Charan Sahitya Shodh Sansthan, Ajmer
Kavya Mala (i)
Front matter
(Registered according to Act XXV of 1867) (All rights reserved by the Publisher.)
॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणमहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। त्रयोदशो गुच्छकः। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्वापुरवासिपरवोपाह- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितः। सच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १९०३. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा नि रेवाधिकारः।) मूल्यमेको रूप्यर -- --- 一 作。
अनुक्रमणिका ।
....
....
१. श्रीमद्रामभद्रदीक्षितविरचितं वर्णमालास्तोत्रम्
२. श्रीमद्वादिचन्द्रनिर्मितं पवनदूतकाव्यम्
३. पण्डरीविह्वलाख्यकविविरचितो दूतीकर्मप्रकाशः २५
४. श्रीधनदराजकविविरचितं शतकत्रयम्
(१) शृङ्गारधनदम्
३३
(२) नीतिधनदम्
४९
(३) वैराग्यधनदम्
६४
५. गिरिधरविरचितं गञ्जीफाखेलनम्
८१
६. तैलङ्गवजनाथविरचितं मनोदूतम् (सहृदयहृदयाहादना-
परनामकम्) (सटीकम्)
७. गोखामिजनार्दनभट्टप्रणीतं वैराग्यशतकम्
१३१
८. बिह्मणकविविरचितं बिलणकाव्यम्
१४३
....
८४
.
. है काव्यमाला। श्रीमद्रामभद्रदीक्षितविरचितं वर्णमालास्तोत्रम् । अन्तः समस्तजगतां यदुनुप्रविष्ट- माचक्षते मणिगणेप्विव सूत्रमार्याः । तं केलिकल्पितरघूदहरूपमायं पैकेरुहाक्षमनिशं शरणं प्रपद्ये ॥ १ ॥ आम्नायशैलशिखरैकनिकेतनाय वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय । कालाम्बुदाय करुणारसमेदुराय कसैचिदस्तु मम कार्मुकिणे प्रणामम् ॥ २ ॥ इन्दु प्रसादमवतंसयता त्वदीयं कोपकरे हुतवहं वहता हरेण । शक्के जगत्रयमनुग्रहनिग्रहाभ्यां संयोज्यते रघुपते समयान्तरेषु ॥ ३ ॥ इंग्विधस्त्वमिति वेद न सोऽपि वेदः शक्नोति कः स्थितमवेक्षितुमत्तमाझे । श्रोतुं क्षमं न तु शेक्षितुमप्यतस्त्वां सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥ ४ ॥ १. पद्मनयनम्. २. वेदः, ३. कालमेघाय ४ शिरति .
२ काव्यमाला । उष्णांशुबिम्बमुदधिसयससरास्त्र- ग्रावा च तुल्यमजनिष्ट ग्रहं यथा ते । वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां देव प्रशंसति तथा यदि कोऽत्र दोषः ॥५॥ ऊढः पुरासि विनतान्वयसंभवेन देव त्वया किमधुनापि तथा न भाव्यम् । पूर्व जना मम विनेमुरसंशयं त्वां जानासि राघव तदन्वयसंभवं माम् ॥ ६ ॥ ऋक्षं प्लवंगमपि रक्षसि चेन्महात्म- विप्रेषु किं पुनरथापि न विश्वसामः । अत्रापराध्यति किल प्रथमद्वितीयौ वर्णौ तवौदनतया निगमो विवृण्वन् ॥ ७ ॥ नृणां न केवलमसि त्रिदिवौकसां च राजा यमार्कमरुतोऽपि यतस्त्रसन्ति । दीनस्य वाङ् मम तथापि न ते नवा स्या- स्कर्णे रघुबह यतः ककुभोऽपि जाताः ॥ ८ ॥ कृप्तामपि व्यसनिनीं भवितव्यतां मे नाथान्यथाकुरु तव प्रभुतां दिदृक्षोः । चके शिलापि तरुणी भवता तदास्तां मायापि यद्धटयते तव दुर्घटानि ॥ ९ ॥ एकं भवन्तमृषयो विदुरद्वितीयं जानामि कार्मुकमहं तु तमद्वितीयम् । श्रुत्याश्रिता जगति यद्गुणघोषणा सा दूरीकरोति दुरितानि समाश्रितानाम् ॥ ऐशं शरासमचलोपममिक्षुवल्ली- भसं वभञ्ज किल यस्तव वाहुदण्डः। १. गर्वः. २. गरुडेन. ३. तरुणी अहल्या. ॥
वर्णमालास्तोत्रम् ।
तस्य त्वशीतकरवंशवतंस शंस
किं दुष्करं भवति मे विधिपाशमङ्गः ॥ ११ ॥
ओजस्तव प्रहितशेषविषाग्निदण्डै:
स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
देव स्तुतोऽसि विधिविष्णुवृषध्वजानाम् ॥ १२ ॥
औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकं
द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र हृष्टे
लीनाश्च यत्र यतिभिः सह मत्कुलीनाम् ॥ १३ ॥
अम्भोनिधाववधिमत्यवकीर्य बाणा-
कि प्लव्यवानसि ननु श्वशुरस्तवायम् ।
उष्णापनेतुमथवा यदि वाणकण्डू-
देवायमस्त्यनवधिर्मम दैन्यसिन्धुः ॥ १४ ॥
अश्रान्तमर्हति तुलाममृतांशुविम्बं
भनाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्सादभूदनल इत्यकृतोत्तरीश
सत्या कथा भवतु साधुविवेकभाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटोग्रग्रहीतशेषः ।
श्लिष्यन्मुनीन्प्रणतदेवशिरःकिरीट-
दानि स्खलन्दशरथात्मज! ते कटाक्षः ॥ १६ ॥
खं वायुरनिरुदकं पृथिवी व शब्द-
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
....."दययार्तवन्धो
धत्से वपुः शरशरासमृदभ्रनौलम् ॥ १७ ॥
४ काव्यमाला। गङ्गा पुनाति रघुपुंगव यत्प्रसूता यद्रेणुना च पुपुवे यमिनः कलत्रम् । तस्य त्वदशिकमलस्य निषेवयास्यां पूतो यथा पुनरघेऽपि तथा प्रसीद ।। १८ ॥ घण्टाघनं घनितकोटिशरासनं लन्दाकमस्तु विपदां मम लोकनाथ । जिड्डालता वहति यद्भुजगो रिपूणां उष्णैरसूरिभरुवरंभरिणा शरेण ॥ १९ ॥ प्राङस्य वाडसि परेश तथासि तिर्यङ् ब्रूमः किमन्यदखिला अपि जन्तवोऽसि । एकक्रमेऽपि कति वा भुवि न म्रियन्ते मन्दस्य राधव सहख ममापराधान् ॥ २०॥ चण्डानिलव्यतिकरक्षुभिताम्बुवाह- दम्भोलिपातमिव दारुणमन्तकालम् । स्मृत्वापि संभविनमुद्विजते न धन्यो लब्ध्या शरण्यमनरण्यकुलेश्वर स्वाम् ॥ २१ ॥ छिन्नं निजं कुहनया मृगरूपभाजो नक्तंचरस्य न किमाविरकारि रूपम् । त्वत्पत्रिणापि रघुवीर ममाघ माया- गूढस्वरूपविवृतौ तव कः प्रयासः ॥ २२ ।। जन्तोः किल स्वदभिधामणिकर्णिकायां कणे जपन्हरति कश्चन पञ्चकोशान् । इत्यामनन्ति रघुवीर ततो भवन्तं राजाधिराज इति विश्वसिमः कथं वा ॥ २३ ॥ झङ्कारिभृङ्गकमलोपमितं पदं ते चारुस्तव प्रणयचारणकिन्नरौघम् । १. कपटेन, २. राक्षसस्य मारीचस्य, वर्णमालास्तोत्रम् । ६ जानामि राघव जलाशयवासयोग्य खैरं वसेत्तदधुनैव जलाशये मे ॥ २४ ॥ ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै. ओनं क मे भवतु दुस्त्यजवासनस्य । देवाभयं वितर कि त्वसकृत्प्रपत्त्या महन्नपि सर पुरैव कृतां प्रतिज्ञाम् ॥ २५ ॥ टकारमीश भवदीयशरासनस्य ज्यास्फालनेन जनितं निगमं प्रतीमः । तेनैव राघव भवानवगम्यमान- स्त्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६ ॥ ठात्कृत्य मण्डलमखण्डि यदुष्णभानो- देव त्वदनदलितैर्युघि यातुधानैः । शङ्के ततस्तव पदं विदलय्य वेगा- तैरद्भुतं प्रतिकृतिर्विदधे वयस्य ॥ २७ ॥ डिम्भस्तथामि रघुवीर तथा दयख लभ्यं यथा कुशलवत्वमपि क्षितौ मे। किंचिन्मनो मयि निधेहि तवक्षतं किं व्यर्थी भवत्वमनसंगृणतिः श्रुतिस्त्वाम् ॥ २८ ॥ ढकां त्वदीययशसामधुनापि श्रुण्मः प्रचेतसस्य फेणितं भरताग्रजन्मन् । सत्ये यशस्तव शृणोमि मृकण्डुसूनो- धीताप्यतो जगति कोऽस्तु भवादशोऽन्यः ॥ २९ ॥ त्राणं समस्तजगतां तव किं न कार्य सा कि न तत्र करणं करुणा तवैव । आख्यातिकार्यकरणे तव नेति या वा- मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥ १. वाल्मीके:. २. सूक्तिम्. .
काव्यमाला। तत्त्वं पदे पदमसीति च धानि देव तेषां यदस्म्यभिलपन्नुपलव्धुमर्थान् । सेवे पदद्वयमतो मृदुलं तवादी यहारुणोरपि ततो भवदर्थलाभः ॥ ३१ ॥ प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्र विश्वप्रभो विघटिताभ्रघटाः सटा वा । रूपं तदुद्भटमपास्य रुचास्य दिष्टया त्वं शम्बरारिरपि कैतवशम्बरारिः ॥ ३२ ।। दग्ध्वा निशाचरपुरीं प्रथितस्तवैको भक्तेषु दानवपुरत्रितयं तथान्यः । स्वश्चाशरासुरसमस्य गुणैः प्रभो मे पुर्यष्टकप्रशमनेन लभख कीर्तिम् ॥ ३३ ॥ धत्ते शिरांसि दश यः सुकरो वधोऽस्य किं न त्वया निगमगीत सहस्रमूर्धा । मोहं ममामितपदं यदि देव हन्याः कीर्तिस्तदा तव सहस्रपदो बहु स्यात् ॥ ३४ ॥ नग्रस्य मे भव विभो स्वयमेव नाथो नाथो भव त्वमिति चोदयितुं बिभमि । येन वसा दशमुखस्य नियोजयन्ती नाथो भव त्वमिति नासिकया विहीना ॥ ३५ ॥ पर्याकुलोऽस्य किल पातकमेव कुर्व- न्दीनं ततः करुणया कुरु मामपापम् । कर्तुं रघुबह नदीनमपापमुव्या शक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६ ॥ फल्गूनि यद्यपि फलानि न लीप्सते मे चेतः प्रभो तदपि नो भजति प्रकृत्या । १. 'शम्वरारिमनसिजः' इत्यमरः, २. शूर्पनखा.
वर्णमालास्तोत्रम् । मूर्त्यन्तरं ब्रजवधूजनमोहनं ते जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७ ॥ बहिश्चतग्रथितकेशमनहवेष- मादाय गोपवनिताकुचकुङ्कुमाङ्कम् । हीणो न राघव भवन्यदतः प्रतीमः पत्न्या हिया विरहितोऽसि पुरा श्रियेव ॥ ३८ ॥ भद्राय मेऽस्तु तव राघव बोधमुद्रा विद्रावयन्त्यखिलमान्तरमन्धकारम् । मन्त्रस्य ते परिपुनन्ति ज़गद्यथा ष- डष्टाक्षराण्यपि तथेति विवृण्वतीव ॥ ३९ ।। मन्दं निधेहि हृदि मे भगवन्नटव्यां पाषाणकण्टकसहिष्णुपदाम्बुजं ते। अङ्गुष्ठमात्रमथवान निधातुमर्ह- माकान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४० ॥ यज्ञेन देव तपसा यदनाशकेन दानेन च द्विजगणैर्विपदिष्यसे त्वम् । भाग्येन मे जनितृषा यदिदं यतस्त्वां चापगृहात्परमवुध्यत जामदग्न्यः ॥ ४१ ॥ रम्योजवलस्तव पुरा रघुवीर देहः कामप्रदो यदभवत्कमलालयायै । चित्रं किमत्र चरणाम्वुजरेणुरेव कामं ददौ न मुनये किमु गौतमाय ॥ ४२ ॥ लकेशवक्षसि निविश्य यथा शरस्ते मन्दोदरीकुचतटीमणिहारचोरः । शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे चित्ते यथा हर चिरोपनतामविद्याम् ॥ ४३ ॥ १.परशुरामः. २. लक्ष्म्यै.
काव्यमाला वन्दे तवाभिकमलं श्वशुरं पयोधे. स्तानं भुवश्व रघुपुंगवरेखया यत् । वजं बिभर्ति जगदार्तिगिरं विभेत्तुं विद्यां नताय वितरेयमिति ध्वजं च ॥४४॥ शंभुः स्वयं निरदिशद्दिरिकन्यकायै यन्नाम राम तव नाम सहस्रतुल्यम् । अर्थ भवन्तमपि तद्वहदेकमेव चित्रं ददाति प्रणते चतुरः किलार्थान् ॥ ४५ ॥ षट् ते विधिप्रभृतिभिः समवेक्षितानि मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो। एकेन यानि गुणितान्यपि मानसेन चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ ४६ ॥ सर्गस्थितिप्रलयकर्मसु चोदयन्ति माया गुणत्रयमयी जगतो भवन्तम् । ब्रह्मेति विष्णुरिति रुद्र इति वृथा ते नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ १७ ॥ हंसोऽसि मानसचरां महतां यतस्त्वं संभाव्यते किल ततस्तव पक्षपातः । मय्येनमप्ययन चेद्रघुनन्दन स्या- जिष्णोरपि त्रिभुवने समवर्तता ते ॥४८॥ लक्ष्मीकृतोऽजनि यथैव जलाशयाना- मेको रुषा""तथा कृपयापि कार्यः। अन्योऽपि कश्चिदिति चेदहमेव वर्ते ताग्विधास्तपनवंशमणे किमन्यैः ॥ १९ ॥ क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधा- न्सर्वं सहाननुवधूरपि ते पुराणी । १. सत्त्वरजतमोगुणाः.
- पवनदूतकाव्यम् । वासालयं च तनुभृत्कमलं मदीयं कान्ता परापि नहि किं कमलालया ते ॥ १० ॥ इत्थं ममास्तु वद मर्त्यनिगद्यमान त्रय्यतमन्नमुखरीकृतपादपीठ । राजाधिराज कृपया रघुवीर वर्ण- मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ११ ॥ इति श्रीमद्रामभद्रदीक्षितविरचित वर्णमालास्तोत्र संपूर्णम् । श्रीमद्वादिचन्द्रनिर्मित पवनदूतकाव्यम्। राजा राज्ञी खगपतिहृतां नामतः श्रीसुतारां ध्यायश्चित्ते जगति विदितां शीलसौभाग्यभाग्यैः । दूतं मोहास्पवनमहदं प्राहिणोदचनेत्रः प्रायो मोहो भवति भविनां बोधशून्यत्वहेतुः ॥ १ ॥ भूम्याधारा जलगिरिनगाः साप्यधारि त्वया चे. किं तेऽसाध्यं भवति वद मे मित्र तेनार्थिभावम् । यातस्तस्मात्कथय कथितं योषितः क्षेममुच्चैः प्रायः शक्तः सकलविषयेऽशक्तिकानां हि याच्यः ॥ २ ॥ क्षित्यां नीरे हुतभुजि परव्योमि काले विशाले त्वं लोकानां प्रथममकथि प्राणसंत्राणतत्त्वम् । तस्माद्वातीधर चलगते तान्वियोगे हि नार्याः स्यान्नैवान्तविपुलकरुणः सत्त्वरक्षानपेक्षः ॥ ३ ॥ एते वृक्षाः सति नवघनेऽप्यत्र सर्वत्र भूमौ बोभूयन्ते न हि बहुफलास्त्वां विनेति प्रसिद्धिः । तस्मात्तास्त्वं धनफलधनान्संप्रयच्छन्प्रकुर्याः प्रायः प्राप्तो भवनमतुलां पुष्टितामानयन्ति ॥ ४ ॥ १. वेदान्त. २ १० काव्यमाला। साध दारैर्हसितवदनैः क्रीडनासक्तचित्ता- शुण्डादण्डैः कलितगिरिभिर्भूरजः खोच्चपृष्ठौ । त्वं नागेन्द्रान्किरत उचितान्खस्य सङ्गेन कुर्व- न्यायाः प्रायो भवति महतां संगतेः पापहानिः ॥५॥ खानामोदप्रसरविजिताशेषपुष्पद्रुमाणां नानाभूषद्युतिचयहतप्रान्तनागीमणीनाम् । खर्नारीणां सुरतमभितः कुर्वतीनां स्वभा खेदाम्भस्त्वं वनभुवि हरन्सौख्यहेतुः प्रभूयाः ॥ ६ ॥ भिल्लयाः शीर्षे भ्रमरसदृशे स्थापितां वस्य पत्या तीरे नद्याः पवन रमता पुष्पमालां कुटानाम् । तां निर्गन्धां बहुसमयतः संप्रजानन्द्वितीयं दूरं नीत्वा नवसुममरं स्थापयन्याहि वृक्षान् ॥ ७ ॥ वेगाद्याताः पथि तव परार्थान्विधातुः प्रकृत्या ये संरोधं प्रतततनवः कुर्वते गण्डशैलाः । तांस्त्वं सर्वानभिनववलैः पातयः स्तब्धवृत्ती- न्केषां स्थानं भवति पुरतः स्थायिनां सहलानाम् ॥ ८ ॥ संतापेऽस्मिन्प्रवलतरणेः संज्वलद्वह्रिकल्पे छायाक्षेत्रं तव सुदिशतो वाच्चो नैव नाशः । चेत्तकारी निजबलवशात्तर्हि ते ताप उच्चै- वीर्य तस्साच्चतुरमतिना नैव सर्वत्र योज्यम् ॥ ९ ॥ व्यादायास्यं कथमपि पुरो भक्षितुं त्वां खपन्त्यो निर्यद्धालाहललवगणा दीर्घपृष्ठा गरिष्ठाः । तांस्त्वं हन्तुं निजसखमलं वह्निमग्रे प्रकुर्या- स्तेषां भीतिर्न भवति यतो भेदजेया द्विषन्तः ॥ १० ॥ मार्गे श्रान्तः कथमपि तदा वाहनं चातिशोभं सारङ्गं त्वं ऋमितगगनं शृङ्गभिन्नाम्वुवाहम् ।
पवनदूतकाव्यम् ।
११
आरुह्याग्रे सुखदमतुलं वेगतः संप्रगच्छेः
पादैर्गन्तुं न भवति सतां दूरमार्गो हि शक्यः ॥ ११ ॥
स्त्रीभिः शीर्षे मधुमदकृतां संधृतां पुप्पकाना-
मालिप्तानां वपुषि सरसैः केसरैश्चन्दनानाम् ।
संक्षिप्तानां श्रुतिपुटयुगे मूल्यकस्तूरिकानां(णां)
गृह्णन्गन्धं बहुमधुरिमकान्तगेहान्तराणाम् ॥ १२ ॥
पुत्रः सीतां दशमुखहृतां तावको दूरनाथां
तत्संदेशैपितकुशलैर्जीवयामास वेगात् ।
तत्किं चित्रं त्वकमिह पदे संस्थितस्तां च पैव्ये
प्रायः कार्य लघुजनकृतं नाधिके चित्रकारि ॥ १३ ॥
रात्रौ स्त्रीणां सुरतसमये प्रेक्षितुं खेचराणां
नमं चाङ्गं पवन सततं नेत्रदत्तानुरागम् ।
हान्तःस्थान्प्रहततमसो दीपकान्मा विहन्याः
प्रायः सन्तः सकलसमये रङ्गभङ्गे न शूराः ॥ १४ ॥
नीरं नद्या उपकृतिकरं शोषयन्नान्धवत्या-
स्तत्कंजानां परमिह भुवां यादसां च प्रहन्ता ।
तस्मादाञ्जलमविकलं येन ते धर्मराशिः
कार्य कार्य परमविदुषा हिंसयैवात्र लोके ॥ १५ ॥
गच्छन्तीनां निशि पतिगृहं येऽन्धकार सृजन्ति
तास्त्वं स्त्रीणां स्थगितनयनं छादयित्वाजताराः।
दूरीकुर्या विरहिविषदानम्बुवाहान्खशत्त्या
प्रायः सन्तः शिशुतरुणिषु ह्याचित्ता भवन्ति ॥ १६ ॥
तस्याः शुम्भत्तटभवनगस्थायिहंसां गताप
मन्दं यांस्त्वं बहुगिरिवशात्संनिवार्यास्मदिष्टः ।
तत्पश्च द्विगुणितवपुश्चालितैश्यामरामै.
भूयाः सन्तो न हि परकृतं चोपकारं सहन्ते ॥ १७ ॥
१२ काव्यमाला। वध्वो विद्याधरकुलभवाः संनिसगैकरूपा यासां साम्यं ललिततनवो यान्ति नो नाककन्याः । तास्त्वं पश्यन्स्थिरतरगतिर्मा स भूमित्र मार्गे धीराः ख्यातास्त इह भुवने येऽन्तराये न मन्दाः ।। १८ ॥ ग्रीष्मातापैगर्लपितवपुपामर्थिनां चातकाना- मुच्चास्यानां कृषिकरनृणां संददानोऽम्बु मेवः । याता मार्गे प्रबलबलिना नैव हन्यस्त्वयासौ प्रायोरक्षाः परहितकरादायिनो दत्तसाराः ॥ १९ ॥ नीला अद्रौ बहुफलधृतो मानवानामगम्या दानाद्भीताः सहजकृपणा ये नगा मुक्तमार्गाः। तांस्त्वं धुत्वा हिततनुधृतस्तत्फलैरेणवर्गा- न्कुर्वस्तृप्तान्पवनपदवीं योषकेष्वग्रगण्याम् ॥ २० ॥ प्राणानां तत्तरुणिविरहे कुर्वतां निर्गम द्रा- ग्दहं तान्पुनरिति तनावाशयास्थानकं च । मोहादित्थं पवनगमनं ह्यागमं च प्रयातां रक्षा कार्या विततकरुणां कुर्वतात्र त्वयालम् ॥ २१ ॥ गच्छन्द्रष्टा करिणमतुलं देवराजस्य मार्गे साधोः सारं चरणयुगलं वन्दितुं वागतस्य । शुण्डाघातैर्गिरितटनगान्पातयन्तं प्रचण्डै- भूमौ शश्वन्निजतनुभरात्पीडयन्तं फणीशम् ॥ २२ ॥ त्वं गङ्गाया जललवकणैस्तत्तटावर्तिपुप्पै- मुक्तारूपैः समदमधुपोद्भुतझङ्कारसारैः । भूत्वा शीतः परिमलतनुस्तन्नगैश्चात्तवेगो हन्या ध्याने निहतमनसां योगिनां मुद्ध्यतायम् ॥ २३ ॥ शाटी भूमेविपिनवसतेयोगिनः किं जटा वा किं निर्मोको धरणफणिनश्चागतस्यात्र लोके ।
1 -- म पवनदूतकाव्यम् । १३ किं निःश्रेणिः शिखरपदवीं गन्तुकामस्य चाद्रे- गङ्गां दृष्ट्वा सुतटनटतो भाविनी तेऽत्र शङ्का ॥ २४ ॥ भूयो द्रष्टा जगदधिपतेरालयं तीर्थकर्तु- स्तीक्ष्णैः शृङ्गैर्हतधनपतद्वारिसंसिक्तदेहम् । नृत्यच्छका तनुकरकजोद्भूतरेणुभ्रमौषं प्रान्तोद्यानावनिभवखगध्वानदत्तप्ररावम् ॥ २५ ॥ भीमाटव्याममरवनितास्पर्धिरूपाभिमाना वेणीबन्धग्रथितकुसुमा भूर्जपत्रापवस्त्राः । गुञ्जायुक्ततृणमणिगला यत्र भिल्लादिनार्य- स्तास्त्वं पश्येर्यदि हि भवतो दृष्टिसृष्टिश्च देवान् ॥ २६ ॥ गच्छेवन्दस्त्वमपि शमिनः संजयं तस्य साधोः 'पादौ नन्तुं निजगृहगणैः खेचरैरापतद्भिः । सिद्धौ जत्रज्वलनजटिनः साधयामास पुत्रो- ालामालीखगगणनतामर्ककीर्तिर्महौजाः ॥२७॥ तत्संदृष्टेर्भवतु भवतो विघ्नराशेः प्रहाणिः सद्यश्चोग्रायुधगणकराः शत्रवो यान्तु नाशम् । भूयाद्भूयः प्रतिपदमलं मङ्गलं मञ्जलं च प्राप्तोदन्तः पुनरिह मया सौख्यदः संगमस्ते ॥ २८ ॥ दुःखानि त्वं समगतवधोमित्र जानासि सम्य- ग्विश्वप्राणः श्रिततनुमतां वृद्धकारुण्यभावः । तस्मात्तेऽहं पदमुपगतः सर्वलोकानपेक्षः कृत्यं ते यद्भवति सदयं तत्त्वयापादनीयम् ॥ २९ ॥ सद्यः कार्य कृतमिह नृणां दत्तमाह्लादकारि तस्माच्छीघ्र पवन मनसः साधयेष्टं प्रगम्य । त्वत्तः कार्य न भवति पुनर्नेति चित्तप्रतीतिः कालं नीत्वा विहितमिह तन्नैव चित्तं घिनोति ॥ ३० ॥ । -- काव्यमाला। भ्रान्तो गच्छन्निजविधिवशात्संपतज्जीर्णकूपे तृण्यां दोष्णा धरति पथिकस्तं च सालं न पातुम् । तद्दुःखार्ता निजतनुमलं प्रक्षिपेत्तेन सार्क तहि त्वं किं जगति विदितो मेऽत्र कार्य न कुर्याः ॥ ३१ ॥ नार्यो बढ्यः सुकुलजनुषः सन्ति मे मित्र गेहे सकैव स्त्री निजवरगुणैश्चर्करीति प्रशोभाम् । नानादिको रविरपि तरां न प्रभात्यम्बरेऽस्मि- न्पूर्वी काष्ठामुदयमतुलं संददानां विहाय ॥ ३२ ॥ नार्यस्तारामनु च भुवने भाग्यसौभाग्यवत्यो नार्यस्तारामनु च भुवने शीलसंपन्निवासाः । नार्यस्तारामनु च भुवने भर्तृभत्त्येकरागा नार्यस्तारामनु च भुवने दीनदानप्रदान्यः ॥ ३३ ॥ साक्षाद्भोगस्तव शुभतनोः पापतश्चातिदूर तर्हि खप्ने भवतु स पुनः सोऽपि मे सौख्यहेतुः । क्षीराभावे क्षुधितवपुषां तक्रकं किं न पेयं प्राप्तिर्भद्रं कथमपि चिरान्नैव मूलपहाणिः ॥ ३४ ॥ संस्मर्तु, सुरतसमये पादयोस्ते नटन्तं सन्मञ्जीरैः श्रिततनुदवं लीलया नीलकण्ठम् । तत्पक्षैर्वा तनुसुखकरं खेदविन्दुप्रमार्ज कान्ते रात्रौ कथमपि चिरान्नेत्रयो व निद्रा ॥ ३५ ॥ गत्यास्ते वा सरणमसकृतिप्रयोगे गजेन्द्रो गच्छन्वेण्याः प्रविपुलवने कारयेश्चोत्फणो हि । चित्तं कान्ते प्रततमदनं केवलं नो दुनोति वैसाः कोऽवधृतसुकलेश्चक्षुषोः संमुखोऽस्य ॥ ३६ ॥ गौरे कण्ठे विजितजलजे तद्वियोगस्य भीत्या क्षिप्तो हारोऽसुरसुरमतो विद्ययाप्तो मया न ।
पवनदूतकाव्यम्।
१५
कुर्वे किंवा विधिविलसिताचाधुना दुर्निवारा.
दृक्षाः
शैलाः परमसरितो ह्यन्तरे संगता मे ॥ ३७ ॥
पादौ दृष्ट्वा वनभुवि तवानन्ददौ प्रेमवन्धा-
दात्मानं खप्रणतमभितो यावदीहे प्रकर्तुम् ।
तावत्पुप्पैस्तरुकपिगतेः संच्युतश्छादितौ तौ
पापं तस्मिन्नपि न सहते संगमं सौख्यहेतुम् ।। ३८ ॥
कृत्वा भूषां तव न च तनौ लोकयन्रूपमुच्चैः
लोकेऽत्यन्तं नयनरुचिरं लोकदृष्टिप्रदोषम् ।
हन्तुं स्वच्छे कनकसदृशे कजलं तत्कपोले
सद्यो दोषाकृतमिह मया संस्मरामि त्रिसंध्यम् ।। ३९ ।।
हस्ताजी ते वरमुखि सुखं नालकेल्यौ वनेनं
वक्षोजौ वा कटितटमलं श्यामकेशाः शिरस्याः ।
चक्रौ सिंहं फणिरिपुकुलं निर्जयन्ति स्म येशा(१)-
स्तेषां मर्तुर्मम च विरहे रात्रयो वर्षकल्पाः ॥ ४० ॥
घोरारण्यं विपुलनगरं कन्दरा खर्णगेहं
शया पोप्पी पृथुतरशिला व्यालरत्नानि दीपाः ।
पर्णाधो वा विमलमशनं त्वक्तरोदेववासो
जानीथास्त्वं कमलनयनादर्शने भो ममापि ॥ ११ ॥
अस्यां पुर्या मुरजजनिताः कर्णरम्या निनादाः
प्रोत्सङ्गेहाः कनकघटिताः सुध्वजोत्तम्भिकुम्भाः ।
सा मेऽत्यन्तं सजलपरिखां तां विना दुःखबीजं
किं वारण्यं विविधविषमा भीतिदा यत्र भावाः ॥ ४२ ।।
मा देयास्त्वं जगति सरितां देहिनां जन्म मात्यै
देयास्त्वं चेत्कथमपि पुनस्तर्हि मा संप्रयोगम् ।
दत्त्वा तं भो प्रदयनिलयं मा विधेया वियोगं
भूयो भूयस्तव पदपुरश्चेदमभ्यर्थयामि ॥ ४३ ॥
१६ काव्यमाला। जाने प्राणान्पवनकवितान्मामकांस्तद्वियोगे याता नो चेत्कनकनृपतेश्चन्द्रकान्तेरिवाशु । धिक्तान्भूयः खजनहरणे ये प्रयान्त्युत्तराशां सत्सौख्यानां मनसि सततं चिन्तितानां हि मिथ्या ॥ १४ ॥ विद्या निद्या परमविदुपां जीवन मेघमाला वृक्षालीनां कृपिरथ नृणां वारिधिर्यादसां च । भृत्यौघानामतुलनृपति घङ्गिनां भूरि वित्तं सूर्योऽनानां जगति धनदश्वार्थिनां सा तथा मे ॥ ४५ ॥ तचिन्तातः सकलविपये शुन्यमासीन्मनो मे तस्माजाने न हितमहितं किं प्रकुर्वे छुपायम् । नो वा बुद्धिः प्रसरति परा किं प्रजल्पामि वाचं प्रेष्यं पत्रं मम कथमथो संप्रभापे ह्यभिज्ञाम् ॥ ४६ ॥ महुःखात्सा श्रुतिमुपगता दुःखिनी संभवित्री तस्माद्वाचं न हि तव यथा वर्तते मे कमुच्चैः । किं तत्सत्यं निजमतजनो दुःखमानोति येन तत्सत्यन्तो भवति हि मतो देहिनामिष्टसौख्यम् ॥ ४७ ॥ दानं साधो जिनचरणयोरेकचित्ताः प्रपूजा उग्रं किंचित्परमविधिना संतपश्चेदकारि । तत्सामर्थ्याद्विहितविभवान्प्राणसंत्राणतो- धर्मात्ते वा भवतु सुखदो योषितः संप्रदर्शः ॥ १८ ॥ दैवाल्लब्धो वसति न सखे रत्नवर्गों हि रके नानामुक्ताकलितमतुलं दाम कण्ठे कपीनाम् । वाचोयुक्तिः शठजनमुखे सज्जने प्रेमहस्ते नारी चैषा सुकृतवसतिर्यातपुण्याङ्करस्य ॥ ४९ ॥ वासाटव्याः समदरिपुणा नो हृतानेन चित्ता- द्वेदस्तस्मान्न हि हृदि परस्तोपवृत्तिः कथंचित् । ..
पवनदूतकाव्यम् । १७ सा मे तां त्वं पूर्णी कुरु निजबलैः पापविद्याधरेशं हत्वा युद्धे प्रबलबलिनो नो सहन्ते पराकम् ॥ ५० ॥ पाने दानाद्भवति विपदः संप्रहानिश्च केषां केषां चोग्राद्गुरुमुखकृतासनताद्वाञ्छिताप्तिः । दुष्टाद्देवाद्भवति भुवने शत्रुनाशश्च केषां भूयादेतत्रितयमचिरादेकतस्त्वत्सुमित्रात् ॥ ११ ॥ सा मे सेना मदनविजये सारसर्वाङ्गयुक्ता सा मे मित्रं परमहितकृत्सर्वलोकेऽप्यनूनम् । भूषा तनुरुचिकरा सा च केल्यास्तडागः संतापानां सहजहरणात्सा च दृष्टिः प्रवृत्तेः ॥ १२ ॥ सा निःश्रेणिः परपदगतौ सार्गला दुःखरोधा- त्सा मे मन्त्रो नगरवनितादृष्टिदोषं प्रहन्तुम् । सा मे वल्लिविपुलफलदा सा सरित्रधिनाशा- त्सा मे लक्ष्मीविविधविभवानन्दसंसाधनाच ॥ ५३ ।। चन्द्रश्चायं दहति विरहे योषितोऽङ्ग क्षपायां त्वद्यानं तत्प्रकृतिपुरुषस्तेन संबोधयानम् । संसारे भो मम विरचितः केवलं नैव दुःखं सर्वेषां स्याः कृततनुमतां चक्रनेमिक्रमेण ॥ १४ ॥ चन्द्रश्चैको न दहति परं दुःखदस्ते मृगोऽपि नीचोः प्रायो विषमगतयो मानिताः सज्जनैश्च । नाहं चैको रघुपतिरपि श्रीशनाथोऽपि नेमिः के केऽनेन प्रवरमनुजाः कप्टमार्ग न नीताः ॥ ५५ ॥ गोपः कामं जनयति शठो लोकसंतापहेतो- धीमानीशो जगदुपकृतौ तं प्रहन्ति स्म मुक्त्वा । चन्द्रं चैषा परविकलता कुत्र तस्य प्रजाता प्रायः कार्ये क्वचिदपि पुनयोगिनोऽपि प्रमोहाः ॥ १६ ॥ ३ १८ काव्यमाला। कंसो ध्वस्तो मधुरपि हतो मारितो मल्लवर्गः किं तैलोंके विहितमशुभं घातिता विष्णुनामी । नैतद्युक्तं कृतमिह पुरा तत्सुलोका हितेपु कामे चन्द्रे सरसविपिने कोकिले सद्वसन्ते ॥ १७ ॥ भार्या दूरं मधुरपि न वा चाक्षुषो नैव रम्यं दृश्यं गेहं न भवति वने सर्वशस्या च सस्या । एकः पापो दहति शशभृन्मे तनुं नेत्रगम्यः कृष्णौ पक्षौ यदि च भवतो भाग्यतो नास्य दृष्टिः ॥ १८ ॥ क्षीरं नीरं पिवति जलधेः पङ्कमश्नाति भूमे- र्नानाग्राहान्यसति कठिनान्वाडवाग्निः खशक्त्या । एकं चन्द्रं किमिति सरसं देहपित्तापहारं दुष्टात्मानं भुवि विरहिणो नैव तं जन्मशत्रुम् ॥ १९ ॥ लब्धं चन्द्रं वदनकुहरे दैवतो राहुरेष कमान्मुञ्चेजठरपिठरे नास्ति किंचित्प्रबोधः । चेद्वा मुश्चेत्कथमिह पुनः शंभुना स्थाप्यते के निस्वापो यः सृजति विपदं किं न लब्धप्रविष्टः ॥ १० ॥ तावञ्चन्द्रो भ्रमतु गगने दीनवका वियोगं युच्चैः स्वैरं लपतु परभृद्यावदस्या न गीतिः । तावच्छोभा भवतु कमले नेत्रयोः कज्जलं नो युष्मद्भाग्यादिह परमभूत्तद्धृतिः खेचरेण ॥ ११ ॥ तावत्तेजस्तपतु तपनेऽस्या न शीर्षे खचक्र शेषे कान्तिर्वसतु विमला वेणिबन्धो न यावत् । जिष्णोश्वायं चरतु गगने सा न कौसुम्भवासा- स्तेषां भाग्यैरिह परमभूद्विप्रयोगो मया सा ॥ १२ ॥ तद्वकं चेन्जयति शशिनं तत्पुरः किं च कंजं वेणीनागं हरगलधृतं तद्विषः किं च पिच्छम् ।
पवनदूतकाव्यम् । १९ वाणान्नेत्रे मदननृपतेः खञ्जनः किं च खेट ओष्ठावव्धे रमणमभितो विद्रुमं किं च विम्बा ॥ १३ ॥ भृङ्गः पुष्पं जलधरजलं चातको गां प्रवत्सः आनं पक्कं पिक इव वने राजहंसस्तडागम् । चक्रश्चक्री तरुकिसलयं नागराजस्तटिन्या- स्तद्वत्कान्ताकलितकमला चिन्तयेद्यत्र शून्यः ॥ ६४ ॥ पुण्ये लक्ष्मीधनविकलतां पापपाके निदानं संयोगेऽस्या इह न हि परं संप्रपश्यामि लिङ्गम् । मुक्त्वा त्वां भो जगति बहुनो किं प्रवच्मि प्रवाक्यं कार्यों यलो भवति कियथा येन तस्याश्च योगः ॥ १५ ॥ दानं नो मे सकलजनतारोरदावापहारि तीनं नो वा करणदमनं सत्तपोऽपि प्रसिद्धिम् । शुद्धा नो मे परमकरुणा यत्प्रभावाच्च तस्या योगासारः पवन सुखदस्त्वां विनेति प्रजाने ॥ १६ ॥ भाग्यं लक्ष्म्याः सकलशशिनः सत्कलां श्रीजिनेगा- क्षान्ति कीर्ति मदनजनकाब्रह्मणो भारती च । शीलं साधोः परमकरुणां ध्यानिनः कर्म पुंसा संप्रार्थ्यालं नयनदयितं तच्छरीरं व्यधायि ॥ ६७ ॥ केषां श्लाघ्या विभवसहिता भारती वाथ लक्ष्मी- वन्द्या गङ्गा जलधिजलगा गौः प्रमान्या हि केपाम् । दुर्गा ध्येया हरतनुगता शाक्तिकानां च शक्तिः स्तुत्या वन्द्या मम विरहिणः सैव मान्या प्रचिन्त्या ॥ १८ ॥ अन्यस्त्रीणां हृदयहरणे वर्धितात्माभिमानः कस्तारायामसनिखगयो मुक्तलज्जो वराकः। भूमेरून्तिरमधिवसन्भूधरस्वापि काकः किं वा जायात्सुरगिरिशिरःक्षुद्रजीवाद्यगम्यम् ॥ ६९ ॥ -- २० काव्यमाला । शक्रीश्चक्री धरणफणिभृन्नैव भक्त समर्थ- स्तस्याः शीलं किमिह खगराण्मेऽपरं मोहशङ्का । त्वं तच्छवामपनय बलात्सनिधि संप्रगम्य प्रायो दृष्टं भवति सकलं वस्तुमानं प्रमाणम् ॥ ७० ॥ आश्वास्यैवं कथितवचनस्तच्छुचं संप्रहत्य पश्चाद्गत्वामरपुरति वाचमित्थं हि जल्पन् । किं चाज्ञातं विहितमधुना कोऽपदे तेऽनुरागः प्रायो लोको भवति विकलः प्राक्च मृत्योरचिन्त्यात् ॥ ७१ गर्जत्यब्धे विलसति सदा चक्रचापेऽतिदीचे वाणी मुश्चत्य""भिगिरा कोकिलानां समूहे । शीतोद्वारे प्रसरति वने मार्गपक्षिबजे च त्यक्तुं को वा प्रभुरिह हृदो वस्तुतो वामनेत्राम् ॥ ७२ उष्णान्वातान्क्षिपति दुरसा संहरत्यम्वुचक्र- मन्तस्तापं जनयति परं बाधयत्यम्बुचारान् । ग्रीष्मस्यालं तपति तपने धारयत्यम्वुतृष्णां तां योगीवानिशमजपदं चिन्तयामि त्रिकालम् ॥ ७३ ॥ नो वा हन्ति द्विरदमतुले शीतकाले मृगेन्द्रो नो वा दूर्वा चरति समजोऽप्यत्र क्षुद्रः पशूनाम् । यत्र प्रातर्न पतति रुचः संनिधानेऽपि वढे- विप्रस्तस्मिन्मम मनसिजस्तां विना बाधतेऽङ्गम् ॥ ७४ ॥ गत्या हंसी कुवलयदलं चक्षुषा निर्जयन्त्याः शुभ्रत्स्वर्णयुतिचयतनोस्तजितानन्तलक्ष्म्याः । भो ताराया विषमविरहे वैरिणां वाणतुल्ये मृत्योर्गेहं यदि नहि गतः सप्तवन्मेऽमरत्वम् ॥ ७५ ॥ विश्वं कुर्वन्विधिरथ वरं चन्द्रमध्ये गृहीत्वा चक्रे तारामुखसरसिजं तेन छिद्राण्यभूवन् ।
पवनदूतकाव्यम् । २१ तत्र व्योमावनिजनगणैश्यते चापरस्थं भूमेश्छाया न मृगशशकौ नापि देहखभावः ॥ ७६ ॥ लोके वहेविरहदहनं संप्रजाने गरिष्ठ कस्मात्प्रश्ने कृत इह जनस्तद्विशेष ब्रवीमि । एकश्छेद्यो विपुलसलिलैर्मन्त्रवर्णैश्च कैश्चि- दन्यः पापो विहितविधिरप्यत्र वर्धिष्णुभावः ।। ७७ ।। तेजोराशि जगति दहनस्ते सखा मेऽतिदूरां नाया प्रेक्षानयति यदि नो किनिमित्तं हि तेजः । प्राप्तं द्रव्यं परजनकृते नो भवेदुन्मुखं य- तस्यावश्यं किमिह महतां सर्वथा चात्मतापम् ॥ ७८ ।। यस्या दृष्टेर्भवति विमदः शत्रुवर्गोऽभिमानी वक्रः पन्थाः सततसरलो वारिधिः खल्पकूपा । खड्गो माला स्तभति करिराद दस्युसंघो हि सार्थ- स्तां तन्मुद्रां मम करगतां तत्कराजे धरख ॥ ७९ ॥ उष्णोच्छुासैः शुषितवदनां शीलरक्षातचित्तां त्यक्तखानामसितवसनां नेत्रयुक्ताश्रुपातैः । त्वं तां दूनां खगपरिचितेर्मद्वपुः क्षेमवाचा संतोष्यारं व्यपगतशुचं सर्वथा संप्रकुर्याः ॥ ८ ॥ स्मर्तव्योऽहं पथि च सरता येन मे भद्रमुच्चै- नैवाहं त्वां कथमिति पुनः संप्रयुक्ते खमित्रे । स्थाने चित्ते भवति भविनां संस्मृतिश्चित्तवृत्ति- स्तचित्तं मे चलितचपलं कि स्मरामि त्वयैव ॥ ८१ ॥ दूर्वाटव्यां भवतु कुशलं सर्वदा चाशिषा मे वेगादस्मिन्विजनविपिने तेऽस्तु मे पुण्ययोगः । कारं कारं रिपुमदहृतिं साधनीयं खकार्य किं वाच्यन्ते बहुबलवतो ज्ञातसर्वाङ्गवृत्तेः ॥ ८२ ॥ - २२ काव्यमाला। दीनं श्रुत्वा नृपतिवचनं संचचालातिवेगा- पश्यन्यामान्वनगिरितटारामभूदेशभागान् । दृष्ट्वा शत्रोश्चकितनयनः पत्तनं भूविशेष प्रायो दृष्टं जगति भविनां विस्मयादेश्च हेतुः ।। ८३ ॥ दृष्ट्वा तारां प्रमुदितमनाः संजपन्ती जिनेशं धिक्कुर्वाणां खचरवनितां शीलरत्नप्रभाभिः । विद्याधीशं स्मरशरवशं वन्धुवन्मानयन्ती चित्ते भूयो विरहविधुरं वं पति चिन्तयन्तीम् ॥ ८४ ।। दूतं मां श्रीविजयनृपतेश्चेतसा मानयस्व पत्या दत्तां निजकरको मुद्रिकां त्वं धरेमाम् । जानीथा भो कतिपयदिनैनिर्जितं खेचरेशं जेयः शको यदि हि बलिनस्ते प्रभोः कोऽन्यलोकः ।। ८५ ।। दीपे वह्रौ रविमणिकृते प्रोच्छलद्विस्फुलिङ्गे क्षेप्तुं जीवं विषमविरहादुद्यतोऽरण्यमध्ये । तावदैवादमितगतिना जानता ते हृतिं च प्रोक्तोदन्तं निखिलमचिराद्रक्षितः खेचरेण ॥ ८६ ॥ तस्माक्षेमं शशिमुखि वने वर्तते स्वामिनस्ते योगो भावी गणितदिवसैर्नास्ति हेतुर्विलम्बे । तस्माद्भुक्तिं कुरु च सुभगे भूषयाङ्गं खकीयं न स्युर्दुःखे परमगुणिनः कातराः संप्रजा ते ॥ ८७ ॥ अन्यां भायों सहज सुतनो क्रीडतो भूमिनाथा- जातः कोपो मनसि परमप्रीतितस्तेषु चित्ते । तस्माज्ज्ञात्वा विमुखवदनां त्वां प्रसन्नां प्रकर्तु नम्रो यावद्भवति चरणे संहतः स त्वया के ॥८८|| पादाघातं कुसुमसदृशं मानयित्वा महीशः कृत्वा तेऽग्रे शपथमतुलं चान्यगेहं प्रयातुम् ।
पवनदूतकाव्यम् । २३ भूयो भूयस्तव पदकजे किं न लग्नोऽत्र पातः खाथै कर्तुं चतुरमनुजा मन्यते नापमानम् ॥ ८९ ॥ अन्त"दं वचनमतुलं वायुतः संनिशम्य स्वीयां स्मृत्वा कृतचविकृतिं गद्दामश्रुपातम् । नीचेऽवज्ञां सृजति गुणिनश्चेत्प्रपीडां कदाचि- त्कि वा पूज्ये प्रणयिनि जने सर्वतश्चोत्तमे च ॥ ९० ॥ स त्वदुःखादशनमनिशं नात्ति न साति नैति विद्यां नो संस्मरति कुलजां पैत्रिकं नापि चापम् । आदत्ते नो रुचिरवचनं वक्ति पश्यन्न मृत्यु मृत्यु कर्तुं प्रभवति परं बन्धुभिर्वारितोऽपि ।। ९१ ॥ गेहे तेऽसौ विरहघटिकां नैव सोढुं समर्थों मासं किंवा परकरगतायास्तवातिप्रसक्ता । नीरादूरं स्थलमिह भुवो यादसां दुःखहेतुः किं वा तत्र ह्यनलवशतो मुर्मुरा भासुराङ्गाः ।। ९२ ॥ तारे नारी विषमविषयासक्तचित्तप्रचारः किं तदुःखं जगति कथितं यन्न प्राप्नोति जीवः । वाक्यं चेदं विशदमतुलं योगिनो यद्वदन्ति तत्ते भर्ता नयनविषयं मे कृतं भुञ्ज पाकम् ॥ ९३ ॥ तद्वत्त्वं भो हृदयसरले मा म युमन्यरेथा(?) दुःखेऽवश्यं तनुरपि तरां तानवं संप्रयाति । संपश्यंस्तत्तव च दयितः सोऽपि दीनाङ्गदीप्ति- स्तस्मात्त्वं चेत्स्वपरसुखदा तर्हि मुञ्चात्मपीडाम् ॥ ९४ ।। चिते तेऽसौ प्रवसति नृपस्तर्हि किं चर्करीषि मिथ्याश्रूणां स्वपितवदनं संनिपातं ह्यसम्यक् । चेन्नास्तीशो हृदयवसतौ प्रेमभारः कुतस्ते तस्याभावे किमिति सुभगे निनिमित्तोऽत्र शोकः ॥ ९५ ॥ .
