Library

Shriimaddammabhaacharyacharitam

Hasuuraropaha Shriipaadashaastri

PDF Proofread

Front matter

Publisher-Siirijal Viman Hlasurkar,
Imalibazir :30. Number, Indore city.
Printed by Riunulanira Yesur Shedye, at the
Nirnaya-sugier Press, 2), Bolbbat Lane, Bombay.

भारतसाधुरत्नमालायाः प्रस्तावना. अयि प्रियबान्धवाः ! जानन्त्येव तत्रभवन्तो भवन्तः सकलधरणीतले तेस्तैः सहृदयीयमानं भारतवर्षस्य प्राचीनं सौभाग्यं. यदा च सर्वेऽपि जना गाढाज्ञानान्धकारमग्ना न मानवकर्तव्यमजानन् , तदा खलु इदमेव भारतवर्ष सर्वेभ्यः कर्तव्यमुप- दिदेश. साम्प्रतं च तदेव अधोगतिमग्नं विलोक्य दुःखायमानाः सज्जनास्तत्कारणं जिज्ञासन्ते. जिज्ञासमानाश्च सत्वहानि तमोगुणवृद्धि च तत्त्वेन निश्चिन्वते. ईश्वरविश्वासात् सत्त्ववृद्धिः, सत्त्ववृद्धेश्च दृढोद्योगित्वं, तस्मान्छे हिक सुखमिति कारणपरंपरा विश्रुतव. तस्यास्य सर्वमुखस्य निदानं परमात्म- विश्वासं जनयितुं तत्कल्पानां भक्तानां साधूनां चरिताभ्यास आवश्यकः. यो हि यत् भूयोभूयोऽभ्यस्यति तस्मिन्नेव स विश्वसितीति बहुशो दृष्टम्. तानीमानि संस्कृतभाषायामतिदुर्लभान्यवलोक्याहं लिखितुं प्रयते. यदि अलौकिककर्तव्यबोधकानि परमात्मविश्वासनिदानानि साधूनां चरितानि बालाः सपरिश्रमं पठिष्यन्ति तदा तेऽपि परोपकारपरा भूत्वा स्वमातृभूमि समुद्धरिष्यन्ति. बान्धवाः! एतदेव मनसिकृत्वा मया 'भारतसाधुरत्न- माला' प्रथितुमारब्धा. यस्याः प्रथमं रत्नं 'श्रीमदाचार्यवल्लभाचार्यचरितम्' इति. यद्यनेन मद्देशबान्धवाः सन्तुष्टा भविष्यन्ति तदाऽचिरादेवान्येषामपि श्रीरामदासप्रभृतीनां चरितानि लिखित्वोपायनीकरिष्यामीति शम्. लेखकः

No text on this page.

MM INDI TITITITILLLLLITITIALI LILUCCOLITI कृतज्ञताप्रदर्शनम् । समनश्रुतिस्मृतिपुराणागमप्रमाणपरंपरासन्मानित- शुद्धाद्वैतपुष्टिमार्गमम्प्रदायप्रतिष्ठापनपग्माचार्य- वेदव्यासविष्णुस्वामिमतवर्तिश्रीश्रीमद्वल्लभा- चार्यवशावतसश्रीमहालकृष्णचरण- नलिनमिलिन्दायमानमानस- गोस्वामिकुलकौस्तुभ- श्री १०८श्रीगोकुलनाथमहाराजचरणरस्य चरितस्य प्रकाशने कृतसाहाय्योऽहं कृतज्ञता प्रकटीकरोमि. ग्रंथकर्ता. CCTV她她她她双吸双级娘极以RX

No text on this page.

ग्रंथप्रस्तावना. . . सभ्याः ! सनातनधर्मानुयायिनः ! भक्तवराः ! प्रियबान्धवाः ! इदं खलु सकललोकमान्यानां, संसारिकजनदुःखदूरीकरणतत्पराणां, परम- भागवतानां, पुष्टिमार्गप्रसारबद्धकक्षाणां, श्री १०८ श्रीमदाचार्यमहाप्रभु- श्रीवल्लभाचार्यचरणानां चरितामृतं भवञ्च उपायनीकुर्वन्नहं निःसंशयं नि- रतिशयभाग्यशाली. यतः क च त्रैलोक्यवन्धचरणा भगवद्भक्त्यतिशयेन वशीकृतत्रैलोक्यनाथश्रीनाथाः श्रीमदाचार्यचरणाः, न च मादृशः साधारणो मानवः. यद्यपीह जगतीतले बहवो बृहस्पतिसमा विद्वांसः स्युः, स्युश्च अगणितधनसम्पन्ना भूमिकुबेरायमाणा इभ्या जनास्तथापि यस्य वाणी भगवद्भक्तानां गुणगणं न गायति तथा यस्यैकापि मुद्रा भगव- द्भक्तानां यशः प्रसारयितुं न व्येति तादृशस्य जडकल्पस्य विदुपो विद्यया तथा धनिकस्य धनेन को वा लाभः. ये खलु पण्डिताः परमा- त्मप्रदत्तामलौकिकबुद्धिं तद्गुणवर्णनाय तथा तद्भक्तानां वा यशोगानाय नोपयुञ्जते मन्ये तेभ्यस्तादृशीं दिव्यां बुद्धि प्रदाय परमात्मोपतप्येत् ! ये हि धनिकाः सदाऽजनैकव्यवसायाः कदाऽपि सत्सु कर्मसु परोपकाराय स्वल्पमपि धनं न ददति तादृशानां तेषां मृत्समेनासत्समेन वा धनेन को वा लाभः. तस्माद्येन केनाऽपि नरेण स्वस्मै भगवता प्रदत्तं लौकिकमलौकिक वा धनं परोपकाराय योजनीयमेव. इमं निसर्गकृतं नियममंगीकृत्य मया ६ स्वल्पमपि बुद्धिधनमत्रोपयुक्तं.अनेन स्वल्पस्याऽपि भगवद्भक्तगुणानुवादस्य विधानेनात्मनो जन्म सफलं मन्ये. भगवान् त्रैलोक्यनाथोऽवश्यमेव मे सर्वान्मनोरथान् सफलीकृत्य श्रीमदाचार्यमहाप्रभुवल्लभाचार्यसदृशा- नामन्येषां भगवद्भक्तानां कीर्तिवर्णने मम मतिं योजयेत्. प्रियपाठकाः ? मदीये लेखे बहवो दोपाः स्युस्तथापि परमरमणीयं श्रीमदाचार्यचरणानां चरितामृतमवश्यमेव युष्मान् संतोषयेदित्याशासे. विदुषां वशंवदः श्रीपादशास्त्री.

मुख्यविषयानुक्रमः १ उपक्रमः १-१३ ... ... ... ... ... २ कुलवृत्तम् ... १४-२० ३ पितृचरितम् ... २१-२६ ४ आचायचरणानां प्रादुर्भावः ... ५ वात्यलीलाः, निखिलविद्याधिगमः ३८-४८ ६ दुादिजयः विष्णुस्वानिमतप्रसारार्थ सिंहासनाधिरोहणम् ७ द्वि:पृथ्वीप्रदक्षिणा ... ... •.. ६७-८५ ८ गृहस्थाश्रमप्रवंशः ९ श्रीनाथप्राकट्यम् ... ... २.१-१०० 10 पुत्रलाभः ... ... १०२-११२ ११ पुष्टिमार्गप्रसारः .... ११३-१२३ १२ वैकुण्टप्राप्तिः ... १२४-१३२ १३ सिंहावलोकनम् ... १४ संक्षपेणाग्रिमवृत्तसंग्रहः ... ... १३७-१५ १५ उपसंहारः ... १५८-१६५ ... ... ... ... ... ... ... ...

No text on this page.

१ उपक्रमः १ धर्मकल्पना. २ कर्मकाण्डग्राधान्यम्. ३ ज्ञानकाण्डोदयः. ४ भक्तिमार्गप्रादुर्भवः. ५ भक्तिसर्वस्व पुष्टिमार्गे सर्वसंभवः. (१) प्रियवाचकाः ! अम्मिन्नतिविचित्रप्राणिगणसंकुले नानाविधवस्तु- संघातव्यापते जगतीतले मानवः खलु परमबुद्धिमानतिश्रेष्ठः प्राणी. यतोऽयं सर्वेषामपि पश्वादीनां क्रियाः कुर्वस्तजन्यं सुखलवं संपा- द्यातृप्तः सततमुद्यमशीलस्तैर्दुष्कराः क्रियाः कुर्वन्नात्मानं मुखिनं करोति. यथाहि पश्वादयः स्वनिवासार्थमतिकुशाग्रमतिभिः शिल्पि- भिरपि दुष्कराणि गृहाणि निान्ति तथैव मानवोऽपि निर्माति. परन्तु मानवः खलु यां कामप्येकामलौकिकी कल्पनां मनसिकृत्वा सकलं जगत् सुखमयं करोति तां पश्वादयो न जानन्ति. पाठकाः ! सैषा कल्पना धर्मकल्पनानाम. दृढसंस्कारशाली मानवः सततं समा- वल्ल०१ २ श्रीमद्वल्लभाचार्यचरिते गच्छतो नानाविधाननुभवान सम्यक् स्मरन् दुःखपरिहाराय तथा मुखस्य च प्राप्तये तादृशानियमान्विधत्ते यानग्रिमा जनाः शास्त्रपदे- नाभिदधते. योहि मानववंशसंभूतो जीवस्तादृशनियमानुरोधेन वर्तते तं जनाः सदाचारिणं मन्यन्ते सोऽपि तथा वर्तमानोऽवश्यमेवैहिक सुखं पर्याप्नं लभमानः पारलौकिकमपि स्वर्गादिकं फलं लभते. यथाहि वैद्यन कथितं पथ्यमाचरन रुग्णो नियते समय आरोग्यं प्राप्नोति तथा शास्त्रे दृढं विश्वसंस्तदुक्तं निषिद्धं परिहरन विहितं च समाचर- नवश्यमेव स्वयं सुखी भूत्वा परानपि सुखाकरोति. तस्मात् सकल- मानवजातिसौख्यार्थ प्रत्येकेन मानवेन धार्मिकेण भवितव्यं. यो हि अधार्मिकः कुमार्गगामी भवति स न केवलमात्मानमेव विनाशयति किंतु स्वसजातीयानपि. अस्तु. वाचकाः ! ये खलु शास्त्रे धर्मार्थ- काममोक्षरूपाश्चत्वारोऽभिहिताः पुरुपार्थास्तेषां सर्वेषामपि धर्ममूल- कत्वेन धर्मस्य पूर्व निर्देशः. अर्थकामौ च निःसंशयं लौकिकसुख- रूपाविति तयोर्धर्ममूलकत्वमभिद्धता शास्त्रेण लौकिकं सुखमपि धर्मेणैव लभ्यत इत्युक्तं भवति. यद्यपि स्युर्नामास्मिन मृत्युलोके विभिन्नशीलशालिनां मानवानां धर्मकल्पना विभिन्नाः परन्तु तासु कानिचित्तत्त्वान्यनुस्यूतानि दृश्यन्ते. तेन मानवजातिर्येन केनापि रूपेण धर्ममाचरन्ती सुखं लभत इति शक्यं वक्तुं. पश्चादयस्तु केवलं निसर्गाधीना अलौकिकबुद्धिवैभवहीना न स्वकल्याणं भाव- यन्ति. अतएव न तदनुकूलं धर्म परिकल्पयन्ति. (२) यदा च सामान्यतो मानवाः साधारणप्रज्ञाः पश्वादिभ्यः स्वकीयं श्रेष्ठ यं संपादयितुकामाः प्रथमं धर्मनियमानकापुंस्तदा यत् उपक्रमः ३ खलु पश्वादय आचरितुंन प्रभवन्ति तदेव तेऽकथयन्. पश्वादयो हि स्वार्थबुद्धिप्रेरिता इन्द्रियाधीनाः स्वेन्द्रियतृप्तिमेव स्वकर्तव्यं मन्यन्ते. नैवं मानवेन भवितव्यं. ये खलु दीना दुर्बला जना इह लोके विद्यन्ते तेषां साहाय्यं विधेयं स्वेन्द्रियसुखानि न्यूनीकृत्यापि तेऽवश्यं रक्षणीया इति नियमांस्ते चक्रुः. एवंरीत्या ते प्राचीना अस्मत्पूर्वजा मानवश्रेष्ठा धर्मबोधकनियममयान धर्मग्रन्थान् यदा विरचयामासु- स्तदा खलु इदं कर्मकाण्डं प्रादुरभूत्. अस्मिन् कर्मकाण्डे सदाचार- नियमास्तथा यज्ञप्रकारनिरूपणमुखेन परोपकारनियमा एवं कथिताः. कथं ब्रह्मचारिणाऽध्ययनार्थ गुरुगृहे निवसता वर्तनीयं. कथं च ततः सम्यगधीत्य स्नात्वा गृहस्थाश्रमः स्वीकर्तव्यः, कथं च ततोऽपि नियते समये वानप्रस्थाश्रमं गृहीत्वा ततः संन्यस्तव्यमिति. इमे चत्वारोऽप्याश्रमा मानवजीवितस्यात्यन्तमुपकारका इति सार्वजनीनं. बान्धवाः ! साधारणतो धर्मो हि द्विविधः. स्वयमनुष्ठेयः परान प्रति उपदेष्टव्यश्च. तत्र प्राथमिकं विना न द्वितीयः सफलो भवति. तस्मात्प्रथमं चतुर आश्रमान् कथयित्वा ततः परोपकाररूपं द्वितीयं धर्ममुपदिदिक्षु शास्त्रं यज्ञरूपमकथयत्. यद्यपि सर्व एव धर्मः स्वयमनुष्ठीयमानः परोपदेशपरो भवति. तथापि केवलं स्वात्मोन्नति- फलमभिसंधाय मया तथा भेदो वर्णितः. मानवजातिरपि निसर्गत एवेतरवत् स्वार्थप्रेरिताऽशिक्षिताऽ- नियमितचित्तवृत्तिर्महतेऽनर्थाय स्यादिति मन्यमाना उदारबुद्धयः प्राचीना ऋषयो धर्मनियमान्विधाय तां नियंत्रितामकुर्वन्निति मयो- परिष्टादेव प्रतिपादितं. सा च कथं चातुर्येण नियमितेति तांस्तान धर्मग्रंथान् प्रत्यक्षीकृत्याधुनिका अपि विद्वांसो विस्मयन्ते. सज्जनाः !

४ श्रीमद्वल्लभाचार्यचरिते वैश्वदेवमारभ्य दर्शपौर्णमासमभृतीननेकानश्वमेधान्तान् महायागा- नुपदिशच्छास्त्रं क्रमेणातिग्ररूढां स्वार्थबुद्धिं न्यूनीकरोत्येव. नहि अनेकदिनसाध्ये बह्वायासमयेऽगणितवित्तव्यये यागविशेपे पश्वा- दिवम्वेन्द्रियतृप्तितत्पराणां मानवानामांजस्येन प्रवृत्तिर्भवति. नापि स पारलौकिके फले दृढं विश्वसिति. एवंच यागविधानार्थ प्रवर्त- मानो मानवश्रेष्ठोऽवश्यमेव चिरसंचितां स्वार्थबुद्धिं न्यूनीकृत्यैव तत्र प्रवर्तत इति वक्तव्यमेव भवति. वाचकाः ! न केवलमिह वयं कर्मकाण्डं सविशेपं निरूपयितुं प्रवृत्ताः किंतु पुष्टिमार्गम्य निरतिशयेन निःश्रेयसप्रदत्वमभिधातुं. तेन कर्मकाण्डनिरूपणं प्रासंगिकमेव. अतो विस्तरभयादधुनोपरमामः. (३). यथा यथा स्वार्थबुद्धित्यागाय लोकेभ्यो यथाक्रमं तानि तानि पारलौकिकफलानि कर्माण्युपादिशंस्ते ते ऋषिश्रेष्ठास्तथा तथा कर्म- काण्डं परमवर्धत. यागादयोऽपि क्रमेण न्यूनाधिकैदिनैरनुष्ठीयमानाः परान परमुपाकुर्वन्. एवंच कर्मकाण्डसमये सर्वोऽपि मानवजाति- कल्याणकरो धर्मः कर्मरूपतामेव प्राप. यत्किंचिदपि मानवजारोः कल्याणं तत् सर्वमपि कर्मानुष्ठानादेव लभ्यत इति सर्वेऽन्य- .. मन्यन्त. एवं गच्छति काले विचारं विनाऽनुष्ठीयमानास्ते यागविशेपाः केवलमनुकरणरूपतां प्राप्ता न मानवजातेः शीलं वर्धयितुं शेकुः. यथा हि विचारः शीलं वर्धयितुं शक्नोति नैवं कर्माचरणमिति सर्वेऽपि साधारणा जना जानन्ति. यागादीननुष्ठीयाऽपि सच्छी- उपक्रमः . लतामप्राप्तान मानवान् वीक्ष्य साधारणा जना यागानुष्ठानस्य कल्या- णकरत्वे समदिहन. संजातसंदेहास्ते कर्मकाण्डोक्तयागानुष्ठानादप्यपरं धर्ममन्वेषयन. एवमन्वेपणपरास्ते कर्माचरणन्यूनीकृतस्वार्थबुद्धयो जना ज्ञानमेव निःश्रेयसप्रदममन्यन्त. युक्तमप्येतन. कथमन्यथा चोदनैकसमधिगम्ये यागादीनां निःश्रेयसप्रदत्वे जनानां संदेहनिवृत्तिः स्यात. अनिवृत्तसंदेहश्च बलादेव प्रवर्तितः शिशुरपि स्वकार्य न सम्यगनुतिष्ठति तदा का कथा विचारिणां. एवंच 'कथं यागः पारलौकिकं फलं ददाति.' लोके यद्वैचित्र्यं दृश्यते तत्किमूलकं ? पुनर्जन्मास्ति न वा ? अस्ति न वाऽस्य जगत उत्पादयिता ? स पापिनः शास्ति न वा ? सकलदुःखमग्नैः मांसारिकैजनैः स्वदुःग्य- परिहाराय कर्मकाण्डोक्ता यागा एवानुष्ठया उतास्ति साधनान्तरं ? मोक्षो हि केवलं कर्मण एव भवति किंवाऽन्येन केनाप्युपायेन ? इत्यादयः प्रश्नाः मजनानां चेतःसु बद्धमूला अजायन्त. तांश्च निरा- कर्तुं कर्मकाण्डं नाशकदिति ज्ञानकाण्डं समुद्भवत. उदिते च ज्ञान- काण्डे ते ते संदेहाः क्रमेणानश्यन. वान्धवाः ! ज्ञानकाण्डम्य माहात्म्यं यद्यपि निरतिशयं तथापि न तत् ज्ञानोत्तरभक्तिमाहात्म्य- स्य कणिकामपि स्पृशति. अम्तु. इदं चाग्रे स्पष्टतरमुपपादायिप्यामः. यदा च ज्ञानकाण्डोदयः समभवत्तदा ते विचारशीला जना लब्धावकाशाः क्रमेण जीवस्य स्वरूपं तथा जगदुत्पत्तिकारणं पर- मात्मनः स्वरूपं सम्यगुपपत्तिभिर्विचार्य स्वसंदेहान्निराचक्रः वीत- संदेहाश्च सोत्साहं कर्मकाण्डोक्तेषु यागेषु तथा सदाचारेषु च प्राव- तन्त. एवंरीत्या ज्ञानकाण्डं कर्मकाण्डप्रामाण्यदाया॑यैव समभवदिति जना अमन्यन्त. अधुनापि केचन जना मन्यन्ते. एवं प्रयाते ६ श्रीमद्वल्लभाचार्यचरिते कियति काले समुदितमपि ज्ञानकाण्डं प्रबलेन कर्मकाण्डेन तिर- स्कृतं कथमपि तत्साधनभावेनातिष्ठन्. न स्वातंत्र्येण स्वपुरुषार्थ कमपि प्रत्यपादयत्. तेनोदितमपि ज्ञानकाण्डमसत्सममेवाभवत्. एवं स्थिते तस्य ज्ञानकाण्डम्य पुनरपि पुरुपार्थदत्वं प्रतिपादयितुं शंकराचार्याः प्रादुर्भूय ज्ञानस्यैव निरतिशयमोक्षप्रदत्वं प्रतिष्ठापया- मासुः. खण्डयामासुश्च कर्मणो मोक्षप्रदत्वं. तेन ज्ञानकाण्डमपि पुनर्लब्धख्याति कर्मकाण्डं तिरस्कृत्य परमप्रकाशेन सकलजनाज्ञाना- न्धकारं नाशयामास. ततश्च क्रमेण न्यूनीभूतं कर्मकाण्डं केवलं चित्तशुद्धिपर्यन्तमेव कार्यकार्यभूत. (४) एवं संजाते ज्ञानकाण्डोदये न्यूनीभूते कर्मकाण्डोक्तकर्माचरणे केवलं ज्ञानमेव श्रेयःसाधनं मन्वानाः साधारणा जनाः कर्माचरण- त्यागेनाशुद्धचित्ता उत्कृष्टं ज्ञानमलभमाना यथेच्छमवर्तन्त. तेन सर्व- मेव व्याकुलमभवत. साधारणप्रज्ञा जनाः केवलं मानसिकी कल्प- नामेव ज्ञानपदेन व्यवहरन्तस्तदाचरणविमुखा निःसंशयमात्मज्ञान्य- भिमानं वहन्तः संसारेऽनवहान् प्रकारानकुर्वन. ज्ञानकाण्डस्यो- त्कर्ष संपादयितुमवतीर्णैः शंकराचार्यैः केवलं मोक्षप्राप्तिः साक्षा- कर्मण एव न संभवति किंतु कर्माचरणं हि तत्र ज्ञानोत्पत्तिद्वारा कारणमिति कथितं. परंतु तावतैव कर्मकाण्डोक्तं कर्माचरणं निष्फलं मन्यमाना जनाश्चित्तशुद्ध्यर्थमपि न तदाचरितुमुत्सुका अभवन. एवं- रीत्या निरुद्धे कर्माचरणे चित्तशुद्ध्यभावाज्ज्ञानमलभमानाः स्वय- मन्धा जना यथेच्छं परिवर्तमानाः परानपि घोराज्ञानान्धकारपति- तानकार्षुः.

उपक्रमः तस्यास्यानर्थस्य नाशाय रामानुजप्रभृतयो वैष्णवाचार्या अजायन्त. रामानुजमाध्वनिम्बार्कवल्लभभेदेनेमे चत्वारो वैष्णवाः. तत्र चित्तशु- द्ध्यर्थ कर्माणि आचरितुं जनानुपदेणुमसमर्थास्ते परमचातुर्येण श्रुति- सूचितं पुराणनिवेदितं भक्तिमार्गमेव तदर्थ प्रकाशयामामुः. निरुद्धं कर्ममार्गमनुज्जीवयित्वा नूतनस्य भक्तिमार्गस्य प्रसारे कारणान्तर- मप्यस्ति. तच्चेत्थं. वाचकाः ! यदोत्तरध्रुवनिवासिन आर्याः क्रमेण प्रवसन्तो भारतभुवं प्राप्य सुखेनातिष्ठन तदा खलु ते श्रमविभागाय चतुरो वर्णान्विधाय सर्व लौकिकं कार्यमकार्पः. प्रापुश्च महान्तमुत्कर्ष. ततश्च गच्छति काले ते परस्परोपकारिणोऽपीमे चत्वारो वर्णाः पर- स्परद्वेषपरा अजायन्त. तं च द्वेपं म्वीकृत्यान्ये यवनादयः परकीया जनाः कृतप्रवेशा इमां भारतभुवमात्मसात्कृत्वा न्यूनाधिक्येन सर्वा- नेव चातुर्वर्णिकान परम्परद्वपदावानलेन दग्ध्वा नामशेपानकुर्वन. इमां च महतीमापदं वीक्ष्य बुद्धिमन्तः सर्वे साधुवग विस्मृतपर- स्परद्वेषा इमं पुरातनं द्वेपं शमयितुं प्रायतन्त. श्रुत्युक्तकर्ममार्गम्य पुनरुद्धारे तत्राधिकारविभागस्य जागरूकतया स द्वेपो न शाम्ये- प्रत्युत वर्धतेति मन्वाना इमं पुराणोक्तं श्रुत्यादिभिरपि संमानितं भक्तिमार्ग प्रसारयामासुः. यथाच श्रुत्युक्तकर्मविधानेऽस्ति अधि- कारभेदो जातिभेदो वा न तथा भक्तिमार्गे. भक्तिमार्गे यः कोऽपि मानवः केवलं भगवदाराधनप्रेमाकुलस्तं त्रैलोक्यनाथमनन्यया भक्त्या भजमानो मानवदेहसार्थक्यं कर्तुं शक्नोति. यथाहि श्रुतौ शूद्रस्य त्रैवर्णिकसेवैव विहिता, अयोग्यस्यापि ब्राह्मणादेः सेवाविधानेन शूद्रस्य सद्गतिस्तथा नात्र. अत्र तु सर्वेऽपि मानवाः श्रीमतो भग- वतः श्रीकृष्णस्य दासा एव. यथा च दासे गुणाधिक्यतारतम्येन ८ श्रीमद्वल्लभाचार्यचरिते न्यूनोत्तमभावस्तथैव ब्राह्मणादीनामस्तु. परंतु तत्सेवयोत्तमलोक- प्राप्तिर्भवाति न वैष्णवाः सहन्ते. सर्वेपामपि जीवानां विष्णु- संवनादेव ते मोक्षं प्रतिपादयन्ति. एवंच सर्वेऽपि जना उत्तमा- धमगुणशालिनस्तदनुरूपयोग्यताभाजोऽपि भगवतो दासा एवेति. निर्णीत एवं भक्तिमार्गे क्रमेण कर्ममार्गो नामशेषोऽभवत. तस्मि- विनष्टे सति तदीया दोपा अपि परम्परद्वपादयः प्रलयमगच्छन. न कवलं दोषनाश एवाभवत्किंतु परम्पगनुरागादय उत्कर्पहेतवो बद्ध- मृला अजायन्त. तेषु च बद्धमूलेषु पुनरैक्यभावमापन्नाः सर्वेऽपि भारतवासिनः स्वदेशस्य तथा स्वराज्यम्य दुरवस्था मनसि कुर्वाणा- तदरीकरणाय विचारयामासुः. वाचकाः ! कर्ममार्ग त्यक्त्वा भक्तिमार्गस्य प्रसारे कारणं तथा फलं चेदमेकं. अपरमप्यत्र विद्यते. तदित्थं. यथा श्रौतकर्माचर- णऽस्ति अधिकारिनियमस्तथा मंत्राधिगमोऽपि कारणं. मंत्रोच्चारं विनाऽजुष्टिता सर्वाऽपि क्रिया भस्महुतसादृश्यमावहाति तेषां सिद्धान्तः, एवंस्थिते तेषां मंत्राणामधिगमे केवलं त्रैवर्णिकाणामेवा- धिकृततया न तत्र शूद्रस्य प्रसंगः, एवंच मंत्रोच्चारणं विना कर्मानुष्ठा- नस्यासंभवितया शूद्रस्य सर्वथा श्रौते कर्मणि गतिर्न. अथ च ये श्रौते कर्मणि नियुक्तात्रैवर्णिका जनास्तेऽपि कालवशादन्यकार्यासक्ता दुर- वबोधमंत्राणामर्थज्ञानेऽशक्तास्तादृशमंत्रोच्चारणेन कर्मानुष्ठातुमनुत्सुका अनुष्ठीय चापि मनःप्रसादमलभमानाः सर्वसुलभे प्रेममये साधन- क्लेशरहिते भक्तिमार्गे मनो ददतः कर्माचरणेऽत्यन्तमुदासत. तेनाऽपि कारणेन भक्तिमार्गोऽनादिमपि कर्ममार्ग समतिक्रम्य स्वमूलं दृढं बबन्ध. अपिच-यद्यपि वेदस्य प्रामाणिकतया तदुक्तानि कर्माणि उपक्रमः चित्तशुद्ध्यादिकं वा स्वर्गादिकं वा फलं जनये युनीम तथापि तट- स्थस्य मनो यथा रामकृष्णादीनां भक्तिः शीघ्रं हरति नैवं वेदोक्त- कमाणि. उचितमपीदं ! नहि चेतनो जड़े ताग्विश्वसिति यादक स्वसदृशे चेतने. नहि पुरूपेणोक्तऽर्थे यादृशं विश्वासं पथिको बध्नाति तादृशं केवलं पुस्तकलेखे. अतएव न केवलं बहुकालतोपि वेदान्तपुस्तकाभ्यासात्तत्त्वज्ञानं भवति किंतु गुरुकृपयैवेति वेदान्तिना- मपि घण्टाघोपः. किमत्र कारणं ? ऋते चैतन्यात. एवंच म्पष्ट- चैतन्यानां केवलं परपीडानिवारणार्थमवतीर्णानां रामकृष्णादीना- मुपासनया चित्तवृत्तिः शुद्धा म्याकिंवा गृहीतप्रामाण्यवेदोक्तकर्मा- चरणनेति वालकोऽपि वदेत. तम्मादम्य सकलमान्यम्य सुखदम्य भक्तिमार्गस्य प्रमारे तदीयं मौकर्य सर्वोपयोगित्वमेव कारणमिति वयं मन्यामहे. एतदेवामत्वेन प्रतिपद्यमानं कर्ममार्गे इति मार्वजनीनं अस्तु. प्रकृतमनुमरामः. (५) एवंरीत्या कर्ममार्गम्य दुष्करत्वं समवलोक्य प्रवर्तितो भक्ति- मार्गः प्रथमं रामानुजाचार्यः साभिनिवेशं प्रोत्साहितः. मजनाः ! नैतावता रामानुजाचार्या एवास्य भक्तिमार्गम्याद्याः संम्धापका इति मन्तव्यं. इहैवाग्रे विष्णुस्वामिमतम्य प्राचीनत्वं प्रतिपादयिष्यते. केवलं तस्य तस्य भक्तिमार्गस्य वा कर्ममार्गस्य वोद्धारकरा अलौकिकाः पुरुपा यदा जायन्ते तदाप्रभृत्येव तं मार्ग प्रसक्तं माधारणा जना मन्यन्ते. अम्तु. यदा च रामानुजाचार्या भक्तिमार्ग सर्वत्र प्रामार- यस्तदा ते तत्त्वज्ञानमपि स्वमतानुसारि विशिष्टाद्वैतरूपं न्यरूपयन्. तथैवाद्यापि कर्ममार्गस्य प्रबलतया तमपि सर्वथा निपेढुं ते नाश- कन. तेन प्रसृतोऽपि भक्तिमार्गो न सविशेपं फलदोऽभवत्.

