Ou
Vyaakarand-a Siddhaanta Sudhaanidhi 194
Front matter
184603 A CHOWKHAMBA SANSKRIT SERIES, COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, NO. 194. व्याकरणसिद्धान्तसुधानिधिः। पर्वतीयविश्वेश्वरसूरिविरचितः । व्याकरणोपाध्यायदधिरामशर्मणासंशोधितः । VYÂKARANA SIDDHÂNTA SUDHÂNIDHI BY VISVESVAR SŪRI, Edited by Vyàkaranopadhyáya Dhadhi Răm Sarma. FASCICULUS IIvvvv vvvvv 491.25 V835 UVESHTHARMA *D & SOLD BY THE SECRETARY, KHAMBA SANSKRIT BOOK-DEPOT. BENARES. OTTU HARR 4880WITZ, LEIPZIG: MUKUNDAJI.BOMBAY: JAIN & CO., BOOKSELLER, LONDON. ..nted by Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. Price Rupee one.
UNIVERSAL
LIBRARY
OU_184603
LIBRARY
UNIVERSAL
प्रथमपादे प्रत्याहाराहिकम् । २ । Registered According to Act XXV. of 1867, तिककारेण दकारस्य तत्कालग्राहकत्वानङ्गीकारात् तन्मते- नात्रत्यं भाष्यमित्याहुः। अन्ये तु "प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्" इति प. रिभाषयैव शुभिरित्यादाविष्टसिद्ध्या न कोऽपि क्लेशो ऽनु- सरणीयः। यत्तु तस्यास्तु परिभाषाया भाष्यवार्तिकयोरिहादर्श- नाद् अयं यत्नो महानस्माभिराहत इति हरदत्तेनोक्तम् । त- ञ्चिन्त्यम् । “अङ्गस्य" इतिसूत्रं प्रत्याख्यातुं भाष्ये कण्ठत एवैत- त्परिभाषोपन्यासात् । न च तत्र श्रयर्थ भ्वर्थम् इत्यादौ इयवहादीनां प्रत्ययग्रहणार्थवद्ग्रहणपरिभाषाभ्यां वारणेऽपि निरुतं दुरुत- मित्यादौ हल उत्तरस्य संप्रसारणस्य दीर्घप्रसक्तेस्ताभ्यां दुर्वा- रत्वात् तद्वारणायाङ्गाधिकारस्यावश्यकत्वात् प्रत्ययग्रहणपरिभा- षावैयर्थ्यमेव भाष्यसम्मतम् , अत एव “तित्स्वरितम्" इति सूत्रे प्रत्ययग्रहणपरिभाषा भाष्यवार्तिककाराभ्यां न क चिदाश्रि- तेति कैयटेनाप्युक्तमिति हरदत्ताभिप्रायमिति वाच्यम् । तथा- ऽपि “दिव उत्" इत्यादौ स्वरितत्वप्रसक्तेरेवाभावात् । यथोक्तकु- सृष्टिमात्रस्यानुपादेयत्वात् । उदित्यस्य विधेयोकारानुकरणतया- ऽस्य तिचेऽपि विधेयस्योकारस्य तदभावात् । संज्ञायास्ता- S तत्वेऽपि तित्त्वाभावाच । “तपरस्तत्कालस्य” इति सूत्रापे- क्षिततपरत्वस्येत्सज्ञां विनाऽपि निष्पत्तेस्तकारस्येत्संज्ञायामेव मानाभावात् । नच यथा “अचो यत्" इत्यत्र संज्ञाधर्मेण तित्त्वेन विधेयस्य यप्रत्ययस्य तित्कार्यम्, तथा संज्ञाद्वारा अत्रापि संझिनस्तित्कार्य स्यादिति कैयटोक्तं युक्तमिति वाच्यम् । तत्र तकारस्यानन्यार्थ- ।
१०२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये त्वात् । अत्र च विधीयमानस्याप्युकारस्य ग्राहकत्वदर्शनेन तन्निवत्यर्थत्वेन सामर्थ्याभावात् । न चानुबन्धानामनेकार्थत्व- दर्शनात् तदपि स्यादिति वाच्यम् । इष्टस्थले तथात्वेऽप्यत्रोभ- यार्थत्वं स्वीकृत्य तन्निवृत्त्यर्थकष्टकल्पनाऽयोगात् । तस्मा- तत्रत्यं भाष्यादिकमभ्युपेत्यवाद एव । अत्रत्यभाष्यं तु यथा- श्रुतमेव साधु । दकारस्य तत्कालग्राहकत्वकल्पने प्रयोजना- भावादिति वदन्ति । अत्रेदं चिन्त्यम् । यद्युच्चार्यमाणात्तकारान्तादन्य एव तपरत्वाभाववान् संज्ञी विधेयः, तर्हि कथं "त्यदादीनामः" इत्यादौ अप्रत्यय इति पर्युदासप्रवृत्तिः। अस्य विधेयत्वाभावेन विधेय- भेदसत्वात्सवर्णग्राहकत्वापत्तेः । अथ सामर्थ्याद्विधेयसमर्पकस्यैव तत्र भेदप्रतियोगिकत्वे- नान्वय इति कल्प्यते, तर्हि यस्य सवर्णग्राहकत्वं प्रसक्तं तस्यैव तपरत्वे सति ग्राहकत्वाभावस्य तपरसूत्रार्थत्वात् किमा- यातम् । विधेयस्य तपरत्वाभावेन विधेयसमर्पकनिष्ठतित्त्वे- नैव स्वरितस्यापत्तेः। न च अनुबन्धस्यानन्यार्थतायामेव तत्प्रयुक्तकार्यस्य वि- धेये प्रवृत्तिरिति वाच्यम् । “दिव उद्" इत्यत्रापि तुल्यत्वात् । वर्णसंज्ञापक्षे युभ्यामित्यादौ "हलः" इत्यनेन द्युलोक इत्यादौ "संप्रसारणस्य च" इत्यनेन प्राप्तस्य दीर्घस्य व्यावृत्या तपरत्वस्य चरितार्थतया भाष्यादौ स्पष्टत्वाच्च । “अदसोऽसेः" इत्यत्र ह- स्वदीर्घयोरुकारयोः समाहारद्वन्दं कृत्वा उ इत्युभयोर्निर्देशसं भवेन भाव्यमानस्याप्युकारस्य सवर्णग्राहकत्वमिति ज्ञापनस्या- प्यनावश्यकत्वात् । एतेन सामर्थ्याभावात् संज्ञागततित्वस्य न संशिनि कार्यप्रवर्तकत्वमित्यपास्तम् । अनुपपत्तिमूलकत्वाभावेन प्रथमपादे प्रत्याहाराह्निकम् । २ । १०३ सामोपक्षयेऽपि क्षतिविरहात् । सामर्थ्यस्याप्युक्तरीत्या रक्षणाच्च । न च तस्य स्वरार्थकत्वे किमर्थ प्रकारान्तरेण तनिषेधः क्रि- यतइति वाच्यम् । असत्युक्तप्रकारेण तन्निषेधे तित्त्वस्य स्वरार्थत्वं विज्ञायतेति तत्तात्पर्यस्यैवोक्तरीत्या विघटितत्वात् । अन्यथा स्वरितस्य दुर्वारत्वात् । एवं च दपरत्वमाश्रित्य स्वरितापत्ती समाहितायां दित्त्वस्य तत्कालग्राहकत्वे च प्रयोजनाभावे सि. दे प्रकृतभाष्यं यथाश्रुतमेव रम्यम् । किं तु अन्यार्थत्वेऽपि तत्प्रयुक्तस्वरस्य दुर्वारतया तदर्थ- स्य प्रकारान्तरेण समाधानाय प्रवृत्ते पाष्ठभाष्ये अत्रत्यभा. ध्ये च विरोधपरिहारोऽन्यस्थानीयदकारनिर्देशाभिप्रायेणैव परिहार्य इति चोक्तक्लेशवैयर्थ्यम् । अथैवम् "औत्" "इटोऽत्" इत्यादावपि स्वरितापत्तिः। न चेष्टापत्तिः । “स्तीर्णे बर्हिषि समिधाने अग्नौ” इत्यादावदर्शनात् । लविषीयेत्यत्रान्तोदात्तत्वस्य “आयुदात्तश्च" इति सूत्रे भाष्यए- वोक्तत्वाच्च इतिचेत् । मैवम् । “न विभक्तौ तुस्माः" इति तत्र इत्संज्ञानिषेधाद् इति दिक् । स्यादेतत् । वर्णग्रहणेषु तद्वर्णान्तर्गता वर्णान्तरसदृशभागाः कार्य प्रवर्तयन्ति न वा । नाद्यः । अग्ने इन्द्र, वायो उदकमित्यत्र सवर्णदीर्घस्य, अग्ने एहीत्यत्र "एङः पदान्ताद्" इति पूर्वरूपस्य, आलूयत्यत्र "हस्वस्य पिति कृति" इति तुगागमस्य, माला- भिरित्यत्र "अतो भिस ऐम्" इत्यस्य च प्रवृत्त्यापत्तेः । एचामु- तरभागस्य इउवर्णसादृश्यात् । आकारादीनां चोत्तरभागस्य इस्वतद्वर्णसाम्यात् । नान्त्यः । ऋधेर्ऋकारान्तर्गतरेफसदृश- भागस्य स्वातन्त्र्येणानुपादाने "तस्मान्नुड् द्विहलः" इति नुडा- १०४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये गमानुपपत्तेः। “कृपो रोलः" इत्यस्यानुपपत्तेश्च । ऋकारान्त- र्गतरेफातिरिक्तरेफस्य तत्राभावात् । गृणातीत्यादौ रेफनिमि- तकणत्वानुपपत्तेश्च इतिचेत् । मैवम् । पक्षद्वयस्यादोषत्वात् । तत्र नेत्येकः पक्षः।नृसिंहवद् वर्णान्तरत्वेन तत्र तद्वर्णप्रयुक्त- कार्यप्रवृत्ती मानाभावात् । “गोयच" इत्यत्र "नौद्यच" इत्यत्र च गोनौशब्दयोः पृथगुपादान सामर्थ्याच्च । अन्यथा पूर्वोत्तरभागा- वादाय द्वयोरपि यच्त्वेन तद्वैयर्थ्यापत्तेः । नुइविधिलादेशवि- नामेषु तु प्रतिविधेयम् । “नतिर्दन्त्यमूर्द्धन्यभाव" इति प्रातिशा- ख्योक्त्या दन्त्यस्थाने मूर्धन्यादेशस्य नतिसंज्ञत्वाद् विनामपदं प्रकृते नस्य णत्वपरम् । नुविधौ तावत् द्विहल इति विहाय "तस्मान्नुद्" इत्येव सूत्र कार्यम् । दीर्घादभ्यासात्परस्य नुट्- स्यादिति तदर्थः । न च आट आटतुः इत्यादावतिप्रसङ्गः । "अश्नोतेश्च" इत्यस्य यथान्यासे विध्यर्थस्यात्र नियमार्थत्वात् । अकारोपधानां मध्ये अश्नोतेरेव नुडागम इति नियमार्थः । त- न्मात्रनिषेधस्य नाश्न इत्यतोऽपि सिद्धेः । “कृपो रो लः" इत्य- त्रापि कृप उः रः लः इतिच्छेदः । कृप इत्यविभक्तिको- निर्देशः । उच्चारणार्थश्चाकारः । कृपेर्यो रेफस्तस्य लः कृपेक्रं. कारस्यावयवो यो रेफो रेफसदृश इति यावत् तस्य च लादेश इति तेन चलीक्लुप्यतइत्यादौ "रीगृत्वतः" इति रीगागमस्य रेफस्यापि लत्वसिद्धिः । अत एव "कृपे रो लः" इति पाठो भाष्यविरोधादुपेक्ष्यः। वस्तुतः संबन्धसामान्ये षष्ठीमाश्रित्य कृपेः साक्षादवयव- स्य परम्परावयवस्य च रेफस्योपादानात्तत्रापि न दोषः । भाष्यस्य समाधानोपलक्षणमात्रत्वात् । स्वतन्त्रास्वतन्त्रवत्ति- जातिर्नेति स्वयं वक्ष्यमाणत्वाद्रेफस्य विधीयमानं लत्वं लुका- .
, प्रथमपादे प्रत्याहाराह्निकम् । २ । रैकदेशस्य कथं स्यादिति वस्तुत इति चिन्त्यम् । यत्तु “रो लः"इत्यत्र अनुवाद्ये विधेये च स्वतन्त्रास्वतन्त्रवर्णसाधा- रणजातिर्लाह्या, तेन ऋकारस्य लकारादेश एवात्र विधेयः, एकदे- शस्य पृथकतुमशक्यत्वात् । तन्न । तादृशैकजातौ प्रमाणाभावात् । "लुटि च क्लुपः” इत्यादिनिर्देशश्च इह लिङ्गम् । गृणातीत्यादौ णत्वसिद्ध्यर्थं च "छन्दस्य॒दवग्रहाद्" इत्यत्र ऋदितियोगं विभज्य ऋतः परस्य नस्य णत्वं विधीयते । ततः“छन्दस्यवग्रहाद्" इति सूत्रान्तरम् । ऋत इत्यनुवृत्या "पितृयाणं द्युमद्" इत्यत्र पदपाठे णत्वम् । न चैवं तपरत्वान्मातृणामि यादौ णत्वं न स्यादिति वाच्यम् । “रषाभ्याम्" इत्यत्रापि रेफतत्सदृशभागयोः साधार- ण्येन ग्रहात्तत एव सिद्धेः । न च तत्र रेफसदृशभागोपादाने प्रमाणाभावः । “शुभ्नादिषु" तृप्नोतिशब्दस्य नृनमनशब्दस्य च पाठस्यैव तथात्वात् । न च नृनमनस्यापत्यं नानमनिरित्यत्र स्वतन्त्ररेफपयुक्तणत्ववारकतया सार्थक्यात्कथं नृनमनशब्द- पाठस्य ज्ञापकत्वमिति वाच्यम् । “असिद्धं बहिरङ्गमन्तरङ्गे"इ- त्यत एव सिद्धेः । एवं च योगविभागपक्षस्य पश्चादुपन्यासे ऽपि न तत्र भाष्यतात्पर्यम् । किं त्वत्रैव लाघवादि- त्यवधेयम् । न च ऋकारे रेफोत्तरवर्तिनाऽज्भागेन व्यवधानात् कथं "रषाभ्याम्" इत्यस्य प्रवृत्तिरिति वाच्यम् । “व्यवायेऽपि” इति योगविभागात् । न च कृतेनेत्यादावतिप्रसङ्गः। “अकुप्वाङ्- जुभिः" इति नियमात् । आक्षरसमाम्नायिकैः तत्संगृहीतैर्वा व्यवधाने यदि भवति तदा एतैरेवेति तस्यार्थः । वस्तुतस्त्वस्मिन्पक्षे उक्तज्ञापकात् प्रशास्तृणामित्यादिनिर्दे- शाच ऋकारात्परस्य णत्वमेव लाघवात् ज्ञाप्यम् । योगविभा- १०६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये गस्य वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इतिपक्षं प्रक्रम्यैव भाष्ये लिखितत्वात् । ननु तत्पक्षे पूर्वोक्तदोषाः कथं परिहार्या इति चेत्, उ- च्यते-एचा भागद्वयस्य विकृततरत्वेन अग्ने इन्द्र इत्यादौ सव- दीर्घाभावः । स्वतन्त्रयोरिदुतोर्वितत्वेन प्रयत्नभेदात् साव- ाभावात् । अत एवाग्ने एहीत्यत्र न पूर्वरूपापत्तिः । “एङः पदान्तादति" इत्यकारेण सावाभावादेचः पूर्ववर्त्यकार- भागानुपस्थापनात् । “दीर्घात् पदान्ताद्वा" इति एकयोगेनैव सिद्धौ दीर्घात् पृथक् तुगागमं विधाय “पदान्ताद्वा" इति विकल्प- विधानेन दीर्घ हस्थाश्रयो विधिर्न भवतीति ज्ञाप्यते । दीर्घस्या- पदान्ते नित्यं पदान्ते च विकल्पेन तुक् इतिव्यवस्थार्थ हि तत्र पृथक् मूत्रम् । यदि तु “छे च" इति इस्वस्य विधीयमानस्तुग्दीर्घ ऽपि प्रवर्तेत, तदाऽपदान्ते दीर्धेऽपि तेनैव सिद्धत्वात् पदान्ते दीर्घस्य विकल्पमात्रं विदध्यात् । अत एवालूय प्रमायेत्यत्र "इ- स्वस्य पिति कृति" इति तुगभावः। खट्वाभिः मालाभिरित्यादौ ऐसादेशोऽपि न भवति । तपरत्वसामर्थ्यात् । अन्यथा अस्येत्येव ब्रूयात् । याता वातेत्यादौ अतो लोपोऽपि न भवति । “गापोष्टक" इत्यत्र कित्त्वेन दीर्घाकारे अतो लोपो न प्रवर्त्ततइति ज्ञापनात् । अन्यथा ह्याकारोत्तरभागवर्तिनोऽकारस्य लोपे पूर्व भागवर्ति- नश्च प्रत्ययाकारेण सह पररूपे सामगः सुराप इति सिद्धौ "आतो लोप इटि च" इत्यालोपप्रवृत्यर्थ कित्त्वं व्यर्थ स्यादिति दिक् । ननु सम्यन्ता सम्वत्सरः सल्लोक इत्यादौ एकवर्णात्मक- स्यापि यकारद्वयादेरणसूपदिष्टैरनेकवर्णात्मकैः सावर्थेन ग्रह- णादस्तु हल्संज्ञा, कुक्कुटः पिप्पली पित्तमित्यादिस्थानां तु क.
प्रथमपादे प्रत्याहाराह्निकम् । २। थम्, क्क् प्प् त् इत्यस्याखण्डतया एकवर्णत्वात् । अन्यथा व्यञ्जन- स्यार्द्धमात्रतया क्क् इत्यादेः मात्राकालत्वानुपपत्तेः । ततश्च तस्य तदवयवयोश्च प्रत्याहारमध्ये पाठाभावात् पठितैश्चागृहीतत्वात् ह. ल्संज्ञाविरहात्संयोगसंज्ञकत्वाभावे "संयोगे गुरु" इत्यस्याप्रवृत्या तत्पूर्वस्योकारादेर्गुरुत्वाभावे "गुरोरनृतः” इति प्लुतो न स्याद् इतिचेत् । अत्राहुः-दावेवात्र ककारौ पकारौ तकारौ च मात्रा- कालौ, तुल्यव्यापारोच्चार्यतया द्रागेवोच्चारणात्तु द्वयोरैक्यभ्रम इति शिष्टसंप्रदाय इति परमार्थतो वर्णानां निरवयवतया प्र- क्रियादशायामेवायं विचार इति ॥ हयवरट ५। अत्र हकारोपदेशोऽटि आशि हशि इणि च ग्रहणार्थः । तेन महान् हि इत्यत्र “दीर्घादटि समानपादे" इति हकाररूप- मटमाश्रित्य नस्य रुत्वम्, “आतोऽटि नित्यम्" इत्यनुना- सिकश्च, "भोभगो" इत्यादिना रुस्थानीययकारस्य "हलि सर्वेषाम्" इति लोपश्च। तत्राप्यशात्यनुवृत्तेः । ब्राह्मणो हसतीत्यत्र "हशि च” इत्युत्वम् । लिलिहिवे लिलिहिध्वे इत्यत्र "विभाषेटः" इति ढत्वविकल्पः । "इणः पीध्वम्" इतिसूत्रादिण इत्यस्यानु- वृत्त्या इणः परो य इद् ततः परस्य विभाषा मूर्धन्यादेशस्य तेन विधानात् । अन्त्यसूत्रे तदुपदेशस्तु वल्लझल्शलपत्याहारेषु ग्र- हणार्थः । तेन रुदिहि स्वपिहीत्यत्र “स्दादिभ्यः सार्व- धातु के " इति वलादिसावधातुकलक्षण इद् । स्निाहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषतीत्यत्र पधादलादेः संश्च" इति इकारोकारान्यतरोधात् रलन्तात् -- "रलो न्यु- १०८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये परौ क्त्वासन्प्रत्ययौ वा किती स्तः इति कित्त्वविकल्पः । अदा- ग्धाम् अदाग्धम् इत्यत्र "दादेर्धातोर्घः" इति घत्वस्यासिद्धतया हकाररूपात् झलः परस्य सिचः सकारस्य "झलो झलि'' इति लो- पः। अरुक्षत् अलिक्षदित्यत्र “शल इगुपधादनिटः क्सः"इति शल- न्तत्वप्रयुक्तः सिचः क्सादेशः । तस्मादुभयत्र निर्देशः प्रत्येकं प्रत्याहारचतुष्टये ग्रहणार्थ इति दीक्षिताः । नव्यास्तु प्रथमोपदेशस्य अम्प्रत्याहारे ग्रहणमपि प्रयोज- नमस्ति । प्रयोजनचतुष्टयनियमस्य भाष्येऽनुक्तत्वात् । ककारह- काररूपव्यअनानुकरणे पुंसः हौ इति समासे “ पुमः खय्य- म्परे” इति रुत्वं प्रयोजनम् । यत्तु कारप्रत्ययस्यावश्यकतया नैतयोरानन्तर्य सम्भवती- ति । तन्न । “बहुलमेव तद्विधानम्" इति कौस्तुभादायुक्तत्वात् । एतेन " स्कोः संयोगायोः" इत्यादौ छान्दस एव तदभावः । "उच्चैस्तरां वा वषट्कारः" इत्यादौ पदादपि कारप्रत्ययोत्पत्ति- वदिति निरस्तम् । छान्दसत्वापेक्षया वैकल्पिकप्रवृत्तिरूपवा- हुलकस्यैव युक्तत्वात् । सवर्णसंज्ञासूत्रे चशयोः कङयोः श- पसविसर्जनीयेत्यादिकौस्तुभप्रयोगाणां तत्तत्सूत्रव्याख्याने प्रा- चीनार्वाचीनानेकप्रयोगाणां कः खो गो घश्च लक्ष्मी वितर- तीत्यादिभामत्यादिप्रयोगाणां च छान्दसत्वेन साधयितुमशक्य- त्वाच्च । केवलव्यअनोत्तरमभियुक्तानां कारप्रयोगस्य कुत्रा- प्यदशर्नाच्च । यदपि "झलां जशोऽन्ते" इति जश्भावस्य दुर्वारत्वात् हकारस्य खय्परत्वं नास्ति । न च मुख्यपदान्तएव तत्म- क्या व्यपदोशवद्भावेन पदान्तेऽत्र न तत्प्रवृत्तिः, अन्यथा " स्कोः संयोगायोरन्ते च इत्यत एवान्तपदानुवृत्ती ।
प्रथमपादे प्रत्याहाराह्निकम् । २। पुनरन्तग्रहणवैयर्थ्यादिति वाच्यम् । झलीत्यादिनिवृत्त्या पदस्येत्यनुवृत्त्या चान्तग्रहणस्य चरितार्थत्वादिति । तदप्यस- त् । स्थानिसमर्पकझल्शब्दस्य पृथगुपादानसामर्थ्यादेव अलि इत्यस्य निवृत्तिसिद्धेः। अन्यथा "झलो झलि" इत्यनन्तरं “ज. शन्ते" इत्येव मूत्रं स्यात् "स्कोः" इति सूत्रे पृथगन्तग्रहणसा- मादेव मध्यस्थमूत्रद्वये तदनुवृत्त्यभावोपपत्तेः । न चैवमपि तत्सूत्रद्वये. लोपपदानुवृत्तिन स्यादिति वा- च्यम् । जशः स्वरितत्वाभावादननुवृत्तौ विधेयतया लोपस्य लाभोपपत्तेः । न च झलः परस्य सस्य लोपविधायके "झ- लो झलि" इति सूत्रे झल इत्यस्य पञ्चम्यन्ततया "जशन्ते" इति मुत्रे षष्ठयन्तत्वं न स्यादिति वाच्यम् । शब्दाधिकाराश्रय- णात् । न च सस्येत्यस्याप्यनुवृत्त्यापत्तिः । स हि झल इ. त्यस्यानुवृत्तस्य पञ्चम्यन्तत्वे षष्ठयन्तत्वे वा । नाद्यः । झलः परस्य सस्य जश् स्यादित्यर्थे झलीत्यस्यान्तइत्यस्य च नैरपेक्ष्ये- ण निमित्तत्वे झलीत्यंशे "झलां जश् झशि" इत्यंशतः सिद्धेः । "खरिच" इत्यंशतोबाधाच्च। "झलो झलि" इति लोपविधानवि- रोधाच्च। न च समुच्चयः । चकारादेरभावात् । भावाभावयो- स्तद्विरोधाच्च । एतेन विकल्पोऽप्यपास्तः । क्लुप्तकल्प्य. योस्तदयोगान्निरनुयोगत्वाच्च । नान्त्यः । स्थान्याकाङ्क्षा- विरहात् । न च झलीत्यभेदेन सकारे विशेषणम् । अव्यभिचा- रात् । नापि वैपरीत्येन विशेषणविशेष्यभावः । विशेष्यभा- गवैयात् । वस्तुतस्तु "इट ईटि" इत्यनन्तरं "झलो झलि"इति सूत्रं का "जशन्ते” इति सूत्रं कर्त्तव्यम् । इत्थं च "हस्वादङ्गात्" ईटि" इति सूत्रद्वये सकारस्य लोपप्रतियोगिकत्वलाभो निर्वाधः।
११० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये सकाराननुवृत्त्यादिकं पूर्ववत् । "स्कोः संयोगाद्योश्च" इति सूत्रं पाठ्यम् । “ जशन्ते " इतिसूत्रादन्तग्रहणस्य चकाराच्च झली- त्यस्य लाभोपपत्तेः। यदि त्वेवमपि चकारेण जश्त्वसमुच्चयः स्यादिति दुराग्र- हः, तर्हि "स्कोः" इति सूत्रं यथाश्रुतमेवास्तु । पुनरन्तग्रहणसाम- र्थ्याच्च जशन्त इति सूत्रनिर्दिष्टस्य कस्यापि नानुवृत्तिरिति । एवं सिद्धे सति “झलां जशोऽन्ते" इति सूत्रं व्यवधानेन कृत्वा झलाम् इत्यस्य पुर्नग्रहणसामर्थ्यादेव झलीत्यस्य निवृत्ति- सिद्धा अन्तग्रहणस्य मुख्यान्तग्रहणार्थत्वस्यावश्यकत्वात् नात्र जश्त्वेन समाधानं साधीयः । अत एव चित्पि- त्कित्तिदित्यादिप्रयोगाः । आदैजित्यत्र तपरस्योत्तरार्थ त्वे पदान्तत्वाभावाजश्भावानापत्तिशङ्का असन्देहार्यतया पूर्वशेषत्वात् समाधानं चेतिद्वयं कौस्तुभोक्तं च सङ्गच्छते । यदप्युक्तम् “ञमङणनम्" सूत्रे मकारानुबन्धपत्याख्या- नाय झकारभकारौ पदान्तौ न स्त इति भाष्ये वक्ष्यते । उ- क्तरीत्या च पुम्क्झ् इत्याह पुम्भ् इत्याहेत्यादौ अङम- त्याहारयोःक् इति भझ् इति चानुकरणे यञ्प्रत्याहारस्या- प्यतिप्रसङ्गः स्यादिति तद्भाष्यविरोधः । मन्मते तु जश्त्वेन नातिप्रसङ्गः । न च तस्यासिद्धत्वम् । त्रितयापेक्षयाऽपि पूर्वत्वात् । तस्मात्पदान्तगतझकारभकाराभावप्रतिपादकभाष्यबलादी- दृशस्थले जश्त्वादिकमनभिधानं वाऽवश्यमाश्रयणीयम् । अन्य- थ. शह इत्याहेत्यादौ संयोगादिलोपस्य प्रसत्या "सङि" इति वचनावश्यकत्वे "परेश्वघाङ्कयोः" इति सूत्रगततत्खण्डनपरभाष्य- विरोधाचेति । तदप्यसत् । अतिप्रसङ्गस्थले तद्भलादनभिधा- ।
प्रथमपादे प्रत्याहाराह्निकम् । २ । १११ नेऽपि प्रकृते वाधकाभावात् । न ह्यत्र संयोगादिलोपप्रसक्तिः । संयोगस्य झल्परत्वाभावात् । पदान्तत्वाभावाच । न चान्तर्व- तिविभत्या प्रकृतेह् इत्यस्य पदान्तत्वम् । उत्तरपदत्वे चापदादि- विधाविति प्रत्ययलक्षणनिषेधात् । पुम् उह् इत्याद्यनुकरणेऽमि प्रयोजनसम्भवाच । तत् शहौ इत्यत्र “छत्वममि" इति प्रयोजनमस्तीति केचित् । तचिन्त्यम् । यथाश्रुते अप्रयोजनोक्त्यैव क्रोडीकृतत्वात् । तस्मा- दमि प्रयोजनं दुर्वारमिति दिक् । स्यादेतत् । रेफस्य यरन्तर्भावात् तत्कार्याणि प्रसज्यन्ते । तथा हि । मद्रहदः भद्रहद इत्यत्र “अचो रहाभ्याम्" इति अचः पराभ्यां रेफहकाराभ्यां परस्य यरो विधीयमानं द्वित्वं स्यात् न च "रो रि" इति लोपानिर्वाहः। तं प्रति द्वित्वस्यासिद्धत्वात्। "हलो यमा यमि" इतिलोपस्य तु वैकल्पिकतया पक्षे रेफद्वय- श्रवणापत्तेः । कुण्डं रथेन वनं रथेनेत्यत्र “अनुस्वारस्य ययि परसव- र्णः" स्यात् । न च रेफोष्मणां सवर्णाभावान्न दोषः । विजाती- यतदभावेऽपि रेफस्यैवापत्तेः । प्रातर्नयतीत्यादौ "यरोऽनुना- सिके ऽनुनासिको वा" इति स्थानसाम्येन पक्षे णकारः स्यात् । न च "हरयवद्” इति यकारवकाराभ्यां पूर्व रेफो निर्दे- श्य इति वाच्यम् । देवित्वा दिदेविषतीत्यत्र "रलो व्युपधाद" इति पक्षे कित्त्वप्रसङ्गात् । वकारस्याप्युक्तरीत्या रलन्त - वात् । न च तत्र अव्युपधाद् इतिच्छित्वा वकारद्वयं च प्रश्लिष्य अवकारान्ताद् इउवर्णोपधाद् इतिव्याख्यानाद्वकारान्ते न दोष, इति वाच्यम् । तथा ऽपि गौधेर इत्यादौ “ गोधाया दक्" इति द्रक्प्रत्यये ढस्य एयित्यादेशे आदिवृद्धौ “यस्ये- ति च" इत्याकारलोपे च " लोपो व्योवलि ” इति यका- ११२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये रलोपानुपपत्तेः । पचेरन्नित्यत्र सीयुटि सलोपे पच ईय् रन् इत्यत्र तदसिद्धेश्च । रेफस्य वल्यनन्तर्भावात् । न च "रलि" इत्येव तत्र वक्तव्यमिति वाच्यम् । हय गतौ हय्यादित्यत्र यकारस्यापि लोपापत्तेः । न च यथान्यासएव वलि इति सरेफं पदं छित्त्वा रेफे वलि च परतो लोपविधानान्न दोष इाते वाच्यम्। तथाऽपि यणस्थले सर्वत्र रणिति न्यासापत्तेः । यथासंख्यपरिभाषया इकारोकारऋकाराणां स्थाने रेफयकार- घकारादेशापत्तेश्च । न च "स्थानेऽन्तरतम"परिभाषया निर्वाहः। परत्वाद्यथासंख्यस्यैवापत्तेरिति वदन्ति । वस्तुतस्तु व्युपधात् " इत्यत्र इकारोकारयोः स्थाने यकारवकारयोः “अर्वणस्त्रसौ" इत्यत्र ऋकारस्थाने रेफादेशस्य च दर्शनादन्तरतमपरिभाषैवात्र प्रवर्तते । यद्वा "अऋइण्" "उलक्” इति पूर्वत्रापि न्यासः क- र्तव्यः । इक्स्थाने ऋक् इति इणस्थाने च ऋण् इति प्रदेशेषु व्यवहर्तव्यम् । इणग्रहणानां सर्वेषां सिद्धान्तेऽपि द्वितीय- णकारेणैव वाच्यत्वात् । इच्प्रत्याहारस्थलेऽ पि ऋचपदमेव वक्तव्यम् । “इसुसुक्तान्तात्" इत्यत्रापि उक्स्थाने ऋपदमेव देयम् । न च इकारस्याधिकस्य संग्रहापत्तिः । इष्टापत्तेः । “य- स्येति च" इकारलोपामकादेशं च कृत्वा सिद्धान्ते यथारूपं तथैव कादेशेऽपि । “यस्येति च" इत्यस्याप्रवृत्तिमात्रं तु न दोषाय । "श्रयुक" इत्यत्रापि ऋपदोपादाने इकारस्याधिकस्य संग्रहेऽपि श्रिग्रहणस्य नियमार्थत्वात् । वस्तुत ऋक्मत्याहारे इकारस्य कुत्रापि ग्रहणं नेति ज्ञापनार्थ- त्वात् । तेन "उगिदचां सर्वनामस्थाने" "उगितश्च” इत्यादौ न दोषः। एवं च हस्तिनीनां समूहो हास्तिकमिति ठक्षत्यये इका.
