान्तहेतुप्रत्युदाहरणरूपेण पूर्वपक्षो. स्थानादनन्तरसंगतिं सूचयन् विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह-नन्विति ।

द्वितीयाध्याये प्रथमः पादः। ८५ स्वाध्यायस्य धात्वर्थकर्मत्वेनान्धयः। अर्थशानं चयनादेर्भाव्यत्वम् भाव. नाकर्मत्वम् । एवं च वार्तिककारीयो धात्वर्थकर्मभावनाकर्मणोर्मेदेन व्यवहारः सङ्गच्छत इति । सूत्रस्य तदर्थत्वात् द्वितीयया तादर्यबोधात्तस्यान्येशषभूतत्वेन संस्का. यत्वसम्भवादित्यर्थः। अथ षष्ठं स्तुतशस्त्राधिकरणम् । स्तुतशस्त्र पोस्तु संस्कारो याज्यावद्देवताभिधान- स्वात् ॥ १२ ॥ अर्थेनापकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ॥ १३ ॥ वशावदा गुणार्थ स्यात् ॥१४॥ न श्रुतिसमवायित्वात् ॥१५॥ व्यपदेशभेदाच्च ॥१६॥ गुण. श्वानर्थकः स्यात् ॥ १७ ॥ तथा याज्यापुरोरुचोः ॥ १८॥ वशायामर्थसमयायात् ॥१९॥ यत्रेति वाऽर्थवत्वात्॥२०॥ नत्वान्नातेषु ॥२१॥ दृश्यते ॥२२॥ अपि वा श्रुतिसंयोगा. प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विद्ध्याताम् ॥२३॥ शब्दपृथक्त्वाच ॥२४॥ अनर्थकं च तद्वचनम् ॥२५॥ अ न्यश्चार्थः प्रतीयते ॥२६॥ अभिधानं च कर्मवत् ॥२७॥ फलनिवृत्तिश्च ॥ २८ ॥ याज्यावत् याज्या इव देवताभिधानत्वात् देवताबोधकत्वात् स्तुतशस्त्र. योस्तु स्तुतशस्त्रयोरपि संस्कारः देवतास्मरणेन संस्कार एव फलम् ॥ १२ ॥ अस्मिन्पूर्वपक्षे शहते एवं सति माहेन्द्रयागक्रमे पठितम "अभिवा शर नोनुमः" इत्येन्द्रऋगद्वयम् देवतानामचोदनार्थस्य देवतानामघटितचोदनाप्रतिपाद्यमिन्द्राद्यर्थ प्रति गुणभूतत्वात् अङ्गभूतत्वात् पूषानुमन्त्रणमन्त्रवत् अर्थेन देवतासंस्काररूप. प्रयोजनानुरोधेन अपकृप्येत माहेन्द्रयागादपनीय ऐन्द्रयागे नीयेत ॥ १३ ॥ समाधत्ते वशावत् “सा वा एषा सर्वदेवत्या यदजा वशा वायम्यामालभेत" इति. पशानामघटितचोदनाप्रतिपाद्यस्यापि पशोः वशात्वगुणविनिमोकेण प्रत्यायकं "छागस्य बपायाः मेदसः" इति मन्त्रः स्वीक्रियते तद्वत् अगुणार्थ वा महेन्द्रयागे एव महत्व. रूपगुणविनिर्मोकेण विशेष्यभतेन्द्रमात्रप्रतीत्यर्थमेव ऋग्वयं स्यात् तथा च नापकर्ष इति भावः ॥१४॥ एवं पूर्वपक्षिसमाधाने सिद्धान्ती शकृते-न ऋग्गतेनेन्द्रशब्देन प्रकृतमाहेन्द्रप्रहस. प्रमा समयूख भाचिन्तामणौ- म्बन्धिदेवताभिधानं युज्यते श्रुतिसमवायित्वात् श्रुत्या माहेन्द्र प्रहं गृह्णातीति विधिगतशब्देनैव देवतायाः कर्मणि समवायित्वात् सम्बन्धित्वात् । अयं भावः माहेन्द्र. मिति तद्धितेन त्यज्यमानद्रव्योद्देश्यत्वरूपं देवतात्वं महेन्द्रपदे एव बोध्यते न बृहच्छकादि. पदे नापि इन्द्रपदे तत्रोद्देश्यत्वस्य उच्चार्यत्वरूपत्वात् तथाचोत्कर्ष एव प्रसज्यत इति॥