१० श्रीमद्वल्लभाचार्य चरिते : ततश्च मध्वाचार्याः प्रादुर्भूय प्रमृतं तमेव भक्तिमार्ग पुनरपि सविशेपं प्रसारयितुं प्रायतन्त. ते च भक्तिमार्गप्रसारार्थ द्वैतं शाश्व- तिकं मन्यमाना जीवेश्वरयोः संबन्धं सेवकसेव्यरूपमकल्पयन. सर्वे जीवा दासास्तस्य भगवतो नारायणस्य, सेवापरपर्यायया भक्त्या सेवकैः सेवितो लौकिको भूपालः संतुष्टो यथा सेवकाननुगृह्णाति तथैव भक्तिप्रवणैः सेवकै वैः सेवितो नारायणोऽपि सर्वक्लेशजातं विनाशयित्वा सर्वदा सुखमयं स्वलोकं वैकुण्ठं तान्नयतीति तेषां सिद्धान्तः. वाचकाः ! प्रदर्शिते भक्तिमार्गप्रसारकयोरनयोराचार्ययोर्मतद्वये तादृशो भक्तिमार्गप्रसरो नाभवद्यावान् श्रीवल्लभाचार्यप्रख्यापितेन पुष्टिमार्गेणाभवत्. कथमेतदिति संक्षेपेण विवेचयामि. श्रीमद्रामानुजाचार्या विशिष्टाद्वैतमतप्रवर्तका भेदमपि सत्यं मन्यन्ते तथाऽभेदमपि. तेनोपासनापि भेदसहकृतैव. यत्र च भेद- स्तत्र सार्थः पदमाधत्त इति दृष्टचरं. स्वार्थे लब्धपदे परमस्वामिभक्त- स्याऽपि सेवकस्य सेवा तादृशी न भवति यादृशी निःस्वार्थस्य सेवकस्य. यादृशी भक्तिस्तादृश एव भगवतः संतोषस्ताहगेव फल- मिति तु स्पष्टमेव. तेन भेदशून्या भक्तिरेव गरीयसीति न्यायतः प्राप्तं. मध्वाचार्यास्तु स्पष्टमेव जीवेश्वरयोर्भेदं वदन्तः स्वामिसंतोषेण वैकुण्ठप्राप्तिं फलमुदाहरन्तो न निष्कामभक्तिं कथयन्ति. एवंच संक्षेपतो निर्दिष्टेऽस्मिन् मतद्वये निष्कामभक्तेरवसराभावान्न भक्ति- मार्गस्तावन्तमुत्कर्ष प्राप. श्रीवल्लभाचार्यास्तु भक्तिमार्ग सकलजीवगणकल्याणकरं सर्वोत्कर्ष प्रापयितुमिच्छवस्तत्त्वज्ञानं शुद्धाद्वैतरूपं न्यरूपयन्. बान्धवाः !

उपक्रमः तत्त्वज्ञानस्य तथोपासनायाश्चास्ति कार्यकारणभावः. उपासक उपा- सनाप्रारंभात्पूर्व स्वोपास्यं वस्तु यदि सम्यग्जानाति एवंगुणविशिष्ट- मिदं वस्तु' इति तदा तथोपासमानोऽवश्यमेव तादृशोपासनायाः फलं लभते. यो हि अविज्ञाय प्रवर्तते न स सिद्धिमाप्नोति. तस्मा- द्भक्तिमार्गप्रवर्तकैस्तत्तदाचार्यैः स्वीयानि यानि तत्त्वज्ञानानि कथि- तानि तान्येव तदुपासनायास्तथोपासनाफलस्य दर्शकानीति मन्तव्यं. एवं मन्वान एवाहं श्रीरामानुजाचार्याणां तथा श्रीमध्वाचार्याणां भक्तिमार्गस्य तावानुत्कर्षों नेत्यवोचम. अस्तु. प्रकृतमनुसरामः. एवं शुद्धाद्वैतरूपे तत्त्वज्ञाने निरूपिते तदनुरूपा भक्तिः प्रावर्तत. सर्वत्राऽखण्डं कृष्णचैतन्यमेकरूपमिति विज्ञाने तदनुकूला जायमाना चेतःप्रवृत्तिः कृष्णचैतन्यरूपैवाभवत. यथाच श्रीरामानुजाचार्याणां तथा मध्वाचार्याणां मते केवलं लौकिकराजवदीश्वरोपासनाऽसीत्तथा न पुष्टिमार्गे किंतु सर्वमिदं कृष्णचैतन्यमेव. न मे कोऽपि कामः. कृष्णचैतन्याभिन्नत्वान्मम. एवंच निष्कामैः सेवकैः स्वकर्तव्यबुद्ध्या कश्चन राजा सेव्यते तथैव श्रीकृष्णचन्द्रोपासनाऽपि पुष्टिमार्गीयाणां भक्तानामिति सिद्धं. अतएव तैः श्रीवल्लभाचार्यैः स्वग्रंथे-ये खलु कर्माधिकारिणस्ते हीनाः. ये च ज्ञानाधिकारिणस्ते मध्यमाः. ये च कृष्णार्पितप्राणाः सर्वत्र प्रस्फुरत्कृष्णचैतन्यास्ते उत्तमाधिकारिण इति क्रमोऽपि लिखितः. एवंच कृष्णचैतन्यस्वरूपाभिन्नत्वाज्जीवस्य तस्य चाप्तकामत्वेन जीवस्य पृथक्कामनाभाव एवोचितः. नन्वेवं शुद्धाद्वैते उपासनासंभव एवं कथं ? किंच शंकराचार्य- प्रतिपादितादद्वैतादस्य मतस्य को वा भेद इति चेच्छृयतां. अद्वै- तेऽस्ति उपासनायाः संभवः. यथाहि प्रोषितभर्तृका तरुणी स्ववल्ल- श्रीमद्वल्लभाचार्यचरिते भाभिन्नचित्तवृत्तिरपि तं स्ववल्लभमेव मन्यते. यथा च चिरमीक्षणात प्रतिविम्बाभिन्नं मुखं मन्वानोऽपि प्रेक्षकः स्वमुखं भिन्नं मन्यते तथैव कृष्णार्पितप्राणः परमभागवतः सर्वत्र कृष्णचैतन्यं भावयन्नपि आत्मानं सेवकमेव मन्यते. अयं भावः -भेदमूलकोपासनायां स्वार्थस्य संभवोऽस्ति. अभेदोपासनायां सर्वकामनाशेन फलस्या- भावान्निष्कामभक्तेरस्ति संभव इति. नचैतदसंभवीति मन्तव्यं. येपु न भगवतः कृपालेशम्तेपामेवेयं कल्पना भवति नतु तदनुग्रह- शालिनां. तस्मादिमां कुकल्पनां विहाय भगवान् श्रीकृष्णः सेवनीयः. ततः संभवोऽस्ति नवेति स्वयं विचारणीयमिति उपरमामः. .. श्रीशंकराचार्यम्वीकृताद्वैतमार्गाच्छुद्धाद्वैतमार्गस्येयानेव भेदो यत् श्रीशंकराचार्या इदं जगन्मिथ्यामन्यमानास्तत्सिद्ध्यर्थ तस्य माया- मूलकत्वं म्वीकुर्वन्ति. नैवं श्रीवल्लभाचार्याः. ते हि सर्वमेव चैतन्यं मन्यमानाश्चेतनत्वेनैवोपासते. बान्धवाः न वयमिह अनयोर्महा- भागयोस्तत्त्वं विवेचयितुं प्रवृत्ताः किंतु परमवैष्णवानामाचार्यवल्लभा- याणां परमपवित्रं चरितं लिखितुं. तत्र प्रसङ्गतो भक्तिमार्गविवेचन- ममये तेषां पुष्टिमार्गोऽपि निरूपितः. अलमिदानीमेतावदेव. इमं विपयं सविस्तरमग्रे निरूपयिष्यामः. वाचकाः ! भक्तिमार्गप्रवर्तकैः श्रीरामानुजप्रभृतिभिराचार्यैः प्रवर्तितस्यास्य भक्तिमार्गस्य परमुत्कर्षः पुष्टिमार्गे कथमभवदिति संक्षेपतो विवेचितं. यथा देवालयस्य प्रचण्डभित्तिमण्डितस्यापि शिखरनिर्माणं विना न भवति सम्पूर्णता तथा पुष्टिमार्गस्वीकृति विना न भवति भक्तिमार्गस्य परिपूर्णता. नापि मानवजीवित- उपक्रमः १३ साफल्यं. सर्वत्राऽस्ति व्यापकमेकं चैतन्यमिति ज्ञात्वैव ये कृतकृत्य- मात्मानं मन्यन्ते न ते वस्तुतः कृतकृत्या भवन्ति. किंतु तादृशं चैतन्यं तादृग्रूपेणोपास्य. तदिदं सर्व पुष्टिमार्गे संभवतीति सर्व- थाऽयं पुष्टिमार्गो भक्तिमार्गस्य सर्वस्वमित्यत्र न संशयः. वान्धवाः ! अधुनाऽस्य मार्गस्य प्रवर्तकानां श्रीवल्लभाचार्याणां चरितं लिखितु- मारभामहे.

२ कुलवृत्तम् १ निवासस्थानपरिचयः. २ प्रसिद्धपूर्वजानां संक्षेपतो वृत्तम्. ३ भगवदवतारयोग्यतानिवेदनम्. (१) अस्ति सकलाचार्यजननपरिपूता विविधरामेश्वरप्रभृतितीर्थस्थान- रमणीया, सकलभक्तहृदयकमलहारिभिः श्रीरामचन्द्रस्य पराक्रम- कृत्यैरभिनंद्या अतिविशालदेवालयबातदर्शनीया, परमसुन्दरवनश्री- सनाथमलयगिरिप्रमुखगिरिवैरीसुरा, अत्युन्नतफलभराढ्यनारिके- लपूगवृक्षमण्डितैर्विकचकुसुमावृतलतासहस्रमनोहारिभिरुपवनसहस्र- विभूषिता, सकलभारतवर्षप्रसिद्धा दक्षिणा नाम दिक्. तत्र वेदाध्ययनतत्परैरग्निहोत्रपालकैर्मूर्तेस्तेजोराशिभिरिव विप्रवरैरधिष्ठिता, समीपतरवर्तिस्तंभादिपरिरक्षिता काकुम्भकरनाम्नी नगरी. यत्र च सदाचारतत्परान्निवासिजनानवेक्ष्य सर्वेऽपि दक्षिणा- पथस्था जनाः परं विस्मितास्तां नगरीं साक्षात्तीर्थमेव मन्यन्ते. अधुनाऽपि बहवो जनाः श्रीवल्लभाचार्याणामलौकिकीं यशःसन्तति- माकर्ण्य सानन्दास्तदीयं जन्मस्थानं दिदृक्षवो दक्षिणापथं गत्वा तां नगरी साक्षात्कृत्यात्मानं परिपूतान् मन्यन्ते.

कुलवृत्तम् १५ , (२) तत्र बहोः कालात् स्वस्वविहितानि कर्माणि कुर्वाणाः, सततं परिचलितवेदघोषबधिरितसकलदशदिशः, प्रतिदिनहूयमानहविष्क- लापगन्धिधूमधूसराग्निशालाः, प्रतिग्रहलाभसन्तुष्टा दिव्या इवा- लौकिकतेजस्विनो विप्रवंशा अवसन. तेषु चास्ति सदैव पापरहितं परमपवित्रभगवद्भक्तनररत्नजन्मपरिपूतं महर्षिभरद्वाजमूलपूरुषं तै- त्तिरीयशाखाध्यायि रेणुकाकुलदैवतं त्रिप्रवराणां विप्राणां कुलं. बान्धवाः ! इदमेव कुलं विविधपूज्यनरवरसुकर्मलब्धपुण्यराशि केवलं लोकानुग्रहायावतीर्णैः श्रीवल्लभाचार्यैः स्वप्रादुर्भावेन पवित्री- कृतमिति भवन्तो विदांकुर्वन्तु. अस्तु. तत्र कदाचित् सकलशुभ- लक्षणसमेतो बालो यज्ञनारायणदीक्षितो नाम प्रादुरासीत्. वाचकाः ! अयमेवास्य वंशस्य ललामभूतो मूलभूतः श्रीवल्लभाचार्य- पितृचरणानां लक्ष्मणभट्टानां पितुःप्रपितामह इति जानीत. क्रमेण चायं वर्धमानोऽष्टमे वर्षे विधिवद्गुरुणोपनीतः सर्वान वेदांस्तथा सर्वाणि शास्त्राण्यधीत्य विद्यापारंगतो बभूव. तं च तरुणं सदा- चारिणं वीक्ष्य कन्याजनका बहवस्तं स्वजामातरं विधातुं प्रायतन्त. वाचकाः ! इह जगतीतले बहवो जना एवं मन्यन्ते यत्सर्वमपि दृष्टोपायैरेव संभवति न तत्रास्ति अदृष्टस्य कारणतेति. परंतु अयं तेषां भ्रमः. सर्वमपि कार्यमदृष्टानुबन्धि केवलं दृष्टं निमित्तमेवा- पेक्षते. अस्तु. सोऽपि विधिवत् स्नातो गुरोरनुज्ञया स्वगृहमागतः कस्यचित् कुलीनस्य विप्रवरस्य नर्मदानाम्नी सुलक्षणां कन्यां पर्य- णयत्. तया भार्यया समं गृहस्थाश्रमोचितान् सर्वानपि विधीन कुर्वाणः प्रतिदिनमग्निहोत्रमुपासमानः परमानन्देन कालमयापयत्.

श्रीमद्वल्लभाचायचरिते .. अत्रान्तरे कदाचित् परमभागवतोऽनिशं श्रीकृष्णध्यानपरो द्रविडदेशीयो विष्णुमुनिसंज्ञको विप्रश्रेष्ठस्तम्य यज्ञनारायणस्य गृह- मतिथिभूत्वा समाजगाम. सोऽपि आतिथेयस्तादृशं भक्तवरं सकल- कल्याणदक्षमतिथिविशेपं स्वगृहमागतमवलोक्य संतुष्टः सविशेपं पूजयामास. तस्य स्वस्मिन श्रद्धामवलोक्य प्रीतः स विष्णुमुनिरपि सर्व तदीयं सत्कारं म्वीचक्रे. ततश्च मध्याह्ने विधिवत् सूर्यमुपाम्य भुक्त्वा तूष्णींस्थितं तं मुनिवरमवलोक्य स यज्ञनारायणस्तदीयां दिव्यां शान्ति तथा दुर्दर्श तेजोमण्डलं वीक्ष्य विस्मितः सविनयं समीपमागत्य विज्ञापयामास. विप्रवर ! अहमस्मि गृहस्थाश्रमी ईश्वरानुग्रहादतिथिसत्कारसामर्थ्यशाली. तेन प्रतिदिनं बहवोऽति- थयोऽत्र समायान्ति. तेपु केचन वेदपारगाः केचन शास्त्रनिष्णाताः अन्ये च साधारणप्रज्ञाः परे चातिविरला अगणितयागकारिणोऽपि, परंतु त्वत्सहशस्तु तेजस्वी अतिथिन पुरा मया दृष्टः. अलौकिक हि तेजः केवलं तपस्यया लभ्यत इति शृणोमि. तद्भवता कीदृशं तपश्चरितं येनेहशी शान्तिस्त्वया समासादिता समं दिव्येन तेज- सेति ज्ञातुमिच्छामि. यदि न किमपि महागूढं तदा वक्तुमर्हसि येनाहमपि यथाशक्ति तत्संपादनार्थ प्रयतिप्य इति. स तु परमकृपालुर्विष्णुमुनिस्तस्य यज्ञनारायणस्य योग्यता जानन् परमामोदेन प्रत्युवाच-वत्स ! यज्ञनारायण ! त्वमसि सत्कुलीनः सदाचाररतश्च. तेन संतुष्टोऽहं वच्मि. यद्यपि सन्ति अश्वमेधादीनि अनेकानि भौतानि कर्माणि तथापि सर्वाणि तानि श्रीकृष्णोपासनाया लेशतोऽपि योग्यतां न स्पृशन्ति. अहं च चिरा- दपि श्रौतानि कर्माण्यनुष्ठीय शान्तिमलभमानः केनापि सद्गुरुणा कुलवृत्तम् १७ श्रीकृष्णभक्तिमुपदिष्टोऽनयैवेदृशीं शान्तिमलभे. अधुना तु भगवतः प्रसादान्निरस्तसकलदुःख आत्मानमतिसुखसागरमग्नं विभावयामि. नेशी शान्तिर्यागशतैर्वा ब्रह्मज्ञानेन लभ्येत्यहं मन्ये. तद्यदि त्वमिमां शान्तिमिच्छसि तदा त्वमपि गोपालसेवको भव. अहं त्वां सर्व तद्ध्यानादिकमुपदेक्ष्यामीति. स तु यज्ञनारायणस्तस्येदं वाक्यामृतं निशम्य संतुष्टस्ततः सर्व गोपालोपासनां तथा रहस्यमत्रं च लब्ध्वा धन्यः प्रतिदिनं गोपाल- मुपास्त. सोऽपि यथायथोपासनामारभत तथातथा परां शान्ति संतोपमलभत. एवं गच्छति काले म यज्ञनारायणदीक्षितः स्वयं कृतकृत्योऽपि केवलं देवसंतोपार्थ सोमयागान्विधातुमारभत. स च सततं गोपालध्याननिमग्नः सर्वत्र श्रीकृष्णचन्द्रमेव वैश्वानर आहुति- प्रक्षेपकालेऽपि ध्यायन हविरुत्ससर्ज, एवंरीत्यैकत्रिंशद्यागेषु निवृत्तेषु त्रैलोक्यपालकः स कंसारिर्वेदिमध्यगतवह्निज्वालामध्ये प्रकटीभूया- त्मानं दर्शयामास. महाभागो यज्ञनारायणदीक्षितोऽनेकजन्मसुकृतैकदर्शनीयं तं त्रैलोक्यनाथं वह्निमध्ये प्रकटीभूतं समवलोक्य प्रमोदातिरेकप्रफुल्ल- वदनकमलो नयनकमलाभ्यामानन्दाश्रुजलसंततिं परित्यजन कथमपि उत्थाय साष्टाङ्गं प्रणिपत्य भक्तिरसातिरेकेण सगद्गदमिदमुवाच- नाथ ! त्रैलोक्यपते ! अद्य खलु तवानेनालौकिकेनानेकजनन- संचितसुकृतसाध्येन जन्मबन्धच्छिदा दर्शनेन सर्वथा पवित्री- कृतोऽस्मि. नाहं केवलं पावितः किंतु मदीयं कुलमपि पवित्रीकृतं. भगवन् ! सर्वेऽपि अमी विपया वा तदिच्छा वा तावदेव तिष्ठन्ति यावत्त्वं सकलानन्दकन्दश्चक्षुर्विपयो न भवसि. नाथ ! सत्यमेव वल्ल०२ श्रीमद्वल्लभाचार्यचरिते त्वं भक्तवत्सलः यतः क्षुद्रमपि मामुद्धर्तुमिच्छयाऽत्र प्रकटी- भूतोऽसीति. तं तथा प्रणिगदन्तं मूर्त भक्तिरसमिव समीक्ष्य संतुष्टो दीन- वत्सलः श्रीवैकुण्ठाधिपः प्रत्याह-वत्स ! यज्ञनारायण ! संतुष्टोऽस्मि तव भक्तिविशेषेण. तदधुना वरं ब्रूहि इति. स तु भगवत्साक्षा- कारेण विनष्टेच्छो वरवरणार्थ साक्षाद्भगवता समादिष्टोऽपि आज्ञा- तिक्रमभिया तूष्णीं तस्थौ. ततश्च तं तूष्णींस्थितं यज्ञनारायणमालोक्य स्मितमधुरवदनकमलः स्वयमाह-वत्स ! यज्ञनारायण ! त्वं हि निरिच्छः संवृत्तस्तथापि त्वामहं वदामि 'यदा त्वदीया वंशजा एको- त्तरशतसोमयागान करिष्यन्ति तदा पुष्टिमार्गस्य सकललोकोद्धार- समर्थस्य प्रसारार्थमहं त्वदीये वंशे स्वयमात्मानमुत्पादयिष्यामीति.' उक्त्वा चेत्थं तिरोहिते भगवति लक्ष्मीनाथे स यज्ञनारायणदीक्षितो भगवतो वरवाक्यानि स्मारं स्मारं परममोदत. वाचकाः ! को हि न मोदेतानेन वरश्रवणेन. क्षणिकां कपर्दिकामपि लब्ध्वा यदि वयं परं हृष्यामस्तदा स्वयं लक्ष्मीनाथः स्वकुले प्रादुर्भविष्यतीति श्रुत्वा कस्य वा मोदो न भवेत् ! अस्तु. एवंगच्छति काले स महाभागो यज्ञनारायणदीक्षित उचिते काले वैकुण्ठं जगाम. पितृवियोगव्याकुलचेतास्तदीयः पुत्रो गङ्गाधरसोम- याजी विवेकावधूतशोकावेगः कर्तव्यतत्परो बभूव. सोऽपि विधि- वदधीत्य योग्ये वयसि कांची नाम कन्यां परिणिनाय. सापि सती तं परिचरणादिना सेवमाना संसारचिन्तारहितं स्वपतिं व्यधात्. महाभागो गङ्गाधरसोमयाज्यपि स्वपितुः प्रतिज्ञां पूरयितुं सप्त- विंशतिसंख्याकान् सोमयागानकरोत्. तथा परमपाण्डित्यप्रकाशकान कुलवृत्तम् १९ नूतनान ग्रन्थानपि विरचयामास. गोपालोपासनां तु पितुरप्या- धिक्येन चक्रे. एवं संसारयात्रां मुखेन समापयित्वा सोऽपि वैकुण्ठं ययौ. ततस्तदीयः पुत्रो गणपतिभट्टसोमयाजी सर्वकल्याणगुणशाली वेदशास्त्रपारङ्गतो गृहस्थाश्रमं स्वीकृत्य द्वात्रिंशत्संख्याकान सोमया- गानकरोत्. तस्मिन्नपि पुण्यलोकं गते सति तदीयः पुत्रो वल्लभभट्ट- सोमयाजी सदैव कृष्णचरणौ भजमानः प्रतिदिनमज्ञानध्वान्तनिरा- करणाय नानाग्रन्थान्विरच्य पञ्चसोमयागांश्चक्रे. (३) बान्धवाः ! अस्मिन्हि कुले श्रीमदाचार्यप्रभुचरणरूपेण पुष्टि- मार्गस्य प्रसारार्थ साक्षाद्भगवानवततारेति अग्रे वृत्तं निरूपयितुमिष्टं. तत्र प्रथमं कीदृशं हि कुलस्यास्य भाग्यं सदाचारशालित्वमिति संक्षेपतो निरूप्यते. येन तदन्यत्रापि निदर्शनं भवेत. बान्धवाः ! यद्यपि वेदशास्त्रादिभिः कथिता बहवः सन्ति सदाचारास्तथापि भगवद्भक्तिसदृशः सदाचारो नास्ति. यस्मिन कुले यस्मिन् गृहे वा परमात्मभक्तिर्जागर्ति तत्र कथं खलु अन्ये पापमूलका दोषाः संभवेयुः ! दोपा हि तत्र संभवन्ति यत्र परमात्म- भक्तिविहीनानां चक्षुरादितर्पणलोलुपानामज्ञानमलिनानां नरकी- टानां यथेच्छाचाराः प्रभवन्ति. अत्यन्तं पापमलिनचेता नूतनस्य पापाचारस्य काले यदि परमात्मानं सन्तं भावयेत्तदा स तत् पापं कर्म कर्तुं न शक्नोति. तदा किमु वक्तव्यं यो हि सततं परमात्म- चरणयोर्लीनो यश्च पापलेशेनापि विहीनः स पापं न कुर्यादिति. वाचकाः ! यथा कुलपावित्र्ये पुरुषाः कारणं तथा स्त्रियोऽपि. परंतु २० श्रीमद्वल्लभाचार्यचरिते स्त्रीणां साधुत्वे पुरुषा एव कारणमिति नैव विस्मर्तव्यं. आचार्य- चरणानां कुले संजाताः पूर्वजाः कथं सदाचारा आसन्निति संक्षेपेण पूर्व निर्दिष्टमेव. तेन तत्रस्थो ललनासमूहः परमपवित्र इति न संशयलेशोऽपि. यद्यप्याचार्यचरणानां कुले शतं सोमयागा अभवन्. प्रायः सर्वेऽपि तदीयाः पूर्वजाः शास्त्राभ्यासकुशला आसंस्तथापि आचार्यचरणानामवतारे तदीयपूर्वजानां निरतिशयं गोपालभक्तिरेव कारणमिति मन्ये, उचितमपीदं. भगवान् यथा स्वोपासके प्रीति करोति स तथा नान्योपासक इति स्पष्टतरं लोके. तस्मादाचार्य- चरणानामस्मिन् कुले प्रादुर्भवस्य कारणं तदीया सर्वोत्तमा गोपाल- भक्तिरेवेति सत्यं. प्रकृतमनुसरामः.

