Asr,melkote

Mimamsa Koustubha Vol.3 Part 1

Khand-d'adeva · 2004/12/26

PDF Proofread

Front matter

No text on this page.

June ARMAmananewanapaikwanaskinnambaramandamananews wamsunsan washaalaanemenuine Randins-Manmolindian 4Mantrnamammelan CHOW KHAMBÁ SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO. 402. मीमांसाकौस्तुभः। । jaundi pati Ronstoreillersling L.; TIT:1867. (41 Riyhts Reserved.) ( मीमांसासूत्रोपरि काचन विस्तृता टीका ) (प्रथमाध्यायस्य द्वितीयः पादः ।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीविण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयमीमांसाप्रधानाध्यापकेन वेदविशारदबिरुदभाता पं० अ. चिन्नस्वामिशास्त्रिणा तच्छिष्येण श्रीपट्टाभिरामशर्मणा मीमांसा शास्त्रिणा च संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । MIMAMSAKAUSTUBHA [ An exhaustive Commentary of Jaiminisutras (II Padau of I Arthyaya ) KHANDADEVA. Edited by Peda. Visarada” Pandit A. Chinnaswami Sastri, Chief Professor of Mimamsa. Benares Hindu University and his pupil Sri Pattabhirama Sarma M S. Vol. III. HASCICULUS I-१. BY " - PUBLISIED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, Vidyaa Vilas Press, North of Gopal Mandir, Benctres. AASHIKARomamalnion 1981 Amrendererna wwwrentNEVANIRHarawwwwwwwwwwwwanam --------- Ramayananesamanaru- भ- MarPradustawraparra wnload * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबकः-४०२ Printed by Jui Krishna Das Gupta at the Vidya Vilas Press, Benares, श्रीः ॥ नमश्शिवाभ्याम् ॥ श्रीखण्डदेवविरचितः ॥मीमांसाकौस्तुभः॥ प्रथमाध्याये द्वितीयः पादः ॥ ( अर्थवादपादः) ( प्रथममर्थवादप्रामाण्याधिकरणम् ) विघ्नध्वान्तनिवारणकतरणिभक्तैकचिन्तामणि- विद्याकाननगाहनैकसरणिर्मच्चित्तभूषामणिः । भूयादेष कुतर्ककर्कशधियां हर्ताऽपहर्ता तथा मोहानां मुधियां सदैव सविता कात्यायनीशात्मजः॥१॥ बृन्दाविपिनविहारी गिरिवरधारी स्वकीयसुखकारी । मच्चित्तरङ्गचारी भूयान्नृत्याप्रियः कृष्णः ॥ २ ॥ शश्वबोधतरङ्गा विद्यागङ्गोत्तमाङ्ग यस्य । श्रीरुद्रदेवसंज्ञं जनकं वन्दे सदा स्फूत्यै ॥ ३ ॥ सूत्रम्-आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ॥ १-२-१. ॥ (पू) (विषयसंशयौ) "(१)सोऽरोदीघदरोदीत्तद्रस्य रुद्रत्वम्" १. तै. सं. १-५-१. पुरा कदाचित् देवा असुरैस्साकं युयुत्सवः कदाचिदस्माकं पराजये जीवनार्थमिदं भविष्यतीति मन्वानाः स्वनिक. टस्थममूल्यं वस्तुजातमन्नौ निधाय योद्धमगच्छन् । तत् दृष्ट्वा लो. অন্ন २ मीमांसाकौस्तुभः [ अर्थवादाधिकरण- "(१)वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इत्यादयोऽर्थवादा धर्माधर्मयोः प्रमाणं नवेति सन्देहः । (सङ्गतिः) अत्र लक्षणसङ्गतिधर्माधर्मयोः प्रमाणनिरूपणात सुलभैव । (२)यस्यापि मते वेदप्रामाण्यनिरूपणमध्यायार्थः, तस्याप्य- स्मिन्नधिकरणे तावत्सङ्गतिस्सुलभैव । पादसमनन्तरसङ्गतिस्तु विध्यतिरिक्तवेदवाक्यप्रामाण्यनिरूपणात् स्पष्टा ! नामधेयस्य च विध्यन्तर्भावस्य वक्ष्यमाणत्वान्नातिप्रसङ्गः । वाक्यपदेन वा पदरूपस्य नामधेयादेनिरासः । अनन्तरसङ्गतिरपि पूर्वाधिक रणे विध्यर्थमपि निरूपितेऽपौरुषेयत्वे कर्तृस्मरणाभावरूपयुक्ति. साम्यादर्थवादेषु प्रसक्ते तद्वदेव धर्मप्रमोत्पादकत्वमस्ति ? न. वा ? इति विचाराद्रष्टव्या ॥ ( पूर्वपक्षः) तत्राप्रमाणं धर्माधर्मयोरर्थवादा इति पूर्वः पक्षः । तथाहि. एते किं स्वातन्त्र्येण तयोः प्रमाणम् ? विध्येकवाक्यत्वेन वा ? भाकृष्टचित्तोऽग्निः तैर्वस्तुभिस्साकं पलायते स्म । युद्धे जयं प्राप्य प्रति निवृत्ता देवा अग्निमपश्यन्तस्तमन्विष्य कचित् लब्ध्वा स्वीयानि वस्तूनि ततोऽगृह्णन् इति पूर्वसन्दर्भः । एवं गृहीतः सोऽग्निः अरो. दीत । यस्मादरुदत तस्मात् तस्य रुद्रत्वम् , इति प्रकृतवाक्यार्थः। १. तै. सं. २-१-१. "वायव्यं श्वेतमालभेत भूतिकामः" इति विधि सन्निधिपठितोऽयमर्थवादः वायुःक्षेपिष्टा क्षिप्रगामिनी देवता । वैशब्दः प्रसिद्धौ। स्वेन भागधेयेन स्वसम्बन्धिना श्वेतपशुरूपेण हविषा यज मानस्तंप्रीणयति यदि स वायुः एनं यजमानं भूति प्रापयत्येवेत्यर्थः २. प्राभाकरमतमिदम् ।

पूर्वपक्षः] प्रथमाध्यायद्वितीयपादः ? आयेऽपि किं स्वशक्त्या ? (१)लक्षणाध्याहारादिभिर्वा ? ना. यः; सदसलूपसिद्धार्थबोधकत्वेन धर्माधर्मबोधानुत्पादनात् । न द्वितीयः, लक्षणादिकं हि तात्पर्यानुपपत्त्या वा स्यात् , अ. न्वयानुपपत्त्या वा ? न तावत्तात्पर्यानुपपत्तिः, धर्माधर्मतात्पर्य- कत्वस्य प्रमाणान्तरेणासिद्धेः। न चाध्ययन विधिनैवार्थज्ञाना. थत्वेनाध्ययनं विदधता निष्प्रयोजनार्थज्ञानस्य भाव्यत्वानुपप. त्तेः प्रयोजनवदर्थज्ञानार्थत्वमध्ययनस्य बोधयता अर्थवादानां ध. मधिर्मयोस्तात्पर्यमवगम्यते । अतश्च स्वरसतस्तेषां विधिवत्तद. नवाप्तेः लक्षणासिद्धिरिति वाच्यम् । अर्थज्ञानार्थत्वमध्ययनस्य लोकत एव सिद्धमिति तदंशे विधिवैफल्यात् । न चार्थज्ञाने उपायान्तरस्यापि पक्षे प्राप्तत्वादध्ययननियमांशे विधेरर्थवत्ता- स्त्विति वाच्यम् । नियमस्याप्यध्ययने तत्कार्ये वाऽर्थज्ञानेऽनु. पयोगेन विधिवयात् । न चावघातादिनियमवदपूर्वसाधनत्वो. १. अध्याहारोऽश्रुताक्षेपो व्यत्यासो व्यवधिः पदैः । मतो विपरिणामोऽसौ प्रकृतिप्रत्ययान्यथा । वाक्यान्यथात्वकरणं व्यव. धारणकल्पना । इति प्राचां सङ्ग्रहश्लोकस्सार्धः। तत्राध्याहारस्यो दाहरणम्-विश्वजिता यजेतेति । अत्र स्वर्गकामपदाध्याहारः॥ अश्रुताक्षेपस्योदाहरणम्-भाट्टमते शब्दादप्रतीतस्याप्यपूर्वस्याक्षेपः ॥ 'उपहूत उपह्वयस्व' इत्यत्र क्रमवैपरीत्येन पूर्वभागस्य सोमभक्षणार्थमा. ज्ञाप्रश्ने उत्तरभागस्याज्ञादाने विनियोगः । पदव्यवधानोदाहरणम्- "प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति" इत्यत्र ये प्रतितिष्ठन्ति प्रतिष्ठासन्ति ते एता रात्रीरुपयन्ति उपेयुः इति यच्छब्दस्य व्यवहि. तेन प्रतितिष्ठन्तिपदेनान्वयः ॥ विपरिणामस्याप्येतदेवोदाहरणम्, 'प्रतितिष्ठन्ति' 'उपयन्ति' इत्यनयोः प्रतितिष्ठासन्ति, उपेयुः इति विपः रिणामात् ॥ व्यवधारकल्पना तु-यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणानं चतुष्कपालान निर्वपेत्" इत्यत्र । अत्र हि उपक्रमे दातुरेवं प्रजापतेरिष्टिकरणावगमात् तदनुरोधेन प्रतिगृह्णीयात्' इत्यस्य दानार्थकता कल्प्यते ॥ लक्षणा तु सिद्धान्तिनोक्तैव ॥ ta ४ . ? मीमांसाकौस्तुभः [ अर्थवादाधिकरण- पयोगादर्थवत्ता । अध्ययनविधेरनारभ्याधीतत्वेन प्रकरणादपू- साधनत्वानुपस्थिते। न च(१) पर्णतादाविधाव्यभिचरितक्रतुसम्बन्धात्तदुपस्था- नम् , अर्थज्ञानस्य क्रतुं विनाऽप्यध्यापनादिद्वारा द्रव्यार्जनोपयो गसम्भवेन व्यभिचारात् । न च नियमस्य पुरुषार्थत्वकल्पनया स्वर्गार्थ पापक्षयार्थं वा बिधिरर्थवान स्त्विति वाच्यम् , एवमध्यध्ययन विधेरर्थज्ञानार्थत्वेना- ध्ययनविधाने व्यापारोऽस्ति ? न वा ? आये विध्यानर्थक्यम् । अन्त्ये अर्थवादानां प्रयोजनवदर्थतात्पर्यकत्वस्याध्ययनविध्य- धीनत्वाभावान्न तल्लक्षणासिद्धिः । एतेन "अनधीयाना व्रात्या भवन्ती" तिवचनादध्ययनाक- रणे प्रत्यवायावगतावपि भावनाया भाव्यापेक्षायां दृष्टत्वात्प्रयो. जनवदर्थज्ञानमेव भाव्यत्वेनाध्ययनविधिस्वीकरोतीसपास्तम् । अध्ययनविधेरर्थज्ञानभाव्यकत्वे तात्पर्यस्वीकारे लोकसिद्धत्वा. द्विध्यानर्थक्यम् । अस्वीकारे भावनाया लोकदृष्टनान्तरीयकतया अर्थज्ञाने भाव्यतया सम्बध्यमानेऽप्यर्थवादकृतं भृतार्थज्ञानमेव भाव्यतया सम्बध्येत, न प्रयोजनवदर्थज्ञानम् ; विधितात्पर्याभा- वात् । अतश्च लक्षणाया असिद्धिस्तदवस्थैव । किञ्च सत्यामपि लक्षणादिसिद्धौ अनेकेष्वर्थवादेषु लक्षणा- धपेक्षयाऽध्ययनाविधेरेबैकस्य अदृष्टार्थत्वकल्पनोचिता। आव. इयकं चाध्ययनविधेरदृष्टार्थत्वं (२)हुंफडाघध्ययनांशे। अत एवा. वैरूप्यादर्थवादांशेऽप्यदृष्टार्थत्वमेव कल्प्यम् । १ 'यस्य पर्णमयी जुहूर्भवति न स पाप श्लोक शृणोति' इति वाक्यविहितपलाशवृक्षीयत्वादिवदित्यर्थः । २ हुंफडादीनामर्थाभावादिति भावः ।

पूर्वपक्षः] प्रथमाध्यायद्वितीयपाद: न चैवं विध्यध्ययनस्याप्य दृष्टार्थत्वापत्तेस्तेषां धर्मे प्रामा- ण्यानापत्तिः, तदध्ययनस्यादृष्टार्थत्वेऽपि स्वशक्त्यैव विधीनां प्रयोजनवदर्थप्रमापकत्वरूपप्रामाण्योपपत्तेः अतोऽध्ययन विधिस्स्वार्थ पापक्षयार्थमेव वाऽध्ययनं विधत्ते, यथाश्रुतार्थज्ञा- नार्थ वा । अध्ययनमेव वा समानपदोपात्तत्वात् भावनामाव्यम- स्तु । न चैवमन्त्यपक्षद्वये प्रवृत्यनुपपत्तिः, अपुरुषार्थत्वादिति बाच्यम् । “अनधीयाना" इति वाक्ये नाकरणे प्रत्यवायबोधना. देव प्रवृत्तिसिद्धेः । एवंच सर्वथा नाध्ययनविधिस्तात्पर्यग्राहक इति सिद्धम् । तस्मान्न तावत्तात्पर्यानुपपत्तिलक्षणाबीजम् । नाप्यन्वयानुपपत्तिः । “वायुर्वै क्षेपिष्ठे" त्यादिपदार्थान्वय. स्योपपत्रतरत्वात् । यद्यपि "ग्रावाण: प्लवन्ते" "(१)यजमानः प्रस्तर" इत्यादिष्वन्धयानुपपत्तिाधर्मलक्षणाबीजं शक्यते व. तथापि धर्माधर्मयोनिधारणाभावः । ग्रावाणोऽपि प्लवन्ते अतोऽन्येन चेतनेन प्लवितव्यम् , अथ वा ग्रावाणोऽपि मूर्खा यत्र प्लवन्ते तत्राऽन्येन जानता कथं प्लवितव्यामिति । यदि तु निषे. धकल्पनातो विधिकल्पनायां लाघवं नियामकं शंक्येत, ततो "(२)न बाहुभ्यां नदी तरे" दित्यादिशास्त्रविरोधो वक्ष्यमा. गो दुष्परिहरः । तस्मादुभयथापि स्वातन्त्रयपक्षोऽयुक्तः । अथ विधिनिषेधैकवाक्यताबलेन प्राशस्त्यापाशस्त्यलक्ष- णया प्रामाण्यमुच्यते, ततो वाक्यस्वारस्येन भिन्नवाक्यत्वप्रतीते. नैकवाक्यत्व एव प्रमाणं पश्यामः । नचान्यत् प्राशस्त्यापाश- स्यलक्षणायां प्रमाणमस्ति । अध्ययनविध्यदृष्टार्थत्वस्य स्था- पितत्वात् । किश्च किमिदं प्राशस्त्यमपाशस्त्यं वा? तद्धि गुणवत्वं दो- १ ते. सं. १.७.४. प्रस्तरो दर्भमुष्टि विशेषः। २ मनुस्मृ.४.७. क्तुम् ।

६ मीमांसाकौस्तुभः [ अर्थवादाधिकरण- . षवत्त्वं वा तच्छब्दवाच्यत्वेन लोके प्रसिद्धम्, तद्यदि विधि- निषेधविषयत्वम् , इष्टानिष्टफलकत्वविशिष्टेतिकर्तव्यताकत्वं चा गुणदोषवत्त्वम् ? तदन्यतस्सिद्धत्वान्नार्थवादापेक्षम् । न च स्तु- तिनिन्दयोर्विधिनिषेधोपकारकत्वं सम्भवति, ताश्च इच्छानिच्छो. त्पादकत्वेन वा स्यात् ? प्रवृत्तिनिवृत्तिप्रतिबन्धकालस्योत्साहनि- वर्तकत्वेन वा? नाद्यः; विधिनिषेधाक्षिप्तेष्टानिष्टमूलकत्वादेव तत्सि- द्धेः। नान्त्यः प्रवृत्तिनिवृत्तिहेतुभूताविधिनिषेधाभ्यामेव तत्सिद्धेः। एतेन साक्षात्मवृत्तिहेतुत्वं प्रत्युक्तम् । अर्थवादोपात्तस्तुतिनिन्दा- भ्यामेव तसिद्धेः विधिनिषेधवेयर्थ्यशङ्का तु अर्थवादेभ्यस्स्वर. सतस्स्तुतिनिन्दयोरप्रतीतेः अध्ययनविधिवशेन च प्रयोजनव. स्वावगमेऽपि स्तुतिनिन्दालक्षकत्व एव प्रमाणाभावान्निराकर्तव्या। किञ्च सयपि विधेः प्राशस्त्यापेक्षत्वे निरर्थवादकविधौ विधेरेव प्राशस्त्यप्रतिपादने दृष्टशक्तिकस्य प्राशस्त्यपरत्वोप. पत्तौ नादृष्टशक्तिकार्थवादापेक्षणं युक्तम् । एवंचानपक्षितत्वाद- योग्यत्वाच्च विद्यमानोऽपि सन्निधि कवाक्यत्वकारणमिति न धर्माधर्मयोः प्रमाणमर्थवादाः । न च धर्माधर्मयोः प्रामाण्य सम्भवः, वायुक्षेपिष्ठत्वादीनां मानान्तरमाप्तत्वेनानधिगतार्थगन्तृत्वरूपमु. ख्यप्रामाण्यासम्भवात् । 'ग्रावाणः प्लवन्त' इत्यादौ याथार्थ्यल- क्षणस्याप्यसम्भवाच्च । तस्मादप्रमाणमर्थवादाः ॥ सूत्रं तु आम्नायस्य(१)तद्भूताधिकरणे अंशत्रयविशिष्ट- भावनारूपक्रियाप्रतिपादकत्वेन प्रामाण्यस्य स्थापितत्वात् , अत: प्रतिपादकानामर्थवादानां, आनर्थक्यम् प्रयोजनवदर्थराहि. त्यम् । तस्मादप्रमाणमेवंजातीयकमर्थवादजातमिति व्याख्येयम् ॥ यत्तु मूले आदावर्थवादमन्त्रनामधेयानां त्रयाणां सामान्य- १पू.मी. १-१-७. .

पूर्वपक्षः] प्रथमाध्यायद्वितीयपादः तोऽप्रामाण्यपूर्वपक्षं कृत्वा तथैव सिद्धान्तसूत्रे निराकरणं कृतं, तत् पृथगधिकरणे मन्त्रनामधेययोः पृथगप्रामाण्यस्य निराकरि- ध्यमाणत्वेन पुनरुक्तत्वादनुपयुक्तत्वाचोपेक्षितम् । मूले तु शि- ष्यशिक्षार्थ कृतमिति वेदितव्यम् ।। १॥ .. मू-शास्त्रदृष्टविरोधाच्च ॥ १-२-२ ॥ (पू) किञ्च 'वायुवै क्षेपिष्ठे त्यादौ धर्मप्रमानुत्पादनेऽपि स्वार्थेऽपि तावत्सत्यत्वानिश्चयः। 'सोऽरोदी'दित्यादावप्यतीतार्थकथनेन यो. ग्यानुपलब्ध्यभावान स्वार्थासत्यत्वनिश्चयः । "स्तेनं मनोऽनृत- वादिनी वागि" त्यत्र तु स्तेयमनृतवदनशीलत्वञ्च वाङ्मनस. योरुच्यमानं योग्यानुएलब्ध्या स्वार्थेऽप्यप्रामाण्यमापादयति । यदि त्वौपचारिक स्तेनशब्दलक्षितं प्रच्छन्नरूपत्वं मनसो, वा. चश्च • प्रायिकमनृतवादिनीत्वमनूयेत, ततो (१)भूतानुवादाद. प्रामाण्यम् । अथ तु प्रामाण्यलिप्सया पूर्वोक्तदूषणगणमभ्युपगम्याप्य. ध्याहारादिभिर्विधिः कल्प्येत-वाङ्मनसे अपि यतः स्तेनानृतवा. दिनी तस्मादन्येनापि पुंसा स्तेयं मृषोद्यश्च कर्तव्यमिति, तत्रा. प्य यमपूर्वविधिर्वा स्यात् ? परिसंख्याविधि; ?-द्रव्यानं वाग्व्य- वहार वा कुर्वन स्तेयातिरिक्तं मृषोद्यातिरिक्तञ्चोपायं न कुर्वीते ति । नियमविधिर्वा-स्तेयं मृषायश्च कुर्वीतैवेति । नायः; प्राप्ता. र्थवाद , स्वार्थत्वकल्पने च गौरवापत्तेः; 'स्तेयं न कुर्यात' 'ना- नृत वदे दियत्यादिशास्त्रस्यापूर्वविषयकत्वकल्पनाय संकोचरू- पबाधापत्तेश्च । न द्वितीय, दोषत्रयापत्तेः, परिसंख्याफलकत्व १ प्रमाणान्तरसिद्धार्थबोधकत्वेनाज्ञातज्ञापकत्वाभावादिति भावः।

मीमांसाकौस्तुभः [अर्थवादाधिकरण - की स्य सत्यां गतावन्याय्यत्वाच । 'ब्राह्मणः प्रतिग्रहादिना द्रव्य मार्जयेत्' 'सत्यमेव वदे'दित्यादिशाहाविरोधश्च तदवस्थः । एवं यद्यपि गौरवत्रैदोष्यभिया (१)ऋतौ भार्यामुपेया' दितिव. नियमविध्याश्रयणं, तथापि "स्तेयं न कुर्यो"दित्यादिशास्त्रविरो. धस्तदवस्थ एव । न च(२) ग्रहणाग्रहणवाद्वकल्पः, क्लुप्तकल्प्यत्वेन वैषम्यात् । नच(३) "न तौ पशौ करोती" तिवत् कल्प्यविधिप्रा- सेनापि क्लुप्तविधिविहितस्योपजीव्यत्वात् विकल्पोऽस्त्विति वा- च्यम् । तदिह निषेधस्य रागमाप्तस्तेयानृतवादोपजीवनेन कल्प्य- विध्युपजीवकत्वाभावात् । अतश्शास्त्रविरोधापत्तेरप्यप्रमाणम् । किञ्च “धूम एवाग्नेर्दिवा ददृशे नाग्निः" "आर्चिरेवाग्नेर्नक्तं ददृशे न धूम” इत्यादेष्टविरोधात् स्वार्थेऽप्यप्रामाण्यं निर्विवा- दम् । एवं तदुपपादकस्य-"दिवाग्निरादित्यं गतो रात्रावादि त्यस्त" मित्यस्यापि । अतश्च निरालम्बनत्वात्सिद्धान्त्यभिमे. तस्तावकत्वेन विध्येकवाक्यतापि दुरुपपादा । तथोदाहरणान्तरेऽपि "न चैतद्वियो ब्राह्मणास्स्मो वयमबा. ह्मणा वे" त्यत्र दृष्टविरोधः । ननु नायं दृष्टविरोधः,(४) "सवर्णेभ्यस्सवर्णासु जायन्ते हि सजातय" इत्यादिशास्त्रगम्यत्वाद्ब्राह्मणत्वादीनाम् । ब्राह्मण. गौ.ध. ५-१. अस्य नियमविधित्वं परिसंख्याविधित्वमित्युभ. यमप्यङ्गीकृतं शास्त्रकारैः । २ अतिरात्रे षोडशिनं गृह्णाति, नातिराने षोडशिनं गृह्णातीत्यत्र विहितप्रतिषेधातू यथा विकल्पः तथेत्यर्थः । ३ तौ आज्यभागी पशुयागे न करोतीत्यर्थः । अतिदेशस्य कल्प्य. त्वेन तत्प्रापितयोः आज्यभागयोः अतिदेशप्राप्तपदार्थविषयकेण निषेधेनात्यन्तबाधायोगात् विकल्प एवाङ्गीक्रियते तद्वदिहाप्यस्तु इत्याशाङ्कतुराशयः। ४याज्ञ. स्मृ.१.९० । १ पूर्वपक्षः] प्रथमाध्यायस्य द्वितीयः पादः । , मातापितृसम्बन्धानभिज्ञम्य चक्षुस्सन्निकृष्टेऽपि ब्राह्मणोऽयमि. त्यननुभवाच्च । न च ब्राह्मणमातापितसम्बन्धस्य ब्राह्मणत्वजा. त्यभिव्य अकस्यानुपस्थितेन क्षतिरिति वाच्यम् , नैवोत्पादकब्राह्म- णत्वजातिज्ञानस्य सहकारित्वम् , आमाश्रयापत्तेः । वस्तुतस्तु ब्राह्मणत्वादिजातावेव मानाभावः, विश्वामित्रादौ साङ्कर्यप्रसङ्गात् । अतो विशुद्ध मातापितृजन्यत्वं, (१)"शमो दमस्त. परशौच सत्यमिन्द्रियनिग्रहः । ज्ञानं विज्ञानमास्तिक्यं ब्राह्म कर्म स्वभावजम्" इतिस्मृतेर्वा शमदमादिजन्यादृष्टवत्वं ब्राह्मणत्वम् । तस्य च प्रत्यक्षागोचरत्वात् कथं दृष्टविरोधोदाहरणत्वमिति चेत्-न ब्राह्मणोऽयमित्यनुगत प्रतीत्या घटत्वादिजातिवत ब्राह्मणत्वादि- जातिस्वीकारे वाधकाभावात् । न च साङ्कर्यम् , विश्वामित्रे तप: प्रभावन ब्राह्मणाधिकृतकर्मधिकारोत्पत्तावपि (२)ब्राह्मणत्वजाते. रस्वीकारात् । एवं "मासेन शुद्रीभवति ब्राह्मणः क्षीरविक्रया. दि" त्यादावपि न शुद्रत्वादिजातिमत्ता । अत एव शूद्री. भवतीत्यभूततद्भाववाचिचिप्रययप्रयोगः । न चाभिव्यञ्जका. भावः, ब्राह्मणत्वजातिमन्मातापितृसम्बन्धजन्यत्वस्याभिव्यञ्ज. कत्वात् । एकत्वेऽपि चोत्पादकव्यक्ति सम्बन्धित्वनाभिव्यञ्ज- कत्वम् , उत्पाद्यव्यक्तिसम्बन्धित्वेन चाभिव्यंग्यतेति न विरोधः। तच्चाभिव्यञ्जकज्ञानं मातुः प्रत्यक्षेण, अन्येषां त्वाप्तोपदेशादिनेत्ये- तावान् विशेषः । न त्वेतावताऽभिव्यञ्जकज्ञानवतश्चक्षुषा ब्राह्मण स्वप्रत्यक्षे कश्चिद्धिरोधः । अत्र "(३)विन्नास्वेष विधिस्स्मृत" इतिवचनादभिव्यञ्जके १. भगवद्गी. १.८४. २. ब्राह्मणत्वादि. इति क. पु. ३. याज्ञ. स्मृ.१.९२. विनासु विवाहितास्वित्यर्थः । २ मी० को १० मीमांसाकौस्तुभे [अर्थवादाधिकरण- विवाहितपदं देयम् । तेन कुडिगोल कयोयभिचारोत्पन्नयोन ब्रा. ह्मणत्वमिति केचित् । वस्तुतस्तु गौरवापर्न विवाहितपददानम् । गोर्गव्युत्पन्नस्य गोवर ब्राह्मणाब्राह्मण्यामुत्पन्नस्यैव ब्राह्मणत्वोपपत्तेः । 'विना. स्विति वचनं तु (१)ब्राह्मणादिविहितकर्मानाधिकारमात्रप्रति. पादनपरम् । कुण्डगोल कयोस्तु सत्येव ब्राह्मण्येऽवान्तरसंज्ञाक- रणं कार्यविशेषविधानार्थम् । अत एव श्राद्धे(२) तयोनिषेधो ब्रा- मणत्वेन प्रसक्तत्वात् सङ्गच्छते । न चोक्तविधाभिव्यअकस्य मृ. टघायब्राह्मणे ऽभावादव्यापकत्वम् । अस्मन्मते प्रलयप्रतिपाद. कवचनानामर्थवादत्वेन सृष्टयादेरनङ्गीकारात् । यत्तु शमादिवचनं, तन्न शमादिजन्यादृष्टवत्वं ब्राह्मण- स्वमित्येतत्परम् , गौरवापत्तेः । नापि शमादीनां तदभि- व्य अकत्व परम , (३)शमादिमत्यदुष्टशूद्रे व्यभिचारात् । अतः मा. यिकयोतकत्वपरम् , शमाद्यधिकारविधानार्थं वेति द्रष्टव्यम् । तस्माद्राह्मणत्वस्य प्रत्यक्षसिद्धत्वात्तद्विरुद्धं "न चैतद्विन" इसा- दिवचनं स्वार्थेऽप्यप्रमाणम् । तथा “(४)को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेती" त्यादीनां स्वर्गसद्भावाज्ञानप्रतिपादना नस्वापि प्रा. माण्यम् ; "ज्योतिष्टोमेन स्वर्गकामो यजेते" त्यादिशास्त्रस्य ज्ञापकस्य सत्त्वेन शास्त्रविरोधात् । अत्र शास्त्रविरोधदृष्टविरोध. योरुदाहरणद्वयं (५)परिहार भेदात् प्रदर्शितम् । व्युत्क्रमश्च परि- १. ब्राह्मणाधिकारविहित. इति क. पु. २. शूद्रशिध्यो गुरुश्चैत्र वाग्दुष्टः कुण्डगोलको। म. स्मृ. ३.१५६. इति मन्वायुक्तो निषेधः इत्यर्थः । ३. शमादिमति दुष्टशूद्रे. इति. व पु. ४. तै. सं. ६-१-१ ५. परिहारहेतुभेदात् . इति क. पु. . .

पूर्वपक्षः] प्रथमाध्यायस्य द्वितीयः पादः। हारसूत्रक्रमानुरोधेन । तत्कारणं तु तत्रैव प्रदर्शयिष्यते ॥ सूत्रं निगदव्याख्यातम् ॥ २॥ सू-तथा फलाभावात् । ॥ १-२-३ ॥ (पू) (१)गर्गत्रिरात्रब्राह्मणं प्रकृत्य श्रूयते-"शोभतेऽस्य मुखं य एवं वेद" इति । अत्र गर्गत्रिरात्रब्राह्मणार्थज्ञानकाले उच्यमा नाया वर्तमानमुखशोभाया योग्यानुपलब्धिबाधितत्वात् स्वार्थेऽ प्रामाण्यम् । न हि तज्ज्ञानकाले मुखशोभा दृश्यते, आयासेन विपरीत शोषदर्शनात् । अथ ज्ञानफलानुवादः, तदपि प्रत्यक्षवि. रुद्धम् , तदानीमजायमानत्वात् । न च कालान्तरे भविष्यती. त्यत्र (२)प्रमाणमस्ति । नच 'शोभत' इत्यस्यैव विभक्तिव्यत्य. येन भविष्यदर्थकत्वं परिकल्प्य रात्रिसत्रवत्फलपरत्वसम्भवः, ज्ञानस्य गर्गत्रिरात्रानुष्ठानयोग्यतासंपादनद्वारा तत्कर्तृसंस्कार. स्य (३)तीर्थे स्नाती' त्यादिवत्परार्थत्वेन प्रयोजनानाकाङ्क्षत्वा स्फलपरत्वकल्पनानुपपत्तेः । अतश्च पर्णमयीन्यायेनैवास्य फल. कल्पकत्वासम्भवादप्रामाण्यम् । न च तेन पौनरुत्यम्-एतत्सूत्रे फलपरत्वासम्भवेनानर्थक्यमाशंक्यते,, तत्र तु फलपरत्वासम्भ. वेनैवार्थवादत्वं सिद्धान्त्यत इत्यदोषः ।। सूत्रं निगदव्याख्यातम् ॥३॥ १. गर्गत्रिरात्रो नाम त्रिसुत्याकोऽहीनविशेषः। गर्गत्रिरात्रेण प्र. जाति भूमानं गच्छत्यभिस्वर्गलोकं जयति ( आप.श्री. २२-१५-१.) इति विहितः। २ नियामकं इति क.पु. '३ तै. सं. ६-१-१ ज्योतिष्टोमप्रकरणे विहितस्य तीर्थस्नानस्य यथा तदीयकर्तृसंस्कारद्वारा ज्योतिष्टोमाङ्गत्वात् न स्वतन्त्रफलापेक्षा तद्वदित्यर्थः । तीर्थस्नानस्य क्रतुयुक्तपुरुषसंस्कारद्वारा क्रत्वङ्गत्वं तु. तीयाध्यायचतुर्थपादे सिद्धान्तितम् । यत्र ऋष्यादयो महात्मानो नि- यमेन स्नान्ति सोऽवतारदेशस्तीर्थमित्यभिधीयते ।

१२ मीमांसाकौस्तुभे [अर्थवादाधिकरण- सू-अन्यानर्थक्यात् । ॥ १-२-४ ॥ (पू) "पूर्णाहुत्या सर्वान् कामानवाप्नोति" "पशुबन्धयाजी सर्वान लोकानभिजयति" "तरति मृत्यु, तरति पाप्मानं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेद" इति । अत्रापि पर्णमथ्यधिकरणन्यायेन पूर्णाहुतेराधानाङ्गभूतकर्म रूपत्वात् प्रयाजादिवत्प्रयोजनानपेक्षत्वम्। (१)मूले तु अग्निसंस्का. रकत्वान्न तदित्युक्तम् । पशुबन्धस्यापि ज्योतिष्टोमाङ्गभूतकर्मरूपत्वा- देव न फलापेक्षत्वम् । अश्वमेधज्ञानस्य तु गर्गत्रिरात्रब्राह्मणज्ञान- वत् कर्तृसंस्कारकत्वादेव प्रयोजनानपेक्षत्वम् । अतश्चानपेक्षत्वा- देवतेषां फलकल्पकत्वासंभवः । अभ्युपेत्यापि तु फलकल्पक कत्वं प्रामाण्य उच्यमाने यदि तावत्स्वतन्त्रफलार्थत्वं ततो वा. क्येन कल्प्येन प्रकरणावगतक्रत्वर्थत्वबाधः । (२)अथायुरादिव- दानुषङ्गिकफलार्थत्वं, ततः पूर्णाहुत्यादिनैव सर्वकामावाप्ती जा- तायां तदुत्तरभाविनां क्रतुविधीनामानर्थक्यप्रसङ्गः । न हि पूर्णा- हुतिमग्न्युत्पादकाधानाङ्गभूतामकृत्वा अग्निसाध्येषु कर्मस्वधिका. १. भाष्यकारेण-पवमानेष्टीनां नाधानाङ्गत्वम्, किन्तु आधानवत् साक्षादेवाग्निसंस्कारद्वाराऽग्न्यङ्गत्वम्-इत्युक्तम् । २. दर्शपूर्णमासप्रकरणे-"सूक्तवाकेन प्रस्तरं प्रहरति" इति वा. क्येन सूक्तवाकाख्यमन्त्रकरणकं प्रस्तरप्रहरणमाम्नानम् । सूक्तवाको नाम "इदं द्यावापृथिवी भद्रमभूत्" इत्यनुवाकपठितो मन्त्रविशेषः। प्रस्तरो वेद्यां हविरासादनार्थ मास्तरितो दर्भमुष्टिः। प्रहरणं अग्नौ प्रक्षेपः। तत्र "आयुराशास्ते, सुप्रजास्त्वमाशास्ते," इत्यादय आयु. रादिप्रार्थनारूपा आन्नाताः प्रस्तरप्रहरणस्य दर्शपूर्णमासाङ्गभूतत्वात तदुपकारकत्वं विमानान्यत् पृथक् फलं तस्य, तथापि तन्मन्त्रप्रतिपा. घानामायुरादिफलानामपि आनुषङ्गिकतया प्रस्तरजन्यत्वमङ्गीकि. यते, तदिति भावः।

