Svclrc
Sriman Nyadudha Vol - 4
Front matter
-
श्रीमन्यायसुधा
सनाभिः
१) श्रीमद्विद्याधीशतीर्थयतिकृता
वाक्यार्थचन्द्रिका
२) श्रीमत्सत्यव्रततीर्थयतिकृता
सुधाविवृतिः
३) श्रीमद्राघवेन्द्रयतिकृतः
परिमळ:
४) श्रीमद्यदुपत्याचार्यकृता
सुधाटिप्पणी
५) श्रीमच्छ्रीनिवासतीर्थकृतम् टीकाऽधृतसुधावाक्यार्थविवरणम्
६) श्रीमन्मन्नारीकृष्णाचार्यकृतः
चषक:
इति पटिप्पणीभिः समलङ्कृता
तस्याश्वायम्
चतुर्थों विभागः
श्रीमन्मध्वाचार्यमूलमहासंस्थानश्रीमदुत्तरादिमठाधीशैः
श्री १००८ श्रीमत्सत्यप्रमोदतीर्थश्रीमचरणैः
नैकविद्वद्भिः संशोध्य
श्रीमन्मध्वसिद्धान्तामिवृद्धिकारिणीसभातः
प्रकाशिता ।
शा. श. १९०५ ई. स. १९८३
उत्तरादिमठ, बसवनगुडी
बेङ्गळूर ५६०००४
hee
संशोधकविद्वद्वन्दः
श्री. पं. पू. रामाचार्य कट्टी
( श्री. श्री. सत्याभिज्ञतीर्थश्रीचरणाना पूर्वाश्रमतनूजाः)
श्री. पं. पू. रंगाचार्य
गुत्तल
(श्री. श्री. सत्यप्रमोदतीर्थश्रीचरणाना पूर्वाश्रमतनूजाः )
श्री. पं. पू. इयग्रीवाचार्य गुत्तल
श्री. पं. रंगाचार्य कलापूर
श्री. पं. गोपालाचार्य माहुली
श्री. पं. नरसिंहाचार्य बालकोंडा
श्री. पं. कृष्णमूर्ति नंदगुडि
श्री. पं. केशवाचार्य कट्टी
श्री. पै. मध्वाचार्य चिंतामणि
श्री. पं. माधवाचार्य कट्टी
श्री. पं. रंगनाथाचार्य हेब्बणी
श्री. पं. भीमसेनाचार्य वरखेडकर
wal
मुद्रक
वरखेडकरोपाहबाळाचार्यतनूजों धनंजयः
सुधामुद्रणमन्दिरम्
उत्तरादिमठीयावार, बसवनगुडी
बेलूर ५६०००४
This book is published
with the financial assistance of
Tirumala Tirupati Devasthanams
Under their scheme
aid to publish religious books
ज्ञानानवत्यत्व परस्सााममतम् साध्यसाधन विकलोऽयं दृष्टान्ताभासः। ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । भैवम् । तथा सत्यसवप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । ( बाढम् । ननु ) सकललोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्या- भावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् । किं तदित्यत आह ॥ विज्ञातस्येति ॥ बाध्यत्वमिति प्रकृतप्रकृत्यर्थ बाधं तदिति सामान्येन परामृशति । केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोध बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि याधत्वप्रसिद्धः । तस्मादुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तिवादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सच्चादिनाऽवगतस्यासत्यादिना विज्ञानमप्यन्यथाविज्ञातस्य सम्य. विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्त सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । न च तथा व्यवहारः । तनिवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे रजतत्वेनावगतस्य शुक्तिकाशकलस्य पुननांगवङ्गत्वादिज्ञानेऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति । तत्स्वरूपापेक्षया। तेन घटस्यैव पटांद्यपेक्षयाऽन्यथा घटत्वेन ज्ञातस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथाऽपि रजतत्वेनाव- गतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः। एवमेकेनान्यथाविज्ञातस्य पुरुषा- न्तरसंबन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गोऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानस्यार्थस्य वाऽस्तु | न तावज्ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्व- व्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेनित्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथा च सति कोऽतिप्रसङ्गः । तरिक वक्तव्यमेतत् । न हि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचन. सामोत् । अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् । किमनेनेति । तद्विपयत्वं बाध्यत्वमिति ३ शेपः । 61 रात मात्रोक्ति प्यकारीया न्यूनतेति न दृष्टान्तदोषो भाप्याभिमत इत्यतोऽनुक्तसमुच्चयार्थापिपदेन तस्याप्युक्तेन न्यूनतेत्याशयेनाह || अपिपदेनेति ।। ननु वक्ष्यमाणस्य वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपस्य वा बाध्यत्वस्य दृष्टान्ते प्रतिवादिनोऽपि सम्मत्या न तद्वैकल्यमित्यत आह || तुशब्द इति ।। अभिमता- दिति ॥ दृष्टान्ते प्रतिवादिनोऽभिमतादित्यर्थः । अनभिमतादिति पाठे दृष्टान्तेऽसत्वेनानभिमतादि- त्यर्थः । अस्य दृष्टान्तदूषणपरत्वं घटयितुं योग्यमध्याहरति ॥ शुक्तीति ॥ असद्विलक्षणज्ञप्त्यै इत्या- द्युत्तरानुव्याख्या यानेऽसत्त्वेपि शुक्तिरजतादेः प्रतीत्युपपादनादिना लब्धमत्र प्रतिवादिन इत्युक्तिसूचितमत्य- न्तासत्त्वं साध्यवैकल्यादौ हेतुतया योजयति शुक्तीति ।। नात्र ज्ञानबाध्यत्वपदेन प्रपञ्च इव शुक्तिरजतादावुभयविधमपि तुशब्देनाभिप्रेयते किन्तु ज्ञाननिवर्त्यत्वमात्रम् । तस्यैव तत्र प्रतिवादिना- ऽनभ्युपगमादित्याशयेनाह ॥ तद्वीति ।। 'निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यत' इत्यनुव्याख्यानं मनसि निधायाह ॥ तस्येति ॥ ज्ञानप्रयोज्यतिरोभावादिरूपनिवृत्तेः प्रादुर्भावादिरूपप्रवृत्तिसापेक्षतयाऽसतश्च तदसम्भवादिति वाऽविद्योपादानकस्य ज्ञानेन तिरोभावादिरूपनिवृत्तेरसत्त्वेन निरुपादानकतया नित्यनिवृत्तेऽसम्भवादिति वाऽभिप्रायः । अत्र प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं दृष्टान्ते प्रतिवादि- सम्मतमिति 'न सिद्ध प्रतिवादिन' इति वाक्यार्थतया तद्वैकल्यप्रतिपादनमशक्यमिति ततः पृथक्कृत्य साधनवैकल्यकथनावसरे तद्वैकल्यस्यावश्यप्रतिपादनीयत्वात्तद्वैकल्यं प्रतिपादयितुं शङ्कते ॥ नन्विति ॥ 'नासीदस्ति भविश्यच्च'त्याद्यनुव्याख्यानं मनसि निधायाऽऽह || तथा सतीति ।। त्रैकालिकसत्तानिपेधस्य बाधत्वे सत्ताविरहव्यतिरेकेणासत्त्वम्य दुर्निरूपतयाऽऽपसिद्धान्तप्रसङ्गात्साधनवैकल्यं तदवस्थमेवेति भावः । ननु रजतादेः प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्योत्सारण एव पर्यवसानम् । न च सत्ताविरह- व्यतिरेकेणासत्त्वं दुर्निरूपमिति वाच्यम् । निरुपाख्यत्वमसत्त्वमिति तन्निरूपणात् । तथा चासत्वाना- पातेनापसिद्धान्ताभावान्न साधनवैकल्यमित्यत आह ॥ वक्ष्यते चैतदिति ॥ असतः प्रतीत्यभाधे हि सर्वमिदं भवेदिति शेषः । न चैवमि त्यसद्विलक्षणज्ञप्त्यै' 'निषेधो ह्यप्रतीतस्ये' त्याद्यनुव्याख्याने वक्ष्यत इत्यर्थः । नन्धियता दृष्टान्नदूषणस्य पर्यवसानात्प्रकृताननुगुणं दृष्टान्ते बाध्यत्वस्योपपादकमुत्तरवाक्य- मनुपपन्नमित्यतस्तन्निवां शङ्कां दर्शयति ॥ यदीति || आदिपदेनापसिद्धान्तसंग्रहः । यदि प्रतिपन्नो- पाधौ निषेधप्रतियोगित्वमेवासत्त्वं तर्हि सतोऽपि बाध्यत्वमस्त्विति वदता त्वयाऽसत्त्वमेव न बाध्यत्वं वक्तुं शक्यत इति सदसत्साधारणबाध्यत्वव्यवहारस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनानिर्वाह्यत्वात्स.
उभयसाधारण्येनैव बाधलक्षणनिष्कर्षो द्रष्टव्य इत्यपि भाष्यकारस्याभिमतमिति मनसि निधाय प्रकृत्यर्थ.. भूतोभयविधबाधस्य तदिति सामान्येन परामर्श नपुंसकं तद्विपयत्वं बाध्यत्वमिति शेषपूरणेन च वाक्य योजनीयमित्याह || बाध्यत्वमितीति ।। न चैतट्टीकाकाराशयज्ञापकाभाव इति वाच्यम् । प्रकृतप्रधान. बाध्यत्वस्य तदिति परामर्शेन विज्ञानशब्दस्य च पूर्ववत्तद्विषयत्वलक्षणामात्राभ्युपगमेन व्याख्यानोपपत्ती बाध्यत्वशब्देनोपसर्जनतया प्रकृतबाधसामान्यपरामर्श शेषपूरणादेरेव तद्गमकत्वात् । न चैवमस्मिन्व्या- ख्याने कुसृष्टिरिति वाच्यम् । अधिकार्थलाभेन तस्या आदरणीयत्वात् । अत्र प्रकृत्यर्थबाधनिर्देशेन तदिति नपुंसकोपपत्तावपि वस्त्यभावबोधो बाधो विरोधिभावान्तरज्ञानं बाध इत्यनेकभिन्नलिङ्गनिर्दिष्टयोः सामान्येन परामर्शन व्याख्याने उभयोरपि लक्ष्यत्वसूचनेन परोक्तलक्षणयोख्याप्तिसूचनमपि सिध्यतीत्येवं व्याख्यातमिति द्रष्टव्यम् । ननु बाधस्यैकप्रकारत्वे नानेकप्रकारतया कस्याप्यभ्युपगमो नापि भिन्नलिङ्ग- तया निर्देश इत्यतो वादिविप्रतिपत्तिमाह || केचिदिति ॥ ननु तैस्तैरपरस्यालक्ष्यत्वाङ्गीकारान्नाव्याप्ति- रित्यतः स्थाणुरयं शब्दो द्रव्यमित्येतद्वाधकतया न स्थाणुर्न द्रव्यमिति वाक्यानुमानयोरपि पुरुषोऽयं शब्दो गुण इति वाक्यादेरपि बाधकत्वप्रसिद्धया प्रत्यक्षस्थले चाध्यस्त रस्त्वभावबोधे विरोधिभावान्तर. भाननियमेन निर्णयासम्भवेऽपि समानन्यायतया तत्राप्युभयोरपि बाध्यत्वनिश्चयसम्भवात्पराङ्गीकारस्य चाग्रहमात्रमूलत्वादव्याप्तिः स्यादेवेत्याह ॥ शाब्दादाविति ।। अन्यथाविज्ञातस्येतद्व्याख्यानरूप मसतः सत्त्वप्रतीतिः सतोऽसत्रप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादि'ति तत्त्वनिर्णयवाक्यं मनसि निधायोक्तो. भयानुगममुपपादयति ॥ रजतत्वादिनेत्यादिना ॥ नन्वस्य लक्षणत्वे पूर्वविशेषणाधिक्यम् । न च घटादिज्ञानानां बाधत्वनिवृत्त्यर्थं तदिति वाच्यम् । द्रव्यादिवद्वायत्व जात्याकान्तस्य कस्यचिदभावात्तस्य लक्ष्यत्वेऽप्यदोषादित्यतः परीक्षकैर्लो कन्यवहारानुसारेणैव लक्षणस्य प्रणेतव्यत्वात्सम्यग्ज्ञानमात्रस्य चातथात्वाद्युक्तं विशेषणमित्याशगेन पूर्वविशेपणयावर्त्य दर्शयति । सम्यगिति ॥ विरोधि- विषयत्वविवक्षायामप्यतिव्याप्तिरेवेत्याह ॥ रजतत्वेनेति ॥ नागं सीसं वङ्ग त्रषु ॥ तन्निरासायेति ।। न च पूर्वज्ञानप्रसञ्जितान्यथाकारलोडनरूपतया तस्यापि बाधत्वेन लक्ष्यत्वात्तन्निरासो युक्त इति वाच्यम् । भ्रमविषयत्वेन शुक्तिरजतादितुल्यस्य नागवङ्गत्या दिरूपस्यान्यथाऽकारमात्रस्यान्यथाविज्ञातस्येत्यनेन ग्राह्यतया तल्लोडमरूपन्यस्य सम्यग्ज्ञान एव सम्भवेन तम्यैव लक्ष्यत्वेन विवक्षगीयतया भ्रमनिरासस्यावश्यकत्वात् ।। ( अन्यथाकारलोटनम् सम्येति । लुटविलोडने भ्वादिः । अयं दिवादावपि । भापार्थश्चुरादौ । 61a दर्थान्तरकल्पनया दूपणस्य छलप्रसङ्गेनानुपपत्त्या समभिव्याहारबलेनैवातिप्रसङ्गाप्रसक्तो तदर्थ विशेषण- स्यानावश्यकत्वादित्याह । छलेति ॥ ननु तथाऽपि न्यूनतैव स्थलान्तरेऽतिप्रसङ्गतावस्थ्यादित्यतो बाधशव्दार्थनिर्वचनपरेणानेन वाक्येन बाधशब्दार्थपरधातुसूत्रपर्यालोचनायां पूर्वज्ञानप्रसञ्जितान्यथाकार- लोडनरूपस्य सम्यग्ज्ञानस्य लक्षणत्वेन लाभान्न दोष इत्याशयेन धातुसूत्रमुदाहरति ।। पाधतिरिति ।। नन्यस्तु लोडनं तदर्थस्तद्यथाकथश्चिदतिप्रसङ्गविषयेऽप्यस्तीत्यतस्तनिष्कर्ष दर्शयति ॥ तच्चेति ।। स्वत एवेति || बाधकानवतारेऽपि व्यासङ्गादित एवेत्यर्थः । अन्यथोत्तरक्षण एवं बाधकावतारानियमा- क्षणिकत्वानुपपत्तिः । एवं च बाधकज्ञानस्य न तत्र प्रयोजकतेत्याशयः । ज्ञाननाशप्रयोजकज्ञाने बाधकत्वं नास्त्यपि । न चात्र विवादः । व्यवहाराभावेन निश्चयोपपत्तरित्याशयेनाह || सम्यगिति ।। नापीति || बाधोत्तरमप्यनुवृत्तेरित्याशयः । तर्हि स्मृत्यर्थ एवानुपपन्न इत्यत आह ।। अत इति ॥ नन्वन्यथाकारस्यासत्यान्न लोडनमित्यत उक्तमिवेति । पूर्वज्ञानप्रसञ्जितान्यथाकारस्यात्वेऽपि तदसहन- तया ज्ञायमानत्वात्तजनितप्रवृत्यादिफलपरम्पराविघटकतया तन्निवर्तकमाम्यमिवार्थ इत्याशयः । अत एव निबन्धे उदयने नाप्ययमेव विषयापहारो यत्तद्विषयाधिक्षेपस्वभावसमुत्पादः स च तःफलप्रवाहप्रक्षेतिपपर्यन्त' इत्युक्तमिति ध्येयम् । नन्येवं स्मृत्यर्थनिष्कर्षेऽपि न शुक्लत्वज्ञानादावतिप्रसङ्गपरिहार इत्यतो लक्षणेऽस्यार्थस्याभिप्रेततया नातिप्रसङ्ग इत्याशयेनाह || तथा चेति || लक्षणे तद्वाचकपदाभावे कथमे- तल्लाभ इत्याशङ्कते ॥ तदिति ! अन्यथाविज्ञातस्येत्यत्र कर्मणि भूतप्रत्ययेन पूर्वत्वस्य प्रसद्धितत्वस्य च लाभः । अन्यथेत्यनेनान्यथाकारस्य लोडनमित्यस्य लाभं दर्शयति ॥ अन्यथाविज्ञातस्येतीति ॥ न च सर्वसम्यग्ज्ञानस्य बाधत्वप्रसक्तौ तव्यावृत्तये तद्विशेषणमिति वाच्यम् । तेन तव्यावृत्तावपि शुक्लत्वज्ञानाद्यव्यावृत्त्याऽतिप्रसङ्गापरिहारेणैकदेशमात्रच्यावृत्तरप्रयोजकतया चान्यथाज्ञानपूर्वकत्वाच्छुक्लत्वादिज्ञानादेः संग्राह्यत्वमेव भाप्याभिमतं किं न स्यादिति वाच्यम् । बाधत्वेन व्यबहियमाण यैव लक्ष्य तयाऽन्यथाज्ञानपूर्वकेऽपि शुक्लत्यादिज्ञानादौ बाधत्वेन व्यवहाराभावेन तस्याप्यसंग्राह्यत्वात् । एवमपि संग्राह्यस्वेऽविशेषात्सर्वसम्यम्ञानस्यापि संग्राह्यतापत्तौ तव्यावृत्त्यर्थमन्यथा- विज्ञातस्येति विशेषणानुपादानप्रसङ्गादित्याह || अन्यथेति ॥ तथा च तद्विशेषणवलेन पष्ठ्यर्थतयां लोडनरूपसम्बन्धलाभान्न लक्षणे तद्वाचकादप्रक्षेप इति भावः । किं तद्वाध्यत्वमिति प्रश्नस्य व्यधि- करणमेतदुतरमित्यत आह ॥ तदिति ।। वैयानिस्तारात् ।
बा वस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनरित्यनेन द्वितीयस्य तृतीये । ननु प्रत्यक्षरूपबाधज्ञाने उभयोरपि नियत- स्वात्कथं प्रत्येकगव्यापकत्वमित्यत आह ॥ शाब्दादाविति ॥ आजानसिद्धे स्वभावसिद्धे । बाधशब्दो लक्ष्यवाचकः । स च यौगिकः । तदर्थ एव लक्षणवाक्येन वित्रियते ।। तदर्थे च विचार्यमाणेऽति- प्रसङ्गो नास्तीत्याह || बाधतिः खल्विति । ननु ज्ञानस्यापि लोडनमेव बाधो भविष्यतीत्यत आह ॥ सम्यग्ज्ञानस्यापीति ॥ आत्मविशेषगुणानामुत्तरोत्तरेण पूर्वपूर्वस्य विनाश्यत्वनियमादिति भावः ॥ लोडनमिवेति । तथाच गौणमेवान्न लोडनं विवक्षितं परित्यागरूपगुणस्य मुख्यार्थे भ्रमविषये च साम्या. दिति भावः । अत्र अन्यथाप्रतीतिपूर्वकं तदुन्मूलनेन सम्यग्बोधो बाध इति निष्कृष्टं लक्षणम् । तदुन्मूलनं नाम तस्याः भ्रमत्व ल्यापन वा । तद्विपयरयासत्यावेदनं वा । एवञ्च 'भ्रमोऽन्यदन्यथा ज्ञान विषयीकुर्वदिप्यते । भ्रमप्रसञ्जिताकारलोडनं बाघसंज्ञितमिति संग्रहश्लोकः । पूर्वज्ञानप्रसञ्जितस्यान्यथा- कारस्य लोडनमिवेत्येतदपि भाप्ये वक्तव्यं किमिति पृच्छति ॥ तत्किमिति | नेत्याह ॥ न हीति ।। अवक्तव्यत्वे कथमस्य लाभ इति पृच्छति ॥ कथमनुच्यमानमिति ॥ अन्यथाविज्ञातस्येति वचन- सामर्थेनापि कथमिदं लभ्यत इत्यन आह || अन्यथेति ।। तत्र प० अनभिमतादिति ॥ मायावाद्याभिमतासिद्धान्त्यभिमतादित्यर्थः । कचिदभिमतादि- त्येव पाठः । व्यातिनिरासाय, दृष्टान्त इत्येवानुक्त्वा, दृष्टान्तत्वेन तवाभिमत इति भावेनोक्तं ॥ दृष्टान्ताभास इति ॥ वक्ष्यते चेतदिति ।। 'नासीदरित भविष्यच्च तदिति ज्ञानमेयता। यदि बाध- स्तदाऽसत्त्वं तीवाजीकृतं पुनरिति वियत्पादे 'पृथगुपदेशादि'त्यधिकरण इति भावः । नपुंसकत्वनिर्या- हायाऽऽद || सामान्येन परामशतीति | शाब्दादाविति ।। अमिना सिश्चेदित्यादिशाब्दयोधम्यले तदभावबोधनस्य यह्निः शीतः पदार्थचादित्यनुगाने च तद्विपरीतभावान्तरज्ञानस्य च बाधत्वदर्शनादि. त्यर्थः । उभयानुगतमेतदुच्यत इत्येाद्यनक्ति ।। रजतत्वादिनेति ॥ छलेति ॥ अन्यथत्यम्य तत्स्य- रूपापेक्षयेत्यस्य विरक्षितत्वादभिप्रायान्तरकल्पनेनातिव्याहिं कथयतः छलोत्तराख्यदूपणं स्यादित्यर्थः ।। आजानसिद्ध इति ॥ श्रान्तिपूर्वकल्यं विना स्थभावसिद्ध इत्यर्थः । अतिव्याप्ति निराकर्तुमुपोद्धातमाह || ब.धतिरित्यादिना ।। अत इत्यन्तेन । बाथ विलोडन इति धातुपाचा दिति भावः । क्षणिकत्येनेति ।। आशुबिनाशिवगेत्यर्थः । परमतेन मुक्तिः ॥ नित्यलोडितत्वादिति ॥ अवस्वादिति भावः ।।
पदस्य मूलवाक्येऽनुपलब्धेः । यथा पाणिनीयसूत्रेषु विवक्षितार्थस्याशेषस्याप्राप्तिस्थले वार्तिक कृता तत्र- तत्र इदं वक्तव्यमिदमुपसङ्खयेयमित्युच्यते तथेति भावः । सिद्धान्ती परिहरति । न हीति ॥ तदेतन्नहि वक्तव्यमित्यर्थः । शङ्कते । कथमिति ।। तम्योत्तरमाह ॥ अन्यथेत्यादि । इति वचनसामर्थ्या. दनुच्यमानमपि गम्यत इत्यन्वयः ॥ अन्यथेति ॥ अन्यथा विज्ञातम्येत्यंशेन प्राविवक्षितार्थस्यालाभे सम्यग्विज्ञानमेव तन्मतमित्येवं ब्रूयाकिमन्यथाविज्ञातम्येत्यंशेनेत्यर्थः । ॥ क च प्रत्यक्षतः या०- अनभिमतादिति ॥ सिद्धान्त्यनभिमतादित्यर्थः । ननु ज्ञानबाध्यत्वं नाम न ज्ञाननिवर्त्यत्वं किंतु नास्ति नासीन्न भविप्यतीति बोध्यमानाभावप्रतियोगित्वम् । तच्चास्ति शुक्तिरजता. दावतो न साधनविकलतेत्याशङ्कते ॥ ननु प्रतिपन्नेति ॥ नोक्तप्रतिपेधप्रतियोगित्यमसत्त्वं किन्तु निरुपाख्यत्वादिकमन्यदेवातो नोक्तदोष इत्यत आह ॥ वक्ष्यते चैतदिति ।। 'नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः । प्रतीतिसित इति बदन्नङ्गीकरोति तामि'त्यादिना निरुपाख्यत्वादेरसम्भवित्वादुक्तनिषेधप्रतियोगित्वमेवासत्त्वमङ्गीकार्यमिति वक्ष्यत इत्यर्थः । ननु यदि न बाध्यत्वं शुक्तिरजतादेस्तर्हि सकललोकविरोधादिप्रसङ्ग इत्यन्वयः । नन्विदं रजतमिति प्रत्यक्षस्येयं शुक्तिरिति ज्ञानं न साक्षाद्वाधरूपं ग्राह्याभावानवगाहित्वात् । किन्तु ग्राह्यविरहव्याप्या. वगाहिंत्वेनानुमानतयैव । न चानुमानस्य प्रत्यक्षबाधकता कापि दृष्टेष्टा वा । प्राप्तमनुमागमबाधितमिति वक्ष्यमाणत्वात् । अतो विरोधिभावान्तरज्ञानस्यालक्ष्यत्वान्न तत्राव्याप्तिर्दोषा- येत्यत आह । शाब्दादाविति ॥ भ्रम इति शेषः । तथाच प्रयललिङ्गज्ञानस्य प्रत्यक्षाबाधकत्वेऽपि शाब्दानुमितिरूपभ्रमबाधकताऽस्त्येव । अत एव मीमांसायां निरवकाशलिङ्गस्य श्रुत्यादिबाधकता प्रसिद्धति भावः । यदा विरोधिभावान्तरज्ञानमध्यस्तवस्त्वभावज्ञानं वा यदि प्रत्यक्षरूपं तदा तयोरन्यो- न्यविषयविषयकत्वं भविष्यति उल्लेखाभावेऽपि सन्निकादिरूपसामग्रीसत्वे तज्ज्ञानसम्भवात् । न हि प्रात्यक्षिके ज्ञाने यावद्विषवीक्रियते तावदुल्लिख्यत इति नियमोऽस्ति । अत उक्तयोरुभयोरपि ज्ञानयोरु- भयविधबाधलक्षणसम्भवान्नाव्याप्तिरित्यत आह ॥ शाब्दादाविति ॥ शाब्दयोरनुमितिरूपयोर्वोक्तज्ञान. योरपि प्रसिद्धिबलाहा यत्वं तावदस्ति । तत्र च नान्योन्यविषयविषयकत्वं सम्भावितम् । शब्दानुप- स्थितस्य व्यापकतावच्छेदकताऽनवच्छिन्नस्य च शाब्दे बोधेऽनुमिती चाभानात् । अतस्तत्राव्याप्तिः अस्त्विति ॥ अङ्गीक्रियत इत्यर्थः । उत्ताज्ञानेन लोडनं विवक्षितमिति चेत्तत्राह ॥ सम्यग्ज्ञानस्या- पीति ।। अर्थोऽपि किं शुक्ती रजतं वेति विकल्प्योभयत्रापि दोगमाह ॥ शुक्तिशकलादेरित्यादिना ॥ अन्यथाऽऽकारस्य रजतस्य ।। लोडनमिवेति ॥ नित्यनिवृत्तत्वेन तस्य मुख्यलोडनासम्भवाद्रौणमेव लोडन- मत्र विवक्षितम् । परित्यागरूपगुणस्य मुख्यार्थे भ्रमविषये च साम्यादिति भावः । तत्कि वक्तव्यमेत- दिति ॥ लक्षणवाक्य इति शेषः । इत्तरमाह ।। न हीति ।। श्री०-व्यवच्छिनत्तीति ।। तथा च मायावाद्यमिमतमित्यर्थः । नन्वियं शुक्तिरिति ज्ञानं न लक्ष्यम् । साक्षाग्राह्याभावानवगाहित्वेन । यदीदं बाधकं तर्हि तस्येदं न रजतं शुक्तित्वादिति ग्राह्याभावव्याप्यशुक्तित्वावगाहित्वेनानुमानिकतया इदं रजतमिति प्रत्यक्षबाधकत्वं न सम्भवति । ‘क च प्रत्यक्षतः प्राप्तमनुमागमबाधितमिति वक्ष्यमाणत्वात् । तथा चेयं शुक्तिरिति ज्ञानस्येदं रजतमिति ज्ञानबाधकत्वायोगेनालक्ष्यत्वान्न तत्राच्याप्तिोप इत्यत आह । शान्दादाविति ॥ भ्रम इति शेषः । तथा चेयं शुक्तिरिति ज्ञानस्येदं रजतमिति प्रात्यक्षिकभ्रमबाधकत्वाभावेऽपि इदं रजतमिति शब्देन चाकचक्यादिमादृश्यलिङ्गकानुमित्या वा भ्रमो जातस्तत्रेयं शुक्तिरिति ग्राह्याभावव्याप्यावगाहित्वेनानु. मानरूपस्यापीयं शुक्तिरिति ज्ञानस्य शाब्दानुमानिकभ्रमबाधकत्वं प्रसिद्धमिति लक्ष्यत्वात्तत्राव्याप्तिर्मविष्य- त्येवेत्यर्थः । अत्र द्वयोरिति पदं न स्वरसम् । अथवा नन्विदं लक्षणद्वयं कथं प्रत्येकमव्यापकम् । यथा नेदं रूप्यमिति प्रात्यक्षिके बाधकज्ञाने शुक्तित्वमपि प्रतीतमेव । तथेयं शुक्तिरिति प्रात्यक्षिके बाधकज्ञाने रजताभावोऽपि प्रतीत एवेत्यन्योन्य विषयविषयकत्वमस्ति । न चोलेखप्रसङ्ग इति वाच्यम् । प्रात्यक्षिकज्ञाने यावत्प्रतीयते तावतः सर्वस्योल्लेखनियमाभावात् । अत एवोभयोरपि बाधकज्ञानयोरन्यो- न्यविषयविषयकत्वात्कथं प्रत्येकमव्यापकमिदं लक्षणमित्यत आह || शाब्दादाविति ॥ इदं रजतमिति भ्रमानन्तरं नेदं रूप्यमि याप्तवाक्यरूपशब्दतो दाहच्छेदानुमानेन बाधकज्ञानं जायते । तथेयं शुक्तिरिति शब्दतोऽनुमानेन वा बाधकज्ञानं जायते । तदा शाब्दादी शब्देनानुमानेन वा जायमानेनेदं रूप्यमियं शुक्तिरिति ज्ञानद्वये द्वयोरपि बाधकत्वं प्रसिद्धम् । न चोक्तरीत्या शाब्दानुमानिकज्ञानयोरप्यन्योन्यविषय- विषयकत्वेनोक्तदोप इति वाच्यम् । शाब्दज्ञानस्य शक्यतावच्छेदकमात्रप्रकारकत्वनैयत्येनानुमितेश्च व्यापकताऽवच्छेदकप्रकारकत्वनैयत्येन तदधिकस्य तत्राभासमानत्वेनान्योन्यविषयविषयकत्वाभावेन प्रत्येकम- । विवक्षितत्वादभिप्रायान्तरकल्पनेनातिव्याप्ति कथयतः छलोत्तरत्वदूपणं स्यादित्यर्थः । शङ्कते ॥ तरिक वक्तव्यमेतदिति ॥ तदेतत्पूर्वप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेत्येतदवश्यं वक्तव्यमेव, अतो विज्ञातस्येति लक्षणवाक्ये, किं किमर्थमाचार्यः कण्ठतो नोक्तमित्यर्थः । उत्तरमाह ॥ न हीति ।। एतदवश्यं लक्षणवाक्ये कण्ठतो न हि वक्तव्यमित्यर्थः । पुनः शङ्कते ॥ नन्विति ।। कण्ठतोऽनुक्त. त्वेऽप्यर्थादुक्तमेवेत्याह ॥ अन्यथेति ॥ अनेनान्यथेति वचनेन । । च०-वक्ष्यति चैतदिति ॥ पृथगुपदेशादितिनये 'नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता। यदि बाधस्तदाऽसत्वं तेनैवाङ्गीकृतं पुनरि'त्यभिधास्यतीत्यर्थः ॥ विज्ञातस्थेतीति || स्वाधिकरणावृत्ति- धर्मो:न्यपदेन, तदुत्तरप्रत्ययेन प्रकारवचने थालित्यनुशासनादभेदेन तदर्थान्वितप्रकारस्तदुत्तरलुप्तमुपा च निरूपकतया धात्वर्थान्वयिन्याधेयतया प्रकृत्यर्थविशेपिता प्रकारता। लुप्तविभक्त्यननुसंधानपक्षे तु अभेदेन धात्वर्थान्वयिप्रकारतानिरूपकमेव लक्षणयोपस्थाप्यते । तदेकदेशप्रकारतायामाधेयतया प्रकृत्यर्थोऽन्वेति । भूताधिकारीयकर्मसाधननिष्ठान्तेन धात्वर्थनिरूपितविषयतारूपकर्मताऽऽपन्नं तदुत्तरविभक्त्या च विशेप्यता. निरूपकावं प्रत्याप्यते । तदेकदेशविशेष्यताऽन्वितं स्वसमानाधिकरणधर्मनिष्ठप्रकारतानिरूपितत्वं सम्य. गित्यनेन । तथा च स्वाधिकरणावृत्तिधर्मनिष्ठप्रकारतानिरूपिता या सांप्रतिकध्वंसप्रतियोगित्वरूपातीतत्व- विशेषितज्ञानीयविशेप्यता तदापन्ननिष्ठा या स्वसमानाधिकरणधर्मप्रकारतानिरूपितविशेष्यता तन्निरूपक- ज्ञानं बाघ इति समुदितार्थः । वाद्यन्तरोक्तलक्षणद्वयमनूद्य प्रतिविधत्त।। केचिदित्यादि।। प्रत्येकमव्या. पकमिति ।। अध्यस्तवस्त्वभावविपयकबोधत्वमियं शुक्तिरिति ज्ञाने विरोधिभावान्तरविषयकत्वं नेदं रजतमिति ज्ञाने अव्यापकमित्यर्थः । नन्विदं रजतमिति प्रत्यक्षं प्रतीयं शुक्तिरिति ज्ञानस्य न साक्षा- द्वाधरूपता सङ्गच्छते ग्राह्याभावानवगाहित्वादित्याशङ्कायां तदभावानवगाहित्वेऽपि तदभावव्याप्यवत्ता- ज्ञानमुद्रया तद्वत्ताज्ञानविरोधितायास्तादृशज्ञानदशायां तादृशानुमितिशाब्दबोधापत्तिवारणाय सर्वोपेततया तल्लक्ष्यताधौत्र्यादव्याप्तिः सुस्थेत्याह || शाब्दादाविति ॥ तस्मात् वाद्यन्तरोक्तलक्षणद्वयस्याप्यव्यापक- त्वात् उभयानुगतम् दर्शितबाधद्वयसाधारणमेतत् उक्तदिशा परिष्कृतम् । विशेष्यावृत्तिरजतत्वादिना विज्ञातं यच्छुक्तिशकलं शुक्तित्वेन तदवगाहिज्ञानं, सत्त्वरूपतादृशधर्मोपरागेण ज्ञानगोचरजतादिक. मसत्त्वेन विषयीकुर्वत् ज्ञानं च परिष्कृतलक्षणविशेषितं भवतीति संग्राह्यसंग्रहः । वारणीयवारणं तु न्तेन || आजानसिद्धे निसर्गसिद्धे । विज्ञातस्यान्यथेति भाप्यकारीयनिर्देशस्यैवोक्तातिप्रसङ्गनिरासकता प्रतिपिपादयिषति ॥ बाधतिरित्यादिना !! 'इश्तिपो धातुनिर्देश' इति स्मृतेर्भवतेर इत्यादाविव बाधृधातुरित्यर्थः । लोडने ध्वंसानुकूलव्यापारे वर्तते । तादृशव्यापारवाचकः स धातुरित्यर्थः । नकुलोऽहिं बाधते अहेर्नकुलो बाधक इत्यादावहिप्रतियोगिकध्वंसानुकूलत्र्यापारकर्ता नकुल इति बोधो- दयात् । तथा चेदं रजतमिति ज्ञानस्य नेदं रजतमित्यादिज्ञानं बाधकमिति वाक्यादपि तादृशज्ञान. प्रतियोगिक वसत्वावच्छिन्नजन्यतानिरूपकव्यापारकत्रित्यर्थो भायात् । तथा भाने च लक्ष्यासंग्रहः । अनोत्तरक्षणे बाधकानवतारेऽपि तदुत्तरोत्पन्नकामिनीजिज्ञासादिनाऽपि पूर्वो:पन्नभ्रमविनाशोत्पत्त्या तादृश- भ्रमनाशत्वावच्छिन्न प्रति तदुत्तरोत्पन्नबाधकज्ञानत्वावच्छिन्नस्य केनापि हेतुतायाः अनङ्गीकारात् । यदि च जन्यतायां तादृशध्वंसत्वावच्छिन्नत्वमनिवेश्य ध्वंसवृत्तित्वमानं निवेश्यते तदा यद्यपि आत्मविशेष. गुणानां स्वोत्तरोत्पन्नगुणनाश्यतोपगत्या तत्संग्रहो भवति तथाऽएि घटज्ञानोत्तरपटज्ञानेनोक्तविधया घट- ज्ञाननाशोत्पादादतिप्रसङ्ग इत्याह || सम्यग्विज्ञानस्येत्यादि ॥ पष्ठयन्तज्ञानपदस्य कर्मसाधनलङन्तता- sऽश्रयेण ज्ञेयपरत्वेऽपि ज्ञाननिरूपितविशेप्यतारूपविपयत:ऽऽपन्नपरता तादृशप्रकारताऽऽपन्नपरता वेति कल्पद्वयीमभिप्रेत्य आये तादृशशुक्तिप्रतियोगिकध्वंसस्य तदानीमनुत्पादेन द्वितीये तस्यालीकत्वेन तत्प्रति. योगिकध्वंसस्य गगनकुसुमायमानतया कल्पद्वयेऽपि संग्राह्यासंग्रहो दुरि इत्याह ॥ नापीत्यादि ॥ दर्शितदिशा मुख्याथोरीकृतेः प्रकृतेऽयोगेन कर्तृसाधनप्रत्ययान्तबाधकपदस्य प्रवृत्तिप्रतिबन्धकत्वावच्छिन्ने लक्षणाऽऽश्रयणीया । पष्ठ्यन्तज्ञानपदस्य तादृशप्रकारताऽऽपन्नपरतैव । इत्थं च पूर्वज्ञानीयप्रकारतारूप- प्रसञ्जितत्वविशेपितालीकाकारविषयकप्रवृत्तिप्रतिबन्धकमुत्तरज्ञानमिति वाक्यार्थपर्यवसानात् । विज्ञातस्या- न्यथेत्यत्रापि षष्ठयन्तस्य थालन्तविशेषणतया ऽव्ययादाग्मुप' इति थालन्तोत्तरलुप्तपष्ठयाश्च प्रवृत्तिप्रतिबन्ध. कत्वावच्छिन्नलक्षकतया तदर्थस्यन्योत्तरपदार्थान्वये ताशार्थस्यैव पर्यवसानेन संग्राह्याखिलसंग्रहस्य वारणीयज्ञानानां च तादृशप्रवृत्तिप्रतिबन्धकताविरहेण वारणं च संभवतीत्याशयेनाभिधत्ते ।। अत इति ॥ इत्थं च लक्षणवाक्ये दर्शितातिप्रसङ्गनिरासकपदान्तरपूरणमन्तरेणापि सामञ्जस्यान्न तदावश्यकमित्याह ॥ सामादित्यन्तेन । अत्र च द्विष्टसाधनीभूतार्थगोचरभ्रमोत्तस्वाधसंग्रहाय प्रवृत्तिनिवृत्त्यन्यतरप्रतिबन्ध. कतानिवेशेऽपि उपेक्षणीयार्थगोचरभ्रमोत्तरबाधकज्ञानस्य, इष्टसाधनताज्ञानाभावकालीनतत्साधनार्थगोचर- भ्रमोत्तरतादृशज्ञानस्य चासंग्रह प्रसङ्गो दुरिः । तत्रेप्टसाधनताज्ञानरूपकारणविरहादेवाप्रवृत्युपपत्तो तत्र 62 प्रकारतायां स्वावच्छेदकधर्मावच्छिन्नप्रतियोगितासंसर्गावच्छिन्नप्रकारतानिरूपितत्वतदभावनिरूपितच्याप्त्य वच्छिन्नत्वप्रतियोगितासंसविच्छिन्नतव्यापकविषयतानिरूपितत्वान्यतमविशेपितत्वस्य निवेशनेनोत्तरस्य च निरासात् । अत्र स्वपदेनाद्यदलनिविष्टप्रकारतोपादेया। ग्राह्याभाववत्ता-तदभावव्याप्यवत्ता-तव्यापका. भाववत्ताज्ञानानां संग्रहायान्यतमपर्यन्तानुधावनम् । अथ तद्वत्ताज्ञान प्रति तदभावनिरूपितव्याप्त्यव. च्छिन्नप्रकारताशालिज्ञानत्वेन तद्व्यापकवृत्तिप्रतियोगितासंसर्गावच्छिन्नप्रकारतानिरूपिताभावप्रकारताशालि. ज्ञानत्वेन प्रतिबन्धकतायां निधूमत्वव्याप्यनिर्वह्नित्वमिति ज्ञानसमवहितस्य निर्वह्रिश्चायमिति ज्ञानस्य धूमव्यापको वह्निरिति ज्ञानसमवहितस्य वन्ह्यभाक्यांश्चायमिति ज्ञानस्य समवधानदशायां च • धूमवत्ता- ज्ञानोत्पादप्रसङ्गेन दर्शितज्ञानद्वयविशिष्टज्ञानोभयसाधारणनिर्वह्नित्वधर्मिकनिघूमत्वव्याप्यत्वज्ञानविशेषित. निर्वह्नित्वज्ञानत्वेन, बहिधर्मिकधूमव्यापकताज्ञानविशेषितवन्ह्यभाववत्ताज्ञानत्वेन च प्रतिबध्यप्रतिबन्धक- भावस्याकरे स्थिततया दर्शितज्ञानद्वयासंग्रहो दुरि इति चेत् । मैवम् । स्याश्रयवृत्तिनिष्ठप्रकारताघटित. धर्मावच्छिन्नप्रतिबन्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूतप्रतियोगितासंसर्गावच्छिन्नस्वाश्रयावृत्तिधर्मप्रकार- ताघटितधर्मज्ञानवैशिष्टयान्यतरविशेपितज्ञानत्वविवक्षया सामञ्जस्यात् । न चैवं समूहालम्बनमादाय घटादावपि तत्तद्विषयत्वरूपबाध्यत्वलक्षणस्यातिव्याप्तिर्दुवारेति वाच्यम् । यादृशयाशविषयतात्वं दर्शि- तान्यतरसमानाधिकरणाभावप्रतियोगिताऽवच्छेदकं तत्तदवच्छिन्नविपयिताशून्यत्वस्य ज्ञाने निवेशेनाक्षते. रित्यलं प्रपञ्चेन । सु०-अथवाऽनिवर्चनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः । किंवा निरुत्तिनिमित्त विरहः । नाद्यः । अनिर्वचनीयमित्यादिनिरुक्तः सत्वेनासम्भवित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः । ज्ञानस्थो भयवादिसिद्धिसद्भावात् । न द्वितीयः । यथा प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिना ऽभ्युपगतत्वादित्याशङ्कय परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्वमनिर्वच. नीयत्वं ज्ञानबाध्यत्वं चेति । तत्रायं तावनिराकरोति ।। वैलक्षण्यं सतश्चेति ॥ व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धार्थत्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्दोषोऽवगन्तव्यः । यत्र पुनर्वाधादिपर्यवसानं । त्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सबैलक्षण्यं तु प्रमाण- पाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतोऽसम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सबैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षण- स्वाभ्युपगतिराग्रहमात्रमूलवेत्यभिप्रेति ॥ ययुच्यत इत्यत्राप्युक्तरीत्याऽसम्भवित्यादिकं ज्ञात- व्यम् । सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते । तथा हि । ब्रह्मणोऽपि सन्मात्रत्वं सच्यानधि- करणत्वमिति यावत् । मायावादिनाऽभ्युपगतमिति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वा- नधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन्नो भवेत्किन्त्वनिर्वाच्यं प्रसज्येतेति । सस्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वं न पुनः सत्यासत्वधर्मानधिकरणत्वम् । ब्रह्म तु सत्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्यप्रत्ययार्थस्थानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । 'सर्ववैलक्षण्याङ्गीकारादि'त्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति ।। द्वितीयमपि लक्षणं निराकरोति ।। ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानवाध्यत्वं नामोक्तविधया ज्ञाननिवर्त्यत्वं तदा वियदादौ शुक्तिरजतादौ च न सिद्धम् । वियदादेः सत्वेन शुक्तिरजतादेश्वासत्वेनाविद्योपादानकत्वाभावात् । ततश्वासम्भवित्वं लक्षणदोपः । यदि पुनर्ज्ञान विनाश्यत्वमात्रम् । तथाऽपि वियदादौ . नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नौपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः । ननु भवताऽपि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वायोगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्यि- त्यत आह ।। प्रतिवादिनो विज्ञातस्येति ।। प्रतिवादिनो मम मतमिति सम्बन्धः । तम्चात्मन्य- निर्वचनीयेऽप्यस्तीत्यतिव्यासमिति शेषः । अनान्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथा- ऽऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारयता मतान्तराणि निरस्तानि येदितव्यानि । हि- शब्देन तत्र प्रमाणप्रसिद्धि सूचयति ।। 62a णनिराकरणस्य वैलक्षण्यं सतश्चापीति श्लोकत्रयेण लाभाल्लक्षणानिरासप्रयुक्तभाष्यन्यूनतापरिहारायानिर्वच- नीयलक्षणनिरासपरतयाऽपि तयाख्याति ॥ अथवेति ॥ ननु मिथ्यात्वसाधकत्वोभयोपपादकतया सदसद्वैलक्षण्यप्रसक्तावपि नानिर्वचनीयत्वप्रसक्तिरिति तल्लक्षणनिरासपरतया व्याख्यानमनुपपन्नमिति चेन्न । प्रमाणनिराकरणपरतयेव लक्षणनिराकरणपरतयाऽपि भाष्यकारस्य लाभाद्भाप्ये लक्षणनिरासोऽप्यभिप्रेत एव । स च पूर्वत्र सामान्याभिप्रायाकल्पनेऽनुपपन्न इति पूर्वत्र सामान्याभिप्रायेऽवश्यं कल्पनीयेऽनिर्व- चनीयत्वमपि प्रसक्तमेवेति नानुपपत्तिरित्याशयेन पूर्व स्वयमेव दर्शितामनिर्वचनीयत्वसामान्यप्रसक्ति सूचयति ॥ अनिर्वचनीयमिति ॥ ननु तथाऽपि भाप्ये न्यूनतैव । लक्षणद्वयनिराकरणोऽप्यनिर्वचनीय. शब्दार्थभूतलक्षणान्तरानिराकरणादित्यतः परेण लक्षणान्तराण्याशय निराकृत्यैतल्लक्षणद्वयस्यैव व्यवस्था. पिततयाऽन्येषां परानभिप्रेततया तदभिप्रेतयोश्च दूषणान्न न्यूनतेत्याशयेन भाष्यमवतारयति । तत्रेति ॥ अत्र निरुक्तिर्निर्वचनीयं भावेऽनीयर । न विद्यते निर्वचनीयं यत्र तदनिर्वचनीयं निरुक्तिविरह एवेत्या- शयेनाऽऽद्यः कल्पः । निर्वचनसम्बन्धि निर्वचननिमित्तमिति यावत् निर्वचनीयमिदमर्थे छः । न विद्यते निर्वचनीयं यत्रेत्यनिर्वचनीयम् । निर्वचननिमित्तरहितं तस्य भावो निमित्तविरहोऽनिर्वचनीयत्वमित्या. शयेन द्वितीय इति ज्ञेयम् । शब्दप्रयोगे करणतया ज्ञानस्य विपयतयाऽर्थस्य च निमित्तत्वाद्विकल्पयति ।। द्वितीयेऽपीति | विषयज्ञानं हि शब्दप्रयोगे कारणम् । तच्च त्वयाऽप्यभ्युपेयत एवेत्याह || नाद्य इति ॥ यथा प्रतिभासमिति ॥ ननु रजताभ्युपममे तदुचितार्थक्रियाप्रसङ्ग इत्यतोऽर्थक्रियानहत्वरूपा- लौकिकत्वेन रजतादिकं विशेषितम् । ननु तर्हि तदभ्युपगमो व्यर्थ इत्यतोऽसतः प्रतिभासासम्भवादस्य च प्रतिभासादाविद्याकतदभ्युपगम इत्याशयेन यथाप्रतिभासमित्युक्तम् । यद्वा तत्तदुचितार्थक्रियानहत्थे कुतस्तस्य र नादिःवमित्यतस्तथा तथा प्रतिभासनादित्याशयेन तदुक्तम् । अथवाऽर्थक्रियानहत्त्वरूपा- लौकिकत्वोपपादकत्वहेतुमूचनाय तदुक्तिरिति ध्येयम् । यदि पूर्ववदेव व्याख्यानं तर्हि तहोधितानां सिद्धसाधनत्वादीनामलक्षणदोषत्वाल्लक्षणनिरासकत्वासिद्धिरित्यत आह ॥ तत्रेति ॥ आरम्भासङ्गति- रिति ॥ न ह्यत्र लक्षणदूषणं प्रधानप्रयोजन किन्तु न सन्प्रपञ्चः किन्त्यनिर्वचनीयः । एवं च साधक- त्वाद्युपपत्तिरिति परोक्तखण्डनम् । तच्च द्वेधा सम्भवति । एवंलक्षणकेऽनिर्वचनीयत्वे तस्य सत्त्वाविरोधि- त्वान्न सन्प्रपञ्च: किन्त्वनिर्वचनीय इति वदता च सत्त्वविरोधिन एव तस्य कथनीयत्वादुक्तासिद्धिरिति प्रतिपादनेन । अध्याप्त्यादिना लक्षणस्यासम्भवेनानिर्वचनीयत्वानुपपत्त्योक्तानुपपत्तिरिति वा प्रतिपादनेन ।
प्रका. रान्तरेण भाष्यं योजयति ॥ अथवेति ॥ नन्वत्र वियदादौ सद्वैलक्षण्याभावप्रतिपादनमात्रेण नासम्भवः । शुक्तिरजतादौ लक्षणसम्भवेन यावलक्ष्यावृत्तित्वाभावात् । न च विश्वशब्देन शुक्तिरजतादेरारोपितस्य सर्वस्यापि विवक्षिततया तत्र सद्वैलक्षण्यसत्त्वेऽप्यसद्वैलक्षण्याभावेन तत्राप्यनेनैव लक्षणाभावः प्रतिपाद्यत इति वाच्यम् । तथाऽपि यावल्लश्यावृत्तित्वाप्रतिपादनेनासम्भवप्रतिपादकत्वायोगादित्यतो व्यावहारिकवि- यदादेः प्रातिमासिकशुक्तिरजतादेरेव च परस्यानिर्वचनीयत्वेनाभिमतत्वात्तदुभयत्र लक्षणासम्भवप्रतिपादने. ऽसम्भवसिद्धिरित्याशयेनाह ॥ अनिर्वचनीयत्वेनेति ।। एवं योजनाबललब्धं तत्तलक्ष्ये व्यवस्थितत्तदंशा- भावप्रयुक्तलक्षणासम्भवं प्रदर्शयति ॥ वियदादाविति ।। इत्यादीति ॥ यतोऽसत एव सद्वैलक्षण्यमेव स्वयं सदतः सद्वैलक्षण्योक्तावसत्त्वमुक्तं स्यात् । पुनस्तस्यासद्वैलक्षण्योक्तिाहता। एवं यतः सत एवासद्वैलक्षण्यमेव स्वयं सदतोऽपद्वैलक्षण्योक्तौ सत्त्वमेवोक्तं स्यात् । पुनस्तस्य सद्वैलक्षण्योक्तिया॑हता । ततश्च व्याहतेनात एवासम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्ट न भवेदिति व्याहतिपक्षेऽप्यसम्भवपर- स्वेन योजना, बाधपक्षेऽस्मदुक्तयोजना वा द्रष्टव्येत्यर्थः । ननु यदस्ति यच्च बाधितं तस्य भेदयादिनं प्रतीव मायावादिनं प्रत्यपि सत्वाद्वाधितत्वाच्च भेदवादिन इत्युक्तेन फलमित्यतः सदपि बाधितमपि भेद. वादिन प्रति सहाधितमित्युक्त्या सदपि मायावादिनं प्रति न सहाधितमपि मायावादिनं प्रति न बाधि- तमिति मायावादिनस्तदनङ्गीकारस्य प्रमाणविरुद्धाङ्गीकारस्य च सूचनात्सतोऽप्यनङ्गीकारस्य प्रमाणविरुद्धा. ङ्गीकारस्य च प्रमाणमूलकत्वासम्भवेनाग्रहमात्रमूलकत्वं ज्ञापयितुं तदुक्तिरित्याशयेनाह ॥ भेदवादिन इति।। उक्तरीत्येति।। वियदादौ सर्वानेकसवानधिकरणत्वस्य साध्यत्वपक्षे पूर्वोक्तयोजनानुसारेणापसिद्धा- न्तव्याहतिपर्यवसानेऽध्याप्तिः । वैलक्षण्यं सतश्चेत्यधुनोक्तयोजनान्यायेन वियदादिशुक्त्या दिविषयकतया यद्युच्यत इत्यस्य योजनान्तरे त्वसम्भवः । योजनान्तरं तु वियदादीनां शुक्तिरजतादीनां चानिर्वचनीय. स्वेन तवाभिमतत्वात्तयोश्च सर्वस्मादनेकस्मात्सर्वस्माञ्च वैलक्षण्यम् । सर्वानेकसत्त्वानधिकरणत्वमिति यावत् । लक्षणतया यधुच्यत तयुक्तरीत्याऽनेकसर्वसत्वानभ्युपगमेऽनेकेत्यादिविशेषणवैयापत्त्या सद्भेदसंस्थितिः । अनेकसर्वसत्याधिकारणान्यभ्युपेयानि । तेषां च वियदादिशक्तिरजतादिव्यतिरिक्ता- नामभावात्तेपामेव च तदनधिकरणत्वासम्भवात्सद्वैलक्षण्यासम्भवेन वियदादावसद्वैलक्षण्यसम्भवेऽपि विशिष्टासम्भवाच्छुक्तिरजतादौ चोक्तरीत्या सद्वैलक्षण्यस्य वस्तुगत्याऽसद्वैलक्षण्यस्याप्यभावेनोभयाभावा- द्विशिष्टासम्भव इति द्रष्टव्यमित्यर्थः । सन्मावत्यमित्यनेनेति ॥ अतिव्याप्तिरप्युच्यत इति पाठे त्रत्वमिति विवक्षायामपि ब्रह्मणोऽपि लक्षणान्तःप्रविष्टसत्त्वाधिकरणतयाऽनुपपत्तिरेव । परमतानुसारेण तथोक्तौ च तदीयतयाऽङ्गीकारे ज्ञापकाभावः । असत्यानधिकरणत्यानुपपादनान्न्यूनता च तस्मात्तदपीति द्वितीयपादस्य ब्रह्मालक्ष्यत्वप्रतिपादकता च न स्फुटेत्यत आह ॥ तथा हीति ॥ भाप्योक्तातिव्याप्तेः सत्त्यासत्त्वानधिकरणत्यपक्ष एवोपपन्नत्वात्तमेव पक्ष शेपयित्वा परप्रसञ्जितपक्षान्तरं निराकर्तुं शङ्कते ।। सत्वेनेति ॥ एवं परिशेषाभिप्रायेण भाप्यं व्याख्यातम् । अधुनैतत्पक्षदूपणमपि भाष्यारूढमेव सन्मा- त्रत्वं सत्त्वेन विचारासहत्वं ब्रह्मणोऽपीति योजनोपपत्तेरित्याशयेनाह ॥ किञ्चति ॥ ननु भिन्नत्वाभिन्न- त्वसवासात्वादिविकल्पेन विशिष्टादिनिरासकतर्काणां वियदादी प्रवृत्त्या तस्य विचारासहत्वेऽपि न ब्रह्मणम्तथास्वमित्यतस्तेषां जगतीव ब्रह्मण्यपि प्रवृत्तिरप्रत्यूहा । 'सर्ववैलक्षण्याङ्गीकारादुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्न वेत्यादिविकल्पस्तत्रापि युज्यत' इत्यादिना तत्त्वोद्योते भगव. त्पादैरेवास्यार्थस्य निपुणतरं प्रतिपादितत्वादित्याशयेनाह ॥ यथोक्तमिति ।। ननु सच्चेन्न बाध्येतासचन्न प्रतीयेतेत्यादिविचारस्य वियदादाविव न ब्रह्मणि संभवः । ब्रह्मणो बाधाभावेन सत्त्वनिश्चयसम्भवादित्यतो बाधायोगात्सतइति बाधाभावत एवहि प्रतीति सतइति वदनित्याद्यनुःयाख्याने दियदादावपि बाधाभावादे: प्रतिपादयिष्यमाणत्वान्नानुपपत्तिरित्याशयेनाह | निराकरिष्यते चेति । अत्र स्वपरराभिमतज्ञानबाध्यत्व- पक्षदूषणानामेकप्रकारत्याभावात्तत्तत्पक्षदूपणं विविच्य दर्शयति ॥ यदीत्यादिना ।। अत्राविद्यानिराकरणे- नाविद्योपादानकत्वाभावस्य वियदादेवियत्पादे स्वरूपनाशाभावस्य न हि नाशोऽसतो भवेदित्यादिनाऽसतो नाशाभावस्योपपादयिप्यमाणत्वान्नेहनानेतिवाक्यस्योपपत्तिविरुद्धत्वेन प्रतिपन्नोपाधौ निपेधप्रतियोगित्वा- प्रतिपादकत्वम्योक्तत्वा'नासीदस्ति भविष्यच्च'त्यादिना वक्ष्यमाणत्याच्च नानुपपत्तिरित्याह || उपपत्तय इति ॥ नन्वत्र शुक्तिरजतादाविव वियदादौ बाध्य वव्यवहाराभावेन पूर्व त्रेव व्यवहारविरोधादेरभावा- दुत्तरवाक्यवैयर्थमित्यतः सतोऽपि बाध्यत्वमस्विति वदता त्रैकालिकनिषेधप्रतियोगित्वादेर्बाध्यपदार्थतया वक्तुमशक्यतया वियदादिरक्तिरजतादिसाधारणस्यैव वक्तव्यत्वात्तस्य चानिर्वचनीयलक्षणत्वेनोत्तौ नाव्या- प्त्यादिकमित्याशयेन प्राप्तशङ्कापरिहारकत्वेन तत्सङ्गमयति ॥ नन्विति ॥ तदेव लक्षणमम्त्विति शङ्कापरिहारो मूलान्न प्रतीयतेऽतः शेषं पूरयति ॥ तच्चेति ॥ ननु टीकाकारीयोऽख्यात्यादिपक्षनिरासो न सञ्जतः । भाप्यव्याख्यानं प्रतिज्ञायोद्भाप्यं बहुप्रमेयप्रतिपादनानौचित्यादित्यतो भाप्यकारेणैव ह्येवशब्दो स० निरुक्तिविरह इति । निर्वचनमेव निर्वचनीयमितिभावेऽनीयरप्रत्यये अनिर्वचनीय. पदेन निरुक्तिविरहो लभ्यत इति भावः ॥ निरुक्तिनिमित्तेति ॥ कर्मकारकएवानीयच्प्रत्ययविधानेऽपि निर्वचनं प्रति कर्मकारकगतकर्मत्वाविवक्षया कारकत्वमात्रविवक्षया निर्वचनसंबन्धिनिर्वचनीयमिति लभ्यते। तञ्च निमित्तमपि भवति । कारणतया तत्संबन्धित्वात् । तथा विषयतया अर्थोऽपि । तयोविरहो ऽनिर्वचनीयपदेन लभ्यत इति भावः ॥ अलौकिकरजतादेरिति ॥ लौकिकरजतोचितार्थक्रियाकारित्व. शून्यरजतादेरित्यर्थः । बाधादीत्यादिपदेन व्याघातपरिग्रहः । आरम्भासङ्गतेरव्याप्त्याद्यन्यतरत्वाभावान्न लक्षणदोषत्वमिति तत्राह ।। अथवेति ।। उक्तरीत्येति ॥ अनेकसत्त्वानधिकरणत्वसर्वसत्त्वानधिकरण. त्वयोरनेकसत्त्वसापेक्षत्वेन परेण कुत्रापि वक्तुमशक्यत्वादसंभवः । सर्वथा सत्त्वानधिकरणत्वस्यानिर्व- चनीयैकदेशे शुक्तिरजतादौ सत्वेऽपि प्रपञ्चेऽभायादव्याप्तिरित्यर्थः ॥ निधर्मकत्याङ्गीकारादिति ।। भावरूपधर्मानङ्गीकारादित्यर्थः ॥ वियदादौ नित्य इति ॥ परेण कल्पमात्रावस्थायित्वरूपनित्यत्वस्यैव अभ्युपगमेऽपि ब्रह्मवत्तस्यापि नित्यत्वमुपपाद्य तत्राव्याप्तिकथनाददोपः । रजतादौ चासत्त्वादिति ॥ इदमप्युपपाद्यदूपणम् ॥ पदस्य निरर्थकत्यायोगादिति ॥ अन्यथा पदत्वमेव न स्यादिति भावः । नन्वसदादिपदानामिव निरर्थकत्वेऽपि पदत्वं किं न स्यात् । न चासत्पदस्यात्यन्ताभावप्रतियोगित्वार्थक- त्वान्न निरर्थकत्वमिति वाच्यम् । अत्यन्ताभावप्रतियोगित्वमेव नासत्पदार्थः । तथा सति शशविपाण- मसदित्यत्र शशविपाणमत्यन्ताभावप्रतियोगित्वमित्यर्थापत्त्याऽनन्वथापत्तेः । किन्त्वत्यन्ताभावप्रतियोगित्व- वदेव । तच्चासदेवेति निरर्थक-रेऽपि पदत्वमावश्यकमेवेति चेन्न । असदादिशब्दानां नीलादिशब्दव. गुणशब्दत्वात् । तेषां च स्वतो गुणमात्रप्रतिपादकत्वेऽपि पदान्तरसमभिव्याहारेण तदुक्तविशेप्ये गुणसंसर्गबोधकत्वेन विशेष्यस्य तन्मुख्यार्थत्याभावेन तस्यासक्वेऽपि गुणरूपमुख्यार्थस्य सत्त्वेन निरर्थक. त्वाभावादिति भावः । प० --पूर्वमनिर्वचनीयत्वप्रमाणखण्डनपरतया व्याख्यानं वैलक्षण्यं सतश्चापीत्यादिश्लोकत्रयम् । तल्लक्षणखण्डनपरतयाऽपि व्याख्यातुमाह ॥ अथवेति ।। उत्तमिति ।। 'सत्रैविध्यं च मानेने त्यो क्त. मित्यर्थः ।। आरम्भासङ्गतिः ॥ उपक्रमानानुगुण्यं । आद्यपद्य प्रकारान्तरेणाद्यलक्षणस्यासंभवोक्तिपरतया व्याचष्टे || अथवेति ॥ चोऽवधारण इति भावेन सत एवेत्यनुवादः । सत्वेन प्रमितस्यैवेति व्याख्या ।
च सदन्तरपटादिवैलक्षण्यमेव स्वयं सत् न तु सर्वात्मना सद्वैलक्षण्यं । एवमसतोऽसत्वेन प्रमितशुक्ति- रूप्यादेरग्दन्तरवैलक्षण्यमेव प्रमितं न सर्वात्मनाऽसद्वैलक्षण्यं । अतोऽसंभविना तेन लक्षणेनेत्यादि. योजनाग्रहः । यद्युच्यतेऽपि सर्वस्मादि'तीत्यर्धश्लोकस्यापि लक्षणखण्डनपरत्वं लेशेन दर्शयति ॥ ॥ याच्यत इत्यत्रापीति ॥ उक्तरीत्येति ॥ मानखण्डनपरतया कृतयोजनायामुक्तरीत्येत्यर्थः । यद्वा सत्त्वेन प्रमितस्य वियदादेः असद्विलक्षणत्वमेवेत्युक्तरीत्येत्यर्थः । तथाच सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वादिरूपसद्वैलक्षण्यं यद्युच्यते । तर्हि सद्भेद एव प्राप्त इति वियदादी लक्षणमसंभवि । शुक्तिरूप्यादौ सर्वसद्वैलक्षण्यभावेऽपि वियदादावभावादव्याप्तिरित्येवं ज्ञेयमिति भावः ॥ इत्यनेनेति ॥ इत्यर्धनेत्यर्थः । शङ्कते ॥ सत्वेनेति ॥ अनभ्युपगमात् । ब्रह्मणीति योज्यं । काल्पनिकं तदस्तीति मन्यानं प्रत्याह ॥ किञ्चति ॥ यो विचार इति ॥ सत्त्वेना- सत्वेन नित्यत्वानित्यत्वादिना केनापि रूपेण विचारसहं नेति विचारामह इत्यर्थः ॥ यथोक्तमिति ॥ तत्वोद्योते । 'दृष्टस्य वस्तुनो बलबद्दष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिवर्चनीय. सिद्धिरिति पूर्ववाक्ये प्रमाणसिद्धेऽर्थे तर्कविरोधोऽकिञ्चित्कर इत्युक्त तत्कथमित्याकाङ्कायां 'सर्ववैलक्षण्या- ङ्गीकारात् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्नं वेत्यादि विकल्पस्तत्रापि युज्यत' इत्यादिना जगतः सत्त्वादिदौर्घट्यवत् ब्रह्मणोऽपि दौर्घट्यमुक्तमित्यर्थः ।। असौ दुर्विचारः ॥ सत्येना- सत्त्वेन वा विचारासहत्वरूपो दुर्विचारः प्रकृतिश्च 'नाभाव उपलब्धः' 'पृथगुपदेशादि'त्याद्यधिकरण. व्याख्याऽवसरे तत्र तत्रेत्यर्थः । उक्तविधयेति ॥ पूर्वयोजनायां उक्तविधयाऽज्ञानलक्षणोपादाननिवृत्ति- द्वारा निवर्यत्वं यदीत्यर्थः । ननु वियदादेः सत्त्वे शुक्तिरूप्यादेरसत्त्वे चोपपत्तयो वाच्या इत्यत आह । उपपत्तयस्त्विति ॥ मिथ्यात्वमपि बन्धस्येत्यादिना उक्ताः साक्षिविरुद्धत्वं नेहनानेत्यादे- मिथ्यात्वाप्रतिपादकत्वं तद्वादिनां कथकत्वाभावः इत्यादयः, प्रकृतिनयादौ वक्ष्यमाणाः विश्वभ्रान्त्यादेः ब्रह्माद्यधिष्ठानत्वायोगः अर्थक्रियाकारित्यायोगः श्रुत्यादिविरोध इत्यादयो ज्ञेयाः ।। या० - निरुक्तिनिमित्तति ॥ निर् पूर्वकात् वच् परिभाषण इत्यस्मात् भावेऽनीयर् प्रत्यये आद्यपक्षस्य, निर्वचनशब्दात्तस्येदमित्यर्थे छप्रत्यये तस्येयादेशे निमित्तनैमित्तिकभावस्य सम्बन्धत्वविवक्षायां द्वितीयपक्षस्य प्रसक्तिरित्याहुः । ज्ञानस्येति ।। मायिमते ज्ञाने ज्ञेयस्याध्यासाङ्गीकारेणाधिष्ठानरूपज्ञानस्य । मावादात्यादिपदन व्याहातसग्रहः ॥ अव्याप्तिरिति ॥ इदं च दृष्टान्ते लक्षणसद्भावमभ्युपेत्योक्तम् । अन्यथाऽसम्भव एवेति ज्ञातव्यम् । आरम्भासङ्गतिन लक्षणदोष इत्यरुचेराह ।। अथवेति ।। उक्तरीत्येति ॥ अनेकसत्त्वानधिकरणत्वसर्व- सत्त्वानधिकरणत्वसत्ता सामान्यानधिकरणत्वरूपलक्षणानां सद्भेदसंस्थितिरित्युक्तसद्भेदाङ्गीकारप्रसङ्गभीत्या कुत्रापि परेणोपपादयितुमशक्यत्वादसम्भव इत्यर्थः । आद्यलक्षणद्वये एकैकसत्तास्वीकारापत्तेरित्युक्तत्वेन तृतीयलक्षणे चातिरिक्तानुगतसामान्यानङ्गीकारादित्युक्त्या सिद्धसाधनताया उपपादितत्वात् आरम्भा- सङ्गतिरत्रादिशब्दार्थतया ज्ञातव्या ॥ यथोक्तमिति ॥ तत्त्वोद्योत इति शेपः । सर्ववैलक्षण्याङ्गीकारा- दित्यस्य चेतनाचेतनादिभावस्य परेण निधर्मके ब्रह्मण्यनङ्गीकारेण ब्रह्माप्यनिर्वचनीयं स्यादित्यर्थः ।। । श्री० पूर्वमनिर्वचनीयत्वप्रमाणखण्डनपरतया वैलक्षण्यं सतश्चापीत्यादि श्लोकत्रयं व्याख्या- तम् । इदानी तल्लक्षणखण्डनपरतया व्याकरोति ॥ अथवेति ॥ निरुक्तिर्व्यवहारः। अलौकिकस्य व्यावहारिकभिन्नस्य प्रातिमासिकस्येत्यर्थः ॥ अव्याप्तिरिति ॥ सिद्धिलक्षणत्वस्याभावे सत्वेऽपि विय. दादावभावेनाव्याप्तिरित्यर्थः । एवमसद्विलक्षणत्वेति द्रष्टव्यम् । प्रमाणबाधितत्वोपपादनाय सत एव सम्हयन प्रमितस्येत्याधुक्तम् । सन्घट इत्यादिना सत्येन प्रमितस्यैवेत्यर्थः ॥ एवमसत्वेन प्रमितस्यै- वेति || असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवादित्यर्थः । अस्यां योजनायां त इति पष्ठया निर्दिष्टस्य मायावादिनो विशेषणम् । भेदवादिन इति तदभिप्रायमाह ॥ भेदवादिन इत्यनेनेति ।। सदसतोः प्रत्येक भेदवादिन इत्यर्थः । सत्येन प्रमितस्यापि वियदादेः सद्विलक्षणत्वाङ्गीकारेऽसत्यापत्या- ऽसत्येन प्रगितम्यापि शुक्तिरजतादेरसद्विलक्षणत्वाङ्गीकारे सत्त्वापस्या सदसफ़ेदवादित्वं न स्यादित्याशयः । ॥ विचार महत्वमिति ॥ 'प्रत्येकं सदसत्याभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्त. वादिन इतिवचनादिति भावः ।। अनभ्युपगमादिति || सत्वेन विचारसहत्त्वं नाम सत्यप्रकारकविचार- गोचरत्वम्। तत्र विचारसहत्वस्याङ्गीकृतत्वेऽपि त्यप्रत्ययार्थभूतसवप्रकारकत्वरूपधर्मस्यानभ्युपगमादित्यर्थः ।। विचार इति ॥ निरुक्तानिर्वचनीयत्वप्रतिपादनायेत्यर्थः ।। समान इति । तथाच ब्रह्मणोऽप्यनिर्वाच्यत्वं स्यादित्यर्थः । कथं समान इत्यतस्तत्र तत्त्योद्योतसम्मतिमाह || यथोक्तमिति । उक्त विधयेति ॥ 'ज्ञाने- नाज्ञाने निवृत्ते तत्कार्य स्वयमेव नश्यती'न्युक्तविधयेत्यर्थः । ननु वियदादेः सर्वस्याप्यविद्योपादानकत्वेन ज्ञानेनाज्ञाने निवृत्ते तत्कार्य स्वयमेव निवर्तत इत्युक्तविधया ज्ञाननिवर्त्यत्वं सिद्धमेवेत्यत आह ॥ 63 च० -- अथानुव्याख्यान्याच्या प्रतिजानानानां ग्रन्थकृतां तदप्रत्याख्याताख्यात्यादिकल्पप्रत्या. ख्यानविस्तृतेरनौचितीत्याशङ्कायां ह्येवेति निपातद्वयं प्रयुञ्जानैर्मूलकारैस्तत्प्रतिविहिते+निततया न क्षति. रित्यागयेन तादृशार्थ दर्शयति ।। अत्रेति ।। सु० अथ पश्चाख्यातिवादः ॥॥ इह खलु केचिद्यथार्थमेव सर्वविज्ञानमिति मन्यमाना नान्यथाख्याति सहन्ते । तथा हि । केयमन्यथाख्याति म । यदि तावदन्यथा- परिणते वस्तुनि ख्यातिरन्यथाख्यातिः । तदा घटादिप्रत्ययाः सर्वेऽप्यन्यथाख्यातित्वा- द्विभ्रमाः प्रसज्येरन् । किश्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः । न तावदकारणः । कादाचित्कत्वानुपपत्तेः । आये कारणं वाच्यम् । करणदोप इति चेन्न । तस्य करणसंबन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः । अन्यथा तदैव सकलार्थानां रजतरूप- परिणामप्रसङ्गात् । दुष्टकरणसंसर्गों हेतुरिति चेत्तथाऽपि किं शुक्तित्वापगमेन रजतरूप- परिणामः । किं वा तदनपगमेन । आधे पुरुषान्तरेणापि तदा शुत्तित्वं न प्रत्येतव्यम् । द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् । किश्च शुक्तित्वापगमे बाधेऽपि न तद्भायात् । अथ पुनः शुक्त्याकारेण रजतं परिणतमिति चेन्न । करणदोषस्य कारणस्याभावात् । बाधोऽप्येवं सति भ्रमः स्यात् । अपि चैतत्समस्तत्प्रतिपत्तृसाधारणमपि कुतो न भवेत् । यत्करणपरिणतं तेनैव गृह्यत इति चेन्न । घटादेरपि कुलालादिमात्रवेद्यतापातात् । सुखादिवदिति चेन्न । बाह्या- न्तरत्वेन विशेषात् । अन्यथोक्तातिरसङ्गानिस्तारात् । वा०.- ॥ अथ पञ्चाख्यातिवादः ॥ अन्यथाज्ञानस्वरूपे सिद्धे तद्विशेषचिन्ताऽवसर इति तत्स्वरूपमनङ्गीकुर्वतामख्यातिवादिनां मतमन्द्य निराकतु प्रसञ्जयति ॥ इहेति ।। ननु बाधकाभावेन साधकसद्भावेन च सिद्धतत्स्वरूपासहनमनुचितमित्यतो बाधकसद्भावं साधकामावं च व्युत्पादयन्नत्युल्बणत्या. त्तदमिमतं बाधकं तावदाह ॥ तथा हीति | ख्यातिर्हि ज्ञानम् । तच्चाविभासिप्रकाशस्तनान्यथा. त्वमर्थविशेषणम् । अन्यथाभूतेऽन्यथापरिणत इति यावत् । अर्थे ख्यातिरिति विवक्षितम् । आहो- शब्दार्थानुसारेणेति । ख्यातिर्हि ज्ञानमित्यादिनाऽन्याकारोल्लेखितया वेत्यन्तेनोक्तान्यथाख्यातिपदार्थपर्या- लोचनया प्राप्तान्पञ्चविकल्पान्मनसि निधायेत्यन्वयः।) वस्तुनो वस्त्वन्तरात्मनाऽवभासो वाऽसम्बद्धविशेषण- विशिष्टप्रतीतिर्वाऽन्याकारं ज्ञानं वाऽन्याकारोल्लेख्यन्यालम्बनं ज्ञानं वाऽन्यथाख्यातिरिति विकल्पान्मनसि निधायान्यथाख्यातिवाद्यभिमतान्तिमपक्षे संविद्विरोधप्रास्तमन्ते निधाय दुर्वलक्रमेण निराचिकीर्षुः परिणामपक्षं तावनिराकर्तुमुत्थापयति ।। यदीति ॥ अत्र प्रथमकल्यो भास्करमतानुसारेण द्वितीयतृतीयौ नैयायिकमतेन, चतुर्थो विज्ञानवादिमतेन, पञ्चमो नैयायिकाभिनवान्यथाख्यातिवादिसाधारण्येनेति द्रष्ट. व्यम् । घटादीत्यादिपदेन परिणामिवस्तुमात्रग्रहणम् । ननु शुक्तिकाया रजताकारपरिणामस्य घटादि- परिणामापेक्षया विलक्षणत्वात्तादृशस्यैवान्यथाख्यातिलक्षणप्रविष्टत्वान्न घटादिप्रत्ययेप्वतिव्याप्तिरित्यत आह || किञ्चति ॥ घटादिपरिणामवैलक्षण्यं, शुक्ते रजताकारपरिणामस्य, किमकारणकत्वेनोत सकारणकत्वेऽपि तत्कारणस्य प्रसिद्धरजतपरिणामकारणवैलक्षण्येनेति प्रश्नाभिप्रायः । भावत्वेन सकारणकत्वपक्षस्यादौ निर्देशेऽपि तद्पणस्य बहुत्वात्सूचीकटाहन्यायेन द्वितीयमादौ निरा- करोति || नेति ॥ शुक्तिपरिणामरूपरजतस्याकारणत्वेऽनादित्वेन शुक्तेस्तद्रजतस्य च कादाचित्कत्वा. नुपपत्तरित्यर्थः । प्रथमे कारणविशेषो वाच्य इति पृच्छति ॥ आद्य इति ॥ यद्वाऽस्त्वयं परिणामो विलक्षणरतथापि शुक्तिव्यतिरिक्तागन्तुककारणनिरपेक्षो वा तत्सापेक्षो वेति प्रश्नाभिप्रायः । शुक्तिमात्र. निबन्धनत्वे शुक्तौ सत्यामपि परिणामस्य कादाचित्कत्वमनुपपन्नमित्याशयेन निरपेक्षपक्षत्वं निराकरोति ।। नेति ॥ आगन्तुककारणं पृच्छति ॥ आद्य इति ॥ एवं च परिणमित्वं स्वीकृत्य सकारणकत्वादि. विकल्पोऽनुपपन्न इति दूषणमलमकं द्रष्टव्यम् । आगन्तुककारणविशेषोऽपि भवन्पूर्व पश्चाच्चासतो रजत- परिणामस्य तत्व नीतिको वा तत्प्रतीतकारणरूमो वा सम्भावितः । तत्प्रतीतितत्कारणयोर्दोगसहि. तयोर्हेतुत्वेऽतिप्रसङ्गाहोपोऽपि कारणकोटौ निवेश्यः । तस्य च प्राधान्यं वा सहकारित्वमानं वा वाच्यम् । एवं च करणदोपो वा दुष्टकरणमंसर्गो वा दुष्टकरणजन्यप्रतीतिर्वाऽऽगन्तुककारणविशेष इति पक्षाः प्रादुर्भवन्तीत्याशयेनाद्यमुत्थापयति ।। करणेति ॥ ननु शुक्त्यसम्बन्यिनोऽपि रजतप्रतीतिकारण सम्बन्धितया रजतरूपपरिणामहेतुत्वं करणदोषस्य स्यादेवेत्यतस्तहिं सर्वपदार्थानां शुक्तितुल्यतया शुक्ते रजताकारपरिणामदशायां सर्वपामपि स स्यादित्याह ।। अन्यथेति ॥ एतद्दोपपरिजिहीर्पया संसर्ग हेतुत्वेन विवक्षन्नेव द्वितीयमुत्थापयति ।। दुष्टेति ॥ एवं सति पूर्वोक्तदोपपरिहारेऽपि दोपान्तरं स्यादेवेत्याह ।। ॥ 63a मनु विलक्षणत्वादस्य परिणामस्य यदीयदुष्टकरणसंसर्गजन्योऽयं रजताकारपरिणामस्तं प्रत्येव शुक्तित्वा- पगमोऽतो न पुरुपान्तरीयशुक्तित्वप्रत्ययविरोध इत्यतस्तहिं भ्रान्तं प्रति शुक्तित्वं न भायादित्याह ।। किश्चेति ॥ बाधोऽपीति ॥ शुक्ते रजताकारपरिणामस्येव रजतस्यापि शुक्त्याकारपरिणा. माभ्युपगमेऽन्यथापरिणते ख्यातित्वाविशेषाद्धान्तिरिव बाधोऽपि भ्रमः स्यादित्यर्थः । यद्वा ननु तत्रापि करणदोषोऽङ्गीक्रियत एवेति चेत्तर्हि दुष्टकरणजन्यत्वाविशेषान्न भ्रम एव केवलं भ्रमः किन्तु बाधोऽपि भ्रम एव स्यादित्याह || बाधोऽपीति ॥ अथवा माऽस्तु करणदोपस्तथाऽपि रजतस्य शुक्त्याकारपरिणामे कारणान्तरमेव कल्पयिष्यामीत्यतस्तर्हि प्रसिद्धपरिणामविलक्षणेऽपि परिणामे दुष्टकरणसंसर्गस्याभावेन तस्य व्यभिचारितया कार्यसिद्धयुत्तरकालीनत्वेनान्योन्याश्चयग्रस्ततया शुक्ते रजताकारपरिणामेऽपि तस्या. हेतुतयाऽन्यथा परिणते ख्यातित्वत्यैव भ्रमत्वप्रयोजकत्वापातेन बाधस्यापि तथात्वाद् भ्रमत्वं स्यादित्याह ।। बाधोऽपीति ॥ पुरुषविशेषं प्रत्येव रजताकारपरिणाम इत्यङ्गीकृत्येदमभिहितम् । वस्तुतस्तु शुक्तित्वम. पगच्छतु वा मा वा मृदादिपरिणामघटादेरिव शुक्तिपरिणामरजतादेरपि परिणामत्याविशेषाद्रान्तस्येव सर्वेषामपि रजतत्वाकारभान स्यादेवेत्याह || अपि चेति ॥ ननु न परिणामाविशेषो, भ्रान्तकरणपरिणत. त्वस्यैव विशेपत्यादित्याशङ्कते ॥ यदीति ।। घटादेरिति ॥ घटादिरूएपरिणाम प्रति कुलालादिकरण- स्यैव निमित्तस्वादित्याशयः । नन्वेवं घटादिवरमुखादेरपि परिणामत्वाविशेषात्सर्वप्रतिपतृसाधारण्याऽऽपत्या पदार्थवैचित्र्यस्य त्वयाऽप्यनुमरणीयतया ममापि तत एवातिप्रसङ्गपरिहार इत्याशयेन सुखादिवत्तत्तत्करण. परिणतस्य तत्तद्राह्यत्वोपपत्तिरित्याशङ्कते ॥ सुखादिवदिति ॥ परप्रत्यक्षायोग्यतत्तदान्तरोपादानकसुखा. देस्तत्तद्राह्यत्वेऽपि सर्वप्रत्यक्षयोग्यबाह्यशुक्त्याधुपादानकरजतादेर्घटादेरिव सर्वप्रतिपत्तसाधारण्यमेवोचित. मित्याह ॥ नेति ॥ बायोपादानकत्वाविशेषेऽपि रजतादेस्तद्राह्यत्वे घटादेरपि कुलालादिमात्र- वेद्यत्वप्रसङ्गो दुर्वारः । बाह्येऽप्यवान्तरवैचित्र्यस्य रजतादेः शुक्त्यादिपरिणामत्वादिसिद्ध्यधीनतयाऽन्यो. न्याश्रयादनुपपत्तिरित्याशयेनाह || अन्यथेति ॥ स०-- बाधोऽपीति ॥ शुक्तः रजताकारत्वेन परिणतत्वेन तद्विषयकेदरजतमिति ज्ञानस्य भ्रमत्ववत् रजतस्य पुनः शुक्त्याकारेण परिणामादन्यथापरिणते वस्तुनि ख्यातित्वान्नेदं रजतमिति बाधस्यापि प्रमत्वं स्यादित्यर्थः ।। अन्यथोक्तातिप्रसङ्गेति । अन्यथा बाह्यान्तरत्वेन विशेपानङ्गीकारे शुक्ति.