३ पितृचरितम् १ गृहस्थाश्रमप्रवेशः २ पितुःप्रपितामहसंकल्पपूरणं ३ भगवद्वरसाफल्यादर्शनादुद्वेगः ४ तीर्थयात्रार्थ प्रयाणम्. (१) एवंरीत्याऽचार्यचरणानां पितामहे वल्लभभट्टसोमयाजिनि संसार- यात्रां कुर्वति सति भगवत्कृपया तस्य लक्ष्मणभट्टो नाम नरवरः पुत्रः समभवत्. वल्लभभट्टोऽपि चिरं सुतस्यालाभेन खिन्न इव भास- मानः श्रीगोपालकृपया संजातं तं पुत्रं सम्यग्वर्धयामास. बालो लक्ष्मणभट्टोऽपि सदा सस्मितवदनकमलस्तेजस्वी शीघ्रमेव पर्यटन सर्व गृहमाकुलं चक्रे. वल्लभभट्टः परमपण्डितः स्वपुत्रमष्टवर्षमव- लोक्योपनीय विद्याग्रहणार्थ गुरुगृहं प्रेपयामास. सोऽपि साक्षादा- चार्यचरणानां पिताऽलौकिकबुद्धिवैभवशाली यथानियमं गुरुगृहं गत्वा सर्वमपि विद्यानिधिं स्वाधीनमकरोत्. गुरुरपि तादृशविशेष- शालिनः शिष्यस्य लाभेनात्मानं धन्यंमन्यः स्वजन्म सफलममन्यत. अथ कृतविद्यं स्वपुत्रमवगम्य प्रमुदितः स वल्लभभट्टः सोमयाजी २२ श्रीमद्वल्लभाचार्यचरिते गुरुगृहं गत्वा तं स्वपुत्रं लक्ष्मणभट्ट स्वगृहं प्रेषयितुं विज्ञापयामास. गुरुरपि तदीयसेवया तथा विद्याभ्यासेन पूर्वमेव सन्तुष्टो महता मोदेन तं स्नातकं विधाय स्वगृहं गन्तुमवदत्. गुरुणा स्वयमनु- मोदितोऽपि पित्रा च समाज्ञप्तोऽपि स लक्ष्मणभट्टो निसर्गत एव विरक्तो विद्याधिगमेन संजातवैराग्यातिशयो गृहस्थाश्रमं स्वीकर्तु नैच्छत्. तथा गुरवे निवेदयामास च. परन्तु तं गुरुः 'वत्स ! लक्ष्मणभट्ट ! अहमपि जानामि मानवस्य न प्रधानं कर्म गृहस्था- श्रमम्वीकारः. तथापि तव गृहस्थाश्रमस्वीकारो नान्यस्येव विषयोप- भोगाय किंतु सकलजगदुद्धाराय भविष्यति. पुरा खलु तव पितुः प्रपितामहः परमधार्मिको रात्रिंदिवं गोपालदेवतामुपासमानो यदा सोमयागमारभत तदा तदीयभक्तिविशेषेण सन्तुष्टो नारायणः स्वयं प्रादुर्भूयावदत् यदा च शतं सोमयागास्तव वंशजाः करिष्यन्ति तदाऽहमस्य लोकस्योद्धाराय त्वदीये कुले प्रादुर्भविष्यामीति. तत्र केवलं शतसंख्यापूर्तये भवताऽवश्यं गृहस्थाश्रमः सेवनीय एव. यद्यपि नास्ति तव गृहस्थाश्रमप्रवेशेच्छा, नापि तेन तव सुखं प्रत्युत क्लेशाधिक्यमेव तथापि मतिमता नरेणासंख्यजनोपकारार्थ स्वदुःखा- न्यगणनीयान्येव. यो हि मानवः स्वीयं स्वल्पमपि दुःखमसहमानः परेषां दुःखसागरे निश्चिन्तस्तिष्ठति तं विद्वांसो मानवं न मन्यन्ते. तद्गच्छ. कुरु गृहस्थाश्रमं प्रविश्य सोमयागशतत्वपूर्ति. संपादय च यावच्चन्द्रदिवाकरस्थायिनी भगवदवतारजनकत्वकीर्तिमिति मुस- पदिदेश. श्रुत्वा चेमां गुरुवाणी शान्तचेताः स लक्ष्मणभट्टः पित्रा समं गृहमागतः शीघ्रमेव विद्यानगरवास्तव्यस्य राजपुरोधसः सुशर्मणः 'यल्लमाइल्लमाख्ये लक्ष्मीसरस्वत्याविव सुतनये परिणयति स्म. ते अपि पितृचरितम् २३ अभिजातजातत्वेन कल्याणगुणशालिन्यौ स्वपतिं स्ववर्तनेन परम- सेवेताम्. (२) महाभागः सकलवेदशास्त्रपारंगतः श्रीलक्ष्मणभट्ट एवंरीत्या गृहस्था- श्रमं स्वीकृत्येतरजनवद्विषयभोगेऽनासक्तः स्वकर्तव्यं विचारयामास. स च प्रथममनिमाधाय श्रौतेन विधिनाऽवशिष्टान् सोमयागान्वि- धातुं प्रारभत. तस्य पूर्वजानां प्रतापेन समाकृष्टा विद्वांसो जनास्तथा धनिकास्तं परमसाहाय्ययन, क्रमेण च यागान् कृत्वा स शत- संख्यामपूरयत्. यदा च चरमः सोमयागः प्रस्तुतस्तदा तादृशं भग- वता प्रदत्तं वरं कर्णोपकर्णिकया श्रुत्वा बद्धकुतूहला दक्षिणापथ- वासिनो जनास्तदावासमाजग्मुः. यदा च चरमं सोमयागं समा- पयित्वा विधिवदवभृथस्नानार्थ स परमपवित्रशीलो लक्ष्मणभट्टो नीतीरमगात्तदा ते सर्वेऽपि जनास्तच्छरीरसंपर्कपवित्रीभूतास्वप्सु निमज्जनेनात्मानं पावयितुमिच्छवो नीतीरमागच्छन. अचिरादेव स लक्ष्मणभट्टः स्वभार्याभ्यां सह समं च संबन्धिजनेन सोत्सवं नदीजले स्नात्वा तां नदी पावयामाम. तस्मिन्नेव क्षणे नूतनमेघ- पटलगंभीरनिनदा सकलश्रोतृश्रोत्रकमलमध्यसंचारिणी काचनाशरी- रिणी वाणी वत्स ! लक्ष्मणभट्ट ! सत्यमेव त्वया स्वपितुःप्रपिता- महस्य संकल्पः पूरितः. सन्तुष्टोऽस्मि तवानेन यागसंकल्पपूरणेन. अहमपि त्वत्पूर्वजाय प्रदत्तं वरं सफलयितुं मम भक्तकल्याणविधा- नाय तवोदरादचिरादेव प्रादुर्भविष्यामि इति जगाद. निशम्य दिव्यां तां वाणी मिलितः सर्वोऽपि जनसमुदायो २४ श्रीमद्वल्लभाचार्यचरिते विस्मयसागरे न्यमजत्. महात्मा लक्ष्मणभट्टस्तु भगवदनुग्रहं प्रत्य- क्षीकर्तु पर्युत्सुको बभूव. (३) अथ गच्छति काले तस्य लक्ष्मणभट्टस्यैकः पुत्रो रामकृष्णो नाम तथा सुभद्रासरस्वत्याख्ये द्वे कन्यके इति अपत्यत्रयमभवत्. सोऽपि स्वाभिजनं परकीयैर्भूपालैराक्रान्तमवलोक्य काकरेनाम्नि नगरेऽवसत. यथा यथा भगवदवतारदर्शनपर्युत्सुकः स लक्ष्मणभट्टो बभूव यथा यथा च भगवदवतारस्य स चिह्न नापश्यत्तथा तथा परं खिन्नः प्रतिदिनमात्मानं पापिनममन्यत. स हि मेने साक्षाद्भगवता स्वय- माविर्भूय मदीयपितुःप्रपितामहायोक्त एव अर्थः. मयाऽपि अवभृथ- स्नानान्ते दिव्या तदीयैव वाणी श्रुता, तथापि भगवतोऽवतारम्या- द्यापि चिह्नं न विभावयामि. सकलत्रैलोक्यनाथो मिथ्यावदेदिति कल्पयितुमप्यशक्यं. तस्मान्ममैव जन्मान्तरसंचितेन वाऽस्मिन जन्मनि संभूतेन वा दुरितसंघेन प्रतिबद्धः खलु भगवदवतारः. यद्यपि अहमात्मानं सोमयाजिनं परमपवित्रं भावयामि तथापि स किल महान मे दुरितसंचयः. जना हि यत्किंचिदपि विहितं कर्म कृत्वाऽत्मानं पुण्यशालिनं मन्यन्ते परन्तु न जानन्ति अनेकजन्म- संचितं दुरितराशिं. तदधुना क उपायो दुरितक्षयस्येति. एवं भूयोभूयो विचिन्त्य स लक्ष्मणभट्ठोऽन्यमुपायमपश्यन वंशपरंपरया समागतां गोपालोपासनामेव प्रारभत. तस्य सर्वोऽपि कालः सततं श्रीगोपालध्यानमग्नस्य निमिष इवागच्छत्. यथायथा तदीयोपासनासक्तिरवर्धत तथातथा भगवदवतारदर्शनौत्सुक्यमपि. तं च सततं श्रीगोपालोपासनासक्तमवलोक्य तदीया पत्नी आचार्य- पितृचरितम् २५ चरणानां माताऽपि कृष्णभक्तिमारभत. बान्धवाः ! एवंरीत्या तो दम्पती भगवदवतारदर्शनार्थ तीव्र तपः समाचेरतुः. (४) एवंवृत्तेषु केपुचिन्मासेषु तम्य लक्ष्मणभट्टस्य भगवदवतारदर्श- नोत्कंठामवलोक्य सन्तुष्टः सकलभक्तकल्याणदक्षः श्रीगोकुलनाथः स्वप्ने आत्मानं दर्शयामास. जगाद च-वत्स ! लक्ष्मणभट्ट प्रीतोऽस्मि त्वदीयं भक्त्यतिरेकं वीक्ष्य. तव तथा त्वदीयपूर्वजानां भक्तिविशेषेणावर्जितः सत्यमेवावतर्तुमिच्छामि. परन्तु मम संकल्पं चंपारण्येऽहं पूरयितुमिच्छामि. तत्त्वं स्वपत्न्या समं तीर्थयात्राविधा- य शीघ्रमेव निर्गच्छेति. स भगवद्भक्तो लक्ष्मणभट्टस्तमिमं श्रीगोपालदेवस्यादेशं शिरसा स्वीकृत्य तीर्थदर्शनेनावशिष्टं मे पातकं नश्यदिति मन्वानः सर्वमेव कुटुंबं स्वभ्रातरि जनार्दनभट्टे निक्षिप्य वंध्याकल्पां भगवदाराधन- तत्परामिल्लमां स्वपत्नी गृहीत्वा तीर्थयात्रानिर्गमनाथ निरणयत्. अत्रान्तरे तत्रस्थ एव कश्चिच्छंकरदीक्षितो नाम विप्रवर्यः कृतकृत्यः सकलं संसारभारं योग्ये स्वतनये निवेश्य चरमवयोयोग्यां तीर्थ- यात्रां विधातुकामस्तत्रैव समाजगाम. विज्ञापयामास म्वेन समं त्रिस्थलीयात्राविधानायागन्तुं. लक्ष्मणभट्टस्तु प्रथमत एवोत्सुकस्तादृशं सुहृद्वरं पथि सहायं लब्ध्वा निश्चिन्तः शीघ्रमेव यात्राविधानार्थ प्रातिष्ठत. अथ कतिपयदिवसैः क्रमेणावन्तीद्वारकादितीर्थानि पर्यटन प्रयागक्षेत्रमाजगाम. तत्र च स्वकीयोपाध्यायगृहेऽवतीर्णः स भक्ति- मान् लक्ष्मणभट्टः संसारदुःखदग्धहृदयो भगवदवतारदर्शनोत्कण्ठया रात्रिंदिवं पीड्यमानः सकलसंतापशमनवित्तां भगवती गंगां गत्वा श्रीमद्वल्लभाचार्यचरिते तस्या विमले जले आत्मानं न्यक्षिपत्. तस्या जलस्पर्शेनापनीतकाय- चित्तक्लेशः प्रमुदितमानसः सर्वमपि भगवदुपासनादिकं विधाय प्रामोदत. अथोपाध्यायस्यानुमत्या सर्वमपि तीर्थविध्यादिकं विधाय कृत- कृत्यः कतिपयदिनानि तत्रोपित्वा श्रीविश्वेश्वरराजधानी गंगया सखी- स्नेहेनेव समाश्लिष्टां वाराणसीमाययौ. तत्र च हनूमद्धट्टे ऽन्यान् शंकरदीक्षितस्य जनान्निवासयित्वा स्वयं परमश्रद्धालोः श्रेष्ठिनः कृष्णदासस्य विज्ञप्त्या तदीयं गृहं गत्वा तस्थौ. अयं च श्रेष्ठी पुरत एव द्रविडदेशादागतेभ्यः प्रवासिभिः श्रुतलक्ष्मणभट्टकीर्तिस्तं यात्रार्थ समागच्छन्तमाकर्ण्य संजातानन्दस्तं लक्ष्मणभद्रं स्वगृहमानेतुं सेवक- जनेन समं प्रयागक्षेत्रमागत्यातिष्ठन्. तेन लक्ष्मणभट्टेन समं च काशी समाययौ. श्रेष्ठी कृष्णदासस्तं महाभागं लक्ष्मणभट्ट तथा तदीयां साध्वी पत्नी 'इल्लमां' च स्वभवनागतौ वीक्ष्य सन्तोपभरभुग्नस्तथाऽसेवत यथा स्वयं भगवदवतारदर्शनपर्युत्सुकोऽपि क्षणमात्रं विस्मृतस्वदुःखस्तं श्रेष्टिनं वरवरणार्थमब्रवीत्. वाचकाः ! पश्यत सेवायाः सामर्थ्य. स्वयं पर्युत्सुकोऽपि लक्ष्मणभट्टः परस्य दुःखमपहर्तु प्रायतत. अस्तु. तेन श्रेष्ठिना पुत्रार्थ विज्ञप्तः स लक्ष्मणभट्टः सत्यवाक् तथास्तु इत्युक्त्वा तमन्वगृह्णात्. सोऽपि तावतैव कृतकृत्योऽभूत्.