काव्यमाला। खस्थीकृत्वा तरुणितिलकं संययौ खेचरेशं न्यकुर्वन्तं चमरपवनैरात्मनो धर्ममार्गम् । प्रत्यागच्छन्वननृपशिरोमौलिमाणिक्यभाभिः पादाजे खे मधुपरचनां संदधानं समान्ते ॥ ९६ ॥ नत्वावोचच्छृणु खगपते मामकी सारवाचं तारां हृत्वा कथमिह हृदि स्वास्थ्यमामोति मूढ । कुक्षौ कृत्वा विषमगरलं जीवितुं कोऽप्यधीश- स्तस्मात्त्याज्या परकुलवधूर्वाञ्छता स्वात्मभद्रम् ।। ९७ ॥ नो क्रीडातो न हि धनमदानापि चाज्ञानभावा- कामान्नो मे गजपतिगमाः सन्ति गेहे खचयः। ज्ञातुं तेजोऽप्रमितमहसो भर्तुरस्यां च युद्धे तेनानीता प्रवसति भुजे तत्तदा यान्तु शीघ्रम् ॥ ९८ ॥ श्रुत्वा चैतत्खगपजननी संनिवार्य स्वसूनुं युद्धं कर्तुं विधृतधनुषं सार्पयत्तां च तस्मै । साध्यासाध्यं निजमतिवशाचे प्रगम्य स्खकार्य कुर्वन्तोऽमी क्वचिदपि जना नापमानं प्रयान्ति ॥ ९९ ॥ तां लात्वा श्रीविजयनृपतेः संमुखं चागतस्य योद्धं सैन्यै जितखगरिपोः श्रीप्रभाचन्द्रकीर्तेः । सूर्यश्चक्रीशिवविरहिणे चक्रवाकाय दत्ता दुष्टो वायुर्न भवति धृतिः कस्य चेष्टं प्रकर्तुः ॥ १० ॥ पादौ नत्वा जगदुपवृतावर्धसामर्थ्यवन्तौ विनध्वान्तप्रसरतरणेः शान्तिनाथस्य भत्तया । श्रोत चैतत्सदसि गुणिना वायुदूताभिधानं काव्यं चक्रे विगतवसनः खल्पधीर्वादिचन्द्रः ॥ १०१ ॥ इति सूरिवादिचन्द्रकृत पवनदूताभिधं काव्य समासम् ।
२५ दूतीकर्मप्रकाशः । पैण्डरीविह्वलाख्यकविविरचितो दूतीकर्मप्रकाशः। गणेशं भारती नत्वा रसिकानन्दवृद्धये । पण्डरीविह्वलाख्येन दूतीकर्म प्रकाश्यते ।। दती पारंगमा दौत्यव्यापारे संनिवेदनम् । विरहस्य च तस्यास्तु कर्म संघटनादिकम् ॥१॥ सखी विपश्निका चेटी स्वयंदूती च शिल्पिनी । विचित्रवचना गानवती धात्री कुमारिका ॥२॥ पासङ्गिनी मालिनी च स्खलिता प्रतिवेशिनी । परचित्तविशेषज्ञा चेष्टासंकेतकोविदा ॥ ३ ॥ रजकी सौचिकी वेपधारिणी मणिहारिणी। कथिनी नापिकी चेति सैकविंशतिधा मता ॥ ४ ॥ एताः साधारणा दूत्यो नायिकाखखिलास्वपि । तच्चरित्रमिति ज्ञातुं ब्रह्मणापि न शक्यते ॥५॥ तथापि लौकिकश्रेष्ठरसिकानन्दकारणम् । दूतीकर्मैकदेशेन लक्ष्मोदाहरणं त्रुचे ॥ ६ ॥ सखी विश्वासविश्रामकारिणी पार्श्वचारिणी। मण्डनोपालम्भशिक्षापरिहासादिका यथा ॥ १ ॥ चक्रे चन्द्रमुखी प्रदीपकलिका धात्री धरामण्डले(१) तस्या दैववशाद्दशापि चरमा प्रायः समुन्मीलति । तमः शिरसा न तेन सहसा श्रीकृष्ण निक्षिप्यतां खेहस्तत्र यथा तथा न भवति त्रैलोक्यमन्धं तमः ।। (इति सखी।) ज्योतिःसामुद्रिकाभिज्ञा मानिनी चेति भापिणी । तव योग्योऽपरः कामो भवेद्विपश्निका यथा ॥ २॥ १. अये हि कविवरः कदा क धरामण्डल मण्डयाचकारेति न निधीयते.
२६ काव्यमाला । निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं खव्यापारपरिश्रमस्य कलशं वेधाः समारोपयन् । कंदपै पुरुषाः स्त्रियोऽपि दधते हटे च यसिन्सति द्रष्टव्यावधिरूपमामुहि मतिं वस्त्यस्तु ते संततम् ॥ (इति विप्रश्निका ) संधानमधुरा चेटी खरती गुप्तचारिणी । छादयन्ती भोगचिहं तत्कार्यवचनैर्यथा ॥३॥ रिङ्गाधरता कथं तव वचः संजल्पतस्तत्पुरा किं भ्रष्टालकपत्रकं तव पतेर्मानप्रणामान्मुहुः । दीर्घोच्छासतरः कथं द्रुततरादाधावतस्तेऽन्तिकं युक्तं चेटि किमत्र तस्य वसनं विश्वासहेतोस्तव ।। (इति चेटी ग्रावादिशकलक्षेपास्चनच्छलभेदतः । सूचयन्ती स्वयंदत्ती तत्कार्यवचनैर्यथा ॥४॥ मध्याह्नेऽथ घने निदाघसमये तापो धनो वर्तते कुञ्ज शीतवटे सुशीतलतटे भो पान्थ विश्रामय । एकाकी च भवानहं च तरुणी शून्या प्रपा विद्यते लज्जा मे गदितुं त्वमेव चतुरो जानासि कालोचितम् ।। (इति स्वयंदूती।) तत्तद्रूपगतं भावं पटे रूपं प्रदर्य च । विजानत्युभयोः प्रीतिं चतुरा शिल्पिनी यथा ॥५॥ सा त्वं मन्मथमञ्जरी स च युवा भृङ्गस्तवैचोचितः श्लाध्यं तद्भवतोः किमन्यदपरं किं त्वेतदाशामहे । भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः श्रेयानस्तु विधेविचित्ररचनासंकल्पशिल्पश्रमः ॥ (इति शिल्पिनी) सामभेदतिरस्कारश्लेपान्योक्तिभयादिभिः । चतुरोपायसंपन्ना विचित्रवचना यथा ॥६॥ - - . दूतीकर्मप्रकाशः। २७ गङ्गाशेषमधुव्रताजधनुषां पङ्केरुहस्य श्रियं वेणीपोतककीरकोकिलकपोताधीशकोकार्जितम् । हत्वा काञ्चनमेरुसिंहकरिणां लक्ष्मी तथा तस्करि- त्वं गच्छ प्रभुकृष्णदेवनिकरं संयान्ति यावन्न ते ॥ (इति विचित्रवचना) मानविद्याच्छलेनेति गायन्ती तद्गुणश्रियम् । तुलितौ विधिना साम्यं युवां गानवती यथा ॥ ७ ॥ संसाराम्बुनिधौ तदेतदनि स्त्रीपुंसरत्नद्वयं नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा हरिः। सा त्वं तस्य कुरङ्गशावनयने योग्यासि लक्ष्मीपते. रेतत्ते कथितं किमन्यदधुना यास्याम्यहं श्वस्तने । (इति गानवती) धनाभिलाषिणी मिथ्या पुत्रीति च्छलभाषिणी । गुप्तशिक्षी विशेषज्ञा धात्री धूर्वाधिका यथा ॥ ८॥ पुत्रि त्वत्पतिरद्य चत्वरतटे दृष्टो मया कूर्चवा- न्संतालाङ्गपलाण्डुपङ्कजकरः प्रायः पयोप्णीपशुः । त्वं सौन्दर्यतरङ्गिणी च युवयोर्योगावयोगो वरं कामोऽन्योऽस्ति समर्पयामि सुभगे तस्मै चल त्वामहम् ॥ (इति धात्री) कुमारी शुकवच्छिक्षावाक्यमन्योन्यसूचिका । क्रीडापुत्तलिका लोभाद्राक्षाफलतो यथा ।। ९॥ दत्तेयं कमनीयपुत्तलितरा येन त्वया पश्य मे रे रे सुन्दरि सोऽपि तिष्ठति वहिस्त्वत्सौख्यमापृच्छति । त्वं द्राक्षास्तबकं गृहाण सुमुखि वित्युत्तरं दीयतां मद्गहाङ्गणपृष्ठकण्टकितरोर्मूलेऽतिकष्टं निशि ॥ (इति कुमारिका) . -~- - २८ काव्यमाला। प्रसङ्गायेन केनापि पत्री वचनचातुरी । प्रेक्षता सा तदा मोक्ता तज्ज्ञैः प्रासङ्गिनी यथा ॥ १० ॥ भो वृद्ध क च गच्छसि प्रभुवर श्रीगोकुले नूतने तत्र त्वं मम पत्रिका प्रियतरं संदेशमाश्रावय । यस्याः पङ्कजकुडलस्तनयुगं चन्द्राननं सस्मितं नेत्रापानबहिर्गतश्रुतितटं द्वारे कदम्बद्रुमः ।। (इति प्रासङ्गिनी ) पुष्पशिल्पातिचातुर्यराजमालाधिपस्तव । कण्ठयोग्य इति श्लेषं गदन्ती मालिनी यथा ॥ ११ ॥ कण्ठालम्बितचम्पको बकुलवधूथीभुजः पृष्ठभा- ग्भल्लीपाण्डरबन्धकुन्दरचनावर्णवनामाङ्किता । सेवन्ती कजपारिजातकगुलालोरस्खलामण्डितः सोऽयं पुष्पसुशिल्पकश्च किमये ज्ञातस्त्वया वल्लभः ॥ (इति मालिनी) भ्रष्टसंघानिका पश्चादुपालम्भनतत्परा । अथवा स्थीयते तूष्णीं सा दूती स्खलिता यथा ॥ १२ ॥ हे मुग्धे प्रिय मा व्रज, त्यज रुष, वर्षानिशा वर्तते, हा कष्टं कलकण्ठचातकगणा गर्जन्ति रोलम्बकाः । तत्काले स्वयमागतः प्रियतमो द्वारान्तरात्तगृहं सा दुती स्खलिता तदोषसि महोपालम्भमालम्भते ॥ (इति स्खलिता यदा कदा समायाता सूचयन्ती मुहुर्मुहुः । स्वगृहे गुप्तसंकेत प्रतिवेशिनिका यथा ॥ १३ ॥ रे रे काश्चनकंजकुब्बलकुचे फुल्लारविन्दानने रक्ताम्भोजदलाभपाणिचरणे नीलोत्पलालोचने ।
।
दूतीकर्मप्रकाशः।
जानासि तवाङ्गसङ्गिचरितं ज्ञातुं यदिच्छास्ति चे-
सायं क्लेशमुपाय्य भर्तृसदनादागच्छ होऽस्मद्गृहम् ।।
(इति प्रतिवेशिनी।)
तत्तद्वदनचातुर्यभावं दर्शनमात्रतः ।
जानाति परचित्तस्य विशेषज्ञा तदा यथा ॥ १४ ॥
नाथेनाधरखण्डनं निशि कृतं ज्ञातुं न शक्ता मुदा
प्रातर्यातृषु मध्यगातिचतुरा भिक्षोः शिशोर्भावनम् ।
ज्ञात्वा सान्तरलजितातिसहसा गच्छेति मुक्ताकणां-
स्तस्मै चार्पति कण्ठलग्नसगुणान्सा ते कथं यास्यति ॥
(इति परचित्तविशेपज्ञा)
फलपुष्पादिसंकेतं कथंचिदपि यत्कृतम् ।
तज्जानाति च या चेष्टासंकेतकोविदा यथा ॥ १५ ॥
कर्पूरं सितपर्णचूर्णसहितं सुश्वेतपूगीफलं
क्षिप्वा कंजकरण्डके मितहरिर्दूतीकरे न्यस्तवान् ।
सा लक्ष्मी समुपेक्ष्य ससितमुखी तस्याः पुरं स्थापय-
न्पद्मान्तःसितपूर्वकं मृगमदं दत्त्वा पुनः प्रेषिता ॥
(इति चेष्टासंकेतकोविदा ।)
वदन्ती मधुरं मन्दं वसनादानदानतः ।
'तृरत्नमय दृष्टं मे त्वद्योग्यो रजकी यथा ।। १६ ॥
रे रे रे रजकि त्वयाद्य वसनं धौतं न किंचित्कथं
सत्यं खामिनि कारणं शृणु तथा वक्तुं न शक्तास्म्यहम् ।
यं दृष्ट्वा प्रमदा भवन्ति विमदाः सोऽस्मिन्पुरे वर्तते
त्वद्योग्यः कियती त्वहं युवतयः सर्वाश्च तन्मोहिताः ।।
(इति रजकी।)
'सौचिकी यथा ॥ १७ ॥
३० काव्यमाला। .. (इति सौचिकी।) अन्योक्तिकैतवं वाक्यं संकेतमुभयोर्मुहुः। जल्पन्ती बहुवेपज्ञा वेषधारिणिका यथा ॥ १८॥ वेषः कस्य धृतस्त्वयाद्य सुभगे जन्मान्तरं त्वत्पते- स्त्वं जानासि कथं पुरातनगति जातिसरत्वं मम । कुत्रास्ते स वद प्रयोगचतुरे त्वहारदेशेऽस्त्यसौ न ज्ञातः सहसा त्वयेति वचनादOणि सा मुञ्चति ॥ (इति वेषधारिणी ।) मुकाचवलयानारी करमूले प्रयोजिका । तदा वदत्यन्यगुणं मणिहारिणिका यथा ॥ १९ ॥ एकस्मिन्नगरे वरो नरपतिः कामः कलाकालवि- नारी तस्य कुरूपिणी विधिवशाद्भमा त्वरन्मूर्धनि । त्वं सौन्दर्यरतिः कदा च युवयोर्योगोऽस्ति चेत्संमतं धाना किं न पुरा स्मृतं सखि वद प्रायः पुराणो विधिः ।। (इति मणिहारिणी) तत्तद्गुणकथावाक्यभेदस्यान्योन्यसूचनात् । उभयोः कथयन्तीति छमना कथिनी यथा ॥ २० ॥ त्वं काहं कथिकास्मि मद्गतकथां जानासि जानामि ते 'पूर्व दुर्मदनामकः पतिरभूत्तस्याङ्गना दुर्मतिः । खेच्छाक्रीडनतत्परौ विधिवशानाशं गतौ तत्पुन- र्जातौ संप्रति दुर्मदेन च बहिस्त्वं मर्यते दुर्मतिः ॥ (इति कथिनी) ।
दूतीकर्मप्रकाशः। ३१ नखोत्तारणतो लाक्षारङ्गतः पादरञ्जने । नापिकी तत्कथां श्रुत्वा जल्पत्यन्यकथां यथा ॥ २१ ॥ भो भोः पद्मिनि तेऽद्य वक्रकमलं म्लानं कथं वर्तते दुःखं ते कथयामि किं मम सदा रात्रिंचरो वल्लभः । हा हात्रास्ति सुवालभास्करसमस्त्वत्प्रेमयोग्यो वरो यं दृष्ट्वा तव सुप्रसन्नवदनं तत्कालमाफुल्लति ॥ (इति नापिकी ।) नरपतिचुरहानः फारुकीतीजसूनुः कविमतिनलिनीनां भासते बालभानुः । कविवर कुरु दूतीकर्मवर्मप्रकाश त्विति गदति कृतं तत्पण्डरीविह्वलेन ।। नायकानां सहायोऽत्र चतुर्धापि प्रसङ्गतः । पीठमर्दो विटश्चेटविद्पकाविति क्रमात् ॥१॥ त एव नर्मसचिवा दूतकर्मविचक्षणाः । किं त्वन्तरपटाबाह्ये न प्रत्यक्षेऽपि वोधकाः ॥२॥ देशकालकलाभाषा माधुर्यं च विदग्धता । प्रोत्साहने कुशलता यथोक्तकथनं तथा । निगूढमत्रतेत्याद्याः सहायानां गुणा मताः ॥ ३ ॥ पीठमर्दो महाविद्वान्कुपितस्वीप्रसादकृत् । कोऽयं कोपविधिः प्रयच्छ करुणागर्भ वचो जायतां पीयूषद्रवदीपिकापरिमलैरामोदिनी मेदिनी । आस्तां वा स्पृहयालुलोचनमिदं व्यावर्तयन्ती मुहु- यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्दाय वन्दामहे ।। (इति पीठमर्द.।
३२ काव्यमाला। कामतन्त्रकलावेदी भवेद्विटवरो यथा ॥ ४ ॥ आयातः कुमुदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति । एते सिद्धरसाः प्रसूनविशिखो वैद्यो नवद्योत्सवो मानव्याधिरसौ कृशोदरि कथं त्वचेतसि स्थास्यति । (इति विटः।) संधानमचुरश्चेटः कलहंसादिको यथा । सा चन्द्रसुन्दरमुखी स च नन्दसूनु. दैवान्निकुञ्जभवनं समुपाजगाम । अत्रान्तरे सहचरस्तरुणौ कठोरे पानीयपानकपटेन सरः प्रतस्थे । (इति चेटः।) विदुषको हास्यकारी विकृताङ्गादिभिर्यथा ॥ ५॥ आनीय नीरजमुखी शयनोपकण्ठ- मुत्कण्ठितोऽस्मि कुचकचकिमोचनाय । अत्रान्तरे मुहुरकारि विदूषकेन प्रातस्तनस्तरुणकुकुटकण्ठनादः॥ (इति विदूषकः।) कचचिबुककुचाग्रे पाणिपु व्यावृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गभूमौ । अथितनिबिडनीविग्रन्थिनिर्मुक्तिहेतो- श्चतुरतरविलासः शाङ्गिणो वः पुनातु ॥ इति श्रीकार्णाटकजातीयदूतीकर्मप्रकाशः । Mon शृङ्गारधनदशतकम् । ३३ श्रीधनदराजकविविरचितं शतकत्रयम् । शृङ्गारधनदाभिधान प्रथम शतकम् । सिद्धार्था कनकाक्षरेण कलिता यस्य प्रशस्तिः स्वयं देवी शैलसुता महेशरजतप्रस्फारपट्टेऽभवत् । लक्ष्मीर्वा मुरवैरितन्मरकतप्रासादवक्षःस्थिरा दाम्पत्यं रतिकामयोस्तदवतादानन्दजीवास्पदम् ॥ १ ॥ मेरुर्मानितया धनैर्धनपतिर्वाचा च वाचस्पति- भॊगेनापि पुरंदरः शुचितया दानेन चिन्तामणिः । गाम्भीर्येण महोदधिः करुणया कोऽपीह तीर्थकरः श्रीमालो धनदः कृती वितनुते शृङ्गारपूर्व शतम् ॥ २ ॥ जात्या दोषपराङ्मुखाः परगुणप्रीत्या कृति सजनाः पश्यन्तु प्रतिवासरं निजधिया संपादयन्तो रसान् । यजानन्ति वदन्तु तत्खलु खला नाभ्यर्थना तेषु य- भृकैस्तावदनादृते दिनमणौ प्राप्तोऽर्थलाभः कियान् ॥ ३ ॥ आरब्धा शतकत्रयी पृथगिह प्रायः स्थितिर्मादृशां शान्ते वर्मनि कर्मणां नयविदां तोषो भवेज्जातुचित् । शृङ्गारः प्रथमं तथा रसवतां हेतुः प्रवृत्तौ यतो बालानां कटुकौषधप्रणयने देयः पुरस्ताद्गुडः ॥ ४ ॥ माधुर्य मितमीक्षितं चपलता यूनोः कथासंभ्रमो व्याजेन श्रुतिमुक्तिमालिवचने स्वाभाविको वक्रिमा । आलस्यं गतिचातुरी मनसिजो रत्या समं खेलनी बालायाः करतालिकामुपगतं सख्योरिदानी मनः ।। ५ ॥ १. इद शतकत्रयमनेन कविवरेण वैक्रमे १४९० (A. D. 1434) संवत्सरे प्रण्यनायीति 'वर्षे व्योमाइवेदक्षितिपरिकलिते विक्रमाम्भोजवन्धोः' इति द्वितीयगतकसमा- प्तिपद्यतोऽवयुध्यते पुस्तक चास्य अन्यस्यास्माभिरेकमेव २७ पत्रात्मक्मन्माक सरन्या तीसदनत उपलब्धम्. ५ ३४ काव्यमाला। वक्षो वीक्षितमादरेण सहसा स्पृष्टो वलिप्रक्रम- श्वेतश्चिन्तितमुत्सुकं जघनयोरापीनता किता। तन्व्या लोचनलोलतापि कलिता प्राप्तेऽचिराद्यौवने मुक्तौरःस्थलमावृतं सुवदनाकण्ठे स्थित लज्जया ॥ ६ ॥ कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन भूपाद्वयं कुर्वाते रससाधनाय विधिवत्कस्तूरिका मुद्वया । अन्तर्दपंकवाणतापितयुवप्रेमोप्मभूयस्तया निर्याता रसविन्दवो वहिरितो हारस्य मुक्ताच्छलात् ॥ ७ ॥ सेकं सेकमुरोजहेमकलशीयुग्मेन नामीहदा- ल्लावण्यामृतवारिणापुपदियं शृङ्गारवल्ली हृदि । उन्मीलन्मितसूनसौरभमरः श्वासानिलस्तोपकृ- द्वक्रेन्दूदयलालितोदरचरीच्छायेह रोमावलिः ॥ ८ ॥ धन्यं कुण्डलमेतदुत्तमवधूगल्लस्थलीचुम्बन शश्वद्यल्लभते परं स गुणवान्हारः स्तनाश्लेपकः । अस्माकं तु खलेन केन विधिना स्थाने स्थितिनिर्मिता हन्तेत्थं रटतीव खेलदबलापादे रणन्नूपुरः ॥९॥ दीर्घाभ्यर्थनया कथं कथमपि न्यस्तं पुरो वीक्षसे जानीषे न किलालसा न वृणुपे स्रस्तं दुकूलाञ्चलम् । यावद्यञ्जयति स्थितो हृदि निजं नायं कपोले यश- स्तावत्तन्वि विधीयतां प्रतिकृतिस्ताक्स्वयं दुर्लभः ॥ १० ॥ छत्रं वसुधानिधिर्वजविधौ मत्स्यौ चलच्चक्षुषी लावण्यामृतनिझरा तनुरियं पीना नितम्बस्थली । ()सिंहासनमुन्नतं कुचयुगं कुम्भौ करौ पल्लवौ सानन्दा जलहारिणी रतिरहो कामाभिषेकोऽधुना ॥ ११ ॥ साध्वी गायति किङ्किणी स्तुतिपटुवैतालिको हंसको वाणाः पञ्च विलोचने मितमिदं दन्तच्छदो नासिका।
। शृङ्गारधनदशतकम् । ३५ चापो भ्रूरिति पञ्चबाणसमयो यस्यामिदानीमहो सा त्वं वक्षि न जातु किं सुवदने चेतोऽनुरागास्पदम् ॥ १२ ॥ तल्पे पल्लवकल्पिते सुनयना शेते निधायोपरि स्वच्छन्दं करपल्लवं स्तनयुगस्यारामरम्योदरे । लक्ष्मी वीक्षितुमागतस्य सुहृदः कामाभिषेकोत्सवे रक्ताशोकनवप्रवालकलितं हैमं नु कुम्भद्वयम् ॥ १३ अद्याश्लिष्य निपीय गाढमधरं नीत्वा च वक्षःस्थली प्रक्ष्यामि स्मितपूर्वकं प्रतिदिनं माऽसौ यथा पृच्छति । निर्धाति दिने न चेतसि निशि प्राप्ता गृहं प्रेयसो बाला न क्षरमुत्तरं वितनुते पृष्टा प्रियेणादरात् ॥ १४ ॥ कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिरोमणिहमिदं रम्यो वसन्तोत्सवः । सख्यः कामकथोपचारचतुराः संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तचेतसो निर्वृतिः ॥ १५ ॥ जन्मारभ्य न यावदद्य सुभगंमन्याक्रमो हापितः स्वैरं तिष्ठतु कान्तया स रमतां मा मां नयध्वं वलात् । इत्थं जल्पति यावदेव सुमुखी तावत्क्षणादागतः कान्तस्तल्पमलंचकार च वदन्कस्येदृशी संगतिः ॥ १६ ॥ अज्ञास्ते सुहृदालयोऽतिपिशुनास्त्वं कर्णयोर्दुबला दृष्टे सागसि वल्लभे मृगदृशां मानः स्वयं जायते । लोको हासरसाकुलः परगृहे प्रेमोपभेदोद्यतो ह्याखुर्दन्तमुखेन खण्डयति सत्यद्धाम्बरं हेलया ॥ १७ ॥ पृष्टः कातरतां विहाय शयने मानापराधौ कदा जायेतामिदमुत्तरं कथितवान्मित्वा चिरं चिन्तय । बाले संप्रति नैतयोस्तु समयः श्रुत्वेति हासच्छला- दालीभिः समकालमेव समयं दृष्टा चिरात्तर्जनी ।। १८ ।।
काव्यमाला । . लिग्धे ताशि नौचिती परुपता दृष्टे वहित्था कथं धीरं सस्मितमालपत्यनुदिनं निर्दास्यमास्यं कुतः । निद्राणं तनुरोम तिष्ठति पुरा तत्संनिधावादरा- सख्यो मानमुदाहरन्तु कलहे बालोद्यमः कीदृशः ॥ १९ ॥ धैर्य मुञ्च कुरुष्व मानममलं तद्गौरवस्यास्पदं मानादेव गुणोदयः किमधिकं दासायते वल्लभः । उक्ते घेहि मनो निशम्य सकलं तूक्ता वयस्यास्तया दत्तं नाम मनोऽन्यतो न विदितं दत्तं कथं दीयते ॥ २० ॥ यामः पूर्वनिशोपभोगकथया नीतोऽपरो निद्रया नीतः कोऽपि वयस्यया सह रताम्नायोपदेशक्षणात् । खानाकल्पविकल्पकल्पनविधेरन्यो दिनस्य क्षणा- तल्पे वासकसज्जया युगसमो यामो निशायाः कृतः ॥ २१ ॥ आकल्पं विरचय्य तल्पममलं सजं विधायादरा- दालीभिः कथया कयापि समयं वारान्वहून्पृच्छती । द्वारे निश्चललोचना परपदध्वाने तमेवागतं मन्वाना निजमन्दिरे रसवशाद्वन्यस्य वाला वसेत् ॥ २२ ॥ गच्छ त्वं सखि वाचिकं लघुपदं नीत्वा नयैनं शठं कुत्रास्ते नु वदन्निजेन सुहृदा केनापि तत्तद्वचः । गच्छामो यदि लाघवं ननु परा हासाय दीर्घाननाः का वा गौरवलाघवादिकलना वश्ये तथा वल्लभः ॥ २३ ॥ आकल्पो मलिनो भविष्यति मनाग्भूयोऽधुना धीयते भुक्तं तल्पमथोज्झितं च सहसा सख्यः परिस्तीर्यताम् । संकल्पेन विधाय संगमसुखं जातावबोधा पुन- धन्यो वासकसज्जया प्रतिपदं प्राणाधिक मर्यते ॥ २४ ॥ पन्नाली चिरलालिता करतलस्पर्श कपोलाद्गता लुप्तो रागपरिग्रहोऽधरतले तद्वाचिकालापतः ।
शृङ्गारधनदशतकम् ।
लीलातामरसं मलीमसमभूदुच्छासतोऽधः पत-
संकेतालयतल्पकल्पनपरा तेऽध्वानमन्विष्यति ॥ २५ ॥
मानश्चेतसि नाथ वासकलहो नालिङ्गने मेति न
खैराभाषणमौनिता न शयने वैमुख्यबुद्धिश्च न ।
सीत्कारोऽधरखण्डने न सुरते मुग्धाक्रमो नेति ना
पुंभावं गतया हठादमिहितः स्त्रीत्वं गतः पुण्यवान् ॥ २६ ॥
धूपेनागुरुजन्मनाथ सुमनोमालाभिरत्यादरा-
द्दीपं दैवतमामनन्ति सुदृशामान पत्युः पुरः ।
ज्ञानोन्मेषदृढप्रकाश भवतः कुर्वे प्रणामाजलिं
सद्यः कजल(१)मुद्धमायमधुना कान्तो रतायोत्सुकः ॥ २७ ॥
मानेनासि सखि क्षमा शिशुरयं न प्राणनाथोऽपि ते
नास्माभिः सखि वञ्चितासि कतमस्ते खण्डिताया भ्रमः ।
भुक्तासीति न कथ्यते कथय तत्का नाम ते चातुरी
पत्राली न मलीमसा न मलिनो जातोऽङ्गरागः कचित् ॥२८॥
युप्मासु स्वयमुत्थितासु शयने लुप्ते चिरान्मण्डने
मा लज्जख नवं लिखाम दयितो मां याचते सासकृत् ।
भावैरष्टविभागतोऽनु रचनाः प्रत्यूहमासादिताः
प्राप्तेयं नवमी कथं कथमपि प्रातस्ततोऽभूदहः ।। २९ ।।
स्वादङ्गादवतार्य नूपुरयुगं न्यस्तं सखीपादयो-
मध्ये दीर्घनिनादिनी मणिमयी बद्धा दृढं मेखला ।
ज्योतिःपूरमुरःस्थले कृतनवं हारं प्रियप्राप्तये
मुग्धा गच्छति मन्दमन्दमुदितत्रासा जनावेक्षणात् ॥ ३० ॥
तल्पे जल्पितमल्पमेव तदनु व्याख्यातमन्तर्गृहे
पारेद्वारमुदाहृते प्रतिपदं व्यावृत्तमाराबहिः ।
सीमान्ते प्रतिष्टमध्वनि हठादाशङ्कितं प्रौढया
कान्तोत्सङ्गतले तयाखिलमलं तत्संहृतं वाचिकम् ॥ ३१ ॥
काव्यमाला । वैमुख्येन शयानयान्यरमणीनामा समाहूतया नाश्रावीति निमीलितं प्रलपितं मिथ्येति निद्राहता। उद्यद्वेपथुना द्वयोर्यदचलत्तल्पं तदाभ्यां छला. त्रस्यद्धयां च परस्परेण कलितं नीरन्ध्रमालिङ्गानम् ॥ ३२ ॥ वारं वारमुदाजहार रमणी दृष्टान्तमेकान्ततो दम्पत्योः कलहोपहाससमये कश्चित्सखीनां पुरः । रुष्टा तेन मनखिनी नु सुभगंमन्यः प्रियो नाधुना चित्ते मानमवीवसत्किमधिकं जात्यैव वामाः लियः ॥ ३३ ॥ उच्यन्ते नु विशेपका न रमणीवने विशेषः कचि- तेभ्यस्ते खलु वेधसा विरहिणोः सृष्टोऽन्तरायः क्षणम् । सायं सायमनीदृशं यदपरं तत्प्रातरालोक्यते जाड्योन्मुक्तनिशीथपार्वणविधुध्वंसाय मीमांसयत्() ॥ ३४ ॥ नियूहः सुखमावयोर्मधुरयं न स्यात्तपतुस्तथा संतापाय वियोगिनोरिति मुहुः श्रुत्वा पिपासोर्वचः । बाला पृच्छति समितं न मुकुलं स्यान्मल्लिकायां कथं निर्गन्धा वनपाटला कथमसौ तन्नाथ मे कथ्यताम् ॥ ३५ ॥ प्रावृप्येष्यसि वासरास्तु बहवो मध्ये तपो दुःसहः वातारो नवमल्लिकासुरभयो यत्रापरे मारुताः। धारामन्दिरमार्द्रतल्परचना चन्द्रातपश्चन्दनं यस्पर्शेन विषायतेऽखिलमिदं प्रायो वियोगक्षणे || ३६ ॥ यास्यामीति न यावदीरितमनुप्राप्ते कथागौरवे तावन्नमणि न स्खलप्रतिवचा वासःस्खलनती। चिन्ताश्वासनिपीतपीतिमतनुस्तावद्गभीराशया नासामौक्तिकमात्रभूपणमणिर्टष्टा मया प्रेयसी ॥ ३७ ।। मा काकं दधिभक्तमाशय मुहुस्तिर्यत्करः किं वदे- दस्य ज्ञानविबोधनाय विधिना सृष्टो धरायां पिकः ।
शृङ्गारधनदशतकम् ।
कण्ठे चेद्दधि कोकिलस्य कुरुते तत्कण्ठकुण्ठस्तदा
नोच्चैः पञ्चममातनोति सुदती जीवेकथचित्तदा ॥ ३८ ॥
प्रालेयाचलनिम्नगाभिरभितो मार्गे निरुद्धेऽधुना
प्रावृष्येति न यक्षराजककुभस्तन्वी कथं जीवति ।
इत्यालापपरम्परां श्रुतवती त्वासां सखीनां मिथो
बाला पृच्छति साधु रावणपुरीद्वारध्वनो वासरान् ॥ ३९ ॥
आकर्णाञ्चितधन्वनः करिवरव्यापादनायोद्यता-
विन्ध्यालेख्यमहाटवीषु मृगयोत्साहे सखीनां पतीन् ।
कोदण्डाञ्चलबद्धनिर्मदशिखिप्रस्फारपिच्छध्वज
प्राप्त स्व पतिमालिलेख सुदती गर्वाजहासोचकैः ॥ ४० ॥
यस्मात्पीनपयोधरद्वयमिदं कृत्वोपधानं सुखं
सातौ दर्पकदम्पती मृदुतनावस्यां शयाते चिरान् ।
किंचिच्छ्यामलमग्रतस्तदुभयं पाण्डुखभावादहो
धम्मिल्लाङ्कनिममतैलशबलच्छायां ततो लक्ष्यते ॥ ४१ ॥
मञ्जीरद्वयमेतदनदयुगं त्रै(अ)वेयकं कुण्डले
सप्तैतानि विलोकय प्रभुरसि खैरं सपल्याः पुरः ।
किं ब्रूमः पतिदेवता वयमिति व्याहृत्य पत्युर्ददौ
सीमन्ताचलपद्मरागशकलं बाला बलादञ्जलौ ॥ ४२ ॥
लीलातामरसं विपक्षरमणीहस्ते निरीक्ष्यादरा-
दावेशादुपविश्य सामि सहसोड्डीनैरलीनां गणैः ।
गुञ्जसौरभलम्पटालिपटलीश्यामं तदेवात्मनो
मा दृष्टेति ललज्ज कापि रमणी तत्याज दूरेऽम्बुजम् ॥ ४३॥
प्रेयस्ताडनकर्मणीदमुचितं निर्वापकं तेजसो
लज्जानमणि लोचनाञ्जनरुचः सौभाग्यसंपादकम् ।
प्राप्ते प्रेयसि मन्दिरं तदपरं लीलारविन्दं पुनः
शय्योत्थायमपाचकार रमणी सौधावहिः सत्वरम् ॥ ४४ ॥
४० काव्यमाला। क्रीडासानि कापि कौतुकवती क्षीरोदपूरोदरे निद्राणं हरिमालिलेख निखिलप्रारम्भमुद्रागुरुम् । पूर्व दक्षिणमीक्षणं भगवतो ध्यात्वा हसन्ती क्षणं पश्चाद्धाममलीलिखत्किमु निशा यस्यां न गाढं तमः ॥ १५॥ मात्राचित्रविशेषलेखनविधावादिष्टपूर्वा चिरं विष्णोर्जागरणोत्सवाय मुदती रेखामधादग्रतः । कैलासाचलगामिमानससरः स्वच्छं लिखेत्याहता क्रीडाशैलसरश्चकार विकसज्जाम्बूनदाम्भोरुहम् ॥ ४६ ।। नष्टे तेजसि वान्धवे विधिवशायावापृथिव्यौ मिथो कुर्वाते सलिलाञ्जलिं मरुदसावद्यापि नोत्तिष्ठते । आक्रान्तेन महौजसा च वियता क्षिप्तं यदन्वं तमः प्रातः पीतमनिच्छया तदधुना विष्वग्वसेन्मेदिनी ॥ ४७ ॥ वारुण्याञ्चलवायुनोपशामिते भास्वत्प्रदीपेऽधुना किं चिन्वन्ति नवाञ्जनं सममिदं शृङ्गारमाधित्सवः । किं वा सत्रिभिराहतेषु पतिपु व्योमैकगेहोदरे सद्यः संप्रति शेरते दश दिशः सत्यं सुखं यातरः ॥ ४८ ॥ मुग्ये माभिसर समन्दिरमलं कुर्वानय प्रायशः प्रेयांस तव साहस न घटते तथ्यं हितं ब्रूमहे । सद्यस्त्वन्मुखचन्द्रिकाभिरभितो लीटेऽन्धकारेऽधुना- . प्यन्यासामभिसारसाहसरसे(१) जातोऽन्तरायोऽधुना ॥ १९ ॥ मञ्जीरं त्यज मुश्च मौक्तिकसरं मा मल्लिकाः शीलय नीलं वा परिधत्व चारु वसनं वाचं नियच्छादरात् । मन्ये म्यादभिसारिका न भवती दूरे ध्वनि प्रायश- स्त्वच्छासानिलविप्रन्टब्धमधुना प्रातः समुजम्भते ॥ ५० ॥ उड्डीना वपया त्वया ननु जिता गत्या निमग्नाः कदा तल्याय प्रतिवासरं कृशतनो लूनाः सखीभिस्तव ।
शृङ्गारधनदशतकम् । ४१ दृश्यन्ते कलुषा निशा मुखपतत्कान्ताङ्गरागादिति त्वत्कान्तानुचरीषु वञ्चनकथापाण्डित्यमभ्यागतम् ॥ ११ ॥ लुप्तश्चन्दनविन्दुरलनरसः पीतोऽनुलेखो गतो निःशेषेण कपोलयोः कुचयुगे शेषो मकर्याः कुत्तः । दग्धंयं सखि मध्यभागतनुता पद्भङ्गभीरुः प्रियो गाढाश्लेषपराङ्मुखो रतविधौ तुष्टः कदाचिद्यदि ॥ १२ ॥ सौधस्योरसि मन्मथप्रतिकृतिः प्रासादपृष्टे शशी क्रीडाकाननवेदिकासु च पिकस्तद्दीर्घिकायां मरुत् । इत्थं त्वद्विरहेऽधुना कृशतनोः शय्यासमासादन- व्यग्राणामितरतरं मधुमुखे तस्याः सखीनां मिथः ॥ १३ ॥ आगच्छेति मया श्रुतं जिगमिपोर्यामीति तूप्णी मतं पाथेयं निजपाणिना विरचितं पृष्टोऽवधिः सस्मितम् । प्राणा येन तदा तदा किल गता वक्षो न दीर्ण च य- त्तेषां तस्य च का कथा यमधुना दम्भाय कायों विधिः ॥१४॥ किं निन्दन्ति सुधानिधि मलयजं किं नाद्रियन्तेऽथ किं श्रीखण्डानिलमावृणन्ति सहजामुन्झन्ति कि धीरताम् । किं कामं विलपन्ति किं पिकरुतात्रस्यन्ति मूर्छन्ति किं तल्पे पल्लवकल्पितेऽपि सुदृशतद्भूत किं कारणम् ॥ ५५ ॥ बालादद्य विनिर्गतं तव वयः कान्तः स्वयं दक्षिणो वृद्धाधीतवहुच्छला वयमिमा वां कामजीवातवः । क्रीडाकाननसौधशैलशिखरे श्रीखण्डशैलानिल- वाचान्तश्रसवारिविन्दुरधिकप्रेम्णा मधुर्नीयताम् ॥ ५६ ॥ सा पत्युः शयनं गतेति मुदिता श्रुत्वा सखीभाषितं पश्यामः प्रियसद्म विद्म न वयं कीदृक्षमन्तर्भवेत् । लाक्षालक्ष्मसुलक्षपादयुगलं तल्प हशा चिन्वती चित्रस्थे च निरीक्षिता सहचरीवृन्देन मन्दाक्षतः ॥ १७ ॥ ६ ४२ काव्यमाला। मुग्धे बोधय सारिकामियमदः प्रेमास्पदं सीदति प्रीत्या पाठय चाटु पाठकबटुं वां पीठमदै शुकम् । आलीहासरसोचिताः सितलवेनाभाषखा""ईमा(१) दृष्टे नानुगृहाण वल्लभमिमं पादानतं भीतवत् ॥ १८ ॥ साहक्कण्टकलम्पटापि करभी मा हास्यतां दूरतो नाङ्गाराशनगर्विता सुनयना निन्द्या चकोरी पुनः । उद्यत्कण्ठकदन्तुरेऽतिकठिने पङ्काकुले पिच्छिले निद्रामो यदि संयतास्तदपरं नानन्दकन्दास्पदम् ॥ ५९॥ गुल्फग्रन्थिमणिप्रभावबलतः पादाङ्गदं प्रेयस- चूडारत्नपदं मदात्समगमन्मानापनोदादरात् । मागान्मन्त्रपदाददादपि पदं कार्याकुलोऽपि प्रियः कर्णाशोकदनाहतश्चिरतरं मानं समूलं जहौ ॥ १० ॥ कातय तु न कार्मणं न न परं दम्भो न कि योषितां यच्चित्ता तनुचापलं मधुविधुद्वेषस्तनुत्वं तनोः। असाकं सखि पश्य संप्रति तनू रोमापि वक्रायते सद्यः प्रोषितनाथयामिनवया पान्थस्त्रियो हासिताः ॥ ६१ ॥ द्वारे नूपुरमुच्चगोपुरमुखे काञ्ची रणत्कारिणी हारो द्वारचतुःपथे पथि परे कर्णोत्पलं भृङ्गमत् । प्रेयो मन्दिरमित्यवेत्य मुमुचे तन्व्या शिरोभूषणं व्यालोके तु परस्परं विगलिता नीवी खयं बन्धनात् ।। ६२ ।। पूर्व यत्र विशेषकक्षितिरिति प्रायः कपोलस्थली चक्षुः सिञ्चति जागरूकमसकृद्भूयोऽञ्जसा तद्भवेत् । वाप्यक्षारतया तयामवदियं पाण्डुश्चिरायोपरा तन्मन्ये मकरीनिकेतनधिया तत्रैव सिन्धुः कृतः ॥ ६३ ॥ हासः कोऽपि महाशुचिः स्थितिमतां प्रेयः समक्ष क्षणा- द्वारंवारमुपैति तस्य विरहे दृष्टः कदाचिन्न यः ।
शृङ्गारधनदशतकम् ।
४३
वाप्यः किं व्यभिचारिणां न गणितः प्रायः पुरस्तादयं
दीनाया निजवल्लभस्य विरहे यश्चक्षुषी चुम्वति ॥ ६४ ॥
साहाय्याय मलीमसाः समुचिताः प्रायश्चकोरीहशा-
मुस्कानामभिसारसाहसरसे गाढोऽन्धकारः सुहृत् ।
धन्यं कज्जलमुज्ज्वलं जिगमिषोरग्रेऽगमल्लोचना-
संयम्य खयमात्मना सुमनसो नाजिघ्रतीदं कचः॥१५॥
नापेक्षैव विभूषणस्य सहजा यस्यास्ति गम्भीरता-
सद्वृत्तं यदि पार्श्वतोऽपि सहनः कीदृग्वलिप्रक्रमः ।
मध्यस्थस्य च कोमलस्य विषये कुण्ठो भवेदायुधं
दृष्टान्तोऽत्र मनोभवेन कलितो नाभिः कुरङ्गीदृशः ॥ ६६ ॥
रोहिण्याधरसंपदा मुखविधोरिष्टाश्चतस्त्रः कला
वीजानीह निरूपितान्यतनुना हासद्रुमस्यादरात् ।
भारत्याः कठिनीलवा घटयितुं रीतीरुदाराक्षरा
राजन्ते सुतनोमनोरमतमास्ते राजदन्ताः पुरः ॥ १७ ॥
सुप्ता कञ्चकगहराञ्चलमुखे दत्त्वा नरं वीटिका
प्राप्ते संप्रति तस्करेऽथ सहसा जातं कपाटे चटत् ।
रुद्धा वागथ निद्रया नयनयोरन्ते स्थितं लज्जया
क्लीबै रोमभिरुत्थितं पतिरिति ज्ञात्वा पुनर्मीलितम् ॥ ६८ ॥
सिद्धस्त्वं पुरुषोत्तमोऽसि विदिता सा सत्यभामा न किं
वाचा बोधयितुं सखीभिरधिकं नापारिजातग्रहः ।
व्याख्याता स शुकः परं गिरि पटुः संतापचिन्ताततिं
नूनं निर्जरदैवतप्रतिभटो भूत्वा समाश्वासय ॥ ६९ ॥
जानासि क्रममञ्जसा विरचय द्रागङ्गमङ्गं परि
प्रेयो मोहनमद्य मण्डनविधौ प्रौढा नियुज्यादरात् ।
तुष्टे याचकमादरेण ददती तन्व्या सखी वारिता
मुग्धे पूर्वमलंकुरुष्व कबरीमेतं ततो रञ्जय ॥ ७० ॥
काव्यमाला। नैन धारय कामकर्मकुशय() स्वच्छन्दतचुम्बना- वस्वाकर्षणकौतुकेन रमतां प्रत्यङ्गमालिङ्गतु । अन्योन्यं तनुतां नितान्तनखरव्यापारतो विग्रह कावेरीतटकाननेऽध्वनि पुरः कुजस्तस्तिष्ठति ॥ ७१ ॥ प्रातर्मन्दिरमात्मनो जिगमिषोः कान्तेन यन्मण्डनं दूरं कल्पितमादरेण बहुना निर्जित्य कम्पादिकम् । बाहोर्मूलनखाङ्कलेपनविधौ जातः स कोऽपि क्रमो येनैतावदशेषतोऽपि गलितं जाता तथैवोषसि ।। ७२ ।। नीचैनिश्वसिहि स्फुरत्वनुदिश चन्द्रातपः किं ततो गच्छामस्तव वल्लभोऽयमधुना दूनः प्रसूनेषुणा । मल्लीमुच्चिनु चन्दनं च कलय क्षौमं तनावातनु खच्छं मौक्तिकहारमुल्ललय तत्स्वैरं प्रियं प्राप्नुहि ॥ ७३ ।। राकायाः शरदः सुधार(ब)धिरभूद्यद्याननं रोहिणी श्रीरेखाधरपल्लवस्य सुदती लावण्यवापी यदि । रोमालिर्जलनीलिका च चरणं पझे चलच्चक्षुषी मीनद्वन्द्वमुपान्त एष मुखरो न स्याधुवा हंसकः ॥ ७४ ॥ श्या या मुखमिन्दुमण्डलमिदं पाण्डुयुतिप्रोषिते दूरं भर्तरि वासरे मृगतया लम्बालकाग्रच्छविः । उच्चैरम्बरकेलिशैलशिखरादालोकते मेदिनी पन्थानं विरहज्वरातुरतनुस्तद्वासरस्यादरात् ॥ ७९ ॥ रक्तं किंचिदुदेति वासवदिशि श्यामामुखं लोहितं रोषेण प्रतिवासरं स भजते नाथो दिनं वारुणीम् । विख्यातो द्विजराजनामभिरयं मौलौ भवानीपते- स्तिष्ठत्किन हिलज्जतेऽरुचि.""तं म्लानिनिजाकच्छलात् ॥७६ शृङ्गाराद्वयबादिनो रतिपतेनिःसा()णपात्रीमुखं तन्मार्दङ्गिकपुंस्थिक()पतितनुच्छायान्तरुज्जृम्भते ।
शृङ्गारधनदशतकम् ।
४५
किं वा वासवदिग्वधूकरतलादानेय दिग्वल्लभा
कान्तस्याध्वनि पत्य(१)पातमलिनस्तच्चन्द्रमः कन्दुकः॥ ७७ ॥
नायातः सखि निर्दयं स समयः प्रायो गतो गम्यतां
नष्टं कि यदि नागतः सशपथं रुद्धः कचिद्वन्धुभिः ।
आयास्यत्यथ दुर्जनः परवधूगाढोपगूढाङ्कितः
प्रातर्दृष्टिमुपागतेन बटुना वक्षो विदारिप्यते ।। ७८ ॥
मा गाः कान्त निशामुखे परगृहं मा गास्ततोऽहर्मुखे
वेश्मासाकमिदं द्वयं वितनुते चायुःक्षतियोपिताम् ।
मा भूत्काञ्चनवञ्चितेति रमणी मा भूदहो खण्डिता
मुग्धा भावमपाचकार रमणीत्थं वारयन्ती पतिम् ॥ ७९ ॥
प्रेयः प्रेममहाधना सितलवोल्लासं रसे मजती
सृष्टा केन खलेन वा परवशा योषिद्वराकी यती(४) ।
मा भूत्काञ्चनवञ्चिता निशि निशि प्राणेश्वरेणावला
पश्येयुर्न च खण्डिता मुखमपि प्रातर्वयस्याश्चिरम् ॥ ८० ॥
आयातेव निवारितः सितमुखो यातः समीपं बला-
दाबद्धो वलया हठेन सरुषा कर्णोत्पलेनाहतः ।
आविद्धो नखरायुधेन हृदये लाक्षारसेनाङ्कितः
कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः ॥ ८१॥
मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता
भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् ।
कस्यास्तीह न मन्दिरे परिमलः कस्याङ्गरागो न वा
को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना ।। ८२ ॥
पादालतकलाञ्छनं निजमुरो(१)माच्छादयालोक्यते
प्रेयांसो रसपेशला मृगशामानन्दथूत्पादकाः।
रागाशोकमहीरुहस्तवकितस्तत्पादपद्माहतः
स्वच्छे वक्षसि वल्लभस्य परितस्तच्छायमेतद्वहिः ॥ ८३ ॥
४६ काव्यमाला। दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादालाक्षारसे- नाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि । रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवे- च्चेदन्यापि तथाविधेन न पदा निःशङ्कमाताडयेत् ॥ ८४ ॥ पूर्ण चन्द्रमयोगिनीजनमनःसंतापसंपादक सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दुःसहाः । एतत्त्वत्तनुलमचन्द्रकलया सङ्गे तवैवाधुना वक्षो दीर्यत एव विद्धि झटिति त्वं नाथ दूरं व्रज ॥ ८५॥ दोष्णोः पत्रकमुद्रणा नयनयो रागोऽधरे कज्जलं गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः । आश्लेषेऽपि परस्परं परिमलः द्रागारागक्षति किं मूलो हृदि पादपल्लवगलल्लाक्षारसस्यादरः ॥ ८६ ॥ दत्ते तामरसेऽलिनाधरपुटे दृष्टा वराकी सखी वासस्तत्परिधाय मुञ्चसि चिरं येनाङ्गरागं वमेत् । मुद्रायै चटुले तथा विदधती प्राप्ता निशीथेऽधमा नाभिज्ञानमुदाहरेति सुदती दूत्या रतं शंसति ॥ ८७ नाथ त्वं बहुवल्लभो वयममी जाता दयाभूमयो भूयस्तल्पमुपागतोऽसि सहसा तत्तेऽधिकं साहसम्। अन्यस्त्रीजनभुक्तमुक्तमधम स्पष्टापराधं नरं चित्तेनापि खलु स्पृशन्ति न शठं चण्डालवद्योषितः ।।८८|| दूरादुत्थितमुक्तमिष्टमधिकं स्वैरस्वयं वीजितं पृष्ठं स्वागतमीरितं च रजनीवृत्तं सखीनां मिथः । लिप्तं वक्षसि चन्दनेन शयनं निद्रोचितं कल्पितं यामिन्या मुषितं वितीर्य कुसुमं व्यक्तोऽपराधः कृतः ॥ ८९॥ अक्ष्णोनिक्षिप कज्जलं श्रवणयोराधेहि नीलोत्पलं पत्रं चारुकपोलयोलिख कचं पुष्पसजा पूजय । .
