Bharatiya Vidya Bhavan Library, Mumbai
Yatra Prabandha
Front matter
काव्यमाला ९०. समरपुंगवदीक्षितविरचितो यात्राप्रबन्धः । जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद- तनयेन पण्डितकेदारनाथेन, मुम्बापुरवासिना पणशी. करोपाहलक्ष्मणतनुजनुपा वासुदेवशर्मणा च संशोधितः। मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। १९०८ - (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुदायालयाधिपते. रेवाधिकारस) मूल्यमेको १ रुप्यकः ।
S.N२.१. समरपुंगवदीक्षितः, तदीयो यात्राप्रवन्ध, LIBRI ARY अतिरात्रयज्या वाधूलकुलजलधिकौस्तुभः कनकाठपाठविरुदाफः श्रीसमरपुगवदीक्ष- तनामायं कविः पोडश्याः निस्वशताब्या (१५५४ ख्रिस्तान्दात् परम्) अन्ते दक्षिण- देशे वटवनाभिधाननाम्नि नगरे श्रीवेटेशादनन्तम्मायां जन्म लेभे इति तदीये यात्रा- प्रवन्धे लिखितया ग्रन्यनायकजननकालिकया ग्रहस्थित्या, द्वितीयाश्वासे 'सौभागिनेयः स तदा शोभायै श्रुतिसंपदाम् । अरोक्त शिवाकल्पकल्पमप्पश्यदीक्षितम् ॥' इत्यादिना कृतेन तदाल एव वर्तमानस्य सुप्रसिद्ध स्य विद्वद्वरेण्यस्य श्रीरङ्गराजाध्वरेस्खनूदरस्य चिन- मीमांसाधनेकनिवन्धरचयितुः श्रीमदप्पयदीक्षितस्य वर्णनेन च सुस्पष्टमभ्युपगम्यते । सा प्रहस्थितियथा- 'अथाध्युषितकेसरिण्यहिमभासि गेप गते कलावति तुलाधरोदयमुपेयुपि खामिनि । सतुङ्गजपि वापती मकरभाजि मित्रात्मजे शुभैकजनने दिने मुतमसूत सातोदरी॥ सिंहिकातनुभुवा सह योग: सांप्रतं मृगपतेरजनीति । स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुपसिंहः । इति । श्रीमदप्पयदीक्षितस्य समुद्भवसमयस्तु संस्कृतचन्द्रिकायाः पठे खण्डे तदीयजीवन. चरितोपन्यासेऽस्मत्प्रियमुहरप्रवरः श्रीमद्भिविद्यावाचस्पतिभिः श्रीमदप्पाशाखिभिवहुभिः प्रमाणे श्रीमहीक्षितवंशोद्भवैः श्रीवेयनाथशास्त्रिभिः प्रेपित्तस्वस्थितिसूचक लोय १५५४ निस्तान्दो निणीत एव । उपरितना अस्थिविरप्पयदीक्षितजन्मनो विशवेभ्यः परमासीदिति नातिरोहितं प्रदस्थितिविदाम् । एतावता पर्यवसितं यत्किल कविरयं १५७४ हिस्तान्दात्परं बभूवेति । कावेरस्य अनन्ताम्मा श्रीवेन्टेशव पितरी । द्राविटजातीय एवायं भवेदिति तदीय- विरुदावस्या तनाना चानुगीयते । प्रन्योऽयं समरपुगवदीक्षितेन स्सस्स ज्येष्ठनानुस्तीर्थयात्रामधिकृल्प विरचित इति दक्षिणेषु तीर्थयानाप्रवन्धनानाप्यस्य प्रसिद्धिः । अन्यस्यास्स पुस्तकमेकमध्यर्धसप्तमाश्वासपर्यन्तं खर्गवासिमिः श्रीकाशीनायपरय- महोदयः प्रेपितम् । अध्यर्थसप्तमाश्वासान् समाप्तिपर्यन्तं मापुरस्थराजकीयपुस्त्रकार- यात् श्रीमती रायबहादुरपदविभूषितानां धीरजाचार्यमहोदयानामनुस्या श्रीवरदाचार्य- मदोदरः पितमिति तयोः कृतहाः सामुपादोपादारयोजकदोशवा यदा स्स- लितं सात्तरक्षाम्यं धीमगिरिवि शम् । केदारनाथवासुदेवशर्माणी काव्यमालार्सपादको।
BHAR.
SN.........
यात्रामयन्यस्य विपयक्रमः
LUORARY.
प्रथम आश्वासे (पृ.१-१७.)
मालाचरणादिकम् , वटवनाभिधानाया राजधान्या वर्णनम्, तप्रत्यधर्मशिवयोगिनः
स्वता राइ प्रन्थकर्ताजनकस्य श्रीबटेशस्य परिणयः । तस्याः पुत्रप्राप्त्यर्थ शिवाराधनम्,
पिमुक्तिकासारमानम् , सूर्यस्तुतिः, कात्यायनीदर्शनम्, कात्यायनीस्तुतिः, द्विपास्पदर्शनम्,
द्विपास्यस्तुतिः, नन्दिकेश्वरतुविः, शिवस्तुतिः, गौरीलुविश्च । तत्प्रसादाद गर्भधारण
चेत्येते विषयाः।
द्वितीय आभ्यासे (पृ. १७-२७ पृ.)
पुनोत्पत्तिः, पुत्रस विद्याभ्यासादिकम् , पाणिग्रहणम्, सोदर्याभ्यां समरपुंगवसूर्य
नारायणाभ्या सह श्रीमदप्पयदीक्षितसविधे विद्याभ्यासवेत्येते विषयाः।
तृतीय आश्वासे (पृ. २८-४९ पृ.)
यसन्तवर्णनम् , तीर्थयात्रार्थ प्रस्थानम् , प्रथमं काफीपुरीगमनम्, काधीपुरीवर्णनम्,
एकानेश्वरवर्णनम् , एकामेश्वरस्तुतिः, कामाक्षीस्तुतिः, विष्णुदर्शनम्, विष्णुस्तुतिधेत्येते
विषयाः।
चतुर्य आभ्यासे (पृ.४९-६५ पृ.)
सूर्योदयवर्णनम् , उपानवर्णनम् , सूर्यास्तमनवर्णनम्, चन्द्रोदयवर्णनम्, प्रसवशा-
हतीमेपणम्, संभोगवर्णनम्, चैत्येते विपयाः ।
पञ्चम आभ्यासे (पृ. ६५-८० पृ.)
पायरीवर्णनम्, सेनुवर्णनम्, सेतुम्नुतिः, गन्धमादनपर्वतीयशिवस्तुतिः, पाण्य.
देशममनम्, नत्र हालास्पपुरे मीनाक्षीम्नुतिः, शिवस्तुतिः, प्रन्यनायकस द्वितीय उदा-
हत्येते विपयाः।
पष्ठ आश्वासे (पृ.८०-१०६ पृ.)
मोमवर्णनम् , गयातीर्थगमनौपम्मा, मध्यमार्ग सामिकार्तिकमविः, मानृपावलो.
नम्, देशदर्शनम्, कालदमिपतिशिवमुनिः अम्पिमस्तुतिः, श्रीपर्वतापमनम् ,
मोपलानिदर्शनम् , पुनमग्नौमुविधेत्यते विषयाः ।
२ सप्तम आश्वासे (पृ. १०६-१२३ पृ.) गोकर्णगमनम् , कतिपयनदीवर्णनम् , तदनुपक्तकतिपयपुर्यादिवर्णनम् , मधुरापुरीस्थ- मुकुन्दस्तुतिः, गजास्तुविश्वेत्येते विषयाः ! अष्टम आश्वासे (१२३-१४० पृ.) केदारेश्वरदर्शनम् , वदर्याश्रमविलोकनम् , कामरूपकामाक्षीस्तुतिः, कपिलाश्रमदर्श- नम्, नीलगिरिगमनम्, तत्र जगन्नाथस्तुतिः, ततो गयाक्षेत्रगमनम्, ततश्च विविध. तीर्थावगाहनानन्तर विन्ध्येश्वरीस्तुतिः, प्रयागे स्रोतखिनीत्रिकसमागमस्तुतिः, साकेत- गमनम्, तन रामभद्रस्तुतिश्चेत्येते विपयाः । नवम आश्वासे (पृ. १४०-१५१ पृ.) वाराणसीगमनम्, पाराणसीस्तुतिः, विश्वेशस्तुतिः, ईश्वरीस्तुतिः, प्रन्यसमाप्तिश्चेत्येते विषयाः।
काव्यमाला।
श्रीसमरपुंगवदीक्षितविरचितो
'यात्रामवन्धः।
.
प्रथम भावामः।
श्रियं स पुष्णातु वृपध्वजो मे जिगीपतो यस्य पुरानुपूर्वीम् ।
चक्रीभवद्भूधरचापसङ्गी बाणोऽपि चक्री भवति स जैत्रः ॥ १ ॥
पोलोम्यतिपादुका चरणयोः पाणिस्फुरद्वेत्रया
भारत्या पुरतो निवारितजना पद्माकरालम्बिनी।
पक्रान्तस्तुतिरदिराजतनया प्राचीनवाचां गणै-
रायान्ती पतिमन्दिरं निजगृहादतर्मम घोतताम् ॥२॥
वामस्तनवलदाननमन्यकुचादानतरलहस्तामम् ।
आत्मजमवलोकयतोः शिवयोरेकः मिताकुरो जयति ।। ३ ।।
विरलीभवद्विलोकनतरलीकृतगोपभीरुचैतन्यम् ।
फरलीलया मुखार्पितमुरलीवादनपरं महः सेवे ॥ ४ ॥
आनन्दायास्तु कालिन्दी पुरः स्तान्मे सरसती ।
निद्रुतां जद्रुतनया रंहसा राशिमंहसाम् ।। ५ ॥
फाचीमुखानि परमायधिकाशिकानि
पुण्यस्थलानि कतिचिमितिमूषणानि ।
चारुणि योजयितुमममसरकथायां
कुर्वे मतिं गुणतताविय मौक्तिकानि ॥ ६ ॥
देशिफस कृपया हि देहिनामापतन्ति पुरुषार्थसंपदः ।
तत्कयारसनिमजनं चिना मरकृतेरनपता फयं भवेत् ॥ ७ ॥
२ काव्यमाला। कल्याणनिधिमाचार्यकटाक्षं किमिति स्तुमः । ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते ॥ ८॥ कालिदासकविमुख्यभारतीपारणाकृतिन एव पण्डिताः।। भाषिते मम भजेयुरादरं स्वादुसेविन इवाम्लवस्तुनि ॥ ९॥ फाणिताश्चितपयःसहोदरे गद्यपद्यमयकाव्यगुम्फने । चापलं किमपि मे रसज्ञया स्वानुरूपमनयानुभूयते ॥ १० ॥ पद्येषु बाहुल्यमिह प्रवन्धे मितानि गद्यानि तु तावतापि । अस्त्येव लक्ष्मानुगमो रसज्ञौर्वच्छित्तिभेदाः परमीक्षणीयाः ॥ ११ ॥ महाकविसरखती मधुरकाव्यनिर्वतने प्रसन्नपदलिप्सया परमुखानि नापेक्षते । अलंकृतिविधी मणेरघिगमाय कि गाहते भुवं त्रिदशधाम वा भुजगराजसीमन्तिनी ॥ १२ ॥ अस्ति समस्तविध्यण्डरजनोचण्डताण्डवोदश्चितचरणकंजनखगयूख- शशाझोदयसंकोचितगद्रकालीमुखनालीकस्य अमणाटोपपर्यस्तजटाजूट- गभस्तिझाटघटनामेडिततडित्पुञ्जपिञ्जरिम्णो डामरडमरुडात्कारप्रतिरवपूरि- तामरालयस्य अमरालकानुरागसमरापाशनाखादितवदनारविन्दसौन्द- र्यमकरन्दस्य चिरंतननर्तकशिखामणेरानर्तकभूमिरभूमिरापदामनेफलोका. शयविभक्तरागाभिनिवेशविलासिनीकुचपीठमर्दकपीठमर्दकविटविदूपकजना चटवनाभिधाना राजधानी । यस्यां वचःस्वादिममिक्षुरिक्षुर्यानप्रशंसाकृत एव हंसाः । चन्दी मुखसेन्दुरणूदरीणामिन्दीवरश्रीनयनांशुचन्दी ॥ १३ ॥ तन जयति विचित्रतरचरित्रातिशयसपनाकृतात्रिमुखतपोधनानुभावः सभापतिमालमपिादर्शदप्नपिपड्दरिहसः भशसारमादेशमधशा देशिकान्तेवसदरविन्देशमुतमन्दारजलदचिन्तामणिः शैवागमवातृकोदय. शैवालिनीपतिनष्ठिराचारप्रतिष्ठापनगरिष्ठापदानो मन्मथविजयकर्मण्यपर इय पिनाकी धर्मशिवयोगी।
यात्राप्रवन्धः। व्यत्यासं व्याससूनोविनिमयममराचार्यवर्यस्य वीप्सां पाराशर्यस्स मैत्रावरुणिगुणनिकां धर्मसूनोर्विभाषाम् । प्रत्यादेशं दधीचेः सनकपरिणति नाममेदं मृकण्डो- स्तण्डोः पर्यायमत्रेयमकमिह सुधीधुर्यमाहुर्यमार्याः ॥ १४ ॥ कलानिधेरस्य विधोरिव श्रीः कापि खसा काञ्चनपेशलाङ्गी। श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयंगमासीत् ॥ १५ ॥ अस्याः किल रमणीमणेरपरगृहिणीसमाजदुरवापा गुणकलापास्तरु- णिमारम्भ एव जजृम्भिरे । तस्याश्चत्रमणे विलम्बनमभूत्तन्न्या न दीनावने तारल्यं दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे । वामत्वं झुधि न प्रियानुसरणव्यापारलीलाविधौ काठिन्यं च कुचे न चेतसि कचे नाभापणे वक्रिमा ॥ १६ ॥ एनां भरद्वाजकुलैकभूषामनन्तमाख्यामधिगम्य योपाम् । धाधूलवंशप्रभवोऽनुरूपां सुधीमणिः सोऽयमवाप शोभाम् ॥ १७ ॥ निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठयोरिव परस्परानुभूति- सुभगमावन्धमेदुरमनुपलम्भसरणिगौचरविप्रलम्मरसोदयमलघुवित्रम्गगर- निवारितरहस्यार्थनिगृहनमनिवेदितोपपादितहिताहितविधिप्रतिकारमखिल. गृहमेधिपरिषदननुकरणीयसांगत्यमनयोरजायतानुकूलदांपत्यम् । नारीललामश्चरितरुदारैर्दुरीकृतवर्गसुखामिलापः । प्रज्ञाधिभूरेप पिनाकपाणेराज्ञा धिया कर्म समाचचार ॥१८॥ एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेश- णया प्रतिक्षणमापादितमनःसभाजनः सदनवर्तनमेव सकलपुरुषार्थमवधा- रमन्दानित बारापानीप्रतिमेवार भावसाबदन्न । सेयमविमुक्तरूपा श्रीपर्वतनिर्विशेपवक्षोजा । पुष्करमुखी न फस्सै बभूव कान्तस्स कामनासिद्धथै ॥ १९ ॥ तस्य च सुमेधसः प्रबोधतरङ्गिणीपतिकुरङ्गलाञ्छने वाञ्छितवरप्र. दानसंतानशाखिनि मन्दाकिनीतरगमालतीदामशेखरे सागरमेखलाश- ३ काव्यमाला। तानसंचारफारिणि यारिधरमेनफांगुवास्तव्यकन्धेरे सिन्धुर, व्यूढचेलकर्मणि सहयमिणी विवर्तभेदशरीरार्धमनोहरे प०९ . चरितस्तोमशालिनि फेलीविटावलेपनिर्यापणनिरीक्षणे सर... वरीयसि महसि गरीयसी भकिरगूत् । वेधाचौरी मुकुटचरणी वीक्षितुं यस्य नालं प्राप्तो युद्धे यदुपकरणीभावमेप प्रपञ्चः । यस्मिन्विश्वाधिक इति पदं याति विश्रान्तिमुद्रां कण्ठेकालः स सनु भुवने फस्य न स्यादुपास्यः ॥ २० ॥ मानं यस्य निवेदिताक्षिकमलो माहानुभाव्ये पुमा- न्दातृत्वे वपुरर्धलाभमुखिता दाक्षायणी साक्षिणी । प्रातो दण्डधरान्मृकण्डतनुभूईप्टा दयागीरये सेव्यश्चन्द्रशिखामणिः स हि कृतश्रेयोभिलापर्जनः ।। २१ ॥ संप्रदायसुगम निगमानां तं प्रपद्य तरुणेन्दुकिरीटम् । देवतान्तरगिरापि दरिद्रां भावयन्स जगती प्रजहर्प ॥ २२ ॥ तस्य च सदनान्तरे हृदन्तरालविहरदीशानमुकुटभूपामणीकृतसोदर्य प्रीतिपरवशेष सरसिजालया चिरमुवास । कुमारिकावलोकनकुतूहलसमा गतः कलशतरगिणीपतिरिव तदीयशृङ्गिणीनां परिणाहमेदुरेषु परमूधः- प्रकरेषु विरेजे पयोतिरेकः । तस्य तपखिननभागधेयस्य दयाविधेयमतेर- धिनिकेतनमत्यादरोपनीतमभिजातगुणकरम्बितव्यञ्जनपरम्पराश्चितमतिबहु- लहैयंगवीनधारानुपङ्गसुरभिलं करनखंपचस्पर्शकमनीयभावसंमृतममृतरसा- तिशायिमाधुरीविशेषसंपन्नमनैपमस्त्यशाल्यमवनीमखभुजो बुभुजिरे । भूसुरेषु गृहे तस्य भुञ्जानेषु न केवलम् । असंख्यानमभूत्तेपामवस्थानदिनेष्वपि ॥ २३ ॥ महीसुरातिथ्यमहोत्सवेषु समेघमाने श्रमगौरवेऽपि । प्रभातपद्मप्रतिमं प्रियाया मुखं स पश्यन्मुमुदे मनीषी ॥ २४ ।। ऋतुभिरिहानदानविभवैरपि कन्दलित- रनुदिवसोऽवक्लप्तविबुधावलितृप्तिविधेः ।
यात्राप्रवन्धः।
न खल निकाममस्य हुतशेपमभूदमृतं
विषसपदाभिधेयमपि भोजनशेषमहो ॥ २५ ॥
उपासनामुक्तिरकृत्रिमेव प्रसय कांचिप्रथम कुमारीम् ।
पुत्रोदये प्रत्ययजन्मनीव फुटुम्पिनी तस्स विलम्बते स ॥ २६ ॥
मथ कदाचिदपरिणतमणिसमूहामिव रोहणमहीधरतटीम्, मजनितपटी-
रसालामिव मलयशैलमेखलाम्, अपरिफुलरुचिरपलयामिव सुरविपिनवल्ल-
रीम्, अनङ्कुरितपतङ्गकिरणजालामिव प्रभातवेलाम् अनधिगतकनकार-
विन्दामिव मन्दाकिनीम्, अनासादितसुधांशुबिम्बामिव जम्मारिककुभम्,
अनवलप्तभाव्यनिर्वर्तनामिव यजनभावनाम्, अविभातव्यायामिव काव्यम-
शीम, अघटितसुखप्रकाशामिव ब्रह्मविद्याम्, अनासादितसमीरसारथिमिव
वितानयेदिम्, अनुपनततनयजननामसितनयनामयेक्ष्य हृदयसरणिधूत-
व्यथः परिणीरिदमभाणीत् ।
आहादावहमञ्जनं नयनयोरङ्गे सुधालेपनं
धैर्य चेतसि खेदनामनि गदे तत्तादृशं भेषजम् ।
क्रीडापोतमिह प्रसूतिजलधौ गेहे प्रकाशोदयं
पुण्यरायतलोचने परिणतः पुयं लभन्ते जनाः ॥ २७ ॥
उरोरुहादुद्गगितैः पयोगिरापूर्य केल्या निजमास्यगर्भम् ।
एहत्य मातुर्यदने हसन्तं तनूमयं पश्यति कोऽपि धन्यः ।। २८ ।।
सप्तद्वीपवसुंधराधिपतिना संक्रन्दनेनाथया
पापोजातभवन कैटभजिता पश्यन्निटालेन वा ।
पुंसा फेनचिदन्तरेण भुबने पुत्राभिधानं धनं
शक्या किं द्रविणान्तरैनिरसितुं सा संपदि न्यूनता ॥ २९॥
किं बहुना।
पालवायगीलवर्यासंभूय संतागलता प्रवृद्धा ।
नपाइरोटेदविलम्निनीय न सांप्रतं मे हृदयं धिनोति ॥ ३० ॥
श्रीसनायपि में निकेतनं पालन रहितं न भासते।
फरशासनमुजान्तरं यथा कोलुमेन मणिना विनाकृतम् ॥ ३१ ॥
काव्यमाला । . रङ्गवल्लिरचनादि भवत्या प्रस्तुतं किमपि पाणितलेन । अन्यथा विरचयन्पृथुको गे हा कदा भवतु लोचनलेह्यः ॥ ३२ ॥ अथवा हरिणाक्षि चिन्तया कृतयेतर्हि कृतं दुरन्तया । विभुरेव विधास्यति प्रियं मदिराक्षीमयवामविग्रहः ॥ ३३ ॥ अद्यप्रभृति समाराध्यतां कुमारावतरणाय वटवनीनिकेतनो भगवान्त. पभकेतनः । मृकण्डनामे मुनिपुंगवाय दीर्घायुपं दत्तवतस्तनूजम् । सपर्यया यस्य रमाकुटुम्बी साम्न लेभे सह शम्बरारिम् ॥ ३४ ।। इति प्रियतमादेशमिन्दीवरविलोचना । निशम्य परिजग्राह नियमाचरणक्रियाम् ॥ ३५ ॥ तथा हि । अहरहरियमवगाहनाय निर्गत्य निवासभवनादयनीविला- समुकुरशेमुषीगोचरमरविन्दकरनिष्यन्दमानगकरन्दसलिलदानमन्दीकृतम- सलपान्यकुलपरिश्रान्तिगौरवं सरसबिसभङ्गभोजनसभाजितविशदद्विजपरि- पदनुवेलपरिशीलितं तरलतरपवनकीर्णतामरसपरागपालिकामेडितमज्जना- गतनागरमत्तकाशिनीकुचकलशकुङ्कुमाइरागमम्भोजसौधबिम्बोकलालसक- लशजलधिकन्यकाजघनमेखलाकलापकलकलानुसारिसारसनिनादमेदुरम्, अन्तरङ्गमिव तरङ्गिणीपतेः, प्राणसहायमिव मानसस्य, सोदर्यमिव पृथूद- कस्य, पृथकरणभेदमिव पुष्करस्य, विलासविशेषमिव प्रभासस्य, बिम्बान्तर- मिव पम्पायाः, सगन्धमिव स्यमन्तपञ्चकस्य, सामन्तमिव बिन्दुसरसः, दुर- न्तदुरितधोरणीनिवारणनिपुणशीकरासारमाससाद विमुक्तिकासारम् । व्यालेन्द्रनिर्धार्यगभीरमावो विभाव्यते यः परिणाहशाली । प्रासादगस्त्यप्रभवात्कुतोऽपि तरङ्गमालीव निलीनमूर्तिः ॥ ३६ ॥ पयोमृणालीममुखेन वर्तनं वितन्वती भूतिविलेपनिर्मला । अनेहसो यापनकर्म यत्र सा तनोति हंसावलिरात्मचिन्तया ।। ३७ ॥ अस्तातपं क्षितिरुहैरधिगम्य तीरं यस्याध्वनीनसुदृशो दिनयौवनेषु । .
यात्राप्रवन्धः । कान्तोपनीतमधिपत्रपुटं नलिन्या फहारकैरवसुगन्धि पयः पियन्ति ॥ ३८ ॥ अथ तथात्वभरघसंहतिग्रहनिवारणयन्त्रगणैरिव । उपनतावृतिरूमिकदम्बकैरकृत तत्र निमजनमाना ।। ३९ ।। कल्लोलगतिभिरुल्लोलमम्वुजनिकुरुम्बमपहाय समुच्चरन्ती पदचरणप- शिरखिलजनपावननलावगाहनसुकृतमयपलायमाना कुमारोदयविधातदुर- क्षरावलिरिव मृगेक्षणायास्तत्क्षणमलक्ष्यत । कृतेऽपि कैवल्यसरोवगाहे पश्चादभूद्वन्धविधिर्ममेति । पयःकणव्याजविमुक्तबाप्पां सातोत्थिता सा कबरी चमार ॥ ४०॥ अनन्तरं सा हरिचन्दनाद्यैरर्फ समभ्यर्च्य तटे सरस्याः । धरातलस्थापितजानुहस्ता स्तुत्यानया स्यूतमुखी ववन्दे ॥ ४१ ॥ त्रय्यात्मा त्रिगुणमयस्विमूर्तिरूपः सृष्टिस्थित्यवधिकरो जगत्रयस्य । फालेपु त्रिपु विधिकल्पित्तोपचारस्तापानां सृजतु शमं रविस्त्रयाणाम् ॥४२॥ यत्सत्ताव्यपगमयोरिहाखिलार्थप्रत्यक्षीकृतिपटिमा पटुत्यलाभः । भत्तया मत्परिकलितेयमस्तु तस्ये देवाय त्रिभुवनचक्षुपे नमस्सा ।। ४३ ॥ घसान्ते पनतिगिरोदयापदेशादाकाशे निपतति सत्यवाप्तमोहान् । काल्ये तत्करनिकरैरुदस्य लोकान्मास्वन्तं भजत पुनः प्रयोधयन्तम् ॥४४॥ नैराश्यादसुषु निजप्रवासरूढादालढुं कमलकरोदराषितानि । व्याधूप भ्रमरविपाणि यः कराने प्रत्यूपे रमयति पमिनीस्तमीडे॥ ४५ ॥ भारत्या धृतिमुपि भासि केऽपि लीनाः श्रीनीविगुहि महसीतरे निममाः । सक्तोऽयं जन इह तेजसि त्रिवेदीसीमन्तारुणमणिमण्डनायमाने ॥ ४६॥ मालीमिरवनीदेवोलीसहचरी ततः । फालीनिकेतनं भतिव्यालीदहृदया ययौ ॥ १७ ॥ तत्र च शंसतरकराहदन्तरालसंताउनपाटलीकृतपदारविन्दा मधुकैट. भतमिसहारिविधुपाटयक्रोिपदानविनदपक्षविभावरी सैरिभदानयावले रस- रसिजावसादतुपारपारां शुम्भनिशुम्भदनुज कुम्भिनीघरविभेदनदम्भोलिके.
८ काव्यमाला। लिकां निरवधिभुजप्रतापदीपशलभीकृतरक्तबीजपुरोगमदैत्यावलिमलोकत कात्यायनीम् । निद्रा हरेरमरशक्तिनिकायमूर्ति- रङ्गादगेन्द्रजनुपः कृतसन्निधाना । दुर्गेति पद्मनिलयेति सरस्वतीति शब्दैरनन्यविषयैरनुभूयते या ॥ ४८ ॥ प्रणिपत्य भगवती परमाणुमध्यमेयमित्यवादीत् । 'अविमृश्यकारिणी हरिणीदृशां प्रकृतिः' इति निरपवाद एप निसिलननवादः । विश्वत्रयाशयविमोहनताण्डवेन केलीसखेन कृतविग्रहया भवत्या । विघ्ने विभाविनि तदात्वविकारजन्ये प्रस्तावि......."महो बत साहसेन ॥ १९॥ महिपदनुजेन्द्रमस्तकनृत्तभवा देवि निपुणता कि ते । नटनायकेन साकं नाट्यविधाने ततान वैयात्यम् ।। ५० ॥ अनन्तरमियमहरन्तविहरमाणखण्डपरशुताण्डवावलोकनसमयसमज- सादरोद्घाटयोर्मुश्चिकेशकार्कोटयोराविष्कृतनमस्कृतिरदसीयसंप्रदायपरम्प- रान्तेवासिनमनपचरितानुबन्धभासिनं धर्मशिवदेशिकाभिधानमखिलनिर्म- मजनप्रधानं प्राणसीत् । पन्नग इव भयम...... भक्ति भगवानिवेश्वरः साक्षात् । स्त्रीणां पितेव विनयं दर्शनमात्रेण यः स्मरविजेता ॥ ५१ ॥ तदनु तदनुमदगजगतिरवनिसुरयुवतिरियगचलपतिदुहितृसखभवन- मुखसदनपिहितरतिमवनतपरिपद मिलपितफलवितरणमुरविपिनतरुमुरुकर- टतटगलितमदलहरिपरिमलमिलदलिनिकरमुन्सरमतिविमलयमथुसमुदयकप- टनटदुडुपटलविहितगगनपथमिभवदनमभजत । क्रीडाविषी यः फलधौतमीले रन्ध्राणि दन्ताहतिभिस्तनोति । पौरस्त्यविश्लेपितसंघियपदार्याय शनिव दातुकामः ।। ५२ ।। .
यात्राप्रबन्धः। द्विस्त्रेधा वक्रमम्भोरुहपरिहसनारम्भलोलं प्रवाल- नीलानिर्माणलीलाचतुरमपि करांस्त्रिश्चतुर्धा वहन्ती । उत्तुङ्गे, पश्चिमाझे मरकतसुपमागार्हणो बर्हिणस्य क्रीडागाडयन्ती ततिरिह महसां कापि भेजे कृशाङ्गया ॥५३॥ तदनु सुतनुरियं परिजनकरापवर्जितभाजनसलिलकृतचरणनिर्णेजना निटिललोचनभवनकक्ष्यान्तरमुपेत्य दाक्षायणी यवाधिरोहणविधिपूततरमति- तुङ्गशृङ्गमासुरमपरमिव रजतभूधरं महोक्षाधिराजमद्राक्षीत् । ... यदीयनासाविवरोपरूढप्रौढानिलायतजुपो भजन्ते । वातूलवेगाकुलतूलरीति सेवागतब्रह्मविमानहंसाः ॥ ५५ ॥ क्सानतिगिरिशशाकरयोरथाने भत्त्या प्रदक्षिणपरिक्रमणानि सापि । सा तन्वती तनयसंमवकारणानि विद्योतते स्म सुकृतानि विचिन्वतीय ॥ ५५ ॥ अथाभिधानान्तरमन्तकारेरन्तःपुरद्वारि कृताधिकारम् । नाथं गणानां सुयशा सनाथं ननाम सा नन्दिनमानताही ॥५६॥ अजोऽहमीशोऽहमहं मुरारिविज्ञापनीयो विभवे त्ययेति । याच्चावचो यं प्रति देवतानामुदेति सेवार्थमुपागतानाम् ॥ ५७ ॥ अथ तदानीम् उयो न्यस्यापसव्यं चरणसरसिज सव्यमुल्सिप्य कुर्व- पाणिं तस्योपरिष्टापरिकलिततिरोबाहुविक्षेपशालि । स्वङ्गद्गगातरङ्गं तरलतरजटाजूटरिहन्मृगाई प्राम्यद्भूषाभुजंग पयसिरुहदशादर्थ नृत्यनटेशः ॥ ५८ ॥ दृष्ट्वा च तमष्टमूर्तिमादराविष्टमतिरवनतशिरःस्पृष्टमूतळा हरिणशा- पटिरभितुष्टाव । पद्यायुधालम्बनवाममार्ग पायादिदं वस्तु भवापिधानम् । यसे यदीये घलशासनाचा दिवौकसश्चित्रदशामयन्ते ॥ ५९॥ .
काव्यमाला।
सोऽयं मदीयाशयरङ्गमध्ये सायंनटस्ताण्डवमातनोतु ।
पदारविन्दाभरणे यदीये दधाति नीलोपलतां मुरारिः ॥६० ॥
............ 'शीफरकणैरा न चेजित्वर-
स्फीतालीकहगर्चिषा कथमसौ चान्द्री कला जी
तत्ताहक्षफणीन्द्रपक्षमलविपज्वालावलि वा भवा.
न्सोढा किं शिव कालकूटकलनापाण्डित्यमालम्ब्यते ॥ ६१ ॥
अस्याधिरम्भोजममुष्य वन्धुं समुद्यतं चण्डकरं च जित्वा ।
तनन्दनं दण्डधरं जघान व्य विक्रमिणा विरोधः ॥ १२॥
चेतः कदाचिदपि मुञ्च न मुञ्जकेश-
कार्कोटकवतिमनःकमलोदयार्कम् ।
चञ्चन्नखांशुशशिमुद्रितभद्रकाली-
वक्राम्बुजं वटवनेशितुरविपद्मम् ॥ ६३ ॥
अनन्तरमसौ निरन्तरपरिष्क्रियमाणपश्यदलीकवागपाधी कलधौतभू.
घरावलम्बिनीमिव कादम्बिनीमगराजनन्दनामभिवन्द्य वसुंधरासुरचको.
रलोचना वाचमेवमयोचत ।
निखिलचराचरपटलीनिर्माणमहेन्द्रजालशीलस्य ।
चण्डि शशिखण्डमालेर्भवती शिखिपिञ्छमालिकां मन्ये ॥ ६४ ॥
छायेव चण्डयामा ज्योत्स्नाकलिकासुधाकरेणेव ।
मणिना प्रमेव मातीव्यसि मिलितादरेन्दुचूडेन ॥ ६५ ॥
तीव्रतपास्फारदिने गतया पार्थस्थिति गिरीशस्य ।
हरफोपातपपीडा चिण्भुवः कालिके त्वया जडू ॥ ६६ ॥
प्रेगदपागितयाणा वेल्हवल्लिकार्मुकोपेता ।
सेनेव चित्तयोनेरहत विभोरगमम्बिके भवती ॥ ६७ ॥
शिखरितनये भवत्या स्वीकृतमविचार्य पशुपतेरर्धम् ।
शिरसि तदूढसपत्नीचरणाहतिरम्ब न खलु सहनीया ॥ ६८ ॥
दुरक्षराणि द्रुहिणार्पितानि संमानयन्तीव सरोरुहाक्षी।
भूति तदा पनकलोकदत्ता हस्तेन फाले सयमाततान ॥ ६९ ॥
यात्राप्रवन्धः आवद्धखेलनमथो निगमाटवीयु रूपश्रिया हिमरुचेरपि लोभनीयम् । रहोनिवारितरतीशगजावले सिंहोदरी शिवमसेवत देवसिंहम् ॥ ७० ॥ समाचरितममस्या मनस्येवमकरोत्सा । गङ्गानीरतरङ्गहारिशिरसे गेहीकृतच्छन्दसे संध्यानर्तनसाक्षिलेखसदसे सत्यां नटच्चेतसे । तत्ताहग्गरलान्धसे निटिलहरदग्धागजातेघसे सिद्धश्रेणिशिखाहताशिरजसे सेयं नतिस्तेजसे ॥ ७१ ।। 'अथ कमपि सा जटालं हीरच्छायालमिन्दुचूडालम् । श्रितवटमूलमविद्यानम्भणमूर्खालभेषजं भेजे ।। ७२ ॥ नानाशाखाविवृतमहिमा नाटितभान्तो मौनालम्बी प्रविततजटामण्डलोदारपार्थः । न्यग्रोधोऽयं विलसति वियन्निनगासनिमूर्धा प्रत्यासत्तेरिच पशुपतेः प्राप्य सारूप्यलक्ष्मीम् ॥ ७३ ॥ विश्वोन्मेषप्रभृतिरचना व्यापरीतं धुरीग- रायविद्यागुरुभिरभितो भूषितान्तेवसद्भिः । धन्यामाशामभिमुखतया तन्वती कुम्मयोने- रीशस्याव्यादिह पटतले भदपीठासिका माम् ॥ ७४ ॥ अध्यासीना बटतरुतलं हासदिग्धारुणोष्ठी शार्दूलस्य त्वचमधिकटि श्लाघनीयां वसाना । बढेणाका शिरसि दधती याणिना वोघमुद्रा कण्ठे श्यामा जयति करुणा कापि पश्यन्निटाला ॥७५।। अङ्कस्थायाः किमपि वलता हैमवत्याः कुचामे व्याचक्षाणं मदननिगमान्यामहस्ताम्बुजेन । अन्येनार्यानहतकगिरामश्चता बोधमुद्रा- मेक्षे साक्षादखिलजगतामीशमाचं गुरूणाम् ।। ७६ ।।
काव्यमाला। । साक्षात्कृत्य श्रवणमननोपासनाभिर्भवन्तं द्रक्ष्यन्त्यन्यत्किमिह यमिनस्तावकीनोपदेशैः । चिन्तारूढां शिव तव चिदानन्दसत्तादिरूपा- माकाशाख्यामखिलजननीमद्रिजामन्तरेण ॥ ७७ ॥ मोहातीतस्त्वमिह भगवन्मूर्तिमास्थाय तां तां वेलालधिव्यवहृतिरतो मूढवन्नानटीपि । आत्मनाणं भवजलनिघेरात्मनैव प्रणेतुं वाटे मूले वससि यदियं भाति ते कापि लीला || ७८ ॥ दूरीक प्रभवति तवोपासनैव प्रजाना- मेनोराशीनिति पशुपते वक्ति वाणी पुराणी। ध्वस्ताहंयुद्धहिणवदनस्त्वं वटदोरधस्ता- दातः किंवा मृजसि भगवन्नीहशीमात्मचिन्ताम् ॥ ७९ ॥ शान्तेरेकं सदनममृतासारशीतं प्रकृत्या हन्तेदानी भवति भवतो रूपमालोकनीयम् । ब्रह्माण्डानां प्रसभकवलीकारकाले तु तस्मि- न्द्रष्टुं दृष्टया त्रिनयन भवानेव शक्तो भवन्तम् ॥ ८० ॥ बिम्बोठीनामिव बहुविधाकूतपारिप्लवाना- मात्मायत्तीकरणधुटिकापतिमामायवाचाम् । पाणेरस्य प्रसवकलिफां पल्लयस्य स्मरारे स्तौमि ज्योतीरसमणिकृतां तावकीमक्षमालाम् ॥ ८१ ।। पाणिच्छायाततिभिररुणा स्फाटिकीनाक्षमाला चीजश्रेणी परिणतिमती दाडिमस्येयमास्ते । चिन्मुद्रपा शिव स्व समादाय स्तनको हस्तोपान्तस्थितशुकमुखेपर्पयन्तीव भाति ॥ ८२ ।। प्रज्ञावल्लीपरिणतिरूते भक्तिवीजनजानां पुष्यन्तीव प्रतिजनमनोभूमिपु न्यासलीलाम् ।
यात्राप्रपन्धः।
-
.
अर्थान्दातुं समभिटपितानाददानेव मह्यं
भायत्कीयं त्रिभुवनगुरो भासते बोधमुद्रा ।। ८३ ।।
पाठीनाइप्रमथनविधिपेष्ठ गीर्वाणगध्ये
सद्योजातं सफलनिगमाः संगिरन्ते भवन्तम् ।
सत्यप्येयं फथमिय पुनः साधयस्त्वामजातं
निश्चित्येक निरवधिमवलेशभीत्या भनन्ते ।। ८५ ॥
वारान्बन्धूनपि तनुभुषलायकीनचोभिः
सन्तस्त्यात्या सकलमपरावृत्तयः कापि यान्ति ।
मृत्वा कण्ठे गरलमलघुव्यादतोदारसूक्ते..
बिन्दन्त्येते न खल भवतो विपदम्भ पुरारे ।। ८५ ॥
विश्वस पविकृतामगितां विरक्ति
पार्थ तपखिजनता मनते गुरोम्ते ।
सं दक्षिणामिमुरातागुपदेशकाले
पुष्णासि भेपुररिपो किमियं विधणाम् ॥ ८६ ।।
विलसति यटमूले व्यजितमानमुद्रा.
गतिशयरमणायामामिफामादपाना ।
अनिशमुपदिशन्ती योगिनामागमार्था-
न्दरदिगारपूरा देवता सापनान्गार ॥ ८७ ॥
भोमित्यारलक्ष्यमेन्दयालामाभिमतं मौगिना
नपा फलितसरं मरफतष्ठायां दधानं गले।
टीकारार्थपिद सिलीगुसपदपत्रारपिन्देक्षण
मासान्यानहताधिन यनिमनःमीपस्यमी ग॥ ८८ ॥
पनि जराकरण मुभर्यटनमित्तानंहरनन् ।
मयत मद्रासमयानां जन निगमागमेनियाममयानाम् ॥ ८९ ॥
निपटपमा स्वासरारमो गुनासावारदाम:।
मार्गममाडरमागरनु गुरुमहिमममा नारमा ॥१०॥
काव्यमाला । महती काचिन्मुद्रा करगतरुद्राक्षमालिकाचिन्मुद्रा । निगमादिव्याख्यानस्वातन्त्र्यवती पुनातु दिव्याख्या नः॥ ९१॥ पुररिपवे भसितेन स्फुरता लिप्ताय वासवेभसितेन । घटजन्माशास्याय क्रियतां प्रणतिमहत्तराशासाय ॥ ९२ ।। शान्त्या परमो दान्तः स गुरुर्जगतां चकास्ति परमोदान्तः । शाम्यति तापः स्मारं सारं चरतां यमर्दितापस्मारम् ॥ ९३ ॥ अश्चितहासाननया रक्षन्त्या जातजनिजिहासाननया । अस्लि भृशं पावन्या धन्या कृपया जटास्तशम्पावन्या ॥९४ ।। पावनपादपरागः फलघटनधृताक्षकल्पपादपरागः। इह महसामतिरेकः क्रीडति हृतनप्रतापसामतिरेकः ।। ९५ ।। स्मरभेदि प्रकटाक्षसगुपेतकरः प्रसाददनकटाक्षः । जगदधिक पाति शयस्थायि सुधागुण्डिकोऽनुकम्पातिशयः ॥९६।। जननरुजातापघनश्रेणिशरण्यः सुधाभिजातापधनः । वदते मायातीतः शिव एव घरोरुचित्तमायातीतः ॥ ९७ ॥ एप महीयानवताभिपुर जिग्ये यतो महीयानवता । यस्य च पञ्चाक्षरतस्तरति भयं विषयसप्रपञ्चाक्षरतः ।। ९८ ॥ मिलदुमया देवतया जितमधिकसदृकथालया देवतया । सृजति च सेवनमस्या घुसदामखिलापि धृतरसेव नमस्या ॥ ९९।। इति संभावयामास नुतिगुम्फामृतैरियम् । दक्षिणामिमुख दीनरक्षणे रसिकं महः ॥ १० ॥ चण्डेशमानस्य ततस्तदने चकार तन्वी करतालशब्दान् । विवासयन्तीव पाङ्कभक्तिशालिद्रुहो दुष्कृतपक्षिसद्धान् ।। १०१ ॥ सा मण्डपे शैलभुवो मुहूर्तमतिष्ठदीशानमनुस्मरन्ती। पुरारिसंसेवनपुण्यभारैरासादितैः स्पन्दितुमक्षमेव ॥ १०२ ॥ तदनु गदनाभियातिसदनादधिगम्य निजनिकेतनमनुमेयमध्यमा स- फलभूतसमुदायागोदसमर्पणकोविदमतिमात्रविशदगोत्रैकमण्डनमकुण्ठतर• वृपप्रचारमात्मनेतरमपरमिय ताराधिपशेखरमाराधयामास ।
यात्राप्रबन्धः।
.
इत्यादिनियमवातविध्याहितमहोत्सवा ।
दिनानि कतिचित्साध्वी निनाय निमिपं यथा ॥ १०३ ।।
अथ कदाचिदखिलजनतापातिरेकसमापादनदुरितपरिणतेरिव परि.
क्षीणतामुपेयुपि वासरायुपि, नवकुसुमसंभृतकमलिनीपरिरम्भजन्मनो दु.
प्कृतस्येव निष्कृति विधातुमाचरति चरमसिन्धुसलिलावगाहनमरविन्दिनी-
पतौ, रविपतनवेगदुरापमृतनीरवाराकरोदरकुरुविन्दकिरणसंदोह इव वरु-
णहरिदन्तरालमुपरुन्धति संध्यारागे, संध्यानलकीलचुम्बितव्योमाटवी-
धूम इव धरणीमण्डलमवकुण्ठयति तिमिरपण्डभावितेजःप्ररोहपटल इव
समुन्मीलति दीपिकाजाले, नटनकेलीविहितोद्यमरजनीनर्तकविमुक्तपुष्पाक्ष.
लिनिकर इव गगनमश्चति तारकापुजे, सकलदिक्चक्रवालसमाक्रमशीलत.
मिस्रकोपादिव पाटलवपुषि विजृम्भमाणे विभावरीकुटुम्बिनीबहुलान्धका-
रपरिपन्थिविनयवीततन्द्रस्य चन्द्रमसो यशवृन्द इव भुवनमानन्दयति म-
रीचिकन्दले, प्रयातैकयामायां त्रियामायामासादितनिद्वारसानुभूती परि.
तरि तदीयपदसदेश एव पतिदेवतेयमाशयनिवेशितपश्यदलीकचरणा
सुप्वाप।
द्विगुणीकृतदोलतोपधाना तरुणी स्थण्डिल एव सा शयाना ।
निजनेतरि निद्रयोपगूढे विदधानेव रुपं तदा व्यलासीत् ।। १०४ ।।
ततस्त्रियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि ।
अगेन्द्रकन्यापरिणीरमुष्याः स्वमे स्वयं लोचनगोचरोऽभूत् ।। १०५ ॥
उच्चावनानां जगतामुपरि स्थितिमानपि ।
भद्रासनवरं किंचिदध्यासीनः सहोमया ॥ १०६ ॥
मौलिमन्विच्छतो वक्रान्मरालस्य परिच्युतम् ।
म्गृणरम्पस सम प्रमागम, पहर १४०
संनिभदलिके किचिचञ्चदमिशिसाङ्करम् ।
पतंसेन्दुसुधालोभवलजिहमिवेक्षणम् ॥ १०८ ॥
कात्यायनीमुखाम्मोजनेत्रोत्पलविकासिकः ।
मालोकः प्रफदीकुर्वनश्णोरफॅन्दुरूपताम् ॥ १०९॥
काव्यमाला। सहजश्वेलसौहार्दादधिगत्य गलान्तरम् । निःसरन्तीमिव सुधां दधानः स्मितचन्द्रिकाम् ॥ ११० ॥ केलीपरवशां मूनि गङ्गामसहमानया । कण्ठे गाढमिव लिप्टः कलिन्दगिरिकन्यया ॥ १११ ।। कस्तूरिकाभिरालिप्य कंधरामितराङ्गके । परागैरिव कापूरैः परिक्लप्तानुलेपनः ॥ ११२ ।। मनोवागपरिच्छेद्यमहिनि स्वस्य तादृशे । विश्वविसम्भणायेव तन्वन्परशुधारणम् ।। ११३ ॥ द्वीपिचर्माम्बरालोकत्रासेन मुकुटीविधोः । निष्फान्तमिव सारङ्गमुद्रीवं धारयन्करे ॥ ११४ ॥ आगतं गिरिजोत्सङ्गादक्के कृत्वा पडाननम् । फराकृष्टजटाजूटखण्डेन्दुमुपलालयन् ॥ ११५ ॥ विततार विभूषणाहिमौलमणिमादाय गृडस्तदा नताङ्गबै । सुरनाथदिशे सुमेरुपादिहरारम्भ इवारविन्दवन्धुम् ॥ ११६ ॥ तादात्विकीभिः प्रमदातिरेकतरङ्गिणीवीचिपरम्पराभिः । नीतेव कुत्रापि सुमध्यमाया निद्रा सहैव क्षपया व्यरंसीत् ।। ११७ ॥ तथा हि । भूपामणि दत्तवतः पुरारेथूडामणी स्वार्पणशयेव । शनगलत्यम्परतो जहास प्राचीदिशा पाण्डुरिमापदेशात् ॥ ११८ ॥ घनकजलकर्दमापदेशान्मलिना मन्दिरदीपवतिरासीत् । प्रमथाधिपति विहाय देयं प्रतिभेव श्रितदेवतान्तराणाम् ॥ ११९ ॥ दिशि सांध्यरागमपदिश्य हरेः समये समेधयति वहिशिखाम् । भयसंवृताः प्रतिदिशं सपदि व्यघटन्त संतमसगन्धगजाः॥१२० ॥ अन्य सरकाराक्षसण पनि विहायापालभारियल्टाम् । वर्णान्तरन्यासकृते ममार्ज कालाभिधानः किल कोऽपि बालः ॥१. क्षणदायां प्रयातायामपि तस्या मृगीशः । सा दिनारम्मवेलैय क्षणदा समवर्त यात्राप्रवन्धः। अनन्तरमरविन्दलोचना सरयमुस्थाय समाचरिततीर्थाभिपेचनविधिर- पर्णासखवितीर्णमणिसदृक्षतामिव परीक्षितुं प्रभातसमयवणिजा विभावित- मम्बरमणिं प्रणिपत्य कृतकर्तव्यकलापा खापावसरविलोकितशोभनोदन्त- भाषणैः प्राणबन्धुमानन्दयामास । प्रासादमासेदुपि नीलकन्धरे दुरन्तसंतापभिदाधुरंधरे । दधार गर्ने तनयं धरेव सा करीरमत्युन्नतवंशवृद्धये ॥ १२३ ॥ इति श्रीसमरपुंगवस्य कृती यात्राप्रवन्धचम्पूकाव्ये प्रथम आवासः । 9 द्वितीय आश्वाराः । दिनेषु यातेपु ततोऽमितेषु पचेलिमे तादृशि भागधाये । वामालका व्यक्तमुवाह गर्भ निधानमम्मोनिधिमेखलेव ॥१॥ सा कृशाही शरीरेण शरकाण्डविपाण्डना । अत्यशेत दिशं प्राचीमत्यासन्नविधूदयाम् ॥ २॥ आहादकारिण्यखिलाजानां जैवातृके जग्मुपि गर्मसीमाम् । प्रत्यमलोध्रप्रसवाभिराममवाप सा रूपमपश्चिमेव ॥ ३॥ उदरे किगप्यमृतमुत्पलेक्षणा तपसार्जितं तनयनाम रिमती । अतिसौहितीमधिगतेष भोजने विमरांबभूव विगतादरं मनः ॥ ४ ॥ धृत्वान्ययायामरणा स्वगर्भे दधौन सा प्रागिव मण्डनानि । आसक्तिरर्थेपु शरीरभाजां विशिष्ट वस्त्वन्तरलम्भनान्ता ॥ ५॥ हन्त मध्यमपरिष्करणाहै वंशरलवरभूषितमासीत् । इत्यसोढवदिवाननि तस्याः श्यामिकाश्चितमुखं स्तनयुग्मम् ॥ ६॥ कुलाइरादर्शनखेदजन्मा चामधुशे कविवर्णभारः । गर्मोदयामोदभुवः प्रसादागीतो न भेजे कुचभूधरापम् ॥ ७॥ साधयिन्सेदमिथ्यात्वमर्दयन्मध्यशून्यताम् । अर्भको गर्भगस्तस्या निर्ममे संमदाद्वयम् ॥ ८॥ १.'माता' इति पाटः, १८ काव्यमाला। काय जहौ गर्भगते कुमारे क्लग्नमस्या इति किं विचित्रम् । समृद्धिमाधातुमकिंचनेषु संतानशाखीव स हि प्रवीणः ॥ ९ ॥ अल्पानामपि च महत्त्वमाशु दातुं सर्वेषां प्रकटयितुं च सूक्ष्ममर्थम् । निष्णातं पृथुकमवोचदस्य योगात्तन्मध्यो धृतमहिमप्रकाशभावः॥१०॥ वामभ्रुवो मध्यवलित्रयाभ्यां किं व्यत्ययेन स्वगुणौ दधाते । आद्यं यवत्राजनि दर्शनीयं परं तु वीक्षापदवीमहासीत् ॥ ११ ॥ विद्यानिधाने सविध विभूपयति ताहशे । अतिहर्षादिव जही नाभिरस्या गमीरताम् ॥ १२ ॥ भक्तिमात्मनि विधास्यतः शिशोः पालनाय परमभ्रगगया। स्थापितेव यमुना तदन्तिके रोमराजिरकुचन्मृगीदृशः ॥ १३ ॥ विरलाभरणं विपाण्डवक्र निवलीमङ्गदरिद्रमध्यभागम् । मलिनीकृतचूचुकं मृगाक्ष्या वपुरासेचनकं बभूव मर्तुः ॥ १४ ॥ जठरविहरमाणमाणवगुणानुसारिः परमाणुमध्यमाया बभूवुरध्यवसायाः। व्याहतु मृदुलाक्षरामपि गिरं वैक्लव्यमुद्रावती साटोपं विवरीतुमैहत वधूः सर्वाणि शास्त्राण्यपि । सदाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी- पूर्वाणि स्पृहयांचकार चरितुं पुण्यानि तीर्थान्यहो ॥ १५॥ पाणिर्वभार किमपि प्रसवापनाये ग्लानि द्वितीयकुसुमग्रहणेऽपि यस्याः । सा बिल्वपत्रनिकरैः स्वकरोपनीतै- रीशानपूजनमियेप मुहुर्विधातुम् ॥ १६ ॥ किमगरागेषु परिस्क्रियासु वा तवेष्टमालीति घवेन सा रहः । कृतानुयोगा निजगाद काहिती विभूतिरुद्राक्षमणी विलासिनी ॥ १७॥ प्रियमभिलपितोपहारशीलं निजहृदये नितरामघच साध्वी। उदरविहरदर्भकोपलम्मव्यतिकरलोमयशादिव प्रविष्टम् ॥ १८ ॥ अथाध्युषितकेसरिण्यहिमभासि मेषं गते फलायति तुलाधरोदयगुपेयुपि सामिनि ।
यात्राप्रबन्धः।
स्वतुजुपि वाक्पतौ मकरभाजि मित्रात्मजे
शुभैकजनने दिने सुतमसूत शातोदरी ॥ १९ ॥
सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति ।
स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुपसिंहः ।। २० ॥
तस्योदये दातुरवाप लाभं बुधो न तत्पुप्यति विस्मयं नः ।
स्वयं कुजन्मापि धनाधिनाथो भूत्वा स रामामधिगम्य रेमे ॥ २१ ॥
विशङ्कय पृथुकाचतो निजनिकारमास्तां तदा
कविः स्वमबने हरि शरणमेतु तेजोनिधिः ।
अजाश्रयणतत्परो भवतु स द्विजाघीश्वरः
कुलीरसदनान्तरं कथमसी जगाहे गुरुः ॥ २२ ॥
निजहृदयकण्टकायमानकुमतमण्डलीसमुद्धरणनिपुणविद्वदवतरणामोद-
समासादितप्रसादशालिनीनामाशाविलासिनीनां मुखसरोजनिःसृतो निधा-
सविसर इव सहजतुषारसौरमासारतुन्दिलो मन्दमन्दमस्पन्दत गन्धवाहः ।
अथारविन्दोपममायताक्षं सुताननं सुन्दरमीक्षमाणा ।
तपांसि सर्वाणि तदात्वहर्षे प्रसूरपर्याप्ततमानि मेने ।। २३ ।।
क्षणगीक्षणमुद्रणां तदानीं न विमुञ्चन्नयमको व्यलासीत् ।
निजसूतिविलम्बखेदिताया वदनं मातुरवेक्षितुं विलक्षः ॥ २४ ॥
मुकुमारपाटलकरं निजोदरादुदितं वितीर्णजनलोचनोत्सवम् ।
अरुणं तमाभुवि पङ्कजेक्षणा दधती पुरंदरदिशेव सा घमौ ॥२५॥
निहिताः पुरतो निविष्टदीपाः शुभयष्टीरपदिश्य सूतिगेहे ।
अभजन्फणिनो नु रत्नचूडा हरभूपाहिमणेरमुं विवर्तम् ॥२६॥
अथ तदानीमहरित इव मालावेदनकुतूहलमन्यरेतरपुरंभिकुलसंज.
