Donor

Tripuradahanamu

Suranada Kunjan Pillai · 2005/08/19

PDF Proofread

Front matter

THAVANCORE
व्यज्यतेप्रता
NIVERSITY OF TRAVANCORE
Trivandrum Sanskrit Series No. 181.
TRIPURATAHANAM
VASUDEVA
WITH HRAYAGRAUINI THE COMMENTARY
PAVAJAKSI
115 MDAIWA
कति
Edited by
SURANAD KUNJAN PILLAI, M. A.,
Honorary Director,
UNIVERSITY MANUSCRIPTS LIFRAKY,
TRIVANDRUM.
Printeit at the S. V. G. Press. Hart, Trivandru.
1957,1132
1.411 rights reserreil]

No text on this page.

ब्यज्यतेप्रता
अदाबनविश्वविद्यालय:
अनन्तायनसंस्कृतग्रन्थावलिः
माक: १८१
DONATED TO
TTO CENTRAL LIBRARY
त्रिपुरदहनम्
L'AVANSE
सम्पादकः
शुरनाट् कुञ्जन् पिट, एम्. ए.,
पौरस्त्यग्रन्थप्रकाशन कार्यालयाध्यक्षः ।
अनन्तशयने एम्. पी. जी. मुनगालपे मुद्रितम्
१९.७.११३२
मूल्यं सारूप्यकम्

No text on this page.

PREFACE Triparadahana is one of the famous Yamaka poems by the celebrated Pattattu Vāsudeva Bhattatiri, a very gifted Sanskrit poet and grammarian whu flourished in Korala circa 9th century A. D.* Yamaka is a peculiar literary device of repeating the game combination of letters in difforont senses. It is defined as:- अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः । यमक . (Kävyaprakāja Ullāsa IX, 6.) Although modern critics have not much regard for the peculiar kind of ability displayed in Yamaka kārya, it has to be conceded that only poets possessing extraordinary command of diction can compose such kavya. And Vasudeva Bhattatiri remains almost without a rival in this field in Sanskrit literature. The Yudhisthiravijaya published as No. 60 in the Kāvyamāla, is the best Vido Mahakavi Ullur's History of Kerala Literaturo Vol. I. P. 113-120.

11 known among his Yamaka kiivyass. The present work, Tripuradahana, is also an eminent example of Bhattatiri's skill in this special field of Yamaka. Tripuradabana contains three āšvāsas and 194 stanzas mostly in Āryā metre. Yamaka kāvya is a hard nut to crack and so the commentary of such a work is of especial value. The conimentary Hidayagrāhini pulilished here for the first time is by Anāyattu Purikajäksa Pişāroti The name of the $ Vasu Battatiri's known Yamaka works are:- (1) Yudhishtiravijaya (2) Tripuradahana (3) Saurikatha and (4) Nalodaya. But Vatakkumkur Raja Raja Varma says that Nalodaya is the work of Rari Bhattatiri the father of Vasu Bhattatiri (Keraliya Samskrta Sahitya Caritam l; p. 161). But in an old commentary of Nalodaya entitled Kavihrdayadarpana by Srikantha, mention is made of Vasu. deva as the author. 'भथ श्रीमान् महाकविमहेश्वरी वासुदेवनामा वासुदेवानुस्मरणपूर्वकं प्रणि- जोषितप्रबन्धप्रतिबन्धकृन्तनाय प्रथमविधेयप्रतिष्ठान्मकां नमस्क्रियां तावदनुतिष्ठति ॥ 'इति श्रीकण्ठाचार्यपुत्रेण श्रीकण्ठेन कृते नलोदयव्याख्याने कविहृदयदर्पणाव्य चतुर्य आश्वासः ॥ वासुदेवमहाकवये काव्यनिर्मात्रे नमो नमः ॥ नलोदयायस्यास्य व्याख्या काव्यस्य निर्मिता। श्रीकण्ठाचार्यपुत्रेण श्रीकणेन मनीषिणा ॥' Ms. No. 1021 of University Manuscripts Library. In this connection it may also be pointed out that in the colphons of several commentaries of Nalodaya available in our Library and in the Madras Mss. Library, Nalodaya is attributed to Kalidasa. Vasudeva's work on grammar is Vasudevavijaya in five sargas. Vasu Bhattatiri belonged to Pattattu Illom at Peruvanama some eight miles South of Trichur. In Yudhishthiravijaya he says:- तस्य च बसुधामवतः काले कुलशेखरस्य वसुधामयतः । वेदानामध्यायी भारतगुरुरभवदाचनामध्यायी। समजनि कश्चित् तस्य प्रवमः शिवोऽनुवर्तकवितस्व। काग्यानामालोके पटुमनसो वासुदेवनामा लोके ।।

ܐܐܐ commentator and that of his uncle are mentioned in the colophons at the end of the three āsvāsas. हीत वैष्णवकुलालकृतेः कविसहृदयसार्वभौमस्य करुणाकरमानो विद्वत्प्रवेकल आगिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां ........ ॥ Ānāyattu Karuņākara Pişāroti was a distinguished scholar and a contemporary of Uddanda Šāstri who adorned the court of Mānavikrama, Zamorin of Calicut (Vide History of Kerala Literature by Ullur Vol. II pp 71-72). Pankajākşa Pişāroti was Karunākara's nephew and he may be assigned to the 16th century A.D. There are five commentaries of Tripuradahana in our collection, including Hidayagrāhini which is the best among them. Of the remaining four, two are anonimous,vin Prakā ikā and another commentary which does not even give its name. Arthaprakāʻika by Mukkolakkal Nilakanthan Nampūtiri (17th century) and Arthadipini by Nityanandayati are the two other commentaries available here, There is only one manuscript of this commentary in this Library, No. L. 150. The manuscript is in good state of preservation. In preparing this edition 1 have been assisted by the Curator Šri.K.S.Mahadeva Šāstri, and Pandits Śrī. V.G Nampūtiri and Sri A. Ramachandra Šāstri. University Manuscripts Library, Trivandrum. 18 - 12.1956 Śūranād Kuñjan Pillai, HONORARY 'DIRECTOR.

No text on this page.

श्रीवासुदेवप्रणीत त्रिपुरदहनं (यमककाव्यम्) कजाक्षकृतया हृदयग्राहिण्याख्यया व्याख्ययोपेतम् । वपुरतिगौरच्छायं जयति विभोरभिदधाति गौरच्छा यम् । विषकटुका येनाहिश्रेणी भूषणमिव स्व कायेऽनाहि ॥१॥ शब्दार्थात्मकमाभाति विश्वं यत्र तदस्तु वः । इष्टदायि परं ब्रह्म भूषयद्यादव कुलम् ॥ काव्यारम्भे कविश्शिष्टाचारमनुसरन्निष्टदेवतास्वरूपानुस्मरणलक्षणं माल. माचरति - वपुरित्यादिना । विभोः जगतां पत्युः, वपुः मूर्तिः, धर्मिणः प्रका- शस्य धर्मरूपा विमर्शशक्तिरित्यर्थः । जयति सर्वोत्कृष्टं वर्तते । "विभुस्तु ना कुबेरेऽ: त्रि तु सर्वगनित्ययोः । स्वामिनि" इति केशवः। ननु सगुणनिर्गुणभेदेन वपुपो द्वैविध्ये कस्योत्कर्षः परामृश्यत इत्याशङ्कायां वपुर्विशिनाष्टि - अतिगौरच्छायमिति । गौरी अत्यन्तारुणा छाया कान्तिर्यस्य तत्तथोक्तम् । "गौरस्तु ना *विरिश्चन्द्वोर्धववृक्षेऽसनद्रुमे। शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥" इति केशवः । 'विरिञ्चे द्वे धववृक्षे इति मुद्रितः पाठः सव्याख्ये त्रिपुरदहने .. "अथ छायानातपशोभयोः । सूर्यपत्न्यन्तरे गेहे स्यात् पतिप्रतिबिम्बयोः ॥" इनि च । ननु गौरशब्दस्य शुक्ल एवार्थः प्रसिद्धः। अरुणार्थस्त्व- प्रसिद्ध एव । प्रसिद्ध प्रसिद्धयोः प्रसिद्धम्य मुख्यत्वम् । मुख्यामुग्व्ययो- भुग्यमेवाङ्गीकरणीयम् । शुद्धसत्त्वाय भगवति शौक्ल्यमुपपन्नं च । तत्कथ- मेवं व्याख्यातम् । उज्यते - विवक्षाधीना हि गब्दप्रवृत्तिः । विवक्षा चात्र कवेर रुण्य एव; शक्तियक्षरीमन्त्रयाच्यस्य भावतः परामर्शनीयत्वेनेष्टत्वात् । तदिष्टत्वं च योऽपिकालोलोऽपी' ति सम्बन्धोपक्रमे, 'सोमस्म मह सेन' इति, प्रमेयोपक्रमे च 'मदनरिपुं सामान्य निर्दयमगजो पगृह्यपुंसा मान्यमिति, उपसंहारे च 'येन भगवतोमरोपि' 'योऽम्बिकालीनमतिः' 'अङ्काधन्यस्तनगप्रियतनया. कुङ्कुमार्द्रधन्यस्त नग' 'वेष्टितरोमावल्यायमधुपत्रातमन्थगेमावल्याः' विदैवमनुविद्धोम' 'रुद्रं नमश्चकारोमां च' इत्यादि मध्ये च तत्र भगवत्या उपादानात, "उपक्रम पसंहाराबभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥" इति न्यायेन सशक्तिके भगवति तात्पर्यादवसीयते । नन्वेवमपि शक्ति- पञ्चाक्षरीमन्त्रवाच्यम्य परामृश्यत्वं कुतो निश्चितं, अष्टाक्षरीमन्त्रवाच्योऽपि भगवान् शक्तिको रक्तवर्णश्च, तम्य पर।मृश्यत्वं कथं न स्यात् । (उच्यते)- यथा महाकविर्माघः श्रीमदीपालकविंशत्यक्षरमन्त्रमूलतया 'अन्त- , "श्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसद्मनि । वसन् ददवितरन्तमम्बराद्धिरण्यगर्भागभुवं मुनि हरिः ॥" इत्युपक्रम एवं तम्य मन्त्रस्य ऋषि नारदं ब्रह्माणं पा, देवतां कृष्णं च परामृश्य मन्त्राक्षरसङ्ग्या नियमितवितिसर्गोपेतं शिशुपालवधायं काव्यं प्रणि- नाय, तथानेनापि कविना शक्तिपञ्चाक्षरीमन्त्रमूलतया वपुरतिगौरच्छाय. मित्यादिमपद्य एव मन्त्रदेवतां परामृश्य तन्मन्त्रावयवपदसख्यायमिताश्चासत्रयो. पेतत्वेनास्य प्रबन्धस्य प्रणीतत्वात् । किञ्च सत्वरजस्तमोमयानि जाग्रत्खप्नसुषु- प्रथम आश्वासः । ३ । प्तिहेतवः, स्थूलसूक्ष्मकारणाख्यानि यानि शरीराणि तान्येव त्रीणि पुराणि, जाग्र- स्वप्नसुषुप्तिसाक्षिणो विश्वतैजसप्राज्ञा एव त्रयोऽपुराः, इन्द्रियाण्येव देवताः, शुद्धसत्त्वमेव स्वर्गः, तुरीय आत्मैव शिवः, विमर्शामिका शक्तिरेव पार्वती, शास्त्रार्थविचारादिकमेव धनुराग्रुपकरणानि, तत्त्वज्ञानमेव नयनाग्निः, तत्तत्कार्या- णां स्वस्खकारणलयक्रमेण मूलकारणे शिवादिशब्दवाच्ये परस्मिन् वस्तुनि विला- पनमेव दाहः, जगद्रूपेण परिणतायाश्शक्तस्तत्त्वज्ञानेन जगद्रूपे गलिते शक्तिशक्ति- मतोरेकीभावेनावस्थानमेव शिवयोरुपगृहनम् इत्यादिकयात्र मन्त्रप्रबन्धार्थयोरैक्यं विद्वद्भिन्नेयम् । अलमप्रस्तुतवस्तुप्रथनेन । प्रकृतमनुसरामः । ननु धर्मिणि सत्येव धर्मेण भवितव्यं, विभोस्सत्त्वमेवानिश्चितं प्रमाणा- भावाद् इत्याशङ्कय विभुं विशिंपन् ईश्वरमद्भाचे प्रमाणमाह-- अभिदधातीति । अच्छा निर्मला । अपौरुपन्वेन गगादिमूलत्वाभावात् प्रमाणभूतेत्यर्थः । गौः वाक्, काण्डत्रयात्मकवेदलक्षणा । यं, विभुं । विशिनष्टि। अभिदधाति धर्मरूपतया देवरूपतया ब्रह्मरूपतया च प्रतिपादयति । ईश्वरसद्भावे श्रुतिः प्रमाणं भवतीत्यर्थः । अभिदधातीत्यस्य यया कयाचिद वृत्त्या प्रतिपादन एव तात्पर्य न त्वभिधावृत्त्याभिधाने । तथालवे हि 'यतो वाचो निवर्तन्ते' 'यो मुक्तैर(व) गम्यते' 'अतद्वयावृत्त्या यं चकितमभिधत्ते श्रुतिरपी'त्याद्यभियुक्तोक्तिविरोधः स्यात् । "गौर्नादित्ये बलविर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ नृस्त्रियोः खर्गचन्द्राम्बुरश्मिदृग्वाणलोमसु । अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥" इति केशवः । अतिगौरच्छायत्वादेर्दैवतान्तरसाधारण्यात् तद्वयावृत्त्यर्थं भूयोऽपि विभुं विशिनष्टि - विषकटुकेति । येन विभुना विषकटुका विषेण गरलेन हेतुना कटुका तीक्ष्णा । अहिश्रेणी अहीनां सर्पाणां श्रेणी समूहः । भूषणमिव कटककटिसूत्राद्याभरणमिव । स्वकाये स्वस्य आत्मनः काये देहे । अनाहि बद्धा । 'णह बन्धन' इत्यस्मात् कर्मणि लुङ् । भगवतः शिवस्वेत्यर्थः । "रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।" इत्यमरः । उपासकहीभावमन्तरेण उपास्यदेवतोत्कर्षो न सम्बोभवीताति oC सव्याख्ये त्रिपुरदहने जयत्यर्थो नमस्कारमाक्षिपति । अत्र विभोर्वपुषे नम इत्यर्थो लभ्यते । ततश्च 'आशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तलक्षणकाव्यमुखाङ्गभूता नमस्क्रियाभिनियूंढा भवतीत्यनुसन्धेयम् ॥ १ ॥ अथ श्लोकद्वयेनोत्कर्षमुपप दयति- येन च कालोऽलोपि स्मरं च निजघान योऽम्बिकालोलोऽपि । योऽस्थाद् विषमास्वाद्य स्वस्थः सुरततिषु जातविषमास्वाद्यः॥ २ ॥ येनेति । चशब्दो वाक्यार्थसमुच्चयार्थः । येन विभुना कालः अन्तकः अलोपि विलयं नीतश्च । सर्वेषामपि प्राणहरिमन्तकं यः प्राणैर्वियोजितवान् तस्योत्कर्षः किमुच्यत इति भावः । योऽम्बिकालोलोऽपि अम्बिकायां पार्वत्यां लोलः सरागोऽपि । अपिशब्दोऽम्बिकालोलत्वस्मरहन्तृत्वयोः परस्परवि रुद्धता द्योतयति । स्मरं काम निजघान च तृतीयनेत्रामिना भस्मसादकरोत् । यः सुरततिषु देवसमूहेषु जानविषमासु सतीषु जातम् अमृतमथनसमयसञ्जातं जग- द्भस्मीकरणोन्मुखं कालकूटमालोक्य उद्भूतं विषमं वैषम्यं व्याकुलता यासां तथोक्ताः (तासु)। विषं गरलं आस्वाद्य सुरततिवैषम्यजिहीर्षया पीत्वा । स्वस्थः विषपानजनितविक्रियामप्राप्तस्सन् अस्थात् स्थितवांश्च । चशब्दोऽत्रानुषञ्जनीयः । ननु कोऽयमनुषङ्गो नाम । उच्यते - पूर्ववाक्ये चरितार्थस्य वाक्यस्य उत्तर- वाक्येऽभिसम्बन्धोऽनुषड्नः । विभुं विशिनष्टि- आद्य इति । आदौ भवः आद्यः । 'दिगादिभ्यो यत्' (पा० सू० ४. १. ३३.) इति यत्प्रत्ययः । भूतस्य किं नाम दुष्करमिति भावः ॥ २ ॥ जगत्कारण- कुलिशं चक्रमुरुरसिः स्थेयसि नृभुजो न यस्य चक्रमरसि सदहनविधुतोयेनथुधरात्ममरुन्मयेन विधुतो येन ।।३।। कुलिशमिति । चशब्दोऽत्राप्यनुषञ्जनीयः । यस्य नृभुज इत्यनु वादात् तच्छन्दवाच्योऽपि नृभुगिति विज्ञायते । नृन् नरान् भुङ्क्त इति नृभुक्, राक्षसः । स चात्रोपपत्तिवशाद् गवणः । येन विभुना । स नृभुग् रावणो विधुतश्च कम्पितोऽभूत् । भुजकण्डूविनोदनाय कैलासमुद्धृत्योत्क्षिपन् भग- प्रथम आश्वासः । कस्य. वदङ्गुष्ठाग्रस्पर्शादसह्यगौरवकैलासाधश्शा यतया निश्चेष्टीकृत इत्यर्थः । चिद्रक्षसो जडीकरणेन को विभरुत्कर्ष इत्याशय नृभुजो लोकोत्तरता- माविश्चिकीर्षुः तं विशिनप्टि - कुलिशमिति । यम्य नृभुजः, उरसि वक्षःस्थले, कुलिशं ऐन्द्रं वज्र, चक्रं वैष्णवं सुदर्शनं, उरुमहान् असिः नैऋतः खड्गश्च । उपलक्षणमेतदन्येपामप्यायुधान्तरस्य । एतानि न चक्रमुः पदविक्षेपं न चक्रुः । त्रैलोक्यनाथानामप्यायुधानि यदुरःम्थले निपत्य कुण्ठीबभूवुरित्यर्थः । तत्र हेतुः- स्थेयसि स्थिरतरे, शिलातलवदतिकठिने इत्युरोविशेषणम् । विभु विशिनष्टि - दहनेति । दहनो बह्निः, विधुश्चन्द्रः, तोयं जलं, इन आदित्यः, द्यौराकाश, धरा भूमिः, आत्मा जीवः, मरुद्वायुः, एतन्मयेन अष्टमूर्त्यात्मकेनेत्यर्थः विश्वात्मनि परमेश्वरे एतदुपपन्न मिति भावः । तम्य विभोरिति पूर्वेण सम्बन्धः ॥३॥ अथ विशिष्टशब्दार्थप्रतिभालाभाय वाग्देवतां प्रार्थयते स्फुरतु सरस्स्वत्यन्तस्वच्छेन्दुकलेव नः सरस्वत्यन्तः। उत्तुङ्गतमोहान्या नित्यं लोकान् करोति गतमोहान् या ॥४॥ स्फुरत्विति । सरस्वती शब्दाधिष्ठात्री परा देवता ! नः अस्माकम् । अन्तः मनसि । स्फुरतु प्रकाशताम् । प्रार्थनायां लोट् । कीदृशी । अत्यन्तस्वच्छा अतिशयेन निर्मला, शुद्धसत्त्वमयत्वाद्धवलेति यावत् । सरस्वती हि धवलवण भवति । यथाहुः – पञ्चाशद्वर्णभेदैरित्यादिना । कुत्र किमिवेत्यत्राह – सरस्स्वि! ति । सरस्सु जलेषु इन्दुकलेव शशिरेखेव । यथेन्दुकला जले प्रतिबिम्बतया स्फुटं स्फुरति तथास्मन्मनसि सरस्वत्यपि स्फुरतु इत्यर्थः । उपमया सरस्वती- स्फुरणस्य स्फुटोपलम्भता प्रत्याय्यते । "सरस्तु सलिले क्लोब तटाके तु नपि स्त्रियाम् । तत्रापि स्व्यर्थवृत्तित्वे सरसीति स्त्रियां पुनः ।। महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ।" इति केशवः । पूर्णेन्दोरुपमानतायां सकलङ्कत्वदोषसंभवाद् अत्यन्तस्वच्छत्वमुप- मानस्य न स्यात् । तत्कलायास्तु कलकदोषो नास्त्येवेतन्दुिकलाया उपमा.

सव्याख्ये त्रिपुरदहने नतयोपादानमिति बोद्धव्यम् । सरस्वतीम्फुरणस्य किं फलमित्याशङ्कायां तो विशिनष्टि - या सरस्वती उत्तुङ्ग तमोहान्या उत्तुङ्गस्यातिमहतः तमोगुणस्याज्ञान- कारणस्य हान्या नाशेन । नित्यं नियमेन, लोकान् भक्तिपुरस्सरं भजमानान् जनान् । गतमोहान् नष्टाज्ञानान् करोति । "लोकस्तु भुवने जने" इत्यमरः। "तमस्तु क्ली पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बेले ॥ अज्ञाने ज्वलति ध्वान्ते रात्रौ राही च नामतः ।" इति केशवः। "मोहः पुनः स्यादज्ञाने मूळयां क्रोध एव च । अजयस्त्वाह तन्द्रायाम्" इति च । सरस्वत्यामन्तःस्फुरितायां सकारणाज्ञाननिवृत्त्या शुद्धे मनसि विशिष्ट- शब्दार्थप्रतिभया भवितव्यामति भावः ॥ ४ ॥ अथाभिधित्सितस्यार्थस्य इतिहासपुराणमूलत्वात् तद्याथातथ्यस्फुरणाय तत्प्रणेतारं व्यासं प्रार्थयते यो भासा मा वियतस्तुलयति भारतसुधाम्भसाभावि यतः । जगदेनोहृदयमलं हरतु व्यासाम्बुधिश्च नो हृदयमलम् ॥ ५ ॥ य इति । चशब्दः समुच्चये । अयं वियत्सदृशवर्णत्वादिविशिष्टो व्यासाम्बुधिश्व, न केवलं सरस्वत्येव व्यासाम्बुधिरपि । व्यासाम्बुधिरिति मयूरव्यं. सकादित्वात् रूपकसमासः । नः अस्माकम् । हृदयमलं हृदयस्य मलमप्रतिपत्त्य- न्यथाप्रतिपत्तिलक्षणदोषम् । अलमत्यर्थ हरतु अपनयतु, प्रार्थनायां लोट् । अम्बु- धित्वमुपपादायतुमाह - य इति । यो व्यासाम्बुधिः भासा निजया देहकान्त्या । वियतः आकाशस्य माः भासः । बहुवचनमविवक्षितम् । कान्तिमित्यर्थः । तुलयति उन्मिमीलयते। वियत्सदृशो नीलाभ इत्यर्थः । वस्तुतः वियतो नीरू- पत्वेऽपि लोकप्रतीत्यनुसारेणैवमुक्तम् । यतः यस्माद् भारतसुधारमसा भारत श्रीमहाभारताख्य इतिहासः तदेव यत् सुधाम्भः पीयूषजलं तेन । अभावि उद्- भूतम् । अत्रामृतोत्पत्तिभूरम्बुधिरित्येव विवक्षितम् । न तु क्षीराम्बुधिरिति ।

प्रथम आश्वासः । तथात्वे हि नीलवर्णत्वमुक्तमनुपपन्नं स्यात् । जगदेनोहदिति । अत्रार्था- द्विभक्तिविपरिणाम इति नीत्या पञ्चम्यन्तो यच्छन्दः प्रथमान्ततया विपरिणतो नुषज्यते । यः जगदेनोहृत् जगतो जगद्वासिनो जनम्य यदेनः पापं तद्धरति नाशयतीति तथोक्तः । अत्राम्बुधिरिब व्यासः सुधाम्भ इव भारतमिति विगृह्य "उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे" (पा० सू० २. १. ५६) इति समासं विधाय उपमाश्रयेणापि व्यख्यातुं शक्यते । अतेऽत्रोपमारूपकयोस्साधकबाध- काभावात् सन्देहसङ्करः ॥५॥ अथ प्रारिप्सितप्रबन्धप्रचयगमनाय "यद्यदाचरति श्रेष्ठस्तत्तदेवेतरे जनाः । स यत् प्रमाणं कुरुते लोकस्तदनुर्वतते' । इति न्यायाद्र जपरिग्रहादेव लोकपरिग्रहः स्याद्राजपरिग्रहश्च तत्प्रशंसयैव भवेदिति मन्यमानः त्रिभिः श्लोकैः तदानीन्तनं राजानमभिष्टौति - जन्म- अस्ति स कविलोकनतः क्षितिभृदरिय॑स्य सैनिकविलोकनतः । बहुविपदि क्षुद्रवति माभूति कुर्वन पदानि दिक्षु द्रवति ॥६॥ अस्तीति । स तादृशः क्षितिभृत् राजा अस्ति विद्यते । साफल्यात् स एव सत्तां लभत इत्यर्थः । क्षितिभृतश्चिरातीतत्वेऽपि कवेरुक्ती विद्यमानत्वाल्लटप्रयोगः । अद्यापि यशश्शरीरत्वेन विद्यमानत्वाद्वा। कीदृशो- ऽसावित्यत्राह - कविलोकेति । कविलोकनतः कवयो विद्वांसः काव्यकृतश्च, उभयेऽप्यत्र विवक्षिताः तेषां लोके समूहे विषये नतः प्रहीभूतः । “प्राज्ञकाव्य- कृतौ कवी" इत्यमरः। अनेन स्वयं विद्वान् काव्यकृञ्चेत्युक्तं भवति । वैदुष्यं क व्यकृत्त्वञ्च विना तन्नमनानुपपत्तेः । एतद्धि जन्मनः फलमिति भावः । कविलोके नतः इति वा विग्रहः। वैदुष्यं काव्यकृत्त्वं च सर्वसाधारण एव गुणः । अथ राजैकविषयान् गुणान् दर्शयति - अरिरिति । यस्येत्येतत् "एकस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते । तच्च काकाक्षिवत् क्वापि भित्तिदीपसमं वचित् ।।" इत्युक्तलक्षणेन भित्तिदीपायमानेन तन्त्रेणारिसैनिकयोः संबध्यते । यस्य क्षितिभृतः अरिः शत्रुः । यस्य सैनिकविलोकनतः सैनिकानां भटानां विलोकनतः

८
सव्याख्ये त्रिपुरदहने
मा.
.
वीक्षणादेव हेतोः, क्षुद्रवति क्षुत् क्षोदः पीडा तां राति ददातीति क्षुद्रा नृशंसा
व्याघ्रादयो हिंस्रा इत्यर्थः; तद्युक्ते । तथा बहुविपदि बढ्यो विविधा विपदः
कण्टकशकुदवाग्न्यादिभ्यः पादाघातदेहदाहाद्यापदः यस्मिन् ताशि ।
भृति पर्वते पदानि अजिन्यासान् कुर्वन् दिक्षु द्रवति धावति ।
'क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ।"
इति केशवः ।
"पदमछौ शरे त्राणे व्यवसायापदेशयोः ।
चिह्वेऽधिचिह्नेऽविन्यासे पद्यभागेंऽशुवस्तुनोः ।।
स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ।"
इति च । अयमर्थः -
यस्य शत्रवः सैन्यदर्शनादेव भीताः पलाय्य पर्वत-
गुहासु तिष्ठन्तस्तत्रापि तदागमनभिया म्थातुमशक्ताः नानादिक्षु पलायन्ते इति ।
अनेन प्रतापवत्ता दर्शिता ॥६॥
यः
साधूनां पाता यः स्थिरव्रतो यश्च पापिनां पाताय ।
यस्मादुर्व्यापार प्रीति यस्यामलं विदुर्व्यापारम् ॥ ७ ॥
साधूनामिति । यःसाधूनां सतां पाता रक्षिता च भवति ।
पापिनां मर्यादातिक्रान्तानां पाताय नाशाय स्थिरव्रतश्च स्थिरं दृढं व्रतमभङ-
ग्यानुष्ठानं यस्य स तथोक्तः। आभ्यां शिष्टरक्षणं दुष्टनिग्रहश्चोक्तः । शिष्ट-
रक्षणादपि दुष्टनिग्रहस्य प्रजाप्रीतिकरत्वं वक्तुं पापिनां पतं विशिनष्टि – यस्मा-
दिति । यस्मात् पापिनां पाताद्धेतोः उर्वी उर्वीस्थो जनः । अरमत्यर्थ, शिष्ट-
रक्षणादप्यधिकम् । प्रीति मुदम् आप पूर्वमादिराजादेवारभ्य प्राप्तवती तस्मै
पापिनां पातायेति सम्बन्धः । ननु यस्म न्महीभृतः उर्वी सत्पालनात् अरं प्रीति-
मापेत्यर्थः कस्मादुपेक्षितः । उच्यते -- कवेरुक्तिसमये राजा वर्तमान एव ।
अत एव क्षितिभृदस्ति, अरिदिक्षु द्रवति, व्यापार विदुरिति, राजशेखरं व्याल-
पतीति चः । तस्यैव राज्ञः प्रजाप्रीतिकरत्वप्राप्तेः परोक्षत्वेन लिट्प्रयोगस्यानुपपत्ते-
रित्थं व्याख्यातम् । यस्स क्षितिभृतो व्यापार प्रवृत्तिम् । अमलं निर्दोष विदुः
जानन्ति, सन्त इति शेषः । अनेन विहिताचारपरत्वमुक्तम् ॥७॥

प्रथम आश्वासः । or खपदपयोजनते यं सदैव सम्पादकं श्रियो जनतेयम् । भूतिधरं व्यालपतिस्फुरत्कर राजशेखरं व्यालपति ॥८॥ स्वदेति । इयं भूलोकान्तर्वर्तिनी जनता जनसमूहः । यं राजशेखरं व्यालपति राज्ञां शेखरवदलङ्कारभूतत्वाद् राजशेखर इति कथयति । कीदृश इत्यत्राह – स्वपदेति । स्वपदपयोजनते स्वपद पयोजयोः चरणाम्बुजयोः नते इष्टार्थसिद्धये प्रणते जने। सदैव सर्वस्मिन् काल एव । श्रियः सम्पदः । सम्पादक दातारमित्यर्थः । "श्रीरिन्दिरायां शोभायां स्यात् सम्पत्तिलवङ्गयोः ।" इति केशवः । अनेन दानपरत्वमुक्तम् । राज्ञां हि धर्मम्सर्वस्वदानमेव । उक्तं च मुरारिणा- हुतमिष्ट च तप्तं च धर्मश्चायं कुलस्य ते । गृहात् प्रतिनिवर्तन्ते पूर्णकामा यर्थिनः ।। इति । सर्वदा दानस्य प्रभूतं रत्नं विनानुपपत्तेस्तदुपपादनाय विशिनष्टि - भूतिधरमिति । भूतिस्सम्पत् । 'भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ।" इति केशवः । धरतीति धरः पचाद्यच् । भूतेर्धर इति विगृह्य "कृद्योगा च षष्ठी सम- स्यत इति वक्तव्यम्" (वा०. २. २. ९.) इति समासः । प्रभूतधनमित्यर्थः । तथा व्यालपतिस्फुरत्करं व्यालपतिः सर्वश्रेष्ठः तद्वत् स्फुरन्तौ शोभमानौ करौ यस्य स तथोक्तः। उपलक्षणमेतदवयवान्तरसौष्ठवस्य । अनेन महापुरुषलक्षणशा- लित्वमुक्तम् । अत्र राजा चन्द्रः शेश्वरश्शिरोभूषणं यस्य स राजशेखरश्शिवः । "राजा ना सोमवल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्रिये च प्रभौ च त्रिरस्मिन्नर्थत्रये यदा ।। स्व्यर्थे वृत्तिं तदा राज्ञि" सव्याख्ये त्रिपुरवहने इति केशवः । सोऽपि स्वपदपयोजनसे श्रियस्सम्पादकश्च, भूतिर्भस्म तद्धारकश्च, व्याल- पतिभिः भूषणतां प्राप्तैः स्फुरत्करश्च, इति शिवविषयो योऽर्थः स च प्रकरणे. नाभिधाशक्तेः राजनि नियन्त्रितत्वाद् ध्वने पय एव । ८॥ *इत्थं विरचितां राजस्तुतिं प्रकृत उपयोजयन्नाह - निजया तन्वा नेत्रप्रमोदनं प्राणिनां वितन्वानेऽत्र । मतिबलमासाद्य मितं पुरदहनं गविभुवा समासाद् याभनम् ॥९॥ निजयेति । अत्र एवं दर्शितगुणविशिष्टे एतस्मिन् क्षिनिभृति । निजया आत्मीयया। तन्वा देहेन । प्राणिनां सचेतनानां जन्तूनाम् । नेत्र-मोदनं नयन- प्रीतिं वितन्वाने । रविरिति कवेः पितुर्नाम, रवेर्भवतीति रविभूः , विभुवेत्यात्मनः तटस्थीकारेणोक्तिः; मया इत्यर्थः । मितं अल्पम् । मतिबलं बुद्धितिम् । आसाद्य प्राप्य इत्यौद्धत्यपरिहाराय । पुरदहनं त्रिपुरदाहाख्यं श्रीपश्वरचरितम् । समासात् समासस्संक्षेपः तमाश्रित्येति ल्यब्लोपपञ्चमी, ग्रन्थतः मक्षिप्येत्यर्थः । यमितं, यमशब्दो युगलपर्यायः तस्माद्यमवदाचष्ट इति विगृह्य "तत्करोति तदाचष्ट" इत्याचष्ट इत्यर्थे "प्रातिपदिकाद्धात्वर्थ बहुलमिष्ठवच्च" ( ० सू०) इति णिचि इष्ठवद्भावे च, "तुरिष्ठे मेयस्सु" (पा० सू० ६. ४. १५ ) इत्यधिकृत्य "विन्मतोलक" (पा० सू० ५. ३. ६५) इति मतोलकि, ६. ४. १४३) इति टिलोपे च कृते यमि इति सिद्धयति । -मात् कर्मणि क्तप्रत्यये रूपम् । यमकत्वेन संदृब्धमित्यर्थः । "निजं तु त्रिस्सनातने । आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ॥" इति केशवः । (पा० सू० * रामसमत्वादेव स्रष्टा रामाख्यमकृत मत्वा देवः । यं स च रक्षोपायं चक्रेऽस्य च कर्मजनितरक्षोपायम् ।। इत्ययं श्लोक: नवमतया ग्रन्थान्वरेपूपर्लम्यते ।

प्रथमं आश्वासः । न तु अत्र निजेत्यनुक्तावपि तनोरात्मीयत्वावगतौ स्त्यां यो निज देहमपि प्रजाप्रमोदसाधनतामनयत् तस्य किमुतान्यदैहिकं धनक्षेत्रादिकम् । तत्तु तत्सा- धनमेवेति द्योतयितुं निजयेत्युक्तम् । नेत्रप्रीतेस्तु चेतनत्वमेवोपाधिः । मनुष्यत्वादिकमिति द्योतयितुं प्राणिनामित्य कम् । काव्यनिर्माणस्य कालकथ- नेन स यच्छीलस्तच्छीलाः प्रकृतयोऽस्य भवन्तीति न्यायात् ताच्छील्यमेव मम काव्यनिर्माणे प्रेरकं, नतु कवित्वशक्तिरिति द्योत्यते। राज्ञः कवित्वं च कविलो- कनत इत्यनेन दर्शितम् ॥९॥ इत्थमुपोद्धातरूपमर्थमभिधाय प्रतिपाद्यमर्थ प्रस्तौति अथ विजहारामेयं तारकमुत्साद्य गिरिमहारामे यम् । सोमः समहासेनः स्थाणुः मह नन्दिनेन्दुसमहासेन ॥१०॥ अथेति । अरम्भार्थोऽथशब्दः । अथाभिधित्सितोऽर्थ आरभ्यते इत्यर्थः । "मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ"। इत्यमरः । अयं लोकशास्त्रप्रसिद्धयतिशयात् सर्वजनमनःपुरोवर्ती । स्थाणुश्शिवः । अमेयं शौर्यादिभिरियत्तारहितम् । तारकं तारकाख्यमसुरम् । उत्साद्य निहत्य । गिरिमहारामे गिरौ कैलासे यो महारामः आरामवत् स्थितो वनप्रदेशः तस्मिन् । विजहार कृतकृत्यतया क्रीडितवान् । कैस्सहेत्यत्राह -सोम इति । उमा पार्वती तया सह वर्तमानः । "उमा कामतस्यां च गिरिजायां श्रियामपि।" इति केशवः। समहासेनः महामेनो गुहः तेन च सह वर्तमानः । नन्दिना सह नन्दी नन्दीश्वरः तेन सार्धम् । कीदृशेन । इन्दुसमहासेन धावल्यादिन्दुना समः तुल्योः हासः स्मितं यस्य स तथोक्तः। अतिवल्लभत्वात् स्वैरविहारेऽपि उमा- महासेनयोस्तृतीयोऽहमासमिति मत्वा हर्षातिरेकादुत्पन्नहासेन ॥ १० ॥ ननु बालवेतालवत् लोकप्रवादमात्रसिद्ध एवायम् । वस्तुतस्तु परमेश्वर इति कश्चिन्नास्त्येब; तत्सत्त्वे प्रमाणाभावात् । सत्त्वे वा कीटेंपोऽयमिति

१२
सव्याख्ये त्रिपुरदहने
शङ्काद्वयमेकप्रहारेणाभिहन्तुं श्लोकद्वयेन ईश्वरसत्तां साधयन् स्थाणु वर्णयति
परमं धाम ध्येयं यो बिभ्रति च भ्रुवो बुधा मध्ये यम् ।
यं विभुमायतयोगा विचार्य जानन्त्यकृत्रिमा यतयो गाः ॥११॥
-
परममिति । यः स्थाणुः परम मुत्कृष्टं धाम तेजो भवति । नन्वस्य
स्वरूपं तेजश्चेदादित्यादितेजोवत् चाक्षुप्यं स्यात् । तथा च न भवति ।
तत्तेजस्त्वे किं प्रमाणमित्यत्राह - ध्येयमिति । ध्यातव्यं ध्यानचाक्षुष्यमेवेदं
तेजः, न लौकिकतेजोवन्मांसचक्षुर्माद्यमित्यर्थः । अनेन स्वानुभूतिरीश्वरसद्भावे
प्रमाणं, स्वरूपं तेज इत्युक्तं भवति । उक्तं च भवति -
"स्वानुभूत्येकमानाय नमश्शान्ताय तेजसे ।"
इति । ननु के ध्यातारः । कुत्र ध्यायन्तीत्यत्राह - बिभ्रतीति ।
बुधा
निखिलविद्यापारदृश्वानो योगिनः। यं तेजोरूपं स्थाणुम् । भ्रुवोर्मध्ये विभ्रति
दधति च । दीपज्वालाकारवद् भ्रूमध्ये ध्यायन्तीत्यर्थः । अथ प्रमाणान्तरं
स्वरूपान्तरं चाह - यमिति । चशब्दोऽनुषज्यते । यतयम्सन्यासिनः । अकु-
त्रिमाः अपौरुषेयाः। गाः वाचः, वेदान्तवाक्यानि । विचार्य यं स्थाणुं
विभुं व्याप्तं अखण्डपरिपूर्णाद्वयं ब्रह्म जानन्ति च अवगच्छन्ति ।
"ये निर्जितेन्द्रियग्रामा यतयो यतिनश्च ते ।"
इत्यमरः ।
। कीदृशा यतयः। आयतयोगाः आयतो दृढो योगश्चित्त-
वृत्तिनिरोधो येषां ते, तथा श्रुतियुक्तिसहकृतयोगाभ्यासवन्तो यतयः यं ब्रह्मत्वेन
साक्षात्कुर्वन्तीत्यर्थः । अनेन श्रुतिरीश्वर सद्भावे प्रमाणं, स्वरूपं च व्याप्तं ब्रह्म
इत्युक्तं भवति । यं प्रभुमिति क्वचित् पाटो दृश्यते। तदा जगत्सर्गादौ समर्थ
ब्रह्म जानन्तीत्यर्थः ॥११॥
अथास्य सकलं च रूपान्तरं तत्र प्रमाणमपि दर्शयन् परस्परविरुद्धाचार-
त्वेन वर्णयति
धृतमशनाय कपालं येन च यं प्राहुरमरनायकपालम् ।
परिभूतो मारोपि स्वविग्रहे येन भगवतोमारोपि ॥१२॥

प्रथम आश्वासः। १३ धृतमिति । अत्र प्रथमव,क्यगतश्वशब्दो वाक्यार्थसमुच्चयायोत्तरत्रानुषञ्जनीयः । येन स्थाणुना, अशनाय भोजनाय, कपालं शिरोऽस्थि, धृत चाधारि । यस्य भिक्षा(न्न? टन) लब्धानपात्रतां कपालोऽगमदित्यर्थः । "कपालोऽन्त्री क्वचित् स्त्री च कपालीति शिरोम्थनि । घटादिशकले केचित्पुनः शकलमात्रके ॥" -- इति केगवः । अनेन निष्किञ्चनत्वम्य पलाका(?) दर्शिता । यममरनायकपालम् अमर- नायका इन्द्रादयः तान् पालयतीति तथा । 'कर्मण्यण् ' ( पा० सू० ३-२-१) इत्यम् । जगदी घराण,मपी-वरनित्ययः । प्रादुः कथयन्नि । बुधा इति शेषः । अनेन समृद्धे ।तिशय आवेदितः । परिभूत इति । 'अर्थाद्विभक्तिविपरिणाम' इति न्यायात् तृतीयान या विपरिणमद् यनित्येतत् पदमत्रानुषज्यते । अथवा उत्तरवाक्याद् येनेत्येतदत्रानुकर्षणीयम् । येन स्थाणुना, मारोऽपि ब्रह्मादिकीटकपर्यन्तैः प्राणिभि- रनिवार्थप्रसरः कामोऽपि, परिभृतश्च तृतीयनेत्राग्निना भस्मीकृतः । अपिशब्दः परिभवे प्रति कामस्य कीभावेऽत्यन्तासंभाव्यतां द्योतयति । वाक्यार्थसमुच्चायको वापिशब्दः । येन मारः परिभूतोऽपीत्यनेन विरागतातिशयः प्रकाशितः । येन स्वविग्रहे स्वशरीराध, उमा पार्वती, आरोपि स्थापिता । येन प्रेमातिशयात् शरीरार्धमपि दत्तमित्यर्थः । अनेन रागातिशय उक्तः । परम्परविरुद्धव यां युगपदैक धिकरण्यमुपपादयितुं विशि- नष्टि-भगातेति । ऐश्वर्यादिगुणषट्कं भगम् । । ऐश्चर्यम्य समग्रम्य वीर्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। " सोऽम्यास्तीति भगवान् । (उभयथापीश्वरत्वमेव भगवत्त्वम् ?) अघटितघटयितृत्वं हीश्वरत्वात् । " उत्पत्तिं च विनाश च भूतानामागति गतिम्. । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ " १४ सव्याख्ये त्रिपुरदहने इत्युक्तलक्षगो वा भगवान् । उभयथापीश्वरत्वमेव भगवत्त्वम् । अवटि नघटवितृत्वं तत्र किमसंभाव्यमिति भावः । अनेनास्य पागि रादादिस्पान्तरं तत्मत्तायामाप्ताक्तिलक्षणं प्रमाणं चास्तीत्युक्तं भवति ॥ १२ ॥ अथ त्रयोदशभिः श्लोकैः सावितसताकम्येश्वरम्यापदानं प्रकाशयन् वर्णयति- . . व्रतममलं कापालं येन धृतं यो ममर्द लङ्कापालम् । यदुराम कुम्भीनस्यः स्वपन्ति यो भेदकश्च कुम्भीनस्य ॥ १३ ॥ व्रतमिति । अत्र ‘एको द्योतको बहूनामन्त्यः' इति न्यायाद् अन्त्यस्थितः चशब्द: प्रतिवाक्यमभिसंबध्यते । येनानलं निर्मलं, कापालं कपालसंवन्धि शैवागमप्रसिद्धं, व्रतमभ- ङ्ग्यानुष्ठानं, धृतं च । यो लङ्कापालं रावणं, ममई च, पीडितवान् । भुजबलमदेन कैलास- मुद्धृत्योत्क्षियन्तं रावगं पर्वताधो निपात्य उपरिस्थितपर्वततया निश्चेष्टमकरोदित्यर्थः । यदुरमि यम्योरःस्थले, कुम्भीनस्यः हारादिवद् भूषणतां प्राप्ता नागस्त्रियः, स्वन्ति च निद्रां कुर्वन्ति । उर:स्थलाधिकरणाचा निद्रायाः स्त्रीणामौचित्यात कुम्भीनमीनामुपादानम् । कुम्भीनसः सर्पविशेषः। 'कुम्भीनसो लोहिताहि: कृष्णसर्पः कुलम्थकः ।' इति यादवः । स च विशेयोपादानम्यानुपयोगात् सर्वसामान्य लक्षयति । यः कुम्भीनस्य कुम्भीनां गजानामिनः स्वामी कुन्भीनः । गजासुर इत्यर्थः । तस्य, भेदकश्च प्राणहारी ॥ १३॥ यस्य विलोकनदीप्ता लोका यस्यापदमरलोकनदी ताः। योऽकृत कृत्या वासः कलासे यस्य सौख्यकृत्याधामः ॥ १४ ॥ यस्येति । पूर्वश्लोकाच्चशब्दोऽत्रानुषज्यते । लोका भूरादयः, यस्य स्थाणाः, विलोकनदीताश्च विलोकनेन सोन्मुखम्पन्दशक्तिमात्रपरमार्थेन ईक्षणेन, दीप्ताः प्रकाश- मानाः । लब्धसता इति यावत् ।

प्रथम आश्वास:1 १५ यम्याहुर क्षणमिदं विश्वं नैगममूक्तयः ।' इति । यद्वा विलोकनम्तेजस्त्रयात्मकैनयनीप्ता भवन्ति । अमरलोकनदी यस्य साः जटाः आपञ्च प्राप्तवती। अयमर्थ: भगीरथप्रार्थनया म्वोकाद् भूलोक- मवतरन्ती गङ्गा स्वप्रवाहप्रपातधारणसामर्थ्यवतोऽन्यम्याभावात् तद्धारणे शक्तिमतो यम्य मूर्धनि पपातेति । यः कृत्या करिणो व्याघ्रस्य वा चर्मणा, वासः वस्त्रं, अकृत कृतवान् । यस्य कैलासे कैलासादये गिरी, आयामश्च निवासो भवति । तत्र हेतुः मौख्यकृतीति । सुग्वमेव सौख्यम् । चातुर्वर्णादित्वात् प्यङ् । यद्वा सुखयतीति सुरवः । पचाद्यच् । तम्य भावः सौग्व्यम् , तत्करोतीति सौख्यकृत् ।। १४ ॥ , योऽधति गामपि नाकं यस्य करग्राह्यतां जगाम पिनाकम् । यः ख्यातः परशौचः श्मशाननिलयोऽपि यो रतः परशौ च ॥१५॥ य इति । अपिरनुक्तसमुच्चयार्थः । यः स्थाणुः, नाकं म्वगं, गां भूमि, अपिशव्दाद् अन्तरिक्षं च । अवति रक्षति । पिनाकं पिनाकारल्यं धनुः । यम्य करग्राह्यतां त्रिलोक- रक्षायै करेण उपादेयतां, जगाम च गतवत् । पिनाकः श्रीमहादेवचापे शूलाह्वयायुधे । रजोवर्षे च दण्डे च" इति केशवः । यः श्मशाननिलयः श्मश,नं पितृवनं तदेव निलयो वासस्थानं यस्य स तथा । श्मशानवा म्यपि परशौचः अत्यन्तशुद्धः । ख्यातश्च लोके वेदे च प्रसिद्धः । लोके हि कश्चित् श्मशानवासी चेदशुद्ध एव भवति । अयन्तु प्रत्युत श्मशानवासित्वेऽपि नित्यशुद्ध एव । अनेनास्य लोकोत्तरस्वभावतोक्ता । यः परशो कुठारे दैत्यशिरच्छेदनसाधकतमे, रतश्च रक्तो भवति ।। १५ ॥ यस्य च वेकुण्ठेपु स्नेहो यस्यारिराहवे कुण्ठेषुः । गलिनोचारावेण स्फुटमटतो यस्य दोणि चारावेणः ॥ १६ ॥ .

