Bharti Bhawan Library Allahabad
Anandasrmsanskrit Granthawali Granthang 20
Front matter
। S (२) . १४ छान्दोग्योपनिषत्सटीकशांकरभाष्योपेता । तथा विद्यारण्यकृता छान्दोग्योप- निषद्दीपिका । नित्यानन्दकृता छान्दोग्यमिताक्षरा च (मुद्रणावस्थायामेतत्पु- स्तकत्रयमस्ति) तदानन्दाश्रमस्थपण्डितैः संशोध्यते । १५ बृहदारण्यकोपनिषत्सटीकशांकरभाष्योपेता । विद्यारण्यकृता बृहदारण्यकोप- निषद्दीपिका । नित्यानन्दकृता बृहदारण्यकोपनिषन्मिताक्षराच एतत्पुस्तकत्रि- तयमानन्दाश्रमस्थपण्डितैः संशोध्यते १६ बृहदारण्यकोपनिषद्भाध्यवार्तिकमानन्दगिरिकृतटीकासमेतम् । आनन्दाश्रमस्थ- पण्डितैः ( संस्क्रियमाणम् ) १७ कृष्णयजुर्वेदीयश्वताश्वतरोपनिषत्सभाष्या । तथा च शंकरानन्दकृता श्वेताश्वत- २ रोपनिषद्दीपिका । नारायणकृता श्वेताश्वतरोपनिषद्दीपिका । विज्ञानभगवत्कृतं श्वेताश्वतरोपनिषद्विवरणम् । एतत्पुस्तकचतुष्टयमानन्दाश्रमस्थपण्डितैः संशो- धितम् । १८ सौरपुराण लेले इत्युपाढेः काशीनाथशास्त्रिभिः संशोधितम् । ३. १९ रसरत्नसमुच्चयः वैराजक्षेत्रनिवासिभिः रा. रा. बापटोपाडैः कृष्णराव इत्येतैः संशोधितः कृतमुद्रणो वर्तते । २० श्रीमद्विद्यारण्यकृतो जीवन्मुक्तिविवेकः वे. शा. सं. पणशीकरोपाढेर्वासुदेव- । शास्त्रिभिः संशोधितः कृतमुद्रणोऽस्ति । २३ श्रीमद्वैपायनप्रणीतब्रह्मसूत्राण्यानन्दगिरिकृतटीकासंवलितशांकरशाररिकभा- ष्यसमेतानि मुदणावस्थायां वर्तन्ते । तानि च वे. शा. सं. येकसंबेकरोपाढ़ी- रायणशास्त्रिभिः संशोध्यन्ते । २२ विद्यारण्यकृतः श्रीशंकरदिग्विजयो धनपतिसरिकृतडिण्डिमाख्यटीकासमेत आनन्दाश्रमस्थपण्डितैः ( संस्क्रियमाणो वर्तते) २३ स्कन्दपुराणान्ततर्गता सूतसंहिता विद्यारण्यकृतटीकोपेता। वे. शा. सं. पणशी करोपाश्र्वासुदेवशास्त्रिभिः ( संस्क्रियमाणा वर्तते) इयं ग्रन्थावलिन प्रातिमासिकी । अस्यां बहुभिः पुस्तकैम्रन्थस्य परिशोधनं भवति । यदा च द्वित्रिमार्ग्रन्थः परिपूर्णो भवति तदैव सर्वेभ्यो ग्रह केभ्यो दीयते । नियतग्राहकेभ्य आ- नन्दाश्रमस्थमुद्रितशतपृष्ठानां मूल्यं द्वादशाणका गृह्यन्ते । तेषां पुस्तकप्रेषणाद्यर्थे धनव्ययो नैव भवति । अनियतग्राहकेभ्यस्तु शतपृष्ठानां मूल्यमेको रूपकः पुस्तकप्रेषणाद्यर्थ धनं च गृह्यते । पुस्तकमल्यग्रहणं पुस्तकप्रेषणात्पूर्व पश्चाद्वान किंतु पुस्तकप्रापणसमय एव । निय- तानियतग्राहले भ्यः पुस्तकानि व्ह्यालुपेबलपोष्टमार्गेण प्रेध्यन्ते ३ Sa-- । महादेव चिमणाजी आपटे, बी. ए. एल्. एल्. बी., मुंबई युनिव्हर्सिटीचे फेलो, व मुंबई हायकोर्टाचे वकील. ब THE । RAN SE
आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: २०
श्रीमद्विद्यारण्यकृतो जीवन्मुक्ति-
विवेकः।
एतत्पुस्तकम् ।
वेदशास्त्रसंपनैः पणशीकरोपाद्वैर्वासुदेवशास्त्रिभिः
संशोधितम् ।
महादेव चिमणाजी आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८११
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
No text on this page.
जीवन्मुक्तिविवकस्य भूमिका । , जीवन्मुक्तिविवेकेन बन्धं हार्द निवारयन् । घुमर्थमखिलं देयाद्विद्यातीर्थमहेश्वरः ॥ इह खलु संसारे मुक्ता मुमुक्षवो विषयिणः पामराश्चेति चतुर्विधा जना उप- लभ्यन्ते । मुक्तानां प्राप्तव्यप्राप्तत्वान्न कापीतिकर्तव्यता, तदनुकूल उद्यमश्चोपयु- ज्यते । पामरा विषयिणश्च ज्ञानहीनत्वादनधिकारिण एव । परिशेषादज्ञानत- मोनिवर्तकेऽस्मिन्वेदान्तशाख्ने मुमुक्षव एवाधिक्रियन्ते । मुमुक्षुलक्षणं चान्यत्र द्रष्टव्यम् । तादृशानां मुमुक्षूणां ज्ञानप्राप्तिपूर्वकमात्मविज्ञानेन पाञ्चभौतिकशरी- रपातानन्तरं मुक्तिः स्यादेव । परंच ज्ञातव्यस्याऽऽत्मनः प्राप्तिसमकालमेव पति- बन्धकस्याऽज्ञानस्य निवृत्त्या मुक्तिमुखं लभ्यतामिति विचार्य परमकारुणिकैः पूर्वाचार्यैः शरीरधारणेऽपि सति तत्वज्ञानानन्तरं " ज्ञानादेव तु कैवल्यम् इति श्रुतेर्ज्ञानप्राप्तिक्षण एव मुक्तिरुक्ता सैव जीवन्मुक्तिरित्युच्यते । सा च वि- भिन्नासूपनिषत्सु श्रीमद्भगवद्गीतासु च तेषु तेषु स्थलेषु संक्षेपतो विस्तरतश्च प्रतिपादिता । तदुपयोगितया संन्यासाश्रमोऽपि पराशरमाधवीयादिषु विस्तरेण प्रपञ्चितः । तथापि तेषां ग्रन्थानां बहुत्वाहुरूहत्वाच्चाऽल्पायासेनैव मुमुक्षूणां जीवन्मुक्तिस्वरूपज्ञानं भूयादिति विचार्य परमकृपालवो वीरबुक्कभूपालसाम्रा- ज्यधुरंधराः श्रीमत्सायणमाधवाचार्या एव स्वयं चतुर्थाश्रमस्वीकरणोत्तरं पूर्व- प्रणीतैरपि ज्योतिर्वैद्यधर्मशास्त्रव्याकरणमीमांसावेदान्तग्रन्थैरपरितुष्टान्तःकर- णाः स्वकृप्तेभ्यस्तेभ्यस्तेभ्यो ग्रन्थेभ्यः सारमाकलय्य, तथा केवलमर्थतः पठि- तनिगमशिरोभागभूतायाः श्रीमद्भगवद्गीतायाः, तथा एवंगुणगणविशिष्टाच्छी- राममनुलक्ष्य वसिष्ठप्रचोदिताद्योगवासिष्ठात्, तथा श्रीमच्छुकादिपरमहंसास्वा- दितानिगमकल्पतरुफलभूताच्छ्रीमद्भागवताच स्वपतिपिपादिषितविषयसाधनी- भूतानि प्रमाणवचनान्युद्धृत्य च तमिममन्वर्थनामानं संन्यासविषयविभागदर्शक जीवन्मुक्तर्विलक्षणमुखाविर्भावविलसद्गर्मितं मोक्षनिश्रणीभूतं जीवन्मुक्तिविवेका- ख्यं ग्रन्थं समचीकृपन् ॥ * ज्ञातव्यं च--" किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः । अधिष्ठिता: केन (२) सन्ति चास्मिन्कृप्तनामसदृक्फलानि १ जीवन्मुक्तिप्रमाणप्रकरणम् २ वास- नाक्षयमकरणम् ३ मनोनाशमकरणम् ४ स्वरूपसाधनप्रकरणम् ५ विद्वत्सं- न्यासनिरूपणप्रकरणमिति चाव्यभिचारेण धृतनामसदृक्षविषयप्रतिपादकानि पञ्च प्रकरणानि । संप्रति ह्येतद्ग्रन्थप्रणेतृणामखिलविद्यानिकरपारदृश्वनां ग्रन्थनिर्मात्रग्रेसरा- णां श्रीमद्विद्यारण्यस्वामिनां जन्ममादुर्भावः १३०० त्रयोदशशततमे शालि- वाहनशाकेऽभूदिति कैश्चिचोपलब्धताम्रपट्टानुसारेण १३१३ त्रयोदशाधिका- योदशशततमे शाकेऽभवदिति त्रयोदशवर्षान्तरेणाऽऽकलितः । तथा च ये ग्रन्थकर्तृशिरोमणयः सायणमाधवाचार्या इति विसमरप्रथाः पूर्वाश्रमे त एवान- न्तरं विद्यारण्येत्यभिधया चतुर्थाश्रमे विराजमाना बभूवुरिति प्रसिद्धिः। कै- श्चिञ्च तेभ्यः पृथगेवेमे इति निर्मूलोऽपि तर्कः समुद्भावितः तत्मामाण्ये मतभे- देन विवदमानत्वादास्तामेतद्विषयस्य राद्धान्तविचारणाशुष्कप्रयासेन, असारेण तद्विवेचनेन च । उत्तराश्रमस्वीकरणोत्तरं कदाचित्काशीक्षेत्रे श्रीमद्वेदव्यासान्प्रसाध स्वसंक- लितानि श्रुतिभाष्याणि शुद्धाशुद्धविवेचनाय तान्प्रत्यददुः । तैरपि पाडालोच- नेन सर्वथैवैषां भाष्याणां निर्दोषत्वमालोच्य सादरमेषां श्रीविद्यारण्य इत्यभि- धा प्रतिष्ठापिता वति लोकेषु इतीयमाख्यायिका । तदुत्तरं च स्वस्य जाग- रूके जीवन्मुक्तत्वेऽपि वर्मभाक्क्रमप्राप्तांजारठीमवस्थामाकलय्य तदानी पर्यट- नासामर्थ्यानिजगुर्वनुज्ञया श्रीमच्छंकराचार्यस्थापितदक्षिणदिग्गतशृङ्गेरीमठा- धिपत्यमुररीकृत्य श्रीजगद्गुरुशङ्करावतारपरिशिष्टमनेकमतखण्डनपूर्वकमव्याहतं श्रुतिमार्गपचयं तस्तरुः । तदलममितगुणानामेषां गुणप्रपञ्चनेन । विशेषस्तु विद्वद्वराः इस्लाम्पुरकरोपाहवामनशास्त्रिण आनन्दाश्रममुद्रितरुद्रभाष्यमस्ताव- नायां यथावत्समयूयुजन्स तत एवावगन्तव्यः । अस्य शोधनसमये संकलितानां षण्णामादर्शपुस्तकानां क्रमः । तेषु च च. त्वारि पुण्यपत्तनस्थानन्दाश्रमाधिपतिभिः आपटे इत्युपाकैर्महादेव चिमणाजी इत्येतैर्दत्तानि । तत्क्रमश्चेत्थम्- (क.) इति संज्ञितम्-रा.रा. रघुनाथराव नगरकर इत्येतैः पुण्यपत्तननिवासि- भिर्दत्तम् । तल्लेखनकालशाकः १७०४ शुभकृन्नामाब्दम् । (ख.) इति संज्ञितम्-वे. शा. वामनबुवा मगधिकारी इत्येतेषां चोपडेसंस्थान- (ग.) इति संज्ञितम्--रा. रा. मोरोबादादाफडणीस इत्येतैः पुण्यपचनवासिभि- दत्तम् । तच्छकादि १६९१ विरोध्यब्दे पौषशु० ३ इति । (घ.) इति संज्ञितम्-रा. रा. किबेसाहेब इत्येतैर्दत्तम् । तत्कालः संवत् १८२८ (6.) इति संज्ञितम्-रा. रा. ज्येष्ठाराममुकुन्दजी इत्येतेषां मुम्बापुरवासिनां काश्यां मुद्रितम् । तत्कालीनः संवत् १९३७ इति । (च.) इति संज्ञितम्-वे. शा. वामनशानि इस्लाम्पुरकर इत्येतैः प्रथमप्रकरण- हीनमप्यतीव शुद्धतरमेकं दत्तम् । तत्कालशाकः १७९५ तदेतेषां पुस्तकानामाकलनेन यथाधिषणं मया यथावत्संशोधितोऽयं ग्रन्थ- स्तथाप्यस्य शोधनावसरेऽनवधानतो हग्दोषाच क्वचन मुद्रणकर्मनियुक्तानां दौर्लक्ष्येण च यदत्र स्खलितानि तथापि- दोषदुष्टमिदमित्यवज्ञया हातुमिच्छत न जातु साधवः। शैवलं किल विहाय केवलं निर्मलं किमु न पीयते जलम् ॥ इति साधुक्षुण्णपदव्यवलम्बिनो निसर्गदयालवः परिश्रमविदः कोविदा मा- नुषशेमुषीमुलभानि स्खलितानि दयादृष्टया तत्र तत्र परिशोधनेन क्षमापय- न्त्विति सालिबन्धं सविनयमभ्यर्थयते । NatashatIND पणशीकरोपाहो वासुदेवशास्त्रिशर्मा न
No text on this page.
॥ श्रीः॥ ॐ तत्सद्ब्रह्मणे नमः। श्रीमद्विद्यारण्यमुनिविरचितः जीवन्मुक्तिविवेकः । imalay अथ प्रथमं जीवन्मुक्तिममाणप्रकरणम् । यस्य निःश्वसितं वेदों यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥ ॐ वक्ष्ये विविदिषान्यासं विद्वन्यासं च भेदतः । हेतू विदेह मुक्तेश्च जीवन्मुक्तेश्च तौ क्रमात् ॥ २॥ संन्यासहेतुर्वैराग्यं यदहर्विरजेत्तदा । प्रव्रजेदिति वेदोक्तस्तद्भेदस्तु पुराणगः॥ ३ ॥ विरक्तिर्द्विविधा प्रोक्ता तीव्रा तीव्रतरेति च । सत्यामेव तु तीतायां न्यसेद्योगी कुटीचके ॥ ४ ॥ शेक्तो बहूदके तीव्रतरायां हंससंज्ञिते । मुमुक्षुः परमे हंसे साक्षाद्विज्ञानसाधने ॥ ५॥ पुत्रदारगृहादीनां नाशे तात्कालिकी मतिः । धिक्संसार इतीहक्स्याद्विरक्तेर्मन्दता हि सा ॥ ६ ॥ अस्मिञ्जन्मनि माभूवन्पुत्रदारादयो मम । इति या मुस्थिरा बुद्धिः सा वैराग्यस्य तीव्रता ॥ ७ ॥ पुनरावृत्तिसहितो लोको मे मास्तु कश्चन । इति तीव्रतरत्वं स्यान्मन्दे न्यासो न कोऽपि हि ॥८॥ यात्राद्यशक्तिशक्तिभ्यां तीव्र न्यासद्वयं भवेत् । कुटीचको बहूदश्चेत्युभावेतौ त्रिदण्डिनौ ॥ ९ ॥ द्वयं तीव्रतरे ब्रह्मलोकमोक्षविभेदतः । तल्लोके तत्त्वविद्धंसो लोकेऽस्मिन्परहंसकः ॥ १० ॥ १ ग. घ. निश्वसितं । २ घ. दा मायया योऽखि । ३ ग. "हेतु वै । ४ ग. ते त । ५ ध. पुराणतः । ६ ग. शक्तौ । ७ क. ख. ग. घ. रमितीहक्स्या। ८ घ, न कश्चन । ९. यत्राय। 1. अ. सलों। सsax20.
२ जीवन्मुक्तिविवेकः। [प्रथम एतेषों तु समाचाराः प्रोक्ताः पाराशरस्मृतौ । व्याख्यानेऽस्माभिरत्रायं परहंसो विविच्यते ॥ ११॥ जिज्ञासु नवांश्चेति परहंसो द्विधा मतः । पाहुञ्जनाय जिज्ञासोन्यासं वाजसनेयिनः ॥ १२ ॥ प्रवाजिनो लोकमेतमिच्छन्तः प्रव्रजन्ति हि । एतस्यार्थस्तु गद्येन वैक्ष्यते मन्दबुद्धये ॥ १३ ॥ लोको हि द्विविधः, आत्मलोकोऽनात्मलोकश्चेति । तत्रात्मलोकस्य त्रैविध्यं बृहदारण्यके तृतीयाध्याये श्रूयते-" अथ त्रयो वाव लोका मनुष्यलोकः पितृ- लोको देवलोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणों कर्मणा पितृलोको विद्यया देवलोकः" इति ॥आत्मलोकश्च तत्रैव श्रूयते-'यो हवा अस्माल्लोकात्स्वं लोकमदृष्ट्वा मैति स एनमविदितो न भुनक्तीति ॥आत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न होस्य कर्म क्षीयते" इति च । यो मांसादिकपिण्डलक्षणात्स्वलोकं परमात्माख्यमहं ब्रह्मास्मीत्यविदित्वा म्रियते सः स्वलोकः परमात्माऽविदित अविद्ययाऽव्यवहितः सन्नमवेत्तारं प्रेतं मृतं न भुनक्ति शोकमोहादिदोषापनयनेन न पालयति । उपासकस्य ह निश्चि- तं कर्म न क्षीयते एकफलदानेनोपक्षीणं न भवति ॥ कामितसर्व फलं मोक्षं च ददातीत्यर्थः ॥ षष्ठाध्यायेऽपि-"किमर्थं वयमध्येष्यामहे किमर्थं वयं यक्ष्यामहे किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ॥ ये मजामीशिरे ते श्मशानानि भेजिरे॥ ये प्रजा नेशिरे तेऽमृतत्वं हि भेजिरे" ॥ एवं सति एतमेव प्रनाजिनो लोकमिच्छन्तः प्रव्रजन्तीत्यत्रात्मलोको विवक्षित इति गम्यते ॥ स वा एष महानज आत्मेति प्रक्रान्तस्यात्मन एतच्छब्देन परामृष्टत्वात् ॥ लोक्य- तेऽनुभूयत इति लोकः ॥ तथा चात्मानुभवमिच्छन्तः प्रव्रजन्तीति श्रुतेस्तात्प- यर्थिः संपद्यते ॥ स्मृतिश्च- " ब्रह्मविज्ञानलाभाय परहंससमाह्वयः । शान्तिदान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥” इति ॥ इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितर्वेदानुवचनादिभिरुत्पन्नया विविदि- षया संपादितत्वादयं विविदिषासंन्याप्त इत्यभिधीयते ॥ अयं च वेदनहेतुः ।। १ डा. षां सुसमाचाराः । २ ङ. तदिच्छ । ३ क. ख. घ. स्यार्थ तु ग।४ घ. वक्ष्ये मन्दत्व- । ५ ग. 'णा पि । ६ घ. हास्यायुः क्षीय । ७ ग. घ. पुस्तकयोः क्षीयत इति च इत आरभ्य, षष्ठा- ध्यायेऽपत्येितदन्तःपाती ग्रन्थो न विद्यते । ८ क. नेवम। 5 क. ख. ग. घ. पुस्तकेषु किमर्थमित्या- रस्य किंमजयेत्येतदन्तर्वर्ती विषयो नहि । १० क. स्व. म. घ. पुस्तकेषु ये प्रजामित्यत: मेजिरेऽवधिको मन्था न विद्यते । ११ ग. विज्ञान । MusRASHISHES:
سه जीवन्मुक्तिप्रमाणम.] विद्यारण्यमणीतः संन्यासो द्विविधः, जन्मापादककाम्यकर्मादित्यागमात्रात्मकः भैषोच्चारणपूर्वक- दण्डधारणाद्याश्रमरपञ्चेति ।। 'पुंजन्म लभते माता पनी च मेषमात्रवः । बझ नष्टं मुशीलश्च ज्ञान चैतत्प्रभावतः ॥ त्यागश्च तैत्तिरीयादो श्रूयते-" न कर्मणा न प्रजया धनेन. त्यायेनैके अ- मृतत्वमानशुः" इति ।। अस्मिश्च त्यागे स्त्रियोऽप्यधिक्रियन्ते । भिक्षुकीत्यनेन स्त्रीणामपि माग्विवाहाद्वा वैधव्यादूर्ध्व संन्यासेऽधिकारोऽस्तीति दर्शितम् । तेन भिक्षाचर्य, मोक्षशास्त्रश्रवणं, एकान्त आत्मध्यानं च ताभिः कर्तव्यं त्रि- दण्डादिकं च धार्यम् । इति मोक्षधर्मे चतुर्धरीटीकायां मुलभाजनकसंवादः ॥ शारीरकभाष्ये वाचक्नवीत्यादिश्रूयते । देवताधिकरणन्यायेन विधुरस्याधिका- रमसङ्गत्वेन तृतीयाध्याये चतुर्थपादे ॥ अत एव मैत्रेयीवाक्यमाम्नायते-" ये- नाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवन्वेत्थ तदेव मे ब्रूहि"इति ॥ ब- मचारिगृहस्थवानमस्थानां केनचिनिमित्तेन संन्यासाश्रमस्वीकारे प्रतिबद्धे सति स्वाश्रमधर्मेष्वनुष्ठीयमानेष्वपि वेदनार्थों मानसः कर्मादित्यागो न विरुध्यते ।। श्रुतिस्मृतीतिहासपुराणेषु लोके च तादृशां तत्त्वविदो बहूनामुपलम्भात् ॥ य- स्तु दण्डधारणादिरूपो वेदनहेतुः परमहंसाश्रमः स पूर्वैराचार्यैर्बहुविधा प्रप- ञ्चित इत्यस्माभिरुपरम्यते ॥ इति विविदिषासंन्यासः ॥ अथ विद्वत्संन्यासं निरूपयामः ॥ सम्यगनुष्ठितैः श्रवणमनमनिदिध्यासनैः परतत्त्वं विदितवद्भिः संपाद्यमानो विद्वत्संन्यासः । तं च याज्ञवल्क्यः संपादया:- मास ॥ तथा हि विद्वच्छिरोमणिभगवान्याज्ञवल्क्यो विजिगीषुकथायां. बहुवि- धेन तत्त्वनिरूपणेनाश्वलायनमभृतीन्विमान्प्रविजित्य वीतरागकथायां संक्षेपवि- स्तराभ्यामनेकधा जनकं बोधयित्वा मैत्रेयी बुबोधयिषुस्तस्यास्त्वरया तत्त्वा- भिमुख्याय स्वकर्तव्यं संन्यासं प्रतिजज्ञे । ततस्तां बोधयित्वा संन्यासं चकार । तदुभयं मैत्रेयीबामणस्याद्यन्तयोराम्नायते-“अथाह याज्ञवल्क्योऽन्यद्वृत्तमुपात करिष्यन्मैत्रेयीति होवाच ।। याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मी, ति एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवत्राज" इति च ।। कहोलबा- झणेऽपि विद्वत्संन्यास आम्नायते-"एवं वै तमात्मानं विदित्वा ब्राह्मणाः पुने. षणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचयं चरन्ति" इति ।। 1 क. ख. ग, घ. पुस्तकेष्वयं श्लोको न विद्यते । २ क. स. ग. घ. पुस्तकेषु भिक्षुकीत्यार. ध्यात एक मैत्रेयीत्येतदन्तर्वी ग्रन्थो नहि। ३ग. घ..मगवान्वेद ! PERMAP । जीवन्मुक्तिविवेकः। [प्रधर्म न चैतद्वाक्यं विविदिषासन्यासपरमिति शङ्कनीयम् । पूर्वकालवाचिनो विदि- त्वेति क्त्वाप्रत्ययस्य ब्रह्मविद्वाचिनो ब्राह्मणशब्दस्य च बाधप्रसङ्गात् ॥ न चा- अ ब्राह्मणशब्दो जातिवाचकः । वाक्यशेषे पाण्डित्यबाल्यमौनशब्दाभिधेयैः श्रवणमनननिदिध्यासनैः साध्य ब्रह्मसाक्षात्कारमभिप्रेत्याथ ब्राह्मणं इत्यभि- हितत्वात् ॥ ननु तत्र विविदिषासंन्यासोपेतः पाण्डित्यादौ प्रवर्तमानोऽपि ब्रा- ह्मणशब्देन परामृष्टः । तस्माह्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति चेत् ॥ मैवम् । भाविनी वृत्तिमाश्रित्य तत्र ब्राह्मणशब्दस्य प्रयुक्तत्त्वात् । अ- न्यथा कथमथ ब्राह्मण इति साधनानुष्ठानोत्तरकालवाचिनमथशब्दं प्रयुञ्जीत ॥ शारीरब्राह्मणेऽपि विद्वत्संन्यासविविदिषासंन्यासौ स्पष्टं निर्दिष्टौ-"एतमेव विदित्वा सुनिर्भवत्येतमेव पन्नाजिनो लोकमिच्छन्तः प्रव्रजन्ति इति ॥ मुनित्वं मननशीलत्वं तच्चासति कर्तव्यान्तरे संभवतीत्यर्थात्संन्यास एवाभिधीयते ॥ ए. तच्च वाक्यशेषे स्पष्टीकृतम्-"एतद्ध स्म वै तत्पूर्व विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोयमात्मायं लोक इति ॥ ते ह स्म पुत्रेषणायाश्च वि- तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति" इति ॥ अयं लो. क इत्यपरोक्षणानुभूयत इत्यर्थः ॥ नन्वत्र मुनित्वेन फलेन प्रलोभ्य विविदिषा- संन्यास विधाय वाक्यशेषे स एव प्रपञ्चितः । अतो न संन्यासान्तरं कल्पनी- यम् ॥ मैवम् । वेदनस्यैव विविदिषासंन्यासफलत्वात् । न च वेदनमुनित्वयोरे- कत्वं शनीयम् । विदित्वा मुनिर्भवतीति पूर्वोत्तरकालीनयोस्तयोः साध्यसा- धनभावप्रतीतेः॥ ननु वेदनस्यैव परिपाकातिशयरूपमवस्थान्तरं मुनित्वम् । अतो वेदनद्वारा पूर्वसंन्यासस्यैवैतत्फलमिति चेत् ॥ बाढम् । अत एव साधनरूपात्सं- न्यासादये फलरूपेमेते संन्यासं ब्रूमः । यथा विविदिषासंन्यासिना तत्त्वज्ञानाय श्रवणादीनि संपादनीयानि ॥ तथा विद्वत्सन्यासिनापि जीवन्मुक्तये मनोनाश- वासनाक्षयौ संपादनियौ । एतच्चापरिष्टात्मपञ्चयिष्यामः ॥ सत्यप्यनयोः संन्या- सयोरवान्तरभेदे परमहंसत्वाकारेणैकीकृत्य "चतुर्विधा भिक्षवः" इति स्मृतिषु चतुःसंख्योक्ता॥पूर्वोत्तरयोरुभयोः संन्यासयोः परमहंसत्वंजाबालश्रुताववगम्यते । तत्र हि जनकेन संन्यासे पृष्टे सति याज्ञवल्क्योऽधिकारविशेषविधानेनोत्तरका- लानुष्ठयेन च सहितं विविदिषासंन्यासमभिधाय पश्चादत्रिणा यज्ञोपवीतरहित- स्याक्षिप्तेऽब्राह्मण्ये सति पश्चादात्मज्ञानमेव यज्ञोपवीतमिति समादधौ । अतो । १ . णशब्द । २५. निवेद्य । ३ घ. 'नुभवत ई। ४ घ. फलत्वेन । ५ ग. घ, एभेनं सं। ६ ग, घ, पूर्वोक्तयो । . घ.. कारीति, विशेषविधानेनोक्तकाला'.
५ जीवन्मुक्तिप्रमाणप.] विद्यारण्यप्रणीतः बाझोपवीताभावात्परमहंसत्वं निश्चीयते ॥ तथान्यस्यां काण्डिकायां परमहंसो नामेत्युपक्रम्य संवर्तकादीन्बहून्ब्रह्मविदो जीवन्मुक्तानुदाहृत्याऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्त इति विद्वत्संन्यासिनो दर्शिताः ।। तथा त्रिकाण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं चेत्येतत्सर्व भूः स्वाहेत्यैप्मु परित्यज्यात्मानमन्विच्छेदिति त्रिदण्डिनः सत एकदण्डलक्षणं विविदिषासंन्यासं विधाय तत्फलरूपं विद्वत्संन्यासमेवमुदाजहार ॥ यथा जात- रूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्र ब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राण- संधारणार्थ यथोक्तकाले विमुक्तो भैक्ष्यमाचरन्नुदरपात्रेण लाभालाभौ समो कृत्वा शून्यागारे देवतागृहतृणकूटवल्मीकवृक्षमूलकुलालशालामिहोत्रनदीपु- लिनगिरिकुहरकंदरकोटरनिर्झरस्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शुक्ल- ध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स एव परमहंसो नामेति ॥ तस्मादनयोरुभयोः परमहंसत्वं सिद्ध- म् ॥ समानेऽपि परमहंसत्वे सिद्धे विरुद्धधर्माकान्तत्वादवान्तरभेदोऽप्यभ्युपग- न्तव्यः ॥ विरुद्धधर्मत्वं चा (रण्यो) रुण्युपनिषत्परमहंसोपनिषदोः पर्यालोच- नायामवगम्यते ॥ केन भगवन्कर्माण्यशेषतो विसृजामीति शिखायज्ञोपवीतस्वा- ध्यायगायत्रीजपाचशेषकर्मत्यागरूपे विविदिषासंन्यासे शिष्येणारुणिना पृष्टे सति गुरुः प्रजापतिः शिखां यज्ञोपवीतमित्यादिना सर्वत्यागमभिधाय दण्डमा- च्छादनं कौपीनं च परिग्रहेदिति दण्डादिस्वीकारं विधाय त्रिसंध्यादौ स्नान- माचरेत् ॥ संधि समाधावात्मन्याचरेत्सर्वेषु वेदेष्वारणमावर्तयेत् ॥ उपनिषद- मावर्तयेदिति वेदनहेतूनाश्रमधर्माननुष्ठेयतया विधत्ते ॥ अथ योगिनां परमहंसा- नां कोऽयं मार्ग इति विद्वत्संन्यासे नारदेन पृष्टे सति गुरुभगवान्प्रजापतिः स्व- पुत्रमित्रेत्यादिना पूर्ववेत्सर्वत्यागमभिधाय कौपीनदण्डमाच्छादनं च स्वशरीरो- पभोगार्थाय लोकस्योपकारार्थाय च परिग्रहेदिति । दण्डादिस्वीकारस्य लौकि- कत्वमभिधाय तच्च न मुख्योऽस्तीति शास्त्रीयत्वं प्रतिषिध्य कोऽयं मुख्य इति चेदयं मुख्यो न दण्डं न शिखां न यज्ञोपवीतं न चाच्छादनं चरति परमहंस इति दण्डादिलिङ्गराहित्यस्य शास्त्रीयतामुक्त्वा न शीतं न चोष्णमित्यादिवा- क्ये नाशाम्बरो निमस्कार इत्यादिवाक्येन च लोकव्यवहारातीतत्वमभिधा- १ ग. घ. बाह्ययज्ञोप। २ ग. घ.'न्बहुविधान्त्र, क. पुस्तके बहुविधानिति पदं नहि । ३ घ. 'याचारा अनु । ४ ग. घ. त्यप्सु विसृज्या । ५ म. घ. ध्वनिकेतवासी निःप्रयत्नों: ख. ध्वनिकेतवासो निष्प्रयत्नो। ६ घलनाय । ७ घ. संध्यां।८ ग. घ. 'ध्यारण्यमा। ग. घ. "वत्संन्यासम् । १० क. ग. ति सप। १.१ क. ६, न नमस्कारः । Aaire ६ । जीवन्मुक्तिविवेकः । [मधर्म पान्ते यत्पूर्णानन्दैकबोधस्तब्रह्माहमस्मीति कृतकृत्यो भवतीत्यन्तेन ग्रन्थेन ब- मानुभवमानपर्यवसानमाचष्टे ।। अतो विरुद्धधर्मोपेतत्वादस्त्येवानयोर्महान्भेदः ।। स्मृतिष्वप्ययं भेद उक्त इति द्रष्टव्यः ॥ संसारमे (व) व निःसारं दृष्ट्वा सारदिक्षया । प्रवजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥ प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् । सस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥" इत्यादि विविदिषासंन्यासः । यदा तु विदितं तैत्वं परं ब्रह्म सनातनम् । तदेकदण्डं संगृह सोपवी (तां) तशिखां त्यजेत् ।। ज्ञात्वा सम्यक्परं ब्रह्म सर्वं त्यक्त्वा परिव्रजेत् ॥' इत्यादि विद्वत्संन्यासः ॥ ननु कलाविद्यास्विव कदाचिदौत्सुक्यमात्रेणा- पि वेदितुमिच्छा संभवत्ये (व)वं विद्वत्ताप्यापातदर्शिनः पण्डितंमन्यमानस्या- प्यवलोक्यते, न च तौ प्रव्रजन्तौ दृष्टौ । अतो विविदिषाविद्वत्ते कीदृशे विव- क्षिते इति चेत् ॥ उच्यते । यथा तीव्रायां बुभुक्षायामुत्पन्नायां भोजनादन्यो व्या- पारो न रोचते, भोजने च विलम्बो(ऽपि ) न सोढुं शक्यते ॥ सथा ( यदा) मन्महेतुषु कर्मस्वत्यन्तमरुचिर्वेदनसाधनेषु च श्रवणादिषु त्वरा महती संपद्यते ताशी विविदिषा संन्यासहेतुः ।। विद्वत्ताया अवधिरुपदेशसाहरुयामभिहितः- देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥” इति । श्रुतावपि --" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥” इति ॥ परमपि हैरण्यगर्भादिकं पदमवरं यस्मादसौ परावरः हृदये बुद्धौ साक्षिण- स्तादात्म्याध्यासोऽनाचविद्यानिर्मितत्वेन ग्रन्थिवदृढसंश्लेषरूपत्वाग्रन्थिरित्पु- च्यते ॥ आत्मा साक्षी कर्ता वा, (आत्मनः सर्व साक्षित्वेऽप्यस्य ब्रह्मत्वम- स्ति वा नवा, ब्रह्मत्वेऽपि तद्भुद्धया वेदितुं शक्य नवा, शक्यत्वेऽपि तद्वे- दनमात्रेण मुक्तिरस्ति नवा, इत्यादयः संशयाः कर्माण्यप्यनारब्धान्यागामिजन्म- कारणानि तदेतद्ग्रन्थयात्रियमविद्यानिर्मितत्वादात्मदर्शनेन निवर्तते ॥ स्मृ- तावप्ययमर्थ उपलभ्यते- mamimama १ म. घ. 'सनेन म। २ ग. घ. तर स्याहार । ३ घ. धनत्र । ४ क.'नासवि।
, नीवन्मुक्ति प्रमाणम.] विधारण्यप्रणीतः “यस्य नाहङ्कतो भावो बुद्धिर्यस्य न लिप्यते । हत्त्वापि स इमाँल्लोकान हन्ति न निबध्यते ॥" इति ।। यस्य ब्रह्मविदो भावः सत्तास्वभाव आत्मा नाहङ्कतोऽहङ्कारेण तादात्म्याध्या- सादन्तर्नाच्छादितः । बुद्धिलेपः संशयः । तदभावे त्रैलोक्यवधेनापि न ब- ध्यते । किमुतान्येन कर्मणेत्यर्थः । नन्वेवंसति विविदिषासंन्यासफलेन तत्त्व- ज्ञानेनैवागामिजन्मनोऽवारितत्वात् ॥ वर्तमानजन्मशेषस्य भोगमन्तरेण विना- शयितुमशक्यत्वात्किमनेन विद्वत्संन्यासमयासेनेति चेत् ॥ मैवम् । विद्वत्संन्या- सस्य जीवन्मुक्तिहेतुत्वात्,तस्मादिनाय यथा विविदिषासंन्यास (एवं)जीवन्मुक्त- ये विद्वत्संन्यासः संपादनीयः ॥ इति विद्वत्संन्यासः ॥ अथ केयं जीवन्मुक्तिः, किंवा तत्र प्रमाणम्, कथं वा तत्सिद्धिः, सिद्धिौ) या वा किं प्रयोजनमिति चेत् ।। उच्यते । जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वमुखदुःखादिलक्षणश्चित्तधर्मः केशर पत्वाद्धन्धो भवति, तस्य निवारणं जीवन्मुक्तिः । नन्वयं बन्धः किं साक्षिणो निवार्यते, किंवा चित्तात् ॥ नाद्यः, तत्त्वज्ञानेनैव निवारितत्वात् ॥ न द्वितीयः, असंभवात् ॥ यदा तु जलाइवत्वं निवार्यते, वढेरुष्णत्वं (च) तदा चित्ताकर्तृत्वादि- निवारणसंभवः, स्वाभाविकत्वं तु सर्वत्र समानम् || मैवम् | आत्यन्तिकनिवार- णासंभवेऽप्यभिभवस्य संभवात् ॥ यथा जलगतं द्रवत्वं मृत्तिकामेलनेनाभिभूय- ते, वढेरौष्ण्यं मणिमन्त्रादिना, तथा सर्वाश्चित्तवृत्तयो योगाभ्यासेनाभिभवितुं शक्यन्ते ॥ ननु प्रारब्धं कर्म कृत्स्नाविद्या तत्कार्यनाशने प्रवृत्तस्य तत्त्वज्ञानस्य मतिबन्धं कृत्वा स्वफलादानाय देहेन्द्रियादिकमवस्थापयति, नच मुखदुःखा- दिभोगश्चित्तत्ति विना संपादयितुं शक्यते ततः कथमभिभवः ॥ मैवम् । अ- भिभवसाध्याया जीवन्मुक्तेरपि मुखातिशयरूपत्वेन प्रारब्धफल एवान्तर्भावा- त् । तर्हि कर्मैव जीवन्मुक्तिं संपादयिष्यति माभूत्पुरुषप्रयत्न इति चेत् । कृषि- वाणिज्यादावपि समानः पर्यनुयोगः॥ कर्मणः स्वयमदृष्टरूपस्य दृष्टसाधनसंपत्ति- मन्तरेण फलजननासमर्थत्वादपेक्षितः कृष्यादौ पुरुषप्रयत्न इतिचेजीवन्मुक्ताव- पि समं समाधानम् ॥ सत्यपि पुरुषप्रयत्ने कृप्यादेः फलपर्यवसानं यत्र न दृश्यते तत्र प्रबलेन कर्मान्तरेण प्रतिबन्धः कल्पनीयः। तच्च प्रबलं कर्म स्वानुकूलवृष्टयभावा- दिरूपां दृष्टसामग्री संपाचैव प्रतिबध्नाति । स च मतिबन्धो विरोधिनामबलतरणो- तम्भकेन कारीरीष्टयादिरूपेण कर्मणापनीयते ॥ तच्च कर्म स्वानुकूलां वृष्टिलक्ष- , १ घ. 'कतो. नाहङ्कारेण तादात्म्यातिशयादन्तर्भावितो बुद्धिलैपः । २ घ. 'जन्मनो नि वास्तित्वात् । ३ ग. 'ण निवर्तितुम क. घ. 'ण निवारयितुमशक्यत्वात्कृतमनेन । ४ घ. 'वृत्तिमिबिना। ५ग. घ. समानं समा ।
जीवन्मुक्तिविवेकः । [प्रथम णां दृष्टसामग्री संपाचैव प्रतिबन्ध (क) मपनयति ॥ किंबहुना प्रारब्धकर्मण्येवा- त्यन्तभक्तेन भवता योगाभ्यासरूपस्य पुरुषप्रयत्नस्य वैयर्थ्य मनसापि चि- न्तयितुमशक्यं, अथवा प्रारब्धं कर्म यथा तत्त्वज्ञानात्मबलं तथा तस्मादपि कर्मणो योगाभ्यासः प्रबलोऽस्तु ॥ तथाच योगिनामुद्दालकवीतहव्यादीनां स्वे- च्छया देहत्याग उपपद्यते ॥ यद्यप्यल्पायुषामस्माकं तादृशो योगो न संभवति, तथापि कामादिरूपचित्तवृत्तिनिरोधमात्रे योगे कोनाम प्रयासः । यदि शास्त्री- यस्य प्रयत्नस्य प्राबल्यं नाङ्गीक्रियते तदा चिकित्सामारभ्य मोक्षशास्त्रपर्यन्ता- नां सर्वेषामानर्थक्यं प्रसज्येत ॥ नहि कदाचित्कर्मफलविसंवादमात्रेण दौर्बल्य- मापादयितुं शक्यम् । अन्यथा कादाचित्कं पराजयं दृष्ट्वा सर्वैर्भूपैर्गजाश्वादि- सेनोपेक्षेत । अत एवानन्दबोधाचार्या आहु:-" नाजीर्णभयादाहारपरित्या- गः, भिक्षुकभयाद्वा स्थाल्याऽनधिश्रपणं, यूकाभयाद्वा भावरणपरित्यागः" इति ॥ शास्त्रीयप्रयत्नस्य प्राबल्यं वसिष्ठरामसंवादे विस्पष्टमवगम्यते ॥ सर्वमे- वेह हि सदेत्यारभ्य तदनु । तदप्यवमुच्य साधु तिष्ठेत्यन्तेन ग्रन्थेन ॥ वसिष्ठः- "सर्वमेवेह हि सदा संसारे रघुनन्दन । सम्यक्प्रयत्नात्सर्वेण पौरुषात्समवाप्यते ॥" सर्व पुत्रवित्तस्वर्गलोकब्रह्मलोकादिफलं पौरुषं पुत्रकामेष्टिकृषिवाणिज्यज्योति- टोमब्रह्मोपासनोलक्षणः पुरुषप्रयत्नः ॥ " उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् । तत्रोच्छास्त्रमनाय परमार्थाय शास्त्रितम् ॥" उच्छास्त्रं परद्रव्यापहारपरस्त्रीगमनादि, शास्त्रितं नित्यनैमित्तिकानुष्ठानादि, अनर्थो नरकः, अर्थेषु स्वर्गादिषु परमो मोक्षः परमार्थः ॥ आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः । गुणैः पुरुषयत्नेन सोऽर्थः संपाद्यते हितः॥ अलं संपूर्ण सम्यगित्यर्थः ॥ गुणैर्युक्तेनेत्यध्याहारः ॥ हितः श्रेयोरूपः । श्रीरामः प्राक्तनं वासनाजालं नियोजयति मां यथा । मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥" इति ॥ वासना धार्धमर्मरूपा जीवगतसंस्काराः ॥ , क. 'मणैवात्यन्त । २ घ. 'मुद्दालकप्रभृतीनां स्वे'। ३ घ. कामादिधीवृत्तिनिरोधमात्रयोगें। ४ घ. 'लोकादि । ५ ग. घ. नानुष्ठानादिल । ६५, षप्रय।
. D - जीवन्मुक्तिप्रमाणप.] विद्यारण्यमणीवः वसिष्ठः अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् । स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥" यतो वासनापरतत्रो भवानत एव हि पारतव्यनिवारणाय स्वोत्साहसंपादितो मनोवाकायजन्यः पुरुषव्यापारोऽपेक्षितः।। द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते । प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥ किं धर्माधर्मावुभावपि त्वां नियोजयत उतैकतर इति विकल्पः । एकतरप. क्षेऽपि शुभोऽशुभो वेत्यात्सिद्धो विकल्प:- " वासनौघेन शुद्धेन तत्र चेदपनीयसे । तत्क्रमेणाच तेनैव पदं प्राप्स्यसि शाश्वतम् ॥" तंत्र तेषु पक्षेषु ततस्तर्हि तेनैव क्रमेण शुभवासनामापितेनैवाचरणेन प्रयना- न्तरनिरपेक्षेण । शाश्वतं पदं मोक्षम् ॥ अथ चेदशुभो भावस्त्वां योजयति सङ्कटे । प्राक्तनस्तदसौ यत्नाजेतव्यो भवता स्वयम् ॥ भावो वासना । तत्तहि यत्नोऽशुभविरोधिशास्त्रीयधर्मानुष्ठानं तेन स्वयं नेत- व्यः नतु युद्धे मृत्युमुखेनेच पुरुषान्तरमुखेन जेतुं शक्यः॥ शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ उभयपक्षे तु शुभभागस्य प्रयत्ननरपेक्ष्येऽप्यशुभभागं शास्त्रीयप्रयत्नेन निवार्य शुभमेव तस्य स्थाने समाचरेत् ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ अशुभेषु परस्त्रीद्रव्यादिषु, शुभेषु शास्त्रार्थदेवताध्यानादिषु, पुरुषार्थेन पुरुष- प्रयत्नेन, बलेन प्रबलेन । अशुभाच्चालितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु शिशुवत्तस्मात्तच्चालयेद्धलात् ॥ यथा शिशुभक्षणानिवार्य फलभक्षणे योज्यते । मणिमुक्ताकर्षणानिवार्य क- न्दुकाधाकर्षणे योज्यते । तथा चित्तमपि सत्सङ्गेन दुःसङ्गात्तद्विपरीतविषया- निवारयितुं शक्यम् ॥ १ घ. ग. 'त्यर्थसिद्धों। २ ङ.'शुभेनैव। ३ घ. तत्र तस्मिन्पक्षे तत्तर्हि । ४ ग. घ. सनया प्रा। ५ घ. भावना । ६ क. युद्धमुखे भृत्यमुखेनेव । ७ घ, पुस्तके 'मणिमुक्ताकर्षणाग्निवार्य कन्दुकाद्याकर्षणे योज्यते' इयानंशो न हि । ८ घ. 'न तद्वि । " २ ASIANTARVACHHISTAR जीवन्मुक्तिविवेकः । [प्रथम समता सान्त्वनेनाशु न द्रागिति शनैःशनैः । पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥" चपलस्य पशोः बन्धस्थाने प्रवेशनाय द्वावुपायौ भवतः । हरिततृणप्रदर्श- नं कण्डूयनादिकं, वाक्पारुष्यं दण्डादिभर्त्सनं चेति ॥ तत्राद्येन सहसा प्रवेश्यते, द्वितीयेनेतस्ततो धावशनैःशनैः प्रवेश्यते ॥ तथा शत्रुमित्रादिसमत्वं मुखबो- धनम् ॥ प्राणायाममत्याहारादिपुरुषप्रयत्नश्चेत्येतौ द्वौ चित्तशान्त्युपायौ । तत्रा- धेन मृदुयोगेन शीघ्रं लालयेत् । द्वितीयेन हठयोगेन द्रागिति न लालयेत्; किंतु शनैः शनैः॥ द्रागभ्यासवशाधाति यदा ते वासनोदयम् । तदाऽभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥" मृदुयोगाभ्यासाच्छीघ्रमेव सद्वासनोदये सति साफल्यमभ्यासस्य वक्तव्यं न त्वल्पकालत्वेनासंभावना शङ्कनीया ॥ "संदिग्धायामपि भृशं शुभामेव समाहर । शुभायां वासनावृद्धौ तात दोषो न कश्चन ।।" शुभवासनाऽभ्यस्यमाना संपूर्णा न वेति संदेहस्तदाऽपि शुभामभ्यसेदेव ॥ तद्यथा । सहस्रजपे प्रवृत्तस्य दशमीशतसंख्या यदा संदिग्धा तदा पुनरपि शतं जपेत् । असंपूर्ती संपूर्तिः फलिष्यति, संपूर्ती च तद्वृद्धया न सहस्रजपो दु- ष्यति तद्वत् ॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्रपमाणैस्तु निर्णीतं तावदाचर ।। ततः पक्ककषायेण नूनं विज्ञातवस्तुमा । शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निरोधिना ।। यद(ति)पि शुभगमार्यसेवितं तच्छुभमनुसृत्य मनोज्ञभावबुद्धया। अधिगमय पदं यद्वितीयं तदनु तदप्यवमुच्य साधु तिष्ठ ॥” इति । स्पष्टोऽर्थः ॥ तस्माद्योगाभ्यासेन कामाद्यभिभवसंभवाज्जीवन्मुक्तौ न विव- दितव्यम् ॥ इति जीवन्मुक्तिस्वरूपम् ॥ श्रुतिस्मृतिवाक्यानि जीवन्मुक्तिसगावे प्रमाणानि । तानि च कठवल्यादिषु पश्यन्ते । " विमुक्तश्च विमुच्यते" इति ॥ जीवन्नेव दृष्टबन्धात्कामादेविशेषेण मुक्तः सन्देहपाते भाविबन्धाद्विशेषेण मु- च्यते । वेदनात्मागपि शमदमादिसंपादनेन कामादिभ्यो मुच्यत एव, तथाप्यु- स्पेन्नानां कामादीनां तत्र प्रयत्नेन निरोधः । अत्र तु धीवृत्त्यभावादनुत्पत्तिरेव , ग. घ. मन्तव्यम् । २ घ. 'त्पन्नकामानां । ३ ग. घ. वृत्त्यनुदयमात्राद।