प्रथमपादे प्रत्याहाराह्निकम् । २। ११३ देशाभावे भसंज्ञाविरहे "भस्याढे तद्धिने" इति पुंवद्भावो न स्याद् इतिदोषविरहोऽपि निर्वाधः। "अणुदित सवर्णस्य" इत्यत्र तु न कोऽपि विशेषः । परेणैव तत्र प्रत्याहारात् । तद. न्यत्र तु अप्रत्याहारस्य पूर्वेणैव ग्राह्यत्वात् उकारस्य तद्वहिर्भाव ऋकारस्य तदन्तर्भावश्च स्यादिति दोषः । परं तु व्य इति तत्स्थले सर्वत्र निर्देश्यम् । उ इ अ इत्येपां तेन संग्र- हात् । व्याख्यानवशाच्च धकारादीनां न ग्रहणम् । सिद्धान्ते ऽपि पूर्वेण परेण वा णकारेण प्रत्याहार इति निर्णयार्थ व्या- ख्यानस्यैवादरणीयत्वात् । पूर्वत्र णकारानुवन्धश्च परित्या- ज्यः । न चैवं व्याख्यानतो विशेषप्रतिपत्तिरिति परिभाषायां लिङ्गाभावः । लिङ्गान्तरस्य संभवात् । बस्तुतस्तु “अऋइउण्” “लक्इति न्यासः कार्यः । अत उकारस्य न बहिर्भावः । परिशिष्यते तु ऋकारस्याधि- कस्यान्तर्भावापत्तिः । साऽप्येवं परिहार्या । तृतीयेतिनिर्देशन अणग्रहणेषु ऋकारो न गृह्यते इति ज्ञाप्यते। तथा हि । “हलः" इतिमूत्रे अण इत्यस्य नानुवृत्तिरिति लण्-मूत्रे स्थापयि- प्यते । तथाऽपि तत् सिद्धान्तदृष्टयैव । एतत्पक्षे तु तत्राप्यण इत्यनुवर्त्यमेव । “इकः काशे" इत्यत्रापि तदनुवृत्तौ इग्रूपस्या- ण इत्यभेदान्वयेन समाधानस्य भाष्यएव स्पष्टत्वात् । यदि च "ठूलोपे" इतिसूत्रे अण्ग्रहणेन ऋकारोऽपि गृह्येत, तदा "हलः" इत्यत्रापि तथात्वप्रसत्या तृतीयेत्यत्र त्रेस्तीयप्रत्यये रे- फस्य संप्रसारणे ऋकारे च कृते ऋकारस्यापि दीर्घापत्त्या तृतीयेति निर्देशोऽसंगत एव स्यात् । अत इष्टानुरोधात्पूर्वे- णाणग्रहणस्थले ऋकारस्तन्मध्ये न गृह्यते इतिज्ञापनेन सक- लेष्टसिद्धेः।
११४ व्याकरणासिद्धान्तसुधानिधौ प्रथमाध्याये स्यादेतत् । ऋकारस्य यथान्यासपने पूर्वेण अण्प्रत्या- हारे गृह्यमाणे तदहिभूततया तयावृत्त्यर्थं तत्र पूर्वेणाणग्र- हणं स्वीक्रियते । उक्तन्यासे तु पूर्वेणाण्ग्रहणेऽपि तद्वहिर्भा- वानुपपत्त्या उक्तातिप्रसङ्गस्य च तृतीयेति निर्देशनैव वारण- सम्भवात् तत्र अण्ग्रहणं पूर्वेणैवेत्यत्र मानाभावः । परेणा- ण्ग्रहणेऽपि ऋकारस्याण्बहिर्भाव इति स्वीकारे तु "अणु- दित सर्वणस्य" इत्यत्रापि तद्ग्रहणानुपपत्तिः इतिचेत् । स- त्यम् । ऋलवर्णयोर्मिथः सावारम्भसामर्थ्यात् तस्य ग्राह- कत्वसिद्धेः । न च सवर्णदीर्घादिविधाने चारितार्थ्यमिति वाच्यम् । तथाऽपि “ऋदुपधाचाल्कृपिघृतेः" इत्यत्र भेदप्रतियो- गित्वेन ल्कृपिनिवेशेन पर्युदासव्यतिरेके ऋदुपधत्वप्रयुक्तकार्या- पत्तेरपेक्षितत्वात् । ऋकारस्य लकारग्राहकत्वाभावे च सामान्य- शास्त्रस्य तद्विषयकत्वमसत्यभावे तयारत्तितात्पर्यकस्य ल्कृपि- पर्युदासस्य वैयापातात् । वस्तुतो हलां दीर्घत्वबाधाद् एचां च विशेषाभावात्तत्र परे- णाण्ग्रहणवैयर्थ्यात् । तथा च यथासङ्ख्यपरिभाषयैव नि- हि इति भगवतो भाष्यकारस्य भावः । वलीति व्याख्या- नेन च पचेरन् गौधेरादिसिद्ध्यनन्तरं दोषान्तरानुपन्यासेन तद्दो- षपरिहारे तत्सम्मतिनिर्णयात् । अत एव "अथ वा पुनरस्तु परोपदेश" इति रेफापकर्षसमकक्षतयैव यथान्यासे दोषोद्धारा- भिधानात् । तद्यथा ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामित्यत्र सामान्यतः प्राप्तं भोजनं विशेषशिष्टेन प- रिवेषणेनेव कार्यप्रतियोगियनिष्ठपरत्वनिरूप्यपूर्वत्वरूपेण द्वित्व- निमित्तत्वश्रुत्या कार्यप्रतियोगित्वं बाध्यतइति मद्रहद इत्यादी न द्वित्वम्। सामान्यस्य विशेषपर्यवसानपर्यन्तं साक्षाच्श्रुतकार्या- प्रथमपादे प्रत्याहाराह्निकम् । २। ११५ न्तरस्यैव प्रथमोपस्थित्या तद्विशेषेऽन्वयात् । तदेतदुक्तम्- नेमौ रहौ कार्यिणौ द्विवचनस्य, किं तर्हि निमित्तमिति । हकारस्य यर्वहिर्भूतस्य यथा न द्वित्वं, तथा तदन्तर्भूतस्यापि रेफस्य । कार्योपधायकसामग्रीवैकल्यसाम्ये तदन्तर्भावमात्रस्या- किंचित्करत्वात् । तच्च दृष्टान्ते याभावात् दान्तिके चोदे- श्यतावच्छेदकपटकभेदप्रतियोगित्वात् । रेफभिन्नयत्वस्यैव न्याय- वशाद्वित्वविधावुद्देश्यतावच्छेदकत्वात् । एवम् "अनचि च" इत्य- नेन हर्यनुभव इत्यादावपि रेफस्य न द्वित्वम् । अर्थाधिकारेण तत्रापि यर इत्यस्य रेफभिन्नपरत्वात् । अथैवम् "इको यणचि" इत्यादिकं दध्युदकमित्यादौन प्रव- त । विशेषतः श्रुतेन स्थानित्वेन इको निमित्तत्वबाधापत्तेः इतिचेत्, अत्र कैयटः-- तस्मादित्युत्तरस्य इत्यादिनिर्देशान्न तत्रोक्तन्यायप्रवृत्तिरिति । यत्तु कौस्तुभे व्यक्तिपक्षे प्रतिलक्ष्यमसकल्लक्षणप्रवृत्तेः स एव तत्राश्रयणीयः । यद्वा प्रतिलक्ष्यं भिन्नानां सर्वेषां लक्षणा- नां तन्त्रेणोच्चारणम् "इको यणचि" इति । तथा च सर्वासामि- कारव्यक्तीनां यविधानेऽर्थादिक्परत्वेऽपि यसिद्धिः । अ. न्यथा सर्वेषामिकाराणामिभिन्नापरत्वानियमाभावेन विध्य- निष्पत्तेः । न चातिप्रसङ्गः, अपवादविधिपर्यालोचनया तय- तावेतसात्पर्याकल्पनादिति । तचिन्स्यम् । व्यक्तिपक्षेऽपि निमित्तसमर्पकस्याच्पदस्य न्यायवशादिग्भिन्नपरत्वे सिद्धे इ- पापूर्ववर्तिम्या इग्व्यक्तेरुद्देश्यत्वएव मानाभावाद् दध्युदका- दौ तत्प्रवृत्तेर्दुर्घटत्वात् । श्रूयमाणवाक्ये उद्देश्यताविधेयतावच्छे- दकत्वाभ्यां निश्चिता ये धर्माः तदवच्छिन्नव्यक्तिष्वेव न्यायसा- म्येन तत्समानाकारकवाक्यान्तराणां प्रत्तेः । अन्यथा हल्प- ११६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये रत्वेऽपि यणादिप्रत्यापत्तेः । न च अच्पदोपादानसामर्थ्यम् । इग्भिन्नमात्रसंग्राहकप्रकारान्तराभावात् । एचीत्युक्ते एकमा. प्राधिक्यादकारानुपग्रहाच इति दिक । अत्र वार्त्तिकम्- अयोगवाहानाममु णत्वम्, शर्षु जश्भावषत्वे, अविशेषेण संयोगोपधासंज्ञाऽलोऽन्त्यद्विवचनस्थानिवत्त्वप्रतिषेधा इति । प्रयोजनविशेषपुरस्कारेणैव येषां प्रत्याहारविशेषान्तर्भाव इष्टः तेषां प्रत्याहारान्तरेषु प्रवेशापत्त्या वर्णसमानायेऽनुपदे- शादनेन सप्रयोजनः प्रत्याहारविशेषान्तर्भावः प्रतिपाद्यते । अयोगाः स्वरूपतो द्वारतो वा प्रत्याहारानन्तर्भूताः वाहाः प्रयोगे श्रूयमाणाः ते च विसर्जनीयजिह्वामूलीयोपध्मा- नीयानुस्वारयमा इति भाष्यम् । " ऋति ऋ वा" " लुति ल वा" इति षष्ठे वक्ष्यमाणौ ईपत्स्पृष्टौ नोक्तौ । तथाऽपि तयोरचत्वं वक्ष्यामीति तुल्यास्यमूत्रभाष्ये दर्शनात्तावप्यत्रोपलक्षणीयौ । एषामसु पाठः कार्यः । उरः कायति उरः पातीति कात्ययः । उरकेण उर:- पेण इत्यत्र णत्वं यथा स्यात् । अन्यथा अट्त्वाभावेऽड्व्यवाये- ऽपीति न प्रवर्तेत । शर्ष चोपदेशः कार्यः । उब्ज आर्जवे इत्युपध्मानीयोपधस्य धातोरुपध्मानीयस्थाने "झलां जश झशि" इति जश्त्वेनान्तरतम्या- द् बकारादेशे उब्जितेत्यादि यथा स्यात् । शर्वसिद्धौ तन्नान्तरी- यकतया झल्त्वस्यापि सिद्धेः । सर्पिःषु धनुःषु इत्यादौ " नुम् विसर्जनीयशर्व्यवायेऽपि" इति पत्वं च यथा स्यात् । न च तत्र विसर्जनीयस्य पृथगुपादानादेवेष्टसिद्धिः । तस्यैवोक्तरीत्या प्र- त्याख्येयत्वात् । यद्यप्यत्र उर:क. प्रथमपादे प्रत्याहाराहिकम् ।२। ११७ अविशेषेण प्रयोजनपञ्चकोपयुक्तप्रत्याहारपुरस्कारेण इत्य- र्थः । तेन उनकेत्यत्र उकारस्य प्लुतोपयुक्तगुरुसंज्ञाप्र- योजकसंयोगसंज्ञाप्रयोजकं हल्त्वम्, निष्कृतं दुष्कृतमित्यत्र “इदुदु- पधस्य"इति षत्वोपयुक्तोपदासज्ञाया विशेष्यभूतवर्णनिष्ठाव्यव- हितपूर्वत्वनिरूपकान्त्यत्वप्रतियोगितावच्छेदकत्वं, वृक्षस्तरतीत्यत्र विसर्जनीयान्तस्य पदस्य स इति पक्षे सर्वादेशत्ववारणाय अ. लोऽन्त्यमूत्रविहितान्तादेशस्थानितावच्छेदकम्, व्यूढोरस्कनेत्यत्र सकारस्य स्थानिवद्भावेनाव्यवाय इति णत्वमाप्तौ "अनल्विधौ" इति पर्युदासघटकभेदप्रतियोगितावच्छेदकं चाल्त्वम्, उरःप इत्यादौ "अनचि च" इति द्वित्वप्रतियोगितावच्छेदकं यत्वं च विसर्गादीनां सिध्यतीति वार्तिकार्थः । अनायं विवेकः । जश्भावो न प्रयोजनम् । उब्जधातोरुप- ध्मानीयोपधत्वे प्रमाणाभावात् । उब्जिजिषतीत्यसिद्ध्यापत्तेश्च । तथा हि। बकारसहितस्यैव द्वित्वे "हलादिःशेषः" इति जकारनि- वृत्तावभ्यासे बकारमात्रं श्रूयते । न च जश्त्वासिद्धतया बकारस- हितस्य न द्वित्वमिति वाच्यम् । पूर्वत्रासिद्धीयमद्वित्वे इत्युक्तेः । अथ प्राणिणिषतीत्यत्र " उभौ साभ्यासस्य " इति न- कारद्वयस्य णत्वविधानादुक्तपरिभाषाऽनित्या । अन्यथा ण- काराविशिष्टस्यैव द्वित्वे अभ्यासे स्वत एव णकारसिद्धौ तदै- यात् । अत एव औजढदित्यत्राभ्यासे जकारसिद्धिरित्या- श्रीयते । तथाऽपि नेष्टसिद्धिः । अभ्यासस्योपध्मानीयमात्रशे- षतापत्तौ " अभ्यासे चर्च" इति जश्त्वेन बकारस्यैव श्रव- णापत्तेः । उबिब्जिपतीति रूपसाम्येन दोषाविशेषादिति कै- यटादयः। यत्तु "प्रकृतिचरां प्रकृतिचरः" इति सिद्धान्ताद् उपध्मानीयमा.
११८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये त्रस्याभ्यासे श्रवणापत्तिरिति स्थापितम् । तच्चिन्त्यम् । प्रतिनियतविषयपुरस्कारेण प्रत्याहारविशेषान्तीववचनसाम- येन चासिद्धेः । न चैवं झल्संज्ञाऽपि न स्यादिति वाच्यम् । जश्त्वस्य प्रयोजनत्वोक्त्या तदेकवाक्यतापन्नसंज्ञाया अप्याले- पेण वैषम्यात् । न हि "झलाञ्जशः" इति जश्त्वमेव तत्रोपात्तमिति वक्तुं शक्यम् । बीजाभावादिति वृद्धाभिप्रायात् । तस्मादुन्जिजि- पतीति रूपासिद्धिस्तदवस्थेति । एवमस्मादेव घत्रि "च- जोः कु घिण्ण्यतोः" इति कुत्वेन जकारस्य गकारादेशे उप- ध्मानीयस्य जश्त्वेन बत्वे कृते अभ्युग समुन्गः इति रूपापत्ती "सोऽपदादौ” इत्यधिकारे "उपध्मानीयस्य च" इति वार्तिका- न्तरेण कवर्गे परत उपध्मानीयस्य सकारादेशं तत्स्थाने जश्त्वेन दन्तस्थानसाम्यादकारादेशं कृत्वा अभ्युद्गः समुद्गः इति रूपं साधनीयमिति सत्वविधायकवचनान्तरारम्भेऽपि गौरवम् । यदि तु बकारोपधोऽयमिति वृत्तिमतमाश्रीयते तथाऽपि सनि बकारस्य द्वित्वनिषेधोऽभ्युद्ग इत्यत्र बस्य दत्वं च साधयितुं वचनद्वयानुमाने गौरवमेव स्यात् । तस्माद्दकारोपध एवायम् । अभ्युद्ग इत्यादेः स्वरसतः सिद्धेः । न चैवमुब्जितेत्यादि क- थमिति वाच्यम् । “भुजन्युजौ” इति कुत्वाभावनिपातनार्थे सूत्रे बकारोच्चारणेन " भ ‘उद्जे "इति "ब उद्जेः"इति वा वच- नस्यानुपानात् । अकुत्वविषये उद्ज़ेर्दकारस्य भकारो बकारो वा स्यात् स्तोश्चुना श्चुः " इत्येतदुत्तरं तत्कल्प- नाच तवर्गोपस्थितदकारस्य स्थानित्वलाभः । एवं च न न्द्राः संयोगादयः" इति दकारस्य द्वित्वनिषेधान्जि- शब्दस्यैव द्वित्वे दकारस्य चोक्तवचनेन बत्वे कृते उब्जिजिष- तात्यपि सिद्धम् । न च द्वित्वात्पूर्व परत्वाद्वत्वापत्तिः। “पूर्वत्रा- प्रथमपादे प्रत्याहाराह्निकम् । २ । ११९ सिद्धे नास्ति विप्रतिषेधः" इति सिद्धान्तात् । नाप्यन्तरङ्गत्वात् । असिद्धत्वादेव । नापि "पूर्वत्रासिद्धीयमद्विवचने" इति तनिषेधः। द्वित्वविधावेव तत्प्रवृत्तेः । अत्र च द्वित्वनिषेधेन वैषम्यात् । अत्रेदमवधेयम् । न न्द्राः संयोगादयः' इत्यत्र "लोपो ब्योर्वलि" इति लोपेन दकारानेफाद्वा पूर्व वकारोऽपि प्रश्लि- प्यते । तेन वार्तिकमते वृत्तिमते च उब्जेर्वकारस्य द्वित्वनि षेधार्थ न वचनान्तरानुसारः । वार्तिकमतेऽपि पूर्वत्रासिद्धीयम- द्विवचन इत्याश्रित्य बकारस्य द्वित्वनिषेधसिद्धेः । अतो भा. प्यमते न लाघवावकाशः। अतिरिक्तैकवचनकल्पनं तु प्रया- णामपि समानम् । एतावान्परं विशेषः । वार्तिकमते उपध्मा- नीयस्य सकारादेशविधायकं वचनं कल्प्यम् । भाष्यमते द- कारस्य बत्वविधायकम् । वृत्तिमते तु बकारस्य दकारवि- धायकमिति । यदि तु "भुजन्युजौ' इति निपातनादेव दस्य बादेशो न तूक्तवचनमनुमेयमिति भाष्यमते लाघवमिति कल्प्य- ते, तदा बकारस्यैव द्वित्वापत्तिः । असिद्धत्वाभावात् । दकारोप- धनिर्देशसामाजिशब्दस्य द्वित्वानन्तरमेव दकारस्य द्वित्व- मिति कल्पनेऽपि अभ्युद्ग इत्यादावपि तदापत्तेः । अकुत्व- विषये एव बत्वं निपात्यत इतिकल्पनेऽपि कुत्वविषये श्र- वणार्थतया दकारोपदेशस्य चरितार्थत्वात् द्वित्वानन्तरमेव बत्वमिति न स्यात् । अथाविशेषेण बत्वनिपातमभ्युपेत्य उपसर्गान्तरपूर्वका- केवलाद्वा उब्जेने घादिः अनभिधानात् । अभ्युद्गः समुद्र इति तूपसर्गद्वयपूर्वकाद्गमेर्डप्रत्यये रूपमिति कल्प्यते । ततो वार्तिककृत्योर्मतेऽपि अभ्युद्ग इत्यादेरुक्तगत्यैव साधयितुं शक्य- तया उपध्मानीयस्य सत्वविधायकं बकारस्य दत्वविधायकं च १२० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये वचनं न कल्प्यमिति कुतस्तत्रापि गौरवम् । परं तूपध्मानीयस्य शपदेश एवातिरिक्तः कल्प्य इति गौरवम् । वृत्तिमते तूक्तरीत्या बकारप्रश्लेषकृतं गौरवम् वार्तिकसाधारणं बोध्यम् । किं च भाष्यवृत्योर्मते संयोग- संज्ञार्थ यत्नान्तरं नास्थेयम् । वार्तिकमते तु पूर्वोक्तरीत्या त- दावश्यकमिति गौरवम् । ननु षत्वसिद्ध्यर्थ शपदेशस्यावश्यकतया तद्गौरव- मपि नेति चेत् । मैवम् । तदर्थ विसर्गस्यैव तदन्तर्भावानपेक्ष. णात् । वस्तुतस्तस्याप्यप्रयोजनत्वात् । “नुविसर्जनीय" इति सूत्रे विसर्जनीयपदस्य सत्त्वेन तद्यवाये षत्वसिद्धेरप्रत्यूहत्वात् । न च तत्र तन्न कर्त्तव्यमेवेति वाच्यम् । सिद्धं प्रत्याख्याय य- नान्तरकल्पनस्यैव वैयर्थ्यात् । यत्तु शपदेशेन झल्त्वमिव हल्त्वयवखवीन्यपि सिध्यन्ति । खवस्य फलं तु " कुप्वोः क पौ चं" इति विसर्गः । अतः शर्तेपदेशावश्यकत्वे तत एव निर्वाहे सूत्रे विसर्जनीयग्रहणं न कार्यमेवेति । तच्चिन्त्यम् । जश्त्वस्य प्रयोजनत्वोत्या तद्ध- लाज्झल्त्वसिद्धावपि हल्त्वादीनां तेनानाक्षेपात् । हल्त्वय- ल्वानां प्रातिस्विकरूपेणैव विधानात् । विसर्गस्य च सौ- त्रत्वादेव सिद्धेः। लोकेऽपि तस्येष्टत्वे तु अविशेषणेत्यत्र त- स्यापि प्रक्षेप्तुमुचितत्वात् । अस्तु वा तत एव ज्ञापकादति- रिक्तखर्चास्यापि स्वातन्त्र्येण सिद्धिः । न तु तावता हल्त्वय- देः शाक्षेप्यत्वं मानाभावात् । अस्तु वा शाक्षिप्तानामप्येषां कार्यविशेषपुरस्कारेण नियमार्थम् । अविशेषेणेत्यादिवार्तिकं सर्वथाऽप्युक्तकार्यातिरिक्त नैषां कुत्रापि प्रत्याहारउपादानम् । अत एव “कुप्वोः क-पौ" णाय प्रथमपादे प्रत्याहाराहिकम् । २। १२१ इत्यत्र "खपरे शरि"इति विसर्ग एव । यद्वा "वा शरि" इति विकल्प इति निरस्तम् । अत एवादशरोरुपदेशेन संज्ञान्त. राणां सिद्धिसम्भवेऽपि उपायस्योपायान्तरादूषकत्वादित्या- शयेन प्रत्याहारविशेषान् पृथक् पुरस्कृत्य वार्तिकाक्षरविन्यास इत्यप्यपास्तम् । नियमार्थमुक्तप्रकारेणैव वार्तिकरचनाया उ- चितत्वात् । एतेन हरिः करोति हरिं पश्य इत्यत्र यण्वार- विसर्गानुस्वारयोरसिद्धत्वानुसरणलेशोऽप्यपास्तः । एतेनैव असु क्रियमाण उपदेशोऽकाराव्यवहितोसरमेव क- र्तव्यः, अन्यथा इणप्रत्याहारान्तर्भावे संस्कर्तेत्यत्रानुस्वारा त्परस्य सस्य षत्वापनेरित्यप्यपास्तम् । ध्वनितं चेदं सं. स्कर्तेत्यत्रानुस्वारादचः परस्य सस्य द्वित्वं वदता, उक्तरीत्या उबिब्जिपतीत्यभ्यासे बकारं चापादयता कैयटेनैवेति दिक् । तस्माज्जश्त्वषत्वे नात्र प्रयोजने इति सिद्धम् । आवश्यकं चेदं भाष्यकृतोऽपि । अन्यथा षत्वार्थ शप- देशस्यावश्यकत्वे तत एवं जश्त्वस्वापि तत एष झल्त्वेन सिद्धौ वार्तिकमतेऽपि शपदेशरूपगौरवानापत्तेः । “भुज- न्युजौ” इति निपातनस्य बत्वांशेऽपि तात्पर्यस्य भा- ध्यकृतोऽप्यधिकस्य कल्प्यत्वात् । गौरवान्तरस्य च प- रिहृतत्वात् । न च वार्तिकमते संयोगसंज्ञासियर्थयत्रनिबन्धनं गौ- रवम् । “भुजन्युजौ" इत्यत्र गुरूच्चारणसामर्थेन जश्त्वस्या- सिद्धत्वाभावं कल्पयित्वा बकारमादायैव तत्सिद्धः । संयोग- संज्ञायाः प्रयोजनत्वाभिधानस्य च यथाश्रुतपरत्वात् । व- स्माजश्त्वरूपप्रयोजनप्रत्याख्यानपरभाष्यप्रामाण्यात् षत्वस्यापि प्रकृतप्रयोजनत्वप्रत्याख्याने तत्सम्मतिरुनीयते । जिहामूली- “ १२२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये यपरत्वे विससिद्धिस्तु “कुप्वोः क:पौ च" इति निपातसा- मादेव । तेन "खयां यमाः खयः क पौ" इत्यादौ नानुपप- तिरिति सूक्ष्ममवधेयम् । उपधासंज्ञाऽपि न प्रयोजनम् । इदुदुपधस्थानिको यो विसर्ग इतिव्याख्यानात् । इदुद्भ्यां परस्य विसर्गस्येत्यत एव सि. दावुपधाग्रहणप्रत्याख्यानाद्वा । अलोऽन्त्यविधिरपि न प्रयोजनम् । पदस्य यो विसर्जनी- यस्तस्य सकार इतिव्याख्यानादेव सिद्धेः । स्थानिवत्वप्रतिषेधोऽपि न प्रयोजनम् । पूर्वत्रासिद्धीये न स्थानिवदिति सिद्धेः । न च तस्य अचः परस्मिन्" इत्ये- तन्मात्रविषयकत्वम् । स्थानिवद्भावं प्रति त्रिपादीस्थस्यासि- द्धतया न्यायमूलकत्वात् स्थानिवद्भावमात्रविषयकत्वात् । त- स्मादसु णत्वम् " अनचि च " इति द्वित्वं चेति प्रयोजन- दयमेव सिद्धम् । लण् ६ । हकारादावकारस्य सुखोच्चारणमात्रार्थत्वेऽप्यत्रानुनासि- कत्वादिसंज्ञा । प्रतिज्ञाऽऽनुनासिक्याः पाणिनीया इतिसि- द्धान्तात् । तेन रेफेण सहाकारोच्चारणे "उरण रपरः" इत्यत्र रप्रत्याहारेण रेफलकारयोरुपादानम् । ऋकारलकारयोः सा- वर्ण्यमिति वार्तिकनिर्देशश्चात्र मानम् । ननु “ठूलोपे पूर्वस्य दीर्घोऽणः" इत्यादावणग्रहणं पू- वेण परेण वा णकारेणेतिसंदेहः प्रामोति इतिचेन्न । ग्रहणक- शास्त्रे परेणैव तदन्यत्र पूर्वेणैवेतिव्याख्यानवशात्तभित्तेः । तथा हि । अच इत्येव सिद्धत्वाद् एचा दीर्घत्वे विशेषाभावाद् प्रथमपादे प्रत्याहाराहिकम् । २। १२३ अक इत्येव वा सिद्धत्वाद् दीर्घत्वस्याजमात्रधर्मतया हकारादीनां तदसम्भवाद्विनाऽप्यग्रहणं सिद्धत्वाचाण्ग्रहणसामर्थ्यादेव "द्र- लोपे" इत्यत्र पूर्वेणाण्ग्रहणम् । न च वृह उद्यमनइत्यस्मात्तृचि अदित्वात् "स्वरतिसूति" इति इडभावकारस्य गुणे "होढः" इति ढत्वे "झषस्तथोः" इति प्रत्ययतकारस्य धत्वे ष्टुत्वेन धस्य ढ- त्वे "ढो हे लोपः" इति पूर्वढकारलोपे रेफस्य स्थानसाम्येन ऋकारे दीर्घ ढलोपस्यासिद्धतया तत्पूर्वऋकारस्योपधासंज्ञायाम् "उपधायाश्च" इति इत्वे रपरत्वे इकारस्य लघूपधगुणे च वेति- रूपार्थ परेणाण्ग्रहणं स्यादिति वाच्यम् । “अचश्च"इतिपरि- भाषाविरोधात् रेफस्य दीर्घासम्भवात् । न च परेणाण्य- हणसामर्थ्यम् । अन्योऽन्याश्रयात् । अण्ग्रहणसामर्थ्यप्रदर्शक- भाष्यविरोधाद् अटिति टकारेण सह प्रत्याहारपाठेनापि त- दुपपसेश्च । यत्तु तृतीयेति निर्देशात्पूर्वेणैवात्राण् । अन्यथा "हलः" इ- त्यत्राप्यत्रत्यस्यैवाणोऽनुवृत्त्या वेः संप्रसारणे रेफस्थानीयऋ. काररूपस्याणोऽपि दीर्घप्रसङ्गादिति । तच्चिन्त्यम् । अङ्गा- वयवाद्धलः परं यत् संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यादि- त्येव तदर्थात् । "इकः काशे" इत्यादौ विच्छिन्नस्याण्ग्रहणस्या- नुवृत्तौ मानाभावात् । तथा च तत्र भाष्ये उक्तसूत्रादण्य- हणानुवृत्या पूर्व समाधानं कृत्वा सिद्धान्तितम्- अथ वा उभयं निवृत्तं, कस्मान भवति तृतीय इति, द्विती यतृतीयनिपातनादेतत्सिद्धमिति । तस्मादण्ग्रहणमेव ज्ञापकमिति भाज्यसम्मतम् । यत्तु प्राचाम् अणः किं दृढ इति प्रत्युदाहरणम् , ताञ्चिन्त्य- म् । "हटा स्थूलबलयोः' इत्यत्र इडभावो नकारहकारयोर्लोपो १२४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये निष्ठातकारस्य ढत्वं च निपात्यते । न त्वसिद्धकाण्ड- स्थढत्वादेः प्रवृत्तिः । परिद्रढय्येत्यत्र "ल्यपि लघुपूर्वा" इत्ययादेशस्य पारिढीकन्येत्यादौ गुरूपोत्तमत्वाभावप्र- युक्तष्यङभावस्य चासिद्ध्यापत्तेः इति भाष्यादावुक्तत्वादि. ति बहवः । प्रासादकारस्तु नकारलोपनिपातनोक्त्या हेरेवेदं निपातन- मिति वृह वृद्धावित्यस्य प्रत्युदाहरणत्वं युक्तमेवेत्याह । युक्तं चैतत् । आदृढः आढः इत्यत्र भाष्यस्वारस्यात् । अत एव “दा- देर्धातोर्घः' इत्यस्य प्रत्यभाव इडभावश्चेत्यादिकल्पनमपि न दोषावहम् । बलवत्प्रमाणानुगृहीतत्वात् । एतेन दृहेरपीदं नि- पातनमिति काशिकोक्तं परास्तम् । उक्तलिङ्गविरोधेन कल्पनोच्छे- दाच । एतेनास्मात्पारिद्रदय्य पारिदृढीत्यत्रायादेशाभावष्यङ्ग- त्यययोरापादनमपीष्टापादनमेव । रूपभेदस्वीकारे वाधकाभावा- त् । प्रमाणस्य च दर्शितत्वात् । एतेन प्रक्रियायां तृढ इति पा- ठकल्पनमप्यपास्तम् । “ केऽणः” इत्यपि पूर्वेणैव । गोका नौका इत्यादौ उपानका चतुष्कमित्यादौ च धत्वविसर्ज- नीययोरसिद्धत्वात्परेषामचा हलां च संभवेऽपि इस्वविध्यु- पस्थितस्य "अचः" इत्यस्यानुरोधादिति कौस्तुभे । ने" इत्यत्र नेतियोगविभागाद्धत्वादीना- मसिद्धत्वं नास्तीति हकारादीनां कात्यये परेऽसम्भव ए- वेति व्याख्यातम् । न च गोका इत्यादावतिप्रसङ्गः । अच इत्येव वक्तव्यत्वापत्तेः । “अणोऽप्रगृह्यस्यानुनासिकः" इत्यत्र परेण प्रत्याहारे यद्यपि ऋकारादीनां स्वरूपतः संभवोऽस्त्येव, कर्तृ, अग्ने, वायो, पचे, मालामाचक्षाणो माल, वृक्षवयतेर- प्रत्यये वृक्ष, इत्यादौ सानुनासिकाननुनासिकभेदेन यव- कैयटे तु "न मु प्रथमपादे प्रत्याहाराहिकम् । २। १२५ लानां वैविध्यात्, तथाऽप्यप्रगृह्यस्येति पर्युदासेन भेद- प्रतियोगिढत्तिभेदप्रतियोगितावच्छेदकसाक्षाध्यापकधर्मावच्छिन्न- स्यैवानुयोगिनो व्युत्पत्तिवलात्प्रतीत्या प्रगृह्यभिन्नत्वेनाच एवोपस्थितिसिद्धौ अण्ग्रहणसामर्थ्यात्पूर्वेणैव प्रत्याहारः । वृक्षशब्दस्तु कैयटेन व्याख्यातः । वृक्षं वृश्चतीति विव- न्ताद् वृक्षवृश्चमाचष्टइति णिचि णाविष्टवत्प्रातिपदिकस्येति टि- लोपेन ऋकारशकारचकाराणां निवृत्तौ वृक्षवयतीति सिद्धे त- तो विच । न तु किप् । कित्त्वेन सम्प्रसारणापत्तेः । वकारलो- पापवादस्य "च्छ्वोः शूद्" इत्यूठः प्रसङ्गाच्च । न च णिलोपस्य स्थानिवद्भावः । को लुप्तं न स्थानिवदिति को विधि प्रति न स्था- निवद् इति च निषेधात् । विचि तु स्थानिवत्वेन वलोपाभावा- दिनिर्वाहः। न च तथाऽपि "हलि सर्वेषाम् इति लोपापत्तिः, पूर्व- त्रासिद्धीये स्थानिवत्त्वाभावादिति वाच्यम् । तत्र " भोभगो" इत्यतोऽशीत्यनुवर्तनात् । न च णिच्वाग्भाविनं विपमेवा- श्रित्य ऊत्प्रसङ्गः । अन्तर्भूतक्किबाश्रयतयाऽन्तरङ्गे तत्र कर्त्तव्ये बहिर्भूतणिजपेक्षया बहिरङ्गस्य टिलोपस्यासिद्धत्वादिति । यत्तु कौस्तुभे एकदेशविकृतस्यानन्यतया "वश्च" इति षत्वं दुर्वारम् । न च णिलोपस्य स्थानिवद्भावः । पदान्तविधी नेति निषेधात् । पूर्वत्रासिद्धे तदभावाच्च । तस्माद् वृक्षं