१६ सव्याख्ये त्रिपुरदहने यस्येति । यस्य वेकुण्ठेषु द्रोणपुष्पेषु, स्नेहश्च आल.नमलंक प्रीतिर्भवति । यस्यारिः शत्रुः, आहवे युद्धे, कुण्ठेपुश्च कुण्ठः शरव्यभेदाक्षम इपुर्यस्य स तथा । आयुधान्तरोपलक्षणमिषुग्रहणम् । कुण्ठायुध इत्यर्थः । यस्य चारौ दुष्टनिग्रहकरत्व त मुन्दरे, दोष्णि भुजाये, एणश्च मृगो, विद्यते । कीदृशस्य । उच्चारावेण भगवद्व,हनता- (ज्ञाजा)तगर्वतया उच्चैस्तरः आरावः हुम्भानादो यस्य तादृशेन, गलिना वृषण, स्पुटं यथा भवति तथा अटतः गच्छतः ॥ १६ ॥ यं वा काली नमति स्कन्दोंऽशो यस्य योऽम्बिकालीनमतिः । यश्च विनायकतातः प्रमथा येनोद्धृता विनायकतातः॥ ॥१७॥ यमिति । वाशब्दः समुच्चये। यं स्थाणुं, काली भद्रकाली. नमति वा नमम्करोति । स्कन्दो गुहो, यस्यांशो वा पुत्रतया स्थितः एकदेशः। यः स्थाणुः, अम्बिकालीन- मतिः वा अम्बिकायां पार्वत्यां सक्तचितः । यो विनायकतातश्च विनायकम्य गणपतेः रिता भवति । येन प्रमथा भूतगणाः, धिनायकतातः विगतो नायकः म्वामी येभ्यन्ते विनायकाः, तेषां भावो विनायकता, तम्या भयहेतोः, उद्धृताश्च रक्षिता अभवन् । स्वेन नाथवन्तः कृता इत्यर्थः । यः भृत्यकस्त्र पुत्रपरिवृतो लौकिकी वृत्ति- मनुवर्तत इत्यर्थः ॥ १७ ॥ यत्समवेता लाल्या जगतब गणा युताश्च वेतालाल्या। उच्चा नीचा मुण्डीभूताः प्रेताश्च डाकिनी चामुण्डी ॥१८॥ यत्समवेता इति । एवकारो भिन्नक्रमोऽन्ययोग व्यवच्छिनत्ति। गणाः श्रीभूत- गणाश्च, प्रेताः गणविशेषाः, डाकिनो चामुण्डी च यत्समवेता एव येन स्थाणुना समवेताः परिवारतया संबद्धा एव जगता जगद्वासिना जनेन लाल्या अभिनन्द- नीयाः । वन्द्या इति यावत् । भवन्तीति शेषः । अत्र डाकिनी चामुण्डीति जातिपरो निर्देशः । डाविन्य वामुण्ड यश्च इत्यर्थः । तामसजातित्वानिकृष्टा अपि भूतप्रेतादयः

प्रथम आश्वासः ।
१७
यत्संबन्धाद्वन्द्या भवन्तीत्यर्थः । गगं विशिनष्टि-युता इति। वेतालाल्या वेताला नाम
पिशाचविशेषाः । तेषामाल्या साहेन । चादादनुकतैः कूश्नाण्डादिभिश्च युता। वेतालालिं-
रपि यत्नमये। यत्सम्यन्य च्या भोव्यर्थः। तथा उचाः गगनालार्यन्तदीघाः ।
नीचाः वामनाः । मुण्डो पूताः का.शेरोवरनाः। विकृताननाकारा इत्यर्थः । यत्सम्बन्धाद्
हीनानामपि उत्कर्षः तम्योत्कर्ष : (कि) कथ्यतामिति भावः ॥ १८ ॥
शिवभक्तः श्वेतो नाम कश्चिद ब्राह्मणो बभूव । तं मृत्युना ग्रस्यमानं भीतं
शरणार्थिनम् आलोक्य परमकारुणिको भगवान् मृत्यु हत्वा तं रक्षिनवानिति पौराणिकी
प्रसिद्धिः । तदेतदाह
येन सशङ्कालम्यः इवेतो जुगुपे गतो वशं कालस्य ।
सोऽपि रयादक्षेपि प्रकटफला यन्निराक्रिया दक्षेऽपि ॥ १० ॥
.
येनेति । येन म्थाणुना, श्वेतो जुगुपे रक्षितः । कीदृशः । मशङ्कालस्यः शङ्का
भयं तज्जनितं वैवश्यमालन्यं तेन सह वर्तमानम्तथा । तत्र हेतुः-गतो वशं कालस्येति ।
कालम्य मृत्योर्चशं विधेयतां प्राप्तः । किश्च म्वभक्तपरिबुभूषालक्षणापराधी कालोऽपि येन
म्थाणुना, रयाद् झटिति, अक्षेपि निरम्तः । निगृहीत इति यावत् । भगवन्निराकरणे कस्यापि
न सौख्यमित्याह – प्रकटेति । निराक्रिया यम्य निराक्रिया यज्ञभागाप्रदानादि-
लक्षणा निन्दा, दक्षेऽपि निखिलजगद्वन्ध दक्षप्रजापतावपि, प्रकटफला, किं पुनरन्येषु ।
प्रकटं प्रत्यक्षीभूतं फलं कार्य यम्याः सा तथा ।
.
फलं फाले धने वीयें निप्पत्ती भागलाभयोः ।
सस्ये हेतुकृते चर्मसंज्ञशस्त्रनिवारणे ।।
शस्त्राणां च मुखे "
इति केशवः ॥ १९॥

१८
सव्याख्ये त्रिपुरदहने
येन रिपूष्णोदन्तस्फुटयशसोत्पाट्यते स्म पूष्णो दन्तः ।
घुमदामध्यक्षेऽपि क्रुध्यत्यात्मा यतोऽलमध्यक्षेपि ॥ २०॥
येनेति । अपिशब्दो भिन्नक्रनः समुच्चये । येन पूष्णः पूषाग्यम्य देवस्य,
दन्तो दशनन् । जातावेकवचनं, दन्ता इत्यर्थः । उत्पाघ्यो स्म उत्पाटितः । कीदृशेन ।
रिपूष्णो दन्तस्फुटयशसा रिपूणामुष्णेनासह्येन उदन्तेन वृत्तान्तेन पराक्रमलक्षणेन स्फुटं
निर्विवादं यशो यम्य स तथा। तथाविधो नाम (परि)भवं न सहते इति भावः । कम्मात्
पूष्णो दन्तानुत्पाटितवानित्यत्राह -- ग्रुपदामिति । मदां देवानाम् अध्यक्ष स्वामिनि
इन्द्रे क्रुध्यति दक्षाध्वरध्वंसात् कुप्यति सति, आत्मा शिवः, स्वयं अलमत्यर्थमध्यक्षेपि
निरस्तः । यतः यम्मात् तम्मादुत्पाटितवान् । पूषा हि दन्तान् दर्शयित्वा हसितवान
इत्येवं पुराणेषु दृश्यते, न त्वधिक्षिप्तवानिति । अतोऽत्राधिक्षेपः सदन्तदर्शनी हास एव ।
हासम्यापि निन्दागर्भत्वेनाधिक्षेपतुल्यत्वात् । भगवन्निराकरणम्य फलं पूषण्यपि प्रत्यक्ष-
मित्यर्थः ॥ २०॥
यस्य च विलमन्नत्रच्छादनतो जगति तिमिरविलसन्नेत्र ।
लोचनमासीदच्छ लालाटं येन भुवनमासीढच्छम् ॥ २१ ॥
छादनतः
यस्येति । यस्य स्थाणोः, विलमन्नेत्रच्छादनतः उपपत्तिबलात् नवोढया
पार्वत्या सुरतसमये वीलया विलसतोः दीप्यमानयोः लोचनयोः विलोचनयोः,
पिधानाद्धेतोः । अत्र एतम्मन् , जगति, तिमिरविलसन्ने तिमिरावृतत्वेन विलान्तर्गत इवा-
प्रकाशीभवतीत्यथः । लाला ललाटे निटिले भवम् , अच्छमग्न्यात्मकत्व ज्जाज्वल्यमानं,
लोचनं नेत्रमासीच्च उत्पन्नमभूत् । तेन लोकः प्राकाश्यमापेत्याह - येनेति । लालाटलोच-
नेन हेतुना भुवनं कर्तृ, शं सुखं, प्रकाशीभावात्मकम् , आसीदत प्राप्तवत् । अनेन त्रि-
लोचनत्वात् लोचनानां च तेजम्त्रयत्वाचास्य लोकातिशायित्वमुक्तम् ॥ २१ ॥

प्रथम आश्वासः। १९ . अतिभीनं वरतोयं महता वेगेन गलितमम्बरतो यम् । भङ्गं नेतुं गाङ्ग नै शशाक स्थितं वने तुङ्गाङ्गम् ॥ २२ ॥ अतिमीममिति । अम्बरतः आकाशात् , महता अतिशयेन वेगेन । प्रकृत्यादि- त्वात् तृतीया । गलितं पतितं, अत एघातिभीमं भयङ्का, गाङ्गं गङ्गासम्बन्धि, वरतोयं वरमुत्कृष्टम् , म्वरूपतो महदित्यर्थः न तु पावनमिति । तम्यात्रानुपयोगात् । तोयं जलं, यं स्थाणु, भङ्गं बाधां, नेतुं नव शशाक । गङ्गाप्रवाहोऽपि यं स्वप्रपातधारण सामर्थ नेतुमशक्तोऽदिर दर्थः । तत्र हेतु:- तुङ्गाङ्गमिति । तुङ्गानि उन्नतानि अङ्गानि शरीरा- वयवा(नि? वाः)यस्य स तथा । । -- 'अङ्गं शरीरावयवे शिरापायनयोर्गुणे । ' इति केशवः । महाशरीरमित्यर्थः । अम्बरत इत्यवधिनिर्देशः पतनस्य दुरीभा- वनात्यन्तासह्यतां द्योतयति। स्थाणुं विशिनष्टि-वने स्थितमिति । वनेऽरण्ये स्थितं, न तु तत्प्रवाहधारणक्षभे प्रदेशे स्थितमिति भावः । ननु “ यम्यापदमरनदी ताः" इत्यनेन पूर्वमेव गङ्गाधरल्यमुक्तम् । इदानीमपि, भङ्ग्यन्तरेण तदेवाच्यते । अतोऽत्र पौनरुक्त्यं महान् दोषः स्यात् । उच्यते - पूर्व भगवति गङ्गायाः प्राप्तिर्विहिता । इदानीन्तु प्राप्तिन (नृ )द्य तस्या भगवद्भ(गयाधारे न ? ड्राधाने) सामर्थ्याभावी विधीयते इति न पौनरुक्त्यम् ।। २२ ॥ पदयोरायाशु पतन्नरत्रं यस्यार्जुनः पुरा पाशुपतम् । नष्टभये नाकारिबाते नाशः क्षणेन येनाकारि ॥२३॥ पदयोरिति । अपिशब्दोऽत्र ध्याहर्तव्यः । पुरा पूर्वमर्जुनोऽपि भूभारसञ्जिहीर्षया नरनारायणयोरूपेग स्थितस्य विष्णोरंशः पार्थाऽपि, यस्य स्थाणोः पदयोः पतन् (लक्षण हेत्वोः क्रियायाः'(पा० सू० ३-२-१२६) इति हेतौ शता। दुश्चरतपश्चर्यया भगवन्तं प्रसादयन्निययः । आशु अविलम्बितं यथा भवति तथा, पाशुपतं पशुपतिर्देवता २० सव्याख्ये त्रिपुरदहने ? यस्येति पाशुपतम् । 'साम्य देवता' (पा० सू०४-२-२४) इत्यण् । पाशुपतसंज्ञम् अस्त्रम् , आप लब्धवान् । आश्विति क्रियाविशेषणम् । 'कृवापाजि' (उ० सू० १) इत्यादिनो प्रत्ययः । तदन्तात् प्रथमैकवचनम् । तप्य ‘क्रियाविशेषणानां च ' इति नपुंसकत्वात् 'स्वमोनपुंसकात् ' ( पा० सू० ७ - १ - २३) इति लुक् । ननु क्रियाविशेषगाद् द्वितीयैकवचनमिति केचित् । प्रथमैकवचनमित्यन्ये। कथमुभयोरुपपत्तिः: उच्यते--क्रिया हि साध्यमानत्वात् कर्मकारकं भवति । तदा मृदु पचतीत्यादौ मृदु कृत्वा पचतीत्यादिरर्थ: स्यात् । ततः क्रियायाः (कतृत्वात् १ कमत्वात् ) तद्विशेषगात् द्वितीयैकवचनं भवति । तथोत्यमानत्वात् क कारकम पि भवति । तदा मृदु यथा भवति तथा पचतीत्यादि- रर्थ: स्यात् । ततः क्रियायाः कतृत्वात् तद्विशेषणात् प्रथमैकवचनं भवति इत्युभय- मप्युपपद्यते । उक्तं च भोजेन-"न च क्रियाविशेषणानां कर्मवत नियमः । क्रिया हि यथा साध्यमानत्वात् कर्म तथा उत्पद्यमानत्वात् कापि भवति। ततश्चाभयथापि क्रियाविशे- षगानि योज्यन्ते” इति। अस्त्रावाप्तिः फलवती च सदित्याह-नष्टभय इति । अस्त्रेण करणेन नाकारित्राते नाकारीणां दैत्यानां निवातकवचाख्यानां, बाते समूहे । क्षणेन झटित्येव नाशोऽकारि। अजुनेनेति शेषः । नन्वस्त्र नरेषु विद्यमानेषु कुतः पाशुपतास्त्रं प्रयुक्तवानि- त्यत्राह-नष्टभय इति । नष्टं भयमस्त्र,न्तरेभ्यो भीतर्यस्य स तथा। जगत्त्रभोविष्णोरप्यंशा अर्जुनादयोऽपि यत्प्रसादलाभादेव जगद्रक्षापटवो भवन्तीति भावः ॥ २३ ॥ आम्तामर्जुनादयोऽशाः अंशी विष्णुः स्वयमपि स्वाधिकारानुष्ठ,नौकर्याय स्थाणु - प्रसादयामासेत्याह अची रचयांचक्र स्वचक्षुषा पूर्णपुष्करचयां चक्रे । अतिगृध्नुमना यस्य स्वयं हरिः कर्तुमरिखधमनायस्य ॥ २४ ॥ अर्चामिति । अपिशब्दोऽत्रार्थादाक्षिप्यते । हरिविष्णुः, स्त्रयमपि यस्य स्थाणो- रची पूजां रचयांचक्र कृतवान् । किमभिसन्धायाचितवानित्यत्राह - चक्रे इति ।

प्रथम आश्वासः । २१ सुदर्शन.पं यच्चक्रं तच्छिवसंवन्धि पूर्वमभूत् । तम्मिश्चक्रे अतिगृनुमनाः अति- गृध्नु अत्यर्थ काङ्क्षणशीलं मनो यम्य स तथा । शिवाच्चक्रादानाभिसन्धित्सुरित्यर्थः । किमर्थमम्य चक्रादित्सा इत्यत्राह - कर्तुमिति । अनायस्य आयासं क्लेशमक वा । अरिवधं शत्रुनिग्रहं कर्तुम् । पुरा शिवप्रसादनाय तपश्चरन् हरिः प्रतिदिनं नियमित- मंग्व्यैः पद्म: शिवार्चनरूपं व्रतमतिष्ठत् । शिवः तम्य नियमम्थैर्यपरीक्षार्थ अर्चनसमये पद्ममेकं तिरश्चकार । ततो हरिः तत्सळ्यापरिपूरणाय स्वीयं नेत्रमुत्पाट्यार्चितवान् इति या पौगणिकी परिद्धिः नामनुमन्याची विशिनष्टि - स्वचक्षुषा इति । स्वम्यात्मनः विष्णोश्चक्षुषा ऊनसङ्ख्यापूरणार्थमुत्पाटितेन नेवण, पूर्णपुष्करचयां पूर्णः पुष्कराणां पद्मानां च्यम्समूहः म्यां सा तथा । " पुष्करं करिहम्ताये जले वाद्यमु वे युधि । ग्येऽने दिव्यमुरायां च तीर्थभेषजभेदयाः ॥ पटहे मुरवे त्वन्ये पुमांम्तीर्य च मारुते । शप च शोभने तु म्यात भेद्यलिङ्गमिति स्मरेत् ॥" इति केगवः ॥ २१॥ पुरा खलु जगदीशम्मन्यतया परम्परं विवटमानी हरिविरिश्चावभूताम् । ततस्तद्व- निर्वापणाय तयोः पुरस्त, दयाभयकोटि के ज्योतिलिङ्गं प्रादुरभूत् । ततश्चैतदन्तं यो दृश्यति स जगदीगो भवन्विति समयं कृत्वा तद तदिदृक्षया हरिरधम्तात विरिञ्च उपरिष्टाच्च द्राधीयसा कालेन दवीयांमम् अध्वानं गत्वापि तदन्तमपश्यन्तौ यथागतं प्रत्यागताविति पुराणप्रसिद्धिमनुमृत्य भगव-महिमानमुद्बाटयति सत्वरगत्या यस्य ब्रह्मोघ हरिरधो जगत्यायस्य । अविजानानावादौ विनिवृत्तावन्तमात्तनानावादौ ॥ २५ ॥ , आदौ प्रथमसर्गे, ब्रह्मा विरिश्चः, जगति ऊर्ध्व उपरिष्टात् , हरिः विष्णुः, अधः अधस्तात् । सत्वरगत्या सत्वरया सवेगया, गत्या गमनेन हेतुना, आयस्य यलं

२२
सध्याख्ये त्रिपुरदहने
कृत्या, यस्य स्थाणोः ज्योतिर्लिङ्गात्मना स्थितस्य अन्तमपिजानानौ अपश्यन्ती,
विनिवृत्ती यथागतं प्रत्यागतवन्तौ । अत्रोभयोरपि अन्योन्यम्मात् पूर्वमेवैतदन्त-
दिदृक्षया गतेः सत्वरमित्यवगन्तव्यम् । आतनानावादाविति तात्कालिकं विशेषणम् ।
शिवोत्कर्षदर्शनादात्तोऽङ्गीकृतो नानाविधो लौकिकवैदिकादिभेदा(द)नेका कारः शिवस्तुति-
रूपो वादा यागिन्द्रियवृत्तियाभ्यां तौ तथोक्ती ॥ २५ ॥
इत्थमभिधित्सितवस्तु नायक भगवन्नमुपवण्यदानी प्रतिनायकवृत्ति दर्शनाय प्राप्तो
ऽवसर इति तदुत्पत्तिमाह -
अध गतिमापुप्यन्तरत्रयोप्य भगवन्यावान्तः ।
अचिरादामनमुगः कुवाणा दगा शगुमः ।। २६ ॥
,
अथेति । प्रकृतादादान्तरारम्भार्थी ऽपराधः । ५ इदानीमान्तग्मारभ्यत इत्यर्थः ।
अत्र उक्तगुणविशिष्टेऽम्मिन् भगवति म्याणौ , अन्तः मनमि, गति कार्यान्तरचिन्तामानात
स्वरविहारम् , आपुषि प्राप्ते सति, अचिगन तारकवधान परमविलम्वन , त्रयः
त्रिसदब्याकाः, असुरा आसन् अभवन् । कीदृशः। अभावम् अघानां पापानामा सञ्चयम्
आपुप्यन्तः प्राप्नुवन्तः । कुर्माणा इति यावत् । सदा पापमेव नरन्न इन्यर्थः । अन्युरान,
विगिंपन् तैर्देवाः पराजिता इत्याह कुाणा इति । सदा सोम्मिन काले. दश
दिशः आशाः, मन्नसुराः कुर्माणाः सन्नाः मुराः यस ना तथा । अभिभृतेः वर्गमपि
लक्या पलायमानर्देवैरधिष्ठित्त्यादिशां सन्नामुग्त्वम् ॥ २६ ॥
अथ जगदुपद्रवकरणे तेषां म्वाभाविकी शक्तिसम्पदं दर्शयन् तान् विशिनष्टि -
--
शुगः परमध्ये ये भक्ताः परमेश्मरे च परमध्येये।
ये समपाता रोगास्त्रय इव तारकभुवो नपातारो गाः ॥२७॥

प्रथम आश्चामः। शूरा इति । येऽसुराः , परमध्ये परेपां शत्रणां मध्ये , शरा निर्भयाः। परमेश्वरे भक्ताश्च । कीदृशे । परमध्येये परमेस्त्कृष्टजनैः ध्येये ध्यातुं योग्ये। न तु यस्यां कस्याञ्चित तामम्यां मूता भक्ता इति भावः । अनेन तत्तदिष्टफलप्राप्तौ सुलभता द्योत्यते। व- पुरुषकारसम्पन्नानां किमशक्यमिति भावः । ये च यो रोगाः रोगहेतयों वातपित्तश्लेष्मा- ख्या, इव समपाताः तुल्यगतयः । (त ? य था वातपित्तश्लेष्मम्वन्यस्मिन् विकृते अन्यावपि विकुम्नः तथैषामन्य(तर स्पिन मिचि कालपति? यप)वृत्तेऽन्यावपि तत्सहकारिणावित्यर्थः । उपमया चैकनत्यम्याव्यभिचारी द्योत्यते । शौर्य दिगुणयोगाद् एकैकम्यारब्धकार्यनिर्गह- क्षमत्वे सति मन्यो यम कसानां कि नामाशक्य निति भावः। ये च तारकभुवः तारकात् भारकाट्यादसुरात गवन्तीति। अथ अनेनामुप्यायणन्वकथनेन सहजायाशीयोदिगुण- सम्पत्तेः उन्को द्योत्यते। ईदृश्या शक्तिसम्पदा कुत्रापक्रियते इत्यत्राह - नपातार इति । सुप्युपति समासादक पदम् । उक्त च वाननन “एकशब्दम्सुप्मुपति समासाद् " का० मू० ५, २. १२) इति। गोगदन वाक् रवा भूमिश्च उच्यन्ते । अत एव बहुववनप्रयोगः । वाक वाद्विदलक्षगा। ये च गाः वाच: वेदलक्षणाः स्वर्ग भूनिं च नपातारः रक्षणालाः। पीडयिनार इत्यर्थः । नपातार इति तृन्नन्तं रूपम् । वेदवाधिनत्यं तच्चोदित फर्भवाधिक याद , अत एव हविभागाभावात् स्वर्गम्य बाधकत्वं, हवि- भागागावडेव वृष्टयनाविन लाभावाद् भूमेरपि बायकत्वमित्यवगन्तव्यम् । स्वर्गम्य तु युद्ध- बेलायामुपदितत्वाद् विशिष्य बाधकत्वम्पपद्यते । लोकपीडाय मेवेतच्छक्तरुपकार इति भावः ।। २७ ।। अथ ते जगत्पीडाविधी स्वाभाविकमा शक्त्यैवालम्प्रत्ययमलभमानाः पुनरौप , धिकी शक्तिमाधातुमुपक्रान्ता इत्याह वृत्तौ राजस्यां ते तमनसः परताधिराजम्यान्ने । धृतरभसं तापस्यव्रतमधुरुदयाय भुवनमन्तापस्य ॥ २८ ॥ वृत्ताविति । ते प्रस्तुता असुराः पर्वताधिराजस्य हिमवतः । अन्ते अवसाने, अधित्यकायामित्यर्थः । तापस्यव्रतं तापसेभ्यो हितं (पं)चाम्निमध्यस्थित्यादिकं व्रतमभङ्ग्या- २४ सव्याख्ये त्रिपुरदहने नुष्ठानम्, अधुः धृतवन्तः । धृतरभसमिति क्रियाविशेषणम् । धृतो रभसो वेगो यथा तथेति । स्वोत्पत्तिसमनन्तरमेव तपश्चेरित्यर्थः । रभसस्तु पुमान् वेगे हर्षसंरम्भयोरपि । त्रि तु स्यान्महति द्वे तु म्लेच्छ" इति केशवः । किमर्थं तपश्चक्रु रत्यत्राह – उदयायेति । भुवनमन्तापस्य भुगनम्य भुवनवासिनो जनम्य यः सन्तापः पीडा तम्योदयाय उत्पत्तये । लोकपीटा- सामर्थ्यलाभार्थमित्यर्थः । कथं ते पाप कर्मणि प्रवृत्ता इति शङ्का शकलयितुं तान विशिनष्टि -- वृत्ताविति । राजम्यां रजोगुणमय्यां, वृत्ती व मा.)ने, धृत ननम कृतबुद्धयः । राजम्यामित्येतत् तामन्यामप्युपलक्षणम् । राजमनामसम्वभावा इत्यर्थः । नाहगां हि पाप एव प्रतिमभविनाति भावः ।। २८ ।। अथैषामुपासनाविषयो ब्रह्मा; ते असतं च तं ग्वाभिमतं प्रार्थयामामुग्ल्यिाह - - तः कामो देवारिप्रबन्धातुम्मति प्रमोदेवारि । शक्तयाज गतावध्या म्याम वयं मामरण जगताध्याः ॥ २९ ॥ तरिति । तैः व्रतमनुतिष्टद्धिः, देवारिप्रवरखरैः, धातुः ब्रह्मणः, प्रमोद हर्षे, मति विद्यमाने । कारणभृतेन प्रमोदन कार्यभृतः प्रत्यक्षीमावा लाध्यते । प्रत्यक्षतायां सत्यामित्यर्थः। कामोऽभिमतोऽर्थः, अवारि वृतः धातुरित्यनुवादः तेपामुपासना- विषयों धातैवेति विधिं प्रत्याययति । वरणप्रकारमाह - शक्त्यति। अज, हे ब्रह्मन् , वयं गतावध्या गतोऽपगतोऽवधिः सीमा यम्याः तया , शक्त्याम्मत्संबन्धिन्या हेतुना मामग्ण अमरैम्सहितेन , जगता जगद्वासिना जनेन , अवध्या हन्तुमशक्याः, म्याम । प्रार्थनायां लिङ। अमराणां जगदन्तर्भावेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् । ब्राह्मणा आयाताः वसिष्ठोऽप्यायातः इतिवत् । स्वेषां लोकोत्तरशक्तिमत्त्वं कनचिदप्यवध्यत्वं च वरयामासुरित्यर्थः ॥ २९ ॥ , , प्रथम आश्वासः। २५ ततो ब्रह्मणा कि प्रतिपन्नमित्यत्राह - . , स विधा तेत्यर्थनतः तान् प्रत्यूचे जगद्वितेऽन्यर्थनतः । दुर्लभमन्यका मन्निर्मरणत्वं लभध्वमन्यं कामम् ॥ ३० ॥ म इति । मोऽसुरैः प्रार्थितो, विधाता ब्रह्मा, इति उक्तप्रकारेण, अर्थनतोऽसुर- कृतात् प्रार्थनाद्धतीः, तान् प्रति असुरानुद्दिश्य, ऊचे उक्तवान् । “अभितः परितः" (पा० मू० वा ० २-४-१८) इत्यादिना प्रतियोगे द्वितीया । कीदृशः । जगद्धिने जगते जगद्रासिने जनाय द्धितं श्रेयः तस्मिन् , अत्यर्थ नतः अत्यन्तं रतः। एतत् प्रार्थिताप्रदाने हेतुः । उक्तिप्रकारं दर्शयति-दुर्लभमिति । अन्यङ्का न्यको दोपः, अविद्यमानो न्यको येषां नेपां सम्बोधनं । तथा । “युप्मदर्थसारा मंबुद्धिः"इति न्यायात् युप्माकमिति सेत्स्यति । युप्माकं, (मन् ) मत्तो, निर्भरणवं मृतिरहिनत्वं, दुर्लभं लब्धुमशक्यम् । जगदवव्यत्वं दत्तेऽन्तसम्यापि जगदन्तभावान नदवभ्यत्वमपि दत्तं भवति । एतच्चाशक्यमेव । दहारम्भकर्मक्षये देहपातम्यावश्यम्भावादिति भावः । अत एवोक्तं निर्मरणत्वं दुर्लभमिति । एतदप्रदाने हेतु शक्यत्वमेव न तु युप्माकं योग्यत्वाभाव इति द्योतयितुं अन्यका इत्यामन्त्रणम्। इदमेकमेव ममानदेयम् अन्यत् सर्व देयमेवेन्याह -- लमध्नामिति । अन्य निर्मरणल्व- व्यतिरिक्त, कामम् अभिमतं वस्तु, लभधं वृणुध्वमित्यर्थः ॥ ३० ॥ अथ ते भङ्ग्यन्तरेण जगदव यत्वमेव चबुरिति श्लोकद्वयेनाह निरतर्जगदे कलये तैरिन्युक्तर्विचार्य जगदेकलये । जगदधिय रमेमहि ते पुग्त्रये यदि कृपास्ति परमे महिते ॥३१॥ निरतरिति। इति उक्तप्रकारेण, उक्तैः ब्रह्मणा कथितैः, तैः असुरैः, विचार्य मिलित्वा निरूप्य, जगदे गदितम् । धातोरान्तरे वृत्तेधात्वथनापसंग्रहात् । प्रसिद्धरविवक्ष्यत्वं कर्मणोऽकमिका क्रिया " ।। * ' प्रसिद्ध रविवक्षातः' इति धातुवृत्त्यादिपाठः ।

२६
सव्याख्ये त्रिपुरदइने
इति वचनात् भावे लिट् । कस्मै प्रयोजनायेत्यत्राह - कलय इति । कलये अनर्थाय ।
मरणायेति यावत् । स्वेषामिति शेषः। फलित.र्थकथनमेतत् ।
"कलिविभीतके तस्य फलेऽनर्थ च संयुगे ।
कलिर्हि श्रीरिति प्राह शब्दविच्छाकटायनः ।।
विवाहमात्रे त्वजयः कलिशब्दमभाषत ।
युगे चतुर्थे चालक्ष्म्याम् "
इति केशवः । तेषामभिसन्धिस्तु अन्यथेति ख्याः यितुं तान् विशिनष्टि-निरतैरिति ।
जगदेकलये जगतः एकस्मिन् कंवले लये नाशे, निरतैः जगन्नाश एकस्मिन्नेव
बद्धमनस्कैरित्यर्थः ।
एकशब्दस्तु धीमद्भिः समानातश्च केवले ।
प्रधाने प्रथनेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ।।
एकत्वसंख्यायुक्ते स्यात् संख्येये तत्र चाप्यसौ ।
नित्यैकवचनान्तः स्य दिति प्राहुः"
इति केशवः । उक्तिप्रकारं दर्शयति-जगदधिपति । जगदधिप ! हे जगस्वामिन्:
ते तव, कृपा दया, अस्ति यदि विद्यते चेत् । अम्म स्विति शेषः । तहि वयं
पुरत्रये पुराणां त्रितये, रमेमहि विहरेम । प्रार्थनायां लिङ् । तव करुणा चेदस्माकम्
एकैकं पुरमनुगृहाणेत्यर्थः । कीदृशे पुरस्त्रये । परमे उत्कृष्टे, अतएव महिते पूजिते ।
पुरान्तरेभ्यो विशिष्टे इत्यर्थः ॥ ३१ ॥
।
,
तत्रोक्तं परमत्वं विवृण्वानाः कमपि विशेष प्रार्थयन्ते ।
पृथगहितावध्यं ते जगति चरित्वान्ददशशतावध्यन्ते ।
सुरसत्तम नो निलया गत्या घटनामियुर्जितमनोनिलया ॥३२॥

प्रथम आश्वासः।
२७
पृथगिति । हे सुरसत्तम, हे देवश्रेष्ठ , नः अस्माकं ते भवदनुग्रहविषयत्वेन
पंकृताः निलयाः, पुराणि, जगति अहितावध्यं अहितैः शत्रुभिरवध्यमनिग्राह्यं यथा भवति
तया,पृथक् असंभूय, चरित्वा इतस्ततो गत्वा, अब्ददशशतावध्यन्ते अब्दानां संवत्सराणां
दशशतानि सहस्रं तान्येवावधि सीमा तस्यान्तेऽवसाने । संवत्सराणां सहस्रे पूर्ण
इत्यर्थः । जितमनोनिलया लोके मनोनिलो हि वेगातिशये प्रसिद्धौ, तावपि जितौ
परिभूतौ यया तया, गत्या गमनक्रियया, घटनां सङ्गतिम् , इयुः प्राप्नुयुः। एतदुक्तं
भवति- सहस्रसंवत्सरान् शत्रुभिरपरिभाच्या भूत्वा जगति पृथक् पृथक् चरितानामस्मन्निलयानां
संवत्सरसहस्रसंख्यापूर.रके) समये वेगितया गत्या सङ्गतिरस्त्त्विति । वेगितगत्या. संयोगे
तदेव वियोगोऽवश्यम्भावीति सङ्गतिमेव वृतवन्तः ॥ ३२ ॥
अथैते ब्रह्मणो मुखान्निमरणत्वस्यालभ्यताश्रवणात् स्वेषां वध्यत्वमङ्गीकुर्वाणास्तत्र
कालस्य च साधनस्य, कर्तव्यस्य च कर्तुश्च नियमं प्रार्थयन्ते
-
म च हन्नेह न नेन स्यादस्माकं यतिष्यते हनने नः ।
ताश्च भिदोमानीय स्वयमेकेनेपुणा तदा मानी यः ॥ ३३ ॥
स चेति । चौ वाक्यार्थसमुच्चये। इन हे स्वामिन् , इह अस्मिल्लोके, नोऽस्माकं,
हन्ता वधकर्ता न न स्याच । द्वयोनजोः प्रकृतार्थावधारकत्वात् म्यादेवेत्यर्थः । स
इत्युक्तम् । कोऽसावित्यत्राह – यतिष्यत इति । यो मानी अभिमानवान् अस्मत्प्रसरणा-
सहिष्णुरित्यर्थः । स्वयं सहायानपेक्षः, तदा यस्मिन् काले पुर्यो घटनामियुः तस्मिन्
काले । एकेन एकत्वसङ्ग्यायुक्तेन, इषुणा शरेण, ताः भवता अनुग्रहीप्यमाणत्वेन,
प्रकृतमदः पुरं, भिदां भेदम् , आनीय नोऽस्माकं हनने च वधे विषये, यतिष्यते
यत्नं करिष्यति । शक्ष्यतीत्यर्थः । एतदुक्तं भवति । योऽस्मच्छत्रुः सहायान्तरनिरपेक्षः
सन् पुरत्रयसंयोगकाले एकेन शरेण तत् प्रमथ्य तेनैवास्मद्वधे शक्तो भविष्यति
सोऽस्मानिगृह्णीया(त् ) नान्य इति । अत्र तदेत्यनेन कालभ्य, एकेनेषुणा इति साधनस्य,
ताश्च भिदामानीयेति कर्त्तव्यस्य, स च हन्तेति. कर्तुश्च नियमः कृतः । ईदृशशक्ति-
योगः कस्यापि न स्यादि त्यस्माकं जगदवध्यत्क्मेवायातमिति तेषामाशयः ॥ ३३ ॥

२८ सव्याख्ये त्रिपुरदहने अथैवं भवत्विति ब्रह्मणानुगृहीते तेषां प्रवृत्तिमाह - - वरमादाय पुराणान्नाथाद्विधये दुरासदाय पुराणाम् । पदमतिदैवमयन्ते यतोऽसुराः प्रापुरिति तदैव मयं ते ॥३४॥ , वरमिति । प्रकृता दैत्याः पुराणात् चिरन्तनाद् , नाथाद् ब्रह्मणः, वरम् ईप्सितम् , आदाय गृहीत्वा, तदैव यस्मिन् काले वरो लब्धः तस्मिन् काल एव , मयं मयनामानम् असुरशिल्पिनं, प्रापुः प्राप्तवन्तः । "वरो ना भूपजामात्रोर्देव देरीप्सिते क्रुधि ।" इति केशवः । किमर्थं प्रापुरित्यत्राह - विधय इति । पुराणां पुरीणां, विधये निर्मापणायेत्यर्थः । कीदृशाय। दुरासदाय दुप्पापाय । अलभ्यायेत्यर्थः : अन्येषामिति शेषः । कुतस्ते शिल्पिजनशिरोमणौ विश्वकर्मणि ध्रियमाणे मयं प्रापुरित्यत्राह-पदमिति । असुराः । जातिपरोऽयं निर्देशः । (अ ? आ)सुरी जातिरित्यर्थः । यतः यस्मात् मयात् , पदं पुरादिलक्षणं, स्थानम् , अयन्ते अद्यापि प्राप्नुवन्ती ति इतिहतौ। असुरजनैनिज- शिल्पित्वेनाङ्गीकारो मयप्राप्ती हेतुरित्यर्थः । न केवलमसुरशिल्पित्वमेवेत्यस्य शिल्पातिशयोऽपि हेतुभावं भजते इति प्रकटयन् पदं विशिनष्टि – अतिदेवमिति । देवानामिदं देवं खर्गादि, दैवमतिक्रान्तम् अतिदेवं स्वर्गादेरपि विशिष्टतरमित्यर्थः ।। ३४ ॥ । " अथ पुरनिर्माणे प्रयुक्तस्य मयस्य प्रवृत्तिमाह पटुमनसा रूप्यायस्स्वर्णमयं त्रिभुवनस्य सारूप्याय । रमणीयं प्राकारि प्रचिन्त्य तेन च पुरत्रयं प्राकारि॥३५॥ पटुमनसेति । तेन मयेन, (वि ? प्राचिन्त्य स्मृत्वा । सङ्कल्पमात्रेणेति यावत् । सङ्कल्प एवास्य पुरनिर्माणे सहकारी न तु वासीकुठारादिकमिति भावः । पुरत्रयं प्राकारि कृतम् । कथं सङ्कल्पमात्रेण कृतवानित्यत्र तं विशिनष्टि- पटुमनसेति । पटु निपुणं मनो प्रथम आश्वासः। यस्य स तथा । योगप्रभावजमिह पटुत्वं विवक्षितम् । तथा च वक्ष्यति- 'मनसः सद्योगेहाद' इति । योग प्रभाव(व)तां किमशक्यरिति भावः । पटुमनसा करणेन प्रचिन्त्येति केचित् । नदा गतार्थस्यापि मनस उपादानं पटुत्वविशेषणदानार्थमिति न दोषः । न केवलं सहकार्यव, उपादानमप्यसाधारणमेवासीदिति वक्तुं पुरस्त्रयं विशिनष्टि-रूप्यायःस्वर्णमयमिति। रूप्यं रजतम्। “रूप्यं तु की विभूपणे। आहते हेमरजनद्वये रजत एव च ।। त्रि तु प्रशस्तरूपेऽपि रु.पणीये" इति केशवः । द्वन्द्वात पर श्रृयमाणं प्रत्येकमपि सेंबध्यते” इति न्यायाद् मयटः प्रत्येकमपि संबन्धः रुप्यमयभयोमयं स्वर्णमयमिति । एतेषामन्यतमेनैव निर्मातव्ये किमर्थमुपादानत्रैविध्यमङ्गीकृतमित्यत्राह -- त्रिभुवनस्येति । त्रयाणां भुवनानां समाहारः त्रिभुवनम् । पात्रादित्वात् स्त्रीत्वाभावः । तस्य सारूप्याय सादृश्याय । भुवनत्रयम्य सत्त्वर जस्तमोमयत्वात् तेषां च शक्करक्तकृष्णरूपत्वात् त्रिरूपत्वे पुराणामपि शुक्लादिरूपतया ताप्यं सम्भावयितुमित्यर्थः । अनेन पुरत्रयप्रातिभश्ये भुवनान्येव पर्याप्तानि न तु पुरान्तराणि इति द्योत्पते। पुनरपि तदेव विशिनष्टि -- रमणीयमिति । रचनावैचित्र्यान्वयनम(नुनो)हारीत्यर्थः । तथा प्राकारि अतिशयिता बहवो वा प्राकारा यम्मिन् तत्तथा। अतिशायने वा भूमनि वा मत्वर्थीयः । शत्रुभिर्दुर्गम इत्यर्थः ।। ३५ ॥ अथ पञ्चभिः श्लोकैः पुरत्रयं वर्णयति यत्र सदानवलोकस्थायी मायाक्लान् स दानवलोकः । स्थितिमादायामाधद् योजनशतमानमभवदायामाद् यत् ॥३६॥ , यत्रेति । सः प्रकृती, दानालोकः दैत्यजनः, यत्र पुरत्रये, स्थिति निवासम् , आदीय परिगृह्य। विधायेति यावत् । सदा सर्वस्मिन् काले, अमायत् हृष्टोऽभूत् । यन्निवासा- द्धेतोः दुःखेनानन्तरितत्वेन सुखमेव प्राप्तवानित्यर्थः । अनेन पुराणामचिन्त्यः कोऽप्यनुभावः ३९ सव्याख्ये त्रिपुरदहने प्रत्याय्यते । दानवलोकं विशिनष्टि – अनालोकस्थायी(मायाबलात्) मायायाः मय- निर्मितायाः बलाद् शक्तेहेतोः अनवलोकस्थायी अनवलोकमविद्यमानोऽवलोकोऽन्यकर्तृकं दर्शनं यथा भवति तथा स्थितिशीलः । मयमायावैचित्र्येणान्यैरदृश्यमानस्तिष्ठन् इत्यर्थः । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः । अथास्य परिमाणमाह - योजनेति । यत् पुरत्रयम् , आयानात् आयामो य तमाश्रित्य, योजनशतमानं चतुष्क्रोशपरिमितो वा अष्टक्रोशपरिमितो वा अध्वा योजनम् । "अथ योजनं परमात्मनि । अध्वमाने चतुष्कोशे मगधादिषु भूमिषु ।। अष्टक्रोशं तु देशेषु कोसलादिषु मन्यते । तथा युक्तिक्रियायां च आयामो विस्तारस्य इति केशवः । योजनानां शतनानं परिमाणं यस्य तत्तथा । उपलक्षणम्। उक्तं च श्रीमद्वयासमुनिना- "एकैक योजनशतं विस्तृतं तावदायतम् । " इति । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः ।। ३६ ।। अथ नित्योत्सवादिमत्तया वर्णयति उल्बणनानापणवध्वनि बिम्राणं वणिग्जनानापणवत् । द्राधीयोगुरुपरिखं यद् यत्र च केतुयष्टयोऽगुरुपरि खम् ॥ ३७॥ उल्बणेति । यत् पुरत्रयम्, उल्बणनानापण धनि उल्यणः स्फुटो नानाविधः उत्सवदेवपूजाराजयात्राद्यर्थत्वात् अनेकप्रकारः पणवानां डिण्डिमाख्यवाद्यविशेषाणां ध्वनिः नादो यस्मिन् तत्तथा । " स्फुटं प्रव्यक्तमुल्वणम्" इत्यमरः। “पणवस्त्वपि डिण्डिमे गजस्कन्धेऽपि" इति केशवः। यत्र वणिग्जनान् वाणिज्यकर्तृणां जनानां समूहान् ,