जीवन्मुक्तिप्रमाणप्र०] विद्यारण्यप्रणीतः ततो विशेषेणेत्युच्यते ॥ तथा प्रलये देहपाते सति कंचित्कालं भाविदेहबन्धा- न्मुच्यते । अत्र त्वात्यन्तिको मोक्ष इत्यभिप्रेत्य विशेषेणेत्युक्तम् ॥ बृहदारण्यके पच्यते- "यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्यो मृतो भवत्यत्र ब्रह्म समश्नुते ॥" इति । श्रुत्यन्तरेऽपि-" सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना अमना इवेति" एवमन्यत्राप्युदाहार्यम् । स्मृतिषु जीवन्मुक्तस्थितप्रज्ञभगवद्भक्तगुणातीतब्राह्मणा- तिवर्णाश्रमादिनामभिस्तत्रतत्र व्यवहियते ॥ वसिष्ठरामसंवादे-"नृणां ज्ञान- कनिष्ठानाम्" इत्यारभ्य “सत्किंचिदवशिष्यते" इत्यन्तेन ग्रन्थेन जीवन्मुक्तः पठ्यते ॥ वसिष्ठः " नृणां ज्ञानकनिष्ठानामात्मज्ञानविचारिणाम् । सो जीवन्मुक्ततोदेति विदेहोन्मुक्ततेव या ॥ ज्ञानकनिष्ठत्वं लौकिकवैदिककर्मत्यागः ॥ देहेन्द्रियसदसद्भावमात्रेण मुक्ति- द्वयस्य विशेषो न त्वनुभवतः । द्वैतमतीतेरुभयत्राभावात् ।। श्रीराम: ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाई यते शास्त्रगया दृशाः ॥" वसिष्ठः- यथा स्थितमिदं यस्य व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ इदं प्रतीयमानं गिरिनदीसमुद्रादिकं जगत्मतिपत्तुर्देहेन्द्रियव्यवहारेण सह महाप्रलये परमेश्वरेणोपसंहृतं सत्स्वरूपोपमर्दैनास्तं गतं भवति । अत्र तु न तथा, किंतु विद्यत एव देहेन्द्रियादिव्यवहारः ॥ गिरिनधादिकं चेश्वरेणानुपसंहृतत्वा- द्यथापूर्वमवतिष्ठमानं सत्सर्वैरन्यैः प्राणिभिर्विस्पष्टमवलोक्यते ॥ जीवन्मुक्तस्य त- त्पत्यायकवृत्त्यभावात्सुषुप्ताविव सर्वमस्तं गतं भवति । स्वयं प्रकाशमानं चि- घोम केवलमवशिष्यते । बद्धस्य सुषुप्तो तात्कालिकवृत्त्यभावसाम्येऽपि भावि- धीवृत्तिबीजसद्भावान जीवन्मुक्तत्वम् ॥ " नोदेति नास्तमायाति मुखदुःखैर्मुखप्रभा । यथा प्राप्ते स्थितिर्यस्य स जीवन्मुक्त उच्यते ॥." मुखपभा हर्षः ॥ स्रक्चन्दनसत्कारादिमुखे प्राप्तेऽपि संसारिण इव हर्षो नो- १ ग. घ. किंचित्कालं। २ ग. घ. स्थिताः । ३ ङ, क्तविदेहमुक्तस्थिी. ४. क. ख. र. श्र- म्यादिः । ५ घ. 'जीवन्मुक्तिस्ततो देहाद्विदेहान्मुक्त एव यौ' इति भिन्नः पाठः । ६ क. ख. विदेह- मुक्त। ७ ग. घ. कधी। 6 ग. घ. दुःखे मुखप्रभा । BAR जीवन्मुक्तिविवेकः । [प्रथम देति । मुखमभास्तमयो दैन्यम् । धनहानिधिक्कारादिदुःखे प्राप्तेऽपि न दीनो भव- ति ॥ इदानींतनस्वमयनविशेषमन्तरेण मारब्धकर्मापादित पूर्वभवाहागतभिक्षा- नादिकं यथामाप्तं तस्मिन्स्थितिदेहरक्षा ॥ समाधिदायेन सक्चन्दनादिप्रती- त्पभावात् ॥ कदाचिद्युत्थानदशायामापाततः प्रतीतावपि विवेकदानव हेयो- पादेयत्वबुद्धच्यभावाद्धर्षादिराहित्यमुपपद्यते ॥ " यो जागर्ति सुषुप्त(प्ति)स्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ।। चक्षुरादीन्द्रियाणां स्वस्वगोलकैष्ववस्थानेनोपरत्यभावान्जागति ॥ मनो- वृत्तिरहितत्वात्सुषुप्तिस्थः ॥ अतएवेन्द्रियैरर्थोपलब्धिरित्येतस्य जागरणल- क्षणा(णस्या) भावाज्जाग्रन्न विद्यते ॥ सत्यपि बोधे जायमानो ब्रह्मवित्त्वाभिमाना- दिर्भोगार्थापादितकार्मादिश्च धीदोषो वासनावृत्तिराहित्येन तदोषाभावाभिर्वा- सनत्वम् ।। " रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तव्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ रागानुरूप्यं भोजनादिप्रवृत्तिः॥ द्वेषानुरूप्यं बौद्धकापालिकादिभ्यो विमुख- त्वम् । भयानुरूपं सर्पव्याघ्रादिभ्योऽपसेर्पणम् ॥ आदिशब्देन मात्सर्यादि मा- सर्यानुरूपमितरयोगिभ्य आधिक्येन समाध्याधनुष्ठानम् ॥ सत्यपि व्युत्थानद- शायामीदृश आचरणे पूर्वाभ्यासेन प्रापिते विश्रान्तचित्तस्य कालुण्यरहितत्वाद- न्तःस्वच्छत्वम् ॥ यथा व्योन्नि धूमधूलिमेघादियुक्तेऽपि निर्लेपस्वभावत्वाद- तिशयेन स्वच्छत्वं तद्वत् ॥ यस्य नाहङ्कतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥" पूर्वा विद्वत्सन्यासप्रस्तावे व्याख्यातम् ॥ लोके बद्धस्य पुरुषस्य शास्त्रीय कर्म कुर्वतोऽहं कर्तेति तदा चिदात्माऽहङ्कतो भवति ॥ स्वर्ग प्राप्स्यामीति हर्षेण बुद्धिर्लिप्यते ॥ अकुर्वतस्तु त्यक्तवानस्मीत्यहङ्कतत्वं स्वर्गालाभविषादा- (दे दिलेपः । एवं प्रतिषिद्धकर्मणि लौकिककर्मणि च यथासंभवं योजनीयम् ॥ जीवन्मुक्तस्य तु तादात्म्याध्यासाभावाद्धर्षाद्यभावाच्च न दोषद्वयम् ॥ १ ग. घ. मुत्पद्यते । १ च. जागरितलक्षणस्या' । ३ क. ङ. च. जायमाने । ४ घ. 'मादि- मिव । ५ क. ख. घ. सरणम् । ६ घ. च. 'दत्यच्छ । ५ ए. घ. च. ति चि ८ क. ख. ग. क "पादो लेपः।
जीवन्मुक्तिप्रमाणप०] विचारण्यप्रणीतः “ यस्मानोद्विजते लोको लोकानोद्विजते च यः । हर्षामर्षभयान्मुक्तः स जीवन्मुक्त उच्यते ॥ अधिक्षेपताडनादावमवृत्तादेतस्माल्लोको नोद्विजते ॥ अतएवैतस्मिल्लोकस्या- धिक्षेपाचप्रवृत्तेः कस्यचिहुष्टस्य तत्पवृत्तावप्येतश्चित्ते तादृशविकल्पानुदयाचा- यमपि नोद्विजते ॥ " शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ शत्रुमित्रमानावमानादि विकल्पाः संसारकलनाः शान्ता यस्य सः॥ चतुःष- ष्टिविद्याः कलाः तत्सद्भावेऽपि तदभिमानव्यवहारयोरभावानिष्कलत्वम्॥ चि- चस्य स्वरूपेण सद्भावेऽपि वृत्त्यनुदयानिश्चित्तत्वम् ॥ चिन्तेति पाठे वासनावशा- दात्मध्यानवृत्तिसद्भावेऽपि लौकिकवृत्त्यभावानिश्चिन्तत्वम् ॥ यः समस्तार्थजातेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ परगृहे विवाहोत्सवादौ स्वयं गत्वा तत्पीत्यै तदीयकार्येषु व्यवहरबपि ला- भालाभयोहर्षविषादरूपं बुद्धिसंतापं न प्राप्नोति ॥ एवमयं मुक्तः स्वकार्येऽपि शी- तलः॥न केवलं संतापाभावाच्छीतलत्वम्, किंतु परिपूर्णस्वरूपानुसंधानादपि । इति जीवन्मुक्तलक्षणम् ॥ भथ विदेहमुक्तलक्षणम्- " जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव । यथा वायुः कदाचिच्चलनं त्यक्त्वा निश्चलरूपेणावतिष्ठते तथा मुक्तात्मा- प्युपाधिकृतं संसारं त्यक्त्वा स्वरूपेणावतिष्ठते । विदेहमुक्तो नोदेति नास्तमेति न शाम्यति । न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥" उदयास्तमयो हर्षविषादौ न शाम्यति । न च तत्परित्यागी लिङ्गदेहस्यात्रैव लीनत्वात्सद्वाच्यो जगद्धेतुरविद्यामायोपाधि प्राज्ञेश्वरः ॥ असद्वाच्यो नापि भूतभौतिकः न दूरस्थ इत्युक्त्या न मायातीतः। नचेत्युक्त्या स्थूलभुक्समीप- स्थत्वं निषिध्यते ॥ अहं न चेति । न समष्टिश्च नेतर इति न । व्यष्टिव्यवहार- योग्यो विकल्पः कोऽपि नास्तीत्यर्थः ।। १ क. ब... च. 'नाश्चतुःषष्टिविद्याः । २ क... 'पि लौकिकमावत्यभा।
" जीवन्मुक्तिविवेकः। [प्रथम ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं सत्किचिदवशिष्यते ॥" एवंविधया विदेहमुक्त्या सहशत्वोत्कर्षत्वोक्तेर्जीवन्मुक्तावपि यावद्यावनिर्वि- कल्पातिशयस्तावत्तावदुत्तमत्वं द्रष्टव्यम् ॥ भगवद्गीतासु द्वितीयाध्याये स्थितप- ज्ञः पश्यते- अर्जुन उवाच॥"स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत ब्रजेत किम् ॥ प्रज्ञा तत्त्वज्ञानम् तद्विविधम् स्थितमस्थितं चेति ॥ यथा जारेऽनुरक्तनार्याः सर्वेष्वपि व्यवहारेषु बुद्धिर्जारमेव ध्यायति, प्रमाण तीतानि क्रियमाणान्यपि गृहकर्माणि सद्य एव विस्मर्यन्ते, तथा परवैराग्योपेतस्य योगाभ्यासपाटवेनात्य- न्तवशीकृतचित्तस्योत्पन्ने तत्त्वज्ञाने तनुद्धिर्जारमिव नैरन्तर्येण तत्त्वं ध्यायति तदिदं स्थितप्रज्ञानम् ॥ उक्तगुणरहित्तस्य केनापि पुण्यविशेषेण कदाचिदुत्प- नेऽपि तत्त्वज्ञाने गृहकर्मवत्तत्रैव तत्त्वं विस्मयते तदिदमस्थितं प्रज्ञानम् ।। एत- देवाभिप्रेत्य वसिष्ठ आह- "परव्यसनिनी नारी व्यापि गृहकर्मणि । तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः । तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि ॥” इति ॥ तत्र स्थितमज्ञः कालभेदाद्विविधः । समाहितो व्युत्थितश्च । तयोरुभयोल- क्षणं पूर्वोत्तराभ्यामर्धाभ्यां पृच्छति-समाधिस्थस्य स्थितप्रज्ञस्य का भाषा, कीदृशैर्लक्षणवाचकैः शब्दैः सर्वैरयं भाष्यते, व्युत्थितः स्थितप्रज्ञः कीदृशं वाग्व्यवहारं करोति, तस्योपवेशनगमने मूंढभ्यो विलक्षणे कीदृशे ॥ श्रीभगवानुवाच- "प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥" कामाखिविधाः, बाझा आन्तरा वासनामात्ररूपाश्चेति ॥ उपार्जितमोदकादयो बाधा, आशामोदकादय आन्तराः, पथिगततृणादिक्दापाततः प्रतीता वा- सनारूपाश्च । समाहितोऽशेषधीवृत्तिसंक्षयात्सर्वान्परित्यजति ॥ अस्ति चास्य मुखपसादलिङ्गगम्यः संतोषः ॥ स च न कामेषु किं त्वात्मन्येव कामानां त्य- १ ङ. तदा स्ति। २ घ. क्त्या सादृश्यत्वों। ३ ग. वोक्तर्यथोक्तजीव । च. त्वोतर्जीव । ४ घ. यावानि । छ, ५. प्रमितानि । ६ग. घ, स्थितं ज्ञा। ७. मन्देभ्यो ।
१५ MOON जीवन्मुक्तिप्रमाणप.] विद्यारण्यप्रणीतः क्तत्वात् ॥ बुद्धेः परमानन्दरूपेणात्माभिमुखत्वाच ॥ न चात्र संप्रज्ञातस- माधाविवात्मानन्दो मनोवृत्त्योल्लिख्यते किंतु स्वप्रकाशचिद्रूपेणात्मना ॥ संतोष- श्च न वृत्तिरूपः किंतु तत्संस्काररूपः ॥ एवंविधैर्लक्षणवाचकैः शब्दैः समाहितो भाष्यते- दुःखेष्वनुद्विग्नमनाः मुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ दुःखं रागादिनिमित्तजन्या रजोगुणविकाररूपा संतापात्मिका प्रतिकूला चित्तवृत्तिः । तादृशे दुःखे प्राप्ते सत्यहं पापी धिमां दुरात्मानमित्यनुतापा- त्मिका तमोगुणेविकारत्वेन ज्ञान्तिरूपा चित्तवृत्तिरुद्वेगः ॥ यद्यप्ययं विवेक इवाभाति तथापि पूर्वस्मिञ्जन्मनि चेत्तत्पापप्रवृत्तिप्रतिबन्धकत्वात्सप्रयोजनो भवति ।। इदानीं तु निष्प्रयोजन इति भ्रान्तित्वं द्रष्टव्यम् । मुखं राज्यपुत्रला- भादिजन्या सात्त्विकी प्रीतिरूपानुकूला चित्तवृत्तिस्तस्मिन्मुखे सत्यागामिन- स्तादृशस्य सुखस्य कारणं पुण्यमननुष्ठाय वृथैव तदपेक्षा तामसी वृत्तिः स्पृहा ॥ तत्र च मुखदुःखयोः प्रारब्धकर्ममापितत्वाद्युत्थितचित्तस्य वृचिसंभवाच्च तदु- भैयं समुत्पद्यते ॥ उद्वेगस्पृहे तु न विवेकिनः संभवतः ॥ तथा रागभयक्रोधाश्च तामसत्वेन कर्ममापितत्वाभावान्नास्य विद्यन्ते । एवंलक्षणलक्षितः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिःस्पृहत्वादिगमकं वचो भाषत इत्य- भिप्रायः॥ यः सर्वत्रानभिस्नेहस्तत्तत्माप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ यस्मिन्सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्यते ताहशोऽन्यविषयस्तामस- वृत्तिविशेषः स्नेहः मुखहेतुः स्वकलत्रादिः शुभैवस्तु गुणकथनादिप्रवृत्ति वर्ति- का धीवृत्तिरभिनन्दः ॥ अत्र गुणकथनस्य परप्ररोचनार्थत्वाभावेन व्यर्थत्वात्त- हेतुरभिनन्दस्तामसः ॥ असूयोत्पादनेन दुःखहेतुः परकीयविद्यादिरेनं प्रत्यशुभो विषयः॥ तन्निन्दाप्रवर्तिका बुद्धिप्रवृत्तिर्द्वषः सोऽपि तामसः ॥ तनिन्दाया नि- वारणार्थत्वाभावेन व्यर्थत्वात्त एते तामसा धर्माः कथं विवेकिनि संभवेयुः ॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ १च. णात्मतत्त्वाभि' । २ ग. घ. णवृत्तिवि । ३ ग. घ..दिनिमित्तज। ४ ग.घ. भयमु पपद्यते । ५ घ. क्षणः स्थिरधीः । ६ क. ख. ड, च. "भतगुणक । Raath जीवन्मुक्तिविवेकः । [प्रथम व्युत्थितस्य समस्ततामसवृत्त्यभावः पूर्वश्लोकाभ्यामभिहितः ॥ समाहितस्य तु वृत्तय एव न संति कुतस्तामसत्वशङ्केत्यभिप्रायः ॥ " विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥" प्रारब्धं कर्म मुखदुःखहेतून्कांश्चिद्विषयांश्चन्द्रोदयान्धकारादिरूपान्स्वयमेव संपादयति ॥ अन्यांस्तु गृहक्षेत्रादीन्पुरुषोद्योगद्वारेण ॥ तत्र चन्द्रोदयादयः पूर्णेनेन्द्रियसंहारलक्षणेन समाधिनैव निवर्तन्ते नान्यथा ॥ गृहादयस्तु समाधि- मन्तरेणापि निवर्तन्ते ॥ आहरणमाहार उद्योगः ॥ निरुद्योगस्य गृहादिविषया निवर्तन्ते । रसस्तु न निवर्तते ॥ रसो मानसी तृष्णा ॥ साऽपि परमानन्दरूप- स्य परस्य ब्रह्मणो दर्शने सति स्वल्पानन्दहेतुभ्यो निवर्तते ॥ "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति श्रुतेः ॥ " यततो यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ उद्योगत्यागब्रह्मदर्शनप्रयत्नं कुर्वतोऽपि कादाचित्कममादपरिहाराय समा- ध्यभ्यासः ॥ तदेतत्किमासीतेति प्रश्नोत्तरम् ॥ " ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृति विश्नमः । स्मृतिनंशाहुद्धिनाशो बुद्धिनाशात्मणश्यति ॥" असति समाध्यभ्यासे प्रमादप्रकार उपन्यस्तः ॥ सङ्गो ध्येयविष(या)य- सैनिधिः, संमोहो विवेकपराङ्मुखत्वम्, स्मृतिविश्नमस्तत्त्वानुसंधानाभावः, बु- द्विनाशो विपरीतभावनोपचयदोषेण प्रतिबद्धस्य ज्ञानस्य मोक्षप्रदत्वसामा- भावः ॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥ विधेयात्मत्वं,वशीकृतमनस्त्वं, प्रसादो नैर्मल्यं बन्धराहित्यम् । समाध्यभ्या- सयुक्तस्तद्वासनाबलाढ्युत्थानदशायामिन्द्रियैर्व्यवहरन्नपि प्रसादं सम्यक्प्राप्नोति । तदेतात्कंबजेदित्यस्य प्रश्नोत्तरम् । उपरितनेनापि बहुना अन्थेन स्थित- , ग. पूर्वमिन्द्रि; घ. पूर्वेन्द्रि।
mmed जीवन्मुक्तिप्रमाणप०] विद्यारण्यप्रणीतः मज्ञा प्रपञ्चितः ॥ ननु प्रज्ञायाः स्थित्युत्पत्तिभ्यां भागपि साधनत्वेन रागद्वेषा- दिराहित्यमपेक्षितम् ।। बाढम् । तथाप्यस्ति विशेषः, स च श्रेयोमार्गकारैर्दर्शितः॥ विद्यास्थितये प्राग्ये साधनभूताः प्रयत्ननिष्पाद्याः । लक्षणभूतास्तु पुनः स्वभावतस्ते स्थिताः स्थितमजे ॥ जीवन्मुक्तिरितीमां वदन्त्यवस्थां स्थितात्मसंबन्धाम् । बाधितभेदप्रतिभामबाधितात्मावबोधसामर्थ्यात् ॥” इति ।। भगवद्भक्तो द्वादशाध्याये भगवता वर्णितः- अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥" ईश्वरार्पितमनस्त्वेन समाहितस्यान्यानुसंधानाभावात् ॥ व्युत्थितस्याप्युदा- सीनानुसंधानेन हर्षविषादाभावाच मुखदुःखसाम्यम् । एवं वक्ष्यमाणेष्वपि द्व- न्द्वेषु द्रष्टव्यम् ॥ " यस्मान्नोद्विजते लोको लोकानोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे मियः ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ।। समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ तुल्यनिन्दास्तुतिौनी संतुष्टो येनकेनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे मियो नरः ॥ " इति ॥ अत्रापि पूर्ववद्विशेषो वार्तिककारैर्दर्शितः ॥ " उत्पन्नात्मप्रबोधस्य अद्वेष्तृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥” इति ॥ गुणातीतश्चतुर्दशाध्याये वर्णितः ॥ अर्जुन उवाच-"कैलिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥" ११. 'क्तिमिती। २ ग. घ. माणद। ३ जीवन्मुक्तिविवेकः । [प्रथम त्रयो गुणाः सत्त्वरजस्तमांसि तेषां परिणामविशेषात्सर्वः संसारः प्रवर्तते ।। अतो गुणातीतत्वमसंसारित्वम् ॥ जीवन्मुक्तत्वमिति यावत् ॥ लिङ्गानि परेषामे- तदीयगुणातीतत्वबोधकानि, आचार आचरणं तदीयमनःसंचारमकारः क- थमिति साधनकारपश्नः ॥ भगवानुवाच-"प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेइते ॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यमियापियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ प्रकाशमवृत्तिमोहाः सत्त्वरजस्तमोगुणाः ॥ च जाग्रत्स्वप्रयोः प्रवर्तन्ते ॥ सुषुप्तिसमाधिशून्यचित्तवृत्तित्वावस्थासु निवर्तन्ते ॥ प्रवृत्तिश्च द्विविधा, अनुकूला प्रतिकूला चेति ॥ तत्र मूढो जागरणे प्रतिकूल- प्रवृत्ति द्वेष्टि॥अनुकूलप्रवृत्ति काङ्क्षति ॥ गुणातीतस्य त्वनुकूलपतिकूलाध्यासा- भावाद्वेषाकाङ्क्ष न स्तः॥ यथा द्वयोः कलहं कुर्वतोरवलोकयिता कश्चित्तटस्थः स्वयं केवलमुदास्ते ॥ नतु जयपराजयाभ्यामितस्ततश्चाल्यते तथा गुणातीतो विवेकी स्वयमुदास्ते ॥ गुणा गुणेषु वर्तन्ते, न त्वहमिति विवेकादौदासीन्यम् ।। अहमेव करोमीत्यध्यासो विचलनम् । न चास्य तदस्ति ॥ तदिदं किमाचार इ- त्यस्य प्रश्नस्योत्तरम् । समसुखदुःखादीनि लिङ्गान्यव्यभिचारितभक्तिसहितज्ञा- नध्यानाभ्यासेन परमात्मसेवा इति गुणात्ययसाधनम् ॥ ब्राह्मणो व्यासादिभि- वर्णितः॥ अनुत्तरीयवसनमनुपस्तीर्णशायिनम् । बाहूपधायिनं शान्तं तं देवा ब्राह्मणं विदुः ।। बाह्मणशब्दो ब्रह्मविद्वाचीत्यथ ब्राह्मण इति श्रुत्या वर्णितम् ॥ ब्रह्मविदश्च विद्वत्संन्यासाधिकाराद्यथा "जातरूपधरो नाच्छादनं चरति स परमहंसः" इत्या- १ ग. घ. रस्तदी। २ ग. घ. च. 'प्रश्नः। ३ क, ख. ङ, ध्यासश्चातत्त्वम् । ४ घ. पुस्तकेऽत्र प्रश्नोत्तरमिरत्याभ्य गुणात्ययसाधनमित्यन्तमधिकं दृश्यते । ५ घ. 'स्तीर्यशायि ।
" जीवन्मुक्तिप्रमाणप०] विद्यारण्यमणीतः दिश्रुत्या परिग्रहराहित्यस्य मुख्यत्वाभिधानादनुत्तरीयत्वादिकं तस्य युक्तम् ।। " येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्रक्कचनशायी स्यात्तं देवा ब्राह्मणं विदुः ।। देहनिर्वाहायाशनाच्छादनशयनस्थानापेक्षायामप्यशनादिगतौ गुणदोषौ नो- त्पद्यते ॥ उदरपूरणपुष्टयादिरूपस्य निर्वाहस्य समत्वानिष्प्रयोजनस्य गुणदो- षविचारस्य चित्तदोषत्वात् । अत एव भागवते पम्यते ।। " किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोषहशिर्दोषो गुणस्तूभयवर्जितः।" इति ।। कन्था कौपीनवासास्तु दण्डधृग्ध्यानतत्परः । एकाकी रमते नित्यं तं देवा ब्राह्मणं विदुः ॥ ब्रह्मोपदेशादिना प्राण्यनुजिघृक्षायामुत्तमत्वज्ञापनेन श्रद्धामुत्पादयितुं दण्ड- कौपीनादिलिङ्गं धारयेत् ।। " कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगा- र्थाय लोकोपकारार्थाय च परिग्रहेत्" इति श्रुतेः । अनुजिघृक्षयापि तदीय- गृहकृत्यादिवा न कुर्यात्कितु ध्यानपरो भवेत् ॥ " तमेवैकं 'विजानथात्मा- नमन्या वाचो विमुञ्चथ" इति श्रुतेः ।। " तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत बाह्मणः। नानुध्यायादहूञ्शब्दान्वाचो विग्लापनं हि तत् ॥” इति श्रुतेश्च ।। ब्रह्मोपदेशस्त्वन्या वाड्न भवतीति न विरोधी ॥ तच्च ध्यानमेकाकित्वे निर्विघ्नं भवति । अतएव स्मृत्यन्तरेऽभिहितम्- " एको भिक्षुर्यथोक्तः स्याहावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ नगरं नहि कर्तव्यं ग्रामो वा मिथुनं तथा । ग्रामवार्ता हि तेषां स्याद्भिक्षावार्ता परस्परम् ।। इति ॥ " नेहपैशून्यमात्सर्य संनिकर्षात्मवर्तते । निराशिषगनारम्भं निर्नमस्कारमस्तुतिम् ।। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥" विशिष्टैः संसारिभिः प्रणमतां पुरुषाणामाशीर्वादः प्रयुज्यते ॥ यस्य यदपेक्षि- १ क. ख. ग. घ. नान्विष्यते । २ क. घृक्षयोत्त। ३ घ. “यस्वयं गृ। ४ घ. विजा- नाथा'; . विजानथा । ५ घ. निविष्टे संभवति । ६ ग. घ. राजादिवार्ता तेषः स्या; च. राजादिवार्ता तेषु स्या। ७ घ. 'शिष्यम। ८. घ. संन्यासिभिः। ९ घ. दोन प्र EARTHREVAIRARYANA wal २. जीवन्मुक्तिविवेकः । [प्रथम तं तैपति तदभिवृद्धिमार्थनमाशीः॥ तथा च पुरुषाणां भिन्नरुचित्वात्तदभिमता- न्वेषणे व्यग्रचित्तस्य लोकवासना वर्धते ॥ सा च ज्ञानविरोधिनी ॥ तथा च स्मृत्पन्तरम्- " लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥ एतच्चारम्भनमस्कारादिष्वपि द्रष्टव्यम् ॥ आरम्भः स्वार्थ परोपकारार्थ वा गृहक्षेत्रादिसंपादनप्रयत्नः ॥ तावतावाशीर्वादारम्भौ मुक्तेन त्याज्यौ ॥ न चाशी- र्वादाभावे प्रणेतानां नृणां खेदः शनीयः । लोकवासनाखेदयोरुभयोः परिहा- राय निखिलाशीर्वादमतिनिधित्वेन नारायणशब्दप्रयोगात् ॥आरम्भस्तु सर्वोऽ- पि दृष्ट एव ।। तथाच स्मृतिः- " सर्वारम्भा हि दोषेण धूमेनामिरिवावृताः ।" इति ॥ समस्कारोऽपि विविदिषासंन्यासोऽभिहितः- यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥" इति ॥ तत्र पूर्वत्वधर्मतुल्यत्वविचारे चित्तं विक्षिप्यते ॥ अतएव नमस्कारमात्र ए- व बहवः कलहायमाना उपलभ्यन्ते ॥ तत्र निमित्तं वार्तिककारैर्दर्शितम्- "प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः । संन्यासिनोऽपि दृश्यन्ते दैवसंदूषिताशयाः ॥" इति । मुक्तस्य नमस्काराभावो भगवत्पादैर्दर्शित:- " नामादिभ्यः परे भूम्नि स्वाराज्येऽवस्थितो यदा । प्रणमेकं तदात्मज्ञो न कार्य कर्मणा तदा ॥" इति ॥ चित्तकालुण्यहेतोर्नमस्कारस्य प्रतिषेधेऽपि सर्वसाम्यबुद्धया प्रसादहेतुर्नम- स्कारोऽभ्युपेयते ॥ तथाच स्मृतिः- " ईश्वरो जीवकलया प्रविष्टो भगवानिति । पणमेद्दण्डवद्भूमावाश्चचाण्डालगोखरम् ॥” इति ॥ स्तुतिर्मनुष्यविषया प्रतिषिद्धयते न त्वीश्वरविषया ॥ तथाच बृहस्पति- स्मृतिः- " आदरेण यथा स्तौति धनवन्तं धनेच्छया । तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥” इति ॥ १ क. स. इ. णमंतां खे । २ ग. घ. च. 'ज्येचेरिस्थतोऽद्धयः । ३ घ. भवेत् । pom H " जीवन्मुक्तिप्रमाणम०] विद्यारण्यमणीतः अक्षीणत्वमदीनत्वम् ।। अतएव स्मृतिः- अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् । लब्ध्वा न हृष्येद्धृतिमानुभयं देवतत्रितम् ॥” इति ॥ क्षीणकर्मत्वं विधिनिषेधानधीनत्वम् ॥ " निस्वैगुण्ये पथि विचरतां को वि- धिः को निषेधः" इति स्मरणात् ॥ एतदेवाभिप्रेत्य भगवताप्युक्तम्- त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥” इति ॥ नारदः-" स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किंकराः ॥” इति ॥ " योऽहेरिव गुणागीतः सन्मानानरकादिव । कुणपादिव यः स्त्रीभ्यस्तं देवा बाह्मणं विदुः॥ राजवार्तादि तेषां स्यादित्युक्तत्वात्सर्पवैद्गुणाद्भीरुत्पद्यते, सन्मानस्यासक्ति- कारणतया पुरुषार्थविरोधित्वानरकवद्धेयत्वम् । अतएव स्मृतिः- असन्मानात्तपोवृद्धिः सन्मानात्तु तपःक्षयः । अर्चितः पूजितो विमो दुग्धा गौरिव सीदति ॥" एतदेवाभिमेत्यावमान उपादेयतया स्मर्यते- तथा चरेत वै योगी सतां धर्ममैदूषयन् । जना यथावमन्येरन्गच्छेयु व संगतिम् ॥” इति ॥ श्रीषु द्विविधो दोषः, प्रतिषिद्धत्वं जुगुप्सितत्वं चेति ॥ तत्र प्रतिषिद्धमा- नं कदाचिंद्रागोत्मारब्धबलादुल्लद्ध्यते । तदेतदभिप्रेत्याह-स्मृतिः- मात्रा स्वस्रा दुहित्रा वा "नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥" तथा च स्मृतिभिर्जुगुप्सा दर्शिता- " स्त्रीणामवाच्यदेशस्य विन्ननाडीत्रणस्य च । अभेदेऽपि मनोभेदाजनः प्रायेण वञ्चयते ।। चर्मखण्डं द्विधा भिन्नमपानोद्गारधूपितम् । womaste amwa HINAROID १ ग. घ. च. धातीतत्वम् । २ ख. ग. घ. च. गणागीतः । ३ ख. ग. घ. च. वद्गणाद्री- रित्युपपद्यते । ४ क. स. अ. पुस्तकेषु 'मरणवदितिवा पाठः' इत्यधिकमुपलभ्यते । ५ ग. घ.. च. गच्छति । ६. ग. घ. च. "मनुस्मरन् । ७ घ.छ. संगतम् । ८ उ. च. 'चित्मा । ९ क. ख. गाद- लादु। १० ग. घ. च. 'न विविक्तासनो। १ ग. प.ध. स्मृतिभ्यो जुगुप्सा वर्णिता ।
emaAR जीवन्मुक्तिविवेकः । [प्रथम 'ये रमन्ति नरास्तत्र कृमितुल्याः कथं न ते ॥" अतः प्रतिषेधजुगुप्सयोरुभयोर्विवक्षया कुणपदृष्टान्तोऽत्राभिहितः- "येन पूर्णमिवाकाशं भवत्येकेन सर्वदा । शून्यं यस्य जनाकीणं तं देवा ब्राह्मणं विदुः ॥ संसारिणामेकाकित्वेनावस्थानं भयालस्यादिहेतुत्वाद्वय॑म् । जनसंबन्धश्चा- तथाविधत्वादभ्युपेयः ॥ योगिनस्तु तद्विपरीतत्वमेकाकित्वे सत्यविघ्नेन ध्याना- नुवृत्तौ परिपूर्णेन परमानन्दात्मना सर्वमाकाशं पूर्णमिवावभासते। अतो भयाल- स्यशोकमोहादयो न भवन्ति । " यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ " इति श्रुतेः ॥ जनोंकीर्णमितिजनसहितं स्थानं राजवार्तादिना ध्यानविरोधित्वादानन्दा- दात्मप्रतीतिरहितं तच्छून्यमिव चित्तं क्लेशयति ॥ जगतो मिथ्यात्वादात्मनः पूर्णत्वाच्चेत्यर्थः ॥ अतिवर्णाश्रमी सूतसंहितायां मुक्तिखण्डे पञ्चमाध्यायें पर मेश्वरेण वर्णितः- " ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । अतिवर्णाश्रमी तेऽपि क्रमाच्छेष्ठा विचक्षणाः ॥ अतिवर्णाश्रमी मोक्तो गुरुः सर्वाधिकारिणाम् । न कस्यापि भवेच्छिष्यो यथाहं पुरुषोत्तम ॥ अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते । तत्समो नाधिकश्चास्मिल्लोकेऽस्त्येव न संशयः ॥ यः शरीरेन्द्रियादिभ्यो विभिन्नं सर्वसाक्षिणम् । पारमार्थिकविज्ञानं मुखात्मानं स्वयंप्रभम् ।। परं तत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् । यो वेदान्तमहावाक्यश्रवणेनैव केशव ॥ आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवेत् । योऽवस्थात्रयनिर्मुक्तमवस्थासाक्षिणं सदा ॥ महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत् । वर्णाश्रमादयो देहे मायया परिकल्पिताः॥ १ क. ख. ऊ.“ये नमन्ति नरास्तेभ्यः साहसं किमतः परम् " इति वा पाठः इत्यधिकम् । २. घ. संबन्धस्वतथा : च. संमर्दस्त्वतथा । ३ क. ख. ग. ङ. च. एषु पुस्तकेष्वेतगर्धे नास्ति । च, जनाकीर्णस्थानं राजपाादिध्या । ५ घ. 'ये विष्णु प्रति ५। ६ ख. ग. ङ. 'पुरुषो- ताः । ७ क. घ. स्वयंप्रभुम् । ८ घ. यो वर्णाश्रमनिमुक्तमवस्थात्रयसाक्षिणम् ।
जीवन्मुक्तिप्रमाणम.] विद्यारण्यप्रणीतः २३ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा। इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु । तथा मत्संनिधावेव समस्तं चेष्टते जगत् ॥ इति यो वेद० ॥ सुवर्णहारकेयूरकटकस्वस्तिकादयः । कल्पिता मायया तद्वज्जगन्मय्येव सर्वदा ॥ इति यो वेद० ॥ शुक्तिकायां यथा तारं कल्पितं मायया तथा । महदादि जगन्मायामयं मय्येव कल्पितम् ॥ इति यो वेद ॥ चण्डालदेहे पश्वादिशरीरे ब्रह्मविग्रहे । अन्येषु तारतम्येन स्थितेषु पुरुषोत्तम ॥ व्योमवत्सर्वदा व्याप्तः सर्वसंबन्धजितः । एकरूपो महादेवः स्थितः सोऽहं परामृतः ॥ इति यो वेद० ॥ विनष्टहरनमस्यापि यथापूर्वा विभाति दिक् । तथा विज्ञानविध्वस्तं जगन्मे भाति तन्नहि ॥ इति यो वेद० ॥ यथा स्वप्नमपञ्चोऽयं मयि मायाविजृम्भितः । तथा जाग्रत्मपञ्चोऽपि मयि मायाविजृम्भितः ॥ इति यो वेद० ॥ यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् । सवर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः॥ इति यो वेद०॥ यस्त्यक्त्वा स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् । सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः ॥ न देहो नेन्द्रियं प्राणो न मनोबुद्धव्यहङ्कती। न चित्तं नैव माया च न च व्योमादिकं जगत् ॥ न कर्ता नैव भोक्ता च न च भोजयिता तथा । केवलं चित्सदानन्दो ब्रह्मैवात्मा यथार्थतः ।। जलस्य चलनादेव चञ्चलत्वं यथा रवः । तथाहकारसंसारादेव संसार आत्मनः ।। तस्मादन्यगता वर्णा आश्रमा अपि केशव । आत्मन्यारोपिता एव भ्रान्त्या ते नात्मवेर्दिनः ॥ न विधिर्न निषेधश्च न वावज्यकल्पना । . १ क, ख. रचलनादें; घ. "रसंसर्गादे, २ . इति । ३ ग. घ. दिनाम् । ४ल्पनाः । स २४ जीवन्मुक्तिविवेकः । [द्वितीयं आत्मविज्ञानिनामस्ति तथा नान्यजनार्दन ॥ आत्मविज्ञानिनां निष्ठामहं वेदाम्बुजेक्षण । मायया मोहिता मा नैव जानन्ति सर्वदा ।। न मांसचक्षुषा निष्ठा ब्रह्मविज्ञानिनामियम् । द्रष्टुं शक्या स्वतःसिद्धा विदुषां सैव केशव ॥ यत्र मुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी । प्रबुद्धा यत्र ते विद्वान्सुषुप्तस्तत्र केशव ।। एवमात्मानमद्वन्द्वं निर्विकारं निरञ्जनम् । नित्यशुद्धं निराभासं चिन्मानं परमामृतम् ॥ यो विजानाति वेदान्तैः स्वानुभूत्या च निश्चितम् । सोऽतिवर्णाश्रमी प्रोक्तः स एव गुरुरुत्तमः ॥” इति । तदेवं “ विमुक्तश्च विमुच्यते " इत्यादिश्रुतयो जीवन्मुक्तस्थितप्रज्ञभगवद्भ- क्तगुणातीतबाह्मणातिवर्णाश्रममतिपादकस्मृतिवाक्यानि जीवन्मुक्तिसद्भावे प्र- माणानीति स्थितम् ॥ ॥ इति प्रथमं जीवन्मुक्तिप्रमाणप्रकरणम् ॥ अथ द्वितीयं वासनाक्षयप्रकरणम् । अथ जीवन्मुक्तिसाधनं निरूपयामः ॥ तत्त्वज्ञानमनोनाशवासनाक्षयास्तत्सा- धनम् ॥ अतएव वासिष्ठरामायणे उपशमप्रकरणस्यावसाने " जीवन्मुक्तशरी- राणाम् " इत्यस्मिन्मस्तावे वसिष्ठ आह- " वासनाक्षयविज्ञानमनोनाशो महामते । समकालं चिराभ्यस्ता भवन्ति फलदा इमे ॥" इति ॥ अन्वयमुक्त्वा व्यतिरेकमाह- त्रय एते समं यावन्न स्वेभ्यस्ता मुहुर्मुहुः । तावन्न पदसंमाप्तिर्भवत्यपि समाशतैः ॥" इति ।। समकालाभ्यासाभावे बाधकमाहmalamang १ ग, घ. च. आत्मविज्ञानिनां नास्ति तथा चान्यजनार्दन । स्वात्मविज्ञानिनां निष्ठामीहशीम- म्युजेक्षण । २ ग. घ. च. निराकारं । ३ क. ग. घ. च. सं सच्चिन्मानं पराम। ४ क. स. ग. घ. च. 'णस्या । ५ ग. घ. च. दायिनः। ६ ग. स्वभ्यस्ता; घ. स्वाभ्यस्ता ।
२५, begins वासनाक्षयम.] विद्यारण्यप्रणीतः "एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकलिता इव ॥” इति ।। यथा संध्यावन्दने मार्जनेन सह विनियुक्तानां "आपो हि ष्ठा" इत्यादीनां ति- सुणामृचां मध्ये प्रतिदिनमेकैकस्या ऋचः पाठे शास्त्रीयानुष्ठानं न सिद्धयति ।। यथावा षडङ्गमन्त्राणामेकैकमन्त्रेण न सिद्धिः ॥ यथावा लोके शाकसूपौदनादी- नामेकैकेन न भोजनसिद्धिस्तद्वत् ॥ चिराभ्यासस्य प्रयोजनमाह- "त्रिभिरेतैश्विराभ्यस्तैहृदयग्रन्थयो दृढाः । निःशङ्कमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥" इति ॥ तस्यैव व्यतिरेकमाह- जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः। सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥” इति । न केवलमेकैकाभ्यासे फलाभावः किंतु तत्स्वरूपमपि न सिद्धयतीत्याह- तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥" इति ॥ त्रयाणामेतेषां मध्ये द्वयोर्द्वयोर्मेलनेन त्रीणि द्वन्द्वानि भवन्ति ॥ तत्र मनो- नाशवासनाक्षयद्वन्द्वस्यान्योन्यकारणत्वं व्यतिरेकमुखेनाह- " यावद्विलीनं न मनो न तावद्वासनाक्षयः । न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥ प्रदीपज्वालासंतानवद्वृत्तिसंतानरूपेण परिणममाणमन्तःकरणद्रव्यं मनना- त्मकत्वान्मन इत्युच्यते ॥ तस्य नाशो नाम वृत्तिरूपपरिणामं परित्यज्य निरु- द्धत्वाकारेण परिणामः ॥ तथाच पतञ्जलिोगशास्त्रे सूत्रयामास-" व्युत्था- ननिरोधृसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः" इति । व्युत्थानसंस्कारा अभिभूयन्ते ।। निरोधसंस्काराः प्रादुर्भवन्ति || निरो- धयुक्तः क्षणश्चित्तेनान्वीयते ॥ सोऽयं मनोनाश इत्यवगन्तव्यम् । पूर्वापरपरा- मर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारो वासना । पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् ॥ तस्याश्च वासनायाः क्षयो ना- म विवेकजन्यायां शान्तिदान्तिशुद्धवासनायां दृढायां सत्यपि बाह्यनिमित्ते क्रोधाद्यनुत्पत्तिः ॥ तत्र मनोनाशाभावे वृत्तिषूत्पद्यमानामु कदाचिद्राह्यनिमि- तेन क्रोधाद्युत्पत्तेर्नास्ति वासनाक्षयः ॥ अक्षीणायां च वासनायां तथैव वृत्त्यु- १ घ, च. चिरयत्नतः । २ क. ख. ङ. पुस्तकेषु संकीर्तिता इति वा पाठः इत्यधिकं । ३ घ. 'न्दनमार्जनेन सह नि। ४ ङ. धयो। ५ घ. 'शान्त्यादिवा । च. शान्तिवा । ६ गं. 'न्तिवा । maste MP wation २६ जीवन्मुक्तिविवेकः। [द्वितीयं त्पादनानास्ति मनोनाशः ॥ तत्त्वज्ञानमनोनाशयोः परस्परकारणत्वं व्यतिरेक- मुखेनाह- यावन्न तत्त्वविज्ञानं तावचित्तशमः कुतः । यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ॥” इति ॥ इदं सर्वमात्मैव प्रतीयमानं रूपरसादिकं जगन्मायामयं न त्वेतद्वस्तुतोऽ- स्तीति निश्चयस्तत्त्वज्ञानम् । तस्यानुत्पत्तौ रूपरसादिविषयाणां सद्भावे सति तद्गोचराश्चित्तवृत्तयो न निवारयितुं शक्यन्ते ॥ यथा प्रक्षिप्यमाणेष्विन्धनादिषु वह्निज्वाला न वार्यन्ते तद्वत् ॥ असति च चित्तोपशमे वृत्तिभिह्यमाणेषु रू- पादिषु सत्सु " नेह नानास्ति किंचन" इति श्रुतेर्यजमानः प्रस्तर इत्यादेरिव प्रत्यक्षविरोधशङ्कया ब्रह्माद्वितीयमित्येतादृशस्तत्त्वनिश्चयो नोदीयात् ॥ वास- नाक्षयतत्त्वज्ञानयोः परस्परकारणत्वं व्यतिरेकमुखेनाह- यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः। यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनाक्षयः ॥” इति । क्रोधादिवासनास्वनष्टामु शमादिसाधनाभावान तत्त्वज्ञानमुदेति । अज्ञाते चाद्वितीयब्रह्मतत्त्वे क्रोधादिनिमित्तस्य सत्यत्वञ्चमानपायान वासना हीयते ।। तथोक्तानां त्रयाणां द्वन्द्वानामन्योन्यकारणत्वमन्वयमुखेनं वयमुदाहरामः ॥ मनसि नष्टे सति संस्कारोद्धोधकस्य बानिमित्तस्यापतीतौ वासना क्षीयते- क्षीणायां च वासनायां हेत्वभावेन क्रोधादिवृत्त्यनुदयान्मनो नश्यति ॥ तदिदं मनोनाशवासनाक्षयद्वन्द्वं " दृश्यते त्वत्र्यया बुद्ध्या" इति श्रुतेरात्मैक्याभि- मुखवृत्तेर्दर्शनहेतुत्वादितरकृत्स्नवृत्तिनाशस्य तत्त्वज्ञानहेतुत्वमवगम्यते ॥ सति च तत्त्वज्ञाने मिथ्याभूते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्ट- त्वेन पुनर्वृत्त्यनुपयोगानिरिन्धनानिवन्मनो नश्यति ॥ तदिदं मनोनाशतत्त्वज्ञा- नयोर्द्वन्द्वम् ॥ तत्त्वज्ञानस्य क्रोधादिवासनाक्षयहेतुतां वार्तिककार आह-- "रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ " इति ॥ क्रोधादिवासनाक्षयरूपस्य शमादेर्ज्ञानहेतुत्वं प्रसिद्धम् ॥ वसिष्ठोऽपि- गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता। परस्परं विवर्धते द्वे पद्मसरसी इव ॥ " इति ॥ तदिदं वासनाक्षयतत्त्वज्ञानयोर्द्वन्द्वम् ॥ तत्त्वज्ञानादीनां त्रयाणां संपादने. साधनमाह PARAN HAMAR १ ग. घ. च. निवार्यते। २ ग. घ. च, 'दिषु “नेह । ३ क. ख. 6. 'न च ।