स्यादित्यर्थ इत्याहुः। ५०.- स्वोक्तरूपभ्रान्तिबाधौ प्रपञ्चयाम इति भावेनाख्यातिपक्षं तावदपाकर्तुमनुवदति ॥ इह- खलु केचिदित्यादिनाऽत्रोच्यत इत्यन्तेन । केचित्प्राभाकरा इत्यर्थः । अन्यथाख्याति मान्यथापरि- णते वस्तुनि ख्यातिरुतान्यवस्तुनोऽन्यात्मनाऽवभासः असंबद्धविशेषणविशिष्टप्रतीतिर्वाऽन्यथाकारं ज्ञानं वा अन्याकारोलेख्यन्यालम्बनं ज्ञानं वा । तत्राद्यं परिणामपक्षं तावन्निराह । यदि तावदित्यादिना ।। तस्मान्न परिणामपक्षो युक्त इत्यन्तेन । अन्यथा परिणत इति ।। शुक्त्यादिके रजताद्यात्मना परिणते या ख्यातिः प्रतीतिः सेत्यर्थः । कारणमिन्द्रियादिकरणदोषो वा दुष्टेन्द्रियसंबन्धो वा दुष्टेन्द्रियसंप्रयोग. जन्यं विज्ञानं वा । आद्यमाशङ्कय निराद ॥ करणदोष इति चेनेति ॥ द्वितीयमाशय निराह ।। दुष्टेति ।। सुखादिवदिति ॥ चेदिति ।। सुखादिकं तत्पुरुषप्रयत्नसाध्यमपि न सर्वैरुपलभ्यते किन्तु तेन तेनैव तथा शुक्त्यादिपरिणामोऽपीति चेदित्यर्थः । आन्तरत्वात्सुखादेरस्तु तथात्वम् । बाह्यत्वाच्छुक्त्या- दिपरिणामस्य न तथास्वमित्याह । बाह्येति ।। अन्यथेति ॥ बाह्यपरिणामत्वेऽपि तत्तन्मात्रवेद्यत्वोपगमे घटादेरपि कुलालादिमात्रवेद्यताऽऽपातादित्यर्थः ।। या -- अन्यथाख्यातित्वादिति ॥ अन्यथापरिणतवस्तुविषयकत्यादित्यर्थः ॥ शुक्तिपरि- णामेति ॥ शुक्त्यसन्निकृष्टत्वादिति भावः ॥ भ्रान्तेनापीति ॥ यथा मृत्त्वानपगमेन जाते घटलक्षण. परिणामे मृत्वमुपलभ्यते तथेत्यर्थः ॥ बाधोऽप्येवं सतीति ॥ पुना रजतस्य शुक्त्याकारेण परिणामा- जीकारे इयं शुक्तिरिति बाधोऽपि भ्रमः स्यात् । अन्यथापरिणतवस्तुविषयकवादित्यर्थः ।। समस्तप्रति. पत्तसाधारणमिति ।। मृत्पिण्डपरिणामस्य घटस्य सर्वप्रतिपत्तसाधारण्यदर्शनाद्रजतस्यापि शुक्तिपरिणामस्वे तत्स्यादिति भावः ॥ अन्यथोक्तातिप्रसङ्गेति । अन्यथा बाह्यान्तरत्वेन विशेपानङ्गीकारे । शुक्तिरजता- देरपि मुखादिवत्पुरुषकरणनिमित्तल्वेनाऽऽन्तरत्वाङ्गीकार इति यावत् । घटादेरप्यान्तरत्यापत्त्या कुलाल मात्रवेद्यताऽऽपातादित्युक्तातिप्रसङ्गानिस्तार इत्यर्थः । केचित्तु । अन्यथा बाह्यान्तरत्वेन विशेषानङ्गाकारे सुखादेरपि बाह्यल्व इति यावत् । सर्वप्रतिपतृसाधारण्यलक्षणस्यातिप्रसङ्गस्य सुखादावपि न निस्तारः स्यादित्यर्थ इत्याहुः ॥
कत्वादन्यथाख्यातित्वं स्यादित्यतिव्याप्तिरित्यर्थः ॥ तदैवेति ॥ रजताकारपरिणामहेतोः करणसम्बन्धिनो दोषस्य सत्यादित्यर्थः ॥ कुलालमात्रेति ॥ तद्धस्तरूपकरणपरिणतत्वादित्यर्थः ॥ सुखादिवदिति ॥ सुखादिकं तत्तत्पुरुषप्रयत्नसाध्यमपि न सर्वरुपलभ्यते किन्तु तेन तेनैव । तथा शुक्त्यादिपरिणामोऽपि चेदित्यर्थः । आन्तरत्वात्सुखादेरम्तु तथा । बाह्यपरिणामत्वेऽपि तन्मात्रवेद्यत्वोपगमे घटादेरपि कुलाल. मात्रवेद्यत्वाऽऽपातादित्यर्थः । .. - च० अन्यथाख्यातिस्वरूपस्यैवालीकतया तद्विशेपविचारस्यानवसरदुस्स्थतेति प्राभाकराणा- माशङ्को प्रतिविधित्समानस्तन्मतमनुवदति ॥ इहेत्यादिकतस्मादख्यातिपक्ष एव श्रेयानित्यन्तेन | अन्यथा परिणते वस्तुनि ख्यातिरन्यथाख्यातिरिति अन्यस्यान्यात्मताऽवभासः सेति, असंबद्धविशेपणविशिष्टप्रतीतिः सेति अन्याकारं ज्ञान सेति अन्याकारोल्लेख्यन्यालम्बनज्ञानं सेति पञ्चकल्पीमभिप्रेत्य भास्कराभिमताद्यकल्पं तावत्प्रतिविधत्ते । यदीति ॥ प्रसज्येरनिति ॥ पटाद्याकारापेक्षयाऽन्यथापरिणतवम्तुविषयकत्वा . विशेषादिति भावः । परिणामस्य शुक्तिव्यतिरिक्तकारणसापेक्षत्वतदनपेक्षत्वगोचरकल्पद्वयीमभिप्रेत्य द्वितीयस्यानतियत्नमाध्यनिरसनतया तमादितः प्रत्याख्याति ॥ न तावदिति ॥ एतेन परिणामत्वस्य स्वकारणकत्वव्याप्यतया तद्दर्शने कल्पान्तरानुस्थितिशङ्काऽनवकाशः । आद्येऽपि शुक्त्यतिरिक्तपरिणाम- कारणत्वेन करणदोषोऽभिप्रेयते, दुष्करणसंसर्गो वा, दुष्टकरणजन्य विज्ञानं वेति कल्पत्रयीमनुसंदधान आद्यं प्रत्याचष्टे || करणसंबन्धिन इति ॥ हेतुत्वानुपपत्तेरिति ॥ कार्याभिमतवैयधिकरण्यादिति भावः । अन्यथा, तद्वैयधिकरण्येऽपि तद्धेतुत्वोपगमे । द्वितीयमपाकुरुते ॥ दुष्टेति ॥ उक्तक्षत्यनव- काशेऽपि क्षत्यन्तरमाह || तथाऽपीति ॥ क्षीरादौ क्षीरत्वापगमेन दध्याकारपरिणामस्य सुवर्णादौ तत्त्वा- नपायेन कुण्डलाकारपरिणामस्य च दर्शनाद्विकल्पोस्थितिः ॥ भ्रान्तेनापीति ॥ घटे मृत्ववदिदमंश- शुक्तिवानपगमादिति भावः ॥ बाधोऽपीति ॥ अन्यथापरिणतवस्तुविषयत्वाविशेषादिति भावः ।। सुखादिवदिति ॥ प्रथमान्ताद्वतिः यत्करणपरिणतमित्युपमेये प्रथमादर्शनात् । स्थानिवदादेशा इति निर्देशात् । अन्यथा । बाह्यान्तरत्वनियन्त्रितविशेषानुपगमे !| अतिप्रसङ्गानिस्तारादिति ॥ घटादे. रित्यादिना समनन्तरोक्तातिप्रसङ्गानिरासादित्यर्थः ।
क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः । संयोगप्रध्वंसस्तु न कदाऽपि निवर्तते पुनः संयोगलक्षणो मुकुलीमावस्तु शीतादिनोदनजन्य एव । स्थायित्वेऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किश्चिदेतत् । परत्वादिवत्स्यादिति चेन्न । विप्रतिपत्तेः । किंचोत्पन्न चेद्रजनं विनष्टं तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुद्धिः । एतेन दुष्ट. करणजन्याद्विज्ञानाद्रजतजन्मेत्यपि परास्तम् । का चैवं सति दोषवाचोयुक्तिः । नहि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोपत्वेन मन्यन्ते । किञ्च यस्याः प्रतीतेस्तदा- लम्बनं तत एव तजन्म किंवा प्रतीत्यन्तरात् । नायः । परस्पराश्रयप्रसङ्गात् । उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति । न खलु निरालम्बना प्रतीतिरुत्पद्यते । द्वितीयेऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽऽलम्बनम् । उत शुक्तिकारजतान्तरा- लम्बनम् । अथवाऽर्थान्तरलम्बनम् । नाद्यः । सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् । शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च । दुष्टकरणालोचितशुक्तिसाधारणा- कारप्रतीते रजतजन्मेति चेन्न । साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् । कारणवैकल्यं तत्र कल्प्यत इति चेत् । स्यादेतदेवम् । यदि रजतजन्म प्रमितं स्यात् । प्रतीति तु प्रकारान्तरेणोपपादयिष्यामः । न द्वितीयः । पूर्वरजतस्यापि तदेव कारणमिति रजत- प्रतीतिप्रवाहाविच्छेदप्रसङ्गात् । न तृतीयः । अतिप्रसङ्गात् । तदेवं भ्रान्तिबाधयोरनुपपत्तेन परिणामपक्षो युक्तः । चा० .. ननु बाह्योपादानकत्वाविशेषेऽपि तत्तद्दोपसहकृतबाह्योपादानकत्वेन घटादिवलक्षण्या- द्रजतादेतत्तन्मात्रग्राह्यत्वमुपपन्नमित्यत आह । किञ्चति ।। ननु दोपापगमेन तदपगमान्नावस्थानमित्यत आह ॥ न हीति ।। कमलेति ॥ अन्यथा मुकुलीभावानुपपत्तेरिति भावः । विकासो विभागो वा तज्जन्यसंयोगप्रध्वंसो वा । नाद्यः । तस्योदाहरणत्वानुपपत्तेरित्याह ।। दलेति ॥ नामेत्युदयनादिप्र- सिद्धि सूचयति । यत्किञ्चिदुत्तरसंयोगावधित्वाद्विभागस्याशुतरविनाशित्वम् । न च यत्किश्चिद्विभागमात्रा. वधित्वेन संयोगस्यापि तथात्वापत्तिः । यत्किश्चिद्विभागात्संयोगनाशेऽवयसंयोगस्यापि यत्किश्चिद्विभागेन नाशाद्रव्यानुत्पत्तिप्रसङ्गेनावयोरेव संयोगः तयोरेव विभागात्सत्याश्रये संयोगनाश इति स्थितिः ।
सिद्धिरिति वाच्यम् । कार्यस्य कर्तव्यपुरुषार्थापेक्षयोत्पादादवस्थानाच्चोत्तरविभागशब्दपूर्वसंयोगनिवृत्ति. रूपविभागकार्यनिप्पत्त्यनन्तरमपि तदवस्थानानौचित्यस्यैव बाधकत्वात् । तथा च प्रयोगः । विवादाध्या- सितो विभाग उत्तरसंयोगान्तस्तायतैव कृतकृत्यत्वात्कर्मवत् ! कृतकृत्यस्याप्यवस्थाने प्रायणानुपपत्तिरित्यु. दयनोक्तक्षणिकत्वोपपादनप्रकार मनसि निधायाह ।। क्षणिकत्वादिति ॥ द्वितीयेऽपि नोदाहरणत्वम- स्येत्याह || संयोगेति ॥ ननु विकासनिवृत्तिरूपो मुकुलीभावस्तावत्सावित्रतेजोऽपगमे भवतीति प्रसिद्धम् । विकासस्योभयरूपस्योक्तरीत्या सावित्रतेजोऽपगमेन निवृत्यभावे तदनुपपत्तिरित्यतो न विकास- निवृत्तिर्मुकुलीभावः किन्तु दलानां पुनः संयोग एव । सोऽपि न सावित्रतेजोपगमजन्योऽपि तु शीतपार्थिवावयवसयोगजन्य एवेति नोक्तानुपपत्तिरित्याशयेनाह || पुनरिति :) ननु प्रायणानुपपत्तिरूप- बाधकवशात्कर्मणः कृतकार्यस्यावस्थानानुपपत्तावपि विभागस्य कृतकार्यस्याप्यवस्थाने न बाधकमिति विभक्तप्रत्ययानुवृत्तेः संयोगाभावविषयकत्यानुपपत्तेस्तबलेन विभागस्यापि स्थायित्वादुक्तमनुपपन्नमित्यत आह स्थायित्वेऽपीति ॥ प्राथमिकमुकुलहेत्याप्यपार्थिवकमलावयवसंयोगजन्यमुकुलीभावरूपावस्थानान्तरापत्तेरेव विकासनिवृत्तिहेतुत्वेन तेजोऽपगमस्य तदहेतुत्वात् । न च विनिगमकाभावः । तादृगवयवरहिते म्लाने. कमले रात्री विकासानपगमस्यैव तन्नियामकत्वादिति भावः । अत एवान्यदेवेत्युक्तम् ॥ यत्किञ्चि- दिति । अनुदाहरणानामेवायमुपन्यास इति सूचयति । अपेक्षाबुद्धिसंयोगद्रव्यनाशापृथक् पृथक् । द्वाभ्यां द्वाभ्यां च सर्वेभ्यो विनाशः सप्तधाऽनयोरित्युदयनोक्तरीत्या परत्वादिनाशस्यापेक्षबुद्धिनाशजन्यत्वा- तद्वदत्रापि स्यादित्याशङ्कते ॥ परत्वादिवदिति ॥ द्वित्वादिबुद्धेरिव परत्वादिबुद्धेरपेक्षाबुद्धिजन्यत्वेऽपि न परत्वादेपेक्षाबुद्धिजन्यत्वं नापि तन्नाशस्य तन्नाशनिमित्तत्वमित्यङ्गीकुर्वाणं मां प्रति तदसम्मतेरित्याह ।। विप्रतिपत्तेरिति । ननु परत्वादेः पूर्व पश्चाच्च सत्त्वे प्रमाणाभावादपेक्षाबुद्धिजन्यत्वतन्नाशनाश्यत्वमेवा- ङ्गीकार्यमित्यत आह ॥ किंचेति ॥ यद्वाऽस्तु वा दृष्टान्ते यथातथा तथाऽपि तत्र विकसितमेव मुकु. लमासीदितिवच्छुक्तिपरिणामभूतरजतमेव पुनः शुक्तिरासीदिति प्रतीतिरवर्जनीयेत्याह ॥ किंचेति ॥ शुक्ते रजताकारेण परिणामासम्भवेऽपि दुष्टकरणजन्या रजताकारसंविदेव रजताकारेण परिणमत इत्य. न्यथाख्यात्येकदेशिमतं प्राधिकल्पितं तृतीयपक्षं निषेधति ।। एतेनेति।। अर्थस्य रजताकारेणापरिणामाच्छु. क्तित्वापगमानपगमप्रयुक्तदूपणस्य संविद एव तथापरिणामाभ्युपगमात्समस्तप्रतिपत्तृसाधारण्यस्य संविदो- ऽपगमेन रजताकारापगमसम्भवादोपाभावेऽपि तथैवावस्थानदोषस्य चाभावेऽप्युत्पन्नविनाशे तथैव प्रतीतिः विपरीतकार्यकारिणो दोपत्वेन लोके व्यवहारेऽपि न स्वकार्यकारिणि तथा व्यवहारोऽतिप्रसङ्गादित्याह ।। का चैवमिति ॥ नन्वर्थक्रियासमर्थघटाद्याकारपरिणामबैलक्षण्याद्रजताकारपरिणामस्य तद्धती दोपत्व- व्यवहार इत्यरुचेराह !| किश्चेति ।। ननु भविष्यदलम्बनानुमित्यादिवदनुत्पन्नेऽपि रजते तदालम्बन- प्रतीतिसंभवान्नान्योन्याश्रय इत्यतः प्रकृतरजतेऽपरोक्षत्वप्रत्ययात्तत्प्रतीतेरनुत्पन्नविपयकत्वानुपपत्तिरेवेत्या. शयेनाह ॥ न खल्विति ॥ निरालम्बनप्रतीत्यनुपपत्त्या निरालम्बनपक्षाप्रसक्तः प्रतीत्यन्तरग्रहणेनैव एत. च्छुक्तिकारजतालम्पनत्वपक्षव्यावृत्तेः शुक्तिकातद्रजतान्तरार्थान्तरालम्बनत्वपक्षाणामेव प्राप्तेः प्राधान्यक्रमण विकल्पयति ॥ किं तदिति ॥ आद्येऽपि शुक्तिकालम्बनत्यं शुक्तित्वेनासाधारणाकारेण वेदन्त्यादिशुक्ति- साधारणाकारेण वा विवक्षितम् । नाद्यः । अन्वयव्यतिरेकव्यभिचारादित्याह ॥ सर्वत्रेत्यादिना ।। शुक्तित्वाऽनवभासनिमित्तकथनपू) द्वितीयं शङ्कते ।। दुष्टेति ॥ तत्रापि व्यभिचारमाह || नेति ॥ व्यभिचारस्यान्यथासिद्धि शङ्कते || कारणेति ॥ अन्योन्याश्रयतया तां परिहरति ॥ यदीति ॥ इदं रजतमिति प्रतीत्यन्यथाऽनुपपत्तिसिद्धत्वाद्रजतजन्मनो नान्योन्याश्रयतेत्यतो रजतजन्मानयुपगमेऽपि प्रतीत्युपपत्तिरुच्यते, 'रजतमिदमिति द्वे विज्ञाने' इत्यादिना कथयिष्यतेऽतो नानुपपत्तिरित्याह ॥ प्रतीति मिति ॥ तदेवेति ॥ शुक्तिग्जतान्तरालम्बनप्रतीत्यन्तरमेवेत्यर्थः । समानन्यायत्वादिति भावः ।। अतिप्रसङ्गादिति ॥ अर्थान्तरज्ञानम्य सर्वसाधारण्यात्सर्वेषामपि तदनन्तरं रजतप्रतीत्यापत्तेरित्यर्थः । उपपादित दूषणं कण्ठतो दर्शयन्नेव परिणामपक्षनिराकरणमुपसंहरति । तदेवमिति ।। ॥ - सक ननु विकासो नाम पूर्वसंयोगध्वंसविशिष्टभाविदलसंयोगप्रागभावः । स च सावित्र. तेजोनिमित्तकः । ध्वंसवैशिष्टयम्य तेन जननात् । विकासनिवृत्तिविशिष्टाभावरूपप्रागभावनिवृत्तिरूप. पुनः संयोगलक्षणमुकुलीभाव एव पर्यवस्यति । ध्वसनिवृत्तेरसंभवेन विशेषणवति विशिष्टाभावस्य विशे- प्याभावमाम्रपर्यवसायित्वात् । प्रागभावनिवृत्तिरूपमुकुलीभावे च सावित्रतेजोनिवृत्तिरेव कारणमित्या- शङ्कायामाह || पुनः संयोगलक्षण इति ।। अन्यदेवेति ॥ सावित्रतेजोपगमव्यतिरिक्तं दलसमवेतं संमीलनकमवेत्यर्थः । केचित्तु सीतादिनोदनजन्यसंयोगेनैव विभागनाश इत्यर्थ इत्याहुः । ननु परत्वादे. रपेक्षाबुद्धिरूपनिमित्तनाशाहादिकुपिण्डसंयोगरूपासमवायिनाशाद्वा, निमित्तसमवायनाशाभ्यां वा, समवाय्य. समवायिनाशाभ्यां वा, असमवायिनिमित्तनाशाभ्यां वा, सगवाय्यसमवायिनिमित्तनाशेभ्यो वा । 61 विज्ञानेनापि शुक्तित्वापगमेन परिणामे पुरुषान्तरस्य तदानीं शुक्तित्वप्रतीत्यभावापत्तेः तदनपगई परिणामे च भ्रान्तस्यापि तत्प्रतीत्यापत्तरित्यादिपूर्वोक्तदूपणेनेत्यर्थः ॥ सर्वत्र शुक्तिप्रतीत्यनन्तरमिति न च कारणान्तरवैकल्यात्तदनुत्पादः । रजतजन्मप्रमिति तत्कल्पनमिति वक्ष्यमाणत्वादिति भावः मनु रजतप्रतीतिरूपकार्यान्यथाऽनुपपत्त्या तज्जन्मनः प्रमितत्वात्कारणान्तरबैकल्पकल्पनमुपपन्नागिर आह ॥ प्रतीतिमिति ॥ उच्यते इदं रजतमिति द्वे विज्ञानेषु सादिनेति शेषः । ५० --परत्वादिवरस्यादिति चेदिति ॥ यथा दूरदेशसंबन्धनिमित्तकं परत्वं समीपदेशमन निबन्धनं त्यपरत्वं च ताहन्देशसंबन्धनाशादपैति तथेह शुक्त्यादिपरिणामभूतरजतादिरपि निमित्तनाशा पैस्वित्यर्थः ॥ विप्रतिपत्तरिति ।। अपरत्वादिजन्मनैव तन्नाशोपपत्तेरिति भावः। तृतीयं परिणामधे निराह ।। एतेनेति ॥ तथा प्रतीत्यभावेनेत्यर्थः। वाचोयुक्तिरित्येकं पदं । वाग्व्यवहार इत्यर्थः 'वाग्दिपश्यद्भ्यो युक्तिदण्डहरेटिव'त्यलुक्समासः । निर्विषयतया प्रागुत्पन्ना प्रतीतिः पश्चाद्रजतं जना स्वित्यत आह ॥ न खल्विति ॥ ननु रजतजन्मनोऽभावे इदं रजतमिति कथं प्रतीतिरित्यत: प्राभाक पूर्वपक्षी समाधते ।। प्रतीति स्विति ॥ ननु तहींदं रजतमित्यादिप्रत्ययानां का गतिरि'त्यादिना प्रो ग्रहणस्मरणाद्यात्मकतयोपपादयिष्याम इत्यर्थः । शुक्तिकारजतान्तरालम्बनमिति पक्षं निराश न द्वितीयमिति ॥ या०- स च क्षणिकत्वादिति ॥ आशुतरविनाशित्वादित्यर्थः । उत्तरसंयोगावधेर्विमा स्याशुतरविनाशित्वस्य प्रत्यक्षसिद्धत्वात् । संयोगस्य तु चिरकालमनुवृत्तिरेव प्रत्यभिज्ञाबलात् । तत्का व्यकार्यान्तरदर्शनाच्च । विभागे तु न प्रत्यभिज्ञा । नापि तेन कर्तव्यं कार्यान्तरमस्ति । कार्य विभागस्योत्तरविभागशब्दो पूर्वसंयोगनिवृत्तिरित्येतावदेव । न ह्येतदतिरिक्तमप्यस्य प्रदेशान्तरे कतन्त्र मस्ति यदर्थ तदवस्थानमतो विभागस्य क्षणिकतैवाङ्गीकार्येति गुणकिरणावल्यामेतदुपपादितम् । विकासो नाम न विभागः । किन्तु दलसंघोगप्रध्वंस इत्यत आह || संयोगध्वंसस्त्विति ॥ अथे मुच्यते । विकासो नाम पूर्वसंयोगध्वंसविशिष्टभाविदलसंयोगप्रागभावः । स च सावित्रतेजोनिमित्तका ध्वंसवैशिष्टयस्य तेन जननात् । उक्तविकासनिवृत्तिश्च विशिष्टाभावरूपा प्रागभावनिवृत्तिरूपा क्षणिकतोपपादनेऽरुचिमतां मतमवलम्ब्याह ॥ स्थायित्वेऽपीति ।। अन्यदेवेति ॥ सावित्रतेजोऽपगम- व्यतिरिक्त दलसमवेतमामीलनकमवेत्यर्थः ॥ परत्वादिवदिति ।। परत्वापरत्वादीनां स्वनिमित्तकारणा- पेक्षाबुद्धिनाश्यत्वं यथा, तथा प्रकृतेऽपि निमित्तकारणदोषनाशाद्रजताकारपरिणामनाशः स्यादित्यर्थः ।। विप्रतिपत्तेरिति ।। अपेक्षाबुद्धेः परत्यादिज्ञानं प्रत्येव जनकता न परत्यादिकं प्रतीत्यङ्गीकारादिति भावः । यद्वा । आदावपेक्षाबुद्धिस्तया च परत्वोत्पत्तिरनन्तरं परत्वत्वसामान्यनिर्विकल्पकं तेन चाग्रिम. क्षणेऽपेक्षाबुद्धिनाशः परत्वत्वसामान्यविशिष्टपरत्वसविकल्पकं चैकदा भवतः तदग्रिमक्षणे च परत्वगुणस्य नाश: अयं पर इति परत्वविशिष्टद्रव्यज्ञानं च युगपद्भवत इति हि परप्रक्रिया । तत्र चायं पर इति परत्वविशिष्टद्रव्यज्ञानस्य भ्रमत्वप्रसङ्गेन तज्ज्ञानोत्पत्तिकाले परत्वनाश इत्यस्यासंमतेः । न हि विशेषण- नाशदशायां तद्विशिष्टप्रत्ययः प्रमेति युक्तम् । तथा चापेक्षाबुद्धिनाशाव्यवहितोत्तरक्षणे परत्वनाशासम्भ- वाव्यभिचारेण तस्य तत्र कारणत्वं विप्रतिपन्नमित्यर्थः। विशेपणनाशदशायामप्यतघ्यावृत्तिरूपवैशिष्ट्यस्य सत्वात्तज्ज्ञानं प्रमेति तु समाधानमतीव तुच्छम् । अन्योन्याभावस्य व्याप्यवृत्तित्वेन तस्यां दशायां तस्यातस्नातव्यावृत्तेरप्यभावात् । अन्यथा पाकरक्ते घटे श्याम इति बुद्धरपि प्रमात्वप्रसङ्ग इत्यलं पल्लवेन ॥ एतेनेति ॥ निमित्तकारणनाशेन कार्यनाशाभावाद्रजतज्ञानापगमेऽपि रजतं तथैवावतिष्ठतेत्या- दिपणेनेत्यर्थः ॥ का चैवं सतीति ॥ काचादेः साक्षाद्रजताद्यजनकत्वादिति भावः । ज्ञानमेव दोपोऽस्त्वित्यत आह । न हीति ।। उपपादयिष्याम इति ॥ इदं रजतमिति द्वे विज्ञाने इत्यादिनेति शेपः ।। ननु तहि कमल कुमल- श्री --निमित्तकारणगाशे न कार्यनाशो दृष्ट इत्याशङ्कते || कमलेति ।। विकासे निमितं यत्सावित्रं तेजरतदपगमस्येत्यर्थः ।। सत्येवेति ।। तथा च विभागस्य क्षणिकत्वेन स्वत एव सावित्रतेजस्सद्भायदशायामेव निवृतिया न तन्निवृत्ती सावित्रतेजोऽपगमः कारणमित्यर्थः । ननु विकासो नाम न विभागः । किन्तु दलसंयोगप्रध्वंस इति चेतर्हि तस्य नित्यत्वेन विकासनिवृत्तेरभावान्न सावित्रतेजोऽपगमेन तन्नाश इत्याह । संयोगप्रध्वंसस्त्यिति ॥ ननु सायंकाले पुनः कमलदलानां पुनः संयोगलक्षणो यो मुवु.लीभावः स सावित्रतेजोऽपगम जन्यः । तथाच पुनः प्रातस्तदपगमस्य तन्निवृत्तिहेतुता दृष्टेति चेत् तत्राह । पुनःसंयोगेति । शीतादिनोदनेति ।। सावित्रतेजोऽपगमे सति शीतस्पर्शोपतहिमादि ॥ 64A आह || स्थायित्वेऽपीति।। सावित्रतेजोऽपगमनानन्तरं सायंकाले प्राप्त दलेपु शनैरामीलनरूपं कर्मोत्पद्यते । तेनैव दल विभाग वंसो जायतेऽतः सावित्रतेजोऽपगमध्यतिरिक्तस्य कर्मणएव विभागप्रध्वंसजनकत्वान्निमित्त. कारणनाशेन कार्यनाशे नेदमुदाहरणमिति भावः ।। का चैवं सतीति ॥ रजतम्य विज्ञानादुत्पन्नत्वेऽङ्गीकृते सति सत्यप्राप्त्या रजत विज्ञानजनकेन्द्रियादिकारणसमुदायान्तर्गतस्य काचादिदोपत्वोक्तिरयुक्ता। यदि रजतमयथार्थ स्यात्तदा तन्निमित्तस्य काचस्य दोपत्वोक्तिः सङ्गता स्यात् । न चैवम् । तस्य विज्ञाना. दुत्पन्नत्वेन सत्त्वात् । अतः काचादेर्दोषत्वबाचो युक्तियोंगो घटना का । न काऽपीत्यर्थः । तदुपपादयति न हीति || उत्पन्न रजते तदालम्बनायाः प्रतीतेजन्मेत्ययमंशो नाङ्गीक्रियतेऽतो न परस्पराश्रयप्रसङ्ग इत्यत आह ॥ न खल्विति ॥ नन्विदं रजतमिति प्रतीतिरेवात्र रजतजन्मप्रमापिकेत्यत आह || प्रतीति विति ॥ उपपादयिष्याम इति ।। रजतमिदमिति द्वे विज्ञाने इत्यादिनेति शेषः । प्रवाहा- विच्छेदेति ।। अनवस्थेत्यर्थः ।। च०-विकासस्य दलविभागरूपता तजन्यदलसंयोगप्रध्वंसरूपता वोपेयत इति कल्पद्वयमभिप्रेत्यायेतस्य नोदाहरणीयतेत्याह || दलेति।। गुणकिरणावल्यां विभागस्योत्तरसंयोगमात्रावधितयाशुतरविनाशित्वं संयोगस्य तु असमवायिकारणनाशेन द्रव्यनाशापत्या न तथात्वमिति निरूढमेवेत्याशयेनाह || क्षणिकत्वादिति ।। आशुतरविनाशित्वादित्यर्थः । द्वितीयेऽपि नोदाहरणीयतेत्याह ॥ संयोगेति ॥ ननु विकासस्योक्तोभय. रूपतायामुक्तदिशा सावित्रतेजोपगमस्य तादृश विकासनिवृत्तिप्रयोजकत्वाभावेन विकासनिवृत्तिरूपमुकुली- भावधर्मि कसावित्रतेजोगमनिरूपितान्वयव्यतिरेकानुविधायित्वानुभवविरोधप्रसङ्ग इत्याशङ्कामपनिनीपति ॥ पुनरिति । तथाच न विकासानिवृत्तिमुकुलीभावः किन्त्वैकैकदलानुयोगिकदलान्तरप्रतियोगिकसंयोग. कूटमेव । तत्तु न सावित्रतेजोपगमजन्यमपि तु शीतहिमांशुकरादिसंयोगजन्यमेवेति नोक्तक्षत्यवकाश इति भावः । अथैवमुच्यते । विकासो नाम पूर्वसंयोगध्वंसविशिष्टभाविदलसंयोगप्रागभावः । सावित्रतेजोनिमित्तकः ध्वंसवैशिष्ट्यस्य तेन जननात् । उक्तविकासनिवृत्तिश्च विशिष्टाभावरूपा प्राग. भावनिवृत्तिरूपपुनःसंयोगलक्षणमुकुलीभाव एव पर्यवस्यति । ध्वंसनिवृत्तरसंभवेन विशेषणवति विशिष्टा- भावस्य विशेष्याभावमात्रपर्यवसायित्वात्प्रागभावनिवृत्तिरूपमुकुलीभावे च सावित्रतेजोनिवृत्तिरेव कारण- मित्याशङ्कायामाह । पुनः संयोगलक्षण इतीत्यप्यवतारयन्ति । विभक्तत्वप्रतीतेरनुवर्तमानायाः सच स्वनिमित्तकारणीभूता पेक्षावुद्धिनाशजन्यनाशप्रतियोगित्वस्य समर्थिततया तद्दिशा प्रकृतेऽपि स्यादित्या- शङ्कते ॥ परत्यादिवदिति ॥ सिद्धान्ते द्वित्वादिबुद्धाविव परत्वादियुद्धावेवापेक्षाबुद्धरुपयोगो न तत्त. द्विषयांश इत्यूरोकारतादृशार्थस्योत्तावाद्यसंप्रतिपन्नतामाह || विप्रतिपत्तेरिति ॥ यथा दूरदेशसंबन्ध. निमितकं परत्वं समीपदेशसंबन्धनिमित्तकमपरत्वं च तादृशसंबन्धनाशादयैति तथेह शक्त्यादिपरिणाम. हेतुभूतरजतादिरपि निमित्तनाशादयतीत्यर्थः । विप्रतिपत्तेरिति ।। अपरत्वादिजन्मनैव । तन्नाशोप. पत्तेरिति भाव इत्यपि व्याकुर्वते । तृतीयकल्पं प्रतिविधत्ते ॥ एतेनेति ॥ निमित्तकारणनाशस्य कार्यनाशकत्वाभावसमर्थनेनेत्यर्थः ।। का चैवमिति ॥ विपरीतकार्यकारिण्येव दोपस्वव्यवहारः न तस्य कार्यकारिणीति भावः । काचादेः साक्षादजतादिजनकत्वाभावादिति भाव इत्यपि स्थितम् । 'वाक्- दिपश्यय मुक्ति इण्डहरेषु यथासंख्यमलुम्यक्तव्य' इति स्मृतेर्वाचो युक्तिरिति समस्तम् । साधारणा- कारेति ॥ इदन्त्यमात्रदर्शनानन्तरमियर्थः । उपपादयिष्याम इति ॥ विशिष्टगोचरविपर्ययसत्त्वानुप- गमेन प्राभाक दिशा ग्रहणस्मरणात्मकशानद्वयरूपतैव तस्येन्युपपादयिष्याम इत्यर्थः ।। सु०--नापि वरतुनो वस्त्वन्तरात्मनाऽवभासोऽन्यथारख्यातिरिति युक्तम् । तथा हि किं वस्तुनो वस्त्वन्तरात्मता सती उतासंती 1. आये न भ्रान्तिनापि याधः । सर्वेषां च सर्व सर्वात्मना प्रतीयेत । न हि दोषः करणसंस्कारः । तथा सत्यदुष्ट करणेन न किञ्चिदुपलभ्येत । किश्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत । न द्वितीयः । असतः प्रतीत्यनुपपत्तेः । उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन | एतेनासम्बद्धविशेषण- विशिष्टप्रीतिरन्यथाख्यातिरिति निरस्तम् । असतो विशेषणसम्बन्धस्य प्रतीत्यनुपपत्तेः । उपपत्तौ वा किमसत्ख्यातिवादिमिरपराद्धम् । अथ ब्रूपेऽन्याकारं ज्ञानमन्यथाख्यातिरिति । तदसत् । समीचीनज्ञानस्याप्यान्तरवाह्यत्यादिनाऽर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः । घा० अन्यथात्वमवसासविशेषणमिति द्वितीयकल्पं निषेधति || नापीति ॥ ननु परिणाम- पक्षोक्तदूपणाप्राप्तेः कथमयुक्ततेत्यतस्तत्रोक्तभ्रान्तिबाधानुपपत्तिमत्राप्युपपादयति ।। तथा हीति ॥ ननु विद्यमानाऽपि सर्वस्य सर्वात्मता करणदोषाभावान्न प्रतीयत इत्यतो विद्यमानसर्वात्मताप्रतीतौ करणदोषस्य प्रतीयेतेत्याह ॥ तथा सतीति ॥ नन्वन्यात्मताप्रतीतौ करणेन जननीयायां दोपः संस्कारो न तु प्रती- तिमात्रे । एवं च प्रतिनियतसंस्कारकल्पनायां नानुपपत्तिरित्यतो भ्रान्तिबाधविपर्यासापत्तिरूपं युक्त्यन्तर- माह !! किंचेति ।। नन्वसत्प्रतीतिनिरासान्यथाऽनुपपत्त्यैव तत्प्रतीतिः सिद्धे त्यतरू.हि रजतस्याप्यवस्तुत्वे बाधकामावेन तदङ्गीकारापत्तावसख्यातिपक्षप्रवेश इत्याह ॥ उपपत्ती वेति ॥ अन्यथात्वस्यावभास- विशेषणत्वे द्वितीयं कल्पमतिदेशेन दूषयति ॥ एतेनेति ॥ तत्र तादात्म्यमसत् । अत्र च संसर्गो. ऽसन्नित्येतावानेव विशेषः । असत्प्रतीत्यनुपपत्तिस्भयत्र समानेत्याशयेनातिदेशार्थमाह ॥ असत इति ।। अन्यथात्वं ज्ञानविशेषणमिति कल्पे आद्यमाशङ्कते ॥ अथेति ।। स० तादात्म्याभिप्रायेणाह ॥ नापि वस्तुन इति ॥ न चान्यस्यान्यात्मत्वे सत्यपि न तथा प्रतीतिः । सहकारिणो दोपस्याभावादित्यत आह || न हीति ॥ दोषस्य यथार्थज्ञानसह. कारित्वे संस्कारत्वमेव स्यात् न दोषत्वमित्यर्थः ।। किं चेति ॥ यदि सर्वात्मवं सत्यं स्यात्तदेदं रजत- मित्युभयविषयज्ञानस्य याथार्य शुक्तिरेवेयमिति रजतव्यावृत्तशुक्तिमात्रविषयस्यायाथार्थ्यमिति वैपरीत्यं च स्यादित्यर्थः । संसर्गारोपाभिप्रायेणाह || एतेन संबद्धेति ।। प० ---अन्यस्यान्यात्मनाऽवभासोऽन्यथाख्यातिरिति द्वितीयं निराह || नापीति ।। कि रज- तस्यापीति ॥ आपणादिस्थरजतस्यापीत्यर्थः । असत्वेऽपि रजतमितिप्रतीतेरुपपत्तरिति भावः । तृतीयं निराह ।। एतेनेति ॥ असंबद्धस्याविद्यमानसंबन्धवतो विशेषणस्य विशिष्टप्रतीतिः संबन्धप्रतीतिरित्यर्थः । चतुर्थमाशङ्कते ॥ अथ ब्रूप इति ॥ या--नापि वस्तुन इति ॥ तादात्म्यारोपाभिप्रायेणेदमित्यवधेयम् । ननु यथा भूम्यन्तर्गतं धनमञ्जनादिसंस्कृतनयनानामेव दृश्यते नेतरेषां तथा सर्वस्य सर्वात्मता न सर्वेषां प्रतीयते किन्तु दोष. संस्कृतकरणानामेवेत्यत आह || न हि दोषः करणसंस्कार इति ॥ ननु न किञ्चिदुपलभ्येतेत्युक्तम. युक्तम् । दोपस्य कार्यविशेष एव करणसंस्कारत्वाभ्युपगमात् । अन्यथाऽञ्जनाद्यसंस्कृतकरणेत घटादिक. मपि नोपलभ्येतेत्यस्वरसादाह || किश्चैवं सतीति ।। एतेनेति ॥ संसर्गारोपाभिप्रायेणेदम् ॥ समीची- श्री० --सर्व सर्वात्मनेति ॥ सर्वस्य सर्वात्मतायाः सत्त्वादित्यर्थः ॥ रजतसंविदिति ॥ दोस्य करणसंस्कारत्वेन रजतसंविदःसंस्कृतकरणजन्यत्वाद्रजतसंविदेव समीचीना स्यादित्यर्थः । तार्किक कटाक्षीकृत्याह ।। उपपत्ती वेति ॥ असतः प्रतीत्यनुपपत्त्यैव खलु रजतस्य वस्तुत्यमन्यन्त्र सत्त्वमङ्गीकृतम् | असतोऽपि प्रतीन्युपपत्तौ किमर्थ रजतस्यान्यत्र सत्त्वरूपं वस्तुत्वमङ्गीकार्यमित्यर्थः । च. नैयायिकाभिमतौ द्वितीयतृतीयकल्पौ । तत्र तावद्वितीयं पराचष्टे । नापीति ॥ तादात्म्यसंसर्गावछिन्नवस्त्वन्तरनिष्ठप्रकारतानिरूपितैकवस्तुनिष्ठविशेष्यतानिरूपकावा भास इत्यर्थः । करणसंस्कार इति ॥ भूतलान्तर्वर्तिधनादिगोचरसाक्षात्कारे चक्षुरादिना जननीये जनादेः स्वासमवधाननियन्त्रित फलानुत्पादकत्वरूपमहकारित्वस्येव प्रकृते सर्वात्मताप्रतीतो दोषस्य तथा भावानुपगमादिति भावः ॥ तथा सतीति ।। सहकार्याभावाच्छुक्तित्वादिकमपि न प्रतीयेतेति भावः । अथाअनादेरिव विषयविशेषावगाहिज्ञानजनन एव दोपस्य सहकारित्वोपगमान्नोक्तक्षतिरित्यरुचेराह ।। किं चैवं सतीति ।। नैयायिकाभिमततृतीयकल्पं पराकुरुते ॥ एतेनेति ॥ तादात्म्यान्यसमवायादि- संसर्गावच्छिन्ना या विशेन्यता व्यधिकरणरजतत्वादिनिष्ठप्रकारकता तन्निरूपकज्ञानमित्यर्थः ।। विज्ञानवाद्या. भिमततुरीयकल्पं प्रत्याख्याति ।। अन्याकारमिति ।। सु० ---अन्याकारोल्लेग्विज्ञानमन्यालम्बनमन्यथारख्यातिरिति तु विरुद्धम् । तथा हि । न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्था- लम्बनत्वापत्तेः । सर्वे सर्वज्ञता चैवं सति स्यात् । अतीतादिविषयस्य निरालम्बमतापातश्च । एतेन पुरोदेशे सद्भावेनालम्ब नत्वमपि प्रत्युक्तम्। न च कारणत्वेनालम्बनम्। रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् । अतीतानागतविपयत्वं च ज्ञानस्य न स्यात् । अतीता- नागतयोरसत्त्वेन कारणत्वानुपपत्तेः । एतेन विषयतया कारणत्वमित्यपि निरस्तम् । आत्मा - श्रयत्वं चैव सति स्यात् । विषयत्वस्यैव निरूप्यमाणत्वात् । किंचैवं विषयत्वमित्येवास्तु । किं कारणतया व्यर्थयाऽनर्थजनन्या । किं चेदं विपयत्वम् । येन यस्यातिशय उत्पाते स तस्य विपय इति चेत् । अतिशयो हि ज्ञातता वा साम्यवहारो वा । नाद्यः । अनभ्युपगमात् ।
तु तथागत- मानस्य दण्डादराप तापयत्वप्रसक्तश्च । याद्वज्ञान यदाकार तत्तदालम्बनामात मतमनुधावति । वा०-- द्वितीयमाशङ्कते ॥ अन्येति ॥ विरुद्धमिति ॥ भासमानत्यातिरिक्तालम्बनत्या. भावादन्यावभासिज्ञानेऽन्यायभासनं संविद्विरुद्धमित्यर्थः । ननु नालम्बनमवभासित्वमपि त्वन्यदेवेति न संविद्विरोध इत्यतः पक्षान्तरप्रतिषेधेन तदेव परिशेषयितुमाह ।। तथा हीति ॥ अत्र सत्त्वस्याविषय- रजतादिव्यावृत्तत्वात्सर्व विषयानुगतत्वाच्च सत्त्वपक्षस्य, ज्ञानकरणत्वस्य विषयविशेषनिष्ठतया कैश्चिद- न्यथाख्यातिवादिमिरभ्युपगमात्तत्पक्षस्य, ज्ञानसम्बन्ध्यतिशयत्वेन तृतीयस्य, ज्ञानकरणसम्बन्धसम्बन्धत्वेन चतुर्थस्य प्रसक्तिरिति द्रष्टव्यम् । सद्भावेऽपि यत्रकुत्रचिदेव वा पुरोदेशे वा। आयेऽपि यदा कदाचिद्वा ज्ञानकाल एव वेति विकल्पान्मनसि निधायाचं तावन्निराकरोति ।। न तावदिति ॥ न चेप्टापत्तिः । अनुभवविरोधादनभ्युपगमाच्च । दूपणान्तरं चाह || सर्वेति । आये द्वितीयं निराकरोति ।। अतीता- दाति ॥ द्वितीयं निराकरोति । एतेनेति ॥ आद्यदूपणपरिहारेण शङ्कायामाधिक्यं चेत्यतिदेशः । एवमुत्तरत्रापि । पुरोदेशवतिसर्वपदार्थालम्बनत्यापत्तिरत्रापि दूपणत्वेन बोध्या । हेतुत्वेनालम्बनत्वं निषेधति ॥ न चेति ॥ हेतुत्वं यथाकथञ्चिद्विवक्षितम् । तथा च रजतसदृशशुक्ते रजतसंस्कारोबोध- हेतुत्वादालम्बनत्वं वा विषयतया कारणत्वेन वा । नाद्य इत्याह ॥ रूपादीति ॥ एतेनेति ।। रूपादीत्युक्तातिप्रसङ्गपरिहारकत्वमात्रमभिप्रेत्य वा विपयत्वमालम्बनत्वातिरिक्तमिति शङ्कितुर्धमेण वेदमु. क्तमत एव परिहारेऽपि विषयत्वस्यैव निरूप्यमाणत्वादिति वक्ष्यतीति ध्येयम् । कारणत्वस्य लक्षणकोटा. वधिकस्य प्रवेशेऽपि स्वज्ञाने स्वज्ञानापेक्षाऽनपायादात्माश्रयः स्यादेवेत्याह ॥ विषयत्वस्यैवेति ॥ न केवलं कारणत्व विशेषणस्यातीतादिविषयाव्याप्तिसम्पादकतयाऽनर्थजनकत्वमात्रं किन्तु वैयर्थ्यमपि तदनुपादानेऽतिप्रसङ्गाभावात् । तथा च विषयत्वस्यैव लक्षणत्वे वक्तव्ये सुलभ एवात्माश्रय इत्याह ।। किञ्चति ।। येनेति ॥ ज्ञानजन्यातिशयाधार इत्यर्थः । तार्किकादीन्प्रत्याह ॥ अनभ्युपगमादिति ॥ भट्टे प्रत्याह || अभ्युपगमेऽपीति । प्रतियोगित्यादिवदतीताऽऽदौ ज्ञातताऽप्यस्त्वित्यतो ज्ञाततावादिना तस्या धर्मिसत्तासापेक्षत्वाभ्युपगमान्नैवमित्याशयेनाह ।। न हीति ॥ व्यवहारोऽप्यभिलपनं हानादिर्वा । द्वयमपि निराकरोति ।। अतदथिन इति ।। हानदिपक्षे दूपणान्तरं चाह || व्यालेति ॥ ननु ज्ञान. जन्यातिशयाश्रयत्वरूपविषयत्वासम्भवेऽपि ज्ञाने स्वीकाररूपातिशयसमर्पकत्वरूपं विषयत्वं सम्भवत्येवेत्या- ॥ विषयतयेति ॥ अतीतानागतयोविषयतया कारणत्वाभावेनेत्यर्थः ॥ अनर्थजनन्येति ॥ अतीतादा. वव्याप्तिहेतुभूतयेत्यर्थः । प०..-- पञ्चमं निराह ।। अन्याकारेति ॥ अन्याकारमुल्लिग्वतो ज्ञानस्यान्यालम्बनत्वं किमन्यस्य सत्त्वमात्रेण पुरोदेशे सद्भावेन वा कारणत्वेन निमित्तेन वा विषयतया कारणत्वेन निमित्तेन वा । आद्य निराह । न तावदिति ॥ द्वितीयं निराह || एतेनेति ॥ अतीतादिज्ञानस्य निरालम्बनत्वापातेनेत्यर्थः । तृतीयं निराह || न चेति ॥ चतुर्थ निराह || एतेनेति ॥ अतीतादेरकारणत्वकथनेनेत्यर्थः ॥ कारण- त्वमिति ॥ निमित्तमन्यस्यान्याकारोल्लेखिज्ञानालम्बनत्व इति योज्यम् । आलम्बनत्वं विपयत्वमेकमेवेति भावेनोक्तम् ।। विषयत्वस्यैवेति ॥ आत्माश्रयादबिभ्यन्तं प्रत्याह ॥ किं चैवमिति ॥ अस्तु तर्हि तथैवेति वदन्तं प्रत्याह ॥ किं चेदं विपयत्वमिति । तथागतमतमिति बौद्धमतमनुकरोति । बौद्धा हि ज्ञानमर्थाकारमिति वदन्तीति यद्विज्ञानं यदाकारमित्युक्तौ बौद्धमतप्रवेशः प्रामोतीत्यर्थः ।। या०---अन्याकारोल्लेखीति ॥ रजताकारोल्लेखिज्ञानं वस्तुगत्या शुक्त्यालम्बनमित्यर्थः ।। सद्भावमात्रेणेति ॥ सद्भाव एवालम्बनत्वरूपं विषयत्वमित्यर्थः । एवं पुरोदेशसद्भावेनेत्यत्र कारणत्वेन चेत्यत्र च पुरोदेशसद्भाव एव विषयत्वं कारणत्वमेव विषयत्वमित्यत्र तात्पर्यम् । विषयत्वस्यैव निरूप्य. माणत्वादित्याद्युत्तरग्रन्थानुगुण्यादिति द्रष्टव्यम् ।। अनर्थजनन्येति ॥ अतीताद्यव्याप्तिहेतुभूतयेत्यर्थः । व्यवहारपदेनाभिलपनं बोपादानादिकं वेति विकल्पं मनसि निधायाचं दूपयति ॥ अतदर्थिन इति ।। द्वितीये त्याह ।। व्याघ्रचोराऽऽदीति ॥ श्री० ---- एतेनातीतादिज्ञानस्य निरालम्बनताऽपातेन ।। व्यालेति ॥ व्याघ्रचोरादिज्ञानेन दण्डा- दावुपादानरूपातिशयस्योत्पद्यमानत्वेन दण्डादेरपि व्याघ्रादिज्ञानविषयत्वं स्यादित्यर्थः । च० - नैयायिकैकदेशाभिमताभिनवान्यथाख्यातितापर्यकपञ्चमकल्पं निरस्यति ॥ अन्याकारोल्लेखीति।। रजताकारोल्लेखीत्यर्थः । अन्यालम्बनं शुक्त्यालम्बनम् ॥ विरुद्धमिति ॥ प्रतीयमानत्वातिरेकेणालम्बन. 65 नुरोधात् । विषयतायां निवन्धनस्याजिज्ञासिततया निमित्तत्वार्थकत्वस्य दुरुपपादत्वात् । अनर्थजनन्या आत्माश्रयाद्यापादिकया तथा चात्माश्रय मुप्रतिपद इति भावः ॥ येनेति || स्वोत्यादिनातिशयविशेपि. तत्वं स्वनिरूपितविषयत्वमित्यर्थः ॥ अतिशयो हीति ॥ ज्ञानस्यातीन्द्रियतां ज्ञानजनितघटत्यादि. प्रकारकज्ञातता लिङ्गकानुमानवेद्यतां चोरीकुर्घतां क्रियाजन्यफलशालित्वं कर्मत्वमभिदधानानां भट्टाना मतमनुरुध्याद्यः कल्पान्तरदिशेनरः । आद्यं प्रत्याह ।। अनभ्युपगमादिति ॥ नैयायिकेनेति पूरणी- यम् । भट्टदिशाऽऽह || अभ्युपगमेऽपीति ।। युज्यत इति ॥ निरधिष्ठानोत्पत्तेरयोगादिति भावः । द्वितीये अभिलपनोपादानादिभेदेन कल्पद्वयमभिप्रेत्याऽऽद्यमपहस्तयते ॥ अतदर्थिन इति ॥ समान- विषयताप्रत्यासत्येच्छाभिलपनयोहे तुहेतुमद्भावोपगतेरिति भावः । द्वितीयमपबदति ॥ च्यालेति ॥ तथागतमतं बौद्धमतम् । ज्ञानस्यार्थाकारतामुपगच्छन्ति हि वौद्धाः ॥ - सु०.--यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विपयमित्यपि न | रूपादिज्ञानस्या- काशादिविषयतापातात् । न हि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्यत इति युज्यते । प्रत्यभिज्ञा च तत्ताऽसन्निकृष्टकरणजन्या न तद्विपया स्यात् । न च वाक्यं वाक्या- र्थेन सन्निकृष्यते । येन तजनितज्ञानस्य वाक्यार्थो विषयः स्यात् । आकाशादिविषयतैवं चाप- घेत । लिङ्गज्ञानाच्यात्मसन्निकृष्टान्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत । तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् । तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्त- व्यम् । अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः । यदि संविदि बहुमानगन्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् । किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कथं परिहरणीयः । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् । कथं न भवितव्यम् । न हि सम्प्रतिपन्नसमीचीनरजतस्वीकारेऽपि निमित्तमस्त्यन्यद्रजतावभासात् । न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति । नास्त्यत्र रजतमित्यपि प्रतिभासोऽस्तीति चेत् । सत्यम् । प्रतिभाससामर्थ्याद्रजताभावोऽप्यङ्गीकृत एव पुरतः । प्रतीत्योर्विरोधः स्यादिति चेन्न । यथा न विरोधस्तथा वक्ष्यमाणत्वात् ।
वक्तुमशक्यत्वेन वाक्यस्य वाक्याथै शक्तेस्तार्किकादिभिरनङ्गीकारेण वावयकरणतापक्ष तद्विपये तत्सम्बन्धा- भावप्रयुक्ताव्याप्तिमेवाह || न च वाक्यमिति ।। वाक्यस्थलेऽतिव्याप्तिमप्याह । आकाशादीति । आदि- पदेन श्रोत्रग्रहणम् । यद्यपि सा-यधर्मिसन्निकृष्टलिङ्गजन्यलिङ्गिज्ञानविषयता साध्यधर्मिण्यपि लिङ्गकरणतापक्ष आपादयितुं शक्या तथाऽपि विषयताऽङ्गीकारेणापि परिहारसम्भवान्नात्रापादिता सिद्धान्तदशायां ववश्या. भ्युपगमनीयलिङ्गज्ञानकरणताभ्युपगमेन सुपरिहारत्वाद्धर्मिणो मुख्यविषयत्याभावाभिप्रायेणाशङ्कय परिहतेति द्रष्टव्यम् । यद्यपि वाक्यार्थज्ञानस्यात्मविषयता वाक्यज्ञानकरणतापक्षेऽप्यापादयितुं शक्याऽत एव न्याया- मृते आदिशब्द स्तथाऽपि वाक्यकरणतापक्षेऽव्याप्त्यतिव्याप्त्योर्वाक्यस्थल उद्भ वितत्वाज्ज्ञानकरणतापक्षा- श्रयणेनातिव्याप्त्यनुद्भावनेऽप्यनुमानस्थले लिङ्गकरणतापक्षाश्रयणेन तदुद्भावनासम्भवात् । ज्ञानकरणता- श्रयणेनातिव्याप्तिमुपपादयति ।। लिङ्गज्ञानाच्चेति । लिङ्गज्ञानकरणतापक्षे सम्बन्धाभावप्रयुक्ताव्याप्ते- रापादनाभावस्तु लिङ्गलिङ्गिनोः सम्बन्धसम्भवे तवारकस्तज्ज्ञानय रपि सम्बन्धः सम्भवतीत्याशयेन बोध्यः । वाक्यज्ञानस्य तत्सम्बन्धाभावप्रयुक्ताव्याप्त्यनुद्भावनं तु वाक्यस्य तत्सम्बन्धाभावप्रयुक्ताव्या- प्त्युद्भावनेनैव ज्ञानस्थलेऽपि तस्याः सिद्धतामभिप्रेत्य सिद्धान्तदशायां तु लक्षणनिष्कर्षाय सर्वदूपणान्या- शङ्कय परिहृतानीति ध्येयम् । यदर्थ विषयत्वलक्षणान्तरनिराकरणं तद्वक्तुं विषयत्वं परिशेषयति ।। तस्मादिति ॥ एवं च रजतज्ञाने शुक्तरालम्बनत्वं वदता तत्र तदवभासोऽङ्गीकार्यः । तथा च संविद्वि. रोध इत्याह ।। तत्रेति ।। समूहालम्बनातिरिक्ते रजतमिति ज्ञाने संवित्स्वभावविरद्धं शुक्रवभास वदतोऽलौकिक बुद्धिवैशद्यमित्याशये, श्लाघनीयप्रज्ञ इति परिहासः । देवानां प्रियः पशुः । अनवभासे उक्तान्यथाख्यातिन सिद्धयेदित्याशयेनाह । यदीति ।। एतच्च संविद्विरोधस्वरूपं नयाथ्यां स्पष्टमुक्तम् । अत्र बमो य एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि वैद्य वैद्यस्य लक्षणम् । इदं रजत. मित्यत्र रजतं चावभासते । नदेव तेन वेहं स्यान्न च शुक्तिरवेदनात् । तेनान्यस्यान्यथाभानं प्रती यैव पराहतम् । परस्मिन्भासमाने हि न परं भासते यत इति । अस्तु वा यत्किञ्चिदालम्बनत्वं रजतावमासि- ज्ञाने शुक्त्यनवभासेऽपि शुक्तरालम्बनत्वे घटावभासि पटानवभासिज्ञाने पटस्य पुरोवतिरजतज्ञाने शुक्तेश्चाल. म्बनत्वापत्तिश्चेत्याह । किञ्चति ।। नन्वतिप्रसङ्गादिनाऽवभासिन एवालम्बनत्वे इदं रजतमिति ज्ञानस्य रजतावभासितया तनालम्बनत्वं वक्तव्यम् । तथा चासतो विषयत्वासम्भवेन रजतस्य सत्वं च स्यादिति ।। नन्विति ॥ अख्यातिवादिन प्रत्यस्यानिष्टत्वेऽपि मां प्रतीष्टापादनत्वात्ताभासोऽयमित्याह ।। - 65a । स्वेऽपि न सबाधकस्य प्रकृतावभासस्य तथात्वमित्यतः प्रकृतेऽपि न तादृशबाधकमस्तीत्याशयेन द्वितीय निराह || न हीति । प्रतिभासस्य विषयसत्त्वप्रयोजकत्वं वदता नास्त्यत्र रजतमिति प्रत्ययविषयोऽ. प्यङ्गीक्रियत एव । न च विरोधो विषयभेदादित्याह ॥ सत्यमिति ।। ननु न विपयभेदः । इदं रजतमिति प्रतीत्या पुरत एव रजतसत्त्वस्य विषयीकरणादित्याशङ्कते ॥ प्रतीत्योरिति ॥ • स्यादेतदेवं यदि नास्त्यत्र रजतमित्यस्य पुरतस्तत्सत्त्वाभावविषयकत्यवदिदंरजतमित्यस्य पुरतस्तत्सत्त्वविषयकत्वं स्यात् । न चैवम् । रजतमिदमिति द्वे विज्ञाने इत्यादिना ज्ञानद्वित्वम्योपपादयिप्यमाणत्वेन तस्य रजतस्वरूप- मांत्रविषयकत्वात् । तथा च विषयभेदान्न विरोध इत्याशयेनाह || यथेति ।। स०- रजतावभासस्य रजतविषयकत्वे असतात् न संनिकर्षायोगात्सत्त्वमावश्यकमिति शङ्कते ।। ननुं रजंतावभासस्येति ॥ परिहरति ॥ कथं न भवितव्यमिति ॥ रजतस्य पुरोदेशे अभावेऽपि विप्रकृष्टो न संयोगादिप्रत्यासत्यनुपपत्तावपि संस्काररूपायास्तस्याः सत्वाद्विपयत्वोपपत्तिरिति भावः ।। यथा न विरोध इति || भ्रमकाले पुरोवर्तिग्रहणागृहीतभेदं अन्यत्र विद्यमानं रजतस्मरणम् । बाधकाले च पुरोदेशे विद्यमानरजताभावानुवादः । न रजततदभावप्रतीत्योर्विरोध इति वक्ष्यमाणत्वादित्यर्थः । यदि हि पुरोदेश एव रजतनानं तदा पर विरोधः स्यान्नवमिति भावः । ५०-यज्ञानमिति ॥ यदिति भिन्न पदम् । ननु यस्य ज्ञान यज्ज्ञानमितिसमासः पुनरव्या. त्यतिव्याप्ती चाह ॥ न च वाक्यमित्यादिना ॥ शब्द आकाशगुणो वायुगुणो वेतिमतेनाह ।। आकाशादीति ।। आत्मसन्निकृष्टादात्मसमवेतादित्यर्थः । ज्ञानादेरात्मगुणत्वादिति भावः । देवानां प्रिय इत्येकं पदम् । अज्ञ इत्यर्थः । षष्ठस्य तृतीयपादे 'षष्ठ्या आक्रोश'इति सूत्रे 'देवानां प्रिय इति वक्तव्यम्' इति वार्तिकादलुक् । श्लाघनीयप्रज्ञ इत्यपहासः काकुस्वरेण द्योत्यते || अतिप्रसङ्ग इति ॥ पटाद्य. वभासक्रमपि ज्ञानं घटाद्यालम्बनं, स्यादित्यतिप्रसङ्ग इत्यर्थः । शुक्तिकायामिदं रजतमिति ज्ञानस्य शुक्ति- कालम्बनत्याभावे रजतमेवालम्बनं स्यात् । तथाच रजतं वास्तवं स्यादिति शङ्कते । नन्विति ॥ इष्टा- पत्ति मन्वान उत्तरमाह प्राभाकरः । कथं न भवितव्यमिति ॥ भवितव्यमेवेत्यर्थः । प्रतीतिविपयस्य- सत्वेन भाव्यमित्येतदुपपादयति ।। न हीति ॥ वक्ष्यमाणत्वादिति ॥ ननु तीत्यादिना ग्रन्थेनेद- या०–आकाशाऽऽदिविषयतयैवेति ॥ शब्दरूपस्य वाक्यस्याऽऽकाशसमवेतत्वादिति भावः ।। यत्प्रतिभासमिति ।। यदुल्लेखीत्यर्थः । एवमग्रेऽपि ।। कथं न भवितव्यमिति ॥ एतन्मते रजत. ज्ञानस्य स्मृतिरूपत्वेन सत्यरजतविषयकत्वादिति भावः ।। यथा न विरोध इति ।। भ्रमकाले पुरोवृत्ति- ग्रहणाहीतभेदमन्यत्र विद्यमानरजतस्मरणं बाधकाले च पुरोदेशे विद्यमानरजताभावानुभवः अतो न रजततदभावप्रतीत्योर्विरोध इति वक्ष्यमाणत्या दित्यर्थः । यदि पुरोदेश एव रजतज्ञानं तदा परं विरोधः स्या, चैवमिति भावः ॥ श्री० --रजतज्ञानस्य शुक्तिविषयकत्वमनुभवविरुद्धं चेत्याह ।। तत्रेति ॥ देवानां प्रियो मूर्ख इत्यथः ।। अतिप्रसङ्ग इति ॥ घटावभासस्यापि पटविषयकत्वं स्यादित्यर्थः । शुक्तिकायामिदं रजतमिति ज्ञानस्य शुक्तिकालम्बनत्वाभावे रजतमेवालम्बनं स्यात् । तथाच रजतं वास्तवं स्यादित्याशङ्कते ॥ नन्विति ।। इष्टापत्तिं मन्यानः प्राभाकर उत्तरमाह ।। कथं न भवितव्यमिति || भवितव्यमित्यर्थः । च यत्सन्निकृष्टेति ॥ स्वकरणानुयोगिकसन्निकर्पप्रतियोगित्वं स्वनिरूपितविषयत्वमित्यर्थः ।। आकाशादीति ।। रूपादिज्ञानोत्पादकेन चक्षुरादिना गगनादेवि भुतया संयुक्तत्वादिति भावः ॥ ततेति ।। प्रत्यभिज्ञोत्पादकेन करणेन अतीतायाः तद्देशतत्कालसंबन्धित्वरूपतत्तायाः सन्निकर्षाभावादिति भावः । वाक्यार्थे व्याप्तिमाह ॥ न हीति ॥ आकाशादावतिव्याप्तिं दर्शयति ॥ आकाशादीति ॥ शब्दस्या- काशगुणत्वादिति भावः । आत्मन्यतिप्रसङ्गमभिदधाति ।। लिङ्गेति ॥ देवानां प्रिय इति समस्तम् । अलुक्प्रकरणे पष्ठया आक्रोश इति सूत्रे देवानां प्रिय इति वक्तव्यमिति कात्यायनवचनात् ॥ अति- प्रसङ्ग इति । घटाद्यवभासकस्यापि पटाद्यालम्चनताऽऽपत्तरिति भावः ॥ कथमिति ॥ गुरूणां मते रजतज्ञानस्य स्मृतिरूपतयाऽवास्तवरजतविषयकत्वाभावादिति भावः || यथा न विरोध इति ॥ रजत- स्मृतेः पुरोदेशवृत्तित्वानवगाहितयाऽभावांशे तद्वत्तित्वावगाहिबाधज्ञानस्य न विरोध इत्यर्थः । ननु ती. त्यादिग्रन्थेनाभिधास्यमानत्वादित्यर्थः । सु०-न चान्यथाख्यातिजनने कारणं पश्यामः । न च चक्षुरादिकमेव कारणम् । तस्य समीचीनज्ञानकरणतावधारणात् । न खलु जरामरणविध्वंसहेतुजातु सुधा तद्धेतुरपि भवति ।
रीतकार्यजननसामर्थ्यमादधति । न खलु दुष्टं कुटजबीजं वटं जनयति । किं नाम न जनयत्येव कुटजाङ्कुरम् । न च वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति । पाकेन द्रव्यान्तरोत्पत्तेस्तेपामबीजत्वात् । वा०- एवं स्वरूपानिर्वचनेनान्यथाख्याति निराकृत्य हेत्वसम्भवेनापि तां निराकरोति ॥ न चेति ।। यद्वा ननु विशिष्टज्ञानसामग्रीबलेन तसिद्धेन ज्ञानद्वित्वकल्पनया विरोधपरिहार उपपन्न इत्यतस्तत्सामग्र्य. भावमेवाह ।। न चेति ।। समीचीनज्ञानहेतुतया क्लप्तत्वमेवकारार्थः ।। समीचीनेति ।। विरोध- स्फोरणाय चक्षुरादिनाऽन्यथाख्यातिजनकम् । तद्विरोधिज्ञानसामप्रित्यात् । वादिप्रसिद्ध्या च साध्य- प्रसिद्धिरिति विवक्षितानुमाने या यद्विरोधिसामग्री न सा तद्वेतुरिति सामान्यव्याप्ती दृष्टान्तमाद ।। न खल्विति ॥ अप्रयोजकतापरिहाराय कार्यवैचित्र्यानुपपत्तिरूपं बाधकमाह । कारणेति ॥ अन्यथोपपत्तिं शङ्कते ।। न चेति ॥ दोपाणां कार्यसहकारित्वमसिद्धमित्याह । दोपा हीति ॥ तेपा- मपि संस्कारादिवत्कार्थान्तरजनकेन्द्रियादिसहकारित्वे दोपत्वेन प्रसिद्धिर्न स्यादिति हिशब्देन!ह । ननु तेन तत्कार्याजनने तत्मामर्थ्यस्यैवाभावान्न प्रतिबन्धककल्पनेत्यतो दोषाभावदशायां तेन तज्जातीयेन वा कार्योत्पादेन तत्सामर्थ्यस्य सिद्धत्वाद्युक्त्या प्रतिबन्धककल्पनेत्याशयेनौत्सर्गिकेति विशेपणम् । दोपाः कार्यजननसामर्थ्यनाशका न विपरीतकार्यजननसामर्थ्याधायकाश्च दोपत्वादित्यनुमानयोईष्टान्तं सूचयन् अन्यथा कुटजबीजस्य वट जनकत्वं स्यादित्यादिविपक्षबाधकं च दर्शयति ॥ न खस्विति ॥ द्वितीयानु माने व्यभिचारमाशङ्कय निषेधति ॥ न चेति ॥ स० कारणमपि दूपयति ॥ न चेति ॥ नाऽपीत्यर्थः । ५०-जात्विति ॥ कदाऽपीत्यर्थः ।। कार्यस्य चेति ।। अन्यथाख्यातिशब्दितभ्रमरूपकार्यस्य चेत्यर्थः । कार्यभेदस्य चेतिपाठे भ्रमप्रमारूपकार्यभेदस्य चेत्यर्थः । कुटजबीज गिरिमल्लिकाबीजम् ।। दायदहनदग्धेति ।। वनवह्निदग्वेत्यर्थः । इति न च वक्तव्यमित्यन्वयः । या०-तद्धतुरपीति ॥ जरामरणहेतुरपीत्यर्थः ॥ काय मेदस्येति ॥ कार्य लक्षण्यस्येत्यर्थः ।। विप्रतिपन्नत्यादिति ॥ भ्रमरूपविलक्षणकार्यस्याधुनाऽप्यसिद्धत्वादिति भावः ॥ दावदहनेति ॥
श्री०- नन्वेकस्यैव चक्षुरादेः समीचीनासमीचीनज्ञानद्वयजनकत्वमस्त्वित्यत आह ॥ कारणक्य इति ॥ कुटजेति ॥ काजवारेत्यपभ्रष्टभापा || पाकेनेति ॥ दावदहनरूपतेज. संयोगा- ख्यपान वेत्रबीजनाशेन कदलीकाण्डबीजरूपद्रव्यान्तरोत्पत्तस्तेषां वेत्रबीजानां कदलीकाण्डबीजत्या. भावादित्यर्थः ।। च० ननु रजतस्मृतिशुक्तिचक्षुःसन्निकर्षभेदाग्रहदोषादिघटितसामग्येदमंशधर्मिकरजतप्रकारक. ज्ञानस्यैवोदयेन ज्ञानद्वित्वोपगत्या विरोधसमाहितिर्न सङ्गच्छत इत्याशङ्कायां तादृशी सामग्रीमेव प्रत्या ख्याति ॥ न चेति ॥ दोषपक्षकनैसर्गिककार्यजनकसामर्थ्य विधातकत्वविपरीतकार्यजननसामर्थ्याधायक- त्याभावसाव्य दोषत्वहेतुकदुष्टकुटजवीजनिदर्शनकमनुमानद्वयमभिप्रेत्याद्यानुमानेऽप्रयोजकताशङ्कानिरासाय प्रकृतसाराभावापादकप्रकृतहेत्वभावापाद्यकदुष्टकुटजबीजगृहीततदुभयव्याप्तिकापत्ति दर्शयति ॥ दोषा हीति ॥ औत्सर्गिकेति ।। नैसर्गिकेत्यर्थः । कुटजबीजं गिरिमल्लिकाबीजम् । द्वितीयानुमानेऽनैकान्त्य- माशङ्कते ॥ दावेति ॥ समाधत्ते ॥ पाकेनेति ।। पीलुपाकप्रक्रियाऽऽश्रयणादिति भावः । सु०-किश्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् । तथा च कथं बाह्यार्थनिन्हवं निराकुर्मः । तथा हि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् । तच्चत्कचियभिचरति । तदा तत्सर्वत्र शङ्कितव्यभिचारमेव । न च तच्छङ्कापङ्कसङ्कालनक्षम किश्चिदन्यद्विज्ञानात् । तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् । ततश्च कुतो बाह्यार्थप्रत्याशा । न च वाच्यं यथा घटादेः पार्थिवस्य बहिव्यभिचारेऽपि न धूमस्यापि तव्यभिचारः शङ्कयते । एवमेकज्ञानस्वार्थव्यभिचारेऽपि न सर्वत्र व्यभिचारशङ्केति । वैषम्यात् । अस्ति हि तत्र पार्थिवत्याविशेषेऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः । न हि तत्र बाधकं किञ्चित् । तेनोपपद्यते तत्रावासः । प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वास निरसनक्षममीक्षामहे । न च बाधकमावाभावरूपाद्विशेषाव्यवस्थेति याच्यम् । बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् । न खलु बाधकस्य किमपि शृङ्गमस्ति । वाधकाभावश्चानुपसञ्जात.