ल्पितः, पापित इस नानाविधदानविलाः, कोरफित व विविधराजयोग.
विमानकरीसान्तिकलोकसूकायलिमिः, फलिव इव द्विजाशीर्वचोमिविशेष-
रोपमपि मधुजनमानन्दमनयत तनयोत्सवः ।
गुरुरादरादय कुमारमैक्षत प्रमथाधिनाथमिय यालताजुपम् ।
रुस्टरसंवदनदवासनारुतगष्टियन्धविलसत्कराम्युजम् ॥२७॥
२०
काव्यमाला ।
प्रागेव कण्ठनिनदैः श्रवणामिरामै-
रावेदितामथ विलोचनलोभनीयः ।
आनेडितामवयवैरथ भाग्यवत्तां
निर्धार्य तस्य जनको नितरां ननन्द ॥ २८॥
स क्षोणीविबुधो मन्ने रक्षोनिरसनक्षमैः ।
पूतजन्मभृतस्तस्य जातकर्मविधि व्यधात् ॥ २९ ॥
असौ पुनरवनीसुरकुमारको मुहुः समाराधयिष्यति मामिति हृष्य-
न्मना इव दमुना हविर्गहणकर्मणि तत्क्षणं प्रदक्षिणावर्तशिखः प्रणनत ।
तस्य वाधूलसंतानतपःसमुदयाकृतेः ।
धर्माभिधानकरणात्पितृभ्यां दर्शितौचिती ॥ ३०॥
नयनायुधनर्मगेहमेतत्परिपाल्यं भवतीति शार्जिणेव ।
वहति म निवेदितं स धीरो हृदि पञ्चायुधभीषणं मनोज्ञम् ॥ ३१ ॥
अमृतं नभःसरित एव सूनवे दिशति स सा धृतमुरोजकुम्भयोः ।
स विहाय वारि सकलं कथं भवेत्परथा तदेकभजने कृतादरः ॥ ३२ ॥
साधुसंघटितमुष्टिबन्धनं प्रत्यहाश्चितपयोप्रतक्रियम् ।
आत्मसूनुमसकृत्प्रसूर्मुदा पश्यति स्म शिशुभावदीक्षितम् ॥ ३३ ॥
कलिना मलिनीकृतां पदाम्यामवनी स्पष्टुमवेक्षितुं च दृष्टया ।
धृणया मुहुरुद्यतातिरासीदपि चोत्तानशयः स पूतजन्मा ।। ३४ ॥
कुत्रापि धामनि कुलादिसुतासनाथे
दृष्टिं मुहुस्तरलतारहितां निधातुम् ।
अभ्यस्यतेव पटुताममुना व्यलोकि
निष्पन्दपक्ष्मनयनेन निशि प्रदीपः ॥ ३५॥
मातृवहिकुचमञ्जरीभृतां माकरन्दलहरी घयंधयम् ।
पाणिपङ्कजवनीपु योपितां खेलनं व्यधित बालपट्पदः ॥ ३६ ॥
जनकः कृतजानुयानकेलिं तनयं वीक्ष्य तमादरोत्तरमः।
चतुरश्चरणानिधाय घाभ्यां विहन्तं कृपमेव मन्यते स ॥ ३७॥
यात्राप्रवन्धः। २१ . जानुद्वयीचङ्कमणकमेपु रतस्थलीलक्षितमात्मबिम्बम् । हस्तेन संताडयति म सोऽयमात्मीयसाम्यासह एव बुद्धया ॥३८॥ पश्चपाण्यथ पदानि निघातुं प्रस्खलच्चरणपल्लवमेषः । प्रारमन्नपरमस्फुटनीयद्वर्णवल्गुतरमप्यभिधातुम् ॥ ३९ ॥ अजनि खुरलीकेलिस्तीर्थाभिधावनकर्मणि त्रिचतुरपदन्यासक्रीडैव तस्य गृहाङ्गणे । फणितिरभवन्नान्दी स्पष्टेतराक्षा]मञ्जला विबुधहृदयमाहिव्याहारनाटकनिर्मिती ॥ १० ॥ तन्वीपयोधरपयःकणिका निपत्य तस्याभिरूप्यजलधेर्मुखशुक्तिकायाम् । मुग्धद्विजारततिव्यपदेशशालि- मुक्तात्मना परिणति किल बिभ्रते स्म ॥४१॥ तस्यालकमकरकुण्डलपद्मराग- मन्दस्मितद्युतिभिरुन्मिपितां त्रिवेणीम् । पित्रोरजसमविगाह्य मनोचिषादं तत्याज संसृतिपथभ्रमणोपजातम् ॥ ४२ ॥ अयं पुनरवनिनिलिम्पशावकः शुभसमयनियूंढचूडामहलो निरङ्कुशवि- हारकेलिनिर्माणतरलमानसं समानवयःसनाथमाणवमनःसभाजनं खेलनाप- हतगृहोपकरणायासितवामालकाजनं वचनसीनातिलछितकुतूहलं कौमारम- मजत । सधीचीनकुमारकैरमिवृतश्छात्रायमाणैः स्वयं शास्तव्याकरणामिनीतिमकरोदारोपिताचार्यकः । काशीति त्रिदशापगेति कलयन्विश्वेश इत्यप्यसौ केल्यामाकलयति म पांसुषु पुरीं शैवालिनीदेवताम् ॥ ४३॥ क्रीडां विधाय पृथुकैहमापतन्तं कान्तं क्षगातलरजोमरदूषिताङ्गम् ।
२२ काव्यमाला। आरोप्य वक्षसि कुमारममुं करेण खिन्नं तदीयवदनं जननी ममार्ज ॥ १४ ॥ हरस्तुतीनां गुरुकीर्तितानामनूक्तिभिः प्रीणितया जनन्या । प्रदिष्टमिष्टं लभते स बालः सहैव गण्डस्थलचुम्बनेन ॥ १५ ॥ कुशाग्रबोधो गुरुणा ततः सकृत्प्रकाशितां वर्णपरम्परामसौ । मनोऽप्यनाविष्कृतमस्स किंचिन्महीसुराग्रेसरसूनुरग्रहीत् ।। ४६ ॥ पुनः पुनभूमितले स बालो वर्णावलीविन्यसनं व्यतानीत् । विधाय शङ्के बहुधा परीक्षा पश्चाक्षरीसंग्रहण प्रणेतुम् ॥ ४७ ॥ अन्वितानि शुभस्पर्शेरन्तरूप्माञ्चितान्यपि । व्यञ्जनानि बटोर्जिला सस्वरं समसेवत ॥४८॥ तदनुः निटिलेक्षणाभिधामुपदेक्ष्यमाणमत्राधिदेवतामिव विभावयितुं कुबेरदिशामासेदुपि वासराधिपती भूसुरापत्यमिदमध्यापयितुमिव फला- कलापमहाय संगृहति द्विजाधिराजे निजापचितिमागामिनीमिव परिग्रही- तुमाविष्कृतप्रकाशातिरेकेषु कविगुरुपुरोगेपु समागते च शिवतातिदिने जनक एष कृपानिधिरेनमुपानयत । स निर्मलात्मा गुरुणा समाहितं त्रयीनिदानं तदवाप्य वारयम् । अशोभत खैरमभीशुमालिना शशीय संचारितमंशुमण्डलम् ॥ ४९ ॥ स यज्ञसूत्रच्छलतस्त्रयीमधान्मुखस्फुरन्मात्रसमावृतक्षमाम् । पराभिनारप्रतिपादनाविला मृपेतरोक्तिं च मृगत्वचो मिपात् ॥ ५० ॥ तवादशी गामिव तातदत्तां पातुं नियन्तुं च स बालवर्णी । पाणी द्घाति म पलाशदण्डं भौजी कटीसीमनि मेखलां च ॥५१॥ शशिपाण्डरेण समिदमिमसना विहितास्त्रिपुण्ड्रविततीरयं प्रति । प्रथमागमे गिरिशभक्तिसंपदो रचिता इवाप(ह)रत रशवल्लिकाः ॥५२॥ कल्लोलिताद्धजनकर्मविलम्बनेन कोपादिव प्रकटगुम्फितशोणमावे । संप्रीणयन्निव मुहुश्चरणारविन्दे पित्रोरवन्दत कृती प्रवदनिजास्पान् ।। ५३ ॥
यात्राप्रबन्धः ।
उपसंग्रहणछलादसौ युगलेनात्मकरारविन्दयोः ।
स्वकृते बहुतीर्थचारिणी किमु पित्रोः समवाहयत्पदे ॥ ५४ ॥
दापिष्ठमायुस्तनये निधातुं प्रकाममिच्छामरितेन पिना ।
अस्य छुतालंकृतिमौलि नाम प्रायुज्यत प्रत्यभिवादनेषु ॥ ५५ ॥
समाश्रितस्वामिसरोजनावं कुमारमेनं गुरुकर्णधारः।
प्राचीनवाणीकुहनापयोधेः पारं मितैरेव दिनैरनपीत् ।। ५६ ॥
वाक्यविवृण्वती भावं वल्गुखरपदक्रमैः।
फण्ठमेतस्य सुदृढ़ कान्तेव श्रुतिरमहीत् ॥ ५७ ।।
अपि अस्य निपुणदेशिकोपदेशसलिलविमलीकृतमतिरहिराजवच-
नकुटजाटवीनवजीमूतमालिकां साहित्यवाहिनीपतिशीतद्युति कौमारिलव-
चोरसालकुसुमाकरश्रियं निगमान्तकुमुदिनीधवदिवसान्तसमयलक्ष्मीमक्षच-
रणपक्षराजीवतापनरोचिश्छटा प्रोटिमादीकत ।
कवियाचस्पतियुधाः फलयापि न तत्समाः ।
मूढता मुहुरेतेपामापतत्यनियत्रणा ॥ ५८ ॥
निःसीमपश्यनिटिलानुभावप्रकाशनं मत्युपकारयन्ती ।
स्वशीलिनः संततमस्य मोदं वेदादिविद्याविततिय॑तानीत् ॥ ५९॥
अस्स पुनरभ्यस्यतः कला गुरुतर्कनिवासजनुषमुरुतरशमसहमान इव
शनः निरपसरति शेशये सकलफलाधिकारसहकारिचाटतापनोदपरिणतं
क्रोधमपनेतुकाम इव कामरिपुनरणपरिचरणोपकरणानां करणानामतिनिपु-
णिमानमुपपादयनवतरुणिमा पुरसोदकुममायुधमसेवत ।
समजनोचितवस्तुविवेचनं समभिलप्य किमस्य विलोचने ।
प्रवणयोरवकर्णितशास्तयोः सविधभूमिमभूपयतानुमे ।। ६. ॥
फलितम्यहमेव कालकण्ठसितिपर्याप्ततमावकाधमावे ।
अदसीयहृदन्तरालमासीत्परिणादातिशयमणीवशोमम् ॥ ११॥
पालोऽयमानानुविलम्बिमारालोकि होकरतिरूपशाली ।
आराधनः प्रीगनमात्मराम्रोः फर्नु क्षिती काम वायतीर्णः ॥ १२ ॥
काव्यमाला। तदनु द्विजकन्याया धन्यायाः सदृशैर्गुणैः । संतानसंपदे तेन पाणिमग्राह्यत्पिता ।। ६३ ।। पार्श्वभूषा मवानीव पद्मेव हृदयंगमा । सरखतीव सा गुख्या भर्तुरासीत्पतिव्रता ॥ ६४ ॥ अजायत तयाक्रान्तममुप्य हृदयं तथा । यथान्तरं न विन्देरनीपदप्यन्ययोपितः ॥ ६५ ॥ शुभलक्षणशोभिन्या भावनापरिशुद्धया । पुरंध्या सोऽरुचद्वेदः पूर्वमीमांसया यथा ॥ ६६ अहो महीसुरभुवो महाभागस्य भागधेयपरिपाकः, यदेष मदनगज- राजमदभेपजे रजोमरविजृम्भमाणमातरिश्वनि विषयमृगतृष्णिकाजलविमा- बनोप्णसमये तमोविकारसंपादननिशावतारसंपदि कुपथावगाहघटनहरि- न्मोहगौरवे पटुतरविवेकिशाखिपाटनविधानहस्तिनि तत्ताशि वयसि वर्त. मानोऽपि भगवति मृगाङ्कशेखरे समनोनदीललामनि सुदतीमयार्धविग्रहे महती भक्तिरजनि । चन्द्रमसि चन्दनतरौ सुहगाश्लेपे सुधाशुभूपे च । लिपति न कस्य चेतः कठोरसंतापकन्दलीहरणे ॥ ६७ ॥ अनूदमसितो मन्लेरशीलितपडक्षरः । अपूजितपुरारातिरभुङ्ग न कदाप्यसौ ॥ ६८ ॥ आगामिनामनवैरिमेये हृदम्बरालम्बिनि हर्पवृष्टचै । पौषैकहेतुं पुलफाकुराणामभूपयद्गात्रमसौ विभूत्या ॥ ६९ ॥ नदी महोदं शिशिराशुरेसा वाताशनेन्द्रं यजनं च भूतैः । वाम्छन्स पञ्चाक्षरमप्रलक्ष्यादाचष्ट तद्वाचि पदादिवर्णान् ॥ ७० ॥ शंभोरजलं जलगन्धपुप्पैराशावनालेपनमण्डनानि । आत्मीयतापत्रितयापनीति विधातुकामः स कथं व्यतानीत् ।। ७१ ॥ अन्नमर्पितमगात्मजापतेरस्तुतं प्रतिनिलिम्पमोननम् । अद्भुतं सदनिवेदितं त्यभूदोदनोऽयममुनेव सेवितः ॥ ७२ ।।
. यात्राप्रवन्धः। . सरिद्वतंसस्य जलाभिषेको बालेन्दुमौले प्रसवोपहारः । स्थाकि मुदे तस्य कृते मयेति समादि(घि)दम्भादकरोत्स चिन्ताम् ॥ ७३ ।। भक्तेषु प्रमथपतेः पदार्चनायां पर्याप्त बलिसुतमेष मन्यते स्म । पौलोमीपरिवृतमुत्सवावलोके व्यालेन्दु विविधगुणप्रशंसनेषु ।। ७४ ।। चेतोनिविष्टस्य सितांशुमौलेः परिच्युतं मौलिपदात्वगर्भे । प्रालेयधामानमदच्छ(श्छ)लेन प्रासूत धन्या भवनं कु(क)लानाम् ।। ७५ ॥ अनिशं गिरिशातिवादशीलं परमेष्ठी किममुं प्रणेतुकामः । अपदिश्य घटीभवादिसर्गान्पठिमाभ्यासविधि परं वितेने ॥ ७६ ॥ किमेप नन्दी शिवधर्मवक्ता किं वा कुमारः श्चितनीलकण्ठः । आहो मुरारिः कृतघटिरीशे पार्थोऽथवा पाशुपताभिमानी ! ७७ ॥ एवमुत्प्रेक्ष्यत जनैरेधमानकुतूहलैः । बाल एव परां कोटिं शिवभक्तेः श्रयन्नयम् ॥ ७८ ॥ अपि सकलाविदोऽभूदर्थत्रयमेव चिन्तनीयं मनसि । मोहोचाटनमूलिका तनुभृतां मुक्तयगना कारणा दृती भाग्यवतामधर्मफलमस्तोमावसादस्थली । लीलाताण्डवशालिका पशुपतेर्लक्ष्मीमणीपेटिका कसिमअन्मनि लोचनातिथिदशां गाहेत वाराणसी ॥ ७९ ॥ कैवल्यामृतकन्दली वसुमतीकान्ताप्रसूनस मौलिक्षौमपर्टी हरस्य हिमवन्मातशुण्डालताम् । स्वर्गारोहणमार्गमौक्तिकशिलासोपानपारम्परी भाग्यैरभ्यधिका जना भगवती पश्यन्ति भागीरथीम् ।।८०॥ सुखनिधिमपहत्य गायया स्वयमतिसंनिहितोऽप्यलक्षितः । सुष्मृतिभिरधिकाशि गृह्यते श्रुतिकथितः स हि तस्करामणीः ॥ ८१ ॥ अकषयच सच्छात्रान् । तीर्यायगाहसितिकल्पनायाम विधी वा यदि योऽमिलापः । नदीपु गहां नगरीषु फाशी देवेषु विश्वेश्वरमाभयध्वम् ॥ ८२ ॥ जिज्ञासवे श्रुतिशिरोनिकरान्प्रवक्तु- मादी यदक्षरमुपाददते महान्तः ।
. काव्यमाला। श्रोत्रे तदेव विनिवेद्य जगान्भवाब्धे. रुचारयन्तगुपधायन विश्ववन्धुम् ॥ ८३ ॥ अधिकाशि देशिकानामवतंसगणितमेव सेवध्वम् । यो रहसि किंचिदक्षरगुपदिश्य जनान्करोति सर्वज्ञान् ॥ ८४ ॥ अथ भक्तिवशादमुप्य काशी प्रति यातुं स्पृहयालुचेतसोऽपि । अगवजनकाभिपद्मसेवानियगातिक्रमभीतिरन्तरायः ।। ८५ ॥ असौ पुनरात्मपितरावेव महीधरापत्यकुसुमात्रशासिनौ तदधिवासवसुम- तीमेव सुरस्रवन्तीमनुचिन्तयन्यथोदितसमयविधेयनियतकार्यपरायणमनाः सूर्यनारायणसमरपुंगवाभिधानाभ्यामसमानविनयधुर्याभ्यां सौदर्याभ्याम- श्रान्तरचितचरणारविन्दपरिचरणो निरवधिस्नेहपरिवाही जनकविहिताभि- लपितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहान्तमन्वभूदानन्दम्। सौभागिनेयः स तदा शोभायै श्रुतिसंपदाम् । सेक्त शिवाकल्पकल्पमप्पय्यदीक्षितम् ।। ८६ ॥ पुस्तककरा बुधावलिररुचद्वयाख्याकृतः पुरो यस्य । पटुवामुखप्रवाहप्लवनावष्टब्धपोतफलकेव ॥ ८७ ॥ निन्दति मकरन्दरसं न्यछुरुते शर्करां पयो जयति । मोचामदमाचामति वाचामधिपस्य वैखरी यस्य ।। ८८ ॥ यन्मुखविगलद्वामुखसुरपुरतटिनीजडीकृता विदुपाम् । फणितिर्दन्तपटाभ्यामजीघटगाढमात्मसंवरणम् ॥ ८९॥ वादिमतपुण्ड्याटीनिप्पीडननर्मयुक्तियन्त्रेण । भुवि यः सृजन्नजृम्भयदवदातं ख्यातिफाणितबातम् ॥ ९ ॥ यस्य च मनीषिणामग्रगण्यस्य शिविकाग्रसीमनि वैतालिकवदननिःसृता सरस्वती शश्वदेवमश्रौपम् । दुरभ्यस्तविद्यालयेनापि केचिएरन्तागहन्तामयन्तां कृतं तैः । प्रशस्ते कवित्वे समस्तेऽपि शास्त्रे भवत्यप्पयज्यावतंसात्कृती कः ॥११॥ रे रे मुञ्चत धावनानि विमताः सेवध्वमधिद्वयी- मप्पय्याध्यरिणो घटेत भवतामेतत्प्रसादस्तदा।
यात्राप्रवन्धः । २७ तुप्यन्त्यक्षिगतेष्वपि प्रपतनात्सन्तः समृद्धागसः काकस्यानतिकारिणो हि दयते किं नो रघूणां प्रभुः ॥ १२ ॥ यश्च सफलविपश्चिदावलिधुरंधरो वसुंधरोलधनजधालशोमापिचण्डिले- यशोमण्डलैरजगईदभिनवकेतकबहेम्, अवनीवलयानन्दसंदायकविलासकैर्गु- णविलासैरजिहिपदम्भोजदुर्हदम्, तिवेलकलितसपर्यापरिचर्याभिप्रीणदगरा- जकन्यकाप्रणयिनम्, अचलगुहाविहरदिगरिपुगर्जितोजितप्रणादैवोदविनोदै- रततक्षदहितविबुधदाक्ष्यम्, अनवरतायातयाचकप्रियंकरणैर्वितरणैरचकम्प- दशेपदातृयशःस्तम्भम्, अशिपझेरहसेवाहेवाकमण्डलितान्पण्डितानललङ्घ- दागमसागरसागरसंघम्, अनवद्यविद्याविशेषभूपणमालूपया मनीपयाचचर्च- दमरगुरुगर्यम्, यस्याजसमुदिस्वरेण हविपाक्रान्ते दिशामन्तरे तस्तम्भे कुमुदायेन चशे ताराधिपच्छायया । ससंसे शरकाण्डपाण्डुरतया गम्ले मरालश्रिया वभ्रंशे विसकान्तिभिर्विजगले डिण्डीरखण्डांशुभिः ॥ ९३ ॥ यत्कीर्तिप्रकरद्विपस्स विहतिस्थानं जगन्मण्डलं घण्टे चण्डमयूखशीतकिरणावालानगदीश्वरः । कक्ष्या व्योमतरङ्गिणी बमथवस्तारागणाः सप्तधा निर्मुक्ता मदवारिनिरपरीवाहाः पयोराशयः ॥ ९४ ॥ फर्णः श्रीचिमबोम्गक्षितिपतिरभितो लम्भयन्शातकुम्भ- स्लोमं हेमागिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम् । रेने श्रीरङ्गराजाध्वरिपरकलशाम्मोपिलन्यप्रसूते- विद्याफल्पद्रुगस्य स्वयगिय कलयजातरूपालवालम् ॥ ९५॥ नीलकण्ठमतनिर्वहणोकादुक्तिवृष्टिमुपलभ्य तात् । ईशयोग्यमयमाशयभूमौ घोधमालिभरमेषयति ला ॥ ९६ ॥ अहो विवुधयर्गाय सकलाः सफला अपि । दिशानिशमेतामिहिजाधिपतिरेधत ॥ १७ ॥ भी सीममरसुंगाना यामागे द्वितीय भाभागः ।
काव्यमाला।
तृतीय आवास ।
शक्तिमस्माभिरूपस्स सकलागमशोधने ।
पर्टीयसीमिवामृप्यन्प्रादुरास मधुस्तदा ॥ १ ॥
मध्येवन भूरिदिनोपजातमौनव्रताना कलकण्ठयूनाम् ।
समग्रवाग्वैभवसप्रदायससिद्धिहेतु समयो जम्भे ॥२॥
दिनान्यभूवन्नवशीधुनापि विना जनाना मदसाधनानि ।
कदर्पवाहाविजयाङ्कगीतसदर्भनिष्णातशिलीमुखानि ॥ ३ ॥
मधौ मिलत्सपदि कृप्तभावा सीदद्वि तिं शिशिर धरित्री ।
शनै शनैर्यद्विजही वधूना साधारणीना प्रकृति किलेदम् ॥ ४ ॥
वियन्महोदन्वति दक्षिणाशाव्यापारभाजस्तरणेनिवृत्तिम् ।
तदात्ववातानुगुणां ततान सायात्रिक किं समयाभिधान ॥ ५ ॥
शीमा जडिम शिशिरेण दत्तामात्माकृते सकुचितामवस्थाम् ।
दिनानुपूर्वी त्यजति स्म जाते सुखैकहेतौ सुभगे बसन्ते ॥ ६ ॥
सीकर्तुमुवी शिशिरर्तुभूपे विजृम्भमाणे भृशविस्तृतामि ।
गते तु तम्मिन्क्षणदाभिधाभिनिमीलित नीलपटीकुटीभि ॥ ७ ॥
प्रादुर्भवन्ती बहिरब्जिनीना सवर्तिकासहतिरानभासे ।
नीहारवर्षात्ययनिर्णयाय प्रसारिता पाणिपरम्परेच ॥ ८॥
मनो यशीकुर्वति माधयेन व्यक्तीकृते कोकिलपशनादे ।
वली मुधा बालचसुन्दरीणा पटैरिवाश्यत पाण्डुपर्ण ॥ ९॥
सपोनभस्मस्मभयेन फुप्ता त्रासेन नीहारसमायति वा ।
वसन्तविश्लेपवर क्षपाता जही जरत्पत्रमिषेण वल्ली ॥ १०॥
समं पुराणच्छदनैलतानागणूदरीणामतिधैर्यभारम् ।
पालानिले मुष्णति पल्लवेपु मभूव चिचेपु न रागबन्ध ॥ ११ ॥
समीरण चापर कप्तपाण्टुपर्णाशुफार्पणपारवश्यम् ।
यही वलत्पाडयपाणिनेव निवारयन्ती नितरा पकाशे॥१२॥
आरामसीमामधिजग्मुषे नु दातु वसन्ताय गणेग्नरूणाम् ।
प्रयाउगोमुम्मपटोपहारसामागाये ॥ १३ ॥
यात्राप्रबन्धः।
२९
पर्यायत: पाटलमजरीपु चरन्त्यलीनां पटली चकाशे ।
तत्तन्मधुखादिमतारतम्यविवेचनायै विहितोद्यमेव ॥ १४ ॥
अनङ्गवाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु ।
निपातजातं किल नीलिमानं निलीनलोलम्बनिभावभार ॥ १५ ॥
माकन्दवाटीपु मधुनतानां कुलं वितेने कलकूनितानि ।
पिकावलेरश्चितपश्चमायास्तानार्यणायेव धृताभिलापम् ॥ १६ ॥
गलन्मरन्दप्रमदाश्च गीतमाकर्णयन्कौकिलमानशाखी ।
शाखाञ्चलेनानिलचञ्चन श्लाघाचलन्मौलिरिय व्यलासीत् ।। १७ ॥
कोशन्तमिन्दिन्दिरपोपलक्ष्यात्पिकारवालोलितया प्रसाद ।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात् ॥ १८ ॥
सफिक्षिणीकः कलचञ्चरीकैः प्रसूनधूलीपरिधूसराङ्गः ।
अड्डानुपारुह्य दिगणनानां बालानिलः साधु बबन्ध लीलाम् ॥ १९ ॥
वने वने वल्गुगिरा पिकानां कलस्वनाकर्णनकौतुकं वा ।
परागपालीषु परिभमो वा मरुद्विहारेऽजनि मान्यहेतुः ॥ २०॥
पिकद्विजं च स्पृहणीयवाचं मचद्विरेफ च मधुः पुपोप ।
सतो गुणामप्यसतोऽपि दोपासात्या विहीनो न वियतुमीप्टे ॥ २१ ॥
वसन्तलक्ष्म्या वनकेलिभाजो लाक्षारसाः पदपडयो वा।
छिन्नस्य या किंशुकाकैतवन शीतस्य रेजुः सरसैकदेशाः ॥ २२ ॥
पान्यप्रियालस्य भरैकहेतोरपि प्रियालस गुणानभिज्ञाः ।
उत्तानचिचा भृशमुत्पलाक्ष्यो गानविकासं घटयांवगवुः ।। २३ ॥
दृष्टया वधूनां तिलकदुमस्य स्वच्छन्दमासीत्सुमनोविलासः ।
सचेतनानां किमु शम्परारिशरावलीजर्जरिताशयानाम् ।। २४ ॥
निश्वासबातेन नितमिनीनामुद्भावितोपस्थति मिन्दुवारम् ।
अलंचकार श्रयणं यदासां कृतज्ञभावानुगुणः फिलेदम् ॥ २५ ॥
सनमहासाइरनन्द्रिकाणामणूदरीणामनुकुर्वतेय ।
नमेरणागत सम्मितेन जनप निचेन तु विशितेन ॥ २६ ॥
२८
काव्यमाला।
+
.
तृतीय आश्वासः।
शक्तिमस्याभिरूपस्य सकलागमशोधने ।
पटीयसीमिवामृप्यन्प्रादुरास मधुस्तदा ॥ १ ॥
मध्येवनं भूरिदिनोपजातगौनव्रतानां कलकण्ठयूनाम् ।
समग्रवाग्वैभवसंप्रदायसंसिद्धिहेतुः समयो जजम्मे ॥ २ ॥
दिनान्यभूवनवशीधुनापि विना जनानां मदताधनानि ।
कंदर्पबाहाविजयाङ्कगीतसंदर्भनिष्णातशिलीमुखानि ॥ ३ ॥
मधौ मिलत्संपदि क्लृप्तभावा सीदद्वि""तिं शिशिरं धरित्री ।
शनैः शनैर्यद्विजही वधूनां साधारणीनां प्रकृतिः किलेदम् ॥ ४ ॥
वियन्महोदन्यति दक्षिणाशाव्यापारभाजस्तरणेनिवृत्तिम् ।
तदात्ववातानुगुणां ततान सांयात्रिकः किं समयाभिधानः ॥ ५ ॥
शीमा जडिनः शिशिरेण दत्तामात्माकृतेः संकुचितामवस्थाम् ।
दिनानुपूर्वी त्यजति म जाते सुखैकहेतौ सुभगे वसन्ते ॥ ६॥
खीकर्तुमुवी शिशिरर्तुभूपे विजृम्भमाणे भृशविस्तृताभिः ।
गते तु तसिन्क्षणदाभिधाभिनिमीलितं नीलपटीकुटीभिः ॥ ७ ॥
प्रादुर्भवन्ती बहिरब्जिनीनां संवर्तिकासंहतिरावभासे ।
नीहारवात्ययनिर्णयाय प्रसारिता पाणिपरम्परेच ॥ ८ ॥
मनो यशीकुर्वति माधवेन व्यक्तीकृते कोकिलवंशनादे ।
बल्ली मुभा बल्लयसुन्दरीणां परिवानश्यत पाण्डुपर्णः ॥ ९ ॥
तपोनमवत्प्रभवेन स्कृप्तां त्रासेन नीहारसमायति वा ।
वसन्तविलेपवलक्षपातां जही जरत्पत्रमिपेण बल्ली ॥ १० ॥
समं पुराणच्छदनैलतानामणूदरीणामतिधैर्यभारम् ।
पाठानिले मुष्णति पाठवेषु यभूव चितेपुच रागबन्धः ॥ ११ ॥
समीरणं चापललप्तपाण्डुपर्णाशुकार्पणपारवश्यम् ।
पल्ली बलस्पालवपाणिनेव निवारयन्ती नितरां नकाशे ॥ १२ ॥
आरामसीमामपिजमुपे नु दातुं सन्ताय गौतरूणाम् ।
प्रयासकोसम्मपटोपदारसनायगागामीभूये ॥ १३ ॥
यात्रापबन्धः ।
पर्यायतः पाटलमञ्जरीपु चरन्त्यलीनां पटली चकाशे ।
तत्तन्मधुस्खादिमतारतम्यविवेचनायै विहितोद्यमेव ॥ १४ ॥
अनङ्गवाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु ।
निपातजातं किल नीलिमानं निलीनलोलम्बनिभाइभार ॥ १५ ॥
माकन्दवाटीपु मधुव्रतानां कुलं वितेने कलकृनितानि ।
पिकावलेरश्चितपञ्चमायास्तानार्पणायेव धृताभिलापम् ॥ १६ ॥
गलन्मरन्दप्रमदाथु गीतमाकर्णयन्कौकिलमानशाखी।
शाखाञ्चलेनानिलचचरेन श्लाघाचलन्मौलिरिव व्यलासीत् ॥ १७ ॥
कोशन्तमिन्दिन्दिरघोपलक्ष्यात्पिकारवालोलितया प्रसाद्य ।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात् ॥ १८ ॥
सकिङ्किणीकः कलचच्चरीकैः प्रसूनधूलीपरिधूसराङ्गः ।
अङ्कानुपाखर दिगजनानां वालानिल; साधु बबन्ध लीलाम् ॥ १९ ॥
वने वने वल्गुगिरा पिकानां कलस्वनाकर्णनकौतुकं वा ।
परागपालीषु परिभ्रमो या मरुद्विहारेऽजनि मान्यहेतुः ॥२०॥
पिकद्विजं च स्पृहणीयवाचं मतद्विरेफ च मधुः पुपोष।
सतो गुणानप्यसतोऽपि दोपाञ्जात्या विहीनो न विवेतमीटे ॥ २१ ॥
वसन्तलम्या बनकेलिभाजो साक्षारसाः पदपरयो या।
छिन्नस्य वा किंशुककैतवेन शीतस्य रेजुः सरसैकदेशाः ॥ २२ ॥
पान्यप्रियालस्य मरैकहेतोरपि प्रियालस्य गुणानमिज्ञाः ।
उत्तानचिचा भृशमुत्पलाक्ष्यो गानैर्विकासं घटयांवमूवुः ॥ २३ ॥
दृष्टया वधूनां तिलकट्ठमस्य स्वच्छन्दमासीरसुमनोविलासः ।
सचेतनानां किम शम्बरारिशरावलीजजरिताशयानाम् ॥ २४ ॥
निवासबातेन नितम्भिनीनामुद्भावितोपस्कृति सिन्दुपारम् ।
अलंचकार श्रवणं यदासां रातभावानुगुणः फिलेदम् ॥ २५ ॥
सनर्मदासारगन्द्रिकाणामणूदरीणामनुकृर्वतेय ।
नमेरुणागत सम्मिलेन जनस निगेन तु विग्मितन ॥ २६ ॥
काव्यमाला। स्वस्मिन्वधूमिः सुदृढोपगूढे विटान्प्रहर्तु विहिताभ्यसूयान् । अस्त्रायनि नूनमनन्यजाय कदम्ब कौरवकं व्यतानीत् ॥ २७ ॥ कलिसालः कमलेक्षणानामङ्ग्रेः प्रणीताभिहतेनिपीताः । पमन्प्रवालान्व्यपदिश्य लाक्षां स्पष्टं वितेने निजपादपत्वम् ॥ २८ ॥ ततादृशं भाजनमानानां हस्ताम्बुजस्पर्शनगौरवस्य । तत्पादधातैकपदं मसूनैस्तरं जहासेव रसालसालः ॥ २९ ॥ अलिद्विजैरादरणीयनादव्याजेन सप्तमरवेदपाठैः । मन्ये न वन्यां मदिरानुपकलङ्किता गन्धफली सिपेये ॥ ३० ॥ मधुधियः काञ्चनकोणकेव मनोभुवो हैममिवातपत्रम् । आलोकि लोकैरवलाजनोक्तिकार्यसितालकृति कर्णिकारम् ॥ ३१ ॥ नीलालकावनिपीतशेपहालारसापादितहासशाली। मदोदयभान्तमधुव्रताक्षः शाखी जनस्याजनि कामपालः || ३२ ॥ सेतुं प्रति प्रतिष्ठासा शिष्टसूनोरथोदिता। काशीगतिकलाधीतेरादौ प्रणवतामधात् ॥ ३३ ॥ अहेरशेपैः कलितानुकूल्ये लग्ने पितृभ्यां रचिताभ्यनुज्ञः । मान्यैः कृतवस्त्ययनो मनीषी प्रातिष्ठत प्रेक्षितसन्निमित्तः ॥ ३४ ॥ तमनु प्रस्थिता धन्या ताशप्रेमशालिनी । व्यद्योतत मनोवृत्तिः पिनोरिव सहायिता ॥ ३५॥ कथाभिधानः सुहृदामुदारैरसंभृताध्वश्रमसंपदेपः । आवासमद्वैतरसालनेतुराकल्पमुक्ः पुरमभ्ययासीत् ।। ३६ ॥ अथ तस्य नयनपथमासीदति शुनासीरवसतिरपि भूषितमहीतला,समधि- गतदक्षिणपथापि सर्वोत्तरस्वभावा, पावनतरानुभावापि पल्लवेषु कृतस्थितिः, अयोध्यापि भोगवती, विशालापि मधुरा, महोदयापि द्वारवती, वाराणसीव चरणोपवेष्टिता, वस्त्रोकसारेव धनदोपशोभिनी, वारवधूटिकेय वशीकृत. धूर्तावतंसा, कंसारिमूर्तिरिव कमलाकरोपगूढा, रूपकपरम्परेव रुचिरविधि- विराजिता, संगीतविद्येव सारङ्गनाटिकायती, पार्थसमृद्धिरित पाञ्चालिका- श्चिता काञ्चीपुरी।
यात्राप्रबन्धः।
स्पधी विधाय प्रभुणा गिरीणां संवर्धमानो दिवि यत्र सालः ।
विचिन्त्य विन्ध्याचलशासिशक्ति तिष्ठन्निवाभाति मियार्धमार्गे ॥३७॥
आनन्दामृतनिधिमर्धचन्द्रमुद्रं भोगेन स्फुटमगिवेष्टय सालनामा ।
पूर्वार्ध भुजगपतेरिव स्थितस्य प्रोत्तुङ्गं विलसति गोपुरं यदीयम् ॥३८॥
यद्गोपुरं निशि समुच्छ्तिशृद्धसीम-
विश्रान्तशीतकिरणच्छुरितं दधाति ।
पद्मासनस्फटिकपात्रपतञ्जलौघ.
संप्लाव्यमानकमलासचिवाहिलीलाम् ॥ ३९ ॥
महीयसा गोपुरमन्दरेण प्रमथ्य सिन्धुं परिखाभिधानम् ।
आसादितस्येव नवामृतस्य तृप्यन्ति यत्र स्थितिमादधानाः ॥ ४० ॥
प्रतप्तजाम्बूनदपेशलाभिः पराजिता यत्ममदातनूभिः ।
सौदामिनी साध्वसपारवश्यादश्रान्ततारल्यमहो जिहीते ॥४१॥
कुचाञ्चले लोचनकोणभागे कचान्धकारेऽपि च कामिनीनाम् ।
जागर्ति यत्राहितसंनिधानापिनाकिनो भीतमना मनोभूः ॥ ४२ ॥
शश्वत्प्रतोलीसरणीपु कामं परम्परा माम्यति यन यूनाम् ।
शातोदरीलोकदरावलोकसंगोहनास्त्रातिविहलेच ॥ ४३ ।।
प्रविश्यतां विपश्चितागपश्चिमोऽयमाश्चर्यवीतमतिरेतदवादीत्-'अशे-
पजननयनयोग्यममुप्याः किमपि सौभाग्यम् , यदवलोकनलोलुपतया भृश-
मनेकपशैलराजशिखरगरविन्दलोचनोऽपि भगवान्प्रतिदिवसमधियसति ।
वाणीसहचरस्यास्य याजिमपाध्वरक्षितौ ।
गोपुरावलिकूटेन भाति यूपपरम्परा ॥ १४ ॥
अस्पाः प्रगावण ननम्स वाणी मन्दापि पाटीमधिगन्तुमीष्टे ।
विधेः प्रियोदाहरणं फिलान मा मन्धरा गयती भवन्ती ।। ४५॥
प्रसार्य नानाविषपप्पनातं मातः क्षपायामुपसंहरन्ति ।
इयं पुरारेरनुपाति लीला अपसर्गमलौकशीलाम् ।। ४६ ॥
शरीरिणोऽस्सा मणिसालगप्रगनिफान्तिशतापदेशात् ।
वियोमहाय विमुक्तिकन्यामाप्य जन्मान्यनुभुसते किम् ॥ ४७ ॥
३२ काव्यगाला। कल्याणसंतानतरूं कयापि लिष्टं जगन्मङ्गलफल्पवल्लया । आसीनमस्या वरणालवाले फलार्थिनः केऽपि भजन्ति धन्या.॥४८॥ तत्पूर्वतीर्थयानोऽपि तत्र भूसुरनन्दनः । समवर्तत नियूंढसर्वतीर्थावगाहनः ॥ १९ ॥ अथ वेदशिरोनिष्ठानपि तीर्थतटीजुपः । अनङ्गीकृतकन्दानपि सत्याञ्चितेक्षणान् ॥ ५० ॥ अपि माधुकरी वृत्तिमश्चतो भ्रमवर्जितान् । अपि नि.सामकारुण्यानक्षनिग्रहनिर्दमान् ॥ ५१ ॥ शाम्यद्विपयसंचारानपि प्रनजनाश्रयान् । राजहंससमारब्धसेवानप्यजडाशयान् ॥ ५२ ॥ रुपमहसि विद्यासु लोभमात्मनि रागिताम् । अज्ञत्वमन्यनिन्दासु यतोऽपि जितपड्रिपून् ॥ ५३ ॥ शर्वरीसमयारम्भानिव संभृततारकान् । भीमसेनभुजाटोपानिय दण्डितफीचकान् ॥ ५४॥ अनल्पभसित्तालेपविलसद्विग्रहाच्छुचीन् । प्रावृप्रशमिताटाट्यान्वरहंसधुरंधरान् ॥ ५५ ॥ असगुत्तम्भितप्राशूनधौतविगलागनः । अखातगम्भीरतरानहिमाकान्तशीतलान् ।। ५६ ॥ कदम्बमुकुलाकारैः कण्टकैरुपशोगितान् । ... तेरिव ॥ ५७॥ तत्र प्रचन स्थाननवनीपावनाकृतीन् । पर्मन्दिनः प्रणम्यैप गाहते स महोन्नतिम् ॥ ५८॥ भृतकल्याणगुणानरि परकनकरनित्यनोऽपि सर्वज्ञान् । अपिना" ...........मानपि महोरागीन् ॥ ५९ ।। शैयालापसमनाप्रमरहिताप्रकृतिसमधुराजीवान् । विमलान्तरस्यान्प्रिाप्तानिय पुण्यकामारान् ॥ ६॥ .... ...........
यात्राप्रबन्धः । ....- उन्मत्तपनपुष्पैरुत्पादितविभ्रमादनगरिपोः । आदातुमीहमानानावृतमानन्दमिव च सर्वस्वम् ॥ ६१ ॥ सकलागममधुदिवसान्नीकण्ठासक्तकसरिभुजान् । नवभूतिश्रीदगृहान्पुरुषानभजत्परत्र सुधीः ॥ ६२ ॥ आर्यसेवी स निध्यातुमगादेकाननायकम् । वर्षते सुकृतश्रद्धावार्धकं वरिवस्यताम् ॥ ६३ ॥ ततः क्रमेण समतिक्रम्य फतिचिदेप कक्ष्यान्तराणि साक्षादकृत । कृत- केत्तरादरः स्वयंवरवल्लभ इति श्रुतिपल्लवाधरागिः, अगदंकार इति भवरुजा- तङ्कवाहिमिः, आहितुण्डिक इति कालकुण्डलिना, पाडवशिखीति चार" महार्णवेन, फूटपाकल इति कुसुगेपुदन्तिना, पुरंदरायुधमिति जलंधराचलेन, करुणापयोधिरिति शरणाभिलापिभिः, एकसभावमपि बहुधा विभावितम्, आत्मविवर्तजगदभ्यागारिकम् , अखिल विध्यण्डमण्डलीखण्डनवैतण्डि- फम्, अतिकरालकाकोलमुष्टिंधयबन्धकविलासिनीकपोलमकरिकाभरणपश्य- तोहरम्, अहरवधिनटनविनमालंकर्माणम्, अद्भुतगरिमकार्मणविविधके- लिनिर्माणम्, चलतनयानयनपरमानन्दनाडिंधमरूपधेयम् , आपीडपदनिये- शितसगरकुलभागधेयम् , असहायरसालतरविहारिणम्, आरग्वधगालभा. रिणं त्रिपुरवैरिणम् विध्यादिविहितान्वेपं निध्याय महसां निधिम् । अद्रिकन्याकुचाभोगमुद्रितं मोदते म सः ॥ ६४ ॥ ममिवन्द्य तमखिलभुवनवन्दनीयचरणारविन्दमकृत्रिमवचःप्रशस्तापदा. मगस्तौषीत् । हन्त छन्दःपारिजाताग्रमाजो माधन्मायामाक्षिकोत्सारपूर्वम् । यस्याखादं फर्तुमार्या यतन्ते माध्वीकं तदाति माकन्दमूले ॥ ६५ ॥ प्रददिसाइटोएमहासमादलपदाधिकास्दानीम् । पलयाङ्क निधेहि मूनि कम्पां धृतया किं फलमनगङ्गया ते ॥६६॥ व्यर्थः पिधातुमजिनादिविरागचिदैः स्लीवश्यतां त्रिपुरशासन ते अमोऽयम् ।
काव्यमाला।
गानं तवैव कमनीयकुचाकमस्या
विख्यापने विजयडिण्डिमतां दधाति ॥ ६७ ॥
सत्यं जितोऽसि मदनेन यतः सकम्प
काञ्चीपदे कलयसि स्थितिमङ्गजारे ।
साहाय्यनिर्वहणसस्पृहकामकोटिः
शक्तिः किलैकसहकारवतोऽभिपङ्गे ॥ ६८ ॥
संपत्त्यै समिदुच्चयस्य परशुं भद्रं भरानीतये
पाकाय ज्वलनं जलाय तटिनी पत्रोपक्लयै वटम् ।
माकन्दं च फलाय मन्मथरिपो संगृह्णति त्वय्यभू.
