Scl

Parama Laghu Manjuaha Of Nagesh Bhatt

Pandith Nityananda Panta Parvatiya

PDF Proofread

Front matter

परिभाषेन्दुशेखरः 'वृहच्छास्त्रार्थकला' टीका. प्रश्नोत्तरी तथा नाना परिष्कारादि संचलित वृहत्परिशिष्टों से विभूषित । विजया, भूति आदि ख्याति प्राप्त सभी टीकाएँ इसमें गतार्थ हो चुकी हैं बहुत से दुष्प्राप्य कोड़-पत्रों को संकलित कर पूर्व प्रकाशित उन सभी टीकाओं के गुण-दोषों की समालोचना करके प्रस्तुत संस्करण प्रकाशित किया गया है मनोरमाशब्दरत्नप्रश्नोत्तरी इसमें हर एक प्रश्न का उत्तर इस तरह लिखा गया है कि अभ्यास करलेने पर बिद्यार्थी परीक्षा में पूरी सफलता प्राप्त कर लेंगे तथा ग्रन्याशय का भी पूरा ज्ञान हो जायगा। प्रथम खण्ड ॥) द्वि. तृ० खण्ड ) परमलघुमञ्जूषाप्रश्नोत्तरी। यन्त्रस्थ ग्रहलाघवम् विश्वनाथकृत व्याख्योदाहरणयुत-नूतनोदाहरणोपपत्ति संवलित माधुरी नामक संस्कृत हिन्दोटीका द्वयोपेतम् । आज तक इस ग्रन्थ की कोई भी ऐसी सरल टीका नहीं थी जिससे विद्यार्थी सुलभता पूर्वक प्रन्थ का आशय समझ कर परीक्षामें पूरी सफलता प्राप्त कर सकें। विश्वनाथी टीका के साथ इसकी माधुरी नामक परीक्षोपयुक्त संस्कृत हिन्दी टोकामें प्रन्याशय को अत्यन्त सरल शब्दों में समझाया गया है एवं विश्वनाथी उदाहरण के अतिरिक्त नवीन उदाहरण तथा उपपत्ति भी यथा स्थान दे दी गई है जिससे इस संस्करण का महत्व और भी बढ़ गया है। ३॥) सूर्यसिद्धान्तः तत्त्वामृतभाष्योपपत्ति-टिप्पणीभिः सहितः। पूर्व प्रकाशित सभी टीकाओं के गुण दोषों की समालोचना करके प्रस्तुत संस्करण प्रकाशित किया जा रहा है। बड़े बड़े विद्वानोंने उपर्युक्त तत्त्वामृतभाष्य को निरीक्षण करके मुक्त कण्ठ से इसकी प्रशंसा की है । सूर्यसिद्धान्त का ऐसा प्रशंसनीय संस्करण यह प्रथम बार ही प्रकाशित हो रहा है शीघ्र प्राप्त होगा। प्रातिस्थानम् --चौखम्बा सस्कृत पुस्तकालय, बनारस सिटी। -

TBE
HARIDAS SANSKRIT SERIES
43.
THE
Parama Laghu Manjus'a
OF
NAGES'A BHATTA
WITH NOTES
BY
M. M. PT. S'RĪ NITYANANDA PINTA PARVATĪYA,
edited with the Arthadipika Commentary
By
PANDIT S'RĪ SADĀS'IVA S'ARMÀ S'ĀSTKI
PUBLISHED BY
JAYA KRISHNA DAS HARIDAS GUPTA
The Choukhamba Sanskrit Series Office,
Benares City.
1946,

[ Registered According to Act XXV of 1867.]
( All Rights Reserved by the Putlishers.)
0 RTL
PUBLISHED BY
JAYA KRISHNA DAS HARI DAS GUPTA
The Chowkhamba Sanskrit Series Office,
BENARES
Printed at the Vidya Vilas Press, Benares.
1946

|| श्रीः । * हरिदास-संस्कृत-ग्रन्थमाला *- ४३ महामहोपाध्याय पं० श्रीनागेशभट्टकृत- परमलघुमञ्जूषा महामहोपाध्याय- पण्डित श्रीनित्यानन्दपन्तपर्वतीय- कृत टिप्पणी सहिता। साच- टीकमगढस्थदेवेन्द्र साहित्यविद्यालयप्रधानाध्यापक- साहित्योपाध्यायव्याकरणाचार्यपदवीकजोशोत्युपाह्व- पण्डित श्रीसदाशिवशास्त्रिणा संशोधिता स्वकृतार्थदीपिकाख्यव्याख्यया च संयोजिता ! [द्वितीयं संस्करणम्] प्रकाशक:- जयकृष्णदास-हरिदास गुप्तः- चौखम्बा संस्कृत सीरिज़ आफिस, विद्याविलास प्रेस, वनारस सिटी। सं० २००३ मूल्य ११) [१६४६ ई० राजशासनानुरोधेन सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः।

॥ श्रीः॥ अथ परमलघुमञ्जूषास्थप्रकरणानाम् अनुक्रमणिका-- पृ० अंक ..... १ २२ २४ ... ... ३३ ऋ०० प्रकरणनाम १ क्तिविचारः २ लक्षणाविचारः ३ व्यञ्जनाविचारः ४ स्फोटविचारः ५ अाकासाविचारः ६ योग्यताविचारः ७ आसत्तिविचारः ८ तात्पर्यविचारः ६ धात्वर्थविचारः १० निपातार्थविचारः २१ लादेशार्थविचारः १२ कारकविचारः १३ नामार्थविचारः १४ समासादिवृत्यर्थविचारः ३८ ... ३ ... ... ७५ ६२ .... इति परमलधुमञ्जूषास्थप्रकरणानामनुक्रमणिका ॥

भूमिका। अथ खलु पूज्ये धराहृदये कर्मभूम्यभिधेऽस्मिन्भरतखण्डे को नाम विलक्षण- घिषणो विचक्षणो न विजानाति यत्किल सत्स्वपि प्रमाणान्तरेषु व्यवहारप्रवर्त- केषु प्रत्यक्षादिषु तेषां मूर्धन्यभूतो वेद एव सर्वोत्कर्षण प्रमाणमिति । वेदस्य लक्षणन्तावत्प्रामाणिकैस्तत्रभवद्भिर्महर्षिवर्यश्च-इष्टप्राप्तयनिष्टपरिहारयोरलौकि- कमुपायं यो ग्रन्थो वेदयति स वेद' इत्युररीकृतम् । अत्रालौकिकपदेन प्रत्यक्षानु- मानयोावृत्तिः । अनुभूयमानस्य स्रक्चन्दनवनितादेरिष्टप्राप्तिहेतुत्वम् , औषध- सेवनादेरनिष्टपरिहारहेतुत्वञ्च प्रत्यक्षतः सिद्धम् । स्वेनानुभविष्यमाणस्य पुरुषान्तर- गतस्य च तथात्वमनुमानगम्यम् । अनेनैव पथा भाविजन्मगतसुखादिकमपि अनु. मानगम्यमिति चेत् , न । तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्ति- हेतुः, कलाभक्षणवर्जतादिरनिष्टपरिहारहेतुरित्यमुमर्थ वेदव्यतिरेकेणानुमानसहस्र- णापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति । , अत एवोक्तम्- प्रत्यक्षेणानुमित्या वा यस्तूपाया न बुध्यते । एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।। इति । मन्त्रब्राह्मणात्मकत्वं तावददुष्टं वेदस्य लक्षणम् । तथाहि श्रूयते-“मन्त्रना- झणयोर्वेदनामधेयम्” इति । अत्रभवतोभौरुषेयस्य वेदस्यान्यल्लक्षणं भवितुं नाहति । अव्याप्तयतिव्याप्तिदोषसद्भावात् । एवञ्चास्य भगवतो वेदस्य प्रामाण्यं बोधकत्वात्स्वत एव सिद्धम् । पौरुषेयवा- क्यन्तु बोधकं सदपि पुरुषगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाण - मपेक्षते । न तथा वेदः । तस्य नित्यत्वेन वक्तृदोषशङ्कानुदयात् । अत्र जैमिनिः- पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता। काठकादिसमाख्यानाद्वाक्यत्वाचान्यवाक्यवत् ॥

भूमिका। समाख्यानं प्रवचनाद्वाक्यत्वं तु पराहतम् । तत्कनुपलम्भेन स्यात्ततोऽपौरुषेयता ॥ ( जै० न्या. मा० १।२६८) मनु भगवता बादरायणेन वेदस्य ब्रह्मकार्यत्वं सूत्रितम्-"शास्त्रयोनित्वात्। इति ( वे• सू० १३१।३) । ऋग्वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञमिति सूत्रार्थः । बाढन् । नैतावता पौरुषेयत्वं भवति, मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषेयत्व- मभिप्रेत्य व्यवहारदशायामाकाशादिवन्नित्यत्वं बादरायणेनैव देवताधिकरणे सूत्रि. तम् "श्रत एव च नित्यत्वम्" इति (वे. सू० १।२।२६)। श्रुतिस्मृती चात्र भवतः "वाचा विरूपनित्यया"। ( ऋ० ८७५/६ ) इति । स्मृतिः अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा। श्रादौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति । तस्मात्कतृदोषशङ्काया अनुदयात् मन्त्रब्राह्मणात्मकस्य वेदस्य यथार्थ प्रामा- यं सिद्धम् । अतोऽस्य परमपूतस्य भगवतो वेदस्योपासना द्विजातिभिरवश्यं विधेयेति सर्वत्र मुक्तकण्ठेन निगदन्ति श्रुतिस्मृत्यादयः । श्रुतिः-"विद्य वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति, परा चैवापर च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा, कल्यो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति । अथ-परा यया तदक्षरमधिगम्यते" (मुण्ड० २११४) इति ! स्मृतिः- योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ।। इति । तत्रभवान् पतञ्जलिरपि-"ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो शेयश्च" इत्यादिना द्विजातीन् बाढं वेदाध्ययने प्रवर्तयतीत्यलम्बहुना । यश्च किल द्विजन्मा वेदमधीत्यापि अर्थ न विजानाति सोऽयं पुमान् भारमेव वहति । "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकनंति ज्ञानविधूतपाप्मा" इतिश्रुतेः । तस्माद्विजातीनाम- र्थज्ञानाय शिक्षादिषडङ्गानामध्ययनमपि न हेयम्भवतीति निश्चप्रचम् । - ३ भूमिका। शिक्षायाम्-वर्णस्वरायुच्चारणप्रकार उपदिष्टः । छन्दसि--मगरणयगणादि. माध्यो गायत्र्यादिविवेको निर्दिष्टः । कल्पे-यागप्रयोगः । ज्यौतिषे कालविशेपे यागविशेषः । निरुक्ते-अर्थावबोधे निरपेक्षतया पद जातमुक्तम् । एवं व्याकरणोऽपि- अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययैः वैदिकलौकिकशब्दानां व्युत्पत्तिः प्रदर्शिता । तस्मात्लाङ्गमधीत्येव ब्रह्मलोके महीयने । इति पाणिनीयशिक्षातः "दु विद्ये वेदितव्ये' इतिमुण्डकोपनिददश्य न शङ्कालेशो विलसति साजोवेदाध्ययने द्विजातीनाम् । तत्स्वपि मर्वेषु व्याकरणेषु सावलौकिदिकादानां नितरां व्युत्पादक जावत्पाणिनीयव्याकरणमेव । पाराशरोयपुराणे- पाणिनीयं महाशास्त्रं पदमाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ।। १ ।। श्रीमत्पाणिनीयव्रतीतरतपस्यासन्तोपितमहेश्वरवरलब्धचतुर्दशसूत्रस्याम्नायत्वं वरीवर्तीति तन्मूलकत्वादस्यैव पाणिनीयव्याकरणस्य वेदाङ्गत्वम् । अत्र प्रमाणं पाणिनीयशिक्षावचनम्- 'येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम्" (पा०शि० ५७ ) ॥ अत एव “सोऽयमक्षरसमाम्नायः पुष्पितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो ब्रह्मराशिः” इति भाष्यमुपादायोकं भर्तृहरिणा--"यथैवेदमव्युच्छिन्नं चन्द्रता- रकादि एवमस्याक्षरसमाम्नायस्य न कश्चिद् अाधुनिकः कर्तास्ति । अक्तन्त्रव्या- करणे शाकटायनोऽपि—“इदमक्षरच्छन्दो वर्णशः समनुक्रान्तं यथाऽऽचार्या अचु. ब्रह्मा बृहस्पतये प्रोवाच, बृहत्सतिरिन्द्राय इन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते, न भुक्त्वा न नक्तं प्रबेयाब्रह्मराशिः' इति ॥ भवति च निश्चप्रचं तत्रभवताम्भवतां विपश्चितां वेदाङ्गत्वेन सार्वलौकिकवैदि- कशब्दानां नितरां व्युत्पादकत्वेन चाखिलभारतवर्षे विशेषतश्च तेषु तेषु विद्यापी- ठेषु वाराणस्यादिमाननीयप्रदेशेषु च पठनपाठनपथा सर्वत्रातिशेते पाणिनीयव्या. करणमेवेति । तत्र तत्रभवता भगवता पाणिनीयमुनिना विरचिताङ्कुरोपण महर्षिणा पूज्य- भूमिका । पादेन श्रीकात्यायनेन विरचितपल्लवे श्रीमता भगवता भाष्यकारेण पतञ्जलिमह- र्षिणा बाढीकृतस्कन्धेऽत्र शाखिनि समाररूक्षणां तत्फलस्वादरसिकानां सुखसमारो- हणाय विरचिताः सोपानपरम्परा इव नानायिधाः प्रबन्धाः पण्डितप्रकाण्डर्मान्य वरैर्मनीषिभिः । तेषु प्रबन्धेष्वद्य श्रीमन्महामहोपाध्यायनागेशभट्टकृत-'परमलधुमञ्जूषा' वैया. करणाभिमतभाष्यसिद्धान्तरत्नानि बिभर्ती मञ्जूषेव तत्रभवताम्भवतां करकमलेषु सादरं समय॑ते। श्रीमन्महामहोपाध्यायनागेशभट्टाः 'काले' इत्युपनामका महाराष्ट्रीयब्राह्मणा तीव्रतरतपस्यासन्तोषितवागीश्वरीवरलब्धवैदुषिकाः, कृतवाराणसीवास्तव्याः सती- गर्भजाः श्रीशिवभट्टतनुजन्मानः श्रीहरिदीक्षितगुरुवर्यैरपि प्रशंसिताः शब्देन्दुशेख- राद्यनेकग्रन्थकतार इत्यादि तत्तनागेशभट्टकृतग्रन्थोल्लेखात्किञ्चिज्ज्ञायते तत्रभवतां ग्रन्थकृताम्परिचयः। इयं परमलघुमञ्जूषा लघुत्वात्सङ्क्षेपतो वैयाकरणसिद्धान्तानां प्रदर्शिकेति तस्या व्याख्यानं परीक्षादिसूनां छात्राणामुपकाराय कर्तव्यत्वोनत्यावश्यकतया विद्याविलासमुद्रणालयाध्यक्षेण व्याकरणाद्यनेकग्रन्थप्रकाशकेन श्रीहरिदासगुप्ता. स्मजजयकृष्णदासश्रेष्ठिना व्याख्यानसंशोधनकर्मण्यनेकदा प्रार्थितोऽहम्-अर्थदीपि- काख्यव्याख्यां व्यरीरचम् । तस्यां व्याख्यायां प्राधान्येन तत्तन्मतस्य स्पष्टीकरणं स्वसिद्धान्तानाम्प्रदर्श- नम् , प्रतिकूलमतानां प्रत्याख्यानं तत्तत्पदार्थानां निर्दृष्टं लक्षणमित्यादि च प्रदर्शितम् । अपरश्च छात्राणामधिकलाभाय विदुषां कौतुकाय च महामहोपाध्यायश्रीनि. त्यानन्दपन्तपर्वतीयकृतटिप्पण्येयं परमल घुमञ्जूषासालस्कृता, अर्थदीपिकया च संवलिता यथाशेमुषि मया संशोधिता। तत्र तावद्गच्छतस्खलनन्यायान्मतिमान्द्याद् दृष्टि दोषान्मुद्रकदोषाद्वा काचना शुद्धिः स्यात्तां गुणैकपक्षपातिनो विद्वांसो निरस्य मामनुगृह्णन्विति साञ्जलि बन्धं प्रार्थयते। विदुषामनुचरः- जोशीत्युपा सदाशिवशास्त्री ॐ श्रीगणेशाय नमः। परमलघुमञ्जूषा शिवं नत्वा हि नागेशेनानिन्द्या परमालधुः ।। वैयाकरणसिद्धान्तमञ्जषैषा विरच्यते ॥१॥ अथार्थदीपिका-प्रारम्भः। यस्य स्मरणमात्रेण प्रत्यूहा यान्त्यधीरताम् । यं नत्वा कृतकृत्याः स्युस्तं वागीशमहं भजे ॥१॥ दामोदरतनूभृतः राधादेव्यास्तु गर्भजः । सदाशिवामिधानोऽयं कौण्डिन्यकुलभूषितः ॥२॥ स्मृत्वा गुरुपदाम्भोजं नत्वा पिनोः पदाम्बुजम् । वैयाकरणमञ्जूषार्टीको कुर्वेऽर्थदीपिकाम् ॥ ३ ॥ ॐ "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युः इति वृद्धिसूत्रस्थमाध्या. दिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै व्याख्यातृश्रोतृणामनुः षडतो मङ्गलाय च निबन्धाति-शिवमित्यादिना । शिवं निस्वैगुण्यमङ्गलस्वरूप 'शिवमद्वैतं चतुर्थ मन्यन्ते इति श्रुतेः। ननुनिर्गुणमूतेनतिप्रयोजकाकारवत्वाभावे नत्य- सम्भव इति चेत्, न शेते अस्मिञ्जगदिति शिवस्तमित्यर्थात् । संहारमाकिमतो. ऽप्याशुतोषत्वात्तनमस्कारोऽपि मङ्गलायैव भवतीति न कश्चिद्विरोधः। अथ वा शिवं शिवसह स्वपितरमित्यर्थः । *नवेति । अञ्जलिाशसंयोगादिव्यापारेण तोषयि- स्वेत्यर्थः । स्वनिष्ठापकृष्टत्वप्रकारकबोधानुकूलव्यापाररूपनमस्कारो नमधात्वर्थः ।। *नागेशेनेति । रनु- आत्मनाम गुरोनाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः । इत्यात्मनामोच्चारणप्रयुक्तो दोषः कूपखानकन्यायेन समाधेय इति तन्त्र । नान्तरी- यकपापनाशस्यवतन्न्यायविषयत्वात् आत्मनामोच्चारणस्य ग्रन्थकरणमान्तरीयकत्वा;

२ परमलघुमञ्जूषायाम्- तत्र वर्णपदवाक्यभेदेन स्फोटबिधा। तत्रापि जातिव्यक्तिभेदेन पुनः पोढा । अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः। तत्र वाक्यस्फोटो मुख्यः, तस्यैव लोके ऽर्थबोधकत्वात्तेनैवार्थसमाप्तेश्चेति । तदाह न्यायभाष्यकार:-"पदसमूहो वाक्यमर्थसमाप्तौ” इति । अस्य समर्थ- मिति शेषः। तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाद् वाक्यान्वाख्यानस्य लधू- पायेनाशक्यत्वाच्च कल्पनया पदानि प्रविभज्य पदे प्रकृतिप्रत्ययभागान्प्र- विभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभाग शास्त्रमात्रविषयं परिकल्पयन्ति स्माचार्याः। -- भावात् । नच "आत्मनाम" इति निषेधात्स्वनामोपादानमनुचितमिति वाच्यम् । "आत्मनाम इति स्मृतौ 'न गृहीयात्' इत्यस्य नोच्चारयेदित्यर्थेन लेखने दोषा- भावात् । अत एव "गोनर्दीय माह" 'भट्टोजीदीक्षितकृतिः' इत्यादि सर्वो व्य. वहारः सङ्गच्छते। *वैयाकरणसिद्धान्तमञ्जूषेति । चैयाकरणानां पाणिन्यादीनां ये सिद्धान्तास्तेषां मञ्जूषेव मञ्जूषा। यथा सम्पुटका सकलमणीमुक्तादीनां सङ्ग्राहकः, तथा अयमपि मम्जू. पाख्यो ग्रन्थः सकलवैयाकरणसिद्धान्तसमाहक इति भावः । एतेन वैयाकरणभूषणे- नेदं गतार्थमित्यपास्तम् । तत्र सकलसिद्धान्ताभावात् । एषेति । भाविनोऽपि बुध्या विषयोकरणादेषेति निर्देशः । तत्रेति । सकलसिद्धान्तानां मध्ये। *तनापीति । त्रिविधेष्वपीत्यर्थः। *अष्टौ स्फोटा इति । वर्णस्फोटः, पद- स्फोटः, वाक्यस्फोटः, अखण्डपदस्फोटः, अखण्डवाक्यस्फोटः, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटाः, सङ्कलया मष्टाविति भावः । *स्फोट इति । स्फुटति प्रकाशते अर्थो अस्मादिति व्युत्पत्यापङ्कजादिपदवद्योगरूढःस्फोटशब्दः । तस्यैवेति । वाक्यस्फो. टस्यवेत्यर्थः, शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण प्रथम तत्रैव शक्तिग्रहादिति भावः । तेनैवेति वाक्येनैवेत्यर्थः। अर्थसमावेरिति । निराकाक्षस्य वाक्यार्थस्य तत एव ज्ञानेन वाक्येनैव वाक्यार्थस्य पूरणत्वादित्यर्थः। पदसमूह इति । सुबन्त. समूहः, तिङन्तसमूहः, सुबन्ततिडन्तसमूहश्चेत्यर्थः । न तु शक्तं पदमिति भावः । *सङ्के. तमहासम्भवादिति । शक्तिमहासम्भवादित्यर्थः । *कल्पनयेति । वाक्ये पदानि प्रकल्प्य पदे च प्रकृतिप्रत्ययभाग प्रकल्प्य कल्पिताभ्यां अन्वयव्यतिरेकाभ्यां प्रकृति प्रत्ययार्थाः कल्पिताः इत्यर्थः । शास्त्रमात्रविषयमिति। शास्त्रीयप्रक्रियोपयोगी लोके वाक्यस्यैव बोधकत्वादित्यर्थः । शास्त्रोयकार्यस्मरणपूर्वकप्रयोगे एवं धर्मोत्पत्तेः । अत एव भाष्ये उक्त 'एकः शब्दः सम्यक्ज्ञातः सुष्टुप्रयुक्तः स्वर्ग लोके च काम- धुक् भवति इति । कल्पयन्तीति। अन्यथानुपपस्येति भावः । *माचार-पा. ।

शक्तिविचारः। तत्र शास्त्रप्रक्रियानिर्वाहको वर्णस्फोटः। प्रकृतिप्रत्ययास्तत्तदर्थवाचका एवेति तदर्थः । उपसर्गनिपातधात्वादिविभागोऽपिकाल्पनिकः। स्थानिनो लादय आदेशास्तिबादयः कल्पिता एव । तत्र ऋषिभिः स्थानिनां कल्पिता अर्थाः कण्ठरवेणैवोक्ताः। आदेशानां तु स्थान्यर्थाभिधानसमर्थस्यैवादेशते- तिभाष्यात्तेऽर्थाः : एवं च स्थानिनां वाचकत्वमादेशानां वेति विचारो निष्फ- ल एव । कल्पितवाचकत्वत्योभयत्र सत्त्वात्। मुख्यं वाचकत्वं तु कल्पन- या बोधितसमुदायस्पे पदे वाक्ये वा, लोकानां तत एवार्थबोधात् । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः । णिन्यादयः। *शास्त्रप्रक्रियेति । प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् तिप् इत्यादिकस्य निर्वाहक इति भावः । *वर्णस्फोट इति* ! वर्णस्फोटः इत्यस्य वर्णाः वाचका इत्यर्थो न सम्भवति. अर्थबोधानुकूला शक्तिः वर्णसमूहे एव पर्यायान प्रत्येक, तथा सति प्रत्येक अर्थवत्वात्प्रातिपदिकसंज्ञापत्तौ धनं वन इत्यादौ नलोपा- द्यापत्तः। *प्रकृतीति । प्रक्रियते प्रत्ययात्पूर्व क्रियते इति प्रकृतिरिति केचिदाहुस्तन्त्र समीचिनम् । बहुपटुरित्यत्र अन्याः। किन्तु प्रत्ययविधौ उद्देश्यतावच्छेदकाक्रान्तत्व- म्प्रकृतित्वम् । *काल्पनिक इति । परमार्थतस्तु स्फोट एव'अर्थवान , प्रकृतिप्रत्यय- विभागस्तत्तदर्थविभागश्च सोऽपि कल्पित एवेति माध्यसिद्धान्तः । *कण्ठरवेणेति। "लः कर्मणि च" इत्यादिना स्थानिनामेवार्थाः उक्ता नत्वादेशानामिति । *आदेशाना- मिति । यस्य स्थाने यः प्रयुज्यते स तमेवार्थम्बोधयति, यथा-पादशब्दस्य स्थाने कृतः पदादेशः, यथा वा क्रोष्टुशब्दस्य स्थाने कृतः क्रोष्ट आदेशः हति भावः । *एव- चेति । मुख्यवाचकस्य पदे एव सत्वाच्च । निष्फल एवेति । व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव वाचकत्वम् । अत्र वाचकत्वन्तु कल्पितमेव । सा कल्पना आदेशे, उत स्थानिनि, विनिगमनाविरहादुभयत्रापि सम्भवतीति स विचारो निष्फल इति भावः । *उभयत्रेति । स्थान्यादेशयोः । *पदे*-सुप्तिङन्ते, न तु 'शळं पदम् इति नैयायिकपरिभाषिते । *वाक्ये एकतिङन्तार्थमुख्यविशेष्यके । *लोकानामिति । लोकानां शक्तिग्राहकवृद्धव्यवहारेण शिरोमणिना तत एव बोधादिति भावः । *उपेयप्रतिपत्यथेति । उपेयस्य प्रतिपत्यर्थ ज्ञानार्थ उपायाः वर्णस्फोटादि- रूपाः अव्यवस्थिताः । यथा-आनन्दवल्ल्यां शुद्धब्रह्मज्ञानार्थ अन्नमयप्राणमयमनोम. यविज्ञानमयानन्दमयेति पञ्चसु कोशेषु अपारमाथिकब्रह्मत्वप्रतिपादनमुपायः, यथा वा अरुन्धतीज्ञानार्थ स्थूलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम् , तथा पारमार्थिका खण्डवास्यबोधार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः।

४ परमलघुमञ्जूषायाम्- इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न क्षतिः देशभेदेन लि. पिभेदवदिति दिक् । तत्र "प्रत्यक्षानुमानोपमानशब्दा: प्रमाणानि" इति गौतमसूत्रे शब्द श्चाप्तोपदेशरूपः प्रमाणम् । आप्तो नामानुभवेन वस्तुतत्त्वस्य कान्येन निश्चयवान् , रागादिवशादपि नान्यथावादी यः स इति चरके पतञ्जलिः। तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरू- उपायाः शिक्षमाणानां बालानामुपलालनाः। असत्ये वत्मनि स्थित्वा ततः सत्यं समीहते। इति । व्याकरणभेदेन स्थानिनामनियतत्वान्न वाचकत्वमिति मतं निराकरोति- *व्याकरणेति । लिपीति । मिन्नानामपि लिपीनां बोधकत्ववदिति भावः । *दि. गिति* । दिगर्थस्तु-वृत्तिषु एकार्थीभावः, नामार्थयोः प्रकृतिप्रत्यययोरित्यादिकमपि कल्पिामति । एवं वाक्यस्य शब्दस्य वाचकत्वमुक्त्वा तस्य प्रामाण्यमाह-*तन्त्रेति । प्रत्यक्षेति । प्रत्यक्षप्रमायाः करणं प्रत्यक्षम् -इन्द्रियसन्निकर्षजन्यं ज्ञानम् , अथवा ज्ञानाजन्यज्ञानत्वम् , ज्ञानाकरणकज्ञानत्वम्वा। अनुमितिकरणमनुमानम् , अथवा व्याधिज्ञानकरणकं ज्ञानमनुमितिः । सादृश्यज्ञानकरणकं ज्ञानमुपमितिः । शब्दज्ञानकरणकं ज्ञानं शाब्दबोधः। एतेषु प्रमाणेषु मध्ये शब्दप्रमाणमाह- *शब्दश्चेत्यादिना*। *आसोदेश इति । आप्तकर्तृकोच्चारणविषय इति भावः। यद्वा आतापदेशेन वृद्धव्यवहारेण आप्तकर्तृककथनमात्रेण रूप्यते गृह्यते इति आमोदेशः । *आलो नामेति । आप्तत्वञ्च-रागमोहादिहिनत्वे सति कृत्स्नवस्तुनिश्चयवत्वम् । संशयव्यावृत्तये-निश्चयेति । सरागादिनिरासाय-रागादीति। यद्वा अर्थतत्वज्ञान- माप्तिः, तथा प्रतीत इत्यातः । *चरकेइति । पतञ्जलिमहर्षिप्रणितचरकग्रन्थे इत्यर्थः।। *पतञ्जलिरिति । व्याकरणमहाभाष्ययोगभाष्यकारः। ननु प्रमाणत्वं प्रमाकरणत्वं तच्च तादृशशब्दस्य चेत्तर्हि सर्वस्य श्रोतुस्ततो बो- धापत्तिरत आह-*तद्धर्माच्छिन्नेति । तद्धमावच्छिन्नेति। घटत्वावच्छिनविष. यकवृत्तीत्यर्थः । ज्ञाने वृत्तिवैशिष्ट्य सामानाधिकरण्येन बोध्यम् । ज्ञानाधिकरणत्वं विषयतति भावः । अत्र ताकिकाः वृत्तिज्ञानपदज्ञानयोः पृथक्हेतुत्वमिच्छन्ति । शाब्दिकैस्तु लाघवाद्विशिष्टस्यैव हेतुत्वमुक्तम् । ननु शाब्दिकानामपि वृत्तिविषयकोबुद्धसंस्कारसामानाधिकरणवृत्याश्रयपद. विषयक ज्ञानस्य हेतुत्वे गौरवमिति चेन्न । सामानाधिकरण्यादीनां सम्बन्धकोटौ निवे. शात् । यस्य घटादिपदस्य वृत्तियिते तन्न पदेवृत्तिविषयकसंस्कारो ज्ञानं चेत्युभयमपि - . शक्तिविचारः ५ पितवृत्तिविशिष्टज्ञान हेतुः । अत एव नागृहीतवृत्तिकस्य शाब्दबोधः। अत एव च (१)नहि गुड इत्युक्त मधुरत्वं प्रकारतया गम्यते” इति समर्थसूत्र भाष्यं सङ्गच्छते । गुडादिशब्देन गुडत्वजात्यवच्छिन्नो (२)गुडपदवाच्य इत्येव बोधो जातिप्रकारकः । मधुरत्वं तु 'गुडो मधुर ऐक्षवत्वाद्'इत्यनु- मानरूपमानान्तरगम्यम् । विशेष्यविशेषणभावव्यत्यासेन गृहीतशक्तिकस्य पुंसो घटपदाद् घटत्वविशिष्टवोधवारणाय तद्धर्मावच्छिन्नेति। ज्ञाने वृत्तिवै- शिष्टयं च स्वविषयकोवुद्धसंस्कारसामानधिकरण्य-स्वाश्रयपदविषयकत्वो भयसम्बन्धेन बोध्यम् । अतो नागृहीतवृत्तिकस्य, नापि विस्मृतवृत्तिकस्य, विषयतयास्ति, वृत्याश्रयपदविषयकं च तज्ज्ञानम्। विशिष्टज्ञानमिति वैशिष्टयञ्च अनु. पदमेव मूले वक्ष्यते । *अत एवेति । उक्तसमुदितस्य कारणत्वादेवेत्यर्थः। *नागृहीत. वृत्तिकस्येति । वृत्तिविषयकसंस्काराभावात्। *मधुरत्वमिति मधुरत्वप्रकारकबोधा. दर्शनात्। *मानान्तरगम्यमिति । मधुरत्वस्यानुमानेन ध्यानया मनसा वोपस्थिति. रित्यर्थः। तार्किका: ज्ञानलक्षणाजन्यं वदन्ति । अलङ्कारिकाः व्यञ्जनाजन्यं वदन्ति । अन्येऽनुमानजन्यं वदन्ति । अनुमानश्चेत्यम्-गुडो, मधुरः । ऐक्षवत्वात् । यो यो मधु- रत्वाभाववान्, स स इक्षुविकारत्वाभाववान् । यथा-पिचुमन्द इति । वारणायेति। घटत्वविशेष्यकशक्तिग्रहानन्तरं घटत्वप्रकारकशाब्दबोधवारणायेत्यर्थः। तद्धर्मावच्छि. न्नेति । नन्वेवंत्यदादीनां बुद्धिस्थत्वावच्छिन्ने शक्तिग्रहात् तमानयेत्युक्त वुद्धिस्थ. मानयेत्येव बोधः स्यान्न तु घटत्वादिविशेषरूपेण । अत एव वह्निव्याप्य भूमवत्पर्वत तच्छब्देन परामृश्य सवह्निमानिति वाक्यजन्यशाब्दबोधे परामर्शजन्यत्वेनानुमितिल. क्षणातिव्याविरुक्ता दीधिताविति चेदवाहुः । सामान्यरूपेण शकावपित्यदादितो विशेषरूपेणवोपस्थितिः। उपस्थितिशक्तिपहयोः समानाकारकत्ववादस्तु त्यदाधः तिरिक्तविषय इति घटत्वादिविशेष एव शक्यतावच्छेदकः । यद्वा त्यदादीनां नामार्थः त्वमिष्टमेवेति केचित् । *स्वविषयकेति । वृत्तिविषयको य उबुद्धसंस्कार, तत्सा- मानाधिकरण्यं वृत्याश्रयपदविषयकत्ववेत्यर्थः । अस्ति च घटपदार्थनिरूपिनवृत्तिविष- यक उबुद्धसंस्कारः, विषयतया घटपदज्ञानं च। अयम्भावा-घटादिपदस्य घटत्वादिविशिष्टे शक्तिरित्यादिवृत्तिविशेष्यकज्ञाना. नन्तरं तत्समानाकार एवं संस्कार उत्पद्यते । तादृशसंस्कारविशिष्टं पदज्ञानं शाब्दबो धे हेतुरिति । स्वाश्रयेति । स्वाश्रयपदेत्यस्य फलं तद्वाचकपदाज्ञानवतो न बोधाइति ज्ञेयम् । नागृहीतस्येति । वृत्तिविषयसंस्कारामावादिति भावः। विस्मृतेति ! (१) गुड इत्युक्ते मधुरत्वं प्रकारतया नहि गम्यत इत्यन्वयः । (२) इदं शब्दस्य बोधविषयत्वाभिप्रायेणोक्तमिति बोध्यम् । ।

६ परमलघुमञ्जूषायाम् । नापि तत्पदमजानतो, नापि घटपदाश्रयत्वेनोपस्थिताकाशस्य, नापि जन- कत्तयोपस्थितचैत्रादेश्व बोधः। संस्कारकल्पिका च वृत्तिस्मृतिरेव(१)शाब्द- बुद्धिरेव वेत्यन्यदेतत् । सा च वृत्तिस्त्रिया-शक्तिलक्षणा व्यञ्जना च। तत्र शक्तिः कः पदार्थ इति चेत् । अत्र ताकिकाः-'अस्माच्छब्दादयमों बोद्धव्यः' इत्याकारा 'इदं पद- मिममर्थ बोधयतु' इत्याकारा वेश्वरेच्छा शक्तिः लाघवात् । सैव सङ्केतः सम्बन्धः शक्तर्यद्यपि विषयत्वलक्षणः सम्वन्धः पदेऽर्थे बोधे च तथाऽपि उबुद्धसंस्कारामावादितिभावः । तत्पदमजानत इति । तत्र विषयतया ज्ञानस्या- भावात् । *आश्रयत्वेनेति । तद्धर्मावच्छिन्ननिरूपितवृत्याश्रयत्वनिवेशस्येदम्फल- म्बोध्यम् । तथाच-शब्दस्याकाशगुणत्वाइटादिशब्दादाकाशस्योपस्थितायपि आका- शत्वावच्छिन्ननिरूपितवृत्तेघटादिशब्देऽभावान्न तद्वोध इति भावः । ननु संस्कारस्यातीन्द्रियतया तत्सत्वे मानाभाव इत्यत आह-संस्कारकल्पि- का चेति । स्मृतिरूपकाश्रयेणैव कारणस्य संस्कारस्यानुमानादिति भावः। ननु संस्कारस्य फलनाध्यत्वावृत्तिस्मृतौ संस्कारस्य नष्टत्वाच्छाब्दबोधानापत्तिरत आह-शाब्दबुद्धिरेवति । चरमफलस्यैव संस्कारनाशकत्वमिति भावः । तार्किकमते ईश्वरेच्छा शक्तिः, मीमांसकमते अतिरिक्ता पदार्थान्तरम्, नवीनता. किकैरीश्वरेच्छा ज्ञान वा कृतिर्वति विनिगमनाविरहान्मीमांसकमतमेवाङ्गीकृतम् । इतिमतान्तरासामञ्जस्य सूचनाय तां विभजते-*सा चेति । अनेन संगतिः सूचिता। *तत्र तासु वृत्तिषु ॥ शक्तिरिति । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सच अस्माच्छब्दादयमों बोद्धव्य इतीचरेच्छारूपः । यद्यपि ईश्वरेच्छायाः ऐक्यात् वटशब्दात् घटो बोद्धव्य इतीश्वरेच्छा पटेऽप्यस्तीत्यतिप्रसंगः। एवं गङ्गापदजन्य- बोधविषयत्वप्रकारकेच्छायास्तीरेऽपिसत्वाच्छक्त्यैव तीरबोधोपपत्तेलक्षणोच्छेदापत्तिः तथापि गङ्गापदवाच्यत्वब्यवहारस्य तीरऽभावाद्ङ्गादिपदजन्यबोधविषयतात्वाव. च्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेनेवरेच्छै व गङ्गादिपदानां शक्तिः। तीरादि निष्ठविशेष्यताया गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूपितत्वेऽपि न तस्यास्ता. शाविषयतात्वेन ताशप्रकारतानिरूपितत्वम्, अपि तु शुद्धविषयतात्वेनेति नाति. प्रसंगा, न वा लक्षणोच्छेदप्रसङ्ग इति भावः । (१) स्मृतः शाब्दबुद्धि प्रति न जनकत्वं किन्तु उबुद्धसंस्कारस्यैवेति मतम- मिप्रेत्येदम् । स्पष्टं चेदं सक्षेपशारीरके प्रथमाध्याये अन्विताभिधाननिरूपणावसरे इति तत एवावगग्तव्यम् । ।

शक्तिविचारः बोधनिष्ठजन्य तानिरूपितजनकतावत्वेन शक्तिविषयो वाचकः,पदजन्यबोध. विषयत्वेन शक्तिविषयो वाच्य इति नातिप्रसङ्गः । यद्यपि प्रथमं शक्तिमहो वाक्य एव तथाऽप्यावापोद्वापाभ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्पदशक्तिग्रह इत्याहुः। तन्न । इच्छायाः सम्बन्धिनोराश्रयतानियामकत्वाभावेन सम्बन्धत्वा- सम्भवान। "सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे,सति द्विष्ठत्वे च सात आश्र- यतया विशिष्टवुद्धिनियामकः" इत्यभियुक्तव्यवहारात् । यथा घटबद् भूत- लमित्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्यां भिन्नो द्विष्टा घटनिरूपित. संयोगाश्रयो भूतलमितिविशिष्टबुद्धिनियामकश्व, नात्र तथा घटशब्द इच्छा- वान् तदर्थो वा इच्छावानिति व्यवहारः। तस्मात्पदपदार्थयोः (१)सम्वन्धान्तरमेव शक्तिः, वाच्यवाचकभा- वापरपर्याया । तद्ग्राहकञ्चेतरेतराध्यासमूलक(२) तादात्म्य, तदेव *नातिप्रमाः । न सम्बन्धादौ वाचकत्वापत्तिः। प्रथम शक्तिमह इति । बालानां वाक्यादेवार्थबोधात आवा:-पदान्तरप्रक्षेपः । *उद्वापा-निष्कासनम् । वटमानय, धर्ट नय इत्यादिः । इच्छेति । इच्छाविषयो यो बोधस्तदीयविषयताया इच्छाश्रयतानियाम- कत्वाभावादित्यर्थः । तत्रहिन पदं नापि पदार्थः इच्छाविषयः, किन्तु बोध एव । न च बोधविषयतयैव इच्छाश्रयता सम्भवतीति वाच्यम्। अयं शब्दः अयमर्थो वा इच्छा. वानिति प्रतीत्यभावादिति भावः। *सम्बन्धान्तरम्भ। उक्तेश्वरेच्छादिभिन्नम्। वाच्यवाचकेतिशब्दे कारणतारूपा- (१) बोधजनकत्वस्यापि आश्रयतानियामकत्वामावान्न सम्बन्धत्वम्। नापि तस्य शक्तित्वम् । प्रयोज्यप्रयोजकव्यवहारं पश्यता बालेन प्रयोज्यस्य प्रवृत्त्या तस्य ज्ञान मनुमाय ज्ञानस्योपस्थितत्वाच्छन्दमेव कारणत्वेन गृहीत्वाऽसम्बन्धस्य कारणत्वानु. पपत्तिज्ञानपूर्वक कल्प्यमानस्य स्वयमनुपपद्यमानत्वेन गृहीतजनकत्वरूपस्य तद्घटि- तस्य वा ग्रहीतुमनुचितत्वात् । तस्मात् सम्बन्धान्तरमेव वाच्यवाचकभाव इति लघु. मञ्जूषार्या स्पष्टम् । (२) इतरेतराध्यासो मूलं ज्ञापकं यस्येत्यर्थः । तथाहि-शब्दार्थों परस्परतादा. त्स्यवन्तौ इतरेतराध्यासवत्वात् , यत्र यत्र इतरेतराध्यासस्तत्र तत्र तादात्म्य यथा गुणगुणिनोः । यत्र न तादात्म्यं न तत्र इतरेतराध्यासः यथा घटपटयोः । गुणगुणिनोश्च इतरेतराध्यासो नीलो घट इत्यादौ प्रत्यक्षादिप्रतीतौ दृष्टः । शब्दार्थयोरितरेतराध्या- परमलघुमञ्जूषायाम् । (१)सम्बन्धः। उभयनिरूपिततादात्म्यवानुभय इत्यर्थपदयोर्व्यवहारात् । श- तरपिकार्यजनकत्वे सम्बन्धस्यैव नियामकत्वात् । दीपादिगतप्रकाशकत्वश- कावपि आलोकविषयसम्बन्धे सत्येव वस्तुप्रकाशकत्वं नान्यथेति दृष्टत्वात्। शक्ति प्रसिद्धव, अर्थे शक्तिः वाच्यतास्पैव । *तद्ग्राहकमिति । वृव्यवहारादिव- दिदमपि सग्राहकमित्यर्थः । *आध्यासेति । अन्यस्मिन्नन्यधर्मावभासः । तन्मूलक तादात्म्यं नतु वास्तवमित्यर्थः । तदुक्तं पातालभाष्ये-'सङ्केतस्तु पदपदार्थयोरित- रेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थः योऽर्थः स शब्दइति। शक्तः सम्बन्धो बोध्यबोधकनियामको भवति न तु शक्तिरित्याह-*शपीति। *सम्बन्ध- स्यैव-तदन्यसम्बन्धस्यैवेत्यर्थः । तत्र मानमाह-*दीपेति । सोऽपि "शब्दार्थप्रत्ययानामितरेतराध्यासात् सरसाइति पातञ्चलसूत्रे (पा०३सू० १७) "गौरिति शब्दो गौरित्यर्थो गौरित ज्ञानम्" इत्यनुभवप्रदर्शनेन भाष्यकारेण स्पष्टीकृतः । रामेति द्वयक्षरं नाम इत्यादिना अग्रे मूलेऽपि स्फुटः । तस्मादन्वयव्य. तिरेकानुमानेव शब्दार्थयोस्तादात्म्यं सिद्धम् । (१) तादात्म्यस्य च सम्बन्धत्वं रूपवान् घटः, जातिमान पट इत्यादौ आश्रय- ता बुद्धिनियामकत्वात् प्रसिद्धम् । इदमेव भेदाभेदघटितं नैयायिकैः समवायशब्देन व्यवाहियते । तस्यातिरिक्तवाङ्गीकारश्च अनवस्थापत्त्यादिदूषणग्रस्तः। ततश्च प्रकृते. ऽपि शब्दार्थयोः दीपादिगतशक्तेः दीपालोकसम्बद्धविषयप्रकाशकत्वस्यैव दृष्टत्वेन पदावेरपि पदसम्बद्धविषयप्रकाशकत्वसम्भवेन अन्यसम्बन्धे प्रमाणाभावेन पूर्वोक्ता. नुमानेन च तादात्म्यसम्बन्ध एवाङ्गीक्रियते । राहोः शिर इत्यत्र औपाधिकभेदेन षष्ठयुपपादानपरभाष्यप्रामाण्यातु केवलाभेद स्य सम्बन्धत्वं नाझीक्रियते, नतु भेदाभेदघटितस्य तादात्म्यस्य तद्भाष्येण सम्बन्ध- त्वनिरासः। अन्यथा उपाधीभूतशिरतस्यसमूहस्यापि राहुपदार्थत्वे समूहसमूहिनो. रात्यन्तिकभेदस्य कस्यापि मतेऽभावेन समवायाङ्गीकर्तृभिरपि तत्र समवायानोका- रेण अन्यसम्बन्धस्य तत्रासत्वेन षष्टयुपपादनं भाष्योक्तमसङ्गतमेव स्यात् । तस्माद् भेदाभेदघटितस्य तादात्म्यस्य सम्बन्धत्वं निर्दुष्टम् । तत्र क्वचिद्भेदः कल्पनिकः, अभेदो वास्तवः। यथा गुणगुण्यादौ । क्वचिदभेदः काल्पनिका भेदो वास्तवः । यथा शब्दार्थयो! शब्दादेव अर्थसृष्टिरिति पक्षे तु तत्राप्यभेदो वास्तवः भेद एव काल्पनिक भेदो वा. स्तवः भेद एव काल्पनिकः । तत्राभेदस्य उद्भूतत्वविवक्षया "वृद्धिरादेच्" "रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः" इत्यादिनिर्देशाः। भेदस्योद्भुतत्वविवक्षया व "तस्य वाचकः प्रणव: "उसो वाचकं प्रगृह्मपदम् इत्यादयः प्रयोगाः । एवं गुणगुण्या- दिस्थळेऽप्युदाहायमित्यलम् । - - शक्तिविचारः। ६ - तदुक्तं हरिणा- उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः ।। इति ॥ उपकार:-उपकार्योपकारकयोर्वोधशक्त्योरुपकारस्वभावः सम्बन्धो य- त्रास्ति तत्र धर्मः शक्तिरूपः कार्यं दृष्ट्वा ऽनुमीयते । असौ सम्बन्धः शक्ती- नामपि कार्यजनने उपकारकः गुणानामपि द्रव्याश्रितत्वनियामक इति हेलाराजः। स सम्बन्धः पदे वाक्ये च। तदाह न्यायभाष्यकार-"समयज्ञानार्थ चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणं,वाक्यलक्षणाया वाचो ऽर्थ- लक्षणम्” इति । अनेन पदेष्विव वाक्येष्वपीश्वरसमय इति स्पष्टमेवोक्तम् । तस्मादितरेतराध्यासः सङ्केतस्तन्मूलक तादात्म्यञ्च सम्बन्ध इति सङ्घातार्थः । तदुक्तं पातञ्जलभाष्ये, “सङ्केतस्तु पदार्थयोरितरेतराध्यासरूपा(१)स्मृत्या- त्मको योऽयं शब्दः सोऽर्थो योऽर्थः स शब्दः" इति । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव सङ्केतस्य (२)शक्तिबोधकत्वं दर्शितम् । उक्त ईश्वरसङ्केत एव शक्तिरिति नैयायिकमतं न युक्तम् । 'अयमेतच्छ. *उपकार इति । यत्र उपकारस्वभावः सम्बन्धो अस्ति तत्र शक्त्याख्यो धर्म अनुमीयते । असम्बद्धानामुपकाराभावात् । न च शक्तिरेव सम्बन्धः, शक्तीनामप्या- धारपारतन्त्रे कार्यजनने च सम्बन्धस्यैव नियामकत्वात् । *उपकार्यः* । अर्थः । *उपकारका-शब्दः । *कार्यम्-(अर्थः) उपकारकम् । शक्तीनामपीति । सम्बन्धसत्वे एव शक्तीपि कार्यजनकत्वादित्यर्थः । *अर्थ लक्षणम्। अर्थप्रतिपादक शास्त्रम् । एतेन पदाथै सम्बन्धग्रहवन्त्यपि पदानि वाक्यार्थे सङ्गतिग्रहानपेक्षाण्येवेति वाक्यस्फोटो नैयायिकासम्मत इति परास्तम् । *आध्यास इति। कः शब्दः कोऽर्थ इति प्रश्ने घट इत्ययं शब्दः घट इत्ययमर्थ इत्येकाकारोत्तरदर्शनात्तयोः शब्दार्थयोरध्याससिद्धिः । तादात्म्यञ्चेति । तादात्म्य- (१)स्मृतौ आत्मा स्वरूपं यस्येत्यर्थः स्मयमाण इति यावत् । (२) शक्तिबोधकत्वमिति । अयं भाव:-प्रत्यक्षतो दृश्यमाने एवं घटे "कोs. यम्" इति किं नामकोऽयम्" इति वा प्रश्ने "धोऽयम्" इत्युपदेशेन "वृद्धिरादेच्॥ इत्याधुपदेशेन च घट घटपदाभिन्नत्वेनादैचश्व वृद्धिपदमिन्नत्वेनावगच्छति । तदभिन्नत्वं च तदात्मकत्वं तदात्मकत्वग्रहे च तत्र बोधात्मकघटाघभिव्यक्तिशक्तिं गृह्णाति, घटादौ मृदाधात्मकत्वग्रहे मृदादौ प्रत्यक्षात्मकवटाद्यमिव्यक्तिशक्तिमिव । अथ प्रयो.

१० परमल घूमञ्जूषायाम् । क्यः' 'अत्रास्य शक्तिः' इत्यस्य संकेतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात् । अत एव न्यायवाचस्पत्ये उक्तम्-स्वर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्तद्व्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्संकेतः'इति। च-तभिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् । *शक्तितः पार्थक्येनेति । अयमेतच्छच्यः अनास्य शक्तिः !इत्यस्य सचेतस्य लाके दर्शनेन । तादृशेश्वरसङ्केतस्याप्यनुमानाच्छक्तिप्रकाशक एवेति भावः । *अत एवेति । सतस्य शक्तिग्राहकत्वादेव *महर्षी ति* । महयादिभ्यः ईश्व. रेण साक्षात् संकेतः प्रकाशित इत्यर्थः । सुग्रहः सङ्केत इति । योगवाचस्पत्ये उक्तम् ७ गादिना पदज्ञाने जाते शक्तिविषयकसंस्कारोद्वोधे च शाब्दबोधो जायते । स्वशक्त्या स्वसम्बद्धस्यैवाभिव्यक्तिदर्शनाद् घटादिपदशक्त्या घटादिपदसम्बद्धस्यैव घटादेः शा. छदबोधरूपाभिव्यक्तिर्वाच्या । ततश्च पूर्वोक्तरीत्या तादात्म्यसम्बन्धसिदिः । यत्रापि घटपर्द घटस्य वाचक, प्रगृह्मपदम् उजओ वाचकम् , इत्युपदेशः, तत्रापि अ. भेद सहचरितस्यैव भेदस्य ग्रहो भवति, नतु शुद्धभेदस्य ग्रहः । शुद्धभेदप्रहे शक्तिमहा- नुपपत्तेः पटादिप्रतियोगिकशुद्धभेदवत्त्वेन गृहीते मृदादौ पटादिशक्तिहस्य अजन- नात् निमित्तेऽतिप्रसङ्गस्तु न शङ्कयः। उपादाने एवं शक्तिस्वीकारात् । स्फोटात्मकश. ब्दादेव सृष्टिरिति पक्षमाश्रित्य शब्दे अर्थोपादानत्वस्य सुवचत्वात्। बौद्धस्यैव अ. र्थस्य शाब्दबोधविषयित्वमिति पक्षे सुतरां तत्संभवाच्च । दृष्टिसृष्टिवादे शङ्काया एवा. नुत्थानाच्च । एवं च व्यवहारादेरपि शक्त्यनुमानमितरेतराध्यासात्मकसङ्घतानुमान. पूर्वकमेव । इतरेतराध्यासात्मकसकृतश्च"योऽर्थः स शब्दः यःशब्दः सोऽर्थः इत्या. कारक ईश्वरकृतः वाच्यवाचकभावरूपां शक्ति ग्राहयति । तदुक्तं पातालभाष्ये "ताय वाचकः प्रणव इति सूत्रे (पा०१ सू: २७) "स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धः। संकेतस्तु ईश्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पितापुत्रयोः सम्बन्धः संकेतेनावद्योत्यते, अयमस्य पिता अयमस्य पुत्र इति । अनेन च ईश्वरसड़ तस्य शक्तिग्राहकत्वं स्पष्टमेवोक्तम् । उपदेशरूपस्य पूर्वोक्तसंकेतस्य इतरेतराध्यासोल्लेखि- स्वात्तादात्म्यग्रहपूर्वकशक्तिग्रहजनकत्वं तस्य दशितम् । एतेन नैयायिकोक्तम् ईश्वर- संकेतस्य शक्तित्वं निराकृतं वेदितव्यम् । यथा घटशब्दो घटस्य वाचक इत्युपदेशरूप: संकेतः शक्तितो भिन्नः तथैव महर्षीणां साक्षाद् इश्वरकर्तृकः तादृश उपदेशः शक्तितो भिन्न एव वाच्यः । दृष्टानुसारेणैव कल्पनाया उचितत्वात् । उक्तञ्च नागेशेन “अय. मेतच्छक्योऽत्रास्य शक्तिरित्यस्य संकेतस्य शक्तितः पार्थक्येन प्रसिद्धत्त्वात्। इति । इच्छारूपसंकेतस्य शक्तित्वं तु प्रागेब निरस्तम् । तस्मात् इन्द्रियशक्तिवत् पदशक्ति. रपि भिन्नैव तद्ग्राहकं च इतरेतराध्याससिद्धं तादात्म्यमिति सर्व सुस्थम् ।

7 " शक्तिविचारः। तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽथः शक्यः, आश्रयत्वेन विवक्षितः शब्दः शक्त इत्युच्यते । शब्दार्थयास्तादात्म्यादेव लाकमशृणो- दथार्थ शृणोदिति अर्थं वदति' इत्यादिव्यवहारः । "ओमित्येका रं ब्रह्म "रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः, "वृद्धिरादैच्” इतिशक्ति प्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगश्च । तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसम- नियतम् । अभेदस्याध्यस्तत्वाचन तयोविरोधः । यत्तु तार्किकाः, शब्दार्थयोस्तादात्म्यस्वीकारे मधुशब्दोच्चारणे मुखे मा. धुर्यरसास्वादापत्तिः, वह्निशब्दोच्चारणे मुखे दाहापत्तिरित्याहुः ! तन्न। भेदाभे- दस्योपपादितत्वात् वस्तुता बौद्ध एवार्थः शक्यः, पदमपि स्फोटात्मकं प्रसिद्धम् , तयोस्ता. दात्म्यम् । तत्र बौद्धे वह्नयादावर्थे दाहादिशक्तिमत्त्वाभावात् । अत एव "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति विकल्पसूत्रं सङ्गच्छते ! शब्दज्ञानमात्रेणानुपाती बुद्धावनुपतनशीलो वस्तुशून्यः बाह्यार्थरहितः वि. शेषेण कल्प्यत इति विकल्पः, बुद्धिपरिकल्पित इति तदर्थः । अत एव- एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । 'सव च शब्दाः सर्वार्थाभिधानसमर्थाः, इति सर्वरथः सर्वेषां शब्दानां सम्बन्धः, ईघर- सङ्केतस्तु प्रकाशकः' इति । अत एव नित्यः शब्दार्थसम्बधः इति तार्किकाः। *म तयोविरोध इति । तत्र भेदस्योद्भूतत्वविवक्षया अस्यार्थस्य अयं वाचकः "उनः प्रगृह्यम्" तस्य वाचक प्रणवः इत्यादौ षष्ठी। अभेदस्योद्भुतत्वविवक्षया तु प्र. थमा यथा-रामेतियक्षरनाम "वृद्धिरादेइत्यादौ। *भेदाभेदस्येति । वस्तुतो भेद एव अभेदस्तु आरोपित इति भावः। एवमभ्युपेत्य समाहितं वस्तुतो दोषशङ्खव नेत्याशयेन सिद्धान्तमाह-वस्तुत इति* *बौद्ध एवेति । बुद्धिविषयावेवार्थशब्दौ वाच्यवाचकौ न वास्तवावित्यर्थः । *तयोरिति । शब्दार्थयोः । *तादात्म्यम्*-अभेदः । *बुद्धिपरिकल्पित* इति । श्व- क्यो अर्थः बुद्धिसत्तासमाविष्ट एव न तु बाह्यसत्तासमाविष्टः । बौद्धपदार्थानङ्गिकारे घट इत्यत एव सत्तावगमेन घटोऽस्तीतिप्रयोगे गतार्थत्वादस्तीति प्रयोगानापत्तेः । सत्ता. याः विरोधादूघटो नास्तीत्यस्यानापत्तश्च । मम तु बुद्धिसतो बाह्यसत्तातदभावबोधनाय अस्ति नास्तीति.प्रयोगः सङ्गच्छते । *वन्ध्या सुत इति । एषः बुद्धिस्थः वन्ध्या सुतो बुद्धिस्था सन् याती- ।

१२ परमलघुमञ्जूषायाम्- कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः॥ इत्यत्र वन्ध्यासुतादीनां बाह्यार्थशून्यत्वेऽपि बुद्धिपरिकल्पितं वन्ध्यासुत- शब्दवाच्यार्थमादायार्थवत्त्वात्प्रातिपदिकत्वम्। अन्यथाऽर्थवत्त्वाभावेन प्राति. पदिकत्वाभावात्स्वाद्युत्पत्तिर्न स्यात् । यत्तु शशशृङ्गमित्यत्र.शृङ्गे शशीयस्वभ्रम इति तार्किकैरुक्तम् । तन्न। शश- शब्दवाच्यजन्तुदर्शनरूपवाघे सति शशशृङ्गनास्तीति वाक्ये शशशृङ्गमित्य म्य प्रातिपदिकत्वानापत्तेः । अर्थपदयोस्तादात्म्यात्तत्तदर्थतादात्म्यापनः शब्दो भिन्न इति हेतोरथभेदाच्छब्दभेद इति व्यवहारः। समानाकारमात्रेण तु- एकोऽयं शब्दो बह्वर्थ इति व्यवहारः । सा च शक्तिस्साधुष्विवापभ्रंशेष्वपि, शक्तिग्राहकशिरोमणेर्व्यवहारस्य तुल्यत्वात् । व्यवहारदशनेन च पूर्वजन्मानुभूतशक्तिस्मरणम् । अत एव बालानां तिरश्चां चान्वयबोधः । न हि तेषां तदेव तत्सम्भवः । यत्तु तार्किका:-असाधुशन्देन साधुस्मरणद्वाराऽर्थबोध इत्याहुः । तन्न । साधुस्मरणं विनाऽपि बोधानुभवात् । तद्वाचकसाधुशब्दमजानतां बोधानाप. तेश्च । न च शक्तिभ्रमाद् बोधाऽसाधुशब्देविति वाच्यम् । निस्सन्देहप्रत्यय- स्य बाधकं विना भ्रमत्वायोगात् । अत एव स्त्रीशूद्रबालादीनामुच्चारिते साधा ति तदर्थः । बुद्धिपरिकल्पितमिति । इच्छादीनामन्तःकरणनिष्ठतया तन्त्र विषयस्य सामानाधिकरण्येनैव कारणत्वौचित्येन बौद्धपदार्थसत्तावश्यकीति भावः । *अर्थभेदाच्छब्दभेद इति । तादात्म्यमूलकस्य सम्बन्धत्वे अर्थभेदात्ता. दात्म्यापनशब्देषु भेदौचित्येन अर्थभेदाच्छब्दभेद इत्युपपद्यत इति भावः। नन्व- स्मिन्पक्षे 'एकः शब्दो नानार्थः, भज्ञा पादा भाषा' इति भाष्यं, कथमुपपद्यतामित्यत आह-*समानाकारमात्रेणेति । एवं शक्ति निरूप्य । तदाश्रयमाह-सा चेति । वाच्यवाचकभावाख्येत्यर्थः । *व्यवहारदर्शनेनेति । व्यवहारदर्शनमुद्बोधकविधया स्मारकमेवेति लाघवं, जी. बनादृष्टमेवोरोधकमित्यर्थः । अत एवेति । पूर्वजन्मानुभूतस्मरणस्वीकारादेव । अन्यथा इष्टसाधनताज्ञानाभोवात्स्तनपानादौ प्रवृत्तिन स्यात् । पश्वादीनां जडप्राया प्रतिनियतजात्यनुसारेणव नियतैव काचित्प्रतिभा बोध्यते, अतस्तेषामप्यनादिवासनैव बीजमिति भावः। *तदेव-आधबोधकाले एव । तत्सम्भवा-शक्तिमहसम्भवः । *मसाधुशब्देनेति । असाधोः साधुप्रकृतिकत्वात्सायेनेति भावः। भ्रम.