पूर्वपक्षः ] प्रथमाध्यायस्य द्वितीयः पादः । रस्सम्भवति । न चाग्नीषोमीयमकृत्वा ज्योतिष्टोमे साङ्गतास्ति । अश्वमेधज्ञानं विना चाश्वमेधाकरणमसामर्थ्यात् स्पष्टम् । अतश्च पूर्वभाविभिः पूर्णाहुत्यादिभिरेव तत्तत्फलावाप्तौ तदुत्तरभाविना ऋतुविधीनामानर्थक्यप्रसङ्गो दुर्वारः ॥ (१)सूत्रं निगदव्या- ख्यातम्॥ सू-अभागिप्रतिषेधात् ॥ १-२-५ ॥ (पू) "न पृथिव्यामग्निश्चेतव्यो नान्तरिक्ष न दिवी"त्यत्रान्त- रिक्षे दिवि वा तावच्चयनस्यामाप्तत्वान्न प्रतिषेधयोग्यत्वम् । एवं पर्युदासोऽपि निराकर्तव्यः अनन्तरिक्ष अदिवि च पृथिव्यां चयनस्य नित्यप्राप्तत्वात् । पृथिवीच यनप्रतिषेधोऽपि चयन विधेः मामाण्ये ऽप्रामाण्ये वोभयथाप्यनुपपन्नः। न हि चयनं कुर्वता पृथि. वीचयन(२)प्रतिषेधार्थश्शक्यते सम्पादयितुम् । अकुर्वतस्तु प्राप्त्य- भावादेव प्रतिषेधवैय्ययम् । एवं पर्युदासानुपपत्तिरपि द्रष्टव्या। अतो नामान्तरेण चयनप्रतिषेधार्थमेव तदित्यङ्गीकर्तव्यम् । त- थाच तद्विधिवैय्यर्थ्यमपि । न च(३)ग्रहणाग्रहणवत् पाक्षिक- त्वसिध्यर्थः प्रतिषेधोऽर्थवान् स्यादिति वाच्यम् । (४)पशुकाम- श्चिन्वीत' "प्रजाकामश्चिन्वीते" त्यादिवाक्य(५)रनेः काम्यत्वा. वगमादेव पाक्षिकत्वसिद्धेः प्रतिषेधवैफल्यात् । न चैतैर- नेः काम्यत्वावगमेऽपि “अथातोऽग्निमग्निष्टोमेने" यादिवचन- १. सुत्रं नियन्त्रितम् । इति क. पु. २ निषेधार्थः इति क.पु. ३. अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति'इति धाक्यद्वयं श्रूयते । तत्र पूर्ववाक्यविहितस्य षोडशिग्रहणस्य पाक्षिक- स्वासिध्यर्थ प्रतिषेध उत्तरवाक्येन क्रियते तद्वदिहापीत्यर्थः । ४. ते. आ.१-२६-४. ५. इष्टकोपधानसम्पादितस्थण्डिलविशेषोऽत्राग्निपदार्थः ।

मीमांसाकौस्तुभे [अर्थवादाधिकरण- अत (१)स्संयोगपृथक्त्वन्यायेन क्रत्वर्थत्वस्यापि वक्ष्यमाणत्वात् तस्य पाक्षिकत्वार्थ प्रतिषेधोऽर्थवानिति वाच्यम् । उत्तरवेदिमात्रेणापि निरनिकस्यापि क्रतुप्रयोगस्य "ते यद्यग्निं चेष्यमाणा भवन्ती"ति सत्रे(२) समारोपणकालादिगुणविधिपरे वाक्ये सिद्धवत्पाक्षिक त्वानुवादादिभिलिङ्गै(३)देशमे वक्ष्यमाणत्वात् । एव (४)अग्निं सोमाङ्गमिच्छता" मिति कात्यायनोऽप्युक्तवान् । सा. निके प्रयोगे परं(५) "उत्तरचेद्यां ह्यग्निश्चीयत" इति वचनाद. ग्न्युत्तरवेद्योस्समुच्चयस्सङ्कर्ष उक्तः। न स्वेतावता क्रत्वर्थस्याग्ने नित्यत्वम् । अतश्चानेः पाक्षिकत्वस्य सिद्धत्वाचमाप्त्यर्थ प्रति. षेधानर्थक्यम् । किश्च पृथिवीचयननिषेधस्य चयन क्रियायां कल्प्यत्वेन क्लुप्तचयनविधेः पाक्षिकत्वापादनायोगः । अत एवं- जातीय स्वार्थेऽप्यप्रमाणम् । अप्रतिषेधभागित्वादिति सूत्रार्थः।। सू-अनित्यसंयोगात् ॥ १-२०६॥ (पू) (६) "बबरः प्रावाहणिरकामयत वाचः प्रवदिता स्यामिति" इत्यत्र स्वार्थपरत्वे अनियसंयोगः परं प्रसज्येत । न ह्यनित्यं बबरनामानं पुरुष प्रतिपादयतो वेदस्य स्वार्थे प्रामाण्यं सम्भ- रति, आदिमत्तादोषपसङ्गात् । यद्यपि च "(७)परं तु श्रुतिसा. मान्य मात्र" मित्यत्र एतदोषपरिहारार्थ बबरादिशब्दानां नित्य- सिद्धवावादिपरत्वमुक्तम् , तथाप्यत्रार्थवादानां कथमपि प्रामा- १. एकस्य तूभयत्वे संयोगपृथक्त्वम् , इति न्यायः। एकस्य कर्मणो दध्यादेद्रव्यस्य वोभयोदेशेन विधायकं वाक्यद्वयं यत्र स संयोगपृथक्त्वन्यायः । २. समारोप. इति ख. पु. ३. १०-३-८ ४. का.श्री. १६-१,२. ५. ते. आ. १. २६-३. ६. तै. सं. ७-२-१०-२. ७. पू. मी. १-१-३१.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । प्ये निराकृते बबरादिशब्दानां श्रौतार्थत्यागकारणाभावान लक्षणया वाय्वादिपरत्वं युक्तमाश्रयितुम् । अतश्चानित्यसंयोग- प्रसङ्गरतदवस्थ एवेत्याक्षिप्यते । सूत्रं निगदव्याख्यातम् ॥ ६ ॥ तस्मादप्रमाणर्थवादा इति पूर्वः पक्षः ॥ सू-विधिना त्वेकवाक्यत्वात स्तुत्यर्थेन विधीनां स्युः ॥ १-२-७ ॥ (सि) ( सिद्धान्तः) तुशब्दः पूर्वपक्षव्यात्यर्थः । सत्यमर्थवादानां न स्वार्थव. स्या धर्माधर्मप्रमोपयोगसम्भवः, प्राशस्त्यलक्षणया विध्येकवा. क्यत्वेन तदुपयोगस्तु दुवारः । तत्रापि प्राशस्त्यलक्षणायां यद्य. पि नान्वयानुपपत्ति/जम्, तथाप्यध्ययनविध्यवगततात्पर्यानुप- पत्तिरेव बीजम् । तथा हि-"स्वाध्यायोऽध्येतव्य" इत्यत्र(१०) "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च" इति स्मृत्या तव्यप्रत्ययस्य प्रैषवाचित्वात् (११)श्रेषस्य च प्राप्तविषयत्वप्रवर्तनात्मकत्वसमुदा. यरूपत्वात्, ब्राह्मणे च प्राप्तविषयत्वासम्भवेन समुदायासम्भवेऽपि तदेकदेशलक्षणया तव्यप्रत्ययेन प्रवर्तनाऽभिधीयते । तस्याश्च प्रत्यनुकूलव्यापाररूपत्वात् प्रवृत्तिरूपार्थभावनापि तेनैवाक्षि. प्यते । तस्याश्च भाव्यापेक्षायां कर्मोत्पन्नतव्यप्रत्ययोपात्तमत्व- स्य स्वाध्यायस्य भाव्यत्वेनान्वये जाते अध्ययनस्य(१२)भावा- र्थाधिकरणन्यायेन करणत्वेनान्वयः कल्प्यते । स्वाध्यायस्य १ पा. सू. ३-३-१६३. २. प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रापणं सर्वविधित्वं प्रतिपद्यते ॥ ३. पू. मी. २. १. २.

w मीमांसाकौस्तुभे [अर्थवादाधिकरण- चाध्ययनं प्रत्युत्पाद्यत्वरूपकर्मत्वासम्भवादाप्यत्वरुपं तदाश्री- यते । ततश्चाध्ययनेनाक्षरग्रहणद्वारा स्वाध्याय प्राप्नुयादित्यर्थः । निष्प्रयोजनस्य च स्वाध्यायस्य कर्मत्वानुपपत्तेः प्रयोजनाका- क्षायां दृष्टसम्भवे Sष्टकल्पनानुपपत्तेः स्वाध्यायजन्यं दृष्टमर्थ- ज्ञानादिप्रयोजनमाश्रीयते । नचैवं संस्कारविध्यन्यथानुपपत्या प्रयोजनकल्पनायां (१)स- क्तुष्वपि तदापत्ति प्रयोजनस्येह सामर्थ्य लभ्यत्वेनाकल्प्यत्वात् । अतश्च यथावघातादेरपूर्वसाधनीभूतव्रीहिवितुषीभावरूपसंस्का- रार्थस्याप्यपूर्वार्थत्व एव विधेस्तात्पर्यम् , तथाऽध्ययनस्याप्यर्थ- ज्ञानादिसाधनस्वाध्यायाक्षरग्रहणरूपसंस्कारसाधनस्यार्थज्ञानाद्य- र्थत्व एवाध्ययनविधेस्तात्पर्यम् । एवंच निष्प्रयोजनार्थज्ञानस्य प्रयोजनवासम्भवात् प्रयोजनवत्तामर्थस्य स्वाध्यायविधिरवबोध- यति । एवंचार्थवादानां (२)वाच्यार्थस्य निष्प्रयोजनत्वात्तदस- म्भवे लाक्षणिकस्यापि प्राशस्त्यस्य गौणसामर्थ्य लभ्यत्वेन ह. तृत्वात् तत्परत्वं स्वाध्यायविधिबलादवगम्यते । यत्तु वार्तिके-साक्षादध्ययनस्यैवार्थज्ञानभावनाकरणत्वमुक्त्वा अर्थवादानां प्राशस्त्यलक्षणोपपादिता, तद्वलेन च भवदेवेनाध्य. यनस्यार्थकर्मत्वं, स्वाध्यायस्य तु सक्तुन्यायेन विनियोगभङ्गं परिकल्प्याध्ययनार्थत्ववेत्त्युक्तम्, तन्न-उक्तविधया संस्कारक मत्वोपपत्तौ विनियोगभङ्गे प्रमाणाभावात् ; वार्तिककृता तु स्थला. न्तरे(३) बादर्यधिकरणादौ संस्कारकर्मत्वस्याप्युक्तत्वादतिशया- थमत्रार्थकर्मत्वमुक्तम् । यस्त्वस्मिन् पक्षे स्वाध्यायस्य संस्कार्य- १. "सक्तून् जुहोति" इत्यत्र द्वितीयाश्रवणेऽपि सक्तूनां भूतभाव्यु. पयोगाभावेन कर्मत्वासम्भवात् द्वितीयायाः करणत्वलक्षकत्वमङ्गीक. त्य लक्तुकरणकहोमविधिरेवाङ्गीकृतो द्वितीये, तद्विरुध्येतेति भावः । २ वाक्यार्थस्य इति ग. पु.। ३. पू. मी. ३-१-३.

सिद्धान्तः प्रथमाध्यायस्य द्वितीयः पादः । त्वेनोद्देश्यत्वात्तद्विशेषणस्यैकत्वस्याविवक्षापत्तेः शाखान्तराधि- करणवानिकव्युत्पादितैकशाखाध्ययनविरोधपसङ्गः, स चैकत्वा- विवक्षायामपि स्वाध्यायपदे स्वशब्देनात्मीयवाचिना पि- त्रादिपरम्परया आगताया एव शाखायाः कर्मव्युत्पत्या वाच्य- त्वावधारणात् अनेक शाखाध्य यने च स्वशब्दवैयापत्तेः “अ. ध्वर्यु वृणीत" इतिवच्चार्यज्ञानार्थताद शायामुपादेयत्वेनैकत्ववि- वक्षोपपत्तिरित्येवं तचैव निराकरिष्यते । यत्तु पूर्वपक्षवादिना प्रयोजनवदर्थज्ञानार्थत्वेऽध्ययनस्य लो. कत एवं प्राप्तत्वाद्विध्यानर्थक्यमुक्तम् , तत्र भवदेवः-शाब्दबोध. त्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वमन्वयव्यतिरेकसिद्धम् ; असयामपि शब्दशक्तौ सति तात्पर्यज्ञाने गौरश्वः, पुरुष, इयत्रा. ध्याहारादिना गौर्दुद्यताम्, अश्वो गच्छति, पुरुषो वर्तते इत्येवं शाब्दबोधदर्शनात् , सत्यापपि च तस्यामसति तात्पर्यज्ञाने ना. नार्थस्थले(१)नार्थविशेषावधारणम् , तेन शब्दोच्चारणमात्रं शब्द. वृत्तिज्ञानमात्रं वा नार्थबोधजनकम्, (२)किन्तु तात्पर्यज्ञानसहकृतं तत् , तच्च लोके पुरुषाशयवशादुन्नीयते, वेदे तु तदभावादर्थज्ञा. नोद्देश्यकाध्ययनविधिवशादेव तात्पर्य मुन्नेयम् । अतश्च विधिवा- क्यानामप्यध्ययनविध्यभावे सति नैवार्थपरत्वमिति अध्ययन- विधिरेव सकलस्य वेदस्यार्थतात्पर्यनिश्चायक इति न सत्यपि दृष्टार्थत्वे विधिवैफल्यमिति । (३) अध्ययनविधिना इतरे सर्वे वि- घायकास्स्वात्मा च विनियुज्यते" इति(४)यथाश्रुतवार्तिकग्रन्था- . १ अर्थविशेषानवधारणं इति ग. पुस्तके । २ एवं च तात्पर्य इति क. पु.। ३ तं. वा. पू. १३. पं. २० ४ यथाश्रुनेति नास्ति क. पुस्तके । ३ मी० कौ० भीमांसाकौस्तुभे [अर्थवादाधिकरण- (१)दप्ययमों निश्चीयते-इति । न त्वेतद्युक्तमिव-शाब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञा- नस्य कारणत्वे शुकादिवाक्याव(२) निस्तात्पर्यकाच्छाब्दबोधा. जापत्तेः । अतो लक्षणादिजन्यशाब्दबोधे नानार्थस्थले च तस्य कारणत्वं न सर्वत्र, व्यभिचारात् । न चैककार्यकारणभावक- ल्पनालाघवेन शाब्दबोधत्वावच्छिन्नं प्रति कारणत्वेऽवधृते शुकादिवाक्येऽपीश्वरतात्पर्यज्ञानं शब्दनिष्ठधर्मविशेषरूपतात्पर्य- ज्ञानं वा कारणत्वेन कल्प्यतामिति वाच्यम् ; तात्पर्यज्ञानस्याने- कार्थबोधकपदजन्यशाब्दबोधत्वावच्छिन्नं प्रति कारणत्वकल्पने- ना(२)स्मन्मतेऽपि लाघवस्याविशिष्टत्वात् । अस्तु वा सर्वनैव कारणत्वं, तथापि शुकादिवाक्यस्थले तात्पर्यग्राहकाभावेन बो- घानुपपत्तिरनिवाथैव । अथ तत्र शब्दस्वभावादेव तात्पर्यमनुमाय बोधः, तदा प्रकृतेऽपि दीयतां दृष्टिरित कृतमध्ययनविधिना । किंच अध्ययन विधेरर्थज्ञानतात्पर्यकत्वे किमन्यवाहकमिति या गतिस्तस्य साऽन्येषामपि विधीनामिति न किंचिदेतत् । अत एवं परिहर्तव्यम्-सामर्थ्यापेक्षया प्रयक्षश्रुतेश्शीघ्रप्रवृत्तत्वेनावघाता. दिवदध्ययनविधिरनधिगतमेव प्रयोजनवदर्थज्ञानार्थत्वमध्यय- नस्यावबोधयति , तत्फलं चार्थवादेषु प्राशस्त्यतात्पर्यकत्वबोधः। यद्यपीदं फलं विधिषु न सम्भवति, अध्ययनविध्यभावेऽपि विधिषु शब्दस्वभावादेवार्थतात्पर्यकत्वावधारणसम्भवात् , तथाऽप्यर्थवादेष्वेव सम्भवन्नासति बाधके त्यक्तुं युक्तम् । सर्व- साधारण्येन तत्फलं त्वध्ययनविधिसिद्धार्थज्ञानवत एव पुंसो लाभात् क्रतुविधीनां ज्ञानाक्षेप शक्तिकल्पनानुपपत्तेरुपायान्तर- १ अप्ययमर्थोऽवगम्यत इति निश्चीयते इति क. पु.। २ असत्तात्पर्य इति क. पु. ३ अस्मिन् मते इति क. पु.

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । १९ नितिफलका(१)ध्ययननियमः । एतद्विध्यभावे हि क्रतुविध- योऽनुष्ठेयार्थज्ञानार्थ पक्षे पुस्तकपाठायुपायान्तरमप्याक्षिपेरन् । अतस्तव्यावृत्त्या नियमफलकत्वमध्य यनविधेरुपपन्नमेव । न च येनापि त्रैवर्णिकेन नित्यत्वावेदकप्रमाणाभावान्नार्थज्ञानं सम्पा- दितम् , तद्विषये कथं तश्यावृत्तिसिद्धिः "अनर्धायाना वासा भ- वन्ति"(२)"स्थाणुरयं भारवाहः किलाभृदधीत्य वेदं न विजाना- ति योऽर्थम्" इत्याधकरणनिन्दाश्रवणोनीतविधिबलेन नित्य- स्वप्रतीतेः । अतस्साधारण्येन नियमफलकत्वेऽपि अर्थवादादिषु प्रयोजनवदर्थतात्पर्यकत्वेऽपि न काचित्क्षतिः । वार्तिकं तु सिद्ध्य. दपि प्रमाणान्तरेण विधिषु प्रयोजनवदर्थपरत्वमध्य यनविधि- बलेनाऽपि सिद्ध्यतीत्येतदर्थम् । यत्तु स्तोभायंशे अदृष्टार्थत्वादितराशे चार्थज्ञानार्थत्वे अपू- विधिनियमविधित्वकृतवैरूप्यापत्तिरित्युक्तम् , तन्न: स्तोभाना- मपि सोमभागपरिपूरकत्वेन दृष्टार्थस्वस्य (३)नवमे वक्ष्यमाणत्वान्न तदंशेऽपूर्वविधित्वम् । अतश्च दृष्टत्वेन भाव्यत्वानुगमादर्थज्ञानं सामभागपरिपूर्तिश्चैत्यनेकोद्देश्यताऽप्यनाशंक्या । यत्वकरणे प्रत्यवायभियैव प्रवृत्तिसिद्धेरध्ययनमेव भाव्य- मस्तीत्युक्तम् , तत् तव्यप्रत्ययेन स्वाध्यायस्य कर्मत्वोक्तेरपास्तम् । अवशिष्यते तु स्वाध्यायद्वारा यथाश्रुतार्थज्ञानस्यैव भाव्यत्वम् ; त वेवं. निराकर्तव्यम्-व्रात्यताबोधकवाक्येनाध्ययनस्य गृहीतपद- पदार्थसङ्गतिकस्य 'स्थाणुग्यं भारहारः' इति वचनाच्च यथाश्रु. तार्थज्ञानस्याप्यावश्यकत्वबोधनादेव प्राप्त्युपपत्तेरेतद्वाक्यानर्थ- क्यप्रसङ्गात् अनेन वाक्येन प्रयोजनवदर्थज्ञानसाधनीभूतस्था- १ अध्ययनविधिनियम इति क. पु. २.निरु. ३. पू. मी. ९. २. ५.

मीमांसाकौस्तुभे [अर्थवादाधिकरण- .. ध्यायोद्देशनैवाध्ययनं विधीयत इति । तेन सिद्धाऽध्ययनवि- ध्यनुरोधेनार्थवादेषु प्रयोजनवदर्थान्तरलक्षणा । तच्चान्तरं स्तु. तिनिन्दारूपमेवेति विधिनिषेधापेक्षितत्वानिीयते । कथम्?-स. वत्र हि चेतनप्रवृत्तिः कचित्स्वेच्छया कचित्परप्रवर्तनाजनितयेच्छ. येत्यविवादम् , तद्यत्र शब्दश्रवणोत्तरं प्रवृतिः, तत्र परस्य प्रवर्त. नेन प्रवर्तकत्वं निश्चीयते । प्रवर्तना चेयं पुरुषप्रवृत्तिहेतुः प्रवर्त- यितुर्धर्मः, प्रवयितृधर्मत्वाभावे 'देवदचो मा प्रवर्तयति न यज्ञ- दत्त' इति व्यवस्थानुपपत्तेः । अथास्य प्रवर्तनाज्ञापनमात्रेण प्रवर्तकत्वं, नाश्रयत्वेन, ततो 'देवदत्तस्त्वां प्रवर्तयती'तिवाक्यप्रयोक्तुः यज्ञदत्तस्य प्रवर्तकत्वा- पत्तिः। लोके चाहमेनं प्रवर्तयामीति प्रवर्तयितुरनुभवात्तद्धर्मत्वम् । अत्र चाचार्यत्वादेः प्रवर्तयितुर्धर्मत्वेऽपि प्रवृत्तिहेतुत्वा- भावादाचं विशेषणम् । धर्मपदञ्च समवेतत्वपरम् , अतश्च कोकनिन्दादेः प्रवृत्तिहेतुत्वेऽपि प्रवर्तयितृपुरुषसमवेतत्वाभावा- दपरम् । पुरुषप्रवृत्तिश्च परसमवेता विवक्षिता । तेनाचार्यसमवे. तफलस्य दुग्धपानादेर्गामानयेतिवाक्योच्चारणानुकूलाचार्यनि- ष्ठप्रवृत्तिहेतुत्वेऽपि शिष्यप्रवृत्तिहेतुत्वे प्रमाणाभावान्नातिप्रसङ्गः । स च धर्मों लोके प्रैषादिरूपः पुरुषाशयविशेषः, वेदे तु (१)तदभा. बाल्लिङादिनिष्ठ एव कश्चित्कल्प्यः। प्रैषादीनां हि प्रवृत्तिहेतुत्वमा. चार्यप्रेषितोऽहं गामानयामात्यनुभवसिद्धम् । हेतुत्वं चात्र न जनक. त्वं प्रमाणाभावात , अपि तु प्रयोजकत्वं, तच्च प्रवृत्तिकारणीभू. तेष्टमाधनताज्ञानजनकज्ञानविषयत्वम् । प्रवर्तनारूपस्याशयादे- ज्ञानेनेष्टसाधनत्वानुमानात् । अतो युक्तं प्रैषादीनां निरुक्तम. तिहेतुत्वम् । १. पुरुषाभावात् इति क. पु. , - सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः। २१ कम्, अतश्च प्रवर्तनाज्ञानकारणजिज्ञासायां शब्दश्रवणोत्तरभा- विवादावापोद्वापाभ्यां घटादिषदशक्तिवदेव वृद्धव्यवहारेण लि- ङादीनां प्रैषादिरूपप्रवर्तनायां शक्तिनिश्चीयते। (१)"विधिनिम- न्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्" "लाट्च" लिङर्थे लेट" इत्याद्यनुशासनबलादप्ययमों निश्चीयते । तत्र विधिनि- कृष्टस्य प्रेरणम् ; अयमेव च व्याकरणे औषः । लोके तु प्राप्त विषये निकृष्टस्ये प्ररणमिति विवेकः । निमन्त्रणमावश्यक श्राद्धादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा; इदमे- वातिसर्गपदेनाभिधीयते । अधीष्टं सत्कारपूर्वको व्यापारः । अत्र नानार्थकत्वपरिहाराय प्रवर्तनात्वमेवैकं शक्यतावच्छेदकं घटत्वा. दिवत् । वस्तुतस्तु लाघवादनुकूलव्यापारत्वमेव शक्यतावच्छेद- प्रवृत्तिनिरूपितत्वं तु वाक्यार्थविधया लभ्यम् , आख्याता- र्थकृतौ स्वर्गादिनिरूपितत्ववत् । प्रवर्तकनिष्ठत्वं च योग्यतालभ्य- मिति द्रष्टव्यम् । अथ वा विध्यादिषु चतुषु वैदिके च वक्ष्यमाणे अलौकिके धर्म प्रवर्तनात्वमखण्डोपाधिः प्रवृत्तिप्रयोजकतावच्छेदककोटिप्रविष्ट- तया कल्प्यते, तदवच्छिन्नविषयकज्ञानप्रयोज्यतावच्छेदकं चा- व्यवहितोत्तरत्वसंबन्धेन तादृशज्ञानविशिष्टप्रवृत्तित्वम् । नातस्तद- नुत्तरप्रवृत्तौ व्यभिचारः । अखण्डोपाधिरेव च लिङादिपदशक्य- तावच्छेदक इति तत्त्वम् । अतो विध्यादय एव चत्वारो व्यक्तिस्था- नीया लोके लक्ष्याः, सम्प्रश्नप्रार्थनयोस्त्वतिरिक्तैव शक्तिः, आनु. शासनिकी वा लक्षणा । एतेषां च पुरुषाशयविशेषाणां प्रैषादीनां वेदे ऽसंभवात् प्रवर्तनात्वेन च शक्तर्लिङादिषु गृहीतत्वात्तदनुरोधेन प्रवर्तनाविशेषरूपो विधिप्रेरणानियोगापरनामधेयरूपोऽलौकि- को धर्मस्स्थायी कल्प्यते । स च औषादिवत्प्रवर्तकधर्मत्वावगतेदे च १पा.सु.३.३.१६१. पा. स.३.३.१६२. पासू. ३. ४. ७.

२२ मीमामाकौस्तुभे [ अर्थवादाधिकरण- पुरुषाभावादन्यस्य च यागादरसिद्धत्वेन प्रवृत्तिविषयत्वेन च प्र- वर्तकत्वानुपपत्तेः पारिशेष्याल्लिङगदेरेव प्रवर्तकत्वावधारणात, लि. डादेश्च वर्णरूपत्वेन स्थायित्वात्तनिष्ठोऽवधार्यते । तस्य च प्रवृत्ति- हेतुत्वादुक्तलक्षणाव्याहतिः । अत्र षष्ठे शास्त्रदीपिकायां पार्थसारथि:-नातिरिक्तधर्मान्तर कल्पनम् , तथा सति तत्सद्भावस्तस्य च प्रवृत्तिहेतुत्वं लिङादिनिष्ठ- त्वं तल्लक्ष्यत्वमिति चतुष्टयकल्पनागौरवापत्तेः । अतो लाघवादर्थ- भावनाभिधानानुकूल शक्तरमिधाख्याया लिङादिनिष्ठत्वेन क्ल सायाः (१)केवलं प्रवृत्तिहेतुत्वं लिङादिलक्ष्यत्वं च करप्यम् । (२),अतः सैव प्रवर्तनात्वेन लिङाद्यामहिता प्रवृत्तिहेतुर्विध्यादि- पदाभिधेया चेति । तन्न तर्हि ततोऽप्यतिलाघवेनेष्टसाधनत्वस्य प्रवृत्तिहेतुत्वेनापि क्लुप्तस्य लिङादिलक्ष्यत्वमात्रकल्पनया (३)प्रव- तेनाविशेषत्वोपपत्तेर्जितं मण्डनेन । न चेष्टसाधनत्वस्य यागादिनिष्ठत्वेन लिङादिनिष्ठत्वाभा- वायागादेश्चासिद्धत्वेन प्रवर्तकत्वायोगात् प्रवर्तनायाः प्रवर्तक- निष्ठत्वस्य स्थापितत्वानेष्टमाधनत्वस्य प्रवर्तनाविशेषत्वोपपत्ति- रिति वाच्यम्; तर्हि फलेच्छाया उपायेच्छाया वा सि- द्धत्वेन लिमा प्रवर्तयतीतिवदिच्छा मां प्रवर्तयतीत्यनुभवाच्च प्रवर्तकत्वोपपत्तेस्तनिष्ठत्वेन क्लुप्तस्येच्छात्वस्य प्रवृत्तिहेतुत्वं इच्छात्वेन (४)कामपदाभिधेयत्वेऽपि प्रवर्तनात्वेन लिङादिवाच्य. त्वं परिकल्प्य प्रवर्तनाविशेषत्वोपपत्या विनिगमनाविरहात् । न चेच्छायाः प्रवर्तकत्वे इच्छात्वे प्रवृत्तिहेतुत्वाभावेऽपि हेतुतावच्छेदकत्वस्य क्लुप्तत्वाल्लाघवेन तस्यैव प्रवर्तनाविशे- १ केवलं इति नास्ति क. पु. २ अतः इति नास्ति क. पु. ३ प्रवर्तनात्वोपपत्तेः क. पु. ४ कामपदाभिहितत्वेऽपि. इति.ग. पु.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । २३ पत्वोपपत्तौ न तदादाय शक्तर्विनिगमनाविरहश्शंक्यः इति वाच्यम् , इच्छावत् कृतिसाध्यत्वज्ञानस्यापि सिद्धत्वेन प्रवर्त. कत्वात्तनिष्ठज्ञानत्वस्य प्रवर्तनात्वेन लिङादिपदवाच्यत्वकल्प- नया प्रवर्तनाविशेषत्वोपपत्तौ तदादायेच्छात्वेऽपि विनिगमनावि. रहस्यावारणात् । न चेच्छात्वादीनामतिप्रसक्तत्वेन प्रवर्तकमात्रनिष्ठत्वाभा. वान्न तेषां प्रवृत्तिहेतुत्वकल्पनाशंका; शक्तेरपि लिङादिष्वति- प्रसक्तत्वस्य तुल्यत्वात् । तस्मात् क्लुप्तैर्विनिगमनाविरहाद्धर्मा- न्तरकल्पनैवोचितेत्युत्पश्यामः । नचैवं धर्मान्तरस्यापि लिङादिनिष्ठत्वमिच्छादिनिष्ठत्वं वा. ऽऽदाय विनिगमनाविरहः । इच्छादेरस्थायित्वेन स्थायिधर्मान्तरा- श्रयत्वानुपपत्तेः । इदमेव धर्मान्तरं शाब्दीभावनेत्युच्यते । एवं 'न कलशं भक्षेयत्' 'ब्राह्मणो न सुरां पिबे' दि. त्यादौ प्रवर्तनावन्चिवर्तनापि लिङगद्यर्थः, साऽपि च पुरुषनि- ठनिवृत्तिहेतुर्निवर्तयितुर्धर्मः 'अहमेनं निवर्तयामी'त्यनुभवसिद्धः । तद्विशेषाश्च प्रैषादयो लोके । धर्मान्तरञ्च निवारणानि- षेधप्रतिषेधापरनामधेयं वेदे तथैव प्रसाध्यम् । तत्र स्वेतावान् विशेषः-न शुद्धो लिङादिः प्रवर्तनावनिवर्तनामभिधत्ते । किन्तु नसमभिव्याहृत एव, तत्र नमो द्योतकत्वमा- त्रम् । लिङादेरेव तु निवर्तनायां शक्तिः, निपातोपसर्गाणां घोतकत्वस्य व्युत्पत्तिसिद्धत्वात् । अथाऽपि तेषां वाचकत्वं स्यात् , तथाऽपि “तदन्यतद्विरुद्धतदभावेषु नम्" इति स्मरणा- दभाववाचित्वेन क्लुप्तस्य नो निवर्तनाचाचित्वकल्पने माना. भावः । लिङादिसमभिव्याहाराभावे च घटो नास्तीत्यादौ निव. तनाया अप्रतीतेः । तस्याप्रतीतद्योतकत्वकल्पने गौरवप्रसं- मीमांसाकौस्तुभे [ अर्थवादाधिकरण- गाच । “अमानौनाः प्रतिषेध" इति तु द्योतकत्वेनाप्युपप. नम् । तदयमत्र वाक्यार्थ:-कलञ्जभक्षणब्राह्मणकर्तृकसुरा. कर्मकपानादिभावना प्रवृत्तिरूपामाख्यातवाच्यामुद्दिश्य लिङा तन्नित्तिफलका व्यापाररूपा निवर्तना विधीयते, नमस्तु प्रवृ- त्यभाववाचित्वेन प्रधानभूतभावनासम्बन्धेऽपि निवर्तनाद्योतक- स्वमविरुद्वम् । शुद्धप्रवृत्तेश्वोद्देश्यत्वामम्भवात् हविरातिन्यायेन धात्वर्थतत्कारकयोरुद्देश्यान्तर्गत्या कृतिविशेषणत्वस्य व्युत्पत्ति सिद्धत्वात् तद्विवक्षायामपि कर्वकर्मादिकारकनिष्ठलिङ्गसंख्यादि- विशेषणानामविवक्षा उद्देश्यविशेषणत्वादुपपन्ना । न च लिङ प्रवर्तनाबाचित्वेन नभश्चाभाववाचित्वेन क्ल. सम्य निवर्तनाचाचित्वकल्पने गौरवापत्तेः प्रवर्तनाभाव एव निष- धाधिकारे वाक्यार्थोऽस्त्विति वाच्यम् ; लिनिष्ठप्रवर्तनाभावबो. धेऽपि रागादिना प्रवृत्तौ प्रयवायानापत्तिप्रमङ्गात् । न च रागादिनिष्ठमवर्तनाभाव एव वाक्यार्थः , तस्या लोके वेदे वा लिङगदिवाच्यत्वेनाक्लुप्तेः, तत्रापि शक्तिकल्पने गौ- रक्तादवस्थ्यापत्तेः। एतेन नमोऽभाववाचकस्यापि लिडादिसमभिव्याहारे सति निवर्तनावाचित्वम् , 'अमानोनाः प्रतिषेधे' इति प्रसिद्धेः, न तु लिङः प्रवर्तनाचाचित्वेन क्लुप्तस्य, गौरवात् । अतश्च रागाद्य- र्थप्राप्तां पानादिप्रवर्तनां लिङादिनोद्दिश्य नमा निवर्तना विधी- यते इत्यपास्तम् । रागादिनिष्ठप्रवर्तनाबाचित्वस्य लोके वेदे वा अक्लप्तत्वेनानुवादायोगात् , स्वनिष्ठपवर्तनायाश्चाप्राप्तत्वेन लिङा- दिनाऽननुवादा । विधाने वाक्यभेदो विकल्पापत्तिश्च । अत एवायं पक्षो वार्तिककृता "ते ( ये ) पा" मित्यादिनाऽन्यम. तत्वेनोक्तः । केषांचित्तत्र स्वमतत्वममितिभ्रम एव । , सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । २५ . वस्तुतस्तु-लिडोऽपि न निवर्तनायां शक्तिः, किन्त्वनुकू- लव्यापारत्वे ऽवण्डोपाधौ वा । तत्र यथा नमोऽभावे प्रवृत्तिनि. रूपितत्वं संसर्गः, एवं नसत्त्वे प्रवृत्यभावनिरूपितत्वमिति न किञ्चित्कल्प्यम् । अत्रापि निवृत्तिहेतुत्वं नाम प्रवृत्त्य भावप्रयो. जकत्वमेव, न तु निवृत्तिः पदार्थान्तरं, हेतुत्वं वा जनकत्वम् , प्रमाणाभावात् । प्रजोकत्वं च प्रवृत्यभावकारणीभूतानिष्टसाधन- स्वानुमितिजनकज्ञान विषयत्वं पूर्ववत् । अनिष्टसाधनत्वज्ञान- स्याभावकारणता च योगक्षेमसाधारणी, तवं चाभावप्रतियोगि. प्रवृत्तिसामग्रीविघटकत्वम् । अनिष्टसाधनत्वे हि बुद्धेऽनिष्टबोधा. त्तद्गतं बलवत्वं झटिति बुद्ध्यत इति बलवदनिष्टानुबन्धित्त्वज्ञाना- प्रवृत्तिकारणीभूतबलवदनिष्टाननुबन्धित्वज्ञानाभावप्रतिबन्धस्सु. लभः । अतश्चात्रापि प्रवृत्तेस्तदभावस्थानुकूलत्वस्य चान्यत एव भानाल्लिङो नातिरिक्ता निषेधस्थले शक्तिः, किन्तु विधिसाधार- ण्ये नाखण्डोपाधावेवेति सिद्धम् । तेन सिद्धा निषेधाधिकारेऽपि निवर्तनाविशेषरूपीनवारणापरनामधेया शाब्दी भावना । चेतन. प्रवृत्तिनिवृत्त्योश्चेष्टानिष्टसाधनताज्ञानं विनाऽसम्भवात् विधिनिषे. धाभ्यामिष्टानिष्टसाधनत्वं प्रवृत्तिनिवृत्तिविषयस्याक्षिप्यते । तयो- श्च शाब्दीभावनयो व्यापेक्षायां आख्यातवाच्या प्रवृत्तिविधि रूपायाम् , नञ्चाच्या च तन्निवृत्तिः निषेधरूपायां भाव्यत्वेना- न्बीयते । करणाकाङ्क्षायां च प्रेरणानिवारणयोः स्वरूपेण प्रकृ. त्तिनिवृत्तिजनकत्वायोगाल्लिङ्गादिजन्यं तयोनि मेव करणम् । केचित्तु लिङ्भावनयोः सम्बन्धरूपशक्तिस्मरणमेव करणम् । भावनाज्ञानं त्ववान्तरव्यापार इत्याहुः । इतिकर्तव्यताकाङ्क्षायां च स्तुतिनिन्दयोरन्वयः । तथा हि-विधिनिषेधाभ्यमिष्टानिष्ट- साधनत्वाक्षेपात्प्रवृत्तिनिवृत्तिहेतुभूतेच्छानिच्छोत्पत्तावपि तात्का- ४ मी० को २६ भीमांसाकौस्तुभे [ अर्थवादाधिकरण- लिकेष्टानिष्टसाधनत्त्वस्यापि प्रत्यक्षेणावगते। द्वेषोत्साहसम्भवेन प्रवृत्तिनिवृत्त्यभावप्रसङ्गात्तदपनायकापेक्षायां लोके तदपनयन- शक्तत्वेनावगतस्य स्तुतिनिन्दाज्ञानस्यानुग्राहकत्वं परिकल्प्यते । ज्योतिष्टोमसुरापानादिरूपसाधनयोश्च द्वेषोत्साहौ हि निसर्ग: सिद्धौ। तन्निवर्तकत्वं च स्तुतिनिन्दयो रुचिद्वेषोत्पादनद्वारा बहु- क्षीरादिवाक्येषु लोकसिद्धमेव । अतस्स्तुतिनिन्दाप्रतिपादकापेक्षायां प्रयोजनापेक्षिणामर्थवादानामेव तल्लक्षकत्वं कल्प्यते । न च फल- पदेन वा प्रशस्तफलयुक्तत्वाद्विध्यादिपदेन वा निर्दोषविधि- निषेधविहितत्वादितिकर्तव्य तापदी विशिष्टेतिकर्तव्यताकत्वा. प्रशस्तोऽप्रशस्त इत्येवं तत्प्रतिपादनसम्भवः, तेषां श्रौतफलादि- परत्वेन लाक्षणिकस्तुतिनिन्दागमकत्वकल्पनानौचित्यात् । नच रात्रिसत्रन्यायेन फलादिपरत्वेऽप्याकांक्षितपाशस्त्यादिकल्पना. परत्व सम्भवः । प्रयोजनाकांक्षिभिस्सन्निहितैरर्थवादैरेव तत्प्रति. पादनसम्भवेनानुपपत्यभावात् । यत्र तु सन्निधावर्थवादांभाव- स्तत्राप्यानुमानिकवचनातिदेशेन तत्पाप्तिः । ननु-नार्थवादानामतिदेशेन प्राप्ति, सा हि प्रयाजाचतिदे- शेन वा स्यात् ? भिन्न वा ? नायः, अर्थभावनाया इतिक तव्यताकांक्षया कल्पितेनातिदेशेन प्राप्तानां प्रयाजादीनामर्थभा. चनासम्बन्धोत्तरकालमंशत्रयविशिष्टभावनावगमे सति विधिप्र. वृत्तौ प्राशस्त्यापेक्षायां विरम्यव्यापारत्वेन क्लुप्तातिदेशस्य त. स्पापकत्वानुपपत्तेः । नान्त्यः विधेरेव प्रवनावाचकस्यापि रात्रिसत्रन्यायेन प्राशस्यादिपरत्वोपपत्तौ स्वतन्त्रातिदेशकल्पने गौरवात् इति चेत् ? प्रयाजादिप्राप्तेः पूर्वमप्युत्पत्तिवाक्य इष्टसा. मान्यवदितिकर्तव्यतासामान्येनाप्यंशत्रयवैशिष्टयोपपत्या विधे- र्भावनासम्बन्धोपपत्तौ तस्य प्राशस्त्यापेक्षायामवश्यकलप्यनैके. ?