विसंवादलक्षणोऽपि विशेषः परास्तो वेदितव्यः । तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् । अपि च प्रतीयमानोऽयं रजनाकारः कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्टमन्य. थाख्यातिवादिनाम् । बाधविरोधश्च तथा सति स्यात् । नापि देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । तथा च जित साकार विज्ञानवादिमियों द्वैः । । वा० नन्विदरजतमित्यस्य विशिष्टविषयकज्ञानत्वस्यानुभवबलेन सिद्धेः कार्यान्यथाऽनुपपत्त्या दोषाणां विपरीतकार्यजनकत्वं कचित्कल्पनीयमेवेत्यतः सति बाधके साधकमात्रेणार्थीसिद्धस्तदन्यथासिद्धि- रेवोचितेत्याशयेनाह ।। किं चेति ॥ सर्वत्र व्यभिचारशङ्कायामपि न नः काचित्क्षतिरित्यतः साधकान्तरा. भावाज्ज्ञानस्याप्यसाधकत्वे ज्ञानातिरिक्तासिद्धया स्वरूपत्वेन प्रतीयमानार्थीकारस्यालीकत्वानुपपत्त्या धीरेव तदाकारेति बाह्यार्थापलापिविज्ञानवादिनः प्रति मूकता स्यादित्याह ॥ तथा चेति ॥ ननु ज्ञानस्यार्थयभिचारे तेनार्थसिद्धिरेव न स्यान्न तु सर्वथाऽसिद्धिः । प्रमेयत्वस्य वह्निव्यभिचारेऽपि धूमेन तत्सिद्धिदर्शनात् । ज्ञानस्यैव तत्साधकत्वेऽपि व्यभिचारशङ्कानिवर्तकेन तन्निवृत्तौ ज्ञानादर्थसिद्धिः सुलभैवेत्यत आह ॥ तथा हीति ।। उक्तमिति ॥ न हि स्वप्रतिबन्धकनिवर्तकं स्वयमेयेति भावः । ननु सति विशेषदर्शने साधारणधर्मदर्शनमात्रेण न व्यभिचारशङ्काऽतिप्रसङ्गादिति शक्कते ॥ न च वाच्यमिति ।। अतिप्रसङ्गविषये विशेषदर्शनेऽपि न प्रकृते तदित्याह || वैपम्यादिति ॥ ननु प्रकृत. विशेपवदयमप्यप्रयोजक इत्यतो वक्ष्यमाणबाधकवशेन प्रकृतविशेषानुपपत्तावपि नात्र काचिदनुपपत्तिरि- त्याह || न हीति ॥ नन्वत्रापि प्रमात्वादिरेव विशेप इत्यतोऽर्थाव्यभिचारिज्ञानत्वस्यैव प्रमाल्यरूपत्या. दर्थव्यभिचारशङ्कया तदनिश्चये उद्भाविते तेनैव शङ्कानिरासोक्तिरनुपपन्नेत्याशयेनोक्तमनाश्वासनिरसनदक्ष- मिति । ननु ज्ञानत्वावान्तरविशेष एव वक्तव्य इति न नियमः । शानिरासस्तु विशेपान्तरादपीत्या- शयेन विशेपान्तरमाशयेन विशेपान्तरमाशङ्कय निषेधति ॥ न चेति ॥ ननु बाधकत्वादेव न तत्र शङ्केत्यत आह ॥ न खल्विति ॥ एवं भ्रमत्वसाधकस्य बाधकवत्वहेतोरप्रयोजकत्वमुक्त्वा प्रमात्व. साधकस्य बाधकामाववत्वहेतोय॑भिचारमाह || बाधकेति ॥ न हि संवादकस्य शृङ्गामस्तीत्युक्तोपपादन प्रकारस्यात्राप्यनुसन्धेयत्वं सूचयति ॥ उक्तेति । अधिकं वक्तुं सामान्यत उक्तं स्पष्टयति ॥ संवादक- मपीति ॥ संवादवत्त्वं व्यभिचारि च त्वद्रीत्येत्याह || अङ्गीकृतश्चेति ॥ संवादविसंवादौ नार्थतोऽपि देशार्थमाह ॥ तदिति ।। ननु स्वतःप्रामाण्यवादिना प्रामाण्यग्राहके साक्षिणि साक्षित्वादिरूपविशेषस्य धूमत्वादेरिवानाश्वासनिरसनदक्षस्य स्वीकारान्न तं प्रत्यनुपपत्तिरित्यत आह ॥ अपि चेति ॥ रजताकारो बास आन्तरो वा । आद्येऽपि पुरोवर्तिनिष्ठो देशान्तरनिष्ठो वेति विकल्पान्मनसि निधाय क्रमेण दूपयति ॥ न तावदित्यादिना ।। स० सति बाधके ज्ञानस्यार्थव्यभिचारित्वमित्यंश तस्य बाधकत्वानुपपत्त्या प्रदूप्य बाधका- भावेऽर्थाव्यभिचारित्वमित्यंशं दूपयति || बाधकाभावश्चेति ॥ उक्तोत्तरत्वादित्युक्तमेव प्रपञ्चयति ॥ संवादकमपीति ॥ सति संवादे ज्ञानस्यार्थाव्यभिचारित्वमित्यत्र व्यभिचारमाह ॥ अङ्गीकृतश्चेति ।। देशान्तरवर्तीति ॥ नैयायिकोक्तान्यथाख्यातिनिरासावसर इति शेषः । ५०-एवं 'साकारवादादसतो न भावात्संविद्विरोधादथ हेत्वभावादि'त्यन्यथाख्यात्यनुपपत्तौ परोक्तहेतून विवृत्य ज्ञानस्य व्यभिचारित्वे विश्वासः किं निबन्धन इति परोक्तं व्यनक्ति ॥ किश्वप्रदर्शितेति । बाह्यार्थ- निहवं बाह्यार्थापलापं । आन्तरं ज्ञानमेव घटा दियाह्यात्मिनाऽवभासते । वस्तुतो बाह्यभूतोऽर्थोना नास्तीति बौद्धैरुच्यमाने बाह्यार्थापलापमित्यर्थः ॥ तदिति ॥ ज्ञानमित्यर्थः ।। न प्रभवतीति ।। शङ्का निवर्तने अर्थसत्त्वनिश्चये वा न क्षमत इत्युक्तमित्यर्थः ।। प्रत्याशा दुराशा । अन्ते अन्ततः ॥ शङ्केतीति । न च वाच्यमिति पूर्वेणान्वयः । बाधकाभावोऽऽपि नाश्वासहेतुरित्याह ॥ बाधकामाव- थेति ॥ उक्तोत्तरत्वादित्येतद्व्यनक्ति ॥ संवादकमपीति ।। परेणेति ।। अन्यथाख्यातिवादिना ॥ अन्यथा- ख्यातिवादिना ॥ भ्रमवादिनामित्यर्थः । तथात्वे भ्रान्तित्वाभावाऽऽपत्तेरिति भावः । वक्ष्याम इति ।। तार्किकाभिमतान्यथाख्यातिनिरास प्रस्तावे॥ 1 या०--बाह्यार्थनिहरमिति ॥ बाह्यार्थापलापमित्यर्थः । विज्ञानवा दिनो हि बाह्यमर्थमप- लपन्ति । तन्निराकरणं च प्रत्ययेनैव क्रियते । स चेव्यभिचारकलङ्कितः कथं तर्हि तन्निराकरणे क्षमः स्यादिति भावः । एतदुपपादयति ॥ तथाहीति !! उक्तोत्तरवादित्युक्तमेव विशदयति ॥ संवादक- मपीति ।। स्वमते विभ्रमाभावादाह !! परेणेति ॥ ज्ञानजन्यव्यवहारेति ॥ अत्र व्यवहारपदेन प्रवृत्तिरेव विवक्षितेति ज्ञातव्यम् ॥ तद्विशेषग्राहिण्यपीति ॥ तस्यापि ज्ञानत्वादिति भावः । नदुक्तम् । 'अहो बत भहानेप प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वासः किं निबन्धन इति । 66 ताशपणाहण्यपात ॥ आवसवादिभात्तजनकामदशानामात माहिण्याप ज्ञान इत्ययः । पुरावात शुक्तिशकलम् ।। इष्टमिति ॥ अन्यथाख्यातिवादिमिस्तस्यान्यत्र सत्वाङ्गीकारादित्यर्थः ।। पाधविरोध- श्चेति । नेदं रजतमिति पुरोवर्तिनिष्ठत्वाभाधावगाहिबाधकप्रत्ययविरोधश्चत्यर्थः ॥ वक्ष्याम इति ।। न च विप्र.प्टेन रजतेन सन्निकर्षोऽम्तीत्यनुपदमेब वक्ष्याम इत्यर्थः । च०-- 'साकारवादादसतो न भानात्संविद्विरोबादथ हेत्वभावादिति प्राभाकराभिहितान्यथा : ख्यातिन्यककृतिहेतून्विशवीकृस्य घियामनाश्वासभयाच्च नेष्टा यतोऽन्यथाख्यातिरतो यथार्थेति । अहो बत महानेप प्रमादो धीमतामपि ।' ज्ञानस्य व्यभिचारित्वे -विश्वासः किं. निबन्धन इति गुरूक्तबाधकानि स्फुटीकरोति ॥ किं चेति ॥ निह्नवमपलापं । आन्तरविज्ञानातिरेकेण बाह्यार्थस्यालीकतां मन्वाना विज्ञानवादिनो बाघार्थानपलपन्ति प्रत्ययस्याप्रामाण्यशङ्कास्कन्द्रिततायां कथां तादृशप्रत्ययेन ते प्रत्या- ख्येया इति भावः । अथ वह्नित्वावच्छिन्ननिरूपित्तव्याप्यतावच्छेदकीभूतधूमत्वादिप्रतिसन्धानदशायां तव्याप्याव्याप्यसाधारणपार्थिवत्वादिप्रतिसंहितावपि तन्निरूपितव्याप्तितदभावकोटिकशङ्का यथा नोटेति तद्वत्प्रकृते प्रमाभ्रमोभयसाधारणज्ञानत्वादिप्रतिसन्धानेऽपि प्रमात्वयाप्यतावच्छेदकीभूतधिपयविसंवाद. विरहत्वावच्छिन्नस्य दर्शने 'कथं प्रमात्यतदभाबकोठिकशङ्कोदीयादित्याशङ्कायां निदर्शने तत्समवधानेऽपि प्रकृते न तत्समवहितिरित्याह || नवेत्यादि । बायैः वेदप्रामाण्यानङ्गीकर्तृभिः । . सु०-ननु त_दं रजतमित्यादिप्रत्ययस्य का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् |; दोपवशात्तद्गतस्य शुक्तित्व- सामान्यविशेपस्याग्रहणात् । तन्मानं च गृहीतं सदृशतया संस्कारोबोधक्रमेण रजतस्मृति जनयंतिं । सा च गृहीतग्रहणस्वभावाऽपि दोषवशाद्गृहीततत्तांऽशप्रमोषेण गृहीतिसरूपाऽव- तिष्ठते । तथा च रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूंपतो विषयतश्च भेदाग्रहणात्सन्नि हितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहार सामानाधिकरण्य- व्यपदेशं च प्रवर्तयतः । कुत एतदिति चेन्न । अन्यथाऽनुपपत्तेरुक्तत्वात् । किश्चदमिति पुरोवर्ति नयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजम् । इन्द्रियस्थ सन्निकृष्टार्थ एव ज्ञानजननसामर्थ्यात् । अन्यथा सर्वसार्वज्ञप्रसङ्गात् । न च विप्र- व्यवस्था । दापाणा विपरातकाय कारिताया निरस्तत्वात् । भमकदापदूषितस्य जाठरजात. वेदसो बहुतराऽऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न । विप्रतिपत्तेः । दोषस्यैवाऽऽहार- विकारहेतुतोपपत्तेः । न च दहनकार्य कथं दोपः कगेतीति वाच्यम् । कार्येऽपि वैजात्योप- लम्भात् । जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा । तस्मान्ने- दमिन्द्रियजम् । न च लिङ्गायनुसन्धानविधुराणामपि जायमानमनुमानाऽऽदिप्रभवमिति वक्तुं शक्यते । अतः प्रत्युत्पन्नकरणाभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् । वा०-नन्वनन्यथासिद्धेदं रजतमित्यादिप्रत्ययवलाद्वाधकानामन्यथोपपत्तिरेवोचितेत्याशङ्कते ।। नन्विति ।। रजतमित्यस्य स्मृतित्वस्यैव मुख्यतः प्रतिपाद्यत्वात्तत्प्राधान्याभिप्रायेण रजतमिति स्मृतीति चादितो ग्रहणम् । यद्वा स्मृतिशब्दस्याल्पाच्तरत्वेन पूर्व प्रयोक्तव्यत्वे तदनुसारेण रजतमित्यस्यादितो ग्रहणमिति द्रष्टव्यम् || शुक्तित्वेति ॥ रजताद्भेदहेतोः ॥ शुक्तित्वजातिविशेषस्याग्रहादित्यर्थः । यद्वा शुक्तित्वरूपस्येदमात्मकसामान्य प्रति विशेषस्याग्रहादिदमिति द्रव्यमात्रग्रहणं भवतीत्यर्थः ।। गृहीतेति ॥ गृहीतमिदमिति प्रकाशनस्वभावेत्यर्थः । नन्वेवं ज्ञानद्वित्वेऽभेदव्यवहारादि न स्यादित्यत आह ॥ तथा चेति ॥ ननु किमिदमेकैक प्रवृत्तिहेतुर्मिलितं वा । नाद्यः । पृथक् प्रदेशे प्रवृत्तिप्रसङ्गात् । नान्त्यः । क्षणिकयोनियोर्मेलनायोगादिति चेन्न । मेलनाभावेऽपि नैरन्तर्येणोत्पन्नयोरेव तथाविधप्रवृत्तिहेतुत्वोपपत्तेः । विनश्यदविनश्यतोः सहावस्थानाद्वेति भावः ॥ सन्निहितेति ॥ सन्निहितरजतगोचरं ज्ञानमिदमिति रजतमित्याकारयोरसंसर्ग न गृहाति तयोः संसृष्टत्वेनासंसर्गाभावात् । नापि स्वगतविवेकमेकज्ञानत्वा. देवमेत अपि ग्रहणसारणे परम्परं भिन्ने अपि स्वगतभेदं न गृहीतो नाप्यसन्निकृष्टौ स्वगोचरौ तथैव निवेदयत इति सारूप्यम् । तथोक्तं नयवीश्याम् । 'नन्वेवं रजताभासः कथमेप घटिप्यते । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् || शुक्तिकाया विशेपा ये रजतानेदहेतवः । ते न ज्ञाता अभिभवात् सामान्यरूपता ॥ अनन्तरं च रजते स्मृतिर्जाता तयापि च । मनोदोषात्त. दित्यंशपरामर्शविजितम् || रजतं विषयीकृत्य नैव शुक्तविवेचितम् । स्मृत्यातो रजताभास उपपन्नो भविष्यति ॥ ग्रहणस्मरणे चेमे विवेकानवमासिनी । सम्यग्रजतबोधानु भिन्न यद्यपि तत्वतः । तथाऽपि भिन्ने नाभातो भेदाग्रहसमत्वतः । सन्निहि नरजनशकले रजतमतिर्भवति यादृशी सत्या ॥ भेदानध्य- वसायादियमपि तादृक् परि फुरति । साधारणं हि रूपं तम्या अस्याश्च विद्यते तेन ॥ तन्मात्रप्रतिभाना ज्ञाता 6Ga ख्यातिबाधकवशात्प्रत्ययादीनामेव गतिः कल्पनीया वा प्रत्ययादिवशादसत एवाकारस्य ख्याति दोषाणां च विपरीतकार्य जनकत्वं च प्रकल्प्यान्यथाख्यातिबाधकान्येव परिहार्याणीत्येवं सन्देह एव स्यान्न तु निश्चय इत्यतो रजतमित्यस्यानुभवत्वानुपपत्त्या स्मृतित्वे सिद्ध ज्ञानद्वित्यादेः सर्वस्य सिद्ध्या निश्चयोपपत्ते रित्याशयेन रजतमित्यस्य स्मृतित्वे परिशेषमाह || किंचेति ॥ रजतमिति ज्ञानं स्मृतिः अनुभवत्वे कारणाभावेऽपि उत्पद्यमानज्ञानत्वात् इति विवक्षितानुमाने नासिद्धिः । प्रत्युत्पन्न बाधकोपपन्नत्वे सति ज्ञानत्वात् । न च विशेषणासिद्धिः । विमतं नानुभवः प्रत्युत्पन्नकारणं चेन्द्रिय लिङ्गादिकं वा । आद्येऽपि तदसन्निकृष्टं सन्निकृष्टं वा । सन्निकृष्टत्वेऽप्यारोप्यरजतसन्निकृष्टं वाऽधिष्ठानशुक्तिमन्निकृष्टं वेतिविकल्पान्मनसि निधाय क्रमेण दूषयति ॥ रजतज्ञानं चेत्यादिना । योगिसार्वज्ञाभ्युपगमादिष्टापत्तिनिरासायोक्तं सर्वेति । विप्रकृटेनेति हेतुगभविशेषणम् । कार्यादर्शनमात्रस्य कारणत्वाभावासाधकत्वात्कदाऽपीति विशेषणम् । नन्वाहारविकाररूपकार्यान्यथाऽनुपपत्यैव दुष्टजात. वेदसो हेतुत्वसिद्धेन विप्रतिपत्तिरित्यत आह ॥ दोपस्येति ।। नन्वेवं व्यभिचारान्नामेरपि हेतुत्वमित्या. शङ्कय निषेति ॥ न चेति ।। तदुक्तं नयवीथ्याम् । 'उच्यतेऽनन्यगतितः स्मृतिस्त्रावगम्यते । न एसन्निहितं तावत्प्रत्यक्षं रजतं भवेत् ।। लिङ्गाधभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेपास्मृतिरिति निश्चयो जायते पुनः । तस्याः कारणसद्भावादिति ।। । स०-- प्रतीति तु प्रकारान्तरेणोपपादयिष्याम इत्युक्तम् । तदुपपादयितुं शकते ॥ नन्विति ।। तत्रेदमितीति । अस्य च ज्ञानस्य स्वाप्रकाशस्यापि स्वस्य स्वाविषयत्वेतरस्मादविवेचकत्वस्य वक्ष्यमाणस्य विशेषानाकलनस्य च सिद्ध्यर्थ दोपवमादित्युक्तम् । ननु गृहीतग्रहणस्वभावायाः स्मृतेः तद्विपरीतागह- णाद्गृह्यमाणाचार्थस्य स्वस्य च किमिति न विवेचकत्वं तत्राह । सा चेति ॥ दुष्टमनोयोनित्वात्तद्देश- कालवैशिष्टयं न गृह्णातीत्यविवेचकत्वम् । तथापि कथं स्वरूपतो विषयतश्च भिन्नाभ्यां संसृष्टप्रवृत्तिरिति तत्राह ॥ तथा चेति ॥ नन्विदमितिज्ञानमिदमंशे प्रवर्तयतु । रजतज्ञानं च रजते । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिम्तु कुतस्तत्राह ॥ स्वरूपतो विषयतश्चेति ॥ ननु किमिदमेकैकं व्यवहारहेतु मिलितं वा । नायः पृथक् पृथक् प्रवृत्तिप्रसङ्गात् । नान्त्यः क्षणिकज्ञानयोर्मलनासंभवादिति चेन्न । मेलना. ऽभावेऽपि नैरन्तर्येणोत्पत्तरेव तथाविधप्रवृत्तिहेतुत्वोपपत्तेः विनश्यदविनश्यतोः सहावस्थानाद्वेति ।।
बाधादित्याह ।। अन्यथेति । एवं कल्पनाभावे || अनुपपत्तेः । परिणामपक्षे भ्रान्तिबाधानुपपत्तेः । अन्यात्मना भानपक्ष चासतोनभानात् । साकारवादात्संविद्विरोधाद्धेत्वाभावादित्याद्यनुपपत्तेरुक्तत्वा- दित्यर्थः । परिशेपरूपप्रमाणाच्च ग्रहणस्मरणरूपं इदं रजतमिति ज्ञानमित्याह ।। किंचेत्यादिना ।। अस्तु संनिकर्ष इत्यत आह || न च विप्रकृष्टेनेति ॥ नास्तोति कथं ज्ञायत इत्यत आह ॥ तत्कार्य- स्येति ॥ या० --एवं 'साकारवादादसतो न भानात्मविद्विरोधादथ हेत्वभावात् । धियामनाश्चासभयाञ्च नेष्टा यतोऽन्यथाख्यातिरतो यथार्थे 'त्यन्यथाख्यातिबाधकसङ्ग्राहकस्वाचार्य श्लोकोक्तबाधकानि परपक्षेऽ- भिधाय स्वपक्षसाधनाय पूर्वपक्षमुत्थापयति ॥ ननु तीति | गृहीतिसरूपेति ॥ अनुभवसदृशी. त्यर्थः ॥ अनुभवो यथा तत्ताऽनुल्लेखी तथेदं रजतस्मरणमपीति भावः ॥ सनिहितरजतज्ञानेति ।। समीचीनरजतज्ञानसादृश्येन स्वरूपतो विषयतश्च भेदाग्रहणेत्यर्थः । इयांस्तु विशेषः । समीचीनरजत- ज्ञानसादृश्येन स्वरूपतो मिपयतश्च भेदाग्रचणेत्यर्थः । इयोस्तु विशेषः । समीचीनरजतज्ञानेऽविद्यमान. भेदाग्रह इति । परिशेषादपि रजतज्ञानस्य स्मृतित्वं साधयितुमाह ॥ पजतज्ञानं चेत्यादिना || भस्म- कलक्षणो दोपो व्याधिरूपः ॥ , ॥ श्री-अभेदव्यवहारमिदं रजतमिति तादात्म्यव्यवहारम् । सामानाधिकरण्यव्यपदेशमिदं रजतमित्येक- विभक्त्यन्तपदवाच्यत्वव्यपदेशमित्यर्थः । इदन्त्वरजतत्वरूपभिन्नप्रवृत्तिनिमित्तानामिदं रजतमित्यादि- शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमित्यप्याहुः ॥ तत्कार्यस्येति ॥ सन्निकर्षकार्यस्येत्यर्थः ।। दोपस्यैवेति ।। न तु तद्रूपितस्य जाठरजातवेदस इत्यर्थः । तदुपपादयति ॥ जाठरेति ॥ प्रत्यु. त्पन्नेति । अव्यवहितपूर्वक्षणवर्तीन्द्रियार्थसन्निकर्परुपकरणाभावेऽपीत्यर्थः । · अनेन रजतज्ञानेन । इदं रजतमिति ज्ञानम् ॥ च०. प्राभाकरीयामन्यदीयपक्षे बाधकाभिधानभङ्गी प्रदर्य तसिद्धान्तसमर्थनभङ्गी प्रदिदर्श- यिषाया शङ्कते ॥ ननु तहीति || तत्तांशमोपेण तत्तांशविषयीकरणेन । गृहीतिसरूपा अनुभवसदृशी ।।
चाग्रहणादित्यर्थः । सन्निहितरजतज्ञानसारूप्येण । आपणस्थरजतज्ञाननिरूपित न भेदाविशषितवस्तु. विषयककत्वोक्तभेदग्रहा विषयत्वनियन्त्रितसादृश्येन । इदं तु वैशेप्यं वास्तवरजतस्थले ज्ञानविपययोर्भेदाग्रहः भेदासत्वनिबन्धन प्रकृते तु तत्सत्त्वेऽपि तदग्रहः ॥ दोषनिमन्धन इति ॥ अभेद. व्यवहारमिदं रजतमिति । ज्ञानमेकमिति व्यवहारम् । सामानाधिकरण्यव्यपदेशम् । इदमंश- विशेष्यकं रजतत्वप्रकारकं चेदं ज्ञानमितिवाक्ये समानविभक्तिकअनेकपदसमभिन्याहारम् । प्रपश्चितं चैतन्नयवीथ्या गुरूणां मतम् । उत्तदाजाहश्च तानि वचनानि व्याकर्तार इति । नयनसंप्रयोगः। नयन- सन्निकर्षः । रजतज्ञानरूपे धर्मिणि स्मृतित्वं पक्षान्तरप्रतिषेधविशेपितपरिशिप्यमाणत्वरूपपरिशेपेण सिपाधति हेतुवाक्यघटकाद्यदलार्थमुपपादयति || रजतज्ञानं चेति ॥ अतिप्रसङ्गादिति ॥ घटचक्षुः- सन्निकर्पस्यापि पटादिचाक्षुषोत्पादकताप्रसङ्गादित्यर्थः । भस्मकदोपः आमयविशेषः ॥ प्रत्युत्पन्नेति ।। रजतज्ञानं स्मृतिरूपं स्वाव्यवहितपूर्वक्षणावच्छिन्नोत्पत्तिकेन्द्रियसन्निकर्पलिङ्गपरामर्शाकाकाङ्क्षाज्ञानाद्यन्यतमा समबधानदशायामुत्पद्यमानत्वादित्यनुमानेन स्मृतिवं सेत्स्यतीत्यर्थः । सु० ---किंचेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्सम्प्रतिपन्नस्मरणवत् । न चेद- मस्मरणम् । तत्तांऽशविकलत्वात्सम्प्रतिपन्नवदिति युक्तम् । पदात्पदार्थस्मृतौहरिहरादिस्मृती च व्यभिचारात् किश्चानुभूतं तावन्न समस्तं स्मर्यते । तत्तांऽशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः । तथा च स्मरणं च भवतु | भवतु दोषवशात्प्रमुपिततत्तांऽशम् । न च विपक्ष बाधकं किंचिदित्यप्रयोजको हेतुः । न च नेयं स्मृतिरिन्द्रियजन्यत्वात् । तञ्चेन्द्रिय- व्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् । स्मृतिमीजसंस्कारोद्धोधहेतुपुरोवर्तिसाधा- रणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षणीत्वात् । नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न । जन्मान्तरानुभूतत्वात् । अदृष्टवशाच कस्यचिदेव स्मरणमुपपद्यते । अथवा नायं नियमो ग्रहणस्मरणे एवागृहीत विवेके व्यवहारादिप्रवर्तक इति किन्तु कचि ग्रहणे एव मिथोऽगृहीतभेदे । यथा पीतः शङ्ख इति । अत्र हि विनिर्यनयनरश्मिवर्तिनः । पित्तद्रव्यस्य पीतत्वं दोपवशाद्रव्यरहितं गृह्यते । शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरितरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीत- चिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवतः । यत्तु व्यवहाराः सर्वेऽपि निर्वाह्याः ।। घा०-- ननु. दोषाणां विपरीतकार्यजनकत्वे कल्पिते प्रत्युत्पन्नदुष्टेन्द्रियजन्यत्वोपपत्तेः परिशेषो. ऽनुपपन्न 'इत्यत आह । किं चेति ॥ प्रतिपक्ष शङ्कते ॥ न चेति ॥ पदार्थस्मृत्यादेः . साधकाभावे स्मृतित्वस्यैवाभावापत्याऽवश्यवक्तव्यं स्मृतिस्वादिसाधकं यत्तद्विकलत्वादेवास्यास्मृतित्यं साधयिप्यामी- त्याशङ्कायामाह ।। किं चेति ॥ स्ययमाणरजतमात्रस्यास्य कथमस्मरणमित्यत आह ॥ तत्तांशश्चेति ॥ प्रतिपक्षान्तरं शकते ॥ न चेति ।। ननु नेयं स्मरणत्वकल्पनोपपद्यते । जातमानस्य शिशो; थूत्कारानुमेये तिक्तो गुड इत्यादिप्रत्ययेऽस्यासंभवादित्याशङ्कते ॥ नन्विति ॥ स्तनपानादिप्रवृत्त्यन्यथाऽनुपपत्त्या जन्मान्तरानुभूतस्मरणस्यावश्यकल्पनीयतया नानुपपत्तिरित्याह || जन्मान्तरेति ॥ जन्मान्तरानुभवस्य सर्वत्र सुलभत्वादनुभवाभावेन स्मरणाभावः कुत्रापि न सिदित्यत आह ।। अदृष्टेति ॥ अस्मिन्पक्षे- ; ऽदृष्टप्रयुक्तजन्मान्तरानुभवस्य कल्पनीयतया पक्षान्तरमाह ॥ अथवेति. ॥ अत्र तिक्तो गुड इत्यस्य प्रकृतत्वेऽपि पीतः शङ्ख इत्यादौ परेणोभयोरपि ग्रहणत्योपपादत्ताद् गृह्यमाणारोपेऽसङ्कीर्णोदाहरणत्वाच्च तदतिदेशेन तिक्तो गुड इत्यस्योपपादनाय परोक्तस्थलमेवोदाहरति । यथेति ॥ विनिर्यदिति विशेषणेन पित्तस्यार्जवावस्थितत्वं दर्शयति । गुणगुणिनोरितरेतरसांपेक्षत्वोक्तिरसंसाग्रहोपपादनाय । अतसीपुष्पसङ्का- शनयनमण्डलाम्तःस्थितकालस्य तेजोवृत्तिनिरोधकतया तिर्यगवस्थानमिन्द्रियोपरिभागस्थार्थनाहकवि. नियन्नयनरविमवर्तिपित्तद्रव्यस्यार्जवावस्थितत्वम् । एवं च तद्रपयोमहणाग्रहणे युक्ते इत्याह ॥ यचिति ।। काचो हरितद्रव्यविशेषः । एतच्चोक्तं नयवीथ्याम् । 'अतसीपु:यसङ्काशं यत्तावन्नेत्र- मण्डलम् । तत्र म्यमञ्जनं. . यत्तत्तेजोवृत्तिनिरोधकम् ॥ मण्डलान्तरसंस्थं तु यन्नाम नयनेऽञ्जनम् । तस्यानार्जवदीपेण नीलिमा नावगम्यते ॥. इन्द्रियोपरिभागेऽपि. लिप्तेन स्वच्छभावतः । पित्तेन नायनं तेजः काचेनेव न रुध्यते ॥ प्रसरन्नायनं तेजो ग्राहक नेन्द्रियस्थितमिति' ॥ एवमिति ॥ एतदप्युक्तं नयवीथ्याम् । 'मधुरे तिक्तधीरेवं व्याख्याता पित्तवर्तिनः । तैक्त्यस्य रसहीनस्य गुडस्य च परिग्रहा- दिति' | अनयैव दिशेति ॥ स्वप्नस्थले स्मरणानां स्यरूपतो विषयतश्च भेदाग्रहः । द्विचन्द्रस्थलेङ्गुल्य- वष्टम्नेनेन्द्रियस्य महसो भेदे. सत्येकशीतगुविषयकयोतियोद्वयोर्ग्रहणयोः परस्परं भेदाग्रहः । ग्रहणनिष्ठ. द्वित्वस्य च चन्द्रेण सहासंसर्गग्रहः । ततश्च द्वौ चन्द्राविति सामानाधिकरण्यव्यवहारः । अलातचक्रस्थले - -- -- संस्कारोबोधहेतुश्च तत्रादृष्टं प्रकल्प्यते । अदृष्टस्य तु हेतुत्वाजाप्रतस्तादृशी न धीः ॥ अवस्थाऽपि ह्यदृष्टस्य सामग्रीफलसंभवे । तथा द्विचन्द्रबोधेऽपि भिन्नमेवेन्द्रियं महः । भिन्ने जनयति प्रख्ये एकस्मि- नव शीतगौ । संवित्ती ते न भिद्यते तद्वित्वे सति मन्यते ॥ भिन्नार्थबुद्धितुल्यत्वमत्रापि खलु पूर्ववत् स्मरतोऽप्येकतां तेन अमोऽयमुपपद्यते ॥ न हि स्मृतिप्रमोपेण सर्वत्रैव भ्रमो मतः । दिङ्मोहेऽदृष्टसाम- •हिक्स्वरूपानवग्रहात् ।। दिगन्तरस्वरूपस्य स्यरणाच्च भ्रमो मतः । अलातचक्रेऽलातस्य भ्रमतः सर्वतो द्रुतम् ।। निरन्तरधियो जाताश्चक्रबुद्धिसमा मताः । कालभेदस्तु शीघ्रत्याद्धियां तासां न लक्ष्यते ।। चक्रधीयवहारश्च तेनास्मिन्नपि युज्यते' इत्यादिना । स०- पदारपदार्थस्मृताविति ।। गृहीतसङ्गतिकस्य पदाजायमानायां पदार्थस्मृतौ तत्तांशस्य अप्रतीयमानत्वादिति भावः । जन्मान्तरानुभूतं च न मयत इति शबरस्वमिवचनादस्मर्यमाणत्वाच्च बालस्य तिक्ततास्मृतिः कथमिति चोदयति ।। नन्वेवमिति || जन्मान्तरानुभूततिक्तस्मृतिः करप्यत इत्याह । नेति ॥ तर्हि जन्मान्तरानुभूतं किश्चिदेव स्मयते ।। न सर्वमिति ॥ कुत इत्यतः सहकारि. वशादित्याह ॥ अदृष्टवशादिति ।। एवं तिक्तो गुड इतीति ॥ जिह्वास्थतिक्तद्रव्यगतं तिक्तत्वं दोपयशाद्रव्यरहितं गृह्यते । गुडोऽपि माधुर्यादिगुडहीनः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनो. रितरेतरसापेक्षयोरसंसर्गग्रहात्तिक्तो गुड इति व्यवहार इत्यर्थः ।। क्वचित्पुनः स्मरपो एवेति ।। वल्मीके अयं घट इति प्रत्ययानन्तरं कालान्तरे जायमाने स्मयमाणे एवेत्यर्थः ॥ अलातचक्रव्यवहार इति ॥ भ्राम्यमाणोल्मुके चक्राकारत्वभ्रमोऽलातचक्रव्यवहारशब्देन ग्राह्यः । तत्रापि चक्रनिष्ठचक्राकारस्मरणे पुरोवर्तिग्रहणे विशिष्टव्यवहारमात्रमित्यर्थः । आदिपदेन मण्डूकवसांजनाक्तनयनस्य वंशे उरगभ्रमादि. ग्रहणम् । तत्राप्युक्तन्यायेन ग्रहणस्मरणरूपज्ञानद्वयात्मकत्वमुपपादनीयमिति भावः । प०-- इदं रजतमिति ज्ञानद्वयं ग्रहणस्मरणात्मकं दोषवशादगृहीतशुक्तिविशेषं प्रमुपिततत्ताक- मित्यत्रान्यथानुपपत्तिपरिशेपौ प्रमाणीकृत्यात्र पुनरविवादेदमंशज्ञानं हित्वा रजतज्ञानं स्मरणमित्यंशेऽनुमानं च प्रमाणयति ॥ किंचदं स्मरणमिति ।। इदमिति ।। रजतज्ञानमित्यर्थः । स्मरणमिति साध्यनिर्देशः । अनाकलितरजतस्यानुत्पद्यमानत्वादिति साधननिर्देशः । प्रतिपक्षमाशङ्कय व्यभिचाराप्रयोजकत्वदोषाभ्या द्वोधः तस्य हेतुभूतं यत्पुरोवर्तिनः इदत्वादिसाधारणाकारस्य ग्रहणं तत्रैवेत्यर्थः । तथाचेन्द्रियजन्यत्व- स्यासिद्धिरेव साधकाभावादिति भावः ।। असंसर्गाग्रहात्सारूप्यादिति ।। पीतचिरबिल्वफले इदं पीत- मिति प्रत्ययस्यैकत्वेन तत्र गुणगुणिनोरसंसर्गाग्रहस्य सम्वाद्यथा तत्रासंसर्गाग्रहनिबन्धनः पीतमिदं फल- मित्यभेदव्यवहारसामानाधिकरण्यव्यपदेशौ भवतः तथा पीतः शङ्ख इत्यत्र ग्रहणरूपज्ञानद्वयसत्वेऽपि गुणगुणिनोरसंसर्गाग्रहादभेदव्यवहारादिकमित्यर्थः । नन्वेवं पीतः शङ्ख इतिवन्नयनगतकज्जलकालिम- ग्रहणेन कालः शङ्ख इत्यपि धीः कदाचित्स्यात् । पीतत्वप्रत्ययोपपादकप्रक्रियाया अत्रापि सुवचत्वात् तदग्रहणे पीतत्वाग्रहणं च स्याद्विशेषाभावादित्यत आह || यत्त्विति ॥ आग्रहणमिति पदच्छेदः । यथा पीतः शङ्ख इति दृष्टान्तमुक्त्वा दार्टान्तिकमाह ॥ एवमिति ॥ जिह्वाग्रवृत्तिरसनेन्द्रियेण तत्रत्यतिक्तद्रव्य- गततिक्तरसमात्रस्य ग्रहे सति त्वगिन्द्रियोपनीतगुडद्रव्यतिक्तरसयोरसेसर्गाग्रहात्सारूप्यान्निम्बफलप्रत्यया- विशेषेणाभेदव्यवहार इत्यर्थः ॥ अनथैव दिशेति ॥ अनुभूतत्वे ग्रहणस्मरणे स्मरणरूपे वा न चेत् ग्रहणरूपे एवेत्येवमुक्तदिशेत्यर्थः । या०-तथाच स्मरणं भवत्विति ।। धमिमात्रावगाहि स्मरण भवस्वित्यर्थः । ननु धर्म विहाय कथं धर्मिमात्रं स्मर्तुं शक्यं धर्मस्याप्यनुभूतत्वादित्यत उक्तमनुभूतं समस्तं धर्मभूतं न मर्यत इति । नन्वेवं जन्मान्तरानुभूतसर्वपदार्थस्मृतिः स्यादित्यत आह ।। अदृष्टवशाचेति ॥ कस्यचि. देवेत्यनन्तरं पदार्थस्येति शेषः ॥ स्वरूपमात्रेणेति ॥ शङ्खत्वेनेत्यर्थः ननु यदि नयनगतपित्तद्रव्यनिष्ठं पीतत्वं चक्षुर्माह्य स्यात्तर्हि नयनगतकज्जलकालिन्नोऽपि ग्रहणं स्यादविशेषात् । ततश्च नीलः शङ्ख इत्यपि भ्रमः स्यादित्यत आह ॥ यत्तु कञ्जलेति ॥ तिर्यगवस्थानादिति ।। कजलस्य वक्रतयावस्थानादित्यर्थः । तेन यथा रश्मयो विनिर्गच्छन्ति तत्र न कजलावस्थानमपि तु नयनपाचप्रदेश एवेति भावः । आजवा- वस्थानमभ्युपेत्या प्याह || अस्वच्छतयेति ॥ काचमिवेत्यत्र हरितद्रव्यविशेषः काचशब्दार्थः ।। अलातचक्रादीति ॥ शीघ्रभ्रमितालातज्वालास्विदं चक्रमिति व्यवहार इत्यर्थः । आदिपदेन द्विचन्द्र- दिङ्मोहगन्धर्वनगरवंशोरगादिव्यवहारसंग्रहः । तथाच द्वौ चन्द्रावित्यत्र प्रदेशविशेषगतं द्वित्वं गृहीतं सत् असंसर्गाग्रहाच्चन्द्रनिष्ठतया व्यहियते । मण्डूकवसाक्तनयनस्य वंशे स्मृतोरगभेदाग्रहादयमुरग इति व्यवहार इत्यादि शेयम् । 67 विशेषेणाभेदव्यवहारादिकं ग्रहणे एवागृहीतभेदे कुरुत इत्यर्थः । स घटस्तत्रासीदिति ॥ स घट इत्येकं स्मरणम् । तत्रासीत् घटातिरिक्तमन्यत्किश्चिद्वन्तु तत्रासीदित्यपरं स्मरणम् । तथाच एते स्मरण एव स्वरूपयोस्तद्विपययोर्घटतदन्यवस्तुनोश्च भेदाग्रहात्स घटस्तत्रासीदित्यतीतदेशकालविशिष्टवस्त्वैक्या- वगाहित्वेन व्यवहारप्रवर्तके भवत इत्यर्थः । च० - ननु दोषाणां विपरीतकार्यजनकतायां स्थितायां समनन्तरोत्पन्नदुर्गेन्द्रियसंन्निकर्षजन्यत्व. सिद्ध्या हेतोरसिद्धिरित्यरुचेः कल्पान्तरमनुसरति ॥ किं चेति ॥ यथाश्रुतस्य गगनादावनैकान्त्यं तु स्वयमेवाभिधास्यति । प्रतिरोधमाशङ्कय पराकुरुते ॥ न चेत्यादि ॥ अनैकान्त्याप्रयोजकत्वे तत्तांशानव- गाहित्वहेतोर्विशदयति । ॥ यदादित्यादिना हेतुरित्यन्तेन ॥ प्रतिरोधान्तरमाशङ्कय तत्रासिद्धिमाह || न चेति ।। शुशोस्तिक्तत्वगोचरानुभवजनितसंस्काराविरहेण तिक्तो गुड इति श्रमस्थले तिक्तत्वांशे स्मृति- रिति कल्पना गुरुमतेन सङ्गच्छत इत्याशङ्कय समाधत्ते ।। नन्वित्यादि । स्वरूपमात्रेण · शङ्खत्वेन । असंसर्गाग्रहात् । शङ्ख पीतत्वप्रतियोगिकसंसर्गाभावविषयकग्रहाभावात् । व्यपदेशः शङ्खः पीत इति वाक्ये समानविभक्तिकपदप्रयोगः ॥ तिर्यगिति ॥ वक्रतयेत्यर्थः || अलातचक्रादीति ॥ द्विचन्द्रदि. मोहगन्धर्वनगरवंशोरगादिघटितसमुदायः समासार्थः । द्रुतालातज्वालासुचक्रमितिव्यवहारः द्वौ चन्द्रा. वित्यत्र(अन्यत्र)गृहीतं द्वित्वं असंसर्गाग्रहाश्चन्द्र मण्डूकवसांजनेन वंशोरगभ्रमस्थलेपि तादृश्येव गतिरवसेया। ॥ सु०--किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव । न हि विवेकाहे विपर्ययावकाशोऽस्ति । विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्तौ कि विपर्ययकल्पनया । न चान्यथाख्यातौ किमपि प्रमाणमस्ति । भेदाग्रह- प्रसजिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्ध सिद्धम् । तथा च प्रयोगः । विगीत. प्रत्ययो यथार्थः । प्रत्ययत्वात्सम्प्रतिपन्नवत् । नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्वि- कल्पकज्ञानमुत सदृशदर्शनोत्थं रजतस्मरणम् । किं वोभयमाहोखिद्रजतपुरोवत्यैकताज्ञानमाहो- स्वित्प्रमुपितभेदं वेदनद्वयम् । तत्राद्यपक्षत्रये सिद्धसाधनता। चतुर्थे वाद्याश्रयासिद्धत्वमप- विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिमामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विव- क्षितं चेत्को विरोधः । न हि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् । मा हि भून्नित्या- नित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुपङ्गाद्भङ्गोऽनुमानमुद्रायाः ।। वा०–एवं प्रमाणेन ज्ञानद्वित्वमुपपाद्यास्तु दोभयत्रापि कल्पना तथाऽपि कल्पनालाघवादख्याति 'पक्षनिश्चयोपपत्तिरित्याह ॥ किञ्चति ॥ ननु प्रामाणिकं गौरवं न्याश्यमेवत्यत आह ॥ न चेति ॥ यद्रा स्वपक्षे साधक परपक्ष बाधकं चोपपाय साधकाभावं च परपक्षे दर्शयति ॥ न चेति ॥ ननु बाधकज्ञानानुपपत्तिरेव भ्रान्ती प्रमाणमित्यत आ६ ॥ भेदाग्रहेति । इतरेतराभावबोधादितरेतरभावाग्रह. निवृत्तौ नद्धतुकव्यवहारनिवृत्ति धफलमित्यर्थः तदप्युक्तं नयवीभ्याम् । 'बाधकप्रत्ययस्यापि बाधकत्वमतो -मतम्। प्रसज्यमानरजतव्यवहारनिवारणादिति' । माऽस्तु बाधकत्यानुपपत्तिन्तिविषयकप्रामाणिकव्यवहा. मानुपपत्तिस्तु तत्र प्रमाणं भविष्यतीत्यतः पूर्वोक्तार्थेनास्याप्यन्यथासिद्धिरित्याह ॥ तदुपपत्तौ चेति ।। एवं सामानाधिकरण्यप्रत्ययविरोधादिरूपबाह्यानुपपत्तावन्यथाख्याती साधकबाधकभावाभावाभ्यो न्यवहारा- देरन्यथासिद्ध्या च तादृशप्रत्ययाभावेन परिहृतायां निष्कण्टकानुमान स्वपक्षसाधकतयोपन्यस्यति ॥ तथा चेति । विमतिविषयतावच्छेदकानिस्क्त्या प्राप्तामान्तरानुपपत्तिं परिहतु शङ्कते ॥ नन्वति ।। अत्राद्यकल्पत्रयमुभयसम्मतप्रसक्तिमत्तत्रापि प्रत्येकमिलितभेदेनावान्तर विशेषोऽभिप्रेतः । उत्तरद्वयं तु क्रमेण वादिप्रतिवादिसम्मत्या प्रसक्तमिति द्रष्टव्यम् ॥ निर्विकल्पयामिति ।। इदन्त्ववैशिष्टयावगाहि. त्वेऽपि शुक्तिरजतत्वादिजातिविशेषवैशिष्टयानवगाहित्वेनेयमुक्तिरिति द्रष्टव्यम् । उभयपक्षस्यान्तिमपक्षस्य चैकत्र वेदनयोः स्वरूपमात्रविवक्षयाऽपरत्र च तयोः प्रमुषितभेदत्वस्य च विवक्षया भेद इति ध्येयम् । रजतपुरोवत्यैकताज्ञानस्य वस्तुतो वादिमतेऽभावादाश्रयासिद्धिस्तदङ्गीकारे चापसिद्धान्तोऽभिनवसिद्धान्ता- 'भ्युपगमे व्याघात इत्याह । चतुर्थ इति । पुरोवर्तिनिर्विकल्पकरजतस्मृतिजन्ये इदमिति वेदनामिन्ने पुरोवर्तिनि रजतत्वादिजातिवैशिष्टयावगाहिनि रजतवेदनेऽख्यातिवादिनां विप्रतिपत्तावप्युक्तनिर्विकल्पक- स्मृत्योरेव प्रमुषितभेदत्वेऽन्यथाख्यातिवादिनां विप्रतिपत्तावपि तदुभयस्वरूपमात्रे न तावत्कस्यापि विवाद इत्याह । अस्ति तावदिति ॥ एवं केवलमुभयसम्मवाकार प्रदर्य तद्विवादविषयाक्रान्ततया तमेव दर्शयति । तथेति ॥ तदुभयसमुत्थ सविकल्पकमिदमितिवेदनाभिन्नं रजतवेदनमस्तीत्येकः । न 167a भेदविवादः । असदनुवादापत्तेः । उच्यत इत्यादिपूर्वग्रन्थेन विमतो चेत्याद्युत्तरग्रन्थेन च विरोधा- पत्तेः । अत एवोत्तरत्र भेद एवाख्यातिवादिभिरित्यनुक्त्वाऽपाकर्तव्यश्चेत्येतावदेव वक्ष्यतीति द्रष्टव्यम् । अतस्तत्समुस्थितमित्यत्रत्यतच्छब्दपरामर्शविषयप्रदर्शनाय प्रवृत्तेनास्ति चेदित्यादिपूर्वग्रन्थेन वादिमतेन विज्ञानस्वरूप च दर्शितम् । तथेत्यनेन तु प्रतिवादिमतेनेति द्रष्टव्यम् । नन्वेतावताऽपि कः पक्षनिष्कर्ष इत्यतो वाद्यभिमतप्रमुषितभेदत्वप्रतिवाद्यभिमतेदवेदनामिन्नसविकल्पकरजतज्ञानत्वयोस्तत्तदभिमतकार्यत्व- कारणत्वादीनां चाविवक्षयोभयसम्मतेदर जतागममात्रस्य पक्षत्वे न कोऽपि दोष इत्याशयेनाह ।। तत्रेति ।। ननु भिन्नस्याभिन्नस्य वा तादृशावगमस्य पक्षत्वे उक्तदोपानतिवृत्तिः । अवगमसामान्यस्य चानुगतावच्छेदकाभावान्न तत्वमित्यतोऽनुगतपक्षतावच्छेदकमा ह ॥ इदं रजतमित्यादीति ॥ नन् भिन्नस्याभिन्नस्य वेदं रजतमित्यवगमस्य सामानाधिकरण्यव्यवहारकारणत्वात्कथं भेदाभेदी विहाय. सामानाधिकरण्यव्यवहारकारणज्ञानरूपपक्षलाभः । तयोः पक्षकोटिनिवेशे चोक्तदोषानतिवृत्तिरित्यतो भिन्ना- वगमस्यापि तस्वेनापक्षत्वेऽप्युक्तव्यवहारकारणत्वेन पक्षत्वमिप्यत एवेति नोक्तदोषानुषङ्गः । अभिन्न- त्वाद्याकारेणापक्षत्वं च युक्तमेव । तस्य विप्रतिपन्नत्वेन तदाकारेण पक्षत्वस्यैवानुचितत्वात् । अन्यथा-- ऽनुमानमात्रोच्छेदापत्तिरित्याह !! न हीति ॥ यद्वा ननु विप्रतिपन्नस्य परित्यागेऽनुमानवैयर्थ्यमित्यतो विमताकारस्य न पक्षकोटिनिवेशोऽनुमानमात्रोच्छेदप्रसङ्गात्साध्यकोटिनिवेशाच्च नानुमानवैयर्थ्यमित्या- शयेनाह || न हीति ॥ अनुमानमुद्राया भङ्गो मा भून्न भवति हि यस्मात्तस्मान्न पक्षीकार इत्यन्वयः । स०-ननु प्रामाणिकत्वान्न गौरवदोष इत्यत आह ॥ न चान्यथाख्याताविति ॥ निर्विक- ल्पकज्ञानमिति ॥ इदमित्याकार भ्रमजनकर्मिज्ञानरूपमित्यर्थः । तस्येदंत्वप्रकारकत्वेपि शुक्तिवादि- विशेषाविषयकत्वानिर्विकल्पकत्वोपचारः । रजतस्मरणमिति ॥ भ्रमकारणविशेषणज्ञानरूपमित्यर्थः । व्याघातश्चेति ॥ प्रमाणविरोधश्चत्यर्थः । बाध इति यावत् । रजतपुरोवत्यैकताज्ञाने याथार्थ्यस्य बाधि- तत्वात् । अथवा रजतपुरोवत्यैकताज्ञानत्वंस्थायथार्थवृन्निव्याप्यत्वेनायथार्थत्वप्राप्त्या तत्र याथार्थ्यसाधने. व्याघात इत्यर्थः । अत एव 'मरणं नातियलस्य विक्षेपेदेव युज्यते' इत्यत्र नियामको रतिमांश्चेति व्याहतमित्युक्त । नियमनस्य विक्षेपाविनाभूतत्वात् विक्षेपस्प च रतिविरोधात् । अतो विरोधव्याप्योक्तावपि व्याहत्युक्तिरूपपन्नेतिध्येयं ॥ नेदमिति ॥ पुरोवर्तिनमित्यत्र नमो न विदधातीति संबन्धः ।। इतोदोषादिति ॥ आये सिद्धसाधनता । द्वितीये बाथः । तृतीय उभयम् । चतुर्थे प्रतिवाद्याश्रया. सिद्धत्वं । पञ्चमे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्चेति द्रष्टव्यम् ।
विवेकेति ॥ पुरोवर्तिन इदं रजतं नेति भेदग्रह इत्यर्थः । स्वाभिमतेऽर्थेऽन्यथानुपपत्तिपरिशेपानु- मानानि प्रमाणान्युक्त्वा परमतमप्रामाणिकमिन्याह ॥ न चान्यथाख्याताविति ॥ ननु नेदं रजतमिति भेदज्ञानस्य बाधकत्वान्यथानुपपत्त्या तहाध्यमभेदज्ञानमुपेयं । अन्यथा तस्य बाधकत्वानुपपत्तेः । अतस्तदनुपपत्तिरेव वा भ्रमत्वेन लोके प्रसिद्धिर्वाऽन्यथाख्याती प्रमाणमित्यत आह || भेदाग्रहप्रसजि- तेति ॥ विगीतः विमतः ॥ निर्विकल्पकामिति ॥ शुक्तित्वाद्यसाधारणधर्माप्रकारकमिदंत्वादिसाधारण- प्रकारकमित्यर्थः ॥ वादीति ।। अनुमानप्रयोक्रित्यर्थः ॥ व्याघातश्चेति ॥ शुक्तिरजतयोरतादात्म्यज्ञान- रूपान्यथाख्यातिनैति वदता तरङ्गीकारे आश्रयासिद्धत्यमपसिद्धान्तो व्याघातश्चत्यर्थः ॥ यद्वा रजतपुरो- बृत्तितादात्म्यज्ञान पक्षीकृत्य याथार्य तादात्म्याविषयकमित्युक्ते व्याघात इत्यर्थः । तत्समुत्थसवि. कल्पकमिति ॥ रजतत्वरूपासाधारणधर्मप्रकारफमित्यर्थः । इदमितिज्ञानाद्रजस्मृतौ पश्चादिदं रजत. मिति पुनः पुगेवृत्तिरजतयोः शानजन्मेत्याशयेन तत्समुत्थमित्युक्तिः । न्यायमते विशेप्यताव्यधिकरण- प्रकारमेकं ज्ञान प्राभाकरमतेत्यगृहीतभेदं ज्ञानद्वयमिति ज्ञेयं । किन्त्वेन. पक्षीकरणमित्यत आह ।। इदं रजतमित्यादीति || ननु मिथो भिन्नः प्रत्यय इति एक प्रत्यय इति वा पक्षीकर्तव्य इत्यत आह. ॥. न हीति । विप्रतिपन्नधर्मेणैय पक्षीकारो न हीत्यर्थः । एवमपक्षीकारः किमर्थमित्यत आह ॥ माहि- भूदिति ॥ अनुमानमुद्रायाः अनुमानमर्यादाया भङ्गो मा भूदित्येतदर्थमित्यर्थः । अन्यथाऽनुमान. प्रयोगप्रवृत्तिभङ्गाः स्यादित्यर्थः । कुत इत्यत उक्त ॥ नित्येत्यादि । नित्यः शब्द इति वा अनित्यः शब्द इति वा पक्षीकृत्य, अनित्यत्वानिसाधने. प्रकृतानां वाद्याश्रयासिद्धत्वापसिद्धान्तव्याघातरूप- दोषाणामनुपङ्गात् तथामिमान्पर्वत इति वा. अनमिमान्पर्यत इति वा. पक्षीकृत्यानिमत्यादिसाधने, सति प्रतिवाद्याश्रयासिद्धस्वदोपानुपङ्गादित्यर्थः । या०-विपर्ययाभ्युपगमे कल्पनागौरवमपि बाधकमाए ॥ किश्चेति ॥ ग्राह्य एवेति । स्वीकार्य एवेत्यर्थः । ननु प्रामाणिकत्वान्न कल्पनागौरघं दोष इत्यत आह || न चान्यथारख्याताविति ।। निर्विकल्पकज्ञानमिति । इदमित्याकार भ्रमजनकर्मिज्ञानरूपमित्यर्थः । तस्येवन्त्वप्रकारत्वेऽपि शुक्तित्वा दिविशेषाविषयकत्वानिर्विकल्पकत्वोपचारः।। रजतस्मरणमिति ।। भ्रमकारणविशेषणज्ञानरूपमित्यर्थः । ननु नाश्रयासिद्धत्वं मया तादशज्ञानाङ्गीकारादित्यत आह ॥ अपसिद्धान्त इति ।। व्याघात इति ॥ व्या. घातो विरोधः । प्रमाणबाध इति यावत् । रजतपुरोवत्यैकताज्ञाने याथार्थ्य बाधितमिति भावः । अभयार यम् ॥ मा हि भूदिति ॥ नित्यानित्यशब्दपक्षीकारेऽग्निमद नग्मिनपर्वतपक्षीकारे च प्रकृतदोषानुपङ्गा- दनुमानमुद्राया भगः स्यात्स मा भून भत्रेदेवेत्यर्थः । न हि विप्रतिपन्नाकारेणैव पक्षीकार इत्यन्वयः- मा भूदित्यस्यान्यथेत्यप्यर्थइत्याहुः । -- श्री. ग्राह्यः स्वीकर्तव्यः । न हि विवेकग्रह इति ॥ इदं रजतमिति ज्ञानविषयीभूतेद- मशरजत्योविवेकाहे सतीत्यर्थः । अन्यथेति ।। विवेकग्रहेऽपि विपर्ययाङ्गीकार इत्यर्थः ।। तत एवेति ।। विवेकाग्रहादेवेत्यर्थः । सर्वस्येति ।। विपर्ययकार्यस्य प्रवृश्यादेरित्यर्थः । तथाच कल्पनागौरवमिति भावः । ननु नेदं रजमिति विवेकज्ञानस्य बाधकावं लोकप्रसिद्धम् । तदन्यथाऽनुपपत्त्यैव तद्वाध्यान्यथा- ख्यातिसिद्धिरित्यतो लोकप्रसिद्धरन्यथासिद्धिमाह ॥ भेदाग्रहेति ।। ननु तथापीदं रजतमिति ज्ञानस्य लोकप्रसिद्धयन्यथाऽनुपपत्त्या भ्रमत्वसिद्धिरित्यत आह ।। तदुपपत्तौ चेति ॥ विवेकज्ञानस्य बाधकत्वोप. पत्तौ चेत्यर्थः । सिद्धमिति ॥ ज्ञानजन्य व्यवहारस्य बाध्यत्वादेवेत्यर्थः । भ्रान्तिस्थाने भेदाग्रहस्यामि. विक्तत्वादिति भावः । तथा चायथार्थत्वव्यवहारोऽस्ति नायथार्थज्ञानमिति द्रष्टव्यम् ।। किंचोभयमिति ॥ इदमिति ॥ निर्विकल्पकज्ञानरूपं विशेष्यज्ञानम् । विशेषणज्ञानरूपं रजतस्मरणं चेत्युभयमित्यर्थः ।। तथा तार्किकमते भ्रमरूपविशिष्टज्ञाने विशेषणविशेष्योभयज्ञानं कारणमेव प्राभाकरमतेऽपि तदुभयं ग्रह. जस्मरणात्मकज्ञानद्वयेऽपि कारणमित्यङ्गीकृतमतः उभयमिति कारणीभूतज्ञानप्रश्नोयमित्यवगन्तव्यम् । प्रमुपि- तभेदं वेदनद्वयमिति तत्कार्यज्ञानद्वयप्रश्नोऽतो न तयोः प्रक्षयोः पौनरुक्तधमित्यतुपदमेव स्पष्टमिति ज्ञातव्यम्।। मा हि भूदिति ।। न हि भवतीत्यर्थः । अन्यथा स स्यादिति भावः । -- च०- विगीतप्रत्यय इति । याथार्थ्यायाथार्थ्यकोटिकशङ्कास्कंदित इत्यर्थः । प्रकृत. साध्यतदभावरूपकोटिद्वयनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकामिमतधर्मज्ञानमन्तरेणपक्षतावच्छेदकता विमते दुनिरूपैव । घटादिप्रत्ययानामपि विशेषादर्शनदशायां दर्शितसंदेहास्कन्दिततया सिद्धसाधनाया. पत्तरभिमतधर्मावच्छिन्नविशेष्यताकत्वेन विमतेः । पक्षतावच्छेदकताममिधित्समानः शकते.॥ नियति ।। पुरोवर्तिनिर्विकल्पकज्ञानमिति ।। इदै रजतमिति ज्ञानमेकत्र द्वयमितिरीत्येदंत्वरजतत्वेनावगाहत एव तथा सति निर्धर्मितावच्छेदकतया नेदरजतमिति बाचप्रतिबध्यत्वप्रसरुन तादृशायामपि तदापतेः । किन्तु ।
ज्ञानमूरीक्रियत इति वैय्यात्येनोक्तौ ।। अपसिद्धान्त इति ॥ व्याघात इति ॥ याथार्थ्यव्यतिरेकव्याप्य. तदेकताज्ञानत्वोपगमेसाध्याभावव्याप्यरूपप्रतिरोधापरधर्यायविरोध इत्यर्थः ॥ विरोधोऽपिफलतः प्रति. रोध एवेति दीधितिकारोक्तेः । समाधत्ते अस्तितावदित्यादि। दर्शितकोटिद्वयप्रकारतानिरूपिताया इदं रजतमित्यादिसमानविभक्तिकपदप्रयोगहेतुत्वावछिन्नविशेष्यता तया प्रत्यासत्याज्ञानत्वावच्छिन्नस्यैव पक्षतावच्छेदकत्वोपगमान्नक्षतिरित्याशयः । सु०--किश्च सिद्धस्यैव पक्षीकरणम् । विमताकारस्थापि सिद्धत्वे किं साध्येत । विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे । भेदे हि वेदनयोरिदं वेदनम् पुरोवर्तिमात्रगोचरम् न रजतवात वेत्ति । रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजत- तामिदं रजतमिति विदधाति । किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते । तच्च न प्रमाणविरुद्धमिति कान्यथाख्यातिः । अतस्तद्वादिमिरभेद एव वक्तव्योऽपाकर्तव्यश्चाख्याति- वादिभिरित्यस्त्येव विप्रतिपत्तिः । ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षी- कारे न कश्चिद्दोपः । कथमन्यथाख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनामुपन्यस्यभितो दोपाद्विमुच्येत । अथ रजतार्थिनः शुक्तिकायां प्रवृत्ती हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्योञ्चः परोऽपि श्रोष्यति । ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्त. वापि बाधः कथं न स्यात् । प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् । त्वयेश्वरानभ्युपगमायर्थ विशेषणमिति चेत्तर्हि मां प्रति तथापि कथं न व्यर्थम् । तथाऽपि व्यामिज्ञाने सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः । इदं ज्ञानादगृहीतविवेकं रजत- ज्ञानमिति विप्रतिपत्तिविषयमुद्घाटयामीति चेत्सममेतन्ममापि । वा० न केवलं विमताकारस्य पक्षत्वेऽतिप्रसङ्गः किन्तु साध्यस्वरूपस्यैवा वालाभ इत्याह । किञ्चेति ॥ ननु स्यादिदं यद्यनित्यत्वानिमत्त्वादियदभेदाभेदयोर्विमतिविषयत्वं स्यात् । न चैवम् । किन्तु यथार्थत्वा यथार्थत्वयोरेव तत् । एवं च भेदाभेदयोः पक्षकोटिनिवेशेऽपि नातिप्रसङ्गः । नापि साध्यस्वरूपालाभः । यथार्थत्वस्यैव साध्यत्वसम्भवादित्यत आह || विमतौ चेति ॥ अख्यातिवा- द्वितीये रजतस्मरणस्य पुरोवर्तिविषयकत्वाभावस्यैव सिद्धत्वाद्वाधः । तृतीये निर्विकल्पकांशे सिद्धसाधनता स्मरणाशे वाधः । चतुर्थे प्रतिवाद्याश्रयासिद्धिः । पञ्चमे वाद्याश्रयासिद्धिरपसिद्धान्तो व्याघातश्चत्यर्थः । अथ पूर्वपक्षी सामानाधिकरण्यव्यवहारकारणज्ञानस्य पक्षत्वमख्यातवादिनाऽपि त्याजयितुं तत्समानयोगक्षेमं तथाऽपीत्युक्तदूपणान्तरप्रसक्तिमत्पक्षान्तरमाशते ।। अथेति ॥ शुक्तिप्रमायामंशतः सिद्वसाधनतावारणाय रजतार्थिन इति विशेषणम् । तबलाच्च रजतार्थिताजन्यत्वं प्रवृत्तलभ्यते तेनोभयार्थिनः शुक्तिप्रवृत्ति- हेतुशुक्तिप्रमायां सिद्धसाधनतेत्यलग्नकं भवति । रजतप्रमायामंशतो बाधवारणाय शुक्तिकायामिति । रजतेच्छाजन्यशक्तिप्रवृत्तिजनकरजतेच्छायामंशतः सिद्धसाधनतावारणाय ज्ञानमिति । न चैवमेव यथार्थत्वसाधनाय मया पक्षनिर्देशः क्रियत इति वाच्यम् । स्वतन्त्रोपस्थितेष्टभेदाग्रहस्य विसंवादिप्रवृत्ति. हेतुत्वं वदता त्वया कारणतावच्छेदकत्वेनेष्टज्ञानस्य तथात्वानभ्युपगमात् । इदंज्ञानस्य प्रवृत्तिमात्रहेतु. स्वाभ्युपगमेऽपि तद्याथार्थ्यस्य मां प्रति सिद्धतया सिद्धसाधनता स्यादित्याशयः शङ्कितुः । तर्हि भेदा- ग्रहहेतुत्ववादिनं मां प्रत्युक्तहेतुत एवेष्टज्ञानहेतुत्वासिद्धयाऽऽश्रयासिद्धिः । इदंज्ञानस्य प्रवृत्तिहेतुत्वेऽपि तस्य पुरोवर्तिविषयत्वस्य मां प्रति सिद्धतया सिद्धसाधनतेति समम् । यदि च कार्याभावव्याप्याभावप्रतियो- गिस्वरूपप्रयोजकत्वमेवात्र हेतुत्वमभिमतं तच्च कारणतावच्छेदकेष्टज्ञानेऽपि तवापि सममिति तस्य पुरोवर्तिविषयकत्वसाधने न कोऽपि दोप इति मतं तर्हि तस्यैव मया त्वां प्रति याथार्थ्यसाधने न कोऽपि दोष इत्याशयेन सोपहासमाह || मोच्चैरिति ।। ईश्वरेति ॥ ईश्वरज्ञानस्य कार्यमात्रकारणत्वा- दिति भावः । अत्रोत्तरोत्तरशङ्कनीयपरिहरणीयाभिसन्धिना पूर्वपूर्वशङ्कापरिहारा इति द्रष्टव्यम् । अनी- श्वरेति ॥ अत्र जीवज्ञानमित्यर्थः । यथाश्रुतेऽप्रसिद्धविशेषणत्वेऽपि वक्तव्ये व्यर्थविशेषणत्वमात्रोक्तेर- युक्तेः । एवं व्याख्याने च पक्षतावच्छेदकाप्रसिद्धयभावेन व्यर्थविशेषणतामात्रोक्तरुपपत्तिरिति कश्चित् । तन्न । व्यावाप्रसिद्धिप्रयुक्ताप्रसिद्धविशेषणस्थले व्यर्थविशेषणत्वस्यापि सम्भवेऽप्रसिद्धविशेषणत्वमेव वक्तव्यमिति निर्बन्धायोगात् । व्यावाप्रसिद्धिरूपप्रयोजकस्याश्रयासिद्धिसम्पादकत्वरूपदूपकताबीजस्य च साम्येनक्योक्त्यैवोपपत्ती व्यर्थविशेषणत्वाप्रसिद्धविशेषणत्वयोर्द्वयोरपि पृथगवश्यावक्तव्यत्वात् । विशेषणव्यावाप्रसिद्धौ व्यावाभावेन तद्वैयर्थ्यस्यैवोपपन्नत्वाच्च । अत एव ठक्कुरादौ सामान्यलक्षणा- द्यजन्येत्यादिविशेषणानां व्याव-प्रसिद्धिप्रयुक्तथैयर्थ्यमेव व्याख्यातमिति यथाश्रुतनवोपपन्नत्वात् । अत्रोकरीत्या पक्षकोटिप्रविष्टहेतुत्वस्य प्रयोजकत्वरूपतया प्रवृत्तिहेतुभूतेष्टसाधनतानुमितिहेतुभूतस्य स० शुक्तौ रजतार्थिप्रवृति हेतुभूतज्ञानपक्षीकरणे प्रत्ययत्वेन हेतुना याथार्थ्यसाधनमयुक्तं प्रवृत्तरिष्टसाधनताज्ञानसाध्यत्वेनेष्टसाधनताज्ञानस्य च रजतमिष्टसाधनं रजतत्वादित्यनुमानजन्यत्वेन तत्र यद्रजतं तदिष्टसाधनमिति व्याप्तिज्ञानस्य वक्तव्यत्वात्तस्यापि शुक्तौ रजतार्थिप्रवृत्तिहेतुत्वेन पक्षत्वापश्या तस्य स्व याथार्थस्य सिद्धत्वेन सिद्धसाधनतेत्याह ।। तथाऽपि व्याप्तिज्ञानेनेति ॥ विप्रतिपत्तिविषय- मिति विप्रतिपत्तिधार्मिणमित्यर्थः । —न केवलं सर्वत्रानुमानमात्रे प्रागुक्तदोषापातादेवमपक्षीकारः किंत्वनुमानवैयापाताद- पीत्याह || किं चेति ॥ नन्यस्त्वेवं तथापि मिथो भिन्नमिदं ज्ञानमिति वाऽन्योन्यममिन्न ज्ञानमिति वा पक्षीकर्तुं शक्यं । भेदाभेदयोर्विमतत्वाभावात् । तथार्थत्वत्यैव साध्यत्वेन यथार्थमिदमयथार्थवेत्येव विप्रतिपत्तेः । तथाच प्रागुक्तदोपस्तदवस्थ एवेत्यत आह ॥ विमती चेति ॥ विभ्रमेति ॥ भ्रान्ति- रूपज्ञानमस्ति न वेति भ्रमविषयनिन्ताप्रस्ताव इत्यर्थः । विमतत्वं व्यनक्ति ॥ भेदे हीत्यादिना ।। इदं वेदनं इदमंशज्ञानं । नेदमित्यत्र नेति नमो विदधातीतिक्रिययाऽन्वयः । तत्र हेतुः ॥ रजतमात्र. ग्राहीति ॥ तद्वादिभिः अन्यथाख्यातिवादिभिः । अभेद एवेति वेदनयोरित्यनुपङ्गः ॥ विप्रतिपत्ति- रिति ॥ वेदनयोर्भेद इत्यनुपञ्जनीयं । भेदाभेदयोरिति वा योज्यं । भ्रान्तित्वसाधकेनाप्येवमेव पक्षी- कर्तव्यं । नो चेदुक्तदोषस्तस्यापीत्याह ॥ कथमन्यथेति ॥ ख्यातिवादी भ्रान्तिरस्तीतिवादी । साधनमनुमानप्रयोगम् ।। इतो दोषात् वाद्याश्रयासिद्धत्वादिप्रागुक्तदोषात् । ख्यातिवादी स्वमते पक्षीकरणप्रकारमाशते ।। अथेति ॥ मेति ॥ उच्चैर्मा बोचः परस्यापि श्रवणं भविष्यतीत्यपहासः । मयापि तथैव पक्षीकरणात् । इदं रजतमित्या दिसामानाधिकरण्यव्यवहारकारणमित्युक्तत्वादिति भावः यद्वा तादृक्प्रवृत्तिहेतुज्ञानमिदमिति ज्ञानं च भवतीत्यख्यातिवादिनोपगमात्तदयथार्थमिति त्वया साधने तव बाधः स्यादिति भावः । यद्वा यत्र शुक्तिका तदधस्ताद्रजतमिति श्रुतवतः शुक्तिकाज्ञानमपि रजता. र्थिप्रवृत्तिहेतुर्भवतीति तदयथार्थमितिसाधने तब बाधः स्यादिति भावः । वस्तुतस्तु तादृशं ज्ञानं अगृहीत. भेदं ज्ञानद्वयमेवति मदुक्तमेवागतमिति भावो बोध्यः । ननूक्तव्यवहारादिकारणं ज्ञानं यथार्थमित्युक्ते कार्यमात्रकारणमीश्वरज्ञानमादाय सिद्धसाधनमिति शकते अन्यथाख्यातिवादी ॥ ईश्वरेति ॥ अख्याति. 68 अख्यातिवाद्याह || ममेति ॥ कथं न व्यर्थमित्यनन्तरं स्वरूपकथनार्थ चेन्ममापि तथास्त्विति योज्यम् । उभयसिद्धप्रयोजनवस्वं विशेषणदाने तन्त्रम् । न तु प्रयोजनस्योभयसिद्धत्वम् । एवञ्च मन्मते बाधप- रिहारेण त्वां प्रति उपरञ्जकत्वेनार्थवत्त्वं विशेषणस्येति यदि तर्हि तत्सम ममापि । त्वां प्रति सिद्ध. साधनतापरिहारेण मां प्राते चोपरञ्जकत्वेनार्थवत्त्वमस्त्विति वा योज्यं । ख्यातिवादी शङ्कते ॥ तथा- पीति ।। ईश्वरज्ञानेन सिद्धमाधनतानिरासेपि प्रवृत्तेरिष्टसाधनताज्ञानसा यन्वात्तस्य चानुमितिरूपत्वेन यद्र- जतं तदिष्टसाधनमिति व्याप्तिज्ञानसाध्यत्वात्प्रकृतप्रवृत्तिहेतुशानं यथार्थमित्युक्ते प्रवृत्तिहेतुः यद्रजतं तदिष्ट. साधनमिति व्याप्तिज्ञानमपि भवतीति तेन सिद्धसाधनतेत्यर्थः । अख्यातिवाद्याह ।। तत्रैवेति ॥ तवा. न्यथाख्यातिवादिनः । उक्तप्रवृत्तिहेतुज्ञानमयथार्थमित्युक्त बाध: स्यात् || व्याप्तिज्ञानस्य याथार्थ्यादिति भावः । इदं ज्ञानात् इदमंशज्ञानादित्यर्थः । विप्रतिपत्तिविषयं विशेष्यतया विप्रतिपत्तिविषयम् । पक्षमिति यावत् ॥ ममापीति ॥ विगीतः प्रत्ययो यथार्थ इत्यनुमानप्रयोक्तुर्ममापि तथैव पक्षोऽस्त्वित्यर्थः ॥ ॥ इतो दोषादिति ॥ पक्षविकल्परूपदोषादित्यर्थः । अत्राचे सिद्धसाध्यता । द्वितीये बाधः । तृतीये उभयम् | चतुर्थे प्रतिवाद्याश्रयासिद्धत्वम् । पञ्चमे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघा. तश्चेति दोषविवेको द्रष्टव्यः ॥ तवापीति ॥ इदं चायथार्थत्वस्य साध्यतामभिप्रेत्य न तु पुरोवर्तिविषय- कत्वरूपसाध्याभिप्रायेण | तस्येश्वरज्ञानेऽपि सत्वेन बाधासंभवात् । तथापि व्याप्तिज्ञानेनेति । प्रकृ- तप्रवृत्तिहेत्वनीश्वरज्ञानस्य पक्षत्वेऽपि इदमिष्टसाधनमित्यनुमितिद्वारा प्रकृतप्रवृत्तिहेतुभूतं रजतत्वमिष्टसाध- नत्वव्याप्यमिति ययातिज्ञानमस्सदादीनां तेन सिद्धसाधनतेत्यर्थः । न चोक्तव्याप्तिज्ञानं प्रवृत्तिहेतुभूतेष्ट- साधनतानुमितिजनकतयाऽन्यथासिद्ध न प्रवृत्तिजनकमिति वाच्यम् । तहदि रजतमिति ज्ञानस्यापि पक्षज्ञानतया लिङ्गज्ञानतया वा तादृशानुमितिजनकस्यान्यथासिद्धतया न प्रवृत्तिजनकत्वमित्याश्रया- सिद्धयापत्तेः । अतो यथाकथञ्चित्प्रवृत्तिहेतुत्वं विवक्षितमिति वक्तव्यम् । तच्चोक्तव्याप्तिज्ञानेऽप्यस्तीति सिद्धसाधनतैवेत्यभिप्रायः । श्री०- नित्यानित्येत्यादि । अनित्यं शब्दममिमन्तं पर्वतं पक्षीकृत्यानित्यत्वाग्निमस्त्वयोः साधने सिद्धसाधनता । नित्यं शब्दमनग्निमन्तं च पर्वत पक्षीकृत्यानित्यत्वाग्मिमत्वयोः साधने बाध इति दोषानुषङ्गादित्यर्थः । तत्र यथा नित्यत्वादिकं विहाय शब्दादिमात्रं पक्षीक्रियते एवमिहापीति भाव:
तमिति ज्ञेयम् ॥ परोऽपि श्रोष्यतीति ।। श्रुत्वाऽपि सोऽपि तथैव वदिष्यतीति भावः । ननु न परेणैवं वक्तुं शक्यम् । रजतार्थिनः शुक्तिकायां प्रवृत्तिहेतुभूतं ज्ञानमीश्वरज्ञानमपि भवति । तस्य सर्वोःपत्तिम. निमित्तकारणत्वात्तत्र च याथार्थ्य सिद्धमिति सिद्धसाधनता स्यादित्याशङ्कते ॥ ईश्वरज्ञानेनेति ॥ अख्यातिवाद्युत्तरमाह ॥ तवापीति || ख्यातिवादिनः । ख्यातिवादी शङ्कते ॥ प्रकृतेति ॥ अख्यात. चाद्युत्तरमाह ।। ममेति ।। ख्यातिवादी शङ्कते ।। तथाऽपीति ।। च०- अथ रजतार्थिन इति ॥ रजतत्वावच्छिन्ननिरूपितविषयिताघटितधर्मावच्छिन्नप्रवृत्ति- निष्ठजन्यतानिरूपितज्ञानवृत्तिजनकतावच्छेदकीभूतरजतत्वावच्छिन्ननिरूपकताकविषयितायां पुरोवर्तिनिष्ठ- विषयतानिरूपितत्वसाधन एव तात्पर्यमत्र विभावनीयम् । गुरूणां व्यधिकरणप्रकारकं ज्ञानमेव नास्तीति सिद्धान्तः । इच्छाप्रवृत्योस्तु व्यधिकरणप्रकारकत्वं तदङ्गीकृतमेवेत्याकरदर्शिनां निरूढः पन्थाः । इत्थं च रजतत्वावच्छिन्नशुक्तिवृत्तिनिरूकताकेच्छाप्रवृत्तिनिष्ठविषयितयोरपि रजतत्वावच्छिन्ननिरूपितविपयितात्वेन तदुभयवृत्तिजनकताजन्यतयोरवच्छेदकत्वं गुरुमतसिद्धपि भवत्येवेति नान्यतरदिशाश्रयासिद्ध्याधवतार इति भावः ॥ षष्ठीसप्तम्योः ज्ञानान्विताधेयताविषयितार्थत्वमुपेत्य रजतार्थिनिष्ठा या शुक्तिका विषयिणी प्रवृत्ति- स्तद्धेतुभूतं ज्ञानमिति यथाश्रुतार्थादेयंत्र इमे रजतशुक्ती इति समूहालम्बनान समूहालम्चनरूपताशेच्छा तततादृश्येव प्रवृत्तिस्तत्रसिद्धसाधनताया अशक्यवारणतापातात् । अथागृहीतासंसर्गकस्यागृहीतभेदस्य वा अहणस्मरणात्मकशानद्वयस्य प्रवृत्तिहेतुतामुपेयुषां गुरूणां मते तादृशप्रवृत्तिहेतुज्ञानत्वसामानाधिकरण्येन ग्रह- णात्मकज्ञाने पुरोवर्तिविषयकतासिद्ध्या सिद्धसाधनतापत्त्या तादृशप्रवृत्तिहेतुज्ञानत्वावच्छेदेन इतरस्यान्यथा- ख्यातिवादिनः सिपाधयिषिततोपया । इत्थं च तेनैव समूहालम्बनस्थलीयक्षतेरपि नावतारः । अवच्छेद. कावच्छेदेनानुमिती सामानाधिकरण्येन सिद्धेविरोधित्वानोक्तविवक्षावश्यं भाव इति चेन्न । तुल्यदिशा ख्यातिवादिनापि तथैव सुवचतया ईश्वरज्ञानेन सिद्धसाधनता स्यादिव्युत्तरग्रन्थानवतारप्रसङ्गेनोक्तदिशा समाहितेरयोगात् । प्राचीनमतेऽभिहितक्षतेर्दुरित्वाच्च ।। तवापीति ।। अन्यथाख्यातिवादिनोपीत्यर्थः ।। बाध इति ।। रजतत्वावच्छिन्ननिरूपितायामीश्वरज्ञानवृत्तिविषयितायां पुरोवर्तिव्यक्तिनिष्ठविषयतानिरूपि. तत्वरूपसाध्याभावाद्वाध इत्यर्थः । व्याकारस्तु इदं चायथार्थत्वस्य साध्यतामभिप्रेत्य न तु पुरोवर्ति. विषयकत्वरूपसाध्याभिप्रायेण तस्येश्वरज्ञाने सत्वेन बाधाभावादिति सङ्गमयन्ति । त्वया प्राभाकरेण ।
च्छेदककल्पयोर्दूषिततया निर्णीतिप्रसङ्ग इत्यतः परलम्पनेनैव तन्निर्णिनीपुः भङ्गयन्तरमाशङ्कय प्रतिबन्दी परिगृह्णाति ॥ इदं ज्ञानादित्यादि । विप्रतिपत्तिविषयं विमतिनिरूपितविशेष्यतारूपविषयताविशेषितं पक्षम् । तथा चेदमंशावगाहिज्ञानप्रतियोगिकभेदप्रकारकप्रहनिष्ठस्वनिरूपितविशेष्यतासंबन्धावच्छिन्न- प्रतियोगिताकाभावविशेषितज्ञानत्वस्यैवोभयसंप्रतिपन्नस्य पक्षतावच्छेदकत्वोरीकारात्सर्वसामञ्जस्यमिति भावः। । सु०-किश्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्सम्मतवत् । अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः । स्यादेतत् । किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजत- ज्ञानम् । रजतं च तज्ज्ञानं चेति वा । रजतशब्दोल्लेखिज्ञानं वा रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा रजतमिति ज्ञानं वा । न प्रथमः । षष्ठयर्थस्य विषयविषयिभावव्यतिरेकेणासम्भवात्साध्या- विशिष्टत्वात् । न द्वितीयः । उभयासिद्धेः । ज्ञानस्य निराकारत्वात् । न तृतीयः । उल्लेखार्थस्य विषयत्वेऽसिद्धेः । तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् । न चतुर्थः । विवेकाग्रहवादिनामिदमिति ज्ञान- स्थापि शुक्तिकाऽऽलम्बनस्य तद्धेतुत्वेन व्यभिचारात् । न पञ्चमः । पूर्वोक्तपक्षाबहिर्भावा- दिति । मैवम् । अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते । उत रजतज्ञानं शुक्तिविषयम् । आये न नो विवादो यथार्थख्यातित्वात् । द्वितीये रजतज्ञान- शब्देन योऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति । तथा हि न तावदाद्यः कल्प: परेणाङ्गीकर्तुमुचितः । व्याघातप्रसङ्गात् ।। शुक्तिरजतयोरभेदप्रसङ्गाच्च । न द्वितीयः । अनभ्युपगमात् । न तृतीयः । कदाचिच्छुक्तिकाज्ञानस्याप्यन्यथासङ्केतितरजतशब्दस्मृति- हेतुत्वसम्भवेनान्यथाख्यातित्वप्रसङ्गात् | नापि चतुर्थः । यत्र शुक्तिकातदधस्ताद्रजतमस्तीति वाक्यं श्रुतयतः शुक्तिज्ञानमपि रजतार्थिप्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् । नापि पश्चमः । प्रागुक्तपक्षावहिर्भावात् । अतो रजतज्ञानं नामोक्तपक्षेषु किश्चिदङ्गीकृत्य तरासिद्धेश्च । तस्मादुक्त एव परिहारः । अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वा- त्प्रमात्ववत् । शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात् । यद्यद्रूपेणासत्तत्तद्रूपेण नाव- भासते। यथा मेरुः सर्पपत्वेन । इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् । तस्मादख्यातिपक्ष एव श्रेयानिति ।। मध्यम वा० रजतज्ञानस्य रजतविषयकत्वे साधितेऽन्यथाख्यात्यभावसिद्धिरित्याशयेनानुमानान्तर. माह ॥ किञ्चति ॥ रजतस्मरणमात्रस्य पक्षत्वे सिद्धसाधनता । रजतपुरोवत्येकताज्ञानस्य पक्षत्वे वाद्याश्रयासिद्धिरित्यतो विवादाध्यासितमित्युक्तम् । नन्वत्रापि विमतिविषयतावच्छेदकानिरुक्तिरेवेत्यत इदंज्ञानादित्युक्तविमतिविषयोद्धाटनप्रकारोऽत्रापि द्रष्टव्य इत्याह ॥ अनापीति ॥ हेत्वनुपपत्तिविषयाँ शङ्कामुत्थापयति ॥ स्यादेतदिति || षष्ठीतत्पुरुषाश्रयणेन प्रथमस्य साकारवादिमताश्रयणेन द्वितीयस्य ज्ञाने शब्दभाननियमनादिमताश्रयणेन तृतीयस्योभयवादिमताश्रयणेन चतुर्थस्य पदलोपिसमासाश्रयणेन पञ्चमस्य प्रसक्तिरिति द्रष्टव्यम् । असम्भवादिति ॥ रजतज्ञानयोः संयोगसमवायादेरभावादिति भावः ॥ उभयेति ॥ साकारवादिना तथाऽङ्गाकारेऽपि वादिप्रतिवादिमते- ऽसिद्धिरेवेति भावः ॥ असिद्धरिति ॥ न च गृहीतशक्तिक प्रति शब्देनार्थस्येवार्थेन शब्दस्मरणे बाधकामावाच्चाक्षुषबोधेऽपि व्यक्त्या सारितः शब्दोविशेषणमत एव गोत्वस्येव शब्दस्यापि व्यक्ति- विशेषणत्वात्तत्संसर्गोऽपि तादात्म्यमेवास्त्वत एवाह 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शब्देन गृह्यत' इति । एवं च वाच्यवाचकतादात्म्यादर्थज्ञानस्य शब्दविषयकत्वं नासिद्धमिति वाच्यम् । चाक्षुषबोधेन तावदचाक्षुषशब्दस्यानुपनीतस्य भानम् । अर्थज्ञानानन्तरभाविस्मृत्युप- नीतस्य च नार्थज्ञाने भानमुपपद्यते । न च तदुपनायकान्तरं विर्विकल्पकानङ्गीकारिणां नियमेन पूर्वमस्ति । तस्मान्न शब्दस्य व्यक्तिभाने भानम् । केवलमर्थज्ञानोत्तरं व्युत्पत्तिसमयावगतः मर्यते शब्दो न तस्य केनचित्संसर्गो भासते । भाने वा व्यक्तिरियं घटपदवाच्या घटजातीयत्वादित्याद्यनुमानादेव । तादा. म्यसंबन्धोक्तिस्तु नानार्थस्थले एकस्य शब्दस्यानेकतादात्म्यानुपपस्याऽनुपपन्नैवेत्यर्थज्ञानस्य शब्दविषय. कत्वमसिद्धमेवेति भावः ॥ तज्ज्ञानेति ॥ उल्लेखार्थस्येत्यनुवर्तते । येन ज्ञानेन यस्य शब्दस्य स्मृति- र्जन्यते तज्ज्ञानस्य तच्छन्दस्मृतिजनकत्वमेव तच्छब्दोल्लेखित्वमित्यर्थः । ज्ञानेतरकारणजन्यशब्दस्मृति.