शक्तिविचारः। १३ वर्थसंशये तदपभ्रंशेनार्थनिर्णयः। अत एव "समानायामविगतौ शब्दै- श्वापशब्दैश्च शास्त्रेण धर्मनियमः" इति भाष्यम्, वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः । इति हरिकारिका च सङ्गच्छते । अत एवार्यम्लेच्छाधिकरणं सङ्गच्छ- ते । तत्र हि यद्यपि आर्या यवशब्दं दीर्घशूके प्रयुञ्जते, म्लेच्छास्तु प्रियङ्गो प्रयुञ्जते, तमेव च बुध्यन्ते, तथाऽप्यायप्रसिद्धबलवत्त्वाद् वेदे दीर्घशूक- परतैवेति सिद्धान्तितम् । तव तु म्लेच्छवोधस्य शक्तिभ्रममूलकत्वेन भ्रान्ति- विषयरजतज्ञानस्येव म्लेच्छप्रसिद्धेवत्वसाधकतयाऽऽयम्लेच्छप्रसिद्धयोः कस्या बलवत्त्वमितिविचारासङ्गतिः स्पष्टैव । साधुत्वं च व्याकरणान्वाख्येयत्वं पुण्यजनकतावच्छेदकधर्मवत्त्वं वा । तद्भिन्नत्वमसाधुत्वम् । त्वायोगादिति । वाचकस्य व्यञ्जकत्वे अलवारिकाणां प्रकृतभाष्योदाहरणस्यासन- त्यापत्तेच, तत्तद्देशीयशिष्टानां तत्तद्भाषासु जायमानस्य निविचिकित्सयक्तत्वप्रत्ययस्य बाधकं विना भ्रमत्वायोगाच्चेत्यपि बोध्यम् । अत एवेति-अप्रभंशे शक्तिस्वीका. रादेव, प्रयुक्त साधौ स्त्रीशूद्वबालानामर्थसंशये अप्रभंशेन शब्देन निर्णय इति भावः ।। *भाष्यमिति । तत्र पस्पशासिके व्याकरणप्रयाजनकधनावरे लोकव्यवहारा- शुपायान्तरेणार्थबोधजनकाक्तिग्रहस्य सिद्धावनर्थकं व्याकरणमिति शङ्कायां शास्त्रीय. प्रक्रियास्मरणपूर्वकप्रयोगे एवं धर्मोत्पत्तिरित्यभिप्रायेणोकं संगच्छते । शब्दः अप. शब्दश्च समानायामर्थावगतो सत्या व्याकरणशास्त्रेण धनियमः क्रियते इति भावः। *वाचकत्वेति । अयम्भावः-अपभ्रंशानां शब्दानामशक्तत्वे ततो बोध एव न स्यात् । न च अपभ्रंशताब्देन साधुशब्दस्मरणाबोधः स्यादिति वाच्यम् । तत्तद. र्यबोधकत्वेन ग्रहशून्यानां पामराणामपि बोधात् । एवं च वैयाकरणानां मते अप- भ्रंशेष्वपि शक्तिरस्ति, परन्तु अपभ्रंशानां पुण्यजनकत्वं साधुत्वं नास्तीति हरिका. रिकाप्यत्र परमानुकूलेति । नियम इति । अस्तु किल अपभ्रंशादर्थावगमः । शास्त्रेण धर्मनियमः क्रियते साधुभिरेवार्थों वक्तव्यो नासाधुभिः, एवं क्रियमाणमा भ्युदयकारि भवतीति भावः । अम्लेच्छास्त्विति । म्लेच्छपदेन अनार्या अन विवक्षिताः। *साधुत्वमिति । साधुत्वञ्च-व्याकरणव्यङ्गयार्थविशिष्टशब्दनिष्ठः पुण्य- जनकतावच्छेदकजातिविशेषः । अत्र "एकः पूर्वपरयो इतिसूत्रभाष्यस्था श्रुति:--"एकः शब्दः सम्यक् ज्ञातः शानान्वितः सुष्टुप्रयुक्तः स्वर्ग लोके च कामधुक भवति" इति। .

परमलघुमजूषायाम्- सा च शक्तिनिधा, रूढियोगो योगरूढिश्च । शासकल्पिताक्यवार्थभा- नाभावे समुदायार्थनिरूपितशक्ती रूढिः, यथा मणिनू पुरादौ। शास्त्रकल्पि- जावयवार्थनिरूपिता शक्तिर्योगः, यथा पाचकादौ । शास्त्रकल्पितावयवा- न्वितविशेष्यभूतार्थनिरूपिता शक्तियोगरूढिः, यथा पङ्कजपदे । तत्र पङ्क- जनिकर्तृ पद्ममिति बोधात् । पद्मेऽनुपपत्तिप्रतिसन्धान सम्बन्धप्रतिसन्धा- नं च विना न लक्षणावसरः, क्वचित् तात्पर्य्यग्राहकवशात्केवलरूढयर्थस्य केवलयोगार्थस्य च बोधः, 'भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्कजेषु' इत्यादौ । स्पष्ट चेदम् "आर्हाद्" इति सूत्रे भाष्ये । अश्वगन्धादिपदमोषधिविशेष रूढम् , अश्वसम्बन्धिगन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं यौगिकरूढमि- न्युच्यते । एवं मण्डपपदं गृहविशेष रूढं, मण्डपानकर्तरि यौगिकम् । सैषा शक्तिः संयोगादिभिर्नानार्थेषु नियम्यते। तदुक्तं हरिणा- संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थःप्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः।। सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ।। एते संयोगादयो नानार्थेषु शब्देषु शब्दार्थस्यानवच्छेदे सन्देहे तदपा- *साचात* ! पूर्वोक्ता छ । *शक्तिरिति । तत्स्वरूपे निरूपिते विशेष जिज्ञासाथ तदं दर्शयति । *रूढिरिति । समुदायार्थमात्रबोधकपदे शक्ति:-रूढिरित्यर्थः । प्रकृतिप्रत्ययविभागस्यापारमार्थिकत्वात्कथं रूढ्यरूढिविभागः इत्यत आह- *शास्त्रकल्पितेति । ननु पङ्कजपदस्य पद्मत्वविशिष्टे लक्षणैवास्तु किं समुदाय:- येत्यत आह-*पद्मेति । अलक्षणावसरेति । लक्षणायोः अन्वयानुपपत्ति- मूलकत्वादिति भावः । अस्माकं मतेन लक्षणाया अभाव एवं हत्यांप बोध्यम् । *भूमौ पङ्घजमिति । इदं केवलढ्यर्थबोधकस्योदाहरणम् । अन्न योगार्थस्य बाधः । *कल्हारेति* । कल्हारे कैरवे कुमुदे अवयवार्थमादायैव प्रयोगः। अर्थभेदा. च्छब्दभेदः इतिमते उत्तान्तर्भावसम्भवान्न चतुर्थोऽतिरिक्तः शब्दः, इति चतुर्धा तद्विभागोऽयुक्त इति सूचयन्नाह-*अवगन्धादिति । अर्थभेदेऽपि शब्दैक्यमिति मतेनोह-*इदमिति। श - शक्तिविचारः। १५ करणद्वारा विशेषार्थनिर्णायकाइति तदर्थः। संयोगविप्रयोगयोउदाहरणे सब. स्सा धे(१)नुरवत्सा धेनुरिति । साहचर्यस्य रामलक्ष्मणाविति ! साहचर्य सादृश्यं सहयोरेव सहप्रयोग इति नियमात् । रामार्जुनगतिस्तयोरित्या- दौ विरोधेन तत् । अञ्जलिना जुहोति अञ्जलिना सूर्यमुपतिष्ठत इत्यत्र जुहोतीत्यादिपदार्थवशाद् अञ्जलिपदस्य तन्तदाकाराञ्जलिपरत्वम् । सैन्ध- समानयेत्यादौ प्रकरणेन तत् । "अक्काः श(२)करा उपदधाति" इत्यादी तेजो वै घृतम्” इति घृतस्तुतिरूपाल्लिङ्गादत्ता इत्यस्य धृतसाधनकाञ्जनपर- स्वम् । रामो जामदग्न्य इति जामदग्न्यपदसन्निवानाद्रामः परशुरामः । अभिरूपाय कन्या देया इत्यादौ अभिरूपतरायेति सामर्थ्यात् प्रतीयते । यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य क(३)टुरेव सः ।। इत्यत्रौचित्यात् परशुनेत्यस्य छेदनार्थत्वम् मधुसर्पिषा इत्यस्य सेच- विशेषार्थनिर्णायका इतिमा उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा न्मिात्रार्थविषयकान्वयबोधजनका इति भावः । अत्र सामथ्र्यमेवैकं मुख्य निर्णायक- योगादयस्तद्वयाकप्रपञ्चः । संयोगादिभिः सामर्थ्यस्यैवाभिव्यक्तरितिपरे। सेतिका धेनुशब्देन नवप्रसूता सर्वा एवं गृह्यत इति मते इदम् । अवत्सेति निषे. स्य प्राप्तिपूर्वकत्वात् अवत्सापि गौरवोच्यते इति भावः। रामलक्ष्मणावितिः । ननु मिसाहचर्याल्लक्ष्मणो दाशरथिः, लक्ष्मणसाहचर्याच्च रामो दाशरथिमि इति अन्यो. याश्रय इति चेन्न । रामलक्ष्मणावित्यत्र साहचर्येण उभयोयुगपदेव नियमनमिति वीकारात् । साहचर्य न सहचरता "दीधीवेवीटाम्" इत्यादावसम्भवादित्याह- साध्यमिति । रामार्जुनेति । अत्र रामाउँनयोरिव तयोर्गतिरिति कस्यचिदुप- यां सशलक्षणया विरोधात भार्गवकार्तवीर्ययोर्बोध इति भावः । *सैन्धवनिति। गेजनकाले नाश्वबोध इति भावः । लिङ्गादिति । संयोगातिरिक्तसम्बन्धेन सम्ब. हो ब्यावर्तकधर्मो लिङ्गम् । यथाकुपितो मकरध्वज इत्यत्र समुद्रव्यावृत्तात्कोपोत्कामे । सन्निधोनादिति । सामानाधिकरण्यादिति भावः । तेन सशङ्खचको हरिरित्यत्र न (१) सवत्सा इत्युक्ते धेनुरेव प्रतीयते इत्यर्थः । (२).मृत्तिकामिनाः क्षुद्रपाषाणाः शर्कराः। (३) प्रिय इत्यर्थः । कटुशब्द इत्यादाविव कटुशब्दोऽप्रियार्थकः । अन्यथा नेघण्टवादौ तस्य तीक्ष्णरसमरीचशुण्ठीपिप्पल्याधर्थकत्वेन दृष्टत्वात् तस्य च निम्बेs- नावादसङ्गतिः स्पष्टैवेति बोध्यम् । - स परमलघुमञ्जूषायाम्- नार्थत्वम् , गन्धमाल्यार्द्धरित्यस्य पूजनार्थत्वम् । भात्यत्र परमेश्वर इत्यत्र राजधानीरूपदेशात्परमेश्वरपदं राजबोधकम् । चित्रभानुभातीत्यादौ रात्रा. वनौ दिवा सूर्ये । व्यक्तिर्लिङ्गम् । मित्रो भाति मित्रं भातीस्यादावादौ सूर्यो ऽन्त्ये सुहृत् । स्थूलपृषतीमित्यादौ स्वरात्तत्पुरुषबहुव्रीय/निर्णयः ।। इति शक्तिनिरूपणम् ॥ ननु लक्षणा कः पदार्थ इति चेत् , अत्र ताकिकाः- स्वशक्यसम्बन्धो लक्षणा । सा च द्विधा । गौणी शुद्धा च । स्वनिरूपित- साश्याधिकरणत्वसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी । तदतिरि- तसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका शुद्धा प्रकारान्तरेणापि सा द्विवि- धा। अजहत्वार्था जहत्स्वार्था च । स्वार्थसंवलितपरार्थाभिधायिकाऽजह- स्वार्था । तेन छत्रिणो यान्ति, कुन्तान प्रवेशय, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छत्रिसहितसेना-कुन्तास्त्रसहितपुरुष-यष्टिसहित. पुरुष-काकसहितसर्वध्युपघातकबोधः । स्वार्थपरित्यागेनेतरार्थाभिधायि. -- दोषः। शङ्खचक्रसामानाधिकरण्याभावात् । *स्वरादिति । कारिकायां स्वरादय इत्युक्तम् । तत्रादिना षत्वसत्वणत्वादिग्राह्यम् । तद्यथा-सुसिक्कमित्यत्र पूजार्थ: सुः कर्मप्रवचनीयः, सुषिकमित्यत्रोपसर्गोऽन्यार्थः । प्रणायके प्रणयनक्रियाकर्ता णत्वात् । प्रनायके प्रगतनायकदेशो वधः इत्यादिबोध्यम् । शक्ति निरूप्य लक्षणां निरूपयति-नन्वित्यादिना । स्वपदेन लाक्षणिकत्वे- नाभिमतं पदं ग्राह्यम् । ताहि-गङ्गायां घोषः' इत्यत्र स्वं गंगापदं तच्छक्यः प्र. वाहोऽर्थः, तत्सम्बन्धेन तीरोपस्थितिः। अतोऽत्र तीरे शक्तिर्न कल्प्यते। सैन्धः वादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम् । यद्यपि लवणा- श्वयोः संयोगोऽपि सम्भवति यत्राव निक्षिप्तं लवणं, तथापि निरन्तरतत्सम्बस्यैव ग्रहणतात्पर्येणार्थकथनमिति बोध्यम् । गौणीति । लक्ष्यमाणगुणसंबन्धस्वरूपा । यथा अग्निर्माणवक इत्यत्र । तथाहि-लक्ष्यमाणो यो गुणः शुचित्वादिः तत्सम्बन्धरूपा इत्यर्थः-वाक्यसम्बन्धो लक्षणा, स च कचित्साक्षात्सम्बन्धः, क्वचित्परम्परास- म्बन्धः, एवञ्चात्र शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्वसम्बन्ध एवं लक्षणेति । *अजहत्त्वाति* । यत्र वाच्यार्थस्याप्यन्वयो भवति तत्र यथा छत्रिणो यान्ती- त्यादौ । छत्र्यच्छत्रिषु गच्छत्सु बाहुल्याच्छत्रिणां छत्रिणो यान्तीत्यच्छत्रिषु यान, लक्षणाविचारः। . काऽन्त्या । तत्परित्यागश्च शक्यार्थस्य लक्ष्यार्थान्वरिनाऽनन्वयित्वम् ! तेन गां वाहीक पाठयेत्यादौ गासदशलक्षणायामपि न गोस्तदन्वयिपाठ. नक्रियान्वयित्वम् । सा च लक्षणा तास्थ्यादिनिमित्तिका । तदाह- तात्स्थ्यात्तथैव ताद्धयात्तत्सामीप्यात्तथैव च । तत्साहचर्यात्तादाज ज्ञेया वै लक्षणा बुधैः ।। इति ! तास्थ्यान्मच्चा हसन्ति प्रामः पलायितः । ताद्धात्सिंहो माणवकः ? गौर्वाहिकः । तत्सामीप्याद्गङ्गायां घोषः। तत्साहचर्याद्यष्टीःप्रवेशय । तादा- दिन्द्रार्था स्थूणा इन्द्रः । अन्वयाद्यनुपपत्तिप्रतिसन्धानञ्च (१)लक्षणाबीजम् । वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसन्धानमेव तद्वीजम् । अन्यथा गङ्गायां कर्तृत्वानुपपत्या छत्रिपदमजहत्स्वार्थलक्षणया छत्र्यछत्र्युभयबोधकमिति भावः । *अन्त्येति । यत्र वाच्यार्थस्यान्वयाभावस्तन जहालक्षगा । यथा-मञ्चा: क्रोशन्ति इत्यादौ । वाच्यार्थस्य मञ्चस्य कोशनकर्तृत्वान्वयासम्भवान्मञ्चपदं मन्च. स्थपुरुषं लक्षयति । *मन्वयाधनुपपत्तीति । अन्वयाउनुपपत्तिज्ञानपूर्वकशक्यत्वेन गृहीतार्थसम्बन्ध ज्ञानेनोबुदशक्ति स्कारतो बाधे लक्षणेतिव्यवहारात् । अन्वयानुपपत्तिज्ञानपूर्वक यत् शक्यसम्बन्धस्मरणं तेनोदबुद्धो यः संस्कार इत्यर्थः । ब्यक्षनायामतिव्याप्ति- वारणाय शक्यत्वेनेति । सम्प्रति लक्षणाबीजमोह-वस्तुतस्त्वित्यादिना* *तद्वीजमिति । सर्वत्र स- त्वादिति भावः । यद्यपि लक्षणाजन्यबोधे अन्वयव्यतिरेकाभ्यां मुख्यार्थबाधज्ञानं मुख्यार्थसम्बन्धज्ञानं च कारणम् । तद्वाधश्च समभिव्याहृतपदतात्पर्यविषये मुख्यार्थ. तावच्छेदकरूपेण मुख्यार्थासंसर्गरूपं, तेन छत्रिणो यान्ति, कुन्तान्प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छत्र्यादिमुख्यार्थानां समभिव्याहृतक्रियासु कर्तृत्वादिमिरम्व- याबाधेऽपि तत्तात्पर्य विषये मुख्यमन्यलनिगमनभोजनार्थप्रवेशदध्युपधातकावधिः रक्षणेषु मुख्यार्थतावच्छेदकरूपेण तदन्वयबाघोऽस्त्येवेति तत्र छत्रिपदमेकसार्थः प्रविष्टछत्रिसमुदाये लाक्षणिकमेवमन्यनापीति सापि सर्वत्रास्ति । *अन्यथेति । (१) लक्षणायाः शक्यसम्बन्धस्य बीजं ज्ञापकमित्यर्थः । तथाहि-गङ्गायां घोष इत्यादौ प्रवाहादिरूपशक्यार्थोपस्थितौ तत्र अन्वयायोग्यत्वादिना तात्पर्यविषयत्वा. भावे ज्ञाते गङ्गापदादेः प्रवाहादिसम्बन्धित्वेनोपस्थिततीरादिना स्वशक्यसम्बन्धरूपः सम्बन्धो गृयते 'तीरं गङ्गापदशक्यसम्बन्धि' इति । अनन्तरं तदुपस्थितौ अन्व. यबोध्यत्वादिना तत्र तात्पर्यविषयत्वे निश्चिते तद्विषयक: शाब्दबोधो जायते इति। . २५० म० २८ परमलधुमञ्जूषायाम्- घोष इत्यादौ घोषादिपदे एव मकरादिलक्षणापत्तिस्तावताऽप्यन्यथानुपपत्ति परिहारात । गङ्गायां पापी गच्छतीत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान्न दोषः । 'नक्षन्नं दृष्ट्वा वाचं विसृजेद्" इत्यत्रान्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वीकारा- त् । एकानुगमकस्वीकारेण निर्वाहेऽनेकानुगमकस्वीकारे गौरवाच । विशिष्टार्थबोधकशब्दस्य पदार्थंकदेशे लक्षणायां जहद्जहल्लक्षणेति व्य- वहरन्ति वृद्धाः । वाक्यार्थे किञ्चिदंशत्यागः किश्चिदंशपरिग्रहश्च । अत्र ग्रामैकदेशे पटैकदेशे च दग्धे ग्रामो दग्ध: पटो दग्ध इति व्यवहारः । 'त- स्वमसि' इत्यत्र सर्वज्ञत्वाल्पज्ञत्वयोस्त्यागः शुद्धचैतन्ययोरभेदान्वयः । स्वबोध्यसम्बन्धो लक्षणेति केचित् । गभीरायां नद्यां घोष इत्याद्यनु- राधात् । तथाहि-न तावद् गभीरपदं तीरलक्षक, नद्यामित्यनन्वयापत्तेः । नहि तीरं नदी । अत एव न नदीपदेऽपि । गभीरपदार्थानन्वयात् । न हि तीरं गभीरम् । न च प्रत्येकं पदद्वये सा, विशिष्टनदीबोधानापत्तेः । तस्मा- अन्वयानुपपत्तिज्ञानस्यैव तद्धेतुत्वे । *जहदजहल्लक्षणेति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति, यथा-तत्वमसीति । अत्र तत्पदवाच्ये सर्वज्ञत्वा. दिविशिष्टे त्वंपदवाच्यस्यान्ताकरणादिविशिष्टस्याभेदानुपपत्या उभयत्र विशेषणांश. परित्यागः । तथाच-तत्पदलक्ष्यस्य शुद्धस्य त्वंपदलक्ष्येण सहाभेदान्वयोपपत्चिरित्य- भिप्रायः । इदाहरणं जीवब्रह्मणोरैक्यं अवतां ब्रह्मवादिना सिद्धान्ताभिप्रायेण । *ग्रामो दाधः इति । ग्रामो दग्धः, पुष्पित वनमित्यादौ दग्धादिपदानि अर्शआद्य- जन्तानि इति "अर्थवत् सूत्रभाष्योक्तस्तत्र लक्षणव नेति केचित् । तत्त्वमसीति । यत्र हि विशिष्टवाचकः शब्दः स्वायें एकदेशं विहाय एकदेशे वर्तते तत्र जहदजह- लक्षणा । यथा सोऽयं देवदत्तः इति अन हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्या पदद्वयस्य विशेष्यमात्रपरत्वम् । यथा तत्वमसीत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिवि- शिष्टस्य त्वंपदवाच्येन अन्त:करणविशेष्टेनैक्यायोगादेक्यसिद्धयर्थं सर्वज्ञत्वाल्पज्ञत्वयो. स्त्यागः, शुद्धचैतन्ययोरभेदान्वयः । *स्वबोध्येति । स्वं वाक्यं तेन षोध्या ज्ञाप्या, तेन वाक्यस्य लक्षणा । गभीरायां नधामिति वाक्यस्य बोध्यो गभीराभिन्ना नदी तत्सम्बन्धस्तीर इति भावः । केचिदिति । मीमांसकाः । नहि तीरं नदीति । गभीरतीरे नद्यामित्यर्था- सम्भवात् । न नदीपदेऽपीति। नदीपदेन मदीतीरग्रहणे गभीरसमानाधिकरण्या- सम्भव इत्यर्थः । *प्रत्येकमिति । गभीरपदस्य गभीरतीरे नदीपदस्य नदीतीरे लक्षणाविवारः। समुदायबोध्यगभीरत्वविशिष्ट नदीपदार्थः, तत्सम्बन्धो लक्षणेतिः। द्विरेफप. इस्य स्खलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लक्षितलक्षणेति व्यवहारः । स्वबोध्यपदवाच्यत्वं सम्बन्धः। इत्यर्थः । *समुदायबोध्येति । अत एव अर्थवादवाक्यानां प्राशस्त्ये लक्षणासिद्धिः। परे तु शक्यतावच्छेदकारोपो लक्षणेत्याचक्षते । तथाहि-आरोपितशक्यतावच्छे. दकरूपेणान्यव्यक्तिबोधे लक्षणेति यथा गङ्गार्या घोषः इत्यतः शक्यतावच्छेदकप्रवाह- त्वस्य तीरविशेपे आरोपाद्गलास्वरूपेणेव तीरबोधो न तीरत्वरूपेण । तथाच गौर्वाहिक इतिवत्तीरे अरोपेणान्दयानुस्पत्या प्रयुक्तमिदं वाक्यमन्यथाऽसोक्तत्वानुपपत्तिरतस्ती- स्लक्षकमिदमिति बोद्धा बुध्यतीत्यभिप्रेत्येति बोध्यम् । एवं छत्रिणो यान्तीत्यादाव- छत्रिषु छत्रित्वस्य काकेभ्यो दधि रक्ष्यतामित्यादौ दध्युपघातकमात्रे काकत्वारोपः । अत एव "योगादाख्यायाम्" इतिसूत्रे भाष्ये गोपोत्यादौ गोपपदस्य गोपसम्न. न्धिस्त्रीत्वाश्रयगोप्या लक्षणायामणप्रत्ययान्तलाधुतामापाचैतदर्थे एतदसाधुत्वमा- शङ्ख्य समाहित 'नावश्यमयमेवाभिसम्बधो भवति तस्येदमिति, किन्तु तन्मूलक: सोऽयमित्यभिसम्बन्धोऽस्तीत्युक्त्वा चतुर्मिः प्रकारतस्तस्मिन्स इत्येतद्भवति ता. स्थ्यात्ताद्धात्तत्सामीप्यात्तत्साहचर्यान्मचा हसन्ति सिंहो माणवको गङ्गायाँ घोषः यष्टीः प्रवेशयेत्युक्तम् । कैयटोऽपि आरोप्यते तादृप्यमिति । अत एव गङ्गायां मीनघोषोस्त इत्युपपद्यते । अन्यथा गङ्गापदस्य:अजहत्स्वार्थलक्षणायामपि गङ्गात्वतीरत्वोभयाश्रययोगातीरो. भययो!षमत्स्योभयान्वये एकधर्मावच्छिन्नस्य एकधर्मावच्छिन्नेऽन्वयरूपसाहित्या. भावाद् द्वन्द्वान्नुपपत्तिरिति । अत्रार्थ गौतमो ऽप्यनुकूल:-"सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण- सामीप्य-योग-साधन-अधिपत्येभ्यो ब्राह्मण मञ्च कट-राजसतु-चन्दन-गङ्गा-शाटका- ब्र-पुरुषेषु अतद्भावेऽपि तदुपचार" इति । यथा-तस्य भावः-तद्धर्मः, तदभावेऽपि तदुपचार इत्यर्थः । स च धर्मारोपेण आरोपनिमित्तानिच सहचरणादीनि । यष्टी प्रवे. शयेत्यत्र भोजनकाले यष्टिधरब्राह्मणकर्मकप्रवेशनतात्पर्यान्यथानुपपत्या यष्टित्वारोपो- ब्राह्मणे । एवं मचा क्रोशन्तीत्यादावपि बोध्यमिति दिक् । *लक्षितलक्षणेति। यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा। यथा-द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । ननु द्विरेफपदलक्षितेन भ्रमरपदेन शक्त्यैव भ्रमरबोधाल्लक्षणा व्यथेति चेन्न । द्विरे. फपदवृत्त्यभावे 'प्रत्ययानां प्रकृत्यान्विता' इति न्यायविरोधापत्तः। एवञ्च द्विरेफपद. स्यैव लक्षितलक्षणावृत्तिः । तथाच लक्षितस्य लक्षणेति शब्दार्थः ।

- - 1 e- २० परमल घुमञ्जूषायाम्- प्रकारान्तरेण पुनर्लक्षणा द्विविधा । तथा हि- प्रयोजनवती रूढा लक्षणा द्विविधा मता। इति । असति प्रयोजने शक्यसम्बन्धो निरूढलक्षणा । त्वचा ज्ञातमित्यादी यथा त्वचस्त्वगिन्द्रिये । इयं तु शक्यपरपोथैवेति बोध्यम्। गङ्गायां घोष इत्यत्र तीरे गङ्गागतशैत्यपावनत्वादिप्रतीतिः प्रयोजनम् । गौर्वाहीक इत्यत्र सादृश्यं लक्ष्यतावच्छेदकं गवाभेदप्रत्ययः प्रयोजनम् । कुन्ताः प्रविशन्तीति भीतिपलायमानवाक्ये कुन्तविशिष्टपुरुषे कुन्तगततेदण्यप्रतीतिः प्रयोज. नमित्याहुः। तन्न । सति तात्पर्ये सर्वे सर्वार्थवाचका' इति भाष्याल्लक्षणाया अभ- परे तु शक्यसम्बन्ध एव छक्षणा न तु शक्यस्य साक्षासम्बन्धे लक्षणा गौरवात्। तथा च परम्परासम्बन्धेन भ्रमरोपस्थापकत्वाद्विरेफपदस्य भ्रमरे वृत्तिः । ' तथा लक्षितपदघटितलक्षणा लक्षितलक्षणेत्यर्थ इत्याहुः । *प्रकारान्तरेणेति कविवरसम्प्रदायप्रसिद्धप्रकारेणेत्यर्थः *निरूटेति अनादितात्पर्यवती निरूढालक्षणा! असोते प्रयोजने शक्यार्थबाधप्रतिसन्धानपूर्वक तत्सम्बन्ध्यपरार्थबोधे निरूढालक्षणेति व्यवहारोऽन्यथा रूढिशक्तिरेवेति बोध्यम् । तथाचोक्तम्- मुख्यार्थबोधे तद्युत्को ययाऽन्योऽर्थः प्रतीयते । स्टेः प्रयोजनाद्वाऽसौ लक्षणाशक्तिरर्पिता ॥ इति। रूढेः अनादितात्पयविषयत्वादिति भावः । त्वचा ज्ञातमिति । स्वगिन्द्रियजन्यज्ञानीयतावदिति शाब्दबोधः । अन्न हि त्वपदस्य त्वगिन्द्रि येऽनादितात्पर्य कल्प्यते । तत्पदस्य तदथें प्रसिद्धत्वादिति भावः । *साडयमिति। गौर्वाहिकः इति वाक्ये गोपदस्य मोसशार्थलाक्षणिकत्वमिति भावः । एवमग्निर्मा- गवकः इत्यत्रापि बोध्यम् । अन्ये तु उपमितसमासे एव सादृश्यं लक्ष्यतावच्छेदकमाहुः । *कुन्ताः प्रविशन्ती. ति। कुन्ताः प्रावशन्तीत्वत्र भीतिपलायमानवाक्ये कुन्तानां तात्पर्यविषयकुन्ति. प्रवेशे अन्वयाबाधात्कुन्तपदस्य तत्संयुक्त पुरुषे लक्षणा कुन्तगततेक्षण्यप्रतीतिः प्रयो. जनमिति ध्येयम् । ननु यदि सर्वे सर्वार्थवाचका' इति स्वीक्रियमाणे घटपदात्पटबोधापत्तिरित्यत आह-सति तात्पर्येति । अत एव "वृद्धिरादैच् (पा० सू० १०१) इति सूत्रे भाष्ये 'अनेकशक्तः शब्दस्य इत्युक्तं सङ्गच्छते । *अभावादिति । एकवृत्यैव निर्वा.

। लक्षणाविचारः। शान् । वृत्ति द्वयारच्छेदकद्वयकल्पने (१)गौरवात् । (२)जघन्यवृत्तिकल्प- नाया अन्याय्यत्वाच । कथं तर्हि गङ्गादिपदात्तीरप्रत्ययः । भ्रान्तोऽसि, सति जात्पर्ये 'सर्वे सर्वार्थवाचका' इति भाष्यमेव गृहाण । तथाहि-शक्तिद्विविधा-प्रसिद्धाऽप्रसिद्धा च । आमन्दबुद्धिवेद्यात्वं प्रसि- द्धात्वम् । सहृदयहृदयमात्रवेद्यात्वमप्रसिद्धात्वम् । तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः, तीरादौ चाप्रसिद्धेति किमनुपपन्नम् । ननु सर्वेसर्वार्थवाचका' इति चेद् ब्रूपे तर्हि घरपदात्पटप्रत्ययःकिन्नस्या- है अनेस्वृत्तिकल्पनमन्याव्यनिति भावः । *अवच्छेदकेति । अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धान्तः । लाववाच्छकिरकैवेति शाब्दिकरादान्तः । न च 'अन्याय- धानेकार्थत्वम्' इति वाच्यम् ? भवन्मतेऽपि तुल्यत्वात्। एतावान् परं भेदः-भवन्म. ते वृत्तिभेदेन मम मते एकया वृत्येति । गौरवादिति । लक्षणास्वीकारे शक्तिजन्यो- पस्थिति विनाऽपि लक्षणाजन्योपस्थितेः, शाब्दबोधसम्भवेन परस्परं व्यभिचारस तद्वारणार्थमव्यवहितांशनिवेशेऽनन्तकार्यकारणभावेन गौरवञ्च । अपि च पहायोपस्थि. ति प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुत्वे गौरवं व्यभिचारश्च । यद्यपि अ- स्मन्मते इदम्पदमेतदर्थबोधकमिति शक्तिज्ञानेन सामान्यतः कार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानन्तकार्यज्ञारणकल्पनं, तत्रापि च व्यभिचारवारणाय अव्यवहितोत्तरत्व. निवेशे ऽपरं गौरवं तुल्यं, तथापि परमते सर्वस्याप्येतस्य सत्वेन अधिकस्य लक्षणा- कार्यकारणभावगौरवस्य सत्वेनास्मन्मते एव लाधवमिति भावः । *जयन्येति । . (१) अयं भावः-प्रवाहादिसम्बन्धित्वेनोपस्थिततारादौ गङ्गापदादेः 'सर्वे सर्वार्थवाचका" इति भाष्यात् सामान्यतः पूर्व मेव ज्ञातः शक्तिरूपः सम्बन्ध एव कल्पनीयो, न तु शक्यसम्बन्धरूपः । तथा सति तयोरुभयोः शाब्दबोधजनकपदार्थोप- स्थितिजनकपदपदार्थसम्बन्धत्वरूपं शाब्दबोधजनकपदपदार्थसम्बन्धत्वरूपं वा वृत्तित्वं कल्पनीयम् , शाब्दबोधकारणतावच्छेदकत्वम् उपस्थितिकारणतावच्छेदकत्वं च श- तित्वशक्यसम्बन्धत्वयोरुभयोः कल्पनीयम् , इति गौरवम् । शक्तिकल्पनापक्षे तु तख्या एव वृत्तित्वकल्पनं, तत्त्वल्यैव च तत्तदवच्छेदकत्वकल्पन मिति लावधम् । तन्मते अन्यदपि गौरवं भूषणादौ स्पष्टं प्रतिपादितं तत् तत एवावगन्तव्यम् । व्यवहारादिना गङ्गापदादौ तीरादिशक्तेः पूर्व विशेषरूपेणाग्रहेण अप्रसिद्धत्वात लक्षणापदेन व्यवहार इति बोध्यम् । (२) अन्याय्यत्वादिति । पूर्वोपस्थितशक्तिसम्बन्धस्य वृत्तित्वकल्पनमुपेक्ष्य पश्चादुपस्थिततदूघटितसम्बन्धस्य वृत्तित्वकल्पनाया अनुचितत्वादित्यर्थः ।

२२ परमलघुमञ्जूषायाम् । दिति चेन्न। सति तात्पर्ये इत्युक्तत्वात्तात्पर्याभावादिति गृहाण । तात्पर्य चात्र ऐश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिर्लन्धमिति सर्व सुरूढम् । इति लक्षणानिरूपणम्। ननु व्यञ्जना कः पदार्थः ? उच्यते । मुख्यार्थबाधनिरपेक्षबोधजनके मुख्याथसम्बन्धासम्बन्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशि. घ्यज्ञानप्रतिभाधुबुद्धः संस्कारविशेपो व्यञ्जना ! अत एव निपातान द्योतकत्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता । द्योतकत्वं च स्वसमभि- व्याहतपदनिष्ठशचिव्यञ्जकत्वमिति ! वैयाकरणानामध्येतत्स्वीकार आव- । क्त्यैव कार्यनिर्वाह वृत्तिद्वयकल्पनं जघन्यमिति भावः । *तात्पर्याभावादिति । न चतस्य मुख्यत्वापत्तिर्घटपढ़ पटवाचकमिति व्यवहारापत्तिश्चेति वाच्यम् । यदर्थे यत्पर्द प्रसिद्धं तदथें तत्पदवाच्यत्वं तदर्थवाचकत्वं च तत्पदस्येष्यते । तत्पदादेव जायमान. स्तदर्थबोधो मुख्य इति स्वीकारात्। प्रसिद्धिरेव शक्तेर्वाचकभावनियामिकेत्यवबो- ध्यम् । एतेन तदर्थनिरूपित्तप्रसिद्धशक्तिमत्वं तदर्थवाचकत्वं तत्पदनिष्ठप्रसिद्धशक्तिीन- रूपकत्वं तत्पदवाच्यत्वमिति फलितम् । प्रसिद्धिचान बाहुल्येन प्रयोगादेवानुमात. म्येति बोध्यम् । सर्वं सुरुढमिति । परमते शकिज्ञानत्वेनैव हेतुता, शक्यसम्बन्धरू. पलक्षणायां शक्तेरपि प्रवेशादिति वक्तुं शक्यम् । परन्तु तन्न योग्य, शक्तिज्ञानपदा. थोपस्थित्यो कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात्। एवं च शक्तिज्ञानत्वे. नैव हेतुत्वस्य वक्तुमशक्यत्वात् । लक्षणावृत्तिमस्वीकृत्य शक्तिजन्योपस्थितित्वेनैद हेतुत्वकल्पनमुचितमिति दिक् । इत्यर्थदीपिकायां लक्षणाविचारः। लक्षणयैव व्यञ्जना गताति तार्किकमतं निराकर्तुमाह-मुख्याति । 'नि- शेषश्च्युतचन्दनं स्तनतटम्' इत्यादौ मुख्यार्थबाधाभावेऽपि अधमपदार्थपर्यालोचनया व्यङ्ग्यार्थप्रतीतेयंजनावृत्यन्तरमेवेति भावः । *सम्बद्धेति । मुख्यार्थसम्बन्धामा. वाढ्यादेरमावाञ्च न लक्षणेत्यर्थः । *वत्रादीति। वक्त्रादीनां वैशिष्टयस्य ज्ञानेन प्र. तिभया च उबुद्धः संस्कार इत्यर्थः । व्यञ्जकत्वलक्षकत्वयौवैलक्षण्यं दर्शयति-*अत एवेति* ! निपातानामिति । तेषां मुख्यार्थाभावेन लक्षणया असम्भवात् व्यञ्जकता- रूपा घोतकतैवेत्यर्थः । *स्फोटस्येति । लक्षणायास्तु तत्र न सम्भवः । वैयाकरणा- नामिति । न केवलं कवीनामेव किन्तु वैयाकरणानामपि सा व्यञ्जना आवश्यकी, । व्यसनाविचारः। २३ श्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र, तथैवा- नुभवात् । वक्त्रादि(१)वैशिष्टयज्ञानं च व्यङ्गयविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः । यत्तु तार्किकाः लक्षणयैव गतार्था व्यञ्जनेति न सा स्वीकार्येत्याहुः ! यतो व्यञ्जकत्वमेव घोतकत्वमित्यर्थः । लक्षणाव्यानयोवलक्षण्यं दर्शयति-*एषा चेति । लक्षणा पदनिष्ठा व्यञ्जना तु एकदेशनिटाऽपीत्यर्थः। अत्रेदं बोध्यम्-व्यञ्जना- सामान्यलक्षणं अर्थविषयकः प्रतिमोबुद्धः संस्कारविशेष इत्येव, अनतिप्रसक्तत्वात् दीक्षितायुक्तलक्षणामतेऽनतिप्रसङ्गाय मुख्याति । मध्यमं तु स्वरूपकीर्तनम् । तृतीय तु सहकारि। एवञ्च नियन्त्रिताविषयकधीजनकत्वं शब्दव्यञ्जना। वक्त्रादिवैलक्ष- ण्यहेतुका या प्रतिमाशालिनामन्यार्थधीस्त तुव्यापारत्वमर्थव्यञ्जना। अर्थस्येत्यनेन शब्दव्यञ्जनानिरासः । एतेषां न प्रत्येकमेव व्यञ्जकत्वं किन्तु मिलितानामपीति दिक् । *इत्यन्यत्रेति । गुरुमञ्जूषादावित्यर्थः । *ताकिका इति। अत्रालङ्कारिकाः पुनरेवमाहुः 'तीरे घोष इति प्रयोगे स्वायते 'गङ्गायां घोषः' इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतीत्यर्थ व्यञ्जनावश्यिका । न च सा प्रतीतिर्लक्षणयाऽप्युपपद्यते। केवलतीरलक्षणया एवानुपपचिपरिहारे पौत्यपाव- नत्वादिविशिष्टलक्षणायां मानाभावात् । तस्माद्वयञ्जनावृत्तिरवश्यमङ्गीकर्तव्येति । तन्मतं निराकुर्वन्ति तार्किका:-व्यञ्जना हि शक्तिलक्षणान्तर्भूता शब्दशक्तिमुला, अर्थशक्तिमूला च अनुमानादिना अन्यथा सिद्धा। तथा हि-व्यञ्जके नानार्थस्थले 'दूरस्था भूधरा रम्याः' इत्यादौ भूधरशब्देन पर्वतानामिव राज्ञामपि शक्त्यैव प्रती. ति सम्भवति । 'गङ्गायां घोष: इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव । तत्र लक्षणाकल्पिकायाः तात्पर्यानुपपत्तरेव सद्भावात् किमति- रिक्तव्यानयेति । ननु शब्दशक्तिमूलाया व्यञ्जनाया अन्यथासिद्धत्वेऽपि अर्थशक्तिमू: लायास्तस्या नाग्यथासिद्धिः । तथाहि- 'गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्। (१) वस्त्रादयश्च वक्तृबोद्धव्यकाकुवाक्यवाच्यान्यसनिधिदेशकालप्रस्तावचेटा. दयः । प्रस्तावः प्रकरणम् , इतरे प्रायः प्रसिद्धाः । ते चेमेऽर्थशक्तिमूलव्यञ्जनयााव- बोधे सहकारिण इति केचित् । अपरे तु शब्दशक्तिमूलव्यञ्जनास्थलेऽप्येषां सहकारि- ता। अत एव शालकादिना प्रयुक्त 'सुरभिमांसं भवान् भुड्के' इति वाक्येऽभलीला. र्थान्तरप्रतीतिः, न तु गुर्वादिप्रयुक्ते इत्याधन्यत्र विस्तरः । - २४ परमलघुमञ्जूषायाम्- तन्न ! लक्षणाया मुख्यार्थवाधपूर्वकलक्ष्यार्थबोधकत्वात् । मुख्यार्थ- सम्बद्धार्थस्यैव लक्षणाया बोधकत्वात् व्यञ्जनाया अतथात्वेन तदनन्तर्भा- वाच्चेति दिक् । इति व्यञ्जनाविचारः ननु कोऽयं वृत्त्याश्रयः शब्दः । वर्णाः प्रत्येकमिति चेद्, न । द्वितीया. दिवर्णोचारणवैयापत्तेः । नापि वर्णसङ्घातः । उच्चरितप्रध्वंसित्वेन यौग. पद्यासम्भवात् । अभिव्यक्तरुत्पत्तेर्वा क्षणस्थायित्वात्क्षणात्मककालस्य प्रत्यक्षायोग्यत्वेन तवच्छिन्नवर्णस्याप्यप्रत्यक्षत्वात् । उच्चारणाधिकरणका- लोत्तरकालवृत्तिध्वंसप्रतियोगित्वमुच्चरितप्रध्वंसित्वम् । "इको यणचि" इ. त्यादौ "तस्मिन् इतिपरिभाषोपस्कृतवाक्यार्थेऽयं पूर्वोऽयं पर इति नष्टस्य प्रत्यक्षविषयेदंशब्देन पौर्वापर्यव्यवहारायोगाच्च । इत्यादौ 'हे प्रिय भवनमनोत्तरं मम प्राणवियोगो भविष्यति । अतो न गन्त. व्यम् इत्याद्यो व्यज्यते। नात्र शक्तिलक्षणाभ्यां निर्वाहः । इत्थं च पञ्जनाया मावश्यकतेत्यपि न वाच्यम् । अनुमानात् । अनुमानाकारस्तु इयं मदीयगमनोत्तरका- लिकप्राणवियोगवती । विलक्षणशब्दप्रयोक्तृत्वात् इत्यादिरूपः । आदिना सम्भाव- नादिपरिग्रहः । इत्यर्थदीपिकायां व्यञ्जनाविचारः। अथ वाचकत्वनिरूपयति-*नन्वित्यादिना* *कोऽयमिति । अखण्डपके आ. भ्यन्तरः स्फोटो जातिव्यक्ती बाझस्फोटाविति त्रीणि वाक्यलक्षणानि। सखण्डपक्षे तु नियतसाधन आख्यातशब्दपदक्रमोवापदसवातो वा आध मेव पदं वा सर्वाणि पदानि वेति पञ्च वाक्यलक्षणानि। तत्रैषु अष्टसु पक्षेषु कः पक्षो युक्तः इति प्रश्नाशयः। वर्ण- स्फोटवादिमतं द्वेधा खण्डयति क्रमेण-*वा प्रत्येकमित्यादिना* | *क्षणस्थायित्वा. दिति । क्षणशब्देन तदाधारः कालो ग्राह्यः । क्षणो नाम शब्दतन्मात्राद्वारा प्रकृतेः परिणामविशेषः। क्षणाधाररूपकालस्य परमाकर्षावधिः। स च न प्रत्यक्षः । अति. सूक्ष्मत्वात् किन्तु तत्समूहरूपः काल एवेति भावः। ननु उच्चारणप्रध्वंसयोर्योगपद्यमयु. तमत आह-*उच्चारणाधिकरणेत्यादिना*। *प्रत्यक्षविषयेति । प्रत्यक्षविषयो य इदं शब्दस्तद्विषयो यो अयं पूर्व इत्यादिरमिलापस्तद्विषयस्य पौर्वापर्यस्य ज्ञान न सम्भव- तीत्यर्थः। *पौर्वापयति। एकैकवर्णवति वागिन्द्रियमेकमेव वर्णमुच्चारयतिः न द्वौ वर्षों स्फोटविचारः। यत्तु तार्किकाः-वर्णानामनित्यत्त्वेऽपि उत्तरोत्तरवणे पूर्वपूर्ववर्णवत्त्वम- व्यवहितोत्तरत्वसम्बन्धेन संस्कारवशाद् गृह्यत इति पदत्य प्रत्यक्षत्वाच्छा- ब्दबोधः । यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्य- क्षपर्यन्तं जायमाना एव सन्तीति न पदप्रत्यक्षानुपपत्तिः । यद्वा पूर्वपूर्ववर्णानुभवजन्यसंस्कारसधीचीनचरमवर्णानुभवतः शान्द- बोध इत्याहुः ।। तन्न । आद्येऽयं पूर्वोऽयं पर इत्यभिलापासम्भवेन अव्यवहितोत्तरत्व- सम्बन्धायोगात् । नष्टविद्यमानयोरव्यवहितोत्तरत्वसम्बन्धस्य वक्तुमशक्य- त्वाच्च । द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्षोपपादनेऽपि पदत्याविद्यमा. नत्वेन तत्र शक्त्याश्रयत्वस्य ग्रहानुपपत्तेः । अविद्यमाने आश्रयत्वाङ्गीकारे नटी घटो जलवानित्याद्यापत्तेश्च । तृतीये येन क्रमेणानुभवस्तेनैव क्रमे तत्संस्कारस्थितिरित्यत्र विनिगमकाभावात् सरो रसो नदी दीन इत्यादी विपरीतसंस्कारोबाधेन प्रत्येकमन्यार्थप्रत्ययापत्तेः । उत्पत्तिविनाशवद्वर्ण- समुदायरूपपदस्य मनुष्यादिवद्भेदे "एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युग- पत्सर्वयागेष्वङ्ग भवति" इति भाष्यविरोवापत्तेश्च । प्रादुर्भूतोऽभिव्यक्तः । ननु कस्तहि वृत्त्याश्रयशः । स स्फोटात्मक इति गृहाण ।। ननु कोऽयं स्फोट: ? उच्यते । चतुर्विधा हि वागस्ति-परा पश्यन्ती उच्चारितश्च वर्णस्तदानीमेव नष्ट इति पौर्वापर्यसंहितयोरसम्भव इत्यर्थः ।। *संस्कारवशादिति । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितचरमवर्णानुभव एव तावद्वर्णगोचरां स्मृति जनयतीति ताकिकाशयो बोध्यः। *शब्दजशब्देति । यथा वीचिरुत्पन्ना तरङ्गान्तरमुत्पादयतीतिवीचितरङ्गन्यायेनैकैकशब्दाच्छब्दान्तरोत्पत्तिः, वतः श्रोत्रमागतो गृह्यते इति तार्किकाः। अव्यवहितोत्तरत्वसम्बन्धेनेत्यादिकां प्रथमा. माश निराकरोति-*अभिलापासम्भवेनेति । *मविद्यमान इति । अविद्यमा. नयोरपिजलघटयोराश्रयतानिरूपकत्वस्याश्रयत्वस्य च त्वद्रीत्या बाधाभावात्। त. ज्ज्ञानस्य प्रमात्वापत्तिः । किञ्चैवं पदवाक्ययोरभावेन शब्दार्थसम्बन्धस्यैव हानिः । तदुक्कं हरिणा- 'अशाब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् । इत्यादिनेत्यलम् ॥ *स्फोटात्मक इति । श्रोत्रेन्द्रियग्रायः स्फोटनामा पदार्थ इति भावः। चतुर्वि- - -- परमलघुमञ्जूषायाम्- मध्यमा वैखरी च । तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्म रूपा स्पन्दशून्या बिन्दुरूपिणी परा वागुच्यते । नाभिपर्यन्तमाग- च्छता तेन वायुनाऽभिव्यक्ता मनोगोचरीभूता पश्यन्ती वागुच्यते । एतद् द्वयं वाग्ब्रह्मयोगिनां समाधौ निर्विकल्पकसविकल्पकज्ञानविषय इत्युच्यते। ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता तत्तदर्थवाचकस्फोटरूपा श्रोत्रग्रहलायोग्यत्वेन सूक्ष्मा जपादौ वुद्धिनिग्रह्या मध्यमा वागुच्यते तत आस्थपर्यन्तमागच्छता तेन वायुनोव॑मानामता च मूर्धानमाहत्य परावृत्य धति । परा पश्यन्ती-मध्यमा-वैखरीतिभेदात् । तथाहि- 'वैखरी शब्दनिष्पत्तिमध्यमाश्रुतिगोरा । उद्यतार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥ इति ॥ मश्रुतिगोचरेतिपदच्छेदः । सा श्रुतिगोचरा न किन्त्वन्तः करणग्राह्या, वैखयैव श्रुतिग्राहोत्यर्थः *मूलाधारस्थेति । षण्णवत्यमुग्लो देहायामः । तत्र अष्ट. चत्वारिंशत्तममधस्तादुपरि घ परित्यज्य मध्ये मूलाधारः । तदाहुः- 'पाबन्ताद्वयङ्गलादूचं लिङ्गाच्च द्वयनुलादधः । मध्यमेकाङ्गुलं यच्च देहमध्यं प्रचक्षते ।। 'नवाङ्गुलोर्वतस्तस्मादस्थिकन्दोऽण्डसन्निमः । चतुरङ्गुलविस्तारस्तन्मध्यं नाभिरुच्यते ॥ इति । कुण्डलिनी मूलप्रकृत्यात्मिका महदादिभिर्वेष्टिता सर्पत्तिष्ठति मूलाधा- रादुत्थितः पवनो नाडीद्वारेण कार्याणि करोतीति पाताले स्पष्टम् । योगिनामिति । योगिनामित्युक्त्या न बुद्ध्या निश्चयात्मिकया हिरण्यगर्भदेवत्यातद्रूपप्रणवरूपत्वेन वो. पास्यता दर्शिता। निराधारस्य चोपासनासम्भवादाधारोऽप्युक्तचेतनाधिष्ठानमन्तरे. गाचेतनाना प्रकाशकत्वासम्भवादधिष्ठातृदेवताकीर्तनम् । *समाधाविति । 'सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत्कदाचन । इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तितः ॥ इति॥ अपरञ्च-"समाधिस्तु समाधानं जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थिति सास. माधिः प्रत्यगात्मनः" इति ॥ निर्विकल्पकेति । तत्वं च-चिन्मानविषयत्वम् । *मध्यमा वागुच्यत इति । स्वयं तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेन उपांशु. शब्दप्रयोगे च यमाणा चेत्याहुः । इति। ।

स्फोटविचारः। २७ च तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्राह्या वैखरी वागुच्यते । तदाह- परा वाङ् मूलचस्था पश्यन्ती नाभिसंस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ।। इति । वैखर्या हि कृतो नादः परश्रवणगोचरः । मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते ।। इति च। युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते । तत्र मध्यमानादोऽर्थवाच- कस्फोटात्मकशब्दव्यञ्जकः। वैखरीनादो ध्वनिः सकलजनश्रात्रमात्रग्राह्यो भेर्यादिनादयन्निरर्थकः । मध्यमानादश्च सूक्ष्मतरः कर्णपियाने जपादो च सूक्ष्मतरवायुव्यङ्गयः शब्दब्रह्मरूपस्फोटव्यञ्जकश्च । तादृशमध्यमानादव्य. गयः शब्दः स्फोटात्मको ब्रह्मरूपो नित्यश्च । तदाह हरिः- अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । *वैखरी वागुच्यत इति । प्रणव एव व्यानोदानाभ्यां वैखरीरूपं प्रतिपद्यते । अन्न एव हरिणा व्याकरणस्य त्रिविधा वाग्विषय इत्युक्तम् । 'वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदभुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परम्पदम् ॥ इति ॥ *स्फोट इति । शाब्दिकानां वाच्यलक्ष्यव्यङ्ग्यार्थप्रतिपादकानां वाचकलाक्षणि- कव्यञ्जकानां शब्दानां तनिष्ठजातेर्वा स्फोट इति व्यवहारः। स्फुटति अर्थो यस्मादिति व्युत्पत्या पङ्घजादिपदवद्योगरूढः स्फोटशब्दः। केवलयोगस्वीकारेवाच्यलक्ष्यव्यङ्यानां चेष्टायाश्च व्यङ्यार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः । एवं चानिष्ठविषयताप्रयोजकश. क्तिमत्वमेव स्फोटत्वम् । *अनादीति* । आदिनिधनरहितशब्दोपग्राह्यतया शब्दतत्वं स्थितिप्रवृत्तिप्रवि. भागादिशब्देन क्रियते। तच्चाक्षरनिमित्तत्वादक्षरं प्रत्यक चैतन्ये निवेशितस्य परबोधा. थमभिव्यक्तरर्थभावेन विवर्तते तत्वादप्रच्युतमेकं भेदानुकारणाशक्त्यानेकरूपतां प्रति. पद्यते । न तत्रारम्भवादः परिणामवादो वा विवक्षितः, किन्तु विववादः । यथा, रज्जुः स्वयमविकृत्व सती मायया साकारेण विवर्तते । कारणस्वरूपाविरोधे च कार्यप्रति भासः । अतो ब्रह्मणो निर्विकारत्वान्न नित्यत्वविरोध इति बोध्यम् ॥ - , परमल घुमञ्जूषायाम् । स च यद्यप्येकोऽखण्डश्च, तथाऽपि पदं वाक्यं जपाकुसुमादिलौहित्य- पीतत्वादिव्यञ्जकोपरागवशाद लोहितः पीत: स्फटिक इति भानवद् वर्णा- दिव्यङ्गयः वर्णरूपः पदरूपो वाक्यरूपश्च । यथा च मुखे मणिकृपाणदर्पण- व्यञ्जकोपाधिवशादैर्व्यवर्तुलस्वादिभानं तद्वत । तदुक्तम्- पदे न वर्णा विद्यन्ते वाक्येष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।। इति । किञ्च व्यञ्जकध्वनिगतं कत्वगत्वादिक :स्फोटे भासते। विम्बगतध. - । *वर्णादीति । अत्रादिशब्देन पदवाक्ययोः सङ्ग्रहः । तेन वर्णरूपमध्यमानादव्य हायो वर्णस्फोटः । पदरूपमध्यमानादब्बङ्गयः पदस्फोटः । वाक्यरूपमध्यमानादव्यङ्गयो बास्यस्फोटः । तद्वदिति । यथा एकस्यैव मुखस्य कृपाणदर्पणाधभिव्यावशादै- यवर्तुलत्वादिप्रतीतिः, तथैवैकल्य तस्यैकत्वेऽपि तत्र व्यञ्जकरूपप्रतिबिम्बजन्यतद्प- निरूपितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी बोध्या। अत एवभ्युपगमार्थ न तत्र जातिकल्पनापि । वर्णाभिन्नव्यञ्जकाऽभावाचन कदाचिदपि वर्णराहित्येन तत्प्रती. तिस्तत्प्रतिविम्बसमर्पकाश्च संस्कारा एव । ते च येन मेण चित्तस्थास्तेनैव व्यञ्जक- रूपिता तस्येत्यभ्युपगमाच्य न सरो रस इत्यनयोरविशेषः । व्याकरूपरूपितस्यैव नस्यार्थं शक्तिग्रहाच्च, न घटादिपर्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्र. वणेऽर्थबोधापत्तिः । अत एवेदमेकं पदं, पदमिदमे कवाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इति दिक् ॥ श्पदे । पचतीत्यादौ । न वर्गाः । नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजे. नाह-*वणधिति ! एकारौकारलकारऋकारादिवर्णेषु अवयवाः प्रतीयमानापि यथा नेत्यर्थः । सा प्रतीतिस्तु तत्तदुच्चारणविशेषव्यङ्ग्यतत्तवर्णसमानाकारकध्वनिविशेषो. परागौपाधिका भ्रान्तिरेव, अतो नार्थसाधिका । एकादावयवकल्पने गौरवापत्तेरिति भावः । एवं वाक्येऽस्याह-वाक्यादिति । पदानामपि वाक्याद्विवेको-भेदो ना- स्तीत्यर्थः। ननु मध्यमानादव्यङ्गयत्वेऽपि स्फोटात्मकशब्दस्य ब्रह्मवनित्यत्वैकत्वयोव्यवस्था. नाटककारोऽयंगकारोऽयमिति व्यवहारानुपपत्तिस्तस्य भेदनिबन्धनत्वादत आह-कि. नेति । *स्फोटेभासत इति । यथातिशुभ्रस्य निर्मलस्यापि स्फटिकस्य जपाकुसुमा- दिविजातीयरक्तादिवस्तुछायापातेन रक्तत्वाध्यवसायः, तथातिभेदरहितस्यापि नित्य- स्टकस्यापि स्फोटस्य विकारध्वनिगतत्वावध्यवसायेनककारो गकार इत्यादिव्यवहा- रोपपत्तिरिति भावः॥ ।