शृङ्गारधनदशतकम् । ४७ लाक्षामुज्ज्वलयाधुना चरणयोर्नीवी च संभावय प्रातः कोऽपि निगद्यते मृगहशा रत्या चिरं तुष्टया ।। ९० ॥ सीत्कारेण विना श्रमादपि विना श्वासेन वाचा विना नीवीग्रन्थिविमोचनेन च विना गाढोपगूढं विना । तल्पेनापि विना विना सहचरीसङ्गेन दीपं विना यत्किचित्सभयं तदेव सुरतं दास्यं परं प्रेयसः ॥ ९१ ॥ आश्लिष्यन्नवधीरितश्चटुशतं कुर्वन्मुहुस्ताडित- स्तल्पान्तादपसारितः सितमुखस्तिष्ठन्पुरो वारितः । नोदास्ते दयितः कथं दयितयापादानतो नेक्षित- स्तन्मुग्धे सह यातनापरिणति तत्तत्स्वयं कर्मणः ॥ १२ ॥ मानं मानमुदीरयन्ति कथया मानः स कीदृग्वदे- न्मुग्धैवं निजवल्लभं स्मितमुखो मानार्थमूचे प्रियः । आश्लिष्य स्वयमादरेण दयितं गृह्णाति कान्ताधरे पश्यन्तीषु सखीषु नाम सुकरो मानस्त्वयाभ्यस्थताम् ॥९३ ॥ उन्मीलन्ति सरोरुहाणि मुखतः सौरम्यमुज्जृम्भते दीपो दैन्यमुपैति ते मणिरुचा ध्वस्तप्रकाशः स्वयम् । इत्थं तेन रिम्सुना न कलिता यावत्करे तावता कालेनोच्चरति स नाम किमपि स्वं ताम्रचूडः खलः ॥ ९४ ॥ गौरोतुङ्गपयोधराञ्चलवलच्चित्रोपचारोल्लस- कस्तूरीरसलेपलेखमकरी सारम्भमुज्जृम्भते । पक्वप्रच्युतसर्वजाम्बवरसप्रस्फारजम्बूनदी मीनी मेरुशिलातलेऽपतदिवोत्पत्य क्षणं निश्चला ॥ ९५ ॥ लावण्यामृतनिझरा कृशतनुः काचिच्छरन्नर्मदा पूरोन्ममपयोधरच्छलमिलगौराद्रिपादद्वया आक्रान्ते जघनस्थले हि पुलिने कान्तेन मन्देतरं काञ्ची सारसशावकैदरदलत्कण्ठैर्मुहुः कूजितम् ॥ ९६ ॥ .
काव्यमाला। T रागात्संमुखमेत्य खण्डनसहो धन्योऽधरो रागवा- कि नाशाकि पयोधरेण गुरुणा वक्षाशिलाताडनम् । न त्यक्तं जघनेन पौरुषमितो यावन्न जातो जये कर्णेन त्रपयेव भूषणमधः क्षिप्तं स्थितेनैकतः ।। ९७ ॥ प्रातःकञ्चककर्मणीन्दुशकलं दृष्ट्वा कुचोपान्ततो बालाचष्ट करद्वयाय निभृतं प्रच्छादयन्ती मुहुः । मूलं न क्षतमद्य ते नयनयोराकेकरं पश्यतोः कर्णोपान्तमपागमत्कथयितुं वाहू रणत्कङ्कणः ॥ ९८ ॥ नीली मेचकपट्टसूत्ररचिता काञ्ची रणन्ती कलं तादृक्पीननितम्बविम्बफलके वद्धा स्खलद्वाससि । कन्दर्पामरनाथकेलिशिखरिप्रस्थे चरन्ती मुहुः कूजन्तीरनिविष्टसारसशिशुञ्जम्बूनदीवाभवत् ॥ ९९ ॥ दीर्घाः संप्रति वासरास्तनुरियं नामा त्रियामा तमी सख्यो दीर्घकथालसा निधुवनं दीर्घायुरेवावयोः । दम्पत्योरिति जल्पतोः प्रतिनिशं नात्रावकाशः कचि- नेत्रे केवलमन्तिके गुरुजनस्याग्रे स्थितं निद्रया ॥ १० ॥ प्राची रागसमाकुला न सुदतीमानन्दये दीक्षिता प्रातः शैशवकैतवं कथयति श्रीखण्डशैलानिलः । विच्छायस्य सुधानिधेरुपरि सा दृष्टिः पुरस्तात्पते- दित्थं द्वारमुदाजहार वसतेः कामी पुरः शिल्पिनः ॥ १०१ ।। सख्यः किं स्तुत ता नवापि ककुभः स्यादुत्तरैवोत्तमा यस्यां शंकरशैलजार्धकथया दृष्टो न मानोदयः । यस्यामेकरुचिः शशी न हिमतः पद्मं न याम्यो मरु- न्न स्वेदो रतिपर्ययेऽपि सततं दीर्घाय या यामिनी ॥ १०२॥ किं त्वं जागरितोऽखिलामपि निशं सुप्ता कदाहं पुन- यनैवं मुपिताधरच्छविरसौ प्राच्या समुज्जृम्भते । A 4 ।
नीतिधनदशतकम् ।
४९
दृश्यन्ते मणयः पुरः कतिपये व्योग्नि प्रकीर्णाः कचि-
दृष्टा मण्डनसंपदोऽपि भवता त्वद्वल्लभाः सुस्थिताः ॥ १०३॥
इति तपःसिद्धतरखरतराम्नायसोनवशावतसश्रीमालकुलतिलकसंघपालश्रीमद्देहडा-
त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते शतकत्रये
शृङ्गारधनदाभिधान प्रथम शतकं समाप्तम् ।
नीतिधनदाभिधान द्वितीय शतकम् ।
जिनवरपदपूजादत्तचित्तः सुवित्तः
खरतरमुनिशिक्षाधीतविश्वोपकारः ।
स जयति धनराजो देहलस्यैकवीरो
नयधनदमितीदं यस्य नामा चकास्ति ॥१॥
नीतिनाम सदञ्जनं क्षितिभुजां सूक्ष्मार्थसंदर्शक
सिद्धः कोऽपि रसो परो जयमनः सर्वायसां रञ्जकः ।
वारीवेन्द्रियमत्तवारणपतेश्चापल्यसंरोधिका
लक्ष्मीरक्षणयामिकः खलमनोदुष्टाहिवन्धौषधिः ॥ २ ॥
तारुण्यं प्रभुता धनं त्रयमिदं यत्रैकसंस्थं भवे-
तत्रास्ते न विवेकिता सहनयकैकतो दाधया(?)।
नीत्या नैपुणनिष्ठया प्रतिपदं हस्तावलम्बो न चे.
देतस्याः किल दीयते निजनिजः पन्थाश्च तेषां न वा ॥ ३ ॥
नीतिः संपदि भूषणं विपदि वा देवाद्विहन्तुं पुन-
दैवं सिद्धमहोद्यमा कृतधिया मन्देव संतोषकृत् ।
भूभृत्सद्म विहारकौतुकजुषो धात्रीव यस्याः श्रियो
धर्मस्यागमपद्धती रसवता सन्मार्गदीपावलिः ॥ ४ ॥
कीर्तिश्रीव्यवहारसाधनतया पुंसां प्रधानं नयः
संदेहार्णवमज्जदीश्वरमनःसंतारणे सत्तरिः ।
मन्त्रस्थानमुदारतानतरणिः कामारिदोपहा
चेतःसमनि सज्जनस्य रमते नानाविनोदास्पदम् ॥ ५ ॥
काव्यमाला ।
३
सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं
रुन्धे दुर्जनचेष्टितं धति परं तेनांसि वैरात्मनाम् ।
वन्धून्वर्धयति प्रसज्य सुहृदः संतोषयेदेकतो
नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वतः ॥६॥
भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः
सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमादः क्वचित् ।
हन्तुं वैरिणि सोयमे नयविधिः कुण्ठं करोत्यायुध
शस्त्रेणापि विना करे नयविदां बुद्धिर्भवेदायुधाम् ॥ ७ ॥
परिणतजनसेवा संगतिः सजनानां
कविगुरुमनुशास्त्रावेक्षणं सभ्यगोष्ठी ।
नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता
गुरुनगरनिवासः कारणं नीतिवित्तेः ॥ ८॥
ज्ञेया नीतिभूमिपालेन यत्नाद्योगक्षेमौ यद्वशौ यत्प्रजानाम् ।
कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीह नीयः ॥९॥
बालः पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः ।
लेखा लग्ना यामपात्रे विचित्रा नासौ नाशं पाककालेऽपि याति॥१०॥
प्रकृतिभिरनुवेलं चिन्तनीयः कुमारो
नयविनयकुलाचार""चातुर्यशौर्यः ।
नरपतिकुललक्ष्मीर्हस्तिनी यत्र बद्धा
जयजुषि युगवाही चञ्चलत्वं जहाति ॥ ११ ॥
मद्यासक्तिश्छद्मवादः परस्त्री सेवादाने कातरत्वं प्रमादः ।
लोकावकान्ततो वासबुद्धिासप्रीती राजपुत्रस्य दोषः ॥ १२ ॥
प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः
समधिकबहुशस्त्रः शिल्पविद्यागुरुश्च ।
प्रथममधिगतार्थों विद्विषाचाररीत्या
नरपतिरिति भुङ्क्ते राज्यमव्यग्रमेकः ॥ १३ ॥
नीतिधनदशतकम् । ५१ भूमिभूपतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुता- स्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेन वध्यः स्वयम् । भूम्यर्थ रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तक्षणान् ॥ १४ ॥ भमे राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे धीरः कोऽपि निवर्तने यदि ततो धन्या प्रसूस्तस्य तु । एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं भीतत्राणफलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥ आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानो नतानां वित्तायत्तात्मवर्गः प्रतिकृतिकुशलः सेवकानां कृतेषु । विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीणः सेव्यो नाथो वदान्या सहजकरुणया दीनवत्वावधानः ।। १६ ।। मर्मस्पृङमर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः । काले काले धनानां सरति च समये सेवकत्राकृतानां ताहक्सेव्योन सेव्यो यदि धरणिरियं राजशून्यापि जाता ॥१७॥ बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकाकामुका- झूदक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् । कायस्थानिजमन्त्रिणः खपुरुषाद्रामीणपुत्रादितः प्रौढस्थानिकशासनाद्दरदतो रक्षन्प्रजाभूपतिः ॥ १८ ॥ परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः । अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥ किं नान्तर्मलिनः शशी न कुटिलः शेषो द्विजिहो न किं शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् । मार्गः किं न मलीमसो हुतभुजो लोकैरिमेताहता() इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम् ॥ २० ॥ -
काव्यमाला।
तूष्णीमास्ते प्रसन्नो वितरणविमुखः संशयोत्साहकारी
दैवाजातेऽपराधे कथयति सहसा शासनं प्राणहारि ।
विज्ञप्तः कोपमेति प्रसभमभिहितो हासमत्रोत्तरो वा
गर्वाखर्वप्रमादो रणगणितकुलः सेवनीयो न भूपः ॥ २१ ॥
अविगतजगतार्थो नीतिमार्गोपदेशा.
जनपदहितहेतुः सामदानप्रवीणः ।
बहुसचिवकुलेभ्यो दृष्टशिष्टोपचारः
स्थिरयति किल मन्त्री राज्यलक्ष्मी चिरेण ॥ २२ ॥
सहायाः संग्रामे प्रथितकुलमाना मदमुदः
प्रवीणा वाणासे स्मरसमरभेदं विदधतः ।
वशं नीता वित्तैर्विगलितमिदा नापि मिलिता
जयश्रीखीकारे तृणमिव निजासून्विजहतः ॥ २३ ॥
पापालापजडाः कलासु कुशलाः प्रेम्ला(म्णा) परं कोमला
भूभृत्कर्मणि निर्मलाः शुचितया लोकोपकारोद्यताः ।
लोभातीतधनार्जना जनमनःसंतोषकारीहिताः
सभ्या दम्भपराङ्मुखाः प्रतिपदं वाचां मृषा भीरवः ॥ २४ ॥
न्यायादेव धनार्जनं वितरणं पात्रेषु तस्य खयं
कान्ता रूपवती सती पुनरदः सङ्गः कदाचिद्यदि ।
लब्धो दीर्घतपस्ययापि तनयः प्रेष्यो रणे विद्विषां
केनायं विधिरङ्गदुष्करतरः सृष्टः सतां शीलहृत् ॥ २५ ॥
वृक्षः सीमारजनिरवनीजातसीता नितान्तं
बाहुः पन्था नगरमुदितं संगरे सद्भटानाम् ।
कोशः केशो नयनमलसं संशये वाग्विचारो
दीर्घा रम्या नगरमटवीवीचयो नीतयश्च ॥ २६ ॥
दक्षः शूरो धर्मबुद्धिः कलाविद्भक्तौ निष्ठः शक्तिसिक्तो विविक्तः ।
खामिप्रेष्ये निर्भयः प्राणनाशो पाल्यो यत्नात्सेवको भूमिपालैः ॥२७॥
नीतिधनदशतकम् । आलस्योपहतः सरातुरमना दैवप्रमाणो धने भीरुः कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः । निद्रालुबहुभीषणोऽतिमुखरः पानप्रियोऽहंकृतः शत्रोः पौरुषगायकः प्रतिवचो दाता जनो सेवकः ॥ २८ ॥ सौन्दर्यैकनिधिर्महाकुलभवा मल्लुखराहादिनी भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम् । नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥ मानाम्भोधेरगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः खातन्यं हाससीमा मदनरसवशप्रेयसीसङ्गविघ्नः । दैत्या हीनोक्तिपाठप्रबलबलगुरुर्लाघवस्यैकवन्धुः सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः ॥ ३० ॥ सिक्तः सेवासुधाभिः फलति नृपतरुवाञ्छितैरर्थजाते- दैवं हत्वा नितान्तं वितरति विविधाः संपदः संगतात्मा । प्रौढाहंकारवैरिक्षितिधरशिष(ख)रे हन्त वजायमाना सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥ विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् । त्यत्वं च परोपयोगि सकलं जीवादिकं यदशा- त्ता सेवां मनसापि मा स्पृश सखे दुःखैकपात्रं महत् ॥३२ भूयो भूयो नमति शिरसा पादयोरीश्वराणां वाञ्छन्नुच्चैः पदमधिफलं साधयन्नात्ममानम् । जीवं मुञ्चेच्छरशतहतो जीविकामीहमानः प्रायो दुःखं सहति सुखिताहेतवे सेवकोऽज्ञः ॥ ३३ ॥ हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे ।
काव्यमाला।
लक्ष्मीश्चञ्चलतां विहाय सहजामास्ते चिरं यत्फलं
सेवायास्तदवेहि वारणघटा द्वारे च या क्रीडति ॥ ३४ ॥
चकितहरिणयोषिल्लोलनेत्राञ्चलश्री-
नवदलसमहस्तावद्धसच्चामरामः ।
सदसि सुखकथामिर्नीयमानं दिनानि
प्रथयति खल सेवा प्रौढिमाराधयन्ती ॥ ३५ ॥
अन्यस्याशयवोदि(घि)ता नययथा(ता)स्थानोपदेशज्ञता
विज्ञानाध्ययनश्रमप्रतिकृतिः सभ्यार्थसंख्यास्थितिः ।
नानादेशविनोदवेदनसुधीः कीर्तिकमाध्यापिका
सेवा काचन देवता परधनस्याकर्षिकोपासिताः ॥ ३६ ॥
निद्राभोजनमासनं च वचनं हासोऽथ वेषः सुखं
तोषः कौतुकचेष्टितं कविकथा कामः क्रमो विग्रहः ।
वात्सल्यं निजपौरुषं नयविधिः प्रीतिः कथागीतिपु
प्रायः सेवकपूरुषस्य सकलं स्यादन्यवश्यं सदा ॥ ३७ ॥
त्रस्तानामुपकारिता सुबहुशो गर्वच्छिदां हंकृतः
कार्यारम्भणनैपुणं निजसुहृत्प्राप्तार्थसंयोजनम् ।
गोष्ठीशीलमहर्निशं नयविधिः प्रस्तावतो भाषणं
शङ्काभावधनार्जने रसिकता विद्यासु सेवाकृतः ॥ ३८ ॥
पिबन्ति जगतो मतं परिसरन्ति शत्रोहे
बहुच्छलकथारसा विविधशिल्पपण्याश्रयाः ।
वृथा तपसि सादरा नृपतिमन्त्रिपुत्रप्रिया-
श्चरा नगरवीथिका कलितमन्दिरा भूभुजः ॥ ३९ ॥
दूरात्प्राप्तिपरम्पराश्वजननीपित्रोः कलावर्णनं
भूयान्बालदशारयो जनमनःसंतोषतः पालनम् ।
नानाग्राहकवादवर्धितमिदं मूल्यं नृपाणां ग्रहो
वाहस्थाशयपौरुषाशनविधिर्वाच्यो हयाजीविमिः ॥ ४० ॥
नीतिधनदशतकम् । ५५ पृच्छामो भ्रातरो वः सकलजनमनोरञ्जनोपायमेकं बध्वं विश्वोपकारव्रतनियतधियः शास्त्रमाद्यं विचार्य । सर्वेषां भो परोक्षे वद गुणनिकर दोषलेशेऽपि मूढो दम्भं दूराद्विमुच्याचर शुचि चरितं केवलं वाचिरेण ॥ ४१ ॥ अहंकारारिप्सोः परगुणविवक्षोश्च कलिता भिदा सिद्धिं लिप्सोरुचितमुदयं कार्यमखिलम् । चिरेणैकः कार्य घटयति परं दुःखबहुलं सुखेनान्यः सद्यो गुणमनुवदन्तेन विहसन् ॥ ४२ ॥ धात_तरकारि चेतसि दया नाकारि किं तद्धनं तच्चेन्निर्मितमाहता न किमियं तेषां विवेको न वा। सोऽपीष्टो यदि किं ततः सुकृतिनो नो याचकाः प्रापिताः प्रायः सर्वगुणोपपादनविधौ, वैमुख्यमाप्तं कुतः ॥ ४३ ॥ हुतावज्ञातृशको दशरथनृपतेाधलीलानुरागो बन्धुश्रीमत्सरत्वं सहजशतगुरोर्वारुणी यादवानाम् । कौन्तेयस्याक्षदीक्षा परयुवतिरसो रक्षसामीश्वरस्य भूयो भूयः प्रतिज्ञास्मरणमभिभवायैव रामस्य जाने ॥ ४४ ॥ निद्रामौनपरोज्झितं न तमसा क्रान्तं जरायां परं नो दुष्टं निजकाचकामलरुजातीतार्थवीक्षापटु । शास्त्रं लोचनमेकमेव सफलं स्यादानं यत्सतां गूढार्थ निधिमीक्षितुं कृतधियामुत्साहसंवर्धकम् ॥ ४५ ॥ छद्मान्यार्जवमार्जवे च कपटो द्विप्टेऽथ मैत्री तथा मित्रे द्वेषणता हठेति मृदुता स्यान्मार्दवे वा हठः । सुस्निग्धे परुषस्त्वमेव परुषे सेहो न वा स्वच्छता स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६ ॥ दोषावेक्षणचातुरी परधनव्यर्थव्ययोत्साहधी- नीतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः ।
५६ काव्यमाला। विनः पुण्यकथासु संसदि सतां हासस्य दृष्टान्नतः : स्युर्दोर्जन्यनिबन्धनानि गुणिना हेयानि दूरादरम् ॥ ४७ ॥ न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेतोरथ च्छायावानसि शीलितोऽसि न पुरा दृष्टोऽसि दूरात्कली। खेलद्वानरयूथनायकमुखत्रस्यच्छिशूनामहो मूर्छामोहजलार्थिनी निपतिता कूपे क्वचिद्गुहिनी ॥४८॥ रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपनं यदत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः । लक्ष्मैतत्किल कल्पितं समभवत्कस्मादिदं तत्कथो- स्प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनैः ॥ १९ ॥ श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवे- देकः कोऽपि न सज्जनस्य चरिते दोषाः कियन्तस्तदा । संभाव्या यदि सजनस्य पुरतो दोषकभूमिः कृते दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ १०॥ सिन्धो रत्नाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः प्राप्तस्त्वत्तीरमाराज्जलमुपरसनं थूत्कृतं तृष्यतापि । दृष्टास्ते ते सहाया मकरविषधरा मज्जतो ग्रामरारो(8)- भिन्नो मूर्धा व रत्नं चिरनिविलमिलत्पकमग्नं नु दृष्टम् ।। ५१॥ कोपारो चेतना धर्मभाजां दीने दृष्टे दीनतैवान्तरास्ते । कामासक्तावेकदारोपसेवा पर्वप्राप्तौ शीलनीयास्ति(१)रेव ॥ १२ ॥ सुमतिभिरुदिता सभाधिगम्या परिणतपुरुषैः कृता समासा । नहि परिणतिभाजा येन जानन्ति शास्त्रं न हि तदपि सदेतद्यत्र धर्मों न गीतः ॥ १३ ॥ कोऽयं लोकेऽपवादः स्तुतिनिकरपदे यद्यशीले चला श्रीः साधूनुन्माध सद्यस्तरलयति चिरं भूयसा छमना यः ।
नीतिधनदशतकम् । ६७ यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय ॥ १४ ॥ उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेप पीयूषमूर्ति- बन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दुःखमारेऽपि भर्ता । पद्मे केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो यत्ते दृष्ट्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥ गुरोर्वचनकारिता विधिषु दत्तभूरीक्षणः पुरो भवति तेजसो वशितदर्पकः कर्मणि कणादकृतसंमतिः प्रथितमन्युमानोदयः सुराधिप इवोधतो भवति लोकपानाग्रणीः ॥ १६ ॥ शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणी- निजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् । धनंजयमहोजसो तमसि चित्तजातस्मृतेः पुरंदरकृतान्तयोः समतयेव मध्यस्थितिः ॥ १७ ॥ धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादयः शक्तिप्रापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः । आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसा प्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः ॥१८॥ नाना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतः स्थितिः खड्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया। वान्छामात्रसुसिद्धकार्यगरिमा बीभत्सतो निर्भयो धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः ॥ १९ ॥ प्रतिजलनिधिजाग्रन्नामधामाभिरामः शरणगतमहीभृत्पक्षसंवर्धनश्च । परिचितबहुशब्दो नागराजोक्तिबोधा- द्वरुण इव विनीतो नायकः साध्यवक्रः ।। ६०॥ ८ काव्यमाला। • भूयो भूयो मृदुः सन्स्पृशति सुमनसः कम्पयञ्जानुशाखा- 'माशामेकां च गृह्णन्कवलयति दिशो वेगतः स्याद्दशापि । तोषं तोष निजांशैरपि कुटिलगतीन्नाजसंभावमाप्तः सद्यस्तब्धान्नितान्तं नमयति तरसा स्यादकम्पो रुषापि ॥ ११ ॥ बहुविधधनरक्षासिद्धवित्ताधिपत्तः शुचिविततगतापन्मानसोऽपीशमित्रम् । नरपतिकरयानः सर्वविज्ञानसीमा नरपतिरिति चेष्टस्त्यक्तबन्धूपतापः ॥ १२ ॥ सर्वज्ञोऽनन्तशक्तिः क्षितिभृदधिपते कन्यया दत्तरागो :: नित्यं निहत्कुमारो गुणिगणपरिषद्गीततत्संपरायः । उद्यन्नेत्रः प्रकोपे रजनिचर सहक्रीडया शीलिताज्ञः सर्वाधीशैकमान्यः कचिदपि विषये विद्यमानो नरेश ॥ ६३ ॥ भूभारोद्धरणैकसाहसरसो नानेक्षणः कार्यतो विश्वाधीतवचः क्रमो कुटिलतामाप्तां जहत्सेवया । निःशङ्को बलिना परेण निलये क्रान्तेन योपायते मित्रीयत्पुरुषोत्तमो विजयते नागेशवद्भूपतिः ॥ ६४ ॥ नामा निर्माणलीलागमितदिनमिशो वेदवेदान्तसिद्धौ " शश्वद्दत्तावधानो विविधविधिकथाकौतुकाक्रान्तचित्तः । यात्रामात्रामसंस्थप्रकृतिकृतवचो राजहंसप्रचारो धातेशः सप्रजानां प्रसरति सततं वान्छितार्थ वितन्वन् ॥६५॥ सौजन्येन सुखं ननाम मनसः सत्तापसत्ता क्वचि- .. कीर्तिः कौतुकिनी विलोकयति सद्वस्तु खयं विश्वतः । सर्वस्वाशयवाससाहसरसश्चेदस्ति तत्सेव्यतां जिह्वे तद्वद कोमलं परगुणं कल्याणि मैत्रास्पदम् ॥ १६ ॥ भेदो वा पाण्डुता वा सहजपरिणती भूषणे स्यात्फलानां पङ्को वा दारणं वा भवति च सुभगं: शालिकेदारभूमः ।
नीतिधनदशतकम् । ५९ पातो वा दूरतो वा दरणमनुतटं निमगानां विलोक्यो दोषो जायेत वेषः कचिदपि विषये वस्तुजातिखभावात् ॥ ६७ ॥ यात्रामात्रप्रकारे प्रसरति विषयव्यापिनीनामशङ्का वायोरेकः पुरस्तान्नरपतिकुलजैः शिक्षणीयो गुणोऽसौ । खार्थभ्रंशानपेक्षापरहितनिरतिः श्रान्तसंवाहनं य- द्विश्वं तेनोपदिष्टा जगति तु मरुता कार्यमिष्टं परस्याः ॥ ६८ ॥ नीचत्वे निमगाः स्युर्जगदुपकृतयेवौषधिः काननत्वे शैलत्वं राजदुर्ग लवणसमुदयः स्वादसीमोपरत्वे । शालेयं स्यात्समत्वे स्थलतरमवने राजधानी मनोज्ञा तत्कि सर्व सहायाः परहितनिरतं यन्न जातं विशेषात् ॥ १९ ॥ नीचैरुचैः पदव्या घटयति नितरामुच्चमत्यन्तनीचं ज्ञात्वा भूयः प्रयोगं रचयति नयतो तोपमन्यस्य कुर्वन् । रिक्तं पूर्ण वितन्वन्समुदयतितरां रेचयन्पूर्णमन्तः कुम्भी यन्त्रोपजीवी परपरचलनोपायविज्ञो नरेशः ॥ ७० ॥ बनात्येकं विचार्य स्वगुणघटनया मालयान्यन्नियुङ्क्ते एकत्रैवोपविश्य भ्रमयति सकुलं मण्डलं गोचरेण । एकं कृत्वा प्रधानं दृढमधिकतरायामयुक्तं मनखी तमिन्नारोप्य शेष प्रकटयति धनं यन्त्रजीवीव भूपः ॥ ७१ ॥ नानाकार्योपयुक्तं लधुमपि च गुरुं तुल्यमानं गृहीत्वा ज्ञातुं वस्तुखरूपं बहुषु परिगतेष्वेकमेकं क्रमेण । संबोध्य स्वस्थचित्तः समुचितविहितखार्थलाभो विचारा- दन्यच्चान्यग्रहीतुं नियमयति धनं भूमिनाथो वणिग्वत् ॥ ७२ ॥ भिन्नं संदधदावरेण सहसा भिन्दन्परं संहतं वृद्धं साम्यमुपानयंश्च बहुना हीनं गुणैर्वर्धयन् । योगे कस्य च नोपपाद्य दृढतां रक्षन्दशामग्रतो गाढं पीडयति प्रधानमसकृत्कश्चित्कुपिन्दो यथा ॥ ७३ ।। .
६० काव्यमाला। 2 खातव्यादिव योषितो नयपथाभावादिव श्रीभरा निःस्नेहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः । कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया गर्वादन्यरता भवन्ति सहसा लोकाः खयं भूपतेः ॥ ७४ ॥ मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे शश्वद्भरिजयश्रिये रणकथा नैवान्यविच्छित्तये । पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये शीलायैव नयस्थितिर्न परतो विश्वाससंवित्तये ॥ ७९ ॥ रविरिव विजिगीषुमण्डलं रक्तमुच्चै- र्दघददयति पूर्व शीलयन्दक्षिणाशाम् । तिरयति परतेजःसंहतिं कर्मसाक्षी घटयति किल चक्र भिन्नमन्यप्रयोगात् ।। ७६ ॥ रजो भवति सुन्दरं तनुषु लममेकान्ततः शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् । पतत्पुनरनाकुलं तरुणवीरकृर्चस्थितं खलास्यपरिपूरकं सदसि कीर्तितं सर्वतः ॥ ७७ ॥ आकाशस्य विशालताथ महसामेकास्पदत्वं तमः- प्राप्तौ वीडितचेष्टितं श्रुतिपथस्यारम्भहेतुप्रथा । सर्वाशैकनिबन्धनत्वमखिलज्येष्ठत्वनीरोगते दीर्घायुष्ट्वमनाकुलत्वमसकृत्संचिन्तनीयं सता ॥ ७८ ॥ सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं स्पर्शादस्य स्फुरति शुचिता मित्रजीवायमाना । उच्चस्थायी प्रथितकुलता रम्यरम्यखभावो वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः ॥ ७९ ॥ यञ्चक्षुः पुरुषोत्तमस्य विविधालोकैकहेतोः परं रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम् । .
नीतिधनदशतकम् ।
६१
तेजः सिद्धमनेकधास्थितमधिक्षेप्तुं न शक्यं परैः
शक्तिः काचन कौतुकाय सुधियां यस्यातिभूमीयते ॥ ८॥
दोषारम्भककौतुकेन शशिनो जातं महल्लाञ्छनं
तञ्चेत(१)मण्डलमण्डितेति विमले व्यक्तं पुरो दृश्यते ।
तस्मादुज्ज्वलचारुतारचरितेनैकान्ततो मुच्यतां
दोषाशङ्कि चरित्रमुज्ज्वलतरं नूनं यशश्चिन्वता ॥ ८१ ॥
हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वामनो
मा धेहि प्रसभं निराकुरुतरां यान्तं कदाचिद्यदि ।
भूमिः कैतवकर्मणो धनमनु प्रेमोपपत्तिः स्थिरा
मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् ॥ ८२ ॥
विचं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तः
मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेपशिक्षोपदेशः ।
शीलभंशाय पुंसां रतविधिषु गलद्रीडितं कैतवेन
प्रायो मूळसरातौँ मनसि च कठिने मूर्छनायेतरस्य ।। ८३॥
छन्ने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ता-
श्चौर्योपायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च ।
सेव्याः सखा(1) हि यासां किल धनविरहे वारणीया जनन्या
धर्मों यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा ॥८॥
द्यूते वेश्यासु मद्ये नयत यदि सुखं वाञ्छसि भातरेक
वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित् ।
चौर्यस्यैकास्पदं तत्रितयमपि मृषावादशब्दाभिधानं
बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा ।। ८५ ॥
यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजा-
माकाशेति ततः परं च मरुता धूमः श्रिया युज्यते ।
माने प्रेयसि संमुखे सुवदनानेत्राम्बु धत्ते श्रियं
किं वा बाष्पविनिर्गमोऽतिमधुरः स्याहन्निजामध्वरे ॥ ८६ ॥
काव्यमाला। --- , . चन्द्रः पूर्णकलः फणी कृतफणः शाखी प्रसूनाञ्चितः . 11 * . .. शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः । शुश्रूषाकृतगौरवोऽपि कथको वाजी तु पर्याणितो निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते ॥ ८७ ॥ यदि सदसि पुरस्ताद्वक्ति वाचस्पतिः किं , बहुबुधकविमध्ये वर्तमानस्तदेतत् । स्फुटतरमनुकूलं वान()वित्रं तु वृद्ध- श्रवसि कृतकथाया जायते तत्खभावात् ॥ ८॥ विश्वस्ते स्वोपकारिण्यवितथवचने शुद्धबुद्धिप्रकारे शूरे धर्मप्रमाणे तपसि कृतमतौ वेदविद्याप्रमाणे । सद्यः कामोपपत्तौ परयुवतिकथा पापबुच्चैव भीते मास्तां पापं कदाचित्परहितनिरतं भक्तिनने खभावात् ॥४९॥ दूरं कृत्वापमानं प्रभुगुणगणनापेशलो मानमने तिष्ठन्तं संविभाव्य प्रकटयति निजं साधयत्कार्यमेकः । स्वार्थभ्रंशेन किंचित्फलमधिकमदो मानिनो मानपोषे काले मानोऽपि कार्यः सपदि परिभवं चिन्त्यमाने परेण ॥२०॥ लक्ष्मी नामेयनामाजयमजितमुनिः सद्भवं संभवोऽसा- वानन्दं सोऽभिनन्दो मतिमपि सुमतिः सद्मपद्मप्रभुः सत् । पापापायं सुपार्थो वितरतु सततं धामचन्द्रप्रभुश्च प्रत्यूहस्यान्तरायं सुविधिजिनपतिः शीतलः शान्तभावम् ॥२१॥ श्रेयान्निःश्रेयसानां विधिमथ नितरां वा सुपूज्यश्च पूजा वैमल्यं चेतसोऽन्तर्मुनिरपि विमलोऽनन्तनाथो यशोऽपि । धर्मो धर्मोत्तमो वा धनमधिधनदं शान्तिनाथः सुसार्थ काव्यं श्रीकुन्थुनाथो रिपुमथनमरो मल्लिनाथः कथास्ताः ॥१२॥ सुव्रतो व्रतसंपत्ति नमिनमीनयामये । पार्श्वनाथः सुपार्श्वत्वं महावीरो बली चलम् ॥ ९३ ॥ " - .
--
-
.