। वासनाक्षयम० विचारण्यप्रणीतः २७ तस्माद्राघव यत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत् ॥” इति॥ पौरुषो यत्नः केनाप्युपायेनावश्यं संपादयिष्यामीत्येवंविधोत्साहरूपो नि- बन्धः । विवेको नाम विभज्यनिश्चयः ।। तत्त्वज्ञानस्य श्रवणादिकं साधनं मनो- नाशस्य योगः ॥ वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति ॥ भोगेच्छा- याः स्वल्पाया अभ्युपगमे हविषा कृष्णवर्मेव भूय एवाभिवर्धते इति न्यायेनातिप्रसङ्गस्य दुरित्वाद्दूरत इत्युक्तम् ।। ननु पूर्वत्र विविदि- षासंन्यासस्य तत्त्वज्ञानं फलम् । विद्वत्संन्यासस्य जीवन्मुक्तिरिति व्यवस्था वर्णिता ॥ तथा च सति प्रथमतस्तत्त्वज्ञानं संपाद्य पश्चाद्विद्वत्संन्यासं कृ- खा जीवतः स्वस्य बन्धरूपयोर्वासनामनोवृत्त्योर्विनाशः संपादनीय इति प्र- तिभाति । अत्र तु तत्त्वज्ञानादीनां सहैवाभ्यासो नियम्यते । अतः पूर्वोत्तरविरो- ध इति चेत् ॥ नायं दोषः । प्रधानोपसर्जनभावेन व्यवस्थोपपत्तेः॥ विविदिषा- संन्यासिनस्तत्त्वज्ञानं प्रधानम् । मनोनाशवासनाक्षयावुपसर्जनीभूतौ॥ विद्वत्संन्या- सिनस्तु तद्वैपरीत्यम् । अतः सहाभ्यास उभयत्राप्यविरुद्धः॥ न च तत्त्वज्ञानोत्प- त्तिमात्रेण कृतार्थस्य किमुत्तरकालीनेनाभ्यासमयासेनेति शङ्कनीयम् । जीवन्मु- क्तिप्रयोजननिरूपणेन परिहरिष्यमाणत्वात् ॥ ननु विद्वत्संन्यासिनो वेदनसाधन- श्रवणाद्यनुष्ठानवैफल्याद्वेदनस्य च स्वरूपेण कर्तुमन्यथाकर्तुमशक्यस्याननुष्ठेय- त्वात् ।। उपसर्जनेनाप्युत्तरकालीनोऽभ्यासः कीदृश इति चेत्, केनापि द्वारेण पुनःपुनस्तत्त्वानुस्मरणमिति ब्रूमः॥ तादृशश्चाभ्यासो लीलोपाख्याने दर्शितः- "तचिन्तनं तत्कथनमन्योन्यं तत्मबोधनम् । एतदेकपरत्वं च ज्ञानाभ्यासं विदुर्बुधाः ॥ सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा । इदं जगदहं चेति बोधाभ्यासं विदुः परम् ॥” इति ॥ मनोनाशवासनाक्षयाभ्यासावपि तत्रैव दर्शितौ- अत्यन्ताभावसंपत्तौ ज्ञातुर्भेयस्य वस्तुनः । युक्त्या शास्त्रैर्यतन्ते ये ते तत्राभ्यासिनः स्थिताः ॥" इति ॥ ज्ञातृज्ञेययोमिथ्यात्वधीरभावसपंत्तिः । स्वरूपेणाप्यप्रतीतिरत्यन्ताभावसंप- त्तिः । युक्तियोगः । सोऽयं मनोनाशाभ्यासः ॥ १ घ. "त्साहानुरू । २ ङ. दूरीकृत । ३ ग. घ. च. इति भाति । ४ ग. घ. च. 'नस्तद्वि परीतम् । ५ ङ, कर्तुमकर्तुमन्यथाकर्तुं श. ६ ग. घ. ह. 'जनत्वेऽप्यु'। ७ ग. इ. च. ननु मनो:- २८ जीवन्मुक्तिविवेकः । [द्वितीयं " दृश्यासंभवबोधेन रागद्वेषादितानवे । रतिर्नवोदिता याऽसौ ब्रह्माभ्यासः स उच्यते ॥" इति ॥ सोऽयं वासनाक्षयाभ्यासः ॥ तेष्वेतेषु त्रिष्वभ्यासेषु साम्येन प्रतीयमानेषु प्रधानोपसर्जनभावेनं न विवेक्तुं शक्यत इति चेत् ।। मैवम् । प्रयोजनानुसारेण विवेत्तुं शक्यत्वात् ॥ मुमुक्षोः पुरुषस्य जीवन्मुक्तिर्विदेहमुक्तिश्चेति प्रयोजन- द्वयम् ॥ अत एव "विमुक्तश्च विमुच्यते" इति श्रूयते ॥ तत्र जीवतः पुरुषस्य दैवसंपदा मोक्षः, आसुरसंपदा बन्धः॥ एतच्च षोडशाध्याये भगवताभिहितम्- " दैवी संपद्विमोक्षाय निबन्धायासुरी मता ॥” इति ॥ ते च संपदौ तत्रैवाभिहिते- "अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं हीरचापलम् ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति संपदं दैवीमभिजातस्य भारत । दम्भो दोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥” इति ॥ पुनरप्यध्यायपरिसमाप्तेरासुरसंपत्पपञ्चिता ॥ तत्राशास्त्रीयायाः स्वभावसि- द्वाया आमुरसंपदो दुर्वासनायाः शास्त्रीयया पुरुषप्रयत्नसाध्यया दैवसंपदा स- द्वासनया क्षये सति जीवन्मुक्तिर्भवति ॥ वासनाक्षयवन्मनोनाशस्यापि जीवन्मु- क्तिहेतुत्वं श्रूयते- मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ।। यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । अतो निर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ निरस्तविषयांसङ्गं संनिरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ तावदेव निरोद्धव्यं यावद्हृदि गतं क्षयम् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यायस्य विस्तरः ॥” इति ॥ . ग. घ. च. सामान्येन । २ ख. घ. च, न वि। ३ घ. "क्यते कथमिति : ४ घ. अथेदानी- मातुरी संपदुच्यते-दम्भेत्यादि-इत्यधिकम् । ५ च. याववृत्तिग।
वासनाक्षयम०] विद्यारण्यप्रणीतः २९ : बन्धो द्विविधः, तीव्रो मृदुश्च ॥ तत्रासुरसंपत्साक्षादेव क्लेशहेतुत्वाचीत्रो ब- न्धः। द्वैतमात्रपतीतिस्तु स्वयमक्लेशरूपत्वादासुरसंपदुत्पादकत्वाच्च मृदुबन्धः॥ तत्र वासनाक्षयेण तीव्रबन्ध एव निवर्त्यते, मनोनाशेन तूभयम् ।। तर्हि मनोना- शेनैवालम्, वासनाक्षयस्तु निरर्थक इति चेन ॥ भोगहेतुना प्रबलेन मा- रब्धेन व्युत्थापिते मनसि वासनाक्षयस्य तीव्रबन्धनिवारणार्थत्वात् ॥ भोगस्य मृदुबन्धेनाप्युपपत्तेः॥ तामसवृत्तयस्तीव्रबन्धः । सात्त्विकराजसवृत्तिद्वयं मृदुब- न्धः ।। एतच्च- " दुःखेष्वनुद्विग्नमैनाः मुखेषु विगतस्पृहः ।" इत्यत्र स्पष्टीकृतम् ॥ एवंच सति मृदुबन्धस्याभ्युपेयत्वात्तीव्रबन्धस्य वास- नाक्षयेणैव निवृत्तेरनर्थको मनोनाश इतिचेन ॥ दुर्बलपारब्धापादितानामवश्यं- भाविभोगानां प्रतीकारार्थत्वात् ॥ तादृग्भोगस्य प्रतीकारनिर्वय॑त्वमभिप्रत्येद- माहुः- अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैन लिप्येरनलरामयुधिष्ठिराः ॥” इति ॥ तदेवं जीवन्मुक्ति प्रति वासनाक्षयमनोनाशयोः साक्षात्साधनत्वात्माधान्यम् ॥ तत्त्वज्ञानं तु तयोरुत्पादनेन व्यवहितत्वादुपसर्जनम् ॥ तत्त्वज्ञानस्य वासनाक्षय- हेतुत्वं बहुशः श्रुतौ श्रूयते- ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ "तरति शोकमात्मवित्" "तत्र को मोहः कः शोक एकत्वमनु पश्यतः।" ज्ञात्वा देवं मुच्यते सर्वपाशैः" इति ॥ मनोनाशहेतुत्वं च तत्त्वज्ञानस्य श्रु- तिसिद्धम् । विद्यादशामभिप्रेत्येदं श्रूयते-" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्केन कं जिघ्रत्" इत्यादि ॥ गौडाचार्याश्चाहुः- " आत्मतत्त्वानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहः ॥" इति ॥ जीवन्मुत्तेवसिनाक्षयमनोनाशाविव विदेहमुक्तेः साक्षात्साधनत्वाज्ज्ञानं प्रधानम् ॥ ज्ञानादेव कैवल्यं प्राप्यते येन मुच्यते " इति स्मृतेः ।। तु १ घ. च. मृदुभोगः । २ ग. घ. च. 'मना इत्यत्र । ३ इ. धादापा । ४ घ. प्रबलभोगस्य । ५ घ. निवृत्त्यर्थम । ६ घ. 'नत्वम्। ७ घ. बहुधा श्रूयते श्रुतौ। ८ ग. घ. च. पुस्तकेषु क्षीणैरित्यादि- प्रहाणिरित्यन्तं नास्ति । ९ ग. च. आत्मसत्यनुरोधेन; घ. आत्मसत्तानुरोधेन । SGARHI यस्तु विज्ञानवा- जीवन्मुक्तिविवेकः। [द्वितीयं केवलस्यात्मानो भावः कैवल्यं देहादिरहितत्वम् । तच ज्ञानादेव प्राप्यते ।। सदेहत्वस्याज्ञानकल्पितत्वेन ज्ञानकनिवर्त्यत्वात् ॥ ज्ञानादेवेत्येवकारेण कर्म- व्यावृत्तिः न कर्मणा न प्रजया इति श्रुतेः ॥ यस्तु ज्ञानशास्त्रमन- भ्यस्य यथासंभवं वासनाक्षय मनोनाशावभ्यस्य सगुणं ब्रह्मोपास्ते न तस्य कै- वल्यमस्ति । लिङ्गदेहस्यानपायात् ॥ अत एवकारेण तावपि व्यावत्येते ॥ येन मु- च्यत इत्यस्यायमर्थः ॥ येन ज्ञानप्रापित केवलत्वेन कृत्स्नसंबन्धाद्विमुच्यत इति ।। बन्धश्चानेकविधः ॥ अविद्यापन्थि, अब्रह्मत्वम्, हृदयग्रन्थिः, संशयः, कर्माणि, सर्वकामत्वम्, मृत्युः, पुनर्जन्मेत्यादिशब्दैस्तत्र तत्र व्यवहारात् ॥ अज्ञानत एते बन्धाः सर्वे ज्ञाननिवाः ॥ तथाच श्रुतयः-" एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थि विकिरतीह सौम्य" | " ब्रह्म वेद ब्रह्मैव भवति" ॥ “भि- छते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्ट परावरे" ॥ " यो वेद निहितं गुहायां परमे व्योमन्" ॥" सोऽश्नुते सर्वा- न्कामान्सँह " | " तमेवं विदित्वाऽतिमृत्युमेति " ॥ न्भवति असमनस्कः सदा शुचिः ॥ स तु तत्पदमाप्नोति यस्माभ्यो न जाय- ते" | " य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति"॥ इत्यादीन्यंसर्वज्ञ- त्वादिबन्धनिवृत्तिपराणि वाक्यान्यत्रोदाहरणीयानि । सेयं विदेहमुक्तिर्ज्ञानोत्प- त्तिसमकालीना ज्ञेया ॥ ब्रह्मण्यविद्यारोपितानामेतेषां बन्धानां विद्यया विनाशे सति पुनरुत्पत्त्यसंभवादैननुभवाच्च ।। तदेतद्विद्यासमकालीनत्वं भाष्यकारः सम- न्वयसूत्रे प्रपञ्चयामास " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्यपदेशात् " इति ॥ ननु वर्तमानदेहपातानन्तरंभाविनी विदेहमुक्तिरिति बहवो वर्णयन्ति ॥ त- थाच श्रुतिः-" तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यत" इति ॥ वाक्यवृत्तावप्युक्तम्- " प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् । 'कंचित्कालमथारब्धकर्मबन्धस्य संक्षये ॥ निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ " इति ॥ सूत्रकारोऽप्याह-" भोगेन वितरे क्षपयित्वा संपद्यते " इति ॥ इत्तरे प्रारब्धपुण्यपापे । १ ग. घ. भावं। २ घ. प्राप्तिके ङ. 'प्रापितत्वेन के । ३ ग. ह. संशयाः । ४ क. ख. म. रु. कर्माण्यसर्व घ. कर्मप्रन्धिः, कर्माणि स'। ५ ग. घ. 'र्वेऽपि ज्ञा। ६ ङ. 'निर्वाः। ७ ग. घ. सहति । ८ ग. घ. "मेतीति । १ ङ. तिस। १० ग. 'न्यप्पस घ. न्यब्रह्मला । ११ क. ख. डा. दनु। १२ ग. किंचित्कालमनार' ।
वासनाक्षयम० विद्यारण्यप्रणीतः वसिष्ठोऽप्याह-"जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥” इति ॥ नायं दोषः, विवक्षाविशेषेण मतद्वयस्याविरोधात् ॥ विदेहमुक्तिरित्यत्रत्येन देहशब्देन कृत्स्नदेहजात(स्य)विवक्षितत्वादहुभिर्वर्णितम् ॥अस्माभिस्तु भाविदेह- मात्रविवक्षयोच्यते । तदनारम्भायैव ज्ञानसंपादनात् । अयं तु देहः पूर्वमेवारब्धः, अतो ज्ञानेनापि नास्यारम्भो वारयितुं शक्यते ॥ एतदेह निवृत्तिरपि न ज्ञान- फलम् । अज्ञानिनामप्यारब्धकर्मक्षये तन्निवृत्तेः ॥ तर्हि वर्तमानलिङ्गदेहनिवृत्ति- निफलमस्तु । ज्ञानमन्तरेण तदनिवृत्तेरिति चेन्न ॥ सत्यपि ज्ञाने जीवन्मुक्तेस्त निवृत्त्यभावात् ।। ननु ज्ञानस्य किंचित्कालं प्रारब्धेन कर्मणा प्रतिबद्धत्वेनानि- वर्तकत्वेऽपि प्रतिबन्धक्षये लिङ्गदेहनिवर्तकत्वं भविष्यतीति चेन्न । पञ्चपादि- काचार्येण “यतो ज्ञानमज्ञानस्यैव निवर्तकम्, इत्युपपादितत्वात् ॥ तर्हि लिङ्गदेह- निवृत्तेः किं साधनमिति चेत्सामग्रीनिवृत्तिरिति ब्रूमः ॥ द्विविधं हि कार्यनिव- तकम् ॥ विरोधिसद्भावः सामग्रीनिवृत्तिश्चेति ॥ तद्यथा विरोधिना वायुना तैल- वर्तिसामग्रीनिवृत्त्या वा दीपो निवर्तते ॥ लिङ्गदेहस्य साक्षाद्विरोधिनं न पश्या- मः ।। सामग्री हि द्विविधा । प्रारब्धमनारब्धं चेति ॥ ताभ्यामुभाभ्यामज्ञानिनां लिङ्गदेह इहामुत्र चावतिष्ठते ॥ ज्ञानिनां त्वनारब्धस्य ज्ञानेन निवृत्तेः प्रारब्धस्य च भोगेन निवृत्तेः तैलवर्तिरहितदीपवत्सामग्रीनिवृत्त्या लिङ्गदेहो निवर्तते । अं- तोन तनिवृत्तिर्ज्ञानफलम् ।। नन्वनेन न्यायेन भाविदेहानारम्भोऽपि ज्ञानफलम् ।। तथा हि किमनारम्भ एव फलम् , किंवा तत्प्रतिपालनम्॥ नाऽऽद्यः ॥ तस्य प्रा- प्रागभावरूपत्वेनानादिसिद्धत्त्वात् । न द्वितीयः अनारब्धकर्मरूपसामग्रीनिवृत्त्यैव भाविदेहारम्भमागभावप्रतिपालनसिद्धेः । न च तन्निवृत्तिः फलम् ॥ अविद्यानि- वृत्तेरेव विद्याफलत्वात् । नैष दोषः ॥ भाविजन्मानारम्भादीनां विद्याफलत्वस्य माणिकत्वात् ॥ “यस्माद्भूयो न जायते" इत्याधुदाहृताः श्रुतयस्तत्र प्रमाणम् ।। न च ज्ञानमज्ञानस्यैव निवर्तकमिति न्यायेन विरोधः ।। अज्ञानसहभावनियता- नामब्रह्मत्वादीनामज्ञानशब्देन पञ्चपादिकाचार्विवक्षितत्वात् ।। अन्यथानुभववि- रोधः ।। अनुभूयते ह्यज्ञाननिवृत्तिवदब्रह्मत्वादिनिवृत्तिरपि । तस्माद्भाविदेहरा- हित्यलक्षणा विदेहमुक्तिीनसमकालीना । तथाच याज्ञवल्क्यवचनं श्रूयते- अभयं वै जनक प्राप्तोऽसि" इति " एतावदरे खल्वमृतत्वम्" इति च ॥ १ ग. घ. च "मुक्तित्वं । २ घ. "त्यत्रानेन । ३ घ. नाप्यस्या । ४ घ.'तुं न श। ५ क. ख. ङ, कंचित्कालं प्रारब्धक'। ६ घ. च. "ङ्गनि । ७ ग. घ. ङ. "त्तिश्च । त। ८ ग. घ. च. प्री द्विधा । ९ ङ. अतस्तनि। • ग. घ. च. वात् ॥ भयो । ११ ख. ग. घ. च. "वाद्विरो।
जीवन्मुक्तिविवेकः। [द्वितीयं श्रुत्यन्तरेऽपि " तमेवं विद्वानमृत इह भवति" इति ॥ यद्युत्पन्नेऽपि तत्त्वज्ञाने तत्फलभूता विदेहमुक्तिस्तदानीं न भवेत् ॥ कालान्तरे च भवेत् ॥ तदा ज्योतिष्टोमादाविव ज्ञानजन्यमपूर्व किंचित्कल्पेत ॥ तथाच कर्मशास्त्र एव ज्ञानशास्त्रमन्तर्भवेत् ॥ अथोच्यते । मन्त्रादिप्रतिबद्धानिवत्प्रारब्धप्रतिबद्धं ज्ञानं कालान्तरे विदेहमुक्तिं दास्यतीति ॥ मैवम् । अविरोधात् ॥ नास्मदभिप्रेताभावि- देहात्यन्तामावलक्षणा विदेहमुक्तिर्वर्तमानदेहमात्रस्थापैकेन प्रारब्धेन विरुध्य- ते, येन प्रतिबध्येत ।। किंच क्षणिकत्वेन कालान्तरे स्वयमविद्यमानं ज्ञानं कथं मुक्तिं दद्यात् ॥ ज्ञानान्तरं चरमसाक्षात्कारलक्षणमुत्पत्स्यत इति चेन्न ॥ साध- नाभावात् ।। प्रतिबन्धकपारब्धनिवृत्त्यैव सह गुरुशास्त्रदेहेन्द्रियाद्यशेषजगत्प्रभा- सनिवृत्तेः किं ते साधनं स्यात् ॥ तर्हि "भूयश्चान्ते विश्वमायानिवृत्तिः' इत्यस्याः श्रुतेः कोऽर्थ इतिचेत् ॥ आरब्धान्ते निमित्ताभावाद्देहेन्द्रियाद्यशेषनैमित्तिकनि- वृत्तिरित्येवार्थः । ततो भवदभिमता वर्तमानदेहराहित्यलक्षणा विदेहमुक्तिः प- श्वादस्तु देहपातानन्तरम् ॥ अस्मदभिमता तु ज्ञानसमकालीनैव ।। एतदेवाभिमे- त्य भगवाश्शेष आह- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि त्यजन्देहम् । ज्ञानसमकालँमुक्तः कैवल्यं याति हतशोकः ॥" इति ॥ तस्माद्विदेहमुक्तौ साक्षात्साधनस्य तत्त्वज्ञानस्य प्रधानत्वमुपपन्नम् । वासना- क्षयमनोनाशयोर्ज्ञानसाधनत्वेन व्यवहितत्वादुपसर्जनत्वम् ॥ आमुरवासनाक्षय- कारिण्या दैववासनाया ज्ञानसाधनत्वं श्रुतिस्मृत्योरुपलभ्यते-" शान्तो दा- न्त उपरवस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येत् " इति श्रुतिः ।। स्मृतिरपि- " अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।। मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १ ग. घ. च. वेत् ॥ अथोच्येत का । २ ङ. पकत्वेन । ३ क.ख. ङ. मब्रह्मसा। ४ ङ. सद्गरु। ५ घ. "वृत्तिः किं । ६ ग. घ. च. 'दस्त्वस्मदेह । ७ ङ. 'लमेव मु।
वासनाक्षयप्र०] विद्यारण्यप्रणीतः अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥" इति ॥ अन्यस्मिन्नहंबुद्धिरभिष्वङ्गः। ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानसाधनमित्यर्थः॥ मनोनाशस्यापि ज्ञानसाधनत्वं श्रुतिस्मृतिमसिद्धम्-"ततस्तु तं पश्यति नि- कलं ध्यायमानः" इति श्रुतिः। अध्यात्मयोगाधिगमेन देवं मत्त्वा धीरो हर्षशोको जहाति " इति च ॥ प्रत्यगात्मसमाधिपाध्या देवं ज्ञात्वेत्यर्थः ॥ "यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युनानास्तस्मै विद्यात्मने नमः॥" इति स्मृतिः।। तदेवं तत्त्वज्ञानादीनां त्रयाणां विदेहमुक्तिजीवन्मुक्तिवशाद्गुणमधोनभावम्पव- स्था सिद्धा ॥ ननु विविदिषासंन्यासिना संपादितानामेतेषां किं विद्वत्संन्यासा- दूर्ध्वमनुवृत्तिमात्रं, किंवा पुनरपि संपादनप्रयत्नोऽपेक्षितः ॥ नाऽऽद्यः। तत्त्वज्ञा- नस्येवान्ययोरप्ययत्नसिद्धत्वे प्राधान्यप्रयुक्तांदराभावप्रसङ्गात् ॥ न द्वितीयः। इ- तरयोरिव ज्ञानस्यापि यत्नसापेक्षत्वे सत्युपसर्जनत्वप्रयुक्तौदासीन्याभावप्रसङ्गात् । नायं दोषः । ज्ञानस्यानुवृत्तिमात्रमितरयोर्यत्नसाध्यत्वमित्यङ्गीकारात् ॥ तथाहि विद्याधिकारी द्विविधः; कृतोपास्तिरकृतोपास्तिश्चेति ॥ तत्रोपास्यसाक्षात्कारप- र्यन्तामुपास्ति कृत्वा यदि ज्ञाने प्रवर्तेत तदा वासनाक्षयमनोनाशयोईडतरत्वेन ज्ञानादूर्ध्वं विद्वत्संन्यासजीवन्मुक्ती स्वत एव सिद्धयतः ॥ तादृश एव शास्त्राभि- मतो मुख्यो विद्याधिकारी । ततस्तं प्रति शास्त्रेषु सहोपन्यासात् ॥ स्वरूपेण विविक्तावपि विद्वत्संन्यासविविदिषासंन्यासौ संकीर्णाविव प्रतिभासते ॥ इदानी- तनास्तु प्रायेणाकृतोपास्तय एवौत्सुक्यमात्रात्सहसा विद्यायां प्रवर्तन्ते । वासना- क्षयमनोनाशौ च तात्कालिको संपादयन्ति ॥ तावता श्रवणमनननिदिध्यासनोनि निष्पधन्ते ॥ तैश्च हूँढाभ्यस्तैरज्ञानसंशयविपर्ययनिरासात्तत्त्वज्ञानं सम्यगुदेति ॥ उदितस्य ज्ञानस्य बाधकममाणाभावानिवृत्तायाऽविद्यायाः पुनरुत्पत्तिकारणा- भावाच नास्ति तस्य शैथिल्यम् ॥ वासनाक्षयमनोनाशौ तु दृढाभ्यासाभावाद्भोगम- देन मारब्धेन तदातदा बाध्यमानत्वाच्च सवातपदेशदीपवत्सहसा निवर्तते ॥ त- थाच वसिष्ठः- "पूर्वेभ्यस्तु प्रयत्नेभ्यो विषमोऽयं हि संमतः । दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि ॥" इति ॥ १ ग. घ. च. योगात्मने । २ . धानोपसजन'। ३ घ. "क्तान्तरा: च.क्तादन्तरा। ४ क. ७. स्वस्वरूपेण । ५ ङ. 'विव भा'। ६ ग. घ. च. 'नादीनि । ७ . दृढतराभ्यस्तै । मिBिREATRE [द्वितीय जीवन्मुक्तिविवेकः। ३४ Home अर्जुनोऽपि- चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥” इति ॥ तस्मादिदानींतनानां विद्वत्संन्यासिनां ज्ञानस्यानुवृत्तिमात्रम् । वासनाक्षयम- नोनाशौ तु प्रयत्नसंपाद्याविति स्थितम् ॥ मनु केयं वासना यस्याः क्षयाय प्र- पतितव्यमिति चेत्तत्स्वरूपमाह ॥ वसिष्ठः दृढभावनया युक्ता पूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ भावितं तीवसंवेगादात्मना यत्तदेव सः । भवत्याशु महाबाहो विगतेतरसंस्मृतिः ॥ तादृयूपो हि पुरुषो वासनाविवशीकृतः । संपश्यति यदेवैतत्सदस्त्विति विमुह्यति । वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् । भ्रान्तं पश्यति दुईष्टिः सर्व मदवशादिवे ॥” इति ॥ अत्र च स्वस्वदेशाचौरकुलधर्मभाषाभेदतद्गतापशब्दसुशब्दादिषु माणिनाम- भिनिवेशः सामान्यत उदाहरणम् । विशेषस्तु भेदानुक्त्वा पश्चादुदाहरामः॥ य- थोक्तां वासनामभिप्रेत्य बृहदारण्यके श्रूयते- “स यथा कामो भवति तत्क- तुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते" इति ॥ वासनाभेदो वाल्मीकिना दर्शितः- " वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥ अज्ञानसुघनाकारा घनाहङ्कारशालिनी। पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ।। पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत् । देहाथ धियते ज्ञातज्ञेया शुद्धेति चोच्यते ।।" इति ।। देहादीनां पञ्चकोशानां तत्साक्षिणश्विदात्मनश्च भेदावरकमज्ञानं तेन मुटु १ क.ख.ङ. पुस्तकेष्वत्र “प्रवृत्ति च निवृत्ति च०" "असत्यमप्रतिष्ठं ते." "एतां दृष्टिमवष्टभ्य." इति श्लोकत्रयमधिकं दृश्यते । २ क. ख. ङ. चारभाषाकुलधर्मभेद। ३ घ. च. तथा ऋतुर्भवति यथाऋतु । ४ ग. घ. च. जन्ममृत्युक। Nai बासनाक्षयम० विद्यारण्यमणीतः ३५ Manasamaap घनीभूत आकारो यस्याः सेयमज्ञानसुघनाकारा ॥ यथा क्षीरं तकमेलनेन चना- भवति, यथा वा विलीनं घृतमत्यन्तशीतलप्रदेशे चिरमवस्थापितं मुंघनीभवति तथा वासना द्रष्टव्या । घनीभावश्चात्र भ्रान्तिपरम्परा ॥ तां चामुरसम्पद्विवरणे भगवानाहा " प्रवृत्तिं च निवृत्ति च " इति षोडशाध्यायोक्तश्लोकत्रयक्रमेण पठित्वाऽग्रे पठनीयम्- काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहागृहीत्वाऽसद्बाहान्मवर्तन्तेऽशुचिव्रताः ।। चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ।। आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ।।" इति ॥ अहङ्कारश्च तत्रैवोदाहृतः- इदमय मया लब्धमिमं मास्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्मुखी ॥ भन्योऽभिजनवानस्मि कोऽन्योऽस्ति सहशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।। अनेकचित्तविश्वान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।" इति ॥ पतेन पुनर्जन्मकारणत्वमुदाहृतं भवति, तच्च पुनः प्रपञ्चितम्- " आत्मसंभाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। अहङ्कार बल दर्प कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । १ ग. घ. च. तक्रसेचनेन २ घ. घनीभूतं भ। ३ क. ख. ङ. 'सुलुध४ ग. घ. व. पुस्तके प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ असत्य- मप्रतिष्ठं ते जगदादुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानो स्पषुद्धयः । प्रभवन्त्युप्रकर्माणः क्षयाय जगतोऽहिताः । “ काम'। ५ ५. घनाकारश्च । ६ प. मिदं प्राप्ने । ७ क. स. ङ. 'जन्मकरत्वमु; ग.घ. जन्मकारकलमु। ८ क. स्व.क. तश्च मन्मकरत्वं पु। FEWACHAROHanimary [द्वितीय - जीवन्मुक्तिविवेकः। क्षिपाम्यजसमशुभानामुरीष्वेव योनिषु ॥ आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥” इति ॥ शुद्धवासना तु ज्ञातज्ञेया ॥ ज्ञेयस्वरूपं त्रयोदशाध्याये भगवानाह- " ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ।। सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं असिष्णु प्रभविष्णु च ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ॥" इति ॥ अत्र तटस्थलक्षणस्वरूपलक्षणाभ्यामवगन्तुं सोपाधिकनिरुपाधिकस्वरूपद- यमुपन्यस्तम् ।। कदाचित्संबन्धिसघल्लक्षयति तत्तटस्थ लक्षणम् । यथा देवदत्त- गृहम् ॥ तथा कालत्रयसंबन्धि सद्यल्लक्षयति तत्स्वरूपलक्षणम् । यथा मकृष्टम. काशश्चन्द्र इति ॥ ननु त्यक्तपूर्वापरविचारत्वं वासनालक्षणमुक्तम् । ज्ञेयज्ञानं च विचारजन्यम् । अतो न शुद्धायां तल्लक्षणमस्ति ॥ मैवम् । लक्षणे दृढभावनये- त्युक्तत्त्वात् । यथा बहुषु जन्मसु दृढभावितत्वेनास्मिञ्जन्मनि विनैव परोपदेश- महङ्कारममकारकामक्रोधादयो मलिनवासना उत्पद्यन्ते तथा प्राथमिकस्य बोधस्य विचारजन्यत्वेऽपि दीर्घकालनैरन्तर्यसत्कारै विते तत्त्वे पश्चाद्वाक्ययु- क्तिपरामर्शमन्तरेणैव पुरोवर्तिघटादिवत्सहसा तत्त्वं परिस्फुरति तादृश्या बो- धानुवृत्त्या सहित इन्द्रियव्यवहारः शुद्धवासना। सा च देहजीवनमात्रीयोपयु- ज्यते ॥ न तु दम्भदर्पाद्यासुरसम्पदुत्पादनाय, नापि जन्मान्तरहेतुधर्माधर्मो- त्पादनाय ॥ यथा भृष्टानि ब्रीद्यादिबीजानि कुसूलपूरणमात्रायोपयुक्तानि नतु रुचिरामाय, नापि सस्यनिष्पत्तये तद्वत् ॥ मलिना च वासना त्रिविधा। लोक- १ घ. पुस्तके "ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् " इत्यर्धपद्यमधिकम् । २ घ. 'लक्ष- गाव । ३ ग. घ. च. पुस्तकेषु कदाचिदित्यारभ्य प्रकाशचन्द्र इत्यन्तो ग्रन्थो न हि । ४ . सत्का- प्रभाविते । ५ इ. मात्रयोप। ६ क. ख. इ. संभ्रष्टानि । ५ क. ख. इ. सचिकरानाय; ग. रुचि । कराणि Mic मासनाक्षयम.] विद्यारण्यप्रणीतः वासना शास्त्रवासना देहवासना चेति । सबै जना यथा निन्दन्ति यथा वा स्तु- वन्ति तथैव सर्वदा चरिष्यामीत्यभिनिवेशो लोकवासना ॥ तस्याश्च संपादयितु- मशक्यत्वान्मलिनत्वम् । तथाहि- "कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् " इत्यादिना बहुधा वाल्मीकिः पप्रच्छ- " इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः इत्यादिना प्रत्युत्तरं नारदो ददौ ॥ तादृशस्यापि रामस्य पातिव्रत्यशिरो- मणिभूताया जगन्मातुः सीतायाश्च श्रोतुमशक्यो जनापवादः संप्रवृत्तः । किमु वक्तव्यमन्येषाम् ॥ तथा देशविशेषेण परस्परं निन्दाबाहुल्यमुपलभ्यते । दाक्षि- णात्यविगैरौत्तरीया वेददिदो विमा मांसभक्षणो निन्द्यन्ते । औत्तरेयैश्च मातु- लमुतोद्वाहिनो यात्रामु मृद्भाण्डवाहिनो दाक्षिणात्या निन्द्यन्ते । बवचा आश्व- लायनशाखां कण्वशाखायाः प्रशस्तां मन्यन्ते । वाजसनेयिनस्तु वैपरीत्येन । एवं स्वस्वकुलगोत्रबन्धुवर्गष्टदेवतादिप्रशंसा परकीयनिन्दा च ऑविद्वदङ्गना- गोपालं सर्वत्र प्रसिद्धा ॥ एतदेवाभिमेत्योक्तम्- " शुचिः पिशाचो विचलो विचक्षणः क्षमोऽप्यशक्तो बलवांश्च दुष्टः । निश्चित्तचोरः सुभगोऽपि कामी को लोकमाराधयितुं समर्थः ॥" इति । " विद्यते न खलु कश्चिदुपायः सर्वलोकपरितोषकरो यः। सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥” इति चें ॥ अतो लोकवासनाया मलिनत्वमभिप्रेत्य योगीश्वरस्य तुल्यनिन्दास्तुतित्वं मोक्षशास्त्रेषु वर्णितम् ।। शास्त्रवासना त्रिविधा । पाठव्यसनं शास्त्रव्यसनमनुष्ठान- व्यसनं चेति । पाठव्यसनं भरद्वाजेऽवगम्यते । स हि पुरुषायुषत्रयेण बहून्वेदा- नधीत्येन्द्रेण चतुर्थायुषि प्रलोभितस्तत्रापि परिशिष्टवेदाध्ययनायोचमं चकार ॥ तस्यापि पाठस्याशक्यत्वान्मलि वासनात्वम् । तां चौसतिमिन्द्रः प्रतिबोध्य पागनिवर्त्य ततोऽप्यधिकाय पुरुषार्थाय सगुणब्रह्मविद्यामुपदिदेश । तदेतत्स- १ क. यथा मां न नि । २ क. 'मस्य पति'; ग. घ. च. स्य पतिव्रताशि। ३ घ. था हि दे। ४ क. ङ. 'दाबहुलमु; ख. दाबहुलमुपेक्ष्यते । ५ ख. 'तरिका । ग. घ. च. 'त्तरा थे। ६ क. भक्षणानिन्द्यन्ते । ७ ग. घ.चोत्तरैश्च; च. औत्तरैश्च । ८ घ. 'लकन्यापरिणयया । ९ घ. च. "शाखायाः। १० घ. त्रवर्गबन्धुत्वेषु स्वकीयेषु देव । ११ ङ. विद्वांसमारभ्य आङ्गनागोपालम् । १२ क. ख. ग. घ. च. एषु पुस्तकेषु केवलमस्य पद्यस्य " को लोकमाराधयितुं समर्थः" इति चरमचरण एव दृश्यते न साप्रश्लोकः। १३ ङ. पकृतो यः। १४ क. ख. ङ. च. च ॥ लो।१५ क. ख. र. नत्वम् । १६ क. ख. ङ. चाशक्ति। १७ घ. 'प्यधिकपु। १० घ. मुपादि। dasisauth जीवन्मुक्तिविवेकः। [द्विवीर्य व तैत्तिरीयब्राह्मणे द्रष्टव्यम् । तथैवात्यन्तिकपुरुषार्थाभावाद्भहुशास्त्रव्यसनस्य मालिन्यं कावषेयगीतायामुपलभ्यते-" कश्चिन्मुनिर्दुर्वासा बहुविधशास्त्रपु- स्तकमारैः सह महादेव नमस्कर्तुमागतस्तत्सभायां नारदेन मुनिना भारवाहिग- र्दभसाम्यमापादितः, कोपात्पुस्तकानि लवणार्णवे परित्यज्य महादेवेनात्मवि- थायां प्रवर्तितः" इति ॥ आत्मविद्या चाऽनन्तर्मुखस्य गुरुकारुण्यरहितस्य न वेदशास्त्रमात्रेणोत्पद्यते । तथाच श्रुतिः-" नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन " इति । अन्यत्राप्युक्तम्- बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्योतिरान्तरम् ।।" इति ।। " अधीत्य चतुरो वेदान्धर्मशास्त्राण्यनेकशः। ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ इति च ॥ नारदश्चतुष्षष्टिविद्याकुशलोऽप्यनात्मवित्त्वेनानुतप्तः सनत्कुमारमुपससा- ६" इति छन्दोगा अधीयन्ते ॥ अनुष्ठानव्यसनं विष्णुपुराणे निदाघस्योप- लभ्यते ॥ वासिष्ठरामायणे "दाशूरस्य निदाघो हि ऋभुणा पुनःपुनर्बोध्यमानो- ऽपि कर्मश्रद्धाजाड्यं चिरं न जहौ ॥ दाशूरश्चात्यन्त श्रद्धाजाड्येनानुष्ठानाय शु- प्रदेशं भूमौ न वाप्युपलेभे ॥ अस्याश्च कर्मवासनायाः पुनर्जन्महेतुत्वान्मलिन- त्वम्" ॥ तथा चाथर्वणिका अधीयन्ते ।। "प्लवा येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवाभियन्ति । अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । जघन्यमानाः परियन्ति मूढा अन्धेनेव नायमाना यथान्धाः ।। अविद्यायां बहुधा. वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः। यत्कर्मिणो न प्रवेदयन्ति रागाचेनातुराः क्षीणलोकाश्यवन्ते ॥ इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । * (तद्राह्मणं च)-ड. " भरद्वाजो ह त्रिभिरायुभिब्रह्मचर्यमुवास ॥ तरह जीर्ण५ स्थविर ५ शयाना मिन्द्र उपव्रज्योवाच भरद्वाजाय ॥ ते चतुर्थमायुर्दद्याम् ॥ किमनेन कुर्या इति ॥ ब्रह्मचर्यमेवैनैन चरेयु. मिति होवाच ॥ त त्रिगिरिरूपानविज्ञातानिव दर्शयाश्चकार ॥ तेषार हेकैकस्मान्मुष्टिनाददे ॥ स हो. वाच ॥ भरद्वाजेत्यामन्यो वेदा वा एते । ॥ इति ॥ १. घ. ग. च. "श्चिदुर्वासामुनि । २ . सह मोक्षशास्त्रेषु वणितं महादेवं। ३ क. ख. छ. 'ग- म तत्स। ४ ग. घ. बहुधा ५ ग. घ. च. 'ष्टिकलाविद्या । ६ ङ. 'ठपुराणे दा। ७ ग. घ..च. "पुनः प्रयोध्य। • ग.घ. 'वापियन्ति । ९ रु. 'भिनन्दन्ति । • इ. 'श्वरन्ते । ११ घ. 'पूर्ति में।
वासनाक्षयम.] विद्यारण्यप्रणीतः नाकस्य पृष्ठे ते मुकृतेनानुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ "इति॥ भगवताप्युक्तम्- " यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ।। कामात्मानः स्वर्गपरा जन्मकर्मफलपदाम् । क्रियाविशेषबहुला भोगैश्वर्यगति प्रति ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ त्रैगुण्यविषया वेदा निबैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥" इति ॥ दर्पहेतुत्वाच्छात्रवासनायां मलिनत्वम् ॥ श्वेतकेतुरल्पेनैव कालेन सर्वान्वे- दानधीत्य दर्पण पितुरपि पुरतोऽविनयं चकारेति छन्दोगाः षष्ठाध्याये पठ- न्ति ॥ तथा बालाकिः कानिचिदुपासनान्यवगत्य दृप्त उशीनरादिषु बहुषु दे- शेषु दिग्विजयेन बहून्विपानवज्ञाय काश्यामजातशत्रु ब्रह्मविच्छिरोमणिमनु- शालिहुं घाष्टयं चकारेति कौपीत किनो वाजसनेयिनश्चाधीयन्ते ॥ देहदासना- प्यात्मत्वगुणाधानदोषापनयनभ्रान्तिभित्रिविधा ॥ तत्रात्मत्वं भाष्यकार उ- दाजहार देहमानं चैतन्यविशिष्टमात्मेति प्राकृता लोकायतिकाश्च प्रतिप- माः" इति ॥ स वा एष पुरुषोऽन्नरसमयः" इत्यारभ्य “ तस्मादनं तदु- ध्यते" इत्यन्तेन ग्रन्थेन तामेव प्राकृतप्रतिपत्ति तैत्तिरीयाः स्पष्टीकुर्वन्ति ॥ " विरोचनः प्रजापतिनानुशिष्टोऽपि स्वचित्तदोषेण देहात्मबुद्धिं दृढीकृत्यामु- रान्सर्वाननुशशास" इति छैन्दोगा अष्टमाध्याये समामनन्ति ॥ गुणाधानं द्वि- विधम् । लौकिकं शास्त्रीयं चेति ॥ समीचीनशब्दादिसंपादनं लौकिकम् | कोम- लध्वनिना गातुमध्येतुं वा तैलपानमरीचभक्षणांदिषु लोकाः प्रयतन्ते ॥ मृदु- स्पर्शाय लोकाः पुष्टिकरावौषधाहारावुपर्युञ्जते ॥ लावण्यायाभ्यङ्गोद्वर्तनदुकू- लालंकारानुपसेवन्ते ॥ सौगन्ध्याय लगालेपने धारयन्ति ॥ शास्त्रीय गुणमाधा- तुं गङ्गास्नानशालिग्रामतीर्थादिकं संपादयन्ति ॥ दोषापनयनं च चिकित्सकोक्तै- १ १ क. ख. ङ. तेऽनु। २ ग. घ. च. °न्ति । बा । ३ ग. काश्चिदुपा ; . कश्चिदुपासनां नाव। ४ ग. प्रागुक्ता जना लो। घ. च. प्राकृता जना लो; ५ घ. 'कृतां प्र ६ ग. घ. च. छान्दोगा। ७ ग. घ. ष, णादिना लो । ८ ग. प. च. युज्यते । जीवितYARIR NANGI ४० जीवन्मुक्तिविवेकः । [द्वितीयं रौषधैर्मुखादिप्रक्षालनेन च लौकिकं, शौचाचमनाभ्यां वैदिकमित्युभयविधम् ॥ अस्याश्च देहवासनाया मालिन्यं वक्ष्यते ॥ देहस्यात्मत्वं तावदप्रामाणिकत्वाद- शेषदुःखहेतुत्वाच्च मलिनत्वम् || अस्मिश्चार्थे पूर्वाचार्यैः सर्वैरपि पराक्रान्तम् ।। गुणाधानं च प्रायेण न पश्यामः ॥ प्रसिद्धा एव गायका अध्यापकाश्च प्रयत- माना अपि बहवो ध्वनिसौष्ठवं न लभन्ते ॥ मृदुस्पर्शोऽङ्गपुष्टिश्च न नियता ॥ ला- वण्यसौगन्ध्ये अपि दुकूललगादिनिष्ठे न तु देहनिष्ठे ।। अत एव विष्णुपुराणे- ऽभिहितम्- " मांसासक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतो। देहे चेत्मीतिमान्मूढो भविता नरकेऽपि सः ॥ स्वदेहाश्रुचिगन्धेन न विरज्येत यः पुमान् । 'विरागकारणं तस्य किमन्यदुपदिश्यते ॥” इति ॥ शास्त्रीयं च गुणाधानं प्रबलेन शास्त्रान्तरेणापोहते ॥"न हिंस्यात्सर्वभूतानि" इत्यस्य "अग्निष्टोमीयं पशृमालभेत" इत्यनेनापवादस्तद्वत्मबलं शास्त्रमेतत् ॥ "यस्याऽऽत्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यस्तीर्थबुद्धिः सलिले न कर्हि चिजनेष्वभिज्ञेषु स एव गोखरः ।। अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥" इत्यादि । यद्यप्यनेन शास्त्रेण दोषापनयनं प्रतिषिध्यते नतु गुणाधानं तथापि सति विरोधिनि प्रबलदोषे गुण आधातुमशक्य इत्यर्थाद्रुणाधानस्य प्रतिषेधः। अत्य- न्तमालिन्यं चात्र मैत्रायणीशाखायां श्रूयते-" भगवन्नस्थिचर्मनायुमज्जामांस- शुक्रशोणितश्लेष्माश्रुदूषिकादूषिते विण्मूत्रवातपित्तसंघाते दुर्गन्धे निःसारेऽस्मि- शरीरे किं कामोपभोगैः" इति ॥ शरीरमिदं मैथुनादेवोद्भूतं संविद्यपेतं निर- य इच मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्र- कफपित्तमज्जामेदोवसांभिरन्यैश्चामयैर्बहुभिः परिपूर्ण कोश इव वसुनेति च चि- कित्सया च रोगशान्तिन नियता॥शान्तोऽपि रोगः कदाचित्पुनरुदेति ।। न- वच्छि निरन्तरं सवत्सु मलेषु रोमकूपैरसंख्यातैः स्विन्ने गाने कोनाम स्वेदेन प्रक्षालयितुं शक्नुयात् । तदुक्तं पूर्वाचायः- १ क.नादिभ्यां; ग. घ. अ. 'नादिना वै। २ ग. घ. च. वैरा। ३ ग. घ. च. 'स्यामीषोमीयं । ४ ङ. यः स्वात्म। ५ क. पुस्तके अत्र (त्रयो धातवो वातपित्तश्लेष्माणः प्रकृतयो यस्य तस्मिन्कुणपे शरीरे आत्मबुद्धिः स्वधीः, कलत्रादिषु स्वीया इति बुद्धिः, भौमे भूमिविकारे ईज्यधीर्देवताबुद्धिः, यस्य तीर्थमिति बुद्धिः सलिलेन, अभिज्ञेषु तत्त्ववित्सु यस्य (इत्ये) ता बुद्धयो न सन्ति स एव गोष्वपि खरो दारुणः ॥ यथा गवां तृणादिभारवाहः खरो गर्दभः) इत्यधिकमुपलभ्यते। ६ ग. घ. च. सान्यैश्च मलै । ( RAN पासनाक्षयम. विद्यारण्यप्रणीतः नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बादशौचैर्न शुद्धयन्ति नोन्तःशौचं तु विद्यते ॥" भतो देहवासना मलिना ॥ तदेतन्मालिन्यमभिप्रेत्य वसिष्ठ आह- "आपादमस्तकमहं मातापितृविनिर्मितः । इत्येको निश्चयो राम बन्धायासद्विलोकनात् ॥ सा कालसूत्रपदवी सा महावीचिवागुरा। साऽसिपत्रवनश्रेणी या देहोऽहमिति स्थितिः ।। सा त्याज्या सर्वयत्नेन सर्वनाशेऽप्युपस्थिते । स्पष्टव्या सा न भव्येन सश्चमांसेव ऍल्कसी ॥" इति ॥ तदेतल्लोकशास्त्रदेहवासनात्रयमविवेकिनामुपादेयत्वेन प्रतिभासमानमपि वि- विदिषोर्वेदनोत्पत्तिविरोधित्वाद्विदुषो ज्ञानप्रतिष्ठाविरोधित्वाच विवेकिभिर्हेयम् ॥ अत एव स्मयते- " लोकवासनया जन्तोः शास्त्रवासनयाऽपि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥" इति ।। या तु दम्भदोद्यासुरसंपद्रूपा मानसवासना तस्या नरकहेतुत्वान्मालिन्यम- तिमसिद्धम् । अतः केनाप्युपायेन वासनाचतुष्टयस्य क्षयः संपादनीयः । यथा वासनाक्षयः संपादनीयस्तथा मनसोऽपि ॥ नच तार्किकवन्नित्यद्रव्यमणुपरिमाणं मनो वैदिका अभ्युपगच्छन्ति । येन मनोनाशो दुःसंपादनीयः स्यात् ॥ किं तर्हि सावयवमनित्यं सर्वदा जतुसुवर्णादिवद्वहुविधपरिणामाई द्रव्यं मनः॥ तस्य लक्षणं प्रमाणं च वाजसनेयिनः समामनन्ति-" कामः संकल्पो विचि- कित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं| रित्येतत्सर्वं मन एवेति लक्षणम्"। का- मादिवृत्तयः क्रमेणोत्पद्यमानाश्चाक्षुषप्रत्यक्षघटादिवत्साक्षिमत्यक्षेणातिस्पष्टं भास- न्ते तेंवृत्त्युपादानं मन इत्यर्थः ॥ "अन्यत्रमना अभूवन्नादर्शमन्यत्रमना अभूवना- श्रौषम्" इति ॥"मनसाझेष पश्यति मनसा शृणोति" इत्यादि प्रमाणम् ॥चक्षुःसं- निकृष्टः स्फीतीवलोकमध्यवर्ती घटः। श्रोत्रसन्निकृष्ट उच्चैः पठितवेदश्च यस्यानव- धानेऽसति न प्रतीयते, अवधाने तु प्रतीयते । तादृशं सर्वविषयोपलब्धिसाधा- रणकारणमन्वयव्यतिरेकाभ्यां प्रतीयत इत्यर्थः ॥ तस्मादपि पृष्ठत उपस्पृष्टो १ घ. 'च्छिद्रयुताद्देहात्स्रव । २ घ. चान्तःशौचं न विद्यते । ३ घ. च. देहेऽह' । ४ घ. पु- कसी । ५ ङ. किभियेयम् । ६ ङ. दम्भाद्यासुर। ७ ग. घ. पाद्यः स्यात् । ८ ग, घ. स. ए. वेत्येतल्लक्षणम् । ९ घ. 'क्षुषप्र। १० घ. तदुपादानं; च. सदुपानं । ११ घ. च. ह्येव पश्यति मनसा शृणोतीत्येतत्प्रमाणम् । १२ घ. 'तामवलो। । ANNAPARTMayat ४२ जीवन्मुक्तिविवेकः। [द्वितीयं मनसा विजानातीत्येतदुदाहरणम् । यस्माल्लक्षणप्रमाणाभ्यां सिद्ध मनस्तस्मास- देवमुदाहरणीयम् ॥ पृष्ठभागेऽप्यन्येनोपस्पृष्टो देवदत्तो विशेषेण जानाति, हस्त- स्पर्शोऽयमङ्गुलिस्पर्शोऽयमिति ॥ नहि तत्र चक्षुः प्रसरति, त्वगिन्द्रियं तु मार्दव- काठिण्यमात्रीपक्षीणम् ॥ तस्मान्मन एव विशेषज्ञानकारणं परिशिष्यते ॥ तच मननान्मन इति चिन्तनाच्चित्तमिति चाभिधीयते ॥ तच्च चित्तं सत्त्वरजस्तमो- गुणात्मकं प्रकाशप्रवृत्तिमोहानां सत्त्वादिकार्याणां तत्र दर्शनात् ॥ प्रकाशादी- नां च गुणकार्यत्वं गुणातीतलक्षणेऽवगम्यते- " प्रकाशं च प्रवृत्तिं च मोहमेव व पाण्डव इत्यभिधानात् ॥ सायशास्त्रेऽपि-प्रकाशप्रवृत्तिमोहा नियमार्था इत्युक्त- म् ॥ प्रकाशो नाम नात्र सितभास्वरं रूपं किंतु ज्ञानम् ।। "सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च इत्युक्त्वात् ॥ ज्ञानवत्सुखमपि सत्त्वकार्यम् ॥ तदप्युक्तम्- "सत्त्वं मुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥" इति ॥ समुद्रत्तरङ्गवनिरन्तरं परिणममानेषु गुणेषु कदाचित्कश्चिदुद्भवति । इतरा- बभिभूयेते ॥ तदुक्तम्- "रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥" इति ॥ बाध्यबाधकतो यान्ति कल्लोला इव सागरे" इति च ॥ तत्र तमस उद्भवे सत्यासुरसंपदुदेति ॥ रजस उद्भवे सति लोका- दिवासनास्तिस्रो भवन्ति । सत्त्वस्योद्भवे सति दैवी संपदुपजायते ॥ एतदेवाभि- त्योक्तम्- सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥" इति ॥ यद्यप्यन्तःकरणं त्रिगुणात्मकं भासते तथापि सत्त्वमेवास्ये मनसः मुख्य- मुपादानेकारणम् ॥ उपादानसहकारिभूता अवयवा उपष्टम्भकाः। रजस्तमसी तु तदुपष्टम्भके । अत एव ज्ञानिनो योगाभ्यासेन रजस्तमसोरपनीतयोः सत्त्वमेव स्वरूपं परिशिष्यते । एतदेवाभिप्रेत्योक्तम्- १ घ. ध्यग्रहणे उप। १ घ. च. ति चेतना। ३ग. घ. च. "त्तिनि । ४ घ. न प्रकाशो ना. मात्र सि । ५ ग. घ. च. 'स्य मु। ६ ग. च.नम् । रज ७ घ. णम् । रज।