स्फोटविचारः। मवैशिष्टयेनैव प्रतिबिम्बस्य लोके अवधारणाद् । व्यञ्जकरूपितम्यैव स्फटिकादेर्भानाच्च । यथा चैकस्याकाशस्य घटाकाशो महाकाश इत्यौपा- धिको भेदः, यथा चैकस्यैव चेतनस्यौपाधिको जीवेश्वरभेदो; जीवानां च परस्परं भेदः, एवं स्फोटे व्यञ्जकध्वनिगतकत्वादि भानात्ककारो बुद्ध इत्यौ. पाधिको भेदव्यवहारः । औपाधिको भेद इत्यत्रोपाधिः कत्वादिभिन्न *व्यञ्जकरूषितस्यैवतिभा यथा-जपाकुसुमादिनानाव्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपान रूपितस्य नानात्वेन प्रतीतेरपि स्फटिकस्यैकत्वं, तथात्रापि व्याकध्वनिगतनानात्वेन प्रतीतावपि स्फोटस्यैकत्वमिति भावः । यथैकस्याकाशस्योपाधिवशानानात्वं वटाका. शो मठाकाश इत्यादिस्तथैव प्रकृते उपाधिवशानानात्वमिति प्रदर्शयति यर्थत्यादि. ना । *एकस्यैव चेतनस्येति । यथा लोके अमलः स्फटिकमणिः स्वसन्निहितानां ना. नाविधवर्णानां बन्धुकादीनां वर्ण धत्ते, रक्तः स्फटिक इत्यादि, तद्वद् विभुः आत्माऽपि गुणभावितस्य प्रकृत्या प्रकाशितस्य देहादिलक्षणस्य उपाधे व देवत्वमनुष्यत्वादिकं धत्ते इत्युपाधिवशात् जीवेवरभेद इति भावः ! *औपाधिक इति। ध्वनिगतभेदस्य वर्णेष्वारोपादिति भावः । *औपाधिको भेदव्यवहार इति । अत्रेदं तत्वम्-अवर्णादीनामेकत्वं नित्यत्वं विभुत्वं च तदवयवक. पदादेरपि तत्वम् । कण्ठतालवाद्यमिघातस्तद्वयनकः । देशभेदपि पटादीनां देशवाटित. सनिवेशाभेदवत्कालभेदेऽपि तद्घटितानुपूर्व्या अभेदः । "प्रत्यक्षप्रत्यभिज्ञानाद्वणकत्वं प्रतिष्ठितम् । वर्णात्मकं पदं तच्च तदभेदान्न भिद्यते। इत्युक्तः ॥ दिनान्तरानुभूतेऽधुनानुभूयमानस्य सोऽयमितिप्रत्यभिज्ञया तावत्कालं स्थिरत्वसिद्धेस्तावत्कालं स्थिर चैनं कः पश्चान्नाशयिष्यतीति न्यायात्पराभिमताशु. विनाशित्वव्यतिरेके सिद्ध नित्यत्वपर्यवसानम् । नित्यत्वञ्चैषां सृष्ट्याधकालोत्पात्त- कत्वं प्रलयकालनाश्यत्वं चेत्येतावदेव बोध्यम् । सर्वदेशेषु तदुपलम्भाद्विभुत्वम् । साधवाच्चैकत्वम् । आनुपूर्वीघटकमव्यवहितोत्तरत्वं चैतत्पक्षे-उत्पत्यनवच्छिन्नस्व- ज्ञानाधिकरणकालोत्पत्तिकज्ञानविषयत्वम् । यथा-अत्यन्तरागवतः कामिनीसाक्षा. कारस्थले ज्ञानधाराकल्पने गौरवादेकत्वं तद्वत् ज्ञानानामपि एतद्विषये स्थिरत्वम् । व्याकगतवैजात्यमादायैव ककारहकारयोभदव्यवहारः। अद्वैत सिद्धान्ते विषयसम्ब. न्धजन्यवृत्तिवैचित्र्येण व्यङ्गय स्वरूपसुखे भेदव्यवहारवत् । विशेष्यांशमादायाभेदेऽपि तत्प्रतीति पाद्या । उपाध्यनालिभिततत्प्रतीत्यभावात् । देशकालभेदप्रत्ययोऽप्यौपा- धिक एव । स एव च पदादिरूपेणापि व्यङ्ग्य इति बोध्यम् । अन्नापि काल्पनिक प्रकृतिप्रत्ययविभागः पदे, वाक्ये व पदविभागः । भेदेन कल्पिता मपि ते पदवदेव परमलघुमजूषायाम् । उपाधेयस्तु आकाशस्फोटादिरेक एवेति तात्पर्यम्। पदवास्ययोस्सखण्डत्वपक्षे स्वन्तिमवर्णव्यङ्गयः स्फोट एक एव । पूर्वपूर्ववर्णस्तु तात्पर्यग्राहकः । न्या- यनये चित्रगुरित्यादौ चित्रादिपद्वत् ।। ध्वनिस्तु द्विविधः । प्राकृतो वैकृतश्च । प्रकृत्याऽर्थबोधनेच्छया स्वभावेन वा जातः स्फोटव्यञ्जकः प्रथमः प्राकृतः । तस्मात्प्राकृताजातो विकृतिवि. शिष्टश्चिरस्थायी निवर्तको वैकृतिकः । हरिरप्याह- स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते। शवदस्योर्ध्वमभिव्यक्तवृत्तिभेदे तु वैकृताः ।। ध्वनयः समुपोहन्ते स्फोटात्मा तैन भिद्यते ।। इति । नित्याः । तदुक्तम् "आद्यन्तौ” इति सूत्रे भाष्ये "नित्येषु शब्देषु कूटस्थैरविचालिभि- चणभवितव्यम्॥ इति दिक् । *आकाशस्फोटादिरिति । आकाशश्च स्फोटश्च आकाशस्फोटौ, तौ आदिर्यस्येति विग्रहः । अथवा मासमन्तात्काशते-प्रकाशते इत्याकाशः स्वयम्प्रकाशरूपः ब्री. त्यर्थः । स चासौ स्फोटश्चेति बोध्यः । स्फोटरूपस्य शब्दस्य ब्रह्मरूपत्वं स्मृतिपुराणप्र- सिद्धम् --"शब्दे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति इत्यादि । ननु अन्तिमवणेस्यैव तात्पर्यप्राहकत्वे पूर्वपूर्ववर्णोच्चारणानर्थक्यमित्याशङ्ख्याह- *पूर्वपूर्वति । न्यायनये इति । तेषां मते चित्रग्वादिबहुव्रीहौ गवादिपदमेव चित्राद्य- भिन्नगवादिस्वाम्यथें लाक्षणिकम् । चित्रादिपदन्तु लक्षणायां तात्पर्यग्राहकं यथा क. ल्यते, तथा प्रकृतेऽपि वरमवर्णजन्यबोधे पूर्वपूर्ववर्णास्तात्पर्यग्राहका इति बोध्यम् । *ध्वनिल्त्विति। 'ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषां चिदुभयं तत्स्वभावतः । इति । स्फोटः शब्द इति श्रोत्रेन्द्रियग्राह्यस्फोटनामा पदार्थः शब्दः, ध्वनिस्तद- भिव्यक्त्युसरं जोयमानो चैकृतध्वनिरूपः, शब्दस्य चिराचिरोपलब्धिकारवादू गुण उपकारकः । *प्राकृत इति । प्राकृतशब्देन स्फोटव्यञ्जकमत्रोच्यते । तथाहि- 'स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते। ग्रहणे-अभिव्यकावित्यर्थः । वैकृतिक इति । 'स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते। स्थितिभेदे चिराचिरोलब्धिविशेषे इत्यर्थः । ।

स्फोटविचारः। । शब्दस्याभिव्यक्तरूज़, वैकृता बनयो जायन्ते इति शेषः । वृत्तिभेदे इति। अभ्यासार्थे द्रुता वृत्तिमध्या वै चिन्तने स्मृता। शिष्याणामुपदेशार्थ वृत्तिरिष्टा विलन्विता ।। इति । तिसृषु वृत्तिषु समुपोहन्ते कारणानि भवन्ति स्फोटस्तु तैर्न भिवत इति तदर्थः। अत्रेदं बोध्यम्-नचिद् घटनानयेति वैखरीनादः प्रयुक्तः, स केन वच्छोडेन्द्रियेण गृहीतः, स नाद इन्द्रियद्वारा बुद्धिहृद्गतस्सन्नर्थबोधकं 'शब्दस्योर्ध्वमभिव्यक्तवृत्तिभेदे तु वैकृताः। ध्वनयः समुपोहन्ते स्फोटात्मा तन भिद्यते । इति । *[तेति । द्रुतायां वृत्तौ तदुच्चारयति वक्तरि ब्रह्माण्डसम्बद्धासामृतविन्दुस्रावि. गोति योगिप्रसिद्धेर्यस्याः सुषुम्णारब्धनाडिकाया अनवपानीग्रबिन्दवः स्ववन्ति, तस्या एव मध्यमायां वृत्तौ द्वादशबिन्दवः स्त्रवन्ति, विलम्बितायां वृत्तौ षोडषबिन्दवः स्व. न्तीति पूर्वपूर्वतस्त्रयो भागा अग्रेऽधिका इत्यर्थ: । वैखरीनाद इति* । अत्र नन्दिके. श्वरकाशिकायामपीदमुक्तम्- 'ज्ञप्तेर्बभूव पश्यन्ती मध्यमा बाक् ततः परम् । वन विशुद्धचक्राख्ये वैखरी सा मता ततः। इति विशुद्धचक्राख्ये वस्त्रे अभिग्यको यो वैखरीनादः । *प्रयुक्त इति* । घट- कम्मकेच्छया वक्त्रा वैखरीनादाख्यो ध्वन्यपरपर्यायो मध्यमानादस्फुरणायोचारित इत्यर्थः । एतबादल्यैव परश्रवणेन्द्रियपाहताया उक्तत्वात् “उच्चारितः शब्दप्रत्या. यको नानुचारितः' इति न्यायादिति भावः । भगृहीत इति । श्रावणप्रत्यक्षविषयीकृत इत्यर्थः । *इन्द्रियद्वारेति। श्रोत्रा- दीन्द्रियद्वारेत्यर्थः । ॐबुद्धिहृद्त इति । बुद्धिर्नाम निश्चयात्मिका अन्तःकरणवृत्तिः । हृत्-नामचित्तं, 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरकोशात् । अनु सन्धानात्मिका अन्त:करणवृत्तिहि चित्तम्-पूर्वाननुभूतो हि विषयो बुद्धिविषयो भ. वति । हृदः पुनः पूर्वानुभूत इति द्वयोर्मध्ये भेदः । तौ गतः बुद्धिचित्तगत इत्यर्थः । *अर्थबोधकमिति*। 'बुद्धा कृत्वा सर्वाश्चेष्टाः कर्ताधारस्तन्वीति । शब्देनार्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्थे । य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति अस्मिन्नथऽयं शब्दः प्रयो. - । ।

परमल घुमञ्जूषायाम्- शब्दं स्वनिष्ठकत्वादिना व्यञ्जयति तस्मादर्थबोधः । स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोट: । उच्चारयितुस्तु युगपदेव मध्यमावैखरिभ्यां नाद उत्प. द्यते । तत्र वैखरीनाशेवन्हेः फत्कारादिवन्मध्यमानादोत्साहकः, मध्यमाना- दस्फोट व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः । परस्य विलम्बेनानुभवसिद्ध- त्वात् । अत एव श्रोत्रोपलब्धिर्बुद्धिनिर्माह्यः प्रयोगेणाभिज्वलित आकाशदे. शः शब्द इत्याकरग्रन्थस्सङ्गच्छते । कत्वादिना श्रोत्रोपलब्धित्वं स्फोटात्मक- पदादिरूपेण तु बुद्धिनिर्ग्राह्यत्वम् , स च प्रयोगेण वैखरीरूपेणाभिज्वलितः स्वरूपरूषितः कृत इति तदर्थः । तत्रापि शक्यत्वस्येव शक्ततावच्छेदिकाया वर्णपदवाक्यनिष्ठजातेवाचकत्वम् । तदुक्तम्- अनेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृता । इति । तस्मादष्टविधस्फोटात्मकश्शब्दो वृत्त्याश्रयः । वस्तुतस्तु वाक्यस्फोटो . कव्यः, अस्मिश्च शब्दे अयं इति "परस्सन्निकर्ष" सूत्रे भाष्ये स्पष्टम् । *स्फुटत्य. र्थोऽस्मादिति । स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति व्युत्पत्या अर्थप्रकाशत्वम् , प्रकाशश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्वं पर्यावस्यति । *फूत्का. रादिवदिति* 1 अप्रज्वलितस्य वहः फूत्कारादयो यथा उद्बोधकास्तथा वैखरीनाद इति भावः । *श्रोत्रोपलब्धिरिति । श्रोत्रे एवं उपलब्धिय॑स्येत्यर्थः । श्रोत्रो. पलब्ध्या च शब्दस्याकाशदेशत्वं प्रतिपादितम् । *आकाशदेश इति । कर्णशष्कुल्यवच्छिन्नमस एव श्रोत्रत्वादाकाशदिशोनातिरिक्तत्वमित्यभिप्रायेण देशशब्दप्रयोग आकाशे बोध्यः । यहा आकाशो देशः अभिव्यक्तिस्थान यस्ये ति बहुवीहिः । आकाशे एव शब्दाभिव्यक्तिस्वीकारात् । बुद्धिनिशि इति । पूर्व पूर्वध्वन्युत्पादिताभिव्यक्तिजनितसंस्कारपरम्परासहकृतान्त्यवर्णबुद्धिग्रहयोग्य इत्यर्थः। *प्रयोगेणेति । प्रयोगो नामध्वनिः, तेनाभिव्यक्त इत्यर्थः । स्वरूपरूषितःकृत इति* ऐतेन कदम्बमुकुलादिन्यायेनानन्तशब्दजशब्दानां तत्प्रागभावध्वंसाना तत्प्रत्यक्षानुप. पत्या नैयायिककल्पनमपास्तम् । तत्रापीति ! अर्थगतजातेयथा शक्यत्वं तथा शक्य- तावच्छेदकवर्णादिगतजातरेववाचकत्वमिति भावा *अनेकव्यक्त्यमीति। अनेकाभिः वर्णव्यक्तिभिरभिव्यक्त व जातिस्फोट इति स्मृता। योगार्थतया बोधिकेति भावः । *अष्टविधेति । वर्णस्फोट:, पदस्फोटः, वाक्यस्फोटा, अखण्डपदवाक्यस्फोटौ वर्णवाक्यभेदेन यो जातिस्फोटाः इति । *वृत्याश्रय इति । शक्तयाश्रयेति भावः । वर्णपदभेदस्फोटानान्दूषितप्रायत्वात्स्वमते निष्कर्षमाह-वस्तुतस्त्वित्यादिना । *वाक्यस्फोट इति । लोके तस्यैवार्थबोधकत्वात् । शक्तिप्राहकशिरोमणिना वृद्ध- " आकाहाविचारः। वाक्यजातिस्फोट एव वा वृत्त्याश्रयः । तत एव लोकेऽर्थबोध इत्यायुक्तत्वा- दिति सर्वं सुस्थम् । इति स्फोटनिरूपणम् ॥ अथ शाब्दबोधसहकारिकारणानि आकाङ्क्षा योग्यता-आसत्ति-तात्पर्या- णि । वाक्यसमयग्राहिकाऽऽकाङ्क्षा । सा चैकपदार्थज्ञाने तदर्थान्वययोगार्थस्य यज्ज्ञानं तद्विषयेच्छा प्रस्यान्वय्यर्थः कः' इत्येवं रूपा पुरुषनिष्ठेव, तथापि व्यवहारेण प्रथमं तत्रैव शक्तिमहादिति तात्पर्यम् । अत एव हरिरप्याह- 'वाक्यस्फोटोऽतिनिष्कर्ष तिष्ठतीति मतस्थिति इति । न्यायभाष्यकारैरप्युक्तम्-"पदसमूहो वाक्यमर्थसमाप्तौ" इति । इत्यर्थदीपिकायां स्फोटविचारः। स्वमतेऽर्थवोधजनकत्वरूपैव शक्तिस्तत्र च बोधपदेन शाब्दबोधग्रहणाच्छाब्दबोधे वृत्तिज्ञानाधीनोपस्थितपदपदाधियः कारणत्वेन तद्धटकवृत्यादीन् निरूप्येदानी सह- कारिकारणनिरूपणमारमते-अथ शाब्देत्यादिना*। *सहकारीति* । मुख्यकारणजन्यकार्यजनकत्वे सति मुख्यकारणमित्रत्वमिति । यथा-घटकार्य प्रति मुख्यकारणत्वं कपालस्य । इतरेषां तु सहकारिकारणत्वम् । यथा वा यागादेः स्वर्ग प्रति मुख्यकारणत्वम् , अपूर्वस्य तु सहकारिकारणत्वम् । प्रकृते तु पदज्ञानं शाब्दबोधे मुख्य कारणम्, पदार्थोपस्थित्यादीनां तु सहकारिकार. णत्वम् । तदुक्तं कारिकावल्याम्- 'पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥ इति । एकपदस्य पदान्तरसमभिव्याहार आकाक्षेति केचित् । केचित्तु एकपदस्य प. दान्तरप्रयोज्यान्वयाननुभावकत्वमाकाक्षामाहुस्तान्निराचष्टे-*वाक्यसमयेत्यादिना* अन समयपदं शक्तिपरम् । तथाच वाक्यशक्तिग्राहकेत्यर्थः । यथाह न्यायभाष्यकार "समयज्ञानार्थ चेदं पदलक्षणया वाचोऽन्वाख्यानं व्याकरणं, वाक्यलक्षणया वाचोऽर्थः लक्षणम्" इति । * सा चैकेति । यथा घटादिपदाधज्ञानानन्तरं तदन्वयिन आनयना. देजिज्ञासा भवतीति । यद्यपि 'घटमालय' इति वाक्ये दुयोरपि पदार्थयोस्वगतत्वान्नास्ति जिज्ञासा, त. थापि एकपदार्थज्ञानमात्रे इत्यर्थः तद्विषयेच्छेति ।ज्ञानविषयिणीच्छेत्यर्थः । *पुरु- षनिष्ठैवेति * इच्छारूपायास्तस्यास्तत्रौवौचित्यात् । ननुभवन्मतेऽपिइच्छायाः आत्मगुणत्वेन शब्दे अर्थे वा स्थित्यसम्भव इत्यत आह-*त. ३५० म० ३४ परमलघुमञ्जूषायाम्- तस्याः स्वविषयेऽर्थ आरोपः । अयमर्थोऽर्थान्तरमाकाङ्क्षतीति व्यवहारा- त् । इदमेवाभिधानापर्यवसानमित्युच्यते(१) । पदे तु नारोपः, अर्थबोधोत्त- रमेवाकाङ्क्षोदयात्। पदं साकाङ्क्षमिति तु साकाङ्क्षार्थ बोधकमित्यर्थकम् । तदुक्तं समर्थसूत्रे भाष्ये-"परस्परव्यपेक्षां सामथ्र्यमेके । का पुनश्शब्दयो- यंपेक्षा । न ब्रूमशब्दयोरिति, किं तर्हि अर्थयोरिति” । ईशजिज्ञासोत्थाप- कं चैकपदार्थेऽपरपदार्थव्यतिरेकप्रयुक्तस्यान्वयबोधाजनकत्वस्य(२)ज्ञान- थापीति* *स्वविषये इति। आकाङ्क्षाविषये इत्यर्थः । '*अथें आरोप इति । विषयतासम्बन्धेनाकाक्षायाः अर्थेऽपि सत्वादिति भावः । *आरोप इति । इच्छा- याः सम्बन्धस्य चारोप इति तात्पर्यम् । *इदमेवेति । अभिधानस्य वारकत्वस्यापर्यवसानमपूर्णत्वमित्यर्थः । *अर्थबो. धोत्तरमिति* । पदनिष्टार्थनिरूपितवृत्तिज्ञानोत्तरार्थोपस्थित्युत्तरमिति भावः । अत्रेदं बोध्यम्-पदस्य वा वाचकत्वपक्षे तत्तदर्थबोधस्य निरूपिततत्पदनिष्ट- वृत्तिज्ञानवशात्सम्भवेऽपि संसर्ग वृत्यभावेन तदानं शाब्दबोधे दुरुपपाद, तत्प. दजन्यतदर्थबोधम्प्रति तत्पदनिष्ठतदर्थनिरूपितवृत्तिज्ञानस्य कारणत्वादिति सोऽपि भासताम् । अत एव माकाङ्क्षाज्ञानस्याप्यन्वयबोधम्प्रति कारणत्वं वक्तव्यम् । वाक्यशक्तिवादिनां तु नायं दोषः। तन्मते संसर्गविशिष्ट शक्तिसत्वात् । अत एवान्विताभिधानवादिमीमांसकैकदेशिन इतरार्यान्विताथें शब्दस्य शक्ति स्वीकृत्य इतरान्वितो घटा घटपदशक्य, इत्येवं सर्वत्र शक्तिग्रहं वदन्ति । तत्रान्वयत्वसामान्य. रूपेणान्वयमात्रोपस्थितौ योग्यतावशात् तात्पर्यनिश्चयवाचान्वयविशेषमान मन्यत इति दिक् । ननु आकाक्षायाः पदे आरोपाभावे पदं साकाक्षमिति व्यवहारः कथमुपपद्यत इत्यत आह-*पदमिति *मर्थयोरितिका देवदत्तो गामपेक्षते मदीयेयमिति गौश्व देवदत्तमपेक्षते अहमस्येति स्वं स्वमर्थ प्रति शब्दस्य विशेषणत्वेन गुणीमात्रादर्थयोरेवाकाङ्क्षा न शब्दयोरिति भावः । *एकपदार्थ इति । षटपदाथै अपरपदार्थव्यतिरेकप्रयुक्तस्य अपरपदार्थज्ञाना. (१) अभिधानस्यापर्यवसानम् अपूर्णतेत्यर्थः । (६) एतादृशज्ञानस्य बोधहेतुत्वात् एकवारमन्वयबोधे जाते तदजनकत्वज्ञाना- भावान्न पुनरन्वयबोधः । अन्वयबोधश्च-तदाकाङ्कितसकलक्रियाकारकादिविषयो विवक्षितः । तेन खण्डवाक्यार्थबोधोत्तरं न महावाक्यार्थबोधानुपपत्तिः। एतन्मूलिकेव च 'सकृदुच्चरितः शब्दः सकृदर्थं गमयति इति व्युत्पत्तिरित्यादि लघुमजूषायां स्पष्टमिति तत एवावगन्तव्यम् ।

आकाझाविचारः। ३५ मिति तद्विषये तादृशान्वयवोबजनकत्वेऽप्याकाङ्क्षति व्यवहारः । यहा उत्थापकताविषय तान्यतरसम्बन्धेनोमयसम्बन्धेन वाऽर्थान्तरजि- झासा आकाङ्क्षा । आद्यम्-'पश्यमृगो धावति' इत्यत्र, दर्शनार्थस्य कारक- धावनाकाङ्क्षोत्थापकत्वं धावनं तु तद्विपय एव ! अन्त्यन्तु-पचति तण्डु- लं देवदत्तः इत्यादी, क्रियाकारकयोयोरपि परस्परं तदुत्थापकत्वात्त. द्विषयत्वाच्च । अत एव घटः कर्मत्वम् आनयनं कृतिरित्यतो घटमानयेतिवन्नान्वय- बोधः ; आकाङ्क्षाविरहात् । घटमानयेति विभक्त्यन्ताख्यानान्तयोरेव साकाङ्क्षत्वाच । इत्याकाङ्क्षानिरूपणम् । भावप्रयोज्यस्येत्यर्थः । तथा च-पटपदाथें आनयपदार्थाभावप्रयोज्यबोधाजनकत्वस्य ज्ञानमित्यर्थः। अत एव पदस्य पादान्तरप्रयुक्वान्वयाननुभावकत्वमाकाङ्केति तार्किकाः प्राहुः। यथा घटमिति सुबन्तमानयति च तिङन्तमपेक्ष्यैव घटसम्मकानयनार्थबोधानय. ति। तथैवानयेति तिङन्तं पद घटमितिसुबन्तं पदम्, तयोश्च परस्परमन्यताद्विनाऽर्थ. बोधोत्पादकत्वादिति भावः। *तद्विषये इति । बोधाजनकत्वज्ञानविषय इत्यर्थः । वेदान्तपरिभाषाकारास्तु-पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा । क्रि. याश्रवणे कारकल्या कारकश्रवणे क्रियायाच, जिज्ञासाविषयत्वम् । कचिजिज्ञासाम- न्तरापि शाब्दबोधदर्शनात् तत्सङ्ग्रहाय योग्यत्वपदोपादनमिति वदन्ति । नन्वेवं वरः कर्मत्वम् आनयनं कृतिरित्यादी कमत्वपदोपस्थाप्यकर्मत्वज्ञाने तदर्थान्वययोग्यानयनार्थस्य यज्ज्ञानं तद्विषयेच्छारूपाकासायाः सत्वात् घटमानये. ति वाक्यजन्यशाब्दबोधवत् तत्रापि शाब्दबोधापत्तिरत आह-*उत्थापकेति । एवज द्वितीयान्तपदोपस्थाप्यस्यैव आनयपदोपस्थापितानयने आकासा। एवमान- यपदोपस्थापितस्यैव द्वितीयान्तपदोपस्थापिताथै आकाङ्केति न कश्चिदोषलेश इति भावः । *आद्यमिति । अन्यतरसम्बन्धेन । *कारकधावनेति। क्रियायाः कारका. पेक्षासत्वेन सकर्मकदर्शनादिक्रियायाः कोशे प्रकृते सापेक्षत्वेन तत्र दर्शने धावन- क्रियान्वयौचित्यादिति भावः । *धावनं तु तद्विषय एवेति । ईशस्थले क्रियाकार- कसम्बन्धी वाक्प्रशक्य एव । अत एव "विभाषा साकाङ्के” इति सूत्रे भाष्ये "अस्त्य- स्मिन्नाकाङ्केति च साकासम्" इत्युक्तम् । अस्मिन्निति विषयसप्तमीत्यलम् । अत एवेति । उक्ताकाङ्क्षायाः शाब्दबोधम्प्रति हेतुत्वादेवेत्यर्थः । *विमत्यन्तेति । सुब- न्ततिडन्तयोरित्यर्थः । *लाकासत्वाच्चेति । घनिष्ठकमतानिरूपकानयनबोधे वमित्येतत्सुबन्तानयेतितिङन्तपदयोरेव साकाङ्कत्वादिति भावः। इत्यर्थदीपिकायामाकासानिरूपणम् ।

३ परमलघुमञ्जूषायाम् । योग्यता च-परस्परान्वयप्रयोजकधर्मवत्त्वम् । तेन 'पयसा सिञ्चति इति वाक्यं योग्यम् । अस्ति च सेकान्वयप्रयोजकद्रवद्रव्यत्वं योग्यता जले, करणत्वेन जलान्वयप्रयोजकार्दीकरणत्वं योग्यता सेकक्रियायाम् । अत एव "वह्निना सिञ्चति, इति वाक्यमयोग्यम् । वर्तेः सेकान्वयप्रयो- जकद्रवद्रव्यत्वाभावात्। एतादृशस्थलेषु नान्वयबोधः,किन्तु प्रत्येकंपदार्थबोधमात्रमिति नैयायि काः । तन्न । बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्याभावात् ।। - - क्रमप्राप्तां योग्यता निक्तुमुपक्रमते- योग्यतेत्यादिना* } नैयायिकास्तावत्-बाधाभावो योग्यतास्तु, सा च तात्पर्यविषयीभूतपदार्थसं. सर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावः । यथा हि-तात्पर्य विषयीभूतजल. करणकत्वसम्बन्धे सेकनिष्ठात्यन्तामावप्रतियोगित्वामावः, इति चेन्न । विशिष्टबुद्धौ बाधाभावस्यैकरूपेण कारणत्वासम्भवात् । पृथकरूपेण कारणत्वकल्पने तु गौरवा. च। तदपेक्षया शाब्दबोधे योग्यताज्ञानस्यैव कारणत्वौचित्यात् । परे तु अन्वयप्रयोजकसममिव्याहृतकार्यशक्तिमत्वं योग्यता, सा च शाब्दबोधे भासत । अत एव 'घटेन जलमाहर' इत्यादौ सच्छिद्रेतरस्यैव जलाहरणशक्तिमत्वेन सच्छिद्रेतरत्वप्रकारको बोधः । अत एवं प्रतिनिधेः श्रौतत्वोपपत्तिरिति दिक् । *परस्परेति । अयमेव शाब्दबोधः । अत्राहि-तद्वाक्यजन्यतदर्थनिष्टविष. यतानिरूपकशाब्दबोधं प्रति तद्वाक्यघटकपदार्थानष्ठविशेष्यतानिरूपकपरस्परान्वय- बोधप्रयोजकधर्मप्रकारकज्ञानं कारणमिति कार्यकारणभावोऽवसेयः । ज्ञानञ्चान पदार्थ- स्मृत्यनन्तरमेवापेक्ष्यते, तदैव बाधज्ञानोदयसम्भवात् । न होकपदस्यापरपदासमभि- व्याहारे तत्सम्भवति । एवं हि अस्मिन्पक्षे शाब्दबोधम्प्रति योग्यताहेतुरिति फलती- वि बोध्यम् । *पयसा सिञ्चतीतिपयमा सिञ्चतीत्यादौ सेकान्वयप्रयोजकधर्मजलत्वस्य पयसि, एवं पयाकरणकान्वयप्रयोजकधर्मसेकत्वस्य सेकक्रियायामिति समन्बयो बोध्यः । शाउदबोधस्तु जलनिष्टकरणतानिरूपकाकरणानुकूल-एकालयको वर्तमानकालिको व्यापार इति वैयाकरणमते बोधयः । अलक्ष्ये लक्षणगमनासम्भवो दर्शयति-*सत एवेत्यादिना । अतएव-निरुत- योग्यताया अन्वयबोधप्रयोजकत्वादेव । वहिनेति । अत्र तृतीयार्थकरणताया निरू. पकत्वेनार्दीकरणरूपे सके एवान्वयोऽभ्युपेयः, स च न सम्भवति । वह्नौ आर्दीकरणक- रगताया बाधितत्वादिति भावः । *बौद्धार्थस्यैवति । बुद्धिविषयार्थस्यैव शब्दशक्यत्वेन तस्य शाब्दबोधविषयत्वं ३७ आसत्तिनिरूपणम् । हरिरप्याह- "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति च" । इति अतो बन्ध्यासुतादिशब्दानां प्रातिपदिकत्वम् ।। वह्निना सिञ्चतीत्यतो बोधाभावे तद्वाक्यप्रयोक्तारं प्रति 'अद्रवेण व. 'हना कथं सेकं ब्रवीषि' इत्युपहासानापत्तेश्च । वाक्यार्थबोधे जाते बुद्धार्थ- विषये प्रवृतिस्तु न भवति, बुद्धार्थेऽप्रामाण्यग्रहादित्यन्यत्र विस्तरः ।। इति योग्यतानिरूपणम् । प्रकृतान्वयबोधाननुकू लपदाव्यवधानम्-आमतिः । गिरिरग्निमानित्या- मन्नम् । अनासन्नं च-गिरिसुंक्तमग्निमान्देवदत्तेन' इति । आत्तिरपि । - निष्प्रत्यूहमिति भावः। अत्रेदमवश्यम् - वस्तुतो बाधज्ञानं न कस्यापि ज्ञानस्य प्रतिवन्धकम् । बाधकाले. ऽपि लामग्रयां विद्यमानायां सत्यां ज्ञानं समुत्पद्यत एव, तत्र स्वसामग्रया जायमान- योनियोर्यस्य ज्ञानस्य दोपविशिष्टसामग्रीजन्यत्वं न तस्य प्रामाण्यम् । यस्य तु पुननिर्दुष्टसामग्रीजन्यत्वं नस्य प्रामाण्यमित्येव मर्यादेति लघुमञ्जूषायां स्पृष्टम् ॥ *अत्यन्तति । उत्तरार्धन्तु- "अबाधात्त प्रमामत्र स्वतः प्रामाण्यनिश्चला। इत्यदसेयः। "एष वन्ध्यामुतो याति खपुष्पकृतशेखरः । कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः ॥ अङ्गुल्यने करिशतं क्रीडति । मम कर्णविवर प्रविश्य सिंहो गर्जति । इत्यादिशब्दा. दुत्पद्यमानस्य सान्दज्ञानस्यानुभवसिद्धतया न तद्बाघसम्भवः, किन्तु तज्ज्ञानाविष. यीभूतबाह्यार्थस्य वाबादप्रमाण्यं, विषयस्याबाधात्सर्वत्र प्रामाण्यमिति तात्पर्यम् । इत्यर्थदीपिकायां योग्यतानिरूपणम् । क्रमप्राप्तामासत्तिनिरूपयति-*प्रकृतान्येति । प्रकृतो योऽन्वयबोधस्तदननु. रूपदेन तदजनकपदेनाव्यवधानमित्यर्थः । प्रकृशान्वयबोधानुकूलपदव्यवधाने तु शा. उदबोधो भवत्येवेति फलितम् । *आसत्तिरिति । अन्वयप्रतियोगिपदार्थानां तबोध- कपदानाचाव्यवधानेनोपस्थितिरासत्तिरित्यर्थः । अत एवं गामित्युच्चार्य प्रहरानन्तर मानयेत्यु चारणे आसत्याभावान्न गवानयनप्रतीतिः । ध्वनितछेद संहितासंज्ञा सूत्रे भाष्ये । तदेतत्सः मनसि निधाय वदति-*गिरि(क्तमिति* *आसत्तिस्पीति* । म- न्दस्याविलम्बेन बोधे आसत्तिरपि कारणम् । अमन्दस्य तु आसत्यभावेऽपि बोधो भवतीत्यर्थः । एवं चानासन्नस्थले योजनावाक्याद्विलम्बन बोध इत्येतावतैवानासन्न- ।

। परमलघुमञ्जूषायाम् । मन्दबुद्धेरविलम्वेन शाब्दबोधे कारणम् । अमन्दबुद्धेस्त्वामत्त्यभावेऽपि पदार्थोपस्थितावाकाङ्क्षादितोऽविलम्बेनैव वोधो भवतीति न बोधे तस्याः कारणत्वम् । ध्वनितं चेदं()"नपदान्त"सूत्र भाष्ये । स्थाल्यामोदनं पचतीत्यादौ स्थाल्यामित्यम्यौदनपदेन व्यवधाने सत्यपि प्रकृतान्वयबोधानुकूलत्वादासन्नत्वाक्षतिः ।। इत्यासत्तिनिरूपणम् । एतद्वाक्यं पदं वा एतदर्थबोधायोचारणीयमितीश्वरेच्छा-तात्पर्य्यम् । वन्यवहार इति भावः। *ध्वनितश्चेति । आसक्तिज्ञानस्य कारणत्वमित्यर्थः । *मा. ध्ये इति । तत्र हि स्वरदोघयलोपानां स्थानिवद्भावनिषेधप्रसङ्गे स्वरे कर्तव्ये आक. र्षिकः । चिकीर्षकः । दीर्घ प्रतिदीनः इत्यादौ लोपाजादेशस्य स्थानिवद्भावः प्राति- षेधनिकः इति निषेधं विधाय तत्र हि-"वक्तव्यम्, न वक्तव्यम् । इह हि लोपोऽपि प्रकृतः आदेशोऽपि । विधिग्रहणमपि प्रकृतमनुवर्तते । दीर्धादयोऽपि निर्दिश्यन्ते । केवलं तत्राभिसम्बन्धमानं वक्तव्यम् , स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिव- त" इति । अत्राक्षेपः कृत:-आनुपूज्यण सत्रिविष्टानां यथेष्टसम्बन्धः शक्यते कर्तुम् । नचैतान्यानुपूज्येण सन्निविष्टानि । तस्योपरिसमाधीयत-आनुपूयेगापि सन्निविष्टा- नां यथेष्टममिसम्बन्धो भवति । तद्यथा-अनड्वाहमुदाहारि या त्वं हरसि शिरसा कुम्भ भगिनि साचीनमभिधावन्तमद्राक्षीरिति । तस्य यथेष्टमभिसम्बन्धो भवति उदाहारि भगिनि या त्वं कुम्भं हरसि शिरसा अनड्वाहं साचीनमभिधावन्तमद्राक्षी- रिति उक्तम् । अनेन भाष्येण मासत्ति विनापि शाब्दबोध इति स्पष्टं सुचितम् । अस्थाल्यामोदनमिति । अन्वयबोधाननुकूले तिविशेषणस्य प्रयोजनं प्रदर्शितमिति बोध्यम् । इत्यर्थदीपिकायामासत्तिनिरूपणम् ॥ क्रमपात तात्पर्य प्रदर्शयति-*एतद्वाक्यमिति* ! ईश्वरेच्छेति । ईश्वरपदमन वक्तुरुपलक्षणम्बोध्यम् । अन्यथा नदीवृद्धयादिपदेष्वीवरेच्छाया अमावाच्छाब्दबोधा. नुपपत्तेः। नदीपदमीकारोकारान्तबोधनेच्छयोच्चरितम्, एवं वृद्धिपदमादैच्बोधनेच्छ- योचस्तिमिति शास्त्रकारमावेच्छायाः सत्वात् । इदन्त्वार्थिकार्थकथन- न तु तत्स्वरूप परम् । तच एतद्वाक्यं पदं वा हममर्थम्बोधयतु इति पदविशेष्यकम् । अस्माद्वाक्या- (१) तत्राहि-"स्वरदीर्घयलोपेषु इत्यादिवातिकस्यासंग्रहसिद्धार्थकत्वप्रतिपादना. थमिदमुक्तम् । 'आनुपूव्यंग सनिविष्टानां यथेष्टमभिसम्बन्धः शक्यते कतुं, न चैतान्या. नुपूज्येण सन्निविष्टानि । अनानुपूच्येण सन्निविष्टानामपि यथेष्टमभिसम्बन्धो भवति । तद्यथा-अनड्वाहमुदहारि या त्वं हरसि शिरला कुम्भ भगिनि साँचीनमभिधावन्तम- द्राक्षीरित्यस्य यथेष्टमभिसम्बन्धो भवति, उदहारि भगिनि या त्वं कुम्मं हरसि शिरठा अनड्वाहं साचीनमभिधावन्तमदाक्षीरिति । -- ३६ तात्पर्यविचारः। अत एव सति तात्पर्य सर्वेसर्वार्थवाचकाः' इति शाब्दिकनये घटशब्दात्स्ट- प्रत्यया नेत्याधुक्तम् । नानार्थस्थले लोके तात्पर्य्यन्तु एतत्पदं वाक्यं वा एत- दर्थप्रत्ययाय मयोच्चायते इति प्रयोक्तुरिच्छारूपम् । तात्पांनयामकं च लोके प्रकरणादिकमेव । अतो भोजनप्रकरणे सैन्धवमानयेत्युक्त सैन्धवपदेन लग्णप्रत्ययः, युद्धावसरेऽश्वप्रत्ययः । वेदवाक्ये चेश्वर तात्पर्य्यार्थबोध:: इति तात्पर्य निरूपणम् । । त्पदाहाऽयमों बोद्धव्य इत्यर्थविशेष्यम् । एतदपि न स्वरूपत्वे हेतुः वक्त्रा उच्चारिते वाक्ये पदे वा श्रोतुस्तात्पर्यज्ञानाभावे ताशार्थानुपस्थितेः सर्वजनानुभवसिद्धत्वाद, किन्तु तज्ज्ञानमेव हेतुः । तज्ज्ञान प्रकरणाद्भवतीति उक्तप्रायम् । श्रोतृवोधायैव श. ब्दप्रयोगात्। एवञ्च तत्पदजन्यतदर्थविषयकशाब्दबोध प्रति तदर्थविषयकबोधजनक. त्वनिष्ठप्रकारतानिरूपिततत्पदनिष्ठविशेष्यताक, तथा तत्पदजन्यबोधविषयत्वनिष्ट. प्रकारतानिरूपिततदर्थनिष्टविशेष्यताकं वा वक्तृतात्पर्यज्ञानं कारणमिति कार्य: कारणभावो ज्ञेयः। *अत एव-शाब्दबोधम्प्रति वक्ततात्पर्यनिश्चयस्य कारणत्वादेव । ननु 'सर्वे सर्वार्थवाचकाः' इति न्यायेन वटपदात् पटप्रतीत्यापत्तिरित्यत आह-*सति तात्पर्य इति । *सर्वे सर्वार्थेति । इदन्तु सर्वपदर्मिकसर्वार्थप्रकारकसामान्यशक्तिग्रहस्वरू. पम्। .. *शाब्दिकनय इति । तार्किकमते तु नायं दोषः शङ्खयः। शक्तिग्रहार्थस्मरणयो: समानधर्मप्रकारताकत्वस्य समानधमिताकत्वस्य च नियमादिति ध्येयम् ॥ *घटपदादिति। निरुक्तशक्तिग्रहे सर्वपदत्वेन घटशब्दस्य सर्वार्थपदेन च घटरू- पार्थस्यापि भानात्तस्यापि स्मृतौ तात्पर्य्यनिश्चयस्य हेतुत्वाभावे तत्पदात्तादृशान्व- यबोधापत्तिः स्यात्, सति च तात्पर्य तम्मात्तदर्थबोधस्त्विष्ट एवेति भावः। *नानार्थेति । तत्त्वं च नानार्थनिरूपितनानाशक्तिमत्वम् । अथें नानात्वच ना. नाधर्मावच्छिन्नत्वम् । अतएव 'अर्थभेदाच्छब्दभेदाइति पक्षेऽपि घटत्वाकधर्मावच्छि. ववाचकपदानां न नानार्थकत्वम् । न च 'अर्थभेदाच्छब्दभेदः इति पक्ष एव दुर्वच इति वाच्यम् । 'सकृदुच्चरितः शब्दः सकृदर्थङ्गमयति' इति न्यायस्य जागरूकत्वेन नाना- र्थस्थलीयातिप्रसङ्गवारणायावश्यकत्वेन्नार्थभेदे शब्दभेदाङ्गीकारमन्तरेण गत्यन्तराभा- वादिति दिक् । श्वेदवाक्ये चेति । अत्रापीचरतात्पर्यनिश्चयत्वेन न हेतुता, अपि तु वक्ततात्पर्य निश्चयत्वेनैव । वेदस्य स्वतः प्रमाणत्वेन तत्रेश्वरस्य वक्तुरमावादिति बोध्यम् । इत्यर्थदीपिकायां तात्पर्यनिरूपणम् ।

४० परमलघुमञ्जूषायाम् । ननु प्रकरणादीनां शक्तिनियामकत्वे शक्त्यैव निर्वाहे किन्तात्पर्येणेति चेन्न । अस्माच्छब्दादर्थद्वयविशेष्यको बोधो जायते, अर्थद्वये शक्तिसत्त्वात्। तात्पर्य तु क्वेति न जानीम इत्यनुभवविरोधात् । अत एव च पय आनये. ज्युक्तेऽप्रकरणज्ञस्य दुग्धं जलं वा आनेयमिति प्रश्नः सङ्गच्छते। इत्याकाङ्क्षादिविचारः॥ अथ सकलशब्दमूलभूतत्वाद्धास्वर्थोनिरूप्यते । तत्र फलानुकूलो यत्नसं- हितो व्यापारो धात्वर्थः फलत्वं च तद्धात्वर्थजन्यत्वे सति कर्तप्रत्ययसमभि- व्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपित प्रकारतावत्त्वम् । विभागजन्यसं- अथावसरसङ्गत्या पूर्वनिरूपगानन्तरं सर्वशब्दानाम् उपजीव्यत्वान्मूलप्रकृतेर्धा- तोनिरूपणमारमत-*अथेत्यादिना*। *न-निरूपणीयवात्वर्थविषये। अन्न प्र. भाकरानुयायिनः फलमेव धात्वों भावना तु वाच्यैव न, तद्विषयकशाब्दबोधस्थ सर्वत्राननुभवात् । किन्तु लिङ्येद । परं सा आख्यातवाच्येति । तन्न । “कर्तरि कृतू" इत्यत एवं कर्तृग्रहणस्य "लः कर्मणि" इत्यत्रानुवृत्या तिकृतोवैषम्यस्य दुरुपपाद त्वात् । यत्नातिरिक्तः फलानुकूलो व्यापारो धात्वों, यत्न आख्यातार्थः । धात्वर्थे का. रकान्वय इति गुरुमतं 'तत्तु समन्वयात्' इति सूत्रस्थवाचस्पत्यादिप्रन्थेभ्यो लभ्यमानं भूषणकारोक्तयत्नाख्यातार्थत्ववादिनैयायिकमतदूषणग्रस्तं, तदेतत् ध्वनयन्त्राह--*य. त्नेति । *यनसहित इति । तेनाग्निसंयोगांधीनव्यापारसत्वे अयं न पचतीति प्रयो. गो भवत्येव तत्र यत्नाभावात् । आमवातजडीकृतकलेवरस्य च यत्नसत्वेऽपि यत्न. स्योत्थानानुकूलत्वाभावान्नोत्तिष्ठतीति प्रयोग इति भावः । *फलत्वञ्चेति । लोके रूड्या फलपदस्य लोकप्रसिद्ध विक्लित्याद्यर्थोपस्थापकत्वे. ऽपि अत्र शाखें तस्य पारिभाषिकत्वमेव । सकर्मकत्वादिव्यवहारानुरोधात् । तद्धात्व. थंजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वम् । जन्यत्वञ्च-जन्यत्वनिष्टप्रकारता- निरूपितप्रतीतिविषयत्वम् । गम्यादिधात्वर्थव्यापारस्य तत्त्ववारणाय सत्यन्तेति । गम्धात्वर्थव्यापारजन्यविभागेऽतिप्रसङ्गवारणाय विशेष्यदलमिति । एतेन सत्ता- दयाद्यर्थे नातिप्रसङ्गा इति प्राञ्चः । नवीनमतानुसारेण लक्षण परिष्करोति-*तद्धात्वति । अन्न जन्यत्वमारोपिता. नारोपितसाधारणं ग्राह्यम् । तेन ईश्वरस्तिष्ठति, पत्ये शेते इत्यादौ नातिप्रसङ्गः ॥ *विभागजन्यसंयोगादिति । अत्रादिना संयोगजन्यविभागपरिग्रहः । यथा- 'कुड्यात्पततोऽचात्पतत्यववाह इत्यादौ गमिक्त्पतेरपि उत्तरदेशमयोगानुकूल- व्यापाररूपं गमनमेवार्थः । तथापि कुड्यशब्दात्पञ्चम्या अन्यथानुपपत्या तत्रत्यसंयोगे । ।

धात्वर्थविचारः। योगादिरूपे पतत्यादिधात्वर्थ विभाग संयोगयोः फलववारणायोभयम्(१) कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यता । व्यापरत्वं च-धात्वर्थफल. जनकत्वे सति धातुवाच्यत्वम् । अनुकूलत्वं संसर्गः । अनुकूलत्वं च-फल- निष्ठजन्यतानिरूपितजनकत्वम् । "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि" । विभागजन्यत्वमवश्यमङ्गलीकरणीयम् । विभागावधरेवापादानसंज्ञाविधानात् । फलस्य विशेष्यतेति ! 'चैत्रेण पच्यते तण्डुल' इत्यत्र चैत्रवृत्तिव्यापारजन्या एकतण्डुलाभि- नायिका विक्लित्तिरिति स्वमते फलविशेष्यबोधस्वीकारादिति भावः। *व्यापार- त्वञ्चेति । धातुवाच्यत्वमात्रीपादाने फलेऽतिव्याप्तिः। अतः सत्यन्त विशेषणन् । तावन्मात्रीपादाने सर्तृवृत्तिव्यापारविवक्षायां काष्टतण्डुलादिव्यापारेऽतिप्रसङ्गः । अतस्तदुपादानम् । तनिष्ठव्यापाराणां धात्वर्थविवक्षायान्तु तस्यापीटमेव । अत एक काष्ठं पचति स्थाली पचतीति सङ्गच्छते । वस्तुतस्तु व्यापारपदस्य भावना-अविधा-साध्यत्वेनाभिधीयमान्न क्रिया इत्यर्थः तथा च-साध्यत्वप्रकारकप्रतीतिविषयत्वं व्यापारत्वमिति फलितम् । न च घटं करो- तीत्यादौ घटादीनामपि साध्यत्वेन प्रतीतिविषयत्वादतिव्याप्तिरिति वाच्यम् । पदान्तरसमभिव्याहाराप्रयोज्यत्वस्य प्रतीतौ विशेषणेनादोषात्। करोति पदसान्नि- ध्यादेव साध्यत्वप्रत्ययः । स्वतस्तु घटादिपदात् सिद्धत्वेनैव द्रव्यप्रत्ययः । अधिश्रय- शादधाश्रयणान्तक्रियासमूहस्य पदान्तरसमभिव्याहारं विनापि साध्यत्वेन प्रतीति- विषयत्वात् व्यापारत्वमक्षमिति दिक् । *भावप्रधानेति । भावा-क्रिया, प्रधानं यस्मिन् तत् । भावोऽन्न क्रिया सा च करणव्युत्पत्या व्यापारं, कर्मव्युत्पत्या च फलं बोधयति । तथा च आख्याते फलव्या- पारयोः प्राधान्यमिति फलितम् । कर्तृवाच्ये व्यापारस्य, कर्मवाच्ये तु फलस्येति दिवे कः । सत्वं-द्रव्य, प्रधानं येषु तानीति बहुमोहिः । एवञ्चाक्तनिरुतात् भूवादिसूत्रस्थ- क्रिया प्राधान्यबोधकभाप्योच्च वैयाकरणानी व्यापारमुख्यविशेष्यका शाब्दबोधः कलित इति भावः। *सत्वप्रधानानीति। अस्य लक्षण-सत्वं-द्रव्यं, प्रधानं यत्रेति विग्रहालिसा. दिनिष्टप्रकारतानिरूपितविशेष्यताशाल्यर्थप्रतिपादकत्वं नाम लक्षमित्यर्थः। विशे. व्यायकत्वस्य निपाताख्यातादावतिप्रसक्तत्वात , तद्वारणाय प्रकारतानिरूपितत्वा- (१) विभागस्य फलत्ववारणाय सत्यन्तापादानम् । संयोगे तद्वारणाय प्रकार- तावत्वान्तम् । तेन वृक्षात् पर्ण भूमौ पततीत्यादौ विभागाश्रयस्य वृक्षादेः संयोगा- श्रयस्य भूम्यादेश्च न कर्मत्वमित्यादिकमूहम् ।

- ४२ परमलघुमञ्जूषायाम्- इति निरुत्तोक्तेयापारविशेष्यको बोधः । तत्र तिङबाच्यं संख्याविशिष्ट कारकम , कालश्च व्यापारविशेषणम् ।। परे तु फलव्यापारयोर्द्धातोः : पृथक्शक्तावुद्देश्यविधेयभावेनान्वयापत्ति स्तयोः स्यात् । पृथगुपस्थितयोस्तथा अन्वयस्यौत्सर्गिकत्वात् । कि चैकपदे व्युत्पत्तिद्वयकल्पनेऽतिगौरवम् । तथाहि- फलविशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुज- न्योपस्थितिः कारणम् , व्यापाविशेषणकफलबोधे कर्मप्रत्ययसमभिव्या- न्तं विशेषणम् । व्यक्तिबोधस्य धर्मविषयकत्वनियमेन, जातिप्रकारतानिरूपितत्वस्या- तिप्रसङ्गावारकत्वात्तदनुपादानम् । लक्ष्यतावच्छेदकाऽनाकान्तायादृच्छिकेषु अतिप्र- सशस्तु लक्षणे तद्व्यतिरिक्तत्वविशेषणेनैव वारणीय इति दिक् । *तिवाच्यमिति । तिडोऽर्थः कर्ता, कर्म, संख्या, कालश्च। तत्र संख्या कर्तृप्र. त्यये कर्तरि, कैसंप्रत्यये कर्मण्यन्धेति। तद्विशिष्टकर्तुश्च धात्वर्थव्यापारेऽन्वय इति बोध्यम् । अन प्राञ्चा-धातूनां फलव्यापारयोभिन्ना शक्तिः, न तु विशिष्टा। अत एव "फलव्यापारयोर्धातुराश्रये तु तिः स्मृता" इति हयुक्तिः सङ्गच्छते । ननु हरिशब्दादुपस्थितयोः सिंहसूर्ययोः परस्परान्वय. बोधवारणाय तत्पदजन्य-तविच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति अपरप- दजन्यपदार्थोपस्थितिः कारणमिति कार्यकारणभावः फलितः । तेन एकपदोपस्थाप्य- योरर्थयाः परस्परान्वयबोधोऽव्युत्पन्न इति फलव्यापारयोरन्वयासम्भव इति चेन्न । व्युत्पत्तिवैचित्र्येण तथान्वयस्वीकारादिति तत्र नव्या स्वमतम्प्रकटयति-*परेत्वि- त्यादिना*। *उद्देश्यविधेयभावेनेति । तात्पर्यविशेषनिश्चयादिवशेन कदाचित् फलमुद्दिश्य व्यापारस्य, कदाचिच्च व्यापारमुद्दिश्य फलस्य विधानं स्यादिति तात्पर्यम् । *पृथगुपस्थितयोरिति । विभिन्न शक्तिग्रहजन्यविभिन्नोपस्थितीयविषयतावतो. रिति भावः । तेन यथा नीलो घट इत्यादौ नीलघटयोविभिन्नशक्तिपहजन्यविभिन्नोप. स्थितिविषययोरुद्देश्यविधेयभावेन अन्वयबोधस्तथानापि स्यादिति भावः । ननु एकपदाद्विमित्रशक्तिज्ञानजन्योपस्थितपदार्थद्वयस्थ उद्देश्यविधेयमावेनान्वये प्रमाणाभावः, दृष्टान्ताभावश्चेति न पृथक्शक्तिमतां प्राचां दोष इत्यरूचेराह- *किञ्चेति।

धात्वर्थविचारः। हतधातुजन्योपस्थितिः कारणमिति कार्यकारणभावद्वयकल्पनम् , धातोर- यद्रये शक्तिद्वयकल्पन, धातोर्वोधजनकत्वसम्बन्धद्वयकल्पनं चातिगो. रवम् । तस्मात्फलावच्छिन्ने व्यापारे; व्यापारावच्छिन्ने फले च; धातू- नां शक्तिः, कर्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च नत्तद्बोधे नियानक इत्या (१) हुः ।। । *कार्यकारणमावद्वयकल्पनमिति* । फलत्वावच्छिन्न प्रकारतानिरूपितव्यापारवि शेप्यशाब्दबुद्धित्वावच्छिन्नं प्रति कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारण. म् । एवं व्यापारत्वावच्छिन्नप्रकारतानिरूपितफलविशेष्यकशाब्दबुद्धिदावच्छिन्न प्रति- कर्मप्रत्ययसभिव्याहृतधातुजन्योपस्थितिः कारणमिति कार्यकारणभावद्वयकल्पतरू. गौरवं पृथशक्तिमतां प्राचां स्यादिति भावः । विशिष्टशक्तिस्वीकारे विनिगमनाविरहात्सर्वत्र बोधापत्तिरत आह-*कर्तृक. कार्थकेति । फलावच्छिन्नव्यापारबोथे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणम् । एवं व्यापारावच्छिन्नफलबोधे कर्मप्रत्ययसमभिव्यातधातुजन्योपस्थितिः कारणमिति न सर्वत्र सर्वबोधप्रसङ्ग इति दिक् । गुरुचरणास्तु = प्राचाम्मतमेव सम्मतमाहुः । तथाहि-विशिष्ट शक्तिकल्पने श- क्यतावच्छेदकत्वं फलावच्छिन्नव्यापारत्वस्या व्यापारावच्छिन्नफलत्वस्य च कल्पित. मिति गौरवम् । फलव्यापारयोः पदार्थ देशत्वेन तत्र कर्तृकर्मादीनामन्वयासम्भवश्च । 'पदार्थः पदार्थनान्वेति न तु पदार्थकदेशेन' इति न्यायात्। अपरं दूषणन्तुभयमते स. मानमेव । अपर प्राचाम्-एकवृन्तावलम्बिफलद्वयवत् उभयांशे एका खण्डशः शक्ति रिति न शक्तिद्वयकल्पनं न वा बोधजनकत्वसम्बन्धद्वयकल्पनम् , अपि तु नव्यानामेव (१) यद्यपि फलावच्छिन्नव्यापारत्वस्य व्यापारावच्छिन्नफलत्वस्य च शक्य. तावच्छेदकत्वकल्पनप्रयुक्तं गौरवमेतेषां मते स्फुट, तथापि भिन्नशक्तिवादिनां फलबि- शेषणकव्यापारविशेष्यकावान्तरवाक्यार्थबोध कर्तृप्रत्ययसमभिव्याहृतधातुजन्यसमूहा- लम्बनात्मकोपस्थितिः कारणम् , व्यापारविशेषणकालबोधे कर्मप्रत्ययसमभिव्याहृत. धातुजन्यसमूहालम्बनात्मकोपस्थितिः कारणमितिकार्यकारणभावद्वयकल्पनेतिगौरव- म् । विशिष्टशक्तिवादिनां तु तत्तत्समभिव्याहारवशाद अवान्तरवाक्यार्थबोधस्थानीया विशिष्टोपस्थितिरेवेति न तेषामुक्तकार्यकारणभावद्वयम् । एवं धातोःफलव्यापारसमू: हार्थे उपस्थितिशक्तिकल्पनं विशिष्टा शाब्दबोधशक्तिकल्पन, शक्तः बोधजनकताया- श्न असम्बद्ध धातौ अनुपपत्त्या विशिष्टार्थनिरूपितसम्बन्धद्वयकल्पनं च विशिष्टधाता. वित्यतिगौरवमिति दिक् । - परमलघुमजूषायाम्- यत्तु मीमांसकाः फलं धात्वर्थो, व्यापारः प्रत्ययार्थ, इति वदन्ति । तन्न । "ल: कमणि इत्यादिसुत्रविरोधापत्तेः । नहि तेन व्यापारस्य प्रत्ययार्थता लभ्यते। किञ्च पचति पश्यति पक्कवानियादौ फूत्कारादिप्रतीतये तत्रानेकप्रत्यया- नां शक्तिकल्पनापेक्षयकस्य धातोरेव शक्तिकल्पनोचिता। किञ्च फूत्कारादेः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पनेऽतिगौरवम् । किञ्च सकर्मकाकर्मकव्यवहारोच्छेदापत्तिः । न च प्रत्ययार्थव्यापारव्य- कल्पनीयम्भवेदिति सुधियो विभावयन्तु ! *मीमांसका इति* । व्यापारणाश्रयस्याक्षेपात् व्यापारमानं प्रत्ययार्थः, व्यापार. रस्य प्रत्ययेनैव लाभाच्च । 'अनन्यलभ्यः शब्दार्थः' इति न्यायात् फलमानं धात्वर्थ इति तेषाम्मते सिद्धान्त इति भावः । मण्डनमिश्रास्तु-फलमान धात्वर्थः, व्यापार:-प्रत्ययाः पाक इत्यत्राप धार्थ एवं व्यापारः । कर्तृत्वपि प्रत्ययार्थव्यापाराश्रयत्वात् । प्रत्ययार्थव्यापारव्यधिकरण. फलाश्रयत्वमेव च कर्मत्वम् । 'देवदत्तेन पाक:' इत्यत्र तृतीयार्थ एव व्यापारः । णिजन्ते तु व्यापारस्याख्यातार्थत्वादुमयोः कर्तृता । फलरूपक्रियावाचकत्वादेव च धा- नुत्वमिति वदन्ति । तनिराकरोति तन्नेति । ननु "लः कर्मणि च॥ इति सूत्रे कर्तृकमपदे कर्तृत्वकर्मत्वधर्मपरे। तथा च-कर्मणि कर्तरि लकार इत्यस्य कर्तृत्व कर्मत्वे लकार इत्यर्थः । एवञ्च 'प्रकृतिजन्यशेधे प्रकारी. भूतो भावः' इति सिद्धान्तेन कर्तृपदस्य व्यापाराश्रयार्थकत्वात्तत्र व्यापारस्य विशे. पणत्वात्तस्य प्रत्ययार्थत्वं निर्बाधमित्यत आह-किवति। ननु व्यापारेऽनेकप्रत्ययानां शक्तिकल्पने यथा गौरवं, तथा धातूनामपीत्यत आह किञ्चेति। फूत्कारेति* फूत्कारत्वादिधर्म पुरस्कारेणैव लादिप्रत्ययाना व्यापारे शक्ति- बोध्या। एवं सति गच्छतिभवतीत्यादावपि उक्तधर्मपुरस्कृतव्यापारमात्रोपस्थिती सति तात्पर्ये फूत्कारादेशपि बोधप्रसङ्ग इति भावः । ननु धातुत्वावच्छिन्नस्य व्यापारे शक्तिकल्पनायामपि विशेषव्यापारबोधम्प्रति तत्तद्धातुसममिव्याहारस्य कारणत्वमवश्यमेव वक्तव्यम् । एवञ्च धात्वों व्यापार इति वदतामपि तुल्यं गौरमित्यत आह-किञ्चेति । *सकर्मकार्म के तिच्यापारस्य धात्वर्थे स्वार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् । 'स्वार्थव्यापारसमानाधिकरणफलवाचकत्वम्-अकर्मकत्वमिति इ.