वेतीति वृक्षवीः वातीति वृक्षवाः । वृक्षव्यं वृक्षवां वाऽऽचष्टे इति ण्यन्ताद्विच् । न च "लोपो व्योः" इति वलोपापत्तिः। णिलोपस्य स्थानिवत्वात् । लोपस्यानवयवत्वेन पदान्तश्चेद्विधीयत इत्यर्थकस्य "न पदान्त" इति निषेधस्याप्रमुत्तेरिति । तचिन्त्यम् । व्रवादिसूत्रेच्छशामि- त्यत्र छकारात्पूर्व चकारद्वयप्रश्लेषेण एकेन स्वाभाविकस्यापरण जकारस्थाने चर्बेन प्रयुक्तस्य चकारस्य निर्देशाद्रश्चादीनां १२६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये चकारजकारयोरेव पत्वविधानात् । उपायस्य चोपायान्तरा- दूषकत्वात् । स्यादेतत् । “च्छोः' इतिमूत्रे किद्ग्रहणमनुवर्त्तते न वेति विचार्य भाष्ये उक्तम्- अनुवर्तमाने किदहणे छः पत्वं वक्तव्यमिति । अस्यार्थः । तदनुवृत्त्यभावे " च्छोः" इति छस्य शत्वे शकारस्य च पत्वविधानादेव सिद्धौ व्रश्वादिसूत्रे छग्रहणंन कार्य- मिति । एवं च लाघवादत्रैव भाष्यतात्पर्ये छकारपरित्यागे कथ- मुक्तः प्रश्लेष इति । सत्यम् । तथाऽपि अलोऽन्त्यपरिभाषया च- कारजकारयोरेव षत्वविधानाद्वकारस्य तदनापत्तेः । व्रवाशे षत्वस्य कुत्वापवादत्वात् । हरदत्तस्तु वृक्षव् करोति इत्येवंरूपः प्रयोगो नास्त्येव । “न पदान्ता हलोऽणः सन्ति" इति भाष्योक्त्याऽनभिधाननिश्चयादिति " हलि सर्वेषाम् ” इतिसूत्रे व्यवस्थापितवान् । अत्र कौस्तुभकृतः । लणमूत्रभाष्ये "न पदान्ताः परेऽणः सन्ति" इत्येव पाठः । अन्यथा अप्रगृह्यस्योतिपयुदासेनाचामेव कार्यभाक्त्वादितरे कार्यिणो न सन्तीति कैयटविरोधादिति । त- चिन्त्यम् । कर्तृ इत्यादीनां सत्त्वप्रदर्शनपरेण भाष्येणाचाम्प- दर्शनेऽपि हलां सत्चे मानाभावात् । यथाश्रुतकैयटोक्तेश्च यु- क्तिविरुद्धत्वात् । स्वरूपेण ऋकारादीनामणां सत्त्वेन तनिषेधे बाधाभावात् । विशिष्टाभाव ऋकारादिषु विशेषणाभावेनैव ह. साधारण्येन वर्तिष्यतइत्यभिप्रायेण त्वदुक्तरीत्या कार्यिणो न सन्तीति व्याख्यानावतारात् । न चैतद् युक्तम् । अण्ग्रहणस्य पूर्वेण सह व्यवस्थापनात्प्राक् ऋकारादीनां विशेषणाभावप्रयु- क्तविशिष्ठाभावाश्रयत्वासिद्धेः । अन्यथा पूर्वपक्षस्यैवानुपस्था- नात् । ऐ" प्रथमपादे प्रत्याहाराह्निकम् । २। १२७ ननु चायमस्ति कर्तृ " इत्यादिभाष्यानुपपत्तेश्च । ऋ- कारादेः कार्यभाक्त्वाभावशङ्कायां स्वरूपमात्रसत्तोक्तेरप्रयोज- कत्वात् । अतः स्वरूपेण पदान्तानामृकारादीनामसत्वशङ्का- यामृकारस्य तदुत्तराज्मागेपलक्षणतया तत्सत्त्वे उक्त पदान्त- ऋकाराधभावावबोधकस्य "न पदान्ताः परेऽणः सन्ति" इति- वाक्यस्य अजंशे अप्रामाण्यव्यवस्थित्या हकाराद्यभावबोधकत्वां- शे बाधकाभावात्मामाण्यं पर्यवस्यतीति फलितार्थमादाय न हलो. ऽणः सन्तीतिवाक्यस्य मित्रैः समुल्लिखितत्वात् । न च ऋकारप्रदर्शनस्योपलक्षणत्वे हलोऽप्युपलक्ष्यन्तामि- ति वाच्यम् । प्रमाणाभावात् । हस्वस्य गुणः " "जात औ णल: " इत्यादीनामजंशे उपलक्षणता- यां तात्पर्यग्राहकत्वात् । न च हलंशे "हलि सर्वेषाम्” इतिसूत्रे- हलि अशि यथा स्यात्, इह मा भृत्, वृक्षवयतेरप्रत्ययः वृक्षम् करोति इति भाष्यं तात्पर्यग्राहकमस्त्येवेति वाच्यम् । तस्यैतद्भाष्यविरोधेन प्रौढिवादत्वात् । न च वैपरीत्यम् । प्राथ- म्यस्यैव तावद्विनिगमकत्वात् । विकल्पस्य च वस्तुन्यसम्भवात् । तदाहुः प्रामाणिकाः- अनुष्ठानं हि विकल्प्यते न वस्त्विति । न च वृक्षत् करोतीति स्पष्टार्थकभाष्यविरोधेन पूर्वभाष्य. स्य तथातात्पर्य न कल्प्यामिति वाच्यम् । तस्याप्यन्यथाऽनु पपन्नत्वात् । न च तस्य पूर्वपक्षगतत्वेन सर्वांशाप्रामाण्येऽपि न क्षतिः, अजमावबोधकत्वांशवदुक्तबाधकस्य हलभावबोधकत्वांशेऽप्य. प्रामाण्यकल्पकस्य सत्त्वादिति वाच्यम् । ननु चायमस्तीति निषेधात्यन्तायोगव्यवच्छेदपरोत्तरभाष्यादप्येतदर्थस्य प्रतीतेः । - १२८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये हकारादेः कस्यचिद् उभयाभ्युपगतपदान्तत्वाभावकत्वात् वि- प्रतिपननिषेधस्यांशतो भाष्यसंमतत्वात् । अन्यथा पूर्वेणान- हणासिद्धेश्च । तथा हि । अप्रगृह्यस्येत्युक्तव्युत्पत्तिवशादचा ला. भेन हयादीनां कार्यित्वासम्भवादेवाविषयकत्वसिद्धौ अण्- पदसामर्थ्यात्पूर्वेणेति न शक्यते वक्तुम् । अण्पदसामर्थन वादीनां कार्यित्वे सिद्धे न्यायस्याकिञ्चित्करत्वात् । “अर्थवद. धातुरप्रत्ययः" इत्यर्थवद्ग्रहणेन "ओपधेश्च विभक्तावप्रथमाया- म्" इत्यादी विभक्त्याधुपादानेन च तनयायस्याप्यसार्वत्रिक- त्वात् । “अर्वणस्त्रसावनसः” इतिसूत्रे भेदप्रतियोगिवृत्तितत्त्वा- वच्छेदकधर्मसाक्षाध्यापकधर्मावच्छिन्नानुयोगिताकभेदभाने विभ- क्तित्वस्यैव तथात्वात् तदनवच्छिन्ने अणादौ तदप्रवृत्तौ आवत- मित्याद्यसिद्ध्यापत्तेश्च । निषेधस्वीकारे च "वाहरलुप्यत सहस्रगर्वगर्वः" इत्यादिविरोधात् । भेदप्रतियोगितावच्छेदकान्यप्रतियोगि- वृत्तिधर्ममात्रेण सादृश्यविवक्षायां च तत्र प्रत्ययत्वस्येवात्रा- प्यल्त्वस्य तादृशत्वात्तदवच्छिन्नानां वादीनां वारणानुपपत्तेः । एतेनाणग्रहणस्य पूर्वेणाप्युपपन्नत्वान् नजिवयुक्तन्यायबाध इ- त्यप्यपास्तम् । उभयोरप्यन्यथोपपत्तौ न्यायसङ्कोचस्यैव न्याय्यत्वात् । " केऽणः " इत्यादौ तु इस्वश्रुत्यैवाच उपस्थापनात्तदनुरोध इति वैषम्यम् । उक्तरीत्या तु वा- धाभावस्य प्रमाणमात्रोपजीव्यतया हलामणां पदान्तेऽनुपप- तेः तत्संग्रहार्थत्वायोगात् । अच्पदं परित्यज्याण्ग्रहणसाम- ादेव पूर्वेणाण्ग्रहणासद्धिः । तस्मादत्रत्यभाष्यस्य हरद. तोक्त एवार्थो युक्तः । कैयटस्याप्यत्रैव तात्पर्यात् । तथा हि । वृक्षर करोतीत्यश्पदानुवृत्तेः प्रयोजनं वक्ष्यतीति यथाश्रुताष्टमि- प्रथमपादे प्रत्याहाराहिकम् । २। १२९ कभाष्यविरोधमाशय उक्तपर्युदासादितरे कार्यभाजो न सन्ती. ति समाधानस्य न पदान्ता हलोऽणः सन्तीत्यत्रैव तात्पर्यम् । ऋ- कारादीनां स्वरूपतः सत्त्वेन कार्यभारकं विशेषणम् । स च विशिष्टाभाव ऋकारादिषु विशेषणाभावेन हकारादिषु च विशे- ध्याभावेनाविशिष्टः । उभयत्रापि विशेषणाभावपरत्वे विशे- व्यभागवैयात् । यद्यपि चेदं प्रथममसिद्धम् ऋकारादिष्वनुनासिकविध्यप्र- तेस्तद्वेलायामसिद्धः, तथाऽप्यप्रगृह्यस्येति पर्युदासेनाच एवानु- नासिकेन भाव्यम्, न तु हल इति फकिकायां हलामणामसम्भवे सतीति शेषः । अन्यथा उक्तरीत्या न्यायस्याप्रवृत्ती वादी- नामप्यनुनासिकापत्तेः इत्युक्त पदान्ता हलोऽणो न सन्ती- त्युक्तमायम् । तथा चाष्टमिकभाष्यं प्रौढिमात्रमिति भावः । न हि पदान्ता इत्यस्यार्थमाह । कार्यभाज इत्यर्थः " इति । तथा च गूढाभिप्राय उक्तविशिष्टाभावं दर्शयतीति सि- दान्त एवायं न तु पूर्वपक्ष इति भावः । इतरस्तु यथाश्रुते दूषणमाह । ननु चायमिति भाष्ये आ- चार्यः पूर्वाक्षिप्तं स्वाभिप्रायं प्रकाशयति-एवं तीति । प- दान्ते हलामणामसम्भवात् पर्युदासेनाचामेव ग्रहणे सिद्धे अ. ण्ग्रहणसामर्थ्यात्पूर्वेणैवेति भावः । अत एवाच एव प्रगृह्या भ. वन्तीति पर्युदासमा साधकत्वेनोक्तम् । तच्चोक्तरीत्या प- दान्ते हलामणां सत्त्वेऽसाधकमेवेति सर्वथाऽप्यत्रत्यभाष्यस्य न पदान्ताः परेऽणः सन्तीति भाष्यस्य च सिद्धान्तत्वे कैयटस्य तात्पर्यम् । पूर्वपक्षत्वे ग्रन्थद्वयस्याप्यलग्नकत्वापत्तेः । वृक्ष हस- तीत्यत्रातिप्रसङ्गस्य अशीत्यनुवृत्त्याऽपि दुर्वारतया त्वयाऽपि तत्रानभिधानस्यावश्यमाश्रयणीयत्वात् । अनभिधानस्य च १३० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पदविशेषगर्भतया वृक्षव् इतिप्रयोगाभावमात्रपर्यवसितत्वाद् इ- स्यास्तां विस्तरः। "उरण रपरः" इत्यपि पूर्वेण । परेण प्रयोजनाभावात् । न च होतृकारः मातृणामित्यादौ ऋकारस्य सवर्णदीर्घ "नामि"इवि दीर्घे च रपरत्वार्थ परेण स्यादिति वाच्यम् । “कृत इद्धातोः" इति धातुग्रहणात् ज्ञापकात् । तद्धि अकारान्तमात्रस्य इत्व- विधाने मातृणामित्यादावपि इत्वं स्यादित्यतिप्रसङ्गनिषेधार्थम् । तत्रापि रपरत्वे तु रेफान्तत्वापत्या ऋकारान्तत्वाभावादेव तद. मसत्या किं तेन । न च चिकीर्षतीत्यादौ "अज्झनगमां सनि" इति ऋकारस्य दीर्घ रपरत्वे च "उपधायां च" इतिसूत्रेण यथा ऋकारस्य इकारादेशो भवति, तथा मातृणामित्यादावपि रपरत्वे कृते स्यात्, अतः “उपधायां च" इत्यत्रानुवृत्यर्थमेव धातुग्रहणमिति वाच्यम् । तथाऽपि तत्रैव तदुपादानापत्या पूर्वत्र निर्देशस्य ज्ञापनार्थत्वात् । अण्ग्रहणस्यैव ज्ञापकत्वसंभवाच । अन्यथा "उरज्रपरः" इत्येव ब्रूयात् । तत्र तत्र ऋकारस्था- नीयानाम् उदात्तानुदात्तस्वरितानुनासिकदीर्घरूपाणामादेशा- नां रपरत्वापत्तेस्तेनैव निर्वाहसम्भवात् । अथ कथमित्यादौ यणादेशेन ऋकारस्य रेफे तस्य र- परत्वसिद्धयर्थमणग्रहणम् । न च "हलो यमा यमि" इत्याधरे- फस्य लोपावश्यकत्वात्तत्र रपरत्वं व्यर्थमिति वाच्यम् । “झयो होऽ. भ्यतरस्याम्"इत्यतस्तत्र विकल्पानुवृत्तेरुक्तत्वात् इति चेन्न । "रो- रि"इति लोपस्य दुर्वारत्वात् । न च तस्य पदान्तमात्रविषयक- त्वम् । अजर्घा इत्यादेरसिद्ध्यापत्तेः। गृधु अभिकाङ्क्षायाम् इत्यस्य हि गङ्लुकि द्वित्वे उरदत्वे जश्त्वे "रुनिकौ च लुकि" इत्यभ्या- सस्य समागमे च कृते लड़ि अडागमे सिपि शब्लुकि गुणे रपरत्वे प्रथमपादे प्रत्याहाराहिकम् । २। सिलोपे भभावेन गस्य घत्वे जश्त्वेन धस्य दत्वे दस्य रुत्वे घकारोत्तररेफस्य लोपे “ दलोप" इति घकाराकारस्य दीर्घ- त्वे " खरवसानयोः" इति विसर्गे चास्य सिद्धेः । एतच सर्वमभ्युपगम्यवादः । वस्तुतस्तु ऋकारस्थानीयानामणां रपरत्वे विधेये ऋका- रलकारयोः स्थानित्वेन रेफलकारयोश्च विधेयत्वेनोपस्थि- तौ परिशेषादादेशसमर्पकमण्पदं स्थानिभिन्नेषु रेफलकार- भिन्नेषु चाण्सु पर्यवस्यति । तथा च मातृणामित्या. दौ कुत्रापि नातिप्रसङ्गः । नापि कर्थमित्यादौ रेफद्वयापत्तिः । एवं च परेण ग्रहणे वैयापत्तिरेवाणग्रहणसामादिति भाष्यस्यार्थः । यथाश्रुते लाकृतिरित्यत्र लपरत्वस्यैव तत्फलत्व- सम्भवादिति कौस्तुभोक्तदोषापत्तेः । नापि धातुग्रहणेन नि- स्तारः । तस्योत्तरार्थत्वस्यापि सम्भवात् । यत्तु नुइवाच्य उत्तरार्थं तु इह किञ्चित्रपो इतिन्यायेनात्र करणं ज्ञापकमवेति, तन्न । "नामि"इति सूत्रे नुविशिष्टग्रहणस्य केवलोत्तरार्थत्वस्यापि स्थापितत्वेन तथानियमाभावात् । न च वचनेन तक्रकौण्डिन्यन्यायबाधः । पूर्वेणाप्युपपत्तेः । अ- न्यथा कर्थमित्यादौ "रो रि" इति लोपस्यापि बाधापत्तेः । न च वचनसामान्यायवाधः श्रेयान् । तत्र रेफलोपस्वी कारे रेफस्य रपरत्ववैयर्थ्यात् । तद्बोधकवचनबाधस्य तत्रा- प्यविशेषात् । कुत्रापि तच्छ्रवणाभावे प्रवृत्तिमात्रेण चरितार्थ- त्वानुपपत्तेः । अन्यथा "शरोऽचि" इत्यस्य विकल्पानुद्वात्त- ज्ञापकत्वतद्विघटनोभयपरस्य भाष्यादेरनुपपत्तेरिति दिक् । "अणुदित् सवर्णस्य च"इत्यत्र तु परेणैव । “उर्ऋत्" इति ज्ञापकात् । तद्धि कृत संशब्दने इत्यस्माच्चुरादिण्यन्ताल्लुकि १३२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "णिश्रि" इति च्लेश्वडादशे च अचीकृतदित्यत्र कारस्थाने ऋकारविधानार्थम् । तत्र दीर्घस्थानेऽपि इस्व एव ऋकारो- ऽस्तु इत्येतदर्थ तपरत्वम् । ग्रहणकशास्त्रे पूर्वेणाण्ग्रहणे तु दीर्घ ऋकारस्य स्थानित्वादेशत्वयोः प्रसत्यभावाद्यर्थ स्यात् । परेण तद्हणे तु "उर्ऋत्" इत्युकारेण सवर्णस्य ऋकारस्यापि ग्रह- णाद्भवति तस्य स्थानित्वप्रसक्तिः । न च विधीयमानत्वादेवात्र ग्राहकत्वानुपपन्या परेण ग्र- हणेऽपि तपरत्ववैयर्थ्यम् । विकाराभावमात्रपर्यवसितत्वा- त् । तथा च वृत्तिकारः । न चायं भाव्यमानोऽण् किं त्वादेशान्तरनिवृत्त्यर्थ स्वरूपेणाभ्यनुज्ञायते " इति । तपरत्व- सामर्थ्यात्तु दीर्घस्थाने भाव्यमानताऽपि लभ्यतइत्यन्यत् । इण्प्रत्याहारस्तु सर्वत्र परेणैव । “अचि श्नु" इति सूत्रे खो- रिति इकारोकारयोः स्वरूपेण निर्देशात् । अन्यथा इण इत्ये- वावक्ष्यत् । संहितायां यथान्यासे हलोरर्द्धमात्राद्वयम् मात्रा- द्वयं चौकारस्यति मात्रात्रयम् । इण इत्युक्ते तु सार्धमात्राद्वयम् । पदच्छेदेऽपि अर्द्धमात्रात्रयं दे च मात्रे इति सार्द्धमात्रात्रयं मात्रात्रयं चेति क्रमेण लाघवात् । इत्यत्र एकारेकारयोः स्वरूपेण निर्देशस्तज्ज्ञापक इति न्यासकृत् । तस्माद् "व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्ष- णम्" इतिपरिभाषाज्ञापनाय पुनर्णकारानुबन्ध इति सिद्धम् । सन्देहश्च सर्वत्र स्वरूपांशविषयक एवेति न नियमः । “भस्याटे तद्धिते " इत्यत्र " अग्नेर्दक ” इत्यस्यैव भेदप्रतियोगित्वेना- न्वयो व्याख्यानान्न तु स्त्रीभ्यो ढक इति प्रामाणिकग्रन्थदर्श- नात् । किं तु प्रकृतिविशेषविहितत्वादिप्रकारकोऽप्यनया नि- वर्यंतइति सर्वमवदातम् । "रलो व्युपधाद् प्रथमपादे प्रत्याहाराहिकम् । २ । १३३ अमङणनम् ७। झभञ् ८॥ अत्र भाष्यं मकारोऽत्र नानुबन्धनीयः । यम् डम् अम् इति प्रत्याहारत्रयस्य प्रकारेणैव निर्वाहात् । तथा हि-" हलो यां यनि लोपः" इति मूत्रणीयम् । न च झकारभका- रयोस्तन्मध्यवर्तिनोर्लोपापत्तिः । झकारभकारोत्तरवर्तिनो. झकारभकारयोः कुत्राप्यभावात् । पुमः खय्यञ्परे इति पाठ्यम् । न चातिप्रसङ्गः । खय्परयोस्तयोरसम्भवात् । एवं “डबो इस्वादचि ङ नित्यम्" इति वाच्यम् । न चाति- प्रसङ्गः । पदान्ते झभयोरपसिद्धेः । उज्झेस्तु संयोगान्तलोपे उदित्येव रूपम् । लभादीनां तु जश्त्वस्यावश्यकत्वात् । अन्य- त् मागेवोक्तम् । नन्वेवमपि"जमन्ताड्डः" इत्युणादौ तदावश्यकम् । अन्यथा झान्तभान्तधातोरपि डप्रत्ययापत्तेः, सत्यम् । तत्रापि अब- न्तादित्येव पाठ्यम् । बमन्तेभ्योऽपि सर्वेभ्यो डप्रत्ययानुत्पत्या बाहुलकस्यावश्याश्रयणीयतया तत एव झान्तभान्तेभ्योऽपि प्रत्ययवारणसम्भवादिति केचित् । वस्तुतस्तु अकारङकारान्तधातूनामप्रसिद्ध्या मणनाड इत्येव सूत्रं कार्यमिति भाष्याशयः । घढधष् ९ । जबगडदश् १०। खफछठथचटतव् ११।कप- य १२॥शषसर १३।हल्१४।
१३४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इति माहेश्वराणि प्रत्याहारसूत्राणि । अत्र प्राश्चः- एकस्मान्डअणवटा द्वाभ्यां पत्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुभ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ अत्र वदन्ति । चतुर्दशसूत्रीस्थैर्हल्भिरिद्भिः कृतानामष्टा- ध्याय्यां व्यवहतानां प्रत्याहाराणामयं संग्रहः । तेन सुप्तिङादेः रप्रत्याहारस्य "नमन्ताड्डः" "यमिब्रमन्तेषु'इति उणादिव्याघ्र. भूतिकारिकयोर्व्यवहृतस्य अम्मत्याहारस्य "चयो द्वितीया" इति वार्तिककृयवहृतस्य चय्प्रत्याहारस्य चाधिक्येऽप्यदोष इति । अस्यार्थः । ङकार एकस्मादेव परो ग्राह्यः । “एङि प. ररूपम्” इति । " पिद्भिदादिभ्योऽङ्" इत्यादौ अङिति तु न प्रत्याहारः। "आदिरन्त्येन" इत्यत्र ग्रहणकसूत्रादप्रत्यय इत्यनुत- त्तेः । नचैवम् "इको यणचि" इत्यादावनुपपत्तिः । तत्र प्रत्या- हारसाहचर्यात् । यद्वा भिदादौ रेखालेखादीनां गुणनिपातनान्डित्वाभावे तयापत्तेः । शास इदङ्हलोः" इत्यत्रापि अडादौ ह- लादौ चेत्यर्थे विशेपणवैयर्थ्यात् । अङादी हलादौ चेति व्या- ख्याने हि अङ्हलोरिति व्यर्थ स्यात् । अङादिहलादिव्यति- रिक्तानां ऋित्पत्ययानामसिद्धेः कितीत्येव ब्रूयात् । परस्मैपदे अजादिङ्कित्प्रत्ययानामभावाच । कर्मव्यतिहारे तु व्यतिशासै इत्यत्र आटा सहैकादेशस्य कित्वाभावात् । स्थानिवद्भावेनाडा- दित्वाच्च । ऋशोऽङि" इत्यत्रापि " ऋच्छत्यृताम् इत्यत्र अकारान्तेषु गुणविधानान प्रत्याहारः । " सनि च " इडश्च" इत्यपि न प्रत्याहारः । सनि च " इति इणः पृथग्गम्यादेशविधानसामर्थ्यात् । न च बोधने इणो गम्यादे. शपर्युदासार्थ पृथगुपादानमिति वाच्यम् । तावन्मात्रस्य "इको गाङ् लिटि" “ प्रथमपादे प्रत्याहाराह्निकम् । २। १३५ " विभाषा लुङ्लुङोः " " णौ च संश्चङोः " "सनि गमिः" " इणोऽबोधने " " णौ च गा लुङि" इत्ये. तादृशन्यासेनाप्युपपत्तेः । " इणो गा लुङि" "णौ गमिरबो- धने " " सनि च " " इङश्च ” इत्यादिन्यासापेक्षया गौर- वाभावात् । णिचं सनं चोद्दिश्य गम्यादेशविधानापेक्षया णिच- मुद्दिश्य विधानस्य सनं णिचं चानूय पर्युदासस्यैव लघुत्वात् । सूत्रत्रये इणनुसन्धानापेक्षया सूत्रद्वये तस्य लघुत्वाच्च । “इको झल्" इति कित्त्वविधानात् “अज्झनगमां सनि"इति दीर्घविधाना- च इङन्तानां गम्यादेशे उक्तसूत्रयोनिविषयकत्वापत्तेरिति केचित् । एवं " किरश्च पश्चभ्यः" इत्याद्यानां चतुर्णा ऋका- रान्तानां सनि परे इद्विधानमपि ज्ञापकं बोध्यम् । इङन्तानां गम्यादेशे तत एव इसिद्धेः । परिमाणाख्यायां सर्वेभ्यः" इङश्च" इत्यपि न तथा । इकारोकारऋदन्तानां प्रत्यया- न्तएव रुद्धतया एजन्तानां च मागेवावोत्पत्या ऋदन्तमात्रार्थ- स्वे च स्वरूपेण तन्मात्रनिर्देशापत्त्या सामान्यसूत्रेणैव घसिद्ध्या च विधिवैयापत्तेः। अजप्पत्ययाभ्यां सह घविकल्पार्थत्वे एरच्" इत्यत्रैव वा ग्रहणापत्तेः । “क्री- जीनां गौ" इत्यपि न प्रत्याहारः । एजन्तानामात्वस्य सूत्रान्तरसिद्धतया इक इत्येव सिद्धेः । क्रीज्योः पृथगुपादा- नानुपपत्तेश्च । एतेन इकारान्तानां मध्येऽनयोरेवेति नियमार्थ- त्वशङ्काऽप्यपास्ता। न च इडशे आत्वविधानस्य णौ एजन्तयोः सामान्यतः प्राप्तात्वनिवृत्त्यर्थत्वं स्यादिति वाच्यम् । तथाऽपि “ ओः पुय- राज्यपरे " इत्यभ्यासोकारस्येत्वविधानसामर्थ्यात् । इया- योः शत्रकृच्छूिणि " इत्यपि.न तथा । स्वरूपतो धातुना धारि- तु “ दोरम् "" १३६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये णा साहचर्यात् । वस्तुतो धारेः पृथगुपादानसामर्थ्यात् । तस्मादेहित्येक एव डकारेण प्रत्याहारः । एवं अकारोऽप्येकस्मादेव | " अतो दी? याने " इति । अञ् इञ यञ् इति तद्धितेषु कुतो नैवम् इति चेत् “ आदिरन्त्येन" इत्यत्राप्रत्यय इत्यनुवर्तितत्वात् । आयो कारोऽप्येकस्मादेव । यथा ग्रहणकशास्त्रातीरक्त अण्- ग्रहणेषु । वकारो "नश्छव्यप्रशान्" इति । टकारो यथा अद- कुप्वाङ्" इति । इट ईटि" इति न प्रत्याहारः। ईटि परे स- कारपूर्ववर्तिन इकारान्यस्वरस्य कचिदप्यसम्भवात् । न च अयासीदित्यादौ तत्पासद्धिः । प्रत्याहारपक्षेऽपि तद्बहिर्भावात् । एजन्तानामप्युपदेशएवाऽऽत्वविधानात् । नाम- धातूनां चानिदत्वानुपपत्तेः । हकारान्तानां चानिटां क्सादे- शविधानेन ईट एवाप्रसिद्धः । सेटां तु इकारस्यैवावश्यकत्वात् । पङणन्तानां चानिटामप्रसिद्धत्वात् । हलन्तानां तु प्रत्याहार- पक्षेऽप्यनुपस्थानात् । इगन्तानां चानिटां वृद्धेरावश्यकत्वात् । विधावपि इट् न प्रत्याहारः । षष्ठीटित्त्वाभ्यामवयवावयविभा. वबोधात् । द्वाभ्यां षः । यथा “एकाचो वशो भष् झपन्तस्य इति। कस्त्रिभ्यः। “अकः सवर्णे" "इको यण" "इसुसुक्तान्तात्" इति । द्वितीयणकारोऽपि त्रिभ्यः। “अणुदित् सवर्णस्य" इत्येक एवाण इको पण" । मकारो- ऽपि । यथा अम्, यम्, डम् , । चकारश्चतुर्थ्यः । "इको यणचि" " इच एकाचोऽम् एचोऽयवायावः "वृद्धिरादैच्" । यकारोऽपि तथा “ अनुस्वारस्य यायि" "मय उनः, झयो हः"" पुमः खयि " इति । रः पञ्चभ्यः । यरोऽनुनासिके " " झरो झरि " खरिच " "अभ्यासे " इणः पीध्वम् " "" अयो हा चर्च प्रथमपादे प्रत्याहाराहिकम् । २। वा शरि"। शः षड्भ्यः । " योऽशि" "हशि च" "नेड् वशि" "झलाञ्जश् झशि" "एकाचो वशो" इति। एवं लः । " अलोऽन्त्यस्य " " हलि सर्वेषाम् " " लोपो व्योवलि " " रलो व्युपधात्" " झलाञ्जश्" शल इगुपधाद् " इति । एकादिषडन्तसंख्यानां क्रमेण निवेशः उक्तिवैचिच्यार्थः । स्यादेतत् । अनुवन्धानां प्रत्याहारान्तर्भावादजादीनां सा- कर्यापत्तिः । णादयो हि उभयत्रोपदेशादुभयसंज्ञाः स्युः । एवम् अकारोऽपि । लकारस्थस्य इत्संज्ञासम्बन्धोक्तेः । तथा च दधि णकारीयतीत्यादौ यणादि रुचीनामित्यादौ “अव्यवाये- ऽपि" इति णत्वादिकं च स्यादिति प्राप्ते हयवरदमूत्रे वार्तिकम् । प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ॥ अनुवन्धानां णकारादीनां कथं नेत्यत्राक्षेप्याभावप्रति. योगित्वेन ग्रहणस्यवान्वयः। अच्पदं प्रत्याहारमात्रपरम् । “आ- दिरन्त्येन"इतिसूत्रेणाव्यवहितोत्तरत्वसम्बन्धेन किञ्चिद्वर्णव- तोऽनुबन्धस्य तन्मध्यवर्तिसमुदायघटकतत्तद्वर्णव्यक्तिविशेषमात्रे सङ्कतितत्वे अकारादीनामपि ग्रहणानापत्या उपस्थापकवर्णवि- शेषेऽपि सङ्केतस्यावश्यकत्वात् मध्यगतानामनुबन्धानां स्व- रूपघटकानुबन्धस्य च ग्रहणस्य दुर्वारत्वादितिशङ्का पूर्वार्द्ध- स्यार्थः । समाधानं त्वाह-आचारादिति । आचार्यप्रयोगा- त् । “उणादयः" " तृषिमृषिकृषः " " इसिङसोश्च " इत्या- दौ अनुबन्धानां तत्तत्प्रत्याहारान्तर्भावप्रयुक्तकार्यप्रयोजकत्व. विरहात् । कार्याभावप्रयोजकाभावप्रतियोगित्वेन तेषामजा- दिशब्दावाच्यत्वं शास्त्रकृतः संमतम् । अतश्च " आदिरन्त्यन" इतिसङ्केतस्य तत्साधारण्ये प्रमाणाभावात् । अजादिशब्दा- १८ १३८ व्याकरणासिद्धान्तसुधानिधौ प्रथमाध्याये नामनुबन्धान्यत्वे सति तत्समुदायघटकवर्णत्वं विषयताव- च्छेदकम् । सत्यन्तेन मध्यगतानुबन्धवत्संज्ञाघटकस्यापि नि- रासः । केचित्तु अनुनासिक इतिनिर्देशोऽपि ज्ञापकः। "प्रत्ययस्था- द्" इतिसूत्रं हि प्रतिषेधारम्भसामर्थ्यात् कृति तद्धिते च प्रव- र्ततइति निर्वाधम् । तत्रानन्तरस्येतिन्यायेन “ यस्येति " लोप एव बाध्यतइतिपक्षे "इको यणचि" इति दुर्वारम् । नासधातोः क्वुनि नासिकाशब्दस्य व्युत्पन्नत्वात् । येननाप्राप्तिन्यायेन यणादेश एव बाध्यतइतिस्वीकारे तु नासाशब्दात्के प्रत्यये यस्येति लोपो दुर्वारः । अनुबन्धानां प्रत्याहारान्तर्भावे कप्रत्ययस्य अजादितद्धितप्रत्ययसत्त्वेन पू. र्वस्य भसंज्ञत्वात् । न च वचनसामर्थ्यादुभयं वाध्यम् । तद- पेक्षया प्रत्याहारेवितां न ग्रहणमित्यस्यैव ज्ञापयितुमुचितत्वा- दित्याहुः । तच्चिन्त्यम् । “केऽणः" इति इस्वविधानसामर्थ्यात्क- प्रत्यये परे भसंज्ञा न भवतीति कल्पयितुं शक्यत्वात् । अकारे- कारयोः यस्येतिलोपावश्यकत्वे उकारस्यैव तद्विधानप्रसङ्गात् । वस्तुतस्तत्राप्योर्गुणपङ्गेन विशेषाभावात् । समाधानान्तरमाह-अप्रधानत्वादिति । संज्ञास्वरूपत्वप्र- तिपत्तिमात्रार्थमनुबन्धोपादानात्संज्ञिनामेव प्राधान्याद्रहणम् । प्रधानाप्रधानयोरितिन्यायात् । न चैवमकारादेरपि तदनापत्तिः। स्वं रूपमित्यनुवृत्त्या आदेरपि संज्ञित्वात् । न च स्वशब्दे- नानुबन्धोऽपि गृह्यतामिति वाच्यम् । इतेति तृतीयया इतो- ऽप्राधान्यलाभात् । सर्वनाम्नां च प्रधानपरामार्शत्वस्यौत्सर्गि- कत्वात् । इदं त्वभ्युच्चयमात्रम् । प्राधान्यं यदि संशित्वमेव, तदा पर- प्रथमपादे प्रत्याहाराह्निकम् । २। १३९ स्पराश्रयः । अथ संकेतग्रहणकशास्त्रजन्यबोधे विशेष्यत्वम् । त- न। तस्याकिश्चित्करत्वात् । घटत्वविशिष्टो घटो घटशब्दवाच्य इत्यादौ विशेषणेऽपि शक्तिग्रहाच्च । मीमांसकानां नागृहीत- विशेषणेतिन्यायेन विशेषणे एव शक्तिग्रहाच्च । मध्यगतानुबन्धानां ग्रहणस्योक्तरीत्याऽपि दुर्वारत्वाच्च । समाधानान्तरमाह-लोपश्चेति । बलवत्तर इति स्वार्थे तरप । इत्संज्ञायां कृतायां णकारादीनामच्संज्ञालोपयोः प्राप्ती लोप- विधेबलवत्त्वात् लोपे कृते संज्ञाप्रवृत्तिकाले तेषामभावान संज्ञा । भूतपूर्वन्यायेनान्त्यसहितस्यादेः संज्ञाप्तम्भवात् । अन्यथा व- चनवैयर्थ्यात् । इदमपि न वास्तवम् । संज्ञाप्रवृत्तिकालसत्त्वस्य शक्तिग्रहे- ऽनुपयुक्तत्वात् । अत एव वृद्धिमत्रे कैयट:- सत्यसति वा संज्ञिनि बुद्धया विषयीकृते शब्देन पूर्व नि- द्दिष्टे संज्ञा प्रवर्त्ततइति । अत एव “ हलन्त्यम्" इतिसूत्रे " लस्येत्संज्ञा" इतिभा- प्यादयः । तस्मात् पूर्वोक्त एव तात्पर्यमिति दिक् ॥ इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।