बासनाक्षयम.] विचारण्यप्रणीतः ज्ञस्य वित्तमचित्रं स्याज्ज्ञचित्तं सत्वमुच्यते " इति ।। तच्च सत्त्वं चाञ्चल्यहेतुरजोगुणशून्यत्वादेकाग्रम् ।। भ्रान्तिकल्पितानात्मस्व- रूपस्थूलपदार्थाकारहेतुतमोगुणशून्यत्त्वात्सूक्ष्मम् ॥ सत. भास्मदर्शनयोग्यम् ।। अत एव श्रुतिः- " दृश्यते स्वळपया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः" इति । म खलु वायुना दोधूयमानेन प्रदीपेन मणिमुक्तादिलक्षणानि निर्धारयितुं श- क्यन्ते । नापि स्थूलेन खनित्रेण सूच्येव सूक्ष्मपठस्यूतिः संभवति ।। तदी- दृशं सत्त्वमेव योगिषु तमोगुणसहितेन रजोगुणेनोपष्टब्धं बहुविधद्वैतसंकल्पेन वेतयमानं चित्तं भवति ॥ तश्चित्तं तमोगुणाधिक्ये सत्यामुरी संपद पचिन्व- स्पीनं भवति ॥ सथाह वसिष्ठः- " अनात्मन्यात्मभावेन देहभावनया तथा । पुत्रदारैः कुटुम्बैश्च चेतो गच्छति पीनताम् ।। महङ्कारविकारेण. ममतामललीलया । इदं ममेतिभावेन. चेतो गच्छति पीनताम् ।। भाधिव्याधिविलासेन समाश्वासन संसतौः । हेयाँहेयविभागेन चेतो गच्छति पीनताम् ।। नेहेन धनलोभेन लाभेन मणियोषिताम् । भापातरमणीयेन चेतो गच्छति पीनताम् ।। दुराशाक्षीरपानेन भोगानिलबलेन च । आस्थादानेन चारेण चित्ताहिर्याति. पीनताम् ॥” इति ॥ आस्था नाम प्रपञ्चे सत्यत्वबुद्धिस्तस्या आदानमङ्गीकारः स एव चारो ग- मनागमनक्रिया तयेति ॥ तदेवं विनाशनीययोर्वासनामनसोः स्वरूपं निरूपितम्।। अथ वासनाक्षयमनोनाशो क्रमेण निरुप्येते-तत्र वासनाक्षयप्रकारमाह ॥ वसिष्ठः- "बन्धो हि वासनाबन्धो मोक्षः स्याद्वासनाक्षयः । वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज ।। मानसीवर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । १ ख. ग. घ. च. तदेतदीदृशं । २ ख. घ. मेवायोगिषु तमोगुणगार्भतेन । कख. चेत. मानं। ४ घ. 'मुपाधित्वात्पीनं । ५ घ. 'भागेन । ६ ः संश्रुतौ । ७ घ. 'यादेय। ग. पुस्तके - यं लोको नहि । घ. चेतोहियाति । १० ग. एच. पुस्तकेषु भास्थेमारभ्य तदेवयावान्यो न.. श्यते । HDHATION जीवन्मुक्तिविवेकः। [द्वितीयं मैन्यादिभावनानानीहाणामलवासनाः ॥ ता अप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्ततमस्नेहो भव चिन्मात्रवासैनः ॥ तां अप्यन्तः परित्यज्य मनोबुद्धिसमन्विताम् । शेषे स्थिरसमाधानो येन त्यजसि तं त्यज ॥” इति ॥ अत्र मानसवासनाशब्देन पूर्वोक्तास्तिस्रो लोकशास्त्रदेहवासना विवक्षिताः ॥ विषयवासनाशब्देन दम्भदर्पाद्यासुरसंपद्विवक्षिता । मृदुतीव्रत्वे तद्विवक्षाभेदका- रणे ॥ यद्वा शब्दस्पर्शरूपरसर्गन्धा विषयास्तेषां काम्यमानत्वदशाजन्यसंस्का- रो मानसवासना ॥ भुज्यमानंदशाजन्यः संस्कारो विषयवासना ॥ अस्मिन्पक्षे पूर्वोक्तानां चतसृणामनयोरन्तर्भावः ॥ अन्तर्बाह्यव्यतिरेकेण वासनान्तरासंभवा- त् ॥ ननु वासनापरित्यागः कथं घटते ॥ नहि तासां मूर्तिरस्तेि ॥ येन संमा- र्जनीसमूहितधूलितृणवद्धस्तेनोद्धृत्य बहिस्त्यक्ष्यामः ॥ मैवम् ॥ उपवासजागर- णवत्तदुपपत्तेः ॥ स्वभावमाप्तयो(जिक्रियानिद्रयोरमूर्तत्वेऽपि तत्परित्यागरूपे उपवासजागरणे सर्वैरप्यनुष्ठीयेते तद्वदत्राप्यस्तु ॥ अद्य स्थित्वा निराहा- रः" इत्यादिमन्त्रेण संकल्पं कृत्वा सावधानत्वेनावस्थानं तत्र त्याग इति चेद- आपि न तद्दण्डनिवारितम् ॥"प्रैषमात्रेण संकल्प्याप्रमत्तत्वेनावस्थातुं शक्यत्वा- त् ॥ वैदिकमन्त्रानधिकारिणां तु भाषया संकल्पोऽस्तु ॥ यदि तत्र शाकसूपौ- दनादिसंनिधित्यागस्त त्रापि स्रक्चन्दनवनितासंनिधिपरित्यागोऽस्तु ।। अथ तत्र बुभुक्षानिद्रालस्यादिविस्मारकैः पुराणश्रवणदेवपूजानृत्यगीतवादित्रादिभि- श्चित्तमुपलाल्येत तत्रापि मैन्यादिभिस्तदुपलालयेत् ॥ मैन्यादयश्च पतञ्जलि- ना सूत्रिताः-"मैत्रीकरुणामुदितोपेक्षाणां मुखदुःखऍण्यापुण्यविषयाणां भाव- नातश्चित्तप्रसादनम्" इति ॥ चित्तं हि रागद्वेषपुण्यपापैः कलुषीक्रियते॥ रागद्वे- मुखानुशयी रागः; दुःखानुशयी द्वेषः" इति ॥ स्नेहोत्स्वेनानुभूयमानं सुखमनुशेते कॅश्चिद्धीवृत्तिविशेषः मुंखजातं सर्व मे- षौ च पतञ्जलिः सूत्रयामास- १ क. 'शान्तस्तमस्ने; इ. शान्तः समस्ने । २ क. ख. ङ. सनाः। ३ क. ख. ग. ङ. ता- मध्य । ४ ग. घ. "न्वितः; च.न्वितम् । ५ ग. घ. च. मासीनो। ६ क. ख. ङ. गन्धवि। ७ ग. घ. घ. 'नत्वदशा । ८ ग. घ. च. योरेवान्त। ९ ङ. 'स्ति । चेयेन। १. घ. निराहारं इति मन्त्रणा क. ख. 'निराहारः श्वो भोक्ष्ये परमेश्वर । ११ ग. घ. धानेनैवावस्थानं गत इतिचेदत्रापि; च. गत इतिवदत्रापि न तद्दण्डवारितः । १२ घ. प्रैषमत्रेण संकल्प्य प्रसवत्वेनावस्थातुं, ख. ग. घ. प्रैषमन्त्रे- 'म । १३ ग. घ. च. "स्यादिनिवर्तकैः । १४ घ. पुण्यपापवि । १५. ग. घ. च. अलिरसूत्रयः । 1६ ग. घ. च. हाद । १५ ग. घ. च. कश्चिद्वत्तिविशेषः सुखजातीयं मे सर्वे । १८ ग. सुखं स- जातीयं स।
बासनाक्षणम.] विद्यारण्यप्रणीतः भूयादिति ॥ तच्च दृष्टादृष्टं सामठ्यभावान संपादयितुं शक्यम् । अतः स रागश्चित्तं कलुषीकरोति ॥ यदा मंखिमाणिष्वयं मैत्री भावयेत्सर्वेऽप्यते मुखिनो म- दीया इति, तदा तत्सुखं स्वकीयमेव संपन्नमिति भावयतस्तत्र रागो निवर्तते ॥ पथा स्वस्य राज्याभावेऽपि पुत्रादिराज्यमेव स्वकीयं राज्यं तद्वत् ॥ निवृत्ते च राग वर्षास्वतीतासु शरत्सरिदिव चित्तं प्रसीदति ॥ तथा दुःखमनुशेते कश्चि- स्मत्ययः ।। ईदृशं दुःखं सर्वदा मे माभूदिति ॥ तच शत्रुव्याघ्रादिषु सत्सु न निवारयितुं शक्यम् ।। न च सर्वे दुःखहेतवो हन्तुं शक्यन्ते ॥ ततः स द्वेषः स- दा हृदयं दहति ॥ यदा स्वस्येव परेषां सर्वेषां प्रतिकूलं दुःखं न भूयादित्यनेन प्रकारेण करुणां दुःखिमाणिषु भावयेत्तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति ॥ अत एव स्मर्यते- माणा यथात्मनोऽभीष्टा भूतानामपि ते सथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः" इति ॥ तत्पकारं च महान्तो दर्शयन्ति- " सर्वेऽत्र मुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखमाप्नुयात् ॥” इति ॥ तथाहि पाणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति, पापं त्वनुतिष्ठन्ति ।। तदाहुः- पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥” इति ॥ ते च पुण्यपापे पश्चात्तापं जनयतः ॥ स च तापः श्रुत्याऽनूद्यते-" किम- हं साधु नाकरवम्, किमहं पापमकरवम् " इति ॥ यद्यसौ पुण्यपुरुषेषु मुदि- तां भावयेत्तदा तद्वासनायाः स्वयमेवाप्रमत्तः पुण्येषु प्रवर्तते ॥ तथा पापिषूपे- मां भावयन्स्वयमपि पापानिवर्तेत ॥ अतः पश्चात्तापस्याभावेन चित्तं प्रसीदति ॥ मुखिषु मैत्री भावयतो न केवलं रागनिवृत्तिः किंत्वसूयेादयोऽपि निवर्त- न्ते ॥ परगुणानामसहनमीर्षा, गुणेषु दोषाविष्करणमसूया ॥ यदा मैत्रीवशात्प- रकीयं सुखं स्वकीयमेव संपद्यते तदा परगुणेषु कथमसूयादिकं संभवेत् ॥ एवं दोषान्तरनिवृत्तिरपि यथायोग्य मुन्नेया ॥ दुःखिषु करुणां भावयतः शत्रुवधा- १ ग. घ. च. सुखिष्वयं'। २ ग. च. शरत्सु सरिदिव । ३ घ. च. सर्वदुःखं । ४ ग, घ. च. तथाच । ५ ग. घ च. अतः । ६ ग. घ. च. खं मा भूदित्य । ७ ग. 'दिदोषनि; क. ख. ङ. 'दिषु है। ८ घ. कुर्वन्ति साधव ; ङ. कुर्वन्तु मानवाः । ९ ङ. 'पे अक्रियमाणे क्रियमाणे च ५। १० म. सनावान्स्वय'; क. ख. , सनया स्व। ११ ग. च. ग्यमनुमेया । interest ४६ जीवन्मुक्तिविवेकः । [द्वितीय दिकरो द्वेषो यथा निवर्तते तथा दुःखित्वप्रतियोगिकस्वमखित्वप्रयुक्तो दो- ऽपि निवर्तते ॥ स च दर्प आमुरसंपैद्यहङ्कारपस्तावे पूर्वमुदाहृतः "ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्मुखी । आन्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥" इति ॥ ननु पुण्यात्ममु मुदितां भावयतः पुण्यप्रवृत्तिः फलवेनोका सा च योगिनो न युक्ता । मलिनायां शास्त्रवासनायां पुण्यमन्तर्भाव्य पूर्वमुदाहृतत्वात् । मैव- म् ॥ पुनर्जन्मकरस्य काम्येष्टापूर्तादेस्तत्र मलिनत्वेनोदाहरणात् ॥ इह तु यो- गाभ्यासजन्यमशुक्लकृष्णत्वेन जन्मानापादकं पुण्यं)ण्यकर्म विवक्षितम् ॥अशुक्ल- कृष्णत्वं पतञ्जलिः सूत्रयामास-"कर्माशुक्लकृष्णं योगिनस्त्रिविधमितरेषाम्" इति ॥ काम्यं कर्म विहितत्वाच्छुलं, निषिद्धं कृष्णं, मिश्र शुक्लकृष्णम् ।। तदे- सत्रयमितरेषां पयोगिनां संपद्यते ॥ तच्च त्रिविधं जन्म प्रयच्छति ॥ तदाहुर्वि- श्वरूपाचार्याः- " शुभैराप्नोति देवत्वं निषिद्धेनारकी गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः॥" इति ।। ननु योगस्यानिषिद्धत्वादकृष्णत्वेऽपि विहितत्वाच्छुक्त्वमिति चेन्मैवम् ।। अकाम्यत्वाभिमायेणाशुक्लत्वाभिधानात् ॥ अतः शुक्लकृष्णे पुण्ये प्रवृत्तिर्यो- गिनोपेक्षिता ॥ नन्वनेन न्यायेन योगिनोऽपि यथोचितं पुण्यात्मसु मुदिता भावयित्वा पुण्येष्वेव प्रवर्तेरनितिचेत्मवर्ततां नाम ॥ ये मैन्यादिभिश्चित्तं प्रसा- दयन्ति तेषामेव योगित्वात् ॥ मैन्यादिचतुष्टयमुपलक्षणम् ॥ तेन " अभयं सत्त्वसंशुद्धिः" इत्यादिदेवी संपदम् “ अमानित्वमदम्भित्वम्" इत्यादिना ज्ञा- नसाधनानि जीवन्मुक्तस्थितप्रज्ञादिवचनोक्तधर्माश्चोपलक्ष्यन्ते ॥ सर्वेषामेतेषां शुभाशुभवासनारूपत्वेन मलिनवासनानिवर्तकत्वात् ॥ ननु सन्त्यनन्ताः शुभ- वासनाः, नचैकेन ताः सर्वा अभ्यसितुं शक्यन्ते ॥ निरर्थकश्च तदभ्यासण्यास इतिचेन्न ॥ तन्निवानामनन्तानां मलिनवासनानामेकेस्य नरस्यासंभवात् ।। नहायुर्वेदोक्तानि सर्वाण्यौषधान्येकेन सेवितुं शक्यन्ते । नापि तनिवाः स: वें रोगा एकस्य देहे संभवन्ति ॥ एवं तर्हि स्वचित्तं प्रथमतः परीक्ष्य तत्र यदा यावत्यो मलिनवासनास्तदा तावतीविरोधिनीः शुभवासना अभ्यसेत् ।। यथा पुत्रमित्रकलनादिभिः पीढयमानस्ततो विरक्तस्तनिवर्तकं पारिवाज्यं गृह्णाति, १ घ. यदा निवर्तते तदा दुः। २ ग. घ. च. संपदह। ३ ग. घ. च. "खीत्यादि । ननु । ४ घ. प. पैश्यन्ते । ५ ग. नन्वयोगिनोऽप्यनेन न्यायेन; घ. च. ननु योगिनोऽध्यय'। ६ घ. नोक्ता धर्मा। म. घ. च. शुभ। ८ ग. घ. च. न्यनेकाः शुभाः । न च ता एकेन सर्वा अभ्य। ९ क. स्व.ग.च. कस्य मनस्यास्यासंभवाद। १० ग. 4. च. तावतीः अभवासनाविरोधिनीरभ्यसेत् । १ घ. पुत्रकलना।
Movie वासनाक्षयम विद्यारण्यप्रणीतः तथा विद्यामदधनमद कुलाचारमदादिमलिनवासनाभिः पीडचमानस्तद्विरोधिनं विवेकमभ्यसेत् ॥ स च विवेको जनकेन दर्शितः- अद्य ये महतां मूर्चेि ते दिनर्निपतन्त्यधः । हन्त चित्तमहत्तायाः कैषा विश्वस्तता तव ।। क धनानि महीपानां ब्रह्मणः क जगन्ति वा। प्रोक्तनानि प्रयातानि केयं विश्वस्तता तव ॥ कोटयो ब्रह्मणां) णो याता गताः सर्गपरंपराः। प्रयाताः पांमुवद्रूपाः का धृतिर्मम जीविते ।। येषां निमेषणोन्मेषो जंगतां मलयोदयो । सादृशाः पुरुषा नष्टा मादृशां गणनैव का ॥" इति ॥ नन्वयमपि विवेकस्तत्त्वज्ञानोदयात्माचीनः, नित्यानित्यवस्तुविवेकादिसा- धनव्यतिरेकेण ब्रह्मज्ञानासंभवात् ॥ इह तूत्पन्नब्रह्मसाक्षात्कारस्य जीवन्मुक्तये वासनाक्षयादिसाधनं वक्तुमुपक्रान्तम् । अतः किमिदमकाण्डे ताण्डवमिति चे- त्॥ नायं दोषः। साधनचतुष्टयसंपन्नस्य पश्चाब्रह्मज्ञानमित्येष सर्वपुरुषसाधारण- क्षुण्णः प्रौढो राजमार्गः ॥ जनकस्य तु पुण्यपुञ्जपरिपाकेनाकाशफलपातवद- कस्मात्सिद्धगीताश्रवणमात्रेण तत्त्वज्ञानमुत्पन्नम्॥ ततश्चित्तविश्रान्तये विवेकोs- पं क्रियत इति काण्ड एवेदमुचितं ताण्डवम् ॥ नन्वेवमप्यस्य विवेकस्य ज्ञान- समनन्तरभावित्वेन मलिनवासनानुवृत्यभावाच्छुद्धवासनाभ्यासो नापेक्षित इति चेन्न ॥ जनकस्य तदनुवृत्त्यभावेऽपि याज्ञवल्क्यभगीरथादेस्तदनुवृतिदर्शना- त् ॥ अस्ति हि याज्ञवल्क्यस्य तत्पतिवादिनामुषस्तकहोलादीनां च भूयान्वि- धामदः ।। तैः सर्वैरपि विजिगीषुकथायां प्रवृत्तत्वात् ॥ ननु तेषां विद्यान्तरमे- वास्ति न तु ब्रह्मविद्येति चेन ॥ कथागतयोः प्रश्नोत्तरयोर्ब्रह्मविषयत्वात् । न- नु ब्रह्मविषयत्वेऽपि तेषामापातज्ञानमेव न तु सम्यग्वेदनमिति चेन ॥ तथा स- त्यस्माकमपि तदीयवाक्यैरुत्पन्नाया विचाया असम्यक्त्वमसङ्गात् ॥ ननु सम्प- क्त्वेऽपि परोक्षज्ञानमेवेतिचेन ॥ यंत्साक्षादपरोक्षाद्वयति मुख्यापरोक्षविषयतयै- व विशेषतः प्रश्नोपलम्भात् ॥ नन्वात्मज्ञानिनो विद्यामद आचार्यैर्नाभ्युपगम्य- ते ॥ तथा चोपदेशसाहरूयामुक्तम् ।। ब्रह्मावित्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः" इति ॥ नैष्कर्म्यसिद्धावपिः Map १ ग. घ. च. प्राकृतानि । २ ग.घ.च. जगतः। ३ घ.च. पुरुषाः सन्ति मा। ४ग. घ. रण: प्रौ। ५ . 'विविक्षयत। ६ ग, घ, 'शसहस्यामभिहितम् ।
४८ जीवन्मुक्तिविवेकः। [द्वितीयं न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः(?) । विदुषोऽप्यासुरश्चेत्स्यानिष्फलं ब्रह्मदर्शनम् ॥” इति ॥ नायं दोषः ॥ जीवन्मुक्तिपर्यन्तस्य तत्त्वज्ञानस्य तत्र विवक्षितत्वात् ॥ न खलु वयमपि जीवन्मुक्तानां विद्यामदमभ्युपगच्छामः ॥ ननु विजिगीषोरात्म- बोध एव नास्ति ॥ रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु । कुतः शाहलता तस्य यस्याग्निः कोटरे तरोः॥" इत्याचार्यैरनभ्युपगमादिति चेन्न- रागादयः सन्तु कामं न तद्भावोराध्यति । उत्खातदंष्ट्रोरगवदविद्या किं करिष्यति ॥" इत्यत्र तैरेव रागाद्यभ्युपगमात् ॥न चात्र परस्परव्याहतिः॥ स्थितमज्ञे ज्ञा- निमात्रे च वचनद्वयस्य व्यवस्थापनीयत्वात् ॥ ननु ज्ञानिनो रागाद्यभ्युपगमे धर्माधर्मद्वारेण जन्मान्तरणमाङ्ग इति चेन्मैवम् ॥ अदग्धबीजवदेविद्यापूर्वकाणा- मेव मुख्यरागादित्वेन पुनर्जन्महेतुत्वात् ॥ ज्ञानिनस्तु दग्धबीजवदाभासा एव रागादयः ॥ एतदेवाभिप्रेत्योक्तम्- उत्पधमाना रागाद्या विवेकज्ञानवह्निना। तदा तदैव दान्ते कुतस्तेषां प्ररोहणम् ॥" इति ॥ सर्हि स्थितप्रज्ञस्यापि ते सन्त्विति चेन्न । तत्काले मुख्यवदेवाभाँसानां बाधकत्वात् । रज्जुसर्पोऽपि मुख्यसर्पवदेव तदानी भीषयन्नुपलभ्यते तद्वत् ॥ नन्वाभासत्वानुसंधानानुवृत्तौ न कोऽपि बाध इति चेचिरं जीवतु भवान् ॥ इय- मेव ह्यस्मदभिमता जीवन्मुक्तिः॥ याज्ञवल्क्यस्तु विजिगीषुदशायां न तादृशः। अतश्चित्तविश्रान्तये विद्वत्संन्यासस्य तेन करिष्यमाणत्वात् ।। न केवलमस्य विजिगीषा किंतु धनतृष्णापि महती जाता । यतो बहूनां ब्रह्मविदां पुरतः स्थापितं सालङ्कारगोसहस्रमपहृत्य स्वयमेवेदमाह-" नमो वयं ब्रह्मिष्ठाय कु- मों गोकामा एव वयं स्मः" इति ॥ इतरोन्ब्रह्मविदोऽवज्ञातुमियं काचिद्वचो- भङ्गीति चेत् ॥ अयमपि तपिरो दोषः । इतरे च ब्रह्मविदः स्वकीयं धनमने- नापहृतमिति मत्त्वा चुक्रुधुः । अयं च क्रोधपरवशः शाकल्यं शापेन मारयामा- स ॥ न चास्य ब्रह्मेनस्य मोक्षाभावः शङ्कनीयः॥ यतः कौषीतकिनः समामन- , क. ख. विदुषोऽप्यासुरत्वतः; ङ. विदुषो ह्यासुर। २ ग. घ. च. इति चेन्नायं दोषः । ३ ग. कुतः शान्तिलता तस्य । ४ ग. घ. च. पराध्यते । ५ क, ख. ङ. पुस्तकेष्विदमुत्तरं श्लोकार्धे नहि। ६ घ. 'दविद्यापूर्वककारणमेव; च. 'दविद्यापूर्वकमेव । ७ ग. घ. च. भासमानानां । ८ ग. घ. च. नहीशः । चित्तविश्रा'। ९ घ. 'रानब्रह्म। १० ग. घ. च. स्वयं । ११ ग, घ. घ. झनो मो।
बासनाक्षयम०] विद्यारण्यमणीतः ४९ न्ति ॥ नास्थ केनापि कर्मणा लोको हीयते न मातृवधेन न पितृवधेन न स्तेये- न भूणहत्ययेति ॥ शेषोऽपि स्वकृतायामार्यापञ्चाशित्यामिदमाह- " हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ " इति ।। तस्मात्कि बहुना ब्रह्मविदां याज्ञवल्क्यादीनामस्त्येव मलिनवासनानुवृ- तिः। भगीरथश्च तत्त्वं विदित्वाऽपि राज्यं पालयन्मलिनवासनाभिश्चित्तविश्रा- न्त्यभावे सति सर्व परित्यज्य पश्चाद्विश्रान्तवानिति वसिष्ठेनोपाख्यायते । अतः स्वकीयं वर्तमानं मलिनवासनाविशेषं परकीयदोषवत्सम्यगुत्प्रेक्ष्य तत्मतीकार- मभ्यसेत् ॥ अनेनैवाभिप्रायेण स्मर्यते- यथा मुनिपुणः सम्यक्परदोषेक्षणे रतः॥ तथा चेनिपुणः स्वेषु, को न मुच्येत बन्धनात् ॥” इति ॥ नन्वादौ तावद्विद्यामदस्य का प्रतीकार इति चेत् । किं स्वनिष्ठस्य मदस्य परविषयस्य, किंवा स्वविषयस्य परनिष्ठस्य ॥ आये भङ्गोऽवश्यं क्वचिद्भविष्य- तीति निरन्तरं भावयेत् ॥ तद्यथा श्वेतकेतुर्विद्यया मत्तःप्रवाहणस्य राज्ञः सभा गत्वा तेन पञ्चामिविद्या पृष्टायां स्वयमजानानो निरुत्तरो राज्ञा बहुधा भसितः (सन्) पितुः समीपमागत्य स्वनिर्वेदमुदाजहार। पिता तु तनिर्मदस्तमेव राजान- मुपसंपद्य तां विद्यां लेभे ॥ दृप्तबालाकिश्चाजातशत्रुणा राज्ञा भासतो दपं सं- त्यज्य राजानमुपससाद ॥ उषस्तकहोलादयश्च मदेन कथां कृत्वा पराजिताः ।। यदा स्वविषयः परनिष्ठो मदः प्रवर्तेत तदा मत्तः स परो मां निन्दतु, अवम- न्यतां वा । सर्वथापि न मे हानिरिति भावयेत् ॥ अंत एवाहुः- " आत्मानं यदि निन्दन्ति स्वात्मानं स्वयमेव हिं। शरीरं यदि निन्दन्ति सहायास्ते जैना मम ॥ निन्दावमानावत्यन्तं भूषणं यस्य योगिनः । धीविक्षेपः कथं तस्य वाचाटैः क्रियतामिह ॥" इति ॥ "निष्कर्मसिद्धौ- " सपरिकरे वर्चस्के दोषतश्चावधारिते। यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥ १ ग. घ. ङ. 'नादोषं। २ ग. घ. च. स्वनिष्ठमदस्य किंवा । ३ घ. प्रवाहणराज्ञः । ४ घ.च. 'विद्यायां पृष्टोऽपि स्वय। ५ ग. घ. च. बहुविधं भत्सितः । ६ ग. घ. च. तु निर्मदस्तमेव राजा- तां । ७ क. ख. ङ. प्रवर्तते । ८ घ. च. तथाहि-९ क. ख. र. ते। १० ग. प. च. जना ममेत्युक्तत्वादत आहुः-1 ११ क. व. पुस्तकयोनिष्कर्मेत्यारभ्य श्लोकत्रयं नहि। ७ KHARA ७० जीवन्मुक्तिविवेकः। [द्वितीय तद्वत्स्थूले तथा सूक्ष्मे देहे त्यक्ते विवेकतः । यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥ शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ निन्दाया भूषणत्वं च ज्ञानाङ्कुशे दर्शितम्- * मनिन्दया यदि जनः परितोषमेति नन्वप्रयत्नेजानतोयमनुग्रहो मे । श्रेयोर्थिनो हि पुरुषाः परतुष्टिहेतो?ःखार्जितान्यपि धनानि परित्यजन्ति । सततमुलभदैन्ये निःमुखे जीवलोके यदि मम परिवादात्मीतिमाप्नोति कश्चित् । परिवदतु यथेष्टं मत्समक्षं तिरो वा जगति हि बहुदुःखे दुर्लभः प्रीतियोगः॥" इति अवमानस्य भूषणत्वं स्मर्यते- तथा चरेत वै योगी सतां धर्ममदूषयन् । जना यथाऽवमन्येरन्गच्छेयुर्नैव संगतिम् ॥” इति ॥ याज्ञवल्क्योषस्तादीनां यौ स्वनिष्ठपरनिष्ठौ विद्यामदौ तयोर्यथा विवेकेन प्रतीकारस्तथा धनाभिलाषक्रोधयोरप्यवगन्तव्यः- " अर्थानामर्जने क्लेशस्तथैव परिपालने । नाशे दुःखं व्यये दुःखं धिगर्थान्क्लेशकारिणः ॥ इति धनविषयो विवेकः ।। क्रोधोऽपि द्विविधः । स्वनिष्ठः परविषयः, पर- निष्ठः स्वविषयश्चेति ॥ तत्र स्वनिष्ठं प्रत्येवमुक्तम्- " अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसव परिपन्थिनि ।। फलान्वितो धर्मयशोर्थनाशनः स चेदपार्थः स्वशरीरतापनः । न चेह नामुत्र हिताय यः सतां मनांसि कोपः समुपाश्रयेत्कथम् ॥"इति।। स्वविषयं प्रत्येवमीरितम् । न मेऽपराधः किमकारणे नृणां मदभ्यसूयेत्यपि नैव चिन्तयेत् । न यत्कृता माग्भवबन्धनिम्मृतिस्ततोऽपराधः परमो नु चिन्त्यताम् ।। नमोऽस्तु कोपदेवाय स्वाश्रयज्वालिने भृशम् । कोऽप्यस्य मम वैराग्यदायिने दोषबोधिने ॥” इति । धनाभिलाषक्रोधवद्योषित्पुत्राभिलाषावपि विवेकेन निवर्तनीयौ ॥ तत्र यो- षिद्विवेको वसिष्ठेन दर्शितः- १ घ. च. लसुलभोऽय। २ घ. च. संगतमिति। ३ घ. पये वि। ४ ग. घ. च. 'णि चे. कोपः कोपे । ५ ङ, "रनाशनः । ६ ग. घ. च. सि रोषः स समान। ७, कारिणां नृणां । " वासनाक्षयप्र०] विद्यारण्यप्रणीतः "मांसपाञ्चालिकायास्तु यन्त्रलोलेऽङ्गपञ्चरे । नायवस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ।। त्वमांसरैक्तवाप्यम्बु पृथक्कृत्वा विलोचने । समालोकय रम्यं चेतिक मुधा परिमुह्यसि ॥ मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन्स्तने मुक्तों हारस्योल्लासशालिनः ।। श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः। दुष्कृताग्निशिखा नार्यो दहन्ति तृणवनरान् ।। ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः । स्त्रियो हि नरकामीनामिन्धनं चारु दारुणम् ।। कामनाना किरातेन विकीर्णा मुग्धचेतसाम् ।। नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ जन्मपल्लवमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ।। सर्वेषां दोषरत्नानां सुसमुद्गीकयानया । दुःखगृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ इतो मांसमितो रक्तमितोऽस्थीनीति वासरैः । ब्रह्मन्कतिपयैरेव याति स्त्रीविषचारुताम् ॥ यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य व भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥" पुत्रविवेको ब्रह्मानन्दे दर्शितः- अलभ्यमानस्तनयः पितरौ क्वेशयेच्चिरम् । लब्धोऽपि गर्भपातेन प्रसवेन च बाधते ।। जातस्य ग्रहरोगादिः कुमारस्य च मूर्खता । उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ यूनश्च परदारादिरियं च कुटुम्बिनः । पित्रोर्दुःखस्य नास्त्यन्तो धनी चेम्रियते तदा ॥” इति ॥ १ क. ख. ग. ङ. च. स्त्रियः । २ ग. घ. च. रक्तवाष्पाम्बु । ३ घ. परिमुह्यते । ४ घ. च. 'क्ता हरस्योरसि शालिता। ५ ख. घ. सुसमुद्रिकयाऽनया। ६ घ. च. नीविशरारताम् । ७८, पुत्रविष- यविवेको । ८ ग. घ. च. ते त्ववि। SH ANSARAM wom ॥ ५२ जीवन्मुक्तिविवेकः। [द्वितीयं यथा विद्याधनक्रोधयोषित्पुत्रविषयाणां मलिनवासनानो विवेकेन प्रतीका- रस्तथाऽभ्यासामपि यथायोगं शास्त्रैः स्वयुक्त्या दोषं विविच्य प्रतीकारं कुर्या- त् ।। कृते च प्रतीकारे जीवन्मुक्तिलक्षणं परमं पदं लभ्यते ॥ तदाह वसिष्ठः- " वासनांसंपरित्यागे यदि यत्नं करोष्यलम् । तांस्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ॥ पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाः । स्थिति बनासि चेत्तर्हि पदमासादयस्यलम् ॥” इति ॥ नन्वत्र पौरुषः प्रयत्नो नाम पूर्वोक्तो विषयदोषविवेकः । स च पुनः पुनः कि- यमाणोऽपि प्रबलेन्द्रियेव्यापारेणाभिभूयते ॥ तदुक्तं भगवता- " यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥" इति ॥ " इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ॥" एवं तर्युत्पन्नविवेकरक्षार्थमिन्द्रियाणि निरोद्धव्यानि ॥ तदपि तत्रैवोत्तर- श्लोकाभ्यां दर्शितम्-- "तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥” इति ॥ स्मृत्यन्तरेऽपि- न पाणिपादचपलो न नेत्रचपलो यतिः। न च वाक्चपलश्चैवमिति शिष्टस्य लक्षणम् ॥” इति ॥ एतदेवान्यत्र संग्रह विवरणाभ्यां स्पष्टीकृतम्- " अजिह्वः षण्डकः पङ्गुरन्धो बधिर एव च । मुग्धश्च मुच्यते भिक्षुः षद्भिरेतैर्न संशयः॥ इदमिष्टमिदं नेति योऽश्ननपि न सज्जते । हितं सत्यं मितं वक्ति तमजिहं प्रचक्षते ॥ अद्य जातां यथा नारी तथा षोडशवार्षिकीम् । शतवर्षां च यो दृष्ट्वा निर्विकारः स षण्डकः ॥ १ ग. घ. च. नानां प । २ ग. ततः शिथिलतां; घ. च. तत्ते शि। ३ क. ख. र. वासनाम् । ४. घ. च. यव्यवहारे। ५ इ. "सि इतिचेन्न ।
न वासनाक्षयम.] विद्यारण्यप्रणीतः भिक्षार्थमटनं यस्य विषमूत्रकरणाय च । योजनान परं याति सर्वथा पङ्गुरेव सः ॥ तिष्ठतो व्रजतो वापि यस्य चक्षुर्न दूरगम् । चतुर्युगां भुवं त्यक्त्वा परित्राट् सोऽन्ध उच्यते ॥ हितं मितं मनोरामं वचः शोकापहं च यत् । श्रुत्वा यो न शृणोतीव बधिरः स प्रकीर्तितः॥ सांनिध्ये विषयाणां च समर्थोऽविकलेन्द्रियः। सुप्तवद्वर्तते नित्यं भिक्षुर्मुग्धः स उच्यते ॥ न निन्दा न स्तुतिं कुर्यान किंचिन्मर्मणि स्पृशेत् । नातिवादी भवेत्तद्वत्सर्वत्रैव समो भवेत् ॥ न संभाषेत्रियं कांचित्पूर्वदृष्टां च न स्मरेत् । कथां च वर्जयेत्तासां न पश्यल्लिखितामपि ॥" इति ॥ यथा कश्चिती नक्तैकभुक्तोपवासमौनादिव्रतं संकल्प्य सावधानो भंशमकत्वा सम्यक्पालयति, तथैवाजिह्वत्वादिव्रते स्थितः सावधानो विवेकं पालयेत् ॥ त- देवं विवेकेन्द्रियनिरोधाभ्यां दीर्घकालनैरन्तर्यसत्कारसेविताभ्यां मैन्यादिभाव- नासु प्रतिष्ठितास्वासुरसंपद्रूपा मलिनवासनाः क्षीयन्ते ॥ ततो निःश्वासोच्छा- सवनिमेषोन्मेषवच्च पुरुषप्रयत्नमन्तरेण प्रवर्तमानाभिमैत्र्यादिवासनाभिर्लोके व्यव- हरनपि तदीयसाकल्यवैकल्यानुसंधानं चित्ते परित्यज्य निद्रातन्द्रामनोराज्या- दिरूपाः समस्तचेष्टाः प्रयत्नेन शान्ताः कृत्वा चिन्मात्रवासनामभ्यसेत् ॥ स्व- तस्तावदिदं जगच्चिज्जडोभयात्मकं भासते ॥ यद्यपि शब्दस्पर्शादिजडवस्तुभा- सनायैवेन्द्रियाणि सृष्टानि “ पराञ्चि खानि व्यतृणत्स्वयंभूः-" इति श्रुतेः तथापि चैतन्यस्योपादानतया वर्जयितुमशक्यत्वाचैतन्यपूर्वकमेव जडं भासते॥ "तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतेः ॥ त- था सति पश्चाद्भासमानस्य प्रथमतो भासमानमेव चैतन्यं वास्तवं रूपमिति नि- श्चित्य जडमुपेक्ष्य चिन्मानं चित्ते वासयेत् ॥ एतच्च बलिशुक्रयोः प्रश्नोत्तराभ्यां विस्पष्टमवगम्यते- "किमिहास्तीह किंमात्रमिदं किमयमेव च । कस्त्वं कोऽहं क एते वा लोका इति वदाशु मे ॥ १ ग. घ. च. क्षार्थ गमनं । २ ङ. चतुर्युगाद्भुवं मुक्त्वा ३ ग. भुक्त्वा । ४ घ. जगद्भासते । ५ अ. विस्फुटमव । ६ ङ, किमिहास्ति कियन्मात्रमिदं किमयमेव च । LANKAR BAPati जीवन्मुक्तिविवेकः । [द्वितीय चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्त्वं चिदहमेते च लोकाश्चिदिति संग्रहः ॥" इति ॥ यथा सुवर्णकारः कटकं विक्रीणन्नपि वलयाकारस्य गुणदोषानुपेक्ष्य गुरु- त्ववर्णयोरेव मनः प्रणिधित्सति तथा चिन्मात्रे मनः प्रणिधातव्यम् ॥ याव- ता कालेन जडं सर्वथैवोपेक्ष्य चिन्मात्रे मनसः प्रवृत्तिनिःश्वासादिवत्स्वाभाविकी संपद्यते तावन्तं कालं चिन्मात्रवासनायां प्रयतेत ॥ नन्वादावेव चिन्मात्र- वासनाऽस्तु, तयैव मलिनवासनानिवृत्तेः। किमनेनान्तर्गडुना मैन्याद्यभ्यासेनेति चेन्न ।। चिद्वासनाया अप्रतिष्ठितत्वप्रसङ्गात् ॥ यथा कुट्टिमदाळव्यतिरेकेण क्रिय- माणमपि स्तम्भकुड्यात्मकं गृहं ने प्रतितिष्ठति । यथावा विरेचनेन प्रबलदोषमनिः- सार्य सेवितमप्यौषधं नारोग्यकरं तद्वत् ॥ ननु " तामप्यथ परित्यजेत्" इति चिन्मात्रवासनाया अपि परित्याज्यत्वमवगम्यते । तदयुक्तम् । चिन्मानं परि- त्यज्यान्यस्य कस्यचिदुपादेयस्याभावात् ॥ नायं दोषः । द्विविधा चिन्मात्र- वासना । मनोबुद्धिसमन्विता तद्रहिता चेति ॥ करणं मनःकर्तृत्वोपाधिर्बुद्धिः ।। तथाच सत्यप्रमत्तोऽहमेकाग्रेण मनसा चिन्मात्रं भावयिष्यामिति ॥ एतादृशेन कर्तृकरणानुसंधानेन समन्विता प्राथमिकी या चिन्मात्रवासना ध्यानशब्दाभिधे- या तां परित्यजेत् ॥या त्वभ्यासपाटवेन कर्तृत्वाद्यनुसंधानावधानरहिता समाधि- शब्दाभिधेया तामुपाददीत ॥ ध्यानसमाध्योस्तु लक्षणं पतञ्जलिः सूत्रयामास "तत्र प्रत्ययैकतानता ध्यानम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ।। तादृशे समाधौ दीर्घकालनैरन्तर्यसत्कारैः सेविते स्थैर्य लब्ध्वा पश्चात्क- र्तृकरणानुसंधानपरित्यागार्थों यः प्रयत्नस्तमपि परित्यजेत् ॥ नन्वेवं सति त्यागयत्नोऽपि परित्याज्य इत्यनवस्था स्यात् । मैवम् । कतकरजोन्यायेन स्वपरनिवर्तकत्वात् । यथा कलुषिते जले प्रक्षिप्तं कतकरज इतररजसा सह स्वात्मानमपि निवर्तयति तथा त्यागार्थः प्रयत्नः कर्तृकरणानुसंधानं निवर्तय- स्वात्मानमपि निवर्तयिष्यति । निवृत्ते च तस्मिन्मलिनवासनावच्छुद्धवासना- नामपि क्षीणत्वानिर्वासनं मनोऽवतिष्ठते । एतदेवाभिप्रेत्य वसिष्ठ आहः तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः । राम निर्वासनीभावमाहराशु विवेकतः ॥ MIRRORIA १ क. घ. "स्तीह चि । २ क. ख. ग. घ. कामः क । ३ ङ. "निःश्वास। ४ घ. "वृत्तिः कि। ५ ग. तथा । ६ ख. म. घ. न तिष्ठति। ७ ग. घ. च. त्यजेति चि'; ङ. "त्यज्येति चि। ८ घ. परित्यागोऽवगम्यत । ९ डा. भविष्या । १० ड. र्यसंस्कारैः से। ११ ङ. 'न्मलिनवासनानां शुभवासनातत्त्ववासनानामपि ।