धात्वर्थविचारः! धिकरणफलवाचकत्वं सकर्मकत्वम्, तन्मते तत्समानाधिकरणफलवाचकत्व- मक्रमकत्वं च, प्रत्ययार्थव्यापाराश्रयत्वं कर्तृत्वम्, घटं भाश्यतीत्यादौ णिज- र्थव्यापारव्यधिकरण फलाश्रयत्वेन घटादेः कर्नत्वमिति वाच्यम् । अभिधा- नानभिधानव्यवस्थोच्छेदापत्तेः। न च व्यापारेणाश्रयाक्षेपात्कर्तुरभिधान. म् , कर्माख्याते च प्रधानेन फलेन स्वाश्रयाक्षेपास्कमणोऽभिवानमिति वाच्य- म् । जातिशक्तिवादे,जात्याक्षितव्यक्तरिवाश्रयप्राधान्यापत्ती "क्रियाप्रधान. माख्यतम्" इति यास्कवचोविरोधापत्तेः । किञ्च फलस्य धातुना तदाश्रयस्य चाक्षेपेणैव लामसम्भवेन "ल: कर्मणि" इत्यस्य वैयपित्तेः । कर्मकर्तृकृत कारकभावनाभववाचकत्वे गौरवाच । किञ्च भावविहितघनादीनां व्यापारावाचकत्वे ग्रामो गमनवानित्याया- पत्तिः । तद्वाचकावे तु तेनापि स्वाश्रयाक्षेपे कर्तुरभिधानापत्तिः । .. क्षणेन सकर्मकत्वाकर्मकत्वव्यवहारः समुपपद्यते । प्रत्ययार्थत्वे तु नेयं व्यवस्था भवे. दिति भावः ! ननु प्रत्ययार्थव्यापाराश्रयस्य कर्तृत्वाङ्गीकारे घटं भावयतीत्याधनपत्तिः । तथा हि-णिच्प्रत्ययार्थप्रेषणव्यापाराश्रयत्वस्य घटादावसम्भवेन कर्तृत्वाभावात अणि क- तुणौ कर्मत्वानुपपत्तिरत आह-वरं भावयति । *अभिधानानमिधानेति । कटं भीष्मं कुरु इत्यत्र विशेषणेन कर्मत्वोकावपि द्वितीयोपपत्तये कृत्तद्धितसमासरभिहिते क्वचिन्निपातेन चेति परिगणनस्य "अनभिहि- ते" इति सूत्रे भाष्ये दर्शनारेवाभिधाने कर्मत्वादोन द्वितीयादीनां साधुत्वामा भाष्यकृत्स्वारस्यः स्यात् , फलाश्रयस्य कम्मत्वेन व्यापाराश्रयस्य कर्तृतया च त्वन्मते तयोस्तिकाऽनभिधानेन च 'हारम्भजति भक्ता इत्यत्र भक्ते तृतीयाया: 'पच्यते तण्डुलः' इत्यत्र तण्डुले द्वितायायाश्चात्ती परिगणनं भाष्योक्तमसङ्गतं स्या- दिति भावः कथञ्चिदाक्षिप्तस्य कर्तुरप्रधान्येऽपि दोषो दुरुहर एवेत्यत आह-*किञ्चेति । *वैय्यांपत्तरिति । अत्रेदं तात्पर्यम्-फलाश्रयस्य कमेण आक्षेपेण लाभसम्भदे "लः कर्मणि च भावे चाकर्मकम्यः इत्यादिना कर्मणि लकारविधानवैययं स्यादिति *गौरवादिति ! एकस्यैव प्रत्ययार्थस्य अर्थद्वये शक्तिकल्पने गौरवमिति भावः । यद्यपि उभयवाचकत्वं गौरवापत्तिभिया कृता न स्वीक्रियेत, तदा दूषणान्तराप- त्तिः स्यादत आह-*किञ्चेति ।

- परमलघुमञ्जूषायाम् । किञ्च 'गुरुः शिष्याभ्यां पाचयति' इत्यादौ, "हेतुमति चं” इतिसूत्रबलान् प्रयोजकव्यापारस्य गिजर्थत्वे स्थिते प्रयोज्यव्यापार प्राख्याताओं वाच्यः । एवञ्च सङ्ख्यायाः स्ववाचकाख्यातार्थव्यापारेऽन्वयिन्येवाऽन्वयाच्छिष्या- भ्यामिति द्विवचनानापत्तिः। पाचयतीत्येकवचनानापत्तिश्च । गुरोरनभिवा नेन तत्र प्रथमाया अनापत्तेश्च । शिष्यशब्दात्तदापत्तेश्चेत्यन्यत्र विस्तरः । सवेकारकान्वयितावच्छेदकधर्मवती क्रिया । तदाह-यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।। आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ १ ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।। बुद्धचा प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ २ ॥ इति भूवादिसूत्रस्थभाष्यार्थप्रतिपादकहरिग्रन्थात् । क्रमजन्मनां व्यापा- 'फलमानं धात्वर्थः' इत्यत्र दूषणान्युक्त्वा आख्यातार्थव्यापारे दूषणान्याह *किन्चेति । *अनापत्तेरिति । अनभिहिते कर्तरि तृतीयापत्तेश्चेत्यर्थः । *सर्वकारकति* सर्वेषां कारकाणां धात्वर्थक्रियायामेवान्वया । उक्तञ्च भूषणे- "सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वति । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् , साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ इति ॥ *कारकान्वयितेति । कारकान्वयित्वच-कारकनिष्ठविषयतानिरूपितविषय. साश्रयत्वम् । कारकाणां क्रिययैवान्वयात् , क्रियान्वयं विना कारकत्वानुपपत्तेश्च । तथा च-कारकान्वयितावच्छेदकधर्मवत्वं तत्वांमति.फलितम् । झ्यावदिति । यावत्-सर्वम् । सिद्धम्-निष्पन्नम् , 'विद्यमानध्वंसप्रतियोगि 'अपाक्षीत्' इत्यादौ । असिद्धम्-अनिष्पन्नम्, भूतभिन्नम्-वर्तमानम् , वर्तमानप्राग- भावप्रतियागि च पचति 'पक्ष्यति' इत्यादौ । *आश्रितक्रमेत्यादि-आश्रितं क्रमरूपं यस्यास्तत्वात् पूर्वापरीभूतावयवकत्वा. दिमर्थः। तदीयाऽवयवानामधिश्रयणायधाश्रयणपर्यन्तानां क्रमणोत्पत्तःक्रियापदेन सा उच्यते । यत्र च न ऋमिकावयवको व्यापारः, तत्र रूढिरेवादरणीया, पौर्वापर्यारोपो वा । फलस्यापि स्वजनकव्यापारगतपौर्वापारापेण तथैव भानम् । अत एव तन्मात्र- वाचकस्य धातुत्वसिदिरिति भावः । *गुणभूतैरिति । तिरोहितः तत्तद्रूपेणाप्रतिपाद्य. मानैराित यावत् । *अवयवैः*-तत्सहशैः। *क्रमजन्मनाम्-क्रमेण जन्म यासा मिति बहुव्रीहिः । *समूह-समुदायभावमापनः, यथाऽवयविनि शरीरे हस्तपादाद. -- धात्वर्थविचारः। ४७ । राणां समूहं प्रति गुणभूतैरवयवैर्युक्तःसङ्कलनात्मिकयैकत्वबुद्धया प्रकल्पि- ताभेदरूपः समूहः क्रियेति व्यवह्वियत इति द्वितीयकारिकाथः । अत्रावय. वाश्रयं पौर्वापर्य समुदायाश्रयमेकत्वम् । क्षणनश्वराणां व्यापाराणां वस्तुभूत- समुदायाभावात् बुद्धयेत्युक्तम्।पचति पक्ष्यतीत्यादावसिद्धम् , अपाक्षीदिल्या. हौसिद्धमसिद्धं वा साध्यत्वेनाभिधीयमानंक्रिया। आश्रितेति योगदर्शनंकृतम्, अवयवानां क्रमेणोत्पत्त्या । अत एवाश्रितक्रमरूपा क्रियेति आदिमकारिका- र्थः। एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपि पचतीति व्यवहारः तदुक्तम-एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ।। इति । अत्र केचित्-सिद्धत्वम्-क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकवैजा- त्यवत्त्वे सति कारकत्वेन क्रियान्वयित्वे सति कारकान्तरान्वयायोग्यत्वम् । साध्यत्वंच-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं सत् कारकान्तरान्वय- योग्यतावच्छेदकरूपवत्वम् । हिरुगाद्यव्ययानां साध्यवाभावेऽपि क्रिया. वाचकत्व व्यवहारन्तु क्रियामात्रविशेषणत्वात् । तत्र सिद्धत्वं पाक इत्यादौ घवादिवाच्यम् । साध्यत्वं तु सर्वत्रैव धातुप्रतिपाद्यम् । ननु 'हरिं नमेच्चेत्सुखं यायात्' इत्यत्र क्रियाया अपि क्रियान्तरा. काङ्क्षत्वेन सिद्धत्वमस्तीति चेन्न । चेच्छब्दसमभिव्याहारेणाकाङ्क्षोत्था- पनादित्याहुः । वस्तुतः साध्यत्वम्-निष्पाद्यत्वमेव, तद्रुपेणैव बोधः । सष्टं चेदम् "उपपदमतिङ्” इत्यादौ भाष्ये । योऽवयवाः क्रमेण जायन्ते, ते च अवयविना सहाभेदमुपगच्छन्ति, यथा फूत्काराद. योऽसि क्रमेणोत्पद्यमानाः समुदायभावमासाद्य विक्लित्यादिफलानुकूलक्रियात्वमुपग- च्छन्तीति भावः । *एकैकेति । एकस्मिन् व्यापारेऽपि समूहरूपक्रियारोपेण पचतीति प्रयोगःप्रयुज्यते । अत्रैवाथै हरिकारिका प्रमाणत्वेनोपन्यस्यति *एकदेशे इत्यादिना । *अत्र केचिदिति । क्रियास्वरूपघटकसिद्धत्वसाध्यत्वे किमित्याकाङ्क्षायां भूषण. कारोक्कमेवकथयति-*सिद्धत्वमित्यादिना* | स्वसिद्धान्तमाह-वस्तुत इत्यादिना*। तत्तद्धातुवाच्यतावच्छेदकधर्मप्रकार- कबोध इत्यत आह-*तत्तद्रूपेणैवेति । करोतेरुत्पादनार्थत्वात् घरवृत्त्युत्पत्यनुकूलव्या. रानुकूल-एकाश्रयको वर्तमानो व्यापार इति शाब्दबोधः। उत्पत्तिमत्वरूपनिष्पा- परमलघुमञ्जूषायाम्- । ननु घटें करोतीत्यादौ द्रव्यस्यापि साध्यत्वेन प्रतीतिरितिचेन्न । करोति पदादिसमभिव्याहारात् तथा प्रत्ययेऽपि स्वता घटादिपदाद् द्रव्यस्य सिद्ध- खेनैव प्रतीतेः। अस्तिभवतिवर्ततेविद्यतीनामर्थः-सत्ता। सा चानेककालस्थायिनीति कालगतपौर्वापर्येण क्रमवतीति तस्याः क्रियात्वम् । सत्तेह-आत्मधारणम् । सकर्मकत्वञ्च-फलव्यधिकरणव्यापारवाचकत्वम्,फलसमानाधिकरणव्यापा- रवाचकत्वमकर्मकत्वम् । कचित्तु फलांशाभावादकमकत्वम् । यथाऽस्त्यादौ केवलं सत्तादिरेवाथैः । फलांशस्य सूक्ष्मदृष्टयाऽप्यप्रतीतेः। "उत्पन्नस्य सत्त्वस्य स्वरूपधारणरूपां सत्तामाचष्टेऽस्त्यादिः” इति निरुक्तोक्तेश्च । वस्तु तस्तु शब्दशास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वम्।तदनन्य य्यर्थकत्वमकर्मकत्वम् । तेन 'अध्यासिता भूमय' इत्यादिसिद्धिः। अन्वयश्च पृथग्बुद्धेन संसर्गरूपः । अन्वयपदस्य तत्रैव व्युत्पत्तेः । तेन जीवतीत्यादौ नदोषः।तत्र प्राणादिरूपकर्मणो धारणार्थधात्वर्थात्पृथगबोधादिति सुफ प्रास्मन"इति सूत्रे भाष्ये स्पष्टम् “अधिशीस्थासाम्" इत्यनेन भूमव इत्याधारस्य कर्मत्वम् । जानातेविषयतया ज्ञानं फलम् , आत्ममनःसंयगो-व्यापारः। अत एव मनो जानातीत्युपपद्यते । आत्माऽत्रान्तःकारणम् , मनोऽपि तवृत्तिविशे- षरूपम् । ॐ त्मा आत्मानं जानातीत्यादौ अन्तःकरणावच्छिन्नः कर्ता शरी- रावच्छिन्नं कर्मेति "कर्मवत्" सूत्रे भाष्ये स्पष्टम् । यत्तु आवरणभङ्गो विषयता वा फलम् , व्यापारन्तु ज्ञानमेवेति । तन्न द्यत्वे साध्यत्वं घटेऽतिव्यामित्याशङ्ख्याह-*नन्वित्यादिना । *सत्तेति । सत्तेह आत्मधारणम् । आत्मधारणस्य बहुकालापेक्षितत्वम् । यद्यपि कालस्याखण्डत्वमस्ति, तथापि तत्रावयवान् परिकल्प्य तद्दतपौर्वापर्येण सत्तायां क्रममासमानत्वन तस्याः क्रियात्वं बोध्यम् । ननु फलव्यधिकरणव्यापारवाचकत्व सकर्मकत्वं कालादिकर्मधातुष्वव्यासमित्यत आहश्वस्तुस्त्वितिसकर्मकत्वमिति कर्मसंज्ञावदर्थनिष्ठविश्यतानिरूपितविषय ताप्रयोजकत्वे सति धातुत्वमिति सकर्मकस्य लक्षणं ध्येयम् ।* अकर्मकत्वमिति। कर्मसंज्ञकार्थनिष्ठविषयतानिरूपितविषयतावदर्थबोधकत्वाभाववत्वमकर्मकत्वम् । *अध्यासिता इति । 'अध्यासिता भूमय इत्यत्र अधिशीङ्स्थासाङ्कमा इति सूत्रेण भूमेराधारत्वेन कर्मसंज्ञाविधानात्, शब्दशास्त्रीयक्रम संज्ञकार्यान्वय्यर्थकत्वेन सकम्मकत्वाकर्मणि निष्ठेतिभावान दोष इति । जीवतेः प्रागधारणस्य धात्वा. .

धात्वर्थविचारः। ४६ - कर्मस्थक्रियकत्वापत्तेः । तद्वयवस्था चेत्थमुक्ता हरिणा विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ॥ इति । अस्यार्थः-यत्र कर्मणि कतरि वा क्रियाकृतो विशेषः कश्चिद्द श्यते, तत्र क्रिया व्यवस्थितेत्युच्यते। न-वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य दर्शनादिदमयुक्तम् । किञ्च चिन्तयति पश्यतीत्यादीनां कर्तृस्थभावकत्वानु- पपत्तिः । कर्तरि क्रियाकृतविशेषाभावात् । अत आह-अन्येषामिति । मते इति शेषः । यत्र कतकर्मसाधारणरूपं फलं शब्देन प्रतिपाद्यते, स कर्तृस्थ- भावको यथा-पश्यति घटम्, ग्रामं गच्छति, हसतीत्यादौ ! तत्र विषयता- समवायाभ्यां ज्ञानमुभयनिष्ठम् , योगश्चोभयनिष्ठः । एवं हसोऽपि । न हि विषयताऽऽवरणभङ्गावेवम् । यत्र कर्तृवृत्तिकमस्थफलं स कर्मस्थभावकः । यथा-भिनत्तीत्यादौ । न हि द्विधाभवनादि कथमपि कर्तृनिष्टमिति हेला- राजः । तथा चावरणभङ्गस्य विषयतायाश्च कर्ममात्रनिष्ठत्वाज्जानातेरपि कर्मस्थक्रियकत्वापत्तिरित्यलम् । इच्छतेरिच्छानुकूलं ज्ञानमर्थः। अतीतानागतयोरपि बुद्ध्युपारोहात् फलशालित्वम् । पतिमिवत्सकर्मकः । नरकं पतित इत्यादिप्रयोगात् । विभागजन्यसं- योगमात्रपरत्वेऽकर्मक इति । कुल उत्पत्तिव्यधिकरणस्तदनुकूलो व्यापारो- ऽर्थः । फलमात्रार्थकत्वेऽकर्मकत्वापत्तियतिवत् । किञ्च कर्मस्थभावकत्वाभा- वात् कर्मकर्तरि यगाद्यनापत्तिः । कृतिरित्यादौ धातूनामनेकार्थत्वात् यत्न मात्रे वृत्तिः। Wऽन्तर्भूतत्वेन अन्वयितावच्छेदकरूपेण धारणस्यानुपस्थितत्वान्न दोष इति भावः। विशेषदर्शनमिति । यत्र च कर्मणि न क्रियाकृतो भेदो ज्ञायते तत्र कर्तृस्थकि. यत्वमिति भावः । *अन्येषाम्-ताकिकाणाम्मत इति भावः। नरक पतित इति । फलव्यधिकरणब्यापारवाचकत्वं सकर्मकत्वं यथा गम्लधा तोस्तथा पत्धातोरपि विभागजन्योत्तरदेशानुकूलव्यापारोऽर्थोऽङ्गीकार्यः । अत एवं "द्वितीयाश्रितातीतपतित" इति सून्ने पतितपदेन द्वितीयासमासः सङ्गच्छते ॥ *यागाद्यनापत्तिरिति । यत्नस्य चेतनगुणत्वादचेतने घटादौ तदसम्भवेन क्रियते घटः स्वयमेवेतिप्रतियोगासम्भव इति भावः । *धातूनामनेकार्थत्वादिति । अत एवं "कुई खुईगुईगुदक्रीडायामेव" इतिधातुपाठस्थे एवकारचरितार्थ इति बोध्यम् । ४प०म० ५० परमलघुमञ्जूषायाम्- यद्वा यत्नकृतिशब्दयोरपि व्यापारसामान्यवाचितैव । अत एव स्था- लीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति "कारके” इति सूत्रे भाष्ये उक्तमित्यलम् । यत्तु तार्किका:-फलव्यापारौ धात्वर्थः । लकाराणां कृतावेव शक्तिला. घवात् , नतु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् । प्रथमान्तपदे- नैव तल्लाभाच।आख्यातार्थे धात्वर्थो विशेषणम्, प्रकृत्यर्थप्रत्ययायोः सहा- र्थत्वे प्रत्ययार्थस्यैव प्राधान्यात् । प्रथमान्तार्थे आख्यातार्थो विशेषणम् । अनुकूलत्वमाश्रयत्वञ्च संसर्गः । तथाच चैत्रः पचतीत्यादौ विक्लित्त्यनुकूल- व्यापारानुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छतीत्यादौ रथस्याचेतन- त्वात् यत्नशून्यत्वेन व्यापारे आश्रयत्वे वा आख्यातस्य लक्षणेत्याहुः ।। तन्न । युष्मदस्मदोलकारेण मामानाधिकरण्याभावात् पुरुषव्यवस्थाऽ- नापत्तेः । पचन्तं चैत्रं पश्य, पचते देवदत्ताय देहीत्यादौ शतृशानजादीना- मपि विबादिवल्लादेशाविशेषेण तेभ्यः कृतिमात्रबोधापत्तश्च । नचेष्टापत्ति- राश्रयायिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयादिति वाच्यम् । ननु धातूनामनेकार्थत्वात् कृतिरूपोऽर्थ एव मुख्यो भवतु, उत्पत्यनुकूलो व्यापार एक्गौण: कल्प्यतामत माह-*यद्वेति । आख्यातस्य कृतौ शक्तिरिति तार्किकमतं प्रव. लप्रमायुक्तिभ्यां खण्डयितुं तमनुवदति-श्यत्त्वित्यादिना*। *गौरवादिति ! कृत्या- श्रयत्वमेव कर्तृत्वमितित्वन्मते कर्तुराख्यातार्थत्वेऽनन्तकृतीनां वाच्यतावच्छेदकत्व- कल्पनं गौरवम् । मन्मते तु कृतेरनन्तत्वेऽपि कृतित्वजातो एकस्यामेव तत्कल्पनमि- त्यस्ति लाघवमिति भावः । प्रथमान्ता) इति । एवञ्चार माख्यातार्थऋतिप्रकार कान्वयबोधम्प्रति प्रथमान्तपदजन्योपस्थितिः कारणमिति कार्यकारणभावः संयातः। *सामानाधिकरण्यामावादिति । "युष्मधुपपदे समानाधिकरणे” इत्यादिसूत्रेषु समानाधिकरणपदसत्वात्। तत्र तत्र स्वलकारवाच्यकारकवाचित्वरूपसामानाधिकर- ण्यस्यैव स्वीकारात् कृतिवाच्यत्ववादित्वन्मते तदसम्भव इति भावः। तृशान. जादीनामपीति । शतृशानजादीनामपि कर्तरि कृत्" इत्यनेन सूत्रेण कर्तव्येव विधा- नस्याभ्युपगमेन तिबादिवत कृतिवाचकत्वापत्तौ केवलकृतिमात्रदर्शनदशायामपि पच. तं चैत्रं पश्य पचमानं चैत्रं पश्येतिप्रयोगापत्तिः स्यात्तवेति भावः । *आश्रयायि. भावेनेति । कृतेराश्रयतासम्बन्धेन प्रथमार्थेऽन्त्रय इति तात्पर्यवर्णनं तु अज्ञानमूलक मेवेति भावः।

२ धात्वर्थविचारः। नामार्थयोरभेदान्वयो व्युत्पन्न इति व्युत्पत्तिभङ्गापत्तेः । ननु फलमुखगौरवं न दोषायेति न्यायेन शत्रादीनां कतरि शक्तिः, तिबा- दीनां कृतावेव इति चेत्, न । स्थान्येव वाचको लाघवात , आदेशानां बहुत्वेन तेषां वाचकत्वे गौरवमिति हि तव मतम् । एवं च तिबादीनां श- त्रादीनां च स्थानिस्मारकनया लिपिस्थानीयत्वम् , बोधकस्तु लकार एव । स च शत्राद्यन्ते कर्तरि शक्तस्तिवाद्यन्ते कथं कृति बोधयेत् । 'अन्यायश्चाने. कार्थत्वम्' इति न्यायात् । ननु "लः कर्मणि" इति सूत्रे कर्तृकर्मपदे भावप्रधाने, तथा च कर्तृत्वं ऋतिः, कर्मत्वं फलम् , तयोः शक्तौ सूत्रस्वरसः। कर्मप्रत्ययान्ते पच्यते ओदना देवदत्तेनेत्यादौ देवदत्तनिष्ठकृतिजन्यव्यापारजन्यविक्लित्तिमान ओदन इति बोधः । "कतरि कृत्" इति सूत्रे तु कतरीति पदस्य धर्मिप्र- धानत्वात् कृत्याश्रये शत्रादीनां शक्तिरिति चेत् , न । "कर्तरि कृत्" इति सूत्रे यत्कर्तृग्रहणं तस्यैव "ल: कम्मणि" इति सूत्रे चकारानुकृष्टत्वेन भाव- प्रधानत्वे सूत्रस्वरसाभावात् । शत्रादीनां 'स्थान्यर्थाभिधान समर्थस्यैवा. देशत्वम्' इति न्यायेन स्थान्यर्थेन निराकाक्षत्वादाकाक्षितविधान ज्याय इति न्यायात् "कर्तरि कृत्" इत्यनेन शक्तिमहाभावात्। अन्यथा देवदत्तेन शय्यमाने आम्यमाने च यज्ञदत्तो गत इत्यादौ भावे शानजनापत्तेः ननु नामार्थयोरभेदान्वयानुरोधात् शतृशा(१)नजादीनां करि शक्ति- रिति चेत् , न । पचतिकल्पं पचतिरूपं देवत्त इत्याद्यनुरोधेन तिक्ष्वपि कर्तुरे । वाच्यत्वौचित्यात् । किन्च कृतिवाच्यत्वे रथो गच्छतीत्यादौ आश्रये लक्षणास्वीकारे गौर- वापत्तिः । अभिहितत्वानभिहितत्वव्यवस्थोच्छेदापत्तिश्च । न च "अन- *नामार्थयोरिति । इदंच फलितार्थकथनं बोध्यम् । नामाईयोभैदेन साक्षादव योऽव्युत्पन्न इति व्युत्पत्तिस्वरूपम् । इयं च भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रका. रतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति मुख्यविशेष्यतासम्ब- न्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलिकेति बोध्यम् । दूषणान्तरमाह-किति* *अभिहितेति* 'कर्मणि द्वितीया "करितु तीया" इत्यत्र "अनभिहिते" इत्यधिकारात्-अनुक्ते कर्तरि तृतीया भवति, अनुक्ते कर्मणि च द्वितीया भवति, उक्ते च प्रथमैवेति व्यवस्था कृतौ शक्त्यङ्गीकारे उच्छि (१) भावविहितलकारस्थानिकभिन्नानामिति शेषः । तेन न पूर्वप्रयोगासङ्गतिः ५२ परमलघुमञ्जूषायाम् । भिहिते” इति सूत्रस्यानभिहितसङ्ख्याके इत्यर्थवर्णनमिति वाच्यम्। कृत्तद्धितसमासः सख्याऽभिधानस्याप्रसिद्धत्वात् । किश्च यत्नोऽपि व्यापारसामान्यं धातुत एव लभ्यते, स्थालीस्थे यले पचिना कथ्यमाने स्थाली पचतीति "कारके" इत्यधिकारसूत्रे भाष्यप्रयोगा- दनन्यलभ्यस्यैव शब्दार्थत्वात् कृतौ शक्तरुक्तिसम्भव एव नेत्यलम् ।। आख्यातार्थे धात्वर्थो विशेषणमित्यस्य निराकरणमवशिष्यते । तथाहि- प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्यमित्युत्सर्गः। पाच- क औपगव इत्युदाहरणं पाकक्रियाश्रयः उपगुसम्बन्ध्यभिन्नापत्यमिति प्रत्य. यार्थस्य प्राधान्यन्तयोरर्थे । तत्रापि प्रत्ययवाच्यस्यैवार्थस्य प्राधान्यम् । द्या- त्यस्य त्वप्राधान्यमेव । यथा अजा इत्यत्र स्त्रीत्वविशिष्टपशुविशेष इति बोधः । तस्योत्सर्गस्य "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि" इति यास्कवचनमपवादः। तेनाख्याते तिङन्ते क्रियाया एव प्राधान्यं शाब्दबो- धेन प्रत्ययार्थस्येति बोध्यम्। तेति भावः। "कारके" इति सूत्रभाष्यादाख्यातस्य कृतौ शक्तिः कथमपि न सम्भवतीति दर्शयति [-*किञ्चेति । यत्नोऽपीति । व्यापारस्यैव फलोत्पादकत्वेन प्रसिद्धया पचतीत्यतो विक्लित्यनुकूलव्यापारस्यैव बोधस्यानुभवसिद्धत्वादिति भावः । *भाष्य- प्रयोगादिति । यदा सौकर्यातिशयद्योतनाय कर्तृव्यापारो न विवक्ष्यते, तदा कारका- न्तराण्यपि कर्तृसंज्ञां लभन्ते, यथा स्थाली पचतीति अत्र सौकर्यातिशयद्योतनाय स्थाल्या अधिकरणत्वेनाविवक्षायां व्यापाराश्रयत्वेन वक्तृतात्पर्यविषयतायां "स्वत. न्त्र, इति कर्तृत्वे तत्कर्तरि लकारे स्थाल्याः प्रथमान्तत्वमिति भाष्याशयः । कृति- रूपयत्नस्य आत्मविशेषगुणस्य लकारार्थत्वे तु स्थाल्या अचेतनत्वात् तदाश्रयत्वा- सम्भवेन तदसततं स्पष्टमेवेति भावः । *प्राधान्यमिति । अस्यां व्युत्पत्तौ तु प्रकृत्यर्थनिष्टप्रकारतानिरूपितविशेष्यता. सम्बन्धेन शाब्दबोधम्प्रति विशेष्यतासंसर्गेण विभक्तिजन्योपस्थितिः कारणमिति कार्यकारणभावो मूलं बोध्यम् । धोत्यस्येति । अजा खट्वा महिषी इत्यत्र स्वीप्र- त्ययान घोतकत्वमेव । अन्यथा स्त्रीप्रत्ययार्थस्त्रीत्वस्यैव प्राधान्यापत्तौ अजा, महिषी इत्यादौ स्त्रीत्वविशिष्टः पशुरिति बोधानुपपत्तिः स्यात् । एतेन घोत्यभिन्नप्रत्ययार्थः प्रधानमिति सामान्यो नियमः सूचित इति बोध्यम् । *मावप्रधानमिति । भावो-धात्वर्थः । धात्वर्थश्च-फलव्यापारान्यतमो बो. ध्यः । प्रधानम्-विशेष्यमिति यावत् । तथाहि-भावः प्रधानं यस्मिन्निति बहुबी. ।

धात्वर्थविचारः। यत्तु आख्यातपदेन तिमात्रग्रहणाद्भावप्रधानमित्यत्र पष्ठीतत्पुरुषाश्र- अरणात् प्रत्ययार्थप्राधान्यमेव फलतीति ! तन्न। “आख्यातमाख्यातेन क्रिया- जातत्ये” इति सूत्रेाख्यातपदेन तिङन्तस्यैव ग्रहणात् । उत्सर्गणैव निर्वाहे यास्ककृतापवादवचनवैयापत्तेश्च । तस्मात् "भावप्रधानम्" इत्यत्र बहु. त्रीहिः । आख्यातपदेन तिङन्तस्यैव ग्रहणमित्यलम् । प्रथमान्तार्थमुख्यविशेष्यको बोधतार्किकमते इति निराकर्तुमवशि- ज्यते । तथा हि-शाब्दिकमते पश्य मृगो धावतीत्यादौ मृगकतकं धावनं शिक्रियायाः कर्म, प्रधानं हशिक्रियैव । तथा च मृगकर्तकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनमिति बोधः । तत्र मृगो धावतीत्यत्र विशेष्यभूतधावनस्पार्थवाचकस्य धावतीत्यस्य प्रातिपदिकत्वाभावान्न द्वितीया। कमत्वन्तु संसर्गमर्यादया भासते। एवं पचति भवतीत्यत्र पचि- क्रियाकतका सत्तेति बोधः। पच्यादयः क्रिया भवतिक्रियायाः कन्यो भवन्तीति भूवादिसूत्रस्थभाष्यात् । उक्तञ्च हरिणा- सुबन्तं हि यथाऽनेकन्तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ।। इति । हिः । आख्यातं तिङन्तमिति यावत् । तेन तिङन्त फलव्यापारान्यतरप्रधानकं बोध जनयति । नामानि-प्रातिपदिकानि । सत्वप्रधानानि-सत्वम्-द्रव्यम् । आश्रय इति यावत् । तत्प्रधानानि-तद्विशेष्यकाणि ज्ञानानि, अन्वयबोधात्मकानि जनयन्तीति मावः । यथा-पचति इत्यत्र व्यापारप्रधानको बोधः। पच्यते इत्यत्र फलप्रधानको विक्लित्यादिरूपार्थो वोध्यत इति ज्ञेयम् । षष्ठीतिशा मावस्य-आख्यातस्य प्रधा- नमिति षष्ठीतत्पुरुषादाख्यातपदस्य तिङ्मानपरत्वात् प्रत्ययार्थल्यैव प्राधान्य सिध्य. तीति यत्कृतप्रश्नल्याशयो बोधयः । *पश्य मृगो धावतीति । नच पश्येत्यत्र समिति कर्माध्याहार्यम् । वाक्यभेइप्रसङ्गात् । उत्कटधावनक्रियाविशेषल्यैव दर्शनकर्मतयाs. न्ययस्य प्रतिपिपादयिक्तित्वात् । अध्याहारेऽनन्वयापत्तेश्च । एवं च भावनाप्रकारक. बांधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयन् । किन्तु आ. ख्यातार्थ कर्तृप्रकारबोधे धातुजन्योपस्थितिभावनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोऽवसेयः । *संसर्गमर्यादयेति । शाब्दबोधस्थले-'एकपदार्थे अपरपदा- र्थस्य संसर्गः संसर्गमर्यादया मासते' इति नियमेन एकपदार्थानुयोगिकापरपदार्थप्रति- योगिकसम्बन्धस्याकांक्षाभास्यत्वात् । अत एव 'नीलो घटः' इत्यादावभेदादिबोधः। एवश्चात्र कर्मत्वबोधे नानुपपत्तिरिति ध्येयम् ।

५४ परमल घुमञ्जूषायाम् । तार्किकमते तु अन्यदे गसंयोगानुकूलधावनानुकूलकृतिमन्मृगकर्मक प्रेरणाविषयीभूतं यदर्शनं तदनुकूलकृतिमांस्त्वमिति बोधः । तत्र विशेष्य- भूतार्थवाचकमृगशब्दस्य प्रातिपदिकत्वात् हशिक्रियाकर्मत्वाच द्वितीया- पत्तौ धावन्तं मृगं पश्येतिवत् पश्य मृगन्धावतीत्यापत्तेः। अप्रथमासमा- नाधिकरणे शतृशानचोनित्यत्वादेवं प्रयोगविलयापत्तेश्च ।। ननु विशिष्टार्थवाचकस्य धावति मृग इति वाक्यस्य कर्मत्वेऽपि पृथङ्- मृग इत्यस्य प्रातिपदिकस्य कर्मत्वाभावान्न द्वितीयेति चेत् , न । “अन. भिहिते” इत्यधिकारसूत्रप्रघट्टके अभिधानञ्च तिकृत्तद्धितसमासरित्ये- तत्परिगणनप्रत्याख्यानपरभाष्यरीत्या द्वितीयाऽऽपत्तेः । तथाहि-कटं भीष्मं कुवित्यादौ विशेष्यकटशब्दादुत्पन्नद्वितीयया कर्मत्व- स्योक्तत्वातविशेषणीभूतभीष्मशब्दाद् द्विताया न स्यादतः परिगणनं भाष्ये कृतम् । तत्प्रत्याख्यानञ्च सर्वकारकाणां साक्षात्स्वाश्रयद्वारा वा अरुणाधि- करणन्यायेन भावनान्वयस्वीकारात् । अत एवोक्तम्भाध्ये कटोऽपि कर्मभी- मादयोऽपोति। तत्र कटनिष्ठकर्मत्वोक्तावपि भीष्मत्वादिगुणविशिष्टकर्म- स्वानुक्तस्तस्माद् द्वितीयेति तात्पर्यम् । उभयोः पश्चात्परस्परमन्वयस्तु विशे- ध्य विशेषणभावेन । अयमेवान्वयः पार्णिक इत्युच्यते । एवमेवान्वयोऽ- रुणाधिकरणे-“अरुण्या पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति"इत्यत्र क्रयण- क्रियायां मीमांसकैरस्वीकृतः। तस्माद्धावति मृग इत्यत्र उभयोः कर्मत्वे धावतीत्यस्य प्रातिपदिकत्वाभावाद् विशेषणत्वेनान्यत्र निराकाङ्क्षत्वाच्च द्वितीयोत्पत्त्यभावेऽपि मृगशब्दाद् द्वितीया दुर्वारैवेत्यवेहि । शाब्दिकमते तु क्रियाविशेषणत्वेनेतरार्थे निराकाङ्क्षत्वाद् मृगशब्दान्न द्वितीया।तार्किकमते *तार्किकमत इति । प्रथमान्तार्थस्य प्रधानताशदिमत इत्यर्थः । *प्रेरणाविषयीति । व्यापारानुकूलव्यापारस्यैव प्रेरणारूपत्वमिति यावत् । वाक्यस्येति । मृगो धावतीति वाक्यस्य कम्मवाचकत्वेऽपि तस्य समासग्रह. णकृतनियमान प्रातिपदिकत्वमिति भावः ॥ *अत एवेति । सर्वेषां कारकाणां साक्षात् परम्परया वा क्रियान्वयानीकारादे. वेत्यर्थः क्रियाविशेषणत्वेनेति । धावनक्रियायाः मृगपदार्थाभित्रायद्वारा विशेष. णत्वेनेति भावः । *निराकाङ्क्षत्वादिति । इतरक्रियाम्प्रति निराकाक्षत्वात् मृग- शब्दस्य कर्तृवृत्तिव्यापारप्रयोज्यफलाश्रयत्वप्रकारकेच्छोद्देश्यत्वाभावात् कर्मसंज्ञाया निपातार्थनिर्णयः। तु विशेष्यार्थवाचकात् मृगशब्दात् राज्ञः पुरुषमानयेतिवद् द्वितीयाद्वारे- त्यलमतिविस्तरेण । इति धात्वर्थनिर्णयः । अथ निपातार्थनिर्णयः । अनुभूयते सुखम्, साक्षात् क्रियते गुरुरित्यादौ निपातानां द्योतकत्वेना- नुभवसाक्षात्काररूपफच्योर्धात्वर्थत्वेन सकर्मकत्वम् । कर्मसंज्ञकार्यान्व- य्यर्थकत्वं सकर्मकत्वमितिनिष्कृष्टमतेऽपि फलाश्रयतया कर्मसंज्ञकस्य धात्वर्थफले एवान्वयौचित्येन द्योतकत्वमावश्यकम् । द्योतकत्वञ्च स्वसम- भिव्याहृतपदनिष्ठवृत्युबोधकत्वम् । कचित्तु क्रियाविशेषाक्षेपकत्व द्योतक त्वम् । यथा प्रादेशं विलिखतोत्यादौ वर्तमानक्रियाक्षेपकः । प्रादेविमाय लिखतीत्यर्थावगमात् । अत एव "अथ शब्दानुशासनम्" इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैयटायुक्तं सङ्गच्छते। कचित्तु सम्बन्धपरिच्छेदकत्वं अभावान्न द्वितीयेति तात्पर्यम् । राज्ञः पुरुषमित्यादि*! राज्ञः पुरुषमानयेत्यत्र यथा विशेष्यपुरुषपदार्थस्य-आनयनक्रियायां साक्षाइन्वयेन कम्मत्वम्, तथा विशेष्यमृगस्य नैयायिकमते साक्षात् कियान्वयित्वन कर्मत्वाद्वितीया दुर्वारेति यावत् ॥ इत्यर्थदीपिकायां धात्वर्थविचार। ननु अनुभूयते सुखं साक्षास्क्रियते गुरुरित्या अनुभवाद्यर्थः किं धातोः ? उत उप. सर्गस्य ? अथ च उपसर्गविशिष्टधातोः। तत्र नाद्यः भवतीत्यत्रापि तत्प्रत्ययापत्तः । न च द्वितीयः सम्भवति, 'प्रकृत्यान्वितस्वार्थबोधकत्वम् इति व्युत्पत्या आख्याता. थेऽनन्वयापत्तः । नापि विशिष्टार्थी, विशिष्टानुपाः शक्ततावच्छेदकत्वे गौरवादि- त्यभिसन्धायाह-निपातानां द्योतकत्वेनेति । सकर्मकत्वमिति । एतेन निपात- स्यैव तदर्थकत्वमित्यपास्तम् । अत एव-. "द्योतकाः प्रादयो येन निपाताश्चादयस्तथा" इति कारिका सङ्गच्छते। *स्वसमभिव्याहृतेति । भूधातुगतानुभवबोधकशतरुद्बोधकोऽनुरित्यर्थः । ल. क्षणसमन्वयस्त्वेवं विचारणीय:-स्वं द्योतकत्वेनाभिमतं निपातपदम् अन्वादि तत्स. मभिव्याहृतधातुनिष्टानुभवाद्यर्थनिरूपितवृत्युद्धोधकत्वं तेषामिति । क्रियाविशेषे- ति । आक्षेपकत्वन्नाम-अन्यथानुपपत्या कल्पनाजनकत्वम्बोध्यम् । *प्रादेशमि. ति । अत्र कारकविभक्तलिखतीतिक्रियायोग्यताऽभावाद्विना मानक्रियाऽऽक्षिप्यते । क्रियाविशेषाक्षेपकत्वरूपद्योतकत्वे प्रमाणमाह-*अत एवेति । उक्तद्योतकत्वादेवे. त्यर्थः । ननु 'जपमनु प्रावर्षत' इत्यादौ प्रादिनिपाते द्विविधस्यापि द्योतकत्वस्यामा- वात्पुनरपि निपातानां धोतकत्वमनुपपन्नमतस्तृतीयमाह-कचित्विति । सम्बन्ध - ५६ परमलघुमञ्जूषायाम्- द्योतकत्वम् । यथा कर्मप्रवचनीयानाम् । विशिष्टस्य न धातुत्वम् । आपा- ठात् । अडाद्यव्यवस्थापत्तेश्च । यत्तु तार्किकाः-उपसर्गाणां द्योतकत्वं तदितरनिपातानां वाचकत्वम् 'साक्षात्प्रत्यक्षतुल्ययोः इति कोशात् । नमः पदेन 'देवाय नमः' इत्यादौ नम- स्कारार्थस्य, दानावसरे 'गवे नमः' इत्यत्र पूजार्थस्य प्रसिद्धत्वाच । सकर्मक- स्वञ्च-स्वस्वसमभिव्याहृतनिपातान्यतराथेफलव्यधिकरणव्यापारवाचक- त्वम् । कर्मत्वञ्च स्वत्वसमभिव्याहृतनिपातान्यतरार्थफलशालिस्वमित्याहुः। विशेषे इत्यर्थः । इदञ्च इत्यत्र भाष्ये स्पष्टम् । तत्र हि-कर्म प्रो. "कर्मप्रवचनीया तवन्तः कर्मप्रवचनीयाः, के पुनस्तथा। ये सम्प्रति क्रियामाहुः। येऽप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीया:" इत्यन्वर्थसंज्ञात्वमुक्तम् । वत्र हरि:- क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति, तथाच भाष्ये क्रियापदम् अग्रे तत्सम्बन्धपरमिति भावः । विशिष्टस्ये. ति । उपसर्गत्वविशिष्टस्येत्यर्थः । *अपाठादिति । भ्वादिधातुगणे पाठादिति भा- वः । *अडादीति । विशिष्टस्य धातुत्वे तत एव लडादेविधानेन विशिष्टस्यैवाङ्गसंज्ञा. यां "लुङ्लटा" इत्यनेनाडागम उपसर्गात्पूर्वमेव स्यात् । किञ्च "लिटि धातोर- नभ्यासस्य इति द्वित्वं निपातविशिष्टधात्ववयवस्य प्रथमैकाचा, कचित् द्वितीयकाचश्च स्यादिति भावः ।। अत्र नैयायिकाभिप्रायं प्रदर्शयति-*यत्वित्यादिना* | *उपसर्गाणां धोतकत्व. मिति । अत्र तार्किकाणामित्थमनुमानम्-उपसर्गो, द्योतका, उपसर्गत्वात् । नन्वेचं पक्षतावच्छेदकहेत्वोरैक्ये सिद्धसाधनमिति चेत् ? सत्यम् । संज्ञारूपोपसगत्वं पक्षता. वच्छेदकम् । द्योतकोपसर्गसजातीयत्वं च हेतुरिति न सिद्धासाधनरूपो दोषः, इति उपसर्गाणां घोतकत्वसाधने शक्तिसम्बन्धेन निपातपदवत्वरूपमखण्डं वा निपातत्वं पक्षतावच्छेदकीकृत्य निपात्तवेनैव हेतुना वाचकत्वाभावसाधनं युक्कन् । प्रसागानां सामान्ये पक्षपातादिति, तन्न । ततोऽपि सामान्यधर्माव्ययत्वावच्छेदेनैव ततसिद्धया पत्तेः । प्रत्यक्षतुल्ययोरिति । अन्न सप्तम्या वाचत्वार्थकतायां पर्यवसानात् साक्षा. च्छन्द एतदुभयार्थवाचक इत्येवं शक्तिग्राहकोऽसौ कोश इति ध्येयम् । ननु निपाता. नां वाचकत्वे 'साक्षास्क्रियते गुरु' इत्यादौ कर्मणि लकारा न भवेत् । सकम्मकधातो- रेव कर्मणि लकारविधानात् । इह तु साक्षात्कारार्थे कृधातोः सकर्मकत्वाभावः । सकम्मकस्य लक्षणं स्वार्थफलव्यधिकरणब्यापारवाचकत्वम् , तत् साक्षात्काराथेन घटव इत्यत आह-*सकर्मकत्वञ्चेति। , । ।

५७ निपातार्थविचारः। तन्न । वैषम्ये बीजाभावात् , अनुभूयते इत्यनेन साक्षाक्रियते इत्य- स्य समत्वात् । नामार्थधात्वर्थयोदेन सानादन्वयाभावात् निपातार्थधा- वर्थयोरन्वयस्यैवासम्भवात् । निपाताथैफलाश्रयत्वेऽपि धात्वर्थान्वये विना कर्मत्वानुपपत्तश्च । यदपि केचिच्छाब्दिकाः-निपातानां वाचकत्वे शोभनः समुच्चय इतिवन शोभनश्च इत्यापत्तिः। घटस्य समुच्चय इतिवत् घटस्य च इत्यापत्तिश्चेत्याहुः तन्न । शब्दशक्तिस्वभावेन निपातः स्वाथस्य (१)परविशेषणत्वेनैव वा- धनेन विशेषणान्वयाप्रसङ्गात् । पष्ठ्यप्राप्तेश्च ! किञ्च घटं पटञ्च पश्येत्यादी घटमित्यस्य क्रियायामेवान्वयः। अत एव ततो द्वितीया । घटं समुच्चयवन्तं पटम्पश्येति बोधः । समुच्चयस्य प्रतियोन्या- ताकिकमतं निरस्यति-तन्नेत्यादिना* | *वीजाभावादिति । वादित्वेन तेषां वाचकत्वम् , उपसर्गत्वेन द्योतकत्वमिति भेदे प्रमाणाभारादिति भावः । *अन्वयस्यैवासम्मवादिति । साक्षादर्थप्रत्यक्षस्य धात्वर्थव्यापारण सहान्वय. स्याव्युत्पन्नत्वादिति भावः । धात्वर्थान्वयं विनेति ! व्यापारप्रयान्यफलाश्रय- स्वेनेच्छाविषयस्यैव "कर्तु" रित्यनेन कम्मसंज्ञाविधानात क्रियान्वयं विना कारकत्व- स्यैवाभावाच प्रकृते कर्मसंज्ञा नैव भवेदिति भावः । प्राचीनवैय्याकरणाभिप्रायमनुबदति- यदपीत्यादिना । शब्दशक्तीति । यथा हि एकव पचिक्रिया पाक इत्यनेन सत्वभूताऽभिधीयते, पचतीत्यनेन चासत्वभूता । एवं शब्दशक्तिस्वभावान्निपातानामपि नित्यपरतन्त्रत्वमेवेति न षष्टी नापि विशेषण- योग इत्यर्थः । *परविशेषणत्वेनेति । परपदार्थे विशेषणत्वेनेत्यर्थः । मतः प्रकृतेऽपि विशेषणत्वेनैव भानस्योचितत्वात्। विशेष्यतया भानप्रदर्शनं सर्वथा विरुद्धमेव । क्या- हि-यत्किञ्चित्पदार्थनिष्टप्रकारतानिरूपितविशेष्यतासम्बन्धन शाब्दबुद्धित्वावच्छिन्न- म्प्रति नजादिभिन्ननिपातपदजन्योपस्थितेः प्रतिबन्धात्वमिति प्रतिबध्य प्रतिबन्ध (१)प्रकारतासम्बन्धेन शाब्दबोधं प्रत्येव चादिनिपातविशेषजन्योपस्थितः कारणत्वम् ,नतु यत्किञ्चिदर्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति कारणत्वम् अतो न शोभनादिपदार्थान्वयस्तन । घटो नास्तीत्यादौ नजन्योपस्थितः विशेष्यतासम्बन्धेनघटप्रकारकशाब्दबाधं प्रत्यपि कारणत्वाझाकारात्-निपातविशेषति उपात्तम्। सामान्यत एव विशेष्यतासम्बन्धेन किञ्चिदर्थनिष्ठप्रकारताकशाब्दबोधम्प्रति चादिनिपातविशेषजन्योपस्थितेः कारणत्वानङ्गीकारात्प्रतियोगित्वादिसम्बन्धेन घटा दिपदार्थस्य समुच्चयादावन्वयसम्भवेन षष्ठयापत्तिरपि इत्थमेव वारिता। चशब्दयो- परमल घुमजूषायाम्- काक्षायां सन्निहितत्वात् घटस्य प्रतियोगित्वम्, पटे तु समुच्चयस्य भेदे- नान्त्रयो; न तु पटस्य समुच्ये इति क्व (१)षष्ट थापादनम् । नामार्थयोर- भेदान्वय व्युत्पत्तिस्तु निपा (२)तातिरिक्तविषया। नि(३)पातानामर्थवत्त्वमपि द्य त्यार्थमादायैव । शक्तिलक्षणा-द्योतक- । , कभावो ज्ञेयः । *भेदेनान्वय इति । विषयत्वसम्बन्धेनेति बोध्यम् । तथा च बटनि- प्रातयोगितानिरूपकसमुच्चीयविषयताश्रयपटकमकं दर्शनं त्वत्समवेत मत्प्रेरणावि- षय इति शाब्दबोधः॥ *षष्टयेति । निपाताथै विशेषणान्वयासम्भवात् सम्बन्धे एवं षष्ठीविधानाच्च । न घटादौ षष्ट्याः प्रातिरिति भावः । *निपातातिरिक्तविषयेति । वस्तुतोऽव्ययेषु नामत्वमेव नास्ति । चत्वारि पदजातानि” इति निरुक्त नामनिपातयोः पृथगुपादा- नात् । तथा च नामाथेयोरभेदः' इति व्युत्पत्ते यं विषयः । अत एव समुच्चयानन्तरं चादिप्रयोग इति वृद्धाः। यद्वा समुच्चितश्चार्थः, स्वभावतश्चाद्युपस्थाप्यस्यासत्वभूतत्वम् । तदुक्तम्- "समुच्चिताभिधाने च व्यतिरेको न विद्यते।। इति ॥ एवं वाचकत्व तेषां परोकदूषणानि संखण्ड्य प्रागुक्तयुक्त्याऽऽवश्यके तेषां धोत. कत्वं सिद्धान्तमादाय परोक्तदूषणद्वयमुद्धरति-निपातानामिति । त्यसमुच्चयस्यासत्त्वभूतत्वात् षष्ट्यप्राप्तेश्चेति काचित्कोऽपपाठः । मातुः स्मरतीत्यादौ असत्त्वभूतक्रियान्वये गृहस्योपरीत्यादो तादृशाव्ययान्वयेऽपि षष्ट्या दृष्टत्वात् तेन हेतुना तद्वारणासम्भवादिति बोध्यम् । (१) अत्र (घटमित्यस्य क्रियायामेवान्वयः) इत्यादेः ( क षष्ट्यापादनम् ) इत्यन्तस्य स्थाने (घटपदस्य घटप्रतियोगिकसमुच्चयवति अप्रसिद्धा शक्तिरेव लक्ष. णा) इत्यादिः पाठोस्ति, स न युक्तः सन्दर्भविरुदत्वात् लघुमजूषाऽसम्मतत्वाचे. ति बोध्यम् । (२) अतः समुच्चयस्य अनुयोगित्वसम्बन्धेन पटेऽन्वयो नानुपपन्न इति भावः । लिङ्गमङ्ख्यान्वय्यर्थप्रतिपादकत्वमेव नामत्वम् , तच्च निपातेषु नेत्यतोऽपि न तव्यु. स्पचिविरोधः। यद्वा समुच्चयवांश्चार्थः। तेन अभेदान्वय समक्षस एवेत्यादि लधुमल. . पायां स्पष्टम् । (३) प्राचीनानां वाचकत्वपक्षे शोभनश्चेत्यादिदूषणस्याभिधानमसङ्गतमिति प्र. तिपादितम् । इदानीं द्योतकत्वपक्षेऽपि न किञ्चिद् दूषणमिति नैयायिकान् प्रत्यु. च्यते-निपातानामिति ।