वृद्धिरादैच् । आकार ऐकार औकारश्च आदेशानादेशसाधारण्येन वृद्धि- संज्ञः स्यात् । प्रदेशा विधौ "वृद्धिरोचि"इत्यादयः। अनुवादे तु "वृद्धिर्यस्याचाम्" इत्यादयः । अत्र छन्दोवत्सूत्राणि भवन्तीत्य- तिदेशाद् " अयस्मयादीनिच्छन्दसि" इति भसंज्ञत्वात्पदान्त- निमित्तककुत्वाभावः । जश्त्वोपयोगिनी तु पदसंज्ञाऽस्त्येवेति वृद्धिरादैजदेङ्गुणः " इति संहितया पाठे जश्त्वं भवत्येव । यथा ससुष्टुभा स ऋकता गणेनेत्यत्रेति भाष्यम् । दृष्टान्ते कु- त्वोपयोगिनी पदसंज्ञाऽस्ति, न तु जश्त्वोपयोगिनीति तु विशेषः । इह तपरत्वमैजर्थम् । तेन त्रिमात्रादीनां न संज्ञेति पूर्वमुक्तम् । नचैवं पदान्तत्वाभावादत्वं न स्यादिति वाच्यम् । अस- न्देहार्थतया पूर्वशेषत्वस्यापि सम्भवात् । दकारस्य तत्कालग्रा- हकत्वमपि पूर्व निर्णीतम् । स्यादेतत् । कृतमनयोः साधुत्वमितिभाष्यस्वरसाद् आदेच् इति समस्तमेव । अनयोः पदयोरिति तदर्थात् । यद्यपि वृद्धिः आत् ऐजिति पस्पशायां पृथक्पदत्वमप्युक्तम्, तथाऽपि त- दभ्युच्चयमात्रम् । अनयोः सूत्रखण्डयोरिति व्याख्यानापत्तेः । तस्य च "वृधिरस्मै अविशेषेणोपदिष्टः प्रकृतिपाठे तस्मास्त्रियां क्तिन्प्रत्ययः, आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः" इतिभाष्य- विरुद्धयात् । चकाराध्याहारप्रसङ्गाच्च । तथा च समा- हारे "द्वन्द्वाच्चुदषहान्ताद्" इति समासान्तस्य, इतरेतरयोगद्वन्दे प्रथमपादे वृद्ध्याह्निकम् । ३ । १४१ तु द्विवचनस्यापत्तिरिति, सत्यम् । समासान्तविरनित्यत्वाद समाहारद्वन्द्वस्यैव निर्दोषत्वात् । तत्र ज्ञापकं तु “प्रतेरंवाद- यस्तत्पुरुषे" इतिसूत्रे अंश्वादिगणे राजन्शब्दपाठः । प्रतेः परे अंवादयोऽन्तोदात्ता इति तदर्थः । “राजाहःसाखिभ्यः" इति टचो नित्यत्वे तु चित्त्वादेवान्तोदात्तत्वं स्यात् । एवमपाचेत्यनुवर्तमाने "स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनाम- नाम च"इत्यन्तोदात्तविधौ अध्वशब्दोपादानमपि लिङ्गम् । “उ- पसर्गादध्वनः" इति समासान्तस्य नित्यत्वे अचैव सिद्धः । केचित्तु "द्वित्रिभ्यां पादनमूर्द्धसु बहुव्रीहौ" इतिसूत्रे समा सान्तरहितमूर्द्धग्रहणमिह लिङ्गम् । द्विमूर्द्धा त्रिमूर्द्धा इत्यत्रान्तो- दात्तत्वविकल्पार्थ हि तत् । “द्वित्रिभ्यां ष मूर्खः"इतिसमासा. न्तस्य नित्यत्वे तु नान्त उक्तबहुव्रीहिरप्रसिद्ध एव स्यात् । द्वि- मूर्द्ध इत्यादेरकारान्तत्वात् । समासान्तानां समुदायावयवत्वा- त् । न च समासान्तानामुत्तरपदान्तावयवत्वद्वारा समासान्तत्वमि- त्यस्यापि भाष्यरूढत्वात् पप्रत्ययविशिष्टस्यापि मूर्द्धन शब्देन ग्रहणं सम्भवत्येवेति द्विमूस्लिमूर्द्ध इति अकारान्तएव बहुव्रीहौ विकल्पार्थ तदिति वाच्यम् । तत्पक्षस्याभ्युच्चयमात्रत्वात् । मूर्टेष्वित्यपहाय बहुव्रीहिगर्भगुरुन्यासारम्भात्सूत्रकृत्संमतत्वाभावाश्च । न च द्वौ पादयति द्विपात् द्वयोर्दन्तान् द्विदतः पश्येति तत्पुरुषवारणाय बहुव्रीहिग्रहणावश्यकत्वे मूषु इतिन्यास एव गौरवामिति क- थं ज्ञापकत्वमिति वाच्यम् । समासान्तविशिष्टमूर्द्धशब्दसाहच- र्येण पादच्छब्दयोरपि बहुव्रीह्यवयवयोरेव ग्रहणसम्भवे बहुव्री- हिग्रहणस्यानावश्यकत्वात् । एतेन " द्वित्रिभ्यां पाइन् " इतिसूत्रे बहुव्रीहिग्रहणमेवो- कपरिभाषाज्ञापकम् । अन्यथा पाइन्मूःवित्येव निर्दिशेत् ।
१४२ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये कृतसमासान्तशब्दपक्रमाच्च । बहुव्रीहिभिन्नं च समासान्तवि- रहादेव वारयिष्यते, इति कौस्तुभोक्तिनिरस्ता । यथान्यासेऽपि षप्रत्ययान्ते उक्तसूत्रस्याप्रवृत्तेरुक्ततया तस्य लक्ष्यत्वमङ्गीकृत्य बहुव्रीहिग्रहणस्य ज्ञापकत्वोक्तेरसङ्गत- त्वात् । लक्ष्यभेदाभ्युपगमेन ज्ञापंकत्वोक्तेरसाम्प्रदायिकत्वात् । यदपि द्विदतः पश्येत्यत्र कथं दद्भावः, “पद्दन्नोमास्" इति सूत्रे तदन्तविध्यभावादित्याशा ध्यङः सम्प्रसारणसूत्रस्थ- पूर्वपक्षन्यायेन “सिद्धं त्ववयवानन्यत्वाद्” इत्याष्टमिकभाष्यवा- र्तिकन्यायेन चावयवस्य कार्यलाभादिति तत्रोक्तम् । तदपि चिन्त्यम् । शसादिषु परतः पूर्वेषां पादादीनां पदाद्यादेशविधा- नाच्छङ्कोत्तरयोरसङ्गतत्वात् । एतेन "द्वित्रिभ्यां ष मूर्ध्वः" इति षचं विहाय पप्रत्यय- विधानमपि ज्ञापकम् । तद्धि पचश्चित्त्वसामर्थ्यलभ्यमन्तोदात्तत्वम् "बहुव्रीहौ प्रकृत्या" इति पूर्वपदप्रकृतिस्वरवत् “द्वित्रिभ्यां पाद- न्मृर्द्धसु" इति अन्तोदात्तविकल्पमपि मा बाधिष्टेत्येतदर्थ वि- कल्पस्य कचित् सावकाशत्वे सत्येव सङ्गच्छते । अवकाशश्च समासान्तानामनित्यत्वएव लभ्यते । त्रिमूर्दानं सप्तरभि गृ- णीषे इतियथा इत्यपि परास्तम् । द्विमूर्द इत्यादौ कृतसमासान्ते तत्सूत्रस्य न प्रवृत्तिरित्यु. क्तत्वात् । चित्त्वसामर्थ्यलभ्यान्तोदात्तत्वस्य तद्विकल्पबाध- कत्वशङ्कानुपपत्तेः । अस्तु वा तत्र विकल्पप्रवृत्तिः, तथाऽपि नोक्तज्ञापकत्वम् । चित्स्वरस्य " बहुव्रीहौ सक्थ्यक्ष्णोः" इतिपूर्वसूत्रविषये फलकसक्थो विशालाक्ष इत्यादौ चरितार्थ- त्वाद्विकल्पबाधकत्वानुपपत्तेः । न च द्वित्रिभ्याम्" इति पचो यञ्चित्त्वं तदचरितार्थमेवेति वाच्यम् । पूर्वसूत्रीयस्यैवात्रा- प्रथमपादे वृद्ध्याहिकम् । ३ । नुवृत्तेः । अन्यथा प्रत्याहाराह्निके "आत" इति कात्ययकित्त्व- माकारैकदेशस्यातो लोपो न भवतीत्यत्र न ज्ञापकम्, "तुन्दशो- कयोः परिमृजापनुदोः" इत्युत्तरसूत्र चरितार्थत्वाद् इतिभा- प्योक्त्यनुपपत्तेः । न चैवं षप्रत्ययविधानवैयर्थ्यमेव स्यादिति वाच्यम् । उक्तान्तोदात्तविकल्पस्य समासान्ताभावपक्षएव प्र. वृत्तेर्व्यवस्थापितत्वात् । “ द्वित्रिभ्याम्" इत्यत्रापि पच्प्रत्ययवि- धाने चित्त्वबललभ्यान्तोदात्तत्वस्य निरपवादत्वात् द्विमूर्द्ध इत्यादौ तदेव स्यात् । षप्रत्यये तु पूर्वपदप्रकृतिस्वर एवेति वैषम्येन तत्सार्थक्यादित्याहुः । तत्रेदं चिन्त्यम् । समासान्ताभावपक्षएवोक्तान्तोदात्तविक- ल्प इति तावदाकरविरुद्धम् । यद्यत्र पच् स्यात्तदा नित्यमन्तो. दात्तत्वं स्यात् । द्वित्रिभ्याम्" इति विभाषाऽन्तोदात्तत्वं तु यदा समासान्तविधेरनित्यत्वात् द्विमूति समासान्ता- भावः, तदा सावकाशम् । पे तु सति समासान्तपक्षेऽपि पक्षे- ऽन्तोदात्तत्वम् पक्षे पूर्वपदप्रकृतिस्वरेणायुदात्तत्वमिति स्वर- द्वयसिद्धिरिति तत्रत्यभाष्यकैयटयोरुक्तत्वात् । तथा चोक्त- कल्पनं निर्मूलत्वादेव हेयम् । मूर्द्धस्विति निर्देशस्योक्तज्ञाप- कत्वं तु भाष्यादावेव स्पष्टम् । अत एव मूर्द्धष्विति न्या. सानारम्भादुत्तरपदावयवाः समासान्ता इतिपक्षस्य सूत्रानभि- मतत्वमिति निरस्तम् । समासान्ताभावपक्षेऽपि विकल्पप्र- त्यर्थतया तादृशन्यासपरित्यागोपपत्तेः । अत एव पप्रत्य- यविधानादपि तत्पक्षस्य सूत्रानभिमतत्वमित्यपास्तम् । समा- सान्तपक्षेऽप्यन्तोदात्तविकल्पार्थत्वात् । यदप्युक्तम्-" समासान्ताः" इतिसूत्रे समासान्तानां साक्षादेव समासान्तत्वमितिपक्षस्य भाष्ये व्यवस्थापितत्वात् समासान्ताः " इतिसूत्रे सरूपा- १४४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये द्विधुरी त्रिधुरीत्यत्र " अकारान्तोत्तरपदो द्विगुः स्त्रियां भा- प्यते " इतिवात्र्तिकानुरोधेन समासार्थादुत्तरपदात्समासान्तः क्रियतइतिपक्षस्य लिखितत्वेऽपि अकारान्ताद् द्विगोरित्युत्तरपदशब्दरहितवार्तिकपाठेन द्विधुरी- त्यादेः साक्षात्समासान्तत्वपक्षेऽपि साधितत्वात् । वार्तिकगतो. त्तरपदशब्दमात्रमूलकस्य समासान्तानामुत्तरपदावयवत्वपक्ष- स्याश्रयेण द्विमूर्द्ध इत्यादावन्तोदात्तविकल्पप्रवृत्तिकल्पनमपेक्ष्य साक्षात्समासान्तत्वपक्षमाश्रित्य द्विमूर्द्ध इत्यादौ कृतसमासा- न्ते तद्विकल्पप्रवृत्तिर्नेत्येव कल्पयितुमुचितत्वादुक्तरीत्यैव गुरु- मूत्रन्यासषविधानयोः सार्थक्यमिति । तदप्यसत् । तत्पक्षावलम्बनेन कृतसमासान्तेऽपि विक- ल्पप्रवृत्त्यैव भाष्यायुक्तया गुरुन्याससार्थक्यात् । णाम्” इतिसूत्रे उत्तरपदान्ताः समासान्ता इतिपक्षस्यापि भाष्यसंमतत्वेन कैयटोक्तत्वाच्च । इतिसूत्रे " कपि प्रतिषेधः” इतिवार्तिकप्रत्याख्यानाय भाष्यकृता उ- क्तपक्षस्य साक्षादेव लिखितत्वाच । यदप्युक्तं " द्वित्रिभ्यां पादन् " इतित्रभाष्यपर्यालोचनया तत्पक्षस्य द्विमूर्द्ध इत्युदाहरणस्य च भाष्यानभिमतत्वं स्पष्ट- मेव । तथा हि । अकारान्तस्य ग्रहणे नकारान्तस्योपसंख्या- नम्, नकारान्तग्रहणे त्वकारान्तस्य । उत्तरपदस्य कार्यित्वे समासान्ते ते उत्तरपदे विधीयमानस्यान्तोदात्तत्वस्य प्रत्यये प्राप्त्यभावादित्युक्त्वा द्वितीयपक्षे उत्तरपदान्तोदात्तत्वे शेष- निघातेन प्रत्ययस्यानुदात्तत्वे टिलोपे उदात्तनिवृत्तिस्वरेण प्रत्ययोदात्तत्वम् । न चोत्तरपदान्तोदात्तत्वात्पूर्वमेव परत्वा- हिलोप इति वाच्यम् । समासान्तात्पूर्वमेव परत्वादन्तोदा- गोस्त्रियोः " - प्रथमपादे वृख्याहिकम् । ३ । त्तप्रवृत्तेः । तदा च टिलोपप्राप्त्यभावात् । न च कृताकृतप्रस- गितया नित्यत्वात्पूर्व समासान्तः । अन्तोदात्तस्यापि तथा- स्वात् । न च कृते समासान्ते उत्तरपदान्तोदात्तत्वं न प्रामोति, परत्वात् दिलोपेन वाधादिति वाच्यम् । लोपेन तन्निमित्तविघा. तेऽपि समासान्तेन तदविघातात् । यस्य च लक्षणान्त- रेण निमित्तं विहन्यते न तदनित्यत्वमिति स्वीकारादिति । तदपि चिन्त्यम् । किमत्र उत्तरपदान्ताः समासान्ता इति- पक्षो नास्तीत्यभिमतम्, किं वा द्विमूर्द्ध इत्यादौ नोक्तविकल्प इति । नाघः । यदा कृते समासे समासान्त इतिपक्षः, तदेयं सम्पधारणा, यदा तु समासार्थादुत्तरपदात्समासान्तः क्रि- यते इतिपक्षः तदा सम्प्रधारणेव नास्तीति कैयटेनैवोक्तत्वात् । नान्त्यः । तदुत्तरमेव हि कैयटेन व्याख्यातम् - यदि नित्यः समासान्तः स्यात्तदा कार्यिविशेषसन्देहव्या- वृत्तये प्रक्रमाभेदाय वा समासान्त एवोच्चार्यत । तदनुच्चारणात्तु समासान्तस्यानित्यत्वं ज्ञाप्यते । तत्र यदा समासान्तो नास्ति तदा समासस्योत्तरपदस्य वा कार्यित्वे विशेषाभावः । यदा तु समासान्तः क्रियते तदा समासस्य कार्यित्वे समासान्तस्योदात्त- त्वम् । यदाऽप्युत्तरपदस्य कार्यित्वम्, तदा परत्वादन्तोदात्तत्वे कृते समासान्तः । तत्र टिलोपे उदात्तनिवृत्तिस्वरेणापि सिद्धम् । ननु प्रत्ययस्वरेण समासान्तस्य भाव्यम्, नैतदस्ति । वहुव्रीहि- स्वरेण तस्य बाधात् । बहुव्रीहिस्वरस्याप्यनेनेति । अनेन च द्विमूर्द्ध इत्यादौ पाक्षिकोदाहरणत्वस्यापि लाभात : अत एव षप्रत्यये पूर्वपदप्रकृतिस्वर एवेत्यपि कल्पनं निरस्तम् । यदप्युक्तम् । मूर्द्धसु बहुव्रीहौ" इति गुरुनिर्देशस्योक्त५माव- लम्बनेन कथंचित् सार्थक्येऽपि षप्रत्ययविधानस्य तदसम्भवः ।
१४६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये षचश्चिस्वसामर्थ्यलभ्यान्तोदात्तस्य पूर्वसूत्रविषये चरितार्थस्य द्विमूर्द्ध इत्यादौ परेणान्तोदात्तविकल्पेन बाधसम्भवात् । न च चित्त्वप्रयुक्तमन्तोदात्तत्वं पूर्वपदप्रकृतिस्वरमेव बाधते न तूक्त- विकल्पमित्यत्र विनिगमकाभावः । कक्षया कक्षा निमातव्येति. भाष्योक्तन्यायेन तसिद्धेः । पूर्वकक्षाप्राप्तानामुत्तरकक्षाप्राप्ता बाधका इति तदर्थात् । अत एव प्रथमकक्षाप्राप्तयोर्यण्गुणयोः सवर्णदीर्घः, तस्य च "अतो गुणे" इति तृतीयकक्षामा पररूपं बाधकम् । प्रकृतेऽपि प्रथमकक्षायां “समासस्य"इत्यन्तोदात्तत्वम्, द्वितीयायां पूर्वपदप्रकृतिस्वरत्वम्, तस्य च पचश्चित्त्वसामर्थ्य- लभ्यमन्तोदात्तत्वम् उक्तविकल्पश्चेति तृतीयकक्षागतं बाधक. द्वयम् । तत्रापवादविप्रतिषेधे परत्वादत्तोदात्तविकल्प एव भ- विष्यतीति प्रकृतेन पचैव सिद्धेरिति । तदपि चिन्त्यम् । षचो विधाने तस्य च नित्यत्वे विकल्पस्य चित्स्वरनिर्मुक्तविषयाभावेन विप्रतिषेधायोगात् । समासान्ता- भावपक्षे विकल्पस्य सावकाशत्वमित्युक्तौ तु तस्य समासान्त- पक्षविषयकत्वे प्रमाणाभावात्समानविषयकत्वाभावेन तदयो- गात् । नित्यविधवैकल्पिकविधिविषये प्रवृत्त्यसम्भवात् । तथा च निरवकाशत्वादेव विकल्पसिद्धौ पप्रत्ययविधानं विकल्पस्य सावकाशत्वमाक्षिपत् तत्प्रयोजकतया समासान्तविधेरनित्यत्वं ज्ञापयतीति दिक् । नन्वत्र कुत्वप्राप्तिरेव नास्ति । लौकिकवैदिकशब्दानामेव व्युत्पावत्वाद् इति चेत् अत्राहु:- अनेकशक्तः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियो- गान्नित्यत्वाब सर्वसंज्ञानां लौकिकत्वादादैच्छब्दस्यानुकरण- शब्दत्वाजातिशब्दत्वाद्वा शास्त्रमाप्तिरस्तीति ।
प्रथमपादे वृख्याह्निकम् । ३ । लौकिकत्वादादैच्छब्दस्य शास्त्रमाप्तिरस्तीति सम्बन्धः । तत्र नित्यत्वादिति हेतुः । आदन्छन् । स्य आकारादौ तद्भिन्ने च साङ्केतिक शक्तः सत्त्वात् । नन्येवं संज्ञा विधानवैयर्थ्यम् । अतः शक्त्यवच्छ देनेति । स च शक्तिसङ्कोचः । इदं पदमेतदर्थं बो- धयत्वितिव्यक्तिविशेषबोधकत्वप्रकारकेच्छाविशेष्यत्वमिति या. वत् । संज्ञिनि उक्तच्छायां विशेष्यतासम्बन्धेन विशेषणीभू- ते बोधे विशेष्यतासम्बन्धन विशेषणीभूतायां व्यक्तौ विनियो- गात् । उक्तसङ्केतज्ञानसहकारेण तद्विपयकशाब्दीजनकत्वव्य- वस्थापनात् । उक्तं च- व्यवहाराय नियमः संज्ञायाः संज्ञिनि कचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।। वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमोऽभिसम्बन्यो विशेषणविशेष्यवत् ॥ तथा चात्र शास्त्रे वृद्धिशब्देनादैच एव बोध्या इतिनियमार्थ संज्ञाविधानमित्यर्थः । नित्यत्वादित्युपपादयति- अनेकशक्ते- रिति । अनेकस्मिन्ननेका वा शक्तिर्यस्य अर्थगतप्रवृत्तिनिमित्त- विशेषानपेक्षतया वक्तृतात्पविषययत्किञ्चिद्यक्तिबोधनसमर्थ- स्य । न च "न कोपधायाः” इति पुंवद्भावनिषेधः । तद्धितवु- ग्रहणस्य तत्र वक्ष्यमाणत्वात् । अनेकविषया शक्तिर्यस्येति विवरणवाक्यं तु सप्तम्यर्थो विषयत्वमित्यभिप्रायकम् । अव- च्छेदकभेदेऽपि लाघवादेकैच शक्तिः । औपाधिकभेदस्योपाधि- भेदमात्रे पर्यवसानादित्याधः पक्षः । शक्तिभेदपक्षे द्वितीयः । ननु न सन्ति यदृच्छाशब्दा इति ऋलमूत्रे वार्तिके व्यव- स्थितत्वात्कथमेतत्- अतः अनुकरणेति । नन्वनुकार्यानुकरणयोरभेदविवक्षायां १४८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये मुयनुत्पत्तौ पदत्वाभावात्कुत्वाप्राप्तिः । भेदविवक्षायां तु प्रदे- शान्तर युक्तस्यैवादच्छन्दस्यात्र प्रत्ययादाकारादीनामग्रहणात्सं- तित्वानुपपत्तिः-अतः जातिशब्दत्वादिति । ऐकारादिव्यक्तिद्वये एजित्यनुगतप्रत्ययादैच्त्वम् ऐकारादिनिष्ठप्रातिस्विकजातिद्वय- व्यापकः सामान्यविशेषः । द्रव्यत्वादिवदेतत्स्वीकारेऽपि वाधका- भावादिति । तन्न । देवदत्तीयत्वायनुमापकजातिविशेषैः सह सार्यात् । गुणगतजातौ तन्न दोष इत्यस्य निर्मूलत्वात् । अनु. गतप्रत्ययस्य "आदिरन्त्येन" इत्येतत्सूत्रविहितसंज्ञौपाधिकत्वे- नातिरिक्तविषयकत्वाभावाच । यदपि सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्व- स्वीकारादिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ताऽतद्भेदे- नानुगतीकृताः। सत्तोपधायकास्तस्यां सर्वे शब्दा व्यवस्थिताः । इति हरिवचनादिति, तदपि तथैव । तन्मतेऽपि जाति- बाधकानामनुसरणीयत्वात् । कल्पकस्यापेक्षणीयत्वाच्च । न हि तार्किकाणामेव स कुलधर्मः । सौगतैरप्युपगमात् । तदुक्तं कुसुमाञ्जलो- जात्योरतयावृत्त्योर्वा समाविष्टयोः परापरभाव एवेति । न चानुमापकजातीनां नानात्वस्वीकारपक्षे सङ्करोऽनवकाश इति वाच्यम् । तथाऽप्यतिरिक्त जातिकल्पने मानाभावात् । तस्मा. दनुकार्यनिष्ठापैत्वादिजातिमेवादाय जातिशब्दत्वम् । ऐत्वा- दिसामान्यमस्तीति विवरणस्याप्यत्रैव तात्पर्यम् । कुत्वशब्देऽपि कुशब्दस्य तद्वर्गीयवर्णमात्रे संकेतितत्वेन तदुत्तरत्वप्रत्ययस्य क- त्वादिजातिपञ्चकं वाच्यम्। प्रकृत्यर्थप्रकारस्य त्वशब्दार्थत्वात् । तथा च प्रकते केतरासमवेतत्वे सति सकलककारसमवेतत्वरू- प्रथमपादे वृद्धयाह्निकम् ।। १४९ पकत्वत्वेन कत्वोपस्थितौ बाधबलाच्चकारे कत्वजारापाद- यितुमशक्यत्वात् स्वाश्रयव्यक्तिद्वारैवाऽऽपत्तिपर्यवसानात् चका- रस्य ककार आदेशः कुतो न भवतीति भाष्यार्थः । एवं स. र्वत्रावप्नेयम् । स्यादेतत् । शाब्दबोधे प्रथमनिर्दिष्टमुद्देश्यम् परनिर्दिष्टं विधेयमिति सर्वसिद्धम् । यच्छब्दयोगः प्राथम्यमित्यायुद्देश्यलक्षणम् । तच्छब्दयोगः पश्चात्त्वं साध्यत्वं च विधेयता ।। इत्यभियुक्तोक्तेः । तत्कथमत्र आदैजुद्देशेन वृद्धिसंज्ञा वि- धीयतइति चेत्, उच्यते । आदैशब्देन प्रदेशेषु व्यव- हाराभावात् तस्य निर्मातार्थत्वात् वृद्धिशब्दस्य च वै- परीत्यात् उद्देश्यत्वासम्भवात् वृद्धेरेव संज्ञात्वे निर्णीते विपरीतानुपूर्वीकल्पनेन वृद्धिसंज्ञाविधानम् । न चैवं पौरुषेयत्वेन तस्याप्रामाण्यापत्तिः । शास्त्रतात्पर्यविषयत्वस्येद नत्प्रयोजक- त्वात् । अन्यथाऽश्वाभिधानीमादत्तइत्यादेगर्दभाभिधान्यादि- व्यावृत्तौ प्रामाण्यानापत्तेः । “डः सि धुट" इत्यादावुभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति पञ्चम्या कल्पितस्य सप्तम्यन्ते सीतिशब्द षष्ठ्यन्तत्वस्य तथात्वापत्तेश्च । मङ्गलार्थ चात्र वृद्धिशब्दस्य प्रामयोगात् । न चाचार्यस्य मिथ्याज्ञानवास- नाराहित्येन दुरितसामान्यशून्यत्वात्तद्विशेषविघ्नाभावस्य सुतरां तत्र सत्त्वादलौकिक ज्ञानवत्त्वेनास्मदादिवद्विघ्नसन्देहस्याप्यभावाच किमर्थं तदिति वाच्यम् । तथाऽपि परमकारुणिकतया सर्वसिद्ध- शिष्टत्वकस्वाचारविषयत्वेन हेतुना शिष्याणामभिमतकारम्भस- मये मङ्गलस्यावश्यकर्त्तव्यत्वानुमितिसिद्ध्यर्थं तेषामेवाऽऽनुषङ्गि- कमालसम्पचिनिबन्धनस्वग्रन्थाध्ययनसिद्धिमूलकवैदुष्यवशात् १५० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पूर्वोक्तरीत्याऽनेककर्माधिकारे यजमानस्य ऋत्विक्प्रयुक्तदृष्टाह टानेकफलसम्पत्त्यर्थं निष्कामकृतैश्च तैरेव कर्मभिरन्तःकरणशु. द्विद्वारा परमपुरुषार्थापवर्गसिद्ध्यर्थं च तदुपपत्तेः । यत्तु "व्यवहाराय नियमः" इतिपक्षे अत्र शास्त्रे वृद्धि शब्देनादैच एव बोध्या इति यथाश्रुतमेव सम्यगिति । तन्न । विधिसमानानुपूर्वीकत्वस्य नियमेऽप्यपेक्षितत्वात् । प्राप्तार्थत्वेन तदितरव्याहतो तात्पर्यमित्येतावतैव तत्र भेदात् । अन्यथा "अदेङ्गुणः" इत्यादौ विपरीतानुपूर्वीकल्पनापत्तेः । त्रीहीनवह- न्तीत्यादावपि व्रीहुद्देशेनैवावघातस्य विधेयत्वात् । यदपि "यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते" इतिप. क्षेऽपि कार्यकालपक्षमाश्रित्य "मृद्धिः" आदेचो भवन्ती- त्यर्थाद् यथाश्रुतमेव साधु । तत्र च तपरत्वमनुपयुक्तमेव । भा. व्यमानत्वेन सवर्णग्राहकत्वाप्रसक्तेः । यथा ज्योतिष्टोमराज- सूयादिशब्दानां यागविधावेव सामानाधिकरण्यान्नामधेयत्वावग. तिः न तु वाक्यान्तरेण, तथा अस्मिन् पक्षे वृद्ध्यादिशब्दानामपि । "वृद्धिरादैच्" इति तु "इको गुणवृद्धी" इतिवत् पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया तु संज्ञासूत्रत्वव्यवहारः । न च "वृद्धि र्यस्याचाम्"इसादावनुवादे आदेचां सवर्णग्राहकत्वं स्यादिति वा- च्यम् । तादृशलक्ष्याभावात् । अनेकशक्तिकल्पनापत्तेश्च । विधि- वाक्यस्य प्राधान्यात्तत्र निर्णीतस्यैवार्थस्यान्यत्र ग्रहणाचेत्यादि । तदपि चिन्त्यम् । ऋकारस्थाने त्रयाणामादेशानां प्रसङ्गात् । अन्यथा विध्यर्थानिष्पत्तेः । अत एव "भाव्यमानत्वादैचो ग्राहका न भविष्यन्ति, नैतदस्ति, नात्र संज्ञाविधावैचो भाव्यन्ते" इति कैयटः । “कार्यकालपक्षाश्रयेण शङ्का, यथोद्देशपक्षेण प. रिहारः" इति विवरणकृतः। तस्मादत्र यथोद्देशपक्ष एव प्रायः ।
प्रथमपादे वृक्ष्याहिकम् । ३ । १५१ अत्रेदमवधेयम् । वृद्धिशब्दो वृद्धिशब्दवाच्ये लाक्षणिकः । न च तस्य प्रथममनुपस्थितिः । वृद्धिपदं किञ्चिदर्थवाचकमि- तिज्ञाने कश्चिदर्थो वृद्धिशब्दवाच्योऽस्तीति सामान्यतस्तदुपस्थि- तिसत्त्वात् । तस्याभेदः संसर्गः । तथा च आदैचो वृद्धिशब्द- वाच्याभिन्ना इतिधीः । ततश्चास्यां बुद्धौ वाच्यत्वं यत्र विशे- षणं स संज्ञी । वाच्यत्वे यद्विशेषणं सा संज्ञा । "इन्द्रो मरुत्वा- न्मघवा" इत्यादावप्ययमेव प्रकारः । एकपदशक्तिग्रहस्य प्रका- रान्तरेणावश्यमपेक्षितत्वात् । तत्पर्यायमात्रशक्तिज्ञानशून्यस्य कोशादितोऽपि शक्तिग्रहाभावात् । यत्तु आकारादयो वृद्धिं प्रत्यभेदसंसर्गेण विशेष्या इति । तन्न । वृद्धिं प्रतीत्यस्य हि कोऽर्थः । वृद्धिशब्दं प्रति वृद्धिशब्दा- थै प्रति इति वा । नायः । लक्षणां-विना तदलाभात् । लक्षणां विनैवोपपत्तरित्युत्तरग्रन्थासङ्गतेश्च । न च वृद्धिशब्दवाच्यं कि- श्चिदस्तीतिज्ञाने शब्दस्य विशेषणत्वेनोपस्थित्यो तस्य लक्षणां विनाऽपि लाभइति वाच्यम् । स्वतन्त्रोपस्थितये तदावश्यकत्वात्। अभ्युपेत्यापि ब्रूमः । वृद्धिशब्दस्य विशेषणतायामभेदस्य च संस- गत्वे आदैचो वृद्धिशब्दाभिन्ना इतिबोधः स्यात् । न चेष्टापत्तिः। अयोग्यत्वात् । न च वाच्यत्वं संसर्गः । समविभक्तिकपदोपस्था- प्ययोर्भेदान्वयासम्भवात् । अत एव न द्वितीयः । न च वृद्धि शब्दवाच्यत्वस्याप्युक्तरीत्योपस्थितिसत्त्वात्तस्यैवाभेदेन विशेष- णमस्त्विति वाच्यम् । तस्याप्यर्थीवशेष प्रति विशेषणीभूतत्वात् । वस्तुतस्तु शाब्दिकमतेऽपि पदस्यैव प्रकारताऽभ्युपगमाद् वाच्यत्वस्य च संसर्गत्वात् वृद्धिपदजन्यः सामान्यशक्तिग्रहमूलको बोधो वाच्यत्वसंसर्गक एव । तथा च वृद्धिपदजन्यायामुपस्थि. तौ संसर्गतापने वाच्यत्वे पदार्थानामाकारादीनां कथमन्वयः ।