॥ सङ्केतज्ञानवत एवार्थज्ञानाद्रजतपदस्मरणं नान्यस्येति द्योतयितु तद्विशेषणमिति जयम् ॥ विवकात ।। सत्यपि विवेकाग्रहे प्रवृत्त्यभावेनेदरजतमिति ज्ञानयोरावश्यकत्वाद्रजतज्ञानस्योपस्थितेष्टभेदाग्रहहेतुतावच्छे. दककोटिनिविष्टत्वेनान्यथासिद्धत्वेऽपीदमिति ज्ञानस्य तदभावेन हेतुत्वं प्राभाकराणां संमतमित्याशयः । प्रतिबन्दीमुखेन हेतुं निष्कर्षयितुं तस्या अन्यथाख्यातिस्वरूपनिष्कर्षाभावेऽनुदयादन्याकारमन्यालम्बनं ज्ञानमन्यथाख्यातिरिति वदता रजतज्ञानं शुक्तिविषयं शुक्तिरजतस्थलेऽन्यथाख्यातिरिति वक्तव्यमिति पक्षं निष्कर्पयितुं पक्षान्तरं दूषणाय प्रसञ्जयति || मैवमन्यथेति ॥ विषयविषयिभावस्यैव षष्ठ्यर्थत्वाद्धर्मिण एव वियित्वाद्विशिष्टज्ञानस्यान्यधर्मिकस्यान्यधर्मिकत्वं व्याहतमित्याह । व्याघातेति ॥ व्याघातभयाच्छुक्ति रजतयोरन्यत्वं वा त्याज्यमित्याह । शुक्तीति । अन्यथासङ्केतितत्वं शुक्तिरहितशुक्तिसङ्केतितत्वम् । ननु चतुर्थपक्ष एवाङ्गीक्रियते । न चोक्तदोषः । इष्टतावच्छेदकप्रकारकत्वस्य प्रवृत्तिहेतुपदेन विवक्षणात् । यद्वा शुक्त्यनुसारिरजतविषयकव्यवहारजनकत्वं रजतज्ञानत्वं विवक्ष्यतेऽतो नानुपपत्तिरिति चेत्तत्यैव हेतुत्वेऽपि न मम क्षतिरित्याशयेनाह ॥ अत इति । धमिहेतुविकल्पप्रयुक्तदूषणाप्रसक्तये रीत्यन्तरमाह । अपि चेति । सिद्धसाधनतानिरासाय साध्ये मात्रपदम् । अयथार्थव्यवहारादिवृत्तिसत्ताधनकान्तिकलानिरासाय हेतो तदिति ध्येयम् । एवं स्वपक्षसाधनमभिधायान्यथाख्यातिनिषेधाय सप्टमनुमानद्वयमाह ॥ शुक्तिकेत्यादिना ॥ तत्राद्य संसर्गतादाम्यसाधारण द्वितीयं प्रतिवादिप्रसिद्धया पक्षसिद्धिमभिप्रेत्य प्रवृत्तं तादात्म्यासाधारणमिति द्रष्टव्यम् ।। स. विवादाभ्यासितमिति ॥ न च रजतज्ञानस्म रजतविषयत्वोपपादनमसङ्गत याथार्थ्य- साधनस्यैव प्रकृतत्वादिति वाच्यम् । यत्सन्निकृष्टकरणेनेत्यादिवक्ष्यमाणविषयत्वस्य रजते सिद्धौ तज्ज्ञाने याथार्थस्यैव सिद्धत्वादिति भावः ॥ साध्याविशिष्टत्वादिति.॥ न च रजतविषयत्वस्य साध्यत्वाद्रजत- विषयकज्ञानत्वस्य हेतुत्वान्न साध्यावैशिष्टयमिति वाच्यम् । साध्यवद्धतोरपि संदिग्धत्वाद्वित्यत्र तात्पर्यात् । रजतशब्दोल्लेखीत्यत्रोल्लेखो नाम विषयत्वं वा रजतशब्दज्ञानजनितरजतपदस्मृतिहेतुत्वं वेति विकल्पं हृदि निधायाद्यं दूषयति ॥ उल्लेखार्थस्येति ॥ द्वितीयं निराचष्टे ॥ तज्ज्ञानजनितेति ना रजतशब्दज्ञान- जनितेत्यर्थ इत्याहुः । यद्वा रजतज्ञानजनितरजतशब्दस्मृतिजनकत्वमात्रे विवक्षिते इत्यर्थः । मात्रपदेन पूर्वोक्तविषयत्वव्यावृत्तिः । इदं च रजतशब्दस्योल्लेखः -स्मृतिरस्यास्तीति निर्वचने जन्यजनकभावस्स च षष्ठ्यर्थत्वं लभ्यत इति द्रष्टव्यम् । रजतशब्दस्मृतिहेतुत्वं रजतज्ञानस्य स्फुटीकतु तज्ज्ञानजनिते.
प्रसङ्गादित्यर्थ इत्याहुः । न च रजतशुक्ती इति ज्ञाने रजतविषयकस्यापि शुक्तिविषयकत्वदर्शनान्न व्याघात इति वाच्यम् । तस्य त्वयाऽन्यथाख्यातित्त्वानभ्युपगमादिति भावः ॥ पक्षान्तरमिति ।। सामानाधिकरण्यव्यवहारजनकज्ञानत्वमितिपक्षान्तरमुत्प्रेक्षणीयमित्यर्थः ॥ ज्ञानत्वमिति ॥ सिद्धसाधन. वारणाय मात्रपदम् । ज्ञानवृत्तित्वादिन्युक्ते सत्तायामनैकान्त्यमयथार्थव्यवहारेऽपि तस्याः वृत्तरत उक्त मात्रेति । प०- पूर्ववदिति ॥ इदंज्ञानादगृहीतविवेकं रजतज्ञानमित्येवं रूपेणेत्यर्थः । उल्लेखार्थस्य उल्लेखशब्दार्थस्य ॥ तज्ज्ञानेति ॥ यस्य ज्ञानस्योल्लेखित्वमुच्यते तज्ज्ञानजनिता या स्मृतिः रजतशब्द. गोचास्मृतिः तन्मात्रकारणत्वं रजतशब्दोल्लेखित्वम् । रजतशब्दस्मृतिमात्रहेतुज्ञानत्वं रजतशब्दोल्लेरिख- ज्ञानत्वमिति फलितार्थः । रजतज्ञानात् संबन्धिदर्शनादितिन्यायेन रजतशब्दस्मृतेर्जननात् । न तु रजतशब्दविषयकत्वमिति मात्रशब्दार्थः । पूर्वेति ॥ क्वचिद्वाक्यविशेषे चन्द्रचूडावास रजताचल. वासिनेत्यादौ रजतवाचकपदापेक्षया पूर्वविद्यमानपदश्रवणेन तद्वाक्यपरिचयवतः रजतपदस्य स्मरणं भवति । इति पूर्वपदज्ञानस्य रजतपदस्मरणहेतुज्ञानत्वमस्ति । रजतविषयकत्वं नेति व्यभिचारादित्यर्थः । रजत शब्दस्मारकत्वं रजतशब्दोल्लेखित्वमित्यर्थमुपेत्याह ॥ कदाचिदिति ।। अन्यथासङ्केतितेति ॥ शुक्ति- शब्दपर्यायतया सङ्केतितरजतशब्देत्यर्थः ॥ यत्किञ्चिदेतदिति ॥ मदीयहेतुखण्डनं यत्किञ्चिन्नातीव- दोषावहम् । त्वयापि तस्य निर्वाह्यत्वेनोंक्तत्वात् । 'यत्रोभयोस्समो दोप" इति न्यायादिति भावः । अख्यातिवाद्येकदेशिमतमनूद्य निराह पूर्वपक्षी ॥ केचित्पुनरित्यादिना ॥ पुना रजतेति मंहितायां 'रोरी'तिरेफस्य लोपे 'ठूलोपे पूर्वस्य दीर्घोऽण' इति दीर्घ पुना रजतेति साधु । एवमपि बोध्यम् ।। अन्यतरेति ॥ ख्यातिवादिना शुक्तिविषयत्वाङ्गीकारात् । यत्सन्निकृष्टकरणेनेत्यादिना वक्ष्यमाण- विषयत्वस्य शुक्तावेव भावेन रजतेऽभावादिति भावः । उक्त एवेति । अतो रजतज्ञानं नामेत्यादिनोक्त एवेत्यर्थः ।। या. रजतं च तज्ज्ञानं चेति ॥ रजताकारंज्ञानमित्यर्थः । रजतशनोलखित्वं नाम रजशब्दविषयकत्वं वा रजतशब्दस्मृतिहेतुत्वं वेति विकल्प्याद्यं दूषयति ॥ उल्लेखार्थस्येति ।। रजत.
। अत्र तच्छब्देन रजतपरामर्शः तथा च रजतज्ञानजनिता या रजतरूपार्थस्मृतिस्तन्मात्रयोनित्वे तत्कारणत्वमात्रविवक्षिते सतीत्यर्थः । इदं च पक्षीभूते रजतज्ञानेऽस्ति । रजतज्ञानस्य रजतस्मृति. कारणत्वात् । मात्रपदेनपूर्वोक्तस्य विषयत्वस्य व्यावृत्तिः । रजतशब्दविषकमपि पक्षीभूतं रजतज्ञानं रजत- शब्दविपकस्मृतियोनित्वाद्र जतशब्दोलेखीत्युपर्यते । तादृशमेवोल्लेखित्वं हेतुतया विवक्षितं न साक्षादुल्ले. खित्वमतो नासिद्धिरिति भावः । अत्र यद्यपि रजतशब्दस्मृतियोनित्वे विवक्षिते इत्येव वक्तव्यम् । तथापि तज्ज्ञान जनितेति वचनं रजतशब्दस्मृति प्रति पक्षीभूतरजतज्ञानस्य योनित्यं 'पिण्ड एव हि दृष्टः सन् संज्ञा स्मारयितुं क्षम' इति वचनात्प्रसिद्धमेवेति दर्शयितुमिति ज्ञातव्यम् ॥ पूर्वपदज्ञानेनापीति । कमिश्चिच्छ्लोके रजतादिपदापेक्षया पूर्व यदि सुवर्णादिपदं निबद्ध तर्हि सुवर्णा दिपदस्य- पूर्व विद्यमानस्य ज्ञानेन तदुत्तरस्य रजतादिपदस्य तच्छ्लोकाभ्यासपाटवात्स्मृतिरनुभवसिद्धति भावः ।। व्याघातप्रसङ्गादिति ॥ बाधप्रसङ्गादित्यर्थः ।। अन्यथासङ्केतितेति ॥ रजतशब्दोल्लेखिज्ञानं शुक्तिविषयक- मन्यथाख्यातिरित्युक्ते यत्र रजतशब्दः शुक्तावेव सङ्केतितस्तत्र शुक्तिज्ञानस्य रजतशब्दस्मृतिहेतुताऽस्तीति तादृशशुक्तिज्ञानमपि शुक्तिविषयकमन्यथाख्यातिः स्यादित्यर्थः ।। अन्यतरेति ।। रजतमिति ज्ञानस्य शुक्ति- सन्निकृष्टकरणजन्यत्वेन शुक्तिविषयकत्वादिति भावः । साध्ये सिद्धसाधनतावारणाय मात्रपदम् । हेतौ मात्रपदं सत्तायां व्यभिचार वारयितुम् अयथार्थव्यवहारेऽपि तस्याः सत्त्वेन तत्र साध्याभावसम्भवात् ॥ श्री ॥ अत्रापीति ॥ इदं ज्ञानादगृहीतविवेक रजतज्ञानमित्यर्थः ।। रजतविषयमिति ।। पुरोवर्तिविण्यत्वेऽन्यथाख्यात्यापत्तिरित्याशयः । तद्धेतुत्वेनेति ॥ रजतार्थिनः प्रवृत्तिहेतुत्वेनेत्यर्थः ।। व्याघातप्रसङ्गादिति ।। रजतविषयकज्ञानस्य शुक्तिविषयकत्वे विरोधप्रसङ्ग इत्यर्थः ।। शुक्तिरजतयोरक्या- भावे रजतविषयकं ज्ञानं कथं शुक्तिविषयकं स्यादित्यर्थः । तृतीयपक्ष रजतशब्दस्मृतिहेतु. शानमेव रजतशब्दोलेखिज्ञानत्वं विवक्षित तत्र दूपणमाह || कदाचिदिति ॥ यत्किञ्चिदेतदिति ।। स्थादेतदित्यादिना यच्छङ्कते तद्यत्किञ्चितुच्छमित्यर्थः । किंच विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वादियुक्तानुमाने हेतूकृतं रजतज्ञानं नाम किमित्येवं स्यादित्यादिना शङ्कित- दोषस्य । अतो रजतज्ञानं नामोक्तपक्षेप्वित्यादिनोक्तप्रकारेणैव नान्यथेत्याशयेन कैश्चित्स्वयूथ्यैरुक्तं हेत्वर्थ- मनूध दूपयत्याख्यातिवादी । केचित्पुनरित्यादि । यथार्थमात्रवृत्तीति । यथार्थज्ञानमात्रवृत्तीत्यर्थः ।
वृत्तित्वन यथार्थज्ञानमात्रवृत्तित्वरूपसाध्याभावात् । अतो मात्रपदम् । ज्ञानेतरवृत्तित्वे सति तात्तत्व मात्रशब्दार्थः । तथा च सत्तायां व्यभिचार इति द्रष्टव्यम् । च०-रजतशब्दोल्लेखित्वं 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन गृह्यत' इति वचनात्तच्छब्दविषयकत्वमेकसंबन्धिज्ञानमपरसंबन्धिस्मारकमिति तच्छन्दविषयक. स्मृतिजनकतारूपं वेति कल्पद्वयमभिप्रेत्याचं प्रत्याह ।। असिद्धेरिति ॥ तज्ज्ञानजनितेति ॥ रजत- ज्ञानेन जनिता या रजतशब्दविषयिणी स्मृतिस्तन्मात्रनिरूपितकारणत्वरूपत्व इत्यर्थः । मात्रपदेनाद्यकल्पो व्यवच्छेद्यते । व्याघातप्रसङ्गादिति ॥ शुक्तिज्ञाने रजतविषयकवाभावेन बाधप्रसङ्गादित्यर्थः । अन्यथासङ्केतितेति ॥ रजतशब्दाच्छुक्तिः प्रत्येतव्येति पुरुषविशेषपरिभाषाविषयीकृतेत्यर्थः ।। अन्य. तरेति ।। गुरुमते रजतमितिज्ञानस्य रजतसन्निकृष्टकरणजन्यत्वाभावेन तदविषयकतया हेतोरसिद्धिरित्यर्थः।। .. -- सु०- अत्रोच्यते । यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखीत्यन्तेन तदिष्टमेवास्माकम् । अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् । यथोक्तम् असतः सत्वप्रतीतिः सतोऽसत्यप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति ।। नन्वन्यस्यान्यात्मता सती उतासती । असतीति ब्रूमः | असतो न प्रतीतिरिति चेन्न । तस्या उपपादयिष्यमाण- त्वात् । एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न । को हि ब्रूते रजतं सदिति । वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टत्वात् ।। ।। अत्र केनचित्प्रलपितम् | खण्डो गौः शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रमज्येरन् । सामानाधिकरण्य- प्रत्ययस्य तादात्म्यालम्बनत्वात् । तस्य चात्राभावादिति । तदतीव मन्दम् ॥ तथा हि । सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलन्बते । किं गुणक्रियाजात्यादेः द्रव्येणोत गुणादीनामेव परस्परमथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि ।। नाद्यः । असम्मतेः । न हि शुक्लः पट इत्यस्य शौक्ल्यं पट इत्यर्थोभिमतो लौकिकानाम् । न च चलति पट इत्यस्य चलनं पट इत्यर्थोऽभिमतः । नापि खण्डो गौरित्येतत्खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम् । तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्स्यविषयतापत्तेः । दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि । शुक्लगुणो- 69 वा०-- अन्यथाविज्ञानमेव भ्रान्तिरिति वदता भाष्यका रेणाभिप्रेतमन्यथाख्यातिलक्षणान्तर- निराकरणं पूर्वपक्षव्याजेनास्माभिर्दर्शितमित्याशयेनाह ॥ यत्तावदिति ॥ इत्यन्तेनेति ॥ अन्तशब्दो मर्यादावचनः । एतत्पर्यन्तेनेत्यर्थः । अत एवान्याकारोल्लेखीत्यस्मदभिमतान्यथाख्यातेरिति वक्ष्यति । अत्र पूर्वपक्षानुवादानुसारेणान्याकारोलेख्यन्यालम्बनं ज्ञानमन्यथाख्यातिरित्यङ्गीकारादिति वक्तव्येऽन्य. दित्यादिवचनमेतत्पक्षाभिप्रेतार्थस्यान्यथाविज्ञानं भ्रान्तिरिति भाप्यारूढताप्रदर्शनाय । तथा चान्यथे. त्येतत्सामर्थ्यलभ्यमन्यद्विषयीकुर्वदिति संयोज्य भाष्यं व्याख्यातं भवति । नन्वत्रान्यशब्दाभ्यां वस्तुमात्र. विवक्षायां वस्तुनो वस्त्वन्तरात्मनाऽवभासरूपान्यथाख्यातिलक्षणनिरासस्य पूर्वोक्तस्वाभीष्टत्वविरोधः । वस्त्ववस्तूभयग्रहणे च न सिद्धान्तीयं ज्ञापकमन्यथाविज्ञानमिति भाष्यस्य वस्तुमात्रविषयकत्वेनापि व्याख्यातुं शक्यत्वादित्यत एतद्व्याख्यानरूपतत्त्वनिर्णयस्थभाष्यकारीयवाक्यानुसारेणैतद्भाप्यं व्याख्येय. मित्याशयेन तत्स्थं वाक्यमुदाहरति । यथोक्तमिति || अत्र स्वमते पराभिमतान्यथाख्यातिवैलक्षण्यं दर्शयितुं सदसतोरसत्सवप्रतीतिरन्यथाख्यातिरित्युक्त लक्षणं त्वन्यदित्याग्रस्मदुक्तरीत्यैवेति भाप्ये सदसतो- रसत्सत्त्वप्रतीत्योरन्यतरस्थलेऽन्यतरसत्त्वनियमे लक्षणेऽन्यतस्वैयर्थ्यमनियमे च प्रत्येकलक्षणत्वे परस्परा. व्याप्तिमिलितस्य लक्षणत्वे चैकैकमात्रवत्यव्याप्तिरित्यादिचोद्यानवकाश इत्यप्यन्यदित्यायुक्त्या सूचितमिति द्रष्टव्यम् । वस्तुनो वस्त्वन्तरात्मना अवभास इति पक्षे पूर्वपक्ष्युद्भावितं न्यायसाम्यात् अत्रापि प्रसक्तं विकल्पदूपणमसद्विलक्षणज्ञप्तेत्याधुत्तरभाष्येण निरस्तमित्याशयेन तद्विकल्पमाशङ्कते ॥ नन्विति ॥ अत्र यत्परेणोक्तं दूषणमुपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेनेति तस्य वस्तुत्वगर्भलक्षणप्रणेतृनैयायिक प्रति सम्भवेऽपि नास्मान्प्रति प्रसक्तिरित्याशयेन समाधातुं तच्छकते ॥ एवमिति ॥ ननु रजतस्य देशान्तरेऽपि सत्त्वानभ्युपगमेऽसत्ख्यातिपक्षापत्त्याऽन्यथाख्यातिपरित्याग इत्यत आह ॥ वक्ष्याम इति ॥ विगीतप्रत्यये भासमानस्य सर्वस्य नासत्त्वमभ्युपगम्यते येनासत्ख्यातिरपि तु सदेव शुक्तिकाशकलमत्यन्तासद्जतात्मना मासत इति तार्किकोक्तविलक्षणान्यथाख्यातिस्वरूपं वक्ष्याम इति भावः । अनिर्वचनीयख्यातिसमर्थना- यान्यथाख्यातिलक्षणानि निराकुर्वता विवरणकारेणोक्तमेतलक्षणदूषणं निराकर्तुमनुवदति ॥ अत्रेति ॥ केनचिदिति ॥ निरसनीयत्वेन प्रसक्ताख्यातिवादिविलक्षणेनेत्यर्थः । अख्यातिवाद्युक्तदूषणस्य नैयायिक प्रति सम्भवेऽपि मा प्रत्यसम्भव इत्येव । त्वदुक्तस्य तु तं प्रत्यसम्भवः वक्ष्यमाणरीत्या तेनापि तादात्म्य.
आह ॥ तथा हीति ॥ सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वेऽपि शुक्ल: पटश्चलतीत्यादि- प्रत्ययानां यत्तादात्म्यालम्बनता न तेषामन्यत्वं येषां चान्यत्वं न तेषां तादात्म्यालम्बनतेत्यन्यथाख्याति. वैलक्षण्यान्नातिव्याप्तिरिति वक्तुं गुणक्रियाजातीनां तदाश्रयाणां चैषु प्रत्ययेषु भानात्तादात्म्यावमासेनाति. व्याप्तिं वदता च गुणादीनां स्वाश्रयैर्वा गुणादीनां परस्परं वा तदाश्रयाणां परस्परं वा तादात्म्यभान. माश्रित्यातिव्याप्तेर्वक्तव्यतया तदभिप्रायं ज्ञातुं पृच्छति ।। सामानाधिकरण्येति ॥ तवासम्मतिरप्रयोजि- केत्यतोऽनुभवविरुद्धेऽर्थे संमतिर्न युक्तत्याशयेनानुभवविरोधमाह ॥ न हीति ॥ अनुभवमतिक्रामन्तं प्रति बाधकमाह !! तथात्य इति ।। वैपन्यं शङ्कते ।। दण्डीतीति ।। प्रत्ययस्य भेदाविनाभूतसम्बन्धार्थकतया भेदार्थत्वोक्तिः ॥ शुक्लगुण इति ॥ गुणवचनेभ्यो मतुपोलुग्वक्तव्य इति तदस्यास्त्यस्मिन्नित्यत्रत्येन वार्तिकेन शुक्ल इत्यस्योपपत्तावप्यन्तोदात्तत्वार्थमशआदिभ्योऽजित्यत्र अर्श आदिगणे वर्णादिति पाठात्तदभिप्रायेणैवमुक्तमिति द्रष्टव्यम् । [ गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धाः शुक्लादय एव गृह्यन्ते न तु रूपादयोऽपि । शुक्लगुणोऽस्यास्तीति शुक्लः परः । कृष्णः । तदस्या- स्त्यस्मिन्निति मतुप् । गावोऽस्यास्मिन्वा सन्ति गोमान् । अस्तीति पुरुषवचने अविवक्षिते । कालस्तु विवक्षित एव । धने गते भाविनि वा धनवानयमिति प्रतीत्यभावात् । इतिशब्दो विषयविशेषलाभार्थः । तथा च वार्तिकम् । 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादय' इति । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिविषयेषु भवन्तीत्यर्थः । भूमादिग्रहणं प्रायेण भूमादयोऽपि प्रतीयन्त इत्येवं परम् । भूमा बहुत्वम् । यस्य यावदुचितं तावदेव । निन्दायां ककुदावर्तिनी कन्या । प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी । संसर्गः संयोगः । तेन संयुक्तदण्ड एवोच्यते न तु गृहावस्थितदण्डोऽपि । ] शुक्ल इत्यादौ चलतीत्यादाविव भेदार्थप्रत्ययस्याम्फुटत्वादभेदा देव व्यवहारोपपत्तेन भेदज्ञानकल्पकं किञ्चिदि- त्यतोऽभियुक्तव्याख्यानं तव्यवहारस्य सम्बन्धविषयकत्वे दर्शयति । अत एवेति ।। 4 स० अन्याकारोल्लेखीत्यन्तेनेति ॥ शुक्तेरसद्जतात्मताभासेऽपि रजतस्यासत्त्वे. नावस्तुत्वाद्वस्तुनो वस्त्वन्तरावभास इति लक्षणस्यानभिमतत्वादन्यथाकारोलेखीत्यन्तेनेति युक्तम् । तेन द्वितीयलक्षणाभ्युपगमादन्यथाकारोल्लेखीत्यन्तेनेति न युक्तमिति शङ्काऽनवकाश इति ध्येयम् । उप- 69a हाति ॥ शुक्ला पट इत्यत्र शाक्य तदाश्रयः पटत्व तदाश्रयश्चात चतुष्टय प्रतायत । तत्र सामाना- धिकरण्यविषयीभूतः किं शौक्ल्यरूपगुणस्य पटरूपद्रव्येणाभेदः उत शौक्ल्यरूपगुणस्य पटत्वजात्या अथ शौक्ल्याश्रयस्य पटत्याश्रयेण । एवं चलति पट इत्यत्रापि द्रष्टव्यम् । प०--इत्यन्तेनेति ।। अन्याकारोलेग्विज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धमित्यन्ते- नेत्यर्थः । यथोक्तमिति ॥ विष्णुतत्त्वनिर्णये | उपपादयिष्यमाणत्वादिति ॥ 'असद्विलक्षणज्ञप्त्यै' इत्यादिव्याख्यावसर इति भावः । तादात्म्यतत्संसर्गमात्रमसदिति प्राचीनतार्किकरीतिं मत्या शकते ।। एवं सतीति ॥ उपरिष्टादिति ॥ तत्रारोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्त इत्यादिना तार्किक- मतानुवादपूर्व तन्निरासप्रस्ताव इत्यर्थः ॥ अत्रेति ॥ अविद्यमानतादात्म्यविषयकत्वेन ज्ञानस्य भ्रमत्व- मित्युक्तार्थविषये केनचिदूषणमलमकमेवोक्तमित्यर्थः ॥ इत्यादीति ॥ क्रियाश्रयस्य जात्याश्रयेण जात्या- श्रयस्य क्रियाश्रयेण गुणाश्रयेण वा क्रियाश्रयम्येत्यर्थः । निर्विशेषाभेदाभिप्रायेणाह ॥ असम्मतेरिति ।। भेदार्थप्रत्ययेति ॥ दण्डो स्यास्तीति दण्डी । 'तदस्यास्त्यस्मिन्नि'त्यर्थे 'अत इनिठनावि'तीनिप्रत्ययस्य भेदार्थबोधकस्य प्रयोगादित्यर्थः ।। तादृशमिति ॥ ज्ञानव्यवहारयोरेकविषयकत्वेनैव जन्यजनकभावा- पन्नत्वादिति भावः ॥ अकारप्रत्ययेति ॥ व्यञ्जनस्य स्वरार्थत्वेनेत्संज्ञकत्वादकार इत्येवोक्तम् । तथाच यस्येतिप्रातिपदिकाकारलोपे शुक्ल इत्येव शुक्लवानित्यर्थे रूपमिति भावः । यद्यपि पञ्चमस्य द्वितीयपादे 'तदस्यास्त्यस्मिन्निति मतुबि'तिसूत्रे 'गुणवचनेभ्यो मतुपो लुग्वक्तव्यः' । शुक्ल: पट इति वार्तिकान्निर्वाहो वृत्तौ दर्शितः । तथापि तत्प्रकरणे 'अर्श आदिभ्य' इतिसूत्रे वर्णादिति वृत्तौ उक्तपदस्य मञ्जयाँ वर्ण. वाचिनः शुक्लादिशब्दादपि अच्प्रत्ययो भवति । शुक्लोऽस्यास्तीति शुक्लः पट इत्युक्त्वा गुणवचनेभ्यो मतुपो लुग्वक्तव्य इत्येव सिद्धमेतदित्याशङ्कय ये आधुदात्ता वर्णवाचिनः शब्दाः तद्वत्यन्तोदात्त- सिद्धयर्थमच्प्रत्ययविधानमित्युक्तत्वादर्शआदिभ्योऽजित्यनेनैव निर्वाहो दर्शितः । नापि खण्डो गौरित्युक्त- मुपपादयति || न हि गौरिति ।। अविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वे कस्यचिद्रूपणमनूद्य दूषयति ॥ अत्र केन- चिदिति ॥ सामानाधिकरण्यप्रत्यय इति || शुकः पटश्चलतीत्यादिप्रत्यय इत्यर्थः । गुणादीनां द्रव्येण तादात्म्येऽनुभवविरोधं क्रमेणाह ॥ न हि शुक्ल इत्यादिना ।। अतिप्रसङ्गं चाह || तथात्व इति ।। स्फुट एवेति ॥ प्रतीयत इति शेषः ।। या० त्यन्तासद्र जतात्मनावगाहमानं ज्ञानं जनयतीत्यङ्गीकारादित्यत्रेत्यर्थः ॥ तस्येति ॥ तादात्म्यस्येत्यर्थः । तथाचाविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वे खण्डो गौरित्यादिसविकल्पकप्रत्ययेप्वतिव्याप्तिरित्यर्थः । चलति चलनवान् । जातेद्रव्येण तादात्म्यावलम्बनत्वे उदाहरणद्वयम् ।। खण्डो गौरिति ।। खण्डत्वजातिः खण्डरूपा व्यक्तिश्चैकैवेत्यर्थः । एवं गौरित्यत्रापि गोत्वं जाति: गोरूपा व्यक्तिवेत्यर्थः ॥ खण्डत्वं गोत्वं च पिण्ड एवेति ॥ खण्डत्वं पिण्ड एव खण्डरूपा व्यक्तिरेव गोत्वं च पिण्ड एव गोरूपा व्यक्ति- रेवेति योज्यम् । सामानाधिकरण्यप्रत्ययस्य गुणादेधर्मस्य धर्मिणा तादात्म्यावलम्बनत्वेऽनुभवविरोध. मुक्त्वाऽतिप्रसङ्गश्चाह || तथात्व इति । इत्यस्यापीति सामानाधिकरण्यप्रत्ययस्यापि || ज्ञानमपि तादृश- मिति ॥ दण्डदेवदत्तभेदविषयकमेव ज्ञानं तत्रास्ति न तु दण्डदेवदत्ततादात्म्यविषयकमतो नातिप्रसङ्गः । शुक्लः पट इत्यादौ तु भेदार्थप्रत्ययप्रयोगाभावादत्र ज्ञानं तादात्म्यविषयकमेवेति तत्रातिव्याप्तिः स्यादेवेति भावः । प्रत्ययो मत्वर्थीय इन्प्रत्ययः । तादृशं भेदावगाहि । तथाच न तादात्म्यविषयकत्वमिति भावः। इत्यत्रार्थे इत्यस्मिन्मतुबर्थे ।। अकारप्रत्ययेति ।। भेदार्थकेत्यर्थः । ननु गौरित्यत्र कथमर्थभेदः । भेदार्थक. प्रत्ययाभावा दित्यत आह ॥ न हि गौरितीति । तथात्वे गोगोत्वयोस्तादात्म्ये ॥ त्वप्रत्ययेति ।। गोर्भावो गोत्वमिति भेदार्थकत्वप्रत्ययेत्यर्थः । अत एवेति ॥ शुक्ल: पट इत्यत्र भेदार्थकमत्वर्थीयाकारप्रत्यय- सद्भावादेवेत्यर्थः । यथोक्तमिति ॥ विष्णुतस्त्वविनिर्णय इति पूरणीयम् ॥ उपपादयिष्यमाणत्वा- दिति ॥ असद्विलक्षणज्ञप्त्या इत्यादिनेत्युपस्कर्तव्यम् । चिरन्तननैयायिकैकदेशिमते तादात्म्यमात्रं तत्संसर्गमात्रं वा असन् शिष्टं तु सर्व सदेवेतिवत्प्रकृतमतेऽपि तथेति विपर्यस्यन् शङ्कते ॥ एवमिति ।। अलीकतादात्म्यावगाहिज्ञानस्य विपर्यासरूपत्वे वाद्यन्तरीक्तदूषणप्रत्याचिख्यासयानुवदति ॥ अत्र केनचिदिति ॥ सु०-अत एव न द्वितीयः । न हि शुक्लः पटश्चलतीत्यस्य शौक्ल्यं पटत्वं चलन चैकमित्यर्थश्चेतसि चकास्ति प्रतिपत्तणाम् । तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् ।। ।। तृतीयस्तु स्यादेव । समानमेकमधि- न च गुणाद्याश्रयस्य भेदें प्रमाणमस्ति ! विशिष्टयोर्भेदेऽपि न तत् गुणाधाश्रयः । किन्तु गुणाद्या. श्रयाश्रितं वस्त्वन्तरं तत् ।। एवञ्च यत्रं भेदों न तदभेदेन प्रतिभासते यचाभेदेन प्रतिभासते न तत्र भेद इति क्वातिव्याप्तिः ॥ ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः । क्वचिद्भेदाभेदौ च | सामानाधिकरण्यप्रतीतिम्तु भेदनिष्ठेव व्याख्याता । तथा च पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः । मैवम् । सविशेषत्वाङ्गीकारात् । विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः ।। बा० स्यादेवेत्येवशब्देन आश्रयाभेदभानस्य अनुभवसिद्धतां दर्शयति । ननु गुणादीनामाश्रयेण परस्परं भेद आश्रयाणां चाभेद इति कुतोऽर्धजरतीयमित्यतो. अनुभववशादिति समाधाने उक्तरीत्या सिद्धेऽपि सामानाधिकरण्यशब्दार्थविचारे क्रियमाणे प्रतीतेः सामानाधिकरण्यविषयकत्वं बदसोक्तप्रकारेण भेदादिविषयत्वस्यावश्यं स्वीकर्तव्यतया तदनङ्गीकारे तादृशप्रत्ययानुपपत्तिरिति बाधकमभिप्रेत्य सामानाधिकरण्यशब्दार्थमाह । समानमिति ॥ नन्वेवं शब्दार्थेऽपि कथमुक्तार्थस्य स्फुटतेत्यतो बाधकोक्तिमुखेन तेन तेनांशेन तत्तदर्थसिद्धि दर्शयति || न हीत्यादिना ॥ नन्वेवमाश्रयतादात्म्यभानाङ्गीकारे तत्तादात्म्यस्यासत्त्वात्सामानाधिकरण्यप्रत्ययस्य भ्रमत्वं स्यादेवेत्यतस्तद्धेदग्राहकप्रमाणस्य बाधकस्याभावान्न तादात्म्यप्रतीतेभ्रंमत्वमित्याशयेनाह || न च गुणा- द्याश्रयस्येति ॥ ननु गुणक्रियाविशिष्टयोमैदप्रतीतिरेव बाधिकेत्यत आह ।। विशिष्टयोरिति ।। सिद्धान्तेऽपि यत्राभेदप्रतीतिस्तत्रैव विशिष्टयोरभेदोऽन्यत्र तु भेद एवेति भावः । यदर्थमयं यत्नस्तदाह ।। एवं चेति । तर्हि सिद्धान्तानुसारेण पुनर्विभ्रमत्वमित्याशङ्कते ॥ नन्विति ।। सिद्धान्त इत्यभ्युच्चय- युक्तित्वं व्यावर्तयति ॥ भगवत इति ॥ वस्तुतः प्रामाणिकत्वमेव न तु तथाऽभ्युपगममात्रमिति ध्वनयति ।। क्वचिदिति ॥ अयावद्रव्यभाविगुणादिस्थले । भवदुक्तरीतिमनुरुद्धयैवैतद्वाधकप्रवृत्तिरित्या- शयेनाह || व्याख्यातेति ॥ गुणादीनामाश्रयेण परस्परं सविशेषाभेदाङ्गीकारान्नानुपपत्तिरित्याह ॥ सविशेषत्वेति ॥ नन्वेवमपि भेदनिष्ठसामानाधिकरण्यप्रतीतेरनुपपत्तिरेवेत्यतस्तत्प्रतीतेः सविशेषविषय- स्वाङ्गीकाराददोष इत्याह || सविशेषत्वेति ।। ननु कुतो गुणादीनां सविशेषाभेदः कुतश्चास्याः प्रतीतेस्तद्विषयकत्वं कथं च भेदनिष्ठप्रतीतेसविशेषाभेदविषयत्वेन निर्वाहः, अन्यथा दण्डीत्यादि- इत्यता गुणाना पदनानुपल मन स० गुण्यादीनां परस्परं च सविशेषाभेदस्य विशेपस्य भेदकार्यनिर्वाहकतायाश्चाभेदभेदकार्यप्रतीत्यन्यथानुपपत्त्या जन्माधिकरणादावेतत्प्रतीतेः सविशेषाभेदविषयकत्वव्यवहारविशेषजनकत्वादेश्च सविशेषावसीयत इति वाक्यव्याख्यानावसरे समयपादे समर्थयिप्यमाणत्वान्नानुपपत्तिरित्याशयेनाह ॥ विशदं चेति ॥ एवं च पूर्व भेदशब्दप्रयोगो विशेषाभिप्रायेण,दण्डीत्यादिबाधकोक्तिस्तद्वद्गुणादीनां निर्विशेषाभेदाभावाभिप्रायेण,आश्र- याभेदोक्तिनिर्विशेषाभेदाभिप्रायेण। तथा च 'यत्र विशेषो न तन्निर्विशेषाभेदेन भासते यच्च निर्विशेषाभेदेन भासते न तत्र विशेष इति नियम' एवं चेत्यादिनाऽभिमत इति द्रष्टव्यम् । केत्तित्तु तार्किकमतेन पूर्व समाधानमिति वदन्ति । तत्र विशिष्टयोरित्या दिग्रन्थास्वारस्य बोध्यम् । अनेनात्र केनचिदित्युक्तदूषण- परिहारप्रकारस्य मूलारूढतोक्तेति द्रष्टव्यम् । ननु गुणादेव्येणाभेदेऽपि तदधिकरणत्वसंभवेन कथमधिकरणत्वोक्त्या भेदसिद्धिस्तत्राह ।। न हि स्वयमेवेति ।। गुणादीनां परस्परभेदमुपपादयति ॥ नापीति ॥ अन्यथा एषामित्यनुपपन्नमिति भावः । गुणाश्रयस्य क्रियाश्रयेणाभेदः आश्रयस्य समानत्वोक्त्या कथं लभ्यत इति तत्राह ॥ न चाश्रयभेद इति ।। व्युत्पादयिष्याम इति || जन्माधिकरण इति शेषः । प० चकास्तीति ॥ चकास दीप्तौ भातीत्यर्थः आश्रयेण भेदः, परस्पर च भेदः, आश्रयाणामभेदः, इत्येतत्क्रमेणोपपादयति ॥ न हीति ।। आश्रयाणामिति बहुवचनमाधेयानां बहुत्वात्तदभिप्रायेणौपचारिकमिति भावः ॥ विशिष्टयोरिति ।। गुणविशिष्टक्रियाविशिष्टयोरित्यादेरित्यर्थः । विशिष्टं पदार्थान्तरमिति भावेनाह || वस्त्वन्तरमिति ॥ कातिव्याप्तिरिति ।। मदुक्तान्यथाख्यातिलक्षणस्येति योज्यम् ।। भगवतो मुनेरिति ॥ सूत्रकर्तुः भाष्य- कर्तुराचार्यस्य चेत्यर्थः । तथैव तत्त्वविवेकादायुक्तेः । उभयव्यपदेशादौ वक्ष्यमाणत्वाञ्चति भावः ।। व्युत्पादयिष्याम इति ॥ जन्माधिकरणे 'अभिन्नऽपि विशेषोऽयं बलादापतति ह्यत' इत्यादिव्याख्या. वसरे कार्यकारणयोश्चैवेत्यादिसमवायनिरासकमन्थव्याख्यावसरे चेति भावः ॥ या गुणादीनामाश्रयेण भेदमुपपादयति ॥ न हि स्वयमेवेति ॥ तेषां परस्परं भेदमुप. पादयति ॥ नापि समानमिति ॥ येषामित्युक्तबहुत्वस्य भेदव्याप्तत्वादिति भावः ।। ध्यापक पादयति ॥ न चाश्रयभेद इति ॥ समानता एकता ।। तद्गुणाद्याश्रय इति ॥ आत्मयत्यप्रसङ्गादिति इत्याह ।। न चात।। ननु गुणांवशिष्टक्रियावाशष्टयामदः प्रत्यक्षासद्ध इात चतत्रा । रिति ॥ अस्माभिगुणाश्रयेणाभेदः कथ्यते न तु गुणविशिष्ट क्रियाविशिष्टयोः । तयोस्तु भेद एव । न च वाच्यं गुणविशिष्टस्यैव गुणाश्रयत्वात् क्रियाविष्टिस्यैव क्रियाश्रयत्वात् गुणाश्रय क्रियाश्रययोरभेदे विशिष्टयोरेवाभेदः प्राप्त इति । आत्माश्रयत्वप्रसङ्गेन गुणविशिष्टस्य गुणाश्रयत्वाभावात् । क्रिया. विशिष्टस्य च क्रियाश्रयत्वाभावात् । तथाच विशिष्टयोर्भेदेऽपि न तद्विशिष्ट गुणाद्याश्रयः किं नाम गुणाद्याश्रयाश्रितं वस्त्वन्तरम् । तेन भिन्नाभिन्न पदार्थान्तरमेवेति यावत् । एवं च विशिष्टयोर्भेदेऽपि गुणाद्याश्रययोरभेद एवेत्याशयः । एवं सत्यविद्यमानतादात्म्यावगाहिज्ञानस्य भ्रमत्वेन कुत्राप्यतिव्याप्ति- रित्याह ॥ एवं चेति ॥ यत्र भेद इति ॥ गुणादीनामाश्रयेण परस्परं चेत्यर्थः । न तदभेदेनेति ।। तादाम्यवत्वेनेत्यर्थः । तथाच तत्र तादाम्यावगाहित्वं नास्तीति नोक्तलक्षणस्यातिव्याप्तिरिति भावः ॥ गुणादीनामिति ॥ यावद्रव्यभाविनां धर्माणां ज्ञानानन्दादीनामाश्रयेण जीवचैतन्येना भेदः परस्पर चाभेदो भगवतो मुनेरानन्दतीर्थस्य सिद्धान्त इत्यर्थः । क्वचिदिति ।। अयावद्रव्यभाविनि घटतद्रूपादा- वित्यर्थः ॥ व्याख्यातेति ॥ समानमेकमधिकरणं येषां ते इत्यादिनेत्यर्थः ॥ तथाच पुनरिति ।। सामानाधिकरण्यप्रतीतेरत्यन्तभेदविषयकतयैव व्याख्यातत्वेनात्यन्ताभेदस्थले भेदाभेदस्थले च सर्वत्र सामानाधिकरण्यप्रत्ययस्य भेदावगाहित्वस्यैव प्राप्त्या भगवदुक्ताभेदस्य प्रत्यक्षसिद्धस्यायुक्ततया शुक्लः पट इत्यादिप्रत्ययानामविद्यमानतादाम्यावगाहित्वप्राप्त्या पुनरतिव्याप्तिः स्यादेवेत्यर्थः ॥ सविशेषत्वानी- कारादिति ॥ तथा चात्यन्ताभेदस्थले सामानाधिकरण्यप्रतीतिरभेदनिष्ठेव । भेदनिष्ठतया व्याख्यानं तु सविशेषाभेदाङ्गीकारेणोपपन्न विशेषस्य भेदकार्यकारित्वाङ्गीकारात् । यत्र तु भेदाभेदौ तत्र तु न कोऽपि दोषः । तथाच सामानाधिकरण्यप्रतीतेस्तादात्म्यावगाहित्वेऽपि तस्य तादात्म्याविद्यमानत्वाभावान्नाति- व्याप्तिरिति भावः । । सु०- यत्पुनरन्याकारोल्लेखीत्यादिनाऽस्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय यत्सन्निकृष्टकरणेनेत्यन्तेनालम्बनलक्षणनिराकरणं कृतं तदनुमतमेवास्माकम् । यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् ।। नन्वत्रापि दोषोऽभिहित- इति चेन । सन्निकर्पस्यापि कारणतया विवक्षितत्वेन तस्यासम्बद्धत्वात् । न हि चक्षुरादे- राकाशादिसन्निकर्षों रूपादिज्ञानकारणम् , नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने स्यैव करणत्वाङ्गीकारात् । तथापि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेलिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न असन्निकृष्टज्ञापनेऽति- प्रसङ्गात् । तदनुभवजनितसंस्कारसहकृतेनेन्द्रियेण प्रत्यभिज्ञा जायते, तम्याप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते, संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्या- र्थज्ञानं जन्यते; अतो नातिप्रसङ्ग इति चेत्तह्मभ्युपगतः सन्निकर्षः । न हि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् । । वा०-इत्यन्तेनेति ।। अत्रापि पूर्ववदेव व्याख्यानम् ॥ तदनुमतमेवेति ॥ एतत्पर्यन्तं विषयत्व- लक्षणनिराकरणं पूर्वपक्षमुखेनास्माभिरेव कृतमिति ध्वनयति । दोषोऽतिव्याप्त्यव्याप्तिलक्षणः । तत्राति- व्याप्तिं तावदुद्धरति ।। सन्निकर्षस्येति ॥ सन्निकर्षकारणताविवक्षामात्रेण प्रत्यक्षवाक्यानुमानस्थलेषुकसन्नि- कर्षाणामन्यथासिद्धयोक्तातिव्याप्तेरुद्धार इत्याह ॥ न हीत्यादिना ॥ यद्यपि लिङ्गज्ञानस्थलेऽतिव्याप्त्युद्धारो लिभिज्ञानकारणताभ्युपगमानन्तरं युक्तः । अन्यथा लिङ्गस्येत्युत्तरग्रन्थास्वारस्यापत्तेः । तथाऽप्यवर्जनीयसन्नि- धित्वरूपैकसमाधानसंभवेन लाघवमनुसृत्यात्राभिहित इति द्रष्टव्यम् । एवं कारणत्वान्तर्गतानन्यथासिद्धयंश- व्यावत्यै प्रदय लिङ्गपक्षसन्निकर्षस्यान्यथासिद्धत्वात्तमादाय पक्षस्य लिङ्गिज्ञानविषयत्वापत्त्याऽतिव्याप्तिरेवे. त्यतोतीतादिस्थले लिङ्गस्यातीतत्वेन तस्याकारणतया तत्सन्निकर्षस्यापि करणसन्निकर्षत्वाभावान्नातिव्याप्तिरिति परिहत ज्ञानस्य करणत्वोक्तिनिवर्त्यमाशङ्कतं । लिङ्गस्येति ।। यद्यप्यत्र पक्षस्याप्यनुमितिविषयत्वमिष्टमेवेति शङ्का निर्दलेव भाति तथाऽपि प्रत्यक्षादिप्रमाणान्तरसिद्धस्यैव पक्षत्वनियमान्न तस्यानुमित्यसाधारणविषयत्व- मित्याशयात् । यत्तु तादृशलिङ्गधर्मितारूपसन्निकर्षाश्रयत्वेन पक्षस्यैव विषयत्वं स्यान्न तु लिङ्गिन इति तत्राव्याप्तिरित्येतत्तापर्यमिति । तन्न । अतिव्याप्तिप्रायपाठविरोधात् । लिङ्गज्ञानकरणताभ्युपगमेऽपि लिङ्गस्येव तज्ज्ञानस्यापि लिङ्गिना सन्निकर्षानुपपादनेन लिङ्गिन्यव्याप्तेः परिहारवाक्येनाप्यपरिहाराच्च । न च ततोऽप्यनिमग्रन्थेन तत्परिहार इति वाच्यम् । तथा सति तेनैवोपपत्तावेतच्छङ्कासमाधानयोरुभयोरपि वैयर्थ्यमेवेत्यास्तां तावत् । अतीतादिस्थले लिङ्गाद्यभावेऽप्यनुमित्यादिदर्शनेन लिङ्गज्ञानादेरेव करणत्व. स्यावश्याभ्युपगमनीयतया लिङ्गस्य करणत्वाभावान्नातिव्याप्तिरिति पक्षस्यासाधारण्यविषयत्वाभा- वाभ्युपगमेनैव समाधत्ते ।। लिङ्गज्ञानस्येति ।। श्रोत्रसन्निकृष्टवाक्यजन्यवाक्यार्थज्ञाने श्रोत्रस्य विषयत्वा- 70 ज्ञानजकत्वमित्यपि समाधातुमुचितम् । तथाऽपि ज्ञानकरणत्वस्य स्वसिद्धान्ततया तत्र प्राप्तानुपपत्ति. परिहारार्थकोपक्षपाय च ज्ञानकारणत्वोक्त्या वाक्यस्य कारणत्वाभावेनैव समाधानसम्भवे सन्निकर्षे विवक्षि- तकारणत्वाश्रयणेन न किमपि प्रयोजनमित्याशयात् । अयमाशयो लिङ्गज्ञानविषयेऽपि द्राव्यः । एवमति याप्ति निरस्य पूर्वपक्षोद्भावितो. तत्तांशेऽव्याप्तिमिदानीमुपक्षिप्तलिङ्गज्ञानवावयज्ञानविपये च तां सन्निकर्षोपपादनेन परिहतु तच्छङ्कामुत्थापयति ॥ तथाऽपीति ॥ परमुखेनैव सन्निकर्षविशेषं तत्रापि द्रढयितुमसन्निकृष्टज्ञापनेऽतिप्रसङ्गात्सन्निकर्षेऽवश्याभ्युपगमनीये किं तद्विशेषचिन्तया तायतैवाव्याप्ति- परिहारादिति तावत्समाधत्ते । असन्निकृष्टेति ।। ननु नियामकसद्भावान्नामन्निकृष्टज्ञापनेऽप्यतिप्रसङ्ग इत्याशङ्कते । तदनुभवेति ॥ ननु संयोगादेरनङ्गीकारान्न सन्निकर्याभ्युपगम इत्यतोऽतिप्रसङ्गमञ्जक नियामक प्रत्यासत्तिपदाभिधेयं सन्निकर्ष इत्युच्यते । संयोगादेरपि सन्निकर्प-वेन विवक्षायामेतदेव निमित्तमिति तादृशनियामकाभ्युपगमे कथं सन्निकर्पानभ्युपगम इत्याह ।। न हीति ॥ स० यत्सन्निकृष्टकरणेनेत्यन्तेनेति ॥ एतत्पर्यन्तेनेत्यर्थः । लिङ्गकरणतापक्षमालम्ब्य शङ्कते ॥ लिङ्गस्य साध्यधर्मीति ॥ तथाच लिङ्गिज्ञानमपि पक्षविषयकं स्यादिति भावः । न चानु- मितेः पक्षविषयकत्वादिष्टापत्तिः । पर्वतो वह्रिमानिति ह्यनुमितिः । न तु वहिमानित्येव तथाऽननुभवा- सिद्धार्थतापत्तेश्चति चेन्न । लिङ्गिविषयकत्वांशे पक्षविषयकत्वं स्यादित्यापादनात्। एके तु असाधारण- विषयत्वस्य लक्ष्यत्वात् । व्याप्यस्य च व्यापकमेवासाधारणविपय इति कथमतिव्याप्त्यभिधानासङ्गतिः । अत एव पक्षतावच्छेदकतत्संबन्धादीनां विषयकत्वात्तत्र चोक्तलक्षणाभावादव्याप्तिरिति निरस्तम् । नहीदं विषयत्वसामान्यलक्षणम् । किन्त्वसाधारण जन्यज्ञानविषयत्वलक्षणमिति न कश्चिदोष इत्याहुः । अन्ये तु लिङ्गस्य पक्षेणैव संबन्धात्सायेनासंबन्धात्पक्षस्यैव विषयत्वं न वन्ह्यादेरिति शङ्काऽर्थः । परिहारार्थस्तु लिङ्गज्ञानस्यैव करणत्वात्तस्य च पक्षणासंबन्धान्न तस्य विषयत्वम् । तव्याप्तलिङ्गविषयेण लिङ्गज्ञानेने- त्यादिवक्ष्यमाणप्रकारेण लिङ्गज्ञानस्य साध्येन संवन्धोपपत्तेस्तस्य विषयत्वोपपत्तिरित्याहुः । वाक्यज्ञानस्य कारणत्वाभ्युपगमात्तस्य च श्रोत्रेणासन्निकर्षान्न तत्रातिव्याप्तिरित्याह || अनेनैवेति ॥ ५० --असम्बद्धत्वादिति ।। कारणीभूतसम्बन्धहीनत्वादित्यर्थः । आकाशादिविषयतैवं चापद्यते. त्यादिप्रागुक्तदोषं निराह ॥ नापि वाक्यस्येति ॥ साध्यधर्मीति || साध्यं प्रति यो धर्मी पर्वतादिः तत्स- करणजन्यज्ञान प्रति सविषय इत्येवंरूपविवक्षितविषयत्वस्य साध्य एव सत्वेन साध्यधर्मिण्यभावात् । सन्निकर्षस्य लिङ्गे व्याप्तिरूपत्वेनाभिमतत्वात् । न हि वक्ष्यमाणदिशा यध्याप्तलिङ्गविषयकज्ञानजन्य ज्ञानं यत् तत्प्रति स विषय इत्युक्तिदशाय साध्यधर्मिणो विषयत्वशङ्कावकाशोऽस्ति । न चैव पर्वता- देरनुमितावभानं शङ्कयम् । भानस्य विषयत्वाप्रयुक्तत्वात् । तथात्वे शुक्तिरूप्यादाविदं रूप्यमिति ज्ञाने रजतस्यामानापत्तेः। 'रजतं दृष्टमिति भ्रममात्रत्वादि'त्यादिमिथ्यात्वानुमानखण्डनटीकादौ शुक्तिरजतस्योक्त. विवक्षया विषयत्वाभावकथनात् । अत्राप्यग्रे शुक्तेरेव विषयत्वेन रजते विषयत्वाभावस्य स्पष्टत्वात् । न चातिप्रसङ्गः । रूप्यावभासादौ दोपस्यैवानुमितिविषयधर्मित्वादेर्नियामकत्वात् । अनुमितिविषयः पक्ष इत्युक्तिस्तु पर्वतादेरनुमिती स्फुरणमात्रेण शुक्तिरूप्यस्य विषयत्वव्यवहार इव वाऽस्तु वेत्यादिवक्ष्य- माणलक्षणानुरोधेन वोपपत्तेः । केचित्तु साध्यधयेव विषयः स्यादिति तात्पर्य वर्णयन्ति । अन्ये तु लिङ्गिज्ञानांश एव धर्मी विषयः स्यादित्यभिप्रायमाहुः ।। लिङ्गज्ञानस्येति ॥ अतीतादिस्थलेऽप्यनुमिति दर्शनादिति भावः । विस्तृतमेतत्तताण्डवे तृतीयपरिच्छेदे || श्रोत्रेति ॥ श्रोत्रसन्निकृष्टवाक्यजन्य. वाक्यार्थज्ञान प्रति श्रोत्रं विषयः स्यादिति दूषणमित्यर्थः । अतिव्याप्तिं निरस्याव्याप्तिं चाशय निराह । तथापीत्यादिना ॥ परमुखेनैव तदनुभवेत्यादिना समाधि वाचयितुं सन्निकर्षाभाववादिनं प्रति अनिष्टं तावदाह ।। असनिकृष्टेति ॥ लिङ्गकरणतापक्षमालम्ब्य शङ्कते ॥ लिङ्गस्येति ॥ तथा च लिङ्गिज्ञानमपि पक्षविषयक स्यादिति भावः । न चानुमितेः पक्षविषयकत्वादत्रेष्टापत्तिः । लिङ्गिविषयकत्वांशे पक्षविषयकत्वं स्यादि- त्यापादनात् । अंशभेदविवक्षायाश्चावश्यकत्वात् । अन्यथा सुरभिचन्दनमित्यादिप्रत्ययाना विशेषणांशे विशेष्ये यः सन्निकर्षस्तजन्यत्वाभावेनाव्याप्त्यापत्तेः । केचित्तु । तादृशलिङ्गधर्मिभावरूपकरणसन्निकर्षा- श्रयत्वेन पक्षस्यैव विषयत्वं स्यात् न लिङ्गिनः । तथा च तत्राव्याप्तिरिति अत्र तात्पर्यमाहुः ॥ सन्नि- कर्षाभावादिति ।। संयोगसमवाययोरेव सन्निकर्षत्वादिति भावः ।। श्री. साध्यधर्मी पक्षः। लिभिज्ञानकारणमिति । तथाच पक्षसन्निकृष्टेन लिङ्गेन न लिङ्गि. ज्ञानं जायत इति लिङ्गिज्ञानं पक्षविषयकं स्यादित्यर्थः । श्रोत्रेति ॥ श्रोत्रसन्निकृष्टवाक्यजन्यवाक्या- र्थज्ञान प्रति श्रोत्रं विषयः स्यादिति दूषणं वाक्यस्य कारणत्वभावेन परिहार्यमित्यर्थः ॥ संसर्गेत्यादि ।। संसर्गधर्मका ये पदार्थास्तद्वाची यः पदसमुदायस्तद्रूपं यद्वाक्यं तद्विषयकज्ञानेनेत्यर्थः । या 70a मित्याशयादिति व्याचक्षते । अनयैव भङ्गया शङ्कमानाः इमामेव समाहिति लिङ्गिविषयकत्वांशे पक्ष- विषयकत्वं स्यादित्यापादनात् । अंशभेद विवक्षायाश्चावश्यकत्वात् । अन्यथा सुरभिचन्दनभित्यादी विशेपणांशे विशेप्ये यः सन्निकर्षः तज्जन्यत्वाभावेनाव्यात्यापत्तेरिति विन्यासभेदेन विवृण्वते । यद्यपि सन्निकर्षस्योभयाश्रिततया, करणीभूतलिङ्गेऽप्यतिव्याप्तिशङ्का सुवचा लिङ्गोपहितलैङ्गिकभानस्याकरे प्रत्या- ख्यातत्वात् । तथापि सिद्धान्ते तुल्यदिशेन्द्रियादावतिप्रसङ्गवारणाय करणप्रतियोगिकत्वघटितधर्मा- वच्छिन्नसन्निकर्षवृत्याधेयतानिरूपकत्वपर्यन्तस्यावश्यं विवक्षणीयतया तत्रापि तस्याः दुर्वचत्वात् । सन्निकर्षाभावात् संयोगादिषट्कान्यतमाभावात् ॥ तदनुभवेत्यादि || तत्तया स्वगोचरानुभवजनित- संस्कार एवालौकिकी प्रत्यासत्तिरिन्द्रियस्य स्वनिरूपितव्याप्स्यवच्छिन्नहेतुवृत्तिप्रकारताकत्वमेव साध्येन लिङ्गज्ञानस्य स्वनिरूपितप्रतियोग्य नुयोगिभावापन्नपदार्थबोधकपदघटितकूट विषयकत्वं संसर्गेण वाक्यज्ञानस्य प्रत्यासत्तेरित्यर्थः । सु०-~-तथाऽपि रूपप्रतीतेरात्मा विषयः प्रसज्येत । तत्र मनसः करणत्वात् । आत्ममनः सन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न। असाधारणकारणस्य विवक्षितत्वात् ।। मनसश्च साधारणत्वात् ॥ तर्हि मनःसनिकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्न- मिति चेन्न । सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् । चक्षुर्मनःसन्निको हि द्रव्यादिज्ञानसाधारणः ॥ एक्मन्येऽपि क्षुद्रोपद्रवाः परिहरणीयाः । तदेवं जन्यज्ञाने विषयत्व- स्थान्यथाव्यवस्थितत्वाधज्जानं यत्प्रतिभासमित्यन्यथापरिभाषणमनुषपन्नम् । न चैवं · सत्यनु- भवविरोधः, रजतावभासस्य शुक्तिकासनिकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः । न चाति. प्रसङ्गः, दोपजन्यत्वतदभावादिना व्यवस्थोपपत्तेः । अन्यथा रजतज्ञानादरजते प्रवृत्तायपि कथं नातिप्रसङ्गः॥ यत्पुना रजतावभासस्येत्यायाशङ्कथ समाधानममिहितं तज्ज्ञानकत्वसमर्थनेन निराकरिष्यामः । -- वा.. करणे सन्निकर्षे चासाधारण्यं विवक्षित तव्यावत्यै शङ्कते ॥ तथाऽपीत्यादिना ।। ननु तथाऽपि. चाक्षुपज्ञानावच्छिन्ने चक्षुर्मन संयोगस्यासाधारणत्वाच्चाक्षुषज्ञाने मनसो विषयत्वं - रणत्वविवक्षाया वैयर्थं चेत्यादिदोषान्नेदं लक्षणं युक्तमित्यत आह ॥ एवमिति ।। अन्न केचित्तत्तदि- न्द्रियमन:संयोगाना तत्तज्ज्ञानकरणत्वकल्पनस्यानेककारणतदवच्छेदकल्पनया गौरवकरत्वेन चाक्षुषज्ञानत्वा. वच्छिन्ने चक्षुर्मनस्संयोगस्याकारणत्वान्नाद्यदोपप्रसङ्ग इति परिहारमाहुः । तन्न । तथा सति गौरवादेव रूपचक्षुम्सन्निकर्षादेरसाधारणकारणस्याकल्पनीयतया सन्निकर्पासाधारण्यविवक्षायां रूपप्रतीते रूपविषयक- स्वाभावप्रसङ्गात् । न च यकिञ्चिद्दण्डेन यत्किञ्चिद्धटवद्यत्किञ्चिदर्थन्द्रियसन्निकर्षेऽप्यन्यविषयकज्ञानापत्या प्रागभावस्येव तत्तदिन्द्रियसन्निकर्षस्य तत्तज्ज्ञानहेतुताया अवश्याङ्गीकार्यर्थसन्निकृष्टेन्द्रिये मनस्सन्निकर्षस्य हेतुत्वाभ्युपगमेऽतिप्रसङ्गाभावेनात्र विशिष्य हेतुहेतुमद्भावस्य न कल्पना अन्यथा दण्डादावपि विशिप्य तत्कल्पनापत्तरिति वाच्यम् । अर्थसन्निकृष्टेन्द्रियान्तरे मनस्सन्निकर्ष स्वार्थसन्निकृष्टचक्षुपि मनस्सन्निको- भावेऽपि तेन स्वार्थज्ञानापत्तिरूपातिप्रसङ्गस्यात्रापि सत्त्वात् । तस्माद्योग्यसन्निकर्पस्यैव विवक्षितत्यान्नाद्यो दोष इत्येव परिहारो युक्तः । अत एव न द्वितीयोऽपि । ज्ञानकरणस्थले तव्याप्ततया तल्लिङ्गकविषयत्वस्य संसर्गधर्मकपदार्थपरतया ज्ञातपदसमुदायविपयकत्वस्य ज्ञानघटितसन्निकर्षस्य कल्पनान्न तृतीयदोषप्रसङ्गः । केचित्तु प्रत्यक्षज्ञानेऽसता रजतादिना सन्निकर्षाभावेऽप्यतीतादिना तत्सद्भाववत्कूटलिङ्गादिस्थलेऽप्यसता सन्निकर्षोऽगत्या स्वीकर्तव्य एवेति न तृतीयदोपप्रसङ्ग इत्याहुः । मन्निकर्षासाधारण्यविवक्षयोक्तानुपपत्ति. परिहारेऽपि चक्षुर्मनस्सन्निकर्पासाधारणकारणताया अधुनैवोपपादितत्वाच्चक्षुस्सन्निकृष्टमनोजन्यरूपज्ञाने चक्षुपोऽविषयत्वाय करणासाधारण्यस्यापि विवक्षणीयत्वात् । न च रन्निकर्पयोग्यताविवक्षणेनैवैतहोप- परिहारादसाधारण्यं न क्यापि विवक्षणीयमिति वाच्यम् । एतद्वलेनैव तद्विवक्षाया लाभादित्याशमात् । तस्मान्न चतुर्थोऽपि दोपः । तद्व्याप्तलिङ्गविषयकत्वादेः सन्निकर्षत्वेनैव लक्षणगरीरप्रवेशान्नात्माश्रयोऽपीति । ज्ञानासाधारणकारणनिष्ठासाधारणकारणसन्निकर्षप्रतियोगित्वं विपयत्वमिति निरवद्य लक्षणमिति भावः । नन्वीश्वरज्ञानादिविषयेऽव्याप्तिस्तथाऽपि स्यादेवेत्याशङ्का परिहरन्नुपसंहरति । तदेवमिति ॥ रजतज्ञानस्य शुक्त्यवभासित्वेऽनुभवविरोधस्त्वदुद्भावितो रजतज्ञाने शुक्तरेतादृशालम्यनत्वेन प्रसरतीत्याह ॥न चैवमिति ॥ नन्वत्रानुभवविरोधाभावेऽप्यन्यावभासम्यान्येन्द्रियसन्निकर्षजन्यत्वेऽतिप्रसङ्गः किञ्चत्युक्तरीत्या स्यादेवेत्याशङ्कय निषेधति ॥ न चेति ।। ननु दोषजन्यत्वादिना व्यवस्था प्रकल्प्यातिप्रसङ्गः परिहर्तव्यो न तु शुक्तेरनालम्बनत्वकल्पनेनेत्यत्र न नियामकमिति चेत् । रजतज्ञानस्य रजतालम्बनत्वे रजतसत्त्वा- पत्तरेव नियामकत्वादत्र परोक्तं समाधान निराकर्तुमनुवदति ॥ यत्पुनरिति ॥ या चेयं प्रक्रियेत्यादिना .
- -- स० रूपज्ञानमिति | पटादेश्चक्षुर्विषयत्वेऽपि रूपस्यैवासाधारणविषयत्वात्तस्यैव ग्रहणम् । सन्निकर्पस्यापीति ॥ नन्वेवं करणासाधारणत्वविवक्षा व्यर्था । सन्निकर्षासाधारणत्वविवक्षयैवात्ममन:- सन्निकर्षमादायातिप्रसङ्गाभावात् । तस्य साधारणत्वादिति चेन्न । रूपादिसन्निकृष्टचक्षुषो यच्छब्देन विवक्षितत्वात्तत्सन्निकृष्टमनसा जन्यरूपादिज्ञाने चक्षुषोऽपि विषयत्वं स्यादिति करणेऽप्यसाधारणत्वस्या- वश्यकत्वात् । तत्र च सन्निकर्षस्यासाधारण्यात् । मनसश्च साधारणत्वात् । ननु तथापि मनः- सन्निकृष्टचक्षुर्जन्यचाक्षुपज्ञाने मनसो विषयत्वं स्यात् । तत्र मनश्चक्षुःसन्निकर्षस्यासाधारणत्वात् । चक्षु. लक्षणकरणस्याप्यसाधारणत्वात् । रूपादिज्ञाने असाधारणत्वाभावेऽपि चाक्षुषज्ञाने चक्षुर्मनःसन्निकर्षस्या- साधारण्यादिति चेन्न । करणभिन्नयत्सन्निकृष्टासाधारणकरणेनेति विवक्षितत्वात् । मनश्च न करणभिन्न- मिति न तत्रातिव्याप्तिः । न चैवं सन्निकर्षासाधारणत्वं व्यर्थ चक्षुर्मनःसन्निकर्षस्य करणमिन्नसन्निकर्षत्वा- भावादेवातिप्रसङ्गाभावादिति वाच्यम् । तत्सन्निकर्षस्य हेतुत्वे मानाभावात् । अवजनीयसन्निधित्वा- चास्येति भावः । तदेतदाह ।। एवमन्येऽपीति ॥ केचितु ॥ चक्षुर्मनःसन्निकर्षों हीति ।। चक्षुर्मन:- सन्निकर्षस्य इन्द्रियमनःसन्निकर्षत्वेन जन्यसाक्षात्कारत्वावच्छेदेनैव हेतुत्वात्साधारण्यमिति भावः । न च चाक्षुषत्वावच्छिन्न प्रति हेतुत्वे असाधारण्यमपि किं न स्यादिति वाच्यम् । तथास्वे श्रवणाद्यवच्छेदेन श्रोत्रादिमनःसंयोगत्वेनाऽपि हेतुत्वस्य कल्प्यत्वेऽनेककारणताकल्पनागौरवप्रसङ्गात् । न चैवं चक्षुरर्थ- सन्निकर्षस्यापि जन्यसाक्षात्कारत्वावच्छेदेन घटादिसाक्षात्कारे इन्द्रियार्थसन्निकर्षत्वेनैव हेतुत्वेनासाधा- रण्याभावादव्याप्तिः । चाक्षुषत्वाद्यवच्छेदेन चक्षुरादीनामर्थसन्निकृष्टचक्षुष्ट्वादिनैव कारणत्वं वाच्यम् । अन्यथाऽतिप्रसङ्गात् । तथाच विनिगमनाविरहाच्चक्षुराद्यर्थसन्निकर्षाणामपि चाक्षुषत्याद्यवच्छेदेनैव चक्षुरर्थसन्निकर्षत्वादिना हेतुत्वं वाच्यमिति प्रतिभाति । तदिदमाह ।। एवमन्येऽपीति ॥ यद्वा लिङ्ग- ज्ञानस्य लिङ्गिना वाक्यज्ञानस्य च वाक्यार्थेन संबन्धानिरूपणादव्याप्तिः । न च तव्याप्तलिङ्गविषयत्व लिङ्ग- ज्ञाने संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयत्वमेव च वाक्यज्ञाने संबन्ध इत्युक्तमिति वाच्यम् । अन्योन्याश्रयत्वादित्यत आह ।। एवमन्येऽपीति ।। यद्यप्युक्तरीत्या लिङ्गज्ञानादेर्लिङ्गादिना विषयत्वमेव संबन्धस्तथापि स इदानीमुभयसंमतेन संवन्धत्वेनैव ज्ञेयो न तु विषयत्वेनातो नोक्तदोषः । तथा च तद्व्याप्तलिङ्गसंबन्धो लिङ्गज्ञाने तत्परवाक्यसंबन्धश्च वाक्यज्ञाने सन्निकर्प इत्येव व्यवहर्तव्यमिति परिहर- णीयमित्युक्तं भवति इति व्याचक्षते ॥ निराकरिष्याम इति ।। या चेयं प्रक्रियेत्यादिनेति शेषः ॥
चन्दनमित्याद्युपनीतचाक्षुषप्रत्यक्षविषये सौरभ्यादौ चाव्याप्तिः । यत्त्वतस्वजात्योरभावेनाननुगमश्चत्यत आह ।। एवमन्येपीति ।। लिङ्गज्ञानवाक्यज्ञानयोलिङ्गयाक्याभ्यां संबन्धस्य विषयत्वरूपतया विषयेणेत्युक्ता- वपि न विषयत्वेनानुप्रवेशः । किन्तु तद्व्याप्तलिङ्गसंवन्धिना वाक्यार्थपरवाक्यसंबन्धिनेत्येवंरूपेणोभय- संमतसंबन्धित्वनैव । अतो नात्माश्रयः । नापि नित्यज्ञानविषयादावव्याप्तिः । अस्य नियतविषय- जन्यज्ञानविषयत्वमात्रलक्षणत्वेनान्यस्यालक्ष्यत्वात् । योगिप्रत्यक्षविषये च योगजधर्मस्यैव प्रत्यासत्तिरूप- त्वात् । यत्वादेरजातित्वेऽपि कस्य को विषय इति प्रभऽस्यायं विषय इत्यननुगतस्यैव वाच्यत्वादिति ।। तद्विषयत्वोपपत्तेरिति । शुक्तिकाविषयत्वोपपत्तेरित्यर्थः । अन्यविषयज्ञानस्यान्यावभासत्वे दोषमाशङ्कय निराह || न चेति ॥ दोषजन्यत्वतदभावादिनेत्यादिपदेन प्रागुक्तानुमितिविषयधर्मित्वतदभावादिग्रहः ।। यत्पुनरिति ॥ ननु रजतावभासस्य रजतविषयत्वे तेन रजतेन भवितव्यमित्याशङ्कय कथं न भवितव्य- मित्यादिना रजतज्ञानस्य स्मृतित्वमुपेत्य तद्विषयस्य सत्वमुक्तम् । तत्त्वनुपदमेव 'एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत'इत्यादिना ग्रन्थेन निराकरिष्याम इत्यर्थः । या०-चक्षुमनः सन्निकर्षो हीति ॥ नन्वेवं चक्षुषोऽपि द्रव्यादिज्ञानसाधारण्यात्कथमसाधारण्यम् । उच्यते । अत्र करणे सन्निकर्षे च नैकविधमसाधारण्यं विवक्षितम् । किं त्वनेकविधमेव । तथा हि । प्रत्यक्षरूपकरणे चक्षुरादौ चाक्षुषत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम् । अनुमानागमयोश्चानु- मितित्वशाब्दत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमसाधारण्यम् सन्निकर्षस्य चैकस्य भिन्नविषयकानेकज्ञानजनकत्वाभावरूपमसाधारण्यं विवक्षितम् । इदं चेन्द्रियसन्निकर्षादावस्ति । एकेन रूपेन्द्रियसन्निकर्षेणैकस्य रूपज्ञानस्यैव जननात् । घटादिज्ञानस्य घटादिसन्निकर्षजन्यत्वेन रूपेन्द्रियसन्निकर्षणाजननात् । चक्षुर्मनःसन्निकर्षे च नास्ति । ते-केनैव रूपद्रव्याद्यनेक- ज्ञानजननात् । अत एवोक्तम् । चक्षुर्मनःसन्निकर्षो हि द्रव्या दिज्ञानसाधारण इति । आत्ममनः- सन्निकर्षे चेदमसाधारण्यमस्ति । वीचीतरङ्गन्यायेन शब्दोत्पत्तिमङ्गीकुर्वतो तार्किकाणां मते विभुकार्य- विशेषगुणभेदस्य समवायिकारणभेदाधीनत्वदर्शनेन प्रतिज्ञानमात्मनः संयोगानां भिन्नत्वासिद्धान्तेऽपि तथा । तत्तद्विषयसंबद्धमनोऽशानामेवात्माधिष्ठितानां तत्तद्विषयकवृत्तिरूपेण परिणामाङ्गीकारात् । चक्षुषि प्रविष्टं तु मनोऽशिरूपमेवातस्तत्संयोगस्य साधारण्योक्तिरुपपन्नति ज्ञातव्यम् । न चैवं मनसः साधारण.