आचार्यचरणानां ४ प्रादुर्भावः . १ देशपरिस्थितिः. २ धर्मग्लानिः ३ चंपारण्ये प्रादुर्भावः ४ भगवदवतारचिनानि. (१) बान्धवाः ! इदानीमाचार्यचरणानां प्रादुर्भावो वक्तव्यः परन्तु तस्यादौ देशपरिस्थितिरवश्यं निरूपणीया. येन कदा वा भगवान भक्तगणत्राणायावतरतीति सम्यग्ज्ञातं स्यात. यद्यपि भगवान् गीतायां "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत" इति धर्मग्लानि- मेवात्मनोऽवतारकारणं वदति तथापि धर्मग्लानिधर्मोत्कर्पश्च देशपरि- स्थितिमूलकावेवेति मे मतं. यदा हि देशपरिस्थितिः समीचीनाs- नुकूला भवति तदा धर्मवृद्धिर्भवति परन्तु यदा तु देशपरिस्थितिदी- भिक्ष्याक्रान्तसकलजनपदा कष्टप्रदा भवति तदा तु अवश्यमेव धर्मग्लानिर्भवति. तस्मादाचार्यचरणानामवतारसमये प्रथमतो देश- परिस्थितिः कथमासीदिति निरूपणीयमेव. वाचकाः ! यदाप्रभृति उत्तरध्रुवनिवासिन आर्या इमां भारत- भुवमात्मसात्कृत्वाऽत्रैव न्यवसंस्तत आरभ्येयं मातृभूमिस्तद्वंशसंभवै- २८ श्रीमद्वल्लभाचार्यचरिते बलाढ्यैः क्षत्रियैर्भूपालैर्यथान्यायं प्रशासिता स्वर्गादपि हृदयहारिण्य- भवत्. न केवलमत्रत्या एव जना एवमवदन्किंतु परकीया अपि जनास्तथा जगदुः. अधुनाऽपि गदन्ति. सर्वेऽपि चत्वारो वर्णाः परस्परं प्रीत्या वर्तमानाः स्वस्वकार्याणि कुर्वाणा लोकोत्तरं सौख्यं प्रापुः. इयमेवार्यभूः सकलजनैः कुवेरनगरीत्वेन व्यपादिश्यत. अस्तु. एवं प्रयाते बहुकाले सर्वमपि दक्षिणापथं समाक्रम्य क्षत्रियवंश- संभवेषु भूपालेषु संपूर्ण भारतवर्ष शासत्सु अस्माकं दुर्दैवेन वाऽ- पारैश्वर्यसम्पन्नास्ते परस्परमकलहायन्त. सकलसौभाग्यकारणं पर- स्परैक्यं विस्मृत्य परस्परनाशाय प्रायतन्त. विद्याशीला ब्राह्मणा बोधेनैश्वर्यमत्तानां क्षत्रियराजानामिमं द्वषं शमयितुं न प्रयेतिरे. वैश्याश्च स्वव्यापारदक्षा अत्यन्तमौदासीन्येनावर्तन्त. सेवापरः शूद्रवर्गः किमपि अनिष्टमभावयंस्तूष्णीमतिष्ठत्. इमां भारतवर्षस्य परिस्थितिमवलोक्य परकीया यवनादयः प्रथ- ममेव भारतवर्षसंपल्लोभाकुला अपि तादृशेन क्षत्रियाणां दुष्प्रधर्षण तेजसा निरुद्धप्रवृत्तयः क्रमेण भारतभुवमात्मवशां कर्तुमारभन्त. वाचकाः ! उत्तरार्यावर्तस्य परस्ताद्वर्तमानैः कुरैर्मानवैर्भूयोभूयोऽ- पारसैन्यसमन्वितैराक्रम्य निर्लुण्ठितेयं भारतभूः केवलमस्थिमात्राव- शेषायाः कामधेन्वाः सादृश्यमवहत. ते ते क्षत्रियभूपालाः प्रथम- मन्यस्य क्षत्रियराजस्याक्रमणे आत्मनोऽनिष्टममन्यमाना अत्युदासत, परन्तु यथायथा भिन्ना भिन्ना यवनसंघास्तान क्षत्रियभूपाला- निहत्य तदीयानि राज्यानि स्वायत्तानि चक्रुस्तथा तथा लब्धप्रबोधा अवशिष्टा राजानस्तैः समं योद्धं समनह्यन् परन्तु प्रवृद्धबलान् यवनान् जेतुं ते न प्राभवन्. गिझनीपतिर्महंमदस्तु इमां भारतभुवं आचार्यचरणानां प्रादुर्भावः २९ सप्तदशकृत्वो लुलुण्ठ. स च प्रतिलुण्ठनेऽगणितान जनान्निहत्याने- कान देवालयान भूमिसात्कृत्वा बहून सनातनधर्मानुयायिनो लोकान महंमदीयधर्मानुयायिनो विधाय स्वराजधानी प्रति ययौ. तथैव शहाबुद्धीनप्रभृतयोऽपि यवनराजाः. वाचकाः ! बलाढयेषु अपारशौर्याकरेषु तेषु तेषु क्षत्रियवीरेषु भारतं शासत्सु सत्सु कथं यवनास्तान पराजयन्तेति विचित्रमिव भाति. तथापीतिहासविदामत्र नाश्चर्य भवति. यतो बलाच्या अपि क्षत्रियराजाः परस्परबलवर्धकनैक्यगुणेन रहिता महान्तः कापीस- पुंजा इव स्वल्पेन वातेनेव यवनसंघेनाक्रम्य पराजिता इति ते सम्यग्जानन्ति. सर्वोत्कर्पस्य कारणं हि परस्परैक्यं. तच्च यत्र न विद्यते विद्यमानमपि यत्रस्थं नाशोन्मुखं, स मानवसमाजो बला- ढ्योऽपि संसारसौख्यगिरिशिखरमारूढोऽपि क्षणादेवाधोगति गच्छतीति सर्वेपामैकमत्यं. अम्तु. एवं क्षत्रियभूपालान्विजित्य लब्धविजयास्ते यवनाः प्रथममुत्त- रार्यावर्त स्वाधीनं विधाय ततः क्रमेणाग्रे स्वपादान प्रसारयन्तः सर्वमपि आर्यावर्तमात्मसाच्चक्रुः. तेनावशिष्टाः क्षत्रियवंशजा आर्या- वर्ते स्थानमलब्ध्वा दक्षिणापथस्थानि राज्यानि आत्मसात्कृत्वा कथ- मपि अजीवन. अथाचिरादेव जलालउद्धीनखिलजीनाम्नो दिल्लीश्व- रस्य भ्रातुप्पुत्रो अल्लाउद्दीनः साहसिकः सर्वमपि दक्षिणापथमात्मसा- त्कृत्वा तत्रस्थानि राज्यानि नाशयित्वा सर्वमपि तं देशं जर्जरित- मकरोत्. बान्धवाः ! इत्थं बलिप्टैर्यवनैराक्रान्तोऽयं देशो दीनोऽभवत्. निसर्गत एव शान्तिप्रिया निवासिजनास्तांस्तान्क्रौर्येण यमराजमपि ३० श्रीमद्वल्लभाचार्यचरिते तिरस्कुर्वतो यवनानवेक्ष्य भीताः परमात्मानं स्वरक्षणार्थ प्रार्थयामासुः. ततश्च ते यवना अपि नूतनैस्तदीयैरेव बान्धवैराकान्ताः सर्वमपि भारतवर्ष सकलयातनागरं चक्रुः. यदाचाचार्यचरणाः प्रादुर्बभूवु- स्तदा दिल्लीश्वरा मोंगलवंशजा एवासन्. अस्तु. (२) एवंरीत्या सकलेऽपि भारतवर्षे पारतंत्र्यमग्ने सति स्वातंत्र्यमूलको धर्मकल्पवृक्षोऽपि परां दुर्दशां प्राप. सर्वत्र हि धर्मस्य रक्षणं राज- सत्तया क्रियते. यथा हि परममूल्यस्याऽपि आम्रवृक्षस्य रक्षकाः कंटकसंघा एव. तैर्विना स आम्रवृक्षो जीवितुमपि न शक्नोति जीव- बपि मृत इव भासते तथैव धर्मकल्पवृक्षोऽपि. विशेषतश्च सनातन- धर्मः. यथाहि महावने स्वादुफलाः स्वरक्षणार्थ कंटकसन्नद्धा वृक्षविशे- षाः सन्ति तथैवेह जगतीतलेऽन्ये धर्माः स्वसंरक्षार्थ परनाशमुपदिशन्तो वर्तन्त एव, परन्तु अयं सनातनधर्मः खलु केवलमाम्रवृक्ष इव शत्रु- मित्रयोः समः सदैव परोपकारपरः सर्वेपां कल्याणविधाने दक्ष एव. तेनापगतेषु तद्रक्षकेषु स निरतिशयां दुर्दशां प्राप. यदा च तद- नुयायिन एव क्षत्रियराजास्तद्रक्षका आसंस्तदाऽयमेव धर्मः प्रफुल्लः पारिजात इव सर्वेषां हृदयानि जहार. परन्तु विपरीते समये विपन्नो दीनो जीवितुमप्यक्षमः कथंचित्कचिन्निभृतमुवास. बान्धवाः ! सनातनधर्मो हि प्रथमत आरभ्य परपीडायामनुत्सुको मानवशीलोन्नतिमुपदिशन स्वरक्षणे नात्यन्तं चिन्तामुवाह. यथा यथा चात्र भारतवर्षे कृतवसतयस्त एवार्यवंशजा विद्याविलासशीलाः पर- मात्मचिन्तामकुर्वस्तथा तथा परपीडाविधानं तेषामशक्यमेवाभवत्. तेन ते तथैव स्वानुयायिभ्य उपादिशन्. तत एव कारणात् प्रायः सर्व एव n आचार्यचरणानां प्रादुर्भावः ३१ सनानतधर्मानुयायिनः परपीडां पापं मन्यन्ते. यद्यपि केचिदाधुनिकाः परकीयैः कृतां स्वोन्नतिं वीक्ष्य तथाऽस्मदीयां चावनतिंसमीक्ष्य खिन्नाः स्वावनतिकारणं परपीडात्यागं प्रदर्शयन्ति. वदन्ति चास्मत्पूर्वजैः पर- पीडादानं पापत्वेन स्वीकृतं तेन वयं दीना ईदृशी स्थिति प्राप्ता इति. परन्तु न ते पश्यन्ति सकलभूमण्डलप्रसृतां धर्मस्य कीर्ति. धर्मो हि नाम न राजनीतिविभागः येन तत्र कपटस्य वा च्छलस्य वाऽवका- शः. यत्र हि प्रेमसंलापो निःशंकं भवति यत्र च परस्परं बन्धुभावेन जनाः साहाय्ययन्ति, स एव धर्म:. सभ्याः ! यदीदं धर्मस्य लक्षणं समीचीनं तदा कथयताऽस्मिन्विपये को वा सनातनधर्मेण तुल्यो- ऽन्यो धर्म इह जगतीतले ? अस्तु. स्वदेशं प्रबलहिमानीव्यानं त्यक्त्वा भारतविजयाय यदा निर्गता यवना उत्तरार्यावर्तमाक्रम्य स्वाधीनं चक्रुस्तदा सनातनधर्मानुयायिनां देवालयान ते भूमिसाञ्चक्रुः. बान्धवाः ! सत्यपि आचारभेदे जगतः स्रष्टैक इति तु साधारणं, तस्यानुग्रहार्थ तत्प्रतिमाः परिपूजयन्ति भारतीयाः. परन्तु महंमदीयास्तदपि असहमानाः सहसा तानि अनाशयन. न केवलमेतावदेव किंतु ये खलु ब्राह्मणा वेदपारगा धर्मस्य मूलं तान हत्वा भीत्या च स्वमतानुयायिनो वा यमालयाति- थीन वा चक्रुः. एवंरीत्या सर्वत्र व्याकुलीभावे सनातनधर्मो महान सुदृढमूलोऽपि प्रबलवात्याक्रान्त इवाकम्पत. क्रूरा महंमदीयाः शमप्रधानानत्रत्यान जनान्विजित्य तदीयं धर्म पीडयितुं तथाऽचेष्टन्त यथा तद्वर्णयितुं कोऽपि न शक्नोति. सज्ज- नाः ! तांस्तान भारतवर्षस्य विभागानाक्रम्य द्रव्यं तैः संपादितं परन्तु ते पशुकल्पा नराधमाः परकान्ता अपि स्वभोग्या व्यधुः , ३२ श्रीमद्वल्लभाचार्यचरिते क परकान्तासंसर्गो महापातकमिति मन्यमाना आर्यवंशजाः, क च यथातथा मानवान्विजित्य तदीया भार्याः स्वभोग्याः करणीया इति मन्वाना महंमदीयाः. निःसंशयं कश्चन पक्षपातरहितः सच्छीलो जनो महंमदीयानामितिहासं पश्येत्तदा स तानधमतमान् वदेत् ! न केवलं पशुवदस्मद्भारतललनासु तैश्चेष्टितं किंतु सकलसौख्याकरासु संसारसुखसाधनीभूतासु गोष्वपि व्याघ्रायितं. व्याघ्रो हि यथा सहसा गां भक्षन्नगणिताजनांस्तदीयदुग्धवियोगेन दुःखितान्विदधाति तथैवै- तेऽपि मानवराक्षसाः सहसा गोभक्षणतत्पराः सर्वमपि भारतवर्ष दुर्लभगोरसं शुष्काऽस्थिबालकं चक्रुः. बान्धवाः ! यत्र समये क्रूरैर्यव- नैराक्रान्ताः क्षत्रियराजाः परस्परद्वेषणासहायाः पराजिताः स्वर्गमग- च्छंस्तदा सहसा प्रविष्टा अकुतोभया यवना अस्माद्भारतवर्षादगणितां सम्पदं जद्दुः. आर्यमहिला दासीश्चक्रुः देवालयानि च नाशयामासुः ब्राह्मणांश्च जनः गोसंघांश्चाभक्षयन तत्र धर्मः कथं स्थिरो भवतु. सर्वेऽपि तादृशप्रलयकालादवशिष्टा जनाः कालपरिवर्तनं वीक्ष्य यव- नसेवां स्वीकृत्याजीवन. अन्ये चैहिकैश्वर्यलोभाकुला जनाः स्वपावि- त्र्यस्य तथा कुलस्य चाभिमानं विहाय यवनेभ्यः स्वकन्यां वा स्वभगिनीं वा वितेरुः. तेऽपि तावतैव सन्तुष्टास्तेभ्यः प्रभूतं द्रव्यं समं विशालेन भूविभागेनादुः. अपरे च विस्मृतस्वधर्मयोग्यताका यवनराजानां प्रीतिं संपादयितुं तदीयं धर्ममन्वसरन. तेऽपि धर्मान्धा अवशिष्टान् सनातनधर्मानुयायिनः स्वधर्माननुसरणं निमित्तं विधाय कठिनेन धनदण्डेनादण्डयन. एवं सर्वतो विघ्नैर्व्याप्तोऽयं धर्मकल्पद्रुमः कष्टां दशामाप. ते च तदीयाः स्वामिभक्तास्तदीयामिमां दशामवलोक्य खिन्ना आसामा- आचार्यचरणानां प्रादुर्भावः ३३ ३ पदां दूरीकरणाय भगवन्तं प्रार्थयामासुः. करुणाघनः परमेश्वरस्तां कथं स्वीचकारेति वयमग्रे पश्यामः. (३) यदा तु इत्थं भारतवर्षस्य तथा सनातनधर्मस्य दुरवस्थामवा- लोकयत्तदा श्रीगोपालनाथो भक्तरक्षणायावतर्तुमियप. स हि मेने लक्ष्मणभट्टम्य परमपवित्रे वंशे यदि संभविष्यामि तदा मम वरः सफलीभवेदिति यतः शीघ्रमेव सकलजगद्वंद्या सा परमसाध्वी 'इल्लमादेवी' गर्भवती बभूव. तां चापन्नसत्वामवलोक्य लक्ष्मण- भट्टोऽपि स्वमनोरथद्रुममंकुरितं मेने. यथा यथा च स गर्भो ववृधे तथा तथा सा देवी सूर्यगर्भायाः प्राच्याः श्रियं वभार. सा चेल्लमा- देवी सर्वदा गोपालोपासनातत्परा सर्वानपि समतोपयत. * महाभागो लक्ष्मणभट्टो यदा काशीं गतः परमभक्तम्य कृष्णदाम- अष्ठिन आग्रहेण तीये गृहेऽवसत्तदा तस्मिन् प्रदेशे यवना राज्यम- कुर्वन. यवनराज्यस्य स्वरूपं मया देशपरिस्थितिनिरूपणसमय एवं निरूपितं. अधिकं च तेषामितिहासग्रंथेभ्यः सुज्ञेवाचकैरवधारणीयम. यवनराज्ये कीदृशमपि स्वास्थ्यं नासीदित्युक्ते तावतैव तदीयं स्वरूप- मवगतं भवति. श्वः को वा राजा भवेत्. श्वः को वा कस्य भाया- मपहरेत्. कस्य कुटुंबं द्रव्येण समं नश्येदिति शक्रोऽपि न जानाति सकलदुः :खदायिनि अस्मिन्नस्वास्थ्ये प्रजाजनाः कियन्ति दुःखानि अन्वभविष्यन्निति भवद्भिरेवानुमातव्यं. एवंस्थिते लक्ष्मणभट्टः स्नानाथ गंगातीरं गतो निवासिजनमुख- संचारिणीमिमां वार्ता शुश्राव. 'श्वः परकीया यवनाधिपा बलवता -7 स्म. सज्जनाः ! वल्ल०३ श्रीमद्वल्लभाचार्यचरिते सैन्येन सममिदं नगरमाक्रमिष्यन्ति. तेन सममत्रत्या यवनाधिपा योत्स्यन्ते. यो हि विजयी भवेत् स नागरिकान लुण्ठित्वा स्वकोश- पूरणं करिष्यतीति. अनया वार्तया सर्वेऽपि काशीनगरीवासिन- श्चिन्ताकुला यवनस्वभावं सम्यक् जानन्तः स्वप्राणरक्षणार्थ यथा- भिमतां दिशं गन्तुं प्रारभन्त. महाभागो लक्ष्मणभट्टोऽपि तां वार्तामाकर्ण्य भीतः कृष्णदासश्रेष्ठिनः सकाशात् कतिपयान सेवकान गृहीत्वा त्वरितं चंपारण्यमार्गेणानुद- धाव. तस्मिन समये कठोरगर्भा तदीया सती इल्लमादेव्यपि आसीन. सा च सार्थेन समं धावितुमशक्नुवाना शनैः शनैर्गच्छन्ती क्वचित् कस्यचिच्छमीवृक्षस्याधस्तादुपविवेश. समीपं वाहिन्या महानद्याः शीतलेन वातेनापनीतपरिश्रमा रात्रौ महानदी तीर्थमिवालौकिकतेजः- संपन्नं बालकं प्रासूत. तस्मिन्दिने 'शरवह्निबाणेन्दुमिताब्दस्य विक्र- मशकस्य कृष्णपक्षम्यैकादशी तिथिगसीन. सा तु पुत्रस्नेहाकुलाऽपि भीतिविह्वला तं सप्तमासं योगसमाधौ लीनं पुत्रं मृतं मन्यमाना स्वीयवस्वार्धनाच्छाद्य तस्य महातरोरधस्ताद्वर्तमाने कोटरेऽस्थापयत्. स्वयं चाग्रे गतं सार्थमनुधाव. अचिरादेव भद्रपुरनाम्नि ग्रामे सार्थेन समं स्थितं स्वान्वेषणोद्यतं स्वभर्तारमवलोक्य सन्तुष्टा तस्मै तत् सर्व वृत्तं न्यवेदयत्. सोऽपि स्वीयं दौभाग्य मन्वान- स्तूष्णीं तस्थौ. (४) अथ तस्यां इल्लमादेव्यां स्नात्वा भुक्त्वा च सुनायां तथा महा- भागे लक्ष्मणभट्टे तथा तदीयायां मातरि च, जापत्सु सर्वेषु सार्थ- पालकेषु सेवकेषु अकस्मालक्ष्मणभट्टाय तथा तन्मात्रे भगवान् स्वप्न- आचार्यचरणानां प्रादुर्भावः मदर्शयत्. अवोचच तं वत्स ! महाभाग ! लक्ष्मणभट्ट ! अहं हि परमप्रियस्यास्य पुष्टिमार्गम्य प्रसाराय भक्तानामनुग्रहाय च त्वदीय- कुलेऽवतीर्णोऽस्मि. त्वदीया पत्नी इल्लमादेवी मां शमीतरोग्धस्ता- निधाय भीत्या धावमानाऽत्रागता. अहं च तत्र मुखेन तिष्ठामि. यदर्थं भवद्भिर्वाराणसी परित्यक्ता स्वीकृतं चेदमरण्यगमनं सोऽयं यवनानामुपद्रवः खलु शान्तः प्रबलं हि यवनानां तथा दण्डिनां युद्धमभूत्तत्र नितगं यवनाः पराजिताः पलायनेनात्मानमरक्षन. अधुना च तत्र शान्तिर्वर्तते. तदागच्छ वाराणमी. मार्गे च शमीत- रोरधस्तादहं तिष्टाम्येवेति. उक्त्वा चेन्थं स तिगेदधे. तिरोहिते भगवति गोपालनाथे स लक्ष्मणभट्टः प्रबुद्धः स्वमातरमबोधयत्. साऽपि प्रबुद्धा तादृशमेव सर्व वृत्तान्तं स्वयमनुभूतं न्यवेदयत. तेन वीतसंशयः म लक्ष्मणभट्टः परमात्मपुत्रदर्शननहाकृष्टमनाः सर्वानपि सार्थमुग्यान पुनः काशीगमनाय निवेदयामास. ते तु अज्ञातमत्य- तत्वाः शत्रुलुण्ठनभिया प्रतिनिवर्तितुं नैच्छन. तांश्च प्रतिनिवर्तनानु- त्सुकान वीक्ष्य तस्य माता ताजगाद-बान्धवाः ! भगवता स्वय- मागत्य निवेदितोऽयमर्थः कथमसत्यो भविष्यति. तथापि यद्याशंका तदा प्रातःकाले यदि वाराणसीतो वार्ताहार आगच्छति तदाऽम्मा- भिर्वागणसी प्रति गन्तव्यमन्यथा नति. अंगीकृत्य चेमं नियोगं ते सर्वेऽपि सार्थस्थास्यक्तनिद्राः सूर्योदयकालं प्रत्यपालयन. अचिगदेव भगवति सूर्यनारायणे तदिदं वृत्तं सर्वेभ्यो निवेदयितुमिव त्वग्यो- दयाचलमारूढे सति अकस्मात् कृष्णदासश्रेष्टिना विमृष्टो वार्ताहारः समाजगाम. न्यवेदयच्च तथैव सर्व वृत्तम. तदाकर्ण्य ते सन्तुष्टाः सर्वेऽपि सार्थवाहाः काशी प्रति गन्तुमन्वमोदन्त. निर्गतेषु च तेषु श्रीमद्वल्लभाचार्यचरिते सार्थवाहेषु स महाभागो लक्ष्मणभट्टो भगवदवतारदर्शनपर्युत्सुकः समं साध्व्या पत्न्याऽग्रे गत्वा तत्स्थलमन्वेषयति स्म. भद्रपुरे च स्वक- टकमवतार्य सर्वेऽपि ते सार्थवाहाः स्वनिवासमकल्पयन्. सा च महासाध्वी इल्लमादेवी स्वतनयस्थापनस्थलं सम्यग्जानन्ती सहसा तमेव शमीतरुमागच्छन्. अपश्यच्च तं तरं परितः प्रबलेन वह्निना परिवेष्टितं. सा च तं तरं वह्निसमाक्रान्तमवलोक्य विस्मिता भीता शोकविह्वला यावत्सविशेपमपश्यत्तदा स्वीये वस्त्रार्धे परिक्रीडन्तं सप्तमासं बालं ददर्श. वीक्ष्य चेत्थं भत्रेऽदर्शयत्. सोऽपि विस्मित- स्तनयस्नेहप्रस्नुतस्तनी तां स्वपत्नीमवदत्-यद्यप्ययं वह्निः सर्वत एनं बालं व्याप्नोति तथापि त्वामेप नापकरिष्यति. यदि च तेऽयं तत्वत एव तनयः स्यात्तदा तव गमनेनाग्निः शमं गमिप्यति. तद्गच्छ. परी- क्षस्व स्वभाग्योदयं. भगवान् गोपालनन्दनः स्ववचनं सफलीकुर्या- देवेति. भर्तुरिमामाज्ञां शिरसांगीकृत्य सा देवी निःशंकं तं दावानलं प्रविष्टा निरातंका तं तनयं प्राप. स तु वह्निस्तस्मिन्नेव क्षणे कृतकृत्यो योगीव शान्तो बभूव. तनयोऽपि समीपमागतां तां देवीं मातृत्वेन प्रत्यभिजानन्निव हस्ताउन्नमय्यास्मयत. यदा सा भगवती इल्लमादेवी तं स्वभाग्यनिधिमिव वंशवर्धनं सकलभक्तजनोद्धारार्थमवतीर्ण स्वह- स्ताभ्यामुत्थापयित्वा स्वहृदयेन समयोजयत्तदा दिवि दिव्याः पटहा उच्चैरनिदन्. स्वर्गलोकात्सहसा पुष्पवृष्टिरभूत्. गोकुले च-सर्वा अपि गावः प्राप्तं पयोऽतिरेकं वोढुमशक्नुवन्त्यो वर्षासु मेघमंडल्य इव पयो ववर्षः. इमं स्वभाग्यस्योत्कर्षमवलोक्य महाभागो लक्ष्मणभट्टो भगव- आचार्यचरणानां प्रादुर्भावः ३७ दवतारदर्शनोत्कण्ठां सोढुमसमर्थः सहसाऽग्रे गत्वा तं साक्षादकरोन् साऽपि इल्लमादेवी स्वभर्तारं समीपमागतमवेक्ष्य सानन्दमुत्थिता तं स्वसर्वस्वं बालं हस्ताभ्यां वहन्ती सविनयं जगाद-नाथ ! एषोऽ- स्माकं वंशवर्धनो बालो निष्करुणया मयाऽस्थाने त्यक्तोऽपि स्वयं भगवता प्रदत्तः. अयं हि निःसंदेहं भगवदवतार एव. कथमन्यथा सकलदाहकोऽयमग्नि नमदहन्. तदयं मया त्यक्तोऽपि भवद्भिः क्रोडे करणीय इति. उक्त्वा चेत्थं तद्धस्तेऽर्पयामास. लक्ष्मणभट्टतं गृहीत्वा परिचुम्ब्य च तदीयौ शिरीपपुष्पादपि सुकुमारौ कपोलौ स्वजन्म धन्यममन्यत. तस्मिन्नेव समये दिव्या वाणी जगाद-अधुना कलियुगं कृतयुगं भविष्यतीति. ..

५ बाल्यलीलाः निखिलविद्या- धिगमश्च. १ विविधलीलावर्णनम्. २ व्रतबन्धः शिक्षा च. ३ पितुर्वैकुण्ठगमनम्. ४ स्खनिवासगमनम्. (१) अत्रान्तरे ते भद्रपुरेऽवस्थिताः सर्वे सार्थवाहाः समागताः तं बालकं तेजस्विनमवलोक्य विस्मिताः सत्वरं कृष्णदासाय सर्व वृत्तं न्यवेदयन्. सोऽपि तन्निशम्य हर्षाकुलः सजवं तत्रागत्य सर्व तद्- वेक्ष्य सन्तुष्टस्तस्मिन्नेव पुरे सूतिकागृहादिकं चकार. ततः पिता लक्ष्मणभट्टस्तस्य बालस्य यथाविधि जातकर्मादिकं व्यासजैमिनितुल्यै- विगैरकारयत्. तस्मिन् समये तत्र मिलितास्ते सर्वेऽपि ज्योतिर्विदो ब्राह्मणास्तस्य बालकस्य शुभानि लक्षणान्यवलोक्य विस्मिता अव- दन्. विप्रश्रेष्ठ ! एष ते पुत्रो न साधारणो नरः किंतु स्वभक्तानु- प्रहाय भूमाववतीर्णो गोपालनन्दन एव. अस्मिञ्जगतीतले निरुद्धां भगवतो भक्तिसरणिमुद्धर्तुमिच्छुरयं परमपवित्रे त्वत्कुले प्रादुर्बभूव. वयं तु सर्वथाऽस्य दर्शनेनात्मानं पूतान् मन्यामह इति. महाभागो !