निपाताविचारः। ताऽन्यतमसम्बन्धेन बोधकत्वस्यैवार्थवत्त्वात् । नसमासे उत्तरपदार्थप्रा- धान्यं द्योत्यार्थापेक्षयैव । प्रतिष्ठते इत्यत्र तिष्ठतिरेव गतिवाची, धातूनाम- नेकार्थत्वात् । प्रशब्दस्तु (१)तदर्थगत्यादित्वस्य द्योतकः । अत एव धातुः पूर्व साधनेन युज्यते पश्चादुपसर्गेणेति सिद्धान्तितम् । साधनं कारकम् तत्प्रयुक्तकार्येण, उपसर्गेण उपसर्गसंज्ञकशब्देन । तत्र हि भाध्ये-पूर्वं धातुरुपसर्गेण युज्यते, पश्चात्साधनेनेति । नैतत्सारं पूर्वं धा- तुस्साधनेन युज्यते पश्चादुपसर्गेण साधनं हि क्रियां (२)निर्वतयति तामुप- . *बोधकत्वस्यैवेति । अर्थविषयकबोजधनकत्वप्रकारकवस्तृतात्पर्यविषयतापर्याप्त्य. धिकरणस्यैवेत्यर्थः ॥ *नसमासे इति । नब्राह्मणो अब्राह्मण इत्यस्यारोपितब्राह्मण इत्यर्थः । आरोपित्वं नञ्योत्यम् । अत एव असर्वस्मै इत्यादौ सर्व नामसंज्ञायां स्मा. यादेश इति भावः । *द्योतक इति । अत्र भूवादिसूत्रस्थं माध्यं प्रमाणम् । तत्र हि "क्रियावचने धातादुपसर्गप्रत्यययोः प्रतिषेधः इति वार्तिकखण्डनावसरे "प्रकृतिः प्रकृ. त्यथं वर्तते प्रत्ययः प्रत्ययाथै इति प्रतिपाद्य, क्रियाविशेषक उपसर्गः, पचतीत्यन क्रिया गम्यते, तां प्रो विशिष्टिः' इत्युक्त्वा, तन्त्र धातोरुपसर्गव्यभिचारवदध्येती- त्यादौ उपसर्गस्य धातुव्यभिचारेण निर्वाहं कृत्वा, "इह तहि व्यक्तमर्थान्तरं गम्यते, तिष्ठति प्रलिष्ठते" इति आधे जिक्रियानिवृसिरन्त्ये ब्राजिक्रिया, अतो "मन्यामहे उपसर्गकृतमेतत् येनात्र नजिक्रिया गम्यत इति प्रोऽयं दृष्टापशः आदिकमणि वर्तते । न चेदं नास्ति बह्वर्था अपि धातवो भवन्ति" इति । वष्यादौ यथेदं तथाऽत्रापि "ति. ष्टतिरेव जिक्रियां तन्निवृत्ति चाह" इत्युक्तम् । प्रोऽयमिति, अन्यत्रापि प्रयोगात् ! ततश्चान्यत्रास्य योऽर्थो धोत्यः, स एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतिवाचीति निर्णय इति कैयटः । *पूर्व धातुरुपलणेति । विशिष्टा हि क्रिया 'उपाल्यते गुरुः इत्यादौ कार्थला. भाय सम्बध्यते । एवाञ्चान्तरङ्गत्वात्सुटि सञ्चस्करतुरित्यत्र गुणः सिद्ध इति भावः। ननु "विष्वग्देवयोश्च' इत्यत्राप्रत्ययग्रहणेन तदादिविधेापितत्वात्कथं धातूपसर्ग- कार्यस्यान्तरङ्गत्वमित्यत आह-नैतत्सारमिति | साधनसम्भवादि धात्व. यस्य साध्यत्वं प्रतीयते, क्रियायामेव चोपसर्गो विशेषं द्योतयति । *पश्चादुपसर्गेणे. ति । अत एव 'प्रत्ययः' इति निर्देशः सङ्गच्छते । निर्वर्तयतीति । साध्यवैशिष्टयेन (१) तदर्थगतेः स्थाधात्वर्थगतेः आदित्वल्य द्योतक इत्यर्थः । तेन प्रतिष्टते इत्यस्य गन्तुं प्रवर्तते इत्यों बोध्यः । (२) निवर्तयति साध्यत्ववैशिष्टयेन बोधयतीत्यर्थः । । 1 - परमलघुमञ्जूषायाम्- सगों विशिनष्टीति(१) । सत्यमेवमेतत् । (२)यस्त्वसौ धातूपसगयोरभि- सम्बन्धस्तमभ्यन्तरं कृत्वा धातुस्साधनेन युज्यते । अवश्यं चैतदेवं विज्ञेयं यो ह्येवं मन्यते पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति तस्य प्रास्यते गुरुणा इत्यकम्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्” इति । हरिणाऽ-प्युक्तम्-- धातोरसाधनयोगस्य भाविनः प्रक्रमाद्यथा ! बोधयतीत्यर्थः । *सत्यमेवमेतदिति । उपसर्गयोगात्पूर्व साधनयोग इति सत्यम् , परन्तु धातूपसर्गसम्बन्धकृता योऽर्थस्तमभ्यन्तरं कृत्वा स्वबोध्यं कृत्वा साधनयोगे क्रियात्वावगतौ उपसर्गयोगः । न हि केवलधातुना सोऽर्थः प्रतीयते । “यस्त्वसावि. ति*। यस्तव धातूपसर्गसम्बन्धकृतत्वेनामिमतोऽर्थस्तमुपसर्गसंज्ञकसम्बन्धमन्तरेणापि धातुरभ्यन्तरं कृत्वाऽर्थत्वेनाङ्गीकृत्य साधनेन युज्यत इत्यर्थः । अत्रेदं तात्पर्यम्-वक्ता धातोरेव विशिष्टमर्थ बुद्धौ कृत्वा साधनसम्बन्धकार्यप्र. त्यययोगेन तत्र साध्यत्वावगतौ श्रोतृबोधाय क्रियायोगनिमित्तोपसर्गसंज्ञकशब्दयोग करोति । अन्यथा केवलधातुतः सर्वत्राप्रतीयमानतया श्रोतुस्तद्बोधो न स्यादिति । एतदेवोकं कैयटेन भूवादयो धातवः" इति सूत्रे । तथाहि-अनेकार्थत्वाद्धातूनां विशिष्टोऽर्थो धातोरेव, उपसर्गस्तु बोद्धारं प्रति तदर्थद्योतक इति । एवं च पूर्वमुपस- मैंण योगो नाम तदर्थसम्बन्धः, तत उपलगंयोगात्पूर्व साधनकार्ययोगः, तत उपसर्ग- शब्दयोग इति परिभाषाद्वयार्थ इति बोध्यम् । विस्तरस्तु बृहन्मजूषायां स्पष्टम् । *धातोरितिक्रियावाचिनी धातव इत्युक्तम् , साधनसम्बन्धाच्च प्राक् क्रिया. (१) विशिष्टि स्वोत्यविशेषणवैशिष्टयेन बोधयतीत्यर्थः। साध्यत्वेन ज्ञानं विना क्रियायोगे विहितोपसर्गसंज्ञकशोगाज्ञानादिति "पूर्वधातुःसाधनेन युज्यते पश्चादुपसगण इत्यस्य तात्पर्यम् । (२) धातूपसर्गकार्यस्य सुडादेरन्तरङ्गत्वोपपादनायाह-यस्त्वसाविति । या धा. तूपसर्गसम्बन्धकृतत्वेनाभिमतोऽर्थः तं धातुः उपसर्गसंज्ञकशब्दयोगं विनाऽपि अभ्य- न्तरं कृत्वाऽर्थत्वेनागीकृत्य साधनेन युज्यते इत्यर्थः । एवं च पूर्वमुपलायोगो नाम तदर्थ सम्बन्धः । ततः उपसर्गशब्दयोगात् पूर्व साधनकार्ययोगः, ततः उपसर्गशब्दयोग इति "पूर्व धातुः साधनेन युज्यते, पूर्व धातुरुपसर्गेण युज्यते” इति परिमाषाद्वय । स्थापि तात्पर्यम् । एवं च सुटः पूर्वोपल्थितभूषणाद्यर्थनिमित्तकत्वेनान्तरङ्गत्व मुपप. ब्रम् । यत्तु उपसर्गकार्य नार्थनिमित्तकं तत्तु पूर्वागतसाधन नमित्तककार्याद बहिरण- मेव । तेन प्रत्ययः अध्ययनम् इत्यादौ यणादिकमेवान्तरङ्गत्वात् भवति । अत एव. णेरध्ययने इत्यादिनिर्देशसङ्गतिरित्यादिकमन्यतो बोध्यम् । - । निपातार्थविचारः। ६१ धातुत्वं कर्मभावश्च तथाऽन्यदपि दृश्यताम् ।। बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ।। इति । अस्यार्थः-यथा भाविसाधनसम्बन्धाश्रयणेन क्रियावाचित्वमाश्रित्य धातुसंज्ञोच्यते, यथा च सन्प्रत्यये चिकीर्षिते भावीषिकर्मत्वमाश्रित्योपक्र. मे एवेषिकर्मत्वमुक्तम् , तथा भाव्युपसर्गसम्बन्धादुपक्रमे एव विशिष्टक्रि- यावाचकत्वं दृश्यताम् । धातूपसगयोस्सम्बन्ध बुद्धिविषयीकृत्योपसर्गार्थ- कृतो विशेषो धातुनैवाभ्यन्तरीकृतः पदप्रयोगकाले उपसर्गसम्बन्धे सति प्र- काशते । श्रोतुरिति शेषः । उपसर्गयोगात्प्रागेव धातुनैवोपसर्गार्थविशिष्टः स्वार्थ उच्यत इति तात्पर्यम् । पूर्व धातुरुपसर्गेणेति तु तदर्थस्य धात्वर्थान्त- भवाद् व्यवहारः। चन्द्र इव मुखमित्यादौ चन्द्रपदस्य स्वसहशेऽप्रसिद्धा शक्तिरेव लक्ष- णा । "नबिवयुक्तमन्यसहशाधिकरणे" इति न्यायात् । इवपदं तात्पर्यग्राह- कम् । तात्पर्यग्राहकत्वञ्च-स्वसमभिव्याहृतपदत्यार्थान्तरशक्तिद्योतकत्व- मित्यागतम् इवनिपातस्य द्योतकत्वम्। निवृत्तरसम्भवात् यथा भाविसाधनसम्बन्धाश्रयेणापक्रमे एवं धातुसंज्ञा, यथा वा धातोः कर्मणः इत्यत्र भावीषिकर्मत्वमुक्तम्, तथाभाविसम्बन्धादुपक्रमे एवं विधि- टक्रियावचमत्वम् , तदाह-*अन्यदपीति । दार्टीन्तिके योजयति-तथेति । *भेद-विशेषः । *पदकाले*-पदप्रयोगकाले । प्रतिष्ठते इत्यादिप्रयोगकाले इति मावः । 'पूर्व धातुः साधनेन इति.पक्षणाह-*प्रयोगाष्विति। प्रयोगाहेंषु धातुषु प्रसिद्धोऽर्थो विशेष्यो भवत्युपसर्गादिमिः ॥ *श्रोतुरितीति । तथाहि- 'प्रयोगाहेषु सिद्धः सन् भेत्तव्योऽर्थो विशेषणैः । प्राक् तु साधन सम्बन्धात् क्रिया नैवोपजायते । इति च ॥ *स्वसह इति । स्वप्रतियोगिकसदृशे हत्यर्थः । नजिवयुक्तमिति ! "ननिव- युक्तमन्यसहशाधिकरणे तथाह्यर्थगतिः" इति न्यायाकारो बोध्यः । नसममिव्याह तम् इवसमभिव्याहृतञ्च, पदं स्वबोध्यार्थान्यस्य स्वबोध्यार्थसहशस्य च बोधकमिति तदर्थः । नजपदम्, इवपदञ्च तात्पर्यग्राहकम् , तथाह्यर्थगतिः । साहक्षयञ्च तत्तत्स्थलेषु तत्तद्धर्मेण ग्राह्यम् । स च धर्मः सादृश्यप्रतियोगितावच्छेदकोऽपेक्षितः । चन्द्र इव मुखमित्यादौ आह्लादकत्वधर्मस्य सादृश्यप्रतियोगितावच्छेदकचन्द्रत्वव्यापकत्वात् तेनैव धम्मण साहश्यमवसेयमिति दिक् । - । - - परमलघुमञ्जूषायाम्। यत्तु इवार्थस्सादृश्यं तत्र प्रतियोग्यनुयोगिभावेनैव चन्द्रमुखयोरन्वयो- पपत्तौ किं लक्षणया। तथा च चन्द्रप्रतियोगिकसादृश्याश्रयो मुखमिति बोध . इत्याहुः । तन्न । चन्द्र इव मुखं दृश्यते चन्द्रमिव मुखं पश्यामीत्यादौ चन्द्र- पदस्य मुखरूपकमसामानाधिकरण्यामावादुक्तानुक्तत्वप्रयुक्तविभक्त्यनाप- त्तेः षष्ठ्यापतेश्च । परे विवशब्दस्योपमानताद्योतकत्वम् । उपमानत्वञ्च-उपमानोपमेयो. भयनिष्ठ साधारणधर्मवत्त्वेनेषदितरपरिच्छेदकत्वम् । तद्धर्मवत्तया परि- च्छेद्यत्वञ्चोपमेयत्वम् । साधारणधर्मसम्बन्धश्च कचिद् विशेष्यतयाऽन्व- ति क्वचिद् विशेषणतया । एवञ्च चन्द्र इव आह्वादकं मुखमित्यादौ आह्ना- दकोपमानभूतचन्द्राभिन्नमाबादकं मुखमिति बोधः। चन्द्र इव मुखमाह्लाद- यतीत्यादौ चोपमानभूत चन्द्रकर्तृकाहादाभिन्नो मुखकर्तृकाह्लाद इति बोधः । इदम् “उपसानानि सामान्यवचनैः' इत्यत्र (१) भाष्ये स्पष्टमित्याहुः । *प्रतियोगीति । चन्द्रस्य प्रतियोगितया मुखत्यानुयोगितया च सादृश्येऽन्वयः। चन्द्रप्रतियोगिकमुखानुयोगिकसादृश्यमिति यावत् । एवञ्चात्र लक्षणा न युक्तेति भावः । *कर्मसामानाधिकरण्याभावादिति । अस्माकं मते तु चन्द्रसहशे लक्षणया चन्द्रसदृशरूपचन्द्रपदार्थस्य स्वाभित्रमुखद्वारा फलाश्रयत्वात्कर्मत्वेन द्वितीयोपपद्यते। या विशेष्येषु दृश्यन्ते लिङ्गसहयाविभक्तयः । प्रायस्ता एवं कर्तव्याः समानार्थ विशेषणे। इत्यभियुक्तोकमत्राथें मानं ज्ञेयम् । 'निपाता वाचका' इति तव मते तु चन्द्रपदा- थस्येवार्थसाहश्ये प्रतियोगितयैवान्वयो वाच्यः, स च दुरुपपादः । 'नामार्थयोमियो भेदेनान्वयस्याव्युत्पन्नत्वात् । अन्यकर्ता स्वमतं प्रकटयति-*परेस्वित्यादिना साधारणधर्मवत्वेनेति साह- श्यनियामकधर्मवत्वेनेत्यर्थः । ईषदितरेति । स्वल्पमेदवदित्यर्थः । इति बोध इति । अतोऽत्रापि तयोः समानविमतिकतैवेति भावः । एवं 'गज इव गच्छति चैत्र' इत्यादौ बोध्यम् । 'वनं गज इव शूरः समरभूमि गच्छति' इत्यादौ 'उपमानग- जकर्तृकवनगमनाभिन्नं शूरकर्तृकसमरभूमिगमनम्' इति बोधः । अत्र साधारणधर्मरूप- गमनस्य विधेयतयोपमा विधेयका धो। 'व्याघ्र इव यः पुरुषः स गच्छति' इत्यादौ 'उपमानव्याघ्राभिन्नशूरपुरुषकर्तृकं गमनम् इति धीः । शूरत्वादिसाधारणधर्मस्यो द्देश्य- तयोपमोद्देश्यिकाऽत्र धारित्यादिबोध्यम् । नन्वन्त्रैव किम्मानमित्यत आह-इदमि. (१) तत्र हि भाष्ये "किमिहोदाहरणम् । शस्त्री श्यामा । क पुनस्यं श्यामाश. ।

। निपातार्थविवारः। नम् द्विविधः-पर्युदासःप्रसज्यप्रतिषेधश्च । तत्रारोपविषयत्वं नब्पयं दासद्योत्यम् । आरोपविषयत्वद्योतकत्वञ्च नबः समभिव्याहृतघटादिपदाना- मारोपितवृत्तिनिमित्तबोधकत्व तात्पर्यग्राहकत्वम् । प्रवृत्तिनिमित्तं घटत्वब्राह्म ति*। *भाष्ये स्पष्टमिति । तत्र हि "किं सर्वथा भेदे उपमानोपमेयभाव उत-अभेदे। इति प्रबने ? उभयत्रापि साधारणधर्मासम्भवाद्गौरिव गौः, गौरिवाच इत्यादौ उपमा. वाचकेवादे रर्थक्यापत्तिमुक्त्वा यत्र विशेषरूपेण भेदावगतिः साधारणधर्मरूपेणाभेदा. वगतिस्तत्र स" इत्युक्त्वा "कथमेतजातम्" इति शङ्कायां हीनं मानमुपमान यत्रा- न्यन्ताय मिमीते इत्यर्थकोपमानव्यवहारादेतन्निोंतम् । इत्युक्तम् । तस्यायम्मावा- प्रस्थादि हि साकल्येन मानमिति तद्-अत्यन्तभेदनैव परिच्छेदकम् । प्रस्थः परिमाण. मस्येति प्रस्थो व्रीहिरिति वा इदं तु हीनमिति भेदाभेदाभ्यामेव परिच्छेदकमिति ! अन्यन्तायेत्यव्ययमत्यन्तमित्यर्थ इति । नजो भेदकत्वमिति तार्किकमतनिरासायोपक्रमते-*नजो द्विविध इति । नर. र्थो द्विविधः । भेदः ससर्गाभावश्च तत्र समासघटकस्य ना भेदबाधकत्वमितरस्य तु संसर्गाभावबोधकत्वम् । अघटं पश्यतीत्यत्र घटभिन्नम्पश्यति । घटो नास्तीत्यत्र घट. त्वावच्छिन्नप्रतियोगिताभाव इति च तार्किकाणां मतमबसेयम् । *पर्युदास इति । 'द्वौ नौ समाख्यातौ पर्युदासप्रसज्यको । पयुदाससहशग्राही प्रसज्यस्तु निषेधकृत ॥ इति । *आरोपविषयत्वेति । अत एव 'आरोपितत्वं नग्धोत्यं नासोऽप्यतिसर्व. वत्' इत्युक्तिः सङ्गच्छते । *तात्पर्यग्राहकत्वमिति । यथा-'सिंहो माणव' इत्या. दौ माणवकादिपदानि सिंहादिपस्यारोपितसिंहत्ववद्बोधकत्वे । 'मनुदरा कन्या इत्यादावत्यल्पत्वेनोदराभावमारोप्य नसममिव्याहारे आरोपितोदबुद्धया तन्मूला- ल्पत्यादौ विश्रमः । अद्विजः इत्यादौ च तदभेदमूलकमारोपितप्रवृत्तिनिमित्तकत्वमि- ति भेदे विश्रान्तिः।। अधर्म इत्यादौ च विराधिनि । आरोस्तिस्य नश्वाच्यत्वे तु तस्य ब्राह्मणादिपदशक्येऽनारोपितब्राह्मण्यवति सम्बन्धो दुरुपपादः । तत्र प्रसिद्धार्थ परित्यागोऽप्रसिद्धार्थप्ररिग्रहश्चेत्युभयं द्योतककृत्यमिति नसूत्रे भाष्ये स्पष्टम् । *प्रवृत्तिनिमित्तमिति* । प्रातिपदिकविशिष्टत्वं प्रवृत्तिनिमित्तम् । वैशिष्ट्यञ्च- ब्दो वर्तते । शस्त्रयामित्याह । केन तहीदानी देवदत्तोऽभिधीयते । समासन । (पदि श्यामाशब्देन शस्त्रा अभिधीयत उपमेयं समासेन अभिधीयते तर्हि पुंस्त्वविशिष्टदेवद- त्तादेपि उपमेयत्व श्यामशब्दस्य तदनभिधायकत्वात् स्त्रोत्वविशिष्टशस्त्रयभिधायक. त्वाच्च टापि), शस्त्राध्यामो देवदत्त इति पुल्लिङ्गप्रयागा) नासध्यांत । "गास्त्रियारपस- जनस्याहात हस्वत्वं भविष्याताययेवं कुम्भकपाललोहिना इत्यत्र “वर्णादनुदात्ताता इति अनुपसर्जनलक्षण ईकारो न प्राप्नाति, एवं तर्हि शस्त्र्यामेव शास्त्रीशब्दा देवदत्तायां । । - परमलघुमजूषायाम् । णत्वादी । तस्मात् अब्राह्मण इत्यादौ आरोपितब्राह्मणत्ववान क्षत्रियादिरिति स्दवाच्यत्वम् , स्ववाच्यवृत्तित्वं, स्ववाच्योपस्थितिप्रकारतावत्व, स्वनिष्ठशक्तिज्ञा. नाधीनोपस्थितिप्रयोज्यशाब्दबोधीयपदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यत्वासमा. नाधिकरणापदार्थसम्बन्धावच्छिन्न प्रकारताविशिष्टलम्बन्धैः । सम्बन्धघटकवैशिष्टयञ्च- स्वानाश्रयत्व, स्वावच्छेदकतानाश्रयत्व, एतदन्यतरसम्बन्धेन । लक्षणसमन्वयस्तु स्वयमेवोह्यः । *अब्राह्मण इति* । अब्राह्मण इत्यत्र आरोपविषयत्वं नर्थः । तस्य च - श्यामाशब्दः । एवमपि समानाधिकरणेनेति वर्तते, व्यधिकरणत्वात्समासोनप्राप्नोति। कि हि वचनानि भवति । यद्यपि तावद्वचनात्समासः स्यात् । इह खलु मृगीव चपला. मृगचपलेत्यत्र समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति । एवं तर्हि तस्यामेवोभयं वर्तते । युक्तं चैतत् ? इतस्थाहि बढपेक्ष्यं स्यात् । यदि तावत् एवं विग्रहः करिष्यते शस्त्रीव श्यामा देवदत्तेति, शस्त्र्यांच्यामेत्येतदपेक्ष्यं स्यात् । अथाप्येवं विग्रहः करिष्य. ते,यथाशस्त्री श्यामा|तद्वदियं देवदत्तेति, एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यात्, इत्युक्तम् । तत्र तस्यामेवेत्यस्य उपमेयायामेवेत्यर्थः । उपमानशब्दोऽपि सादृश्यमुल. काभेदाध्यवसायात् उपमेये एवं वर्तते इति भाव्याशयः। सादृश्यनिर्वाहायच तत्प्रयो. जकस्य साधारणधर्मस्य श्यामत्वादेः घनश्यामो देवदत्त इत्यादौ तन्त्रादिना उपमा. उपमेये चोभयत्रान्वयः । तथाच उपमानश्यामधनाभिन्नः श्यामो देवदत्त इति बोधः । अत एव सूत्रे सामान्यवचनैः इतिवचनपदमुपातम् । तेन च साधारणधर्मत्वेन बोध. कता लभ्यते । साधारणधर्मत्वं च अनेकवृत्तिधर्मत्वम् । उभयत्र श्यामत्वादेरन्वयाभावे च अनेकवृत्तिधर्मत्वेन श्यामादिपदानां तद्बोधकत्वाभावात्समासो न स्यात् । त. स्मात् सौत्रवचनपदस्वारस्येन उभयगतगुणावाचकत्वादिति "उपमानानि तिसूत्रस्थ भाष्याच्च उभयत्र साधारणधर्मान्वयः शाब्दः । तत्प्रयोज्यः साश्यान्वयस्तु आर्थः । नतु पूर्वपदस्य धनशब्दादेः लक्षणयो तत्सहशान्वयबोधः शाब्दः । तथासति उपसान. स्वेन बोधकानि सामान्यधर्मविशिष्टोपमेयवचनैः समानाधिकरणः समस्यन्ते इत्यर्थंके. न "उपमानानि सामान्यवचनैः" इत्यनेनासमासानापतेः । पूर्वपदस्य लक्षणया उपमे यपरत्वेन उपमानवाचकत्वाभावात् । वृत्तिविग्रहयोः समानार्थत्वाय तद्विग्रहवाक्येऽपि धन इक श्याम इत्यादौ लक्षणया तत्सदृशपरत्वस्यावश्यकत्वेन विग्रहवाक्यीयमु. पमानवाचकत्वमपि नायितुं शक्यते । बनेन तुल्य इत्यादिकं तु न तद्विग्रहवाक्यम् । अन्यथा मृग्या तुल्या चपलेत्येतद्विग्रहवाक्यके मृगचपलेल्यत्र पुंवद्भावानापत्ति: सा. मानाधिकरण्याभावात् । षष्ठीतत्पुरुषादावतिव्याप्तिवारणाय वृत्तौ विग्रहे च सामाना. धिकरण्यस्य पुंवद्भावेऽपेक्षितत्वात्। वृत्तिविग्रहयोः समानार्थकत्वनियमभङ्गापत्तिश्च । तस्मात् तस्यामेवोभयं वर्तते इति भाष्यस्य पूर्वपदस्य उपमानवाचकत्वेऽपि साह- निपातार्थविचारः। बोधः । अत एवोत्तरपदार्थप्राधान्यं नञ्तत्पुरुषत्येति प्रवादस्सङ्गच्छते! अत एव च 'अतस्मै ब्राह्मणाय' 'प्रस: शिव' इत्यादौ सर्वनासकार्यम् । अन्यथा गौणत्वान्न स्यात् । प्रवृत्तिनिमित्तारोपस्तु सहशे एव भवतीति "पर्युदासः सहशमाही” इति प्रवादः । पर्युदासे निषेवस्त्वार्थः । अन्य स्मिन्नन्यधर्मारोपस्तु आहार्यज्ञानरूपः । वाधकालिकमिच्छाजन्यं ज्ञानमे. वाहार्य मति वृद्धाः । सादृश्यादयस्तु प्रयोगोपाधयः, पर्युदासे त्वार्थिका- ः । तदुक्तं हरिणा- तत्साहश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः ।। इति ! तत्सादृश्यं गर्दभेऽनश्वोऽयमित्यादौ । अभावस्तु प्रसज्यप्रतिषेधे वक्ष्यते। तदन्यत्वम् अमनुष्यं प्राणिनमानयेत्यादौ तदल्पत्वम् अनुदरा कन्या इत्यत्र, अर्थात्स्थूलत्वनिषेधेनोदरस्याल्पत्वं गम्यते। अप्राशस्त्यं ब्राह्मणे अब्राह्मणोऽ- यमिति प्रयोगे। विरोधः असुरः अधर्म इति प्रयोगे। उत्तरपदार्थे ब्राह्मणेऽन्वयः । आरोपश्च प्रत्यासत्या प्रवृत्तिनिवृत्तिप्रकारक एवं गृह्यते। एवं च आरोपविषयत्ववान् ब्राह्मण इति बोधः पर्यवसन्न इति बोध्यम् । अत एवेति ना भारोपितार्थधोतकत्वादेव : *न स्यादिति । नमर्थस्य भिन्नार्थवाचकत्वे तस्य चविशेष्यत्वात् इतरपदार्थनिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वरूप. गौणत्वं तच्छब्दादीनां स्यात् । तेन सर्वनामसंज्ञाकार्य न भवेदिति तात्पर्यम् । *बाध. कालिकमिति । यथा घटे पटत्वं नास्तीति निश्चयदशायामपीच्छयायं पट इति यज्ज्ञानं तदाहार्यम् । ताकिकास्तु अयमेव श्रम इति मन्यन्ते । तेषां मते तद्धर्माभाव. अनिष्ठविशेष्यतानिरूपिततद्धर्मनिष्टप्रकारतानिरूपकज्ञानस्यैव भ्रमत्वम् । क्रमेणादाहरति-तत्साध्यमित्यादिना* : *गर्दम इति । अनच इत्यस्या. रोपिताश्वत्ववानित्यर्थः। अन्न सादृश्लमूलकोऽचत्वारोपः । *अमनुष्यमिति । मनुष्यभित्रमित्यर्थः । *अनुदरेति* अनु-अल्पमुदरं यस्या इति बहुव्रीहिः । अल्पो- दरविशिष्टेत्यर्थः । *अब्राह्मण इति* । अप्रशस्तो ब्राह्मणः, निषिद्ध ब्राह्मण इति यावत् । *असुर इति* 1 सुरविरुद्ध इत्यर्थः । विरोधश्चान्न ऋरक्रियात्वेन ज्ञेयः । श्यमूलकाभेदाध्यवसायात् उपमेयपरत्वमित्येव पूर्वाक्कं तात्पर्य समीचीनम् । ततश्च वि. ग्रहे वृत्तौ च पूर्वपदस्य उपमानत्वविशिष्टार्थपरत्वात् उत्तरपदार्थसाधारणधर्मस्य च उ. भयत्रान्वयात् समासः, वृत्तिविग्रहयोः समानार्थकत्वं, साधारणधर्मान्वयप्रयोज्याभेदा- स्वयबोधश्च लिष्यन्ति । ततश्च मूले प्रदर्शितो बोधः उक्तसूत्रस्थभाष्यसम्मत इति सङ्केप इति लघुमञ्जूषायां विस्तरः । ५१० म० ६६ परमलघुमञ्जूषायाम्। पर्युदासस्तु स्वसमभिव्याहृतपदेन सामर्थ्यात्समस्त एव (प्रायः १)। कचित्तु “यजतिषु ये यजामहं करोति नानुयाजेषु” इत्यातौ घटःअपटो भव. तीत्यर्थके घटो न पट इत्यादौ च समासविकल्पादसमासेऽपि । अत्रान्यो- न्याभावः फलितो भवति । प्रसज्यप्रतिषेधस्तु समस्तोऽसमस्तश्चेति द्विविधः। तत्र विशेष्यतया क्रियान्वयनियमात्सुबन्तेनासामर्थेऽपि 'असूर्यललाटयोः' इत्यादिज्ञापकात्समासः । तदुक्तम्- प्रसज्यप्रयिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत्र क्रियापदं गुणस्याप्युपलक्षणमिति वहवः। अत एव नसूत्रे मा. व्ये "प्रसज्यायं क्रियागुणौ तत: पश्वान्निवृत्तिं कुरुत" इत्युक्तम् । उदाहरण- म् -नास्माकमेकं प्रियमिति । एकप्रियप्रतिषेधे बहुप्रियप्रतीतिः । एवं 'न सन्देहः, नोपलब्धिः' इत्याधुदाहरणं गुणस्य । सन्देहादीनां गुणत्वात् । क्रियोदाहरणम्-'अनचि च' 'गेहे घटो नास्ति' इत्यादि । तस्य समस्तस्य तु अत्यन्ताभाव एवार्थः । असमस्तस्य तु अत्यन्ताभावोऽन्योन्याभावश्च । तादात्म्येतरसम्बन्धामावोऽत्यन्ताभावः । तादात्म्यसम्बन्धाभावोऽन्योन्या- भावो भेद इत्यर्थः। असूय॑म्पश्या राजदाराः, गेहे घटो नास्ति, घटो न पटः इत्युदाहरणानि । प्रागभावप्रध्वंसाभावौ तु न नब्योत्यौ । पर्युदासं निरूप्य प्रसज्यप्रतिषेधस्वरूपं प्रदर्शयति-प्रसज्यप्रतिषेधस्त्वित्यादि- ना* । प्रतिषेधशब्दः कर्मघजन्तो बाहुलकात् । प्रसज्य-आपाद्य प्रतिषेधः प्रतियोगी यस्य साहशोऽभावोऽर्थो यस्येति व्युत्पत्या ऽभावार्थकः । "न" सूत्रे भाष्ये तु "प्र. सज्य क्रियागुणौ ततः पश्चानिवृत्ति करोति" इत्युक्तम् । तेन गुणाभावबोधेऽपि प्रस- ज्यप्रतिषेध इति लभ्यते । *बहुप्रिय इति । प्रियशब्दः पात्रादिः। बहुप्रियतेति पाठस्तु सुगम एव । प्रागुतदाढायोदाहरणान्तरमाह-*नसन्देह इति । *"अनचि चा इति । अन्न विध्यर्थकः । तथाच अजव्यवहितपूर्वत्वविशिष्टस्य यरो द्वित्वं वेत्येकं वाक्यम् । निषेधवाक्यञ्च-अनचोति । अस्याः-अजव्यवहितपूर्वत्वविशिष्टस्य यरो द्वित्वं न भवतीति । नजःप्रसज्यप्रतिषेधार्थकत्वादिति बोध्यम् । अत्यन्तामावो. दाहरणम्-*असूर्यपश्येति । सूर्यकर्मकदर्शनप्रतियोगिकामाववन्तो राजदारा इत्य- थः। गेहे घट इति। घटकर्तृकसत्ताभावो गृहवृत्तिरिति शाब्दबोधः । *न नद्यो- (१) एतन्मध्यस्थः पाठो बहुषु पुस्तकेषु नास्ति ।

६७ निपातार्थनिर्णयः। तत्रात्यन्ताभावो विशेष्यतया तिङन्तार्थक्रियान्वय्येव । (१)नअर्थात्य- न्ताभावविशेष्यकबोधे तिसमभिव्याहृतधातुजन्योपस्थितेः कारणत्वात् । तथा च घटो नास्तीत्यादौ घटकर्तृकसत्ताप्रतियोगिकोऽभाव इति बोधः । अत एवाहं नास्मि त्वं नासीत्यादौ घटौ न स्तो घटा न सन्तीत्यादौ च पुरुषवच- नव्यवस्थोपपद्यते । अन्यथा युष्मदादेस्तिसामानाधिकरण्याभावात् मद- भावोऽस्तीत्यादाविव सा न स्यात् । असंदेह इत्यादौ तु आरोपितार्थकनव समासः । अत्यन्ताभावस्तु फलित एव । वायौ रूपं नास्तीत्यत्र तु (२)तात्प- यानुपपत्त्यारुपप्रतियोगिकात्यन्ताभावे लक्षणा। तेन वायधिकरणिका रूपा- भवकर्तृका सत्तेति बोधः । वस्तुतस्तु समनियताभावैक्यमाश्रित्य (३)फलि- - । स्याविति । 'रक्तघटे श्यामोनास्ति' इतिप्रतीतिरत्यन्ताभावमेवावगाहते,न ध्वंसप्रा. भावाविति तत्र रहस्यम् । तिङन्तार्थेति । तिङन्तपदमत्र कृदन्तल्याप्युपलक्षगम्बोध्यम् । तेन 'असूर्यम्प- श्या राजदारा' इत्यत्र न दोष इति भावः । *धातुजन्योपस्थितेरिति । प्रकारतास- म्बन्धेन ननर्थात्यन्ताभावविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितिः कारणमिति कार्यकारणभावोऽत्रावसेयः। *लक्षणेति । रूपपदस्य रूपप्रतियोगिकात्यन्ताभावे लक्षणा । नञ्पदं तात्पर्यग्राहकमिति भावः । रूपकर्तृकस. साभावोऽत्र बोध्यः । रूपाभावस्तु फलितार्थकथनम् । *समनियतेतिमा स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वे सति स्वाभावववृत्ति (१)प्रकारतासम्बन्धेनेति शेषः । कारणतावच्छेदकश्च विशेष्यतासम्बन्धो बो- ध्यः । एतादृशकार्यकारणभावाङ्गीकारेणैव घटो न जायते इत्यादौ घटोत्पत्त्यभावादिः प्रतीयते, न तु तदभावोत्पत्त्यादिः । एवं च अनुगतरूपेण कार्यकारणभावकल्पने लाघ- वात् सर्वत्रैव तथा बोधोऽङ्गीकायः । नक्रोधो नच मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे !! इत्यत्र तु प्रत्येकं भवतीत्यस्य, भवन्तीत्यत्र च एतेनेत्यस्याध्याहारेण अन्वय उप- पादनीयः । एवमन्यत्रापि वोध्यम् । (२) रूपामावस्यैव बोधविषयत्वेन तात्पर्यविषयत्वादिति भावः । (३) रूपसत्ताऽभावविषयके शाब्दबोधे जाते तत्समनियतो रूपाभावोऽर्थादेव प्रतीयत इति भावः।

परमलघुमञ्जूषायाम्- तार्थ एवायम् । (१)अरूपमस्तीत्यर्थकं वा तत् । एतेनात्यन्ताभावप्रकारक- क्रियाविशेष्यको बोध इति तार्किकोक्तमपास्तम् ।। नन्वेवंघटसत्तारूपोऽर्थः प्रथमंबुद्धोना निवर्तयितुमशक्यः, सतो निषे. धायोगात् , असतस्त्वसत्वादेव निवृत्तिसिद्ध्या निषेधो व्यर्थः । तदुक्तम्- सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नबर्थः प्रलयं गतः ।। इति चेत् , न ! बौद्धो हि शब्दो वाचक: बौद्ध एवार्थो वाच्य इत्युक्त- त्वात् बुद्धिसतोऽप्यर्थस्य ननाबाह्यसत्तानिषेधात् । बुद्धौ सन्नपि घटो वहि- नास्तीत्यर्थात् । न च घटास्तिपदाभ्यां या घटविषयाऽस्तिबुद्धिर्जाता सा नमा निवर्त्यते किं बौद्धार्थस्वीकारेणेति वाच्यम् । बुद्धेश्शब्दावाच्यत्वेन नबा तन्निषेधायोगात् । एतेन बौद्धार्थमस्वीकुर्वन्तो नबर्थबोधाय कष्टकल्प. नां कुर्वन्तस्तार्किकाः परास्ताः । घटो न पट इत्यत्र घटपदस्य घटप्रतियोगि- कभेदाश्रये अप्रसिद्धा शक्तिरेव लक्षणा, नञ्पदंतात्पर्यग्राहकम् । तात्पर्य ग्राहकत्वं चोकत्वमेवेत्युक्तम् । अत एवान्योन्याभावबोधे प्रतियोग्यनुयो- गिपदयोः समानविभक्तिकत्वं नियामकमिति वृद्धोकं सङ्गच्छते । , त्वं समनियतस्य लक्षणम् । *सतो निषेधायोगादिति* ! "नासतो विद्यते भावा, नाभावो विद्यते सतः" इत्यनुसारिसत्कार्यवादिमतमवलम्ब्य उक्तमिति बोध्यम् । *इत्युक्तत्वादिति । अत एव “एष वन्ध्या सुतो याति खपुष्पकृतशेखरः" इत्यादीनां निषेध उपपद्यते । तेषां प्रातिपदिकत्वञ्च सिद्धयतीति बोध्यम् । बौद्धपदार्थस्य स्पष्टी. करणं तु लघुमजूषायां स्पष्टम् । *बुद्धौसन्नपीति | विषयतासम्बन्धेन तन्त्र विद्यमा. नोऽपीत्यर्थः । *परास्ता इति । कथमन्यथा शशशृङ्गादिपदानां प्रातिपदिकसंज्ञा स्यात् । बाह्यपदार्थाभावेनार्थवत्वाभावात् , इत्यपि ते एव प्रष्टव्याः । *घटप्रतियोगिकेति । अन्यथा तन्मते नजो भेदवाचकतया घटस्य प्रतियोगितया भेदे, तस्य च माश्रयतया पटेऽन्वये घटपदस्य तिसामानाधिकरण्याभावात्प्रथमाना. पत्तिरिति बोध्यम् । अत एव-लक्षणाझीकारादेव । *समानविभक्तिकत्वमिति ! (१) अब्राह्मण इत्यादाविव आरोपितरूपत्ववान् यो वायुवृत्तिस्तस्कर्तृका सत्ते. त्येव शाब्दबोधः । तदभावबोधश्चात्रापि आर्थ एवेति बोध्यम् ।

निपातार्थविचारः। an यत्तु घटपदं पटप्रतियोगिके लाक्षणिक नब्पदं तु भेदवति, अतो घट- प्रतियोगिकभेदवान्पट इति बोध इति तार्किकैरक्तम् । तन्न । भेदवति नन- थे भेदश्यैकदेशत्वात् तत्र घटार्थानन्ययापत्तेः । ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थैकदेशेन' इति न्यायात् । पदये लक्षणास्वीकारे गौरवाच । भाष्य- सते लक्षणाया निपातानां वाचकत्वस्य च स्वीकाराभावादिति संक्षेपः। एवशब्दस्यार्थोऽवधारणमसम्भवश्व । 'एवे चानियोगे' इति वाति नि- योगोऽवधारणं तदभावोऽसम्भव इति कैवटोक्तेः । अनयोरर्थयोरेवशब्दो । । समानविभक्तिकत्वन्नाम-एकविभिकत्वम् । तत्वञ्च-स्वाव्यवहितोत्तरत्वेनाधिगम्य- मानविभक्तिवृत्तिविभक्तिविभाजकधर्मवाद्विभक्त्यव्यवहितपूर्वत्वेनाधिगम्यत्वम्। तत्र विभक्तिविशिष्टत्वम्विभक्तिविभाजकत्वम् । वै० स्वव्याप्यत्वम् , स्वव्याप्याव्याप्य- त्वम् , स्वभिन्नत्वम् । एतत्रितयसम्बन्धेन, तादृशः प्रथमत्वादिरेव धर्मो न तु सुप्त्व. मौत्वादिकम्वा । तस्य विभक्तित्वव्याप्यप्रथमात्वव्याप्यत्वात्। स्वभिन्नत्वाभावात विभक्तित्वमपिन तथेति लक्षणसमन्वयो बोध्यः । श्वरप्रतियोगिकभेदवानितिघटप्रतियोगिकस्य घटपदार्थस्य नायकदेशे भेदेऽ. भेदेनान्वय इति तात्पर्यम् । *पदार्थः पदार्थेनेति । अयं च कार्यकारणभावमूलको न्यायः । नजातिरिक्तत्वेन न्याये सङ्कोचे तु गौरवमिति बोध्यम् । ननु नित्यसाका. वितस्थले नायं नायः स्वीकार्यः। अत एव देवदत्तस्य गुरुकुलम्' इत्यादौ एकादेशेऽपि न क्षतिः । तथा च प्रकृतेऽपि नित्यसाकासत्वादेकादेशान्वयो न दोषावह इत्यरुचेरा- ह-*पदद्वये इति। *वाचकत्वस्येति । शास्त्रेषु तावत् निपातार्थविषये पक्षत्रयं दृश्यते। यथा- 'प्रजयति' इत्यादौ प्रकर्षादीनां निपातार्थानां केवलधातुतोऽप्रतीत्या उपसर्गसम्बन्धा- त्तदवगम इति उपसमा विशेषार्थयोतकत्वमेवेति प्रशब्दः प्रकृष्टजयद्योतकः । इरिकारिका- चित्सम्भविनो भेदाः केवलैरनिदर्शिता। उपसर्गेण लम्बन्धे व्यज्यते अपरादिना ॥ इतिप्रथमः । क्वचित् उपसर्गाणांवाचकत्वमपि । यथा-"प्रतिष्ठते इत्यादौ स्था. धातोर्मतिनिवृत्तिवाचकत्वम् , प्रशब्दस्य तु गतिवाचकत्वम् । 'सवाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा। इति यथा । इति द्वितीय पक्षः। तृतीयस्तु सम्भूय धातूपसौ अर्थमाहतुः, उपसर्गस्तु शक्तिमानं कुरुते इत्याभि- थाने उपसर्गाः सहकारिणः । वाक्यपदीये उक्तञ्च- शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते । इति । p- परमलघुमञ्जूषायाम्- द्योतकः । अत एव तं विनापि तदर्थप्रतीतिः 'सर्व वाक्यं सावधारणम्' इति वृद्धोक्तं सङ्गच्छते। लवणमेवासौ भुङ्क्ते इत्यादौ प्राचुर्यार्थकस्य, घट एव प्रसिद्ध इत्यादावप्यथेकस्य, केव भोक्ष्यसे इत्यादावसम्भवार्थकस्य च तस्य सत्वमित्यालङ्कारिकाः। तच्चावधारणं त्रिविधम् । विशेष्यसङ्गतैवकारेऽन्ययोगव्यवच्छेदरूपं, विशेषणसङ्गतैवकारेऽयोगव्यवच्छेदरूपं, क्रियासङ्गतैवकारेऽत्यन्तायोगव्य- वच्छेदरूपम् । विशेष्ये-पार्थ एव धनुर्धरः । पार्थेतरावृत्तियद्धनुर्धरत्वं तादृश- धनुर्धरत्ववान् पार्थ इति बोधः इत्यन्यतरस्मिन्धनुर्धरत्वसम्बन्धव्यवच्छेदः । विशेषणे, शङ्खः पाण्डुर एव । अयोगः सम्बन्धाभावः तस्य व्यवच्छेदो निवृ. उक्तेष्वपि पक्षत्रयेषु उपसर्गाणां द्योतकत्वमेवेति विचारावसरे निश्वप्रचम् । धातू. नामनेकार्थत्वात् 'प्रतिष्टते. इत्यादौ स्थाधातोरेव गतिरर्थः, प्रशब्दो द्योतत एवेति बो. व्यम् । एतदेवोक्तं वाक्यपदीये- स्थादिभिः केवलैयच्च गमनादिगम्यते । तत्रानुमानाद्विविधात् तद्धर्मा प्रादिरुच्यते ॥ इति ॥ एवं चादिनिपातेष्वपि पक्षत्रयमस्ति । उक्तञ्च हरिणा- निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः । आगमा।इव केऽपि स्युःसम्भूयार्थस्य वाचकाः ॥ इति । एतेषु पक्षनयेषु द्योतकत्वपक्ष एव न्याय्यः । केवलानां चादीनामप्रयोगात् तदु- कं वाक्यपदीये- चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते । एवञ्च प्रादीनां चादीनाञ्च निपातानां द्योतकत्वमेवेति हरीणां हार्दम् । नागेशाना- मपीदमेवारुविकरम् । प्रकृतसन्दर्भ पुनःपुनःद्योतकत्वपक्षस्यैव समर्थनादितिदिक । *असम्भवार्थकस्येति । तथाच-"एवेचानियोगे” इति वार्तिकमुपादाय तन भवान्माष्यकारआह- "अनवक्लप्सो यदा दृष्टः पररूपस्य गोचरः। एवस्तु विषयो वृद्धेनियमेऽयं यदा भवेत् ॥ इति ॥ तत्र बार्तिके नियोगशब्दो न व्यापारवचना, तवैव ममैवेत्यादावपि पररूपापत्तः । स्पष्टचैतत् प्रौढमनोरमायाम् । *पार्थेतरेति । पार्थत्वावच्छिन्नप्रतियोगितानिरूपकभेदाश्रयवृत्तित्वाभाववद्ध- । निपातार्थविवारः। ७१ तिः, द्वाभ्यां निषेधाभ्यां प्रकृतार्थदाढयं बोधनेनाव्यभिचरितपाण्डुरत्वगुण- वान् शङ्ख इति बोध इत्ययोगव्यवच्छेदः। न तु नील इति हि फलति । क्रि- यायां, नीलं सरोजं भवत्येव । अत्यन्तोऽतिशयितोऽयोगः सम्बन्धाभाव- स्तस्य व्यवच्छेदोऽभावः । तथा च कदाचिन्नीलत्वगुणवदभिन्नं यत्सरोज तत्कर्तृका सत्तेति बोधः । कदाचिदन्याशगुणसंयुक्तमित्यपि गम्यते इत्य. त्यन्तायोगव्यवच्छेदः'। कचिदेवशब्दं विनापि नियमप्रतीतिः। तदुक्तं भाष्ये-अभक्ष्यो ग्राम्य कुक्कुट इत्युक्ते गम्यते एतत् आरण्यो भक्ष्य इति । 'सर्वं वाक्यं सार्वधारणम्' इति न्यायात् । आलङ्कारिका अपि परिसङ्ख्या- ऽलङ्कारप्रकरणे प्रमाणान्तरेण प्राप्तस्यैव वस्तुनः पुनः शब्देन प्रतिपादनं प्रयो- जनान्तराभावात् स्वतुल्यान्यव्यवच्छेदं गमयतोति । भागवतेऽपि- लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोन हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ॥ इति । व्यवायो मैथुनम् , आमिषं मत्स्यादि, मद्यम् -एतेषां सेवा जन्तोः प्राणि- - नुर्धरत्ववान पार्थ इतिशाब्दबोधोऽत्रावसेयः। *द्वाभ्यां निषेधाम्यामिति । अभा. वाभावस्य प्रतियोगित्वरूपत्वेन पाण्डुरत्वसम्बन्धाभावाभाववान् शङ्ख इति बोधः । अभावस्य निषेधेन पाण्डुरत्वसम्बन्धः खे बोध्यत इति भावः । *नीलं सरोजामति । सामानाधिकरण्येन तदभावानधिकरणं यत् सरोजं नील- भवनसमभिव्याहृतं तत्प्रकारकेत्यर्थः। नालाभिन्नलरोजामिनकर्तृकमवधारणविशेष्यं भवनमिति बोधः। *तदुक्तं भाष्ये* ! पस्पशान्हिके इति शेषः। साम्यत इति । भक्ष्यभिन्नतया ग्राम्य एवं कुक्कुटः प्रतीयते। तथाहि-भक्षणम्-श्रुन्निवतको व्यापारविशेषः । क्षुनि. वृतिश्च रागतो ग्राम्यतदितरभक्षणेन च भवितुमर्हति इतिप्रकृतवाक्यं व्यर्थीभूय निय- मर्यात ग्राम्य एवाभक्ष्य इति तेन इतरमक्षणं फलति । एवं पञ्च पञ्च नखा भक्ष्या इत्यनेनाप्युक्तदिशा भक्ष्यनियमेनाभक्ष्यप्रतिषेधसिध्या शशकादिपञ्चकेत्तरपञ्चनखभक्ष. णामावः फलतीति दिक् । आलङ्कारिकाः-मम्मटादयः। *व्यवाय::-सुन्दरीगमनम् । *आमिषा-मांसम् । *मद्यसेवेति। तथाच तैत्तिरीयब्राह्मणम्-'ब्राह्मणं परिक्रीणी- यादुच्छेषणस्य पातारं यदि ब्राह्मणं न विन्देत वल्मीकवपायामवनमयेत् सा तत्र - ।

परमलघुमञ्जूषायाम् । मात्रस्य नित्या रागतः प्राप्ताः। अतस्तत्र चोदना विधिर्नास्ति । नन्वेवम् "ऋतौ भार्यामुपेयात्" "हुतशेषम्भक्षयेत्” "सौत्रामण्यां सुराग्रहान् गृह्णाति" इत्ये. तेषां वैयर्थ्यम्। भार्या विवाहिताम् । तत्राह व्यवस्थितिरिति । तेषु पुनः प्राप- रणमित्यर्थः । नियमस्यान्यनिवृत्तिफलकत्वादाह आसु निवृत्तिरिष्टेति । अ. न्येष्विति शेष: । तदुक्तम्- विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । । । प्रायश्चित्तिः इति । ब्राह्मणो हि आहुत्या उच्छेषणस्य पाता । अकरणे प्रत्यवायाभा वरूपयित्यत्वाभावादाह-रागत इति । स्वभावत इत्यर्थः । न हि कश्चित्प्रागी क्षुत्प्रतिघातमन्तरेण प्राणधारणे समर्थो भवति । अमो येन केनाप्युपायेन प्राणधारणे तस्य प्रवृत्तिः स्वभावसिद्धति भावः । *ऋतौ भार्यामिति । त्रिविधोऽत्र नियमः अतावेव, भार्यामेव, उपेयादेवैति आधे गमननिवृत्तिःफलम् । द्वितीये-माय्येतरस्त्रागमननिवृत्तिः । अन्त्ये-उपगमना. भावनिवृत्तिश्च फलं बोध्यम् । अत एव गृहस्थस्यानृतौ अनुपगमने ब्रह्मचर्यमुक्तम् । अविवाहितागमने, ऋतौ भार्यागमनाभावे प्रायश्चित्तं प्रोक्तं स्मृतिषु ।। एतेन ऋतावित्यत्र नियम एवं युक्तो, न परिसंख्येति न्यायविदां चोक्तिः परास्ते. ति बोध्यम् । -- *आसुनिवृत्तिरिति । रागतो नित्यप्राप्तत्वात् नैते नियमविधयः, पाक्षिक्यां हि प्रातौ नियमो भवति, किन्तु प्राप्ठस्याप्यर्थस्य पुनः प्रापणमनर्थकमित्यपूर्वविधिद्वारा अन्यनिवृत्तिः फलति तदाह-*आसुनिवृत्तिरिति । भाष्येऽपि नियमपदेनाभ्यनुज्ञा । ऋतुस्नातां तु यो भार्यो सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पच्यते- इतिदोषश्रवणन्तु मनसि कामे सत्यपि तस्यां द्वेषादिनाऽनुपगमे बोध्यम् । वि. धिरत्यन्तमप्रासाविति । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधि: सोऽपूर्वविधिः । यथा-'स्वर्गकामो यजेत' 'अहरहः सन्ध्यामुपासीत् , इत्यादौ याग- स्य सन्ध्योपासनस्य च प्रमाणान्तरेण प्राप्तस्य विधानादनयोर्विधित्वम् । नियमः पाक्षिके सतीति* । यो विधिः पने प्राप्तमर्थ नियमयति स नियमविधिः । यथा-'नीहीनवहन्ति 'समे यजति' इत्यादौ तुषविमोकल्यावघातेन नखविदलनेन च सम्भवायदा नखविदलनेनैव तुषविमोकेच्छा तदाऽवधातस्याप्राशत्वात्पाक्षिकस्य तस्य विधानात् , एवं यदा विषमदेश एवं सौकर्यादिना यागकरणेच्छा तदाप्राप्तत्वा. त्पाक्षिकस्य समदेशाधिकरणकत्वस्य विधानाचानयोनियमत्वम् । अववातेनैव तण्डल. निष्पत्तावपूर्वोत्पत्तिन्तुनखबिदलनेन,समदेशाधिकरणकयागेनैवापूर्वोत्पत्तिनतु विषमदे.

निपातार्थविचारः। ७३ .. . तत्र चान्यत्र च प्राप्तौ परिसङ्घयेति गीयते ।। इति । स्वर्गकामोऽश्वमेधेन यजेतेति विधिः । क्षुःप्रतिघातो यद्यपि शशकादि. मांसः श्वादिमांसैश्च भवति; तथापि शशकादिमांसैरेव कर्तव्य इति परिस- वयायते 'पञ्च पञ्च नखा भक्ष्या' इत्यनेन नखविदलनावहननाभ्यां ब्राइनि- स्तुपीकरणं प्राप्तम्, तत्रावहनेन निस्तुषी करणं पुण्यजनकन्निति 'ब्रोहीलबह- न्ति'इत्यनेन नियम्यते। यद्यपि परिसङ्घयायां नियमे च स्वार्थहानिः प्राप्तवा- धःपरार्थकल्पना चेति दोषत्रयम् ,तथाप्यनन्यगत्या स्वीक्रियते इति वृद्धाः । 'पञ्च पञ्च नखा' इत्यस्य नियमत्वेन भाष्ये व्यवहृतत्वात् अन्यनिवृत्तिरूप- फलेनैक्याच्च । नियमपदेन परिसङ्ख्याऽपि व्याकरणे गृह्यत इति संक्षेपः । इति निपातार्थविचारः। . शाधिकरणकयागेनेति नियम्यते । *तत्र चान्यत्र च प्रासाविति । उभयस्य युगपत्प्रासौ इतरनिवृत्तिफलको विधि: परिसंख्याविधिः । यथा-'पञ्च पञ्च नखा भक्ष्या' इति । अत्र क्षुन्निवृत्यर्थ रागात् शास्त्र- च्यापारमन्तरेणैव भक्षणं प्रारम् , तच्च भक्षणं पञ्चसु पञ्चनखेषु अन्यत्र च घमासादिषु युगपत् प्राप्तम् : तत्र पचनखमक्षणेनैव चुन्निवृत्तिः कार्या इत्यनेन परिसंख्यायते । अप- ञ्चनखमक्षणन्तु निवर्तते इति परिसंख्याविधिरयम्बोध्यः । स्वर्गकाम इति । अचमेधेनेत्यत्राभेदस्तृतीयार्थी ; यागान्वयी भावना च लि. अर्थः। तस्यां च यागादिःकरणतयान्वेति। तेन-अचमेधाभिन्नयागकरणिका स्वर्गका. मिका भावनेतिबोधा। *नाहीनवहन्तीति । अयं च पुरोडाशप्रकरणे पश्यते । तत्रावघातस्तण्डुलनिष्प. त्यर्थः । सा च नखविदलनेनापि भवितुमर्ह तीति तत्र नियमः क्रियते अवधातजन्य- सण्डलनिष्पत्या पुरोडाशभरणमेवाभ्युदयकारि भवति, नान्यथेति तदेतदेवानुवदति- *तनावहननेत्यादि। ननु परिसंख्यायां दोषत्रयसत्वेऽपि नियमे दोषत्रयोक्तिः कथं संगच्छते । पाक्षि. काप्राधिकाप्राप्तांशपरिपूरणफलो नियमः । अन्यनिवृत्तिफला च परिसंख्येतिद्वयोमैदा- दत आह-*पञ्च पञ्च नखेति । अप्राप्तांशपरिपूरणरूपफलबोधनद्वाराऽर्थान्यनिवृत्तनि- यमेऽपि सत्वात् द्वयोरभेदादुमयन्त्र दोषत्रयोक्ति सङ्गतेति भावः । *अन्यनिवृत्तिरूपफलेनैक्याचेति* । अन्यनिवृत्तिरूपनियमसाधम्यणात्र शास्त्रे परिसंख्याया अपि नियमशब्देन व्यवहारादिति भावः। इत्यर्थदीपिकायां निपातविचारः ।।

परमलघुमञ्जूषायाम् । अथ दशलकारादेशार्थाः। यद्यपि लकाराणामेवार्थनिरूपणंतार्किकैः कृतम् ; तथापि 'उच्चारित एक शब्दोऽर्थप्रत्यायको नानुच्चारित' इतिभाष्याल्लोके तथैवानुभवाच तदादेशति- डामर्थो निरूप्यते । “वर्तमाने लट्" इत्यादिविधायक "लः कर्मणि"इतिश. क्तिग्राहकसूत्राणामादेशार्थ स्थानिन्यारोप्य प्रवृत्तिः । तत्र सङ्घयाविशेष- कालविशेष कारकविशेष-भावा लादेशमात्रस्यार्थाः। तथाहि-लडादेश- स्व वर्तमानकाल:, शबादिसमभिव्याहारे कर्ता, यचिण्समभिव्याहारे भावकम्मणि, उभयसमभिव्याहारे एकत्वादिसङ्ख्या चार्थः । तदाह- फलव्यापारयोस्तत्र फले तङयक्चिणादयः । - ननु लकाराणामेव कांद्यर्थेषु शक्तिः, लत्वस्यावच्छेदकत्वे लोधवात् । न तु सिबादीनां । शक्ततावच्छेदकगौरवादत आह-*लकाराणामेवेति । *उच्चारित इति । लोके शादेशा एवं प्रयुज्यन्त इति तद एवार्थबोधदर्शनाते. पामर्थविचार एव ज्यायानिति भावः । अत्र यत्किञ्चिदर्थविषयकशाब्दबोधं प्रति उच्चारितशब्दनिष्ठवृत्तिज्ञानाधीनोपस्थितिःकारणमिति कार्यकारणभावोऽवसेयः । अत एव रामान् स्माः इत्यादौ नकारविसर्गयोरेव कर्मत्वबोधनं न शसादेरिति भावः । *तथैवानुभवादिति । अन्वयव्यतिरेकाम्यामेव जन्यजनकभावस्य निर्णयदिति ता- स्पर्यम् । ननु "लः कर्मणि च" इत्यादिना लकाराणामेवार्थनिरूपणादादेशतिडामर्था- प्रसिद्धया तनिरूपणमयुक्तमत आह-वर्तमाने लडित्यादिना* । बोधकत्वरूपा तिबा. द्यादेशगता कादिशक्ति तत्स्थानित्वेन कल्पितेषु लकारेषु आरोष्य "लः कर्मणि" इत्यादिसूत्रप्रवृत्तिरप्युपपादनीयेति भावः । *शबादीति* । अनादिपदेन शत-शान- कानच्-शप्-श्नम्-श-नादीनां सङ्ग्रहो ज्ञेयः । अत्र कार्यकारणभावस्तु-धातुजन्याश्रयनिष्ठप्रकारतानिरूपितव्यापारनिष्टविशे. ध्यताशालिवुद्धित्वावच्छिन्नम्प्रति धातूत्तरशबादिग्रहः कोरणम् ! तथा आश्रयनिष्ठप्र. कारतानिरूपितफलनिष्ठविशेष्यताशालिबुद्धिम्प्रति धातूत्तरतङ्-यक्-चिणादन्यतम. महः कारणमिति च बोध्यः । *समभिच्याहार हति* । यत्किञ्चिद्विशिष्टत्वं समभिव्याहतत्वम् । वैशिष्ट्यञ्च. स्वनियतोत्तरत्वम् , स्वनियतपूर्वत्वम् , एतदन्यतरसम्बन्धेन । लक्षणसमन्वयस्तु स्प- त्वात्स्वयमेवोद्यः। *फलव्यापारयोरिति । वत्र-'फलव्यापारयोर्मध्ये तब्यचिणादया' फले आश्रय.

लादेशार्थविचारः। - व्यापारे शपश्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ।। फलव्यापारौ तु धात्वर्थावित्युक्तमेव । तत्र तिङ्ममभिव्याहारे तदर्थ- सङ्ख्या तदर्थकारके विशेषणम् । कालस्तु व्यापारे । तदाह- फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधान व्यापारस्तिर्थस्तु विशेषणम् ।। तिर्थः कर्ता व्यापारे, कर्म च फले विशेषणम् । “क्रियाप्रधानमाख्यात- स्वेप्सिततमस्यान्वयं द्योतयन्ति, शबादयस्तु व्यापारे आश्रयस्य प्रथमान्तार्थस्या- न्वयं धोतयन्तीति यावत् । तदर्थसंख्येति । तिङर्थ:--तिङर्थकारके कर्तरि कर्मणि चान्वेतीति भावः । *कालस्विति । यद्यपि 'समानाभिधानश्रुत:' कालोऽपि कारक एवान्वेतुमर्हति, तथापि अतीते पाकेकतरि वर्तमाने पचतीत्यस्य पाके वर्तनाने कतरि चातातेऽपाक्षीदित्यादिप्रयोगापत्तिभिया कालख्य व्यापारेऽन्वयः स्वाकर्त- व्येति भावः ॥ *फलव्यापारयोरिति । तत्रधातुरित्यस्य 'स्मृताः इति न विशेषणम् , विभिन्न वचनान्तोपस्थापितत्वात् । विशेष्यवाचकपदोत्तरविमतितात्पर्यविषयसंख्याविरुद्ध- संख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमात् । अत एव 'नीलो घटाः इत्यादेनं साधुत्वम् । धातूनां फलव्यापारयोः शक्तिः, तिङ:-आश्रये, नाम-फलाश्रये व्यापाराश्रये चेत्यर्थः। फलव्यापारयोर्मध्ये फलं विशेषणम् । व्यापार: प्रधानम् । तिजोऽपि व्यापार विशेषणमिति कारिकार्थः । क्रियाप्रधानमिति । "भूवादयो धाता इति सूत्रस्थक्रियाप्राधान्यबोधकमा- यात् "क्रियाप्रधानमाख्यातम्" इतिनिरूक्ताच्च कर्माख्याते आख्याते क्रियाख्याते आ. ख्याते च सर्वत्र व्यापारमुख्यविशेष्यक एव बोधः । यथा-'ग्रामं गच्छति चैत्र' इत्यत्र ग्रासाभिन्नकर्मनिष्ठोत्तरदेशसंयोगानुकूलः एकत्वावच्छिन्नचैत्राभिन्नकर्तृको वर्तमान- कालिको व्यापारः। ग्रामा गम्यत चैत्रेण इत्यादो चैत्राभिन्नकर्तजन्यो वर्तमान. कालिक एकत्वावच्छिन्नो ग्रामाभिन्नकर्मनिष्टो या संयोगस्तदनुकूलो व्यापार इति च प्रा मते शाब्दबोधः । अत एव 'फले प्रधान व्यापारस्तिकर्थस्तु विशेषणम्" इत्यपि सङ्गच्छते। व्यास्तु-कर्तृरूपाख्याते व्यापारमुख्यविशेष्यकबोधः । कर्माख्याते तु फलमु- ख्यविशेष्यको बोधः स्वीकुर्वन्तिा ननु तहि "फले प्रधान व्यापारतिर्थस्तु विशेषण. म् इति कथं सङ्गच्छते इतिचेत् ? तत्र व्यापारस्य प्राधान्येनबोधन काख्यातामि- प्रायेणेति गृहाण। अन्ये तु "फलेप्रधानं व्यापारः" इत्यत्र उभयपदच्छेदः, प्रधानम् --अप्रधानश्चे. . .