नीतिधनदशतकम् ।
६३
चिन्तामणिः संप्रति भक्तिभाजां तपस्यया त्रासितदेवनाथः ।
दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ॥९॥
जगति विदितनामा धर्मकर्माधिकारी
कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः ।
घनसमयविराम लब्धकान्तिः शशाङ्क-
स्तुलयति यदि कीर्तिं यस्य नश्यत्कलङ्कः ॥९५ ॥
अमुष्य तनया जाता सौम्रात्रविनयाश्रयाः।
षडमी लोकपालाः किं यमराक्षसवर्जिताः ॥ ९६ ॥
श्रीचाहडस्तदनु वाहडसंघपालो
धीरस्तृतीय इह देहडनामधेयः।
पद्माकरस्तदनु पञ्चम आल्हनामा
षष्ठः समस्तगुणराशिरभूञ्च पाहू ।। ९७ ।।
दुर्ग मण्डपनामधेयमखिलक्ष्मामण्डलीमण्डनं
दृप्यद्र्जरपातिसाहिमहसामस्ताचलायाञ्चलम् ।
तृष्णाव्याकुलकुम्भसंभवमुनिखाचान्तरिक्तार्णव-
स्फारापारगभीरसीरिपरिखालस.......(.)न्मेखलम् ॥ ९८ ॥
गोरीवंशैकरने यवननरपतौ श्रीमदालंमसाहि-
माद्यद्दन्तावलौघक्षतरिपुनगरद्वारदीर्घोऽर्गलाये।
नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे
::... संतप्तारातियोपिद्विनयभरगलद्भरिसंग्रामयासे ॥ ९९ ॥
तन्मन्त्री देहडः सन्दिनमणिविरुदोऽशेषतीर्थकराणां
चारित्रश्रोतृवृत्तिः खरतरमुनितो लब्धतत्त्वोपदेशः।
गङ्गा देवी च साध्वी सुचरितकुलजासूत यं सूनुरत्नं
धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम् ॥१००
शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा ।
धनदाभिधया यातु प्रसिद्धिं विद्भिराहतम् ॥ १.१ ॥
६४ काव्यमाला। वर्षे व्योमात्रवेदक्षिति(१४९०)परिकलिते विक्रमाम्भोजबन्धो- वैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षे हि तिथ्याम् । जीवादे सौम्यनामि प्रगुणजनगणे मण्डपे दुर्गकाण्डे अन्थस्यास्य प्रतिष्ठामकृत धनपतिर्देहडस्यैकवीरः ॥ १०२ ।। यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः शेष सादरमादधाति धरणीं शीर्षेण यावच्चिरम् । यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३ ॥ इति तपःसिद्धतरखरतरानायसोनवशावतंसश्रीमालकुलतिलकसंघपालश्रीमद्देहडा- त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते शतकत्रये नीतिधनदाभिधान द्वितीय शतकं समाप्तम् । P वैराग्यधनदाभिधानं तृतीयं शतकम् । सिद्धौ व्योनो द्वितीयस्तदुदितमरुतः संपदोयस्तृतीय- स्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् । षष्ठः सर्वं सहाया जलकलितजनेरेकरूपः समन्ता- दामासेनैव नाना जयति लयजनुः कारणं सोऽन्तरात्मा ॥१॥ श्रीमाल: श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः पारावारान्यतीरप्रचुरदुरयशा दानसंतानबन्धुः । नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो जीयाद्धन्यो धनेशः शमशतकमिदं यस्य नाम्मा विभाति ॥२॥ संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारा- दानं शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य । खर्गस्तस्यापवर्गः सुखयति स च नो कंचन प्राप्तबोधं वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसिधै ॥ ३ ॥ आलापो वीतरागैर्विषयपरिणतेरेकचित्तेन चिन्ता साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमा धीः ।
वैराग्यधनदशतकम् । सत्त्वोद्रेकः खभावादिदमखिलमहो नश्वरं चेति बोधो हेतुर्वैराग्यजन्मन्यपि धनतनयस्त्रीवियोगः कदाचित् ॥ ४ ॥ काष्ठान्ताबद्धरश्मी शशिदिवसकरावेव निर्माय पात्रे पुण्यं पापं विविक्तस्तुलयितुमसकद्वाञ्छतीवेह कोऽपि । पुण्यस्य ज्योतिरेतद्विलसति सवितुर्मण्डले दीप्यमानं चन्द्रस्यान्तर्यदेतन्मलिनमिव परं दृश्यते पापमेतत् ॥ ५ ॥ शान्तिः काचित्कुमारी दमयमकुलजा शीलवीरैकबन्धुः पित्रा बोधेन दत्ता सममुपनिषदा मानिनेऽस्मै वराय । वीरं संतोषमेकं विविधगुरुकुलाधीतनीतिं प्रसूता ग्रावाणो यस्य याताः कनकपरिणति शालयः शाकपाकाः ॥ ६ ॥ शोकाग्निज्वाललीढे बहुविधविषयस्नेहपूरे गभीरे संसारेऽसिन्कटाहे जनवनशकुनीन्मोहजालेन बद्धान् । भने भर्जे यदश्नन्विकटयति मुखं चन्द्रसूर्यच्छलान्त- ईश्येते कालदंष्ट्रे सदुडुपरिकर कीकशं तत्प्रतीमः ॥ ७ ॥ रज्यबिम्बाधरश्रि पिशितसवलितं रोमराजीवसूत्रं भ्रूवल्लिक्षेपकालायसबडिशमिदं तत्कटाक्षोपणि । अस्यां संसारनद्यां वितरति कुतुकी निर्दयोऽयं कृतान्त- स्तद्रासाल्लासधारां परिहरत परं भ्रातरो लोकमीनाः ।।८।। नापेक्षा भूषणानां भवतु न नितरां चन्दनेनाङ्गराग- स्तस्यारम्भोऽपि दम्भो वसति तरुणयोः प्रेम चेदेकमन्तः । तद्वच्चित्तं विरक्तं यदि वसतिरियं कन्दरा बन्धुवाचः प्राणायामः सुखेन स्थितिरपि विदितं योगिनामासनं तत् ॥ ९ ॥ कसै संचारदीपाः पथि पथि विहिताः स्वर्गसोपानमार्गे रम्भे कुम्भ निधाय स्खशिरसि पुरुतः कस्य हृष्टा प्रयासि । तीर्थे तीर्थे तपस्या रविचिरमनुना सोऽधुनेहाभ्युपेत- स्तावलेशेन तत्किं कृतमिह नयतो जायते स्वप्रकाशः ॥ १० ॥ ९ १६ काव्यमाला। पित्रोरासीच्छिशुत्वे गतवति विगतं शैशवे तत्पुरस्ता- जातं नारीषु पश्चात्तरुणिमनि गते मूलतस्तद्विनष्टम् । पुत्रे प्रेम स्थविष्ठं यदभवदमलं तस्य नाशो न भावी भावी चेचिन्तयामः पदमविकमदानन्दकन्दं तदन्तः ॥ ११ ॥ पुण्येऽरण्ये कदाचित्तरुवरनिविडच्छायया जातशातः प्राप्तः किंचित्समाधि परिचितपरमज्योतिरानन्दसान्द्रः । कर्मच्छेदापराधप्रकुपितशमनभ्रूकुटिभंसहासा- नेष्येऽहं वासराणां निमिषमिव शतं सज्जनैरीक्षमाणः ॥ १२ ॥ तल्पेऽनल्पे शयालोरचलजयलवप्राप्तनिद्रासमाधे- हेमाद्रेरेकदेशे सहजपरिणतं विभ्रतः पत्रमङ्गे । शोभा दधुः कदा मे विषमविषधराः पीडनादुच्छ्रसन्तः सद्यः क्षीरोदपूरे फणिपतिशयने सुप्तपीताम्बरस्य ॥ १३ ॥ सिध्यत्पर्यवन्धस्थिरसकलजनो विनी मे पुरस्ता- द्रकोरकेशयालोरपघनवहलामोदमन्दाविलास्या । गन्धादुद्वीज्यमाना सरसरसनया सृक्कणी लेलिहाना रंहः संहारधीरा मृगपतिरमणी पालिता वा शुनीव ॥ १४ ॥ भृनारे भीतिभारावधिकमिति फलं पीतपत्रे तदेव सौधे हिंसाप्रयत्नौ क्षितिधरविवरे नितिः सा समैव । खेदश्वासौ नटीनां धृतिरिह नयने केकिनाये(?) तथैव तसादायासभूयः सुखमिलविपिने योगिनां हेडयैव ॥ १५ ॥ भोगं प्रायः प्रयत्नाद्धटयति पुरुषो न स्वयं सिद्धिरस्मि- नास्तामन्यत्प्रभूणां पवनलवसुखं तावदो वदामः । येऽमी शश्वत्प्रवृत्ता जगदुपकृतये ये पशोरप्यवार्य हिंसा तादृक्पशूनां सरभसरमणी बाहुपीडा तदर्थम् ॥ १६ ॥ दस्योराराददृश्यान्नयशरणिमुखो विश्रतः पञ्चवाणां- स्त्रस्यन्तः केऽपि सन्तः सपदि तरुणतां पूरपारे विशन्तः ।
वैराग्यधनदशतकम् । 7 ६७ वक्षोजद्वन्द्वतुम्बीयुगमुरसि निजे गाढमाबध्य नूनं मनाः संसारनद्यां न पुनरुदितये जातु तुम्बीभरेण ॥ १७ ॥ का त्वं माया किमेतत्पृथगसि पुरुषादात्मनश्छद्मबुद्धे- रात्मोदास्ते यथासावहमपि च तथा पर्यये पूरुषस्य । निर्णीता वीतरागैः परिषदि कथया सर्वथैवासतीति कि सन्नात्मा तथात्वं किमिति न समता मादृशामीश्वरेण ॥ १८ ॥ आः किं नाद्यापि मुक्तः प्रतिजनि जगतामायुरल्पं गुरुभ्यः श्रूयन्तेऽमी उपाया भवति विधिवशात्तावदायुः समाप्तम् । साधो किं तेन कायः किमु न धमनयः किं न नासासमीरः संचारी तासु न स्युः किमु धरणिधराः कन्दराः किं न तेषु ॥१९॥ नासाश्वासावरोधादनिमिषनयनारम्भतः कम्पहाने- मुग्धा काचिद्वनान्ते सवरसहचरी देवतैवेति मत्वा । कण्ठे धत्ते मधूकस्रजमतिधवलामादरेणानमन्ती । राजिष्येऽहं ययायं हठकृतचरणः किंतु मुक्त्या रमण्या ॥२०॥ शश्वत्संघट्टनष्टो(?)परितुष शुचिभिस्तारकारक्तिकाभिः कालः कूठः प्रमाता तुलयति जगतामायुरूनामिनामिः । तस्मादेवातिहीनं भवति जनिजुषामात्मनः कर्मदोषा- द्वक्तुं जानन्ननीशः प्रभुरयमधिकं सह्यते सर्वमस्य ॥ २१ ॥ नाडी काचित्सुषुम्ना प्रसरति परितो लम्बिका बद्धमूला • ब्रह्मस्थानेन्दुबिन्दुप्रसरणपदवी सर्पवक्राष्टवक्रा । तस्या वक्रे कथंचिद्दिशति यदि मरुत्तृप्तियोगो विनाशी तुष्टा शश्वद्यतोऽमी हिमकिरणसुधा नाद्रियन्ते मुनीन्द्राः ॥२२॥ ऊर्ध्वाधोरोधसिद्धश्वसनगतिवशाद्भिद्यमाना परान्त- द्वारानीता मृतांशप्रशमितमरणत्रासनिःशङ्कचारः । जीवस्तस्माच्चिरायुर्भवति किल जनः पिण्डमेवेहमानः सिद्धीस्तास्ता दधानो गगनचरजना दृश्यतादिवरूपाः ॥ २३ ॥ ।
काव्यमाला। धातः के तेऽपराधाः कथय मतिमतामिन्द्रियाणाममीषां संसृज्यन्ते मुनीनामलमिह वपुषामूनि येषां बलेन । बद्धेव श्वाससिद्धे मनसि परिणते पञ्च नो वञ्चयित्वा सिद्धे साध्ये कथंचित्सपदि परतरं ब्रह्म शुद्धं प्रयान्ति ॥ २४ ॥ चत्वारो योगभेदा द्विविधमिह मनो वायवः पञ्च पञ्च द्विष्वः)साध्ये समाधिस्त्रिविधमुपगतं ध्यानमेकः परात्मा । सिद्धावस्थाश्चतस्रोऽप्यवयवघटनाकीर्तितेहाष्टसंख्या योगारम्भेऽयमुक्तः परमपरिचयः संतताभ्याससाध्यः ॥ २५ ॥ कामाक्षामेतरेषु ज्वलनकचलिते मानिता नक्रचक्रे कान्ता कान्तेक्षणश्रीसरभसलहरीमग्नशीलोरुशैले । संसारक्षारसिन्धौ प्रविशति पुरुषः किं न रत्नद्वयं चे- गोष्ठी विद्वज्जनानां परिषदि नृपते तसत्त्वोपकारः ॥ २६ ॥ संसारस्यास्य मोके विधिरतिसुकरो वर्णितोऽयं विचारा- नात्रापेक्ष्याः सहाया धनमपि न हितं वाससां नापि चिन्ता । नाहारारम्मदम्भो वसतिरपि तथा नो न शय्योपतापः पाल्याः पुत्रा न दारा मणिकनकमयैर्भूषणैर्नार्चनीयाः ॥ २७ ॥ केयं वाला वराकी तरलयति दृशौ मन्दमानन्दहेतू संशेते चेति चित्ते भवति न पुरुषः कोऽयमन्यः प्रकारः । आनन्दानाममैषां सततमलवतो. पीतरास्यानिकृष्टा- स्तरिक कुर्मोऽनभिज्ञाः शिथिलयति मदं नाधुनापीहगेतत् ॥२८॥ न जस्ता भूपतिभ्यो मृगपतिकुहरे निर्विशन्तोऽपि धीरा लीला येषां कदाचिद्विषधरवदने खाङ्गुलिक्षेपणेन । क्षुभ्यत्पञ्चास्यविभ्रद्गजकुलकलहे ये च मध्ये भवन्ति स्फीतास्ते शान्तभावाः शिशव इव जिता लीलया वाणिनीभिः२९ दृष्टं यद्दष्टमुच्चैरुदयति सुतरां मङ्गलाभावहेतु- दृष्टये)यत्रापवित्रं युवतिरपि भवेद्धर्मकमैकबन्धुः । - 4
वैराग्यधनदशतकम् ।
६९
तच्छेषे शुक्रयोगात्पुरुष इति परं तस्य चेत्पापवाञ्छा
तत्पुण्यं कीटजन्म प्रलयसमुदयौ यत्र सद्यः स्वभावात् ॥ ३० ॥
मातर्माये श्रुतासीरुपनिषदि परब्रह्मणस्त्वं द्वितीया
लीलायन्ते प्रपञ्चप्रकृतिपुरुषयोः कापि शक्तिस्त्वमेव ।
भूयो भूयोऽनुभूतं यदि तव चरितं त्वद्वधे पुण्यमेव
प्रारम्भः कुत्र पुंसः स्वत इव दुरितप्रागभावोऽपि सिद्धः ॥ ३१ ॥
लिम्पन्तश्चन्दनेन प्रतितनुसविषैः कण्टकैर्वा तुदन्तः
सानन्दं वा स्तुवन्तः प्रतिपदकथया दोषमुद्भावयन्तः ।
ग्रासे ग्रासे नयन्तो मधुरमथ विषं निक्षिपन्तः कदा मे
ते ते चैते समानाः सहजपरिणतज्ञानसिद्धिं गतास्याः ॥ ३२ ॥
द्वित्रैः सद्यः प्रसूतैः प्रथममुपचितं पञ्चांतदन्तः
सप्ताष्टैर्वृत्तचूडैः पुनरधिकदशैः शैशवातीतपुंभिः ।
विंशत्या त्रिंशता वा परिणतवयसां सैकपञ्चाशतैवं
द्यूते कालश्च कालीपणमुचितनुतः प्राणिमिनित्यमेव ॥ ३३ ॥
बद्धा रुद्धा विरुद्धा जनशशशिशवः खण्डिताः पुंवराहा
दर्पान्धाः स्कन्धबन्धे नरपतिमहिषा लक्षिता वीक्षणेन ।
विद्वन्नागानुरागात्पथि पथि निहता ज्ञानसिद्धोऽपि सिंहः
कालं व्याधेन नीतः खवशमिति जगत्कानने कर्मदावे ॥ ३४ ॥
यातायातेन खिन्नो निशि निशि सुतरां कालचौरो निरासो
जीवं रत्नं समन्तान्मुमुषिषुरधिकं जागरूकस्य जन्तोः ।
द्वारे द्वारे कपाटं दृढमलघुतरं कर्म दत्त्वोपदिष्टं
ध्यानं कृत्वा प्रदीपं श्वसनपरिभवं सर्वतः संनिरुध्या ॥ ३५ ॥
मित्त्वा भित्तिं समाधि विषयसुखकुशी कौशलेनैव सद्ये
यामिन्यां जागरूके मनसि शशिमुखी प्रेममद्येन मत्ते ।
बन्धुत्यागापराधान्महिमनि गलिते पञ्चसु न्यकृतेषु
मुष्णात्येव प्रमादाच्छुसितघनमिदं प्राणिनां कालचोरः ॥ ३६ ॥
काव्यमाला। शीलं शीलं दिधक्षोः कलिदवदहनाद्विभ्यतः पुण्यमेरो- रन्तः सन्तो विशन्ति ध्रुवमिह जगती जन्मधूमोपतापः । तत्कि नाराधयन्ति त्रिपुररिपुपदद्वन्द्वमेघ(१) य एष ज्ञानापासारसेकाच्छमयति सपदि ज्वालजालं क्षणेन ॥ ३७ ॥ नाहं कस्यापि कश्चिन्न च मम ममता नाशमूलं किलेत- नित्यं चित्ते ध्रियध्वं यदि जगदखिलं नाम मिथ्येति बुद्धिः । एतास्याहं ममैतद्यदि मनसि तदा जन्मकर्माद्रियध्वं मन्यध्वं गर्भचर्मावृतिमभयपदं किंतु पुण्यं कुरुध्वम् ॥ ३८ ॥ मूकीभावो गरीयान्यदि गिरि भविता दोषवादः परेषां किं वा खेषां गुणानामनुकथनमदो भूयसा गौरवेण । दृष्टे वा साधुवादस्खलनमधिगुणे स्वापकर्षे तथोक्ते मित्रा मित्रोपकारा प्रकृतिविमुखता भूपतीनां सभासु ॥ ३९ ॥ धीरे का कोकिलानां प्रसवममतया यानलीढा कदाचि- टूर्तानामेव मोहः शिशुकविधिवशाज्जायते वायसानाम् । एवं ज्ञात्वाभिमानं मनसि विजहतां जायते बुद्धिरेका संसारक्षारवारांनिधिरपि मधुरो मुक्तिमाजां जनानाम् ॥ ४० ॥ कस्येदं सम मृत्योः किमिति कलकलो भीषणोऽसौ जनानां शास्यन्ते पापवृत्त्याः खलु धरणितलेनोपपन्नाः किमेते । गङ्गानकारिसङ्गात्स्खलदमलजलाकर्मकारुण्यपूर्ण खाधीना यत्र जिह्वा गिरिपतितनया यानि नामानि यत्र ॥ ४१॥ यज्ञाज्जातात्समस्ताच्छतमखपदवी याज्ञिकादन्यतोऽमी सिद्धे साध्ये कथंचित्तपसि तु रविता चन्द्रता चेत्तमोभिः । नाशङ्का यत्र कस्मादपि यदि पदवी कापि दूरेऽपि दृष्टा तस्यामस्यां रमन्ते हृदि कृतपरमज्ञानतत्त्वा मुनीन्द्राः ॥ ४२ ॥ मा जायेरन्कदाचिजन(ग)ति कृतधियो जातुचिजन्मदैवा- यस्माद्विश्वोपकारो वितरतु भगवान्कर्म तत्सर्वसाक्षी ।
वैराग्यधनदशतकम् ।
७१
काभावः कथंचित्स्फुरतु समुदितो यत्र जातेन भूयो
जन्मारम्भः कदाचित्परिचितपरमब्रह्मणोऽद्वैतवुद्धेः ॥ ४३ ॥
प्रीतिबन्धौ समृद्धे गतवति विपदं दुःखमेकान्ततो य-
त्तोषस्ते तावता चेत्तदमलभवता कानने सोऽनुभाव्यः ।
कार्यश्चित्तप्रमोदो मधुसमयभवत्कोरकश्रीसमृद्धे
माद्यन्मातङ्गभन्ने विटपिनि नितरां दुर्विनेयो विषादः ॥ ४४ ॥
अन्तापत्संपदेषा परिणतिविरसाः कान्तयामी विलासा
आदावन्ते वियोगे परिचयमधुरे संगमे सज्जनानाम् ।
विद्यारत्ने प्रपन्नः खमतगुरुकथापक्षपातेऽभिमानो
वस्त्वेकं तत्किमास्ते परिचयसमये यस्य सर्वे समाः स्युः ॥ ४५ ॥
यद्यथै त्यागहेतौ न भवति विमवस्तस्य कुत्रोपयोगः
षड्वर्गादन्यतो वा विदधति च पदं कुत्र मासादयोऽपि ।
त्यागे तात्पर्यमस्य स्थितिरिति यदि तत्कोऽपि शान्तप्रकार-
स्तत्सर्वोपाधिशून्यैः शमविहगतरौ तत्समाधौ वसामः ॥ ४६ ॥
पुण्यारम्मेण सद्यःसुरपतिनगरस्यैव पन्थाः प्रकाशः
पापेनान्यः कृतान्तः प्रतिवसति मुखो ध्वान्तसंक्रान्तिघोरः ।
योऽयं पन्थास्तृतीयः कतिपयपुरुषप्रस्थितिक्षीणभावो
यात्रा तेन प्रयत्नादुभयपरिभवेनैव साध्या सुधीभिः ॥ ४७ ॥
कि केशैस्तेऽपराद्धं वसतिरपि कथं द्वेषिणी मित्र जाता
किं पुत्रा वैरभाजा कुलजयुवतिभिर्नाशितं किं न ताभिः ।
यत्ते तां तामवस्थां चिरमिति गमिताः कानने काधिकाधी-
विच्चित्तं न रक्तं परपुरुषपदाद्वैतरागेण तेन || ४८ ॥
भूयो भूयस्तनुध्वं विधिमधिकधनं यज्ञवृत्तेः समन्ता-
सेवध्वं वा वनान्तं परिहृतविषमा वन्धुवगै विहाय ।
तीर्थे तीर्थेऽधिपर्व प्रयतत तपसो पोष्य धर्मे यतध्वं
यावच्चेतो न शान्तं सुखलवकणिका दुर्लभा तावदेव ॥ ४९ ॥
७२ काव्यमाला। - गाढे गर्मान्धकारे चिरमुषितमनुच्छासमेकान्तदुःखे तत्पाके भ्रश्यताधः कति कति शिशुतायातना नानुभूताः। अद्य त्वं पापचित्त भ्रमयसि यदि वा यौवने चेतसं मां तत्तत्कर्मापराधादुपचितमसकृजन्मदुःखं सहश्च ॥ ५० ॥ सङ्गे गङ्गाशरद्योर्नियमितमरुतोर्मन्त्रमावर्तयन्तः कुर्वन्तो वा वनान्ते समिधमनुविधं बोधयन्तो हुताशम् । अभ्यस्यन्तं तपस्यां पुरमथनपुरीसंनिधौ ध्यानमन्तः सन्तो वा साधयन्तः परमपरिचयं वासरान्तं नयन्ति ॥ ११ ॥ श्वासेनकेन केचित्परिणतपवना मासमेकेऽप्यथैके वर्षांध वर्षमन्ये क्षणमिव यमिनोऽभ्यासलेशान्नयन्ति । तस्मादभ्यासवश्यः पवनजयलयस्तेन चेतःस्थिरत्वं तस्योपायेऽनपायो गुरुपदपदवीसेवनं कारणं स्यात् ॥ १२ ॥ प्राणायामादिकर्मक्षपितदिननिशं निद्रया दूरमुक्तं शब्दादिभ्योऽवधूतश्रवसुखकरणग्रामसिद्धावबोधम् । वेदान्ताद्वैतवादश्रवणमननतो लीनमिथ्यावभासं पुरत्नं यत्नसाध्या स्वयमिह वृणुते निर्मलाद्वैतसिद्धिः ॥ १३ ॥ कार्पण्योत्पत्तिभूमिर्गुरुसुतसुहृदां वञ्चिकापण्ययोषि- द्वाग्देवी दैन्यवाचां पररसमधुरखादलोलाग्रजिह्वा । चौर्यातदुबीजं नय पथि कतमो विभ्रमाम्बुप्रपातः शीलापस्माररोगे विधिरकरुण का सिद्धये केह तृष्णा ॥ १४ ॥ रम्भाहासोपहासस्त्रिदशपतिशचीसख्यसौख्यं च मुख्यं पुण्यच्छेदे प्रमाणं तपति च रविता चन्द्रता जाड्यभूमिः । ताभ्यां येऽन्यक्रियेरनगगनचरगणाः सन्तु ते चेति गोष्ठी शिष्टानां यत्र तस्यामुपचितमतयः कर्मणा किं विदध्मः ॥ १५ ॥ शीतांशूष्णीषमध्ये हरिणमिषमिलल्लीलवासः शिरस्त्रे जातः कालो जरावांश्चिरसमयपुमान्विश्वकर्मैकसाक्षी । ॥
वैराग्यधनदशतकम् । ७३ - . आकाशश्मश्रुमध्ये पलितकवलितं भाखता साधकेन छिन्नं सज्जायमानं प्रसरति परितो रोमतारागणश्रीः ॥ १६ ॥ अहि श्रान्तः समन्ताज्जनिमृतिगणितैर्जागरिष्यन्निशायां : प्रातः प्रारभ्यमौनव्रतगमितदिनान्भिक्षयन्वूकबन्धून् । सायं शेते कृतान्तो दिनकरशशभृल्लोचने मीलयित्वा मौनव्याजेन विप्रा मुषितविधिममुं निन्दयन्ति खयं तम् ॥ १७ ॥ सूक्ष्मं सूक्ष्मं विचिन्वन्नुचितमनुचितं कर्मजन्तोरनिद्रो मन्ये वृद्धः कृतान्तो घनतिमिररुजाक्रान्तनेत्रप्रकाशः । एकं चक्षुर्निमील्याहनि तु शशधरं पश्यति प्रेतजातं रात्रावकै कथंचित्कलयति सकलं विश्ववस्तुप्रमोदात् ॥ १८ ॥ भूयो भूयोऽपि पश्यन्ध्रकुटिविषमितप्रेक्षणद्वन्द्वमारा- सावज्ञं यान्तमग्रे समुदितविमलब्रह्मतत्त्वावबोधम् । तेजोभूमा यदस्या स्फुटदिदमधुना दृश्यतेऽन्तः सकाचं चन्द्रं प्रातद्वितीयं तदरुणमसकृज्जायते सूर्यनामा ॥ १९ ॥ गर्वः कसाद्धतास्ते रणभुवि रिपवः साधु के ते मनुष्या धिग्धिक्कमैव तेषां क्षणविजयसुखं कर्म तादृक्तवापि । साधो कमैव किं तन्नियतिरिति यया सर्वमेतन्निबद्धं तस्य च्छेदे किमस्त्रं परिचितिरमलब्रह्मणो मुक्तिहेतोः ॥ ६ ॥ कान्ता काचित्कुलीना सितसरसमुखी भीतिहेतुः पिशाची पुत्रस्नेहोपगूढं दवदहनधिया दूरतो मोचनीयम् । वन्धुर्यत्रापदन्धुः सुहृदपि नितरां घातुको दस्युवर्गः प्राप्तास्तत्रापवर्गाध्वनि पुनरधुना जन्मविच्छित्तिहेतौ ॥ ११॥ पश्चापीमें मदीयाः प्रतिजनिसहनाः पञ्चभूतानि तेभ्यो दीयन्ते तद्विभज्य प्रतिभुवि मनसि प्रापितोऽसौ सुधांशुः। आत्मन्साक्षी त्वमेकः पुनरपि यदि मामाश्रयन्ते कदाचि- कर्माकर्तुं क्षमोऽहं विषयपरिचयो नष्ट एव सभावात् ॥ ६२ ।। १०
काव्यमाला ।
कर्णावाकर्णयेतामुचितमनुचितं त्वक्स्पृशेचन्दनादी-
नीक्षेयातां नितान्तं परतरयुक्तेश्चक्षुषी रूपजातम् ।
मिथ्यावादाद्वदेद्वा मृदुरसरसने नासिके जिघ्रगन्धा-
इन्दीमोक्षो भवद्भिर्मम कृपणपटोरद्य लब्धः कथंचित् ।। ६३ ।।
विश्वज्ञानैकहेत्वोः प्रकृतिपुरुषयोः संगमे पञ्च पुत्रा
एकैकज्ञानभाजः कथमजनिषत प्रायशो बुद्धिमन्तः ।
सर्वेषां सर्ववोधः कथमपि भविता चेत्तदा विश्वभाजा-
मुन्मादः कुत्र माता विधिरपि बधिरो लोकवृत्तं तु शृण्वन् ॥६॥
आरोहे दुर्गमायास्त्रिदशपतिपुरीदीर्घसोपानपङ्के-
मध्ये धर्मखमंशं सपदि विदधतस्ते गुणानां सरामः ।
सद्यः सारम्भरम्भा सितलवकणिका लोलनेत्राञ्चलश्री.
रद्धा वन्धुं भवन्तं ऋशयति तदिम मार्गमेव त्यजामः ॥ १५ ॥
कर्माणि भ्रातरः किं स्वमनसि मलिनाः कारणं(३) धूयमादौ
युष्माभिः संस्कृतेऽसिन्वपुषि समुदयो ज्ञानबीजाङ्करस्य ।
गोभिः फालेन पुंसां प्रसभमभिहते भूमिभागे शरादौ
मिष्टः स्पष्टः समन्ताद्भवति हि नितरामिक्षुदण्डप्ररोहः ॥६६॥
द्विवेष्वेवावतारेष्ववहितमनसो मे भवन्तः सहाया
धर्माः कर्मोपचाराद्भवत नहि मृषा यावदाराधयामः ।
पादद्वन्द्वं गुरूणां हरचरणदुगै(१) चित्तमारोपयाम-
स्तिष्ठामो वीतरागैरमरपुरधुनीनीरतीरे वसामः ॥ १७ ॥
संसारक्षारसिन्धोरधरदलमिलत्ताम्रपर्णीतटान्त:-
प्रोन्मीलद्वासशुक्तिस्फुरदलघुरुचां दन्तमुक्तामणीनाम् ।
नास्माकं जातु लोभः क्वचिदमरधुनी पातुका तञ्जलीत(8)
मे किं मोकं शरीरं सपदि कृतधियो मुक्तिमासादयामः ॥ ६८ ॥
प्राप्तो बन्धाय हेतुर्निरवयवविभोः कर्मलेशानुषङ्गो
दृष्टान्तो व्योम सिद्धं विशति कथमिदं गर्ममन्धान्धकारम् ।
व्यापारेणापि सिद्धः पर""रचिते तान्यवन्धानुरोधो
जीवास्ये चापराधाप्रकृतिरिह भवेत्कायसर्गे सहायः ॥ १९॥
बैराग्यधनदशतकम् । ७५ वीणावादेऽबलानां वचसि च तनु तं प्रेममादोषवादे विश्वेषां रूपजातं परमुपचिनुतां रूपतोऽन्याङ्गनानाम् । मिष्टं यद्यत्र सत्यं विधिषु परणतं ब्रूत किं वोऽपराधा- दष्टानां वोऽपराधाजगति विचरतां नेह पारः कदाचित् ॥ ७० ॥ दारा जातोपकारा अजनिषत यतः प्रीतिभाराः कुमारा वित्तानीतानि यूयं विविधविधिमुखे खोपयोगं चिरेण । मित्राणि प्रार्थये वः स्खलितमपि कदा मित्रकार्यान्मनो मे कर्मच्छेदोद्यमाय क्षितिधरविवरे वा समीहामहेऽद्य ॥ ७१ ।। अद्धा शुद्धा जरेयं यदनघचरणन्यासमात्रेण केशाः सस्नेहा एव देहे स्फुटमलिनरुचो नाम जाता विशुद्धाः। अस्या एवेन्द्रियाणि ध्रुवमदमनया बोधितानि प्रसज्य प्रायो नैवोत्सहन्ते क्षणमपि सहसोपासतेऽम्बामिव खाम् ॥ ७२ ॥ एकस्मिन्यस्य वासो नयवति चपला निश्चला यत्र नित्यं क्षीणेनैकेन सख्या नियमयति रिपून्पञ्चपञ्चापि यश्च । स्थैर्य येनाद्य नीतो रसयति न रसश्चन्द्रसूर्याध्वनीनो ब्रूते काचित्कुमारी भवति स पुरुषो मां वृणीतां बलेन ॥ ७३ ।। चाञ्चल्यं मुश्च चेतस्त्वमणु ननु महद्भूयसे येन तत्त- सर्व कुर्वे न गर्वस्तव झटिति गतेः प्रीतिभागसि साधो । आस्ते कश्चित्प्रभुर्नस्तमिह न भगवानाप्तमेकान्ततस्त्वा- मात्मानं चेन्न कुर्यात्पुनरपि विषयात्को निवर्तेत मूढः ॥ ७४ ॥ मुग्धत्वं शैशवीये यतिविशति पुनयौवनीयेऽभिलाषा ये जाता भोगहेतोः प्रतिवसति ततो नर्तिता वानरीव । तत्रैते वार्धकीये प्रसरति विषयोऽसौ विषप्राय एव प्रायोऽवस्थाधिकेयं व्यभिचरति मनोवाञ्छितं यत्र जातु ॥ ७९ ॥ विद्यारम्भो न दम्भो विधिरपि यजुषां नैव दम्भः कदाचि- च्छासस्तम्भो न दम्भो व्रतविधिनियमो नापि दम्भस्तपो वा।
७६ काव्यमाला॥ । . विज्ञाय ज्ञानदम्भो वितरणमधिकं नापि दम्भो धनानां भावेनैकेन हीन निखिलमिदमहो दम्ममुद्रा वयामः ॥ ७६ ॥ विज्ञा यज्ञेन वित्तव्ययमुषितमहाकोशनातेन पुष्यं तीर्थे तीर्थे तपस्याक्षपितदिननिशां जायते यत्तु किंचित् । कुर्वद्भिर्वोपवासान्त्रतमृतुषु नवं क्लेशतः पालयद्भि- ानेनैकेन सद्यः फलमधिकतरं जायते योगभानाम् ॥ ७७ ॥ नो मौनं नापि दैन्यं न गुणगुणकथा नापि कन्था न पन्था न त्यागो बान्धवानामनशनमपि न खानमेकान्ततो न । मातर्मातर्वचो न क्षितितलशयनं नापि न(१) क्लीवता वा वैराग्यं नाम बोधो यमदमकलनामात्रया स्वप्रकाशः ।। ७८ ॥ साक्षात्कारोऽप्यणूनां प्रसरति पुरतो योगिनां यत्समाधा- वन्तर्गामीति चक्षुस्तदिदमिह महो को न वेदप्रसिद्धम् । पुंसोऽधीनो विहारः करणपरिकरस्येति सिद्धं न विद्मः पापे पत्यौ सहायाः कलुषमतिजुषस्तन्न मा निन्द जीव ।। ७९ ॥ शब्दादानोपयोगं श्रवणमिदमहो तस्य लोकेऽपराधः कोऽयं पापप्रवृत्तौ प्रभवति करणं नाम भोगाय पुंसः । सुप्ते मत्ते प्रमत्ते जलरयपतिता याति नौः कर्णधारे जात्यैवाचेतनायाः खलु कलुषलवः कोऽपि संभावनीयः ।। ८० ॥ आकाशस्यात्मसिद्धरपि रविशशिनोः पर्वते या नितान्तं सायं प्रातः प्रकाशक्षतिरिह विदुषा कारणं चिन्तनीयम् । जातो वातो यदस्माद्दहनसमुदयोऽभूत्ततोयास तस्मा() ताभ्योऽभून्मेदिनीयं सदुरितपुरुषा सङ्गिनी कर्म तस्याः ।। ८१ ॥ अव्यक्तं नाम किंचित्प्रकृतिरिति महाजायतेऽसाच तस्मा- जातोऽहंकारनामा प्रकृतिमहदहंकारतः पञ्च तत्तत् । तेभ्यः पञ्चेन्द्रियाणि त्रिगुणगुणलवप्राप्ततत्तद्रहाणि प्रायस्तैरेव भुते निजविषयरसं पूरुषः कर्मवद्धः ॥८२ ॥ 1 ,
बैराग्यधनदशतकम् ।
७७
L
माता वा मातुलो वा प्रभुरपि जनको बान्धवो वा सुहृद्धा
विद्याभ्यासे सतीर्थास्तपसि सहचरा गेहिनी वा सुता वा ।
प्रेमस्थानानि तुल्या गुरुपदपदवीरेणुनानातु()नामी
यद्वामात्रेण दृष्टिर्भवति नवनवा ब्रह्मपर्यन्तमार्गा ।। ८३ ॥
वेदाः शास्त्राणि गाथा मुनिभिरभिहितानीतिहासाः पुराणा-
न्यास्यश्वासप्रवृत्तेर्मलिनतररुचीनीतिनेहामहेद्या ।
यदृष्टुं नैव कस्मादपि सहजशुचिस्फीतसारं विशुद्धं
तद्ब्रह्मप्रीतिहेतोरचललयलवप्राप्तबोधं भजामः ॥ ८४ ॥
गार्हस्थ्यं नाम धर्मो भवति यदि महान्बुद्धिरित्याद्रियध्वे
जातामेतां विवेकात्परिणयत सुख शान्तिमाकां कुमारी।
देहे गेहे चरन्तो जनयत च सुतं ज्ञानमानन्दकन्द
सद्यः संतोषयन्तो मरुदतिथिवरात्पञ्चपञ्चाध्वनीनान् ॥ ८५ ॥
निर्वाणं गन्तुकामस्त्वमसि यदि तदा मुञ्च कर्माणि दूरा-
देकं तद्ब्रह्म चित्ते कुरु सपदि महामोहसंदोहहारि ।
बोधे यस्यास्य सद्यो विषयविषधरो नैति पाच कदाचि-
नैवं नैव प्रभाव प्रकटयति निजं सत्कृतं दुष्कृतं च ॥ ८६.॥
चक्षुः किंचिद्विचक्षु त्वमसि न विदितं कैतवं जीवबन्धो-
जीवस्यैतस्य गर्ने दुरितमनुभवन्मोचितोऽसौ मयैव ।
केनोपायेन साधो विषयसुखभरात्खं निवार्य प्रयत्ला-
दन्तर्गामीह भूत्वा सममपि मनसा ब्रह्म दृष्टं कदाचित् ॥ ८७ ॥
शब्दातीतं यदन्तः किमपि न विषयः स्पर्शनस्यापि कश्चि-
निर्गन्धेनैव नासा प्रभवति रसनाखादहीने किमर्था ।
अन्तर्गामीह भूत्वा तदमलममलानन्दसंदोहहेतुं
पश्यामि ब्रह्मनिटेतरमुदितभवखादवैरस्थमञ्चत् ॥ ८॥
योगश्चेतोनिरोधे परिचितपरमब्रह्मकर्मेति मन्ये
तस्योपायाः कियन्तो यमनियममुखान्यष्ट ते वर्णनीयाः ।
येषामभ्यासयोगे समुदयति शमश्वेतसः स्यास्थिरत्वं
साक्षात्कारः समाधौ प्रभवति विमलब्रह्मणोऽद्वैतसिद्धेः ॥ ८९ ॥
काव्यमाला । आत्मन्यध्यात्मयोगो मुनिभिरमिहितः खानुभूतश्चिरेण ख्यातः केनाधुनायं बहिरपि न भवेद्यत्प्रपञ्चः समस्तः । साक्षात्कारो ह्यमुष्य प्रथयति सकलं विश्वजातं हि मिथ्या चक्षुश्चेदन्तरात्मन्यवहितमनिशं क्षोदमात्राश्रयेण ॥ ९० देशे सक्तो विविक्ते भयविकृतरुषां हेतुरिक्तेति रिक्त नात्यन्तं शीतभाजि प्रतपनरहिते चोच्चशब्दादिवर्जे । असिन्नास्तीर्यवर्य पृषदजिनमलं कोमलं वा विकाj(8) कौशेयं वान्वगादि प्रचुरशुचिगुणं चासनं कल्पनीयम् ॥ ११ ॥ कृत्वा पद्मासनाख्यं दृढमधिकलयं नातिदीर्घोलकायः कम्पं निर्जित्य तन्वा स्थिरतरनयनो नासिकाग्रे निमीलन् । प्राणावुत्तानसंस्थे करतलमपरं धार्यमुत्तानमेव ज्ञेयं योगाङ्गमाद्यं प्रभवति नयतो व्याधिरालस्यमस्मात् ॥ ९२ ॥ सिद्धानामासनानि श्रममदमदनव्याधिबाघोद्धराणि यानि ख्यातानि तेषामपि च परिचयः सेवनीयः प्रयत्नात् । तस्साच्चेतः स्थिरत्वं भवति च मरुतः साध्यमार्गप्रवेशो नालस्यस्योदयः स्यादिति हठयतिनामेकतो वल्लभः स्यात् ॥ ९३ ॥ अभ्यासेनासनानां प्रतिदिवसमथालस्यमौत्सुक्यमन्त- जित्वा निद्रा च योगी गुरुचरणरजश्चिन्तयन्वस्थचित्तः। प्राणायामं विदध्यात्वहिरमिसुरते मारुतानेकनासा- रन्ध्रेणापीय तूष्णीं धमनिमुपचितां पुरयेन्निस्तरङ्गः ॥१४॥ कर्मैतत्पूरकाख्यं तदनु वितनुते कुम्भकं नीतमन्त- वायु नाड्यां निरुद्धं समयगणनया तुल्यया पूरकेण । नासारन्ध्रेण भूयस्त्यजति च मरुतः कुम्भितानल्पवेगा- न्मात्रास्सिन्पूरकस्य प्रभवति नियतं रेचकं कर्म चैतत् ॥ ९५ ॥ मात्रकोझारपाठैद्विरधिकदशभिस्वाहशो द्वादश स्यु- मात्राश्चेत्सिद्धमेतप्रणवजपविधिस्तत्परं निर्जयोऽपि ।
वैराग्यधनदशतकम् ।
७९
प्राणायामो विधेयो जपविधिविरहादेष सिद्धो जपाख्यः
स्यादेतन्न द्वितीय क्रमकथनतया प्राणसंरोधनामा ।। ९६ ॥
चान्द्री डी दिने चेदुदयति रजनी स्यात्तदा योगमार्गे
भानोर्नाडी निशायां भवति दिनमिदं संधिरेतन्ममत्वम् ।
सूर्येणापूर्य सम्यग्ध्रुवमिह शशिना रेचयेज्जातशातः
संकेतोऽयं मुनीनां पवनविधिपुषामेतदर्थ विचारः ॥ ९७ ॥
प्रत्याहारं तृतीयं वपुरभिदधति ज्ञानिनो रिच्यमानं
कुम्भीभूतं समीरं प्रणयगणनया तुल्यमापूरकेण ।
नीतं नासापुटेन प्रथममुपचितं येन चान्येन तस्मा-
न्मन्दं मन्दं विहेयं स्थिरतरमनसा योगिना ध्यानयोगात् ॥ ९८॥
येनोपायेन वायुः प्रविशति यमिनः पश्चिमे मार्गसंघौ
तत्राधेयः प्रयत्नः पथि पथि विमले तत्र तत्र क्रमेण ।
कामन्विन्दुस्थलीनां सपदि परिसरं वायुरेकान्तसुस्थः
खाईं बिन्दं सुधाया वपुषि च सकले सेचयन्स्थैर्यमेति ॥ ९९ ॥
योगस्याङ्गं चतुर्थ वदति बुधजनो धारणेति प्रसिद्धं
यस्यामस्यामिलाया वदनपरिगतं नीतमन्तः समीरम् ।
भूयो जातं सुषन्नो(खं नो) दरवरकुहरे निस्तरंस्थिरं च
मात्रायोगेन मुञ्चेद्वपुषि च सकले जायते शून्यतापि ॥ १० ॥
ध्यानासक्तः स्थिरास्यः कियदशनकृताहारतोषस्तपखी
जित्वा सर्वेन्द्रियाणि प्रसभमुपगतः खेचरत्वं प्रसिद्धः ।
सिद्धिर्वाचामनी वा स्फुरति च परितो जातसंतोषपोषो
निर्दोषः पूरुषः स्यादिति नियततया धारणा कर्मणीह ॥ १०१॥
लीनं खात्मानमात्मन्यवहितमनसा चक्षुषा चान्तरेण
भिन्नं ध्यानेन कृत्वा कलयति लयतो निर्विशेषात्मवृत्तिः ।
मू रूपं लयं यद्रजति बुधजनो मीलिताक्षो विनिद्रो
मानां द्वित्रि(१)प्रपन्नां स्थिरपवनगतिः शश्वदभ्यासयोगात्॥१०२॥
। - -- - मुश्चेञ्चेतश्चलत्वं नयनपथबहिर्भूतमर्थ च पश्ये- ज्जानीयाहूरतोऽपि श्रुतिपथरहितं शब्दमाकर्णयेच्च । निर्णेतुं भावि वस्तु प्रभवति निजया जातया ज्ञानबुद्ध्या यत्रेदं ध्यानमङ्गं तदिदमुपगतं योगिनो मुक्तिसिद्धयोः॥ १०३ ॥ आकाशस्येहमध्ये खगसदृशमनुस्यूतमाकारभावं नीरूपं वस्तु किंचित्कलयति मनसा रूपवच्चेति मत्वा । चिन्तातीतो न शून्यो वियदिह विहगाकारमाधारमानं सत्येनासौ समाधौ रचयति परमान्भौतिकाणून्परेव ॥ १० ॥ मन्दं मन्दं यदन्ता रचयति वषुषो मध्यमक्षिप्रपन्नं रुद्धा द्वाराणि सर्वाण्यपि नवगणितान्याहतो ध्यानमागें । निष्कम्पा तालुमूले स्थिरयति रसनां चक्षुषी मीलयित्वा पीयूषं स्वादु सद्यो रसयति गलितं दन्ततो लगदन्तः ॥ १०५॥ नोत्पत्तिः स्याज्जराया मरणमपि भवेटूरतोऽस्मान्नराणां नाहंकारो न रोषः सकलजनहितः सत्त्वसंतुष्टचित्तः । वायोरम्यासलीने यमविधिषु रते योगवित्सिद्धबुद्धिः सिद्धिं निर्वाणमार्गप्रचरणमृदुताकारणानीक्ष्यमाणः ॥ १०६ ।। कर्मण्यध्यात्मसंज्ञे समुदितविषयावज्ञया चित्तवृत्ते- रौत्सुक्ये चापनीते व्यवहितविगतन्निद्रया जागरूकः । अत्यन्तं नाशकासवतिन(?) निरशनश्चित्तजाग्रन्न यस्यै दीर्घायुः पूरुषः स्यादिति नियमविधौ दत्तनित्यावधानः ॥ १०७॥ इत्यङ्गेषु स्थिरेषु प्रभवदुरुशमः क्षीणसर्वापराधः श्रावं श्रावं गुरुभ्यो बहु(१)मुपनिषदं ब्रह्म निर्णीय सम्यक् । कृत्वा साक्षादशेषं जगदपि लयतो लीयमानं तदन्त- योगी संसारसारं फलमनुभवति प्राप्तब्रह्मैकरूपः ॥ १०८॥ इति तपःसिद्धतरखरतराम्नायसोनवंशावतसश्रीमालकुलतिलकसंघपालश्रीमद्देहडा- मजविविधबिरुदराजीविराजमानसंघपतिश्रीधर(नोदराजविरचिते शतकत्रये वैराग्यधनदाभिधानं तृतीयं शतकं समाप्तम् ॥ , - है ।
गञ्जीफाखेलनम् । ८१ गिरिधरविरचितं गञ्जीफाखेलनम् । गिरो वरोऽसौ कवितां वपद्यैरितीरयत्यल्पितकष्टभारा । धर्मस्य बाला तवकस्त्वनेन रसोद्गमः श्रीपरितोषणाय ॥ १ ॥ गजीफाभिधखेलनं तु दिवसे सूर्यान्निशीन्दोर्भवे- त्पत्राण्येककजातिजानि रविसंख्यान्यान्यचित्राणि च । तज्जात्यष्टकमेवमग्रगदितं नामात्र यन्मोहरे- त्यर्केशं किल रूपसंज्ञमिति यत्स्यात्तत्तु चन्द्रेश्वरम् ॥ २॥ चतुर्भिर्वा विद्भिस्त्रिभिरथ च खेलक्रमविधिः सुखार्थ चित्तस्य क्रियत इह कालक्रमणकृत् । कथं कार्यः सोऽपि प्रथममथ पत्राणि सकला- न्यधश्चित्राण्यत्र त्यजतु स तु कश्चिन्नरवरः ॥ ३ ॥ एकत्र पत्राणि करोतु कश्चिन्नरोऽनुमानादपरोऽत्र भागम् । शेषं च भागं च तदग्रमो विभज्य दत्ते निजदक्षमात् ॥ ४॥ यथा च- चित्रं त्वेकत एव पत्रनिकरे पत्राण्यधश्चित्रिता- न्यज्ञात्वैव यथातथं मुहुरितश्चत्वारि तेभ्यो ददौ । चत्वारो यदि मानवा जिनमितानि स्युस्तदाथ त्रय- श्चेत्स्युर्दन्तमितानि च प्रतिनरं पत्राणि सर्वत्र च ॥ ५ ॥ अथ पत्रविभागकर्तुर्नरस्य प्रशंसामाह- सर्वत्र भागं समतां नयंस्त्वं प्रयासि चोच्चं पदमत्र मित्र । एवं तुलादण्डविवेकमेकस्त्वमेव धन्यः कुरुषे युगेऽस्मिन् ॥ ६ ॥ रजनीदिनयोर्दिवाकरः समभागे तुलयापि संगतः । रजनीमनुरञ्जयत्यतः किल नीचत्वमगाद्विभाकरः ॥ ७ ॥ अथ खेल:- दिनेऽकें परं पत्रमेकं गृहीत्वा प्रयातीन्दुरेवं निशि प्रायशोऽत्र । महान्तो यतो यत्र कुत्रापि कार्ये कमप्येकमादाय गच्छन्ति चान्यम् ॥८॥ ११
८२
काव्यमाला।
आयाताय नृपाय पत्रमपरे चिक्रीडितारः पृथ-
ग्दत्त्वा स्वीयजयाख्यपत्रनिकराद्यन्निन्धदूराश्रयम् ।
क्रीडन्त्यत्र नृपप्रयाणसमयादूचं तु तन्मत्रिणे
दत्त्वाग्रे क्रमतः पृथग्पृथगमी क्रीडन्ति निन्दन्ति च ॥ ९॥
तत्र क्रमः-
-
एकतः क्रमगता जयकर्त्यश्वङ्गमोहरकुमाचवराताः ।
उत्क्रमं दशयुताज्जयपत्रात्ताजरूपसमसेरगुलामाः ॥ ० ॥
नृपतिः प्रथमं ततोऽस्य मन्त्री क्रमतः खेलति सर्वदत्तपत्रैः ।
इति तन्निजजातिपत्रयूथक्रमखेलोऽत्र मया विचार्य चोक्तः ॥ ११ ॥
अमान्मन्त्री क्रीडितश्चेद्भपामागेव भूपतिः।
तदानीं च त्वमायाति तथा सर्वत्र कल्पना ।। १२ ।।
खवामगो यः स नरोत्तमः स्यादक्षे नरो हीनबलः स उक्तः ।
नरोत्तमक्रीडनयोग्यकालात्स्वकीडनस्यावसरो यतोऽस्ति ॥ १३ ॥
नरोत्तमेनार्पितखेलपत्रे विधिर्यथोक्तः खलु खेलनस्य ।
स हीनवीर्यार्पितखेलपन्ने पत्रद्वयस्यापि भवेत्कदाचित् ॥ १४ ॥
निजखेलमनुस्मरन्क्रमादुपपश्रेष्वखिलेषु दत्तक ।
मतिमान्सुविचार्य सर्वतोऽधिकजेता भवति स्वपत्रतः ॥ १५ ॥
स्वसंनिधौ यस्य नृपस्य मन्त्री परत्र भूपो यदि को विधिः स्यात् ।
स मन्त्रिमत्येन नृपस्य जात्या पत्रं तदा निःसरणाय देयम् ॥ १६ ॥
पूर्वपत्रविनिःसृत्यैर्जितपत्रगणादलम् ।
जात्या देयं यतस्तत्र त्यक्त्वा निन्धं दलं निजम् ॥ १७ ॥
एवं खपत्रादिमपत्रमेकं निष्कास्यतेऽत्र द्वितयं तथा न ।
खेलक्रमादष्ट दलानि यावदिहावशिष्यन्ति विधिस्तु तावत् ॥ १८॥
निष्कासने चेत्खसमीपपत्रमेकं तु तात्कालिकखेलयोग्यम् ।
वर्तेत तोवमसौ विधिः स्यान्नो चेत्तदा याचितपत्रदानम् ॥ १९ ॥
गजामासनम् ।
।
-
अत्रोदाहरणम्-
चङ्गेश्वरायाप्तिपत्रमेकं नवाङ्कितं यत्सविधेऽस्य भूपः ।
तस्योपपत्रेषु नवाङ्कपत्रादल्पानि यद्यादिदलात्क्रमेण ॥ २० ॥
स्युस्तहि तत्रान्तिममेकपत्रमादाय चङ्गेश्वरयानमेव ।
देयं तदान्यदलमीश्वराय सर्वैः सदाय विधिरूहनीयः ॥ २१ ॥
चन्द्रादिभूपेष्वियमेव रीतिः परं तु पत्रे विधिरन्यथोक्तः ।
पञ्चाङ्कपत्रे तु षडङ्कपत्र निष्कास्यते व्युत्क्रमतो यतोऽदः ॥ २२ ॥
अथ याचकवरूपम्-
शान्तो दान्तः प्रगल्भश्च गौरः कमललोचनः ।
संमुखो दक्षिणस्थश्च सोऽत्र याचक ईरितः ॥ २३ ॥
अथ दानविधिः-
सर्वाण्येकत्र पत्राणि कृत्वा तानि सुगोप्य च ।
संस्थाप्य याचकाग्रेऽपि याचयेति वदेत्ततः ॥ २४ ॥
अष्टाधिकदलेष्वाघमन्तिमं च न दीयते ।
यावत्संख्यं याचकोक्तं विगणय्य तथा दलम् ॥ २५ ॥
त्यजेत्तस्याधिकारी यस्तेन पत्रं तु नीयते ।
चेदष्टाल्पदलानि स्युस्तदायन्तेऽपि दीयताम् ॥ २६ ॥
याचनात्पत्रमायातं तत्र पत्रद्वयस्य न ।
खेलो भवेदितीदं तु जानन्त्येव मनीषिणः ॥ २७ ॥
अथोपसंहारः--
यावनी पावनी भाषा न हि चेन्नोच्यतामिति ।
गर्हितात्पङ्कतो जातं पङ्कजं कथमाइतम् ॥ २८ ॥
वदेन्नानृतमित्येषा श्रुतिस्तर्हि कथं नराः ।
वदन्ति व्यवहारार्थमसत्यं तद्वदत्र च ॥ २९ ॥
न दोषः सकले वाक्ये येनान्ते सुखमेधते ।
इति चेत्क्रीडनं तुष्य किं नातोऽदः सुखावहम् ॥ ३० ॥
न . ज्योतिर्विच्छिवसूनुशंकरसुतो गीर्वाणसद्भाषया चित्तालस्यनिवारणाय विदुषां बालैरपि प्रार्थिताम् । गञ्जीफाभिधखेलनक्रमविधेः पद्यामनिन्द्यामिमां पद्यैः सद्गणकाग्रणीगिरिधरः पूर्णी चकार स्फुटाम् ॥ ३१ ॥ इति गञ्जीफाखेलनम् । । F . तैलङ्गव्रजनाथविरचितं मनोदूतम् । (सहृदयहृदयावादनापरनामकम् ।) सटीकम् । ब्रह्मादिदेवतावृन्दवन्दनीयपदाम्बुजः । दूरीकरोतु हृदयजाज्य मे नन्दनन्दनः ।। जयन्ति श्रीगुरोः पादनखचन्द्रमरीचयः । यैनिहत्य तमो गाढ खान्तं मे विशदीकृतम् ।। खय कृते मनोदूतकाव्ये भव्ये समासतः । व्याख्या वालाववोधाय क्रियते मझुभाषिणी ॥ भूयोभूयः प्रणम्याह याचे वद्धाञ्जलिर्बुधान् । बालभाषितमित्येव क्षमध्व चापल मम ॥ अथ 'काव्य यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तास- मिततयोपदेशयुजे॥' इत्याद्युक्त काव्यफलं पश्यन्सहृदयहृदयाहादकैरद्भुतकरुणशान्तरसप्र- घानैः सहृदयानां भगवद्भक्तिरसिकानां मनसि सद्यः सहजानन्दसमुल्लासप्रवणं मनोदूताख्य काव्य चिकीर्षुस्तस्य निर्विघ्नसमाप्तये शिष्टाचारपरिप्राप्तं स्वेष्टदेवतास्मरणगर्भ वस्तुनिर्देशा. मकमाशीर्वादात्मक च मङ्गलमुपनिवनाति- दधद्वासः पीतं सजलजलदश्यामलरुचि- मुंदा पूर्णी कुर्वन्नधरसुधया सन्मुरलिकाम् । १. इदं हि सटीकं काव्यमनेन तैलङ्गवजनाथाभिधेयेन १८१४ (A.D. 1758) वैक्रमवत्सरे श्रीवृन्दाटव्यां निर्मितमिति ग्रन्थसमाप्तिश्लोकतोऽवगम्यते. पुस्तकं चास्य प्रन्थस्यैकमेव २७ पत्रात्मकं राजगुरुवरश्रीदत्तभट्टानां सरखतीसदनत आसादि- तम्, अतस्तेषामुपकार शिरसा विभृमः. - - - मनोदूतम् । ८५ समन्तादाभीरीजनपरिवृतो भानुतनया- तटान्तःसंचारी मम हरतु हारी हरिरघम् ॥ १ ॥ दधदिति । अत्र वासःपदेन द्रौपदीवस्त्रदानसामर्थ्यम्, मुदा पूर्णामिति द्रौपद्या आन- न्दपूर्तिदातृत्व च व्यज्यते । तेन च मुद्रालकारेण समासोक्तिय॑ज्यते । 'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः' इति समासोक्तिः। परिस्फूर्तिः 'प्रस्तुते प्रस्तुतस्य च' इति, तेनालकारे- णालकारध्वनिः । तेनास्योत्तमकाव्यत्वम् । 'इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्भवनिर्बुधैः कथितः' इति । शिखरिणीवृत्तम्-'रसै रुद्रेश्छन्ना यमनसभलागः शिखरिणी' इति । दधदिति च पदं धारणपोषणरूपमङ्गलसूचकम् ॥ पुनरपि विघ्नवाहुल्यशङ्कया तन्निरासायाशीर्वादरूप मङ्गलमुपनिवनाति- श्रुतिप्रोक्तैः सूक्तैर्मुखरितमुखैर्नारदमुखै- मुनीन्द्रनिस्तन्द्रनिटिलतटबद्धाञ्जलिपुटैः । कृतस्तोत्रो वित्रासितसकलसुत्रामविमतो जगत्राता धाता द्रुतमभिमतानि प्रदिशतु ॥ २ ॥ श्रुतिप्रोक्तैरिति । मुखरितमुखैर्नारदो मुखेऽप्रे येषां तैर्मुनीन्द्रैः निटिलतटे ललाट. तटे बद्धाजलिपुटैः कर्तृभि. श्रुतिप्रोतैः सूक्तः करणभूतैः कृत्वा कृत स्तोत्र यस्य । 'स्तवः स्तोत्र नुतिः तुति.' इत्यमरः। वित्रासिताः सकलाः सुत्राम्ण इन्द्रस्य विमताः शत्रवो येन। 'सुत्रामा गोत्रभिद्वञी' इत्यमरः । विमतारातिदुहृदः' इति केशवः । सोऽभिमतान्यभीष्टानि प्रदिशतु । 'दिश अतिसर्जने ॥ हरिद्राभद्राभाद्भुतवसनभृद्राघवविभु- महेन्द्राधाराध्यः सुरविमतकृद्रावणरिपुः । धुचन्द्रातन्द्राभाधिकवदनमुद्राभिलसितः स तन्द्रानिद्रां मे दलयतु फणीन्द्राधिशयनः ॥ ३ ॥ हरिद्रेति । हरिद्रा या भद्रा या आभा तद्वदद्भुत वसन विभीति तथा।सुराणां विम- तद्विरोधकारी यो रावणस्तस्य रिपुः । युचन्द्रस्य प्रसिद्धगगनचन्द्रस्य या अतन्द्रा पूर्णा आभा ततोऽप्यधिका या वदनमुद्रा मुखशोभा तयाभिलसितः शोभितः । स्पष्टमन्यत् ।। नमस्कारात्मक मङ्गलमाह- सभामानीतामाकुलहृदमवामार्जुनवधू- मकामामुद्दामाधिकजनितभामारिकलिताम् । सुसामाभिप्रीतो दुरितहरभामा स दयते प्रणामानां पात्रं स भवतु सुदामाभिमतदः ॥ ४ ॥ -
८६
काव्यमाला।
सभामिति । सभां प्रति आनीताम् । अत एवाकुल हृद्यस्यास्ताम् । अवामा ऋ.