१५२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये वाच्यत्वस्य पदजन्योपास्थित्यविषयत्वात् । अन्यथा पर्वतो वह्नि- मान्गुण इत्यपि स्यात् । संसर्गतापन्ने संयोगे गुणस्याभेदान्व- यसम्भवात् । ननु वृद्धिशब्दस्य आदैज्वाचकताया अनेकशक्तेरितिन्या. येन सत्त्वाद् घटो नील इत्यादिवत्तदर्थस्यैवाभेदसम्बन्धेना- दैचोरन्वय इत्युक्तग्रन्थाभिप्राय इतिचेन् , मैवम् । तथा सत्युद्दे- श्यतावच्छेदकविधेययोरभेदापत्त्या निराकासत्वाद् घटो घट इति- वाक्यवत् । अत एव शब्दाश्रय आकाशमित्यादिवाक्ये आका- शपदं तद्वाच्यपरम् । व्युत्पन्न प्रति तद्वाक्यानुपयोगादित्युपा- यादायुक्तम् । यदप्युक्तम् । लक्षणाऽङ्गीकारे विशिष्टविधिपक्षे मत्वर्थलक्षणा- दोषम् उक्त्वा नामधेयत्वमुद्भिदादिपदानां व्यवस्थापितम् । त- न स्यात् । नामधेयत्वेऽपि लक्षणायास्तुल्यत्वादिति । तदपि मन्दम् । गुणविधिपक्षे मत्वर्थलक्षणायां गुणांशस्य तद्गतलिङ्ग- संख्याकारकादेश्च प्रमाणान्तरानवगतत्वात् तत्सिद्ध्यर्थं वि- शेषणविधिकल्पनप्रसङ्गात् । नामधेयस्य तु श्रोत्रोपस्थितस्यैव नामार्थत्वाभावाद्वाच्यत्वसम्बन्धेन धात्वर्थयागान्वय इति न तदंशे विधिकल्पनमितिपक्षे शङ्काया एवानवकाशात् । नामलक्षणापक्षेऽपि उद्भिच्छब्दस्य तृतीयार्थे वाच्यत्वे तस्य धात्वर्थे यागेऽन्वयकल्पनेऽपि विशेषणविधिकल्पकत्वा- भावेन लाघवात् । अन्यथा त्वत्पक्षे सोमेन यजेतेत्यादावपि म त्वर्थलक्षणाऽपेक्षया लक्षणां विनैव नामत्वसिद्धिरिति सोमादि- पदमपि नामधेयमेव स्यादिति गुणविधिमात्रोच्छेद इत्य- लम् पल्लवितेन । वृद्धिपदशक्तिज्ञानस्य चैतत्रितयत्तितत्तद्धर्मान्यतरप्रका- "वृद्धि- रोच" मा- प्रथमपादे वृद्ध्याह्निकम् । ३ । १५३ रकज्ञानत्वं कार्यतावच्छेदकम् । न तु तदन्यतरमकारकत्वाभाव- वदत्तितदन्यतमप्रकारकत्ववज्ज्ञानत्वम् पुष्पवन्तपदस्येव सूर्य- त्वप्रकारकत्वाभाववदवृत्तिचन्द्रत्वप्रकारकत्ववज्ज्ञानत्वम् । तत्र- एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ । इति प्रमाणसत्त्वादत्र च तदभावात् । प्रत्युत इत्यादौ एकः पूर्वपरयोः " इत्येकस्यैव वि. धेयत्वावगमात् । " वृद्धिर्यस्याचामादिः” इत्यादेश्च । न- हुक्तवर्णत्रयमव्यवधानेन कस्यचित् पदस्यादौ वर्त्तते । लादीनां च " इति विरोधाच्च । अन्यथाऽवृद्धत्वात् पूर्व- सूत्रेणैव पूर्वपदप्रकृतिस्वरसिद्धः । एवमुत्तरत्रापि । इदमेव "प्रत्येकं वाक्यपरिसमाप्तिः" इत्युच्यते । यत्र तु समुदायपर्याप्तश- क्तिप्रमाणम् , यथा “उभे अभ्यस्तम्" इति, तत्र नावयवमात्रस्य वाच्यत्वम् । किं त्वेकवर्णविषयकत्वाभाववदवृत्त्यन्यवर्णविष. यकत्ववज्ज्ञानत्वमेव कार्यतावच्छेदकम् । अत एव तत्र उभे- ग्रहणम् । अन्यथौत्सर्गिकत्वेन मिथोऽनपेक्षयोर्दयोरेव तत्सं- ज्ञाप्रसङ्गात् । अतस्तात्पर्यग्राहकप्रमाणान्तरसत्वएव समुदाये वाक्यपरिसमाप्तिरिति सिद्धम् । प्रकृतमनुसरामः । ननु आदेचां स्वरूपेण वृद्धिसंज्ञा, उत त- धावृत्त्येकशेपाणामन्यतमेन वृद्धिशब्देन ये विहितास्तेपामेव । नाद्यः । सर्वभास इत्यादौ "उत्तरपदवृद्धौ सर्व च" इति पूर्व- पदान्तोदात्तत्वापत्त्या समाप्तान्तोदात्तत्वस्यासिद्धेः । तावती भार्याऽस्य तावद्भार्य इत्यादौ" वृद्धिनिमित्तस्य च तद्धितस्य" इति पुंवद्भावनिषेधापत्तेश्च । “आ सर्वनाम्नः" इत्यात्वं प्रति वतुपो निमित्तत्वात् । नान्त्यः । शालीयो मालीय इत्यादौ "टद्धाद्" इतिच्छप्रत्ययासिद्धः । आम्रमयं शालमयमित्यादौ १५४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये "नित्यं वृद्धशरादिभ्य" इति मयट्प्रत्ययानुपपत्तेश्च । किं च आम्रगुप्तायनिः शालगुप्तायनिः इत्यत्र "उदीचां - द्धादगोत्राद्" इति वृद्धलक्षणः फिञ् न स्यात् । यद्यपि "प्राचामद्धात् फिन् बहुलम्" इति फिनाऽपीष्टसि- दिः । “न्नित्यादिनित्यम्"इति स्वरेऽपि भेदाभावात् । आम्रगु. सायनीभार्य इत्यत्र प्रागुक्तमूत्रेण पुंद्भावनिपेधस्तु नावश्यकः । "जातेश्च" इत्यतोऽपि सिद्धेः । “गोत्रं च चरणैः सह" इति पारिभाषितजातेस्तत्र सत्त्वात् । आम्रगुप्तायनेश्छात्रा इति वृद्धा- च्छप्रत्ययविवक्षायां "फफिओरन्यतरस्याम्" इति लुम्विकल्पे- न आम्रगुप्तीयाः आम्रगुप्तायनीयाः इति द्वरूप्यं तु सिद्धान्तेऽपि नेष्टम् । “फक्फिोः" इत्यत्र यूनीत्यनुवृत्तेः । “शिवादिभ्यः" इत्यण्णन्ताद्यास्कशब्दाद् "अणो यचः" इति फिज, यास्कस्या- पत्यं युवा यास्कायनिः, तस्यच्छात्रा यास्कीया यास्कायनीयाः इत्येव तत्रोदाहृतत्वादिति फिजो न कश्चिद्विशेषः । तथाऽपि प्रा- चामुदीचामिति आचार्यविशेषमतगर्भमूत्रस्वारस्यभङ्गात् । “ऋ- तो भारद्वाजस्य" इतिमूत्रे प्रकारान्तरेण समाधाने अयं तु भार द्वाजः स्वस्मान्मतात्पच्यावितो भवतीतिभाष्योक्तमतप्रच्यव- स्यापि दूषणत्वात् । किं च फिन्पक्षे. आम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे फि. अन्तात्सौवीरगोत्रादपत्येऽर्थे छठको कुत्सने गम्ये इत्यर्थके- न “फेश्छ च” इतिमूत्रेण छठकोरप्रवृत्तौ आम्रगुप्तायनीयः आम्रगुप्तायनिकः इतिरूपद्वयं न स्यात् । वृद्धादित्यधिकारेण फिन एव तत्रोपादानात् । यमुन्दश्च सुषामा च वार्ष्यायणि फित्रः स्मृताः । इतिपरिगणनस्य पौरुषेयत्वात् । अन्यथा सौवीरगोत्रr- प्रथमपादे वृद्ध्याह्निकम् । ३ । १५५ पदप्रत्युदाहरणत्वेन तैकायनिः इतिग्रन्थलेखनविरोधात् । उ- क्तत्रयमध्ये तैकायनिशब्दस्य तत्रापरिगणितत्वात् । अपि च आम्रगुप्तायनरपत्यं युवा "प्राग दीव्यतोऽण" त- स्य "ण्यक्षत्रियापभितो यूनि लुगणिोः" इति लुकि आम्रगु- सायनिः पिता आम्रगुप्तायनिः पुत्र इतिरूपद्वयं फिना न स्या- त् । अित्त्वाभावेनोक्तलुगप्रवृत्तेः । अब्राह्मणगोत्रमात्रायुवप्रत्ययो- पसंख्यानस्य च ब्राह्मणगोत्रे प्रवृत्त्यभावात् । एवमेतत्पक्षे "मा- लादीनां च" इति व्यर्थ स्यात् । अद्धमित्येव सिद्धेः । एवं वृद्धिशब्दे तन्त्राद्याश्रयणेऽपि गौरवम् । संज्ञाया विधानं वि- हितानां च संज्ञेतिपरस्पराश्रयवारणाय सूत्रशाटकवद्भावि- संज्ञाविज्ञानेऽपि गौरवमिति प्राप्ते उच्यते- आदैचामविशेषेण वृद्धिसंज्ञा । उक्तदोषाप्रवृत्तेः । “उ त्तरपदवृद्धौ सर्व च" इत्यत्रोत्तरपदाधिकारविहिताया एव वृद्धे- ग्राह्यत्वात् सर्वभासादौ दोपाभावात् । अन्यथा सर्वः कारकः स. कारक इत्यादी वृद्धिशब्देन विहिता या वृद्धिस्तद्वत उत्तरपदस्य सत्त्वादुक्तस्वरापत्तेः । उत्तरपदग्रहणमेव च तदधिकारविहितवृद्धिग्र हे लिङ्गम् । अन्यथा आदैज्मात्रस्योत्तरपदत्वाभावात्सामर्थ्यादेव - द्धिमदुत्तरपदलाभे तद्वैयापत्तेः । तस्मात्सर्वपाञ्चाल इत्यादावेव तत्प्रवृत्तिः । “सुसर्वा जनपदस्य" इति वृद्धः । तावद्भार्येऽपि नातिप्रसङ्गः । वृद्ध्यात्मकतद्धितस्याभावेनाभेदान्वयानापत्त्या - द्वितद्धितस्येत्येतावन्मात्रेणापि वृद्धेस्तद्धित इति षष्ठीसमासेन वृद्धिनिमित्तत्वलाभेऽपि निमित्तशब्दोपादानसामर्थ्यावृद्धनिमि- तं यस्मिन्निति व्यधिकरणबहुव्रीहिमाश्रित्य अकारणकारक- काररूपेत्संज्ञाप्रतियोगित्वसम्बन्धेन वृद्धेनिमित्तं यत्रास्ति अ. ण् अञ् फक् इत्यादौ तस्यैव तद्धितस्य तत्र पुंवद्भावनिषे- १५६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये घ इतिव्याख्यानात् । आकारस्य च स्वरूपतो विधानेऽपि वतुप्रत्ययस्योक्तद्धिनिमित्तत्वाभावात् । न च अर्शसा भार्याऽस्येत्यत्र मत्वर्थाचप्रत्ययोत्तरटाव- न्ते अर्शसाशब्दे तद्धितस्त्रीप्रत्यययोरेकादेशस्य परं प्रत्यादि- वद्भावात्तद्धितग्रहणेनापि ग्रहणात् तत्र वृद्ध्यात्मकस्तद्धितः स- म्भवत्येवेति कथं निमित्तशब्दोपादानसामर्थ्य मिति वाच्यम् । तथाऽप्यरक्ततिपयुदाससामर्थ्यात्कर्मधारयशङ्काऽनुपपत्तेः । र. क्तविकारार्थकप्रत्ययस्य वृद्ध्यात्मकत्वाभावेन तत्र प्रसक्त्य- भावात् । अन्ये तु वृद्धिशब्देन विहिताया वृद्धेनिमित्तमिति तस्यार्थः। वृद्धिशब्दे तत्राद्याश्रयणात् । तादृशी च त्रिणित्किन्निमित्ता सर्वैव वृद्धिः । न च वैयाकरणभार्यः सौवश्वभार्य इत्यादावतिप्रसङ्गः, अणो यथोक्तद्धिनिमित्तत्वादिति वाच्यम् । फलोपहितत्वस्य नि- मित्तशब्दार्थत्वात् । तत्र च "न य्वाभ्याम्"इति वृद्धिनिषेधात् । न च ऐचौ आदायात्रापि फलोपधानम् । स्वरूपेणैव तयोर्वि- हितत्वादित्याहुः । अपरे तु यावदृद्धिजननयोग्यत्वे सति किश्चित्फलोप- हितस्तद्धितो निमित्तशब्देन विवक्षणीयः । वैयाकरणमार्य इ- त्यादौ तु ऐजभ्यामणो न फलोपधानम् । वृद्धिनिषेधसन्नियो- गशिष्टयोस्तयोरग्निमित्तकत्वे मानाभावात् । निषेधप्रतियो- गिद्धिनिमित्तकत्वेऽपि ऐजागमं प्रत्यणो निमित्तत्वायोगा- दित्याहुः । तदुभयमपि चिन्त्यम् । योग्यत्वं हि योग्यतावच्छेदकरूपव- त्वमेव । तचात्र शास्त्रमात्रगम्यतया जिवाणित्त्वकित्त्वरूपमेव । फलोपधानमपि तद्रूपेणैव वाच्यम् । फलोपहितनिष्ठान्यथासि- प्रथमपादे वृद्ध्याहिकम् । ३ । १५७ क्ष्यनिरूपकधर्मावच्छेदेन योग्यताग्रहनियमात् । तथा च वैया- करणमार्य इत्यत्र कथं नातिप्रसङ्गः । अणो णित्वेन प्रकृत्य. न्तरे वृद्धिरूपफलोपहितत्वात् । न च यत्प्रकृत्युत्तरं या अणा- दिव्यक्तिः प्रयुज्यते, तत्र फलोपधानं विवक्षितमिति वाच्यम् । यावद्धिजननयोग्यत्वस्य दुहत्वापत्तेः । न हि दाक्षिरित्या- दौ इञादिव्यक्तः स्वप्रकृतिपुरस्कारेण तव्यक्तित्वेन फलोपधा- नविवक्षायामौपगवादिशब्दगतवृद्धौ तत्स्वरूपयोग्यत्वं ग्रहीतुं श- क्यम् । अदन्तभिन्नानां तत्प्रकृतित्वाभावात् । धर्मान्तरेण यो- ग्यत्वं धर्मान्तरेण च फलोपधानमित्यस्य वक्तुमशक्यत्वात् । अत एव विशेष्यभागवैयर्थ्यम् । कचित्फलानुपधाने योग्यताया एवाभावात् । एवं च कापि पुंवद्भावनिपेधो न स्यात् । भिदा. दिप्रत्ययत्रयमध्ये सर्वेषामन्यतमप्रकृतिकत्वनियमाभावात् । अ- त एव वृद्धिशब्दविहिताया वृद्धेनिमित्तमित्यपि प्रागुक्तमतं प- रास्तम् । फलोपधानस्य योग्यतावच्छेदकधर्मावच्छेद्यत्वनियमेन तत्राप्युक्तदोषावतारादिति । तस्मादिदमत्र तत्त्वम् । अनिषिद्धद्धिप्रकृतिकत्वे सति वृद्धियोग्यत्वं वृद्धिनिमित्तत्वम् । तेन विशेष्यभागेन तावद्भार्ये विशेषणभागेन च वैयाकरणभार्येऽतिप्रसङ्गाभावः । इदं च विशेषणांशानुरोधेन प्रकृतिविशेपोत्तरतादृशतद्धितमात्रसाधारण- मिति दिक् । इदमप्यत्रावधेयम् । “व्यक्तिः पदार्थों भेदकाश्च गुणाः" इतिदर्शने यद्गुणविशिष्टस्योच्चारणं तदन्यगुणभाजां संज्ञा । न- न्वयं प्रसङ्गाद्गुणान्तरयुतानामपि संज्ञार्थ तपरत्वमिति वार्तिक- मतम् । तपरसूत्रस्यात्र पक्षेऽनणामपि ग्राहकत्वमिति विध्यर्थत्वा- द । वेदे ह्युदात्ते कर्त्तव्येऽनुदात्तोच्चारणे दृष्टादृष्टदोषदर्शनात् १५८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये A नियमतो गुणानां भेदकत्वात् । भाष्ये तु "एकोऽयमात्मा उदकं नाम तस्य गुणभेदादन्य- वं भवति, अन्यदिदं तमन्यदिदमुष्णम्" इत्युक्तम् । तत्र ज. लत्वजात्यभिप्रायेणैक्यं न विवक्षितम् । व्यक्तिभेदादेवान्यत्वसं. भवे गुणभेदप्रयुक्तभेदोदाहरणत्वानुपपत्तेः । अन्यो घट इत्यु- ते घटान्तरपतियोगिकस्यैव भेदस्य बोधात् । किं त्वेकभाजनस्थत्वेन तत्तदुपाध्यवच्छिन्नएव तत्र गुणा- न्तरयोगाद्भेदव्यवहार इत्यर्थ इति कैयटः । कचिदभेदकत्वपि । मुण्डेन चौर्ये कृते कुन्तलित्वावस्था यामपि चौरोऽयमिति व्यवहारात् । एतच्छास्त्रे तु किं न्याय्य- मित्याकालायां सिद्धान्तमाह भाष्यकार:- अभेदका एव गुणा इति । अत एवानडुदात्त इत्यादि सङ्गच्छते । गुणरहितस्योच्चा- रयितुमशक्यत्वान्नान्तरीयकतयोचार्यमाणोऽपि गुणः प्रयत्नवि- शेषं विना न विवक्ष्यते। अन्यथा हुदात्तमेवोच्चारयेत् इति वाक्ये च न तूदात्तग्रहणं कुर्यादिति शेष एवकारस्यार्थ इति केचित् । अन्ये तु एकश्रुत्या सूत्रपाठः । अवच्छेदकत्वनानुपात्तश्च स्वरूपमात्रेण सन्नपि गुणो न भेदकः। अरुणया क्रीणातीत्यादा- वेव तस्य अवच्छेदकत्वम्, न तु गां दद्यादित्येतावन्मात्रोक्ता विति निर्विवादत्वात् । भाष्ये च एवकारस्य “न त्वेकश्रुतिमुच्चार्योदात्तग्रहणं कुर्यात्" इति शेषे तात्पर्यम् । अन्यथा स्पष्टार्थमुदात्तग्रहणं न कुर्यादित्येव ब्रूयात् । हत्यादेशस्य वधेः स्थानिवद्भा. वादनुदात्तत्वादिप्रतिषेधे प्राप्ते वध्यादेशे उदात्तनिपातनं क- रिष्यते । “एकाच उपदेशे" इति सूत्रे एकाग्रहणं च न कर्त्त- प्रथमपादे वृद्ध्याहिकम् । ३ । १५९ व्यमिति भाष्यासङ्गतेश्च । चतसर्यायुदात्तनिपातनं करिष्यतइति भाष्यविरोधाच्च । एतेन "स्थानेऽन्तरतमः" इतिवचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नेवोच्चारणीये उदात्ताचारणं यत्राधिक्याविवक्षार्थमि- ति कैयटकल्पनमपास्तम् । चतुशब्दस्य अव्युत्पत्तिपक्षे "त्र: संख्यायाः” इति व्युत्पत्तिपक्षे तु उरन्प्रययान्ततया "न्नित्या- दिनित्यम्" इत्युभयथाऽप्यायुदात्तत्वात् । अस्थ्यादीनामप्या- धुदात्तत्वाच्छेषनिघातेन इकारस्यानुदात्ततया तदादेशस्यान. डोऽप्यनुदात्तत्वस्यैव प्राप्त्या उदात्तोच्चारणं विवक्षार्थ स्या- दित्युदात्तग्रहणवैयर्थ्यश्च । प्रत्युत यत्नाधिक्येऽप्यविवक्षाज्ञापक- त्वापत्तिः । एकश्रुत्या सूत्रपाठे तु स्वरविशेषोपादानं विवक्षार्थ- मेवेत्यदोषः। यत्तु कौस्तुभे उदात्तग्रहणस्य स्वशब्दानुपात्तो गुणो न भेदक इति ज्ञाप्यम् उत यत्नविशेषविरहेण तथेति । नाद्यः । निपातनस्वरस्य विवक्षापत्तेः । नान्त्यः । उदात्तोचारणस्यै- व विवक्षाहेती यनविशेषे स्थिते मूलशैथिल्येन ज्ञापकानु. स्थानात् । स्वोपादानवैयर्थ्यप्रयोजकस्यार्थस्य ज्ञाप्यत्वानुपप- तेरिति । तदसत् । एकश्रुत्या पाठ इत्यस्यैव ज्ञाप्यत्वात् । उपा- त्तगुणानां भेदकत्वस्य लोकसिद्धत्वान् । भाष्ये तथैवोक्तत्वाच । उपादानं चात्र द्वेधा । स्वरूपेण शब्दविशेषावच्छेदकतया उदा- त्त इत्यादिशब्दैश्च । एतेन वैकल्पिकमैकश्रुत्यमङ्गीकृत्य “पक्षान्तरैरपि परि- हारा भवन्ति" इतिन्यायेन तत्रायुदात्तनिपातनं करिष्यते इत्युक्तम् । इह तु वैश्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणो- पात्तस्य गुणस्य नान्तरीयकत्वादविवक्षाप्रसङ्गादुदात्तग्रहणं १६० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये ज्ञापकमित्युक्तम् । अतो न पूर्वोत्तरभाष्ययोर्विरोध इत्यपास्तम् । गुणानां भेदकत्वस्याप्यवश्याश्रयणीयत्वात् । एकश्रुत्या सूत्र- पाठेनैव प्रकृतभाष्यस्य योज्यत्वात् । अत एव गुणभिन्नानां यवलानां संग्रहाय ग्रहणकशास्त्रेऽण्ग्रहणं सङ्गच्छते । अत एवाष्टन आत्वे इदमस्त्यदाद्यत्वे च नानुनासिकः । इदं च स- र्वमेकश्रुत्या पाठपक्षं पश्चादुपन्यस्यता कैयटेनैव ध्वनितमि- त्यास्तां विस्तरः। अदङ् गुणः२। अकार एकार ओकारश्चाविशेषेण गुणसंज्ञः स्यात् । प्रदेशा विधौ “आद्गुणः” इत्यादयः । अनुवादे “अतो गुणे" इत्या- दयः । अन्यत्पूर्ववदृह्यम् । इको गुणवृद्धी ३। गुणवृद्धिशब्दयोर्यत्र विधेयसमर्पकत्वं तत्र स्थानिविशे- पानभिधाने इक इति षष्ठयन्तं पदं स्थानिसमर्पकमुपस्थितं बो- ध्यम् । इदं च गुणदिशब्दयोः प्रकृतत्वेऽपि पुनर्गुणवृद्धिग्रहणात् शब्दव्यापाराश्रयेण लभ्यते । अन्यथा इक इत्येव ब्रूयात् । यत्तु तथाऽपि “इकस्तौ" इत्येव वक्तव्यम् । वस्तुत इक इत्येव । संपूर्ण पूर्वसूत्रद्वयमनुवर्णं वृद्धिरित्यादैचौ यत्र विधीयते गुण इति च अदेङ तत्र इक इति षष्ठ्यन्तं पदमुपतिष्ठते इति व्याख्यानात् । तत्र च लिङ्गम् "इतोऽत्सर्वनामस्थाने" इत्यत्र इग्रहणम् । अकारस्य स्वरूपेण विधानेऽपि इक्षदोपस्थितौ त- द्वैयर्थ्यादिति, तचिन्त्यम् । सर्वनाम्नामुत्सर्गतः प्रधानप- प्रथमपादे वृद्ध्याहिकम् । ३ । १६१ रामर्शितया तच्छब्देन गुणवृद्ध्योर्ग्रहणानुपपत्तेः । औत्सर्गिक- व्युत्पत्त्यनुसारेणैवापत्तेः कल्प्यत्वात् । उक्तलिङ्गस्य च ऋ- भुक्षिशब्दगतऋकारोकारव्यावृत्त्यर्थतयाऽन्यथासिद्धत्वात् । वा- क्यानुवृत्तौ च तस्य विशिष्टार्थान्तरपरत्वेन प्रकृतार्थान्वयानुप- पत्तेः । न च शब्दाधिकारेण निर्वाहः । पदमात्रे तदङ्गीकारात् । वाक्यार्थस्य परमतात्पर्यविषयतया तद्भङ्गस्यानुचितत्वात् । पदा- र्थस्य तु स्वातव्येण तदविषयतया वाक्यान्तरान्वयेऽपि तद्भ- जाभावात् । तद्वाक्यार्थबुद्धावेतत्समभिव्याहारस्य प्रतिबन्धकत्वे गौरवात् । तत्तत्पदार्थान्तरनिरूपिताकासादिज्ञानान्तरकल्पने गौरवाच्च । इग्ग्रहणं किमर्थमिति भाष्यादिकं तु अवयवद्वारा सूत्रा. क्षेपपरम् । प्रधानाक्षेपे गुणाक्षेपस्यार्थसिद्धत्वात् । अत एव प्राक् कडारात्समासः इत्यत्र प्राग्वचनं किमर्थमितिभाष्ये अवधित्वद्योतकाक्षेपद्वारेणावधेरप्ययमाक्षेप इति कैयटः । गुण- यधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्यादितिभाष्यादिस्वरसाच्च । एतेन सम्पूर्णसूत्रद्वयानुवृत्तिसामर्थ्यपरतया उक्तग्रन्थं व्या- ख्याय पूर्वोक्तव्याख्याने शब्दस्वारस्याननुगुणत्वदोषोद्गावनम- पास्तम् । विपरीतत्वात्स्वरसस्येति दिक् । इदं च सूत्रं न विध्यात्मकम् । पुनर्गुणवृद्धिग्रहणवैयर्थ्यात् । नाप्यधिकारः । तथा सति नञोऽप्यत्रैव पाठापत्तेः । प्रतियो- गिभूतयोर्गुणवृद्ध्योरत्रोपादानं निषेधस्य तूत्तरत्रेतिवैषम्ये बी. जाभावात् । इक्स्थानिकगुणवृद्धिनिषेधस्योत्तरत्र विधेयतयोप- स्थितिसिद्ध्यर्थत्वे विशिष्टस्यैवाधिकतमुचितत्वात् “सर्वस्य द्वे" इत्यादिवत् । “प्रत्ययः" "परश्च" इत्यादौ विभज्य पाठस्तु वि- धेयभेदादुपपन्नः । आयेन प्रत्ययसंज्ञा विधीयते परेण तु " सार्वधा- १६२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये प्रकृत्यपेक्षया परत्वमिति । तस्मात्परिभाषैवेयम् । एतदुपस्थितौ लिङ्गं च गुणवृद्धिशब्दाभ्यां तद्विधानं स्था. न्यन्तरनिर्देशाभावविशिष्टम् न तु गुणद्धिपदमात्रम् । “अचो ज्जिति" इत्यादावतिप्रसङ्गादित्यग्रे निरूपयिष्यामः । उदाहरणं चेता स्तोता कर्ता अचैषीत् अस्तौपीन अ. हार्षीत् इति । प्रत्युदाहरणं तु याता ग्लायति उम्भिता इति । अत्र आकारस्य अकारः ऐकारस्य एकारः मकारस्य स्था- नसाम्यादोकारश्च गुणो मा भूत् । यद्वार्तिकम् - इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् इति । स्यादेतत् । पचतीत्यादौ धात्वकारस्य शपमाश्रित्य पुगन्तलघूपधस्य " इति, प्रत्ययाकारस्य च तुकार्द्धधातुकयोः" इति तिपमाश्रित्य गुणे कृतेऽपि वि- शेषाभावः । न च चिकीर्प अक इतिस्थिते अकारस्य ध्यापत्तिः । ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्धेभ्यः पूर्ववि- प्रतिषेधेन" इति वार्तिकोत्या अतो लोपस्य बलवत्त्वात् । सि- द्धान्तेऽपि "अचो णिति" इति वृद्धेनिर्दिष्टस्थानिकत्वेन उक्त- परिभाषाया अप्रवृत्या उक्तरीत्यैव समाधेयत्वात् । अयासीदि- त्यादौ तु आकारस्य "सिचि वृद्धिः" इति वृद्धावपि न दोषः । "यमरमनमातां सक् च" इति सगिड्भ्यां परत्वेन तद्वाधाचेति केचित् । येननाप्राप्तिन्यायेनापवादत्वात्तद्बाध इत्यन्ये । याता वातेत्यादौ गुणस्तु गापोष्टकः कित्त्वेन ज्ञापनैव व. गैंकदेशानां वर्णग्रहणेन ग्रहणमितिपक्षप्रस्तावोक्तरीत्या निरस्त एव । अन्यथा द्वयोरकारयोः पररूपेणैव सिद्धौ आतोलोपम- त्यर्थकित्त्वस्य वैयर्थ्यापत्तेः। अतो लोपेन तु न तत्र निर्वाहः। “अ- प्रथमपादे वृद्ध्याहिकम् । ३ । १६३ नुदात्तोपदेश" इत्यत उपदेशपदानुवृत्त्या आर्द्धधातुकोपदेशकाले यददन्तं तस्यैव लोपविधानात् । गाधातोस्तु टप्रत्ययोत्पत्तिवे. लायामादन्तत्वात् । अन्यथा गत इत्यादौ मकारलोपे कृतेऽद- न्तत्वेन लोपापत्तेः। अथात्र आभीयत्वेन मलोपादेरसिद्धत्वमाश्रीयेत, तथाऽपि अय पय गतावित्याभ्यां किपि अत् पत् इतिरूपं माधवादिसं- मतं न सिद्ध्येत् । “लोपो व्योः” इत्यस्य आभीयत्वाभावात् । नचैवं विवि प्रीणने कृवि हिंसाकरणयोश्चेत्येतयोरिदित्त्वान्नुमाग- मे "धिन्विकृण्व्योर च" इति वकारस्याकारादेशे उप्रत्यये च कृते अतो लोपो न स्यात्, उप्रत्ययोत्पत्तिवेलायामदन्तत्वाभा- वादिति वाच्यम् । उप्रत्ययवेलायामेव तत्संनियोगशिष्टतया अ- स्यापि बुद्ध्यारोहात् इति केचित् । योगपद्येऽपि उप्रत्ययोपदेशवेलायामदन्तत्वं नास्त्येवेत्येतद- स्वरसेन निर्देशकमात्प्रथममत्वं ततश्वशब्दाकृष्ट उप्रत्यय इत्यन्ये। तस्मादाकारनिवृत्त्यर्थ नैतत्सूत्रमारभ्यम् । नापि ऐनिवृत्त्यर्थम् । ऐकारोपदेशसामर्थ्यादेव तद्वार- णात् । अन्यथा एकारमेवोच्चारयेत् । न चैवमायादेशोऽपि न स्यादिति वाच्यम् । गुणं प्रति हँकारोपदेशः स्ववैय- •पच्या बाधकः आयादेशे तु ऐकार एव निमित्तमिति वै- षम्यात् । तदाहुः यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेनिमित्तमेव नासौ बाध्यते इति । न च ग्लाय् इत्येव पठितुं शक्यम् । त्वया ग्लायते इत्यादौ यकारद्वयापत्तेः । आदन्तत्वाभावे जग्लावित्यादेरसि- देश्च । नन्वेवम् “आदेच उपदेशेऽशिति" इत्यात्वमपि बाध्येत ।