। অৰ मलमकं वेदितव्यम् । उक्तरीत्या आत्ममनःसन्निकर्षस्याप्यसाधारण्यत्वेनोक्तदोषपरिहाराय करणेऽप्युक्ता- साधारण्यस्यावश्याश्रयणीयत्वात् । मनसश्च जन्यात्मविशेषगुणत्यावच्छेदेन जनकतया साधारण्यात् । तथा चायं लक्षणवाक्यार्थः । ज्ञानासाधारणकारणनिरूपितसन्निकर्षानुयोगित्वं विषयत्वमिति । ज्ञानासाधारणकारणेति सन्निकर्षविशेषणमवधेयम् । नन्वथाऽप्यनुमितौ व्यापकतावच्छेदादेः कथं विषय- त्वम् । तस्य लिङ्गज्ञानेन व्याप्तिद्वारकोक्तसम्बन्धाभावात् । एवं शाब्दे बोधेऽन्वयप्रतियोगितावच्छेदा- देविपयत्वं न सम्भवति । तत्राप्युक्तकरणसम्बन्धाभावात् । किं चाव्याप्तिपरिहाराय लिङ्गज्ञानस्य लिङ्गिना वाक्यज्ञानस्य च वाक्यार्थेन यः सम्बन्धो निरूपितः स न युक्तः । अन्योन्याश्रयात् । विषयत्वज्ञाने तद्ध. टितोक्तसम्बन्धमादायाव्याप्तिपरिहारस्तस्मिंश्च सति निव्यूढेन लक्षणेन विषयत्वज्ञानमिति परस्परसापेक्षत्वात् । किं चेवरज्ञानस्याजन्यत्वेन तद्विषयाव्याप्तिरतः कथमेतदित्यत आह || एवमन्येपीति ।। अयमभिप्रायः । यत्तावदुक्तमनुमितो व्यापकतावच्छेदादेः कथं विषयत्वमिति । तत्र ब्रूमः । व्यापकतावच्छेदकावच्छिन्न- लिङ्गिव्याप्तलिङ्गविषयकत्वं लिङ्गज्ञानस्य लिङ्गिसम्बन्धः । तेन व्यापकतावच्छेदकादीनामप्युक्तकमेण लिङ्गज्ञानेन सम्बन्धोऽस्त्येवेति का कथन्ता । एवं शाब्दे बोधेऽन्ययप्रतियोगितावच्छेदकादेविषयत्वोप- पादनायान्वयप्रतियोगितावच्छेदकावच्छिन्नत्वं सन्निकर्पप्रविष्टपदार्थे विशेषणं देयम् । यदप्युक्तमन्यो- न्याश्रयत्वमिति तत्र यद्यप्युक्तरीत्या लिङ्गज्ञानादेलिंगिना विषयत्वमेव सम्बन्धस्तथाऽपि स इदानी- मुभयसम्मतेन सम्बन्धत्वेनैव ज्ञेयो न तु विषयत्वेनेति नोक्तदोपः । तथा च तद्व्याप्तलिङ्गसम्बन्धो लिङ्गज्ञाने तत्परवाक्यसम्बन्धश्च वाक्यज्ञाने सन्निकर्प इत्येव व्यवहर्तव्यमिति ज्ञेयम् । ईश्वरज्ञानविषयाव्याप्तिस्तु जन्यज्ञानविषयत्वस्यैव लक्ष्यत्वान्न सम्भवतीति सर्वेऽपि क्षुद्रोपद्रवाः परिहर्तव्या इति । रजतज्ञानस्य शुक्त्यालम्बनत्वमनुभवविरुद्धमित्युक्तं तद्विघटयति ॥ न चेति || एवं सतीति ॥ यद्विज्ञानं यत्प्रतिभासं तत्तद्विपयमित्यङ्गीकार इत्यर्थः । अन्यावभासस्यान्यालम्बनत्वे प्रागुक्तप्रसॉ विघटयति ॥ न चाति. प्रसङ्ग इति ॥ श्री०- तदेवं जन्यज्ञान इति । यत्सन्निकृष्टेनेति विषयलक्षणं दूषयित्वा खलु यज्ज्ञानं यत्प्र- तिभासं तदेव तस्यालम्बनमित्यन्यथाविषयलक्षणपरिभाषणं कृतं तदनुपपन्नम् । यत्सन्निकृष्टेनेत्यादिकस्यैव विषयलक्षणस्य तत्र त्वदुक्तदोषपरिहारेण व्यवस्थितत्वादित्यर्थः। ईश्वरज्ञानविषयाव्याप्तिपरिहाराय जन्यज्ञान । दोषेति । अन्यावभासस्यान्यविषयत्वं दोश्वशादेवोपपन्नं न तथा सर्वत्रेति नातिप्रसङ्ग इत्यर्थः । यत्पुना रजतावभासस्येत्यादि । ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यमित्याशक्य कथं भवितव्यमित्यादिना ज्ञानद्वित्वाङ्गीकारेण समाधानमभिहितमित्यर्थः । यद्विज्ञानमित्यत्र अदिति भिन्नम् । न तु यस्य विज्ञानं यद्विज्ञानमिति षष्ठीसमासः । यत्प्रतिभासं यदुल्लेखीत्यर्थः । उल्लेखित्वं चाभिलपनकारण- त्वम् | यदभिलपनरूपव्यवहारकारणं ज्ञानं तद्विपयकमित्यर्थः । कारणत्वं च योग्यतारूपं न फलोप- धानम् । तथात्वे रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यमित्यादिनाऽनुभव विरोध उक्त इति चेत्तत्राह ।। तथाऽपीति ॥ इदन्ताकारस्य शुक्तित्वविषयतायामिति वर्तते ।। न कश्चिद्विरोध इति ॥ शुक्तिनिष्ठेद. माकारस्य शुक्तिविषयतायाः सिद्धत्वादित्यर्थः । तन्निष्टदमाकारस्य तद्विषयकत्वे यदि विरोधः कथ्यते तदाऽतिप्रसङ्गमाह ॥ विरोधे वेति ॥ अनभ्युपगच्छत इति । अनुभवविरोधेनानङ्गीकर्तुनिद्वयाङ्गी. कारिणः प्राभाकरस्यैवेत्यर्थः ॥ एवं सतीति | इदमा कारस्य रजतप्रतिभासविषयत्वे ।। न चैवमिति ।। असतो ज्ञानविषयत्वाभावाद्रजतस्य ज्ञानविषयत्वाङ्गीकारे सत्वप्रतिरख्यातिपक्षपातः स्यादित्यर्थः ॥ ज्ञान क्येति ॥ ज्ञानद्विन्याङ्गीकारे ह्यख्यातिक्षपातः स्यात् । न चैवम् । विशिष्टज्ञानायैकस्यैवाङ्गीकारादिति भावः। च०-- करणे सन्निकर्ष चासाधारण्यनिवेशनिवर्तनीयामाशङ्का प्रदर्य तन्निवेशस्य तच्छङ्कानिर. सनौपयिकतामुपपादयति तथापीत्यादिना साधारण इत्यन्तेन ।। असाधारणकारणस्य विवक्षितत्या- दिति ।। ज्ञानत्वव्याप्यजात्यवच्छिन्न जन्यतानिरूपितजनकताश्रयत्वरूपासाधारणकारणत्वस्य करणे विवक्षि- ततया मनसश्च जन्यज्ञानत्वावच्छिन्नं प्रत्येव जनकतया तस्य च जातिरूपत्वाभावान्न क्षतिरिति भावः ।। चक्षुषेति ॥ ज्ञानत्वव्याप्यचाक्षुपत्वावच्छिन्नजन्यतानिरूपितजनकताशालित्वाच्चक्षुषोऽसाधारण्यमिति भावः ॥ सन्निकर्पस्यापीति ॥ तत्तद्यक्तित्वावच्छिन्नज्ञानवृत्तिजन्यतानिरूपितजनकतारूपासाधारण- कारणतया विवक्षितत्वादित्यर्थः ॥ चक्षुर्मनःसन्निकर्षों हीति ॥ तत्तदर्थेन्द्रियसंयोगादीनां तत्तज्ज्ञान- वृत्तितत्तदाक्तित्वावच्छिन्नजन्यतानिरूपितजनकतावच्चक्षुर्मनःसन्निकर्षस्य तादृशजनकतानङ्गीकारेण चाक्षुष- स्वावच्छिन्नजन्यतानिरूपितजनकताया एबोरीकृते साधारण्यमिति भावः । प्रागभावस्य तत्तद्व्यक्तित्वाव- च्छिन्नं प्रति वात्ममनःसन्निकर्षस्य तत्तद्रवच्छिन्नप्रत्यये हेतुत्वो गमावश्यम्भावात्तस्यासाधारण्यं सङ्गच्छत 71 न्वयबोधे संसर्गस्य विपयत्वं दुरुपपादमित्यत आह ।। एवमिति ॥ स्वावच्छिन्ननिरूपितव्याप्त्यवच्छिन्न. हेतुवृत्तिप्रकारताकत्वस्य लिङ्गज्ञाने साध्यतावच्छेदकनिरूपितप्रत्यासत्तेः स्वावच्छिन्नैकतरव्यक्त्यनुयोगिक- ताशापव्यक्तिप्रतियोगिकसंसर्गतात्पर्यकवाक्यविषयकत्वस्य वाक्यज्ञानेऽन्वयितावच्छेदकप्रत्यासत्तेः व्याप्ति- घटकपदार्थानां सशृङ्खलविषयतानिवेशात्कूटलिङ्गस्थले तद्दिशैव योग्यताश्रमस्थलेऽपि प्रत्यासत्तेः सूपपादतया न क्षतिरित्याशयः । लक्ष्यशरीरे ईश्वरज्ञानव्यावर्तकविशेपणनिवेशेन तत्राव्याप्तिराहित्यं ध्वनयन्निगमयति ॥ तदेवमिति ॥ . सु०--अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विपयमित्येव व्यवस्था । तथाऽपि नानुभव- विरोधः ॥ ॥ तत्कि रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूपे उतेदन्त्वाकारस्य ।। आये सम्प्रतिपत्तिः । न हि वयमस्मिन्प्रत्यये शुक्तित्वमवभासत इति बमो येन विरोधः स्थात् , शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् ।। द्वितीये तु न कश्चिद्विरोधः । विरोधे वा समीचीनरजत इदं रजतमिति प्रतीतिन स्यात् । इदमाकारस्य रजतप्रतिभासविषयता- मनभ्युपगच्छत एवं प्रतीतिविरोधं वक्ष्यामः । एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत् ; सत्यम् , इष्टमेवैतत् । न चैवमख्यातिपक्षपातः, ज्ञानक्याभ्युपगमात् । नापि 'शुक्तिकारजते' इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासवाभ्युपगमात् तादात्म्यावभासा. भ्युपगमाच । अत एवोक्तमसतः सत्यप्रतीतिः सतोऽसत्यप्रतीतिरिति । वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्ययोनिविषयतामाचार्यः । न चान्यथाख्यातिजनने कारणा- भावः, इन्द्रियादेरेव तत्कारणत्वात् , समीचीनज्ञानकारणस्यापि तस्य दोपकलुपितस्य विभ्रम- हेतुत्वोपपत्तेः । न च दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् । तथा सति समीचीनच्यवहारहेतोविज्ञानादयथार्थव्यवहारजन्मानुपपत्तिप्रसङ्गात् ।। किञ्च सहकारिमात्रस्य विपरीतशक्त्यनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव या | आये पशुहिंसा किं धर्मजनने स्वार- सिकशक्तिमती उताधर्मजनन इति वाच्यम् । आधे कथं क्रतुबाह्यापि धर्म न जनयेत् । द्वितीये कथं क्रत्वन्तर्गतापि धर्म जनयेत् । सहकारिवशादिति चेत् अङ्गीकृतं तर्हि सहकारिणां स्वार- सिकशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वम् । न द्वितीयः नियामकाभावात् ।
। पक्षमभ्युपगम्य संविद्विरोधं निरस्यति ॥ अस्तु वेति ।। शुक्तरालम्बनत्वेऽनुभवविरोधः किं तस्याः शुक्ति- स्वरूपासाधारणाकारेणापि । तथात्वे वाऽऽद्योऽनभ्युपगमपराहतः । न हि शुक्तित्वप्रतिभासस्य रजताव- भासविरोधमभ्युपगच्छता रजतावभासस्य शुक्तित्यविषयत्वमभ्युपगन्तुमुचितम् । द्वितीये साधारणाकार- प्रतिभासे न कश्चिद्विरोधः । न चेदनत्वं न साधारणाकारः किन्तु शुक्तित्वमिव शुक्त्यसाधारणाकार एवेत्ति वाच्यम् । तथात्वे सत्यस्थले इदन्त्योलेखिर जतप्रतीतिर्न स्यादित्याह ॥ तत्किमित्यादिना ।। किञ्च विशिष्टविषयकज्ञानस्यानुभवसिद्धनाया अनुभव एवेति ब्रूमः । यथा हीत्यादिनोत्तरत्रोपपादयिष्यमाण- तया तवैवानुभवविरोध इत्याह ।। इदमाकारस्येति ॥ गूढाभिसन्धिः शङ्कते ॥ एवं सतीति ॥ तथैव परिहरति ।। सत्यमिति ॥ रजतस्य ज्ञानविषयत्वं वदता शुक्त्यविषयकरजतज्ञानविषयत्वं वा शुक्ति- विपप्रज्ञानविषयत्वं वा वक्तव्यं गत्यन्तराभावात् । तत्रादेोऽख्यातिपक्षपक्षपातः । द्वितीये तु शुक्तिरजतो- भयविषयकैकशानं भ्रम इत्युक्तं स्यात् । तथा च शुक्तिरजते इति समूहालम्बनस्य भ्रमवापत्तिरित्याशये परेणोद्धारित आधमनभ्युपगमेन परिहरति ॥ ज्ञानक्येति ॥ समूहालम्बनवैषम्योक्त्याऽतिप्रसङ्गं निरस्यति ॥ रजतस्येति ॥ वस्तुस्थितिमनुरुद्ध्यांशे अमरूपसमूहालम्बनादपि वैषम्यमाह | तादा- त्म्येति ॥ रजतासस्वतत्तादात्म्यावभासाभ्युपगमं मूलसम्मत्या द्रढयति ।। अत एवेति । अस्तु वेत्युक्त- पक्षस्य भाष्यकारीयाभिमतिज्ञापकमाह ॥ वक्ष्यतीति ॥ अनेन विषयत्वदूपणपरिहारप्रकारस्य मूलादेव लाभः सूचित इति द्रष्टव्यम् । एवमन्यथाख्यातिस्वरूपमुपपाद्य परोक्ततत्कारणाभावं निरस्यति ।। न चेति ॥ तथा सतीति ॥ न च प्रामाण्यस्य स्वतस्त्वादिन्द्रियादीनां समीचीनज्ञानकारणत्वस्वाभाव्येऽपि बाधकाभावेन ज्ञानस्योभयविधव्यवहारहेतुत्वसम्भवान्न साम्यमिति वाच्यम् । असति दोपे ज्ञानस्य समी- चीनव्यवहारहेतुत्वनियमेऽपि तत्स्याभाव्याभावे इन्द्रियादीनामपि साम्यात्स्वतः प्रामाण्यमेव न स्यादित्यत्र तात्पर्यात् । स० प्रतीतिविरोध वक्ष्याम इति ।। ननु सत्यस्थलीयशुक्तिरजतोभयविषयकज्ञानस्यापि सस्वादत्र चासत्वात् तत्रोभयोरपि प्रत्येकं भानादत्र च तादात्म्यावभासात्तदपेक्षया विशेषान्न तस्य अमत्यापसिरित्याह || नापीति ।।
-- अस्तु वेति ॥ यदिति भिन्न पदम् । न तु यस्य विज्ञानं यद्विज्ञानमिति । यत्प्रतिभासं यदुल्लेखीत्यर्थः । उल्लेखित्वं चाभिलपनकारणत्वम् । यदभिलपनरूपव्यवहारकारणं ज्ञानं तद्विषयकमित्यर्थः । कारणत्वं च योग्यतारूपं न फलोपधानम् ॥ वक्ष्याम इति ॥ ज्ञानकत्वसमर्थनेनेति भावः ॥ उत्तमिति ॥ विष्णु- तत्त्वविनिर्णये ।। वक्ष्यति चेति ।। वियत्पादे पृथगुपदेशादित्येतद्व्याख्यानावसरे । एतेन कचित्प्रकरणादौ शुक्तिरूप्यादेविषयत्वं नेत्युक्तं वचिदस्तीत्युच्यते । अतो विरोध इति प्रत्युक्तम् । विषयत्वस्य विवक्षा- भेदेनोपपत्तरिति । न चान्यथाख्यातिजनने कारणं पश्याम इत्यादिनोक्तमुद्धरति ॥ न चान्यथाख्या- तीति ।। ननूक्तमत्र तस्य समीचीनज्ञानकरणतावधारणादिति तत्राह ॥ समीचीनेति ॥ ननु ज्ञानहेता. वेवाय नियमो न त्वन्यत्रेति वादिनं प्रत्याह ।। किञ्चति || सहकारीति ॥ मन्त्रादिरूपसहकारिवशा- दित्यर्थः । या० ननु भवन्मते शुक्तिकाया एव विषयत्वं नासतो रजतस्य तत्तादात्म्यावभासस्य चेत्यङ्गी- कारात्कथमिष्टमेवैतदुच्यत इत्यत आह ॥ वक्ष्यति चेति ॥ असतोऽपि रजतादेनिं व्यावर्तकतयो- लिख्यमानत्वरूपं विषयत्वमस्माकमिष्टम् । यत्सन्निकृष्टेन करणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति निरुक्तं विषयत्वं तु असतो नास्ति किन्तु शुक्तिकादावेवातो न कोऽपि विरोध इति ध्येयम् । श्री० नन्वेवं शुक्तिरजतोभयविषयकमेकं ज्ञानं भ्रम इत्युक्तं स्यात् । तथाच शुक्तिरजते इति समूहालम्बनरूपं ज्ञानमपि भ्रमः स्यादित्याशक्य निराकरोति ॥ नाऽपीति ॥ असत्त्वेति ॥ समूहाल. म्यनज्ञानविषयीभूतं तु रजतं सदिति न तस्य भ्रमत्वमिति भावः । किंच भ्रमस्थले ज्ञानक्याभ्युपगमेऽपि तार्किकरीत्या रजतस्य सत्त्वाभ्युपगमेऽपि न समूहालम्बनसाम्यम् । भ्रमे तादात्म्यावभासस्याधिकस्याङ्गी. कारादित्याह || तादात्म्येति ॥ वक्ष्यति चेति । पृथगुपदेशादित्यादिना चक्षुरादेः समीचीनज्ञानकारण- त्वावधारणात् । न खलु जरामरणविध्वंसहेतुः सुधा जातु जरामरणहेतुर्भवतीत्यादिनोक्त दोष परिहरति ॥ समीचीनेति ।। दोपा हि करणानामौत्सर्गिककार्यजननसामयं निघ्नन्ति न तु विपरीतकार्यजनन- सामर्थ्यमप्यादधतीत्यादिनोक्त दोषमाशङ्कय परिहरति ॥ न च दोपाणामिति । व्यवहारः प्रवृत्तिः । सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वमस्तीत्यानेतुमाह ॥ आये पशुहिंसेत्या- सु० --किञ्च काचादयोऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते । दोपत्वं विष्ट- कार्यविघातितामात्रेणोच्यते। कामुकस्य कामिनीविभ्रमेपु गुणत्वाभिमानात् । न चैव भर्जिता- (ताः) कुटजधाना वटाङ्कुरं कुतो न जनय(यं)तीति वाच्यम् , पदार्थशक्तिवचित्र्यात्। केचिद्वस्त्व- न्तरशक्तिमेव प्रतिवन्ति; यथा भर्जनादयः । केचित्सहजशक्तिप्रतिबन्धेन विपरीतामपि शक्ति- मादधति; यथा विषस्य मारकत्वशक्ति प्रतिवध्यारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः । गुणा एव न ते दोषा इति चेत् काचादयोऽपि गुणा एव न ते दोषा इत्युक्तमेव ।। ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् । न च रजतस्येदन्तादात्म्यस्य वाऽसतो जनकत्वमस्ति। तत्कथं विषयत्वमिति । मैवम् । तथा सतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् । प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् । तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः । कथमसतो निरूपकत्वमिति चेत् । (न)। गुरूणां टीका कुरूणां क्षेत्रमितिवदुपपत्तेः । अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् । तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदापि नास्तीति वैषम्यमिति चेत् । तत्कि यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा । नाद्यः अतिप्रसङ्गात् । द्वितीये तु किमनेन । अथ नातीतादिरर्थः स्वसामर्थेनानुमित्यादिकं व्यावर्तयति येन तत्सत्तापेक्षा स्यात् ; किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् । समं प्रकृतेऽपि । किञ्च सत्यस्थलेऽपि न साक्षात्साक्षात्कार प्रति कारणत्यमर्थस्य किन्त्विन्द्रियसनिकर्षस्यैव । स च यत्रासता नोप- पद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् ।। ननु तमुसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्नः शुक्तिकासम्भिकृष्टं दुष्टमिन्द्रियं तामेवात्य- न्तासद्जतात्मनाऽवगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् । अत एव नासत्ख्यातिप्रसङ्गः । याव- त्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वेऽसत्ख्यातिः स्यात् । न चैवमित्युक्तम् । वा० - पराभ्युपगमरीत्या दोपाणां विपरीतकार्यजनकत्वमुपपाद्य सहकारिप्रतिबन्धाऽपि तदुप- पादयति । किञ्चति ॥ ननु न नियामकाभावः । दोपस्यैव नियामकत्वात् । अत एव केचित्सह.
काचादाना सहकारित्वमव पूर्वपयुक्तातिप्रसङ्गपारहार आकासाक्रमण व्यापारयितु परोक्तातिप्रसङ्गमाशङ्कय निषेधति || न चैवमिति ॥ एवमसतो ज्ञानविषयत्वे तज्ज्ञानस्येन्द्रियादिजन्यत्वे चोपपादिते तहीन्द्रि यजन्यज्ञानाशे पुनरसतो विषयत्वानुपपत्तिरेवेत्याशङ्कानिरासायोत्तरो ग्रन्थः । एवं च विषयत्वोपपादन- दशायामेवैतदनुपपत्तिपरिहारस्यापि कर्तव्यत्वे कारणोपपादनानन्तरभावित्वमनुपपन्नमिति दूपणमल- मकम् । उभयोक्त्यनन्तरमेवैतच्छङ्कोत्थानादिति द्रष्टव्यम् । ननु जनकत्वस्य साक्षात्कारप्रत्ययविषय. त्वव्यापकत्वाद्र जतादेस्तन्निवृत्तौ व्याप्यभूतविषयत्वमपिनिबेततैवेत्युक्तमयुक्तमिति शङ्कते ॥ नन्विति ।। व्यभिचाराजनकत्वसाक्षात्कारिप्रत्ययविषयत्वयोाप्यव्यापकभाव एवासिद्ध इत्याह ॥ तथा सतीति ।। न च जन्यसाक्षात्कारिप्रत्ययविषयत्वं जनकत्वव्याप्यमतो न व्यभिचारः । प्रकृतस्य च जन्यसाक्षात्कारि- प्रत्ययत्वाद्रजतादेर्जनकत्वस्य निवृत्त्या तादृक्प्रत्ययविषयत्वस्यापि निवृत्तिरिति वाच्यम् । जनकत्वाभावेऽपि निमित्तान्तरेणाजन्यसाक्षात्कारविषयत्ववजन्यसाक्षात्कारविषयत्वस्यापि निमित्तान्तरेणोपपत्तेरप्रयोजकत्वेन जन्यत्वविशेषितस्यापि तस्य जनकत्वव्याप्यत्वासम्भवात् । अस्तु वा जन्यत्वं विशेषणं तथाऽपि विशि- टस्यापि व्यभिचार इत्याह || प्रत्यभिज्ञानस्येति ॥ ननु जनकस्यैव साक्षात्कारिप्रत्ययविपयत्वमि- त्युत्सर्गः। ईश्वरज्ञानविषयादौ च वाधकवशाज्ज्ञानं प्रति निरूपकत्यादिमात्रं विषयत्वप्रयोजकत्वेन अङ्गीक्रियतेऽतो न दोष इति चेत् । तर्हि बाधकवशादेव रजतादेरपि अपवादविषयत्वात् ज्ञानं प्रति निरूपकत्वमात्रेण तस्यापि · विषयतो पत्ते नुपपत्तिरित्याह ॥ तन्निरूपकत्वादीति ।। निरूपकत्वं व्यावर्तकत्वम् । आदिपदेन ज्ञानजन्यातिशययोगित्वज्ञानभाननियतभास्यमानत्यादेः सङ्ग्रहः । नित्यज्ञानविषयस्य तदंशस्य ( तत्तांशस्य ) च सत्यान्निरूपकत्वादिसम्भवेऽत्यन्तासतो रजतादेनिरूपक- त्वादेरपि सम्भव इति वैषम्यं शङ्कते ॥ कथमिति ॥ अत्र वक्तव्यं निरूपणदशायां सत्त्वस्य निरूपकावे प्रयोजकतया रजतादेरत्यन्तासतस्तदभावान्न निरूपकत्वमित्याशयो वा कदाचिदपि सत्त्वस्य निरूपक. स्वप्रयोजकतयाऽत्यन्तासतस्तदभावान्निरूपकत्वासम्भव इति वा। आद्येऽपि निरूपणदशायां सत्त्वं निरू- पकत्वमात्रप्रयोजकत्वेनाभिमतं ज्ञाननिरूपकत्व एव वेति विकल्पान्मनसि निधायाचं दूपयति ।। गुरूणामिति ॥ न द्वितीयः । असतो ज्ञानेतरनिरूपकत्ववज्ज्ञाननिरूपकत्वस्याप्युपपत्तेः । अभ्युपेत्याह । अतीतादीति | आद्यादिपदेनानागतग्रहणम् । द्वितीयेन शाब्दसङ्ग्रहः । चशब्देन प्रत्यभिज्ञाव्या- वर्तकतदंशसङ्ग्रहः । द्वितीयं शकते ॥ तत्रेति ॥ कार्यकालेऽसतः कदाचित्सत्त्वस्याप्रयोजक- स्वान्न तद्वैषम्यापादकमित्याह ॥ तत्किमिति ॥ ननु न वयमतीताद्यर्थस्य व्यावृत्तिजननशक्ति- एवं च तदुभयविधं व्यावर्तकत्वं ज्ञानहेतुज्ञानगतस्वाभाविकविशेषयोरेव । अतीताद्यर्थे तु ज्ञानहेतुजन्य- व्यावृत्तिविशिष्टज्ञाने वा ज्ञानहेत्वासादितस्वाभाविकविशेषेण जन्यव्यावृत्तिबुद्धौ बोल्लेखित्वमात्रं व्यावर्तकत्वं विषयत्वप्रयोजकत्वेनाभ्युपगम्यते । तच्च न तत्सत्तापेक्षम् । न चैवं त्वया वक्तुं शक्यम् । अतीतादिज्ञानस्य प्रमात्वेन जन्यज्ञाने तत्ताभानोपयुक्ततत्तानुभवजन्यसंस्कारादेः सामग्रीकोटी निवेशेन तत्र हेतुसामर्यादिकल्पनासंभवेऽप्यसज्ज्ञानस्य भ्रमरूपत्वेन जन्यज्ञानेऽसद्भानोपयुक्ततत्सन्निकर्षादेरसंभवेन तस्य सामग्रीकोटावनिवेशेन न तत्रैतत्कल्पनासंभव इत्याशयेन शङ्कते ॥ अथेति ॥ अर्थव्यावृत्त- मिति ॥ अर्थनिरूपितव्यावृत्तिमदित्यर्थः । अर्थस्य व्यावृतिनिरूपकत्वं चोक्तविधव्यावर्तकत्वरूपमेवेति भावः । अतीतादिज्ञानस्य प्रमात्वात्समीचीनसामग्र्योत्पादितज्ञाने तादृशसामग्र्युत्पादित स्वाभाविकवि- विशेपजन्यव्यावृत्तिबुद्धौ वोल्लेखितत्वं रजतादिज्ञानस्य भ्रमत्वात्तदसमीचीनसामग्र्युत्पादितज्ञाने तादृश- ज्ञानोत्पादितज्ञानगतस्वाभाविक विशेषजन्यन्यावृत्तिबुद्धौ वोल्लेखितत्वमित्येतावन्मात्रविशेषसद्भावेऽपि स्वसा- मग्र्यासादितज्ञानोल्लेखित्वमात्रस्य व्यावर्तकत्वादिरूपतया ज्ञानसामग्रीसमीचीनत्वादेरकिञ्चित्करत्वात् शक्ति- सन्निकर्पसादृश्यादिदोपादेरेव जन्यज्ञानेऽसतो भानोपयुक्तस्य भ्रमसामग्रीकोटावपि प्रवेशेन तादृशव्यावर्त- कत्वादेरसत्यपि सत्त्वान्न काऽप्यनुपपत्तिरित्याशयेनाह ।। समं प्रकृतेऽपीति ॥ इदं च सर्पभ्रमादावपि हीत्यनुव्याख्य व्याख्यानरूपोत्तरग्रन्थे स्पष्टम् । अत एव तत्त्वोद्योतटीकायां न विषयत्वं नाम यस्तुसामर्थ्य किं नाम करणसामर्थ्याद्यदुल्लेखिज्ञानमुत्पद्यते स विषय इत्युच्यत इत्याद्युक्तम् । एवमधिकरणत्वकर्तृत्व- कर्मत्वप्रतियोगित्वादिकमपि तादृशतादृशज्ञानसामग्र्यासादितायां तत्तदधिकरणत्वतत्तत्कर्तृत्वतत्तत्कर्मत्व. तत्तत्प्रतियोगित्वादिप्रतीतावधिकरणत्वादिनोल्लेखित्वादिमानं तु वस्तुकृतम् । इदं च ननु कथमसतो भाति भास्यत इति कर्तृत्वमित्यायेतदधिकरणोत्तरग्रन्थे साध्यधर्मोऽयं सन्नसन्या न वोभयमित्यनुव्याख्याव्याख्यानरूपोतरप्रन्धेऽभावज्ञानोपयोगिज्ञानतामात्रस्य प्रतियोगित्वादिति तत्त्वोद्यो- तटीकायां स्फुटमिति दिक् । ननु त व्यभिचारादस्तु लौकिकसाक्षात्कारविषयत्वव्यापकत्वं जनकत्वस्य । तथा च रजसादेरसतोऽजनकस्य लौकिकसाक्षात्कारविषयत्वानुपपत्तिरेवेति चेन्न । अजनकस्याप्यतीता- देरलौकिकसाक्षात्कारविषयत्ववदजनकस्यापि निरूपकत्वादिमात्रेण लौकिकसाक्षात्कारविषयत्वाभ्युपगमे बाधकाभावेनाप्रयोजकत्वात् रजतांशेऽलौकिकत्वस्य प्रत्यभिज्ञायास्तत्तांश इवाङ्गीकर्तुमुचितत्वाच्चेति समाधाने स्थितेऽपि स्वमतेऽभिनवान्यथाख्यातिस्वरूपप्रतिपादनाय शङ्कामुत्थापयितुमुपक्षेपाय सन्निकर्ष- न स्वरूपमाह || शुक्तिकेति ॥ एवं सत्यन्यदपि सिद्धं फलमित्याह || अत एवेति ।। स०-- 'ननु सहकारिणामेवेष्टविघातित्वमात्रेण दोपत्वं क्कोपलब्धमित्यपेक्षायामाह || कामुक- स्येति ।। गुणत्वाभिमानात् । प्रकृतकार्यानुगुणत्वाभिमानात् । सहकारित्वाभिमानादिति यावत् । इत्थमग्रेऽपि गुणपदं सहकारिपदम् || उक्तमेवेति ॥ काचादयोऽपि विपरीतज्ञानजनने सहकारित्वा- भिमानादिनेति शेषः । प०--ननु दोपत्वान्यथानुपपत्तिरेव नियामिका प्रतिबन्धकरूपत्वाद्दोपस्य शक्त्यन्तराधानेन कार्यानुकूलत्वे सहकारितापत्त्या दोपत्ववाचो युक्ती रिक्ता स्यादिति मन्वानं प्रत्याह || किश्च काचा- दयोऽपीति ॥ तेषु काचादिषु कुटजधाना गिरिमल्लिकाबीजम्।। पदार्था इति। ते च वैद्यके प्रसिद्धाः। एवमसतो नभानात्संविद्विरोधाद्धत्वभावाचेत्यन्यथाख्याती पूर्वपक्षिणोक्तं बाधकत्रयं परिहृतम् । तत्र यदुक्त- मिष्टमेवैतदिति नदयुक्तमिति शङ्कते ॥ ननु जनकस्यैवेति ॥ जन्यज्ञान एवायं नियम इत्यत आह ।। प्रत्यभिज्ञानस्य चेति ॥ व्यावर्तकत्वं चेति ।। व्यावृत्तिबुद्धिकारणत्वं चेत्यर्थः ॥ अतिप्रसङ्गादिति ।। विनष्टकारणादपि कार्योत्पत्तिप्रसङ्गादित्यर्थः । अर्थव्यावृत्तं अर्थेन व्यावृत्तमित्यर्थः ।। प्रकृतेऽपीति ।। शुक्तिरूप्यादिज्ञानस्थलेऽपीत्यर्थः। ननु सत्यरूप्यादिस्थले जनकस्यैव जन्यज्ञानं प्रति विषयत्वं दृष्टमित्यत- स्तत्रापि नेत्याह || किश्च सत्येति ।। कारणत्वमिति ।। प्रयोजकत्वमित्यर्थः । सन्निकर्षेणान्यथा- सिद्धस्य कारणत्वायोगात् । न चैवं चक्षुरादेरपि साक्षाद्धेतुत्वं न स्यात् । सन्निकर्षस्य व्यापारत्वेनाव्यव. घायकत्वेऽर्थस्याप्येवं स्यादिति चेन्न । रूपादिज्ञानं करणसाध्यं कार्यत्वादित्यादिधर्मिग्राहकमानेन चक्षु- रादेहेतुत्वसिद्धिवदर्थस्य तदभावात् । तदुक्तं तर्कताण्डवे प्रत्यक्षादिप्रमास्वनुगतगुणभङ्गे । चक्षुरादिव- कारणत्वेन धर्मिग्राहकमानसिद्धोर्थः सन्निकर्षणान्यथासिद्धत्वादतीतादिविषययोगिप्रत्यक्षादावसत्त्वाञ्च न प्रत्यक्षप्रमाहेतुरिति ॥ तस्य सर्वस्यासत्य इति । अन्यथा सदुपरागेणासदपि तादात्म्यादि भासत इति प्राचीनतार्किकमतेऽप्येष दोषः स्यादिति भावः ।। या० ननु सहकारिणामिष्टविघातित्वमात्रेण दोषत्वं क्कोपलब्धमित्यपेक्षायामाह || कामु- कस्येति ॥ विभ्रमेष्विति ॥ विरक्त प्रति वस्तुतो दोपरूपेप्विति शेषः । गुणत्वाभिमानात्प्रकृत- रूपज्ञानस्य नियतयाथार्थ्यादेवेत्यर्थः ।। श्री० --सहकारिण एवेति ॥ चक्षुरादिना भ्रमे जननीये काचादिदोषाणामपि मन्त्रादिव- सहकारित्वेनैवाङ्गीकारात्सहकारीभूताना काचादिदोषाणां युक्तं स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्त्या. धायकत्वमिति भावः । ननु काचादीनां सहकारित्वे दोषत्वप्रसिद्धिः कथमित्यत आह ॥ दोषत्वं विति ।। इष्टं समीचीनज्ञानम् ।। कामिनीविभ्रमेष्विति ॥ हावभावविलासादिष्वित्यर्थः । कामुकस्य कामिनीवि- भ्रमेषु ग्राम्यकर्मरूपकार्यानुगुणत्वेन सहकारित्वाभिमानेऽपि विरक्तस्य मुक्तिरूपेप्टविघातित्वेन दोषत्वं दृष्टमिति सहकारिणामपोष्टविधातित्वमात्रेणैव दोषत्वं युक्तमिति भावः । न खलु दुष्टं कुटजबीजं वटं जनयति किं नाम न जनयत्येव कुटजाङ्कुरमित्युक्तं दोषमाशङ्कय परिहरति । न चैवमिति ॥ सहकारिणां सहजशक्तिप्रतिबन्धेन विपरितशक्त्याधायकत्व इत्यर्थः । भर्जिता भजनरूपसहकारिमन्तः ॥ गुणा एवेति ।। वत्सनाभ्याख्यविषस्य मारकत्वशक्ति प्रतिबध्यारोग्यजननशक्तिमादधाना ये पदार्थास्ते गुण- एच सहकारिणो न तु दोषाः । अस्माभिस्तु दोषाणामेव सर्वशक्तिप्रतिबन्धेन विपरीत शक्त्यनाधयकत्या मुच्यत इति भावः ॥ उक्तमेवेति ॥ किंच काचादयोऽपीत्यादिनेत्यर्थः ।। जैनकस्यैवेति ।। विषयतया ज्ञानजनकस्यवेत्यर्थः ॥ न स्यादिति ॥ जनकत्वाभावादिति भावः। तदंशस्तत्तांशः । तद्देशकालस- म्बन्धरूपस्य तत्तांशस्य प्रत्यभिज्ञानकालेऽभावेन जनकत्वाभावादिति भावः । निरूपकत्वमात्रेण व्यावर्तकत्वमात्रेण || कथमसत इति ।। निरूपणसमयेऽभावादिति भावः ।। इतिवदिति ।। तटस्थ- स्वेनेत्यर्थः । प्रमेयस्यातीतादेः ॥ अतिप्रसङ्गादिति ।। रासभस्यापि पटकारणत्वापत्तिरित्यर्थः ।। किमनेनेति ॥ कदाचित्सत्त्वकथनेनोक्तमित्यर्थः । तथा चातीतादिविषयकानुमितिपूर्वक्षणे विषयस्य सत्वाभावाव्यावर्तकत्वं न स्यादिति भावः ॥ स्वसामर्थनेति ॥ स्वसनिकृष्टकरणजन्यत्वेनेत्यर्थः ।। खहेत्विति ॥ अतीतादिविषयकानुमित्यादिहेतुभूतलिङ्गादिसामर्थ्यादेवेत्यर्थः । अर्थव्यावृत्तमर्थेने- तरव्यावृत्तम् । अर्थसम्बद्धमर्थनिरूपितमिति यावत् ।। सममिति ।। अत्रापि दुष्टेन्द्रियरूपज्ञानहेतु- सामर्थ्यादेव रजतादिव्यावृतं ज्ञानमुत्पद्यत इत्यर्थः । पारम्पर्येणैवेति ॥ ज्ञानजनकसन्निकर्षजनकतया- ऽन्यथासिद्धत्वान्नार्थस्य ज्ञानजनकत्वमिति भावः । न चैवमिन्द्रियस्यापि सन्निकर्षजनकत्वेनान्यथासिद्धत्वान्न साक्षात्कारज्ञानजनकत्वम् किंतु पारम्पर्धेणैव स्यादिति वाच्यम् अन्वयव्यतिरेकाभ्यामिन्द्रियस्य साक्षाज्ञान- 72 सद्रजतविपयकत्वे शून्यवाद्यभिमतासरख्यातिप्रसङ्ग इति चेत्तत्राह || अत एवेति ॥ अत एवेत्युक्तं विशदयति ।। यावदिति ।। न चैवमिति ।। अस्माभिरधिष्ठानभूतशुक्तिकाकलस्य सत्यत्वाङ्गीकारात् । शून्यवादिमतेऽधिष्ठानस्याप्यसत्वादिति भावः । कामुकस्येति ॥ कामिनीविभ्रमेषु कामिनीविलासेषु । विरक्तं प्रति दोषरूपेति च० पूरणीयम् । सु०-यञ्चोक्तं विषयव्यभिचारे ज्ञानस्य सर्वत्रानाश्वास इति तत् औत्सर्गिक ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽऽचार्येणैव परिहरिष्यते । साक्षी खलु चैतन्यरूपो नियत याथार्थ्यः कदाचिदपि संशयानास्कन्दितोऽन्तःकरणवृत्तीनां याथार्थ्य स्वयमेव गृह्णाति, परी- क्षासहकृतस्त्वयाथार्थ्यमिति यादरायणीयं मतम् । अत एवानाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषोऽस्तीति निरस्तम् । अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहतेर्व्यवहारान्तरे समाश्वासः स्यात् । तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः । क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्ट प्रत्यये विश्वासो भवेत् । तदभावे च कथं निःशङ्का प्रवृत्तिः । बाधका. भावादिना समाश्वासस्तु परोक्तरीत्यैव निरस्तः । किञ्च प्रवृत्त्युत्तरकालीनो बाधकामावः कथं निःशङ्कप्रवृत्तावुपयुज्यते । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रका. शविज्ञानवादं न जह्यात् । औत्सर्गिकी प्रवृत्तिरपवादानिवृत्तिरिति चेत् । समं प्रकृतेऽपि । यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति । तदनुपपन्नम् । अत्यन्तासत एवाकारस्य, स्फुरणाङ्गीकारात् । अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद्यवहारोऽपि तदाकारः प्रसज्येत ॥ या चेयं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना। विशिष्टज्ञानबाधकानां परिहतत्वात् । अनुगानानां च दृष्यत्वात् ॥ यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सोऽपि प्रत्युत्पन्न- क कारणदुष्टेन्द्रियादिजन्यतोपपादनात्परिशेषानुपपत्तेरयुक्तः । अनाकलितरजतस्यानुत्पद्य- मानत्वं गगनादावनैकान्तिकम् । रजतज्ञानवंत एवोत्पद्यमानत्वं विवक्षितमिटि चेन्न रात् । संस्कारमात्रसहकृतमनोजन्यत्योपाधिग्रस्त चानुमानम् । न चानेनैव हेतुनाऽस्य पक्ष साधनम् व्यभिचारस्योक्तत्वात् । वा.- अपवादाभावे ज्ञानग्राहकेण प्रामाण्यनिश्चयादपवादकसद्भावे च तदग्रहणादप्रामाण्य- ग्रहणान्न ज्ञानानाश्वास इत्याशयेनाह ।। तदिति ॥ ननु ज्ञानग्राहकस्यापि ज्ञानत्वाद्विषयव्यभिचार- शङ्कया न तेन प्रामाण्यनिश्चयः । न च तद्ग्राहकेण तत्र प्रामाण्यनिश्चयः । अनवस्थापत्तेः । न च तस्य स्वप्रकाशत्वाङ्गीकारान्नानवस्थेति वाच्यम् । तथाऽपि ज्ञानत्वप्रयुक्तानाश्वासशङ्काया अपरिहारात् । न च तस्य याथार्थ्यनियमाभ्युपगमान्न दोष इति वाच्यम् । किश्चिद्रं गत्वा स्वप्रकाशत्वयाथार्थ्यनियमा- भ्युपगमादप्यादावेव सर्वज्ञानानां स्वप्रकाशत्वाद्यभ्युपगमस्योचितत्वात् । अपवादकस्थले ज्ञानग्राहकस्यैवा- प्रामाण्यग्राहकत्वे सस्यापि स्वतम्त्वापत्तिश्चातो नैतत्समाधान युक्तमित्यत आह ।। साक्षी खल्विति ।। ननु साक्षी स्वयमेव याथार्य गृहातीत्ययुक्तम् | तथात्वे ज्ञानग्राहकेण साक्षिणा सर्वत्र प्रामाण्यंग्रहणा- पत्त्याऽपवादाभाव इत्युक्तानुपपत्तेः संशयानुपपत्तेश्चेति चेन्न । संशयादिनिवृत्तये परीक्षापेक्षाभ्युपगमात् । न च तर्हि परीक्षानवस्था स्यादिति वाच्यम् । मनोवृत्तिविषय एव संशयप्राप्त्या तन्निवृत्यर्थ परीक्षायाः साक्षिसिद्धसुखाद्यवतारपर्यन्ततयाऽनवस्थाभावात् । न च मनोवृत्तिविषय इव साक्षिविषयेऽपि संशयः कुतो नेति वाच्यम् | स्वारसिकसंशयस्य विशेषादर्शनादिदोषमूलकतयाऽऽहार्यसंशयस्य च प्रथमज्ञाने दोपजन्यत्वशङ्कामूलकतया दोषाणां च ज्ञानस्य दोलायमानतया बलवद्वाधकोपनिपातेन च कल्प्यतया साक्षिदर्शनस्य च निर्णयात्मकत्वेन बाधकंशून्यतया च दोपमूलकत्वासंभवान्न मनोवृत्तितुल्यतेत्याशयेनोक्तं कदाचिदपि संशयानास्कन्दित इति । न चैवं स्वतः प्रामाण्यभङ्गः । प्रामाण्यग्रहणे परीक्षानपेक्षणात् । तदिदमुक्तम् ।। एवेति ।। ननु साक्षिणो बाध्यत्वस्य क्वचिदभ्युपगमेऽपि नानिष्टमिति चेन्न । साक्षिणः कचि- दयाथार्थेऽविश्वसनीयत्वापत्त्या करणदोषाधनिश्चयप्रसङ्गेन ज्ञानानां भ्रमत्वाभ्रमत्वनिर्धारणाभावप्रसक्त्याऽर्थ- तथात्वातथात्वनिर्णयाभावानुषङ्गेण हानोपादानादिव्यवहाराभायापच्या सर्वलोकसिद्धनिःशङ्काविसंवादिव्यव- हाररूपकार्यसिद्धये कारणीभूतवस्तुतथात्वनिश्चयस्य तसिद्धये च कारणदोषादिनिश्चयद्वारा साक्षिणा ज्ञाना- नां भ्रमत्वाभ्रमत्वनिश्चयस्य तदर्थ च साक्षिणो विश्वसनीयत्वस्य तदर्थं च साक्षिणो निर्दोषत्वयाथार्थ्यनियम- स्यावश्याभ्युपगन्तव्यतया बाध्यत्वं तस्य न क्वचिदपि युक्तमित्याशयेनोक्तानियतयाथार्थ्य इति। ननु माऽस्तु 72a भ्युपगमेन सर्वस्योपपत्तौ किमप्रामाणिकसर्वप्रमाणविरुद्धसर्वप्रत्यययाथार्थ्यनियमाद्यभ्युपगमेनेति चैतन्य- रूपत्वान्तःकरणवृत्तित्वोक्त्या च साक्षिणश्चतन्यरूपत्वात्स्वप्रकाशत्वयाथार्थ्यनियमोपपत्तावप्यन्तःकरणवृत्तीना जडत्वान्न तत्सम्भव इति वक्ष्यमाणमुपपादनप्रकारं सूचयति । प्रामाण्यग्रहणे दोषनिवृत्त्यर्थमेव परीक्षा- पेक्षावन्नाप्रामाण्यग्रहे तथा किन्तु अव्यभिचारादप्रामाण्यग्रह एवेति नाप्राण्यस्वतस्त्वापत्तिरित्याशयेनाह ।। परीक्षेति ॥ तत्प्रामाण्यं बादरायणस्यानपेक्षत्वादिति जैमिन्यभ्युपेतबादरायणमतरहस्यानभिज्ञस्य कथं जैमिनिसूत्रव्याख्यातृत्वमिति परिहाराय बादरायणीयमित्युक्तम् । यद्वा त्वदुक्तानाश्वासप्रसङ्गस्य गौतमीयादीप्रति संभवेऽपि न बादरायणीयानस्मान्प्रतीत्याशयेनैतदुक्तम् । अत एवेति ।। चैतन्यरूप- त्वस्य ज्ञानत्वावान्तरविशेषस्योक्तत्यादेवेत्यर्थः । उत्सर्गापवादन्यायेन समाधानं परमुखेनापि दर्शयितुं प्रतिबन्दीमाह ।। अन्यथेति ।। बाधकाभावेन समाश्वासं परोक्तरीत्या निरस्य वस्तुगतिमनुरुद्धयापि निरस्यति ॥ किश्चेति ॥ अपसिद्धान्तेनापि तन्निरस्यति ॥ बाधकेति ।। एवं बाधकानि परिहृत्य न केवलं बाधकानामुक्तरीत्याऽन्यथासिद्धिः किनित्वदं रजतमित्यादिप्रत्ययानां गत्यन्तराभावाच्चत्याशयवान्परो- क्तगत्यन्तरनिरासायाह ॥ या चेयमित्यादिना ॥ ननु रजतज्ञानस्य स्मृतित्वात् इदंज्ञानस्य च सर्वाविवादानुभवत्वात्प्राप्तमेव ज्ञानद्वित्वमित्यत आह ।। रजतेति ॥ अन्यथाऽनुपपत्तेरुतत्वा- दित्युक्तं ज्ञानद्वित्वे प्रमाणं निरस्यति ।। विशिष्टेति ॥ ननु प्रत्ययत्वाद्यनुमानान्येव तत्र प्रमाणानीत्यत आह ।। अनुमानानां चेति ॥ एवं च सतीत्यादिना दूष्यमाणत्वादित्यर्थः । ननु तथाऽपि स्मृतित्वे प्रमाणामावादित्यनुपपन्नम् । परिशेषादेरुपन्यस्तत्वादित्यतस्तत्क्रमेण निरस्यति ॥ यस्त्वित्यादिना ॥ ननु यथाश्रुतेऽनैकान्तिकतायामपि द्वौ नत्राविति न्यायलब्धार्थविवक्षायां न सेत्याशङ्कते ॥ रजतेति ।। हानादीति ॥ अत्रापि तव्यतिरिक्तेति विशेषणोपादानेऽतिप्रसङ्गाद्विशिष्टहेतोरप्रयोजकत्वापत्तेश्चत्याशयः । उपाधौ संस्कारेति मात्रेणेति च विशेषणं पक्षे साधनाव्यापकत्वसिध्यर्थमुपाध्यभावेन साध्याभावसाधने- ऽसिद्धिपरिहारार्थ चेति द्रष्टव्यम् । अनेनैव स्मृतित्यसाधनायोपात्तेनानाकलितरजतस्यानुत्पद्यमानत्वेनैव । उक्तत्वादुक्तप्रायत्वात् । स०- ननु विगीतः प्रत्यय इत्याद्यनुमानैर्याथार्थस्य सिद्धत्वाद्विशिष्टज्ञानाङ्गीकारे तस्या- ध्याथायन अनुमानविरोधस्तत्राह ॥ अनुमानानां चेति ॥ एतेनेत्यादिनेति शेपः । संस्कार- तथा प०---परिहरिष्यत इति ॥ 'प्रत्यक्षवच्च प्रामाण्यं स्वत 'प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यत' इत्यत्रैवाधिकरण उत्तरत्र । 'तत्प्रा- माण्यं यथा साक्षी स्थापयत्येवमेव हि । सर्वकालेष्वपि स्थैर्याद्यभिचारमपोद्य चेत्यादी प्रकृत्यधिकरणे । 'उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यतीति भक्तिपादादौ च तत्र तत्र परिहरिप्यत इत्यर्थः । तत्कथमित्यतः किञ्चिद्व्यनक्ति ।। साक्षी खल्विति ।। अत एवेति ।। साक्षि- गृहीतयाथार्थ्यकत्वादेवेत्यर्थः । उक्तमर्थ प्रतिबन्धाऽपि साधयति ॥ अन्यथेत्यादिना समं प्रकृतेऽपी. त्यन्तेन ।। परोक्तरीत्यैवेति ॥ बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वादित्यादिनाऽत्र पूर्वपक्षग्रन्थोक्त. रीत्यैवेत्यर्थः । अपि च प्रतीयमानोऽयं रजताकारः कुतम्त्य इति वक्तव्यमित्यादिनोक्तमनूध निराह ॥ यदप्युक्तमित्यादिना ॥ इत्यादिनेति ।। रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे इत्यादिनोक्तेत्यर्थः । नन्वन्यथाऽनुपपत्ते रेव मानतयोक्तत्वात्कथं मानाभाव इत्यत आह ॥ विशिष्टेति ॥ साकारवादासदभान- संविद्विरोधहेत्वभावरूपबाधकानामित्यर्थः । नन्वन्यथाऽनुपपत्तेरमानत्वेऽपि किश्चदमिति तावदित्यादिनोक्त. परिशेषादिरूपानुमानानामस्तु मानत्वमित्यत आह ॥ अनुमानानां चेति ।। दूप्यावादित्युक्तं तदाह ।। यस्त्वित्यादिना ॥ प्रत्युत्पन्नेति ।। प्रागजातं तदानीमेव संपन्न क(का)रणं यददुष्टेन्द्रियादि तजन्य- तायाः 'न चान्यथाख्यातिजनने कारणाभाव' इत्यादिना ग्रन्थेनोपपादनादित्यर्थः । यच्चोक्तं इदं स्मरणं अनाकलितरजतस्यानुत्पद्यमानत्वात्सप्रतिपन्नस्मरणवदिति । तन्निराह ॥ अनाकलितेति ॥ संस्कार- मात्रेति ।। प्रत्यभिज्ञायां साध्यव्याप्यत्वसिद्धये समन्यात्यभिप्रायेण मात्रपदम् । साधनाव्यापकत्व. सिद्धये वा ॥ अनेनैव हेतुनेति ॥ अनाकलितेत्युक्तहेतुना रजतज्ञानवत एवेत्यादिविवक्षितहेतुना चेत्यर्थः । या०. संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चेति ।। अत्र समन्याशेर्विवक्षितत्वेन प्रत्यभिज्ञायां व्यभिचारवारणाय मात्रपदम् । घटाउनुभवे व्यभिचारवारणाय संस्कारसहकृतेत्युक्तम् । वेदादिसंस्कारजन्ये कर्मादौ व्यभिचारवारणाय मनःपदम् ॥ व्यभिचारस्योक्तत्वादिति ॥ गगना- दाविति शेषः ।।
साक्षिणो याथार्थ्यनियमादित्याशयः || परीक्षेति ।। विसंवादरूपपरीक्षेत्यर्थः । प्रकृते तु न ज्ञानत्वावा- न्तरविशेषमनाश्चासनिरसनक्षममीक्षामह इति यदुक्तं तदप्यत एवापास्तमित्याह ।। अत एवेति । साक्षिरूपे ज्ञानेऽनाश्वासनिरसनोपायस्य चैतन्यरूपत्वप्रयुक्तनियतयाथार्थ्यरूपस्य सत्त्वादेवेत्यर्थः । ज्ञानस्य प्रदर्शिता कारव्यभिचारेण सर्वत्रार्थव्यभिचारशङ्कयाऽनाश्चासे बाधकमाहं ।। अन्यथेति ।। परस्यापि मते व्यवहृतिः प्रवृत्तिः । तथा चेदं रजतमिति ज्ञानजन्याया व्यवहृतविषयव्यभिचारे घटादिज्ञानजन्ये व्यवहारान्तरे समाश्वासः कथं स्यादित्यर्थः । मास्तु व्यवहारान्तरे समाश्वास इत्यत आह || तदभावे चेति ।। व्यवहारदर्शनेनेति ।। चैत्र जलमाहरेति प्रयोजकवृद्धोदीरितवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य जलाहरण- विषयप्रवृत्तिदर्शनेन पावस्थबालस्य कथमन्वितार्थे व्युत्पत्तिः स्यादित्यर्थः क्वचिद्विवेकाग्रहे चेति । इदं' रजतमित्यादिस्थले ग्रहणस्मरणात्मकं ज्ञानद्वयं नैकं भ्रमरूपं विशिष्टज्ञानमस्ति । प्रवृत्तिस्तु स्वरूपतो विपयत एंव मिथो विवेकाग्रहादेवेत्यङ्गीकार इत्यर्थः ॥ अन्यत्रेति ॥ अयं घट इत्यादिविशिष्टप्रत्यय' इत्यर्थः । तत्रापि ज्ञानद्वयमेवाङ्गीकृत्य विवेकाग्रहादेव प्रवृत्तिरस्त्वित्यर्थः । तदभावेऽन्यत्र विशिष्टप्रत्यये विश्वासांभावे । नन्वन्यत्र विशिष्टप्रत्यये; बाधकामावादाश्वासः । इदं रजतमित्यत्र बाधकसद्भावादना- श्वास इत्यत आह || बाधकाभावादिनेति ।। परोक्तरीत्यवेति ॥ बाधकस्यापि ज्ञानत्वेन शङ्का- स्पदत्वान्न खलु बाधकस्य किमपि शृङ्गमस्तीति परोक्तरीत्यैवेत्यर्थः । इतोप्यन्यत्र विशिष्टप्रत्यये बाधका- भावादिना समाश्वासस्त्वया वक्तुं न शक्यत इत्याह ।। किश्चेति ।। तथाच निःशङ्कप्रवृत्स्येन्तरं बाधका- भावनिश्चयः सतिं च तस्मिन्निःशङ्कप्रवृत्तिरित्यन्योन्यश्रय इति भावः ॥ बाधकाभावादिनेत्यादि । त्रिपुटीप्रत्यक्षमादिनः प्राभाकरस्य मते इदमहं जानामीति ज्ञानाकारः । तत्रात्मांशवेद्यांशानां प्रतीति- मङ्गीकृत्य स्वप्रकाशत्वेन विज्ञानस्वरूपनिश्चयोऽङ्गीकृतः । बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्च- याङ्गीकारे स्वप्रकाशविज्ञानवादत्यागापत्तरिति भावः । तदभावे च कथं निःशङ्का प्रवृत्तिरित्युक्तं तंत्र शङ्कते ॥ औत्सर्गिकीति ॥ तथा चान्यत्रापि विशिष्टप्रत्ययेऽनाश्वासेन न निःशङ्कप्रवृत्त्यभाव इत्यर्थः ।। सममिति li ज्ञानानां प्रामाण्यमौत्सर्गिकमपवादाविपर्यय इत्यङ्गीकारादिदं रजतमिति ज्ञानस्य विषय- व्यभिचारे न सर्वत्रानाश्वासप्रसङ्ग इत्यर्थः ॥ अपि च प्रतीयमानोऽयं रजसाकार: कुतस्त्य इति वक्तव्यम् । न तावत्पुरोवर्तिनिष्ठ इतीष्टमन्यथाख्यातिवादिनाम् । बाधकविरोधश्च तथा' सति स्यात् । नापिं देशान्तरवर्तीति वक्ष्यामः । ततश्च ज्ञानस्थ एवायमित्यापतितम् । ततश्च जितं साकारविज्ञान- A न तावद्वाह्यार्थे पुरोवर्तिनि शुक्तिकाशकलेऽस्तीतीष्टमख्यातिवादिनाम् । नापि देशान्तरवति । तस्यात्र व्यवहारानुपपत्तेः । तथाच व्यवहृतिनिष्ठ एवायमित्यापतितमिति व्यवहारोऽपि तदाकारः म्यादिति भावः । ननु तहीदं रजतमित्यादिप्रत्ययान का गतिः । उच्यते । रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे इत्यादिनोक्ता प्रक्रियामनूध दूषयति ॥ या चेयं प्रक्रियेत्यादिना ॥ ननु भ्रमरूप- विशिष्टज्ञानाङ्गीकारे साकारवादादसतो न भानादिति कारिकोक्तबाधकानां सत्याज्ज्ञानद्वित्वं रजतज्ञानस्य स्मृतित्वं चाङ्गीकार्य इत्यत आह ॥ विशिष्टज्ञानबाधकानामिति ॥ नन्विदं स्मरणमनाकलितरजतस्या- नुत्पद्यनुमानत्वादित्याद्यनुमानान्येव रजतज्ञानस्य स्मृतित्वाची प्रमाणानीत्यत आह ॥ अनुमानानां चेति ।। किञ्चेदमिति तावत्पुरोवर्तिनयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम् । रजतज्ञानं च न तावदिन्द्रियजन्यमितीन्द्रियजन्यत्वाभावमुपपाद्य लिङ्गाद्यनुसन्धान विधुराणामपि जायमानमनुमानप्रभवमिति न शक्यते वक्तुमतः प्रत्युत्पन्नकारणाभावेऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यमित्येवं रजत. ज्ञानस्य स्मृतित्वे परिशेष एव प्रमाणमिति पूर्वपक्ष्युक्तमाशङ्कय निराकरोति ॥ यस्त्वित्यादिना ।। प्रत्युत्पन्नकारणेति ॥ अव्यवहितपूर्वक्षणवृत्तिकारणेत्यर्थः । किश्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमान- त्यादित्युक्तमनुमानं दूषयति ॥ अनाकलितरजतस्येति ॥ गगनादाविति ।। सर्वथाऽनुत्पद्यमानत्वादे- वेति भावः ॥ संस्कारव्यवहारादाविति ॥ तयोरनुभवजन्यत्वादिति भावः । नन्वनाकलितरजतस्या- नुत्पद्यमानत्वहेतुनैवोपाधिः पक्षे साध्यतेऽतः साधनव्यापकत्वान्नायमुपाधिरित्याशङ्कय गगनादौ व्यभि- चारान्नैवं साधयितुं शक्यत इत्याह ॥ न चानेनैवेत्यादिना ।। च० संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चेति ।। अत्र विवृण्वानाः उपाधी संस्कारेति मात्रेति च विशेषणं पक्षे साधनाव्यापकतासिद्ध्यर्थमुपाध्यभावेन साध्याभावसाधनेऽसिद्धि- परिहारार्थ चेति विवृण्वते । अत्र समव्याप्तेर्विवक्षितत्वेन प्रत्यभिज्ञायां व्यभिचारवारणाय मात्रपदं संस्कारसहकृतेत्येतदन्तं च घटाद्यनुभवे व्यभिचारवारणायेत्यपि स्थितम् ॥ व्यभिचारेति ।। गगनादा- विति पूरणीयम् । सु०-किनंद स्मरणत्वं साध्यं न तावत्सामान्य गुणेषु प्राभाकरैरभ्युपगतम् । अननु- भवत्वमिति चेत् । तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा । आयेऽनुभवस्यापि साध्यवैकल्याच्च । किञ्चन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कार्यमित्यवसीयते । तथा च बाधितविषयत्वम् । अन्वयव्यतिरेकयोरन्यत्रोपयोगानैवमिति चेत् । तत्किमस्य स्मृतित्वे सिद्धेऽन्यत्रोपक्षयः कल्प्यते उतैवमेव । नायः तदभावात् अस्मादेवानुमानात्तत्सि- द्धावन्योन्याश्रयप्रसङ्गात् । न द्वितीयः । समीचीनरजतप्रत्ययेऽपि तथात्वप्रसङ्गात् । अन्यत्रो- पक्षयः शङ्कित इति चेन तथाऽपि सन्दिग्धकालातीतताऽनिस्तारात् । समीचीनरजतानुभवेपि कथमन्यत्रानुपक्षयो निश्चितो भवता । अनुभवत्वनिश्चयादिति चेन्न इन्द्रियव्यापारस्यान्यत्री- पयोगशङ्कयाऽनुभवत्वस्यापि सन्दिग्धत्यात् । पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न संवादानुभवस्याप्यनिश्चितत्वात् । असति बाधके न वृथाऽन्यत्रोपक्षयः शङ्कथत इति चेत् समं प्रकृतेऽपीति ।। एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि परास्तम् । संस्का- रोत्पत्त्यनन्तरमेव जातायां स्मृतावनैकान्तिकत्वं च ॥ अनुभूतविषयत्वं स्मृतित्वमित्यपि चेन्न । द्वितीयादिभ्रमे सिद्धसाधनत्वात् साध्याविशिष्टताप्रसङ्गाच ॥ तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न अनुभवबाधितत्वात् ॥ एतेन ज्ञानसंभिन्नार्थगोचरत्वमित्यपि परास्तम् ॥ अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् । नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृति- चिन्हविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् । अत एव तिक्तगुडादिप्रत्ययप्रक्रियाऽपि परास्ता। वा०- किश्चति ॥ यद्यपि साध्यदूपणस्य हेतुदूपणात्पूर्वभाव एवोचितस्तथाऽपि साध्यदूपण- प्रसङ्गे इतरेतराश्रयादेरन्यस्यापि क्वचिदृष्टान्तदूषणस्य क्वचिदनैकान्तिकत्वादिहेतुदूषणस्याप्युच्यमानतया साध्यमात्रदूपणत्वाभावेन हेतुमात्रदूषणोक्त्याऽऽनन्तर्यस्यैवोचितत्वादिति भावः ॥ अभ्युपगतमिति । गुणत्वं न जातिरनुगततयाऽप्रत्यक्षत्वाव्यतिरेकेण गोत्ववत् । रूपं रूपत्वतद्याप्यभिन्नसत्ताव्याप्यजातिमन्न तत्त्वेनाप्रतीयमानत्यागोत्ववदित्यनुमानात् । न च सामान्यवत्वे सति स्पर्शरहितत्वे सति द्रव्याश्रितत्व. मित्यादिव्यञ्जकवशात्तदुपलब्धिरिति वाच्यम् । कर्मादिसाधारणस्य तस्य गुणत्वाव्यञ्जकत्वात्तदर्थ कान्यत्वेन विशेषणे रूपान्यत्वादिनाऽपि विशेपयितुं शक्यतयाऽनपेक्षितव्यावृत्तरतिप्रसञ्जकत्वात् । न च रत्नतत्त्वमिवोपदेशसहकृतचक्षुरादिना तदुपलब्धिः । सामान्यनियतधर्मान्तरभावेणोपदेशस्य जाति- त्पादकत्वरूपव्यञ्जकव्यङ्ग्याया उत्क्षेपणादिरूपकर्मवृत्तिजातेरवश्याङ्गीकर्तव्यतया विरुद्धकार्यजनकरूपादि- गुणानां कर्मेकजातीयत्वानुपपत्त्याऽकर्मकत्वेन तद्वैलक्षण्यस्य च द्रव्यादिसाधारणतया विरुद्धकार्यजनकत्वा- विशेपेऽपि सापेक्षत्वानपेक्षत्वाभ्यां द्रव्यकर्मणोविजातीयत्ववत्सामान्यवस्वकार्यानाश्रयत्वाविशेषेऽपि विरु- द्धाविरुद्धकार्याभ्यां गुणकर्मणोरपि विजातीयत्वमावश्यकम् । एवं च कार्यानाश्रयत्वविशिष्टाविरुद्धकार्य- जनकत्यादिव्यञ्जकवशाद् गुणत्वाद्युपलब्धिरुपपन्नैव । अननुसंहितोपाधेरुपहितप्रत्ययायोगेन नोपाधि- निबन्धनत्वं रूपादिसंज्ञानामपीति गुणत्वस्य जातित्वमिति दिक् । अनुभवशब्देन 'काचिदनुभवव्यक्ति- रुच्यतेऽनुभवत्वावच्छिन्नं वेत्याशयेन विकल्पयति ॥ किमिति ॥ यद्वा नञोऽन्यार्थत्वमभावार्थत्वं चेत्याशयेन विकल्पयति ॥ किमिति ॥ स्मृतिशब्देन यत्किश्चित्स्मृतिविवक्षायामाह ।। स्मृताविति ॥ सर्वस्मृतिविषक्षायामाह । इतरेति ॥ वेगादिमात्रप्रभवपतनादावतिव्याप्तेराह । ज्ञानेति ।। अप्रसिद्ध- विशेषणत्वस्यादोपत्यमतेऽप्याह || दृष्टान्तस्येति ।। नन्वम्त्वयं तर्हि केवलन्यतिरेकी । न च साधारण्य- मनुकूलतर्काभावदशायामेव तस्य दोषत्वात् । अत्र चानुकूलतर्क व्युत्पादयिष्यामीत्यतो दूषणान्तरमाह ।। किंचेति ॥ यद्वा मानसप्रत्यक्षजत्वस्य स्मृतौ परेणानङ्गीकृततयाऽम्योपपाघदूपणत्वाद् दूषणान्तरमाह ॥ किंचेति ॥ अन्यत्रानुपक्षीणत्वेनान्वयव्यतिरेकयोरविशेषणे प्रत्यक्षसिद्धलिङ्गकरणकलिङ्गिज्ञाने व्यभिचारो विशेषणे च हेतुविशेपणासिद्धिरित्याशयेन शङ्कते ॥ अन्वयव्यतिरेकयोरिति ॥ आयेऽप्यस्य स्मृतित्व- सिद्धिः प्रकारान्तरेण वा यस्यानाकलितरजतस्यानुत्पद्यमानत्यस्य बाधितविषयत्वमस्मा भिव्युत्पाद्यते तत एव था । आधे आह ॥ तदिति ॥ द्वितीये त्वाह ॥ अस्मादेवेति ॥ समीचीनस्थलेऽनुभवत्वनिश्चायकस्य शानिवर्तकत्वेऽपि न प्रकृने तन्निवर्तकं किञ्चिदिति सन्दिग्धहेतुविशेषणासिद्धिः स्यादेवेत्याशङ्कते ॥ अन्यत्रेति ।। हेतुसन्देहाहितसाध्यसन्देहोऽपि बाथसंशयपर्यवसन्नत्वाहोप एवेति भावेनाह । तथाऽपीति ॥ समीचीनस्थले शानिवर्तकसद्भाव प्रकृते तदभावमभ्युपगम्य सन्दिग्धकालातीतत्वमुक्तम् । वस्तुतस्तु तत्रापि तन्निवर्तकमिति नोक्तातिप्रसङ्गपरिहार इति प्रकृते उपक्षयशकानिवृत्ति परमुखनैवोपपादयितुमाह || समीचीनेति ॥ अनुभवत्वनिश्चयोऽपीन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वप्रयुक्ततज्जन्यत्वनिश्चय. निबन्धनो या प्रकारान्तरेण या । नाद्य इत्याह ॥ इन्द्रियेति ॥ द्वितीयं शङ्कते ॥ पुरोदतीति । इदानी साम्यं वक्तुं शक्कानिवर्तकं परमुखेनाशकते ॥ असतीति ॥ एतेनेति ॥. प्रत्युत्पन्नेन्द्रियजन्य. त्वोपपादनाद्वाधितविषयत्वेनेत्यर्थः ॥ एतेनेति || ज्ञानसंभिन्नार्थविषयकस्वाभावस्यानुभवसिद्धतया. 73 स्मृतित्वाभावसाधनं सुशकमित्यतो व्यवहर्तव्यमित्युक्तम् । ततोल्लेखादीत्यादिपदेन पदार्थस्मृत्यादौ तत्तो. लेखाभावेऽपि पदार्थ स्मरामीत्यनुव्यवसायादिरूपम्मृतिचिन्हमस्त्येवेति न व्यभिचार इति सूचितं भवति ।। अत एवेति ।। ज्ञानद्वित्वे प्रमाणाभावादेवेत्यर्थः । स०. स्मृतित्वानधिकरणत्वं विवक्षितमतो न दोप इत्यत आह ॥ इतरेतराश्रयेति ॥ ज्ञान- संस्कारेति ॥ ज्ञानजन्यसंस्कारेत्यर्थः । केषाश्चिन्मते सर्वपदार्थानां संस्काराधायकत्वमङ्गीकृतम् । अत एवाविद्यासंस्कारादज्ञानिना प्रवृत्तिरित्यादि वदन्ति । तद्रीत्यान्यत्रातिव्याप्तिवारणाय ज्ञानपदम् । आहितस्य साध्यसन्देहस्यानुमितिप्रतिबन्धकत्वाभिप्रायेणाह || सन्दिग्धेति ॥ पुरोवर्तिव्यवहारसंवादादिति ॥ पुरोवर्तिविषयकसमर्थप्रवृत्तिसमानविषयकवादित्यर्थः ॥ एतेनेति ॥ किञ्चेन्द्रियव्यापारान्वयेत्युक्तदोषेणे. अनुभववाधितत्वादिति ॥ इदं रजतमिति ज्ञाने तत्तांशोलेखाभावस्यानुभवसिद्धत्वा. तद्विरोधादित्यर्थः ॥ ज्ञानसंमिति ॥ ज्ञानसंभिन्नपदेन ज्ञानगृहीतार्थविवक्षायां द्वितीयादिभ्रमे सिद्धसाधनता । ज्ञानविशिष्टार्थविवक्षायां चाबाधितत्वमिति भावः । - त्यर्थः ॥ -- प० साध्यविकल्पेनाप्यनुमान दूपयितु साध्यं पृच्छति । किञ्चेदमिति ॥ जातिर्वाऽन- नुभवत्वं वाऽनुभवत्वानधिकरणत्वं वा ज्ञानसंस्कारमात्रप्रभवत्वं वाऽप्रत्युत्पन्नकारणप्रभवत्वं वाऽनुभूत. विषयत्वं वा तत्तांशोल्लेखित्वं वा ज्ञानसंभिन्नार्थगोचरत्वं वेत्यष्टौ विकल्पा-हृदि कृत्वा क्रमेण निराह || न तावदित्यादिनाऽनेनैवेत्यन्तेन ।। अनुभवस्यापीति ।। रजवज्ञानस्यानुभवत्वेऽपीत्यर्थः । यत्किञ्चि- दनुभवस्यानुभवान्तरादन्यत्वादिति भावः । ननु स्मृतित्वानधिकरणत्वमनुभवत्वमतो न दोष इत्यतो दोपान्तरमाह ॥ इतरेतरेति ॥ त्वया गुणगतजातेरनङ्गीकारेण स्मृतित्वं नामानुभवत्वानधिकरणज्ञानत्वं वाच्यम् । अनुभवत्वं च स्मृतित्वानधिकरणत्वमिति ज्ञप्तावन्योन्याश्रय इत्यर्थः ॥ ज्ञानसंस्कारेति ।। ज्ञान जन्यसंस्कारेत्यर्थः । क्रियाजन्यसंस्कारमात्रप्रभवेऽतिव्याप्तिवारणाय ज्ञाने युक्तिः । प्रत्यभिज्ञा. व्यावृत्तये मात्रेत्युक्तिः ॥ मानसेति ॥ 'मानसं तद्धि विज्ञानमिति न विलक्षणनयान्ते वक्ष्यमाणत्वादिति भावः । यद्वा प्रमाणलक्षणवाक्यानुवादोऽयम् ।। अप्रसिद्धेति ॥ इदं स्मरणमिति प्रत्यभिज्ञायां ज्ञान. जन्यसंस्कारमात्रप्रभवं इत्यर्थः स्यात् । तादृशप्रभवत्वं च काप्यप्रसिद्धमित्यप्रसिद्धविशेषणत्वमित्यर्थः । इदं च पररीत्यैव दूषणं बोध्यम् । तेन 'आश्रयव्याश्रयासिद्धि साध्यासिद्धिश्च दूषणम् । केपाश्चिन्न च ते दोषाः' मिन्द्रियकार्य तदन्वयव्यतिरेकानुविधायित्वादित्युक्ती हेतोरसिद्धत्वान्न बाधितविषयत्वमिति भावः ॥ एवमेवेति ॥ निर्बीजमेवेत्यर्थः । अस्मादेवेति ॥ अनाकलितरजतस्यानुत्पद्यमानत्वादियुक्तानुमाना देव स्मृतित्वसिद्धिरित्युक्ती स्मृतित्वे सिद्ध इन्द्रियान्वयव्यतिरेकयोरन्यत्रोपयोगकल्पना कल्पिते चान्यत्रो. पयोगे तेन बाधितविषयत्वाभावेन निर्दोषादनुमानास्मृतित्वसिद्धिरित्यन्योन्याश्रयप्रसङ्गादित्यर्थः । बाधकत्वेन शकितानुमान सन्दिग्धासिद्धमिति भावेन शङ्कते ।। अन्यत्रेति ।। सन्दिग्धकालातीततेति ॥ पक्षे हेतुसत्त्वासत्त्वसन्देहे तत्प्रयुक्तसाध्यतदभावगोचरसन्देहस्यावर्जनीयत्वात्सन्दिग्धबाधितत्वदोपः स्यादेवे. त्यर्थः । साध्यसन्देहस्य स्वरसतो जायमानस्यानुमित्यङ्गत्वेऽप्युपाधिसन्देहाहितसाध्यसन्देहस्येव हेतोर- प्रयोजकत्वाहितसाध्यसन्देहस्येव च सन्दिग्धासिद्धयाहितसाध्याभावसन्देहस्याप्यनुमितिप्रतिबन्धकत्वम- स्त्येवेति भावः । निश्चितबाधोऽपि संभवतीति प्रतिबन्दीमुखेनाह || समीचीनेति । एतेनेति ।। इन्द्रियजत्वसाधकानुमानबाधितत्वकथनेनेत्यर्थः ॥ अप्रत्युत्पति ॥ चिरकालोत्पनेत्यर्थः । संस्कार- रुपकारणोत्पत्त्यनन्तरं चिरकाले स्मृतेरुत्पत्तेरिति भावः ॥ साध्याविशिष्टतेति ॥ अनाकलितरजतस्या- नुत्पद्यमानत्वादित्यस्य हि 'द्वौ ननावि'तिन्यायेन आकलितरजतस्यैवोत्पद्यमानत्वादिति विवक्षितमित्युक्त- स्वादस्य चानुभूतविषयत्वादित्येतदनन्यत्वादिति भावः ॥ अनुभवेति ॥ विप्रतिपन्नं प्रमस्थलीयरजत- ज्ञानं पक्षीकृष्येवं ज्ञानं तत्तांशोल्लेखीतिसाधनेऽनुभवबाध इत्यर्थः ॥ एतेनेति । अनुभवाबाधेनैव ज्ञानमिलितार्थविषयकत्यं स्मृतित्वमित्यपि निरस्तमित्यर्थः ॥ अनेनैवेति ॥ तत्तांशोल्लेखित्वस्यानुभव- बाधितत्वकथनेनैव । किश्चन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतमितिज्ञान- मित्यादिनेन्द्रियव्यापारस्यान्यनोपयोगाभावकथनेनैव च । यथा क्रम इदमस्मरणं तत्ताशविकलत्वा- संप्रतिपन्नवत् । नेयं स्मृतिः इन्द्रियजन्यत्वादिति प्रागुक्तप्रतिपक्षद्वयमपि समाहितमित्यर्थः । नन्वाद्यमप्रयोजकत्वेन दूषितं प्रागित्यतो यथा नाप्रयोजकत्वं तथाऽऽह ।। नेदमिति ॥ हेतूच्छित्तिरेवात्र विपक्ष बाधिवेत्यर्थः । यता नेदं स्मरण तत्ताशविकलत्यादित्युक्ती तत्तोलेखस्यानुभवबाधेन स्वरूपा- सिद्धयभावेऽपि साध्याविशिष्टता तु स्यादेव स्मृतित्वस्य तत्तोल्लखित्वरूपत्वादित्यत आह || नेदं स्मृतिरिति व्यवहर्तव्यमिति ॥ न च हरिहरादिस्मृतौ व्यभिचारः शङ्कयः । तत्र पूर्वानुभूनविषयकः त्यसंस्कारजत्यादिस्मृतिचिहान्तरसत्यात् । अत एव तत्तोलेखादीत्यादिपदप्रयोगः ॥ अत एवेति ॥ ज्ञानद्वित्वे प्रमाणाभावादेवेत्यर्थः ।। तथा 73a संस्काराधायकत्वमङ्गीकृतम् । अत एव चाविद्यासंस्काराज्ज्ञानिनां प्रवृत्तिरित्यपि वदन्ति । तद्रीत्या तत्रातिव्याप्तिवारणाय ज्ञानपदम् ॥ सन्दिग्धेति ॥ यद्यपि बाधसन्देहस्य साध्यसन्देहपर्यवसन्नतया नानुमित्तिप्रतिबन्धकत्वम् । तथाऽप्याहितस्य तस्य प्रतिबन्धकत्वमस्त्येवेत्यभिप्रायेणेदमुक्तमित्यवधेयम् ।। पुरोवर्तिव्यवहारेति ॥ पुरोवर्तिविषयकसमर्थप्रवृत्तिसमानविषयकत्वादित्यर्थः । एतेनेति ॥ उक्तरीत्या बाधितविषयत्वेनेत्यर्थः ॥ ज्ञानसम्भिन्नेत्यादि ॥ मयेदं ज्ञातमिति विशिष्टार्थगोचरत्वमित्यर्थः । इदमपीदं रजतमित्यत्र ज्ञानस्य विशेषणतयाऽनुभवाभावाहाधितमेवेति भावः । तत्तोल्लेखादीति ॥ अत्रादिपदेन संस्कारमात्रजन्यत्वं ग्राह्यम् । पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च किञ्चित्स्मृतिचिन्ह- मस्त्येवेति न व्यभिचार इति भावः ॥ श्री०–साध्यविकल्पेनाप्यनुमानं दूषयितु साध्यं पृच्छति ॥ किश्चेदमिति ।। नतावदिति ।। जातेराकृतिव्यङ्गयत्वाद्गुणानां च निराकारत्वादिति भावः ॥ तत्संभवेनेति ॥ इदं रजतमिति ज्ञानं स्मरणमित्यस्यानुभवान्यत्वरूपमननुभवत्वमर्थः । तथाच पक्षीभूते रजतमिति ज्ञाने घटाउनुभवान्यत्वस्य सिद्धत्वेन सिद्धसाध्यता स्यात् । एतादृशानुभवान्यत्वस्य स्मरणत्वोक्तौ यज्ञदत्तानुभवस्यापि देवदत्तानु. भवान्यत्वस्य सत्त्वाद्धटानुभवस्यापि पटानुभवान्यत्वस्य सत्त्वात्स्मरणत्वापत्तिरिति भावः ॥ स्मृतावपीति ॥ यज्ञदत्तस्मृतेरपि देवदत्तस्मृत्यन्यत्वादनुभवत्वं स्यादित्यर्थः । इतरेतराश्रयेति ॥ अनुभवत्वज्ञाने तदनधि- करणत्वरूपस्मृतित्वज्ञानं स्मृतित्वज्ञाने तदन्यत्वरूपानुभवत्वज्ञानमितीतरेतराश्रयप्रसङ्गादित्यर्थः। अप्रसिद्ध- विशेषणत्वादिति ॥ अस्मन्मते. स्मृतेनिसप्रत्यक्षजन्यत्वेन संस्कारप्रभवत्वानङ्गीकारासंस्कारप्रभवत्व- रूपस्मृतित्वसाधनेऽस्माकमप्रसिद्धविशेषणत्वं स्यादित्यर्थः ।। दृष्टान्तस्येति ॥ सम्प्रतिपन्नस्मरणे मानसप्रत्य. क्षजन्यत्वेन संस्कारप्रभवत्वस्यानङ्गीकारेण साध्यवैकल्यं स्यादित्यर्थः ॥ तत्कार्य मितीति ।। रजतज्ञान- मिन्द्रियजन्यं तदन्वयव्यतिरेकानुविधायित्वादित्यनुमानादित्यर्थः । स्मृतिबीजसंस्कारोबोधहेतुपुरोवर्तिसाधा- रणाकारग्रहण एवेन्द्रियान्वयव्यतिरेकयोरुपक्षीणत्वादिति पूर्वपक्ष्युक्तमाशय निराकरोति ।। अन्वयव्यति- रेकयोरिति ॥ अन्यत्रेति । अधिकरणभूतशुक्तिग्रहण इत्यर्थः । अस्मादेवेति ।। अनाकलिसरजतस्यानु- त्पद्यमानत्वहेनोः सकाशादेवेत्यर्थः ॥ अन्योन्याश्रयेति । अस्मादनुमानात्म्मृतित्वे सिद्ध इन्द्रियान्वयव्य- तिरेकयोरन्यत्रोपक्षयसिद्धिः। तत्सिद्धौ च रजतज्ञानस्येन्द्रियजन्यत्वसाधकानुमानस्य दुष्टत्वेन तद्विरोधाभावा- ।