वासनाक्षयप्र० विद्यारण्यप्रणीतः सम्यगालोचनात्सत्याद्वासना प्रविलीयते । वासनाविलये चेतः शममायाति दीपवत् ॥” इति च ॥ " यो जागर्ति मुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥” इति च ॥ "मुषुप्तिवत्पशमितभाववृत्तिना स्थितं सदा जाग्रति येन चेतसा । कलान्वितो विधुरिव यः सदा बुधैर्निषेव्यते मुक्त इतीह स स्मृतः ॥” इति च हृदयात्संपरित्यज्य सर्वमेव महामतिः । यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ समाधिमथ कर्माणि मा करोतु करोतु वा । हृदयेनास्तसर्वाशो मुक्त एवोत्तमाशयः ॥ नैष्कर्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । न समाधानजप्याभ्यां यस्य निर्वासनं मनः ।। विचारितमलं शास्त्रं चिरमुद्राहितं मिथः। संत्यक्तवासनान्मौनाहते नास्त्युत्तमं पदम् ॥” इति च ॥ न च निर्वासनमनस्कस्य जीवनहेतुर्व्यवहारो लुप्यतेति शङ्कनीयम् ॥ किं च- क्षुरादिव्यवहारस्य लोपः, किंवा मानसव्यवहारस्य। तत्राद्यमुद्दालको निराचष्टे- " वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः । प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम् ॥” इति । द्वितीयं वसिष्ठो निराचष्टे- " अयत्नोपनतेष्वक्षिदिग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥” इति ॥ तादृश्या धिया प्रारब्धभोगं स एवोपपादयति- परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञाय सेवितश्चौरो मैत्रीमेति न चौरताम् ।। अशङ्कितोपसंमाता ग्रामयात्रा यथाऽध्वगैः । प्रेक्ष्यते तद्वदेव भॊगश्रीरवलोक्यते " इति ॥ भोगकालेऽपि सवासनेभ्यो निर्वासनस्य विशेषमाह- "नापदि ग्लानिमायाति हेमपनं यथा निशि । नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवमनि ॥ १ ग. घ. च. सुषुप्तवत्प्र । २ ङ. स्थितः । ३ ग. घ. च. इतीह संमतः । ४ घ. महामते । ५ ग घ. च. 'स्य लोपः ॥ त। ६ घ. तादृश्यापि धिया अस्तु भोगः । स एवौं । ७ क. ख. प्रार. योपभोग । ८ ग. न परिग्लानि । Panasana HIMANIRAMAY जीवन्मुक्तिविवेकः। [तृतीयं नित्यमापूर्णवामन्तरक्षुब्धामिन्दुसुन्दरीम् । आपद्यपि न मुञ्चन्ति शशिनः शीततामिव । अब्धिवद्धृतमर्यादा भवन्ति विगताशयाः । नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥” इति ॥ जनकस्यापि समाधिव्युत्थितस्येदृशमेवाचरणं पश्यते- " तूष्णीमथ चिरं स्थित्वा जनको जनजीवितम् । व्युत्थितश्चिन्तयामास मनसा शमशालिना ॥ किमुपादेयमस्तीह यत्नात्संसाधयामि किम् । स्वतः स्थितस्य शुद्धस्य चितः कामेऽस्ति कल्पना ॥ नाभिवाञ्छाम्यसंमाप्तं संप्राप्तं न त्यजाम्यहम् । स्वस्थ आत्मनि तिष्ठामि यन्ममास्ति तदस्तु मे ॥ इति संचिन्त्य जनको यथाप्राप्तक्रियामसौ । असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिर्यथा ॥ भविष्यन्नानुसंधत्ते नातीतं चिन्तयत्यसौ । वर्तमाननिमेषं तु हँसन्नेवानुवर्तते ॥” इति ॥ तदेवं यथोक्तेन वासनाक्षयेण यथोक्ता जीवन्मुक्तिर्भवतीति मुस्थितम् ॥ इति जीवन्मुक्तिविवेके वासनाक्षयनिरूपणं नाम द्वितीयं प्रकरणम् ॥२॥ अथ तृतीयं मनोनाशप्रकरणम् ॥ अथ जीवन्मुक्तिसाधनं मनोनाशं च निरूपयामः॥ यद्यप्यशेषवासनाक्षये स- ति अर्थान्मनो नश्यत्येव तथापि स्वातन्त्र्येण मनोनाशे सम्यगभ्यस्ते सति वा- सनाक्षयो रक्षितो भवति ॥ न चाजिह्वत्वषण्डकत्वाद्यभ्यासेनैव तद्रक्षा सिद्धति वाच्यम् ॥ नष्टे मनस्यजिह्वत्वादीनामर्थसिद्धत्वेनाभ्यासण्यासाभावात् ॥ ननु मनोनाशाभ्यासस्तत्राप्यस्तीति चेदस्तु नाम । तस्यावश्यकत्वादन्तरेण मनोना शमभ्यस्ता अप्यजिह्वत्वादयोऽस्थिरा भवन्ति । अत एव मनसो नाशनीयत्वं जनक आह- १ क. ख. विशदाशयाः; ग. घ. वितताशयाः; च. नियताशया:। २ ग. घ. च. स्वतः स्थित विशुद्धस्य चितः कामेऽस्ति । ३ ख. शुद्धस्य चित्ते का मेऽस्ति ४ ग. सहसैवानुवर्तते । ५ ग. घ. च. 'क्तिभविष्यतीति स्थितम् ।
मनोनाशम.] विद्यारण्यपणीतः ५७ " सहस्राकुरशाखात्मफलपछवशालिनः । अस्य संसारवृक्षस्य मनो मूलमिति स्थितम् ॥ संकल्पमेव तन्मन्ये मनोमूलमिति स्थितम् । संकल्पमेव तन्मन्ये संकल्पोपशमेन तत् ।। शोषयामि यथा शोषमेति संसारपादपः। प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दृष्टश्चौरो मयाऽऽत्मनः ॥ मनोनाम निहन्म्येनं मनसाऽस्मि चिरं हतः ।" इति ॥ चसिच्चोऽप्याह- अस्य संसारवृक्षस्य सर्वोपद्रवदायिनः । उपाय एक एवास्ति मनसः स्वस्य निग्रहः॥ मनसोऽभ्युदयो नाशो मनोनाशो महोदयः । ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला ॥ तावनिशीथवेताला वल्गन्ति हृदि वासनाः। एकतत्त्वहढाभ्यासाद्यावन्न विजितं मनः ।। प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पभिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः॥ हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च । अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥ एतावति धरणितले मुभगास्ते साधुचेतनाः पुरुषाः । पुरुषकथासु च गण्या न जिता ये चेतसा स्वेन ॥ हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः । यस्योपशान्तिमगमञ्चन्द्रवदुदितं तमव्ययं वन्दे ॥” इति ।। " चित्तं नाभिः किलास्येदं मायाचकस्य सर्वतः । स्थीयते चेत्तदाक्रम्य तन किंचित्पबाधते ॥" इति ॥ गौडपादाचारप्युक्तम्- " मनसो निहायत्तमभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥” इति ॥ अर्जुनेनोक्तम्- चञ्चलं हि मनः कृष्ण प्रमाथि बलव दृढम् । तस्याहं निग्रहं मन्ये वायोरिव मुदुष्करम् ॥ १ घ. तसः पु॥२ क. ख. 'प्रहो यत्तदभयं; घ. च. ग्रहायातमभयं । ३ क. न. प. पत्त्व ।
जीवन्मुक्तिविवेकः। [तृतीयं इत्येतद्वचनं हठयोमविषयम् । अत एव वसिष्ठ आह- " उपविश्योपविश्यैकचिसकेन मुहुर्मुहुः । न शक्यते मनो नेतुं विना युक्तिमनिन्दितम् ॥ अडशेन विना मत्तो यथा दुष्टमतङ्गजः । विजेतुं शक्यते नैव तथा युक्त्या विना मनः ॥ मनोविलयहेतूनां युक्तीनां सम्यगीरणम् । वसिष्ठेन कृतं तावत्तनिष्ठस्य वशे मनः ॥ इठतो युक्तितश्चापि द्विविधो निग्रहो मतः । निग्रहो धीक्रियाक्षाणां हठो गोलकनिग्रहात् ॥ कदाचिज्जायते कश्चिन्मनस्तेन विलीयते । अध्यात्मविद्याधिगमः साधुसंगम एव च ॥ वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् । एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ।। सतीषु युक्तिवेतास हानियमयन्ति ये। चेतस्ते दीपमुत्सृज्य विनिम्नन्ति तमोचनैः ॥ विमूढाः कर्तुमुधुक्ता ये हठाञ्चेतसो जयम् । ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ।।" इति ॥ निग्रहो द्विविधः । हठनिग्रहः, क्रमनिग्रहश्चेति ॥ तत्र चक्षुःश्रोत्रादिज्ञानेन्द्रि- पाणि वाक्पाण्यादिकर्मेन्द्रियाणि च तत्तद्गोलकोपरोधमात्रेण हानिगृह्यन्ते ।। तदृष्टान्तेन मनोऽपि तथा निग्रहीष्यामीति मूढस्य नान्तिर्भवति ॥ नतुं तनि- गृह्यते ॥ तद्गोलकस्य हृदयकमलस्य निरोद्धुमशक्यत्वात् || अतः क्रमनिग्रह एव योग्यः ॥ मनिग्रहे चाध्यात्मविद्यामात्यादय उपायाः ॥ सा च विद्या ह- श्यमिथ्यात्वं हेग्वस्तुनः स्वमकाशत्वं च बोधयति ॥ तथा च सत्येतन्मनः स्वगोचरेषु दृश्येषु प्रयोजनाभावं, प्रयोजनवति दृग्वस्तुन्यगोचरत्वं च बुद्धा निरिन्धनाभिवत्स्वयमेवोपशाम्यति ॥ तथा च श्रूयते- यथा निरिन्धनो वह्निः स्वंयोनावुपशाम्यति । तथा वृत्तिक्षयाञ्चित्तं स्वयोनावुपशाम्यति ॥" १ घ. 'श्यैव क्वचिकेन मु। २ ग. 'त्तज्ञेन । ३ ङ. योगमनिन्दिताम् । ४ ८. गृह्णतो । ५ ग. घ. च. धीविक्रियाणां । ६ क. ख. घ. निगृहीष्यामि । ७ क. स्व. नतु तथा त; घ. नतु तनि- गृहीतुं शक्यते । ८ इ. क्रमनिग्रहाय । ९ ङ. 'हरवस्तुसत्यत्वं स्वप्र। १० ङ, स्वयमेवोप।
मनोनाशप.] विद्यारण्यमणीतः ५१ योनिरात्मा, यस्तु बोधितमपि तत्त्वं न सम्यग्बुध्यते, यश्च विस्मरति त- योरुभयोः साधुसंगम एवोपायः ॥ साधवो हि पुनःपुनर्बोधयन्ति स्मा- रयन्ति च ॥ यस्तु विद्यामदादिदुर्वासनया पीड्यमानो न साधूननुवर्तितुमुत्सह- ते तस्य पूर्वोक्तविवेकेन वासनापरित्याग उपायः ॥ वासनानामतिमाबल्येन त्यक्तुमशक्यत्वे माणस्पन्दनिरोधनमुपायः ॥ प्राणस्पन्दनवासनयोश्चित्तमेरक- त्वात्तयोनिरोधे चित्तशान्तिरुपपद्यते ॥ प्रेरकत्वं च वसिष्ठ आह- " द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एक प्राणपरिस्पन्दो द्वितीयं हंढवासना ॥ सती सर्वगता संवित्माणस्पन्देन बोध्यते । संवेदनादनन्तानि ततो दुःखानि चेतसः ।।" इति ॥ यथा भस्मच्छन्नमग्निं लोहकारा दृतिभ्यां धमन्ति, तत्र च दृत्युत्पन्नवायुना सोऽग्निवलति, तथा चित्तोपादानेन काष्ठस्थानीयेनाज्ञानेनावृता संवित्माणस्प- न्देन बोध्यमाना चित्तवृत्तिरूपेण प्रज्वलति । तस्माञ्चित्तवृत्तिनामकात्संविज्वा- लारूपासंवेदनाहुःखान्युत्पद्यन्ते । सेयं माणस्पन्देन प्रेरिता. चित्तोत्पत्तिः । अन्यां च स एवाह- " भावसंवित्मकटितामनुभूतां च राघव । चित्तस्योत्पत्तिमपरी वासनाजनितां शृणुः ।। हढाभ्यस्तपदार्थंकभावनादतिचञ्चलम् । चित्तं संजायते जन्मजरामरणकारणम् ॥” इति ।। न केवलं प्राणवासनयोश्चित्तप्रेरकत्वं किंतु परस्परमेरकत्वमप्यस्ति ॥ तदा- ६ वसिष्ठः- वासनावशतः प्राणस्पन्दस्तेन च वासना । क्रियते चित्तबीजस्य तेन बीजाकुरकेमः ॥” इति । भत एवान्यतरनाशेनोभयनाशमप्याह- " द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ।।" इति ॥ तयोनाशोपायं नाशफलं चाह- प्राणायामडाभ्यासैर्युक्त्या च गुरुदत्तया । आसनाशनयोगेन प्रणस्पन्दो निरुध्यते ॥ memand १ उ. दृढभावना । २ ग. "तिनाम काचित्संविज्वाला'; घ. च. 'तिनामकासंवेदना ।। घ. च. जायते । ४ घ. चित्तवृक्षस्य । ५ ग. 'क्रमात । ६. भा साना ।
- जीवन्मुक्तिविवेकः। [तृतीयं असङ्गव्यवहारित्वाद्भवभावनवर्जनात् । शरीरनाशवर्तित्वाद्वासना न प्रवर्तते ।। वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरोधाश्च यथेच्छसि तथा कुरु ॥ एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव । यद्रावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥ यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते । अवासनत्वात्सततं यदा न मनुते मनः ॥ अमनस्ता तदोदेति परमोपशमप्रदा॥" इति । अमनस्तानुदये शान्त्यभावमाह- " चित्तक्षयहढाकान्तं न मित्राणि न बान्धवाः । शक्नुवन्ति परित्रातुं गुरवो न च मानवाः ॥" इति ॥ आसनाशनयोगेनेति यदुक्तं तत्रासनस्य लक्षणमुपायं फलं च त्रिभिः सूत्रः पतललिः सूत्रयामास ॥ स्थिरमुखमासनम् । प्रयत्नशैथिल्यानन्तसमापत्तिभ्या- म्॥ ततो द्वन्द्वानभिघात इति॥ पद्मकस्वस्तिकादिना यादृशेन देहस्थापनरूपेण यस्य पुरुषस्यावयवव्यथानुत्पत्तिलक्षणं मुखं, देहचलनराहित्यलक्षणं स्थै- यं च संपद्यते तस्य तदेव मुख्यमासनम् ॥ तस्य च प्रयत्नशैथिल्यं लौकिक उपायः ॥ गमनगृहकृत्यतीर्थयात्रास्नानयागहोमादिविषयो यः प्रयत्नो मानस उत्साहस्तस्य शैथिल्यं कर्तव्यम् ॥ अन्यथा स उत्साहो बलादेहमुत्थाप्य पत्र- कापि प्रेरयति ॥ अलौकिकोपायश्च फणासहसेण धरणी धारयित्वा स्थैर्येणा- वैतिष्ठते योऽयमनन्तः से एवाहमस्मीति ध्यानं चित्तस्यानन्ते समापत्तिः ॥ त- था यथोक्तासनसंपादकमदृष्टं निष्पद्यते ॥ सिद्धे चासने शीतोष्णसुखदुःखमा- नौपमानादिद्वन्द्वैर्यथा पूर्व नाभिहन्यते तथाविधस्य चासनस्य योग्यो देश: श्रूयते- " विविक्तदेशे च मुखासनस्थः शुचिः समग्रीवशिरःशरीरः॥" इति ॥ "समे शुचो शर्करवहिवालुकाविवर्जिते शब्दजलाशयादिभिः॥ १ क. ख. ग. घ. च. 'नवमिति । २ ङ. सुस्थिरसुख। ३ ग. च. द्वन्द्वैर्नाभिघात इति । ४ ग. घ. च. पायः । अलौकिकोपायश्च गृह'। ५ घ. षयेभ्यो यः । ६ ङ. हस्थमु । ७ ग. घ. च. 'ति । फ। ८ क, ख, ग, घ, च. वस्थितो यो । ९ ग. घ. च. स एवास्मीति । १० क. ख. 'नन्तसमापत्तिः, क. नन्ते समापयति । ११ ङ. 'दुःखविमानादि । १२ क. ल. 'नावमानादि । १३ ङ. कादिभि- विवजिते ।
मनोनाशप्र.1 विद्यारण्यप्रणीतः ६१ मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्" ॥ इबिच ॥ सोऽयमासनयोगः ॥ अशनयोगस्तु मिताहारत्वम्- " अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ।" इति श्रुतेः॥ भगवताप्युक्तम्- नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वमशीलस्य जाग्रतो नैव चार्जुन ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥" इति ॥ जितासनस्य प्राणायामेन मैनोविनाशः स्वताश्वतरैरान्नायते- " त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि ।। प्राणान्मपीडयेह स युक्तचेष्टः क्षणेि माणे नासिकयोः श्वसीत । दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः॥" [इति] योगी द्विविधः , विद्यामदाद्यासुरीसंपद्रहितस्तत्सहितश्चेति ॥ तयोरावस्य ब्रह्मध्यानेन मनसि निरुद्धे सति तन्नान्तरीयकतया माणो निरुध्यते ॥ तं प्रति त्रिरुनतमिति मन्त्रः पठितः । द्वितीयस्याभ्यासेन प्राणे निरुद्धे तन्नान्तरीय- कतया मनो निरुध्यते । तं प्रति प्राणान्प्रपीडयेति मन्त्रः प्रवृत्तः। प्राणपीडन- प्रकारो वक्ष्यते । तेन च पीडनेन युक्तचेष्टो भवति । मनश्चेष्टा विद्यामदादयो निरुध्यन्ते । प्राणनिरोधेन चित्तदोषनिरोधे दृष्टान्तोऽन्यत्र श्रूयते- यथा पर्वतधातूनां दयन्ते दहनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥” इति ॥ भत्रोपपत्तिर्वसिष्ठेन दर्शिता- यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दक्षये यत्नः कर्तव्यो धीमतोच्चकैः ॥" इति ।। मनोवाक्चक्षुरादीन्द्रियदेवताः स्वस्वव्यापरं निरन्तरं करिष्याम इति व्रतं धृत्वाऽश्रमरूपेण मृत्युना ग्रस्ताः । स च मृत्युः प्राणं नाप्नोत् । ततो निरन्त- रमुच्चासनिःश्वासौ कुर्वन्नपि प्राणो न श्राम्यति । तदा विचार्य देवताः प्राण- रूपं माविशन् । सोऽयमों वाजसनेयिभिरान्नायते-" अयं वै नः श्रेष्ठो यः १च. चक्षुःपीडके । २ ग. घ. च. मनोनाशः । ३ प्राणान्संपीच्येह। ४ इ. "मिह वा । ५ ग. घ. वाहूनमेनं । ६ क. ख. धमिता. मलाः; ग. धमनान्मला; घ. च. धमतां मलाः । ७ प. च. नामो- ति ततो। ८ क. स्व. घ. 'कुर्वन्नप्ययं प्राणो न श्राम्यति । ९ घ, तदविचार्य । sixRAS । जीवन्मुकिविवेकः। [तृतीयं संचरंश्चासंचरंश्च न व्यथते यो न रिष्यति हतास्यैव सर्वे रूपमसामेति । एस- स्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाख्यायन्ते प्राणाः" इति । अत इन्द्रियाणां प्राणरूपत्वं नाम प्राणाधीनचेष्टावत्त्वम् । तच्चान्तर्यामिब्राह्मणे सूत्रात्मप्रस्तावे श्रूयते-"वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लो- कः सर्वाणि च भूतानि संदृब्धानि भवन्ति । तस्माद्वै गौतम पुरुष प्रेतमाहुर्व्यसं- सिषतास्याङ्गानीति ॥ वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीति"॥ अतः प्राणमनस्पन्दनयोः सहभावित्वात्माणनिग्रहे मनो निरझते । ननु सह स्पन्दो न युक्तः, सुषुप्तौ चेष्टमानेऽपि प्राणे मनसोऽचेष्टमानत्वान ॥ विलीनत्वेन तदानी मनस एवाभावात् ॥ ननु क्षीणे पाणे नासिकयोः श्वसीतेति व्याहतम् । न हि क्षीणमाणस्य मृतस्य श्वासं क्वचित्पश्यामः ॥ नापि श्वसतो जीवतः प्राणक्षयो- ऽस्ति । मैवम् ।।अनुल्बणत्वस्य क्षयत्वेनात्र विवक्षितत्वात् ॥ यथा खननच्छेदना- दिषु व्याप्रियमाणस्य पर्वतमारोहतः शीघ्रं धावतो वा श्वासवेगो यावान्भवति, न तावांस्त्ववस्थितस्यासीनस्य वा विद्यते । तथा प्राणायामपाटवोपेतस्य त- स्याल्पः श्वासो भवति । एतदेवाभिप्रेत्य श्रूयते- भूत्वा तत्रायतमाणः शनैरेव समुच्वसेत् ।" इति ॥ यथा दुष्टैरश्वैरुपेतो रथो मागं त्यक्त्वा यत्रक्वापि नीयते स च सारथिना दृढमश्वं रज्जुष्वाकृष्य मार्गेषु पुनर्धार्यते तथेन्द्रियैर्वासनादिभिरितस्ततो नीय- मानं मनः प्राणरज्जौ दृढं धारितायां धार्यते । प्राणान्मपीड्येति यदुक्तं तत्र प्रा- गपीडनप्रकारोऽन्यत्र श्रूयते-- सव्याहृति समणवां गायत्रीं शिरसा सह । त्रिः पठेदायतपाणः प्राणायामः स उच्यते ।। प्राणायामात्रयः प्रोक्ता रेचपूरककुम्भकाः । उत्क्षिप्य वायुमाकाशं शन्यं कृत्वा निरात्मकम् ।। शून्यभावेन युनीयाद्रेचकस्येति लक्षणम् । बक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः॥ एवं वायुहीतव्यः पूरकस्येति लक्षणम् । नोच्छेसेन च निःश्वासेन्नैव गात्राणि चालयेत् ॥ . म. च. अथो न रिष्यति; घ. अथो न मरिष्यति । २ ग. घ. च. रूपं भवामेति । ३ ग. 'स्मादनेना'; घ. स्मादत एतेना। ४ घ. च. तथाऽन्तर्यामि । ५ ग. खंसीयतास्या'। ६ क. स. ङ. मनःस्यन्दयोः । ७ क. ख. 'तावानवस्थितस्या'; ग. घ. च. तावान्स्यितस्या। ८ ग. रज्जुष्वाकृष्य सुखमार्गेषु निर्धार्यते; घ. च. रज्जुष्वाकृष्टासु स्वमार्गेषु । ९ ग. घ. च. चित्तं । १० घ. धृतायां । ११ ग. घ. च. युञ्जीत रेच'। १२ ग. घ. च्वसेनेव निः।
मनोनाशप्र.] विद्यारण्यप्रणीत एवं तापन्नियुञ्जीत कुम्भकस्येति लक्षणम् ॥” इति ॥ अत्र शरीरान्तर्गतं वायु बहिनिःसारयितुमुक्षिप्य शरीरमाकाशं शून्यं नि. रात्मकं वायुरहितं कृत्वा स्वल्पमपि वायुमप्रवेश्य शून्यभावेनैव नियमयेत् ॥ तदिदं रेचकं भवति ॥ कुम्भको द्विविधः, आन्तरो बाह्यश्चेति ॥ तदुभयं वसि- आह- " अपानेऽस्तं गते प्राणो यावन्नाभ्युदितो हृदि । तावत्सा कुम्भकावस्था योगिभिर्याऽनुभूयते ॥ बहिरस्तं गते प्राणे यावनापान उद्भवः । तावत्पूर्णा समावस्था बहिःस्थं कुम्भकं विदुः॥" इति। तत्रोच्वास आन्तरकुम्भकविरोधी, निःश्वासो बाह्यकुम्भकविरोधी, गात्रचा- लनमुभयविरोधि ॥ तस्मिन्सति निःश्वासोच्छ्वासयोरन्यतरस्यावश्यंभावित्वात् ।। पतञ्चलिरप्यासनानन्तरभाविनं प्राणायाम सूत्रयामास ॥ तस्मिन्सति निःश्वा- सोच्छ्रासयोर्गतिविच्छेदः प्राणायामः॥ ननु कुम्भके गत्यभावेऽपि रेचकपूरक- योरुच्छ्वासनिःश्वासगती विद्यते इति चेन्न॥ अधिकमात्राभ्यासेन स्वभावसिद्धा- याः समप्राणगतेविच्छेदात् । तमेवाभ्यासं सूत्रयति-" बाद्याभ्यन्तरस्तम्भवृ- त्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घः सूक्ष्म इति रेचको बाद्यवृत्तिः ॥ पूरक आन्तरवृत्तिः।। कुम्भकस्तम्भवृत्तिः॥ तत्रैकैको देशादिभिः परीक्षणीयः । तद्य- था स्वभावसिद्धे रेचके हृदयानिर्गत्य नासाग्रसंमुखे द्वादशाङ्गुलपर्यन्ते श्वासः समाप्यते ॥ अभ्यासेन तु क्रमेण नाभेराधाराद्वा वायुनिर्गच्छति॥ चतुविशत्य- कुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्तिः ॥ अत्र रेचके प्रयत्नातिशये सति नाभ्यादिप्रदेशक्षोभेणान्तनिश्चेतुं शक्यम् ॥ बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालने- न 'निश्वेतव्यम्। सेयं देशपरीक्षा। रेचककाले प्रणवस्यावृत्तयो दशविंशतित्रि- शदित्यादिभिः कालं परीक्ष्य ॥ अस्मिन्मासे प्रतिदिनं दश रेचका आगामिमासे विशति उत्तरमासे त्रिशदित्यादिकालपरीक्षाभिः संख्यापरीक्षा यथोक्तदेशका- लविशिष्टाः प्राणायामाः॥एकस्मिन्दिने दश विंशति त्रिंशदित्यादिभिः संख्या- परीक्षा। पूरकेऽप्येवं योजनीयम् ॥ यद्यपि कुम्भके देशव्याप्तिविशेषो नावगम्यते तथापि कालसंख्याव्याप्तिरवगम्यत एव ॥ यथा घनीभूतस्तूलपिण्डः प्रसार्यमाणो १ ग. घ. च. बहिनिःसार्योंक्षिप्य । २ घ. च. उद्गतः । ३ ङ. तावत्पूर्णसमावस्थं बहिष्ठं कु। ४ क. ख. ग. ह. निश्वासप्रश्वासयोर्गति'; च. उच्छासनिश्वासयोर्गति ।५ घ. पूरकयोर्हाच्छ्वास । ६ ग. च.धमात्रसि । ७ ७. ख्यादिभिः । ८ ग. घ. च. पहिश्व। ९घ. च. निश्चेतव्यः । १० ग. घ. त्रिं. मादित्यादिकालपरीक्षा'; ङ. त्रिंशदादिभिः काल। MAR ४ जीवन्मुक्तिविवेकः। [तृतीय दीर्घो विरलतया सूक्ष्मश्च भवति तथा प्राणोऽपि देशकालसंख्याधिक्ये- नाभ्यस्यमानो दी? दुर्लक्ष्यतया सूक्ष्मश्च संपद्यते । रेचकादिभ्पत्रिभ्योऽन्यं प्र- कारं सूत्रयति-" बाह्याभ्यन्तरविषयानपेक्षी चतुर्थः" इति ॥ यथाशक्ति सर्व वायुं विरेच्यानन्तरं क्रियमाणो बहिः कुम्भको यथाशक्ति वायुमापूर्यानन्त- र क्रियमाणोऽन्तः कुम्भक इति रेचकपूरकावनादृत्य केवलः कुम्भकोऽभ्यस्य- मानः पूर्वत्रापेक्षया चतुर्थो भवति ॥ निंद्रातन्द्रयादिप्रबलदोषप्रयुक्तानां रेचका- दित्रयम् ॥ दोषरहितानां चतुर्थ इति विवेकः ॥ प्राणायामफलं सूत्रयति- ततः क्षीयते प्रकाशावरणम्" इति॥प्रकाशस्य सत्त्वस्यावरणं तमोनिद्राल- स्यादिहेतुस्तस्य क्षयो भवति ॥ फलान्तरं सूत्रयति-"धारणामु योग्यता मन- सः" इति ॥ आधारनाभिचक्रहृदयभ्रूमध्यब्रह्मरन्ध्रादिदेशविशेषे विकृष्य चित्त- स्य स्थापनं धारणा ॥ देशबन्धश्चित्तस्य धारणा" इति सूत्रणात् ॥ श्रुतिश्व- मनः संकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । धारयित्वा तथात्मानं धारणा परिकीर्तिता ॥” इति ॥ प्राणायामेन रजोगुणकारिताचाञ्चल्यात्तमोगुणकारितादालस्यादेश्च निवा- रितं मनस्तस्यां धारणायां योग्यं भवति- प्राणायामहढाभ्यासैर्युक्त्या च गुरुदत्तया" ॥ इत्यत्रत्येन युक्तिशब्देन योगिजनप्रसिद्ध शिरोरूपमेरुचालनम् ॥ जिह्वाग्रे- ण घण्टिकानामणं नाभिचक्रे ज्योतिर्ध्यानं विस्मृतिपदौषधसेवा चेत्येवमादिकं रखते॥ तदेवमध्यात्मविद्यासाधुसंगमवासनाक्षयप्राणनिरोधाश्चित्तनाशोपाया द- र्शिताः ॥ अथ तदुपायभूतं समाधि वक्ष्यामः ॥ पञ्चभूम्युपेतस्य चित्तस्य भूमि- प्रयत्यागेनावशिष्टं भूमिद्वयं समाधिः ॥ भूमयश्च योगभाष्यकृता दर्शिताः- क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः" इति ॥ आमुरसंपल्लो- कशाने देहवासना, प्रवर्तमानं चित्तं क्षिप्तम् , निद्रातन्द्रादिग्रस्तं मूढम्, कादा- चित्कध्यानयुक्तं क्षिप्ताद्विशिष्टतया विक्षिप्तम् ॥ तत्र क्षिप्तमूढयोः समाधिशद्देव नास्ति ॥ विक्षिप्ते तु चेतसि विक्षेपोपसर्जनीभूतः समाधिर्योगपक्षे निवर्तते ॥ विक्षेपान्तर्गततया दहनान्तर्गतबीजवत्सद्य एव विनश्यति ॥ यस्त्वेकाग्रे चेत- सि 'संभूतमर्थ द्योतयति क्षिणोति, च क्लेशाकर्मबन्धनानि श्लथयति, निरोधम- १ घ. च. सूक्ष्म एव । २ घ. च. बाह्याभ्यन्तरपूर्वत्रयापेक्षोऽपि चतु। ३ क. ख..विषयावनपेक्ष्य चतु'; ग. विषयापेक्षोऽपि चतु। ४ ग. घ. च. केवलं । ५ ग. घ. च. निद्रातन्द्रादि । ६ च. 'देशसं- बन्धश्चित्तस्य। ७ क. स. ग. घण्टिकाक्रमणं; घ. च. घण्टिकाक्रमणं नाभिचक्रहृदये ज्योति। ८ घ. 'चक्रहृदये ज्यो । ९ ग. घ.च. 'नाशे द। १० ङ. भूमित्रयं समाधिः । चित्तभमयश्च। ११ ग. घ. च. सद्भुतमर्थ; क. स्व. समुद्भूतमर्थ। १२ ङ. 'बन्धादिल । RARAN Samme मनोनाशप०] विद्यारण्यप्रणीतः भिमुखीकरोति स संपज्ञातयोग इत्याख्यायते ॥ सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः ।। तत्र संप्रज्ञातसमाधिभूमिमेकाग्रतां सूत्रयति-"शान्तोदितौ तुल्य- प्रत्ययौ, चित्तस्यैकाग्रतापरिणामः" इति ॥ शान्तोऽतीतः । उदितो वर्तमानः। प्रत्ययश्चित्तवृत्तिः ॥ अतीतप्रत्ययो यं पदार्थं गृह्णाति तमेव चेदुदितो गृह्णीया- तावुभौ तुल्यौ भवतः ॥ तादृशश्चित्तस्य परिणाम एकाग्रतेत्युच्यते ॥ एकाग्र- ताभिवृद्धिलक्षणं समाधि सूत्रयति-" सर्वार्थतैकाग्रतयोः क्षयोदयौ, चित्तस्य समाधिपरिणामः" इति ॥ रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वान्पदार्था- न्गृह्णाति तस्य रजोगुणस्य निरोधाय क्रियमाणेन योगिनः प्रयत्नविशेषेण दि- नेदिने सर्वार्थता क्षीयते, एकाग्रता चोदेति तादृशश्चित्तस्य परिणामः समा- धिरित्युच्यते ॥ तस्य समाधेरष्टाङ्गेषु यमनियमासनप्राणायामप्रत्याहाराः पञ्च बहिरङ्गानि ॥ तत्र यमान्सूत्रयति-"अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" इति । हिंसादिभ्यो निषिद्धधर्मेभ्यो योगिनं यमयन्तीति यमाः॥ नियमान्सूत्रय- ति-" शौचसंतोषतपःस्वाध्यायेश्वरमणिधानानि नियमाः" इति ॥ जन्महे- तोः काम्यधर्मानिवर्त्य मोक्षहेतौ निष्कामधर्मे नियमयन्ति मेरयन्तीति नियमाः॥ यमनियमयोरनुष्ठानवैलक्षण्यं स्मर्यते- "यमान्सेवेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् । पतति नियमवान्यमेष्वसत्तो न तु यमवानियमालसोऽवसीदेत् । इति यमनियमौ समीक्ष्य बुद्धया यमबहुलेष्वनुसंदधीत बुद्धिम् ॥” इति ॥ यमनियमफलानि सूत्रयति-" तत्संनिधौ वैरत्यागः क्रियाफलास्रावित्वं रत्नोपस्थानं वीर्यलाभः जननादिभयाभावः जन्मकथासंबोधः ॥ शौचात्स्वा- जुगुप्सापरैरसंसर्गः सत्त्वशुद्धिः सौमनस्यैकारयेन्द्रियजयात्मदर्शनयोग्यत्वा- नि च संभवन्ति ॥ संतोषादनुत्तमः मुखलाभः ॥ कायेन्द्रियबुद्धिशुद्धिरशु- द्विक्षयात्तपसः स्वाध्यायादिष्टदेवतासंप्रयोगः॥ समाधिसिद्धिरीश्वरप्रणिधानादिति आसनप्राणायामौ व्याख्यातौ ॥ प्रत्याहारं सूत्रयति-"स्वविषयासंप्रयोगे चि- त्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहार" इति ॥ शब्दस्पर्शरूपरसगन्धादिवि- षयास्तेभ्यो निवर्तिताः श्रोत्रादयश्चित्तस्वरूपमनुकुर्वन्तीव व्यतिष्ठन्ते ॥ श्रुतिश्च भवति-- १ ङ. भूमिकैका । २ ग. घ. च. तादृशचित्तस्य । ३ घ. 'चर्यप। ४ ग. घ. च. यमान्कुर्वीत सततं न कुर्यानियमान्बुधः । ५ घ. सर्वरत्नोप । ६ ग. घ. परैरसङ्गः । ७ क. ख. स्पै. काप्रतेन्द्रिय । ८ ग. घ. च. 'नि भवन्ति । ९ क. ख. 'द्विक्षयश्च तपसः; ग. द्विक्षयस्तपसः; घ. च. "द्धिः पापक्षयस्तपसः। १० घ. स्वस्वविषया। ९ myanvi sms जीवन्मुक्तिविवेकः। [तृतीयं शब्दादिविषयान्पश्च मनश्चैवातिचञ्चलम् । चिन्तयेदात्मनो रश्मीन्मत्याहारः स उच्यते ॥” इति ॥ शब्दादयो विषया येषां श्रोत्रादीनां ते श्रोत्रादयः पञ्च मनःषष्ठानांमेते. पामनात्मरूपेभ्यः शब्दादिभ्यो निवर्तनमात्मरश्मित्वेन चिन्तनं प्रत्याहारः स इत्यर्थः ॥ प्रत्याहारफलं सूत्रयति-" ततः परमावश्यतेन्द्रियाणाम्" इति ॥ धारणाध्यानसमाधीन्सूत्रैत्रिभिः सूत्रयति-" देशबन्धश्चित्तस्य धारणा॥ तत्र प्रत्ययकतानता ध्यानम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति । आधारादिदेशाः पूर्वमुक्ताः ॥ देशान्तरं श्रूयते- मनः संकल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता" ॥ इति ॥ यत्सर्ववस्तुसंकल्पकं मनः तदात्मानमेव संकल्पयतु न त्वन्यदित्येवंविधः मैयत्न इत्यात्मनि संक्षेपः ॥ प्रत्ययस्यैकतानता तत्त्वैकविषयः प्रवाहः । स च द्विविधः । विच्छिच विच्छिद्य जायमानः संततश्चेति । तावुभौ क्रमेण ध्यान- समाधी भवतः ॥ तदुभयं सर्वानुभवयोगिना दर्शितम्- " चित्तैकाम्याद्यतो ज्ञानमुक्तं समुपजायते । तत्साधनमतो ध्यानं यथावहुपदिश्यते ॥ विलाप्य विकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । परिशिष्टं च सन्मानं चिदानन्दं विचिन्तयेत् ॥” इति ॥ ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति विना । संप्रज्ञातसमाधिः स्याद्धयानाभ्यासप्रकर्षतः ॥” इति ।। तं च भगवत्पादा उदाजहुः- हशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ॐम् ॥ हशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । पुरस्तिरश्चोर्ध्वमधश्च सर्वतः संपूर्णभूमा त्वज आत्मनि स्थितः ॥ अजोऽमरश्चैव तैथाऽजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमद्वयः। न कारणं कार्यमतीव निर्मलः सदैव तृप्तश्च ततो विमुक्त अम् ॥” इति ॥ ननु संप्रज्ञातसमाधिरङ्गी स कथं ध्यानानन्तरभाविनोऽष्टमाङ्गस्य समाधेः स्थाने उदाहियते । नायं दोषः । अत्यन्तभेदाभावात् ॥ यथा वेदमधीयानो १ ग. घ. च. 'नामेषा । २ घ. निवर्तमानात्मरश्मि;। च. निवर्तमानमात्मरश्मि । ३ क. ख. ङ. 'मनः ध्यात्वा संक्षिप्यात्मनि तदा । ४ ग. घ. च. प्रयत्न आत्मनि । ५ ङ. चित्तैकाग्यवतो झा। ६. स्व. च. तयाक्षरोऽमृतः । ७ च. नन्तरं भावि । ८ . उदाहृतः ।
BHARATI BHAVAN, मनोनाशप०] विद्यारण्यप्रणीतः माणवकः पदे पदे स्खलन्पुनःपुनः समादधाति ॥ अधीतवेदः सावधानो न स्ख- लति । अध्यापको निरवधानस्तन्द्रीं कुर्वन्नपि न स्खलति तथा विषयैक्येऽपि परिपाकतारतम्येन ध्यानसमाधिसंप्रज्ञातानामवान्तरभेदोऽवगन्तव्यः॥ धारणा- दित्रयं मनोविषयत्वात्संपज्ञातेऽन्तरङ्गम् ॥ यमादिपञ्चकं तु बहिरङ्गम् ।। तदेत- सूत्रयति-"त्रयमन्तरङ्गं पूर्वेभ्यः" इति ॥ ततः केनापि पुण्येनान्तरङ्गे प्रथम लब्धे बहिरङ्गलाभाय नातिप्रयासः कर्तव्यः ॥ यद्यपि पतञ्जलिना भौतिकभूत- तन्मात्रेन्द्रियाहङ्कारादिविषयाः संप्रज्ञातसविकल्पसमाधयो बहुधा प्रपञ्चितास्त- थापि तेषामन्तर्धानादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वान्नास्माभिस्तत्रा- दरः क्रियते ॥ तथा च मूत्रितम्-"ते समाधावुपसर्गा व्युत्थाने सिद्धपः। इति ॥ स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गादिति च ॥ स्थानिनो देवाः ॥ उद्दालको देवैरामनितोऽप्यवज्ञाय देवानिर्विकल्पसमाधिमेव चकारे- त्युपाख्यायते । प्रश्नोत्तराभ्यामप्येवमेवावगम्यते ॥ श्रीरामः- जीवन्मुक्तशरीराणां कथमात्मविदां वर । शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः "॥ वसिष्ठः- "अनात्मविदमुक्तोऽपि नभोविहरणादिकम् । अणिमाद्यष्टसिद्धीनां सिद्धिजालानि वाञ्छति ॥" " द्रव्यमन्त्रक्रियाकॉलयुक्त्याऽऽनोत्येव राघव । मात्मज्ञस्यैष विषय आत्मज्ञो यात्ममात्रदृक् ॥ आत्मनाऽऽत्मनि संतृप्तो नाविद्यामनुधावति । ये केचन जगद्भावास्तानविद्यामयान्विदुः ॥ कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति । द्रव्यमन्त्रक्रियाकालशक्तयः साधुसिद्धिदाः ।। परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन । सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः ॥ स कथं सिद्धिवाञ्छायां मग्नचित्तेन लभ्यते ॥ " इति ॥ न केचन जगद्भावास्तत्त्वज्ञं रचयन्त्यमी । १च. स्तन्द्रां कु २ ग. घ. नधारणास। ३ अ.दो वात। ४ ग. 'भ्यामित्यमेवाव'; घ. 'भ्यामप्येवाव'; 'भ्यामप्येवं गम्यते । ५ क. ख. ग. घ. ङ. पुस्तकेषु भनात्मविदमुक्तोऽपि)हि सिद्धि जा(ता)लानि वाञ्छति । इत्यर्धपद्यमेव दृश्यते । ६ . पुस्तके द्रव्यमन्त्रक्रियाकालास्तैः सह युक्ति- योगस्तेन द्रव्यादियुक्तः सन्प्रामोतीत्यर्थः इत्यधिकम् ॥ ७ क. स. प. कालशक्त्याऽऽमो'। Ambulance - WE रेत ६८ जीवन्मुक्तिविवेकः। [तृतीयं नागरं नागरीकान्तं कुग्रामललना इव ॥ " इति ।। "अपि शीतरुचावर्के मुतीक्ष्णे चेन्दुमण्डले । अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥ चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः । इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ येस्तु वा भावितात्माऽपि सिद्धिजालानि वाञ्छति । स सिद्धिसाधकैव्यैस्तानि साधयति क्रमात् ॥” इति ॥ आत्मविषयस्तु संमज्ञातसमाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुस्तस्माद- त्रादरः कृतोऽस्माभिः॥ अथ पञ्चमभूमिरूपो निरोधसमाधिनिरूप्यते ॥ तं च निरोधं सूत्रयति- "व्युस्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधप- रिणामः" इति ॥ व्युत्थानसंस्काराः समाधिविरोधिनस्ते चोदालकस्य समाधा- वुदाहृताः- " कदाहं त्यक्तमनने पदे परमपावने । चिरं विश्रान्तिमेष्यामि मेरुशृङ्ग इवाम्बुदः ॥ इति चिन्तापरवशो बलादुद्दालको द्विजः। पुनःपुनः स्तूपविश्य ध्यानाभ्यासं चकार ह ॥ विषयीयमाने तु चित्ते मर्कटचञ्चले । न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ॥ कदाचिद्धाह्यसंस्पर्शपरित्यागादनन्तरम् । तस्यागच्छचित्तकपिरान्तरस्पर्शसंचयान् ॥ कदाचिदान्तरस्पर्शाद्धाचं विषयमाददे । तस्योडीय मनो याति कदाचित्रस्तपक्षिवत् ॥ कदाचिदुदिताभिं तेजः पश्यति विस्तृतम् । कदाचित्केवलं व्योम कदाचिनिबिडं तमः ॥ आगच्छतो यथा कामं प्रतिभासान्पुनःपुनः । अच्छिनन्मनसा शूरः खड़ेनेव रणे रिपून् । विकल्पौधे समालूने सोऽपश्यद्धृदयाम्बरे । तमश्छन्नविवेका लोलकज्जलमेचकम् ॥ १ क. ख. घ. च.क्ष्णेऽपीन्दु। २ ग. घ. ङ. पुस्तकेष्वयं श्लोको नास्ति । ३ ग. घ. मुक्तम- नले । ४ घ. पुनरुपाविश्य; ङ. पुनस्तूपविशन्ध्याना। ५. घ. अच्छिदन्मनसा; च. आच्छिदन्मनना ६ ग. घ. च. समालीने । ७ ग. घ. छवि। ८ च. लोककज्जल ।
मनोनाशप० विद्यारण्यप्रणीतः तमप्युत्सादयामास सम्यग्ज्ञानविवस्वता । तमस्युपरते स्वान्ते तेजःपुझं ददर्श सः ॥ तल्ललाव स्थलाब्जानां वनं बाल इव द्विपः । तेजस्युपरते तस्य घूर्णमानं मनो मुनेः ।। निशाब्जवदगानिद्रां तामप्याशु लुलाव सः । निद्राव्यपगमे तस्य व्योमसंवित्समुद्ययौ ॥ व्योमसंविदि नष्टायां मूढं तस्याभवन्मनः । मोहमप्येष मनसस्तं ममार्ज महाशयः ॥ ततस्तेजस्तमोनिद्रामोहादिपरिवर्जिताम् । कामप्यवस्थामासाद्य विशश्राम मनः क्षणम् ॥” इति ॥ त एते व्युत्थानसंस्कारनिरोधहेतुना योगिमयत्नेन प्रतिदिनं प्रतिक्षणं चा- भिभूयन्ते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवन्ति ॥ तथासति निरोध ए- कैकस्मिन्क्षणे चित्तमनुगच्छन्ति ॥ सोऽयमीहशश्चित्तस्यं निरोधपरिणामो भव- ति ॥ ननु" प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशतः" इति न्यायेन चित्तस्य सर्वदा परिणामप्रवाहो वक्तव्यः । बाढम् । तत्र व्युत्थितचित्तस्य - त्तिप्रवाहः स्फुटः ॥ निरुद्धचित्तस्य तु कथमित्याशङ्कयोत्तरं सूत्रयति-ततः प्रशान्तविहिता संस्कारात्" इति ॥ यथा समिदाज्याहुतिपक्षेपे वैह्निरुत्तरोत्तर- या प्रज्वलति । समिदादिक्षये प्रथमक्षणे किंचिच्छाम्यति । उत्तरोत्तरक्षणे शान्तिर्वर्धते तथा विरुद्धचित्तस्योत्तरोत्तराधिकः प्रशमः प्रवहति तत्र पूर्वपूर्व- प्रशमजनितः 'संस्कार एवोत्तरोत्तरमशमस्य कारणम् ॥ तामेतां प्रशान्तिवाहि- तां भगवान्विस्पष्ट मुदाजहार यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ यथा दीपो निवातस्थो नेते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । १ क. ख. च. तदप्यु'; ग. तमप्युत्पाटया । २ च. स स्वज्ञान । ३ च. वाऽन्ते । ४ च. मनः पुनः । ५ ग. घ. ड. संविद्विन। ६ क. ख. र. स्कारा नि । ७ घ.न प्रतिक्षणं । ८ इ. स्य प। ९ क. ख. तत्र प्रशान्त'; च. तस्य प्रशान्तिवि। १० च. वहिरुत्तरोत्तरं प्रज्वलति । ११ ग. घ. पूर्वप्रशमितः । १२ च. संस्कार उत्तरोत्तर एव प्रशमकारणम् । १३ ग. घ. ङ. प्रशान्तवाहिता । DINAMAHARAMINORTH BREADRISM जीवन्मुक्तिविवेकः । [तृतीयं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिंस्थितो न दुःखेन गुरुणाऽपि वियाल्यते॥ तं विद्याहुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विष्णचेतसा ॥" इति ॥ निरोधसमाधेः साधनं सूत्रयति-"विरामप्रत्ययाभ्यासपूर्वकः संस्कारशे- षोऽन्यः" इति ॥ विरामो वृत्त्युपरमस्तस्य प्रत्ययः कारणं, वृत्त्युपरमार्थः पुरुषप्रयत्नस्तस्याभ्यासः पौनःपुन्येन संपादनं तत्पूर्वकस्तज्जन्योऽनन्तरा- तीतसूत्रे संप्रज्ञातसमाधेरुक्तत्वात्तदपेक्षयाऽन्योऽसंपज्ञातः समाधिः ॥ तत्र वृत्ति- रहितस्य चित्तस्वरूपस्य दुर्लक्ष्यत्वात्संस्काररूपेण चित्तं शिष्यते ॥ विरामप- त्ययजन्यत्वं भगवान्विस्पष्टमाह- " संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ शनैःशनैरुपरमेहुया धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ यतोयतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥” इति ॥ काम्यमानाः स्त्रक्चन्दनवनितापुत्रमित्रगृहक्षेत्रादयो मोक्षशास्त्रकुशलविवेकि- जनप्रसिद्धै बहुभिर्दोषैरुपेता अप्यनाद्यविद्यावशात्तान्दोषानाच्छाद्य तेषु विषयेषु सम्यक्त्वं कल्पयन्ति ॥ तस्माच्च संकल्पादिदं मे स्याँदित्येवंरूपाः कामाः प्रभवन्ति ॥ तथा च स्मर्यते- " संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः । काम जानामि ते मूलं संकल्पात्किल जायसे ॥ न त्वां संकल्पयिष्यामि समूलस्त्वं विनश्यसि । तत्र विवेकेन विषयदोषेषु साक्षात्कृतेषु शुना वान्ते पायस इव कामांस्त्ये- ज्यन्ते । स्रक्चन्दनादिष्विव ये ब्रह्मलोकादिष्वणिमाघष्टैश्वर्येषु च कामास्त्या- ज्या इत्यभिप्रेत्य सर्वानित्युक्तम् ॥ मासोपवासवतिना तस्मिन्मासे अन्ने त्यक्तेऽपि कामः पुनःपुनरुदेति तद्वन्माभूदित्यशेषत इत्युक्तम् ॥ कामत्यागे मनःपूर्वक- MORENA ॥ १ ग. घ. रुपेता अनाद्यविद्यया तान्दोषा । २ ग. तेषु सम्यक्त्वं मनः कल्पयति । ३ ङ. सं- कल्पयन्ति । ४ ङ. 'दित्यादिरूपाः। ५ च. 'स्त्यजन्ति । ६ ग, घ, सक्चन्दनवनितादिविषयेष्विव । ७ ग. घ. ध्वणिमाद्यैश्वर्येषु ।