२७ सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । नैवातिदेशेनोभय प्राप्त्युपपत्तौ विधेः प्राशस्त्यपरत्वकल्पनायां प्रमाणाभावात् । न च-शाब्दभावनायास्सादृश्याभावः । निर्वपतिधातुम. द्वाक्यसम्बन्धित्वरूपस्य शब्द सादृश्यस्यार्थभावनायामिव शब्द. भावनायामपि तुल्यत्वात् । नचैवं विश्वजिति ज्यौतिष्टोमिकाथवादातिदेशे सति तत एव (१)रात्रिसत्रन्यायेनार्थवादिकफलकल्पनोपपत्तौ विश्वजिन्न्या- यभङ्गप्रसङ्गः । अप्राकृतकार्यकारित्वमसंगेनार्थवादानां फलक- ल्पकत्वानापत्तेः। न च फलाकांक्षायां सत्यामप्राकृत कार्यकारित्वं न दोषः। यूपा. वटास्तरणबहिषोऽपि धर्माकांक्षायां बर्हिधर्माणां तत्कल्पनापत्तेः । अथ तत्र लौकिकोपायाक्षेपकल्पनात्तन्नित्तिः, तदा प्रकृ. तेऽपि स्वर्गकल्पन येति तुल्यम् । अस्तु वा यदि ज्योतिष्टोमे फल. विधिसरूपार्थवादश्रवणं तदा विश्वजित्यतिदेशप्राप्तार्थवादिक फलकल्पनम् । सर्वथा विश्वजिति स्वर्ग एव फलम् । तदधिकरण. न्यायस्तु (२)पिण्डपितृयज्ञादिविषयो भविष्यतीति न किंचिदनुः पपन्नम् । तन्त्ररवन्यायमुधयोस्तु प्राशस्त्यानतिदेशकथनेऽभि- प्रायं न विद्यः। एवं नामातिदेशेऽपि नान्नाऽग्निहोत्रधर्माणामन्येषामिव प्रा. शस्त्यस्यापि तद्धर्मस्य लक्षणया प्राप्तिर्द्रष्टव्या। (३)"एतद्राह्मणा. १. रात्रिसत्रन्यायश्चतुर्थाध्याध्याये तृतीयपादेऽष्टमाधिकरणे द्रष्टव्यः। २. "अमावास्यायामपराहे पिण्डपितृयज्ञेन चरन्ति" इति पि. ण्डपितृयज्ञविधायके वाक्ये फलाश्रवणात् सन्निधावांवादाभावा- वरात्रिसत्रन्यायाप्रवृत्तेः अपूर्वत्वाच्च प्रकृतितोऽर्थवादातिदेशस्याप्य. भावात् स्वर्गवाचकफलकल्पनेनैव तत्र फलाकाङ्का शमनीयेति भावः। ३. ते. ब्रा. १. ७. १.

२८ मीमांसाकौस्तुभे [अर्थवादाधिकरण-- नि पञ्च हवींषि" इत्यादौ वचनातिदेशे तु तत्प्राप्तिरविवादैव । यत्र तु प्रकृतावेव दर्वीहोमेषु चोपदेशातिदेशयोरभावस्तत्र विधेरेव प्राशस्त्यापेक्षत्वात्तस्यैव प्राशस्त्यकल्पकत्वमपि रात्रिसत्रन्याये- नोचितम् , न तु फलादिपदानाम् , तेषां तदनपेक्षत्वात् । यत्र तु सन्निधावर्धवादाः पठितास्तत्र विधेरुभयपरत्वकल्पने प्रमाणाभा. बरादर्थवादा एवं प्रयोजनापेक्षा लक्षणया प्रशस्त्यमप्राशस्त्यं वा विधिनिषेधापक्षितं प्रतिपादयन्ति । तच्च प्राशस्त्यमप्राशस्त्यं वा रुच्यरुचि योग्यत्वरूपं निर्वाच्यम् । रुच्यरुचियोग्यत्वज्ञानस्यापि प्रवृत्तिनिवत्तिप्रतिबन्धकरुच्यरुचियोग्यत्वज्ञानविसोधत्त्वेन प्र. त्तिनिवृत्युपयोगित्वात् । तत्वं च बलवदनिष्टाननुबन्धित्वानु. बन्धित्वयोग्यत्वम् । तज्ज्ञानस्य च प्रवृत्तिनिवृत्तिकारणत्वमविवाद. मेघ । अत उक्तविधमेव प्राशस्त्यमप्राशस्त्यं वा सर्वत्रार्थवादैल. क्ष्यते । योग्यतावच्छेदकीभूताः परं गुणदोषाः कचित् "वायु. क्षेपिष्ठा" इत्यादौ शक्त्या प्रतिपाद्यन्ते, कचित्तु “यजमानः प्र. स्तर" इत्यादौ गोण्यादिनेति विशेषः । रुच्यरुचियोग्यत्वरूप- प्राशस्त्यापाशस्यलक्षणा तु सर्वत्राविशिष्टेति ध्येयम् ॥ वाक्ये चेयं लक्षणा, नैकस्मिन्पदे, इतरपदानां वैयर्या. पत्तेः । तेषां तात्पर्यग्राहकत्वकल्पने च विनिगमनाविरहः । ल. क्षणाप्रकारश्च गुणवादसूत्रे स्पष्टीकरिष्यते । तच प्राशस्त्यम- प्राशस्त्यं वा शाब्दभावनयवान्वेति-'यागेन स्वर्ग भावयेत्प्रशस्त. त्वात् , 'न सुरां पिबेदप्रशस्तत्त्वादिति । अतश्च विध्यर्थवादयो. रेकवाक्यत्वसिद्धिः । तत्रापि पदैकवाक्यतैव, विध्यर्थवादानां स्वस्वार्थबोधे सामाप्त्यभावादित्युत्तराधिकरणे वक्ष्यते । अतश्चा- र्थवादसत्वेऽर्थवादपरोचितमेव कर्माभ्युदयकारीत्यध्ययनविधि- वशेन कल्पनानान्यत्प्ररोचनं कर्माङ्गमित्यपि नियमसिद्धिः । य- .

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । २९ १ त्रापि केवलार्थवादश्रवणं तत्रापि विधिकल्पनया प्रामाण्योपप. त्ति(१)रोदुम्बराधिकरणे वक्ष्यते । तस्मासिद्धं साधनेतिकर्तव्यताविषयद्वेषोत्साहनिवर्तकस्तु- तिनिन्दालक्षकत्वमर्थवादानां, न तु स्वार्थपरत्वमपि, प्रमाणा- भावात् ; युगपत्तिद्वयविरोधापत्तेश्च । एवं च यत्र सुख नर- कादिरूपफले निसर्गत एव रुच्यरुची, तत्र प्रयोजनाभावात् , "यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्व:पदास्पदम्" ।। इत्यादीनां न प्राशस्त्याप्राशस्त्यलक्षकत्वं, किन्तु विधिनि- षेधापेक्षितस्वर्गनरकादिस्वरूपपरत्वमेव । एवं दूरस्थानामपि विनाशिदेहादिव्यतिरिक्तनित्यकर्तभो. क्तृरूपात्मपतिपादिकानामुपनिषदां परलोककर्मविध्यपक्षितोक्त रूपात्मपरत्वमेव । उक्तविधात्मज्ञानस्य चानाराभ्याधीतस्यापि सामर्थात्(२)"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वी. यवत्तरं भवति" इति वाक्याद्वा क्रत्वङ्गत्वाविरोधः । असंसारि- सगुणनिर्गुणात्मप्रतिपादिकानां तूभयविधोपासनाविध्यपक्षितत्वे. न स्वार्थपराणामेवाभ्युदयनिश्श्रेयसहेतुत्वमिति वार्तिके व्याकर- णाधिकरण उपपादयिष्यते । तेन सिद्धमर्थवादानां प्रामाण्यम् । सूत्रं तु-विधीनां विधेयानां, स्तुत्यर्थेन स्तावकत्वेन, विधिनैकवाक्यत्वसम्भवादर्थवादाप्रमाणं स्युरिति व्याख्ये. यम् ॥ ७ ॥ तुल्यं च सांप्रदायिकम् ॥ १-२-८॥ किंञ्चाध्ययनधर्माणां स्वाध्यायानध्यायपरिपालनादीनां १. अनन्तराधिकरणे। २. छन्दोग्य. १.१.१०.

३० मीमांसाकौस्तुभे [ अर्थवादाधिकरण- यथा प्रमाणभूतविध्यध्ययने क्रियमाणेऽनुष्ठानं वैदिकानाम् , तथाथवादाध्ययनेऽपि । तेषां हि न स्वातन्त्र्येण पुरुषार्थत्वम् , फलाश्रवणात् । (२) तपोविशेषविविधैर्ऋतैश्च श्रुतिचोदितः। वेदः कृत्स्नोऽधिगन्तव्यस्सरहस्यो द्विजन्मना" ॥ इति स्मरणेन धर्माणामध्यनाङ्गत्वावगमाच्च । न चाध्ययने तत्कार्ये वार्थज्ञाने धर्माणामनुपयोगेनानर्थक्यात्तत्पूर्वकज्योतिष्टोमा दिकाङ्गत्वं वक्तुं शक्यम् , वाक्यप्रकरणाभ्यामध्ययनाङ्गत्वेना. वधारितानां धर्माणां क्रत्वङ्गत्वे प्रमाणाभावात् । उपयोगस्त्वध्य- यन एव विघ्ननिवृत्यर्थत्वेनोपपन्न इति द्वादशे वक्ष्यते । तेनाप्रा. माण्येऽर्थवादानां तदध्ययनमध्ययनाङ्गधर्मानुष्ठानं च साम्प्रदा- यिकपदाभिधेयं विधिवदनुष्ठीयमानमनुपपन्नं स्यात् , अतस्तद्व देव प्रमाणम् । अथवा-पूर्वपक्षिणाऽपामाण्येऽप्यर्थवादानामध्ययनस्याह- टार्थत्वाङ्गीकारात् , धर्माणामपि प्रयाजादिवद्वा विघ्न समाप्त्य. थतेन वाऽध्ययनाङ्गत्वोपपत्या पूर्वव्याख ख्याया अयोगेऽपि अर्थ- वादानामर्थपरत्वाभावेऽष्टार्थस्याध्ययनस्य (२)सवाषधावघातब- सकृपयोगापत्ते:आवृत्तेरविस्मरणप्रयोजनाभावेन च धारणाध्य- यनस्य साम्प्रदायिकपदाभिधेयस्यानुपपत्तिः। प्रयोजनवदर्थपरत्वे हि व्रीह्यवघातवदावृत्तिधारणाध्ययनं च विधाविवोपपद्येत । तस्मात्तद्वदेवार्थपरत्वम् । सूत्रं व्याख्यातम् ॥८॥ अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधस्स्यात श- ब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्यते॥१-२-९॥ २. सर्वोषधावघातश्चयने विहितः । १. मनु २-१६५.

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । अनेन सूत्रेण पूर्वपक्ष्युक्तानां शास्त्रविरोधादीनां सामा- न्यतः परिहारोऽभिधीयते । या शास्त्रविरोधादिकाऽनुपपत्ति. स्साऽस्मत्पक्षमप्राप्ता, प्रयोगे अनुष्ठाने हि, स्तेयादीनामुच्यमा. ने, विरोधस्स्यात, अस्माकं मते पुनः शब्दस्य श्रौतोऽर्थः, अप्रयोजनभूतः, उत्तरसूत्रोक्तरीत्याऽविवक्षित इति यावत् । अथवा-शब्दस्य विधेः, अनुग्रहार्थस्सन्नयमर्थवादः, अप्रयो. गभूतः प्रयोगमप्राप्तः, न प्रयोगं विधत्त इति यावत् । तस्मा. सामाण्यमुपपद्येत । विधिकल्पकत्वे श्रौतार्थपरत्वे वा भवदुक्त. दोषास्स्युः, न तु स्तुत्यर्थत्व इति भावः । 'अप्राप्ताश्चानुपपत्ति' मिति पाठे याऽनुपपत्तिस्ताममाप्तां मन्यामह इत्यध्याहारः । 'अप्राप्तं चानुपपत्ति' मिति पाठे त्वस्मयाख्यानमनुपपत्तिमप्राप्त मिति व्याख्येयम् ॥ ९॥ गुणवादस्तु ॥ १-५-१०॥ ननु-(१)"स एवैनं भूतिं गमयत्ति," इत्यादिभिः पदैः स्तुति प्रतीतावपि "वायुर्वै क्षेपिष्ठा" इत्यादिभ्यस्तदप्रतीतेः कथं तेषां स्तावकतासम्भवः ? उच्यते-गुणागुणरूपस्तुतिनिन्दावादस्तु सर्वत्र यथासम्भवं कल्प्यः, कारणानुरूपत्वात्कार्यस्य, क्षिप्रदेवतासाध्यं कर्म क्षिप मेव फलं दास्यतीति सर्वेषामपि पदानां स्तुत्युपपादकत्वेनावि. रोधात् । एवं-(२)"सोऽरोदीघदरोदात्तद्रुद्रस्य रुद्रत्वं, यदश्रु व्यशीर्यत तद्रजतमभवत् , पुगस्य संवत्सरात् गृहे रोदनं भवति, तस्मा द्वर्हिषि रजतं न देयम्" इयत्रापि बर्हिश्शब्दलक्षिते यज्ञे “यथा १. तै. सं. २. १. १. २.ते. सं. १.५.१. . .

३२ मीमांसाकौस्तुभे [अर्थवादाधिकरण- श्रद्धं दक्षिणां ददाति" इत्यादिसामान्यविहितदक्षिणाके स्वे. च्छाप्राप्तरजतदाननिषेधस्यायमर्थवादः । तत्र स इति तच्छब्देन "तदग्मियकामयत" इति पूर्वोपक्रान्तोऽग्निः परामृश्यते । 'तद्र- जतमित्यत्र तच्छन्देनाश्रु, अत्र "पुरास्य संवत्सरा" दिति रजतदाननिन्दा । तदुपपत्तिश्च "सोऽरोदी'दित्यादिः। कार. णानुरूपत्वात्कार्यस्य रोदनप्रभवरजतदानाद्रोदनं भवतीति रज- तदाननिन्दा । अतो रजतदाननिषेधे दोषाभावरूपगुणवादोप- पत्तिः । न च-रुद्ररोदनरजताश्रुप्रभवत्वसंवत्सररोदनादीनां प्रमाणाभावात्प्रत्यक्षविरोधाच निरालम्बननिन्दानुपपत्तिः । गौण्या वृत्त्या सर्वत्रालम्बनोपपत्तेः । तथाहि रुद्रशब्दस्तावघ्या. करणे रोदनकर्तृवाचित्वेन ब्याख्यातः । स च "रुद्रमग्निं प्रजाः पाहुः" इत्यरुदत्यप्यग्नौ रूढ़यां प्रयुक्तः, तत्र च तत्सि- दिसूत्रोक्तन्यायेन रुद्रशब्दाभिधेयरवसादृश्याद्रोदनकर्तृत्वमुपच यते, अश्रुणश्च चक्षुग्राह्यवर्णसारूप्यादन्यत्र च कार्ये समंवायि- कारणसादृश्यदर्शनाद्रजते तत्मभवत्वोपचारः । धनत्यागेन चात्यन्तोदारस्यापि गृहे दुःखदर्शनात्तत्सामान्येन रोदनोप- न्यासः । अत एवासयार्थप्रतिपादनादप्रामाण्यं नाशङ्क्यम् , अस. त्यार्थे तात्पर्याभावात् , तात्पर्यविषयीभूतायाश्च निन्दाया. स्सयत्वात् । असत्यार्थोपादानं तु लक्षणोपायत्वेन साधुत्वोपा. यत्वेनैवाऽससक्विबाद्यन्वाख्यानं न विरुद्धयते । न ह्युपाख्यानं स्वरूपसमाशस्त्याप्राशस्यज्ञान उपयुज्यते, अपि तु तज्ज्ञानम् । अतश्च रज्ज्वां सर्पज्ञानस्येव भयकारणत्वमसत्योपाख्यानज्ञा. नस्य प्राशस्त्यापाशस्त्यज्ञानकारणत्वं, तस्य च प्रतिनिटत्ति. हेतुत्वं न विहन्यते । यत्र हि न ज्ञानमात्रेणोपयोगः, यथा अर्थ- .

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । . भावनांशेषु, तत्रापि ज्ञानमात्रोपयोगे वेदस्य निष्फलत्वेनाप्रामा- ण्यापत्तेस्तत्रार्थ एव तात्पर्यात्सत्यत्वाश्रयणम् । शब्दभावनांशेषु तु ज्ञानमात्रोपयोगा(१)न्न सर्वांशोपायसत्यत्वादरः ! अत एव लोकेऽर्थासत्यत्व एव स्तुतिबुद्धिः, अर्थसत्यत्वे तु वक्तारो भवन्ति-कात्र स्तुतिनिन्दा वा सत्यमेवैतदिति । सत्यपि चासत्यत्वज्ञाने प्राशस्त्याप्राशस्त्यज्ञानस्य बेदकृतत्वात्प्रवृत्तिनि. वृत्तिजनकत्वोपपत्तिः । अत एव लोके मेधादिहेतुभूते वचादिभ- क्षणे मेघाद्यनिच्छन्तं पुरुष प्रवर्तयितुं तदभिप्रेतं सौभाग्यमस. त्यमप्युपन्यस्य तं नियुञ्जते । सोऽपि च सौभाग्यासत्यता जा- नन्नपि सर्वथा मामयं पुरुषार्थे प्रवर्तयतीति ज्ञात्वा प्रवर्तत एवेति सर्वस्वसंवेद्यम् । तस्मादेवमादौ शक्पार्थासत्यत्वेऽपि गोण्या वृत्या कथञ्चिदर्थसत्यत्वमापाद्य लक्षणया निन्दोपपत्तेः प्रामाण्यं सि. द्धम् । एवं स्तुत्यर्थवादेवप्यर्थसत्यत्वानादरो द्रष्टव्यः । एवं यत्रापि अन्य द्विधौ, अन्यच्चार्थवाद मंकीर्त्यते, यथा(२) "वेतसशाख- याऽचकाभिश्चाग्निं विकर्षति" इति, "आपो वै शान्ताश्शान्ताभि. रेवास्य शुचं शमयति" इति च, तत्राप्यपां स्तुत्याऽब्जन्यानां वेतसावकानां स्तुतिलक्षितलक्षणया न विरुद्धयते । सूत्रं तु-तत्तिद्धिमत्रोक्तरीत्या गौणवृत्तिप्रकाररूपो गुण. वादः स्तुतिहेतु य इति व्याख्येयम् ॥ १० ॥ रूपात्प्रायात् ॥ १-२-११ ॥ अतः परं पूर्वपक्ष्युक्तस्तेनायुदाहरणेषु तत्सिद्धिमत्रोक्तगौण. वृत्तिप्रकारनिरूपणार्थानि मूत्राणि ! तत्र -"हिरण्यं हस्ते भवति, अथ गृह्णाति" इत्यस्य विधे- १. सर्वांशोपायेतिक ख. ग. पु. २. तै. सं.५.४. ४. ५ मी० कौर मीमांसाकौस्तुभे [अर्थवादाधिकरण- शोष: "स्लेनं मनोऽनृतवादिनी वाक्" इति । अत्र वाङ्मन- सयोर्निन्दा हिरण्य स्तुत्यर्था । अत्यन्तप्रशस्तयोरपि हि वाङ्- मन मयोः स्ते नानृतवादयोगाद्धिरण्यादूनत्वम् । अतो 'न हि निन्दा निन्दितुं प्रवर्ततेऽपि तु विधयं स्तोतुं', इति न्यायेन हिरण्य स्तुतिः, न तु निन्दया वतन्त्रनिषेधोनयनम् । निषेधैकवाक्यताविर हे नि. न्दावस्यैवासिद्धे, क्लाविध्येकवाक्यत्वसम्भवे वाक्यभेदापाद. कनिषेधोनयनस्यान्याय्यत्वाच्च । मनसश्च स्तेनस्येव प्रच्छन्नरूप. स्वात्तत्कार्यकारित्वं गौणतानिमित्तम् । । वाचश्च प्रायशोऽनृत- वादिनीत्वाद्भूमा ॥ ११ ॥ दूरभूयस्त्वात् ॥ १-२-१२ ॥ "धूम एवं" इत्यादिः,(१) "तस्मादिवाग्निरादित्यं गतो रात्रा. वादित्यस्इत्यादिश्चोपपायोपपादकरूपेण सर्वोऽर्थवाद:(२) "अग्निज्योतिज्योनिम्सूर्यस्स्वाहा" इत्यादि(३)मिश्रलिङ्गंकमन्त्र विधेश्शेषः । उभयोर्देवतयारकत्र सन्निधानेन चोभयदैवत्य होम- स्तुतेरुपपत्तिः । वस्तुतस्तु केवललिङ्गकमिश्रलिङ्गकमन्त्रविध्योर्मध्येऽयं पठि- तोऽपि मिश्रलिङ्गविधेः(४) "उभाभ्यां सायं हूयते, उभाभ्यां प्रातः, न देवताभ्यस्समदं दधाति" इत्यर्थवादान्तराम्नानात् , 'अग्नि. ज्योतिज्योतिरग्निस्वाहेति सायं जुहोति" इत्यादेः केवलमन्त्र. विधेरेवायं शेषः-यस्मादिवाग्नेर दर्शनादादित्यान्ततिस्सूर्य- स्यैव चातो ज्योतिष्ठं, एवं रानावयग्नः । अतः केवलदेवत्यावेव युक्ताविति । दूरस्थस्य च भूयस्त्वेन यदर्शनं तहशिना लक्षयि- १. तै. बा. २. १. २-९. २. ते. बा. २. १. २. १०. ३. अग्निसूर्ययोरुभयोः प्रतिपादनान्मिश्रत्वम् ॥ ४. तै. ब्रा. २. १. २.१०.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । वा तद्विषयत्वाभावोऽग्नयादौ नमा बोध्यत आदित्यं स्तोतुमि- ति पूर्ववत् भूमैवात्र गौणात्तेनिमिनम् । वस्तुतस्तु-'न ददृश' इति वाक्यस्य मुख्यो दर्शनाविषय आकाशादिरित्यर्थः । तद्ननस्य दूरस्थवृनिभूयस्त्वप्रकारकदर्श. नाविषयत्व रूपस्य गुणस्यैकसम्बन्धिदर्शनेनापरसम्बन्धिस्मरण मिति न्यायेनोपस्थितस्यानयादौ योगादेव गौणत्वोपपत्तेन णाशेऽपि लक्षणेति तत्वम् । एवमेव गौण्युपपत्तिस्मर्वत्रोपपा. दनीया ॥ १२ ॥ स्त्र्यपराधात्कर्तुश्चपुत्रदशर्नम् (नात्)॥१-१-१३॥ "न चैतद्विद्म" इत्ययं प्रवरानुमन्त्रणमन्त्रनिधेश्शेषः । अब्रा. ह्मणस्यापि प्रवरानुमन्त्रणेन ब्राह्मण्यं भवतीत्येतत्स्तुत्यर्थमुपए पपा- दयितुं स्वस्यैव ब्राह्मणत्वाज्ञानोपन्यासः । पूर्ववच्चात्रापि ज्ञानगतं प्राशस्त्यं 'विदि' धातुना लक्षयित्वा तद्विषयत्वं नना ब्राह्मणत्वे प्रनिषिद्ध्यते । लक्षणां विना चोपपत्तिः पूर्ववत् । सम्भवति हि ब्राह्मणत्वस्य दुर्ज्ञानत्वं, मातुव्यभिचाररूपापगधसम्भवात् । न- चापराधेऽपि(१) "बीजायोनिबलीयसी" इति पसिद्धेर्मातजात्यैव जातिनिश्चयः, “माता भस्ना पितुः पुत्रो ( यस्माज्जा ) येन जा- तस्स एव सः" इति बीजावापकर्तुः पुत्रस्सम्भवतीति स्मरणात् तस्य च नानाजातित्वोपपत्तनिश्चयायोगात् । अत एव क्षेत्रिजा. त्यापि न व्यभिचारोत्पन्ने जातिनिश्चयः । अतश्च ब्राह्मणत्वस्य दुर्ज्ञानत्वादज्ञानवचनं गौणं, प्रशंमा च गौणी निमित्तम् ॥ १६ ॥ आकालिकप्सा ।। १-२-१४ ॥ "कोहि तद्वेद" इत्ययं प्राग्वंशे(२) "दिक्षतीकाशान् करोति" १. मनुस्मृ. ९. ५२. २. तै. सं. ६. १.१.

३६ मीमांसाकौस्तुभे [अर्थवादाधिकरण- - इत्यस्य विधेश्शेषः । सर्वस्य हि सद्यः फलं यथाभिमतं न तथा कालान्तरभावि । अतश्चातीकाशकरणं सद्यो धूमनिर्गमफलक- स्वेन प्रशंसित कालान्तरमाविस्वर्गनिन्दा । अत्र ऐहिक वदभिः मततरत्वरूपप्राशस्त्य मेवामुष्मिकफलपरामर्शिना तच्छब्देन त. दूतं लक्षयित्वा तस्यानवक्लूप्तिः "को हि तद्वेद" इत्यनेनोच्यत इति प्रशंसैव गौणीवृत्तिनिमित्तम् । (लक्षणाभावो वा पूर्ववत् ) सूत्रं तु-यत्तदानीमेवोत्पद्यते तदाकालिक, तस्यैव चेक्षा सर्वस्याभिमता, अतस्तामभिप्रेसायं गुणवाद इति । अकालिक मिति पाठेऽपि, काले विप्रकर्प, भवं कालिकं, न कालिकमका. लिकमिति व्युत्पच्या च स एवार्थः ॥ १४ ॥ विद्या प्रशंसा ॥ १-२-१५॥ 'शोभतेऽस्य मुखं" इयादिश्च गर्गत्रिरात्रविधेश्शेषस्तत्स्तु त्यर्थः, यज्ज्ञानस्याप्येवं फलं, किमुत तस्य गर्गत्रिरात्रस्येति । शोभत एव हि शिष्यैरुवीक्ष्यमाणं ज्ञातुर्गुरोर्मुखम् । अतस्तदनु वादोऽयं प्रशंसार्थः, न तु ज्ञानफलं; तस्य सामर्थ्यात क्रत्वर्थक- संस्कारकत्वेन फलानपेक्षत्वस्य त्वयैवोक्तत्वात् । यद्यपि चेयं न शोभापदाभिधेया, लावण्यादेरेव तत्पदवाच्यत्वेन लोकप्रसि. द्धत्वात् , तथापि प्रीतिजनकत्वेन तत्कार्यकारित्वाद्रौण्या तद- भिधानम् । सूत्रं-या विद्या फलहेतुत्वेनोक्ता सा प्रशंसेति व्या. ख्येयम् ॥ १५ ॥ सर्वत्वमाधिकारिकम् ॥ १-२-१६ ॥ "पूर्णाहुत्या सर्वान्" इसादयोऽर्थवादाः पूर्णाहुत्यादिवि- सिद्धान्तः ] प्रथमाध्यायस्थ द्वितीयः पादः । धीनां शेषाः, न तु स्वतन्त्रफलविधयः, पूर्णाहुत्यादीनां त्वदुक्त. रीसैव फलानपेक्षत्वात् । सर्वकामावाप्तिवचनं च सर्वकामजनक- कर्माधिकारसम्पादनागौणम् । पूर्णाहुत्यादौ कृत एव हि तत्त- दुत्तरकर्माधिकारः। यद्यपि चेहैब सर्वशब्दानुरोधात्सुरकन्यागम- नादिजनककर्माधिकारः कथमप्य सम्भवी, तथापि सर्वमोदनं भु- अत इतिवत्सर्वत्वमाधिकारिकं सम्भव मात्रापेक्षमित्यर्थः ॥ १६ ॥ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषस्स्यात् ॥ १-२-१७॥ यद्यपि च पूर्णाहुल्यादेस्सर्वकलसाधनस्र स्यात् , तथापि नान्यानर्थक्यम् , कर्मतारतम्येन फलतारतम्योपपत्तेः। अवश्यं चा- न्यत्राप्याग्निहोत्रदर्शपूर्णमासादिवेकफलकेषु कर्मस्वरलेनैव मह. ताफलस्याप्तौ महत्ति कर्मणि समानपरिमाणवेऽपि निस्सारशमी- मयत्वादिनैव तदाप्तौ ससारहिरण्मयनुकरणे अत्यनुपपत्तेरिधि यीप्रसङ्गात्फलतारतम्यं कल्प्यम् । दृष्टं च लोकेऽपि वृष्टया. दितारतम्येन फल तारतम्यम् । "ब्रह्महत्याश्वमेधाभ्यां न पर पुण्यपापयोः” इति स्मरणं, "यदग्निहोत्रं जुहोत्यथ गृहमेधिन माप्नोत्येकया राज्या, अथ दशसंवत्सरानग्निहोत्रं जुहोत्यथ द. शंपूर्णमासयाजिन आप्नोति", इसाद्यर्थवादाश्चामुमेवार्थ ग. मयन्ति || १७॥ अन्त्ययोर्यथोक्तम् ॥ १-३-१८॥ शुद्धपृथिवीचयननिषेधो "हिरण्यं निधाय चेतव्य" मित्यः स्य विधेनहिनिन्दान्यायेन स्तुत्यर्थो नित्यानुवादो वाङ्मनसयो. रिव । तदुपपादकत्वेन चेतरावपि प्रतिषेधौ नित्यानुवादौ। यथा ३८ मीमांसाकौस्तुभ [ अर्थवादाधिकरण- चान्तरिक्षे दिवि वा चयनं न प्रसिद्धं, तथा हिरण्यरहितायां पृथिव्यामपीति हिरण्यस्तुतिः । अनिय प्रयोगस्तु अर्थवादप्रामा. ण्ये स्थापिते "परन्तु श्रुतिपामान्यमानं" इत्यनेन न्यायेन बबर. शब्दस्य शब्दानुकारिलं प्रावाहणि शब्दस्य च प्रकर्षण बहतीति व्युत्पत्तिमङ्गीकृत्य नित्यवायुपरत्वाङ्गीकारात्तस्य च वाक्छब्दल. क्षितध्वनिमात्रप्रवदनकामयितृत्वेन स्तुत्युपपत्तेः परिहृतः ॥ प्रयोजनं तु- (१)रात्रिसत्रे प्रतिष्ठा स्या(२)दञ्जने घृतसंस्थितिः । (३)तथा श्येनादिशब्दानां नामता भेदकारणम् ॥ (४)वारुणष्टयां तथा दानं ()वमनं वैदिकं तथा । (१) 'प्रतितिष्ठन्ति ह वै एना रात्रीरुपयन्ति' इत्यर्थवादबलादे. व रात्रसत्राख्ये कर्मणि प्रतिष्ठाख्यं फलामति निर्णीतं चतुर्थतृतीये। (४-३-६) (२) अक्ताशर्करा उपदधाति' इत्यत्र शर्कराणामञ्जनं केन व्येणेत्यपेक्षायां स्वप्सनिधिपठिते 'तेजो वै घृतं' इत्यर्थवादे वृतस्यैव स्तवनाविधिस्तुत्योरेकवाक्यत्वसिध्यर्थ पूर्ववाक्ये घृतस्यैव विवेय त्वपङ्गीकृन्य तेनैवाञ्जनमिति निर्णीतं प्रथमचतर्थे । (१-४-१९) (३) 'श्येनेनाभिचरन्यजते'त्यादौ श्येनपदस्य विधेयगुणसमर्प. कत्वं उत कर्मनामधेयत्वमिति सन्देहे 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्य निपत्यादत्ते यमभिचारति श्येनेन' इत्यर्थवा. दे श्येन सादृश्योक्तिबलादेव विधिगतस्य श्येनपदस्य कर्मनामधेयत्व. मुररीकृतं प्रथमचतुर्थे । (१-४-५) (४) 'यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपाला. निर्वपे' दित्यत्राश्वप्रतिग्रहीतुरेवाश्वसमसङ्ख्याकोष्टिप्रतीतावपि उ. पक्रमस्थार्थवादे 'प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्छत्' इत्यादिनाऽश्वदातुरेव वरुणग्रहरूपजलोदरप्राप्तः इष्टिकरणेन च तन्नि. वृत्यभिधानात्तदनुसारेण दातुरेवेयमिष्टिः, न प्रतिग्रहीतः, इति नि. णीतं तृतीयचतुर्थे । ( ३-४-१४) (५) 'वि वा एष इन्द्रियेण वीर्येणयते यत्सोमं वमिति यस्तो.