१५॥ इन्द्रमहेन्द्रदेवतयोमेंदे हेत्वन्तरमप्याह-"बहु दुग्धीन्द्राय देवेभ्यः बहु दुग्ध महेन्द्राय देवेभ्यः" इति व्यपदेशभेदाच तयोर्भेदः ॥ १६ ॥ विपक्षे बाधकमाह-इन्दमहेन्द्रयोरक्ये गुणश्च निर्दिश्यमानः महत्त्वरूपो गुणः अनर्थकः स्यात् ॥१७॥ किश्च तयोरैक्ये याज्यापुरोरुचोः इन्द्रमहेन्द्रदेवस्ययोः याज्यायाः पुरोनुवाक्या. याच "महानिन्द्रीय ओजसा" 'ऐन्द्रं सानसिं रयिम्"भेदेन पाठः तथा अनर्थकः स्या. दतो भेद एव ॥ १०॥ वशावद्वेति दृष्टान्तो विषम इत्याह-वशायौ वशात्वगुणविशिष्टव्यविधौ अर्थसं. योगात विधिगतशब्दार्थस्यैव द्रव्यस्व कर्मणि सम्बन्धात् छागशब्देन विशेष्यमात्रप्रका. शनं युक्तम् माहेन्द्रे तु न तत्र महत्वस्य महत्पदोचारणद्वारेणैवोपकारकत्वेनानुचारितस्य साधनस्वासम्मवादत उत्कर्ष एव स्यात् देवतास्तावकत्वे ॥ १९॥ एवं स्थिते पूर्वपक्षी इष्टापत्त्या प्रतिविधत्ते-अर्थवस्वात् अर्थानुसारित्वात् यत्र इन्द्रो देवता तत्र अस्या ऋच उत्कर्ष इष्ट इति भावः ॥२०॥ एवं पूर्वपक्षिणोके एकदेशी शहते-ऐन्द्रस्य ऋद्वयस्य यत्रेन्द्रो देवता तत्रोत्कर्षसम्भवे. ऽपि अन्येषु तत्तद्महाभ्यामसंनिधौ आम्नातेषु 'याम्याः शंसति शिपविष्टवतीः शंसति कुसुम्भकसूकमन्वाह अक्षसूकं मण्डूकसूतं मूषिकसूक्तमन्वाह' इत्यादिविधिविहितेषु मन्त्रेषु प्रकरणे यमादीनामभावात् प्रकरणबहिभूते च यमादिदैवत्ये कर्मणि सामान्यसं. बन्धबोधकप्रमाणाभावात् कुसुम्भकादीनां च कुत्रापि देवस्वाभावात् उत्कर्षानुपपत्या न तु अर्थवत्त्वोपपत्तिः ॥ २१॥ पूर्वपक्षी परिहरति-मण्ड्कसूतस्य प्रकरणाग्ज्योतिष्ठोमसम्बन्धेऽवगते. मानर्थः क्यतदङ्गन्यायेन तदङ्गभूते 'मण्डुकेनाग्नि विकर्षति' इतिविधिविहितमहकप्रकाशकत्वेना. ग्निचयने, मूषिकसूक्तस्य प्रकरणाज्ज्योतिष्टोमाजभूतयूपैकदेशिन्या 'सर्षे वा अन्ये यूपाः पशुमन्तोयोपशय एवापशुः' इत्युपक्रम्य 'माखुस्ते पशुरितिब्रूयात् हातेमन्त्र विधानेन आखुस्तुतिद्वारा तत्सम्बन्ध्युपशयस्तुत्या उपशययूपे विनियोगः, एवं या म्यादिमन्त्राणा प्रकरणे कथमपि निवेशासम्भवात् अन्यत्र बोधकप्रमाणाभावात् उत्कर्षासम्भवात् अगत्या प्रकृते प्रहदेवतैव लक्षणया प्रकाश्यत इति अत्रैव निवेशः इति सर्वेषामर्थवत्वं दृश्यते तस्मादुत्कर्षाभ्युपगमे बाधकामावात स्तोत्रं शस्त्रं च संस्कारकर्मव ॥ २२ ॥ सामान्यसम्बन्ध.