बाल्यलीलाः निखिलविद्याधिगमश्च. ३९ ३ लक्ष्मणभट्टो विदुषां विप्राणां मुखेभ्यः स्वपुत्रस्य कीर्तिमाकर्ण्य संजातमोद आत्मानं कृतकृत्यममन्यत. एकादशेऽहनि तु अयं सर्वेषां वल्लभो भविष्यतीति जानन्वोत सकलजगञ्चालकस्य गोवर्ध- नोद्धारकस्यायमतिवल्लभो भविष्यतीति वा मन्यमानः पिता तं पुत्रं वल्लभनानाऽलंचक्रे. वाचकाः ! ये खलु इह भारतवर्षे सर्वतः प्रसृतं भक्तिमार्ग गोपायन्ति प्रसारयन्ति च चत्वारो दिग्गजा इव परमवैष्णवास्तेपु एक एत एव वल्लभाचार्यचरणा इति भवद्भिरवश्यं ज्ञातव्यं. यदा च महानदी पर्वतमध्यानिर्गच्छति तदा न तां कोपि भागीरथीं वदति परन्तु यदा सा प्रयागक्षेत्रमागच्छति तदा तस्या गभीरं तत्स्वरूप- मवलोक्य नितान्तं विस्मिता जनास्तां सादरं भागीरथीं वदन्ति. एतादृश्येवावस्था भगवद्भक्तानां वा सज्जनानां वेति अलं पल्लवितेन. अथ कतिपयैरेव मासैः स बालको मातरं तथा पितरं प्रत्य- भिज्ञाय स्मितमधुराभिमुखक्रियाभिः सर्वेषामपि हृदयान्याजहार. स च यथायथाऽवर्धत तथा तथा तस्य चापल्यमपि अवर्धत. एकदा शनैःशनैः संक्रमणशीलः श्रीवल्लभः कार्यान्तरव्यासक्तां स्वमातरमवलोक्य तया निष्कासितं नवनीतं भक्षयामास. अवशिष्टं च भूमितले निक्षिप्यादृषयत्. इमं चास्मिन् कार्ये समासक्तं दूरादव- लोक्य ससंभ्रमं समागता तदीया माता तं परं निर्भर्सयामास. अथ विनष्टं नवनीतमवलोक्य खिन्ना सा इल्मादेवी कार्यान्तर- व्यासक्ताऽभवत्. ततः पुनरपि संक्रमणेन जलभाण्डे हस्तं निक्षिप्य श्रीवल्लभस्तदेवालोडयत्. तं च जलभाण्डालोडनासक्तमालोच्य सको- पमागत्य सा यदा पश्यति तदा तत्र नवनीतगोलको वर्तत एव. तं ४० श्रीमद्वल्लभाचार्यचरिते च नूतनमवलोक्य विस्मिता सती किमपि किमपि ध्यायन्ती परं विषिम्मिये. एकदाऽयं श्रीवल्लभः स्वपितुर्लक्ष्मणभट्टस्य निवासगृहं प्रविष्टः. तत्र बहूनि शास्त्रपुस्तकान्यासन. तानि सर्वाण्येकतो निक्षिप्य यत खलु साधारणं परमसूक्ष्माक्षरविन्यासं भागवतपुस्तकमासीनदुद्वा- ट्य वाचयन्निवातिष्ठत. यदा च कुतश्चित्कार्यार्थ गतः स लक्ष्मण- भट्टो गृहमागतो निवासस्थले भागवतपुस्तकमनुवाचयन्तमिव स्थितं तं स्वपुत्रमवलोक्य विस्मितः शनैःशनैः पृष्ठतो गत्वा यावत् पश्यति तावद्दशमस्कंधे रासक्रीडाप्रकरणमवलोकयन्तं तमपश्यत. तदवलोक्य परमानन्दमग्नः स भक्तवरो लक्ष्मणभट्टस्तदिदं वृत्तं तन्मात्रे निवेद्य तां स्वसन्तोपार्धभागिनी चक्रे. श्रीवल्लभो यदा पद्भ्यां संक्रमितुमारभत तदा स सर्वस्मिन्नपि गृहे सर्वेष्वपि स्थलेषु पर्याटत्. एकदा मध्याह्नकाले सर्वेष्वपि गृहजनेषु भुक्त्वा निद्रायमाणेषु सत्सु माता इल्लमादेव्यपि सर्वाणि गृहकर्माणि कर्माणि विधाय सुष्वाप. श्रीवल्लभश्च तावतैव लब्धावकाशः शनैः शनैर्बहूनपि विस्तीर्णान् गृहविभागानतिक्रम्य भित्तिनिर्मिते रास- क्रीडाचित्रेऽस्खलितदृष्टिर्योगीव भगवन्तं यशोदानन्दनं ध्याय- निवातिष्ठत. यदा तु माता इल्लमादेवी प्राबुध्यत तदा सा श्रीवल्लभमपश्यन्ती सर्वत्र पर्याटत्. चिरादपि तत्र तत्र तमन्विष्यायशस्विनी कातराऽ- भूत्. तस्मिन्नेव क्षणे तत्र लक्ष्मणभट्टोऽपि समाययौ. सोऽपि पुत्र- मदृश्यमानमवगम्य चिन्तातुरः परिशोधयति स्म. अत्रान्तरे कृष्ण- दासश्रेष्टिनः सेवकेन निवेदितौ तौ दम्पती यावत्त्वरया समागत्या- बाल्यलीलाः निखिलविद्याधिगमश्च. पश्यतां तावत्तं श्रीवल्लभं रासक्रीडासक्तराधारमणप्रतिमाबद्धनेत्रमपरं चित्रमिव. तदेतत् सर्व प्रत्यक्षीकृत्य कृष्णदामश्रेष्टिन: सेवकास्तथा- ऽन्ये जना अत्यन्तं विस्मितास्तं साधुश्रेष्ठममन्यन्त. लक्ष्मणभट्टोऽपि प्रतिदिनं तदीयं चरितं प्रत्यक्षीकृत्य विस्मितस्तम्मिन्पुत्रभावं त्यक्त्वा भगवदवतारभावमबनान. एवं नानाविधा लीलाः कुर्वन् श्रीवल्लभो ववृधे. यदा च स्पष्टम- क्षराण्युञ्चारयितुं प्राभवत्तदा पिता लक्ष्मणभट्टस्तं मूलाक्षराणि पाठ- यामास. स तु अनायासेन ज्वाला कपूरमिव मर्वमपि तं तं विपयं जग्राह. तस्य तदिदमपूर्व बुद्धिपाटवमालोक्य विम्मिनाः सर्वे गुरव- स्तथा तदीयः संबन्धिजनम्तं सत्यमेव भगवदवतारं मेने. श्रीवल्लभो यदाऽक्षरप्रत्यभिज्ञानकुशलो बभूव तदाप्रभृति म सर्वदा भागवतपुस्तकमेव वाचयामास. पूर्वमपि भागवतपाठं कुर्वतः खपितुः समीपे स्थित्वा मर्वदा पाठमशृणोत. एकदा मध्याह्नसमये स्वसमवयस्कान् बालान् गृहीत्वा श्रीवल्लभः क्रीडितुमारभत. तत्र ये खलु तस्य क्रीडासहाया आसंस्तान प्रथमतः स भागवतार्थ सम्यगुपदिशन्नन्ते तेभ्यो रासक्रीडारसमुपदिदेश. ते च बालका अपि तथा भक्तिभावपूर्णा अभवन् यथा विस्मृतदेहभावा आनन्देन भगवन्नाम घोषयन्तो ननर्तुः. श्रीवल्लभस्तु प्रेमातिरेकेण नयनकमल- स्रवदश्रुबिंदुस्तेषां समूहे भक्तशिरोमणिरिव रराज. एकदा च श्रीलक्ष्मणभट्टस्य गौः पंचत्वं जगाम. तेन सर्वेऽपि जना अत्यन्तं दुःखाकुला अजायन्त. यतः सा गौर्लक्ष्मणभट्टाय कृष्णदासश्रेष्ठिना प्रदत्ताऽसीत्. सापि शुभलक्षणैवाऽसीत्. तां स्वर्ग गतामालोक्य खिन्नेषु सर्वेष्वपि गृहजनेषु श्रीवल्लभः सहसोत्थाय ४२ श्रीमद्वल्लभाचार्यचरिते गोष्ठं प्रविश्य तां स्वहस्तकमलेन पस्पर्श. तस्मिन्नेव क्षणे सा गाः सुप्तोत्थितेवोत्थाय तस्थौ. सर्वेऽपि जना इदमाश्चर्य प्रत्यक्षीकृत्य मूढा- स्तूष्णीमतिष्ठन. बान्धवाः ! श्रीवल्लभो बाल्ये बहुविधा लीलाश्चक्रे. यासां वर्णने विस्तरो भवेत. बान्धवाः ! केचनाधुनिकशिक्षणसुशिक्षिता इत्थं मन्यन्ते सर्वे- ध्वपि महतां साधुवराणां चरित्रेषु यद्वाललीलावर्णनमस्ति तत् सर्व- मपि कविकपोलकल्पितमिति. परन्तु अहं तान् प्रति वदामि. ये खलु प्रौढे वयसि अलौकिकप्रतापशालिनः साधुवरा वा वीरा वाऽ- जायन्त ते चाकस्मादेव तारुण्ये तादृशं प्रतापविधानसामर्थ्य नाल- भन्त. किंतु तदीयाः प्राचीनाः संस्कारा एव तादृशा आसन्नित्यं- गीकर्तव्यमेव. एवं च यथा यथा तेषां संस्काराणामुद्रोधोऽभवत्तथा तथा तादृशोऽलौकिक्यो लीला अभवन्नित्यत्र कविकपोलकल्पनाया अवकाश एव न. वस्तुत इमे जनाः स्वसादृश्येनैव सर्वत्रानु- मिन्वन्ति. अस्तु. (२) एवंविधा बाल्यलीलाः कुर्वन् श्रीवल्लभो यदा सप्तवर्षोऽभू- त्तदा पिता तमुपनेतुमिच्छुः स्वदेशं गन्तुमैच्छत्. परन्तु परमोदारो भक्तः कृष्णदासश्रेष्ठी श्रीवल्लभस्योपनयनोत्सवं काशीक्षेत्र एव विधा- तुमाग्रहमकरोत्. तेन स लक्ष्मणभट्टस्तत्रैव स्थित्वा सर्वमुत्सवं कर्तु स्वसंबन्धिभिः समं निरचिनोत्. अथ काशीक्षेत्रवासिनो ज्योतिःशास्त्रपारंगतान्विदुष आहूय यज्ञोपवीतोत्सवविधानार्थ शुभदिनं निरणाययत्. तस्मिन्दिने समाग- बाल्यलीलाः निखिलविद्याधिगमश्च. ४३ मनार्थ स्वीयेभ्यो निमंत्रणानि ददौ. तेऽपि श्रीवल्लभस्य भगवदव- तारकीर्ति निशम्य दिदृक्षवो दृरतोऽपि समाययुः. तैस्तैर्नानादेशतः समागतैर्जनैस्तन् खलु लक्ष्मणभट्टस्य गृहं संकुलं बभूव. महाभक्तः कृष्णदासश्रेष्ठी तु सर्वामपि साधनसंततिं ददत्तं लक्ष्मणभट्ट निश्चि- न्तमकरोत. ततः संप्राप्ने शुभदिने स लक्ष्मणभट्टो महताऽनन्देन गणपति परिपूजयित्वा यज्ञोपवीतोत्सवमारभत. तम्मिन दिने श्रीवल्लभो मात्रा समं मातृभोजनार्थमुपविष्टो निःसंशयं यशोदया समं भोक्तुमु- पविष्टस्य कृष्णस्य लीला स्वीचकार. सर्वाश्च तत्र मिलिताः पौरांगना- स्तस्य श्रीवल्लभस्य सौन्दर्य तथा मुखकमलविलासिनीं दिव्यां कांति- मवलोक्य परमतुष्यन. ततः क्रमेण सर्वानपि विधीन्विधाय लक्ष्मण- भट्टो विहिते समये तस्मै सावित्रीमुपदिदेश. तत्र मिलितास्ते सर्वेऽपि तत्संबन्धिनस्तथा समाहूता जनास्तौ पितापुत्रौ परमतेजस्विनः सूर्यस्य प्रतिबिंबद्वयममन्यन्त. स निसर्गत एव तेजस्वी पितुः सकाशात् सावित्रीतेजो लब्ध्वा ग्रीष्मसूर्य इव दुर्दर्शो बभूव. बटुवेपधारी स श्रीवल्लभः प्रतिदिनं गुरोर्विष्णुचित्संज्ञकादुपाध्यायान् संध्यादिकं ब्रह्मकर्म शिक्षमाणस्त्वरितमेव सकलं स्वाधीनमकरोत्. एवं लक्ष्मणभट्टस्तं श्रीवल्लभं तिनं विधाय विद्याध्ययनार्थ तांस्तांस्तत्तच्छास्त्रनिष्णातान्विदुष आहूयाध्यापनार्थ न्ययुक्त. तेषु च सर्वेषु विष्णुचिदुपाध्यायः परमवैदिकः स्वशाखाध्यायीति मत्वा लक्ष्मणभट्टः प्रथमं स्वशाखाध्ययनार्थ तस्मै एव श्रीवल्लभं ददौ. सोऽपि तादृशं मतिमन्तं शिष्यं लब्ध्वा धन्यंमन्योऽचिरादेव सर्व स्वशाखां पाठयित्वा यजुर्वेदमपि पाठयामास. तत ऋग्वेदाध्ययनार्थ- ४४ श्रीमद्वल्लभाचार्यचरिते मन्यत्र जगाम श्रीवल्लभः. एवंरीत्या चतुरोऽपि वेदानधीत्य लब्धज्ञानराशिः सर्वाण्यपि शास्त्राणि शीघ्रमेव करतलामलक- सदृशान्यकरोत्. एवं सर्वेषु शास्त्रेषु लब्धपाण्डियप्रकर्षः स श्रीवल्लभः स्वबुद्धि- चातुर्येण सर्वानपि काशीनिवासिनः पण्डितश्रेष्ठान्विस्मापयामास. महतीपु सभास्वपि कृतप्रवेशो लीलयैव तत्र विवदमानान्विदुषो निरुत्तरानकरोत. तेऽपि तं श्रीवल्लभं भगवदवतारमेव मन्यमाना न विवदन्ते स्म. पिता लक्ष्मणभट्टः स्वपुत्रस्येदृशमप्रतिहतं पाण्डित्यमवलोक्य सन्तुष्टोऽपि तत्सर्व भगवदनुग्रह विना व्यर्थ मन्वानः शुभे समये तस्मै कृष्णशरणार्थबोधकं महामंत्रमुपदिदेश. सोऽपि च तं सकल- शास्त्रसारमिव महामंत्रोपदेशं प्राप्य कृतकृत्यः सर्वमग्रिमं स्वकीयं कृत्यमांजस्येनापश्यत. निसर्गत एव तैलबुद्धिः श्रीवल्लभो लक्ष्मण- भट्टसदृशान् महाभक्तवरात् महामंत्रं लब्ध्वाऽत्यन्तं पावनोऽभूदिति किमु वक्तव्यं. (३) एवं सर्व स्वमनोरथं सफलं वीक्ष्यात्मानं कृतकृत्यं मन्यमानः पिता लक्ष्मणभट्टो मनसि विचारयामास-अहं हि एतेषां मम पूर्व- जानां सोमयाजिनां कुले जनित्वा प्रथमत एव पवित्रोऽस्मि, मया हि सोमयागा विहिताः, भगवदर्शनमपि लब्धं. एष शुभोदयः पुत्रोऽपि भगवत्कृपया लब्धः. अयमपि आवश्यकोपनयनसंस्कार- संस्कृतोऽधिगतपाण्डित्यः सर्वथा सांसारिककर्मणि उपयुक्त एव. विवा- बाल्यलीलाः निखिलविद्याधिगमश्च. ४५ हादिकं यद्यस्मै रोचेत यदि वा भगवते तदा तथा भवेत्. अहं तु पश्यामि नास्त्यधुनाऽस्मिञ्जगतीतले स्थितेः प्रयोजनं. जन्मन आरभ्य भगवान मदनमोहनः सम्यक्से वितः, तदीयां सेवां तु अहं स्वप्नेऽपि त्यक्तुं नेच्छामि प्रत्युत भूयोभूयो जनित्वा तमेव सेवितुं वांछामि. तत्तदेव कर्तु वैकुण्ठ एवाश्रयणीयः. परन्तु प्रथमतो भगवानेव प्रष्टव्यः. यदि सोऽस्ति कार्यान्तरमिति वदेत्तदा स्थातव्यमन्यथा गन्तव्यमिति. विचार्य चैवं स ध्यानसमये स्वोपास्यदैवतं मदनमोहनं कर्तव्या- ज्ञापनाय पप्रच्छ. सोऽपि परमानन्देनात्मानं दर्शयित्वा जगाद- वत्स ! लक्ष्मणभट्ट ! त्वदीये कुलेऽहमेव श्रीवल्लभरूपेणावतीर्णोऽम्मि. सर्वथा त्वया निःसंशयं कृत्स्नोऽपि संसार उपकृत एव, सन्तुष्टोऽम्मि त्वदीयसेवनेन. इदानीमत ऊर्ध्वमिह भारतवर्ष महाकार्य श्रीवल्लभः करिष्यति. येन सर्वेऽपि जगतीतलवासिनो मानवा उपकृता भवेयुः. तेन रूपेण त्वदीया कीतिरक्षय्या तिष्ठन्. सम्प्रति नास्ति आवश्य: कता तव मृत्युलोके स्थातुं. तदागच्छ वैकुण्ठलोकं. मुंश्व स्वकर्मा- पार्जितान्दिव्यान भोगान्. प्रीतोऽहं तुभ्यं तत्रस्थाय श्रीवल्लभलीला- दिकं दर्शयिष्यामीति. निशम्य च भगवदादेशं सन्तुष्टः स लक्ष्मणभट्टस्तं शिरसाऽहत्य स्वपुत्रं तथा स्वपत्नीं साध्वीं 'इल्लमादेवीं' आहूय तमादेशं तौ श्रावयामास. निशम्य च तद्वृत्तं तावुभावपि नातिविह्वला तावदभूताम्. तावपि परमवैष्णवी भगवता समादिष्टं पितुर्वैकुण्ठागमनमाकर्ण्य सानन्दावे- वाभूतां. अथ पिता लक्ष्मणभट्टः स्वस्य वैकुण्ठगमनसमयं समीपमा- गतमवलोक्य समीपस्थं मुकुलितहस्तयुगलं नयनयुगस्रवदानन्दाश्रुजलं तं श्रीवल्लभं तथा तत्समानावस्था पत्नी इल्लमादेवीं जगाद. वत्स !

श्रीमद्वल्लभाचार्यचरिते श्रीवल्लभ ! अहं त्वां भूतलवासिनां मानवानां कल्याणाय समवतीर्ण गोकुलनाथमेव मन्ये. तथापि केवलं लौकिकी दृष्टिं स्वीकृत्य यदहं वक्ष्यामि तत् सावधानेन मनसा शृणु. वत्स ! अयं लोको नाम महामोहास्पदं. बहवो हि योगबलशालिनोऽम्मिन मंसारे मोह- मागत्याधोगतिं प्राप्ताः. तत्केनाऽपि मतिमता मानवेन प्रथमत ऐहिक- विषयोपभोगलोलुपेन न भवितव्यं. मानवजातिभंगवता केवलं विला- सार्थ नोत्पादिता. यान्हि पशवोऽसंस्कृतबुद्धयो विपयोपभोगान कुर्वते तानेव विषयोपभोगान कुर्वाणा जना आत्मानं विलासिनो मन्यन्ते. वत्स ! विशेषतश्च ब्राह्मणेन सर्वदा शान्तमनसा परोप- कारपरेण ज्ञानशीलेन भवितव्यं. ये खलु ब्राह्मणकुलेपु जनित्वा द्रव्यलोलुपा भोगव्याकुलाश्च भवन्ति, तैः कलंकित एव ब्राह्मणवंश इत्यहं भावये. वत्स ! सम्प्रति विपरीतः कालः. परकीया महंमदीया इमां भारतभुवमाक्रम्यास्मान दीनान् धर्महीनानपि कर्तु प्रयतन्ते. अस्मदीयाश्च पूर्वमीमांसकप्रभृतयः क्रूरैः पशुहननादिभिः साधारणा- अनानुद्वेजयन्ति तेन विप्रकृता हीना जनास्तदीयं धर्ममनुसरन्ति. तदस्य सर्वस्यापत्तिसमूहस्य परिहाराय भगवता सर्वसुलभोऽयं भक्ति- मार्गः प्रचालितः. परन्तु बलवत्तरदुर्दैवव्याना इमे जनास्तं न जानन्ति तद्यदि अस्योद्धारो भवेत्तदा महन्छुभं स्यात्. जानामि त्वदीयावतारस्येदमेव प्रधानं कृत्यमिति तथापि वात्सल्यादुपदिशामि. भगवान् स्वयमेव सर्व कार्य करोति न तत्र मानवबुद्धेरवकाशः परन्तु केवलं लौकिकी दृष्टिमंगीकृत्योक्तोऽसीति. उक्त्वा च तमित्थं स महाभागो लक्ष्मणभट्टः स्वपत्नी इल्लमादेवी- माह. भार्ये ! अहमिव त्वमपि सत्यमेव कृतकृत्यासि. तेन मया समं बाल्यलीलाः निखिलविद्याधिगमश्च. ४७ वैकुण्ठागमने नास्ति प्रत्यवायः परन्तु अद्यापि भाविनं स्वपुत्रस्य भाग्योदयं द्रष्टुकामाऽसि. तं च काममपूरयन्ती दुःखिता भवियसि. तत्त्वं चात्र तिष्ठ. किंच यद्यावामुभावपि वैकुण्ठं गमिष्यावस्तदाऽयं बालः श्रीवल्लभो महादुःखी स्यात्तदस्य पालनाय त्वं किंचित्कालमत्रैव तिष्ट. सफलयित्वा च स्वकामं तत आगमिष्यसि वैकुण्ठलोकमिति. एवं सर्वानपि स्वकीयानुपदिश्य कृष्णदासश्रेष्ठिनं चानुगृह्य तदीयं मनोरथजातं पूरयित्वोचिते समये श्रीलक्ष्मणभट्टो वैकुण्ठलोकमाज- गाम. सर्वेऽपि तत्संबन्धिनः शिष्यगणाश्च तद्वियोगदुःखाकुला अपि तदुपदेशं मनसि ध्यायन्तो नेतरजनवच्छोकवशा अभवन. (४) अथ वैकुण्ठं गते महाभागे लक्ष्मणभट्टे श्रीवल्लभः सर्व तदी- यमौर्ध्वदेहिकं सावधानतया चकार. कृष्णदासश्रेष्टी तु तम्य लक्ष्म- णभट्टम्य वियोगेन खिन्नः परं दुःखाकुलो बभूव. तत्र च श्रीवल्लभ आवर्पान्तं सर्वमपि पितृकृत्यं विधाय स्वदेशं गन्तुं मनीपां चक्रे. तां च समाकर्ण्य सरलहृदयो भक्तवरः कृष्णदासश्रेष्ठी शोकाकुलस्तं श्रीवल्लभमुवाच-गुरुपुत्र ! अम्मान सर्वानपि विहाय तव पिता गुरु- वर्यो लक्ष्मणभट्टो वैकुण्ठं जगाम. अवश्यंभाविन्यर्थे मानवम्य शक्तिरेव नास्ति तं प्रतिबद्धं. परन्तु सकलशास्त्रसम्पन्नः केवल लक्ष्मणभट्टस्य प्रतिबिंबमिव सकलसज्जनहृदयाह्लादकरो भवानपि मां विहाय स्वदेशं गच्छतीति ज्ञात्वा मृढोऽस्मि. कोवाऽपराधः समजनि मे. अथवा यावत्पुण्यं सजना निवसन्ति, समाप्तं च तस्मिंस्तेऽपि तं विहाय गच्छन्तीति यदुच्यते तत्सत्यमिति मन्य इति. , ४८ श्रीमद्वल्लभाचार्यचरिते .. इदं तस्य करुणं वचनमाकर्ण्य दयाघनः श्रीवल्लभस्तमाह-श्रेष्ठिन् ! अधुना केवलमत्रनिवासेन को वा लाभः ? सर्वत्र संचारं विधायाज्ञा जना बोधनीयाः. भगवतो भक्तिमार्गः प्रचारणीयः स्थाने स्थाने भगवतो गोपालनन्दनम्य मूर्तयः स्थापनीयाः. इति मे महती मनीपा. तदधुना गमनार्थमनुजानीहि मां. त्वमपि संसारासक्ति विहाय रात्रिंदिवं श्रीगोकुलनाथसेवामाचर. एपैव त्वां मुखिनं करिष्यति. अहमपि समये समये त्वां दर्शनेन सन्तोपयिष्यामीति. विचारशीलः कृष्णदासश्रेष्ठी सर्व तदुक्तमाकर्ण्य सन्तुष्टः सेव- कादिभिस्तं सुगोपितं विधाय प्रभूतं धनादिकं तस्मै वितीर्य स्वदेश प्रयातुमन्वमोदत. ततश्च शीघ्रमेव मात्रा समं श्रीवल्लभः प्रयागमा- र्गेण चित्रकूटं तथा भृगुतुंगमवेक्ष्य तत्स्थलं प्राप यत्र स स्वयमाविर- भूत्. तत्र च महानदीतीरे स्वशिष्यसंधैर्विरचितायां वेद्यां स्थित्वा महाभागवतपारायणमकरोत्. शिष्यान कूपमखानयत्. भगवतः श्रीगोपीवल्लभस्य वसन्तोत्सवनिमित्तं दोलारोहणमहोत्सवमपि स तत्रैवाकरोत्. तद्देशवासिनः सर्वेऽपि जनास्तमपूर्वमुत्सवमालोक्या. त्मनो जन्म सफलं मेनिरे.

In ६ दुर्वादिजयः विष्णुस्वामिमतप्रसा- रार्थं सिंहासनाधिरोहणम्. १ विद्यानगरगमनं २ वादिविजयः ३ सिंहासनाधिरोहणम्. ४ विल्वमंगलान्मंत्रप्राप्तिश्च. (१) एवं वाराणसीतो निर्गतः श्रीवल्लभः स्थाने स्थाने मानपि यथासम्प्रदायं भगवतो गोपालनन्दनम्य तांस्तानुत्सवान्विधाय लोकानां मनांसि भक्तिमार्गोन्मुखानि विदधत्स्वकर्मणा सर्वानपि जनान्वि- स्मापयन कतिपयदिवसैः स्वनिवासमाजगाम. मार्गे च ते ते अंष्ठि- नस्तथा राजानः श्रीवल्लभस्य श्रीकृष्णभक्ति निरतिशयामालोक्य विस्मिताः सहसा शरणमागत्य कृपामयाचन. सकलजनोद्वारहेतुना मृत्युलोकेऽवतीर्णः श्रीवल्लभस्तानष्टाक्षरमंत्रोपदेशेन तथा श्रीकृष्णभ- क्तिविधानाज्ञया चानुजग्राह. यदा च श्रीवल्लभः स्वनिवासग्राममाजगाम तदा तदीया बहवः संबन्धिनः स्नेहेन तं द्रष्टुं तत्स्थानमागच्छन. श्रीवल्लभोऽपि सहसा तानादरातिशयेन सिषेवे. तदीयो ज्येष्ठो बन्धुर्दीक्षितरामकृष्णः श्रीमद्वल्लभाचार्यचरिते सर्वानपि प्रत्यभिज्ञाय तेभ्यः श्रीवल्लभस्य गुणगणं न्यवेदयत्. ततश्च क्रमेण श्रीवल्लभस्य विद्यामोदः सर्वत्र प्रासरत्. तस्मिन् प्रदेशेऽपि बहवो विद्वांसस्तेषु तेषु महाविद्यालयेषु अगणितान्शिष्यगणानपाठ- यन्. तेन तत्र शास्त्रविद्या जीवन्ती आसीत्. ते सर्वेऽपि विद्वांसः श्रीवल्लभस्य सर्वास्वपि विद्यासु निरतिशयं पाण्डित्यमाकासूया- न्विता वादार्थमागच्छन् परन्तु तान् सर्वानपि पण्डितान् श्रीवल्लभो लीलयैव पराजयत. वाचकाः ! द्विविधा हि बुद्धिः. एका निसर्गत एव संस्कृता. अन्या चेह जन्मनि शास्त्राभ्यासजन्यसंस्कारशालिनी. तत्र द्वितीयामपेक्ष्य प्रथमैव श्रेष्ठेति निःसंदेहं. यतः केवलं मानवप्रयत्नजन्मनां शास्त्रा- णामानुपूर्वीपाठेन वा तदर्थावगमेन वा लब्धाः संस्कारास्तथा प्रबला न भवन्ति यथा निसर्गतो लब्धाः. यद्यप्युभयमपि शास्त्राभ्यासमपे- क्षते तथापि प्रथमा केवलं निलीनसंस्कारबोधाय शास्त्राभ्यासमपे- क्षते. द्वितीया तु निसर्गत एव जडा तादृशान् संस्कारानुत्पादयितुं. यथा ह्यग्निज्वाला कर्पूरवटिकां यावता कालेन स्वरूपतां प्रापयति तावता कालेन काष्ठं न. किमत्र कारणं ! ऋते योग्यतायाः. इदं सर्वमज्ञात्वा मूढाः केवलशास्त्राक्षराणां कण्ठीकरणेनात्मानं पण्डितं- मन्या विवादाय सन्नद्धा भवन्ति. परन्तु फलं न लभन्त इत्यन्यदे- तत्. ते च श्रीवल्लभेन पराजिताः पण्डिताग्रेसराः खण्डितगर्वा दुर- भिमानं विहाय तदीयां शिष्यतां स्वीकृत्यात्मनो जन्मनः साफल्यम- न्वभवन्. तत आरभ्य श्रीवल्लभस्य विद्यायशस्तोमो महता वेगेन दक्षिणापथे प्रससार. स्वभ्रातुष्पुत्रस्येमामलौकिकी बुद्धिमालोक्य पितृन्यो जनार्दनदीक्षितोऽपि परं समतुष्यत्.

दुर्वादिजयः विष्णुखामिमतप्रसारार्थ० अत्रान्तरे कश्चन वावदूको विद्यानगरवासिना मातुलेन स्वभगिनीं तथा तदीयं पुत्रं श्रीवल्लभमानेतुं प्रेषितस्तत्राजगाम. स च निवेदित- स्वागमनहेतुर्मध्याह्ने सुखेनोपविष्टः श्रीवल्लभं जगाद. वत्स ! श्रीव- ल्लभ ! विद्यानगरस्य राजा परं धार्मिको विद्वदादरपरो वर्तते. स च प्रतिदिनं तत्तच्छास्त्रकुशलान् पण्डितानाहूय संवादं शृणोति. विद्या- नुरूपं तान् सन्मानयति च. सम्प्रति च स वैष्णवमतानुयायिनां तथा शैवमतानुसारिणां च पण्डितानां सभां विधाय शिवोपासना वा श्रेयस्करी किंवा विष्णूपासनेति निर्णेतुमिच्छति. स्वस्वपक्षाग्रहेण विजयार्थ सर्वेऽपि दक्षिणापथस्थाः पण्डितश्रेष्ठास्तत्रागताः. यो हि कृतविद्यः स तत्रागत्य विद्यापरिश्रमं सफलयति. तत्त्वमपि कुतो न गच्छसि ? अहं च मार्गे तत्तत्स्थानेषु प्रमृतं तव विद्यायशः श्रुतवान. यदि च त्वं काश्यां स्थित्वा सर्वाणि शास्त्राण्यपठस्तदा तादृशपरिश्र- मसाफल्यस्यायमेवावसरः. अन्यथा शास्त्राध्ययनेन किमिति. श्रीवल्लभः सर्वमिदं तन्मुखाद्वृत्तमाकर्ण्य सन्तुष्टः स्वयमचिन्तयत्. एष एव समयः कृष्णोपासनाप्रधानस्य पुष्टिमार्गस्य प्रसारे. अहमपि एतत्कार्यविधानायैव भगवताऽत्र प्रेषितः. प्रायः सर्वेऽपि दक्षिणापथ- वासिनो विद्वांसस्तत्रागताः. तेन तेषु विजितेषु सर्वत्र भक्तिमार्गस्य प्रचारः सुलभो भवेत्. इति. ततो मातरं विद्यानगरगमनाय विज्ञापयामास. साऽपि बहोः कालात्स्ववन्धुमदृष्ट्वा खिन्ना जगाद. वत्स! यद्यप्यहमधुना संसारान्मु- तैवाऽस्मि तथापि गिरिवरस्थितस्य भगवतो व्यंकटेशस्यास्ति दर्श- नेच्छा. त्वमपि पितृसंकल्पितां दक्षिणापथयात्रां विधाय तमनृणं . कुरु. इति.

५२ श्रीमद्वल्लभाचार्यचरिते इदं च मातुरभिलषितमाकर्ण्य सन्तुष्टः श्रीवल्लभः स्वपितृव्याय जनार्दनदीक्षिताय साहाय्यदानाय विज्ञापयामास. सोऽपि शकटादिकं सर्व ददौ. ततः शुभे नियते समये श्रीवल्लभो विद्यानगरगमनार्थ स्वभवनान्निर्जिगमिषुः पितृव्यमाह. पितृव्यचरणाः ! यद्यप्यहमस्मि युष्माकं भ्रातुष्पुत्रस्तेन संपादितस्य द्रव्यस्य दायमर्हामि तथापि न मे संचारे रुचिः केवलं भगवदाराधनं कर्तव्यं, श्रीमहाभागवतपाठश्च, जनाश्च भक्तिमार्गानुसरणार्थमुपदेष्टव्याः, भक्तिमार्गश्च यथाशक्ति प्रवर्धनीय इति मे मनीषा. तदस्मिन् देवालये विद्यमानां शालग्राम- शिलां तथा महाभागवतपुस्तकं च यदि मह्यं दास्यथ तदा महानु- पकारः स्यादिति. निगद्य चैतत्तूष्णीभूते श्रीवल्लभे तदीया माता इल्ल- मादेवी भगवतो गोपालनन्दनस्य परमलावण्यमयीं मूर्तिमयाचत. उदारशीलो जनार्दनदीक्षितो भ्रातुष्पुत्रस्य श्रीवल्लभस्य तथा भात. जायायाश्च विज्ञप्तिमाकर्ण्य जगाद-वत्स ! श्रीवल्लभ ! यत्त्वयोक्तं त- त्सर्व सत्यं. इयं शालग्रामशिला भगवता विरंचिना स्वयमार्चिता भगव- तोवदनात्समागता. इदंच भागवतपुस्तकं श्रीगंगाधराचार्यस्य. अयं मुकु- न्दः श्रीगोविन्दाचार्दत्तः श्रीबालकृष्णो विष्णुमुनिना. अयं मदनमोह- नस्तु यज्ञकुण्डात्प्रादुर्भूतः एतत्सर्वमपि प्रयत्नतो रक्षणीयं.एतदेव वैष्ण- वानांनो धनं. अन्यत्सर्वमुदरस्य कृते. त्वं ह्यस्मत्कुले परमभाग्यवान्सं- वृत्तोऽसि. कुरु सर्वत्र वैष्णवधर्मप्रसारं. उज्ज्वालयच यशः स्वपूर्वजा- नामिति. उक्त्वा चेत्थं सर्व तद्याचितं वस्तुजातं तस्मै ददौ. अथ सर्व तद्वस्तुजातं गृहीत्वा निर्गतः श्रीवल्लभः पितृव्य- चरणानमस्कृत्य तदीयैः शुभैराशीर्वादैर्वर्धितोत्साहो विद्यानगरगामिनं मार्गमन्वसरत्. .