प्रयोजनम् ] प्रथमाध्यायस्य द्वितीयः पादः । (१)सोमयागपरत्वं च ज्योतिष्टोमपटस्य यत् ॥ (२)निवेशनं च धाय्यानामिध्यमानऋगुत्तरम् । (३)सोमविद्याप्रजानां च नित्यत्वं पारिशतम् ॥ मवामी स्यात्तस्मा एतं सोमेन्द्र श्यामाचरु निर्वपत्' इति बाक्य बिहिना श्यामाकेष्टिः यागाङ्गद्रव्य सस्कारकत्वेन विहितभक्षणविशिष्ट सोमस्य वमने कर्तव्या ? उन लोकिकस्य वमनविरकार्थमेव पीतस्य सोमस्य वमन इति संशये उपक्रमस्थार्थवाद सोमवमनकतुरिन्द्रियः वीर्यव्यृद्धिरूपदोषश्रवणात्तस्य च लोकभावेन वैदिक सामवमन एव कस्थचनादृष्टस्य दोषस्योत्पत्यङ्गोकारावश्यंभावेन्न तन्निर्घातार्थवैदि कलोमवमन एवेयमिष्टिः, न तु लौकिके इति सिद्धान्तितं तत्रैव । (१) 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यत्र ज्योतिष्टोमपदस्य 'त्रिवृत्पञ्चदशस्लप्तदश एकविंशः, एतानि वाव तानि ज्योतीष, य एतस्य स्तोमाः' इत्यर्थवादबलात् त्रिवृदादिस्तोमचतुष्टयवत्सोमयाग एव वाच्योऽर्थः इति निर्णीतं चतुर्थचतुर्थे । (४-४-१२) २. प्रकृती दर्शपूर्णमासयोस्सामिधनीनां पञ्चशत्वमुक्तम् । वि. कृतौ च तदधिका सप्तदशैकविंशत्यादि का सहयाक्ता। तत्र संख्या: सम्पत्यर्थं तावत्य ऋचः दाशतपीभ्यस्लमानेयाः । आनीयमानानामृ. चामादावन्ते मध्ये वा यत्र कुत्रचिदनियमेन वा समावेशः इति संशये 'इयं वै समिध्यमानवती असो समिद्धवती, यदन्तरा तद्धाय्या' इत्यर्थ वादे समिद्धमानवतीसमिद्धवयोरन्तराल एव धाय्याशब्दशब्दिता. नां निवेशकथनात्तदनुसारेण तत्रैव निवेशो धाय्याशब्दवाच्यानाम् । इतरासांत्वन्ते इति निर्णीतं पञ्चमद्वितीये । इध्यमानऋक् 'समिध्यमा. नोऽध्वरे' इति इध्यमानपदघटिता प्राकृतसानिधेनीषु ऋक्षु नवर्माऋ क् । इयमेव च समिध्यमानवती। 'समिद्धो अग्न आहुत देवान् याक्ष स्वध्वर' इति समिद्धपदघटिता समिद्धवती दशमी।। (५-३-३ ) यत्त्वत्र न्यायमालायांमस्मिन्नधिकरण 'समिध्यमानो अध्वरे' इत्य. सावृगष्टमी । 'समिद्धो अग्न आहुत' इत्यसौ नवमी इति पाठ उपलभ्य ते स लेखकप्रमादक़त इत्यभ्युपगन्तव्यम् । ३. 'जायमानो वै ब्राह्मणस्त्रिभिणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इत्यर्थवादे ऋणत्रयसङ्कीर्तनावे तदपा.

मीमांसाकौस्तुभे [अर्थवादाधिकरण- . (१)द्वयोः प्रणयनं मध्यपर्वणोस्पप्तमोदितम् । (२)अर्थवादगतलिङ्गः प्रकृतित्वं तथाष्टप्ले ॥ (३)स्थानापत्तिरिरादीनां (४)चरुरोदनवाच्यपि । (६)उत्तराणां त्रयाधिक्य (६)मृस्विच ब्राह्मणो भवेत् ॥ करणरूपाणां लोमयागस्य विद्यायाः प्रजोत्पादनस्य च नित्यत्वमुक्तं षष्टद्वितीये। (६-२-११) १. चातुर्मास्येषु 'द्वयोः प्रणयन्तीति' श्रुतम् । तच्चाग्निप्रणयनं क योद्वयोः पचणोरिति संशय 'ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासा. स्लाकमेधाश्च' इत्यनन्तरोदितार्थवादे वरुणप्रघासलाकमेधाख्यम ध्यमपर्वणो स्तवनाद्विधिस्तुन्यारेकवाक्यतासम्पत्त्यर्थ तयोरेव मध्य. मयोः प्रणयनमिति निर्णीतं सप्तमतृतीये । (७-३-८) २. इजिपशुसोमादीनां प्रकृतिविकृतिभावस्तत्र तत्र श्रुतार्थवा दवलादेव निर्णीतोऽष्टमे। ३. “यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे। प्रप्र वयममृतं जानवदस प्रिय मित्रं न शालषम्,” इति मन्त्रे "ऐरं कृत्वोद्वष" मि. तीरापदविधानं कुत्रति संशये “न गिरागिरेति ब्रूयात" इति निषे घानुवादबलाद्भिरापदकार्य एवेरापदविधानमिति निर्णयः कृतो नव. मप्रथमान्त्ये। (९-१-१७) ४. "आदित्यः प्रायणीयः पयसि चरुः" इत्यत्र चरुशब्दस्स्थाली. वाची? उत्तौदनवाची? इति संशये 'अदितिमोदनेने ति वावयशेषे विवरणातू चरुशब्द ओदनवाचीति राद्धान्तितं दशमे । (१०-१-१०) ६. "वाग्यतस्तिस्रो दोहयित्वा विसृष्टवागनन्वारभ्य तूपणीमुत्त. रा दोहयेत्" इति विहितमुत्तरासां गवां दोहनम् । ताश्च गावः कपि, अलाधिकरणन्यायेन त्रित्वे पर्यवस्यन्ति ? उताधिकसंख्याका दोग्ध या ? इति संशये-"नास्यैतां रात्रि कुमाराश्च न पयो लभन्ते, नाग्नि होत्रं जुहोती'त्यर्थवादे साकल्यप्रतीतेन त्रित्वनियमः, किन्तु यावत्स्वं दोहनमिति निरधार्येकादशप्रथमे । (११-१-७) ६. सर्व वैदिकं कर्म त्रैवर्णिकाधिकारिकमित्युक्तम् । तत्रात्वि- ज्येऽपि त्रैवर्णिकानामधिकारः? उत ब्राह्मणानामेवेति संशये एते .

सिद्धान्तः। प्रथमाध्यायस्य द्वितीयः पादः । अर्थवादप्रमाणत्वे सर्व तदुपपद्यते ।। सर्वसाधारणं तु-पूर्वपक्षे प्रकारान्तरेणापि प्ररोचितमनुः ष्ठितमभ्युदयकारि, सिद्धान्ते त्वर्थवादपरोचितमेव (१)तदिति द्र. एव्यम् ॥ १८॥ इत्यर्थवादप्रामाण्याधिकरणं प्रथमम् ॥ १॥ अथ द्वितीयमौदुम्बराधिकरणम् ॥ विधिर्वा स्यादपूर्वत्वादादमात्रं धनर्थकम् ।।१-२-१९॥ (विषयसंशयसङ्गतयः) (२) औदुम्बरो यूपो भवत्यूर्या उदुम्बर ऊर्पशव ऊजैवा. स्मा ऊर्ज पशूनाप्नोत्यू|ऽवरुध्यै” इत्यादिषु विधायकत्वेन वा प्रामाण्यं (३)म्नावकत्वेनैव चेति सन्देहः । पादाध्यायसङ्ग. ती स्पष्टे । आक्षेपिकी त्वनन्तरा । ऊर्जा अन्नरूपेणौदुम्बरेण साधनेन, अस्मै यजमानाय, ऊर्जम् अन्नरूपान् पशून् , आ- प्नोत्यध्वर्युः । अतः पशुरूपानसमृद्धय औदुम्बरो यूपो भव तीति वाक्यार्थः । . . वै देवा अहुतादो यद्राह्मणाः, यदन्याहार्यमाहरन्ति तानेव तेन प्रीणा ति" इत्यर्थवादे अन्वाहार्यादिदक्षिणायां ब्राह्मणानामेवाधिकारसङ्कीत नात्तदनुसारेण वैदिकेषु कर्मसु ब्राह्मणानामेवाविज्येऽधिकार इत्युक्तं द्वादशान्ते (१२-४-१४) सर्वमिदमर्थवादप्रामाण्याभ्युपगम एव सि. ध्यतीति। १. मन्त्रधदिति. क. पु.। २. तै. सं. २-१-९ सोमापौष्णं त्रैतमालभेत पशुकामः" इति वा. क्यविहितकाम्यपशुयागसन्निधौ श्रुतमिदं वाक्यम् । याऽजा त्रीन् वत्सान् युगपत् प्रसूते तत्रैकैकोऽपि त्रैत इत्यभिधीयते । ३. स्तावकत्वेन वेति. क. ग. पु.। ६ मी० कौ० ४२ मीमांसाकौस्तुभे [ औदुम्बराधिकरण- - ( पूर्व पक्षः) तत्र श्रौतप्रथमापेक्षितानन्यलभ्यप्रधानभूतविधिपरत्वे स. म्भवति लाक्षणिकविध्यधगमोत्तरापेक्षितसम्भावितान्य- लाभगुणभृतस्तुतिपरत्वमुपपत्तिमत् । नचास्य विधिवत्प्रयो- जनवत्तरत्वमपि । अतो विधिरेवायम् । तत्र 'पशुनाप्नोतीति द्वितीय या पशूनां साध्यत्वमात्रावगमेऽपि योग्यतया ईप्सित- त्वस्याप्यचगमाद्भाव्यत्वसिद्धिः । यस्य तु मते (१)इप्सितत्वमेव द्वितीयार्थस्तदा कामशब्दादिकं विनैव भाव्यत्वावगमे नैव कि- श्चिबाधकमस्ति । वस्तुतस्तु “ऊोंऽवरुझ्या" इति तादर्थ्यचतुर्थ्या(२) र- न्धनाय स्थाली' (३) 'सर्वेभ्यो दर्शपूर्णमासा' विखादिवत्का. मपदाद्यभावेऽपि भाव्यत्वावगमः स्पष्टः । ततश्च पशूनां भा- व्यानां साधनापेक्षत्वात्सन्निधानाद्विनैव तृतीयया यागादिव दौदुम्बर त्वजातिस्साधनत्वेन सम्बध्यते । साध्यसाधनस. म्बन्धस्य च क्रियागर्भत्वाइण्डेन घटो भवतीतिवच भवनक्रिया- सम्बन्धे पुरुषव्यापाराविषयत्वेन वचनवैयापत्तलक्षणयाऽन्त. गीतणिजथंकल्पनया था भवते. पुरुषव्यापारपरत्वम् । तिपैव वा लक्षणया शक्त्यैव वा भावनाप्रतीतिः । धातुस्तु साधुत्वार्थमि- सपि वक्तुं शक्यम् । तदयमर्थः- औदुम्बरत्वेन पशुन् भावयतीति । साध्यसाधनसम्बन्धज्ञानादेव च प्रवृत्तिसिदेनार्थो विधिना । यदि तु. विध्यभाचे सन्निहिताया औदुम्बरताया एव भावनोद्देश्य. त्वापत्तर्विध्याग्रहः, तदा भवतीत्ययं पञ्चमलकारस्सन् विध्यर्थको १. ईप्सितत्वमपीति. क. पु.। २. रन्धन-पाकः,। ३. अपेक्षितसर्वफलार्थ दर्शपूर्णमासयागौ कर्तव्यावित्यर्थः ।

पूर्वपक्षः ] प्रथमाध्यायस्थ द्वितीयः पादः । भविष्यति । च फलविधिपक्षेऽर्थवादसमभिव्याहाराभावे पञ्च. मलकारत्वनिश्चायकाभावः, विध्येकवाक्यत्वं विनाऽर्थवादत्वा- निश्चयेन तस्य तदनिश्वायकत्वात् । अतः "कपिञ्जलानाल- भत" इतिवदप्राप्तार्थकत्वेनैव तनिश्चयः । अस्तु वाऽर्थवादस्यैव तन्निश्चायकत्वं, तथापि 'ऊर्वा उदुम्बर' इयादेः 'ऊर्जेवा- स्मा' इत्यन्तस्य स्तावकत्वाङ्गीकाराददोषः । न चाश्रयाभावा दविधानं; फले औदुम्बरतायाः, "सोमापौष्णं त्रैतमाल भेत प. शुकामः" इति प्रकृतयागस्याश्रयत्वोपपत्तेः । यद्यपि च जाते. स्साक्षाद्यागसाधनत्वासम्भवः तथापि ब्रीहिदध्यादिवदेव त. दाक्षिप्तकाष्ठस्य (१)प्रदेयत्वेन साधनत्वाविघातः । काम्यत्वादेव चोत्पत्तिशिष्टपशुबाधकत्वमविरुद्धम् । यूपशब्दस्तु "उपशयो यूपो भवत्ती" तिवदर्थप्राप्तच्छेदनादिधर्मवेत्तयवानुवादः, यूप. धर्मातिदेशार्थो वा ।(२) गुणफलविधौ च भावनान्तरस्वीकारा- दुभयविशिष्टभावनाविधानादवाक्य भेद इति द्रष्टव्यम् । अथवा ऽतिदेशमाप्ता यूपोत्पत्तिरेवाश्रयत्वेनान्वेति । न च प्रकरणेनैवा. श्रयोपस्थितिः(३)कार्येति नियमस्समस्ति,अतिदेशेनापि तदुपस्था- पनसम्भवात । तस्माद्विधायकत्वेनैवैवंजातीयकस्य प्रामाण्यम् । सूत्रं व्याख्यातम् ॥ १९ ॥ लोकवदिति चेत् ॥१-२-२०॥ १. 'प्राजापत्यं धृते चरुं निर्वपेच्छतकृष्णलमायुकामः' इत्यत्र कृष्णलानामनदनीयानामपि यथा यागीयद्रव्यत्वं तद्वदत्रापि भवितुः महतीति हृदयम् । २. द्वितीयद्वितीये (२. २. १३.) इन्द्रियकामाधिकरणे निपुणतरः मुपपादितमिदम् । ३. कर्तव्योति. पा.।

मीमांसाकौस्तुभे [औदुम्बराधिकरण- ननु-यत्रापि लोके बुद्धिपूर्वकारिणो मात्रामपि निष्प्रयो- जनां न प्रयुञ्जते, तत्रापीयं गौः केतव्यत्यस्य बहुक्षीरा(१)स्थ्य- पत्येत्यादिना स्तुतिरेव दृष्टा, न तु फले विधानं, अतः कथं स्तुत्यपेक्षया विधेरर्थवत्तरत्वमिति चेत् ॥ २० ॥ न पूर्वत्वात् ॥ १-२-२१ ॥ युक्तं लोके बहुक्षीरत्वादीनां विदितपूर्वत्वास्क्रियाजन्य- स्वाच फलविध्यसम्भवेनागत्या स्तुतिपरत्वम्, वेदे त्वविदितफ. लजनकत्वविधिसम्भवे विधिबलेनैव सम्भवल्लाक्षणिकस्तु. तिपरत्वकल्पनं को नामाश्रयेत् ! ॥ २१ ॥ ( इति पूर्वपक्षः ।) उक्तं तु वाक्यशेषत्वम् ॥ १-२-२२ ॥ (सि) (सिद्धान्तः) सखं फलपरत्वं युक्तं, न तु तत्सम्भवः । तथाहि- पि तावत्पशूनां भाव्यत्वं गम्येत तथापि भावनायां विधिसम. भिव्याहृतायामपि सन्निहितप्सितयूपपदार्थस्य "खादिरी यूपो भवती" तिवद्भाव्यत्वोपपत्तो न विप्रकृष्टानां पशूनां तत्कल्पनं युक्तम् , यूपभवनाक्षिप्तायां भावनायां यूयस्यैव भाव्यत्वौचि. त्याच्च । एवं सत्यपि यदीन्द्रियकामादिपदवदनन्यपरं फलश्र- वणं भवेत् ततः सन्निहितातिलङ्घनमप्याश्रीयेत । न तु पशूनां भाव्यत्वे प्रमाणमस्ति । (२)न हि द्वितीया भाव्यत्वाभिधायिनी, '-यद्य- १. जीवदपत्त्येति. क. पु.। २. इदं च द्वितीयाध्यायद्वितीयपादे सम्माधिकरणे ग्रन्थकृ. ता स्पष्टीकृतम् ।

. . सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । ४५ जन्यत्वमात्राभिधायित्वात् । यद्यपि चेप्सितत्वाभिधायिनी, तथा. पि “पशूनाप्नोती" ति वर्तमाननिर्देशाद्वर्तमानफलस्य चानुपल. ध्या बाधाद्भविष्यदर्थकल्पनाऽऽवश्यकी । न च रात्रिसत्र वत्तदङ्गीकारेऽप्पदोषा, औदुम्बरत्वादेयूपार्थत्वेनैव नैराका ण रात्रिमत्रवत्फलानपेक्षत्वादिति(१)वर्णमय्यधिकरणे वक्ष्यामः न चैवं पुनरुक्तता, अनेन फलमानपरत्वनिराकरणेन स्तुतिपरत्वे स्थिरीकृते तत्र रात्रितत्रवदर्थवादस्पैव सतः फलपरत्वमाशा निराकरिष्यते । यत्तु-"सर्वेभ्यो दर्शपूर्णमामा" वित्यादिवत्तादयं चतुर्थी फलप्रतिपादिकत्युक्तम् , तदपि तादर्थे सति-'देवाय पुण्यं, 'ब्रा. ह्मणाय दुग्ध' मितिवत्प्राधान्यमात्रावगमेऽपि भाव्यत्वानवगमा- दसाधकमिति भवदेवेनोक्तम् । “सर्वेभ्यो दर्शपूर्णमासा"चित्या. दौ त्वगत्या लक्षणया भाव्यत्वावगतिः । किञ्च आश्रयालाभादपि न गुणफलसम्बन्धोपपत्तिः । त- था हि-न तावत्पशुयाग आश्रयः । तत्र हि प्रदेयपरिच्छेदकत्वेन वा गुणस्य सम्बन्धः प्रकारान्तरेण वा ? (२)न तावदन्त्यः, अ. योग्यत्वात् । आये यूपग्रहणानर्थक्यम् । न च यूपपदं धर्माति. देशकम् । तथा सति यूपधर्मवानुदुम्बरप्रकृतिक इत्यर्थावगमेऽपि विशेष्याश्रवणेन साकाङ्क्षत्वप्रसङ्गात् । अध्याहृतविशेष्यस्यैव गु णयविशिष्टस्य विधौ (३)गौरवाच्च ! न च प्रधानभूतयागस्या- श्रयत्वासम्भवे (४)आनर्थक्यतदेङ्ग' न्यायेन यूपेऽवतारः, आ- श्रयत्वस्य 'आनर्थक्यतदङ्ग'न्यायाविषयत्वेन (५)रेवत्यविकरणे २. नान्त्य इति. क. पु.। ३. गौरवप्रसङ्गाश्चेति क. पु.। ४. आनर्थक्यात्तदङ्गेषु० इति न्यायः तृतीयप्रथमे नवमाधिकरणे। १.४-३-१.

मीमांसाकौस्तुभे [ औदुम्बराधिकरण- स्थापयिष्यमाणत्वात् । सत्यपि विषयत्वे यूपमात्रावतारे प्रमा णाभावाच्च । नापि यूपोत्पत्तिः पशुनियोजनं वाऽऽश्रयः, त- योरातिदेशिकत्वेनाप्रकृतत्वात् । अतिदेशस्य सर्वाङ्गसाधारणस्यै. कत्वेन तयोविशिष्योपस्थित्यभावाच्च । साधारणोपस्थित्या चाश्रयत्वाङ्गीकारे जुबादीनामप्याश्रयत्वापत्तिः । इष्टापत्तौ च यूपपदवैयर्यतावस्थ्यम् । अनेनैव च वाक्पेन यूपस्याश्रयत्व उच्यमाने वाक्यभेदः । तेनाश्रयाभावादपि न गुणफलसम्बन्धः ! तेनातिदेशमाप्तयूपोद्देशेनैवौदुम्बर त्वविधिः । तत्स्तुतिश्च सर्वोऽय. मर्थवादः । अत उक्तरीत्या वाक्यशेषत्वमेव युक्तमिति सूत्रार्थः ।। स्तुत्यालम्बनं च पूर्णाहुतिवत्प्रधानफलानुवादाष्टव्यम् ॥२२॥ विधिश्वानर्थकः क्वचित्तस्मात्स्तुतिःप्रतीयेत त- सामान्यादितरेषु तथात्वम् ॥ १-२-२३ ।। किश्च-तुल्यन्यायत्वात्सर्व एव फलविधिसरूपबद्रव्यदेव- तागुणक्रियाविधिसरूपास्त्वया विधायकत्वेनाऽऽशङ्कनीयाः, यथा- (१)"यजमानः प्रस्तरः" इत्यादयो द्रव्यस्य, “आग्नेयो वै ब्राह्मणः" इत्यादयो देवतायाः, (२) यो विदग्धस्स नैर्ऋतः, योऽशृतस्स रौद्रः" इत्यादयो गुणस्य,(३)"निवीतं मनुष्याणाम्" (४)"इति ह स्माह वर्कुवार्णिाषान्मे पचत" () वायु क्षेपिष्ठा देवता' (६)"अप्सुयोनिर्वा अश्वोऽमुजो वेतसः” इत्यादयः क्रियायाः । तत्र यद्यपि निीतादिक्रियाविधिषु शक्याविषयत्वं,तथापि वायु. वेतसादीनां क्षेपिष्ठत्वाजन्यत्वस्य स्वभावादेव सिद्धेरवादौ च तस्य प्रयत्नेनाप्यनिष्पत्तेरनर्थको विधिः । तस्मात्स्तुतिः प्र. १. तै. सं. २. ६.५. तै सं. २. ६.३. ३. २. ५.११. तै. सं. २. १.१. ६. ते ब्रा. ३.८.१९ २. ४. शत. ब्रा.१.१.२.

: अश्व सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । तीयेत । स्तुतिप्रकारश्च वायूदाहरणे पूर्वमेव प्रदर्शिनः । बेत. साश्वयोस्त्वेवम् "अपमु योनिवर्वा अश्वोऽसुजो वेतसः स्व एवैनं योनौ प्रतिष्ठापयति" इत्य यं(१) "वैतसे कटेऽश्चं चिनोति" इत्य स्यविधेश्शेषः । तत्र वेतसे उब्जन्यत्वस्य प्रत्यक्षवादश्वस्यापि पु. राणेष्वब्जन्यत्वप्रसिद्धः, कार्यकारणयोरभेदोपचारेण वेतसप्र. कृतिभूतास्वप्सु चयनादश्वस्य स्वयोनौ प्रतिष्ठापनं कृतं भव- तीति चयनस्तुतिः । यद्यपि च-खयोनिप्रतिष्ठापनमात्रेण न काचित्स्तुति- बुद्धिः, तथापि(२) "आपो वै शान्ताः" इत्यर्थगदान्तरेऽपां शान्तत्वेन यजमानकष्टशमयितृत्वावगमादेवंविधप्राशस्त्यवती. वप्सु प्रतिष्ठापनेन चयनस्य स्तुतिः प्रत्येतव्या । तत्सामान्यादितरेष्वपि सर्वविधिमरूपेषु तथात्वं द्रष्टव्यम् । नचैवं (३) तसिद्धि' सूत्रादावपि विध्यर्थवादविचारस्य करिष्य- माणत्वा पौनरुक्त्यम् , तत्सिद्धिसूत्रस्य तावद्गुणवादनिमित्तमात्र. कथनपरत्वेनात्त्यस्यैव विद्ध्यर्थवादविचारस्य तदर्थस्मारणात् । (४)निवीताद्यधिकरणानि तु कृत्वाचिन्तात्वेन व्याख्ययानि । अर्थवादत्वकथनं तु तत्र कृत्वाचिन्तोद्घाटनम् । एवं पाष्ठमपि (६)माषपाकाधिकरणं व्याख्येयम् । सूत्रं व्याख्यातम् ॥ २३ ॥ प्रकरणे च सम्भव(६)न्नपकर्षः कल्प्येत विध्यान- र्थक्यं हि तं प्रति ॥ १-२-२४ ।। किञ्च- 'यो विदग्ध" इत्यादी यदि तावद्यच्छन्दानुरोधेन १. ते ब्रा. ३.८.१९. ते.सं. ५.४.४. ३. पू. मी. १.४.२३, ४.पू. मी. ३. ४.१. ५. पू. मी. ६. ६. ११. ६. यधपि अपकर्षो न कल्प्येत इ सेव सर्वत्र पाठस्लमुपलभ्यते, तथापि हस्तलिखितकौस्तुभपुस्तकयोनप्रहितस्यैव पाठस्यदर्श- नात् तथैव ग्रन्थकृता व्याख्यातत्वाच्च स एव पाठो निवेशितो मया। २.

४८ मीमांसाकौस्तुभे [ औदुम्बराधिकरणम् । दर्शपूर्णमासप्रकरणस्थविदग्धस्वे निमित्ते नित्यादिदेवता. न्तरविधिः,तदा स्लावकत्वेन गतिसम्भवे नित्यस्याप्युत्पत्तिशि- ष्टदेवतान्तरस्य बाधाख्योऽपकर्षः कल्प्येत । अथैतदोषभयाद्य- वहितकल्पनयापि 'यो नैर्ऋत' इति तद्धितान्तपदलक्षितनिति- दैवत्ययागीयद्रव्योद्देशेन विदग्धत्वविधानं, तदा(१) "पूषा प्रपिष्ट: भाग" इति वत्प्रकरणादपकर्षः कल्प्यः । दर्शपूर्णमासप्रकरणे नि. ऋतिदेवताभावेन दर्शपूर्णमासकर्म प्रति विध्यानर्थक्यात् । न च प्रकरणे एव कर्मान्तरविधिश्शयः, यत्तच्छन्दान्वयानुपपत्तेः । "अविदहता श्रपयितव्य" इति विध्येकवाक्यत्वसम्भवे वाक्यभे. दाङ्गीकारायोगाच्च । तथाचोत्तरमूत्र वक्ष्यति-"विधौ च वा- क्यभेदस्स्यात्" इति । तस्मात्स्तावकन्त्रमेव युक्तम् ॥ सूत्रं व्याख्यातम् ॥ २४ ॥ विधौ च वाक्यभेदस्स्यात ॥ १-२-२५॥ इदं मूत्रम् स्तुतिपरस्यापि "ऊर्जाऽवरुद्ध्या" इत्यस्य फलपर. वे शङ्खयमाने-यदि तावत् श्रूयमाणस्यैवोभयपरत्वम् , तदा ला- त्पर्याने कामानिमित्तो वाक्य भेदः । रात्रिसत्रन्यायेन श्रुतस्य श. ब्दस्य स्तुतिमात्रपरत्वेऽपि विहितस्यौदुम्बरवस्य फलापेक्षायां कल्पितेन शब्देन फलविधौ शङ्यमाने तु गौरवलक्षणो वाक्य- भेदः । यद्यपि चेयं शङ्का पर्णमय्यधिकरणे निराकरिष्यते, त- थाप्यत्रापि प्रसङ्गानिराकृतेति मूले व्याख्यातम् । वस्तुतस्तु-अ. नन्तरसूत्रानुगुण्याद्विदग्धादिवाक्येष्वेव कर्मान्तरशङ्कानिराकर. णार्थ वेदितव्यम् । निराकरणप्रकारश्च पूर्वमेव दर्शितः ॥२८ ।। इति द्वितीयमौदुम्बराधिकरणम् ॥ २ ॥ ( विधिवन्निगदाधिकरणम् ) , munmun १. तै. सं २.६. ८.