१६४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये एडन्तत्वोपदेशेऽपि आत्वसम्भवेन ऐजुपदेशस्य तन्निमित्तत्वाभा- वात् । शिति प्रत्यये गुणस्य शिद्भिन्नेत्सात्वस्य ऐज्विरोधित्वे तुल्ये ऐजुपदेशेन गुण एव बाध्यते न त्वात्वमिति विनिगन्तुमशक्य- त्वात् । धेट् पानइत्याचेङन्तेषु आत्वविधैरपि सावकाशत्वा- व । आत्वविधावेज्ग्रहणस्य तु “मीनातिमिनोतिदीड ल्यपि च" इत्युत्तरार्थत्वात् । वार्तिकमते एजन्तानां दीङादीनामात्वविधा- नस्य घुसंज्ञासूत्रे वक्ष्यमाणत्वात् । अत्र कैयटादयः । “न ध्याख्या" इतिसूत्रे कृतात्वस्य ध्यायतेर्निर्देश एव आत्वं न बाध्यतइत्यत्र विनिगमक इति । यत्तु एज्ग्रहणसामर्थ्यादप्यात्वं भवति । न हि तस्योत्तरा- थत्वं शङ्कयम् । भाष्यमते “मीनाति" इतिसूत्रेण गुणवृद्धिनि- मित्ते प्रत्यये विवक्षिते सत्युपदेशावस्थायामेवात्वं विधीयते न तु गुणवृद्ध्योः कृतयोरितिसिद्धान्तात् । अन्यथा दाय इत्यत्र इका- रान्तत्वाद्धनं बाधित्वा अच् स्याद्, ईषदवदान इत्यादौ "आतो पुच्" न स्यात्, अवदाय इति "श्यायध" इति आदन्तत्वल- क्षणो णश्च न स्यात् । इदं च एनिमित्तप्रत्ययविवक्षायां दीङा- दीनामात्वविधानेनापि सिध्यति । न च नितां णितां च प्रत्य- यानां वृद्धिनिमित्ततया एनिमिसत्वं नास्तीति घफ्रिजादि. विवक्षायामात्वं न स्यादिति वाच्यम् । वृद्ध्या गुणबाधे. ऽपि तेषां गुणं प्रति स्वरूपयोग्यत्वानपायात् । एज्विष- ये प्रागेवात्वाभ्युपगमे फलोपधानविवक्षायामसंभवादिति । तन्न । अपवादविषयपरिहारेणैवोत्सर्गप्रवृत्त्या णिजादेरेचं प्रति स्वरूपयोग्यत्वे मानाभावात् । तस्मादैचो न गुण इति सिद्धम् । नापि व्यञ्जननिवृत्त्यर्थम् । “सप्तम्यां जनेर्डः" इति ड- प्रत्ययस्य डित्करणेन व्यञ्जनस्य गुणो न भवतीतिज्ञापितत्वा- प्रथमपादे वृद्ध्याहिकम् । ३ । १६५ त् । अन्यथाऽर्द्धमात्रिकव्यञ्जनस्थाने अकारे गुणे मातृके कृते प- ररूपेण सिद्धौ तद्वैयर्थ्यात् । न च नकारस्य सानुनासिक एवा. कारो गुणः स्यादिति वाच्यम् । पर इत्येव सिद्धे रूपग्रहणस्य यद्गुणविशिष्टं परस्य रूपं तादृगेव यथा स्यादित्येतदर्थत्वात् । अत्र भाष्यम्- डित्करणं न ज्ञापकम् । " अन्येभ्योऽपि दृश्यते” इत्यनेन “गमश्च " "अन्ता- त्यन्ताध्वदूरपार " इतिप्रकरणाधीतेन वार्तिकेन गमेरपि डप्रत्ययस्य वाच्यत्वात् । तत्र च गुणस्वीकारे मकारस्य स्थाने ओष्ठस्थानतया ओकारस्य गुणस्यापत्तौ नगोऽग इत्या- दीनामसिद्धेः। यद्यपि "सप्तम्यां जनेर्डः" इतिप्रकरणादन्यत्रैवायं डप्र- त्ययः, तथाऽपि “जनेर्डः” इतिप्रकरणे “अन्येष्वपि दृश्यते इतिसूत्रस्थापिशब्दगर्भित एवार्थो वार्तिकेनोक्तो न त्वपूर्वः । अस्तु वा तद्वार्तिकमेव व्यर्थमिति भाष्याभिप्रायः इति केचित् । ननु “गोर्डोः" इति डोप्रत्ययविधानं मकारस्य ओकारो गुणो न भवतीति ज्ञापकम्, अन्यथा विचैव गुणे कृते गोरूप- सिद्धः, यद्वा इदमेव व्यञ्जनस्य गुणाभावज्ञापकं स्यादितिचेन्, मैवम् । मकारस्थाने सानुनासिकस्य अकारस्य व्यावृत्तये डो- प्रत्ययविधेः सार्थक्यात् । अथ तथाऽपि “ तनोतेर्डउः सन्वच्च " इति डित्करणं ज्ञापकं व्यञ्जनस्य गुणो न भवतीति । अन्यथा नकारस्य गुणे. न प्रत्ययाकारेण सह पररूपेण च सिद्धौ तस्य वैयर्थ्यात् । किं च स्थानप्रयत्नाभ्यामन्तरतमे चेता अचैषीदित्यादौ १६६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये चरितार्था गुणद्धिविधयः केवलस्थानकृतान्तर्येण व्यञ्जना- दिषु न प्रवर्तिष्यन्ते । न चैवं नेता अनैषीदित्यादौ स्थानगुण- प्रमाणैस्त्रिाभिरान्तरतम्यात्तत्र चारितार्थे, इस्वे तत्प्रवृत्तिर्न स्या- दिति वाच्यम् । “सृघस्यदः क्मरच् "इति कित्करणेन प्रमाणत आन्तर्यस्याविवक्षितत्वज्ञापनात् । न च ईहिता ईशितेत्यत्र क- ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयोः स्थानगुणाभ्यामान्त- रतम्याददेतौ स्यातामिति वाच्यम् । ऊष्मणामीपतित्वस्य वक्ष्यमाणत्वात् । इकारादीनां वितत्वमेव । एकारादीनां वित. तरत्वस्य शिक्षान्तरोक्तत्वेऽपि सूत्रभाष्याद्यसंमतत्वात् । उक्तकि- त्वेन इकारादिषु गुणप्रवृत्त्यनुमानाद्वा । तस्मादात्संध्यक्षरव्यञ्ज- नानां गुणवृद्ध्योरभावस्योक्तरीत्यैव सिद्धौ सूत्रमेतद्यर्थमिति पूर्वपक्षः। सिद्धान्तस्तु " किति च" इतिसूत्रे निषेध्याया वृद्धरि- ग्लक्षणत्वसंपादनायेदम् । न ह्येतत्परिभाषां विना इग्लक्षण. गुणवृद्धिनिषेधः शक्यः । प्रतियोगितावच्छेदकाप्रसिद्धेः । सति त्वस्मिन् इक इतिशब्दमुच्चार्य विहितत्वलक्षणमिग्लक्षणत्वं प्र- सिद्ध्यति । तत्रत्यचकारस्य इतिशब्दार्थकतया तदर्थलाभात् । न च तदविशेषितयोरेव तयोः स निषेधोऽस्त्विति वाच्यम् । "नडादिभ्यः "फकि लैगवायन इत्यत्र ओर्गुणस्यापि निषे- धापत्तेः । न च विधानसामर्थ्यम् । औपगव इत्यादौ तस्य च- रितार्थत्वात् । पौरोहित्यमित्यादौ तु यकि परे "किति च" इति आदिवृद्धिर्भविष्यत्येव । विधानसामर्थ्यात् । निषेधस्य तद्धित- भिन्ने किति चरितार्थत्वात्। अत एव इस्थानिकगुणनिषेधेनापि न निर्वाहः । उक्तगुणस्य उकारस्थानीयतासत्त्वात् । तस्मानि- षेधे प्रतियोगितावच्छेदकीभूतमिगलक्षणत्वं तत्मसिद्ध्यर्थमिदम् । ।
प्रथमपादे वृद्ध्याह्निकम् । ३ । गुणवृद्धी पुनः सर्वत्रैव तव्यतिरेकेणापि इकस्थानिके एव पर्य- वस्यतः। तथा हि । “सार्वधातुकार्द्धधातुकयोः" "जुसि च" इति गुणश्च अलोऽन्त्यपरिभाषया अन्त्यवर्णे प्राप्तौ पूर्वोक्तज्ञापकव. शादिक्ष्वेव विश्राम्यतः । “ मिदेर्गुणः " पुगन्तलघूपधस्य च" इत्यादिषु तु स्थान्यपि निर्दिष्ट एव । मिद इर्मिदिस्तस्य गुणः । पुकि अन्तः पुगन्तः । पुकीति विपयसप्तमी। पुकि विव- क्षिते सति योऽन्त इत्यर्थः । तेन पुगव्यवहितपूर्ववर्तिन इति पर्य- वसितम् । लम्ची चासावुपधा चेति कर्मधारयः । ततः पुग- न्तश्च लघूपधा चेति समाहारद्वन्दे क्लीवत्वम् । वापयतीत्या- दौ त्वादन्तसन्निपातकृतस्य पुकस्तद्विघातकगुणाप्रवर्तकत्वात् । "ऋच्छत्यृताम् "इत्यत्रापि ऋशब्दऋच्छब्दयोर्द्वन्द्वः, ऋच्छतिश- ब्दस्य ऋकारेण षष्ठीसमासं कृत्वा पूर्वपदे तत्पुरुषगर्भ उत्तरपदे द्वन्द्वगर्भो द्वन्द्वः। यद्वा उक्तरीत्या पूर्वपदे तत्पुरुषगर्भ ऋकारेण ऋच्छशब्दे- न च त्रिपदो द्वन्द्वः । तेन ऋच्छतेकारस्य स्थानित्वलाभः । आरिवानित्यादौ गुणसिद्ध्यर्थमृधातोः संग्रहाय मध्ये चतुर्थो- ऽपि ऋकारः प्रश्लेष्यः । अन्यथा कसोः कित्त्वसामर्थ्याद् गु. णो न स्यात् । प्रश्लेपे तु विशिष्य विधानसामर्थ्याद् गुणसि- द्धिः । "ऋदृशोऽडि" इत्यत्र "उरडि गुणः"ततो "दृशः" इति पृथग्योगः । उरित्यनुवृत्त्या व्यधिकरणषष्ठ्या च दृशिसंवन्धिन ऋकारस्य गुण इत्यर्थः । “स्थूलदरयुवहस्वक्षिप्रक्षुद्राणां य- णादिपरं पूर्वस्य च गुणः इत्यत्र योगविभागः । “स्थूलदूर- युवहस्वानां यणादिपरम्" इत्येको योगः । “क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः” इति द्वितीयः । युवपर्यन्तानां लकाररेफवकाराणां १६८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये स्त्रोत्तरवर्त्यकारेण सह लोपे "ओर्गुणः "इत्युकारस्य गुणे अ. वादेशे च स्थवीयान् दीयान् इत्यादि सिद्धम् । यण आदि. र्यणादिः ततः परमिति समासः । तेन क्षिप्रक्षुद्रयोर्यण आदी रेफपूर्वी पकारदकारी, ततः परस्य रशब्दस्य लोपस्ताभ्यां पूर्वस्य इकारस्य उकारस्य च गुण इत्यर्थः । एवं गुणमात्रमिक्षु विश्रान्तम् । “ मजेदृद्धिः " इत्यत्र तु अचः इत्यपकृष्य मृजेः संबन्धिनः अचो वृद्धिः स्यात् । ततो "णिति" इति । अच इत्यनुवृत्त्या यथान्यासवदेवास्य योग- स्यार्थः । अमाई इत्यादौ अटो वृद्धिस्तु न भवति । लादेशोत्तर- मडितिपक्षे परत्वादृद्धः प्रवृत्तेः । सकृदेव शास्त्रस्य चरितार्थ- त्वात् । यदा तु लावस्थायामेवाद्, न चैवमध्यैयातामित्यत्र अधि आ इ आतामितिस्थिते “अचि अनुधातुभ्रुवाम्" इति इयडं बाधित्वा “एरनेकाचः" इति यण् स्यात्, आटो धात्वा- द्यवयवत्वेनानेकाचत्वादिति वाच्यम्, “एरनेकाचः"इति विभज्य "इणो यण्" इत्यनुवर्त्य अनेकाचश्यग् तर्हि इण एवेतिनिय- मेन तद्वारणादितिपक्ष आश्रीयते, तदा "किति च" इति नि- षेधाद् वृद्धावस्थायां दुर्लभत्वेनान्तरङ्गत्वादडागमस्यैवोत्पत्त्या तस्य वृद्धिप्रसङ्गेऽपि "अन्त्यबाधेऽन्त्यसदेशस्य" इति परिभा- षया समाधानसंभवात् । तत्प्रत्याख्यानपक्षे तु अङ्गाक्षिप्तेन प्रत्ययेनाविशेषणा- त्पत्यये परे तद्विधानात् । अव्यवहितप्रत्ययाभावेनैकवर्णव्य- वधानेऽपि ऋकारस्यैव वृद्धिर्न त्वटः । अनेकव्यवधाने प्रवृत्ती मानाभावात् । “येन नाव्यवधानं तेन व्यवहितेऽपि वचनमा- माण्यात्" इतिन्यायात् । “सिचि वृद्धिः परस्मैपदेषु" इत्यत्रापि अचिकीर्षीदित्यकारद्धिनिषेधार्थ नैतत्सूत्रम् । अल्लोपस्य वि- प्रथमपादे वृक्ष्याहिकम् । ३ । प्रतिषेधेन बलवत्त्वस्य उक्तत्वात् । आकारेऽप्युक्तः समाधिः । एजन्तं तु नास्त्येव । अनैमित्तिकस्य आत्वस्य प्रागेव प्र. तेः । रैनौग्लौशब्दानामाचारकिबन्तानां वृद्धिसत्त्वासत्त्वयो- न विशेषः । न च उदवोढामित्यत्र पूर्व ढलोपे तत्र ओदन्तत्वाद् वृद्धिमा सङ्गः । तस्यासिद्धत्वात्यूर्व हलन्तलक्षणा द्धिः, ततो ढलोपः, "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यसिद्धत्वान्न ओदन्तत्वमितिसमाधा- नात् । न च गोशब्दाकिपि अगवीदित्यत्र वृद्धिनिषेधार्थः । ऋत इद्धातोः " इत्यतोऽनुत्तेन धातुना सिजाक्षिप्तस्य धा- तोरभेदेन विशेषणाद्धातुरेव यो धातुर्न तु कथंचित्पातिपदि- कमितिव्याख्यानादिति कौस्तुभे । माधवस्तु कविविधुपितृशब्दानां किपि लुडिः अकवायीत् अविधावीत् अपितारीदित्याह । तस्यायमाशयः-धातुरेवेत्यस्य कोऽर्थः, प्रत्ययान्तरेऽपि धा- तुसंज्ञक एव, धातुत्वानिवन्धनप्रत्ययप्रकृतित्वाभाववान्वा । नाद्यः। तत्र हि भेदप्रतियोगितावच्छेदकतया प्रत्ययत्वसाक्षाध्याप्यो धर्मों निवेश्यते उत कथञ्चित्प्रत्ययत्वव्याप्यः । न प्रथमः । तिङ्त्वाद्यवच्छि नभेदवति कृत्प्रत्ययादौ विवन्तस्यापि धा- तुत्वात् । नान्त्यः । तिप्त्वावच्छिन्नभिन्ने तसादावपि तस्य धातुत्वात्तव्यावृत्तेरभावात् । न द्वितीयः । किवन्तानां हरति- करोत्यादीनां स्वादिप्रकृतित्वेन व्यावृत्त्यापत्तेः । न च तु. विशिष्टानामेव स्वादिप्रकृतित्वमिति वाच्यम् । तावताऽपि धर्मिभेदानुपपादनात् । लू इत्यादिकिवन्तसमानाकाराणां शु. दल्वादीनामप्यलावीदित्यादौ वृद्ध्यनापत्तेश्च । न च प्राति- पदिकत्वानुत्तरधातुसंज्ञाकइति वाच्यम् । “उपदेशे एवानुष- ૨૨ १७० व्याकरणासदान्तसुधानिधौ प्रथमाध्याये न्धलोपे कृते ततो धातुसंज्ञा" इतिग्रन्थदर्शनाद्धातुमत्ययभित्रत्वे सत्यर्थवत्त्वोत्तरमेव हृप्रभृतीनामपि धातुसंज्ञत्वात् । अनुबन्ध- सस्वासत्चयोस्त्वकिश्चित्करत्वात् । अथौपदेशिकधातुग्रहणार्थ द्वितीयधातुग्रहणमिति नामधातु- व्यावृत्तिरितिकैयटोक्त्यनुसारेणोच्यते, तथाऽपि इगन्ते किवन्त- धातौ सिचि वृद्धिारयितुं न युक्ता । इपरिभाषारम्भे तस्या इष्टतया तदनारम्भेऽपि तथात्वात् । तादृशस्यैवार्थस्य प्र- कारान्तरेण साधनीयत्वात् । तस्मादोकारान्तव्यावृत्त्यर्थमेव य- तनीयमितिस्थिते केचित्तावदाहुः- धातोरितिवद् “ ओतः" इत्यप्यनुवर्त्य ओदन्तस्य धा. तोश्चेद् वृद्धिर्भवति तर्हि धातोरेव धातोर्न तु नामधातोरिति व्याख्येयमिति । तचिन्त्यम् । नामधात्वन्यस्य ओदन्तस्य धातो- रप्रसिद्धः । तेपामात्वस्य प्रागेव प्रवृत्तेः । ओदन्तत्वोप- लक्षितस्य आकारान्तत्वदशायां वृद्धौ सत्यामसत्यां वा वि- शेषाभावस्योक्तत्वात् । तस्माद् " नेटि" इत्यत्र नेतियोगं विभज्य “ओतः" इत्यनुवर्त्य ओकारान्तस्य वृद्धिनिषेधः । यद्वा बहुलग्रहणमनुवर्त्य ओदन्तस्य वृद्ध्य भावो बाहुलकेन साधनीय इत्येव तावद्रमणीयम् । एवं हलामपि न सिचि वृद्धिप्रसङ्गः । येननाप्राप्तिन्यायेन हलन्तलक्षणद्धस्ताव. द्वाधकत्वसम्भवात् । न चैवमकोषीदमोषीदित्यादौ । वद. बजहलन्तस्याचः" इति वृद्धेः “ नेटि" इति निषेधेन निरप. वादत्वात् "सिचिवृद्धिः" इतिसूत्रेण हलो वृद्धिप्रप्त इति वा. ध्यम् । वृद्धिमात्रस्य " नेटि" इति निवेध इत्यभ्युपग- मात् । तस्मात् “ विङति च" इति निषेधे इग्लक्षणत्वस्य दिविशेषणत्वलाभार्थमियं परिभाषेति सिद्धम् ।
" प्रथमपादे पृष्याह्निकम् ।। अथ तथाऽपि कृतं छिन्नमित्यादौ " सार्वधातुकार्द्धधातुक- पोः" इति पुगन्ततिगुणस्य च निषेधाय गुणग्रहणमेवास्तु, न तु वृद्धिग्रहणम् । न च मृष्ट इत्यादौ वृद्धिनिषेधाय तस्या इग्लक्षणतां सम्पादयितुं तदिति वाच्यम् । मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते" इति भाष्योक्त्या “ अजादौ विङति वा " इतिवचनस्य “ मृजेर्वृद्धिः” इत्येतदुत्तरमाव- श्यकतया तत्र "अजादौ तिति" इतियोगं विभज्य किति चेद्भ- पत्यजादावेवेतिनियमेन तव्यावृत्तेः साध्यत्वादितिचेत्, अत्राहुः- शू स्तुतौ धू विधूनने इति कुटादिपठितयोलङि अनु- वीत् अधुवीदितिरूपामष्टम् । तत्र गाङ्कुटादिभ्यः" इति डिवातिदेशेन "किति च" इति सिचिवृद्धनिषेधार्थ तस्या इग्लक्षणत्वसंपादनाय वृद्धिग्रहणमिति । स्यादेतत् । अन्तर्भूतसिज्मात्रापेक्षत्वात्सिच्परस्मैपदेत्यु. भयसापेक्षबहिरङ्गवृद्ध्यपेक्षयाऽन्तरङ्गस्योवडो वृद्धः प्रागेव प्र. वृत्तौ हलन्तत्वाद् "नेटि" इति वृद्धिनिषेधस्सिद्ध एव । न च "सिच्यन्तरङ्गं नास्ति" इतिसिद्धान्तानवमिति वाच्यम् । तस्य नियुक्तिकत्वात् । न चैवमचैषीदित्यादौ अन्तरङ्गत्वात्सिचि वृदि बाधित्वा गुण एव स्यादिति वाच्यम् । तस्यैव वृद्धिसं- भवेनेष्टापत्तेः । पूर्वपक्षे वृद्धेरिक्स्थानिकत्वे नियमाभावात् । उक्तपरिभाषायां वृद्धिग्रहणानुपादानस्यैव प्रक्रान्तत्वात् । नन्वस्तौषीदित्यादौ गुणस्य न वृद्धिसंभवः । ओका- रान्ते वृद्धिनिषेधस्य स्थापितत्वात् । बाहुलकेनानिगन्तस्य - दिर्नेतिपक्षे तु पूर्वोक्तेऽपि तथैवेतिचेद्, मैवम् । ओतो धातोरेव धातोर्न तु नामधातोरितिपक्षे दोषाभावादिति केचित् । तचिन्त्यम् । तस्य दूषितत्वात् । न च वृक्ष्यवस्थाया- २७२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये मोदन्तो नामधात्वन्यधातुरत्रैव प्रसिद्ध इति वाच्यम् । प्रत्य- योत्पत्तिवेलायां ह्योदन्तत्वमपेक्षितं न तु यदाकदाचित्, अ- विधावीदित्यादावपि निषेधापतेः । तस्यापि विधवतीत्यादी ओदन्तत्वात् । सिच्यन्तरङ्गस्वीकारे तत्रैव ओदन्तत्वाच्च । न- चेष्टापत्तिः । पूर्वोक्तदोषग्रस्तत्वात् । अन्यथा तत्कृतस्य कै- यटमाधवयोरविरोधस्याप्यनुपपनत्वात् । तस्मादेवं व्याख्येयम् । “सिचि” इतियोगं विभज्य "ओत" इति “ वहुलम् " इति चानुवर्त्य व्यवस्थितबाहुलकं चाश्रित्य सिचि ओदन्तस्य वृद्धिः स्यात् व्यवस्थितत्वाच्च बाहुलकस्य नामधातौ न भवतीति । एवं चाकवयीत् अक- वायीत् इति मतद्वयपुरस्कारेण रूपद्वयदर्शनं सिद्धान्तकौमुद्यां नियुक्तिकमेव । तदंशे उभयोरप्यैकमत्यस्यैव व्यवस्थापितत्वा. त् । न चैवम् अविधावीदित्यनुपपत्तितादवस्थ्यम् एतत्पक्षे त- त्रापि प्रागेव गुणस्य वाच्यत्वादिति वाच्यम् । स्वाभाविको- दन्तस्यैव निषेधोपगमादिति । अकार्षीदित्यादौ गुणे कृते "वद- बजहलन्तस्य" इति वृद्धिः । न चैवमतारीदित्यादौ गुणे कृते "नेटि" इति हलन्तल. क्षणद्धिनिषेधात् “अतो हलादेलघोः "इति वृद्धिविकल्पाप- तिरिति वाच्यम् । तदपवादभूताया "अतो लान्तस्य" इति- नित्यद्धेः सम्भवात् । न च तथाऽपि अलावीदित्यत्र विक- ल्यापत्तिरेवेति वाच्यम् । “लान्तस्य "इत्यत्र "लोपो व्योः " इति वकारं प्रश्लिष्य तदन्तस्यापि नित्यद्धिविधानस्य वा- च्यत्वात् । न चैवं मा भवानीदमवीदित्यादावपि नित्य- यापत्तिरिति वाच्यम् । म्यन्तक्षण" इतिसूत्रे णिश्चि- ग्रहणमपहाय तत्स्थाने अविमव्योः प्रक्षेपेण निषेधसिः ।
भवान् । प्रथमपादे वृद्ध्याह्निकम् । ३ । १७३ एतत्पक्षे औनयीदश्वयादित्यादावन्तरङ्गत्वाद् गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधापत्या तवेष्टविकल्पासिद्धिरिति वा- च्यम् । वकारप्रश्लेषनिबन्धननित्यद्धेरेव अविमव्योः प्रक्षेपण निषेधात् । " अतो हलादेः” इति विकल्पस्य मवेः सं- " मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् " इतिन्यायात् । न चैवमजागरीदित्यत्रापि विकल्पापत्तिः, एकसूत्रोपात्तत- या तदंशेऽपि "अतो हलादेः" इत्यस्य बाधायोगादिति वान्य- म् । तत्र बाध्यसामान्यचिन्तया स्वविषयप्राप्तस्य वृद्धिमात्रस्य बाधात् । अगत्या वैषम्यस्य सह्यत्वात् । यद्वा "अतो लान्तस्य" इति वृद्धरेवास्तु निषेधः । न चैवमजागरीदमवीदित्युभयत्रा- पि “अतो हलादेः" इत्यस्यापत्तिः । तदपवादनित्यवृद्धि- निषेधेऽपि मवती उत्सर्गभूतविकल्पप्रवृत्तिः जागौ तु नेति स्वीकारात् । अपवादनिषेधे पुनरुत्सर्गप्रवृत्तेलक्ष्यानुरोधेन वैकल्पिकत्वात् । तस्मात्सिच्यप्यन्तरङ्गपरिभाषाप्रवृत्तिस्वी- कारादुवडेव । अनुवीदित्यादौ "ङ्किति च" इतिनिषेधप्र- स्यर्थ सिचिवृद्धरिग्लक्षणत्वसंपादकत्वेनापि नात्र वृद्धिग्रहण- सार्थक्यमितिचेत् अत्राहुः- अतो लान्तस्य इत्यत्र वकारस्य प्रश्लेषे शवधातो- रपि नित्यं वृद्धिप्रसंगः । न च तत्र मानाभावः । शव- तिर्गतिकर्मा कम्बोजेषु भाष्यते, विकारएनमार्या भाषन्ते इति भाष्यनिरुक्तकृद्भ्यामुक्तत्वात् । न च अविमविवत्तस्यापि तत्र पाठः कार्य इति वाच्यम् । णिश्वीतिद्वयं त्यक्त्वा त्रयप्रक्षे. पे गौरवापत्तेरिति दिक् अत्रेदं बोध्यम् । नैतदनुरोधेन "सिच्यन्तरङ्गं नास्ति" इति ।
२७४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये स्वीकारो न्याय्यः । वकारप्रश्लेषानभ्युपगमात् । न चाला- वीदित्यत्र विकल्पापत्तिः । “वदवज" इत्यत्र वदअवजेति अश्लिष्य अवादेशस्यापि वृद्धिविधानस्य व्याख्यातुं शक्य- त्वात् । न च धातुसाहचर्याद्धातोरेव अचो ग्रहणं स्यादिति बाच्यम् । “ द्विस्त्रिचतुर्" इतिसूत्रे कृत्वोऽर्थग्रहणेन साहच- यस्य सर्वत्रानियामकत्वस्य ज्ञापितत्वात् । “नेटि" इतिनि. षेधस्य च हलन्तलक्षणद्धिमात्रप्रतियोगिकत्वस्य सर्वसिद्ध- त्वात् । एतेन अविधावीदित्यादावपि नित्यवृद्ध्या प्रागुक्तग्र- न्थपतविरोधोऽपि निरसितुं शक्यः । एवं च "म्यन्तक्षण" इति सूत्रे णिश्विग्रहणं न कर्त्तव्यमेव । सुतरां तत्स्थाने अवि- पव्योः प्रक्षेपः । प्रागेव तु शवतेः, प्रयोजनाभावात् । गुणे कृते यान्तत्वेनैव णिच्योर्निषेधसिद्धः । अव्यादिप्रक्षेपस्य च वकारपश्लेषकृतातिप्रसङ्गवारणमात्रमूलकत्वेन तत्परित्यागे मू. लोच्छेदेनैव छिन्नत्वात् । एवं च तत्रत्यम् अंशभेदेन बाध्य- सामान्यविशेषचिन्ताश्रयणवैषम्यमपि नापद्यते । यदपि कैयटादयः । चिरि जिरि इति हिंसायां स्वादौ पठ्यते । ताभ्यां सिचि अचिरायीदजिरायीदितीष्टम् । एवं चिनोते यतेश्च यङ्लुगन्तात्सिचि अचेचायीदनेनायीदिति । सिच्यन्तरङ्गस्वीकारे तु गुणायादेशाभ्यां यान्तत्वापत्त्या “म्य- न्तक्षण "इति वृद्धिनिषेधे अचिरयीदित्यादिकमेव स्यादतः सिविषयेऽन्तरङ्गपरिभाषा न प्रवर्ततइत्यावश्यकमिति । तदपि चिन्त्यम् । हकारमकारसाहचर्येण यकारस्या- प्यौपदशिकस्यैव ग्रहणेन अयादेशे तनिषेधो न प्रवर्ततइति कल्पयितुं शक्यत्वात् । णिश्विग्रहणं च तत्सूत्रे स्थाप्यतएक । बदेव च औपदेशिकयकारान्तस्यैव निषेध इत्यत्र सापकम् ।
प्रथमपादे वृख्याहिकम् । ३। १७५ अन्यथा गुणायादेशयोः कृतयोः यान्तत्वादेव निषेधसिद्धी तद्वैयापत्तेः । एवं च साहचर्यस्य नियामकत्वं न सा- र्वत्रिकमित्यादि कुचोद्यमप्यनवकाशम् । एवं च णिश्विग्रहणस्य "सिच्यन्तरङ्ग नास्ति' इत्यत्र ज्ञापकत्वेनोपन्यासोऽप्यनुपप- भः । अस्मद्रीत्याऽपि तद्वैयर्थ्याभावात् । एतेनोक्तलिङ्गोपष्टम्भेनैव “सत्यपि संभवे बाधनं भवति" इतिन्यायमाश्रित्य अन्तरङ्गं वृद्ध्या बाध्यते । अन्यथा तक्रेण दधि न वाध्येत । नमकजादिभिश्च शप्कपत्ययादयो न वाध्ये- रन् । “मिदचोऽन्त्यात्परः" इति श्नमो धातोरन्त्यादचः श- पश्च प्रकृत्यवयवमात्रात्परत्र संभवात् । अकचश्च टिमध्यगत- खेन कात्ययस्य च तद्वहिर्भावेन देशभेदसत्त्वात् । न च मध्येऽपवादन्यायेन उवङेव वृद्ध्या बाध्येत न तु गुणः तस्य पश्चात्पठितत्वादिति वाच्यम् । बाध्यसामान्यचिन्तायां स्व- विषयप्राप्तस्यापवादभिन्नस्य सर्वस्य बाधाभ्युपगमात् । अ- न्यथा "अचि र ऋतः" इति तिसृचतम् इत्यनयोकारस्य रेफादेशः प्रथमयोः पूर्वसवर्णदीर्घमुत्वं च बाधेत, न तु "ऋतो डिसर्वनामस्थानयोः" इतिगुणम् । परपठितत्वात् । बाध्यसा- मान्यविशेषचिन्ते च लक्ष्यानुरोधाम्यवतिष्ठते इत्यादिकम- प्यपास्तम् । प्रकृते कल्पकस्यान्यथैवोपपादितत्वात्कल्पनाया मूलोच्छे- दलक्षणबाधग्रस्तत्वात् । यदपि भगवद्भिर्भाष्यकारचरणैरुक्तम् । यच्च करोत्यकारग्रहणं लघोरिति कृतेऽपि इति । तस्यायमाशयः । “अतो हलादेर्लघोः" इत्यत्र अद्भहणं बावन्न संध्यक्षरव्यावृत्यर्थम्, लघोरित्यत एव सिद्धेः । इ. कारोकारप्रकारास्त्ववशिष्यन्ते अचेतीत् अमोषीत् अनी १७६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये दित्यादौ । यदि तु सिच्यन्तरङ्गं स्यात्तर्हि अन्तरङ्गत्वेनैव गुणसिद्धौ तत्र वृद्ध्यप्रवृत्यर्थम् “अत 'इति व्यर्थ स्यात् । पारिशेष्या- देव तस्याकारमात्रविषयकत्वसिद्धः । तत्रापीदं चिन्त्यम् । अकुटीदपुटीदित्यादौ "गाङ्कुटादिभ्यः "इति ङित्त्वेन गुणस्या. प्रवृत्या तत्र वृद्धिर्मा भूदिति अद्भहणं सार्थकमेव । न च तत्र वृद्धिरपि डिवेनैव न भविष्यतीति वाच्यम् । “लघोः" इति निर्दिष्टस्थानिकतया इग्लक्षणत्वाभावेन तदप्रत्तेः । यत्तु वृद्धावन्तरङ्गेण गुणेन बाधितायां ङित्त्वेन गुणबा- घेपि न वृद्धः प्रवृत्तिः । न हि देवदत्तस्य हन्तरि हते दे- बदत्तस्य पुनरुन्मजनं भवतीति न्यायादिति । तन्न। यदि अ- कारसार्थक्ये आग्रहस्तर्हि अपवादनिषेधे पुनरुत्सर्गस्य प्रवृत्तिरि- त्याश्रीयताम् । अन्यथा तु तत्परित्यागेऽपि क्षतिविरहात् । अत एव "वदवज" इत्यत्रास्मत्पक्षे वकारप्रश्लेषाधिक्यमपि न दोषा- वहम् । वृद्धिग्रहणस्य त्यागेन लाघवात् । “नान्तःपादम्" इत्यत्र तु सुजातेएश्वमूढ़ते इत्येतत्सिद्ध्यर्थं पूर्वरूपे निषिद्धे अ- यादीनामप्रवृत्तिरित्युक्तम् । अत्र त्वचिरायोदित्यादीनां फ. लानामन्यथैव साधितत्वेन वैषम्यात् । फलव्यतिरेकेणापि शब्दसार्थक्यमात्राय यत्किञ्चिदर्थज्ञापनोक्तश्चानुचितत्वादित्यल- मतिप्रसङ्गेन । तस्मादिह वृद्धिग्रहणं नोपयुज्यतएवेतिस्थितम् । इदं तु गुणग्रहणसाधारण्येन । वस्तुतस्तु सिद्धान्ते यथा तथाऽस्तु । इपरिभाषायां तृ. दिग्रहणानुपादानपक्षे तु इग्लक्षणवृद्धरमसिद्ध्या अकुटीदित्यादौ दृद्धिवारणायैवात इत्यस्य सार्थक्यम् । पूर्वपक्षे वृद्धिमात्रस्यैव प्रथमपादे वृद्ध्याहिकम् । ३ । १७७ निषेध्यत्वात् । हलादेरित्यस्य च कुटादिभिन्नस्थले सावका. शत्वादित्यलमातप्रसङ्गन । इदं तु गुणग्रहणसाधारण्येन वाच्यम् । उक्तरीत्याऽने- ककुसृष्टिकल्पनया गुणवृद्ध्योरिक्स्थानिकत्वसिद्धावपि तदपे- क्षया "इको गुणद्धी" इत्येवाश्रयितुमहम् । “सेयं महतो वंशस्तम्बाल्लद्वाऽनुकृष्यते” इतिन्यायसाम्यादिति सूत्राद्य- भिप्रायः। परमप्रकृतमनुसरामः । शन्दव्यापाराश्रयणं किम् । द्यौः पन्थाः इममित्यादौ "दिव औत्” “पथिमध्यभुक्षामात्" "त्य- दादीनामः" इत्यौत्वमात्वमत्वं च अलोऽन्त्यपरिभाषया अन्त्य- स्यैव यथा स्यादिति । यत्तु भाष्ये स इममित्युदाहृतम्, तत्र स इमं मन्त्रमपश्य- दितिब्राह्मणवाक्यावयवत्वेन स इत्यंशः संपातायातः। न तूदा. हरणप्रविष्टः । तच्छब्दे इकोऽसंभवानियमप्रवृत्तिशङ्काऽनुत्थाना- दिति केचित् । अन्ये तु "त्यदादीनामः" इत्यत्र इक इत्यस्योपस्थितौ द्वि- शब्दे इदंशब्दे च अत्वं स्यान त्वन्येषाम् । गणनिर्देशस्य “तदोः सः सौ" इत्यत्रानुवृत्त्यर्थत्वसंभवात्स इत्यप्युदाहरणमेवेत्याहुः । वस्तुतस्तु तथा सति “इदमो मः" इतिसूत्रं व्यर्थ स्यात् । तस्य मकारस्थाने त्यदायत्वबाधमात्रार्थत्वात् । उक्तरीत्या च मकारेऽत्वमसक्तिविरहात् । एवम् "इदोऽय् पुंसि" इत्यपि व्यर्थम् । इकारस्य त्यदादित्वादत्वे दो य पुसि इति विधाना- देव सिद्धः । द्विशन्दमात्रार्थत्वे तु अलोऽन्त्यपरिभाषयैव गतार्थत्वम् । अस्यां च परिभाषायां तच्छेषतदपवादपक्षौ पूर्वपक्षतया १७८ व्याकरणासद्धान्तसुधानिधौप्रथमाध्याये संभाव्येते पदोपस्थितिपक्षस्तु सिद्धान्त इति । तत्राघो यथा "सार्वधातुकार्द्धधातुकयोः" इत्यत्र अङ्गगुणशब्दयोरनुवृत्त्या अगस्येति षष्ठीनिर्देशाल्लिङ्गादलोऽन्त्यपरिभाषा गुणपदाच इक्- परिभाषोपतिष्ठते । तत्र इपदमङ्गस्य विशेषणम् इगन्तस्याङ्गस्य गुणो भवतीति । स च भवन् “अलोऽन्त्यस्य" इत्यनयाऽन्त्यस्य भवतीति । तदाऽलोऽन्त्यपरिभाषा अस्याः शेषः । अथ त्वङ्गस्येतिषष्ठी अलोऽन्त्यपरिभाषया अन्त्ये अलि स्थापिता, अङ्गान्त्यस्य गुण इति, पश्चादिका अन्त्यो विशेष्यते अङ्गान्त्यस्य इको गुणः स्यादिति, तदा इयमेव तस्याः शेषः । सोऽयं तच्छेषपक्षः। तत्पदम् अलोऽन्त्यपरिभाषापरमिति पक्षद्वयसंग्रहः । बहुव्रीहितत्पुरुषाभ्यामुभयपरत्वात् । तत्प्रत्युत्तरप्रवृत्तिकत्वं तच्छेषत्वमुभयसाधारणं बोध्यम् । एतेनोक्तपरिभाषाद्वयैकवा- क्यत्वस्य तच्छेषशब्दार्थत्वे राजकीयमित्यादौ अलोऽन्त्यप- रिभाषाप्रवृत्त्यनापत्तिः, भिन्नदेशयोः परस्परनिराकासयोर्विध्यु- पकारकयोरेकवाक्यताऽनुपपत्तिश्चेत्यपास्तम् । द्वयोरेकविधौ प्र- त्तिसंभवे तदितरपरिष्कृतविधिपरिष्कारकत्वस्य विवक्षितत्वात् । अथ गुणद्धिविधौ अङ्गस्येति न स्थानषष्ठी, किं त्विक इत्यपेक्षयाऽवयवषष्ठी, अङ्गावयवस्य इक इति, तदा स्थानषष्ठी- रूपलिङ्गाभावादलोऽन्त्यपरिभाषा नोपतिष्ठते । ततश्चाङ्गावयवस्य यत्र तत्र स्थितस्य इको गुणवृद्धी स्त इति तदपवादपक्षः। न हि वस्तुतः शास्त्रेण प्राप्तस्य बाधसंभवः, किं तु बाधकत्वाभिम- तशास्त्रेण बाध्यत्वाभिमतशास्त्रस्य स्वविषये प्राप्त्यभाव एव ग्राह्यते असत्यस्मिन्नत्रापि तत्प्रवर्तेतेति । उत्सर्गस्य स्वविषया- विषयकत्वकल्पनमेव बाध इति सर्वसिद्धान्तः ।