ज्वीम् । 'वामः सुन्दरवकयोः । अकामामनिच्छन्तीम् । उद्दामाच्च ते अधिक जनितो
भामः क्रोधो येषां तैररिभिः कलिता पीडितां यो दयते स्म । 'करुणायां तु दयते-
ऽनुगृह्णात्यात्मनेऽपि च' इति आख्यातकोशः ॥
अत्र वक्ष्यमाणकथायां द्रौपद्या भगवच्छरणगमनस्य कथनीयत्वात्वस्यापि तच्छरणत्व-
माह-
गृहापत्यखात्मस्वजनमयपाशैः परिवृते
ह्यनन्धोऽप्यन्धोऽहं बत निपतितोऽन्धौ सृतिमये ।
न चान्यं खोद्धारे कमपि परिपश्यन्विधिमहो
दयासिन्धुं बन्धुं निखिलजगतस्त्वामुपसृतः ॥ ५ ॥
गृहापत्येति । गृहाः स्त्री आत्मा देहः । 'आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे'
इति विश्वः । खजना वन्धवः । अन्धौ कूपे । 'पुस्येवान्धुः प्रही कूपः' इत्यमरः । विधि
प्रकारम् । 'जाया जनी गृहा दाराः पुभूग्नि दयिता च सा' इति महीपः ॥
अदान्तः सच्छुद्धिः श्रुतिसमुदितैः साधनगणै-
विहीनः पात्रं न त्वमसि कथमप्युद्धृतिविधेः ।
त्वयेत्थं नो वाच्यं कथमपि गजाजामिलमुख-
प्रवृत्त्या विश्वासः समजनि दृढो मे यदुमणे ॥ ६ ॥
अदान्त इति । गजाजामिलौ मुखे येषां तेषां प्रवृत्त्या वृत्तान्तेन । 'वार्ता प्रवृत्तिई-
त्तान्तः' इत्यमरः । स्पष्टमन्यत् ॥
शरण्यश्च जगति त्वमेव नान्य इत्यत्रोदाहरणमाह-
पुरा पापासक्तैः शकुनिरविपुत्रान्धतनयै-
बलाढ्यूते जित्वा कुरुसदसि कृष्टा द्रुपदजा ।
कृपापारावारं श्रुतिहृदयहारं त्रिजगता-
मुदारं त्वां हित्वा कथय शरणं कं गतवती ॥ ७ ॥
पुरेति । कुरुसदसि कृष्टा आकृष्टा । त्रिजगतामिति निर्धारणे षष्ठी। उदारं महान्तम् ।
'उदारो दातृमहतोः' इति विश्वः ॥
तस्यैव श्रीभगवतो माहात्म्यैकदेशं कविवर्णयति-
यदा त्वत्साहाय्यादखिलहरितां पाण्डुतनयै-
जयो लब्धो भीमादिभिरमरदुप्पाप इह
तैः
तदारव्धे यज्ञे नृपविजयहेतौ नृपतिना
ध्रुवं सर्वा संपद्धरणितलगा तत्र ददृशे ॥ ८ ॥
८७ मनोंदूतम् । यदेति । हरितो दिशाम् ॥ अथ राजसूयावभृथसमयशोभा पाण्डवदिग्विजयं मयकृताद्भुतसभाशोभातिशयं युधिष्ठि- रमहाभाग्य भगवत्साहाय्य च दृष्ट्वा संतप्तेन दुर्योधनेन च्छलछूतेन पाण्डवानिर्जित्य सभायां द्रौपदीमानाय्य कष्ट प्रापयित्वा धर्मपरान्पाण्डवान्पीडयतातिदुर्नय आरब्ध इति भगवता तेषां कष्टं परिहतमिति राजसूयादारभ्य कविः कथा प्रस्तौति- ततो यज्ञस्यान्ते ह्यवभृथदिने त्वं खमहिषी- समेतो द्रौपद्याः खपतिसहिताया अनुसरः । धरासंस्थैदृष्टस्तिमितनयनैः कौतुकभरा- त्पृथापुत्रस्याज्ञापर इव जनैर्विष्टपपते ॥ ९॥ तत इति । स्पष्टम् ॥ त्वया त्रातेनाग्नेदितितनयतक्ष्णाभिरचितां सभां दिव्यामिन्द्रज्वलनवरुणैरप्यसुलभाम् । मणिस्तम्भोपेतामनलदिनरत्नाधिकरुचि पृथापुत्रो लेभे तदिह किल हेतुस्तव दया ॥ १० ॥ त्वयेति । अग्नेः खाण्डवदवानेः सकाशात्त्वया त्रातेन रक्षितेन दितितनयतक्ष्णा वि. नयेन । 'तक्षा त्वक्षाथ वार्द्धकिः' इति रभसः । दिनरत्नं सूर्यः । तत्र पद्धिः सभां वर्णयन्दुर्योधनस्यानुतापमाह- कदाचिद्गान्धारीतनयशतमुख्यो हृदि वह- न्महात्मानं द्रष्टुं मयविरचितामझुतसभाम् । विवेश क्रोधेानलदवथुदूनः करतले- ऽसिधेनुं बिभ्राणः शकुनिसहजाभ्यामनुगतः ॥ ११ ॥ कदाचिदिति । शतमुख्य इति । ज्येष्ठ इत्यर्थः। दवथुः संतापस्तेन दून उपतप्तः । असिधेनुइछुरिका । 'छुरिका चासिधेनुका' इत्यमरः । 'कटारी' इति भाषायाम् ॥ मणीनां ज्योत्स्लाभिश्छुरितविवरे द्वारि निविश- न्दृढं भित्तिप्रान्त्या भ्रमितमतिरासीत्कुरुपतिः । अथो रत्नज्योतिर्विवृतविवरद्वारसदृशे प्रदेशे संजातः पृथुतरशिरोधातविवशः ॥ १२ ॥ मणीनामिति । ज्योत्स्नाभिः कान्तिभिः। 'ज्योत्ला चन्द्रप्रभा कान्तिः शुक्लपक्षनि- शासु च' इति हैमः । छुरितं मिश्रित विवरमवकाशो यस्य तादृशे द्वारि । अथो रत्नज्योति- भिर्विवृतं उद्घाटितं विवरमवकाशो यस्य तादृशे ॥
८८ काव्यमाला। स्थले चासीगाढं गरुडमणिसत्खण्डरचिते जलम्रान्त्यां मूढो निजवसनसंकोचनपरः । सनीरे राजीवादिभिरुपचितेऽत्रापि सरसि स्खलन्मनः सोऽभूत्स्फटिकनिचिताश्मस्थलधिया ।। १३ ॥ स्थलेति । गाढमत्यन्तम् । स्फटिकैर्निचिताः खचिता ये अश्मानः । नीलामान इत्य- र्थः। नीलमणिकुटिमेषु स्फटिकशकलखचितत्वभ्रान्तिर्जातेत्यर्थः ।। प्रदेशे कस्मिंश्चित्स्फटिकरचिते रत्ननिकरैः परीते चातुर्यान्मयविरचिताद्विभ्रमकरे । व्रजन्मन्दं मन्दं घररपिहितं द्वारमिति त- दृढभ्रान्त्या दोभ्यो विघटनपरोऽभून्निपतितः ॥ १४ ॥ प्रदेश इति । रत्नानां निकरैः समूहैः परीते व्याप्ते । 'समूहनिकरव्यूह-' इत्यमरः । अरराभ्यां कपाटाभ्यां पिहित दत्तकपाटमिति भ्रान्त्या विघटनं कपाटोद्घाटनं तत्परः सन् निपतितोऽभूत् । 'कपाटमररं तुल्ये' इत्यमरः ॥ अयं वृक्षावासः श्रम इह मया नोद्य इति च प्रयातोऽपि खैरं न खलु गतवानन्तमलसः । पुरः पश्यन्पश्चान्मणिनिचयकान्त्यावनमति- भ्रमंस्तत्याजासौ मनसि भृशरूढं जडमतिः ॥ १५ ॥ अयमिति । वृक्षावासो [पवनम् । 'आरामः कृत्रिम वनम्' इति शाश्वतः । इह मया श्रमो नोद्यः परिहरणीय इति खैरं प्रयातोऽप्यन्त अवसानं न गतवान् । नानाविधमणि- किरणाङ्कुरसमुद्भूतया किसलयप्रसूनफलाढ्यलतातरुभ्रान्त्या वाटिकाभ्रमेण सर्वत्र मणिम- यस्थले गच्छन्भ्रान्तोऽभूदिति भावः ॥ क्वचिद्रक्ताम्भोजप्रकरखचितैर्गारुडमणि- प्रभाभिः क्वाप्यच्छस्फटिककिरणैः श्वेतकमला । क्वचिन्नीले रनरसितनलिनेवातिललिता विचित्रा सा दृष्टा नृपतितनयेनाद्भुतसभा ॥ १६ ॥ कचिदिति । तत्र स्फटिकमणिकुट्टिमेघु नीलमणिकुट्टिमेघु वा खचितैः पद्मरागकु- रविन्दशकलै रकमलनान्तिः नीलमणिकुटिमेषु खचितैः स्फटिकहीरकखण्डैः श्वेतपद्म- प्रान्तिः स्फटिककुटिमेषु नीलकमलभ्रान्तिरिति ज्ञेयम् ॥
मनोदूतम् । ८९ है . . इति प्रायोनानाविधपरिभवोद्धान्तहृदयः सवैलक्ष्यो दुःखात्किमपि च विधातुं न निपुणः । स भीमेनाक्षिप्तः परिकलितहास्येन सुभृशं निवृत्तः संतापं हृदि दधदसाधारणमहो ॥ १७ ॥ इतीति । सवैलक्ष्यः सलज्जः ॥ तथा दृष्ट्वा संपद्भरमनुपमं तत्क्रतुवरे वशीभूतान्भूपान्विपुलतरकीर्ति च जगति । महत्वं पार्थस्यातिशयितमथालोक्य कुरुराड् विषण्णो वैलक्ष्य निरतिशयमागान्मनसि सः ॥ १८ ॥ तथेति । महलमिति दुर्योधनेन धृतराष्ट्रस्य पुरतोऽग्रे वक्ष्यमाणमित्यर्थः ॥ समागत्यागारं निजमतिशयेाकुलमना मनागप्याधातुं मनसि न च शक्तः शमविधिम् । दधन्मौनं पृष्टोऽप्यथ शकुनिना हेतुमवद- निजे दुःखे चिन्ताजलनिधिनिमनोऽभवदसौ ॥ १९ ॥ समागत्येति । ईjया परोत्कर्षदर्शनजनितया । मनागीषदपि शमविधिमाधातुं न शकः । हेतु अवदन् अकथयन् ॥ यदासौ निर्बन्धात्सुबलतनयेनातिशयितं निरुद्धस्तत्सर्वं परिभवभवं दुःखमवदत् । कृतं पार्थैराशाविजयमथ यज्ञस्य विभवं नृपाणां वश्यत्वं तदिति सकलं कारणगणम् ॥ २० ॥ यदेति । निर्वन्धादाग्रहेण । निरुद्धः कथयितुमुद्याचितस्तदा तत्सर्व पार्थैः कृत दिग्वि- जयादि सर्व परिभवभव खतिरस्कारजनित दुःखमवदत् ।। सखे वारंवारं किमिह मम दुःखस्य शकुने निदानं ज्ञात्वापि स्वयमनभिजानान इव माम् । समापृच्छस्येवं ननु विदित एवास्ति भवतः समस्तोदन्तोऽयं मम हृदयदाहेऽधिकपटुः ॥ २१ ॥ सखे इति । निदान हेतु अनभिजानानोऽनभिज्ञ ॥ . १२ काव्यमाला। परिभवदुःखं चतुर्भिराह- दिशा पूर्वादीनां विजयविधिरन्यैरसुलभो नृपैः किं वा देवैरपि स इह पाथैरधिगतः । वधोऽयं दुःसाध्यः किल मगधराजस्य च पुन- हतिः सा यज्ञेऽस्मिन्महति शिशुपालस्य सुहृदः ॥ २२ ॥ दिशामिति । मगधराजस्य जरासंधस्य ॥ सखेऽन्यत्ते वच्मि प्रततवरयज्ञे नृपतयो- ऽवकाशं न प्रापुर्बहुमणिधनोपायनभृतः । विधेयाः सेवायामवहिततराः कार्यकरणे प्रतीक्षन्तो(९) धर्मात्मजनयनपातं सकरुणम् ॥ २३ ॥ सखे इति । उपायनमुपहारः । 'उपायनमुपग्राह्यमुपहारस्तथोपदे' इत्यमरः। अवका- शमवसरं युधिष्ठिरदर्शनावसरम् । 'विधेयो वचनग्राही' इत्यमरः ॥ इदं वारंवारं परिकलयतश्चेतसि सदा न मे शान्तिर्धान्तिर्मनस इह गाढं विलसति । वरं वहौ पातो गरलमशितं वोचितमहो न मानभ्रंशेऽस्मिन्नुचित इह मे जीवनविधिः ॥ २४ ॥ इदमिति । गरलं विपम् ॥ अशक्तोऽहं दुःखोपनयनविधौ हीनकरणः सहाया संपत्त्या शिथिल इव शक्त्या विरहितः । विरुद्धं संपश्यन्नहह बहुधा दैवहतकं विचिन्त्य प्राणानां परिहरणमेवाद्य शरणम् ॥ २५ ॥ अशक्त इति । हीनकरणः साधनरहितः । दैव दिष्टम्। विरुद्धं विपरीतम् । परिहरणं सागः ॥ इदं वाक्यं दुर्योधनमुखसरोजोद्गतमथो समाकर्ण्य प्राह प्रणयपरतन्त्रः स शकुनिः । कथं तान्वीर्याढ्यान्भृशमनुगृहीतान्मुरजिता जितारातीन्दृष्ट्वा कुरुवर वृथा खेदमयसे ॥ २६ ॥ इदमिति । प्रणयेन प्रीत्या । अयसे प्राप्नोपि । 'अय गौ' ॥
मनोदूतम् ।
९१
अथ दुर्योधनदु.खोपशमार्थ पाण्डवाना सहायसंपत्तिमर्जुनपराक्रम भगवत्साहाय्य
चाह पञ्चभिः-
-
शराणां प्रक्षेपैगंगनमनुकीर्णं रचयतः
सुनासीरं वीरं गतमदमधीरं कृतवतः ।
करालाकालाग्नेः खतनुमभितो रक्षितवतो-
ऽर्जुनस्यातिप्रीत्यै व्यरचि मयतक्ष्णाद्भुतसभा ॥ २७ ॥
शराणामिति । अनुकीर्ण व्याप्तम् । सुनासीरं इन्द्रम् । 'वृद्धश्रवाः सुनासीर" ॥
गिरीन्द्रस्योद्धर्ता परममदहर्तामरपतेः
समुद्धर्ता खेषां सततहितकर्ता प्रणमताम् ।
निराकर्ता भावन्महस इति भर्ता त्रिजगतां
स कर्ता कार्याणां यदि वद किमेषामसुलभम् ॥ २८ ॥
गिरीन्द्रस्येति । गोवर्धनस्योद्धर्ता स चेत्तेषां पाण्डवानां कार्यकर्ता तदा किमसु-
लभम् । न किमपीत्यर्थः ।
स कर्तुं चाकर्तुं प्रभुरपरथा कर्तुमपि चे-
समर्थः पार्थानामभिलषितसिध्यै धृतमतिः ।
नमेयुस्तान्देवा अपि विहितसेवादरभरा
नृदेवाः स्युः के वा जगदखिलमेवास्ति वशगम् ॥ २९ ॥
स इति । अपरथा अन्यथा कर्तुमकर्तुमन्यथाकर्तुं समर्थः स भगवान्यदि पार्था-
नामभीप्सितसिध्यै धृतमतिस्तदा सर्व तेषा सुलभमित्यर्थः ।
हुताशात्सुप्रीतादधिगतवतः स्यन्दनवरं
तथा दिव्यान्यस्त्राण्यपि च धनुरक्षय्यमिषुधिम् ।
गुडाकेशस्याहो क इह तुलनां यास्यति स चे-
दिशां जेता वीरो भवति किमु ते विस्मय इह ॥ ३० ॥
हुताशादिति । तुलना साम्यम् ॥
विधेयं पार्थानां परिकलय दैवं यदिह ते-
ऽभ्युपायाः प्रारब्धाः क्षयमुपगताः पूर्वविहिताः ।
स लाभो द्रौपद्या द्रुपदनृपतेरभ्युपगमः
समनाया भूमेर्विजय इह सख्यं भगवता ॥ ३१ ॥
काव्यमाला । विधेयमिति । देव विधेयं अनुकूलं परिकलय जानीहि । तदेवाह-स इति ॥ तथाप्येकं यन्मे मनसि तदिहाकर्णय वचः सहायैनों हीनस्त्वमसि कुरुवंशाम्बुधिविधो । शतं ते सोदर्या गुरुरपि सपुत्रः सुरनदी- तनूजो राधेयो ह्यहमपि विधेयाः स्म निरतम् ॥ ३२ ॥ तथापीति । सहायानाह-शत त इति ॥ सहायैरेभिस्त्वं जयसि हरितो निश्चितमिदं ततो यज्ञश्रेष्ठं कुरुकुलमपाकर्तुमुचितः । ददद्दानं भूरि प्रथितजयसंजातसुयशा न तापस्य स्मर्ता बकरिपुकृताक्षेपजनुषः ॥ ३३ ॥ सहायैरिति । हरितो दिशः। दददिति । 'नाभ्यस्तात्-' इति नुमभावः । तापस्येति स्मृयोगे 'अधीगर्थ-' इति षष्ठी । तापं न स्मर्तेत्यर्थः ।। मुदं धेहि खान्ते परिहर विषादं भज धृति समर्थोऽसि खीयं सकलमभिलाषं कलयितुम् । महोत्साहा धीराः किमिति परसंपत्समुदया- ल्लभन्ते वैधुर्य करकलितकल्याणविधयः ।। ३४ ।। मुदमिति । वैधुर्यं दुःखम् ॥ इतीदं संजल्पं सुबलतनयोक्तं श्रुतिपथं समानीय प्रज्ञानयनतनयः संमदमधात् । मितं च प्रोवाच प्रकटितनिजार्तिस्तु शकुने विजेतव्याः पार्थास्तदभिविजयात्सर्वविजयः ॥ ३५ ॥ इतीदमिति । संजल्प वाक्यम् । संमद हर्षम् । 'प्रमोदामोदसंमदाः ॥ त्वदुक्तसहायसंपत्सत्त्वेऽपि ते दुर्जया इति जये प्रकारान्तरं पृच्छति- न ते शक्या युद्धे कथमपि कृतास्त्राः सुरगणै- रजेया दैत्यैश्च प्रकटभुजवीर्याः कृतधियः । यथा शक्नोम्येतान्परिभवितुमन्येन विधिना तथा चेजानीषे द्रुतमुपदिशाशु प्रणयतः ॥ ३६ ।। न ते इति । स्पष्टम् ॥
मनोदूतम् ।
९३
विना युद्धं पार्थानभिभवितुमिच्छन्तमचिरा-
दिदं प्राह खैरं शकुनि कितवोऽन्धस्य तनयम् ।
अयं ज्येष्ठः कुन्तीसुत इह यदि द्यूतसदने
समाहूयानेयस्त्वरितमथ जेष्यामि तमहम् ॥ ३७ ॥
विनेति । कितवोऽभदेवी। 'स्थादक्षदेवी कितव.' इत्यमरः ॥
समाहूतो द्यूते ध्रुवमिह समायास्यति पृथा-
तनूजः संपश्यन्ननभिगमने धर्मविरहम् ।
ततो राज्यं कोशं मणिवसुगजाश्वादि सकलं
हरिष्याम्यद्धाहं तव हितकरोऽस्म्यक्षकुशलः ॥ ३८ ॥
समाहूत इति । धर्मस्य विरह अभाव अधर्मम् । वसु धनम् । 'वसु स्वर्ण रत्ने
वृद्ध्यौषधे धने' इति हैमः ॥
इति श्रुत्वा दुर्योधननरपतिर्मातुलमथो
जगाद त्वं प्रज्ञानयनपुरतो ब्रूहि सकलम् ।
स मत्स्नेहाधीनो यदि तव वचः श्रोष्यति तदा
करिष्यत्युद्योगं त्वयि निहितभारः कुरुपतिः ॥ ३९ ॥
इतीति । धृतराष्ट्रस्य पुरतस्त्व बहीति मातुल जगादेति संवन्धः ॥
तथोक्तेऽसौ दुर्योधननृपतिना साकमवनी-
पतेः पार्श्व गत्वा शकुनिरवदद्वाक्यकुशलः ।
महाराज श्रीमन्कुरुकुलशिरोभूषणमणे
न जानीषे पुत्रं कथमिह विवर्णं कृशतरम् ॥ ४० ॥
तथोक्ते इति । साक सहेत्यर्थः । 'साक सत्रा सम सह' इत्यमरः । वाक्यकुशल
इत्यनेन यथास्य मनसि क्षोभः स्याद्विदुरायुक्तं च न कुर्यात्तथोक्तवानिति सूच्यते । तच
सभापर्वणि स्फुटम् ॥
इति प्रज्ञाचक्षुः शकुनिवचसार्वेव सहसा
प्रतोदेन प्रायो द्रुत इव सशङ्कः समभवत् ।
अपृच्छच्चाप्येनं किमिति हरिणस्त्वं कृशतरो
विवर्णः पुत्रासि स्फुटतरमथावेदय मम ॥ ११ ॥
काव्यमाला। . । इतीति । प्रतोदेन कपया द्रुतः पीडितोऽर्वा अश्व इव । 'वाजिवाहार्वगन्धर्व- इत्यमरः । हरिणः पाण्डुः । 'हरिणः पाण्डुरः पाण्डः' इत्यमरः ॥ समभासि प्राज्यं पिशितमथ भक्ष्यं बहुविधं दधासि प्रावारान्मणिखचितभूषागणधरः। वयस्यैः संभूय ब्रजसि मृगयां पश्यसि बहु प्रकारं संनृत्यं किमिति हरिणस्त्वं कृशतरः ॥ ४२ ॥ समश्नासीति । प्राज्य भूरि । पिशित मांसम् । प्रावारानिति । 'द्वौ प्रावारोत्तर- सहौ' इत्यमरः । मृगया आखेटकम् ॥ अयं कालः क्षिप्रं कथयितुमिति प्राप्तसमयः स गान्धारीपुत्रः शकुनिजनितोत्साहतरलः । पितुर्वाक्यं श्रुत्वानिलतनयदुर्वाक्यजनितं तिरस्कार स्वीयं समकथयदाक्षेपविदुतः ॥ ४३ ।। अयमिति । अनिलतनयो भीमसेनः ॥ अये राजन्भीमः सदसि विचरन्तं यदसह- प्रवादं चाकार्षीत्तदिह हृदयं प्रज्वलति मे। न चेच्छामि प्राणान्कथमपि विधत मृतिरहो वरा मे न श्रेयो जगति नियतं जीवनमिह ॥ ४४ ॥ अय इति । विचरन्तम् । सभा द्रष्टुमिति शेषः । प्रवाद निन्दाम् । प्रज्वलति संतप्तं भवति ॥ संतापहेतुमाह- ममाभूधैः साकं प्रचुरतरवैरं विधिवशा- त्त एवाद्य प्राज्यं सुखमनुभवन्तीह रिपवः । अहो मे धिग्जन्म क्षितितलवृथाभारकरणं धिगायुर्धिक्सौख्यं यदिह रिपुभिः स्यात्परिभवः ॥ ४५ ॥ ममेति । स्पष्टम् ॥ न राज्यं नो यानं न च विविधवासांसि न हया न नृत्यं नो भक्ष्यं विविधरसमन्नादि च न मे ।
मनोदूतम् । ९५ न कान्ता नो हाण्यपि रिपुपरीहासजनित. प्रतीकारस्याद्य प्रमदमुपधातुं पटुतराः ॥ ४६ ॥ नेति । प्रतीकारस्तिरस्कारः ॥ निकारो मच्चित्ते नृपतिवरकुन्तीसुतभवः पदं चित्ते धत्ते स्मृतिमुपगतश्चेदनुलवम् । तदा लेखाधीशप्रभृतिसुरसंपत्परिभव- प्रचण्डोऽपि प्रायो मम सुखसमूहो गरलति ॥ ४७ ॥ निकार इति । 'निकारः स्यात्परिभवे' इति धरणि । लेखाधीश इन्द्रः। गरलति गरलमिवाचरति । 'क्ष्वेडस्तु गरल विषम्' इत्यमरः ॥ विभो दृष्टे तस्मिन्क्रतुवरमहे तस्य तपसः सुतस्य क्षोणीन्द्रर्य इह धनरत्नार्पणविधिः । कृतः प्रायो जिप्णोरपि न स भवेदेव किमतः परं वाच्यं दुःखं किमिह मम हृत्कृन्तनविधौ ॥ ४८ ॥ विभो इति । क्रतुवरस्य महे उत्सवे । 'मह उद्धव उत्सव.' इत्यमरः । तपसः सुतस्य युधिष्ठिरस्य ॥ अथ राज्ञ उत्तेजनार्थ खनिश्चितङ्तकार्ये राजानमनुकूलयितु राजसूयशोभा त्रयस्त्रिं. शत्पद्यैराह- कलिङ्गाः सौराष्ट्रा मगधमरुमत्स्याधिपतयः परं चौलाः पाण्ड्याः क्रकथशकहूणावरटाः । अथान्ध्राः पौण्ड्राश्च द्रविडवसुधानाः शिविभवाः प्रतीक्षन्ते धर्मात्मजनयनपातं सकरुणम् ॥ ४९ ॥ कलिङ्गा इति । स्पष्टम् ॥ तुरङ्गा मातङ्गा अपि रथवरा वस्त्रनिचयाः सुवर्णे प्रावाराजिनविविधसत्कम्बलचयाः । अनर्घा रत्नौषा अपि वसुमतीपालभृतकै- रुपानीता यत्नान्नृपतिनयनातिथ्यमभनन् ॥ ५० ॥ तुरङ्गा इति । भृतकै त्यै.॥ .
९६
काव्यमाला।
तदवसरे राज्ञामपि प्रवेशो दुर्लभोऽभूदित्याह त्रिभिः-
क्षणं तूष्णीमाःख द्विजगणसमाराधनपरो
नृपः पत्नीशालामधिवसति दीक्षामुपगतः ।
इदानी मौद्गल्यत्रितकुशिकजन्मात्रिपुलह-
ऋतुव्यासस्फोटायनलिखितजाबालिसहितः ॥ ५१ ॥
क्षणमिति । तत्र राजसूये राज्ञां प्रवेशसमये इति परिजनानां द्वारपालाना उक्ती-
वचनान्यशृणवमिति तृतीयेनान्वयः॥
ननु श्रीकृष्णादीन्प्रतिवक्तव्य तत्राह-
स भक्त्या विप्राणां चरणकमलान्यर्चति हरि-
हिडम्बद्विवक्ष्याण्युपहरति भव्यान्यविरतम् ।
गुडाकेशः क्लेशानपरिगणयंस्तान्परिचर-
त्यजस्रं तत्पूजोपकरणपरौ चापि यमलौ ॥ ५२ ॥
स इति । यमलौ नकुलसहदेवौ ॥
सदस्यैः शाण्डिल्यद्वितभरतपैझारुणिवसु-
प्रधानलौंगाक्षिध्रुवकवषजैमिन्यनुसृतैः ।
समाकीर्णे पुण्ये ऋतुसदसि नास्माकमधुना-
वकाशो विज्ञप्तेरिति परिजनोक्तीरशृणवम् ॥ ५३॥ (विशेषकम्)
सदस्यैरिति । स्पष्टम् ॥
अथ द्वारपालानां त्रिभिर्विज्ञप्तिमाह-
अयं काशीशस्त्वां प्रणमति तथा कोसलपतिः
समीहां त्वत्पादाम्बुजयुगलसंवीक्षणमहे ।
दधानो द्वार्यास्ते नृपतिलकचोलाधिपतिर-
प्यसंख्यान्मातशाश्चरणयुगले ढोकयति ते ॥ ५४ ॥
अयमिति । दोकयति उपायनीकरोति ॥
तुरङ्गान्गान्धाराधिपतिरुपदीकृत्य सततं
प्रतीक्षा कर्तु ते निवसति नृप द्वारि नियतम् ।
तथा काञ्चीनाथः सममिह विभो चेदिपतिना
स्थितोऽसौ काम्बोजो नृपवर तथा कैकयपतिः ॥ ५५ ॥
. मनोदूतम् । तुरङ्गानिति । उपदीकृत्य उपायनीकृत्य ॥ इति द्वाःस्थैरुच्चैरधिगमितनत्यादरविधी- निरुद्धान्द्रायैव प्रततविविधोपायनयुतान् । समायातान्राज्ञः कथमपि निविष्टान्नृपतिना कृतायामाज्ञायामहमिति तदापश्यमखिलान् ॥ ५६ ।। इतीति । उच्चैरिति । यथा द्वारि स्थितास्तेऽपि विज्ञप्तिं शृण्वन्ति तदर्थ अधिगमितः प्रापितो नत्यादरविधिर्येषाम् । निरुद्धानिति । आज्ञां विना प्रवेष्टुमशक्यत्वात् । अपश्यमिति त्रयाणामन्वयः॥ अथ तत्र वेदशास्त्रसंपन्नाना ब्राह्मणाना समाज तत्तच्छास्त्रप्रमेयैकदेशनिरूपणपूर्वक व शास्त्रखरूपकथन सुयोधनोक्या निरूपयति 'ऋचः' इत्येकादशभिः । तत्र वैदिकानां पठन- प्रकारमाह- ऋचः शिक्षाभ्यासाधिकललितकण्ठादिनियत- स्थलप्रोद्यद्वर्णखरमधुरताराः श्रुतिसुखाः । यजूंषि स्वच्छन्दं क्रमपदजटाजूंषि मुनयः सुसामान्याथर्वाण्यपि किल पठन्तः क्रतुवरे ॥ ५७ ॥ ऋच इति । शिक्षायाः 'अथ शिक्षा प्रवक्ष्यामि पाणिनीयमतं यथा' इत्युक्तरूपायाः 'शिक्षा कल्पो व्याकरणम्' इति वेदाङ्गभूतग्रन्थविशेषस्य योऽभ्यासो गुरुमुखात्संप्रदायानु- सारेण पठनं तेनाधिकं ललिता मनोहरा. कण्ठादीनि यानि नियतस्थलानि तेभ्यः प्रो- धन्त उच्चार्यमाणा ये वर्णा अकाराद्यानिषष्टी खराश्चोदात्तादयस्तैर्मधुरास्तारा उच्चैः प. व्यमानाः । ततः कर्मधारयः । अतएव श्रुयो कर्णयोः सुखकारिणी ऋचः प. ठन्तः। ऋक्प्रधान वेदम् । ऋग्वेदमित्यर्थः । क्रमपदजटाजूषि तयुक्तानि यजुःसामा- थर्वाणि च पठन्तः । क्रमपदेत्यादि त्रयाणां विशेषणम् । लिङ्गविपरिणामेन ऋचामपि विशेषणम् । ऋविशेषण च लिङ्गव्यत्ययेन यजुरादीनां विशेषणम् । त्रिषष्टिवर्णास्तु ह- खदीर्घष्ठतभेदेन अणो नव दीर्घाभावात् । ऋवर्णलवर्णाश्चत्वारः ह्रखाभावादेवाष्टौ । वि- सर्गानुखारजिह्वामूलीयोपध्मानीयाश्चत्वार. । एव पञ्चविंशस्तावन्तश्च स्पर्शः, यव- लाः सानुनासिका निरनुनासिकाश्च षट् । एको रेफः । शषसहलक्षाः षट् । एवं त्रिषष्टिः । शिक्षाप्रकारस्तु-'आत्मा बुद्धथा समेत्यार्थान्मनो युझे विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति खरम् । सोदीर्णो मू- ध्यमिहतो वक्रमापद्य मारुतः ॥ वर्णाञ्जनयते तेषा विभागः पञ्चधा मतः । स्व- रतः कालतः स्थानात्प्रयत्नानुप्रदानतः ॥ उदात्तश्चानुदत्तश्च खरितश्च खरास्त्रयः । ह्रखो दीर्घः प्लुत इति कालतो नियमा अपि ॥ अष्टौ स्थानानि वर्णानामुर. कण्ठः पठनप्र- शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च ॥ प्रयत्नानुप्रदानौ तु यत्नद्वैविध्यभेदतः । प्रयत्न आभ्यन्तरीयो वाह्य इत्यपि भेदतः ॥' एव कारं फलं चाह-'यथा व्याघ्री हरेत्पुत्रान्दन्ताभ्यां न च पीडयेत् । एवं वर्णाः प्रयो- क्तव्या नाव्यक्ता न च पीडिताः ॥ सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥' अ- न्यथा पाठे दोप उक्तः–'कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् । न तस्य पाठे मो- क्षोऽस्ति पापाहेरिव किल्विपात् ॥ सुतीर्थादागत व्यक्तं खानाय सुव्यवस्थितम् । सुखरेण सुवक्रेण प्रयुक्त ब्रह्म राजते ॥ अन्यच्च तत्रैव-मन्त्रो हीनः खरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वजो यजमान हिनस्ति यथेन्द्रशत्रुः खरतोऽप- रावात् ॥' इति। एतादृशीः ऋचः यजूषि सुसामान्याथर्वाण्यपि ऋतुवरे पठन्तो मुनयो दृष्टा इति नवमश्लोकेनान्वयः । शिक्षोक्तकण्ठताल्वादिनियतस्थानसमुच्चार्यमाणवर्णखरसहितो- चतरपठनेन कर्णसुखकारिपदक्रमजटासहितसंहितापाठनिरता त्वर्सिजो दृष्टा इति भावः॥ परे यत्र प्रातःसवनकजना व्यग्रमनसः समुद्युक्ता माध्यंदिनसवनहोमस्य समये । मुनीन्द्रास्तातीये नृवरसवने दत्तहृदयाः परं धाय्याभिज्ञाः कलितशुभसांनाय्यविधयः ॥ ५८ ॥ परे इति । प्रातःसवनमाध्यदिनसवनतृतीयसवनानि गायत्रत्रैष्टुभजागतच्छन्दोरू- पाणि कालविशेपाः ऋलिजाम् । एतत्कर्मकल्पग्रन्थादवसेयम् । धाय्या ऋक् अग्निसमिन्ध. नपाद्या सानाय्यं हविः । 'ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धने' इत्यमरः । 'सांनाय्यं हविरग्नौ तु हुत त्रिपु वपद्कृतम्' इति च । 'पाय्यसांनाय्यनिकाय्यधाय्या- मानहविर्निवाससामिधेनीपु' इति निपातः । सम्यक नीयते होमार्थमनिं प्रतीति सानाय्यं हविर्विशेपः । हुत त्रिपु वपट्कृतमित्यस्यार्थः । वपट्कृत हुतं वषट्कारमन्त्रेण हुत त्रिषु वपट्कृतं पयः वपकृतः पुरोडाशः वपटकृता यवागूः । एव च तत्तकालीनहोमसमय. सावधाना वै याज्ञिका धाय्यादिमन्त्राभिज्ञाः चातुर्दोत्रकर्मकुशला दृष्टा इति संवन्धः ॥ मीमांसाप्रमेयमाह- श्रुति लिङ्गं वाक्यं प्रकरणमथ स्थानकमहो समाख्यां जानन्तः कलितपरदौर्बल्यविधयः । लिडर्थ धात्वर्थ त्रिविघविघियादं च निगमा- नुरूपं मन्वानाः क्रतुसदसि मीमांसकवराः ॥ ५९ ॥ श्रुतिमिति । 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्वल्यमर्थवि- प्रकर्यात्' इति सूत्रेण भगवाजैमिनिः श्रुत्लादीनां पूर्वपूर्ववलीयस्त्रमाह । तत्सूत्रविषयश्चा- त्र पद्ये।तथा हि: श्रुतिलिङ्गादयः पडिह विनियोजकाः तत्र विरुद्धयोः समवाये समुच्चयो मनोदूतम् । ९९ न संभवतीत्येकेनापरस्य बाधो वक्तव्यः । स च वलवता दुर्वलस्येति स्थितिः । तदु- कम्-पारदौर्बल्यमिति । यदपेक्षया यत्परं तहर्वलम् । तत्र हेतुः-अर्थविप्रकर्षादिति पू- र्वापेक्षया विलम्वेनार्थप्रत्यायकत्वात् । तत्र निरपेक्षो रव. श्रुतिः। यथा व्रीहीन वहन्तीति। अत्र क्रियाजन्यफलभागित्वं कर्मत्व वोधयन्ती द्वितीया निरपेक्षैव तीहीणामवघातरो- षित्व प्रतिपादयति । अर्थविशेषप्रकाशनसामर्थ्य लिङ्गम् । यथा वहिर्देवसदन दामीति । अत्र लवनार्थप्रकाशकतया वहिवने विनियोगः । परस्पराकाहावशात्कचिदेकस्मिन्नर्थे पर्यवसितानि पदानि वाक्यम् । यथा देवस्य त्वासवितुः प्रसवेऽश्विनोर्वाहुभ्या पूष्णो हस्ताभ्यामग्नये जुष्ट निर्वपामीति। अत्र लिङ्गेन निवापे विनियुज्यमानस्य समवेतार्थभागस्यै- कवाक्यतावलेन 'देवस्य वा इत्यादिभागस्यापि तत्र विनियोगालब्धवाक्यभावाना पदानां कार्यान्तरापेक्षावशाद्वाक्यान्तरेण संवन्ध आकाडापर्यवसन्न प्रकरणम् । यथा समिधो यजतीत्यादि । अस्य हि दर्शपौर्णमासकथ भावाकाड्ढाया पाठवशाच्छेपत्वम् । स्थान क्रमः । स चानेकस्याम्नातस्य संविधिविशेषान्मानम् । यथा दधिरस्य दथो भूयासमित्याग्नी- याग्नीषोमीयो पांसुयागाः क्रमेण ब्राह्मणेषु पठिताः,मन्त्रभागेऽपि क्रमेणानुमत्रत्रय पठितम् , तत्राग्नेयाग्नीषोमयोयोलिङ्गेनैव विनियोगसिद्धिः। दधिरसीत्यत्र तु न लिङ्गादिविनि- योजकम् । किंतु यस्मिन्प्रदेशे ब्राह्मणे उपांशुयागविधान तत्रैव मन्त्रेऽप्यस्य पाठ इति क्रमादुपाशुयागानुमन्त्रणेऽस्य विनियोग.। समाख्या योगवलम् ।यथा होत्रमौद्गात्रमित्यादि। तत्र होतुरिद हौत्रमित्यादियोगवलेन होत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेया- नीति । विरोधोदाहरणान्याकरे द्रष्टव्यानि । अयमेव सूत्रनिर्देशः पूर्वपद्यार्थे कृतः । लिडर्थ- मिति । 'ज्योतिष्टोमेन खर्गकामो यजेत' इत्यत्र 'यागेनेष्ट भावयेत्' इति यजधातोर्यागरू पोऽर्थः । लिडश्च इष्टभावनरूपोऽर्थोऽभ्युपगम्यते । त्रिविधविधियादमिति । अपूर्वविधिनि- यमविधिः परिसख्याविधिरिति ॥ व्याकरणखरूपमाह- समुद्भूतं यत्तज्जगदुपकृतौ पाणिनिमुने- र्मुखाम्भोजात्कात्यायनकृतविशेषार्थकलनम् । भुजङ्गेन्द्राधीशोद्भवगहनसद्भाष्यविवृति- प्रकर्षाढ्यं शास्त्रं सदसि कथयन्तोऽतिसुधियः ॥ ६० ॥ समुद्भूतमिति । जगदुपकृताविति । निमित्तार्थे सप्तमी। पाणिनिकात्यायनपता- लिभिः सूत्रवृत्तिमहाभाष्याणि कृतानीति तथात्रोक तच्छास्त्रं पाणिनिव्याकरण कथयन्तो दृष्टा इति पूर्ववदन्वयः॥ ज्योतिःशास्त्रमाह द्वाभ्याम्- धनुासत्कोटिप्रततभुजसंज्ञादिललितं ग्रहाधीशप्रोक्तं गणितगुरुगर्गाद्यधिगतम् ।। - - १०० काव्यमाला । भचक्रोद्यत्कक्षाकलनसहितं ज्योतिषमहो समग्रं जानन्तः स्फुटगणितबीजेषु कुशलाः ॥ ६१ ॥ धनुज्येति । धनुर्ध्याकोटिभुजकक्षादिसंज्ञास्तच्छास्त्रे उपनिवद्धास्वत एव ज्ञेयाः । सममं स्कन्धत्रयात्मकम् । स्फुटगणितं पाटीगणितम्, वीजमव्यक्तगणितम् ॥ भदन्ताः सर्वज्ञा ह्यजवृषनृयुग्मेन्दुसदन- द्विपद्विटूजाक्षी वणिगलिधनुर्धारिमकरैः । सकुम्भैः सन्मीनैर्दुमणिशशिभौमज्ञगुरुभिः सुयुक्तं जानन्तः पर इह खगोलं सुमतयः ॥ ६२ ॥ भदन्ता इति । 'स्थाद्भदन्तो ज्योतिषिको दैवज्ञो दैवलेखकः' इति केशवः । अजो मेषः। वृषः प्रसिद्धः। नृयुग्मं मिथुनम् । इन्दुसदनं कर्कः । द्विपद्विद् सिंहः । कजाक्षी कन्या । वणिक् तुला । अलिर्वृश्चिकः । धनुर्धारी धनुः । शेषं स्पष्टम् ॥ अथ तर्कशास्त्रविषयमाह- वितण्डाजल्पौषैविरहितसुवादोद्धरगिरः प्रमाणैः प्रत्यक्षादिभिरपि च मेयक्रमविदः । अमावास्यव्याप्तिस्फुटलसितहेत्वच्छविलस- न्मतिप्रौढा वैशेषिकमतविशेषप्रणयिनः ॥ ६३ ॥ वितण्डेति। तत्र खपक्षस्थापनाहीना परपक्षदूषणमात्रावसाना वितण्डा, उभ- यसाधनवती नानावक्तृकपूर्वोत्तरपक्षप्रतिपादकवचनसंदर्भात्मिका कथा जल्पः, तत्त्ववु- भुत्सोः कथा वादः । तत्रैवं व्याख्या-वितण्डाजल्पौधैर्विरहितः शोभनो यो वादस्तेनोद्धरा उत्कृष्टा गीर्येषाम् । प्रत्यक्षादिभिश्चतुर्भिः प्रमाणैर्मेयानां प्रमेयानां प्रत्यक्षानुमित्युपमिति- शब्दानां क्रम विदन्ति । अभावाभ्यां अत्यन्ताभावान्योन्याभावाभ्यां आढ्या अभाव- घटिता या व्याप्तिस्तया स्फुट लसितस्तद्विशिष्टो यो हेतुडूंमो वहिव्याप्य इत्येवं रूपस्तत्र अच्छा विलसन्ती प्रतिभारूपा मतिर्ज्ञानम् । व्यप्तिविशिष्टहेतुताज्ञानमित्यर्थः । तत्र प्रौढा । वैशेपिके सप्तपदार्थीये काणादमते विशेषेण प्रणय आसक्तिर्येषाम् ॥ पुराणज्ञा धर्माधिकरणविदः कापिलमत- प्रगल्भा योगज्ञाः स्वरविततसंगीतकुशलाः । कविस्वालंकाराद्भुतविविधसनाटकमिदा- मिधानग्रन्थज्ञा भरतमुनिसूत्रार्थनिपुणाः ॥ ६४ ॥ पुराणक्षा इति । धर्माधिकरणं स्मृतिः । कापिलमतं सांख्यशास्त्रम् । योगः पात- ।
मनोदूतम् । १०१ अलसूत्राणि । खरैः षड्जादिसप्तभिर्वितते विस्तीर्ण संगीते कुशलाः । नाटकानां भिदा दशविधत्वम् । अभिधान नामलिङ्गानुशासनम् । भरतसूत्र रसशास्त्रम् । स्पष्टमन्यत् ॥ धनुर्वेदाभिज्ञाः सकलमनुशास्त्रोक्तविविध- प्रकारैर्विष्ण्वीशद्विपवदनसूर्याद्रिपभुवाम् । उपास्तिं जानन्तः कविगुरुसमा बुद्धिविभवै- रये नानादेश्याः क्रतुसदसि दृष्टा द्विजवराः ॥ ६५ ॥ धनुर्वेदेति । मनुशास्त्रं मन्त्रशास्त्रम् । हरौ मध्यगते शकरे भाष्ये नागसुता इति विष्णुमुख्यत्वेनात्रोक्तं विष्ण्वीशेति । नानादेशेभ्य आगता नानादेश्याः ॥ अथ निर्गुणब्रह्मखरूप विशेषणद्वारा कथयस्तच्छानविषयमाह- निराकारं नित्यं गुणरहितमद्वैतममल- प्रकाशं खानन्दानुभवसहितं नाशरहितम् । परं ब्रह्म खान्ते सततमुपशान्ते कलयतः समाधिस्थान्ब्रह्मात्मजशुकमुखानैक्षिषमहम् ॥ ६६ ॥ निराकारमिति । 'अपाणिपादो जननो गृहीता अविनाशी वारेयमात्मा', 'एकमेवा- द्वितीयम्' इत्यादिश्रुतिप्रतिपाद्यं ब्रह्म ध्यायता ब्रह्मात्मजाः सनकाद्याः ॥ स्फुरदोत्सं श्रुतमुरलिकानादविवश- स्मराक्रान्तवान्तवजयुवतिनेत्रान्तकलितम् । त्रयी मृग्यं ध्यानात्परिकलयतो भक्तिसुभगा- न्कृतार्थाशाण्डिल्यप्रभृतिमुनिवर्यानकलयम् ॥ ६७ ॥ स्फुरदिति । श्रुतो यो मुरलिकानादस्तेन विवशाः स्मराक्रान्तखान्ता या ब्रजयुव- तयस्तासां नेत्रान्तेन कलितम् ॥ स्रवद्गण्डाभोगैर्मधुकरकलध्वानसुमगैः समन्तादाकीण गिरिवरनिभोपायनगजैः । सदश्वैः काम्बोजैर्जवजितसमीरैबहुविधै- स्तथा नानादेश्यैर्निचितमभवत्पाण्डवसदः ॥ ६८ ॥ सवदिति । निचित व्याप्तम् ॥ पयो दध्यन्नाज्यं विविधरसभक्ष्यं बहुविधं तथा लेां पेयं द्विजसुहितकृच्चोष्यमपि च ।
१०२ काव्यमाला । असंख्यातं सूदैरुपहृतमभूद्भोजनविधौ दिवारानं राजस्तदिह कुतुकं मे जनयति ॥ ६९ ॥ पय इति । द्विजानां सुहित तृप्तिं करोतीति तथा । सूदैः पाककृद्भिः॥ दानं निरूपयति- गजानामश्वानां द्रविणनिचयानां सुविलस- युतीनां रत्नानामपि सुवसनानां च निचयः । द्विजातिभ्यः सृष्टः प्रतिदिनमसंख्यः सुमतिना पृथायाः पुत्रेण क्षितिपवचसो नास्ति विषयः ॥ ७० ॥ गजानामिति । द्रविणं द्रव्यम् । 'हिरण्यं द्रविणं शुम्नम्' इत्यमरः । सृष्टः प्रति- पादितः ।। शिशुपालवधहेतुभूत श्रीकृष्णपूजनमाह- इदं चित्रं चान्यच्छृणु नरपते तत्र यदभू- समाजे पूजोपक्रमणसमये पार्थमनसि । विमर्शोऽभूदित्यं प्रथममिह कस्वार्चनविधि- विधेयो देवर्षिक्षितिपतियुते यज्ञसदसि ॥ ७१ ॥ इदमिति । चित्रमाश्चर्यम् । विमर्शो विचारः कस्य प्रथमं पूजनमित्येवंरूपः ॥ ततस्तूष्णीं सर्वेष्वनधिगततत्त्वेपु सदसि. स्थितेषु प्रोवाच क्षितिपसहदेवः समयवित् । विहाय श्रीकान्तं निखिलजनकान्तं नरपते नितान्तं कः पूज्यः कथय यदि चित्तेऽस्ति विधृतः ॥७२॥ तत इति । अनधिगततत्त्वेषु अप्राप्तनिश्चयेषु ॥ निधानं भक्तानां सुकृतमपिधानं समयिनां समाधानं बुद्धेः किमपि च विधानं श्रुतिगिराम् । प्रधानं पुण्यानां विमलपरिधानं नयनयो- र्मुदाधानं हित्वा क इव परिपूज्योऽन्यविवुधः ॥ ७३ ॥ निधानमिति । निधानं निधिः । अपिधानमनावृतम् । विधानं श्रुतिप्रतिपायम् ॥
मनोदूतम् । १०३ पुनस्तस्यैवासा()धरान्कतिपयगुणानाह- न यच्छक्यं दानैर्बहुविधविधानैरसुलभ तपोभिर्दुष्प्रापं जपयजनपूजादिसहितैः । अलभ्यं धाम वं दिशति दयया""प्रभुरसौ खभक्तानां तस्मात्क इह परिपूज्योऽपरवुधः ॥ ७४ ॥ न यच्छक्यमिति । स्पष्टम् ॥ स्मृतिं यातः सद्यः शमयति मनो मोहपटलं हृदि ध्यातो भक्तैर्दलयतितमा दीर्घदुरितम् । वचः प्राप्तो विनानपनयति सर्वांस्तनुभृतां तमीशं हित्वान्यः क इह परिपूज्योऽस्ति जगति ॥ ७५ ॥ स्मृतिमिति । स्पष्टम् ॥ इतीदं तद्वाक्यश्रुतिपुटसुधासेकसदृशं निपीय प्रेमार्दा सुरमनुजसंसत्समभवत् । विहायकं चैद्यं भगवति कृतद्वेषमतुला- भिमानं संस्पर्धातिशयकलुषीभूतहृदयम् ॥ ७६ ॥ इतीति । चैद्य शिशुपालम् ॥ ततः पार्थः प्रीतिप्रसरविवशः प्रेमपुलका- चित्ताङ्गो भीमाद्यैर्मुदित इह सविपरिवृतः । शुभे हैमे पीठे स्थितमखिलकान्तं बहुविधै- विधानैरान खिलविबुधवन्धं यदुवरम् ॥ ७७ ॥ तत इति । प्रीतेः प्रसर आधिक्यं तेन विवशः ॥ सदूर्वाश्यामाकं सरसिजसुगन्धाधविविध- प्रसूनौषभ्राम्यन्नलिकुलकलध्वानसुभगम् । स्थितं विष्णुकान्तायुतकनकपाने भगवतः पदाम्भोजद्वन्द्वेऽर्पितममलपायं नृपतिना ॥ ७८ ॥ सदूर्वेति । 'श्यामाकविष्णुकान्ताब्जदूर्वा. पाद्यजले क्षिपेत्' इति पाद्यस्वरूपकय- नपूर्वकं पाद्यकल्पनमादावुक्तम् ॥
१०४ काव्यमाला। - 'अर्घपात्रे क्षिपेटूर्वातिलदर्भाग्रसर्षपान्' इत्युक्तप्रकारमर्थमाह- सगन्धं सिद्धार्थाक्षतयवसुदूर्वाङ्कुशतिलैः सुयुक्तं पुष्पाचं शिरसि निदघेऽधै नरपतिः । सजातीकं कोलं सुरकुसुमसंयुक्तममलं जलं राज्ञा तस्याचमनविधये दत्तमभवत् ॥ ७९ ॥ सगन्धमिति । 'लवङ्गजातीककोलं निक्षिप्याचमेत्' इत्युक्तप्रकारमाचमनमाह- सजातीति । 'जातिः स्त्रीगोत्रजन्मनोः । जाती फले च मालत्याम्' इति हैमः । 'ककोलक कोशफलम्' इत्यमरः । 'शीतलचीनी' इति भापायाम् । सुरकुसुम लवङ्गम् । 'लवङ्गं देवकुसुमम्' इत्यमरः ॥ ततस्तं स्नानाधैर्विविधमणिभूषासुवचनैः सुगन्धैर्माल्यैरप्यतिसुहितकृद्भक्ष्यनिचयैः (१)। समाराध्य प्रेम्णा प्रणयभरवद्धाञ्जलिपुटः सपत्नीकः कुन्तीसुत इह कृतार्थः समभवत् ।। ८० ।। तत इति । स्पष्टम् ॥ अभूदुच्चै?षो निखिलमनुजानां जय विभो चिरं जीवेत्यानेडित इह महाहर्षजनकः । फलं कोपप्रीत्योः सममिह विभक्तं भगवता तदा चैये पार्थेऽपि च सकललोकैकविदितम् ॥ ८१ ॥ अभूदिति । आनेडितं जय जय जीव जीवेत्येवरूपम् । 'आमेडितं द्विनिरुक्तम्' इत्यमरः॥ अथ द्वाभ्यां स्वस्य दुःखकारणमाह- इदं सर्व तिष्ठत्वपरमिदमेकं मम हृदि प्रविष्टं शल्यं यत्कथमिव पुनर्निःसरति तत् । सभां द्रष्टुं याते मयि जलनिममे भ्रमवशा- द्विहस्योच्चैीमो वसनयुगलं यत्किल ददौ ॥ ८२ ॥ इदं सर्वमिति । स्पष्टम् ॥ प्रतीहारम्रान्त्या मम हतिरभूद्भित्तिसहिते प्रदेशेऽथ द्वारि प्रचुरतरभित्तिनमवशात् । .