प्रथम आश्वासः
३१
बिभ्राणं दधानम् , अत एव यच्चापणवत् निषद्यायुक्तम्। “आपणस्तु निषद्यायाम्"
इत्यमरः। यच्च द्राधीयोगुरुपरिखं द्वाघीयस्यो दीर्घतरा (उगु)र्व्यः पृथ्व्यः परिखा यस्मिन्
तत्तथा । “खेये तु परिखाम्बुधौ । भूभृत्यपि"इति केशवः । यत्र च यस्मिन् , केतुयष्टयः
ध्वजदण्डाः, उपरि ऊर्ध्वप्रदेशे, खं नीलाकारतया प्रतीयमानम् आकाशम् , अगुः गतवन्तः ।
ध्वजोच्छायो हि प्रशस्यतानोत्कर्षावही भवति । तथाहि राजानः कविभिरुपश्लोक्यन्ते
उद्दण्ड इति ॥ ३७॥
अथ परपरिभवाविषयत्वेन वर्णयति
-
याधि नानापत्तिस्यन्दनगजवाजिवाहनानापत्ति ।
प्राप्य च वासव्यापद् वरूथिनी दश दिशः सवासव्यापत् ॥ ३८ ॥
"
यदिति। वासवी इन्द्रसंबन्धिनी, वरूथिनी सेना, युधि युद्ध निमित्ते । युद्धार्थमिति
यावत् । यत् पुरत्रयं, प्राप्य गत्वा, दश दशसंख्याकाः, दिश आशाः, आपत् प्राप्तवती ।
नानादिक्षु पलायनमकरोदित्यर्थः। भीत्येति शेषः। युधीत्यत्र “निमित्तात् कर्मसंयोगे सप्तमी
वक्तव्या” (पा० सू० वा० २-३-३६) इति सप्तमी। वरूथिनीं विशिनष्टि-नानेति ।
(नानापत्तिस्यन्दनगजवाजिबाहना) पत्तिः पदातिः, स्यन्दनो रथः, गजो हस्ती, वाजी
तुरगः । स्यन्दनाश्च गजाश्च वाजिनश्चेति द्वन्द्वः । स्यन्दनगजवाजिनश्च ते वाहनानीति विशेषण-
समासः । पत्तपश्च स्यन्दनगजवाजिवाहनानि चेति द्वन्द्वः । नानाविधानि पत्तिस्यन्दनगजवाजि-
वाहनानि यस्यां सा तथा। शक्तिहीनत्वमेव पलायने हेतुः, न तु सामग्रीविरह इति भावः ।
पुरत्रयं विशिनष्टि - अनापत्तोति। अविद्यमाना आपत्ती देवसेनाकृता पीडा यस्य
तत्तथा । पुरत्रयं प्राप्य प्राप्तिकार्यमकृत्वा बहिर्भागादेव पलायिता देवा इत्यर्थः । देव-
सेना तु नैतादृशीत्याह - सवामन्यापदिति । वासो वासस्थानम् । “अकर्तरि च कारके
संज्ञायाम् " (पा० सू० ३-३-१९) इत्यधिकरणे घन्। वासस्य व्यापत् असुरकृता पीडा
तया सह वर्तमाना तथोक्ता । असुरोपमर्दितखर्गा इत्यर्थः ॥ ३८ ॥

सव्याख्ये त्रिपुरदहने अथ रत्युद्दीपनत्वेन वर्णयति- यत्र च लोलं बकुळं बन्धुत्वादिव वभार लोलम्बकुलम् । तद्वदशोकारामाः स्तनभारालसगतीरशोका रानाः ॥ ३९ ॥ यत्रेति। यत्र यस्मिन् पुरत्रये, बकुळं कर्तृ केसरशाखी। "केसरो बकुळेोऽस्त्रियाम्" इति सिंहः । लोलम्बकुलं लोलम्बानां भृङ्गानां कुलं समूह वभार धृतवत् । मकरन्द- भरितसुमप्राचुर्याद् भृङ्ग याप्तमभूदित्यर्थः । बकुलं विशिनष्टि – लोनिति । लोलं वायुक्शच शावमित्यर्थः । यानि पोहाय म्बनायक घनत् । अत्र शब्दशक्त्या भ्रमरेषु सतृष्णमिति ध्वन्यते । अत्र यथा ब्राह्मणो ब्राह्मणम्य, क्षत्रियः क्षत्रियस्य सजातीयत्वाद् बन्धुर्भवति तथा लळयोरभेदाङ्गीकार विशेषगविशेष्ययोललिम्बकुळ- शब्दयोः (लोलम्बकुळंशब्दयोः:) सन्धायाभिधानात् एकपदवत् प्रतीयमानत्वेऽपि यः केसर- वृक्षः स्वयं लोलं बकुळं भवति तस्य भिन्नार्थमपि शब्दं यलम्मकुळं तदाश्रयणेन सजातीयत्वाद् लोलम्बकुलान्तरं प्रति बन्धुत्वमुपप भवति इति लोलम्बकुलभरणे हेतुमुत्प्रेक्षते - बन्धुत्वादिवेति । एतदन्यत्राप्यतिदिशति – तद्वदिति । यदलोलं बकुळं बन्धुत्वादिव लोलम्बकुळं बभार तद्वद् बन्धुत्वादिव अशोकारामाः बभ्रुः । अशोकप्रधाना आरामाः उपवनानि अशोकारामाः । अशोकाः तत्तदभिमतसम्पत्त्या कदा- चिदप्यविद्यमानदुःखाः रामाः सुन्दरीः बभ्रुः । किसलयकुसुमसमृद्ध या तदानुकूल्य- माचरन्नित्यर्थः । कीदृशीः। स्तनभाराल सगतीः स्तनभारेण कुचभरेण हेतुना अलसा मन्दा गतिर्गमनं यासां तास्तथा । सर्वाङ्गसुन्दरी(रि)त्यर्थः । अत्रापि विशेषणविशेष्ययो: अशोकारामपदयोः सन्धायाभिधानात् एकत्वप्रतीतौ सजातीयत्वाद् अशोकारामाणां अशोका रामाः प्रति बन्धुत्वमुपपन्नं भवति इत्युलेक्षाहेतुरतिदिष्टः ॥ ३९ ॥ यत्र न मन्दा रागा भुयो दधानेऽपि विपुल नन्दारागाः । .धृतनानाकुरवापि भ्रमरीसुरवेण सुबहुना कुरवापि ॥ ४० ॥ .

प्रथम आवासः। ३३ यत्रेति । अत्र अपिशब्दो वाक्याथ समुचिन्वन्तौ आभासमानं विरोधं च द्योतयतः । तत्र वाक्यार्थसमुच्चये भिन्नकौ । यत्र पुरत्रये, रागाः विषयाभिलाषाः, मन्दाः अल्पा, न भवन्ति अपि । रागोऽनुरागे मात्सर्थे रक्तवर्गे रजस्यपि लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ।। इति केशवः । तत्र हेतुं प्रकटयन् पुरत्रयं विशिनष्टि – भुव इति । विपुलमन्दारागा विपुला महान्तो मन्दारागा मन्दाराच्या वृक्षाः यामु ताः, भुवः प्रदेश,न् , दधाने विभ्राणे। प्रदेशानां कुसुनादिसमृद्धया रत्युद्दीपकदिव्यतरूपतत्वं रागवृद्धी हेतुरित्यर्थः । भूर्भूम्यां म्यानमात्रे च सौराष्ट्र यां व्योमदेहयोः । " इति केशवः । यत्र कु: भूमिः, सुबहुना भूयसा, भ्रमरीसुरवेण भ्रनरीणां भृङ्गीणा सुरवेण शोभनेन रवेण झङ्कारण को, अवापि प्राप्ता च। तत्र हेतु:-धृतनाना- कुरवेति । कुरखो वृक्षविशेषः । कुसुमकोरकाङ्कुरादिमत्तया नानात्वम् । यत्र मन्दा रागा न भवन्ति तत्रैव मन्दारागा भवन्ति च । यत्र भूमिः सुरवयुक्ता तत्रैव सा कुरवयुक्ता चेति विरोधाभासः ॥ १० ॥ अत्र त्रिभिः श्लो कैः मयस्य प्रवृत्तिविशेषमाह - तत्र च सरमा मकरोघृताः पङ्क्ती: स एव सरसामकरोत् । उत्पलकमलसमे ताश्चक्रुः कामोत्सवेषु कमलसमेताः ॥४१॥ तत्र चेति । तत्र पुरत्रये,स एव मय एव,सरसां वापीनां,पङ्क्तीः आवलीः,अकरोत् । तत्र तारकाक्षः कमलाक्षो विद्युन्मालीति त्रयाणामसुराणां नामानि । तत्र तारकाक्षस्य हरिनाम पुत्रोऽभूत् । तम्य वचनाद् मयः तत्र वापीः कृतवान् । यथोक्तं श्रीमव्यासमुनिना - तारकाक्षसुतश्चासीद्धरिनाम महाबलः । तपस्तेपे परमकं तेनातुष्यत् पितामहः ।।

३४ ४ सव्याख्ये त्रिपुरदहने स तुष्टमवृणोदेवं वापी भवतु नः पुरे । शस्त्रविनिहतास्तत्र क्षिप्ताः स्युबलवत्तराः ॥ अनुजज्ञे विधाता तं जम्मुर्मयमथासुराः । सोऽपि वापीहरेर्वाक्यादकरोन्मय उत्तमाः ॥ इति । इत्थं च यत् प्रमेयमत्रानुक्तं तं सूचयन् सरःपडक्तीविशिनष्टि – सरसा इति । रसो वीर्यं तत्सहिताः । ब्रह्मगोऽनुग्रहात् शस्त्रहतज(न) नैरुज्योत्पादनसामर्थ्यशालिनीरित्यर्थः । 'रसो रागे विषे वीर्य तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ।। इति केशवः । तथा मकरोघृताः मकरैः झषसंज्ञैः । महामत्स्यविशेषैरित्यर्थः उद्धृता उत्कम्पिताः । मकराश्रयत्वेन सरसां वैपुल्यमगाधता च प्रत्याय्यते । मकरस्तु ना। निधिभेदे च राशौ च दशमे स्याद् द्वयोः पुनः । झषसंज्ञे जलचरे" इति केशवः । तासां रत्युद्दीपनत्वमाह-उत्पलेति । एताः सर:पङ्क्तयः, कामोत्सवेषु सुरतोत्सवेषु, कं पुरुषम् , अलसं मन्दं चक्रुः? न कमपि । तत्र हेतु: उत्पलकमल- समेता इति । उद्दीपनभूतैरुत्पलैः कमलैश्च समेतत्वादित्यर्थः ।। ४१ ।। अपि तेन प्रतिभवनं भवभवनं दत्तनन्दनप्रतिभवनम् । व्यसनशमायातानि ध्रुवमसुरकुलान्यतः शमायातानि ॥ ४२ ॥ अपीति । तेन मयेन, प्रतिभवनं भवने भवने, भवभवनं भवस्य भवन निकेतनं च अतानि रचितम् । किमर्थ तदित्यत्राह-व्यसनेति ।(व्यसनशमाय)व्यसनानामनर्थानां शान्तये प्रथम आश्वासः। ३५ अनुद्भवाय। भवभवनं विशिनष्टि-दत्त इति । (दत्तनन्दनप्रतिभवनं) दत्ता वितीर्णा नन्दने नन्दनो याने विषये प्राप्ता प्रतिभा इदं नन्दनोद्यानमिति प्रतीतिर्थेन तत् दत्तनन्दनप्रतिभ, तथाविवं वनं यस्मिन् तत्तथा । अत एतस्माद्धेतोः, असुरकुलानि शं सुखम् , आयातानि प्राप्तानि, ध्रुवं निश्चितमेतदित्यर्थः ॥ ४२ ॥ मनसः सद्योगेहान्महासुराणां पृथक् च सद्यो गेहान् । अकृतासुरतक्षेमे न्यबसंस्त्रिपुरेऽत्र दत्तसुरतक्षेमे ॥ ४३ ॥ मनस इति। असुरतक्षा मयः, महासुराणां पृथक् प्रत्येकं, मनसः मनश्चित्तं सहकारितया तदाश्रित्य । ल्यबलोपे पञ्चमी । सङ्कल्पमात्रेणेत्यर्थः । गेहांश्च गृहाण्यपि, (सद्यः) अकृत कृतवान् । “ न नोदवसितं न स्त्री गेहं पुं भूम्नि वा गृहम् । पुरम् । इति यादवः । मनो विशिनष्टि - सद्योगेहादिति। सती विशिष्टा योगे चित्तनिरोधे ईहा व्यापारो यस्य तत्तथा। योगप्रभावः किं न साधयेदिति भावः । ते च पुराणि प्राविक्ष- न्नित्याह - इम इति । इमे त्रयोऽसुराः, अत्रैतस्मिन्, त्रिपुरे त्रयाणां पुराणां समाहारस्त्रि तद्धितार्थ " (पा० सू० २-२-५२) इत्यादिना समासः । पात्रादित्वात् स्त्रीत्वाभावः । तस्मिन् न्यवसन् निवासमकुर्वन् । कीदृशे। दत्तसुरतक्षेमे दत्तं सुरतस्य क्षेमो रक्षा येन तत्तथा। निवासानां रमणीयतया चोद्दीपनपदार्थसार्थसमृद्धया च रत्यनुकूल इत्यर्थः । अनेन तन्मनोरथपरिपूतिर्शिता ।। ४३ ॥ अथ श्लोकद्वयेन तेषां विभागेनावस्थानमाह - यो ज्यायानेषु मतः स तारकाक्षो हरेश्व यानेषुमतः । जेता काश्चन्यायात् पुर्या द्यां वृत्तिमकृत कां च न्यायात् ॥ ४४ ॥ य इति। य एषु त्रिष्वसुरेषु मध्ये, ज्यायान् ज्येष्ठो, मतः लोकैतिः, स तारकाक्षः तारकाक्षो नामासुरः, काश्चन्या काञ्चनविकारेण, पुर्या करणेन; द्यां च वर्गमपि, , आयात ३६ सव्याख्ये त्रिपुरदहने प्राप्तवान् । चशब्दो वक्ष्यमाणान्तरिक्षभूम्योम्समुच्चयार्थः । ननु इन्द्रे ध्रियमाणे कथमसो देवशत्रुः स्वर्ग प्राप्तवानित्यत्राह – हरेरिन्द्रभ्य, जेता अभिभविता । कीदृशम्य । यानेषुमतः यानं वाहनं इषुश्शरः। उपलक्ष गमेतद् वज्रादेः । ऐरावतोपरि आयुधं गृहीत्वा स्थितस्येत्यर्थः । तारकाक्षम्य बलोत्कर्ष एव हरेः पराजये हेतुः , न तु सामग्र यभावः । किं बहुना सर्वमप्यमर्यादमेवाचरितवानित्याह--वृत्तिमिति चशब्दोऽलङ्कारपूरणार्थः । उक्तं च भोजेन - वा - च - स्म - ह - हि - वै - अहो-खलु-अही इत्यादयोऽलङ्कारपूरणार्थाः इति । असौ न्यायात् न्यायं मर्यादामाश्रित्य, कां वृत्ति प्रवृत्तिम् अकृत । न कामपि सर्वामप्यन्यायेन कृतवानित्यर्थः ॥ ४४ ॥ । स्ववशं राजत्यागात् कमलाक्षः ग्वं च खचरराजत्यागात् । विद्युन्माल्यायस्या स्थलं भुयो भूमयः समाल्या यस्याः ॥ ४५ ॥ , स्ववशमिति । अत्र पुर्यन्यनुषज्यते। कमलाक्षः तारक क्षम्य कनीयान्, राजत्या रजत- विकारेण, पुर्या खं चाकाशम् , अगात गतवान् । ख विशिष्टि - स्वपशनिति। खचर- राजत्यागान् खे चरन्तीति वचराः । “चरेष्टः " (पा ० सू० ३-२-१६) इति टः । विद्याधराः तेषां राजानः ग्वचरराजाः । “ राजाहःसखिभ्यष्टच " (पा० मू०५ - ४ - ०.१) समासान्तः । तेषां त्यागात् परिभूय निष्कासनाद्वताः। स्वशं स्वाधीनं विद्युन्माली कमलाक्षस्य कनीयान् , आयस्या अयोविकारेण पुर्या, भुवो भूमेः, स्थलं च प्रदेशमप्यगात् । अगादित्यनुपज्यते चशब्दश्च । काञ्चनराजतापेक्षयायःप्रसक्तं न्यग्मावं तिरोधित्सुरायसी विशिष्टि भूमय इति । यस्याः आयम्याः पुर्याः, भूमयः प्रदेशाः, समाल्याः पुप्पसहिताः । उपलक्षणमे तदुत्कृष्टवस्तूनाम् । " "माल्यं क्ली कुसुमे पुप्पे मालायां चाथ भेद्यवत् । धायें, इति केशवः। अत्र तारकाक्षादिसंज्ञाशब्दानां पूर्व केनचित् प्रमाणेनासिद्धत्वाद्विधातुं योग्यत्वेऽपि तेषां प्रसिद्ध यतिशयं द्योतयितुमुद्देश्यत्वेन निर्देशः कृत इति योद्धव्यम् ॥ ४६ ।।

प्रथम आश्वासः। ३७ . अथ तेषामवस्थितं निगमयन् “वृत्तिमकृत कां च न्यायाद्” इति यदुक्तं न्यायातिक्रमणं तद्विवृणोति इत्यलघोरजवरतस्त्रिजगति स जनश्चचार घोरजवरतः । आस्थायागारं भान्निजघान च तत्र तत्र यागारम्भान् ॥४६॥ इतीति । स जनो दैत्यजनः, अजवरतः अजस्य ब्रह्मणः वरतः अनुग्रहाद्धेतोः, अगारम् जातावेकवचनम् , अगाराणीत्यर्थः । आस्थाय अधिष्ठाय, इति उक्तप्रकारेण, त्रिजगति चचार पर्यटितवान् । अजवरं विशिनष्टि – अलपोरिति । अलघोर्गुरुतरात्। ईदृशि देवानुग्रहे किमशक्यमिति भावः। तत्र तत्र यत्र यत्र याग आरभ्यते तस्मिंस्तस्मिन् , यागारम्भान् यज्ञारम्भान् , निजघान च भग्नानकरोत् । तत्र तत्र "नित्यवीप्सयोः" (पा० सू० ८-१-४) इति वीप्सायां द्विवचनम् । वीप्सया यज्ञभङ्गस्य क्वचिदपि व्याप्तिभङ्गो नासीदिति द्योत्यते । जनं विशिनष्टि - घोरजवरत इति। घोरे भयानके जवे वेगे रतः । यावता वेगेन एकक्षण एव निखिलयज्ञभङ्गो भवेत् तावता वेगेन युक्त इत्यर्थः । . "घोरस्त्रिषु भयानके। कष्ट इत्यपरे द्वे तु सृगाले क्ली तु कुङ्कुमे । इति केशवः । तथा भान् जगत्रयेऽपि केनचिदप्यवार्यवीर्यत्वाद् द्योतमानः ॥ ४६॥ अथ द्वाभ्यां श्लोकाभ्यामसुरैर्लोकत्रयवासिनो जना बाध्यन्ते स्म इति भङ्ग्यन्तरेणाह- प्रेक्ष्य पुरस्ता देवप्रवराः सञ्चारिणीः पुरस्तादेव। यद्यपि विप्राबल्याः स्पर्धा दधुरेव सह च विप्रावल्या ॥ ४७ ॥ प्रेक्ष्येति । देवप्रवराः श्रेष्ठाः इन्द्रादयः, पुरस्तादेव स्वेषामग्रत एव, न तु यत्र कुत्रचित् प्रदेशान्तरे ।सञ्चारिणीः पुनः पुनः सञ्चरन्तीः । “ बहुलमाभीक्ष्ण्ये" (पा०सू०३-२-८१) इति णिनिः । ताः पुरः पुरीः, प्रेक्ष्य प्रेक्षणाद्धेतोः, विप्राबल्याः विगतं प्राबल्यं प्रकृष्टबलत्वं येभ्यस्ते तथा, हीनशक्तयः, यद्यपि विप्रावल्या च विप्राः ब्राह्मणास्तेषामावलिः समूहः तया। चशब्दादन्तरिक्षवासिना जनेन च सह स्पर्धा दधुः सङ्घर्ष धृतवन्तः ।

३८ सव्याख्ये त्रिपुरदहने " बहूनां क्षुद्रसाराणां समवायोऽतिदारुणः।" इति न्यायाद् विपावलीसहायाः स्पर्धन्ते स्मेत्यर्थः । ननु क्त्वाप्रत्ययस्य वाच्योऽर्था भाव एव । “अव्ययकृतो भावे भवन्ति इति वचनात् । द्योत्योऽर्थस्तु पूर्वकाल एव। “समान- कर्तृकयोः पूर्वकाले" (पासू०३-१-२१) इत्युक्तत्वात् । तदतिरिक्तोऽर्थस्ततो न प्रतीयते। तत् प्रेक्ष्येत्यस्य कुतस्त्येवं हेत्वर्थता ? । उच्यते - क्त्वाप्रत्ययेन भाव एवोच्यते । पूर्वकाल एव घोत्यते । नान्यः कश्चित् । हेत्वर्थता तु वाक्यार्थसामथ्यो त् ?) क्षिप्तव। किञ्च नियत- पूर्वभावि कारणं नियतपश्चाद्भावि कार्यमिति हि न्यायविदः । अनेन क्त्वाप्रत्ययान्तम्य हेत्वर्थतायामेवोपपत्तिः । क्वचिद्धत्वर्थता दृश्यते । अत्रानुयोगो न युक्तः ॥ १७ ॥ स्पर्धा दधुरित्युक्तं, तद्विवृणोति - ताश्च विमानसनाना दृष्टा ने चाभवन विमानसमानाः। ता अपि सुरतन्यागश्चक्रुस्तैरप्यकारि सुरतत्यागः ॥ ४८ ।। ता इति । अत्र प्रथमश्चगब्दः पादपूरणार्थः । उक्तं च भोजेन - " क, ईगित इ, उ, तु, हि, च इति पादपूरणार्थी" इति। द्वितीयः पादपूरणार्थ एव सन्नपि आभासमानानुष्ठितानु- छानकर्तृसमुच्चयाभासार्थश्च । अपिशब्दो तु देवसमूहापराधसंभोगत्यागलक्षणकर्मसमुच्चयाावपि आभासमानानुष्ठितानुष्ठानकर्तृसमुच्चयाभासार्थो च । अत्र कृस्वातीनां कारकाणां च नित्यसंबन्धाद् भवन्तीरिति सिध्यति । ताः पुरी: विमानसमानाः भवन्तीः विमानर्देव- यानैः समानाः कामगत्वादिना सदृशीम्सती:, दृष्वा ते देवा, विमानसमाना अभवन् । तत्कृतपीडानिवारणासामर्थ्याद् विंगतो मानसो मनसि भवो मानोऽभिमानो येषां ते तथा। मनम्यपि मानस्थितेरभावे बहिःस्थितिं प्रति का कथा इति द्योतयितुं मानस(तेः? त्वे)न मानो विशेषितः । ताः पुर्यः, सुरतत्यागोऽपि सुराणां देवानां ततौ समूहे विषये आगः क्रतुभङ्गादिलक्षम् अपराधं, चक्रुः कृतवत्यः । तैर्द वैः, सुरतत्यागोऽपि सुरतम्य संभोगस्य त्यागः त्यजनं च, अकारि कृतः । असुरैः पीडितत्वादेव नष्टमुखा बभूवुरित्यर्थः । ता विमानसमाना दृष्ट्वा ते च विमानसमाना अभूवन् । ता अपि सुरतत्यागश्चक्रुः । ततस्तैरपि सुरतत्यागोऽकारि इति शाब्दोऽनुष्ठितानुष्ठानाभासः । तदपेक्षया स्पर्धा दधुरित्युक्तियुक्तिमती भवति ॥ ४८ ॥ , प्रथम आश्वासः। ३०. अथासुरोपद्रुतः शक्रः युद्धायोयुक्तवानित्याह- अथ पुरतोऽगरपाता स्वचमूश्चलयन् सवाणतोमरपाताः । सुदुरासदमारेभे स्थितः स्वयं योद्धुमसुरसदमारेभे ॥ ४९ ॥ अथेति । अथ अमुरपीडानन्तरम् ,अमरपाता अमरान् पाति रक्षति तच्छीलः,अमरपाता इन्द्रः । तृन्नन्तं रूपम् । असुरसदमा असुरसमूहेन सह, यो गारंभे उपक्रान्तवान् । कीदृशः । पुरतः अग्रे, स्वचमः देवसेनाः, चलयन् युद्धाय निर्गमयन् । णिचा चमूनां युद्धं प्रत्यनुद्युक्तता द्योल्यते । तथा स्वयं मुद्रासदसा रेभे सुदुरासदे सुदुप्पापे दुरभिभव इत्यर्थः । अत एव सारे उत्कृष्ट इभे गजे ऐरावते स्थितः आसीनः। चमूर्विशिनष्टि -- सवाणेति । मबाणतोमरपाताः तोमर आयुधविशेषः। बाणाश्च तोमराश्चति द्वन्द्वः । तेषां पात: तथा बाणतोमरपातेन सह वर्तमानः तथा सबाणतोमरपाताः पतनं यासां तास्तथा । उपलक्षणमेतद्वायुधान्तरम्य | गृहीतनिखिलायुधा इत्यर्थः ॥ ४९ ॥ अथ युद्धोद्युक्तमिन्द्रं दृष्ट्वा दैत्या अपि युद्धोयुक्ता बभूवुरित्याह - पेतुस्साध्यवसायाः क्षेप्तारो जगति सिद्धसाध्यवसायाः। अतिकटुकवचोरमिते देवबले दानवाः सकवचोरसि ते ॥५०॥ । पेतुरिति । ते प्रकृता दानवाः, देवबले देवस्य इन्द्रस्य बले सैन्ये विषये, पेतुः देवबलं प्रति यो पुरत्रयं जग्मुरित्यर्थः । कीदृशाः। साध्यवसायाः अध्यवसायेन देवान् जेप्याम इति निश्चयेन सहिताः। तथा जगति सिद्धसाध्यवसायाः सिद्धाः साध्याश्च देवविशेषाः तेषां वसायाः क्षेप्तारः खण्डयितारः। वसा नाम शरीरान्तर्गतो धातुभेदः । सिद्धसाध्योपादान- मन्येषामप्युपलक्षणम् । देवानां पीडयितार इत्यर्थः । न तु स्वर्गस्थानामेवाभिनिहन्तारः चतुर्दशभुवनेषु यत्र कचिन्निलीनानामप्यन्विष्य निहन्तारः इति द्योतयितुं जगतीत्युक्तम् । देवबलं विशिनष्टि – (अतिकटुकवचोरसिते) अतिकटुकं अतिकरं वचो रे दानवापशदाः ! युद्धाय निर्गच्छत इदानीमेव युष्मच्छरीराणि गृध्रादीनां प्रातराशाय सव्याख्ये त्रिपुरदहने विभज्य दास्याम इत्यादिवचनं रसितं सिंहनादश्च यस्य तत्तथा । तथा सकवचोरमि कवचेन उरस्त्राणेन सह वर्तमानं उरो वक्षःप्रदेशो यस्य तत्तथा। युद्धसन्नद्ध इत्यर्थः ॥५०॥ अथ देवा असुराश्च योद्धप्रतियोद्धृभावेन समागच्छन्त इत्याह - - क्षुभिताम्बुद्धयालोके गम्भीरे विस्तृते च बुद्ध्या लोके । परुपगिरा जघटाते सुरराजघटा च दनुजराजघटा ते ॥५१॥ क्षुभितेति । (सुरराजघटा) सुरराजस्य इन्द्रम्य घटा अर्थात् सेनासमूहः, दनुजराजघटा दनुजराजानां तारकाक्षादीनां घटा च, ते उभे, परुषगिरा परुषया श्रुतिकटुकया गिरा वचनेन सह जघटाते अन्योन्यं सङ्गते बभूवतुः। घटाद्वयं विशिनष्टि - क्षुभितेति । आलोक्यत इत्यालोको रूपं क्षुभितो विकृताम्बुः अम्बुधिः समुद्रः तम्यालोक इवालोको ययास्ते तथा । क्षुभितसमुद्रवदप्रधृष्यक इत्यर्थः । तथा लोके जगति, बुद्धया धिया, गम्भीरे अगाधे, विस्तृते च विस्तारशालिन्यौ। न केवलं रूपमात्रेण बुद्ध्यापि समुद्रतुल्ये इत्यर्थः ॥ ५१॥ अथ चतुर्भिः श्लोकयुद्ध वर्णयति - सत्फलकैरवामिप्रवरैः समरे न सनिकरवामि । उन्नदता चापन प्रणतिर्गुणिना धनुर्भृता चापे न ॥ ५२ ॥ मत्फलकरिति । अत्र देवासुरकर्तृके, समरे युद्धे, असिप्रवरैः असिषु खड्ङ्गेषु मध्ये प्रवरैः श्रेष्ठैः,अत्रासि। (सैनिकैः नात्रासि) असिप्रवरसैनिकान् विशिनष्टि - सत्फलकैरिति । सन्ति परप्रहारनिपुणत्वाद् उत्कृष्टानि फलकानि चर्माणि साहचर्येण वा देहत्राणसाधनतया वा येषाम् असिप्रवराणां च सैनिकानां च तैः तथा। शत्रुन् प्रहर्तुमसीनां चलने च सैनिकानां भयाभावे च सत्फलकत्वं हेतुः । चापेन धनुषा, प्रणतिः आकर्णकर्षण,त् कौटिल्यम् , आपे प्राप्ता । (धनुर्भूता च प्रणतिः न आपे न प्राप्ता)। धनुषः कौटिल्ये च धनुभृतो नमनाभावे च हेतुर्गुणिनेति। गुणो मौर्वी शौर्यादिश्च । उन्नदतेत्येतदप्युभयसाधारणं विशेषणम् उन्नदता शब्दायमानेन । धनुषः शब्दष्टङ्कारः, धनुर्भूतः सिंहनादः ॥ ५२ ।। ।

प्रथम आश्वासः। ४१ अव्यथितः सद्योद्धा पदमकृत द्वेष्टुरग्रतः सद्योद्धा । घटया शैलीमुख्या दलितोऽप्येषा सुभटशैली मुख्या ॥ ५३ ॥ अव्यथित इति। (अव्यथितः सद्यो द्धा पदमकृतेति ?)। शिलीमुवाः शराः तेषामियं शैलीमुखी। "पुलिङ्गः स्याच्छिलीमुखः शरे मधुकरे च द्वे ।' इति केशवः। शैलीमुख्या घटया समूहेन, दलितोऽपि वणितोऽपि, सद्योद्धा सन् विशिष्टो योद्धा, सद्यः शरपातसमय एव , द्वेष्टुः प्रहर्तुः, अग्रतः पुरस्तात् , अद्धा प्रत्यक्षं, पदं पद- विन्यासम् , अकृत कृतवान् । शरनिकस्त्रणिताङ्गोऽपि पराङ्मुखो नाभूदित्यर्थः। कीदृशः । अव्यथितः वीर्यवत्त्वेनाविदितव्यथः । अस्य युक्ततां समर्थयितुम् अर्थान्तरमाह - एषेति । महत्यपि कृच्छे द्विपतः पुरोऽवस्थितिः मुग्ख्या श्रेष्ठा, सुभटशैली हि, सुभटानां सद्योद्धणां शैली स्वभावः । शीलमेव शैली। “ प्रज्ञादिभ्यश्च” (पा ० मू० ५ - ४-३८) इति म्वार्थऽणप्रत्यः । स्वार्थिकाश्च प्रकृति तो लिङ्गवचनान्यतितन्तेऽपि इति स्त्रीलिङ्गता ।।५३।। क्षुधितेनापि शितेषुव्याप्तेषु विलम्बनं शुना पिशितेषु । प्रियमशनं प्रत्यूहे न विषक्तं किं प्रयोजनं प्रत्यूहे ॥ ५४ ॥ क्षुधिनेनेति । शुना सारमेयेण, क्षुधितेनापि बुभुक्षितेनापि, पिशितेषु मांसेषु, प्रियम् इष्टम् , अशनं भक्षणं, प्रति विलम्बनं कालक्षेप, ऊहे । शितेपुव्याप्तष्षिति । शितैनिशितैः इषुभिश्शरैः व्याप्तेषु । शल्यनिकरप्रोतेप्रित्यर्थः अर्थान्तरमाह - नेति । किं प्रयोजनं फलं, प्रत्यूहे विघ्ने, न विषक्तं व्याप्तं, भवति। सर्वमपि प्रयोजनं प्रत्यूह- व्याप्तमेवेत्यर्थः । “विनोऽन्तरायः प्रत्यूहः" इत्यमरः ॥ ५४॥ , । . श्वानः कानकवलयं निष्कविशेषांश्च हाटकानकवलयन् । मत्वामी मांसानि स्फुटं तिरश्चां मनांस्यमीमांसानि ॥ ५५ ॥ श्वान इति । अमी रणभूमौ वर्तमानाः, श्वानः कौलेयकाः, कानकवलयं कानकं कनकविकारं वलयं ककणं, हाटकान् स्वर्णविकारान् , निष्कविशेषान् उरोभूषणं सव्याख्ये त्रिपुरदहने निष्कः तद्भेदान् । मांसानि रक्तवर्णसाम्यात् पिशितानीति मत्वा अकबलयन् दष्टवन्तः । "निष्कोऽस्त्री हेनि दीनारे साष्टकर्षशते पंले । अजयश्शाश्वतश्चनं हेन्न एव पलेऽपठीत् ।। वक्षोभूषान्तरे कर्षे सज्जनम्तु रहम्यपि । ।” इति केशवः । कनकवलयादौ रक्ततासाम्यात् मांसमविदुत्पत्तेस्त्र भ्रान्तिमान- अलङ्कारः । उक्तं च काव्यप्रकाशकृता भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने (१० - ४६) इति । शुनामेति : १) समर्थयितुम् अथान्तरं न्यस्यति – स्फुटमिति । तिरश्वां तिर्यग्योनिजातानां, मनांमि अमीमांसानि मीमांसा विचारः तद्रहितानि । म्फुटं निश्चितम् एतत् । मीमांसेति "मान्यधदानगानभ्यो दीर्घश्चाभ्यासम्ब'' (पा० मू०३-१-६) इति “मानेजिज्ञासायाम्" (वा० ३ - १ - ६) इति वचनात् जिज्ञासायां सन्प्रत्ययः । " धातो” रित्यधिकृत्य विधानाभाधन आर्धधातुकसंज्ञाभावाद वलादित्वेऽपीडभावः । अ प्रत्ययाद '(पा० मृ०३-३-१०२) इत्यकारसत्ययः । "अथ मीमांसा वेदवाक्यार्थचिन्तक । शास्त्र विचारणायां च इति केशवः ॥ ५५॥ युद्धे देवाः पराजिता आसन्नित्याह " तत्र च सा दिव्यापत्सेना भङ्गं सनागमादिव्यापत् । अपि नानाककुभोऽगाच्छको नि मेत्य नाककुभोगात् ॥५६॥ सेना चमू:, तत्रेति । तत्र युद्ध, मा युद्ध्यमाना, दिव्या दिवि भवा, भङ्गं च पराजयं चकारात् पलायनं च, आपत् प्राप्तवती । कीदृशी। सनागसादि- व्यापद् नागा गजाः, सादिनोऽश्वारोहाः । उपलक्षणमेतत् स्थानां पत्तीनां च । तेषां व्या पदा चरणाद्यङ्गभङ्गमरणादिलक्षणया विपदा सह वर्तमाना । न केवलं सेनैव, शक्रः वयमपि. पराजित इत्याह – अपीति । शक्रोऽपि इन्द्रः खयमपि, नाककुभोगात् नाकस्य खर्गस्य कुत्सिताद् असुरैः पीड्यमानत्वेन गर्हिताद् भोगाद् अनुभवाद्धेतोः ।

प्रथम आश्वासः । ४३ ३ निई विषयवैराग्य, एत्य नानाक कुमः नानाविधाः ककुभः दिशः, अगात् गतवान् । एकस्यां दिशि स्थिते¥यत्ये दैत्यास्तावनागत्य पीडयिष्यन्तीति मत्वा शक्रस्त्वनियमेन दिक्षु स्थितवानिति द्योतयितुं नानार्थेन ककुभो विशेषिताः ॥ ५६ ।। जगदीश्वरा विष्ण्वादयोऽपि परिभूता इत्याह . असुररुचक्रोऽधश्चक्रे तैश्चक्रपाणिरुचक्रोधः । द्रत मानवानमार्गणोऽप्यतः के हि तत्र न त्राममगुः ॥ ५७ ।। असुररिति । तैः प्रकृतैः असुरैः, चक्रपाणिविष्णुः , अधश्चक्रे अधोऽधम्तान्नीचैः कृतः । परिभूत इति यावत् । कीदृशः । उच्चक्रोधः उच्चः उच्चैभृतोऽतिशयितः क्रोधो यम्य स तथा । अत एव उच्चक्रः अरिशिरश्छेदार्थ- मुद्धृतं चक्रं पुदर्शनं येन स तथा । अत्र एतस्मिन् युद्धे, असमगुः असमा विषमास्त्रिसङ्ग्यात्वादयुग्मा गावी नेत्राणि यन्य गणम्य स तथा । गणोऽपि एकादश- रुद्राणां वर्गाऽपि, द्रुतवान् भीत्या पलायते स्म । महेश्वरांशत्वाद्रगणान् प्रति पराजयस्यात्यन्ता- संभाव्यतामपिशब्दो द्योतयति। (के हि तत्र न त्रासमगुः) इति । सर्वेऽपि त्रासं गतवन्तः । हिशब्द इतिहासप्रसिद्धि द्योतयति। ननु परमेश्वर एव एकादशरुद्ररूपेण वर्तते। तस्यात्र पराजयकथन मप्यनुचितमेव इतिवृत्तनायकत्वात् । उच्यते - अंशिनः परमेश्वरन्य पराजयकथन एवानौचित्यम् । एकादशरुद्रा हि परमेश्वरांशा एव । तेषां पराजयकथने नानौचित्यम् । अन्ययेन्द्रादीनामपि पराजयो न वर्गनीय: स्मात् । तेषामपि परमेश्वरांशत्वात् ॥ ५७ ॥ अथ न केवलमसुरैः कर्मिण एव, योगिनोऽपि याध्यन्ते स्मेत्याह - अभजत मानसमाधिः स्थिरमपि यमिनां विहीयमानसमाधि । प्रोज्झ्य शुचा रुचमूषुः स्वर्गसझे गवि हतासु चारुचमूषु ॥५८॥ अभजतेति । आधिर्मन:पीडा, स्थिरमपि विषयेभ्यः प्रत्याहरणान्निश्चलमपि, यमिनां योगिनां,मानसं चित्तम् ,अभजत श्रितवान् । तत्र हेतुः-विहीयमानसमाधीति। विहीयमानो- ४४ सव्याख्ये त्रिपुरदहने ऽसुरभयात्त्यज्यमानः समाधिः ऐकाम्यं येन तत्तथा । दिव्या सेना भङ्गमापनियुक्तम् , ततः सा किमकरोदित्यत्राह - प्रोज्येति । स्वर्गसदो देवाः, चारुचमूष चावीपु शौर्यादि- गुणयोगात् सौन्दर्यशालिनीषु, चमूषु, हतासु दैत्यैर्निगृहीतासु सतीपु . शुचा नाहनन- जनितदुःखेन हेतुना रुचं मुखकान्तिं प्रोज्झ्य त्यक्त्वा गवि स्वर्गे वस्तुमशक्यत्वात् भूमौ, ऊषुः वासं कृतवन्तः ।। ५८ । . " शक्रो नानाककुभोऽगाद् "इत्युक्तम् । ततः कीदृगम्यावस्थानमिन्यत्राह -- हरिरपि नानाहारस्फुरितः प्राग्भूपर्णविनानाहारः । प्रविवेश क्रत्वन्ते शोकसमुद्रं दधुश्व शक्रत्वं ते ॥ ५९ ॥ हरिरिति । हरिरपि इन्द्रश्च, क्रत्वन्ते ऋतूनां यज्ञानामन्ते नाशे सति, गोकसमुद्रं समुद्र इवादृष्टपारत्वात् अम्बुधिरिव यः शोकः दुःखं तं, प्रविवेश प्रविष्टवान् । कीदृशः । प्राक ऋतुनाशात् पूर्व, नानाहारस्फुरितः नानाविधैश्चरुपुरोडाशादिभेदाद् बहुविधैरहारैः हविर्भागलक्षणेरन्नः स्फुरितः उपचि ता?तका)यत्वात् प्राप्तशोभः । अत एव नानाविधैः हार्मुक्ता- दामैः म्फुरितः इति चार्थद्वयमावृत्तिमाश्रित्याभिधातव्यम् । हारो भूषणान्तरस्याप्युपलक्षणम् । भुक्ताः कामेन वाध्यते” इति स्वायाद् देहसंम्काराढावाम्थायुक्त इत्यर्थः । "हरिना विष्णुमून्द्रचन्द्राग्नियमवायुषु । अंशौ शत्रहये मुद्ने रुक्मे रुक्माभवर्णके श्वेते वररुचिर्वण व्रते तु जयमङ्गलः । हरिद्वर्णेऽपि कपिले त्रिषु त्वेष गुणैयुते । एतैश्चतुभिदै त्वेष मर्त्यजात्यन्तरे भवेत् ।। शूद्रानिषादजे सिंहकपिभेकशुकादिषु । अश्वेऽश्वभेदे हरितपीतवर्ण" इति केशवः । अत्र प्रागिन्युक्तिरेव पश्चादिति पदमाक्षिपति । पश्चात् ऋतुनाशात् परन्तु अनाहारो यज्ञाभावाद् भोजनरहितः, अत एव भूषणैरलङ्कारैविना विनाभूतः ।