परमलघुमञ्जूषायाम्- म्" इति यस्कोक्तौ क्रियापदं करणञ्युत्पत्त्या व्यापारपरं कर्मव्युत्पत्त्या फल- परमिति बोध्यम् । तथाच ग्रामं गच्छति चैत्र इत्यत्रैकत्वावच्छिन्नचैत्राभि- नकर्टको वतमानकालको प्रामाभिन्नकर्मनिष्ठो यस्संयोगः तदनुकूलो व्या. पारः, ग्रामो गम्यते मैत्रेणेवत्र तु मैनकतमवर्तमानकालिकव्यापारजन्यो प्रामाभिन्नश्कर्मनिष्ठः संयोग इति च चावः । वर्तमानकालत्वं च प्रारब्धाप- रिसमाप्तत्रिचोपलक्षितत्वम् । लितिङस्तु भूतानद्यतनकालः परोक्षत्वं चाधिकोऽर्थः । शेष लड्व (१) न रोक्षत्वं च(२)कार के विशेषणंनतु क्रियायाम् , तस्या(३)तीन्द्रियत्वेन स्याहुः । तेन नव्यानां मते कारिकार्थोऽपि संगत इति बोध्यम् । *एकत्वावच्छिन्नेति* ! अनावच्छिन्नत्वम्-आश्रयत्वम् , तच्च समवायसंसर्गण बोध्यम् । *वर्तमानकालत्वञ्चेति । प्रयोगविशिष्टत्वं वर्तमानत्वम् । वैशिष्ट्यञ्च स्था. धिकरणत्वम् स्वघटकधातुबोध्यत्वन तात्पर्यविषयाभूतक्रियाकलापान्तर्गताधक्रियाप्रा. गभावानधिकरणत्वम् , स्वघटधातुबोध्यत्वेन तात्पर्यविषयीभूत क्रियाकलापान्तर्गता- न्त्यक्रियाध्वंसानधिकरणत्वम्, एतत्रितयसम्बन्धेन । द्वितीयसम्बन्धनिवेशातू भविष्य. काले वर्तमानलक्षणस्य नातिव्याप्तिः। तृतीयसम्बन्धदानेन भूतकाले वर्तमानलक्ष- गस्य नातिव्यातिरिति ध्येयम् । प्रारब्धति । प्रारब्धा च अपरिसमाता च या क्रिया ताक्रियोपलक्षितकालत्वमित्यथः । क्रियापलक्षितेति । क्रियाश्रयत्वमि. त्यर्थः । *भूतानद्यतनेति* | "भूते” इत्यधिकाराभूते इति "अनग्रतने” इत्यधि- कारात् अनद्यतने इति च द्वयमपि “परोक्षेलिट्" इत्यत्रानुवर्तते । 'अतीतायाः रात्रे: पश्चार्धन आगामिन्याः पूर्वार्द्धन च सहितः कालोऽद्यतनस्तानिनोऽनद्यतनः । *परोक्षत्वञ्चेति । अत्र व्यापाराविष्टानां क्रियानुकलसाधनानामेव पारोक्ष्यं विव. क्षितम् । तेन अतीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ताद्धातोलिट् इति "परोक्ष लिट्य इति सूत्रस्यार्थः । ॐशेषमिति । संख्याकर्तृकर्मरूपा अथां यथा लटस्तथा लियोऽपीत्यर्थः। । । (१) शेषं लड्वदिति । शेष संख्याकारकं लड्वदित्यर्थः। एवमुत्तरत्र सर्वत्र बोध्यम् । (२) कारके, क्रियाविष्टे इति शेषः । तेन गमनादिक्रियानाविष्टस्य देवदत्तस्य दर्शनेऽपि "न देवदत्तो जगाम इत्यादिप्रयोगानुपपत्तिरिति बोध्यम् । (३) अतीन्द्रियत्वेनेति । न च तस्या आतीन्दियत्वे 'पश्य मृगो धावति' इत्यत्र धावनस्य दर्शनविषयत्वानुपपत्तिरिति वाच्यम् । तत्र शेनिसामान्यार्थकत्वाङ्गीका.

७७ । लादेशार्थविचारः! लिट्सूत्रेभाध्ये प्रतिपादनात् व्यभिचाराभावात् । कुम्वाद्यनुप्रयोगस्थले कृथ्व- सांक्रियासामान्यमर्थः। आमप्रकृतेस्तु तत्तक्रियाविशेषः । सामान्यविशे- पयोरभेदान्वयः ! अकर्मकप्रकृतिकामन्तानुप्रयुक्तकृभ्वसानकर्मिकैक क्रिया । वस्तुतस्तु अनुप्रयुक्तानां कृभ्वसां फलशून्यक्रियासामान्यज्ञाचकत्वमेव सकर्मकाकर्मकलव्यवहारस्तु आम्प्रकृतिभूतधातोरेवेति निष्कर्षः । एवञ्च एधाञ्चके चैत्र इत्यत्र एकत्वाच्छिन्नपरोक्षत्वावच्छिन्नचैत्रकर्तृका भूतान- द्यतनकालाधिकरणिका वृद्धभिन्ना क्रियेति बोधः। परोक्षत्वं च(१)साक्षात्कृ- तमित्येताहविषयताशालिज्ञानाविषयत्वम् । भूतानद्यतनत्वं च (२) अद्यतना• लिट्सने भाष्ये इति । तत्र हि-"क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूता- वयवा न शक्या पिण्डीभूता निदर्शयितुम् " इत्युक्तम् । अनेन भाष्येण क्रियाया अती- न्द्रियत्वं सुस्पष्टमेव लभ्यतेनन्वेवं तहि परोक्षे इति व्यर्थमितिचेत् , न पिण्डोभूतायाः क्रियायाः निदर्शयितुमशक्यत्वेऽपि अवयवशः साक्षात्करोमीति प्रतीतिविषयत्व- सम्भवात् । अन्यथा 'पश्य मृगो धावति' इत्यत्र तस्याः दर्शनकर्मता न स्यादिति भावः । *व्यभिचाराभावादितिका अतीन्द्रियस्य पदार्थस्य परमाणोरिव बहिरिन्द्रिय. जन्यप्रत्यक्षस्यायोग्यत्वात् सर्वत्र परोक्षताया एव क्रियायाः सत्वात् "सम्भवव्यभिचा. राभ्यां स्याद्विशेषणमर्थवत् इति न्यायात् व्यभिचाराभावेन न क्रियायां विशेषणमि- तितात्पर्यम्। *इन्वादीति । "आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य" इति सून्ने कूग्रहणेन्द "कृन्चानुप्रयुज्यते लिटि" इति सूत्रे प्रत्याहाराश्रयणात् 'कृ-भू-अस्' इत्यनुप्रयोगो लम्चत इति भावः । *फलशुन्यक्रियेति । व्यापारमात्रमित्यर्थः । *साक्षात्कृतमित्येतादृशेति । साक्षात्कृतमिति विशेषणेन 'सुप्लोऽहं किल विल. सत् । शी, शीदेशान्तरसंयोगदर्शनेन च धावनमनुमीयते इति तस्यानुमितिविए- यत्वमेव पश्य मृगो धावतीत्यत्र बुध्यते इति भावः (१) साक्षात्कृतमित्यतादृशविषयताशालिज्ञानाविषयत्वमिति । अनेन "सुतो. ऽहं किल विललाप" इत्यादौ स्वकृतविलापस्य स्वप्रत्यक्षत्वेऽपि परोक्षत्वमुपपन्नम् । तत्काले साक्षात्करोमि इत्येवं साक्षिमाध्यत्वेऽपि निद्रादिदोषात् तदंशे संस्कारानुद. येन साक्षात्कृतत्वावच्छिन्नविषयतामालिज्ञानाविषयत्वस्य सुवचत्वात् । अत एव सा- क्षात्करोमि इति त्यक्त्वा साक्षात्कृतमित्युपात्तमिति भावः । (२) अद्यतनाष्टप्रहरीव्यतिरिक्तत्वे सत्तीति । अद्यतनानघतनविभागश्च त्रेधा। अतीवाया रात्रे पश्चाधेनार्गामिन्याः पूर्वाधन च सहितो दिवसोऽद्यतनस्तशिन्नोऽनद्य- तन इत्येकः प्रकारः । अतीताया रात्रेः अन्त्यतृतीयभागेन आगामिन्या आधतृतीय. - परमलघुमजूषायाम् । प्रहरीव्यतिरिक्तत्वे सति भूतत्वम् । लुडादेशस्य तु भविष्यदनद्यतनार्थोऽ. धिकः । शेषं लड्वत् । भविष्यत्त्वं च वर्तमानप्रागभावप्रतियोगिक्रियोपल- क्षितत्वम् । लुतिस्तु भविष्यत्सामान्यमर्थः। लेतिङस्तु विध्यादिरर्थः । “छन्दसि लिङर्थे लेट्' इति सूत्रात् ! लट्प्रक्रियातो लेटोऽडाटाविति विशे- पः । भवाति भवतीतिप्रयोगदर्शनात् । लोतिङस्तु विध्यादिरर्थः। तत्राधीष्टं (१) सत्कारपूर्वको व्यापारः, आगच्छतु भवान जलं गृह्णातु इत्यादौ । सम्प्र- श्नोऽनुमतिः, गच्छति चेत् भवान् गच्छत्वित्यादौ । लडादेशस्य तु भूतान- द्यतनत्वमधिकोऽर्थः । शेष लड्वत् । लिङादेशस्य तु विध्यादिरर्थः । तत्र वि. ध्यादिचतुष्टयानुस्यूनप्रवर्तनात्वेन चतुर्णां वाच्यता लाधवात् । तदुक्तंहरिणा- अस्ति प्रवर्त्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ विधातव्यः किं भेदस्य विवक्षया ।। इति । लाप' इत्यादौ स्वविलापस्य स्वप्रत्यक्षत्वेऽपि निद्रादिदोषवशात् संस्काराजननेन न परोक्षत्वानुपपत्तिरिति भावः । *शेषं लड्वदिति । यथा लट्प्रयोगे संख्याकालकार- काणां विशेष्यविशेषणमावस्तथाऽत्रापि ज्ञेय इति तात्पर्यम् । *क्रियोपलक्षितत्वमिति । क्रियाधिकरणत्वमित्यर्थः । *लट्प्रक्रियेति ! साध. नप्रकारो लए इवेति भावः । लटमपेक्ष्य यो विशेषस्तमाह-लेटोऽडाटोविति । *विष्यादिचतुष्टयेति । अत्र विध्यादीनां तत्तद्रूपेण वाच्यतास्वीकारे नानार्थाप - ते। अतोऽत्र प्रवर्तनात्वेनैव वाच्यता स्वीकर्तव्या लाघवात् । अस्ति चात्र चतुर्वप्य. जुगतत्वेन प्रवर्तनेति भावः । किम्भेदस्येति तत्तद्रूपेण पार्थक्यादित्यर्थः । तत्तद्रूपेण शक्तरनङ्गीकारादिति भावः । नन्वेवं तर्हि "विधिनिमन्त्रणामन्त्रणाधीष्ट-" इतिसूत्रे विध्यादीनां ग्रहणं व्यर्थ स्थादिति चेत् , न ! प्रवर्तनाया भेदबोधकत्वे न तेषां सार्थक्यात् । अत एव-- "न्यायव्युत्पादनार्थम्वा प्रपञ्चार्थमथापि वा । - भागदयेन च सहितो दिवसोऽद्यतनः, तद्भिन्नोऽनद्यतन इति द्वितीयः। उदयादुदयं यावदद्यतनः तद्भिन्नोऽनद्यतन इति तृतीयः । अत्र च देशाचाराद् व्यवस्था ज्ञेया। (१) अधीष्टमिति । बहुषु पुस्तकेषु अधीष्ट इति पुंलिङ्गपाटो दृश्यते। तत्र भा- वक्तान्तादर्शआधज बोध्यः । तत्र भावक्तान्तस्य सत्कारोऽयः, तत्पूर्वको व्यापारश्च अच्प्रत्ययान्तार्थः।

लादेशार्थविचारः। ७६ प्रवर्तनात्वं च-प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् , तच्चेष्टसाध. नत्वस्यैवेति तदेव लिङर्थः । न तु कृतिसाव्यत्वं, तस्य यागादौ लोकत एव लाभादित्यन्यलभ्यत्वात् । न च वलवदनिष्टाननुवन्धित्वं, द्वेषाभावेनान्य- थासिद्धत्वात् , इत्यन्यत्र विस्तरः । लुङादेशस्य तु भूतसामान्यमर्थः । भू- तत्वं च-वर्तमानध्वंसप्रतियोगिक्रियोपलक्षितत्वम् । लङादेशस्य तु क्रियाति. पत्तौ गम्यमानायां हेतुहेतुमद्भावे च गम्यमाने भूतत्वं भविष्यत्त्वग्वार्थः । पापादना तु गम्यमाना । भूते, एधश्चेदलप्स्यत ओदनमपक्ष्यत् । भविष्यति, सुवृष्टिश्चेदभविष्यत्सुभिक्षमभविष्यदिति सक्षेपः । अथ नैयायिकानां मते सङ्क्षपाल्लकाराणामों निरूप्यते । तत्र लडा- दिलुङन्ता दश लकाराः । तत्र लकारस्य कर्ता कालः सङ्ख्या चेति त्रयोऽ- र्थाः। तत्र कर्तेति पातञ्जलाः । "ल: कर्मणि च" इति सूत्रे चकारेण कर्तुः प- रामर्शात् । कतस्थाने व्यापार इति भाट्टाः । यत्न इति नैयायिकाः । युक्तं चै- तत् । व्यापारताद्यपेक्षया लाघवेन यत्नत्वस्यैव शक्यतावच्छेदकत्वात् । श- ततावच्छेदकश्च लकारसाधारणं लत्वमेव भवतीत्यादौ चादेशेनादेशिनो विध्यादीनामुपादानं चतुर्णामादितः कृतम्।। इति हरिणाप्युक्तम् । तच्चेति । निरुतावच्छेदकत्वञ्चेत्यर्थः । *ष्टसाधनत्व. स्यैवेति* अन्न इष्टत्वञ्च-समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । 'स्वर्गकामो. यजेत इत्यत्र स्वर्गकामपदोपस्थापितकामनाविषयत्वस्य स्वर्गे सत्वादिष्टत्वं तल्याक्षतम् तेनैव च स्वर्गादीष्टानामनुगम इति बोध्यम् । यजेदित्यादिवास्याधागोबलवदनिष्टान- नुबन्धित्वविशिष्टेष्टसाधनतावानिति वाक्यार्थबोधमभ्युपेत्य इष्टसाधनत्वे बलवदनिष्टा. नुबन्धित्वविशेषणमभ्युपगच्छतो नैयायिकानाक्षिपति-नचेत्यादिना । *द्वेषाभा- वेनेति । प्रवृत्ति प्रति द्वेषस्य प्रतिबन्धकत्वेन यत्कार्य प्रति यस्य प्रतिबन्धकत्वम् , तभावस्य तत्कार्यम्प्रति कारणत्वं सिध्यतीति भावः । *चकारेणेति । "ल कर्मणिच भावे चाकमकेभ्यः अत्र सूत्रे "कर्मणि च" इत्ये. को योगः, 'भावे चाकमकेभ्यः, इत्यपर, तत्रोभयत्रापि "कर्तरि कृत्" इति सूत्रात् च. काराभ्यां कर्तरीत्यनुकृष्यत इति ध्येयम् । व्यापार इति । मामांसका भावनात्वेनैव व्यापारे लकाराणशक्तिमङ्गोकुर्वन्तीति भावः । *यत्न इति । कृतिरित्यधः। *व्यापारताद्यपेक्षयेति । तजन्यत्वविशिष्टतज्ज- न्यजनकत्वस्यैव व्यापारत्वेन कृतित्वजात्यपेक्षया गौरवान व्यापारे शक्तिरिति नया- .

परमल घुमजूषायाम्- लस्यैव स्मरणादन्वयधीः । आदेशेषु बहुषु शक्तिकल्पने गौरवात् । तदस्म- रणे च शक्तिभ्रमादेवान्वयधीः । “चैत्रो गन्ता गतो ग्रामः' इत्यादौ सामा- नाधिकरण्यानुरोधेन यथार्थ कतृकर्मणी कद्वाच्ये । नचैवं "लटः शतृशा. नत्रों' इत्यनेन शतृशानचोरादेशवात्कथं कर्तरि शक्तिः । श्रादेशिशक्त्या निर्वाह एवादेशशक्त्यकल्पनात् । चैत्रः पचन्नित्यादौ सामानाधिकरण्यानु- रोवादादेशिशक्त्याऽनिर्वाहादत्रादेशेऽपि शक्तिः । इगांस्तु विशेषः-लत्वेन यत्ने शक्तिः, आत्मनेपदत्वेन फले । 'मैत्रेण ग- म्यते प्राम' इत्यादौ मैत्रवृत्तिकृतिजन्यगमनजन्यफलशाली ग्राम इत्यन्वय- वोधात् । कृतिश्चात्र तृतीयार्थः । जन्यत्वं सर्गः । मैत्रः कृतौ विशेषणम् , सा च गमने, तच्च फले, तच ग्रामे । 'प्रामं गच्छति मैत्र' इत्यत्र तु ग्रामवृ- त्तिफलजनकगमनानुकूलकृतिमान्मन्न इति वोधः । फलं च द्वितीयाथैः । जनकत्वं संसर्गः । ग्रामश्चात्र फले विशेषणम् , तद् गमने, तच्च कृती, सा मैत्रे इति विशेष्यविशेषणभावभेदेनैव कर्मकर्तृस्थलीयबोधयोविशेषः । ता- वन्तः पदार्थास्तूभयत्रैव तुल्याः । मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादी तु वृत्तिस्तृतीयाया, विषयता त्वाख्यातस्यार्थः । मैत्रवृत्तिज्ञानविषयो घट इति बोधः । घटं जानाति मैत्र इत्यादौ तु विषयता द्वितीयाया, आश्रयत्वं चाल्यातस्यार्थः। घटविषयकज्ञानाश्रयो मैत्र इति बोधः। । यिकानां तात्पर्यम् । एवमपि न लकाराणां कर्तरि शक्तिः ! कर्तृत्वस्य शक्यतावच्छेद. कत्वेन गौरवात् । एवं वैयाकरणानाम्-आख्यातपदजन्यशाब्दबुद्धित्वावच्छिन्नम्प्र. तिआश्रयतात्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाश्रयत्वप्रकारकोपस्थिते का. रणत्वम् । आश्रयतात्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाश्रयत्व प्रकारकोप. स्थिति प्रति तादृशाश्रयत्वप्रकारकाश्रयनिष्टशक्तिज्ञानस्य कारणत्वं वक्तव्यमिति गौर- वम् । नैयायिकानां तु कृतित्वप्रकारकोपस्थितिः कृतिनिष्टकाविज्ञानञ्च शाब्दबोधो. पस्थित्योः कारणमिति लाघवम् ।। *तदस्मरण इति । तस्य स्थानिनो लकारस्य स्मरणानावे इत्यर्थः । एवञ्चा. तिच्याप्त्वादिरूपेणैव शक्तित्रमादन्वयबोध इति व्यवस्था । *आत्मनेपदत्वेनेति । अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वनियमेन आत्मने पदत्वस्य तथात्वात् । तत्वञ्च-पाणिनीयसहकेतसम्बन्धेनात्मनेपदवत्वमित्यनुगम इति यावत् । *मैनवृत्तीति । कर्तृकर्माख्याते शाब्दबोधप्रकारोऽयमिति भावः। - लादेशार्थविचारः। कालश्चातीतवर्तमानानागतात्मा यथायथं लडादेरर्थः। लटो भवती- त्यादौ वर्तमानत्वं, लङ्लुब्लिटाम् अभवत् अभूत् बभूवेत्यादौ भूतकालः, लुङ्लुटोभविता भविष्यतीत्यादौ भविष्यत्कालः । लिङ्लोड्लेटां भवेत भवतु आग्नेयोऽष्टाकपालो भवतीत्यादौ विधिः। सङ्ख्या च केवलार्थः । लेटस्तु छन्दस्येव प्रयोगः । तत्र दीर्घत्वमपि विकल्पेन भवति, भवा. तीति दर्शनात् । तत्र व्यापारादिबोधकेन लटा वर्तमानत्वं व्यापारादा- वेव बोध्यते । पचतीत्यादितो वर्तमानपाकानुकूलव्यापारवानिति बोधात् । एवमन्यत्रापि। व्यापारवोधकाख्यातजन्यवर्तमानत्वप्रकारबोधे आख्यातजन्यव्यापा- रोपस्थिथेहेतुत्वकल्पनान्नातिप्रसङ्गः । व्यापाराबोधकज्ञाधात्वादिसमभिव्याहृताख्यातजन्यवर्चमानत्वप्रकार- कबोधे तु ताशधातुजन्योपस्थितिहेतुः । कार्यताकारणतावच्छेदिका च प्र- त्यासत्त्या विषयतैवेति नातिप्रसङ्गः। जानाति इच्छति यतते इत्यादौ वन- मानत्वाश्रयज्ञानाश्रयत्वादिबोधस्यैवानुभविकत्वात् । तत्र लटा शक्त्या वर्तमानत्वं लक्षणयाऽऽश्रयत्वं बोध्यत इति विशेषः। लटा स्वाधिकरणकालोपाधिस्पन्द एव वर्तमानः प्रत्याय्यते। वर्तमानसा- मीप्ये विहितेन तु स्वानधिकरणसमीपवत्तों तादृशकालः। तत्रापि शक्ति- लक्षणा वेत्यन्यदेतत् । *व्यापारादावेवेति । आख्यातेनोपस्थाप्यकृतिरूपच्यापारे इत्यर्थः, न तु धात्वर्थ- व्यापार पचधात्वर्थव्यापारस्याग्निसंयोगरूपस्य सत्वे पुरुषयत्नस्य चासत्वेऽयं न पच. तीतिप्रयोगात् । *नातिप्रसङ्ग इति । अख्यातार्थ व्यापारान्वयबोधककार्यकारण. भावस्य धात्वर्थव्यापारेऽप्रसक्त्या न तत्र वर्तमानकालान्वय इत्याशयः । *विषयत. वेति । कार्यताकारणतावच्छेदकसम्बन्धी विषयतारूप इति भावः ॥ अन्यथा कालिकादिसम्बन्धेन कारणस्यान्यत्रापि सत्वात् वर्तमानत्वप्रकारकबोधा- पत्तेः । *वर्तमानसामीप्य इति । लटप्रयोगाधिकरणसमीपवर्ती कालो भूतभविष्य. दुपा, तदुपलक्षितव्यापार इत्यर्थः । अत्रेदम्बोध्यम्-वर्तमानसमीप्ये विहितलटो वर्त. मानसामीप्यमर्थः। तच द्विविधम्-स्वप्रयोगाधिकरणक्षणाव्यवहितोत्तरकालावच्छे. प्रत्वम् , स्वप्रयोगाधिकरणक्षणाव्यवहित प्राक्कालावच्यछेत्वञ्च । तच्च भूतभविष्य. कालयोरेव । अव्यवहितत्वञ्च-स्वध्वंसाधिकरणसमबधबंसानधिकरणत्वे सति प्रा. ६५० म० ८२ परमलघुमजूषायाम्- नन्वेकदोपस्थितयोः कृतिवर्तमानत्वयोः कथं मिथोऽन्वयः। तस्परज. न्यशाब्दबोधे पदान्तरजन्योपस्थितेहेतुत्वात् । कार्यतावच्छेदिका च प्रत्या- सत्तिः प्रकारता । कारणतावच्छेदिका च विशेष्यतेति। अन्यथा हरिपदार्थ. योः, दण्डेनेत्यादौ च करणत्वैकत्वयोमिथोऽन्वयापत्तेः। मैवम् । तत्तत्प- दान्यत्वस्योक्तव्युत्पत्तौ प्रवेशात् । कथमन्यथैवकारार्थयोरन्ययोगव्यवच्छे- दयोमिथोऽन्वयः। घटो नश्यतीत्यादौ वर्तमानोत्पत्तिकत्वं प्रतियोगित्वं च लडर्थः । आधे नाशे प्रकारः, द्वितीयं घटे प्रकारः। वर्तमानोत्पत्तिकनाशप्रतियोगी घट इति बोधस्यानुभविकत्वात्। अत्र च वृत्तिद्वयस्य युगपद्बोधकत्वं सर्वैरेषितव्य- म् । ताहशोत्पत्तिकत्वप्रतियोगित्वयोरथयोर्युगपदेव बोधात् । नच तादृशो- त्पत्तिकत्वमेवार्थोऽस्तु । धात्वर्थस्य नाशस्य घटे प्रातिपदिकार्थे साक्षादन्व- यासम्भवात् । न च प्रतियोगित्वमेवार्थोऽस्त्विति वाच्यम् । चिरनष्टेऽपि नश्यतीति प्रसङ्गात् । एतेनात्र वर्तमानत्वमेवार्थो नोत्पत्तिरित्यपास्तम् । केचित्तु लत्वमेवात्र प्रतियोगित्वस्य वृत्त्यवच्छेदकं लटत्वन्तु तादृशो- त्पत्तिकत्वस्य । एकधर्मावच्छिन्नवृत्तिद्वयस्यैवन युगपद्बोधकत्वम् । अन्यथा दण्डेनेत्यादौ करणत्वैकत्वयोर्बोधो न स्यादित्याहुः । अन्ये तु नश्यतीत्यादौ लटा नाशसामग्रयेव बोध्यते। तेन न चिरनष्ट नश्यतीति प्रसङ्गः । अत एव विनश्यत्ता विनाशसामग्रीसान्निध्यमित्याहुः प्रामाणिकाः। आख्यातात्त्रियाविशेष्यको बाध इति वैयाकरणाः भाट्टाश्च । आद्यानये ग्मावध्वंसान्यतरसम्बन्धेन स्वाधिकरणत्वम् । लक्षणसमन्वयस्तु स्पष्टः । *लडर्थ इति। लटो वर्तमानत्वे शक्तिः, प्रतियोगित्वे लक्षणेति भावः । *वृत्ति. यस्येति । ननु युगपवृत्तिद्वयविरोधेन वर्तमानोत्पत्तिकत्वप्रतियोगिकत्वयोः शब्द. बोधे भान न स्यादिति चेत् , न मस्या असार्वत्रिकत्वात्। अन्यथा 'गमायां मीनघोषौ स्तः इत्यादौ जलप्रवाहतटयोर्बोधः कथं स्यादिति धेयम् । एतेनेति । ध्वंसस्य नि. त्यत्वाद्वर्तमानकालेऽपि सत्वेन चिरनष्टेऽपि नश्यतीति प्रयोगप्रसङ्गेनेत्मर्थः । ताह. शोत्पत्तिकत्वस्येति । वर्तमानोत्पत्तिकत्वस्येति तात्पर्यम् । क्रिमाविशेष्यक इति ।

३ लादेशार्थविचारः। धात्वर्थः क्रिया । चैत्रस्तण्डुलं पचतीत्यादितश्चैत्रकर्तृकतण्डुलकर्मकपाक- इति धीः । अन्त्यनये भावना क्रिया प्रत्ययाथैः। चैत्रीयपाककरणिका त- ण्डुलकर्मिका भावनेति बोधः । प्रथमान्तार्थविशेष्यक एव बोधः । ओदनकर्मकपाकानुकूलकृतिमांश्चैत्र इति बोध इति नैयायिकाः । द्वितीयाद्यर्थकमकरणत्वादेः क्रियायामेव सर्व- मतेऽन्वयः। लङस्तु शक्यो ह्योऽनद्यतनकालः । लुङस्तु भूतसामान्यम् । भूतत्वं च वर्तमानध्वंसप्रतियोग्युत्पत्तिकत्वम् , न तु ताशप्रतियोगित्वमेव । चिरो- त्पन्नेऽपि पूर्वद्युरभवदितिप्रत्ययापत्तेः । नष्ट इत्यादौ नाशे तदन्वयासम्भ- वाच। उत्पत्तेस्तु देशकालादावन्वयान दोषः । अभवदित्यादौतु धातुनोत्पत्तिः प्रत्याय्यते, नष्ट इत्यादौ तादृशोत्पत्तिकत्वं प्रत्ययेनेति विशेषः । लिटस्तु भूत काल इव परोक्षत्वमप्यर्थः । अहं चकारेत्यादिप्रयोगादर्शनात् । ननु चैवं भृवादिसूत्रस्थभाष्यात् "भावप्रधानमाख्यातम् , क्रियाप्रधानानि नामानि" इतिनि. रक्ताच क्रियामुख्यविशेष्यकबोधस्यैवोक्तत्वादिति भावः । अत एव गोमासकैरपि "तद्भूतानां क्रियार्थेन समाम्नायः" इतिसूत्रेण क्रियामुख्यविशेष्यकबोधस्यैव मुख्य. त्वमुक्तं सङ्गच्छते । *प्रथमान्तार्थ मुख्येति । कालाद्यतिरिक्तत्वे सति आख्यातार्थ- निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन आख्यातएवज्ञानजन्यशाब्दबुद्धित्वावच्छि. ब्रम्प्रति विशेष्यतासम्बन्धेन प्रथमान्तनामपदजन्यान्यविशेषणीभूतार्थविशेष्यकोप- स्थितिः कारणमिति कार्यकारणभावो बोध्यः । *अनद्यतन इति । अतीतायाः रात्रे पश्चाधेन अगामिन्याःपूर्वाधन च सहितः कालोऽधतनः, तद्भिन्नोऽनद्यतन इति वृत्तिः। अतीतरारन्त्ययामेन आगामिरात्रेराद्ययामेन च सहितो दिवसोऽयतन इति "लण" सूत्रे कैयटः । एवम् अनद्यतने भविष्यति लुट , भविष्यत्सामान्ये लट् इत्यादि तदनु। शासनादितो बोध्यम् । वर्तमानेति । वर्तमाने ध्वंसः, वर्तमानश्चासौ ध्वंसश्चेति उभयविधसमासस्य सम्मवत्वेन वर्तमानक्षणवृत्तियों ध्वंस:-अतीतक्रियाध्वंसः, वित मानो यो ध्वंस इति वा तत्प्रतियोगिनी तादृशक्रिया तदुत्पत्तिकत्वमतीतकालस्ये- ति लक्षणसमन्वयः । चिरोत्पन्न* इति । उत्पत्तिपदोपादानेन वर्तमानक्षणवृत्तिध्वंसप्र- तियोगिन्या अतीतक्रियाया उत्पत्तियस्मिन् इति बहुव्रीहिणा यस्मिन्काले ताश. क्रियोत्पत्तिः स एवातीतकालो लक्ष्यते । अन्यथा वर्तमानक्षणवृत्तिध्वंसोऽतीतक्रिया. अवंसा, तत्प्रतियोगित्वस्यातीतक्रियायां सत्वेऽपि क्रियाया अपि कालत्वेन सामा- न्यातीतेऽपि वर्तमानत्वात्ताशप्रयोगः स्यादिति भावः । *परोक्षत्वमिति । परोक्ष- परमलघुमञ्जूषायाम्- "णलुत्तमो वा" इति ज्ञापकात् उत्तमपुरुषस्तत्र स्यादिति वाच्यम्। 'सुप्तोऽहं किल विललाप' 'मत्तोऽहं किल विचचार' इत्यादौ चित्तविक्षेपादिना पारो- क्ष्यमुपपाद्य तत्र सूत्रसार्थक्यसम्भवात्। तत्र च परोक्षत्वेन पारोक्ष्यसादृश्ये ता- त्पर्यम् । 'चक्रे सुबन्धुः इति तु न लिट्प्रयोगोऽपितु तिङन्तप्रतिरूपको निपातः लुङ्लुटोस्तु भविष्यत्कालः ! भविष्यत्त्वं वर्तमानप्रागभावप्रतियोग्युत्पत्ति कत्वम् । उत्पत्तौ च देशविशेष: कालविशेषश्चाधिकरणत्वेनान्वेति । गृहे घटो भविता अद्य घटो भविष्यतीत्यादौ धातुनोत्पत्तिः प्रत्याय्यते, वर्तमानप्रागभा. वप्रतियोगित्वमाश्रयत्वं च प्रत्ययेन । गृहाधिकरणकवर्तमानप्रागभावप्रति- योग्युत्पत्त्यायो घटः, अद्यतनप्रागभावप्रतियोग्युत्पत्त्याश्रयो घट इत्यन्वय- बोधात् । वर्तमानप्रागभावप्रतियोगित्वमात्रस्य लुडाद्यर्थत्वे श्वो गृहे समुत्प- द्य परश्वः प्राङ्गणं गमिष्यति मैत्रे परश्वः प्राङ्गणे मैत्रो भविष्यतीति प्रसङ्गः। केचित्तु देशविशेषः कालविशेश्च प्रागभावे प्रतियोगिनि चान्वेति। पर- श्वः प्राङ्गणे मैत्रो भविष्यतीत्यस्य परश्वो वृत्तिः प्राङ्गणवृत्तिर्यः प्रागभावस्तत्त्र- तियोग्युत्पत्याश्रयः परश्वोवृत्तिः प्राङ्गणवृत्तिमैत्र इति बोधः । तेन नोक्ताति- प्रसङ्गः । एतेन श्वोभाविनि घटे अद्य भविष्यतीति प्रसङ्गा निरस्त इत्याहुः।। नञ्जयतीत्यादौ वर्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वं प्रतियोगित्वं च प्रत्ययार्थः । श्वो घटो नङ्ग्यतीत्यादौ श्वोवृत्तिः वर्तमानप्रागभावप्रतियो. गिनी योत्पत्तिस्तदाश्रयनाशप्रतियोगी घट इत्यन्वयबोधः । यत्त्वत्र वर्तमा- त्वच-वक्तुः साक्षात्काराविषयत्वम् । तेन स्वक्रियायाः स्वंप्रत्यक्षेन नाहं चचार इत्यादिप्रयोगोऽसाधुरेव । ननु "व्यातेने किरणावलीमुइयनः" इत्यादः का गतिरि. ति चेत् ? तत्र परोक्षत्वारोपेण समाधेयमिति दिक । *पारोक्ष्यसादृश्ये इति। अत एव 'मत्तोऽहं किल निललाप" विचचार' इत्यादौ पारोक्ष्यसादृश्यालिलट् साधुरिति तात्पर्यम् । *वर्तमानप्रागभावेति* । वर्तमानकालिको यः प्रागभावस्तत्प्रतियोगिन्युत्पत्ति- यस्येति बहुव्रीहिरिति भावः । *उत्पत्तिरिति । 'भू सत्तायाम्' इतिपरितस्यापि भू- धातोरुत्पत्तिरोधातनामनेकार्थत्वादोध्यम् । प्रतियोगित्वमानस्येति । वर्तमान. प्रागभावप्रतियोगित्वस्य क्रियारूपकाले सत्वात्ताहाप्रयोगः स्यात् । उत्पत्यन्तलु- दाद्यर्थत्वे तु वर्तमानप्रागभावप्रतियोग्युत्पत्तिरतीतक्रियायाः परचो नास्तीति न ताह- लादेशाथविचारः। नप्रागभावप्रतियोगित्वमेव प्रत्ययार्थ इति, तन्न । (१)श्वोभाविनाशके घटे अद्य नञ्जयतीति प्रसङ्गात् । पक्ष्यतीत्यादौ आद्यपाकव्यक्तिप्रागभावगर्भमेव भविष्यत्त्वम् , पकवा- नित्यादौ चरमपाकव्यक्तिध्वंसगर्भमेव भूतत्वं भासते । तत्तत्समभिव्याहा- रस्य ताशबोधे हेतुत्वात् । तेन पाकमध्ये कस्याश्चित्पाकव्यक्तेरनुत्पादेऽपि कस्याश्चिदतीतत्त्वेऽपि न पक्ष्यति पकवानित्यादिप्रयोगः । लिङो विधिराशीश्वार्थः। यजेतेत्यादौ विधिः, आशीस्तु भूयादित्यादौ । सा च शुभाशंसनं तदिच्छेति यावत् । लोटस्तु विधिरनुमतिर्वा । गच्छ- त्वित्यत्रानुमतिविषयगमनानुकूलकृतिमानिति बोधस्यानुभविकत्वात् । विधिःप्रवर्तनेतिभाट्टाः।(२)लिनिष्ठा व्यापारःपदार्थान्तरम् , (३)लि. शप्रयोग इति भावः । *आद्यपाकव्यक्तीति । विक्लित्युत्पादकसिद्धासिद्धफूत्कारा- ध:श्रयणान्तक्रियाकलापरूपोत्पादनापरपर्यायो व्यापारविशेषः पाशः साध्यत्वेन प्रतो. यमानो धात्वर्थः । अत एव च "गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुध्या प्रकल्पि. ताभेदः क्रियेति व्यपदिश्यते” इति । "यावत्सिद्धमसिद वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते” इत्यभियुक्तरुक्तम् । ततश्चाद्यपाकपदेन फू. कारस्य चरमपाकपदेनाधःश्रयणस्य च ग्रहणम्योध्यम् । तत्समभिव्याहारस्येति । तत्तद्धातुसममिव्याहृतलुडादेरित्यर्थः । *लिडो विधिरिति । "विधिनिमन्त्रणामन्त्र. ग" इति “माशिषि लिङ्लोटौ” इतिचामयसूत्राा लिखस्तादृशार्थद्वये शक्तिबोध- नात् द्वयोरप्युक्ताथयोरुपस्थितिः । तत्रेयान्विशेषः-शप्समभिव्याहारे विधेः तदितरत्र 'यास्त' 'सीस्त' इत्यन्यतरसमभिव्याहारेचाशिषश्च तात्पर्य निश्चयवशाबोधलक्ष. ग्यमत्र बोध्यम् । *तदिच्छेति* । शुभविषयिणीच्छेत्यर्थः । विधिरमितिवति । "लोट् च” इत्यनेन विध्यादौ तद्विधानात् , अनुमतिः-श्रनुज्ञा, अत्राप्युक्तार्थस्यार्था- न्तरोपलक्षणत्वमुरम् । । (१)श्वोभावी नाशो यस्य तस्मिनित्यर्थः । (२) यद्यपि लोके आज्ञादिरूपो ऽभिपायविशेष एव प्रवर्तना, तथापि वेदे पुरु- षाभावाच्छब्दनिष्ठ एव स आधीयते इति भावः । (3) क्लुप्तेन लिङ्पदज्ञानेनैवोपपत्तौ पदार्थान्तररूपव्यापारकल्पनाया अनाव- त्वात् । तथाहि-प्रवृत्तिहेतुव्यापारः प्रवर्तना । विधिशब्दो हि पुरुषप्रवृत्तिरूपार्थमा. बना दालकारसाधारणाख्यातत्वेन बोधयति ज्ञातैव च सा अनुष्ठातुं शक्यत इति भवति - ६ परमलघुमञ्जूषायाम् । उपदज्ञानमेव वा। तस्य प्रवर्तनात्वेन(१) ज्ञानं शब्दाधीनप्रवृत्तौ कारणम् । लिश्रवणे आचार्यों मां प्रवर्तयतीति ज्ञानाद्गवानयनादौ प्रवृत्ते: अचा- यनिष्ठप्रवर्तनात्वभिप्रायविशेष एवेत्याहुः । तन्न! स्तनपानादिप्रवृत्ताविष्टसा. धनताज्ञानस्य हेतुतायाआवश्यकत्वात् तत एवोपपत्तौ प्रवर्तनाज्ञानस्य हेतुत्वे (२)मानाभावात्। स्वर्गकामो यजेतेत्यादौ प्रवर्त्तनाविषया यागकरणिकास्व- *माहा:-मीमांसकाः । तस्येति । प्रवतनात्वस्य अयं मां प्रवर्तयतीति प्र. तीतिसाक्षिकस्य प्रवर्तकपुरुषाभिप्रायेष्विव शब्दव्यापारे ऽपिसत्वाल्लोकवेदयोरुभयोः सङ्ग्रहः । स्तनपानादीति | साधक्षणे स्तनपाने बालस्य प्रवृत्यनुकूलव्यापाररूप- विधिशब्दस्य ज्ञानद्वारा प्रवृत्तिहेतुत्वम् । तस्य च प्रवृत्तिज्ञानद्वारा प्रबृत्तिहेतुत्वं "वि. धिशब्दः प्रवृत्तिबोधहेतुशक्तिमान्" इत्येवं ज्ञातस्यवेति ताहाशक्तिमत्त्वेन ज्ञानमेव तस्य प्रवृत्तिहेतुापार इति स एव प्रवर्तनाख्यां लमते। ज्ञानातिरिक्तव्यापारकल्पने मानाभावादिति भावः। (१) प्रवर्तनात्वेनैव ज्ञानस्य प्रवृत्ति प्रति कारणत्वान लोकवेदयोरननुगमः । लिश्रवणे अयं मां प्रवर्तयतीतिप्रतीतिसाक्षिकस्य प्रवर्तनात्वस्य आज्ञादिष्विव शब्द- व्यापारेऽपि सत्त्वादिति भावः । (२) इष्टसाधनत्वमपि प्रेरणात्वेनैव शक्य, न स्वरूपतः । प्रेरणात्वापेक्षया तस्य गुरुत्वात् । इष्टत्वांशं विहाय साधनत्वमात्रस्य वाच्यत्वे च आख्यातत्वांशोपस्थितप्र. वृत्त्या सह समानाभिधानश्रुस्या साधनत्वान्वयसम्भवे पदान्तरोपस्थापितस्वगेंण सह सममिव्याहाररूपवाक्येन तदन्वयासम्भवात् प्रवृत्तिसाधनत्वरूपप्रेरणात्वे एव प. यवसानमिति इष्टसाधनत्वं न पदार्थ, किन्तु वाक्यार्थः। तथाहि-प्रवर्तनाविषयी. भूताऽऽर्थभावना किम्भावयेदिति भाव्याकालायां समानपदोपात्तमपि धात्वर्थमपुरुषा. र्थवादाव्यतयाऽन्वयायोग्यं विहाय मिन्नपदोपात्तमन्यविशेषणमपि स्वर्ग कामपदस म्बन्धात् पुरुषार्थतयावगतं साध्यत्वान्वययोग्य भाव्यत्वेनाश्रयति । अपुरुषार्थकर्मिका. यास्तस्याः प्रवर्तनासाध्यत्वानुपपत्तः। एवञ्च स्वर्गभावनासाधनत्वात्स्वर्गरूपेष्टसाधन- त्वमपि प्रवर्तनायाः सिध्यति । पुरुषप्रवृत्तिरूपार्थभावना च यागव्यापार विना स्वर्ग साधयितुं नालमिति यागस्य स्वगंसाधनत्यमाक्षिप्यते । न तु यागस्य स्वर्गसाधनत्वं वाक्यप्रमाणगम्यम् । यजधातोरकमेकत्वेन तत्र द्वितीयान्तस्वर्गपदार्थस्य कर्मत्वेना. न्वयायोगात् । तस्मात् फलसाधनत्वस्य प्रवर्तनात्वेनैव वाच्यतेत्यादिक मण्डनमतस. मर्थन वैयाकरणादिसम्मतमन्यतो विस्तरेणावगन्तव्यम् । मानामावादिति तु नैयायि- कमतनिरूपणप्रस्तावे ग्रन्थकारेणोक्तमिति तत्कथनं वैयाकरणसंमतमिति न भ्रमितव्यम् । ।

लादेशार्थविचारः। र्गकर्मिका भावनेति बोधस्य परैरभ्युपगमात् प्रवर्तनाविषयत्वमात्रज्ञानात् प्र. वृत्यनुपपत्तेरावश्यकस्वर्गसाधनत्वादिज्ञानादेव तत्र प्रवृत्तेः। कार्य विधिरिति (१) प्राभाकराः । स्वर्गकामो यजेतेत्यादौ स्वर्गकामनि- योज्यकं यागविषयकं कार्यमिति प्राथमिको बोधः। सनियोज्यकं यागविषय. कंस्थायिस्वर्गसाधनं कार्यमिति द्वितीयः। स्वर्गकामनियोज्यको यागः स्वर्ग- प्रवर्तनाया असम्भवेन जन्मान्तरगृहीतेष्टसाधनतास्मरणादेव प्रवृत्तेरिति भावः । *कार्य विधिरिति । साक्षात्कृतिसाध्यं हि कार्यम् । अतः फले नातिव्यातिः । यागस्य लघु विनाशित्वेन कालान्तर्मावि स्वर्गे प्रति कारणत्वासम्भवात्। मतोऽपू. वरूपं कार्य लिष्यमितिनिश्चित्य प्रथमबोधानन्तरमपूर्वोपस्थितौ द्वितीयेन बोधेन (१)प्राभाकरा इति । ते हि प्रवृत्ति प्रति कार्यताज्ञानस्य कारणत्वमभ्युपग- च्छन्ति । तथाहि-कार्यताज्ञानं द्विविधम्-मयेदं कर्तुं शक्यते इत्यवंरूपमेकम् , मयेद. मवश्यं कार्यमित्येवंरूप द्वितीयम् । तत्राधं पदार्थयोग्यतागम्यमिति न प्रवृत्तौ कार- णम् । द्वितीयमिष्टसाधनत्वादिज्ञानजन्यमिति चिकीर्षाद्वारा प्रवृत्तिहेतः। अत एव इष्टसाधनत्वेनाज्ञाते मध्वनभोजने, बलवदनिष्टसाधनस्वेन ज्ञाते विषसंयुक्कान्न भोजने च न प्रवृत्तिः। निरुक्तस्य कार्यताज्ञानस्य इष्टसाधनत्वज्ञानाद्यमावेऽजननात् । प्रवृत्ति प्रति इष्टसाधनत्वज्ञाानादीनां त्रयाणां कारणत्वकल्पनापेक्षयालाघवेन उक्तकार्यताज्ञान- स्यैव चिकीर्षाद्वारा कारणत्वकल्पनं समुचितमेव । प्रकरणादिहेतुकतात्पर्यज्ञानस्य फल- भूतशाब्दबोधकारणत्वकल्पनवत् । तस्मात् कार्यताज्ञानमेव प्रवर्तकमिति तदेव लोके विध्यर्थः। वेदे तु कार्य विध्यर्थः । तृप्तिकामः पवेदित्यादौ लोके पाकादौ तृप्तिरूपफलसाधन. त्वस्य लौकिकप्रमाणगम्यत्वेन तेन रूपेणावगते याकादौ काम्यसाधनताज्ञानाधीनका. यंताज्ञानवत्त्वरूपनियोज्यत्वविशिष्टान्वये कार्यत्वान्वयो यथा भवितुमर्हति, तथा स्व. कामो यजेतेत्यादौ वेदे यागादौ कार्यत्वान्चयो न भवितुमर्हति । क्षणिकयागे काम्य स्वर्गसाधनत्वरूपयोग्यताऽभावेन तज्ज्ञावाधीनकार्यताज्ञानवत्वरूपनियोज्यत्वविशि. टोन्वयरूपाया योग्यतायाः कार्यत्वान्वयप्रयोजिकाया अमावात् । अतोऽपूर्वरूपकार्य विध्यर्थमङ्गीकृत्य स्वर्गकामनियोज्य याविषयकं कार्यमिति प्रथमबोधोत्तरमपूर्वोप- स्थितौ तत्र द्वियीयबोधेन स्थायित्वस्वर्गसाधनत्वयोः ग्रहे तद्वारा यागे स्वर्गसाधन. त्वमहात् तत्र कार्यत्वबोध उपपादनीयः । अत एव च अतान्द्रियस्य तस्य कार्यत्वोप. पतिः । चतुर्थबोधस्तु प्रथमप्रतीतकृतेराश्रयान्वयलाभार्थम् । पञ्चमस्तु यागे असाधा. रणप्रवृत्युपपादनार्थमित्यलम् ।

परमल घुमञ्जूषायाम- कामकार्य इति तृतीयः । स्वर्गकामो यागकर्तेति चतुर्थः । अहं स्वर्गका- मोऽतो यागो मत्कृतिसाध्य इति पञ्चमः। न च प्रथम एव स्वर्गकामकार्यो याग इति बोधोऽस्तु, तथा च कार्यत्वे एव शक्तिर्न कार्ये इति वाच्यम् । यागादिक्रियायां नियोज्यान्वयं विना कार्यत्वान्वयानुपपत्तेः । नियोज्यत्वं हि क्रियानिष्ठकाम्यसाधनताज्ञानाधीनमत्कार्यामितिबोधवत्त्वम् । तत्तु स्वर्ग- कामनाविशिष्टे योग्यताऽवच्छेदकतया भासते। घटेन जलमाहरेत्यत्र घटे छिद्रतरत्ववत । न च वागे स्वर्गसाधनत्वज्ञानं विनेशं नियोज्यत्वं भातु. महति। न वायागे स्वर्गसाधनत्वं प्रथममेव शक्यं ज्ञातुम् । तद्धिसाक्षात् पर- म्परया वा । नाद्यः । आशुविनाशिनो यागस्य कालान्तरभाविनि स्वर्गरूप- फले साक्षादहेतुत्वात । नान्त्यः । परम्पराघटकापूर्वानुपस्थितेः । अतो यागविषयकं कार्यमिति प्रथमबोधादपूर्वोपस्थितौ तद्वारा यागे स्वर्गसाध- नत्वग्रहात् तत्र कार्यत्वबोध इत्युक्तम् । नियोज्यत्वं च पदानुपस्थितमपि योग्यतया शाब्दवोधे भासते द्वारमित्यत्र पिधेहीतिवत् । प्रवर्तकज्ञानविषयो विधिरिति नैयायिकाः। प्रवर्तकं च कृति साध्यत्वेष्ट- साधनत्वबलवदनिष्टाननुबन्धित्वानां ज्ञानम् । अतस्तेषु लिशक्तित्रयम् । सुमेरुशृङ्गाहरणनिष्फलाचरणमधुविषसंपृक्तान्नभोजनेषु प्रवृत्तिवारणाय य. थासङ्घयं त्रयाणामेव ज्ञानं प्रवर्तकम् । स्थायित्वस्वर्गसाधनत्वग्रहः । तादृशापूर्वद्वारा च यागे स्वर्गसाधनत्वग्रहः। प्रथमबो- धविषयीभूतकृतेराश्रयान्वयलाभाय तुरीयबोधः प्रदशितः। पुरुषाणामप्रेरणेनैव अवश्य कर्तव्यबुध्या स्वयं प्रवृत्त्युत्पादनाय पञ्चमो बोध इति ग्रन्थे पञ्चबोधप्रदर्शनमिति ता. त्पर्यम् । कच्छिद्रेतरत्ववदिति । बाधज्ञानस्य विषयतायां सङ्कोचकतया सच्छिद्रेण घटेन जलाहरणमसम्भवीति बाधज्ञाने सति उक्तवाक्ये घटपदप्रयाज्यकरणताख्यविषय- तायां यथा सच्छिद्रेतरत्वावच्छिन्नत्वं भासते, तथेह नियोज्यत्वमपीत्यर्थः । * अपूर्वो- पस्थिताविति । तत्पदजन्यतदर्थोपस्थितौ यथा तत्पदनिष्ठशक्तिग्रहजन्यसंस्कारो हेतुः। एवं स्वर्गादीष्टम्प्रति साक्षात्कारणं यागजन्यापूर्वम् , न तु यागे एवेति भावः । नैयायिकाभिमतलिबर्थमाह-*प्रवर्तकेति* । प्रवृत्तिजनकमित्यर्थः । कृतिसा. ध्यत्वेति । एवं च न सुमेरुङ्गाहरणे प्रवृत्तिः । तथैव न फिलजलताडने प्रवृत्तिः । अनिश्त्वात्। नापि मधुविषसम्पृकान्नभोभने, बलवदनिष्ठानुबन्धित्वादिति भावः ।

लादेशार्थविचारः। यत्तु समुदिते शक्तिरेकैवेति । तन्न। विशेष्यविशेषणभावे विनिगमका. भावेन त्रिष्वेव पृथक्शक्तेः। एवञ्च स्वर्गकामो यजेतेत्यादौ स्वर्गकामीयो यागः कृतिसाध्यः, इष्टसाधनं बलवदनिष्टाननुबन्धीचेति बोध इत्येके । वस्तुतो नामार्थधात्वर्थयोर्भेदेन साक्षादन्ययस्याव्युत्पन्नतया ताशया- गानुकूलकृतिमान् स्वर्गकाम इत्येव वोधः। कृतिसाध्यत्वं च प्रवृत्तिसाध्य. त्वम् । अतो न समुद्रतरणादौ प्रवृत्तिः । इष्टसाधनत्वं चेष्टनिष्ठसाध्यतानि- रूपकत्वमतो न तृप्तस्य भोजने प्रवृत्तिः । वलवनिष्ठाननुवन्धित्वंतु स्वजन्ये- टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वम् । नहि सुखं दुःखेविना ल- भ्यते इति न्यायेन नान्तरीयकं किञ्चिद् दुःखमिष्टोत्पत्ताववश्यं भावि तदतिरिक्तदुःखराहित्यमेव तत्त्वम् । 'ब्राह्मणो न हन्तव्यः' इत्यादौ नबः कृतिसाध्यत्वेष्टसाधनत्वनिषेधे स्वारस्याभावात्तेन बलवदनिष्टाननुवन्धित्वनिषेवाद् ब्राह्मणवधो बलवद- निष्टजनक इत्यर्थः पर्यवस्यति । एतेन समुदिते लिङः शक्तिकल्पनमपास्तम्। यद्यपि प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययस्येति व्युत्पत्या नर्थ वल. वदनिष्टाननुबन्धित्वान्वयोऽसम्भवी, तथाप्यन्यथाऽनुपपत्या एतदतिरिक्त- स्थले एव सा व्युत्पत्तिः । अत एव नातिराने षोडशिनं गृह्णातीत्यादौ घोड. शिग्रहणाभाव इष्टसाधनमिति बोध इति दीधितिकृतः । न हन्तव्य इत्यादौ हननाभावविषयक कार्यमिति बोध इति गुरवः। ननु पचतीत्यादौ लडाद्यर्थ- वर्तमानत्वादेर्यरने एवान्वयान्न सा व्युत्पत्तिः । मेवम् । यत्र प्रत्ययत्वं तत्र *शक्तिरेकैवेति । फलव्यापारयोर्धातीरिव लिङोऽपि उक्तार्थत्रये एकैव शक्तिस्वी- क्रियताम् , खण्डनये चास्यास्त्रियूक्तेष्वर्थेषु च शक्तिबाहुल्ये शक्यतावच्छेदकबाहुल्यन गौरवञ्च परिहीयताम् । विशेष्यविशेषणभावश्च तात्पर्यनिश्चयविशेषचलाइविष्यतीति न तत्रापि वैषम्यम् । स्वर्गकामीय इति । स्वर्गकामपुरुषसम्बन्धीत्यर्थः। सम्बन्धिता च स्वनिष्ठकर्तृतानिरूपकत्वसम्बन्धेन बोध्या । *स्वजन्येति । स्वं यागः, तज्जन्येष्टोत्पत्तौ स्वर्गे नान्तरोयकोपमादिजन्यदुःखात् अधिकदुःखाजनकत्वमिति. समन्वयो बोष्यः। *प्रकृत्यान्वितेति । इमामेव व्युत्पत्तिमर्थतः पठन्ति 'प्रत्ययार्थः प्रकृत्यर्थेनैवा. न्वेति' इति । अत एव पचन्तं पश्य पचमानं पश्येत्यत्र द्वितीयाकर्मत्वैकत्वयो - स्वर्थेऽन्त्रयमुररीकृत्य केवलपाकदर्शनादेन बोधः, किन्तु शत्राद्यर्थ एवान्वयेन पाककर्तृद. ।

१० परमलघुमञ्जूषायाम्- प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्याप्तेः। यः प्रत्ययार्थः स प्रकृत्यर्थस्य विशेष्यतया भासते इति व्याप्तेश्च ।। लेटस्तु यच्छब्दासमभिव्याहृतस्यैव विधिरर्थः समिधो यजतीत्यादौ विधिप्रत्ययात् । देवांश्च याभिर्यजते ददाति च य एवं विद्वानमावास्यां यजते इत्यादौ तदप्रत्ययादिति ।। लुस्तु भूतत्वं क्रियातिपत्तिश्वार्थः। अतिपत्तिरनिष्पत्तिरापादनारूपा । सा च शक्या । सा चापादना तर्कः। तर्कत्वं च मानसत्वव्याप्यो जाति- विशेषः । एघांश्चेदलप्स्यत श्रोदनमपक्ष्यत् इत्यादौ एधकर्मको भूतत्वेना- पादनाविषयो यो लाभस्तदनुकूलकृतिमान् ओदनकर्मको भूतत्वेनापादना- विषयो यः पाकस्तदनुकूलकृतिमांश्चेति बोधः । भविष्यति क्रियातिपदनेऽपि लुङ । यदि सुवृष्टिरभविष्यत्तदा सुभिक्षमभविष्यदिति प्रयोगदर्शनात् । भूतत्वभविष्यत्त्वयोर्बोधनियमस्तात्पर्यात् । यदि स्यादित्यादौ लिकोऽप्या. पादनायां शक्तिः । यदि निर्वह्निस्यात्तर्हि निर्धूमस्यादित्यादौ तस्या एक प्रतीतेः । लाघवेन स्थानिनां वाचकत्वात् सङ्घयापि लकारायः ।। इति लकारार्थनिर्णयः॥ निदशायामेव ताशप्रयोग इति दिक् । *यः प्रत्यर्थ इति* । प्रकृत्यर्थनिष्ठविशेष. णतानिरूपितविशेष्यतावान्प्रत्ययार्थ इति फलितोऽर्थः । * तर्क इति * । व्याप्यारो. पेण व्यापकारोपस्त इति भावः । मारोपश्चाहार्यज्ञानम् , तञ्चबाधकालीनेच्छाजन्य. ज्ञानरूपम् । यथा-निर्वह्निः स्यानिधूमः स्यादिति । अत्र व्याप्यस्य वह्नयमावरू. पस्य आरोपेण व्यापकस्य धुमाभावस्यारोपः। प्रकृते च एधाभावात् ओदनाभाव आरोप्यत इति भावः। *सुवृष्टिश्चेदिति । अत्र सुभिक्षभवने सुवृष्टिभवनं हेतुरतो हेतुहेतुमदावे क्रियाया असिद्धौ धातोलसिद्धस्तेन सुवृष्टिभवनहेतुकं सुभिक्षभवनमिति बोधः । * तात्पर्यादिति । तात्पर्यनिश्चयवशादित्यर्थः । इत्यर्थदीपिकायां लकारार्थविचारः।