कामाक्ष्या विकलेतरः परिकरो नित्यान्नविधाणने ॥ ६९ ॥
भावना मे महादेव """"""""""""""।
नौस्तम्भलग्ना काकीव नान्यत्र लभते गतिम् ॥ ७० ॥
अपि च ।
भगवति शंभावनया शिवया सह शीलिते भृशं भावनया ।
तदधिगमोदस्तस्य क्लेशात्पुंसो भवेत्प्रमोदस्तस्य ॥ ७१ ॥
..."देव्या पारेकम्पं क्ष""या दयास्पदे व्यापारे ।
परिचितमधिकाञ्चितया पश्यदलीकं भजेयमधिकाश्चि तया ॥७२॥
वरमेकरसालपतिः श्रुतिरगुमेव स्फुटाधिकरसा लपति ।
वपुरसमा तारमतेः सीकृत्यामुष्य विश्वमाता रमते ॥ ७३ ।।
सुरमिरमाकन्दस्य स्फूर्जति मूले निविश्य माकन्दस्य ।
प्रमथेशो भाति शये भृतमृगपरशुर्जिताब्जशोभातिशये ॥ ७४ ।।
नाथशरीरं भायानगभुवि मृदितं नटत्परीरम्भायाम् ।
भीत्या फम्पारयतः पावयितुं भुवनगोलकं पारयतः ॥ ७५ ॥
परिचितवेदान्तानां प्रणिहितमनसामुमाधवे दान्तानाम् ।
अलघुभपाटव्यसनं विरचयतां फेन्द्रवेशवाटव्यसनम् ॥ ७६ ॥
दक्षसभावस्कन्दे पटरवतु शिमो निम्तमावः स्कन्दे ।
खी कृतकरणीयस्य स्मृतिमवचेतीविशत्यकरणी यस्य ॥ ७७ ॥
यात्राप्रबन्धः ।
तमुपासे वासवतः परममरादपि च सारसे पासवतः ।
अस्तितसारसनाभि कमपि करासक्तकृष्णसारसनाभिम् ।। ७८॥
अतिरेक दर्पस्य क्षपितवदक्ष्णा निजेन कन्दर्पस्य ।
प्रशमितसन्नमदेनः स्मरत ज्योतिहृदावसन्नमदेन ॥ ७९ ॥
पृथुकटकैलासस्य प्रसवसुगन्धैः पतिः स कैलासस्य ।
भाति भवानीकान्तस्त्रिपुरान्धकमुख्यदानवानीकान्तः ।। ८० ।।
पटुरनुसायं नटने समता सिंहस्य रंहसा यन्नटने ।
मां भजमानं दयतां पशुपतिरातकभाजमानन्दयताम् ॥ ८१ ।।
सरसिजधामादिशते पदजुपि विद्यां पृथग्विधामादिशते ।
विभवे विप्रसवाय प्रणतिरियं ध्वस्तविधिजविप्रसवाय ॥ ८२ ॥
अधिफणिहारमरालः पतिरवतु कृपासरोविहारमरालः।
अघतटिनीरच्छा यं प्लवमेत्य तरन्ति गाङ्गनीरच्छायम् ॥ ८३ ॥
वलदहिदाम वसानं त्वचमीडे देवदुहृदामवसानम् ।
जगदतिसंधामाद्यन्नलिनशरप्लोपलालसं धामाद्यम् ॥ ८४ ॥
पुरजेता मम नाथो रणदमितविपक्षराजमानसमुदयम् ।
..........11८५॥
मतिभृङ्गि महेशाद्रिसारसं दोहलालसे ।
आश्रयानन्दमाध्वीकसारसंदोहलालसे ।। ८६ ॥
शंभोरवतु मामेकसहकारतलासिका ।
ऋते गिरिभुवं तेन सह का रतलासिका {८७ ॥
सोऽव्याद्वहन्सुरोत्तसमकरन्दरसं पदे ।
दिशन्नरि धजारूढमकरं दरसंपदे ॥ ८८ ॥
वेदविदध्वान्तस्य व्यतिकरमबलादिसौहृदध्वान्तस्य ।
प्रमदाम्भोजहितेन प्रत्ययरविणाम्बिकाविभो जहि तेन ॥ ८९ ॥
तं भजे बुभुजे येन तरसा गरलं धनम् ।
यत्परैः सुकरं भद्रेतरसागरल इनम् ॥ ९०॥
काव्यमारा। राजतेजा गरादी न सविता नयशोधन । राजते जागरादीन सवितानयशोधन ॥ ९१ ॥ उषित समया रसालसाल स्वमुपासीदति या रसालसालम् । गिरिजा मुहुराहिताकपालीप्रणय स्तौति गिरा हिता कपाली ॥९२॥ अद्वितीयानमूलासिकालारस नृत्तलीलारसोल्लासिकालालसम् । मामकी दुर्मनोभावनागाहते श्रीगिरीश मिया भावना गाहते ॥९३॥ अमितविभव सर्वदैव तेषु निजगति ते भव सर्वदेवतेषु । नतिरतिरसभावितायमानै स्फुटमिह धीरसपावितायमानै ।। ९४ ॥ फणाभृति तवेश दोर्णवपटीरसालासिका- रते नटति कम्पितार्णवपटी रसा लासिका । सती प्रणयसपदा समधिकामनाहते स्मरान्तक तवान्तर समधिकामन गाहते ॥ ९५ ॥ इह खलु तामरसाक्षीमययामतनो स्वमानतामरसाक्षी। इयमनुकम्पालय ते नतिरीश नमस्यतोऽधिक पालयते ॥ ९६ ॥ गिरिश गभीर हस्तस्फुरदायुधमत्र केऽपि भीरहस्त । सविधिकरोटीक ते वपु सरन्तो जगद्गुरो टीकन्ते ॥ ९७ ॥ लघु फलमाशासानश्चरतु जनो नेदमाप्तुमाशा सा न । स्वयि शशिकोटीरमणे भक्ति याचेम कामकोटीरमणे ॥ ९८ ॥ प्रतिदिवस सारस्य प्रकटितविपरीतस्थिते ससारस्य(१)। इह सपदि व्याहार शिव इति हरतेऽधमस्तदिव्याहार ॥९९ ॥ अमित रसारम्भणत श्राव्य शिवनाम वेदसार भणत । स्मान्मम कालापनय स तु किल कल्याणसाधकालापनय ।। १००॥ अविहितकृदकाण्डे दण्डितोऽभून्मनोभू रकरुणममुनेति स्पर्धमानेव गौरी । सकुचयलयमुद्राशालि गान पुरारे. रकृत मदनजैनस्तम्भमेकाम्रमूले ।। १०१ ॥
यात्राप्रवन्धः।
३७
प्रणयकलहशान्त्यै पादमूले विनम्रा-
दभिचलति कपर्दादभ्रगङ्गातरङ्गे ।
पुनरुपगतकम्पापूरगोहेन देव्या
दृढतरमुपगूढं ध्यायतैकाम्रनाथम् ॥ १०२ ॥
कुवलयदामकोमलवधूमयवामतना
भवतु भवे मवे मम भवेऽतिमवेऽभिरतिः ।
न तु भवने धने परिजने मदनेभमद-
प्रदचरितालु तासु वनितासु सुतादियु वा ॥ १०३ ॥
फाचीनगर्यामालोक्य कामकोटेः किमुन्नतिम् ।
रुद्रकोटिमधिष्ठाय रोचते मदनान्तकः ॥ १०४ ॥
इति स्तुवन्हिमकरमौलिसंनिधेर्जगत्प्रसूचरणसमीपमभ्यगात् ।
अलिर्यथा नवहरिचन्दनान्तिकादुदश्चितध्वनिरुपकल्पवटिकाम् ॥ १०५ ॥
अपिचैकभागमधिजग्गुषी विभोरतितृष्णयेव परभागमाश्रिता ।
स्तनयोर्मनोजवसतामुपेयुषी परदेवता पथि सुधी दृशोरभूत् ॥ १०६ ।।
असो पुनरसदृशमतिपत्तिमेदुरः प्रणिपत्य मातरमवाश्मनसगोचरगुणा-
माचिफुरचरणारविन्दमनुसंदघानो विसमरानन्दवीचिरिदमवोचत ।
सर्वात्मना स्तवे तव जननि जगत्यां न माशो निपुणः ।।
निवहोऽपि नित्यवानां मागत्यागेन भणति यद्रूपम् ।। १०७ ॥
शम्बरवैरिकृपाणी शैलतनूजे तवासिता घेणी।
उन्मदयौवनकुअरशुण्डालतिका शुभाय मे भूयात् ॥ १०८ ॥
जननि तव मौलिचन्द्रो मिन्द्यान्मम बहलमान्तरं तिमिरम् ।
घेणीविधंतुदेन प्रस्तगियाध न दृश्यते यस्य ।। १०९ ॥
फान्सिविरोपाधीति फलयितुमन्ते यसबपि शशाङ्कः ।
यहति न ते यदनरुचिं भवति हि भाग्यानुसारिणी सिद्धिः ॥११०॥
पदनथियो विघात्रा विधृतस्य विधुच्छलातपत्रस्य ।
मृगमदतिलमिषेण च्छायावलयं चकानि तब फाले ॥ १११ ॥
काव्यमाला। उत्तेजितः किमुत्पलवाणो मदनेन भालशाणेऽस्मिन् । भाति यदियं भवानि त्वद्भूरूपेण तद्रनोरेखा ॥ ११२ ॥ अधिकमप्तितोत्पलादपि धरणीधरपुत्रि तायकं नयनम् । कर्णाश्रयेण कान्तिमदाचं यत्तदतिपीडनेन परम् ॥ ११३ ॥ विषयमरुमार्गसीमाविभ्रमसंजातसंज्वरानस्मान् । अम्ब कृपारसपूरैरभिषिच्चापाहसारणीमुक्तैः ।। ११४ ।। निध्याय किं भवत्या नासाचाम्पेयमन्तरालगतम् । नयनमधुव्रतमिथुनं न कदापि मिथः समाममं भजते ॥ ११५ ॥ कान्तिसुधया करम्बितमाननचपर्क तवाधिवासयितुम् । नासामणिच्छलेन न्यस्तं किमु मल्लिकामुकुलम् ॥ ११६ ॥ विरसा विद्रुमवल्ली तुल्या न मवेत्त्वदोष्ठविम्बेन । यदमृतसेवनलोगादीशो धत्ते बहूनि वक्त्राणि ॥ ११७ ।। अवतु तच स्मितकलिका शिखरिकुलाधीशफन्यके मातः । प्रणयकलहप्रसक्तिपु यदवधिरीशस्य भवति चाक्तिः ॥ ११८ ॥ सरघोपचितरसे वा सारे वा कालकूटसोदर्थे । मधुरिमधियं विमुञ्चति गिरिशः प्रस्तौपि यदि गिरमपर्णे ॥ ११९॥ वितता भवकपोले विलसति ताटङ्कमौक्तिकच्छाया । अधिकतया श्रुतिगलिता हरचरितकथासुधारसझरीव ।। १२० ॥ न नमय वदनसुधाकरममृतं निपतिष्यतीति सव्याजम् । गिरिशेन केलिफलहे मुहुरुन्नमितं नुमो भवचिबुकम् ॥ १२१ ॥ त्वत्कण्ठदत्तभङ्गः शलो भीत्या समेत्य हरिदीशम् । मजते ततोऽपि मद्भान्कापि न शर्मास्ति कुटिलहृदयानाम् ॥ १२२ ॥ कण्ठसमुदश्चितं तब कलरुतमपहत्य साप्रतं गिरिजे। प्रकटयति जनसमक्ष प्रायो हस्ताग्रताडिता वीणा ॥ १२३ ॥ नखरममनोलसत्करकिसलयमम्य तव भुजलतायुगलम् । आलिङ्गति सहकारं निटिलहगभिधानमिति किलोपयिकम् ॥ १२४ ।।
यात्राप्रबन्धः। आन्क्षुिधा पदाम्बुनसक्तानस्मान्समीक्ष्य वात्सल्यात् । धृतया स्तन्यसमृद्ध्या भवति किमम्ब तव पीनता कुचयोः ॥ १२५॥ मुखचन्द्रामृतलहरी मुक्तादामच्छलाक्षरन्ती ते । कुचगिरिमृगमदकलिला नाभिसरो विशति रोमराजिमिषात् ॥ १२६ ॥ ज्यारोपणाय मध्ये धनुपो निहितस्य मारवीरेण । अटनीनिपीडनोदितमवटं त्वन्नाभिरिति चदन्ति जनाः ॥ १२७ ।। उच्छ्रायशालिनोर्भरमुरसिजयोः सोढुमप्रवीणतया । ताम्यति तवावलमं सहा न हान्यसंपदल्पानाम् ॥ १२८॥ वसतो वृषाकभीत्या भवदीयश्रोणिपर्वतनितम्बे। रशनामिपेण रक्षावरणो मदनस्य वर्तते मातः ॥ १२९ ।। मन्ये त्वदूरुकाण्डौ मन्मथतारुण्यवारणेन्द्रकरौ । कथमिह घटतेऽपरधा कदलीस्तम्भाभिपङ्गलम्पटता ॥ १३० ॥ समरव्यतिकरसमये पश्चाद्भवतो भृशं निषङ्गस्य । दर्पहरणेन तावज्जद्धाकाण्डस्य जननि का श्लाघा ॥ १३१ ॥ संपलयास्त्वदङ्ग्रेः सक्ता वल्लीपु किसलयव्याजात् । यस्पल्लवा इतीदं नामो नामैकदेशतो ग्रहणम् ॥ १३२ ।। प्रकृतिकठोरपदापलिरेषा नुतिरेव गत्सगारंब्धा । भवति भवदनिपल्लवशोणिमहेतुरिति शोमते पादः ॥ १३३ ।। जननि स्वदधिचङ्कमलीलालेशापहारसंदेहात् । प्रायेण निगलबन्धं नरपतयः कारयन्ति नागानाम् ।। १३४ ॥ श्रुतिशतशिरोविहारश्रमपरिखिनेर चरणरेणुस्ते । सुरवरशेखरममनोमकरन्दस्यन्दगाहनं तनुते ॥ १३५ ॥ असितकचमायतेक्षणमुलसितस्मितमुदारकुचमारम् । धनजपनमरुणचरणं फलये कामाक्षि तावक रूपम् ॥ १३६ ॥ सुधाभजनविधायिनोऽपि सपदि समुदेति सौहिती न पुनरम्बांगुण- फदम्बामृतझरीनिपेयणधुरीणमानसस्य । पुनरपि भूमरधुरंपरस्तदनुयन्धिनी- मेव मारतीमभिधातुमारमत ।
काव्यमाला ।
कस्मिन्मुहूर्ते करपशवेन तवाददे काश्चनदर्विकेयम् ।
यस्य प्रसादादयमिन्दुमौलिरैश्चर्यमव्याहतमम्ध मुझे ॥ १३७ ॥
घामास्य कैलासगिरिः करस्थो हेमाचलस्त्वं दयितान्नपूर्णा ।
धत्ते हरो भिक्षुकतां तथापि लुब्धःसमागच्छति केन तृप्तिम् ॥ १३८ ।
गिरीशहेरम्बकुमारवाहग्रस्तायशिष्टैरचलेन्द्रकन्ये ।
धान्यैरपि प्रस्थमितैः कथं वा जगत्रयीपोपणमातनोषि ॥ १३९ ।।
कम्पामपास्य अथितोद्दमानां च पुटगस्तविसाकुराणाम् ।
उहीवमोधेन मरालिकानामाकर्ण्यमानामरणस्वनानि ॥ १४० ॥
मृदुप्रकृत्योर्मणिनिर्मितायां पदाजयोरर्पितयोः पदव्याम् ।
तद्विम्बदम्भाद्दयमानघात्रीप्रारब्धपद्मास्तरणक्रियाणि ॥ १४१ ।।
कुचामृतास्वादकुतूहलेन हस्तावकृष्टांशुकपल्लवाभ्याम् ।
अभीष्टवस्त्वन्तरदानपूर्वमाख्यातसान्त्वानि कुमारकाभ्याम् ॥ १४२ ॥
अनुद्रवच्छेकमृगीनिवृत्त्यै वितन्वतो हुंकृतिमाननेन्दोः ।
साचीकृतप्रेलितवेणिकास्तश्वासानिलाकृटमधुब्रतानि ॥ १४३ ॥
मध्याय मन्देतरकम्पशालिपयोधरद्वन्द्वभरादिताय ।
अनार्यशङ्काकुलितेन भी प्रतिक्षणं प्रार्थितमङ्गलानि ॥ १४४ ॥
अचिन्त्यमानस्फटिकाङ्गणोर्वीपुप्पोपहारस्खलनव्यधानि ।
गोपयातानुचरीप्रणीतवेणीगलन्माल्यनिवन्धनानि ॥ १४५॥
अभीक्ष्णमक्ष्णोः श्रवणारविन्दपरागपर्याकुलभावमाजोः ।
प्रसादनाय प्रणयोत्तरङ्ग पिनाकिना दत्तमुखानिलानि ॥१४६॥
अद्वैतचूतप्रसवासवेषु पदे पदे प्रस्तुतमजनाभिः ।
कम्पातरनानिलकन्दलीभिराचान्तधर्माम्बुकणावलीनि ॥ १४७ ॥
अजस्रमभ्यागतमण्डलाय प्रत्यग्रमन्नं प्रतिपादयन्याः ।
आ मण्डपादा च महानसात्ते कागाक्षि नः पान्तु गतागतानि ॥१४८॥
किं च।
मध्ये नीपवनस्य प्रचलद्गीर्याणतरुवनीपवनस्य ।
शीलितमोहनगानां जननी भज भञ्जनाय मोहनगानाम् ॥ १४९ ॥
यानाप्रवन्धः। ४१ पुरहरगिरिजातरसा चेतसि येषां चकास्ति गिरिजा तरसा । अतिसरसं पद्यं ते रचयन्ति यशांसि तेपु संपद्यन्ते ॥ १५० ॥ इयमुपनीताम्रतरावभिके सक्का जपावनी ताम्रतरा । मामिह पाकं पायानियतविधि तन्वती कृपा कम्पायाम् ।। १५१ ॥ बहुशो भाविता नासाशिखरन्यस्तलोचनैः । बहुशोभाविताना सा मवानी परिपातु नः ॥ १५२ ॥ घनसारसगन्धेन वदनेन स्मितेन च । घनसारसगन्धेन ललिता ललितां भजे ॥ १५३ ॥ अपत्यमगराजस्य भजमानसभाजनम् । चन्द्रशेखरचाहनां भज मानस भाजनम् ॥ १५ ॥ कलत्रमशं दृग्भासा सन्नतामरसं सदा । सेवे श्रित पदोपान्तसंनतामरसंसदा ॥ १५५ ॥ प्रातोऽसि देव्या बन्धूककलिकोपमदेहया । गङ्गाधरे कृतप्रेम फलिकोपमदेहया ॥ १५६ ॥ जनन्या गिरिशोद्गाटोकलिकालसमानया । क्यं धन्या वतंसेन्दुकलिकालसमानया ॥ १५७ ।। अम्बा तपोवनीभूतकम्पाकान्तारमालिका । सेव्या शिवस्मृती वीतकम्पा कान्ता रमालिका ॥ १५८ ॥ शिवा स्पृहावती कम्पावाहिनीपवनालये । भासते मुमनोमारवाहिनीपवनालये ॥ १५९ ॥ फाशते वलयारस्य फमनी यतमानसा । कान्तिसीमाग्यशीलेः किं कमनीयतमा न सा ॥ १६० ॥ समरच्छिन्नदैतेयसारवद्विपदन्तया । देव्या जिनं कृतोपास्तिसारवद्विपदन्तया ।। १६१ ॥ अत्र गौर्या सदारव्यवागवासरसार्यया । भूयते गीयते लोके या गवा सरसार्थया ।। १६२ ।।
४२
काव्यमाला।
भजतः स्युरिमां विद्यां काञ्चीदा मोदराशयः ।
साधु जानाति यान्मातः काञ्चीदामोदराशयः ॥ १६३ ।।
धचे मुदा श्रियं गौरी तामसीमदमन्धरा ।
अस्याश्च प्रकृति रे तामसी मदमन्थरा ॥ १६४ ॥
कलयामीन्दुकलया भूपितां तटभूषिताम् ।
कम्पायाः सोर्मि कम्पाया देवतां शश्वदेव ताम् ।। १६५ ।।
कुन्दराजन्नवरदा वरदानविशारदा ।
शारदाविनुता पातु तापातुरमिमं शिवा ॥ १६६ ॥
जननी जननीतीनां गिरिजा गिरि जाग्रती ।
महता महताटोपं तनुतां तनुतां शुचः ।। १६७ ॥
रमणीयतमा शंभुरमणीयमुपासिता ।
कम्पातीरं गता नाधेः कं पातीरंमदाधिकात् ॥ १६८॥
धरा धरार्तिकृत्पयोधराधरास्तपल्लवा ।
परा परापनीतितत्परा पराकरोत्यघम् ॥ १६९ ।।
अमेयविभवे भवे सहृदया दयाधनमना मनाक्सभजने ।
जने धृतसुमा समाधिमुगमागमालिमहिता हितास्ति जननी ॥ १७० ॥
रयशालिकुचा लिकुचापजये वचसैव सुधा वसुधाधरभूः ।
कलसारसना रसना भुवि मे तनुतां नटनं नटनमसखी ॥ १७१ ॥
मुदितामुदितारुणविम्बनिभामगजामगजानुविधेयगतिम् ।
अधिकाश्चि घनाभवने भवने रतिभाजमिहाकलये कलये ॥ १७२।।
महितया हितया जगतां त्रयीपथिकपालिकपालिजुपा गयि ।
करुणयारुणया क्रियतां नमत्सुरगवीक्षणवीक्षणनाटिका ॥ १७३ ।।
आतिभागशनदानवासनाशालिनी जनितदानवासना ।
तादृशी जयति तापसी मया सेविता कृतिरतापसीमया ॥ १७४॥
श्रये महस्तरुणिमसंपदा मनाङ्मदारुणं दृशि वशिनामदारुणम् ।
तनुप्रभाततिपरिभूतनिर्दलज्जपायनं विनतसमाजपावनम् ॥ १७५॥
यात्राप्रबन्धः। शिवयागमेषु लसमानवार्तया निजशीलवागलसमानवार्तया । स्वगुणोदयत्सकलभावलीलया जगती कृतारिकलमावलीलया १७६ सेवन्ते नतिमिह हारमालिकायै शर्वस्य स्तनधृतहारमालिकायै । तारल्यप्रकटिततादृशान्तरङ्गा वागीशादिमवनिता दृशां तरङ्गाः १७७ हितोपसंपन्नवनीपकानना वितापसंपन्नवनीपकानना । श्रिता भवानी तरसा लसन्निधौ सदा भवानीतरसालसंनिधौ १७८ अव्याजनिमलतरैर्नखरांशुपूरैः कम्पानदीप्रमदभिन्नगजेशयानाम् । कर्मीफरोति मनसा भवतीमिदं मे कं पानदीप्रमदभिन्नगजे शयानाम् १७९ सहेतिगरतच्छविपल्लवेषु शयेषु लूनाच्छविपल्लवेषु । त्वामम्ब सिन्दूरविमासमानां ध्यायन्ति मध्यरवि भासमानाम् ॥१८०॥ सति सरहरन्यस्तायतमानसमावने । पाहि मामजहसेवायतमानसमावने ॥ १८१ ।। अभ्य यस्य भवल्हास्यकलनादरसंमयः । स वेद तव संगीतकलनादरसं भवः ॥ १८२ ।। अधिमस्तकभेशेन सह सारसमध्यगाम् । अम्बिके भवर्ती पश्यन्सहसा रसमध्यगाम् ॥ १८३॥ त्वत्कृपा भुवने पुंसां फामाक्षि करसाधिका । स्वां चिनानन्दलहरी का माक्षिफरसाधिका ।। १८५ ।। करोपि देवि दानस्ते फरवैमवनाटनम् । फदा ते किंफरीभूय करवै मवनाटनम् ।। १८५ ॥ नाफे पलन्ते नादान्तमनसः परमेश्वरि । ना केवलं ते नादान्तदीपिकायास्तु चिन्तकः ॥ १८६ ।। भगपति फामाक्षि पतिप्रणयिनि भजते श्रियं न कामाक्षिपति । तय हि फटाक्षतरशः फरणोमिनटीविगटाक्षतरङ्गः ॥ १८७ ॥ सितिमधिकं पारम्ये फलयसि मातः सले च कम्पारन्ये । मिध्यति तय पदवीक्षणतः मिष्यति पुंसामजादिपदवी क्षणनः||१८८॥
४४ काव्यमाला। जगदुदयस्थेमहतीः कर्तु काशीपुरालयस्थे महतीः । अतुलं चारित्रेऽधा रूपं निगमान्तसौधचारि त्रेधा ॥ १८९ ।। द्विपति पुरागारभसे रुपगधिगौलि धृतजलधिरामारभसे । त्वमिव परा का रमिता तस्य शिवे दक्षिणेतराकारमिता ।। १९० ॥ इह पिवतः स्तन्यं ते कस्य न वाचः सुधाभृतस्तन्यन्ते । अम्य तदाशु भवत्या प्रदीयतामस्य सर्वदा शुभवत्या ॥ १९१ ॥ शुभमनसा कमनेन ग्रुपतिसुताया गुहेन साकमनेन । स्तनरसदायजुपो मे समयं गमय स्तुते सदा यजुषोमे ॥ १९२ ।। कार्या देवि चिकित्सा कुक्षिरुज: का दयापदे विचिकित्सा । स्तन्यरसायनमस्ते तमसि प्रदिशाशिसारसाय नमस्ते ॥ १९३ ॥ चिदुदधिराकारजने त्रिभुवनमातः कृतस्मराकारजने । तव नुतिवाचा रचये प्रपदनमजहत्प्रियोत्सवाचारचये ॥ १९४ ।। अञ्चितशंकरवाणि त्वत्पदसेवा दिवानिशं करवाणि । मम न गिराजनि योगं वद वचनं ते वदन्ति राजनियोगम् ॥१९५॥ श्रितपतिमानसदेशे शश्वत्काश्यां भवद्विमानसदेशे । भवतु शिवा सानुमति स्निग्धे तव देवि मनिवासानुमतिः ॥ १९६ ।। इति विनिहितबुद्धिरीश्वरायां भवनमिवाद्रिपतेरसावयासीत् । निजहृदयनिरूढकामकोटे रुचिततरा वरदोपकण्ठयात्रा ॥ १९७ ।। पार्श्वयुग्मगता यस्य प्रसूते गोपुरद्वयी । अन्तरस्थितशैलेभबन्धनस्तम्भविम्रमम् ।। १९८ ॥ कथं मनोविसयकारि तद्भवेदनन्तरं तत्र यदग्रणीः सताम् । समाहितानन्तसरोवगाहनः स पुण्यकोट्या लभते स्म संनिधिम् १९९ अथ सुमतिरयमधिरूढशिखरिकूटभागमवलोकयति स विस्मयवि- धायि विनयगौरवावर्जिताभिरपगादेगसगितसविडम्बिनीमिरुत्तमाइप- रंपराभिरन्योन्यनमनकर्माणि निर्मिमाणैरापाण्डरोर्ध्वपुण्डूमरीचिनिबिडश- रीरतया श्वेतद्वीपविहरणोचितं परिणतिविशेषमिव गाहमानैः सत्वसमृ- द्धिमन्तरमान्ती बहिरिव विभावयद्भिरतिवेलबोधजलधिपूरावगाहमिलित- यात्राप्रबन्धः। मिव वहलफेनपटलमाविमाणैरधिकण्ठमाशये च नलिनाक्षगुणमण्डितैः सारसविहंगमैरिव समाचर्यमाणलक्ष्मणाभिमतैः कमलाकरैरिव कमनीय- जलजचकाङ्गशालिमिरम्बरकुटुम्बिभिरिव प्रकटामृताभिलापरबलिसनाथ- मौलिभिरस्तोकविस्मृमरस्तवैः परमभागवतसूरिभिरावध्यमानसेवानुवृत्तिमु- मयपार्श्वस्थितपरिजनकरावलम्बितैरनवरतविजृम्ममाणपतनोत्सतनकर्मभिर- लघुनिर्मलांशुडामरैचामरैः सकरुणारसयुधाययोधिवीचिनिचयैरिव समा- चरितविजनोपचारमनधिगतवेपथुभिरपनिमेपचापलमात्मीयरूपसंपदमनुभव- द्विरिष दीपिकाप्ररोहैरवनासितभूपणप्रपञ्चं काञ्चीमध्यमण्डलमाखण्ड- लनीलमिव लक्ष्यमाणमेकेन पाणिना वारणविरोधियादोनिषूदनाय पत्याहमविनियुक्तेति कन्दलितादिव मन्दाक्षभरादधोमुखी कौमोदकी- मवष्टभ्य तिष्ठन्तमिदमेव मदावलभयविदारणमित्यमयमुद्रानुवन्धिना क. रान्तरेण सुदर्शनमिव प्रदर्शयन्तं शुण्डालवरनिवेदितं पुण्डरीकमुकुलमिव समश्चितं पाञ्चजन्यमापाटलाङ्गुलीदलशोभावगुण्ठितमचिरखण्डितप्राहरु- धिराङ्गमिव रथानमपि हस्तारविन्दयुगलेन संदधानमध्युपितनिकपमध्यामपि कनकरेखामलंकृतगगनागणामपि तरुणारणकिरणधोरणीमम्बुदकृतावल- म्नामपि शम्पालतामधिक्षिपन्त्या वक्षोनिविष्टया लक्ष्म्या समाश्लिष्टपपुप. मभिनवबन्धूकरोचिषि दन्तवाससि चन्द्रिकाशकलपेशलं स्वीकृतवर्ष- कदेशमिय हसितलेशमुद्रहन्तं पुन्नागमपि भुवनमण्डलीतिलक पूत- चारित्रमपि भुजङ्गभोगभुजं हरिमपि प्रथमानफरिहार्दगरिमाणमसमान- महिमशेवधि निरवधिविभूतिमनिमेषपतिम् । अदविपामजनमेचकानां व्याजेन विस्तारयति स्फुटं यः । कठोरवक्षःस्थलकेलिमाजो लम्या नवेन्दीयरपत्रशय्याम् ॥२०॥ वेदाकरा नीलमणेत्रिलोकीविभूषणानामपि भूपणस्य । अलंझिया यस्य किरीटमुख्यैरनुग्रहः केवलमेव तेपाम् ॥२०१॥ आपादचूडामरणेषु लक्ष्मीरामाति यस्य प्रतिविम्बिताही। आफम्य हन्मध्यमपूर्णकामा समभुयानेय तनुं समस्ताम् ।। २०२ ॥
४६ काव्यमाला। यद्भूषणेषु हरिनीलमलीमसेव मुक्ताफलाम्भसि निमज्जति प्रमायाः । शोणोपलातपमुपैति जडीकृतेर तसेव याति हरिदश्मतमालवीथीम् ॥ २०३ ॥ यत्कौस्तुभप्रतिभटोपलसंग्रहेपछु- रुद्धृत्य पूर्वजलधेर्मणिमम्बरस । नवंदिवस्फुरणहीनममुं विचिन्त्य वेधा निरस्पति मुहुश्वरमाम्बुराशौ ॥ २०४ ॥ खबिम्बमन्तर्मणिराजमीश्य जायान्तराशङ्किहृदः प्रियायाः। क्षणं समुद्यत्किलिकिञ्चितानां यः पात्रतामेति गश्चलानाम् ॥२०५॥ उद्दामबाहुभरमुद्धृतकण्टकस्य यस्योपधाय सुखसुप्तिजुपत्रिलोक्याः । क्षौमोत्तरीयमिव निःश्वसितप्रणुन्न- मारते महश्चटुलमगदमौक्तिकानाम् ॥ २०६ ॥ यस्य वरदस्य हस्तो रहस्तो हृतपराग्रहस्तोमः । कटकं बिभर्ति मानोरकटकञ्जमुखीविनोदसपटकम् ॥ २०७ ॥ शावककृष्टिपुरोगतिजगदभयत्यागदृष्ट कौशलयोः । सव्यापसव्यकरयोर्घटते मणिकङ्कणार्पणं यस्य ॥ २०८॥ अन्तर्बहिरपि शुचयः कटकजुषो यस्य वृत्तकमनीयाः हृद्तपरस्वरूपा मुक्तामणयो विभान्ति मुनय इव ॥ २०९ ॥ कटककुरुविन्दकान्तिस्थगितान्मणिदाममण्डलायस्य । करपल्लयः क्षणार्धे हारग्रहणाय हन्त संदिग्धे ॥ २१० ॥ सरसि विहृत्य वधूमिः संतरतो यस्य निर्जरेभस । कटकहरिन्मणिकान्तिः सृजति कराकृष्टकमलिनीशाम् ॥ २११ ॥ मध्येरणं कटकमौक्तिकधामगौरो यन्नन्दकः परिपतनरिकन्धरासु ।
यात्राप्रबन्धः। वैमानिकायतदृशां वरणागतानां सूते वराप्तिसुरद्रुममाल्यशङ्काम् ॥ २१२ ॥ रणे बलाकृष्टसुरारिलक्ष्मीवेणीव सा दीव्यति यत्कृपाणी । तद्वान्तजातीकुसुमानुकारं तन्वन्ति यत्कङ्कणमौक्तिकानि ।। २१३ ॥ यदिव्याभरणोच्चयस्य महिमश्लाघाविधाने तथा हर्षात्कम्पयते फणादशशतीमाशीविषग्रामणीः । पर्यस्येत यथा धृतश्विरमदः प्रत्युप्तरत्नाकुर- प्रौढालोकनिरर्थकीकृतमणीवृन्दातिभारश्रगः ॥ २१४ ॥ तदनु दनुशासनाय विनयोपहृतमौल्यानतिरसौ कल्याणिनेयः कौतुक- विकसितेक्षणो नवनवाक्षराणि कतिचिदेवमसाक्षीत् । काचिन्नीला भासा करुणा विकसट्ठमावनीलाभा सा । कृतरचनामायततेः स्थितये लोकस्य वरदनामा यतते ॥ २१५ ॥ स्फुरदपदानवलोऽपः सिन्धोरवगाह्म कृप्तदानवलोपः । नितरामायामी नः श्रियमनवद्यां तनोतु मायामीनः ॥ २१६ ।। अरिजलजगदाधारं दूरं वचसामशेषजगदाधारम् । स्वीकृतकच्छपदेहं सेवेऽहं (त) कृताधिकच्छपदेहम् ॥ २१७ ॥ बाहुपु सुरसालाभः प्रलयजलान्तःप्रणीतसुरसालाभः । किटिरुरुनासावंशः पूर्णो भावः परस्य नासावंशः ॥ २१८ ॥ अधमभितापं चास्यन्नमतां वक्रेण भास्वता पश्चास्यम् । सृजदरिवक्षो दमितं मजत महस्तदमृगभिनवक्षोदमितम् ॥२१९॥ निजपदराजीवेन न्यपृतदैतेयशेखराजीवेन । कलितमहामहिमानः कल्पयतां शर्म धनमद्दा महिमा नः ॥२२०॥ रिचितपरशुभरणया त्रिसतवारापनीपाशुभरणया। संतकृतवीर्यजया श्रीपतिकलया भयाम कृतवीर्यजयाः ॥२२१॥ पशुपतिचापलतायाः पाटयिता जयति पदमचापलतायाः । यः किल साकेतपतिः स्वयमटवीमाप पितरि साके तपति।।२२२॥ .
४८ काव्यमाला। ...............। .......... आइतहालाहलया हतमुष्टिकमुख्यदुष्टहालाहलया । श्रयत हरिज्यायस्या श्रेयःकलया सशस्तिरिज्या यस्याः॥२२३॥ धाम्रो वंशस्तस्य प्रकाशतां विदारवं शस्तस्य । अतिसुकुमारमयन्तं मधुमयतां गोपसतितमा रमयन्तम् ॥ २२॥ मुरली वादयमाना गोदं पशुपालनोत्सवादयमाना । सदृशी तापिच्छेन स्फुरति कृपा शिरसि भूपिता पिच्छेन ॥२२५।। हरिमभिजातोदन्तं वन्दे कृतवाणबहुभुजातोदं तम् । वक्षसि परमा यस्य क्रीडति लक्ष्मीरफेढपरमायस्य ॥ २२६ ।। अधिगतकल्यन्तेषु म्लेच्छेपु सृजत्सु वृषमकल्यं तेषु । नटितभुजातरवारि ज्योतिरुपासे भयोपजातरवारि ॥ २२७ ॥ सायन्वरदाभिख्यां साधून्पुष्यत्ययं वरैः । सत्यव्रताधिका.... ॥ २२८ ॥ कन्दति फरुणमिभेन्द्रे व वैनतेयः क वैनतेय इति । उच्या सह फणिशयनादुञ्चलतस्ते स पातु संरम्भः ॥ २२९ ॥ श्रीचाटुवाणीश्रवणान्तरेऽपि गर्नेव भेजे करिणः श्रुतिं ते । आपनरक्षाध्वरदीक्षितानां पुंसां न भोगाभिनिवेशयोगः ॥२३॥ मधुपानुबन्धमनिशं मदान्धतां रसनाविपर्यसनमप्यचिन्तयन् । अतिभक्तिमेव करिणस्त्वमग्रहीर्गुण""ता खलु गुणो महीयसाम् २३१ रमेश कारुण्यरसाम्बुराशेः समुजिहानो भवतः सवेगम् । चकारुणो नक्रतमिस्रहारी बभार पद्मिन्यनुकूलभावम् ।। २३२ ॥ भवत्सायुज्यलामेऽपि भवादतिशयान्तरम् । भजते स न वेतण्डो भवन्मुक्तकसंश्रयः ॥ २३३ ।। यस्ते कटाक्षविधिरातिमिते गजेन्द्रे यश्चास्य पीडनविधायिनि शिंशुमारे । तत्ताहशोर्वरदराज तयोरिदानी- माद्यं निधेहि मयि मजिने द्वितीयम् ॥ २३४ ।।
यात्राप्रबन्धः। अजाश्वमेधाध्वरकल्पशाखिनः पचेलिमं तत्फलमच्युताकृति । अहो बताभिष्टुवतोऽपि सौहिती मनीषिणां मौलिमणेरवर्धत ॥ २३५ ।। इति समरपुंगवस कृतौ चम्यूकाव्ये तृतीय आश्वासः । चतुर्थ आवासः। अन्तर्वाणिरसौ गेहमरुणस्तु नभोन्तरम् । तौ विष्णुपदसंसेवातत्परौ लब्धुमैच्छताम् ॥ १ ॥ तथा हि । तरलतत्कान्तिसंपद्विडम्बितजाम्बूनदकुम्भमम्भोजसचिव. बिम्बमम्बरसौधशिखरमालम्बत । मुक्तारुचो मूर्धनि हर्म्यकेतोरासक्तमम्भोरुहबन्धुविम्यम् । तस्याः पुरोऽराजत दण्डशालि हिरण्मयच्छत्रमिवावभासे ॥ २॥ प्रादुर्भूतं प्राग्दिशा विप्रयोगादाविप्राणो हन्त संतापमारम् । काले तस्मिन्कामुकः पद्मिनीनामन्यैर्भजे दुर्निरीक्ष्यामवस्याम् ॥ ३ ॥ भूत्वा मृदुः पुरा पश्चात्तीतो याति दिनेश्वरः । प्रायो पसुसमृद्धानां प्रकृतिः किल भिद्यते ॥ ४ ॥ अपहत्य कुलान्यभीशुमाली जगदन्धकरणानि शार्वराणाम् । प्रकटीक्रियमाणभीमभावः प्रतिपेदे परदुःसहं प्रतापम् ।। ५ ।। विभज्य विश्वंभरया नदीभिराशागणैरप्यनुभूयमानः । जजे वियत्मान्तरयानजन्मा तापातिरेफस्तरणेरसह्यः ॥ ६ ॥ उपगच्छति येन साकमुच्चैरुदया(दो) जगदुष्णयाग्नि तस्मिन् । अखिलात्मनि तापमनुवाने तदभूत्तप्तमिहास्ति कि विचित्रम् ॥ ७ ॥ अहह ततिरशेपदेहभाजामपि पुरतः स्थितिमीक्षितुं तदानीम् । अभजत भृशमक्षमामवस्यां त्रिभुवनचक्षुपि दर्शितमकोपे ॥ ८॥ निरतिशयतापनिर्वापणायेव कमलकुचलयकहारविपिनानि किमपि परि- ममर्श तरणिकरनिकरः । किमुत बहुदरसरणिसंचरणारचितसंग्वरपनाः पचजनाः । तत्क्षणं च नगरमक्षान्तमिहिरसंतापतया सेव्यमानफदलीगृहान्त- रमभिनन्धमानशगिफान्तमणिवेदिकमपिरुममाणसरसकुयुमास्तरणमभ्यम्य- काव्यमाला। मानकर्पूरालेपनमारभ्यमाणधारागृहासिकमासाद्यमानकासारखेलनमुद्भाव्यमान- गन्धोदकयन्त्रशीकरासारमुद्भूयमानलानजकन्यजनमुपयुज्यमाननवनालिकेरस- लिलपरिचीयगानपाटीरपङ्कमेदुरवधूटीकुचाचलमजायत । कुचमण्डलमालिलिङ्ग कण्ठं जगृहे वक्रसरोरुहं चुचुम्चे । स्पृशति स्म नितम्बमारोह प्रमदानां जघनं श्रमाम्बुपूरः ॥ ९॥ तालवृन्तपवनादभिकानामुत्तरीयमरुदन्जमुखीनाम् । प्रीतयेऽजनि ततोऽपि विसर्पविनसीमनि तदास्यसमीरः ॥१०॥ पयोधरोत्सारितकचुकानां प्रासादयातायनसेविनीनाम् । स्त्रीणां जहार श्रममजगन्धी सशीकरो वेगवतीसमीरः ॥११॥ वीचीकणैः पौरविलासिनीनां व्यत्यस्तवक्रश्रमवारिलेशः। स्वसौरभक्रीतशिरोजगन्धः क्षीरापगागन्धवहश्चचार ॥ १२ ॥ प्रतिसौधगवाक्षलक्षितप्रमदायक्रशता पुरी वभौ । मिहिरज्वरवारणोदयन्मृगलक्ष्मावलिभूपितेव सा ॥ १३ ।। तदनु निर्गल्य सरोजनेत्रसदनादतनुशासनसमाराधनाय नवकुसुम- निचयमवचिचीपुरयगवतरति स विविधतरुकोटरकोडपरिक्रीडमानचिनोर्ड पतनदलितनालिकेरफलपरिग्रहव्याशावकपरिपदावध्यमाननियुद्धकोलाहलं विटपितलनिपण्णविटजनोत्सङ्गनिद्राणपुष्पलावीपरिष्कृतं दिवसफरभीतशीत- लतानिरातङ्कवसति गजतुरङ्गसंदोहमन्दुरां चारुतरवीरुनटिनीनिवर्तनान- र्तमही प्रमदोपगूदमिव मन्मथारूदहृदयं बहिरिद्धकण्ठकं च विन्ध्यमिव नमेरुविरचितामोदं व्याप्तनभस्थलं च पथिकशरीरमिच मियालोपहृतशोम मत्यमलोध्रपाण्डरं च पर्तिवरापरिगृहीतमिव भामुरमधूकमालिफामपितं प्रथमानमङ्गलं च राशिमण्डलमिव मन्दारमण्डितपुप्पवदलंकृतं च स्वलेकि- राज्यमिव सहसाक्षसमन्वितं संभावितरम्माविलासं च पार्थिवसदनभिव पृथुलसालयलयितं फौशपरिपूरितं च दैत्यारिरूपगिव भद्रश्रियाचितं पानी- निपेवितं च मजनशीलमिव समधिकद्विजपापातमाथितसंतापहरं च बात- फीवाद्यमिय रचिरमवालशोभितमभिरूप्यककुभं च फणिराजशयनमिय पीलग्निविशेषः।
यात्राप्रबन्धः।
कृष्णलाभासितं सदाभोगसहितं च गणिकासनाथमपि विमलस्वभावमविरत-
जपानुबन्धमपि बहुतरारिष्टं जातिविशिष्टमपि नकुलचरितान्वितं सरलोदित-
च्छायमपि कुरवकसमग्रं सुकवीरशोमास्पदमपि साध्वसहगन्तरं प्रकटित-
स्पर्शनमपि नवनीपकाभिराममुत्फुलचिरिबिल्वमुल्लासहरितमल्लिकमुन्निद्रपुन्ना-
गमुन्मुद्रणातिमुक्तमुद्भिन्नकर्णिकारमुन्मपशोभिकेसरमुज्जृम्भमाणचम्पकमुद्वि-
फासवासन्तिकमभिजातहसितकेतकमारव्धविदलनारग्वधमतितन्त्रमुचुकुन्दमा-
अन्तविकचमाकन्दमाकलितजागराशोकमवबोधशालिनवमालिक निखिलज-
ननयननिर्माणफलमुन्मीलयता तारतम्यातिशयेन खाण्डवमपि निर्कर्पताण्ड-
वस्य वृन्दावनमपि मन्दाक्षसंपदो नन्दनमपि भूरिनिन्दनविधेरशोकवनिका-
मपि निराकरणकर्मणो मधुवनमपि पृथुवृणावतरणस्य चैत्ररथमपि महात्रास-
परिणतेः पात्रीकुर्वाणमलिपटलजेगीयमानसरसर्तुसाधिमास्पदं परभृतकदम्ब-
पापट्यमानपञ्चशरबिरुदप्रपञ्चं शुकशारिकानिकरजोघुप्यमाणपुराणपुरुपहृया-
वदानमुद्यानम् ।
पिकनिनदमयी नयन्प्रियोक्तिं प्रसवरसप्रमदाश्रुविन्दुवर्षी ।
उपवनपवनस्तदाभिधावन्परिरभते स्म तमानतं सगन्धः ॥ १४ ॥
तत्र पुनरत्रमवानशेपसुमनोविकासहेतुरसौ वसन्त इव समन्ततो विटपिया-
टीपु पर्यटन्भवितव्यशिवपदाम्बुजसंपर्कबहुमानसंमदादिव विस्मयमानमभिजा-
तकुमुममाददानो जयविशिखसंग्रहणशीलमकराङ्कविलासभूयिष्ठतनुरिदमाचष्ट।
मधुव्रतक्षोदसहं मदीयः सदोपभोगेऽपि ससौरभीकम् ।
पुप्पं प्रसूते भुवि कस्तरूणामप्रेसरं केसरमन्तरेण ॥ १५ ॥
संदृष्टा किमु कापि हानिरियता चाम्पेयलोलम्बयो-
रसाक्षीन परस्परं यदुभयोरम्भोजम्: सौहृदम् ।
क्ष्मापालेरुपलाल्यते न शिरसा किं चाम्पकः कोरको
मृगः किं कमलाकरेषु न मुहुः प्रामोति लीलासिकाम् ॥ १६ ॥
ललिता त्वं."लतावलीषु जाते मुकुमारः समयेषु माययोऽपि ।
प्रणयेयदि संगतिं भवत्या स भवेत्सर्वगुणाकरम्तदानीम् ॥ १७ ॥
काव्यमाला।
हे कर्णिकार मुहुरीश्वरवल्लभत्वं
संतप्तहेमसमता च तवेति हृद्यम् ।
आमोदभारमलिमानसलोभनीय-
माविप्करोपि न यदत्र परं व्यथा मे ॥ १८ ॥
भजतश्चपलोदये विकासं रजसा दूषयति स्वसेविनोऽपि ।
प्रमथेशपदार्चने निषेधो भवतः केतक युक्तमेव मन्ये ॥ १९ ॥
कर्पूरस्य पदे चितामिभसितं क्षौमस्य नागत्वचं
पासादस्य परेतभूमिमुरगं प्रत्यप्रमुक्तावलेः ।
दिव्याहारभरस्य किंच गरलं देवेन संतन्वता
स्थाने काञ्चन पारिजातकुसुम स्थाने भवद्धारणम् ॥ २० ॥
प्रमथाधिपार्चनायै विल्य भवत्पत्रभङ्गरचनैव ।
मूलमनघेन पुंसा मुक्तिवधूपत्रभनरचनायाम् ॥ २१ ॥
श्रीखण्डसालजगतीविदितानुभाव
तत्तादृशी सहनतां तव किं वदामः ।
कामं यतः कठिनदारणदार्यमाण-
देहोऽपि गन्धनिवहेन जनान्धिनोपि ॥ २२ ॥
पौष्पैः कल्पयसे रसैमधुलिहां वृन्दस्य संतर्पणं
छायासंपदमातनोपि जनतासंतापनिर्वापिकार ।
पुष्णासि स्वयमङ्कुरैः शुभगिरां पुंस्कोकिलानां कुलं
धान्यामत्र तवैव धूतविटपिन्पन्या महाभ्युन्नतिः ॥ २३ ।।
उद्यानादध मजनाय मुमना मध्याहहृद्येतर-
च्छायानायकसंज्वरप्रशमनोपायादुपायात्सरः ।
पाथोजावलिशीधुहृष्टमधुपत्रातप्रणादकिया-
संगीतोचरनृत्तकौशलमिलदृङ्गालि रगस्थलम् ॥ २४ ॥
अधिगत्य च कासारमयमित्यभाषत ।
नीरजानि जलनीलिकामरैः साकमेव सततं बकैः सह ।
मण्डलीमपि च मानसीकसां पुष्यति स्फुटमसौ जलाशयः ॥२५॥
यानाप्रबन्धः। ". पाहान्जिनीकण्टकपङ्कराशीनन्तर्दुरन्तानपि संदधानः । वहिर्गतैरम्वुजराजहंसैर्वध्नाति विस्रम्भमयं तटाकः ॥ २६ ॥ हे पद्माकर मा विपीद जगतीचेतःप्रियंभावुको धत्ते यत्त्वयि चन्द्रमा विमुखतां तस्यैव तल्लाघवम् । सौहित्यप्रतिपादने तव पुनः शक्ताः परिप्कुर्वते पृथ्वीमध्यममी पराकृततमोदी रवे नवः ॥ २७ ॥ अनन्तरमसावनियन्त्रणस्नेहपरवशानुचरो निजकरविललितोदकमवगाह्य कमलाकरमवचितसरोजपरिप्कृताग्रहस्तः समुत्तीर्य वारितो निपेवितदिवस- उन्धुरयमवनिसुरधुरंधरो मन्दिराय मन्दमन्दमस्पन्दत । गत्योपकायर्या कलितेशपूजः स भुक्तवान्भूसुरभुक्तशेपम् । ब्रह्मोद्यपाठं प्रतिपद्यते स्म सुचर्ययाः समयं नयन्ते ॥ २८ ॥ तथा हि । एप दुहृदनुरोधहेतुकं भेदमात्मपतिना समं गतः । आपदामहह भाजनीमवन्यरुपो भजति भूयसी व्यथाम् ॥ २९ ॥ ईशवासरमणेरदर्शनादेधमानपनमोहशार्वरः । संनिकृष्टमपि शश्वदात्मनो हर्षशेवधिमसौ न पश्यति ॥ ३० ॥ बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुपिताकृतौ सति । खानदानयजनादिकान्यसौ मोचनावधि मुदानुतिष्ठति ॥ ३१ ॥ आ रसातलतलादयं विघोरा च वासभवनाद्गतागतैः । खिद्यमानदयो गवेपते स्फारविथममुखास्पदं पदम् ॥ ३२ ॥ आधिवीचिमदनादिसंमृतिव्याधिमेपजविशेपवेदिनम् । शर्मदं शरणमेयुपामयं ब्रह्मनिष्ठभिषजं प्रपद्यते ॥ ३३ ॥ देशिकोक्तिदृढकुञ्चिकाकृते गाढविभ्रमकवाटपाटने । आगमान्तवमुमन्दिरान्तरादर्थमिष्टमनपोऽयमृच्छति ॥ ३४ ॥ पण्डितः पटुविचारशसिकात्यानकोशमयवल्कसंहतेः। सारमाऊलयते जगदनक्षमारहाकिमपि नित्यनिर्मलम् ।। ३५ ।।
काव्यमाला।
मानतर्कमयवारिधारया क्षालितेपु गगनादिपांसुषु ।
अन्तरङ्गफलकान्तरे सुधीरीशतादविणमीक्षते निजम् ॥ ३६ ॥
पारदुर्विधसुखप्रकाशके तत्त्वबोधतनयोदये सति ।
अस्य कर्मकरणाधिकारिता नानीति न कदाचिदप्यहो ॥ ३७॥
विश्वकण्टकिफलं विशुद्धया वेदनच्छुरिकया विदारयन् ।
आन्तरं रसममुप्य निर्ममः सर्वथा निरुपमं समश्नुते ॥ ३८॥
विप्रयोगसमये स्वमायया विक्रियाशतमुपैति पूरुषः ।
हन्त मुक्तिरमणीमवाप्य तामेष निर्विकृतिरेव तिष्ठति ॥ ३९ ॥
मुक्तिसंगतिमहोत्सवो मुनेरीदृशोऽयमिति केन वर्ण्यते ।
चेतसा सह यतो निवर्तते श्रेणिरागमशिरोगिरागपि ॥ ४० ॥
अपि च ।
चिनेन वृत्त्या विषयेण संगान्मातृप्रमामयदशां प्रपन्नः ।
आत्मैक एव प्रतिभासते चेदतः किमन्तर्मुखतास्ति भिन्ना ॥ ४१॥
निःसन्धिबन्धं निगमान्तवाचः परप्रतीचोरभिदां वदन्ति ।
साच स्वरूपानतिरेकिणी चेदहंप्रतीतेरपरो न योगः ॥ ४२ ॥
अजादिकीटान्तमनर्थजातमध्यस्तमेवात्मनि बोधरूपे ।
स एव चेदस्ति भवेन्निवृत्तिरतः परं किं पुनरस्ति साध्यम् ||४३||
इतीदृशीमागमदेशिकाभ्यामधीयमानामवबोधनायम् ।
ढीयसीमेत्य तपोभिरेकः पारं परं याति भवाम्बुराशेः ॥ ४४ ।।
किं च ।
विना मृडप्रपतनं विगमो न हि जन्मनाम् ।
भास्वतो दर्शनमृते प्रशमस्तमसामिव ।। १५ ।।
आधिक्यमस्मानगतोऽधिगन्तुं विश्वाधिकोत्तविषयं प्रपये।
कालमहमाहमयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ।। ४६ ॥