प्रथम आश्वासः। वीणा वेणुदर्शनीया च नारी शय्या यानं चन्दनं चन्द्रबिम्बम् । न भ्राजन्ते क्षुत्पिपासादितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ " इति न्यायाद् देहका रावस्थारहित इत्यर्थः । देवान् पराजित्यासुराः त्रैलोक्येश्वरा बभूवुरियाह – दधुरिति । ते दैत्याः, शक्रत्वम् इन्द्रत्वं, दधुः धृतवन्तः ॥ ५९॥ पराजिता देवाः किमकुर्वन्नित्याह- मा जनता परतापि स्वान्तं विनत्यपि प्रतापरतापि । प्रभुमायावतनाम प्रतिष्ठितं तजजाय पावननाम ॥६० ॥ मेति । सा दैन्यैः परिभूना, जनता जनसमूहः,देववर्गः, परतापि (स्वान्तं बिभ्रत्यपि प्रतापरताणि) दूरादेवारीणां भयजनकत्वं प्रतापः तत्र स्तापि । नयशीर्षसम्पन्नापीत्यर्थः । प्रति- ष्टितं काशीदक्षिणकैलासादियानेषु :पनिमासु कृतसन्निधानं, प्रभु परमेश्वरमाप शरणं प्राप्तवती, अवननाम प्रणामकरोच । तन लोकवेदप्रसिद्ध, पारननाम पावनं सकृदुच्चारण- मात्रेणापि शुद्धिकरं या नाम नमशिवायेति तत् , जजाप सदैव तदुच्चरितयती च । एतदुक्तं भवति - देवालावन्नयशौर्ययुक्तत्वेऽपि असुराक्रमणन्य दुर्निवारत्यात् पुरुषकारस्याकिञ्चित्- वारतामवगम्य देवमेव मामणमिति मन्यमानाः प्रतिमासु कृतसन्निधानं परमेश्वरं प्राप्य जप- नमस्कारादिलक्षणं तपश्चकुरिति । उक्तं च वै "दिव्यं वर्षसहस्रं वै तपस्स्तप्त्वा सुरर्षभाः।" इत्यादि ॥ ६०॥ अथ द्वाभ्यां श्लोकाभ्यामसुरा लब्धस्यैश्वर्यस्य स्थिरीकरणाय परमेश्वरभक्तिमेवा- श्रितवन्त इत्याह -- असुरैरुद्धतरागस्थितैर्वितन्वद्भिरपि विरुद्धतरागः । धृतपरशौ चेतःस्थे जगत्प्रभौ सततमेव शौचे तस्थे ॥ ६१ ॥ . 20 ४६ सव्याख्ये त्रिपुरदहने असुरैरिति । उद्धृतरागस्थितैः उद्धते उच्छृङ्खले। अनियन्तव्य इति यावत् । रागे विषयाभिलाषे, स्थितैरवस्थितैः, अपि तदा विरुद्वतरागः विरुद्धतरं शौचं प्रत्यत्यन्तविरुद्धं यदागो यज्ञभङ्गादिलक्षणं पापं तद्, वितन्वद्भिः कुणैः, अप्यसुरैः सततमेव सदैव, शौचे उत्कर्षहेतौ शुद्धतायां, तस्थे अवस्थितम् । तत्र हेतुमाह - धृत- परशाविति । धृतपरशौ धृतः परशुः कुठारो येन स तथा । परशुभंगादेरुपलक्षणम् । " बिभ्रदोभिः कुठारम्' इत्याद्युक्तलक्षणमित्यर्थः । जगत्प्रभौ परमेश्वरे, चेतःस्थे सतत- चिन्तनेन हृदयस्थिते सति । तेषामत्यन्ताशुचिताहेती पापकर्मपरत्वे विषयकपरत्वे चापि भगवद्ध्यानं शुद्धिहेतुरासीदित्यर्थः ।। ६१ ॥ जित्वा देवप्रभृतिद्विपतो मेरी दुरासदे प्रभृति । यदवापुरहरहस्ते धनं तदम्बिलं न्यधुश्च पुरहरहस्ते ॥ ६२ ॥ जित्वेति । ते दैत्याः, वप्रभृति सानुयुक्त, अत एव दुरामदे दुष्प्रापे, मेरौ । तन्मूर्धम्थे स्वर्ग इति यावत् । देवप्रभृतिद्विषतः प्रभृतिशब्देनोपदेवाः सिद्धविद्याधरा गृह्यन्ते, तान् जित्वा। अहरहः । 'कालाध्वनोः (पा० सू० २-३-५) इत्यादिना द्वितीया । 'नित्य- वीप्सयोः' (पा० सू० ८-१-४) इति द्विवचनम् । प्रतिदिनम् । यद्धनमवापुः प्राप्तवन्तः, तदखिलं, पुरहरहस्ते शिवस्य हस्ते, न्यधुः निहितवन्तः । हस्ते इति लोकोक्त्य- नुसारेणोक्तिः । मासानन्यान् गमय चतुरो लोचने मीलयित्वा"। इतिवत् । परमेश्वरो नः प्रीयतामिति सर्वस्वं भगवते समर्पयामासुरित्यर्थः । वप्रवाक् पुनः। अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः । इति केशवः ॥ ६२॥ अथ ऋतुवर्णनादेः काव्यलक्षणत्वात् तस्येदानीमवसर इति तद्वर्णनमारभते । तत्रादौ पञ्चभिः श्लोकैः ऋतून वर्णयति । तत्राद्येन ऋतूनां सामान्येनाविर्भावः कथ्यते । “ " 30 प्रथम आश्वासः। पुनीभ्यां पूर्वी तरार्धेर्वसन्तायाः चत्वारः । ततो द्वाभ्यामेकैकेन हेमन्तः शिशिरश्च वर्यते स्वगुणमपारं पर्याकर्षन्ती दत्तगुच्छपारम्पर्या । तं जनमाप शुभर्तुश्रेणी किङ्करमनुत्तमा पशुभर्तुः ॥ ६३ ॥ स्वगुण इति । तं त्रिजगज्जेतारं, जनम् असुरसमूह, ऋतुश्रेणी ऋतूनां वसन्तादीनां काल वयवविशेषाणां श्रेणी पङ्क्तिः, आप प्राप्तवती। सेवितुमिति शेपः । जनं विशिनष्टि - पशुभर्तुः । पशुवत् कर्मपाशवद्धा जीवात्मानः पशवः तेषां भर्ता नियामकः परात्मापरपर्यायः परमशिवः पशुभता तस्य । किङ्करं दासम् । शिवभक्ताप्तिहि सर्वैरप्यभिलपणीया। तम्माहतूनां तत्त्राप्तिरुचितैवेति भावः। ऋतुश्रेणी विशिनष्टि - अपारम् अनवधिकम् । स्वगुणम् . जातावेकवचनम् । स्वगुणानित्यर्थः । दोषप्रति- योग्युत्कर्षावहः पदार्थो गुणः । स्वम् आत्मीयं गुणं बुलुमकिसलयादिशालित्वादिकं , पर्याकर्पन्ती परितः प्रसारयन्तीत्यर्थः । गुणान् विवृणोति - दत्तेति परम्परैव पारम्पर्यम् । “ चातुर्वर्यादीनां स्वाथै उपस थ्यानम् ' (पा० सू० वा० ५-१-१२४) इति प्यञ् । दत्तं वितीर्णन् । आविष्कृतमिति यावत् । गुच्छानां स्तबकानां पारम्पर्य समूहो यया सा तथा । उपलक्षणमेतत् फलकिसलयादेः । अत एव शुभा मनोहारिणीत्यर्थः । अत एव अनुत्तमा न विद्यते उत्तमा यम्याः सा तथा ॥ ६३ ॥ लक्ष्मीवालं तेने सरसिरुहां मण्डले च वासन्तेने । रविकरविधुरं शुचितः स्वकरैर्जनभरमयच्च विधुरंशुचितः ॥ ६४ ॥ लक्ष्मीरिति । लक्ष्मीः शोभा । “ लक्ष्मीः श्रीभूतिशोभासु" इति केशवः । सरसिम्हां पद्माना, मण्डले समूहे, वासन्तेने वसन्तकालोदिते इने सूर्य च, वासं स्थिति- क्रियां तेने । चकारात् प्राप्ते वसन्ते हि प्रतिघाताभावात् पद्मानि सजातानि सूर्यः प्रकृष्ट- प्रकाशश्चासीदित्यर्थः । विधुश्चन्द्रः, जनं लोकं, स्वकरैः निजरश्मिभिः, अरमयच्च सुख- यामास च। " विधुः पुंसि विष्णौ चन्द्रे हुताशने । वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते.॥ जगदिति व्याख्यानुसारी पाठः स्यात् . 31 सव्याख्ये त्रिपुरदहने इति केशवः । कीदृशः। अंशुचितः रश्मिभिर्व्याप्तः । सम्पूर्णभण्डल इत्यर्थः । पूर्णस्यै- वेन्दोहिँ सकलांशुव्याप्तिः संभवति । जगद्विशिनष्टि – रविकरेति । शुचित इति सप्तम्यन्तात्तसिः । शुचिः ग्रीष्मावयवो मासः तस्मिन् । रविकरपिधुरं रविकरैरादित्य- रश्मिभिहेतुभिर्विधुरं क्लिष्टम् । घर्तिमित्यर्थः । विज्ञयं विधुरं सद्भिः क्लिटविक्लिप्रयोरपि । विकले प्रत्यवेते च" इति केशवः ॥ ६४ ॥ . विरहिभिराशा वभ्रे न जीवने नदति साम्बुराशावभ्रे । शशिनाकाशे नवभे करचे भूतले च काशेन बभे ॥ ६५ ॥ विरहिभिरिति । समगुरानी अम्बुराशिर्जलमपूहः तत्सहिते। वृष्ट्यर्थमुपात्तजले इत्यर्थः । अभ्रे मेघे, नदति शब्दायमाने सति , विरहिभिः। विरहिणश्च विरहिण्यश्च विरहिणः । 'पुमान् स्त्रिया' (पा०सू ० १-२-६७) इत्येकशेषः । तैः । जीवन प्राणधारणे, आशा इच्छा, न बभ्रे न भृता। मेधध्वनेः कामोद्दीपनतया सोढुमशक्यत्वादिति भावः । विरहिणां प्रावृषि जीविताशा नासीदित्यर्थः । आकाशे नभसि, शशिना चन्द्रेण, भूतले काशेन च इक्षुगन्धाख्यतृणविशेषेण च, बभे दीप्तम् । शरदि (प्रेम मेवा) वरणाभावात् शशिनश्च, कुसुमाविर्भावात् काशस्य च दीप्तिरासीदित्यर्थः । "काशस्त्विक्षुगन्धाख्यवीरुधि। अस्त्री स्त्रीपुंसथाः काशा दीप्तौ काशीति सा स्त्रियाम् । वाराणस्याम्" इति केशवः। आकाशं विशिनष्टि - नवम इति । नवानि नूतनानि (भानि) नक्षत्राणि यस्मिंस्तत्तथा । नक्षत्रैश्च बभे इत्यर्थः। क्षेत्राणां नवकं हि प्रावृषि तं विशिनष्टि?-सकैरव इति । कैरवाणि कुमुदानि तैस्सहिते। कैरवैश्च बभे इत्यर्थः । 32 प्रथम आश्वासः। ४९ स्त्री चतुरा गवि कासौ समवृत या सहसि मदनरागविकासौ । विकसितफलिनीजाता वीक्ष्य दिशो दृग् जनस्य फलिनी जाता ॥६६॥ स्त्रीति । सहसि हेमन्तावयवे मासि । हेमन्तर्ताविति यावत् । गवि भूमौ, या स्त्री योषित् , चतुरा इङ्गिताकारगोपने निपुणा सती, मदनरागरिकासौ रागो विपयाभिलाषः तदधिष्ठात्री देवता मदनः विकासो विकारः मदनस्य विकारः पुप्पेवभिनिवेशः तौ समवृत निगूढवती, असौ का, न कापि । सापि मदनरागविकासगोपनेऽचतुरासीदित्यर्थः । जनस्य दृग् दृष्टिः, विकसितफलिनीजाता विकसितानि विकचानि फलिनीजातानि श्यामाकुसुमवृन्दानि यासु ताः, दियो हरितो, वीक्ष्य फलिनी दर्शनीयवस्तुदर्शनात् फलवती, जाता जज्ञे। “प्रियङ्गुः फलिनी श्यामा' इत्यभरः ॥ ६६ ॥ के न्वेतेऽवश्याये भतुर्दारा निम्भितेऽवश्या ये । नाकृत का कुन्दलता कुसुमेनेन्दोः कलासु काकुंदलता ॥ ६७ ॥ केन्निति । अवश्याये हिमे, विजृम्सिने प्रवृहे सति ये दाराः जायाः, भर्तुः कमितुः अर्थादपराधिनः,। वश्या वशङ्गता न भवन्ति एते के नु, न केचित् । शिशिरकालवैशिष्टयात् सर्वेऽपि दारा वश्या इत्यर्थः । शिशिरेऽपि हेमन्तवन् हिमप्राचुर्य भवत्येव । तथा च वर्णयन्ति- " , , " अवनितले शीतरुजः कर्तापि भृशं तुपारलेशी तरुजः । पवमानम्तापम्यः स्थापयिताभूद्वियोगिनम्तापम्य ॥" इति । का कतमा, कुन्दलता कुन्दाख्यो लताविशेषः, दलता विकसता कुसुमेन हेतुना, धावल्यादिन्दोः कलासु काकुं ध्वनिविकारम् । न्यकृतिमिति यावत् । नाकृत न कृतवती। सर्वापि कुन्दलता कुसुमधावल्याद् इन्दुसादृश्थं धृतवतीत्यर्थः ॥ ६७ ॥ अथ ऋतुवर्णनमुपसंहरन् वनक्रीडामाह - इति कृतपूव्यापारं जनमृतुरविलस्तमानुपूर्व्यापारम् । वनमधिकालोलालि प्राप्य विहृत्यामुना स कालोऽलालि ॥६८॥ 33 ५० सव्याख्ये त्रिपुरदहने कृतेति । इतीति । अखिल ऋतुः वसन्तादिः, आनुपूर्व्या वसन्तादिक्रमेण, तं जनम् असुरजनम् , इति उक्तप्रकारेण, अरम् अत्यर्थ , आप प्राप्तवान् । जनं विशिनष्टि - कृतः पूर्वापारः पुरां पुरीणां व्यापारः सकललोक (गमन) लक्षणा प्रवृत्तियेन स तथा तम् । अनेन कृतकृत्यतया दैत्यानां कामाधिकारित्वमुक्तम् । अमुना जनेन, स ऋतुलक्षणः कालः, वनं प्राप्य विहृत्य, क्रीडित्वा अलालि सम्मानितः । कीदृशं वनम् – अधिकालोलालि अधिकमत्यर्थ आलोलाः कुसुमात् कुसुमान्तजिगमिषया चञ्चलाः अलयो भृङ्गा यस्मिन् । अनेन वनस्य रामणीयकत्वमुक्तम् ॥ ६८ ॥ - अथ जलक्रीडामाह - स्त्रीघटयामा सरसीरेत्य जनोऽयं विलोलयामास रसी। सलिलं सारवहंसश्रेणीसहिताम्बुजप्रसारवहम् ।। ६९ ॥ , स्त्रीघटयेति । सः प्रकृतः अयं कृतवननिहारो, जनः स्त्रीघटया अमा स्त्रीणां समूहेन सह, सरसी: वापी:, एत्य अवगाह्य, सलिलं जलं, विलोलयामास विहरणात् कम्पयामास । जन विशिनष्टि - रमीति । रसी रागवान् । क्रीडायामिति शेषः । सलिलं विशिनष्टि - सारवेति। वहतीति वहः पचाद्यच् । विसास्वादसल्लातमदतया आरवेन शब्देन सह वर्तमानया हंसानां श्रेण्या समूहेन सहितानामम्बुजानां प्रसारः प्रसरणं समृद्धिरिति यावत् । तस्य वमाधारत्वेन स्थितमित्यर्थः ।। ६९ ॥ अथासुराः कामातम्सन्तः संभोगे प्रावर्तन्तेत्याह - यो भुवने सोमनसः ख्यातः सफलोऽपि भेदनेऽसौ. मनसः । झपकेतोरजनीषुः स्त्रीभिरमी रेमिरे ततो रजनीषु ॥ ७० ॥ य इति । सुमनस एव गौमनसः । प्रज्ञादित्वादण म्वार्थिकः। झपकेतोः, कामस्य, य इषुः शरः, भुवने सौमनसः ख्यातः पुष्पमयत्वेन प्रसिद्धः, असौ इषुः, मनसः चित्तस्य, भेदने शकलीकरणे, सफलः सप्रयोजनोऽजनि जातवान्। शराणां हि लक्षभेदः प्रयोजनम् । कामशराणां मनोलक्षत्वात् तद्भेदेन फलवत्त्वमासीदित्यर्थः। असुराणां मनः कामशरविद्ध- मभूदित्युक्तं भवति । यतो मनसः कामशरविद्धत्वं ततस्तस्माद्धेतोः, अमी दैत्याः, रजनीषु निशासु, स्त्रीभिः दयिताभिः, सह रेमिरे सम्भोगसुखमनुबभूवु : ॥ ७० ॥ 34 प्रथम आश्वासः। अथ " " इष्ट हि विदुषां लोके समासव्यासधारणम् । इत्युक्तनीत्या संक्षेपतः संभोगं वर्णयितुमुपक्रमते । असुरा रेमिरे इत्युक्तम् । तत्रैषां रतेरुद्दीपनं किमासीदित्याशङ्कायामाह- उडुघटयामा सद्यो रजनिकुदुदरं विराजयामास द्योः । सुनृषु सुरामास्वाद्यः स्फुरितः स जनस्तदा सुरामास्वाद्य ।। ७१।। उडुघटयेति । रजनिकृत् चन्द्रः, सद्यः तत्क्षणं, उडुघटया नक्षत्रसमूहेन, अमा सह, द्योः आकाशस्य, उदरमन्तर्भाग, विराजयामास निजकरनिकरैः प्रकाशयामास । सुनृषु शोभनेषु नृषु पुरुषेषु, सुरामासु शोभनासु स्त्रीपु, च मध्ये आयः प्रधानभूतः, स जनः असुरजनः स्त्रीजनश्च, यस्मिन् काले चन्द्र उदितवान् तदा तस्मिन् काले, मुरां मचम् , आस्वाद्य पीत्वा, स्फुरितः चलितः । विकृति प्राप्त इति यावत् ।। ७१ ।। असुराः स्त्रीभिम्सह रेमिरे इत्युक्तम् । ते कीदृशाः स्त्रियोऽपि कीदृश्यः इत्याशङ्कायामाह- . ते शय्यासु समाल्या मदमदननिरस्तलज्जयासुसमाल्या । विहृतिमुदारामापू रराज तैः सुखिभिरियमुदारामा पूः ॥७२॥ त इति । ते चन्द्रोदयमधुपानाभ्याम् उद्दीपितरतयोऽसुराः, शय्यासु तल्पेषु, समाल्याः सन्तः माल्यैः स्रग्भिः तदुपलक्षितैः कस्तूरीकर्पूरादिपरिमलद्रव्यैश्च सहिताः । सम्पादितसम्भोगसामग्रीका इत्यर्थः। मदमदननिरस्तलजया मदः मद्यपानजनितो विकारः मदमदनाभ्यां निरस्ता निर्वासिता लजा यम्यास्तया, असु-समाल्या असुसमानां दयितानामाल्या समूहेन सह, उदारां महतीं सम्भोगलक्षणां, विहति क्रीडां आपुः प्राप्तवन्तः । अत्र समाल्यतया संभोगस्या विकलता निरस्तलज्जतया निर्यन्त्र गप्रवृत्तिश्च प्रत्याय्यते। ननु पूर्व 'स्त्रीभिरमी रेमिरे' इत्यनेन यदुक्तं तदेवेदानीमपि 'उदारां विहृतिमापुः'- इत्यनेनाप्युक्तम् , अतोऽत्र पौनरुक्त्यम् । उच्यते - अत्र समाल्यत्वं निरन्तलज्जत्वं च विधेयम्। असुसमाल्या उदारां विहृतिमापुरित्युद्देश्यमेव । अतो न पौनरुक्त्यम् । इयम् असुरसम्बन्धिनी, पूः पुरी, सुखिभिः सुरतसुखयुतैः, तरसुरैहेतुभिः, रराज शोभते स्म । कीदृशी। 35 ५२ सव्याख्ये त्रिपुरदहने - उदारामा उद्भत आरामः उपवनं यस्याः सा तथा। उपलक्षणमेतत् सौधनदीतीरादेः। अनेन यथाभिलाषं विहरणानुकूल्यं पुर्या उक्तम् ॥ ७२ ॥ अथोत्तराश्वासस्य बीजमुपक्षिपन् असुराणां चरितमुपसंहरति धुसदामुदयानवतानवता नवता न बताश्नुत तन्महसा । स जनो विजहार सदारसदा रसदार मदा जयसूर्यमपि ॥७३॥ धुसदामिति । तन्महमा तेपामसुराणां महसा तेजसा हेतुना नवता, नूतनता घुसदां देवानाम् , उदयान् समृद्धीः, नाश्नुत न प्राप्तवती । उदयानां नवत्वं नाम नष्टानां पुनरुत्पत्तिः सा चामुरप्रभावाद्देवानां नाभूदित्यर्थः । बतति विस्मये । न्यायवृत्तानामन्याय- वृत्तभ्यो विपदुत्पत्तिराश्चर्यमित्यर्थः । तन्मही विशिनष्टि -- अवतानवतेति । अवतानो विस्तारः तद्युक्तेन। सर्वातिशायिनेत्यर्थः । स जनोऽसुरजनः, सदारसदाः दाराणां दयितानां स(दा? दसा)समूहेन सहितः, सदा विजहार चिक्रीड। रमत् शब्दायमानं जयतूर्यम् , अन्तरारा देवादीनां जयातद्द्योतकतूषन् , आर अपि प्राप्तश्च ॥७३॥ अथ ते दुःखासम्पृष्टनेव सुखमनुबभूवुरित्याह पुरस्त्रये मुदं दधुनिवासमापुरत्र ये। पराभवेन वर्जिताः प्रणामतत्परा भवे ॥ ७४ ॥ पुरत्रयेति । (ये) दैत्याः अत्रास्मिन् ब्रह्मणोऽनुग्रहलब्धे, पुरनये निवासं स्थितिम् , आयुः प्राप्तवन्तः। ते पराभवेन पराजयेन, वर्जिताः त्यक्ताः सन्तो, मुदं दधुः श्रुतवन्तः। अत्र पराभववर्जितत्वमेव विधेयम् अन्यत् सर्वमुद्देश्यमेव । कथमधर्मरतानामेषामेवं जातभित्याशङ्कायां शिवभक्तिरव तत्र हेतुरिति वक्तुं तान् विशिनष्टि - प्रणामतत्परा भव इति । भवे शिवे प्रणामतत्पराः प्रणामे नमस्कारे तत्पराः। शिवभक्ता इत्यर्थः । अत्यन्तं पापिष्ठानामपि तेषामभ्युदये शिवभक्तिरेव हेतुरित्यर्थः ॥ ७४ ॥ इति श्रीवैष्णवकुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणाकरनाम्नो विद्वत्प्रवरस्य भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां - प्रथम आश्वासः ॥ -oCHOo- 36 अथ द्वितीय आश्वासः। अथ उपक्षिप्तां विपदं प्रतिचिकीर्पूणां देवानां प्रवृत्तिमाह - अथ हरिमापन्नत्याद्युसदः क्षीरोदवसतिमापन् नत्वा । हतसर्वस्वा दित्याः कुलजस्तैरविरुद्रवस्वादित्याः ॥ १॥ अथेति । अथ पराजयप्राप्त्यनन्तरं, घुमहो देवाः, आपन्नत्वात् कृच्छ्रप्राप्ता आपन्नाः तेषां भावस्तत्त्वं तद्धेतोः, नत्वा प्रस्थानारम्भ एवेष्टफलसिद्धये नमस्कर्तव्यान् विप्रेश्वरादीन् प्रणम्य, हरिं विष्णुम् , आपन् । शरणान्तरमलभमानाः तं शरणं जग्मुरित्यर्थः। यद्वा 'पूर्वकालिक' इत्यस्य प्रायिकत्वाद् मुखं व्यादाय स्वपितीतिवद् नत्वा हरिमापन्निति प्रयोगः । ततो हरिं प्राप्य नेमुरित्यर्थो लभ्यते । कुत्रस्थ हरिमित्याह - क्षीरोदवसतिमिति । क्षीरोदः क्षीरसमुद्रः वसतिर्वासस्थानं यस्य स तथा । १ वसतिस्तु गृहे रात्राववस्थाने जिनाश्रये।" । इति केशवः । के ते घुसद इत्यत्राह - अश्विरुद्रवस्वादित्याः द्वावश्विनौ च एकादशरुद्राश्च अष्टौ वसवश्च द्वादशादित्याश्च तथोक्ताः । द्युसदो विशिनष्टि - हृतेति । (दित्याः) दितिः असुरमाता तस्याः, कुलजः तैः प्रकृतैः तारकाक्षादिभिस्त्रिभिरसुरैः, हृतसर्वस्वाः हृतमपहृतं सर्वं सकलं स्वमात्मीयं वस्तु स्वर्गादिकं येषां ते तथा । दैतेयाना- मादितेयानां च मातृसोदरतानिबन्धनं निसर्गवैरित्वं द्योतयितुं दित्याः कुलजैरित्युक्तम् ॥१॥ - अथ पञ्चभिः श्लोकैः देवानां स्तुतिनमस्कारपूर्वकं असुरनिराकरणं प्रति स्वासामर्थ्य कथयित्वा प्रार्थनां, प्रार्थितस्य तत्प्रार्थनानङ्गीकारं चाह - विकसितनालीकान्तर्दलरुचिलोचन ! हरे! घनालीकान्त ।। श्रितजनतापावन! ते नमो दयां कुरु जनेऽत्र तापावनते ॥२॥ १. मे इति मुद्रितपाठः। 37 सव्याख्ये त्रिपुरदहने विकसितेति । विकसितनालीकान्तर्दलरुचिलोचन विकसितस्य - विकचस्य नालीकस्य यददिलं गर्भस्थं पत्रं तस्य रुचिरिव रुचिश्शोभा ययोस्तथाविधे लोचने यस्य तस्य संवोधनं तथा। हरे हरिरिति श्रीनामशालिन् ! घनालीकान्त घनानां मेघानामाली समूहः तद्वत् कान्त, सान्द्रमेघश्यामल! श्रितजनतापावन श्रितायाः भक्तिपुरस्सरं (प्राप्तायाः) जनतायाः जनसमूहम्य पावन शुद्धिकर!, ते तुभ्यं, नमः नमस्क्रिया। अस्त्विति शेषः । तापावनते तापेन मनोदाहेन हेतुना अवनते प्रणते, अत्र एतस्मिन्नाकारदर्शनेनैवानुमेय- दुरवस्थे अस्मिन् , जने। अस्मास्विति यावत् । दयां करुणां, कुरु। प्रार्थनायां लोट् ॥ २ ॥ अहिता वरदैते ये पुरत्रयेऽस्मिन् वमन्ति वरदैतेये । शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तः प्रयाति मोहं तुन्नः ॥ ३ ॥ अहिता इति । हे वरद भक्ताभीष्टप्रद ! ये एते सर्वेषामपि भयजनकतया सर्वदैव मानसप्रत्यक्षवद् बुद्धिस्थाः, अहिताः शत्रवः तारकाक्षादयः, अस्मिन् सर्वदा सर्वत्र सञ्चरणाद् अखिलैरप्यवलोक्यमाने, पुरत्रये वसन्ति निवासं कुर्वन्ति , तान् हन्तुं निगृहीतुं, वयं न शक्ष्यामः समर्था न भविष्यामः । भूतवर्तमानयोरिव भविष्य- कालेऽपि शक्त्यभावोऽनुमेय एव इत्यभिप्रायेण लट्प्रयोगः। पुरत्रयं विशिंपन्ति -- वरदैतेय इति । वरा बलवत्त्वेन उत्कृष्टा देतेया यस्मिन् तत्तथा । एतद् हनने शक्त्यभावे हेतुत्वेनोक्तम्। दण्डापूपिकया स्वशक्त्यमावन्योपपन्नतामाहुः - स्वयमिति । इन्द्रः त्रयाणामपि लोकानां परमेश्वरात्मा स्वामी, स्वयं तैः असुरैः तुन्नः व्यथितस्सन् ,मोहं इतिकर्तव्यतामौढ्यम् , प्रयाति प्राप्नोति । इन्द्रस्यासामर्थ्य तद्रक्ष्याणां नः कथं सामर्थ्य मिति यावत् ॥ ३ ॥ तल्लोकेश ! शिवद ! नः स्फीतेऽत्र त्रिपुरपावके शशिवदन! । न यथानघ! नश्यामः स्मरेस्तथा त्वं जनार्दन! घनश्याम! ॥४॥ तदिति । लोकेश लोकानां भुवनानामीश स्वामिन् ! शिवद भक्तानां मङ्गलपद! शशिवदन शशीव मनोहरत्वाञ्चन्द्र इव वदनं यस्य तस्य सम्बोधनं तथा । 38 द्वितीय आश्वासः । अनघ निर्दोष ! जनाईन इति श्रीनामशालिन् ! घनश्याम घनो मेघ इव श्यामलवर्ण ! यस्माद् नः शक्त्यभावः तस्मात् स्फीते वर्धिते, अत्र त्रिपुरपावके त्रिपुर एव पावके अग्नौ, यथा येन प्रकारेण, न नश्यामः (न) नाशं गच्छामः; तथा तेन प्रकारेण, त्वं नः अस्मान् , स्मरेः निरूपय । सास्तिक्यमिति शेषः(१) ॥ ४ ॥ , यद्वयमतमीदामश्यामल ! लोकत्रयाभिमत ! सीदामः । स तब महानवमानः तद्रक्षा दीयतामिहानवमा नः ॥५॥ यदिति । अतसीदामश्यामल अतसी उमाख्यो धान्यविशेषः तस्या दाम पुष्पं तद्वत् श्यामल ! लोकत्रयाभिमत सर्वान्तरांत्मत्वादभीष्टतम ! यत् यस्माद् , वयं त्वदेकशरणाः, सीदामः असुरपीडितत्वात् सादं गच्छामः, स सादः, तव महान् अनल्पः, अवमानः अवमानहेतुः निन्दाहेतुर्भवति । नाम्माक- मन्यस्य वा कस्यचिद्। अवमानम्य महत्त्वोवत्या अनुपेक्षणीयत्वं भगवदेकसम्बन्धित्वोक्त्या अवश्यपरिहरणीयत्वं च ध्वन्यते । तत् तम्मात् , नः अस्माकम् , इह सादे विषये, अनवमा भयहेतोः अत्युच्छेदादुत्तमा, रक्षा त्राणं, दीयताम् । असुरान्निगृह्णीप्वेति यावत् ॥ ५॥ इत्थं तान्ततमानां घुसदा मतिमुज्झतां तां ततमानाम् । अर्थितमनुमेने न प्रभुणा तत्केन शक्यमनुमेनेन ॥ ६ ॥ इत्थमिति। प्रभुणा जगत्स्वामिना हरिणा, घुसदां देवानाम् , इत्थम् अनेन प्रकारेण, अर्थितम् असुरनिग्रहलक्षणं प्रार्थितं, नानुमेने नानुमतम् । करिप्यामीति न प्रतिज्ञातमित्यर्थः । अनुमतावेव देवस्य योग्यतामापादयितुं घुसदो विशिनष्टि- तान्ततमानाम् इति । अतिशयेन तान्तानां असुरपीडया ग्लानिं गतानाम् । अत एव ततमानां व्याप्तगा, तो वलवृत्राद्यसुरविषये सर्वैरप्यनुभूतां, मतिं बुद्धिम् , उज्झताम् । 89 सव्याख्ये त्रिपुरदहने शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तैः प्रयाति मोहं तुन्नः । इति कण्ठोक्त्या त्यजतां च । एतच्चोपपन्नमित्यर्थान्तरेण समर्थयते - तदिति । तद् अर्थितम् , अनुमेनेंन । अत्रान्यत्वं नाभिधत्ते । यथोक्तम्- प्रतिषेधेऽप्यसत्तायामन्यत्वे सदृशेऽपि च । कुत्साल्पविरहार्थेषु विपक्षे चापि नञ् भवेत् ॥ इति । उमा पार्वती तस्या इनः स्वामी परमेश्वरः तस्मादन्येन । केन शक्यं, न केनापि । यच्छिवव्यतिरिक्तानां सर्वेषामप्यशक्यं तत्र हरेरनुमत्यकरणमेव युक्तमित्यर्थः । सर्वाशक्यत्वसामान्येन विशे(प ? षा)शक्यत्वसमर्थनादर्थान्तरन्यासोऽलङ्कारः ॥ ६ ॥ अथ हरिस्तत्प्रार्थनानुमत्यकरणे हेतुमाह । निरतः परमो देवः सततं परमेश्वरो हि परमोदे वः । तस्मान्मनसामर्थ्य कर्तुं भवतां सुरा मम न सामर्थ्यम् ॥ ७ ॥ निरत इति। हे सुराः देवाः! परमः उत्कृष्टः। सर्वेषामप्यस्माकम् उपरि वर्तमान इत्यर्थः। परमेश्वरः रुद्रः, देवः वः युष्माकं, परमोदे परेषां शत्रूणां मोदे प्रीतौ विषये, सततं सदा निरतः तत्परो, हि यस्मात् (तस्मात् ततो हेतोः भवतां युष्माकं, मनसाम् अर्थ्य प्रार्थनीयम् असुरवधलक्षणं वस्तु, कर्तु मम न सामर्थ्य शक्तिरिति । मम सामर्थ्याभाव एव युष्मत्प्रार्थनानङ्गीकारे हेतुरित्यर्थः । परमेश्वर इत्यत्राश्वकर्णादिवत् केवलैव रूढिराश्रयणीया, न तु योगसहिता। तथा (सति) परम इति पुनर्विशेषणीयो न स्यात् ।। ७ ॥ इत्थं स्वासामर्थ्यश्रवणाद् विषण्णान् देवानवलोक्य हरिस्तन्निग्रहायोपायमाह - प्रायॊ हि ततो देवः पिनाकपाणिः स एवाहिततोदे वः । यमगमसावध्यास्ते तं यामस्तस्य तेजसा वध्यास्ते ॥ ८॥ । प्रार्य इति । अत्र युप्मत्संबोधनगर्भत्वात् सुरा इति सम्बोधनं सिद्धयति । हे सुराः! 40 द्वितीय आश्वासः। यतः परमेश्वरस्य असुरप्रीतौ निरतत्वं, ततस्तस्माद्धेतोः, वः युष्माकम् , अहिततोदे शत्रुवधे विषये, स एव तन्निग्रहायापि (प्रार्थ्यः ।) प्रार्थनीय इत्यर्थः । कीदृशः । पिनाकपाणिः पाणौ हस्ते पिनाकः पिनाकाख्यं धनुर्यस्य स तथा । स्वयमेव जगत्कण्टकोद्धरणाय गृहीतशस्त्रः प्रवर्त्तमानस्सन् अस्मत्प्रार्थनासहकृतोऽसुरखधं करिष्यत्येवेति भावः । तस्यापि सामर्थ्याभावे कथं ते वध्याः स्युरित्यत्राह - तस्येति । हिशब्दोऽवधारणे। ते दैत्याः, तस्य परमेश्वरस्य, तेजसा शक्त्या, वध्या हि हन्तुं शक्या एव । तत्र न सन्देह इत्यर्थः । तीदानीमस्माभिः किं कर्तव्यमित्यत्राह – असौ परमेश्वरः, यम् अगं पर्वतम् , अध्यास्ते अधितिष्ठति, तम् अगं यामः अधुनै कैलासाय यास्यामः । वर्तमानसामीप्ये लट् । " गत्यर्थकर्मणि" (पा० सू० २-३-१२) इत्यादिना द्वितीया ॥ अथ हरिः परमेश्वरप्रसादोपलब्धये मतिमकरोदित्याह - इत्थममेयज्ञानान्नाथः स्मृत्यै प्रचक्रमे यज्ञानाम् । परमनुरागमनन्ते तन्वति तरसैव चक्रुरागमनं ते ॥ ९ ॥ इत्थमिति । समनन्तरोक्तस्य श्लोकद्वयस्यानेन संबन्धः । अत्रार्थसामर्थ्यादुक्त्वेति पदमाक्षिप्यते। नाथो जगत्वामी हरिः, इत्थमनेन प्रकारेण, उक्ता अमेयज्ञानाद् अमेये निखिलैरपि दुविज्ञेये वस्तुनि यद् ज्ञानं तस्माद्धेतोः । यज्ञप्रियत्वात् परमेश्वरो यज्ञेनैव प्रसाद्य इति जानन्नित्यर्थः । यज्ञानांऋतूतां, स्मृत्यै प्रचक्रमे आरब्धवान् । यज्ञेन परमेश्वरं प्रीणयितुं यज्ञान् सस्मारेत्यर्थः । स्मृतिः फलवती चासीदित्याह - परमिति । ते यज्ञाः, अनन्ते विष्णौ परम् अतिशयि(नम्)... अनुरागं स्मृतिलक्षणं प्रमाणं, तन्वति कुर्वति सति, तरसव वेगेनैव, आगमनं चक्रुः कृतवन्तः । भृत्यानां हि प्रभूणां खविषयं स्मरणमपि परोऽनुराग एव इति स्मृतेरनुरागत्वम्। ननु क्रियात्मकत्वादचेतनानां यज्ञानां कथमागमनम् । उच्यते- अधिदेवताविषयेयमुक्तिः न तु क्रियाविषया। अधिदेवता च सर्वेषां पदार्थानामस्त्येव ।। अथ हरिः परमेश्वरप्रसादनाय कैलास गतवानित्याह 41 ५८ सव्याख्ये त्रिपुरदहने क्रतुरुपसन्नामा यः स्वयममुमादाय रुद्रसन्नामाय । शम्भुनिवासायागान्मुक्त्वान्यान् सपदि पीतवासा यागान् ॥१०॥ ऋतुरिति। सपदि तत्क्षणमेव, पीतवासाः विष्णुः, स्वयं यः क्रतुरुपसन्नामा उपसदिति नाम आख्या यस्य, अमुम् अभीष्टफलसम्पादनेऽन्तरङ्गभूतम् , आदाय परिगृह्य, अन्यान् (यागान् ) ऋतून , मुक्त्वा प्रस्थाप्य, शम्भुनिवासाय अगात् गतवान् । न तु देवानेव प्रस्थापयामास । अनेन कार्यम्य गौरवातिशयः प्रत्याय्यते। किमर्थमगादित्यत्राह - रुद्रसन्नामायेति। रुद्रस्य सन्नामाय नमस्काराय । रुद्रयागायेति यावत् ॥ १० ॥ अथ चतुर्भिः श्लोकैः कैलास वर्णयति - यत्र हि सद्योगरतिः स्मरतामहांसि यच्च सद्यो गिरति । यन्नाम हरहरति प्रणय मुनिसिद्धवृन्दमहरहरेति ॥ ११ ॥ यत्रेति। यत्र शम्भुनिवासे, सद्योगिरतिहि सतां जीवब्रह्मैक्यसाक्षात्करणादुत्कृष्टानां योगिनां रतिः स्थितावासक्तिः । हिशब्दः शास्त्रीयां प्रसिद्धि द्योतयति। स्मरतां परमेश्वरा- धिष्ठानत्वेन कैलासं ध्यायताम् , अंहांसि पापानि, सद्यः स्मरणसमय एव, गिरति निगीर्णानि करोति। नाशयतीति यावत् । यं शम्भुनिवासं, मुनिसिद्धवृन्दं मुनीनां मध्ये ये सिद्धाः विदिततत्त्वाः तेषां वृन्दं समूहः, हरहरेति नाम भगवतो नामधेयं, प्रणय उच्चार्य अहरहः प्रतिदिनं, एति प्राप्नोति । अहरहः अत्यन्तसंयोगे द्वितीया । वीप्सायां द्विवचनम् ॥ ११ ॥ यं विविधन्यकुरुने शिरसि वसन् धनद एव धन्यं कुरुते । यस्माद्वै रूप्यमयादमरगिरिः काञ्चनोऽपि वैरूप्यमयात् ॥ १२ ॥ यमिति । एवकारो भिन्नक्रमः । पौनर्वचनिकश्च । धनदः यक्षराजः, शिरसि शिखरे, वसन् यमेव धन्यं उत्कर्षवन्तं, कुरुते। वसन्निति हेतौ शता। विशिष्ट- द्वितीय आश्वासः। स्याधेयत्याधारोत्कर्षावगमकत्वादिति भावः । शिरो विशिनष्टि - विविधन्यकुरुते इति । विविधानि हर्षक्रोधादिमूलत्वाद् बहुविधानि न्यफूनां मृगविशेषाणां रुतानि शब्दा यस्मिन् तत्तथा। उपलक्षणमेतत् सत्त्वान्तरस्यापि । वस्तूनां स्वधर्मोपेतत्वं हि गुणः। मृगशकुन्याद्यनेक(स)त्त्वोपसेव्यत्वादिकं पर्वतधर्मः। तस्मादनेनापि पर्वतप्रशस्तिरेव कृता इत्यवगन्तव्यम् । वैशब्दोऽवधारणे भिन्नक्रमश्च । रूप्यमयाद् वै रजतस्वरूपादेव, यस्मात् कैलासाद्धेतोः, अमरगिरिमरुः, काञ्चनोऽपि काञ्चनविकारोऽपि, वैरूप्यं विकृतरूपताम् , अयात् प्राप्तः । धातूनामस्मि काञ्चनम्” इति भगवद्वचनात् , लोकरसिद्धेश्च काञ्चनम्यवोत्कर्षः । तन्मयस्य मेरो रजतमयस्य कैलासस्य प्रभा- प्रसराक्रान्तत्वात् वर्णापको जात इत्यर्थः । सर्वस्मादुत्कृष्टस्य काञ्चनम्य रजतापेक्षया वर्णहानेरत्यन्तासम्भाव्यताम् अपिशब्दो द्योतयति ।। १२ ॥ " तथा बभ्रु करालं केशं विभ्राणं दशशिरः पुरा लङ्केशम् । भ्रमयत् पातालसदो रुराव रक्षो यदन्तपातालसदोः ॥ १३ ॥ बन्विति। पुरा किल रावणः भुजकण्डूविनोदनाय कैलासमुद्धृत्यो त्क्षिप्य उत्क्षिप्य व्यहरत् । तदा हरः कुपितस्सन् स्वाङ्गुष्ठाग्रेण पर्वते गौरवमाहितवान् । तद। स्वोपरि निपततः कैलासस्य गौरवमसहिष्णुः रावणः रोदनमकरोत् । तदेतदनेनोच्यते । पुरा लङ्केशं लङ्काया ईशं स्वामीभूतं रावणाख्यं रक्षः राक्षसः, यदन्तपातालसदोः यस्य कैलासस्यान्तो मूलकोटे- रेकदेशः, तस्य पातेन पतनेन हेतुना अलसा जडीभूता दोषः बाहवो यस्य तत्तथाविधं भूत्वा, रुराव ‘हा हतोऽह'मित्यादिशब्दमकरोत् । रक्षसो लोकोत्तरतां प्रकटयन् तद्विशिनष्टि- बन्विति [बभ्रु पिङ्गलं, करालं भयङ्करं, केशं कचं, बिभ्राणं दधानं, पातालसदः पाताले सीदन्तीति तथा तान् पातालवासिनः। भ्रमयत् ] ॥ १३ ॥ तौ च सदानवसानौ गौरीशानौ सदैत्यदानवसानौ । सविलासं यत्र स्तः श्रयति च सुरगणोऽरिसंयत्ररतः ॥ १४ ॥ 48 ६० सव्याख्ये त्रिपुरदहने तौ चेति। तौ लोकशास्त्रप्रसिद्धौ, गौरीशानौ पार्वतीपरमेश्वरौ, यत्र कैलासे सदा सविलासं विलासेन लीलया सह वर्तमानं यथा भवति तथा स्तः विद्यते च । तस्य महिमा कथं वर्ण्यत इति भावः। कीदृशावित्यत्राह – अनवसानौ इति । देशतः कालतः स्वरूपतश्चाद्यन्तशून्यौ । नित्यशुद्धावित्यर्थः । यत्रेत्युक्तं विशिनष्टि - सदैत्येति । दितेरपत्यानि दैत्याः दनोरपत्यानि दानवाः । भगवत्सेवार्थमागतः दैत्यदानवैः सहितानि सानूनि प्रस्थानि यस्य स तथा । अरिसंयत्तस्तः अरीणां संयतः युद्धात् त्रस्तः भीतः, सुरगणो यं कैलासं, श्रयति शरणं प्रपद्यते तस्मै शम्भुनिवासायेति पूर्वेणान्वयः ॥ १४ ॥ अथ हरिः कैलासं प्राप्य . परमेश्वरप्रसादनायोपक्रान्तवानित्याह - तं स्थितमुपसद्यागस्वाम्ये हरिणा कृतोऽयमुपसद्यागः । कैलासं भूतेशं प्रीणयता यत्र समुदि सम्भूते शम् ॥ १४ ॥ तमिति । हरिणा विष्णुना, तम् उक्तगुणविशिष्टं, कैलासमुपसद्य प्राप्य, अयं पूर्वानीतः, उपसद्यागः, उपसत्संज्ञो यागः, कृतः अनुष्ठितः । कैलासं विशिनष्टि-अगस्वाम्ये स्थितमिति। अगस्वाम्ये गौरीशानवासत्वादिगुणशालित्वात् पर्वताधिपत्ये, स्थितम् अव- स्थितम् । एतत् क्रतोरन्यत्रानुष्ठेयत्वेऽपि तत्र गत्वानुष्ठाने हेतुः। कम्मै फलायायं क्रतुः कृतः इत्यत्राह – भूतेशमिति । भूतानां श्रीमहाभूतगणानां निखिलजन्तूनां वा ईशं परमेश्वरं, प्रीणयितुम् । परमेश्वरप्रसादलाभायेत्यर्थः । तस्य किं फलमित्यत्राह – यत्रेति। यत्र यस्मिन् भूतेशे, समुदि संभूते सति शं परमप्रयोजनभूतं सुखं भवति । तत्तदभिमतफलसम्पत्त्या सुखावाप्तिरीश्वरप्रसादस्य फलमित्यर्थः ॥ १५ ॥ . रागः फलवांश्चासीदित्याह - मुक्त्वा हासं सद्यः प्रमथगणो मथितरिपुमहासंसद्यः । प्रययावच्छाद्यागादुदयं त्रिपुरश्च जगदवच्छाद्यागात् ॥ १६ ॥ 44 तृतीय आश्वासः। मुक्त्वेति। अच्छाद् यथाविध्यनुष्ठानेन निर्दोषाद् , यागाद् यजनाद्धेतोः, सद्यः यजनसमनन्तरमेव, प्रमथगणः भूतगणः, उदयम् आविर्भावं, प्रययौ प्राप्तः । किं कृत्वा । अट्टहास मुक्ता । कृत्वेत्यर्थः । कीदृशः । यः प्रमथगणः, मथितरिपुमहासंसद् मथिता महती रिपूणां संसत् समूहो येन स तथा । शौर्य- शालीत्यर्थः । जगद् भूरादिलोकन् , अबच्छाद्य स्रावृत्य, त्रिपुरं पुरत्रयम् , अगाच गतवान् । प्रमथितुमिति शेषः । त्रि मिति । तिस्त्रः पुरः समाहृता इति विगृह्य 'तद्धितार्थ' ( पासू०२-१-५१) इट दिन मम सः। 'ऋक्प:' (पासू० ५-४-७४) इत्यादिना समासान्तोऽच्प्रत्ययः । त्रीणि पुर णि समाहृतानीति वा विग्रहः । तदा पात्रादित्वात् स्त्रीत्वाभावः ॥ १६ ॥ - विष्णोव्यापारो वि.लोऽभूदिन्याह - तायपि वासवानिप्रदानि नगराणि शिवनिवासवहानि । प्रधसं भूतानि द्रुतमनयन् यानि य जनसम्भूतानि ॥ १७ ॥ तानीति । नगराणि पुराणि कर्तृभूत नि, तानि भूतानि प्रमथान् , द्रुतं क्षिप्रं, प्रधंसं विनाशम् , अनयन्नपि प्रापयन्ति स्म च । कानि नगराणी- त्यत्राह – वासवेति । वासवस्येन्द्रस्य ह नि पीटां प्रददातीति । असुरसंबन्धिनीत्यर्थः । एतत् प्रध्वंसे हेतुः। शिवनिवासवहानीति । वहन्तीति बहानि । पचाद्यच् । शिव- निवासस्य शिवालयस्य वहानीति विगृह्म 'कृयोगा च पष्ठी समस्यत इति वक्तव्यम्' (पासू०वा ०२-२-८) इति समासः। शिवसान्निध्यमेवासुराणां भूताध्वंसे सामर्थ्यावहमिति भावः । भूतानि विशिनष्टि – यानीति । यानि भूतानि यजनसंभूतानि यजनाद् उपसद्यागात् सम्भूतानि उत्पन्नानि । अशक्यपरिवानी यर्थः ॥ १७ ॥ अथ विफलीकृतव्यापारो विष्णुः किमकरोदित्याशङ्कायां तत्प्रवृत्तिं वक्तुमुपक्रमते - शक्तिरकम्प्रा सागिता जनयंत्र चाधिक प्रासादि । यत्कटकं प्रासादिस्फीतं यत्तुङ्गवेदिकं प्रामादिः ॥ १८ ॥ 45 ६२ सव्याख्ये त्रिपुरदहने शक्तिरिति । अस्योत्तरश्लोकेन सम्बन्धः । यत्र त्रिपुरे, सादिगता सादिनोऽश्वारोहाः तान् गता प्राप्ता, शक्तिः सामर्थ्यम् , अकम्पा अकम्पशीला स्थिा भवति । अनभिभवनीये- त्यर्थः । प्रासादि च मनःप्रसादो नाभी च। कदाचिदपि दुःखासम्पर्शात् सुखेनै- बावस्थितमित्यर्थः । य (द्) इत्यनुषज्यते । यत्कटकं यस्मिन् कटकं सैन्यं, प्रासादि- स्फीतं प्रासादिभिः कुन्तप्रमुखैः आयुधैः स्फीतम् । “ सैन्येषु कटकोऽस्त्रियाम्" इति यादवः। यत् पुरत्रयं, तुङ्गवेदिकं तुङ्गा उन्नता वेदिः वितदिः यस्मिन् तत्तथा। "वेदिविती यागाय परिष्कृतमहीतले । अग्निकुण्डे चतुष्कोणे त्वमि(द? कु)ण्डे परे जगुः ॥" " इति केशवः । यच्च प्रासादि प्रासादो मन्दिरविशेषः । "प्रासादो मन्दिरान्तरे। नृपाल्यदेवतादीनाम्" इति केशवः ॥ १८॥ विप्रततावध्यायचंसि स्फीतं श्रिया गताध्या यत् । हरिरहितावध्याय त्रिपुरायेय॑न् हते क्रतापध्यायत् ॥ १९ ॥ विप्रतताविति । यच्च विप्रततौ अध्यायचंषि अध्यायो वेदपाठः तवंसन- शीलं, यच्च गतायध्या गतोऽवधिस्सीमा यस्यास्सा तथा। अपरिमितयेत्यर्थः । श्रिया सम्पदा, स्फीतं, हरिः विष्णुः, क्रतो क्रोः कार्यभूने प्रमथगणे, हो निगृहीते, तस्मै उक्तगुणविशिष्टाय, त्रिपुराय ईपॅन् क्रुध्यन् सन् , अध्यायत् चिन्तयामास । क्रुधद्रुह" (पा० सू० १-४-३७) इत्यादिना त्रिपुरस्य सम्पदानसंज्ञा । पुरत्रयं विशिनष्टि - अहितेति । अहितैः शत्रुभिरवध्याय हन्तुमशक्याय । पुरत्रयस्याध्याय- ध्वंसाद्यधर्माचारित्वे सति सादिस्थितशक्तेरकम्प्रतादिवशिष्ट्यं च हितावध्यत्वं च । प्रयासविकलीकरणं चाया हेतुः ॥ १९ ॥ . 46 तृतीय आश्वासः। ध्यानप्रकारं दर्शयति - आनुयते न विनाशं शिवप्रसादादमी न तेन विना शम् । अहमाशु भवादरतः तदमून् व्यावर्तयाम्यशुभवादरतः ॥२०॥ अश्नुत इति । अनी चाराः • अपुराः, शिवप्रसादातोः, विनाश निग्रामत्वं, न अश्नुवो प्राप्नुवन्ति । एते अवव्या भवन्तीति यावत् । तत्र शिवप्रसाद एव हेतुः नान्यत् किञ्चिदित्यर्थः । एतच्चोपपत्ति तो निश्चितवान् इति दर्शयति - तेनेति । तेन शिवनसादेन, पिना अन्तरेण, शं सुखं, न भवति । एषां सुखा.प्रन्यथानुपपत्त्या शिवसाद एष हेतुतां व्रजतीत्यर्थः । तन्मया किमत्र कर्तव्यनिति विनृश्य तदपि निश्चिावानिति (आह) अहमिति । यस्माच्छिवप्रसादस्य तदवध्यत्वे हेतुत्वं तत् तस्मात् , कालविलम्बनं विना अशुभपादरतः अशुभः तर्कामासरूपत्वादमङ्गलः यो वादस्तत्र रतः तत्परः। पाषण्डागमोक्तप्रस्थानत्रवर्तक इत्यर्थः । भूत्वेति शेषः । अमून् असुरान् , भवादरतः शिवभक्तेः, व्यावर्त पानि वर्तमान- सामीप्ये लट् । कालक्षेपमन्तरेणासुरान् भवभक्तविमुखान् करिष्यामीत्यर्थः ॥ २० ॥ . हरिरेवमुद्दिश्य तेषां भक्तिनिरासार्थमुपक्रान्नव नित्याह - इति तासान्निध्याय त्रये पुरां पशुपतेरसान्निध्याय । रूपं महितमतानि प्रभुणास्तिक्यान्निरोद्भुमहितमतानि ।। २१॥ इतीति । प्रभुणा विष्णुना, इति उक्तप्रकारेण, निध्याय नितरां सोपपत्तिक ध्यात्वा, अहित नतानि अहितानां शत्रूणां मतानि सङ्कल्पान् आस्तिक्याद् ईश्वरोऽस्तीति मतिर्यस्य स आस्तिकः । 'अस्ति नास्ति दिष्टं मतिः' । (पा० सू० ४-४-६०) आस्तिकस्य भावमास्तिक्यं तस्मात्। शिवभक्तरित्यर्थः। निरोढुं व्यावर्तयितुं, महितं पूजितं, रूपम् 47 ६६ सव्याख्ये त्रिपुरदहने पीत्यर्थः । क्रियाणां जडत्वात् पाकादिक्रियाणामिव यागादि क्रियाणामपि फलदातृत्वा- नुपपत्तेरिति भावः ॥ २४ ॥ ननु देहव्यतिरिक्त एवात्मा, स च एतद्देहपाते देहान्तरं गृहीत्वा देशान्तरकाला- न्तरभावि . कर्म फलं भुङ्क्ते च । तस्माद्धर्माऽनुष्ठेय एव इत्यत्राह का पुनरङ्गात्र मितिः स्मरत यदि विशत्यसौ परं गात्रमिति । 'यद्ययमक्षे पतति ध्रुवं मतं युष्मदीयमक्षेपतति ॥ २५ ॥ का पुनरिति । पुनश्शब्दो वाक्यालङ्कारे। अङ्ग इत्यामन्त्रणे। अत्र इतिशब्दार्थ- महिम्ना मन्यध्वे इति पदमाक्षिप्यते। अङ्ग! हे असुराः, असौ पुमान् परम् एतदेहादन्यद् , गानं विशति वकिलसाधनत्वेनाङ्गीकरोति इति मन्यध्वे यदि तर्हि अत्र परगात्रप्रवेशे, का पुनर्मितिः प्रमाणम् । न कापीत्यर्थः । स्मरत युक्तितो विचारयध्वम्। तदा युष्माकमप्येतद्धृदय- इममेवेति भावः। चार्वाकमते प्रत्यक्षमेकमेव प्रमाणम् । अनुमानादीनि न प्रमाणानि। यथाहु:- "प्रत्यक्षदृष्टमेवास्ति नास्त्यदृष्टभदृष्टतः।" , इति । तदाश्रयणेनात्र प्रमाणाभावं हृदयङ्गमीकृत्य धर्मस्यानुष्ठेयतामाक्षेप्नुमाह यदीति । अयं परगात्रप्रवेशलक्षणोऽर्थः, अक्षे प्रत्यक्षे, पतति प्रत्यक्षविषयो भवति, यदि तर्हि युष्मदीयं युप्नत्संबन्धि, मतं धर्मस्यानुष्ठेयलक्षणो वः सिद्धान्तः, अक्षेपतति क्षेपः खण्डनीयता तेषां ततिः समूहः तद्रहितं भवेद् , ध्रुवं निश्चितमेतत् । अक्षेपमिति वक्तव्ये अक्षेपततीत्युक्तं युप्मन्मतखण्डने अहमहमिकया शतशो युक्तयः प्रसरन्तीति द्योतयितुम् । अयमर्थः- यद्यात्मनः परगात्रप्रवेशस्य प्रत्यक्षविषयत्वं तर्हि युप्माकं पक्षः (स्वर्गा? सा)धिष्ठः अन्यथा खण्डित एव इति । आत्मनो देहान्तरग्रहणस्याप्रत्यक्षत्वे कस्यापि न विमतिः । तस्माद्धर्मो नानुष्ठेय इति भावः ॥ २५ ॥ ननु प्रत्यक्षविषयो देह एव नात्मा । देहव्यतिरिक्तोऽप्रत्यक्षो बोधलक्षणः कश्चित् पदार्थोऽस्त्येव । स एवात्मा। स च देहान्तरं गृह्णातीत्यत्राह - - 50 द्वितीय आश्वासः । श्राव्या मदवध्येयं वाग् बोधं वित्त मद्यमदवद् ध्येयम् । साधं तन्वा तेन प्रणश्यते विघटनान्तु तन्वाते न ॥ २६ ॥ श्राव्येति । अत्र ‘संबोधनसारो युष्मदर्थः' इति न्यायाद् मध्यमपुरुषाक्षिप्तो युष्मदर्थः अपुरा इति पदमाक्षिपति । हे असुराः!, मद् मत्सकाशाद् इयं वाक् वक्ष्यपाणा वाक् भारती, श्राव्या अवश्यं श्रोतुं योग्या । कीदृशी। अवध्या युक्तिमत्त्वात् केनाप्यबाध्या । अत्र वक्तव्यार्थवचनव्यतिरेकेण वाचः श्राव्यत्वविधानाद् मया सिद्धान्तसार उपदिश्यते तत् सावधानाः शृणुतेति व्यज्यते। बोधं देहगतं चैतन्यं मद्यमदवद् मद्येन हेतुना यो मद: मनोविकारः तेन तुल्यं तद्वदागन्तुकं, ध्येयं ध्यातुं योग्यं, बोद्वव्यं, वित्त जानीत । तम्य देहान्तरग्रहणं न संभवतीत्याह – सार्धमिति । तेन बोधेन तन्वा शरीरेण सार्ध सह, प्रणश्यते अत्यन्नाभावः प्राप्यते। कारणाभावे कार्थमपि नश्यत्येवेति भावः । तनुबोधौ विघटनां विश्लेषम् , इतरेतरस्माद् अन्यतरत्यागेऽन्यतरस्य गमनं, न तु नैव तन्याने कुर्वाते । कार्यकारणयोर्भेदाभावादिति भावः । एतदुक्तं भवति – चार्वाकमते आकाशपाप्रत्यक्षत्वेनासत्त्वात् पृथिव्यप्तेजो वायुश्चत्वार्येव भूतानि । भूतचतुष्टयारब्धो देह एवात्मा। देहगतं चैतन्यं मदवदागन्तुकमेव । यथा मद्यसंयोगे मदो जायते मद्यशक्तिवियोगे विलीयते च तथा चैतन्यापि भूनचतुष्टयसंयोगे जायते तद्वियोगे लीयते च। अतो देहव्यतिरेकेण देशान्तरकालान्तरमाविकर्मफलभोगाय देहान्तरं गृह्णन् कश्चित् पदार्थो नास्त्येव इति ॥ २६ ॥ अस्तु वा देहव्यतिरिक्त आत्मा; तस्य देहान्तरग्रहणमप्यस्तु । तथापि कर्मणां फलदातृत्वानुपपत्तेः तस्य फलभोक्तृता न सम्बोभवीति इत्याह - क्रियो यत्तावदथ श्रुतिगम्यं यच्च यत्ता वदथ । इह लोके नाश्येतद् ध्रुत्रगस्य फलं परत्र केनाश्येत ॥ २७ ॥ क्रियत इति। अत्र मध्यमपुरुषाक्षिप्तयुष्मदर्थबलाद् असुरा. इति संबोधनं सिध्यति । हे असुंराः ! यूयं यत्ताः सषडङ्गचतुर्वेदाध्ययने तदर्थविचारे च महान्तं यत्नं प्राप्ताः भूत्वा 51 ६८ सव्याख्ये त्रिपुरदहने -- श्रुतिगम्यं वेदवाक्यवेद्यं, यत् कर्म दर्शपूर्णमासज्योतिष्टोमादिकं, वदथ श्रेयस्साधनतया कर्तव्यत्वेन ‘समर्थयथ । अथ अर्थविचारानन्तरं, यत् कर्म, तावत् साकल्येन यत्किञ्चिद- प्यवयवैः (वे)कल्यमन्तरेणेत्यर्थः । क्रियते अनुष्ठीयते च, एतत् कर्म, इह अस्मिन् , लोके नाशि अतिशयेन नाशयुक्तम्। अतिशायने मत्वर्थीयः । अनुष्ठानसमनन्तरमेव निखिलैरप्यवयवैः सहात्यन्ताभावं प्राप्तमित्यर्थः। ध्रुवं निश्चितमेतत् । उभयवादि- सम्मतत्वादिति भावः । तस्माद् अस्य अत्यन्ताभावमापन्नस्य कर्मणः फलं स्वर्गादिकं, परत्र परलोके, केन अश्येत भुज्येत । न केनापि । असतोऽर्थक्रियाकारित्वाभावादिति भावः ॥ २७॥ अस्तु वा कर्मणः फलदातृत्वं, तथापि अभिमतफललाभो (स.) न सेत्स्यतीत्याह - फलमपि न भवेदिष्टं लभतेऽसौ यदि पुरातनभवे दिष्टम् । तर्हि सभिद्धोमरतः समिधममुत्राश्नुते समिद्धोऽमरतः ॥ २८ ॥ फलभिति । इष्टं स्वाभिमतं, फलम् उर्वशीसम्भोगादिकं, न भवेदिति प्रतिष्ठा?ज्ञा ।) (समा?धर्मा)नुष्ठातुरिति शेषः । प्रतिज्ञासमर्थमुपपादयन्नाह - लभत इति। असौ धर्मानुष्ठाता पुरुषः, पुरातनभवे पूर्वजन्मनि, दिष्टं दत्तं, लभते प्रामोति, यदि तर्हि समिद्धोम- रतः समिधां पलाशादिकाष्ठखण्डानां होमे रतः तत्परः पुरुषः, समिद्धः धर्मा- नुष्ठानमाहात्म्यशालितया प्रज्वलितः , अमुत्र परलोके, अमरतो देवेभ्यः, समिध- मश्नुते प्राप्नोति। नोर्वशीसम्भोगादिकम् । "दीयते देवताभ्यो यदिह तद् भुज्यते पुनः।" इति वचनाद् , दत्तस्यैवादानोपपत्तेश्चेति भावः ॥ २८ ॥ . श्रौतवत् स्मार्त कर्मापि नानुष्ठेयमित्याह - स्याद्यदि मोदनतोऽयं प्रेतोऽन्यत्राश्नतीष्टमोदनतोयम् । पथि जनता पाथेयं नयति कुतोऽतः सभारतापाथेयम् ॥ २९ ॥ 52 द्वितीय आश्वासः । ६९ स्यादिति । युष्मादृशः देहव्यतिरिक्ततया कथ्यमानः प्रेतः मृतः पुरुषः अन्यत्र स्वस्मादन्यस्मिन् पुरुषे इष्टमभिमतं ओदनतोयं पुत्रादिना दीयमान- मोदनमन्नं तोयं पानीयं च अश्नति भुञ्जाने सति मोदनतः शुन्निवृत्त्या प्रीतियुक्तः स्याद्यदि तर्हि इयं जनता जनसमूहः अथ साकल्येन सर्वापीत्यर्थः । अतः एतस्मादपादानभूतात् प्रदेशात् कुतः कस्माद्धेतोः पथि मार्गे पाथेयं पथि साधु तण्डुलादिकं नयति । तत्र न कोऽपि हेतुः प्रयोजनाभावात् । क्षुन्निवृत्तिस्तु गृहावस्थितपुत्रादिना क्रियमाणान्यजनभोजनेनैव सेत्स्यतीति भावः। कीदृशी जनता ? सभारताया भारेण पाथेयवहनेन हेतुना यस्तापः खेदः तेन सह वर्तमाना प्रकारान्तरेणेष्टफलसिद्धावनिष्टफलदकर्म नानुष्ठेयमित्यर्थः ॥ २९ ॥ एवं वैदिकपक्षमाक्षिप्य पाषण्डपक्षस्यैवानुष्ठेय(त्व मित्याह - तद् वचने शस्ये मे तिष्ठत धर्मा हिताय नेशस्येमे । प्राप्नुत भो गानसुरास्वाइवधूश्लेपणादिभोगानसुराः ॥३०॥ तदिति । अत्र तदितिपदम् एकस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते । तच्च काकाक्षिवत् क्वापि भित्तिदीपसमं कचित् ।।" इति न्यायेनोभयत्र संबध्यते। (भो) हे असुराः यस्मात् श्रौतस्मार्तधर्माणामनुष्ठेयत्वं तत् तस्मादीशस्य शिवस्य संबन्धिनः इमे वेदमूलपाशुपतादिशैवागमसिद्धा धर्माः त्रिपुण्ड- रुद्राक्षधारणपञ्चाक्षरीजपहोमतर्पणलिङ्गार्चनादीनि कर्माणि हिताय श्रेयसे न। भवन्तीति शेषः । यस्मादीशकर्मणामहितकरत्वं तत् तस्मात् यूयं मे वचने तिष्ठत हितबुद्धि कुरुध्वम् । कीदृशे । शस्ये स्तुत्ये । उपपत्तिमत्त्वादबाध्ये न. तु वैदिकपक्षवत् बाध्ये इत्यर्थः । तर्हि किं तद् वचनमित्याह - प्राप्नुतेति । यूयं गानसुरास्वादवलेषणा- 37 सव्याख्ये त्रिपुरदहने दिभोगान् गानं गीतिः सुरास्वादो मधुपानं वधूश्लेषणं वधूनां नवोढयोषितां श्लेषण- मालिङ्गानम् । उपलक्षणमेतत् सम्भोगस्य । 'वधूः स्त्रीमात्रभार्ययोः। नवोढयोषास्नुषयोर्भार्यायां पूर्वजस्य च । स्पृक्कानद्योश्च" इति केशवः । आदिशब्दान्मृष्टाशनादिपरिग्रहः । गानादिभोगान् कामान् प्राप्नुत सेवध्वम् । अयमेव स्वर्गानुभाव इति भावः । यथाहुः स्वर्गानुभूतिभ्रष्टाष्टियष्टवर्षवधूरतिः" " इति ॥ ३०॥ यद्यपि वैदिकपक्षमाक्षिप्य पाषण्डपक्षः स्थापितः तथापि चिराभ्यस्तत्वाद्र्ढमूलायाः शिवभक्तेर्वासना प्रयत्नमन्तरेण न निवर्तत इति तान् समूलमुन्मूलयितुमुपक्रमते - मम पुनरपरा गावः श्रूयन्तां यदि न बुद्धिरपरागा वः। भजथ महेशं सततं कः प्रमितौ हेतुरस्य हे शंसत तम् ॥ ३१ ॥ ममेति । अत्र प्रकरणसहकृतः सम्बोधनद्योतको हेशब्दः असुरा इति द्योत्यं संबोध्यविशेषमाक्षिपति । हे असुराः वः युष्माकं बुद्धिः अपरागा अपगतरागदोषा यदि न तर्हि (पुनर्मम अपरा गावः अपराणि वचनानि) श्रूयन्तामित्यामन्त्रणे लोट् । अहिते वस्तुनि रागाविष्टे मनसि शतकृत्वः कथितमपि हितवचनं वदनं निदधातीति(?) भावः । काः पुनस्ता इत्यत्राह - भजथेति । यूयं सततं सर्वदा महेशं भजथ जपनमस्कारादिभिः सेवध्वे । युष्माभिर्व्यापारान्तरनिरपेक्षं महेश्वर- सेवैव क्रियते इत्यर्थः । ममापि किञ्चित् प्रष्टव्यमस्ति । अस्य महेशस्य प्रमितौ यथार्थज्ञाने सद्भावावगतावित्यर्थः । (यो ? को) हेतुः युक्तिः प्रमाणमित्यर्थः। तं हेतुं शंसत । 88 द्वितीय आश्वासः । ७१ ईश्वरसद्भावे किञ्चित् प्रमाणं नास्ति । अस्ति चेद्वक्तव्यम् । तच्च वक्तुं न शक्यते । अभावादेव हेतोः । तस्मात् प्रमाणाभावे प्रमेयमप्यसदेव । तस्मान्महेश्वरसेवा न कर्तव्या। असतो महेश्वरस्य सेवा कर्तव्या चेत् शशशृङ्गेण किमपराद्धम् । तस्य सेवा च क्रियता- मित्यभिप्रायः ॥ ३१॥ पूर्वत्र तात्पर्यवृत्त्या सिद्धं मानाभाव विवृणोति - न पतति तं प्रत्यक्षं बुध्यध्वमतो निराकृतं प्रत्यक्षम् ॥ तस्थितिमानवलम्बः प्रमाणराशेस्ततः क्व मानवलं वः ॥ ३२॥ न पततीति । तं महेशं प्रति अक्षमिन्द्रियं चक्षुरादि न पतति प्रामोति । ईश्वरो' नीलपीतादिवदिन्द्रियाणां विषयो न भवतीत्यर्थः । अत एतस्मादक्षपाताभावाद्धेतोः प्रत्यक्षं प्रत्यक्षाख्यं प्रमाणं निराकृतम् ईश्वरसद्भावसाधकत्वे निरस्त बुध्यध्वं जानीत। ननु मा भूत् प्रत्यक्षम् अनुनानादिरीश्वरसद्भावे प्रमाणमित्यत्राह – तस्थितिमानिति। प्रमाणराशेः अनुमानादिप्रमाणवर्गस्य अवलम्बः आश्रयस्वरूप इति यावत् । तस्थितिमान् तेन प्रत्यक्षेण हेतुना स्थितिमान् प्रतिष्ठावान् । भवतीति शेषः । अनुमानादीनां व्याप्तिग्रहणादिसापेक्षत्वात् प्रत्यक्षमन्तरेण स्वरूपलाभो न सिद्धयतीत्यर्थः । यद्वा तदिति पृथक्पदम् । तत् प्रत्यक्षं प्रमाणराशेः स्थितिमान् प्रतिष्ठावानवलम्बः। यत इत्थं ततः तस्माद्धेतोः वः युष्माकं मानबलं मानेन प्रमाणेन हेतुना यद् बलं प्रतिवादियुक्तिखण्डने सामर्थ्य तत् क न कापीत्यर्थः ॥ ३२ ॥ नन्वीश्वरः प्रत्यक्षगोचरः इति को वा ब्रूते। यत्तावदुक्तं 'तत्स्थितिमानवलम्ब' इत्यादिना तदयुक्तम् । तथाहि – अनुमानादीनां व्याप्तिग्रहणादावेव प्रत्यक्षापेक्षा, न तु साध्येऽपि । तथात्वे प्रत्यक्षेणैवाल किमनुमानेन । तस्मादनुमानेन ईश्वरसद्भावे प्रमा- णेनैव भाव्यमित्यत्राह- 89 ७२ सव्याख्ये त्रिपुरदहने यदि वो माने नमति स्फुटं जगत्कर्तृकानुमानेन मतिः । जगतः कार्यत्वेन स्थिताः स्थ तदसिद्धितोऽधिकार्यत्वेन ॥३३॥ । यदीति। हे असुराः वः युष्माकं मतिर्बुद्धिः जगतः प्रपञ्चस्य कार्यत्वेन कृतिसाध्य- त्वेन हेतुनाजगत्कर्तृकानुमानेनजगतः कर्तृकः कर्ता स्वार्थ कः । तस्यानुमानेन क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवत् इत्यादिरूपे(ण)। माने ईश्वरसत्तासाधके प्रमाणे (स्फुटं) नमति प्रवीभवति । ईश्वरसत्तासाधकत्वमभ्युपगच्छतीत्यर्थः । तर्हि यूयम् अधिकार्यत्वेन प्रतिवादि- युक्तिखण्डनादत्यन्तमहनीयत्वेन स्थिताः स्थ भवथ । तत्र हेतुमाह - तदसिद्धित इति । तस्य कार्थत्वस्य हेतोरसिद्धितोऽसिद्धेः । यदि जगतः (कार्यत्वं) येन केनचित् प्रकारेण सिद्धं तर्हि युष्मत्पक्षः साधीयान् तत्तथा च न भवति । तस्मात् सिद्धत्वेन हेतोराभासत्वात् खण्डिता एव यूयमित्यर्थः । नित्यसिद्धस्य जगतः कथं कार्यत्वमिति भावः ॥ ३३ ॥ तर्हि माभूदनुमानपरं, ईश्वरसद्भावे श्रुतिः प्रमाणं भवतीत्यत्राह या वागेकतारं ब्रवीति देवं युगे युगे कर्तारम् । सा हि समस्ता वितथा तया पुनर्देवता समस्तावि तथा ॥३४॥ या वागिति । या एका युप्मत्पक्षेऽपौरुषेयत्वेन मुख्या ऋता सत्या वाग् वेदलक्षणा वाणी युगे युगे सर्गे सर्गे इति यावत् । कतारं जगत्स्रष्टारं देवमीश्वरं (अरं) ब्रवीति व्यक्तं भाषते सा समस्ता कृत्स्ना वितथा मिथ्यैव । तस्याः स्वार्थे न प्रामाण्यमित्यर्थः। तत्र हेतुमाह - तयेति। पुनश्शब्दो वाक्यालङ्कारे । तया वाचा पुनः देवता आस्तिकजनमनोरथमात्रसिद्धा, ईश्वरः। तथा तेन जगत्कर्तृकत्वादिना प्रकारेण समस्तावि अभिष्टुता । हि यस्मात् । यतो निखिलस्यापि वेदस्य स्तुति- परत्वेन स्वार्थेऽप्रामाण्यमतः श्रुतिरीश्वरसद्भावे प्रमाणं न भवतीत्यर्थः ॥ ३४ ॥ 40 द्वितीय आश्वासः। ७३ एवं प्रमाणतया आभासमानान्यनुमानानि प्रत्येकं निराकृत्य समुदायेनेतराण्यपि निराकरोति - तस्मान्मानपमूहे युष्माभिर्यत्र यत्र मानसमूहे । तत्तत् सत्त्वे नेष्टे महेशितुहिनाल्पसचेनेष्टे ॥ ३५ ॥ ॥ तस्मादिति । यस्मात् प्रमाणतया आभासमानानामनुमानादीनामपीश्वरसत्तासाधना- यासामर्थ्य तस्माद्युष्माभिः मानसमूहे प्रमाणकदम्बके । निर्धारणे सप्तमी। प्रत्यक्षानुमानागमार्थापत्त्युपमानाभावसंभवैतिधेपु मध्ये इत्यर्थः । (यत्र यत्र यस्मिन् यस्मिन् मानसं मनः ऊहे ऊढं) तत्तत् प्रमाणं महेशितुरीश्वरस्य सत्त्वे सद्भावे नेष्टे न प्रगल्भते । अनुमानादीनामप्यसामर्थ्य किमुतान्येषामिति भावः । तश्विरो- ऽस्तीति कुतस्त्योऽयं प्रवाद इत्याशङ्काव्युदासाय सत्त्वं विशिनष्टि-देहिनेति । अल्पसत्त्वेन अल्पबुद्धिवलेन देहिना पुरुषेण इष्टेऽभिमते । 'राहोः शिरः' 'सालभञ्जिका- याः शरीर'मितिवद्देहिनेति प्रयोगः । अन्यथा देहव्यतिरिक्तात्माङ्गीकारः प्रसज्येत । देहिनां शुभाशुभकर्मफलप्रदाता कश्चिदीश्वरोऽस्ति इति तस्माद् भयं जनयित्वा प्रबल- कृतपीडां निवारयितुकामैर्दुबलैरुघोषित एवायमीश्वरसद्भाव इत्यर्थः ॥ ३५॥ एवं निखिलप्रमाणाविषयत्वेन ईश्वरासत्त्वं द्रढीकृत्य पुनर्येनकेनचित् प्रकारेण ईश्वरसद्भावाङ्गीकारेऽपि तत्सेवा न कार्या इत्याह - अपिचाम्बरवासा यः श्मशानभूमिश्च यस्य वरवासाय । यो नृशिरस्यत्यन्धः श्रेयस्तत्सेवको निरस्यत्यन्धः ॥३६ अपिचेति । अपिचेत्ययं निपातसमुदायः समुच्चये । अत्र सत्त्वे इति पदमध्याहर्त्तव्यम् । सत्त्वेऽपिच ईश्वरस्य सद्भावेऽपि न केवलमसत्त्वे । तत्सेवकः तस्येश्वरस्य सेवकः अन्धः कार्याकार्यज्ञानशून्यः श्रेयः अभ्युदयं निरस्यति 41 ७४ सव्याख्ये त्रिपुरदहने त्यजति । तत्र हेतुतया ईश्वरं विशिनष्टि - अम्बरवासा इत्यादि। यः ईश्वरः अम्बरवासाः अम्बरमाकाशं वासो वस्त्रं यस्य स तथा नग्न इत्यर्थः । यस्य वरवासाय उत्कृष्टवासस्थानाय श्मशानभूमिश्च । योऽत्यन्ताशुचौ श्मशान एव वसती- त्यर्थः । यो नृशिरसि नृणां शिरसि। शिरः कपालः तत्र, अन्धः अन्नम् अत्ति भुङ्क्ते च। लोके हि नग्नत्वं श्मशानवासित्वं नृकपालधारित्वं चात्यन्तगहस्पिदमेव । तथाविधः परमेश्वर इति युप्मादृशा एव कथयन्ति । तस्मात् श्रेयोर्थिभिः युप्माभिस्तत्सेवा न कार्या इति भावः ॥३६॥ अथ हरिः प्रारब्धमर्थं यथामनीषितं घटितवानित्याह - इस्थमसत्यध्धनिते व्यापारयतात्ममतमसत्यधनि ते । नाथेनास्थाप्यन्त श्रेयसि तेषां बभूव नास्थाप्यन्तः ३७ ॥ इत्थमिति । इत्थम् अनेन प्रकारेण आत्ममतं आत्मनः स्वस्य मतं नास्तिकवादलक्षणं सिद्धान्तं व्यापारयता प्रवर्त्तयतां असुराणाम(पवा?नुपा)देयबुद्धिं जनयतेति यावत् । नाथेन जगत्स्वामिना विष्णुना तेऽसुराः असति अश्रेयस्करत्वाद् दुष्टेऽध्वनि नास्तिक- पक्षलक्ष गे मार्गेऽस्थाप्यन्त स्थापिताः । अध्वानं विशिनष्टि - असत्यध्वनित इति । असत्य कल्पनारूपत्वान्मिथ्याभूतं ध्वनितमुक्तिर्यस्मिन् स तथा । एतदसत्त्वे हेतुः । तेषामसुराणां श्रेयसि धर्मेऽन्तर्मनसि आस्था (अभिनिवे)शोऽपि न बभूव । किंपुनः...... भावः ॥ ३७॥ तेषां न केवलं श्रेयस्यास्थाभाव एवासीद् अपि तु अश्रेयस्कर कर्म कृतवन्तश्च इति द्वा ...... भ्यामाह - ते द्रुतमक्षमयेषु स्फोटं वलयेषु कर्तुमक्षमयेषुः । बिभिदुर्भवनमनेक प्रभोरतः कैय॑तानि भवनमने कम् ॥ ३८ ॥ 42 द्वितीय आश्वासः। ७५ त इति । अतो ......... खेतोः ते असुरा अक्षमया आस्तिकपक्षं प्रतीHया हेतुना द्रुतं वेगेन अक्षमयेषु रुद्राक्षस्वरूपेषु बलयेषु...नबन्धेषु स्फोटं भेदनं कर्तुम् ईपुः इच्छां कृतवन्तः । प्रभोः शिवास्यानेकं बहु- स...... लयं विभिदुः क्षुण्ण रै: भवनमने भवस्य शिवस्य नमने नमस्कारे विषये कं शिरः व्यतानि कृतम् न कैरपि ॥ ३८ ॥ सर्वेऽपि शिवनमस्कारपराङ्मुखा आसन्नित्या (ह) निश्शङ्कं पादानां पातैः प्रतिमां प्रभोः सकम्पादानाम् । कर्तुं भवनेऽत्रेषुः श्रेयः क पराङ्मुखेषु भवनेत्रेषु ॥ ३९ ॥ निश्शङ्कमिति। अत्र अस्मिन् स्वैभिन्न भवने शिवालये पादानां चरणानां पातैः प्रभोः शिवस्य प्रतिमां प्रतिष्ठितं लिङ्गं सकम्पादानां कम्पश्चलनं तस्यादानं स्वीकारः तत्सहितां कर्तुं निश्शकं निर्गता शङ्का भयं यथा तथा ईयुः इष्टवन्तः। शिवलिङ्गान्यप्युन्मूल- यामासुरित्यर्थः । नन्वत्यन्तभक्तास्ते कथमेवं कृतवन्त इत्यत्राह – श्रेय इति। भवनेत्रेषु शिवदृष्टिषु पराङ्मुखेषु सत्सु क श्रेयः कुशलं, न क्वापि । दैवे प्रतिकूले सर्वेषामप्यकुशलमेवेत्यर्थः ॥ ३९ ॥ अथ देवाः नारदमुखेनासुरस्त्रियोऽसन्मार्गे रित्याह - नारदनामा ज्ञातः परमर्षियः स नाकिनामाज्ञातः । तेषां शुद्धान्तरतः स्त्रीणां धर्म निराल शुद्धान्तरतः ॥ ४० ॥ नारदेति। यः परमर्षिः उत्कृष्टो मुनिः नारदनामा नारद इत्याख्यावान् ज्ञातः लोके ख्यातः। स नाकिनां देवानां आज्ञातो नि(देशात् ते)षामसुराणां शुद्धान्तरत: शुद्धान्तेऽन्तः पुरे रतः सन् तेषां स्त्रीणां भार्याणां शुद्धान्तरतः शुद्धं विहितधर्मानुष्ठानैक- परत्वान्निर्दोष धर्म पातिव्रत्यादिकं निरास निरस्तवान् । धर्मस्य कर्तव्यताबुद्धि त्याजयामासेत्यर्थः ॥ ४०॥ 43 सव्याख्ये त्रिपुरदहने धर्मनिरासप्रकारं दर्शयति - अयि ललिता ना? हे भवतीभिधीश्चिरं बतानार्योहे । व्रजत निकामनुतेन स्वेनैव पथा सुखाय का मनुते न ॥ ४१ ।। अयीति। अयीति संबोधनद्योतको निपातः । ललिताः सुकुमायः हे नार्यः स्त्रियः भवतीभिश्चिरं बहुकालं अनाया कुत्सिता धीः पातिव्रत्यादिको धर्मोऽनुष्ठेय इति बुद्धिः ऊहे अढा । बतेति सुकुमारीभिर्भवतीभिः सुख...तावान् काल: वृथा नीत इत्याश्चर्यमित्यर्थः । यद्वा खेदे बतशब्दः। अतिसुकुमारीणां ब...भासे धर्मधिया एतावान्...इति मे महान् खेदो जा- यते इत्यर्थः । अलमतिक्रान्तानुशोचनेन इतः परं किं कर्तव्यमित्यत आह -बजतेति । स्वेनैव .तः प्रवृत्तेन नतु श्रुतिस्मृतिविधिपरतन्त्रेण पथा मार्गेण व्रजत प्रवर्तध्वमित्यर्थः। पन्थानं विशिनष्टि - निकामनुतेनेति । य... तेन युक्तिचिन्तायामिदमेव कर्तव्यमिति भावः । नचास्माकं सुखापेक्षा इति न वाच्यमित्य...ति सुखाय परमप्रयो...खं सर्वस्यापि तदर्थ- त्वात् तस्यानन्यार्थत्वाच्च तथाविधं सुखमनुभोक्तुं का स्त्री न मनुते कल्पयति । नेच्छतीति यावत् । न कापि। सर्वापि स्त्री सुखमभिलपत्येवेत्यर्थः। 'क्रियार्थोपपद-'(पा० सू०२-३-१४) इत्यादिना चतुर्थी । सुखानीति वा पाठः। सुखेच्छायाः स्त्रीपुंससाधारण्येऽपि स्त्रियो विशिष्य सुखाभिलाषिण्यो भवन्तीति द्योतयितुं स्त्रीलिङ्गतया निर्देशः । यथाहुः -- “सुखाभिलाषी स्त्रीभाव" इति ॥ ४ १ ॥ , तत्कथं ननु दानपातिव्रत्यादिलक्षणको धर्मोऽनुष्ठेय इति हि कथ्यते । ...तैवमुच्यते इत्याशङ्क्य एषा नाभियुक्तोक्तिरित्याह दानं परमाहारं दरिद्रलोको विचिन्त्य परमाहारम् । या सरसा बालपतिः स्त्री पातिव्रत्यमप्यसावालपति ॥ ४२ ॥ दानमिति । दरिद्रलोकः दरिद्राणां निःस्वानां लोकः समूहः परमाहारं उत्कृष्टमशनं विचिन्त्य निरूप्य (दान) अन्नहिरण्यादिवितरणम् अरम् अत्यर्थं परं श्रेयस्साधनेषत्वाष्टं द्वितीय आश्वासः । ७७ , आह व्यक्तं भाषते । दरिद्रा एव स्वेषामशनार्थ दानस्य धर्मरूपतां उद्घोषयन्ति न तु तत्त्व- बिद इत्यर्थः । या स्त्री बालपतिः युवभर्तृका, सरसा स्वपतौ रसेन रागेण सह वर्तमाना च, असौ पातिव्रत्यमपि परम् आलपति। परमित्यनुषज्यते । स्वभर्तर्येव प्रणयवती स्त्री स्त्रीणां पातिव्रत्यमेव परो धर्म इति ब्रूत इत्यर्थः । तस्मात् स्वार्थपरत्वेन दरिद्रादिवचनम्य न प्रामाण्यमिति भावः ॥ ४२ ॥ एवं पातिव्रत्यादीनामकर्तव्यतामुपपाद्य कर्तव्यमर्थमुपदिशति - सन्मा गच्छत मोहं श्रद्धेयोऽस्म्यद्य सम्यगच्छतमोऽहम् । प्राणसमा जारा वः सेव्या निन्द्योऽर्थिनां समाजारावः ॥ ४३ ॥ तदिति । यस्मात् पातिव्रत्यादीनामननुष्ठेयत्वं तत् तस्माद् , अद्य इदानीम् इतः परस्मिन् कालेऽपि, मोहं अकर्तव्ये कर्तव्यबुद्धिलक्षणं भ्रमं, मा गच्छत प्रामुत। मा इत्ययं निरनुबन्धको निपातः। सानुबन्धकत्वे 'माङि लुङ्' (पा० सू० ३-३-१७५) इति लुङा भवितव्यम् । तर्हि किमस्माभिः कर्तव्यं तदुपदिश्यतामित्यत्राह-प्राणसमा इति। प्राणसमा अत्यन्तवल्लभाः, जारा उपपतयः, वः युष्माकं, सेव्या उपभोग्याः, न तु स्वभर्तारः। पातिव्रत्यादिधर्माणां कर्तव्यत्वं न कतिपये कथयन्ति अपि तु बहव एव , ते सर्वेऽपि किं निराकरणीया इत्यत्राह - निन्द्य इति। अर्थिनां स्वभतृभोगाना(ति? दि)काक्षिणां जनानां, यः समाजः समूहः तस्य आरावः 'स्त्रीणां पातिव्रत्यमेव धर्मः' 'दानमेव परो धर्मः' इत्यादिरूपः शब्दो, निन्द्यः गीः । अनुपादेय इति यावत् । ननु तवापि रागादिदूषितत्वं चेत् कथं विश्वास्यत्वमित्यत्राह श्रद्धेय इति । अहं सम्यक् सुष्टु, अच्छतमः अतिशयेनाच्छः। शुद्धान्तःकरण इत्यर्थः । अत एव श्रद्धेयः विश्वास्यः, अस्मि । न मदुक्तौ किश्चिदप्रामाण्यमाशहनीयमि- - त्यर्थः ॥ ४३॥ अथासुरस्त्रियो नारदवचनादसन्मार्गस्थिता अभूवन्नित्याह - इति बहुधा वाचारं परमर्यः परं दधावाचारम् । गतमहिमाशुचिकायः स्त्रीलोकः पापमधिकमाशु चिकाय ॥४४॥ 45 ७८ सव्याख्ये त्रिपुरदहने इतीति । सः स्त्रीलोकः असुरस्त्रीजनः, परमर्षेः नारदस्य, इति उक्तप्रकारेण बहुधा अनेकप्रकारेणावस्थितया, वाचा आशु कालविलम्बनं विना, अधिकं बहु, पापं परपुरुष- संसर्गादिलक्षणं निषिद्धाचरणं, चिकाय सञ्चितवान् । अकरोदित्यर्थः । स्त्रीलोकं विशिनष्टि - य इति । यः स्त्रीलोकः, नारदवचनात् पूर्व परं श्रुतिस्मृतिमूलत्वाद् उत्कृष्टम् , आचारं पातिव्रत्यादिलक्षणम् अरम् अत्यर्थं, दधौ। दैवे प्रतिकूले कि नामासंभावनीयमिति भावः। नारदवचनात् परम् अशुचिकायः अशुचिः परपुरुष- संसर्गादशुद्धः कायो देहो यस्य स तथा । अत एव गतमहिमा अपगत- माहात्म्यः ॥ ४४ ॥ मथ द्वाभ्यां श्लोकाभ्यां पापाचरणं विवृणोति- त्यक्तसुहृत् स्थविरोऽधकृतः स्नुपाभिनिगूढहत्स्थविरोधः । उज्झितवानाश्वश्रूःकारी श्वशुरः शुचोऽश्नुवाना श्वश्रूः ॥ ४५ ॥ त्यक्तेति । श्वशुरः भर्तुः पिता, आशु नारदवचनश्रवणसमनन्तरमेव, अश्रु मयनजलम् , उज्झितवान् मुक्तवान् , दुःखितोऽभूदित्यर्थः। कीदृशः । ऊकारी ऊकारवान् । अयमपि दुःखानुभावः । “ ऊर्दुःखभावने कोपे ” इति भट्टः । तत्र हेतुः स्नुषाभिः पुत्रभार्याभिः अत्यर्थं प्रार्थिताभिः, अधाकृतः । धिक्कृत इति यावत् । तत्र हेतुः -- स्थविरः वृद्ध इति । त्यक्तसुहृत् स्यक्ताः सुहृदः स्नुषादिरतिर्न कर्तव्या खदाररतिरेव कर्तव्या इत्यादि हितमुपदिशन्तो जनाः येन स तथा । भवितव्यताक्रान्ते मनसि शतकृत्वो- ऽभिहितमपि हितवचनं नावगाहत इति भावः । निगूढहृत्स्थविरोधः निगूढः स्नुषाणामविधेयत्वात् खस्य तत्प्रतीकारासामर्थ्याच्च आच्छादितो हृत्स्थः हृदयस्थो विरोधः द्वेषः येन स तथा । अपिशब्दोऽध्याहर्तव्यः । श्वश्रूरपि भतृमातापि, शुचः दुःखस्य अश्नुवाना प्राप्नुवती । अभूदिति शेषः । अत्रापि रत्यर्थं प्रार्थितैः पुत्रैः स्थविरेयमित्यधःकृतेति हेतुरतिदेष्टव्यः । शब्दतस्त्यक्तसुहृत्त्वं चार्थतो निगूढ- द्वितीय आश्वसः। हृत्स्थविरोधत्वं च ऊ:कारित्वं च श्वश्वा अपि विशेषणं भवति । 'पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः।' इत्यमरः ॥ ४५ ॥ युगमवजानानं दम्पत्योवृत्ती हौ निजा नानन्दम् । तद् व्यचरज्जारहितं परदारहितश्च वीक्ष्य लज्जारहितम् ॥ ४६ ॥ . , युगमिति । दम्पत्योः जायापत्योः, युगं युगळं, निजा भाल्मीया, वृत्तीः स्वपत्येकनिष्ठत्वस्वमार्यैकनिष्ठत्वादिलक्षणानाचारान् , जहौ त्यक्तवत् । आनन्दं न जहौ। स्वैराचारजनितं सुखमङ्गीकृतवदित्यर्थः । कीदृशम् । अवजानानं भार्या भर्तृन् प्रति भर्तारो भार्याः प्रति परस्परमवज्ञां कुर्वाणम् । यस्मानिजवृत्तेहानं स्वैराचारात् सुख- स्योपादानं चाङ्गीकृतं तत् तस्मात् , जारहितं जारेभ्यो हितमिष्टं वस्तु, परदारहितं च परदारेभ्यो हितं च, वीक्ष्य विचिन्त्य, लजारहितं लज्जाकार्यकरणादुत्पन्नया हिया रहितं शून्यं यथा भवति तथा व्यचरत् आचरति स्म । स्त्रियो जारहितं वीक्ष्य व्यचरन् । पुरुषाः परदारहितं च वीक्ष्य व्यचरन्नित्यर्थः ॥ ४६॥ असुराणामधर्मव्यापारमुपसंहरति- इति हरिनारदमततः स जनौषो धर्मवम नार दमततः । चण्डालोपमचेष्टः स्थाणोरपि च प्रसादलोपमचेष्ट ॥ ४७ ॥ •. इतीति । स जनौघः असुरलोकः, हरिनारदमततः हरिनारदयोर्मतात् सिद्धान्ता- देतोः हरिमतात् असुरजनः नारदमतात् तत्स्त्रीजनश्च इति उक्तप्रकारेण, धर्मवर्त्म धर्मः श्रुतिस्मृतिचोदितं कर्म तत्प्रधानं वर्त्म मार्ग, न आर ने प्राप्तवान् । अधर्म एव प्रावर्तिष्टेत्यर्थः । कीदृशः। दमततः दम इन्द्रियजयः तेन ततः व्याप्तः । दमोपलक्षितेन सदाचारेण व्याप्त इत्यर्थः । भूतकालविशेषणमेतत् । 'दम इन्द्रियनिग्रहे । दण्डे गृहे च' इति केशवः । चण्डालोपमचेष्टः चण्डालः श्वपचः 47