कारविचारः। ६१ अथ कारकाणि निरूप्यन्ते ॥ कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ।। तत्र क्रियानिष्पादकत्वं कारकत्वम् । तञ्च कादीनां षणामपि । तत्र प्रकृतधातुवाच्यव्यापाराश्रयस्वं कर्तृत्वम् । धातुनोतक्रिये नित्यं कारके कर्तृतेष्यते। इति हर्युक्तेः । अन्यकारकनिष्ठो व्यापारस्तु न प्रकृतधातुवाच्यः । यथा वह्निना पचतीत्यत्र वह्निनिष्ठः प्रज्वलनादिः । अन्यकारकनिष्ठव्यापाराश्रय. स्य कर्तृत्ववारणाय धातुवाच्येति । तत्रोक्त तु कारकमात्रे प्रथमैव । तिङ. समानाधिकरणे प्रथमा अभिहिते प्रथमेति वार्तिकद्वयात् । सूत्रमते तु कर्तृक- *अथेति । अत्राथशब्दो मङ्गलार्थः । *निरूप्यन्त इति । स्वसमभिव्याह- तपदार्थतावच्छेदकव्याप्यमिथोविरुदनानाधर्मप्रकारकज्ञानानुकूलो व्यापारो निरूपय. तेरथः । *क्रियानिष्पादकत्वमिति । निष्पादयति-उत्पादयतीति-निष्पादक:-जन. कः । तथाच क्रियाजनकत्वम् , जनकत्वेन क्रियान्वयित्वं वा कारकत्वम्बोध्यम् । अन्ये तु कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्य- तानिरूपितप्रकारताश्रयतद्धात्वर्थाश्रयत्वम्-कर्तृत्वम् । कालिकसम्बन्धेन व्यापारा. श्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छेदकसम्बन्धेनेति । ग्रामं गच्छतीत्यादावुत्तरसंयो. गात्मके फले तादृशधात्वर्थत्वाभावान तदाश्रयेऽतिप्रसङ्गः। पक्कस्तण्डुलो देवदत्तेने. त्यादौ फलस्य विशेष्यत्वेन देवदत्तेऽतिव्यातिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति लक्षणसमन्वयो बोध्यः। षट्सु कारिकेषु प्रथमोपस्थितत्वात्कार लक्षयति-प्रकृत- धात्विति । प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयत्वमिति यावत् । तेन प्रयोज्यप्रयो. जकानुक्तकर्तृर्णा सर्वेषां संग्रहः । 'भाषेष्वश्वं बध्नाति' इत्यत्र तु गलाधः संयोगानुकूल. व्यापाराश्रयत्वेन अवश्यकर्तृत्वेऽपि प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयत्वाभावान. कर्तृत्वापत्तिरिति दिक् । *धातुनोक्तेति । धातुनोक्तक्रिये कारके कर्तृता नित्यमिष्यते, इति हरिपद्यपदयो. जनेति भावः। अत एव यदा यदीयो व्यापारो धातुनाऽभीधीयते तदास कर्तेति, स्थाली पचति, अग्निः पचति, एधांसि पचन्ति,तण्डुलः पच्यते स्वयमेवेत्यादिसङ्गच्छते । *धात परमलघुमञ्जूपायाम् । माद्यर्थकात्ययेन कादेरुतत्वात प्रथमायाः प्रातिपदिकार्थं एवार्थः । तस्य चाख्यातार्थकादिनाऽभेदान्वयेन प्रथमार्थस्य कारकत्वम् । अत एवाख्यातार्थ- द्वारकक्रियान्वयात(१) तदर्थस्य क्रियाजनकत्वादस्याः कारकविभक्तित्वेन भा- ध्ये व्यवहारः । चैत्रा भवतीत्यत्र एकत्वावच्छिन्नचैत्राभिन्नकर्तृकं भवनमिति बोधः । आख्यातकृदादिना क देरभिधानेऽपि प्रथमयाऽनुद्भूतकर्तृत्वादिश- क्ति: प्रतिपाद्यते इति तात्पर्यम् ।कर्माख्याते तु चैत्रेण ग्रामो गम्यते इत्यत्र चै. वाच्येतीति । प्रकृतधात्वर्थप्रधानीभूतेत्यर्थः । *एकत्वावच्छिन्नेति । आख्याता. थंकत्वसंख्यायाः कर्तर्यन्वयात् दयाकरणमत व्यापारमुख्यविशेष्यकबोधाच्चेति भावः। कर्माख्याते तु तृतीयायाः कतरि विधानात्कतृत्वमर्थः। तत्र चैत्रस्याभेद- संसगंणान्वयः, कतुश्च वृत्तित्वसम्बन्धेन धात्वर्थव्यापार तस्य जन्यत्वसम्बन्धेन संया- गरूपफले तन्नैव निष्टत्वसम्बन्धन प्रामादिकर्मणः ग्रामे चाख्यातार्थसंख्याया अन्वयो बोध्यः। *चैत्रकतैकेति* । अत्रेदमवधेयम्-चैत्रेणेतिकर्तृतृतीयायाः कनाथः । तेन (१) ननु परम्परयाक्रियान्वितस्य कारकत्वे राज्ञः पुरुषमानयेत्यादौ राजादीना- मपि कारकत्वापत्तिः । न च क्रियानिष्टविषयताविशिष्टविषयताश्रयत्वं कारकत्वम् । विषयता साक्षात् परम्परया वा स्वनिरूपितत्वम् , स्वनिरूपितविषयतासामानाधि. करण्यम् एतदुभयसम्बन्धेन । तथाच-राजनिष्ठविषयतायाः परम्परया क्रियाविषयता- निरूपितत्वेऽपिक्रियाविषयतानिरूपितविषयतासामानाधिकरण्याभावान्न राज्ञः कारक- त्वापत्तिरिति वाच्यम् । सुन्दरस्य राज्ञः पुरुषमानयेत्यादौ सुन्दरपदार्थस्य परम्परया क्रियाविषयतानिरूपितराजपदार्थनिष्ठविषयतासमानाधिकरणसुन्दरत्वावच्छिन्नविषय. ताश्रयत्वेन कारकत्वापत्तः। साक्षात् क्रियाविषयतानिरूपितविषयतासामानाधिकर. ज्यनिवेशेऽपि चैत्रेण स्वस्य पुत्रा दृश्यते इत्यत्र चंत्रस्य स्वपदार्थत्वेनापि कारकत्वा. पत्तिः, सुन्दरश्चैत्री गच्छतीत्यादौ सुन्दरपदार्थस्य कारकत्वानापत्तिश्चेति चन्न । कारकत्वव्याप्यकर्तृत्वकर्मत्वादिसम्बन्धेतरसम्बन्धावटितपरम्परया क्रियाविषयतानि- सपितविषयताश्रयस्यैव कारकत्वस्वीकारात् । चैत्रो गच्छतीत्यादौ आख्यातार्थाश्रये चैत्रस्य विशेषणत्वेऽपि अभेदस्य सम्बन्धत्वाभावेन तस्य सम्बन्धानवच्छिन्नतया तद्ध- टितपरम्परायाः कमत्वादिसम्बन्धेतरसम्बन्धाघटितत्वात्कारकत्वम् । चैत्रेण स्वस्य पुत्रो दृश्यते इत्यादौ तु स्वपदार्थस्य पुत्रपदाथै निरूपितत्वसम्बन्धेन विशेषणत्वात् तद्घटितपरम्परायाः कर्तृत्वादिसम्बन्धेतरसम्बन्धघटितत्वान्न कारकत्वम् । कटादेरधि- करणस्यापि परम्परया क्रियान्वयेऽपि तद्घटितपरम्परायाः कर्तृत्वादीतरसम्बन्धाधटि. तस्वान कारकत्वानुपपत्तिरिति दिक् ।

कारविचारः। ६३ कर्तृकव्यापारजन्य एकत्वावच्छिन्नमामाभिन्नकर्मनिष्ठः संयोग इति बोधः । सम्बोधनप्रथमार्थस्यापि अनुवाद्यत्वनोद्देश्यतया युष्मदाभेदेन(१)विधेयक्रि. सह चैत्रस्याभेदः, वृत्तित्वञ्च संसगतया भासते । धातोस्तु फलव्यापारयोः खण्डशः शक्तिः । अत एव तयोविशेषणभावव्यत्यासः। एवञ्च चैत्राभिन्नकर्तृवृत्तिव्यापारजन्ये. त्यर्थ इति भावः । *सम्बोधनेति । "सम्बोधने च" इतिविहितप्रथमायास्तु सम्बो- धनमर्थः । प्रातिपदिकार्थापेक्षया तस्याधिक्येन भावात् पूर्वसूत्राविषयत्वात् तत्सूत्रा- । - (१) विधेयक्रियायामिति । "सिद्धस्याभिमुखीभावमा सम्बोधनं विदुः। प्रा.. साभिमुख्यो अर्थात्मा क्रियासु विनियुज्यते" ॥ इति हर्युकेविधेयक्रियायामेवसम्बो. धनप्रथमान्तार्थान्वयलाभात प्रवृचिनिवृत्त्योश्च तत्फलत्वात् प्रवर्तनादिविषयक्रिया.. यामेव तदन्वयः। अत एव ब्रजानि देवदत्तेत्यादौ जानीहीत्यादिः शेष आवश्यकः । अस्मत्पदार्थकर्तृकबजनस्य देवदत्तोद्देश्यकप्रवर्तनाविषयत्वाभावात्। विधेयक्रियाया. मन्वयोऽपि लोडर्थप्रवर्तनान्वयद्वारकः । प्रवर्तनाथामुद्देश्यतानिरूपकत्वसम्बन्धेन प्रक- त्यर्थान्वयः। तस्याश्च विषयतासम्बन्धेन धात्वर्थे । अमिमुखीभावमात्रसम्बोधनस्य प्रकृत्यथै एवान्वयः । अभिमुखामावश्च प्रयोक्तृवचनार्थज्ञानायादरवैशिष्टयेनावस्थानम्। अयमेव प्रयोक्त्रिच्छाविषयप्रकृतवाक्यार्थविषयकबोधानुकूलो व्यापारः । तदाश्रयत्वं सम्बोध्यत्वम् । एतद्वयापारानुकूलस्य सम्बोधनविभक्त्यन्तशब्दप्रयोगरूपप्रयोक्तृव्या. पारस्येतरनरपेक्ष्येणैव प्रतीतेस्तस्य न वाक्यार्थत्वम् । अभिमुखीमावस्यापि प्रातिपदि. कार्थत्वमेव । तथाच राम मां पाहीत्यादौ अभिमुखीभवदामाद्युद्देश्यकप्रवर्तनाविषयो मकर्मकं रक्षणमिति बोधः । राम देवदत्तं मां पाहीत्यादौ व देवदत्तरक्षणं रामोद्देश्य- कनिवर्त्तनाविषय इति बोधः । बजानि देवदत्तेत्यादौ जानीहीत्यध्याहारस्वीकारादेव सम्बोधनस्य कर्तृत्वव्यवहारो वृद्धोक्तः संगच्छते । अन्यथा वजनक्रियाकर्तृत्वस्यामा. वात् । तत्र स दुरुपपादः । अस्माकं तु सूपपादः । तस्यैव त्वं पदार्थत्वैन अध्याहृतक्रि. याकर्तृत्वात् । अत एव च तिङ्समानाधिकरणे प्रथमेति वार्तिकमते प्रथमा सिध्यति । तिङ्समानाधिकरणयुष्मत्पदसमानाधिकरणत्वात् । तद् ध्वनअन्नाह-अभिमुखीभव. देवदत्ताभिन्नयुष्मदथेति । अन च श्रूयमाणपदवृत्त्यैव बोधस्वीकारात् देवदत्तपदेनैव ल. क्षणया देवदत्तोद्देश्यकप्रवर्तनाविषयज्ञानरूपवाक्यार्थबोधनात् 'एकति वाक्यम्' इति परिमापित वाक्यलक्षणमपि समन्वेतीति आमन्त्रितनिवातसिद्धिः । एतेन अध्याहृत- क्रियायामन्वये नजानीत्यनेनैकवाक्यत्वाभावान्निधातो न स्यादित्यपास्तम्। 'नद्या- स्तिष्ठति कूले इत्यादाविव परम्परया बजानीत्यनेनान्वयस्य अध्याहृतक्रियान्वयेऽपि सत्त्वेनैकवाक्यत्वस्य सुलभत्वाच्चेति दिक् ।

, परमलधुमञ्जूषायाम्। यायामन्वयात् क्रियाजनकत्वरूपं कारकत्वम् । देवदत्त त्वं गच्छेत्यादौ अ. भिमुखीभवदेवदत्ताभिन्नयुष्मदर्थोद्देश्यकप्रवर्तनादिविषयो गमनमिति बोधः । अत एव- आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा। यथायथं विभक्त्यर्थाः सुपा कर्मेति भाष्यतः ।। इत्यभियुक्तोक्तम्- सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् । इति भाष्यं च सङ्गच्छते । अनुक्तकादिषु तृतीयादयो विभक्तयः, अ- नभिहिताधिकारे तासां विधानादित्यन्यत्र विस्तरः ।। ननु क्रियानिमित्तत्वं कारकत्वमिति स्वीकार्यमिति चेत् , न । चैत्रस्य तण्डुलं पचतीत्यत्र सम्बन्धिनि चैत्रादावतिव्याप्तेः । अनुमत्यादिप्रकाशन-, द्वारा सम्प्रदानादेरिव तण्डुलादिद्वारा सम्बन्धिनोऽपि क्रियानिमित्तत्वात् । किन्तु क्रियान्वितविभक्त्यान्वितत्वं क्रियानिवर्चकत्वं वा कारकत्वम् । विशेष्यतया क्रिया सुप्तिङन्यतरविभक्त्यर्थेऽन्वेति । स च विशेष्यत्तयैव चैत्रघटादौ । षष्ठ्यर्थस्य तण्डुलादिनामार्यान्विततया क्रियाऽनन्वितत्वात् । अत एव षष्ठयर्थस्योपपदविभक्त्यर्थस्य च न कारकत्वम् , क्रियान्वयाभावा- दिति शाब्दिकाः । उपपदविभक्तीनामपि सम्बन्ध एवार्थः। चैत्रस्य पचती- त्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठ्यर्थसम्बन्धस्य नामार्थेनैव रम्भः। तच्चाभिमुखीभवनानुकूलो व्यापारः क्रियान्वय्येवेति भावः । *आश्रय इति । द्वियीयातृतीयासतमोनामाश्रयोऽर्थः । *सुपामिति । 'प्रसि- दो नियमस्तत्र नियमः प्रकृतेषु वा' इत्युत्तरार्धमत्रावधेयम् । *तथा तिहामिति । तद्वत्तिबामपि सङ्ख्याकर्माधर्थ इत्यर्थः । क्रियानिमित्तत्वमिति । अत्र हि निमित्तं साक्षात्परम्परासाधारणम् । इदमेव पूर्वपक्षाणामभिप्रायः । सम्बन्धिनीति। सम्बन्धिता च स्वस्वामिभावेन बोध्या । *उपपदविभक्तयर्थस्येति । पदोद्देशियकाविभक्तिरुपपदविभक्तिः । “नमःस्वस्ति. स्वाहा इत्यादिविहितचतुथ्योदैः पदोद्देश्यकत्वेन क्रियान्वयित्वाभावान कारकत्व. मिति भावः । *उपपदविभक्तीनामिति* 1 उपपदविभक्तीनां षष्ठ्यपवादत्वादिति ता. त्पर्यम् । *मध्याहारेणैवेति । 'येन विना यदनुपपन्नं तत्तेनाक्षिप्यते, इतिन्यायेन कर्म विनानुपपद्यमानपचिक्रियया योग्यस्य तण्डुलरूपस्य कर्मण आक्षेपोऽत्रावसेयः । *कर्मवादिनैवेति । अनादिना करणत्वादीनां सङ्ग्रहो बोध्यः । कारकाणां क्रिययै- ।

कारकविचारः। क्रियायाः कर्मत्वादिनैव साकाङ्क्षवेन सम्बन्धक्रिययोनिराकाक्षत्वात् । यत्तु कारकान्तराप्रयोज्यत्वे सति कारकचक्रप्रयोजकत्वं कर्तृत्वमि- ति । तन्न । स्थाली पचति असिश्छिनत्तीत्यादौ स्थाल्यादेः कारकचक्राप्रयो- जकत्वात्कारकान्तरप्रयोज्यत्वाच तत्त्वं न स्यादित्यलम् । कर्मत्वं च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रय- त्वेनोद्देश्यत्वम् । इदमेव कर्मलक्षणे ईप्सिततमत्वम् । गां पयो दोग्धोत्यादौ पयोवृत्तियों विभागस्तदनुकूलो व्यापारो गोवृत्तिः तदनुकूलश्च गोपवृत्तिः । अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः। जन्यत्वनिवेशे तन्न स्यात् । प्रयागात्काशी गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति । नहि विभागः प्रकृतधात्वर्थः; किन्तु नान्तरीयकतया गमने उत्पद्यते। प्रया- गस्य फलतावच्छेदकसम्बन्धेन(१) फलाश्रयत्वेनानुद्देश्यत्वाच । । चान्वयादिति भावः। *कारकचक्रति । प्रकृतधातूपातक्रियान्वययोग्यकारकसमुदायप्रवर्तकमिति भा. वः । *तत्वम्*-कर्तृत्वमिति यावत् । *प्रकृतधात्वथैति । तेन यदा पुष्टयर्थ माषभक्षणाय माषनेत्रे एवाश्वबन्धनम् , तदा भाषेष्वश्वं बध्नाति' इत्यादौ माषाणां न कर्मत्वम् । बन्धनप्रयोज्यभक्षणफलाश्रयत्वे. sपि भक्षणस्य बध्नात्यर्थत्वाभावात् । ईप्सिततमत्वमिति । माप्नोतरिच्छासन्न. न्तात् कर्मकान्तात् प्रकृत्यर्थातिशयद्योतके तमपि निष्पन्न ईप्सिततमशब्दः । *प्र. योज्यत्वनिवेश इति गोव्यापार विना पसि व्यापारपूर्वकविभागानुत्पत्तः गोपव्या. पारजन्यो गोव्यापारो धातुवाच्यः । तजन्यस्तु पयोनिष्ठो व्यापारपूर्वको विभाग: तन्न पयोनिष्ठव्यापारस्य विभागनान्तरोयकत्वान्न धातुवाच्यतेति न तदुल्लेखः । एवञ्च पयोनिष्ठविभागरूपफलस्य गोपनिष्टधात्वर्थप्रधानव्यापारजन्यत्वाभावात्कर्म संज्ञा न स्यादिति साक्षात्परम्परासाधारण प्रयोज्यत्वं निवेशनीयमिति भावः । *नान्तरीयक- तयेति नहि पूर्वदेशविमागमन्तरेणोत्तरदेशे संयोग उत्पद्यते इति भावः । *फलताव. (१) फलस्य व्यापारे स्वानुकूलत्वं-स्वेच्छाधीनेच्छाविषयत्वम्-एतदुभय. सम्बन्धेनान्वयः । तासम्बन्धवटकच्छीयविषयतावच्छेदकश्च सम्बन्धः फलतावच्छे. दकः । तथा च तण्डुलं पचतीत्यादौ 'समवायेन विक्लित्याश्रयस्तण्डुलो भवतु' इत्या. कारकेच्छायाः कर्तनिष्ठत्वेन ताशेच्छीयफलनिष्ठविषयतावच्छेदकत्वस्य समवायेएव सत्वेन तत्सम्बन्धेन फलाश्रयस्यैव कर्मत्वम्, न तु कालिकादिना फलाश्रयस्य । त.

परमलघुमञ्जूषायाम् । ननु प्रकृतधात्वर्थग्रहणेनैवात्रवारणादुद्देश्यत्वनिवेश:किमर्थः, इति चेत् : न । तस्यासाधारणं प्रयोजनं काशी गच्छन्पथि मृत इति काश्याः फलाश्रय- स्वाभावेऽपि फलाश्रयत्वेनोद्देश्यत्वसत्त्वात्मत्वम् । ननु काशी गच्छति चैत्रे चैत्र: काशीं गच्छति न प्रयागमिति प्रयोगानुपपत्तिः, प्रयागस्य फलाश्रय- त्वनोद्देश्यत्वाभावादिति चेत् , उच्यते । कर्मलक्षणे ईप्सिततमपदस्य स्वार्थ विशिष्टयोग्यताविशेषे लक्षणा। तथाच प्रकृतधात्वर्थप्रधानीभूतव्यापारप्र- योज्यप्रकृतधात्वर्थफलाश्रयत्वेनोदेश्यत्वयोग्यताविशेषशालित्वं कर्मत्वम्। तच्च च्छेदकसम्बन्धेनेति । येन सम्बन्धेन फलत्वप्रकारिकेच्छा भवति स एव सम्बन्धः फलतावच्छेदकः । यथा तण्डुलं पचतीत्यन्त्र समवायसम्बन्धेन विलित्याश्रयस्तण्डलो भवतु इति इच्छायाः सत्वेन तेन सम्बन्धेन तण्डुलस्य फलाश्रयत्वात्कर्मत्वम् । प्रकृते 'प्रयागात्काशी गच्छति' इत्यत्र अनुयोगित्वविशिष्ट समवायसम्बन्धस्य .फलतावच्छे. दकत्वात्तेन सम्बन्धेन प्रयागस्य फलाश्रयत्वाभावान्न कर्मत्वमिति भावः। ननु "कर्तु राप्ततमं कर्म" इत्येव सूत्रमुच्यताम् , सन्ग्रहणञ्च सूत्रे मास्त्वित्यत आह-नन्वि. ति। तच्चेति। निरुतफलाश्रयत्वेनेच्छोद्देश्यत्वयोग्यताविशेषशालित्वमित्यर्थः । सम्बन्धस्य निरकेच्छीयविषयतावच्छेदकत्वाभावात् । एवं प्रामाद्विभजते इत्यादौ विभागसमानाधिकरणव्यापारार्थकविपूर्वकभजधातुयोगे ग्रामाहेर्न कर्मत्वम् । तस्य प्रकृतधात्वर्थव्यापारप्रयोज्यविभागरूपफलाश्रयत्वेऽपि "अनुयोगित्वेन विभागाश्रयोऽहं भवानि इत्याकरकेच्छाया एव तत्र कर्तृनिष्ठायाः प्रतीयमानत्वेन अनुयोगित्वस्यैवे. च्छीयविषयतावच्छेदकत्वेन तेन सम्बन्धन विभागरूपफलाश्रयत्वाभावात्। ग्रामं त्यज. तीत्यादौ त्यजधातुयोगं तु ग्रामादेः कर्मत्वं भवत्येव। तत्र त्यजधातुना कर्तृव्यापार- व्यधिकरणविभागस्यैव प्रतीत्या "प्रतियोगित्वेन विभागविशिष्टो ग्रामो भवतु" इत्याकारकेच्छाया एव तत्समभिव्याहारे प्रतीत्या च प्रतियोगित्वस्यैवेच्छीयविषय. तावच्छेदकत्वेन तत्सम्बन्धेन फलाश्रयत्वस्य सत्त्वात् । एवं च प्रयोगात् काशी ग. च्छति इत्यत्र नबीनमते पञ्चम्युपपत्तये विभागस्य धात्वर्थत्वेऽपि व्यापारसमानाधि. करणस्यैव विभागस्य प्रतीत्या अनुयोगित्वल्यैव फलतावच्छेदकत्वात्तेन सम्बन्धेन फलाश्रयत्वेन प्रयागस्यानुद्देश्यत्वान्न कर्मत्वमिति भावः। गमधात्वादिसमभिव्या. हारेऽपि विभागस्य धात्वर्थत्वं "ध्रुवमपाये” इति सूत्रे शब्देन्दुशेखरे स्पष्टमभिहितमि. ति तत एवावगन्तव्यम् । जन्यतावच्छेदकस्य, प्रकारतावच्छेदकस्य वा फलतावच्छेदक. सम्बन्धत्वमिति तुनयुक्तम् । तथा सति ग्रामं त्यजति ग्रामाद्विभजते इत्यादौ समवाय- स्यैवाविशेषेण फलतावच्छेदकत्वादुभयत्रापि ग्रामादेः कर्मत्वापत्तरित्यन्यत्र विस्तर। ।

कारकविचारः। ६७ प्रयागस्याप्यस्तीति कर्मत्वं तस्य सुलभम् । एतेन कार्यान्तरं कुर्वति चैत्रे किं ग्रामं गच्छति अथ वा ओदनं पचतीति प्रश्ने न ग्रामं गच्छति नौदन पच- तीत्यादिप्रयोगा व्याख्याताः। यत्र तु ताडनादिना पराधीनतया विपभोज- नादिकं तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्यमेव । अत एव "आतश्च विषमीप्सितं यद्भक्षयति ताडनात्' इति भाष्यं सङ्गच्छते। एतेन कशाभि- हतः कारागारं गच्छतीति व्याख्यातम् । कालत्रये काशीगमनशून्ये चैत्रे काशी गच्छति चैत्र इति वारणाय विशेष इति । काश्याः फलाश्रयत्वेनोहे- श्यत्वयोग्यतासत्त्वेऽपि तद्विशेषाभावान्न कर्मत्वम् । तद्विशेषश्च व्यापारसम- कालिकस्तटस्थजनगम्यः । किञ्च ईशस्थले तद्विशेषवत्त्वेऽपि निषेध एवानु- भवसिद्ध इति काशी न गच्छतीति किमनुपपन्नम् । नन्वन्तं भक्षयन् विषं भुङ्क्ते ग्रामं गच्छंस्तृणं स्पृशतीत्यादौ विषतृण- योरुद्देश्यत्वाभावात् कथं कर्मत्वमिति चेच्छृणु। “तथा युक्तम्" इति लक्षणा- न्तरात् प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वमनी- एवञ्च प्रयागस्य संयोगरूपफलाश्रयत्वेनेच्छोद्देश्यत्वाभावेऽपि निरुक्तयोग्यताविशेष- शालित्वात्कर्मत्वं सिद्ध मिति तात्पर्यम् । *एतेन-निरुक्तयोग्यताविशेषशालिवनि- वेगेन। *अत एव*-तादृशस्यापि फलाश्रयत्वेनोद्देश्यत्वादेव । तन्त्र प्रमाणमाह- *आतति । अवश्यमेवेत्यर्थः । यत्र ताडनादिना फलाश्रयत्वं तत्र तेनेच्छैचोत्पाधते इति न स "तथा युक्तम्" इत्यस्य विषय इति ध्येयम् । *शेति । चर्ममयी रज्जुः कगा, "नधी वधी वरना स्यादवादेस्ताडनी कशा इत्यमरः । ननु योग्यतामात्रमेव निवेश्यताम् , किमनेन विशेषपदोपादानेनेत्यत आह-कालत्रयेऽपीति । तस्या अपि तादृशयोग्यतासत्वात्कम्मत्वं दुरमिति भावः । *अन्न भक्षयन्निति* । यद्यपि 'अन्नं मक्षयन् विष भुक्के इत्यादौ पराधीनतया विष भुनानेऽपि भुजिक्रियाफलाश्रयत्वेनोद्देश्यत्वात्पूर्वसूत्रेणेव सिद्धम् । तदुक्तं मा. ज्ये-'आतश्च विषमाप्सितं यत्तद्भक्षयति" इति । तथापि अत्र 'चोरान् पश्यतिः इत्यस्योपलक्षणं तद्बोध्यम् । तथायुक्तमिति । ईप्सितानीप्सितभेदेन कर्मणो द्वि- विधत्वाद्विषतृणयाप्सितकम्मत्वाभावेऽपि अनीमिलतकम्मत्वस्यावाधाव काप्यनु- पपत्तिरिति भावः । *प्रकृतधात्वर्थफलेति* । नन्वेवं कम्मत्वाननुगमप्रसङ्ग इतिचेदु- च्यते-प्रकृतधात्वर्थव्यापारप्रयोज्यप्रकृतधात्वर्थफलविशिष्टत्वं कम्मत्वम् । वैशिष्टय. ञ्च-स्वाश्रयत्व, स्वाश्रयत्वप्रकारकेच्छाविषयत्व एतदन्यतरसंसर्गेण बोध्यम् । एवञ्च - ७५० म० परमलघुमञ्जूषायाम्- सितकर्मत्वमिति तदर्थात । प्रयागात्काशी गच्छतीत्यत्र प्रयागस्य कर्मत्ववा- रणाय प्रकृतधात्वर्थफलेति द्वेष्योदासीनकर्मसङ्ग्रहार्थमिदं लक्षणम्। दुहा- दीनां ब्यापारद्वयार्थकत्वपक्षे "अकथितञ्च" इति व्यर्थम् , पूर्वेणैवेष्टसिद्धेः। एकव्यापारबोधकत्वपक्षे तु सम्बन्धषष्ठोबाधनार्थम् । तत्पक्षे कर्मसम्बन्धित्वे सति अपादानादिविशेषाविवक्षितत्वमकथितकर्मत्वमिति तृतीयलक्षणेन 'गां पयो दोन्धि' इत्यादौ गामित्यस्य कर्मत्वसिद्धिरित्यन्यत्र विस्तरः । यत्तु तार्किका:-कर्मत्वं तु न करणव्यापारवत्वम् , तद्धि करणजन्य- व्यापारवत्त्वम् । दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणजन्यव्यापारवति दावादावतिव्याप्तेः । नापि क्रियाजन्यफलशालित्वं तत् । चैत्रश्चैत्रं गच्छती- त्यापत्तेः । संयोगरूपफलस्योभयकर्मकर्तृनिष्ठत्वात् । नापि परसमवेतक्रिया- जन्यफलशालित्वं तत् । गमिपत्योः पूर्वस्मिन्देशे त्यजेश्वोत्तरस्मिन्देशे कर्म- त्वप्रसङ्गात् । नदी वर्धत इत्यादौ अवयवोपचयरूपवृद्धिक्रियायाः तीरप्रा- प्तिरूपफलाश्रये तीरे कर्मत्वापत्तेश्चेति । अत्र ब्रूमः-धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् , तादृशफलं च गमेस्संयोगस्त्यजेविभागःपतेरधादेशसंयोगः।अधोदेशरूपकर्मणोधात्वर्थ- निविष्टत्वादकर्मकत्वेन पर्ण वृक्षाद् भूमौ पततीति । संयोगमात्रफलपक्षे . - सर्वेषामनुगमसम्भव इति बोध्यम् । व्यापारद्वयेति । दुहे:-क्षरणानुकूलव्यापारा- नुकूलव्यापारोऽर्थः, याचेः-परस्वत्वोत्पत्त्यनुकूलब्यापारानुकूलव्यापारोऽः, एवं संयो- गानुकूलव्यापारानुकूलव्यापारो नीधात्वर्थ इति व्यापारद्वयार्थकत्वे पूर्वसूत्रेणेव कर्म. त्वसिद्धौ "अकथितञ्च" इति सूत्रं विफलमितिभावः । *गामित्यस्येति । गामित्यत्र गोपदार्थस्येत्यर्थः। *करणजन्येति । करणव्यापारजन्येत्यर्थः। धात्वर्थक्रियाजन्यफलशालित्वं कर्म- स्वम्' इति लक्षणेन दानादौ कर्मलक्षणस्यातिव्याप्तिवारणेऽपि "चैत्रो ग्राम गच्छति इत्यत्र ग्रामस्येव चैत्रस्यापि कम्मत्वापत्तिस्तदर्शयति-*संयोगरूपेति* *धात्वर्थतावच्छेदकेति* । धातुनिष्ठशक्तिनिरूपकतावच्छेदकेत्यर्थः । एवं गमि- पत्योः संयोगानुकूलव्यापारे शक्तिसत्वेन तादृशशक्तिनिरूपकताबच्छेदकतायाः संयोगे सत्वेन तदाश्रयत्वस्य पूर्वस्मिन्देशेऽसम्भवात् पूर्वदेशविभागरूपफलस्य संयोगानुकू- लव्याफारस्पक्रियाजन्यत्वेऽपि प्रकृतधात्वर्थतावच्छेदकत्वाभावान तदाश्रयस्य कर्मत्वं त्यजधातोविभागानुकूलव्यापारे शक्कत्वेन तनोत्तरदेशवृत्तिसंयोगस्य न धात्वर्थताव- कारकविचारः। 88 वृक्षाद् भूमि पततीति । ननु चतुर्थलक्षणेऽपि चैत्रश्चैत्रं गच्छतीत्यापत्तिः, तत्र हि धात्वर्थतावच्छेदकफलं संयोग इति चेत् , न । लक्षणे व्यापारा- नधिकरणत्वे सतीतिविशेषणादानादित्याहुः । तन्न । काशी गच्छन् पथि मृत इत्यादौ काश्याः, काशों गच्छति न प्रयाग- मित्यादौ प्रयागस्य, ग्रामं न गच्छतीत्यादौ ग्रामस्य च तादृशफलशालित्वा- भावादेतस्य लक्षणस्यात्र सर्वत्राच्याप्तेः । ननु वृक्षं त्यजति खग इत्यत्र वृक्षस्य विभागरूपफलाश्रयत्वेनापादानत्व- मस्त्विति चेत् , न । अत्र हि विभागः प्रकृतधात्वर्थः । यत्र च विभागो न प्रकृतधात्वर्थस्तद्विभागाश्रयस्यैवापादानत्वम्, यथावृक्षात्पततीत्यादौ । यत्र च प्रकृतधात्वर्थो(१)विभागस्तत्रोभयप्राप्तौ “अपादानमुत्तराणि कारकाणि बा- धन्ते” इति भाष्ययुक्तेः कर्मत्वम् । अनुक्ते कर्मणि षष्ठीद्वितीये, भारतस्य श्रवणं भारतं शृणोतीति यथा । सकर्मकत्वंच फलव्यधिकरणव्यापारवाचकत्वम्। फलसमानाधिकरण- व्यापारवाचकत्वमकर्मकत्वम् । अद्य देवदत्तो भवति उत्पद्यत इत्यर्थः । अत्रो- इपत्तिरूपं फलं वहिनिस्सरणं च व्यापारः देवदत्तनिष्ठ एव । व्यापारमात्र- वाचकत्वं वाऽकर्मकत्वम् । अस्ति भवति विद्यते वर्तत इत्यादिधातुषु फलस्य सर्वदुर्विज्ञेयत्वात् । सत्ता हि स्थितिरूपो व्यापारविशेषः । उछेदकत्वं किन्तु विभागस्येवेति नोत्तरदेशे कर्मत्वातिव्याप्तिरितिभावः । *लक्षणे*- लक्षणघटकफले इत्यर्थः । *व्यापाराधिकरणत्वे इति । एवञ्च धात्वर्थतावच्छेदक- व्यापारानधिकरणफलशालित्वमिति फलितम् । चैत्रवृत्ति संयोगस्य व्यापारसमाना. धिकरणत्वान्न कर्मत्वापत्तिरिति भावः । *विभागरूपफलाश्रयत्वेनेति । इदञ्च विभागाश्रयत्वमपादानत्वमित्यभिमाने- नौक्तम् । वस्तुतस्तु प्रकृतधात्वर्थ विभागजनकतक्रियानाश्रयत्वे सति प्रकृतधात्वर्थज- न्यविभागाश्रयत्वेन विवक्षितत्वमेव लक्षणम् , "ध्रुवमपायेऽपादानम्” इतिसूत्रस्वर- सात् । अत एव "अपाये यदुदासीनं चलं वा यदि वा चलम् । ध्वमेवातदावेशात्तद्- पादानमिष्यते” इति हयुक्तिरपि सङ्गच्छते । स्थितिरूप इति । स्वस्वरूपकृत्यनुकूलो व्यापार इति भावः। नन्वेवं "फल. (१)फलतावच्छेदकसम्बन्धेन च फलाश्रयत्वमिति शेषः।

१०० परमलघुमञ्जूषायाम्- देवदत्तोऽस्तीत्यादौ देवदत्तकर्तृका सत्तेत्येव बोधाच । “फलव्यापारयो- र्धातुचक" इति तु बाहुल्याभिप्रायेणेति दिक् । स्वनिष्टव्यापाराव्यवधानेन फलनिष्पादकत्वं करणत्वम् । इदमेव साध. कतमत्वम्। क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ।। इति हर्युक्तेः । क्रियाया इत्यस्य फलात्मिका या इत्यर्थः । रामेण बाणेन हतो वालीत्यादौ धनुराकर्षणादेापारस्य बाणव्यापारात्पूर्वमपि कर्तरि स- त्वात् ।रामाभिन्नकर्तृनिष्ठब्यापारप्रयोज्यो यो वाणनिष्ठो व्यापारस्तजन्यं यत् प्राणवियोगरूपं फलं तदाश्रयो वालीति बोधाच्च । रामो वाणेन वालिन हन्ती- स्थादो क प्रत्यये बाणव्यापारजन्यो यो वालिनिष्ठः प्राणिवियोगस्तदनुकूलो रामकतको व्यापार इति बोधः । अर्थाद्रामव्यापारप्रयोज्यो बाणव्यापार इति पाष्णिको बोधः । कादिपञ्चकारकाणां करणत्ववारणाय व्यापाराव्यवधा. नेनेति दिक् । (१) क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं तत् कारकं तत्त्वं सम्प्र. व्यापारयोर्धातु-"रित्यादिकारिकतो विरोध इत्यत आह-बाहुल्याभिप्रायेणेति* ! *स्वनिष्टेति । यस्य करणत्वचिकीर्षितं तदेव स्वपदेन ग्राह्यम् । यथाहि-रामेण बाणेन हतो वाली' इत्यत्र बाणव्यापाराव्यवहितोत्तरफलनिष्पादकत्वं बाणस्येति लक्षणसमन्वयः । परे तु फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येतरयाव. कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तत्वमिति यावत । सत्य- न्तनिवेशाचक्षुषोऽन्धःकारे फलायोगेऽपि न तत्राप्रसङ्गः । प्रयोजकेऽतिप्रसङ्गनिरासा- याव्यवहितेति वदन्ति । क्रियाया इति । अत्र क्रियापदं फलपरम् । 'बाणेन हतः' इत्यत्र बाणव्यापा. राव्यरहितोत्तरक्षणे प्राणवियोगरूपफलावश्यम्भावाल्लक्षणसमन्वयः । *विवक्ष्यते इति । विवक्ष्यते इत्यनेन विवव विभक्तौ प्रयोजिका, न वास्तवकरणत्वादिसत्तेति भावः । इति बोध इति। "क्रिया प्रधानमाख्यातं सत्वप्रधानानि नामानि" इति यास्कोक्त क्रियामुख्याविशेष्यको बोधः । अत्र क्रियापदं साध्यत्वेन प्रतीयमानधात्व. र्थपरम् । तेन 'पाचको देवदत्तः' इत्यादौ आश्रयस्य प्राधान्येऽपि न क्षतिः। सत्वम्- द्रव्यम्,लिङ्गसंख्यान्वयीति यावत् । *क्रियामात्रेति। "मानं कात्स्न्येऽवधारणे" (१) अन मात्रशब्दः कात्मन्ये । तथाच क्रियासामान्यस्य कर्मणा सम्बन्धाये.

कारकविचारः। १०१ दानत्वम् । यथा ब्राह्मणाय गां ददातीत्यादौ दानक्रियाकर्मीभूतगोसम्बन्धाय ब्राह्मणो दानक्रियोद्देश्यः। गोब्राह्मणयोः स्वस्वामिभावः सम्बन्धः, चैत्रो मैत्राय वार्ताः कथयतीत्यत्र मैत्रवातयो यज्ञातृभावः सम्बन्धश्च । यत्तु वृत्तिकारः-सम्यक्प्रदीयते यस्मै तत्सम्प्रदानमित्यन्वर्थसंज्ञेयम् । तथा च गोनिष्ठत्वस्वत्वनिवृत्तिसमानाधिकरणपरस्वत्वोत्पत्त्यनुकूलव्यापार- रूपक्रियोद्देश्यस्थ ब्राह्मणादेरेव सम्प्रदानत्वम् । पुनर्ग्रहणाय रजकस्य वस्त्र- दाने रजकस्य वस्त्रं ददातीति सम्बन्धसामान्ये षष्ठये वेत्याहुः ।। तन्न । “खण्डिकोपाध्यायः शिष्याय चपेटां ददाति" इतिभाध्यविरो- धात्। “कर्मणा यमभिप्रैति" इति सूत्रव्याख्यावसरे भाष्यकृताऽन्वर्थसंज्ञा- या अस्वीकाराच्च । अत एव- तदाचक्ष्वासुरेन्द्राय स च युक्तङ्करोतु यत् । इति सप्तशतीश्लोकः सङ्गच्छते ! तस्माद्रजकाय वस्त्रं ददातीत्यादि भव- त्येव । अन्नाधीनीकरणेऽर्थ ददातिः। चपेटां ददातीत्यत्र न्यसनेऽर्थे इति । सम्प्रदानचतुर्थ्यर्थ उद्देश्यः । तथा च ब्राह्मणोद्देश्यकं गोकर्मकं दान- मिति बोधो मैत्रोद्देश्यक वार्ताकर्मकं कथनमिति च। अकर्मकक्रियोद्देश्य- त्वं सम्प्रदानत्वमिति लक्षणान्तरम् । यथापत्ये शेते इत्यादि । पत्युद्देश्यक इत्यमरकोषादत्र मात्रशब्दकास्न्यर्थिको बोध्यः । एवञ्च सकलक्रियाकर्मीभूतस. म्बन्धाय क्रियायामुद्देश्यं यत् कारकं सम्प्रदानत्वमित्यर्थः । *ब्राह्मणाय गामिति । परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मकत्यागो दाधात्वर्थः । उद्देश्यत्वं चतु. यर्थः । गोरूपकर्मणश्चाश्रयत्वसम्बन्धेन स्वस्वरूपफलेऽन्वेति । तथाच-गोवृत्तिस्व. त्वजनकस्वस्वत्वध्वंसानुकुलो विप्राभिन्नाद्देश्यकस्त्याग इति वैयाकरणमते शाब्दबो. धोऽक्सेयः। *सम्प्रदानमिति । स्वस्वत्वानिवृत्तिसमानाधिकरणपरस्वत्वोत्पत्यनुकूलव्यापारस सम्प्रदानशब्दार्थः । एवञ्च रजकाय वस्त्रं ददाति' इत्यादौ उक्तार्थाभावात् 'रजस्य वस्त्रं ददाति' इत्येव प्रयोग इति तेषामाशयः । *खण्डिकोपाध्याय:-बालशिक्षकः । *चपेटाम्*-- प्रसूतकरतलम् । 'उद्देश्य इति । "आश्रयोऽवधिरुदूदेश्यः सम्बन्धः शक्तिरेन वा" इत्यनेन तस्यैव चतुर्थ्यर्धत्वेनाभिधानादिति भावः । *लक्षणान्तरमि- ति। "कर्मणा यमभिप्रेति स सम्प्रदानम्॥ इति सूने कर्मणः क्रियायां साकासित - . त्यर्थः, नतु दानरूपाया एव । तेन चैत्रो मैत्राय वार्ताः कथयतीत्यादौ कथनादिसङ्ग्रहः।

१०२ परमलघुमञ्जूषायाम्। नायिकाकर्तृकं शयनमिति बोधः । ननु दानादीनां तदर्थत्वात्तादर्थ्य चतुथ्र्यैव सिद्धौ ! किं "कर्मणा यम" इति सम्प्रदानसंज्ञया, "चतुर्थीसम्प्रदाने” इति सूत्रं तु "रुच्यानाम्” इति विषये चतुर्थ्यर्थमिति चेन्, न । दानकर्मयोगवादेाह्मणार्थत्वेऽपि दानक्रि- यायाः परलोकार्थत्वात् । अत एव तादयेचतुर्थ्यां दानकर्मणो गवादेः स. म्नदानार्थत्वेऽपि दानक्रियायास्तदर्थत्वाभावेन चतुर्थ्यन्तार्थस्य दानक्रियाया- मन्वयानापत्त्या कारकत्वानापत्तिरिति हेलाराजः । उपकार्योपकारक वसम्बन्धस्तादर्थ्यं चतुर्थ्यथः । ब्राह्मणाय दधीत्यादौ ब्राह्मणोपकारकं दधीति बोधादिति दिक्। तत्तत्कर्तृसमवेततत्तक्रियाजन्यप्रकृत धात्ववाच्यविभागाश्रयत्वमपादा. नत्वम्। तदेवावधित्वम् । विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव: - । त्वात् क्रियालामः ! अभिप्रैति-इच्छति सम्बन्धुमिति कर्मसम्बन्धाय यः सम्बन्धुमि. च्छति स सम्प्रदानम् । तत्फलितार्थकथनमिदम्-"क्रियामानकर्मसम्बन्धाय' इति । तेन 'ब्राह्मणाय गां ददाति शिष्याय शास्त्रमध्यापयति' इत्यादि सिद्धम् । 'पत्ये शेते इत्यादौ तु तेन लक्षणेन सम्प्रदानसंज्ञाया अप्राप्तिरत: "क्रियया यमभिप्रेति स सम्प्र. दानम्" इति वातिकारम्भः । तन्मूलकमेवेदं लक्षणम् 'अकर्मक्रियोद्देश्यत्वम्' इति तात्पर्यम् । *पत्ये शेते इति । परे तु 'पत्ये शेते' इत्यादौ शयनादिक्रियाया आप सन्दर्शनप्रार्थनव्यवसायजन्यारम्भक्रियानिरूपितकर्मत्वमाहुरिति न तदर्थ लक्षणान्त. रस्यापेक्षेतिदिक। ननु स्वर्गरूपोपकारस्य विप्राथगामित्वेऽपि दुग्धाधुपभोगरूपोपकारस्य तद्गामिल त्वात् तज्जनकत्वस्य दुग्धादिद्वारा गवादाविव गवादिद्वारा तहानादावपि सम्भवात् ताशस्यैव तादयस्य विवक्षया कैयटादिमते दानादिक्रियान्वयोपपत्या कारकत्वमु. पपद्यते एवेति न तत्प्रयुक्तकार्याणामनापत्तिः सूत्राभावेऽपीत्यत आह-*तदर्थत्वा- शादथ्यति । *दानक्रियायामन्वयानापत्येति । दानक्रियायाः स्वर्गार्थत्वात् स्वर्ग- रूपोपकारस्य दानक्रियाकतृगामित्वात् तदतफलद्वारा तज्जनकत्वरूपतादयस्य ब्राह्म. णादिनिरूपितस्य दानक्रियायामभावेन चतुर्थ्यन्तार्थस्य तत्रान्वयानापत्तिरित्यर्थः । अपि च तादर्थ्यरूपविभक्त्यर्थस्य दानादावनन्धये गवादावेवान्वये च ब्राह्मणाय गोदानम्' इत्यादौ सापेक्षत्वात्समासानापत्तिः । कारकविभक्त्यर्थसाकाङ्क्षस्येव ताद- थ्र्थसापेक्षस्यापि समासाङ्गीकारे 'ब्राह्मणाय कम्बलरोमाणि' इत्यादेप्यापत्तिरिति बो. ध्यम्।

कारकविचारः। १०३ किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि । माथुराः पाट- लिपुत्रकेभ्य आढचतरा इत्यादौ बुद्धिपरिकल्पितापायाश्रयणेनैव भाष्ये पञ्चमी साधनात् । अत एव चैत्रान्मैत्रः सुन्दर इत्यादिलों के प्रयोगः । (१) वृक्ष त्यजति खग इत्यादावपादानत्ववारणाय प्रकृतधात्ववाच्येति। परस्परस्मा. न्मेषावपसरत इत्यत्रापादानत्वाय तत्तत्कर्चिति । तत्तत्पशुविशेषनिष्ठव्यापार- जन्यविभागाश्रयस्तत्तत्पशुविशेषः। कि च मेषपदवाच्ययोः पशुविशेषयोः क्रियाश्रयत्वविवक्षा, परस्परपवाच्ययोस्तयोस्तु विभागाश्रयत्वविवक्षेत्यौ- पाधिकस्तयोर्भेदः । शब्दस्वरूपोपाधिकृतभेदोऽप्यर्थे गृह्यते । यथाऽऽस्मान- मात्मना वेत्तोत्यादौ शरीरावच्छिन्नं कर्तृ, अन्तःकरणावच्छिन्नं करणं, निर- वच्छिन्नं निरीहं कर्म । एकस्यैव शब्दभेदाझेदः। शब्दालिङ्गितस्यैव सर्वत्र भानात् । तदाह- न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमाहते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।। इति ननु ह्येतदीपाधिकभेदमादायैवानापादानत्वे सिद्धे किं तत्तत्कर्तृसमवेते- त्यनेनेति चेत , न। पर्वतात्पततोऽश्वात् पतत्यश्ववाह इत्यादावश्वस्यापा. दानत्वाय तस्वीकारात् । ननु वृक्षात्पर्ण पततीत्यादौ तादृशफलाश्रयत्वात्पर्ण- *बुद्धिपरिकल्पित इति । "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इतिवार्ति- कप्रत्याख्यानपरम्भाष्यमत्र प्रमाणम् । तथाहि-तत्तहि वक्तव्यम् । न वक्तव्यम् । कथं तावत् अधर्माज्जुगुप्सते अधर्मात् बिभत्सते, इति । य एष मनुष्यः प्रेक्षापूर्वकारी भवति दुःखोऽधर्मो नानेन कृत्यमस्तीति स बुद्धया सम्प्राप्य निवर्तते । तत्र "ध्रुवम- पायेऽपादानम्" इत्येव सिद्धम्" इत्यादिमाचे उक्तम् । अनेन भाष्येण बुद्धया परिक- ल्पितमपादानत्वं स्पष्टमेवोक्तम् । वृक्षमिति । खगसमवेतविभागानुकूलक्रियाजन्य. विभागाश्रयत्वात् वृक्षस्यापादानत्वापत्तिरिति भावः । परस्परस्मादिति । परस्पर. पदोपात्तयोरपादानत्वम्, तत्तत्क्रियाश्रयत्वान्मेषपदोपात्तायाःकर्तृत्वञ्चोपपद्यत इत्यर्थः। *न सोऽस्तीति । यथा ज्ञान विषयमपोह्य न भासते; किन्तु विषयविशिष्टमेव, तथा शब्दोऽपि स्वरूपं परित्यज्य न केवलमर्थं प्रत्याययतीतिभावः । पर्वतात्पत्तत इति । अचसमवेतक्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वेन पर्वतस्य, अववाहस- मवेतक्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वेन चाश्वस्यापादानत्वमिति भावः । *तदिति । तत्तत्कर्तृसमवेतेति । *पर्णस्यापादानत्वमिति*। पर्णसमवेतक्रियाजन्य- (१) अनत्यं तत्त्वं पूर्वमुक्तम् । , ।

- १०४ परमलघुमञ्जूषायाम्- स्याप्यपादानत्वं विभागस्य द्विष्ठत्वादिति चेत् , न । परया कर्तृसंज्ञया बाधा- न् । अतएव "अपादानमुत्तराणि कारकाणि बाधन्ते” इतिभाध्यं सङ्गच्छते। यत्तु केचिद्-गत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयत्वमपादानत्व- मिति । तन्न ! तत्तद्वाक्ये मेषाश्वयोरपादानत्वानापत्तेः । यदपि अपसरत इति सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रतीतरस्यापादानत्वम- विरुद्धमिति । तन्न ! क्रियाया एकत्वात् । अत एव"न वै तिङन्तान्येकशे- रारम्भं प्रयोजन्ति क्रियाया एकत्वात् इति भाष्यं सङ्गच्छते । पञ्चम्ययोऽवधिः । वृक्षावधिकं पर्णक कं पानमिति बोधः । पर्वताव- धिकपतनाश्रयाभिन्नाश्वावधिकमश्ववाहकर्तृकं पतनमिति बोधः । पर- स्परमेषावधिकं द्वित्वावच्छिन्नमेपकर्तृ कमपसरणमिति बोध इति दिक् । कर्तृ कर्मद्वारकफलव्यापाराधारत्वमधिकरणत्वम् । यथा स्थाल्यामोदनं गृहे पचतीत्यादौ कमद्वारकविक्लित्तिरूपफलाधारः स्थाली, कर्तृद्वारकव्यापा- राधारो गृहमिति । ननुसाक्षाक्रियाधारयोरोदनचैत्रयोरधिकरणत्वलब्धौ प- रम्परयातदाधारयोगृहस्थाल्योस्तत्संज्ञा त्वयुक्तेति चेत् ,न। परत्वात्कर्तृकमसं- -- प्रकृतधात्ववाच्यविभागाश्रयत्वं यथा वृक्षस्य तथा पर्णस्यापि सत्वादपादानत्वापत्ति- रिति भावः । *अत एवेति । परया कर्तृसंज्ञया बाधादेवेति । *गत्यनाविष्टत्वे सती- ति* । संयोगानुकूलव्यापारानाश्रयत्वे सतीत्यर्थः । *तज्जन्येति । विभागजनकक्रिया- जन्येत्यर्थः । एवञ्च 'वृक्षात्पर्णम् इत्यादौ वृक्षादस्तादृशव्यापारानाश्रयत्वात् पर्णवृत्त्यु. तरदेशसंयोगानुकूलव्यापारजन्यविभागाश्रयत्वेन विवक्षितत्वाच्च वृक्षस्यापादानत्वसि- द्धिरिति तेषामाशयः । *तत्तद्वाक्ये इति । 'परस्परान्मेषावपसरतः पर्वतात्पततोऽ. श्वात्पततिरइत्यादिवाक्ये इति यावत् । भूषणकारस्य मतं खण्डयति-*यदपीति । गतिद्वयस्येति । गतित्वसामान्यधर्मपुरस्कारेणैकेनैव धातुना कर्तृभेदेन गतिरूपक्रि. याद्वयस्य प्रतीतिसम्भवाभिप्रायेणेदमुक्कामति बोध्यम् । क्रियाया एकत्वादिति । द्विवचनार्थद्वित्वसंख्यायाः काश्रयत्वेन प्रतीतेरेकोषं बिना धातुतः प्रतीतिसम्भवा- भावादिति भावः । धातूनामेकशेषस्याभावे प्रमाणमुपदर्शयति-*अत एवेति । *कर्तृकर्मद्वारेति । एतादशार्थलाभश्च तत्सूत्रसामदेिव लम्यते । तथाहि- कारकाधिकारीयेतेन क्रियान्वय्याधारस्याधिकरणसंज्ञा विधीयते । क्रिया च धात्व- थः । साक्षादाधारस्य पराभ्यां कर्तृकर्मसंज्ञाभ्यामाकान्तत्वादिदं सूत्रमनवकाशं सत् कारकविचारः। १०५ ज्ञाभ्यां साक्षादाधारीभूते बाधात(१)। स्थाल्यधिकरणिका या ओदननिष्ठा- विक्लित्तिस्तदनुकूलो गृहाधिकरणको(२)मैत्रकर्तको व्यापार इति बोधः । तच्चाधिकरणं त्रिधा ।अभिव्यापकमीपश्लेषिकंवैषयिकं चेति । तत्र स- कलावयवव्याप्तौ व्यापकाधारत्वम् , यथा तिलेषु तैलमस्तीत्यादि । उप स- मोपेश्लेष:सम्बन्ध उपश्लेषस्तत्कृतमौपश्लेषिकम् । अत एव"इको यणचि" इत्यादाबौपश्लेषिकाधारे सप्तम्युक्ता“संहितायाम्' इति सूत्रे भाष्ये। तत्राजादि सामीप्यमेवेगादीनाम् । “यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिक- मधिकरणम् मासिकं धान्यम्" इत्युक्तम् “तत्र च दीयते” इति सूत्रे भाष्ये । परम्परया तदाश्रयस्य ग्रहणम्बोधयति । परम्पराच कर्तृकर्मद्वारैवेति स्पष्टम्-"कर्तृकर्मः व्यवहितामक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्" इति वाक्यपदीयादिति यावत् । *मैत्रकर्तृक इति । एकत्वविशिष्टमैत्राभिन्नाश्रयवृत्तिर्वत. मानो व्यापार इति भावः । *अभिव्यापकमिति । व्याप्यव्यापकभावटितसम्बन्धेन क्रियाश्रयोऽभिव्याप. कम् । *औपश्लेषिकमिति । संयोगघटितपरम्परासम्बन्धेन क्रियाश्रय औपश्लेषिकम् । *सप्तम्युक्तेति । अत एव ईदृशंसूत्रेषु "तस्मिन्निति" इतिसूत्रोपस्थितिः । तस्या हि औपश्लेषिकाधारबोधकसप्तम्यन्तम्प्रवृत्तौ निमित्तमिति ध्येयम् । *उक्तभाष्यविरोधा- दिति । तद्भाष्येण हि समीपत्वस्य सप्तम्यर्थत्वप्रतीत्या 'कटे आस्ते इत्यत्र तस्याभा. (१) बाधादिति । अतएव गृहं प्रविशति, मोक्षमिच्छति इत्यादौ न सलमो। मोझे इच्छाऽस्ति इति तु प्रत्ययोपात्तेच्छारूपकर्तृद्वारा अस्तिक्रियायामन्वयादोध्यम् । धावपात्तेच्छायामन्वये तु कर्मत्वात् "कर्तृकर्मणोः" इति षष्ठ्येवेति दिक् । (२) अन्ये तु गृहाधिकरणको अश्चैत्रस्तत्कर्तृको व्यापारः, स्थाल्यधिकरणको य ओदनस्तनिष्टा या विक्लित्तिरित्येवम् अधिकरणकारकस्य कर्तृकर्मणोरेवान्वयः । अत एव अक्षशौण्ड इत्यादौ समासः सिध्यति । क्रियायामन्वये तु शौण्डादिना सा- मात् समासो न स्यात् । शौण्डादिपदस्य आसक्तशौण्डादौ लक्षणया अन्तर्भूताश- क्त्यादिक्रियाद्वारा सामोपपादनं तु न युक्तम् । अक्षविषयकशौण्डत्ववान् इति बो. धस्यैव ततो जननात् , विवक्षितत्वाच्च । अक्षशौण्डस्य धनमित्यादौ शौण्डादेरकर्तृत्वे तु अगत्या आसक्तशौण्डादौ लक्षणाश्रयणम् । तत्र शौण्डत्वस्य विधेयत्वेनाविवक्षित. त्वाल्लक्षणाश्रयणेऽदोषात् । एतेन तत्र लक्षणास्वीकारेऽत्रापि लक्षणोचितेत्यपास्तमि- परमलघुमञ्जूषायाम्- यत्त कटे आस्ते इत्यौपश्लेषिकोदाहरणमुक्तं कैयटेन, तदयुक्तम् , उक्त- भाष्यविरोधात् । एतद्व्यतिरिक्तं वैषयिकमधिकरणम् । कटे आस्ते, जले सन्ति मत्स्या इत्यादि (१)अभिव्यापकातिरिक्तं गौणमधिकरणमिति बोध्य- म : सप्तम्यर्थोऽधिकरणमिति दिक। ज्ञापकक्रियाश्रयवाचकादुत्पन्नायाः सत्सप्तम्यान्तु क्रियान्तरज्ञापकत्वम- थैः । तत्रानिीतकालिकायाः (२) क्रियाया निर्णीतकालिका ज्ञापिका । गो. पु दुह्यमानानु गत इत्यादी गोनिष्ठदोहनक्रियाज्ञापितगमनाश्रयश्चैत्र इति बोध:(३)। वान्नौपश्लेषिकोदाहरणमिति बोध्यम्। *वैषयिकमिति । विषयताघटितपरम्परास. म्बन्धन क्रियाश्रयो वैषयिकम् । 'खे पक्षिण मोक्षे इच्छा अस्ति' इत्युदाहरणानि अस्य ज्ञेयानि । *सप्तम्यर्थ इति । अधिकरणत्वशक्तिमांश्चाधिकरणविभक्त्यर्थः *ज्ञापकक्रियेति । “यस्य च मावेन भावलक्षणम्" इति सूत्रविहितसप्तम्या इत्य. र्थः । *गोषु दुह्यमानास्विति । ज्ञापकक्रियाश्रयः कर्ता कर्मच। तत्र 'ब्राह्मणेष्वधी. (१) अग्रे वृक्षः कपिसंयोग्यस्तीत्यादौ अग्राधिकरणिका कपिसंयोगविशिष्टवृक्ष- कर्तृका सत्ता इति बोधे संयोगस्याव्याप्यवृत्तित्वात् वृक्षस्यावयवान्तरे मूलादौ कपि. संयोगविशिष्टवृक्षाभावप्रतीतेः कपिसंयोगे अग्रावच्छेद्यत्वं फलति । शिरसि मे वेदना इत्यादि तु अवच्छेद्यावच्छेदकभावसम्बन्धस्याप्याधारतानियामकत्वादुपपादनीयम् । (२) अनिर्णीतकालिकाया इति । एवम् अनिर्णीतदेशिकाया निर्णीतदेशिका लक्षणम् । सति गुणे द्रव्यत्वमस्तीत्यादौ गुणनिष्ठसत्ताज्ञाप्या द्रव्यत्वनिष्ठा सत्तेति बो. धः । ज्ञाप्यज्ञापकभावस्योत्सर्गतः सामानाधिकरण्ये सत्येव प्रतीतेः सामानाधिकरण्येन गुणविशिष्टं दव्यत्वमिति फलति । एतन्मूलक एवं सत्सम्या वैशिष्टयम) इति ताकि- काणां प्रवादः । जले पीते तृषा शाम्यतीत्यादौ भूतार्थकप्रत्ययसमभिव्याहारे एतद्योगे हेतुत्वस्याप्याकासया प्रतीतेरस्या निमित्तसप्तमीत्वव्यवहारोऽपीति दिक् : ज्ञाप्य. ज्ञापकभावश्च तत्तच्छब्दबोध्यत्वेन विवक्षित एवैतच्छास्त्रप्रवृत्तौ निमित्तम् , नतु वति- धूमयोरिव व्यभिचारादर्शनसहकृतभूयोदर्शनाश्रयः । तथासति उदिते आदित्ये तमो नष्टमित्यादावेव स्यात् , गोषु दुयमानासु गत इत्यादौ कादाचित्कंगमने विवक्षिते न, स्यादिति बोध्यम् । (३) दुह्यमानगोज्ञाप्यगमनाश्रय इति शब्दतो बोधे गोपिकत्वस्य विशेषणी- भूतदोहनक्रियाद्वारीव पर्यवसितत्वात् गोनिष्टदोहनक्रियाज्ञाप्यगमनाश्रयश्चैत्र इति बोधः फलितो भवति । एवमेव सति गुणे द्रव्यत्वमित्यादावपि बोध्यम् ।