मनोदूतम् । १०५ स्थितस्य द्रौपद्याः परिजनयुतायाः सहसितं वचः प्रज्ञानेत्रात्मज इति मनो विह्वलयति ॥ ८३ ॥ प्रतीहारेति । प्रतीहारस्य द्वारस्य भ्रान्या । 'त्री द्वार प्रतीहारः' इत्यमरः । भित्तिप्रदेशे गच्छतो द्वारभ्रान्त्या हतिरभूत् । अथ द्वारि पूर्ववद्विपरीतधान्या भित्ति- रेवेयमिति स्थितस्यागच्छतः । प्रज्ञानेत्रस्यान्धस्यात्मज इति वचो दुःखवीजम् ।। इमे सस्त्रीकाश्चेत्कुटिलहृदयाः पाण्डुतनयाः परीहासं चक्रुर्विविधमदमत्ता बहुविधम् । प्रतीकारं कर्तुं यदि च न भवेयं क्षम इह वयं धिमे जन्म ध्रुवमनुचितं जीवनमपि ॥ ८४ ॥ इमे इति । प्रतीकारं प्रत्यपकारम् ॥ इति प्रज्ञाचक्षुनिजतनयदुःखौधमखिलं निपीय श्रोत्राभ्यां मनसि विदधे खेदमतुलम् । अवोचच्चाप्येनं शममुपदिशन्वाक्यमनघं स्थितिज्ञो लोकानामतिविशदबुद्धिकृतिपरः ॥ ८५ ॥ इतीति । अनघं शमप्रधानत्वानिर्दोषम् ॥ तदेवाह- सुखं दुःखं दैवादुपनमति गच्छत्यपि परं न धीरस्तत्र स्याव्यथित इह हृष्टोऽपि न भवेत् । ध्रुवं पश्यन्बुद्धया सततमनिवार्य विधिशतै- जगत्यां पर्यायागतमखिलसाधारणमपि ॥ ८६ ॥ सुखमिति । भावानामागमापायित्वादुर्निवार्यत्वाच्च शमेनैव निवृत्तिरिति भावः ।। यदा यस्माद्येन खयमिह विना यत्नमनघ- खभाग्यात्संप्राप्तं यदतिबहु चाल्पं च सुधिया । विधेयः संतोषो निजमनसि चेत्सौख्यमतुलं न दुःखं तस्य स्यात्वचिदपि न तापो न च रिपुः ॥ ८७ ॥ यदेति । खज्ञानकल्पिता एव शत्रुमित्रोदासीनाः । विवेकदृष्टया तु सर्वस्यात्मरूपत्वा- ब्रह्माद्वयत्वेन द्वितीयस्याभावान भयशङ्कापि । 'द्वितीयाद्वै भयं भवति' इति श्रुतेः। तस्मा. संतोषेणैव सुखं भवति नान्यथा यत्नशतैरिति भावः ।। . १४
,
-
१०६
काव्यमाला।
ननु दैवविहितं दुःखं ज्वरादि सोढुं शक्यम् , कथ शत्रुकृत दुःखं सोढव्यमिति चेत्तत्राह-
जनः सर्वः खीयं सुकृतमनुभुतेऽथ दुरितं
ततो दोषः कमिन्सुत वद निधेयं सुमतिना ।
मदीयोऽयं शत्रुर्मम जनितमेतेन सुतरा-
मनिष्ट कष्टं चेत्यहह कुमतेः विलसितम् ॥ ८८ ॥
जन इति । इदं सर्व खप्रारब्धमेव नान्यकृतम् । शत्रुणेदं कृतमिति तु मोहविल.
सितमेवेत्यर्थः॥
वचो गम्भीराथै मधुरतरमुक्तं नृपतिना
कटुत्वं भेजे तबृदि कलुषिते कौरवपतेः ।
सितापि द्राक्षातो मधुरसुरसा पिचविकृते-
ऽतितिक्ता किं न स्याज्वरयुतमनुष्यस्य रसने ॥ ८९ ॥
वच इति । अपि भिन्नक्रमो द्राक्षातोऽपि मधुरसुरसा सिता शर्करेत्यर्थः ।
शमोपदेशमसहमानः साधिक्षेपं दुर्योधन आह-
अथैनं गान्धारीसुतशतवरिष्ठोऽरुणदृशा
निरीक्षन्क्षोभेणाकुलितहृदयः क्रूरमवदत् ।
समर्थः सन्कस्मात्परिभववचांस्यानिलिमुखो-
द्गतानि क्षोणीश श्रुतिपथविदाहीन्यमिसहे ॥ ९० ॥
अथेति । स्पटम् ॥
तद्वाक्यमनूध दूषयति-
सुखं दुःखं दैवोपनतमिति सत्यं तदपि च
प्रवुद्धाः सद्बुद्धिद्रविणवलसाहाय्यत इह ।
बलान्जित्वा दैवं प्रबलमनिवार्य कुमतिभि-
विराजन्ते सर्वोपरि पुरुषधीराः कतिपये ॥ ९१ ॥
सुखमिति । स्पष्टम् ॥
त्वया यत्संदिष्टं सरलमतिना ज्ञानमनघं
यतीनामारण्यप्रगुणविधिभाजां समुचितम् ।
कथं मादृक्पात्रं भवति जगतीपालकुलजः
समुत्पन्नारातिप्रभवपरितापादितमनाः ॥ ९२ ॥
J - मनोदूतम् । १०७ त्वयेति । सरलमतिनेति साकूतोक्तिः। आरण्यानां वानप्रस्थानां यः अगुणविधि- स्तद्भाजाम् ॥ कारणवाहुल्यात्त्वां प्रतीदं दुःख श्रावितम्, प्रतीकास्त्वसदधीन इत्याह- पिता वृद्धो मान्यस्त्वमसि मतिमान्कृत्यविदिति खदुःखं प्रोक्तं ते तदिह बहुभिर्हेतुभिरिह । महं कर्णो दुःशासनसुबलजौ चापि नियतं समर्थाश्चत्वारो ह्यभिलषितसिद्ध्यै किमपरैः ॥ ९३ ॥ पितेति । स्पष्टम् ॥ । ननु कथं चत्वार एव भीष्मद्रोणादीनां सत्त्वात्तत्राह- गुरुयॊणः लेहं वहति कपिकेतावतितरां सभीष्मोऽपि प्रायः कलयति मुदं धर्मतनये । प्रकारैः सर्वैस्तान्भजति विदुरः पाण्डतनया- नुदासीनस्त्वं चेदहह विधिरेवाद्य कुटिलः ।। ९४ ॥ गुरुरिति । सष्टम् ॥ वचः साधिक्षेपं नृपतिरिति पुत्रस्य मनसा विचिन्त्य ज्ञात्वात भृशमनुनयन्प्राह मतिमान् । तवापि क्षोणीशाः सुत भुवि विधेयाः क्रतुवरं त्वमप्येवं कर्तुं प्रभवसि सहायैः परिवृतः ॥ ९५ ॥ वच इति । अधिक्षेपस्तिरस्कारस्तत्सहितम् । अनुनयप्रकारमाह-तवापीति ।। सहायानेवाह- अहं भीष्मो द्रोणस्तदनु तनयोऽस्याङ्गनृपतिः प्रियोऽयं ते दुःशासन इह विधेयाः सविदुराः। तथान्ये शल्याद्या मगधमरुकर्णाटपतयः कलिङ्गाः काम्बोजा अपि बत तवाज्ञापरवशाः ॥ ९६ ॥ अहमिति । गुरोस्तनयोऽश्वत्थामा.॥ क्रियन्तां संभारा विविधवसुभाराश्च यजन- क्षितिः सम्यड्या विविधशुभयूपैः परिवृता। --- १०८ काव्यमाला। समाहूय व्यासप्रभृतिमुनिवर्यानथ शुभे मुहूर्ते दीक्षाया ग्रहणमिह कर्तुं कुरु मनः ॥ ९७ ।। क्रियन्तामिति । संभारा उपकरणानि । वसूनां द्रव्याणां भाराः ॥ हिरण्यं सन्मुक्ताविविधमणयोऽलंकृतिशता- न्यनर्घा रनौधा विविधवसनान्यन्ननिचयाः । गजाश्वं गावश्च प्रचुरपयसो वत्ससहिता द्विजेभ्यो देयाः स्युः ऋतुसदसि तुष्टेन भवता ॥ ९८ ॥ हिरण्यमिति । गजाश्वम् । सेनाङ्गलादेकवद्भावः । ऋतुसदसि यज्ञशालायाम् ॥ पितुस्तद्वाक्यं स श्रुतिपथमथानीय पुनर- , प्यवोचद्धो राजशकुनिरिह किंचित्कथयति । समयां छूतेन श्रियमपहरामि ध्रुवमहं छलात्कौन्तेयानामिति वितर तत्संमतिमिह ॥ ९९ ।। पितुरिति । स्पष्टम् ॥ न चात्र विदुरः प्रष्टव्य इत्याह- यदि त्वं कार्येऽसिन्विदुरमनुपृच्छस्यनुपदं निषेद्धा निश्चित्य व्यथितहृदसौ पाण्डवकृते । तदा मृत्युमें स्थाच्छरणमिह राजस्त्वमपि च ध्रुवं तुष्टो जीया विदुरसहितो हायनशतम् ॥ १०० ॥ यदीति । अनुपद तत्कालम् । निषेद्धा निषेध करिष्यति ॥ राज्ञ उत्तेजनार्थ पुनरपि खदुःखमेवाह- यदा द्वारप्रान्त्या मणिरचितभित्तावधिविश- न्नथाघातं प्राप्तः पतित इह तस्मिन्नवसरे । भृशं संशोचन्तौ निभृतहसितौ दसतनयौ गृहीत्वा हस्ते मां सृतिमदिशतान्तर्दहति हृत् ॥ १०१॥ यदेति। आघात प्रहारम् । सृति मार्गम् । 'पन्थानः पदवी सृतिः' इत्यमरः । दसतनयो नकुलसहदेवौ ॥ अथ धृतराष्ट्रस्तन्निर्वन्धात्सर्वमङ्गीकृतवानित्याह- अथैतन्निर्बन्धं गुरुतरमवेत्य क्षितिपतिः समां द्यूतस्याही रचयितुमनुज्ञामथ ददौ ।
मनोदूतम् । १०९ समानेतुं पार्थान्विदुरमनुनीयाप्यनुचिते निदेशे चक्रे स प्रवणमनयाधीनहृदयः ॥ १०२ ।। अथैतदिति । अनुनीयापीति अपिर्मिनक्रमः । अनुचितेऽपि निदेशे यथाकथचि- प्रवणं अनुकूल चक्रे ॥ स गत्वा पार्थानां सदनमवदद्यत्कुमतिना कुरूणां नाथेन खहृदि निहितं द्यूतविधये । ततः श्रुत्वाहानं विदुरवचनात्पाण्डुतनयः सितं कृत्वा वाक्यं मितमिदमवोचनिपुणधीः ॥ १०३ ॥ स इति । स्पष्टम् ॥ विभो क्षत्तः सर्वै तव विदितमेवास्ति जगति प्रकर्ष बुद्धेश्च त्वदधिगतवन्तो वयमिह । स राजा लोकानां स्थितिविदतुलप्राज्यधिषणः कथं द्यूतक्रीडां कलहजननी कन्दलयति ॥ १०४ ॥ विभो इति । क्षत्तः हे विदुर । त्वत् त्वत्तः ॥ समाहूतश्चाहं कथय न कथं यामि विमृश- न्कले ते वासः सकलजनमेधाधिकलितः । तथापि त्वं यन्मे छुपदिशसि कार्य हितविधौ विधेयं वा नो वा तदिह करणीयं ध्रुवमिह ॥ १०५ ॥ समाहूत इति । 'आहूतो न निवर्तेत द्यूतादपि रणादपि' इत्युक्तेः । द्यूते कले: कलहस्य कलियुगस्य वा वासः सर्वजनविदित इत्यर्थः ॥ किंचास्मिन्कार्ये दैवमेव प्रधानम्, तदधीनश्च जनो नखाधीनः। मतिरुत्पद्यते तादृग्व्य- वसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥ इति वाक्यादिति विदुरः प्रत्याह- तथा पार्थेनोक्तः सदसि विदुरः प्राह मतिमा- न्मयासौ संदिष्टः सुतपरिवशः कौरवपतिः । अभव्यं भव्यं वा परिणतिशुभं वाप्यशुभकृ- न जानाति प्रायो व्यपगतविचारो नियतिभाक् ॥ १०६ ॥ तथेति । अशुभकृदिति कार्यस्य विशेषणम् । नियतिदैवम् । 'भाग्यं श्री नियति- बिंधिः' इत्यमरः ॥
११० काव्यमाला। - इति श्रुत्वा धीमान्सहजपरियुक्तो द्रुपदजा समेतः खं सैन्यं सकलमुपदिश्यानुगमने । रथारूढो दिव्याभरणवसनो धर्मतनयः प्रयातः साशको विदुरसहितो हास्तिनपुरम् ॥ १०७ ॥ इतीति । स्पष्टम् ॥ प्रविश्याथ प्रज्ञानयनभवनं योग्यविधिना कृतातिथ्यः सर्वान्प्रणतिभिरथाभ्यर्च्य मुदितः। निशां नीत्वा प्रातः शकुनिरचितं द्यूतसदनं विवेश खैर्मीमादिभिरपि चतुर्भिः परिवृतः ॥ १०८ ।। प्रविश्येति । खैः । श्रातृभिरिति शेषः । अथातो दुर्योधनसहितगान्धारपतिना नृपः सोऽक्षक्रीडाममजत पृथायाः प्रथमजः । वृतो भीष्मद्रोणार्यमतनयबाहीककुरुराट् कृपाश्वत्थामाद्यैर्विदुरनृपपुत्रप्रभृतिभिः ॥ १०९ ॥ अथेति । स्पष्टम् ॥ हिरण्यं कुप्याचं मणिनिचयमोंधमखिलं निखर्वाजानेकप्रयुतनियुताचं यदपि च । महीमश्वाञ्जात्यानिगरिसमशरीरानपि गजा- नजैषीदुर्घते कुटिलतरबुद्धिः स शकुनिः ॥ ११० ॥ हिरण्यमिति । कुप्यमिति ताभ्यां यदन्यत्तत्कुप्यमित्यर्थः । अर्थानां ओघम् 'अर्थरैविभवा अपि' इत्यमरः । जात्यानुत्तमजातीयान् ॥ ततोऽषीयूते नकुलसहदेवावनिलजं गुडाकेशं पश्चाच्छकुनिकितवो धर्मतनयम् । अथैनं प्राहैवं द्रुपदतनयं द्यूतविधिना पणीकृत्यात्मानं परिकलय मोक्तुं जयसि चेत् ॥ १.११ ।। तत इति । परिकलय विचारय ॥ पराजैषीत्तामप्यथ शकुनिकर्णान्धतनया- म्बिकापुत्रो हर्ष परतरमगुस्तत्र सदसि ।
मनोदूतम् । विहायैतानन्ये क्षितिनिहतनेत्रा विमनसः सवन्नेत्राम्भोभिर्विगिति परमं दुःखममजन् ॥ ११२ ॥ पराजैषीदिति । अम्बिकापुत्रो धृतराष्ट्रः ॥ अथासौ संप्रेक्ष्य क्षितितलसमालोकनपरा- जितान्द्यूते पार्थान्प्रवितनयमूचे कुरुपतिः । जितेयं दासी त्वं भजतु मम कृष्णा किमधुना विलस्वः कार्येऽसिन्क्रियत इह सागच्छतु सदः ॥ ११३ ॥ अथेति । कृष्णा द्रौपदी इह कार्ये किमधुना विलम्बः क्रियते । आगच्छतु आयातु ॥ अवाच्यं तदुर्योधनकथितमाकर्ण्य विदुरः समुत्थाय क्रोधान्निखिलमनुजे शृण्वति सति । जगादोच्चैः क्रोधाद्वचनमिदमालोक्य च पुनः समुद्भूतामन्दप्रतिघमरसंरक्तनयनः ॥ ११४ ॥ अवाच्यमिति । निखिलमनुज इति जात्यभिप्रायमेकवचनम् । प्रतिघः कोपः। 'कोपः क्रोधामर्षरोषप्रतिघा' इत्यमरः ।। विदुरवाक्यं पञ्चभिराह- अरे मन्द प्रज्ञानयनसुत किं ते व्यवसितं न जानीषे शीर्षे निवसित इहाशीविषधरान् । किमर्थं कोपेनाकुलितमनसः पाण्डुतनया- न्वृणीषे मे दात्मन्मरणविधये खस्य सहसा ॥ ११५ ॥ अरे इति । सष्टम् ॥ न दासीत्वं प्राप्ता द्रुपदधरणीपालतनया यतो न्यस्ता राज्ञा ध्रुवमियमनीशेन कुमते । कृतं ह्येतद्द्यूतं तव मरणवीजं कलय भो समासन्ने मृत्यौ भवति विपरीता किल मतिः ॥ ११६ ।। नेति । पूर्व खस्य यूते विजितत्वादनीशत्वम् ॥ पुरैवासै राक्षे कथितमसकृन्मे ध्रुवमहो विनाशो द्यूतेऽसिंस्तव सुतशतस्यापि नियतः ।
११२ काव्यमाला। - । . कुलाबारे पापे त्वयि शकुनिसापेक्षचरिते निवद्धप्रेमायं भवतु फलमाक्पातकतरोः ॥ ११७ ॥ पुरैवेति । अस्मै राज्ञे धृतराष्ट्राय मे मया असकृत् बहुवारं किमुकं तदेवाह-अस्मि- न्धूते तव सुतानां शतस्याप्यवस्यं विनाशः। भविष्यतीति शेषः । दुर्योधनं प्रत्याह-~ कुलाझारेत्यादि । एतैः सह विरोधे महदनिष्टमित्याह- दिशां जेता जिष्णुर्हतबकहिडम्बादिसुभट- प्रसिद्धव्यापारप्रथिततरकीर्तिः पवनजः । यमौ नित्यं शत्रुक्षपणकरणे बद्धनियमौ न जानीषे कि रे यदिह विषमश्वासि सहसा ॥ ११८ ॥ दिशामिति । जिष्णुरर्जुनः । पवनजो भीमः ।। तिष्ठन्तु भीमादयः, युधिष्ठिरक्रोध एव त्वां भस्मीकरिष्यतीत्याह- न यावत्त्वां धर्माचरणशरणः साधुचरितः क्षमी दान्तो मिथ्यावचनरहितो लोकमहितः । पुरा पश्यत्युग्रज्वलनकणमुग्दारुणदृशा परं तावत्क्रूरं शमनवदनं पश्यसि न रे ॥ ११९ ॥ न यावदिति । पुरा पश्यति।द्रक्ष्यतीत्यर्थः। यावत्पुरा-' इति पुरायोगे लडथै लट् । इति क्षिप्तोऽत्यन्तं विदुरवचनैरप्यनुसर- न्स कर्णादीन्दुष्टान्मनसि न च खिन्नोऽभवदसौ । अथ प्रातीकाम्यं द्रुपदतनयायाः खमवन- स्थिताया हानार्थ यदिशदवनीपालतनयः ॥ १२० ॥ इतीति । ह्वानमाह्वानं तदर्थम् । 'इतिराकारणाहाने' इत्यमरः । प्रातीकाम्य इति दूतस्थाभिधानम् ॥ स दूतस्तद्राज्ञो वचनसमकालं द्रुपदजा- सकाशं गत्वोच्चरवददथ दुर्योधनवचः । जितां द्यूते त्वामाह्वयति धृतराष्ट्रस्य तनयो नियोक्तुं त्वां दासी भवसि पणिता द्यूतसदने ॥ १२१ ॥ स दूत इति । उच्चैरिति । अन्तःपुरे प्रवेष्टुमशक्यत्वादुच्चैरित्युक्तम् ।।
winner - मनोदूतम् । ११३ अथैनं पप्रच्छ द्रुपदतनया द्यूतसदने नृपः कस्माद्धेतोबत पणनमेवं समकरोत् । क एवं लोकेऽस्मिन्कथय परिदीव्येद्धृतमति- यथा पार्थः खार्थाकुशलहृदयो वुद्धिविधुरः ।। १२२ ॥ अथेति । स्पष्टम् ॥ अथो दूतः प्राह प्रथितकुलजेऽसौ तव पति- यंदा भीमं चान्यानपि निजमथात्मानमकरोत् । पणद्रव्यं पश्चात्त्वमसि पणितातो नरपतिः सभायामस्यां त्वाहयति धृतराष्ट्रस्य तनयः ॥ १२३ ।। अथो इति । स्सष्टम् ॥ किमात्मान पूर्व परिपणितवान्मां नु नृपतिः सभां गत्वा पृष्ट्वा पुनरिह समायाहि सविधे । ध्रुवं ज्ञात्वा पश्चादयि नय सभां मामिति तया नियुक्तो दूतोऽसौ नृपसविधमागात्पुनरपि ॥ १२४ ॥ किमिति । सष्टम् ॥ द्रौपदीवाक्यमाह- अये राजन्कृष्णा वदति सकलान्वः पुनरियं न राज्ञोऽनीशस्य प्रभवति मयि खत्वमधुना । अनार्य चेत्सर्वैरधिगतमहो दैवहतकै- विनाशः सर्वेषां ध्रुवमपरिहार्यों हि भविता ॥ १२५ ॥ अये इति । स्पष्टम् ॥ तदविक्षेपक्च. श्रुत्वा ऋद्धः सन्दुःशासन प्रेपितवानित्याह- तथा दूतेनोक्तः सहजमथ दुःशासनमिदं जगादासौ दुर्योधन इह मतेनाङ्गनृपतेः । अये दूतो भीमात्परमिह विभेति त्वमधुना बलादेनां कृष्णामुपनय करिष्यन्ति किममी ॥ १२६ ॥ तथेति । अङ्गनृपते. कर्णस्य मतेन संमतेन ॥ १५ ११४ काव्यमाला । ततो गत्वा सोऽन्तःपुरभवनमेनामृतुमती वलाद्धृत्वा केशेष्वहह शठवुद्धिर्नृपयुतः । सनाथामप्यारादितरजनपत्नीमिव सभा- मनैषीत्पार्थानां पुरत इह हा दैवहतकः ॥ १२७ ॥ तत इति । स्पष्टम् ॥ तथा नीतां कृष्णामहिकरगतामेकवसनां रजोध्वस्तां वीक्ष्य क्षितिपतिसभा साश्रुनयना । न यातुं न स्थातुं समशकदथो किंचिदपि वा- मिधातुं श्रोतुं वा हृदयकृतधिक्कारवचना ।। १२८ ।। तथेति । हृदये कृत धिक्कारवचनं यया । दुर्योधनभयादित्यर्थः ॥ कर्णस्य द्रौपदी प्रति वचनमाह द्वाभ्याम्- अथावादीत्कर्णः किमिति न करोष्युन्नतमिदं मुखानं किं लज्जास्पदमिह भवत्याः कथय नः । तदैवेयं लज्जा द्रुपदतनयेऽद्धा परिहता वृता यल्लोभेन ध्रुवमिह तदा पञ्च पतयः ॥ १२९ ॥ अथेति । स्पष्टम् ॥ इदानी गान्धारीतनयवशगासीप्सितमहो समृद्धं ते कृष्णे परिहर पतीन्दीनमनसः । जितासि द्यूतेऽस्मिन्सुमुखि धृतराष्ट्रस्य धरणी- पतेः पुत्रेणाद्य क्षममिह तदाज्ञानुसरणम् ॥ १३० ॥ इदानीमिति । स्पष्टम् ॥ ततोऽसौ दुष्टात्मा निजमनुजमाहातिशठधी- रिमां दुष्टां पापां विगतवसनामाशु कुरु भोः । परीहासस्यैवं फलमनुभवत्वाशु कुटिला पतीनां दास्यत्वं मम गतवतामद्य पुरतः ॥ १३१ ॥ तत इति । स्पष्टम् ॥ अथासौ दुःखार्ता द्रुपदतनया वीक्ष्य दयिता- परित्रातुं योग्यानपि समयवद्धान्विधिवशात् ।
मनोदूतम् । - सभायामानीता शरणरहिता जालपतिता कुरङ्गीव त्रासादृशतरमसौ कम्पमभजत् ॥ १३२ ॥ अथेति । समयवद्धान् सत्यमयपाशवद्धान् ॥ तदानीमनन्यशरणा सां भगवत्स्मरण कृतवतीति कथयितु कविर्मनसो दूतलं परिक- लय्य कथां रचयति- विचारं चाकार्षीदहह न पिता नापि दयिता न पुत्रा न भ्राता शरणमिह मेऽद्यास्ति न गुरुः । ऋते भक्ताधीनाद्यदुकुलवतंसादपर इ. त्यथो स्मारं सारं मुररिपुमहं यामि शरणम् ॥ १३३ ।। विचारमिति । स्पष्टम् ॥ स चात्यन्तं दूरे क इह तमथावेदयति मे समासन्नं दुःखं भृशमपरिहार्य प्रयतनैः । तदर्थ स्वान्तं तत्सविधमुपनेप्यामि निजमि- त्यसौ संबोध्य खं द्रुपदतनयाचित्तमवदत् ॥ १३४ ॥ स चेति । प्रयतनैः प्रयत्नैः । खान्तं मनः । 'खान्त हुन्मानसं मनः' इत्यमरः ॥ अथान्यविषयासक्किं त्यक्त्वा तत्परस्यैव चित्तस्य भगवति प्रवृत्तिरिति वक्तुं मनसः प्रशसापूर्वकं खदूत्येऽनुकूलयितु प्रार्थनामाह सप्तभिः हृषीकाणामीशं त्वमसि सकलानां त्रिभुवनं क्षणाद्गन्तुं शक्तस्तदिह कलये दूत्यनिपुणम् । इतो गत्वा शीघ्रं मधुमथनपार्श्व कथय मे प्रवृत्तिं दीनाया ध्रुवमशरणाया हृदय भोः ॥ १३५ ।। हृषीकाणामिति । 'इन्द्रियाणां मनश्चास्मि' इति गीतोक्तेः ॥ अयि खान्त क्लान्ता भृशमहमिह त्वां पटुतरं विधाने निश्चित्य ध्रुवमनुनयामि प्रणयतः । हृषीकाणामीशं कथमिदमयोग्यं तव पुनः करिष्ये दूत त्वं तदिति किल मा गा विधुरताम् ॥ १३६ ।। अयोति । स्पष्टम् ॥
२१६ काव्यमाला । न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति न्यायात्तत्र प्रवर्तयितु मह्त्यकरणे समाधिस्थयोगिचित्तागोचरस्य भगवतो दर्शनेन ते महॉल्लाभो भविष्यतीति महत्प्रयोजन- । माह- - महांस्ते लाभोऽयं यदिह यमिनस्त्वां दृढतरं निरुध्यान्तर्युञ्जन्त्यसकृदनुकूलं प्रणयतः । समाधिस्था यस्य स्मरणविधये तं यदि पुरो मनः साक्षात्पश्येः किमधिकमितस्तेऽस्ति कथय ॥ १३७ ।। महानिति । यस्य स्मरणविधये योगिनस्त्वा दृढतरमन्तनिरुद्भयासकृद्वारंवार युञ्जन्ति तं यदि त्वं साक्षात्पश्येस्ततोऽधिक किमस्ति ॥ पूर्वोक्तं हृषीकेशत्वमेव प्रतिपादयति- न नेत्रं रूपस्य ग्रहणकुशलं नापि रसनं रसज्ञाने गन्धग्रहणविषये घ्राणमपि न । न शक्ता त्वक्स्पर्शानुभवजनने श्रोत्रमपि च त्वया हीनं शब्दग्रहणपटु न स्यात्किमपरम् ॥ १३८ ॥ न नेत्रमिति |मनःसंयोग विना इन्द्रियाणां खखविपयग्रहणासामर्थ्यमनुभवसिद्धम् । तथा च महाभारतेऽश्वमेधपर्वणि मनोवाक्यानि–'न घ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च । रूप चक्षुर्न गृह्णाति त्वक्स्पर्श नावबुध्यते ॥ न श्रोत्र वुध्यते शब्दं मया हीन कथचन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥' इति । रसन रसनेन्द्रिय रसज्ञाने शक नेति योज्यम् ॥ त्वदनुचराणीन्द्रियाणि त्वां खखविपये नेतु यतिष्यन्ते । तेपां मार्ग प्रवृत्तिरूपं विहाय निवृत्तिमार्गेण गमिष्यसि चेत्तत्प्राप्तिः सुलभा, नान्यथेत्याह- रसज्ञप्राणत्वक्श्रवणनयनानि प्रतिलयं यतन्ते त्वां नेतुं यदपि च मनः स्वखविषयान् । तथापि त्वं साधो परिहरसि चेद्धर्मविषयं मदीयोऽयं चित्ताभिलषितविधिः सेत्स्यति तदा ॥ १३९ ।। रसझेति । 'इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभ मन.' इति गीतोक्तेः ।। प्रवृत्तिमार्ग भयं प्रदर्शयति- अये कामः क्रोधः प्रचुरतरलोभः स च मदो महामोहः सेोऽध्वनि किल वसन्त्यत्र नियतम् ।
- मनोदूतम् । ११७ वजन्तं ते सार्थ प्रबलमपि मुष्णन्ति तदहो मदीयं त्वं मागा हृदय कलयेदं हितवचः ।। १४० ॥ अये इति । कामादयश्चौरा मुष्णन्ति । धर्मरुप धनमिति शेषः । हे हृदय, त्व तत्र मा गाः । मदीय इद हितवचः कलय ॥ अस्मिन्मार्गे खेदशङ्कापि नेत्याह- अहो खेदः सोढुं कथमपि न शक्योऽध्वजनितो मयेति ब्रूषे चेच्छृणु हृदय यद्वच्मि भवते । चिदानन्दाकारं भवजलधिसारं कलयतः समारम्भो भावी श्रमनिकरनाशैकनिपुणः ॥ १४१ ॥ अहो इति । स्पष्टम् ॥ कि च तत्समीप गच्छतस्ते स एव श्रेयः कर्तेत्याह- स ते मार्गे श्रेयो दिशतु शुभकृत्सर्वजगतां यदीयं सौन्दर्य हृदयहरणं गोपसुदृशाम् । मुमुक्षूणां ध्येयं विपदुदघिसंसारतरणि- विपन्नानां चिन्तामणिरखिलवाञ्छार्पणविधौ ॥ १४२ ॥ स ते इति । तरणिनौका ॥ पुनरपि शीघ्र गमन प्रार्थयते- विलम्बं मा कार्षीः कुतुकतरलं कापि भवमा- त्यजात्यन्तं रूपादिषु च परमासक्तिमनघ । इतो गन्तव्यास्ति त्रिभुवनललामाद्भुतनिधिः पुरी द्वार्वत्याख्या निखिलनगरीशेखरमणिः ॥ १४३ ।। विलम्वमिति । कुतुकं कुतूहलम् । गन्तव्यटेशमाह-इत इति । द्वार्वती द्वारिका ॥ अथ त्रयोदशभिरिका वर्णयति- समुद्रेणाक्षिप्ता परित इह हेमाच्छवरणा निधानं दिव्यानां समुपकरणानां मणिमयी । विचित्रा वृष्णीनां विजितसुरयानैर्गृहवरै- नरैरप्यच्छाभैविविधमणिवाघसुभगैः ॥ १४४ ॥ समुद्रेति । वरण प्राकार. । सुरयान विमानम् ॥
११८ काव्यमाला। जना यत्रागारेवतिलसितसन्मङ्गलमह- प्रसङ्गात्संजातैरविरतमृदङ्गानकभवैः। प्रतिध्वानरारादपि जलदगर्जाधिकरवै- मयूराणां नृत्योत्सवमनुभवन्ति प्रतिदिनम् ॥ १४५ ॥ जना इति । अतिलसितसन्मगलरूपा ये महा उत्सवाः। 'मह उद्धव उत्सवः' इत्यमरः । तेपां प्रसङ्गात् संजातैः ।। यदागारेप्वनंलिहविविधसौधोच्चशिखर- स्थितैः कुम्भैरन्तःशुषिरविलसद्दीपकलिकैः । विनिद्राणां कान्ताविरहविधुराणामुडगण- भ्रमः प्रावृट्तम्यामतितिमिरमय्यां भवति च ॥ १४६ ॥ यदागारेष्विति । विनिद्राणामिति । तत्र हेतुः-कान्ताविरहविधुराणामिति। प्राव- ट्रतम्याम् । 'रजनी यामिनी तमी' इत्यमरः । शुपिरं छिद्रम् ॥ सुरद्रोः सत्पुष्पावलिललितसद्गन्धसुभृतै- नितान्तं कस्तूरीमृगमदमहामोदलसितैः। चतुभ्यों भागेभ्यो हृदय हरितां वायुमिरहो समायातैः सार्था क्रियत इह सा गन्धवहता ॥ १४७ ॥ सुरदोरिति । कस्तूरीयुक्ता मृगाः कस्तूरीमृगास्तेषां यो मदः कस्तूरी तस्या यो महानामोदस्तेन लसितैः हरिता दिशां चतुर्यो भागेभ्यः प्रदेशेभ्यः समायातैर्वायुभिः सा गन्धवहता गन्धवहत्व सार्था यथार्था क्रियते इत्यन्वयः । 'आशाश्व हरितश्च ताः' इत्य- मरः । 'रोमभिर्विरलैः खल्पैर्युतः कस्तूरिकामदः' इति केशवः । हृदयेति संवोधनम् । 'कस्तूरी स्थान्मृगमदः' इत्यमरः ।। विचित्रैरुद्यानैस्तिलकसहकारद्रुपनसा- नसप्लक्षद्राक्षाबकुलसरलेन्द्रद्रुमधुकैः । तमालश्रीपर्णीवरणकृतमालाक्षकदली- शमीजम्बूजम्मक्रमुकलकुचाशोकसहितैः ।। १४८ ॥ विचिरिति । उद्यानैर्व्याप्तेति द्वितीयश्लोकेनान्वयः । कीदृशैरुद्यानैः । तिलकादि- सहितैः । तिलकः क्षुरकः वृक्षविशेपः, सहकारगुः आम्रः, पनसः कण्टकीफलः, अनसो वन्धूकः, प्लक्षो वटः, द्राक्षा मृद्वीका, वकुलः केसरः, पूतनुः सरल: पूतिकाष्ठम्' इत्यमरः, इन्द्रद्रुः ककुभोऽर्जुनः, मधुकः प्रसिद्धः । 'मधूको मधुकोऽपि च' इति द्विरूपकोशः।
मनोदूतम् । तमालः प्रसिद्धः, श्रीपणी वृक्षविशेषः, वरुणो वरणः सेतुः । 'आरेवतव्याधिघातकृत- मालसुपर्णकाः' इत्यमरः, अक्षो विभीतकः, कदली रम्भा, शमी जम्बूश्व प्रसिद्धे, जम्भः जम्भीरा इति प्रसिद्धः, लकुचः 'वहुहरः' इति भाषायाम् ॥ पियालदुश्लेष्मातकबदरनारङ्गविषम- च्छदप्लक्षत्रंसिस्नुवतरुकदम्बादिललितैः । लताभिर्मालत्यादिभिरपि सुमौघातिललित- प्रवालाभिर्व्याप्ता तव नयनयोर्यास्यति पथि ॥ १४९ ॥ पियालेति । 'राजादन पियालः स्यात्' इत्यमरः । श्लेष्मातकः 'लहसोडा' इति भाषायाम् । विषमच्छदः सप्तपर्णः । प्लक्षः पिप्पलपादपः । तेन पूर्वश्लोकेन पौनरुक्त्यम् । तथा च हैम:-'लक्षोऽश्वत्थे जटिनि पक्षके' इति । पीलुः प्रसिद्धः । सुवतरुर्विकडूतः सुवावृक्षः। कदम्बः प्रसिद्धः । सुमानामोघः। 'प्रसून कुसुम सुमम्' इत्यमरः । 'प्रवा- लोऽस्त्री किसलये वीणादण्डे च विद्रुम' इति हैमः । लताभिातेति संवन्धः ॥ खकीयं कौशल्यं त्रिभुवनविचित्रं प्रथयता सहस्राक्षप्राचीपतिधनदवासॉल्लघयता । कृता दिव्योपायैर्विविधमणिसंयोगघटिता यदूत्तंसप्रीत्यै सुभगसु रतक्ष्णास्ति रचिता ॥ १५० ॥ खकीयमिति । सुरतक्ष्णा विश्वकर्मणा ॥ सभारामागारत्रिदशसदनब्राह्मणगृह- प्रपावापीकूपाङ्गणविततरथ्यापरिवृता । अगण्यैः पण्यौधैर्भूतविपणिवीथीपरिसरा- धरा रत्नं रत्नाकरपरिवृता सा विजयते ॥ १५१॥ समेति । 'सभा द्यूतसमूहयोः। शालाया च' इति हैमः। आराम उपवनम्। विपणिः पण्यवीथिका ॥ प्रविश्य त्वं तस्यां रुचिरकुरुविन्दाश्मगरुडो- पलखच्छाच्छाभामरपतिमणीवज्रशकलैः । विना वर्षाकालं त्रिदशपतिचापायुतमति दधत्यां दृष्टायां निजनयनयोः प्रामुहि फलम् ॥ १५२ ।। प्रविश्यति । 'कुरुविन्दतु पीते स्यादतिरिक्तेऽपि' इति केशवः । गरुडोपलो हार- न्मणिः । अतिशयेन अच्छा अच्छाच्छातिनिर्मला भा यस्याः । अमरपतिमणी इन्दनील १२० काव्यमाला। मणी । 'मणियो रश्मिजातो' इत्यमरे स्त्रीत्वमुक्तम् । वज्र हीरकम् । एव च पञ्चवणे- मणिभिरिन्द्रायुधसाम्यम् ॥ यदीयान्यागाराण्युनिकरराट्कान्तमणिभि- लसत्कुब्यान्यन्तःकरणजलमुच्चि प्रतिलवम् । सदा कुर्वन्त्यम्भोधरसमयसुभ्रान्तिमतुला निशीथिन्यां चन्द्रोज्ज्वलकरसितायां प्रतिदिनम् ॥ १५३ ।। यदीयानीति । उडुनिकराणां तारकाणाम् । 'तारकाप्युड्डु वा स्त्रियाम्' इत्यमरः । निकरः समूहस्तस्य राट् इन्दुः । चन्द्रकान्त इत्यर्थः । सुराधीशं जित्वा समिति सगणं यादवपति- धरायामानीतं प्रथितगुणयुक्तं सुरतरुम् । निवासे सत्यायाः स्वयमथ समारोप्य जगता- मधीशस्तां धन्यामकृत रविकन्यापतिरसौ ॥ १५४ ॥ सुराधीशमिति । सत्यायाः सत्यभामायाः । समारोप्य रोपयित्वा । रविकन्या कालिन्दी॥ अमद्भिः सौरभ्यादुपरि परितः षट्पदगणै- दधद्भिश्छत्रस्य श्रियमनुपमा निर्जरतरुः । समस्तानां क्षोणीरुहवरगणानामवितथं प्रभुत्वं यत्रासौ कथयति निजं वान्तसततम् ॥ १५५ ॥ भ्रमद्भिरिति । स्पष्टम् ॥ अथ तस्याः समग्रवर्णने सामर्थ्याभावमाह- यदीयं सौभाग्यं कथयितुमलं चेत्किल भवे. दनन्तो द्रष्टुं वा यदि दशशताक्षः प्रभवति । निवस्तुं च श्रीशो यदुकुलसुधांशुः स भगवा- नवश्यं योग्यः सा कथय कथनीया कथमिव ॥ १५६ ॥ यदीयमिति । अनन्तः शेपः । दशशताक्ष इन्द्रः ॥ सहस्रं सौधानां भवति किल यत्षोडशमितं सुयुक्तं चाप्यष्टोत्तरशतमितैर्दिव्यसदनैः । - मनोदूतम् । १२१ स तत्र प्रद्युमोद्धवहलधराक्रूरशिनिजो- ग्रसेनाधैर्युक्तो वसति किल यत्र प्रभुरसौ ॥ १५७ ।। सहस्रमिति । 'सौधोऽस्त्री राजसदनम्' इत्यमरः ।। अथ द्वाभ्यां श्रीकृष्ण वर्णयति- दुकूल हेमाभं निजकटितटेऽसौ परिदध- सुकाञ्च्या रत्नानां निविडमुपनद्धं यदुपतिः । दधानः श्रीवत्सं हृदि सुविलसत्कौस्तुभमणि- महानन्दाम्भोधिनयनपथमायास्यति स ते ॥ १५८ ॥ दुकूलमिति । स्पष्टम् ॥ भगवच्चरणचिहान्याह- ध्वजच्छत्राम्भोजाङ्कुशकुलिशसत्कुम्भसुधनु- र्गदाशक्त्यङ्गुष्ठस्थितयवसुचक्रादिलसितौ । नखेन्दुज्योत्सामिविधुतनिबिडध्वान्तनिचये हृदि ध्यातौ भक्तैर्हृदयचरणौ द्रक्ष्यसि हरेः ॥ १५९ ॥ ध्वजेति । स्पष्टम् ॥ समग्रतदीयाङ्गवर्णने खस्यासामर्थ्यमाह- यदन्वषे शेषा प्रभवति मनीषा न यमिना- मुपश्लोके यस्य श्रुतिरपि च मूकेव भवति । तदीयान्यनानि स्फुटमिह मनोज्ञानि सकला- न्यहं वक्तुं शक्ता कथमिव भवेयं जडमतिः ॥ १६० ॥ यदन्वेष इति । स्पष्टम् ॥ अथ खसंदेशकथनप्रकारमाह- निपत्य त्वं श्रीमच्चरणकमलाधःसुभगह- न्मदीयं संदेशं कथय कथयाम्यद्य सकलम् । न चानन्दाम्भोधौ हरिचरणवीक्षामृतमये निममं भूत्वा मे कथितमखिलं विस्मर मनः ॥ १६१ ॥ निपत्येति । स्पष्टम् ॥ १६ - १२२ काव्यमाला। अयेऽहं दुःखार्ता शरणमुपयातास्मि भवतः प्रणम्य त्वां याचे हृदय करणीयं समुचितम् । अवश्चक्षुर्घाणप्रभृतिकरणानां परवशं न भूया नो चेद्धा ध्रुवमिह हताहं द्रुपदजा ॥ १६२ ॥ अये इति । श्रवः कर्णः । करणानामिन्द्रियाणाम् ॥ गृहीत्वा प्रेमोपायनमथ विनीतेन भवता समाराध्यः खामी चत गरुडगामी मम विभुः । दयासिन्धुर्दीनोद्धरणधृतबुद्धिर्मदुदितं विशेषादेवासौ हृदि करुणया धास्यति हरिः ॥ १६३ ॥ गृहीत्वेति । प्रेमरूपमुपायनम् ॥ इति स्वान्तं वाक्यैनिजमभिमुखीकृत्य सरल- खभावा नेत्राम्भःसुतिसततधारार्द्रसुतनुः । तदीयध्यानोत्थप्रमदजनितोद्दामपुलका जगाद श्रीकान्तं प्रति परमदुःखं द्रुपदजा ॥ १६४ ॥ इतीति । स्पष्टम् ॥ अथ खीयमनन्यनिवार्यमसाधारण दुःख निवेदयन्ती भगवतः खरक्षणत्वरायै बहुधा संवोधयन्ती प्रार्थयते- दयासिन्धो बन्धो निखिलजगतो यादवपते जगन्नाथ स्वामिन्त्रजजनविपन्नाशनपटो। बकीघातिन्वत्सासुरहरतृणावर्तशमन प्रलम्बारिष्टन द्विपदलन केशिप्रमथन ॥ १६५ ॥ दयासिन्धो इति । स्पष्टम् ॥ सुराधीशाखर्व प्रततमदगर्वप्रशमन प्रभो लक्ष्मीकान्त व्रजजनसुधांशो मुररिपो । बजाधीश श्रीशामृतमथन तायध्वज जग- प्रभो विष्णो निष्णुप्रियसख सखे गोकुलपते ॥ १६६ ॥ सराधीशेति । स्पष्टम् ॥
मनोदूतम् । १२३ मधुध्वंसिन्दैत्यान्तक नरहरे कैटभरिपो हयग्रीवश्रुत्युद्धरण सुरसंधैकशरण । हिरण्याक्षप्राणापहरणपटो शूकर धरा- धर स्वामिन्नागाधिपशयन कूर्माकृतिधर ॥ १६७ ॥ मधुध्वंसिनिति । स्पष्टम् ॥ कलिद्रोहिन्सत्यप्रिय नरकहृच्छाल्वशमन क्षितिग्राजन्यप्रबलभरहारिन्नरवर । त्रिलोकीसदलाच्युतसुभग गोपीरमण भो परानन्दाम्भोघे निखिलजगदात्मन्सुरपते ।। १६८ ॥ कलिद्रोहिन्निति । स्पष्टम् ॥ एव संबोधनैः खाभिमुखीकृत्य खदुःख निवेदयति- अगाधापहाधाकुलहृदमसाधारणकृता- पराधागान्धाराधिपसहितराधासुतवशाः । तुदन्ती में धाराधरतुलितकान्ते दय धरा धरानेराधार प्लवधरण राधारमण माम् ॥ १६९ ॥ अगाधेति । अगाधा महती या आपाधा तया आकुलहृदं मा असाधारणः कृतो. राधो यैः।हे धाराधरतुलितकान्ते दय प्लवस्य पोतस्य धरण मत्स्यावतारे तथा करणात् ॥ उदासीना दीना मृदुहसितहीना नतमुखी निलीना स्वेष्वङ्गेष्वहह सुखहीना यदुपते । निहीना कीनाशाधिकभयकरैरन्धतनयैः सभायामासीना द्रुपदतनया पीड्यत इह ॥ १७० ।। उदासीनेति । कीनाशो यमः ॥ पवीनामाघातैरशुभजविधीनामिव गणै- -Amरिति । पर १२४ काव्यमाला। अयि क्षुद्रा रुद्रानुचरहृदयद्रावणविधि- प्रगल्भा भद्राद्य प्रभुवर हरिद्राभवसन । सुभद्रावन्धो द्रागरिगणसमुद्राभिपतितां प्रवाधन्ते तन्द्रां परिहर महेन्द्रानुजविधौ ॥ १७२ ॥ अयीति । क्षुद्रा अधमाः। पुनः किंभूताः । रुद्रानुचरेति । एतेषामतिदारुण कर्म दृष्ट्या तेषामपि हृदय द्रवतीति भावः । भद्रैः कल्याणैराद्य पूर्ण । तन्द्रां आलस्यं परिहर॥ अगाधे दुःखाब्धौ बत निरवलम्बेऽस्मि पतिता भवाम्भोधेरुद्धारक कथमुदासोऽसि भगवन् । विलम्ब नाकार्षीरघहर गजाजामिलकृते मदुद्धारे शक्तः किमसि न विभो दुष्टदलन ॥ १७३ ॥ अगाध इति । स्पष्टम् ॥ दुष्टदलनत्वमाह चतुर्भिः- महामीनः सत्यव्रतमवति कूर्मोऽपि च भवा- न्वहत्यद्रिं पृष्ठे धरति धरणीं शूकरवपुः । नृसिंहः प्रहादासुरजनकहृद्दारयति भो बलैः प्राज्यं राज्यं कपटवटुरूपो हरति च ॥ १७४ ॥ महामीन इति । सत्यव्रतं राजानम् । अद्रिं मन्दराचलम् ।। सुदुर्दान्तं धर्माद्विमुखमखिलक्षोणितलगं निहन्ति क्षत्रं द्राक्शितपरशुमात्रोपकरणः । दशग्रीवं कुम्भश्रवणमपि सुग्रीवहनुम- नलाधीशामिप्रवरसुतयुक्तो विजयते ॥ १७५ ॥ सुदुर्दान्तमिति । कुम्भश्रवणः कुम्भकर्णः । ऋक्षाधीशो जाम्बवान् । अग्निप्रवरसुतो नीलनामा वानरः । विजयते । 'विपराभ्यां जेः' इत्यात्मनेपदम् ।। स एव त्वं संप्रत्यपि हलधरभ्रातृसहितो वचोमार्गातीतान्यतिशयितकर्माणि भगवन् । बकीघातादीनि स्मृतिमुपगतान्यप्यघहरा- न्यहो लोके विख्यापयसि कमलावल्लभ विभो ॥ १७६ ॥ स एवेति । संप्रत्यस्मिनवतारे ।।