सव्याख्ये त्रिपुरदहने
तदुपमा तत्सदृशी चेष्टा प्रवृत्तिर्यस्य स तथा । तत्कालविशेषणमेतत् । पूर्व सदाचारपरः
(त?इ)दानीं दुराचारपरो जातः । अहो विचित्रा दैवगतिरिति भावः । अत एव स्थाणोः
शिवस्य, प्रसादलोपं प्रीतिविनाशम् अचेष्ट अकरोदपि च । 'चिञ् चयने' इति
धातोः लुङ् । असुराणां दुराचारपरत्वदर्शनात् शिवोऽपि रुष्टोऽभूदित्यर्थः ॥ ४७ ॥
अथ देवानां प्रवृत्तिमाह-
अथ विजयाशां भव्या दधतो देवा दिदृक्षया शाम्भव्या ।
तस्थुस्तापस्यां ते धुरि गिरिभर्तुर्गुरुप्रतापस्यान्ते ॥ ४८ ॥
अथेति । अथ सुराणामसन्मार्गस्थापनानन्तरं, ते त्रिपुरपराजिता देवाः,
शाम्भव्या शम्भुसंबन्धिन्या, दिदृक्षया द्रष्टुमिच्छया हेतुना, गिरिभर्तुः
पर्वतश्रेष्ठस्य हिमवतोऽन्तेऽवसाने । अधित्यकायामित्यर्थः । तापस्यां तपस्सम्ब-
न्धिन्यां, धुरि व्यापारे, तस्थुः स्थितवन्तः । किं फलमुद्दिश्य तपश्चकुरित्याशङ्का
परिजिहीर्घः देवान् विशिनष्टि-विजयाशामिति । विजयेऽसुराभिभवे आशामिच्छां दधतः
बिभ्राणाः । तथा भव्याः कल्याणगुणशालिनः । एषामभिलषितसिद्धिर्भविष्यत्येवेति भावः ।
"भव्यः पुनर्ना पादपान्तरे ।
कमरगाह्वये क्ली तु फले तस्य धने तथा ।
कल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं च तद्वति ॥
योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ।
इति केशवः । गिरिभर्तारं विशिनष्टि-गुरुप्रतापस्येति । गुरुर्महान् प्रतापो वैशिष्ट्य
यस्य स तथा। अत्राचेतने पर्वते दूरादेवारीणां भयजनकत्वलक्षणस्य प्रतापस्यासंभवाद्
मुख्यार्थबाघे विशिष्टताविशेषेण प्रतापेन विशिष्टतासामान्य लक्ष्यते । सामान्यविशेषभावः
सम्बन्धः । कार्यकारित्वनैयत्यप्रतीतिः प्रयोजनम् । वैशिष्ट्यं चास्य क्षेत्रान्तरेभ्यः पावनत्वा-
धतिशयात् । एतच्च देवानां तत्रावस्थाने हेतुः ॥ ४८ ॥