प्रथमाध्यायस्य द्वितीयः पादः । अथ तृतीयं हेतुबन्निगदाधिकरणम् ।। हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १-२-२६॥(पू) (विषयमंशयमङ्गतयः) चातुर्मास्येषु-१) "शूर्पण जुहोति, तेन ह्यन्नं क्रियते" इति श्रुतम् । तत्र 'तेन बन्नं क्रियत' इत्यस्य हेतुविधायित्वन प्रामाण्यं स्तावकत्वेन चेति पन्देहः। पादाध्यायसङ्गती(२) स्पष्टे । अ. नन्तरा तु पूर्वत्र कामपदाद्यभावात्फलपरत्वं निराकृतम् , इह तु हेतुप्रतिपादक हि'शब्दश्रवणाद्धेतुविधित्वसम्भव इति पूर्वपक्षोत्थानात्पूर्वाधिकरणसिद्धान्तहेतुप्रत्युदाहरणरूपा । अत एन न पौनरुक्त्यमपि (पूर्वपक्षः) तत्र हिशब्दश्रुत्याऽनकरणवस्य हेतुत्वमुच्यते । हेतोश्च साध्यापेक्षायां सन्निधानाल्लाघवाच्च होमसाधनत्वं माध्यत्वेन मम्बद्ध्यते । यद्यपि च पूर्व व्याप्तयवगममन्तरेण लोके प्रायशो न हेतुत्वावगमः, तथाप्यनवगतव्याप्तेरपि पुंसो धूमो वहेतुरि- स्याप्तोपदेशादेव व्याप्तयनुमानववेदावगतहेतुत्वान्यथानुपपच्या व्याप्तित्रचनं कल्प्यते यद्यदनकरणं तेन तेन होतव्यमिति । अस्ति च दीपेिठरशूदीनामन्नकरणत्वम् ; पाकादिरूपव्या- पारवत्वात् , विप्रकृष्टलाङ्गलाद्यपेक्षया साधकतमत्वाच । अत्र च तच्छब्देन शूर्पपरामर्शेऽपि न तस्य हेतौ प्रवेशः, हिश. १.चातुर्मास्यान्तर्गतवरुणप्रघासाख्ये द्वितीये पर्वण्याम्नातमिदम्। २. सङ्गतिस्स्पष्टैवेति० क.ख. पु.। . ७ मी० को भीमांसाकौस्तुभे [हेत्वधिकरण- , ब्दोपात्त हेतुत्वविधाबुद्देश्यस्य तृतीयोपात्तस्य करणत्वस्य प्रातिप- दिकोपात्तेन शूर्पण विशेष्टुमशक्यत्वात् । शूर्पस्य पक्षस्वेन तहचिं. स्वस्य हेतुतावच्छेदकत्वानुपपत्तेश्च । अत्र च 'शूर्पण जुहोति, तेन ह्यन्नं क्रियते' इत्युभयत्रापि वर्तमान निर्देशाद्धोमसमा. नकालीनान्नक्रियाप्रतीतेस्तादृश्याश्चासम्भवेन तन्निरूपितकरण: त्वस्य होमसाधनत्वं प्रति हेतुत्वासम्भवात् 'क्रियत' इत्यत्र कृमा स्वार्थविषयिणी शक्तिलक्ष्यते-तेन कर्तुं शक्यत इति । अन्नक्रियाजनकशक्तेश्च सर्वदा वर्तमानत्वान्न लटोऽनुपपत्तिः । वस्तुतस्तु शक्ति प्रति तृतीयोपात्तस्य करणत्वस्यानन्ध. यापत्तेशक्तिव्यतिरिक्तकरणत्वाभावाच्च शक्तिलक्षकत्वानुः पपत्तेलंट एव भूतत्वे भावित्वे वा लक्षणा । आवश्यकी चेयं लक्षणा स्तुत्यालम्बनार्थ सिद्धान्तिनोऽपि । तेन तादृशान्नक्रिया. करणत्वस्य हेतुत्वोपपत्तिः। अत्र च होमस्य (१) "करम्भपात्राणि जुहोति" इत्युत्पत्तिवाक्येनैव प्राप्तत्वातदनुवादेनात्रकरणत्व- तुकमन्नकरणमात्रस्य दीपिठरादेस्साधनत्वं श्रुतानुमितैकदेश निष्पन्नवाक्येन विधीयते । शुर्पपदं चा(२)वयुत्यानुवादोऽनकर- णमात्रोपलक्षणं वा । दर्वीपिठरादीनामपि होमसाधनत्वसिद्धिश्च व्याप्तिकल्पकस्य हेतोः प्रयोजनमिति नानर्थक्यम् । नचैवं पाश- स्त्यसमर्पकाभावः, विधेरेवाप्राप्तिबल लब्धप्राशस्त्यलाभोपपत्तेः । " १. का. श्री. सु. ५. ५. १०. दक्षिणाग्नौ यवानीषद्भर्जयित्वा तान् पिष्टा (चूर्णीकृत्य ) जलेन संयुत्य तेन पिष्टेन यजमानस्य यावत्यः प्रजाः स्युः तत एकाधिकानि पात्राणि क्रियन्ते । तानि करम्भपात्राणि । तानि च नवीने शूर्प निक्षिप्य तत् शूर्प पत्नी स्वशिरसि निक्षिप्य यजमानान्वारब्धा दक्षिणेऽग्नौ जुहुयात् । एष सम्प्रदायः ॥ २. अवयुत्य समुदायात् पृथकृत्यानुवादः ।

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । हेतुसमर्पकस्यैव वा(१)रात्रिसत्रबदुभयपरत्वकल्पनया प्राशस्त्य. परत्वोपपत्तिः । तस्माद्धेतुविधिरेवायम् “न पत्रानूयाजान्यक्ष्यन् भवती" तिवत् ।। सूत्रं व्याख्यातम् ॥ २६ ॥ ( इति पूर्वः पक्षः) स्तुतिस्तु शब्दपूर्ववादचोदना च तस्य ॥१-२-२७॥(सि) (सिद्धान्तः) नैवम् ; प्रथमोपस्थितविध्युद्देशवफ्नन्यप्रयोजनशूर्पपदवैय- र्थ्यप्रसङ्गात् । अतश्शूर्प तावदवश्यं विधेयम् । तेन प्रत्यक्ष. श्रुतेन शूर्पणाऽऽनुमानिकर्दादिभिने विकल्पः, न वा तस्य तैबांधः । समुच्चयोऽपि शूपस्य नरपेक्ष्यवाधादयुक्तः । तथा हि --(२)समर्थः पदविधिः" इति सूत्रेण तावत्पदमात्रस- म्बन्धिविधौ सामर्थ विधीयत इति निर्विवादम् । (३)न चै. तस्य समासपकरणस्थत्वात्पदमात्रे न सामर्थ्य विधायकत्वम् , एतस्य परिभाषा रूपत्वेन प्रकरणेनानियमात् । अन्यथा तद्धि- तविधावप्यस्य प्रत्यनापत्तेः । न च तत्र (४)समर्थानां प्रथ- मावा" इति सूत्रेण सामर्थापेक्षत्वविधिः, अस्त्र सूत्रस्य 'सम- र्थानां पदाना' मित्यन्द्य 'प्रथमाद्रा प्रत्ययोत्पत्ति' रिखेतद्वि- धिपरत्वात् । वस्तुतस्तु नास्थ समासप्रकरणस्थत्वम् । अतस्समास- वत्पदस्य सतो विधिरित्यर्थासम्भवेऽपि प्रातिपदिकादनुशि. टस्यापि तद्धितस्य पदसम्पादकत्वात् , उभय साधारण्येन पदस. १. रात्रिसत्रे स्तावकस्यार्थवादस्य फलपरत्वमपि यथा कल्प्यते तद्वदुभयपरत्वमिति भावः ।। २. पा. सु.२.१.१.। ३. न च तस्येति ख. पु.। ४. पा.सू.४.१.८२॥

५२ MEINYURSala मीमांसाकौस्तुभे [हेत्वधिकरण- म्बन्धिविधिमात्रम् । पदविधिशब्दार्थो महाभाष्ये प्रासेद्धः । एवं च सुप्तिविधेरपि धातुप्रातिपदिकादनुशिष्टत्वेन पदसम्बन्धित सामापेक्षत्वमविरुद्धम् । अतश्शूर्पणेत्यत्रापि सामथ्र्यापेक्षत्वा- दन्यापेक्षत्वे च सामर्थभङ्गापत्तेर्न समुच्चयः । ननु-"समर्थः पदनिधिः" इत्यत्र महाभाष्यकारेण द्विविध सामर्थ्यमुकम् -:पेक्षालक्षणमेकार्थाभावलक्षणं च । तत्र यदि तावदन्योन्यापेक्षत्वरूपं व्यपेक्षालक्षणम् , यथा 'राजपुरुष' इत्यत्र राजपदस्योत्थिताकाङ्क्षत्वं पुरुषपदस्य चोत्थाप्याकाङ्कस्वम् , तथा सति शूर्पणेत्यत्र द्रव्यान्तरसाक कासत्वेऽपि प्रकृतिप्रत्यययोः परस्प. रसापेक्षत्वान्न विरोधः । न चैवमृद्धपदसाकाङ्कत्वेऽपि राजपुरुष इति समासापत्तिः, "सविशेषगानां वृत्तिर्नेष्यते" इति वार्तिकेन तनिषेधात् । अथ तु मूत्रवार्तिकमोरेकवाक्यतया पदान्त रसापेक्षवे. ऽप्यसामर्थ्यं स्यात् , तथापि शाब्दान्वयसापेक्षत्व एव तत् . नत्वर्थान्तराकाङ्कत्वेऽपि । ब्रीह्यादीनामवघाताद्यपेक्षत्वेऽपि साम. ाविधालात् । अथैना भावलक्षणं तत्; तथापि समास वच्छुपकरणत्वयोर्विशेषगविशेष्य भावमात्रणेकायोपत्तेर्न द्रव्या- तरसापेक्षत्रेऽपि सामर्षभङ्ग इति चेन्न; विशेषणवस्यान्य - योगव्यावृत्तिं विनाऽसम्भवेन द्रव्यान्तरसापेक्षत्वे विशेषणा- स्यैवानुपपत्तावेकार्थीभावलक्षणसामानुपपत्तेः । यद्यपि चायोगव्यात्तिरूपनियमफलकत्वेनापि विशेषणत्यो पपतिः, तथापि शुर्पस्थाविशेषाद्धोमीयसकलद्रव्याधारत्वेन वि. धानात्तत्र चायोगव्यावर्तनरूपस्य नियमस्य द्रव्यान्तरव्यावृत्ति मन्तरेणासिद्धेर्न समुच्चयोपपत्तिः । एवञ्च यद्यपि "समर्थः पदविधि" रित्यनेन पदमात्रविधी सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । सामर्थ्यविधिन स्यात् , नथापि अधिनियमविचित्वात्तस्यो- क्तविधा द्रव्यान्तरव्यावृत्तिमन्तरेण मिद्धेहिनिलरात्पर्यावगते. स्समुच्चये च नइसिद्धर्न पुरुषेच्छामात्रेण गाञ्चोपपत्तिः। आ. च्यापादने न तु समुच्चयपक्षो गुणानुगेधेन प्रधानावृत्ययोगा- दयुक्तः । विस्तरेण चैतदुपपादितम् --- (२) समासस्थति सामर्थ्य नचापीष्टं विशेषणे । विशेषगं व्यवच्छेत्तृ विशेष्यव्यापि चोच्यते ॥" इत्यादिना रथन्तर चरणे वार्तिककृता । नस्मान्न ममुच्चयोऽपि । अतश्च प्रत्यक्षश्रुतेन शूणैच होमस्य निराकाङ्क्षत्वाद नानु. मानिकानां दवींपिठगदीनामन्यवः । न च शूर्पासम्भवेऽनुकल्पत्वेनान्वयश्शक्यः, हिशब्दश्रुते. रपेक्षितस्तुतिमात्रपरत्वसम्भवेऽनपेक्षित हेतुपरत्व कल्पने प्रामाण्या- भावेन दीपिठराद्यन्वयविधायिव्याप्तिकल्पने गौरवात् । न च स्तुतिपरत्वे लक्षणापत्तिः, अपेक्षानुरोधेन नस्या अ. प्याश्रयणीयत्वात् । वस्तुतस्तु हिशब्दो हेतुत्वमेव वदन् विधि प्रति हेतोरनप- क्षिनत्वात् आनर्थक्यादङ्गन्यायेन स्तुति प्रसाश्रीयते--अन्नक रणत्वात्प्रशस्त इति । अनो विधिशब्दापेक्षापूर्वकत्वात् स्तुतिरव न्याय्या, यतोऽन्नकरणत्वस्य हेतुत्वेऽपि दीपिठसदेः साधक- तमत्वाभावेनाकर णत्वात् , साधकतमस्य च पाकादेः होमसाध. नत्त्वायोगात् , अचोदनेत्येव सूत्रार्थः ॥ २७ ॥ व्यर्थे स्तुतिरन्याय्योत चेत् ॥ १-२-२८ ॥ नन्वेवं शूऽपि साधकतमत्वाभावात् स्तुत्यालम्ब नरू- पार्थरहिते स्तुत्यनुपपत्तिः ॥ २८ ॥ १. तं. वा. पृ. ५७९ । .

, ५४ मीमांसाकौस्तुभे [हेत्वधिकरण- अर्थस्तु विधिशेषत्वाद्यथा लोके ॥ १-२-२९ ।। अस्मत्पक्षे त्वेतस्य विधिशेषत्वेनानुवादकत्वात् , अनुवा- दस्य च यथाप्राप्ति वर्णनीयत्वात् , यादृशं लोके शूर्पस्य विप्र. कृष्टलाङ्गलाद्यपेक्षयाऽन्तरगत्वादन्नं प्रति साधकतमत्वं दृश्यते, तादृशस्यैव स्तुत्यालम्बनार्थमनुवादो नानुपपन्नः । एवमेव वर्त. माननिर्देशोऽपि अनुवादत्वादुक्तरीत्या करोतेश्शक्तिलक्षकत्वेन लटो वा भृतभावष्यकाल लक्षकत्वेन व्याख्येयः । अनुवादत्वा. देव च लक्षणापि न दोषः । प्रत्युत स्तुत्युपपादकत्वाद्गुण एव । न हि भूते भाविनि वा तादृशी प्रीतियांशी वर्तमाने। न वा वर्तमानशक्तिके तादृशी याहशी फलोपहिते । अतो वर्तमानश- क्तिकं हेतुं कृतं करिष्यमाणं वा स्तोतुमस्मत्पले 'क्रियत' इति निर्देशोपपत्तिः । हेतुविधिपक्षे तु प्रमाणान्तरसिद्धार्थानुवादक- स्वाभावाद्यथाश्रुतादीपदप्यन्यथात्वकल्पनं दोष एव । अत एव यत्र हेतुविधिपक्षेऽपि न लक्षणा। यथा -(१)आतिथ्यायां "चतुर्ग्रहीतान्याज्यानि भवन्ति न ह्यत्रानुयाजान्यक्ष्यन्भवती" त्य. त्र। तत्र हेतुरेवानूयाजाभावः चर्तुर्ग्रहीतत्रित्वविधिफलीभूताष्टगृही- तगतग्रहणचतुष्कनिवृत्तौ । अतश्च तत्र हेतुबलेन व्याप्तिकल्पना. यामातिथ्याव्यतिरिक्तायामपि खण्डेष्टावनुयाजाभावे सति चतु- हीतत्रित्व प्राप्तेरष्टगृहीतानिवृत्तिसिद्धिः। प्रकृतौ च "अष्टावुपभृ. ति गृह्णानि" इत्यत्र चतुष्कद्वयलक्षणाद्यात नार्थत्वादेतस्य प्रयाजार्थ जुहां समानयने नियोगतोऽर्द्धमेव समानेतव्यमिति लभ्यते । अन्यथा हि प्रयाजानुयाजयोर्मिलित्वा पञ्चसंख्याकत्वात् १. सोमयागे दीक्षानन्तरदिने सोमक्रयणानन्तरं क्रियमाण इष्टि. विशेष आतिथ्या।

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । (१) समं स्यादश्रुतत्त्वा' दितिन्यायेन प्रयाजद्वयार्थ किञ्चिदधिक त्रुवत्रयस्यैवानयनं प्रसज्येत । यथा च न प्रकारान्तरेण चतु: कद्वयसिद्धिः, तथा चतुर्थ(२) उपपादयिष्यते । अतश्च तत्र लक्षणाभावाद्धेतुविधित्वमेव, प्रकृते तु लक्षणाप्रसङ्गात् स्तुति- परत्वाङ्गीकारः ॥ २९ ॥ (३)यदि च हेतुरवतिष्ठेत निर्देशात् ॥ १-२-३० ।। यद्यपि चायं हेतुविधिस्स्यात् , तथापि शुर्पगतस्यैवात्रकर- णत्वस्य हेतुत्वमवतिष्ठत, न दीपिठरादिगतस्यापि, शूर्पस्यैव होमसाधनत्वनिर्देशात् । न च शूर्पगतहोमसाधनत्वे साद्ध्ये ऽन्य. गतान्नकरणत्वस्य(४) हेतुता सम्भवति, सामानाधिकरण्याभा. वात् । सन्निहितपरामर्शिसर्वनामोत्तरतृतीयाश्रवणेन पदश्रु. त्या तद्वतस्यैवान्नकरणत्वस्याभिधानाच्च । न चान्नकस्णत्वस्थ हेतुत्वं प्रत्युद्देश्यत्वात्ताविशेषणाविवक्षा, अन्नकरणत्वस्य स्वरू. पतो लोकायगतस्यापि सोमादिवद्विधेयत्वेनानुद्देश्यवाद । यत्तु धूमादिवत्पक्षवृत्तित्वेन हेतोरविशेषणमित्युक्तम् । तन्न, धूमादौ विशेषधर्मेण व्याप्तयनवगमायुक्ता धूमत्वादिना सामा- न्येन हेतुता । वेदे तु प्रमाणान्तरेण व्याप्तयनवगमात् , विशेष- तश्श्रुतहेवन्यथानुपपत्तेविशेषव्याप्तिकल्पनयाऽप्युपपत्तौ न श्रुतप- रित्यागे प्रमाणमस्ति । दृष्टं च लोकेऽपि विशेषतस्तृणधृमदर्श नात् तृणानेरनुमानम् । अतो यद्यदन्नकरणं शूर्प तेन तेन होत. स. १०.३.५३. २. चतुर्थप्रथमान्त्याधिकरणे 'तदष्टसंख्य'मित्यत्र । ३. इतस्सूत्रत्रयमेकसूत्रतया परिगणितं भाज्यादौ । ४. त्वस्यापि. क. पु.। . १. जै.

मीमांसाकौस्तुभे [ मन्त्राधिकरण- , व्यमिति व्यासिकल्पनाद समर्थशूर्पव्यावृत्तिः परं भवेत् , न तु दादिप्राप्तिः । इदं च वस्तुलो लक्षणाप्रसंगेन स्तुतिपरत्वर वस्थै- बोक्तवादभ्युपेत्यनादेवोक्तम् । सत्प्रयोजनं च नानूयाजामा. वमात्रस्य हेतुत्वम्, किन्तु बहुवचनश्रवणात् बहनूयाजाभाव स्थानूयाजसामान्याभावरूपस्य । अतोऽनभृथे बहिरन्याजमात्रा. भावेऽपि न व्यभिचारः ॥ ३०॥ सामान्यादिति चेत् ॥ १-२-३१ ॥ ननु --अविशेषमष्टत्ततृतीयारूपाय यश्रुत्यनुरोधेन पतश्रुति- बाधादभकरणसामान्यौव हेतवं स्यादिति च ?-॥ ३१ ॥ अव्यवस्था विधीना स्यात् ।। १-२-३२॥ प्रत्यय श्रुत्थंगीकार हि यचद्गृहीतं तस्य तण काचिदन्ननिमि- तताऽस्त्येवेत्य नवस्थितत्वाद्यत्किञ्चित् द्रव्यं होमे प्रसज्येत । तादृश. स्य च होमाक्षेपादेव मानत्वादनर्थकोऽनकरणशब्दः । अतश्च प्रत्ययश्रुतेरानर्थयमातहतस्यादुलश्रुत्यनुरोधो न दोषाय॥३२॥ इति तृतीयं हेतुबभिगदाधिकरणम् ( हेत्वधिकरणम् ) अथ चतुर्थ अन्त्राधिकरणम् ।। तदर्थशास्त्रात् ॥ १-२-३३ ॥ (पू) ( विषयलंशयसान्दथः) 'मन्त्रानर्थक्वमित्यन्तस्य एकसूत्रस्वेऽपि व्याख्यालोकार्थ खण्डशः प्रत्येकं पञ्चम्यन्तसूबाश्यवोपन्यासः ! इह मन्त्रानुदा- प्रथमाध्यायस्य द्वितीयः पादः । १७ हृत्य किं तेषां धर्म प्रामाण्यमुत नेति विचारः । अत्र पादाध्या- यसङ्गती पूर्ववत् ॥ पूर्वपक्षः ) तत्र यद्यप्यर्थवादवदेवाऽध्ययनविधिनाऽध्ययनसंस्कार्यता मन्त्राणामवगता, तथापि मन्त्राणामुपयोगापेक्षायां न तावत् विधिवत्वतो विधायकत्वेनोपयोगसम्भवः, विधिविहितार्थानु. वादकत्वात् ; यच्छब्दादिना विधिशक्तिप्रतिबन्धाच्च । नापि स्तावकत्वेन, अर्थवादवत्पदेशान्तरविहितस्तुत्यसम्भवात्। तथा हि-मन्त्राणां स्तावकत्वमर्थवादवत्पदैकवाक्यतया वा ? वाक्यैकवाक्यतया वा ? नाद्यः, प्रदेशान्तरस्थत्वात् । नान्यः पदार्थविधया लक्ष्यस्तुतिमात्रप्रतिपादनेऽपि अर्थवादवदेव स्वा. र्थबोधे समाप्तयभावात् । अतो न स्तावकत्वम् । विस्तरेण चै. तत्(१)द्वितीये द्वयमपि निराकरिष्यते । अत एवार्थवादप्रामा. ण्य हेतुप्रत्युदाहरणरूपेण पूर्वपक्षोत्थानादर्थवादविचारसङ्गतिः । अनन्तराधिकरणद्वयस्य त्वाक्षेपसमाधानार्थत्वेनार्थवादाधिकरण- शेषत्वादव्यवधायकत्वम् । प्रकरणान्तरत्वेन चानन्तरसङ्गसभा- वेऽपि न दोषः । नापि स्मारकत्वेन; तथाङ्गीकारेऽप्यनधिगतार्थगन्तृत्व- रूपस्य प्रमाकरणत्वरूपस्य वा प्रामाण्यस्य तावदयोगस्तदवस्थ एव । किञ्च इदं स्मरणमपि यत्किञ्चित्वार्थमात्रविषयकम् ? कर्मसमवेतानुष्ठेयार्थविषयकं वा ? नाद्यः, अनुपयोगात् । सान्नां मन्त्रत्वस्य(२)द्वितीये वक्ष्यमाणत्वात्तेषां चार्थाभावेनाव्यापक- त्वाच्च । नान्त्यः, अनुष्ठेयार्थस्मरणस्य ध्यानादिनाप्युपपत्ती २. पू. मी. २. १. १२. . १. पृ. मी. २. १. ७. ८मी० को . ५८ भीमांसाकौस्तुभे [ मन्त्राधिकरण- मन्त्रवैयात, वाचकमन्त्रशब्दस्मरणस्यार्थस्मरणाधीनत्वेन चै. परीत्याच्च। किश्च-प्रोत्साहनानुमन्त्रणादिमन्त्राणां (१)"अगन्म सुव" रित्यादीनां कर्मसमवेतार्थाभिधायित्वेऽप्यननुष्ठेथार्थक- स्वान्न स्मरणोपयोग इत्यव्यापकत्वं तदवस्थमेव । जपादिम- न्त्राणां तु कर्मासमवेतार्थाभिधायित्वमपि प्रायशो लक्ष्यते । एवं यत्रापि करणमन्त्रे समवेतार्थाभिधायित्वं तत्रापि द्वित्राणामेव नि. पादिपदानां तत्, न तु (२) देवस्य त्वा' दिपदानाम् । साम. मन्त्राणां तु गीत्यात्मकत्वेनाऽवाचकत्वान्नाभिधायित्वमपि । अतः स्मारकत्वेनाप्युपयोगासंभवात, अध्ययनसंस्कृतानां चोप- योगापेक्षायां प्रकरणपठितानामनारभ्याधीतानां च यथासम्भवं श्रुतिवाक्याधिकाराख्यप्रकरणक्रमसमाख्यादिभिः प्रधानाङ्ग. त्वेनावगतानां प्रधानविधिना मन्त्रस्वरूपमेवाङ्गीक्रियते, न तु ब्राह्मणवाक्यवदर्थोऽपि, अनुपयोगात् । मन्त्रस्वरूपस्य च स्वतोऽक्रियारूपत्वाद्यद्यपि नेतिकर्तव्यतात्वेनान्वयो योग्यः, नापि स्वरूपेण प्रधानोपकारकत्वसम्भवः, तथापि प्रमाणान्तरा. वगतमन्त्रस्वरूपाङ्गत्व निर्वाहायोचारणक्रियाद्वारेण त्रीयादिवत्का: रकत्वेनान्वयोऽङ्गीक्रियते । प्रायशश्च वेदे मन्त्रणा 'मित्याहो' पनि बद्धत्वादुच्चारणक्रिया श्रुतैव । यत्रापि (३)"वर्हिदेवसदनं दामी" त्यादौ सा न श्रुता, तत्रापि परिशेषात्सव कल्प्या । न हि (४)प्रत्यायनस्य पुरुषकृत्यसाद्यस्य व्यापारत्वं (५) घटते । अत उच्चारणमेव व्यापारः। तस्य चोक्तविधया दृष्टपयोजना. सम्भवाददृष्टार्थत्वम् । १. तै. सं. १.६. ६. २. तै. सं. ४. १. १. ३. मै. सं. १. १. २. ४. अर्थप्रत्यायनस्यति ख. पु. ५. सम्भवति इति ग. पु.

पूर्वपक्षः] प्रथमाध्यायस्य द्वितीयः पादः । नचैवमर्थपरत्वाभावे स्वाध्यायाध्ययनविधेरदृष्टार्थतापत्तिः, हुंफडायध्ययनवन्मन्त्राध्ययनस्यापि कर्मकालीनोच्चारणप्रयोग- प्राशुभावसिद्धयर्थत्वेन दृष्टार्थत्वात् । अत उच्चारणक्रियाद्वारेण मन्त्राणां प्रधानभावनाग्रहणम् । न च मन्त्राणामशाब्दत्वाच्छाब्दक्रतुभावनानन्धयः, क्रमा- दिकल्पितया अनेन मन्त्रेणास्य प्रधानस्योपकुर्यादित्येवंविधया श्रुत्या मन्त्राणामपि शाब्दत्वात् । एवं चार्थप्रत्यायनार्थत्वाभावा- ल्लिङ्गेन तत्तदवान्तरकार्य बहिबनादौ विनियोगायोगादर्शपूर्ण- मासादिप्रकरणपठितानां सर्वेषां मन्त्राणां यत्रकचित्मयोगे प्राप्ते केषाश्चिन्मन्त्राणां क्रियाविशेषानुष्ठानकालीनोच्चारणविधायि- शास्त्रस्याप्युपपत्तिः, अन्यथा हि लिङ्गादेवानुष्ठेयक्रियाङ्गत्वसिद्धेः पुनस्तदङ्गत्वप्रतिपादकस्य शास्त्रस्य वैयर्थमेव स्यात् । यथा (१)"अभ्रिरसि नारिरसी" त्यादयोऽग्निप्रकरणाम्नाताश्चत्वारो मन्त्रा लिङ्गादेवाग्न्यङ्गेष्टकार्थमृत्खननसाधनीभूताभ्रयादाने प्राप्ता इति (२)'तां चतुर्मिरादत्त' इति वचनं व्यर्थम् । न च चतुस्सङ्ख्या विधानार्थं तत् ; सा ह्यादानोद्देशेन वा विधीयते मन्त्रोद्देशेन वा ? न तावदाद्यः, सङ्ख्याया (३) 'स्ति- स्र आहुती' रितिवत्कर्मसामानाधिकरण्याभावेन साक्षादादान. सबन्धायोगात् । न चारुणैकहायनीन्यायेन मन्त्रसामानाधिक- रण्योपपत्तिः । तत्रैकहायन्या अप्राप्तत्वेन विधेयत्वात्तत्परिच्छे. दकापेक्षायां युक्तः पाष्टिक आरुण्यन सम्बन्धः । मन्त्राणां तु लिङ्गादेव विकल्पेनैकसङ्ख्यानां प्राप्तत्वेन परिच्छेदकानपेक्ष. स्वान्न ग्रहैकत्ववद्युक्तश्चतुस्सङ्ख्यायास्सम्बन्धः स्वरूपेणैव मन्त्राणां चतुस्सङ्ख्यात्वेन वचनवैयर्थ्यात् । आदान- १.तै. सं. ४. १. १. २. तै. सं. ५. १..१ ३. तै. सं. २. ३. ९. ? नान्त्या, .

. मीमांसाकौस्तुभे [ मन्त्राधिकरण- विशिष्टमन्त्रोद्देशेन सङ्ख्याविधौ विशिष्टोद्देशे वाक्यभेदः । उभयविशिष्टादानविधिपक्षस्तु आदानस्यार्थप्राप्तवान्मन्त्राणां लिङ्गादेव प्रारनाशङ्कय एव । अतो न सङ्ख्याविधिः । नापि समुच्चयविधिः, तद्वाचकशब्दाद्यभावात् । अस्मत्पक्ष तु चतुस्सङ्ख्याकमन्त्रोच्चारणस्याऽऽदानागत्वसिद्धयर्थों विधि- रर्थवान् । तथाग्निचयनप्रकरणाम्नात एव मन्त्रः (१)" इमामगृभ्णन. शनामृतस्ये" त्ययं लिङ्गादेव तत्रत्याश्चरशनाग्रहणे प्राप्त इति पुनस्तत्र "(२)इत्यश्वाभिधानीमादत्त" इति वचनं व्यर्थम्, न ह्यत्र पूर्ववत्किञ्चिद्विधेयान्तरमप्याशङ्कितुं शक्यम्, आदानस्य स्वरूपेणाश्वाभिधानीसंस्कारार्थत्वेनान्मन्त्रस्य च लिङ्गादेव प्राप्तेः । न च मन्त्रस्याश्वाभिधान्यादान इव लिङ्गाविशेषण गर्द- भरशनादानेऽपि प्राप्तेस्तत्परिसङ्घयार्थं वचनमर्थवद्भविष्यतीति वाच्यम् । परिसङ्ख्या हि प्राप्त्युत्तरकालं शाब्दी वा स्यात् ? लैङ्गिकप्राप्तेः पूर्वमेवाश्वाभिधान्यादाने मन्त्रविधौ कृते पश्चाद्विधेः फलत्वेन वा ? आयेऽप्यादानविषयिणी मन्त्रविषयणी वा नायः, गर्दभरशनादानाभावे गर्दभबन्धनासम्भवेन रशनावैयर्थ्यप्रस- ङ्गात् । अश्वाभिधानीसम्बन्ध्यादानस्य श्रौतस्य सामर्थ्यादेव प्राप्तेरविधेयत्वात्स्वार्थस्य विधेयवहानिः, गर्दभाभिधान्यादान- निवृत्तेश्च लक्षिताया विधेयत्वात् परार्थस्य विधेयत्वकल्पना, अर्थालेपप्रमाणेन प्राप्तस्य गर्दभरशनादानस्य बाधः, इति त्रैदो- व्यापत्तेश्च । दोध्यापत्यैव गर्दभाभिधानीतो मन्त्रविषयपरिस- यापक्षोऽपि निराकार्यः । लिङ्गस्याक्षेपस्य वा श्रुतिकल्पकत्वेन मन्थ- १. तै. सं. ४. १. २. २. तै. सं. ५.१.२. अथ पूर्वपक्षः] प्रथमाध्यायस्य द्वितीयः पादः । ६१ रमवृत्तित्वात्ततः पूर्वमेवाश्वाभिधान्यङ्गत्वेन मन्त्रविधौ मन्त्र विशिष्टादानविधौ वा स्वार्थस्यैव विधेयत्वात्, परार्थे चाकाङ्क्षा- विरहेण लिङ्गस्य श्रुत्यकल्पकत्वेन गर्दभरशनायां मन्त्रस्य प्राप- कप्रमाणाभावेऽर्थसिद्धत्वेनाविधेयत्वात् । अत एव प्राप्तयभावेन प्राप्तबाघस्याप्यभावात्, त्रैदोष्यानापत्तेः फलतः परिसङ्ख्यापक्षो युक्त इति चेत् अश्वाभिधान्यङ्गत्वेन मन्त्रविशिष्टादानविधावप्यवाभिधा. नीस्वरूप आनर्थक्यप्रसङ्गनापूर्वसाधनत्वलक्षणायां रशनाद्वय- स्याप्येकया प्रणाड्या एकापूर्वसाधनत्वा(१)यवेष्विवावधातादे. मन्त्रस्य गर्दभरशनायामपि प्राप्तेर्दुवारत्वात् । अतो द्विविधाया अपि परिसङ्ख्याया असम्भवान्मन्त्रस्य लिङ्गविनियोज्यत्वे वच. नवैयापत्तिः, अस्मन्मते तु सत्यपि रशनाद्वयसाधारण्ये रश. नाद्वयादानाङ्गत्वेनैव मन्त्र विधिरर्थवान् । तथा दर्शपूर्णमासप्रक- रणाम्नांतः (२) "उरुप्रथस्वोरु ते यज्ञपतिः प्रथता" मित्ययं मन्त्रः लिङ्गादेव तत्रत्यपुरोडाशप्रथने प्राप्त इति पुन: "इति पुरोडाशं प्रथयती" ति वचनं व्यर्थम् । न ह्यत्र पूर्ववन्मन्त्रस्यान्यनिवृत्तिश्श- क्यते शङ्कितुम् । लिङ्गेनान्यत्र प्राप्तयभावात् । ननु अत्र प्रथनमेव विधीयते, न मन्त्रः, लिङ्गादेव प्राप्तेः । न च पुरोडाशान्यथानुपपत्त्या प्रथनमपि प्राप्तमेव । त्व. राविशेषेणाऽप्रथितस्यापि पिष्टपिण्डरूपपुरोहाशस्य निष्पचिद- शनादिति भवदेवेनोक्तत्वात् । अतः प्रथनमात्रविधायके वाक्ये लिङ्गप्राप्तमन्त्रोपादानं (३) “यज्ञपतिमेव तत्मजया पशुभिश्च १. "व्रीहीनवहन्ती"त्यनेन विहितोऽयवघातो दर्शपूर्णमासापू. वरूपैकापूर्वसाधनाभूतेषु यवेष्वपि यथा प्राप्नोति तद्वदित्यर्थः । २. तै. सं. १.१.८. ३. ते. ब्रा, ३.२.८.

६२ मीमांसाकौस्तुभे [ मन्त्राधिकरण- प्रथयती" त्यर्थवादकृतयज्ञपतिप्रथनफलकत्वरूपप्रथनस्तुत्याल. म्बनोपपादनार्थम् । मन्त्रे हि पुरोटाशं प्रत्यध्वर्युव्रते-उरु ते यज्ञपतिः प्रथतामिति, यश्चैवं ब्रूते स प्रथयत्येव । अतोऽध्वर्यो- राशीदानकर्तुत्वं यज्ञपतिप्रथनोल्पादनकर्तुत्वेनोपचर्पते । अतः पुरोडाशपथनस्तुतिसिद्धिः। तेन मन्त्रपुनश्श्रवणस्यार्थवादार्थ- स्वान्न वैयर्थ्यमिति चेन्ना मन्त्रोपादानाभावेऽपि लैङ्गिकविनि- योगेन मन्त्रस्य तावत्माप्तत्वाचदभिप्रेतस्तुतिसिद्धेः। पुरोडाश. प्रथनस्याप्यर्थमाप्तत्वेनाविधेयत्वाद्विधिशेषत्वायोगेनार्थवादत्वस्यै- बानुपपत्तेश्च । न च भवदेवोक्तविधया प्रथनविधिश्शयः, अष्टाक. पालादिशब्दैरेवाष्टसक्यावच्छिनकपालाधिकरणसंस्कारसंस्कृत. द्रव्यविधानात् “कपालेषु पुरोडाशं श्रपयती" ति च ताशस्यै- चाधिकरणत्वस्यानुवादात्कपालाधिकरणत्वस्यैव प्राप्तः, तस्य च प्रथनमन्तरेणायोगात्पथनस्य प्राप्तत्वेन विद्ध्यनुपपत्तेः। न च पिष्टस्य द्रवतरत्वे सति स्वत एव प्रथनसम्भवात् तदनुकूलकt. व्यापारविधानम् । तदा हि तादृशमेव पिष्टं क्रियते येन प्रथायि- तव्यं भवतीति वाच्यम् । कपालोपरि निधानात्पूर्वमेव "(१)म. खस्य शिरोऽप्तीसाह यज्ञो वै मखः, तस्यैतच्छिरः, यत्पुरोडाशः" इति वाक्येन समन्त्रकपिष्टपिण्डरूपपुरोडाशकरणस्योक्तत्वात् , द्रवतरकरणे च पिण्डासम्भवात् स्वतः प्रथनासम्भवेन यावत्क- पालाधिकरणतासम्पत्यै प्रथनकर्तव्यताया अपि नित्यप्राप्त- त्वात् । अतो विधेयाभावेन तदर्थवादत्वस्यैवायोगात्तदर्थत्वेना- र्थवन्मन्त्रपुनश्श्रवणमिति दुर्घटम् । अस्मन्मते तु प्रथनानुवादनापू. वस्य मन्त्रस्य विधेयत्वात् स्तुतित्वेन चार्थवादत्वस्योपपत्तेः न १. तै. बा. ३. २. ८.

पूर्वपक्षः] प्रथमाध्यायस्य द्वितीयः पादः । किञ्चिदनर्थकम् । अतश्च मन्त्रप्रामाण्ये तेषां विनियोजकरूपार्थः शास्त्रवैयर्यप्रसङ्गादुच्चारणमात्रद्वारेण च प्रधानोपकारकत्वोपप. तेरप्रामाण्यमेव युक्तमाश्रयितुम् ॥ ३३ ॥ वाक्यनियमात् ॥ १-२-३४ ॥ (१)"अग्निमर्धा दिवः ककु" दित्यादौ नियतक्रमकपदसम् हरूपवाक्याम्नानमुच्चारणार्थत्वपक्षे व्युत्क्रमे उच्चारणजन्यादृष्टे प्रमाणाभावादर्थवत् , अर्थप्रत्यायनार्थत्वपक्षे तु व्युक्रमेऽपि मूर्धाग्निरित्युच्चारणादर्थप्रत्ययस्याविशेषानियतक्रमकपदसमूहरू- पवाक्याम्नानमनर्थकम् । न चार्थपराणामपि प्रकृतिप्रत्ययसमा सादिपदानां यजेत, इन्द्राग्नी, नीलोत्पलं, राजपुरुषः, नि. कौशांधिरित्यादीनां क्रमनियमो दृश्यते एवेति वाच्यम् । तेषु विपर्ययेऽपशब्दत्वप्रसङ्गात् । तथा हि- प्रत्ययस्य तावत्परत्वं "(२)प्रत्ययः परश्चे" सनेनैव प्रसि. दम् । इन्द्रशब्दस्य च "(३)अजाद्यदन्त" मित्यनेन पूर्वनियमः । नीलशब्दस्य च विशेषणत्वात् '(४)विशेषणं विशेष्येण बहुल' मित्यनेन च प्रथमानिर्दिष्टस्य विशेषणस्य "(५)प्रथमानिर्दिष्टं समा- स उपसर्जन" मित्यनेनोपसर्जनसंज्ञायां कृतायां, "(६)उपसर्जन पूर्व"मिति पूर्वनिपातः। राजशब्दस्य च षष्ठयन्तत्वात् “(७)षष्ठी" त्यनेन प्रथमानिर्दिष्टस्य पूर्ववदेव निपातः । चित्रशब्दस्य विशेष- णत्वात् "(८)सप्तमीविशेषणे बहुबीहा"वित्यनेन पूर्वनि- पातः । निरादीनाञ्च "(९)निरादयः क्रान्ताद्यर्थे पञ्चम्ये" त्यनेन १. तै.सं.४.४.४. २. पा. सू. ३.१.१. ३. पा. सू. २. २. ३३ ४. पा. सु. २. १.५७. ५. पा. सू. १. २.४३. ६. पा. सु. २. २. ३०. ७. पा. सू. २. २. ८.८. पा.सू..२.२.३५. ९. वा १.४.१७. .