७१ मनोनाशप.] विद्यारण्यमणीतः प्रवृत्त्यभावेऽपि चक्षुरादीनां रूपादिषु स्वभावसिद्धा प्रवृत्तिः सापि प्रयत्नयुक्तेन मनसैव नियन्तव्या॥ देवतादर्शनादिष्वप्यननुसरणाय समन्तत इत्युक्तम् ॥ भू- मिकाजयक्रमेणोपरमविवक्षितत्वाच्छनैःशनैरित्युक्तम् ॥ ताश्च भूमिकाश्चतस्त्रः कठवल्लीषु श्रूयन्ते-" यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ॥ ज्ञान- मात्मनि (महति) नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति ॥ वाग्व्यापारो द्वि- विधः । लौकिको वैदिकश्च । जल्पादिरूपो लौकिकोऽजपादिरूपो वैदिकः ॥ तत्र लौकिकस्य बहुविक्षेपकरत्वाद्युत्थानकालेऽपि योगी तं परित्यजेत् ॥ अत एव स्मर्यते- " मौनं योगासनं योगस्तितिक्षैकान्तशीलता । निःस्पृहत्वं समत्वं च सप्तैतान्येकदण्डिनः ॥" इति ॥ जपादिकं निरोधसमाधौ परित्यजेत् । सेयं वाग्भूमिः प्रथमा ॥ तां भूमि प्र- यत्नमात्रेण कतिपयैदिनैर्मासैवत्सरैर्वा दृढं विजित्य पश्चाद्वितीयायां मनो- भूमौ प्रयतेत ॥ अन्यथा बहुभूमिकाः प्रयासात्मथमभूमिपातेनैवोपरितन- योगभूमयो विनश्येयुः ॥ यद्यपि चक्षुरादयो निरोद्धव्यास्तथापि तेषां वाग्भूमौ मनोभूमौ वाऽन्तर्भावो द्रष्टव्यः ॥ ननु वाचं मनसि नियच्छे- दित्यनुपपन्नम् ॥ नहीन्द्रियस्येन्द्रियान्तरे प्रवेशोऽस्ति ॥ मैवम् । प्रवेशस्या- विवक्षितत्वात् ॥ नानाविक्षेपकारिणोाज्मनसयोर्मध्ये प्रथमतो वाग्व्या- पारनियमनेन मनोव्यापारमात्रपरिशेष इह विवक्षितः ॥ गोमहिषाश्चा- दीनामिव वानियमे स्वाभाविके संपन्ने ततो ज्ञानात्मनि मनो नियच्छे- त् ॥ आत्मा त्रिविधः । ज्ञानात्मा महात्मा शान्तात्मा चेति ॥ जानात्यत्र स्थित आत्मेति ज्ञातृत्वोपाधिरहङ्कारोऽत्र ज्ञानशब्देन विवक्षितः॥ करणस्य म- नसो नियम्यत्वेन पृथगुपात्तत्वात् ॥ अहङ्कारो द्विविधः । विशेषरूपः सामा- न्यरूपश्चेति । अयमहमेतस्य पुत्र इत्येव व्यक्तमभिमन्यमानो विशेषरूपः ॥ अ- स्मीत्येतावन्मात्रमभिमन्यमानः सामान्यरूपः ॥ स च सर्वव्यक्तिषु व्याप्तत्वान्म- हानित्युच्यते ॥ ताभ्यामहङ्काराभ्यां द्वाभ्यामुपहितौ द्वावात्मानौ ॥ निरुपाधिकः शान्तात्मा तदेतत्सर्वमन्तर्बहिर्भावेन वर्तते । शान्त आत्मा सर्वान्तरश्चिदेकरस- स्तस्मिन्नाश्रितं जडशक्तिरूपमव्यक्तं मूलप्रकृतिः ॥ सा च प्रथमं सामान्याह- १ घ. रूपादिग्रहणे स्वभाव। २ ग. लौकिकोऽलौकिकश्च; क. ख. च. लौकिको जल्पादिरूपो वैदिको जपादिरूपः । इयं पंक्तिः ग. घ. पुस्तकयो स्ति । ३ घ. योगस्थितिरेकान्त । ४ ग. जपादिकं तु निरुद्धसमाधौ; घ. जपादिकं दण्डी निगेधसमाधौ । ५ क. ख. ङ. बहुभूमिकाप्रसादवत्प्रथमभूमिका- पाते; ग. घ. बहुभूमिप्रयासात्म। ६ च. योगभूमयः सर्वा विन। ७ क, ख. च. 'वाड्मनसोर्मध्ये । ८ क. ख. ग. छ. महानात्मा । ९ घ. इत्येवं वक्तुभिः। RA R SRANAMAMINoti ७२ wamme जीवन्मुक्तिविवेकः । [ तृतीयं काररूपं महत्तत्त्वं नाम धृत्वा व्यक्तीभवति ॥ ततो बहिर्विशेषाहकाररूपेण त- तो बहिर्मनोरूपेण ततो बहिर्वागादीन्द्रियरूपेण । तदेतदभिप्रेत्योत्तरमान्तरत्वं विविनक्ति श्रुतिः- " इन्द्रियेभ्यः परा पुर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥” इति एवं सत्यत्र नानाविधसंकल्पविकल्पसाधनकरणरूपं मनोऽहतरि नियच्छे- त् ॥ मनोव्यापारान्परित्यज्याहङ्कारमानं शेषयेत् ॥ न चैतदशक्यमिति वा- ध्यम्- तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् " इति वदन्तमर्जुनं प्रति भगवतोचराभिधानात् ॥ " असंशयं महाबाहो मनो दुनिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ असंयतात्मना योगो दुष्पाप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवानुमुपायतः" इति ॥ अभ्यासवैराग्ये पतनलिसूत्रोदाहरणेन व्याख्यास्येते ॥ पूर्वपूर्वभूमिदाळ- रहितोऽसंयतात्मा ॥ तत्सहितो वश्यात्मा ॥ उपायतः प्राप्ति गौडपादाचार्याः सदृष्टान्तमाहुः- " उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना। मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ बहुभिर्न विरोद्धव्यमेकेनापि बलीयसा। स पराभवमानोति समुद्र इव टिट्टिभात् ॥” इति ॥ अत्र संप्रदायविद आख्यायिकामाचक्षते-"कस्यचित्किल पक्षिणोऽण्डानि तीरस्थान्युदधिरुत्सेकेनापजहार ॥ तं च समुद्रं शोषयामीति प्रवृत्तः स च प- क्षी स्वमुखाग्रेणैकैकं जलबिन्दु बहिः प्रतिक्षिपति ॥ तदा बहुभिः पक्षिभिर्बन्धु- वगैार्यमाणोड ऽप्यनुपरतः प्रत्युत तानपि सहकारिणो ववे ॥ तांश्च पतनोत्पत- नाभ्यां बहुधा क्लि(श)श्यतः सर्वानवलोक्य कृपालुर्नारदो गरुडं समीपे प्रेषया- मास ॥ ततो गरुडपक्षवातेन शुष्यन्समुद्रोऽभिहितस्तान्यण्डानि पक्षिणे ददौ॥" १ ग. घ. च. " इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः" इति भिन्नः पाठः । २ ग. . पुस्तकयोरेतच्यो का न दृश्यते । ३ क. ख. ग. घ. च. पुस्तकेषु बहुभिरित्ययं श्लोकः न विद्यते । wamimes मनोनाशप्र०] विद्यारण्यप्रणीतः ७३ एवमखेदेन मनोनिरोधे परमधर्मे प्रवर्तमानं योगिनमीश्वरोऽनुगृह्णाति ॥ अखे- दश्च मध्ये मध्ये तदनुकूलव्यापारमिश्रणेन संपद्यते ॥ यथौदनं भुञ्जानस्तद्वा- सान्तरे चोष्यलेह्यादीनास्वादयति तद्वत् ॥ इदमेवाभिप्रेत्य वसिष्ठ आह- चित्तस्य भोगैह्रौं भागौ शास्त्रेणैकं प्रपूरयेत् । गुरुशुश्रूषया भागमव्युत्पनस्य संक्रमः ॥ किंचिद्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् । गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया ।। व्युत्पचिमनुयातस्य पूरयेच्चेतसोऽन्वहम् । द्वौ भागौ शास्त्रवैराग्यौं ध्यानगुरुपूजया ॥” इति ॥ भोगशब्देनात्र जीवनहेतुर्भिक्षाटनादिव्यापारो वर्णाश्रमोचितव्यापारचोच्य- ते ॥ घटिकामानं मुहूर्त वा यथाशक्ति योगमभ्यस्य ततो मुहूर्त शास्त्रश्रवणेन परिचर्यया वा गुरूननुगम्य मुहूर्त स्वदेहमनुसृत्य मुहूर्त योगशास्त्रं पर्यालो. च्य पुनर्मुहूर्त योगमभ्यसेत् ॥ एवं योगप्राधान्येन व्यापारान्तराणि मेलयंस्ता- नि द्रागभ्यस्य शयनकाले तदिनगतान्योगमुहूर्तान्गणयेत् ॥ ततः परेधुर्वा पर- पक्षे वा परमासे वा योगमुहूर्तान्वर्धयेत् ॥ तथा चैकैकस्मिन्मुहूर्त एकैकक्षणयोगे- ऽपि संवत्सरमात्रेण भूयान्योगकालो भवति ॥ न चैवं योगैकशरणत्वे व्यापा- रान्तराणि लुप्येरनिति शङ्कनीयम् ॥ लुप्तेतरकृत्स्नव्यापारस्यैव योगेऽधिकारा- त् ॥ अत एव विद्वत्संन्यासोऽपेक्ष्यते ॥ तस्मात्तदेकनिष्ठः पुमानध्येत्तृवणिगादि- वत्क्रमेण योगारूढो भवति ॥ यथाऽध्येता माणवकः पादांशं पादमर्धमृचमृ- रद्वयं वर्ग च क्रमेण पठन्देशद्वादशवरध्यापको भवति ॥ यथा च वाणिज्य कुर्वन्नेकनिष्कद्विनिष्कादिक्रमेण लक्षपतिः क्रोडपतिर्वा भवति तथा ताभ्यां व- णिगध्येतृभ्यां सहैवोपक्रम्य मत्सरग्रस्त इव युञ्जानस्तावता कालेन कुतो न योगमारोहेत् ॥ तस्मात्पुनःपुनः प्राप्यमाणान्संकल्पविकल्पानुद्दालकवत्पौरुष- प्रयत्नेन परित्यज्याहङ्कतरि ज्ञानात्मनि मनो नियच्छेत् ।। तामेतां द्वितीयभूमि- कां विजित्य बालमूकादिवनिर्मनस्त्वे स्वाभाविके सति ततो विशेषाहकाररूपं विस्पष्टं ज्ञानात्मानमस्पष्टे सामान्याहङ्कारे महत्तत्त्वे नियच्छेत् ॥ यथा स्वल्पां तन्द्रां माप्तवतो विशेषाहङ्कारः स्वत एव संकुचति विनैव तन्द्रां तथा विस्म- रणे प्रयतमानस्याहङ्कारसंकोचो भवति सेयं लोकप्रसिद्धया तन्या तार्किका- भिमतनिर्विकल्पकज्ञानेन च समाना महत्तत्त्वमात्रपरिशेषावस्था तृतीया भूमिः ।। १ घ. च. भोगेन । २ क. ख. च. क्षादिापा'; ग. थ. क्षाव्या । ३ ग. घ. गुरूनुपगम्य । ४ ग. घ. योगाधिकारात् । ५ ग. ङ. 'न्दशव। ६ घ. कोटिपति । ७ ङ. "वत्पुरुषः । BHARAymYA जीवन्मुक्तिविवेकः । [तृतीय अस्यां चाभ्यासपाटवेन वशीकृतायां तमेतं सामान्याहङ्काररूपं महान्तमात्मा- नं निरुपाधितया शान्ते चिदेकरसस्वभावे नियच्छेत् ॥ " महत्तत्त्वं तिरस्कृत्य चिन्मानं परिशेषयेत् ॥ अत्रापि पूर्वोक्तविस्मृतिमयत्न एव ततोऽप्यतिशयेनोपायतामापद्यते ॥ यथा शास्त्राभ्यासमवृत्तस्य व्युत्पत्तेः प्राक्पतिग्रन्थव्याख्यानापेक्षायामपि व्युत्पन्न- स्य स्वत एवोत्तरग्रन्थार्थः प्रतिभाति तथा सम्यग्वशीकृतपूर्वभूमेर्योगिन उत्त- रभूम्युपायः स्वत एव प्रतिभाति ॥ तदाह योगभाष्यकार:- " योगेन योगो ज्ञातव्यो योगो योगात्मवर्तते । योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥” इति । योग उत्तरभूमिका योगेन ज्ञातव्यो योगो योगात्मवर्तते यो योगाप्रमत्तः योगेन पूर्वभूमिकोत्तरभूमिकायोगेन स योगी रमते चिरमिति ॥ ननु मह- तत्त्वशान्तात्मनोमध्ये महत्तत्त्वोपादानमव्यक्ताख्यं तत्त्वं श्रुत्योदाहृतम् ॥ सत्र कुतो नियमनं नाभिधीयत इतिचेन्न ॥ लयप्रसङ्गादिति ब्रूमः ॥ यथा घटोऽनु- पादाने जले निरुद्धयमानो न लीयते, उपादानभूतायां तु मृदि लीयते तथा महत्तत्त्वमात्मनि न लीयते अव्यक्ते तु लीयते ॥ न च स्वरूपलयः पुरुषार्थः ।। आत्मदर्शनानुपयोगात्- " दृश्यते त्वय्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥" इति ॥ पूर्ववाक्ये आत्मदर्शनमभिधाय सूक्ष्मत्वसिद्धये निरोधस्याभिधानात्; लय- स्य प्रतिदिनं सुषुप्तौ स्वतःसिद्धत्वेन प्रयत्नवैयाञ्च ॥ ननु धारणाध्यानस- माँधिभिः साध्यस्य संप्रज्ञातस्यैकाग्यवृत्तिरूपत्वेन दर्शने हेतुत्वेऽपि शान्तात्म- न्यवरुद्धस्यासंप्रज्ञातसमाधिमापन्नस्य चित्तस्य वृत्तिरहितत्वेन सुषुप्तिवन्न दर्श- नहेतुत्वमितिचेन्न ॥ स्वतःसिद्धस्य दर्शनस्य निवारयितुमशक्यत्वात् ।। अतएव श्रेयोमार्गेऽभिहितम् - आत्मानात्माकारं स्वभावतोऽवस्थितं सदा चित्तम् । आत्मैकाकारतया तिरस्कृतानात्मदृष्टि विदधीत" इति ॥ यथा घट उत्पद्यमानः स्वतो वियत्पूर्ण एवोत्पद्यते जलतन्दुलादिपूरणं तूत्पन्ने घटे पश्चात्पुरुषप्रयत्नेन भवति ॥ तत्र जलादौ निःसारितेऽपि न वियन्निःसारयितुं शक्यते ।। मुखपि- धानेऽप्यन्तर्वियदवतिष्ठत एव ॥ तथा चित्तमुत्पद्यमानमात्मचैतन्यपूर्णमेवोत्प- यते ॥ उत्पन्ने चित्ते पश्चान्मूषानिषिक्तद्रुतताम्रवद्धटपटरूपरसमुखदुःखादिवृ- त्तिरूपत्वं भोगहेतुधर्माधर्मादिवशाद्भवति ॥ तत्र रूपरसाधनात्माकारे निवा- १ क. ख. च. विल। २ ङ. स्वात्मद । ३ ग. घ. क्येऽभिधाय । ४ ग. 'माधिसाध्यसंप्त- हा । ५ ग. घ. सुषुप्तवत्र । ६ ग. घ. अतः श्रेयो। ७ घ. तिरस्कृतानात्म; ग. ङ. नात्मदृष्टिविदधी- न। ८ इ. 'पूरणमुत्पन्ने । ९ ग. घ. 'खादिरूपत्वं । १० ग. घ, थ, धर्मादिवशा। MANOHeam मनोनाशप्र०] विद्यारण्यमणीत: ७५ रितेऽपि निनिमित्तश्चिदाकारो न निवारयितुं शक्यते॥ ततो निरोधसमाधिनानि- त्तिकेन संस्कारमात्रशेष्यतया सूक्ष्मत्वेन चिदात्ममात्राभिमुखत्वादेकाग्रेण चि- तेन निर्विघ्नमात्माऽनुभूयते ॥ अनेनैवाभिप्रायेण वार्तिककारसर्वानुभवयोगिना- वाहतु:- मुखदुःखादिकपित्वं धियो धर्मादिहेतुतः । निर्हेतुत्वात्मसंबोधरूपत्वं वस्तुवृत्तितः ॥ प्रशान्तवृत्तिकं चित्तं परमानन्ददीपकम् । असंप्रज्ञातनामाऽयं समाधिोगिनां प्रियः ॥" इति ॥ आत्मदर्शनस्य स्वतःसिद्धत्वेऽप्यनात्मदर्शनवारणाप निरोधाभ्यासः । अत एवोक्तम्- आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् " इति ॥ योगशास्त्रस्य चित्तचिकित्सकसमाधिमात्रे प्रवृत्तत्वान्निरोधसमाधावात्मदर्शनं तत्र न साक्षादुक्तम्-भयन्तरेण त्वभ्युपगम्यते ॥ "योगश्चित्तवृत्तिनिरोधः" इति सूत्रयित्वा "तदा द्रष्टुः स्वरूपेणावस्थानम्" इतिसूत्रणात् ।। यद्यपि निर्वि- कारो द्रष्टा सदा स्वरूप एवावतिष्ठते तथापि वृत्तिषूत्पद्यमानासु तत्र चिच्छाया- यां प्रतिबिम्बितायां तदविवेकादस्वस्थ इव द्रष्टा भवति ॥ तदप्यनन्तरसूत्रेणो- क्तम्-" वृत्तिसारूप्यमितरत्र" इति ॥ अन्यत्रापि सूत्रितम्-सत्त्वपुरुषयोर- त्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वादिति ॥ चितेरपतिसंक्रमायास्त- दाकारापत्तौ स्वबुद्धिसंवेदनमिति च ॥ निरोधसमाधिना शोधिते त्वंपदार्थे सा- क्षात्कृतेऽपि तस्य ब्रह्मत्वं गोचरयितुं महावाक्येन ब्रह्मविद्यानामकं वृत्त्यन्तर- मुंत्पद्यते ॥ न च शुद्धत्वंपदार्थसाक्षात्कारे निरोधसमाधिरेक एवोपायः ॥ किंतु चिज्जडविवेकेनापि पृथकृते तत्साक्षात्कारसंभवात् ॥ अत एव वसिष्ठ आह- द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगस्तवृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ।।" इति ।। असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमेश्वरः ॥” इति । ननु विवेकोऽपि योगे पर्यवस्यांत दर्शनवेलायामात्ममात्रगोचराया एकाग्र- वृत्तेः क्षणिकसंप्रज्ञातरूपत्वात् ॥ बाढम् ॥ तथाऽपि संमज्ञातासंप्रज्ञातयोः स्व- घ. "रितेप्यनिमित्तश्चिदाकारो। २ ग. घ. प. निवृत्तिकेन । ३ ङ. धर्मादिरूपतः । ४ गर घ. 'त्मवारणाय । ५ क. ख. च. त्ततया निरो'। ६ क. ख. घ. च. चितिच्छायायो.। ७५, मुत्पा- द्यते । ८ घ. संभवः । ९ङ, परमः शिवः ।
७६ जीवन्मुक्ति विवेकः। [तृतीयं रूपतः साधनतश्चास्त्येव महद्वैलक्षण्यम् ॥ वृत्त्यवृत्तिभ्यां स्फुटः स्वरूपभेदः ॥ साधनं तु संप्रज्ञातस्य सजातीयत्वाद्धारणादित्रयमन्तरङ्गः॥ असंप्रज्ञातस्यावृत्ति- कस्य विजातीयत्वाद्धहिरङ्गम् ॥ तथाच सूत्रम्-" तदपि बहिरङ्गं निर्बीज- स्य" इति ॥ विजातीयत्वेऽपि बहुविधानात्मवृत्तिनिवारणेनोपकारितया ब- हिरङ्गत्वमविरुद्धम् ॥ तदेवोपकारित्वं विशदयितुं सूत्रयति-"श्रद्धावीर्यस्मृति- समाधिप्रज्ञापूर्वक इतरेषाम्" इति ॥ केषांचिद्देवादीनां पूर्वसूत्रे जन्मनैव समा- धिमुक्त्वा मनुष्यान्मत्येतदुच्यते ॥ ममायं योग एव परमपुरुषार्थसाधनमिति प्रत्ययः श्रद्धा ॥ सा चोत्कर्षश्रवणेनोपजायते ॥ तदुत्कर्षश्च स्मर्यते- ..." तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥" इति ॥ उत्तमलोकसाधनत्वात्कृच्छ्रचान्द्रायणादितपसो ज्योतिष्टोमादिकर्मणश्च यो- गोऽधिकः ॥ ज्ञानं प्रत्यन्तरङ्गत्वाच्चित्तविश्रान्तिहेतुतया ज्ञानादप्यधिकत्वम्- एवं ज्ञानतोयोगे श्रद्धाजायते॥तस्यां च श्रद्धायां वासितायां वीर्यमुत्साहोभवति॥ सर्वथा योगं संपादयिष्यामीति ॥ एतादृशेनोत्साहेने तदा तदनुष्ठेयानि योगाङ्गानि स्मर्यन्ते॥ तेया च स्मृत्या सम्यगनुष्ठितसमाधेरध्यात्मप्रसादे सत्यृतंभरा प्रज्ञोदे- ति॥ तत्पज्ञापूर्वकस्तत्मज्ञाकारणकोऽसंमज्ञातसमाधिरितरेषां देवादिभ्योऽर्वाची- नानां मनुष्याणां सिद्धयति ॥तांच प्रज्ञां सूत्रयति-"ऋतंभरा तत्र प्रज्ञा" इ- ति ॥ ऋतं सत्यं वस्तुयाथात्म्यं बिभर्ति प्रकाशयतीति ऋतंभरा। तत्र तस्मिन्समा- ध्युत्कर्षजन्येऽध्यात्मप्रसादे सतीत्यर्थः ॥ ऋतंभरत्वोपपत्तिं सूत्रयति-"श्रुता- नुमानज्ञाभ्यामन्यविषयाविशेषार्थत्वात्" इति ॥ सूक्ष्मव्यवहितविप्रकृष्टवस्तु- ध्वयोगिप्रत्यक्षत्वं न प्रवर्तते ॥ आगमानुमानाभ्यां तानि वस्तून्ययोगिभिर्जाय- न्ते ॥ ते च शास्त्रानुमानजन्ये प्रज्ञे वस्तुसामान्यमेव गोचरयतः ॥ इदं तु योगि- प्रत्यक्षं विशेषवस्तुगोचरत्वातंभरत्वम् ।। तस्य योगिप्रत्यक्षस्यासंप्रज्ञातसमा- धौ बहिरङ्गत्वसिद्धयर्थमुपकारित्वं सूत्रयति-" तज्जः संस्कारोऽन्यसंस्कार- मंतिबन्धी" इति ।। असंप्रज्ञातसमाधेर्बहिरङ्गसाधनमुक्त्वा तनिरोधप्रयत्नस्यान्त- रङ्गसाधनतां सूत्रयति-" तस्यापि निरोधे सर्वनिरोधानिर्बीजः समाधिः " इति । सोऽयं समाधिः सुषुप्तिसमानः साक्षिचैतन्येनानुभवितुं शक्यः ॥ न चा- सौ सर्वधीवृत्तिराहित्यात्मुषुप्तिरेवेति शनीयम् ॥ मनः स्वरूपसदसत्त्वाभ्यां वि- शेषात् ॥ तदुक्तं गौडपादाचार्यैः १ ग. ङ. तस्य ववृत्ति । २ ङ. यस्यापि । ३ ग. घ. च. स चोत्कर्ष। ४ ग. च. न तदनु- छे'; घ. 'न तदानु। ५ ग. घ. ङ. तथा । ६ ग. घ. म्यगुपतिष्ठतः समा ७ घ. प्रज्ञाभ्यां सामान्यवि- षयाविशेषा'। ८ ग. घ. प्रतिदधाति । ९ घ. न शङ्कनीयम् । १० घ. ङ. मनसः स्वरूपस्य स।
मनोनाशप्र० विद्यारण्यप्रणीतः " निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः मुषुप्यन्यो न तत्समः ॥ लीयते हि सुषुप्तौ तन्निग्रहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः॥" इति ॥ माण्डूक्यशाखायामपि श्रूयते- "द्वैतस्याग्रहणं तुल्यमुभयोःप्राज्ञतुर्ययोः। बीजनिद्रायुतः प्राज्ञः सो च तुर्ये न विद्यते ।। स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ।। अन्यथा गृह्णतः स्वप्नो निद्रातत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥” इति ॥ आद्यौ विश्वतैजसौ ॥ अद्वैतस्य वस्तुनोऽन्यथाग्रहणं नाम द्वैतरूपेण पति- भासः ॥ स च विश्वतैजसयोर्वर्तमानः स्वप्न इत्युच्यते ॥ तत्त्वस्याज्ञानं निद्रा ॥ सा च विश्वतैजसमाज्ञेषु वर्तते ॥ तयोः स्वप्ननिद्रयोः स्वरूपभूतयोर्विपर्यासो मि- थ्याज्ञानम् ॥ तस्मिन्विद्यया क्षीणे सति तुरीयं पदमद्वैतं वस्त्वश्नुते ॥ नन्वस्त्वैव- मसंप्रज्ञातसमाधिमुषुयोर्महान्भेदः । तत्र तत्त्वदिदृक्षोर्दर्शनसाधनत्वेन समाध्य- पेक्षायामपि दृष्टतत्त्वस्य जीवन्मुक्तये नास्ति तदपेक्षा ।। रागद्वेषादिक्लेशबन्ध- स्य सुषुप्त्याऽपि निवृत्तेः ॥ मैवम् । किं प्रतिदिनं स्वतः प्राप्ता कादाचित्की मुषुप्तिर्बन्धनिवर्तिका, किंवाऽभ्यासेन निरन्तरवर्तिनी ।। आद्येऽपि किं सुषुप्ति- कालीनस्य केशबन्धस्य निवृत्तिः, किंवा कालान्तरवर्तिनः ॥ नाऽऽध: । अभ- सक्तेः ॥ न हि मूढानामपि सुषुप्तौ केशबन्धः ॥ अन्यथाऽऽयासः प्रसज्येत ॥ न द्वितीयः । असंभवात् ॥ न ह्यन्यकालीनया मुषुप्त्या कालान्तरवर्तिनः क्ले- शस्य क्षयः संभवति ॥ अन्यथा मूढानामपि जागरणस्वप्नयोः क्लेशस्य क्षयः प्रस- ज्येत ॥ नापि सुषुप्तौ नैरन्तर्यमभ्यसितुं शक्यम् ॥ तस्याः कर्मक्षयनिमित्चत्वात् ।। तस्मात्तत्त्वविदोऽपि क्लेशक्षयायास्त्येवासंप्रज्ञातसमाध्यपेक्षा ॥ तस्य च समाधे- गंवादिष्विव वानिरोधः प्रथमा भूमिः ॥ बालमूढादिष्विव निर्मनस्त्वं द्वितीया॥ तन्यामिवाहङ्कारराहित्यं तृतीया ।। मुषुप्ताविव महत्तत्त्वराहित्यं चतुर्थी ॥ तदे. तमिचतुष्टयमभिमेत्य शनैःशनैरुपरमेदित्युक्तम् ॥ अत्र चोपरमे धृतिगृहीता १ ग. सुषुप्तेऽन्यो न; घ. सुषुप्तान्यो न । २ घ. सा तुरीये न । ३ घ. वस्त्वश्नुतेऽनुभवतीत्यर्थः । ४ ग. सुषुप्ताविव; घ. सुषुप्तावपि । ५ ग. घ. प्राप्तकादाचित्कसु। ६ ग. वादिष्विवावरोधः;. ड, गेवाश्वादिष्विव । ७ ग. बालमुग्धादिति'; घ. बालमूकादि'; ङ. बालकादिष्विव । SisatersnKNORTHDattishthantabless जीवन्मुकिविवेकः। [तृतीयं बुद्धिः साधनं महदहङ्कारमनोवागादीनां स्वत एव तीब्रवेगेन बहिःमवहतां कूलंकषाया नद्या इव निरोधे धैर्य महदपेक्षितम् । बुद्धिविवेकः पूर्वा भूमिर्जिता न वेऽपि परीक्ष्य जितायामुत्तरभूम्युपक्रमः ॥ अजितायां तु सैव पुनरभ्यसनी- पेति तदातदा विविच्यात् ॥ आत्मसंस्थमित्यादिना सार्धश्लोकेन चतुर्थभूम्य- भ्यासोऽपि स्मृतः ॥ गौडपादाचार्या आहुः- " उपायेन निग्रहीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा । दुःखं सर्वमनुस्मृत्य कामभोगानिवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ लये संबोधयेचितं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ।। नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरं चित्तमेकीकुर्यात्मयत्नतः ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अलिङ्गनमनाभ्यासं निष्पन्नं ब्रह्म तत्तदा ॥” इति ॥ लयविक्षेपकषायसममाप्तयश्चतस्रश्चित्तस्यावस्थाः ॥ तत्र निरुध्यमानं चित्तं विषयेभ्यो व्यावृत्तं सत्पूर्वाभ्यासवशाद्यदि लयाय सुषुप्तयेऽभिमुखं भवेत्तदानी- मुत्थापनप्रयत्नेन लयकारणनिवारणेन वा चित्तं सम्यक्प्रबोधयेत् ॥ लयहेत. योऽनिद्राशेषाऽजीर्णबह्वशनश्रमाः ॥ अत एवाहु:- "समाराध्य निद्रां मुजीर्णाल्पभोजी श्रमत्याज्यबाधे 'विविक्ते प्रदेशे । सदाऽऽसीत निस्तृष्ण एवाप्रयत्नोऽथवा प्राणरोधो निजाभ्यासमार्गात्॥" इति। लयादुत्थापितं चित्तं दैनंदिनप्रबोधाभ्यासवशादि कामभोगयोर्विक्षिप्ये- त तदा विवेकिजनप्रसिद्धभोग्यवस्तुगतसर्वदुःखानुस्मरणेन शास्त्रमसिद्धजन्मा- दिरहिताद्वितीयब्रह्मतत्त्वानुस्मरणपूर्वकेन भोग्यवस्त्वदर्शनेन च पुनःपुनर्वि- क्षेपाश्चित्तं शमयेत् ॥ कषायस्तीब्रचित्तदोषस्तीवरागद्वेषादिवासना तया अस्तं चित्तं कदाचित्समाहितमिव लयविक्षेपरहितं दुःखैकाग्रमवतिष्ठते तादृशं तचित्तं विजानीयात् ॥ समाहितचित्ताद्विवेकेनावगच्छेत् ॥ असमाहितमेतदित्यवग- म्य लयविक्षेपवत्कषायस्य प्रतीकारं कुर्यात् ॥ समशब्देन ब्रह्माभिधीयते ॥ १ क. ग. घ. "मनाभासं। २ क. ख. ग. च. मुत्थानप्रय। ३ ग.घ. तच्चित्तं; च. ततश्चित्तं । ४ क. ख. समापय्य; ग. समापद्य । ५ च. 'त्यागवाये । ६ ङ. विभक्त । ७ घ. च. वस्तुद। ८ ख. समाहितचित्तात्पृथक्त्वेनासमाहितं चित्तं विवेकना।
मनोनाशप्र०] विद्यारण्यप्रणीतः " समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ॥” इति स्मृतेः ।। लयविक्षेपकषायेषु परिहृतेषु परिशेषाचित्तेन समं ब्रह्म प्राप्यते ॥ तच्च स- मप्राप्तं चित्तं कषायलयनान्त्या न चालयेत् ॥ सूक्ष्मया बुद्धया लयकषायमा- सी विविच्य तस्यां समप्राप्तावतिप्रयत्नेन चिरं स्थापयेत् ॥ स्थापिते' तस्मि- न्ब्रह्मस्वरूपभूतः परमानन्दः सम्यगाविर्भवति ॥ तथा चोदाहृतम्- मुखमात्यन्तिकं यत्तद्बुद्धिप्राधमतीन्द्रियम् ।" इति ॥ श्रुतिश्च भवति- " समाधिनि—तमलस्य चेतसो निवेशितस्याऽत्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥” इति ॥ ननु समाध्याविर्भूतब्रह्मानन्दस्य बुद्धिग्राह्यत्वं श्रुतिस्मृतिभ्यामभिहितम् । आचार्यैस्तु-" नास्वादयेत्सुखं तत्र" इति बुद्धिग्राह्यत्वं प्रतिषिध्यते ॥ ना. यं दोषः ॥ तत्र निरोधसुखं बुद्धिग्राह्यं न प्रतिषिध्यते, किंतु समाधिविरोधिनो व्युत्थानरूपस्य परामर्शस्यैव प्रतिषेधात् ॥ यथा निदाघदिवसेषु मध्याह्ने जास- वीहदनिमग्नेनानुभूयमानमपि शैत्यसुखं तदा वक्तुमशक्यं पश्चादुन्मनेनाभिधीय- ते ॥ यथावा सुषुप्तावविद्यावृत्तिभिरतिसूक्ष्माभिरनुभूयमानमपि स्वरूपसुखं तदा- नों सविकल्पकेनान्तःकरणवृत्तिज्ञानेन गृहीतुमशक्यम् ॥ प्रबोधकाले तु स्मृत्या विस्पष्टं परामृश्यते ॥ तथा समाधौ वृत्तिरहितेन संस्कारमानशेषतया सूक्ष्मेण वा चित्तेन मुखानुभवः श्रुतिस्मृत्योर्विवक्षितः॥ मह दिदं समाधिमुखमन्वभूव- मित्येतादृशो व्युत्थितस्य सविकल्पकः परामर्शोत्रास्वादनम् ॥ तदेवाचार्यैः प्र- तिषिध्यते ॥ तमेव स्वाभिप्रायं प्रकटयितुं निःसङ्गः प्रज्ञया भवेदित्युक्तम् । प्रकृ- ष्टं सविकल्पकं ज्ञानं प्रज्ञा तया सह सङ्गं परित्यजेत् ॥ यद्वा पूर्वोक्ता धृतिगृहीता बुद्धिः प्रज्ञा ॥ तदात्मकेन साधनेन मुखास्वादनतद्वर्णनादिरूपामासक्ति वर्जये. त् ॥ समाधौ ब्रह्मानन्दे निमनं चित्तं यदि कदाचित्सुखास्वादनाय वा शीतवा- तमशकायुपद्रवेण वा निश्चरेत्तदा "निश्चरं तच्चित्तं पुनर्निश्चलं भवति तथा परब- मणा सहैकीकुर्यात् ॥ तत्र च निरोधप्रयत्न एव साधनम् ॥ एकीभाव एव यदा न लीयत इत्यनेन स्पष्टीक्रियते ॥ आलिङ्गनमनाभासमित्याभ्यां पदाभ्यां कषायमुखास्वादौ प्रतिषिध्यते ॥ लयविक्षेपकषायमुखास्वादेभ्यो रहितं चित्त- मविघ्नेन ब्रह्मण्यवस्थितं भवति ॥ एतदेवाभिप्रेत्य कठवल्लीषु पंम्यते १ ग. घ. तेऽस्मिन्ब्र। २ घ. ध्यत इतिचेन्नायं। ३ ग. घ. कल्पः परामर्श आस्वादनम् ।४ क. ख. 'नन्दमनं चित्तं; च. नन्देऽतिममं चित्तं। ५ ग. ८. निश्वरश्चित्तं पुन:पुनर्निचलं यथा भवति; य. निश्चरितं चित्तं पुनःपुनः । ६ क. स. च. श्रूयते । MARATulsive जीवन्मुक्तिविवेकः। [तृतीयं यदा पश्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥" इति ॥ उपेक्षितो योग इन्द्रियवृत्तीनां प्रभवं करोति ॥अनुष्ठितस्तु तासां लयहेतुः ॥ अत एव योगस्य स्वरूपलक्षणं सूत्रयति-"योगश्चित्तवृत्तिनिरोधः" इति ॥ वृत्तीनामानन्त्यानिरोधोऽशक्य इति शङ्कां वारयितुमियत्तां सूत्रयति-" वृ- चयः पञ्चतय्यः क्लिष्टा अक्लिष्टा इति ॥ रागद्वेषादिक्लेशरूपा आसुरवृत्तयः क्लि- टाः ॥ रागादिरहिता दैववृत्तयोऽक्लिष्टाः ॥ यद्यपि पञ्चस्वेव क्लिष्टानामक्लिष्टानां चान्तर्भावस्तथापि क्लिष्टा एव निरोद्धव्या इति मन्दबुद्धिं वारयितुं ताभिः स- हाक्लिष्टा अप्युदाहृताः॥ नामधेयलक्षणाभ्यां चि विशदयितुं सूत्रषट्माह- "११ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ।२। प्रत्यक्षानुमानागमाः ममाणानि शविपर्ययो मिथ्याज्ञानमतद्रूपं प्रतिष्ठितम् । ४ । शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ५ । अभावप्रत्ययालम्बना वृत्तिनिद्रा । ६ । अनुभूतविषयस्यासंप- मोषः स्मृतिः" इति ॥ वैस्त्वभावः प्रतीयते ॥ यस्मिस्तमस्यावरके सति तत्तमोभावमत्ययः । तमोगुणं विषयं कुर्वन्ती वृत्तिनिद्रेत्युच्यते अनुभूतविषय- स्यासंप्रमोषस्तदनुभवजन्यमनुसंधानम् ॥पञ्चविधवृत्तिनिरोधसाधनं सूत्रयति- "अभ्यासवैराग्याभ्यां तनिरोधः" इति ॥ यथा तीव्रवेगोपेतं नदीप्रवाहं से- तुबन्धनेन निवार्य कुल्याप्रणयनेन क्षेत्राभिमुखं तिर्यक्रवाहान्तरमुत्पाद्यते ॥ तथा वैराग्येण चिचनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तः प्रवाहः संपावते ॥ मन्त्रजपदेवताध्यानादीनां क्रियारूपत्वेनाऽवृत्तिलक्षणोऽभ्यासःसंभा- व्यते ॥ सर्वव्यापारोपरमरूपस्य समाधेः को नामाभ्यास इति शङ्कां वारयितुं सू- यति-" तत्र स्थितौ यत्नोऽभ्यासः" इति ॥ स्थितिनैश्चल्यं निरोधः ॥ य- नो मानस उत्साहः ॥ स्वत एव बहिःप्रवाहशीलं चित्तं सर्वथा निरोधयामी- त्येवंविध उत्साह आवय॑मानोऽभ्यास इत्युच्यते ॥ अयमभ्यास इदानी प्रवृत्तः स्वयमदृढः सन्ननादिप्रवृत्ता व्युत्थानवासनाः कथमभिभवेदित्याशङ्कामपवदि- तुं सूत्रयति-" स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिरिति ॥ लोका १ ग. तमाहुः । ३ ग. स्थिरमिन्द्रियधारणम् । ३ घ. क्लिष्टानामक्लिष्टानामन्त; ङ. क्लिष्टाना. मप्यन्तर्भावः । ४ ग. घ. वृत्तीविशद। ५ घ. तत्र प्रत्यक्षानु। ६ घ. च. न स्वभावः । ७ ग. तमिस्तस्यातिरेके सति । ८ ङ. 'साधनसूत्रं पठति । ९ ग. तीव्रयोगोपेतं । १० घ. कुल्यानयनेन । ११ घ. समाधेः साधकः कोनाम । ARTHA मनोनाशप्र०] विद्यारण्यप्रणीतः हि मूढस्य वचनमुदाहरन्ति विद्यमानाश्चत्वार एव वेदास्तानध्येतुं गतस्य मा- णवकस्य पञ्च दिवसा अतीता अद्याप्यसौ नागत इति || तादृश एवायं योगी तदा स्याद्यदा दिवसैर्वा मासैर्वा योगसिद्धिं वाञ्छेत्तस्मात्संवत्सरैर्जन्मभिर्वा दी- र्घकालं योग आसेवितव्यः ॥ तथा च स्मर्यते- अनेकजन्मसंसिद्धस्ततो याति परां गतिम्" इति ।। चिरमासेव्यमानोऽपि यदि विच्छिद्यविच्छिद्य सेव्येत तर्युत्पद्यमानानां योगसंस्काराणां समनन्तरभाविभिर्युच्छेदकालीनैर्युत्थानसंस्कारैरभिभवे सति खण्डनकारोक्तन्याय आपतेत् ॥ अग्ने धावन्पश्चाल्लुप्यमानो विस्मरणशीलश्रु- तवत्किमालम्बेतेति ॥ तस्मानिरन्तरमासेवितव्यः सत्कार आदरः ॥ अनादरे- ण सेव्यमाने वसिष्ठोक्तन्याय आपतेत्- " अकर्तृ कुर्वदप्येतचेतश्चेत्क्षीणवासनम् । दूरं गतमना जन्तुः कथासंश्रवणे यथा ॥” इति ॥ अनादरो लयविक्षेपकषायमुखास्वादनानामपरिहारः ॥ तस्मादादरेण सेवि- तव्यः ॥ दीर्घकालादित्रैविध्येन सेवितस्य समाधेईढभूमित्वं नाम विषयमुखवा- सनया दुःखवासनया वा चालयितुमशक्यत्वम् ॥ तच्च भगवता दर्शितम्- यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिस्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥” इति ॥ अपरलाभस्यानाधिक्यं कचवृत्तान्तेन वसिष्ठ उदाजहार- कचः कदाचिदुत्थाय समाधेः प्रीतमानसः । एकान्ते समुवाचेदमेवं गद्गदया गिरा ॥ किं करोमि व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा ॥ सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च । इत आत्मा तथेहात्मा नास्त्यनात्ममयं जगत् ।। न तदस्ति यदत्राहं न तदस्ति न यन्मयि । किमन्यदभिवाञ्छामि सर्व संविन्मयं तंतम् ॥ स्फारब्रह्मामलाम्भोधिफेनाः सर्वे कुलाचलाः । चिदादित्यमहातेजो मृगतृष्णाजगच्छ्रियः ॥” इति ॥ PHARMANAND १ घ. योगाभ्यासः सेवितव्यः। २ घ. न्पश्चाल्लीयमानो। ३ ग. घ. स्वादानामपरिहरः। ४ ग. घ. वा वारयि। ५ घ. शान्तमानसः । ६ ग. घ. दमेको ग। ७ ग. घ. सर्व । ८ क. ख. ततो ह्यात्मा। ९ घ. ततः । १० ङ. स्वात्मब्रह्मा । ११ क. ख. च. "जगत्स्थितिः । HastSA ८२ mammi जीवन्मुक्तिविवेकः । [तृतीय गुरुदुःखेनाप्यविचाल्यत्वं शिखिध्वजस्य वत्सरत्रयसमाधिवृत्तान्तेनोदा- जहार- " निर्विकल्पसमाधिस्थं तत्रापश्यन्महीपतिम् । राजानं तावदेतस्माद्बोधयामि परात्पदात् ॥ इति संचिन्त्य चूडाला सिंहनादं चकार सा। भूयोभूयः प्रभोरग्रे वनेचरभयपदम् ।। न चचाल तदा राम यदा नादेन तेन सः । भूयोभूयः कृतेनापि तदासा तं व्यचालयत् ।। चालितः पातितोऽप्येष तदा नो बुबुधेऽबुधः ॥” इति ॥ प्रह्लादवृत्तान्तेनाप्येतदेवोदाजहार- " इति संचिन्तयन्नेव प्रहलादः परवीरहा। निर्विकल्पपरानन्दसमाधि समुपाययौ ।। निर्विकल्पसमाधिस्थश्चित्रार्पित इवाबभौ । पञ्चवर्षसहस्राणि पीनाङ्गोऽतिष्ठदेकदृक् ॥ महात्मन्संप्रबुद्धयस्वेत्येवं विष्णुरुदाहरत् । पाञ्चजन्यं मदध्मौ च ध्वनयन्ककुभां गणम् ॥ महता तेन शब्देन वैष्णवमाणजन्मना । बभूव संप्रबुद्धात्मा दानवेशः शनैःशनैः ॥" इति ॥ एवं वीतहव्यादीनामपि समाधिरुदाहरणीयः ॥ वैराग्यं द्विविधम् ॥ अपरं परं चेति । यतमानव्यतिरेकैकेन्द्रियवशीकारभेदैरपरं चतुर्विधम् ॥ तत्राऽऽधं त्रयमर्थात्सूत्रयन्साक्षाच्चतुर्थं सूत्रयति-"दृष्टानुविकविषयवितृष्णस्य वशीका- रसंज्ञावैराग्यम्" इति ॥ स्त्रक्चन्दनवनितापुत्रमित्रक्षेत्रधनादयो दृष्टाः। वेदोक्ताः स्वर्गादय आनुश्रविकाः ॥ तत्रोभयत्र सत्यामपि तृष्णायां विवेकतारतम्येन यतमानादिवैराग्यत्रयं भवति ॥ अस्मिञ्जगति किं सारं किमसारमिति गुरु- शास्त्राभ्यां ज्ञास्यामीत्युद्योगो यतमानत्वम् ॥१॥ स्वचित्ते पूर्व विद्यमानानां दो- षाणां मध्येऽभ्यस्पमानन विवेकेनैतावन्तो पक्का एतावन्तोऽवशिष्टा इति विवे- चनं व्यतिरेकः ॥ २॥ दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन तां प्रवृत्ति परित्यज्य मनसश्चौत्सुक्यमात्रेण तृष्णावस्थानमेकेन्द्रियत्वम् ॥ ३॥ वितृष्णत्वं वशीकारः॥ ४॥ तदिदमपरं वैराग्यमष्टाङ्गयोगप्रवर्तकत्वेन संपज्ञातस्यान्तरङ्ग- म् ॥ असंपज्ञातस्य तु बहिरङ्गम् ॥ तस्यान्तरङ्गपरं वैराग्यं सूत्रपति-"तत्परं १ घ. पीनांसोऽतिष्ठ। २ घ. जानामीत्युद्योगो । ३ क.व. अ. स्थापन'।