द्वितीय आश्वासः । ८१ तपश्चर्या विवृणोति- अकृत जपश्चाक्षरतः त्रिदशसमूहोर्चनश्च पश्चाक्षरतः । अतनुत मनुविद्धोमं तेन ततोऽस्तावि देवमनुविद्धोमम् ॥ ४९ ॥ अकृतेति । त्रिदशसमूहो देवजनः, पञ्चाक्षरतः पञ्चाक्षरमन्त्रस्य, जपं चीकृत, चकारेणानुक्तं तर्पणमपि । कीदृशः। मनुवित् मनुमन्त्रः मन्त्र- मन्त्राथषिच्छन्दोदेवताविनियोगज्ञ इत्यर्थः । अक्षरतः अक्षेषु रुद्राक्षेषु रतः । रुद्राक्षमालया क्लमजपसङ्ख्य इत्यर्थः । पञ्चाक्षरतः पञ्चाक्षरमन्त्रेण अर्चनं पूजाम् । चकारोऽकृतेत्य- नुकर्षणार्थः । पञ्चाक्षरतो होममग्निकार्य चातनुत कृतवान् । पञ्चाक्षरत इत्यत्र जपविषये पष्ठ-यन्तात्तसिः । अन्यत्र तृतीयान्तात् । ततो जपार्चनाद्यनन्तरम् । तेन त्रिदशसमूहेन। अनुविद्धोमं अनुविद्धा संबद्धा उभा पार्वती यस्य तत् तथाविधं दैवं श्रीपरमेश्वरः अस्तावि ॥ ४९॥ अथ नवभिः श्लोकैः स्तुतिप्रकारमाह- शुभकर्मा ना नियतः प्रामोति फलानि काम्यमानानि यतः । लोके वेदे वा यः स्तुतो नमस्तेऽस्तु शम्भवे देवाय ॥ ५० ॥ शुभकर्मेति । अत्र नास्तिकपक्षावलम्बिना हरिणा य आस्तिकपक्षाक्षेपः कृतः तं समाददद्भिर्देवैः स्तुतिः क्रियते इत्यवगन्तव्यम् । तत्रानेन 'यदि- हैवायात्यन्तमि' त्यारभ्य 'युष्मदीयमक्षेपतती' त्यन्तेन 'क्रियते यत्तावदथे' त्यारभ्य 'कुतोऽतस्सभारतापाथेयमि' त्यन्तेन च ग्रन्थेन यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति - तस्मै शंभवे ते तुभ्यं नमः नमस्क्रियास्तु भवतु । कीदृशाय । देवाय दीव्यति योतते अहमस्मीति सर्वप्राणिनामप्यन्तः स्फुरतीति देवः । सर्वेषामप्यन्तरहमिति प्रकाश- मानस्य किं प्रमाणान्तरान्वेषणमिति भावः । 'यदिहैवायात्यन्तमि' त्यादिना च क्रियते यत्तावदथेत्यादिना' च यदाक्षिप्तं तत्परिहर्तुं शम्भु विशिषन्ति - यतो यस्मात् शम्भोः, शुभकर्मा चोदितकर्मानुष्ठाता, ना पुरुषः, नियतः फलभोगे व्यभिचाररहितस्सन् , ८२ सव्याख्ये त्रिपुरदहने काम्यमानानि अभिलष्यमाणानि, फलानि देशान्तरकालान्तरदेहान्तरभोग्यानि स्वर्गादीनि, प्रामोति लभते। 'का पुनरङ्गात्र मितिरि'त्यादिना यदाक्षिप्तं तत्परिहा शम्भुं विशिषन्तिलोक इति। यश्शुभकर्मा ना लोके तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते।' इत्यादिवचनैः वेदे वा त्रय्यां च, स्तुतः प्रतिपादितः । पुरुषस्य देहान्तरग्रहणे फलभोक्तृत्वे चागमः प्रमाणमिति भावः । लोके वेदे वा यः स्तुत इत्यनेनावृत्त्या शम्भुरपि विशेषणीयः । अत्रेश्वरसत्तायामागमः प्रमाणमिति भावः । 'फलमपि न भवेदिष्टमि'त्यादिना 'स्याद्यदि मोदनतोऽय'मित्यादिना च यदाक्षिप्तं तदप्यनेनैव समाहितम् । अग्निष्टोमादेः श्राद्धादेश्च श्रुतिस्मृतिचोदितत्वात् ॥ ५० ॥ 'श्राव्या मदवध्येय मित्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति - अद्वैतं परममलं चिन्मयमानन्दमच्युतं परममलम् । सकलेशं सत्यमृतं वचनं वामप्रमेय शंसत्यमृतम् ॥ ५१ ॥ अद्वैतमिति । अप्रमेय! निखिलप्रमाणाविषय ! ऋतं वेदलक्षणं, वचनं त्वामलम् अत्यर्थ, शंसति तात्पर्येण प्रतिपादयति । कीदृशं शंसतीत्याशङ्कायां विशिषन्ति-अद्वैत- मिति । अद्वैतं द्वयोर्भावो द्विता द्वित(व)द्वैतं तद्रहितम् । सजातीयविजातीयस्वगतभेदशून्य- मित्यर्थः । ननु जीवानां पृथक्सत्त्वे कथमद्वैतत्वं इत्यत्राहुः-सकलेशमिति । सकलस्य भूतेन्द्रियान्तःकरणात्मकस्य विश्वस्येशं प्रवर्तयितारम् । ईश्वर एव चराचरेषु देहेषु (तिष्ठति । उक्तं च) श्रीभगवता- "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । प्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥" इति । नन्वेवं. चे जन्मविनाशवत्त्वादीश्वरस्य विकारित्वप्रसङ्ग इत्यत्राहुः । 5M

द्वितीय आश्वासः।
८३
अमृतमिति । मृत मरणम्। 'नपुंसके भावे क्त:' (पा० सू० ३-३-११४) इति क्तः ।
जन्मोपलक्षणमेतत् । जन्मविनाशरहितमित्यर्थः। जन्मविनाशौ तु देहस्यैवेति भावः ।
तथोक्तं भागवते-
"नात्मा जजान न मरिप्यति नैवतेऽसौ
न क्षीयते सवनविद्व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत् ।"
इति ।
'विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।।
इति च। नन्वीश्वरस्य जीवात्मना स्थितत्वे स्वगतभेदसंभवान्नाद्वैतसिद्धिरित्यत्राहु:-परमिति ।
परं सर्वोपरिष्टात् स्थितं मायातत्कार्याणामप्युपरि वर्तमानम् । अत एवामलम् । मलशब्देन
मायाभिधीयते। तदुक्तं वासिष्ठे -
"क्वचिन्मलमिति प्रोक्तं वचिन्मायेति कल्पितम् ।
"
।
इति । मायासंबन्धरहितमित्यर्थः । अत एवाच्युतं अवयवविनाशात्मकक्षय-
रहितम् । अथास्य सात्त्विक रूपमाहुः - सत्यं परमार्थभूतं सद्रूपमित्यर्थः । आनन्दं
सुखस्वरूपं, चिन्मयं बोधस्वरूपम् , अत एव परमं सर्वोत्कृष्टम् । सर्वस्यापि मूलकारणत्वा-
दीश्वरस्य प्रमाणगम्यत्वे प्रमेयत्वेन यज्जनत्वं प्रसज्येत तत्परिजिहीर्षुभिर्देवैः
'अतघ्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इत्याद्यभियुक्तोक्तनीत्या वेदोऽप्यतन्निरसनेनैव
ईश्वरं प्रतिपादयतीति द्योतयितुमप्रमेयेति सम्बोधनमित्यवगन्तव्यम् । अनेन देहव्यतिरिक्त
एवात्मा स एव परमेश्वरः । श्रुतिरत्र प्रमाणमित्युक्तं भवति ॥ ५१ ॥
अथ 'तद्वचने शस्ये मे तिष्ठत धर्मा हिताय नेशस्येऽमे ।' इति यदुक्तं
तन्निरस्यन्तः स्तुवन्ति -
येऽखिलयोनि दन्तित्वग्वसन ! भवन्तमपधियो निन्दन्ति ।
उत्तारानन्वेते निरये निपतन्ति हर ! नरा नन्वते ॥५२॥

सव्याख्ये त्रिपुरदहने य इति । हे दन्तित्वग्वसन ! दन्ती गजः तस्य त्वक् चर्म क्सनं वासो यस्य तस्य सम्बोधनम् तथा । हे हर! हरश्रीनामशालिन् । भक्तानां पापं हरतीति हरः । अत्र सम्बोधनद्वयेन गजासुरं निहत्य तचर्मवासिनस्तस्य जगत्कण्टको- धारणपरत्वं च भक्तानां नः दुरवस्थामूलं पापं संहरणीयमिति च ध्वन्यते । ये नराः चार्वाकादयः, भवन्तं निन्दन्ति 'धर्मा हिताय नेशस्येमे' इत्यादिना दुष्यन्ति एते निरये नरके, निपतन्ति । ननुरवधारणे । निपतन्त्येवेत्यर्थः । नरान् विशिषन्ति - अपधिय इति । बुद्धिशून्याः । तेषां बुद्धिशून्यत्वमेव भवन्निन्दाया हेतुः । बुद्धिमन्तस्तु न निन्दन्तीति भावः । भगवन्तं विशिषन्ति - अखिलयोनिमिति । अखिलस्य योनि कारणम् । अतो वन्दनीयत्वमेव न निन्दनीयत्वमित्यर्थः। निरयं विशिषन्ति - उत्तारानन्वेत इति । उत्तार उत्तरणं तेनानन्वते (सर)हिते। भवन्निन्दकाः कदाचिदपि नरकानोत्तरिष्यन्तीत्यर्थः ॥ ५२ ॥ - 'न पतति तं प्रत्यक्षम्'इत्यादिना यत्प्रत्यक्षाविषयत्वमुक्तं तन्निरस्यन्तः स्तुवन्ति अनितरसादृश्यत्वं दधतोऽस्य हि भवति तेऽञ्जसा दृश्यत्वम् । शान्तो यो योग्यास्ते ये तु न पश्यन्ति हतधियोऽयोग्यास्ते ॥५३ ॥ अनितरेति । यःपुरुषः, शान्तः विषयेभ्य उपरतमनाः, अत एव योगी योगश्चित्त- वृत्तिनिरोधः तद्वान्, आस्ते तिष्ठति । अस्य पुरुषस्य, ते तव, अञ्जसा तिरोधानमन्तरेण दृश्यत्वं दर्शनयोग्यत्वं, भवति । हिशब्दः प्रसिद्धौ । द्विविधं हि प्रत्यक्षम् । योगिप्रत्यक्ष- मयोगिप्रत्यक्षं च । तत्रेश्वरो योगिप्रत्यक्षगम्य इत्यर्थः । योगिनोऽपि किमिति चक्षुलुं न पश्यन्तीत्याशङ्कायां ते इति षष्ठयन्तनिर्दिष्टम् ईश्वरं विशिषन्ति - अनित- रेति । खव्यतिरिक्ता इतरेऽस्मदादयो देहिनः तैस्सादृश्यमितरसादृश्यम् अविद्यमानमितर- सादृश्यं यस्यास्मदादिवद्देहग्रहणायोगात् तस्य भावोऽनितरसादृश्यत्वं तद्दधतः बिभ्राणस्य। चिन्मात्रविग्रहः कथं चक्षुभ्या॑ गृह्यत इति भावः । तयोगिनः किमिति न पश्यन्तीत्यत्राहु:-ये विति। तुरवधारणे भिन्नक्रमश्च। ये ज(नतानाः)न पश्यन्ति । त्वामिति शेषः । ते अयोग्यास्तु अनर्हा एव । तत्र हेतुः हतधिय इति । नष्टबुद्धयः ।

द्वितीय आश्वासः ।
-
अयोगिनो हि अयोग्यत्वादेव त्वां न पश्यन्ति, न तु नास्तित्वादित्यर्थः ।
एवञ्च योगिप्रत्यक्षविषयत्वाद् 'न पतति तं प्रत्यक्षम्' इत्यादिना यदुक्तं
तदयुक्तं, स्वानुभूतिरेकैव ईश्वरसद्भावे प्रमाणमिति भावः ।
उक्तं च
महरिणा
"दिक्कालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥"
इति ।। ५३ ॥
'था वागेकारमि'त्यादिना कृतमाक्षेपं परिहरन्तः स्तुवन्ति
बुद्धिरजाबाधातः स्वतः पचत्यादिशब्दजा वा धातः!।
अखिला वै तथ्या यत्त्रय्युत्था त्वयि तु केन वैतथ्याय ॥५४॥
बुद्धिरिति । वाशब्दोऽप्यर्थः । वैशब्दाऽवधारण । हे अजाजन्मरहिता,
हे धातःविश्वकर्तः । आभ्यामीश्वरस्य कारणरहितत्वाद् विश्वस्य ईश्वर.
कारणत्वाच्च त्वमेव नः शरणमिति ध्वन्यते । पचत्यादिशब्दजा वा देवदत्तः
पचति, यज्ञदत्तः पठतीत्यादौकिकवाक्याजातापि, अखिला बुद्धिर्ज्ञानं, स्वतो
निसर्गतः, अबाधा नायं पचतीत्यादिकज्ञानानुदयाद् बाधरहिता, अत एव
तथ्या परमार्थभूता, यत् यस्माद्, अतः एतस्माद्धेतोः, त्वयि त्वद्विषये, त्रय्युत्था
वेदवाक्योत्पन्ना, बुद्धिस्तु । तुशब्दो विशेषद्योतकः । केन हेतुना वैतथ्याय
मिथ्यात्वाय । भवेदिति शेषः । नात्र किञ्चिदपि कारणमित्यर्थः । यतः
पाकादिक्रियादावपि लौकिकवाक्यानामपि प्रामाण्यं ततः केनाप्यनपवनीये
त्वयि वैदिकवाक्यानां प्रामाण्य भवत्येवेत्यर्थः । अतः श्रुतर्वैतथ्यसमर्थन
स्तुतिपरतया योजनं च नोपपन्नमिति भावः । ततस्तस्मादीश्वरसद्भावे आगमः
प्रमाणं भवतीत्याशयः ॥ ५४ ॥
।
यत्पुनः 'यदि वो माने नमती'त्यादिना कार्यत्वस्य हेतोरसिद्धतया
हेत्वाभासत्वमुद्भावितं तन्निास्यन्तः स्तुवन्ति-
सावयवत्वादेव प्रमिते जगतो भवे भव! त्वा देव! ।
वदिता वादी न स्रष्टारं को नु निरसिता वादीनः ॥ ५५ ॥

८६
सव्याख्ये त्रिपुरदहने
सावयवत्वादिति । हे! भव! भव इति श्रीनामशालिन्! | भवत्यस्मा-
द्विश्वमिति भवः । हे देव! देवयति द्योतयति, निखिलं जगत् प्रकाशयतीति
देवः । विश्वकर्तृत्वाद् विश्वावभासकत्वाच्च त्वत्सत्तां को वा निराकुर्यादिति भावः ।
सावयवत्वादेव अवयवसाहितत्वादेव, जगतः भवे उत्पत्तौ । कार्यत्व इत्यर्थः ।
प्रमिते सम्यगवगते, को वादी त्या त्वां, स्रष्टारं विश्वकर्तारं, न वदिता ।
सर्वोऽपि वादी वदितैव । वदितेति तृन्नन्तं रूपम् । तान्तत्वेऽपि हि "न लोक" (पा०
सू०२-३.६९) इत्यादिना कर्मणि षष्ठी न स्यात् । ननु केचिदीश्वरस्य जगत्कर्तृतां
निरस्यन्ति । तत्कुतो हेतोरित्यत्राहुः-को न्विति । अदीना, बुद्धिहीनो दीनः
तस्मादन्योऽदीनः बुद्धिमान् , तादृशः को नु निरसिता निराकर्ता, वा ।
बुद्धिमांस्त्वां न निराकरोतीत्यर्थः । अतो बुद्धिशून्यत्वमेव त्वन्निरसने हेतु:
इति भावः । “विमतं जगत् कार्य भवति । सावयवत्वात् । यद्यत्
सावयवं तत्तत्कार्य दृष्टम् | यथा घटः । सावयवं चेदम् । तस्मात् कार्य-
मित्यनुमानात् कार्यत्वस्य यदुक्तमसिद्धत्वं तन्न सङ्गच्छत इत्यर्थः । अतः
कार्यत्वेन जगत्कर्तुरनुमेयत्वादनुमानमपीश्वरसत्तायां प्रमाणमित्याशयः॥ ५५ ॥
-
'तस्मान्मानसमूहे' इत्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति--
कतरनामानन्त! त्रिणयन ! शंसन्ति दुर्जना मानन्तत् ।
हतसुरसंसत्तान्ते! न साधयेद्यत् समञ्जसं सत्तां ते ॥ ५६ ॥
कतरदिति । हे अनन्त ! देशतः कालतो वस्तुतश्चावसानरहित !
हे त्रिणयन! तेजस्त्रयात्मकनेत्रत्रितययुक्त! | आभ्यां सगुणनिर्गुणभेदेनेश्वरस्या-
वस्थितत्वमुक्तम् । हतसुरसंसचान्ते! हता सुरसंसदः त्रिदशसमूहस्य तान्तिः
परपरिभवलक्षणग्लानियेन तस्य संबोधनम् तथा । इदानीमपि भवतैवं भाव्य-
मित्यभिप्रायः । यत् कर्तृभूतं, ते तव ईश्वरस्य, सत्तां सद्भावं, समञ्जसं सम्यक्,
साधयेदिति दुर्जनाशंसन्ति कथयन्ति, तन्मानं प्रमाण, कतरनाम ।
नामशब्दः प्रसिद्धौ । अष्टसु प्रमाणेषु मध्ये किन्नाम । न किमपि प्रसिद्ध
मेतत् । स कलमपि प्रमाणम् ईश्वरसत्तास धकमेवेत्यर्थः ॥ ५६ ॥

द्वितीय आश्वासः ।
८७
'अपि चाम्बरवासा य' इत्यादिनोक्तं परिहरन्तः स्तुवन्ति
त्वामवदातारम्भो रुद्र! ध्यात्वा फलस्य दातारं भोः ।
खं कर्मानन्तनुते! जनोऽयमानायगम्यमानं तनुते ॥५७॥
त्वामिति । भो रुद्र! रुद्र इति श्रीनामशालिन् !, हे अनन्तनुते !
अनन्ना निरवसाना नुतिः स्तुतिर्यस्य तस्य संबोधनं तथा । अम्बर-
वासत्वश्मशानवासित्वादिकं तु तव स्तुतिरेवेति भावः । अयं चतुर्वर्णाश्रम-
लक्षणो जनः, फलस्य कर्मफलस्य, दातारं त्वां ध्यात्वा स्वमात्मीयं
स्वस्ववर्णाश्रमविहितं, कर्म तनुते । कर्मणः फलमीश्वरो दास्यतीति श्रेय-
स्कामो जनः कर्म करोतीत्यर्थः । कीदृशो जन इत्यत्राह-अवदातारम्भ
इति । अवदातः कल्पसूत्राद्युक्तविध्यनुल्लङ्घित्व त् शुद्ध आरम्भोऽनुष्ठान
यस्य स तथा । कीदृशं कर्मेत्यत्राहुः --- आम्नायगम्यमानमिति । आम्नायो
वेदः तेन गम्यमानं वेद्यमान वैदैकप्रमाणमित्यर्थः । 'श्रेयस्कामः परमेश्वर-
सेवां कुर्वीते'ति श्रुत्या विहितामीश्वरसेवां कुर्वन् जनः कथं श्रेयोनिरासकः
स्यादिति भावः । ॥ ५७ ॥
एवं नास्तिकाक्षिप्तमास्तिकपक्षं समाधाय स्तुत्वा स्वाभिमतमर्थ
प्रार्थयितुकामास्तदनुगुणमपदानं प्रकटयन्तः स्तुवन्ति -
त्रिजगत्समरक्षोऽदः पुरान्धकादपि च दत्तसमरक्षोदः ।
स्वं पुनरक्षामतनोनाथ ! महाभैरवाच्च रक्षामतनोः ॥५८॥
त्रिजगदिति । हे नाथ! स्वामिन् ! त्वं पुरा अन्धकाद् अन्धक
नाम्नोऽसुराद् । अपि चादः इदं त्रिजगत् , समरक्षः सम्यग् रक्षितवान् । अपि
चेत्यनेन वक्ष्यमाणोऽर्थः समुच्चीयते । कीदृशः । दत्तसमरक्षोदः दत्तः समरे युद्धे
क्षोदश्चूणीभावो येन स तथा । पुनः पश्चाद् । अक्षामतनोः बृहत्कायात् ,
(महाभैरवाद्) महाभैरवनानोऽसुराच्च, रक्षा त्राणम्, अतनः कृतवान् ।
त्रिजगत इति शेषः ॥ ५८ ॥

८८ सव्याख्ये त्रिपुरदहने एवं स्तुति विधायोत्तराश्वासस्य बीजमुपक्षिपन्तः स्वाभिमतमर्थ प्रार्थयन्ते- अधुनापि तथैव समस्तगुरो! परिरक्ष जगत् समुदस्य पुरः । इति देवगणस्य तदा स्तुवतः प्रभुराविरभूत् समुदस्य पुरः ॥५९॥ अधुनापीति । हे समस्तगुरो! जगत्स्वामिन् ! यथैव पुरान्धकादिभ्यो जगदक्षितवान् तथैव अधुनापि इदानीमपि, पुरः पुराणि, समुदस्स संहृत्य, जगत् परिरक्ष पाहि । देवानां प्रयनः फलवानासीदित्याह इतीति । तदा तस्मिन् काले, इति उक्तप्रकारेण, स्तुवतः स्तुति कुर्वतोऽस्य खाभिमतं प्रार्थयतो, देवगणस्य, पुरोऽप्रभागे, प्रभुमहेश्वरः, आविरभव प्रत्यक्षता. मगमत् । कीदृशः । समुत्। नयनविकासहासादिप्रीत्यनुभावयुक्त इत्यर्थः ॥ ५९॥ इति श्रीवैष्णव कुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणाकरनानो विद्वत्प्ररस्य भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां ॥ द्वितीय आश्वासः ॥ अथ तृतीय आश्वासः। अथोपक्षिप्तं पुरसमुदसनं प्रपञ्चयितुमुपक्रमते- अथ परमं गल्यन्ते पुमांसमासोनम खिलमङ्गल्यं ते । सविकासाक्षा देवप्रवरा ददृशुः क्षणेन साक्षादेव ॥ १ ॥ अथेति । अथ प्रभोराविर्भावानन्तरं, ते शिवस्तुतिकर्तारो देव(प्रबरा.) क्षणेन झटिति, परमं सर्वोत्कृष्टं, पुमांसं परमेश्वरं, साक्षादेव प्रत्यक्षमेव, ददृशुः दृष्टवन्तः । कीदृशम् । गल्यन्ते गळी वृषभः तस्यान्ते उपरिप्रदेशे, आसीनं स्थितम् । कुतोऽस्य परमपुरुषत्वमित्यत्राह - अखिलमङ्गल्यमिति । अखिलस्य जगतो मगल्यं मसलस्य निमित्तं, सत्तास्फूर्तिप्रदत्वात् ।

तृतीय आश्वासः । "मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् ।" इति केशवः। कीदृशा देवप्रवराः । सविकासाक्षाः विकासो विकस्वरता तत्सहितमक्षि नेत्रं येषां ते तथा । भगवदर्शनेन हृष्टा इत्यर्थः ॥१॥ - अथ देवानां प्रवृत्तिमाह- धृतभासुरमालेयं भसितन भवं निरीक्ष्य सुरमालेयम् । अधिकं सन्तुष्टावस्थितं पुरः कृत्तिवाससं तुष्टाव ॥ २ ॥ धृतेति । इयं शिवस्तुतिकरी, सुरमाला देवसमूहः, पुरः पुरस्ता. दवस्थितं भवं शिवं, निरीक्ष्य दृष्ट्वा, अधिकमत्यर्थ, सन्तुष्टा प्रीता सती, तुष्टाव स्तुतिमकरोत् । भवं विशिनष्टि - धृतेति । भसितेन भस्मना, धृतभासुरमालेयं धृतं भासुरं भासनशीलं मालेयं चन्दनं येन स तथा । मालेयेनेव भसितेनालिप्तगात्रमित्यर्थः । तथा कृत्तिवाससं कृत्तिर्गजस्य व्याघ्रस्य वा चर्म सा वासो वसनं यस्य स तथा ॥ २ ॥ अथ चतुर्भिः श्लोकैः स्तुतिप्रकारमाह जय वरदेशानन्त ! स्थाणो! बिभ्राण! भुवनदेशानन्तः । वेष्टित! रोमावल्याह्वयमधुपत्रातमन्धरोमावल्या ॥३॥ जयेति । हे वरद! भक्तानामभीष्टप्रद !, ईश! जगत्सर्गादिप्रवृत्ती शक्तियुक्त, अनन्त ! देशतः कालतो वस्तुतश्चान्तरहित !, स्थाणो! जन्मादि- विकाराभावात् स्थिरस्वरूप!, अन्तः स्वान्तर्भागे भुवनदेशान् चतुर्दशभुव. नानीत्यर्थः । बिभ्राण! दधान! , हे रोमावल्याह्वय मधुपत्रातमन्थरोमावल्या वेष्टित! रोमावली रोमराजिः इत्यायो नाम यस्य तेन मधुपत्रातेन मन्थस्या मनोहारिण्या उमा पार्वत्येव वल्ली लता तया घेष्टित माश्लिष्ट इत्यर्थः । जय सर्वोत्कृष्टतया वर्तस्व । अत्र रोमावलीरूपेण तिरोहितो मधुपत्रात एवायमिति प्रतीतेः "प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपढ्नुतिः । - ९० सव्याख्ये त्रिपुरदहने इति लक्षितापनुतिरलङ्कारः। उमायाः वल्लीत्वेन रूपणाद् भगवतो द्रुमत्वेन रूपणमर्थसामदिवसीयते । अत एकदेशविवर्तिरूपकं च । अत्र मधुपत्रात- मन्थरत्वस्योमाया वल्लीत्वारोपं प्रति उपपादकत्वेनापनुते रूपकं प्रत्यङ्गत्वात् रूपकापह्लत्योः "अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सकरः ।। इत्युक्तलक्षणः सङ्करः ॥३॥ चूडाकेतकलेशस्पर्धिजटाजूटकृतनिकेतकलेश! । जय मुखतामरसरसास्वादनकलहंस गिरिसुतामरसरसः॥४॥ चूडेति । चूडाकेतकलेशस्पर्धिजटाजूटकृतनिकेतकलेश! चूडा मूर्धा तत्र यः केतकलेशः भूषणार्थ धृतं केतककुसुमशकलं तेन स्पर्धित शील. मस्येति तथा । केतकलेशसदृश इत्यर्थः , केतकस्य लेशोपादानं चन्द्रकलायास्त. नीयस्त्वेन तत्साम्यसिद्धयर्थ, चूडया विशेषणं च केतकलेशकलेशयोरेकत्रावस्थानात् स्पर्धायास्सम्भाव्यत्वसिद्धयर्थम् । 'अथ मूर्धनि । चूडाशिखावलभ्योश्चेति केशवः । जटाजूटो जटाबन्धः तत्र कृतो निकेतो निवासो येन स तथा । चूडाकेतकलेशस्पर्धिजटाजूटकृतनिकेतः कलेशश्चन्द्रो यस्य तस्य सम्बोधन तथा । गिरिसुतामरसरस: गिरिसुता पार्वती सैव यदमरसरो गङ्गा तस्य, मुखतामरसरसास्वादनकलहंस! मुखमेव यत्तामरसं पद्मं तत्र यो रसः अधरा- मृतलक्षणो मकरन्दः तस्यास्वादने कलहंस! राजहंस! जय सर्वोत्कृष्टतया वर्तस्व ॥ ४ ॥ अङ्कार्धन्यस्तनगप्रियतनयाककुमार्द्रधन्यस्तनग! । प्रेतसकाशावासस्थिरचित्त! जय त्र्यम्बकाशावासः ॥ ५ ॥ अङ्काधेति । अङ्कार्यन्यस्तनगप्रियतनयाकुङ्कुमाईधन्यस्तनग! अङ्कस्योत्सङ्गस्यार्धे वामोरूपरि न्यस्तायाः स्थापिताया नगप्रियतनयायाः पार्वत्याः कुङ्कुमेन घुसृणेन अ सरसौ धन्यौ विशिष्टौ कमनीयौ स्तनौ गच्छति आलि-

तृतीय आश्वासः ।
९१
जन्नसमये प्राप्नोतीति तथा । (प्रेतसकाशावासस्थिरचित्त) प्रेतानां गणविशेषाणां
सकाशे सविधे आवासो वासक्रिया तत्र स्थिरचित्त! , त्र्यम्बक! त्रिनेत्र!.
आशावास! दिगम्बर! जय सर्वोत्कृष्टतया वर्तस्व ॥ ५ ॥
इन्दुसमाननदेशप्रभया जय भक्तकुमुइमाननदेश।।
जय जितकाम! जयाहिस्फुरित कुपामिह जनेऽधिकामज! याहि॥६॥
इन्द्विति । इन्दुसमाननदेशप्रभया इन्दुना चन्द्रेण तुल्यस्याननदेशस्य
मुखप्रदेशस्य प्रभया कान्त्या, भक्तकुमुदमाननद! भक्ता एव यानि कुमुदानि
तेषां माननं सम्माननात्मकं विकास ददातीति तथा, हे ईश विश्वसर्गादौ
शक्त! जय । जितकाम! परिभूतमन्मथ! जय । अहिस्फुरित! कटककटिसूत्रा-
दिभूषणतां गतैरहिभिः सर्पः स्फुरित ! शोभित! जय । एवं स्तुत्वा भगवन्तं
प्रार्थयन्ते कृपामिति । हे अज! जन्मरहित! इहास्मिन् त्वदेकशरणे
जने । अस्मास्वित्यर्थः। अधिकां प्रभूतां, कृपां दयां, याहि प्राप्नुहि ॥ ६ ॥
कः पुनरिदानी विशिष्य कृपाप्रार्थनावकाश इत्यत्राहुः
नाथ! बलादेवाय त्रिभिरसुरैर्देहिनोऽखिला देवाद्यः ।
निजविपदे बाध्यन्ते तिष्ठत्यपि भवति शश्वदेवाध्यन्ते ॥७॥
-
नाथ ! बलादेवाय त्रिभिरसुरैरिति । हे नाथ! स्वामिन् ! देवाद्य !
देवश्रेष्ठ! अद्येदानीमाध्यन्ते आधिर्मानसी पीडा तस्यान्ते नाशे विषये, शश्वत
सदैव, भवति त्वयि, तिष्ठति सत्यपि, त्रिभिस्तारकाक्षादिभिस्त्रिंभिर सुरैः, अखिला
न केवलं वयमेव सर्वेऽपि, देहिनः शरीरिणः, निजविपदे आत्मीयायै विपदे
विनाशाय, बलादेव खसामर्थ्यादेव न तु यं कञ्चन बलीयांसमाश्रित्य, बाध्यन्ते ।
अयमर्थः-जगद्रक्षाजागरूके त्वयि वर्तमाने यतोऽमी जगत् पीडयन्ति ततस्त्व-
द्रोषपावकज्वालामालावलीढदेहतया भस्मीभाव एवैषां फलं भविष्यतीति ॥ ७ ॥
किमिति मां प्रति विज्ञाप्यते । भवद्भिः प्रतिविधातव्यमेतत् । इत्यत्राहुः-
नगरीभव! तिस्रस्ता द्युसदां सेना समेत्य भवति सस्ता ।
सकुमारा शिव! देव! प्रभञ्जनं प्राप्य तूलराशिवदेव ॥ ८ ॥

१२ सव्याख्ये त्रिपुरदहने घुसदां देवानां - नगरीरिति । हे भव!, शिव! इति श्रीनामशालिन् ! विश्वोत्पत्ति- स्थानत्वाद् भवः, मङ्गलरूपत्वाच्छिवः, देव! द्योतनात्मका, सेना चमूः, ताः असुरसम्बन्धिनीः, तिस्रः त्रिसयाताः. नगरीः पुरीः, समेत्य युद्धार्थ प्राप्य, सस्ता गलिता, भवति । पलायनपरा वर्तत इति यवत् । कीदृशी । सकुमारा कुमारेण स्कन्देन सहिता । देवसेनानी स्कन्दः पुरी प्राप्य पलायत एवेत्यर्थः । अनेन दण्डापूपिकया असामर्थ्यम्य दोषाभावः कथ्यते । किं प्राप्य किमिवेत्यत्राह- प्रभञ्जनमिति । प्रभञ्जनं वायु प्राप्य तूलराशिवत् तूलराशिना बन्धुरसमूहेन(१) तुल्यम् । यथा वायौ वाति तूलराशिः इतस्ततो विक्षिप्यमाणो भवति तथा असुरेषु युद्धोद्युक्तेषु देवसेना इतस्ततः पलायिता भवतीत्यर्थः ॥ ८ ॥ तस्मित्तः किं प्रार्थ्यते इत्यत्राहुः तदहनसमायां तु त्वद्रुषि भगवंत्रिलोचन! समायान्तु । अरयोऽमी शालभ्यं त्वत्तोऽस्माकं भवेत् किमीशालभ्यम् ॥ ९ ।। तदिति । हे भगवन् ! ऐश्वर्यादिगुणयुक्त !। तादृशस्य तव किमशक्य- मिति भावः । हे त्रिलोचन व्यम्बक ! । एतदेव ते लोकोत्तरत्वमभिव्यनक्तीति भावः । यदस्माकमसुरवधे सामर्थ्याभावः, (यतः!)तस्मादमी प्रकृता, अरयः शत्रवः दहनसमायां तु । तुरवधारणे । अमितुल्यायामेव, त्वद्रुषि तव क्रोधे, शालभ्यं शलभत्वं, समायान्तु प्राप्नुवन्तु । यथा शलभा दहने पतित्वा भस्मसाद्भवन्ति तथास्सदरिभिरपि त्वत्कोपामौ पतित्वा भस्मसाद्भवितव्यमित्यर्थः । कुत इयं मां प्रति प्रार्थना किमित्यन्यो न प्रार्थ्यते इत्यत्राहुः- अस्माकं त्वत्तः त्वत्सकाशाद, अलभ्यमप्राप्यं किं भवेत्, न किमपि । सर्व. मप्यस्माकं त्वत्त एव लभ्यं नान्यस्मादित्यर्थः । अतः त्वां प्रार्थयाम इति भावः ॥९॥ इत्थं स्तुत्वा दुरवस्थां विज्ञाप्य तत्प्रतीकारार्थ सशक्तिकं भगवन्तं भक्तयतिरेकात साष्टाङ्गपातं प्रणेमुरित्याह इत्थं साधुतरा गा निगद्य विषयान्तरेषु सा धुतरागा । सुरततिका रे माञ्चस्फुरिता रुद्रं नमश्चकारोमाञ्च ॥ १० ॥ त्वत्त इति । हे ईश! -- तृतीय आश्वासः । - इत्यमिति । सा साक्षात्कृतपरमेश्वरा, सुरततिका देवसमूहः, इत्यम् अनेन प्रकारेण, साधुतराः भक्तिरसरूषितत्वादतिशयेन साध्वीः, गाः वाचः, निगद्य उक्त्वा, रुद्रं परमेश्वरं, नमश्चकार प्रणसवती । उमां च "शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेवं देवा न खलु कुशलः स्पन्दितुमपि ।" इत्याद्युक्तदृष्टया शक्तिमन्तरेण शक्तिमतोऽकिश्चित्करत्वं मन्यमाना भगवत्यमी पार्वतीमपि नमश्चकार । कीदृशी । विषयान्तरेषु शब्दादिप्विन्द्रियार्थ- विशेषेषु, धुतरागा त्यक्ताभिलाषा । भगवत्येव बद्धरागेत्यर्थः । तथा रोमाश- स्फुरिता रोमाञ्चेन भक्त्यतिरेकोद्भिनेन रोमहर्षेण स्फुरिता शोभिता ॥ १० ॥ अथ शिवः श्रीनन्दिकेश्वरमुखेनासुरवधं प्रतिज्ञातपानित्याह- अथ नन्दी प्रोवाच स्थितवान् पार्श्वे हरस्य दीपो वाचः । पुरुषोत्तमरुद्राजस्कन्दादित्यानिमारुतमरुद्राजः ॥ ११ ॥ अथेति । अत्रैवं प्रमेयसंक्षेपो बोद्धव्यः- देवानामनिवार्यवीर्यासुरसमा- पादितानां विपदामुक्तिसमये पार्वती 'पुरतः क्रीडन्तं तव पुत्रं स्कन्दं पश्ये ति भगवन्तमुक्तवती । ततः पुत्राक्षिप्तहृदयो भगवान् देवानचिन्तयित्वा स्वगेहं पुत्रादिभिराविवेश । ततो भगवदन्तर्धानाद् 'असुरा एव धन्याः वयमधन्या एवं इत्यादि बहूच्चैर्भाषमाणान् देवान् किं तावच्छब्दं कुरुतेति दण्डेन कुण्डोदर- स्वाडयामास । ततो भीत्या गमनायोपक्रान्तान् देवान् भगवदाज्ञयैवेति नन्दीशः कुण्डोदरं निवार्य उवाच । तथाचोक्तम्- "क्रीडमानं विभो! पश्य षड्वकं रविसन्निभम् । पुत्रं पुत्रवतां श्रेष्ठ! भूषितं भूषणैः शुभैः ।। इत्याद्यैर्लोकमातुश्च वचोभिश्चोदितः शिवः । न ययौ तृप्तिमीशानः पिबन् स्कन्दानामृतम् ॥ न सस्मार च तान् देवान् दैत्यशनिपीडितान् । अविशत् सह देवोऽपि देव्या स्कन्देन नन्दिना ॥

सव्याख्ये त्रिपुरदहने
सह गेहं स्वकं देवाः पुरद्वार्येव संस्थिताः ।
ते च संखिन्नमनसः प्रोचुरन्योन्यमातुराः ॥
वयं भाग्यविहीनास्त भाग्यवन्तः सुसरयः ।
तैरेव पूजितो देवो नास्माभिर्यन्न दृश्यते ॥
एवं प्रलपतां तेषां श्रुत्वा शब्दाननेकशः ।
कुण्डोदरो महातेजा दण्डेनाताडयत् सुरान् ।।
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ।
ततः कपर्दी नन्दीशो देवदेवाज्ञया तदा ॥
वृषमारुह्य सुश्वेतं ययौ देवजनान्तिकम् ।
नन्दीशं तु ततो देवास्तुष्टुवुर्दृष्टचेतसः ॥
नमस्ते रुद्रभक्ताय रौद्रजप्यरताय
रुद्रभक्तातिनाशाय रुद्रकर्मरताय ते ॥
एवं तेरीडितो नन्दी कुण्डोदरमवाश्यत् ।
अथ देवानुवाच ।"
इत्यादि । अथ नमस्कारानन्तरं, नन्दी प्रमथाप्रणीः नन्दीश्वरः, पुरुषोचम-
रुद्राजस्कन्दादित्याश्चिमारुतमरुद्राजः पुरुषोत्तमो विष्णुः, रुद्रा एकादश,
मजो प्रमा, स्कन्दः षण्मुखः, द्वादशादित्याः, अश्विनौ द्वौ. मारुतो
वायुः, मरुतो देवाः तेषु राजतीति मरुद्राडिन्द्रः, एतान् वाचो वचनानि
प्रोवाच । कीरशः, रहसि हरस्य शिवस्य पार्श्वे स्थितवान् । शिकस्यात्यन्तबल्लभ
इत्यर्थः। अत एव दीपः दीपनशीलः । नन्दिनो वचनमपि भगवद्वचनवद्
माननीयमेवेति भावः ॥११॥
च
.
द्वाभ्यां श्लोकाभ्यामुक्तिप्रकारमाह-
-
जगतां पाता यातः प्रसादनं त्रिपुरवासिपातायातः।
तस्यामन्दे वाहे धनुषि शरे कुरुत चोद्यमं देवा हे! ॥ १२ ॥