मनोदूतम् । १२५ निजं पूर्णानन्दानुभवमपि संत्यज्य भगव- नितीत्थं सद्भक्तावनकरणदीक्षापरवशः । विधत्से रूपाणीत्यमरवर संचिन्त्य मनसा दयालो त्वां हित्वा कतममुपयामीह शरणम् ।। १७७ ।। निजामिति । खानन्दानुभवादपि ते परोपकार एव मुख्य इति भावः ॥ अये सर्वज्ञस्त्वं व्यसनमिदमल्पेतरमहो विदित्वापि खामिन्मयि कथमुदासोऽसि भगवन् । भृशार्ताह रोदिम्यतिशयितदुःखाब्धिपतिता- विता श्रीमन्नान्यस्त्वमिह मृदुभावं भज मयि ॥ १७८ ॥ अये इति । अविता रक्षकः ॥ इतीदं संदेशं सकलमवधार्य प्रचलितुं समुद्युक्तं यावद्रुपदतनयाचित्तमभवत् । तदैवान्तर्यामी निखिलजगतामातिहरणः समुत्तस्थौ हित्वा शयनतलगां भीष्मकसुताम् ॥ १७९ ॥ इतीति । स्पष्टम् ।। अये नाथ स्वान्तं किमिति तव चिन्ताकुलमिति प्रवृत्तिं पृष्टोऽसौ सुमशरजनन्या सचकितम् । स्रवन्नेत्राम्भोभिः स्खलितवचसाङ्गेन पुलका- चितेनासौ कृष्णा व्यसनमतिकष्टं समवदत् ॥ १८० ॥ अये इति । सुमशरजनन्या रुक्मिण्या ॥ अयि प्रद्युमाम्ब द्रुपदतनया कर्णशकुनि- प्रधानेन प्रज्ञानयनतनयेनाथ सदसि । समानीता भीता दशवदननीता परक्शा यथा सीता तद्वत्परिभवभुवं साद्य गमिता ॥ १८१ ।। अयोति । प्रद्युम्नाम्वेति । 'अम्वार्थनद्योः-' इति ह्रख । तथा न प्रद्युमे त्वयि च मम वैदर्भि न तथा न देवक्यां प्रेमा भवति वसुदेवेऽपि न तथा ।
१२६ काव्यमाला ॥ न भामायां नो वाग्रज इह न चात्मन्यपि यथा ह्यनाथायां तस्यां द्रुपदतनयायां सुदति मे ॥ १८२ ॥ तथा नेति । भामायां सत्यभामायाम् । अग्रजे बलदेवे । आत्मनि खदेहे ॥ न मत्तोऽन्यस्तस्याः कचिदपि कदाचित्प्रियतमः सुतो भ्राता तातः पतिरपि महत्वास्पदमिह । अतस्ताक्ष्य स्मृत्वा झटिति विपदन्ताय सुदति प्रयास्ये तत्राहं न हि समुचितं कालहरणम् ॥ १८३ ॥ न मत्त इति । ममत्वास्पद प्रेमास्पदम् । झटिति शीघ्रम्। 'बाग्झटित्यासाहाय- इत्यमरः । कालहरणं विलम्बः ॥ इतीदं तामुक्त्वा मितवचनमत्यन्ततरलः स्मृतायातं सद्यो गरुडमधिरुह्याथ समगात् । स तावदुष्टात्माग्रजवचनवश्यो द्रुपदजा- म्बराकर्षे कर्तुं सविधमुपयातोऽभवदथ ॥ १८४ ॥ इतीति । अम्बराकर्षे वस्त्राकर्षम् । तरलस्त्वरावान् । तदालोक्य क्रोधानलकलितमूर्तिः प्रभुरसा- वदृश्यो व्योमस्थः कलितकुतुकः कालकलनः । मदं दूरीकर्तुं सुबलतनयान्धात्मजरवि- प्रसूतानां कंचिद्विधिमतुलमन्यं रचितवान् ॥ १८५ ॥ तदेति । कालं कलयतीति कलनः । अधुना न मारणीया एते अग्रे सर्वराज्ञां वधस्य कर्तव्यत्वात् ॥ प्रकारान्तरमेवाह त्रिभिः- स कर्तुं भक्ताया द्रुपदतनयायाः प्रियमसा- वकर्तुं गान्धारीसुतहृदयदुर्वाञ्छितमहो । तुरीवेमाभावे पटशतविधानेऽपि च तथा- न्यथा कर्तुं शक्तः कुरुसदसि दृष्टो गगनगैः ॥ १८६ ॥ स इति । अन्यथा कर्तुमिति कारण विनापि कार्यमुत्पादयितुमित्यर्थः । कर्तुमकर्तुम- न्यथा कर्तुं समर्थ इति त्रितय तदानीमेव संपादितम् ॥ सितैः पीतैः श्यामैहरितवसनैः स्वर्णरचना- विचित्रैः सच्चित्रोल्लिखनपरमाश्चर्यजनकैः । - मनोदूतम् । १२७ दुकूलैः कौसुम्भैरतिललितमाञ्जिष्ठसलिला- रुणैः सूक्ष्मैलैिरपि वसनकृत्कौशलयुतैः ॥ १८७ ।। सितैरिति । विनित्रैराश्चर्यजनकैः ।। पलाशामैर्नानाविधकिसलयाकारविजय- प्रगल्भैः सत्सूचीरचितखगपुष्पादिरचनैः । समाच्छन्नानन्तैरपि विविधवासोविरचिता तदा पाञ्चालीव ध्रुवमजनि पाञ्चालतनया ॥ १८८ ॥ पलाशाभैरिति । हरिद्वऎरित्यर्थः । 'पालाशो हरितो हरित्' इत्यमरः । किसलया. नां नवपल्लवानां य आकारस्तज्जयप्रगल्भैः। सन्ति समीचीनानि यानि सूचीरचितानि खगाना शुकमयूरादीनां पुष्पाणां च विविधानां रचनानि 'कसीदा' इति भाषायां प्रसिद्धानि तानि येषु तैर्वसनैराच्छन्ना विविधवासोभिर्विरचिता पाञ्चाली कृत्रिमपुत्रिकेव । 'पाश्चालिका पुत्रिका स्यात्' इत्यमरः । पाञ्चालो द्रुपदस्तस्य तनया द्रौपदी ।। अथ तदानी दुःशासनावस्थामाह- अथाकर्षन्नस्या वसनमघिसंसद्धृदि वह- नभिप्रायं दुष्टं शकुनिसहजादित्यजवशः । सभास्थैः साश्चर्यैः स्तिमितनयनैः पाण्डुतनयै- नॅपैरन्यैदृष्टः शिथिलितभुजो नान्तमगमत् ॥ १८९ ॥ अथाकर्षन्निति । संसदीत्यधिसंसत् । सहजो दुर्योधनः । अन्त वस्त्राणां समाप्तिम् ।। भ्रमन्नेत्रस्तन्द्राकुलितविकलाङ्गोऽतिविवशः समुद्भूतखेदोऽनधिगतनिजाभीप्सितलवः । सदा मानी दुःशासन इति स दुर्योधनहिता- भिलाषी पापात्मा न्यपतदधमस्तत्र सदसि ॥ १९० ॥ भ्रमन्नेत्र इति । तन्द्रा आलस्य तया आकुलितानि विकलानि विह्वलान्यङ्गानि यस्य सः ॥ पाण्डवैस्तु तदानीं तत्प्रभावो ज्ञात इत्याह- विना दीनोद्धार भवजलधितारं व्रजवधू- हृदो हारं रूपद्रविणजितमारं नरवरम् । - १२८ काव्यमाला । - कृपापारावारं क इह दयितां रक्षितुमलं पृथापुत्रैरेवं मनसि नियतं तर्कितमभूत् ॥ १९१ ॥ विनेति । मारः कामः । 'मदनो मन्मथो मार.' इत्यमरः । तर्कित विचारितम् ।। प्रस्तुतां कथामुपसंहरन्सर्वेषां स एव शरण्य इत्याह- इति स्वीयान्भक्तानवति बहुधाकारणसुहृ- प्रदेशोऽयं कश्चित्कथित इह दृष्टान्तविधये । रजःपुञ्जानुयों दिवि च गणयेद्योऽपि भगणं न शक्तः सोऽप्यस्याखिलगुणगणान्संकलयितुम् ॥ १९२ ॥ इतीति । प्रदेशो दिक्प्रदर्शनम् । संकलयितुं वक्तुम् ॥ त विहाय तव कुत्रापि स्थैर्य न भविष्यतीति चित्त प्रत्याह- कलाः सर्वा ज्ञात्वा भ्रमधनकृते चित्तजगति क्षितीशानाराध्य द्रविणनिचयानर्जय बहून् । अनेकैः शास्त्रोत्थैविमलय यशोमिर्जगदिदं हरौ हित्वा प्रेम क्वचिदपि गतिर्नास्ति भवतः ॥ १९३ ॥ कला इति । स्पष्टम् ॥ तद्जन विना सर्व व्यर्थमित्याह- अविद्येयं विद्या भवति भगवद्भक्तिरहिता न चेद्विष्णोः प्रेमप्रसृमरमहानन्दमहिता । न तावच्चाञ्चल्यं त्यजति च मनोवृत्तिविहगी न यावच्छ्रीकृष्णस्मरणरससिन्धौ निपतति ॥ १९४ ॥ अविद्येति । भगवद्भक्तिरहिता विद्याप्यकिंचित्करत्वादविद्यैव । 'सा विद्या तन्मति- येया' इत्युक्तत्वात् ॥ न केवलं कथामात्रमिदम् । उपदेशोऽप्यय सर्वपामित्याह- इति सारं सारं तव गुणगणान्यादवपते मनोदूतं योऽन्यस्त्वयि निजकृते प्रेपयति चेत् । न मुञ्चस्वेनं तत्प्रणयरसनाशृङ्खलितहृ- द्विभो भक्ताधीनः श्रुतिशिखरमृग्योऽपि भगवन् ॥ १९५ ।। इतीति । स्पष्टम् ॥
मनोदूतम् । १२९ त्वद्भजन विना कथ मे संसारतरण भविष्यतीति शोचनाह- अये संसाराब्धौ महति पतितोऽघौघनिचितः कलनापत्यखप्रणयविवशः सत्यरहितः । सदा लोभक्रोधस्मरपरवशो भक्तिरहितः प्रभो संसाराब्धि कथमिव तरिष्यामि भगवन् ॥ १९६ ॥ अये इति । अघौघेति । 'कलुषं वृजिनैनौघम्' इत्यमरः ।। निःसाधनस्य मे करुणाकूपारेण भवतैवोद्धारः कर्तव्य इत्याह- मदुद्धारे हेतून्यदि मृगयसे हन्त कठिनो विधिः पापात्माहं विषयविवशो भक्तिरहितः। दयालुश्चेत्सत्यं यदि भवसि निःसाधनमपि प्रभो दीनं मामुद्धर करुणया दुःखजलधेः ॥ १९७ ॥ भदुद्धारे इति । विधिः प्रकारः कठिनः । साधनहीनत्वान्ममेत्यर्थः ॥ साप्रतं बच्चरितामृतश्रवणेनैव संसारतरणम्, नान्योपाय इत्साह- तिरोधाय स्वीयं त्रिभुवनमनोहारि ललितं खरूपं यद्धयानाद्भवति कृतकृत्यो जन इह । कथं मुच्येतासौ पुनरिति विचिन्त्य खचरिता- मृताब्धि यस्तेने स वसतु मदीये हृदि हरिः ॥ १९८ ॥ तिरोधायेति । स्पष्टम् ॥ स कोऽपि श्रीगोपीजनहृदयहारी प्रतिदिनं सदा ध्येयो नान्यः प्लव इह भवाम्भोधितरणे । यदीयं नामेदं जगदघभिदादीक्षितमहो स्मरन्मक्तः प्रेमामृतरसनिमग्नो विजयते ॥ १९९ ॥ स कोऽपीति । स्पष्टम् ॥ अत्र ग्रन्थे गुणालंकाररसाद्यभावेऽपि भक्तानां रुचिर्भगवद्गुणवर्णनासत्तानां सहृदयानां भविष्यत्येवेत्साह- न संदर्भ प्रौढिर्न च गुणसमूहो न कविता परीपाकः कश्चित्पदसुघटनाप्यत्र न तथा । . १७ काव्यमाला। तथापि श्रीकान्तप्रगुणकथनेनात्र सुधियां भवेच्चित्तासक्तिर्यदि फलवती स्यात्कृतिरियम् ॥ २० ॥ न संदर्भ इति । स्पष्टम् ॥ भगवत्परायणैस्तचरितामृतश्रवणलुब्धैरिदमवश्यमादरणीयमेवेति प्रार्थयते- : यदि श्रीमन्नन्दात्मजचरणराजीवमधुनः समास्वादासको भवति भवतां चित्तमधुपः । कथायां वा तुच्छीकृतसुरसुधायां मधुरिपो- मनोदूतं काव्यं शृणुत सरसं भक्तिरसिकाः ॥ २०१॥ यदीति । स्पष्टम् ॥ भनयन्तरेण काव्योत्पत्तिमाह- 'स्थिताद्वृन्दारण्ये तरणितनयातीरलहरी- परीरम्भादम्मापृषतयुजि वंशीवटतले । सकान्ताच्छ्रीकान्तादधिगतवती संगमनघा मतिमै प्रासूत ध्रुवमिह मनोदूततनयम् ॥ २०२ ॥ स्थितादिति । स्पष्टम् ॥ वेदेन्दुवसुशीतांशु(१८१४)मितेऽन्दे मार्गशीर्षके । सिताष्टम्यामिद काव्यमर्पितं हरिपादयोः ॥ नराणां धौरेयः सकलविदुषां शेखरमणि- वंदान्यानामग्रेसर इह महाभाग्यसुभगः। कलानां सर्वासां सदनमतिसौजन्यललितो गुणानामागारो जयति हरिदत्तः प्रभुरसौ ॥ तदीयाया निष्कारणशुभदयायाः परिणम- त्प्रकृष्टोदाया जगति विदितः पात्रमिह यः । ततो योगक्षेमावधिगतवतस्तस्य च कवेः कृतिर्विद्वद्वन्द्यान्सुखयतु दयालून्मयि जडे । इति श्रीमत्तैलङ्गान्वयश्रीभूधरभट्टात्मजश्रीरामकृष्णतनयपञ्चनदान्वयव्रजनाथ- विरचितं मनोदूताभिधं सहृदयहृदयाहादनापरनामधेयं काव्यं खकृत- मझुभापिण्या टीकया समेतं समाप्तम् । ।
वैराग्यशतकम् । १३१ गोस्वामिजनार्दनभट्टपणीतं वैराग्यशतकम् । कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस- गोगोपालकबालकैः प्रतिदिशं सानन्दमाविष्ठितम् । वंशीनादवशीकृतव्रजवधूखान्तं सदाहादकं सद्भत्या समुपास्महे वयमघध्वंसकधीरं महः ॥ १ ॥ मोहं मुञ्च लुनीहि लोभलतिकां कामं च वामं त्यज प्रेमाबन्धमपाकुरु प्रविततं प्रौढासु नारीषु च । संसारार्णवमग्नभक्तनिवहोद्धारक्षम सादरं देवं नूतनवारिवाहरुचिरं चेतः समाराधय ॥ २ ॥ एताः कानपि मण्डयन्ति पुरुषान्नानाविधैर्भूषणै- रेताः कानपि वञ्चयन्ति च जनान्मिथ्यावचोभिः पुनः । एता वै रमयन्ति कानपि वरान्मावैर्मनोजोत्कटैः खान्तभ्रान्त करोषि किं बत मुधा नारीषु हादै हि तत् ।। ३ ।। पुत्रो मित्रं कलत्रं वसु च वसुमती वेश्म वासश्च वीति- नांगो रत्नं रथौधः परिजननिवहो नैव यास्यत्यनु त्वाम् । तस्मादस्माकमेतन्मतममृतसमं सावधानः शृणु त्वं सेवामेकां विधेहि प्रणतजनभयध्वंसधीरां मुरारेः ॥ ४ ॥ वित्ताशया नृपतयः परिषेवितास्ते वित्ताशयैव खलु पर्यटिता घरेयम् । लंब्धं मयाल्पमपि नैव धनं क्वचिद्वै तृष्णेऽधुनापि कुटिले किल मां विमुञ्च ॥ ५ ॥ धरणी सकलावगाहिता धनलुब्धेन मयातिदुर्गमा । न धनं खलु लब्धमल्पकं ननु तृष्णा न तथापि गच्छति ॥६॥ पुत्रे सर्वगुणान्विते रतिकलासौन्दर्यशीलादिकै- युक्तायां तु गुणैर्हि योषिति तथा चित्ते च नानाविधे ।
१३२
काव्यमाला॥
खान्तं नुः खलु सस्पृहं भवति वै श्रीकृष्णपत्पङ्कजे
चेदेवं तु भवेत्क्षणार्धमपि तत्स्यान्मुक्तिरेव स्फुटम् ॥ ७ ॥
गतं चरणयोर्वलं भुजवलं तथा हरवलं
वलं श्रवणयोस्तथा दशनजं बलं वा पुनः।
परं प्रकृतिदुःखदा तदपि जीविताशा भृशं
नरस्य तु दिने दिने बलवती वलाज्जायते ॥ ८॥
पुत्रः पाति न पाति न प्रियतमा शौर्यं न पात्युद्भटं
बुद्धिः पाति न पाति नैव कविता नो पाति विद्याबलम् ।
यातं वै परलोकमार्गममितं दीनं जनं केवलो
धर्मः पाति ततस्तु धर्मकरणान्नान्यन्महीमण्डले ॥९॥
तटे भागीरथ्याः कुशरचितसत्पीठसुभगे
स्थितः सातः शुद्धो धृतविमलवस्त्रोऽमलमतिः ।
नरो नाम नाम सरति नवशीतांशुशकलो-
ल्लसन्मौलेर्वामां स तु भवति धन्यः क्षितितले ॥ १० ॥
यः सर्वत्र दयान्वितो भवति यः सर्वत्र वै सत्यवा-
ग्यः सर्वत्र कृतक्षमो भवति यः सर्वत्र स स्नेहदृक् ।
यः सर्वत्र सुरासुरार्चितपदद्वन्द्वाम्बुजामम्बिका
नित्यं संस्मरति क्षितौ स विबुधैर्योगीश्वरः कथ्यते ॥११॥
वाल्यं गतं सकलम कलीलयैव
तारुण्यमप्यहह सत्तरुणीविलासैः।
वृद्धत्वमस्ति नर संप्रति सार्थकं त-
द्गगातरङ्गसवनैः सफलं विधेहि ॥ १२ ॥
किं दानेन मुहुः कृतेन कृतया किं वा हरेः पूजया
किं वा धूर्ततया कृतैरनियमनित्योपवासवतैः ।
किं यज्ञैर्वहुदक्षिणैरपि कृतैः श्रद्धाविहीनः पुनः
खान्तं चेच्छु(४)विनास्ति पूरुष तदा किं तैर्वृथाडम्बरैः ॥१३॥
वैराग्यशतकम्।
१३३
कृतोर्ध्वपुण्ड्रो धृतशङ्खचक्रो वृन्दाक्षकैः कल्पितगात्रभूषः ।
करोति रामेति मुहुः प्रजल्पनरोऽतिधन्यः सफलं खजन्म ॥१४॥
सामर्थ्य न तनौ मनागपि चलापाशाङ्गनासंगम
कर्तुं हन्त मयास्ति नेत्रपटुता सर्वापि नाशं गता।
सर्वे प्राणसमागताश्च सुहृदो दुर्दैवदग्धं मनो
नैवाद्यापि तथापि वाञ्छति जडं देहक्षयं मामकम् ॥ १५॥
सन्ति क्षीणधनाः क्षितौ क्षितिभुजो दानाक्षमाः स्वामिनो
दुप्पापो हि वसुंधरातलगतः कष्टैर्महद्भिानधिः ।
द्रव्याधीनमहो सुखं न तु धनं कुत्रापि हा लभ्यते
तस्मान्मानस सांप्रतं समुचितां भक्तिं मुरारेः कुरु ॥१६॥
तृणानि पशवः समे खलु वने सुखं भुलते
पिबन्ति च बिलेशयाः किल सदा गतिं सादरम् ।
न जीवति नरो वरो नियतमन्नमेकं विना
तदन्नमिह लभ्यते जगति कष्टपुजैः परैः ॥ १७ ॥
याभ्यां नो हरिपूजनं खलु कृतं ताभ्यां कराभ्यां नु किं
नो वै येन विधीयते हरिनतिः किं तेन मूर्धा किल ।
किं वा तेन मुखेन येन सुखदा विष्णोः कथा नोदिता
मन्ये धन्यतमं तदङ्गमिह यत्कृष्णाहणाहै भुवि ॥ १८ ॥
यः स्त्रीणां न करोति भोगमथवा नो ब्रह्मचर्य दृढं
नो मुझे विविधप्रकारशमनं नो वा फलं भूरुहाम् ।
नो वस्त्रं हि बिभर्ति नेत्रसुखदं नैणं तु चौथवा
तं दृष्ट्वा खलु भोगयोगविकलं खान्तं भृशं दूयते ॥ १९ ॥
जिता युद्धैर्युद्धोद्धरतरविपक्षप्रतिभटा
जिता लोके लोकाः शुभतरगुणौधैश्च गुणिनः ।
कलावन्तः सर्वेऽप्यभिनवकलाभिश्च विजिता
विजेतुं वै मृत्यु मनुज तव यत्नं न कलये ॥ २० ॥
१३४ काव्यमाला। -- आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्य भज लोममोहविषये निद्रां समाधौ हरेः । जाड्यं गच्छ परापवादकथने द्रोह,विधेहि सरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस्तव ॥ २१ ॥ परिणतफलमूलैः शुष्कशाकैश्च नालैः कथमपि च कदन्नैः पूर्णकुक्षेः सुजीर्णैः । धनवसनविहीनस्यास्य लोकस्य नूनं तदपि न विषयेच्छा मानसाज्जातु याति ॥ २२ ॥ ये दुर्जनाः सन्ति हि ते धनाढ्या ये सजनास्ते तु धनेन हीनाः । दृष्ट्वा कलेः कौतुकमेतदुच्चैः स्वान्तं नितान्तं मम तापमेति ॥२३॥ त्वगस्विरुधिरामिषैः प्रचुरगूथमूत्रादिकैः कृतां जलजजन्मना सकलदोषसीमां वधूम् । अनङ्गशरजर्जरीकृतकलेवरः कातरो नरो जडमतिर्मुहुः प्रियतमेति तां भाषते ॥ २४ ॥ केचिद्रागेषु मनास्तरुणहरिणदृग्वृन्दकेलीषु केचि- केचिद्विद्याविनोदे सुललितकवितापद्धतौ चापि केचित्। केचिदोशखवाजिब्रजगजवसनवर्णरत्नादिकेषु द्विवाः कृष्णाभि-पद्मप्रचुरमधुझरीपानभाजो भवन्ति ॥२५॥ किं वृक्षा विफलाः समं समभवन्कि कन्दहीना धरा निर्मूलानि वनानि तानि किमहो जातानि सर्वाण्यपि । लभ्यन्ते किमु न त्वचः क्षितिरुहा लोको न वस्त्रप्रियो यल्लक्ष्मीमदिरोत्कटान्नरपतीनश्रान्तमासेवते ॥ २६ ॥ विश्वामित्रादयस्ते क नु खलु विगता योगशास्त्रार्थविज्ञा युद्धे दक्षा बलिष्ठाः क नु खलु पटवः कर्णमीमार्जुनाद्याः । ते ते ह्यन्ये महान्तः कचन रसकलाः सांप्रतं सन्ति यस्मा- देहं चैवानपायं निजमवनितले मन्यसे मूढधीस्त्वम् ॥ २७ ।।
वैराग्यशतकम् । १३५ . मानापमानसुखदुःखवियोगयोग- संपत्तिनैख्य(8)युगलेषु समानबुद्धिः । मोहाम्बुपूरकलुषं च स एव नूनं संसारवारिनिधिपारमुदारमेति ॥ २८ ॥ पक्कानि सन्ति विपिनेषु फलानि तानि शीतानि निर्झरनदादिषु पुष्कराणि । ज्ञेयो भृशं जडतरः स तु यः प्रभूणां सेवां करोति हि धनार्थमनेककष्टैः ॥ २९ ॥ न धनं न सुतो न सुन्दरी न गृहं नोपवनं न वान्धवाः । न ममास्ति हि किंचिदुच्चकैरिति यो वेत्ति न मोहमदति ॥३०॥ रूपं सर्वमपाकरोत्यपनयत्युचैर्बलं देहर्ज ज्योतिर्नाशयति स्फुटं नयनयोः क्षामां करोति क्षुधाम् । अङ्गानामपि तानवन्ति तनुते व्याहन्ति शौर्यादिकं लोकाय प्रददाति हन्त नियतं किं किं न कष्टं जरा ॥ ३१ ॥ भवति कलहो येनान्योन्यं द्वयोरनुरक्तयोः प्रसरति पुनर्येनाकीर्तिमहीवलयेऽखिले । भुवनविदितं पुण्यं स्तोकं नयेन हि जायते मनुज नियतं तं वै लोमं परित्यज दूरतः ॥ ३२ ॥ क्रोधेनैव कृताजयः खलु मृतास्ते कौरवाः पाण्डवाः क्रोधेनैव सती जुहाव मखजे कुण्डे खकीयां तनुम् । 'क्रोधेनैव समं गतं यदुकुलं मैरेयपानाकुलं क्रोधो बोधरिपुर्विधातुमुचितस्तस्मान्न विज्ञैनरैः ॥ ३३ ॥ सन्ति त्वद्धामि ते ते जवजितपवनाश्चारुवर्णास्तुरंगा- स्ते ते दानाम्वुधारामलिनतरकराः प्रोन्नता दन्तिनश्च । १. 'मैरेय धातकीपुष्पगुडधानाम्बुसहितम्' इति माधवा.. २. 'भैक्षचिन्ता कुरु भैक्षदा-' इति स्यात्.
१३६ काव्यमाला। रत्नवर्णादिकानां नरवरनिवहा भान्ति ते ते च नूनं मद्देहे निस्पृहत्वं भवति हि सकलं येन तत्पांशुकल्पम् ॥ ३४॥ किं कुर्वन्ति फलाशनं न विहगाः किं नो तवो (?) भुञ्जते दध्यादीन्यनिलं पिबन्ति किमु नो सर्प विषेणोद्धुराः। स्यादेवं यदि वै व्रती व्रतधरास्ते स्युस्तदा निश्चितं तस्माद्यः सुकृती स याति सुखदं लोकं हरेख़नवान् ॥ ३५ ॥ मा भक्ष्यचिन्तां कुरु भक्ष्यदाता स एव येनास्ति कृतं हि जन्म । तं देवमाराधय पूरुष त्वं न स्याद्यदाराधनतस्तु जन्म ॥ ३६ ॥ गमयसि समयं किमेवमेतैर्बत विषयैः क्षणभङ्गुरैः सनस्तैः । अनुपमसुखदं तमेव देवं हृदय भजामि नवेन्दुखण्डचूडम् ॥ ३७॥ पिबति सलिलं गाङ्गं भुले सुधाकरनिर्मलं विसमथ तनुं वस्ते नव्यैर्धराभववल्कलैः । भ्रमति हरिणैः सार्धं खैरं घने विपिने हि यः स तु नरवरो देहान्ते तैः सुरैः सह मोदते ॥ ३८ ॥ न दातुं यः शकः कलुषहरदानानि नियतं न वा कर्तुं नाकप्रदमखविधानं बहुविधम् । स हीनः सर्वैस्तैरहह खलु सांसारिकसुखै- नरो दिष्टं व्यर्थ गमयति विनैकां हरिनुतिम् ॥३९॥ पुत्रमित्रवसुवन्धुपुरंधीग्रामधामरहिताः किल लोकाः। हन्त तेऽपि न भवन्ति विरक्तास्तेन मे भवति चेतसि चित्रम् ॥४०॥ चपलाचपलं हि जीवितं विषयाः सन्ति समे विषोत्कटाः। जडबुद्धिरसौ तथाप्यहो न जनो मुञ्चति तान्मनाक्वचित् ॥४१॥ हन्तुं केचन सन्ति मत्तकरिणां वृन्दं समर्थाः क्षितौ सिंह केचन कुम्भिकुम्भनिवह""ध्वंसधीरं पुनः। शूराः केचन वज्रसारकठिनैः शस्त्रैर्युतं वैरिणं कन्दर्पोद्भटदर्पदारणविधौ वीरा नरा दुर्लभाः ॥ ४२ ।।
वैराग्यशतकम् । १३७ धत्से यदचिराम्बरीणि कुरुषे यद्धोगमेणीशां यद्दानानि ददासि यासि तुरगैर्मत्तगजेन्द्रश्च यत् । तत्ते प्राक्तनपुण्यकर्मफलितं भूयस्तदेवाचर खान्तं स्यात्पुनरन्यजन्मनि सुखं येनैव नानाविधम् ॥ ४३ शेते संप्रति भोजनं प्रकुरुते नारीजने तिष्ठति क्षोणीशः समयोऽस्ति नैव नृपतिं त्वं रे कथं द्रक्ष्यसि । यत्रैवं कथयन्ति दुष्टमतयो दौवारिकास्तत्र य- द्वच्छन्त्येव जडा जनाश्च नियतं तल्लोभविस्फूर्जितम् ॥ ४४ ।। भूपास्ते रणकर्कशा युवतयः सौन्दर्यसीमाश्च ताः सद्विद्याखवशीकृताखिलबुधखान्ताश्च ते पण्डिताः। अन्ये चैव नटा विटाश्च कवयः सद्गायना नर्तका- स्ते याता यदपाङ्गपातचकिताः कालाय तस्मै नमः ॥ ४५ ॥ इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः । इत्थं बोधकरैरसत्यवचनैः खैरं स्तुतः खं हरिं वेत्ति प्रस्फुटविक्रम स महिमा ज्ञेयो हरेर्मायिनः ॥ ४६॥ सद्विद्या सुकृतार्जितं वसुगणनामाभिरामः सुतो भार्या यौवनरूपशीलरुचिरा सेवापराः सेवकाः । मित्रं निष्कपटं नृपो गुणगणग्राही च दाता पुन- नैतत्सर्वमवाप्यते हि मनुजैविष्णोः प्रसादं विना ॥ ४७ ॥ अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥४८॥ भोजनेन च धनेन सुदीर्घ जीवनेन तरुणीनिवहेन । जायते न मनसः परिपूर्तिस्तोष एव खलु तत्र विधेयः ॥ ४९ ।। यस्य भालफलके यदलेखि ब्रह्मणा खलु सुखासुखयोश्च । तस्य तद्भवति तत्र न युक्तौ कर्तुमेव नरहर्षविषादौ ॥ ५०
१३८
काव्यमाला ।
नैवाङ्गानाधरदलामृतमम्बुनो वा
पीतं मया सुखकरं सुरनिम्नगायाः ।
संदेहसिन्धुलहरीतरलेन नूनं
कालः कलो हि सकलोऽप्यतिवाहितोऽयम् ॥ ५१ ॥
ननु न निहताः कामक्रोधादयो न च शत्रवो
न खलु भवनं नो वारण्यं मया परिसेवितम् ।
न तु वनफलं नो वा भुक्तं मया विविधाशनं
नियतमखिलं जन्म स्वीयं कृतं हि निरर्थकम् ॥ ५२ ॥
पुण्यासक्ताः खयं ये सततमथ नरान्वीक्ष्य पुण्यैकनिष्ठा-
ञ्जायन्ते जातहर्षामृतरुचिरझरीक्लिन्नदेहाः समन्तात् ।
सेवां कुर्वन्ति ये वै सुमविशिखरिपोः सादरं सावधाना-
तैरेवेयं धरित्री किल विमलतरैर्धार्यते पापगुर्वी ॥ ५३ ॥
येऽरण्ये विजने वसन्ति सततं सस्यानि ये भुञ्जते
ये नित्यं भुवि शेरते तृणमयं चास्तीर्य रम्यासनम् ।
ये वै विभ्रति वल्कलानि वनितां पश्यन्ति ये जातु नो
तानप्येष तपोधनान्विकलयत्युच्चैः प्रसूनायुधः ॥ ५४ ॥
स्तुत्या न तोपो हृदि यस्य रोपो न निन्दया यस्य तथास्ति नूनम् ।
लामे च हर्षों नहि नास्त्यलाभे दुःखं स मुक्तो धरणौ हि वेद्यः ।।५५।
किं नम्यं चरणाम्बुजं स्मररिपोः श्रव्या च का तत्कथा
ज्ञेयं किं च विधानमेव सकलं तत्पूजनस्योच्चकैः ।
कः स्तुत्यश्च स एक एव सततं ग्राह्यं च किं कल्मष-
ध्वंसे श्रेष्ठतरं च नाम नियतं तस्यैव भूमण्डले ॥ ५६ ॥
खल्पो जीवितकाल एप रचितो धात्रा पुनर्नश्वरं
देहं हन्त कृतं च तत्र विविधा रोगाः पुनः कल्पिताः ।
एकस्यापि गुणस्य कोऽपि नियतं नो पारगो दृश्यते
तस्मात्सर्वमपास्य मानस भन श्रीकृष्णपत्पङ्कजम् ॥ ५७ ॥
वैराग्यशतकम् । १३९ दारिश्चं विबुधजनेषु वीक्ष्य लक्ष्मीमक्षीणामबुधगणेपु निन्दितेषु । दृष्ट्वैतत्कलियुगकौतुकं नितान्तं हा बाधा मम हृदि जायतेऽतिगुर्वी ॥५८॥ सन्ति क्षोणीतलेऽस्मिन्निजजठरदरीपूरणेऽतिप्रवीणाः कर्तुं स्वाभिष्टमेकं कृतविविधतरप्रोद्यमौघास्त्वनेके । ये वै कुर्वन्ति पूर्णी परजठरदरी ये पराभिटवार्ता ते तु त्रैलोक्यवन्द्या ध्रुवमवनितले दुर्लभाः सन्ति लोकाः॥५९॥ दैवाद्यथा यस्य तु मृत्युरस्ति तथैव नूनं म्रियते स कालः । हन्तुं न शक्यस्तु निजेच्छया वैमत्तेन सूक्ष्मो मशको गजेन ॥ ६० ।। पुप्पाशुगः कुसुमचापधरो विदेह- श्चन्द्रावलाजनवसन्तसहायमात्रः । भस्मीकृतोऽपि हरनेत्रहुताशनेन कामः कदर्थयति हन्त तथापि लोकम् ॥ ६१ ॥ पल्यको विगतः स संप्रति धरा प्राप्ता हि पल्यकता तन्नष्टं रुचिरोपधानमधुना जाता भुजा तत्पदे । तूली साप्यतुला किलाप विलयं दर्भावली तूलिका जाताग्रे बत किं करिष्यति विधिनहिं तु जाने ह तत् ॥६२॥ धत्ते मौनमनर्गलं किल पिता लुब्धो यदर्थ पुन- र्माता स्नेहभरं विमुञ्चति कलि भ्राता करोति स्फुटम् । सर्व बन्धुजना यदर्थमशुभं वाञ्छन्ति नानाविधं भ्राष्ट्रे गच्छतु वह्निमारकलिते दुःखालयं तद्वसु ॥ ६३ ॥ कुर्यामहं दृढतरं भुवनाधिपत्यं दद्यां च दानमखिलागतयाचकेभ्यः । हन्यां रिपूनिति नरास्ति तवाशयस्तु को वेद किं मनसि तिष्ठति विश्वभर्तुः ॥ ६४ ॥ स मित्रं स भ्राता स च विमलबन्धुः स च पिता स सूनुश्चैवास्ते स च विमलकीर्तिः परिवृढः । है १४० काव्यमाला। स एवासिन्काले सकलजनसर्वस्वमधिकं य एवेह प्राज्यं सततमथ दत्ते किल धनम् ॥ ६५ ॥ सन्त्येते मामकीनाः परिणतमतयः सेवकाः सावधाना ग्रामाश्चैतेऽतिरम्योपवनगृहसरःकूपवाप्यादियुक्ताः । अश्वाः शस्त्राणि नागास्तरुणमृगहशो वक्ति लोको यदेव ज्ञेया माया मुरारेरसुरविजयिनः सा मतिभ्रंशकर्ती ॥ ६६ ॥ किं तृप्तिन हि जायते बनफलैः किं वल्कलै वृतं देहं हन्त भवत्यथो न सलिलैस्तृड्याति किं नै रैः। किं निद्रा समुपैति न क्षितितले यस्मादबुद्धिर्नरः कर्तुं हन्त तपः करोति न मनो मनो भवाम्भोनिधौ ॥ ६७॥ विद्यानवद्या पठिता न चित्तं वित्तार्जने वापि मया न दत्तम् । धर्मः कृतो नैव समस्तु कालो हा लोभलग्नेन वृथैव नीतः ॥ ६८ ॥ यदन्या न ज्ञानादसि विषशरैर्हसि पुरुषा- न्यदन्येषामर्थे प्रचुरतरविघ्नान्प्रकुरुषे । अधर्मे यन्निष्ठा तव नर गरिष्ठास्ति सततं किमाकल्पं मूढ त्वमिह भुवने स्थास्यसि ततः ॥ ६९ ॥ प्राणायामपरायणो भवतु वा योगैकनिष्ठोऽथवा किं वा साधुसमाधिसाधनविधिप्रौढो भृशं पूरुषः । किं वा सिद्धरसाञ्जनाद्भुतमणिग्रामप्रवीणः परं मृत्युर्येन निवर्तते स भुवने नास्ति प्रकारः परः ॥ ७० ॥ येऽरण्ये निवसन्ति ये च सदने ये भुञ्जते वै फलं ये वान्नं सलिलं पिबन्ति सरजं ये ये च कौपं परम् । ये भूमौ खलु शेरते च रुचिरे पल्यङ्कमध्ये च ये ते सर्वे निधनं प्रयान्ति समये कस्मिन्विशेषोऽस्ति कः ॥७१॥ वाल्यं गतं सकलमर्भकलीलयैव तारुण्यमप्यथ गतं विविधैर्विलासैः। गङ्गातरङ्गकलनैरहमेतदुच्चै- वृद्धत्वमेव सकलं सफलं करिष्ये ॥ ७२ ।।
वैराग्यशतकम् ।
१४१
कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्धा भङ्गुरान्सर्वभोगान् ।
पारं गन्तुं विश्वसिन्धोविदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम् ॥७३॥
निगमागमधर्मशास्त्रमार्गाः सकलाः सन्ति परस्परं विरुद्धाः ।
अत एव मतेः क्वचिन्न दान्य भवति नृणामविवेकिनामिह ।। ७४ ॥
काश्यां तिष्ठ सखे सुपर्वनिवहैनित्यं नुतायां भज
श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिम् ।
गाङ्गे वारिणि पापहारिणि कुरु स्नानं स्मर श्रीपति
त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ॥ ७५ ॥
विरमत बुधवर्या संगमादगनानां
कुरुत कलुषवृन्दध्वंसनोग्रं हि धर्मम् ।
न खलु निरयमग्नानुद्धरिष्यत्यजत्रं
कुवलयदलनेत्रा कौतुकं हन्त युष्मान् ॥ ७६ ॥
पापिष्ठाः सन्ति धान्यद्रविणसुतसुतावन्धुवर्गादियुक्ता
दुःखैरुपैरनेकैर्विदलितहृदयाः सन्ति धन्याश्च सर्वे ।
दृष्दैतद्वैपरीत्यं कलुषसुकृतयोः शश्वदाश्चर्यभूतं
जानेऽहं वै निदानं कलियुगमपरं तत्र नो वेनि नूनम् ॥ ७७॥
लोभमाहविमोहमीनकठिनकोषस्फुरद्वाडव-
क्रूरानङ्गकुलीरमत्सरजलैः पूर्णः समन्तादृशम् ।
न ज्ञानाभिधमन्दरेण हृदयाम्भोधि मथ्यते
यावत्तावदियं न मुक्तिकमला केनाप्यहो लभ्यते ॥ ७८ ॥
दया दानं सत्यं परधनपरस्त्रीविमुखता
क्षमा श्रद्धा देवद्विजगुरुगणे भक्तिरतुला ।
अनौद्धत्यं तृष्णानियमनमनगा विकलता
गणोऽयं वै लोकं नयति हरलोकं गतभयम् ॥ ७९ ॥
पुत्रं मुञ्चति मुञ्चति प्रियतमां सद्भातरं मुञ्चति
खीयां मुञ्चति शुद्धवंशजनितां शुद्धां वधूटीमपि ।
सवै मुञ्चति चान्यदप्यथ निजां मूर्ति वलान्मुञ्चति
क्षुद्रो मुञ्चति जातु नैव नियतं लोमं तु लुब्धो जनः॥ ८० ॥
१४२
काव्यमाला ॥
ग्रामारामकलत्रपुत्रममता त्यक्ता च दूरीकृता-
स्ते मत्ताः करिणो विचित्रवपुषस्ते ते मया वाजिनः ।
जीर्णा याचितलब्धनीरसतरेणान्नेन संप्रत्यहं
प्राणांल्लक्ष्मि बिभर्मि दीर्घतपसे मां मुच्च मुञ्चाधुना ।। ८१॥
आरामः सदनैहयैर्गजवरैगौर्नः परिक्रीडनै-
वधैिर्योवनगर्वमञ्जुलतरैर्वृन्दैश्च वामझुवाम् ।
मुक्तिः स्याद्यदि तद्विहाय सकलं चैतत्प्रवीणा नराः
कर्तुं हन्त तपस्तु मुक्तिसुखदं करमादरण्यं गताः ॥ ८२ ।।
शिशिरकिरणो भानुर्वायुर्महीगिरयो नगाः
सलिलमनलो यच्चैवान्यच्चराचरमस्ति वै ।
तदखिलमिदं भस्मप्रायं भृशं प्रलयानले
भवति मनुज स्थास्यत्येतत्कथं तव वै वपुः ॥ ८३ ॥
निजमतिसमा विद्याधीता कृतं द्रविणार्जनं
प्रवलरिपवस्ते ते सर्वे जिता विविधोद्यमैः ।
तदपि च कृतं कर्तव्यं यद्बभूव धरातले
सरलमनसा संप्रत्येकां सरामि गिरीन्द्रनाम् ॥ ८४ ॥
भक्तिर्देवे सरारौ विजनघनवने चास्ति नित्यं निवासो
नाशं सर्वे गतास्ते मनसि मनसिजस्योत्कटा वै विकाराः ।
लब्धं पातुं पवित्र जलममरसरित्संभवं कन्दभक्ष्य
वैराग्यं जातमुच्चैर्मम जगति पुनर्नान्यदस्त्यर्थनीयम् ॥ ८५॥
पातालं यासि चित्तं भ्रमसि च गगनं तन्निरालम्बमेक
नानारण्यं च नित्यं व्रजसि विशसि रे गह्वरं भूधरस्य ।
व्यर्थ कालं त्वमेवं गमयसि सकलं निर्विवेकेन नूनं
मोक्षं मारुट फलं वै कलयसि न कथं तत्परब्रह्मदिव्यम् ॥८६॥
न धनं न सुतं न सुन्दरीं न च वाञ्छामि गृहादिकं सुखम् ।
नवनीरदनीलविग्रहे किल भक्तिं तु विहाय केशवे ॥ ८७ ॥
वैराग्यशतकम् । १४३ कृष्णं केचन न सरन्ति नितरां दारिद्यदुःखातुरा- स्तं यत्केचन न स्तुवन्ति विविधै रोगै शं व्याकुलाः। तं नो केचन लोभलीनमनसः सम्यग्मजन्ते ततो द्वित्रा एव तदशिपूजनरता मुक्ति लभन्ते जनाः ॥ ८८ ॥ क्वचित्कन्या जाता क्वचिदपि च पुत्रः समभव- स्वचिद्दिव्यं गानं क्वचिदपि विधानं मृतनृणाम् । क्वचिद्धास्यं रोदः क्वचिदपि भवत्यत्र भुवने भृशं मूढस्तत्त्वं तदपि न हि जानाति मनुजः ॥ ८९ ॥ अस्मिन्भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हि कारणं प्रयतता नैवाथ कश्चिद्गुणः । का कायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको वलिं मुक्ताहारपरायणाय शुचये नो हन्त हंसाय यत् ॥ ९०॥ लुब्धः कश्चित्तु विश्वं धनमयमखिलं मन्यते कश्चिदुप्रैः स्मारैः सर्वैर्विकारैविलुलितहृदयो वेत्ति नारीमयं च । त्यक्त्वाशेषप्रपञ्चः कलिकलुषभरत्रस्तचित्तोऽहमको मोक्षाकाली समग्रं किल भुवनतलं ब्रह्मरूपं हि जाने ॥ ९१ ॥ विरसं परिणाम एव लक्ष्म्यास्त्वमवाप्य क्षणभङ्गुरं सहायम् । कुरु मानव मा मुधा हि गर्व वद लक्ष्मीः किल कस्य चास्ति वश्या ॥९२॥ इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता । खलु भवति तदेव तस्य सर्व भुवनपतिस्तु यदीश्वरः करोति ॥ ९३ ।। निर्मूलं सकलं जगज्जडमते जानीहि कूलं कलं गङ्गाया भज वल्कलं क्षितिरुहो दिव्यं दुकूलं कुरु । मूलं कानननं च भुझ्व मधुरं संसारमूलं मुदा देवं नीरदनीलविग्रहधरं नित्यं समाराधय ॥ ९४ ॥ ब्रह्मा भेजे मदनविकलः कन्यकां तां निजां वै सीतां लङ्कामनयदतुलां रावणो रामजायाम् ।
१४४ काव्यमाला । चन्द्रो गत्वा वरगुरुव● हा कलकाङ्कितोऽभू- कः कः कामप्रसरविवशो नैव निन्दा प्रपेदे ॥ ९५ ॥ रम्यं हम्य च रम्यं सरसिजविपिनं तावदेवास्ति रम्यं वृन्दं स्त्रीणां च रम्यं हयगजशकटीचन्द्रचन्द्रादिकं च । उद्यानं चैव रम्यं विमलजलभृतं कूपवाप्यादिरम्यं यावच्चित्तेन वध्या ननु न निविशते हन्त वैराग्यवार्ता ॥ ९६ ॥ पापालाने निबद्धः कुमतिशतकृतैरन्दुकर्मेति मत्तो लोभव्यालोलभृङ्गभ्रमणपरिलसत्तुङ्गकुम्भस्थलश्च । कामाख्येनैव यन्ना सकुतुकमनिशं प्रेर्यमाणः पुरस्थं ज्ञानाश्वत्थं निहन्ति प्रसभमिह मनोवारणो ज्ञानदन्तः ॥ ९७ ॥ भिक्षान्नं वत भक्षणाय सदनं शून्यं निवासाय च प्राप्तं कापि सुजीर्णमेव वपुषो वस्त्रं पिधानाय च । पानायाम्बुकमण्डुलौ क्षितितलं स्वापाय यस्यास्ति वै तेनैवोत्कटदुःखजन्तुकलितस्तीर्णो भवाम्भोनिधिः ॥ ९८ ।। पृथ्वीव्योमजलानिलानलगणैः क्लुप्तेन धात्रा खयं त्वङ्मांसक्षतजास्थिवीर्यविकृतिप्रायेण निपिरम् । कायेन क्षणभङ्गुरेण यदि चेल्लभ्येत मोक्षस्तदा किं लब्धं न भवेजनैः कृततपः क्लेशैकलेशैः पुनः ॥ ९९ ।। यः कर्ता जगतोऽस्ति यं प्रणमति प्रायः समस्तं जग- येनैवाशु हता द्विषो बुधगणा यस्मै ददत्यर्हणाम् । यस्मासिद्धिरनुत्तमास्ति न भवत्येनश्च यस्य स्मृते- यस्मिन्सन्ति जगन्ति मेऽस्तु विपुला भक्तिस्तु तसिन्हरौ ॥ १० ॥ शृङ्गारशतके ममं समावृष्य निजं मनः । जनार्दनेन विप्रेण वैराग्यशतकं कृतम् ॥ १०१ ॥ इति श्रीगोखामिजगन्निवासात्मजगोखामिजनार्दनभट्टकृतं वैराग्यशतकं संपूर्णम् । १. एतनामकं शतकमेतत्कत्रिविरचितमस्माभिः काव्यमालायामेकादशगुच्छके मुद्रापितम्, १४५ विहणकाव्यम् । काश्मीरकविहणकविराजविरचित बिलणकाव्यम्। ध्यात्वा गणेशमखिलागमसारभूतं श्रीशारदां सुरनमस्कृतपादपद्माम् । किंचित्स्वकीयमतिसंस्फुरितेन नव्यं काव्यं करोमि विदुषां सुखबोधनार्थम् ॥ १ ॥ खर्गावनीविमलमण्डलखण्डतुल्ये भूमण्डले महिलपत्तननामधेये । वाराजगुर्जरजनैः परिसेव्यमाने भोगी बभूव नृपतिः किल वीरसिंहः ॥ २ ॥ चत्वार एव निजधर्मरताः सदैव वर्णाश्च यस्य नगरे रजनीकरस्य । चञ्चद्वाक्षपथि वीक्षणदृश्यवक्कै- बिम्बोदयं प्रकटयन्ति दिनेऽपि नार्यः ॥ ३ ॥ यो वैरिवीरवरवारणदर्पसिंहो विद्याविनोदविविधाभिरसः कलावान् । गाम्भीर्यधैर्यगुरुदानगुणैः स लोकं पाति स वीरनृपतिर्निजराजधर्मैः ॥ ४ ॥ इत्थं नृपेण रजनीकरवत्रविम्बा राज्ञोऽप्यवन्तिनृपतेरतुलस्य पुत्री । पाणिग्रहेण विधिना विहिता सुनारी मुख्या बभूव सकलासु वराङ्गनासु ॥ ५॥ कालक्रमेण विमलां कमलासमानां चन्द्राननां नयननिर्जितपद्मपनाम् । चन्द्रोदयेऽथ नृपतेः किल पट्टराज्ञी जज्ञे कलां शशिकलामिति सत्यनाम्नीम् ॥ ६ ॥ १९ काव्यमाला। सा वर्धते शशिकला शशिनः कलेव राज्ञो विशिष्टतनया ह्यधिकैकभाग्या । अल्पैर्दिनैः कतिपयैरपि राजधानी- मागत्य वाक्यसुधया जनकं तुतोष ॥ ७ ॥ तां वीक्ष्य चारुवदनां चतुराननस्य वाचामिव प्रचुरचञ्चुरबुद्धिशीलाम् । बालामबालगुरुरूपवती नरेश- श्चिन्तां चकार तनयाध्ययनाय नित्यम् ॥ ८ ॥ राजीवपत्रनयना नरराजकन्या यल्लीलयापि वचनं मधुरं बभाषे । तवीरसिंहनृपतेरमृतोपमान चित्ते बभूव सुखदायि दिवा निशायाम् ॥ ९ ॥ इत्थं नृवीरनृपवीरनरेशचित्ते नित्यं चकार कविराजपदानि कन्या। तातस्तदीयगुणगौरवगाढचित्त- श्चिन्तां चकार सुतरां गुणिनं ददर्श ॥ १० ॥ श्रीराजहंसनमितेन पुरोहितेन राज्ञे निवेद्य विजिताखिलतत्कथेन । काश्मीरकः कविरसौ गुणिनं दिदृक्षु- स्त्वामागतः क्षितिप विलणनामधेयः ॥ ११ ॥ मुक्तेन्दुकुन्दकुसुमस्फटिकावदाता सर्वामरेन्द्रभुजगेन्द्रनरेन्द्रवन्या । मन्त्रार्थतन्त्रजननी जननी श्रुतीनां श्रीशारदास्ति विषयं तत आगतोऽयम् ॥ १२ ॥ कृत्वा नतिं विषयपूर्वमथाशिषं तां जग्राह वीरनृपतिः कविराजतोऽपि । - - ।