प्रथमपादे वृख्याहिकम् । ३। १७९ समुच्चयस्तु न संभवति, अन्त्यस्य इकश्च द्वयोरपि गुण: परिभाषाद्वयमामाण्यात्, तथा च "मिदेर्गुण" इत्यत्र अन्त्यस्य इकश्च द्वयोरपि गुण इति । अङ्गस्येति सकृदुचरितषष्ठ्याः स्था- नेयोगावयवयोगरूपार्थद्वयबोधनासंभवात् । स्थानेयोगव्यतिरेके- ण च लिङ्गाभावादलोऽन्त्यपरिभाषाऽनुपस्थानात् । आवृत्यादौ च प्रमाणाभावात् । अत एव मिदेरन्त्यस्य इको वा गुण इति विकल्पोऽप्य- नुपपन्न इत्याशयेन भाष्ये नैतावाशङ्कितौ । तत्राये “मिदेर्गुणः" इत्यादौ दोषः । अन्त्यस्य इक्त्वाभावात् इकश्चान्त्यत्वाभा- वात् । ततश्च भवतीत्यादौ परिभाषाद्वयस्य सावकाशत्वादत्र विनिगमकाभावादुभयपरित्यागे गुणस्य सर्वादेशत्वापत्तिः । यद्वार्चिकम्- वृद्धिगुणावलोऽन्त्यस्योतचेमिदिमजिपुगन्तलघूपधर्छिन- शिक्षिपक्षुद्रेष्विग्रहणं कर्त्तव्यम् । सर्वादेशप्रसङ्गवानिगन्तस्येति । उक्तस्थलेषु सर्वादेशप्रसङ्गात्तत्तत्स्थलेषु इग्ग्रहणं कर्त्तव्यम्। चकारस्य हेत्वर्थकत्वात् । यदि त्वत्रपूर्वोक्तकुकल्पनाऽनुसारेण सर्वत्र इकां स्था- नित्वं परिशेष्येत, तदा प्रतिपत्तावत्यन्तं गौरवम् । भिन्नमि- त्यादौ इग्लक्षणत्वाभावाद्गुणनिषेधानापत्तिश्च । यदि तु कोः कित्त्वाज्ज्ञापकादिग्लक्षणत्वाभावेऽपि लघूप- धलक्षणस्य निषेधः, न तु गुणमात्रस्य, अतो लैगवायन इत्यादौ गुणस्य न निषेध इति कल्प्यते, तर्हि तदपेक्षया लाघवात्प- दोपस्थितिपक्ष एव स्वीक्रियताम् । तदपवादपक्षेऽपि अजुह- बुरित्यादिवत् अनेनिजुः पर्यवेविषुरित्यादावपि "जुसि च" इति गुणः स्यात् । भवतीत्यादिवदीहितेत्यादावपि “सार्वभ- १८० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये तुकार्द्धधातुकयोः" इति गुणः स्यात् । अग्ने इतिवदमिचिदित्या- दावपि "इस्वस्य गुणः" इति संबुद्धिगुणः स्यात् । अमय इति- पदमिचित इत्यादावपि “जसिच" इति गुणः स्यात् । कर्तरीति- वत्सुकृतीत्यादावपि "ऋतो डिसर्वनामस्थानयोः” इति गुणः स्यात् । अनये इतिवदग्निचिते इत्यादावपि “घेर्डिति" इति गुणः स्यात् । बाभ्रव्य इतिवत्सौश्रुत इत्यादावपि “ओर्गुणः" इति गुणश्च स्यात् । तथा च वार्त्तिकम्- इङ्मात्रस्येतिचेज्जुसिसार्वधातुकार्दधातुकडूस्वाद्योर्गुणेषु अ- नन्त्यप्रतिषेध इति । इस्त्रादीति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिपदं “जसि च" इत्यादिगुणत्रयपरम् । तथा च तदपवादपक्षे उक्ताति- प्रसङ्गवारणायानन्त्यस्येको गुणो न भवतीति वचनान्तरं क- ल्यं स्यादिति गौरवमित्यर्थः । ननु सम्बुद्धिजसिगुणयोः "ऋतो डि" इति गुणस्य च स्वस्येति ऋत इति च निर्दिष्ट स्थानिकत्वात्कथमिपरिभाषो- पस्थितिः । अग्निचिते इत्यत्र च चिच्छब्दस्य घिसंज्ञाविरहादेव नातिप्रमङ्ग इतिचेत् अत्राहुः- आधयोईसेनेग्विशेषणात् । न चात्र परिभाषोपस्थानमेव दुर्लभम् , तस्या अनियमप्रसङ्गे नियमार्थत्वात् , अका- रस्य गुणप्रवृत्तावपि वर्णान्तरापत्यभावेन क्षतिविरहादिति वा- च्यम् । इसस्याओं विशेषणतया तस्य चावयवावयविभावसम्ब- न्धेन इग्विशेषणतया इस्वान्तं यदङ्गं तदवयवस्य इको गुणः स्या- दिति तदा सूत्रार्थः स्यात् । ततश्चाग्निचिदित्यादौ इस्वान्त- त्वाभावात् । अतिप्रसङ्गाभावेऽपि उपगोरित्यादौ उकारादेरपि गुणः स्यात् ।
" तथा च प्रथमपादे वृद्ध्याहिकम् । ३ । १८१ यद्वा इस्वायोर्विशेषणविशेष्यभावनिरासार्थमङ्गपदोत्तरष. ठयाः स्थानेयोगत्वबाधनायानन्त्यस्यापि गुणसिद्ध्यमिक्- परिभाषोपस्थितिः स्यात् । तथा च अझं हस्वं च इक एव विशेषणम् । आवस्यावयवत्वमन्त्यस्याभेदः संसर्ग इतिविशेषः। ततश्चाङ्गावयवस्य इस्वाभिन्नस्य इको गुणः स्यादित्यर्थः । स्वस्य " " जसि च " इत्युभयोरतिप्रसङ्गः सु- घटः । एवम् "ऋतो डि" इत्यत्र अावयवस्य ऋदभिन्नस्येति । "ओर्गुणः" इत्यत्र अङ्गावयवस्य उकाराभिन्नस्य इक इत्यर्थः । अग्निचिते इत्यादौ तु वर्णनिष्ठेव घिसंज्ञा न तु पदनिष्ठेतिपक्षे "घेर्डिति" इत्यस्यातिप्रसङ्ग इति । नन्वङ्गावयवस्य इको गुण इतिपक्षे भेत्तेत्यादावपि गुणे सिद्धे “पुगन्तलघूपधस्य"इति नियमार्थम्, तथा च इहितत्यादौ न दोष इति चेत्, अत्राहु:- यदि सार्वधातुकार्द्धधातुकयोलघूपधस्यैवेतिनियमः, तर्हि हस्वस्य गुणः ओर्गुणः” इत्यत्र अतिप्रसङ्गदोष एव । न हि तत्र गुणः सार्वधातुकादिनिमित्तः । अथ लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति, तर्हि ईहिते. त्यादौ दोष एव । न ह्यत्र गुणो लघूपधस्य । न च नियमद्वयेन निस्तारः । एकस्मिन्वाक्ये तदलाभात् । अथावृत्त्यादिकमाश्रीयते, तथाऽप्यनेनिजुरित्यत्रातिप्रस- । लघूपधाङ्गस्य सार्वधातुकस्य च तत्र सत्वात् । हे बुद्ध बुद्ध- यः पिचव्य बुद्धये इत्यादीनां लघूपधत्वाभावात् तत्राति- प्रसङ्गस्य सर्वथैव दुर्वारत्वाचेति कैयटः । तस्मात्तदपवादपक्षो दुष्ट एवेति स्थितम् । अत्र वदन्ति-अजाक्षिप्तेन प्रत्ययेन अजमेव विशेष्यतइति - १८२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये उक्तदोषप्रसाः। यदि तु प्रत्ययेन श्रूयमाणेन जुसादिना च इग्विशेष्यते यथाश्रुति प्रत्ययपरस्य जुसादिपरस्य च इको गुणः स्यादिति, एवं डिसर्वनामस्थानपरस्य ऋदन्ताङ्गावयवस्येक इत्यादि, तदा न कोऽपि दोष इति, तञ्चिन्त्यम् । अङ्गप्रत्यययोः परस्परमु. त्थिताकासत्वात् । न च अङ्गस्य इग्विशेषणतापन्नत्वेन तद- न्वयापेक्षया प्रत्ययस्य विशेष्ये इक्येवान्वय उचित इति वा- च्यम् । विशिष्टस्य वैशिष्टयमित्यन्वयात्, सर्वनामस्थानपरं यदृदन्तमङ्गं तदवयवस्य इक इति । अन्यथा रक्तत्वादेरपि द- ण्डाद्यन्वयानापत्तेः । स्वसमवायिसंयोगेन पुरुषएवान्वयापत्तेः । अथ लक्ष्यानुरोधेन आकाङ्क्षा कल्पयित्वा इगन्वयः क- ल्प्येत, तथाऽपि पदोपस्थितिपक्षेण सह तारतम्यविचारदशायां गौरवस्य दुर्वारत्वात् । कथंचिदुपपत्तिमात्रस्याकिञ्चित्कर- त्वात् । प्रतिपक्षापेक्षलाघवस्यैव पक्षव्यवस्थापकत्वाच्च । एतेन मिद इ. मिदिरित्यादिकल्पनाभिप्रायेण तच्छेषपक्षोपपत्तिकथन- मप्यपास्तम् । अथास्तु पूर्वविप्रतिषेधेनालोऽन्त्यपरिभाषाबाधिकेयमिक्प- रिभाषेति क्रोष्ट्रीयाचार्यसंमतः पक्षः । न च विषयान्तरे ल- ब्धावकाशयोरेव द्वयोर्विप्रतिषेधः, इपरिभाषा त्वनवकाशा, अलोऽन्त्यपरिभाषानिर्मुक्तविषयाभावादिति न तत्सम्भव इति वाच्यम् । रामेभ्य इत्यत्र एकस्य स्थानिन आदेशद्वयस्येव मे द्यत इत्यत्र द्वयोः स्थानिनोरेकस्यादेशस्याप्यसम्भवादसम्भव. मात्रस्यापि विप्रतिषेधपदार्थत्वादिति, तन्न । परिभाषायेन इकारदकारयोभिन्न विषयावच्छेदेन प्राप्त्या अस्ति च सम्भवो यदुभयं स्यादितिपक्षे तच्छेषादिपक्षाविशेषात् । सत्यपि सम्भवे प्रथमपादे वृद्ध्याहिकम् । ३ । १८३ बाधनं भवतीतिपक्षे तु एतत्परिभाषाऽनारम्भे “अलोऽन्त्यस्य" इति दकारस्यैव गुणः स्याद् । अतो येननाप्राप्तिन्यायेन तदप. वादत्वमेवेति उत्सर्गापवादयोः विप्रतिषेधासम्भवात् । अप्र- सिद्धविप्रतिषेधपदार्थकल्पनाया अनुचितत्वाचेति । तस्मात्पदोपस्थितिपक्ष एव श्रेयान् । इक इतिपदस्य "जुसि च" इत्यादावुपस्थाने पदैक्यवा- क्यतया तदन्वयोऽन्तरङ्गः । अलोऽन्त्यपरिभाषा तु विधाववा- न्तरवाक्यार्थबोधोत्तरं वाक्यैकवाक्यतया तत्र सम्बध्यतइति तदन्वयो बहिरङ्गः। अवान्तरवाक्यार्थबोधं विना स्थानषष्ठी- त्वनिर्णयाभावादित्याहुः। तचिन्त्यम् । विधिवाक्येष्ववान्तरवाक्यार्थबोधाभावे इप- रिभाषोपस्थितेरपि दुर्घटत्वात् । गुणादिपदमात्रस्य तदुपस्था- पकत्वे स्थानिविशेषनिर्देशस्थलेऽपि प्रवृत्त्यापत्तेः । अङ्गस्य गुणः स्यादित्यवान्तरवाक्यार्थबोधेऽङ्गगुणयोरुद्देश्यविधेयभावावगती सत्यामेव तत्प्रवृत्तेः । न च तथाऽपि तद्दोषतादवस्थ्यम् । स्थानिविशेषस्योपलक्षितत्वात् । न चैवं “सार्वधातुकार्द्धधातु- कयो" इत्यादावङ्गस्योतिस्थानिनिर्देशादिक्परिभाषोपस्थित्यनुपप- त्तिः । स्थान्यन्तरजिज्ञासानुत्थापकस्थानिनिर्देशाभावस्य वि. वक्षितत्वात् । नचैवं गुणपदादिक्परिभाषोपस्थितिरितिग्रन्थवि- रोधः । विशिष्टस्यैव तेनाभिमतत्वात् । अत एव गुणवृद्धिपदा- भ्यां यत्र गुणवृद्धी विधीयते इति व्याचख्युः । एतेनानुवादे परिभाषाऽनुपस्थानादेव " वृद्धिर्यस्य इत्यादावनुवादे इक्पदानुपस्थितिसम्भवात् फलितार्थ- कथनमात्रं तदित्यपास्तम् विधेयत्वाक्षिप्तस्य उक्ता- भावस्य लिङ्गताऽवच्छेदकतया लिङ्गकोटौ प्रवेश इति १०४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये तदभिप्रायात् तस्मात्प्रथममवान्तरवाक्यार्थबोधः । तत इक्परिभाषोपस्थितिः । तत इक्पदैकवाक्यतया महा. वाक्यार्थबोधः । तत्र तु प्रथमं विधिवाक्यार्थबोधः । ततः स्थानषष्ठ्या अलोऽन्त्यपरिभाषोपस्थितिः । ततो विधिवाक्ये श्रुतायाः स्थानषष्ठ्या अन्त्ये अलि उपसंहारः। न तु शाब्दमेक- वाक्यत्वम् । तथा चावान्तरवाक्यार्थबोध उभयोरप्युपजीव्यः । नन्वेवम् मिर्गुणः " इत्यादौ इपरिभाषाया एव बहिरङ्गत्वापत्या अलोऽन्त्यपरिभाषाया एवोपस्थितिः स्यात् , सत्यम् । स्थानत्वस्यादेशनिरूपिततया तत्रापि विधेयविशेषस्य लिङ्गान्तीवावश्यकत्वात् । आदेशवि- शेषानवगाहिनः स्थानत्वात्ययस्यानुपपत्तेः तत्परिभाषाप्र- क्यनुपयोगित्वाच । न चैवमपि इपरिभाषामात्रस्य तत्र प्रवृत्ती नियामकाभाव इति वाच्यम् । उक्तरीत्या अन्त- रङ्गबहिरङ्गभावाभावेऽपि अलोऽन्त्यपरिभाषाऽपवादस्य वा. च्यत्वात् तावदपवादपरिहारपूर्वकप्रवृत्तिकतया तावदपवाद- प्रवृत्तिनिश्चयं विना तद्विषयपरिहारज्ञानस्यानुपपत्त्या तदधीन- स्वादलोऽन्त्यपरिभाषाप्रत्तिनिश्चयस्य तस्या बहिरङ्गत्वानपाया. त् । एतेन "अलोऽन्त्यस्य" इत्यत्रापि पदोपस्थितिपक्षस्वीकारे उभयोः साम्यमिति निरस्तम् । तत्पक्षस्य भाष्याधनारूढत्वाच। केचित्तु तत्पक्षे “आदेः परस्य" इत्यत्राल्पदस्यार्थपर- त्वं न स्यात् । तथा चासमासनिर्देशवैयर्थ्यम्, द्वीपमित्यत्र समस्तापशब्दस्य ईत्वापत्तिश्च, "आदेः परस्य" इत्यत्रापि पदो. पस्थितिपक्षस्यैव तेन वाच्यत्वात् अल्पदस्यार्थपरत्वानुप- योगात् न कोऽपि दोष इति वाच्यम् । तथाऽपि पदद्वयान्वय- स्य वाच्यतया बहिणत्त्वानपायादित्याहुः ।
प्रथमपादे वृद्धयाह्निकम् । ३ । १८५ तत्र इकोऽङ्गस्येतिसामानाधिकरण्यान्वयस्य न्याय्यत्वा- दिक्पदार्थस्याङ्गविशेषणत्वे इगन्तस्याङ्गस्येतिवाक्यार्थे स्था- नेयोगार्थकषष्ठीरूपलिङ्गस्य तादवस्थ्यादलोऽन्त्यपरिभाषोप- तिष्ठतएव । " मिदेर्गुणः ” इत्यादौ तु हलन्तत्वात् इको मिद इतिसामानाधिकरण्यायोगात् मिदेरवय- वस्य इक इति वैयधिकरण्येनान्वये स्थामेयोगषष्ठीरूपलिङ्गा- भावादलोऽन्त्यपरिभाषोपस्थित्यभावात् अनन्त्यस्यैष गुण- सिद्धिः । न चात्रापि इक इति स्थानषष्ट्यैवालोऽन्त्यप- रिभाषोपस्थितिः स्यादिति वाच्यम् । सत्र इक इत्यस्योपस्थि- त्यनन्तरमलोऽन्त्यपरिभाषोपस्थामे अन्त्यस्य इक इत्यस्य इग- वयवस्यान्त्यस्येत्यस्य चार्थस्य बाधितत्वात् । मिदेरन्त्यस्य इक्- स्वाभावात् । अन्त्यस्य दकारस्य इगवयवत्वासम्भवाच्च । इक: स्थानित्वबोधे स्वातन्त्र्येणान्त्यस्य गुणविधाने चोपजीव्यविरो- धात् । अङ्गस्येत्यादौ त्ववयवद्वारा अङ्गस्य स्थानित्वनिर्वाहानो- पजीव्यविरोध इति वैषम्यम् । तस्मात्पकृत्यर्थनिष्ठस्थानित्वावि- रोधिम्येव षष्ठी अलोऽन्त्यपरिभाषायां लिङ्गमिति सिद्धम् ।। इति श्रीसिद्धान्तसुधानिधौ प्रथमाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥ २४ न धातुलोपआर्द्धधातुके ४। पात्ववयवलोपप्रयोजकमार्द्धधातुकं निमित्तीकृत्य प्राप्ते इको गुणवृद्धी न स्तः । लोलुवः पोपुवः मरीमृजः । लोल्यादिभ्यो यङन्तेभ्यः पचायच् । “यडोऽचि च" इति यङो लुक् । तत्र "सनाद्यन्ता धातवः" इति यङन्तस्य धातुसंज्ञतया तदवयवयकार- लोपनिमित्तमन्मत्ययं निमित्तीकृत्य “सार्वधातुकार्दधातुकयोः" इति गुणः प्राप्तः स एतद्वचनेन निषिध्यते । ऐक्यंचात्र निमित्ती- भूतव्यक्तरेव, न तु निमित्ततावच्छेदकस्यापि । अन्यथा धात्वव- यवलोपेऽच्त्वं गुणे त्वार्द्धधातुकत्वमच्यत्ययस्य निमित्ततावच्छे- दकमिति निषेधाप्रवृत्तिप्रसङ्गात् । इह धातुपदं तदवयवे लाक्षणिकम् । यद्यपि दुःखेन ईयते गम्यते इति "दुरीणो लोपश्च"इति दुःशब्दे उपपदे इण् गतावित्य- स्माद्रमत्ययः,धातोश्च लोपः,ततः "रो रि"इति उपसर्गान्त्यरेफ- लोपे "दलोपे" इति दीर्घ च दूरमित्यत्र समस्तस्यापि धातोर्लोपो- ऽस्ति, तथाऽपि तत्र गुणादिप्राप्तिविरहेण तनिषेधवैयर्थ्यात् । धातुलोप इत्यत्र षष्ठीतत्पुरुषपक्षेत्रयः कल्पाः सम्भवन्ति । आर्द्धधा- तुकग्रहणस्य लोपविशेषणत्वं निषेध्यविशेषणत्वमुभयविशेषणत्वं वेति। तत्राये आर्द्धधातुकनिमित्ते धात्ववयवस्य लोपे गुणवृद्धी न स्त इत्यर्थः । तत्रान्यनिमित्तयोरपि गुणवृद्ध्योर्निषेधापत्त्या अपूर्वादिन्धेः क्तप्रत्यये “अनिदिताम्" इति नलोपस्य क्तमत्यय- रूपार्दधातुकनिमित्तकत्वेन प्र इद्ध इति आद्गुणो न स्यात् । त- प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । १८७ स्योभयस्थानिकत्वेऽपि इक्स्थानिकत्वानपायात् । न चेकइति- शब्दमुच्चार्य विहितत्वाभावान निषेधः । उत्तरत्र चशब्दबला- तथात्वेऽपि इह शब्दस्वरूपपरत्वे मानाभावात् । इक इत्यस्या- र्थमात्रपरत्वात् । अन्यथा तु तृतीयपक्षीयमेव दूषणं योज्यम् । नन्वत्र "पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण" इति- पक्षे प्रथमोपनतक्तप्रत्ययापेक्षो नलोप एवान्तरङ्गः, पूर्वमुपसर्गेण पश्चात्साधनेनेतिपक्षे तु गुण एव तथा, सर्वथाऽपि गुणो निरप- वादः, " असिद्धं बहिरङ्गमन्तरङ्गे" इतिन्यायेन गुणस्या- सिद्धतया निषेधानहत्वात्, बहिरङ्गतया निषेधस्यासिद्धत्वे गुणस्य निरपवादत्वात्, सत्यम् । नास्त्येवायं प्रकृते दोषः, किं तु भेद्यते इत्यादि तृतीयपक्षे वक्ष्यमाणमेव क्षणमत्रापि बोध्यम् इति कैयटानुसारिणः। हरदत्तानुयायिनस्तु “ नाजानन्तर्ये बहिष्ट्वपक्लूप्तिः” इति निषेधाद् “असिद्धं बहिरङ्गम्" इत्यस्य नेह प्रवृत्तिः। द्वयोर्मध्ये एकत्र अजानन्तर्यापेक्षायाम् “असिद्धम्" इति न प्रवर्त्ततइति तदर्थात् । अत्र च आवगुणे पौर्वापर्यस्य अघटितत्वेन अजा- नन्तर्यापेक्षणात् । अतः प्रेद्धमित्यस्यासिद्धिरप्यत्र दूषणमित्या- हुः । इदं च अचः परस्मिन् " इतिसूत्रे विवेचयिष्यामः । आर्द्धधातुकस्य निषेध्यविशेषणत्वे तु यत्किञ्चिनिमित्तके धातुलोपे सति आर्द्धधातुकनिमित्तके गुणवृद्धी न स्त इति स्यात् । ततश्च क्नूयी शब्दे इत्यस्माणिचि पुकि "लोपो व्योः" इति यलोपेच पुगन्तलक्षणो गुणोऽपि न स्यात् । “चले क्रोपेः"इत्या. दिज्ञापकेन निषेधवारणे तु गौरवम्, वक्ष्यमाणदोषश्च । तन्त्रादि- नोभयविशेषणत्वे तु तदेव गौरवम् । आर्दधातुकनिमिचे धातुलोपे आर्द्धधातुकनिमिचे गुण- । १४८ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये वृद्धी म स्त इत्यर्थे कृतेऽपि यादधातुकसंझं व्यक्तिद्वयं लोपस्य गुणादेव निमित्तं तत्रापि विषेषः स्यात् । तत- श्च भिदेयेतात्कर्मणि यकि भिद् इ य इति स्थिते नित्य- त्वाद् "णेरनिरि" इति यकं निमित्तीकृत्य णिलोपे कृते प्रत्यय- लक्षणेन लुप्तं णिचमाश्रित्य क्रियमाणो लघूपधगुणोऽपि न प्रव- तेति भेद्यतइति न स्यात् । यकश्वोभयोरार्द्धधातुकत्वात् । न च प्रत्ययमात्रसापेक्षस्य गुणस्य तद्विशेषार्द्धधातुकसापेक्ष. णिलोपापेक्षयाऽन्तरङ्गत्वात्प्रागेव गुणः स्यादिति वाच्यम् । अक- तव्यूहपरिभाषया तदप्रवृत्तेः । णिलोपस्य जनिष्यमाणतया गु. जानिमित्तस्यार्दधातुकस्य विनाशोन्मुखत्वात् । “उपसंजातनिमि- सोऽप्युत्सर्ग उपसंजमिष्यमाणानिमित्तेनाप्यपवादेन बाध्यते" इतिन्यायाच्च । णिलोपे सति धात्ववयवलोपसम्पच्या एतन्निपे- धस्य प्रतिष्यमाणत्वात् । केचित्तु उक्तन्यायोऽप्यकृतव्यूहन्यायएचान्तर्भूतः । अ. पवादविषयाभावस्यापि निमित्तकोटिप्रवेशादिल्याहुः । तस्माद्धातोर्लोपो यस्मिन्नार्द्धधातुके तनिमित्ते गुणवृद्धी न स्त इत्येवार्थः । लोपगुणाधारकार्द्धधातुकव्यक्तिनिमित्तकत्वला- भादिति सिद्धमिष्टम् । अत्र यद्यपि पदोपस्थितेः पूर्ववाक्यार्थत्वेनात्र निषेधपतियो- ग्याकाबायां तस्या एवान्चयापच्या उक्तस्थले इक्पदं नोपति- ष्ठतइति सूत्रार्थः स्यात्, तथा च लोलुबादौ गुणनिषेशेव स्वात्, प्रत्युत भेद्यत इत्यादौ व्यञ्जनस्य गुण एव प्रसज्येत, तथा- ऽपि “दीधीवेषीटाम्" इतिसूत्रस्य सत्र पदोपस्थिति निषेधकरखे इक्परिभाषाऽलोऽन्त्यपरिभाषयोः फले विशेषाभावेन पदो- १ इको गुणवडी इत्येतत्सूत्रवाक्यार्थत्वेनस्य।
मपमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। १८९ पस्थितिनिषेधस्य बैयापल्याऽत्रापि पदोपस्थितेर्न निषे- ध्यत्वम् । किं त्यौत्सर्गिकतया भवत इत्यस्योपस्थितौ गुण- युद्धी न भवत इति वाक्यार्थः । धातुलोपइति किम् । आई धातुकएव विहितपतिषिद्धत्वादगत्या विकल्पो मा भृत् । आर्द्धधातुकइति किम् । तोतोर्ति मोमोत्यादौ सार्वधातु- कसंज्ञे तिपि परे " राल्लोपः" इति छ्वोर्लोपात्तत्र तिबाश्रय- स्य लघूपधगुगस्य निषेधो मा भूत् । रेफात्परयोश्छकारवका- रयोर्लोपः स्पाको झलादावनुनासिकादौ च प्रत्यये परे इत्यर्थे इदमुदाहरणम् । यदा तु तत्र झलादावित्यस्य क्ङिन्तीति विशेषण मितिपक्षा, तदा तोतोर्मीत्यादि । तत्रानुनासिकादिप्रत्ययपरत्वेन तत्पत्तेः । इक इति स्थानिविशेषनिर्देशः किम् । अभाजि रागः इत्यत्र भञ्जिरञ्जिभ्यां चिणघमोः कृतयोः “ भञश्च चिणि " "पनि च भावकरणयोः” इति च नकारलोपे कृते " अत उपधायाः " इति वृद्धिनिषेधो मा भूत् । इदम्त्ववधेयम् । यडन्तात्पचतेः पापस्य इत्यस्माद् युलि “यस्य हलः" इत्यनेन हलः परस्य यस्य लोपविधाने “ आदेः परस्य " इतिपरिभाषया परस्य यद्विहितं तत्तस्यादेवाध्यमि- त्यधिकया व्यञ्जनमात्रस्य लोपे " अतो लोपः" इत्यकारस्य पृथग्लोपे " अचः परस्मिन् " इति अकारलोपस्य स्थानिव- द्भावे धावकारस्योपधात्वव्याघाताद् वृद्ध्यभावे पापचक इति- रूपम् । यलुकि तु समुदायलोपस्वीकारेण अज्झलादेशस्य स्थानिवस्वाभावाद्भवत्येव वृद्धिः पापाचक इति । इग्लक्षणत्वा- भावात्मकृतनिषेधस्यापि तत्रामवृत्तेः । यथा नोनावेत्यत्रेति । अत्र भाष्यकृतः- इदं सूत्रं नारभ्यमेव । यङ्लुक्यपि पृथगल्लोपं स्वीकृत्य स्थानिवद्भावे आस्य इगन्तत्वाधावादेव १९० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये गुणवृद्धिविरहसिद्धेः । न च "यडोऽचि च" इति लुक् येनना. प्राप्तिन्यायेन अनोलोपस्य बाधकः स्यादिति वाच्यम् । “यस्य हलः" इत्यत्र यस्येतियोगं विभज्य अतोलोप इति चानुवर्ण यशब्दाकारस्य लोपविधानेन व्यञ्जनमात्रलोपस्य " यडोऽचि च" इत्येतद्विधेयत्वात् । तनश्च अकारस्य लोपः यकारस्य लुगिति विषयभेदेन येननामानिन्यायाभावात् । एवं चाल्लो. पस्य स्थानिवत्वेनैव निर्वाह इति सूत्रं व्यर्थमेव । न चैवं कृष्णो नोनाव वृषभमित्यत्र नोनावेत्यस्य वृद्धिर्न स्यात्, एवं पापाचक इत्यपि न स्यात्, अल्लोपस्य स्थानिवद्गावा- दिति वाच्यम् । अग्निमित्तकस्यैव लुको व्यञ्जनमात्रप्रतियो- गिकत्वस्वीकारात् । यस्तु चकाराबहुलग्रहणेन अच्प्रत्ययव्यतिरेकेणापि यडो लुक् स त्वनैमिकत्वात्प्रत्ययोत्पसेः प्रागेव प्रवर्तते । प्रत्ययापे- क्षप्रवृत्तिकेभ्यो बहिरङ्गेभ्योऽतोलोपादिभ्योऽन्तरङ्गत्वात् । स तु समुदायप्रतियोगिक एघ । तस्य च न स्थानिवद्भावः। अज्झला- देशत्वात् । अज्मात्रस्थानिकस्यैवादेशस्य स्थानिवद्भावविधानात्। अथैवं गुणवदुवङादयोऽपिन स्युः। अकारस्य स्थानिवत्त्वे अच्प्रत्ययस्याव्यवहितपरत्वाभावादिति चेत्,अत्र कैयटादयः- स्थानिवद्भूतमकारमेवाश्रित्य तत्र उवङादयः, न तु पचाद्यचं निमित्तीकृत्य । उक्तयुक्तेः । न च यङवयव. स्य केवलाकारस्य प्रत्ययत्वं नास्तीति वाच्यम् । यकारलो- पोत्तरं तस्यापि प्रत्ययत्वात् । न च यकारस्थितिकाले अ. कारस्य प्रत्ययत्वाभावाधकारापेक्षया प्रागेव लुप्ततया यकार• लोपोत्तरमपि प्रत्ययत्वानन्वयात् कथं तस्य प्रत्ययत्वम् , स्था- निनिष्ठात्यन्ताभावप्रतियोगिनो धर्मस्यातिदेशेनाप्यलाभादिति प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४। पाच्यम् । सम्भवमात्रेणाप्यतिदेशस्वीकारात् । यकारलोपोत्तरं यधकारस्य लोपो न स्यात्तदा तस्य स्यादेव प्रत्ययत्वमिति यो. ग्यतया लुप्तेऽपि तत्र सम्भावितस्य प्रत्ययत्वस्यातिदेशे बाधका. भावात् । वरे निषेधश्चेह लिङ्गम् । यङन्ताद्यातेर्वरचि "अतो लोपः" इति "लोपो व्योवलि ” इति अल्लोपयलोपयोः कृतयोरल्लो- पस्य स्थानिवद्भावेनाकारं निमित्तीकृत्य प्राप्तः "आतो लोप इटि च" इत्याकारलोपो मा भूदित्यतस्तत्र स्थानिवद्भावनिषे. धारम्भात् । स्थानिनि दृष्टस्यैवातिदेशे तु अकारस्य स्थानिव- द्भावेऽपि प्रत्ययत्वाभावे सुतरामार्द्धधातुकत्वाभावात् वरप्रत्य- यस्य चानजादित्वादकारेण व्यवधानाच आतोलोपस्यैवापस- क्त्या तद्वैयर्थ्यापतेः। अत्र हरदत्तादयः । इस्वदीर्घान्तेषु इयडुवङोः कृतयोलघूप- धगुणो दुर्वारः । न चाल्लोपस्य स्थानिवद्भावेन उकारस्योपधा- त्वव्याघात इति वाच्यम् । उकारस्यानादिष्टादचः पूर्वत्वाभावा- व । अल्लोपानन्तरमेवोवङः प्रवृत्तेः। तथा जङ्गम इत्यत्र “गमह- न"इत्युपधालोपः स्यात् । यदि त्वनङीति निषेधः, तर्हि दरीदृश इत्यत्र "ऋदृशोऽद्धि" इति गुणः स्यात् । देद्य इत्यत्र " दीडो युडचि " इति युद् स्यात् । सनीसंसो दनीध्वंसः । “अनिदि- ताम्" इति लोपः स्यात् । याया वावा इत्यादौ " आतो लोप" इत्याकारलोपः स्यात् । तस्मात्समुदायलोपस्वीकारस्यावश्यक- तया लोलुवादिसिद्धये मूत्रमारभ्यामिति । यत्तु स्थानिद्वारकस्यानादिष्टादचः पूर्वत्वस्य सत्वात्स्था- निवद्भावान गुणप्रसङ्ग इति, तन्न । स्थानिद्वारा उवडोऽनादि- टादचः पूर्वत्वेऽप्युकारस्यातथात्वात् । लोलूय इत्यस्यामवस्था- . १९२ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये यामुकारे घटस्य अकारात्पूर्वत्वस्योपडि सम्भवेऽपि तस्यात्र कस्यचिद्विधरप्रवर्तनीयत्वात् । उकारमात्रस्य स्वादेशत्वपर्या- प्यनधिकरणतया ऊकारनिष्ठस्यानादिष्टादचः पूर्वत्वस्य तस्मि- भतिदेशायोगात् । यदप्युक्तम्-" सर्वे सर्वपदादेशाः" इतिन्यायेनार्यवत्येव स्थान्यादेशभावविश्रामादुवधारा लोलू इत्यस्य स्थाने लोलुब् इत्यादेशः, स च स्थानिवद्भावादनादिष्टादयः पूर्वः, तस्य गुण- द्वारा लोलोव् इत्यादेशे कर्तव्ये अल्लोपः स्थानिवदिति युक्तमे वेति, तदप्यसत् । तथा सति लोलूय इत्यस्य स्थाने यलोपालो. पद्वारा लोल इत्यादेशपर्यवसाने विशिष्टस्यैव स्थानिकोटिप्रवेशाद् अकारापेक्षया स्थानिद्वारकस्यापि पूर्वत्वस्य दुर्लभत्वात् । वस्तुतस्तु स्थानिद्वारकमनादिष्टादवः पूर्वस्वमाश्रित्य स्था- निवद्भाको निर्वीज इति तत्रैव वक्ष्यामः । यदप्याहु:-"अङ्गत्ते पुनर्वृत्तावविधिः" इतिपरिभाषया उवडि कृते न गुणप्रवृत्तिरिति,तदप्यसत् । चेक्षियः तोष्टुवः इत्यादेस्त- थाऽप्यसिद्धः। तथा हि "अन्तरङ्गानपि" इतिन्यायेन "अकृत्सा- र्वधातुकयोः" इति दीर्घ बाधित्वा यडो लुक् । ततोऽल्लोपस्य स्था- निवत्वेऽपि चेनि अ अ तोष्टु अअ इति स्थान्यकारमन्त्यं कृत्वा लघूपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादित्याशा अन्तरङ्गत्वेन इयकुबडोः प्रवृत्तिरिति स्वयमप्युक्तम् । यस्मि- अङ्गकार्ये सत्येवाकार्यमन्यत् पामोति तत्र कृते तम भवतीति चोक्तपरिभाषाऽर्थः । न चात्र लघूपधगुण उवछि सत्येव प्रामो- ति । पूर्वमपि तत्माप्तः। यदपि जगम इत्यत्रोपधालोपो. नापादनीयः । अनडी- तिपर्युदासेनाङ्सशे भयमीणाजादौ तद्विधानादिति, सत्र। तत्र प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। १९१ प्रसज्यप्रतिषेधस्यैवावश्यकत्वात् । न त्वङीति स्वयमेव व्याख्या- तत्वाच्च । अन्यथा भूयमाणत्वस्येवानर्थकत्वस्यापि तत्त्वावच्छि- मप्रतियोगिताकभेदानुयोगितावच्छेदकत्वस्वीकारापत्या जग्मे. त्यादौ मध्यमपुरुषबहुवचनादावप्युपधालोपानापत्तेः । स्वाभा- विकाजादित्वस्यापि तथात्वापत्त्या जग्मुष इत्यादावपि तदना. पत्तेश्च । भेदप्रतियोगित्तीनान्तत्मतियोगितावच्छेदकातिरि- क्तानां धर्माणां मध्ये श्रूयमाणत्वस्यैव भेदानुयोगितावच्छेदक- त्वमित्यत्र नियामकाभावात् । यदप्युक्तम्-देद्य इत्यत्र “दीङः" इत्यनुवन्धनिर्देशान युडागमापत्तिः, तदुक्तम्- श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्यहणं चैव पश्चैतानि न यलुकि ।। इति । तदप्यसत् । अत्र यङो लोपप्रतियोगित्वेन निर्देशात् तद्भिन्नस्य कार्य न भवतीत्यर्थपतीतेः । निमित्तकोटिप्रविष्टस्य का. निन्वयात् । प्रवेशश्च साक्षादन्यथा वेत्यन्यदेतत् । अत एव "मुप्तिङन्तम्" इतिसूत्रे कृत्तद्धितेत्यत्र तदन्तग्रह- णाभावे "केवलानामेव कृत्तद्धितानां संज्ञापत्या भिदित्यादीनां संज्ञा न स्यात् , अधातुरिति निषेधाद् अर्थवत्सूत्राप्रवृत्तेः । नापि किवादीनाम्, अश्रूयमाणत्वात्" इत्यनन्तरं कैयटनोक्तम्-"नापि प्रत्ययलक्षणेन प्राप्नोति,प्रत्ययनिमित्तमन्यस्य यत् कार्य विधीयते तत् प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्य तदपि, न ह्यसत् कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुमिति । तत्र विधिरत्र निषेध इति परं विशेषः । शितपेत्यादि- ज्ञापकस्यापि यभिन्नकार्यविषयकत्वात् । तच्च "एकाचः" इत्ये- कमहणं तत्तदंशे तत्तभिर्देशों बेत्यन्यदेतत् । २५ प्र. १९४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये एतेन “ दीङः" इत्यनुबन्धनिर्देशो यलुङ्गिटत्यर्थ इति तत्रत्यहरदत्तोक्तरसत्यतदुक्तिविरोधोद्भावनमप्यपास्तम् । त्ययान्तरसम्बन्धियुडागमवारणार्थतायास्तत्रोक्तत्वात् । यङव- यवमकारमाश्रित्यात्र तदापादनस्याविरुद्धत्वात् । नन्वेवमपि यङकारमाश्रित्य युडापात्तरसङ्गतव,दीङः पर- स्याजादेः ङ्कित आर्द्धधातुकस्य युटो विधानादस्यापि यङ्कार्य- वानपायात्, स्वविधौ स्थानिवत्त्वाभावाच इति चेत्, सत्यम् । भवदीयस्य " श्तिपाशपा" इत्यादिवचनोपन्यासस्याप्यसङ्गति- तादवस्थ्यात् । मिश्राणां त्वयमाशयः-अल्लोपानन्तरं यलोप इत्यत्र मा- नाभावः । लुकः सर्वापेक्षया बलवत्त्वमितिस्वीकारात् । अत एव गोमत्प्रिय इत्यादौ “सुपो धातुप्रातिपदिकयोः" इति सोलुंगेव, न तु हल्ङयादिलोपः । प्रत्ययलक्षणेन नुमादिप्रसङ्गादिति सिद्धान्तः । न च अच्पत्ययस्य यङकारेण व्यवधानात्कथं पूर्व यस्य लुगिति वाच्यम् । निर्देश्यतावच्छेदकयङ्त्वावच्छिन्नापेक्षस्या व्यवधानस्य सत्त्वात् । योगविभागसामर्थ्यात्तु यलोपो व्यञ्जनमात्रे पर्यवस्यतीत्यन्यदेतत् । वस्तुगत्या यत्र कार्य- विश्रामस्तदपेक्षस्यैवाव्यवधानस्योपादाने तु “डिति च" इति- सूत्रस्थकैयटग्रन्थविरोधात् । स्थानिवद्भूतेनाकारेण व्यवधा- नात्पश्चादपि कथमिति तुल्यत्वाच्च । श्रुतिकृतमेवाव्यवधानं व- चनप्रामाण्यादाश्रीयतइति चेत्, तर्हि यलोपस्य परनिमित्तकत्वं कुतो निर्णीतम् । अचीतिसप्तम्याः सतिसप्तमीत्वेनैवोपपत्तेः । अल्लोपस्य तु स्थानिवद्भावार्थ परनिमित्तकत्वस्वीकार इति वै- षम्यम् । प्रयोजनं विनाऽसि परसप्तमीत्वस्वीकारे प्रयाणाभा.
प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । १९५ वात् । लोलयतइत्यादावपि यकारलोपापत्तिवारणार्थमचः स- चामात्रस्वीकारात् । न च तथाऽपि निर्दिष्टपरिभाषोपस्थानं दुर्वारमिति वाच्य- म् । “श्नानलोपः" इतिसूत्रे विडतीत्यनुवृत्तिपक्षे हिनस्तीत्यत्र नलांपो न स्यादित्यापत्तेः सतिसप्तम्या भाष्ये समाधानात् । ननु तत् पूर्वपक्षाभिप्रायवर्णनमात्रम्, परत्वाभिमतसप्तमीस्थलेऽपि सप्तम्या भावलक्षणत्वात् , परत्वार्थक सप्तम्या विशिष्य विध्यभा- वात् "इको यणचि"इत्यादावपि निर्दिष्टपरिभाषाऽनुपस्था- नप्रसङ्गात् । सत्यम् । तथाऽपि विषयसप्तमीत्वस्वीकारात् तत्र तदनुपस्थानस्य सिद्धान्तसिद्धत्वात् । तथा च श्रूयमाण- तादशायामेव युडापत्तिः। न च तदपेक्षया लोपस्यैव पूर्व प्रवृत्तिरिति वाच्य- म् । डिन्दुद्देशेन विहितस्य युडागमस्यानवकाशतया बलव- वात् । दीङः परस्याजादेर्डित आर्द्धधातुकस्यान्यस्य दु. लभत्वात् । न च डिदित्यंश उत्तरार्थ एवेति वाच्यम् । सति सम्भवे केवलोत्तरार्थत्वस्य दुर्वचत्वात् । अत एवाकृतव्यूहप- रिभाषाया अपि नावतारः । कार्यिणो निनित्तत्वाभावाच्च । नन्वेवं चेक्षिय इत्यादौ गुणोऽपि श्रूयमाणतादशायामेवा- पाद्यताम् , किं स्थानिवद्भूतमकारमाश्रित्य तदापादनेनेतिचेत्, सत्यम् । सार्वधातुकेत्यादिगुणस्य "क्ङिति च"इति निषेधात्, लघूपधगुणस्य च तमाश्रित्यापादयितुमशक्यत्वात् । तमादायैव लघूपधत्वसम्पत्तेः । अनयोरन्यत्र चरितार्थतया तत्र लोपस्यैव प्राथम्याचेति वैषम्यात् । प्रकृतमनुसरामः । यत्तु वदन्ति-“यस्य हलः" इति लो. पस्य त्वयाऽप्यवयवमात्रप्रतियोगिकत्वं स्वीकृतम् । तत्र यद्यपि १९६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये देधक इत्यत्र युद् स्यादिति नापादनाहम्, हलः परत्वाभावेन यलोपानुपपत्त्या देदीयक इति रूपाभ्युपगमात्, सनीखसक इत्यादौ नलोपोऽपि सर्वसंमतत्वादेव नापाद्यः, यायायकः, वावायकः, इत्यादावातो लोपोऽपि नापाद्यः । यलोपविरहेणा- जादिक्डिदार्द्धधातुकपरत्वाभावात्, तथाऽपि गमेर्यङन्तात् ण्वुलि जङ्गमक इत्यत्राल्लोपस्य स्थानिवद्भावाद् वृद्ध्यभावो यथा तथा उपधालोपोऽपि स्यात् । अथात्र "अनङि" इति प्रतिषेधः, तर्हि दरीदृशक इत्यत्र " ऋशोऽङि" इति गुणः स्यात् । अथात्राङ्गत्तपरिभाषया "संज्ञापूर्वको विधिरनित्यः" इति वा समाधानम्, तर्हि यङ्लुक्यपि सनीस्रंस इत्यत्र नलोपो याया वावा इत्यादावातो लोपश्च न शक्यः । समाधानस्य तु- त्यत्वादिति । तदपि चिन्त्यम् । “यस्य हलः" इति लोपेऽपि सङ्घातपति- योगिकत्वस्यैव स्वीकर्तव्यत्वात् । न च हलः परस्य यस्य लोपः स्यादा धातुके इत्यस्य'आदेः परस्य"इतिपरिभाषया व्यञ्जन- मात्रे व्यवस्थापितत्वात् कथं समुदायलोप इति वाच्यम् । येनना- प्राप्तिन्यायेन “यडोऽचिच"इति लोपस्यातोलोपापवादत्वात्तवापि तत्र कथमवयवलोप इत्यस्य तुल्यत्वात् । न चोक्तयोगविभागेन निर्वाहः । अत्रापि "अतो लोपः" इत्यस्मादत इत्यनुवर्त्य अकारा- न्तस्य यस्येतिव्याख्याने विशेषणसामर्थ्याद्"आदेः परस्य"इति न प्रवर्त्ततइति समाधेरुक्तत्वात् । व्यञ्जनाकारयोः समाहारद्वन्द्वं कृत्वा द्वयोर्लोपविधानसामर्थ्यात्तदप्रवृत्तेरपि च सुवचत्वात् । यस्येतिसातग्रहणमितिवामनग्रन्थदर्शनाच । बेभिदिता मरी. ममिता इत्येतत्सूत्रोदाहरणतया प्राचीनलेखनस्वारस्याच ।
प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ।। १९७ प्रकृतनिषेधे इक इत्यनुवृत्या पापाचक इत्यत्र “अत उपधायाः" इति वृद्वेर्नायं निषेध इत्युक्तत्वाच्च । यलोपस्य सङ्घातपति- योगिक विना तत्रोक्तद्धिप्रसङ्गस्य दुरुपपादत्वात् । यत्तु यकाराकारसमुदायान्तर्गतस्यैव यकारस्य लोपो न तु अहीद् अमव्यीदित्यादौ केवलस्यापीति वामनवाक्यव्याख्या- नम्, तचिन्त्यम् । निर्देशे तादृशत्वस्य वारणीयत्वाभिमतेऽपि सत्त्वात् । लोपप्रवृत्तिवेलायां तथात्वस्य संग्राह्येऽप्यभावात् । तन्मतेऽप्यतोलोपस्य प्रागेवोपगमात् । हरदत्तीयतथाव्याख्यानस्य च परकीयव्याख्यानानुवाद- मात्रतया तत्तम्मतत्वाभावात् । अत एव प्रकाशकारैः “यस्य" इति लोपस्यावयवलोपत्वे यङ्लुकोऽवयवलोपपक्षे हरदत्तोक्तदो. पानतिदिश्योपसंहृतम् । तस्मात्सूत्रं स्थापयितुं प्रवृत्त कीव लो- पेऽपि समुदायनिवृत्तिरेवैष्टव्या। उक्तयुक्ती मनवाक्यं चोपष्टभ्य हरद नादिग्रन्थोपमर्दार्थमेव प्रवृत्तत्वादिति । तेषां ह्ययमभिप्रायः-हरदत्तांशे ग्रन्थोपमर्दो “यस्य" इति लोपस्यावयवलोपत्वे तात्पर्याभाव इति व्याख्यानम्, उभयत्रा- प्यवयवलोपवादिनां तु दूरणमेवोपमर्द इति । एतेन पापाचक इति यङन्ताण्ण्वुलि वृद्धिर्भाष्यविरुद्ध- त्यपास्तम् । एतत्सूत्रप्रत्याख्याने भाष्यतात्पर्यविरहे इति संघातलोपे अज्झलादेशस्य स्थानिवत्त्वविरहाद् “ अत उपधाया" इति वृद्धेः सुस्थत्वात् । एतनिषेधस्तु इग्लक्षणत्वा- भावान प्रवर्ततइत्युक्तम् । किं च "अचः परस्मिन्" इतिसूत्रेऽनाश्रीयमाणायां प्रकृतौ स्थानिवद्भाव इति पक्षे नपदान्तसूत्रे द्विवचनवरेयलोपानां प्र- हणं कर्त्तव्यमिति भाष्ये वक्ष्यते । आश्रीयमाणायां प्रकृताविति यस्य" १९८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पक्षे हि द्विवचनेऽनचीतिपर्युदासेन तत्सदृशस्य हल एवाश्रयणम्, न त्वचः । वरे त्वाकारलोपे विधीयमाने प्रकृतिराश्रितवा. चि क्डितीति, तत् कथं वरेशब्दग्रहणमापाद्यते इत्याशय कै- यटेनोक्तम्- यङ एव समुदायस्य प्रत्ययत्वं न तदवयवस्याकारस्ये- ति । अजादौ प्रत्यये परे आकारलोपस्य विधानादत्राप्रसङ्ग ए. वेति । तथा चात्र कथं तदाश्रय उवङ्, कथं वा सम्भावितस्या- प्यतिदेश इत्यत्र भाष्यकारादीनां तात्पर्यम् । अपि च जङ्गम इत्यादावुपधालोपादीनां डिवोपजीविना- मापादनमुभयेषामप्यनुपपन्नम् । डकारस्य यङि समुदायानुब- न्धत्वात् । अकारमात्रस्य स्थानिवद्भावेऽपि तस्य यरूपताया दुर्लभत्वात् । अत एव रमायै इत्यादौ "वृद्धिरोचि" इत्येव . दिन तु “ आटश्च" इति दीक्षितैरेवोक्तमित्यवहितैर्विभावनीय- मिति दिक। क्किति च ५। इग्लक्षणे गुणवृद्धी यं प्रत्ययमाश्रित्य ते तस्य गित्वे कित्त्वे डिन्त्वे च सति न स्तः । ककारात्पूर्व चर्वेन गकारस्यापि प्रश्लेषात् । यत्तु किदादिकं निमित्ततयाऽऽश्रित्य ये प्राप्नुत इति व्या- ख्यानम्, तच्चिन्त्यम् । निमित्तादिपदान्वयिपदजन्यबांधे प्रकारतया भासमानस्य धर्मस्य निमित्तताद्यवच्छेदकत्वेन प्रती. तिनियमात् । दण्डः कारणमित्यादौ दण्डत्वादेः कारणतावच्छे- दकत्वस्य, घटः कार्यमित्यादौ घटत्वादेः कार्यतावच्छेदकत्वस्य च प्रत्ययात् । अन्यथा तादृशशब्दात्कारणत्वाधग्रहापत्तेः । ततश्च कित्त्वाचवच्छिन्नकारणतानिरूप्यकार्यत्वस्य गुणवृद्ध्यो।
प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। ܕܕܝ शान्दविषयत्वे वृत्तेरप्रमाणत्वापत्तेः । तत्र शास्त्रस्यापि तात्पर्य तु षोडशिग्रहणाग्रहणवद्विकल्पापत्तेरित्यास्तान्तावत् । गित् । जिष्णुः । “ग्लाजिस्थश्च" इति ग्स्नुः । कित्। स्तुतः स्तुतवान् । ङित् चिनुतः सुनुतः । “ सार्वधातुकमपित् " इति डित्त्वम् । इग्लक्षणे इति किम् । लैगवायनः । “ओर्गुणः" इति निर्दिष्टस्थानिकत्वात् इक्पदानुपस्थित्या फकः कित्त्वेऽपि तन्नि- मित्तको गुणो यथा स्यात् । अत एव कामयतइत्यत्र कमेणिङो डिवेऽपि तमाश्रित्य “ अत उपधायाः" इति वृद्धिर्धात्वकार- स्य भवत्येव । आश्रित्येति किम् । छिन्नम् भिन्नम् इत्यादौ लघूपधगुणोऽपि यथा न स्यात् । अत्र इक इत्यनुवर्तते गुणवृद्धी इति च । तत्र विडतीत्यनेन इको विशेषणे क्ङिति परतो य इगित्यर्थे " तस्मिन्निति निर्दिष्टे पूर्वस्य " इतिपरिभाषोपस्थिती नि- र्दिष्टशब्दस्याव्यवहितोचारितार्थकतया चितम् स्तुतम् इत्यादौ किदाद्यव्यवहितपूर्ववर्तिन एव इको गुणनिषेधः स्यात्, न तु भिन्नमित्यादौ । दकारेण व्यवहितत्वात् । तस्मात्विडतीति गु- णद्धिविशेपणमेव । ततश्च नेयं परसप्तमी, क्डिति परे गुण- द्ध्योरविहितत्वात्, अन्यथा विकल्पापत्तेः, किं तु निमित्तता- मात्रे । तच्च इगन्तेऽव्यवधानेन लघूपधे व्यवधानेनेति यथाप्राप्त गृह्यते । अनवादस्य यथाप्राप्तपरत्वनियमात् । निमित्तत्वमपि सार्वधातुकत्वादिना तत्तद्विधौ श्रूयमाणेन धर्मेण । क्ङिदादौ निषेधसामर्थ्याविधिवाक्येषु तदनुल्लेखाच्च । यद्यपि निमित्तत्वं सप्तम्यर्थो विशिष्य नोक्तः, तथाऽपि क्ङिति सति प्राप्ते ये गु- णवृद्धी इति सम्बन्धे अर्थात्तत्प्रत्ययस्य निमित्तत्वं पर्यवस्य. तीत्याहुः।
२०० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये रलो व्युपधाद् इत्यादिना कित्त्वातिदेशश्चात्र मानम् । अन्य- था व्यवधानेन गुणनिषेधापवृत्तौ तदर्थकित्त्वस्य चयापत्तेः । वस्तुतः क्ङितीत्यत्र विशेष्याकाङ्क्षायां पूर्वसूत्रस्थार्द्धधातु- कपदेन तिशिद्भिन्नत्वे सति धात्वधिकारोक्तप्रत्ययत्वेन रूपेण तत्समर्पणेऽपि विशिष्टस्यात्र विशेष्यत्वस्वीकारे " सार्वधातुकम- पित् " इत्यादीनां व्यर्थत्वापत्त्या सत्यन्तम्परित्यज्य धात्वधि- कारोक्तप्रत्ययत्वमेव विशेष्यतावच्छेदकम् विशिष्टवाचकपदानां सति वायके विशेष्यमात्रपरत्वस्य लक्षणां विनैव स्वीकारात् । "श्रोतव्यः श्रुतिवाक्येभ्यः" इत्यत्र श्रुतिशब्दस्य प्रमाणशब्द- मात्रपरत्वस्वीकारात् । ततश्च प्रत्ययेनाङ्गस्योपस्थित्या लघूपध- स्याङ्गस्याव्यवधानादुभयत्रापि निषेधसिद्धिः। अङ्गापेक्षस्यैवा. व्यवधानस्य स्वीकारात् । इदश्चात्रैव कैयटे स्पष्टम् । इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभ- न्ते विडत्याचि वा इति पूर्वसूत्रे भाष्यम् । संक्रमो गुणद्धिपति- पेधहेतुभूतः विउत्प्रत्ययः । पूर्वाचार्यसङ्केतात् । अजादौ विङति प्रत्यये परे मृजेर्विकल्पन वृद्धिर्भवतीति तस्यार्थः । मृजन्ति मार्जन्ति । अत्र हरदत्तः- " यस्मिन्निधिस्तदादावल्ग्रहणे " इति- परिभाषयैव सिद्धौ अजादाविति वचनं मुख्याजादिग्रहार्थम् । तेन व्यपदेशिवद्भावेनाजादौ न भवति । यथा यूयं ममज त्वया ममृजे इति । अत्र केचित् । तथाऽपि ममृजेत्यत्र विकल्पो दुर्वारः । "लिटि मध्यमपुरुषबहुवचनस्य थस्य स्थाने विधीयमानोऽकारा- देशोऽन्त्यस्य प्रामोति । न चैवं विधिवैयर्थ्यम् , थकारोत्तरा- कारस्य नत्र स्वत एव सत्त्वादिति वाच्यम् । णलादीनां य- -- ४ ३ २ ... २ (१५) शिवस्तोत्रावली । उत्पलदेवविधिता । प्रभयरत्मार्णवत्र श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाश: जेमिनीयद्वादशा णिकृतदीधित्त्याजागदीशी टीका। १५ ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज-(१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- भदृशङ्करविरचितः। (मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१५) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- शात्मकः। मांसादर्शनम् । महामहोपाध्यायश्रीशालि- (११) वीरमित्रोदयः । महामहोपाध्यायश्री- कनाथमिश्राविरचितम् श्रीशङ्करभट्टकृतो मित्रमिश्रविरचितः आश्विकप्रकाशः । मीमांसासारसंग्रहश्च सम्पूर्ण: (मीमांसा)३ (३२) स्मृतिसारोद्धारः विदुरविश्वम्भरत्रिपा- (१८) अद्वैतसिद्धिसिद्धान्तसारः पण्डितप्रवर- ठिसंकलितः । श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषो- मलङ्कृतः । (घेदान्तः) तमाचार्यकृता। (१९) कात्यायनश्रौतसूत्रम्। महामहोपाध्याय (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो - श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ त्तमजीमहाराजविरचितः... २ (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- चितं असंपूर्णम् (वेदान्तः) भाष्यं श्रीनिम्बार्काचार्यावरचितम् । १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खण्डनफक्किावि- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि- भजनाख्यया व्याख्यया विद्यासागरीति कासमाख्यया व्याख्यया संवलितम् । २ प्रसिखया समेतम्। (वेदान्तः) १३ (३०) वेदान्तदर्शनम् ।परमहंसपरिव्राजकाचार्य- (२२) आख्यातचन्द्रिका श्रीभट्टमविरचिता १ श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (२३) श्रीलक्ष्मीसहस्रम् -बालबोधिनीव्याख्य- कर्षिणीसमाख्यव्याख्यासंवलितम् । याऽवतरणिकया च सहितम् । (३८) विश्वप्रकाशः 1 कोशः । विद्वद्वरश्रीम- (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीव्रजनाथ- हेश्वरसूरिविरचितः। भट्टकृता (वेदान्तः) (३९) श्रीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर- श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- सिद्धान्तवागीशविरचितानि अनुमानजा- नाथदीक्षितविरचिताटिप्पणीसहिता। २ गदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य- (१०) धीरमित्रोदयः । महामहोपाध्यायश्रीमि- क्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्ति- घमिश्रविरचितः पूजाप्रकाशः । वादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (१) वेदान्तासद्धान्तसंग्रहः । श्रुतिसिद्धा- कायाः कुसुमाञ्जलेश्च क्रोडपमाणि २ तापरनामकः । श्रीब्रह्मचारिवनमालि- (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ मिश्रविरचितः। द्वैताद्वैतदर्शनानुगतः । २ हाचितसिद्धान्तसेतुकाऽभिधटीकासहित-(४२) स्वानुभवादर्शः । श्रीमत्परमहंसपरित्राज- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् । काचार्यनारायणाश्रमाशष्यमाधवाश्रमविर- (२०) षडदर्शनसमुच्चयः । बौद्धनैयायिकका चितः । स्वकृतटीकाविभूषितश्च । पिलजैनवैशेषिक जमिनयिदशर्नसंक्षेपः । (५३) याज्ञवल्कस्मृतिः। बालम्भट्टीसमाख्यध्या- मणिभद्रकृत टीकया सहितः । हरिभद्र ख्यासमलकृतमिताक्षरासहिता । ध्य- मूरिकृतः । वहाराध्याय (२८) शुद्धाद्वैतमार्तण्डःप्रकाशभ्याख्यासहितः । (५४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- ८ २ .. T १ ... ... १ ...
तिकृता । श्रीगने शौपाध्यायविरचित- (४६) वैयाकरणसिद्धान्तमब्जूषा । श्रीमदुपा
तत्त्वचिन्तामण्या श्रीरघुनाथतार्किकशिरो ध्यायोपनामक श्रीनागेशभट्टविरचिता ।
मणिविरचितदीधित्या च गर्भिता। २
श्रीमदुई लाचार्यविरचितकुञ्जिकाटीका-
(५५) शानदीपिका । श्रीपार्थसारथिमिश्र प्राण श्रीमद्वालम्भट्टविरचितकलादीका-इति
ता। रामकृष्णविरचितयुनिस्नेहप्रपुरण्या टीकायसवलिता।
२
ख्यव्याख्ययातथासोमनाथकृतया मयुख (४७) व्याकरणासद्धान्तसुधानिधीः ।
मालिकया च व्याख्यया समलङ्कृता । ३
पर्वतीय विश्वेश्वरसूरिविरचितः । २
...
पत्रादिप्रेषणस्थानम्
हरिदासगुप्तः,
चौखम्बा बनारस सिटी।
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.