AN मीमांसाकौस्तुभे [ मन्त्राधिकरण- प्रथमानिर्दिष्टानां पूर्वनिपातः । अतस्सर्वत्र विपर्ययेऽपशब्द- स्वापत्तेः क्रमनियमाश्रयणम् । यस्तु "अग्रीन्द्रा" वित्याश्वलाय- नसूत्रे प्रयोगः, स इन्द्रशब्दस्योक्तरीत्या पूर्वनिपातस्मरणात् "(१)देवताद्वन्द्वे चे" ति स्मृतस्यान कोऽप्यदर्शनाच्छान्दस एव । राजपुरुषादिषु त्वर्थान्यत्वादपि क्रमनियमाश्रयणम् । निष्कौ. शाम्पिरित्यादौ च विपर्यये ऽर्थशून्यत्वादपि तत् । “अग्निर्मूढ़े" त्यादौ तु विपर्ययेऽप्यसाधुत्वादीनामभावात्क्रमनियमानर्थक्यम् । न चहापि क्रमान्यत्वे अमन्त्रत्वापत्तिः, नियमार्थवतां मते हि मन्त्रस्याखण्डत्वात्क्रमान्यत्वेऽमन्त्रत्वं स्यात् । तव तु ज्ञानार्थत्वान्मनोमन्यते "(२)गुधृवीपचिवचियमिमनितनि- सदिच्छदिक्षिदिभ्यस्त्र" इत्यौणादिके 'त्र' प्रत्यये कृते मन्त्रशब्दव्युत्पत्तिरूपान्याख्यानानुरोधेनार्थज्ञापकत्वातिरिक्तस्य मन्त्रत्वस्याभावात् , विपर्ययेऽपि च तदनपायादमन्त्रत्वाना. पत्तेः क्रमानर्थक्यम् । न च क्रमनियमाददृष्टं कल्प्यते । तथा सति मन्त्रनियमादृष्टस्याप्यर्थप्रत्यायनार्थत्वपक्षेऽत्र कल्प्यत्वेन द्विरदृष्टकल्पनापत्तेः । अस्मन्मते तु नियतक्रमोच्चारणादेकमेवा- दृष्टमिति लाघवम् ॥ ३४॥ बुद्धशास्त्रात् ॥ १-२-३५॥ (३)"अग्नीदग्नीन्विहर" इत्यादावानीभ्रेण स्वकर्तव्येष्वग्निः विहरणादिषु प्रयोगाद्वहिरेवावधारितेषु पुनः प्रैषशास्त्रं पिष्टपेष- गन्यायेनानकम् । न चाचिद्वद्विषयत्वेन प्रैषस्यार्थवत्ता(४ )"न १. पा. सु. ६.३.२६. ३. ते. सं. ६. ३, १. २. पा. उ. सू. ६१६. ४. जै. सु. ३. ८ १८, प्रथमाध्यायस्य द्वितीयः पादः। हाविद्वान्विहितोऽस्ती" त्यनेन न्यायेन यजमानस्येव ऋत्विजा. मप्यविदुषामनधिकारात् । न च प्रयोगाद्वहिरवबुद्धानामपि प्रयोगान्तस्स्मरणार्थ प्रैषोपयोगः, ब्राह्मणाभ्यासजनितसंस्कारादेव पूर्वपदार्थसमाप्त्यु- द्रुद्धात्स्मरणोपपत्तेः, अस्मत्पक्षे तु नैतदोषप्रसक्तिः ॥ ३५ ॥ अविद्यमानवचनात ॥ १-२-३६ ॥ (१) चत्वारि शृङ्गा त्रयो अस्य पादा" इसादौ चतुश्मृङ्ग- त्वादिमतः कर्मणः तत्सम्बन्धिनो वा द्रव्यादेः प्रकृती विकृती वाऽप्रसिद्धेर्न तत्प्रकाशनार्थत्वेनास्यार्थवत्तासम्भवः । यद्यपि च गोण्या वृया होत्रादीनामेव यज्ञशृङ्गत्वाद्युपचर्य यज्ञाभिधानं, तथापि गौणरूपस्यानुष्ठेयत्वाभावान स्मृत्या कार्यम् । यज्ञप्रका. शनेऽपि च प्रधानमात्रप्रकाशनस्य याज्यादिनैव सिद्धत्वात् प्रयो- गप्रकाशने च प्रयोगस्य विततत्वेनास्मिन्प्रदेशेऽस्य प्रयोग इत्य. नवधारणात् । प्रयोगोपक्रमस्य च कामनाद्यनुरोधेनैव बुद्धि स्थत्वेन स्मारकानपेक्षत्वात् सर्वदोच्चारणशङ्कनुापपत्तेः पाठ- क्रमानुरोधेनैवास्योपचारणापानुष्ठयार्थप्रकाशनार्थत्वोपपत्तिः। एवम् “मा मा हिंसी" रित्याद्यप्यप्रसक्तायां हिंसायां हिंसा- प्रतिषेधानर्थक्यादविद्यमानार्थकमुदाहर्तव्यम् ॥ ३६ ।। अचेतनेऽर्थबन्धनात् ॥ १-२.३७ ॥ न खलु(२) "ओषधे त्रायस्वैन"(३) "शृणोत ग्रावाण" इत्यादीनां पशुत्राणविषये अचेतनस्य दर्भस्य (४)मातरनुवाक- १. ऋ. सं. ३. ८. १०. २. तै. सं. १. २. १. ३. तै. सं. १. ३. १३ ४. ज्योतिष्टोमे प्रातस्सवने हात्रा पठ्यमानश्शस्त्रविशेषः। ९ मी० कौ० ६६ भीमांसाकौस्तुभे [ मन्त्राधिकरण- श्रवणविषये चोचतनानां ग्राणामाभिमुख्यासम्भवेन सम्बोधना. नहत्वात्प्रेषरूपत्वमर्थविवक्षायामुपपत्तिमत् ॥ ३७ ॥ अर्थविप्रतिषेधात् ॥ १-२-३८॥ (१)"अदितिौरदितिरन्तरिक्ष"मित्यादावदितेर्देवतायावा. ब्दरूपत्वेनैव तावद्युत्वादि विप्रतिषिद्धम् । पुनश्चैकस्या एव यु. त्वमन्तरिक्षत्वं च तथा। न च स्तुत्यर्थत्वेनाविरोधः, आर्थवादिक- स्तुतिवन्मान्त्रवणिक्याः स्तुते प्रदेशान्तरस्थत्वेन विधिनाऽग्रहण- स्य (२)द्वितीये वक्ष्यमाणत्वात, स्वतन्त्रायास्स्तुतेश्चानुपयोगात्॥३८॥ स्वाध्यायवदवचनात् ॥ १-२-३९ ॥ स्वाध्यायाध्ययनकाले हि यत् कर्मण्युपयुक्तं तस्याभ्यासः का. यः, नान्यस्य । तद्यद्यर्थप्रकाशनस्य उपयोगः, तदा तदेवाभ्यस्येत । अक्षराणामेवेत्वभ्यासात्तदुच्चारणमेवोपयोगीति निश्चीयते ॥३९॥ अविज्ञेयात् ॥ १.२.४०॥ (३)"अम्यक् सा त इन्द्र ऋष्टिरस्मे" इत्यादौ सामान्यत इन्द्र. स्तुतिरूपवाक्यार्थाचगमेऽप्यम्यगादिपदार्थाज्ञानात् विशेषतो वा- क्यार्थाज्ञानम् । (४)"मृण्येव जरी" त्यादौ सामान्यतोऽपि वा- क्यार्थीनवगमात् । अर्थप्रत्यायनार्थत्वपक्षे किमेते अभिदध्युः? ॥४०॥ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥१.२-४१॥ (६)"किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुहे न १. ऋ. सं. १. ६. १६, २..पू. मी. २. १. ६. अधिकरणे। ३. ऋ. सं. २. ४.८. ४. ऋ. सं. ८.६.२.५.ऋ. सं. ३. ३. २१. ? तप- - सिद्धान्तः ] प्रथमाध्यायस्थ द्वितीयः पादः । ६७ न्ति धर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखम्मधवन. न्धया नः" इत्यादावनित्यार्थप्रतिपादनाव , तस्य चाकर्मा- नत्वात्प्रतिपादनमनर्थकम् । तथाहि-एतस्य हि विश्वामित्र ऋ. षिः । तेन किल इन्द्रः प्रार्थितः,-भो मघवन् ! कीकटेषु देश- विशेषेषु, या गावस्ताः ते तक, किं कृण्वन्ति ? यतः आशिरं सोमसंस्कारार्थ पयः, न दुहे, न च घर्म तपन्ति, अतः प्रमगन्द- स्य राज्ञः, नैचाशाखं नाम नगरं, वेदः धनं च, नः अस्माकं, आभर, इत्येतन्नो मघवन् , रन्धय साधयेति । दीर्घश्छन्दतः। अत्र नैचाशाखममगन्दादीनामनित्यानां संयोगान्मन्त्रानर्थक्य. मिति पूर्वः पक्षः ॥ ४१ ॥ ( इति पूर्वः पक्षः ) अविशिष्टस्तु वाक्यार्थः ॥ १-२-४२ ॥(सि) (सिद्धान्तः) सिद्धान्तस्तु-नोच्चारणार्थी मन्त्राः । तथाहि-उच्चारणं प्रति मन्त्राणां विषयतासम्बन्धेन कारणत्वात् उच्चारणस्य मन्त्र. जन्यत्वेऽपि तस्य क्रत्वनपेक्षितत्वेनादृष्टार्थत्वापत्तेः, दृष्टे सम्भव- त्यदृष्टकल्पनस्यान्याय्यत्वाच्च, उच्चारणस्य द्वारत्वानुपपत्तेः मन्त्राणां च श्रुत्यादिबोधितक्रत्वङ्गभावानां साक्षाद्यापारं विना क्रत्वङ्गत्वानुपपत्तेः, व्यापारापेक्षायामर्थाभिधानमेव व्यापारत्वे. नाङ्गीक्रियते । उच्चारणस्य पुंव्यापारत्वेन मन्त्रनिष्ठत्वाभावा. मन्त्रनिष्ठस्यार्थाभिधानस्यैव तयापारत्वकल्पनौचित्याच्च । अतश्चानुष्ठेयार्थप्रतिपादकानां करणमन्त्राणां तावदनुष्ठानहेतु- भूतस्मृतिजनकत्वात् कर्मोपयिकाभिधानस्य तेषु व्यापार- त्वं सुलभमेव ।

मीमांसाकौस्तुभे [ मन्त्राधिकरण- यत्रापि मन्त्रात्स्बरसतो नानुष्ठेयार्थावगतिः, इतिकरणा- दिना च मन्त्रो विनियुज्यते (१)"इषे वेति शाखामाच्छिन- ति" (२)"चतुर्होत्रा पौर्णमासीमभिमृशेत्" "याज्यया यजती" सादौ तत्रापि शब्दस्यार्थाभिधानद्वारं विना दृष्टविधयाऽन्य- द्वारा करणत्वासम्भवादध्याहारादिनाऽप्यर्थाभिधानस्यैव व्या. पारत्वम् । क्रियमाणानुवादिषु तु(३) "युवा सुवासा" इत्यादिषु यद्यः प्यर्थाभिधानं न स्वरसतः कर्मविध्यपेक्षितम् , तथाऽपि यूपपरि. व्याणादिक्रियाया अनेकक्षणव्यासक्तत्वेन कदाचिन्मध्येऽपि बु- द्धिविच्छेदे सति स्मृतिसिध्यर्थं स्मारकापेक्षोपपत्तेः, अनाका. कितत्वेऽपि वा मन्त्राकाङ्क्षयैव कर्मणामप्याकाङ्कोत्थापनस- म्भवात् कर्मणोऽप्पाकालां परिकल्प्यानुष्ठीयमानकर्मस्मृतिदा- ब्यहेतुत्वेन दृष्टविधयैव मन्त्रान्वयोपपत्तौ अदृष्टार्थोच्चारणार्थत्व- कल्पनानुपपत्तेराभिधानस्यैव व्यापारत्वम् । अत एव "युवा सुवासाः परिवीत आगादित्याहे" त्याह- शब्दस्य चुनादेशत्वेन वच्यपरपर्यायनर्थपरिभाषणरूपार्था- भिधानपरत्वादाहशब्देन विनियोगोऽप्यवकल्पते । अत एवा. नुमन्त्रणजपादिमन्त्रेष्वपि वेदे प्रायश आहशब्दोपबन्धादर्थाः भिधानव्यापारकत्वसिद्धिः । अतएवोक्तं(४) तन्त्रसारे- १. आप.श्री १.१. ११. आपस्तम्बश्रौतसूत्रस्यार्थतोऽनुवादोऽयम् । २. आप. श्री. २. १२.५. ३. ऋ. सं. ३.१.३. ४. अन्योऽयं न्यायसुधाकारेण भट्टलोमेश्वरेण रचित इति तत्र तत्र ग्रन्थेषलेखनावगम्यते । परं तु अनुपलम्भदोषदूषितः ।

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । ma "इत्याहोपनिबन्धश्च मन्त्राणां दृश्यते विधिः । बेनादेशश्चादशब्दस्सोऽभिधानाभिधायक" इति ॥ (१)न्यायसुधायामपि- "सर्वसाधारणत्वेन विचारस्य प्रयोजनम् । कर्मकाले ऽनुसन्धेयो मन्त्रार्थोऽर्थपरत्वत" इति ॥ तत्रानुमन्त्रणमन्त्रेषु तावत् कृतस्यापि यागादेरकृतत्वशङ्का- यां (२)“यदेव श्रद्धया करोती" खेतद्वाक्यविहितश्रद्धाभाव. निमित्त वैगुण्यापत्तेस्तनिवृत्त्यर्थं कृतप्रत्यवेक्षापेक्षत्वात् । अनपे. क्षत्वेऽपि वा पूर्ववदाकाङ्क्षोत्थापनेनानुष्ठितकर्मस्मृतिदायहेतुत्व कल्पनात् दृष्टविधयैवार्थाभिधानव्यापारकत्वम् । अत एव- "मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरन् । शेषिणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम्" । इति तल्लक्षणमपि सङ्गच्छते । एवं च यत् तन्त्ररत्नेऽनुमन्त्रणमन्त्राणामष्टार्थत्वमुक्तं पश्च. मे, तदनादरादिति(३)तत्रैवोपपादयिष्यामः । एवं यत्रापि प्रमाणान्तरेण करणमन्त्रादीनामपि समुच्चया- चगमः, तत्राऽप्येकेन स्मृतिसिद्धावन्येषां पूर्ववहाब्यार्थत्वकल्प नादृष्टविधयैवाभिधानव्यापारकत्वम् । एवं प्रोत्साहनार्थानामपि (४)"अगन्म सुव" रियादीनां श्रद्धाजननार्थमननुष्ठेयस्यापि कर्मसमवेत्तस्य फलादेस्स्मृतेरपेक्षि- तत्त्वात्तदर्थत्वेन दृष्टविधयैवोक्तव्यापारासद्धिनवमे(५)भाष्य एवो. १. न्याय सु. पृ. ९८. २. छा. उ. १.१.१०. ३. भाट्टदीपिकायां पञ्चमप्रथमस्य तृतीयाधिकरणे । ४.ते. सं. १.६.६.। ५. पू. मी. ९. १.३.

७. - मीमांसाकौस्तुभे [ मन्त्राधिकरण- पपादिता। उपस्थानमन्त्रेषु तु अभिधानार्थत्वं (१)सप्तम एवोपपा. दयिष्यते । एवं स्तोत्रशस्त्रमन्त्राणामपि गुणरूपस्तुत्यङ्गत्वेन क्रमादि- नाऽवगताना स्पष्टमेवाऽभिधानार्थत्वम् । अभिधानरूपयोः स्तो. प्रशस्त्रयोः परमारादुपकारकत्वं (२)द्वितीये साधितमित्यविरोधः । नचैवं "सूक्तं शंसती"त्यादौ सूक्तस्याभिधानं प्रति कर्मः स्वासम्भवात् , अतएव शक्त्या अर्थप्राप्त्यभावेन सक्त्वादिव. ल्लक्षणया विनियोगभङ्गशङ्कानुपपत्तेरगत्या शंसतेरुच्चारण. लक्षकत्वावसायात् , उच्चारणे च सूक्तादीनां कर्मत्वोपपत्ते. चारणार्थत्वमेव युक्तमिति वाच्यम् । 'गां दोग्धि पय' इत्यादित "दुष्यापच्दण्ड्रुधि प्रच्छि चि ब्रूशासु जि मथमुषाम् । कर्मयुक्स्थादकथितं तथा स्थानीहृकष्वहाम्" ।। इति महावर्तिका (३)"अकथितं चे"ति सूत्राच, दुहादिधातू. नां कर्मकारकेण युक्तस्याऽप्यपादानादिकारकविशेषैरविवक्षितस्य कर्मसंज्ञास्मरणात् , "अर्थनिबन्धनेयं संज्ञे" ति स्मरणाच्च ब्रूक्स- मानार्थकस्य शंसतेरपि कर्मकारकेण गुणेन युक्तस्य सूक्तादेः कर्मसंज्ञोपपत्तेर्द्वितीयाविरोधाभावात् । न च सूक्तस्यास्मिन्वाक्ये करणत्वरूपकारकविशेषस्य विव. क्षितत्वात् कर्मसंज्ञानुपपत्तिः; सूक्तस्य क्रमादिप्रमाणान्तरेण शास्त्राङ्गत्वस्य सिद्धत्वादस्मिन्वाक्येऽविवक्षायामपि बाधका- भावात । सतेरुच्चारणलक्षकत्वे "देवताशंसती" त्यत्र देवतानामुच्चारणकर्मत्वस्य कथमप्यनुपपत्तेश्च । अत उपपन्न १. पू. मी. ७. ३. १२. २. पू. मी.२.१. ६. ३. पा. सू. १.४.५१.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । स्तोत्रशास्त्रमन्त्राणामप्यर्थाभिधानार्थत्वम् ॥ जपादीनां तु "वैष्णवीमचमनूच्य वाचं यच्छती'त्यत्रा. नूच्येति वच्यर्थाभिधानार्थत्वस्य स्फुटमवगमात् , "याः पुर. स्तादिति जपे" दित्यादावपि "जपव्यक्तायां वाची" त्यनेन वच्यर्थाभिधानार्थत्वावगमाव अर्थस्य च कर्मासमवेतत्वेऽपि तदभिधानस्यादृष्टार्थत्वोपपत्तेः, न मन्त्राणामुच्चारणार्थत्वं क- ल्पनीयम् । अत एव(१)"मन्त्रो हीनस्स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाहे" त्यादीनि स्वरयुक्तजपादिमन्त्रा- णामप्यर्थपरत्वलिङ्गानि सामान्यतः प्रवृत्तानि न सोचितानि . भवन्ति । यत्तु (२)द्वादशे जपादीनामदृष्टार्थत्वमुक्तम् , तन्मन्त्रसाध्या- भिधानस्यादृष्टार्थत्वाभिप्रायेण । अस्तु वा जपादीनां कर्मा- समवेतार्थाभिधायिनामुच्चारणमात्रार्थत्वम् , नैतावता कर्मसमवे. तार्थाभिधायिनामपि करणमन्त्रादीनां दृष्टविधयोपयोगसम्भ- वेऽदृष्टार्थोचारणार्थत्वकल्पना युक्ता। न चानुष्ठेयार्थस्मृतेाना- युपायान्तरेणापि सिद्धेमन्त्रानर्थक्यम् । मन्त्रानानानुपपत्या मन्त्रेणैव स्मर्तव्यमिति नियमकल्पनात् । तस्य चावघातनियम. स्येव हटासम्भवेनादृष्टार्थत्वकल्पनोपपत्तेरुपायान्तरनिवृत्चिसि- देः । यथा च क्रियाजन्यादृष्टकल्पनापेक्षया नियमादृष्टकल्पने लाघवं तथा(३)द्वितीय उपपादयिष्यामः । यत्तु वाचकमन्त्रस्मरणस्यार्थस्मरणाधीनत्वेन वैपरीत्यमु. क्तम् , तत् पूर्वपदार्थस्यैव मन्त्रस्मारकत्वोपपत्चेनावश्यमर्थ- स्मरणाधीनत्वमिति परिहर्तव्यम् । १. पा. शि. ५२. २. पू. मी. १२. ४. १. ३. पू. मी. २.१.३.

- . मीमांसाकौस्तुभे [ मन्त्राधिकरण- पपादिता। उपस्थानमन्त्रेषु तु अभिधानार्थत्वं (१)सप्तम एवोपपा. दयिष्यते । एवं स्तोत्रशस्त्रमन्त्राणामपि गुणरूपस्तुत्यङ्गत्वेन क्रमादि- नाऽवगतानां स्पष्टमेवाऽभिधानार्थत्वम् । अभिधानरूपयोः स्तो. प्रशस्त्रयोः परमारादुपकारकत्वं (२)द्वितीये साधितमित्यविरोधः। नचैव "सूक्तं शंसती"त्यादौ मूतस्याभिधानं प्रति कर्म स्वासम्भवात् , अतएव शक्त्या अर्थप्राप्त्यभावेन सक्त्वादिव. लक्षणया विनियोगभङ्गशङ्कानुपपत्तेरंगत्या शंसतेरुच्चारण. लक्षकत्वावसायात् , उच्चारणे च सूक्तादीनां कर्मत्वोपपत्ते. चारणार्थत्वमेव युक्तमिति वाच्यम् । 'गां दोग्धि पय' इत्यादिव "दुह्यापच्दण्धि प्रच्छि चि शासु जि पथमुषाम् । कर्मयुक्स्यादकथितं तथा स्थानीहरूषहाम्" ॥ इति महावर्तिकात (३)"अकथितं चे"ति सूत्राच्च, दुहादिधातू- नां कर्मकारकेण युक्तस्थाऽप्यपादानादिकारकविशेषैरविवक्षितस्य कर्मसंज्ञास्मरणात् , "अर्थनिबन्धनेयं संज्ञे" ति स्मरणाच्च ब्रूस- मानार्थकस्य शंसतेरपि कर्मकारकेण गुणेन युक्तस्य सूक्तादेः कर्मसंज्ञोपपत्तेर्द्वितीयाविरोधाभावात् । न च सूक्तस्यास्मिन्वाक्ये करणत्वरूपकारकविशेषस्य विव. क्षितत्वात् कर्मसंज्ञानुपपत्तिः; सूक्तस्य क्रमादिप्रमाणान्तरेण शास्त्राङ्गत्वस्य सिद्धत्वादस्मिन्वाक्येऽविवक्षायामपि बाधका. भावात । शंसतेरुच्चारणलक्षकत्वे "देवताश्शंसती" त्यत्र देवतानामुच्चारणकर्मत्वस्य कथमप्यनुपपत्तेश्च । अत उपपन्न १. प. मी. ७. ३. १२. २. पू. मी.२.१.६. ३. पा. सू. १.४.५१.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । स्तोत्रशास्त्रमन्त्राणामप्यर्थाभिधानार्थत्वम् ।। जपादीनां तु "वैष्णवी मृचमनूच्य वाचं यच्छती"त्यत्रा. नूच्येति वच्यर्थाभिधानार्थत्वस्य स्फुटमवगमात् , "याः पुर• स्तादिति जपे" दित्यादावपि "जपव्यक्तायां वाची" त्यनेन वच्यर्थाभिधानार्थवावगमात् , अर्थस्य च कर्मासमवेतत्वेऽपि तदभिधानस्यादृष्टार्थत्वोपपत्तेः, न मन्त्राणामुच्चारणार्थत्वं क- ल्पनीयम् । अत एव(१)"मन्त्री हीनस्स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाहे" त्यादीनि स्वरयुक्तजपादिमन्त्रा- णामप्यर्थपरत्वलिङ्गानि सामान्यतः प्रवृत्तानि न सोचितानि भवन्ति । यत्तु (२)द्वादशे जपादीनामदृष्टार्थत्वमुक्तम् , तन्मन्त्रसाध्या- थाभिधानस्यादृष्टार्थत्वाभिप्रायेण । अस्तु वा जपादीनां कर्मा- समवेतार्थाभिधायिनामुच्चारणमात्रार्थत्वम् , नैतावता कर्मसमवे. तार्थाभिधायिनामपि करणमन्त्रादीनां दृष्टविधयोपयोगसम्भ- वेऽदृष्टार्थोचारणार्थत्वकल्पना युक्ता। न चानुष्ठेयार्थस्मृतेाना- ग्रुपायान्तरेणापि सिद्धेमन्त्रानर्थक्यम् । मन्त्राम्नानानुपपस्या मन्त्रेणैव स्मर्तव्यमिति नियमकल्पनात् । तस्य चावघातनियम. स्येव दृष्टासम्भवेनादृष्टार्थत्वकल्पनोपपत्तेरुपायान्तरनिवृत्तिसि. देः । यथा च क्रियाजन्यादृष्टकल्पनापेक्षया नियमादृष्टकल्पने लाघवं तथा(३)द्वितीय उपपादयिष्यामः । यत्तु वाचकमन्त्रस्मरणस्यार्थस्मरणाधीनत्वेन वैपरीत्यमु. तम् , तत् पूर्वपदार्थस्यैव मन्त्रस्मारकत्वोपपत्चेनावश्यमर्थ- स्मरणाधीनत्वमिति परिहर्तव्यम् । १. पा.शि. ५२. २. पू. मी. १२. ४. १. २. पू. मी. १२. ४. १. ३. पू. मी. २.१.३.

, ७२ मीमांसाकौस्तुभे [ मन्त्राधिकरण यदपि करणमन्त्रे द्वित्राणामेव पदानां कर्मसमवेतार्थाभि- धायित्वेऽपीतरेषां "देवस्यचे" त्यादीनामुच्चारणार्थत्वमावश्य- कमिति तदपि "देवस्यत्वे" त्यादिपदानामेवोच्चारणमात्रार्थत्वे भिन्नप्रयोजनकत्वेन "निर्वपामि" पदैकवाक्यतामङ्गापत्तेस्त- दुशादेवस्यत्वेत्यादिपदार्थविशिष्टनिर्वापप्रकाशनस्यैवाभ्युदयका- रित्वकल्पनया तेषामपि स्वार्थाभिधायकत्वस्य(२)नवमे वक्ष्यमा. गत्वादकिश्चित्करम् । तेन सिद्धं मन्त्राणामर्थप्रयायनार्थत्वम् । नचैवं मन्त्राक्षरानुसन्धानमात्रेणैव मन्त्रार्थानुसन्धानसि. द्धेः कर्मकाले मन्त्रोच्चारणानापत्तिा, मन्त्राणां तदनुसन्धानस्य वा स्वतः पुरुषव्यापाराविषयत्वेन मन्त्रविनियोजकविधिविष- यत्वायोगात् विधिविषयत्वसिद्ध्यर्थ मन्त्राविषयोच्चारणस्यावश्यं कल्पनीयत्वात् । नचैवमनुसन्धानानुकूलच्यापारस्यैव विधिविषयत्वं कल्प्य- तां किमुच्चारणेनेति वाच्यम् ? उच्चारणस्य मन्त्राविषय- त्वात् , मन्त्रविषयकानुसन्धानजनकव्यापारापेक्षया प्रत्यासन्न- त्वेन तस्यैव मन्त्रविनियोजकविधिविषयत्वौचित्यात् । उच्चा- रणविधानाभावे उच्चारणैकान्तिकोच्चैष्वादिस्वरविध्यनुपपत्तेश्च । अत एव(२) "मिथ्या प्रयुक्त" इति प्रयोगरूपोच्चारणानुवा- दोऽप्युपपद्यते । तेन कर्मकाले उच्चारणसंस्कृतानामेव ऋगादि- मन्त्राणामुपयोग इति सिद्धम् । साममन्त्राणां तु गीत्यात्मकत्वेनार्थाभावात्तदभिधानद्वा. रोपयोगासम्भवेऽपि ऋगक्षराभिव्यक्तिद्वारा गुणाभिधानरूप- स्तोत्रकरणत्वात् दृष्टविधयैवोपयोगसम्भवे नादृष्टार्थोच्चारणम. योजनकत्वकल्पना युक्तति(३)नवमे निरूपयिष्यते । अतएव १. पू.मी. ९. १. १२. २. 'मन्त्रो हीन' इत्यस्य खण्डोऽयम् । मी. ९.२.२. ३.पू.

सिद्धान्तः ] प्रथमाध्यायस्थ द्वितीयः पादः । 2 "साम्ना स्तुबीते" ति तुतीयया साम्न स्तोत्रं प्रति करण- स्वमुक्तम् । न चैवं साम्नस्सन्ध्यक्षरेषु विश्लेषरूपऋगक्षराभिव्यक्ति जनकत्वेऽपि तदभाव एव सन्ध्यक्षरैगुणाभिधानरूपस्तोत्रजन नात् कथं स्तोत्रकरणत्वं साम्न इति वाच्यम् ? प्रगीतमन्त्रसा. ध्यगुणसम्बन्धाभिधान व्यक्तरेवाभियुक्तपसिध्या स्तोत्रपदवा- च्यत्वात् । अन्यथा शस्त्रादावपि गुणाभिधानस्य सत्वेन स्तो- अपदप्रयोगापत्तेः। तादृशस्य च गीतिरूपसामाभावेऽनिष्पाय. मानत्वेन करणत्वोपपत्तेः । अतश्चार्थाभिधानविशेषकरणत्वं साम्नामध्यव्याहतमेव । यश्वाऽत्र (१)स्तोभाक्षराधिरूढो गीत्यशः, तस्यार्थाभिधान- करणत्वासम्भवाददृष्टार्थत्वम् । अतश्च रथन्तरादिसाम्नामाश्रयि. कर्मवदुभयार्थत्वम् । यानि त्वतृकानि प्रजापतिहृदयादीनि, तेषां स्तोभाक्षराधिरूढत्वात् , स्तोभाक्षराणां चाभिधेयशून्य त्वस्य न- वमे(२) वक्ष्यमाणत्वात् नाऽर्थाभिधानरूपस्तोत्रकरणवामित्या गत्या सामविनियोगानुसारेणोच्चारणमात्रद्वाराऽदृष्टार्थत्वमेव । न च तत्राऽपि स्तोभाक्षराभिव्यक्त्यर्थत्वेन साम्नो दृष्टार्थ- त्वमेव, स्तोभाक्षराणामेव परमुच्चारणद्वाराऽदृष्टार्थत्वकल्पनास्त्वि- ति वाच्यम् ; स्तोभाक्षराणां गीतिकालपरिच्छेदकत्वेन दृ. धार्थत्वस्य (३)नवमे वक्ष्यमाणस्य सामान्तरेष्विवाऽनृक्सामस्वपि सम्भवेनाऽदृष्टार्थत्वकल्पनायां प्रमाणाभावात् । न च विनिगम नाविरहः, अनुक्साम्नां चयनादिकर्मणि विनियोगस्यैव वि- निगमकत्वात् । अन्यथा हि स्तोमानामेव विनियोगः क्रियेत न साम्नां, अर्थसिद्धत्वात् । तत्सिद्धं सर्वमन्त्राणां प्रयोजनवत्त्वम् । १. स्तोभलक्षणं नवमे (९-२-१०.) द्रष्टव्यम्। २.३.पू.मी.९.२.१. . १० मी० कौर मीमांसाकौस्तुभे [ मन्त्राधिकरण- नन्वेवं प्रयोजनवत्वे सिद्धेऽपि कथं प्रामाण्यम् ? न ताव. दनधिगतार्थगन्तृत्वलक्षणम् , विधिनाऽधिगतस्यैवाऽर्थस्य स्मर- रणात् । अत एवानुभावकत्वाभावान्न प्रमाकरणमिति चेत्- अत्र भवदेवः-न प्रतिवेदवाक्यमनधिगतार्थगन्तृत्वमुप. पादनीयम् । (२)“य एवं विद्वान् पौर्णमासी यजत" इत्यादावनु. वादकत्वेन तदभावात् । किं तर्हि धर्मप्रमित्युपयोगित्वम् ? तच्च विद्वद्वाक्यस्येव मन्त्राणामप्युक्तविधया सम्भवत्येवेति नामा. माण्यशङ्केति । तत्र यद्यपि मन्त्रब्राह्मणसमुदायात्मके ग्रन्थविशे. पे वेद त्वमेकं न प्रयेकवाक्यवृत्ति, तथाऽपि न तदनधिगतार्थग- तृत्वप्रयोजकम् । अपि तु लौकिकवाक्यवद्वाक्यत्वमेव । अतश्च तस्य प्रत्येकत्तित्वाद्विधिवाक्यस्याऽनधिगतार्थगन्तृत्वसिद्धावपि मन्त्रवाक्यस्य तदसिद्धेरपामाण्यप्रसङ्गः । (२)"वेदोऽखिलो धर्ममूल" मित्यादिस्मृत्या आखिळवेदस्य धर्ममूलत्वस्मरणानु पपत्तिश्च । किश्च मन्त्रजन्यस्मरणस्य धर्मोत्पत्युपयोगित्वेऽपि न धर्म- प्रमोत्पत्युपयोगित्वम् , तदभावेऽपि विधिवाक्याद्धर्मप्रमोत्पत्ते. र्जायमानत्वात् । अतो मन्त्राणां न परम्परयाऽपि धर्मप्रमोत्पत्यु- पयोगित्वम् । विद्वद्वाक्यस्य परम्परया धर्मप्रमोत्पत्युपयोगित्वेऽपि साक्षादप्यनधिगतार्थगन्तृत्वं समुदायप्रतीतेरनन्यलभ्यत्वादस्ती- ति वैषम्यम् । (३)सोमेश्वरस्तु-बहिर्देवसदनं दामी' त्यादावपूर्वसा. धनीभूतबहिर्लवनाङ्गत्वं मन्त्रसामर्थ्यादेवावगम्यत इति मन्त्र स्वाङ्गत्वबोधे प्रमाणम् । कचिच्च मान्त्रवर्णिकद्रव्यदेवतायागा- दिकल्पनेऽपि प्रमाणम् । तच्च तत्र तत्राधिकरणे स्पष्टीभविष्यति । १. तै. सं. १. ६. ९. २. मनु. २.६. ३, न्यायसु. पृ. ९८.