शृङ्गारभूमणवारणाय प्रसूनकोदण्डरिपुं प्रपये।
विनेतुमाति विपयाध्वजन्यां पटदुमाधोवसतिं प्रपद्ये ॥ १७ ॥
यात्राप्रबन्धः। . मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये । कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशुं प्रपद्ये ॥ ४८ ॥ विशुद्धविज्ञानविकासहेतोः प्रबोधमुद्राभरितं प्रपद्ये । तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये ॥ ४९ ॥ वैमल्यसंपादनवान्छयाहं मन्दाकिनीमाल्यधरं प्रपद्ये । प्रसादलाभं परमीहमानो मुग्धस्मितोल्लासिमुखं प्रपद्ये ॥ ५० ॥ व्यथामशेषां व्यपनेतुकामो नाम्ना मृडं नाथमहं प्रपद्ये । ॥ ५१ ॥ सर्वज्ञतासारभृतं प्रपद्ये निःसीमसौहित्यनिधि प्रपद्ये । अनादिबोधायतनं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये ॥ ५२ ।। हरं प्रपद्येऽहमलुप्तशक्तिममेयसामर्थ्यमहं प्रपद्ये । शिवं प्रपद्ये जनकं विधातुरीशं हपीकेरागुरुं प्रपद्ये ।। ५३ ॥ इति प्रपचिमीशस्य तन्वते तत्त्वदर्शिनः । तत्क्रतुन्यायरसिकास्तत्तादृशफलाप्तये ॥ ५४ ॥ तद्नु तदनुवर्णितशास्त्रसमाकर्णनादिव विरक्तभावमापाद्यमानः कमपि शमप्रकर्षमुपदर्शयन्नरुणसारथिरवततार चरमगिरिशिखरम् । अस्ताद्रिशृङ्गादतिमात्रतुङ्गादात्माधिनाथं पतयालुमन्यौ । द्रष्टुं नलिन्यो धृतभीतिभारा न्यमीलयन्नीरजलोचनानि ॥ ५५ ॥ नभस्तमालद्रुमपालवाभा नव्या बभौ सान्ध्यमयूखरेखा । अम्मोधिनिर्मजदभीशुमालिरथाप्रकौमुम्भपताकिफेव ॥ ५६ ॥ दिवसकरविपयोगतनीयसीनामाशाविलासिनीनामसितजलदानुकारिणी वे- णिकाधोरणीव तमिसपरिदृश्यत । प्रतिवेश्म तमियण बन्दीकृत्य नियनिताः । ममा इव पतंगस्य दीपरेखा दिदीपिरे ॥ ५७ ।। सपदि गगनपथादपसरता वास(र)करेण सरभसानुसरणोद्भटतमःप्रति- मरदिलोपनाय विस्तारितानि परिप्करणमुक्ताफलानीय तारकापटलानि . दरशिरे।
काव्यमाला।
तमिस्रकस्तूरिकयानुलिप्ता प्रदीपचाम्पेयकृतावतंसा ।
वाटी हरिद्वासकसज्जकानां चबन्ध चन्द्रागमनप्रतीक्षाम् ॥ ५८ ।।
अत्रान्तरे सिन्धुरयापदेशादानन्दयन्सर्वदिगन्तराणि ।
ध्वान्ताभ्यमित्रीणतुपारतेजः प्रयाणभेरिध्वनिराविरासीत् ॥ ५९ ॥
आगत्य संकोचभृतः सरोजादिन्दीवरं यावदलिस्ततोऽपि ।
मौनस्पृशो यातुमियेप तावदिन्दुस्तदुबोधकरो जनृम्भे ।। ६० ॥
विगतसफलाशाविकासकर्मणि परिहतविषयानुभावे संमीलितसरोजच-
क्षुषि तेजः किमपि दीपाकारमन्तरनुसंधाने 'कालकर्मन्दिनि पृथुलतमः-
पटलभेदमुपपादयन्प्रबोध इव सुधाफरो भगवान्प्रादुरभूत् ।
द्यौरिन्दनाधूतपुरस्तमिसा पश्चाच रिलत्तिमिरा बभासे ।
हृतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्तिमिताम्बरेव ॥ ६१ ।।
संध्यारुणं प्रागथ सान्धकारं पश्चान्नभः प्लावितमिन्दुभासा ।
रेजे विराजक्रमनृम्भमाणरजस्तमःसत्वमिवान्तरङ्गम् ॥ ६२ ॥
महादने महसि तत्र सतिप्ररूढे
वाराकराम्बुलहरी ववृधे यथेष्टम् ।
चन्द्रोपलाः सरसतामधुरुत्पलानि
चकुः स्मितं किमुत यानि सचेतनानि ।। ६३ ।।
न चेत्पुराणौ पुरुषौ नताशीवशंवदोरःस्थलवामभागौ ।
तादात्विकं तावपि न क्षमेतां कामोद्यम का गणना परेपाम् ॥ ६४ ॥
काश्यां तदा कामरुलाजनीति किमद्भुतं तन कृतान्तशत्रोः ।
तथा स्मरन्दग्धवतोऽपि देहे संदृश्यते शैलमुतास्तनाङ्कः ।। ६५ ।।
तथाहि ।
विलासिनी काचन विप्रयुक्ता संतापिताङ्गी नपचन्द्रिकाभिः ।
विगईणापूर्वमिदं विषण्णा जगाद चन्द्रस्मरगन्धवाहान् ॥ ६६ ॥
कोदण्डदण्डः कुरुनन्दनेन मुक्तो रुपा मूर्ध्नि शशाङ्कमौलेः ।
हिमधुते यत्त्वयि नापपात मदुप्कृतानां महिमा स एपः ॥ ६७ ॥
यात्राप्रबन्धः। पान्थावलीभञ्जनसंचितेन दोपेण दोषाकरता तवेन्दो। आलोकिते त्वय्यत एव चक्रैराशास्यते चण्डकरावलोकः ॥ ६८ ॥ क्षपाफरक्ष्वेल विभावये त्वां हालाहलादप्यतिमात्रघोरम् । स कण्ठ एव स्तिमितः स्मरारेरुपागमस्त्वं पुनरुत्तमाङ्गम् ॥ ६९ ।। घिधिक्त्रिलोकीजनगर्हणीयां चारित्रमुद्रां तव शम्बरारे । भवन्तमेकं परिहत्य के वा धनुर्भूतः स्त्रीपु पराक्रमन्ते ॥ ७० ॥ मुग्धासु चेतोमव मादृशीषु गुहुभवान्यत्प्रकटीकरोति । कुद्धे पुरद्रोहिणि पौरुपं तत्क वा विनिद्रातुमगात्तदानीम् ।। ७१ ॥ आखेटमध्वन्यवधूमृगेषु प्रपश्चयन्पश्चशरः किरातः । पिकालिगीतिप्रचुरो वसन्ते महीं मरुद्वागुरया निरुन्द्धे ॥ ७२ ॥ संम्राम्यदिन्दिन्दिरचक्रनेमिसीमन्तिताशेपदिगन्तसीमा । महीतलान्धकरणः परागैर्मनाति पान्थानतनोः शताङ्गः ॥ ७३ ॥ तत्ताहशा दक्षिणतागुणेन विभावयन्विश्वसनीयभावम् । मरुनवोऽयं यत मादृशीपु प्रमजनत्वं प्रकटीकरोति ।। ७४ ॥ मध्येनितम्बं मलयाचलस्य स्पृष्टो नु दावामिशिखाकलापैः । विपोर्मिलव्यालमुखच्युतो वा मन्दानिलः सौति ममाङ्गतापम् ॥ ७५ ॥ उप्णः स्वभायादनिलार्भकोऽयमुपाधितः शीतलतां दधाति । आलिङ्गनादस्य फथं घटेत पत्रावशोषः परथा लतानाम् ॥ ७६ ॥ उप्णच्छिदामुष्णनिपेवणेन भिपग्जनाः प्राहुरिति प्रतीताः । कुम्भीनसा घोरविषोप्णशान्त्यै पिबन्ति बालानिलमुप्रवीर्यम् ।। ७७ ॥ हराक्षिकीलामिहता रतीशप्राणानिला एव परं धरायाम् । पटीरशैलानिलकैतवेन पान्थावलीप्लोपकृतो वलन्ते ॥ ७८ ॥ स्वयं जगत्प्राणतया स्वधाम वियोगिनीविग्रहचक्रवालम् । नमस्वतो निर्दहतः कृशानुरवाप्तजन्माभवदाश्रयाशः ॥ ७९ ॥ मितो यतः शैत्यमतो बिमर्ति नवः समीरो न तु शीतभावात् । अस्यावलेह सजतामहीनां भिन्ना रसज्ञाः परमत्र मानम् ॥ ८० ।। - काव्यमाला पटीरशैलेन्द्रफणाधरेभ्यो जनावलीजीवितमोपविद्याम् । अभ्यस्यता चेदमुना गृहीता निद्रापि नैप प्रसरेद्विषादः ।। ८१ ॥ अयं भुजगावलिपीतशेपः समीरपोतः स्वविकासहेतोः । वियोगिनीजीवितमारुतानामसंशयं संग्रहणं तनोति ।। ८२ ।। निरागसामध्वगसुन्दरीणामुढेगदानादुपजातरोपाः । स्वच्छन्दमन्तः श्वसनं निरुध्य मन्ये निगृह्णन्ति महानुभावाः ।। ८३ ।। जगत्रयोपद्रवशातनाय पीताम्बुराशिः प्रथमो मुनीनाम् । वालानिलाधि च पिवेदवेलं न चेदयं नागविलीढशेपः ।। ८४ ॥ अगस्त्यदिङमारुतमापतन्तं वृष्टेरवाहमुशन्ति वृद्धाः । अहो भवत्यस्य समागमेऽपि वियोगिनीलोचनवारिवृष्टिः ॥ ८५ ॥ और्व पयोधेरवलेपशान्त्यै समीरणस्यापि च सर्पजालम् । विधिर्विदध्यान यदीयमुर्वी कथं न जायेत कथावशेषा ।। ८६ ।। श्रीरामविश्लेपविषण्णसीताप्राणप्रतिष्ठापनवीततन्द्रः । स्त्रीणामसुमासपटोः समीरादतो हनुमान्कथमाविरासीत् ।। ८७ ।। विना जगत्प्राण भवन्तमेषा विश्वत्रयी न इवसितुं क्षमेत । ईग्विधेऽपि त्वयि खेदहेतौ वियोगिनीभिर्वद किं विधेयम् ॥ ८८॥ धर्मच्युतस्योचितमाशुगस्य तीक्ष्णाकृतेदेहिवधैकरस्यम् । आविःसुधर्माश्रयणस्य ते तु दाक्षिण्यधन्याशुग तद्विगेयम् ॥ ८९ ॥ भवन्तमाहुः प्रथमेशमूर्ति पदार्थशुद्धः परमं च हेतुम् । सदागतिं चात्र समीर किं ते युक्तं वियुक्ता युवतीनिहन्तुम् ॥ ९० ॥ प्ररूढमन्तः पथिकाङ्गनानां वियोगशोकानलविस्फुलिङ्गम् । कि मञ्जरीगर्मरजःकरीपैः समीर संवर्धयतः फलं ते ॥ ११ ॥ शृणा न ते दक्षिणगन्धवाह तवावतारे तरयोऽपि धायाम् । वितन्वते व्यक्तशरीरकम्पाः प्रवालपाणिपविधूननानि ॥ ९२ ।। स्वामभुतां याचि तपोधनानामाशीविषाणामपि यक्रसीनि। विपाभिवृद्धिर्विदिता नभस्वनती जगत्यामतिदारुणोऽमि ।। ९३ ।।
यात्राप्रवन्धः । सङ्के भृशं क्रोशति षट्पदानां कु(द)रवाधायिषु कोकिलेषु । अपढुवानो धृतिमध्यगानां भवान्विविते पवमान वाल्यम् ।। ९४ ॥ आः क्रूरकर्मासि फणाभृतोऽपि धरातलेऽस्मिन्स हि तीव्रर्दशैः। प्राणानिलानापिबति प्रजानां भवान्पुनः स्पर्शनलीलयैव ॥ ९५ ॥ अये समीरानिशमध्वनीनवधूवधैः पातकमर्जितं ते । वल्लीपवालव्यपदेशतप्तभल्लाप्रपातैरपि किं प्रशाम्येत् ॥ १६ ॥ भृगुप्रपातं बहुतीर्थसेवां दिने दिने दीप्तशिखिप्रवेशम् । करोपि मन्दानिल कामनस्त्वं कुर्वन्मुहुः पान्थकुटुम्बहिंसाम् ॥ १७ ॥ मान्द्यैकमे मलयाद्रिवात मासद्वयीमात्रमवस्थितिं ते । अचिन्तयन्हन्त कथं तनोपि पदे पदे स्त्रीवधपातकानि ॥ १८ ॥ प्राक्सेतुबन्धावसरे कपीन्द्ररुन्मूलितश्चेन्मलयः समूलम् । . नृशंस मन्दानिल निर्दयं त्वां पश्यन्ति किं पान्थविलासवत्यः ।। ९९ ॥ मन्दं समागत्य ममांशुकाप्रमालम्बसे स्वेदमपाकरोपि । अग्रौ पतस्साहितचापलस्त्वं पराङ्गनास्पर्शभयं न किं ते ॥ १०॥ मामञ्जनेति स्पृश मा समीर वियोगिनी व्यक्तमनञ्जनाहम् । कन्या नृपस्यान्यकरग्रहार्हाः स्पृष्ट्वा त्वया किं फलमाप्तमासीत् ॥ १०१ ॥ कृतावतारो हृदि गन्धवाह कन्दर्पनाराचगवाक्षिते मे । प्राणान्गृहाणाशु यतो भवेयममीकविश्लेपकथानभिज्ञा ॥ १०२ ॥ मय्येव संनझसि मन्दवात कान्ते मदीये करुणां दधासि । मृद्रासि चेन्मामिव निर्दयं तं स किं समायास्यति नान्तिकं मे ॥१०३ ॥ रणे शताङ्गस्य रयातिरेको जैत्रश्रियं चापभृतः प्रसूते । मन्दं रथं त्वामधिरह्य मारो मन्ये महेशेन पराजितोऽभूत् ॥ १०४ ॥ भवन्तमालम्ब्य रथीभवन्तं सखा रतेः शर्वजिगीपुरासीत् । प्राप्ते रणे तं प्रतिपाद्य तस्मै चक्रे त्वया स्वाशुगतानुरूपम् ॥ १०५॥ यदा रतीशं भगयानजेपीचदाप्रभृत्येव समीर भीत्या । दियानिशं प्राम्यसि दिमुखेषु तथापि ते शाम्यति नैष दर्पः॥ १०६ ॥ .
६०
काव्यमाला ।
आयासि शीघ्र हरिदन्तरेभ्यः शनैस्तु चण्डांशुभुवो दिगन्तात् ।
कामारिमीतिः खलु तत्र हेतुः सा चेन्न हन्याजगतीमकाण्डे ॥ १०७ ॥
मा मा मरुन्माणव वल्गनानि प्रकाममन्दप्रकृते विधेहि ।
पदे पदे त्वन्मदभञ्जनाय जाग्रत्यमी जातरुषो भुजङ्गाः ॥ १०८ ॥
तदनु मदनपीडां सोढुमक्षमतया तया हरिणशावेक्षणया प्रियतमाय
संप्रेषिता सखी समेत्य तमित्यभाषत-
सन्त्येव कान्तेषु समभुवाना रागातिरेक ललना जगत्याम् ।
नालोकितो न श्रुतिमागतो वा तस्या मृगाक्ष्मास्त्वयि मावबन्धः ।।१०९॥
आस्वाद्य शश्वन्मधुनोऽपि हृद्यां गुणावलिं ते कुटिलायताक्षी ।
नितान्ततृप्ता नियतं सखीनामाहारवार्तामपि सा धुनीते ॥ ११०॥
दूरीकृतस्त्वद्विरहार्तिभारादित्वरोरुश्वसितैरिवास्याः ।
इन्दीवराक्ष्या वदनारविन्दे संदृश्यते जातु न मन्दहासः ॥ १११॥
मनोभुवो धूममथैरिवास्त्रैरुत्पादितादूप्मलबाप्पपूरात् ।
भीतेव तस्या भृशमायताक्ष्या निद्रा दृशो व पदं निधत्ते ॥ ११२ ।।
पराङ्मुखी चन्दनपङ्कलेपवीटीक्रियामाल्यविभूषणेषु ।
माला विधत्ते भवदोष्ठबिम्बसुधारसास्वादकृते तपस्याम् ॥ ११३ ॥
दृतिकावर्धितलेहदीपितं मदनानलम् ।
फामी निर्वापयामास कान्ताक्षेपसुखामृतः ॥ ११४ ॥
आलीहितोक्तिनिकरादनु दृतिकाना-
माभाषणादनु मनोमवशासनाच ।
अम्लानमानफलिफामपरो विलासी
संप्रीणयन्मियतमामिदमारभापे ॥ ११५ ॥
पाठीनकेतुपरदेवतया त्वया कि
माज्ञापिते फयरिकारचनादिकृत्ये ।
दांसामुना परिजनेन समुहलके
पहेल्हाक्षि तव फेन यमूब कोपः ॥ ११६ ॥
यात्राप्रबन्धः। यः शैशवात्प्रभृति पाणितले निवेश्य संवर्धितोऽजनि मया दयिते स कीरः आख्याति याक्यमहितं त्वयि रोपवत्या- मित्यद्भुतं न विरुणद्धि यदात्मजोऽपि ॥ ११७ ॥ बाले मया न गणिता भवदाहतेन ये मीनकेतनसमीरकिशोरमुख्याः । आसीत्ततोऽपि मम भीतिरदो भवत्यां मुख्यमानि विषमो विधिदुर्विपाकः ॥ ११८ ॥ मन्तुस्पृशो रचयितुं मम शिक्षणानि स्वातत्र्यमस्ति तव जीचितनायिकायाः। कन्दर्पगन्धवहकैरविणीविटानां का वा कृशानि मम निग्रहणे प्रसक्तिः ॥ ११९ ॥ आग:समीक्षणकृतस्तय चेदमर्पः शोणाधरे विरचय स्वयमेव शिक्षाम् । मां विप्रयोगिजनमारणवीततन्द्र- कन्दर्पपातकिकरे न समर्पयेथाः ॥ १२० ॥ पादारविन्दतलताडनबाहुयन्त्र- निक्षेपतुङ्गकुचदुर्गनिवेशितानाम् । कामं त्वया कनकगौरि समाहिताना- म) भवामि मयि चेदपराधशङ्का ॥ १२१ ॥ प्रारभ्य पञ्चपदिनानि तव प्रसाद- मभ्यर्थयतिपतेरधिदेवतायाः । ध्यानाशनवजनजागरणादि कुर्वे प्रीतिने ते तदपि यत्स ममैव दोपः ॥ १२२ ।। शातोदरि भ्रुकुटिजैत्रधनुर्लताया मझे कृतेऽपि सति कोपनया भवत्या ।
६२
काव्यमाला।
अश्रान्तमाशुगभरेण विचित्रकर्मा
मर्माणि हन्त मम कृन्तति पश्चवाणः ॥ १२३ ॥
विश्वत्रयोदरभुवां विशिखवजानां
शश्वद्वययं रनयतो मयि शम्बरारः ।
नाणीयसा मुजमदेन नतागि शङ्के
वेणीलता विरहिता तव मालिकाभिः ।। १२४ ॥
क्रीडाचकोरशिशवोऽपि कृशाहि नून-
मेते परं वयमिव त्वयि सापराधाः ।
मन्दस्मितामृतमरीचिकरैरमीपां
तृप्तिं यदा रचयसे न तृषातुराणाम् ॥ १२५ ॥
तत्तादृशैः कुरवकीभवनं तपोभिः
प्राप्यं न मेरुपदवीमपि दूरभूताम् ।
हित्वा चकोरनयने भवतीमिदानी-
मभ्यर्थये तिलकभावमशोकता च ॥ १२६ ॥
प्राणेश्वरस्य पटुचाटुकृतः कुचाद्रि-
कस्तूरिकाभिरनुलिप्य भुजान्तरालम् ।
वेलातिलचनचणप्रणयाभिरामा
रामा ददौ रदपटी मुखवीटिकां च ॥ १२७ ॥
शक्रकोपशफलावलीसदृग्वीटिका"तिम.."ला बभौ ।
चक्रतुः प्रकटरागमेदुरस्वस्वमानसनिवेशनं मिथः ॥ १२८ ॥
पाणिना प्रसवसङ्गिनीमलिश्रेणिकामिव निगृह्य वेणिकाम् ।
सुश्रुयो मुखसरोरुहासवं सेवते स्म समरादरो विटः ॥ १२९ ।।
पाटलो परिचुम्बने. इद मेलनामधिगता मियस्तयोः ।
चारुताभरसमुद्गकश्रिय व्यानशे वदनमण्डलद्वयी ॥ १३० ॥
आत्मनेतुरनुरागसंपदः श्लाघनं विदधतीव संमदात् ।
गाढपीडितरदच्छदाभुना कामिनी व्यथित मौलिधूननम् ॥ १३१ ॥
यानाप्रबन्धः । , अन्वकारि पुलकैरणूदरीबाहुनद्धपरिणेतृसंवृतैः । निर्भरम्तननिपीडनोद्गता शम्बरारिशरशल्यमण्डली ॥ १३२ ॥ मय्यमुप्य नितरां पचेलिमं मा स्म सौहृदमितश्चलत्विति । स्वस्तनाग्रमणिकीलयोर्युगं सा हृदि प्रियतमस्य संदधे ॥ १३३ ॥ अस्टशत्करयुगेन कामिनः पश्चिमानमुपगृहने वधूः । न्यस्तमस्य हृदि मत्कुचाञ्चलं निःसरे वमिहेति किं धिया॥१३४॥ चित्तजार्चनचिरात्ययैनसो भञ्जनाय भृगुपातसाहसम् । कर्तुमेप किमु कामुक्ने हठादध्यरुक्षदबलाकुचाचलम् ।। १३५ ॥ या पुरा विरहिणी गराशुगैराप खेदमतिकोमलैरपि । सा चम्ब पनितारतार्भटी(?)निर्दयप्रियविमर्दनक्षमा ।। १३६॥ निर्विशङ्कनखसंनिवेशनः पाणिरोधरहितोष्ठचुम्मनः । स्वस्तिकोज्झितकुचोपगृहनः स्वैरलब्धरशनावमर्शनः ॥ १३७ ।। विमलम्मविहितानुतापयोः संप्रहृष्टमनसोः समागमात् । तत्क्षणे तरुणयोस्तयोरमल्लधिताशयपयो रतोत्सवः ।।.१३८ ॥ तदानी च तरुणिममदानीतरमसमुहत्य केलीतल्पतलादुद्वेलमेखलाइम्ब- रविमान्यमानसंरम्मा निजनर्मसचिवस्य समरविशेपसंनाहमसहमानेव तमधी निपातयन्ती तव कितव दीतिरेफमुत्पाटयामीति तर्जयन्तीव परिहतार्जव- गुणां भूवल्लीमादधाना दशनदष्टाधरोष्ठपलबमाविष्क्रियमाणफण्टग्रहणचण्डि- मानिमया मानद, सपदि मारयामि मवन्तमिति सविकारमुदीरयन्ती श्रवणा- वर्तमकुमुमपरिमलाकृष्टमधुकरकुलवाचालतया स्वबन्धुभिरिव दीयमानबन्ध- भेदोपदेशा साटोपविधीयमानचपेटामिघातमायतवितायमाननिःश्वासपवनपरि- पीनमाहितनपपिष्टातपांमुमुष्टिभिरपनीयमाननिरवधिस्वेदमतिनिशितनसरायु- पवितीर्यमाणनानाविधमर्मवेदमाश्चर्यगरिमनिश्चलविलोकनोहीवपरिसरगतम- दीपज्ञानं किमपि विपरीतमदनरणरतिमुररीचकार शातीदरी । नम्मिन्यिनामी तनुगनियुद्ध पराजयं पातमियातिमात्रम् । हम्नारपिन्देन नितम्पमाग्माम्फालयामाम मृगेक्षणायाः ॥ १३९ ।।
६४
काव्यमाला।
संतुप्यता तादृशसाहसिक्यान्मीनध्वजेनेव कृता मृगाक्ष्याः ।
पर्यस्तधम्मिलपरिच्युतानां बभूव वृष्टिः प्रसपावलीनाम् ॥ १४०॥
कुचौ कराभ्यां कुलशैलतुगौ जग्राह कान्तो जलजेक्षणायाः ।
प्रतायमानादनयोः प्रकम्पान्मध्यव्यथा मा भवतादितीय ॥ १४१ ॥
सा मेखलामङ्गलवाद्यधोपैः कण्ठोदयकाकुनिनादगीतैः ।
चक्षोजनृतैरपि वारिजाक्षी चित्तेशयं दैवतमारराघ ॥ १४२ ॥
अस्या भृशं पौरुपमास्थितायाः प्रपेदिरे विक्लवतां प्रतीकाः ।
भीरोरनीका ""बसे प्रकामं शैथित्यमङ्गानि खलु श्रयन्ते ॥ १४३ ।।
श्रान्ता पुनः सामिनिमीलिताक्षी कान्ता पपातोरसि कामुकस्य ।
क्रीडासमाबद्धवियातभावनीडादिवामुष्य तनुं विशन्ती ॥ १४४ ॥
संभोगान्ते किमपि सुमनश्यापनाडियमेन
प्रत्युप्तायाः मियतमहदि सीमणे स्थैर्यसिद्धयै ।
गाढोत्पीडावलयितकुचोद्वान्तकाश्मीरलक्ष्या-
पायो रेजे बलवदभितो घट्टिता हेमरेखा ॥ १४५ ॥
चुम्बनोद्गमितवीटिकाप्टषषितमियदृगुत्थिता वधूः ।
गात्रकामफरवालवल्लरीमाहवप्रकटितामथायणोत् ॥ १४६ ॥
इति किल परमात्मनः सुखाब्धेविषयसमीरविसारितैस्तरङ्गैः ।
जगदिदमभिपिच्यमानमासीदमितमवज्वरवेदनानमिज्ञम् ॥ १४७॥
वाघूलवंशपूर्वहस्तु वावदूको निर्वर्तितसाध्यकृत्यसतानप्रस्तुतनियमादरप्र-
पाहनिर्मजदखिलविषयाभिलायोऽपि मानसपथनीतमकरकेतुशासनः सुखम-
गेत । तदनु दिगगनादृढसमालिङ्गनचन्द्रिकाङ्गरागः प्रकटकलङ्ककैतवादति-
चिरोपभोगपरिश्रान्तिगरिमविश्रान्ततनुलतां हृदन्तरेण विभावरी दधानो
दरनिमीलढानीलसरोजलोचनमारभ्यमाणनिद्रारसानुभूतिरियमुत्पलिनीति त-
दुपगृहनविधायिनी फरसंहतिमात्मनः शनैरुपसंहरमचुरविहारवेवरिप्लान-
मूर्तिरपरादिनिकेतरायनमजिहीत तुहिनदीधितिः ।
गगनमणिसौधशिखरादमिसरति दिशं निशाकरे चरमाम् ।
प्राप कुलिशायुधामा परिपाण्डद वियोगयिवशेष ॥ ११८ ॥
यात्राप्रबन्धः।
१५
शीर्णपाण्डुरिमजीर्णपलाशा रूढसांध्यरुचिपल्लवपतिः ।
पूर्वदिग्नततिरम्बरलक्ष्मीभूषणं तपनगुच्छमपुष्णात् ॥ १४९ ॥
आत्मनश्चिरमसंनिधिहतोर्वेकृतं किमपि धारिधिनेमेः ।
चिन्तयन्निय शनैरुपतस्थे लोकबन्धुरथ मध्यमलोकम् ।। १५० ॥
नभोमणिप्राङ्गणनर्मभाजस्ताराभिधाः केचन राजदाराः ।
आलोकमार्गादरविन्दवन्धोरपासरन्नध्युपितोदयाद्रेः ॥ १५१ ॥
दिशो दशानन्दयितुं विधाय तिरस्कृति ध्यान्ततिरस्करिण्याः ।
महा."रमा महसा स राशिराकाशरङ्गस्थलमाससाद ॥ १५२ ।।
अर्कोदयात्मागधिगत्य वोधं प्राज्ञस्तु स प्रातरुपास्य संध्याम् ।
पिनाकिसेवां प्रणयन्ननपीन्निगात्रयं निस्तुलसत्ववृत्तिः ॥ १५३ ॥
इति समरपुरावस्य कृती चम्पूकाव्य चतुर्थ आभागः ।
पचम आश्वासः।
निष्काशिरैक्षिष्ट स निलगां तां पयस्विनी पाण्डरफेनजालाम् ।
सुपर्वधेनोः सुतवत्सलायाः स्तनान्तरात्सद्य इव प्रवृत्ताम् ॥ १ ॥
संचालपालिस्तटसीलि यस्या निलीयते वीचिनिरम्यमाना ।
समावगाहेन गणेन नृणां प्रक्षालिता पातकधोरणीव ॥ २ ॥
सबिलासविवर्तनेषु शश्वद्विगृतावर्तगीरनाभिगर्तम् ।
दयनी चलमीनदृष्टि गात्रं भजते रागवतीय या पयोधिम् ॥ ३ ॥
पार्वद्वयप्रभवसारणिकासहय-
निःसार्यमाणलहरकतया नितान्तम् ।
आमादितापि यता विदधाति यम्याः
समयावलीकलनकीर्तिमुखेन नोमाम् ॥ ४ ॥
अपमर्पणमन्त्रसंनतेरयमावर्तनमाचरन्मुधीः ।
अदीयजन्नान्तरायसत्कालिभीत्येव फर्थितश्विरम् ॥ ५ ॥
गटिरमिने नम्याः कलित नित्यकर्मणि ।
मादिष्टतपनो भामा प्रानिष्ठन म धार्मिकः ॥ ६ ॥
६६ काव्यमाला। श्रीनन्दिशैलद्विपदानधारा हारावलीमर्णवमेखलाया । पुण्याम्बुपूरामय भूसुरेन्द्र पिनाकिनी प्रापदसौ प्रपन्नाम् ॥ ७ ॥ उरुभिस्तटकेतकैरुदन्वन्महिषी दीव्यति या मनोजसूनै । कलधौतपिधानखड्गहस्तैरभिगुप्तेव महामटैरभीक्ष्णम् ।। ८ ॥ अतिसनिहितोच्छ्यावभङ्गे निपुणामाहितनीचतुङ्गभावाम् । अनुगच्छति या महीपतीनामनघा नीतिमदर्शितान्तरङ्गाम् ॥ ९॥ तत्र च पवित्रतरपाथसि प्रणीतमजनविधिरेप सज्जनशिरोमणि सरो- गणविमुक्तसारणीपूरनिय॑मानशालिनिचयसर्वर्धनक्रिय कुशसमिदाहृतिकुतू- हलवशादग्रहारशतविनिर्गतैरवनिनिलिम्पमाणवककदम्बकै ससममविडम्व्य मानसप्लवनरहसा शम्बरकुलेन मुहुरलक्रियमाणजाङ्गलमहीभागमागमजल धिपारगधीरजनमेधाभिभूतचण्डीशकुण्डलमतिलवय तुण्डीरमण्डल पाताल- भुवनमिव फणिराजसमधिष्ठित विपिनान्तरालमिव व्याघपदलाञ्छित कल- शाब्धिहृदयमिव कैटभद्वेषिनिद्रागृहाश्चित विपुलगिरिदुर्गमिव विमतभवभी- तिसज्वरचण्डरीतिहरमहिण्डत पुण्डरीकपुरम् । प्राकारपद्मे परिखासरम्यामुन्मेपयत्युज्वलशृङ्गपन्ने । यनामितानन्दमय महान्त शिलीमुखा सीधुरस पिबन्ति ॥१०॥ तत्र च धरणीसुरामणीरनर्गलश्रद्धासमाहिततीर्थावगाहन सकौतुकमानान्त चि(वि)त्सभान्तरो यवनिकापनयनक्षणलक्ष्यमाणतेज पुजसछादितदशदिशा वकाशतया वारिदघटाविनि सृतममृतकरसहस्रमपहसन्त निपुणतरविनिहिते- क्षणनिम्प्यमाणनिखिरप्रतीकतया मणिभवनमध्यदेशप्रविष्टमिव दृश्यमान- मरुणसुतशिक्षणविधावपवृत्तदाक्षिण्यमपि दक्षिण चरणमघो निघाय तिष्ठन्त- माटोपगरिष्ठविक्षेपभाविनी त्रिभुवनविपचिमभिशङ्कय सरयमुपसर्पता सव्य- करपल्लवेन करितविनिवारणमिव सिंचिदाकुश्चितमितरपदसरोजमुधम्य नृत्यन्तमेकहस्ततलविन्यम्तेन सरभसपरिम्रान्तिसदीप्तहेतिना पवमानसनिवेना. ""रि(नि)विष्टदेहतया विलसदष्टापदसालवेष्टित पैरासशैलमिव भासमान मियदेव नर्तनल्यानुगुणमित्यन्यपाणिसतन्यमानमतिलटहइमरडात्कारक- - यात्राप्रवन्धः। न्दलं परिच्छेदयतेच परं परशयसरसिजेन विरचिताभीतिमुद्राभिनीतिमादि- नटमद्राक्षीत् । अवस्थिते मय्यपि गर्भदासे भागीरथी किं भवतैव धार्या । जगत्पते स्थापय तामिहेति मन्ये स नम्रीकृतमौलिरासीत् ॥ ११ ॥ आकर्णनवजनतीर्थवरावगाह- निर्माल्यगन्धनियहग्रहणायलोकः । अन्येन्द्रियायलिमवेक्ष्य भृशं कृतार्था- - मस्तीदमुप्य मृइमक्षमयेव जिह्वा ।। १२ ॥ संनिधौ मम समस्तदेहिनां नृत्तमेव निखिलार्थसाधकम् । तत्कलवमिति किं नु दर्शयन्पुण्डरीकपुरनाथ नृत्यसि ॥ १३ ॥ नालीकसंभवमुखामरनायकानां सत्यादिलोकपतिभावसमृद्धिलाभम् । मायस्त्वदेकपरतग्रमुदाहरन्ति तेषां पुनः फिमभिलप्य तनोपि नाट्यम् ॥ १४ ॥ अमितद्रुदिणाण्डमण्डलीनामधिनेतुः स्वगताणिमादिमृतेः । पटते सलु कामुफस्य गीर्यास्तव संसन्नटताण्डवानुबन्धः ॥ १५॥ साक्षिणोऽपि जगतां तव शम्भो दर्शनाय विचरन्प्रतितीर्थम् । अङ्कगात्मजगवेपणशीलं हन्त लोकमनुयामि विमूढः ॥ १६ ॥ तापकानपदतामरसाचीमायसानममद्विदधानः । श्रीमदाशिव कदा नु मुद्दाहं यासराक्षणमिव व्यपनप्य ॥ १७ ॥ अमी विद्यानिधरस्य पार्धस्थितपतमलेः । दिया फिमियती गृत्या स्तुति तुपीकतामयात् ।। १८ ॥ अप बुधपुनयः मगिरिग संदानितां यन्धरगनामिव मिन्धुराजपट- मापस विधियनचरप्रमारितां व्यापादनवागुरामिय पातकमरश्वापदपरं. पगयाः कननितम्पमहिनी ममलामिव जगतीमगीदगो निगतिमयगनि- मनिनिगमनानीविगहरयसोजपनयिमोमजानपदनामिय प्रनिगार:- सिंगनापदेगेन रिनिःशगन्ती यादग्गमनरोदालसामिव पदे पदे तरहरा ६८ काव्यमाला । तटभूमिमवलम्बमानां कलिविजयकर्मविहितोद्यमस्य धर्मक्षमापतेः कटकसंनि- वेशैरिव कलशाम्बुराशिफल्लोलपाण्डरैरमरनिकेतनप्रासादमण्डलैरविरहितती- रदेशां लासिकामिव रभसविभावितश्रमीसहस्रशालिनी नारायणीमिव नवकुवलयश्यामलां कौमुदीमिव कुमुदवनामोदनी वनमालिमूर्तिमिव वारि- जसमश्चितां पञ्चशरवैजयन्तीमिव पाठीनपरिशोभितां विलासवतीमिव विधू- तफेनधवलचारुचन्दनामगाहत फेवेरनन्दनाम् । स्पर्धावती वाढमिवामनद्या सहस्रधा चोलभुवि सवन्ती । समन्ततः संवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री ॥ १९॥ कदापि नैवात्र पदं करोतु दुर्भिक्षतादोपकथापि चेति । प्रवाहवाहापरिवेष्टनेन वनाति चोलक्षितिपालनं या ॥ २० ॥ रोधोयनीपिकरुतश्रवणैर्निकामं सक्तेच या कचन संहृतलौल्यमास्ते । अन्यत्र तादृशविलम्बनजन्यमव्धे- राशङ्कय रोपमिव हन्त रयात्प्रयाति ॥ २१ ।। स्वयमनुतटि यस्याः स्वादु संगृह्य तोय पृथुलफलघटीभि. प्रांशवो नालिकेराः । गगनमरुपदव्यां गच्छतो लेखपान्था- बलदुरुदलहस्तैः सत्यमाकारयन्ति ॥ २२ ॥ अनन्तरमयमवनिवृन्दारकमणिः प्रचुरफणिवल्लरीवेल्लितकमुकवनजालेषु चोलेषु विश्रुतं मायाघनतमिसमार्तण्डमण्डलभुवनमपि च्छायावनं साधा- रण्यपदवीविदूरमपि श्वेतारण्यं नारीव्यापारकमनीयसौधमपि गौरीमायूर मुक्त्यार्जनरसिकमोदैकहेतुमपि मध्यार्जुनं जृम्भमाणहरिहरावदानघोपमपि कु- म्भघोणं संचरदनघशैवसंजवनमपि पञ्चनदं स्त्रीलाञ्छितदराङ्गनटननृत्तरत- मपि श्रीवाञ्छं विमलाशयपुरुषपरिषदाशास्यमपि कमलालयमधिगत्य, परि- शीलयन्कियन्तमपि पन्थानमतिलच्चय, कतिपयदिनैरमलफेनपटलभासुरामपा श्रियमिव सरस्वतो वेलाचलस्तम्भयुगलावलम्बिनं पारामिव दाशरथिवि. १ कावेरी नदीम् ।
यात्राप्रवन्धः। ख्यातिलासिकानाट्यस्य तिर्यगवष्टम्भयष्टिमिव तीव्रतरवातपरिभूतवार्धिमर्दन- पटिमशालिनः कल्लोलकपटमलस्य क्षेत्रलतामिव जलधिवीचिनर्तकीनटनवि- द्योपदेशकारिणः समीरणदेशिकस्य मध्यवंशमिव फणिराजमन्दिरसमावृति- कृतो नीरधिद्वन्द्वनीप्र(घ)द्वयस्य बन्धनदारुभेदमिव सलिलमर्त्यशावकभृतो वीचिमदृर्मिडोलाविशेषस्य विपमसमकरणविरचनाफलकमिव सगरकुलकीर्ति- शालि...."पोपिणो वारिधिकेदारवसुमतीभागस्य सुवेलगिरिफीलसुदृढप्रसं- जितां दामनीमिव धरणीगवी कमठचरमाङ्गकलितविनिवेशनां वैतानवेदिमिव राक्षसाधिपविजयदीक्षानुवन्धिनो रामचन्द्रस्य तूलिकामिव त्रैलोक्यधामनि रामचरित्रचित्रलेखनपटोः सरसिजासनशिल्पिसार्वभौमस्य विधुतुदमिव वशकन्धरयशश्चन्द्रमसो युगंधरमिव पुरनिदनस्यन्दनस्य कालदण्डमिय धनकलुपमण्डलीनां नालमिव पौलस्त्यनगरारविन्दस्य वादनकोणमिय याराशिदुन्दुगेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापटमण्डपस्य दारणक- फचमिय सरिदधिपदारुणो गुरुतरमाचद्रोणीमिव वाहिनीशखुरलीविहारस्य गाधभावाधिगमकाण्डमिव दशवदनशौण्डीर्यतटिनीविलासिनः शिक्षाकशा- मिय सिन्धुपतिभङ्गसैन्धवनातस्य नलसेतुमवलोक्य कौतुकाक्रान्तमना वच- नमिदमाचष्ट । जनकतनयाधिनेतुर्जयहेतुर्यातुधानपतिजेतुः । सेतुसिभुवनकौतुकहेतुर्भवतां तनोतु कल्याणम् ॥ २३ ॥ दशमुखरघुवरयशसी तुलयितुमरविन्दजन्मना कृतयोः । सिंहलजम्बूद्वीपच्छलघटयोर्यष्टिरवतु वः सेतुः ॥२४॥ रघुवरकीर्तिनटीमणिरनगृहे जयति दीप्यमानस्य । आधारयष्टिमेतटातापदीपस्य सेतुमालम्चे ॥२५॥ मामवतु रामसेतुर्मध्ये याराकरस्य यो भाति । भूपैः पुरा मनद्धिः फियतीव स्थापिता क्षितिर्मितये ॥ २६॥ पलकणेः पयोनिधिगयने बेलावधमिहलयः । भाम्फालितोस्भागः स्वपितीव नकाम्ति सेतुराजोध्यम् ।। २७ ॥
काव्यमाला।
सेतुर्जयति यदाक्रमसंनमलोलाः समुद्रकलोलाः ।
विश्वनयीविलधनलाघवशिक्षारता इवाभान्ति ॥ २८ ॥
पुष्णातु सेतुः प्रचुरी मुदं यो महीमुवेलान्तरमानदण्डः ।
वृद्धस्य सिन्धोरतिवेपमानतरङ्गपाणेरवलम्बदण्डः ॥ २९ ॥
कृतांशुको यद्धटनेन धात्री द्रष्टुं धृतापत्रप एव रामः ।
ततान तत्संवरणानुकूलं यशोदुकूलं प्रथते स सेतुः ॥ ३० ॥
सेतुः श्रियं पुप्यतु यद्भुजेन सुवेलमालम्बत भूतधात्री ।
पौलस्त्यकीर्तिप्रकराम्बुराशौ विहृत्य बेलामिय यातुकामा ॥ ३१ ॥
यद्वयाजदण्डेन नरेन्द्रवर्यनिवेशितेनेव कृतान्निरोधात् ।
अपारयन्धावितुमब्धिमोगी विवेष्टते तं विनतोऽस्मि सेतुम् ॥ ३२ ॥
डिण्डीरनिकिधरः स मुप्यादधानिलान्सेतुफणाधरो नः।
निशाचराधीश्वरकीर्तिदुग्धं यः पायितोऽभूलभुणा रघूणाम् ॥ ३३ ॥
न केवलं येन पुरा रघूणां नाथो ललहे लवणाम्बुराशिम् ।
सीतापहारोपचितापवादसिन्धुं च हन्याद्वृजिनं स सेतुः ।। ३४ ॥
हिनस्तु सेतुर्दुरितानि यस्मिन्मनोज्ञफेनांशुकमण्डलानि ।
आस्फाल्य वेलाद्रिशिलामु वीचिहस्तेन विस्तारयतीव वाधिः ॥ ३५ ॥
भास्वत्करानीतपयोदकुम्भसहस्रसंग्राह्यपयोमरस्य ।
उदन्वदन्धोरुपरिप्रदेशशिलामधीमो नलसेतुरेखाम् ॥ ३६ ॥
सपयन्पयसा यदम्युराशिः परिलिम्पन्नवफेनचन्दनेन ।
मुहुरर्चयतीव रलसूनैस्तदुपासे हृदि रामसेतुलिद्गम् ।। ३७ ॥
मकरालयचेलमध्यभाजः परितो लक्षितफेनसक्तुराशेः ।
क्षितिचक्रघरट्टकस्य यष्टिं कलये कल्मषपेषणाय सेतुम् ।। ३८ ॥
विनिवेश्य यदर्गलां पयोधौ नरफद्वारकवाटिकायमाने ।
क्षितिजापतिरीशलिङ्गमुद्रां विदधे शर्म ददातु वः स सेतुः ॥३९॥
रघुवीरपदावलीसम रचनायेव पयोधिना वितीर्णैः ।
स्सलदुर्मिरयोदितैः स्फुलिङ्गैरिव रत्नर्विलसन्मुदेऽस्तु सेतुः ॥ १० ॥
यात्राप्रबन्धः। लघयत्वघराशिमेप सेतुः श्रयतां दीव्यति यः सुवेलमूले । हढदण्ड इवार्पितः समूलं परमुन्मूलयितुं पुलस्त्यसूनोः ॥ ११ ॥ नलसेतुमहं नतोऽस्मि सीतापतिकीर्तिप्रमदायलम्बनाहम् । यलदन्धिपटीवृताग्रदीन्यद्धरणीमण्डलतालवृन्तनालम् ॥ ४२ ॥ मुवेलसैलद्विरदेन माद्यता कृतः सलीलं क्षितिवाशितो(सिनो)परि । फरोतु वः सेतुकरो भवार्णवप्ररोहदहोविसिनीसमुद्धृतिम् ।। ४३ ।। नमामि सेतुं नटर्मिपाणिना तटे यदीये ततमौक्तिकावलिः । चकास्ति बन्धुः सरिता रघूद्वहनशस्तिवर्णप्रकरानिवार्पयन् ॥ ४४ ॥ श्रयामि सेतुं चलर्मिकाञ्चलैर्विनिक्षिपन्यस्य तटे वराटिकाः । विराजते राक्षसराजविद्विपो गणं गुणानां गणयन्निवार्णवः ॥ ४५ ॥ परिचरितपुण्यपण्यावलीलामविपणिसरणिं पुरुहूतपुरकवाटसमुद्घाटन- कुधिकां राघवयनःक्षीरसागरमहाशपमर्णवनेमिवरवर्णिनीवेणिकामतितुङ्गप- दलिप्मुतनुभृदधिरोहिणी दुरितसिन्धुसंतरणहेतुं सुकृततरणितोलनारित्रं ल. केरावाहुतेजकडगरीयदृरीकरणयष्टिकां जलधियुगलसीमाविभागभित्ति डि. ण्डीरवसनपण्डविन्यसनलिहिनी प्रचेतोनिकेतनपासादमालिकां दुर्ललित- यातुधानसमाजधूमकेतुरामसेतुम् । वारिधिः समरवंगजन्मनां मामुजाममितकीर्तिगेवधिः । यत्र दारुणि तिरधि लावते संपदे स नलसेतुरन्तु नः ॥ ४६॥ सेतुरेष परिपातु पातफल्यालसंहतिविदापुजयः । यम्य पार्धयितती सरित्पती पुप्यतश्चटुलपक्षविनमम् ॥ ४७ ॥ पच्यमानपयसि स्फुटमार्यज्यालया सरिदधीपकराहे । आसिफाविधिकृतोऽवनिदा नालमधत दृमा नलसेतुम् ।। ४८ ।। जनपिचकमिषालयीने धनुपि देवरपूद्वहसंहितः । रचयनादपराक्षसमण्डनीजयममी नलमतुशिलीमुखः ॥ १९॥ इट सेतुः मानि यद्रामयापच्छिनाकारे पाहिनीमंनियंगे। माम्पोनीपादुन्दा फरयोगी नृशं मोद्धनं मंपिधरी ।। ५० ॥
काव्यमाला। यातायातायामतुङ्गैस्तर दृश्यादृश्यो दृश्यतां रामसेतुः । वाताधूतं वार्धिचेलं यदूरी भूयो भूयः स्थापयन्तीव धात्री ।। ५१ ॥ मृल्लाकूट मेदिनीनामधेयं विन्यस्यान्तर्विश्वसद्कुम्भकारः । प्रायश्चक्रं प्रेड्सयत्यधिरूपं यष्टया येन त्रायतामेप सेतुः ॥ ५२ ॥ सेतुं वन्दे सिन्धुराजन्य गावः कापं का ग्राणि यत्राङ्गकानि । चारं चार जन्तुदुष्कर्मतृण्यां दोहं दोहं पुण्यदुग्धान्य(ट)न्ति ॥ ५३ ॥ मध्येपाथोराशि पातालमूलादुन्मग्नस्य क्रीडयोर्वीमिषेण । भाति ग्रीवेवादिकूर्मस्य यो मां पापासक्तं पावयत्वेष सेतुः ॥ ५ ॥ शीर्णाजकीकसभरं शिथिलप्रवाल- वह्यान्ननालमवकीर्णवराटदन्तम् । भमोर्मिबाहु च पतद्भिरगैर्वभूव यनिर्मिती जलधिवन स सेतुरव्यात् ॥ ५५ ॥ कुण्ठीकृताशरकुलाधिपगर्वराशिः खण्डीकरोतु भवतां कलपाणि सेतुः । भारासहिष्णुरिव यस्य पयोधिरङ्गं वीचीकरैर्विततशङ्खनखैः क्षिणोति ॥ ५६ ॥ अहाय सेतुरशिवानि विहन्तु यत्र सक्तरेतरतरङ्गमुखौ चकास्तः। वेलातिलड्डनविधापणबन्धनाय लिप्यत्परस्परफराविव सिन्धुराजी ।। ५७ ॥ सेतुर्मुदे भवतु वो जलमम्बुराशे- वीरेण यत्करणकौतुकिना विभेजे । सीतायियोगशिखिरावणबाहुधाम्नोः कर्तु पृथक्प्रशमनामभिकाहत्तेव ॥ ५८ ॥ विपं जगद्गुरोरदादयं पुरेति रुष्टयोः मुवेलगन्धमादनमराभियातिभृत्ययोः ।
यात्राप्रवन्धः । ७३ निधाय मध्यसीमनि प्रमृद्तोर्यदर्गलां विरौति वाहिनीपतिः श्रियै स सेतुरस्तु नः ।। ५९ ॥ उदञ्चद्धोषाभ्यामुदधिलहरीभ्यामुभयतः कृतासङ्गः सेतुः कवलयतु पापानि भवताम् । भृतक्षोणीकन्यापतिविजयनिःसाणयुगली- लसत्पार्थद्वन्द्वावलितकरिराजन्यविहृतिः ।। ६० ॥ दक्षाः संगतलोकपातकविधौ ताटस्थ्यभाजो नृणां चेतोभीतिविधायका मलिनतां संबिभ्रतो भूयसीम् । तुङ्गाः पातकराशयस्तनुभृतां भृ(भ)ङ्गा इवाम्मोनिधेः सङ्गाद्यस्य विनिर्दलन्ति शतधा तसै नमः सेतवे ॥६१ ॥ श्रीमद्दामयशोदुकूलकलनायेने नतिं मौलिना कुमो गर्हितकर्मदग्धजनताजीवातवे सेतवे । शश्वद्यत्र विजृम्भतो रघुपतेः ख्यातिप्रतापाडरा- व्यक्तान्मौक्तिकपद्मरागमिपतः सिञ्चन्निवाम्भोनिधिः ॥ ६२॥ मध्येवारिधि काञ्चनाचलमिलन्मध्या मही दृश्यते पुंसां नौरिव कापि पुण्यपटली वाणिज्यलाभार्थिनाम् । लका तन्निकटस्थितेव तरणिर्लघ्यी तयोरन्तरे सेतुः पाश इव स्फुरन्वितरतु श्रेयांसि भूयांसि वः ॥ ६३ ॥ चलमानवीचिकरलीलया मिथः पृथुकचुकन्दुकमिह प्रहिण्वतोः । निहितेव यः स्फुरति यष्टिरन्तरे रारिदीशयोः स नलसेतुरीक्ष्यताम् ॥ ६४ ॥ लद्वाभिव्याप्तिधाटीचटुलरघुवरोदामदोर्धाममार्ग- मैलोक्यनामजामदगवदनयगोरोधविष्कम्मकाण्डः । सेतुर्वः संतनोतु श्रियमुभयनदीवान्धयोपान्तलीला- लोलकल्लोलमालद्विपयुगलसगीकार्भटीमध्यभितिः ।। ६५॥
काव्यमाला । . श्रीमत्कुमारगेन्द्रक्षितिबलयमयैरादिमध्यान्तभाग- राबद्धे मूर्तिमम्भोनिधिवसनसमावेष्टयमानां दधाने । पीठे यद्गोमुखाव्ये कनकधरणिभृल्लिङ्गमाभाति तुझं पायादस्मानपायासुकृतनरपतेर्जेत्रकेतुः स सेतुः ॥ ६६ ॥ धर्मकोटेस्तदा तस्य धर्मकोटिममीप्सतः । कथमात्माश्रयोऽप्यासीत्कार्ये न प्रतिबन्धकः ।। ६७ ॥ अयं पुनरधिरूढगन्धमादनं रतिबन्धुशासनमभिवन्ध नुतिबन्धमौखरी- मविन्दत । नलसेतुबन्धतटकेलिशालिने नतिरस्तु शैलतनयाविलासिने । सृजतीव यन्मकुटसिन्धुरधिना सहनमसंलपनमूर्मिनिःस्वनैः ॥ ६८ ॥ यो वारिराशेरुदरातरङ्गमहोरगान्मौलिभृदोषधीशः । आकृप्य भूयस्त्यजतीव सोऽयमास्तां मनस्यादिविपापहारी ।। ६९ ॥ यस्याट्टहासेन्दुरुचा पयोब्धिलीलां दधाने लवणाम्बुराशौ । निद्राणनारायणनर्म धचे सेतुः स मां पुंगवकेतुरव्यात् ॥ ७० ॥ रमतां हृदि रामनाथदेवो वितता वारि...."गेहे । श्रियमञ्चति सेतुबन्धरेखा शयितो/घरचापनिर्विशेषा ॥ ७१ ॥ चण्डैः प्रगृहा चलवीचिकरैर्नराणां पापावलिं पृथुपु सेतुशिलातलेषु । यच्छासनेन परि सिन्धुः सोऽयं ममास्तु हृदि सोमकलावतंसः ।। ७२ ।। व्याकीर्णविदुमजटावलयं विमुक्त- फेनाहहासमवपूर्णितवीचिहस्तम् । संध्यापुर यस्य नटनाप्नुवति समुदो निर्माति शर्म वितनोतु स नीलकण्ठ ॥ ७३ ।। आयात पातककृतो भवतामघानि संक्षालयानि सहसेति यदग्रभागे । .