मनोनाशप्र०] विद्यारण्यप्रणीतः ८३ पुरुषख्यातेर्गुणवैतृष्ण्यम्" इति ॥ संघज्ञातसमाधिपाटवेन गुणत्रयात्मकात्म- धानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते ॥ तस्माच्च साक्षा. कारादशेषगुणत्रयव्यवहारे यद्वैतृष्ण्यं तत्परं वैराग्यम् । तस्य तारतम्येन स- माधेः शीघ्रत्वतारतम्यं सूत्रयति-"तीवसंवेगो नामासन्नः समाधिलाभः" इति ॥ संवेगो वैराग्यम् ॥ तद्भेदाद्योगिनस्त्रिविधाः ।। मृदुसंवेगा मध्यसंवेगा- स्तीवसंवेगाश्चेति ॥ आसन्नोऽल्पेनैव कालेन समापिलभ्यत इत्यर्थः ॥ तीव्रसंवे- गेष्वेव समाधितारतम्यं सूत्रयति-" मृदुमध्याधिमात्रत्वात्ततोऽपि विशेष इ- ति ॥ मृदुतीवो मध्यतीवोऽधिमात्रतीब इति ॥ तेष्वप्युत्तरोत्तरस्य त्वरया सि- द्विर्द्रष्टव्या ॥ उत्तमोत्तमा जनकप्रहलादादयोऽधिमात्रतीत्राः॥ मुहूर्तमान विचारे- ण दृढसमाधिलाभात् ।। अधमाधमा उद्दालकादयो मृदुसंवेगाः। चिरप्रयासेन तल्लाभात् ।। एवमन्येऽपि यथायोगमुन्नेयाः ॥ तदेवमधिमात्रतीत्रस्य दृढभूमाव- संप्रज्ञातसमाधौ लब्धे सति पुनव्र्युत्थातुमशक्यं सन्मनो नश्यति ॥ मनोना- शेन वासनाक्षये रक्षिते सति जीवन्मुक्तिः सुप्रतिष्ठिता भवति ॥ न च मनोना- शेन विदेहमुक्तिरेव न तु जीवन्मुक्तिरिति शङ्कनीयम् ॥ प्रश्नोत्तराभ्यां त- निर्णयात् ॥ श्रीरामः- " विवेकाभ्युदयाञ्चित्तस्वरूपेऽन्तहिते मुने ।। मैन्यादयो गुणाः कुत्र जायन्ते योगिनां वद ॥" वसिष्ठः- द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः ॥ प्राकृतं गुणसंभारं ममेति बहु मन्यते । मुखदुःखाद्यवष्टब्धं विद्यमानं मनो विदुः ।। चेतसः कथिता सत्ता मया रघुकुलोदह । अस्य नाशमिदानी त्वं शृणु प्रश्नविदां वर ॥ सुखदुःखदशा धीरं साम्यान प्रोद्धरन्ति यम् । निःश्वासा इव शैलेन्द्रं तस्य चित्तं मृतं विदुः ॥ आपत्कार्पण्यमुत्साहो मदो मान्धं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः॥ १ ग. घ. 'धिपरिपा । २ . रे वैतृष्ण्यं यत्तत्परं वै। ३ घ. च. 'भ्य दि। ४ घ. अ. सुख दुःखादयो धीरं। AAAAHRAINER जीवन्मुक्तिविवेकः। [चतुर्थ चित्तमाशाभिधानं हि यदा नश्यति राघव । मैत्र्यादिभिर्गुणैर्युक्तं तदा सत्त्वमुदेत्यलम् ॥ भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः । सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ॥ अरूपस्तु मनोनाशो यो मयोक्तो रघूदह । विदेहमुक्तावेवासौ विद्यते निष्कलात्मकः॥ समग्राम्यगुणाधारमपि सत्त्वं प्रलीयते । विदेहमुक्तावमले पदे परमपावने ॥ संशान्तदुःखमजडात्मकमेकरूपमानन्दमन्थरमपेतरजस्तमो यत् । आकाशकोशतनवोऽतनवो महान्तस्तस्मिन्पदे गलितचित्तलवा वसन्ति।" इति। जीवन्मुक्ता न मुह्यन्ति मुखदुःखरसस्थितौ । प्राकृतेनार्थकारेण किंचित्कुर्वन्ति वा न वा ॥" तस्मात्सरूपो मनोनाशो जीवन्मुक्तिसाधनमिति स्थितम् ।। इति जीवन्मुक्तिविवेके मनोनाशनिरूपणं नाम तृतीयं प्रकरणम् ॥ ३ ॥ अथ चतुर्थ स्वरूपसाधनप्रयोजनप्रकरणम् ॥ केयं जीवन्मुक्तिः, किंवा तत्र प्रमाणं, कथं वा तत्सिद्धिः, इत्येतस्य प्रश्नत्रयस्योत्तरं निरूपितम् ॥ 'सिद्धया वा किं प्रयोजनमित्यस्य चतुर्थ- प्रश्नस्योत्तरमिदानीमभिधीयते-ज्ञानरक्षातैपोविसंवादाभाव१ःखनाशमुखाविर्भा- वाः पञ्च प्रयोजनानि । ननु प्रमाणोत्पन्नस्य तत्त्वज्ञानस्य को नाम बाध- प्रसङ्गो येन रक्षाऽपेक्ष्यत इति चेदुच्यते ॥ चित्तविश्रान्त्यभावे संशयविपर्ययो प्रसज्येयाताम् ॥ तथा हि तत्त्वविदो राघवस्य विश्रान्तेः पूर्व संशयं विश्वामित्र उदाजहार- न राघव तवास्त्यन्यज्ज्ञेयं ज्ञानवतां वर । स्वयैव सूक्ष्मया बुद्धच्या सर्व विज्ञातवानसि ।। भगवद्यासपुत्रस्य शुकस्येव मतिस्तव | विश्रान्तिमात्रमेवात्र ज्ञातज्ञेयाप्यपेक्षते (?) ||" इति ॥ शुकस्तु स्वयमेवादौ तत्त्वं विदित्वा तत्र संशयानः पितरं पृष्ट्वा पित्रा तथै- १ ङ. संशान्तरूपमज । २ अयं श्लोकः क. ख. ग. घ. च. पुस्तकेषु नास्ति । ३ घ. च. सि- दौ । ४ ग. दृष्ट्वा ।
WINAR स्वरूपसाधनप.] विद्यारण्यमणीतः ८५ वानुशिष्टस्तथापि संशयानो जनकमुपासाद्य तेनापि तथैवानुशिष्टस्तं प्रत्येवमु- वाच ॥ श्रीशुकः- " स्वयमेव मया पूर्वमेतज्ज्ञातं विवेकतः । ऐतदेव च पृष्टेन पित्रा में समुदाहृतम् ॥ भवताप्येष एवार्थः कथितो वाग्विदां वर । एष एव च वाक्यार्थः शास्त्रेषु परिदृश्यते ॥ यथाऽयं स्वविकल्पोत्थः स्वविकल्पपरिक्षयात् । क्षीयते दग्धसंसारो निःसार इति निश्चयः ॥ तत्किमेतन्महाबाहो सत्यं ब्रूहि ममाचलम् । त्वत्तो विश्राममाप्नोति चेतसा भ्रमता जगत् ॥ जनकः- नातः परतरः कश्चिनिश्चयोऽस्त्यपरो मुने । स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ॥ अव्युच्छिन्नश्चिदात्मैकः पुमानस्तीह नेतरत् । स्वसंकल्पवशागद्धो निःसंकल्पस्तु मुच्यते ।। तेन त्वया स्फुटं ज्ञानं ज्ञेयं स्वस्य महात्मनः । भागेभ्यो विरतिर्जाता दृश्याद्वा सकलादिह ।। प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा । नं दृश्ये यतसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज । अनुशिष्टः स इत्येवं जनकेन महात्मना । विशश्राम शुकस्तूष्णी स्वस्थे परमवस्तुनि ॥ वीतशोकभयायासो निरीहश्छिन्नसंशयः । जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ।। तत्र वर्षसहस्राणि निर्विकल्पसमाधिना । देश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥” इति ॥ तस्माद्विदितेऽपि तत्त्वे विश्रान्तिरहितस्य शुकराघवयोरिव संशय उत्पद्य- ते ॥ स चाज्ञानमिव मोक्षस्य प्रतिबन्धकः ॥ अत एव भगवतोक्तम्- १ ङ. 'मुपससाद । २ क. स्व. ग. घ. ऐतदेव हि । ३ ङ. 'संसार असार । ४ ग. घ. च. भ्रान्तिं । ५ च. अविच्छिन्नविदात्मैकः । ६ ख. ग. घ. नेतरः । ७ ग. घ. भोगेऽप्यरति; च. भागे. भ्योऽपरति । ८ च. न रश्यं तपसि ब्र। ९ ग. देशे ; घ. दृढं । १०. रहितशुकराघवं । "httArAUR जीवन्मुक्तिविवेकः। [चतुर्थ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न मुखं संशयात्मनः ॥" इति ॥ अश्रद्धा विपर्ययः ॥ स चोत्तरत्रोदाहरिष्यते ॥ अज्ञानविपर्ययौ मोक्षमात्र- विरोधिनौ ॥ संशयस्तु भोगमोक्षयोरुभयोरपि विरोधी ॥ तस्य परस्परविरुद्ध- कोटिद्वयावलम्बित्वात् ॥ यदा संसारमुखाय प्रवृत्तिस्तदा मोक्षमार्गे बुद्धिस्तां निरुणद्धि ॥ यदा च मोक्षमार्गे प्रवृत्तिस्तदा संसारबुद्धिस्तां प्रतिबध्नाति ॥ त- स्मात्संशयात्मनो न किंचित्सुखमस्तीति मुमुक्षुणा सर्वथा संशयाश्छेत्तव्याः ॥ अत एव श्रूयते-"छिद्यन्ते सर्वसंशयाः" इति ॥ विपर्ययस्यापि निदाघ उदा- हरणम् ॥ ऋभुः परमकरुणया निदाघस्य गृहमेत्य बहुधा तं बोधयित्वा निर्ज- गाम ॥ बुद्धेऽपि तदुपदिष्टवस्तुन्यश्रद्दधानो निदाघः कर्माणि परमपुरुषार्थहेतु- रिति विपर्ययं प्राप्य कर्मानुष्ठाने यथापूर्व प्रवृत्तः ॥ सोऽपि शिष्यस्य परमपुरु- पार्थनंशो मा भूदिति कृपया गुरुः पुनरागत्य बोधयामास ॥ तदापि विपर्ययं न जहौ । तृतीयेन तु बोधनेन विपर्ययं परित्यज्य विश्रान्तिमलभ[त]त् ॥ सं- शयविपर्ययाभ्यामसंभावनाविपरीतभावनारूपाभ्यां तत्त्वज्ञानस्य फलं प्रतिबध्य- ते ॥ तदुक्तं पराशरेण- " मणिमन्नौषधैर्वह्निः मुदीप्तोऽपि यथेन्धनम् । प्रदग्धुं नैव शक्तः स्यात्मतिबद्धस्तथैव च ॥ ज्ञानाग्निरपि संजातः प्रदीप्तः मुद्दढोऽपि च । प्रदग्धुं नैव शक्तः स्यात्मतिबद्धस्तु केल्मषम् ॥ भावना विपरीता या या चासंभावना शुक । कुरुते प्रतिबन्धं सा तत्त्वज्ञानस्य नापरम् ॥” इति ॥ तस्मादविश्रान्तचित्तस्य संशयविपर्ययमसङ्गेन तत्त्वज्ञानस्य फलप्रतिबन्ध- लक्षणाद्वाधाद्रक्षाऽपेक्ष्यते ॥ विश्रान्तचित्तस्य तु मनोनाशेन यदा जगदेव प्रवि- लीयते तदा संशयविपर्यययोः कः प्रसङ्गः॥ जगत्प्रतिभासरहितस्य ब्रह्मविदो देहव्यवहारोऽपि विनैव प्रयत्नं परमेश्वरमेरितेन माणवायुना निष्पद्यते ॥ अत एव छन्दोगा आमनन्ति-"नोपजन स्मरनिदं शरीरं स यथा प्रयोग्य आचर- णे युक्त एवमेवायमस्मिञ्शरीरे प्राणो युक्तः" इति ॥ उपजनं जनानां समीपे वर्तमानमिदं शरीरं न स्मरन्ब्रह्मविद्वर्तते ॥ पार्श्वस्थजना एव तत्त्वविदः शरीरं १ ङ, मार्गबु। २ इ. मोक्षाय प्र। ३ च. मुमुक्षुणा संशयः सर्वथा छेत्तव्यः । ४ क. ख. घ. कर्माण्येव; ग. कर्मण्येव; च. कर्मैव । ५ ग. कल्मषैः। ६ ख. जगत्प्रतिबोधरहितस्य । ७ ग. प्रयोगे आ। ८ ङ, युक्तपूर्वमेवायम।
८७ स्वरूपसाधनप्र०] विद्यारण्यमणीतः पश्यन्ति ॥ स्वयं तु निर्मनस्कत्वान्मदीयं शरीरमिति न स्मरति ॥ अयोग्यो रथ- शकटादिवहने प्रयोक्तुमईः शिक्षितोश्चबलीवर्दादिः स यथा सारथिना मार्गस्या- चरणे प्रेरितः पुनःपुनः सारथिप्रयत्नमनपेक्ष्य स्वयमेव रथशकटादिकं पुरोव- तिग्रामं नयति एवमेवायं प्राणवायुः परमेश्वरेणास्मिन्शरीरे नियुक्तः सत्यसति वा जीवप्रयत्ने व्यवहारं निर्वहति ॥ भागवतेऽपि स्मर्यते- " देहं विनश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः॥" इति ॥ वसिष्ठोऽप्याह- " पार्श्वस्थबोधिताः संतः पूर्वाचारक्रमागतम् । आचारमाचरन्त्येव मुप्तबुद्धवदक्षताः॥” इति ॥ सिद्धो न पश्यत्याचारमाचरतीत्युभयोः परस्परविरोध इति चेन्न ॥ विश्रा- तितारतम्येन व्यवस्थोपपत्तेः॥ तदेव तारतम्यमभिमेत्य श्रूयते-"आत्म- क्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः" इति । अत्र चत्वारः प्रतीयन्ते ॥ ब्रह्मवित्पथमः, ब्रह्मविद्वरो द्वितीयः, वरीयांस्तृतीयः, वरिष्ठश्चतुर्थः ॥ त एते सप्तमु योगभूमिषु चतुर्थी योगभूमिमारभ्य क्रमेण भूमिचतुष्टयं प्राप्ता इत्यवगन्त- व्यम् ॥ भूमयश्च वसिष्ठेन दर्शिताः- ज्ञानभूमिः शूभेच्छा स्यात्प्रथमा समुदाहृता । विचारणा द्वितीया स्यातृतीया तनुमानसा ।। सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ॥” इति ॥ स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनः । "वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् । सद्विचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता। यत्र सा तनुतामेति प्रोच्यते तनुमानसा ॥ भूमिकात्रितयाभ्यासाचित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ दशाचतुष्टयाभ्यासादसंसर्गफला तु या । १ घ. निर्वाहयति । २ ख. ङ. देहं च नश्वर । ३ क. ख शुभेच्छाख्या प्रथमा परिकीर्तिता। ४ घ. वैराग्य शुभयोरिच्छा प्रथमा प्रोच्यते बुधैः।५५. 'मिन्द्रियार्थेप्यक्तिता; ख. च. "मिन्द्रियार्थेष्व- " SAINARIANTRA ८८ जीवन्मुक्तिविवेकः। [चतुर्थ रूढसत्त्वचमत्कारा मोक्ता संसक्तिनामिका ॥ भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभासनात् ॥ परमयुक्तेन चिरं प्रयत्नेनावबोधनम् । पदार्थाभाविनीनाम षष्ठी भवति भूमिका ॥ भूमिषटुचिराभ्यासानेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः॥" इति ॥ अत्र भूमिकात्रितयं ब्रह्मविद्यायाः साधनमेव न तु विद्याकोटावन्तर्भवति ॥ भूमित्रये भेदसत्यत्वबुद्धेरनिवारितत्वात् । अत एवैतज्जागरणमिति व्यपदिश्य- ते ॥ तदुक्तम्- " भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्थितम् । यथावतेंदबुद्धये जगज्जाग्रति दृश्यते ॥” इति ॥ ततो वेदान्तवाक्यानिर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फल- रूपा सत्त्वापत्तिः ॥ चतुर्थभूमौ सर्वजगदुपादानस्य ब्रह्मणो वास्तवमद्वितीयस- त्तास्वभावं निश्चित्य ब्रह्मण्यारोपितयोर्जगच्छब्दाभिधेययोर्नामरूपयोमिथ्यात्व- मवगच्छति ॥ मुमुक्षोः पूर्वोक्तजागरणापेक्षयेयं भूमिः स्वप्नः ॥ तदाह- " अद्वैते स्थैर्यमायाते द्वैते च पँथमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थी भूमिकामिताः ॥ 'विच्छिन्नशरदश्नांशविलयं प्रविलीयते । स्वस्वेतरं च सन्मानं यत्मबोधादुपासते योगिनः सर्वभूतेषु सद्रूपान्नौमि तं हरिम् । सत्तावशेष एवाऽऽस्ते चतुर्थीभूमिकामितः ॥” इति ।। सोऽयं चतुर्थी भूमिकां प्राप्तो योगी ब्रह्मविदित्युच्यते॥ पञ्चम्यादयस्तिस्रो भूमयो जीवन्मुक्तेरवान्तरभेदाः॥ ते च "निर्विकल्पसँमाध्यभ्यासबलेन विश्रा- न्तितारतम्यन संपद्यन्ते ॥ पञ्चमभूमौ निर्विकल्पकोत्तदा स्वयमेव व्युत्तिष्ठति ॥ १ ख. च. अभ्यन्तराणां । २ क. ख. च. 'मभावनात् । ३ ख. ग. घ. त्वबुद्धेनिवर्तितत्वा- तु; च. 'त्वबुद्धेनियतत्वात् । ४ क. ख. ग. ङ. च. पुस्तकेषु तत इत्यारभ्य सत्त्वापत्तिरित्यन्तो विषयो नास्ति । ५ ख. ग. घ. च. पूर्वोक्तं जागरणमपक्ष्य सेयं । ६ क. ख. ग. द्वैते चोपरति गते । ७ च. प्रशममागते; घ. प्रशमं गते। ८ च. भूमिकां गताः। ९ घ. विच्छिन्नं शरदभ्राक्षं विलाप्यं प्रवि। १० च. शरदभ्रांशवलोकः प्रवि। ११.क. ख. ग. घ. पुस्तकेष्वयं श्लोको नास्ति । १२ ग. घ. च. चतुर्थभामें प्राप्तो। १३ ख. ग. घ. निर्विकल्पकसमाध्यभ्यासकृतेन विश्रा । १४ च. समाध्यभ्यासेन कृतचित्तविश्रा। १५ङ, 'कात्समाधेस्तदा।
स्वरूपसाधनम०] विद्यारण्यप्रणीतः ८९ सोऽयं योगी ब्रह्मविद्वरः॥ षष्ठभूमौ पार्श्वस्थैर्बोधितो व्युत्तिष्ठति ॥ सोऽयं ब्रह्म- विद्वरीयान् ॥ तदेतद्भूमिद्वयं सुषुप्तिर्गाढसुषुप्तिरिति चाभिधीयते ॥ तदाह- " पञ्चमी भूमिकामेत्य सुषुप्तिपदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्पद्वैतमात्रके ॥ अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् । पैरिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ कुर्वन्नभ्यासमैतस्यां भूमिकायां विवासनः । षष्ठी गाढमुषुप्याख्या क्रमात्पतति भूमिकाम् ॥ यत्र नासम्म सद्रूपो नाई नाप्यनहङ्कतिः । केवलं क्षीणमनन आस्ते द्वैतैक्यनिर्गतः ॥ अद्वैत केचिदिच्छन्ति द्वैतमिच्छन्ति केचन । समं ब्रह्म न जानन्ति द्वैताद्वैतविवर्जितम् ॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे ॥ इति ॥ गाढं निर्विकल्पसमाधि प्राप्तस्य संस्कारमात्रशेषस्य चित्तस्य मनोराज्यं क- तुं बाह्यपदार्थान्गृहीतुं वा सामर्थ्याभावादाकाशावस्थितकुम्भवदन्तर्बहिः शून्य- त्वम् ॥ स्वयंप्रकाशसचिदानन्दैकरसे ब्रह्मणि निममत्वेने बहिश्च सर्वत्र ब्रह्म- ष्टया समुद्रमध्यस्थापितजलपूर्णकुम्भवदन्तर्बहिः पूर्णत्वम् ॥ तुरीयाभिधां सप्तमी भूमि प्राप्तस्य योगिनः स्वतः परतो वा व्युत्थानमेव नास्तीति ।। ईदृशमेवोद्दि- श्य "देहं विनश्वरमवस्थितमुत्थितं च" इत्यादिभागवतवाक्यं प्रवृत्तम् ॥असंभ- ज्ञातसमाधिप्रतिपादकानि योगशास्त्राण्यत्रैव पर्यवसितानि ॥ सोऽयमीहशो यो- गी पूर्वोदाहृतश्रुतौ ब्रह्मविद्वरिष्ठ इत्युच्यते ॥ तदेवं पार्श्वस्थबोधितः सिद्धो न पश्यतीत्यनयोभूमिद्वैयेन व्यवस्थितत्वान कोऽपि विरोधः ॥ तंत्रायं संग्र- हः ॥ पञ्चम्यादिभूमित्रयरूपायां जीवन्मुक्तो संपाद्यमानायां द्वैतप्रतिभासाभावेन संशयविपर्ययप्रसङ्गाभावादुस्पन्नं तत्त्वज्ञानमबाधेन रक्षितं भवति ॥ सेयं ज्ञानर- क्षा जीवन्मुक्तेः प्रथमं प्रयोजनम् ॥ तपो द्वितीयं प्रयोजनम् ॥ योगभूमीनां "देवत्वादिमाप्तिहेतुतया तपस्त्वं द्रष्टव्यम् ॥ तद्धेतुत्वं चार्जुनभगवतोः श्रीरामव. सिष्ठयोश्च प्रश्नोत्तराभ्यामवगम्यते ॥ १ . शान्ताशेषांशयुग्धीमास्तिष्ठ। २ च. उपशान्ततया । ३ क. न. 'मेतस्या ममिकाया विवासनः । ४ च. स्वप्रका। ५ ग. घ. ङ. 'न समु। ६ घ. "ति ता"। ७ च. पर्यवस्यन्ति । ८ च. योगी आत्मक्रीडेति पूर्वो। ९ ग. ङ. द्वये व्यव। १० घ. पुस्तके तत्रायं संग्रह इत्यधिकम् । ११ क. ख. देवत्वप्राप्ति; ङ. देवत्वादिषदप्राप्तिहेतुतया; च. देवत्वहेतुतया । १२ जीवन्मुक्तिविवेकः । [चतुर्थ अर्जुन उवाच- "अयतिः श्रद्धयोपेतो योगाचलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ कच्चिन्नोभयविभ्रष्टश्छिन्नानमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।। भगवानुवाच- "पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिदुर्गति तात गच्छति ॥ अर्जुन उवाच- ऐतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न छुपपद्यते ॥ भगवानुवाच- प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥” इति ॥ श्रीराम उवाच एकामथ द्वितीयां वा तृतीयां भूमिकामुत । आरूढस्य मृतस्याथ कीदृशी भगवन्गतिः॥ वसिष्ठ उवाच- " योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः । भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ।। ततः मुरविमानेषु लोकपालपुरेषु च । मेरूपवनकुलेषु रमते रमणीसखः । ततः मुकृतसंभारे दुष्कृते च पुरा कृते । भोगक्षयपरिक्षीणे जायन्ते योगिनो भुवि ।। शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् । १ क. ख. ग. घ. पुस्तकेषु पार्थेति श्लोकद्वयं नास्ति । २ च. पुस्तके त्वयमेक एव श्लोको नास्ति।३ घ. भुक्ते सु।
स्वरूपसाधनम] विद्यारण्यप्रणीतः ९१ तत्र माग्भावनाभ्यस्तं योगभूमित्रयं बुधः । पृष्ट्वोपरितनान्युच्चैरुत्तमं भूमिकाक्रमम् ॥” इति ॥ अस्त्येवं योगभूमीनां देवलोकमाप्तिहेतुत्वम् ॥ तावता तपस्त्वं कुत इति चेच्छुतेरिति श्रूमः ॥ तथा च तैत्तिरीया आमनन्ति-" तपसा देवा देवतामग्र आयस्तपसर्षयः सुवरन्वविन्दन्निति " ॥ तत्त्वज्ञानात्माचीनस्य भूमिकात्रयस्य तत्त्पस्त्वे सति तत्त्वज्ञानस्योत्तरकालीनस्य निर्विकल्पसमाधिरूपस्य पञ्चम्या- दिभूमिकात्रयस्य तपस्त्वं कैमुतिकन्यायसिद्धम् ॥ अत एव स्मर्यते- " मनसश्चेन्द्रियाणां च ऐकायं परमं तपः । तजयायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ।।" इति ॥ यद्यप्यनेन न्यायेन तपसा माप्यं जन्मान्तरं नास्ति तथापि लोकसंग्रहायेदं तप उच्यते ॥ अत एव भंगवानाह- " लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥" इति ॥ संग्राबश्च लोकत्रिविधः । शिष्यो भक्तस्तटस्थश्चेति । तत्र शिष्यस्यान्तर्मुखे योगिनि गुरौ प्रामाणिकत्वबुद्धयतिशयेन तदुपदिष्टे तवे परमं विश्वासं प्राप्य चित्तं सहसा विश्राम्पति ।। अत एव श्रूयते- यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता बर्थाः प्रकाशन्ते महात्मनः ॥" इति ।। स्मर्यते च- " श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ " इति । अन्नप्रदाननिवासस्थानकल्पनादिना योगिनं सेवमानो भक्तस्तदीयं तपः स्व- यमेवाऽऽदत्ते । तथा च श्रूयते-“तस्य पुत्रा दायमुपयन्ति मुहृदः सधुकृत्यां द्विषन्तः पापकृत्याम्" इति ॥ तटस्थोऽपि द्विविधः आस्तिको नास्तिकश्चे- ति । तत्रास्तिको योगिनः सन्मार्गाचरणं दृष्ट्वा स्वयमपि सन्मार्गे प्रवर्तते ।। तथा च स्मृतिः- " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ " इति । नास्तिकोऽपि योगिना दृष्टः पापान्मुच्यते ।। तदुक्तम्- SAINMENT १ . च. 'भूमिक्रमं बुधः । २ घ. युक्तः परिपतत्यु.। ३ क. ख. च. नात्युश्चैरुत्तरं भू। ४ घ. आस्त। ५ ग. घ. यः स्वर। ६ ख. ग. घ. पस्त्वेन तत्व। ७च. स्मर्यते-1 ८ ग. 'यश्चा- न्तर्मुखे । ९ घ. सामार्गाचरणादेव स्व'; च. सन्मार्ग । १० ख. घ. तदुक्तम् । NATURANTAR ९२ womemail जीवन्मुक्तिविवेकः। [चतुर्थं " पस्यानुभवपर्यन्ता तत्त्वे बुद्धिः प्रवर्तते । तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥” इति ॥ अनेन प्रकारेण सर्वपाण्युपकारित्वं विवक्षितत्वात्पश्यते- "नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनि- पज्ञानां च सहस्रमिष्टमखिला देवाश्च संपूजिताः । संसाराच्च समुदृताः स्वपितरत्रैलोक्यपूज्योऽप्यसो यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् ।। कुलं पवित्रं जननी कृतार्था विश्वभरा पुण्यवती च तेन । अपारसंवित्मुखसागरेऽस्मिल्लीनं परे ब्रह्मणि यस्य चेतः॥" इति । न केवलं योगिनः शास्त्रीयव्यवहारस्यैव तपस्त्वं, किंतु सर्वस्यैव लौकि- कव्यवहारस्यापि ॥ तथाच तेत्तिरियाः स्वशाखायां प्रथमेनानुवाकेन विदु- षोऽपि महिमानमामनन्ति ॥ तस्मिंश्चानुवाके पूर्वभागे योगिनोऽवयवा यज्ञाङ्ग- द्रव्यत्वेनाम्नाता:-"तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः श्रद्धा पत्नी शरीर- मिध्ममुरो वेदिौमानि बहिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशु- स्तपोऽनिर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्मा श्रोत्रमनीत्" इति । अत्र च दानं दक्षिणेति पदमध्याहर्तव्यम् ॥ "अथ यत्त- पोदानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणा" इति छन्दोगैरा- नातत्वात् ॥ उक्तानुवाके मध्यभागेन योगिव्यवहारास्तज्जीवनकलाश्च ज्योतिष्टो- मावयवक्रियारूपत्वेनोत्तरसर्वयज्ञावयवक्रियारूपत्वेन चाऽऽन्नाता: यावद्धि- यते सा दीक्षा यदनाति तद्धविर्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यत्संचरत्युपविशत्युत्तिष्ठते च स प्रवर्यो यन्मुखं तदाहवनीयो या व्याहृतिरा- हुतिर्यदस्य विज्ञानं तज्जुहोति यत्सायं प्रातरत्ति तत्समिधं यत्पातमध्यंदिन५ सायं च तानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः सर्ववेदसं वा एतत्सत्रं यन्मरणं तदवभृथः०"इति ॥ सर्ववेदसं सर्वस्वदक्षिणाक- म् । अत्रैतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तं सर्वकालसमष्टयुपलक्षितं यो- गिन आयुर्विवक्षते । यदायुस्तत्सर्वस्वदक्षिणोपेतं सत्रमित्यर्थः॥ उत्तरानुवाके च- रमभागेन सर्वयज्ञात्मकं योगिनमुपासीनस्य क्रममुक्तिरूपं सूर्याचन्द्रमसोः कार्य- १ अयं श्लोको इ. पुस्तक एवं वर्तते । २ क. ख. घ. वसुंधरा । ३ च. शाखायां नाराय- णस्यान्तिमेना। ४ ख. ग. घ. यज्ञात्वेनाऽऽन्नाताः ।५ घ. मयिता । ६ ग. घ. तत्समिधो। ७ घ. 'नश्यत्साये।
खरूपसाधनम.] विद्यारण्यमणीतः ९३ कारणब्रह्मणोस्तादात्म्यलक्षणं फलमान्नायते-"एतद्वै जरामर्यमग्निहोत्र सत्रं य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यर सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोमहिमानौ ब्राह्मणो विद्वानभिजयति त- स्माद्ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानम् ॥" इत्युपनिषदिति ॥ जरामरणावधिकं यद्योगिचरितमस्ति तद्वेदोक्ताग्निहोत्रादिसंवत्सरसत्रान्तकर्मस्व. रूपमित्येवमुपासीनो भावनातिशयेन सूर्याचन्द्रमसोः सायुज्यं तादात्म्यं प्राप्नो- ति ॥ भावनामान्यन समानलोकं प्राप्य तस्मिन्लोके सूर्याचन्द्रमसोर्विभूतिमनु- भूय तत ऊवं सत्यलोके चतुर्मुखस्य ब्रह्मणो महिमानमाप्नोति ॥ तत्रोत्पन्न- तत्त्वज्ञानस्तत ऊर्ध्व सत्यज्ञानानन्दरूपस्य परब्रह्मणो महिमानं कैवल्यं प्राप्नो- ति ॥ इत्युपनिषदित्यनेन यथोक्तविद्यायास्तत्मतिपादकग्रन्थस्य चोपसंहारः क्रियते ॥ तदेवं जीवन्मुक्तेस्तपोरूपं द्वितीयं प्रयोजनं सिद्धम् ॥ विसंवादाभावा- त्तस्यास्तृतीयं प्रयोजनम् ॥ न खल्वन्तर्मुखे बाद्यव्यवहारमपश्यति योगीश्वरे लौकिकस्तैथिको वा कश्चिद्विसंवदते ॥ विसंवादो द्विविधः ॥ कलहरूपो नि- न्दारूपश्च ॥ तत्र क्रोधादिरहितेन योगिना सह कथं नाम लौकिकः कलहायते॥ तद्राहित्यं च स्मर्यते- " क्रुध्यन्तं न प्रति क्रुध्येदोक्रुष्टः कुशलं वदेत् । अतिवादांस्तितिक्षेत नावमन्येत कंचन ॥” इति । ननु जीवन्मुक्तेः प्राचीनो विद्वत्संन्यासस्ततोऽपि प्राचीनं तत्त्वज्ञानं तस्माद- पि प्राचिनो विविदिषासंन्यासः ॥ अत्रैते क्रोधादिराहित्यादयो धर्माः कथं स्मृता इति चेत् ॥ बाढम् ॥ अत एव जीवन्मुक्तस्य क्रोधादयः शङ्कितुमश- क्याः । अत्यर्वाचीने पदे विविदिषासंन्यासेऽपि यदा क्रोधादयो न सन्ति त- दोत्तमपदे तत्त्वज्ञाने कुतस्ते स्युः, कुतस्तरां च विद्वत्संन्यासे, कुतस्तमां च जीवन्मुक्तौ ।। अतो न योगिना सह लौकिकस्य कलहः संभवति ॥ नापि नि- न्दारूपो विसंवादः शङ्कनीयः ॥ निन्द्यस्यानिश्चितत्वात् ॥ तथा च स्मर्यते- यन्न सन्तं न चासन्तं नाश्रुतं न बहु श्रुतम् । न मुवृत्तं न दुर्वृत्तं वेद कश्चित्स वै यतिः ॥" इति ।। सदसत्त्वे उत्तमाधमजातिरिति ॥ तैथिकोऽपि किं शास्त्रप्रमेये विसंवदते , घ. ङ. सायुज्य सलोकतां ग । २ च. भूयात । ३ घ. 'ज्ञानेन तत। ४ घ. लौकिको विसंवादो। ५ च. दापृष्टः कु। ६ च. तत्रैव ते । ७ क. ख. धर्माः स्मृता'; ग. धर्माः कथं स्मर्यन्ते; च. 'धर्माः ॥ अत्रैव ते क्रोधराहित्यादयो धर्माः कथं स्मृता । ८ क. ख. अतोऽनेन योगिना । APNA Dow ९४ जीवन्मुक्तिविवेकः। [चतुर्थ किंवा योगचरिते ॥ आंधे न तावद्योगी परशास्त्रप्रमेयं दूषयति-" तमेवैकं जौनथ आत्मानमन्या वाचो विमुञ्चथ ॥ नानुध्यायेदहशब्दान्वाचो विग्ला- पनं हि तत्" इत्यादि श्रुत्यनुरोधात् ॥ नापि स्वशास्त्रप्रमेयं प्रति वादिनोऽग्रे समर्थयते- " पलालमिव धान्यार्थी त्यजेद्वन्थमशेषतः । परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सजेत् ॥ इत्यादि श्रुत्यर्थपरत्वात् ॥ यदा प्रतिवादिनमपि स्वात्मतया वीक्षते तदा विजिगीषायाः का कथा || नापि लोकायतिकव्यतिरिक्तः सर्वोऽपि तैथिको मोक्षमङ्गीकुर्वन्योगियरितेऽपि विसंवदितुमर्हति ॥ आईतबौद्धवैशेषिकनैया- यिकशैववैष्णवशाक्तसालययोगादिमोक्षशास्त्रेषु प्रतिपाद्यप्रमेयस्य नानाविधत्वे- ऽपि मोक्षसाधनस्य यमनियमाद्यष्टाङ्गयोगस्यैकविधत्वात् ॥ तस्मादविसंवादेन सर्वसंमतो योगीश्वरः॥ एतदेवाभिप्रेत्य वसिष्ठ आह- " यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते । विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ॥ आर्यता हृद्यता मैत्री सौम्यता मुक्तता ज्ञता । समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः ॥ पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः । वेणुं मधुरनिध्वानं वने वनमृगा इव ॥ सुषुप्तवत्मशमितभाववृत्तिना स्थितः सदा जाग्रति येन चेतसा । कलान्वितो विधुरिव यः सदा बुधैर्निषेव्यते मुक्त इतीह स स्मृतः॥" इति ॥ " मातरीव शमं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥" इति ॥ तदेवमबाधं जीवन्मुक्तेविसंवादाभावरूपं तृतीयं प्रयोजनं सिद्धम् ॥ दुःखना- शमुखाविर्भावरूपे चतुर्थपञ्चममयोजने विद्यानन्दात्मके ब्रह्मानन्दगतेन चतुर्था- ध्यायेन निरूपिते तदुभयमत्र संक्षिप्योच्यते- "आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत् ॥" १ ग. आद्येन तद्योगी; घ. आयेन तु तावद्योगी; च. आद्येऽपि न ताव। २ ग. ध. च. जा- नीय । ३ च. नानुध्यायान्बड्ञ्छब्दानिइत्यादि श्रुत्यर्थतात्पर्यात् । ४ घ. अर्हतबौद्ध'; , आईतका. पालिकबौद्ध। ५ क, ख, तमासेव महा। ६ इ. च. विद्यानन्दनामके । MAHamal १५ स्वरूपसाधनम.] विद्यारण्यप्रणीतः। इत्यादिश्रुत्या दुःखस्यैहिकस्य विनाश उक्तः ॥ एतह वाव न तपति किमहर साधु नाकरवं किमहं पापमकरवम्" इत्यादिश्रुतय आमुष्मिकहेतुपु- ण्यपापचिन्तारूपस्य दुःखस्य नाशमाहुः।। मुखाविर्भावस्नेधा ॥ सर्वकामावाप्तिः, कृतकृत्यत्वं, प्राप्तप्राप्तव्यं चेति । सर्वकामावाप्तिवेधा ॥ सर्वसाक्षित्वं, सर्वत्राका- महतत्वं, सर्वभोक्तृरूपत्वं चेति ॥ हिरण्यगर्भादिस्थावरान्तेषु देहेष्वनुगतं सा- क्षिचैतन्यरूपं यद्ब्रह्म तदेवाहमस्मीति जानतः स्वदेह इव परदेहेष्वपि सर्वका- मसाक्षित्वमस्ति ॥ तदेतदभिप्रेत्य श्रूयते-" सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" इति ॥ लोके भुक्तेषु भोगेष्वकामहतत्वं यत्तत्काममाप्तिरित्युच्य- ते ॥ तथा च सर्वभोगदोषदर्शिनस्तत्त्वविदः सर्वत्राकामहतत्वादस्तिं सर्वकामा- वाप्तिः॥अत एव सार्वभौमोपक्रमेषु हिरण्यगर्भपर्यन्तेषूत्तरोत्तरशतगुणेष्वानन्देषु "श्रोत्रियस्य चाकामहतस्य" इति श्रुतम्॥ सद्रूपेण चिद्रूपेणाऽऽनन्दरूपेण च सर्वत्रावस्थितं स्वात्मानमनुसंदधतः सर्वभोक्तृत्वमस्तीत्यभिप्रेत्यैवं श्रूयते-"अ- हमनमहमन्नमहमन्नम् ।। अहमन्नादोऽहमभादोऽहमभादः" इति ॥ कृतकृत्यत्वं तु स्मर्यते- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥” इति ॥ प्रॉप्तमाप्यताऽपि श्रूयते-"अभयं वै जनक प्राप्तोऽसि" इति ॥" तस्मा- तत्सर्वमभवत् " इति ॥ "ब्रह्म वेद ब्रह्मैव भवति" इति च ॥ नन्वेतौ द्वौ दुः- खविनाशमुखाविर्भावौ तत्त्वज्ञानेनैव सिद्धत्वान्न जीवन्मुक्तिप्रयोजनतामहंतः॥ मैवम् ॥ सुरक्षितयोस्तयोरत्र विवक्षितत्वात् ॥ तथा तत्त्वज्ञानं पूर्वमेवोत्पन्नमपि जीवन्मुक्त्या सुरक्षितं भवति, एवमेतावपि सुरक्षितौ भवतः ॥ नन्वेवं जीवन्मु- तेः पञ्चप्रयोजनत्वे सति समाहितो योगीश्वरो लोकव्यवहारं कुर्वतस्तत्त्वविदोs- पि श्रेष्ठ इति वक्तव्यम् ॥ तच्च रामवसिष्ठयोः प्रश्नोत्तराभ्यां निराकृतम् ।। श्रीरामः- भगवन्भूतभव्येश कश्चिज्जातसमाधिकः । प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन् ॥ maa ॥ १ च. 'स्ति का। २ च. हिरण्यगर्भान्ते'। ३ . भोक्तरूपत्वमस्ती। ४ घ. च. प्राप्त- प्राप्तब्यता'। ५ घ. ब्रह्मविद्रह्मैव । ६ घ. 'न्मुत्तौ मुं। ७ ग. कश्चिज्ज्ञानसमा; घ. कश्चिजातु समा। AranMSANSAR जीवन्मुक्तिविवेकः । [चतुर्थ कश्चिदेकान्तमाश्रित्य समाधिनियमे स्थितः । तयोस्तु कतरः श्रेयानिति मे भगवन्वद वसिष्ठः-- " ईमं गुणसमाहारमनात्मत्वेन पश्यतः । अन्तःशीतलता याऽसौ समाधिरिति कथ्यते ॥ दृश्यैर्न मम संबन्ध इति निश्चित्य शीतलः । कश्चित्संव्यवहारस्थः कश्चिद्धयानपरायणः॥ द्वावेतौ राम मुंसमावन्तश्चेत्परिशीतलौ। अन्तः शीतलता या स्यात्तदनन्ततपःफलम् ॥” इति ॥ नैष दोषः ॥ अत्र वासनाक्षयरूपमन्तःशीतलत्वमवश्यं संपादनीयमित्येता- वदेव प्रतिपद्यते ॥ नतु तदनन्तरभाविनो मनोनाशस्य श्रेष्ठत्वं निवार्यते ॥शी- तलत्वं तृष्णायाः प्रशमनमित्येतादृशीं विवक्षा स्वयमेव स्पष्टीचकार- अन्तः शीतलतायां तु लब्धायां शीतलं जगत् । अन्तस्तृष्णोपतप्तानां दोवदाहमिदं जगत् ॥” इति ॥ ननु समाधिनिन्दाव्यवहारप्रशंसा चात्रोपलभ्यते- " समाधिस्थानकस्थस्य चेतश्चेवृत्तिचञ्चलम् । तत्तस्य तु समाधानं सममुन्मत्तताण्डवैः ।। उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् । तेत्तस्योन्मत्तत्यं तु समं ब्रह्म समाधिना ॥" इति ॥ मैवम् ॥ अत्र हि समाधिपाँशस्त्यमेवाङ्गीकृत्य वासना निन्द्यते ॥ इयमत्र व- चनव्यक्तिः॥ यद्यपि व्यवहारात्समाधिःप्रशस्तस्तथाप्यसौ सवासनश्चेत्तदा निर्वा- सनाद्यवहारादधम एवेति स न समाधिः ॥ यदा समाहितव्यवहारावुभावप्य- तत्त्वज्ञौ सवासनौ चेत्तदा समाधेरुसमलोकमाप्तिहेतुपुण्यत्वेन प्राशस्त्यम् ॥ यदा तूभौ ज्ञाननिष्ठौ निर्वासनौ च तदापि वासनाक्षयरूपां जीवन्मुक्ति परिपालयनयं मनोनाशरूपः समाधिः प्रशस्त एव ॥ तस्माद्योगीश्वरस्य श्रेष्ठत्वात्पञ्चप्रयोजनो- पेताया जीवन्मुक्तेर्न कोऽपि विघ्न इति सिद्धम् ॥ इति जीवन्मुक्तिप्रकरणे स्वरू- पप्रमाणसाधनप्रयोजनैर्जीवन्मुक्तिनिरूपणं नाम चतुर्थं प्रकरणम् ॥ ४॥ , ख. च. 'नियतस्थितः; ग. घ. नियमस्थितः । २ इ. इदं गुण। ३ ङ. सुखदावन्त। ४ क. न. प. तृष्णायाः शमनमिति तादृशों; च. तृष्णाया उपशम इत्येतादृशीं । ५ इ. दावदाहमयं ६ ख. ग. घ. तदस्योन्मत्त; च. न तस्योन्मत्तवृत्तं तत्समं । ७ घ. 'प्राप्यभावमें।
विद्वत्संन्यासम०] विद्यारण्यप्रणीतः अथ पञ्चमं विद्वत्संन्यासप्रकरणम् ॥ अथ तदुपकारिणं विद्वत्संन्यासं निरूपयामः ॥ विद्वत्संन्यासश्च परमहंसोप- निषदि प्रतिपादितः ॥ तां चोपनिषदमनूद्य व्याख्यास्यामः । तत्रादौ विद्व- संन्यासयोग्यं प्रश्नमवतारयति ॥ अथ योगिनां परमहंसानां कोऽयं मार्गस्त- षां का स्थितिरिति नारदो भगवन्तमुपगत्योवाचेति ॥ यद्यप्यथशब्दापेक्षित आनन्तर्यप्रतियोगी न कोऽप्यत्र प्रतिभाति तथापि प्रष्टव्यार्थोऽत्र विद्वत्सं- न्यासः॥ तस्मिश्च विदिततत्त्वो लोकव्यवहारैर्विक्षिप्यमाणो मनोविश्रान्ति काम- यमानोऽधिकारी ॥ ततस्तादृगधिकारसंपत्त्यानन्तर्यमथशब्दार्थः ॥ केवलयो- गिनं केवलपरमहंसं च वारयितुं पदद्वयमुक्तम् ॥ केवलयोगी तत्त्वज्ञानाभावेन त्रिकालज्ञानाकाशगमनादिषु योगैश्वर्यचमत्कारव्यवहारेष्वासक्तः संयमविशेषै. स्तत्रोपयुङ्क्ते ॥ ततः परमपुरुषार्थाद्रष्टो भवति ॥ अस्मिन्नर्थे सूत्रं पूर्वमेवोदाह- तम्-"ते समाधावुपसर्गा व्युत्थाने सिद्धय" इति । केवलपरमहंस्तु तत्त्वविवे- केनैश्वर्येष्वसारतां बुद्धा विरज्यति ॥ तदप्युदाहृतम्- "चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः । इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥” इति । विरक्तोऽप्यसौ ब्रह्मविद्याभरेण विधिनिषेधावुल्लङ्घयति ॥ तदुक्तम्-"नि- बैगुण्ये पथि विरचितां को विधिः को निषेधः " इति ॥ तथा च श्रद्धालवः शिष्टास्तमेवं निन्दन्ति- " सर्वे ब्रह्म वदिष्यन्ति संप्राप्ते तु कलौ युगे । नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः ॥" इति । योगिनि तु परमहंसे यथोक्तं दोषद्वयं नास्ति ॥ अन्योऽप्यस्यातिशयः प्र- श्नोत्तराभ्यां दर्शितः॥ श्रीरामः- " एवं स्थितेऽपि भगवञ्जीवन्मुक्तस्य सन्मतेः । अपूर्वोऽतिशयः कोऽसौ भवत्यात्मविदां वर ॥ वसिष्ठः- ज्ञस्य कस्मिंश्चिदेवाङ्ग भवत्यतिशयेन धीः । १ च. एतस्मि'; ङ. अस्मि । २ ग. च. क्तः समयवि। ३ ख. ग. घ. स्तत्र तत्रोद्युङ्क्ते । अत्र ( संशयविपर्ययैर्न चोन्मुक्तस्ततः) इति ग. पुस्तके विशेषः । ४ ग. घ. रन्ति हि श। ५ घ. द्यादरेण । ६ ख. ग. से दो। ७ घ. "श्चिदप्येषा भ। १३ Answer PARIHARATTITANKIYA जीवन्मुक्तिविवेकः । [पञ्चम नित्यतृप्तः प्रशान्तात्मा स आत्मन्येव तिष्ठति ॥ मन्त्रसिद्धैस्तपःसिद्धस्तत्रसिद्धैश्च भूरिशः। कृतमाकाशयानादि तत्र का स्यादपूर्वता ॥ एक एव विशेषोऽस्य ने समो मूढबुद्धिभिः । सर्वत्रास्थापरित्यागानीरागममलं मनः ॥ एतावदेव खलु लिङ्गमलिङ्गमूर्तेः संशान्तसंसृतिचिरंभ्रमनिर्वृतस्य । तज्ज्ञस्य यन्मदनकोपविषादमोहलोभापदामनुदिनं निपुणं तनुत्वम्॥” इति ॥ एतेनातिशयोपेतानां दोषद्वयरहितानां मार्गस्थिती पृच्छयेते-वेषभाषा- दिरूपो हि व्यवहारो मार्गः ॥ चित्तोपरमरूप आन्तरो धर्मः स्थितिः॥ भग- वांश्चतुर्मुखो ब्रह्मा यथोक्तं प्रश्नोत्तरमवतारयति ॥ तं भगवानाहेतिवक्ष्यमाणमा- र्गे श्रद्धातिशयमुत्पादयितुं मार्ग प्रशंसति ॥ सोऽयं परमहंसानां मार्गों लोके दु- र्लभतरो न तु बाहुल्यमिति यः पृष्टः सोऽयमिति योजना ॥ अयमित्युत्तरग्रन्थे च वक्ष्यमाण आच्छादनादिः स्वशरीरोपभोगेन लोकोपकारेण च निरपेक्षो मु- ख्यो मार्गः परामृश्यते ॥ ताशस्य परमकाष्ठां प्राप्तस्य वैरागस्यादृष्टचरत्वा- त्तस्य मार्गस्य दुर्लभत्वम् ॥ न चैतावताऽत्यन्ताभावः शङ्कनीय इत्यभिप्रेत्य बा- हुल्यमेव प्रतिषेधति ॥ न तु बाहुल्येनेति वक्तव्ये लिङ्गव्यत्ययश्छान्दसः॥ न- न्वयं मार्गो दुर्लभतरश्चेतर्हि तदर्थं प्रयासो न कर्तव्यः, तेन प्रयोजनाभावा- दित्याशङ्कयाऽऽह-" योकोऽपि भवति स एव नित्यपूतस्थः स एव वेद- पुरुष इति विदुषो मन्यन्ते " इति- " मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ इति न्यायेन यत्र क्वापि यदाकदाचिद्योगी परमहंसों यदि कश्चिल्लभ्यते त- हि स एव नित्यपूतस्थो भवति । नित्यपूतः परमात्मा ॥ “य आत्माऽपहतपा- प्मा" इति श्रुतेः । एवकारेण केवलयोगी केवलपरमहंसश्च व्यावय॑ते । केव- लयोगी नित्यपूतं न जानाति । केवलपरमहंसो जाननपि चित्तविश्रान्त्यभा- वादहिर्मुखो ब्रह्मणि न तिष्ठति ॥ वेदप्रतिपाद्यः पुरुषो वेदपुरुषः ॥ विदुषो विद्वांसो ब्रह्मानुभवचित्तविश्रान्तिप्रतिपादकशास्त्रपारंगता योगिनः परमहं- " १ ख. ग. घ. सिद्धेर्योगसिद्धेश्च । २ घ. 'न मूढो मूढ । ३ ग. घ. रश्रम । ४ घ. योयं । ५ ख. ग. घ. दुर्लभतरत्वम् । ६ घ. च. प्रतिषिध्यते । ७ ग. घ. बाहुल्य इति । ८ ख. ग. घ. सो यः क। ९ क.ख. 'परमहंसौ व्यावत्यते ।