७६ } सिद्धान्तः । प्रथमाध्यायस्थ द्वितीयः पादः । सर्वसाधारण्येन तु मन्त्रार्थाऽनुसन्धानकर्तव्यताविषये प्रामाप्यम् । मन्त्र एव हि स्वागत्वसिध्यर्थं स्वनिष्ठमर्थाभिधानारूपं व्यापार कल्पयतीति तत्र प्रामाण्यामिलाह। तदपि न, अर्थाऽनुसन्धानजनकत्वेन वा मन्त्राणां प्रामाण्यं मन्यसे ? अर्थाऽनुसन्धानरूपव्यापारकल्पकत्वेन वा ? नाद्यः । अनुसन्धानस्य जपमन्त्रेवनधिगतविषयत्वेऽपि करणादिमन्त्रे- ध्वधिगतविषयत्वात् स्मृतिरूपत्वेन तज्जनकस्य प्रमाणत्वानुपप- तेः । नान्त्यः लिङ्गादिविनियुक्तेषु स्वयं तत्कल्पकत्वेऽपि स्तो- शस्त्रादौ 'आहे' त्येवं विनियुक्तेषु च त्वयैवाभिधानस्य क्लुप्त- स्वाभिधानेनाऽव्यापकत्वात् । किञ्च साममन्त्रेध्वेवमप्यव्याप्ति?- वारा। तेषामर्थाभावेन तदनुसन्धानाजनकत्वात् । अथ तेषामपि प्रगीतमन्त्रसाध्यगुणाभिधानरूपस्तोत्रलक्षणशाब्दप्रमाजनकसा. मनयन्तर्गतत्वेन प्रामाण्यं, ततोऽप्यनुक्साम्नां तदभावादमामा- ण्यापत्तिस्तदवस्थैव । एतेन मन्त्राणां स्मारकत्वेनानुभावकत्वघटितप्रमाकरण. स्वरूपप्रामाण्याभावेऽपि यथार्थज्ञानकरणत्वलक्षणं प्रामाण्यं सम्भवत्येवेति कौश्चदुक्तमपास्तम्, अनुक्सामसु तस्याप्य- सम्भवात् । अत एवं वाच्यम् -सर्वत्र गामानयेत्यादौ संसविषय. कशाब्दबोधं प्रति यथा शब्द: करणं, पदार्थज्ञानमवान्तरव्यापारः तथा पदार्था एव करणम् , तज्ज्ञानमवान्तरव्यापारः । शब्दस्तु पदार्थज्ञान प्रति करणत्वेनोपक्षीण इत्यपि मतान्तरमाचार्यैस्त- कंपादे (२)पदार्थानां तु मूलत्वं युक्तं तद्भावभावतः' १.श्लो. वा, अ. ७, श्लो. १११. पृ. ८७७. क JANWARRAWAJNARm मीमांसाकौस्तुभे [ मन्त्राधिकरण- इत्यादिनोपपादितम् । न च भूतभाविपदार्थानां नियत- पूर्ववृत्तित्वाभावात्करणत्वानुपपत्तिः, भूतभाविपदार्थानां स्वरूपे- णाऽविद्यमानानामपि ज्ञानविषयत्वेन सत्वाज्ज्ञाततायामिव शाब्द- बोधं प्रत्यपि करणत्वोपपत्तेः । अत एवोक्तं न्यायसुधाकृता-'अतीतानागतयोरप्यति. क्रान्तदिवप्तादिगतसङ्ख्यादिवज्ज्ञाततायां करणत्वोपपत्तिरिति । नैयायिकमते मौनिवाक्यस्थले शब्दस्याऽप्यविद्यमानत्वाञ्च । अतश्च यथा ज्ञानविषयत्वेनैव शब्दस्य करणत्वोपपत्तिः, तथा मन्म. तेऽप्युपपत्तिः । तेन पदार्थानामपि शाब्दपमितिकरणत्वात्स- मन्त्राणाञ्च स्वविनियोगविधौ प्रयोगविधौ च पदार्थत्वेनान्व. याद्धर्मविषयकशाब्दप्रमाकरणत्वोपपत्तेर्युक्तं प्रामाण्यम् । न चैवं त्रीवादीनामपि पदार्थविधया प्रामाण्यापत्तिः, इ. टापत्तेः । न च (१) चोदनालक्षणोऽर्थो धर्म' इत्यस्मिन् सूत्रे धर्म चोदनारूपस्य वेदशब्दस्यैव प्रामाण्यमिति नियमकरणात ब्रीह्याद्यर्थस्य प्रामाण्याङ्गीकारे च तद्भङ्गापत्तिरिति वाच्यम् । तत्रत्यचोदनाशब्दस्य (२) चोदनेति क्रियायाः प्रवर्तकं वाक्यम्' (३) चोदनाचोपदेशश्च विधिश्चैकार्थवाचिन' इति भाष्यवार्तिक स्वरसाद्विधिमात्रवचनत्वेन तस्मिन् सूत्रे ईदृशनियमाकरणात् । अत एव तत्सूत्रं न प्रथमाध्यायार्थप्रतिज्ञापरम् , अपितु प्रथमपाद. व्युत्पाद्यविधिमामाण्यप्रतिज्ञापरमेवेति(४) स्मृत्यधिकरणे वक्ष्यामः। नियमोऽपि तेनेश एवं क्रियते-धर्म एवं प्रमाणं चोदनेति । यद्यपि च चोदनैव प्रमाणमित्यपि नियमः क्रियेत, तथाऽपि प्राधान्येन सैव प्रमाणमित्येवंपरो द्रष्टव्यः । न त्वेताश्ताऽन्येषां जै. सू.१.१.२. २. शा. भा. पू.३. पं. ९. ३. श्लो. वा. अ. ५. श्लो. ११. पृ. २११. ४. पू. मी. १.३.१ १. .

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । प्रामाण्यनिषेधः । तस्मासिद्ध पदार्थविषया सर्वमन्त्राणां प्रामा- यमिति । अस्तु वा मन्त्राणां प्रमाजनकत्वाभावेऽप्युक्तविधया प्रयो- जनवचमात्रेणैवोपयोगो धम, तावतैवाध्ययनविधेरुपपत्तेरुपयो. गविशेषविचार एव मन्त्राधिकरणशरीरम् । अर्थवादोपयोगप्रस- झाच्चाध्यायासङ्गतोऽप्यों नासङ्गत इति द्रष्टव्यम् । साङ्गवेदो- पयोग एव वा जिज्ञासितत्वादध्यायार्थ इत्यपि सुवचम् । उपयो. गोऽपि मन्त्राणां प्रायशो धर्म एव, नत्वधर्म इत्यपि च ध्येयम् । सूत्रं तु-यथैव लोके वाक्यस्य वाक्यार्थप्रमापकत्वं दृष्ट, तथा तन्मन्त्रेष्वप्यविशिष्टमिति व्याख्येयम् । यत्तु लिङ्गादेव विनियोगोपपत्तौ पुनः कचित्तद्विषये विनि. योजकशास्त्रवैयर्थ्य मिति तन्नः (१)तत्र शास्त्रस्य मन्त्रविनियो. जकत्वानभ्युपगमात् ।। ४२ ॥ क्नु तर्दि(२) "ता चतुर्भिरादत्त" इत्यत्रादानस्वार्थमाप्त- त्वात् , मन्त्राणां च तत्र लिङ्गादेव प्राप्तः, सङ्ख्यायाश्चादाने म- न्त्रे वा विधातुमशक्यत्वस्य (३)पूर्वमेवोक्तत्वात , विधेयाभावेन पुनश्श्रवणानर्थक्यमिति चेत्- गुणार्थी वा पुनश्श्रुतिः ॥ १-२-४३ ॥ श्रुतार्थानुपपत्तिरूपस्याक्षेपस्य श्रुतिकल्पनाधीनप्रामाण्यस्य लिङ्गस्य वा प्रत्यक्षश्रुत्यपेक्षया मन्थरप्रवृत्तित्वात् , ततः पूर्वमेव प्रत्यक्षश्रुत्या मन्त्र सङ्ख्योभयविशिष्टादानविधानोचर(४)अरु. कहायनीन्यायेन मन्त्रसङ्घययोः पाटिकान्वयोपपत्तावत्स- १. तत्रेति नास्ति. ख. पु. २.ते. सं.५.१.१. ३. अस्मिन्नेवाधिकरणे तदर्थ सूत्र इत्यर्थः ४. पू.मी. है. १. ६. , मीमांसाकौस्तुभे [ मन्त्राधिकरण- मुच्चयसिद्धेः एतद्विध्यभावे(१)चाक्षेपमन्त्रलिङ्गाभ्यामादानम- त्रयोः प्राप्तिसम्भवे तद्विषये विधिप्रवृत्तिफल आलोच्यमानेऽन- न्यलभ्यसङ्ख्याविधानार्थ तच्छ्रवणमिति फलावधारणात् वस्तुतो विशिष्टविधिरूपत्वेऽपि फलतो गुणविधानार्था पुन: ३श्रुतिः । न चात्र "चतुर्भि' रिति तृतीयया चतुर्णामपि म. न्त्राणां करणमन्त्रत्वावगतेराद्यमन्त्रत्रयजन्यस्मृतेश्च नष्टत्वेना. न्तिममन्त्रोचारणानन्तरक्रियमाणक्रिया प्रति करणत्वानुपपत्तिः । (२)"तुषपक्वा भवन्ती"त्यादौ परम्परयापि करणत्वस्य बहुशो दृष्टत्वेनाऽऽद्यानां त्रयाणां संस्कारद्वाराऽपि करणत्वोपपत्तेः ॥४३॥ परिसङ्ख्या ॥ १-२-४४॥ "इमामगृभ्ण" नित्यादेश्च परिसङ्घयार्थत्वेन न वैयर्थम् । न च परिसङ्ख्यायां(३) त्रैदोष्यं, अप्राप्तपरिसङ्ख्याङ्गीकारात् । तथाहि-यावल्लिङ्गेन श्रुति कल्पयित्वा मन्त्रस्य रशनाद्वयादा. नाङ्गत्वमवगम्यते, तावदश्वाभिधान्यङ्गत्वेन प्रत्यक्षया श्रुत्या म. त्रस्य विनियोगान तावत्स्वार्थस्य विधेयत्व हानिः; अश्वामि. धान्यात्वस्य प्राग्वचनादस्मादमाप्तः । अत एव गर्दभाभिधान्य- ङ्गत्वनिवृत्तिरूपपरार्थस्य विधेयत्वं न कल्प्यम् , तस्याः प्रापकम. माणाभावादेव सिद्धः । अत एव प्राप्तयभावान प्राप्तबाधोऽपि । अतोत्राचाभिधान्युरेशेनैव मन्त्रो विधीयते । आदानं त्वर्थमा- सपनूयते । अतश्च पूर्ववद्विधिप्रवृत्तेः फल आलोच्यमाने लिङ्ग- कल्प्यश्रुतिप्रतिबन्धद्वारा गर्दभरशनानिवृत्तेः फलत्वकल्पनात फलतः परिसङ्घयेति भाष्यकाराभिप्रायः । १. भावेऽपि चेति. ख. पु. २. तै. सं. ५.२.४. नितिदेवताका तिन इष्टकास्तुषैः पक्वा भवेयुरित्यर्थः । ३. त्रैदोध्यापत्तिरिति. न.

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । वार्तिककारास्तु-याव(१) दादानमपि प्राप्यते तावत्मत्य- क्षया श्रुत्या मन्त्राविशिष्टादानस्यैवाश्वाभिधान्यङ्गत्वेन विध्युपप- तौ न धातुपारार्थ्यम् । कारकयोश्च मन्त्राश्वाभिधानीरूपयो- रन्योन्यसम्बन्धो युक्तः । न च विशिष्टविधौ षष्टविधिप्रकारा- पत्तेर्भाष्यकारीत्या चतुर्थविधिप्रका(१)शश्रयणमेव युक्तमिति वाच्यम् । आक्षेपतोऽपि पूर्वं शीघ्रप्रवृत्तिकस्याऽक्षेपप्रतीक्षायां प्रमाणाभावेन तस्यामवस्थायामादानस्य प्राप्त्यमावेन विशिष्टवि. धित्वोपपत्तेः अन्यफलकत्वेनाऽस्य विशिष्टविधेर्दोषत्वाभावाच । अतो मन्त्रविशिष्टादानस्याश्वाभिधानीसंस्कारार्थत्वेन विधा. नागर्दभाभिधान्यादानेऽप्राप्ते त्रैदोष्याप्रसङ्गात् वस्तुतोऽपूर्ववि- धित्वेऽपि पूर्ववत् फलतः परिसङ्ख्यात्वव्यपदेशसिद्धिः। अत एव सर्वत्रापूर्वविधित्वेऽपि यत्रैवामाप्तप्रापणं विधिप्रवृत्तेः फलं स एवापूर्वविधिशब्देन व्यपदिश्यते । यत्र त्वप्राप्तांशपूरणं तस्याः फलं संनियमविधिपदेना(३)भिधीयते । अत एव "बीहीनवहन्ती" त्यत्र यावदाक्षेपात्युरोडाशनि- उपत्यर्थं वितुषीभावजनकत्वेन विदलनादिसाधारण्येनावघाता पक्षे प्राप्यते, तावत्पूर्वमेव प्रत्यक्षया श्रुत्याऽवघाते विधीयमाने न तत्प्राप्तिरेव तत्र विधिप्रवृत्तेः फलम् । एतद्विध्यभावाक्षेपादे. वावघातस्य प्राप्तिसम्भवात् । किन्तु यथाऽवघातोऽक्षेपात्मा. प्यते, तथा विदलनादिकमपि विकल्पेन । अतश्च विदलनादि. प्राप्तिपक्षेऽवघातस्याऽप्राप्तत्वात् तदप्राप्तांश(४)मापणरूपो नियम एवं विधेः फलम् । न च विदलनादिनिवृत्तिरेव विधेः फलं किं न स्यादिति वाच्यम् ? अप्राप्तांशप्रापणरूपस्य नियमस्याक. १. यावदादा इति. क. पु. २. राजीकरणमिति. क. ख. पु. ३. अभिधीयत इति नास्ति. ख. क. पु. ४. पूरण इति. क.ख. पु. .

मीमांसाकौस्तुभे [ मन्त्राधिकरण- रणे उपायान्तराक्षेपस्य निराकर्तुमशक्यत्वात् । करणे चार्था- देवान्यनिवृत्तेस्सिध्युपपत्तेः फलवायोगात , नियमस्य विधे. यावघातगतत्वेन प्रत्यासन्नत्वाच । यत्र तु प्रत्यक्षविध्य भावे द्वयोशेषयोरेकस्मिन् शेषिणि शे. षिद्वये वैकस्य शेषस्य नियता प्राप्तिर्दुलप्रमाणेन सम्भाव्यते, यथा गृहमेघीये आज्यभागप्रयाजयोरतिदेशेन, प्रकृतमन्त्रस्य वा. ऽश्वगर्दभरशनादानयोलिङ्गन, तत्र प्रत्यक्षविधेः (१)प्रवृत्तत्वात् । वस्तुतोऽपूर्वविधित्वेऽपि(२) "आज्यभागौ यजती" त्यनेन वि. हिताभ्यां क्लुप्तोपकाराभ्यामाज्यभागाभ्यामेव गृहमेधीयाकाङ्क्षा- निवृत्तेरतिदेशाकल्पनात् फलतः प्रयाजादिशेषान्तरनित्तिः । "इमामगृभ्ण" नित्यस्य च प्रत्यक्षश्रुत्याऽश्वरशनादान एव विनियुक्तस्य निराकाङ्कत्वेन लौशिकश्रुत्यकल्पनादागर्दभाभि- धानीरूपशेष्यन्तरानिवृत्तिः । अत्र हि विधेयस्य नियतमाप्तत्वान्नै (३)तत्माप्तिनियमो वा फलम् , अपित्वन्यनिवृत्तिरेवाऽगत्या फळ. स्वेनाऽऽश्रीयते । अतः फलतः परिसङ्ख्याङ्गीकरणान्न दोष्यमि. साहुः। यत्र तु प्रापकप्रमाणोत्तरं शास्त्रप्रवृत्तिः यथा(४)"प. श्व पश्चनखा भक्ष्या" इत्यादौ, तत्र नैदोष्यम् । तत्र भक्षणस्य रागप्राप्तत्वात , ततः (६)पूर्वमेव विधाने फलकल्पनापत्तेः, अ. भक्ष्यप्रक्रमाच्चाविधेयत्वात स्वार्थहानिः । पञ्चातिरिक्तपश्चनख. भक्षणस्यापि रागप्राप्तत्वानिटत्तेश्शास्त्रमन्तरेणासिद्धेः(६) विधेय. त्वकल्पना । अत एव प्राप्तबाघोऽपि । प्रापकप्रमाणोत्तरं प्रवृत्ता. १. पूर्वप्र. इति. क. ख. पु. २.मै.सं.१.१०.१५० ३. न तदिति क. पु. ४. वाल्मी. रा. कि. १७. ३९. ५. पूर्वमेव चेति क. ख. पु. ६. विधिविधेयत्व इति.ख.पु.

सिद्धान्त:] प्रथमाध्यायस्य दितीयः पादः । ८१ , वपि च यत्र नजादिश्रवणमेवकारोवा, नत्र प्राप्तपरिसङ्घयाया- मपि स्वार्थहानिपरार्थकल्पनयोरभावान्न दाष्यम् । यथा (१)"नाऽनृतं वदेत्" "अत्र हवाsवपन्ती" त्यादौ । यत्तु न्यायसुधायामेवकारस्थले श्रौतो नियम इत्युक्तम् , तत् 'सत्यमेव वदे दित्यादौ सत्यवदनस्य नियतप्राप्तयभावादेव कारस्याऽयोगव्यावृत्त्य(२)भिप्रायेण । यत्र तु नियता कर्तव्यस्य प्राप्तिस्तत्रायोगव्या वृत्यसम्भवा. दन्य योगव्यावृत्त्यर्थकत्वमादाय श्रौतपरिमलयात्वमावश्यकम् । अत एव विवृद्धस्तोमकेषु “एकविंशनाऽतिरात्रण प्रजाकामं याज. येयु" रित्यादिवाक्यविहितेषु क्रतुषु सङ्ख्यायाः पृथक्त्वनिवेशात् तत्सम्पत्तये अनियमेन सर्वस्तोत्रेषु साम्नामृचां चागमेनावापे प्राप्ते "त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्यनुष्टुप् , अत्र हो वाऽऽव पन्ति, अत एबोपन्ती" त्यनेन गायध्यादि ष्वेवाऽऽवापो नान्यास्विति.परिसङ्ख्या। अतश्व गायत्र्यादीनां पवमानेष्वेव स. स्वात् तद्विषय एवाऽयमावापः, नान्यस्तोत्रेषु । सोऽपि च मा. म्नामेव न ऋचां, तासामृगधिकरणत्वस्यायम्भवात् । अतश्च तत्राऽऽगम्यमानसामाधारभूतगायत्र्यादीनामभ्यास एव । स्तोत्रा. न्तरेषु तु साम्नामपि नाऽऽवाप:, किन्त्वभ्या सेनैव सङ्ख्यासम्पत्तिः यद्यपि नाऽयं सामावापो बहिष्पत्रमाने मम्भवति, तत्र सामैकत्वस्य प्रत्यक्षशिष्टत्वात् । तथाऽपि माध्यन्दिनपवमानार्भव. पवमानयोरेव गायत्र्यादिमत्वान्निविशते । बहिष्पवमाने त्वेकस्य साम्नोऽभ्यास एव । ऋचां तु सङ्ख्यायाः ()पृथक्त्वनिवेशि. स्वात्तत्सम्पत्तये "पराग्बहिष्पवमानेन स्तुवत" इति पराक्छ. १.तै..सं. २. ५. ५. २. वृत्त्यर्थकत्वामीति. क. ख. पु. ३. पृथकत्वेन निवेशीति. क. ख. पु. ११ मी० कौ० " मीमांसाकौस्तुभे [ मन्त्राधिकरण- ब्दवाच्यानभ्यासविधानाचागम एव । स्तोत्रान्तरेषु तु यद्यपि सङ्ख्यासम्पत्तये न्यायेनाऽऽगम एव प्रसक्तः, तथापि बहिष्पवमाने न्यायप्राप्तऋगागपप्राप्तिफलकानभ्यासपुनर्विधिः (१)स्तोत्रान्तरे तदागमपरिसङ्ख्यार्थस्सम्पद्यत इति तेष्टचामप्यभ्यास एव । तत्सिद्धं "अत्र ह्येवाऽऽवपन्ती" त्ययं स्तोत्रान्तरे सामागमपरिस. वयार्थ एवकार इति। एवं यत्र विवृद्धस्तोमक्रतुशेषत्वेनौपदोशिकं कौर सादिसाम विहितम् , तत्र तस्य प्रतिप्रधानं गुणावृत्तिन्यायेन सर्वस्तोत्रेषु प्रकृतसामबाधेनापि निवेशस्य नियमेन प्राप्तत्वादत्र ह्येवावपन्तीत्ययं परमानद्वयव्यतिरिक्तविषयपरिसङ्ख्यार्थ एव ।। न च कौत्सादेः कण्वरथन्तरादिवत्स्वयोनिष्वेव गेयत्वप्रा. से प्राकृतगायत्र्यादिष्वप्राप्तत्त्वेन परिसङ्ख्यानुपपत्तिः, कण्वरथ. न्तरयोनेईि वैश्यस्तोम(२)प्रकरणपठितत्वेन तदङ्गत्वावगमात्मा. कृतऋगाधारत्वानुपपत्तियुक्ता । कौत्सादीनां त्वनारभ्याधी. तत्वेन सत्यपि वचनेन क्रत्वङ्गत्वावगमे तदाधारभूताया योनेः प्रकरणपाठाभावनाङ्गत्वानवगमात् प्राकृतऋगाधारत्वस्य(३)दशमे वक्ष्यमाणत्वात । ये त्वविवृद्धस्तोमकाः क्रतवा यथा(४) "त्रिद- निष्टुदग्निष्ठोम" इत्यादयः तेषु सङ्घयानुरोधेन प्राकृतसर्वस्तो- त्रेषु सर्वसामसु तदाधारभूतासु च ऋक्षु निहत्तासु यत्तदङ्ग- वेनौपदेशिककौत्सादिसामाम्नातं तन्निवेशार्थमनियमेना(५)प्रा. कृतसामोद्वापे प्राप्त 'अत एवोपन्ती' त्यनेन गायत्र्यादिभ्य ए. वेति नियमकरणात्स एव परं श्रौतो नियमः, न तु 'अत्र ह्येवा- वपन्ती' त्ययम् , किन्तु श्रौतः पारसङ्ख्याविधिरेवेति सिद्धम् । १, स्तोत्रान्तरागमेति. क. पु. २. प्रकरणे पाठेनेति. क. पु. ३. पू. मी. १०.४.१०. ४. तां.बा. १७. ६.१. ५. यतः कुतश्चित्प्रा. इति. क. ख. पु.

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । वस्तुतस्त्वेवकारस्यान्ययोग(२)व्यवच्छेदार्थकत्वेन श्रौतप- रिसङ्ख्यारूपत्वे तस्या निषेधतुल्यतया(२) “न तो पशौ क. रोती" तिवाद्विकल्पापत्तेर्नेयं श्रौती परिसङ्ख्या, अपि तु याव. न्यायेन सर्वत्र सामागमः प्राप्यते तावत्पूर्वमेव गायत्र्याधारक- त्वेन विधीयते । अतश्चामाप्तविधिरेवायं परिसङ्ख्याफलको न तु श्रौती परिसङ्ख्या। यद्यपि च गायच्यादिषु सामावापविधौ कृते न स्तोत्रा- न्तरेषु तदाकाङ्क्षाशान्तिरिति प्रापकप्रमाणप्रतिबन्धाभावानाऽत्र फलतः परिसङ्ख्यात्वं शक्यते वक्तुम् । तथाऽप्यत्रावापविधी कृते तत्प्रयोजनजिज्ञासायां प्रयोजनान्तरासम्भवेन गमकविध. या स्तोत्रान्तरेष्वभ्यासविधिकल्पनेन परिसङ्ख्याफलकत्वोप- पत्तिः । अतश्चाऽऽवपन्ती(३)त्यत्र धात्वर्थविधिरपि सम्पद्यते । एवकारस्तु फलप्राप्तानुवादो न तु स्वार्थविधायक इति द्रष्टव्य- म् । एवञ्च रागमाप्त एवाऽर्थे यत्रैवकारस्य नमो वा श्रवणं तत्रैव श्रौती परिसङ्ख्या नाऽन्यत्र । अत एव श्रौतपरिसङ्घयायां 'नाऽनृतं वदे' दि(४)त्युदाहरणमुक्तं न्यायसुधाकृता। प्रकृते तु लौङ्गिकप्राप्तेः पूर्व प्रत्यक्षश्रुतेः प्रवृत्तत्वात् फलतः परिसङ्खयैवे. त्युक्तम् । यत्वश्वाभिधान्युद्देशेन मन्त्रावीशष्टादानविधानेऽप्यश्वाभि. धानीस्वरूप आनर्थक्यादपूर्वसाधनलक्षणायामेक या प्रणाल्यैका. पूर्वसाधनत्वाद्यवेष्विव गर्दभाभिधान्यामपि मन्त्रमाप्तिरनिवार्येति, तन्न । "वीहीन्प्रोक्षती" त्यादौ ब्रीहिपदेनाऽपूर्वसाधनत्वे लक्ष्यमा. णे प्रकृतापूर्वसाधनत्वमेव लाघवालक्ष्यते, न तु प्रकृतापूर्वसा- १. व्यावृत्त्यर्थ इति. क. ख. पु. २. कोषी. ब्रा. ३.५. ३. त्ययमिति क. पु. ४. त्येवोदाहरणेति. ख. पु.

मीर्मासाकौस्तुभे [ मन्त्राधिकरण- धनीभूतत्रीहित्वमपीति युक्ता यवेषु धर्ममाप्तिः। प्रकृते त्वपूर्वसा- धनत्वमात्रलक्षणायां लिङ्गकल्प्पश्रुत्याविशेषेण प्रत्यक्षश्रुतिवै- यापत्तेरगत्या प्रकृतापूर्वसाधनीभूताऽश्वाभिधानीत्वलक्षणा• श्रयणान्न गर्दभाभिधान्यां मन्त्रापत्तिः । न चात्राऽपि सर्वस्य यजुर्वेदस्याऽऽध्वर्यवसमाख्यानाबजु- वेदविहितपदार्थानामध्वर्युकर्नुकत्वावगतेः प्रत्यक्षश्रुत्याऽऽदाना. विधाने च तदासिद्धेस्तसिध्यर्थमर्थ प्राप्तादानविधानेन श्रुतेरर्थ- वत्वोपपत्तेरशाभिधानीत्वलक्षणायां प्रमाणाभावाद्गर्दभाभिधा. न्यां मन्त्रप्राप्तिरनिवार्येति वाच्यम् । रशनाबन्धनस्य प्रत्यक्ष- श्रतिविहितत्त्वेनाध्वर्युककत्वे सिद्धे बन्धनार्थीदानस्यान्यक- तूंकत्वानुपपत्तेरध्वर्युकतुकत्वस्य विधि विनैव सिद्धेः। एतेन(१) 'यदि यजुषो यज्ञो आतिमायाद्भुव इति दक्षिणे' त्यस्यापि प्रायश्चित्तस्योपक्रमानुसारेण वेदधर्मत्वस्य(२)तृतीये व्यवस्थापयिष्यमाणत्वाद्विध्य भावे अविज्ञातप्रायश्चित्ततापत्तरेत. प्रायश्चित्तप्राप्त्यर्थो विधिरर्थवानिति परास्तम् । आदानवि. ध्यभावेऽपि मन्त्रस्यैव यजुर्वेदपठितत्वेन एतत्प्रायश्चित्तप्राप्त्यु. पपत्तेः । आदानभ्रेषे बन्धन श्रेषस्याप्यवश्यम्भावेन तन्निमित्त. मेतत्मायश्चित्तस्योपपत्तेश्च । किश्च यथा(३)"रथन्तरे प्रस्तूयमाने सम्मीलयेत् , बृहति प्रस्तूयमाने समुद्रं मनसा ध्याये" दित्यादौ प्रतिनियतनिर्देशान्यथानुपपत्त्याऽपूर्व साधनीभूतरथन्तरत्वादिल. क्षणापक्षस्याप्याश्रयणान्न धर्माणा सार्यमिति(४)वक्ष्यते, त- थाऽत्रापि(५)"युआयां रासभं युवमिति गर्दभ" मित्येवं प्रतिनि- २ पू. मी. ३. ३. १. ३. तां. ब्रा. ७.७.१५० ४. नवमद्वितीयचतुर्दशे ५. तै. सं. ५.१.२. १. श. ब्रा.११.५.८.६.

सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः । यतनिर्देशान्यथानुपपत्याऽश्वाभिधानीत्वादेरेव लक्षणेति न म. त्रसाङ्कर्यम् । न च तत्रत्यमस्वरसकारणं कण्वरथन्तरादौ बृहद्रथन्त. रधर्माप्रसक्तिरूपमत्रास्ति, अश्वाभिधानीका-पन्नस्य विकृता- वसिद्धेः । अतो बृहद्रथन्तरस्थल एव परं पृष्ठस्तोत्रजन्या. पूर्वैक्येऽपि बृहद्रथन्तरसामाश्रय तत्प्रतिपायगुणाभिधानजन्या- पूर्वरूपावान्तरकार्य साधनलक्षणाश्रयणात्मकृतौ (१)धर्मव्यव- स्थोपपत्तेः । कण्वरथन्तरे च स्वाश्रयऋग्वाच्यगुणाभिधान- स्य प्राकृतगुणाभिधानजन्यापूर्वार्थत्वस्यैव लाघवेन हिरण्यगर्भ मन्त्रवत्कल्पनात्माकृतकार्यापन्नत्वेन तत्प्रयुक्तधर्मप्राप्त्युपपत्तिः । प्रकृते त्ववान्तरकार्यभेदाभावात्प्रतिनियतनिर्देशवलादश्वाभिधा- नीत्वलक्षणायामपि न किञ्चिद्धाधकमस्तीति युक्तयं परिसङ्घया । अत्र च परिसङ्ख्यादिलक्षणेषु विधिरसायनोक्तदृषणाऽन- वकाशार्थमेवं. यतितव्यम् –यत्र निषेधापरपर्याया निवृत्तिः शब्दतः फलतो वा शास्त्रतात्पर्यविषयीभूता, स परिसङ्ख्यावि. धिः । उक्तपरिसङ्घयोदाहरणेषु लक्षणसमन्वयस्तु स्फुट एव । तत्र निषेधप्रतियोगी विधिविषयः भावरूपोऽभावरूपो वा(२)उ पाधिर्यः कश्चिद्रोध्यः। तेनाऽनृतवदनगर्दभाभिधानीप्रयाजादीनां नाऽसङ्ग्रहः । न वाऽनेकाभावमाप्तावेकाभावपरिसङ्घयायाः । अभावस्थ परिसङ्ख्यायाश्च तत्र चान्यत्र च प्राप्तिरोत्सर्गिकी, न तु नियता । "नाऽनृतं वदे" दित्यादौ सत्यानृतयोरेकस्मिन्नर्था- वबोधे पक्षप्राप्तत्वेन नियतमाप्तयभावात् । अत एव सा न लक्ष. णघटिका। १.धर्मव्यवस्थाया उप. इति. क. पु. २. उपाधिरिति नास्ति ख. क. पु. .

मीमांसाकौस्तुभे [ मन्त्राधिकरण- CAREND न चैवं ॥ ब्रीहीनवहन्ती त्यादाववघाताभावव्या- तेरपि तात्पर्यविषयत्वात्परिसङ्ख्या लक्षणस्याऽतिव्याप्तिः, यत्न. तियोगिकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकताप- र्याप्तयधिकरणं, तस्य शास्त्रस्य तत्परिसङ्घयाविधित्वमिति विव- क्षितत्वात् । सर्वत्र हि परिसङ्घयाविधौ परिसङ्घयेयपतियो. गिकाभाव एव तात्पर्यविषयीभूतः । नियमविधौ त्ववघाताभा. वाभावरूपो नियमः । अत एवाभावाभावत्वस्य तात्पर्यविषय- तावच्छेदककोटिप्रविष्टत्वेऽपि पर्याप्त्यधिकरणत्वाभावान्नातिव्या. प्तिः । अत एव शब्दतः फलतो वा पाक्षिकायोगव्यात्तिरूपो नि- यमो यस्य शास्त्रस्य तात्पर्य विषयाभूतस्स नियमविधिः । उक्तो. दाहरणेषु लक्षणसमन्वयस्स्फुट एव । पाक्षिकायोगश्च तन्मात्र- विध्यप्रवृत्तिनिबन्धनो विध्यन्त रामत्तिसाहिततद्विध्यप्रवृत्तिनिव. धनश्वेत्यादिप्रकारेण बोध्यः । "व्रीहीनवहन्ती"त्यादौ "उत्तरेऽहन् द्विरात्रस्य गृह्यत" इत्यादौ चाऽऽयः।.एतद्विध्यभावे आक्षेपेणाऽवघातस्याऽतिरात्रसंस्थाकद्वितीयद्विरात्राऽहनि च षोड- शिग्रहणस्यातिदेशेन पक्षपाप्तत्वात् । “बीहिभिर्यजेते" त्यादौ द्विती. यः । यवविध्यभावप्तहितेतद्विध्यभावे वीहीणामाक्षेपेण पक्षप्राप्त- त्वात् । न चैवं पाक्षिकायोगभेदेन लक्षणभेदात्परस्पराव्याप्त्यति. व्याप्तिप्रसङ्गेन विधिरसायनोक्तदूषणतादवस्थ्यं, विदलनायुपा- यान्तरमसक्तिप्रसञ्जितयत्प्रतियोगिकाभावकूटाभावत्वं यस्य शा. स्त्रस्य तात्पर्यविषयतावच्छेदकतापर्याप्त्यधिकरणं, तस्य तन्निय. मविधित्वमिति विवक्षाङ्गीकारेण पाक्षिकत्वभेदस्य लक्षणकोटा- वप्रवेशात् । वस्तुतस्तु अवघातत्वावच्छिन्नप्रतियोगिताकाभावाभावत्व- । सिद्धान्तः ] प्रथमाध्यायस्य द्वितीयः पादः । मेवोक्त(१)लक्षणे प्रवेश्यत इति कूटाद्यप्रवेशादपि लाघवम् तथा च यद्धर्मावच्छिन्न प्रतियोगिताकाभावाभावत्वं तादृशावच्छेद. कतापर्याप्त्यधिकरणं तस्य तद्धर्मवनियमविधित्वमिति निर्गलि. तोऽर्थः । तावतैव च परिसङ्घयाविधितोऽपि भेदसिद्धर्न कूटा. दिप्रवेशस्यापि प्रयोजनम् । एवं च यद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वं यस्य शास्त्र. स्य तात्पर्यविषयतावच्छेदकतापर्याप्त्यधिकरणम् , तस्य शास्त्र स्य तद्धर्मवत्परिसङ्घयाविधित्वम् । एवं च "नीहीनवहन्ती" त्यादौ यच्छब्देनाऽवघातत्त्वस्य ग्रहणे नियमविधित्वमेव । अब घाताभावत्वग्रहणे तु परिसङ्ख्याविधित्वाङ्गीकारेऽपि न क्षतिः । वक्ष्यमाणविधया सायस्यानिवार्यत्वात् । न चैवमपि "नीहीमोक्षती" त्याचपूर्वविधावपि प्रोक्षणा- भावाभावस्य प्रोक्षणस्यैव तात्पर्य विषयत्वादतिव्याप्तिः । निषेध- मुखप्रतीतिकनयाऽभावाभावस्थाऽतिरिक्तस्य प्रतियोग्यात्मक स्वानङ्गीकारेणाऽपूर्व विधौ लाघवाछुनत्वाच्च प्रतियोगिन एव तात्पर्यविषयत्वाङ्गीकारेणाऽभावस्य तात्पर्यविषयत्वाभावात् । नियमविधौ तु प्रतियोगिनः प्राप्तत्वात(२) सामान्याभावाभाव एव तात्पर्यविषयीभूतः । यदि तु सामान्याभावाभावोऽप्याक्षे. पेण प्राप्त इत्याशङ्कयेत, तदा विदलनायुपायान्तरप्रसाक्तिप्रसान. तसामान्याभावत्वावच्छिन्न प्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्यविषयतावच्छेदकतापर्याप्त्यधिकरणं, तस्य शास्त्रस्य तद्ध- विच्छिन्ननियमविधित्वमित्यादिरूपेण बोध्यम् । न तु कूटप्र. वेशः । सामान्याभावे ह्यवघाताकरणप्रसञ्जितत्ववद्विदलनकरण. . १. विधिलक्ष इति. ख. पु. २. स्वसामान्येति क. ख. पु.