ग्धकालातीतता स्मादित्यर्थः । यद्यपि बाधसन्देहस्य ग्राह्यसंशयपर्यवसन्नत्वेन नानुमितिप्रतिबन्धकत्वम् । यथाऽऽहु: । नानुपलब्धेन निर्णीतेऽर्थे न्यायः प्रवर्तते । अपि तु सन्दिग्धेऽर्थे इति । तथाऽप्यन्यत्री- पक्षयशक्ताहितस्य बाधसन्देहस्य प्रतिबन्धकत्वमेवेत्याशयेनेदं दूषणमुक्तमित्यवगन्तव्यम् ।। पुरोवर्तिव्यय- हारसंवादादिति ॥ पुरोवर्तिनि व्यवहारसंवादात्समर्थप्रवृत्तिजनकल्वरूपविजातीयसंवादादित्यर्थः ॥ संवादानुभवस्थापीति ॥ विजातीयसेवादस्यानुभवत्वमुक्तरीत्या सन्दिग्धमिति भावः । समीचीनरजता- नुभवस्थले इन्द्रियान्वयव्यतिरेकयोरन्यत्रानुपक्षये निश्चित इति शङ्कते ।। असति बाधक इति ।। प्रकृते. ऽपीति ॥ इदं रजतमित्यत्रापि येनान्वयन्यतिरेकयोरन्यत्रोपक्षयः शङ्कयो बाधकामावादित्यर्थः ॥ एते- नेति ॥ इन्द्रियान्वयव्यतिरेकानुविधायित्वेनेन्द्रियजन्यत्वस्य निर्धारितत्वेन प्रत्युत्पन्न कारणजन्यत्वस्यैव सिध्या बाधितविपयत्वेनेत्यर्थः । संस्कारोत्पत्त्यनन्तरमेवेति ॥ तथाच तादृशस्मृतावनाकलितरजतस्या- नुत्पद्यमानस्ये सत्यपि संस्काररूपप्रत्युत्पन्नकारणप्रभवत्वस्यैव सत्वेनोक्तरूपस्मृतित्वाभावाव्यभिचार इत्यर्थः ।। द्वितीयादिभ्रम इति । रजतमिति ज्ञानसामान्यस्य पक्षल्येन द्वितीयादिभ्रमस्यापि पक्षत्वात्तत्रानुभूतवि- पयत्वसद्धायासिद्धसाधनतेत्यर्थः ॥ साध्याविशिष्टतेति ॥ यथानुभूतविपयत्वाख्यस्मृतित्वरूपं साध्यं रजतज्ञाने सन्दिग्धं तथाऽनाकलितरजतस्यानुरपद्यमानत्वरूपो हेतुरपि सन्दिग्धः । रजतानुभववत एवोत्पद्यमानत्वस्यैव तदर्थत्वात् । तथाच साध्यसमो हेतुरित्याशयः ।। अनुभवेति ॥ रजतमिति सारणस्य प्रमुपिततताशकत्वाङ्गीकारेण तत्र तत्तांशोल्लेखित्वरूपे स्मृतित्वे साध्येऽनुभवबाध इत्यर्थः ।। अनुमानद्वयमपीति ॥ इदमस्मरण तत्ताशविकलत्वात् । सम्प्रतिपन्नवत् । नेयं स्मृतिरिन्द्रियजन्यत्वात् । तश्चन्द्रियव्यापारान्ययव्यतिरेकानुविधायित्वादित्येवं यस्मृतित्वसाधकानुमानस्य प्रतिपक्षद्वयमाशङ्कित तदपि समाहितम् । इन्द्रियव्यापारान्ययव्यतिरिकयोरन्यत्रानुपक्षयस्योपपादितत्वादित्यर्थः । ननु तत्ताशो- लखित्वस्यैव सरणत्वेन तत्ताशविकलवादस्मरणमिति प्रथमप्रयोगे साध्यावैशिष्टयमित्याशङ्कय व्यवहारस्य साध्यत्वान्न दोष इत्याह । नेदं स्मृतिरिति व्यवहर्तव्यमिति ॥ अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति । किन्तु क्वचिद्रहणे एव मिथोऽगृहीतभेदे यथा पीतः शङ्ख इतीति प्रतिज्ञाय । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्येत्यादिना तदुपपाद्य एवं लिक्तो गुड इति व्यवहारोऽपीति प्रक्रियोक्ता दूपयति ॥ अत एवेति ॥ आदिपदेन पीतशङ्खग्रहणम् । तिक्तगुरुपीतशङ्खप्रत्ययप्रक्रिया विशिष्टज्ञानाङ्गीकारे बाधकाभावेन ज्ञानद्वयाङ्गीकारादेव परास्तेत्यर्थः तथा च हेतोः सन्दिग्धविशेषणासिद्धिमाशङ्कते ।। अन्यत्रत ॥ हेतुलन्देहाहितसाध्यसन्दहाडाप बाधसन्देहपर्यवसन्नत्वादोष इत्याह ।। तथाऽपीति ॥ सु०-यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तम् तत् विवेकाग्रहमात्रेण प्रवृत्यादेरु- पपत्तौ तथाऽस्तु । न चैवमिति वक्ष्यामः । किंचैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटोऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः । पटोऽपि प्रमितो न हातुं शक्यते । न च तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्ययेऽप्येवमिति कुतो गौरवम् ॥ अन्यथा- ख्याती किं प्रमाणमिति चेत् । अनुभव एवेति ब्रूमः।(त) यथा हि पुरोवर्तिनि रजते रजतमिद- मिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया या साक्षिणा वात्र- भासते तथेदमपीति कुतोऽस्य न विशिष्ट विषयकज्ञानत्यम् । न हि ततोऽस्य मात्रयाऽपि विशेष पश्यामः । दर्शने वाऽस्मात्प्रवृत्तिर्न स्यात् ॥ केवलमेकं तादृग्विषयसद्भावाद्यथार्थ तदभावापरमयथार्थमविशिष्टविषयमनेकमपि तद्विशिष्ट विषयैकत्वेन प्रतिभासत इति चेन्न । अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासम्भवप्रसङ्गात् विपर्ययाङ्गीकारप्रसक्तेश्च | नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न अनुभवसिद्धनानापलापे स्मृत्यनुभवस्वरूपापलाप- प्रेमङ्गात् ॥ किश्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथाऽनुपपन्नाऽन्यथाज्ञानमाक्षिपति । नन्वियं प्रवृत्तिः खरूपतो विषयतश्चागृहीतभेदावेदनद्वयादुपपद्यतइति चेत् । कोऽयं भेदो नाम । किं स्वरूपम् उत पृथक्त्वम् उतान्योन्याभावः अथवावैधर्म्यम्। न प्रथमः खप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः । न द्वितीयः गुणे गुणानभ्युपगमात् । सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनोऽन्यत्र प्रवृत्तिप्रसङ्गात् । तृतीये वक्तव्यम् । किमिदंरजतत्व- योरन्योन्याभावो नावभासते उतेदंरजतयोरिति । नाद्यः अपर्यायशब्दस्मारकपोर्जाति- व्यक्त्योस्तदनवभासासम्भवात् । किश्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य । तच्ची. पलब्धमिति कथं तदनुपलम्भः । अत एव न द्वितीयः । नापि चतुर्थः रंजतासम्भविनः पुरोवर्तिनीदन्त्यस्य पुरोवर्त्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात् । इदं रेंजतत्वयोरसंसर्गाग्रही विवक्षित इति चेन्न । असंसर्गो हि संसर्गस्याभावः । स चेदरजतत्ययो: -- वा०-किश्चेत्यादिना पूर्ववाद्युक्तकल्पनागौरवपर्यवसानं सूचयन्नेव तदनूद्य दूषयति ॥ यदपीति ।। अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु प्रमाणसिद्धविपर्ययाभ्युपगमे कल्पनागौरवप्रसक्तिरेव नेत्यन्यथाख्या- तिप्रमाणोपन्यासाय तच्छङ्गामुत्थापयितुं प्रस्तावाय प्रतिबन्दीमुखेन दूपणान्तरमाह || किं चेति ॥ इदं रजततया प्रत्यभादिति वेदं रजततया जानामीति वाऽनुभवस्य प्रकृतस्य विशिष्टविषयकैकत्वानिश्चायकत्वे पुरोवर्तिरजतस्थलेऽपि तज्ज्ञानानुभवस्य न तन्निश्चायकत्वं स्यादविशेषादित्याह ॥ न हीति ।। अत एव दृष्टान्ततया पूर्व तदुपपादनम् । नन्वेतज्ज्ञानानुभवस्यापि विशिष्टविषयैकत्व विषयत्वे पुरोवर्तिरजतज्ञान- वदेवास्यापि यथार्थत्वोपपत्या यायाझ्याथार्थ्यविभागमभिलपता तदनुभवयोविशिष्टविषयैकत्याविषयक- त्वतदभावाभ्या विशेषः स्वीकर्तव्य एवेत्यत आह । दर्शने वेति ॥ कथं तर्हि उक्तदूपणपरिहार इत्यतो विशिष्टविषयकःवाविशेपेऽपि विषयसदसत्त्वाभ्यामेव ज्ञानयाथार्थ्यतदभावोपपत्ते नुपपत्तिरित्याह ॥ केवलमिति ।। ननु तथाऽपि नैतदनुभवबलादिदं रजतमिति प्रत्ययस्यान्यथाख्यातित्वसिद्धिः । एतदनु- भवस्यैवान्यथात्योपपत्तरित्याशते । अविशिष्टेति ॥ अत्रापि समीचीनज्ञानानुभवप्रतिबन्दीमुखेनोत्तर- माह ।। अन्यस्यापीति ॥ बाधकामावादिना समाश्वासस्तु पूर्वमेव निरस्त इति भावः । किञ्चदरजतमिति- ज्ञानस्य विशिष्टविपयैकत्वे विपर्ययप्राप्तेर्बिभ्यतैतज्ज्ञानानुभवस्य विपर्ययस्वमङ्गीकर्तव्यमेवेतीदरजतमिति ज्ञानस्यैव तवस्तु विपर्ययाङ्गीकारस्यापरिहार्यत्वादित्याह ॥ विपर्ययेति ।। नन्वङ्गीकारवादेन मया त्वदुक्ता- नुभवस्य कश्चिदुपपत्तिरुक्ता मदभिमतं स्विस्थमित्याशयेन शकते ॥ नास्त्येवेति ।। नन्वेवं सत्यनुभवकलह इत्यतः प्रत्यक्ष विप्रतिपद्यमानं प्रत्यर्थापत्तिमाह ॥ फिश्चेति ॥ ननु भेदाग्रहादेव प्रवृत्त्युपपत्तेन तदनुपपत्त्या- ऽन्यथाख्यातिसिद्धिः । ननु विषयतोऽगृहीतभेदज्ञानस्य न प्रवर्तकत्यं युक्तम् । रजतानिष्टभेदाग्रहादप्रवृत्तः । न चेतिविशेषणावदोपः । इष्टपुरोवयनुपस्थितावपि तत्सत्वेन प्रवृत्त्यापत्तेः । न चोपस्थितत्वेनेष्टपुरोवर्तिनो विशेषणाददोष इति वाच्यम् । रजते नेदं रजतमितिज्ञानात्प्रवृत्त्यापत्तेः । न च स्वातन्त्र्यमुपस्थितेष्टविशे- पणम् तत्किमन्याविशेषणत्वमभावाविशेषणत्वं वा । आये रजतवदिदं गेहमिति ज्ञानात्प्रवृत्त्यभावा- पत्तिः । द्वितीये इदं रजतं गेहे नास्तीत्यादी प्रवृत्त्यभावापत्तिः । न च पुरोवर्तिवृत्तित्वेन गृहीतभेदा विशेषणत्वं तत् । अन्यथाख्यातिभिया रजतानुभवरजतभेदस्मरणात्मता रजतभेदसारणात्मतया रजत- भेदानुभवरजतप्रतियोगित्वस्मरणात्मतया वा त्वया करप्यमाने रजत एव नेदरजतभेदस्मरणस्थले ॥
रजतानुभव- ज्ञानविषयत्वाभावस्य वा हेतुत्वं भेदाग्रहस्य हेतुत्वं वदतो ममाभिमतमिति निरस्तम् । रजतभेदस्मरणात्मके रजतभेदानुभवरजतप्रतियोगित्वस्मरणात्मके वा रजत एव नेदं रजतमित्यादावुभय- त्राप्युमयविधाभावसद्धावेन तत्रापि प्रवृत्त्यापत्तेः । न च पुरोवय॑गृहीतासंसर्गभेदे रजतप्रतियोगिकत्व . ज्ञानविषयत्वाभावस्य पुरोवर्त्यगृहीतासंसर्गेष्टमिन्नत्वज्ञानाभावस्य वा हेतुत्वमभिमतम् । रजते नेदरजत. मित्यत्र रजतभेदस्मरणस्थलें रजतप्रतियोगित्वेन ज्ञातभेदस्य रजते संसर्गाग्रहस्य तज्ज्ञानस्य च सत्त्वात् रजतभिन्नत्वस्य च रजतेऽसंसर्गामहतज्ज्ञानस्य च सत्त्वात् प्रतिबन्धकस्यैव सस्वेन न तदुभयाभाव इति वाच्यम् । रजतनिष्ठभेदानुभवरजतप्रतियोगित्वस्मरणात्मके तत्रैवैतदुभयाभावमादायोक्तदोपान. तिवृत्तेः । न च पुरोवर्तिनिष्ठतया ज्ञायमानभेदे रजतप्रतियोगित्वज्ञानसमानकालीनो यस्तदभावस्य हेतुत्वो- तौ नायमतिप्रसङ्ग इति वाच्यम् । रजतानुभवरजतभेदस्मरणात्मके एतादृशाभावस्यापि सत्त्वेन तत्राति. प्रसङ्गात् । न च पुरोवर्तिनिष्ठभिन्नत्वज्ञानसमान कालीनो यस्तदसंसर्गग्रहस्तदभावस्य हेतुत्वेनायं दोष इति वाच्यम् रजतनिष्ठभेदानुभवरजंतप्रतियोगिकत्वस्मरणात्मके तस्य सत्वेनातिप्रसङ्गानिस्तारात् । तस्मान्न भेदाग्रहस्य हेतुत्वं सुवचमिति चेन्न । प्रवृत्त्यभावनियतानां मिलितानामेतेषां सर्वेषामेकस्यैवाभावस्य हेतुत्वे दोषलेशाभावात् । एतेन भेदग्रहासंसर्गग्रहरूपाणामेषां प्रतिबन्धकानां बहुविधतया तावदभा- वाना हेतुत्वे गौरवमित्यपि निरस्तम् । न च ग्राह्याभावानवगाहिनो ज्ञानस्य जनकीभूतज्ञानवि- घटकत्वेनैव प्रतिबन्धकतया भेदग्रहस्य प्रतिबन्धकत्वं वदताऽभेदग्रहस्य प्रवृत्तिहेतुत्वं स्वीकर्तव्यमेवेति वाच्यम् । अत्यन्ताभावगर्भव्यभिचारज्ञानस्यान्योन्याभावगर्भव्याप्तिज्ञानं प्रतीय मणिमन्त्रादिवत्स्वरूपेणैव वा मत्सद्धान्ते शक्तिविघटकत्वेनव वा भेदग्रहस्य प्रतिबन्धकत्वोपपत्तेः । तस्मान्न प्रवृत्त्यन्यथाऽनुप- पत्त्याऽन्यथाख्यातिसिद्धिरित्याशयेन शङ्कते । नन्विति ।। अत्रागृहीतभेदावेदनद्वयादिति भेदाग्रहस्याव- च्छेदकत्वं वेदनद्वयस्य हेतुत्वमिति सूचनाञ्चेतनव्यापाररूंपप्रवृत्तेः कथमग्रहणमात्रपूर्वकत्वमिति शङ्कापहस्तिता भवति । अत्र भेदशब्दो भेदनं भेद इति व्युत्पत्या तत्तद्वादिप्रसिद्धार्थको वा भिद्यतेऽनेनेति व्युत्पत्त्या व्यावर्तकपरो वेति विकल्पं मनसि निधायाद्यं विकल्पयति ॥ किमिति ॥ स्वरूपमिति प्राभाकरमतेन । अन्योन्यामाव इति नैयायिकैकदेशिमतेन । पृथक्त्वमिति वैशेषिकमतेन । वैधयमिति करणव्युत्पत्त्याश्रयणे तत्सर्वमतेन । आद्यत्रयस्याभेदाद्वैधय॑स्यापि कचिद्भदशब्देन व्यवहारात्स्वमतेन सर्वमपि । ज्ञेयानवमास- प्रयुक्ततद्भदाग्रहस्यप्रवृत्तिप्रयोजकतया परेणाप्यनभ्युपगमादवभासपक्षमाश्रित्यैव दूषणमाह ॥ न प्रथम भात ॥ एताप शत ।। जातिव्यक्त्योर्भानेऽपि तद्भेदाप्रतिभाने इदमिति रजतमित्यपर्यायशब्दस्मारकत्वं न स्यादिति हेतुगर्भ विशेषणमेतत् । परमतेन दूषणमाह || किंचति । एवेति निर्विशेषत्वमाह । नन्वेवमपसिद्धान्त इत्यतः परस्येत्याह ।। अत एवेति । किञ्चेत्युक्तदूषणादेवेत्यर्थः । रजतासम्भविनः पुरोवर्त्यसम्भविन इति इदन्त्वरजतत्वयोः परस्परात्यन्ताभावसामानाधिकरण्यरूविरुद्धत्वप्रदर्शनम्। भेदविकल्पवदसंसर्गस्यै. करूपत्वेन विकल्पाप्रसरादसंसर्गाग्रहस्य हेतुत्वेन दूपणप्राप्तिरित्याशयेन शङ्कते ॥ इदमिति ॥ यद्वाऽपर्या यशब्दस्मारकतया जाति व्यक्तिभेदस्य ग्राह्यत्वेऽप्यसंसर्गस्यावश्यग्राह्यत्वे नियामकाभावात्तदग्रहस्य प्रवर्तकत्वोपपत्तिरित्याशयेन शङ्कते ॥ इदमिति ॥ अभावमात्रस्य त्वन्मतेऽधिकरणमात्रतयोक्तदूषणानि. स्तार एवेत्याशयेन दूषयति ॥ नेति । एवशब्देन परस्येत्यनेन सूचिंत स्वपक्ष एतद्दोपाप्रसरं स्पष्टयितु भेदाग्रहस्य स्वमते प्रवर्तकत्वादेवैतदूषणाप्रमक्तेस्तत्परिहारसूचनमयुक्तमित्यतस्तदनुगुणां शङ्कामुत्था पयति ॥ विपर्ययेति ॥ यद्वा प्रतिबन्दीमुखेनतद्रूपणं परिहतुं न परस्य शक्यमिति भावेन सूचित. दूपणं स्पष्टयितुं प्रतिबन्दी शङ्कते । विपर्ययेति ॥ भेदग्रहे विपर्ययस्यैवासम्भवादिति भावः । ॥ स०- न चैवमिति वक्ष्याम इति ॥ कोऽयं भेदो नामेत्यादिनेति शेषः। ननु विषय- स्याप्रमितत्वान्न परप्रतिबन्दीत्याशङ्कते ॥ अन्यथाख्याताविति ॥ नास्त्वेव विशिष्टविषयैकत्वेति । तत्र गृहीतभेदं वेदनद्वयमेवेति वदाम इति भावः ।। स्मृत्यनुभवेति ॥ इदं रजतमितिग्रहणस्मरणात्मक- ज्ञानद्वयापलापोऽपि स्यादित्यर्थः ।। गुणे गुणानभ्युपगमादिति ॥ तथा च सर्वत्र गुणेषु स्वरूपतो विषयतश्चाविद्यमानपृथक्त्वाग्रहसंभवेन रूपज्ञानाद्रूपार्थिनो रसेऽपि प्रवृत्तिप्रसङ्ग इत्यर्थः ।। जातिव्यक्त्यो- रिति ॥ ज्ञानयोरिति शेषः । भेदगमकासङ्कीर्णस्वरूपावगमे भेदानवगमो न युक्त इत्यर्थः । असङ्कीर्ण- स्वरूपज्ञानोपपादनायापर्यायशब्दस्मारकयोरित्युक्तम् । अन्यथा तन्न स्यादिति भावः || अत एवेति ।। स्वरूपग्रहे तदभिन्नस्यान्योन्याभावस्यापि गृहीतत्वादेवेत्यर्थः । प०-गौरवमुक्तमिति ॥ तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनयेतिग्रन्थेनोक्तमित्यर्थः ।। वक्ष्याम इति ॥ नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदावेदनद्वयादुपपद्यत इति चेदित्यादिना ग्रन्थेनेति भावः ॥ किं चैवमिति ॥ विवेकाग्रहमादाय विशिष्टज्ञानापलापे सतीत्यर्थः । न चान्यथा- 74 मेव विशिष्टज्ञानत्वमित्युपेत्याह || नास्त्येवेति ॥ अनुभव प्रमाणीकृत्यान्यथानुपपत्तिं च विपर्ययस्यैक- ज्ञानत्वे प्रमाणयति ।। किं चेति ॥ स्वप्रकाशज्ञानज्ञेयेति ॥ स्वप्रकाशज्ञानज्ञेययोस्त्वदभिमतग्रहणस्मरण- योग्रहणशेययोर्वा शुक्तिरजतयोश्चावभासे सति ज्ञानस्वरूपभेदः । तद्विषययोः स्वरूपभेदश्च न भासत इति न युक्तमित्यर्थः । वैधय॑मितिपक्षं निराह || नापि चतुर्थ इति ॥ शङ्कते । विपर्ययेति ।। स्वरूपतावन्मात्रत्वेति ॥ तथाच तदवभासेऽपि भेदानवभासो युक्त इति भावः ॥ - या० वक्ष्याम इति || कोऽयं भेदो नामेत्यादिनेति शेपः । पटवन्न विपर्ययः प्रमित इत्याशङ्कते ॥ अन्यथाख्याताविति || विपर्ययाङ्गीकारेति ॥ अविशिष्टविषयमनेकं विशिष्टविषयक- त्वेन विपयीकुर्वज्ज्ञानं विपर्ययरूपमेवेति भावः ॥ नास्त्येवेति ॥ तत्राप्यगृहीतभेदं वेदनद्वयमेवेति वदाम इति भावः ।। स्मृत्यनुभवेति ॥ इदं रजतमिति ग्रहणस्मरणात्मकज्ञानद्वयापलापोऽपि स्यादि- त्यर्थः ॥ स्वप्रकाशज्ञानेति || स्वप्रकाशं यज्ज्ञानं तत्प्रतिभासे तत्र ज्ञेयस्य च प्रतिभासे सतीत्यर्थः । स्वप्रकाशज्ञाने वेद्यांशस्य प्रतीतत्वादिति द्रष्टव्यम् ॥ गुणे गुणानभ्युपगमादिति । तथा च सर्वत्र गुणेषु ज्ञानानां स्वरूपतो विषयतश्चाविद्यमानपृथक्त्वाग्रहसम्भवेन रूपज्ञानाद्रपार्थिनो रसेऽपि प्रवृत्तिप्रसङ्ग इत्यर्थः ॥ जातिव्यक्त्योरिति ॥ भेदगमकासङ्कीर्णस्वरूपावगमे भेदानवगमो न युक्त इत्यर्थः । अमङ्कीर्णस्वरूपावगमोपपादनायैवापर्यायशब्दस्मारकयोरित्युक्तम् ।। परस्परेति ।। भावान्तरमभावो हि कयाचित्तु विवक्षयेति तद्वचनादिति भावः ।। स्वरूपमेवेति ॥ तन्मतेऽभावस्याधिकरणस्वरूपत्वादिति भावः ॥स्वरूपतावन्मात्रत्वेति ।। सविशेषाभेदाङ्गीकारादित्यर्थः । श्री०- किंच विपर्यमङ्गीकुर्वाणेनापि विवेकामहो ग्राह्य एव । न हि विवेकग्रहेविप- ययावकाशः, विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः । तथा च तत एव सर्वस्योपपत्ती किं विपर्ययकल्पनयेति विपर्ययाभ्युपगमे यत्कल्पनागौरवमुक्तं तदनूय दूषयति ॥ यदपी- त्यादिना । न चैवमिति ॥ विवेकाग्रहशब्दार्थ एव न वक्तुं शक्य इति वक्ष्याम इत्यर्थः । विवेकाग्रहादेव प्रवृत्त्युपपत्ती किं विपर्ययकल्पनयेति गौरवमुक्तम् । तत्र प्रतिबन्दी गृह्णाति ॥ किंचैव- मिति ॥ विवेकाग्रहमादाय विशिष्टज्ञानापलापे सतीत्यर्थः ॥ तन्मात्रेणेति ॥ अन्त्यतन्तुसंयोगपर्यन्त- सम्भवति । कारणकलापानां बहुत्वनैकत्वप्रत्ययविषयत्वाभावादित्याशयः ॥ एवमिति ॥ पटवद्विपर्ययो. ऽपि प्रमित इति न हातुं शक्यत इति प्रामाणिकत्वान्न गौरवं दोष इति भावः । पटवद्विपर्ययो न प्रमित इति न तत्प्रतिबन्दीग्रहणं युक्तमित्याशयेन शङ्कते ॥ अन्यथाख्याताविति || यथा सत्यरजतस्थले रजतमिदमिति विशिष्टविषयकमेकमेव ज्ञानं तद्वदिदं रजतमित्यपि विशिष्ट विषयकमेकमेव विज्ञान- मित्यभिप्रेत्योपपादयति । पुरोवर्तिनीत्यादिना ॥ स्वप्रकाशतया वेति त्रिपुटीप्रत्यक्षवादिप्राभाकररीत्या, मानसप्रत्यक्षेणेति तार्किकरीत्या, साक्षिणेत्यस्मद्रीत्योक्तमित्यवगन्तव्यम् । ततः सत्यर नतस्थले इदं रजत- मिति ज्ञानात् अस्य भ्रमस्थले इदं रजतमिति ज्ञानस्य । अस्मात् शुक्ताविदं रजतमिति ज्ञानात् । तथात्वे तयोर्याथार्थ्यायाथार्थ्यविभागो न स्यादित्यत आह || केवलमेकमिति ।। तादृगिति ॥ यथा प्रतीयते तादृशेत्यर्थः । अनेकमपि ॥ तदिति ॥ ज्ञानद्वयमित्यर्थः ॥ अन्यस्यापीति || सत्यरजतस्थले इदं रजसमिति ज्ञानस्यापीत्यर्थः । तदपि ज्ञानद्वयं स्यादिति भावः ॥ नास्त्येवेति ।। भ्रमस्थल इति शेपः । तथाच न विपर्ययाङ्गीकारप्रसङ्ग इति भावः । तदनुभवाभाव इत्युक्तेऽनुभवस्मृतिश्च नास्तीत्युक्ते किमु. त्तरमिति प्रमाणलक्षणवाक्यं मनसि निधायाह ।। अनुभवसिद्धेति ।। इदं रजतमित्यस्य विशिश्नविषय कज्ञानत्वं साक्षिसिद्धमित्यर्थः ॥ स्मृत्यनुभवखरूपेति ।। त्वदमिम तज्ञानद्वयस्वरूपेत्यर्थः ।। किं चेति ॥ इदं रजतमिति तादात्म्यारोपानन्तरमत्र रजतत्वमिति संसर्गारोपानन्तरं चेति शेषः। अन्यथा भ्रमरूपविशिष्ट- विषयकज्ञानाभावे । तत्र तादात्म्यारोपस्थले प्रवृत्त्यन्यथानुपपत्तेरन्यथोपपत्तिमाशङ्कते ॥ नन्वियमिति ॥ भेदो नामेति ।। यदग्रहात्प्रवृत्तिस्त्वयोच्यत इत्यर्थः ।। स्वरूपमिति ॥ ज्ञानयोईययोश्चेत्यर्थः । वैधये विरुद्धधर्मवत्त्वम् । स्वप्रकाशत्वं ज्ञानस्यैव विशेषणम् ॥ इदं रजतत्वयोरिति ॥ जातिव्यक्त्योरि- त्यर्थः ॥ इदं रजतयोरिति ॥ व्यक्त्योरेवेत्यर्थः ॥ अत एवेति ।। अपर्यायशब्दस्मारकयोध्यक्त्योस्त. दनवभासासम्भवात् । अन्योन्याभावस्यान्योन्यस्वरूपत्वेन स्वरूपोपलब्धौ तदनुपलम्भासम्भवाच्चेत्यर्थः ।। गृहीतत्वादिति ॥ तथाच विरुद्धधर्माग्रहो नास्तीत्यर्थः । संसर्गारोपस्थलेऽपि प्रवृत्तेरन्यथोपपत्ति. माशङ्कते ॥ इदं रजतत्वयोरिति ।। विवक्षित इति ।। प्रवृत्तिजनकत्वेनेत्यर्थः ॥ स्वरूपमेव परेषा- मिति ।। प्राभाकराणां मतेऽधिकरणातिरिक्ताभावाभावादिति भावः । तदवभासे इदं रजतत्वरूपजाति- व्यक्त्योरवभासे । भेदाग्रहोऽभ्युपंगमनीय एव । अन्यथेदं पदार्थे रजतभेदग्रहे प्रवृत्तिन स्यादित्यर्थः । समानो दोष इति । कोयं भेदो नामेत्यादिनोक्तो दोषः समान इत्यर्थ । भेदस्येति ॥ तथा चेदं- - 74a ग्रहोऽसन्मते युक्त एवेति भावः । वक्ष्याम इति || कोऽयं भेदो नामेत्यादिनेत्युपस्कर्तव्यम् । यथा हि पुरोवर्तिनि रजत इति वास्तवरजतस्थल इत्यर्थः, स्वप्रकाशतयेति प्राभाकरदिशा . मानसप्रत्यक्षेणेति नैयायिकदिशा, साक्षिणा वेति सिद्धान्तदिशोक्तम् ॥ स्वप्रकाशज्ञानज्ञेयप्रतिभास इति ॥ गुरूणां मितिमातृमेयरूप- त्रिपुटीप्रत्यक्षवादि चादिति भावः ।। परेषामिति ।। प्राभाकराणां मते अभावस्याधिकरणात्मकस्वादिति भावः ।। स्वरूपतावन्मात्रत्वेति ।। सविशेषाभेदोपगतेरिति भावः । सु०-- अथ मन्यसे पुरोवर्तिनो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुगेवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति । तदसत् ।। पुरोवतिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत । रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः ।। किञ्च भेदाग्रहादन्यार्थिनो- ऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः- किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात् ; उत सर्वोऽपि भेदाग्रहादिति ॥ नाद्यः । अनियतकारणतापातात् ।। ननु च सर्वत्राभेदग्रह एव प्रवर्तकः । तत्सारूप्यारेदाग्रहोऽपि तथेष्यते । यथा हि । अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्यये. ऽप्यपेक्षितोपायपुरोवृत्त्यवगमाशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः । तथा- प्राप्यविवेचकं साधारण रूपमवगम्यते । नावगम्यते च विवेचकोऽसाधारणधर्मों वेधयो. वेदनयोश्च । ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति । मैवम् । अनियतहेतुकत्वानिस्तारात् । किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैच कल्प्यते उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः । अदृष्टकल्पनाप्रसङ्गात् । प्रवृत्तिलोभादित्थ- मास्थीयत इति चेन्न तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः । न द्वितीयः कृशानु- सदृशाद् गुञ्जापुञ्जाच्छीतनिवृत्तेरदर्शनात् । नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजत- सदृशाच्छुक्तिशकलाद्भवति भवताम् । तथा प्रवर्तककज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् । मैवम् । अर्थस्य साक्षाज्ञानकारणत्वानभ्युपगमात् । सादृश्यं तु काचादिवद्दोप- नाद्यः हि कारणानां स्वातन्त्र्यं न पुरुषस्य | तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुप- जनयन्ति । न तु पुरुषाकालामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् । प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् । स हि सत्यपि ज्ञानेऽपेक्षित एव प्रवर्तते । न तु ज्ञानं जातमित्ये. वोदासीनविपरीतयोरपि । तथा च भेदाग्रहदोषकलुपितानि नयनादीनि विपर्ययं जनयन्ति । न तु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति । तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावा- भिवततापीत्युक्तम् । किश्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण । नायः । हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् । द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः । पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः, तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् । न च तत्संभवति । रजतत्वस्य पक्षधर्मत()याऽअतिपन्नत्वात् । अथ रजते प्रतिपन्भेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदाग्रहेऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनय- तीति चेन्न । तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षाया अप्यापातादिति । वा० -- भेदाग्रहो नाम व्यावर्त काग्रह इति चतुर्थपक्षे विशेष शङ्कते ॥ अथेति ॥ एवं वदन्प्रष्टव्यः । यथ्यावर्तकधर्मामहस्तदर्थिनोऽन्यत्र प्रवृत्तिरित्यभिमतमुत यध्यावर्तकयदीयधर्माग्रहो यत्र तदर्थिनस्तत्र प्रवृत्तिरिति । अथवा रजतव्यावर्तकपुरोवर्तिनिष्ठशुक्तित्वादिधर्माग्रहो यत्र पुरोवर्तिनि तत्र रजतार्थिनः प्रवृत्तिरिति । नायः । रजतव्यावर्तकपाषाणत्वादेः पुरोवर्तिन्यग्रहेण रजतार्थिनः पाषाणादी प्रवृत्त्यापत्तेः । न द्वितीयः । पुरोवर्तिनि शुक्तित्वाग्रहणेऽपि पाषाणत्वाग्रहेण रजतार्थिनः पुरोवर्तिनि प्रवृत्त्यापत्तेः । नापि तृतीयः । अतिगौरवापत्तेः । तस्माद्यत्र यन्निष्ठधर्मग्रहणं तत्र तदर्थिनः प्रवृत्ति- रित्येव वक्तव्यम् । तथा च शुक्तिवादिधर्माग्रहणे हेल्वभावान्माऽस्तु शुक्स्यर्थिनः पुरोवर्तिनि प्रवृत्तिः । माऽस्तु वा रजतनिष्ठासन्निहितत्वावग्रहणे रजतार्थिनोऽसन्निहितदेशे प्रवृत्तिः । रजतार्थिनः पुरोवर्तिनि प्रवृत्तिस्तु कुतः । पुरोर्तिनि रजतत्वाग्रहणेन हेत्वभावादिति भावेनाह ॥ पुरोवतीनो हीति ॥ ननु भेदादे: स्वरूपतन्मात्रत्वादिकमनभ्युपगच्छतां तावद्भेदामहादिस्वरूपसंभवादांपत्तेरन्यथासिद्धिः सुलभैव । अन्येषामपि तन्मात्रांशेऽनयभासाभ्युपगमेनान्यथासिद्धिव्युत्पादनं सुलभमेवेत्यतो भेदाग्रहमभ्युपगम्यापि तस्य प्रवर्तकत्वानुपपत्तिमाह || किञ्चति ॥ अनियतेति ॥ तथा च परस्परव्यभिचारान्नैकस्यापि चेति ॥ भेदाग्रहोऽपीत्यस्यागृहीतभेदं वेदनद्वयमित्यर्थः । अत एव शङ्कोपसंहारे तथोक्तिः । क्वचिद्भदविरहाद्भेदाग्रहः । कचिच्च सत्यपि भेदे भेदकाग्रहास इति भेदाग्रहप्रयोजके विशेपसद्भावेऽपि भेदाग्रहे न कश्चिद्विशेष इति भावेनागृहीतभेदत्वेन सादृश्यमुपपादयति ॥ तथा हीति ॥ एवं हि वदताऽप्यभेदग्रहे वेदनद्वये चानुगतमगृहीतभेदज्ञानत्वमेकं प्रवर्तकतावच्छेदकमिति वक्तुं तावन्न युक्तम् । तथात्वे उत्तरपक्षवदेकप्रवर्तकाभ्युपगमेनाभेदग्रह एव सर्वत्र प्रवर्तकस्तत्सारूप्याद्भेदाग्रहोऽपि तथेष्यत इति पक्षाभ्युपगमानुपपत्तेः। किन्त्व भेदग्रहत्वं तत्सदृशत्वं चेति द्वयं प्रवर्तकतावच्छेदकमित्येव वक्तव्यम्। तथा च कारणतावच्छेदकानेकत्वेनानियतकारणत्यप्राप्त्या परस्परसंबन्धमात्रस्याप्रयोजकत्वादित्याशयेनाह । अनि- यतेति । ननु तृणादिस्थले इव कार्यवेजात्यस्य वा कारणेप्वेकशक्तिकत्वस्य वा कल्पनान्नायं दोप इत्यरुचेराह ॥ किश्चति ॥ ननु प्रवृत्तिरूपकार्यान्यथानुपपत्तिसिद्धेऽर्थे नादृष्टकल्पनेत्याशङ्कते ।। प्रवृत्तीति ।। ननु विपर्ययमङ्गीकुर्वाणेनापि विषयजन्यत्वाज्ज्ञानस्य रजतसाध्यज्ञानस्य शुक्तेर्जन्माभ्युपग- च्छता नियामकान्तराभावाविपर्ययरूरज्ञाने प्रयोजकत्वेन तद्विषयशुक्तौ रजतसादृश्यमभ्युपेयम् । मया च प्रवृत्तिप्रयोजकत्वेन ज्ञानयोः सादृश्यमाश्रीयते । तत्र यदि मां प्रत्यदृष्टकल्पनाऽतिप्रसङ्गो तर्हि त्वां प्रत्यपि तत्परिहारोपायस्तवेव ममापीत्याशङ्कते ।। नन्विदमिति ॥ अर्थसन्निकर्षस्यैव ज्ञानकारणतयाऽसता सन्निकर्षासंभवे तात्प्रयोजकत्वेनार्थस्यान्यथासिद्धतयाऽकारणत्वान्न तत्सादृश्यं शुक्तौ ज्ञानप्रयोजकतया मया वाच्यम् | अभेदग्रहस्य प्रवृत्तिकारणत्वारेदाग्रहस्य तत्सादृश्यं त्वया वाच्यमिति न साम्यमित्या. शयेनाह ॥ अर्थस्येति । ननु माऽस्तु ज्ञानस्य रजतसाध्यत्वेन सादृश्यकल्पना । रजतसन्निकर्षसाध्य. ज्ञानस्य शुक्तिसन्निकर्षाजन्माङ्गीकुर्वता तन्निमित्तत्वेन शुक्तौ रजतसादृश्यं स्वीकर्तव्यमेव । अन्यथा सादृश्याभ्युपगमवैयर्थ्यप्रसङ्गादित्यतोऽन्यसन्निकर्षसाध्यस्यान्यसन्निकर्षाजन्मदोषवशादित्येव मदभ्युपगमः किन्तु स दोषः क्वचिदन्यः क्वचित्सादृश्यमित्येव । अत एव पीतः शङ्ख इत्यादौ यत्र कामिलादिरूपं दोषान्तरं न तत्र विषययोः सादृश्यमाश्रीयते । त्वया त्वभेदग्रहस्यैव प्रवर्तकत्वं वेदनद्वयं तु सादृश्या- तथेति वदता कारणसादृश्यं सादृश्यत्वेन निमित्ततयाऽऽश्रीयत इत्यदृष्टकल्पनाऽतिप्रसङ्गो. तवैवेत्याशये- नाह । सादृश्यं त्विति । एवं सादृश्यस्य प्रवृत्तिप्रयोजकत्वं विकल्पेन निराकृत्य नन्वधिष्ठानं च सशमिति वदता त्वयापि सादृश्यस्याङ्गीकार्यत्वे दोषत्वेनान्यथा वेति वैलक्षण्यमप्रयोजकमित्यतस्तत्प्रति. भन्द्याऽपि निराचष्टे । अपि चेति । ननु प्रवर्तकाभेदग्रहसादृश्याद्भेदाग्रहात्प्रवृत्ती निवर्तकभेदग्रह- न येन शङ्कते । ननु चेति । तथा चेत्यादिना परिहारं वक्तुमुपोद्धातमाह । ज्ञानेनि । यदि कारणानां स्वातन्त्र्यं तर्हि भेदनहरूमसमीचीनज्ञानमेव कुतो वोत्पादयेयुरित्याशी परिहरन्नेव तेपा स्वातन्त्र्यमुपपा. दयति । तानि चेति । यादृक्सामग्रीमध्यपतितानीति सामान्येनोक्तस्य प्रकृतारूढतया विशेषोत्कीर्तन भेदाग्रहदोपाभ्यां कलुषितानीति । तथा चेति । अयमागयः । यद्यत्कार्ये स्वतन्त्रं तदेव तत्सहका. रिविशेषभावाभावाभ्यां तादृशताशकार्य जनयतीति हि प्रसिद्धम् । एवञ्च ज्ञानजनने स्वतन्त्राणां चक्षुरादीनां दोषादिरूपसहकारिसद्भावे तैर्विपर्ययजननम् , अन्यथा समीचीनज्ञानजननमिति दोपसद्भावा- च्छक्तिरजतादिस्थले विपर्यय एव न तु भेदग्रहरूपसमीचीनज्ञानमिति कल्पयितु युक्तम् । पुरुपाधीनतया शानानधीनायां तु प्रवृत्ती प्रवर्तकज्ञानसादृश्यस्य ज्ञानगतस्य नोपयोगः । अथ पुरुष एघ स्वप्रवृत्त्यर्थ प्रवर्तकसाश्यमुपादत्त इति साम्प्रतम् । नहिं तत्रैव विद्यमानं निवर्तकसादृश्यं कथं नोपादधात् । निवर्तते च । अथ चेतनप्रवृत्ति प्रति स्वरूपसतस्तस्यानुपयोगात्प्रवर्तकसादृश्यमालोच्य प्रवर्तते तर्हि निवर्तकसादृश्यमप्यालोच्य कथं न निवर्तेत । अन्यथा प्रेक्षावचहानेरिति न ज्ञानतुल्यता प्रवृत्तरिति । अत एवोक्तं प्रेक्षावानिति । नन्वस्तु तर्हि पुरुषापेक्षाऽप्यधिका सहकारिणी ज्ञानं स्वतन्त्रमेव प्रवृत्ती कारणमुपेक्षणीयादौ च सहकार्यभावावप्रवृत्तिः । न च ज्ञानस्य स्वामध्ये ज्ञानादेव साऽपि स्यादिति वाच्यम् । तस्या विषयसौन्दर्याधीनत्वात् । नन्वसुन्दरेऽपि कथं कस्यचिदिच्छा । तस्याः पुरु पस्यभावविशेषप्रयुक्तत्वादिति चेन्न । अन्ततोऽपि पुरुषोस्वभावाश्रयणे आदावेय तरकल्पनौचित्यात् । अस्तु या ज्ञानस्य प्रवृत्तावपेक्षा सहकारिणी त्वत्पक्षे साऽपि नोपपद्यत इत्यताह ॥ किंचति ॥ अभेद. ग्रह(भेदाग्रहा)सारूप्यादिति ॥ पुरोवर्तिसमीहितसाधनाभेदग्रहस्य पुरोवर्तिस्मीहितसाधनभेदाविषय- कत्वाद्गृहीतभेदवेदनद्वयस्य तदविपयकत्वेन सारूप्यादित्यर्थः ।। नन्वत्यन्त विलक्षणजन्यत्वे अनियतकारणजन्यत्वेन नानियतकारणत्वापात इति शङ्कते ननु चेति ।। अपेक्षितोपायो रजतादेः । पुरोवर्तीदमाकारः ॥ अनियतहेतुकत्वानिस्तारादिति ।। भेदज्ञानत्वाभेदज्ञानत्वरूपकारणतावच्छेदकभेदादित्यर्थः ।। अर्थस्येति ॥ सत्यस्थले सन्निकर्षस्यैव साक्षात्कार प्रति कारणत्वात्रनिको यत्रासत्ता नोपपद्यते तत्रैवार्थसत्तापेक्षेति पारम्पर्येणैवार्थस्य कारणत्व. मिति भायः । नन्येवं रजतबुद्धे रजतसाध्यत्व एव सादृश्यमरजतस्य शक्तिशकलस्यापेक्षितमिति तदुक्ति.
भ्रम- , १०-न तत्र प्रवर्ततामिति ॥ स्थलविशेपस्थत्वाज्ञानादिति भावः ।। अयमेवेति ।। स्थलीयप्रवृत्त्यादिरूपव्यवहार इत्यर्थः । प्रवर्तकाभिमतप्रत्यय इति ॥ इदं रजतमित्येवंरूपे सत्यरूप्य- ज्ञान इत्यर्थः ॥ अपेक्षितोपायेति ॥ इष्टसाधनावगमांशपुरोवृत्त्यवगाशयोरित्यर्थः । साधारणं रूपम् । इदत्वज्ञानत्वादिलक्षणमित्यर्थः । असाधारणेति ॥ शुक्तित्वग्रहणस्वादिरूपः ॥ एकेति ॥ एको यः प्रवर्तकः प्रत्ययस्तत्सदृशवपुरिदं वेदनद्वयं प्रवृत्तिमुपजनयतीत्यर्थः । अत्रैव भ्रमस्थल एव । नन्वर्थस्य सन्निकर्पद्वारैव हेतुत्वे सादृश्यान्वेषणं व्यर्थम्, तम्यार्थहेतुत्वपक्ष एवोपयोगस्य वाच्यत्यादित्यत आह ।। सादृश्यं त्विति ।। निवर्तकेति || इयं शुक्तिः इदं तु रजतमितिज्ञानयोर्मेंदग्रहाद्यत्र शुक्तौ न प्रवर्तते तत्राभेदग्रहणमस्ति विषययोनियोश्चत्यर्थः ॥ भेदाग्रह इति ॥ भेदाग्रहसहितचक्षुरादिकरणमित्यर्थः ।। पुरोवृत्तिप्रवृत्तींति ॥ शरीरपरिम्पन्दरूपप्रवृत्तेरित्यर्थः ।। पक्षधर्मताया इति ॥ इष्टसाधनतानुमाने पक्षीभूतप्रवृत्तिविषयशुक्तिकादाविष्टसाधनताप्रयोजकस्याज्ञातत्वादित्यर्थः । भेदाग्रहसारूप्यादिति ॥ इदं रजतमिति सत्यरजतस्थलीयेदं ग्रहरजतग्रहयोरेकत्वेन तत्र यथा ज्ञानस्वरूपतो विषयतश्च भेदाग्रहात् पुरोवर्तिनीष्टसाधनतानुमानद्वारेच्छादिकं तथाऽत्रापीत्यर्थः । -- या.. तत्र शुक्तौ । तत्र व्यवहिते रजते ॥ किश्चाभेदाग्रहादिति ॥ अत्र सर्वत्र भेदा- ग्रहशन्देनागृहीतभेदनिष्ठपुरोवर्तिज्ञानमेव ग्राह्यम् । उत्तरग्रन्थानुसारात् । नन्वभेदग्रहे तत्सशे ज्ञानद्वये च भेदाविषयकत्वरूपैकधर्मावच्छेदेन प्रवृत्तिजनकताऽङ्गिक्रियते अतो न प्रवृत्तिरनियतकारणत्वमित्याशयेन शङ्कते ।। नन्विति ।। सर्वत्रेति ।। संवादिप्रवृत्ता वित्यर्थः । अपेक्षितोपायपदेनेष्टसाधनं रजतादि विव- क्षितम् । पुरोवर्तीत्यनेनेदमंशः । भेदाविषयकज्ञानहेतुत्वस्य द्वितीयपक्षपर्यवसन्नतयाऽत्र वक्तुमशक्यत्वेना- भेदज्ञानत्वेन तत्सदृशज्ञानत्वे च हेतुत्वे वाच्ये पुनरनियतकारणत्वं प्रसज्यत एवेत्याशयवानाह || अनियत- हेतुकत्वानिस्तारादिति ॥ अर्थस्येति ॥ अतीतादौ. व्यभिचारात् । अपरोक्षज्ञानेऽपि तजनक- सन्निकर्षोपक्षीणत्वादिति भावः । ननु सादृश्यं तावद्महेतुः । तच्चार्थस्य जनकत्वे जनकसादृश्यरूपत्वा- भावान्न प्रमोपयोगी स्यादित्यत आह ॥ सादृश्यं त्विति ॥ अभेदाग्रहणमिति ॥ अभेदग्रहणेऽन्यथा- ख्यात्यापत्तिरिति भावः तत्र ति ।। रजतायिनः पिकायामित्यथः । अयमेव व्यवहार इति ।। रजतार्थिनः शुक्तिकायो प्रवृत्तिरेवेत्यर्थः ।। अन्यस्त्विति ॥ सत्यरजतस्थले इदं रजतमिति ज्ञानानन्तरं रजतार्थिनो रजते प्रवृत्तिरूपो व्यवहार इत्यर्थः ॥ सर्वोsपीति ॥ सर्वोsot व्यवहारः सर्वाऽपि प्रवृत्तिरित्यर्थः ॥ अनियतेति ॥ प्रवृत्तित्वावच्छेदेनैकस्य कारणस्यालाभादित्यर्थः । तत्सारूप्यानेवाविषयकत्वरूपात् । अभेदग्रहे भेदाग्रहे च भेदाविषयकत्वसद्भावादिति भावः । प्रवर्त- काभिमतप्रत्यये इदं रजतमिति सत्यरजतस्थले ॥ अपेक्षितोपायेति ॥ अपेक्षितमपेक्षाविषय इच्छा- विपयः इष्टमिति यावत् । तस्योपायः साधनम् । इप्टसाधनं रजतमिति यावत् । पुरोवर्ती च तद्वि- पयकावगमाशयोरित्यर्थः । अविवेचकं अव्यावर्तकम् । साधारणं रूपं इदं रूपम् । असाधारणो धर्मः शुक्तिन्वग्रहणादिरूपः ॥ एकेति ॥ एको यः प्रवर्तकः प्रत्ययस्तत्सदृशवपुरित्यर्थः । सदृशवपुः सदृश- शरीरमिदं वेदनद्वयं प्रवृत्तिमुपजनयतीत्यन्वयः ॥ प्रवर्तकसादृश्यादिति ॥ भेदाग्रहादित्यर्थः । भेदाभाबादेव भेदाग्रहः अत्र तु विद्यमानस्यापि भेदस्याग्रह । इति द्रष्टव्यम् ।। अष्टकल्पनेति ॥ कुत्राप्यदृष्टस्यात्रैय कल्पनेत्यर्थः ॥ प्रवृत्तिलोभादिति ॥ प्रवृत्तिरूपकार्यलोभात् । तदन्यथाऽनुपपत्येति यावत् । प्रवर्तकसादृश्यात्प्रवृत्तिरित्येवमन्यत्रादृष्टमप्यत्रैव कल्प्यत इत्यर्थः । अन्य- थाऽनुपपत्तेरन्यथैवोपपत्तिमाह || तस्या इति ॥ प्रवृत्तरित्यर्थः । मादृश्यज्ञानं प्रवर्तकमित्याशयेन शकते || नन्विति ॥ रजतसाध्या बुद्धिरित्यादि । रजतरूपार्थस्य विषयतया रजतज्ञानकारणत्वेन वस्तु- गत्या रजतसाध्या रजतबुद्धिः । रजतसदृशाच्छुक्तिशकलाद्भवता मते भवतीत्यर्थः ॥ तथेति ।। यथा रजतसदृशस्य शुक्तिशफलस्य रजतबुद्धिजनकत्वं भवन्मते तथेत्यर्थः । प्रवर्तकैकज्ञान- सहशादिति ॥ भेदाप्रवरूपसादृश्योपेतादित्यर्थः ॥ अर्थस्येति ॥ तथाच रजतसाध्यबुद्धी रजतसदृशा- छुक्तिशफलाद्भवति भवतामित्यस्मन्मते रजतबुद्धे रजतसात्यत्वं यदुक्तं तदसदिति भावः। ननु रजतसादृश्यं तापमहेतुः । तत्र रजतरूपार्थस्य रजतयुष्यजनकत्वे जनकसादृश्यरूपत्वाभावात्कथं रजतसादृश्यस्य भ्रमजनकत्यमित्यत आह ॥ सारश्यं त्विति ।। चक्षुरिन्द्रियेण भ्रमे जननीये काचादिवत्सादृश्यस्य भ्रमोपयोगित्वमात्रमेव न तु साक्षाश्रमरूपज्ञानजनकत्वम् । तथा चेदं रजतमिति बुद्धी रजतसदृशाच्छुक्ति शकलावतीति सादृश्यस्य साक्षाज्ज्ञानजनकत्वमस्मन्मते यदुक्तं तदसदिति भावः । प्रवर्तकसादृश्यं. भेदाग्रहः। तत्र ज्ञानद्वये ॥ निवर्तकेति॥ प्रवृश्यजनकेत्यर्थः । तथाच निवर्तको यो नेदं रजतमिति भेनग्रहस्तत्सादृश्यमित्यर्थः ।। अमेदाग्रहणमिति ।। यत्र निवर्तको भेदग्रहस्तत्राभेदस्याभावादेवाभेदा- 75 - प्रहे भ्रम एव न स्यादिति भावः ॥ तथेति ॥ भवतामिति वर्तते । तथाच तद्धेतोरेवास्तु तद्धतुत्वं किन्तेनेति न्यायेन भ्रमजनकभेदाग्रहादेव प्रवृत्युपपत्ती किं प्रवृत्तिजनकतयाऽभेदनहरूपभ्रमाख्यविशिष्ट. ज्ञानकल्पनयेति भावः । भेदाग्रहस्य भ्रमजनकत्वेऽपि न प्रवृत्तिजनकत्वमित्याह । मैवमित्यादिना ॥ यागित्यादि । यदि दोषघटितसामग्रीमध्यपतितानि तर्हि दुष्ट ज्ञानमुपजनयन्तीत्यर्थः । कुतः पुरुषाकाङ्क्षां नापेक्षन्त इत्यत आह । हेयेति ॥ तदुपपादयति ॥ - स हीति ॥ अपेक्षिते इष्टे उपादेयवस्तुनीति यावत् । विपरीतं हेयम् || तथा चेति ॥ भेदाग्रहस्साभेदग्रहजनकत्वं यद्यप्यस्ती. त्यर्थः । तथापि तस्य प्रवृत्तिजनकत्वं तु नास्तीत्याह ॥ नस्विति ॥ प्रवर्तकसादृश्यमात्रेण भेदामह. रूपेण । निवर्तकमादृश्यात् निवर्तको भेदग्रहस्तत्साहायात् अभेदाग्रहात् ॥ इत्युक्तमिति ॥. अपि चेदमित्यादिप्रन्थेनेत्यर्थः । प्रवृत्तिमुपादानादिरूपाम् । एवमुत्तरत्रापि ।। साक्षादिति ।।- इच्छाप्रयत्न- द्वारमन्तरेणेत्यर्थः । इच्छति ॥ जानातीच्छति प्रयतत इतिः क्रमसद्भावादित्यर्थः । प्रयत्नः शरीर- व्यापारः ॥ समीहितसाधनतेति ॥ इष्टसाधनतेत्यर्थः .. रजतत्वस्येति ॥ इदमिष्टसाधनं. रजतत्वादितीष्टसाधनतानुमानं कार्य तन्न सम्भवति । ज्ञानद्वयं प्रवर्तकमिति त्वत्पक्षे रजतत्वस्य पक्षीभूते पुरोवर्तिनीदंपदार्थेऽप्रतिपन्नत्वेन स्वरूपासिद्धिप्रसङ्गादित्यर्थः । रजते. सत्यरजते ॥ उपजातमिति ॥ तत्र रजतत्वसद्भावेनासिव्यभावादिति भावः । पुरोवर्तिनीदं पदार्थे उपेक्षाप्रवृत्त्यभाव इति ॥ १०- नन्वन्यथाख्यातिवाद्यभिमतविशिष्टज्ञाने प्राभाकरानुमतज्ञानद्वये च वेद्यवेदनप्रतियोगिक-: भेदाविषयकत्वमनुगतमिति तद्धर्मावच्छिन्नस्यैव प्रवृत्तिहेतुत्वोपगमान्न प्रवृत्तरनियतकारणकतापत्तिरित्या- शकते । नन्विति ॥ सर्वत्र संवादिप्रवृत्तिसामान्ये । अनियतहेतुकत्वानिस्तारादिति । भेदस्याधिकरण- स्वरूपतया तदविषयकत्वस्य दुर्वचतया अभेदग्रहत्वं तत्सदृशज्ञानत्वं च जनकतावच्छेदकद्वयमुपेयमिति परस्परजन्यकार्ययोः परस्परधर्मावच्छिन्नयोयतिरेकव्यभिचारतादवस्थ्यमिति भावः .. ॥ अर्थसेति ।। अतीतादिज्ञानानुत्पादप्रसङ्गेन. लौकिकालौकिकसाक्षात्कारसाधारणसाक्षात्कारत्वावच्छिन्न. प्रति वर्तमान गोचरसाक्षात्कारजनकसन्निकर्षणान्यथासिघ्या चालौकिकसाक्षात्कारत्वावच्छिन्न प्रति हेतुतोपगतिन र च्छत इत्याशयः । ननु रजतसन्निकर्षोत्पादनीयज्ञानस्य शुक्तिसन्निकर्षाधीनोत्पत्तिमूरीकुर्वता- रजतप्रति- योगिकशुक्त्यनुयोगिकसादृश्यमेव तद्वेतुतयाश्रयणीयं तञ्चार्थस्य जनकत्वाभावे न सङ्गच्छत. इत्याशङ्कायाः सङ्क- सु०-नन्वस्तु तर्हि द्वितीयः पक्षः । तथा हि । सत्यरजते तावदस्ति रजतव्यक्ति- ज्ञानं रजतत्वजातियोधश्च । न चास्त्यसंसर्गज्ञानम् । एतावतैव तत्र तदर्थिनां प्रवृत्तिः । न हि तयोस्तादात्म्यं पश्यन्ति । जातिव्यक्त्योस्तादात्म्याभावात् । न च तत्र संसर्गग्रहः प्रवर्तका समवायो हि तयोः संसर्गः। न चासौ प्रत्यक्षः । इन्द्रियसन्निकर्षाभावात् । नाप्यनुमान- तस्तदा शक्यते ज्ञातुम् । लिङ्गाभावात् । अविसंवादिव्यवहारजनकत्वविशिष्टसाकांक्षरूपरूपि- सहोपलम्भो हि तल्लिङ्गम् । न चाविसंवादित्यं प्राक् प्रवृत्तेः शक्याधिगमम् । अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमेऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः । इदं रजतत्वाधारयो- भेंदाग्रहो वा सत्यरजते प्रवृत्तिहेतुः । अस्ति चासौ प्रकृतेऽपि । न च पुरोवर्तिनि रजतत्वा. प्रतीताविच्छानुपपत्तिरिति वाच्यम् । रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेद- तया वा समीहितसाधनतानुमानोपपत्तेरिति ॥ एतदप्ययुक्तम् ।। असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् । किंचैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः । वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् । रूपरूपिभावः सविकल्पके चकास्ति । निर्विकल्पके तु वस्तुस्वरूप- मात्रमिति भेद इति चेत् । कोऽयं रूपरूपिभावः धर्मधर्मिणोः परस्पराकासाविषयत्वमिति येत् । सरिक तयोः स्वरूपमुतान्यत् ।, आये तदपि निर्विकल्पके प्रकाशत एव । द्वितीये किं तदैन्द्रियकरतातीन्द्रियम् । प्रथमे कथमविकल्पके न प्रकाशेत । द्वितीये कथं सविकल्पके प्रकाशेत । अथ तद्वस्तुदर्शनसापेक्षदर्शन निर्विकल्पकेऽचकासदपि सविकल्पके भातीति चेत् । तर्हि न तत्संसर्गातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः । न च निर्विकल्पकस्य प्रवर्तकत्वमस्ति । किश्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् । पदानामन्वितार्थेषु व्युत्पत्यनुपपत्तौ शाब्द- प्रमाणोच्छेदप्रसङ्गः । बा--नन्वस्त्विति ।। प्रवृत्तित्वावच्छिन्न प्रत्यसंसर्गभेदाग्रहयोरेव कारणत्वाभ्युपगमेनानियत- कारणत्वाधनापत्तिरिति भावः । ननु संसर्गग्रहस्य लघुत्वात्तस्यैव सत्यस्थले प्रवृत्तिहेतुत्वं स्वीकर्तव्यमित्यत. स्तदनुपपस्या गुरुभूतस्याप्यसंसर्गाग्रहस्यैव तद्युक्तमित्याशयेनाह ॥ तथा हीति ॥ एतावतैवेत्युक्त परिशेष 75a त्यर्थः) अविसंवादिव्यवहारजनकसाकारूपरूपिसहोपलम्भत्वादित्यनुमानमभिप्रेत्याह ।। अविसंवादीति ।। अत्र घटः पट इति ज्ञानद्वयव्युदासायैकोपलम्भत्वादिति । घटपटाविति ज्ञानव्युदासाय धर्मधर्मिपदम् । घटरूपालोकाविति ज्ञानव्युदासाय साकाङ्केति । अत्र धर्मधर्मिणोः साकाङ्गत्वं नाम संसर्गमर्यादया भासमानण्यावर्त्यव्यावर्तकभावापन्नत्वम् । पीतः शङ्ख इत्यादिव्युदासायाविसंवादीति। एतावतैवेत्युक्तं विशदयति || प्राक् प्रवृत्तेरिति ॥ इदं व्यक्तिज्ञानादिकं जातिव्यक्तिसंसर्गविषयकत्वेनैव सविकल्पकस्य निर्विकल्पकाद्वैलक्षण्यं वाच्यं गत्यन्तराभावात् । संसर्गाविषयकत्वे च सविकल्पकं नास्त्येवेत्युक्तं स्यात् । तथा च निर्विकल्पकमेव प्रवर्तकमिति वक्तव्यम् । तच्चानुभवबाधितमित्याह ॥ किश्चति ॥ एवं प्रत्यक्ष संसर्गभानासम्भवादसंसर्गाग्रहादेव प्रवृत्तिरितिवदन्तं प्रति प्रत्यक्षविशेषोच्छेदमभिधायासंसर्गाग्रहादेव सर्वत्र प्रवृश्यङ्गीकारे शब्दप्रमाणसामान्योच्छेदं बाधकमाह ॥ किञ्चेति ।। स० नन्वस्तु तर्हि द्वितीय इति ॥ उत सर्वोऽपि भेदाग्रहादिति द्वितीय इत्यर्थः । ननु वैशिष्टयविषयकमेव ज्ञानं प्रवर्तकमस्त्वित्याशङ्कय वैशिष्टयं किं तादात्म्यरूपं संसर्गरूपं वेति विकल्प मनसि निधायाद्यं दूषयति ॥ न हीतिः ॥ द्वितीयं निराकरोति ॥ न चेति ॥ नापीत्यर्थः ॥ रूपरूपिसहोपलम्भ इति ॥ युगपद्धर्मधर्म्युपलम्भ इत्यर्थः । अत्र धर्मधर्मिणोरयुतसिद्धयोर्विवक्षितत्वा- न्नेह कुण्डे बदराणीत्यादौ व्यभिचारः । ननु तथापि रूपाभाववदिदमिति ज्ञानस्यापि रूपसमवायानु- मापकता स्यात् । तत्रापि धर्मिण इदमंशस्य रूपलक्षणधर्मस्यापि सहोपलम्भात् । अत उक्तम् ॥ साकाङ्केति ॥ परस्परापेक्षया धर्मधर्मिभावो विवक्षित इत्यर्थः । तत्र चेदमंशापेक्षया धर्मधर्मिभावो विवक्षित इत्यर्थः । तत्र चेदमंशापेक्षया धर्मत्वं न रूपे । किन्तु रूपाभाव इत्यर्थः । एवमपीदं रजतमितिज्ञानद्वयात्मकसहोपलम्भस्य परस्परसाकोझेदमंशरजतत्वावगाहितया तहलादिदमंशरजतत्वसम- वायापत्तिरत्र उक्तमविसंवादिव्यवहारजनकत्वविशिष्टेत्युपलम्भविशेषणम् । इदं रजतत्वाधारयोर्भेदाग्रही वेति ॥ जातिव्यक्त्योस्तादात्म्याभावेन तत्र तादात्म्यज्ञानादेः प्रवर्तकत्वाभावेनासंसर्गाग्रहस्यैव कारणत्वेन क्लप्तत्वादत्रापि तस्यैव हेतुत्वमिति भावः ॥ रजतत्वाप्रतीताविच्छानुपपत्तिरिति ॥ पक्षे हेत्व- प्रतीत्येष्टसाधनतानुमानासंभवादिति भावः ॥ रजतत्वेन सहागृहीतेति ॥ न पक्षे हेतुज्ञानमेवानुमिति- जनकम् | किन्तु हेत्वसंसर्गाग्रहो वा हेतुमद्भेदाग्रहो वेति भावः । निरस्तत्वादिति ॥ कोऽयं मेदो प्रवृत्याद्यनुपपत्तिः निर्विकल्पकादपि तदुपपत्तेरित्यत आह ॥ न च निर्विकल्पकस्येति ॥ शब्दप्रमाणोच्छेद इति ॥ मध्यमवृक्षप्रवृत्तिः संसर्गज्ञानपूर्विका प्रवृत्तित्वादितिसंसर्गज्ञानपूर्वकत्वा. नुमानस्यासंसर्गाग्रहजन्यप्रवृत्ती व्यभिचारेणासंभवादित्यर्थः । प०--उत सर्वोऽपि भेदाग्रहादितिपक्षमाशङ्कते || अस्तु तर्हि द्वितीयः पक्षः इत्यादिना एतदप्ययुक्तमित्यन्तेन । संयोगस्य संयुक्तसमवायस्य वा सन्निकर्पत्यमुपेत्याह ॥ इन्द्रियसनिक भावा- दिति ॥ विसंवादिन्यव्यभिचारायाविसंवादिव्यवहारजनकत्वविशिष्टत्युपलम्भविशेषणम् ॥ साकाङ्केति ॥ साकांक्षी यौ रूपरूपिणी धर्मधर्मिणी तयोः सहोपलम्भ इत्यर्थः ।। निरस्तत्वादिति ॥ किश्चान्योन्या- भाषो नामेत्यादिना प्रन्थेनेत्यर्थः । एवं सतीति ॥ सर्वोऽपि व्यवहारो भेदाग्रहादित्यङ्गीकारे सती. त्यर्थः । फस्तर्हि व्यवहारहेतुरित्यतो निर्विकल्पकप्रत्यय एव हेतुर्भविष्यतीतिभावेन तन्त्र परोक्तसामग्री- मुपपादयति ॥ बस्तुमात्रेति ॥ शकते ॥ रूपेति ॥ तथाच तादृश एव व्यवहारहेतुरिति भावः । अचकासदपीति पदविभागः । नन्वेष तर्हि सविकल्पक एव मास्तु व्यवहारस्तु निर्विकल्पकादेवास्तु । तथाच न संसर्गाग्रहस्वीकार इत्यत आह ॥ न च निर्विकल्पकस्येति ।। या...-ननु विशिष्टज्ञानमेव प्रवर्तकं तन्त्र कस्मान्न भवतीत्याशङ्कायां वैशिष्टयं किं तादात्म्यरूपं संसर्गरूपं वेति विकल्प्याचं निराकरोतिः॥ न हीति ॥ द्वितीयं दूषयति ॥ न चेति ॥ नापीत्यर्थः ।। रूपरूपिसहोपलम्भ इति ॥ अत्र हि मीलो घट इत्याद्यनुभवः सम्बन्धिभिन्नविशेषणविशेष्यसम्बन्धविषयो विशिष्टज्ञानत्याइण्डी पुरुष इति विशिष्टज्ञानवत् । न च घटाभावबद्भूतलमित्यादौ व्यभिचारः । तद्विषयकत्वे बाधकाभावे सतीति हेतुविशेषणादिति हिं प्राभाकराणां समवायोऽनुमानं विवक्षितम् । तत्र विशिष्टज्ञानस्य लिङ्गम् । सच न वैशिष्टयविषयकज्ञानत्वं तन्मते सम्भवति । समवायरूपवैशिष्टय- स्यातीन्द्रियत्वात् । साथ्यावैशिष्टयतापत्तेश्च । अतस्तन्मते विशिष्टज्ञानत्वं निर्वस्तुमिदमुक्तमिति ज्ञातव्यम् । अत्र रूपरूपिशब्दो धर्मधर्मिवचनौ । भिन्नकालीनयोरिदं नीलमयं घट इति ज्ञानयोर्नीलविशिष्टज्ञानत्वपरिहा. राय महेस्युक्तम् । नीलघटाविति समूहालम्बनज्ञानेऽतिव्याप्तिपरिहाराय साकाङ्केति । अत्र रूपरूपिशब्दौ भावप्रधानौ । तथाच साकाई परस्परापेक्ष धर्मत्वं धर्मित्वं च तयोरुपलम्भ इत्यर्थः । उक्तसमूहालम्बने चोभ- समूहालम्बन एवातिव्याप्तिप्रसङ्गात् । घटाभाववद्भूतलमिति ज्ञानस्य घटविशिष्टभूतलज्ञानत्वप्रसङ्गाच्च । तत्र ह्यभावापेक्षया भूतले धर्मित्वस्य घटे धर्मत्वस्य भानात् । प्रमेयदण्डवान्पुरुष इति ज्ञानस्यापि प्रमेयत्व- विशिष्टपुरुषज्ञानप्रमाच्च । दण्डापेक्षया प्रमेयत्वे धर्मत्वस्य पुरुषे धर्मित्वस्य च भानात् । अतः साकाङ्केति विशेषणम् । उक्तज्ञानेषु च न परस्परापेक्षो धर्मधर्मिभावोऽतो न तत्रातिव्याप्तिरिति । नन्वेवमविसंवादिव्यव- हारजनकत्वविशित्युपलम्भविशेषणं व्यर्थमापन्नम् । भ्रमस्थानाभिषिक्तज्ञानद्वयातिव्याप्तिपरिहाराय हि तद्वक्तव्यम् । न च भिन्नज्ञानविषययो रजतत्वेदंपदार्थयोः प्रतीयमाने धर्मधर्मित्वे परस्परसापेक्षेऽतिप्रस- जात् । अतः साकाङ्क्षादेनैव तत्रातिव्याप्तिपरिहारेऽविसंवादिव्यवहारजनकत्वविशिष्टति विशेषणं व्यर्थमेवेति चेन्मैवम् । साकाङ्गधर्मत्वधर्मित्वविषयकत्वपदेन तद्धर्मप्रकारकतद्धर्मीविशेष्यकेच्छादिजनकत्व- स्यैव विवक्षितत्वात् । तस्य च भ्रमस्थलेऽपि सस्वेन तत्रातिव्याप्तिवारकत्वात् । भिन्नज्ञानगोचरयोरपीदं- रजतत्वयोरसंसर्गाग्रहदशायां परस्परनिरूपितधर्मत्वमित्वग्रहस्वीकारे बाधकाभावादित्यप्याहुः । अत एवैतन्मते सहेति विशेषणं सार्थकम् । अन्यथा साकाङ्क्षपदेनैव क्रमभाव्यनेकज्ञानवारणे सहेत्यस्य स्वरूपकथनार्थत्वादिति सर्वमनवद्यम् !! रजतत्वाप्रतीताविति । पक्षे हेत्वप्रतीत्येष्टसाधनताऽनुमाना- सम्भवादिति भावः ।। रजतत्वेन सहागृहीतेति ॥ न पक्षे हेतुज्ञानमेव सर्वत्रानुमितिजनक किन्तु हेत्वसंसर्गाग्रहो वा हेतुमद्भेदाग्रहो वेति भावः || किं चैवं सतीति ।। विशिष्टज्ञाने संसर्गो न भासत इत्यङ्गीकार इत्यर्थः । सकलसविकल्पकोच्छेद इत्यनेष्टापत्तिरित्यत आह || न च निर्विकल्पकस्येति ।। तथा च सविकल्पकानङ्गीकारे प्रवृत्तिमात्रोच्छेदः स्यादिति भावः । श्री.-द्वितीयः पक्ष इति ।। सर्वोऽपि व्यवहारो भेदाग्रहादिति प्राधिकल्पितो द्वितीयः पक्ष इत्यर्थः ॥ द्वितीयपक्षे सर्वोऽपि व्यवहारो भेदामहादिति तादात्म्याभिप्रायेणोक्तं संसर्गारोपे त्वसंसर्गाप्रहादित्यपि द्रष्टव्यमित्यभिप्रेत्योपपादयति ॥ सत्यरजते तावदित्यादिना ॥ रजतव्यक्तिज्ञान मिति ॥ विशेष्यज्ञानमित्यर्थः । जातिबोधो विशेषणज्ञानरूपः । न चास्तीति ।। रजतत्वजाति- संसर्गो रजतव्यक्तौ नास्तीति ज्ञानं नास्तीत्यर्थः ॥ एतावतैवेति ॥ विशेष्यज्ञानविशेषणज्ञानतदुभया- संसर्गाग्रहरूपकारणत्रयेणेत्यर्थः । तदर्थिनां रजतार्थिनाम् । प्रवर्तकतया भवदभिमताभेदग्रहस्तत्र नास्तीत्याह ॥ न हीति ।। संसर्गग्रह इति ॥ असंसर्गाग्रहापेक्षया लघुत्वादिति भावः । तदा विशिष्ट- ज्ञानसमये । रूपरूपीति ॥ नीलो घट इत्याद्यनुभवः । सम्बन्धिभिन्नो विशेषणविशेष्ययोर्यः सम्बन्ध- ।
कत्वे बाधकाभावे सतीति हेतौ विशेषणं देयम् । तत्र हेतुभूतं विशिष्टज्ञानत्वं निर्वक्ति ।। अविसंवादीत्या दिना ।। व्यवहारः प्रवृत्तिः । अत्र रूपरूपीशब्दो धर्मधर्मिवचनी भावप्रधानौ । साकाबुत्वं नाम परस्परापे- क्षत्वम् । तथाच साकाक्षं परस्परापेक्षं धर्मधर्मित्वम् । तयोः सहैकस्मिन्नवकाले उपलम्भ इत्यर्थः । अत्र काल- भेदेन जातयोरिद नीलमयं घट इति ज्ञानयोर्विशिष्टज्ञानत्वपरिहाराय सहेत्युक्तम् । नीलघटादाविति समूहालम्बनज्ञानेऽतिव्याप्तिवारणाय साकांक्षेन्युक्तम् । उक्तसमूहालम्बने चोभयोधमित्वमेवावभासते न परस्परनिरूपितो धर्मधर्मिभाव इति नातिव्याप्तिः । एवं चन्द्रमस्थानाभिषिक्ते विसंवादिसंवादिप्रवृत्ति- जनकेऽगृहीतभेदग्रहणस्मरणात्मके ज्ञानद्वयेऽतिव्याप्तिवारणायाविसंवादीत्यारभ्य विशिष्टस्यन्तं विशेषणम् । इदं चोपलम्भविशेषणम् ॥ प्राक् प्रवृत्तेः शक्याधिगममिति ॥ तथा. चाविसंवादिव्यवहारगर्भोक्त. लिङ्गेन समवायज्ञानानन्तरं संसर्गग्रहप्राप्त्या प्रवृत्तिः। प्रवृत्त्यनन्तरं तद्गर्भलिङ्गन संसर्गज्ञानमित्यन्योन्याश्रय इति भावः ॥ सकलमपि प्रवर्तकमिति ॥ इदं पदार्थरूपं विशेष्यज्ञानं रजतत्वजातिबोधस्तदुभयासंसर्गा- ग्रहश्चेति सामग्रीत्रयमित्यर्थः । विभ्रमेऽपीत्यनन्तरं तावन्मात्रेणैव प्रवृत्युपपत्तरिति वाक्यशेषः । भेदा. ग्रहस्य प्रवृत्तिहेतुत्वमुपपादयति ॥ इदं रजतत्वाधारयोरिति ॥ रजतत्वाधारो रजतम् । रजतत्वा. प्रतीतावित्यनन्तरं पक्षे हेत्वप्रतीत्येष्टसाधनतानुमानासम्भवादिति शेषः ॥. रजतत्वसहेति ॥ तथा . चेदमिष्टसाधनं रजतत्वेन सहागृहीतासंसर्गत्वात्, रजतागृहीतभेदवत्वादित्यनुमानद्वयेनेष्टसाधनत्वानुमाना- ङ्गीकारेण रजतत्वाहेतुत्वान्नोक्तदोष इत्यर्थः ।। असंसर्गाग्रहभेदाग्रहयोरिति ।। कोऽयं भेदोनामेत्यादिना भेदाग्रहस्य, . असंसर्गो हि संसर्गाभाव इत्यादिनाऽसंसर्गाग्रहस्य च निरस्तत्वादित्यर्थः । एवं सतीति ।। विशिष्टज्ञानरूपे सविकल्पकज्ञाने संसगों न भासते । किं नामासंसर्गाग्रह एवं तत्र विवक्षितस्तस्मादेव प्रवृत्तिरित्यङ्गीकार इत्यर्थः । तथाच निर्विकल्पका दाभावप्राप्त्येति शेपः । तदुपपादयति ॥ वस्तु- मात्रेति । तदपीति ॥ अङ्गुलित्रयवन्निर्विकल्पके धर्मधर्मिस्वरूपप्रतीतो तत्स्वरूपभूतं परस्पराकांक्षितत्व- मपि प्रतीतमेवेत्यर्थः ।।: भातीति ।। निर्विकल्पके वस्तुदर्शनस्य जातत्वादिति भावः ॥ तदिति ॥ निर्विकल्पकेऽचकासत् सविकल्पके चकासदित्यर्थः । सविकल्पकोच्छेदप्रसङ्ग इत्यत्रेप्टापत्ति परिहरति ॥ न चेति ॥ तथाच प्रवृत्तिमात्रोच्छेदः स्यादिति भावः । तथावेन असंसर्गाग्रहपूर्वकत्वेन ॥ बालस्येति ।। पाश्वस्थस्यव्युत्पित्सोरित्यर्थः ॥ तदीयेति ॥ अस्येयं प्रवृत्तिः संसर्गज्ञानपूर्विकेति मध्यमवृद्धसम्बन्धिसंसर्ग- ज्ञानानुमानेत्यर्थः । अन्वितार्थेषु आनयनादिसंसर्गवत्सु गवादिरूपार्थेषु ।। ॥ ॥
संसर्गत्वानुपगतेरिति भावः ॥ अविसंवादीति ॥ गुणक्रियाद्युपरागेण द्रव्यादिप्रतीतौ पर्यवसान- गत्या समवायविपयकतां गुरून्प्रत्यनुमिमानानां नैयायिकानां गुणक्रियाद्युपरक्तद्रव्यादिप्रतीतिः प्रतियोग्य- मुयोगिभिन्नसंबन्धवृत्तिसंसर्गतानिरूपिकाविशेष्यतासमानाधिकरणधर्मप्रकारकप्रवृत्तिजनकत्वे सति विशेषणा- भिमतवृत्तिप्रकारतानिरूपितद्रव्यादिविशेष्यताघटितधर्मावच्छिन्नेच्छावृत्तिजन्यतानिरूपकत्वाद्दण्डीत्यादिप्र- त्ययवदित्यनुमान स्वरूपसंबन्धमादायार्थान्तरतामपहस्तयितुं साध्यशरीरे संबन्धविशेषणतया भिन्नानि- वेशनं विसंवादिप्रवृत्तिजनके गुरुमतदिशाऽनैकान्त्यव्युदसनायाद्यदलोपादानं निर्विकल्पकादिबुद्धौ तद्वार- णायोत्तरदलनिवेश इत्यादि असंवादीत्यादितल्लिङ्गमित्यन्तस्य फलिताशयः ॥ रजतत्याप्रतीताविति ॥ इष्टसाधनतानुमापकरजत चहेतोः प्रकृतपक्षवृत्तित्याग्रहे तादृशानुमित्यनुदयेन तन्नियन्त्रितप्रवृत्त्यनुदयप्रसङ्ग इति भावः । सविकल्पकोच्छेदप्रसङ्गोपधायकसामग्रीघटकापाद्यानिष्टताविघटकेष्टापत्तिमपहस्तयते ॥ न च निर्विकल्पकम्येति सु० अथैवं मन्येत । अस्त्येव व्यवहर्तुरन्वयज्ञानम् । किं नाम सदपि न प्रवृत्ता- चुपयुज्यते । अतो न कश्चिदोष इति । तत्र किं तदन्वयज्ञानं प्रवृत्ती नियतमुतानियतमिति वाच्यम् । आद्येऽस्तु तत्प्रवृत्तावुपयोगि मा वा भुत् , अन्यथाख्याति विना न रजतार्थिन: पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् । द्वितीये तु शब्दोच्छेदस्तदवस्थः । किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् । प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहोऽवर्जनीयसनिधिरिति चैन्न विपर्ययस्यापि वक्तुं शक्यत्वात् । अवश्यं चैतदेवम् । व्यवहारो हि व्यवहर्तव्योप- लम्भनिबन्धनो युक्तः, न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः । न हि घटव्यवहारी घटमतिक्रम्य तद्विपर्ययाप्रतिभासे सति भवति । तदमी प्रयोगाः । विमतो व्यवहारी व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्धटव्यवहारवत् । विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषय- व्यवहारजनकत्वात्संमतवत् । पुरोवर्ती वा रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्ति- विषयत्वात्सम्यग्रजतवत् । विवादपदं रजतज्ञानमिदं ज्ञानान्न भिधते प्रकाशमानात्ततोऽप्रकाश- मानभेदत्वे सति प्रकाशमानत्वात्संप्रतिपन्नरजतज्ञानवदित्यादयः ।। किश्च विपर्ययाभावे नेदं रजतमिति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति । न हि तथात्वे बाधकत्वमस्ति ।