विद्वत्संन्यासम० विद्यारण्यप्रणीतः सस्य ब्रह्मनिष्ठत्वं सर्व जना मन्यन्ते ॥ यथोक्तविद्वांसस्तु तदप्यसहमाना ब्रह्म- त्वमेव मन्यन्ते ॥ तथा च स्मयते- " दर्शनादर्शने हित्वा स्वयं केवलरूपतः । यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम् ॥” इति ॥ अतो न प्रयोजनाभावः शङ्कितुमपि शक्यते ॥ नित्यपूतस्थत्वं वेदपुरुषत्वं च मुखतो विशदयनर्थात्का स्थितिरिति प्रश्नोत्तरं सूत्रयति-" महापुरुषो यश्चित्तं तत्सर्वदा मय्येवावतिष्ठते । तस्मादहं च तस्मिन्नेवावस्थीयते" इति ।। वैदिकज्ञानकर्माधिकारिषु पुरुषेषु मध्ये योगिनः परमहंसस्यात्यन्तमुत्तमत्वा- न्महापुरुषत्वम् । स तु महापुरुषो यचित्तं स्वकीयं तत्सदा मय्येवावस्थापय- ति ॥ संसारगोचराणां तदीयचित्तवृत्तीनामभ्यासवैराग्याभ्यां निरुद्धत्वात् ।। अंत एव भगवान्प्रजापतिः शास्त्रसिद्ध परमात्मानं स्वानुभवेन परामृशन्मयीति व्यपदिशति ।। यस्माद्योगी मय्येव चित्तं स्थापयति तस्मादहमपि परमात्मस्व- रूपत्वेन तस्मिन्नेव योगिन्याविर्भूतोऽवस्थितोऽस्मि नेतरेष्वज्ञानिषु ॥ तेषाम- विद्यावृतत्वात् ॥ तत्ववित्स्वप्ययोगिषु बाह्यचित्तवृत्तिभिरावृतत्वान्नास्त्यावि- र्भावः।। इदानी कोऽयं मार्ग इति पृष्टं मार्गमुपदिशति-"असौ स्वपुत्रमित्रक- लत्रबन्ध्वादीशिखायज्ञोपवीते स्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्ड च हित्वा कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्था- यच परिग्रहेत्-" इति ॥ यो गृहस्थः पूर्वजन्मसंचितपुण्यपुळे परिपक्के सति मातृ- पितृज्ञात्यादिना निमित्तेन विविदिषासंन्यासरूपं परमहंसाश्रममस्वीकृत्यैव श्रव- णादिसाधनान्यनुष्ठाय तत्त्वं सम्यगवगच्छति ।। ततो गार्हस्थ्यमासलौकिक- वैदिकव्यवहारसहसैश्चित्ते विक्षिप्ते सति विश्रान्तिसिद्धये विद्वत्संन्यासं चिकीर्ष- ति ॥ तं प्रति स्वपुत्रमित्रेत्याद्युपदेशः । पूर्वमेव विविदिषासंन्यासं कृत्वा तत्त्वं विदितवतो विद्वत्संन्यासं चिकीर्षोः कैलत्रपुत्रादिप्रसङ्गाभावात् ॥ नन्वयं विद्वत्संन्यासः किमितरसंन्यासवत्पैषोच्चारणादिविध्युक्तप्रकारेण संपादनीयः ।। किंवा जीर्णवस्त्रसोपद्रवग्रामादित्यागवल्लौकिकत्यागमात्ररूपः॥ नाऽऽद्यः॥ त- त्वविदः कर्तृत्वराहित्येन विधिनिषेधानधिकारात् ।। अत एव स्मर्यते- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन स तत्त्ववित् ॥ " इति ।। न द्वितीयः ॥ कौपीनदण्डाद्याश्रमलिङ्गविधानश्रवणात् ।। नैष दोषः ।। मwinni १ ग. 'ब्रह्मन च स ब्रह्मवित्स्वयम् । २ घ. मुख्यतो । ३ क. ख, ग, घ. सूचयति । ४ ५. च. अत्र भगवान् । ५ घ. स्वीकृत्वैव । ६ घ. पुत्रकलत्रादिन। HARHAANEPATRIOTri जीवन्मुक्तिविवेकः। [पश्चम तिपत्तिकर्मवदुभयरूपत्वोपपत्तेः । तथाहि ज्योतिष्टोमे दीक्षितस्य दीक्षाङ्गनियमा- नुष्ठानकाले कण्डूयितुं हस्तं प्रतिषिध्य कृष्णविषाणा विहिता यद्धस्तेन कण्डू- येत पामानं भावुकाः प्रजाः स्युर्यत्स्मर्यंत ननंभावुका इति कृष्णविषाण- या कण्डूयत इति च ॥ तस्याश्च कृष्णविषाणायाः समाप्ते नियमे प्रयोजना- भौवाद्वोढुमशक्यत्वाच्च त्यागः स्वत एव प्राप्तः ॥ तं च त्यागं समकारं वे- दो विदधाति । नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति । तदिदं प्रतिपत्तिकर्म लौकिकं वैदिकं चेत्युभयरूपम् ॥ एवं विद्वत्संन्यासोऽप्युभयरू- पः ॥ न च तत्त्वविदि कर्तृत्वस्यात्यन्ताभावः शङ्कनीयः ॥ चिदात्मन्यारोपित- स्य कर्तृत्वस्य विद्ययाऽपोहितत्वेऽपि चितिच्छायोपेतेऽन्तःकरणोपाधौ विक्रि- यासहलयुक्ते स्वतःसिद्धस्य कर्तृत्वस्य यावद्रव्यभावितयाऽनपोहितत्वात् ।। न च ज्ञानामृतेनेत्यादिस्मृतिविरोधः ॥ सत्यपि ज्ञाने विश्रान्तिरहितस्य तृष्य- भावेन विश्रान्तिसंपादनलक्षणकर्तव्यशेषसद्भावेन कृतकृत्येत्वाभावात् ।। ननु त- त्वविदो विध्यङ्गीकारे सति तेनापूर्वेण देहान्तरमारभ्येत ॥ मैवम् ॥ तस्या- पूर्वस्य चित्तविश्रान्तिप्रतिबन्धैनिवारणलक्षणस्य दृष्टफलस्य संभवे सत्यदृष्ट- फलकल्पनाया अन्याय्यत्वात् ॥अन्यथा श्रवणादिविधिष्वपि ब्रह्मज्ञानोत्पत्तिम- तिबन्धनिवारणरूपं दृष्टफलमुपेक्ष्य जन्मान्तरहेतुत्वं कल्प्येत । तस्माद्विध्य- ङ्गीकारे दोषाभावाद्विविदिषुरिव विद्वानपि गृहस्थो नान्दीमुखश्राद्धोपवासजाग- रणादिविधिमनुसृत्यैव संन्यसेत् ।। यद्यप्यत्र श्राद्धादिकं नोपदिष्टं तथाप्यस्य विद्वत्संन्यासस्य विविदिषासंन्यासविकृतित्वात् "प्रकृतिवद्विकृतिः कर्तव्या" इति न्यायेन तदीया धर्माः सर्वेऽप्यत्र प्राप्नुवन्ति ॥ यथाऽग्निष्टोमस्य विकृतिष्व. तिरात्रादिषु तदीयधर्मप्राप्तिस्तद्वत् ॥ तस्मादितरसंन्यासवदत्रापि प्रैषमन्त्रेण पु- त्रमित्रादित्यागं संकल्पयेत् ।। बन्ध्वादीनित्यादिशब्देन भृत्यपशुगृहक्षेत्रादिलो- किकपरिग्रहादिविशेषाः संगृह्यन्ते । स्वाध्यायं चेति चकारेण तदर्थनिर्णयो- पयुक्तानि पदवाक्यप्रमाणशास्त्राणि वेदोपबृंहकाणीतिहासपुराणानि च समुचिनो. ति ॥ औत्सुक्यनिवृत्तिमात्र योजनानां काव्यनाटकादीनां त्यागः कैमुतिक- न्यायसिद्धः ॥ सर्वकर्माणीति सर्वशब्देन लौकिकवैदिकनित्यनैमित्तिकनिषिद्ध- काम्यानि संगृह्यन्ते ॥ पुत्रादित्यागेनैहिकभोगः परिहृतः ॥ सर्वकर्मत्यागेन चाऽऽमुष्मिकभोगाशा चित्तविक्षेपकारिणी परिहृता। अयमिति छान्दसविभक्ति- व्यत्ययेनेदं ब्रह्माण्डमिति योजनीयम् ॥ ब्रह्माण्डत्यागो नाम तत्माप्तिहेतोर्वि- १ ग. घाणविहितो य। २ क. ख. भावेन वोढुमश। ३ ग. ङ. विषाणं प्रास्यतीति । ४ घ. 'प्राप्यतीति । ५ ग. ङ. 'त्यताभावात् । ६ क. ख. ङ, 'न्धवारणस्य । ७ ख, घ. दृष्टकल्पनाया।
विद्वत्संन्यासप्र०] विद्यारण्यप्रणीतः राडपासनस्य त्यागः ॥ ब्रह्माण्डं चेति चकारेण सूत्रात्ममाप्तिहेतोहिरण्यगर्भो- पासनस्य तत्त्वज्ञानहेतूनां श्रवणादीनां च समुच्चयः ॥ स्वपुत्रादिहिरण्यगर्भो- पासनान्तमैहिकामुष्मिकं च सुखसाधनं सर्वं प्रैषमन्त्रोचारणेन परित्यज्य कौपी- नादिकं परिगृह्णीयात् ॥ आच्छादनं चेति चकारेण पादुकादीनि समुचिनो- ति । तथाच स्मृतिः- " कौपीनयुगलं वासः कन्थां शीतनिवारिणीम् । पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् ॥" इति ।। स्वशरीरोपभोगो नाम कौपीनेन लज्जाव्यावृत्तिः॥ दण्डेन गोसायुपद्रवपरि- हारः ॥ आच्छादनेन शीतादिपरिहारः ॥ चकारात्पादुकाभ्यामुच्छिष्टदेशप- दिपरिहारं समुच्चिनोति ॥ लोकस्योपकारो नाम दण्डादिलिङ्गेन तदीयमुत्त- माश्रमं परिज्ञाय तदुचिताभिवन्दनभिक्षाप्रदानादिप्रवृत्त्या मुकृतसिद्धिः ।। च- काराभ्यामाश्रममर्यादायाः शिष्टाचारमाप्तायाः पालनं समुच्चिनोति ॥ कौपीना- दिपरिग्रहस्यानुकूल्यत्वमभिमेत्य मुख्यत्वं प्रतिषेधति ॥ तच्च न मुख्योऽस्ती- ति ॥ यत्कौपीनादिपरिग्रहणमस्ति तदप्यस्य योगिनः परमहंसस्य मुख्यः क- ल्पो न भवति ॥ किं त्वनुकल्प एव ॥ विविदिषासंन्यासिनस्तु दण्डग्रहणं मु- ख्यमितिकृत्वा दण्डवियोगस्य निषेधः स्मयते- " दण्डात्मनोस्तु संयोगः सर्वदैव विधीयते । न दण्डेन विना गच्छेदिषुक्षेपत्रयं बुधः ॥” इति । प्रायश्चित्तमपि दण्डनाशे प्राणायामशतं स्मर्यते-" दण्डत्यागे शतं चरे- त्" इति ॥ योगिनः परमहंसस्य मुख्यं कल्पं प्रश्नोत्तराभ्यां दर्शयति- "कोऽयं मुख्य इति चेदयं मुख्यो, न दण्डं न शिखं न यज्ञोपवीतं नाऽऽच्छाद- नं चरति परमहंस इति" ॥ न शिखमिति छान्दसो लिङ्गव्यत्ययोऽनुसंधेयः ।। यथा विविदिषुः परमहंसः शिखायज्ञोपवीताभ्यां रहितो मुख्यस्तथा योगी द- ण्डाच्छादनाभ्यां रहितः सन्मुख्यो भवति ॥ दण्डस्य वैणवत्वादिलक्षणमाच्छा- दनस्य कन्थात्वादिलक्षणं च परीक्षितुं दण्डादिकं संपादयितुं रक्षितुं च चित्ते व्यावृत्ते सति चित्तवृत्तिनिरोधलक्षणो योगो न सिद्धयेदिति ॥ तच्च न युक्त- म् ॥ " न हि वरविघाताय कन्योद्वाहः" इतिन्यायात् ॥ आच्छादनाधभावे शीतादिबाधायाः कः प्रतीकार इत्याशङ्कयाऽऽह-" न शीतं न चोष्णं न दुःखं न मुखं न मानावमाने च षडूमिवर्जम्" इति ॥ निरुद्धाशेषचित्तवृत्तेर्योगिनः शीतं नास्ति । तत्मतीत्यभावात् ॥ यथा लीलायामासक्तस्य बालस्याऽऽच्छादनादिर- । क. ख. 'लिङ्गेनैव त; ग. ङ. 'लिङ्गेनैतदीय। २ घ. 'दिषुक्षेपणकं. बुधः । ३ ङ, च्यापते । ४ क.ख. ग. घ. तत्प्रत्ययाभावातू । ५ घ. च. मासक्तचित्तस्य । Anirmirmireoni १०२ जीवन्मुक्तिविवेकः। [पञ्चमं हितस्यापि हेमन्तशिशिरयोः प्रातःकाले शीतं नास्ति तथा परमात्मन्यासक्तस्य योगिनः शीताभावः ॥ धर्मकाले उष्णाभावश्च तथैवावगन्तव्यः ॥ वर्षाभावसमु- चयार्थश्वकारः ॥ शीतोष्णयोरपतीतौ तज्जन्ययोः मुखदुःखयोरभाव उपपन्नः ॥ निदाघे शीतं सुखजनकं हेमन्ते दुःखजनकम् ॥ उक्तविपर्यय उष्णे द्रष्टव्यः ।। मानः पुरुषान्तरेण संपादितः सत्कारः ॥ अवमानस्तिरस्कारः ॥ यदा योगि- नः स्वात्मव्यतिरिक्त पुरुषान्तरमेव न प्रतीयते तदा मानावमानौ दूरादपेतौ ॥ चकारः शत्रुमित्ररागद्वेषादिद्वन्द्वाभावं समुच्चिनोति ॥ " षडूर्मयः क्षुत्पिपासे शो- कमोहौ जरामरणे च"॥ तेषां त्रयाणां द्वन्द्वानां क्रमेण प्राणमनोदेहधर्मत्वादा- स्मतत्त्वाभिमुखस्य योगिनस्तद्वर्जनं न विरुध्यते ॥ नन्वस्त्वेवं समाध्यवस्था- यां शीताधभावः॥ व्युत्थानदशायां तु निन्दादिक्लेशः संसारिणमिवैनं बाधत एवे- त्याशङ्कयाऽऽह-"निन्दागर्वमत्सरदम्भदच्छाद्वेषसुखदुःखकामक्रोधलोभमो- हहर्षासूयाहङ्कारादीश्च हित्वा" इति ॥ 'विरोधिभिः पुरुषैः स्वस्मिन्नापादि- ता दोषोक्तिनिन्दा ।। अन्येभ्योऽधिकोऽहमिति चित्तवृत्तिर्गर्वः॥ विद्याधनादि- भिरन्यसदृशो भवामीति बुद्धिमत्सरः।। परेषामग्रे जपध्यानादिप्रकटनं दम्भः।। भर्त्सनादिषु दृढबुद्धिः ॥ धनाद्यभिलाष इच्छा॥शत्रुवधादिषु बुद्धि?षः॥ अनु- कूलद्रव्यादिलाभेन बुद्धिस्वास्थ्यं सुखम् ॥ तद्विपर्ययो दुःखम् ॥ योषिदायभिला- षःकामः।कामितार्थविघातजन्योबुद्धिक्षोभः क्रोधःलब्धस्य धनस्य त्यागासहि- ष्णुत्वं लोभः॥हितेष्वहितबुद्धिरहितेषु हितबुद्धिर्मोहः॥चित्तगतसुखाभिव्यक्षिका मुखविकाशादिहेतु(वृत्तिहर्षः॥ परकीयगुणेषु दोषत्वारोपणमसूया। देहेन्द्रि- यादिसंघातेष्वात्मनमोऽहङ्कारः॥आदिशब्देन भोग्यवस्तुषु ममकारसमीचीनत्वा- दिबुद्धयो गृह्यन्ते ॥चकारोयथोक्तं निन्दादिविपरीतं स्तुत्यादिकं समुच्चिनोति ।। एतान्सर्वानिन्दादीन्हित्वा पूर्वोक्तवासनाक्षयाभ्यासेन परित्यज्यावतिष्ठतेति शेषः॥ ननु विद्यमाने स्वदेहे तत्परित्यागो न संभवतीत्याशङ्कयाऽऽह-"स्ववपुः कुणप- मिव दृश्यते यतस्तद्वपुरापद्धृस्तम्" इति ॥ पूर्वं यत्स्वकीयं वपुस्तदिदानी योगिना स्वात्मचैतन्यात्पृथग्भूतत्वेन कुणपमिवावलोक्यते ॥ यथा श्रद्धालुः स्पर्शनभी- त्या शवदेहं दूरे स्थितोऽवलोकयति तथाऽयं योगी तादात्म्यनान्त्युदयभी- त्या सावधानो देहं चिदात्मनः सकाशानिरन्तरं विविनक्ति ॥ यतः कारणात्तद्व- पुराचार्योपदेशागमानुभवैरपध्वस्तं चिदात्मनः सकाशानिराकृतम् । ततश्चैत- १ ग. घ. परमात्मासक्तस्य । २ ग. घ. रपनीतयोस्तज्जन्य'। ३ ग. घ. उपलब्धः । ४ ङ. जरामरणमेव च । ५ क. ख. ग. प. च. न युज्यते । ६ घ. विविधैः पुरुषैः; च. विरोधिभिस्तस्मिन्ना- पादिता । ७ ग. घ. "दिषु बुद्धि। ८ घः स्तदिदानी स्वात्म।
विद्वत्संन्यासम.] विद्यारण्यमणीतः १०३ न्यवियुक्तस्य देहस्य शवतुल्यतया दृश्यमानत्वात्सत्यपि देहे निन्दादित्यागो घटत इत्यभिप्रायः ॥ ननूत्पन्नो दिग्भ्रमः सूर्योदयदर्शनेन विनष्टोऽपि यथा कदाचिदनुवर्तते तथा 'चिदात्मनि देहात्मत्वसंशयाद्यनुवृत्तौ निन्दादिक्केशः पु- नःपुनः प्रसज्येतेत्याशङ्कयाऽऽह-"संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन नित्यनिवृत्तः" इति ॥ आत्मा कर्तृत्वादिधर्मोपेतस्तद्रहितो वेत्यादिकं संशय- ज्ञानम् ॥ देहादिरूप एवात्मेति विपरीतज्ञानम् ॥ एतदुभयं भोक्तृविषयम् ॥ मि- थ्याज्ञानं तु भोग्यविषयमत्र विवक्षितम् ॥ तच्चानेकविधं “संकल्पप्रभवान्कामा- न्" इत्यत्र स्पष्टीकृतम् ॥ तद्धेतुश्चतुर्विधः ॥ “अनित्याशुचिदुःखानात्ममु नि- त्यशुचिमुखात्मख्यातिरविद्या" इति सूत्रणात् ।। अनित्ये गिरिनदीसमुद्रादौ नि- त्यत्वभ्रान्तिरेका ।। अशुचौ पुत्रभार्यादिशरीरे शुचित्वञ्चान्तिद्वितीया ॥ दुःखे कृषिवाणिज्यादौ सुखत्वभ्रान्तिस्तृतीया॥गौणमिथ्यात्मनि पुत्रभार्यादावन्नमया- दिकेऽनात्मनि मुख्यात्मभ्रान्तिश्चतुर्थी ॥ एतेषां संशयादीनां हेतुरद्वितीयब्रह्मा- स्मतत्त्वावरकमज्ञानं तद्वासना च ॥ तच्चाज्ञानं योगिनः परमहंसस्य म- हावाक्यार्थबोधेन निवृत्तम् ॥ वासना तु योगाभ्यासेन निवृत्ता ॥ उदाहृता- यां दिग्नान्तावज्ञाने निवृत्तेऽपि वासनायाः सद्भावाद्यथापूर्वं भ्रान्तिव्यव- हारः॥ योगिनस्तु भ्रान्तिहेतुद्वयराहित्यात्कुतः संशयादीन्यनुवर्तेरन् ॥ तमेव- मनुवृत्त्यभावमभिप्रेत्य तेन हेतुद्वयेन योगी नित्यनिवृत्त इत्युक्तम् ॥ स- त्यामप्यज्ञानतेद्वासनानिवृत्तेरुत्पत्तौ तस्या निवृत्तेविनाशाभावान्नित्यत्वं द्रष्ट- व्यम् ॥ तन्नित्यत्वे हेतुमाह-" तन्नित्यबोधः" इति ॥ सर्वनामत्वात्म- सिद्धार्थवाची तच्छब्दोऽत्र सर्ववेदान्तप्रसिद्धं परमात्मानमाचष्टे ॥ तस्मिन्प- रमात्मनि यो बोधो यस्य योगिनः सोऽयं तन्नित्यबोधः ॥ योगी हि " तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत [ब्राह्मणः]" इति श्रुतिमनुसृत्य चित्तविक्षेपान्योगे- न परिहृत्य नैरन्तर्येण परमात्मविषयामेव प्रज्ञा करोति । अतो बोधस्य नि- त्यत्वाद्धोधविनाश्ययोरज्ञानतद्वासनयोनिवृत्तिनित्येत्यर्थः ॥ बुध्यमानस्य पर- मात्मनस्तार्किकेश्वरवत्तटस्थत्वशङ्का वारयति ॥ तत्स्वयमेवावस्थितिः इति ॥ यद्वेदान्तवेद्यं परं ब्रह्मास्ति तत्स्वयमेव न तु स्वस्मादन्यदित्येवं नि- श्चित्य योगिनोऽवस्थितिर्भवति ॥ तस्य योगिनो ब्रह्मानुभवप्रकारं दर्शयति- " तं शान्तमचलमद्वयानन्दविज्ञानघन एवास्मि तदेव मम परमं धाम १ ख. ग. घ. विमुक्तस्य देहत्य । २ ङ. सत्यपि चैतन्ये देहे । ३ क. ख. कथंचिदनु। ४ घ. च. कदाचिदात्मनि । ५ ग. घ. विषयमीत; च. विषयमात्रम् । ६ घ. सुखात्मत्व। ७ स्व. ग.घ. "वन्नमयादावनात्मनि मुख्यत्व'; वनमयकोशेऽनात्मनि मुख्यात्मत्त्व । ८ इ. ब्रह्मत। ९ ख. घ.तद्वासनानि- वृत्तौ निवृत्तर्वि। १० ख. घ. तस्मिन्नित्यले । ११ घ. तत्स्वयं न च स्वस्मा १२ स. प. 'नोऽनुभ। woman FORMATHSHARE १०४ जीवन्मुक्तिविवेकः । [पञ्चम इति ॥ तमित्यादिपदत्रये द्वितीया प्रथमार्थे द्रष्टव्या । यः परमात्मा शान्तः क्रोधादि विक्षेपरहितः, अचलो गमनादिक्रियारहितः, स्वगतसजातीयविजाती- यद्वैतशून्यः सच्चिदानन्दैकरसोऽस्ति स एवाहमस्मि ॥ तदेव ब्रह्मतत्त्वं मम योगिनः परमं धाम वास्तवं स्वरूपम् ।। न त्वेतत्कर्तृत्वभोक्तृत्वादियुक्तम् ॥ ए- तस्य मायाकल्पितत्वात् ।। नन्वात्मनः परब्रह्मत्वे आनन्दावाप्तिरिदानी कुतो नेत्यत्राऽऽनन्दावाप्तिः सदृष्टान्तमुक्ताऽभियुक्तैः- " गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् । तदेव कर्मरचितं पुनस्तस्यैव भेषजम् ।। एवं सर्वशरीरस्थः सर्वित्परमेश्वरः । विना चोपासनां देवो न करोति हितं नृषु ॥” इति ॥ यदि योगिनः पूर्वाश्रमप्रसिद्धा आचार्यपितृभ्रात्रादयः कर्मिणः श्रद्धाजडाः शिखायज्ञोपवीतसंध्यावन्दनादिराहित्येन पाखण्डित्वमारोप्य व्यामोहयेयुस्तदा व्यामोहनिवृत्तये योगिनो वर्तमानं निश्चयं दर्शयति-" तदेव च शिखा तेदे- वोपवीतं च परमात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा संध्या" इति ॥ यद्वेदान्तवेद्यस्य परब्रह्मगो ज्ञानं तदेव काङ्गभूतबाह्यशिखायज्ञोपवीतस्थानीय- म् ॥ अन्ये च मन्त्रद्रव्यलक्षणे कर्माङ्गभूते चकाराभ्यां समुच्चीयते ॥ शिखा. धङ्गसाध्यैः कर्मभिरुत्सन्नं यत्स्वर्गादिसुखं तत्सर्वं ब्रह्मज्ञानेनैव लभ्यते ॥ विष- यानन्दस्य सर्वस्य ब्रह्मानन्दलेशत्वात् ॥"एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुतेः ॥ एतदेवाभिप्रेत्याऽऽथर्वणिका ब्रह्मोपनिषद्या- मनन्ति-- " सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद्धः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विमो वेदपारगः ॥ येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् । बहिः सूत्रं त्यजेद्विद्वान्योगमुत्तममाश्रितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः सचेतनः ॥ १ ख. घ. यभेदशून्यः । २ नान्वित्यारभ्य० हितं नृवित्यन्तं श्लोकद्वयं यावत् । ग. घ. पुस्तक- योनास्ति ।३ ग. ङ. पाषण्डित्व। ४ ख. व्यामोहापनुत्तये; ग. व्यामोहानुत्पत्तये; घ. व्यामोहाद्यनुत्पत्त- ये। तदेव यज्ञोपवीतं । ६ ख. रेकात्मज्ञानेन ।
विद्वत्संन्यासप०] विद्यारण्यपणीतः धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानशिखा ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः॥ ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः । कर्मण्यधिकृता ये तु वैदिके बाह्मणादयः ।। तैर्विधार्यमिदं सूत्रं कर्माकं तद्धि वै स्मृतम् । शिखा ज्ञानमयी यस्योपवीतं चापि तन्मयम् ।। ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः । इदं यज्ञोपवीतं च परमं यत्परायणम् ॥ विद्वान्यज्ञोपवीती स्यात्तज्ज्ञास्तं यज्विनं विदुः ॥” इति । तस्माद्योगिनः शिखायज्ञोपवीते विद्यते ॥ तथैव संध्याऽपि विद्यते॥ यः शा- नगम्यः परमात्मा यश्चाहंप्रत्ययगम्यो जीवात्मा तयोरेकत्वज्ञानेन महावाक्यज- न्येन शान्तिप्रतीतो भेदो विशेषेण भग्नः ॥ एवं पुनन्त्यिनुदयो भङ्गस्य वि- शेषः ॥ येयमेकत्वबुद्धिः सेयमुभयोरात्मनोः संधौ जायमानत्वात्संध्येत्युच्यते ॥ अहोरात्रयोः संघावनुष्ठेया क्रिया यथा संध्या तद्वत् ॥ एवं च सति योगी श्र- द्धाजडैन व्यामोहयितुं शक्यः ॥ कोऽयं मार्ग इति प्रश्नस्यासौ स्वपुत्रेत्यादि- नोत्तरमुक्तम् ॥ का स्थितिरित्येतस्य महापुरुष इत्यादिना संक्षिप्योत्तरमुक्त्वा संशयविपरीतेत्यादिना तदेव प्रपञ्चेदानीमुपसंहरति- " सर्वान्कामान्परित्यज्य अद्वैते परमे स्थितिः । " इति ॥ क्रोधलोभादीनां कामपूर्वकत्वात्कामपरित्यागेन चित्तदोषाः सर्वेऽपि परि- त्यज्यन्ते ॥ एतदेवाभिप्रेत्य वाजसनेयिभिरान्नातम्-" अथो खल्वाहुः काम- मय एवायं पुरुषः" इति ॥ अतो निष्कामस्य योगिचित्तस्याद्वैते निर्विना स्थितिरुपपद्यते ॥ ननु दण्ड ग्रहणविधिवासनयोपेता विविदिषासंन्यासिनो यो- गिनं दण्डरहितं परमहंसं नाभ्युपगच्छन्तीत्याशङ्कयाऽऽह- ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः ।। mulshan १ ग. च. तिनः । २ घ. डा. 'शिखिनो ज्ञा। ३ घ. च. क्रिया ॥ ४ ख. परमात्मनि स्थितिरिति । ५ च. रुत्पद्यते । ६ घ, "धिवलेनोपेता। १४ Saini Mmmm १०६ जीवन्मुक्तिविवेकः । [पश्चम स याति नरकान्घोरान्महारौरवसंज्ञितान्। तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः ।। भिक्षामात्रेण यो जीवेत्स पापी यतिवृत्तिहा ॥ इदमन्तरं ज्ञात्वा स परमहंस इति परमहंसस्य योऽयमेकदण्डः स द्विवि- धः ॥ ज्ञानदण्ड; काष्ठदण्डश्चेति ॥ यथा त्रिदण्डिनो वाग्दण्डो मनोदण्डः का- यदण्डश्चेति त्रैविध्यम् ॥ वाग्दण्डादयो मनुना स्मर्यन्ते- " वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते नियता बुद्धौ स त्रिदण्डीति चोच्यते ॥ त्रिदण्डमेतैनिक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं निगच्छति ॥” इति ॥ तेषां स्वरूपं दक्षः स्मरति " वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते नियता दण्डास्त्रिदण्डीति स उच्यते ।। वाग्दण्डे मौनमातिष्ठेत्कर्मदण्डे त्वनीहताम् । मानसस्य तु दण्डस्य प्राणायामो विधीयते ॥” इति ॥ "कर्मदण्डोऽल्पभोजनम्" इति स्मृत्यन्तरपाठः ॥ ईदृशं त्रिदण्डित्वं परम- हंसस्याप्यस्ति ॥ तदेतदभिप्रेत्य पितामहः स्मरति- " यतिः परमहंसस्तु तुर्याख्यः श्रुतिचोदितः । यमैश्च नियमैर्युक्तो विष्णुरूपी त्रिदण्डभृत् ॥” इति ।। एवं सति मौनादीनां वागादिदमनहेतुत्वाद्यथा दण्डत्वं तथैवाज्ञानतत्कार्यद- मनहेतोर्ज्ञानस्य दण्डत्वम् ।। अयं ज्ञानदण्डो येन परमहंसेन धृतः स एव मु- ख्य एकदण्डीत्युच्यते ॥ मानसस्य ज्ञानदण्डस्य कदाचिच्चित्तविक्षेपणस्मृतिः प्रसज्यतेति तन्निवारणार्थ स्मारकः काष्ठदण्डो धियते ॥ तदेतच्छास्त्रार्थरह- स्यमबुद्ध्वा वेषमात्रेण पुरुषार्थसिद्धिमभिप्रेत्य काष्ठदण्डो येन परमहंसेन धृतः स पुरुषो बहुविधंसंतापोपेतत्वादोरान्महारौरवसंज्ञकान्नरकानाप्नोति ॥ तत्र हे- तुरुच्यते-परमहंसवेषं दृष्ट्वा ज्ञानित्वञ्चान्त्या सर्वे जनाः स्वस्वगृहे भोजयन्ति ॥ स्वयं च जिह्वालम्पटो वावयविवेकमकृत्वा सर्वमन्नमश्नाति तेन प्रत्यवायं प्राप्नोत्यज्ञानी ।। यानि तु " नान्नदोषेण मस्करी" इति, “चातुर्वण्यं च- १ घ. संज्ञकान् । २ ग. घ. मेवं निक्षिप्य । ३ च. कायद। ४ ख. च. धयातनोपे; ग. घ. 'धयातनोपेतान्म। ५ ड. संज्ञितान्नर। ६ ग. घ. अयं च भिक्षालम्पटो। ७ ग. सर्वमश्नाति; च. समश्नाति ।
" .ANUARMAme विद्वत्संन्यासम० विद्यारण्यप्रणीतः १०७ रेफ्रेक्ष्यम् " इत्यादिस्मृतिवचनानि तानि ज्ञानिविषयाणि ।। अयं चे ज्ञानवर्जि- त इति युक्तोऽस्य नरकः ॥ अत एव ज्ञानहीनस्य यतेर्भिक्षानियममाह मनु:- न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ एककालं चरेद्रेक्ष्यं न प्रसज्जेत विस्तरे । भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥” इति ।। ज्ञानाभ्यासिनं प्रति त्वेवं स्मर्यते- " एकवारं द्विवारं वा भुञ्जीत परहंसकः । येन केन प्रकारेण ज्ञानाभ्यासो भवेत्सदा ॥" इति ॥ ऐवं च सति ज्ञानदण्डकाष्टदण्डयोर्यदन्तरमुत्तमत्वाधमत्वरूपं तदिदमवग- त्योत्तमं ज्ञानदण्डं यो धारयति स एव मुख्यः परमहंस इत्यभ्युपगन्तव्यम् ॥ नन्वस्त्वभिज्ञस्य परमहंसस्य ज्ञानदण्डो माभूत्काष्ठदण्डनिर्बन्धः, इतरा तु चर्या सर्वा कीदृशीत्याशङ्कयाऽऽह आशाम्बरोनिनमस्कारोन स्वधाकारो ननि- न्दास्तुतिर्यादृच्छिको भवेदिक्षु वाहनं न विसर्जनं न मनं न ध्यानं नोपास- नं न लक्ष्यं नालक्ष्यं न पृथङ्नापृथड्न चाहं न त्वं न च सर्व चानिकेत- स्थितिरेव ॥ स भिक्षुः सौवर्णादीनां नैव परिग्रहेत्तल्लोकं नावलोकयेच्च " इ- ति ।। आशा दिशस्ता एवाम्बरं वस्नमाच्छादनं यस्यासावाशाम्बरः ॥ यत् स्मृतिवचनम्- " जान्वोरुर्ध्वमधो नाभेः परिधायैकमम्बरम् । द्वितीयमुत्तरं वासः परिधाय गृहानटेत् ॥” इति ।। तदिदमयोगिविषयम् । अत एव पूर्व तच्च न मुख्योऽस्तीत्युक्तम् ॥ यद्य पि स्मृत्यन्तरम्- " पो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥" इति ।। तस्याप्ययोगिविषयत्वान्नास्य नमस्कारः कर्तव्योऽस्ति । अत एव ब्राह्म- णलक्षणे निर्नमस्कारमस्तुतिम् इत्युदाहृतम् ॥ गयाफ्यागादितीर्येषु श्रद्धाजाड्यात्माप्तः स्वधाकारो निषिध्यते, पूर्वत्र निन्दागर्वेत्यादिवाक्येन पर- कृतया स्वनिन्दया क्लेशो निवारितः, अत्र तु स्वकर्तृकेऽन्यविषये निन्दास्तुती १ ख. ग. घ. च. इत्यादीनि वाक्यानि । २ क. ख. च. चाज्ञान इति युत्तो नरकः । ३ ग. घ. द्वेक्षं न । ४ घ. विस्तरैः । ५ ग. घ. एवं सति; च. एवं ज्ञान । ६ घ. योर्यत्तारतम्यमुत्तमाघ । घ. नन्वमुष्य परमहंसस्य संन्यासो मा भूत्काष्ठदण्डनिबन्धनः; च. नन्वभिज्ञस्य । ८ ग. घ. 'स्याप्यन्यवि। ७ SAMEER THIHIN KAMARI १०८ जीवन्मुक्तिविवेकः। [पश्चम निषिध्येते ॥ याच्छिकत्वं निर्बन्धराहित्यम् ।। न क्वचिदपि व्यवहारे निर्बन्धं कुर्यात् ।। यस्तु देवपूजायां निर्बन्धः स्मर्यते- भिक्षाटनं जपः शौचं स्नानं ध्यानं मुरार्चनम् । कर्तव्यानि षडेतानि सर्वथा नृपदण्डवत् ॥” इति ॥ तस्याप्ययोगिविषयत्वमभिप्रेत्य नावाहनमित्यान्नातम् ॥ सकृत्स्मरणं ध्या- नम्, नैरन्तर्येणानुस्मरणमुपासनमिति तयोर्भेदः ॥ यथा योगिनः स्तुतिनि- न्दादिलौकिकव्यवहाराभावः, यथा वा देवपूजादिधर्मशास्त्रव्यवहाराभावः, त- था लक्ष्यत्वादिज्ञानशास्त्रव्यवहारोऽपि नास्ति ॥ यत्साक्षिचैतन्यमस्ति तदिदं तत्त्वमसीतिवाक्ये त्वंपदेन लक्ष्यं देहादिविशिष्टं चैतन्यं लक्ष्यं न भवति, किंतु वाच्यम् ॥ तच्च वाच्यं तत्पदार्थात्पृथग्लक्ष्यत्वपृथक्स्वदेहनिष्ठो वाच्योऽर्थोऽहमि- ति व्यवहाराहः ॥ परदेहनिष्ठस्त्वमिति व्यवहाराहः लक्ष्यं वाच्यमित्युभयविध- चैतन्योपेतमन्यज्जडं जगत्सर्वमिति व्यवहाराहमित्येतादृशो विकल्पो न कोऽपि योगिनोऽस्ति, तदीयदित्तस्य ब्रह्मणि विश्रान्तत्वात् । अत एव स भिक्षुरनि- केतस्थितिरेव ॥ यदि नियतनिवासार्थं कंचिन्मठं संपादयेत्तदानी तस्मिन्ममत्वे सति तदीयहानिवृद्धयोश्चित्तं विक्षिप्येत॥ तदेवाभिमेत्य गौडपादाचार्या आहुः- निस्तुतिनिनमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥” इति ।। यथा मठो न परिग्रहीतव्यस्तथा सौवर्णराजतादीनां भिक्षाचमनादिपात्राणा- मेकमपि न गृह्णीयात् ॥ तदाह यम:- " हिरण्मयानि पात्राणि कृष्णायसमयानि च । यतीनां नान्यपात्राणि वर्जयेत्तानि भिक्षुकः ॥” इति । मनुरपि--- " अतैजसानि पात्राणि तस्य स्युनिणानि च । तेषां मृद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ अलाबुदारुपात्रं वा मृन्मयं वैणवं तथा । एतानि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥” इति ॥ बौधायनोऽपि- " स्वयमाहृतपर्णेषु स्वयं शीर्णेषु वा पुनः । भुञ्जीत न वटाश्वत्थकरानां च पर्णके ॥ १ घ. एतत्सर्वमभिप्रेत्य । २ घ. न स्तुतिन । ३.घ.णि कार्णा । ४ घ. वायुना ।
विद्वत्सन्यासम.] विद्यारण्यमणीतः १०९ आपद्यपि न कांस्येषु मलाशी कांस्यभोजनः । सौवर्णे राजते ताने मृन्मये त्रपुसीसयोः ॥ " इति ॥ तथा लोकं जनं शिष्यवर्ग न गृह्णीयात् ॥ तदाह मनुः- एक एव चरेनित्यं सिद्धयर्थमसहायकः । सिद्धिमेकस्य पश्यन्हि तज्जहाति न हीयते ॥” इति ॥ मेधातिथिरपि- " आसनं पात्रलोभश्च संचयः शिष्यसंग्रहः । दिवा स्वापो वृथाऽऽलापो यतेर्बन्धकराणि षट् ।। एकाहात्परतो ग्रामे पञ्चाहात्परतः पुरे । वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् ॥ उक्तालाब्यादिपात्राणामेकस्यापि न संग्रहः । भिक्षोभैक्ष्यभुजश्चापि पात्रलोभः स उच्यते ॥ गृहीतस्य तु दण्डादेवितीयस्य परिग्रहः । कालान्तरोपभोगार्थ संचयः परिकीर्तितः ।। शुश्रूषालाभपूजार्थं यशोथ वा परिग्रहः । शिष्याणामनुकारुण्यात्स ज्ञेयः शिष्यसंग्रहः ॥ विद्या दिनं प्रकाशत्वादविद्या रात्रिरुच्यते । विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ॥ आध्यात्मिकी कथां मुक्त्वा भैक्ष्यचर्या मुरस्तुतिम् । अनुग्रहात्पथि प्रश्नो वृथाऽऽलोपः स उच्यते ॥ लोकं शिष्यजनरूपं न गृहीयादित्येतावदेव न भवति किंतु तस्य लोक- स्यावलोकं दर्शनमपि न कुर्यात् ।। तस्य बन्धहेतुत्वात् । न चेत्यनेनान्यदपि स्मृतिनिषिद्धं न कुर्यादित्यभिप्रेतम् ॥ तच्च निषिद्धं मेधातिथिदर्शयति- स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् । षडेतानि न गृह्णीयाद्यतिमूत्रपुरीषवत् ॥ रसायनं क्रियावादं ज्योतिष क्रयविक्रयम् । विविधानि च शिल्पानि वर्जयेत्परदारवत् ॥"इति ।। योगिनो लौकिकवैदिकव्यवहारगतानि यानि बाधकानि सन्ति तेषां वर्ज. नमभिहितम् ।। अथ प्रश्नोत्तराभ्यामत्यन्तबाधकं प्रदर्य तद्वर्जनमाह--"आबा- 1 ग. घ. "स्य संप। २ ग.घ. मेकैकस्यापि संग्रहः । ३ घ. च. पात्रलोपः । ४ घ. च. 'ष्याणां नतु का । ५ घ. "लापोऽन्य उ। HAMARHTET जीवन्मुक्तिविवेकः । [पञ्चम धकः क इतिचेदाबाधकोस्त्येव ॥ यस्माद्भिर्हिरण्यं रसेन दृष्टं चेत्स ब्रह्महा भवेत् । यस्माद्भिक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पोल्कसो भवेत् ॥ यस्माद्भिक्षुहि- रण्यं रसेन ग्राह्यं चेत्स आत्महा भवेत् ॥ तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं न स्पृष्टं च न ग्राह्यं च" इति ॥ आकारोऽभिव्याध्यर्थः॥ "आङीषदर्थेऽभिव्याप्तौ" इत्य- भिहितत्वात् ॥ अभिव्याप्तो बाधकोऽत्यन्तबाधकस्तस्य सद्भावं प्रतिज्ञाय हिरण्यस्य तथाविधबाधकत्वमुच्यते ॥ रसेनाभिलाषयुक्तेनाऽऽदरेण हिरण्यं यदि दृष्टं स्यात्तदानीं स द्रष्टा भिक्षुब्रह्महा भवेत् ॥ हिरण्यासक्त्या तत्सं- पादनरक्षणयोः सर्वदा प्रयतमानस्तद्वैयर्थ्यपरिहाराय प्रपञ्चमिथ्यात्वप्रतिपाद- कान्वेदान्तान्दूषयित्वा तत्सत्यत्वमवलम्बते ॥ ततः शास्त्रसिद्धमद्वितीयं ब्रह्म तेन भिक्षुणा हतमिव भवति ॥ तस्मादसौ ब्रह्महा भवेत् । तथाच स्मर्यते- ब्रह्म नास्तीति यो ब्रूयाद्वेष्टि ब्रह्मविदं च यः। अभूतब्रह्मवादी च त्रयस्ते ब्रह्मघातकाः ॥” इति ।। "ब्रह्महा स तु विज्ञेयः सर्वधर्मबहिष्कृतः।" अभिलाषपूर्वकं हिरण्यं स्पष्टं चेत्तदा तत्स्पष्टा भिक्षुः पतितत्वात्पौल्कसो म्लेच्छसदृशो भवेत् ।। पातित्यं च स्मर्यते- " पतत्यसौ ध्रुवं भिक्षुर्यस्य भिक्षोयं भवेत् । धीपूर्व रेत उत्सर्गो द्रव्यसंग्रह एव च ॥” इति ॥ अभिलाषपुरःसरं हिरण्यं न ग्राह्यम् ॥ गृहीतं चेत्तदा स भिक्षुर्देहेन्द्रियादि- साक्षिणमसङ्गं चिदात्मानं हतवान्भवेत् ॥ असङ्गत्वमपोझ स्वात्मनो हिरण्यादि- द्रव्यं प्रति भोक्तृत्वेन प्रतिपन्नत्वात् ।। तस्याश्चान्यथा प्रतिपत्तेः सर्वपापरूपत्वं स्मयते- " योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥" इति ॥ किं चाऽऽत्मघातिनः मुखलेशेनापि रहिता बहुविधदुःखेनाऽऽवृता लोकाः श्रूयन्ते- " असूर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥” इति ॥ दृष्टं चेत्यनेन चकारेण श्रुतं च समुच्चीयते ॥ स्पृष्टं चेत्यनेन कथितस्यः स- मुच्चयः ॥ ग्राह्यं चेत्यनेन व्यवहृतं चेति समुच्चयः ॥ दर्शनस्पर्शनग्रहणवदभिला- षपूर्विका हिरण्यवृत्तान्त श्रवणतद्गुणकथनतदीयक्रयादिव्यवहारा अपि प्रत्यवाय- १ ब्रह्महेत्यर्धपद्य क. स. रा. घ. च. पुस्तकेषु नास्ति ।
विद्वत्संन्यासप्र०] विद्यारण्यमणीतः हेतव इत्यर्थः ॥ यस्मात्साभिलाषहिरण्यदर्शनादयो दोषकारिणस्तस्माद्भिक्षु- णा हिरण्यदर्शनादयोऽदर्शनीया इत्यर्थः ॥ हिरण्यवर्जनस्य फलमाह-"सर्वे कामा मनोगता व्यावर्तन्ते दुःखे, नोद्विग्नः मुखे निःस्पृहस्त्यागे रागे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदते च सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते" इति ॥ पुत्रभार्यायहक्षेत्रादिकामानां सर्वेषां हिरण्यमूल- त्वाद्धिरण्ये परित्यक्ते सति ते कामा मनोगता मनस्यवस्थानाध्यावर्तन्ते व्या- वृत्ता भवन्ति॥ कामनिवृत्तौ सत्यां कर्मप्राप्तयोर्दुःखमुखयोरुद्वेगस्पृहे न भवतः।। एतच्च स्थितप्रज्ञप्रस्तावे प्रपञ्चितम् ॥ ऐहिकयोः मुखदुःखयोरधिक्षेपकत्वे स- त्यामुष्मिकविषयरागेऽपि त्यागो भवति ॥ ऐहिकमुखस्पृहायुक्तो हि तदृष्टान्ते- नानुमित आमुष्मिके मुखे रागवान्भवति ॥ तस्मादैहिके निःस्पृहस्यामुष्मिके रागाभावो युज्यते ॥ एवं सति सर्वत्र लोकद्वयेऽपि यो शुभाशुभावनुकूलपति- कूलविषयौ तयोरनभिस्नेहः ॥ एतच्च द्वेषराहित्यस्याप्युपलक्षणम् ॥ तादृशो विद्वानशुभकारिणं कंचिदपि पुरुषं न द्वेष्टि ॥ शुभकारिणि च मोदं न प्राप्नोति ॥ द्वेषमोदरहितो यः पुमानात्मन्येव सर्वदाऽवतिष्ठते तस्य सर्वस्य सर्वेषामिन्द्रिया- णां गतिः प्रवृत्तिरुपरमते ॥ इन्द्रियोपरतौ न कदाचिदपि निर्विकल्पकसमाधे- विनो भवति ॥ तेषां का स्थितिरिति प्रश्नस्य संक्षेपविस्तराभ्यामुत्तरं पूर्वमुक्तं तदेवात्र पुनरपि हिरण्यनिषेधप्रसङ्गेन स्पष्टीकृतम् ॥ अथ विद्वत्संन्यासमुपसंहरति-"यत्पूर्णानन्दैकबोधस्तब्रह्माहमस्मीति कृत- कृत्यो भवति" इति ॥ यद्ब्रह्म वेदान्तेषु पूर्णानन्दैकबोधः परमात्मेति निरूपितं तब्रह्माहमस्मीत्येवं सर्वदाऽनुभवन्नयं योगी परमहंसः कृतकृत्यो भवतीति । तथा च स्मर्यते- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन स तत्त्ववित् ॥” इति ॥ जीवन्मुक्तिविवेकेन बन्धं हार्द निवारयन् । पुमर्थमखिलं देयाद्विद्यातीर्थमहेश्वरः ॥ जीवन्मुक्तिविवेके विद्वत्संन्यासनिरूपणं नाम पञ्चमं प्रकरणम् ॥५॥ इति श्रीविद्यारण्यविरचितो जीवन्मुक्तिविवेकः समाप्तः ॥ १ घ. कारिणं दृष्ट्वा न च । २ इत उत्तरं भेदाभेदावित्यारभ्यैतदन्तिमं श्लोकचतुष्कं ङ. पुस्तक एव वर्तते नान्यत्र । तेनैतद्वन्थकर्तुरन्यस्य वेति न विभः । valleynistra जीवन्मुक्तिविवेकः। [पञ्चमं वि० प्र० भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमधिगतौ नष्टसंदेहवृत्तिः । शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं निस्वैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ १॥ तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मज्ञानपरायणाः ॥ २॥ अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ ३ ॥ सर्वत्रावस्थितं शान्तं न प्रपद्ये जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ ४ ॥ ॥ संपूर्णोऽयं जीवन्मुक्तिविवेकः॥