मीमांसाकौस्तुभे [ मन्त्राधिकरण- प्रसञ्जितत्वमप्यस्तीति विशिष्टाभावप्रवेशा(१)न कूटप्रवेशः । तावतैव विदलनायुपायान्तरमसक्तिपमञ्जितावघाताभाव कूटाभा- वस्य सिद्धर्विदलनादिव्यावृत्तिसिद्धेश्च । यदि तु सामान्या. भावे विदलनकरणप्रसञ्जितत्वे प्रमाणाभाव इति विभाव्यते ततः पूर्वोक्तलक्षणमेव साधीयः । माऽस्तु वा नियमविधौ पर्या- प्तिविवक्षा। यत्तु दृष्टार्थत्वं नियमविधिलक्षणं कैश्चिदुक्तम् , तव "उत्त- रेऽहन द्विशत्रस्य गृह्यत" इत्यादावव्याप्तत्वादुपेक्षितम् । षोडशि- ग्रहयागाभ्यासस्याऽदृष्टार्थत्वात् । एवं च नियमपरिसङ्घयाति- रिक्तफलकविधित्वमपूर्वविधित्वामि(२)ति लक्षणम् । (३)एवं च यविषयको विधिरुक्तफलद्वयातिरिक्तफलतात्पर्यकः, तत्वं तदपूर्वविधित्वम् । लक्षणसमन्वयस्तु सर्वत्राऽप्यपूर्वविधौ सुधी. भिरनुसन्धेयः । तच्च फलं "ब्रीहीन्प्रोक्षती" त्यादौ विधेयमेव प्रोक्षणादि, “तमुक्थ्येने" त्यादौ गुणकाममवृरमादिविधेयच- यनाधन्यदिति प्रकार भेदेऽपि न काश्चिद्विरोधः । एतेषां चोपा- धीनां कचिदुदाहरणे विषय भेदेन वा विषयैक्येन वा साङ्कर्येऽपि न कश्चिदोषः। न हृदविधलक्षणसार्याङ्गीकारे दीक्षितदण्डादन्यो द. ण्डो मैत्रावरुणकरके प्रेषानुवचने प्रसज्यतेत्यादिदूषणानां प्रसङ्गलेशोऽप्यस्ति । (४)"क्रीते सोमे मैत्रावरुणाय दण्डं प्र. यच्छती" त्यस्या(५)भाने दीक्षितदण्डस्य यजमानधारण एव विनियोगाल्लौकिकस्यैव दण्डस्य नियमविधिः, 'दण्डी' १ न कूटप्रवेश इति नास्ति ख. २. इति लक्षणमिति नास्ति. ख.पु. ३. तत्वश्चेति क. पु. ४. तै. सं.६.१.४. ५. दण्डीत्यस्य चोभयोर. इति ख. पु पु सिद्धान्तः] प्रथमाध्यायस्य द्वितीयः पादः ! त्यस्यैवाभावे च दीक्षितदण्डस्य मैत्रावरुणाय दत्तस्य प्रयोजना- पेक्षायामालम्बनतया कार्यमात्रे समुचित्य प्राप्तौ दण्डीत्ययं प्रैषा. नुवचनातिरिक्तकार्यान्तरपरिसङ्ख्याविधिस्सम्पद्यते । ततश्च तदु. भयागीकारे(१.) लौकिकदण्डस्यापि ग्रहणापत्तिरिति हि (२)दूष- । १. तत्साकर्याङ्गीकार इति क. ख. पु. २. दूषणमिदं श्रीमदप्पय्यदीक्षितविधिरसायने 'यद्येकानेकवि ध्यप्रसृतिमुखभव' इति दशमलोके 'दैक्षादन्योऽपि दण्डः प्रकृतिः जुषि भवेत्प्रेषकार्ये प्रशास्तु रित्यादिना दत्तम् । तस्याऽयं पिण्डीभू. तोऽर्थः-ज्योतिष्टोमे दीक्षाप्रकरणे 'दण्डेन दीक्षयती' त्यनेन दीक्षा. भिव्यञ्जकतया दीक्षितहस्ते दण्डदानं विहितम् । तत्र द्वितीयदिनक तव्यसोमक्रयणानन्तरं तस्यैव दण्डस्य मैत्रावरुणाय दानं विहितं 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति । तत्रैव च मैत्रावरुण- कर्तृकेषु प्रैषानुवचनेषु दण्डवैशिष्टयमपि विहितं 'दण्डी प्रैषानन्वाहे' ति। तथा च दीक्षितेन दत्तं दण्डमवलम्ब्यैव तिष्ठन्मत्रावरुणः अग्नी. षोमीयपश्वादौ प्रैषानुवचनं करोतीति स्थितिः । सति चैवे तन्मात्रविध्यप्रवृत्तिदशायां विध्यन्तराप्रवृत्तिसहित. सद्विध्यप्रवृत्तिदशायां वा या पाक्षिकी अप्राप्तिस्तादृशाऽप्राप्तांशपूर- को नियमविधिरिति नियमविधिलक्षणमङ्गीकरणीयम् । अतश्चानि- यमेनैकानेकविध्यप्रवृत्ताविति विवक्षणे 'दण्डी प्रैषानन्वाहे' त्यत्र त- मात्रविध्यप्रवृत्तिविवक्षायां 'क्रीते सोम' इति विधेस्सत्वात्तत्प्रापि. तस्य मैत्रावरुणदण्डस्य कार्यापेक्षायां सत्यां तत्कर्तृकप्रैषानुवचन: वत्कार्यान्तरेग्वपि दण्डस्य समुच्चित्य प्राप्तिसंभवाचादितरकार्या न्तरव्यावृत्तिरूपपरिसङ्ख्याविधित्वं 'दण्डी प्रैषानि' ति वाक्यस्य प्राप्नोति। 'क्रीते सोम' इति वाक्याप्रवृत्तिसहकृतैतद्विध्यप्रवृत्तिवि. वक्षणे तु 'दण्डेन दीक्षयतीति विधिमात्रसत्वेन तत्प्रापितदीक्षितद- ण्डस्य आन्तं दीक्षितेनैव धारणीयत्वमापतेत् । ततश्च मैत्रावरुणस्य प्रेषानुवचनसमये आलम्बनापेक्षायामनियमेन यस्य कस्यचिदालम्ब. नप्राप्तौ दण्डस्यैवालम्बनत्वं विदधदयं नियमविधिस्संपद्यते । अत- श्वकस्मिन्नेव वाक्ये नियमपरिक्ष याविधिलक्षणसाङ्कर्यमेकानेकप्रवृत्ति १२ मी० को - ९० भीमांसाकौस्तुभे [ मन्त्राधिकरण- गम् । तच न युज्यते, तार्किकफलानेकत्वेऽपि वस्तुतः "क्रीते. सोमे मैत्रावरुणाय दण्डं प्रयच्छती" त्यनेन मैत्रावरुणार्थत्वेन विनियुक्तस्य(१)दीक्षितदण्डस्य प्रयोजनापेक्षायां 'दण्डी प्रैषानः बाहे. त्यनेन कार्यविधानादन्यस्याऽप्रसक्तेः । एवमन्यत्राप्यू- हाम् । एतानि च लक्षणानि सुधीभिर्विधिरसायनोक्तोदाहरणेषु योज्यानि । न चान्यत्र मुयोज्यत्वेऽपि(२) 'यदि सोमं न विन्देत् पूती. कानभिषुणुया' दित्यादौ सोमाभावे पूतीकानां मन्दसहशतया मा. त्यभावेन तत्र पूतीकमाप्लेरेव तात्पर्यविषयत्वाद , तदभावाभा- वस्य मोक्षण इव तात्पर्यविषयत्वे च प्रमाणाभावानियमविधि. खानुपपत्तिः, एतद्वचनस्य मुसदृशप्राप्तिन्यायप्रत्युत्तरप्रवृत्ती प्रमाणाभावेन पूर्वप्रवृत्तस्याऽस्य पूतीकमापकत्वानुपपत्तेः । यत्र तु(३) "हिरण्यगर्भस्समवर्तताऽग्र इत्याघारमाधारयः ती" त्यादौ हिरण्यगर्भप्रकाशकस्य मन्त्रस्य ऐन्द्राघारे कथमपि प्राप्तयसम्भवः, तत्र सत्यपि क्लुप्तनियमादृष्टजनकत्वेनोत्तराघारे मन्त्रविधौ(४) 'औदुम्बरो यूपो भवती' तिवदपूर्वविधित्वेऽपि न क्षतिः। सर्वे द्रव्याविषयो नियमविधय'इत्यादिवादस्तु(५) हीषा. विषक्षणकृतमापद्यते। किञ्च द्वितीयपक्षे देक्षे पशौ दीक्षितदण्डादन्यः स्यैव लौकिकदण्डस्य प्राप्त्यापत्तिरिति । १. दीक्षितेति नास्ति ख, पु, २. तां. बा.९. ५. ३. ३. अग्निचयनाङ्गभूतवायुदेवताकः पशुयागो विहितः । तदङ्ग त्वेन प्रकृतित अतिदिष्टयोराघारयोर्द्वितीयाघारे मन्त्रोऽयं विहितः ।। ४.ते.सं. २. १.९. ५. 'सौभरमुक्थ्यानां ब्रह्मसाम भवतीति वाक्यविहितसौभरास्य- सामविशेषस्य वृष्ट्यादिफलोद्देशेन विधानं 'यो बुष्टिकामो योऽन्नाद्य कामो यस्स्वर्गकामस्स सौभरेण स्तुवीते'ति । तस्यैव च तत्तत्फल- . ।

सिद्धान्तः ] অঙ্গাঙা ছিলঃ জ্ব। मकृतौ - दीनां वृष्टयादिफलार्थत्वे अपूर्वविधित्वापत्तरित्यादिव्यवहारा. दौत्सर्गिक एव । अत एव सर्वेष्वेव वाक्येषु विषयभेदेन विषयै- क्येन वा क्रमेण योगपद्येन वा अनेकफलतात्पर्यकत्वेऽपि कचिकेनचियवहारो मूले नाऽनुपपनः । तद्यथा--- 'खुशेणाऽऽधारमाधारयती' त्यत्रैवाऽमातहोमप्रापणमभ्युदयशिर स्कत्वं, याजुर्वेदिकप्रायश्चित्तप्राप्तिरित्याउनेकफलतापर्यकत्वाद. पूर्वविधित्वं, पुनश्च तस्मिन्नेव विषये अध्वर्युककत्वादिफलमादाय नियमविधित्वं, पुनश्च युवाविषये तदित्यनेकरूपता । न होषां मध्ये एकस्यैव तात्पर्यविषयता नाऽन्येषां, अनुनिष्पमत्वादिति वाच्यम् । तात्पर्याभावे तदभावप्रयुक्तवैगुण्यानापत्तेः । अत ए. वाऽप्राप्तपापकविधावपि न तद्विधिजन्यबोधस्याऽऽवश्यकत्वं स. र्वेषामिष्टम् । एवं वार्तिकोक्ते "ब्रीहीन्प्रोक्षती" त्यत्रापि(१) 'अग्न. ये वो जुष्टं प्रोक्षामी' त्येतन्मन्त्रकल्प्यविधितः पूर्वप्रवृत्तरप्राप्तमो. क्षणमापकत्वं, तार्किकतत्प्राप्त्यालोचनोत्तरकालं स्वभ्युदयशिर- स्कत्वं, प्रायश्चित्तप्राप्तिरध्वर्युकर्तृकत्वं, चेत्यादिफलमापकत्वादने. करूपता । 'त्रीहीनवहन्ती' सत्राप्याक्षेपतः पूर्व(२) प्रवृत्ताऽवघा. तपापकत्वादपूर्वविधित्वं, तार्किकतत्प्राप्तयालोचने तनियम. फलकत्वं, तार्किकतन्मन्त्रवर्णकल्प्यावघातनियमप्राप्त्यालोचने स्वभ्युदयशिरस्कत्वं, प्रायश्चित्तमाप्तिं च(३) तद्विषयामङ्गीकृत्याऽपू. साधनत्वेन विर्धायमानस्य हीषादयो नियम्यन्त हीषिति दृष्टिका. माय निधनं कुर्यानित्यन्नाद्यकामाय, ऊ इति स्वर्गकामायेति । वृ. ष्टिसाधनीभूतसौभरे हीषिति निधनं पठेदिति तदर्थः । प्रस्तावोद्राथ. प्रतिहारोपद्रवनिधनाख्यभागपञ्चकात्मनस्लाम्नोऽन्तिमो भागो नि. धनमित्त्युच्यते ॥ १. तै. सं.१.१.४. २. प्रवृत्तावातावधातेति.क. ख. पु. ३. तात्पर्यविषयामङ्गीकृत्यति ख. पु. तु D मीमांसाकौस्तुभे [ मन्त्राधिकरण- विधित्वं, अध्वर्युकर्तृकत्वाधादाय च नियमविधित्वामियादि तत्तद्विधिध्वनेकरूपत्वेऽपि कचित्केनचिद्रूपेण व्यवहार इति नाऽत्र रूपान्तरलक्षणातिप्रसङ्गोद्भावनं युक्तम् । वस्तुतस्तु 'अवरक्ष' इत्यवघातमन्त्रस्य नाऽवधाते स्फुट लिङ्गमिति तेन नाऽवघातनियममाप्तिः, "अग्नये वो जुष्टं प्रो- क्षामी तिमोक्षणलिङ्गमन्त्रस्याऽप्याग्नेयाङ्गभूतदर्भादिसाधारण्या- पत्तेौहिमात्रविषयतया प्रोक्षणप्राप्त्यनुपपत्तेः "त्रीहीन्प्रोक्षती" त्ययं दर्भादिपरिसङ्घयार्थ इत्यपि शक्यते वक्तुमिति ध्येयम् । न चैवं प्रोक्षणावघातादिविधीनां यवादिपरिसङ्घयाफलक स्वस्थाप्यापत्तिः, सम्भावितेषु बनेकेषु फलेषु यदेकानेकं वा प्रामा. णिकं फलं तत्रैव शास्त्रस्य तात्पर्य, न तु प्रमाणबाधितेऽपि । प्र- पाणबाधाऽवाधौ च तत्र तत्राधिकरणे स्फुटावेव । यत्रापि च न स्फुटौ तत्रापि स्वयमूह्यौ । यथाऽत्रैव यवादिपरिसङ्घयायाम् । वीहिपदेन ह्यपूर्वसाधनत्वमात्रमेव लाघवाल्लक्ष्यते, न तु तत्साध- नीभूत (१) ब्रीहित्वजातिरपि, गौरवात् । अतश्च गौरवपरास्तत्वा- न परिसङ्घघाफलकत्वम् । (२)"इमामगृभ्णन्नि" त्यादौ(३)"यु- जाथाँ रासभं युवमिति गर्दभ" मिति प्रतिनियतनिर्देशान्यथानु- पपश्या गौरवाश्रयणेनाऽपि परिसङ्ख्याफलकत्त्वम् । न च लिङ्गादेव 'युञ्जाथामिति मन्त्रस्य गर्दभाङ्गत्वसिद्धेर्नाऽयं प्रतिनियतनिर्देश इति वाच्यम् , युवमिति पुरुषाश्वयोरुपादानेन लिङ्गसाधारण्यात् । अतः तत्राऽगत्याऽन्यपरिसङ्ख्याफलकत्वाङ्गी- कारेऽपि न प्रकृते तदाश्रयणम् । अत एव यत्र परिसङ्ख्यागीका. २.ते. सं.४.१. २. १. व्रीहित्वमपीति ख. पु. ३. तै. सं. ५. १. २.

सिद्धान्तः] प्रथमाध्यायस्य वित्तीयः पादः । केऽपि न गौरवं, तत्र वाक्यस्याऽभ्युदयशिरस्कत्वयाजुर्वेदिकमाय- श्चित्तादिप्राप्तिरूपफलान्तरतात्पर्यकत्वेऽपि परिसङ्घघाफळकत्वम्। यथा(१) 'आज्यभागौ यजती' त्यादौ । अत एव कचिदेव नियम- विधित्वसम्भवेऽपूर्वविधित्वानङ्गीकारः, यत्राऽपूर्वविधित्वं गौरव- पराहतम् । यथा हीषादौ व्यवस्थार्थत्वसम्भवे गुणफलसम्बन्ध स्याऽदृष्टान्तरकल्पनापादकस्य, न तु सर्वत्र । “पुरोडाशं प्रथयती" त्यादावध्वर्युकतकत्वनियमफलकत्वेऽपि याजुर्वेदिकमायश्चित्त- प्रासिफलकत्त्वेनाऽपूर्वविधित्वविश्यम्भावात् । अतस्सर्वत्रैव प्रा. यशः फळसाङ्कर्यसत्वेन मूले कचिल्केनचियवहारस्वैच्छिकत्वा त्तत्रेतरलक्षणातिप्रसङ्गकथनं न युज्यते । अतश्चोक्तलक्षणानां तदुदाहरणानां च वार्तिकायुक्तानामनुपपत्यभावाद्विधिरसायनो. तलक्षणाक्षेप उदाहरहणाक्षेपश्च न सङ्गच्छते । आक्षेपाक्षेपप्रस. ड्रेन न्यायशैथिल्यकरणन्तु तत्तदधिकरणप्रसङ्गेन तत्र तत्र प्राय- शो निरांकरिष्यत इति विधिरसायनोक्तदूषणानामनवकाशः॥४४॥ अर्थवादो वा ॥ १-२-४५॥ "उरु प्रथस्वेति पुरोडाशं प्रथयती" सत्र मन्त्रोपादानं "य. ज्ञपतिमेवे" त्यर्थवादालम्बनार्थम् । आलम्बनप्रकारश्च पूर्वमेव प्रदर्शितः । यत्तु प्रथनस्याप्यर्थप्राप्तत्वेनाऽविधेयत्वाद्विधिशेषत्वाभावेनाऽर्थ वादत्वस्यैवानुपपत्तिरिति, तत्माप्तस्यापि प्रथनस्याऽध्वर्युकर्तृक- त्वार्थ विधानोपपत्तेः परिहर्तव्यम् । तस्माद्यज्ञपतिप्रथनफलकत्वेन पुरोडाशप्रथनं स्तोतुं मन्त्रोपादानम् । न च यज्ञपतिप्रयनस्य पुरो. १. चातुर्मास्यान्तर्गतगृहमेधीयेष्टिसन्निधिपठितेति ।

मीमांसाकौस्तुभ [ मन्त्राधिकरण- हाशमथनफलकत्वज्ञापनार्थत्वेन रात्रिसत्रवन्मन्त्रीपादानं विनाऽप्य- र्थवादोपपतिः, पुरोडाशप्रयनस्य पुरोडाशसंस्कारार्थत्वेन परा थत्वादर्थवादस्य फलकल्पकत्वानुपपत्तेः । न च सूक्तवाकन्यायेन मन्त्रादेव फलकल्पनोपपत्तेः मन्त्रो. पादानं विनाप्यर्थवादोपपत्तिः, वैषम्यात् । तृतीयया इतिकरणेन वा यत्र मन्त्राविनियोगस्तत्र सकलस्य मन्त्रस्य क्रियां प्रति कर. णत्वावगमादुत्सर्गतस्तावदयमर्थः प्रतीयते-सकलेनापि क्रि- यैव प्रकाशनीयेति । तदसम्भवे चाऽवगतक्रियासम्बद्धद्रव्यादि, तस्याऽप्यसम्भवे स्वार्थस्य क्रियासम्बन्धकल्पनं, तस्याप्यसंभवे च समवेतमर्थं स्तोतुं स्वार्थस्य सदुपसर्जनत्वकल्पनमिति । तद्यथा "सूक्तवाकेन प्रस्तरं प्रहरती" त्यत्र सकलस्य सूक्तवाकस्य तृती. यावगतकरणतान्यथानुपपत्या प्रहरणक्रियाप्रकाशकत्वावगता. वपि तदसम्भवेऽवगतक्रिया(१) सम्बद्धं प्रस्तराख्यं द्रव्यं “य. दनेन हविष" स्यादिपदैः प्रकाश्यते, अवशिष्टैश्वान्यादिपदैः(२) आयुरादिपदैश्च स्वार्थस्य फलदेवतात्वेन सम्बन्धकल्पनं, तस्या- प्यसम्भवे "इदं द्यावे" त्यादिपदानां समवेतद्रव्यदेवताफल. स्तावकत्वमात्रकल्पनामिति । एवं “ममाऽग्ने वर्ची विहवेष्वस्त्विति पूर्वमग्निं परिगृहाती" त्यादावपीतिकरणविनियुक्तेऽप्यन्वाधानस्य वर्चःप्रभृत्यानुषङ्गिकफलकल्पनं द्रष्टव्यम् । यत्रापि क्रमादिविनियुक्तो मन्त्रः, यथा उपांशुयाजादौ याज्यानुवाक्यारूपः, तत्राऽपि क्रियाप्रकाशनासम्भवे स्वार्थ- स्थ देवतात्वादिना क्रियासम्बन्धकल्पनमिष्टमेव । तत्र त्वेता. वान्विशेष:-यत्क्रमादिविनियोज्ये यागापेक्षितं देवतायेव क्रि. १. सम्बन्धि प्रस्तरेति. ख. पु. । २. आयुरादिपदैरिति नास्ति. ख.पु.

सिद्धान्तः ] प्रथमाध्यायस्य द्वितीय यासम्बन्धित्वेन कल्प्यते न तु सर्वमन्त्रप्रतिपाद्यम् । एकसम्बन्ध. कल्पनेनाऽपि मन्त्रस्य प्रयोजनाकाङ्क्षानिवृत्तेः, तृतीयादिविनियु- क्तवत्सकलमन्त्रकरणत्वानवगमाच्च । प्रकृते तु "उरु प्रथस्वे". त्यस्य लिङ्गविनियुक्तत्वात्पथनक्रियाप्रकाशकत्वेनैव मन्त्रनै- राकाझोपपत्तेस्तयाकादिवत्सकलस्य करणत्वानवगमेन फलकल्पकत्वानुपपत्तिः । न चैवं "ममाग्ने वर्च" इत्यस्यापि इन्धाना इति लिङ्गादेव विनियोगात्फलकल्पकत्वानापत्तिः, इन्धाना इति लिङ्गादमि- धारणार्थत्वाचगमेऽप्याद्यामिधारणमात्रार्थत्वस्य "इति पूर्व मग्निं परिगृह्णाती"ति विधि विनाऽसिद्धरितिकरणविनियुक्त- त्वेन फलकल्पकत्वोपपत्तेः । न हि(१) पूर्वमिति पदं पूर्वाग्नि- रूपाहवनीयपरं, गार्हपत्येन्धनेऽस्य विनियोगात् । तत्वेऽपि वा(२) इतिकरणधिनियुक्तस्वास्फलकल्पकत्वे न किश्चिद्वाधक- म् । प्रकृते तु लिङ्गविनियुक्तत्वान्न प्रथनफलत्वं यज्ञपतिप्रथ- नस्य कल्पनीयम् , किन्तु प्रथनफलानुवादकत्वमेव "आयुर्दा अग्ने" इत्यादिव"दुरु ते यज्ञपतिः प्रथता" मित्यस्य द्रष्टव्यम् । तस्मान्मान्त्रवणिकफलकल्पनानुपपत्तेरर्थवादालम्बनार्थमुक्तवि. धया मन्त्रोपादानमवदिति सिद्धम् । यद्यपि च मन्त्रोपादा- नाभावेऽपि लैङ्गिकविनियोगेन मन्त्रस्य प्राप्तत्वात्तावतैव स्वाभिमत स्तुत्यालम्बनासद्धिः, तथापि स्पष्टीकरणार्थ मन्त्रो. पादानम् ॥ ४५ ॥ .0 . १. पूर्व पदमिति क. ख. पु. २. इतिकरणविनियुक्तत्वान- पगमेन फलकल्पकत्वापपत्तश्चेति क. ख. पु.

मीमांसाकौस्तुभे [ मन्त्राधिकरणा- अविरुद्धं परम् ॥ १-२-४६ ॥ यत्तु नियतक्रमाम्नानं, तदर्थपरत्वे सति नियमादृष्टकल्पन- याऽप्यविरुद्धम् । आवश्यकी च क्रमनियमाऽदृष्टकल्पना पूर्वपक्षि- णोऽपि । क्रमान्यत्वेऽपि (१)मन्त्रोच्चारणे विशेषाऽनवगमेनो- चारणादेवाऽदृष्टोत्पत्तौ बाधकाभावात् । प्रयाजादिक्रमवदुच्चा- रणक्रमस्याप्यदृष्टार्थत्वावश्यम्भावात् ॥ ४६ ॥ संप्रेषे कर्मगनुिपालम्भसंस्कारत्वात् ॥ १-२.४७ ॥ या च "अग्नीदग्नीन्विहरे" ति संप्रेषे बुद्धबोधनासम्भ. वादभिधानरूपकर्मगाऽभिहिता, सा स्वाध्यायकालीनज्ञानस्य क्षणिकत्वेन नष्टत्वात्स्मरणाख्यसंस्काररूपबोधसम्भवेन नोपा. लम्भः । प्रैषनियमाच्च नोपायान्तरस्य पूर्वपदार्थसमाप्तयादे. स्मारकत्वम् । न चैवं "विभूरसी" त्यादिमन्त्रान्तरस्याऽपि विहरणाङ्गत्वेनाम्नानात्मेषानर्थक्यं, मन्त्रद्वयाम्नानबलात्स्मृ- तिदायहेतुत्वेन प्रैषस्य वा साङ्गाग्निविहरणभावनास्मारकत्वा "द्विभूरसी" त्यादेश्चाग्निविहरणमात्रस्मारकत्वादग्निविहरणा- भूतमन्त्रस्मारकत्वेनैव प्रैषार्थवत्वोपपत्तेः ॥ ४७ ॥ अभिधानेऽर्थवादः ॥ १-२-४८॥ (२)"चत्वारि शृङ्गे” त्यस्य कर्मसमवेतार्थप्रकाशनार्थ चतस्रो होत्राः, त्रीणि सवनानि, द्वे पत्नीयजमानौ,(३) सप्त छन्दां. १. मन्त्राक्षरोच्चारणेति क. पु. २. ऋ. सं. ३.८.१० ३. गायत्र्युष्णिगनुष्टुन्बृहतीपङ्कित्रिष्टुब्जगतीरूपाणि सप्त छन्दांसि।

६४ व्याप्तिपञ्चकरहस्यम् सिहव्यावलक्षणरहस्यं च । श्रीमथुरानायतर्क- वागीशकृतम् । न्यायाचार्य पं. शिवदत्तमिश्र विरचित गंगानिर्झरिणीव्या- ख्यया टिप्पण्यादिविभूषितं च । [न्या-वि.] रु० ०-१२ ६५ सिद्धान्तविन्दुः । श्रीमधुसूदनसरस्वती विरचित श्रीभगवान्शङ्कराचा- र्य विरचित दशश्लोकव्याख्यारुपः श्रीगौड ब्रह्मानन्दविरचित न्यायरत्नावली. नारायणतीर्थ विरचित लघुव्याख्या टिप्पणीसहितः । [ वेदान्त वि० ८] २० ४. ६६ अन्त्यकर्मदीपकः आशौचकालनिर्णयसहितः । प्रेतकर्मब्रह्मीभूतयति कर्मनिरूपणात्मकः महामहोपाध्याय पं. श्री नित्यानन्दपन्तपर्वतीय विरचि- [कर्मकाण्ड वि० ६ ] रु०१-८ ६७ सांख्यदर्शनम् । श्रीमद्विज्ञानभि। . । RemO ६८ अनेकार्थसङ्ग्रहो नाम कोशः ६६ शिशुपालवधम् । श्रीमन्मावकवि षधिव्याख्यया महामहोपाध्याय : समेतम् । सजिल्द ग्लेज कागज । स " ●८ - " ७० जागदीशीपञ्चलक्षणी सिंहन्या: रकृतम् । न्यायाचार्य पं. शिवदर्ता दिपण्यादि विभूषितं च । ७१ ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूद श्रीगोबिन्दानन्द प्रणीतया रत्नप्रभया एपो ग्रन्थः भागद्वये पूर्णा भविष्यति। द्वितीयाध्यायस्य द्वितीयपादान्तमस्मा शीघ्रमेवमुदायित्वा प्रकाशयिष्यते) । प्रथेमाभागः ( नविभाग) रु. २-८ ७२-१-सिद्धान्तशिरोमणिः। श्रीभास्कराचार्य विरचित । गणिताध्यायः वासनाभाष्य सहितः ज्योतिषाचार्य म०म० श्रीक्ष्मद्वापूदेवशास्तिकृतटिप्प. णी सहितः। [ज्य वि०४] रु. २-० १२-२-सिद्धान्तशिरोमणिः। गोलाध्याय: वासनामाग्य सहितः । ज्योतिषाचार्य म०म ०६महापू. देवशास्त्र कृत टिप्पणी साहतः । [ज्यो० वि० ४ ] २०२-० ७३ काकचण्डीश्वरकल्पतन्त्रम् । पण्डित रामकृष्ण शर्मणा सम्पादितम् । पण्डित बटुकनाथ शर्मा एम. ए. साहित्योपाध्याय इत्येतेन लिखितया प्रस्तावनया मनाथीकृतम् । [ आयुर्वेद शास्तविभागे १ ] रु. *किरातार्जनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् मल्लिनाथसूरि- कृतया घण्टापथसमाख्यव्याख्यया तथा पं० श्रीगङ्गाधरशर्मणा कृतया सुधाss- ख्यव्याख्यया समलङ्कृतम् । [ सर्गत्रयमात्रम् ] [काव्य वि० १०] रु. ०-१२ ७५ चन्द्रालोकः । पीयूपवर्षश्रीजयदेवकवि प्रणीतः । श्रीमत्पद्मनाभमिश्रापरा. भिधान प्रद्योतनभट्टाचार्य विरचितया चन्द्रालोकप्रकाशापराख्य 'शरदागम' टीकया सङ्कलितः । साहित्याचार्येण खिस्ते इत्युपाख्यनारायणशास्त्रिणा भूमिकादिभिः सम्भूष्य सम्पादितः । [ अलङ्कार वि० ३ ] रु० ०-१० - ७ .. ७६ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मलिनाथ- सूरिकृतया घण्टापथलमाख्यया तथा पं० श्रीकनकलालशर्मणा कृतया भावा- र्थदीपिनाव्याख्यया समलकृतम् । [सर्गत्रयमात्रम् ] [काव्य वि० ११] रु० ०-६ ७७ शक्तिवादः, श्रीगदाधरभट्टाचार्यप्रणीतः, पण्डितप्रवरश्रीहरिनाथतर्कनिहा- तभट्टाचार्यविरचितविवृतिसहितः । [ न्यायविभागे १०] ७० ३--- ७८ माथुरीपञ्चलक्षणी। पं० श्रीउमानाथाालकृतव्याख्या सहिता तथा माथुरीसिंहव्यानलक्षणम् । पं० श्रीहरिरामशुक्ल विरचितया च्यात्यया सहितं तथा पं० श्रीहरिहरशास्त्रि सङ्कलित माथुरीपञ्चलः मी क्रोडपत्रेण [ न्याय वि० ११ रु. ०-६ रसाध्यायः । टीकया संचलितः । [ आयुर्वेदशास्त्र वि० २ ] रु० -१० ८० पाणिनिव्याकरणे वादरत्नम् ।न्यायच्य अणाचार्य मीमांसक शिरोमणि पं० सूर्यनारायणशुक्लेन विरचितम् । (तत्र न्यास परिष्कारपरिशिष्ट भेदेन प्रकरण त्रयम् यत्र पञ्चन्यून सार्धशतसूत्र १४६ महताटोपेन न्याया- विचारिताः तत्र प्रथम प्रकरणं मुद्रितं द्वितीय प्रकरणमपि मुद्रित प्रायं शिघ्र- मेव भवन्तं दृष्टि पथभधिगमिष्यतीति।)प्रथमो भागः। (व्या० वि १०)स०१-८ ८१ गणितकौमुदी । (हिन्दीभाषाटीकासहित) प्रथमापरीक्षापाव्यनिर्धा- रितगणितसंग्रहपुस्तकम् । [गणितविभागे १] २०:-६ ८२ छन्दः कौमुदी । (हिन्दीभाषाटीकासहिता ) प्रथमापरीक्षापाट्यनिर्धा- रितछन्दःसंग्रहपुस्तकम् । [छन्दोविभागे ३] ० ८३ योगदर्शनम् । महर्पिप्रवरपतन्जलिप्रणीतम् । तत्र (१) भोजवृत्तिः, (२) भावागणेशवृत्तिः, (३) नागोजीमवृत्तिः, (४) मणिप्रभा, (१) योग- चन्द्रिका, (६) योगसधाकराख्य टीका पटकसमेतम् । [योग० विभागे?] रु. ८४ रघुवंशमहाकाव्यम् । श्रीकालिशसविरचितम् । म० म० महिनाथकृत सञ्जीविनीटीका तथा पं० ब्रह्मशङ्करमिश्रकृत परीक्षोपयोगि सुधाऽऽख्यव्याख्यया सहित । १से ४ सर्गः मू०१-४-०५१सेल: रु०१-८-० तथा ६ से १० सर्गः १-4-6 ८५ योगदर्शनम् । पण्डिन बलदेवमिश्रकृतया सटिप्पण्यायोगप्रदीपिका विवृत्या समन्वितम् । (योग विभागे २) २० १-. ८६ काव्यमीमांसा | राजशेखरविरमिता । साहित्याचार्य पण्डित श्रीनारायण- शास्त्रीखिस्तेकृत काव्यमीमांसा-चन्द्रिका टीका सहिता । प्रथमाध्याय- मारभ्य पञ्चमाायपर्यन्ता प्रथमो भागः। (काव्य विभागे १३ ) रु० ८७ नागानन्दनाटकम् । श्रीहर्षदेवप्रणीतम् । काशीविश्वविद्यालयाध्यापकेन एम० ए० साहित्याचार्येति पदवी विभूषितेन पण्डित श्री बलदेव उपाध्यायेन स्वप्रणीतया भावार्थदीपिकाख्यया व्याख्या समलकृल्य बृहत् भूमिका हिन्दीमापा- नुवादादिभिः सनाथीकृत्य सम्पादितम् । (नाटक विभागे१) रु०१-८ ८८ मेघदुतकाव्यम् । महाकवि श्री कालीदासविरचितम् । मल्लिनाथकृत सञ्जीविन्या, चारित्रावर्द्धनाचार्य विरचित चारित्रवद्धिन्या तथा साहित्याचार्य पं० श्रीनागयण- शानिखिस्तकृत भावप्रबोधिनी व्याख्याटिप्पण्या च सहितम् । (काव्य वि० १४) रु.:-१० सर्वविधपुस्तकप्राप्तिस्थानम्- चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक. जनारल लिही।

No text on this page.

No text on this page.

No text on this page.

Mimamsa Koustubha Vol.3 Part 1

Author
Khand-d'adeva
Other authors
Pattabhirama Sastri M S
Title
Miimaan'saakaustubha: Vol.3 Part 1
File name
Mimamsa Koustubha Vol.3 Part 1
Text
OCR done
Citation
1932
Published
2004/12/26
Publisher
Chowkambha Sanskrit Series Office , Banares
Language
Sanskrit
Pages
106
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Mimamsa philosophy
DLI number
383198
Barcode
1990020047488.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
ybnqZlNAjI2
Download PDF

Mimamsa Koustubha Vol.3 Part 1