दुवोदिजयः विष्णुखामिमतप्रसाराथै० ५३ (२) तं च वादिविजयाय विद्यानगरगामिनमाकर्ण्य तस्य तथा तत्पि- तुश्च शिष्यास्तं सेवितुं त्वरया समागच्छन्. तत्र सिद्धपदात्समागतो केतुकमण्डलुलकुटालोकिनामानौ विरक्तौ पितुः शिष्यौ स सर्वेषां रक्षणार्थ न्ययुक्त. शंभुभट्टच पाकाथै. स्वभूस्वयंभूनामानौ कृत- विद्यौ वादकुशलौ स्वीयौ द्वौ शिष्यौ वादार्थ न्ययोजयत्. तथा वारा- णसीतः समागतान गौडांस्तथा गुर्जरान् शिष्यान् स तेषु तेषु परिच- र्याकर्मसु न्ययुक्त. तत्रानन्तसेनं तथा मुकुन्दं च ताम्रमंजूषायां स्थापयित्वा मञ्जूषां शिरसोवाह श्रीवल्लभः. महाभागवतपुस्तकं च परमप्रियो दामोदरो नाम तदीयः शिष्य एवावहत्. मार्गे च यत्र यत्र स न्यवसत्तत्र तत्र समागता जनास्तं परमादरयन. तदुक्तीश्च निशम्य नितान्तमतृप्यन्. श्रीवल्लभोऽपि परमप्रीत्या मदनमोहनं तथा शालिग्रामं च पूजयन् परमादरेणासेवत. प्रथमतः सर्वमपि पाकं भगवते निवेद्य ततः सर्वेभ्यः स्वशिष्येभ्यस्तं प्रसादं विभज्यादात्. बान्धवाः ! अद्यापि सैव रीतिः प्रचलति. ये खलु भगवतः सेवका- स्तेभ्यो वेतनादिकं किमपि न दीयते. केवलं भगवतः प्रसाद एव तैर्लभ्यते. तं भुक्त्वैव तैः स्वजीवनं रक्षणीयमिति नियमः. अस्तु. एवं प्रवसन्तस्ते कतिपयदिवसैय॑कटाद्रिमागच्छन्. तत्राधः- स्थितं श्रीरामचन्द्र परिपूज्य गिरिषटूमतीत्य बालहरिमपश्यन्. तं प्रणम्योपायनानि धृत्वा तच्चरणोदकं जग्राह श्रीवल्लभः. तत्र च वैष्ण- वसंप्रदायमूलभूतान् ग्रंथानवलोकयन् श्रीवल्लभः किंचित्कालं तस्थौ. यदा च श्रीवल्लभो वेंकटाद्रिं गत्वा भगवन्तं प्रणनाम तस्मिन्नेव दिने तदीया माता इल्लमादेवी स्वपतिं भगवन्मुखारविन्दे प्रविशन्तं ददर्श.

५४ श्रीमद्वल्लभाचार्यचरिते द्वितीयदिने पुत्रं तत्सर्व न्यवेदयच. सोऽपि सर्वमेतज्जानन सम्मि- तमुवाच-मातः ! कृतकृत्याः पितृचरणा निरिच्छाः सन्तो भगवतः स्वरूपं प्राप्ताः, यत्खलु मानवदेहं लब्ध्वा मानवेन कर्तव्यं तत सर्वमेव कृतवन्त इति. साऽपि कल्याणी इल्लमादेवी पितृभक्तस्य तस्येमा वाणीमाकर्ण्य सन्तुष्टा तत्सर्व सत्यममन्यत. अथ कतिपदिवसैः श्रीवल्लभः स्वमात्रा तथाऽनुयायिभिः समं विद्यानगरं प्राप. स्वागमननिवेदनाय कंचन स्वशिष्यमग्रे प्रेषयामास. स मातुलोऽपि श्रुतभागिनेयकीर्ति- स्तमेव समागतमाकर्ण्य हर्पाकुलः स्वयमागत्य तान सर्वानपि स्वगृ- हमनयत. तत्र विधिवत्स्वोपाम्यदेवतां पूजयित्वा गृहीतप्रसादांशः श्रीवल्लभो नागरिकजनमुग्वेभ्यः प्रवलैः शेवैर्वैष्णवा वादे जिता इति वार्तामशृणोत्. तस्मिन्नेव समये स मातुलं सर्व वृत्तमपृच्छत. स त्ववदत्-वत्स ! चिरात्खल्वयं कलहः प्रचलति. कदाचिच्छैवा वैष्ण- वान् पराजयन्ते कदाचिद्वैष्णवाः शैवान. परन्तु अस्मिन समये शैवैस्तथा चेष्टितं यथा लीलयैव पराजिता वैष्णवा न पुनर्विजय- माशासत इति. तदिदं तस्य प्रत्युत्तरमाकर्ण्य दुःखाकुलः श्रीवल्लभः स्वयं विचार- यामास. यदि अधुना वृथाकलहपरिश्रमभियोपरम्यते तदा परम- मान्या विष्णूपासना जगति दत्ततिलाञ्जलिः स्यात्. तथासति ममेह कार्य किं ! तस्मादधुना विवादं विधाय शैवा जेतव्या एव. जितेपु च तेषु अनायासेनैवान्ये जना विष्णूपासनामंगीकरिष्यन्ति इति. विचार्य चैवं प्रातःकाले शिष्यं कमण्डलुं नृपाय स्वागमनं तथा स्वेच्छा निवेदयितुं प्रेषयामास. स तु राजसभां गत्वा स्वगुरोराज्ञां कथ- दुर्वादिजयः विष्णुखामिमतप्रसारार्थ. यित्वा तथाऽवर्तत यथा तत्रस्थाः सर्वेऽपि जना विस्मितास्तदुक्ति- मंगीचक्रुः. राजाऽपि श्रुतश्रीवल्लभकीर्तिः सर्वांस्तान शैवपण्डितान वादार्थमायामास. डिंडिमेन च तद्वृत्तं सर्वस्मिन्नगरेऽघोषयन. अथ द्वितीये दिनेऽनुदित एव भगवति कमलिनीनाथे मर्वे नागरिका जनाः सत्वरमुत्थाय विहितस्नानादिकाः सत्वग आगल्य गजमभांगणमलंचक्रुः. तच वादकौशलं प्रत्यक्षीकर्तुमिच्छतां पौगणां समुदायैः सुमहदपि तदंगणमत्यल्पमिवाभामत. श्रीवल्लभोऽपि प्रातः सत्वरमुत्थाय यथाविधि म्वस्थमनमा तं गोपालनाथं परिपूज्य प्रार्थ- यामास. त्रैलोक्यनाथ । वस्तुतोऽहमम्मि तव दाम:. दासम्य प्रधानं कर्म म्वामिसेवाविधानं. परन्तु स्वामिनं कश्चन दुर्भापितेन दृपयेनदा तन्निराकरणमपि तस्यैव कर्म. अहं च शैवैष्णवाम्त्वदनुयायिनो जिता इति निशम्य दुःग्वाकुलम्नपां निराकरणाय गच्छामि. यदि यशस्वी भविष्यामि तदा तत खलु यशो भगवत एव. यदि मदीय- दोपादन्यथा म्यात्तदा म दोषो मूढैः म्वामिनि निक्षिप्येतेति चिन्ता मां दहति. तदम्याश्चिन्तायाः स्वामी निगकरणं करोत्विति. तम्य श्रीवल्लभम्येदं दीनं वचनमाकर्ण्य दुःग्याकुल: म भगवान गोपाल- नन्दनः स्वयमाविर्भूयावदन. वत्स ! त्वमसि मेंऽशः मदीयां भक्ति जगति प्रसारयितुमेवोत्पादितः. एवंस्थिते तव पराजयः कुतः ? नि:शंकं सभां गत्वा तान वावदृकान शैवपण्डितान पराजयस्व. अत ऊर्ध्व त्वया भक्तिमार्गप्रसारार्थमेव प्रयतनीयं. एवं कुर्वस्त्वं मर्वदा सर्वत्र यशस्वी भविष्यसीति. प्रत्यक्षीकृत्य च गोपालनाथं निशम्य चैवं तदुक्तिं वीतसंशयः स श्रीवल्लभ उदितं सकललोककर्मसाक्षिणं भास्करं प्रणम्य शिष्यैः श्रीमद्वल्लभाचार्यचरिते समनुगतः शिरसि मदनमोहनमंजूषां धारयन भागवतपुस्तकेन समं राजसभामाजगाम. तमागच्छन्तं वीक्ष्य सर्वे नागरिकास्तथा सभ्या जनास्तदीयतेजसा धर्पिता इवोत्थाय प्रणेमुः. वावदूकाः स्मार्तपण्डि- तास्तु तदीयं दिव्यं तेजो निरीक्ष्य सहसा दिनतारका इव निस्ते- जस्का अभवन. वैष्णवपण्डितानां मुखकमलानि तु तं तेजस्विनं द्वितीयं भास्करमिव प्राप्य पुनः सश्रीकाणि अजायन्त. राज्ञा तथा सर्वैः सभ्यैः कृतस्वागतः स श्रीवल्लभो योग्यमासन- मलंकुर्वाण एव सभ्यान्विषयमपृच्छत्. तदा मुख्यः सभापतिस्तदीयो मातुलो राजानुमत्या शिवोपासना वा श्रेयस्करी किंवा विष्णूपास- नेति जगाद. तदानीमेव श्रीवल्लभो मेघनिनादानुकारिणा ध्वनिना- राजन् ! सभ्याः ! प्रथमतोऽम्य प्रश्नस्य प्रत्युत्तरणादुपासना किमर्थ क्रियत इति विचारणीयं. यथा हि बालकः साध्वक्षरविन्यासार्थ सम्यगक्षरप्रतिकृतिं पुरतः स्थापयित्वा तादृशान्येवाक्षराणि लिखितुं प्रयतते कतिपयदिवसैर्यशस्वी भवति च, तथैव दुर्गुणपरित्यागाय सद्गुणप्राप्तये च तादृशानामेवोपासना श्रेयस्करी येषु च सद्गुणानां परमप्रकर्षों दुर्गुणानां चांशतोऽपि सत्ता न स्यात्. निर्मले चेतसि यादृशं वस्तु आदर्शरूपेण पुरतः स्थापितं तदेव प्रतिबिंबति नान्य- दिति सर्वेषामनुभवः, एवंस्थिते भूतप्रेतादिपरिवेष्टितस्य दिगम्बरस्य श्मशानवासिनो गरलपायिनो भुजङ्गभूषणस्य शिवस्योपासना श्रेय- स्करी किंवा सकलानन्दकन्दस्य तैस्तैर्भागवतप्रतिपादितैः कर्मभिर्भ- क्तान् रक्षतो निखिलसद्गुणनिधेर्लक्ष्मीपतेरुपासना वा श्रेयस्करीति युष्माभिरेव विचारणीयं. सांसारिका जना यथा सर्वत्र सुखमेव वाञ्छन्ति न तथा वैराग्यं. बहवः खलु सांसारिका एव जना दुर्वादिजयः विष्णुखामिमतप्रसारार्थ० भक्तिमार्गेण श्रेयःप्रति प्रापणीयाः. एवं च तादृशकठोरोपासनाम- पेक्ष्य श्रीकृष्णस्योपासना परमकल्याणकरीति बालोऽपि वदेत्. नच निर्धर्मके ब्रह्मणि उभयमप्येतदध्यस्तमिति को वा विशेष इति वाच्यं. ब्रह्मणः सधर्मत्वाङ्गीकारात्. ये गुणाः खलु नित्यानन्दादयोऽस्मा- भिरुपासनासमयेऽनुभूयन्ते ते सर्वेऽपि सत्या एव. अध्यस्तत्वे तु तेषामविश्वासप्रसंगः. उपासनोच्छेदप्रसंगश्च. तस्मादयमध्यासवाद उपासकानां न श्रेयस इति प्रत्युत्तरयामास. इत्थं तस्य प्रत्युत्तरमाकर्ण्य सर्वे सभ्यास्तथा स्वयं भूपालस्तिमि- तोऽभवत. स्मार्ताः पण्डिताः पराजयदुःखदग्धा अपि अपहृतप्रज्ञा न किंचिदपि प्रतिवक्तुं शेकुः. वैःणवाश्च ह्यस्तनं पराजयदुःखं विस्मृत्या- नन्दातिरेकेण ननतुः. राजा च तदीयेन दिव्यतेजसा समाकृष्ट- मना यथाविधि कनकाभिपेकं विधातुमाज्ञां गृहीत्वा सर्वी सभां व्यसयत्. म्वयं च श्वोभाविनः कनकाभिपकोत्सवस्य सामग्री संपादयितुं व्यग्रो बभूव. (३) द्वितीयदिन सर्वेऽपि विद्यानगरवासिनो जनाः कनकाभिपेको- त्सवं प्रत्यक्षीकर्तुमुत्सुकाः सत्वरं यथाकथंचित् स्वस्वकार्याणि विधाय राजप्रासादांगण समागच्छन्. सर्वे राजसेवकाच स्वस्वाधिकार- चिह्नानि धृत्वा व्यवस्थाथै तत्र पूर्वमेव स्थिताः सर्वानपि प्रजाजनान व्यवस्थया स्थापयामासुः. तच्च राजप्रासादांगणं सुविस्तीर्ण चित्ररूप- धारिणः पटस्य विशालेन वितानेनापनीतसूर्यातपं, स्थाने स्थाने निव- द्धदीपभाण्डभासुरं, सुकोमलाम्रपर्णसंपादितापूर्वशोभं, सर्वतोनिवद्ध- सुरभिमालागंधमधुरं, स्वर्गस्य शोभामपाहत्. अचिरादेव राजा , श्रीमद्वल्लभाचार्यचरिते - कृष्णदेवः प्रमुदितान्तःकरणकमलः सकलैश्वर्येण सम तत्स्थलमाज गाम. सोऽपि परमबलाढ्यश्चतुरङ्गसेनासमन्वितो मृत्युलोकेऽवतीर्ण- स्येन्द्रस्य भ्रममजनयत्. राजानं च समागतमवलोक्य सर्वेऽपि प्रधानामात्याः स्वस्वकर्माणि कथयन्तः सर्वसन्नाहं न्यवेदयन्. कृष्ण- देवोऽपि स्वामात्यानां कर्मसु कौशलं वीक्ष्य सन्तुष्टः समागतकल्पा- मभिषेकवेलामवेक्ष्य चतुरङ्गसेनासमनुगतां पण्डितैस्तथा तदीयेन पुरोधसा सह महतीं शिविका श्रीवल्लभस्यानयनाय प्रेपयामास. श्रीवल्लभोऽपि सर्वमाह्निकं विधाय भगवदाज्ञां गृहीत्वाऽनन्देन शिष्यैः संलपन्नेवातिष्ठत. तं च ते सर्वेऽपि पण्डितास्तथा प्रधाना- मात्याः प्रणम्य गजविज्ञापनां कथयित्वा शिविकायां स्थातुं विज्ञाप- यामासुः. स्मेरमुखः श्रीवल्लभस्तदीयां विज्ञप्तिमाकर्ण्य जगाद. राज- पुरुषाः ! योऽयमतीते दिने मया विजयः संपादितो यश्चाद्य कनका- भिपेको मे भविष्यति स न मम, किंतु सर्वजगञ्चालकस्य परमा- त्मनो वैकुण्ठनाथस्य. तदीयकृपयैव मया ह्यः किंचिदुक्तं. तत्तं विहाय कथं शिविकां दूपयिष्यामि. स एव नः सर्वेषां प्रभुः. तत्स्वयं भगवान् शिविकायां तिष्ठेत्. वयं सर्वेऽपि तदीयाः सेवकाः पद्भ्यामेवाभिषेकस्थानं गच्छाम इति. वाचकाः ! पश्यत भगवद्भक्तेर्माहात्म्यं ! एतादृशमपूर्व शैवपण्डि- तविजयरूपं कार्य कृत्वाऽपि महाभागवतः श्रीवल्लभो भगवत्कृपामेव तत्कारणं मन्यते नात्मानं. वयं च स्वल्पतममपि कार्य विधायाखर्व- गर्वभारं धारयामः. भगवद्भक्ताश्च प्रथमं सकलनाशकारणमिमं गर्वसंभारं न धारयन्ति. एतदेव तत्वज्ञानं नाम. यो हि मानवश्रेष्ठो जगति विविधलोकोपयोगिकर्मकार्यपि आत्मानमकर्तारं मन्यते तमेव दुर्वादिजयः विष्णुस्वामिमतप्रसारार्थ० नरवीरं शास्त्राणि ज्ञानिनं वदन्ति. बान्धवाः ! एपैव भगवत्कृपा नाम यत्प्रथमं गर्वस्यास्पर्शः. अनया भगवत्कृपया परं गोपितास्ते ते भक्तप्रवरा लोकोत्तराणि कार्याणि कुर्वन्ति न वयमिति तु तत्वम. अस्तु. ते च सर्वेऽपि तत्र मिलिताः पण्डितास्तथा राजपुरुपाः श्रीव- ल्लभम्य भगवद्भक्तिं तथा विनयातिरेकं चावेक्ष्य सन्तुष्टा विम्मय- सागरे निमजन्तः किमपि न प्रत्यवदन. अथ समीपमागतामभिपेकवेलां पुरोधसा निवेदितां निशम्य श्रीवल्लभः स्वयमेवोत्थाय भगवन्तं मदनमोहनं शिविकायामस्थापयत. तदानीं वाद्यानां घोषस्तुमुलो बभूव. ततः स्वमातृचरणौ प्रणम्य समागते तम्मिस्ते शिविकावाहकाः शनैः शनैः मुरमणीयेन मुम्येन राजमार्गेण राजप्रासादं गन्तुमारभन्त. सर्वेऽपि विद्यानगरवासिनः पौरास्तथा तदङ्गनाः श्रीवल्लभम्य रमणीयां मूर्तिमालोक्य विस्मिता आनन्देन तदुपरि पुष्पाणि चिक्षिपुः. सीमन्तिन्यश्च स्थाने म्याने नीराजनान्यकुर्वन. एवं मर्वतो मानं लब्ध्वा श्रीवल्लभः शीघ्रमेवाभिपेकस्थानम्य पुरतः समाजगाम. तं च समीपमागतमाकर्ण्य राजा कृष्णदेवः मईः स्वसामन्तैः मम सत्काराय प्रत्युजगाम. अभिवंद्य च तदीयं पवित्रं चरणारविन्द तस्मै सर्वाण्यपि राजचिह्नानि दत्वा स्वयमेकाकी तं भृत्यवदनुजगाम. श्रीवल्लभोऽपि सर्व तदङ्गीकृत्य मृदुलकौशेयवनाच्छादितेन पथा तं मण्डपं प्रविश्य सर्वैरपि सादरं सत्कृत उचिते महार्घ स्थाने समुप- विवेश. राजा च चामरमण्डितहस्तः कदाचिढ्यजनधारी भृत्य- वत्तमसेवत. अथ श्रीवल्लभस्य संकेतं विज्ञाय शंभुर्नाम कुशाग्रमतिस्तदीयः ६० श्रीमद्वल्लभाचार्यचरिते शिष्यः समुत्थाय सर्वानुच्चैर्जगाद. सभ्याः ! यत् खलु ह्यस्तने वादे परुपमन्यथा वा भाषितं स्यात्तत्क्षम्यतां. यच्चान्यदपि शंकास्थानं स्यात्तदपि कथयत येन तस्यापाकरणार्थ वयं प्रयतिप्यामह इति. निशम्य चेमां तदुक्तिं ते सर्वेऽपि पण्डितप्रवराः प्रत्यवोचन. आचार्याः ! यूयं खलु सत्यमेव तत्रभवतो भगवतो यशोदानन्दन- स्यांशसंभूताः. अतएवेदृश्यल्पीयसि वयसि एतादृशो विद्यासंभारो विनयश्च. नैतत्सर्व साधारणं. भवद्भिश्च परुपं नोक्तमेव परन्तु यद्य- प्युक्तमभविष्यत्तथापि तदस्माकं श्रेयस एवाभविष्यदिति अस्माकं दृष्टो निश्चयः. अस्तु. सम्प्रति काऽपि चिन्ता न करणीया. विद्या- विलासिना विद्वदादरपरेण विद्यानगराधिपतिना चिकीर्पितं कनका- भिपेकं प्रति भवन्त एवाहा इति वयं सर्व ऐकमत्येन वदाम इति. इदं च सर्वेषां सभ्यानां स्मार्तपण्डितानां प्रोत्साहकं वाक्यमा- कर्ण्य सन्तुष्टो राजा कृष्णदेवोऽभिषेकवेलां समागतामवलोक्य स्थण्डिले स्थातुं तान् विज्ञापयामास. ते च वल्लभाचार्याः शिष्यमण्ड- लीसमेतास्तं मदनमोहनमादायाभिषेकार्थ स्थण्डिलेऽतिष्ठन्. ततः प्रावर्तत यथाविधि अभिपेकमहोत्सवः. राजा कृष्णदेवः प्रथम सुतीर्थानीतैः सुगन्धिभिर्जलैः स्नापयित्वा कौशेयवस्त्रधारिणो गोपी- चन्दनतुलसीमालालंकृतांस्तान् वल्लभाचार्यान् कनकमये सिंहासने स्थापयामास. तदानीं सर्वेऽपि दामोदरप्रमुखाः श्रीमदाचार्यशिष्याः सर्वाण्यपि राजचिह्नानि धारयामासुः. श्रीमदाचारलंकृते कनकमये राजसिंहासने पुरोहितेन चोदितः कृष्णदेवस्तान गन्धमाल्यादिभिः परिपूजयित्वा सुवर्णनिधिं दक्षिणारूपेणाग्रेऽस्थापयत्. प्रार्थयामास च मुकुलितहस्तयुगलो विनयावनतशिराः 'आचार्यश्रेष्ठाः ! भवद्भिः दुर्वादिजयः विष्णुखामिमतप्रसारार्थ० ६१ स्वयमागत्य सर्वां पण्डितमण्डली निर्जित्याहमनुगृहीतः. न केवल- मेतावदेव किंतु अस्मिन् समये चिरंतन उपासनाविशेषविषयकः संशयोऽपि दूरीकृतः. अस्योपकारराशेग्नुपमहं क्षुद्रो मानवः किं करोमि. केवलं कृतज्ञताप्रकटीकरणार्थमेप महोत्सवः कृतः. तदत्र समानीतानां सर्वेपां वस्तूनां स्वीकरणेनानुगृह्णन्तु मामिति विज्ञप्य च भूमौ दण्डवत् पपात. अथ श्रीमदाचार्यैः संकेतितः प्रगल्भवाक् दामोदरः समुत्थाय प्रत्युवाच. राजन ! विनयशालिनः कुलीनस्यावनिपाकशासनस्य ते उचितैवेदशी वाणी. क्षुद्राः खलु ऐश्वर्य प्राप्य मदोद्धता भवन्ति न कुलीनाः तथापि सर्वेपां वस्तूनां ग्रहणं श्रीमदाचार्येभ्यो न रोचते. यतो निसर्गत एव निस्पृहाः श्रीमदाचार्या एतैर्वस्तुभिः किं कुर्यः. अथ यदीदं भवते न रोचते तदा सर्वाणीमानि रजतभाण्डानि तथा दक्षिणात्वेन दत्तः मुवर्णनिधिरत्र समागताय विद्वत्समुदायाय विभज्य देयः. धर्मशाला तडागादिकमपि यदि शक्यं तदा कर्तव्य- मेवेति. तमिममपूर्व निःस्पृहतागुणं तदीयमवलोक्य सर्वेपु सभ्येपु विस्मयसागरे निमग्नेषु राजाऽपि यथाज्ञापयन्ति आचार्यचरणा इति निगद्य प्रणम्यातिष्ठत्. तदानीमेव व्यासतीर्थप्रमुखाः विष्णुस्वामिसम्प्रदायानुयायिनो हरिस्वामिशेपस्वामिनोर्हस्ताभ्यामाचार्येभ्यः तिलकं कारयित्वा स्वय- मपि तथाऽकुर्वन्. तस्मिन्नेव क्षणे सुवर्णयष्टिधरः-श्रीवेदव्यासविष्णु- स्वामिसंप्रदायसमुद्धारसंभृतश्रीपुरुपोत्तमवदनावतारसर्वाम्नायसंचारवै- ष्णवाम्नायप्राचुर्यप्रकारश्रीविल्वमङ्गलाचार्यसाम्प्रदायिकाऽपितसाम्रा- ज्यासनाखण्डभूमण्डलाचार्यवर्यजगद्गुरुमहाप्रभव इति विरुदावलिमुच्चैः पपाठ.