यात्राप्रबन्धः। अम्भोधिरात्मभवसेतुविलवनेन सत्यापयन्निव चकास्ति मृडं तमीडे॥ ७४ ।। रामेश्वरो विजयते ललर्मिहस्त- पर्यस्तशुक्तिपटलीकपटेन यस्मै । चूडामणीकृतसुधांशुफलान्तराणि विश्राणयन्निव विभाति तरङ्गगाली ॥ ७५ ॥ पादावनम्रजनपङ्कपरंपराणां संक्षालनामिन समुद्रजलैर्विधातुम् । श्रीरामसेतुतटसीमनि वासलीला- मामेडयन्घटयतां मुदमद्रिधन्वा ।। ७६ ॥ मुक्ताविद्रुमपद्मरागपटलीमुख्योपदामन्तिके न्यस्यन्नेत्य सृजन्निव प्रणयिनीनिचिनाभ्यर्थनाम् । भूयो याति मुखे वहालनिधिर्भङ्गं किलापाकृतो येन प्रत्यहमेधते स भगवानेणाङ्कचूडामणिः ।। ७७ ॥ जानकीकरसमूढवालुकामूर्तये मुपितराघवार्तये । रामनाथ इति नामशालिने शूलिने नटनशीलिने नमः ॥ ७८ ॥ तदनु पण्डिताखण्डलः पाण्ड्यधरणीमण्डनायमानमुरुतरश्रीलास्यमुखर- मुपगम्य हालास्यनगरमगणेयगुणविशेपामशेपमुक्नमातरमपि सवित्रीकृतम- लयध्वजधरित्रीगवल्लभामपरयुचतिदुर्लभाभिरङ्गजनृपालपुंगवशक्तिभिरिव व- क्षोजवृद्धिभिस्तिभिरुपशोभमानयौवनारम्भां विपुलसंरम्मविहितनिखिलदि- विजययात्रायसरनेत्रातिथीभवनिपुरविरोधिसंनिधितिरोहिततृतीयपयोधरभरां रापदि मीनाक्षीमध्यक्षयप्रणिपातपूर्वमयमभिजातपथविहारिणी वाणीममाणीत्। हरमिव समारुयातुं चित्ताय नाप्रतमप्रतो रचयति कुचे तार्तीयीके भुजान्तरमन्जनम् । सपदि बिनतो लज्जासङ्गाचदीयगवेषण- प्रवण इव नः पायान्मीनाक्षि ते मुखचन्द्रमाः ।।७।।
काव्यमाला ।
स्तनशिखरिणोः स्पर्धामुत्पाद्य तावकयोः पुरा
कुलमहिधरो दृष्ट्वा तस्थौ तृतीयकुचात्मना ।
अधिगतवतोः पश्चादैक्यं तयोः सविधादसौ
निजपरिभवं प्रायो निर्धार्य देवि तिरोदधे ।। ८०॥
तव गिरिसुते वक्षोजेपु त्रिपु स्मरशासिनो
नयनसरसीजातै तेषु सत्सु भन्नताम् ।
दहनघटनत्रासालिल्ये तृतीयपयोधरः
समकुचददश्चिन्ता"न्धादलीकविलोचनम् ॥ ८१ ॥
पुरहरकरामर्शत्रासेन भूधरनायक-
म्तव कुचयुगोपांन्ते प्राप्य स्तनान्तरभमिकाम् ।
भगवति तिरोभूतः कापि प्रतिक्षणभाविनी-
महह पुनराशङ्केशानस्य हस्तविमर्शनाम् ।। ८२ ॥
भवति विमुखे धैर्ये पाणौ विमुञ्चति कार्मुकं
सुरभिलशरेऽप्याजौ स्वीकुर्वति प्रतिकूलताम् ।
परमवसर लब्ध्वा पृथ्वीधरेन्द्रशरासनो
जननि गवतीमाविर्लज्जा करे जगृहे हरः ॥ ८३ ।।
इति सुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिलजगद-
म्मिकाया विभावयन्पुनरिदमभापत-
अम्ब कदम्बवनान्तरमन्दिरसंजातफेलिसंचारे ।
भूरि पुरवैरिलीलासाक्षिणि मीनाक्षि देहि वाग्देवीम् ॥ ८४ ॥
आचिकुरचरणपल्लवमनवद्यानां शिवे तवाङ्गानाम् ।
उपमा क्दजघन्यैरुपमानैः क इव नापराधी स्यात् ॥ ८५॥
तदपि भवदीयचिन्तासुकृतानि"लब्धुमिच्छन्त्या।
भत्त्या समाहितः परमयमारम्भः सवित्रि सहनीयः ॥ ८६ ॥
विक्षिप्तदक्षिणेतरकरपल्लवमन्यपाणिधृतकीरम् ।
किमपि करणापयोधेरधिदेवतमाविरस्तु मम चिचे ॥ ८७ ॥
यान्नापबन्धः।
७७
कुलगिरिकुमारिके तव कुन्तलपरिमुपितसंपदो मेघाः ।
कन्दन्ति नूनमेते क्षितिभृत्पादेषु कृप्तनिप्यन्दाः ।। ८८॥
जडमपि दोपाकरमपि समधिककौटिल्यमपि सुधासूतिम् ।
शिरसा यहसि यदेपा जननि कलापक्षपातशैली ते ।। ८९ ॥
आपाटलाधरच्छवियालारुणकिरणपरिचयात्कि वा ।
अनिशचिकस्वरमास्ते पार्वति भवदीयवदनतामरसम् ॥१०॥
कमलभवन्मुखभेदे कलयेदीशोऽपि देवि मीमांसाम् ।
एकत्र पट्पदावलिस्तिरच भूलता न चेदृष्टा ॥ ११ ॥
शशलक्ष्मणो विशिष्टं शफराक्षि मुखं तवेति मे धिषणा।
यदिह विशेषकमिन्दौरसुलभममितैस्तपोभिरप्यास्ते ॥ २२ ॥
तव जननि लोचनद्वयमाभाति मदारुणीकृतोपान्तम् ।
निजगतिनिरोधकारिणि कर्णयुगे किंचिदात्तरोपमिव ॥ ९३ ॥
शर्वाणि ते कटाक्षः शक्ति जगृहे नु कालकूटस्य ।
गलकलितोऽपि स विकृति न दिशति नाथं यदेय मोहयति १२४ ॥
श्यामापि विमलशीला संततलोलापि संभृतस्थैर्याम् ।
गौरि कुटिलापि ऋची तनुते श्रियमानतेषु तव दृष्टिः ।। ५ ॥
तावकहसितविडम्बनसंभृतगाढागसां पियोर्भासाम् ।
संभाव्यते चकोरीचभूसंदंशकोरिभिश्छेदम् ॥ १६ ॥
दानकिरणप्ररोहेम्लग्रीममृतैरिवाभिपिश्चन्ती।
झापाचलितशिरस्कं गायति गश्वधशांसि कामारेः ॥ ७ ॥
भवदीयफण्टनालीपरिवादिन्यामलीकदृचान्ते ।
तन्लीगु".......""र्दधत मागल्यहेमसूत्राणि ॥ १८ ॥
हालाहलानलाकुलहरगलसंतापफन्दलीहरणात् ।
भूमो भुजद्वयी तव तनुरुचियमुनातरगयुगलीति ।।।।
फलयामि" ........."ननि श्यामो यदंशुमंदोरः।
गीति कपोलमूले मालावतंसमतिदायी ॥ १०॥
७८ काव्यमाला। परिणतदाडिमबीजभ्रमचुम्बितपद्मरागमणिमुद्रम् । विभ्रमशुकमालोक्य स्मेरमुखी त्वां भजामि मीनाक्षि ॥ १०१॥ आनन्दपारवश्यादपि विस्मृतमन्तरान्तरा गेयम् । हैमवति यद्गिरा पुनरनुसंघत्से स मां शुकः पायात् ।। १०२ ॥ अद्भुलिभिरम्ब तन्त्रीताडनसमये तव स्फुरन्तीभिः । संगीतविभवसंभृतपल्लवनिवहेव भासते वीणा ॥ १०३ ॥ माभूदयं विलीनो गीतिरसेनेति किं नु मीनाक्षि । कुचगिरिमलाबुरुद्धं कुरुपे वीणाविनोदवेलायाम् ॥ १०४ ॥ मध्येगानसुधाम्बुधिमज्जनमभिशङ्कय किं नु वा धन्ये । वीणावादनकेलिपु कलयसि कुचयोरलावुविन्यासम् ॥ १०५॥ त्वं वल्लकी च देवि द्वे सख्यौ कृतपरस्पराश्लेपे । चारुस्वने भवत्यौ सृजत इवान्योन्यकेलिसलापम् ॥ १०६ ॥ स्फीते महःप्रवाहे मजनलीलाकृतः स्मरेभस्य । उत्पतिताविव कुम्भावुरसिजभारौ तवावभासते ।। १०७ ॥ तव तरुणि मानमायी कोऽपि न रोमालिरस्य मणियष्टिः । न कुचौ करण्डयुग्मं मौक्तिकमाला न कन्दुकश्रेणिः ॥ १०८ ॥ शिशुतां विजित्य मध्यमसीप्ति निखातो नवेन तरुणिम्ना । रोमलतिकात्मना तव राजति जम्भारिमणिजयस्तम्भः ॥ १०९॥ कुचगिरिचरद्भवाशयकरिपातनजातकोतुको मदनः । तावकगभीरनाभीदम्भादम्ब ध्रुवं चकार विलम् ॥ ११०॥ कुचयुगलमारपीडा कुरुते तनुतां तवावलमस्य । अविवेकिनः समुन्नतिरन्तिकभाजां विपादनायैव ॥ १११॥ त्रिवलीमयेन यौवनदीकरवेष्टनेन किमपणे । भवदीयतनुपटीरव्रततीमध्यो विगाहते तनुताम् ॥ ११२ ॥ कथमतितरां कठोरैः करहिशिरःकदलिकाण्डतूणीरैः । जननि जघनोरजङ्घ तुलयन्ति धुतोपमानसद्धं ते॥११३ ।।
यात्राप्रबन्धः । ७९ भवमहिपि तव पदाभ्यामिदमधरीकृतमिति ध्रुवं वेधाः। कलयति कमलमधस्तात्सर्वे कुर्वन्ति सत्समाचरितम् ॥ ११४ ॥ नखरनिकरच्छलोदितनूपुरहीरोपलप्रतिच्छायाः । अङ्गुलिदलापदेशाद्धान्ति भवच्चरणकिरणनिप्यन्दाः ।। ११५॥ कमलकलहोद्यमो वा हिमगिरिहेलाविधानवाञ्छा वा । यमिहृदयवारिजस्थितिकलना वा तव पदं करोत्यरुणम् ।। ११६ ॥ हंसास्त्वया मदालसविभ्रमगत्या विभीपितस्वान्ताः । मातः पयोदमाला प्रेक्ष्य भवच्छङ्कया पलायन्ते ॥ ११७ निर्माय निमैले तब केवलशृङ्गारकन्दलैरङ्गम् । उडुराजखण्डमौलेरुपदीकुरुते स्म किं मनोजन्मा ।। ११८ ।। श्रुतिश्रमविनोदिभिः शुकरवैरभिव्यक्तया पुरारिगुणसंपदा पुलकितैकगण्डस्थलम् । कदम्पविपिनान्तरे कलितसंनिधानं चिरा- महः किमपि दृश्यते मरकतोपलश्यामलम् ॥ ११९ ॥ अनन्तरमुपसृत्य सुन्दरेशमारचितसंनतिरिदममन्यत-- अभीष्टसिद्धयै हरिणाङ्कशेखरं विनौमि हालाम्यपुरीविहारिणम् । विभोश्चतुःपष्टिविलासकारिणः कियन्मदीयावनकेलिकौशलम् ॥ १२० ॥ जरद्वारोहणशीलिना त्वया कदय॑ते हन्त नरे(गे)न्द्रकन्यका । हयावलीविऋयिणस्तवेश किं तुरङ्गमः कोऽपि बभूव दुर्लभः ।। १२१ ॥ गिरिश पाणिषु माधुरयोपितां वलयभूपणमर्पयता त्वया । शफरहकरपल्लवसंपदा कथय तेपु कलापि किमीक्षिता ॥ १२२ ।। उस्कूलसिन्धूदकरोधहेतुमृत्क्षेपकर्मावसरे विनग्रात् । संसेत गङ्गा यदि मस्तकाते का वा दशा स्यान्मधुरानगर्याः ।। १२३ ।। उरसिरुहत्रयरूपामुपहृत्य तव त्रिवर्गसंपत्तिम् । अजनि फरेक्षणा म्ययमानन्दधनापवर्गसंसिद्धिः ॥ १२४ ।। अथ निर्गत्य मधुरापुरादधिगत्य च कवेरजां समरमृगयादलितदनुजसा- काव्यमाला। रङ्गयूथमपि श्रीरङ्गनाथ परिकल्पितपूजापुण्यततिमपि गजारण्यपति चिरमु- पाम्य नि सत सहचरलोकमवलोक्य वाक्यमिदमारयातवानवनीसुरशाकर । फलशार्णवान्तरङ्ग कावेरीसनि मन्महे रङ्गम् । यदिह घनपीनतुङ्गे पुरुषो निद्राति भोगिपर्य? ॥ १२५ ॥ चारुकवेरजाझरसमीरणपारणया पोपघने शयान भुजगेशमहाशयने । श्रीमहिलामनोज जल्दामलधामनिधे त्व गुरु मङ्गल मम तरङ्गय रङ्गपते १२६ हृद्यमरुद्वृधाहृदयवर्तनसक्तमते प्रौढगजाटवीनटनपाटवरूढरुचे । सभृतरापदा विहितकम्युविडम्बनया साधय बोधन माशु मम चेतसि भूतपते ।। अज्ञातापचयक्रम द्विजवरैराम्वाद्यमाने रसे- ऽप्यर्ध वारिदनीलमर्धमुदयन्मार्तण्डनिम्बारुणम् ।' मूले सह्यकुमारिकातटपरिप्कारम्य जम्बूतरो रद्राक्ष फलमेकमीक्षणकृतामश्रान्ततृप्त्यानहम् ॥ १२८ ॥ ससारी म्यन्दनी वा जलधिरशनया लोचनी शेखरी वा नेत्रा नीलोत्पलानामुदधिपरिपृढेनालयी तूणवान्या । पर्यवी कङ्कणी वा फणिधरपतिना सह्यभूभृत्कुमारी मध्यालकारलीलावसतिरवतु मा देवतासार्वभौम ॥ १२० ॥ वृद्धाचलाधिपमुपाम्य ततो विपश्चि दाराध्य शोणगिरिसङ्गिनमगजारिम् । नत्वा विरिञ्चिपुरनायकमप्ययासी न्यग्रोधकाननपुरी निजवासमूमिम् ।। १३०॥ अनेकतीर्थाटनवैभवेन समापतन्ती सशरीरबन्धाम् । काचित्तप सिद्धिमिवैप कन्यामन्या महीयानथ पर्यणेपीत् ।। १३१ ।। अनवगुणकलापैरन्यनारीदुरापै रनुमृतनिचित्त हैमवत्योरिवेश । द्वयमिदमनुरुन्धन्दक्षिण सारसाक्ष्यो रधित मुहुरमान्तीमन्तरानन्दवृद्धिम् ॥ १३२ ।। इति समरपुराकानी यानाप्रमथचम्भूपाध्ये पचम भावाम"
यात्राप्रबन्धः ।
८१
पष्ट आश्वासः।
ताभ्यामसो धर्ममणूदरीभ्यां समाचरन्संशयगोचरेषु ।
निर्धारणाय श्रुतिनिर्विशेपं प्रमाणमासीत्परमङ्गभाजाम् ॥ १ ॥
तस्य तीर्थभजनोचितयात्रामादिशत्तिय सुदीधितिकस्य ।
स्मेरपाटलपरीमलवीचीमोदितालिमुखरः समयोऽभूत् ॥ २॥
मलिकाकुसुगमण्डलगोरो मारवाहुमदमान्द्यविधायी ।
दीप्तचण्डकरदीधितिरागात्कालकाल इव कश्चिदनेहाः ॥ ३ ॥
ग्रीप्मसंज्यरकृतामतिपीडामजिनीपतिरियासहमानः ।
मेदुरामविरतं मिहिकाभिर्विश्रवःसुतदिशं विजगाहे ॥ ४ ॥
उक्षिपद्भिरटवीतरुकाण्डानुद्भटेरपरदिक्पवमानः ।
भनरहसि पतङ्गशताङ्गे द्राधिमानमलभन्त दिनानि ।। ५॥
मेदुरे करसहस्रनिपीतमेदिनीतलजलैरहिमांशौ ।
भारकुण्ठितजवै रथवाहैः प्रादुरास गरिमा दिवसानाम् ॥ ६ ॥
च्योग्नि दायशिखिधूमवितानासले खरमरीचिहयानाम् ।
मार्गमार्गणकृतातिविलम्बादीर्घतां समजय(गम)न्दिवसानि ।। ७ ॥
अस्फुरच्छिखरिगहरगर्भव्यापिहेतिरटचीहुतवाहः ।
उद्वतैरिव विशन्निनधूमैरुद्धवं जलमुचामभिगय ॥ ८ ॥
भाविवैद्युतलतापरिणत्यै वीजसंततिरिव पविकीणी ।
व्योमसीग्नि विपिनज्वलनानां विस्फुलिद्गपटली विजम्भे ॥९॥
शोपितेप्विह जलेपु नितान्तं शेषलोफसलिलान्यपि पातुम् ।
दारुणैर्वमुमती फरजालैारितेव तपनेन पफाल ॥ १० ॥
मस्थितेन मधुमासनृपेण प्रापिता बनमहीगिधिराणि ।
पायकापलिखि प्रचकाशे पाटलीकुमुमकोरफपतिः ॥ ११॥
अंशुमालिफपिशाम्बरमध्ये व्यनिमानि मधुवैरिणि काले ।
अद्भुताय फिमिदं यदमुष्मितर्जुनस्य मुहुराम विकासः ॥ १२ ॥
माधवेन विहितोपचयानां मार्दवं किमलयप्रकराणाम् ।
आनहार शुचिराशु निधातुं कि गिरीपकुमुमग्नरकेपु ॥ १३ ॥
काव्यमाला।
दारुणातपभिया स्तनसीमामाश्रित शिशिरमम्चुरहाक्ष्य ।
सान्द्रचन्दनरसै फिमरक्षन्शस्यते हि शरणागतरक्षा ॥ १४ ॥
तालवृन्तमभितो हिमधारास्यन्दनिर्भरसिताभवलक्षम् ।
नृत्यति स्म निकटे युवतीनामास्यदास्यकृदिबैन्दवबिम्बम् ॥ १५ ॥
अम्बुजव्यजनमनमुखीनामाश्रयन्नपि मुहुर्मरुदासाम् ।
धर्मवारिकणजालममुप्णात्का व्यवस्थितिक पा चपलेपु ॥ १६ ॥
पर्ययेण वृत्तपातमधोऽधो वापिकाजठरवारि विरेजे ।
चण्डभानुकरसज्वरभीत्या गन्तुकाममिव गमवन्या ॥ १७ ॥
उन्नदगमरमुच्छ्रितपद्म भासते स्म पटल नलिनीनाम् ।
साध्वसात्करमुदस्य सवित्रे शसदात्मसरसामिव शोपम् ॥१८॥
क्रीडितु सरसि तीरगताना वक्रराजिररुचद्वनितानाम् ।
सादरेव जलजेपु विधातु सर्वसनहनसाहसकेलिम् ॥ १० ॥
अम्बुगाह्नकृतामवलानामधिपतिरपनूपुरनादा ।
रक्ष्यते म्म सरसीरहरक्ष्मीमोपणाय भृतमूक्दशेव ॥ २०॥
प्रक्रमे सलिलकेलिपलाया नाभिदधमपि सारसमम्भ ।
श्रोणिभि पुनरुरोरुहदन मुभ्रुवामजनि सभ्रमहेतु ॥२१॥
प्रापिते सरसि पद्ममुखीना क्षोभमूरचएम्भनितम्ने ।
अजसततिरधोमुखवीक्षा रजितेव लहरीपु मम(ज)जे ॥ २२॥
वीचिलोलमपहाय सरोन वसीमनि पत पि वध्या ।
पदम्तदुपगद्दनहप्यचेतसा सहचरेण शशसे ।। २३ ।।
अहना परिलमन्बु सरस्या उर्वते स्म उपयुद्धमपट्टे ।
रजयन्ति विदुषामिव भावैराशय किमु जलम्य मृगाक्ष्य ॥२४॥
पादयावकमुरोजपटीर चक्षुरजनमपि क्षपयन्तम् ।
वीक्ष्य रोपवियशा इब हम्तैम्ताटयन्ति पनिता मग तटारम् ॥२५॥
फातयप्रकायारिभरण प्लाविते सति पयोधरउम्मे।
नतो मृगरमा मदनेग रोदमातपात निमम ॥२६॥
यात्रामबन्धः। . अक्षमा अपि विहर्तुमगाधे कामिना करगृहीतवलग्नाः । बालिकाः प्रसृतपाणिपदानं पाथसि प्लवननर्म वितेनुः ॥ २७ ॥ कैशिके सलिलसंगिनि तासां कान्तचित्तमजनिष्ट रसाईम् । शुप्यति प्रचितशोपणमस्त्रैराङ्गार्नियमिते च निबद्धम् ॥ २८ ॥ नीलकुन्तलनियन्त्रितमल्लीसूनकन्दुकभरा मुगाली। वारिदोदरवलद्विधुबिम्बामावलि क्षणरुचामनुचके ॥ २९ ।। अथैप पित्रोरमितस्तपोमरैरुपेयुषोः स्वर्गमुपार्जितैः स्वयम् । गयाशिरःसीमनि कृत्यमास्तिकः स्वधर्म इत्याचरितुं समैहत ।। ३० ॥ द्युसिन्धुकाशीतदधीश्वरेपु प्रारभ्य या बाल्यममुप्य भक्तिः। करावलम्बप्रतिपादनं सा गयाप्रयाणाभिरतेरतानीत् ।। ३१ ।। लमे गुभे स निरगादचितः सुरेन्द्र- संतर्पणः सहजनिर्मलशीलशाली । दुष्कर्मवर्मितजनागमदूपितानि तीर्थानि पावयितुकाम इवाखिलानि ॥ ३२ ॥ बलिभोजिवकोटयोर्जवात्प्रतिपन्नाटनयोः प्रतिक्षणम् । किरणच्छलतोऽसितार्जुने किमभातां पुरतोऽस्य निन्नगे ॥ ३३ ॥ अनुपदमपश्यदयमपसव्यपार्धतः सहसा विनिःसृतं धरणीतलादुपरि बाहुमध्यमादनतितुङ्गे नभसि विहितचङ्गमतया संनिकृष्टोदयामिष्ट'.... मनशरमानक्षाणमदक्षिणभागपिटपिशाखाशिवरविरचितोपवेशतया मजनीय- देशमाविनीमञ्चितामुन्नतिमभिव्यञ्जयन्तं फमपि सनरीटकसगम् । अम्बरे मण्डलमान्तिमपदिश्य गरुत्मतः । तमागतयतयातुं हरेश्चक्रमदृश्यत ॥ ३४ ॥ दशीदमाणिनयमरीचिकोमिहलीसनीलच्छवि हाइकादी। वहीससं धाम वीन्द्रलोकदृष्टीनमेकं मतिमानसीत् ।। ३५॥ स्थितस्य मध्ये नियोविभाति यापली यम्य समं तदास्यः । सियालिरिन्दोरिय भानुमालिम्पर्धामृतद्वादगविग्रहम्य ॥ ३६॥ अभिवन्ध च तं भगवन्तमिदं नरनमतानीन् । ....... ।
काव्यमाला।
...
गन्धश्रेणीसान्द्रकहारचूड मन्दम्मेरोदारवारविन्दम् ।
अन्तर्वाणिध्येयमाम्नायगेय वन्दत्वैन वाणि वल्लीसहायम् ॥ ३७ ॥
दीनपालनमहावतकतौ दीक्षितेयमधिहालकाचलम् ।
वैनतेयतनयाधिरोहिणी वासना विहरते पडानना ॥ ३८ ॥
कालिकागिरिशयोगसाधित गाढममिजठरे समाहितम् ।
गालित पयसि सौरसैन्धवे काञ्चनीकृतशराटविं रुचा ।। ३९ ।।
शीलितोपचयकृत्तिकापय स्वीकृतिप्रकटितातिवैभवम् ।
व्यालिहामि मनसा भवामये मज्जता किमपि पारद रसम् ॥ ४०॥
इहेश्वरादेकमुखप्रवृतेरीपालमा
रीरितार्थ ।
कहारशैलाधिपति कथ वा भजन्ति सदशितबाहुमुख्यम् ॥ ४१ ॥
कनीनिकाशुग्रथिताक्षमाला पडाननी भाति पडाननस्य ।
अम्भोरुहश्रेणिरिवासिताजदलसजा गाढतर नित्रद्धा ॥ ४२ ॥
त्रिसध्यमाविष्कृतरक्तसध्यके धराधरेऽस्मिन्निदमन्यदद्भुतम् ।
यदेकनालोपरि शश्वदीक्ष्यते समग्रयोधाकलिता पडम्बुजी ॥ ४३ ॥
कलापिनीना नटनान्तरेषु कपोल[डो]दोलायितकुण्डलानि ।
नाली कसदोहनरन्मिलिन्दपालीकन भूपरिशोभितानि ॥ ४४ ॥
कहारमाधातुमिवेक्षणाभ्या गाढावलीढश्रवणान्तिकानि ।
नेत्रद्वयीसीमनिबद्धसेतुनर्मम्पृशा नासिकयोज्वलानि ॥ ४५ ॥
न्यस्तस्य दृग्दोपनिवारणाय विन्दो सगन्ध तिलक वहन्ति ।
प्रियाधरोष्ठामृतपारणायामुञ्चरहपूविकया युतानि ॥ ४६॥
उपासकेभ्यो युगपत्प्रणीतपर्शिनीव्याकृतिसप्रमाणि ।
कहारसौरभ्यघने कपोले स्वैर शियाभ्या कृतचुम्बनानि ॥ १७ ॥
रसामिलापेण रह प्रियाभ्या पर्यायपीताधरपल्लयानि ।
धन्यो जन पश्यति तारकारेर्मुखानि मुग्धम्मितान्दानि ॥४८॥
उमारमीडे गुरुगर्वयोगादुपोदसरम्ममुपेत्य यम्य ।
निलामासेन भयान्यिचेष्ट शनो जयस्तम्भ इवायतम्ये ॥ १९ ॥
यात्राप्रवन्धः । अहरलवचविधेयशतस्य वा निशि निषेविततल्पतलस्य वा । उपनिषन्मुखवेद्यमुदेतु मे मनसि पण्मुखयारिरुहं महः ॥ ५० ॥ नीलावनीमुन्निमसौरिधाटीलुलायकोलाहललुप्तधैर्य । काले स्मरामः फरुणाभिरामविलोकनं तारकवैरिणं तम् ।। ५१ ॥ वल्लीवक्रारविन्दे मदकलमधुपवातसंपातरीत्या तुल्यानां नृम्मणानामहमहमिकया गुम्भने दुर्निवारैः । हृयामुद्भावयद्भिर्दिशि दिशि....."पतिमिन्दीवराणां कल्याणं वः फटाक्षर कलयतु करुणाशालिभिः कार्तिकेयः ।। ५२ ॥ स्तनंधयोऽपि शर्वाण्या दैत्यं दारितवानसौ । स्वतो धारयतः शक्तिं किं वयो गण्यते बुधैः ।। ५३ ॥ सर्वागमोपदेष्टापि शबरीमयमग्रहीत् । अस्य भिल्लागणीसूनोरथवा किमनाचिती ।। ५४ ।। श्रयत मयानीतनयं शतमखरिपुजैत्रवैभवानीतनयम् । निरवधि कारुण्येन व्याप्तं हृदि वपुपि चाधिकारुण्येन ॥ ५५ ॥ सेनानीरजनि करश्रेणिपराभूतशोणनीरजनिकरः । परनलिनीरजनिकरः परमशिवानन्दबाप्पनीरजनिकरः ॥ ५६ ॥ प्रशस्तलीलाविगयोपनीतकुशस्थलीकूलझरीविशेषम् । कृपालतोपनमुपात्तवेधःकपालमाराधयदेष देवम् ॥ ५७ ॥ इमं परीपाकमिहापराधादम्भोजयोनेरपि पश्यतेति । अदःकपालेन सुरालये भिक्षामटन्यः प्रकटीचकार ॥ ५८ ॥ तदनु निःशत भूधरोत्सङ्गसीमि शीलित...."मासादितरागसंपदावे- शतया शैलेशतनुमुवा सततमाकेशचरणमवलोकनीयरामणीयकं नागेशम- मिवन्ध नरपालमन्दिरद्वारमासाद्य दूरादेव नृपसदसि मागधकुलनिगद्यमान- मभिजातपद्यजातमार्यमिश्रः सहर्षमश्रौपीत् । वर्धस्वामितसार सारसविधेयालोकलोकत्रयी- गेयप्रौढिविशेषशेषनिभवाडैपुण्यपुण्याकृते ।
काव्यमाला । सग्रामाङ्गणधीर धीरत सता कोदण्डदण्डक्षत- प्रार्थस्मयसङ्गसगतमहीरामाक माकप्रभो ॥ ५९ ॥ धनजयकृता दानेनानेकदित्ताटलङ्घन स्यदनिरतया कीर्त्या नीत्या निरस्तकलङ्कया । सरसफलया चात्रे सतानरलचिरन्तना ननघचरिताव्राजञ्जगीयसे क्षितिनायकान् ।। ६० ॥ जनितनलिनीशङ्कावेशे हरिन्मणिकुट्टिमे शशधरकलामुद्यद्विम्या निशासु समतत । बिसधिपणया केलीहसा स्पृशन्ति मुखाञ्चले प्रतिवुधगृह यत्तन्माकप्रभो तव वैभवम् ॥ ६१ ॥ श्रीमन्माकंक्षितिधर भवत्कीर्तिशैलूपयोपा मेरुस्तम्भे भ्रमणनटनप्रक्रिया सविधत्ते । तस्यास्ताग्विलसितजुपो रलताटङ्कभूषा युग्म तिग्मच्छविरिति शशीत्यम्बरे बम्भ्रमीति ॥ ६२ ।। चकाणा विदधाति सोऽतिकदन तेपा शरण्यस्त्वय राजा विष्णुपदाक्रम वितनुते सोऽय तु तस्यार्चक । आस्ते सोऽहिमयैकभाजनमय तस्यानभिज्ञस्त्विति त्यक्त्वा त परिकर्ममात्तिकमिपात्त्वामेव तारा श्रिता ॥ ६३ ॥ तव माफविभो धराधिपैरवलेपादकृताभिवन्दनै । इह दिव्यपि चानुभूयते बहुशस्त्रीपरिरम्भसभ्रम ॥ ६४ ॥ पाश्र्ववर्तिजनताप्रतिविम्बव्याजतो चिमतराजसमाजम् । सारे कवरित लि धचे साल्य माफ तव पाणिपाण ॥ ६५ ॥ वमयुनिकरेण यमुधा सिञ्चति मारुनृप तब गजश्रेणी । अत्मपटाहतिलीलानिर्मितमू निवारणायैव ॥ ६६ ॥ श्रीमारक्षितिपालमेखर भवद्वेतण्डरर्णानिलो नेप्यत्याशु कुतोऽपि तुलपटलीरीत्या हरिद्वारणान यात्रामवन्यः। आलोच्यैवमचचलस्थितिकृते तेषां किमम्मोजमूः क्षोणीमण्डलमारमेव सततं कुम्मस्थली न्यथात् ॥ ६७ ॥ पाटीहेलायु घोटीसुरपुटदलितक्षुण्णरेणूपगूढे- दनिर्जम्बालितासु त्रिदशकरटिनां गण्टभितिस्थलीषु । लमा नीलारविन्दच्छदरचिरलिना धोरणी कजलेन व्यालिता जेत्रवर्णावलिरिव भवतो भासते माकप ॥ ६८॥ अध्यासीना समन्ताक्षितिभरणकृतामावलिः सिन्धुराणां यांतरश्रान्तलोलअयणपुटमहातालवृत्तोपजातेः । काष्ठानामन्तराले किमपि विसरतस्त्वत्प्रतापानलस्य प्रायः संधुक्षणानि प्रणयति नितरां माकराज क्षितीन्द्र ।। ६९॥ विपक्षलक्ष्मीः क्रियते त्वया महीवरावन्दी प्रमदासमञ्जसा । रिपुं च माकेन्द्र करोपि किंकर वराहा दीप्रमदासमञ्जसा ।। ७०॥ प्रकल्पते त्वत्करवालयष्टी रविप्रभावारिजयापनाय । न हि प्रवर्तत कदापि लोके रविप्रभा वारिजयापनाय ॥ ७१ ।। इह महिमा कनकपटः पढघटित"ठा सात्वमाक नकपटः । विहरति मानत्रलोके विलसत्कारुण्यपीचिमानवलोके ।। ७२ ॥ पापकण्ठीरवतः प्रथितादुदितं दिशासु कण्टीरवतः । एत्य धरा माकेशं हृष्यति हटकृष्टवैरिरामाकेशम् ॥ ७३ ॥ चारिजनाभी राजति सोऽयं कृतस्तवारिजनाभीः । जहिहि स्कन्धावारे वसतिं तरसा दिगन्तिकं धावारे ॥ ७४ || हेमाफल्प क्षमाकण्ठकहरपटिमा कल्यरामाकटाक्ष- स्तोमाकाषः सुगाकर्कशभणितिललामा कथं वर्ण्यतेऽसौ क्ष्माकर्पूरममाकल्पनलरह्यशःप्रोटिमा कर्मरूढ- स्थेमा कारुण्यसीमा कनदनघगुणो माकराजक्षितीन्द्रः ॥७५॥ अनन्तरमयमवनिभृदन्तिकादभिमुसमापनद्विरागच्छद सरयमाशिपो व. दत भूपतेः श्रीमदवलोकनकुतूहली नृपतिरयमारत इति निवेदयद्भिरावसरि- काव्यमाला। कपुरुपैरावेद्यमानसरणिरवगाह्य धरणीशमन्दिरमतिलवंय कतिचिदपि कक्ष्या- (क्षा)न्तराणि कविबुधबन्धुसचिवमित्रसामन्तमण्डलीशोमिनि काञ्चनास्थान- मण्डपे मणिमयचतुस्तम्भमध्यमवितर्दिकायामतिमृदुलतूलमालिकामांसलममृ- तफेनपटलीविनिर्मलमादिपुरुषमिव शेपमास्तरणविशेषमध्यासीनं वारविलासि- नीकरकमलडो(दो)लायमानचामरद्वितयभासुरपार्श्वभागतया कलशजलधियुग- लीकल्लोलयुगला'""रुल्लसन्तमरविन्दिनीबन्धुमपह(स)न्तकौमुम्भपटखण्डपरि- कलितमालतीप्रसवशालिना मौलिबन्धेन संध्यामयूखसंवलिततारकमम्वरतलै- कदेशं विडम्बयन्तमस्तोककुङ्कुमस्थासकपिशङ्गमरीचितरङ्गितां मूर्तिमावृण्वता कण्ठाभरणमुक्ताफलदीप्तिवृन्देन मन्दाकिनीपूरपतनगौरवपुपं सुमेरुमवधीरयन्तं पीतवसनपरिपीतकटिप्रदेशतया पुष्करजालसंवृतनितम्बभूमिमुदयक्ष्माभृतम- धिक्षिपन्तं कलकल्पशाखिनः किसलयान्तरालकन्दलितेन कुसुमकोरकेणेव कुरुविन्दमध्यवर्तिना कुलिशोपलेन परिशोभमानमहं वीरकङ्कणं मणिबन्ध- सीमनि महनीयमुद्वहन्तं मकरध्वजमिव मार्गणोपदर्शितसौमनस्यं पाकशा- सनमिव प्रतिरोधिवलविभेदनं पुरवैरिमित्रमिव समस्तागिलपितपूरणधुरी- णसंनिधानं द्वितीयहरमिवातृतीयलोचनमन्यमिव शतमन्युमितरमिव वदान्य- पादपमपरमिव कुसुमाकरमत्रिकुलपवित्रीकरणकुशलचरित्रसंपदं कोनाम्यागर्भ- कुजगृहसंचारकेलिपञ्चाननं पापजगतीपतिप्राचीनसुकृतपरिपाऊं माकनरलो- कनायकमवलोकयन्मनस्येवमकरोत् । यो भोगिप्रवरोऽप्यजिह्मचरितः श्रीशोऽपि हृप्यदृपो भास्वानप्यरिदुःसहः कुवलयाधीशोऽप्यदोपाफरः । सर्वज्ञोऽप्यनलीकदृष्टिरचलोऽप्यक्षीणपक्षावलिः सोऽयं माकनृपो विचित्रमहिमा म्वैरं विजेजीयते ॥ ७६ ॥ तदनु संमदादुत्याय पार्थिववरिष्ठेन समुचितासन्नविष्टरे समुपवेशितोऽय- मतिविचक्षणो दक्षिणमुद्यम्य हस्तं नृपकुलमणरस्य नमर्दासलसामन्तभूपते- राशि प्रायुत। फल्याणाकर माफराज भवते कारुण्यसंगीलना- दौरेप जनार्दनो वितरतादालोकनः संपदम् । .
यात्राप्रबन्धः । पारावारसुतासनाथमभितो वाहान्तरान्तःपुरं दोष्णां यस्य चतुष्टयी चिरधृतैः पातीव दिव्यायुधैः ॥ ७७ ॥ लक्ष्मीनित्यविहारकैटभरिपो चक्रावलीरञ्जन- च्छायावल्लभ कीर्तिवृद्धिकलनाधाराधराभ्यागम । दोपापोपणपूर्णचन्द्र सुमनोविस्फूर्तिपुप्पाकर श्रीव(म)न्साल्यकुमार माक भवतः श्रेयांसि संप्रार्थये ।। ७८ ॥ सकलभवद्गुणसङ्घश्लाघाचातुर्यविवृतिकलनायाम् । जगति फणिराज एक: शिप्यत इत्येव शेपतां धत्ते ॥ ७९ ॥ पारं भवद्गुणोघानां वाणी व्रजतु मे कथम् । अपर्याप्तस्थितिर्यपामपि ब्रह्माण्डमण्डलः ॥ ८०॥ तदपास्य भवद्गुणावलीस्तवधाटीरुचिमेतदद्य नः । पृथिवीश भृशं निवेदने प्रकृतार्थस्य मनः प्रवर्तते ॥ ८१ ।। स्थितिगुप्तिमलब्धसंगतिं क्षितिपालाधिगमे फलं विदुः । मनुजेशधुरीण मादृशामुचितं तेन तवोपसर्पणम् ।। ८२ ॥ मुवि ते तु बुधैरवस्थितैरनवाप्तं न किमप्यवेक्ष्यते । अपहाय पुरा कृताधिकं सुकृतं दुप्कृतशोधनक्षमम् ॥ ८३ ॥ तदिमां मनुजादिवन्धुतां तव पार्थे विनिवेश्य सांप्रतम् । अविमुक्तमुपासितुं व(रै)रविमुक्तं वयमाद्रियामहे ।। ८४ ॥ परिपाहि मदीयवान्धवान्विपये ते विहितस्थितीनिति । कथनं खलु सिद्धसाधनं क्षितिसंत्राणकृतस्तवान्तिके ॥ ८५ इति तमभिलपन्तं हृष्टचेता नरेन्द्रो भृतमुदमुपचारैः प्राहिणोदसुदारैः । पथि खल विदधानो भाववन्धं विशुद्ध- बलवदिह सपर्याभाजनं फस्य न स्यात् ॥ ८६ ॥ अथ विनिर्गत्य निःगकदुर्गमुवो निखिलदुर्गतजनसर्गतरोरनर्गलगौर्यवि- स्मारितभार्गवस्य मर्गतनूभवस्येव दुर्गाप्रमादलब्धविविधामिलपितवर्गस्य भो. गिवरनिराकृतिपटुविवेकशालिनो माकराजमहीपाकशासनस्य मुजनतातिरे- काव्यमाला . कमनुचिन्त्य मुहुर्मुहुर्मुदमनुसंधानस्तदवलम्विभिरेव वचनगुम्भनरनुचरस- माजमपि सभाजयन्सरोजलोचन इव सहचरीद्वयेन कियमिव गत्वा स लब्धवर्णः सुवर्णमुखरी निर्वर्णयन्निदमवर्णयत । इयं खलु हुंकृत्य भृङ्गनिनदैरुपगृह्य वीची- हस्तैः शिशूनिव जनानदसीयपङ्कम् । प्रक्षाल्य हंसरसितैः परिसान्त्वयन्ती मोदं प्रसूरिय मुहुर्मुहुरातनोति ॥ ८७ ।। त्तरेण सरिदुत्तमामिमां तुङ्गशृङ्गदलिराद्युसिन्धुना । चक्षुपोरुपदया चिराय नो भूयते भुजगराजभूभृता ॥ ८८ ॥ अब कुञ्जगृहासीनकेलिकाराङ्कलालिताः । विष्णोः कर्माणि गायन्ति विद्याधरमृगीदृशः ॥ ८९ ।। अहो वृपधरगहीपतेरमुप्य महिमा । पपनीतैरिह सत्प्रसूनैः कुणिः स्रजो गुम्भनमातनोति । अम्भोजनाभस्य कथामवाचा प्रस्तूयमानां बधिरः शृणोति ॥ ९० ॥ अथ तदानीं पद्मासद्मायमाने मणिमुरसि वहन्कौस्तुभं वास्तुभूमि- र्भासामासारदानोन्मुखघनमुपमागर्वनिर्वापिकानाम् । स्तुत्यः श्रुत्यावलीभिर्नियमधनजनस्वान्तकान्तारलीला- कुम्भी कुम्भीनसादेरधितटममुनालोकि लोकैकनेता ॥११॥ असौ पुनरुरसा विशङ्कटेन विकृतवनमालिक वेङ्कटेशमभिवन्ध निर्मलमनाः सपरितोपमिदमभाषत । साधूनां हृदयान्तरालसरणो पुप्णन्परिप्कारतां कुक्षेः सीमनि दर्शनीयविभवां कुर्वनगन्मण्डलीम् । आख्यामजनभूभृतो निजतनुच्छाया र त्वर्थय- कोऽप्यास्ते मणिरिन्दिराकुचतटीशाणोपलोचेजितः ॥११॥ मलेन्दीवरयोरनगारयोरुतेजिते यदृशी मयो यस्य समस्तशब्दकुहनामाणिक्यशाणोपलः ।
यात्राप्रवन्धः। यन्नाभीसरणिश्च सूक्तिजननीश्वश्रूपदस्थायिनी पायान्मा हृदयंगमस्मरकलातत्वं तदेतन्महः ।। ९३ ।। अञ्जनाचल".."सर्वैरपि जनरयम् । तटे गुह्तटाकस्य मुकुन्दो मुहुरीक्ष्यते ॥ ९४ ॥ अवतंसेन विदुपां प्रशशंसे ततोऽमुना । स्वामिपुष्करिणीतीरभूमिभूपामणिः ॥ ९५ ॥ अशिप्रभिन्नतटहाटकशैलशृङ्गारिवद्रजोनिचयकुङ्कुमलिप्तगात्रः । घोणाहताम्बुनिधिदुन्दुभिधोपहष्टः पायान्महीपरिणयाभिमुखो(वराहः) ॥१६॥ अम्भोनिधेरलधुनिश्वसिताभिपङ्गाद्विभ्राम्यतो भ्रमिविलोकनकैतवेन । पृथ्वीपुरःप्रणयिनोचितभूपरीक्षां कुर्वन्निवादिमकिटिः कुरुतां मुदं नः ।।९७॥ (व्या)धूतदेहरभसव्यपसार्यमाणा- मागासु वारिलहरीमपदिश्य सिन्धोः । जीयात्सृजन्निजसमागमभाविपृथ्वी- ब्रीडापनोदनतिरस्करिणी वराहः ।। ९८ ॥ आचं नमामि........... भजन्समुद्रो यद्रोमकोटिपु कुशाग्राहिमाम्बुरीतिम् । तत्कालसंगतधरापरिरम्भकर्म- घोंदविन्दुविहति घटयांबभूव ॥ ९९ ।। अम्भोधि कूल ........." ..."चोरदैत्य- मुस्ताक्षतिप्रभवमोदपरंपराभिः । मृदारतां प्रकटयन्पुरुषः पुराण- स्तत्तादृशीमिह तरङ्गयतु श्रियं यः ॥ १० ॥ कोलस्तनोतु कुशलानि चिरंतनो मे येन क्षिती प्रथममीपदुदञ्चितायाम् । अस्या विपादविगमाच्छुसितैरिवाब्धे- रहाय बुढ्दकदम्बकमाविरासीत् ॥ १९१ ।।
काव्यमाला।
आधारधुर्य जगदण्डकपालवन्ति
पाथोमिषेण फणिमन्दिरमण्डपस्य ।
उर्वाशिलामुपरि निक्षिपता व्यतानि
येनाम्बुमानमिव तेन वयं सनाथाः ।। १०२ ॥
प्रान्तक्षरजलधिवारिभरामुदस्य.