विच्छेदकत्वेन; समयान्तरेऽपि तत्र विश्रमात्प्रवृत्त्यभावापत्तेः । न च व्यवहारप्रतिबन्धक- स्वेन; अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुत्पत्तेः प्रतिवन्धकरल्पनायोगात् , व्याघ्र- चोरादिज्ञानस्य बाधकतापत्तेश्च । विमतमयथार्थ वाध्यत्वान्यवहारवदिति । अत एव भ्रान्तित्व प्रसिद्ध्याऽपि विपर्याससिद्धिः॥ एवञ्च सति प्रत्ययत्वानुमानं कालात्ययापदिष्टं वेदितव्यम् । अदुष्टकरणजन्यत्वोपाधिग्रस्तं च ॥ एतेन रजतज्ञानत्वानुमानमपि निरस्तम् । अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात् , रजतविषयों वा रजतव्यवहारत्वादित्यपि स्यात् । - ॥ वा० ननु संसर्गस्य प्रत्यक्षविपयत्वासंभवादसंसर्गामहादेव प्रवृत्तिं वदन्तं प्रति सविकल्पको. च्छेदशाब्दप्रमाणोच्छेदप्राप्तावपि स्वरूपेण संसर्गज्ञानमङ्गीकृत्याप्यसंसर्गाग्रंहादेव प्रवृत्ति वदन्तं मां प्रति न तावित्यख्यातिमतविशेष शङ्कते ॥ अथेति ।। संसर्गज्ञानस्य प्रवृत्तिनियतत्वे अन्यथाख्यातिसिद्धिः । अनियतत्वे च व्यभिचारेण प्रवृत्त्या संसर्गज्ञानानुमानासंभवाच्छाब्दप्रमाणोच्छेदस्तवापीत्याह ॥ तत्रेति ।। प्रवृत्तिसमनियतत्वेनान्यथाख्यातिमुपपाद्य प्रवृत्तिकारणत्वेनापि तामुपपादयति ॥ किं चेति ।। नन्येवं सति न प्रवृत्तिकारणत्वनिश्चयः संसर्गज्ञानस्येत्यत आह ।। अवश्यं चेति । एवमसंसर्गाग्रहादि- निरासेनान्यथासिद्ध्यादिपरिहारान्निष्प्रत्यूहाः प्रयोगा इत्याह ।। तदमी इति ॥ रजतार्थिप्रवृत्तिविषये रजतज्ञानागोचरे रजतोपायेऽव्यभिचारायाह ! रजतेति || आदिपदेनेदं ज्ञानं रजतज्ञानान्न भिद्यते उक्तहेतोरेव विमता प्रवृत्ती रजतपुरोवर्तिविशिष्टज्ञानसाध्या रजतार्थिताजन्यपुरोवर्तिप्रवृत्तित्वादित्यादीनां संग्रहः । अत्र फलैक्येऽपि प्रकारभेदाढ़ेदो द्रष्टव्यः । एवमन्यथाविज्ञानमेव भ्रान्तिरित्यंशसूचितयुक्ति- मभिधायान्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाध इत्यंशसूचिंत दूषणं वक्तुं वक्ष्यमाणे बाध्यत्वानुमाने अन्यथासिद्धिशानिरासायोपोद्धातमाह || किं चेति ॥ विपर्ययाभावे कथं बाधकत्वानुपपत्तिरित्यतो विपर्ययाङ्गीकारे बाध्यलाभात्तत्प्रसञ्जितान्यथाकारलोडनेनैव बाधकत्वोपपत्तावपि तदनङ्गीकारे बाध्यालाभान्न तदुपपत्तिरित्याह ।। न हीति ॥ तदर्थिनामिति विशेषणेऽप्यतिव्याप्तिरपीत्याह ॥ व्यालेति ॥ न चेति ॥ व्यवहारानुपपत्तिस्थलेऽपि तद्योग्यताऽस्त्येवेति भावः ॥ न चेति ॥ पूर्व व्यवहारयोग्यता- प्रतिबन्धेऽपि समयान्तरे प्रवृत्त्युपपत्तिरिति भावः ॥ अविवेकेति ॥ सति पुष्कलकारणे कार्यानुत्पत्ति. प्रयोजकस्यैव प्रतिबन्धकत्वादित्याशयः । यदर्थमयं प्रयत्नस्तदाह ॥ विमतमिति ॥ भेदाग्रह निवर्तकत्वेन 76 यादृच्छिकसंवादिस्थलेऽपि सेति ध्येयम् । अनुमानद्वयेऽप्याभाससाम्यं चाह || अन्यथेति ।। --- स०. अवश्यं चैतदेवमिति । अत्र संसर्गज्ञानस्य व्यवहारं प्रति कारणत्वस्य क्लप्तत्वा- तम्यैव प्रवृत्ति प्रति कारणत्वं न त्वसंसर्गाग्रहस्येत्यत्र तात्पर्यान्न प्रकृतासङ्गतिरिति बोध्यम् ॥ अतद. र्थिनामिति ॥ अनेनैव प्रागुतो भेदाग्रहप्रसञ्जिताभेदव्यवहारस्य विद्यमानविषयकत्वज्ञापकत्वेन बाधकत्वमितिपक्षो निराकृतः । अतदथिनामभेदव्यवहारानुपपत्तौ तद्विषयासत्त्वावेदकत्वाभावेन तत्त्वा- नुपपत्तेः । यद्वा विमतो व्यवहारो व्यवहर्तव्यज्ञानपुरःसर इत्यादि प्रागुक्तप्रकारेणाभेदव्यवहारस्या भेद- ग्रहस्यासाव्यत्वोपपादनेन तस्य भेदाग्रहप्रसञ्जितत्वानुपपत्या तस्याः शङ्कितुमपि अशक्यत्वात्तमनाशङ्कयैव पक्षान्तरमेव निराकृतमिति भावः ॥ प्रतिबन्धककल्पनायोगादिति ॥ सति पुष्कलकारणे यस्मिन्सति यन्नोपपद्यते तस्यैव तत्र प्रतिबन्धकत्वादिति भावः । अदुष्टकरणजन्यत्वोपाधिग्रस्तं चेति ॥ दुष्टकर- णाजन्यत्वोपाधिग्रस्तमित्यर्थः । अतो नेश्वरज्ञाने साध्याव्यापकता । यादृच्छिकसंवादिनि च न दुष्टकरण. जन्यत्वम् । सतोरपि कर्तृकर्मणोर्यज्जातीयानन्तरं नियमेन कार्यमुत्पद्यते तत्साधनमित्येवंरूपवैवक्षिककरण- त्वस्य तत्रासंभवेन दुष्टकरणजन्यत्वाभावरूपोपास्तत्र सत्वेन न साध्या व्यापकत्वमिति भावः । केचित्तु नन्वीश्वरज्ञाने साध्याच्यापकत्वान्नास्योपाधित्वम् । न च जन्यत्वरूपपक्षधर्मावच्छिन्नसाध्याव्यापकत्व. विवक्षणादीश्वरज्ञाने चावच्छिन्नसाध्याभावव्यापकत्वमिति वाच्यम् । तथापि यादृच्छिकसंवादिनि साध्या- व्यापकत्वादिति चेन्न । अयादृच्छिकसंवादिजन्यज्ञानत्वरूपपक्षधर्मत्वावच्छिन्नसाध्यव्यापकत्वसंभवा. दित्याहुः ॥ । . प० अन्यथाख्याति विनेति ।। शुक्तौ रक्तत्वसंसर्गज्ञानस्य प्राप्तत्वादिति भावः । आये दोषान्तरमाह ।। किं चेति ॥ विपर्ययस्यापीति ।। संसर्गग्रहे सति असंसर्गाग्रहोऽवर्जनीयसन्निधिरिति स्वदुक्तविपर्ययस्यापीत्यर्थः । तर्हि विनिगमनाविरहात्संसर्गग्रह एव प्रवर्तक इत्यस्य भङ्ग इत्यत आह ॥ अवश्यं चेदमिति ।। विमत इति । शुक्ताविदं रजतमिति व्यवहार इत्यर्थः । रजतोपाये व्यभिचार- आह || किश्च विपर्ययेति ॥ यद्वाऽनुमानेन विपर्ययं समर्थ्यार्थापत्त्यापि तं साधयति । किं चेति ।। यद्वा वक्ष्यमाणप्रयोगस्याप्रयोजकत्वशङ्कानिरासायान्यथोपपत्ति निराह ॥ किं चेत्यादिना ॥ तथात्वे विपर्ययाभावे । तथात्वापातात् बाधकत्यापानादित्यर्थः । समयान्तरे कालान्तरे । विमतमित्यतः प्राक् तदयं प्रयोग इति विपरिणामेनानुपङ्गः । अत्र सर्वत्र पक्षपरिप्कारः पूर्वोक्तरीत्यैव ध्येयः ॥ अत एवेति ॥ साधकानामुक्तत्वात् बाधकानां परिहात्यात्ताभ्यां हेतुभ्यामेवेत्यर्थः ॥ एवं च सतीति ।। भ्रान्तित्वस्य प्रमाणसिद्धत्वे सतीत्यर्थः ॥ प्रत्ययत्वेति ।। विगीतः प्रत्ययो यथार्थः प्रत्ययत्वादिति पूर्वपक्ष्युक्तानुमानमित्यर्थः । विवादाध्यासितं (विवादपदं) रजतज्ञानं रजतविषयं रजतज्ञानत्यादिति प्रागुक्त परकीयानुमानं च निराह ।। एतेनेति ॥ कालात्ययापदिष्टादिदोघेणेत्यर्थः । शुक्तिविषयकत्वस्य साधि त्यादि ते भावः । निस्तानुमानयेऽस्मदुक्त होषेग दुष्टत्वानङ्गीकारे चाभाससाम्यरूपबाधकं चाह । अन्यथेति ॥ या. ननु नियतपूर्वभावितोऽप्यन्यथासिद्धवादकारणत्वमुपपद्यत इत्याशङ्कते ॥ प्रतिभास- मानयोरिति । विपर्ययस्यापीति ॥ संसर्गप्रहे सत्य संसर्गाग्रहोऽजिनीयसन्निधिरित्यपि वक्तुं शक्य. त्यादित्यर्थः । नन्वेवं विनिगमकाभावादुभयोरपि कारणत्वमस्त्विति तटस्थशङ्कायामाह ॥ अवश्य चैतदेवमिति ॥ तथाऽनुभवाल्लाघवाचति भावः । अत्र व्यवहारपदेन प्रवृत्तिरेवाभिमताऽतो नासङ्गति- रिति ध्येयम् । अत्र प्रवृत्तियदभिलपनस्यापि साध्यतया विवक्षितत्वात् । व्यवहारपदेनोभयमपि विवक्षितम् । अत एव पूर्व प्रवृत्ति देनाभिलपनमप्युपलक्षणीयमतो नासङ्गतिरित्यप्याहुः ॥ इदं ज्ञानान मिद्यत इति ।। अत्र प्रकाशमाने रजतस्मरणे धर्मिज्ञानाभावेनेदंशानादप्रकाशमाने व्यभिचारवारणाय विशेष्यमिदंज्ञानस्यैयाप्रकाशमानतादशायां प्रतियोगिज्ञानाभावेन प्रकाशमानभेदे तत्रैव व्यभिचारवारणाय सत्यन्तमिति ज्ञातव्यम् ॥ अविवेकेति ॥ भेदामहेत्यर्थः ॥ प्रतिबन्धककल्पनेति ॥ सति पुष्कलकारणे यस्मिन्सति यनोपयते तस्यैव तत्र प्रतिबन्धात्वादिति भावः ॥ अष्टकरणेति । अत्र दुष्टकरण- जन्यवाभावस्यैवोपाधित्वं विवक्षितम् । अतो नेधरज्ञाने साध्याव्यापकता । नन्वमपि दुष्टकरणजन्ये यामिछासंघादिनि ज्ञाने साध्याध्यापकतेति चेन्न । तादृशस्थ ठे विद्यमानस्यापि दोपस्य जनकता. ऽनभ्युपगमात् । प्रामाण्यस्य स्वतस्त्वेन ज्ञानकरणमात्रेणेव तत्र यथार्थज्ञानजननात् । न च दोपस्याप. वादकता । विषयसत्यस्य तदपवादकत्वात् ।। THA । प्रवृत्तिरिति तावसिद्धम् । तथाच सदपि न प्रवृत्तावुपयुज्यत इत्युक्तमसदिति भावः । द्वितीये अन्वयज्ञानस्य प्रवृत्त्यपेक्षया पूर्वमनियतत्वे ॥ शब्दोच्छेद इति ॥ मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्येत्यादिनोक्तरीत्येत्यर्थः ॥ अवश्यं चैतदेवभिति || संसर्गग्रह एव प्रवर्तकोऽसंसर्गाग्रहस्त्ववर्जनीय- सन्निधिरित्येतदावश्यकमित्यर्थः ।। व्यवहर्तव्योपलम्भनिमित्त इति || व्यवहर्तव्यज्ञानसाध्य इत्यर्थः । व्यवहर्तव्यो रजतत्वसंसर्गस्तदुपलम्भस्तद्हः ॥ युक्त इति ॥ लाघवादित्यर्थः । व्यवहरणीयः संसर्गः । तद्विपर्ययोऽसंसर्गस्तदनुपलब्धिस्तदग्रहस्तन्निबन्धनो न भवति गौरवादित्यर्थः । लोकेऽदर्शनादित्याह । न हीति ॥ घटमतिमतिक्रम्येति ॥ घटज्ञानसाध्यत्वं विहायेत्यर्थः । तद्विपर्ययाप्रतिभासेऽघटा- प्रतिभासे । घटाभावाग्रहे सतीत्यर्थः । व्यवहर्तव्यधीः संसर्गधीः । रजतार्थिप्रवृत्तिविषयत्वं रजतसाधने व्यभिचारीत्यतो रजतानुपायत्वे सतीत्युक्तम् । रजतासाधनत्वे सतीति तदर्थः ॥ तत इति ॥ इदं ज्ञानादित्यर्थः ॥ संप्रतिपन्नेति ॥ सत्यरजतस्थले इदं रजतमिति ज्ञानवदित्यर्थः । हेतौ प्रकाशमानत्वा- दित्येवोक्ते आपणस्थरजते इदं रजतमित्यनुभवानन्तरं देशान्तरं गतस्य तद्रजतमिति रजतस्मरणं जातमन. न्तरमिदं शुक्तिकाशकलमिति च ज्ञानं जातं तदा तस्मिनजतस्मरणे प्रकाशमानत्वे सत्यपीदं ज्ञानाद्भेदस्यैव सत्त्वेन व्यभिचारः स्यादतः सत्यन्तम् । तथाच प्रकाशमानादिदंज्ञानात्प्रकाशमानभेदवत्त्वस्मैव सत्वेना. प्रकाशमानभेदवत्त्वाभावान व्यभिचारः । प्रकाशमानादिति पदत्यागे रजतस्मरणानन्तरमिदं शुक्तिका- शकलमिति ज्ञानं न जातम् । तदानी तस्मिनजतस्मरणे इदंज्ञानरूपप्रतियोगिज्ञानाभावेन ततोऽप्रकाशमान- भेदवत्रे सत्यपीदंज्ञानाद्भेदस्यैव सत्वेन व्यभिचारः स्यादत उक्तं प्रकाशमानात्तत इति । एवं च न व्यभिचारः । तावत्युक्ते यदा रजतानुभवानन्तरं रजतस्मरणमेव न जातमिदं शुक्तिकाशकलमिति ज्ञानं च जातं तदा तस्मिनप्रकाशमाने रजतस्मरणे प्रकाशमानात्तत इदं शुक्तिकाशकलमिति ज्ञानादप्रकाशमान- भेदवत्त्वमस्ति रजतस्मरणरूपर्मिज्ञानस्यैवाभावेन कुत्र भेदप्रकाशः स्यादतस्तत्र हेतुसत्वेऽपि वस्तुगत्येदं ज्ञानात्स्वरूपसद्भेदस्यैव सत्त्वेन व्यभिचारः स्यादतः प्रकाशमानत्वादित्युक्तम् । एवं च न व्यभिचार इति द्रष्टव्यम् । भेदाग्रहप्रसञ्जिताभेदत्र्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमुपपद्यते । तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धमिति यदुक्तं तद् दूषयति ॥ किश्चेत्यादिना ॥ तथात्व इति ॥ विपर्ययाभाव इत्यर्थः । विपर्ययाभावेनेदंरजतमिति ज्ञानेन बाध्य कुतो नास्तीत्यतः परिशेपमाह ॥ न तावदिति ॥ अग्रहणेति ॥ शुक्त्यज्ञानेत्यर्थः ॥ सर्वप्रत्ययाना- शत का तर | प्रवृत्यभावापत्तेरिति ॥ आदाविदं रजतमिति भ्रमो जातोऽभूत् । तदनन्तरं नेदं रजतमिति बाधक- प्रत्ययेनार्थे शुक्तौ प्रवृत्तियोग्यता विनष्टा । पुनः कालान्तरे तस्यामेव शुक्ताविदं रजतमिति भ्रमानन्तरं प्रवृत्तिर्भवति सा न स्यात् । पूर्व बाधकप्रत्ययेनार्थे शुक्तिशकले प्रवृत्तिविषयत्वयोग्यताया विनष्टत्वादिति भावः ।। अविवेकनिवृत्ताविति ॥ नेदरजतमितिज्ञानेन भेदाग्रहनिवृत्तावित्यर्थः ॥ कारणाभावा- देवेति ॥ भेदाग्रहरूपकारणाभावादेवेत्यर्थः ॥ व्यवहारानुपपत्तेरिति ॥ प्रवृत्त्यनुपपत्तरित्यर्थः ॥ प्रतिबन्धकेति ।। सति पुष्कलकारणे यस्मिन्सति यन्नोत्पद्यते ततत्र प्रतिबन्धकम् । प्रकृते च पुष्कल- कारणस्यैवाभावेन प्रतिबन्धककल्पनायोगादिति भावः ॥ बाधकत्वेति ।। प्रवृत्तिबाधकत्वादिति भावः । तदेवं विपर्ययाभावे बाधस्यैवाभावप्राप्त्या नेदरजतमिति ज्ञानस्य बाधकरवायोगात्तदन्यथाऽनुपपत्त्या विपर्ययसिद्धिरिति भावः । अनुमान चास्ति विपर्ययसद्भावे प्रमाणमित्याह || विमतमिति ।। इदंरजत- मिति ज्ञानमित्यर्थः । न केवलं नेदरजतमिति ज्ञानस्य बाधकत्वान्यथाऽनुपपत्त्या विपर्ययसिद्धिः । किन्तु लोकप्रसिद्ध्याऽपीत्याह ॥ अत एवेति ॥ अगृहीतविवेकस्य ज्ञानद्वयस्यानुपपन्नत्वादेवेत्यर्थः ॥ भ्रान्तित्वेति || विशिष्टविषयकभ्रमरूपैकज्ञानप्रसिद्ध्याऽपीत्यर्थः । एवं च सतीति ।। भ्रमरूपज्ञानसिद्धा- वित्यर्थः ।। प्रत्ययत्वानुमानमिति ॥ विगीतप्रत्ययो यथार्थः । प्रत्ययत्वात्संप्रतिपन्नवदित्यनुमान. मित्यर्थः । किं च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्संमतवदित्युक्तानुमानं दूषयति ।। एतेनेति ॥ कालात्ययापदिष्टत्वेनेत्यर्थः । रजतज्ञानस्य शुक्तिविषयकत्वेन रजतविषयकत्वाभावादिति भावः । विगीतप्रत्ययो यथार्थः प्रत्ययत्वात्संप्रतिपन्नवदित्यनुमानेन प्रत्ययस्य याथार्थ्यसाधने तथा विवादाध्यासित रजतज्ञानं रजतविषयकं रजतज्ञानत्वात्संमतवदित्यनुमानेनेदंरजतमिति ज्ञानस्य रजत- विषयकत्वसाधने प्रतिबन्दी गृह्णाति ।। अन्यथेति ।। विमत इति । इदं रजतमिति ज्ञानजन्य इत्यर्थः । तथा चायथार्थव्यवहारो यस्त्वयाङ्गीकृतः स न स्यादिति भावः । रजतविषयो वेत्यत्रापि विमतो व्यवहार इत्यनुवर्तते । तथाच रजतार्थिप्रवृत्तेः शुक्तिविषयतायाः परसंमतत्वेन तस्याः रजतविषयकत्व- साधने ज्ञानवत्प्रवृतेरपि याथार्थ्यप्राप्त्याऽयथार्थप्रवृश्यङ्गीकारवादभङ्गप्राप्तेरिति भावः ।। च० --- अवर्जनीयसन्निधिरन्यथासिद्धिः । विमतो व्यवहारः प्रकृतसाध्यतदभावकोटिक- विमतिविषयीभूता प्रवृत्तिः। तुरीयानुमाने प्रतियोग्यनुयोगिज्ञानाभावनियन्त्रितभेदज्ञानाभावाधीनहेतु- व्यवहार- बाधकत्वमग्रहणनिवर्तकतया नियन्त्रितं व्यवहारविच्छेदकतानिबन्धनं व्यवहारयोग्यताविनाशकतानिनं व्यवहारप्रतिबन्धकतावत्वं वेति कल्पचतुष्टयीमनुसन्दधानः क्रमेण प्रतिविधत्ते ॥ न तावदित्यादिना ।। अग्रहणनिवर्तकतया । पुरोवर्तिनि शुक्तित्वस्य रजते वा असन्निहितत्वस्याग्रहणनिवर्तकतया ॥ सर्वेत्यादि । घटादिप्रत्ययानामपि घटत्याद्यग्रहणनिवर्तकतया बाधकत्वापातादित्यर्थः । विच्छेदकत्वेन रजतायिनेष्टशुक्तिकागोचरप्रवृत्तित्वंसप्रयोजकत्वेन ॥ अतदर्थिन इति ॥ इच्छाघटित- सामग्र्यभावादेव प्रवृत्तिरूपप्रतियोगिन एवानुत्पादेन तत्र बाधकज्ञानस्य तद्ध्वंसप्रयोजकत्वस्य दुरुपपाद- स्वादिति भावः । अर्थस्य इदमंशस्य । व्यवहारयोग्यताविनाशकत्वेन प्रवृत्तिविषयतावच्छेदकीभूतेदन्त्व- नाशकत्वेन । व्यवहारप्रतिबन्धकत्वेन रजतार्थिनिष्ठेदमंशविषयकप्रवृत्त्यनुत्पादप्रयोजकत्वेन ।। अविवेकेति ॥ सामग्र्यभावादेव कार्यानुत्पादे तत्र कस्यचित्तदनुत्पादप्रयोजकत्वाकल्पनादिति भावः । एवं च सति निरवग्रहानुमानादिभिविपर्यासे सिद्ध ॥ अदुष्टेति ॥ दुष्टकरणजन्यत्वाभावलक्षणोपाधि- दूषितं चेत्यर्थः । तेन नेश्वरज्ञानान्तर्भावेन साध्यव्यापकताभङ्ग इति भावः । न च प्रतारकोच्चरितवाक्य- जनितान्वयबोधे दैववशसंपन्नयाथार्थ्यके साध्यव्यापकताऽभावीदिति वाच्यम् । तादृशान्वयबोधे दोष. हेतुत्वासंप्रतिपत्तेः । सिद्धान्ते प्रामाण्यस्य गुगाजन्यत्वेन ज्ञानसामग्रीमात्रायत्तोत्पत्तिकतयाऽऽप्त्यभावेऽपि तत्र याथार्थ्यजननात् । दोषस्तु विषयसत्तयाऽपोदित इत्यवसेयम् । अन्यथा विपर्यासानुपगमे । विमतो व्यवहारः विशेष्यताव्यधिकरणप्रकारकेच्छाप्रवृत्तिलक्षणः । गुरुमते ज्ञानस्य याथार्थ्य नियतम् । इच्छा. प्रवृत्योस्तु कचिदयाथार्थ्यमुपगते तुल्यदिशा तदप्यनुपेतव्यं स्यादिति भावः ॥ । सु०- यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि तत्र किमिदं ज्ञानत्वं सामान्य या प्रतिनियतं वा । नाद्यः वादिप्रतिवादिनोराशयासिद्धेः । द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता । विमतज्ञानवृत्तिज्ञानत्वपक्षीकारेऽपि मात्रेति व्यर्थ स्यात् । तत्यागेन च प्रति- ज्ञाने प्रथमानुमानदोष एव ।। किश्च यथार्थमात्रवृत्तीत्ययथार्थावृत्तित्त्वमानं विवक्षितम् उतायथार्थज्ञानावृत्तित्वम् । आये सिद्धसाधनम् अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् । द्वितीये परस्याप्रसिद्ध विशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमुपाधिश्च ॥॥ यच्च शुक्तिका रजतत्वेनावभासत इत्यादि। तदप्यसत् । मेरुः सर्षप इत्यादिवाक्यान्मेरोरपि सर्षपत्वेन प्रति- तच्चायुक्तम् । तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात् दृष्टान्तस्य साध्यसमत्वाचेत्यास्तां विस्तरः ॥ १ ॥ वा. धर्मिविकल्पप्रयुक्तदूपणालाभाय ज्ञानत्यस्य पक्षतया निर्देशेऽपि तत्प्रयुक्तदूपणं स्यादेवे- त्याशयेनाह ।। तत्रेति ।। यादीति ॥ वादिना गुणगतजातेः प्रतिवादिना चानुगतसामान्यस्य क्वाप्य- नभ्युपगमादिति भावः । प्रथमानुमानदोषः कालात्ययापदिष्टत्वम् ।। अदुष्टेति ॥ अदुष्टसामग्रीजन्य- यतिनि सत्तावावयथार्थज्ञानावृत्तित्वाभावेन समव्याप्तिभन्न इत्यतः समव्याप्तस्यैवोपाधित्वमिति पक्षे तदर्थ मात्रपनम् । दुष्टसामध्यजन्यभात्रवृत्तित्वमित्यर्थानेश्वरज्ञानत्वे साध्याव्यापकत्वम् । उपाधी मात्रेति विशेषणं च पक्षे साधनाव्यापकत्वसिद्ध्यर्थम् । उपाध्यभावेन साध्याभावसाधनेऽसिद्धिपरिहारार्थ चेति द्रष्टव्यम् । ननु मेरुसर्पपतादात्म्यं नैव प्रतिषिद्ध्यत इत्यतः प्रतिषेधस्यानुभवसिद्धत्वात्तादात्म्याप्रतिषेधे- ऽन्यस्याप्रसमापदार्थप्रतिषेधो वक्तव्यः । स च पदार्थानां स्वरूपेण सत्त्वेन बाधितत्वान्न युक्त इत्याह । नहीति ॥ यद्वाऽस्तु तर्हि प्रसक्तत्वात्पदार्थानामेव प्रतिषेध इत्यतोऽयुक्तः स इत्याह ॥ न हीति ।। ननु मेरुः सर्षप इत्यस्यानन्धितत्वात्प्रतिषेध इत्यत आह ! अपि चेति ॥ तस्यनिरनुप्ण इत्यस्य मेरुः सर्पप इत्यतोऽविशेपत्यानमन्वितयाचकप्रयोगत्वादेव दुष्टत्वोपपत्तौ बाधितापार्थकयोर्भेदो न स्यादित्यर्थः । असतोऽपि प्रतीतेश्यमागत्येनासत्यादिहेतूनामप्रयोजकत्यादे; सुज्ञानत्वादुपरम्यत इत्याशयेनाह आस्तामिति ।। यद्वैतश्चक्षुरेतश्चक्षुर्जन्ययथार्थज्ञानातिरिक्तज्ञानजनकं चक्षुष्टवादिन्द्रियत्वाद्वा चक्षुरन्तरवदि- न्द्रियान्तरपञ्च । विमतानि पदानि स्वस्मारितार्थान्वयप्रतिपादकान्याकाडादिमत्पदकदम्बकत्वात्संमतवादि- त्यायन्यथाख्यातिसाधकानुमानानां विपर्ययानभ्युपगमे प्रतिपक्षाप्रतिपत्तौ तन्निरासाय कथारम्भासंभव इत्यादिमाधकाना चोपपत्ती तन्नुपन्यासेन कथमुपरम्यत इत्यतोऽनुमानानामुपाधिप्रतिपक्षकलङ्कितत्वेन सन्निरासेन बहुयलसापेक्षेण न फलं परेषां तु पालतयाऽयुक्तो वाक्प्रपश्चः । अविरुद्धसाधकबाधकयो- रुक्तरीत्या सुज्ञानत्यादुपरम एवोचित इत्याशयेनाह ॥ आस्तामिति ॥ १ ॥ पादिप्रतिवादिनोरिति ॥ अनेकानुगतसामान्यस्य तत्ववादिनानङ्गीकारात् । प्रामाकरेणापि तार्किकमते जातेरिवानुगतव्यवहारहेतुत्वादिना रूपादेरेकत्वाभ्युपगमेन व्यक्त्यैक्यरूप- भावात् ।। अदुष्टात ।। ननु प्रमात्म सा संवादिनि च वृत्तित्वेनादुष्टसामग्रीजन्यज्ञानमात्रवृत्तित्वाभावात् । न च दुष्टसामग्रीजन्यज्ञानमात्रवृत्तित्या- भावो विवक्षित इति न साध्याव्यापकत्वमिति वाच्यम् । तथा सति मात्रपदवैयपित्तरिति चेन्न । दुष्टसामग्रीजन्यज्ञानावृत्तित्वे सति अदुष्टसामग्रीजन्यज्ञानावृत्तित्वस्यैवोक्तोपाद्ध्यर्थत्वात् । मात्रशब्दस्य दुष्टसामग्रीजन्यज्ञानवृत्तित्वव्यावर्तकत्वेऽपि अजन्यज्ञानवृत्तित्वव्यावर्तकत्वाभावेन न साध्याव्यापकत्व. मित्याशयः । केचित्तु दुष्टसामग्र्यजन्यमात्रवृत्तित्वमित्यर्थः । अतो नेश्वरप्रमात्वे साध्याव्यापकत्वमिति द्रष्टव्यम् । परमतेन चेदमुपायुद्धावनम् । तन्मतेश्वरानङ्गीकारात् । उपाधौ मात्रपदं च समव्याप्त्य- र्थम् । अन्यथा प्रमेयत्वादी व्यभिचारात् । तस्याययार्थव्यवहारवृत्तित्वेन तत्र साध्याभावादिति व्याचक्षते ॥ ननु मेरोः सर्षपत्वस्याप्रसक्तत्वेऽपि मेरुसर्षपयोः प्रसक्तत्वात्तयोनिषेधः किं न स्यादत आहे || न हि पदार्थेति ॥ पटः पचन्तीत्याद्यपार्थकादिति । एकवचनबहुवचनान्तयोः कर्तृक्रियावाचकपदयो- रन्योन्यान्वयवदर्थबोधकत्वाभावादपार्थकत्वमिति भावः । केचित्तु । घटः पचतीति एकवचनान्त- प्रतीकमुपादाय । ननु घटः पचतीति कथमपार्थकोदाहरणमनन्वितवाचकस्यैवापार्थकत्वात् । अत्र च क्रियाकारकभावेनान्वयसंभवात् । प्रत्युतेदमपि बाधोदाहरणमेवेति चेन्न । पचतीत्यत्र प्रकृतिप्रत्ययार्थ- योरपि प्रत्येकं प्रयोगविषयत्वेनाभिप्रेतत्वात् । तथा च घटं पचनं कर्तेत्यपार्थका दित्युक्तं भवति । इदं च कुण्डमजाजिनमित्यादिवदपार्थकमेवेति न कोऽपि दोष इत्याहुः । बाधिते तदनवतारदशायां प्रत्यायकत्वं अपार्थके तु न कदापि प्रत्ययजनकत्वमिति सर्वसंप्रतिपन्नो भेदस्तयोर्न स्यादिति भावः । दृष्टान्तस्य साध्यसमत्वाञ्चेति ॥ पक्षसमत्वादित्यर्थः । तथा च तदप्रतीतावाश्रयासिद्धिः प्रतीती व्याघात इति यथा पक्षे दूषणमुक्तम् तथा दृष्टान्तेऽपि तदूषणं वाच्यमित्यर्थः । १०-- ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तिधर्मत्वात्प्रमात्ववदिति पूर्वपक्षिणोक्तमनुमानान्तरं च निराह ।। यदपीत्यादिना ॥ विमतज्ञानेति ॥ भ्रमस्थलीयज्ञानेत्यर्थः ॥ तत्यागेन च प्रतिज्ञान इति ।। मात्रपदं हित्वा यथार्थज्ञानवृत्तीत्येव प्रतिज्ञाकरणे सति याथार्थसाधकेषु यत्प्राथमिक विगीत: प्रत्ययो यथार्थः प्रत्ययत्वादित्यनुमानं तत्रोक्तो बाधितत्वरूपो दोष एवेत्यर्थः । शुक्तिका न रजतनाव- भासते तद्रूपेणासत्वात् । यद्यद्रूपेणाऽसत् तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेन । इदं रजत. तादात्म्यं न प्रत्येतुं शक्यं असत्त्वात्कूर्मरोमवदिति पूर्वपक्षान्ते परोक्तमन्यदपि निराह ॥ यच्चेति ॥
र्थकवाक्या दो न स्यात् । अन्वयाप्रतीतेरुभयत्र तुल्यत्वादिति भावः || या० --- तत्र वादिप्रतिवादिनोरिति । प्राभाकरैर्गुणेषु गुणत्वावान्तरजातेरनङ्गीकारात् । अस्मा. भिरप्यनुगतसामान्यानङ्गीकारादिति भावः । विमतज्ञानेति ॥ इदं रजतमिति ज्ञानवृत्तिप्रतिनियत- ज्ञानत्वपक्षीकार इत्यर्थः ॥ व्यर्थ स्यादिति ॥ न च धयंशे सिद्धसाध्यतापरिहाराय तदिति वाच्यम् । विमतग्रहणेनैव तस्य पक्षत्वपरिग्रहात् ॥ प्रथमानुमानदोष एवेति ॥ कालात्ययापदिष्टत्वमित्यर्थः ।। अदुष्टसामग्रीति ॥ दुष्टसामग्र्यजन्यमात्रवृत्तित्वमित्यर्थः । अन्यथा प्रमात्वे साध्याव्यापकता । साध्यस्य सस्वेऽपि तस्येश्वरज्ञानेऽपि सत्त्वेनादुष्टसामग्रीजन्यमात्रवृत्तित्वाभावात् । परमतेन वेदमुपाध्यु- द्भावनं तन्मते ईश्वराभावात् । उपाधौ मात्रपदं च समव्याप्त्यर्थं तत्त्यागे प्रमेयत्वादौ व्यभिचारात् । तस्यायथार्थव्यवहारवृत्तित्वेन तत्र साध्याभावात् । घटः पचतीति पाठे पचतीत्यत्र प्रकृतिप्रत्यययोरपि प्रत्येक प्रयोगविषयत्वमभिप्रेतम् । तथा च घटः पचनकर्तेत्यपार्थकादित्युक्त भवति । अनन्वितस्यैवा- पार्थकत्वात् । अन्यथा क्रियाकारकाभावेनान्ययासंभवेनेदमपि बाधोदाहरणमेव स्यात् । पचन्तीति पाठे तु स्फुटमपार्थकत्वम् || साध्यसमत्वादिति ।। पक्षसमत्वादित्यर्थः । तथा च नदप्रतीतावाश्रयासिद्धिः प्रतीतौ च व्याघात इति यथा पक्षे दूप गमुक्तं तथा दृष्टान्तेऽपि दूषणं वक्तव्यमित्यर्थः । यद्वा कूर्म- रोम्णोऽपि भ्रान्तिविपयत्वसंभवानाध्यं तत्र सन्दिग्धमित्याशयः । श्री० इत्यादीत्यादिपदेन ज्ञानमात्रवृत्तित्वात्प्रमात्ववदिति हेतुदृष्टान्तग्रहणम् ॥ असिद्धे- रिति ।। अनुगतसामान्याङ्गीकारादिति भावः ॥ सिद्धसाधनतेति ॥ प्रतिनियतज्ञानत्वपक्षीकारे यथार्थज्ञानवृत्तिज्ञानत्यागृहीतत्वात्तेपां यथार्थज्ञानमात्रवृत्तित्वस्य सिद्धत्यासिद्धसाधनता स्यादित्यर्थः ।। विमतज्ञानवृत्तिज्ञानत्वेति ।। प्रतिनियतज्ञानत्वस्य पक्षत्वेऽपि न सिद्धसाधनता । इदं रजतमिति ज्ञानवृत्तिज्ञानत्वस्यैव पक्षीकरणादिति भावः ॥ प्रथमानुमानदोष एवेति ॥ विगीतप्रत्ययो यथार्थः प्रत्ययत्वासंमतवदित्यनुमाने यो दोषः कालात्ययापदिष्टत्वरूपः स एव दोषोऽत्रापीत्यर्थः ॥ सिद्धत्वा. दिति ॥ पक्षीभूते ज्ञानत्व इति शेषः । अप्रसिद्धति ॥ अयथार्थज्ञानस्यैवानङ्गीकारादिति भावः । अदुष्टसामग्रीति || ननु प्रमात्वे साध्याव्यापकता । तत्रायथार्थज्ञानावृत्तित्वे सत्यप्यदुष्टसामग्रीजन्यमात्र. 77 द्रष्टव्यम् । अथवा परमतेनैवेदमुपायुद्धावनम् । तन्मते ईश्वराभावेन साध्याव्यापकताशङ्काया एवा- भावादिति मन्तव्यम् । उपाधौ मात्रपदाभावे समव्याप्तिपक्षेऽभिधेयत्वे व्यभिचारः स्यात् । तस्यादुष्ट- सामग्रीजन्यवृत्तित्वेऽप्ययथार्थव्यवहारेऽपि सत्वेन यथार्थमात्रवृत्तित्वाभावात् । अतो मात्रपदम् । अभिधेयत्वस्य दुष्टसामग्रीजन्येऽपि सत्त्वेन व्यभिचाराभावादिति द्रष्टव्यम् । एवं प्रमेयत्वेऽप्युपाधेः सत्त्वेऽप्ययथार्थव्यवहारस्वरूपस्य सत्यत्वेन तत्रापि सत्त्वेन साध्याभावाव्यभिचारः स्यादतो मात्रपदम् । तम्य दुष्टसामग्रीजन्यज्ञानस्वरूपस्य सत्यत्वेन तत्रापि विद्यमानत्वान्न व्यभिचार इत्यपि द्रष्टव्यम् । इत्यादीत्यादिपदेन तद्रूपेण सत्त्वात् यद्यद्रूपेणासत् तत्तद्रूपेण नावभासते । यथा मेरुः सर्षपत्वेनेत्यस्य ग्रहणम् ॥ अन्यथेति ॥ मेरुः सर्पप इति वाक्यान्मेरोः सर्षपस्वेन प्रतिभास एव न भवतीत्यङ्गीकारे तादृशवाक्याभासश्रवणानन्तरं मेरुः सर्षपो न भवतीति तादात्म्यरूपसंबन्धप्रतिषेधः क्रियते तन्न स्यात् । प्रतिषेधस्य प्रतियोग्यधिकरणसंसर्गज्ञानरूपप्रसक्तिपूर्वकत्वात्तस्पाश्चात्राभावादिति भावः । ननु मेरुरूपस्य पदार्थस्य सर्पपरूपस्य पदार्थस्य च प्रत्यक्षसिद्धतया प्रसक्तत्वेन तत्प्रतिषेधः संभवतीत्यत आह ।। न हीति ॥ प्रत्यक्षबाधादेवेति भावः । मेरुः सर्पप इति बाधितवाक्यान्मेरोः सर्षपत्वरूपान्वयज्ञानमेव नोत्पद्यत इत्यङ्गीकारे बाधकान्तरमाह ॥ अपि चैवं सतीति ॥ घटः पचतीति । घट; पचनकर्तेत्यर्थः । अपार्थकत्वात् गौरश्वः पुरुषो हस्तीतिवदनन्वितात् । अनन्वितमपार्थकमिति वचनात् । तथाच बाधिता- पार्थकवाक्यद्वयादप्यन्वयज्ञानानुत्पत्तेस्तयोन भेदः स्यादित्यर्थः । इत्यादीत्यादिपदेन न प्रत्येतुं शक्यम् असत्वात्कूर्मरोमवदित्यस्य ग्रहणम् । अत्र प्रष्टव्यम् । इदं रजततादात्म्यरूपपक्षः प्रतीतो न वा। द्वितीये आश्रयासिद्धिः । आधे न प्रत्येतुं शक्यत इति साधने व्याघात इत्याह ॥ तदप्रतीता- वित्यादिना || साध्यसमत्वादिति ॥ साध्यधर्मवत्तया साधयितुं योग्य साध्यं पक्षस्तत्समत्यादित्यर्थः । यथा पक्षे विकल्प्य दूषणमुक्तमेवं दृष्टान्तेऽपि विकल्प्य दूपणं वक्तव्यमिति भावः । तथा हि दृष्टान्ती- कृतं कूर्मरोम प्रतीतं न वा । द्वितीये दृष्टान्तरूपाश्रयस्यैवासिद्धिः । आये प्रत्येतुमशक्यत्वरूपसाध्या- भावेन साध्यवैकल्यमिति द्रष्टव्यम् । विस्तरः शब्दप्रपञ्चः । 'विस्तारो विग्रहो व्यास: स च शब्दस्य विस्तर' इत्यमिधानात् ॥ च - वादिप्रतिवादिनोरिति ॥ गुरुतत्त्ववादिनोरित्यर्थः । गुरुमते गुणेषु गुणत्वव्याप्य. जातिनोपेता । सिद्धान्ते चानुगतसामान्यं नोपेतमिति हृदयम् ॥ विमतज्ञानवृत्तीति ॥ विपर्यास- । जन्यस्य पर्युदस्ततामनुपेत्य सामग्र्या एव तदुपगमे प्रकृतसाध्यविशेषितेश्वरज्ञानत्वे तादृशोपाधिराहित्येन साध्या- व्यापकतापातात् || उपाधौ मात्रेति विशेषणं च पक्ष साधनाव्यापकत्वसिद्ध्यर्थम् । उपाध्यभावेन साध्याभावसाधनेऽसिद्धिपरिहारार्थ वेति द्रष्टव्यम् । ईश्वरद्वेषिणा मीमांसकानां दिशैवोपाधेरुद्भाविततया सामग्र्याः पर्युदरतत्वेऽपि न क्षतिः । उपाधिशरीरे मात्रपदानुपादाने प्रमेयत्वादी तादृशसाध्यविशेषिते उपाध्यभावेन समव्याप्तिमङ्गात् तनिहाय तदुपादानमित्यपि व्याकुर्वते ॥ न हि पदार्थेति ॥ अनली- फयोस्तत्तत्पदाभिधेयमेरुसर्षपयोः प्रत्याख्यानायोगेन वाक्यतात्पर्यगोचरालीकभूततादात्म्यस्यैव प्रत्याख्यान. गोचरतोपेयेति भावः । एवं सति बाधस्थलेऽपि संसर्गबोधानुपगमे । अपार्थकादिति ॥ अनन्वित- वाचकपदप्रयोगरूपात्कुण्डमजाजिनं दश दाडिमानीत्याद्यर्थकवाक्याबाधितार्थस्य भेदो न स्यादन्वया- प्रतीते स्थलन्येऽपि साम्यादिति भावः ॥ साध्यसमत्वादिति ॥ दृष्टान्तस्य पक्षसहशवादित्यर्थः । पक्ष यथा गणनयमभिहितं तथा दृष्टान्तेऽपि तद्यमभिधातव्यमित्यर्थः ॥ इति प्राभाकर- मतनिरासः॥ - सु...... कश्चित्पुनरेयमाह । तासां त्रियुतं त्रिवृतमेकैकामकरोदित्यादिश्रुतेः, समेत्या- न्योन्यसंयोगमित्यादिपुराणात् , ज्यात्मकत्यादिमत्राच सर्वस्य सर्वात्मकत्वं प्रतीयते । किश्च सोमाभावे पूतिकग्रहण श्रीधभावे च नीवारग्रहणमन्यथाऽनुपपद्यमानं पूतिकनीवारयोः सोम- श्रीधययवसजावं गमयति । अपि च यस्तुनो यस्त्वन्तरसादृश्यं प्रत्यक्षत एव प्रतीयते । न च तद्रव्यावयवयोगादन्यत्सादृश्यं नामास्ति । अतः शुक्तिकादिपु रजतादेः सद्भावाद्यथार्थ एवायं रजतप्रत्ययः । निर्देशव्यवस्थाऽर्थक्रियाथ्यवस्था च भूयस्त्वादुपपद्यते । दोपवशादिन्द्रिय भूयासमप्यंशं परित्यज्याल्पीयांसमंशं प्रकाशयतीति रजतार्थिनस्तत्र प्रवृत्तिरपि युज्यते । अपगते तु दोपे भूयस एयाशस्योपलम्भे निवर्तते । बाध्यबाधकभावोऽपि ज्ञानयोरत एवोप- पद्यते ।। पीतशङ्खादी नयनवृत्तिपित्तसंमिन्ना नायनरश्मयः शङ्खादिभिः संयुज्यन्ते । ततः पित्तगतपीतिमाऽमिभूतः शङ्खगतशुक्किमा न गृह्यते । अतः सुवर्णानुलिप्तशङ्खवत्पीतः शङ्ख इति प्रतीयते ॥ एवं स्वमस्फटिकलौहित्यमरीचिकाजलालातचक्रदर्पणमुखदिगन्तरविचन्द्रादिप्रत्ययाः सर्वेऽपि यथार्था योद्धव्या इति ।। तदिदमयुक्तम् ।। 77a परवाक्यान्तरस्य वोपादानम् । तत्त्वान्तरेऽपि मिश्रताप्रतिपादकत्वात्पुराणस्य भूतत्रयमात्रविषयकश्रुत्यपेक्षया अधिकविपयकत्वम् । आदिपदेन परस्परसमाश्रयाः । महदाद्या विशेषान्ता झण्डमिति वाक्यशेषस्य पुराणवाक्यान्तरस्य वोपादानम् । श्रुतिस्मृत्योरक्तार्थपरतानिर्णयाय सूत्रोपादानम् । आदिपदेन तच्छेषस्य वा सूत्रान्तरस्य वा ग्रहणम् । यद्यप्येषां वाक्यानां तत्वमिश्रिताप्रतिपादकतया न रजतादिभ्रमे उपयोग. स्तथापि तत्त्वे तत्त्वान्तरभ्रमे साक्षात्कारणमिश्रतायाः कार्यरजतादिभ्रमेऽपि परम्परयोपयोगोऽस्त्येव । अत एवाह ॥ सर्वस्य सर्वात्मकत्वमिति !! अन्यथा तस्वस्य तत्यान्तरात्मकत्वमित्यवक्ष्यत् । यथा चैतत्तथा तन्मतदूषणावसरे स्पष्टयिप्यते । भूतादित्रिवृत्करणस्य सदृशे सदृशान्तरभ्रमे उपयोगात् भूतत्रिवृत्करण- श्रुत्यादिकमुपन्यस्य सदृशे सदृशान्तरभ्रमोपयोगितया श्रुतार्थापत्तिमुपन्यस्यति ।। किं चेति ॥ श्रुतार्थापत्या ब्रीह्यादिसद्भावे नीवारादौ सिद्ध शुक्त्यादौ रजतादिसद्भावः कल्पित इत्याशयः । साक्षादेव शुक्त्यादी रजतादिसद्भाचे प्रमाणमुपन्यस्यति ॥ अपि चेति ॥ तर्हि सर्वस्य सर्वात्मकत्यात्सर्वत्र सर्वशब्दप्रवृत्या सर्वस्य सर्वार्थक्रियाकारित्वापत्या च निर्देशादिव्यवस्था न स्यादित्यत आह । निर्देशेति ॥ ननु तर्हि तथैव शुक्तौ रजतांशभूयस्त्वाभावेन रजतार्थिनस्तत्र प्रवृत्तिरपि न स्यादित्यत आह ।। दोषेति ॥ तर्हि पश्चान्निवृत्तिन स्यादित्यतः प्रागभिभावकाशानुपलम्भप्रयुक्तप्रवृत्तावप्यभिभावकांशोपलम्भान्निवृत्तिः पश्चा- युक्तवेत्याह ॥ अपगते त्विति ॥ तनूभयोः सद्विषयकत्वान्न बाध्यबाधकभावोपपत्तिरित्यतोऽल्पांशभूयों- शविषयकत्वाभ्यामेव तदुपपत्तिरित्याह । बाध्येति ।। भूतसदृशयोभूतसदृशान्तरसद्भावप्रकारस्य पीत. शङ्खादावनुपपत्या तत्र प्रकारान्तरमाह ।। पीतेति ॥ पित्तद्रव्यरहितं पीतरूपं गृह्यते पित्तद्रव्यं न गृह्यते इति प्राभाकरमतम् । रूपद्रव्ये चक्षुषः सामर्थ्यात्पित्तद्रव्यमपि गृह्यत इत्येतन्मते विशेषः ॥ एवमिति ।। स्वप्ने प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्यतत्तत्कालावसानाश्चर्यभूततथाविधपदार्थाः सृज्यन्त इत्यर्थस्य श्रुतिस्मृतिसूत्रादिमिनिणीतत्वात्तत्तत्पदार्थविषयकज्ञानं प्रमैव । विततजपाकुसुमप्रभा स्वच्छद्रव्यसंयुक्ता स्फुटमुपलभ्यत इति जपाकुसुमप्रभामिभूततया तत्समीपवर्ती स्फटिकमणी रक्त इति प्रतीयत इति साऽपि यथार्थव । मरीचिकाजलज्ञानेऽपि तेज:पृथिव्योरम्बुनोऽपि विद्यमानत्वादिन्द्रिय- दोपेण च तेज:पृथिव्योरग्रहणाददृष्टवशाचाम्बुनो ग्रहणाद्यथार्थत्वम् । अलातचक्रस्थलेऽप्यलातस्य द्रुत- गमनेन सर्वदेशसंयोगात्पूर्वोत्तरकालभाविनोस्तत्तत्प्रदेशाश्लेषालातसंयोगयोः क्रमाग्रहणाच्च तथा प्रतीति. रुत्पद्यते । सम्यक् चक्रप्रतीतावप्यन्तरालाग्रहणपूर्वकं तत्तद्देशसंयुक्ततत्तद्वस्तुग्रहणमेव । इयांस्तु विशेषः ।
दिगन्तरांशस्यैव ग्रहणमिति दिगन्तरे दिगन्तरप्रतीतिरपि यथार्थव । द्विचन्द्रादावङ्गुल्यष्टम्भेन नायन- तेजोगतिभेदेन सामग्रीभेदात्सामग्रीद्वयमन्योन्यनिरपेक्ष चन्द्रप्रहणद्वयहेतुर्भवति। तत्रैका सामग्री स्वदेश- विशिष्टं चन्द्रं गृह्णाति । द्वितीया तु चन्द्रसमीपदेशग्रहणपूर्व स्वदेशरहितं चन्द्रं गृह्णाति । अतः सामग्रीद्वयेन युगपदेशद्वयविशिष्टचन्द्रग्रहणे ग्रहणभेदेन ग्राह्याकारविशिष्टभेदात् । अत्रैकत्वाग्रहणाच द्वौ चन्द्राविति प्रतीतिः । तत्र देशान्तरस्य विशेषणत्वं चन्द्र प्रत्यप्रधानत्वमेव । तथा च चाक्षुपतेजोगति- भेदरूपसामग्रीजन्यमतिशैन्याद्गृहीतभेदं ज्ञानद्वयमगृहीतैकत्वं चन्द्रमगृहीतान्तरालदेशान्तरं च निरन्तरं गृह्णातीति तत्प्रत्ययोऽपि यथार्थ एव । प्राभाकरमते नेत्रवृत्तिर्वित्तिगतद्वित्वमगृहीतभेदं गृह्णातीत्येवात्र तु देशगतद्वित्वं चागृहीतभेदं गृह्णातीति वैषम्यमित्येवं तदीयोपपादनप्रकारो बोद्धव्य इति भावः । स० ननु सर्वस्य सर्वात्मकत्वे असङ्कीर्णशब्दव्यवहारार्थक्रिये न स्यातामित्याशङ्का भूयस्त्वा- दिति सूत्रशेषेण परिहरति ।। निर्देशव्यवस्थार्थक्रियाव्यवस्था चेति ।। ननु द्रव्ययोरन्योन्यावयवयोगोस्तु न तु द्रव्यगुणयोरित्याशङ्कायामाह ॥ पीतशङ्खादाविति ॥ एवं च संयुक्तममवायसंबन्धेन शङ्ख पीतत्व- ज्ञानं प्रमेति भावः । एवं स्वप्नस्फटिकलौहित्येति ॥ अत्र स्फटिकलौहित्यप्रत्ययस्तत्र जपाकुसुमा- वयवयोगेनोपपादनीयः । इतरप्रत्ययास्तु तत्वदधिष्ठाने तत्तदारोप्यद्रव्यावयवयोगेनोपपादनीया इति द्रष्टव्यम् । स्वाप्नपदार्थानामधिष्ठानं शरीरं मनो वा द्रष्टव्यम् । द्विचन्द्रप्रत्यये द्वितीयश्चन्द्रो यत्र प्रतीयते स प्रदेशविशेष एवाधिष्ठानम् । शिष्टं स्पष्टम् । १०.- अख्यात्यवान्तरचोदनं निराह ।। कश्चित्पुनरिति ।। रामानुजादिः । तासां तेजो- बन्नशब्दितदेवतानाम् | त्रिवृतं तेजोऽवन्नरूपवस्तूनामंशत्रयमेलनम् । एकैकपृथिव्यादि द्रव्यमकरोदिति षष्ठछन्दोगश्रुतेरित्यर्थः । 'समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति त' इति पुराणवाक्यात् । 'व्यात्मकत्वात्तु भूयस्त्वादितितृतीयाद्यपादे वक्ष्यमाणसूत्रादित्यर्थः । सर्वा- स्मकत्वं तेजोऽबन्नरूपभूतत्रयात्मकत्वमिति वा । त्रिवृत्त्वस्योपलक्षणत्वेन सर्वभूतात्मकत्वमिति वाऽर्थः । अर्थापत्तिं चाह । किञ्च सोमेति ॥ ज्योतिष्टोमे हि 'सोमेन यजेत' इति सोमलतारूपद्रव्यस्य 'दर्श- पूर्णमासयो/हिमिर्यजेते'ति व्रीहिद्रव्यस्य साधनत्वेन प्राप्तत्वात् सोमादिरेव गृह्यते । कदाचित्सोमादेरभावे या०- इदंरजतमित्यादिनिर्देश: शुक्तिकया कटकादिरजतोचितार्थक्रियाऽभाव इत्यत आह ॥ निर्देशेति ॥ अत एवेति ॥ भूयोऽवयवज्ञानेनाल्पावयवज्ञाननिवर्तनादेवेत्यर्थः ॥ एवं स्वमेत्यादि ॥ एतच्चाने दूपणावसरे स्फुटीकरिष्यामः । रामानुजमतं दूपयितुमनुवदति ॥ कश्चित्पुनरेवमित्यादिना ॥ सर्वत्र सर्वांशानां सत्त्वेन सर्वविज्ञानानां याथार्थ्यमुपपादयितुं सर्वत्र सर्वाशानां सद्भावे तावत् श्रुतिपुराणसूत्राणि दर्शयति ।। तासामित्यादिना ।। आदिपदेन 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुलं तदपां यत्कृष्ण तदन्नस्य'ति वाक्यं ग्राह्यम् । अत्र ह्यग्नौ त्रिरूपता प्रत्यक्षणोपलभ्यमानोक्ता । अत्र पञ्चीकरणमपि प्रतिपादयद्वेदवाक्य. मुपलक्षणया ग्राह्यम् । एवं भूतानां परस्परं मिश्रणं श्रुत्योपपाद्य तत्त्वानामपि तत्पुराणवचनेनोपपादयति ।। समेत्येति ॥ 'नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोग परस्परसंमाश्रयाः । महदाद्या विशेषान्ता दृश्यन्त' इति पुराणवाक्यस्यायमर्थः । तत्त्वानां संहतिधा विवक्षितां । पृथक् स्थित्यहसंयोगमात्ररूपा, तदनर्ह विश्लपविशेषरूपा चेति । पूर्वमेतद्वयाभावात्तस्वानि स्रष्टुं नाशक्नुवन्नित्याह ॥ नानावीयर्या इति ॥ एतदुभयं प्राप्यासृजन्नित्याह ।। समेत्येति ।। नन्वेवमेकस्मिंस्तत्त्वे सर्वाणि तत्त्वानि सन्ति चेत्सर्वे शब्दाः सर्वत्र प्रसज्येरन्नित्यत आह ॥ परस्परेति ।। परस्परमाश्रयाश्रयिभावश्च न्यूनाधिकभावनिबन्धनः । तत्कृता च व्यवस्थेति भाव इति । एवं सामान्यतः सर्वत्र सर्वाशसद्भावमुपपाद्य सदृशे सदृशान्तरसद्भावमर्थापत्योपपादयति । किञ्च सोमाभाव इति ॥ प्रत्यक्षणापीममर्थमुपपादयति ॥ अपि च वस्तुन इति ॥ अत एवेति ॥ अल्पभूयोऽशावगाहित्वादेवेत्यर्थः । दोषवशादल्पांशग्राहि विसंवादिप्रवृत्तिजनकपूर्वज्ञानं बाध्यं दोपाप- गमानन्तरं भूयोंशावगाहयुत्तरज्ञानं बाधकमिति भावः । शङ्ख पीतरूपस्यांशकल्पनाऽसंभवात् प्रकारान्तरेण तज्ज्ञाने याथार्थ्यमुपपादयति ।। पीतः शङ्खादाविति ॥ सुवर्णानुलिप्तेति ॥ तथाच परस्परासंबन्धेन शङ्ख पीतरूपावगाहित्वातज्ज्ञानं यथार्थमिति भावः । एवं स्वभेन्यत्रैवं यथार्था बोद्धव्या इति याथार्थ- मात्रातिदेश एव विवक्षितो न पूर्वोक्तस्तदुपपादकप्रकारातिदेशः । स्वामार्थादिषु सदृशे सदृशान्तरावयव- सद्भावरूपस्य नयनगतद्रव्यसंबन्धरूपस्य वोक्तप्रकारस्यासंभवेन प्रकारान्तरेणैव तज्ज्ञानानां याथार्थ्यस्य परेण स्वग्रन्थे दर्शितत्वात् । नत्प्रकारश्च लेशतः कथ्यते । स्वानार्थज्ञानं तावद्यथार्थमेव । प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्यास्तत्तद्देशकालानुभवास्तत्तत्कालावसानास्तथाभूता यतः करव तु । तत्र क्रमा- १ऽवगम्यत । सूत्रकाराऽपि सन्ध्य सृष्टिराह हि' निमोतारे चैके पुत्रादयश्च ति सूत्रद्वयेन स्वमार्थेषु जीवस्य स्रष्ट्रत्यमाशङ्कय 'मायामनं तु कास्न्येनानभिव्यक्तस्वरूपत्वादिति परमात्मैव तत्र स्रष्टेति परिहरति । स्फटिकलौहित्यमरीचिकाजलालातचक्रदिङ्मोहेपु द्रव्यान्तरसंबन्धाद्यथार्था प्रतीति- रिति निर्वाहः । स्फटिकलौहित्यं हि स्फटिकस्य जपाकुसुमसंबन्धत्वात्प्रतीयते । जपाकुसुमसंबद्धस्यापि पाषाणादेरस्वच्छत्वान्न तत्र लौहित्यं प्रतीयते । मरीचिकाजलज्ञानेऽपि तेज:पृथिव्योरम्बुनो विद्यमानत्वा. दिन्द्रियदोषेण तेज:पृथिव्योरग्रहणाददृष्टवशाच्चाम्बुनो ग्रहणाद्ययथार्थत्वम् । अलातचक्रेऽप्यलातस्य द्रुततरगमनेन सर्वदेशसंयोगात्पूर्वोत्तरभावितत्तत्प्रदेशविशेषालातसंयोगक्रमाग्रहणात्तथा प्रतीतिरुपपद्यते । सत्यचक्रप्रतीतावपि क्रमाग्रहणपूर्वकं तत्तद्देशसंयुक्ततत्तद्वस्तुग्रहणमेव । इयांस्तु विशेषः । भावादेव क्रमाग्रहणम् । अत्र शैन्यात्तदग्रहणमित्यतस्तदपि यथार्थम् । दर्पणादिषु निजमुखादिप्रतीति- रपि यथार्या । दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिदेशग्रहणपूर्वकं निजमुखादिकं गृह्णन्ति । तत्राप्यतिशैयादन्तरालाग्रहणात्तथाप्रतीतिः । अत एव तत्र सव्यदक्षिणविपर्यासप्रतीतिः मलिनत्वा- ल्पल्याभिमुख्यप्रतीतिश्च यथार्था । स्वाभिमुखतया विपर्यस्तसव्यदक्षिणभावस्य दर्पणस्य मुखस्य चान्त. रालग्रहणमेव तत्र न तु दर्पणादिगतसव्यदक्षिणविपर्यासादिकं मुखगततया गृह्यते । येनान्यथाख्यातिः स्यादिति । दिमोहेऽपि सर्वत्र सर्वदिग्भावात्प्राच्यादिव्यवहारस्य प्रतियोग्यपेक्षत्वात् । अदृष्टवशेन तत्तद्दिगन्तरप्रतियोगिनो दिगन्तरस्य च निरन्तरभानम् । अतो यथार्थविषयत्वम् । द्विचन्द्रादिज्ञानादा- वप्यङ्गुल्यवष्टम्भादिभिर्नायनतेजोऽभिभवेन सामग्रीभेदात्सामग्रीद्वयमन्योन्यनिरपेक्ष चन्द्रग्रहणद्वयहेतुर्भवति। तत्रैका सामग्री स्वदेशविशिष्टं चन्द्र गृह्णाति । द्वितीया तु किञ्चिद्वक्रगतित्वेन चन्द्रसमीपदेशग्रहणपूर्वक चन्द्रं स्वदेशवियुक्तं गृह्णाति । अतः सामग्रीद्वयेन युगपद्देशद्वयविशिष्टचन्द्रग्रहणे भवतः । ग्रहणभेदेन ग्राह्याकारभेदादेकत्र ग्रहणाभावाच्च द्वौ चन्द्राविति भवतीति विशेषः । देशान्तरस्य तद्विशेषणत्वं तु देशान्तरस्यागृहीतस्वदेशचन्द्रस्य च निरन्तरं ग्रहणेन भवति । अगृहीतस्वदेशचन्द्रस्य प्रतीयमाने समीप- देशान्तरेऽसंसगों न गृहीतोऽतस्तद्विशेषणमिव न तु विशेषणतया भवति । येनान्यथाख्यातिः स्यात् । तत्र सामग्रीद्वित्वं पारमार्थिकं तेन देशद्वयविशिष्टचन्द्रग्रहणद्वयं परस्परमगृहीतभेदं पारमार्थिकम् । ग्रहणद्वित्वेन चन्द्रस्यैकस्यैव ग्राह्याकारद्वित्वं च पारमार्थिकमिति न किश्चिदत्रायथार्थमिति । श्री०- गमयतीति । तथा च शुक्तावपि रजतावयवाः सन्तीति गम्यत इति भावः । ननु तीदमित्यङ्गुल्या शुक्तिः करमानिर्दिश्यते । रजतावयवसद्धावे तदेव रजतं निर्दिश्यतेति निर्देश- - मित्यर्थः । भूयस एवांशस्य संभिन्नाः संबद्धाः । च०--- ज्ञानत्वावच्छेदेन याथार्योपगन्तृत्वांशे रामानुजस्य गुरुकल्पत्वेऽपि प्रत्याख्यातव्य- विषयविशेषवैशेप्यसद्भावनियन्त्रितया पृथक् तत्प्रतिविधित्सया तन्मतमनुवदति कश्चिदित्यादिकबोधव्या इत्यन्तेन । तासां तेजोऽवन्नपदाभिधेयानां देवतानाम् । त्रिवृतं तादृशदेवतात्रयाभिमन्यमानतेजोबन्ना- ख्यांशत्रयं मिलितमेकैकपृथिव्यादिद्रव्यात्मनाऽकरोदिति छन्दोगश्रुत्यर्थोऽवसेयः । यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति तदुदाहृतं वाक्यान्तरं पञ्चीकरणप्रतिपादकवाक्यं वादिपदे- नोपदेयम् । 'समेत्यान्योन्यसंयोग परस्परसमाश्रयाः । महदाद्या विशेषान्ता अण्डमुत्पादयन्ति ते' इति पुराण- वाक्यात् । सूत्रान् तृतीयाद्यपादीयात् । सर्वात्मकत्वं तेजोबन्नरूपभूतत्रयात्मकत्वम् । अर्थापत्तिमप्युक्तार्थे प्रमापयति || किश्चेति । प्रत्यक्षमपि तत्र प्रमाणीकुरुते ।। अपि चेति ॥ अत एवेति ॥ दोपाधीना. ल्पशिविषयीकारित्वविशेषितव्यधिकरणप्रकारकप्रवृत्तिजनकतानियन्त्रितं प्राक्तनज्ञानस्य बाध्यत्वमुत्तरस्य तु दोषविधूननोत्तरकालीनानल्पांशावगाहितानिघबाधकत्वमित्युपगमादेवेत्यर्थः । दर्शितभङ्गयाः पीतः शङ्ख इत्यत्रानुपपत्या तत्र भङ्गयन्तरमाश्रयते ॥ पीतेति ॥ पीतः शङ्ख इत्यादिस्थल इत्यर्थः । तथाच तादृश- प्रत्ययस्य स्वाश्रयसंयुक्तत्वसंसर्गावच्छिन्नपीतरूपवृत्तिप्रकारतानिरूपितशङ्खवृत्तिविशेष्यताकत्वात्तज्ज्ञानस्य न विपर्यासतेति भावः । स्थलान्तरेष्वपि उक्तविधाया असंभवे विधान्तरं श्रयितव्यमित्याह || एवमिति ।। तत्तत्पुरुषीयादृष्टानुरूपतत्तन्मात्रानुभाव्यतत्तत्कालावसानाश्चर्यभूतभगवदेकसृष्टपदार्थानां स्वप्मस्थले विपयत्वो- पगमादाये, जपाकुसुमप्रभैव स्वच्छद्रव्यसंयुक्ता स्फुटमुपलभ्यत इति जपाकुसुमप्रभाभिभूततया तत्समीपवर्ति स्फटिकमणी रक्त इति प्रतीयत इति वोपगमात् द्वितीये, तेज:पृथिव्योरम्बुनो विद्यमानत्वादिन्द्रिय- दोषेण च तेज:पृथिव्योरग्रहणेन दोषादप्बुनो ग्रहणास्तृतीये, अलातस्य द्रुतगमनेन सर्वदेशसंयोगात्पूर्वोत्तर- कालभाविनोस्तत्तत्प्रदेशाश्लपालातसंयोगयोः क्रमाग्रहणात्तुरीये, दर्पणादिप्रतिहता नायनरश्मयो दर्पणादि- देशमुखान्तरालाग्रहणपूर्वकं निजमुखादि गृह्णन्तीति पञ्चमे, दिगन्तरांशस्य दिगन्तरेऽपि सत्त्वाददृष्ट- वशादिगन्तराग्रहेण दिगन्तरांशस्यैव ग्रहणात् षष्ठे, चाक्षुपतेजोगतिभेदरूपसामग्रीजन्यगतिशैयादगृहीत- मेदं ज्ञानद्वयमगृहीतैकत्वं चन्द्रमगृहीतान्तरालदेशान्तरं च निरन्तरं गृह्णातीति सप्तमेऽपि याथार्योप- पादनरीतिरवसेया । . - .
• रजतवत्सर्वस्यापि प्रतीतिः प्रसज्येत । अदृष्टादिवशावमिति चेन कार्यनिश्चयोत्तरकालीनत्वा- दस्याः कल्पनायाः। श्रुतार्थापत्तिस्त्वस्यन्तायुक्ता । तथा हि । पूतिकादौ सोमाद्यवयवा भूयांसः कल्प्यन्ते, उत समाः, अथाल्पीयांसः । आधे सोम एवासी; तत्कथमनुकल्पः स्यात् । न हि सोमोऽपि केवलः सोमः, किन्तु सोमांशभूयस्त्ववान् । न द्वितीयः उभयदर्शनप्रसङ्गात् । तृतीयं तु कथं सोमकार्य कुर्यात् । अन्यथा शुक्तिकाऽपि कुतो रजतार्थक्रियां न कुर्यात् । श्रुतिप्रामाण्यात्तदर्थक्रियाकारिताऽवगम्यत इति चेत् । किं तर्हि सोमावयवकल्पनया । श्रुति- प्रामाण्यादत्यन्तविविक्तानामेव वस्तूनामर्थक्रियासाम्यमुपगम्यताम् ॥ सादृश्यं च सामान्य वा धर्मान्तरं या नान्योन्यावयवसंयोग इति वक्ष्यामः । किश्च घृततैलयोरन्योन्यसदृशयोरन्योन्या- क्यवसंयोगादन्योन्यार्थक्रियया भाव्यम् | न भाव्यं च विसदृशयोर्द्रव्ययोः । किञ्च मात- मातङ्गमदिराद्यतिसादृश्यं भार्यादिष्वप्यस्तीति तदुपभोगे प्रत्यवायः स्यात् । अल्पावयवसंयोगा- नैवमिति चेत् कथं तर्हि नीवारा ब्रीहिकार्य कुर्युः । श्रुतिप्रामाण्यादिति वदतो दत्तमुत्तरम् । अपरावयवसंयोग एव सादृश्यं चेत् कथं ककारखकारयोः सादृश्यमिति चिन्त्यम् । - वा०- तथा हीति परोक्तसर्वयुक्तीनामयुक्तत्व विशदनं प्रतिज्ञाय प्रथमयुक्तस्तावदयुक्ततामुप- पादयति ॥ यानीति ॥ आदिपदेन पुराणोक्तमहदादितत्त्वसंरहः । तथा चास्माकं तत्त्वे तत्त्वान्तरभ्रमस्य अभावात् तस्वसाक्षात्कारवतां योगिनां च भ्रमस्यैवानुपपत्त्याऽस्मदादिभ्रमविषयशुक्तिरजतादौ चैतत् श्रुत्यादेरप्रयोजकत्वात्तदुदाहरणमसङ्गतमिति भावः । ननु श्रुत्यादेः साक्षाच्छुक्त्यादौ रजतादिसद्भावाप्रति- पादकत्वेऽपि तेन स सिद्ध्यत्येव । श्रुत्यादिना तेजादीनां त्रिवृत्करणे प्रतिपादिते कार्ये कारणसद्भावनियमा- त्पार्थिवशुक्त्यादेरपि त्रिवृत्कृतपृथिवीकार्यतया शुक्त्यादौ तेजोऽशस्य सत्वात्तैजसरजतसद्भावोऽपि तत एव सिध्यतीत्यत आह ॥ न हीति ॥ ननु पाञ्चभौतिकेष्वपि पार्थिवेसु किश्चित्कार्य केनचिद्भूतेन परिणाम- विशेषवताऽऽरब्धम् । तत्र यादृशपरिणामविशेषवद्यद्भुतप्रचुरं किञ्चित्कार्य तादृशपरिणामविशेषवत्तद्भूत कार्यान्तरेऽपि । यद्यपि त्रिवृत्करणदशायामबान्तरपरिणामविशेषो नास्ति तथाऽपि त्रिवृत्करणेन कार्यानु- प्रविष्टस्य भूतस्य कार्यान्तरानुप्रविष्ठसमानपरिणामसंभवात् । तथा च येन तेजोभूतेन प्रचुरेण परिणाम- विशेषवता रजतमारब्धं तत्परिणामविशेषवत्तेजोभूतं शुक्त्यादी विद्यत इति शुक्त्यादौ रजतादिसद्धाव- . 78 । पन्नसोमलतावयवसदृशाकारत्वमेव सोमलताद्यवयवत्वम् । एवं च शुक्त्यादौ रजतावयवसिद्धिः । अयं च पक्षः शुक्त्यादी रजतादिसद्भावप्रतिपादनप्रसङ्गात्कथितः प्रथमपक्ष एव च प्रथमयुक्तिदूषणावसरे सङ्गतः । तथा च कथं न शुक्त्यादौ रजतसद्भावसिद्धिरिति चेत्तहिं त्रिवृत्कृतत्वादेव शुक्तौ नानापरिणामविशेषव- वंशस्य नानापरिणामविशेषवत्सुवर्णादितेजोंऽशस्य नानापरिणामविशेषवत्पाषाणादिपृथिव्यंशस्य तत्तत्सह- शावयवानां च सत्त्वाच्छुक्तौ रजतस्येवान्यस्य प्रतीतिप्रसङ्ग इत्याह || तथात्वे वेति ॥ सिद्धे शुक्त्यादी सर्वकार्यमद्भावे रजतादिप्रतीतिविशेषनियामकतयाऽदृष्टकल्पना तस्यां च सत्यामतिप्रसङ्गाभावात्तसिद्धिरिति परस्पराश्रयतेत्याशयेनाह ॥ कार्येति । एवमाद्यसाधकं निरस्य किश्चेत्युक्तसाधकस्वरूपं दर्शयन्नेव तदनुपपत्ति प्रतिजांनीते ॥ श्रुतेति ॥ अदृष्टादिवशाच्छुक्तरेव प्रतीतिरित्यादिसमाधानाभासोत्प्रेक्षायाः पूर्वत्र संभावनावदत्र तथाभूतोत्प्रेक्षाया अप्यसंभव इत्याशयेनात्यन्तपदाद्वक्ष्यमाणरीत्या प्रसक्तप्रयारेष्वेक. स्याप्यनुपपत्त्या श्रुत्यनुसारेण चावयवकल्पनारूपमूलस्यैव हानापत्त्या वैतत्साधकस्यात्यन्तायुक्तत्वम् । ननु पूतीकावयवानामपि सत्त्वाद्युक्तं सोमानुकल्पत्वमित्यत आह । न हीति ॥ अनेनार्थापत्तावाक्षेपका- सिद्धिरुक्ता भवति । उभयेत्यनेनानिष्टप्रसङ्ग उक्तो भवति ॥ तृतीये विति ॥ तदर्थक्रियाप्रयोजक- तदंशभूयस्त्वस्याभावादुपपादकमप्रयोजकमिति भावः । नन्वंशभूयस्त्वतदभावौ नार्थक्रियातदभाव. प्रयोजकावपि त्वनुकल्पबोधक श्रुतिरेवेति नीवारादौ सत्सद्भावाच्छुक्तिकादौ च तदभाषान्नानुपपत्तिरिति शकते ॥ श्रुतींति ॥ किं तहीति ॥ अनेनाक्षेपकान्यथासिद्धिरक्ता भवति । अपि चेत्युक्तसाधक- निरासाय परोक्तसादृश्यस्वरूपं खण्डयति || सादृश्यं चेति ॥ सामान्यादिरूपत्वोक्तिमात्रेणान्योन्यावयव- संयोगरूपतानिषेधलाभ इत्याशयेन वक्ष्याम इत्युक्तम् । सामान्यपरीक्षादाविति शेषः । अश्वादिवृत्ति. रासभसादृश्यस्याश्चत्वात्परत्वे सर्वाधानां रासभसादृश्यापत्याऽपरत्वे च रासभेऽप्यश्वत्वापत्या जातिसङ्कर- प्रसङ्गात्कथं सादृश्यस्य सामान्यत्वम् । अश्वरासभादिद्रव्यगुणावयवकर्मवृत्तिसामान्यानामेव सादृश्यत्वेऽश्यो रासभसदृश इत्यादिव्यवहाराणाममुख्यत्वापत्तिरिति बाधकं मनसि निधाय धर्मान्तरं वेत्युक्तम् । गौर्गव- यवसदृशीत्याद्यनुभवेन सादृश्यरूपधर्मान्तरस्य सिद्धत्वादित्याशयः । अस्तु वाऽन्योन्यावयवसंयोगरूप- सादृश्यं तथाऽपि तत्कल्पनार्थक्रियोपयुक्ततया वाऽर्थक्रियोपयुक्तत्वमंशभूयस्त्वस्यैव सादृश्यं तु तदवयव- सद्भावमात्रकल्पकमित्याशयेन वा । नाद्य इत्याह ॥ किञ्चति ॥ तैलघृतादावन्योन्यार्थक्रियाकारित्व. मस्त्येवेति विप्रतिपद्यमानं प्रत्यलौकिकतया तादृग्विप्रतिपत्तिशङ्काशून्यमतिप्रसङ्गमाह ॥ किश्चेति ।।
नापि तदवयंवभूयस्त्व यन बाहत्यापत्तिः किन्तु तदवयवभूयस्त्वशून्यानामपि तेषां केवलं श्रुतिबलादेव तत्कार्यकारित्वमतो नानुपपत्तिरिति चेत्तयत्यन्तविविक्तानामेव तेषां श्रुतिबला- तदर्थक्रियाकारितोपपत्तौ नान्योन्यावयवसंयोगरूपसादृश्यतदवयवभूयस्त्वादिकल्पना युक्तेत्याशयेनाह ॥ श्रुतीति । चिन्त्यमिति ॥ आलङ्कारिकादिशास्त्रसिद्धस्य तस्यापलापानहत्वादिति भावः । प०- स०-न च तेजोपन्नानां रजतादिकारणत्वात्कारणेषु परस्परावयवसाकर्येऽपि परस्परस्य सद्भावः स्यादित्यत आह ॥ न हि कारणसद्भाव इति ॥ सादृश्यं च सामान्यं धर्मान्तरं वेति । अत्र धर्मान्तरमित्येव सिद्धान्तः । सन्मान्यमित्यभ्युच्चयः । अत एव 'गुणक्रियाजातिपूर्वा धर्माः सर्वेऽपि वस्तुनः' इति वाक्यव्याख्यावसरे टीकाकाराः पूर्वपदेन शक्तिसादृश्यविशिष्टानां ग्रहणमिति व्याचख्युः । यदि च सादृश्यं सामान्यं स्यात्तर्हि जातिपदेन सामान्यस्य गृहीतत्वात्पूर्वपदेन सादृश्यं न ग्राह्य स्यादिति द्रष्टव्यम् ॥ न भाव्यं च सदृशयोरिति । भारनयनरूपबलीवार्थक्रिया पुरुषविशेषेणापि भवति । सा च न स्यादित्यर्थः । ककारखकारयोरिति । वर्णानां निरवयवत्वादिति भावः । ननु तेजोऽधन्नरूपकारणानां मेलनेन सर्वकार्येषु तेजोऽबन्नकारणसत्वे तत्क्रार्याणामपि सर्वत्र सन्त्रमनुमीयत इत्यत आह ॥ कारणसभाव इति । कार्येति ।।. सर्वत्र सर्वावयवसत्त्वरूप. कार्यनिश्चयेत्यर्थः । अनुकल्प इति ।। 'कस्यचिन्मुख्यस्याभावेऽमुख्यस्यान्यस्योपादानमनुकल्प' इति मीमांसकैः परिभाप्यते । ननु सोमलाभे समनसोमावयवलाभोऽस्ति । भूयः सोमाघयववतोऽन्यस्योपादाने तु सकलसोमावयवालाभेनामुख्यत्वादनुकल्प एवायमित्यत आह ॥ न हीति ॥ सोमेऽपि त्वदुक्तत्रिवृ. करणप्रक्रियया द्रव्यान्तरावयवसत्त्वादिति भावः ॥ श्रुतीति ।। 'सोमाभावे पूतिकानमिषुणुयादिति श्रुतिप्रामाण्यादित्यर्थः । यद्यप्यपि चेदित्यादिना प्रत्यक्षमुक्तं तदपि निराह ॥ सादृश्यं चेति ॥ न्यायमतेनाह ।। सामान्यं वेति ।। स्वमतेनाह ॥ धर्मान्तरं वेति ॥ वक्ष्याम इति ॥ वैशेषिकाधि- करणे । 'न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः । एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक्' इत्याद्यनुव्याख्यानव्याख्यावसर इति भावः ॥ भार्यादिष्विति ।। भार्यायां मातृसादृश्यम् । पिगृगुरु- प्रभृतिषु मातङ्गशब्दितचण्डालसादृश्यम् । धृतक्षीरादौ मदिराशब्दितमद्यसादृश्यमस्तीत्यर्थः ॥ ककार- खकारयोरिति ॥ निरवयवत्वात्तयोरिति भावः । न च तत्र सादृश्यमेव नेति वाच्यम् । 'वयों वर्गेण सवर्ण' इति शीक्षाग्रन्थविरोधादिति भावः ॥ 78a करणाभिधायिश्रुत्यादिप्राप्त एव । यथोक्तम् । 'शुक्त्यादौ रजतादेश्च भावः श्रुत्यैव बोधित' इति । अतः कथमेतदित्यत आह ॥ न हीति ॥ नियत इति ॥ कारणान्तराभावेन कार्याभावसंभवादिति भावः ।। अदृष्टादीति || अत्रादिपदेन साधारणाकारग्रहणभेदाग्रहणदोषा गृह्यन्ते ।। कार्यनिश्चयेति ॥ अदृष्टदोपादेः कार्यकोन्नेयत्वाकार्यस्वरूपस्य चेदानीमप्यनिर्धारितत्वान्नादृष्टादिकल्पकमत्रास्तीत्युक्तातिप्रसङ्ग- स्तदवस्थ एवेति भावः ॥ धर्मान्तरं चेति ॥ अन्याघटित जातिवदखण्डरूपमिति समयपादे वक्ष्याम इति भावः ॥ न भाव्यं चेति । भारनयनरूपचलीवार्थक्रियारूपविशेषेणापि भवति । सा न स्यात् इत्यर्थः । ककारेति ॥ वर्णानां निरवयवत्वादित्यर्थः । श्री०- ननु तेजोऽबन्नानां कारणानां मिश्रत्वात्तत्कार्ये शुक्त्यादावपि रजतावयवमिश्रता प्राप्त. वेत्यत आह । न हीति ॥ कारणसद्भावे कारणे मिश्रनासद्भावे । कार्यसद्भावः कार्य मिश्रतासद्भावः । निमित्तान्तराभावेन कार्येऽभावसंभवादित्याशयः । श्रुतार्धापत्तिः सोमाभावे पूतिकं गृहीयादिति श्रुतार्था- पत्तिरित्यर्थः । आनुकूल्यः प्रतिनिधिः । सोमांशानां भूयस्त्वे कुतः सोमत्वमित्यतस्तदुपपादयति ॥ न हीति ॥ केवलः सोमांशभूयस्त्वरहितः ॥ कि स्विति ॥ तथा च तत्सोमांशभूयस्त्वं पूतिकेऽपि चेदगीकृतं तर्हि पूतिकस्यापि सोमत्वमेव प्राप्तं न तु तत्प्रतिनिधित्वमिति भावः ॥ उभयेति ॥ शुक्त्य- वयवानां रजतावयवानां च दर्शनप्रसङ्ग इत्यर्थः ॥ अन्यथेति ।। सोमांशानामल्पीयस्त्वेऽपि पूतिकस्य यदि सोमकार्यकारित्वमुच्यते तर्हि शुक्तिकाया रजतांशानामल्पीयस्त्वेऽपि रजतकार्यकारित्वं स्यादित्यर्थः ॥ श्रुतीति ॥ सोमाभावे पूतिकं गृह्णीयादिति श्रुतीत्यर्थः ।। तदर्थक्रियेति ॥ सोमोचितार्थक्रियाकारित्वं पूतिकस्यावगम्यत इत्यर्थः । शुक्तिकायास्तु न रजतोचितार्थक्रियाकारित्वम् । तत्र श्रुत्यभावादिति भावः । अत्यन्तविविक्तानां परस्परावयवसंबन्धशून्यानाम् । वस्तूनां सोमपूतिकादीनाम् । यदपि चेत्यादिना प्रत्यक्षमुक्तं तन्निरासायाह । सादृश्यं चेति ॥ अन्योन्यावयवसंयोगात् त्वन्मतेऽन्योन्यावयवसंयोगसद्भावा. दित्यर्थः । मातृसादृश्यं भार्यायां मातङ्गश्चण्डालस्तत्सादृश्यं पितरि मदिरासादृश्यं क्षीर इति द्रष्टव्यम् ।। अल्पेति ॥ भार्यादौ मात्राद्यवयवा अल्पा एव सन्तीति न तदुपभोगे प्रत्यवाय इत्यर्थः ॥ नीवारा इति ॥ तेष्वपि सोमावयवानामल्पीयसामेव सत्यादित्यर्थः । बहूनां समानां वा सद्भावे दोषस्योक्तत्वादिति मावः । पूतिके सोमावयवानामल्पाना सद्भावेऽपि तत्कार्यकारित्वं श्रुतिप्रामाण्यात्संभवतीति चेत्तत्राह ॥
च०.-- वक्ष्याम इति ।। जातिवदखण्डरूपमिति समयचरणेऽभिधास्याम इत्यर्थः ॥ दत्तमुत्तरमिति ॥ अत्यन्तविविक्तानामेव वस्तूनामर्थक्रियासाम्यभभ्युपगम्यतामित्यभिहितमित्यर्थः ॥ चिन्त्यमिति ॥ वर्णानां निरवयवत्वादिति भावः । सु०- रजतार्थिनः शुक्तिकायां प्रवर्तकं च किं भूयसां शुक्त्यवयवानामदर्शन- मुताल्पीयसां रजतावयवानां दर्शनमुतोभयम् । नाद्यः सुप्तस्यापि प्रवृत्तिप्रसङ्गात् । द्वितीयेऽपि किं तेषामल्पीयस्त्वज्ञानम् उत भूयस्त्वज्ञानम् अथवा ज्ञानमात्रम् । आये तस्या रजतत्वमेव विदितमिति कथं ततः प्रवृत्तिः । द्वितीयेऽन्यथाख्यातिप्रसङ्गः । तृतीये सदृशमात्रे प्रवृत्ति. प्रसक्तिः । न तृतीयः किमपि तत्रास्तीत्यादिज्ञानादपि प्रवृत्तिप्रसङ्गात् । कथं चास्य ज्ञानस्य भ्रान्तित्वम् । अल्पांशग्रहणादिति चेत् नूनं ब्रह्मज्ञानमपि महाभ्रान्तिरापना । अत एव न बाधस्य बाधकत्वमपि ॥ पित्तगतपीतिमानुलिप्तश्वेच्छङ्कः कथं तर्हि न तथा पार्श्वस्थन दृश्यते । सूक्ष्मत्वादिति चेत् किमिदं सूक्ष्मत्वम् । अतीन्द्रियत्वं चेत् न तर्हि भ्रान्तेनापि दृश्येत । अन्यच्चेत्किमनेन । पित्तोपहतेन तु सामीप्यादृश्यत इति चेत् । किमिदं सामीप्यं नाम । इन्द्रियसन्निकर्षश्चेत् स तर्हि उभयोः समानः । शरीरसामीप्यं चेत्तदनुपयुक्तम् । अन्यथा परशरीरसमीपस्थानां दण्डकुण्डलादीनामदर्शनप्रसङ्गात् । पीतः शङ्खः प्रतीयत इति कोऽर्थः । किं पीतरूपबत्तयेत्युत पीतरूपद्रव्यसंयुक्ततयेति । नाद्यः अन्यथाख्यातिप्रसङ्गात् । द्वितीये अनुभवविरोधः ।। एवमुदाहरणान्तराणि विप्रतिपन्नानि निरसनीयानीत्यलमपहसनीय- प्रक्रियानिराक्रियाविस्तरेण ।। २ ।। वा---एवं युक्तित्रयमर्थक्रियाप्रयोजकतयोक्तं भूयस्त्वं च निरस्य दोपवशादित्युक्तप्रवृत्तिप्रयोजकं निरस्यति ।। रजतार्थिन इति ॥ परित्यागस्यादर्शनातिरिक्तस्यैवाभावात्परित्यज्येत्यनेनोक्ते शुक्त्यवयवा- दर्शने तात्पर्य वाऽल्पीयांसमित्यादिनोक्तेऽल्परजतावयवदर्शने - बोभयत्रापि वेत्याशयेन विकल्पः बाध्यबाधकभावोऽपीत्यादिनोक्ते भ्रान्तिबाधयोर्भ्रान्तिबाधत्वे निरस्यति ॥ कथं चेति ॥ ब्रह्मेति ॥ .