श्रीमद्वल्लभाचार्यचरिते निशम्य च तां विरुदावलिं सर्वेऽपि वैष्णवाः परमतुष्यन. आकाशाच सर्वत्र दिव्यपुष्पवृष्टिरभूत. स्वर्गे चाप्सरसां गणाः पर- मानन्देनानृत्यन. गोकुले च गोपालाः समं गोपीजनै रासक्रीडां व्यधुः. सर्वत्र होमाग्नयः प्रमुदिता इव प्रजज्यलुः. न केवलं मानवानामेव तदानीमानन्दोऽभवत्किंतु गावोऽपि अविरतं पयो भूमितले त्यजन्त्यः शुभानन्दं प्रकटीचक्रुः. (४) एवं विरुदावलिं प्राप्य स्वीकृताचार्यपदाः श्रीमदाचार्याः सर्वे- भ्योऽपि सभ्येभ्यः पण्डितेभ्यो दक्षिणां वितीर्यानुग्रहं वांछते तस्मै नरपतये कृष्णदेवाय शरणाष्टाक्षरमन्त्रमुपदिश्य तुलसीमालां दत्वा तं कृतकृत्यमकुर्वन. तस्मिन् समये बहवोऽन्ये जनाः श्रीमदाचार्याणां शिष्यत्वं लब्ध्वाऽऽत्मनो जन्म सफलं चक्रुः. एवं कृष्णदेवकृतं कनाकाभिपेकं स्वीकृत्य श्रीमदाचार्याः स्वस्थानं गन्तुं तस्मात्स्थानान्निर्जग्मुः. राजा कृष्णदेवश्च यथापूर्व स्वयं गृह- पर्यन्तं ताननुजगाम. श्रीमदाचार्याश्च स्वनिवासं गत्वा प्रथमं गोपाल- नन्दनस्य चरणारविन्दं नमस्कृत्य ततः स्वमातरं प्राणमन, भगवती सकलजनवन्द्या माता इल्लमादेवी स्वपुत्रस्येतादृशमलौकिकमुत्कर्षमव- लोक्यानन्दसागरनिमग्नाऽभवत्. ततश्च सर्वानपि वृद्धजनान् प्रणम्य स्थितान श्रीमदाचार्यान कृष्णदेव आपृच्छय तद्दत्तां मालां शिरसि धारयन स्वनिवासमगात्. मिलिता अन्ये जना अपि श्रीमदाचार्य- गुणगणान् कीर्तयन्तः स्वस्वस्थानानि जग्मुः. अथ सायंकाले माध्वमस्करी व्यासतीर्थः समागत्य विज्ञापया- मास यद्यपि भवद्भिरद्य राजसभायां कनकाभिषेकसमये विष्णुस्वामि- दुर्वादिजयः विष्णुखामिमतप्रसारार्थ मताचार्यत्वं स्वीकृतं तथापि मदीयमण्याचार्यपीठमधिसह्य यदि भवन्तो मामनुगृह्णीयुस्तदा सुमङ्गलं म्यादिति. श्रीमदाचार्याश्च तस्येमां विज्ञ- प्तिमाकर्ण्य स्मेरमुग्वाः प्रत्यवोचन. विद्वद्वर्य ! व्यासतीर्थ ! अहं हि सदा भगवदाज्ञामनुवर्तमान एवेह जगतीतले वसामि. अतीत एव दिने रात्रौ कस्य पीठम्याचार्यत्वमङ्गीकरणीयमिति विचारमन्नोऽहं भगवन्तं प्रार्थयित्वाऽपृच्छम्. भगवान द्वारकाधीशः स्वयमाविर्भूय मामवदन्-वत्स ! श्रीवल्लभ ! त्वं हि भक्तिमार्गस्य सर्वस्वं पुष्टिमार्ग जगति प्रसारयितुमिह मृत्युलोके संजातोऽसि. यद्यपि रामानुजा- दयोऽपि वैष्णवा मदीया भन्ना एवेति तैः प्रवर्तितान्मार्गानप्यहं भक्तिमार्गानेव वदामि. तथापि यथा पुष्टिमार्गे मदीया भक्तिस्तथा नान्यत्र कुत्रापि तस्मात्त्वं विष्णुम्वामिमताचार्यत्वं स्वीकृत्य जगति पुष्टिमार्ग प्रसारयेति. एवं भगवताऽज्ञप्त एवाहं प्रातःकाले विष्णु- स्वामिमताचार्यत्वं म्बीचकार. तद्विरमाधुना वृथाऽम्मात्प्रयासात. त्वमपि यथाशक्ति नानाविधानि भक्तिमार्गस्य प्रसाराय कार्याणि कुरु. इति. सोऽपि तदिदं सर्व वृत्तमाकर्ण्य लजितो न भूयः किमपि जगाद. एवमाचार्यपदं लब्ध्वा प्रारब्धस्वावतारकार्याः श्रीमदृल्लभाचार्याः संप्रदायप्रवृत्त्यर्थं यथानियमं महामन्त्रोपदेशग्रहणार्थ पर्युत्सुका उपसि स्नात्वा विहिताहिककार्या ध्यानमार्गेण वृन्दावनस्थं योगिवर्य विल्व- मङ्गलाचार्य प्रार्थयामासुः. सोऽपि च तदर्थमेव धृतशरीरस्तस्मिन्नेव क्षणे तत्र प्रकटीवभूव. आचार्यचरणैः प्रणामादिभिः सत्कृतः साध्या- सने समुपविष्टः प्रत्युवाच. वत्स ! वल्लभाचार्य ! अहं हि पूर्वमेव देवकीनन्दनेन सर्वमुपदिष्टः समयमेव प्रत्यपालयम्. अधुना त्वया ६४ श्रीमद्वल्लभाचार्यचरिते ." ध्यातः समागतः, त्वं ह्यस्य संप्रदायस्य रक्षार्थमवतीर्णोऽसीति अहं सम्यग्जानामि. तदस्य संप्रदायस्य पूर्व वृत्तं शृणु. येनेमं प्राचीन सम्प्रदायमुद्धर्तुं धृतस्तवोत्साहो वर्धेत. पुरा खलु द्रविडदेशे पाण्ड्यो विजयनामा कश्चन परमधार्मिको भूपतिर्बभूव. तस्य च सकलशास्त्रसम्पन्नः मद्धर्माकरो विष्णुभक्तो देवस्वामी नाम पुरोहित आसीत. तस्य पुत्रो विष्णोरवतारोऽयं विष्णुस्वामी नाम. स च पित्रा संस्कृतः सकलशाम्रपारङ्गतोऽपि सर्वेश्वरं भक्तकल्पद्रुमं बालगोपालं बालवृत्त्या सिपेवे. आवर्पपर्यन्तं सततं सेवमानोऽपि भगवान यदा न तस्मा आत्मानमदर्शयत्तदा दुःखाकुलो भगवत्साक्षात्कारपर्यन्तं निरशनमेवावालम्बत. ततः मन- मेऽह्नि तदीयं दृढनिश्चयं वीक्ष्य सन्तुष्टो भगवान वासुदेव आत्मानं दर्शयित्वा जगाद-वत्स ! विष्णुस्वामिन् ! किमर्थ खिद्यसे ! त्वत्कृता सर्वाऽपि सेवा मया स्वीकृता. इत ऊर्ध्वं त्वं भक्तिमार्ग लोके प्रसा- रय. सर्वे च वैदिका जना बौद्धैर्हिसादोपेण दृपिते वैदिकधर्मे निरा- श्रया अन्धा इतस्ततः पर्यटन्ति. तानेनं सात्विकं भक्तिरूपं धर्म बोधयित्वा सन्मार्गगामिनः कुरु. तथा शुकोक्तं भागवतमेव प्राधा- न्येनाश्रित्य तस्यैवाध्ययनरीतिं प्रचारय. व्याससूत्रार्थनिर्णयेऽपि व्यासमेव साक्षात्कुरु. स यथा वदेत्तथा वर्तस्वेति. निगद्य चैवं निजां मूर्ति तथा रहस्यमन्त्रं दत्वा तिरोऽभूत. सोऽपि च भगवन्तं साक्षा- त्कृत्य कृतकृत्यः स्वगृहे तां मूर्ति प्रतिष्ठाप्य कृष्णद्वैपायनं दिहा- गन्धमादनपर्वतमाजगाम. तत्र वेदव्यासं प्रत्यक्षीकृत्य तेन समुपदिष्टं कृष्णशरणाष्टाक्षरमन्त्रं गृहीत्वा तुलसीमालां च जग्राह. ततश्च शुकाचार्येण समं मिलित्वा धर्मप्रसारार्थ निरगात्. सर्वत्र दिग्विजयं विधाय स महात्मा विष्णुस्वामी भागवतमिमं धर्म सर्वत्र प्रासारयत्.

बाल्यलीलाः निखिलविद्याधिगमश्च. ur अथ तम्मिन वैकुण्ठवासिनि सति क्रमेणानेके शिष्याः सप्तशता- चार्या अभवन. अन्तिमो मदीयो गुरुः राजविष्णुस्वामी नामा- भवत. म च द्वारकां गत्वा तत्र द्वारकेश्वरं स्थापितवान. तस्मा- देशाच सर्वानपि बौद्धान्विद्रावयामास. ते च कपटशीलाः पुष्पपुरा- धीशसाहाय्यं लब्ध्वा मदान्धा विष्णुस्वामिशिविरं व्यलुण्ठन. सर्वाणि च पुस्तकान्यदहन. तेन दुःखाकुलः स महात्माऽन्तेवासिनं मां सह- साऽचार्यपदे ऽभिषिच्य वैकुण्ठं जगाम. अहमपि दुष्टानां तेषां तथा स्वकीयानामपि लिङ्गिनामुपद्रवेण दुःखितः कलिकालं वीक्ष्य मम स्थाने देवमङ्गलं निधायेह मदैव माक्षाद्भगवल्लीलादर्शनबद्धलालमो वृन्दावने तिष्टामि. अहमपि एकदा विपरीतं कालं वीक्ष्य संजात- निर्वेदो भगवन्तं कंमारिं व्यज्ञापयम-भगवन! अम्मिन घोग्तमे कलौ नाहं स्थातुं वांछामि. तन्निजलीलालयं वैकुण्ठमागन्तुं ममा- ज्ञापयति. मदीयां विज्ञप्तिं कर्णे कृत्वा म्मितभामुरवदनकमलो भग- वान राधारमणः सत्वरं प्रत्युवाच-वत्म ! बिल्वमङ्गल ! अहमपि जानामि तव चित्तवृत्ति, तथापि मदीयभक्तजनोद्धागर्थ ममास्या- वतारोऽग्निः श्रीवल्लभो भविष्यति. तदुपदेशार्थमत्र त्वं तिष्ठ. तम्मा उपदिश्य सर्व सम्प्रदायवृत्तं ततः परं वैकुण्ठमागच्छेति. अहं तामि- मामाज्ञा शिरसा धारयंस्तं समयं प्रतिपालयन ब्रह्ममरसि महातरौ योगबलेन सप्तशतवण्यतिष्ठम्. तदधुना भवान हरेराज्ञातो मत्तः संप्रदायं गृहीत्वा धर्म प्रचारयतु. सफलयतु ममाऽपि चिरं धृतां वांछामिति. एवं निशम्य सर्वमपि परमप्रियस्य भागवतसम्प्रदायस्य विस्मय- करं वृत्तं सन्तुष्टाः श्रीमदाचार्याः परमसंतोषेण ततोऽष्टादशाक्षरं वल्ल०५ श्रीमद्वल्लभाचार्यचरिते संप्रदायरहस्यं च गृहीत्वा प्रणम्य पुनः कृपया दर्शनं देयमिति विज्ञापयामासुः. बिल्वमङ्गलाचार्योऽपि स्वसम्प्रदायस्य रक्षकं तादृशं भगवदवतारं वीक्ष्य संजातानन्दातिरेकः सप्रमोदमाह-वत्स! श्रीवल्लभ ! सम्प्रति कलिकाले तादृशी वेदकर्मसु मन्दमतीनां जनानां श्रद्धा न संभवति. दुष्करे योगमार्गे तादृशब्रह्मचर्यस्यासंभवात्प्रवृत्ति- रेव न. एवंरीत्या सर्वतः प्रतिबद्धेषु प्राचीनधर्ममार्गेषु सांप्रतिका जना धर्महीना यथेच्छं वर्तमाना मानवजातिकार्यमतिवर्तन्ते. तद- धुना यदि त्वमालस्यं विहाय सर्वसुलभस्य प्रेममयस्यास्य भक्ति- मार्गस्य प्रसारं कुर्यास्तदा सम्यग्भवेत्. अन्यथा सनातनधर्मो दत्त- तिलाञ्जलिः स्यात्. इति. सर्व तदुक्तमङ्गीकृत्य श्रीमदाचार्या अपि प्रयागं गन्तुमिच्छं तं बिल्वमङ्गलं प्रस्थापयामासुः.

७ द्विः पृथ्वीप्रदक्षिणा १ कर्तव्यविचारः. २ प्रथमपृथ्वीप्रदक्षिणायां कार्य. ३ द्वितीयपृथ्वीप्रदक्षिणायामवशिष्टकार्यविधानं. ४ मतान्तरानुयायिनां सतेजसा धर्षणम्. (१) एवं विल्वमङ्गलाचार्यान्मन्त्रं तथा रहस्यं च लब्ध्वा सन्तुष्टाः श्रीमदाचार्याः स्वयमचिन्तयन. अहं चास्मिन्मृत्युलोके भक्तिमार्गस्य प्रसारणेन दीनोद्धारार्थ भगवता प्रेषितोऽस्मि. सम्प्रति हि मया खकार्यमवश्यमारंभणीयं. अधुना चेह भारत वर्षे प्रायः सर्व एव जना अव्यवस्थितचित्ता आलक्ष्यन्ते. पुराणः कर्मकाण्डिनां कर्म- मार्गोऽपि कचित्कचित्प्रचलति. क्वचिच्च कर्मकाण्डप्रामाण्यनाशकानां तत्त्वज्ञानिनां मार्गा अपि जनान स्वाभ्युपेतं ज्ञानमुपदिशन्ति. अन्ये च वैदिकहिंसायां बद्धद्वेषा बौद्धादयोऽधस्तान दीना जनानन्यथा वदन्तः परिभ्रामयन्ति. सम्प्रति च चत्वारो वर्णाः केवलं नानाs- वशिष्टाः परस्परद्वेषपराः सन्ति. राजानोऽपि महंमदीयाः स्वधर्म प्रसारयितुमिच्छन्तो येनकेनापि कारणेन सनातनधर्म नाशयितु- मिच्छन्ति. न केवलं स्वधर्मोपदेशेन तथा ते कुर्वन्ति किंतु खड्ग- ६८ श्रीमद्वल्लभाचार्यचरिते साहाय्येन. ततो भीताः साधारणा जनास्तदीयमेव धर्ममनुमरन्ति. अम्मदीयाश्च रामानुजप्रभृतयो वैष्णवा लोके भक्तिमार्ग प्रसारयितुं प्रयतमाना अपि न ताहक यशस्विनो भवन्ति. अत्र तु कारणं तेपां तत्वज्ञानन्यूनतैव. भेदसापेक्षमभेदं सर्वत्र वदन्तो भगवत्सेवामपि सापेक्षामेव वदेयुः. तेन लोके तेषां मतस्य प्रसारो न भवति. लोको हि निरपेक्षां भगवत्सेवां यथाऽदरयति न तथा सापेक्षा. तम्मादधुना मया सकललोकोद्धारं चिकीर्षुणा निरपेक्षसेवासिद्ध्यर्थ तत्वज्ञानमेव तादृशं निरूपणीयं. निरूप्य च तत्ततः सर्वत्र निष्का- माया भगवद्भक्तेः प्रसारं विधातुं जनस्थितिरालोकनीया. यथा हि कृपीवलः क्षेत्रे बीजानां वपनात्पूर्व तत्क्षेत्रं कीदृशं कीदृश- बीजवापार्ह मिति साक्षात्कृत्य निश्चिनोति तथैव लोकोद्धारं चिकीर्षुणा प्रथममवश्यं लोकस्थितिः प्रत्यक्षीकरणीया. तदर्थ पृथ्वीपर्यटन- मावश्यकं. किंच-यानि शास्त्रे पावनानि कर्माणि उक्तानि तेपु सर्वेष्वपि तीर्थयात्राऽधिकपुण्यप्रदेत्युक्तं. कारणं त्वत्र विविधकर्माशयशालिनां जनानामवलोकनेन तादृशविचारोद्भव एव. यो हि स्वगृह एव स्थित्वा जगतो मूलकारणं वा यच्चान्यल्लौकिकं ज्ञानं वा विचारयति स सदैव लब्धस्य विचारस्य प्रामाण्यं प्रति शंकत एव. तस्मानिःसंदेह- ज्ञानप्राप्त्यर्थ तीर्थयात्राऽवश्यं कार्या. तदा यत्र नानाविधानि तीर्थानि सन्ति तस्याः पृथिव्याः पर्यटनं सफलमिति किमु वक्तव्यं. अपिच-यथा हि वैद्यः समये ‘समये रुग्णस्य धातुवैषम्यं निरीक्ष्य भिन्नानि औषधान्युपर्युक्ते तथैव लोकोद्धारतत्पराः साधु- श्रेष्टा अपि समये समये भिन्नां रीतिमालंबन्ते. तादृशभिन्नरीत्याश्रयणं द्विः पृथ्वीप्रदक्षिणा तु लोकपरिस्थित्यवलोकनं विनाऽशक्यमिति स्पष्टमेव. तस्मादधुना पृथ्वीपर्यटनमेवारंभणीयमिति. विनिश्चित्य च पृथ्वीप्रदक्षिणां कर्तव्यत्वेन भूयस्ते विचारया- मासुः-प्रथमतो दक्षिणापथयात्रैव करणीया तत आर्यावर्तस्य. दाक्षिणापथे यथाऽन्येपामन्येपामुपासकानां मतान्तराणि विद्यन्ते न तथाऽर्यावर्ते. किंच दक्षिणापथेऽद्यापि तादृशो यवनसंबन्धो नाम्ति यादश आर्यावर्ते. तेन दक्षिणापथस्था जना अद्यापि उपासनादिक कुर्वन्ति. विद्वांसोऽपि तत एव बहवो दक्षिणापथे. तेषु च भक्ति- मार्ग प्रविष्टेषु अनायासेनैव साधारणा जनास्तं मार्गमनुमरिष्यन्ति. तम्माच्छीघ्रमेव दक्षिणापथयात्रार्थ गन्तव्यमिति. (२) निश्चित्य चवं ते स्वशिष्यमुखेन विद्यापुराधिपाय गज्ञे कृष्णदेवा- य म्वगमनं कथयांबभूवुः. म चानिशं श्रीमदाचार्याणां सांनिध्यमा- कायमाणः प्रवासवृत्तमाकर्ण्य मूर्ध्नि वज्रेण निहत इव मरभममा- चार्यचरणसन्निधिमागत्य साक्रोशमरोदीत. श्रीमदाचार्या अपि तदी- यामकृत्रिमा भक्तिमालोक्य सन्तुष्टा अनेकैरुपदेशवचनैः सान्त्व- यित्वा न्यायेन प्रजाः पालयितुमादिशन. उपादिशंश्च श्रीगोपाल- नन्दनस्य भक्तिं तथोपासनाविधिं च. मोऽपि विवेकावधूतशोकावेगः श्रीमदाचार्याणां कार्यगौरवं वीक्ष्य न किमपि प्रत्युवाच. अथाचार्याः स्वप्रयाणवेलां शुभलक्षणान्वितां प्रमाणीकृत्य मः स्वशिष्यैः समं दक्षिणां दिशं प्रातिष्ठन्त. राजा कृष्णदेवः कियहरं स्वयमागतः श्रीमदाचार्यः समं रक्षणार्थ सादिमण्डलं प्रेपयामास. आचार्यचरणास्तु प्रथमतः सकलजनवंद्यं सर्वतो वर्तमानैर्निविडवन- ७० श्रीमद्वल्लभाचार्यचरिते , राजिममलंकृतैः पर्वतैः संप्राप्रदिव्यश्रीकं, सततं क्रीडद्वंसमिथुन- चालितपद्मकोशनिपतितपरागभासुरं, अतिरुचिरनिर्मलजलं, परितो- वर्तमानेन मुगन्धिपुष्पलतानिकुञ्जपुंजेन मनोहरं, श्रीरामचन्द्रस्य परं पवित्रैश्चरणारविन्दैः पावितं, पंपासरः प्राप्य स्वावासमकल्पयन, तच्चैकान्तमयं हृदयाह्लादकं स्थलमवेक्ष्य मन्तुष्टाः श्रीमदाचार्यास्तत्र भागवतपारायणानि चक्रुः. प्रथमत एव श्रुताचार्ययशस्तोमास्तत्रत्या जना आचार्यागमनं निशम्य नितान्तं मुदिता मधुकरा इव प्रफुल्लं सहकारं सहमा तत्राजग्मुः. भागवतपाठश्रवणेनात्मानं पावयामासुश्च. तम्मिन्नेव समये शीघ्रमेव मदीयावतारः श्रीवल्लभो नाम मुनिवर आगमिष्यति तं शरणं ब्रजेति साक्षाद्भगवता समाज्ञतो घनकृष्णदासक्षत्रियः परमभागवतः श्रीमदाचार्यचरणाववन्दत. तमनुगृह्य श्रीमदाचायी- स्तम्मै यष्ट्रिधरकर्म भगवत आदिशन. एवंरीत्या पंपासरसि भागवतपारायणे परिचलति सति एकदा कश्चन मुन्दरकायो हंसस्तृपा” नाम भूत्वा श्रीमदाचार्यचरणोदकं पातुं प्रायतत. परन्तु जनसंमर्दभीत्या स्वमनोरथं सफलयितुं नाशकन. तदेतत्सर्व प्रत्यक्षीकुर्वन स कृष्णदासः कस्मिन्नपि भाण्डे आचाय- चरणोदकं गृहीत्वा तेन तं प्रोक्षांचक्रे. तस्मिन्नेव क्षणे स हंसः पक्षितनुं विमृज्य दिव्यदेहधारी नाम भूत्वा प्रणम्याचार्यचरणान पश्यत्सु विस्मितेपु सर्वेपु प्रेक्षकजनेपु दिवमुत्पपात. इदं वृत्तं वीक्ष्य सर्वे जना आचार्यान भगवदवतारानेवामन्यन्त. ततः कृतप्रस्थानाः श्रीमदाचार्याः क्रमेण ऋष्यमूकप्रभृतीनि तीर्थ- द्विः पृथ्वीप्रदक्षिणा स्थानानि पश्यन्तो व्यङ्कटाचलं प्राप्य तत्र भागवतपारायणानि चक्रुः. ततश्च काञ्चीचिदंबरादीनि क्षेत्राणि अवलोक्य दक्षिणद्वारकामा- जग्मुः. तत्र च शुभस्थले स्थिता भागवतपारायणान्यारभन्त. समा- प्रकल्पेषु च भागवतपारायणेषु तत्रस्था राघवाचार्यनामानः पण्डित- वराः समागत्य वेदान्तचर्चामकुर्वन. तेषु तेषु च प्रश्नेषु समाहिता अन्तेऽवदन. सत्यमेव यूयं सकलशास्त्रनिष्णाताः सत्यमेव च यूयं भगवदवताराः. तथापि वेदपाठं विहाय किमिति पौरुपेयं भागवतं पठत ! यद्यपि एतद्भगवल्लीलामयं भागवतं माक्षात्मर्वज्ञकल्पेन मुनिना शुकेन विरचितं तथापि न सकलजनवन्द्यस्याज्ञातकर्तृ- विशेषस्य सकलज्ञाननिधेरसंभावितदोपलेशम्य वेदम्य प्रामाण्यमु- पैति. तत्किं भागवतं वेदेभ्योऽपि श्रेष्ठमिति युग्माकं संमतमिति. श्रीमदाचार्याश्च तेषां विद्योन्मादशालिनां कूटमिमं प्रश्नमाकर्ण्य म्मि- नभामुरकपोलाः मप्रमोदं प्रत्यवदन. पण्डितश्रेष्ठ ! सर्वेषां प्रमाणानां प्रामाण्यं खलु केन सिद्ध्यति तद्वद. त्वमपि यद्वेदप्रामाण्यं म्बीकुरुषे तत्केन प्रमाणेन ! यदि वदसि अहं तथा मन्य इति तदा त्वमा- त्मानमेव वेदापेक्षया प्रमाणत्वेन म्बीकुम्प इति प्राप्रमेव. एवंम्थिते यस्य दासम्येदशं निरतिशयं प्रामाण्यं तस्य स्वामिनः परमात्मनः कीदृशं प्रामाण्यं स्यादिति त्वमेव चिन्तय. यो हि सर्वप्रमाणानां प्रमाणं ! यम्य कृपया सर्वाणि प्रमाणानि स्वस्वविपयं व्याप्नुवन्ति, तम्यैव त्रैलोक्यनाथम्य सच्चिदानन्दविग्रहम्य गोपालनाथम्य लीलावर्णनमयं भागवतं कथं प्रमाणमिति शंकमानः कथं पाण्डित्यगर्व वहसि ! उन्मत्ता हि एवं पृच्छन्ति 'अहमत्रास्मि' इत्यत्र किं प्रमाणमिति न पण्डिताः. भागवतप्रामाण्यप्रश्नोऽपि अस्य प्रश्नस्यैव सादृश्यमावहति.

७२ श्रीमद्वल्लभाचार्यचरिते तद्विरमास्मादधोगतिकारिणः पाण्डित्यगर्वात्. पाण्डित्यं हि कल्याणा- याश्रयणीयं नानाय. अन्नं हि जीवनार्थ भुज्यन्ते न मरणार्थ. इमं च पाण्डित्यगर्व विहाय भवान भागवतं पठतु. तत एव त्वं सद्गति लप्स्यस इति. इमममृतोपमं श्रीमदाचार्याणामुपदेशमाकर्ण्य स राघवाचार्यः सद्यो विगलितपाण्डियाभिमानः श्रीमदाचार्यचरणकमलयोमिलिन्दा- यमानो बभूव. सर्वे च जनाः श्रीमदाचार्याणां प्रभाव निरीक्ष्य विस्मिता नम्रा अभवन. ततस्तत्क- आचार्याश्च ततो निर्गताः क्रमेण नानास्थानानि पावयन्तो रामे- श्वरं क्षेत्रमाययुः. तत्र भागवतपारायणानि कृत्वा सर्वानपि भक्तान संतोषयित्वा तोताद्रिमागच्छन. तस्मिन् स्थले समागता लोकाः कृष्णदेवसभावृत्तान्तवर्णनायाचार्यपादान्विज्ञापयामासुः. थनार्थमाज्ञप्तः श्रीदामोदरः सर्व वृत्तं न्यवेदयत्. तदाकर्ण्य विस्मि- तेपु जनेषु केचन मलिनचेतसो जनाः श्रीमदाचार्याणां भगवदव- तारत्वेऽशंकन्त. तेषामिमामाशंकामपनेतुं लोकोपकाराय च निर्जले तस्मिन स्थले महान्तं निर्झरमुत्पादयामासुः. अकस्मादेव विपिने निर्गतं तं जलप्रवाहमवेक्ष्य विस्मितास्ते सर्वेऽपि लोकाः श्रीमदाचा- र्शन भगवदवतारानेवामन्यन्त. ततः क्रमेण पर्यटन्तः पद्मनाभक्षेत्रं प्रति श्रीमदाचार्या आययुः. तत्र च निवासं परिकल्य यावत्ते भागवतपारायणमारभन्ते तावदेव श्रुतकीर्तिस्तद्देशाधिपः स्वयमागत्य दण्डवत्प्रणम्याधोवदनस्तूष्णीमति- प्ठत.

द्विः पृथ्वीप्रदक्षिणा .. ७३ राज्ञो यूनोऽपि मुखकमले तादृशं दैन्यमवलोक्य विस्मिता आचार्यास्तत्कारणमपृच्छन. स तु मुकुलितहस्तकमलः सकष्टं प्रत्यु- वाच. सकलजगदुद्धारकाः ! आचार्यचरणाः ! अहं हि लौकिकेन सर्वेणाऽपि सुखजातेन परिपूर्णकामोऽस्मि. बाल्ये च पिता मां मम्यगशिक्षत. ततश्च यौवनेऽनुरूपां कल्याणगुणाकगं पनीमध्यह- मलभे. स्वामिभक्तसचिवायत्तराज्योऽहं तया सह साधारणजनग्ल- भ्यानि सुखान्यन्वभवम. एवं प्रयाते कियति काले मम दुरितसंचयन वा सुकृतक्षयेण वा सा मे कान्ता केनचिट्ठलवता ब्रह्मराक्षसेनाधि- ष्ठिता बलवती वेदनामन्वभवत्. तम्याश्च वेदनाजातं द्रामप्यशक्नुवा- नोऽहं राज्यव्ययेन प्राणदानेन वा तदपनोदाय प्रायते परन्तु म्बल्पमपि यशो नालभे. बहवो मांत्रिकास्तथा वैदिका वैद्या अन्ये चामाधा- रणा जनास्तं ब्रह्मराक्षसं निष्कासयितुं प्रायतन्त परन्तु ते सर्वेऽपि वृथापरिश्रमा अजायन्त. तेन चोदामीनः स्वजन्म विफलं मन्वा- नोऽहं युप्माकमागमनमशृण्वम. यदि किंचित्म्वल्पमपि मे मुकृतं म्यात्तदा भवतामनुग्रहो भवेत्. यदि तु नैवं म्यानदा वृथा भाग्भू- तानिमान प्राणांम्त्यक्ष्यामीति. निगद्य चेत्थं व्याकुलमनाः पुण्डरीक- विशदाभ्यां नेत्राभ्यां प्रभूतं जलमुत्ससर्ज. दयासागराः श्रीमदाचार्याः सर्व तद्वृत्तं निशम्य करणया व्याप्ताः केवलं दामोदरस्य मुखमवलोकयामामुः. सोऽपि ज्ञाताभिप्रायः श्रीमदाचार्यचरणोदकं गृहीत्वा तेन राज्ञा समं तम्या ब्रह्मराक्षसाधि- ष्टिताया राज्या निवासमागच्छन्. श्रीमदाचार्यशिप्यं दामोदरमागच्छ- न्तमवेक्ष्य स ब्रह्मराक्षसोऽत्यन्तं दुःखाकुल: क्रुद्धश्च परं तमभीप- यत. परन्तु सद्गुरुकृपाच्छत्रशाली निर्भीकः स द्विवानेव तदुदक- बिन्दूस्तम्याः शरीरेऽपातयत् .