घोणाञ्चलेन धरणी कुहनावराहः ।
तादृऋतिव्यतिकरश्रमवारणाय
धारागृहान्तरमिवाधिगतः पुनातु ॥ १०३ ॥
मखं शुभानि विदधातु महावराहो
दंष्ट्राहितेन विलसन्वलयेन धान्याः ।
संरक्षणादिव चराचरमण्डलीना-
मासादितेन महतातपवारणेन ।। १०४ ।।
अङ्क महीवरतनोरधिरोपिताया
व्यापारयन्निजदृशा वदनारविन्दे ।
आद्यः पुमानभयमुद्रिकयादसीय-
मस्यन्हठोद्धरणभीतिमिवावतानः ॥ १०५ ॥
भवाब्धिहरुद्वयसो जनानां पदालमेतद्भजतां ममेति ।
वक्तीव यः सक्थिनिवेशितेन वरप्रदेनापि कराम्बुजेन ॥ १०६ ॥
तदनु शेषाचलभूपामणेररविन्दलोचनस्य चरणारविन्दपरिचरणपुण्य-
परिणतेरिव नयनसरणिमवगाहमानमन्तिकनिष्यन्दमानसिन्धुपवनकन्दलमा-
सतुन्दिलशिथिलबन्धस्य फणिराजपरिकर्मणः प्रतिक्षणदृढीकृतौ कृतदक्षिणं
दक्षिणकैलासफटकतटसीमनि शिलावटमूलबद्धरति कालहस्तिपतिमासेवमानो
भूदेवानन्दनः सानन्दमिदमवादीत् ।
अग्रे लताप्रथितपटलीकल्पितच्छायमास्ते
सिक्तं दन्तावलकरजलैरचितं मोगिरनेः ।
भिल्लाधीगोपहतपिशितामोदयक्वारविन्द
भाम्यं पृथ्वीधरपतिमुता "योरादितत्यम् ॥ १०७ ॥
यात्राप्रबन्धः। पायादपायरहितं परिणम्रमुक्ता- दायादकायमतिवेलदयाविधेयम् । दूरे चिरंतनगिरां दुरितापहारि पारेसुवर्ण.....".""कटं महो नः ॥ १०८ ॥ ब्रह्मादयोऽपि भवदाप्तिकृते यतन्ते यत्नं विनापि ययुराटंविकादयस्त्वाम् । आतः कृतान्तविजयिन्नतिचित्रशील त्वां मन्महे न सुलभं च न दुर्लभं च ।। १०९ ॥ प्रत्यग्रपुष्करपयाकलिताभिपेके नागे नटद्गुणततावपि लतिकायाम् । प्रीतिस्तवास्तु भगवन्नभवत्कथं वा लुब्धद्विजिहविषयः प्रणयानुबन्धः ॥ ११० ।। अन्योपचारविधिरस्तु महानणु भावत्कहर्षपदमान्तर एव भावः । गौरीश ते मणिगुणप्रतिपादनेन प्राप्तौ गतिं किल समां फणितन्तुवायो । १११ ।। त्वद्भावतोऽपि तुहिनांशुकिशोरमौले धन्या भृशं भवति तावकभक्ततैव । श्रीकालहस्तिपुरसीमनि यत्त्वयापि भक्ताग्रिमस्य जगृहे फणिनः स्वरूपम् ॥ ११२ ॥ निकिपट्टसितमङ्गमसह्यवेगः क्ष्वेलानलो दुरवबोधतरं पदं च । सर्वं यतः सममहेर्भवतश्च शूलि- नन्योन्यरूपपरिवृत्तिरतः किमासीत् ।। ११३ ॥ देव त्वया यदिह दक्षिणरौप्यशैले व्यालद्विपेन्द्रतनुरष्टविधा वितेने ।
९४ काव्यमाला । तद्युक्तमेव कलये तव नीलकण्ठं पञ्चाननं च यदुशन्ति भवन्तमार्याः ॥ ११४ ।। घोरखभावजटिलः क वनेचरेन्द्रः गान्तोपसेव्यसरणी सुगमा छ मुक्तिः । अन्योन्यमेलनविधावनयोः प्रवीणा तत्तादृशी जयति देव तवानुकम्पा ॥ ११५ ।। पालेयभानुशकलादपि पादुकाया- माकाशसिन्धुसलिलादपि वकतोये । देवीमुखामृतरसादपि दष्टमांसे को वा गुणस्तव कुतूहलहेतुरासीत् ॥ ११६ ॥ हातुं पुलिन्दपतिरातकिरातभाव- मासीद्भवन्तमधिगम्य महाकिरातः । कि कालहस्तिनगरीश तदद्भुताय प्राग्वासना बलवती खलु देहभाजाम् ॥ ११७ ।। अनान्नरार्चनक्रिपि ते गरीयः पादारविन्दपरिपूजनमेव शम्भो । दत्वा मुखे दृशमगाद्विषमेक्षणत्वं भिल्लः पदे तु हरिराप्तसुदर्शनोऽभूत् ॥ ११८ ॥ व्याधः समर्पयतु नाम विलीढशेष मांसं विवेकविरहेण मनोभवारे । अङ्गीकृतं कथमिदं भवताथवैत- संभाव्यते त्वयि वनेचरसार्वभौमे ॥ ११० ।। पाणिमहळ्यतिकरादुपरि प्रजाना- मुच्छिष्टसंकरमुशन्ति जना जगत्याम् । प्रागेव मुक्तिपरिणीतिविधेरयं वा- मासीरिकमेप गयरागमसंप्रदायः ।। १२० ।।
यात्राप्रबन्धः । ९५ स्पृष्टं शिरः शबरपादुकयेति मन्ये तस्मिन्नमय॑तटिनी विमृपे तथापि । दष्टामिपग्रहणदर्शितचापलभ्य नेहास्ति कापि तव निष्कृतिरन्तकारे ॥ १२१ ॥ गङ्गागाण्डिवचापयोर्मदभरक्षेपाय चूडापदे गण्डूपाम्बु च पादुका च शबरोत्तंसस्य व त्वया । पद्माक्षस्मयभञ्जनाय दृगपि प्रत्याददे कस्य वा दीपाकृतये महेश जगृहे दयावशिष्टामिपम् ॥ १२२ ॥ त्वन्मस्तकाहितपदन्यसनादिदोप- संगोश्करसकते शारो झाट । चर्माम्बरं कटितटे भसिताङ्गराग- मङ्गे कपालमधिपाणि जटाश्च मौलौ ॥ १२३ ।। सन्तु प्राणिवधैकतानमतयः शश्वन्मदान्धीकृता जिलव्याप्तयोऽथवा जनिभृतः स्फारीभवद्धान्तयः । मुक्तिस्तान्वृणुते खयं यदि कृपा मुग्धेन्दुचूडाल ते तत्र व्याधगजाहिकीटपतयो दृष्टान्तकाष्ठापराः ॥ १२४ ॥ यामि प्रीतिमहं परान्नभजनरुच्छिष्टभोजी भवा- न्मूहिं चरणो स्पृशामि धनिनां त्वं पादुकाशेखरः । सेवेऽहं धनपापकर्दमनदीं त्वं वक्रतोयाप्लुतो युक्ता किनु मदीयदोपगणना श्रीकालहस्तीश ते ॥ १२५ ॥ सत्कर्माचरणात्मिकां प्रथमतः संपाद्य नान्दी ततः प्रादुर्भाव्य समस्तभक्तिगरिमप्रस्तावनाकौशलम् । द्रागुत्सार्य तमःपटीमथ वृते दीपेन विद्यात्मना चिते मे नटनं विधास्यसि कदा श्रीकालहस्तीश्वर ॥ १२६॥ गण्डूपाम्बुनिमजनाय यदभूगङ्गावतंसस्य ते चुटालङ्कृतिकल्पनाय विधृतज्योत्सावतः पादुका ।
काव्यमाला। तृप्त्यै भक्षितशेपमामिपमपि त्रैलोक्यकुक्षिभरे- विद्याधीश मुदे तवास्तु तदियं वाणी लघिष्ठापि मे ।। १२७ ।। भिल्लागणीचरणपल्लवपादुकायै सेयं क्रियासमभिहारवती नमस्या । वेधः करोटिंविधुखण्डवियन्नदीनां सेहे न या गिरिशशेखरताभिमानम् ॥ १२८ ॥ अस्त्येव यद्यवतरेन्मम दृष्टिमार्ग नैवास्ति चेन्न तटिनीभरणं घटेल । इत्थं विधेर्विमतिमीश किरीटलक्ष्म्या यस्याः स्मृतिहरति सावतु पादुका नः ॥ १२९ ॥ त्रातं यया हरजटावनचारकेल्या वेधःशिरः प्रतिहतेः शबराज्रिपाम् । सा पादुका पडरिचर्गविनिर्जयाय संनह्यतां भवतु संपति नः शिरस्त्रम् ॥ १३० ॥ अपि च- जगन्मण्डलीयं त्वयि स्वप्रकाशे नटन्ती रवेरंशुजाले नदीव । अविद्याविलासाकृतिविधया ते भव............ ... भवत्यन्तकारे ॥ १३१ ।। मनोहारिशब्दादिभिर्व्यज्यमानानहं किंचिदालिह्य यस्यैव लेशान् । सुखत्वेन जानामि संसारपीडां तमानन्दवाराकर स्वामुपासे ॥ १३२ ।। "कणस्फूतिहेतुः मुखादिप्रपञ्चोऽपि सर्वप्रियत्वेन भाति । परप्रेमभारास्पदत्वेन तादृक्प्रमोदाकृतिप्रत्यगर्थोऽसि शम्भो ॥ १३३ ।। न कर्तास्मि नानाविधानां क्रियाणां प्रसक्तोऽपि नैतत्फलास्वादनेषु । सदानन्दविज्ञानसान्द्रस्वभावो भवानेव सोऽहं भवामि स्मरारे ॥१३४॥ यथा मातृवाक्येन राधेयभावं परित्यज्य कर्णः पृथासूनुरासीत् । तथा तत्त्वमस्यादिवाक्येन जब समुत्सृज्य रूपं त्वमेवाहमस्मि ॥१३५|| भवन्तं वदन्त्येकमेवाद्वितीय प्रणीतेतरालापसीमावचांसि । अतः साधयेदावयोर्मेदमचामयं कल्पितः किं नु संसारवन्धः॥ १३६|| यात्राप्रबन्धः। यथा शुक्तिकादेरिदंतानुविद्धं समारोपितं वस्तु सबै चकास्ति । तवानङ्गजेतस्तथा सत्तयेदं समालिङ्गितं दृश्यजातं विभाति ॥ १३७ ॥ गुणे कल्पिताया यथा कुण्डलिन्या जनत्रासकम्पादिसंपादकत्वम् । तथा संसृतेरीश नानाविधार्थक्रियासाधकत्वं त्वदारोपितायाः ॥ १३८ ।। त्रयीमौलिना देशिकस्यापि वाचा समावेदिता संगनिर्मुक्तता मे । न सा बाध्यते नाथ मिथ्याभिमत्या महारत्नदीपप्रभा वात्ययेव ॥१३९।। असङ्गत्वधीरात्मनीयं मदीया हृदाधत्त कादिभावप्रतीत्या । सुधांशूपले शुद्धतासंविदस्मि जपोपाधिकारुण्यवुद्ध्यैव नैति ॥ १४ ॥ सदा शुद्धबुद्धो विमुक्तस्वरूपस्त्वमेतादृशोऽहं च तांगमाभ्याम् । अभेदेऽपि सत्यावयोरन्तरात्मन्नहो मे सुखस्फूर्तिरल्पेयमास्ते ॥१४॥ विरामेण सर्वेन्द्रियव्याव(पू)तीनां सुपुप्तावपि क्षीणशोकोदयायाम् । सहाविद्यया संमदस्यानुभूतिः सकाकोलमाध्वीकसेवासमाना ॥ १४२॥ विसर्पन्महामोहवेगान्धकारे निरस्येह निःसारसंसारकूपे । भृशं क्लेशयित्वालमापन्नबन्धो शिव त्राहि मामीश कारुण्यसिन्धो॥१४३॥ दुरन्तव्यथाहेतुभूतस्य दुष्टवणस्येव शस्त्रेण वैद्यो दयालुः । दो दुःसहं ग्रन्थिमीशान मिन्द-प्रबोधेन मे देहि मोदातिरेकम।।१४१॥ धूयुग्मवाताशनव्याधल्तानराधीशनत्कीरनागार्तिहारिन् । त्वं(e)मानयैनं जनिव्याधिपीडाविहस्तीकृतं कालहस्तीश देव ॥ १४५ ॥ तुषारधुते" .............."पवादं मया ते वितीर्णा कलामालिकेयम् ॥ १४६ ॥ एकदापि रचितेक्षणापणौ तौ तदैव भवताभिरक्षितौ । पार्वतीश पदयोस्तवानिशं दत्तदृष्टिमपि मामुपेक्षसे ॥ १४७ ॥ इत्यादि कीर्तयन्नयमत्यादरादुपेत्य धीराग्रिमो माराभियातिशरीरार्ध. हारिणीमाराध्य मातरं शतपत्रमुकुलसच्छाप्रताजुपी मस्तकमुवि हस्तौ निधाय समस्तोपनिपदोंघसुरभिलामि" विष्यद्रीचि मरीचिमद्रुचिभरे वीचीव वारां नयी लोकानां यदवेदनादुदयते यद्वदनान्मीलति । ................... श्रौपीत् ।
काव्यमाला।
....
...........
सत्यानन्दसुघासमुद्रलहरी सा काचिदेका
"सि त्वमेव परमा ज्ञानप्रसूनाम्बिके ।। १४८ ॥
नित्यानित्यविवेचनादिमजुमो नित्यैर्यचोगुम्मनै-
राप्तैः खस्य तवापि चैक्यमुभयोरापाततो जानतः ।
कल्याणे तव दृक्पथे निपततः कस्यापि पुण्यात्मनो
जिज्ञासा त्वयि जायते भगवति ज्ञानप्रसूनाम्बिके ॥ १४९॥
विध्याद्यासु विघासु कापि भवतु श्रोतन्यवाक्ये विधा
..."कर्मविचारक""घटनया प्रत्यग्विचारस्य च ।
लिझैः पद्विरुपक्रममभृतिभिर्वेदान्ततात्पर्यधी-
राधेया त्वयि तद्विमर्शफलया ज्ञानप्रसूनाम्बिके ॥ १५० ॥
कार्योत्पत्त्यनुकूलवेदनतया का भवत्याः पुनः
साक्षादेव निदानतां त्रिजगतीद्वारं तु मायापरम् ।
मृद्वतन्मसृणत्ववच्च कलशे सत्तामृतस्ते तत-
स्तस्या जाड्यजुषश्च संगतिरिह ज्ञानप्रसूनाम्बिके ॥१५१ ।।
कुम्भीजन्मनि कुम्भकार इव भूभव भूमिस्थितौ
हेतु. किं जगतोऽन्य एव जननस्येन्नोरुपादानतः ।
इत्यं आन्तिमुदित्वरी शमयितुं लक्ष्माहुरेकं जग-
जन्मादित्रयहेतुतां तव बुधा ज्ञानप्रसूनाम्बिके ॥ १५२ ॥
पीलनां व्यणुकादिकार्यनिवहप्रारम्मकत्वं यथा
नानारूपजडात्मना परिणतिर्यद्वत्मधानस्य वा।
तद्वनियनिर्विकार".""स्ते तद्द्यासंमवा-
द्यालस्य स्रगिवास्य फारणमसि ज्ञानप्रसूनाम्बिके ॥ १५३ ।।
देहान्तःकरणस्पृहामुसमुसे रज्जूरगाह्राधिम-
प्रत्येकाध्यसने च जीववपुषा पुष्णाम्युपादानताम् ।
आकाशामिसमीरवारिधरणीमुरये तु साधारणे
रूपेणैव महेशिनुम्मिजगती मानप्रमूनाम्बिके ॥ १५ ॥
यात्राप्रवन्धः। . नित्यामस्तसमस्तभेदविसरां निस्सन्दचित्कन्दली- मानन्दैकरसामगम्यसरणीमाम्नायवाचामपि । मूर्ति जीवमहेश्वरी विदधती मायावशेनात्मन- स्तद्वद्वानुगता विशुद्धचिदसि ज्ञानप्रसूनाम्बिके ॥ १५५ ॥ निष्प्रत्यूहमिपत्स्वरूपधिपणाससिद्धसर्वज्ञता सर्वोत्पादयितृत्वसर्वभुवनाधिष्ठातृताग्रेसरैः । कल्याणैरुपशोभितां गुणगणैः कैवल्यलक्ष्मीमयीं दिव्यामीशदशामवाप्य जयसि ज्ञानप्रसूनाम्बिके ॥ १५६ ॥ मायाराहुविलीढबोधशशिना चक्षुर्मुखाक्षोदयं नानावृत्तिमुखावलोकनमिलत्किचिज्ज्ञताशालिना । उन्मीलहहुशोकवेगगरिमोद्विमेन जीवात्मना बनासीव भवाब्धिमजनविधि ज्ञानप्रसूनाम्बिके ॥ १५७ ।। छायावल्लभशीतभानुहुतभुनक्षत्रतारादयो भान्ती त्यामनुभान्ति केवलचिदालोकातिरेकीकृते । चेतोवृत्तिपदार्थभेदकभवन्मातृप्रमामेयता- धुर्या मासयसि त्वमेव भुवनं ज्ञानप्रसूनाम्बिके ।। १५८ ॥ ऐक्ये व्यक्तिमुपागते सति बहिश्चञ्चद्गाभावथ प्रेसद्वृत्तिवशेन साक्षिविषयावच्छिन्नचैतन्ययोः । प्रत्यग्बोधमयेन दीपमहसा संबन्धमाध्यासिके प्राप्तेन प्रकटीकरोषि विषयाज्ञानप्रसूनाम्बिके ॥ १५९ ।। सन्त्येवावरणादिशक्तिसहिता मूलप्रकृत्यंशका मूलाज्ञानपदाभिषेकविधिना संभाविताः सूरिभिः । बाौर्वृत्तिभिरीक्षणादिकरणोद्भूताभिरेकैकश- स्तैरुद्यनिखिलल्यवस्थितिरसि ज्ञानप्रसूनाम्बिके ।। १६० ।। सामान्यग्रहणाचदंशविषयाविद्यानिवृत्तावपि समुख्येतरभागसंवृतिविधाजाप्रत्तमोवस्थितेः ।
काव्यमाला। सम्वातंधयशुक्तिरौप्यमरुभूरिहन्मरीचापगा- पूर्वाध्यासशतानि संकलयसि ज्ञानप्रसूनाम्बिके ।। १६१ ॥ अस्पृष्टैर्भमवञ्चनादिकलयावच्छेदनिन्दापरैः संसर्गाविषयप्रमैकजनकैश्छन्दोगिरां मौलिभिः । दुष्टां प्राथमिकी दृगादिजनितां बुद्धिं भिदागोचरा- मस्यद्भिर्घटते तदद्वयमिति ज्ञानप्रसूनाम्बिके ॥ १६२ ॥ तत्त्वावेदनतश्चिरंतनगिरा प्रच्याविताध्यक्षधी- रज्ञानव्यतिरिक्तदोपमहिमाजन्यं प्रपद्यास्पदम् । नानाकार्यपरंपरास्वनुगतां सत्तां तवातन्वती व्यत्यस्तामिव बोभवीति सफला ज्ञानप्रसूनाम्बिके ।। १६३ ।। आदर्शाहतिसंनिवृत्चनयनव्यालिहामानं यथा । कण्ठस्थं मुखमेव न प्रतिमुखं मिथ्या पदार्थान्तरम् । चैतन्यप्रतिविम्ब एव मुकुरे जीवोऽपि मायामये त्वद्रूपादतिरिच्यते न हि तथा ज्ञानप्रसूनाम्बिके ॥ १६४ ॥ प्रक्षीणादिकथा समस्तजनिमत्प्रत्यक्षताशालिनी विक्षेपप्रतिरूपशक्तियुगलीविख्यापितप्रक्रिया । मन्दीभूतनिरुत्तिमार्गगमना मायाभिधा किंकरी किं ते दुर्घटमेव नो घटयति ज्ञानप्रसूनाम्बिके ॥ १६५ ॥ खच्छन्दारुणबन्धुजीवसुमनोगुच्छाङ्कपालीवशा- दच्छायां तु यथा सुधाकरमणावध्यसते शोणता । संसारप्रवणस्वभावभरिताहंकारसान्निध्यतः शुद्धायामपि संमृतिस्त्वयि तथा ज्ञानप्रसूनाम्बिके ॥ १६६ ॥ दृष्टिं सृष्टिमुशन्ति केचिदपरे दृत्तुल्यकालां तु ता- मादिकमतस्त्वया प्रथमतः सृष्टस्य दृष्टि परे । लोकानां मृगतृप्णिकाम्वुलहरीसाधारणं सर्वथा रूपं बोधनिवर्त्यमेव भवति ज्ञानप्रसूनाम्बिके ।। १६७ ॥ १. निरत्तीति भवेत् यात्राप्रवन्धः। जन्म श्रोत्रियसततौ शुमतरे काले व्रतस्वीकृतिः साङ्गाम्नायसमागमो गुरुमुखाद्दारग्रहः सत्कुलात् । निष्कामाचरणं च कर्मविततेनिप्पद्यते कस्यचि- त्त्वज्ञानादरहेतुशुद्धि(द्ध)विधये ज्ञानप्रसूनाम्बिके ॥ १६८॥ वर्णी स्नातककाननस्थितिजुषां धर्मश्च फर्मन्दिनां संन्यासैरपि कर्मभिः समुचितैः पादोद्भवादेरपि । निप्पन्ना निखिलाप्यपूर्वपटली वेगाद्विलम्बादपि त्वद्विद्याजननोपयोगमयति ज्ञानप्रसूनाम्बिके ।। १६९ ॥ आधानाहितसंस्क्रियोज्वलतरे निप्पादिते पावके यागोऽपूर्वमिव त्वदेकविपयध्यानक्रियाशीलनात् । चित्तेनातिपचेलिमेन सहिता सा तत्त्वमस्यादिवा- क्त्वत्साक्षात्कृतिमादधाति विमलां ज्ञानप्रसूनाम्बिके ॥ १७० ॥ श्रीवावस्थितमेव रत्नखचितं अवेयकं विस्मृते- रन्विच्छ(प्य)-पुरुषो यथाप्तवचनादात्वैव तन्मोदते । अज्ञानस्थगितां सतीमपि तथा त्वद्रूपतामात्मनः प्राप्यैवागमतः प्रहृप्यति सुधीर्ज्ञानप्रसूनाम्बिके ॥ १७१ ॥ त्रय्यन्तश्रवणे तदर्थमनने तद्भावनायां च स- संप्राप्तादपरोक्षसंविदुडुपात्संसारपारं गतः । याव""श्वविमुक्ति खेलति मजन्बिम्बेशतां वन्मय- ब्रह्मानन्दरसानुभूतिललितां ज्ञानप्रसूनाम्बिके ।। १७२ वस्तुन्याहितचित्तमौपनिषदे वैधेपु वा जाग्रतं नानाकर्मसु रक्षसीति यदयं नैसर्गिकस्ते गुणः । देहात्मनमधूसरं जनमिमं त्यक्तात्मनीनक्रियं यद्युत्तारयसे यशस्तव तदा ज्ञानप्रसूनाम्बिके ।। १७३ ॥ वृत्तान्तास्तमुधं दयैकरससंवृचान्तरङ्गं त्रयी- सिद्धान्तं स्फुटमात्मसंविदपृथक्सिद्धां तनूमाथिस WAY. १. यावद्विति भवेत्.
१०२ काव्यमाला। अध्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधानि स्थित शुद्धान्तःकरणाश्चितं पशुपतेः शुद्धान्तमन्तर्भजे ॥ १७४ अपि च । श्रीमत्रराजमणिपञ्जरकेलिशारि च्छन्दःशिखासदनमगलदीपरेखे । नानागमोपवननाट्यकलामयूरि देवि त्रिलोकजननि त्रिपुरे नमस्ते ॥ १७५ ॥ ... त्रयीपुरहरार्धभिदादिरूपे श्रीकामराजमनुशेखरवर्णभागैः। क्लृप्ताननस्तनजगत्प्रकृतिप्रतीके कल्याणि हैमवति कामकले नमस्ते ॥ १७६ ॥ आपाटलं कुटिलकुन्तलमायतार्थ शोणाधरच्छवि सुधाकरबिम्ववक्रम् । कुम्भस्तनं सृणिगुणाशुगचापहस्तं रूपं विधाय कृतलोकहिते नमस्ते ॥ १७७॥ मध्यपयोम्बुधि मरुशुमनीपघानो रलान्तरीपतिलकस्य ललामभूतम् । क्लुप्तं वदान्यमणिभिर्गृहसार्वभौम- मास्थाय शश्वदनुभूतरते नमस्ते ॥ १७८ ॥ दीप्ताणिमादितनुदि. व्यातान्तरालमुवि विभ्रमशालिकायाम् । मञ्चारणीभवदजादिसदाशिवान्त- पञ्चामरीधृतशिवाङ्कगते नमस्ते ॥ १७९ ॥ प्राचीनसूक्तिरसदिग्दिवसाधिनाथ "लोचनदलेषु सरोरुहेषु। तत्तत्फलाहिततरङ्गितमानसाभि- राराधिते मतिमदावलिमिनमस्ते ॥ १८०॥ १. चेदनयोति प्रतिभानि यात्राप्रवन्धः। आनन्दबाप्पमकरन्दभृताक्षिपने- रंशेपु............."रपुनर्भयाय । अन्तर्महाकमलकाननमम्ब. धन्यैः संभाव्यमानचरणाम्बुरुहे नमस्ते ॥ १८१ ॥ निद्राविधौ निरवधिक्षुधया घरादि पर्वावलीविलसितामतिलङ्घय पद्याम् । ली .."रभिपिक्तलोके शर्वाणि कुण्डलिनि चन्द्रकले नमस्ते ॥ १८२ ॥ गीर्देवताहरिवधूगिरिजादिशक्ति- साम्राज्यपीठनियतस्थितिजागरूके । शुद्धान्तसुन्दरि परस्य सुधांशुमौले ज्ञान......"जनयिनि शिवे नमस्ते ।। १८३ ॥ ततश्च विपश्चिदेष निर्गस्य दुर्गत्यरुणकरधोरणीसंत्रासगरिमानुबन्धिभि- रन्तर्मुखजनैरनवरताक्रान्तगह्वरगृहान्तमहरवसान" नटन्महानटपाद- तलामिघातपरिपीडितशरीरतया भूरितरगैरिकपुञ्जपिञ्जरीभवदमितनिहरी- कैतवेन परितो दरीमुखशतैः क्षतजलहरीरिव समु..."न्तं जलधरपरंपरा- पिहितशिखरनितम्बभागतया शाम्बरीसंछन्नमौलिचरणस्य पार्वतीपरिणे- तुरनुकुर्वाणं निखिलसंसिद्धिनिर्वाहनैपुणी(ण्य)चर्वितसकलकुलशैलगर्वतति- ममजत श्रीपर्वतम् । सरिद्वराः सप्त विधाय मध्ये विभेदनं यस्य विनिःसरन्त्यः । विपाट्यामो वृजिनप्रपञ्चमेवं जनानामिति दर्शयन्ति ॥ १८४ ॥ पाटलाञ्चितपदं शरीरिणां घोरतापहरदानकोविदम् । मल्लिकार्जुनमसोढमन्मथं तत्र तं शुचिमसावसेवत ॥ १८५ ।। यस्य सायमुरुनृत्तरंहसा पूर्णनं गुरुतरं समेयुपाम् । वासना तिकरादहर्निशं ज्योतिषां सुरपथे परिप्रमः ॥ १८६ ॥ सदनु धरणीसुराधियो भवनाशिनि तटप्रकटितरसन्निधान(ह) निधानमिव निखिलनियोगिनां व्यक्तिभिदालेशवञ्चितेऽपि वपुषि व्यञ्जित""रुपमृगजा- .... ....
१०४ काव्यमाला । तियुगसमवायमनपायशौर्यवडवानलहेतिशोपितदनुजाधिराजभुजमहोजलनि- धिमलोकयदहोबलपतिम् । सर्वान्तर्यामिभावे मम निगमशिरःसंप्रदायैकलक्ष्ये दृष्टान्तस्तम्भगर्मो न परमिदमपीत्येव संदर्शनाय । हृन्मध्यं दानवेन्दोः सपदि विदलयन्पाणिजैः कूणितागः प्रहादाहादकारी समहृत जगति स्फीतमत्याहितं यः ॥ १८७ ।। तदनु पाशायुधप्रसाधितमाशावकाशमवगाहमानः प्रकटितसेवमानजन- दुरितमामुद्रामधिगम्य तुगभद्रां सुमतिरित्ययमवोचत । मातर्भवत्येव महावराहवक्रावतीर्णा न वसुंधरापि । त्वमेव कामं न हि तुगभद्रा किंतु त्वया सापि कृतानुपझा ॥ १८८॥ मह्या नितम्बमिव गौरवमाननीय- सह्याचलं समधिरुह्य मुधीरयासीत् । वेलागतं तदनु वीचिमतः प्रतीचो लीलानिकेतमृषभध्वजवल्लभायाः ।। १८९ ।। लम्बालकान्तललितामलिके पटीर- जम्बालिकान्तधवलच्छविमङ्गाकेषु । बिम्बारुणामधरभासि विनम्य धीमा- नम्बामथैप वचनैरधिनोन्मनोज्ञैः ॥ १९० ॥ हस्तैश्चतुर्भिरभयं वरमलचके संविधती त्रिनयना नवचम्पकाली। पीताम्बराञ्चितकटी नवचन्द्रखण्डा काचित्सरोजनिलया करुणाविरास्ते ॥ १९१ ।। चण्डि प्रसापयासे यत्प्रियवामभागं सौभाम्यचिहमिदमेव न किं भवत्याः । अध्यास्य किं मुहुरमुप्य किरीटसीमां समोऽथवा भवति नातिशयः सपस्याः ॥ १९२ n यात्राप्रबन्धः। १०५ दिमूलचुम्बिनि दृढ़ विमलखभावे मातर्भवन्मणिकिरीटमरीचिपूरे । अर्धेन्दुनावमधिरुह्य मदीयभावः स्वच्छन्दसंचरणकेलिविधि विधत्ताम् ॥ १९३ ॥ कल्याणि ते मुखविधुस्मितकौमुदी च नेत्रारविन्दकरुणामधुनिसरी च । वक्षोजकुम्भगलितामृतवाहिनी च तन्वन्तु नस्विविधतापकलापशान्तिम् ।। १९४ ॥ चक्र नितम्बफलकेन तवात्तगन्धं शझं च कण्ठविजितं बिभृपे कराभ्याम् । आर्या गुरोरिह लघोरथवा निकाम- मगीकृतस्य परिपालनमाद्रियन्ते ॥ १९५ ॥ प्राप्यं जनेन परमं वरमेतदेव पादाम्बुजं परमितो न च किंचनेति । व्याकुर्वतोस्तव पराभयमुद्रिकाभ्यां सेयं युगाय करयोः शिरसा नमस्या ॥ १९६ ॥ अस्तोपमर्दलवमादियुगावतारे धृत्वोदरस्य तव सूतवतस्त्रिलोकीम् । मातः कथं कथमिवेह महानुभावाः सद्भाव एव सततं प्रथयन्ति चिन्ताम् ॥ १९७ ।। सन्मार्गरोधरसिके शमवत्प्रणीत- न्यकारभाजि नवमन्मथपविभिन्ने । अक्षानुपङ्गमलिने हदि मामकीले शर्वाणि विन्ध्य इव ते चरणो निधेहि ॥ १९८ ॥ मूकाम्बिके मुहुरपास्तुजपस्य कामं रागस्पृशो रचितपलवसौहदस्य । १४ काव्यमाला। भक्तस्य मे पदयुगस्य भवेत्तवैव श्लाघ्या गतिः सकलहंसकुलैर्दुरापा ।। १९९ ॥ साकारा सुखकन्दली पशुपतेरेका मनोहारिणी स्तोकालोकसुधाकृतस्मरवधूशोकामिनिर्वापणा । त्रैकाल्यमतिपत्तिदोहनविधौ या कामधेनुः सतां सा कारुण्यतरङ्गिणी मनसि मे मूकाम्बिका दृश्यते ॥ २००॥ इति सपदि हिमाचलेन्द्रकन्यां पशुपतिनेत्रचकोरपौर्णमासीम् । समजनि भजतोऽस्य साधुमौलेरकृतकभक्तिसुधाम्बुधेः समृद्धिः ॥२०१॥ इति समरपुगवस्य कृतौ चम्पुराव्ये पष्ठ आश्वासः । अथ सप्तम आश्वास। अथ मनीपिमणिरेप कुमुदिनीरमणकोरकापीडसेवादरादिव शैवलिनी- पतिना प्रतिमुहुरधिष्ठिताभ्यर्ण गोकर्णमधिगम्य मन्मथपरिपन्थिमन्त्रैक- साधकानधवैदिकजनानात्मीयनयनयोः पन्थानमुपनीय चिन्तामिमामतानीत् । इह केचन शास्त्रवेदिनो भवदुःखमपरम्परादृशः। तदपायकृते जपक्रियामधिगोकर्णममी वितन्वते ॥ १ ॥ पारेपारावारमाविर्भवन्तं देवं मारामित्रमाराध्य धीरः। सोऽयं भूयो भक्तिपीयूपवर्षादाचोत्कर्षी भारतीमित्यवादीत् ।। २ ॥ अनुतटमनिशं महाबलो न यदि भवानिह नाथ तिष्ठति । जलधिरभिभवेदयं तदा जगदभिक्लप्तदिगन्तराक्रमः ॥ ३॥ अथवा लघुरेप सिन्धुरास्तां प्रतिविध्यण्डममी पितामहाद्याः । स्थितिमादधते धृतप्रकम्प्रास्तनुभूशासन शासने त्वदीये ॥ ४ ॥ सूजसि स्मरजेतरासिकामिह गोकर्णमिते निकेतने । दिशसि श्रयतां तु देहिनां कथमाभोगकरम्बितं पदम् ॥ ५ ॥ अयं खलु तदनु संख्यावदग्रणीरतिलवय सबधरणीधरमतिस्निह्य- दनुचरपटासमावृतो विविधनीवृदावलिमवगाहमानः प्रबलवाहिनीकुलानि यात्राप्रवन्धः। १०७ पावनस्थलानि च पदे पदे निशामयन्कुशाञ्चलपरिहसनमतिरतिमात्रपेशलां सूक्तिमभिधातुमाद्रियत । वरदापदाजमकरन्दकन्दली वरदापगामधिविगाह निर्मलाम् । अधुना निजामवयवार्थदुर्विधामभिधां समञ्चति मलप्रहारिणी ॥ ६ ॥ वीचीहस्ता विपुलपुलिनश्रोणिरिन्दीवराक्षी फेनोदारस्मितविलसिता वन्धुरावर्तनाभिः । चक्रोरोजा सरसिजमुखी चारुहंसप्रचारा पारावारप्रथमगृहिणी भासते कृष्णवेणी ॥ ७ ॥ महाबलेशमकुटीतटजाते तरङ्गिाणि । सकृष्णापि त्वया शश्वदकृष्णा हन्त मेदिनी ॥ ८ ॥ दोलायितं वालसमीरणेन वीचीदुकूलांशुकमुद्वहन्तीम् । पृळ्या स्वयं भीमरथीभवन्त्या पताकिकां भीमरथीमुपासे ॥९॥ पुरुषनयमौलिभागभूषामणिनीराजितमझुपादपीठाम् । तुलजापुरवासिनी तुरीयामवलम्बे जगदम्बिकां भवानीम् ॥१०॥ कञ्जराजिगलितैरनारतं पिञ्जराम्भसि नवीनकेसरैः । पञ्जरासरिति क्लुप्तगाहनः किं जरायुवसतिं प्रपद्यते ॥ ११ ॥ नीलग्रीवजटा"विगलितां निर्माल्यमालामिव ब्रह्मक्षोणिभूदुचमागविततां पृथ्वीपरिष्कारिणीम् । आत्मीयैरधिवासितं विदधतीमम्भोनिधानं रसै- स्तामद्याहमगण्यपुण्यसुलभां द्रक्ष्यामि गोदावरीम् ॥ १२ ॥ पात्रगा पटुधियामिव संपत्कान्तसिन्धुरमिता फरिणीव । गौरिवाश्चितपयोधरभारा गौतमी हरति लोचनजाध्यम् ॥ १३ ॥ तापसाघदलनाय निर्गता गौतमी हरति कल्मषं नृणाम् । चातकार्तिशमनोद्यता जलैरअपहिरमिपिञ्चति क्षमाम् ॥ १४ ॥ त्रिनयनजटाराजद्राजक्षमारहकोरक- व्यतिकरघनामोदा गोदावरीलहरीमराः ।
१०८
काव्यमाला।
पशुवधमहाकालीनालीढगोतमपातक-
प्रशमकुशलारम्माः संभावयन्ति वसुंधराम् ॥ १५ ॥
जगत्पतेरस्य जटाच्युतेति विधेहि गोदावरि मा विषादम् ।
सरोपगौरीचरणाहतीनामलम्भनादामुहि मोदमेव ॥ १६ ॥
खवेलान्तीलासुभगतरवालानिलवल-
तरङ्गालीतुझातरलतरभृङ्गा तत इतः।
तटिन्यास्ते धन्या तरुणकमलिन्याकरतया
प्रणीता वैनीतावलिभिरभिवीता शतधृतेः ॥ १७ ॥
पवित्रामद्राक्षं बहलकमलामोदमधुरैः
समीरध्वन्यश्रममपनयन्ती नवनवैः ।
अतिप्रेम्णा भर्तुश्चरमजलधेरर्पितमुखी
पयोष्णीमुप्णीपप्रतिमलहरीं विन्ध्यनृपतेः ॥ १८ ॥
कलितापीडा कमलैर्महिता पीयूषमधुरतापीना ।
जनतापीतजलेयं मम तापं हरतु मलिनतापीडाम् ॥ १९ ॥
सुधांशुकन्या वदतां जनानां तापं च दूरे तनुतां पयोप्णी ।
कथं त्वमप्यम्ब कठोरधानरतनूभवे तापि तथाविधासि ॥ २० ॥
अक्ष्णोर्वपत्यमृतलहरीमाश्रमैस्तापसानां
नित्योदञ्चनिगमपठनैरुल्लातीरभागा ।
अश्मनातैरचलधनुषो लिगभूतैरभूतां
मजन्नानामनुजपटलीशर्मदा नर्मदा मे ॥ २१ ॥
पूजनीयविभवासु भूतले जाप्रतीषु शतशो नदीप्वपि ।
किं त्वयैव वितनोति केलिकामर्णवस्त्वमसि येन नर्मदा ॥ २२ ॥
कुचपरिणतिभाजः क्षोणिबिम्बाधराया
विगलितमिव यस्मादुत्तरासङ्गचेलम् ।
नटयति मुदमम्मो नार्मदं शृङ्गसीमा-
मधिवसति महाटेरस्य माहिप्मतीयम् ॥ २३ ॥
यात्राप्रवन्धः।
पुरी जयत्यर्जुनभूपतेरियं वहन्निमां विन्ध्यवसुंधराधरः ।
त्रिविष्टपालम्बतया धृतस्मयं नगाधिराजं न तृणाय मन्यते ॥२४॥
माहिष्मतीमण्डनमार्तिहारि जनस्य दोस्तम्मसहस्ररम्यम् ।
सप्तार्णवीमुद्रितराज्यलक्ष्मीविलासगेहं किमपि स्मरामि ॥ २५ ॥
अवतारविशेषमजनामेररुणोप्णीपमनल्पहेमभूपम् ।
कृतवीर्यंतनूजवेपमीडे जगतीपालनकर्मनिर्निमेपम् ॥ २६ ॥
यदीयभुजमण्डले धरणिरेत्य लीलारति
विशङ्कटतरे..."विसृजति स्म दौस्थ्यन्यथाम् ।
परीक्षणकपोपल: स दशकण्ठवाहूप्मणां
जगन्महितशासनो जयति कार्तवीर्यार्जुनः ॥ २७ ॥
रेवा यस्य परं दुरासदमुजासेतौ न माति स्म सा
तेजोवाधिरपि क्षपाचरपतेस्त्रैलोक्यकूलंकपः ।
सप्तद्वीपनिखातयूपपुलकच्छन्नावनीविग्रहः
सोऽयं हैह्यनायको विजयते शूरक्षितीशाग्रणीः ।। २८ ॥
काचिन्महाकालनिकेतनस्य पुरामराते वि राजधानी ।
श्रिया विशालां जनतामवन्ती चकास्त्यसावुज्जयिनी पुरीणाम् ॥ २९ ।।
भूर्ति देहि ब्रूहि नामानि शंभोराधं विद्यां लीलयेत्याचरन्ती ।
देव्या साकं ध्यायत ध्यायतेति ध्यायन्त्यस्यां दैवतं केऽपि धन्याः ॥३०॥
अस्यां मरालीततिरद्रिकन्याकेलीगतिमार्थनसापराधा ।
निवारितान्तर्गमनेव नित्यमास्ते यहिः खेयरतिच्छलेन ।। ३१॥
क्रीडाजुपामत्र कृशोदरीणामारज्यमाना घुमृणाकरागैः ।
सूपा जगत्पातकसंहतीनामुत्पातसन्ध्येव पुरः समिन्धे ॥ ३२ ॥
असां निरस्ता दिवसान्तनृत्यत्पिनाकिपूजापटहप्रणादः ।
निर्याति नृणामिव दुष्कृतालि: सौधेपु फालागरुधूमरेसा ॥ ३३ ॥
आरुदफर्मन्दिपथा इयास्सामाविर्भयग्झट्टतितारनादाः ।
आरामवीथीप्यनुवल्लिगेमटन्ति भृगा मकरन्दभिक्षाम् ॥ ३४ ॥
काव्यमाला।
स्वयं विशालाप्यवकाशहीना दुष्कर्मलेशस्य शरीरभाजाम् ।
उच्चैर्महाकालमुपाश्रितापि कदापि नैपाश्चति काललश्याम् ॥ ३५ ॥
स्थितं संनिधानेऽपि घीसूक्तिदूर निराकारमप्यर्धनारीशरीरम् ।
अधिष्ठानमप्यस्य विश्वस्य शचन्महाकालवास्तव्यमव्यान्महो नः॥ ३६॥
अस्याः सिन्धोरूमिहस्तावलम्यादेनःसिन्धोरेत्य पारं भवामि ।
निर्विन्ध्याया निर्मलाम्भःप्रवाहे निर्मज्याहं निर्गतः क्लेशविन्ध्यात् ॥३७॥
चर्मण्यत्याः साधु खण्डीकृतांहोमर्मण्यस्सा मज्जतां वारिपूरे ।
कुम्भीपाकाद्धोरपीडाविपाकाकिं भीतिः स्याकिचिदप्यनमाजाम् ॥३८॥
इदं तावदिह दृश्यते मन्दाकिनीविहितमहितसांगत्यमलघुसलिलपूरसा-
तत्यवितीर्णजलधिसौहित्यमशिशिरकरापत्यम् ।
क्षितिरोमलता कलिन्दमूभृत्करिकालायसशृङ्खला सवन्ती ।
भवतापपरीतमानसानां नवतापिञ्छनीयमाविरास्ते ॥ ३९ ॥
वृपमौक्तिकसंहतेर्विधात्रा वणिजा भूविपणौ पिसारितायाः ।
परभागकरी पटीव नीला प्रतिमाति घुमणेरियं कुमारी ॥ ४० ॥
मिहिरांशुविलीनमेघमार्गद्वनिप्यन्दततौ परं किलास्याम् ।
यमुनेति कलिन्दजेति सिन्धोरवलेति प्रथते नृणां विमोहः ॥ ४१ ॥
नतिरस्तु गभस्तिमालिसूनोर्नरकद्वारमहायसार्गलायै ।
जनसद्गतिनर्तकीमसारप्रतिसीराकृतये प्रकाममस्यै ॥ ४२ ॥
असितोत्पलमालिकामवन्या जनतापुण्यशिखाबलाभ्रपतिम् ।
शिशिरामवगाह्य सिन्धुमेनां जनितापं विजहाति जीवलोकः ॥ १३ ॥
अनुवारमवाप्तवारिकेलेरसिताया मुरशासनस्य मूर्तेः।
अयमाविशदंशुमालिकन्यामभिरामः किमु नीलिमातिरेकः ॥ १४ ॥
अतिवेलरसोदयानुभावात्कलयन्ती निजकामुकाभिसारम् ।
असितावरणांशुकं फिमेपा सहजश्यामलफच्छलेन धत्ते ॥ ४५ ॥
अभिपिश्च कलिन्दकन्यके मामतिनीलच्छविनैव वारिणा ते ।
सहसा मवितास्मि तावताह शरदिन्दीवरबान्धवावदातः ॥ ४६ ॥
यात्राप्रबन्धः।
दिशि बासमवाप्य दक्षिणस्यां सहजन्मा तव शास्ति पापशीलान् ।
भवती तु परिप्कृतोत्तराशा कृपया कल्मषमेव देहभाजाम् ॥१७॥
जननि त्वदवेक्षणं जनानां निरयश्रेण्यनवेक्षणे निदानम् ।
भवदम्भसि मज्जनं तु भद्रे पुनरुन्मजनकारणं भवाब्धेः ॥ १८ ॥
जननामयभेपजैः श्रुतीनां पटवासैस्तटरेणुभिर्मवत्याः ।
चरणाम्बुजवासितैर्मुरारेरनुलिप्तोऽपि भवामि नीरजस्कः ॥ १९ ॥
रविनन्दिनि नीलरलयोस्ते तटसीमाजनुपोस्तयोः किलैकम् ।
अभवत्परिकर्म विन्ध्यभूमेरपरं गोपवधूपयोधराणाम् ॥ ५० ॥
हसितौपधमोहिताशयानामनुतीरं तव वल्लवाङ्गानानाम् ।
बहुशो हरति स्म नीविबन्धानतिसंधापटुरादिमः स चौरः ॥ ५१॥
तटमम्ब तवैनदेव शाी निजवंशीविनदामृतैरसिञ्चत् ।
अत एव पुरीयमन भान्ती गधुरेति व्यपदिश्यते जगत्याम् ॥ ५२ ॥
महतीपु पुरीपु कामगेपा मधुरेत्यत्र किमाविरास शाङ्गीं ।
अवतारमहोत्सवेन शौरेरथ चेयं मधुरा फिमासु जज्ञे ॥ ५३ ।।
जनिकापथचङ्कमालसानामलघुश्रान्तिकलापमङ्गगाजाम् ।
अमृतार्पणलीलया हरन्ती नगरीयं मधुरा भवेन्न केषाम् ॥ ५४ ॥
धरणीतिलकं तरी भवाब्धेः खनिरिन्द्रानुजगारुडोपलस्य ।
दिशति प्रमदं दृशोरियं मे रजनीशान्वयराजराजधानी ॥ ५५ ॥
यदुवंशयशोनिदानभूमिः शिशुताविभ्रमसाक्षिणी मुरारेः ।
नवमुक्तिवधूविवक्षुलोकप्रतिबोघाङ्करपालिकेयमास्ते ॥ ५६ ॥
अवकर्णयितुं यशो मुरारेरसकृत्पौरजनोपगीयमानम् ।
गलितावरणैरियं गवाक्षैः परिफुलश्रुतिसंपुरेव भाति ॥ ५७ ।।
यमुनालहरीसमीरघूतैरियमाभाति शतैस्तटाकिकानाम् ।
उपकण्ठमुपेयुपां जनानामघसंघातमिवापसारयन्ती ।। ५८ ॥
निजभक्तिनिरूढमानसानां धनसंसारविषादखण्डनाय ।
अरविन्दविलोचनः किलास्यां परिजग्राह भवानुबन्धलीलाम् ॥ ५९ ॥
११२
काव्यमाला।
चिरकालधृतं हृदा जगत्याः किमपि प्रौढविषादफारि शल्यम् ।
भगवानिह कंसनामधेयं बलसंदशिफया समुजहार ॥ ६०॥
इह धन्यतमैरलोकि रेखासरसीजातरथाङ्गशसचिह्ना ।
अनुवीथि पदावली मुरारेरकुतोजन्मसरस्वतीविचेया ।। ६१॥
मनुजो नहि मादृशो जगत्यामनुकम्पालवदुर्विधान्तरङ्गः ।
चिरशीलितमप्यधर्मजातं बहिरुत्सृज्य पुरीमिमां विशामि ॥ ६२॥
इत्यादिवचनरीतिमुखरिताननो हरितालनिभवसनभरितात्मकटितटं हरि-
नीलमणिभङ्गसंकाशरोचिपमवनतपरिपदतिहर्षविरचनाय समुद्यन्तमिव कमपि
तडित्वन्तमानकदुन्दुभेरात्मजमभिवन्ध संक्रन्दनमुकुन्दशातोदरीद्वन्द्रसंवाद-
रूपमरपिन्दलोचनस्तुतिकलापमभिरूपशेखरोऽयमेवमकरोत् ।।
विधाय केलिं वियदापगायां यान्त्योस्तटीमिन्द्रमुकुन्दपल्योः ।
पटीविपर्यासवशेन जज्ञे प्रगल्भवादप्रतिवादभङ्गी ॥ ६३ ॥
पटे सुरेन्द्रप्रमदैकधार्ये कुतोऽन्यथा मुह्यसि गोपभीरो ।
तवैव मोहो दयितं मुरारेरशेपवन्द्यादधिकं वदन्त्याः ।। ६४ ॥
मृगाक्षि शौरेमहिमातिरेकमाख्याति राज्यानधिकार एव ।
बलेस्त्रिलोकीमपहृत्य वाले गोत्रारये दत्तवतः क राज्यम् ॥ ६५ ।।
ज्यायोवलात्साघयतोऽनुजस्य कार्याणि मुग्धे यद कः प्रकर्पः ।
त्राणं गवां तन्वति मत्सहाये दृष्टं बलं दुर्ललिते मघोनः ॥ ६६ ॥
गोपालबाले कुलिशायुधेन कृपा व्यधायीति किमेष दोपः।
ममानुकम्पा क नु मातृगर्भ दम्भोलिना दारयतो बलारेः।। ६७ ॥
दिवौकसां दानवजातिमाने स्पर्धा निसर्गप्रभवा हि सत्ये ।
पौलोमि तर्हि त्वयि पाकशासी वैरानुबन्धान कुतो विधत्ते ||६८॥
नारीवधं नर्मसखस्तवैव शतक्रतुः संविदधीत किया।
अकार्यमप्याचरणीयमेव वितन्वता विश्वकुटुम्बरक्षाम् ॥ ६९ ।।
खकुक्षिपूर्य कृतचोरवृत्तेर्दूरे जगत्राणधुरंधरत्वम् ।
पुंसः खकीयोदरपोषणं च तस्य त्रिलोकीपरिपोपहेतुः ॥ ७० ॥
यात्राप्रबन्धः। माङ्गनागर्भपुटीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोपम् । विश्वनयन्यापितनोरनेन का हानिरुन्मीलति कैटभारेः ॥ ७१ ॥ किं किं शुभे केशवशाम्बरीभिर्विमोहिता त्वं न समर्थयेथाः । भजन्तमुत्सृज्य जनं परेपु धाटी निबध्नाति तदीयमाया ।। ७२ ॥ आनन्दामृतसर्वस्वमाशास्यममरैरपि । आभीरपतिगेहान्तमभिव्यक्तमुपास्महे ।। ७३ ॥ पयःपयोधौ बहुकाललीलया वितायमानादिव वासनाउलात् । हरिनिहायानकदुन्दुभेहान्बजे सुधाढ्ये विहरन्स पातु नः ॥७४ ॥ जद्दोपरि न्यस्य कृते जवेन संक्षालने संविहितां जनन्या । प्रदक्षिणाम्भःपरिपेफरक्षामन्तहसन्वीक्ष्य हरिः पुनातु ॥ ७५ ।। स्तनं जनन्या धयतेय संमुखं प्रसारितः पातु करो बलिद्विपः । निशाचरीमम्ब निरीक्ष्य मारितां प्रयाहि मा भीतिमितीव शंसितुम्॥७६॥ वन्दे मुकुन्दं पदपल्लवाभ्यां वाचालमञ्जीरमनोहराभ्याम् । प्रहारलीला मनसि प्रणेतुमभ्यस्तडो(दो)लाफलकाभिघातम् ॥७७|| जानुद्वयीचमणेषु धात्र्यां पाणिं निधायकमुदस्तबाहुः । तमाहरिप्ये तरुमिन्द्रलोकादिहेति शंसनिय शौरिरन्यात् ॥ ७८ ॥ अपि त्रिलोकीममिमीत यस्त्रिधा समाहितैरझिसरोजविक्रमैः । स माधयो नः परिपातु संचरन्करी समालम्व्य पितुर्गुहागणे ।। ७९ ॥ अमेयमध्यकृतकमारतीशतैरगोचर यमिवरचेतसामपि । गृहागणे फिमपि यशोदया गुणैराळखले कलितमुपास्महे महः ॥८॥ आकुश्य पादाम्बुजमेकमन्यदुत्क्षिप्य नृत्यन्तमुदमचूडम् । पाणिद्वयीपायसगन्यसारी पश्यन्तमीडे पशुपालडिम्मम् ॥ ८१ ॥ फराम्बुजस्तम्भितकिङ्किणीरयं पदे पदे कल्पितपार्थवीक्षणम् । शनैःशनैराकलिताद्विचङ्गमं विनौमि शोरेजगव्यमोपणम् ॥ ८२॥ विज्ञातुमामोदवशेन मोपं गव्यस्य गोपागनया फयापि । निजाननेन्दोनिकटोपनीतं निमन्गुकुन्दो पदनं स जीयात् ।। ८३॥
--
११४
काव्यमाला।
गृहे मदीये कियदय गव्यमहारि शंसेति फयापि पृष्टे ।
पयोधरौ पाणियुगेन तस्याः स्पृष्ट्यदस्तीति भणन्विटोऽव्यात् ॥८४॥
कलशीनिहितं पयः कथं या परिपीतं भवतेति राधयोक्ते ।
अधरामृतपारणाममुप्या विदधानं विभुमेवमित्युपासे ॥ ८५ ॥
हैयद्भवीनहरणाकुलघोषयोपि-
दानोशनाटितरुषः पुरतो जनन्याः ।
व्यत्यस्तपाणिविधृतश्रवणानि चित्ते
नाथस्य केलिनमनोन्नमनानि मान्ति ॥८६॥
लताहि मह्यं रचयाञ्जलिं पटीमहं दिशामीत्यवकर्ण्य भाषितम् ।
कृतेऽअलावेककरण राधया शिरी विधुन्वन्शिशुरस्तु संपदे ॥८७॥
रक्षाकरं मनलमारचय्य संप्रेपितः सानुनयं जनन्या ।
कस्तूरिकाक्लृप्ततमालपत्रो नासाञ्चलेनापि मणिं दधानः ॥ ८८ ॥
काञ्चीगुणोदारकटिप्रदेशो मायूरबर्होज्वलमौलिबन्धः ।
वहन्करे वेत्रविषाणवंशान्पाथेयशिक्याकलितांसभागः ॥ ८९ ॥
पवित्रयन्नशिपयोरुहाभ्यामाभीरपल्लीभवनाङ्गणानि ।
बहिर्नयन्पीतनिबद्धशाब कुलं गवां गोठगृहान्तरेभ्यः ॥ ९० ॥
भूलीलया कांचिदपाङ्गितेन परां दरस्मेरमुखश्रियान्याम् ।
कर्तुं रहः केलिकलां वनान्ते समाहृयन्घोषसरोरुहाक्षीम् ॥ ९१ ।।
पित्रा कियहरमिवानुगम्य वात्सल्यनिभेन विसृज्यमानः ।
बनाय शृङ्गिण्यवनाय चायो विद्योततां चेतसि पूरुषो मे !! ९२ ॥
किरीटसंदानितकेकिपिन्छ वशीकृताभीरवधूप्रपञ्चम् ।
कदम्बगुच्छाहितकर्णपूरं कुर्वे हृदन्तः कुहनाकिशोरम् ॥ ९३ ।।
हेलावलबीवमितत्रिभङ्गीवाम्बुजव्यामृतवंशनालम् ।
व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनगशौरेः ॥ ९४ ॥
वंशीमुपासे यसुदेयसूनोरारज्यमानामधरांशुपूरैः ।
शृङ्गारगीतामृतसेचनेन रोहत्प्रयालामिव लोभनीयाम् ॥ ९५॥
यात्राप्रबन्धः।
वंशीसुधां वर्णय वाणि शौरेराखादितामर्कसुतामरालैः।
गलन्मृणालीकवलच्छलेन तृप्तेस्तदुद्गारमिवादधानः ॥ ९६ ॥
आशावयेयुरपि नः श्रवसी कदाचि-
कंसामियातिकलहंसवरामृतानि ।
प्रादुर्भवत्किसलयच्छलतः प्रसार्य
जिह्वां महीरुहकुलैरपि सेवितानि ॥ ९७ ।।
अनुभवेयमहं किमु जातुचिन्मुरमिदो मुरलीनिनदामृतम् ।
किसलयाञ्जलिशालिमुखाश्चलैः किमपि सेवितमन्यभृतैर्द्विजैः ॥९८॥
थापाटलान्यहलिपलवानि व्यापारयन्तं विवरेपु वेणोः।
नादामृतैनन्दगवीकुलानां मोदान्सृजन्तं कलये मुकुन्दम् ।। ९९ ।।
खुराहतिक्षुण्णभुवां पशूनां परागजालैः परिघूसराङ्गे ।
मुद्दिगन्ते मुरलीनिनादेः नियत्यनन्ते मम शेमुपीयम् ।। १०० ॥
दृढानि गोपीधृतियन्धनानि हठादपाकुर्वति हासलेशैः।
अनीशे मे मतिरागमान्तवनीचरे वैणविकावतंसे ॥ १०१ ॥
विम्बाघरं बन्धुरमन्दहासं लम्बालकासलिलाटदेशम् ।
विरामकालेऽपि न विस्मरामि मुखं रणद्वेणुसखं मुरारेः ॥ १०२ ॥
हसितस्एशि हारिकण्ठनाले परमानन्दसर प्रख्दमूले ।
'अपरच्छविकेसरामिरामे श्रुतिसौरभ्यनिधौ शुचां विरामे ॥१०३!!