क्षण्यप्रयोजक शङ्कते ॥ पित्तेति ॥ किमिदमिति || आधे सामीप्यतदभावरूपस्य वैलक्षण्यप्रयोजक- स्यासिद्धत्वात् द्वितीये तस्य स्वरूपतः सत्त्वेऽपि तद्वैलक्षण्याप्रयोजकत्वादिति भावः ॥ एवमिति ॥ स्वप्नस्थलेऽर्थज्ञानयोरेव सत्त्वं वा तत्र प्रतीतजाग्रत्त्वस्यापि वा । आये संप्रतिपत्तिः । द्वितीये तु तस्येश्वरसृष्टत्वेन प्रमाणाभावाद्वाधकसद्भावाञ्च न तदंशे याथार्थ्य ज्ञानस्य । जपाकुसुमप्रभास्वच्छद्रव्य. संयुक्ततिरक्तः स्फटिक इति प्रतीयत इत्यपि न । प्रभाया गुणत्वेन गुणाद्वाऽलोकवदिति सूत्रसिद्धतया अन्यत्र टीकाकारैनिपुणतरं प्रतिपादिततया गुणानां च द्रव्यसमवेततया तदभिन्नतया वा तत्संयोगासिद्धेः शुक्लः स्फटिक इतिवद्रक्त इति प्रतीतेरपि रक्तरूपसमवायविषयकत्वेन तदभेदविषयकत्वेन वाऽनुभव. सिद्धतया रक्तद्रव्यतद्रूपसंयुक्तताविषयकताङ्गीकारेऽनुभवविरोधाश्च । तस्माद्रक्तरूपेण स्फटिकपरिणामा- तत्प्रतीतेर्यथार्थत्वमित्येव तत्त्वम् । मरीचिकाजलस्थले दिमोहादिस्थले चैकत्रापरावयवसद्भावे प्रमाणा- भावोपपादनेनाल्पावयवग्रहणादिमात्रेण भ्रमत्वाद्यसंभवोक्तेश्च तत्प्रतीत्योरयथार्थत्वमेव । अलातचक्रस्थले अन्तरालाभावाविषयीकरणेऽन्तरालाग्रहणतद्देशसंयुक्तवस्तुग्रहणमात्रेण कथं चक्रप्रतीतिः । न च सम्यक चक्रप्रतीतिस्थलेऽप्येवमेवेति वाच्यम् । विप्रतिपत्तेः । अस्तु वा तत्र तथाप्रतीतेर्याथार्थमत एव विप्रतिपन्नानीत्युक्तमिति । दर्पणादिस्थले च 'दर्पणग्रहता दृष्टिः परावृत्य स्वमाननम् । व्याप्नुवन्त्याभि- मुख्येन व्यत्यस्तं दर्शयेन्मुखमिति परोक्तचौर्येऽपि न तथोपपद्यते । परावृत्य स्वमुखग्रहणे पाश्वस्थस्य मुखद्वयप्रतीत्ययोगादस्यां क्रियायां स्वच्छताया उपयोगाभावेन शिलाद्यभिहतानामपि नायनरश्मीनां स्वमुखग्राहकत्वापाताच्च । तस्मादर्पणादेः प्रतिमुखाद्यात्मना परिणामादेव तत्प्रतीतेर्याथार्थ्यम् । द्विचन्द्रा- दिस्थले चात्मविशेषगुणानां योगपद्यायोगेन सामग्रीद्वयेन युगपद्हणद्वयोक्त्ययोगः । देशान्तरसंयुक्ततया चन्द्रान्तरप्रतीतेः सत्त्वेन देशान्तरस्य चन्द्र प्रत्यप्राधान्यमात्रोक्त्ययोगश्च । अतस्तत्प्रतीतिरप्ययथार्थव तदेवं कासाश्चिदयथार्थत्वात्कासाञ्चित्प्रतीतीनां याथार्येऽपि प्रायस्त्वदुक्तप्रकारासंभवान्नोदाहरणान्युपपन्ना- नीति भावः । नन्विदं रजतमित्यादिप्रतीतीनां याथार्थेऽसदेव रजतं प्रत्यमादित्यनुभवविरोधः । अल्पांशग्रहणमात्रेण भ्रमत्वेऽतिप्रसङ्गश्चेत्यादिदूषणं स्पष्टमपि किं नोच्यत इत्यत आह ।। अलमिति ।। स०-- नूनं ब्रह्मज्ञानमिति ॥ अपरिमितस्य ब्रह्मणः साकल्येन ज्ञातुमशक्यत्वादिति भावः ।। अत एवेति ॥ उक्तरीत्या भ्रान्त्यसंभवादित्यर्थः ॥ अन्यच्चेत्किमनेनेति ॥ त्र्यणुकादिवदतीन्द्रिय- स्फटिकलौहित्यदर्पणमुखप्रत्ययानां यथार्थत्वं संमतमेवेतरेषां तु याथार्थ्यमुक्तरीत्या निरसनीयमित्यर्थः ।। प०-- अरजतत्वमेवेति ॥ रजतावयवानां भूयस्त्वज्ञानस्यैव रजतत्वज्ञानत्वादिति भावः । उतोभयमिति पक्षं निराह ॥ न तृतीय इति ॥ ब्रह्मज्ञानमपीति ॥ सर्वस्यापि पुंसो जायमानब्रह्म- ज्ञानस्य ब्रह्मेकांशविषयकत्वादित्यर्थः ॥ अत एव पूर्वस्य भ्रान्तित्यानुपपत्तरेव । यद्वा भूयोऽशग्रहणस्य बाधत्वे सत्यरूप्यादाविदं रूप्यमिति ज्ञानस्यापि बाधत्वप्रसङ्गरूपातिप्रसङ्गादेवेत्यर्थः । याऽपि पीतशङ्कादौ स्वित्यादिनोक्ता प्रक्रिया तां निराह ॥ पित्तगतेति ।। किमनेनेति ॥ पाश्वस्थदर्शनानुपयुक्तेनेत्यर्थः । अतीन्द्रियत्वादन्यस्यादर्शनानुपपादकत्यादिति भावः ॥ उभयोरिति ॥ पीत इति पश्यतः पाश्वस्थस्य चेत्युभयोरित्यर्थः ॥ अन्यथेति ॥ द्रष्यशरीरसामीप्यस्यैव दर्शनोपयुक्तत्व इत्यर्थः ॥ एवमिति ॥ स्वप्नस्फटिकलौहित्यादिप्रागुक्तोदाहरणान्तराणीत्यर्थः । तथा हि । अथ रथानित्यादिश्रुतेः स्वामार्थाना- मपीश्वरसृष्टत्वात् तद्धीः सर्वा यथार्थेन्युक्तम् । स्वप्न एवायं न जाग्रदिति बाधविरोधात् । स्फटिके रक्तकुसुमप्रभोपलम्भात्तलौहित्यधीर्यथार्थत्यपि न । स्क्तकुसुमसमीपस्थवस्त्वन्तरेऽपि तथोपलब्धिप्रसङ्गात् । मरीचिकासु जलावयवसत्त्वात्तीरेव तत्रेति तु. शुक्तिरूप्यप्रक्रियानिरासेन निरस्तम् । अलातचक्रे तु अलातस्य सर्वदेशसंयोगधीरेव न भ्रान्तिरिति तन्न । फल्गुपामराणां चक्रताबुद्धान्तित्वानिवारणात् । नायनरश्मयो दर्पणप्रतिहता: ग्रीवास्थमुखमेव गृह्णन्तीति तद्धीरपि यथार्थत्यपि न । 'अत एव चोपमा' इत्यत्र निरसिप्यमाणत्वात् । दिगन्तरे दिगन्तरावयवसत्त्वात् शुक्तौ रूप्यधीरिव तद्धीरपि यथार्थत्यपि शुक्तिरूप्यप्रक्रियानिरासेन निरस्तम् । या तु द्विचन्द्रप्रक्रिया नयनस्याङ्गुल्यवष्टम्भे हि नायनरश्मयो द्वेधा बहिर्गच्छन्ति । ऋजुतया वक्रतया च । तत्र ये ऋजवस्ते स्वदेशस्थं समीपस्थं गृह्णन्ति । ये तु वक्राः ते तु दूरदेश व्याप्य तमेव चन्द्रं विप्रकृष्टदेशस्थं गृह्णन्तीति द्वित्वधीयथार्थेति । सा तु धीमात्रयाथार्थ्य- सिध्युत्तरकालीनेषाऽत्यन्ताप्रामाणिककल्पना । सैव न सिद्धत्यादिरूपेण निरसनीयेत्यर्थः । । या०—दोपवशादित्यादिना परेण यत्प्रवृत्यादिकमुपपादितं तद् दूषयति ।। रजतार्थिन इति ॥ बाध्यबाधकमावोऽपीत्युक्तं दूपयति ।। कथं चास्येति ।। भ्रान्तित्वं बाध्यत्वम् ।। नूनं ब्रह्मज्ञानमिति ॥ अनन्तगुणस्य ब्रह्मणः केनापि साकल्येन ज्ञातुमशक्यत्वादिति भावः ॥ अत एवेति ॥ उक्तरीत्या एवं हि उत्पत्स्यमानप्रवृत्तिरेव बाध्या स्यान्न पूर्वमुत्पन्ना प्रवृत्तिः । न चोत्तरज्ञानजन्यध्वंसप्रतियोगित्वमेव प्रवृत्तेर्बाध्यत्वम् । अननुगमापातात् । उत्तरज्ञानजन्यप्रध्वंसप्रतियोगिनि समीचीनपूर्वज्ञानेऽपि बाध्यत्व- प्रसङ्गाच्च । अतो विषयासत्त्वव्यतिरेकेण प्रवृत्तरपि न बाध्यत्वनिर्वाहः शक्य इति नोक्तप्रकारसंभवः ।। तदिदमुक्तं कथं चेति ।। न केनापि प्रकारेणेत्यर्थः ॥ अन्यचेति ॥ त्र्यणुकादिवदतीन्द्रियावयव. समवेतत्वरूपं वाऽल्पतरावयवत्वरूपं वा सूक्ष्मत्वं विवक्षित चेत्तर्हि व्यणुकादिवदेव पावस्थेनापि दृश्येते. त्यतिप्रसङ्गस्यापरिहारात् । अनेन सूक्ष्मत्वादिति वचनेन किमिति भावः ॥ उभयोरिति ॥ द्रमृपाश्च- स्थयोरित्यर्थः ॥ अन्यथाख्यातीति ॥ साक्षात्संबन्धेन पीतरूपभानेऽन्यथाख्यात्यापत्तिरित्यर्थः ।। अनुभवेति ।। परम्परासंबन्धेन तज्ज्ञानेऽनुभवविरोध इति भावः ॥ एवमुदाहरणान्तराणीति ॥ एवं स्वप्नस्फटिकलौहित्येत्यादिनोक्तानीत्यर्थः । अत्र विप्रतिपन्नानीत्युक्त्या केपाश्चिद्यथार्थत्वं संमतमिति (सूचितम् । ते च स्वप्नम्फटिकलौहित्यदर्पणमुखप्रत्यया एव । स्वप्नानां वासनोपादानकानां भगवनिर्मि- तानां सत्यत्वेन तज्ज्ञानानां यथार्थत्वस्यास्मन्मतेऽपि भावात् । स्फटिकलौहित्यदर्पणमुखप्रत्यययोश्च मत्यभूतप्रतिबिम्बावगाहितया यथार्थत्वस्यान्यत्र टीकाकारैरुक्तत्वात् । अनयोः परोक्तयाथार्योपपादन- प्रकार एव न तु संमतः । स्फटिकमणेजपाकुसुमसंबन्धत्वाल्लौहित्यं प्रतीयत इत्यत्र किं साक्षात्संबन्धेन लौहित्यज्ञानं यथार्थमित्युपपादितमुत परम्परासंबन्धेन । आद्येऽन्यथाख्यातिः । द्वितीयेऽनुभवविरोध इत्युक्तदोषात् । दर्पणमुखादिप्रत्ययेऽप्युक्तप्रक्रियायां स्वच्छताया अनुपयोगेन शिलाद्यमिहतनायनरश्मी- · नामपि निजमुखादिग्राहकतापातात् । विप्रतिपन्नानां मरीचिकाजलालातचक्रदिगन्तरद्विचन्द्राधिप्रत्ययानां यहोपादृष्टविशेषाधीनग्रहणादिना याथार्थ्यमुपपादितं तदपि कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनाया इत्युक्तदोषेण निरसनीयमिति भावेनोक्तम् ॥ एवं निरसनीयानीति ॥ किं च मरीचिकाजलप्रत्यये तेज:पृथिव्योरग्रहणेन यदम्बुमात्रग्रहणमुक्तं तदतीव मन्दम् । अधिष्ठानतया तत्रापि तेज:पृथिव्योरन्यतरस्य भाननियमात् । न च साधारणाकारेण तज्ज्ञानमस्त्येवेति वाच्यम् । तज्ज्ञानस्याम्बुज्ञानादभेदेऽन्यथा- ख्यात्यापत्तिः । भेदे ज्ञानक्यानुभवविरोधः । यद्यलातचक्रप्रतीतिर्यदि पूर्वोत्तरभावितत्तद्देशविशेषालात- संयोगक्रमाग्रहणमात्रात्स्यात्तदा तत्तद्देशतत्तद्वस्तुसंयोगयोगपद्याग्रहणात्तत्रालातचक्रत्वप्रतीतिरपि कुतो न स्यात् । दिगन्तरे दिगन्तरंसद्भावोऽप्यप्रामाणिकः । दिशो व्याप्तत्वेऽपि तद्भागानामव्याप्तत्वात् । पश्ची- करणादेश्च भूतमात्रनिष्ठत्वात् । द्विचन्द्रादिज्ञानेऽपि स्वदेशवियुक्तचन्द्रस्य समीपदेशस्य च यद्यसंसर्गाग्रहा. --- ॥ श्री०- सुप्तस्थापीति ॥ तदानी दर्शनमात्रस्याभावेन भूयसां शुक्त्यवयवानामदर्शनसद्भावा. दिति भावः । तेषामल्पीयसां रजतावयवानाम् ॥ ज्ञानमात्रमिति ॥ अल्पीयस्त्वभूयस्त्वौदासीन्येन रजतावयवज्ञानमात्रमित्यर्थः । तस्य शुक्तिशकलस्य ॥ अरजतत्वमेवेति ॥ रजतांशानामल्पीयस्त्वे ऽरजतत्वमेव प्राप्तम् । यत्र यदंशानामल्पीयस्त्वं तत्तन्न भवतीति त्वयाऽङ्गीकृतत्वादिति भावः । सदृश. मात्रे रजतसदृशे रङ्गादौ ॥ प्रसक्तिरिति । तथाच रजतार्थिनः शुक्तिकायां प्रवृत्तिर्न स्यादिति भावः ।। न तृतीय इति ॥ उतोभयमिति विकल्पितस्तृतीयः पक्षो नेत्यर्थः ।। किमपीति ।। किश्चिदिदमिति ।। निर्विकल्पकज्ञानादपीत्यर्थः । तत्रापि भूयसामवयवानामदर्शनस्याल्पीयसां दर्शनस्य च सद्भावादिति भावः । अस्य ज्ञानस्येदं रजतमिति ज्ञानस्य | अल्पांशेति । अधिष्ठानभूतशुक्त्यल्पांशेत्यर्थः ।। नूनमिति || ब्रह्मणोऽपरिच्छिन्नानन्तगुणत्वेनाल्पांशस्यापि सम्यगृहीतुमशक्यत्वादिति भावः । अत एवोक्तरीत्या भ्रान्त्यसंभवादेव ॥ तथेति ॥ सुवर्णानुलिप्तशङ्खवत्पीतन्वेनेत्यर्थः ॥ सूक्ष्मत्वादिति ।। पीतत्वस्येति शेषः ॥ अन्यच्चेति ।। अतीन्द्रियावयवसमवेतत्यमेव सूक्ष्मत्वम् । तथाच पीतत्वस्य पित्त- द्रव्यरूपातीन्द्रियावयवसमवेतत्वेन सूक्ष्मत्वान्न तत्पाश्चस्थेन गृह्यते । सुवर्णस्य चैन्द्रियकत्वेन तद्गतपीतत्वस्य निरुक्तसूक्ष्मत्वाभावात्पाश्चस्थेन ग्रहणं युक्तमिति भावः ॥ किमनेनेति ॥ अतीन्द्रियावयवसमवेतस्यापि व्यणुकस्य पाश्वस्थन ग्रहणदर्शनेन प्रकृतेऽपि तथोपपत्तेः सूक्ष्मत्वात्पाश्वस्थन न गृह्यत इति वचनेन किमित्यर्थः ॥ सामीप्यादिति ॥ पावस्थस्य तु द्रष्टुपुरुषशरीरसामीप्यमिव सामीप्यं नास्तीति पीतत्वं 'न तेन गृह्यत इति भावः ।। अन्यथेति ॥ द्रापुरुषशरीरसामीप्यस्यैव दर्शनोपयोगाङ्गीकारे इत्यर्थः ।। अदर्शनेति ॥ तत्र द्रष्ट्रपुरुषशरीरसामीप्याभावादिति भावः ॥ अन्यथाख्यातीति ॥ साक्षात्संबन्धेन पीतरूपस्य शङ्खऽभावेन तेन संबन्धेन तत्र तदानाङ्गीकारे भ्रमलक्षणान्यथाख्यात्यापत्तिरित्यर्थः ॥ अनुभवेति ।। पीतरूपवद्र्व्यसंयुक्तोऽयं शङ्खः संयुक्तसमवायसंबन्धेन पीतरूपवानिति यावदित्येवं कस्याप्य. नुभवाभावादिति भावः । च०. एवमुदाहरणान्तराणीति ॥ स्वमस्फटिकेत्यादिनाऽभिहितानीत्यर्थः ॥ निरसनीया. नीति ॥ स्वामपदार्थधर्मिकजाग्रदनुभूनपदार्थप्रतियोगिकतादात्म्याभावगोचरबाधविरोधप्रसङ्गेनाद्यप्रत्ययस्य 79 च्छिन्नरक्तत्वनिष्ठप्रकारताकत्वविशिष्टस्फटिकवृत्तिविशेष्यताकत्वोपरागेण तादृशव्यवसायावगाहिना न्याय- नयनदिशा समवायघटितोक्तधर्मस्य तदनुपगन्तृदिशा भेदसंसर्गावच्छिन्नतत्प्रकारताकत्वघटितोक्तधर्मस्य वा अवगाढतया संयोगसंसर्गावच्छिनत्वस्य गुणवृत्तिप्रकारतायां परीक्षकापरीक्षिततया प्रभायाः गुणत्वस्याकर- निरूढतया तद्वृत्तिप्रकारतायां समवायावच्छिन्नत्वस्य मतान्तरदिशा भेदमंसर्गावच्छिन्नत्वस्य वाऽवगाढतया प्रभा संयुक्तं जानामीत्याकारकतापत्या च संयोगसंसर्गावच्छिन्नत्वावगाहनासंभवेन तदुपगतेरयोगो न शिलातलप्रतिहतनायनरश्मीनामपि निजमुखादिग्राहकतापत्त्या स्फटिकलौहित्यदर्पणमुखप्रतीत्योः परमार्थ- भूतप्रतिबिम्बावगाहितानियन्त्रितटीकाकृत्पादप्रदर्शितयाथार्योपपादनभङ्गया एव श्रयणीयत्वात् । मरी- चिकाजलालात चक्रदिगन्तरद्विचन्द्रादिप्रतीतीनां दोषादृष्टविशेषायत्ताग्रहणादिना याथाोपपादनदिगपि कार्यनिश्चयोत्तरकालीनत्वादस्याः कल्पनाया इत्यनेनैव प्रत्याख्यातेति नेह प्रयतितव्यम् ।। सु०-- अन्यस्तु मन्यते । गृह्यमाणयोर्मेंदाग्राहिसविकल्पकमेकमेव विज्ञानं भ्रमः । तथा हि । रजतसंस्कारदोपसचिवमिन्द्रियं शुक्तिशकलसन्निकृष्टं रजतशुक्तीदमंशविषयं तत्संसर्गासंसगांवनवगाहमानमेकमेव सविकल्पकज्ञानमुत्पादयति । तथा च तयोरेकविज्ञानोपा- रोहिणोमैदाग्रहादयथार्थव्यवहारः । तन्निरासादेव विवेकज्ञानं बाधकमित्युच्यते । न पुनरन्य- दन्यात्मना प्रतीयत इति । तदिदमनुपपन्नम् ।। विवेकाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवेति प्रागुक्तदोषाणामशेषाणामविशेषात् । किञ्च प्राभाकराणां वेदप्रामाण्यसिद्धगतयाऽस्त्यख्याति- स्वीकारे प्रयोजनमिति विद्यते भ्रमः; कणभक्षाक्षचरणपक्षपातिना त्यतस्मिंस्तदिति प्रत्ययो विपर्यय इति पूर्वाचार्यवचनमनादृत्य परमतप्रमोषः कस्मादिष्यते । असत्ख्यातिपरिहारार्थमिति चेन्न तथा सत्ययथाव्यवहारस्थापि परिहारप्रसङ्गात् । न ह्यसत्प्रत्येतुमशक्यं शक्यं तु व्यवहर्तुमित्यत्र कारणविशेषोऽस्ति । व्यवहारः प्रतीतिसिद्ध इति चेत्ततिक विशिष्टप्रत्ययो न प्रतीतिसिद्ध इत्यलम् ॥ ननु विपर्ययाभ्युपगमे कथं वेदप्रामाण्यसिद्धिः । वेदजनितप्रत्ययेऽपि विपर्ययशङ्काप्रसरात् । सर्वस्यापि विज्ञानस्य याथार्थं तु नेयं शङ्कावकाशमासादयतीति । मैवम् । तथा सति विवेकाग्रहस्याप्यनङ्गीकार्थत्वापातात् । तथा हि । न तावद्वेदवाक्यं पदार्थेषु प्रमाणम् , तेषामन्यतोऽधिगतत्वात् । नापि संसर्गे; विनाऽपि संसर्गग्रहमसंसर्गा- वा० न्यायकल्परूदितमख्यातिमतान्तरमुत्थापयति ॥ अन्यस्त्विति ॥ एकज्ञानत्वोक्त्या प्राभाकरमताद्भेदसिद्धिः । निर्विकल्पकेऽनतिव्याप्तये सविकल्पकमिति । नेदं रजतमित्यतो व्यावृत्तये भेदाग्राहीति । घट इत्यायेकवस्तुग्राहिविज्ञानव्यावृत्तये गृहमाणयोरिति । ननु शुक्तिसन्निकर्षजन्य- ज्ञानस्य रजतेनेन्द्रियस्य सन्निकर्याभावेन तदजन्यत्वात्कथं तद्विषयता । न च संस्कारस्तथा । तथात्वे रजतज्ञानस्य स्मृतित्वापातेन नेकज्ञानता । संस्कारस्येन्द्रियसहकारत्वे च प्रत्यभिज्ञावदेकत्वादन्यथा- ख्यात्यापत्तिरित्यत आह || तथा हीति || संसर्गाविषयकल्वे कथं संसर्गविषयकव्यवहार इत्यत आह ।। तथा चेति । एवं व्यवहारान्यथाऽनुपपत्ति निरस्य बाधकत्वान्यथाऽनुपपत्तिमन्यथाख्याती प्रमाणत्वेनोक्तं विघटयति ॥ तदिति ।। विवादविषयं स्पष्टमुद्धाटयति ॥ न पुनरिति ॥ ज्ञानस्वप्रकाशत्वस्याभावस्य धात्मकतायाश्चानभ्युपगमेन कोऽयं भेदो नामेत्यादिविकल्पदोषाप्राप्तेविकल्पं विशिनष्टि || विवेकाग्रह इति । एतन्मतासाधारणं दोपमाह ॥ किञ्चति ॥ वेदप्रामाण्यसिद्ध्यङ्गत्वं च नन्वित्यादिवक्ष्यमाण. शङ्काग्रन्थे स्पष्टम् । भ्रमत्वोक्तिस्तु तथा सतीत्यादितत्परिहाराभिप्रायेण । दुःखजन्मप्रवृत्तिदोषमिथ्या- ज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति द्वितीयसूत्रस्थवार्तिकवचनमतस्मिन्निति । मिथ्याज्ञान- मनेकप्रकारकम् । तद्यथा नित्येऽनित्यमिति निर्भये सभयमिति भाष्यमादिपदेनोपादत्ते । अपसिद्धान्त इत्यनुक्त्वा परमतप्रमोष इति वदता 'वध्यता वायतो बालो नानेनार्थोऽस्ति जीवता । स्वपक्षहानकर्तृ- त्वाद्यः कुलाङ्गारतां गत' इति न्यायविषयतासूचनमुखेनापसिद्धान्तः सूचितो भवति । न तावत्पूर्वाचार्य- वचनानादरो विशिष्टप्रत्यये साधकाभावात्तस्यानुभवसिद्धताया उपपादितत्वादिति व्यवहारप्रतिबन्दीमुखेन पक्तुं शङ्कामुत्थापयति ॥ असदिति ॥ तर्हि व्यवहारस्यापि परिहर्तव्यत्वात्तद्गतिकथनाय भेदाग्रहोक्त्यनु. पपत्तिरित्याह || नेति || नापि बाधकसद्भावात्तदनादरस्तदभावादित्याशयेन बाधकं शङ्कते || नन्विति ॥ अख्यातिमतत्रयेऽप्यस्यान्यथाख्यातिबाधकत्वेनाभिमतत्वात्सर्वशेषताज्ञापनाय मतत्रयनिरासान्ते तदभिमतं बाधकमाशङ्कय निराकृतमिति ध्येयम् । एवञ्च पक्षद्वये सत्यपि साम्येऽर्धजरतीयं कुर्वता न केवलं पूर्वाचार्यवचनविरोधः सकललोकानुभवविरोधश्चाधिकः संपादितो न तु लाघवमित्याशयेनोक्तं सकलेति । आरोप्यमाणसाचासत्त्वविचारस्यारोपसियधीन यादवसरसङ्गत्योत्तरविचारारम्भ इत्याशयेनाख्यातिमतत्रय- निराससिद्धं फलमाह || सिद्धमिति ।। 400 विज्ञानेन तु भेदवत्पटादेरग्रहणाचच्यावृत्तिः । वेदप्रामाण्यसिद्ध्यंगतयेति ॥ अग्यातेरिति शेषः ।। विद्यते भ्रम इति ॥ प्रयोजनमस्तीत्येवंरूपो प्रमोऽस्तीत्यर्थः । मध्यमवृद्धव्यवहारेप्येकविज्ञानोपारोहिणोः संसर्गिणोरसंसर्गाग्रहादेव व्यवहारोपपत्ती बालस्य संसर्गज्ञानानुमानानुदयात् शब्दप्रामाण्यभङ्गप्रसङ्गः । एवमनुमानाभास इव सदनुमानेऽपि असंसर्गाग्रहादेव संसर्गव्यवहारोपपत्तावनुमानोच्छेद इति भावेन भ्रम इत्युक्तम् । प.-- तार्किकैकदेशिमतमनूद्य निराह || अन्यस्त्विति ॥ गृह्यमाणयोरिति || ज्ञायमान- योरित्यर्थः । तेन स्मर्यमाणारोपस्य संग्रहः । नत्वनुभवविषययोरित्यर्थः । रजतसंस्कारेत्यग्रेतनग्रन्थ- विरोधात् ॥ तत्संसर्गासंसर्गाविति ॥ रजतस्य शुक्तीदमंशस्य च तादास्यभेदावविषयीकुर्वदित्यर्थः ।। अयथाव्यवहार इति || अन्यार्थिनोऽन्यत्र प्रवृत्तिरन्यस्यान्यात्मनाभिलपनं चेत्यर्थः । तन्निरासादेव मेदाग्रहनिरासादेव ॥ सर्वत्रेति ॥ सत्यस्थलेऽपीत्यर्थः । अत्रैवेति ॥ भ्रमत्वेन विमतस्थल एवेत्यर्थः ॥ प्रागुक्तेति ॥ प्राभाकरमतदूषणोक्तिप्रस्तावे किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात् । सर्वोऽपि भेदाग्रहात् । नाद्यः । अनियतकारणतापातादित्यादिनोक्ताद्यपक्षदोषाणां नन्यस्तु तर्हि द्वितीयः पक्ष इत्यादिनाऽनयोक्तद्वितीयपक्षदोषाणां चाशेषाणामविशेषादित्यर्थः ॥ कणभक्षाक्षचरणेति ॥ कणादाक्षपादपक्षपातिनेत्यर्थः ॥ प्राभाकराणां वेदप्रामाण्यसियङ्गतयाऽस्त्यख्यातिस्वीकारे प्रयोजनमिति विद्यते भ्रम इति प्रागुक्तं शङ्कोत्तराभ्यां व्यनक्ति नन्वित्यादिति शक्यत्वादितीत्यन्तेन ॥ अन्यत इति।। प्रत्यक्षादितोऽधिगतत्वादित्यर्थः । इह खलु केचिद्यथार्थ सर्व विज्ञानमिति मन्यमाना नान्यथाख्याति सहन्त इत्यादिनैतावत्पर्यन्तेन ग्रन्थेन सिद्धार्थमनुवदति ॥ सिद्धमेतमिति ॥ किं तदित्यत आह । शुक्तिरिति ।। अन्यदन्यात्मनाऽवभासत इत्यस्योपलक्षणमेतत् । उक्त प्रमेयं कचित्स्थलविशेषे प्रतिपाद- यितुं शुक्तीः रजतत्वेनेति विशिप्योक्तिः ॥ उत या०-- तार्किकैकदेशिमतमपाकर्तुमनुवदति । अन्यस्त्विति ।। गृह्यमाणयोरिति । अत्रैकं विज्ञान विभ्रम इत्यन्यथाख्यातिमतवैलक्षण्यसूचनायोक्तम् । . निर्विकल्पकव्यावृत्तये सविकल्पकमिति । नेदं रजतमिति बाधत्र्यावृत्तये भेदाग्राहीति । अयं घट इति ज्ञानमपि पटादिप्रतियोग्यनुपस्थितिदशायां ततो भेदाग्राहि भवत्येव । अतस्तयावृत्तये गृह्यमाणयोरिति । ।
विषययोरिवंपदार्थरजतयोर्भदामहादयथार्थव्यवहारोऽयथार्थप्रवृत्तिर्भवति । एकज्ञानविषययोर्भेदाग्रहप्रस- मितायथार्थव्यवहारनिरासकत्वादेव नेदरजतमिति विवेकज्ञानं बाधकमित्युच्यते । बाधकत्वप्रसिद्ध्या. चैकज्ञानविपययोरिदंपदार्थरजतयोविवेकाग्रहादेव तदुभयविषयकैकज्ञानस्य भ्रान्तित्वमिति लोकप्रवादः । तथा च प्राभाकरमते ज्ञानदयमेतन्मने तु ज्ञानमेकमित्येव भेदः । तजन्यप्रवृत्तरयथार्थत्वादेव तज्जनक- मेकमिदंशानं अमरूपमित्युच्यते । यस्तुनस्तु न भ्रमरूपं ज्ञानमस्तीत्येवं पूर्वमतैतन्मतयोनिद्वित्वज्ञानक- स्वाभ्यामेव विशेष इति द्रष्टव्यम् ।। प्रागुक्तविकल्पदोषाणामिति ॥ सविकल्पकोच्छेदादृष्टकल्पनादि- दोपाणामित्यर्थः ॥ घेदप्रामाण्यसिद्धीति ।। अहो बत महानेप प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वासः किं निधन्धन इति तद्वचनादिदरजतमिति ज्ञानस्याप्रामाण्ये वेदजन्यज्ञानेऽपि अप्रामाण्यशका स्यानतरतत्परिहाराय ज्ञानमा यथार्थमित्यजीकृत्यान्यथाख्यातिर्न स्वीकृतेत्यर्थः । भ्रम आग्रहविशेषः । कणभक्षः कणान: । अक्षचरणोऽझपाद: । परमतप्रमोपोऽख्यातिस्वीकारेण प्राभाकर- मतची यम् || अमरख्यातीति || रजतस्यासस्वाङ्गीकारेऽसतोऽपि ख्यातिः प्रतीतिः प्रसज्यते । सा च न युक्ता । यसत्तम प्रतीयत इति नियमानसतः प्रतीत्यन्यथाऽनुपपत्त्या रजतस्य सत्त्वमङ्गीकृतमित्यर्थः ।। नम्बसल्यात्यमावेऽसतिपयकप्रवृश्यभावः कुत इत्यत आह || न हीति ।। तत्किमिति । एतावन्तं कालं शुस्तिकाशकलमेव रमतानाशासिपमित्युत्तरकालीनानुभवमलेनात्यन्तासद्जतात्मकतया शुक्त्यव- गाहिब्रमरूपविशिष्टज्ञानमप्यनुभवसिद्धगेवेत्यर्थः ॥ पदार्थष्यिति ॥ पदार्थविपयफप्रमाजनकमित्यर्थः । अन्यतः प्रत्यक्षानुमानाश्च । तथा चानधिगतार्थगन्तृत्वाभावादप्रामाण्यमिति भावः । संसगे संगर्ग- विषयकप्रमाजनकमित्यर्थः । व्यवहारान् इदरजतमित्यादीन् । शङ्केति ॥ वेदजन्यज्ञानात्प्रवृत्ति- स्तायवावयति । सा प्रतिरपि अमस्थल इयासंसर्गाग्रहादेव भवतु । न विशिष्टज्ञानादित्येवं तत्रापि शक्षा स्यादित्यर्थः ।। सेति ॥ थेदजन्यज्ञानावपि प्रवृत्तिरसंसर्गाग्रहादेव भवतु न विशिष्टज्ञानादिति शक्रेत्यर्थः ॥ तच्छाया अपीति ॥ वियागीकारपक्षेऽपि वेदजनितविज्ञाने विपर्ययशङ्काया अपीरुपेयत्थेन निराकतुं शक्मत्वादिति भावः || रजतत्वेनेति ॥ अत्यन्तासद्र जतात्मकत्वेनेत्यर्थः ।। amavas न्यायकल्पनादीरितमख्यातिमतान्तरं दुदूपयिपुरनुवनति अन्यस्त्वित्यादिकप्रतीयत इत्यन्तेन ॥ शुक्तीदर्मशेति ॥ शुक्तिरूपो य इदमंशस्तद्विपयमित्यर्थः । परमतप्रमोषः गुरुमतापहारः ।
सु. तत्रारोप्यमाणं रजतं सदेवेति केचिदातिष्ठन्ते । तथा हि । यद्धि यथावभासते तत्तथेत्यौत्सर्गिको न्यायः । अपवादस्तु बलवद्धाधकोपनिपातात् । तथा चेदं च रजतं च तत्तादात्म्यं चेति त्रितयमिहावभासते । इदं च रजतत्वं च तत्संसर्गश्चेति वा । तत्र रजतरजत. त्वयोरिदंकारास्पदस्य च बाधकामावान्नासत्त्वमुपपद्यते, संवादसद्भावाच्च । तत्तादात्म्यस्य संसर्गस्य वा बाधकाद्विसंवादाच्चासत्त्वमस्तु । यथोक्तम् । 'असंभवि च यावत्तु तावत्संपरि- हीयतामिति । न च नेदं रजतमिति बाधबोधो रजतस्याप्यसत्त्वमावेदयतीति वाच्यम् । तस्य तादात्म्यमात्रगोचरत्वेनोपपत्तौ रजतगोचरत्वकल्पनायां गौरवप्रसङ्गात् । यथाहुः 'एकदेशा- पवादेन कल्प्यमाने च बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः' इति ॥ किच रजतस्यात्यन्तासत्वे प्रतिभासो नोपपद्यते । स्थिते चैव सत्त्वे बाधसमये पुरोऽदर्शनाद्देशान्तरे सवमास्थीयते । दोपदूपितं चक्षुः शुक्तिशकलमात्रसनिकृष्टमपि विप्रकृष्टरजतात्मना तदा दर्शयतीति को दोष इति । एतदप्ययुक्तम् ॥ सत्त्वेऽपि रजतस्यासदेव रजतं प्रत्यभादि- त्यनुभवविरोधात् । अत्रासत्त्वेऽप्यन्यत्र सत्त्वमङ्गीक्रियत इति चेन्न । अत्र प्रतीतस्यैवान्यत्र सत्वे मानाभावात् । वा० तत्रासतः सज्जानाधीनत्वात्सत्पक्षस्य तत्रापि बहिःसत्त्वनिरासाधीनतयाऽन्तःसस्वसिद्धे- हैतुकपरिगृहीततया च बलववाहहिःसत्त्वपक्षम्य प्रथमोपस्थिततया प्रथमनिरसन युक्तमित्याशयेनाह ।। तत्रेति ॥ ननु न तावद्रजतं पुरोदेशे सत् । अदर्शनात् । नापि देशान्तरे । प्रमाणाभावादित्यतो विमतं रजतं देशान्तरे सत्पुरोऽसत्त्वे सति सत्वात्संमतवदिति विवक्षितं परिशेषानुमानं स्थिते चैव. मित्यादिना वक्तुं तत्र विशेष्यासिद्धिशङ्कायो विभतं सत्तथा प्रतीयमानत्वादितिविवक्षितानुमाने शुक्ति- रजततादात्म्यादौ व्यभिचारशङ्कायामुत्सर्गापवादविषये व्यभिचारचोदनमतिप्रसङ्गकरमित्युपोद्धातेनाह ।। यद्धीति ॥ यद्वा प्रमाणाभावात्कथं सत्त्वमित्यतो विमतं सत्तथा प्रतीयमानत्वादिति विवक्षितानुमाने उक्तरीत्या व्यभिचारशङ्कानिरासकत्वेन यद्धीत्यादिग्रन्थं योजयित्वा तर्हि प्रवृत्तस्य कथं रजताप्राप्तिः कथं वा भ्रमत्वाद्युपपत्तिरित्याशङ्कानिरासकत्वेन स्थिते चेत्यादिप्रन्थो योजनीयः । ननु तर्हि बाधक- सद्भावाद्रजतमप्यपवादविषय एवास्त्वित्यतो बाधकस्य तादास्यसंसर्गविषयकत्वेनान्यथासिद्धिं वक्तुं - शुक्तिरजततादात्म्यसंसर्गयोः कदाऽपि कुत्राप्यप्राप्तेरित्यर्थः । बाधकसत्रासात्वयोर्विषयसत्वासस्व. प्रयोजकत्वे संमतिमाह || यथोक्तमिति ॥ यावत्तावदित्यवधारणे । ननु बाधाभावोऽसिद्धो नेदं रजतमित्यस्यैव रजतबाधत्वादित्याशङ्कते ॥ न चेति ।। तादात्म्येत्यतःपूर्वमसत्वेनोभयसंमतेति शेषः । बाधकस्यैकदेशविषयत्वकल्पना युक्तेत्यत्राभियुक्तसंमतिमाह || यथाऽऽहुरिति ॥ न्यायविदो लाघव- गौरवन्यायविदः । न चैवं बांधकस्य रजतमात्रविषयकत्वमस्तु लाघयस्यैवमप्यनुग्रहादिति वाच्यम् । रजतस्य सत्त्वे तत्तादात्म्यासत्त्वोपपत्तावपि रजतस्यैवासत्त्वे तत्तादात्म्यसत्त्वस्य कथमप्यनुपपत्त्या बाधक- स्योभयविषयकत्वावश्यंभावेन गौरवापरिहारात् । संवादविसंवादसद्भावस्योक्तत्वाच्च । अत्रैव युक्त्यन्तर- मायाह । किश्चति ॥ रजतस्य सत्वे तद्धर्मभूतस्यासतोऽपि तादात्म्यस्य सदुपरक्ततया भानोपपत्तावपि धर्मिभूतरजतम्यैवासत्येन कथमपि प्रतिभासोपपत्तिरिति भावः । ननु तर्हि यथा प्रतिभासं पुरोदेश एव रजतस्य सत्वापत्त्या बाधाद्यनुपपत्तिरित्यत आह ॥ स्थिते चैवमिति ॥ नन्वेवं रजतज्ञानस्यापरोक्षत्वा- नुपपत्तिः । विप्रकृष्टेन सन्निकर्षासंभवेन रजतसन्निकर्षाजन्यत्वात् । न च शुक्तिमन्निकर्षजन्यतया तस्यापरोक्षत्वमिति वाच्यम् । तथा सति तज्ज्ञाने रजतप्रतिभासानुपपत्तेरित्यत आह ।। दोपेति ॥ भाष्यकारेण स्थलान्तरे स्फुटोदितम् । अन्यथा विज्ञानमित्यत्रापि सूचित दोपं रजतस्य सस्वाङ्गीकारे दर्शयति ।। सत्त्वे सतीति ॥ अनुभवेऽन्यथासिद्धिमाशङ्कते ॥ अत्रेति ॥ मानाभावादिति ।। नच पुरोदेशेऽसत्वे सति सत्त्वं तस्यान्यत्र सत्त्वे प्रमाणमुपन्यस्तमिति वाच्यम् । तत्रैव हेतुविशेप्यासिद्ध्यर्थ- मनुभवविरोधोपन्यासात् । तद्बलेनानुभवसङ्कोचे च सिद्धेऽनुभवसङ्कोचे च विरोधाभावात्पुरोऽसस्वेनान्यत्र सत्त्वसिद्धिस्तरिसद्धौ चैतत्सङ्कोचसिद्धिरिति परस्पराश्रयापश्याऽनुभवसङ्कोचाय प्रमाणान्तरमेव वक्तव्यम् । तच्च नोपपद्यत इति भावः । अत एव प्रमाणान्तरनिरासानन्तरमनुभवविरोधेन तदप्यतिदेशेन निरस्यतीति द्रष्टव्यम् । संवादसद्भावाचेति ॥ यद्यपि पुरोवर्तिसंसृष्टतया प्रतीते रजते न संवादस्तथापि रजतमिति प्रतीतिविपये रजतमात्रांशे संवादोस्ति । कचिद्रजतमिति सामान्याकारेण प्रतीत्यन्तर- संभवादिति भावः । प०- तत्रेति ॥ एवं सिद्धे सतीत्यर्थः । केचित् प्राचीनतार्किकाः ॥ इदंकारेति ।। इदं- स्वास्पदस्येत्यर्थः । परिहीयता परित्यज्यताम् । सत्त्वेन नाङ्गीकार्यमित्यर्थः । न केवलं बाधस्यान्यथो- स० या० आरोप्यस्य रजतादेरन्यत्र सत्वे पुरोदेशेऽसत्त्वे सति सत्त्वादिति परिशेषं प्रमाणं विवक्षुस्तत्र विशेष्यासिद्धिवारणाय तस्य सत्त्वं तावत्साधयति । यद्धि यथेत्यादिना ॥ संवाद- सद्भावाञ्चेति ।। रजतमिति सामान्याकारेण प्रतीत्यन्तरसद्भावादित्यर्थः । देशान्तरे रजतप्राप्तिरूप- संवादसद्भावादित्यर्थ इत्यप्याहुः । आरोप्यस्य सत्त्वेऽर्थापत्तिमप्याह ॥ किं चेति ॥ अनुभव- विरोधादिति ॥ तथा च सत्त्वसाधकानुमानार्थापत्यो धितविषयत्वमिति भावः ॥ मानाभावा- विति ।। तथा च नासत्त्वप्रतीतेः सङ्कोचो युक्त इति भावः । श्री०- असंभवि च यावत्विति ।। रजततादात्म्यस्य रजतत्वसंसर्गस्य च सत्वं न संभवतीति । तावत्तावतः । सत्त्वं संपरिहीयतां त्यज्यतामित्यर्थः ।। एकदेशेति ॥ तादात्म्यमात्रे- त्यर्थः । अनुभवस्य सङ्कोचमाशङ्कते ॥ अत्रेति ।। पुरोदेश इत्यर्थः । - - सु० तथा हि । भ्रान्त्यनुभवो वा तत्र प्रमाणम् , बाधानुभवो वा भ्रान्त्यनु- पपत्ति, धानुपपत्तिा ॥ नायः तस्याप्रमाणत्वात् , अत्रैव सत्त्वावेदकत्वाच्च ।। न द्वितीय तस्येह रजतनिषेधात्मनोऽन्यत्र सत्यासत्त्वयोरौदासीन्यात् ।। न तृतीयः । भ्रान्तेः पुरोवर्ती- न्द्रियदोषादिमिविनाऽनुपपद्यमानायास्तन्मात्राक्षेपहेतुत्वात् । अंसत्त्वे कथं प्रतीतिरिति चेत् ; सत्त्वेऽपि कथम् । न ह्यन्यत्र सत्यमत्र प्रतीतेरुपकारि । इन्द्रियसन्निकर्षार्थ वा तदास्थ्यम् , संस्कारसियर्थ वा । नाद्यः । विप्रकृष्टेन सन्निकर्षाभावात् , पुरोवर्तिसन्निकर्षमात्रेणैव भ्रान्त्यु त्पादाङ्गीकाराच्च । न द्वितीयः । संस्कारो हि रजतानुभवमाक्षिपेत् , अनुभवश्च यथार्थो रजतसत्ताम् ; अत्र प्रतीतस्यैवान्यत्र सत्ता कुतः कल्प्या। किश्च घटान्तरं विनष्टोत्पत्स्यमान- घटान्तरतया यदा प्रत्येति, तदा कथम् । न हि विनष्टोत्पत्स्यमानयोरन्यत्र सत्ताऽस्ति । कालान्तरेऽस्तीति चेत्सत्यम् ; न तस्या भ्रान्तावुपयोगं साक्षात्पश्यामः । संस्कारादिना हि तदुपयोगः । स च रजतान्तरानुभवमात्रेण भविष्यतीति व्यर्था तस्यैवान्यत्र सच्चकल्पना । एतेन प्रवृत्त्यनुपपत्तिरपि परास्ता। किश्चासतः प्रतिभासासंभवे तादात्म्यमपि न प्रतिभासेत; तस्य कुत्राप्यभावात । धर्मधर्मिभावस्तु वैधय॑मात्रम् ॥ न चतुर्थः । वाधस्यान्यत्र सत्तया ३सयतका निरसन्नात् ।। तात्क सक मत्यन्तासदेव । उच्यते । यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्रमसत्, यथा दूरस्थयोश्चूतपनसयोः; एक एवायं चूत इति बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः । यत्र पुनरसन्निहितमारोप्यम् तत्र तत्तादात्म्यं चोभयमप्यसत् । उक्तन्यायेनेति ॥ तदेवं नैवं. विधान्यथाख्यातिवादोऽप्युपपन्नः ॥ ३ ॥ --- वा० ननु कथं मानाभाव इत्यतः प्रकृते संभावितप्रमाणानि निराकर्तुं विकल्पयति || तथा हीति ॥ प्रत्यक्षमापत्तिर्वा मानं तदुभयमपि द्विरूपमिति पक्षचतुष्टयोक्तिरिति ध्येयम् । भ्रान्तेरप्रमाण- त्वेनोपन्यासानहत्वमुक्तम् । अङ्गीकृत्यापि भ्रान्तिप्रमाणत्वमन्यत्र सत्त्वाविषयकत्वात्तत्र तदुपन्यासानौचित्य- माह || अत्रैवेति ॥ अन्यत्र सत्त्वाद्यौदासीन्यमुपपादयितुं बाधविषयप्रदर्शनमिह रजतेति । यद्धि प्रमितं स्वयमनुपपद्यमानं खोपपादनाय यदपेक्षते तत्तदाक्षिपतीति व्याप्तेन्तेश्च स्वकारणेन विनाऽनुपपद्य- मानायास्तदाक्षेपकत्वेऽपि न देशान्तरे रजतादिसत्त्वाक्षेपकत्वमित्याह || भ्रान्तेरिति ।। आदिपदेनेन्द्रिय- सन्निकर्षसंस्कारादिपरिग्रहः । पुरोवांदिवद्रजतादिसत्त्वस्यापि प्रतीतिप्रयोजकतया तदभावेन प्रान्ति- रित्याशते ।। असत्य इति ।। सत्वे कथमिति ॥ प्रतीतिरित्यनुवर्तते । सत्त्वस्य प्रतीत्युपयोगो न तावत्साक्षात्तदर्शनादपि तु सन्निकर्षादिसिद्धिद्वारा परम्परयैव । एवं च पुरोदेशसत्तायाः सन्निकर्ष- प्रयोजकत्वेन यस्यकस्यचिद्रजतस्य सत्तायाः संस्कारप्रयोजकत्वेन तत्र तत्प्रतीत्युपयोगेऽपि नान्यत्र तत्सत्तायाः पुरोदेशतत्प्रतीत्युपयोग इत्याह ।। न हीति ॥ एतदेव विशदयति ॥ इन्द्रियेति ॥ नन्वेवं तत्प्रतीते. रपरोक्षत्वानुपपत्तिरित्यत आह ॥ पुरोवतीति ॥ मात्रपदेन रजतसन्निकर्षमात्रं व्यावय॑ते । न तु दोषसंस्कारादिकम् ।। संस्कारी हीति ॥ रजतत्वप्रकारकसंस्कार एव हि भ्रान्तिहेतुः । स च रजतत्व- प्रकारकानुभवेन विनाऽनुपपद्यमानस्तमेवाक्षिपति । रजतत्वप्रकारकानुभवोऽपि यथार्थ एव स्वविषयरजत- सत्ताक्षेपकोऽयथार्थस्यैतद्वदेव स्वविषयसत्तानाक्षेपकत्वात् । एवं च यत्किञ्चिद्रजतानुभवजन्यसंस्कारमात्रेण जायमानाया भ्रान्ते तत्प्रतीतरजतस्यान्यत्र सत्ताक्षेपकत्वम् । न चैतत्प्रतीतरजतानुभवजन्यसंस्कार- जन्यत्वात् भ्रान्तेस्तस्या अम्रान्तिपूर्वकत्वाच्च भ्रान्तिमूलानुभवस्य याथार्थ्यात्तदनुभवविषयस्यान्यत्र सत्वे अवश्यं कल्पनीयेऽत्र प्रतीतस्य देशान्तरे सत्त्वं सिद्धमेवेति वाच्यम् । यत्किश्चिद्रजतानुभवजन्य- सम्कारेणैव भ्रान्तिसंभवेनैतद्रजतानुभवजन्यसंस्कारस्यैव भ्रान्तिहेतुत्वे कल्पकाभावेन मौरवापत्त्याऽनुभव. 80 देशान्तरसत्ता तदुपयोगिनीत्यभिमतमुत यदा कदाचित् । नाद्यः । घटान्तरं विनष्टोत्पत्स्यमानघटान्त- रात्मतया यदा प्रत्येति तत्रारोपकाले आरोप्यस्यान्यन्त्र सत्ताया अभावाव्यभिचारः। यदा कदाचिदिति द्वितीयेऽपि यदा कदाचित्सत्तायाः साक्षाद् भ्रान्त्युपयोगादर्शनात्तज्ज्ञानजन्यसंस्कारतज्जन्यस्मरणादिद्वारेणैव उपयोग इत्यकामेनापि स्वीकर्तव्यम् । तस्य च संस्कारादे रजतारोपस्थले उक्तरीत्याऽन्यथासिद्धौ व्यर्था रजतस्यान्यत्र सत्ताकल्पनेत्याह । किञ्चति ॥ ननु रजतार्थिप्रवृत्ते रजतज्ञानसाध्यत्याद्रजतस्यात्यन्तासात्वे तज्ज्ञानासंभवेन तत्साध्यप्रवृत्त्यनुपपत्तिरिति दूषणं च प्रतीतेर्यत्किञ्चिद्रजतानुभवजन्यसंस्कारमात्रेणोपपन्नाया देशान्तरेऽपि तत्सत्तानपेक्षत्वेनात्यन्तासत्त्वेऽप्युपपत्तेस्तत्साध्यप्रवृत्तेरपि नानुपपत्तिरित्युक्तन्यायेनैव परिहत. मवगन्तव्यमित्याह ॥ एतेनेति ॥ यद्वेष्टाभेदज्ञानस्यैव प्रवर्तकत्वाद्रजतस्यात्यन्तासतोऽनिष्टत्वात् कारणा- भावेन प्रवृत्त्यनुपपत्तिदूषणं चेष्टतावच्छेदकप्रकारकाभेदज्ञानस्य प्रवर्तकत्वात्तस्य चोक्तरीत्या रजतत्व- प्रकारकानुभवजन्यसंस्कारमात्रेण संभवान्न प्रवृत्त्यनुपपत्तिरिति समाहितमवगन्तव्यमित्याह ॥ एतेनेति ॥ रजतस्यासत्त्वेऽपि तत्प्रतीति तादात्म्यप्रतिबन्धाऽपि घटयति ॥ किश्चेति ॥ ननूक्तमत्र रजतस्य सत्त्वे सदुपरक्ततादाम्यरूपतद्धर्मस्य प्रतिभानसंभवेऽपि न धर्मिभूतरजतस्यासतः प्रतिभानसंभव इति तत्राह ॥ धर्मेति ॥ पुरोवर्तीन्द्रियसन्निकर्पदोपारोप्यसंस्कारादिसामग्रीसद्भावे धर्मिणोऽप्यसतः प्रतिभासेऽनुपपत्ते- रभावात्सामध्यभावे च धर्मस्याप्यसतः प्रतिभालानुपपत्तेधर्मधर्मिभावसदुपरक्तत्वोपन्यासस्य व्यर्थत्वादिति भावः । इह सत्तानिषेधमात्रस्यान्यत्र तत्सत्तापकत्वं वाऽन्यत्रापि तस्यासत्त्वे इहैव तनिषेधानुपपत्त्ये हैव तनिषेधस्य वा । नाद्य इत्याह || बाधस्येति ।। द्वितीयं शङ्कते ॥ अत्रैवेति ।। तस्येति ॥ प्रसक्त- प्रतिषेधात्मकत्वाद्वाधस्य सर्वत्रासतोऽपि रजतस्यास्यत्राप्रसक्त्याऽत्रैव च प्रसक्त्ये हैव निषेधोऽन्यथासिद्ध इत्यर्थः । रजतस्य सत्वाङ्गीकारे बाधकतयोक्तमनुभवं परोपन्यस्तप्रमाणनिरासेऽपि व्यापारयति । एतेनेति ॥ असदेवेति ॥ तथा चायमप्यपत्रादविषय एवेति भावः । अपवादकान्यथासिद्धिनिरासमुक्तं स्मारयति । तद्विषयेति ।। नन्वेवमारोप्यतादाम्ययोरुभयोरसत्वमारोपमात्रे वा कचिदेव वा । नायः । दूरस्थचूतपनसयोश्चूततादात्म्यारोपस्थले आरोप्यचूतसत्त्वस्यः: प्रमाणसिद्धतया तत्र तादात्म्यमात्रासक्त्वस्यैव वक्तव्यत्वात् । न द्वितीयः । उभयासत्त्वतादात्म्यमात्रासत्त्वप्रयोजकारोपोपाधिविशेषस्य दुरवधारणल्वा- नियामकविशेषादर्शनाचेत्याशयेन गूढाभिसन्धिः शङ्कते ॥ तत्किमिति ॥ आरोप्यसन्निहिताधिष्ठान- कारोसत्वतवमन्निहिताधिष्ठानकारोपत्वयोरुपाधित्वाहाधोत्तरकालीनारोप्यस्वरूपानुवृत्तितदभावयोरेव निया.
।। पूरापनसाविमा न त्वक एवायं चूत इति बाधोत्तरमित्यर्थः ।। यत्र पुनरिति ॥ नन्यारोप्यस्यासन्निहितत्वेऽपि रजते वा शुक्तिकायामेव वा गृहस्थरजतमिदमित्याचारोपस्थले तादात्म्यमात्रस्यासस्वं वक्तव्यम् । बाधोत्तरं स्वरूप- द्वयानुवृत्तेस्तत्कथमेतदिति चेन्न । आरोप्यासन्निहिताधिष्ठानकारोपस्थले प्रायेणोभयारोपाभिप्रायेणेतद्रन्थ- प्रवर्तनात् । अतः पूर्वमाकर एवाधिष्ठानासन्निहितविनष्टोत्पत्स्यमानघटयोः सतोरप्यारोप्यत्वमुक्तमिति ध्येयम् । यद्वेदं तद्रजतमित्यादौ विनष्टोत्पत्स्यमानघटादिस्थले च तादात्म्यमात्रस्यैवारोप्यत्वं यत्र चोभया- रोपोऽधिष्ठानासन्निधानं चारोप्यस्य तदभिप्रायेणैतन्यप्रवृत्तिः । न चैवं रजतारोपेऽप्येवमेवास्त्विति वाच्यम् । बाधोत्तरं विनष्टः स उत्पत्स्यमानः स नायं स इति तद्रजतं गेहेऽस्ति नेदं तदिति स्वरूप- द्वयानुवृत्तिवदत्रारोपितमन्यत्रास्ति नात्रेति प्रत्ययाभावात् । प्रत्युत नास्ति नासीन्न भविष्यतीति रजते सर्व- देशकालासंबन्धप्रत्ययेन वैषम्यात् । तदिदमुक्तमुक्तन्यायेनेति रजतासस्वाइकप्रमाणसद्भावेन तत्सकोच- कप्रमाणनिराकरणेन चेत्यर्थः । यद्वा गेहस्थरजतविनष्टघटादेः सत्यर जतस्य च प्रधानत्वात्तज्ज्ञानजन्यसंस्कारे सति शुक्त्यादिसनिकृष्टेन्द्रियेणासद्रजततादाम्यवदेतद्देशसंबन्ध्यसद्हस्थरजतैतत्कालसंबन्ध्यसद्विनष्टघटादि. तत्तादात्म्ययोरुभयोरप्यारोप उभयोरप्यसत्त्वं चेत्यारोप्यासन्निहिताधिष्ठानकारोपस्थल उभयोरप्यसत्त्वमिति यथाश्रुत एव ग्रन्थः साधुः । पूर्वग्रन्थस्याप्ययमेवाशयः । रजतं गेह एवास्ति नेदं तदित्यादिव्यवहारा अपि न सन्त्येव । सत्त्वे वा प्रधानसत्वाश्रयणेनौपचारिका इति द्रष्टव्यम् ॥ ३ ॥ । स० भ्रान्त्यनुभवो वेति ॥ भ्रान्त्यनुभवस्य, रजतमात्रावगाहित्वादन्यत्र सत्त्वविषयकत्वं संभावितमिति विकल्पकोटिता । बाधानुभवस्य तु अत्र रजतनिषेधात्मनोऽन्यत्र सत्त्वावगाहित्वं संभावित- मिति तत्कोटिता ॥ भ्रान्त्यनुपपत्तिवेति ॥ रजतस्यान्यन्त्राप्यसत्त्वे प्रतीतेसंभवेन संस्काराभावे भ्रमानु- पपत्तिरित्यर्थः । यद्वा रजतस्यासत्वे असतोऽप्रतीत्या भ्रान्तिरूपप्रतीतिरपि नोपपद्यत इत्यर्थः । बाधा- नुभवस्यान्यत्र सत्तानवगाहित्वेऽपि तदन्यथाऽनुपपत्त्या रजतस्यान्यत्र सत्वं सिद्ध्यति । अत्र रजतं नास्ति इति निषेधस्यान्यत्र सत्त्वं विनाऽनुपपत्तेः । सयामभावो निरूप्यत इति तत्सिद्धान्तादिति भावः । अथवा तद्विषयकस्यैव तत्र प्रामाण्याद्रजतस्यान्यत्र सत्त्वेऽपि रजतविषयकमेव प्रमाण वाच्यम् । रजत- विषयत्वं च भ्रान्तेर्बाधस्य वेत्यादिः संभावितप्रमाणानि विकल्प्य दूषयति ॥ तथा हीति ॥ प्रत्यक्षमर्था- पत्तिदैत्यर्थः । नन्विदं रजतमिति ज्ञानस्य विशिष्टज्ञानत्वाद्विशिष्टज्ञानस्य च विशेषणज्ञानजन्यत्वादेत. 80a मात्रस्य कारणत्वे प्रमेयमिति ज्ञानादपि विशिष्टप्रत्ययापच्या विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्यैव कारणत्वं वाच्यम् । तथा च लाघवाद्विशेषणतावच्छेदकप्रकारकज्ञानमात्रस्यैव तद्धेतुत्वम् । न तु तत्प्रकारकविशेषणज्ञानस्य गौरवात् । अतिप्रसङ्गपरिहारस्यैतावन्मात्रेण संभवात् । तथा च रजतारोपार्थ रजतत्वप्रकारकज्ञानस्यैव हेतुत्वेनापेक्षितत्वेन तद्रजतस्मरणस्यानपेक्षितत्वात्तत्प्रकारकस्मरणस्य च रजतान्तरा- मुभवजन्यसंस्कारेणापि संभवान्नान्यत्र सत्त्वसिद्धिरिति भावः । देशान्तरे सत्त्वं प्रदूप्य कालान्तरेऽपि तद् दूषयति । किं चेति । एतेनेति ॥ रजतसत्ताया रजतारोपं प्रति संस्कारद्वारोपयोगेन साक्षादुप. योगाभावोपपादनेन प्रतीतिद्वारकप्रवृत्ती सत्तायाः साक्षादनुपयोगादसत्वेऽपि प्रवृत्तिरित्यर्थः । ननु धर्मिणोऽसत्त्वे प्रतीतिर्नोपपद्यते । तादात्म्यस्य तु धर्मत्वादसतोऽपि प्रतीतिः संभवतीत्यत आह || धर्मधर्मिभावस्त्विति ॥ वैलक्षण्यमात्रमेतन्न प्रयोजकम् । अपरं तु विनिगमकं न किमप्यस्तीत्यर्थः ।। अत्रैवेति ॥ बाधाभावस्त्वन्यथासिद्ध इत्यर्थः ॥ यत्रारोप्यमिति ॥ अत्र सन्निहितत्वमसन्निहितत्वस्यापि उपलक्षणम् । न चैवमुत्तरत्रासन्निहितत्वे उभयोरसत्वोक्तिविरोधः । बाधोत्तरकालं स्वरूपद्वयानुवृत्त्यभावे उभयोरसस्वामिधानादित्याहुः । दूरस्थयोश्चूतपनसयोस्तादात्म्यमात्रमसदिति पूर्वेणान्वयः । कुत इत्यत आह ॥ एक एवायं चूत इति ॥ बाधोत्तरकालमिति ॥ एवं चेमौ चूताविति भ्रमाकारो द्रष्टव्यः । एक एवायं चूत इत्यनन्तरमपरस्तु पनस इति शेपः । तथा च पनसरूपाधिष्ठानवदारोप्यस्य चूतस्याबाधेन पुरोदेशे सत्यतया विषयीकरणान्नासत्वम् | रजतादिभ्रमे रजतादेः पुरोदेशे बाधेनासत्त्वस्यैव विषयी- करणादसत्त्वमेव तस्याङ्गीकार्यमिति भावः । सत्त्वेऽपीति ॥ अन्यत्र सत्त्वेऽपीत्यर्थः । कुतो नोपकारीत्यतः प्रसक्तपक्षद्वयमाशङ्कय उपकाराभावं व्यनक्ति ॥ इन्द्रियेति ॥ तदिति ॥ अन्यत्र सत्त्वमित्यर्थः । ननु भ्रान्तिहेतुसंस्कारः स्वजनंकानुभवविषयमेवान्यत्रावभासयतीत्यतो नायं नियम इति भावनाह ॥ किं च घटान्तरमिति ।। गेहे घटो मेया निहितः तं त्वं ग्रहाणेति चैत्रेणोक्तो मैत्रः श्वो गृहीताऽस्मीत्यवदत् । तन्मध्ये स घटो नष्टोऽन्यस्तु तत्स्थाने केनचिन्निहितः । मैत्रश्च परेास्तत्र गत्वा तमेव घटं चैत्रेणोक्तघटत्वेन प्राम्यति चेतदा कथमित्यर्थः । एवमुत्पत्स्यमानघटे तथा भ्रान्तिरप्युपपाद्या ॥ एतेनेति ॥ अन्यत्र सत्त्वस्य पुरोवर्तिनि प्रतीतावनुपयोगकथनेनेत्यर्थः । तेनैव प्रवृत्त्यनुपयोगस्यापि सिद्धरिति भावः । यद्वा भ्रान्त्य.
इति ।। ॥९ प्रतिभासानुपपत्तेरित्यत आह ॥ तद्विषयेति ॥ प्रतिभासानुपपत्तिरूपसङ्कोचकप्रमाणस्य न तृतीय इत्यादिना वैधर्म्यमात्रमित्यन्तेन निरस्तत्वादित्यर्थः ।। दूरस्थयोरिति ॥ द्रष्ट्रपेक्षया दूरदेशस्थयोरेकदेशे सतोश्चूतपनसयोः दूरस्थत्वदोषेण पनसे चूततादात्म्यमारोप्यते एक एवायं चूतवृक्ष इति । चूत इतीति. शब्दस्य यत्रारोप्यमित्यादिपूर्ववाक्येनान्वयः । कुत. एवं तत्रामि स्मर्यमाणारोपस्थल इवारोप्यस्य स्वरूप- मप्यसत्स्यात्कि तादात्म्यमात्रासचोपगमेनेत्यत आह ॥ बाधेति ॥ नायं चूत एव किन्तु चूतपनसाविति बाधोत्तरकालमित्यर्थः । उक्तन्यायेनेति ॥ असदेव रजतं प्रत्यभादित्यनुभवविरोधादित्यादिनोक्त. न्यायेनेत्यर्थः ॥ एवंविधेति ॥ तादात्म्यमानं गृह्यमापारोपे मर्यमाणारोपे न सर्वत्रासदित्येवरूपान्यथा- ख्यातिवादः प्राचीननैयायिकोक्त इत्यर्थः ।। . या० अन्योन्याश्रयायुक्तपरिशेषस्योक्तबाधप्रतीतिसङ्कोचकत्वस्य वक्तुमशक्यत्वेन सम्भावितं तत्सङ्कोचकं प्रमाणान्तरं विकल्प्य दूषयति ॥ भ्रान्त्यनुभवो वेत्यादिना ।। दोपदूषितं चक्षुः शुक्ति- कामात्रसन्निकृष्टमपि विप्रकृष्टरजतात्मना दर्शयतीति भ्रान्त्यनुभवस्यान्यन्त्र विद्यमानरजतविषयकत्वमुपपा- दितमस्तीति विकल्पकोटिता ॥ बाधानुभवस्य त्वभावज्ञानरूपतया तत्र चान्यत्र सत एव प्रतियोगिन उपनीतस्य भानाङ्गीकारात्तत्कोटिता ॥ भ्रान्त्यनुपपत्तिवति ।। अत्र प्रतीतस्य रजतस्यान्यत्राप्यसत्त्वे प्रतीतेरसम्भवेन संस्काराभावे भ्रमानुपपत्तिरित्यर्थः ॥ बाधानुपपत्तिर्वेति ॥ बाधानुभवस्यात्र सत्तानव. गाहित्वेऽपि तदन्यथाऽनुपपत्याऽन्यत्र रजतस्य सत्त्वं सिध्यति । अत्र रजतं नास्तीति निषेधस्यान्यत्र सत्त्वं विनाऽनुपपत्तेः सयामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति तन्सिद्धान्तादिति भावः । ननु भ्रान्त्यनुभवस्य रजतसत्ताऽशे. बाधाभावात्कधमप्रमात्त्रमित्यत आह ॥ अत्रैवेति ॥ स्यादेतदेवं यदि रजतं सदित्येव भ्रमाकारः स्यान्न धेन किं त्वत्रैव सदिति । न ह्ययमबाधितो नाप्यन्यत्र सत्तामवगाहते येन तसिद्धिन्त्यनुभवो न स्यात् । तथाच दोषदूषितं चक्षुरित्यादित्वदीयमुपपादनमप्रामाणिकमिति भावः । अत्र प्रतीतस्यैवेति ।। न चात्र प्रतीतस्यान्यत्र सत्वे विशेषणज्ञानासम्भवात्कथं तद्विशिष्ट- ज्ञानमिति वाच्यम् । प्रमेयत्वेन दण्डशाने तद्विशिष्टप्रत्ययादर्शनेन विशेषणतावच्छेदकप्रकारेण विशेषण- ज्ञानं हेतुरिति वक्तव्यम् । न च तत्सम्भवति गौरवात् । लाघवेन विशेषणतावच्छेदकप्रकारकज्ञानस्यैव विशिष्टज्ञानहेतुत्वात् । सदिहाप्यस्तिः । यत्किञ्चिद्रजते रजतत्वप्रकारकज्ञानस्य सम्भवादित्याशयात् ।
योग्यत्वेनात्र प्रतीतस्यान्यत्राप्यसत्त्वे प्रवृत्तेरनुपपत्तेरित्येतदपि 'न ह्यन्यत्र सत्त्वस्य साक्षात्प्रवृत्तावुपयोगं पश्यामः । संस्कारादिना हि तदुपयोग' इत्युक्तरीत्या परास्तमित्यर्थः । असत्त्वे कथं प्रतीतिरित्यत्रैव दूष- -णान्तरमाह || किश्चासतः प्रतिभासासम्भव इति ॥ नन्वसतो धर्मिण एव प्रतीतिस्तादात्म्यस्य तु धर्मत्वादसतोऽपि प्रतीतिः किं न स्यादित्यत आह ॥ धर्मधर्मभावस्त्विति ॥ वैधर्म्यमात्रमेतन्नोक्ता- प्रतीतिः प्रतीत्योपपादकमप्रयोजकत्वादिति भावः । एवं विमतं सत् तथा प्रतीतत्वादित्यस्य बाधित. विषयत्वमभिधायाधुना व्यभिचारमप्याह ॥ एतेन यद्यथेति ॥ तादात्म्ये व्यभिचारेणेत्यर्थः । ननु हेती बाधकामाचे सतीति विवक्षितमग्रेजो न व्यभिचार इत्यत आह || असदेव रजतमिति ॥ तथा चासिद्धिरिति भावः । दूरस्थयोश्चूतपनसयोस्तादात्म्यमात्रमसदिति पूर्वेणान्वयः । कुत इत्यत आह । एक एवायमिति ।। बाधाकारप्रदर्शनमिदम् । भ्रमस्तु इमौ चूतावित्येवमाकारो द्रष्टव्यः । एक एवायं चूत इत्यनन्तरमपरस्तु पनस इति शेषः । तथाच पनसरूपाधिष्ठानवदारोप्यस्य चूतस्याप्यबाधेन पुरोदेशे सत्यतया विषयीकरणान्नासत्त्वं । रजतादिभ्रमे तु रजतादेः पुरोदेशे बाधेनासत्त्वस्यैव विषयीकरणाद- सत्वमेव तस्याङ्गीकार्यमिति भावः । श्री०-~~ अप्रमात्वादिति ।। तथाच भ्रान्त्यनुभवः प्रमाणमिति व्याहतमिति भावः । रजतस्य सत्वमङ्गीकृत्याप्याह । अत्रैवेति ॥ इदं रजतमिति भ्रान्त्यनुभवेन पुरोदेश एव रजतस्य सत्वमावेद्यते नान्यत्रेति भ्रान्त्यनुभवो रजतस्यान्यत्र सत्वे न मानमित्यर्थः ॥ तन्मात्रेति ॥ पुरोवर्तीन्द्रियदोषादिमात्रे. त्यर्थः । तथाच नान्यत्र रजतसत्ताक्षेपकत्वमिति भावः ।। कथमिति ॥ रजतस्यासत्यत्वे तद्विषयिणी भ्रम- रूपा प्रतीतिरेव नोपपद्यते । असतः प्रतीत्यभावादतस्तदन्यथाऽनुपपत्त्याऽन्यत्र सत्त्वमङ्गीकर्तव्यमित्यर्थः ।। तदन्यत्र सत्त्वम् । ननु भवत्पक्षेऽपि कथं भ्रमरूपज्ञानोत्पत्तिः सम्भवति । असता रजतेन सन्निकर्षायोगा- दिति साम्यमेवेत्यत आह । पुरोवर्तीति ।। तथाच रजतेन सन्निकर्षो नापेक्षित इति भावः । यथार्थो यथार्थ- श्वेत् । घटान्तरं वर्तमानम् । . विनष्टोत्पत्स्यमानयोरारोप्यभूतयोः । तस्य कालान्तरे सत्त्वस्य तदुपपाद- यति ॥ संस्कारादिना हीति ॥ वैधर्म्यमात्रमिति ॥ वैलक्षण्यमात्रमेवेदं धर्मित्वं प्रतीत्युपपादकं न भवत्यप्रयोजकत्वादेवमेव धर्मत्वमपि न प्रतीत्युपपादकमित्याशयः । तस्य रजतसत्त्वस्य । अत्रैव पुरोदेश एव । उपपत्ते रजतसत्तानिषेधस्योपपत्तरित्यर्थः ।. नन्वसदेव रजतं प्रत्यमादित्यनुभवादित्यनुभंवरूप- - श यत्र इदंरजतमित्यादिस्थले । उक्तन्यायेनेति ॥ नेदरजतमिति बाधोत्तरकालं स्वरूपद्वयानुवृत्त्यभावाद्रजतं तत्तादात्म्यं चेत्युभयमप्यसदिति भावः ॥ ॥ च० कल्पचतुष्टयमभिप्रेत्य क्रमेण प्रतिविधत्ते ॥ भ्रान्त्यनुभवो वेत्यादि । तद्विपय- सङ्कोचकप्रमाणस्येति ॥ असत्पदस्य पुरोदेशमात्रासत्वकल्पकप्रमाणस्येत्यर्थः । - सु०. अपरे पुना रजतं सदेव किन्त्वन्तरेवेति मन्यन्ते । तथा हि । न तावदसदेव रजतम् , प्रतीत्यनुपपत्तेः। नापि पुरत एव सत्; भ्रान्त्यनुपपत्तेः, बाधविरोधाच्च । न च देशा. न्तरे सत् , प्रमाणाभावात् । अतः परिशेषाज्ज्ञानाकारमेवावतिष्ठते । किञ्चेदं ज्ञानरूपम् इन्द्रिय संप्रयोगेऽसत्यपरोक्षत्वाज्ज्ञानवत् । न च सत्यत्वे भ्रान्त्यनुपपतिः, आन्तरस्यैव बाह्यतया. ऽवभासो भ्रम इत्यङ्गीकारात् । तस्य नेदमिति बाह्यतानिषेधेनैव वाधकस्य बाधकत्वोप- पत्तिरिति ॥ एतच्चानुपपन्नम् । सत्त्वेऽसदेव रजतमित्यसत्त्वावेदकप्रत्ययविरोधस्योक्तत्वात् । असतः प्रतीत्यनुपपत्तौ च बहिष्ठताया अपि. प्रतीत्यनुपपत्तिप्रसङ्गात् । तत्सत्त्वे भ्रान्तित्वा- नुपपत्तेः । बहिस्सत्त्वमेवासत्प्रत्ययेन निषिध्यत इति चेन्न इन्द्रियसंप्रयोगमन्तरेणापरोक्षत्वस्य हेतोर्वाह्यतायामनैकान्त्यात् । शुक्तिसंप्रयोगेणापरोक्षतायाः स्वीकारादसिद्धेश्च । दृष्टान्तश्च साधन विकलः । ज्ञानस्यापीन्द्रियसंप्रयोगादेवापरोक्षताऽङ्गी- कारात् । किश्च गुञ्जापुञ्जादौः दहनादिसमारोपे तस्यान्तःसत्वे देहदाहादिप्रसङ्गः । अन्यथा- ऽन्तरपि तदसदित्यत्यन्तासदेवापन्नमिति नात्मख्यातिपक्षोऽप्युपपत्तिमान् । आन्तरत्वे. प्रमाणाभावात् एवं बहिस्सस्वपक्षं निराकृत्य तन्निरासाधीनसिद्धिकमन्तःसत्त्वपक्षं निरसितुमनुवदति ।। अपर इतिः ।।. प्रभाणाभावात्तदसंभव इत्यतः प्रमाण वक्तुं प्रतिजानीते ॥ तथा हीति ॥ देशान्तर इति ॥ बहिरिति शेषः । नन्यसत्प्रतीतेरुक्तवक्ष्यमाणन्यायसिद्धतयान्तरल्वे प्रमाणाभावाबहिस्सत्त्वमेवेति देशान्तरसस्ववादिना परिशेषस्य कर्तुं शक्यत्वाच्च नायं प्रकारो युक्त इत्यतोऽनुमानमाह ॥ किं चेति ।। इदमिति ॥ रजतमित्यर्थः । अत्र संप्रयोगः संवन्धमात्रमभिमतं न तु तद्विशेपः संयोगादिरतो रूपादिना येन्द्रियेति । तथा चेन्द्रियसन्निकर्षानधीनापरोक्षत्वादिति हेतुशरीरं सिद्धं भवति ॥ ज्ञानवदिति ॥ तस्य स्वतःसिद्धतया तत्र हेतुसद्भाव इति भावः ॥ तस्येति ॥ इदन्तानिषेधकत्वेनैव बाधकत्योपपत्ती रजतनिषेधकत्वस्यापि कल्पने गौरवमित्याशयः । अत एवाह || निषेधेनैवेति || परिशेषं विघटयितु. मनुभवविरोधं स्मारयति ॥ सत्य इति ॥ एवं परिशिप्यमाणे बाधात्परिशेषानुपपत्तिमभिधायोक्तरीत्या सक्त्वोपपत्तौ प्रसक्तप्रतिषेधासंभवेनापि तदनुपपत्तिमाह ॥ असत इति ।। अनुभवविरोधं परिहतुं शङ्कते ॥ बहिरिति ।। नेति ॥ अन्यथाऽन्योन्याश्रयः स्यादिति भावः स्वनिष्ठत्वेनेन्द्रियसन्निकर्षो विशिष्यते न वा । आद्य आह ॥ इन्द्रियेति ॥ अन्त्य आह ॥ शुक्तीति ॥ दृष्टान्तश्चेति ॥ वृत्तिज्ञाने स्वप्रकाशताया निराकरिष्यमाणत्वादिति भावः । अङ्गीकारादित्यनेन साक्षिण इन्द्रियत्वानङ्गीकारिण एतदोषप्रसरेऽपि मां प्रति तदप्रसर इति सूचयति ।। आरोपविशेषे दोषमाह ॥ किं चेति ॥ अन्यथा बुद्धावपि तस्यातात्विकत्वादन्तरसत्वे । अत्र शुक्तिसंप्रयोगेणेत्युक्त्येदन्ताया अनिषेधान्न कल्पनागौरव- मिति । असदेव रजतमित्यनुभवोक्त्या च रजतनिषेधकत्वमेव बाधकप्रत्ययस्य युक्तमिति सूचयति । - ननु बहिरिन्द्रियासंत्रयोगे सतीति विवक्षितमतो न साधनशून्यतेत्यत आह || किं चेति ॥ आत्मख्यातिपक्ष इति ।। विज्ञानख्यातिपक्ष इत्यर्थः ।। प०- अपर इति ॥ बौद्धकदेशिनो विज्ञानात्मतत्त्ववादिन इत्यर्थः । परिशेषमुक्त्वाऽनुमान चाह ॥ किं चेति ॥ इदमितिपक्षः शुक्तौ प्रतीयमानं रजतमित्यर्थः । ज्ञानरूपमिति साध्यम् । इन्द्रियसंप्रयोगेऽसति अपरोक्षत्वादिति।प्रतीयमानरजतस्येन्द्रियसन्निकर्पाजन्यप्रत्यक्षविषयत्वादित्यर्थः ।। उक्तत्वादिति ॥ पूर्वमतनिरासप्रस्ताव उक्तत्वादित्यर्थः । तथा चासत्वेनोपपत्त्या न परिशेषावतार इति भावः । तत्सत्वे बहिष्ठतायास्सत्त्वे । असत्त्वेऽसदेव रजतमित्यादिनोक्तदोषोद्धारमाशङ्कते ॥ पहि. स्सत्यमेवेति ।। कल्पकाभावादिति भावेनाह ॥ आन्तरत्व इति । अनुमानं च निरसितुं कि प्रतीय- मानस्वसादिसलिमलमत्वमभिमतमुत सन्निकर्षमात्रं विनेति हृदि कृत्वाऽऽद्य आह ॥ इन्द्रि- ALVENKAT NARA, Eति अन्त्य गतिविति साह ॥ शुक्तीति ॥ ज्ञानस्यापीति ॥ स्वरूपेन्द्रियसंप्रयोगाभिव्यक्त- 'Eसेक्षितपावरक्षामविस्वस्य हानेऽपि स्वीकारादिति भावः । a. No 31486.