द्वितीयाध्याये प्रथमः पादः। सिद्धान्तमाह-अपि वा इति पूर्वपशव्यावृत्तिः 'आज्यैः स्तुवते, प्रउगं शंखति'इस्या दौ श्रुतिसंयोगात् गुणिनिष्टगुणाभिधानवाचकस्तुशंसरूपधातुश्रुतिसमभिव्याहारात स्तौतिशंसती स्तोत्रशस्त्रे कर्मणी प्रकरणे एव क्रियोल्पति देवतागतगुणप्रकाश. नरूपकार्यद्वारा अपूर्वोत्पत्ति विदध्याताम् कुर्याताम् गुणिप्रकाशनेन दृष्टार्थत्वं तु न युक्तं स्तुशंसधात्वोर्गुणिनिष्टगुणप्रकाशने शकतया गुणोपसर्जनकगुणिबोधकत्वे लक्षणापत्तेः देवताऽप्रकाशकतया संस्कारकर्मत्वायोगेन आत्मसमवेतापूर्वजनकतया प्रयाजादिवत्प्रधान कमत्वमेवेष्व्यम् ॥ २३ ॥ हेस्वन्तरमाह-शब्दपृथत्वात् 'द्वादशस्तोत्रोऽग्निष्टोमः द्वादशशस्त्रोऽग्निष्टोमः' इति बादशशब्देन स्तोत्र शस्त्राणां भेदावगमात् च स्तोत्रशस्ने प्रधानकर्मणी अयं भावः मम अपूर्वभेदेन तत्साधनानामपि भेदाद् द्वादशावं युज्यते तब तु देवताप्रकाशनरूपस्य दृष्टसंस्कारस्य फलतया प्रकाशनाना प्रत्य॒वं प्रतिपदं या भिन्नतया द्वादशस्वानुपपत्तिा प्रकाशनत्वेनैक्ये सुतरामिति ॥ २४ ॥ प्रकाशनार्थत्वपक्षे तद्वचनम् अग्निष्टुति 'आग्नेया प्रहा भवन्ति' इति वचनेन प्रा. तग्रह नुवादेनाग्निदेवताविधी कृते प्राकृतदेवताबाधवत् तत्प्रकाशकमन्त्रबाधेनामिप्रकाश. कमन्त्रान्तराणां न्यायादेव प्राप्तेः आग्नेयीषु स्तुवत' हतिवचनम् अनर्थकं च अनर्थ. कमेव स्यात मम तु अष्टार्थतया सत्यपि प्रहाणामाग्नेयत्वे कमांसमवेतगुणिनिष्ठस्यापि गुणस्य कीर्तनेन प्राकृतानामेव मन्त्राणामुगरणप्रसक्त्या तन्निवृत्यर्थ 'आमेयीषु स्तुवत' इति सार्थकम् ॥ २५॥ 'संबद्ध वा स्तोत्रं शस्त्रं च' इति श्रुत्या स्तोत्रशस्त्रयोः सम्बन्धप्रतीत्या सम्बन्धस्य भेदाधिष्ठानतया स्तोत्रशस्त्रयोः सरूपतः फलतो वा भेद आस्थेयः तत्र उभयोरपि गुणिनिष्ठगुणाभिधानरूपखात् स्वरूपतो भेदासम्भः नच प्रगानाप्रगानकृत एव स्वरूपभेदो ऽस्विति वाच्यम् सरूपतः फलतो वा भेदसम्भवे प्रगानायकतभेदेन भेदाश्रयणस्यानु तत्वादिति अर्थ: स्तोत्र शस्त्रयोः फलं अन्यश्च अन्यदेव प्रतीयते स च तयोर. पूर्वार्थ सम्भवति आष्टयोर्मिन्नत्वात न पुनः देवताप्रकाशनरूपदृष्टार्थत्वे इति फलतस्त. योर्मेदसिद्धया सम्बन्धसिद्धिः ॥ २६ ॥ अमिधानं स्तोत्रं शस्त्रादिरूपं सामान्याभिधाने आज्यपृष्ठप्रउगादिरूपं विशेषाभिः धानं च कर्मवत प्रधानकर्मणामिव श्यते तच आरादुपकारकरवपक्ष उपपद्यते न संस्का. रकर्मवपक्षे संस्कारस्य संस्कार्यनिरूपणाधीननिरूपणस्य संस्कार्येणैवावच्छेदसिद्धौ अव. च्छेदकीभूतसंज्ञानपेक्षत्वात् ॥ २७ ॥ 'स्तुतस्य स्तुतमूर्जस्वत्ययस्वदा मा स्तोत्रस्य स्तोत्रं गम्यादिन्दवन्तो वनामहे भक्षी- महि प्रजामिष्टम् सा मे सत्याशीर्यस्य भूयात' इति मन्त्रे भावनिष्ठान्तस्तुतपदेन स्तोत्र कियोपादानात् स्तोत्रादेव फलनिवृत्तिश्च फलनिष्पत्तिश्च प्रार्थिता न देवतायाः अतो समयूखभादृचिन्तामणी- me अपि स्त्रोप्रशस्त्र प्रधानकर्मणी । त्वं स्तन्निस्य मध्ये स्तोत्रमसि तदेवं भूतं स्तोत्रस्य मध्ये होत्रमूर्नस्वस्पयस्वद् भूत्वा माम् आगम्यात् इन्द्रवन्तः इन्द्रोपलक्षितदेवतावन्तो वयं वो याचामहे प्रजामिष्टं भजेमहीति सेयं यज्ञपदलक्षितस्य स्तोत्रस्याशीः सस्या भूयादिति मन्त्रस्यार्थः ॥ २०॥ (संशयः) आज्यैः स्तुवते (१)प्रउगं शंसतीति विहितस्तोत्रशस्त्रयोर्गुणगुणि. सम्बन्धप्रकाशनरूपयोः प्रगीताप्रगीतमन्त्रसाध्यतया मन्त्रयोर्गुणकर्मत्वं प्रधानकर्मत्वं वेति चिन्ता । (पूर्वपक्षः) तत्र देवतास्मरणार्थतया दृष्टार्थत्वादवघातवगुणकर्मत्वं गुणस्मा रणांशेऽष्टार्थत्वंगुणिस्मरणांशे दृष्टार्थत्वमित्यायिकर्मत्वं वेति चेत्- सिद्धान्तः) न-गुणविशेष्यकगुणिसम्बन्धप्रकारकबोधानुकूलव्यापारवाचक- योः स्तौतिशंसत्योर्गुणिविशेष्यकगुणकथने लक्षणापत्तेन च विनिगम. कामावविक्रकेशं देवदत्तमानयेत्यादौ स्तुतिबुद्ध्यभावस्थानुभविकत्वात्। न च दृष्टार्थत्वाय लक्षणाङ्गीकारः। प्रकाशनस्य लिङ्गादेव प्राप्तिसम्भ. वेन विधिवैयापत्तेस्तोत्रस्य तदर्थत्वे स्तुतित्वव्याघातः। अतोऽदृष्टा. नि । एवं चाष्टार्थानां (२)द्वादशत्वात् द्वादशस्तोत्रशस्ने ज्योतिष्टोम इत्युपपपद्यते । अन्यथा-प्रत्यूचं प्रतिपदं वा प्रकाशनानां बहुत्वेन तदनुप. पतिः। किञ्च (३)याजुर्वेदिकमाहेन्द्रग्रहयागाभ्यासक्रमेणाम्नातानां सा. मवैदिकानाम् 'अभित्वो शूरनोनुम' इत्यूचांयागीयदेवतास्मरणानहत्वेन प्रकरण एव यत्रेन्द्रो देवता तत्रोत्कृष्येतेति क्रमबाधापत्तिः। दुर्बलस्या. मयूखः। - (१) पूर्वाधिकरणे साधितस्य गुणकर्मत्वस्येहापवादकरणादपवादसंगत्याह- आज्यरिति । प्रउगसंज्ञकः शस्त्रविशेषः । स्तोत्रं प्रगीतमन्त्रसाध्यगुणगुणिसम्बन्ध कीर्तनम् । तदेवाप्रगीतमन्त्रसाध्यं शास्त्रमिति तयोर्भेदः । (३) अदृष्टार्थानामिति । 'द्वादशस्तोत्रोऽग्निष्टोम: द्वादशशस्त्रोऽग्निष्टोम' इति श्रुतं तत्र मम स्तोत्रसाध्यानामहष्टानां द्वादशत्वात् स्तोत्राणां द्वादशस्वमुपपद्यते तव तु अर्थप्रकाशनरूपदृष्टार्थत्वात प्रत्यूचं प्रतिपदं वा अर्थप्रकाशनाना बहुत्वानोपपद्यते. इतिभावः। (१) किञ्चेति । स्तोत्राणामदृष्टार्थत्वे माहेन्द्रयागसन्निधौ इन्द्रस्तुतिरुपपद्यते दृष्टार्थत्वे तु माहेन्द्रयागे इन्द्रस्य देवतात्वाभावात् तत्प्रकाशनस्यानुपयुक्तस्वात् ऐन्द्रयागे उत्कर्षः कर्तव्य इति तत्रस्तुतिरनाथका स्यादिति निर्गलितोऽर्थः ।

No text on this page.

No text on this page.

No text on this page.

Samayuka Bhatta Chinthamani

Author
No Author
Title
Samayukhabhaat't'achintaamand-i
File name
Samayuka Bhatta Chinthamani
Text
OCR done
Published
2004/12/26
Publisher
No Details
Language
Sanskrit
Pages
94
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
commentary on Brahmasutra according to Shankaracharyas School of philosophy and thought
DLI number
383237
Barcode
1990020047524.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
xconBeZSEAY
Download PDF

Samayuka Bhatta Chinthamani