अजयोपिदपागभश्चीते मकरन्दायितम वेणुनादे।
परिलक्षितशृहिणीपरागे रदमुक्तारमणीयगर्भमागे ॥ १०४ ॥
अमितप्रणयावगाहिनीभ्यां रनितामाणविधा रमावनीभ्याम् ।
कुरु मानसराजहंसलीला कुहनागोपमुखाम्बुजे विशालाम् ॥१०५॥
बनादिनान्ते मजमायजन्तममयकारवपरिताराम् ।
अवाफदम्बसारफेन साफ मनागियाम्लानमुखारविन्दम् ॥ १०६॥
यरामनादन्तपटमतीति सरोपराधासमुदीक्षितेन ।
विम्योछमध्ये मृगपालिसा विन्यस्तीजनुपा विमान्तम् ॥१०७॥
काव्यमाला। वृन्दावने प्रीणितया कयापि संभावित सप्रणयावलोके । संकेतभूवश्चितया तु गोप्या संताडितं दारुणदृष्टिपातैः ॥ १०८॥ भूक्षेपमन्दस्मितहक्तरङ्गैः पुणन्तमन्तः स्मरमानानाम् । आभीरवृद्धाननुकम्पयारालापभेदैरनुमोदयन्तम् ॥ १०९॥ नन्देन गुप्ताभिगमेन गाढमालिङ्गच दोामभिगम्यमानम् । आविस्तनक्षीरमिलिन्दभाजा यशोदया सादरमीक्ष्यमाणम् ।।११०॥ श्वौभाविगोसंचरणप्रदेशान्संकेतयन्तं सवयोजनानाम् । अचलद्गोकुलमम्बुजाक्षमालम्बतां वालकमाशयो मे ॥ १११ ।। गोवर्धनव्यजितफौशलेन गोवर्धनच्छत्रमुदस्य दोप्णा । गोपायिताभीरकुलाय वर्षादीपायितायास्तु स ते प्रणामः ॥११२॥ ऋजूकुर्वन्नपि हरिखियकामसुजन्पुनः । दृगन्तकचभारेपु त्रिपु वक्रां घिनोति नः ॥ ११३ ॥ भवभीतिपराकृतेरुपायं शृणु चेतः श्रुतिमौलिसंप्रदायम् । परिशीलय भावनां मुरारेः कुरु दारादिकुतूहलानि दूरे ॥ ११४.॥ प्रसूरियमसौ पिता मम सुतो नताङ्गीति किं विमोहमरुगाहनव्यतिकरण वा ताम्यसि । यदृववष्टिकाजठरशुक्तिमुक्तामणौ मनो भज विनोदनं मधुविदारके दारके ॥ ११५ ॥ अशौरिकुलपावनानकृतनन्दगोपालका- नकालियविमर्दनानकरनीतगोवर्धनान् । असमदभञ्जनानकलितावनीरञ्जना- नवाणभुजदारकानलमुपास्य वृन्दारकान् ॥ ११६ ॥ अलनवृषभासुरैरशिखिपिच्छकाभासुरै- रगव्यरसलालसैरपटुरासलीलारसैः । अगोभरणदीक्षितैरकमलानुवादीक्षितै- रभृङ्गसचिवालकैरलमशाम्बरीबालकैः ।। ११७ ॥
यात्राप्रबन्धः।
११७
कृष्णस्य वृन्दावनकन्दरान्तरामीरदाराभिरतेः कथामिः ।
अलं विमुक्त्यै कृतमर्चनायामायासमोरैरमरान्तराणाम् ॥ ११८ ॥
वनमालिवशीकृताशयानां पदविन्यासपवित्रितो वधूनाम् ।
यमुनातटरेणुरेव पुंसामलमंहो विनिहन्तुमङ्गसङ्गी ॥ ११९ ॥
परःसहस्राणि परस्य धाम्नः सन्त्येव रूपाणि जगद्विभूत्यै ।
मृग्यो मृपा गोपविलासवीर्यलावण्यसौरभ्यलवोऽपि तेषु ॥ १२० ॥
पशुपैरपि बाह्यदृष्टिशीलैर्ददृशे दृश्यरथाङ्गशङ्खचिह्ना ।
अधिनन्दनिवासमागमान्तैरपि मृग्या पदपतिरञ्जनाभः ॥ १२१ ॥
उरुभक्तिसुधारसोमिलानामपनेतुं जनिखेदमङ्गमाजाम् ।
स्सयमादृतसंभवानुवन्धे महनीये रमतां मनो मुकुन्दै ॥ १२२॥
किंच-वन्दे महः किंचन वंशनालीशृङ्गाङ्कुशाजिह्मगचापहस्तम् ।
गुञ्जारुणं कापि ततोऽपि नीलं बर्दावलीबालमृगाङ्कचूडम् ॥१२३॥
शृङ्गाटमध्ये कृतसंनिधाना मुखारविन्दे मुरली दधाना ।
ममास्तु चिते महनीयशीला विद्या मुरद्वेषिविचित्रलीला ॥ १२४॥
इदं मर्दशद्वयमेवमेव कृतव्यतीहारमजायतेति ।
विभावयन्ती विनिमाय पादौ विद्या परा वेणुमती समिन्धे ॥१२५।।
कुहचिजयकुञ्जरप्रचारं परतो भावितराजहंसयानम् ।
कटिसीमनि वाससी वसानं कनकाद्भासिकुमुम्भरागशोणम् ॥१२६॥
हृदि कौस्तुभमेकतो दधानं परतस्तुङ्गपयोघरोपरुद्धम् ।
गिरिधारणकर्कशैकपाणिं कुसुमादप्यतिकोमलान्यहस्तम् ॥ १२७ ॥
हरिणाधिपकोकिलावलेपान्क्षपयन्तं निजकण्ठनादभङ्गया।
कचिदुज्ज्वलकुण्डलाभिरामं पटुताटङ्कपरिप्कृतं कुतोऽपि ॥१२८॥
विनतातिहरं विलोचनाभ्यां कमलेन्दीवरगर्वमोचनाभ्याम् ।
धृतचित्रकदृक्सरोरुहा(भ्या) निटिले निर्जितवालचन्द्रभासि ॥ १२९ ।।
प्रियकस्तबकासितोत्पलाभ्यां प्रतिपन्नश्रवणावतंसकृत्यम् ।
शिरसा शिखिनः शिखण्डमालां शशिखण्डं च सहैव लालयन्तम् ॥१३॥
काव्यमाला। वलभिन्मणिबन्धजीवशोभ धृतपाशाङ्कशपुप्पवाणचापम् । मुरलीवरमूर्च्छनासु शश्वहन्मनीयासु निनद्धमौलिकम्पम् ॥ १३१॥ गिरिशागृहान्तरे विहारान्कलयन्त नवकल्पशाखिमूले । परित परिवारदेवताना प्रफरेणाहितसेवनानुबन्धम् ॥ १३२ ॥ इतरेतरयोगमयुषाभ्यामतिहृद्यन्मकरन्दशर्कराभ्याम् । कृतिन खल केऽपि भावयन्ते भवशान्त्यै परसविदोरभेदम् ॥ १३३ ।। रुचिराद्भुतरूपसविधान परमानन्दसुधापयोनिधानम् । उपित योगिना विधेये तदह धाम विचिन्त्य तत्र लीये ।।१३४ ॥ पुण्यस्थानाग्रगण्यादथ यदुनगरादेप तस्मान्मनीषी स्थाण्वीशास्य धरण्यामभजत किमपि क्षेत्रमुच्चै पवित्रम् । सद्य ससिद्धिहेतु समधिकतपसा पुप्फर दुप्कराणा सोमावास प्रभास सुगतियुवतिसचारिका द्वारका च ॥ १३५॥ अथ द्रुताभीष्टकरी शतद्रु पाशापहन्ती भजतो विपाशाम् । धरावतीणी धरणीधरेन्द्रादिरावती चेप निषेवते स्म ॥ १३६ ॥ साभोगा चन्द्रभागा जगदखिलमिद पावयन्ती च सिन्धु सेवित्याथो निवृत्त परिचितपनदारामगन्धाद्दिगन्तात् । प्रौढ जालन्ध्रपीठामिधमनघपदन्यासधन्य भवान्या हृद्य प्रापद्यतासौ हिमवति किमपि स्थानमानन्दगाली ॥ १३७ ।। असौ पुनरनेकतटिनीसरोवनीनगरपदेशेषु विरचितभ्रमणोऽपि परमपाव- नपय पूरनिप्यन्दिनी गृहिणीमिव पुगवकिशोरकत्रिदशतरमिणी निशाम. यन्किमपि चिन्तातिशयसदानिताशयो व्या मिति गिर प्रावर्तत । इक्ष्वाकुसतानयश पताका मुक्तामणिं ता मुनिकण्टशुक्ते । दुर्वर्ण्यकक्ष्यामवनीवशाया निर्वर्णयिप्यामि कटा सवन्तीम्॥१३८|| विद्याम्बुजश्रेणिविमातवेला मायातमश्चन्द्रमरीचिचीचीम् । मुक्तालता मुक्तिविरासवत्या भागीरथी चेतसि मापयामि ।। १३९।। गामुपामे गगनापदेशसारपेलीपरहसपडिम् । म्ययवरासक्तिसमेतमुतिमधुरराम्मोसमयमालाम् ।। १४० ।।
यात्राप्रबन्धः।
किरीटिकोदण्डकृतप्रहारमणोल्वणीभावविशष्ट्येव ।
यामोपधीशेन समं महेशो दधाति गौलो तटिनी नुमनाम् ॥ १४१ ॥
भागीरथी सावतु या गिरीशजटाटवीपर्यटनोपजातात् ।
आशाभ्रमान्मार्गमजानतीव भगीरथस्यन्दनमन्वयासीत् ।। १४२ ।।
फ्रीडापराधशमनाय नतस्य शंभो-
चूडापदे विहरणं समवेक्ष्य यस्याः ।
कोपातिरेकमयते कुलशैलकन्या
सा पावनी दिशतु संमदमभ्रगङ्गा ।। १४३ ।।
अम्बरगालितमासीब्रह्माण्डघटे वलिद्विपा यस्मात् ।
तस्मादतीव पूतं जज्ञे किल सौरसैन्धवं सलिलम् ।। १४४ ।।
युसिन्धुरुया दुरितानि हन्तुमाढौकते वीवधगूदरूपा ।
प्रकाशसंचारविधौ भयेन कुतोऽपि धावेयुरितीव वुद्या ॥ १४५ ॥
समुद्धृता वीवधसंपुटीपु भागीरथी भाग्यवतां जनानाम् ।
.आरोहणं मूर्धनि संविधातुं प्रायो विधत्ते पदमसभागे ।। १४६ ॥
गङ्गा निजं वारि विगाहमानान्शरीरिणः कालहरीकरोति ।
सुधांशुमौलेः स्वमदापहस्य गर्यापहाराय कृतोद्यमेव ॥ १४७ ॥
विष्टपत्रयतमःपरिपाटीखण्डनाय कलितावतरापि ।
अमसिन्धुरखिलानपि लोकानन्धकारयति हन्त किमेतत् ।। १४८॥
निमज्ज्य गङ्गाम्भसि निःसरञ्जनः पयोदनीलप्रतिमागतं गलम् ।
विलोक्य जम्बालविलेपशङ्कया करोति भूयोऽपि च गाढमजनम् ॥१४९||
मातेति पूर्व महयन्विधत्ते सुरापगायां सुकृती विगाहम् ।
कान्तेति पश्चात्कलयन्नसौ तां कोटीरकोटौ कुरुते विचित्रम् ॥ १५० ॥
स्मेराम्भोरुहशीधुसारलहरीनिष्यन्दमुएिंघयो
रोयोदेशविकासिकैतकरजोविस्तारकुक्षिभरिः ।
वीचीनर्तितराजहंसवनितासंगीतसवैकपो
मानां हरति श्रमं सुकृतिनां मन्दाकिनीमारुतः ॥ १५१ ॥
१२० काव्यमाला। कदा तरङ्गे गगनापगाया निमज्य गाढ निवसामि तावत् । प्रविश्य यावत्प्रतिहृत्प्रतीक समूलमुन्मूलयते स तापान् ॥ १५२ ।। अयि नगराजनन्दिनि धनसुकृतसारकन्दलनिप्यन्दिनि परतत्त्वविज्ञान- पाथोनिधानकौमुदि भगवति भागीरथि, निम्नगासु न ते तुल्या नीचेषु न च मे सम । मयि प्रपातन मातर्विधातु किं विलम्बसे ॥ १५३ ॥ अनन्तरमन्तर्वाणिरयमतिदुरन्तभवखेदसतानमीपित पिपासित इव पीयपकन्दली परिशुष्यदमेयसस्यसमूह इव प्रत्यमवर्पधारा प्रतिभटानुद्रुत इव प्रबलत[मा]मित्रवाहिनी जिह्मगविषाभिभूत इव जीवातुमूलिका कलोलिनी रमणलहरीविषक्त इव कामपि महातरि तीवनदीपूरनीयमान इव तीरभूमि धर्माभितप्त इव कर्पूररसनिर्झरी निर्धनलोक इव निक्षेपसततिं जगतीधराधी शशिखरान्तरादधिहरिद्वारमापतन्तीममृताशनसरितमुपलभ्य निर्भरानन्दस- प्रान्तमानसो मौनमहासीत् । पय प्रकृतिशृगिण्या ब्रह्माण्डोधसि सभृतम् । जगदर्भकजीवातु गद्रेति परिगीयते ॥ १५४ ॥ विध्यादेशकरी सेय विविधप्रत्ययावहा । आगमेरश्चिता भाति शब्दविद्येव जाहवी ॥ १५५ ।। उद्दिधीर्षु सगरजानसौ वर्गादवातरत् । गणयन्ति न हि केश परार्थकपरायणा ॥ १५६ ॥ गिरिशस्य पुरा केशान्परिगृहोर्मिपाणिना । पादावलम्धिनी पश्चादासीजाड्यादसौ नदी ॥ १५७ ॥ ईशमुक्ता गिरिदरीरियमाप पदे पदे। भगीरथस्य तन्याना भाव भूयम्तपोविधौ ॥ १५८ ।। पर नापूरि जाहव्या भगीरथमनोरथ । पारावारोऽपि नि सीमपरिणाहविभूषित ॥ १५९ ।। त्रिविक्रमपदोद्भूता प्रिलोकीमियमानशे । फारणम्यानुफुरते कार्य हि गुणसपदा ।। १६० ॥
यात्राप्रबन्धः।
१२१
अनन्तपथगाप्येषा हन्त त्रिपथगामिनी ।
भगवत्पादजातापि शुक्ला वर्णेन शोभते ॥ १६१ ॥
नदी नवसुधाघारा वसुधावासवत्यपि ।
प्रतिकूलप्रवृत्तेयमनुकूलापि देहिनाम् ॥ १६२ ॥
गडोरगी गिरीशस्य जटाफन्दरनिःसृता ।
विपोदना वितनुते पापमण्डूकपारणाम् ।। १६३ ॥
आस्ते किमावृता गाङ्गे दाहशक्तिरिहाम्भसि ।
निर्दयते यतो नृणामस्य सङ्गादघाटवी ॥ १६४ ॥
आपगाया जगत्यस्याः कोऽपि शीतलतागुणः ।
पातकानि प्रकम्पन्ते यस्या नामश्रवादपि ॥ १६५ ।।
ननु त्रिपथगावारि समस्ताम्भोविलक्षणम् ।
सिक्तः कूलाङ्कुरो येन कल्पते मूलतृप्तये ॥ १६६ ।।
कोऽपि निर्जरवाहिन्या गुणासङ्गी शरोत्करः ।
चलञ्जवेन तनुते पडरिच्छेदनं नृणाम् ॥ १६७ ॥
अनादिमलसंघातहरणैकपटीयसीम् ।
अभ्रगङ्गामपि नदीमन्यामपि गृणन्त्यहो ॥ १६८ ॥
विध्यण्डपुटनिप्पन्नो वियद्गङ्गामयो रसः ।
अजरामरणां सिद्धिमाधत्ते सेवितो नृणाम् ॥ १६९ ॥
शिरांसि भजतामाशु सिन्धुरेषाधिरोहति ।
विवरीतुं प्रवृत्तेव विश्वमूर्धन्यतां निजाम् ॥ १७० ।।
अस्यामिहावतीर्णायामाविरास्ते भवाद्भयम् ।
.कालमन्मथयोः शश्वत्कदाचिन्न शरीरिणाम् ॥ १७१।।
विमुक्तिविश्नाणनधुर्यमावबोधाय बद्धा भुवनान्तराले ।
काशीपतेः क्षौमपताकिकेव लेखसवन्त्या लहरी समिन्धे ॥ १७२ ॥
इयं प्रसन्ना हृदये जले च तीरे प्रवाहेऽपि च दीप्रहंसा ।
अभीष्टदाने गमनेऽपि शश्वदपास्तमान्या तटिनी चकास्ति ॥१७॥
१२२ काव्यमाला। आपनसत्त्वेव वियन्नदीयमाविर्भवत्केतकवर्हशोभा । वीचीकरालम्बितपार्श्वभित्तिविजृम्भमाणश्वसनं प्रयाति ।। १७४ ।। कूलद्विजा कुन्दसगन्धमूर्तिः स्वादुस्तुपारा सुरभिः सरोजैः । इयं प्रसूतेः फलमिन्द्रियाणां मन्दाकिनी पुप्यति मामकानाम् १७५ तदनु भुवनोपतापदमनोपचितरंहसि मुमनोनदीजले कलितावगाह्नो बुधजनोत्तंसमणिरतिमनोहरं वचनोपहारमतनोत् । त्रिमार्गगे वामनसातिदूरः स कोऽपि जागर्ति तव प्रकर्षः । यदन्यतीर्थातिशयप्रसङ्गे विश्राम्यति त्वय्युपमानभावः ॥ १७६ ।। दानाय मुक्तेधृतकङ्कणायां मयि स्थितायामपि केऽपि माः । विश्यन्ति चेतः श्रुतिचिन्तयेति तृप्ताट्टहासेव विपाण्डरासि ॥१७७|| ब्रह्माण्डरन्ध्रात्पतनं सुमेरौ नानानगेन्द्राभिहतीश्च गुर्वीः । अचिन्तयित्वा भुवमागतासि पातुं सुतानम्ब भवाब्धिममान् ॥१७८॥ हिमाचलं प्राप्य जटाकलापादीशस्य नेत्रानलतापितेव । प्रपद्यसे मज्जदनेकलोकभवानिकीलाकुलितेव सिन्धुम् ।। १७९ ॥ अम्व त्वया भेषजमत्यपूर्वमशिक्षि कस्मादिदमनसिन्धो । भवज्वरं यद्विपमं प्रकृत्या शीताम्बुसेकेन नृणां क्षिणोपि ।। १८० ॥ ब्रह्मन्हरे हर भयादवतेति देही जल्पन्निमज्जति जले तव जगुकन्ये । निर्माहि पाहि निजहीति निदेशमेषां तन्वनुदश्चति क एप तवानुभावः ।। १८१ ।। गगनतटिनि तावकं गरिम्णा सलिलमशेषजलातिशायि मन्ये । न विसृजति निमजतां नराणामिदगधिरुह्य सकृयतः शिरांसि ॥१८२॥ भरणे निजवर्मणोऽपि खिन्ना भवती जाहवि देहिनो मजन्तै । किमिदं निदधाति मूर्ति तेपामहहाशेपजगलुटुम्बभारम् ॥ १८३॥ त्रिदिवसवन्ति भवदम्युमाधुरी सफलातिशायिविमवेति मन्महे । अवलिप जातुचिदिदं यतो जना विमुखीभवन्ति जननीकुचामृते १८१ यात्राप्रबन्धः। १२३ अयि तावकं चरितमद्भुतोदयं सुरभीकरोति सुरलोकनिम्नगे । पदमुन्नतं भजनसङ्गिनो जनान्नयसे यतः स्वयमधोनिपातिनी ॥ १८५॥ चेलं चर्म निकेतनं पितृवनं पात्रं शिरो लेपनं भस्मालंकृतिरस्थिजालमनुगा वेतालपारम्परी । भिक्षापर्यटनं च वर्तनमहो नृणां भवत्सेविनां मात—हि कथं त्वदीयभजनं कुर्वे सुपर्वापगे ॥ १८६ ॥ आकण्ठं सलिले निमज्य पुलिनामोगोपधाने शिरः कृत्वा शैलसुतापते सुररिपो गङ्गाधरेत्यालपन् । गृलन्कर्णपुटे शिवेन कृपया प्रव्याहृतं तारक तीरे जाहवि तापके तनुपरित्यागं विधास्ये कदा ॥ १८७ ॥ त्वद्रोधोमुवि भूस्त्वदम्युनि जलं त्वत्फेनभासि प्रभा त्वद्वीचीपवने मरुत्त्वदुदकावर्ताम्बरे चाम्बरम् । इत्थं देवि मदीयदेहजननी भूतावली लीयतां त्वत्संवन्धिनि ज नन्दिनि महत्येपा मम प्रार्थना ॥ १८८ ॥ इति स्तुत्वा नभःसिन्धुमेप धीमानमोदत । मनसा फलिताशेपमनोरथसमृद्धिना ॥ १८९ ॥ इति समरपुगवकृती यात्राप्रयन्धचम्पूकाव्ये सप्तम आश्वासः । अष्टम आवामः। पत्या प्रकाश्यमानं क्षेत्राणामयमुपास्य केदारम् । सकलमहितं फलानि सकुलत्राणक्षमाणि लभते स्म ॥१॥ उचैर्महागिरिविहारमुपेत्य धीमा- न्नीहारसंवृतिनिवृतिदिनावतारे । प्राप्यदादिपुरुपं यदरीवनान्तः पश्यन्करोदरमिपदराविशेषम् ॥ २ ॥ तदनु कारुण्यलवनववियतकामरूपां कामरूपान्तराहितकामपीठसिति फामपि परदेवतामाराध्य नरदेवदुर्नयनाटिकाविमारनपाटवानुपर्तिमिरालाप- विस्तारैरतीपीत् ।
१२४ काव्यमाला। स्वलीलानुसारित्रिपुरहरणपिङ्कराधोक्षजाज्ञा- निर्वोढ ब्रह्मचिन्तासमुपनतजगद्धोरणीकोणमाज । उठा कापि प्रदेशे कतिपयविषयाधीशतामेत्य मत्ता न त्वामश्चन्ति भूपा समयविपमता किं ब्रवीम्यद्रिकन्ये ॥३॥ नत्वा पृच्छामि किंचिद्भगवति भवती वाच्यमेतत्कुतश्चि पुण्यात्पट्टाभिपेकव्यतिकरसमयप्राप्तिमात्रेण राज्ञाम् । सौजन्य क प्रयायात्क मतिरुपरमेत्क नजेत्साधुवाद सौलभ्य कापसर्पक पुनरपसरेदातुरेप्वाभाव ॥ ४ ॥ भूजाने जय जीव कोऽत्र पुरत शब्दायते वार्यता- मायुप्मन्नहमेव कोऽसि कथय व वा त्वदीयाश्रित । आस्ता तद्भवदीयनाम किमह डित्थस्तथा वा तदि- त्यभ्यस्तानपि खेदयन्ति गिरिजे भूपा भवञ्चितान् ॥ ५ ॥ आयाहि प्रातरेहि बलमनवसरो याहि मे देहि सद्य वर्णान्येतत्पिधेहि प्रतिमुक्मथवा ब्रूहि नो चेदपेहि । इत्येव द्रष्टुफामा नरपतिहतकानेतदासन्नमृत्यै- रायास्यन्ते नितान्त जननि तव पदरोहिणो देहभाज ॥ ६ ॥ य शर्वयी समज्याविघटनसमये हे बुधा युष्मदर्थ राशेऽवोचाम किंचिद्रहसि स च तदा प्रीतचेता इवास्त । इत्थ वागीशसार्थानयि जननि भवद्वश्चितान्वश्चयन्तो मन्दा कुर्वन्ति केचित्पितृपतिनगरीमार्गपाथेयपन्धम् ॥ ७ ॥ आकास्माकमभ्यागमनमवनिमुद्वित्रिकक्ष्यान्तराणि प्रोल्लचयाभ्येत्य नीत्वा बहुमतिमतनोदर्धपीठीजुपा न । इत्थ मिथ्यावचोमि पटव इव जना वञ्चयन्ति प्रपञ्च केचिजानन्ति नैते भवदुपजनितानम्बिके विप्रलम्भान् ॥८॥ अद्य प्रात सभायामखिलनृपतिषु प्रेक्षमाणेषु पीठा- दुत्थायास्मत्करायादवनिभूदुपदामग्रहीत्पाणिनेति ।
यात्राप्रबन्धः॥
१२५
एतादृक्त्वेन जात्वप्यवनिपतिम[विज्ञातवन्तोऽपि केचि-
द्राजाभिज्ञा इवाज्ञास्त्वयि सति विमुखेप्वैन्द्रजालं सृजन्ति ॥९॥
नीहाराहार्यकन्ये तव पदकमलध्यानमुद्राविधान-
रत्यर्थ वर्तयन्ते जनुपि सफलतां केऽपि पन्या धरण्याम् ।
अद्राक्षीदीपदस्मान्नृपतिरधिगतप्रीतिरयेति साथै
मन्याना जन्म यान्ति प्रतिमुहुरितरे नितिं दुर्विवेकाः ॥१०॥
मातदैतेयवैरिप्रमुखसुरवरैः शश्वदध्यासितायां
मावत्कागारबाधाङ्गणभुवि वसतिप्राप्युपायं विहाय ।
हा हा मोहाद्यतन्ते जगति तनुभृतो नैकनिष्ठयूतवीटी-
जम्बालेर्दृपितायां नरपतिभवनद्वारि कर्तु विहारम् ॥ ११ ॥
धिकारः सौविदल्लैश्चिरविततबहिर्वेदिकावासकार्य
याच्जादैन्यानुरोधः करितुरगकुलेप्वाकुला पर्यटाट्या ।
निहेतुर्दण्डपातो भृशमुलगरुपा मेदिनीनायकेने-
त्येवंरूपेण मातः परिणमति नृणां त्वत्पदान्जापराधः ।। १२ ।।
त्वत्पादाम्भोजपूजाविरचनविमुखीभावदोपायतीर्ण-
क्षोणीभृत्सेवनानां पुरुषपरिपदामदिराजन्यकन्ये ।
नाहारो नैव निद्रा न सुखरसिकता नार्चना देवतानां
राजद्वारोपकण्ठेप्यपि तु तत इतः पर्यटाट्यैव कृत्यम् ।। १३ ॥
त्रैलोक्यश्लाघनीये धरणिधरकुलोत्तंसवंशे प्रसूतिः
शुद्धान्तैश्चर्यभाक्त्वं त्रिभुवनभरणोल्लासिनश्चन्दालेः ।
लोकानां मातृता चेत्यखिलमपि गिये हृद्यमेतद्भवत्या
भूपद्वारासिकायै पुनरपि तु सतां सृहिरेकय कया ॥ १४ ॥
आवासं दुर्गुणानां फमपि नृहत भूपतित्वेन सृष्ट्वा
तहद्वार याच्यामहह रचयितुं यद्विनिर्मासि धीरान् ।
सोऽयं सर्गखमायः फिन तप जननि दि किं विनमो वा
प्यं वा किमाहो किमुत दृढतरद्वेपिता या युधेतु ॥ १५ ॥
१२६ काव्यमाला। तस्याः को वा निषेधं सृजति गिलति चेदावृतिः सस्यजालं मर्यादालदिनी चेन्जलनिधिलहरी को नु वा तां निरन्ध्यात् । किं च त्वं शेलकन्ये कुटिलनुपगृहद्वारवेदीविहार- क्लेशोदन्यावदान्या भवसि यदि सतां कस्तव स्यान्नियन्ता ॥१६॥ भूभृत्सेवाविधानं बुधजनविततेः शास्त्रदृष्टेः पिधानं दुष्कृत्येपु प्रधानं दुरितमिपविपोन्मेपपाथोनिघानम् । ब्राह्मण्यस्यावसानं प्रसरदपयशोवलयुपनप्रदान यखापोपधानं सति किमु बहुना त्वय्युपेक्षानिदानम् ॥ १७ ॥ भुक्ते प्राचीनवित्ते गरिमजुपि ऋणे भिक्षुतायां धृतायां संमाने हीयमाने नृपसदसि बहिद्वाररोऽपि जाते । कोऽयं मायानुभावस्तव सति विलसत्यर्थलाभातिलोभा- द्धावं धावं बुधानां ततिरटति मुधा राजधान्यामधन्या ॥१८॥ विन्यस्ताञ्जलिना प्रणम्य शिरसा याचे दया चेझुधा- नास्थानीनरकान्तरे क्षितिभुजां कामाक्षि मा मा क्षिप । यद्यस्मिन्क्षिपसि व्यपेतकरुणालेशा तदा शालिका- द्वाराध्यासनदुर्दशां वितर नो गुर्वी दुरुचीपतेः ॥ १९ ॥ नैतत्स्वर्गतिसाधनं न च कुलाचार(रो) न चाज्ञा गुरो- राम्नायैर्विहितं च कर्म यदिदं भूपावभोपासनम् । प्राग्जन्मन्यचलात्मजे कृतगवत्पादापराधा वयं पातं केवलमात्मनः स्वयमहो कर्तु प्रवर्तामहे ॥ २० ॥ मूर्धा पर्यटने कृतेऽपि करुणामुद्रा न चेतावकी न प्राप्येत नरैर्गुवाकफलमप्यन्तर्पणाखादितम् । जानन्नप्यमुमर्थमर्थपटलीसंपादनाकाडया हा धिकष्टमनुवामि धरणीपालाधमानम्बिके ।। २१ ॥ त्वञ्चिन्तां कलयामि चेच दधुना] प्रत्यूहजाग्रन्मनः- क्षोभोत्पादनवञ्चुरौदरशिखिज्याला समुज्जृम्भते ।
काव्यमाला। कर्णो मध्याहदीन समयमनुसरत्यम्बुद स्वर्गमाने सन्तानस्त्यागशाली वयमपि तु मुहुः सर्वतो दानशौण्डा । इत्युर्वीपालगर्वपलपितगरलज्वालजालानि पातु कर्णाभ्या किं नु सृष्टा वयमवनिघराधीशकन्ये भवत्या ॥२९॥ कुम्भीपाकादिनानाविधनिरयकुलेप्वातल सनिमजा- व्यापारे नास्ति भार सरसिरुहभुवो यावदायुविरामम् । क्ष्मापालद्वारि किंतु क्षणमपि वसति शक्यते नैव कर्तु तस्मादस्मद्विपक्ष जनमपि न कदाप्यम्ब तस्या निधेहि ।। ३०॥ आस्थानी गाहनीया नृपनिकटजुषो रजनीया मनुष्या भूपाल सेवनीय स च वहुलधनैरापनीयो मयेति । चिन्ता सत्यज्य सोऽह तव पदनलिनोपासनामात्रकृत्य प्रेसद्भाव कदा वा वद जननफलान्यम्ब सपादयिष्ये ॥ ३१ ॥ यास्यामो राजधानी कथमपि नृपतेरन्तिक तत्र को वा नेप्यत्यस्मानफस्मात्प्रचुरधनभरै प्रीणनामन्तरेण । दृष्टे वा राशि कृष्टा चिरवसतिमृते नाञ्जसा यान्छिताप्ति- स्तम्मादकेशलभ्या द्रुतफलजननीमद्विजा न त्यजाम ॥ ३२॥ लक्ष्यीकुर्वे किमुर्वीसहचरहतकानम्बिके तावकाङ्ग्रौ जामत्यप्रान्तमन्त करणभुवि ममाभीष्टविश्राणनाय । त्वमृत्यद्वा स्थवीटीचिपिटकपटसवाहकक्रीतदासी दासेयप्रेप्यचेटीमुतजनसदृशा किं नु ते राजकीटा ॥ ३३ ॥ कामाक्षि स्वत्कटाक्षव्यतिकरकल्किामोदसाम्राज्यलक्ष्मी- पर्याप्तसान्तवृत्तेनहि मम गणनागोचरे ते नरेन्द्रा । सेवाइवाफमाजा तव जननि जगत्यामूर्या हरिवी त्र्यक्षो वारक्ष्यकोटी चिरसितुमनल केऽपि मूढा नृकीटा॥३४॥ त्वद्ध्यानकावधानप्रणयनमुलमानन्दीदान्तरात्मा नाह भूपानुपामे पुरहरसुतनो सपदे किंपचानान् ।
यात्राप्रबन्धः। १२९ पुंसां चिन्तालतामिर्हदि तव चरणोपनतामद्रिकन्ये नामध्यन्ते फतीमाः कति कति तुरगा गेहवामानणेषु ॥ ३५॥ कुर्वन्तु सैरमुच्या फतिचन समयक्षेपणं भूपगेह- द्वारावस्थानधारापरिचयरचनोदीतरागा वराकाः । त्वद्वयानारम्भलब्धोदयनिरतिशयानन्दनिप्यन्दसिन्धो- रन्तःखच्छन्दचारैर्जननि चयममी कालजालं नयामः ॥ ३६ ॥ मिह्यद्भूपालदत्तद्विरदवरघटामांसलस्निग्धमुग्ध- स्कन्धाभोगाधिरोहक्रमसमरतमख्यातिसंप्रासितोऽपि । देवि त्वमृत्यशालारजकवशजुपामन्यये रासमाना- मुद्भयारेकमारवहनमतितरां युक्तमित्येव मन्ये ।। ३७ ॥ साकं मूनायकेन प्रचुरमणिभरोड्डामरं सामरस्या- दध्यारुहासनाध युगपदभिमुखीमय संलापतोऽपि । न्यचद्वानं निषेधप्रसतकरतलं निर्भरोस्कम्पमम्म त्वदेहद्वाःस्यवेत्रप्रहरणसमयत्रासदैन्यं परं नः ॥ ३८॥ आन्दोली चतुरन्तयानतुरगश्वेतातपत्र द्विप- प्रायां संपदमावहेति गिरिजे न त्वां कदाप्यर्थये । याने केवलमेतदेव पहुधा त्वत्पादप रह- द्वन्द्वाराधनचातुरीगुणनिकासामान्यसिंहासनम् ॥ ३९ ॥ तदनु तुहिनजगतीधरादयत्तीर्य स पुनरार्यमिश्रो निजयनःशुतिधीततत्त्वा. गोधकर्दमनिकरम्य सगरमुतातिदुताशनीकृतमबलरपः फपिलमुनेराश्रम- पदमुपायत । अभिषिच्य मसितराशी-पुरदरनिर्माल्यसलिलपूरेण । निरयापयसितृणां भगीरयो यत्र निरयवाधापिम् ॥ १० ॥ अदाय परपुरदामपहाय मतामपितवती । लिप्पति मुरगयन्ती नर्गरासं या मरगयोनिकरः ॥ ११ ॥ सत्र जलधिमध्यक्षपमिदनयादीत् । भागीरथीनिधिताभियानां फांचिकुमारीमुपनीय गौरीम् ।
काव्यमाला। अस्सै वरायातिसृजन्पितॄणां चके मुदं चण्डकरान्वयेन्दुः ॥४२॥ अहस्करापत्यसरखतीभ्यामभ्यर्णमादाय विमुच्यमाना। अमुं नवोढेव" "ख द्युसिन्धुराबद्धभता पतिमभ्युपैति ।। ४३ ॥ वारं वारं प्रौढवातानुपङ्गाद्वेगेनायं वेपते वीचिमाली । कुम्भीयोनेः कुक्षिवास्तव्यममिंध्यायध्यायं त्रासमृच्छन्नियोः ॥४४॥ मन्थानशैलमथितोऽपि घटीभवेन प्रस्तोऽपि दाशरथिना कृतवन्धनोऽपि । उद्दामवाडवहुताशनपीडितोऽपि गम्भीरतां न हि कदाचिदयं जहाति ॥ १५॥ अथ नीलाद्रिमासाद्य कृती स कृतवन्दनः । अस्तौदित्यं जगन्नाथमधनिर्माणकर्मणे ॥ ४६ ।। चरितं तव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम् । नासामपिन भवितुमर्हति मानाधिकं रत्नम् ॥ ४७ ॥ अतिलघुनापि च वचसा मधुमथन तव प्रणौमि महिमानम् । तुभ्यं त्रिभुवनवपुपे तुल्यं कथमप्यते माल्यम् ॥ १८ ॥ मम यन्मनुष्यजन्मनि भवत्सपर्यापराङ्मुखीभवनम् । स. नवनीतनिर्गमसमये मन्थानगुणभङ्गः ॥ ४९ ।। अन्यार्थमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा । दमणनाभेराजिघ्र किं न पणितापि ॥ ५० ॥ भवतः प्रपद्यमानश्चरणौ पदवी समश्नुते परमाम् । को गन्धगजाधिरूढः क्षुद्रं प्रतिपद्यते द्वारम् ॥ ५१ ॥ प्रकृतिजयिनस्त्वदङ्ग्रेः पातकराशिरपि किमु भवेलक्ष्यम् । असमरविन्दयोनेश्चटकोपरि किं नु संयेयम् ।। ५२ ॥ ईपल्लमा मनीषिभिरीहितसंपत्प्रसादविषयैस्ते । हैयङ्गवीनसङ्घ ह्यादधतो न खलु घृतचिन्ता ॥ ५३ ।। १. ईयावीननिर्गमसमये इत्युचित प्रतिभाति.