तृतीय आश्वासः ।
९५
जगतामिति । हे देवाः! जगतां लोकानां, पाता रक्षिता शिवः,
त्रिपुरवासिपाताय त्रिपुरवासिनां तारकाक्षादीनां पाताय, प्रसादनं प्रसाद, यातः।
त्रिपुरवासिनोऽसुरानहं वधिप्यामांति प्रतिज्ञातवानित्यर्थः । अतं एत.
स्मात् प्रसादप्राप्तेहेतोः, तस्य जगत्पातुः, वाहे अश्वे, धनुषि चापे, शरे
इषौ, च उद्यमं उद्योगं, कुरुत । वाहधनुश्शरादीनां साधारण विशेषण-
माह- अमन्द इति । अमन्दे अनल्पे ॥ १२ ॥
सम्पादितसाधनानामस्माकं यत्नमन्तरेणान्यत् किञ्चित् न फलति इति
न शङ्कनीयमित्याह-
सत्सु शरासज्येषुप्रभृतिषु करणेषु हरकरासज्येषु ।
दानवराजानीतः स्वक्लेशो नष्ट इति सुरा! जानीत ॥१३॥
सत्स्विति । हे सुराः देवाः, हरकरासज्येषु हरकरग्रहणये ग्येषु,
शरासज्येषुप्रभृतिषु शरासो धनुः ज्या गुणः, इषुः शरः तत्प्रभृतिषु तदाद्येषु,
करणषु युद्धोपकरणेषु, सत्सु भवत्सु, दानवराजानीत: दानवगजस्तारक'क्ष'-
दिभिरान तः, आसादितः । सम्पादित एवेत्यर्थः । स्वक्केशः खषां देवानां
युष्माकं अशः पीडा, नष्टः अदर्शनं कृतमिति जानीत बुध्यध्वम् ॥ १३ ॥
अथ देवाः किं कृतवन्त इस्यत्राह-
इति ते शैलादिवचः श्रुत्वा शोकाद् व्यपेत्य शैलादिव च ।
त्वष्टुः सदन तरसा ययुस्तिरोगे भवे च सदनन्तरसाः ॥ १४ ॥
-
इती त । ते देवाः, (शिवोभवे) रुद्रे, तिरोगे तिरोधानं गते, इति उक्त-
प्रकारेण. शैलादिवचः शिलादस्यापत्यं शैलादिः नन्दीश्वरः तस्य वचः, श्रुत्वा
अत एव शैलादिव स्थिरत्वमहत्त्वादिना पर्वतसदृशात् , शोकात् अपुरपीडाहेतोः
शुचः, व्यपेत्य अपेता भूत्वा, च तरसा वेगन, त्वष्टुर्देवशिल्पिनो विश्वकर्मणः,
सदनं भवनं, ययुः गतवन्तश्च । कीदृशाः । सदनन्तरसा सद् विशिष्टः
अनन्तो निरवसानो रसः सुखं येषां ते तथा ॥ १.४ ॥

सव्याख्ये त्रिपुरदहने
-
देवाः स्थनिर्माण त्वष्टारं नियुक्तवन्त इत्याह-
द्विषतां तोदे शम्भो र तस्य तेषां यियासतो देशं भोः ।
कुरु रथमस्य त्वष्टः श्रेष्ठं काष्ठाश्च कृच्छ्मस्य त्वष्ट ॥ १५ ॥
द्विषतामिति । भो त्वष्टः! विश्वकर्मन्! अस्य प्रकृतस्य, शम्भोः सुख-
कारणस्य, रथं स्यन्दनं, कुरु सम्पादय । कीदृशस्य । द्विषतां जगदपकारिणाम्
असुराणां, तोदे वधे, रतस्य अभिनिविष्टबुद्धेः, अत एव तेषां द्विषतां, देश
पुरत्रयसमागमस्थानं, यियासतः गन्तुमिच्छतः । कीदृशं रथम् । श्रेष्ठमुल्कृष्ठम् ।
शम्भोरारोहणक्षममित्यर्थः । एतत्तु न केवलमस्मदुपकारकमपि तु सर्वेषामप्यु-
पकारकमित्याहुः --- काष्ठा इति । कृच्छ्रे दुःखं कर्तृभूतम् अष्ट काष्ठाः अष्ट-
संख्याका दिशः, अस्यतु त्यजतु । रथादिकरणस्यासुरवधोपायभूतत्वेन
निखिलस्यापि दुःखस्य निवर्तकत्वादिति भावः ॥ १५ ॥
"
-
स्वष्टा च देवनियोगमङ्गीचकारेत्याह-
इति भासुरया च नतः शिल्पिक्रियया जगत्सु सुरयाचनतः ।
रणभूमिप्वासाद्यं यद्वस्त्व करोत् स सर्वमिष्वासाद्यम् ॥ १६ ॥
इतीति । इति उक्तप्रकारेण, सुरयाचनतः सुराणां याचनात् प्रार्थना-
खेतोः। देवनियोगादिति यावत् । (सः त्वष्टा) यद् रणभूमिषु युद्धप्रदेशेषु,
आसाद्यं प्राप्यं, वस्तु इष्वासाद्यं धनुरादिकं, तत् सर्वमकरोत् उत्पादितवान् ।
त्वष्टार विशिष्टि मासुरेति। भासुरया शोभनशीलग, शिल्पिक्रियया
शिल्पिनां तक्ष्णां क्रियया कौशलेन, नतः शिल्प्यन्तरेण प्रणतः । शिल्पक्रिययति
वा पाठः । लोकोत्तरवस्तुरचनाचतु येत्यर्थः ॥ १६ ॥
अथ चतुर्भिः श्लोकः त्वष्टा स्थादिरचनायां लोकविलक्षणं वस्तूपादत्त-
वानित्याह ---
वेदांश्चके चतुरः सोऽवान् शशिभास्करौ च चके चतुरः ।
ग्थमकतावान्यायं योगिजनस्यावलम्ब्य तावन्यायम् ॥१७॥

द्वितीय आश्वासः । ९७ . वेदानिति । सोऽयं देवनियोगाद् रथादिरचनामारभमाणः स्वष्टा, योगिजनस्य योगश्चित्तवृत्तिनिरोधः सद्वतो जनस्य, न्यायं नीतिम् आलम्ब्य, तावदाश्रित्यैव । तावच्छब्दोऽवधारणे । चतुरः चतुस्संख्याकान् , वेदान् ऋग्यजु- स्सामावलक्षणान् , अश्वान् हयान् , चक्रे कृतवान् । वेदानश्वतया परिण- मितवानित्यर्थः । शशिभास्करी चन्द्रादित्यौ, चक्रे रथाङ्गे । चक्रे इत्य- नुषज्यते । अवन्या भूम्या, रथं स्यन्दनम् , अकृत । रथत्वे भूमिं कल्पित- वानित्यर्थः । कीदृशः । चतुरः विदग्धः। तस्य किं न शक्यमिति भावः । यथा अणिमादिसिद्धिमन्तो योगिनः सङ्कल्पमात्रेणाभिमतं साधय तथा स्वष्ट्रापि सङ्कल्पमात्रेणैव वेदादिभिरश्वादिकं निरमायीत्यर्थः ॥ १७ ॥ स ज्ञानी चापाय स्मृतवानद्रीन्द्रमिष्टनीचापायः । अकृत तदासज्या या स्थाने संवत्सरं तदा स ज्यायाः ॥१८॥ . स इति । (स) त्वष्टा चापाय चापं कर्तुम्, अद्रीन्द्रं हिमवन्तं, स्मृतवान् । कीदृशः । ज्ञानी सारासारवस्तुपरिज्ञानी । स तदा तस्मिन्काले, मा तदासज्या तस्मिन् धनुषि आसज्या संसर्गयोग्या लस्या ज्याया मौाः, स्थानेऽवकाशे, संवत्सरमहोरात्राभ्याम् अवयवोपेतं कालम् , अकृत कृतवान् । सवत्सरात्मकं कालं गुणत्वेन कल्पितवानित्यर्थः । "स्थानं क्लीबे नरेऽप्यन्ये प्राहुर्गेहावकाशयोः । सम्बन्धभेदे जन्तूनां स्यानिवृत्तिप्रसङ्गयोः ।। अपकर्ष च सादृश्ये क्लीं तु स्थितिकर्मणि । एकारान्त पुनः केचित् स्थाने इत्यव्ययं विदुः ।। युक्तार्थे कारणार्थे च तन्नह ब्रूमहे वयम् । शब्दभेदादवस्थ य स्थाने ना भुवि ॥" इति केशवः । अत्र राज्या व्यंशात्मको हि संवत्सरः (१) । तत्र राज्यंश ज्यात्वेन कल्पितवानित्यवगन्तव्यम् । कीदृशः । इष्टनीचापायः इष्टः ९८ सव्याख्ये त्रिपुरदहने - त्वष्टा अभिमतः नीचानां दुष्टानामपायो नाशो यस्य स तथा । न केवलं देवाज्ञवास्य रथादिनिर्माणे प्रयोजिका अपि तु सुरपीडायाः स्वनाण्यनुभूयमानत्वात् स्वेच्छापि प्रयाजिकेति भावः । ननु भुजङ्गराजो हि भगवद्धनुषो ज्यात्वमुपगतवानिति वेचित् कथयन्ति । उक्तं च लैङ्गे- 'शैलेन्द्र कार्मुकं चक्रे ज्या भुजङ्गाधिपः खयम् ।' इति । तत्कथमत्र संवत्सरस्य ज्यात्वमुक्तम् । उच्यते- उच्यते- संवत्सर- स्यापि ज्यात्वमस्त्येव । तदपि लैङ्ग एवोक्तम्- 'काळरात्र्या तथैवेह तन्द्रधनुषा पुनः ।' इति । तत्र काळरात्रिरिति राज्यंश उच्यते । तदनुसारेणेदं ज्याकथनम् ॥ १८ ॥ जगदहितोदग्राहकृतिकृत्यै पद्मजं प्रतोदग्राहम् । तोत्रं समतनुतारं तस्यैव तटिद्गुणेन समतनुतारम् ॥ १९ ॥ जगदिप्ति । अत्र प्रकृतत्वात् त्वष्टेति कर्ता सिध्यति जगदहितोदग्राहकृतिकृत्यै जगतो लोकस्य, येऽहिताः शत्रवः असुरराः तेषां उदग्राया जगत्पीडाहेतुत्वात् क्रूरायाः अहङ्कृतगर्वस्य कृत्यै छद- नाय । असुरवधायेति यावत् । पद्मजं ब्रह्माण, प्रतोदग्राहं समतनुत अक. रोत् । प्रतोद तोत्र गृह्णातीति प्रतोदग्राहः । ब्रह्माणं सारथिं कल्पित- वानित्यर्थः । तस्यव पद्मजस्यैव । एवकारः पौनचनिकः । तारं प्रणवम् , तोत्रं प्रतोदं, समतनुत । च शब्दोऽर्थाक्षिप्तो वेदितव्यः । तोत्रस्थाने प्रणव कल्पितवानित्यर्थः। कीदृशं तारम् । अरमत्यर्थ, तटिद्गुणेन विद्युद्दामा, समतनु तुल्याकारं वेदसारत्वेनोज्ज्वलरूपत्वात् ॥१९॥ परमं धामानन्तं यः खल्वकरोच्छर विधामानं तम् । शम्भुकराक्षप के विषहेरनसति पुष्कराक्षेऽपङ्के ॥ २० ॥ परममिति । स तं विधामान विष्णु, शरमिषुमकरोत् । त्रिधामानं विशिनष्टि--- परममिति । यः त्रिधामा परमं विश्वाभासकानां सूर्यादीनाम- प्याभासकत्वादुत्कृष्टं, धाम परब्रह्मादिशब्दाभिधेयं तेजः, (अनन्तम् अन्त-

तृतीय आश्वासः।
-
रहितम् ,) खलु । प्रसिद्धौ खलुशब्दः । अतः परं कः शरस्योत्कर्ष इति भावः ।
नन्यन्येषु विद्यमानेष्वखिलेश्वरं विष्णुं कुतोऽसौ शरत्वेनाकल्पयदित्यत्राह-
शम्भुकरेति । पुष्कराक्षे विष्णौ, असति शरत्वेनाविद्यमाने, के शरत्वेन
कल्पिताः, शम्भुकराक्षेप शम्भोशिशवस्य करेण य आक्षेपः पाडनं तं
विषहेरन् । न केऽपि । शम्भुकराक्षेपं सोढुं सर्वेऽप्यसमा एव । तत्र
विष्णुरेव समर्थ इत्यर्थः । तत्र हेतुरपङ्क इति । अपके दोषरहिते ॥ २० ॥
अथ देवाः किं कृतवन्त इत्यत्राह-
तस्यैवं धन्यस्य त्वष्टकृतस्यायुधप्रबन्धं न्यस्य ।
नमनमधुधूरन्ते रथस्य विबुधा विकीर्य धुर्धरं ते ॥ २१ ॥
तस्येति । ते निर्मापितयुद्धोपकरणा, विबुधाः देवाः, आयुध.
प्रबन्धं आयुधानां धनुरादीनां प्रबन्धं परम्परां, न्यस्य रथे स्थापयित्वा,
एवमुक्तप्रकारेण, त्वष्टकृतस्य विश्वकर्मनिर्मितस्य, धन्यस्यावन्यादेरुपाठान-
त्वादुत्कृष्टस्य, तस्य शिवारोहणक्षमतया निर्मापिलस्य रथस्य, धूरन्ते
धुरः यानमुखाख्यो स्थाषयवविशेषस्तस्य अन्ते समीपे । रथपुरोभाग इति
यावत् । धुधूरमुन्मत्ताख्यं पुष्पविशेषं, विकीर्य विक्षिप्य, नमनं नम
स्कार, अधुः कृतवन्तः । रुद्रायेति शेषः । ननु व्यापूर्वस्वाभावे कथं
दधातेः करणार्थत्वम् । उच्यते-
धारणवत् करणमपि दधातेरेवार्थः । उपसर्गास्तु धातुलीनमर्थ द्योतयन्त्येव
न तु धात्वर्थात् पृथक् कश्चिदर्थमभिदधति । न चात्र द्योतकाभावे
कथं द्योत्यार्थप्रतीतिरिति वाच्यम् , उपपत्तिवशादेव तत्प्रतीतेः ।
'धू : स्त्री क्लीबे यानमुख स्याद्रथाङ्गमपस्कर; ।'
-
इत्यमरः।
-
ततः किमासीदित्यत्राह-
अधशतघस्मरहासस्फुरितमुखाम्भोरुहोऽनघः स्मरहा सः ।
ददृशे पुरतोदेऽवस्थितधीरथ सुरगणेन पुरतो देवः ॥२२॥

२०० सव्याख्ये त्रिपुरदहने । . अघशतेति । अथ नमस्कारानन्तरं, सुरगणेन देवसमूईन, य- प्रत्यक्षीकरणाय देवा नमश्चक्रुः स देवः शिवः, पुरतोऽप्रभागे, ददृशे दृष्टः । कीदृशः । अनघो निष्पापः निखिलद्वैतातीतत्वात् । अत एवाघशतघस्मर- हासस्फुरितमुखाम्भोरुहः भक्तजनानां यदघशतं अघानां पापानां शत मनेकं तस्य कर्मभूतस्य घस्मरेणादनशीलेन हासेन देवान् प्रति प्रसाद- चिह्न मन्दहासेन स्फुरितं शोभितं मुखाम्भोरुहं पद्ममिव मुलं यस्य स तथा । हासस्फुरतत्वं मुखधर्मत्वात् रूपकपरिग्रहे बाधकता प्रतिपादयति । पुर- तोदे पुरत्रयमर्दनेऽवस्थितधीः निगूढबुद्धिः । सुखप्रसादेना नुमेयमिति भावः । स्मरहा स्मरं काम हतवान् इति । ब्रह्मादिमशकान्तैरखिलैरपि प्राणिभिर- जयः कामः तस्यापि जेतुः शिवस्य पुरत्रयविजये कियती दुष्करतेति भावः ॥ २२ ॥ अथ हरः कर्तव्यतान्तरे देवान् नियुक्तवानित्याह- मनसा सुरसमुदायं नतमाशानः समीक्ष्य सुरसमुदा यम् । अवदत् पूरन्तरतः पशवो मे भवत वैरिपूर तरतः ॥ २३ ॥ मनसेति । पूरन्तरतः पुर। मन्ते नाशे रतः सक्तचित्तो, यं प्रत्यक्षी. भूतम्, ईशानः शिवः, मनसा हृदयेन, समीक्ष्य सर्वगाणिसाधारणोऽहं देवप्रियार्थ कथमसुरान्निगृह्णीयामिति निरूप्य, नतं प्रणतं, सुरसमुदायं देवसमूहम्, अबददुक्तवान्। मनो विशिनष्टि-सुरसमुदेति । शोभनो अतिशयो यस्या सा सुरसा, सुरसा मुद् प्रीतिः यस्य तत्तथा । दवेष्वत्यर्थ प्रसन्ननेत्यर्थः । उक्तिप्रकारं दर्शयति-- यूयं वैरिपूरं पूरशब्दस्य नद्या जलव्हणं मुख्योऽर्थः । स च समूह विशेषः समूहसामान्य लक्षयति । मुख्यार्थबाधः स्फुट एव । सामान्यविशेषभावः सम्बन्धः । लक्ष्यार्थम्य दुर्निवारप्रसरत्वप्रतीतिः प्रयोजनम् । "अथ पूरो ना नद्याः सलिलव्हणे । पुनर्नवायां न स्त्री तु पू” पूरी तु सा स्त्रियाम् ।

तृतीय आश्वासः । १०१ तरत . वंशे वाद्य" इति केशवः । वैरिणां शत्रूणां पूरं समूह तरतः लक्यतः निगृह्णानस्येति यावत् । मे मम, पशवः पशुवद् विशसनीया वध्या भवत । यथा असुराणां वध्यत्वं भवति तथा युष्माकमपि वध्यत्वं भवत्वित्यर्थः । अत्र पूरशब्दस्य शब्दशक्त्या प्रतीयमानं मुख्यार्थभूतं जलप्रवाहमाश्रित्य इत्युक्तम् । अयं भगवतोऽभिप्राय: ३: - यतः स्वयं सकललोकाना साधारण्येन मङ्गलावहत्वात् शिवो भवति, देवप्रियार्थम् असुराणां वध्यत्वे स्वस्यासाधारण्येन माङ्गलिकत्वभङ्गो जायेत. ततो देवानामपि पशुत्वमुद्भा- व्यैवासुरा हन्तव्याः । ततश्चोभयेषां पशुत्वनिवर्तनार्था मे प्रवृत्तिः न पक्षपात- दोषमावहति । तत्राधर्मे प्रवर्तमानानामसुराणां पशुत्वं वधेन निवर्तनीयम् । धर्मे प्रवर्तमानानां देवानां पशुत्वं तु पाशुपतवतचरणेन इति इयानेव भेदः । तस्माद्देवा अपि पशवो भवन्त्विति । तदुक्तं कर्णपर्वणि- "समा भवन्ति मे सर्वे दानवाश्चामराश्च शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥ किन्स्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः । तस्माद्वध्या मया ह्यद्य युष्माकं च हितेच्छया ॥ शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् । साह्यं रणे करिष्यामि" इति । पुनरपि तत्रैवोक्तम् - 'पशुत्वं चैव मे सर्वे लोकाः कल्पन्तु पीडिताः । पशूनामाधिपत्यं मे भवत्वद्य दिवौकसः ॥ एवं न पापं प्राप्स्यामि पशून् हत्वा सुरद्विषः ।" इति । श्रीलैः संहितायामप्युक्तम् - "अथाह भगवान् रुद्रो देवानालोक्य शङ्करः । पशूनामाधिपत्यं मे देवा हन्तु दितेस्सुतान् ।। मे - १०२ सव्याख्ये त्रिपुरवहने - पृथक् पशुत्वं लोकानां तथा अषां सुरोत्तमाः । कल्यैव दैत्या वध्यास्त नान्यथा देवसत्तमाः ।। इति श्रुत्वा वचस्सर्वे देवदेवस्य धीमतः । विषादमगमन् देवाः पशुत्वं प्रति शक्षिताः ॥ तेषां भावं ततो ज्ञात्वा देवान् तानिदमब्रवीत् । मा वोऽस्तु पशुभावेऽस्मिन् भयं विबुधसत्तमाः ॥ श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः । यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यते ॥ पशुत्वाद् इति ॥ २३ ॥ अथ शिवः पशुत्वाद् मीतान् सुगनवलोक्य तन्निवृत्त्युपायमुपदिशति- अपि देव'! गच्छत मा भियं मम श्रूयताच वागतमा । नतु भविता पशुमावस्तषां ये मतप्रतापशुमा वः ॥ २४ ॥ अपीति । हे देवाः! मियं पशुत्वनिबन्धनां भीति. मा गच्छत न प्राप्नुतापि । अपिम्पमुच्चये । कथं पशुत्वाद् मीतिर्न भवदित्यत्राह - ममेति । मम वाग् वचनं, श्रूरताम् । कीदृशी वाम् । अच्छता निदोषा । प्रामाणिकीत्यर्थः । वाचमवाह - -न विति। तेषां वो युष्माकं, पशुभावो न भविता नैव भविष्यति । अवसिनो भविष्यवीत्यर्थः । केवा. मित्यत्राह - य इति । य यूयं पद्वतप्रतापशुमाः मम पशुपतेः यद् व्रतं पाशुपताख्यं तस्य प्रतापेन सामध्येन शुभाः शुद्धान्तःकरणाः। पाशुपतव्रतचयंया युष्माकं पशुत्वनिवृत्तिरष्यतीत्यर्थः ॥ २४ ॥ ततो देवैः किं प्रतिपत्नमित्यत्राह इत्थं वादे वचसम्तदन्वायोदत जनो जवादेव च सः। काष्ठा पाशस्थापत् त्रिदशांश्च जमक्ष दसपाशव्यापत् ॥२५॥ पत्

तृतीय आश्वासः ।
१०३
इत्यमिति । (इस्थम्) अनेन प्रकारेण. चिसो भगवद्वाक्यम्य वाद उक्तौ
सति, यः पशुत्वाद भीत आमीत , स जो देवजनः, जवा जवमाश्रित्य
वगनैव. तत् पशुत्वम् अन्वमोदत तर्हि पशवो भविष्यामः पत्यतामस्म सु पशुत्व-
मित्यनुमतिं चक्रे । ततः किमासीदित्यत्राह काष्ठति । पाशव्या पशुसंबन्धिनी,
काष्ठा परमावस्था, त्रिदशांश्वापत् प्राप्तवती । चशब्दो वक्ष्यमाणजगत्स"
मुच्चयार्थः । ततो देवाः पशवोऽभवन्नित्यर्थः ।
.
"काष्ठा स्त्री कालभेद स्यादष्टादशनिमेषके ।
स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि ॥
दक्षिणात्तरयोग्न्यतरस्मिन्नयने रवः ।
आदित्ये परमावस्थोत्कषयोसजिसंज्ञिनः ॥
समभूमिप्रदेशस्याप्यन्ते भूम्नि तु वारिणि ।
क्लो तु दारुणि"
इति केशवः । किश्च न केवलं देवानाम् , अपि तु निम्विलस्य जगतोऽपि पशु-
त्वमासीदित्याह जगदिति । जगच्च जगदमी निखिलो जनोऽपि, दत्तपाश-
व्यापत पाश्यते बध्यतेऽननोपाधिभूतनात्म। ई - पाशः । पाशो माया। उक्तं
च श्रीराघवानन्दाचार्यपादैः
"पतिः पाशः पशुश्चेति त्रीणि तत्त्वानि तत्त्वतः ।
पतिः शिवः पशु घः पाशो मायैव केवलम् ॥"
इति । दत्ता भगवता वितीर्णा पाशन हेतना व्यापत् अस्वातन्त्र्यलक्षणा
आपत्तियस्य तत्तथा । भगवत्सङ्कलन गर्न जगदपि पशुतामग दित्यर्थ
॥ २५ ॥
भग्यतस्तदा तन्निमित्तकं नामान्तरमा सीदित्याह-
तस्य पुरवधाय यतः त्रिदशाः पशुभावमापुरवधाय यतः ।
प्रभुरजनि जनाम्नातः पशुपतिरिति विश्रुतेन निजनाम्नातः ॥२६॥

१०२ सव्याख्ये त्रिपुरदहमे तस्येति । त्रिदशा देवाः, अवधायास्माभिः पशुत्वेऽङ्गीकृत एव अपुरा वध्या भवेयुरिति निश्चित्य, पुरवधाय पुरवासिनां निग्रहाय, यतो गच्छतः, तस्य शिवस्य, पशुभावं पशुत्वमापुः प्राप्तवन्तः । यतो यस्मा. देतोः, अत एतस्माद्धेतोः, प्रभुश्शिवः, पशुपतिरिति विश्रुतेन प्रसिद्धेन, निजनाम्ना निजेन नित्येन वा आत्मीयेन वा नाम्ना संज्ञया, जनाम्नातो जनराम्नातः उक्तः अजनि अभूत् । पशूनां पतित्वादस्य पशुपतिरिति यौगिक नामाभूदित्यर्थः । "निलं तु त्रिः सनालने । आत्मीये च स्वभाव तु क्ली पुंसि त्वात्मनि स्मृतम् ।" इति केशवः ॥ २६ ॥ अथोपात्तपशुत्वानां देवानां दशामाह समजान तापश्चात्ते पशुत्व उक्ते च भगवता पश्चात्ते । योऽतिमहानायामी तं नियमं विदधुरस्य हानायामी ॥ २७ ॥ समजनीति । भगवता शिवेन, पशुत्व उक्ते च यूयं पशवो भवत इत्याज्ञा पिते च, आत्त च देवैः स्वीकृते च सति । चशब्दो वचनादानयोर्योग. पद्यं द्योतयतः । भगवदाज्ञासमकालमेव तेषां पशुत्वे जाते इत्यर्थः । तापो मनस्तापः. समजनि समभूत् । देवानामित्यर्थात् । अथ ते पशुत्वनिवर्तक कर्माकुर्वन्नित्याह -- पश्चात् पशुभावन तापोत्पत्त्यनन्तरं, ते च पशुत्वं प्राप्ताः, अमी इमे देवाः, अस्य पशुत्वस्य, हानाय निवृत्तये, तनियमं व्रतं, विदधुः कृतवन्तः । नियम विशिनाष्ट-य इति । यो नियमः, अतिमहान् भक्तिश्रद्धा- बिहीनस्यापि अनुष्ठानमात्रेण परपुरुषार्थप्रदत्वाद् अत्युत्कृष्टः । तथा य आयामी आयामो दैर्ध्य स चात्र कालगतो विवक्षितः, तद्वान् अतिदीर्घकालेन समा- पनीय इत्यर्थः । अतिमहत्त्वमायामित्वं च पाशुपतव्रतस्यैवास्ति । अतः पाशुपतं व्रतम् अनुष्ठितवन्त इत्युक्तं भवति । यथप्यस्य यमकपदेषु प्रक्रान्तस्य विभक्तिभेदस्य भङ्गो भवति तथापि वचनस्य भिन्नत्वादसौ नात्यन्तं दोषाय भवति । केचित् प्रक्रमभापरिजिहीर्षया आयामीसमिति पदच्छेदं कुर्वन्ति ।

तृतीय आश्वासः । १०५ आयामः प्राणायामः तद्वन्तो योगिनः तैरित प्राप्तम् इति नियमविशेषणतया व्याचक्षते च । अत्रपि यच्छब्दस्य पूर्वव'क्यगतत्वात् तच्छब्दं प्रति यत् साकाङ्क्षत्वं तन्महान् दोष एव । तस्यापि सोढव्यत्वे अर्थस्याञ्जस्यं न भवति । अत्र विभक्तिभदः प्रक्रमभङ्गो वा साकाङ्क्षत्वदोषो वा सोढव्य इति न जानीमः । तत्र सहृदया एक प्रमाणम् ॥ २७ ॥ अथ शिवः त्रिपुरवधायोद्युक्तवानित्याह - -- उधति नाद वाद्यश्रणीनामथ महामना देवाधः । त्रिपुरहरो हतदत्यप्रमदो रथमख्यमारोह तदैत्य ॥ २८ ॥ उद्यतीति । अथ रथादिसामग्रीसम्पादनानन्तरं, यस्मिन् काले वाः व्रतं समाहितवन्तः तदा तस्मिन् काले, देवाद्यः शिवः, त्रिपुरहर! पुरत्रय- संहा भविष्यन् । त्रिपुर संहतमित्यर्थः । पत्य स्वाधासादागस्य, रथमुख्यं स्थानां मध्य मुख्यम् अवन्याधात्मकत्वात प्रधानमारोह आरूढवान् । कि तत्रोपलक्षकमित्यत्राह --- उद्यतीति । वाद्यश्रणीनां वाद्यानां मेरीपणवादीनां श्रेणीनां वर्गाणां मङ्गला दवैद्यमानानगं. नाई ध्वनी, उद्यति उद्गच्छति सति । देवाद्यं विशिनष्टि - महामना हनि । महदुत्कृष्टं मनो यस्य स तथा । सङ्कल्पमात्रेणापि सकलार्थसाधनक्षम इत्यर्थः । हत्तदैत्यप्रमदः हतः विलयं नीतो देत्यानां प्रमदो हषों यन स तथा । भगवतो रथारोहणसमय एव देत्यानां हर्षों नष्ट इत्यर्थः ॥२८॥ अथ भगवत उत्कर्षातिशयं प्रकटयन्नाह -- अथ परम धापनि नरस्थिधसोऽपि मेधानिः । प्रषिषदः सहसारं पतुश्च हया विहाय दुःसहसारम् ॥ २९ ॥ अथेति । अथ रथारोहणानन्तरमेव परम सर्वावमासकत्वानुस्कृष्ट, (धामनि) तेजसि च परमेश्वरे. रथस्थिते म्यन्दनस्थित सनि, ते चतुर्वेदाः, हयाः सावा, सहसा झटित्येव, अरम् अत्यर्थ प्रतिषेदुः भगवतो गौरव सोढुमशक्नुषाना विषादं १०६ सव्याख्य त्रिपुरदहने प्रापुः । दुस्सहसार दुम्सहं परैः से ढुमशक्यं सारं बलं विहाय त्यक्त्वा, पेतुश्च पतितवन्तः । धाम विशिष्टि वेधस इति । वेधसोऽपि जगत् स्रष्टुः ब्रह्मणोऽपि, मेधां बुद्धिम् अनितेऽप्राप्ते । ब्रह्मणोऽप्यपरिच्छेद्यस्वरूप इत्यर्थः ॥ २९॥ अथ सारथर्व्यापारमाह - खकरेऽभीशून् न्यस्य प्रोत्थाप्य ध्यान हरम्य भीशून्यस्य । विद्वान् वेधा रयतः समचोदयदुद्धति जवे धारयतः ॥ ३० ॥ . खकर इति । वेधा ब्रह्मा, रयतो वेगेन, स्वकर निजहस्ते, अभीशून् प्रग्रहान् , न्यस्थ स्थापयित्वा हरस्य हयानश्वान्, प्रोत्थाप्य तोत्रप्रहारणो- स्थितान् कृत्वा. समचोठयत् प्रेरितवान् । वेधसं विशिनष्ठि-विद्वानिति । अश्वहृदयादिविद्याविदित्यर्थः । हरं विशिनष्टि -भीशून्यस्यति । भिया भीत्या शून्यस्याश्वेषु पतितेषु साधनवैकल्याद था भीतिरुत्पद्येत तया वियुक्त- स्येत्यर्थः । अनेन सामग्रीविरहऽपि भगवदद्योगस्याप्रतिहनप्रसरता प्रत्याय्यने । हयान विशिनष्टि - - उद्धतिमिनि । तात्कालिक विशेषणमेतत् । जंव वगे. उद्धतिम् ऊष्मळतां धारयतः बिभ्राणान् ॥ ३० ॥ अथ द्वाभ्यां श्लोकाभ्यां कर्तव्याकरणात् प्रयाणस्यान्तरा विघात अभू- दित्याह -- मुक्त्वा शम्भावयति वपूजनं यो जगत्सु श भावयति । विघ्नः कोपमतनुत श्रान्ता देवान्ततोऽन्तकोपमतनुतः ॥ ३१ ॥ मुक्त्वेति । विघ्नो गणपतिः. म्वपूजनं खस्यात्मनः पूजनम् अर्चा मुक्त्वा विहाय, शम्भो शिवेऽयति गच्छनि सनि, कोपमतनुत अकरोत् । विनं विशिनष्टि य इति । यो विघ्नः जगन्सु शं प्रारब्धतात्पर्यपरिसमाप्त्या सुखं भावयति उत्पादयति । पूजित इति शषः । अनेनापूजितो दुःखमपि भाव- वृत्तीय जावासः । १०७ यति इति सेत्स्यति । तत इति ब्लोप पञ्चम्यन्तात्तसिन् । अन्तकोप- मतनुतः क्रोधाग्निना जाज्वल्यमानत्यदन्तकोपमा काल्तुल्या तनुः शरीरं यस्य स तथा । आतिक्रुद्धादित्यर्थः । तथाविधद्धताः विघ्नात् विघ्नं वीक्ष्य, देवाः श्रान्ताः विन्ना: । अभूवन्निति शेषः । अतिक्रुद्धावन्ननिरीक्षणादेव विमनसो बभूवुरित्यर्थः ॥ ३१ ॥ पदमपि मदनाहरतः शक्यं गन्तुम चति मदनादरतः । सोऽभियसागमीषां पुगे ग्थम्य च रुगध सारामीषाम् ॥ ३२ ॥ पदमिति । मदनादरतः ममानादरः पूजाया अकरणं तस्माद्धतोः, पद मपि एक पढघिन्यासमपि. गन्तुं यानं कतमिति यावत् । नच नैव शक्य. मित्य गमुक्त्वा स विघ्नं ऽमषो दबाना, पुरताऽभिमसागभिमुवं गतवान् रथम्य मार्ग स्थिर'म, ईषा लागलाण्ड, रुरोध च गतिनिवारणार्थम् । हां कराभ्यां गृहीतवानित्यर्थः । विघ्नं विशिनष्टि-मदति । मदो हप्तता नादः शब्दायमानता तया ग्तः सक्तः । गर्वित इत्यर्थः ।। ३२ ॥ अथ देवा विघ्नप्रमादनाय प्रवृत्तवन्त इत्याह -- आजामीननतः प्राय तदर्थ जन ऽयमीशाननतः । सम्भृतेमकरोदिक्षुपभृतिद्रव्यस्य सम्भ्रमकरो दिक्षु ॥ ३३ ॥ प्राक्षामित ! अयं वदं प्राप्तो. जन देव जनः, तदर्थ विश्नपत्रार्थम, ईशा- ननतः ईश्वरस्यानन'त मुग्वाद, आज्ञाम् दृक्षवादमः गणशं प्रमादयध्वम् इति नियोग, प्राप्य इक्षुरभृतिद्ररस्य रामदळ केरफल'पूपादिद्रगम्य, मंझान सगणपति याचत । आनयनमको कावन् । जनं विशिनाष्ट-भ्र. मति । दिक्षु सर्वान्याशासु. मम्भ्रमकर' इक्ष्वादिद्रव्य'हरणाय नानादिक्षु पर्यटनशीलः, तथा ईशाननतः ईशान शिव नतः प्रतः । तदाज्ञानुष्ठाने विहिवादर इत्यर्थः । ३३ ॥

१०८ सव्याख्ये त्रिपुरदहने अथ द्वाभ्यां श्लोकाभ्यां गणपति प्रसादयामासुरित्याह OIL जय जय भो गजवदन! श्रेयः कुरु भक्तवर्गभोगजवद नः । उन्नतदन्तेशानप्रिय! भक्ष्यं दयिततम मिदन्तेऽशान ॥ ३४ ॥ जयेति । भो गजवदन! हे करिमुख ! हे भक्तवर्गभोगजवद ! भक्तवर्गस्य भोगे फलानुभवे यो जबः शीघ्रता तं ददातीति तस्य सम्बोधन सथा। भक्तानां झटित्येव फलदेत्यर्थः । जय जय सर्वोत्कृष्टतया वर्तस्व । भक्त्यत्तिशयाद द्विरुक्तिः । नः अस्माकं श्रेयः कुशलं, कुरु सम्पादयस्व । हे उन्नतदन्त ! । दन्तुरत्वं हि गजानां प्रशस्तिहेतुः । हे ईशानप्रिय! ईशानस्य शिवस्य प्रिय! स्वपुत्रत्वात् प्रेमास्पन्द ! ते तव, दयिततमम् अत्यन्तमिष्टं भक्ष्यम् अस्मदाहृतमिक्ष्वादि द्रव्यमिदं कर्तृ। पुरस्तिष्ठतीति शेषः । अशान यथेष्टं भक्षय इति पृथग्वाक्यम् ॥ ३४ ॥ जगतां मोदकर! सदा तुभ्यन्नम इत्यपूपमोदकरसद!। जनता विननामेयं विघ्नेशं निपतिता मुवि ननामेयम् ॥ ३५॥ जगतामिति । सदा सर्वस्मि र काले, जगतां जगद्वासिनां, मोदकर हर्षो- त्पादनशील! तुभ्यं नमः नमस्क्रिया अस्तु इत्येवमुक्त्वा इयं जनता देव. जनसमूहः, विघ्नेशं गणपति, नन विननाम प्रणतवती । द्वयोर्नोः प्रकृता- विधारकत्वाद् ननामैवेत्यर्थः । कदिशः -- अपूपमोदकरसद! अपूपो मोदकश्च पिष्टकृतो भक्ष्यविशेषः तयोर्यो रसः पञ्चभूतानां सूक्ष्मांशः ददातीति तथा । देवोपहारे हि निवेद्येषु रसांशमेव देवो गृह्णाति । यथाहुः "मलातुरसाभिधानमेतत् पृथिवीवहिजलात्मकं जला धम् । उपहारविधानमत्र देवे रस एवाश्चति पञ्चभूतसूक्ष्मः ॥" इति । यद्वा अपूपमोदकयोः रसो माधुर्य तद्ददातोति तथा । भुवि निपतिता भूमौ दण्डवत् पतिता । साष्टाङ्गपातं नमश्चक्र इत्यर्थः । एतच्च मक्त्यतिशयं -- तृतीय आश्वासः । १०९ गमयति । विघ्नेशं विशिष्टि . - अमेयमिति । अमे यमपरिच्छेद्यम् ॥ ३५ ॥ विघ्नेशः देवैर्पितं भक्ष्यजातं पर्यग्रहीदित्याह । - सोऽपि बली लाजालीरप्पपृथुकैः सहैव लीलाजाली । अकुरुत कुक्षौ द्राक्ता या न कुषाकान्विता न कुक्षौद्राक्ताः ॥ ३६ ॥ सोऽपीति । सोऽपि विप्नेशोऽपि, अपूपपृथुकैः सहैव अपूपः पिष्ट- कृतो भक्ष्यविशेषः पृथुकश्चिपिटाख्यो भक्ष्यविशेषः । 'पृथुको चिपिटा- भेको' इति यादवः । अपूपैः पृथुकैश्च सार्धमेव, ता लाजालीः भ्रष्टाः व्रीहयो लाजाः तेषामालीः समूहान्, द्राग् झटिति, कुक्षौ उदरे, अकुरुत । अपूपादिकमभ्यवहृतवानित्यर्थः । विघ्नशं विशिष्टि-बलीति । बली बलवान् । समर्पितपदार्थसार्थाभ्यवहारे शक्त इत्यर्थः । तथा लीलाजाली हीलानां बुभुक्षासूचकानां चेष्टानां जालं समूहः तस्यास्तीति तथा । लाजालीविशिनष्टि- या इति । या लाजालयः, कुपाकान्विताः कुत्सितेन पाकेनान्विताः युक्ताः न भवन्ति । पक्रस्य कुत्सितत्वमपकत्वादतिपक्वत्व च भवति । याः कुक्षौद्राक्ताः कुत्सितेन क्षौद्रेण माक्षिकेणाक्तः: सिक्ताश्च न भवन्ति । सुपाकान्विताः सु- क्षौद्राक्ताश्चेत्यर्थः ॥ ३६॥ विघ्नेशो देवकार्य प्रत्यानुकल्य(त्व !)मगादित्याह निघ्नन् सोऽमरविघ्नं विघ्नो यद्धाम दीप्तसोनरविघ्नम् । खपितरमरिपुं जनयनचलत् पुरतो निहन्तुमरिपुञ्जन्यम् ।। ६७ ।। निघ्ननित। सः अतितेजस्वी, विघ्नः, पुरतः भावद्रथस्य पुरोमागे, अचलम् अगच्छत् । किमर्थमचलदित्यत्राह - निहन्तुमिति । अरिपुञ्जनयम् अरिपुञ्जस्य शत्रुवर्गस्य यो नयः स्वपरपक्षानुग्रहनिग्रहाधायिव्यापारलक्षणा नीति तं, निहन्तुम् । असुरान् निग्राहयितुमित्यर्थः । विघ्नं विशिनष्टि-निघ्ननिति। अमरविघ्नम् अमराणां देवानां यो विघ्नः असुरवधं प्रति तं, निघ्नन् विनाशयन्, अत एव स्वपितरं शिवम् , अरिपुं अविद्यमानशत्रु, जनयन् कुर्वन् , यद्धाम यस्य - - ११० सव्याख्ये त्रिपुरदहने ? विघ्नस्य धाम चक्षुश्शक्तिहरत्वलक्षणं तेजः, दीप्तसोमरविघ्नं दीप्तौ मेघाद्या- वरणाभावात् प्रकाशमानौ सोमरवी चन्द्रादित्यौ हन्ति स्वस्याधिक्याद् निष्प्र(भू ? भौ) करोतीति तथा । अनेनास्य प्रसादातिशयो द्योत्यये ॥ ३७ ॥ अथ तैः प्रस्तुतकार्यनिर्वाहायोपक्रान्तमित्याह - चलति ससत्त्वरवेऽधःकृतजलधौ विबुधसदसि सत्वरवेधः । यानं बद्धरवाहिप्रकरप्रग्रहमाद्रबद्धरवाहि ॥ ३८ ॥ चलनीति । अथ गणेशपूजानन्तरं, विबुधसदसि देवसमूहे, चलति पुरो गच्छति, हरवाहि शिवबाहकं, यानं रथम्, आद्रवत् वेगेनागच्छत् । विबुध- सदो विशिनष्टि-ससत्त्वरव इति । सत्त्वं बलं पराक्रमो वा व्यवसायो वा । "सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे वले । पराक्रमे साङ्ख्य गुणे व्यवसायात्मभावयोः । माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुपु ॥ प्राणे च" इति केशवः । रवः सिंहनादः ताभ्यां सह वर्तमाने, अधःकृतजलधौ अमेयत्वाद्धिक्कृतसमुद्र । समुद्रतुल्य इत्यर्थः । अत्र ससत्त्वरवत्वादपि समुद्रतुल्यत्वं विवक्षितम् । समुद्रोऽपि ससत्त्वरधो भवति । तत्र सत्त्वानि जन्तवः । यानं विशिनष्टि - सत्वरेति । सत्वरोऽश्वनियमने त्वरासहितो वेधा ब्रह्मा यस्मिन् तत्तथा । बहरवाहिप्रकरप्रग्रहं बद्धरवाणाम् अश्ववल्गनवशास् खणखणायमानानाम् अहीनां कार्कोटकादिमहानागानां प्रकरः समूह एव प्रग्रहा रश्मयो यस्मिन् तत्तथा । अनेन तद्धयानां महानागाः प्रग्रहतां प्राप्ता इत्यावेदितं भवति ॥ ३८ ॥ कां प्राप्यभूमिमुद्दिश्य यानमाद्रवद् इत्याह योगो भावी तरसा यत्र पुरां यत्र सुरसभा वीतरसा । निरतिशयानन्देशं तमागमत्तत्क्षणेन यानं देशम् ॥ ३९ ॥ -- तृतीय आश्वासः । १११ . . योग इति । यानं रथः, (तत्क्षणेन) येन क्षणेन गमनमुपक्रान्तं तेन क्षणेन अल्पीयसा कालेन, तं देशम, अगमद् आगतवान्। यानं विशिनष्टि-निरति- शयेति । अतिशयानिष्क्रान्तो निरतिशयः । 'निरादयः कान्ताद्यर्थे पञ्चम्या' (पा० सू० वा०१-४.७९) इति समासः । आनन्दस्य निरतिशयस्व दुःखासंस्पृष्टत्वाद् नित्यत्वाच्च । निरतिशयश्चासावानन्द श्चति विशेषणसमासः । लोको सरसुखस्वरूप : ईशः परमेश्वरो यस्मिन् तत्तथा । यद्वा निरतिशयः आनन्दः देवेषु प्रीतिर्यस्य इति विग्रहः । तं देशमित्युक्तम् , कोऽसौ देश इत्यत्राह - योग इति । यत्र यस्मिन् देशे, पुरां पुराणां, तरसा 'सुरसत्तम! नो निलया गत्या घटनामियुजितमनो- निलया' इत्युक्तलक्षणेन वेगेन, योगः समागमो, भावी भविष्यति । यत्र यस्मिन् देशे, सुरसभा देवसमूहः, वीतरसा वीतो रसो वीर्य यस्याः सा तथा । यत्रासुरैर्देवाः पराजिता इत्यर्थः । यद्वः यत्र यासु पूर्षु सुस्सभा वीतरसा तासां पुरां संयोग इति वा सम्बन्धः ॥ ३९ ॥ अथ विरिश्चवरात पुराणां संयोगसमय एव हन्तव्यत्वात् संयोगस्य क्षणिकत्वाच्च प्रागेव धनुग्रहणमारभ्याकर्षणपर्यन्तमुद्यमं कृत्वा पुरयोग प्रति- पालयता मया भवितव्यमिति मन्यमानस्य भगवतः प्रवृत्तिं पञ्चभिः श्लोके. राह । तत्र प्रथमेन धनुर्ग्रहण, द्वितीयेन गुणारोपणं, तृतीयेन शरसन्धानं, चतुर्थेनाकर्षण, पञ्चभेन पुरयोग प्रतीक्ष्यावस्थान चोच्यते अथ विभुरच्छशिलण्डश्रितदिव्यनदीजलस्खलच्छशिखण्डः। सुरवरहैमवतंसस्फुरितपदो धनुरुदास हैमवत सः ॥ ४० ॥ अथेति । अथ पुरःणां संयोगस्थानागमनानन्तर, स पुरवधोद्युक्त', विभुः शिवः, हेमवतं हिमवद्गिरविकार, धनुरुदाम उद्धृतवान् । विभु विशिनष्टि - अच्छेति । अच्छं निर्मलं शिखण्डमुपपत्तिबलाउजटाभारं श्रितायाः प्राप्तायाः दिव्यनद्याः गुरुतरधनुरादानसमये भगवठ्ठपुषश्चाश्चल्याच्चरितजलाया गङ्गायाः जले स्वलन् वीचिपरम्पराभिः इतस्ततो विक्षिप्यमाणः शशिखण्डश्चन्द्रकला यस्य स तथा । शिखण्डशब्दः शिखिपिञ्छशिंखयोरेवाभिधायकः । तत्र शिखायां स्त्रीलिङ्ग एव । " - - ११२ सव्याख्ये त्रिपुरदहने "शिखण्डस्तु पुमानयम् । मयूरपिञ्छे स्त्री तु स्यात् शिवायां हि शिवण्ड्यसौ" । इति केशवः। तस्मात् शिखण्डशब्देनात्र किमभिधीयत इति चिन्त्यम् । सुरवरेति । सुरवराणामिन्द्रादीनां हैमेन हेमविकारेण वसंसेन शेखरेण स्फुरितं शोभितं पदं पादो यस्य स तथा । जगदीश्वराणामीश्वरस्य तस्थ किं नामाशक्यमिति भावः ॥ ४०॥ या हतसुरविप्रभया तया च मौर्व्या विभावसुरविप्रभया । चापमयोजयदमलं जगतां नाथः सुदुर्जयो जयदमलम् ॥ ४१ ॥ येति । जगतां नाथः शिवः, तया मौा गुणेन, चापमयोजयच्च समितवान् । मौ विशिनष्टि - विभावस्विति । विभावसुरग्निः रविरादित्यः तयोः प्रभेव प्रभा दीप्तिर्यस्याः सा तथा तया । कालात्मकत्वेन दिव्यत्वाद् दुर्निरीक्षयेत्यर्थः । अत एव या मौर्वी, इतसुरविप्रमया हतं निरस्तं सुराणां विप्राणां च भयं यया सा तथा । साधनगुणे सति साध्यसिद्धिरवश्यंभाविनीति सुरादीनां भीतिमै येव निरस्तवतीत्यर्थः । चापं विशिनष्टि - अमलमिति । लघुज्याक्षतत्वादयो ये चापदोषाः तद्रहितम् । अत एव अलमत्यर्थ, जय- दम् अरिपरिभवदम् । शिवं विशिनष्टि - (सु)दुर्जय इति । सुतरां जेतुमशक्यः इति । कर्तुः करणस्य च गुणवत्त्वे का विचिकित्सेति भावः ।। ४१ ।। यस्य मरुद्वाजगतः फलेऽनलेन्द् यदार्तिरुद्वा जगतः । मज्ये चापे तदयं समधित बाणाख्यधाम चापेतदयम् ॥ ४२ ॥ यस्येति । अयं शिवः, सज्ये आरोपितज्ये, चाप तद् बाणाख्यधाम बाणाख्यं बाण इत्याख्या संज्ञा यस्य तत्तथा। बाणरूपेण परिणतमित्यर्थः । बाणाख्यं यद् धाम विष्ण्वादिरूपं तेजः तद् अपेतदयं अपगता दया करुणा दैत्येषु यथा भवति तथा, समधिन च समाहितवानपि । तदिति सामान्येन तृतीय आश्वासः । ११३ । अत्र न कवलस्य निर्दिष्टं विशेषेऽवस्थापयितुमाह -- यस्येति । यस्य बाणाख्यधाम्नः, मरुद्वायुः, वाजगतः वाजे पत्र गतः । वाजत्वं गत इत्यर्थः । फलेऽनलेन्द् फले मुखे अनलेन्दू अग्नीषोमौ गतौ । अत्र वाजशब्देन समस्तोऽपि गतशब्दोऽर्थसामर्थ्या- दनुषज्यते । सोऽर्थवाद् द्विवचनान्तश्च भवति । पूर्व विष्णोरेव शररूपत्व- मुक्तम् । तत्र यदनुक्तं देवतान्तरस्य शरावयवरूपत्वं तदिदानीमावेदितं भवति । यद् वाणाख्यधाम जगतः आतिरुद् वा आति पीडा रुण द्धीति तथा, विष्ण्वादिरूत्वाद् । वाशब्दः समुच्चये । ननु(बाल ! वाज) फलवत्तायोग्यत्वं बाणम्यैव न तु धाम्नः । अत्र बाणस्य धम्न एव धनुषि सन्धानमुक्तं न तु बाणस्य । धनुषि सन्धानमपि बाण- स्यैवोपपद्यते न तु धाम्नः । तत् कथमेवमुक्तम् । उच्यते. धाम्नो धनुषि संहितत्वम् । (वाजः किमर्थं चोक्तम् ।) । अपि तु बाणा ख्यतया विशिष्टम्यैव । विशिष्टस्य तु सर्वमेतदुपपन्नमव ॥ ४२ ॥ ज्वलदनलोपमहस्तस्थिरकृष्टरणद्गुणेन रोपमहस्तः । तेन महारिपुपूरे रुष्यति चापं हरेण हारि पुपूरे ॥ ४३ ॥ बलदिति । भहारि(पु)पूरे महति वीर्यशौर्यादिनोत्कृष्टे रि(पु)पूरे शत्रु- समूहे, रुष्यति नारदमुखात् स्ववधोद्यमश्रवणात् क्रुध्यति सति, तेन शरं संहित- वता, हरेण चापं पुपूरे पूरितम् । आकर्णमाकृष्टमित्यर्थः । हरं विशिनष्टि - ज्वलदिति । ज्वलदनलोपमेन ज्वलता दीप्यमानेनानलेनाग्निना उपमा सादृश्यं स तथा । शुद्धसत्त्वमयत्वादतितेजस्वितया च प्रकाशमानेनेत्यर्थः । तेन हस्तेन स्थिरं दृढं यथा भवति तथा कृष्ट आकृष्टः अत एव रणन् शब्दाय- मानो गुणो ज्या येन स तथा । चापं विशिनष्टि- रोपेत्ति । रोपः शरः । * अस्त्री रोप इषुर्द्वयोः इत्यमरः । तस्य मह(सा ? स्तः) तेजसा, हारि मनो- हरम् ॥ ४३ ॥ सुचिरमिहासावस्थान्नाथः कुर्वन् सुरान् सहासावस्थान् । धृतधनुरा पूर्योगात् ततः स कालो द्विषद्भिरापूर्योऽगात् ॥ ४४ ॥ * 'पत्री रोप' इति मुद्रितपाठः. -- यस्य