१४७ -- विणकाव्यम् । मायाप्रपञ्चजगदर्णवभीतभीतः सिद्धोपदेशमिव धर्मपरश्च लोकः ॥ १३ ॥ पृष्ट्वा समस्तकुशलं कुलदेवताया आदिष्टवान्निजपुरोहितमस्य तृप्त्यै । यद्रोचते सुकवये पुरतः प्रभूत भोज्याम्बरादि विततार यथोपदिष्टम् ॥ १४ ॥ तसै विहस्य कविराजमथ क्षितीश- प्रीत्या सुताध्ययनकारककोविदार्थी । दत्त्वा निकाममुदिताय मनोरथश्रीः श्रीवीरसिंहनृपतिर्मुदमाससाद ॥ १५ ॥ नानानुलेपनमनोरमभोजनानि दिव्याम्बराणि बहुमानपुर:सराणि । काश्मीरकः कविवरोऽथ निशम्य रात्रौ प्रातः पुरोहितयुतो नृपति ददर्श ॥ १६ ॥ सद्यः प्रबन्धविधिना गुरुणा कवित्वं यद्रम्यपद्यरचनामधुना कवीन्द्रः । विद्यापगांगहनवासपयोनिधित्वं धीरं तुतोष स यथा न तथान्य एव ॥ १७ ॥ एवं विलोक्य- ललितार्थपदं कवीन्द्र- मामन्य तत्र तनयां कवये निवेद्य । अध्यापय प्रमुदितो भगवन्निमां त्वं कृत्वा प्रसादमथ चन्द्रकलामुवाच ॥ १८ ॥ 'उन्निद्रबुद्धिकुसुमः कविशेखरोऽयं काश्मीरका शशिकले कुरु पादपूजाम् । क्रीडां विहाय शुकसारिगतां सखीनां शास्त्रं गृहाण वचनं कविविहणस्य ॥ १९ ॥ १. 'कवये द्रविण कवीश' इत्यपरपुस्तकस्थः पाठः १४८ काव्यमाला। राज्ञा विमृश्य गुणिनो गुरुभावभक्ति व्यक्ताक्षरक्रमवतीमपि राजपुत्रीम् । दृष्ट्वा व्यपाठयदतिप्रयतः कवीन्द्रः स्तोकैदिनैः शशिकला विदुषी बभूव ॥ २० ॥ सा प्राकृतानि विमलानि च संस्कृतानि शास्त्राण्यधीत्य किल चन्द्रकला सुशीला । श्रीविह्वणं निजगुरुं प्रणिपत्य साक्षा- तं हर्षयां नृपतिमास सरस्वती च ॥ २१ ॥ तस्या गृहे प्रवरकुङ्कुमपुप्पवासि- कर्पूरगौरसरसागरुचन्दनाढ्थे । शृङ्गारसारगहनं किल कामशास्त्र- मध्यापयत्यमलचन्द्रकलां कदाचित् ।। २२ ।। विज्ञातमन्मथकला स्मरबाणविद्धा तस्यान्यजन्मरमणी नरनाथपुत्री । भाव्यर्थभावितमनोभवतुल्यकान्ता कान्ते रसान्विदधति स शोविकारान् ॥ २३ ॥ प्रेमादरात्तरलितेन विलोचनेन वक्रेण चारुहसितेन सुधाधरेण । . १. एतत्पूर्वमियान्पाठोऽपरपुस्तकेऽधिक उपलभ्यते- 'सेनापतिः स्वयमभापत वीरसिंह हे नार्यक त्वरय सांप्रतमेव रम्यम् । सप्तावनि सितगृहं सपरिच्छद वै अध्यापनाय च शशाङ्ककलार्थमस्ति । श्रुत्वा तथेति सुकृत किल तत्कृतेन भा(भो)ज्यानि तत्र वसनानि तथासनानि । यानानि कानि विविधा वरमुख्यसख्यः यत्प्राथितं खभुजसंनिहितं च चक्रे ॥ ज्ञात्वेति वीरनृपतिः खसुतां करेण धृत्वा कवेरथ समर्प्य शिरो ननाम । भूयः पुरोहितमथ खजनो न वासर्वे भवन्तु सुखिनो हिमवाससश्च ॥' २. एतत्पूर्वमियान्पाठोऽपरपुस्तकेऽधिक उपलभ्यते- 'इत्य विलोक्य सुकविः पठतीं सुवालामन्तःपुरो जवनिकान्तरसंस्थितां ताम् । मारज्वराकुलितमानस एवमूचे मत्वात्मनः सुसदृशी कविनां खभावः ।।
बिहणकाव्यम् । ईषद्विजृम्भितकुचद्वितयेन बाला विद्वांसमाशु वशिनं च वशीचकार ॥ २४ ॥ श्रीपद्मपत्रनयनां वरपद्महस्तां पद्मप्रकृष्टचरणां शुचिपद्मगन्धाम् । तां पद्मिनीमिव सुपद्मनिकेतनां च मेने कविः शशिकलामिव कामवल्लीम् ॥ २५ ॥ सा प्राह तं कविमवेक्ष्य मनोऽनुरागं स्वामिन्द्वयं भवति सर्वजनानुशान्त्यै । तत्त्वं शिवस्य शिवदायि च कामतत्त्वं त्वं संप्रति सरगुरुः सरयोग्यमत्र ॥ २६ ॥ इत्युक्त एव विजने स विचार्य सर्व गान्धर्वराजविधिना जगृहेऽथ पाणिम् । कामी युवा सरकलाकुशला च बाला दैवात्तयोरघटितं घटितं बभूव ॥ २७ ॥ सा कामशास्त्रविधिना किल कामकेली- लीलाविलासनिलयं चकमे कवीशम् । अन्योन्यनूतनसुयौवनमोहितां च वाक्यैः सुधारससमैः स ररञ्ज बालाम् ॥ २८ ॥ राजप्रियोऽपि विविधागमपारगोऽपि भुझे स गूढचरितो नरराजपुत्रीम् । जात सुजन्म विफलं भुवने नलिन्या दृष्ट यया न विमल तुहिनांशुविम्बम् । यावच्छ्रुतं सुवचन सुकवेस्तयेत्थ किंचिद्विहस्य तुहिनांशुकला वभाषे ॥ हृष्टानि कोकमिथुनानि भवन्ति यैश्च सूर्याशुभिर्जगदिद निखिलार्थमेति । संपूर्णतापि शशिनश्च हि निष्फलैव दृष्टा यया न नलिनी परिपूर्णरूपा ।। इत्थं निशम्य सुकविः सुवचोऽवलायाः प्रोवाच कामवशग. शृणु चन्द्रलेखे । मध्येऽत्र किं जवनिकां कुरुषे तदा वा हारीकुरुष्व तदिद दयितेऽन्तरे नौ । तस्याशया जवनिकां शिथिलीविधाय वकं विलोक्य सुकवेर्नयनाभिरामम् । तस्थौ प्रणम्य शिरसा दधती कटाक्षस्नेहालसार्द्रनयनैः कटिदत्तहस्ता ॥'
१५० काव्यमाला। । शास्त्रोदितान्यनुदितानि च मोहनानि पश्यन्नहर्निशमतीव निगूढचेताः ॥ २९ ॥ प्राह प्रियां स कविरेव मम प्रियेति सा तं कवि कथयति स मम प्रिंयस्त्वम् । पृच्छाम्यहं यदि पुनः कथयोत्तरं मे त्वं चापि मे कथय नाथ कवीशमुख्य ॥ ३० ॥ अङ्गणं तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरेः। उल्लसत्तरुणकेलिपल्लवां सल्लकी त्यजति किं मतङ्गजः ॥ ३१ ॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ३२ ॥ पूर्णेन्दुविम्बसद्दशं च नृपात्मजास्य- मानम्य विद्रुमलतामिव चुम्बनाय । कामप्रियव्रतनिवेदनयाभिधाना- मालिङ्गनं संपुलकं प्रथमं चकार ॥ ३३ ॥ नीवीनिबन्धनविधानविमोचनाय नाभिप्रदेशनिहितः कविना प्रकोष्ठः । कन्दर्पमन्दिरनिधानहरः करोऽस्य रुद्धः स तस्कर इव क्षितिराजपुच्या ॥ ३४ ॥ आलिङ्गय गाढमवलामुपनीय शय्या- मारोप्य वक्षसि रदेंन निपीड्य-चोष्ठम् ।- सोऽङ्गुष्ठकेन चरणाप्रभवेन वस्त्र- माकृष्य चाकुलतया सुरतं चकार ॥ ३५॥ चन्द्रानना सुरतकेलिगृहीतवस्त्रा नेत्रे निरुध्य च करद्वितयेन तस्य । आरोग्य मञ्जुशयने पुरुषायमाना सानन्दयत्कविवरं गुणसर्जनेन ॥३६॥ . --
बिहणकाव्यम् ।
१५१
-
सुकोमला चन्द्रमुखी च बाला प्रियं वदन्ती मधुरा-च वाणी ।
कृशोदरी गौरविशालनेत्रा ददातु मे शंकर जन्मजन्मनि ।। ३७ ॥
पद्मानना चकितबालकुरङ्गनेत्रा
मत्तेभकुम्भयुगलस्तनभारनम्रा।
काश्मीरकेण किल संपुटितामिधेन
नो भुज्यते सररणे नरराजपुत्री ॥ ३८ ॥
चञ्चत्प्रवालरुचिरारुणदन्तवासा
दन्तप्रभाविजितहारकदम्बशोभा ।
संतुष्यते तदनु पीडितकेन नामा
कान्तेन कान्तिकरणेन नरेन्द्रपुत्री ॥ ३९ ॥
चूतप्रवालकरपल्लवकेलिरम्या
वामाङ्गना सुगतिनिर्जितराजहंसी।
पद्मासनाद्यकरणैश्च मनोविनोदः
संगम्यते सुकविना क्षितिपालपुत्री ॥ ४० ॥
उद्यन्मृगेन्द्रतनुमध्यरुषा वराङ्गी
सर्वाङ्गदत्तसुमना सुभगा सुशीला |
सा सिद्धतामुपगता नरराजपुत्री
स्त्रीनैपुणं सुकविना यदि शिक्षितत्वात् ॥ ४१ ।।
दोलागतेन करणेन कवीश्वरस्य
सा रम्यते रतिकलाकुशला निशीथे ।
सौन्दर्यरूपगुणगौरवमत्र सर्व
तसै समर्पितमहो गुरुदक्षिणार्थम् ॥ ४२ ॥
उन्निद्रचम्पकविशुद्धसुवर्णवर्णा
कर्णान्तगरसरसरोरुहचारुनेत्रा ।
रंरम्यते सुरतनागरिकेण नामा
श्रीविहणेन कविना नरपालपुत्री ॥ १३ ॥
१५२ काव्यमाला। तद्धामसूचितमनगरसप्रसाद- चाक्तितत्क्षणवियोगसुदुःसहं च । प्रेम प्रबद्धमितरेतरमप्रमेयं कामं तयोरतनुमेयतरं बभूव ॥ ४४ ॥ उत्तुङ्गपीवरधनस्तनमण्डनेन बिम्बाधरेण रमणद्विजखण्डितेन । अङ्गेन कान्तपरिदत्तनखव्रणेन शुद्धान्तरक्षिभिरलक्षि परोपभुक्ता ॥ ४५ ॥ आः कस्य सांप्रतमहो कुपितो विधाता कृत्वेति ते हृदि ततः प्रणिपत्य भूपम् । देवाभयं शशिकला पुरुषोपभुक्ता सत्याय ते स गुरुरीक्षित एव नूनम् ॥ ४६॥ रक्षाजनेन कविनामनिवेदितन भूपो बभूव किल दोलितचित्तवृत्तिः । किं सत्यमस्ति कथितं वितथं तु किंवा जीवप्रियं द्वितयमेव कविः सुता ॥४७॥ विद्यानवप्रयतमन्मथचाटुवाक्यैः कन्दर्पकेलिकुपितां नरराजपुत्रीम् । पुप्पेषुबाणमधुरीकृतमानसोऽयं कामी प्रसादयति चन्द्रकलां यथेष्टम् ॥ ४८ ॥ यावत्प्रसादललितां नृप आहृताङ्क त्वं का प्रसादयसि दुष्टचरित्रभावैः । श्रुत्वेति लक्षचरितो नृप चौर्यगुप्यै कामी दृशं निजकरण ममर्द शीघ्रम् ॥ ४९ ।। उत्थाय संमुखगतोऽक्षिशिरोवगुप्त तं प्राह धीरमनसा नृपतिः सचक्षुः । में विणकाव्यम् । १५३ कान्तापि तापयति यः कुपितो जनोऽयं येन प्रसादयति देव विचारयार्थम् ॥ ५० ॥ वित्ता प्रिया च वचनं कथितं निशम्य वातोद्धतेव सहसा कदली चकम्प । तूष्णींचकार रममाणनिरीक्ष्यमाणां ताम्बूलशोमितकरापि वराङ्गनाभिः ॥ ५१ ।। श्रेयो वरं मयि न जीवितनाथ नाथ त्वं किं परित्यजसि मामकृतापराधाम् । सूक्ष्मा च धर्मगतिरस्ति विचारय त्वं जीवामि किं रमण ते विरहान्मुहूर्तम् ॥ ५२ ।। सौदामिनी भवति किं जलदे प्रयाते । चास्तं गते शशिनि तिष्ठति चन्द्रिका किम् । हे जीवितेश रतिदायक कामराज जीवामि न क्षणमदर्शनतस्तवाहम् ॥ ५३ ॥ बाले त्वमेव शरणं मरणेऽपि भूया- न्मृत्युभविष्यति जनस्य च मादृशस्य । भूयाद्विपत्तिरिह राजसुतानिमित्ते धर्मस्तदेति सुहृदं हृदयं चकार ॥ ५४ ॥ निर्वासनं स्वनगरात्खरपृष्ठयानं नाशं करस्य वघबन्धनकं समस्तम् । अङ्गीचकार कुसुमेषुनिपीडिताङ्गः काश्मीरको नृपसुतारमणानुगूढः ॥ ५५ ॥ १. एतत्पूर्वमियान्पाठोऽपरपुस्तकेऽधिक उपलभ्यते- 'काव्य कवेरिति निशम्य निरीक्ष्य चक्षुरर्थे विचार्य... परि प्रतीतः। श्रीभारतीविषयवासविलासलीलां कान्ति जगाम स नृपः क्षमये तदुक्तम् ।। पुत्री नृपस्य नरनाथमथ प्रणम्य प्रोवाच गद्गदवचः शृणु.."तत्त्वम् । विद्याधिको मम गुरुगुणवत्सु भाति तं वेक्षितुं गुणवतामपि चित्तवृत्तिः॥ भूपे गतेऽथ वदतीन्दुकलां सुभीतां कान्ते ममाप्युभयथा कुशलं दुरापम् । मृत्युस्त्वदीयविरहाद्यदि यामि देशं नाशस्तवान यदि वक्ति पिता तथैव ।' -- २०
१५४
काव्यमाला
खेदं न याति दधति स्वजने न लज्जा
ये स्त्रीरताः किल भवन्ति नरा विमूढाः ।
सत्यां सती परममूर्तिमतीव गङ्गां
वामाङ्ग एव वहति त्वशिवः शिवोऽपि ॥५६॥
अङ्गी विधाय स शिवं च शिवतरं च
काश्मीरकः शशिकलां रमते तथैव ।
भूयः कविः कतिपयेषु दिनेषु दूती-
वक्रेण तेन गदितश्च पुरोहितेन ॥ ५७ ॥
अलमतिचपलत्वात्खममायोपमत्वा-
परिणतिविरसत्वात्संगमेनागनायाः।
इति यदि शतकृत्वस्तत्त्वमालोकयाम-
स्तदपि न हरिणाक्षी विसरत्यन्तरात्मा ॥ ५८ ॥
के वा न सन्ति भुवि वारिधरावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
किं चातकः फलमवेक्ष्य स वज्रधारां
पौरंदरी कलयते नववारिधाराम् ॥ ५९॥
श्रुत्वा कवीन्द्रवचनं नृपपूज्यविप्रो
राजान्तिकं पुनरगाच्छ्रतसर्ववृत्तः ।
संप्राप्य भूपमितरेषु जनेष्वसत्सु
ह्यूचे मनोगतवचश्च पुरः पुरोधाः ॥ ६ ॥
श्रीवीरसिंह नृपवीर विपक्षवीर-
मत्तभसिंह नरसिंह नरेन्द्रसिंह ।
वैदेशिकः स्वकुललाञ्छनतां विधत्ते
तद्वीक्ष्य किं क्षमसि किं श्रुतमेव नास्ति ।। ६१॥
वंशार्चितेन कथिते वचने नृवीरो
जज्वाल वह्निरिव वातविवृद्धवेगः ।
आनीय तद्गृहसखीश्चरितं च पृष्ट्या
ताभ्यः समस्तमपि भूपतिराससाद ॥ ६२ ॥
१५५ बिहणकाव्यम् । ज्ञात्वा स्वयं सकलमर्थमनर्थमूलं प्रोवाच रोषवशगः शुभमन्त्रिणखान् । चौरस्य किं भवति मन्त्रिभिरेवमुक्तं शूलाधिरोहणमिति क्रियतां च तस्य ॥ ६३ ॥ भूपाज्ञया सपदि वर्षधरैर्विगाद तं नीयमानमुपलक्ष्य जनस्त्ववोचत् । चौरः किमेष सुकविः प्रभुरत्नहारी लोकोक्तिरेवमभवन्नगरे समस्ते ॥ ६४ ॥ द्वारस्थितामथ निरीक्ष्य नरेन्द्रपुत्री नेत्रच्छटां प्रदधतीं स उवाच कान्ताम् । बालेऽधुना सुरवधूरमणाय यामि तन्नागमिष्यति पुनः कविविलणस्त्वाम् ॥ ६५ ॥ नायर्यों नरेन्द्रतनयागुरुवीक्षणार्थ कुर्वन्त्यतीव गमने सविलासलीलाम् । काचित्करेण दधती परिधानवस्त्रं काचिद्विमुञ्चति करादपि कञ्चुकी च ॥ ६६ ॥ योषिन्निजोष्ठगतरक्तिमवीक्षणार्थ- मादर्शमेव दधती स्वकरेण चान्या । काप्यङ्गनार्धगुफितां कबरी करेण पीनोन्नतस्तनतटे त्वरितां विधाय ॥ ६७ ॥ एकं विधाय जतुरङ्गविरञ्जितं च पादं द्वितीयमपरा परिहाय यान्ती। आनन्ज नेत्रमपरा न सुकज्जलेन तदर्शने गतमना हि ययौ गवाक्षम् ॥ ६८ ॥ तद्दर्शनाय विविधा द्विजराजयस्ता नानाविधाश्च विबुधा अपि बाहुजाश्च ।
११५६ काव्यमाला। वैश्याश्च सेवकजना नृपसेवकाश्चे- त्यन्ये प्रदुद्रुरिति गोविधिरेवमुक्त्वा ॥ ६९ ॥ ताम्बूलमेव दधती स्वकरेण कापि हारावलीमधृत तत्र परा कृशाङ्गी। आलिङ्गच बाहुलतया स्वसखीं च कण्ठे योषिप्रगच्छति गवाक्षपथं सलीलम् ॥ ७० ॥ कामी स चापि नरराजनिदेशतस्तै- वंध्यावनी प्रतिगुणैरमिनीयमानः। दृष्टो जनैः सकरुणं सुवराङ्गनाभि- रुक्तं तदा शिव शिवेति विमोचयैनम् ॥ ७१ ॥ वध्वा(ध्या)वनीमथ निरोपितशूलरौद्रां नीत्वा कविं तु वधकाः कथयांबभूवुः । खानं विधेहि परिचिन्तय देवमाद्य- मन्ते मतिर्भवति या सुकवे गतिः सा ॥ ७२ ।। संसारदुस्तरपयोनिधितारणाय ध्यायन्ति यं विविधयोगरता मुनीन्द्राः । यः सर्वलोकहृदयाम्वुजकोशहंस- स्तं सर्वगं सर सदैव विमुक्तिहेतुम् ।। ७३ ॥ लोकोक्तिषु स्थितवतीषु जनेषु सत्सु तामेव पश्यति पुरोऽपि च पृष्ठतोऽपि । चित्ते स्थितामथ नरेशसुतां विचिन्त्य ह्यद्यापि तामिह हि वेनि न देवमाद्यम् ॥ ७४ ॥ अद्यापि तां कनकचम्पकदामगौरी फुल्लारविन्दवदनां नवरोमराजीम् । १. अस्माभिः प्राप्तेषु त्रिषु पुस्तकेषु एकस्मिन्पुस्तके 'इति विह्नणकविविरचितं नव्यं खकथासंवलितं पूर्वचतुःसप्तत्यपरनामकं लघुकाव्य समाप्तम्' इत्युपलभ्यते, प्राचीनयोरित- रयोनेति.
बिलणकाव्यम् ।
१५७
मुप्तोत्थिता मदनविड्वलसालसाजीं
विद्या प्रमादगलितामिव चिन्तयामि ।। ७५ ॥
अद्यापि तद्विकसिताम्बुजमध्यगौरं
गोरोचनातिलकपाण्डुरमध्यदेशम् ।
ईषन्मदालसविघूर्णितदृष्टिपातं
कान्तामुखं पथि मया सह गच्छती च ॥ ७६ ॥
अद्यापि तत्कनककुण्डलघृष्टगण्ड-
मास्यं मरामि विपरीतरताभियोगे ।
आन्दोलनश्रमजलस्फुटसान्द्रविन्दु-
मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ७७ ॥
अद्यापि तां शशिमुखी नवयौवनाढ्यां
पीनस्तनी पुनरहं यदि गौरकान्तीम् ।
पश्यामि मन्मथशरासनपीडिताङ्गी
गात्राणि संप्रति करोमि सुशीतलानि ॥ ७८ ॥
अद्यापि तन्मनसि संप्रति वर्तते मे
रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
जीवेति मङ्गलवचः परिहृत्य कोपा-
कर्णेकृतं कनकपत्रमनालपतया ॥ ७९ ॥
अद्यापि तां मकरकेतुशरातुराङ्गी-
मुत्तुङ्गपीवरपयोधरभारखिन्नाम् ।
संपीड्य बाहुयुगलेन पिबामि वक्र
प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ८० ॥
अद्यापि तां कुटिलकोमलकालकेशी-
मुन्निद्रतामरसपत्रविशालनेत्राम् ।
प्रोतुइपीवरकठोरपयोधराव्या
ध्यायामि चेतसि यथैव गुरूपदेशम् ॥ ८१ ॥
१५८
काव्यमाला।
अद्यापि तद्विकचकुन्दसमानदन्तं
तिर्यग्विवर्तितविलोलविलोचनान्तम् ।
तस्या मुखं मयि मनागपि विस्सरामि
चित्तात्कृतज्ञ इव हन्त कृतोपकारम् ॥ ८२ ॥
अद्यापि तत्सरलमञ्जुलतुङ्गमासं
किंचित्सितोच्छसितपाण्डुरगण्डभागम् ।
पश्यामि पूर्णशरदिन्दुसमानकान्ति
कान्ताननं विकचपङ्कजपत्रनेत्रम् ॥ ८३ ॥
अद्यापि तन्मदनकार्मुकभङ्गुर -
दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् ।
कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं
तस्याः पुनः पुनरपीह मुखं स्मरामि ॥ ८४ ॥
अद्यापि तां झटिति वक्रितकन्धराग्र्यां
न्यस्तैकपाणिकमलां खनितम्बबिम्बे ।
वामांसपृष्ठलुलदुज्ज्वलकेशपाशं
पश्यामि मां प्रतिदृशा बहुशः क्षिपन्तीम् ॥ ८५ ॥
अद्यापि मामवगणय्य कृतापराध
मां पादमूलपतितं सहसा चलन्तीम् ।
वस्त्राश्चलं मम करान्निजमाक्षिपन्ती
मामेति रोषपरुष वदती सरामि ॥ ८६ ॥
अद्यापि तामभिविशालनितम्बविम्बां
गम्भीरनाभिकुहरां तनुमध्यभागम् ।
अम्लानकोमलमृणालसमानबाई
लीलालसाञ्चितगतिं मनसा सरामि ॥ ८७ ।।
अद्यापि तल्लुलितनादनिमीलिताक्ष-
मास्यं सरामि सुतरां सुरतावसाने ।
तत्कालनिःश्वसितनिहुतकान्तकान्ति
खेदाम्बुविन्दु परिपाण्डुरितं प्रियायाः ॥ ८८ ॥
१५९ बिहणकाव्यम् । अद्यापि तां मयि कृतागसि धृष्टभावं संभावयत्यपि मुहुर्निगृहीतवाचम् । अन्तनिरुद्धगुरुकोपसबाप्पकण्ठी निःश्वासशुष्यदधरां रुदती सरामि ॥ ८९ ।। अद्यापि तां समपनीतनितम्बवस्त्रां पश्यामि मन्मथशरासनविह्वलाङ्गीम् । एकेन गुह्यनिहितेन करेण पाणि- मन्येन नामिकुहरादवतारयन्तीम् ॥ ९० ॥ अद्यापि तां रहसि दर्पणमीक्ष्यमाणां संक्रान्तमत्प्रतिनिधि मयि पृष्ठलीनाम् । पश्यामि वेपथुमतिं च सुविभ्रमां च लज्जाकुलां च दयितां च सविभ्रमां च ॥ ९१ ॥ अद्यापि तां सुरभिदुर्धरगन्धलोलं धावन्तमास्यमनिशं गतिचञ्चरीकम् । किंचिच्चकोररुचिकुञ्चितचारुनेत्रां पश्यामि केलिकमलेन निवारयन्तीम् ॥ ९२ ॥ अद्यापि तामितरतश्च पुरश्च पश्चा- दन्तर्बहिः परित एव परिभ्रमन्तीम् । पश्यामि फुल्लकनकाम्बुजसंनिभेन वक्रेण चारुपरिवर्तितलोचनेन ॥ ९३ ॥ अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि । तस्याः सरत्तरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥ ९४ ॥ अद्यापि तां मयि कपाटसमीपलीने मन्मार्गमुक्तदृशमाननदत्तहस्ताम् । - १६० काव्यमाला। s मद्भावचिह्नितपदं मृदुकाकलीमिः किंचिद्विमानमनिशं मनसि मरामि ॥ ९५॥ अद्यापि तत्तरलतारतताक्षमास्य- मालिप्तचन्दनरसाहितपाण्डुकान्ति । कस्तूरिकाकुटिलपत्रलतामिराम गण्डस्थलं हृदि गतं स्थिरयामि तस्याः ॥९६॥ अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैमया दशनवाससि खण्ड्यमाने । तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्वदनं मरामि ॥ ९७ ।। अद्यापि तानि समचेतसि विस्फुरन्ति बिम्बोष्ठमृष्टपरिकीर्णशुचिस्सितानि । पीयूषपूरमधुराणि त्वदुत्तराणि वाक्यानि मन्मथभवानि मृदूनि तस्याः ॥ ९८॥ अद्यापि तां कनकपत्रसनाथकर्णा- मुत्तुङ्गकर्कशकुचार्पिततारहाराम् । काश्चीनिपुजितविशालनितम्बबिम्बा- मुद्दामनूपुररणच्चरणां स्मरामि ॥ ९९ ॥ अद्यापि तां भुजलतार्पितकण्ठपाशां वक्षस्थलं 'मम पिघाय पयोधराभ्याम् । ईषन्निमीलितसलीलविलोचनान्तां पश्यामि तद्वदनमुक्तवदं पिबन्तीम् ॥ १० ॥ अद्यापि तानि परिवर्तितकन्धराणि किंचित्क्षुतत्रुटितकञ्चकजालकानि । तस्या भुजागलुलदुबलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥१०१ ॥ । ܬ ܚ .
बिहणकाव्यम् । १६१ अद्यापि तत्सपरिवेषशशिप्रकाश- मास्यं स्मरामि जडगात्रविवर्तनेषु । तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ- दोःकन्दलीयुगलकं दयितं प्रियायाः ॥ १०२ ॥ अद्यापि तां(?)मुनयचित्यपि मध्यसक्तं व्यावृत्तकेलिशयने शयती पराचीम् । निद्राकुलामिव कुलाभिमुखीं भवन्ति प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥ १०३ ॥ अद्यापि तां सितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि । आन्दोलनश्रमजलाकुलविह्वलाङ्गी श्वासोत्तरं वनिभृतं मुमुहुः शशाङ्गीम् ॥ १०४ ॥ अद्यापि तां मयि गते चिरकोपयन्ती याति समागतवती परिवर्तमानाम् । ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रितवतीमधिकं स्मरामि ॥ १०५ ॥ अद्यापि तामरुणयत्यरुणेन्तरिक्ष.. मापृच्छमानमपि नाम विभारयन्तीम् । उत्थाप्य निश्चलदृशौ मम निश्वसन्ती चिन्ताकुलां किमपि नम्रसुखी स्मरामि ॥ १०६॥ अद्यापि तां जघनदर्शनलालसेन क्रान्तं मया इव(१)समाञ्चलमेव पश्चात् । पूर्वोक्तितामपरतो बहुशः क्षिपन्ती मन्दाक्षरं(?)कुचितसर्वतनुं स्मरामि ॥ १०७ ॥ अद्यापि तां सुनिभृतं पदमापतन्तं मां द्वारि वीक्ष्य सहसैव निषण्णसुप्ताम् । २१
१६२
काव्यमाला ।
मन्दं मयि स्पृशति कण्टकिताङ्गयष्टि-
मुत्फुल्लगण्डफलकां बहुशः स्मरामि ॥ १०८ ॥
अद्यापि तां प्रथममेव गतां विराम
निर्भवं रोषपरुपैर्वचनैर्मुहुर्माम् ।
आन्दोलितोद्धतनितम्बसहायवृत्त्या
संचिन्तयामि हृदयं सुदतीमभीक्ष्णम् ॥ १०९ ॥
अद्यापि तां विलुलिताकुलकेशपाशा
किंचित्समुन्मिपितघूर्णितजिह्मनेत्राम् ।
सुप्तोस्थितां विदधतीं मुहुरङ्गभङ्गं
पश्यामि चारुमधरं बहुशः स्मरन्तीम् ॥ ११० ॥
अद्यापि तां सुवदनां वलभीनिषण्णां
तद्नेहसन्मुखमपि खलु दृष्टमत्र ।
मर्मोत्तरं प्रियसखीषु कृतस्मितासु
लज्जां विलक्ष्य हसितां हृदि चिन्तयामि ॥ १११ ॥
अद्यापि तामनुनयत्यपि चाटु पूर्व
कोपात्पराकृतिमुखीं मयि सापराधे ।
आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं
मामेति शेषपरुषे ब्रुवतीं स्मरामि ॥ ११२ ॥
अद्यापि तामुषसि तत्क्षणविप्रबुद्धां
निद्रालसां हृदि वहामि शताङ्गभङ्गाम् ।
जृम्भाविदीर्णमुखमारुतगन्धलुब्ध-
मुग्धभ्रमझमरविभ्रमलोलपत्रम् ॥ ११३ ॥
अद्यापि तां प्रथमसंगमजातलजां
नीव्यां स्पृशत्यपि करे मम मन्दमन्दे ।
फूत्कारकम्पितशिखातरलं प्रदीप
कर्णोत्पलेन निजघांसुमहं स्मरामि ॥ ११४ ॥
बिलणकाव्यम् । १६३ अद्यापि तां समुपगम्य मया वृताक्षी कोऽयं वदेत्यभिहिता बहुशः सखीभिः । मातर्न विद्म इति सस्मितमुल्लपन्ती- मुत्पन्नगल्लपुलकाकुलितां स्मरामि ॥ ११५ ॥ अद्यापि तां गतिनिराकृतराजहंसी धम्मिल्लनिर्जितमयूरकलापभाराम् । चक्षुःश्रिया हसितमत्तचकोरनेत्रां संचिन्तयामि कलकण्ठसमानकण्ठीम् ॥ ११६ ॥ अद्यापि तां मदनमन्दिरवैजयन्ती- मन्तर्मुखे मदधरोष्ठदलं विधाय । अझैरनङ्गविकलैर्मम गाढमङ्ग- मालिङ्गय केलिशयितां दयितां मरामि ।। ११७ ॥ अद्यापि तामुपवने परिवारयुक्तां संचिन्तयाम्युपगतां च महोत्सवाय । मां पार्श्वसंनिहितलोकभयात्सशकं व्यावर्तितक्षणमनुक्षणमीक्षमाणाम् ॥ ११८ ।। अद्यापि तामुरसिजद्वयमत्रमध्ये अश्यद्वलित्रितयलक्षितरोमरा जिम् । ध्यायामि वल्गितभुजां विहिताङ्गभङ्गं व्याजेन नाभिकुहरं समदर्शयन्तीम् ॥ ११९ ।। अद्यापि तानि मृदुसारसुभाषितानि तिर्यग्विवृत्तनयनान्तनिरीक्षितानि । लीलारसाञ्चितगतानि सुविसितानि तस्याः स्मरामि हृदि विभ्रमचेष्टितानि ।। १२० ॥ अद्यापि तामसममीलितसाचिनेत्रां लोलझुजां वलयझंकृतिशब्दहस्ताम् ।
१६४
काव्यमाला।
वलगत्कठोरकुचमुन्नमितभ्रुकणे
कण्डूयनं विदधतीं हृदि चिन्तयामि ।। १२१ ॥
अद्यापि तां करिसमर्पितवामपाणि-
माकुञ्चितैकवरणोग्रनिरुद्धभूमिम् ।
स्कन्धावलम्बितभुजां पथि मा व्रजन्तं
पश्यामि वन्धुरितकन्धरमीक्षमाणाम् ॥ १२२ ।।
अद्यापि तां मयि दृशं तुदतीं स्मरामि
स्मेरां स्मरद्वरकरां मधुरां सुताराम् ।
अत्युद्वलां सुरतलां कुटिलां सुशीलां
निप्पन्दमन्दसमदप्रमदप्रसादाम् ॥ १२३ ।।
अद्यापि नोज्झति हरः किल कालकूट
कूर्मों विभात धरणीं खलु पृष्ठसंज्ञाम् ।
अम्भोनिधिर्वहति दुःसहवाडवाग्नि-
मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १२४ ।।
इत्थं कविः सुजनमध्यगतो विलासै-
नान्तर्विधैश्च रमयन्नृपसेवकाग्रे।
ते प्रोचु(१)र्मा कविवरेन्द्र तथा तवेय.
मस्मन्मनांसि हरतेऽन्यजनस्य नूनम् ॥ १२५ ॥
त्वं विद्वन्गुरुरेव बाडवननैः पूज्यः सतां सर्वदा
किं कुर्मः कथयाम संप्रति वयं लज्जान्विताधोमुखाः ।
राजाज्ञां न करोति पण्डितवराधीना यतः सेवकाः
कः कोपं सहते पराभवपदमाप्नोति को मानवः ॥ १२६ ।।
भूपादेशकरास्तथा पुरजनाः शृण्वन्तु ते मद्वचः
पारत्रैहिकमेव यच्च तदहं जाने पदं निर्मलम् ।
तद्रूपा नृपवीरभूपतिसुता सा मे हृदन्तस्थिता
ध्यायांस्तागमितानिवृत्तिमधुना नार्यों न.वेदैस्नुथः(१) ॥१२७॥
बिहणकाव्यम् । १६५ उक्तस्तदा नृपजनैः सुजनैस्तथान्यै- भूयः कविः शशिकलां हृदि चिन्तयित्वा । निःश्वस्य तां प्रति ततान सुरस्य वाक्या- त्यक्तो घृणां भयमपीह भविष्यमेतत् ॥ १२८ ॥ वेलाञ्चलं न्यस्य कुचाञ्चले मामालोकयन्ती नयनाञ्चलेन । इतो गता साध्वगता न जाने गेहं गता वा हृदयं गता मे ॥ १२९ ॥ येऽमी कूर्चकवासकङ्कणरणत्कर्णाष्टसीमन्तिनी- हस्ताकर्षणविभ्रमे च सुहृदः प्राप्ताः परामुन्नतिम् । तेऽमी संप्रति यान्ति नायतभुजा भ्राम्यन्निशान्तक्षुर(?). क्षुण्याः क्षोणितलेपनानि पुरतः प्राप्तापराधा इव ॥ १३० ।। भवत्कृते चाञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजायै दशाननेनापि दशाननानि ॥ १३१ ॥ प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यके सा दिशि विदिशि सा चोर्ध्वतः सा बधः सा । हृद्यन्तः सा बहिरपि च सा नास्ति दृश्यं द्वितीयं सा सा सा सा त्रिभुवनगता तन्मयं विश्वमेतत् ॥ १३२ ॥ संगमविरहवितर्के वरमिह विरहो न संगमस्तस्याः । सङ्गे सैव तथैका जगत्ययं तन्मयं विरहः ॥ १३३ ।। हरिहरविधिमुख्या लोकपालाः समेता वच इह मम सर्वैः श्रूयतां साक्षिमियत् । निवसति यदि चेष्टं भावनायां सुतथ्यं भवतु शशिकले यज्जन्मजन्मेऽपि जाया ।। १३४ ।। मम यदि सुकृतं स्यात्पूर्वजन्मार्जितं चे- द्यदि सकलसुराणामर्चनं मेऽस्ति किंचित् । यजनहवनवेदाध्यासनं यन्ममास्ति तदपि शशिकला मे प्राणनाप्या तदास्तु ॥ १३५ ।। .
१६६
काव्यमाला ।
यदि भवति मतिर्या खान्तकाले गतिः सा
यदि भवति वचो मे सत्यमस्तीति धर्मम् ।
मनसि वचसि काये यद्यहं जीवितं सा
तदिह मु"रामे चन्द्रलेखा प्रियास्तु ॥ १३६ ॥
इत्थं विज्ञाप्य देवेभ्यस्तूष्णीं तस्थौ कवीश्वरः ।
अत्रान्तरे चन्द्रलेखा चिन्तां चक्रे तदोचिताम् ॥ १३७ ।।
दृष्ट्या कविं शशिकला दृढपाशबद्धं
तन्नीयमानमनुगैरवनीश्वरस्य ।
कर्तव्यमस्ति मम किं करवाणि किं वा
हा हा चकार मनसेति विचारयन्ती ॥ १३८ ॥
पुत्रस्तदेव जनकं परितोषयेद्यो
मित्रं तदेव न जहाति सुखेऽतिदुःखे ।
भर्तारमेव परिगच्छति या तु नारी
ह्येतत्रयं निगदितं स्मृतिशास्त्रसारम् ॥ १३९ ।।
विद्युत्नगच्छति समं सहसाम्बुदेन
चन्द्रं यथा कुमुदिनी वरकौमुदी च ।
प्राणेश्वरं समनुगच्छति वंशजा स्त्री
वेदा वदन्ति इति मे दृढनिश्चयोऽस्ति ॥ १४०॥
इत्थं विचार्य हृदये मरणाय बुद्धिं
मुक्त्वा सुहर्म्यमवरुह्य सुसप्तभूमिम् ।
बढ़ा दृढं नृपसुता परिधानवस्त्रं
तस्थौ."निजगुरोश्च निराशयन्ती ॥ १४१ ॥
एतसिन्नन्तरे नार्यस्तदा तद्भुवमागताः ।
पराक्षेपेण धावन्त्यो कुर्वन्त्यश्चाश्रुपातनम् ॥ १४२ ॥
सुतारान्तःपुरे ताश्च प्रविष्टाः साश्रुलोचनाः ।
विह्वला विश्वसत्यश्च त्राहि त्राहि पुनः पुनः ॥ १४३ ॥
बिहणकाव्यम् ।
१६७
त्राहि त्वं मरणात्सुदेवि तनयामारुह्य हम्य महा-
नस्माकं ननु बिन्दुपातनमपि श्रोष्यत्ययं नैव सा ।
कृत्वा द्वारसुयन्त्रितं दृढतरं बद्धा च वाचः खक()
प्रासादादवनौ पतिष्यति ध्रुवं दृष्ट्वा हतं सद्गुरुम् ॥ १४४ ॥
या नार्यः समुपागता द्विजवरं द्रष्टुं समेत्याथ ताः
शोकादात्मभुवो यथा सुवचनैः संपीडिताः सत्कवेः ।
संचिन्त्याशु गता नृवीरनृपतेरन्तःपुरं सुप्रभं
विज्ञाता महिषी तदेव वचनं सख्याः समक्षं तदा ॥ १४५॥
स्त्रीणां वाक्यं तदा श्रुत्वा सत्यं सख्या उदाहृतम् ।
सुतारा विह्वलाङ्गी सा मूच्छिता पतिता भुवि ॥ १४६ ॥
ततो भाजनवासेन श्वसिता स्त्रीजनैः समम् ।
उत्थाय बोधिता चेत्थं शीघ्र विज्ञापयेश्वरम् ।। १४७ ॥
ज्ञातं देवि यदद्य शोकयजनं विप्राय""धाभृशं
भाव्यं तद्भविता स गोप्यवचनं धर्मस्तथा श्रूयताम् ।
पुत्री ब्रह्मवधे प्रणश्यति ध्रुवं लोकापवादं मह-
ज्ज्ञात्वेत्थं नृपवीरसिंहनृपति विज्ञापयाशु स्फुटम् ॥ १४८॥
नरवर दुहिता ते मृत्युमेष्येति दूरं
कविवरनिहित सा सत्यमेतत्समक्षम् ।
द्वयमिह समुपेतं ब्रह्महत्या सुतायाः
निगमजनविरुद्ध सर्वथा नैव कार्यम् ॥ १४९ ॥
दुःखेन दीनवदना सुतायाश्चरितेन सा ।
मन्दं मन्दं तथोत्थाय निरुत्साहं गता नृपम् ॥ १५० ॥
इत्थं निशम्य वचनं नृपपट्टराज्ञी
स्त्रीणां वचः सुनयजं कलिकल्मषघ्नम् ।
गत्वा जगन्नपवरं सहसाश्रुपूर्णा
स्त्रीणां तदेव वचनं चरितं सुतायाः ॥ १५१ ॥
१६८ काव्यमाला । शृङ्गारिभिः सुगणिभिः सुरराजलोकै- रत्रान्तरे विनयमानपुरःसरं च । विज्ञप्तिरेव महती च पुनस्तदेव श्रीवीरसिंहनृपतेः कथयांबभूव ॥ १५२ ॥ तदामात्यादयः सर्वे पुरोहितसमं जनाः । श्रीनृवीरं नमस्कृत्य प्रोचुः प्राञ्जलयो वचः ॥ १५३ ॥ स्त्रीहत्या ब्रह्महत्या द्वे त्याज्या सद्भिः सदा प्रभो । गर्हितं सर्वशास्त्रेषु जनाय वचनं महत् ॥ १५४ ।। 7 उक्तं च- नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ १५५ ॥ अवश्यंभावि भावानां प्रतिकारो भवेद्यदि । तदा दुःखैन बाधेरन्नलरामयुधिष्ठिराः ।। १५६ ।। तथा चोक्तं स्मृतौ- आततायिनमायान्तमपि वेदाङ्गपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १५७ ॥ पूर्व कृतं सुकविना महता श्रुतं नः पाणिग्रहं वपुरविजते(?) पुरतः सखीनाम् । युक्तापराधमपि दैववशाच्च शङ्के राजनिवारय मनो ह्यनयाच पापात् ॥ १५८ ॥ एवं विचार्य बहुधा नृपवीरसिंहः पथ्यं वचो तदनु धर्मवती च मेने । आदिष्टवान्वरकवमरणे निपेचं तस्थौ तदागमनमेव निरीक्ष्यमाणः ॥ १५९ ॥ तं भूपतिः कविवरं च विमोचयित्वा दत्तः सुतामपि वरिष्ठगुणाय तस्मै ।
बिहणकाव्यम् । देशं तथा पुरशताधिकमेकरम्यं वासांसि हस्तितुरगांश्च रथांश्च पत्तीन् ॥ १६० ।। तां सुन्दरी च सकलाभरणान्वितां वै गावो महिष्यः(1) परिवारसमं सुदास्यः । यानानि भूपतिसमानसुखासनानि दद्यात्प्रभुः सुतनयां कवये मुदा यः ॥ १६१ ॥ इत्थं भूमिपतिः परात्परतरं लब्ध्वा प्रसादं पर काश्मीरः कविशेखरो मुदमगाच्छीविह्वणः सत्कविः । आदिष्टो नृपवीरसिंहप्रभुणा नेष्टं निजं मन्दिरं संप्राप्तो वरपञ्चशब्दनिनदैर्मार्गेऽतिथीन्पूजयन् ॥ १६२ ॥ तत्रैव रतः कविवरः सहजान्विकारा- नानाविधानभिमतान्सततं व्यनक्ति । ""शशाङ्ककञ्जया(१) च दिवा निशायां सापि प्रमादमगमत्कविराजमेत्य ॥ १६३ ॥ इति वरचरितं यः श्रीकवविहणस्य प्रपठति नियतं यः सावधानः शृणोति । भुवि अवनिपतीशैर्मान्यता मानिनीभि- व्रजति हि परमान्ते शाश्वतं धाम मर्त्यः ।। १६४ ॥ इति काश्मीरिकविह्नणकविविरचित वितणचरितापरनामधेय चन्द्रलेखासक्तविह्वणकाव्यम् । . 4