यात्राप्रबन्धः। करुणागुणपरिणाहः कंसारे तय निसर्गसंसिद्धः । आधीयते न केनचिदमृतरसौषस्य माधुर्यम् ॥ ५४ ।। अनुपदमतिलच्य जनपदशतानि विबुधामण्यः स पुण्यस्मलीपु शस्तं गयाक्षेत्रमयासीत् । दृश्यते तटिनी यस्मिन्नछुताकारशालिनी । अपि फल्गुंः स्वयं पुंसामफल्गुफलदायिनी ॥ ५५ ॥ अधिमौलि गयामरद्विपो विवुधैर्यत्र कृते पदार्पणे । भुवनत्रयमस्तके पुनः पितरो हन्त पदं वितन्वते ॥ ५६ ॥ फटितटिघटिततटिनिमांशुकं रमाधवं छविजितमारमाधवम् । जगामी प्रणमति मन मौलिना गदाधरं किसलयमं गदायरम् ॥ ५७॥ तत्र च विहितकर्तव्यकलापोऽयमभिरूपी विनिर्गत्य ततः समग्रगुणसं- भृतेन कुटुम्विनीयुगेन विविधतीर्थसमूहमवगाहमानो विमानितदिविपदा- हारसंपदं व्याहारमुदन्भयत । अहस्करेऽप्यलधुतमिलतस्करे कुमुद्वर्ती समधिगता कुमुद्वतीम् । पयित्रितक्षितिरियमन चक्षुपी पुनः पुना रमयति मे पुनःपुना ।। ५८ ॥ संध्याटवीचारविवृद्धमूर्तिः कुर्वन्मुहुः कूलविहगलीलाम् । खैरं प्रणर्दनिह शोणभद्रो गवामसौ गच्छति संनियेशम् ॥ ५९ ॥ शर्वाणीचरणसरोजवान्तलाक्षाजम्बालभमनिहेतुधातुशाली। विध्याद्रिवितरति मे नितम्बसीमाविस्तारस्थगितदिगन्तरः महर्पन ॥६॥ जध्यास्ते रुचिरममुष्य शृगमेका सा काचित्रिभुवनसंज्वरापहनी । निर्व्याजप्रणिहितनीलकण्ठहर्षा वन्ती फमपि रसं बलाहकाली ॥६॥ फल्याली हसमधुकैटभावलेपा लोकान्यकरणनुलायदर्पहनी। चामुण्डाशकलितरकपीजदम्मामुम्मामी जयति निमुम्मसूदनीयम् ॥६२॥ विश्वस्मादपि धरणीधरेन्द्रयन्ये विभ्योऽयं निरवधिमागधेयशाली। आक्रान्ताखिलभुवनापि यस नामा विख्याता परमसि विन्ध्यवासिनीति ॥६॥ देवि त्वत्पदरचिदर्शितातिरामा तुषु द्रुमविटपेपु लम्बमानाः । ईलेऽस्मिन्सततमवाप्मुखत्यमाजो दृश्यन्ते धृतनियमाइच मवालाः ॥६||
१३२
काव्यमाला।
कुब्जत्वं दघदपि कुम्भयोनिमत्या विन्ध्यानिर्विवुधनिवासतोऽपि तुङ्गः ।
संचार सदयगिरीशपाणिपद्मस्पृष्टाभ्यामिह पितनोपि यत्पदाभ्याम्॥६५||
मच्चित्ते "महिपासुरोत्तमाञ विन्ध्याद्रेरधिशिखरं च विश्वमातः ।
निःशवं निहितपदान्जया भवत्या काठिन्यं क नुवद काममन्वभावि॥६६॥
वेलायां विषमकृतान्तवाहघण्टासरावश्रवणसमाहितव्यथायाम् ।
मञ्जीरकणितमनोहरं पुरस्तादास्तां नश्वरणसरोजमम्बिकायाः ।। ६७ ॥
पारीन्द्राः परिभवमापिता निकामं मध्येन स्मरहरवल्लभे भवत्याः ।
तत्तादृक्तिमिरतरङ्गितासु मन्ये बनन्ती(न्ति) स्थितिमिह""भ्यतो गुहासु६८
उत्तुहा बलवदुदारकान्तिभाजो वर्तन्तां शतमिह वारणेन्द्रकुम्भाः ।
सोढारस्तव कुचभारवत्किमेते पञ्चास्यप्रसभविमर्दसंप्रमाणाम् ॥६९॥
शर्वाणि स्तनभरसंपदा परं ते विन्ध्यादिर्विगलिततुगतावलेपः ।
श्रीले(डे) न क्षितिममजद्विजस्तु भेजे प्रख्याति शिव शिव भाग्यरीतिरेपा७०
संत्रातुं जनमिह सर्वहिंसकेभ्यो वात्सल्याद्वहसि वरायुधानि हस्तैः ।
हन्तैतद्भगवति साहसं यतोऽमी रज्यन्ते नवसुमनोजिघृक्षयापि।। ७१ ।।
चन्द्रस्ते वदनमिपेण शैलकन्ये विन्ध्याद्रौ वसति विधुतुदैकभीत्या ।
पर्यन्तभ्रमणमिप(पा)त्तरक्षुवीक्षावित्रासव्यतिकरविद्रवत्कुरङ्गः ।। ७२ ॥
त्वबिम्बाधरतुलना शिये तदानीं प्रादुप्यादिह सहकारपल्लवेपु ।
धात्रा चेन्मकरन्दसारधारानिप्यन्दः कुसुमवदेषु निर्मितः स्यात् ।। ७३॥
स्वच्छन्दं विलसतु चन्द्रिकाङ्कुराणामुद्भेदः किमपि सुधारसोद्गमश्च ।
वक्रेन्दौ तव वरवर्णिनि स्मरारेराश्चर्या न किमिह सूतिरम्बुजानाम् ॥७४||
अस्यादेरनुवनमध्यमम्वुजातैर्वेतण्डबजकरदण्डपातमीतैः ।
सारङ्गैरपि चकितैर्वनेचरेभ्यः सर्वस्वं निहितमिव वकं त्वदक्ष्णोः ॥७॥
फुल्लास क्षितिरुहपुप्पमञ्जरीषु भ्राम्यन्ती ततिरिह भाति षट्पदानाम् ।
पृथ्वीभृत्प्रियतनये विलोकयन्त्याः कान्तारश्रियमिव ते कटाक्षमाला ||७६॥
पाठीनध्वजपरिपन्थिकायमायाकैलासक्षितिघरकालमेघपते ।
मातस्ते हतजनिमार्गपर्यटाट्यानिष्टते मयि निपतत्यपाङ्गधारा ॥ ७७ ॥
यात्राप्रबन्धः। १३३ त्यामप्रच्छविमिह वीक्ष्य नीलकण्ठास्तुप्यन्तःसपदि वितन्वते कलापान्। त्वत्केशद्युतिविसरापहारशङ्का निर्माष्टुं निपुणमिव प्रदर्शयन्तः ॥ ७८ ॥ उद्भिन्नस्मितलवमुल्लसत्कपोलं लोलाक्षिध्रुवमतिलोभनीयनासम् । निम्बोष्ठ भृतमणिकुण्डलाभिरामं वक्रं ते जननिवयं न विस्मरामः ॥७९|| विनिर्गतानविहितपुण्यदुर्लभत्रिमार्गगासलिलविगाहनाय नः । पदे पदे बहलविपत्तिशङ्कया विपीदतः सुखयतु विन्ध्यवासिनी।।८०॥ अपि च । रक्षति दुर्गा यन्तं विपदः स्वगुणा-कृपामृदुर्गायन्तम् । समहृत कासरदनुजं तमपि च या मुम्भमन्तिकासरदनुजम् ॥८॥ देवी सा मे दुरितं क्षपयतु कृपया हरिखसा मेदुरितम् । शक्तिपु परमा नन्दं जनकं किल या निनाय परमानन्दम् ॥ ८२॥ शुचमिह नोपलभन्ते वपुः सरन्तो वलार्दनोपलभं ते । स्थितमनिदानवलक्षे यक्षे चण्डि लनदानवलक्षे ।। ८३ ॥ अपि च । स्कन्धादवप्लुत्य हरेः सलीलमाक्रम्य पद्यामवनीललायौ । संधित्सया चापगुणैनिपङ्गादुपिं मार्गणमुक्षिपन्तीम् ॥ ८४ ।। प्रहारकेलिस्पृहया रथाङ्गनेमिग्रहढ्यग्रनिजामहस्ताम् । तिर्यमुखी पाणिधृताञ्चलस्य कम्बोः समुद्धोपणकर्महेतोः ॥ ८५ ॥ उदस्तहम्तोपहितत्रिशूलनिर्भिद्यमानं निजपश्चिमाङ्गात् । निर्गच्छतो निर्जरशात्रवस्य चर्मासिपाणेः शिरसश्छिदाय ॥ ८६ ॥ आलम्ब्य केशानवध्य खेटं पाणावधिक्षिप्तकृपाणवल्लीम् ।। दरोच्नुसन्मध्यमदृष्टिरिसदमिस्फुलिङ्गावलिभीपणास्याम् ॥ ८७ ॥ विश्वत्रयापद्विनिवारणाय संनाहमेवं समरे दधानाम् । किरीटचन्द्रांशुकृताभिपेकामम्यामहं भावनयावलम्चे ।। ८८ ।। तमसामर्दिनि विधृतमसाधिपं तमसा जाइवीपूरं तमसा विगाहते । निजतुं दुरितावली सति कली निःसीमवीर्योदयां देवो मेलयति स्म यत्र मुहद्ध तिस्रो महायाहिनीः ।
काव्यमाला। हन्त सत्यपि रघूरहे गिरा प्रस्तुवन्ति कवयः परानपि । यस्य वक्तुमपदानमेव या प्रादुरास मुवि पधरूपिणी ॥ १०८ ॥ तद्विना दशरथावनीमुहृन्मानिनीजठरशुक्तिमौक्तिकम् । वावदूकजनवामुखस्य किं विद्यते भुवि विभूषणान्तरम् ॥ १० ॥ संयमिप्रवरसाधितस्य किं पायसस्य परिपाकवैभवात् । माधुरीमधिगतो महियसी राघवो रमयते ममाशयम् ॥ ११०॥ दत्तया दिविकृतत्रिशडना निर्ममो निखिलशस्त्रविद्यया । आधिशङ्कुभरमापयन्द्रियामागयेषु रघुनायकोऽवतात् ॥ १११ ॥ पादरेणुपरमाणुयोगतः सिद्ध्यता युवतिसृष्टिकर्मणा । साधयन्नपि मतं मुनेः कथं जानकीपतिरतर्फमार्गगः ॥ ११२ ।। कुर्वतो दृढगुणप्रकृष्टतामात्मनो दशरथाद्गजन्मनः । गौरवं न सहते स्म कार्मुकं कामशासनकरोपलालितम् ॥ ११३ ॥ धर्मनिर्मथनकर्मठं हठात्कल्पयन्नपि करातिपीडनम् । मेदिनीहृदयहारिभिर्गुणैर्मेदुरो जयति मैथिलीपतिः ।। ११४ ॥ प्रक्रम रचयतः मनर्तितुं विक्रमस्य किल विपशान्तये । ऐशचापतृणभङ्गमाचरन्नेष दाशरथिरेव सेव्यताम् ॥ ११५ ॥ दो.प्रतापशिखिनः समिन्धने दोहलीव निजबाहुलीलया । काकपक्षधर एव कार्मुकं पाटयन्पशुपतेः स वर्ण्यताम् ॥ ११६ ॥ आप भद्गमवनीसुताभुवः पूर्वमेव पुरवैरिकार्मुकम् । अर्कवंशसुकृतैरयं पुनः कीर्तिमानवतु केलिमानुषः ॥ ११७ ।। हन्तुमुद्यमवतो निशाचरानट्टहास इव रामतेजसः। पूरयन्दश दिशः पुनातु वो भैरवः शिवधनुर्भिदारव. ।। ११८ ॥ मैथिलीहृदयमञ्चशायिनः सौखशायनिकशेखरः प्रभोः । पातु वो रधुवतंसदोलताभज्यमानभवचापनिसनः ।। ११९ ॥ आत्मवैरिधनुरार्तिनानटद्वीरचोदितविदेहजार्पिताम् । दृक्तरङ्गवरणोत्पलमजं धारयत्नवतु वो रघुग्रहः ।। १२० ॥
१३७ यात्राप्रवन्धः। जातरूपफलके शनैः शनैरङ्गसंगतिभियापसृत्वरीम् । मन्दमन्दमपदेशपूर्वकं मैथिलीमनुसरन्स पातु वः ॥ १२१ ॥ वार्थिनेमिजनुपो वधूमणेराशये शयकुशेशयेऽपि च । कौतुकस्य कलयन्निवन्धनं नन्दनो दशरथस्य पातु नः ॥ १२२ ।। मैथिलीपरिणयोत्सवे मुखं मन्दहासमधुराधरं विभोः । धर्मवारिकणहृद्यमस्तु मे [मङ्गलाय] शुभिकाविभूषितम् ॥ १२३ ॥ आश्रमप्रसृमरे शनैर्जवादाहितापसरणे कथंचन । संगते सदसि मङ्गलाय मे जानकीरघुवतंसयो यो ॥ १२४ ॥ मैथिलीमनुकुलावतंसयोः पुष्णती पुलकजालमडके । शोभनस्तुतिमया शुभाय मे कल्पतां मुगललकाकपि (1) ॥ १२५ ।। भाविनि त्रिदशवैरिभञ्जने साध्वि मे कुरु सहायतामिति । याचमान इव जानकीकरं पाणिना परिमृशन्मुदेऽस्तु सः॥ १२६ ॥ चम्पयल्लिकरपीडने रुपः शान्तये किमुपलाधिरोहणे (1)। जानकीपदसरोजमामृशन्पाणिना रघुपतिः प्रसीदतात् ॥ १२७ ॥ हन्त दृश्यमपरं मदागमः शंसति ध्रुवमितीर्ण्ययेव सः । तत्प्रदर्शनविधौ घराभुवि मन्दवर्षवचनो धिनोतु माम् ॥ १२८ ॥ मैथिलेन्द्रमहिलाभिरेकतः स्थापितौ सदृशतादिदृक्षया । "माहितस्थितौ चिन्तयामि जगदादिदम्पती ॥ १२९ ॥ मैथिलीसहचरं मनः सर्वदैव तदवेहि दैवतम् । पोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम् ॥ १३० ॥ सन्तनामहं वीशसम्मतपरं (1) देवता विगणयामि नैव ताः। राममेकमभिरामवैभवाराममाशरविराममाश्रये ॥ १३१ ॥ तमालच्छायालः सततमनुकूलम्ननुभृतां वचः फेलीशे (1) विशगतमभुलीमधुरिमा । जगलेता सीतापतिरहितजेता गुणगणः स नायो हत्यापो जनुपि रघुनाथो विजयताम् ॥ १३२ ।। ............ .
काव्यमाला। श्रेयानेष निरीक्ष्यते स शिबिराभोगः प्रयागाभिधो धीराः खैरमिह प्रयान्ति पदवी देहत्यजं शाश्वतीम् ॥ ८९ ॥ देहिनामिह तटस्थितिस्पृशां पुण्यमात्मजमिमाः पुनः पुनः । स्फारविस्मयकृते परस्परं संगताः प्रसुवते सरिद्वराः ।।९० ॥ अन्योन्यमायाभिभिरूमिहतैरास्कन्दकर्मण्यनयोः सपत्योः । साक्ष्यं न साधीय इतीह सा कि सरखती संघृतमूर्तिरास्ते ॥ ९१॥ जाह्नवीरविसुतारजतायःशृङ्खलायुगलसंदृतमेनम् । क्रीडितुं स हि विमुक्तियुक्त्या केलिमञ्चमयमञ्चति लोकः ॥ ९२॥ यियासतामन निमज्य नाकं हित्वा तनुं मुक्तिमभीप्सतां च । वैवखतीविष्णुपदीमिपेण वेदोपदिष्टाध्वयुगं चकास्ति ।। ९३ ।। निर्वापितानामिह विष्णुपद्या नृवर्गकान्तारभवानलानाम् । विसत्वरी धूमपरम्परेव विराजते चण्डमरीचिकन्या ।। ९४ ॥ सहजमलिन विद्यावर्त्म स्वभावमलीमसा विधिपदविका चित्रः पन्था विमिश्रितयोस्तयोः। क्षति पृथगवस्थित्या संमेलनेन च देहिना- मिह विवृणुतो नानामार्गान्युसिन्धुकलिन्दजे ॥ ९५ ॥ निर्माति घीशुसुताभुजङ्गया निर्मोकशामिह गानमन्भः । यां वीक्ष्य लोकाः समवर्तिलोकयानाकथामप्यवधीरयन्ति ॥ ९६ ॥ अनेकदेशोन्मिपदसिन्धुप्रवाहखण्डामिव भानुकन्याम् । पश्याम्यविद्यामिय तत्र तत्र प्रभिद्यमानां विषयप्रकाशैः ॥ ९७ ॥ उन्नेतुमुद्वेलभवाब्धिमनान्कृतोद्यमाभ्यां कृपया शिवाभ्याम् । प्रसार्यमाणाचिव बाहुकाण्डौ पश्यामि नद्योरनयोः प्रवाही ॥ ९८ ॥ गाविद्धसरोजकुमलकुचं विक्षिप्तचीचीमुजं फुलेन्दीवरदृष्टि वुहुदनिमाविर्भूतरोमोद्गमम् । चुस्यफेनविपाण्टुफमुकमुभे दूरात्समभ्यागते गाढालिङ्गनमत्र हन्त तनुतो गगाफलिन्दात्मने ।। ९९ ॥
यात्राप्रबन्धः।
कापि प्रस्तुतदोर्मधे इव मिथो वीचीभरैराहते-
रेतैरातजयश्रियाविव कुतोऽप्यन्योन्यकृताक्रमः ।
विद्राणे इव साध्वसेन कुहचिद्वयक्तापसारत्वरै-
स्तन्वाते सरितो विडम्यनमुभे तत्तादृशानां नृणाम् ।। १०० ॥
कालिन्दीसुरनिलगे विलसतः कालावदाते ययो-
रंशूनामिव संतती तनुभृतामन्तस्तमितापहे ।
पुण्येरध पुराकृतैर्वयममी तत्वादशौ तावुभौ
वेणीमाधवशूलटङ्कगिरिशो वीक्षामहे चक्षुषा ॥ १०१॥
वामे भागे वरतनुमयं शूलर शमीडे
संध्यानृतम्रमणरचनासजिनो यस्य कण्ठात् ।
सस्ता मुक्तासजमिव महाकृष्णसपीञ्चितार्था-
मग्रे पश्याम्यमरतटिनीमकन्योपगूढाम् ॥ १०२॥
मुवनत्रयपारवर्ति पुंसामधिगन्तुं पदमाहितस्पहाणाम्
अनुभूतचरादिविप्रयागादयनं नेह परं भुवि प्रयागात् ।। १०३ ॥
इत्यालपन्नयमुचीर्य सुरधुनीमनीदृशसंपत्रिपेशलान्कोसलानवलोकयन्ननध-
गुणपरिभूतधनदपुरुहूतपुरमनिहीत साकेतम् ।
विमलां प्रकृति विवृण्वती सततं भावितसर्वमङ्गला।
यदलंकरणाय कल्पते हिमवन्मानससंभया नदी ।। १०४॥
:
पदिशति यत्र कौतुकमशीतकराभिजन-
प्रभवजनाधिनाथहयमेषवितानमही ।। १०५ ॥
तब स रामगद प्रणिपत्य नुतिमित्यवानीद ।
फल्पयत्यवनिकर्णजन्मनो वाहि अरणहवेगवम् ।
संभवे जनकमोदसंपदामात्मजोक्तिरयते निदानताम् ॥ १०६॥
सुनुनैव मुवचं प्रचेतसो वस्तु वर्णयितुमाद्रियामहे ।
राश्वफमुगमे रणागणे च्याप्तं किन पलीमुखैरपि ॥ २०७॥
१३८ काव्यमाला। मणिगणपरिणद्धे मण्डले पुप्पकान्तः- सुरतरुतलमजि स्वर्णपीठे निपण्णी। विसरमुपहसन्तौ विद्युदम्मोदभासां मनसि मम रमेतां मैथिलीरामचन्द्रौ ॥ १३३ ॥ सकदेव शरीरिणः प्रपन्नान्भवदीयाः स्म इति प्रजल्पतोऽपि । परिपातुमभीतिलम्भनेन प्रतिपत्ननतमस्ति देवतं नः ॥ १३४ ।। अपि च। तमुपास्महे तपोधनमहिमार्जितपायसार्थपरिपाकम् । पतिरथपार्थिवेन्दोरन्तिमऋणभागमोचनं द्रविणम् ॥ १३५ ॥ भक्तिपरितोपिताशयकं कालिके कलितोपदेशविभवेन (1)। त्रिजगदरिष्टविदारणदीक्षाढवद्धर(ल)श्यतां यातम् ॥ १३६ ॥ सुस्तं तस्य सुफेतं प्रभदनतनुमेदिनीपतप्तस्य (१) । आशरकुलाशनोद्यमभाजः(ज) प्रा(बा)णाहुतीकृतसुबाहुम् ॥ १३७ ।। अपि भाग]वदधिरजसा संहितचिरलुप्तनियेमिसंसारम् । परिणीतधरणितनयं पशुपतिचापाधिरोपणपणेन ॥ १३८ ।। दैत्यभिदो धनुषा सममातभूगुप्रवरशक्तिसर्वस्वम् । त्रातारं वसुधाया अन्ते सह सीतयाऽनुभूतसुखम् ॥ १३९ ।। जगति परिप्रहयोग्या न खलु श्वश्रूरिति प्रतीत्येव । धरणिमनपेक्ष्य साकं तत्सुतयाध्युपितचित्रकूटतटम् ॥ १४० ॥ खवशमुपेयुपि विभवे विमुखस्य आतुरर्पितेन करे । चरणत्राणेन चिरं कारितवन्तं क्षमापरित्राणम् ।। १११॥ आत्मीयादपि चालादतिरभसभृतो जवातिरेकेण । विस्मेरितामिदैत्य(१)व्यञ्जितकरुणं कृतागसि खगेऽपि ॥ १४२ ॥ ना(सा)कमवगाहमान जनकापत्येन दण्डकारण्यम् । चेतस्तपोधनानां शीतलमम्बश्व"दायाः (१) ॥ १४३ ॥ १. भगवतः खस्येति व्याश्येयम्. २. नियमोऽस्यास्तीति नियमी मुनिः. अत्र गौतमस्तस्य संसारोऽहल्येति वोध्यम्. ३. श्वश्रूः पृथिवी. ४. पिस्मापितादितेयमिति संभवति.
यात्राप्रवन्धः। सेतुमिवारिमिवाब्धे()श्छेदितवन्तं निशाचरीनासाम् । प्राग्(ह)तविराधपदवि चारितरदाश्चतुर्दशसहस्रम् ॥ १४४ ॥ उन्मीलितखरदूपणमुन्या रिपुयशस्तिरोधानाय । चिरकालविरहसीदन्मातृसदेशोपनीतमारीचम् ।। १४५ ॥ सदयोदयं सपक्षे पत्रिणि दशकण्ठयानपक्षेऽपि । हनुमन्मुखेन संहितसुग्रीवं सप""भाजकबन्धे (1) ॥ १४६ सालान्सप्तमहीद्रा(धा)न्फणिपतिभवने च पत्रिणैकेन । दारित्वन्तं तरसा सव्यरविसम्भसम्पदं साकम् ॥ १४७ ॥ विमतश्वापदमृगयाविधिशीलतया विधाय निजमूर्तिम् । दत्तहतिमर्मनन्दनदीपकमृगवञ्चितात्मने हरये(?) ।। १४८ ॥ हरिणपदाना हरिणप्रतिपादिव दूरतः प्रयातायै । मणिमणि(गण)मुद्रां प्रेपितवन्तं प्रेयसीमिव वयस्याम् ॥ १४९ ॥ (१) मस्प(स)मरमहः पुरेहे(?)सुदृशश्चूडागणौ समीरभुवा । संपापितेऽपि संनिधिमाचितमोहान्धकारसंदोहम् ॥ १५० ।। भुज(भव)जलधिकर्णधारं भजतादे(मे)नं कियान्भवाब्धिरिति । सरुषा विभीषणेन प्रतिपत्तिकृताझिपाथोधिम् ॥ १५१ ॥ दयया हृदयमरातेरनुजं राज्याभिषेकसलिलेन । प्लावितवन्तम(न्तं बोधिक प्लवगमटानां च हर्षबाप्पेण ॥ १५२ ।। सेतुपथेन जितवति सुग्रीवभटे तट सुवेलस्य । अवधि जगति वृन्दं तान् प्रापितवन्तं प्रतापयशसी से (1) ॥ १५३ ।। अखिलजगदन्तरङ्ग आत्मन इवाश्रमस्थितमहिरवन्तं धनुर्गुणस्यापि ॥ १५४ ॥ (1) छादितसकलदिगन्तैः कपिमिः पुर एव कलितरोद(धोस्य । निजतेजस इव तापानिर्याताय द्विपे प्रपदिष्टवधम् ॥ १५५ ॥(2) हुतवहक(के)(नि)प(प्प)तितां स्वकीयचारित्रशुद्धि(ख)विस्रता(म्भा)म् । अधिरोप्य पुष्पक पुनरायान्तं स न (सहेय) साकेतम् ॥ १५६ ॥ १. सत्यरेति प्रतिभाति.
१४० काव्यमाला। ............. प्रकृतिविरचिताभिषेकपाथ. प्रमुदित""""" सकलगुवनगाथ(१) शासनाकामधिगतमखण्डिता समृद्धिम् ॥१५॥ इति श्रीवाधूलकुलतिलकस्यातिरानयाजिन सगरपुङ्गव- दीक्षितस्य कृतो यानाप्रवन्धेऽष्टमाश्वास । अथ नवमाश्वास ॥ ................. ........ निजभाववच क्रियाभि.. सभिद्य यत्र सुमन सरिता रमन्ते सागे(के)तके ] च (१) सरयूरपि गोमती च ॥ १ ।। नेदीयसीमतिचिराय निजैस्तपोभि- वाराणसी प्रति ततो वल...." क्षेत्सान्तराज्यततिरेकमिव सह(१) खेन व्यदायि जगतीतलपर्यवाट्या (१) ॥ २ ॥ प्रदक्षिणप्रक्रमजन्मनोऱ्या क्लेशेन काशीमुपतिष्ठतीति । कृपावती प्रहममस्य गहा वातेन वीचीननुषा व्यनपीत् ॥ ३ ॥ अनन्तरमवनीसुरधुरघरेण गच्छता पथि खच्छन्दमानन्दनिजभरेण (१) ""भ्यधायि । आ कयमनत एव हयखुरक्षुण्णमेदिनीक्षोद- मेदखिभावमासेदुपि समुदये दिशामनुकूलपवनदोलायिताञ्चले शतशः शताङ्गपीता .."कावेरीव समावेद्यमानसरणि परिपदियमालक्ष्यते । अय खलु माघचतु- दगीवासरे वाराणसीनगरवास्तव्यस्य शरीरमणचूडामणे रामाराधनाय भक्तिपरवतीय प्रस्थितवती । अहो पुनरमुप्य वासरविशेषस्य वैभवातिशय । जनयति शिवरात्रिनतसकल्पो विश्वसृष्टिसकल्पम् । जागरणं चार्याणा सररजगद्वारमरणजागरणम् ॥ ४॥ आश्रितगिरीशपाधैरपनीतनिमेपवर्तनायात । पदरि()समाक्रमचक्तेिश्चतुरैरतिवाटते शिवरानिः ॥ ५ ॥ .......... ...... ... . ....
1
यात्राप्रबन्धः।
१४१
अवाप्तुमिच्छा यदि वामहर्निशं प्रजाग्रतोः पङ्कजयोः सगन्धताम् ।
विधीयतामस्तनिमेषमुद्रणं दृशौ युवाभ्यां शिवरात्रिजागरः(रे)॥६॥
अनिमेषता जनानामनिमेयत्वाय भवतु शिवरात्रौ ।
इह पुनरभक्तभावो हेतुः कथमीश भक्तभावस्य ॥ ७ ॥
शिवराज्युपविधेः शीलं यामि"
...."यतकृतीनाम् ।
शिवजगत्कदम्बककरोपि तृप्तये"
........."नालम् ॥ ८॥
"औपयस्त्यमविशातरात्रिः "हसा हसन् जनः।
अत्र सिध्यति यतोति रामणो कालकूटगरलेन हारिणा ॥ ९ ॥ (१)
ये स्थाणुतां गिरिशयोग्यदला(लो)पहारै-
विल्वद्रुमस्य शिवरात्रिदिने दिशन्ति ।
संसारिणामुदयते [भविकं हि ] तेपा-
मात्मीयकर्मफलमत्र न को नु मुझे ॥ १० ॥
अहो गम पनेलिमानां प्राचीनतपसामनुभावो यदस्मिन्नहनि विस्मया-
तिरेकमुपहरिप्यति मदीयं चक्षुपोरसदृशप्रभावसाधीयसी वाराणसी।
अभ्यर्थ्य जम्भरिपुणापि वितीर्यमाणं
सर्गानिकाममपि गणाय मत्पतीक्ष्णान् ।
असपितृन्नियतमद्य निजाग्रहस्तं
न्यस्तार्ण्यपात्रमुपयास्सति नाभिजन्मा ॥ ११ ॥ (1)
कथमिवैतस्य फथयामि महिमानमानन्दफाननस्य ।
कैलासशैलादपिकामशत्रोधेतोविनोदोपचयपदात्री ।
काशी भवाशीविषवैनतेय(सत्) पाटिका पाटयते तमांसि ॥१२)
विभर्ति चन्द्रः शशमित्यकीर्ति कुले निरूढामपनेतुकामः।
वाराणसीजाशलवर्मचारी प्रायेण चन्द्र विभृते शशोऽपि ॥ १३ ॥
अधिकाशि तरक्षुरामिपस्टहया संहरति.""पलिमृगम् ।
अजिनग्रहणाय राहोर्हरिणधायममुं मृगादनम्()।
फाश्यामुगाफामुफराजधान्यामैश्वर्यलोभेन तासिकानाम् ।
फैधिदिनरेव ययस्यकोटी संम्येयतामेति पनं गियोऽपि ॥ १५ ॥
१४२ काव्यमाला। अखण्डमैश्चर्यमपेक्षमाणाः कथं नु काशी पुरुषा भजन्ति । भवन्ति यस्यां बहुसंपदोऽपि भिक्षाकमध्ये प्रथमं गणेयाः ॥ १५ ॥ यातुं कुन सखे व्यवस्यसि(ति) महाम्या(भवाना)नन्दवन्यन्तरे मा गाः केन ततो गतस्य न मया दृष्टं परावर्तनम् । कस्माचत्र समेयुषां वसुभृतां वर्ष्यादिपूर्वस्थिति कोऽप्युत्सार्य बलात्प्रयच्छति निजं रूपं किरातामणीः ॥ १६॥ अविद्यायां द्वेषं चिरपरिचितायां घटयते निरुन्धे तत्सूनोरपि च मनसो लालनविधिम् । न कामक्रोधादीनपि तु सहते तस्य तनया- नहो पुंसः काश्यामभिनवजनिः प्रेमगरिमा ।। १७ ॥ अहो भाग्यं काशीवसतिरसिकानां तनुभृतां यतो भोगानेते चिरमिह समासाद्य विविधान् । अलभ्यां ब्रह्मादेरपि समधिकानन्दभरितां भजन्ते देहान्ते परमशिवसायुज्यपदवीम् ॥ १८ ॥ पुरा भोगत्यागः श्रवणमथ वेदान्तवचसा. मथोद्बोधः पश्चादमृतमिति शैलीसुलभता । यदर्चामाहात्म्यात्सकृदुपगता निग्रहवता- मलं मुक्त्यै काशीपुरभुचि निवासः क्षणमपि ॥ १९ ॥ आहितनरकावज्ञान् विमुक्तरमाविलासपरितुष्टीन् । उच्चैः स्थापितगोत्रानुपास्यते(स्महे) चेतसा महापुरुषान् ॥ २० ॥ वरणो(ो)ज्ज्वलम(प्र)सिद्धां करिमुखजलपाति(लि)तां पुरी पुरुपाः । भैरवदुर्गाधिष्ठितमध्यामध्यासते स्वरक्षायै ॥ २१ ॥ वसतिरविहता परस्य पुंसो भवति तपोभरवैभवेन काश्याम् । जगदवनपरायणस्य शंमोः स्फुरति कृपालहरीव यत्र गहा ॥ २२ ॥ [वाराणमी] वासविदामवि दिशन्तु देवा मम भैरवाधाः । दिने दिने सादरमानतीनां शतं शतं प्राभृतयानि तेपाम् ।। २३ ॥
यात्राप्रबन्धः।
निरुपप्लवनिर्मलस्वभावं परमानन्दघनं प्रबोधसान्दम् ।
गिरिजागिरिजापयोः वरूपं परिपश्यन्त्यधिकाशि भाग्यभाजः ॥ २४॥
आरूढशार्करमपावन्नहनि(?)माश्लिष्टपार्धमुनया हरिणाङ्कचूडम् ।
ममार्धमूर्तिरुदके मणिकर्णिकायाः पुण्यैः कदा पुरत एव विलोकयिष्ये ॥२५॥
अस्तीति निर्धामकृत्रिमोक्त्या निरञ्जनैरेव निरीक्षणीयम् ।
आश्चर्यमानन्दनिधि कदा या द्रक्ष्यामि तीरे मणिकर्णिकायाः॥ २६ ॥
भो भो मन्मथलोभमत्सरमदव्यामोहरोपाः सुखं
) युप्माभिः क्षपितानि भूरिदिवसान्यस्मासु कृप्तासिकैः ।
देशानद्य यथामनीपितमितो याता न जानीमहे
यास्यामो भवतामगम्यविषयामेतर्हि वाराणसीम् ॥ २७॥
तदनु धरित्रीसुधाशनपवित्रीक्रियमाणसमाश्रितजीववर्गगपवर्गफलप्रदान-
फल्पलतोद्यानमविमुक्तमवलोकयन्नतिनाकसुखभरतरङ्गितो गिरं कृतनपीनमा-
ध्वीकदूपणां साध्वीमिमामभापत ।
वाराण सि त्रिपुरवैरिकरारविन्दा-
देकं त्वया विधिशिरो हृतमामनन्ति ।
आसेदुपे सविधमङ्गभूते कदा वा
वेधःकरोटियिततां प्रवदानि मालाम् ॥ २८ ॥)
इदं खल्ल त्रैलोक्यमहनीयमभ्यर्णवितृणा(?)मधिकर्णपुटं वर्णयतः प्रणव-
मपर्णासहायस्य वक्तेन्दुविगलितविद्यासुधार ....."विव विहितपरिपूरणं
निलं भवतापनिर्वापणक्षममालक्ष्यते परमपावनतीर्थसमुदयासरं च कृतं
सरः
अतिकलिलनायिन्यामा नाकमा च रसातला.
दिह भरपरीवाहैवादियं पुरतो मया ।
उरुविमलताहेतुः पाथः प्रसन्नमुपेयुपी
निखिलजगतीमान्या संवर्ण्यते मणिकर्णिका ॥ २९ ॥(8)
खयगास मुदर्शनं सनित्रं खननेऽस्यामुरशाखिलव कर्ता)।
अभिपूर्तिविधायितभ्रयांमस्त्रिदयं (1) तावदगोचरे नुतीनाम् ॥३०॥
काव्यमाला। . परस्य पुंसः प्रसृताधिराजादारान्मदीयं मुहुरापतन्ति । आश्लिप्यती मामवमूर्मिहस्तैः सर्वस्य रम्यः सहजः स योगः॥३१॥ कैवल्यमानक्षमतैकराज्यवैराज्यमूलागवधार्य दोषान् । गगानया कृप्तविभेदलेशं मेघावती हेलनमादघाति ॥ ३२ ॥ नियतं बिभर्ति निटिलेक्षणायिता- मपसार्य मूर्तिमगजेच जाह्नवी । अत एव भागमदसीयमेककं मणिकर्णिका किमपि मण्डयत्यसौ ॥ ३३ ॥ कल्लोलमन्दपवनैर्गगनोपगीय- मासेवते जनमिमां(वा)ति(न्ति)मयाव(न)काले । भूरिश्रवापनयपूर्यममुप्य मूर्ध्नि निक्षिप्यमुद्यमवतीव निजाम्बुभारम् ॥ ३४ ॥(2) उदयिता(?) किलेन्द्रियोपघाते विपमे जीवितविप्रयोगकाले । इह दैवतमेकमाविरास्ते जलदश्यामलकंधर(रो)जनानाम् ॥ ३५॥ अत्रासून्विजहाति सः शिव शिवेत्याकर्ण्य कण्ठध्वनौ देवीं भूपयितुं गृहीतमनघं धृत्वैव सारं करे । आदावप्यतिसंभमेण भगवानर्धेन्दुचूडामणिः सर्पादेय(व)विमुक्तिवामहगलंकारं विधास्यन्निव ॥ ३६ ॥ ओंकारमन्त्र(त्र)विपरीतमुपैतु पाणि- मालम्ब्य शैलजनुपो मुहुरद्रिधन्वा । पाशावमोचनकरी परमोच(क्त)विद्या सैषी(प)ति किं प्रकटनाय शरीरभाजाम् ॥ ३७ ॥ (1) तीरेऽस्याः स्थिरशयनस्पृशां जनानां तत्ताहर विषभजने ततो द्रुमाणाम् । आनन्दद्रविणभरापणो विबद्धः पार्वत्याः पतिरधमर्गलोकशैलीम् ॥ ३८ ॥(१) यान्नाप्रबन्धः। श्रमातुराणां चिरकालबन्धादत्रामृताखादकृते पशूनाम् । तेपामधीशो दयमानचेताः पाशापनीत(ति) प्रसमं विधत्ते ॥ ३९॥ मेहद्रथाभीशुभरापदेशादत्रोपदेशावसरे महेशः । .. कुतर्कयोपाक्लिमजभाजां कर्णान्तरं लक्षयतीव तोयैः ॥ १० ॥ त्रयीरहस्यं विचितं तपोधनैरनेकवर्णास्पदमेकमक्षरम् । शरीरिणामत्र शशाङ्कशेखरो व्यनक्त(क्ति)प(पु)र्यामपि वेद्यमप्युभे(8)1४१!! अस्तं कलानामिह पोडशानामादाय दोपाकरमण्डलस्य । सतारकस्पातिरहो समग्रमस्यामृतं पुष्यति कालकालः ॥ ४२ ॥ जन्तुः शृणोतीह वृपाइववादोंकारमुत्तम्वितपश्चिमाम्मः । वामारुते राशिवधूभवन्त्याः प्रकाशनेमि हृदि वाति लज्जाद () ॥१३॥ भगवदरजतोरन्तः अन्तः प्रणवाम्यतं (1) खमुखशशिनः सारं शूली विसारयतीह सः । .............................. ............ ..."लिधमानमिव स्थितम् ॥ १४ ॥ विद्याविक्षतिसंभ्रमण मुकुटाद्विश्वेश्वरोऽपि स्थिता- मादत्ते मुहुरैन्दचीमिह कलामाधातुक्रामः पथि । कांचिन्मौक्तिककुश्विकामित्र नवां सद्यः प्रसनेप्सित- स्फीतामोदनिदानकोशभवनाद्वारार्गलोद्घाटिकाम् ॥ १५॥ • चूडाशशिक्षुतविपत्तासुधैकलेश- व्याजादिह प्रण[य]दानविधौ पिनाकी । मध्येललाटफलकं मनुजस्य दृष्टिं .. कतु पुरा किमपि कल्पयतीव निहम् ॥ ४६॥ इह पतिरखिलानामेकहतेऽवरून्यन् ' समयमुरभिपाय(!)शङ्कया बहारन्धम् । परिकलयतु मचः पाणिनान्येन जन्तोः अवणमपि च गृहन्स्यन्दयत्युक्तिसारम् ।। ४७ ॥
१४६
काव्यमाला।
तारकार्यविवृतं तनुभाजां कुर्वतः कुमुदिनीविटमौलेः ।
साधते चतुरतामिव चञ्चन् दक्षिणेतरवपुःस्तनकुम्भः ।। ४८ ॥
वपुरर्पयतीव विश्वभर्ने जनता जीवितमोचनच्छलेन ।
प्रणयाक्षर(वर्णना)पदेशादुररीकारमिवातनोति सोऽपि ॥ ४९॥
प्रणवमयमेव तिलकं प्रियामुखे लिखति वासनातिशयात् ।
अनुसंधातुमिवेशामनुनेप्यन्नहह करुणविवशतां नीतः ।। ५० ॥
त्वरितमभितो धावं धावं कृपातिशयाप्रभो.
रतिसुकृतिनां कर्णेप्योंकारमत्र विवृण्वतः ।
अनभिवलपत:
स जयतितरां शश्वनिःश्रेयसार्पणविनमः ॥ ५१ ॥
असो पुनरत्र निर्वर्तितावगाहविधिरतिवादितार्पनिदाघसंज्वरो निर-
जनहृदयसवनिःशङ्कविहृतिमन्दिरं चिरंतनसुन्दरीसीमन्तसरणिमौक्तिक
समस्तजगन्नमस्कियासंकेतशालिकान्तारमङ्गजानुरागसागरहरिणाङ्कपरिणता-
ननं शुमणिमरीचिकोचयदुर्जयतमोनिपूदनमनतिकपायचेतसामदृश्यगति
पश्यतिस्म विश्वपतिम् ।
पुरत्रयी येन पुरा व्यघायि मन्दारमाला भवता रणेन ।
मन्दाकिनी यापि च मौलिभागे मन्दारमाला भवतारणेन ॥ ५२ ॥
निध्याय च निटिललोचनबद्धानतिरिदमवोचत ।
खर्धनी प्रकृति
जलाकृतिः कालिकाश्रितकुटुम्बघातिका ।
धूर्जटे त्वमपि धूर्तशेखरो हा तथापि कथमाश्रयन्ति वः ॥ ५३ ॥
विश्वेश्वरत्वं निखिलेश्वराणामाब्रह्मकीटं फलमेकरूपम् ।
सर्वेश्वरः प्राणिषु तुल्यवृत्तेः कथं नु सेवां तब कल्पयामः ॥ ५४॥
लोके महान् लुब्ध इति प्रवादो मुदा न ते मुग्ध शशाङ्कमौले ।
यतः समीपे तव याचकानां प्राणप्रहाणावधिरिष्टलाभः ॥ ५५॥
किं तस्य ते वच्मि गिरीन्द्रकन्याकान्तस्य कर्णे जनुतोऽनुमावम् ।
यस्यैकदेशे निहितेऽपि या(मां भवन्ति दारप्रमुख पराञ्चः ॥ ५६ ॥
यात्राप्रवन्यः।
१४७
मान्त्रिकेषु महितो मवान् यतो देहिनम्त्वदुपदेशवैभवात् ।
हालहालमपि पातुमीशते नेतुमा भारणतामहीनपि ।। ५७ ॥
अन्या माध्यमपीतदेहपतनत्रासंघापालिता
देहेप्वेकपरिक्षयेऽपि भवतां त्राताऽस्मि देहाष्टकम् ।
अय्यन्ता इह संक्षिता दधत इत्यधै जगत्प्राणिनां
व्यक्तं वक्तुमिव प्रकाशिततनुं काश्यां भवं तं नमः ॥ ५८ ॥
सान्द्रानन्दपयोधिवर्धकविधु संसारविन्ध्याटवी-
दावामि सनकादितापसमनोधामप्रदीपाङ्करम्
वेदान्तोपवनान्तरालसततव्यापारकेलीशुकं
काशीकल्पलताफलं भज मनः कात्यायनीकागुकम् ॥ ५९॥
कान्तया सह शुमालकान्तया मूर्तयेच कृपयैकमूर्तये ।
सर्वदाय नतिरस्तु सर्वदा नाकिनेत्रमणये पिनाकिने ।। ६०॥
सेवित्वा चिरमचलात्मजासनाथं
विश्वेशं विसृमरसंपदान्तरङ्गम् ।
धन्योऽयं तदनु शनैःशनैरयासी.
दावासं त्रिभुवनमातुरनदायाः ॥ ६१ ॥
कृतावनतिरम्बायै सतामयतु(म)पश्चिमः ।
अपारकरुणामेनामुपातिष्ठत सूक्तिभिः ॥ ६२ ।।
इप्टातिथिं कृतकलामनसौरभेयी
मृष्टान्नहारमगनाभिमुखैरुदाराम् ।
सेवाकृतं मयि गृहं श्रियमावहन्ति
सौवानना पशुपतेरिह संनिधत्ताम् ॥ ६३ ॥ (8)
दर्वीशरावौ कृतकङ्कणाभ्यां संशिप्रती पाणिसरोरुहाभ्याम् ।
पट्टांशुकं पाटलमुद्वहन्ती काचित्पुरस्तात् करुणा] मगास्ताम् ।। ६४ ॥
त्वमन्नपूर्णापि कृशासि मध्ये श्यामासि संफुल्छजपाभिरामा ।
छन्दोवनस्थाप्यवनप्रसक्ता बन्दारुमन्दारलताप्यपर्णा ॥६५॥
१४८
काव्यमाला।
..........
....
निरस्तवेलानियम विमुक्तचिरन्तनागन्तुजनव्यवस्थम् ।
व्यसेपवेघ कृमिमेदचिन्त(१) मगात्मजे नौमि तवानदानम् ॥ ६६ ।।
अपोमिरप्टादशभेदशालिरसैरिह त्वामतिरञ्जयित्रीम् ।
न स्तोतुमीप्टे नलिनासहो(नो)ऽपि वाच रसैर्वासयिता तदर्थः ॥ ६७ ॥
आर्य मुहु केवलमर्थमन्नै पुष्णासि पाच न पुन कदापि ।
भवरस्वरूपप्रतिपादने किमत प्रयातीयमशक्तिमत्ताम् ।। ६८ ॥
प्राचीनवाचापि पर दुरापा त्वामीडितु यत्त्वरते रसज्ञा ।
निदानमस्मिन्भवदीयदर्वीनिवेशदिव्यानरसाभिलाप ॥ ६९ ।।
न स्तोति क्लृप्तान्नमयादिपोपा
सबिनतः सीयशरीरमान जनस्य का वा जगति प्रशसा ॥ ७० ॥
त्यामोपधिप्रस्थपतेस्तनूजा प्राचीनभिक्षाफपरिप्लवाक्षीम् ।
अकिंचनाप्रेसरमध्यगेया वय कथ विश्वसिमोऽन्नदानीम् ॥ ७९ ॥
न विद्यते पाकसमुद्यमस्ते नैकत्र (वा) मोकृजना मिलन्ति ।
जगत्रयीतृप्तिकर तथापि चिनीयते देवि तवानदानम् ॥ ७२ ॥
केलीकृते श्रीरिव सारस वा वाणीव पाणौ मणिवली वा ।
दधासि चेदम्ब विधूय दीं कथ त्रिलोकी कुशल लभेत ॥ ७३ ।।
वैषम्यशाली वलते जनेषु पदाजयो शारदयो प्रसाद ।
हिताशनेरेधयितु निलोफी दधे तु (1) जागर्तु तवाम्बिकाया ।। ७४ ॥
अवस्थिता मर्तुरमुक्तपार्श्वमार्तातिथीनामवन च भोज्यै ।
भवानि कर्तु यदतिप्रवीणा गुण फिलाय कुलपालिकानाम् ।। ७५ ॥
आर्तिस्पृशामन्च सुखासु(नु)भूते(ति)रापादि नानासिलदेहभानाम् ।
आहारदाने नियमस्तवायमय परेपामनघाय तते ॥ ७६ ॥
अपरोतापनगम्ब भोज्यै वर्तव्यमित्येव करोपि बुद्ध्या ।
तामाल्दिो (1) दासजनाभिपोपमावश्यफ प्राहुरधीश्वराणाम् ॥ ७७ ॥
खाध मिय सर्वमितीरयन्ती मृतरा वागपि सा मृव ।
आदिश्य किं पुप्यसि विश्वमन्ते समय सप्राप्तसमतकामा ॥ ७८ ॥
यात्राप्रबन्धः । कार्या न किं कान्तपदाजसेवा नास्ति श्रमः कापि न किंकरीति । अङ्गानि धन्ये सायमङ्गभाजां दर्वीमसंत्यज्य धृतां दधासि ॥ ७९ ॥ त्वमेव दर्दिधतः क्षुधार्तान्पुष्णासि भूयस्यपि दासलोके । खपुत्ररक्षाविपये सवित्री परत्र न प्रत्ययमादधाति ॥ ८० ॥ संतर्पयस्यम्ब सदान्नदानैरागन्तुलोकानपि पार(ल)यन्ती । आद्यस्य भिक्षोरनपायि नित्यं जानानि धिनार्तिजनप्रयासान् (2) ॥८१॥ भैक्ष्याय मातः प्रतिवीथि काश्यामितस्ततो यान्तमतिक्षुधा माम् । आहूये वत्सेत्यनुवेलमन्नैर्विधेहि सौहित्यविशेषभाजम् ॥ ८२ ।। दा प्रपञ्चे तव रक्ष्यमाणे विहाय चिन्तां रमते वृपाङ्गः । सधर्मिणी चेचरितानुरोधात्कुटुम्बिनः शर्म कुतस्ततोऽपि ।। ८३ ॥ प्रपञ्चमन्नैः परिपोपयन्त्यामार्य भवत्याममृतांशुमौलेः । भिक्षाटनं प्रामवजृम्भितेषु क्रीडाविभेदेषु गणेयमासीत् ॥ ८४ ॥ भ्रातु(मात)र्भवप्रार्थनदैवमिन्दोरग्लान्तकृप्ताश्रयणस्य कार्यम् । क्षेप्तुं भियोभिक्षुकृतां च मातः क्षमेतरा त्वं कथमन्नपूर्णा ॥ ८५ ॥ (१) अज्ञातमन्यैरमितान्नदानादैश्वर्यमैशं भवती न्यनः (व्यनक्ति)। प्रकाशमा प्रमदामुखेन प्रयाति गुप्तोऽसि(पि)मृशं किलार्थः ॥ ८६ ॥ आस्तां नि......"श्मशानं वस्तां त्वचं या विमु(वपु)रस्य भूतिम् । कथं विधत्तामखिलं किलेदं सत्यन्नपूर्ण तव संविधाने ॥ ८७ ॥ ईर्ष्या किमाशाय गिरं वितीर्य गणे सुराणां..... दिवानिशं देवि सुधान्नवृष्क्षा धिनोपि यधीण्यपि विष्टपानि ॥ ८८॥ जगन्मुखारोपणकपालं पतिर्दधावित्ययशः प्रमा?म् । फिमम्ब गृहासि करेण दवी प्रतिक्षणं विश्वजगप्रतीक्ष्याम् ॥ ८९ ॥ प्रैलोक्यकुक्षिभरिणा हरेण ताभ्यां च लम्बोदरपण्मुखाभ्याम् । अधिष्ठिते धामि तवान्नभूमा जयत्ययं देवि जनातिहारी।। ९० ॥ तयास्पदं दातुमरुद्गवीना(!)माक्रान्तमुद्यानममय॑सालैः । माभिचिन्तामणिभिः प्रणीतं विश्राणनेनास्य फिमम्ब भारः॥ ११ ॥ ........... .."तौधे । (:)
१५०
काव्यमाला।
.
.
सर्वातिथि(थी )स्त्वं खलु सर्वकालं निश्चिन्तमन्नानि दिशस्यपणे ।
न तत्र हेत्वन्तरमन्तरेण न्यग्रोधमालोग्रजपं प्रियं ते ।। ९२ ॥
मातर्विशालाक्षि महार्हचेललगङ्गरागप्रभृतौ स्वभूतिम् ।
सदोपयुङ्क्ते यदि शैलधन्वा कथं तदा ते घटतेऽन्नदानम् ॥ ९३ ॥
त्रैलोक्यसतर्पणदानजन्मा दूरे गिरी त्वत्सुकृतातिरेकः ।
आस्ते कपर्दी यदनुग्रहेण वेधोमुखामर्त्यविरामसाक्षी ॥ ९४ ॥
स्रष्टुं प्रतिष्ठापयितुं जगन्ति हतु तिरस्कर्तुमनुग्रहीतुम् ।
पितामहाद्याः प्रभवन्ति यत्ते सवित्रि दीविभवः स एषः ॥ १५ ॥
समाप्य नाथे सवनं द्वितीयमारब्धदीनागमनप्रतीक्षे ।
नवीनमनं नगजे भवत्या प्रदीयतां प्राघुणिकाय मह्यम् ।। ९६ ।।
अपास्य पाण्मातुरमर्धपीतवक्षोजमभ्यागतवत्सले त्वम् ।
आगत्य वेगादमृतौदनं मे पिनाकपाणिप्रमदे प्रदेहि ।। ९७ ॥
आनर्घमाणीकृशरापमध्यादातेन (१) कार्तखरदर्विफायाम् ।
भैक्षेण दाक्षायणि पावनेन गनोरथं पूरय मामकीनम् ॥ ९८॥
संतन्वतेय खमणीकलम्पटे."पूपदेशात्कृशतानुयोगात् । (१)
हस्तेन कात्यायनि हन्त कामं विश्राणय श्रान्तिविनोदनं मे ॥ ९९ ।।
हैयशवीनस्नुतिशालिहस्तनखंपचं नव्यसितानमार्यम् ।
करस्फुरत्काश्चनभाजनात्ते भवानि दिव्यं दिश पायसानम् ॥१०० ।।
दृशोऽनुकम्पारसदीर्घिकाया नीलारविन्दैरिव निर्जहानैः (१)।
अपाङ्गपातैरनुगृह्य मातरामोदयान्नैरिममन्नपूर्णे ॥ १०१॥
श्रान्तः क्षुधा सायमहर्मुखे वात्यन्नं दिश द्वारमुपैमि यावत् ।
शिञ्जानमञ्जीरपदं समेत्य प्रयच्छ मे पार्वति तावदन्नम् ॥ १०२ ॥
आविष्कृतप्रार्थनमप्यकाले वीतक्षुधं मां गिरिजे विधेहि ।
प्रतीक्षते किं पृथुको जनन्याः स्तन्यामृतासारसमृद्धिवेलाम् ॥ १०३।।
अवश्यकर्तव्यतयानुवेलं महान्ति कर्माणि सदा दिशन्ति ।
पर्याप्तमम्ब प्रतिपादयान्नं कर्तुं न किंचित्क्षमते युमुक्षुः ॥ १०४ ॥
यात्राप्रबन्धः। १५१ . नित्यान्नदे मे निजमूर्तिभारमचिन्तयित्वाशनमर्पयेथाः । आदाय दर्वी क्वचिदासिकायै जगजनन्याः समयः कुतस्ते ॥ १०५॥ दूरे क्षिपन्ती गुणदोपचिन्तामिष्टाशनैरेधय मामनव्यम् । निजे तनूजे किल निर्गुणेऽपि व्यनक्ति वात्सल्यभरं सवित्री ।। १०६॥ अन्नार्थिनं मां यदि चे नोपि कृपापराची गणये किमन्यत् । ॥ १०७॥ दीपायसभाजने कलयता युग्मेन हस्ताजयो- : रप्रत्यूहविभावितत्रिजगतीभिक्षाकनेत्रोत्सवा । वाचालाभरणं महानसगृहादन्नोपहारेच्छया निर्यान्ती परदेवता मम मुहुश्चिन्तापथं गाहताम् ॥ १०८ ॥ स्तन्यास्वादकृते निरुध्य पुरतः संतन्वते प्रार्थनां सेनान्ये सति पूर्वकायमसकृत् स्थित्या दिशन्ती स्तनौ । अखस्सेदपयाकां(णा)प्रणयिनो हस्तेन वादुमा(मा) मृष्टान्नार्पणमर्थिनां विदधती(ती)मेधा महा(या)लम्ब(व्य)ते१०९ मेरसेरमलीकचित्रकपरामर्शी श्रमाम्बोलवं दिव्यास्ते व्यजनानिलाद्धरचलोवंसं दधाना मुखम् (१)। चेतो मे न जहातु सा भगवती कृत्वातिथेयी कृपा- माशी[राशि]परा गिरीशवसति प्रत्यावजन्ती जनः ॥ ११०॥ दृढभक्तितरङ्गितक्रमामथ मश्यन्नधिकालि देवताः । अविगाढपरं मनोगिरामधितानन्दममन्दमास्तिफः ॥ १११ ।। आर्यश्वकसरोवगाहनियमैरश्रान्तयात्राक्रम- रला द्विजनीहितीविरचनैरावश्यकरध्वरैः । विद्याव्याकरणेश्च शिप्यसदसे विश्वेशमाराधयन् बापूलान्ययगोलिरावसदसी वाराणसीमृद्धिमान ॥ ११२ ।। प्रालेयाद्रिसुतासहायमजनप्रेमानुयन्धशशे विधाशीलविनीत.........."पो विशणनासरिने ।
. १५२ काव्यमाला । 20926 स्त्रैणपरामुखाय करुणामूर्ति "संविभ्रते मूर्धा संनतिमग्रजाय महते मोदान्मुहुः कुर्महे ॥ ११३ ॥ इति श्रीवाधूलकुलजलधिकौस्तुभसातिरानयाजिन. साहित्यगुरो. क्नकाठपाठ- विदाइस्य वेटेशसुमतिसहधर्मिणीमण्यनन्तम्मागर्भशुक्तिमुक्कामणे. समरपुङ्गवदीक्षितस्य कृती चम्पूकाव्ये यात्राप्रवन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वासः ।। वीतस्पृहाय विरजस्तमसे समस्त- शास्त्राश्रुतिस्मृतिविदे समदर्शनाय । सिद्धाशिपे भगवदविसमस्तभक्ति- सान्द्रप्रसन्नमनसे सदसे नमोऽस्तु ।। समाप्तोऽयं ग्रन्थः। VIDYA RATIYA (28126 LIBRARY