कारकविचारः। १०७ कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिःसम्बन्धः षष्ठया वा- च्यः । तत्र राज्ञः पुरुष इत्यादौ षष्ठीवाच्यसम्बन्धस्याश्रयायिभावसम्वन्धे. न पुरुषेऽन्वयः । राजनिरूपितसम्बन्धवान् पुरुष इति बोधात् । ननु सम्ब- न्धस्योभयनिष्ठत्वात् पुरुषशब्दादपि षष्ठयुत्पत्तिरस्त्विति चेत् , न । राज. सम्बन्धिपुरुष इतिविवक्षायां राजशब्दादेव षष्ठी, 'प्रकृत्यर्थप्रत्ययाथयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति व्युत्पत्त्यनुरोधात ! अन्यथा तद्विवक्षार्या राजा पुरुषस्येति पुरुषशब्दात् षष्ठयां पुरुषार्थ प्रति षष्ठ्यर्थस्य विशेषण- स्वापत्त्या व्युत्पत्तिभङ्गापत्तेः । अत एवाह- भेद्यभेदकयोश्चैकसम्बन्धोऽन्योन्यमिष्यते । द्विष्ठो यद्यपि सम्बन्धः षष्ठयुत्पत्तिस्तु भेदकात् ॥ इति । भेदकः सम्बन्धनिरूपको, भेद्यः सम्बन्धाश्रयः । इति षट् कारकाणि ।। यानेषु गत' इति कर्तर्युदाहरणम् । कर्मण्युदाहरणम्-गोषु दुह्यमानासु गतः' इति ! अत्र दोहनक्रियाज्ञानजन्यज्ञानविषयताश्रयो य उत्तरदेशसंयोगस्तदनुकूलव्यापाराश्र. याभिन्नश्चैत्र इति बोधः । *स्वस्वामिभावादिरिति । अत्रादिनावयवावयविभावजन्यजनकभावविषयविष. यिभावादयो ग्राह्याः । प्राचीनास्तु सम्बन्धत्वेन रूपेण तत्तत्सम्बन्धे शाक्तिः स्वीकुर्व. न्ति, न सम्बन्धेषु प्रत्येकं शक्तिः । अनेकशक्तिकल्पने गौरवापत्तेः । एवञ्च शक्यताव. च्छेदकस्य सम्बन्धत्वस्य कर्तृत्वकर्मत्वादिषु विद्यमानत्वात् सम्बन्धत्वेन रूपेण षष्टय. र्थताऽस्त्येव । अत एव सम्बन्धत्वविवक्षायां 'सतां गतम्' 'सर्पिषो जानीते' इत्यादौ षष्ठी सिद्धा। नव्यास्तु-सम्बन्धत्वेन रूपेण न स्वस्वामिभावादिसम्बन्धः षष्ठया वाच्यः । “एकशतं षष्ट्यर्थाः" इति "पष्टीस्थानेयोगा' इतिसूत्रस्थभाष्यमप्यत एवं समच्छते। 'राज्ञः पुरुषः इत्यादौ तु स्वत्वस्वामित्वरूपः समूहः षष्ठ्यों न स्वत्वं स्वामित्वं वा । तस्यैकमात्रवृत्तित्वादित्याहुरिति दिक् । *व्युत्पत्तिभङ्गापत्तेरिति । 'प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति व्युत्पत्तिमलापत्तेरिति भावः । *भेदकात्-विशेषणवाचकात् ।

१०८ परमलघुमञ्जूषायाम् - अथ नामार्थः । अत्र मीमांसकाः-शब्दाना जातौ शक्तिलाघवात् । यतीनामानन्त्येन तत्र शक्तौ गौरवात् । "नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायते" इति न्यायस्य विशेषणे शक्तिविशेष्ये लक्षणेति तात्पर्यात् । किञ्च एका व्यक्तौ शक्त्युपदेशे व्यक्त्यन्तरे तदभावेन तद्बोधाप्रसङ्गात् । गामानये. ज्यादावन्वयानुपपत्या तदाश्रयलक्षकत्वेन निर्वाहश्चेत्याहुः । तन्न । गोत्वमस्तीत्त्यर्थेऽन्वया पपत्यभावेन गौरस्तीति प्रयोगे व्यक्ति भानानापत्तेः । व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरुपलक्षणत्वेन तदैक्येन च तादृशजात्युपलक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिकल्पना- विरहेणागोरवात् । लक्ष्यतावच्छेदकतीरत्वादिवत् शक्यतावच्छेदकस्यावा. च्यत्वे दोषाभावात "नागृहीत" इति न्यायस्य विशेषणविशिष्टविशेष्यबोधे *जाताविति । तत्तत्पदार्थसाधारणो धर्मा जातिरित्यर्थः । तेन प्रभावत्वाकाश. स्वादीनां नित्यानेकसमवेतत्वरूपजातित्वाभावेऽपि न क्षतिः । जातेः शब्दशक्यत्वे मानन्तु "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" इति सूत्रे "सवणेऽणग्रहण- मपरिभाष्यमाकृतिग्रहणात् सिद्धम्" इति वार्तिकम्। "आकृति वाजप्यायन इति सरूपसूत्रस्थं भाष्यञ्चेति भावः । युक्तिमप्याह-*लाघवादिति । एकस्या एव शक्त. रेकस्या एवं सम्भवादिति भावः । ननु शक्तिग्राहकशिरोमणिना व्यवहारेण व्यक्तावेव तत्परिच्छेदात्कथं जातौ तत्सिद्धिरत आह~*व्यक्तिनोमानन्त्येनेति । पूर्वव्यवहारेण व्यक्तौ शक्तिहेऽप्यानन्त्यात् तावतीपु शक्तिमहासम्भवात्तत्तदाश्रयभेदभिन्ननानाश- क्तिकल्पने गौरवात्पश्चाज्जातावेव निर्धार्यते इति भावः । ननु "नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायते इतिन्यायेन उभयत्र शक्तेः प्रतीयमानत्वात्कथं जातादेव शक्तिरित्यत आह-*विशेषणे इति । *गामानयेत्यादाविति । अत्रादिना'ब्राह्मणा न हन्तव्यः' इत्यादेः सङ्ग्रहो बो. ध्यः । एवञ्च सर्वत्र लक्षणयैव स्वाश्रयत्वसम्बन्धेन व्यक्तिमानसम्भवे तन्त्र शक्तिकल्पन निष्फलमेव । मीमांसकमतं खण्डयति-*तन्नेति*। *अन्वयानुपपत्येति । गोत्वस्यानयन- क्रियायां कर्मतयान्वयानुपपत्येति भावः । *शक्यतावच्छेदकेति । सम्बन्धितावच्छे. दकजातेरनुगतत्वात् तदवच्छिन्नाया एकस्या एव शक्तरभ्युपगमेन अनन्तशक्तिरूप- गौरवस्याभावादिति तात्पर्यम् । ननु शक्यतावच्छेदकत्वाज्जातेरपि वाच्यत्वमावश्य- कमिति शङ्कानिरसनायाह-*लक्ष्यतावच्छेदकेति ।

१०६ - नामार्थविचारः। तात्पर्येऽपि त्वदुक्ततात्पर्ये मानाभावात् । जातेरुपलक्षकत्वेन तदाश्रयसक- लव्यक्तिबोधेन व्यक्त्यन्तरबोधाप्रसङ्गभङ्गाच्च । तदाह- आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ।। इति ।। युक्तं ह्येतत् । शक्तिमहं व्याकरणोपनान- कोशाप्तवाक्याद्व्यवहारतश्च ! वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। इत्येतेषु शक्तिप्राहकशिरोमणिर्व्यवहारो व्यक्तावेव शक्ति प्रायति । गवादिपदेन लोके व्यक्तेरेव बोधात् ।। *आनन्त्येऽपीवि* । भावानाम्-व्यक्तीनां नानात्वादपरिच्छेद्यत्वेऽपि, एकम्- अनुगतजात्यादिधर्मम् , उपलक्षणम्-अशक्त्यत्वेऽपि शक्यव्यावर्तकम् , कृत्वा-है. भ्युपगम्य, शब्दा-गवाद्यात्मकः, सुकरसम्बन्धः-सुग्राह्यगवादिनिष्ठवाच्यतासम्ब. न्धः! *नचेति । शक्तिमहाविषव्यक्ति बोधयिष्यतीति कारिकार्थः । गोत्वादिसामा- न्यलक्षणया सर्वास्वेव व्यक्तिषु शक्त्यवधारणादिति भावः । एतदेवार्थप्रपञ्चति- *शक्तिग्रहमिति । पाचकः, पक्का, इत्यादौ व्याकरणात् । 'गोसहयो गवय: इत्या- दावुपमानात् । हरिशब्दस्य-इन्द्रादौ, कोशात् , पिकशब्दस्य कोकिलादावालवा. क्यात्। प्रयोज्यप्रयोजकवृद्धव्यवहारात् गामानयेत्यादौ तटस्थबालकस्य गोशब्दा दी। "यदान्या ओषधयो मलायन्ते अथैते मोदैमानास्तिष्ठन्ति इतिवाक्यशेषात् यवपदस्य दीर्घशूकपदार्थे । घटशब्दस्य कलशे शक्तिविवरणात् । 'सहकारतरौ पिको रौति' इत्यत्र प्रसिद्धसान्निध्यापिकशब्दस्य कोकिल शक्तिरिति निश्चयो बोध्यः । *व्यवहार इति। प्रयोजभवृद्धेनोक्ती 'गामान्येतिः यदा प्रयोज्यवृद्धो गामानयेति, बधानेत्युक्तो बध्नाति, एवं मुञ्चेत्युक्तस्ताम्मोचयति, तदा पावस्थवालकोऽवधारयति. 'सानादिमानयं भावो गोपदवाच्य इति । एवमावापोद्वापाम्यां सर्वत्र शक्तिग्रहः सुल. भः । स च व्यवहारो व्यक्तिविषयक एवेति तस्मात्केवलव्यक्तिरेव शब्दस्य वाच्येति तात्पर्यम्। यद्यपि 'आकृतिपदार्थस्य दव्यं न पदार्थः, द्रव्यपदार्थकस्य चाकृतिन पदार्थः, इत्युभयोरुभय पदार्थः" इति भाष्याद्विशकलितयोरेवाकृतिव्यक्योः शान्तिग्रहविषयता लभ्यते, तथापि "कस्यचित किञ्चिद्गुणभूतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपालो. ।

परमलघुमजूषायाम्- वस्तुतस्तु"न ह्याकृतिपदार्थकस्य(१)द्रव्यं न पदार्थ इति सरूपसूत्रभा- ध्याद्विशिष्टमेव वाच्यम् , तथैवानुभवात् । अनुभवसिद्धस्यापलापानहत्वाच । लिङ्गमपि नामार्थः । प्रत्ययानां द्योतकत्वात् । अन्यथा वागुपानदादिश- ब्देश्य इयं तव वागिति स्त्रीत्वबोधानापत्तेः । अयमितिव्यवहारविषयत्वं पुंस्त्वम् , इदमितिव्यवहारविषयत्वं स्त्रीत्वम् , इदमितिव्यवहारविषयत्वं चनया तत एवं विशिष्ट शक्त्यवधारणात् तथोपादानमविरुद्धमित्यतः सिद्धान्तमाह- *वस्तुतस्त्विति* *आकृतिपदार्थकस्येति । आकृतिः पदार्थो यस्येति बहुव्रीहिः । तेनात्र अन्यपदार्थः शब्दः । आकृतिवाचकस्य द्रव्यं नार्थ इति न; अपि तु सोऽपीति भाष्याशयः। तथा च न केवलायां जातौ व्यक्तौ वाशक्तिः किन्तु विशिष्टे एवेति भावः। लिङ्गमिति । लौकिकलिङ्गमेव नामार्थः । तच्च "स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । उभयोरन्तर यच्च तदभावे नपुंसकम्" । इत्यादिनावयवविशेषसंस्थान- रूपम् । दारानित्यादौ पुंस्त्वारोपेण तत्प्रयुक्तकार्यम् । “रानाहाहाः पुंसि" इत्यादि- लिङ्गानुशासनस्यैवोकाथं मानत्वात् । अत एव 'पशुना यजेत' इत्यनेन न पशुस्त्रिय यागमिति भावः। परे तु "स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । एतयोरन्तरं यच्च तदभावे नपु. सकम्" । इत्यत्र केशशब्दस्य भगवाचकत्वाद्भगवत्वं स्त्रीत्वम् , लोमशः पुरुष इत्यत्र लोमन्शब्दस्य शिश्नवाचित्वाच्छिश्नवत्वं पुंस्त्वम् । तत्तदाकारमात्रधारकत्वं नपुंस. कत्वम् । इतिपरिभाषितलिङ्गल्यासार्वत्रिकत्वेन दारानित्यादौ नत्वानापत्या, "स्त्रि- याम्" इतिसूत्रे "अवश्यं कश्चित् स्वकृतान्त आस्थेयः” इत्यादिना सार्वत्रिकगुणाऽव स्थारूपपारिभाषिकलिङ्गस्य शास्त्रायकार्योपयोगितायाः भाष्यकृताऽभ्युपगमेऽपि गुरु- संज्ञाविज्ञानानत्वादिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्याप्याश्रयणं पुमादिसंज्ञानां संख्या- संज्ञाया इवाधिकसङ्ग्रहार्थे प्रवृत्तत्वेऽपिमतसिद्धार्थनिरासार्थमप्रवृत्तेः। अत एव "मा. विर्भावतिरोभावस्थितिश्चेत्यप्यपायिनः। धर्मा मूतिषु सर्वासु लिङ्गत्वेन व्यवस्थि. वाः ॥ इत्यत्रापि नालौकिकलिङ्गमपि समुचितवान् हरिः। तत्र सति सम्भवे सामा. नाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वविशिष्टशास्त्रीलिङ्ग एव पुमादिशब्दानां शक्तिन केवलशास्त्रीये, नाऽपि लौकिके असम्भवे तु शास्त्रीय एव । अत एवं 'पशुना यजेत्' इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम् । तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः । *अन्यथेति । प्रत्ययाना वाचकत्वाङ्गीकारे इत्यर्थः । *त्रीत्वबोधानापत्तेरिति । "प्रकृतिप्रत्ययार्थयोः सहाथै ब्रूतस्तयोः प्रत्ययार्थस्यैव प्रा. धान्यम्" इति न्यायेन प्रत्ययार्थस्य लिङ्गस्य प्राधान्यापत्तश्चेत्यपि दूषणमत्रावसे. (१) मते इति शेषः।

। नामार्थविचारः। १११ क्लीबत्वमितिविलक्षणंशास्त्रीय स्त्रीपुन्नपुंसकत्वम् । अत एव खट्वादिशब्दवा- च्यस्य स्तनकेशादिमत्त्वरूपलौकिकस्त्रीत्वाभावेऽपि तद्वाचकादाबादिप्रत्ययः। सङ्ख्याऽपि नामार्थः । विभक्तीनां द्योतकत्वात् । अत एव"आदिर्बिटु- डव"इति सूत्रे आदिरिति बहुत्वे एकवचनम्। वाच्यत्वेऽन्वयव्यतिरेका- भ्यां जसं विना नामार्थबहुस्वप्रतीत्यभावापत्तेः । कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिपदिकार्थः। नन्वन्वयव्य- तिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यमिति चेत्, न । दधि तिष्ठति दधि पश्येत्या- दौकादिकारकप्रतीतेः प्रत्ययं विनापि सिद्धत्वात् । न च लुप्तप्रत्ययस्मरणा- त्तत्प्रतीतिरिति वाच्यम् । प्रत्ययलोपमजानतोऽपि नामत एव तत्प्रतीतेः विशेषणतया शब्दोऽपि शाब्दबोधे भासते । युधिष्ठिर आसोदित्यादौ युधिष्ठिरशब्दवाच्यः कश्चिदासीदिति बोधात् । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते। यम् । *विलक्षणमिति । पूर्वोक्तलौकिकलिङ्गतो विलक्षणमिति भावः । *अत एव- ईदृरिवलक्षणपुंस्त्वादिस्वीकारादेव । द्योतकत्वादिति । वैयाकरणानाम्मते प्रकृतीनामेव संख्यावाचकत्वम् , विभक्त- अस्तु द्योतका एवेति भावः । न चान्वयन्यतिरेकाभ्यां विभक्तीनामेव संख्यावाचकत्व. कल्पनमुचितमिति वाच्यम् । दधि, पश्य, मधु आनय इत्यादौ विभक्ति विनापि सं. ख्याकारकप्रतीत्या व्यतिरेकव्यभिचारात्। नैयायिकानाम्मते संख्याऽपि विभक्तरर्थः, न प्रकृतेः। अनन्तप्रकृतीनां शक्ततावच्छेदकत्वकल्पनापेक्षया विभक्तानां तत्कल्पने लाववम् । वस्तुतस्तु "वाचिका घोतिका वास्युत्विादीनां विभक्तयः । यद्वा संख्या. वतोऽर्थस्य समुदायोऽभिदायकः" इति हरिकारिकाबलात् न संख्यावाचिका प्रकृतिः, नवा विभक्तिः। किन्तु घट इति विभक्त्यन्तसमुदायः संख्याविशिष्टवाचकः । शक्ततावच्छेदकस्तु तत्तदानुपूर्वीति न कश्चिद्दोषलव इति दिक । *अत एव-विभक्तीनां द्योतकत्वादेव । *जसं विनेति । प्रकृते जसं विनाऽपि बहुत्वप्रतीतेय॑तिरेकव्यभिचारः स्पष्ट एवेति भावः । पञ्चकमिति* ॥ “एक द्विकंत्रिक चैव चतुष्क पञ्चकन्तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिता" । इत्यनेन स्वार्थद्रव्यलिङ्गसंख्याकारकाणां नामार्थबोधनात् । स्पष्टच्चेदं "अनभिहिते" इति सूत्र. भाष्ये । घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रामाणाऽभावेन तस्य प्राति. पदिकार्थत्वसाधनमनुचितमित्याशङ्कां परिहरति-*शब्दोऽपीति । तत्र हरिका. रिकां प्रमाणयति-*न सोऽस्तीति । प्रत्यया-शाब्दबोधात्मकः । *शब्दाऽनुग- मादिति । शब्दविषयकवादित्यर्थः । अनुव्यवसायो यथाऽयनविशिष्टज्ञानं विषयो- - ११२ परमलघुमञ्जूषायाम्- अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।। इत्यभियुक्तोक्तेः। ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ।। विषयत्वमनाहत्य शब्दैनार्थः प्रकाश्यते। इति वाक्यपदीयाच। अत एव विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवाच्छब्दप्रतीतिः। अत एवानुकरणेनानुकाय्यस्वरूपप्रतीतिः । तथाहि-स्वसहशशब्दमात्रबोध. तात्पर्यकोच्चारणविषयत्वमनुकरणत्वम् । स्वसदृशशब्दप्रतिपाद्यत्वे सति शब्दत्वमनुकार्यत्वम् । तत्रानुकार्यादनुकरणं भिद्यते इति तयोर्भेदविवक्षा- यामनुकार्यस्वरूपप्रतिपादकत्वेनार्थवत्त्वात् प्रातिपदिकत्वात्स्वादिविधिः। भेदपक्षज्ञापकः "भुवो वुग्लुङ्लिटोः” इत्यादिनिर्देशः । अनुकार्यादनुकरण- मभिन्नमित्यभेदविवक्षायां चार्थवत्त्वाभावान्न प्रातिपदिकत्वम् ; न वा पद- त्वम् । अभेदपक्षज्ञापकन्तु 'भू-सत्तायाम्' इत्यादिनिर्देशः । प्रातिपदिकत्व- पदत्वाभावेऽपि भू इत्यादि साधु भवत्येव ।। ननु 'अपदं न प्रयुञ्जीत'इति भाध्यादसाध्विदमिति चेत् , न । अपदमि- त्यस्य हि अपरिनिष्ठितमित्यर्थः। परिनिष्ठितत्वंच-अप्रवृत्तनित्यविध्युद्देश्य- तावच्छेदकानाक्रान्तत्वम् । देवदत्तो भवतीत्यादौ "तिङतिङः” इति निघाते करोतिः तथा शब्देन विशिष्टमपीत्यर्थः । वैशिष्ट्यञ्चार्थद्वारकम्बोध्यम् । घटपदजन्यबो- धानन्तरं घट शाब्दयामीत्येवानुव्यवसायान कलशं कुम्भवेति । अत एव "उदेति सविता ताम्रस्ताम्र एवास्तमेति च इत्यादौ न पौनरुक्त्यम् । तत्पदानुपादाने उदया. स्तयोः शाब्दबोधे ऐकरूप्याऽनिर्वाहादिति भावः । *अत एवेति। याब्दस्यापि शा. ब्दबोधे भानादवेत्यर्थः। *स्वसदृशेति । स्वशब्देनात्रानुकार्यपरिग्रहः । स्वम्- अनुकार्यः, तत्सादृश्यञ्च स्ववृत्यानुपूर्वीमत्वेनेति बोध्यम् । *शब्दत्वमिति । अर्थेऽपि स्वसहशशब्दप्रतिपाद्यत्वस्य सत्वात्तनातिव्याप्तिस्तद्वारणाय शब्दत्वं निवेश्यामिति भावः । *अनुकार्येति । अनुकरणस्यानुकार्यनिरूपितशक्तिकल्पनया वृत्तिमत्वरूपा- यवत्वस्यानुकरणे सत्वेन भेदपक्षे स्वादिविधिरुपपद्यते। तेन "भुवो वुक्त "क्षियो दीर्धात्" इत्यादिनिर्देशाः सङ्गच्छन्त इति भावः । अयञ्च पक्षः "मतौ छ: सूक्त" इति सूत्रे भाष्ये स्पष्टः । *अप्रवृत्तेति । राम सु इत्यत्र अप्रवृत्तनित्यविधिः "ससजुषो " समासादिवृत्यर्थविचारः। जातेऽतिङन्तपदपरतिङन्तत्वरूपोद्देश्यतावच्छेदकसत्त्वे अपरिनिष्ठितत्ववा- रणाय अप्रवृत्तेति । "स्वरति" इत्यादिविकल्पसूत्रस्य पाक्षिकप्रवृत्तौ सेद्धा, इत्यादावसाधुत्ववारणाय नित्यविधीति । अभेदपक्षे तु "अर्थवत्" इति सूत्रस्यार्थवत्त्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् सूत्राप्रवृत्तावपि भू इत्या- दि परिनिष्टितम् । परिनिष्ठितसाधुशब्दौ पर्यायौ। नन्वनुकरणस्यानुकायस्वरूपबोधकत्वस्याभावेन कथमनुकायस्वरूपप्र. तीतिरिति चेत्, साश्याख्यसम्बन्धेनेतिगृहाण। यथा मैत्रसशपिण्डदर्शने मैत्रस्मरणम् । एवं भूइत्याद्यनुकरणज्ञाने तादृशानुकार्यस्य ज्ञानमिति सक्षेपः। अथ समासादिवृत्त्यर्थः वृत्तिर्द्विधा । जहत्स्वार्थाऽजहत्स्वार्था च । अ- वयवार्थनिरपेक्षत्वे सति समुदायार्थबोधिकात्वं जहत्स्वार्थात्वम्। अवयवा- र्थसंवलितसमुदायार्थबोधिकात्वमजहत्स्वार्थात्वम् । रथन्तरं सामभेदः, शुश्रूषा सेवा इति पूर्वस्या उदाहरणम्। राजपुरुष इत्यादावन्त्या समासादि- पञ्चसु विशिष्टे एव शक्तिर्न त्ववयवे। रथन्तरं, सप्तपर्णः, शुश्रूपेत्यादौ अव. यवार्थानुभवाभावात्। अत एव भाष्ये व्यपेक्षापक्षमुद्भाव्य "अथैतस्मिन्व्य- पेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य इत्युक्तम् !धव- खदिरौ, निष्कौशाम्बिः, गोरथो, घृतघटो, गुडधानाः, केशचूडः,सुवर्णालङ्का- रो, द्विदशाः, सप्तपर्ण, इत्यादौ साहित्य-क्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-वि- कार-सुच्प्रत्ययलोप-वीप्साद्यर्था वाचनिका वाच्या इति तद्भाष्याशयः ।। इत्यादिविधिः, तदुद्देश्यतावच्छेदकाकान्तत्वात्तस्यापरिनिष्ठितत्वम् । राम इत्यस्य तु "ससजुषो " इत्यादिशास्त्रीयोवेश्यतावच्छेदकानाक्रान्तत्वात्परिनिष्ठितत्वमिति भावः । *यथेति । गोसापिण्डालोचनेन गवयज्ञानवदिति भावः। इत्यर्थदापिकार्या नामार्थनिरूपणम् ।। प्रसङ्गात्समासशक्तिमाह-*अथेति समासादीति* । आदिना कृत्तद्धितक. शेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो बोध्याः । जहति पदानि स्वार्थ यल्यां सा जह. स्वाति फलितार्थकथनम्, लक्षणन्तु-*अवयवाथैति। न जहति पदानि स्वार्थ यस्यामिति अजहत्त्वा तलक्षणमाह-*अक्यवार्थसंचलितेति । विशिष्ट एव शक्तिरिति । तथा हि-राजपुरुष" इति समासस्य स्वत्वसंसर्गेण राजसम्बन्धिनि पुरुषे शक्तिः । रथन्तरादिकदन्तस्य सामविशेषे शाकिनत्ववयवे। अन्यथा स्थकरणक- ७॥ प० म० - परमलघुमजूषायाम्- यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः-न समासे शक्तिः। राज- पुरुष इत्यादौ राजपदादेः सम्बन्धिनि लक्षणयैव राजसम्बन्धवभिन्नः पुरुषःइति बोधात । अत एव राज्ञः पदार्थैकदेशत्वान्न तत्र ऋद्धस्येत्यादिवि- शेषणान्वयः । ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थंकदेशेन' इत्युक्तेः । 'स- विशेषणानां वृत्तिर्न, वृत्तस्य च विशेषणयोगो न' इत्युक्तेश्च । न वा धन. श्यामो, निष्कौशाम्बिः, गोरथ इत्यादाविवादिप्रयोगापत्तिः । लक्षणयैवो- तार्थतया "उक्तार्थानामप्रयोग” इति न्यायेन इवादीनामप्रयोगात् । नापि "विमाषा" इति सूत्रमावश्यकम् , लक्षणया राजसम्बन्ध्यभिन्न इति बुबो- धयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्य च प्र- योगनियमसम्भवात् । नापि शक्तिः, पङ्कजशब्दत्वात् इति पङ्कजशब्इप्रति- द्वन्द्विता शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि ततो बोधात् । न च शक्त्यग्रहे लक्षणया तस्माद्विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादिशक्त्यग्रहे राजपुरुष इत्यादिषु न बोधः । न च चित्रगुरि. त्यादौ लक्षणासम्भवेऽप्यषष्ठयर्थवहुव्रीही लक्षणाया असम्भवः, बहुव्युत्प- तरणकर्तुर्बोधापत्तः । एवं पङ्कजशब्देन पङ्कजनिकर्तुः शैवालादेरपि बोधापत्तिः स्यादिति भावः। समुदायश्चतिमन्तरापि राजपदस्य राजसम्बन्धिनि लक्षणायां सम्बन्धमान. सम्भवे तदर्थ समुदायशक्तिर्न स्वीकार्यति तात्पर्यणाह-*सम्बन्धिनि लक्षणयैवेल्या. दिना* *पदार्थ इति । तत्वञ्च-आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छि- नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वम् । *पदार्थेनान्वेतीति । घटत्वे नित्यान्वयतात्पर्येण 'नित्यो घटः' इति वाक्यस्य प्रामाण्यवारणायैषा व्युत्पत्तिरिति भावः। *पदार्थकदेशेनेति । पदार्थो कदेशत्वञ्च-अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविष. यतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वम्। *लक्षणयैवेति। 'चनश्यामः' इत्यादौ घनशब्दस्य घनसदृशे लक्षणयैवेत्यर्थः । *बुबोधयिषायामिति । ताशवकृतात्पर्यदशायामित्यर्थः । *न च शस्यग्रह इति । लक्षणाग्रहे शाक्तिग्रहस्य हेतुत्वात्। *लक्षासम्भवेऽपी. ति। त्रित्रगुशब्दस्य चित्राभिन्नगवीसम्बन्धीत्यर्थः। *अषष्टयथेति । प्राधोदका- दिद्वितीयाद्यर्थबहुव्रीहावित्यर्थः । तत्रग्रामकर्मकप्राधिक-भिन्नमुदकमिति विग्रहार्थः। उदककर्तृकप्राप्तिकम्मीभूतो ग्राम इति समासाथः। अत्र प्रासपदस्य प्राप्तिकर्तृरूषार्थप- रतया तय लक्षणाऽसम्भवाच्छक्यार्थमादायैवान्वयबोधोपपत्ते रिति दिक् । *बहुव्यु- समासादिवृत्यर्थविचारः। ११५ त्तिभञ्चनापत्तेरिति वाच्यम् । प्राप्तोदक इत्यादौ उदकपदे एव लक्षणास्वी- कारात् । पूर्वपदस्य यौगिकत्वेन तत्र लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्या तया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्म- त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना प्रत्येक वर्णपु बो- धकत्वेऽपि विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतितत्वात् । प्रकृते चात्यन्त. सन्निधानेन प्रत्ययान्वयसौलभ्यायोत्तरपदे एव लक्षणा कल्प्यत इति विशे- षः । स्वीकृतं च घटादिपदेष्वपि चरमवर्गस्यैव वाचकत्वं मीमांसकंमन्यै- रित्याहुः । अत्रोच्यते-समासे शक्त्यस्वीकारे विशिष्टस्यार्थवत्त्वाभावेन प्रातिपदि- कत्वं न स्यात् । अत एवार्थवत्सूत्रे भाष्ये "अर्थवदिति किम् , अर्थवतां समुदायोऽनर्थकः-दश दाडिमानि षडपूपाः कुण्डमजाऽजिनम्" इति प्रत्यु- दाहृतम् । एवं च राजपुरुषपदयोस्त्वन्मते प्रत्येकमर्थवत्त्वेऽपि समुदायस्य दशदाडिमादिवदनर्थकत्वात्प्रातिपदिकत्वानापत्तेः । न च "कृत्तद्धित" इति सूत्रे समासग्रहणात् तत्संज्ञेति वाच्यम् । तस्य नियमार्थताया भाष्यकृतैव प्रतिपादितत्वात् । अन्यथासिद्धिं विना नियमायोगात् । अत एव राज्ञः पुरुषः देवदत्तः पचतीत्यादिवाक्यस्य (१)मूलकेनोपदंशमित्यादेश्व न प्राति- पदिकत्वम् । त्पत्तीति । 'समानाधिकरणनामार्थयारभेदान्वयः इति व्युत्पत्तिमङ्गापत्तेरिति भावः । *विशिष्टस्यैवेति । व्यवहारादिना विशिष्टे एव शक्तिग्रहादिति भावः । *दशदाडिमादिवदिति । यथा दशदाडिमादिसमुदायस्य वृत्तिमत्वरूपार्थवत्वा. भावान प्रातिपदिकत्वम्, न तथा राजन् ङस् पुरुष सु इत्यादेरपीति भावः। *अन्यथा. सिद्धिविनेति*। "सिद्धे सति आरभ्यमाणो विधिनियमाय भवति" इति न्यायात् नियमार्थत्वमप्यर्थवत्वे सत्येव सम्भवति, तत्राप्यर्थवत्पदस्यानुवृत्याऽर्थवत्कृदन्तादेरेव । तेनापि संज्ञाविधानात् अर्थवग्रहणस्येहार्थताया एवाकारे सिद्धान्तितत्वात्। पूर्वसूत्रे (१) ननु राज्ञः पुरुष इत्यादिवाक्यस्य नैयायिकमते अर्थवत्त्वाभावादेव प्रातिप- दिकत्वं न स्यादत आह-मूलकेनोपदंशमिति । नैयायिकमते उत्तरसूत्रे अर्थ. वत्पदासम्बन्धात् कृद्ग्रहणपरिभाषया कृदन्ततदादित्वादत्रातिप्रसङ्गो दुर एवेति भावः । कि चे बहुपटव इत्यस्य तद्धितान्तत्वाभावात्, परमगाग्र्यायण इत्य. स्य तद्धितान्ततदादित्वाभावात् , कुमार्याः राज्ञा श्रितेन च युगपद् वृत्तौ राजकुमारी- श्रित इत्यस्य समासत्वाभावाच्च उत्तरसूत्राप्राप्त्या अर्थवत्त्वाभावेन च पूर्वसूत्रस्या- प्यप्राप्त्या प्रातिपदिकत्वानापत्तौ स्वादिविधानानापत्तिरिति दिक् । - - परमलघुमजूषायाम् - किञ्च समासे शक्त्यस्वीकारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसम्भवेन सर्वथा प्रातिपदिकत्वाभाव एव निश्चितः स्यादिति स्वाद्यनुत्पत्तौ 'अपदं न प्रयुञ्जीत' इति भाष्यात्समस्तप्रयोगविल- यापत्तेः ।। अथ तिप्तस्मीत्यतः तोत्यारभ्य ङ्योस्सुषिति पकारेण तित्प्रत्याहारो भाष्यसिद्धः, तत्पर्युदासेन 'अतिप्प्रातिपदिकम्' इत्येव सूत्र्यताम् , ततः "समासश्च" इति सूत्रं नियमार्थमस्तु किं सूत्रद्वयेनेति । सुप्तिङन्तभिन्न प्राति- पदिकमित्यर्थात् समासस्यापि सा स्यादिति "समासश्च" इत्यस्य नियमार्थत्वं सुलभमिति चेत् , सत्यम् । प्रत्येकं वर्णषु संज्ञावारणाय अर्थवत्" इत्यस्या- वश्यकत्वेन समासेऽव्याप्तिस्तदवस्थैव । तथा च प्रातिपदिकसंज्ञारूपकार्यमे- वार्थवत्त्वमनुमापयति।समासो; अर्थवान्, प्रातिपदिकत्वात्। यन्नार्थवत्तन्न प्रातिपदिकम् , अभेदविवक्षापक्षे-'भू सत्तायाम्' इत्याद्यनुकरणवदिति ।। यत्तु ‘पदार्थः पदार्थेन' इति, 'वृत्तस्य विशेषणयोगो न' इति वचन- द्वयेन ऋद्धस्येत्यादिविशेषणान्वयो न भवति; तत्तु समासे एका भावे त्वधातुरित्यादिपर्युदासबलेनैवार्थवत्वलामादिति भावः । कि सूत्रद्वयेनेतीति । अयम्भाव:-"अतिप्रातिपदिकम्।। "समासव" इति सूत्रद्वयं कार्यम् । तेन सर्वत्र प्रातिपदिकसंज्ञासिद्धौ समासग्रहणस्य नियमार्थत्वमपि सेत्स्यतीति किं सूत्रद्वयेन । *प्रत्येकवणेंब्विति । अर्थवग्रहणाभावे--'धनम्। इत्यत्र धकारमकारयोरपि तिवन्तभिन्नत्वात्प्रातिपदिकसंज्ञापत्तेः। कृते त्वर्थवग्रह- णेऽर्थवत्वाभावान्न प्रातिपदिकसंज्ञेति भावः । *अनुमापयतीति । समासः पक्षा, अर्थवत्वम्-साध्यम्, प्रातिपदिकत्वादिति हेतुः । भू सत्तायामिति दृष्टान्तः । इदन्त्वनुमानं व्यतिरेकिहेतुकम् । अन्वयमुखेनानुमानन्तु न सम्भवति । अनर्थकनि. पातेष्वपि प्रातिपदिकसंज्ञादर्शनात् । नवं निपातानां प्रातिपदिकसंज्ञाभाव इति वाच्यम् । "निपातस्यानर्थकस्या इति वातिकात् "कृत्तद्धितसमासाचा इति सूत्रस्थचकाराचानुक्कसमुच्चायकस्य ग्रहणात् । वस्तुतस्तु व्यतिरेकमुखेनापि निरुक्तमनुमानमसङ्गतम् । यत्र य ब्रार्थवत्वाभाव- स्तत्र तत्र प्रातिपदिकसंज्ञाभाव इति अनर्थकनिपातेषु व्यतिरेकव्यभिचारादिति बोध्यम्। *एकार्थीभाव इति। पदविशिष्टत्वमेकार्थीभावत्वम् । वै० स्ववटितत्वम् , स्वप्रयो- ज्यशक्तिज्ञानीयमुख्यविशेष्यतासमानाधिकरणोपस्थितीयविषयतानिरूपितशक्तिज्ञानी.

- समासादिवृत्यर्थविचारः। ११७ स्वीकृतेऽवयवानां निरर्थकत्वेन विशेषणान्वयासम्भवात् फलितार्थपरम् , अस्माकं, युष्माकं तु अपूर्ववाचनिकमिति गौरवमित्यग्रे वक्ष्यते ।। यत्तु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधेकत्वव्युत्पत्तिरिति, तन्न । उपकुम्भम् अर्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् । ममतुप्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेविशिष्टोत्तरमेव प्रत्य- योत्पत्तेविशिष्टस्यैव प्रकृतित्वात् विशिष्टस्यैवार्थवत्त्वाञ्च न दोषः । किंचराजपुरुषादौ राजपदादेः सम्बन्धिनि सम्बन्धे वा लक्षणा । नाद्यः । राज्ञः पुरुष इतिविवरणविरोधात् । वृत्तिसमानार्थवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयो न स्यात् । नान्त्यः। राजसम्बन्धरूपपुरुष इत्यन्वयप्रसङ्गात्। ननु तर्हि वैयाकरण इत्यस्य व्याकरणमधोते इति पाचक इत्यस्य पच. तीति कथं विग्रहः । वृत्तिसमानार्थत्वाभावदित्यत आह- -- यमुख्यविशेष्यतासमानाधिकरणविषयताप्रयोजकपदवटितत्वम् , स्वप्रयोज्योपस्थिती. यविषयत्वानिरूपितविषयताप्रयोजकपदाघटितत्वम्, इति सम्बन्धत्रयेण । प्रथम- सम्बन्धनिवेशात् एकपदस्य सर्व इत्यस्य नैकार्योभावत्वम् । द्वितीयसम्बन्धदानात् न वाक्यस्य। तृतीयसम्बन्धनिवेशात् उदासीनपदयटितसमुदायस्य राजपुरुषः घट: इस्याकारकस्यैकार्थीभावत्वमिति दिक् । *उपकुम्भमिति । कुम्भस्य समीपमुपकुम्भम् , इति विद्महे "अव्ययं विभक्ति" इति सूत्रेण सामोप्येऽर्थेऽव्ययीभावसमासेन द्वितीयार्थकमतायाः समीपेऽन्वयात , नि- रक्तव्युत्पत्तिव्यभिचार इति भावः । *न दोष इति । स्वनिष्ठविधेयतानिरूपितोहे- श्यतापर्याप्त्यधिकरणत्वमेव प्रकृतित्वम् , तञ्च समुदाय एव सम्भवतीति भावः । ननु 'राजपुरुष' इत्यत्र राजपदस्य सम्बधिनि लक्षणा राजसम्बन्धवभिन्नः पुरुष इति बोधसम्भवे विशिष्टशक्तिनिष्फलेति शहां निराकरोति-* किचेति । ननु तहीति । वृत्तिविग्रहयोः समानार्थत्वाङ्गीकारे इत्यर्थः । श्वृत्तिसमाना- र्थत्वाभावादिति । प्रश्नकर्तुरयम्भावः-यद्विशेष्यकयत्प्रकारकबोधजनक- त्वम् , तद्विशेष्यकतत्प्रकारकबोधजनकत्वं वृत्तेः, इदमेव हि वृत्तिसमानार्थकत्वम् । एवञ्च व्याकरणमधीते पचति इत्यादौ व्यापारविशेष्यकाश्रयत्वप्रकारकबोधस्य वैया. करणसिद्धान्तात् पाचकः वैयाकरणः इत्यादौ तद्वैपरीत्येन भासमानत्वात् वृत्तिसमा- अन्त्र - OM .. परमलघुमञ्जूषायाम्- आख्यातं तद्धितकृतोयत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादो तत्र दृष्टो विपर्ययः ।। इति । तद्धितकृतोर्यत्किञ्चिदर्थबोधक विवरणमाख्यातं तिङन्तमिति यावत्, तन्त्र विवरणवित्रियमाणयोर्विशेष्यविशेषणभावविपर्ययोदृष्टइति कृदन्तत- द्धितान्तयोराश्रयप्राधान्यम; आख्याते व्यापारस्येति बांध्यम् । ननु रथन्त. रशब्दादथिकस्यापि प्रत्ययः किन्न स्याचिति चेत् , मैवम् । 'रूढियोगार्थम- पहरति' इति न्यायात् । ननु विशिष्टशक्तिस्वीकारे पङ्कजपदादवयवार्थप्रतीति. भूत् , समुदायशक्त्यैव कमलपदवत् पुष्पविशेषप्रत्ययः स्यादिति चेत्,न । जहत्स्वार्थी रूढिविरोधिनी। इत्यभियुक्तोक्तेः। अवयवार्थसंवलितसमुदायार्थे पद्मे शक्तिस्वीकारात् । अत एव चतुर्विधः शब्दः । यथा-रूढः, योगरूढः, यौगिकः, यौगिकरूढश्चे. ति । अवयवार्थमनपेक्ष्य समुदायशक्तिमात्रेणार्थबोधकत्वं रूढत्वम्-रथन्त- रमित्यादौ । अवयवार्थसंलितसमुदायशक्त्याऽर्थबोधकत्वं योगरूढ त्वम्- पङ्कजमित्यत्र । अवयवशक्त्यैवार्थबोधकत्वं यौगिकत्वम्-पाचिक; पाठिक- तु तत्रैव यत्र नार्थकत्वाभावात्तयोविग्रहवाक्यत्वं न सम्भवतीति । *आख्यातम्-तिङन्तम् । तद्धितकृतोरिति । 'आक्षिका, 'कुम्भकारः, इत्यत्राक्षकरणकव्यापाराश्रयः, कुम्भो. त्पत्यनुकूलच्यापाराश्रय इति बोधः। 'अक्षैर्दीव्यति, 'कुम्भं करोति, इत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भोत्पत्यनुकूला भावनेति च बोधः । *गुणप्रधानभावादा- विति । गुणो-गौणः-विशेषणम् , प्रधान-विशेष्यन्तयोर्भावः, विशेषणविशेष्यभावः। *तत्र-तयोः, विपर्यासो-व्यत्यासो, दृष्टा*-फलबलाच्छिष्टैकल्पित हतियावत् । स्थेन तरतीति विग्रहे "संज्ञायां भृतवृजि" इति सूत्रेण कर्तरि खज्विधानात् स्थकरणक- तरणकर्टमात्रोपस्थितेरवयवशक्त्या रथिकस्यापि बोध इति भावः । *रूढिरिति । समुदायशक्तियंत्रावयवार्थविरोधिनी तत्रैव रूढिरितिभावः। एवञ्च स्थन्तरमित्यत्र पद. द्वयस्य नैरर्थक्येऽपि रथकरणकतरणकर्तृत्वादिकस्याहार्यारोष्ण प्रक्रियानि हो बोध्यः। *रूढ इति । शास्त्रकृत्कल्पितावयवार्थाप्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययस. मुदायमाने बोधकत्वम् , तत्पदे सा तदर्थनिरूपिता रूढिः, यथा-मणिनूपुरादौ । योगरूढ इति । यत्र शास्त्रकल्पितावयवार्थान्वितविशेष्यभूतार्थनिरूपितं समुदाय. बोधकत्वम्-सा योगरूदिः, यथा-पङ्घजादिपदे । तन्त्र पङ्कजनिकर्तृ पममिति बोधः । *यौगिक इति । शास्त्रकृत्कल्पितावयवार्थमात्रबोधे योगशक्तिः, यथा-पाचकादौ । *यौगिकरूढश्चेति । अवयवशक्त्या समुदायशक्त्या च अर्थबोधकत्वं यौगिकारूढ- समासादिवृत्यर्थविचारः। त्यादौ । अवयवशक्त्या समुदायशक्त्या चार्थबोधकत्वं यौगिकरूढत्वम् । मण्डपानकर्तृपरोऽपि गृहविशेषपरोऽपि मण्डपशब्द उदाहरणमिति विवेकः। व्यपेक्षापक्षे दूषणं शक्तिसाधकम् । हरिरप्याह- समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने ।। स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः।। इति । पङ्कजशब्दे योगार्थस्वीकारे शैवालादेरपि प्रत्ययः स्यात् । वृत्तिधर्माः- विशेषणलिङ्गसङ्घयाद्ययोगादयः, “सविशेषणानां वृत्तिन" इत्यादिवचनैरेव साध्या, इति तत्तद्वचनस्वीकार एव गौरवम् । मम तु एकार्थाभावस्वीका- रादवयवार्थाभावाद्विशेषणाद्ययोगो न्यायसिद्धः; वचनं च न कर्तव्यं न्याय- सिद्धं चेति लाघवम् । व्यपेक्षायां दूषणान्तरमाह- चकारादिनिषेधोऽथ बहुव्युत्पत्तिमञ्जनम् । कर्तव्यन्ते न्यायसिद्धं त्वस्माकन्तदिति स्थितिः ।। घटपटाविति द्वन्द्वे साहित्यद्योतकचकारनिषेधस्वया कर्तव्यः। आदि- ना घनश्याम इत्यादौइवशब्दस्य। मम तु साहित्याचवच्छिन्ने शक्तिस्वीका- रात् “उक्तार्थानामप्रयोग" इति न्यायात्तेषामप्रयोगः। बहुव्युत्पत्तिभञ्जनमि- ति-अषष्ठ्यर्थबहुब्रीहौ प्राप्तोदक इत्यादौ पृथक्शक्तिवादिनां मते प्राप्तिकत्र- - त्वम् । यथा-अश्वगन्धादौ । अश्वगन्धापदमौषधिविशेषबोधे रूढम् । अचगन्धवत्तया वाजिशालाबोधे यौगिकम् । मण्डपानकर्तृपरोऽपीति । मण्डं पिबतीति विग्रहबला. न्मण्डपशब्दो यद्यप्यनुशासनबोधितावयवशक्त्या मण्डपानकर्तृरूपार्थबोधकः सम्भव- ति, कोषजशक्तिबलाच्च गृहविशेषबोधकच, तथापि "रूडियोगार्थहारिणी" इत्युक्तन्या. येन समुदायनिष्ठरूढिशक्त्या गृहविशेषबोधक एवेति भावः। *समासे इति समास इति वृत्तिमात्रोपलक्षणम् । "समर्थः पदविधिः" इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः । विग्रहबाक्यार्थाऽभिधाने शक्तः सन् साधुरिति सूत्रार्थस्य भाष्योल्लाभात् । पदोद्देश्यकविधित्वञ्च-कृत्तद्धितसमासैक- शेषसनाद्यन्तरूपासु पञ्चस्वपि वृत्तिष्वस्त्येवेति भावः । *पङजशब्दवदिति । अत्र सप्तम्यन्ताद्वतिर्बोध्या । उपमेये सप्तमीदर्शनात् । पङ्कजशब्दे यथाऽवयवशक्त्यतिरिक्त- शक्तिस्तद्वत्समासेऽपीत्यर्थः। *शैवालादेरपीति । पङ्काधिकरणाकोत्पत्तिमत्वाविशेषादिति भावः। *विशेषणे- - १२० परमलघुमञ्जूषायाम्- भिन्नमुदकमित्यादिबोधोत्तरंतत्सम्बन्धिग्रामलक्षणायामपि उदककर्तृकप्राप्ति- कमे ग्राम इत्यर्थालाभे प्राप्ते प्राप्ततितप्रत्ययस्य कर्थकस्य कर्मार्थे लक्षणा, ततोऽपि 'समानविभक्तिकनामार्थयोरभेद एव संसर्ग' इति व्युत्पत्त्या उदका. भिन्न प्राप्तिकर्मेति स्यात् । उदकस्य कर्तृतया प्राप्तावन्वये तु नामार्थयोरभे. दान्वयव्युत्पत्तिभञ्जनं स्यादिति तात्पर्यम्। 'नामार्थप्रकारकशब्दबुद्धित्वाव- च्छिन्नं प्रति विभक्त्यर्थोपस्थितेः कारणत्वम्' इति व्युत्पत्तिभञ्जनं च। ममतु पृथक् शक्त्यनङ्गीकारात् विशिष्टस्यैव विशिष्टार्थवाचकत्वात् नामार्थद्वया- भावान्न कचिदनुपपत्तिरित्यलम् ।, इति श्रीशिवभसुतसतीदेवीगर्भजनागेशभट्टकृता परमलघुमजूषा समाप्ता॥ त्यादि । समासैकदेशाथै लिङ्गस्य संख्यायाश्च विशेषणतयाऽन्वयो नेति भावः। *अनुपपत्तिरिति । विशिष्टशक्तिस्वीकारात् 'लोहितगङ्गम्' 'अरण्ये तिलका' इत्या. दौ नित्यसमासत्वात् विग्रहवाक्याभावादवयवादाप्रतीतेरपिन संज्ञानवगमापत्तिरू. पदूषणमपीति शम् । मनीषामन्थदण्डेन मथित्वा शास्त्रसागरम् । अर्थानां दीपिका टीका कृतेयं श्रीसदाशिवैः॥१॥ हेरम्बवत्राम्बुजम्बिकाम्बां स्वाङ्के बिभर्तीन्दुमुखी कुतूकात् । सत्प्रेममूतिर्जगदीश्वरो यो गृह्णातु टीकाकृतिपुष्पमालाम् ॥ २ ॥ शास्त्रे कृती नो न च बुद्धिशाली श्रीशानुभावात्कृपया गुरोश्च । टीका मदीया विदुषां मनोज्ञा स्याच्चेत्प्रमोदो हदि मेऽन्यथा न ॥३॥ इति जोशीत्युपादामोदरात्मजसदाशिवशाविकृतार्थदीपिकायां समासशक्तिनिरूपणं समाप्तिमगमत् ।

अभिज्ञानशाकुन्तलनाटकम् 'रुचिर' 'किशोरकेलि' संस्कृत हिन्दीटीका द्वयोपेतम् । उपर्युक्त दोनों टोकायें संसारभरमें सर्वोत्तम सिद्ध हो चुकी है ४) मुद्राराक्षसनाटकम् 'भावबोधिनी--आशुबोधिनी' टीका द्वयोपेतं, इसके अभिनव द्वितीय संस्करण में ग्रन्थ की सारी कठिनता दूर करदी गई है। देखते हो आप प्रसन्न हो जायगे। द्वितीय संस्करण ३॥) वेणीसंहारनाटकम 'प्रचोधिनी-प्रकाश संस्कृत हिन्दोटीकाद्वयोपेतम् । इस संस्करण में श्लोकान्वय, विग्रह. पर्याय, सुन्दर अर्थ, भावार्थ, अलङ्कार तथा कोषादि प्रमाण से शब्दान्तर देकर समन्वय करते हुए प्रबोधिनी और प्रकाश (संस्कृत-हिन्दी) टोकाओं से, श्लोक, प्राकृत तथा गद्य को इस तरह सम- झाया है कि, सुकोमल मति विद्यार्थी स्वयं भी इस से ज्ञान प्राप्त कर सक्ते हैं २) हर्षचरित प्रथम उच्छ्वास जयश्री-कथाभट्टीया-संस्कृत हिन्दी टीका सहित । इन टीकाओं में परीक्षोपयोगी सभी विषयों का सरल विवेचन किया गया । व्याख्या के साथ साथ कवि के ऐतिहासिक परिचय तथा कथासार (संस्कृत तथा हिन्दी ) से पुस्तक की उपयोगिता अधिक बढ़ गई है १०) कुमारसम्भव-महाकाव्यम् नूतन पुंसवनी टीका सहितम् । इस टीका में विशेषता यह है कि प्रत्येक श्लोक का १ अवतरण सहित दण्डान्वय प्रदर्शन, २ परीक्षोपयोगिनी व्याख्या, ३ विग्रह, व्याकरण, कोश, अलङ्कार, छन्द, प्रमाणप्रदर्शन, मल्लिनाथादि प्रदर्शित दोषोद्धार व्युत्पत्ति, ४ संस्कृत में भावार्थ, ५ भाषा के सङ्क्षिप्त पदों के द्वारा श्लोकाभिप्राय प्रदर्शन, ६ हिन्दी में सरल भावार्थ, ७ प्रत्येक सर्ग की कथा का संक्षेप में संग्रह, ८ विशिष्टभूमिका इत्यादि लोकोत्तरता देखने ही से ज्ञात हो प्रकती है। ३) स्वप्नवासवदत्तनाटकम् इस संस्करण के "प्रबाधिनी" नामक संस्कृत व्याख्या में अन्वय, विप्रह, पर्याय, सुन्दर अर्थ, भावार्थ, कोश, अलङ्कार, छन्द, नाट्य-लक्षण आदि विषय और साथ ही साथ "प्रकाश नामक प्राजल भाषा टीका भी रख दी गयी है। संस्कृत तथा हिन्दी दोनों ही में कथासार भी लिख दिया गया है प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी। है मध्यमा परीक्षोपयोगी सर्वोत्तम ग्रन्थ- प्रबन्ध-पारिजातः लेखक:-मुजफ्फरपुर राजकीय गवर्नमेण्ट संस्कृत कालेजाध्यापक च्या वे. सा. आचार्य पं० रामचन्द्र मिश्र। इसमें मध्यमा परीक्षाके छात्रों को संस्कृत प्रवन्ध रचना . लिखने के नियम अत्यन्त सरल रूपमें समझाये गये हैं और नदनुसार परीक्षोपयोगी 'प्रबन्ध लेखन प्रकार' ( परीक्षा में आने योग्य निबन्धों का उत्तर ) इस तरह सरल और संक्षिप्त में लिखा गया है कि अभ्यास कर लेने पर भी विद्यार्थी परीक्षा में पूरी सफलता प्राप्त कर सकते हैं। इतना ही नहीं अन्त में (2) पत्रलेखन प्रकार (चिट्ठी-पत्री, आवेदन पत्र आदिका उल्लेख ) तथा प्रसंगोपयुक्त (२) 'मुभाषित गद्यावली' (३) 'सुभाषितपद्यांशावली' और (४) 'लौकिक न्यायमाला' आदि विषयोंका समावेश करके अाधुनिक चतुरस्त्र विद्वान् बननेका सुगम रास्ता दिखाया गया है। विश्वास है कि आजतक के प्रकाशित प्रबन्धोपयोगी ग्रन्थों में इस 'प्रबन्धपारिजात' के समान दूसरी कोई भी पुस्तक नहीं है । शीघ्रता कीजिये कठिन परिस्थिति के कारण इसकी बहुत कम प्रतियाँ छपी हैं लघुशब्देन्दुकला [ लघुशब्देन्दुशेखर प्रश्नोत्तरी ] परीक्षोपयुक्त परिशिष्ट सहिता। इसमें परीक्षामें आने योग्य सभी प्रश्नों के उत्तर ऐसे सरल तथा निर्दष्ट परि- कारों से युक्त लिखे गये हैं कि अभ्यास करलेने पर विद्यार्थी परीक्षामें पूरी सफलता प्राप्त कर लेगें तथा प्रन्थ लगाने में भी बिद्यार्थीको अत्यधिक सहायता मिलेगी। ऐसा प्रशंसनीय संस्करण यह प्रथम बारही प्रकाशित हुआ परिभाषेन्दु-प्रश्नपञ्जिका प्रस्तुत संस्करण में परीक्षा में आने योग्य १२५ प्रश्नों के उत्तर ऐसे सरल तथा निर्दुष्ट परिष्कारों से युक्त लिख दिये गये हैं कि-"एक पन्थ दो काज" याने अन्य लगाने में भी इस से आपको अत्यधिक सहायता पहुंचेगी और कण्ठस्थ कर लेने पर परीक्षा में अधिक से अधिक नम्बर भी पासकेगें। ॥) प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटो। १६...... १) है

No text on this page.

Parama Laghu Manjuaha Of Nagesh Bhatt

Author
Pandith Nityananda Panta Parvatiya
Other authors
Ccl
Title
Parama Laghu Manjuaha Of Nagesh Bhatt
File name
Parama Laghu Manjuaha Of Nagesh Bhatt
Text
OCR done
Citation
1946
Publisher
Jaya Krishnadas Haridas Gupta
Language
Sanskrit
Pages
132
Library
Scl
DLI number
326340
Barcode
2020010006721.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
yWIFYkbdSBE
Download PDF

Parama Laghu Manjuaha Of Nagesh Bhatt