११४
सव्याख्ये त्रिपुरदहने
.
-
सुचिरमिति । असो आकृष्टचापो, नाथः खामी शिवः, आ पूर्योगाद
पुरत्रयसंयोगावधि, धृतधनुः आकृष्टशरासनस्सन् , सुचिरं बहुतिथं कालम्, इह
पुरत्रयसंयोग(स्थापने अतः ! स्थाने अस्थात् ) पुरत्रयसंयोगं प्रतीक्षमाणः स्थितवान् ।
नाथं विशिनष्टि – कुर्वनिति । सुगन् सहासावस्थान् कुर्वन् सहासा हास-
संयुक्ता अवस्था अवस्थानं येषां ते तथा। हर्षयुक्तान् कुर्वीत्यर्थः । प्रतिपाल्य-
मानकालविशेषो वर्तमानतामगमदित्याह --तत इति । ततो भगवत्स्थानानन्तरं,
द्विषद्भिः शत्रुभिः, आपूर्यः ब्रह्मसकाशाद्वरत्वेन प्रार्थितया स्वैनियमितया
सङ्ख्यया पूरणीयः स कालः अब्ददशशतावध्यन्त इत्युक्तलक्षणः समयो-
ऽगात् आगतवान् ॥ ४४ ॥
अथ शरं मुमुक्षोभगवतः शरव्यं पुरस्थितमभूदित्याह
तदनु कृताशावलयस्थितयः सहस! जितामृताशावलयः ।
सङ्गतिमापुर्योद्धा यत्रायं तत्र समाहेमा पुर्योद्धा ॥ ४५ ॥
तदन्विति । तदनु संयोगप्राप्त्यनन्त, पुर्यः पुराणि, सहसा झटिति,
अद्धा प्रत्यक्षतः, तत्र सङ्गति संयोगं (ग्रा ? )पुः प्राप्तवत्यः । तत्रेत्युक्तं,
कुत्रेत्यत्राह -- योद्धति । यत्र यस्मिन् देशे, योद्धा युद्ध द्युक्ते ऽयं शिवः । अतिष्ठ-
दिति शेषः । शिवं विशिनष्ट -- समादि मेति । समहिमा महिम्ना महत्त्वेन
सहितः । भगवन्महत्त्वेनैवामी भन भविष्यन्ति रथ छुपकरण जातं तु वृथैवो-
दितमिति भावः । पुनर्विशिन प्टि -- कृतति । कृतः आशावलये दिङ्मण्डले
स्थितिभिस्त स्तथा । कामा'मत्व त् सर्वदिक्षु कृतपर्यटना इत्यर्थः ।
जितामृताशावलयः जिता अभिभूताः अमृताश'नां देवानामावलिः समूहो
याभिस्ताः तथा । कृतकृत्या इत्यर्थः ॥ ४५ ॥
तथा
भगवतः पुरत्रयमथनाय सम्पादितसाधनव्यतिरेकेण माधनान्तरमासीदिति
वक्तुं पीठिका प्रतिष्ठापयति
-
घुगगनभूतलयानानिमित्तभूतं समस्तभूतलयानाम् ।
स रुषमगच्छत्रिपुरस्थायि बलं प्रेक्ष्य नृतुरगच्छत्रि पुरः॥ ४६ ॥

तृतीय आश्वासः ।
११५
युगगनेति । स शिवः, पुरोऽश्रे, त्रिपुरस्थायि पुरत्रयस्थितिशीलं, बलं
सैन्यं, प्रेक्ष्य प्रक्षणाद्धताः, रुषं धम् , अगच्छत् प्राप्तवान् । बलं विशिनष्टि -
युगगनभूतलयानादिति । द्यौः स्वर्गः, गगनमाकाशं, भूतलं भूलोकः, एषु यानात्
पर्यटनाद्धेतोः, समा भूतलयानां सर्वजन्तुनाशानां, निमित्तभूतं हेतुभूतम् ।
एतद् रोषे हेतुः । तथा नृतुग्गच्छत्रि नराः पुरुषाः । पदातय इति यावत् ।
तुरगा अश्वाः, छत्रं श्वेतातपत्रम् । उपलक्षणमेतत् परिच्छदान्तरस्य ।
किञ्चिदप्यवयववैकल्यमप्राप्तमित्यर्थः ।। ४६ ॥
अथ साधनान्तरोत्पत्तिमाह -
,
अथ संरम्भान्विततस्तृतीयनयनाग्निरम्बरं भान विततः ।
प्रविवेश तदा हरतः पुरमाप च तत्कणऽरिशतदाहरतः ॥ ४७ ॥
अर्थति । अथ गेपोत्पत्त्यनन्तरम् । यस्मिन् काले रोष उदपद्यत, तदा
तस्मिन् काले, संम्भान्विततः सम्भः क्रोधः तेनान्वितात युक्तात्, हरतः
हरात्, तृतीय नयनाग्निः तृतीयनयने ललाटलोचने योऽग्निः, सोऽम्बरं आकाश,
प्रविवेश प्रविष्टवान् । कुपितस्य भगवतो नयनामिरुदगच्छदित्यर्थः ।
कीदृशः । भान् जाज्वल्यमानः, विततः विस्तृतः । चतुर्दशभुवनान्यपीन्धनी-
कतुं पर्याप्त इत्यर्थः । स च त्रिपुरसंहारायोपक्रान्तवानित्याह -पुरामिति ।
तत्कणः तस्यामेः कणः लेशः स्फुलिङ्गः । एकत्वं विवक्षितम् । 'एक-
स्फुलिङ्ग के लीय-त' इति वक्ष्यमाणत्वात् । पुरमाप प्राप । पुरत्रयं तेन संस्पृष्ट-
मभूदित्यर्थः । पुराणां त्रित्वेऽपि संयोगसमये एकीभावेन प्रतिभासमानत्वात्
पुरमित्येकवचनान्ततया निर्दिष्टम् । कणं विशिनष्टि - अरीति । अरीणां
शतस्यानेकस्य दाहे भस्मीकरणे रतस्तत्परः ॥ ४७ ॥
स च भगवन्मनोरथं पूरितवानित्याह
तेनैव समस्तारि प्रादीपि च दत्तपरिभवसमस्तारि ।
शिखिना साकं पतता त्रयी पुरामम्फुटच्च सा कम्पतता ॥ ४८ ॥

. - सव्याख्ये त्रिपुरदहने तेनेति । एवकारोऽन्ययोगव्यवच्छेदपरः । तेन पुरं प्राप्तेन, शिखिना अमिनैव तु शरेण, पुरां त्रयी दत्तपरिमवसमस्तारि दत्तः परिभवो येषां तादृशाः समस्ता निखिला अरयो यथा भवन्ति तथा , समस्तारि सञ्छादिता । असुरैरनिवार्यप्रसरोऽमिस्सर्वतो व्याप्तवानित्यर्थः । प्रादीपि च दहनज्वाला- मालाकुलाभूदित्यर्थः । शिखिनं विशिनष्टि - साकमिति। साकं सह, पतता तिसृष्वपि पूर्षु युगपत् संसृजतेत्यर्थः । सा पुरत्रयी अस्फुटच्च दद्यमानसन्धि. बन्धा सती स्फुटितवती । कीदृशी। कम्फ्तता कम्पेन व्याप्ता । स्वस्थानच्युत- निखिलावयवेत्यर्थः ॥ ४८॥ नयनामिनैव पुरश्ये दह्यमाने पूर्वमेव शरे सङ्क्रान्तः कोपाग्निः सार्थक्रियाविषयः भवन् जगद् गोचरीकतुं प्राक्रमनेत्याह शत्रुषु दाहं तेषु श्रयत्सु रोषेण वै तदा हन्तेषुः । सगिरिवनोदधि कबलीकर्तुं जगदर्चिरातनोदधिकवली ॥ ४९ ॥ शत्रुष्विति । वैशब्दोऽवधारणे । अत्र रोषशब्देन कारणे कार्यो- पचारात् रोषकार्यभूतो नयनाग्निः प्रतिपाद्यते । यस्मिन् काले पुरत्रयी दह्य- मानाभूत् तदा तस्मिन् काले, इषुः सङ्क्रान्तभगवत्कोपो धनुषि संहितश्शरः, रोषेण वै रोषकार्यभूतेन तृतीयनयनामिनैव तेषु प्रकृतेषु शत्रुषु दाहं भस्मी- भावं, श्रयत्सु प्राप्नुवत्सु, सगिरिवनोदधि गिरिभि पर्वतैः वनैररण्यरुदधि- भिः समुद्रैः तदुपलक्षितैः पदार्थान्तरैश्च सहितं, जगत् कबळीकर्तुमचिः ज्वालाम् आतनोत् अकरोत् । प्रसारय मासेत्यर्थः । हन्त । विषादे हन्तशब्दः । महत् कष्टमापतितमित्यर्थः । क दृशः आधिकली अत्यन्तं बलवान् केनाप्य. निवार्यप्रसर इत्यर्थः ॥ ४९ ॥ अथ त्रिभिः श्लोकः तद्दहनसम्भ्रान्ता देवादयः तत्पशमनाय प्रावर्तन्ते. त्याह अकृत गिरस्तदनु जनस्त्यज रोषं पाहि हर निरस्तदनुज नः । जगदतिरेकोपेते भस्मीभवतीव गुरुतरे कोपे ते ॥ ५० ॥ * 'रोषेण स च तदा' इति मूलकौशपाठः. -- तृतीय आश्वासः । - अकृतेति । तदनु अस्त्रज्वलनानन्तरं, जनो देवादिः, गिरो वचनानि, अकृत कृतवान् । भगवन्मुक्तवः नित्यर्थः । गिर एव दर्शयति- हे हर निरस्तदनुज! निगृह तासुर! । दनुजनिरास एव ते करणीयः, अतिप्रसङ्गो न कार्य इत्यभिप्रायेणैव सम्बोधनं कृतम् । ते तवा तिरकोपेते अतिरेक आधिक्यं तेनोपेते महिते, अत एव गुरुतरे सोढुमशक्ये, कोपे शरसङ्क्र.न्ते कोप नौ, जगद् (भस्मीभवतीव) भस्मीभवदिव वर्तते तन्नः अस्म न् , पाहि त्रायख । किं कृत्वा रक्षणीया यूयमित्यत्राह - त्यजति । रोषमसुरजनितं क्रोधं, त्यज संहर । रोषत्यजनमेवासद्रक्षेति भावः ॥ ५० ॥ शिखिनिकरोपम! मुञ्च श्रीकण्ठ ! त्रिपुर एव रोपममुं च । जगदायास्यत्यन्तं तदन्यथा चदतश्च यास्यत्यन्तम् ॥ ५१ ॥ . - शिखीति । हे शिखिनिकरोपम ! कोपेनोमायमाणत्व'दग्निप्रकर. तुल्य! हे श्रीकण्ठ! नीलकण्ठ ! अमुं जगद्मस्मरार्चिालाशालिन, रोपं च तृतीयनेत्राग्निवत् शरमपि, त्रिपुर एव मुञ्च, न जगति । अमोचने दोषमाह - तदन्यथा चेदिति । तस्म त् शरभोचनादन्यथा अन्येन प्रकारेण यदि । क्रियते इति शेषः । अतश्च एतस्माच्छरादेव(जगत् ) अन्तं याम्यति प्राप्स्यति । जगद्विशिनष्टि - आयासाति । अत्यन्तमायासि शरानलज्वालालीढप्रायत्वात क्लशयुक्तम् ॥ ५१ ।। प्रीतिमुद्बोध्य क्रोधमपनेतु भगवता महत्त्वमाविष्कुन्निाह -- रणभूमिषु चापादि ग्राह्यं यद्वस्तुजातमिषुचापादि । सर्व केळीयं ते पुरो यदेकम्फुलिङ्गके लीयन्ते ।। ५२ ॥ रणभूमिष्विति । रणभूमिषु ग्राह्यं गृहीतुं योग्यम् . ६षुच पादि सर्व वस्तु जातं पदार्थसमूहः, आपादि उत्पादितं यद्. इयं ते तव, कळी क्रीडैव । चशब्दः पादपूरणार्थः । कुत एतदवगतमित्यत्राह --- पुर इति । पुरः पुराणि, एकस्फुलिङ्गके एकस्मिन्नेव स्फुलिङ्गे अल्पेऽमिकण ।

११८ सव्याख्ये त्रिपुरदहने अल्पार्थे कः । लीयन्ते नश्यन्तीनि (यद्) यस्म त् । यद्यप्येवं तथापि अस्म- दनुग्रहार्थ शरमोक्षः कार्य इति शेषः । उक्तं च लैङ्गपुराणे "सोमश्च भगवान् विष्णुः कालाग्निर्वायुरेव च । शरे व्यवस्थिताः सर्वे देवमूचुः प्रणभ्य तम् ।। दग्धमप्यथ देवेश! वीक्षणेन पुरत्रयम् । अस्मद्धितार्थ देवेश! शरं मोक्तुमिहादसि ॥" इति ॥ ५२ ॥ अथ द्वाभ्यां श्लोकाभ्यां शिवों देवप्रार्थनां सफलीचकारेत्याह - - इत्थं सुवाचारं नतमृपिसङ्घञ्च वीक्ष्य सुम्बाचारम् । उत्थितमधियागारि प्रभुणा रोषार्चित्तमधियागारि ॥ ५३ ॥ इत्थमिति । प्रभुणा शिदन, इत्थम् अनेन प्रकारण, सुग्रवाचा सुराणां वाचा वचनेन हेतुना, अरमत्यर्थ, नतं प्रवीभूतमृपिसंघं वीक्ष्य च नतस्य ऋपिसङ्घस्य वीक्षणाच्च तोरधियामारि । विभक्त्यर्थेऽव्ययीभावः । यागारयो- ऽसुराः तेषु, मूञ्छितं वृद्धि प्राप्त, गोपार्चिः, कोपाग्निज्वाला, अगारि निगीणम् । ननु क्त्वाप्रत्ययस्य वाच्योऽर्थो भाव एव । अव्ययकृतो भावार्थत्वाद् । द्योत्यार्थस्तु पूर्वकाल एव । तत् कुतस्त्येयं हेत्वर्थता । उच्यते - त्याप्रत्ययान्तस्य यत् क्वचिद्धत्वर्थत्वं दृश्यते तन्न पदार्थ । अपि तु वाक्यार्थ सामर्थ्यादायातमेव । ऋषिसङ्घ विशिनष्टि -सुग्वेति । शोभनो रवः स्तुतिरूपः शब्दश्चा चारोऽञ्जलिबन्धनमस्कारादिरूपो व्यापारश्च यस्य स तथा । प्रभुं विशिष्टि -. उचमधियेति । उत्तमा शुद्धसत्त्वमयत्वा- दुत्कृष्टा धीबुद्धिर्यस्य स तथा तथा । तादृशोऽसौ कथं न प्रसीदतीति भावः ॥ ५३॥ त्रस्तरिषु सारचितं शरं वपुर्यस्य परमसा रचितम् । त पुर्यामासुर्यां स मुमोच सुरा न दारयामासुर्याम् ॥ ५४ ॥ १. मूञ्छितमिति व्याख्यानुसारी पाठ:.

तृतीय आश्वासः । ११९ - . जन्ते। । शिवः, तं शरं, तम्याम् आसुर्याम् असुरसम्बन्धिन्यां, पुर्यां मुमोच विसृष्टवान् । पुरी विशिष्ट - सुरा इति । यां पुरी, सुरा देवाः, न दारयामासुः न विदारितवन्तः सामर्थ्याभावात् । तादृश्याः तस्या विदागो भावतेोऽन्यः कः शक्नुयादिति भावः । शरं विशिनष्टि - वयुरिति । यस्य शरस्य, वपुः स्वरूपं, परमपुंसा विष्णुना करणेन रचित निर्मितम् , अत एव सारचितं मारेण स्थिरांशेन चितं व्याप्तम् , अत एव स्तरिघु वस्ता भीत: रिपत्र यस्मात् स तथा ॥ ५४॥ अथ प्रस्तुत कार्य निवृत्तमामादित्याह कृतदानवतापनति क्षुरेऽत्र दहनेन पूछैनवता पतति । सा साररि पुर्या पते पुरतः पर्गनसाररिपुर्या ॥ ५५ ॥ कृतेति । अत्र भगवता मुक्तेऽस्मिन् , झुरे शरे, मूर्च्छनवता वृद्धियुक्तेन, दहनेनाग्निना सह, कृतदानवतापति कृता दानवेषु तापानां ततिस्समूहो यथः भवति नथा. पतति पुरत्रयं प्राप्नुवति सति, तया पुर्या पुरत्रयेण, पुरतो भगवद ग्रे, साट्टम् अट्ट गृहविशेपः तेन सह वर्तमान यथा मवति तथा च, सारारे अरीमः क्वाटैः तदुपलक्षितैरनुक्तै- रवयवैश्च सह वर्तमानं यथा भवति तथा च, पते भस्मीभूय भूमौ पतितम् । पुरी बिशनष्टि --- परतति । या पुरी परीतभारारपुः परीतः परितः प्राप्तः सारो बल यन्त तथा परीनसार बलवन्तो रिपो जगद्वैरिणो ऽसुर! यम्य : सा तथा । देवे प्रतिकूले पुरुष सारेण किञ्चिदपि नोपक्रियते इति भावः। "अट्टा नातिशय घाते क्षौ नसंज्ञगृहान्तरे । शुप्काफुटेनभूभागे त्रिपु पकौदने तु न ।।" इति, “अथ पुंसि स्यादररः सोम संज्ञके । यज्ञाङ्गेऽग्नौ च युद्धे च लोहलोहशलाकयोः । . अपि क्ली कवाटे तु स्यात् स्त्री शण्डेऽररी इति ।। आरायामररा स्न्येव शीघ्र स्याद् भेद्यलिङ्गकम् ।” चिमा ५५ ॥ - १२० सव्याख्ये त्रिपुरदहने , अथ हृष्टानां देवादीनां व्यापारमाह --- अथ सुतरामुदराणि प्लुष्टारिंगणान्यधः पुरामुदराणि । दृष्ट्वा वरदेवर्षिवातैः पुष्पं प्रभौ च वरदेवर्षि ॥ ५६ ॥ अथेति । अथ त्रिपुरदाहानन्तरं, वरदेवपित्रातः वराणां श्रेष्ठानां देवान मृषीणां च व्रतैः समूहै:, प्लुष्टारिंगणानि प्लुष्टो दग्धो अरिंगणो येषु तानि, पुगं पुराणाम् , उदराण अन्तर्भागान् , अधो दृष्ट्वा भूमौ पतितानि विलोक्य, सुतरामत्यर्थम् , उदराणि भक्तिहर्षाभ्यां परवशीभूतैः सद्भिः 'जय जय महादेव! जगत्त्राणैकधुरन्धर पार्वतीवल्लभ ! त्वमेव न शरणम् , एवमेव स्मन् वायम्ब' इत्याधुच्चै रणितं शब्दितम्, प्रभो जग- स्वामिनि शिव, पुष्पवर्षि च । कीदृशे । वरदे पुग्त्रयदाहात् सर्वेषा- मभीष्टप्रदे ॥ ५६ ॥ अथ श्लोकद्वयेन पुग्दहनमुपसंहरन् भगवतः प्रवृत्तिशेषमाह - प्लुष्ट्वा पूर्वसुरसाः त्रिपुरघ्नः सुरगणाय पूर्वसुरसदः । मुदमधिकामारीकः स्वञ्च न भक्तोऽत्र भवति कामारौ कः ॥५७॥ प्लुष्ट्वेति । त्रिपुरमः शिवः तदानी शिवः त्रिपुर नवाच्यताम् अध्यगच्छदिति त्रिपुरघ्नशब्देन निर्दिष्टः । पूर्वसुरसदः पूर्वमुा अमुगः तेषां सदः समूहः । प्लुष्ट्वा दग्ध्वा, अधिकां मुदमार । साध्यस्य कर्मणः साधितत्वात् प्रभृतां प्रीतिमाप स्वमात्मीयम कः स्थानं चर । कीदृशः । सुग्गणाय पूर्वप्नुम्सदः पूः स्वर्गः बसूनि धनानि रत्नानि च रमं तजन्यं मुखं च ददाति (इति) तथा । पूर्वम् सुगहृतत्व त् पूदिकं तदा भगवता दत्तमवेत्यर्थः । इत्थं भगवतो भक्तेप्यनुग्रहकताम् अभक्तेषु निग्राहकतां च निरूप्य सर्वैरपि भगवति भक्तैरेव भवितव्यम् इत्युपदेष्टुं कविराह - नेति । अत्रत्थं भक्त नुप्राह के भक्तिहीनन्ग्रिाहके चास्मिन् , कामारौ शिचे, कः पुरुषो, भक्तो न भवति । सर्वोऽपि भक्तो भवत्येव । सर्वेरेव भकैरेव भवितव्यमित्यर्थः । स्वादिकूल्यानुकूल्या- चरणभेवास्य निग्रहानुग्रहयोरुपाधिः न तु सुरासुर जातिभेद इत्येतत् कामारि- पदेन द्योत्यते ॥ ५ ॥ .

तृतीय आश्वासः । १२१ कामा- स हि तपनानलसोमस्फुरिताक्षित्रितयचुम्बनानलसोमः । कुर्वन्नस्तत्रासौ लोकाववसत्रिलोचनस्तत्रासौ ।। '५८ ।। स हीति । सः कृतत्रिपुरदाहोऽसौ स्वावासं प्राप्तः, त्रिलोचनः शिवः, तत्र तस्मिन्नो कसि । अवमद्धि । हिशब्दः ऐतिहासिकी प्रसिद्धि द्योतयति । कर्तव्यान्तराभाव त् तत्र पितवान् । त्रिलोचन विशिनष्टि - कुर्व- निति । लोको भूगिस्वर्गों, अम्तत्रासौ त्रिपुरवधान्नष्ट भयो, कुर्वन् । इतर- लोकानामुभयत्रान्तर्भावादेवमुक्तम् । तपनेति । तपन आदित्यः अनलो- ऽग्निः सोमश्चन्द्रः तेः स्वरूपभूतैः स्फुरितं यदक्ष्णां त्रितयं तस्य चुम्बने अनलसा अमन्दा उमा पार्वती यस्य स तथा । कृतकृत्यस्य धिकारित्वात् स्त्रीणां वीरका मित्व च तदानीं तयाः कामे प्रवृत्तिरुपपन्नैव ॥५८ ॥ अथ, "शिव शक्त्या युक्तो यदि भवति शक्तः प्रभवितु न चेदेवं देवो न खलु कुशल: स्पन्दितुम:प ।" "परब्रह्मणि पापणे परस्परविरोधिनि । विना विमर्शमांशस्य सद्भ वो व्योमनी द्रुमा (!) ॥" इत्याद्य भयुक्त क्त्या शक्तिमन्तरेण शक्तिमतः स्वरूपलाभस्याप्यभावात् पर- शक्य त्मिकाया: पवित्याः खरूपं परामृशति यद्वपुरोङ्कारो हि व्यधित यदङ्गं महेश्वरोकारोहि । योगिभिरुरुचेतनया था गमनीया नगस्य रुरुचे तनया ॥५९॥ यद्वपुरिति । नगस्य हिमवद्रेिः, तनया पार्वती, रुरुचे भगवता संयुक्ता दीप्यते स्म । निष्कळरूपं परामृशन् तां विशिष्टि -यद्वपुरिति । यस्या नगतनयायः: वपुः शरीरम् , ओङ्कारः निखिलवेदसार: प्रणवो. हि । हिशब्दः शास्त्रीयां प्रसिद्धि यातयति । तथा या यागिभिः सनका- दिभिः, उरुचेतनया उऱ्या मह त्या सर्वव्याप्तया चेतनया चिद्रूपतया, गमनीया ज्ञातव्या । उरुचेतन्येति प्रकृत्यादित्वात् तृतीया । योगिभिः . - १२२ सव्याख्ये त्रिपुरदहने समाधिदश यामखण्डपरिपूर्णचिद्रूपतया अनुभूयते इत्यर्थः । केचिद् उरु- चेतनया उर्व्या महत्या चेतनया बुद्धयेति व्याचक्षते । तदयुक्तम् योगिनां समाधिदशायां यद् ज्ञानं तम्य निष्कळविषयत्वात् निष्कळ याः तस्या अवाङ्मनसगोचरत्वाच्च । चिद्रूपस्यावाङ्मनसगोचरत्वं श्रुत्या किल प्रतिपाद्यते । उक्तं च भागवते "नैनं मना विशति व गुत चक्षुगत्मा प्राणेन्द्रिय ण्यपि यथानलमार्चषः स्वाः ।" इति । अथ सकळं रूपं पर मृशन् तां विशिष्टि - (यदङ्गमिति ।) यस्याः नगतनय याः अङ्गं वपुः, महेश्वरः शिवः अङ्कारोहि । 'वाम कारूढगौरीनिबिडकुचभराभोगमा ढोपगूढम्' इत्याद्युक्तदृष्ट्यः वामाङ्काराहणशील पि व्यधित कृतवान् ॥ ५० ॥ अथ सा तेन सम्भोगसुबमनुबभूवेत्याह विपिन कैलासालङ्कारि बिशन्ती सकेतकैलासालम् । मदनरिपुं सा माद्यनियमगजोपगूद्य पुसामाद्यम् ॥ ६० ॥ विपिन मिति । या समनन्तरमेवोपदर्शितस्वरूप पार्वती, मदनरिपुं शिवं, निर्दयं निर्गता दया यथा भवति नथा, उप- गृह्य अतिगाडमाश्लिप्य, उपगूहनोपल क्षतां रति प्राप्य, छन् । आनन्दितवती । मदनरिपुं विशिनप्टि --- पुंसामिति । पुमां ब्रह्मादीनाम् , आद्यम् आदौ भवम् । ब्रह्मादिकी टपर्यन्तानां जीवानां कर णभूतमित्यर्थः । अनेनाहा धन्यता भगवत्या : या तादृश भवन्तमुपगूढवती इति ध्वन्यते । अगजां विशिष्टि -- सकेनकलासालं केतरेलामिः लताविशषैः सालै: वृक्षविशषैः तदुपलक्षितैरन्यैरुद्दीपन भूतैर्मल्लिका जातिशेफालिका चम्पकाशोका दभिश्च सह वर्तमानम् । अत एव कैलासालङ्क रि कैलासपर्वतालङ्करणशील, विपिनं वनं, विशन्ती प्रविशन्तीत्यर्थः ॥ ६० ।। अथ प्रवन्धमुपसंहरति । बबन्धुरेव बन्धुरे स्ववननि स्थिति जनाः । पिनाकिनापि नाकिनाममोदि मोदकारिणा ॥ ६१ ॥ अगजा तृतीय अश्वासः ! १२३ बबन्धुरिति । जनास्त्रैलोक्यवासिनः, स्ववर्त्मनि स्वस्मिन्नात्मीये वर्त्मनि मार्गे । स्वाधिकृते कर्मण त्यर्थः । स्थितिं च बबन्धुरेव । कृतवन्त इत्यर्थः । अत्रैवकारः क्रियासङ्गतत्वादत्यन्तायोगं व्यवच्छिनत्ति । जनेषु स्वमार्गस्थितिरत्यन्तं बद्धैवेत्यर्थः । एक्कारस्य त्रयोऽर्थाः - अयोगव्यव. च्छेदः अन्ययोगव्यवच्छेदः अत्यन्तायोगव्यवच्छेदश्चेति । तत्र विशेषण- सङ्गतः अयोग व्यवच्छिनत्ति । यथा देवदत्तो दण्ड्यवेति । विशेष्य - सङ्गतोऽन्ययोग व्यवच्छिनत्ति । यथा देवदत्त एव दण्डीति । क्रियासङ्गतः अत्यन्तायोग व्यवच्छिनत्ति । यथा देवदत्त दण्डी भवत्येव इति । पूर्व- मसुरैवधितत्वात् सर्वेपामपि स्वाधिकारे स्थितिर शक्यैव भूत् । असुरेषु हतेषु बाधक भावात सर्वेऽपि स्वाधिकारेऽत्यन्तं स्थितवन्त इत्यर्थः । स्ववर्ती विशिनष्टि - बन्धुर इति । बन्धुरे सुन्दरे स्वाधिकृतत्वात् शुभरूप इत्यर्थः । "बन्धुरस्तु द्वयोहस त्रिस्तु सुन्दरनर्मयोः ।" इति केशवः । यथोक्तं व्यासपादैः-- "स्वे स्वेऽधिकार या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोपः स्यादुभयोरेष निश्चयः ॥" इति । न केवलं जनरेव शिवेनापि स्ववर्मनि स्थितमित्याह --पिना- किनेति । पिनाकिना शिवेनापि अमोदि हृष्टम् । तत्र हेतुः नाकिनां मोदकारिणेति । नाकिनां देवानां मोदकारिणा हर्षका । नाकिनां मोदकारित्वं हि भगवतोऽधिकारः ॥ इति त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां तृतीय आश्वासः ॥ शुभम् ।

No text on this page.

१२५ त्रिपुरदहनम् श्लोकानुक्रमणी मेकः पुटर श्लोकः पुटम् 45 7 54 107 49 63 95 77 96 79 55 102 11 92 118 कृत गिरस्तदनु ५० अकृत जपञ्चाक्षरतः ४९ अघशतपस्मर २२ अङ्कार्धन्यस्त ५ अतिभीमं २२ जथ नन्दी" अथ परम १ भथ परमे २९ जय पुरतोऽमरपाता १९ मथ रतिमापुष्यन्तः २६ मथ विजयाशां ४८ अथ विजहारामेयं. मथ विभुरच्छ ४० अथ सरम्भान्विततः ४७ अथ सुतरामुदराणि ५६ अथ हरिमापनत्वाद् । अद्वैतं परममलं ५१ मधुनापि तथैव ५९ भनितरसारश्यत्वं ५३ अपि चाम्बरवासा ३६ अपि तेन प्रतिभवन १२ मपि देवा! गच्छत २५ भपि तपसे २२ भभजत ५८ भयि ललिता अची २४ अन्यथितः ५३ अश्नुवते २० असुरैरुच्चकोऽधः ५७ 116 असुररुद्धतराग ६१ 81 अम्ति स६ 99 अहिता वरदैते ३ 90 आज्ञामीशाननत: ३३ 19 इति कृतपूर्व्यापार ६८ 93 इति तालानिध्याय २१ 88 इति ते शैलादिव" 105 इति बहुधा ४४ 39 इति भासुरया ॥ 22 इति हरिनारद ४७ 80 इत्थं तान्ततमानां ६ 11 इत्थं वादे २५ इत्थं साधुतरा १० 115 इत्थं मुरवाचार ५५ 20 इत्थममेय 5.3 इस्थमसत्य ३७ 82 इत्यलघोरजवरतः ४६ 8 इन्दुसमानन ६ 84 उडुघटयामा ७१ 73 उद्यति नादे २८ 34 उल्बणनाना ३० 102 कतरनामानन्त! ५६ 64 का पुनरङ्गात्र २५ 43 कुलिशं ३ 76 कृतदानव ५५ 20 कन्वते ६७ 41 क्रतुरुगसम्बामा १. 63 क्रियते यत्तावदथ २७ 43 क्षुधितेनापि ५४. 57 74 37 91 51 105 30 86 66 4 119 49 58 67 41 लोकः पुटम् श्लोक : पुटम् क्षुभिताम्बुद्ध्यालोके ५१ चलति ३८ 76 114 52 96 89 12 91 71 १) 40 दानं परमाहारं १२ IIO घुगगन १६ 90 घुसदामुदयान् ७३ 94 द्विषतां तोदे १५ 108 एतभासुर २ 98 एतमशनाय १२ 100/ नगरीभव ८ 89 न पतति त १२ नाथ! बलादेवाय. 46 113 नारदानामा ४० 60 निघ्नन् सोऽमरविघ्नं ३. निजया ९ 33 निरतः परमो ७ 42 निरतैर्जगदे ३१ निश्शर ३९ 92 69 पटुमनसा ३५ 77 पदमपि मदनादरतः३२ 54 पदयोरापाशु २१ परम धाम ध्येय ११ 103 परमं धामानन्तं २० पुरवये मुदं ०४ 99 6. पृथगहितावध्यं ३२ 38 पेतुः साध्यवसायाः प्राप्तेनासुर २३ 74 115 प्रेक्ष्य 51 प्लुष्ट्वा पूर्वसुरसदः ५० 24 फलमपि न २८ 59 75 :09 10 56 25 75 28 चूलाकेतक । जगतां पाता १२ जगतां मोदकर! ३५ जगदहितोदग्राहकृ १९ जय जय भो ३८ जय वरदेशानन्त! ३ जित्वा देवप्रभृति १२ ज्वलदनलोपम ४३ तं स्थितमुपसबाग १४ सत्र च सरसा" सत्र च सादिव्यापत् ५६ तदनु कृताशा ४५ तहहनसमायां ९ तद्वचने ३० तन्मा गच्छत ४३ तल्लोकेश! ४ तस्मान्मानसमूहे ३५ तस्य पुरवधाय २६ तस्यैवं धन्यस्व २१ तान्यपि वासव १७ तान विमान १८ ते द्रुतमक्ष ३८ तेनव समस्तारि ४८ ते शय्यासु ७२ कामो देवारि २९ सौ च सदानव १४ स्यक्तसुहत् ४५ प्रस्तारिपुं ५४ त्रिजगत्समर ५८ खामवदातारम्भो ५० 114 107 19 73 12 98 52 26 प्राथ्यों हि 39 64 56 37 120 68 पुरता ४७ 78 / ववन्धुरेव ६॥ 122 118 59 85 बभ्रुकराळं ॥ बुद्धिरजाबाधातः ५४ मनसः सद्योगेहात् ॥ 67 87 35 १२० श्लोक: पुटम् | श्लोक पुटम् I17 47 I 28 53 122 62 48 23 96 वतममलं ३ 14 61 16 117 81 मनसा सुरसमुदाय २३ मम पुनरपरा ७ मुक्त्वा शम्भावयति ३१ मुक्त्वा हास १६ यं वा काळी १० ये विविध १२ यत्र च लोलं ३९ यत्र न मन्दा ४. यत्र सदानव ३६ यत्र हि सयोग ११ यसमवेता १८ यदि वो माने ३३ यदिहैवायात्यन्तं २४ याधि नाना ३८ यद्वपुरोङ्कारो हि ५९ यद्वयमतसीदाम ५ यस्य च विलसनेत्र २१ यस्य च वेकुण्ठेषु १६ यस्य मरुद्वाज १२ यस्य विलोकन १४ या वागकर्तारं ३४ या हतसुर . युगमवजानानं ४६ येऽखिलयोनिं ५२ येन च कालो २ येन रिपूष्णोदन्त २० येन सशङ्कालस्यः १९ योऽवति गामपि १५ योगो भावी ३९ यो ज्यायानेषु.४ 100 रणभूमिषु चापादि ५१ 70 लक्ष्मीवांसं ६४ 106 | वपुरति , 60 वरमादाय ३४ 161 विकसित 58| विपिनं ६. 32 | विप्रततावध्याय १९ 32 विरहिभिराशा ६५ 29 वृत्तौ राजस्यां २८ 58| वेदांश्चक्रे १७ 16 72 / शक्तिरकम्पा 10 65 | शत्रुषु दाहं ४९ शिखिनिकरोपम! ५१ 30 121 शुभकर्मा ना ५० 55. शूराः २७ 18 श्राव्या २६ श्वान: ५५ 15 स च हन्तेह ३३ 12 स ज्ञानी १८ 14 सत्फलकैरत्राप्ति ५२ 72 I12 सत्वरगत्या २५ 79 | सत्सु शरास १३ 83 | समजनि २७ 4 स विधातेत्यर्थनतः३. 18 स हि तपनानल ५८ 17 सा जनता ६. 15 | साधूनां . 110 सावयवत्वादेव ५५ 35 सचिरमिहासा ४४ 6 सोऽपि बली ३६ 50 स्वीघटयामा ६९ 22 67 41 27 97 40 21 95 104 25 12I 45 8 85 113 यो भासा ५ यो भुवने ७. 109 50

१२८
लोकः
पुटम् | श्लोकः
पुटम्
47
स्त्री चतुरा ६६
9
49 स्वगुणमपार ।
5वपद ८
68|स्वपशं ५५
106 हरिरपि ५९
36
स्याद्यदि २९
स्वकारेऽभीशून् ३.
44
DONATED TO
TTD CENTRAL L!BRARY

No text on this page.

Tripuradahanamu

Author
Suranada Kunjan Pillai
Title
Tripuradahanamu
File name
Tripuradahanamu
Text
OCR done
Citation
1957
Published
2005/08/19
Publisher
The S . V . G . Press, Trivandrum .
Language
Sanskrit
Pages
135
Library
Donor
Classification
Poetry. Poems. Verse
Keywords
The S . V . G . Press
DLI number
496020
Barcode
2990100073085.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
yHWUB7xQwX1
Download PDF

Tripuradahanamu