७४ श्रीमद्वल्लभाचार्यचरिते तस्मिन्नेव क्षणे प्रवलमांत्रिकैरपि अयापितः स प्रबलो ब्रह्मरा- क्षसम्तम्या रायाः शरीरान्निर्गत्य मनोहररूपधारी गन्धर्वो नाम भूत्वा दामोदरं नमस्कृत्य स्वर्गलोकमगच्छन्. सा च राज्ञी सुमोत्थि- तेव प्रकृतिस्था पूर्ववदेव बभूव. स तु भूपाल इदं सर्व प्रत्यक्षीकृ- त्याश्चर्यमागरनिमग्नम्तया सहाचार्याणां समीपमागत्य प्राणमन. अस्तौच. अनुग्रहं च लेभे. ततः क्रमेण नानास्थानानि परिचरन्तः श्रीमदाचार्या नर्मदातीर- मागच्छन. नत्र रमणीये नानातरुवरनिषिद्धसूर्यकिरणप्रवेशे स्थले निवासं परिकल्प्य भागवतपारायणान्यारभन्त. श्रोतारोऽपि गुर्जरदेश- वासिनः समागताः श्रद्धया भगवल्लीला अशृण्वन. एवंवृत्तेपु केपुचिदिवसेपु एकस्मिन्दिने स्वल्पमुदिते भगवति प्रभाकरे सर्वेपु भक्तजनेष भागवतपाठमाकर्णयत्सु सत्सु अक- स्माद्भयविह्वलत्रासचञ्चले नयने सर्वामु दिशामु प्रक्षिपन घा- विलाङ्गः श्वासातिरेकविवृतमुखः कोऽपि मृगशावकः सरभसं तत्रा- गत्य श्रीमदाचार्यचरणसमीपेऽतिष्ठत्. तं कम्पमानमवलोक्य दया- कुलाः श्रीमदाचार्या अपि तं प्रेम्णा करतलस्पर्शेन सुखयामासुः. तदानीमेव विकरालचापमण्डितहस्तः कश्चन तदनुसारी व्याध- स्त्वरया तत्रैव समाजगाम. तं च व्याधमायान्तं दृरादेवावलोक्य भयेन कम्पमानः स मृगशावकः श्रीमदाचार्याणां वस्त्रान्तः प्रवि- वेश. स च व्याधः श्रीमदाचार्यचरणानवेक्ष्य तस्मिन्नेव क्षणे तद्धीनं स्वरूपं हित्वा राजपुत्रोऽभवत्. प्रणम्य विज्ञापयामास. भगवन ! अहमस्मि जन्मना क्षत्रियो विशालराजस्य पुत्रः. बाल्ये च कुजन- संगत्या दुर्वृत्तो वेश्यासक्तोऽभवम्. ततः क्रमेण वर्धमानकामः कदा- द्विः पृथ्वीप्रदक्षिणा ७५ चित्कस्यचिद्विप्रम्य कन्यां बलात्परामृश्यम. तेन कुपितः स ब्राह्मणो मां व्याधो भूत्वा चरेति शशाप. अहमपि शत्रुहृतराज्यो व्याधो भूत्वा वनं चचाल. तस्मिन समये संजातोपतापः स एव विप्रो मां प्रत्यवोचत-राजपुत्र ! यदा ग्बलु जगतीतले भक्तिमार्गोपदेशाय समवतीर्णान् श्रीमद्वल्लभाचार्याम्त्वं साक्षात्करिष्यसि तदा पुनरपि त्वं स्वरूपं तथा स्वराज्यं लप्म्यस इति. मोऽयं समयश्चातकेन मेघकाल इव मया चिराल्लव्धुं वांछितोऽद्य लब्धः. इदानीमहं केवलं युष्माकं सेवक इति. श्रीमदाचार्याश्च तमनुगृह्य न्यायेन गज्यपालनाय विस- सर्जुः. तम्मै तं मृगशावकमपि वितेमः. एवं दक्षिणयात्रां ममापयित्वा पुष्करप्रभृतितीर्थराजमण्डितम्य मध्यप्रदेशम्य यात्रां चक्रुः. ततः पश्चिमयात्रां विधाय द्वारकादि- क्षेत्राणि अवलोक्य तत उत्तरयात्रामारभन्त. तत्र च यमुनोद्भव- स्थानं तथा बदरिनारायणप्रभृतीन्यलोकिकवनश्रीदर्शनीयानि स्थानानि निरीक्ष्य मन्तुष्टा अगणितशिष्यमण्डलीसमेताः पूर्वयात्रामारभन्त. तत्र प्रारंभ काशीयात्रां विधाय शिवगयायां समागता निवास- मकल्पयन. तम्मिन समये कश्चन तद्देशीयो भूपः : श्रीमदाचार्याणां समीपमागल्य दण्डवत्प्रणम्योवाच. मुनिवर ! कुतोऽपि कारणान प्रतो मे भ्राता मद्भार्या न मुञ्चति. बहवो मांत्रिका मया तन्नि- कामनार्थ प्रयुक्तास्तथापि म न प्रयाति. केपांचिद्वैदिकानामुक्त्याऽ- हमष्टकृत्वः शिवगयायात्रामकाप तथापि न गुणो दृश्यते. तदधुना मदीयां भार्यामम्माहुःखान्मोचयन्तु गुरुचरणा इति. तम्मिन क्षणे समीपवर्ती कृष्णदास आह-स प्रेतः कदाऽगमिष्यति ! यदाऽग- मिप्यति तदाऽहं बोधनीय इति. मुहूर्तानन्तरं म प्रेत आगत इति श्रीमद्वल्लभाचार्यचरिते तेन भूपेन निवेदिते कृष्णदासो गुरुचरणोदकं गृहीत्वा तत्स्थल- माजगाम. सा च वराकी तं क्रूरमागतं प्रेतमवलोक्य रक्षरक्षेत्युच्चै- गक्रोशन्ती गरोद. तदानीं कृष्णदासस्तं प्रेतमुद्दिश्याह-प्रेत ! किमिमां वृथा कदर्थयसि ! किं तेऽभिलषितं. यदि बलोन्मादादृथा पीडयसि तदेदं सकलपीडानाशकं दीनपालकं चरणोदकं पश्येति. दर्शितवांश्च तस्मै. सोऽपि तत्प्रभावं जानन दीनवृत्त्या प्रत्युवाच- भगवन ! अहं जानाम्यस्य चरणोदकस्य माहात्म्यं. एतत् खलु भक्तिमार्गप्रसारार्थ मृत्युलोकेऽवतीर्णानां विष्ण्वंशावताराणां श्रीवल्ल- भाचार्याणां चरणोदकं. तथाप्येनामहं न वृथा पीडयामि. एप हि मे कनिष्टो बन्धुः. अयं च मदीयं पुत्रं निहत्य राज्यमाक्राम्यत्. तत एवाहमपि क्रुद्धोऽस्य पुत्रानिहत्य भार्यामपि नाशयितुमिच्छामीति. इदं च प्रेतस्य प्रतिवचनं निशम्य खिन्नः कृष्णदास आह. अधुना वृथा पीडनेन किं ! न तवास्ति कश्चन तनयः. तदस्य क्षणभंगुरस्य राज्यस्य कृते तुभ्यं वैकुण्ठलोकः प्रदीयते. तद्गच्छ विष्णुलोकं शाश्वतसुखलाभायेति. निगद्य चेत्थं तस्या जडे शरीरे श्रीमदाचार्य- चरणोदकबिन्दृन्द्वितानपातयत. तस्मिन्नेव क्षणे स प्रेतो दिव्यश- रीरधारी भूत्वा वैकुण्ठं जगाम. भूपोऽपि प्रकृतिस्थया स्वभार्यया समं श्रीमदाचार्यचरणयोमिलिन्दायमानो बभूव. एवंरीत्या काशी- यात्रां विधाय मणिकर्णिकायामेकदा स्थितानाचार्यचरणान प्रणम्य श्रेष्टिकृष्णदाससुतः पुरुषोत्तमदासः प्राह. मम हि पिता युष्मद्द- शनाकांक्षी चिरं स्थित्वा विष्णुलोकमगच्छन्. अहमपि तथैव युप्मदागमनं प्रतिपालयामि. तत्कृपया भवञ्चरणसरोजधूलिनिक्षेपेण मदीयं गृहं पवित्रीक्रियतामिति.

द्विः पृथ्वीप्रदक्षिणा श्रीमदाचार्या अपि पैतृकं कृष्णदासश्रेष्ठिनः स्नेहं मनसि कृत्वः तद्गृहं गत्वा तस्मै मदनमोहनमूर्ति ध्यानाय विसृज्य स्वयमग्रे तीथ- यात्रार्थ प्रातिष्ठन्त. .. एवं पूर्वयात्रामपि विधाय समस्तभारतप्रदक्षिणां कृत्वा स्थाने स्थानेऽलौकिककार्यविधानेन सकलजनचेतांम्याकर्पयन्तः कृष्णा- याक्षरमंत्रं योग्येभ्यः ममुपदिशन्तः श्रीमदाचार्यचरणा नवभिव: म्वस्थानं प्रन्याजग्मुः. नांश्च प्रत्यागतानवलोक्य सर्वेऽपि संबन्धिन. स्तथा ग्रामवासिनः परमोत्मवं चक्रुः. ममग्रभूतलप्रमृतं सुधांशुध- वलं श्रीमदाचार्याणां यशो निशम्य विम्मितास्तान भगवदवनागनम- न्यन्त. एवं सर्वा पृथ्वीप्रदक्षिणां विधाय प्रत्यागतानाचार्यानवलोक्य सादरं माता इल्लमादेवी तानपृच्छत-वत्म श्रीवल्लभ ! कथं त्वया पृा- प्रदक्षिणा कृता? कथं च मार्गे चरितार्थः कृतः ? कथं च भगवान गोपालनन्दनः सेवित ? इति मां कथय. येनाहमपि मन्तोपभाक् स्यामिति. श्रीमदाचार्या अपि अनेन मातृप्रश्नेन सन्तुष्टाः प्रत्यूचुः- मातः ! तेषु तेषु प्रधानक्षेत्रपु गतोऽहं यथाविधि तांस्तान्वैदिकान्वि- धीनकार्पम्. सर्वत्र ये ये भक्तगणा आगतास्तभ्यः श्रीगोपालोपा- सना निवेदिता. मार्गे च सर्वदा शरीरपोपणं वन्यैर्धान्यैः फलैः कन्दैश्च कृतं. मार्गे च यत्र यत्र चौराद्वा पापिभ्यो वा भयं प्रानं तत्र सर्वत्राहं भगवतैव रक्षितः क्वचिच्च शिष्यैरपि. भगवान यशो- दानन्दनश्च सर्वत्र स्वनिर्विशेष सेवित इति. निशम्य च स्वपुत्रस्य पृथ्वीप्रदक्षिणावृत्तं माता इल्लमादेवी पर- मतुष्यत्. अस्तौच तादृशपुत्रवरलाभेनात्मानं. प्रार्थयामास च तस्य श्रीमद्वल्लभाचार्यचरिते चिरजीवनाय परमात्मानं. आचार्यचरणा अपि किंचित्कालपर्यन्तं प्रवामप्रयासापनयनाय तत्रैवावसन. अधुना निस- अथापनीतकल्पेषु प्रवासपरिश्रमेपु श्रीमदाचार्या मनसि विचार- यामासुः. प्रथमपृथ्वीप्रदक्षिणासमये तु सर्वाऽपि लोकस्थितिनिरीक्षिता. साम्प्रतं च परकीययवनादिभूपालैनिःसत्त्वीकृता भारतवासिन उदरभरणार्थ सततं प्रयतमानाः क्लेशैर्जीवन्ति. तेन र्गत एवातिकठिनस्य कर्मकाण्डोक्तमार्गस्याचरणे तेऽनुत्सुका एव. ज्ञानमार्गम्तु न साधारणजनानां कृते सुखावहः एतावदेव न किंतु अनर्थावहश्च. अशुद्धसत्वा विचारयितुमक्षमा जना ज्ञानमार्गमा- लंव्य न केवलमात्मानमेव घातयन्ति किंतु अन्यानपि. अयोग्या अनधिगततत्वात ज्ञानाभिमानशालिनो यथेच्छं यत्किंचिदप्युपदि- शन्तः संसारं व्याकुलयन्ति. तस्मात् सम्प्रति भक्तिमार्गस्य प्रसार एव श्रेयान स्यात्. प्रथमप्रदक्षिणासमये च प्रायः सर्वेषां लोकानां विश्वासः संपादित एव. लोकविश्वासो हि सर्वेपामपि लौकिकानां कार्याणां मूलं. लोकोद्धारो हि लौकिकमेव कार्य. तदधुना पुनरपि द्वितीयां पृथ्वीप्रदक्षिणां विधाय स्थाने स्थान शिष्यसंघाः स्थापनीयाः तथैव यत्रकुत्रचिन्मुख्यं गोपालनाथस्य स्थानं विधाय तदनुगामी- नीतराण्यपि देवालयानि विधेयानि. एवंकृतेऽयं भक्तिमार्गः सुप्रतिष्ठो भवेत्. अन्यथा यावदहं जीवामि तावदेव यथाकथंचिद्वर्तमानः सुरक्षितोऽपि सुवर्धितोऽपि सकलमानवकल्याणसमर्थः कल्पद्रुम इवायं भक्तिमार्गो नामशेषो भवेत्. यस्मिन् धर्मपथे सजना भक्तगणा अधिकाः स्युस्तावत्कालं स धर्मपथश्चिरंजीवी भवति. तदधुना प्रथम द्वितीयां पृथ्वीयात्रां विधाय भक्तगणाः संपादनीयाः. वस्तुतस्तु द्विः पृथ्वीप्रदक्षिणा यथा मेघकाले समुदितं नीलं नीरदं विलोक्य समुत्कण्ठिता बलाकाः परमामोदेन परिवारयन्ति तथैव युक्तं सदाचारपरं परहितदक्षं मानवं जनाः. अस्तु. ततश्च शीघ्रमेव दक्षिणापथयात्रा ममारंभणी- येति. विचार्य चैवं ते सकलमानवगणकल्याणार्थमवतीर्णाः श्रीम- दाचार्याः प्रथमं मंगलप्रस्थमागत्य तत्र नानाविधविपद्गुस्तान जनान भक्तितत्वोपदेशेनानुजगृहुः. ततो विशालहृदयकमलाः श्रीमदाचार्याः श्रीवेंकटनाथं साक्षात्कतु वेंकटाचलं गन्तुं प्रातिष्ठन्त. मार्गे च मर्वत्र प्रसृतं श्रीमदाचार्याणां यश:स्तोममाकर्ण्य भंगा इव प्रफुल्लं पारिजातं श्रीमदाचार्यचरणान द्रष्टुं सांसारिका जना आययुः. वीक्ष्य च दिव्यां नयनरमणीयां तपोऽतिरेकभासुरां श्रीमदाचार्यपादानां मृति म्बज- न्मन: साफल्यमलभन्त. कतिपयदिवसैर्वंकटाचलं प्राप्य तत्र लक्ष्मी- नाथं माक्षात्कृत्य संजातसंतोपाः श्रीमदाचार्यास्तत्रैव कानिचिदिनानि अवसन. तत्रापि शिष्यगणं संपाद्य क्रमेण नानातीर्थक्षेत्राणि वाक्ष्य रामेश्वरं नमस्कृत्य प्रतिनिवृत्ना विद्यानगरं प्रत्यागच्छन. तत्र च निवसतामाचार्यचरणानामलौकिकं भक्तगणात यशो निशम्य संजातदर्शनकुतूहल: कायस्थवंश्यो नारायणदासो नाम पुरुपो निवसतिस्म. स च पूर्वजन्ममुकृतसंचयेन संजातवैराग्यो यं कमपि पुरुपवरमाश्रित्य स्वजन्म मफलयितुमिच्छन् तादृशं दिव्यं पुरुपमन्वेपयतिस्म. स च समागतानाचार्यचरणान्निशम्य संजात- सन्तोषः सहसा तदावासं गत्वा तानवलोक्य ममुत्पन्नश्रद्धातिरेकः सानन्दं तदीयचरणारविन्दे मिलिन्दायमानो वभूव. उवाच च- भगवन! अयं जनः परमप्रखरसंसारदावानलज्वालानिर्दग्धः कथं कथमपि जीवति. यथा च चातको ग्रीष्मरविकिरणसन्तापं श्रीमद्वल्लभाचार्यचरिते वर्षाकालमेघागमनं प्रतीक्षमाणः कथमपि सहते तथैवायमपि क्षुद्रो जन इमं संसारतापं. तत्सकलजनकल्याणविधानतत्परैराचार्यचरगै- रनुगृह्य कथमपि अस्मात् दुःसहात्संसारतापादहं मोचनीय इति. श्रीमदाचार्यपादा अपि सत्यमेव तस्य नारायणदासस्य करुणामयं वैराग्यप्रदर्शकं स्तवमाकर्ण्य संजातकृपालवाः शीघ्रमेव तमन्वगृहन. सोऽपि तदुपदेशामृतं भवसरीमृपगरलशाम कं पर्याप्तं निपीय शान्त- चेताः पुनरपि परम्परद्वेषजालजटिले गृहस्थाश्रमे स्थातुमनिच्छन सविनयमाचार्यचरणान्विज्ञापयामास सहावस्थानाय. तेऽपि तदीयं भगवति श्रीनाथेऽनुरागविशेषमालक्ष्यान्वमोदन्त. ततम्तेन समं भीमातीरमागतास्तत्र विठ्ठलेशं प्रणेमुः. विठ्ठलेशश्च स्वयमाविर्भूय श्रीआचार्यचरणानवदत् सन्तुष्टोऽहं भवदीयया सेवया. अधुना भवद्भिरिमां द्वितीयां पृथ्वीयात्रां समापयित्वाऽवश्यं गृहस्थाश्रमः स्वीकर्तव्यः, यतोऽहमेव पुनराधिक्येन भक्तिमार्गप्रसारार्थ युष्म- दुदरात्प्रादुर्भवितुमिच्छामीति. इमां च भगवदाज्ञां निशम्य खिन्ना- अपि सानन्दा आचार्यचरणाः क्रमेण नर्मदातीरस्थानि तीर्थानि वंदमाना गुर्जरदेशमाययुः. वाचकाः ? तस्मिन समयेऽज्ञानग्रस्ताः प्रायः सर्व एव गुर्जरदेशवासिनो जिनधर्मानुयायिनः सनातनध- र्मस्य नामापि नाजानन. तामिमां तेषां दीनावस्थामवलोक्य कृपालवः श्रीमदाचार्यचरणास्तत्र कतिपयमासानुपित्वा सर्वेभ्यो गुर्जरदेशवा- सिभ्यो भगवतो देवकीनन्दनस्य भक्तिमुपादिशन्. सततं भगवदा- राधनलब्धसुकृतसंचयाः साक्षादग्निरूपा आचार्यपादाः शीघ्रमेव तान गुर्जरदेशवासिनो जनान् तुलसीमालालंकृतकण्ठान भागवतप- ठनदक्षान् भक्तशिरोमणीनकार्षुः. योऽयं गुर्जरदेशः पुरा सर्वत्र द्विः पृथ्वीप्रदक्षिणा तत्र च जैनमन्दिरैया॑पृतो मुण्डिभिश्च संकुलो न सनातनधर्माऽनुयायिनां मनास्यानन्दयन्, सोऽयमधुना सर्वतः सुवर्णशिखरमण्डितैरपारधेनु- कुलभूपितैभक्तगीतस्तोत्रमुखरैः श्रीकृष्णदेवालयैर्भूमिगत: स्वर्ग इवा- वाभासत. पाठकाः : अधुनाऽपि यूयं मथुरापुरी गतास्तत्र श्रीयशो- दानन्दनस्य दर्शनार्थ प्रतिदिनमागच्छतां प्रवासिनां मध्ये गुजरानेव बाहुल्येन पश्येत ! सोऽयमाचार्यचरणानामेतेपामेव प्रभावः. अम्तु. प्रकृतमनुसरामः. एवं गुर्जरदेशवासिनः सनातनधर्मानुयायिनो विधाय ते सुदा- मपुरमागत्य कपूरसुदामबालनामानं शिप्यं गृहीत्वा स्थाने स्थाने शिष्यानसंख्यान्विधाय हिमाचलं प्रविश्य बदरिकाश्रमस्थं नागयणं प्रणम्य व्यासाश्रममगच्छन. तपस्यन्तं विल्वमंगलं प्रणम्य तदाज्ञया श्रीव्यासं कतिपयविपयेपु संशयानपृच्छन. व्याम- देवोऽपि सर्वानपि संशयान्निराकृत्य जगाद. अम्मिन कलियुगे हरिभक्तिं विना नान्यत्किमपि अहं शरणं पश्यामि. तत्त्वमितो गत्वा हरिभक्तिं प्रवर्तय. तदर्थ सिद्धान्तग्रंथान प्रणय. प्रतिपक्षान निवा- रय. भगवदाराधानाया अविच्छेदाय गार्हस्थ्यमधितिष्टस्वति. श्रीमदा- चार्याश्च ततो निर्गत्य क्रमेण प्रयागादीनि क्षेत्राणि पश्यन्तो वाराणसी समाययुः श्रीमत आचार्यपादान काशीमागतान्निशम्य तत्र नाना- देशेभ्यो भक्तगणाः सहसाऽऽगच्छन. अशोभत च तदेव काशी- क्षेत्रं वैकुण्ठमिव वैष्णवगुणसंकुलम. (४) ? एवंरीत्यांऽशतो निवेदिता द्वितीयपृथ्वीयात्रा श्रीमदा- चार्याणाम्. अस्मिन् पृथ्वीपर्यटने श्रीमदाचायः प्राधान्येन स्थाने बान्धवाः वल्ल.

८२ श्रीमद्वल्लभाचार्यचरिते स्थाने शिष्यगगा निर्मिताः, परन्तु निसर्गत एव पापमतयः पुरुषाः श्रीमदाचार्याणां प्रतापमसहमाना चूका इब सूर्य निभृतमद्विपन्. ते चाचार्यचरणानन्यतोगतानवलोक्य तान् सरलमतीन शिष्यान कुतः संदिग्धमतीनकापुः. तदेतत्सर्व मनसिकृत्वा श्रीमदाचार्याः परमवै- गग्यसंपन्ना अपि कर्तव्यपालनाय तांस्तान्कण्टकानुद्धतु प्रायतन्त. तदपि वृत्तं संक्षेपेण कथयामि. यदा प्रथमपृथ्वीयात्रार्थ निर्गताः श्रीमदाचार्या रामेश्वरक्षेत्रमाग- च्छंस्तदा लक्ष्मणतीर्थे तदीयैः शिष्यैस्तीर्थश्राद्धं प्रारब्धं. तस्मिन् समये केचन वीरशैवसंप्रदायानुयायिनस्तानवैष्णवान् मन्यमाना जहसुः. प्रालपंश्च परस्परं नेमे वैष्णवा न शैवाः. तत्केऽपि पाख- ण्डिनः स्युरिति. तदिदं तेषां वचनं निशम्य क्रुद्धः शंभुर्यदा विवाद- मकरोत्तदा ते पराजिता अपि विपरीतमानसा युद्धार्थ सन्नद्धा अभ- वन्. तत्रापि निराकृताः कांदिशीका अभवन. एवमेव श्रीमदाचार्यचरणा यदा रामेश्वरयात्रार्थ निर्गताःसुब्रह्मण्य- क्षेत्रमागच्छंस्तदा तत्रत्या ब्राह्मणा विद्यामदोन्मत्तास्तान बटुवेपधारि- णोऽपि भागवतानवेक्ष्य विस्मिताः सोपहासं जगदुः-कथमयमाश्रम- विरुद्धो वेपस्तथा भगवदाराधना च ध्रियते. यूयं खलु ब्रह्मचर्या- श्रमधराः. अस्मिन् हि आश्रमे वेदाध्ययनं गुरुगृहवासस्तथाऽग्नि- सेवा च शास्त्रेण विहिता. तदननुष्ठीय कथं तीर्थयात्रामिपेण यथेच्छं संचरत ! नायं धर्मः कस्यापि. यदि स्यात्तथापि न ब्रह्मचारिणां. विधिवदासाद्य विद्यां परिणीय च भार्या कुलमर्यादां स्थापयित्वा ततः परं पारमार्थिकविचारः करणीय इति शास्त्रमर्यादा. तामतिक्रम्य कथं यूयं माननीया भविष्यथेति. इदं च तेषां शास्त्राध्ययनसंपादितज्ञान- द्विः पृथ्वीप्रदक्षिणा ८३ लवोन्मादशालिनां विदुपामपि मृढमतीनां भाषणं समाकर्ण्य श्रीम- दाचार्याः स्मेरवदनकमलाः सविनयमवदन-बुधाः ! सत्यमेव शास्त्र- मर्यादा सामान्यजनानां कृते. ये तु अगणितप्राक्तनजन्मलब्धसुकृत- संचया भाग्यशालिनो भगवद्भक्ताम्तेषां कृते नेयं. ते तु स्वभावत एव भगवचरणारविन्दसक्तमानसा न किमपि कर्तव्यं वाऽकर्तव्यं जानन्ति. तथाऽग्रहं विहाय स्वजन्मसाफल्यं संपादनीयं. ज्ञानं हि स्वकल्याणायोपयोजनीयं नतु परेपामपमानायेति. निशम्याचार्यचरणानामिमां वाचं तथा तच्छिप्येभ्यश्च पराजयं प्राप्य गलितज्ञानमदाम्ते सर्वेऽपि ब्राह्मणा आचार्यपादकमलयोरप- तन. अयाचन्त च क्षमां. उदारहृदया आचार्यचरणा अपि तान सान्त्वयामासुः. एवमेव यदा श्रीमदाचार्यचरणाः सिद्धपुरमागन्य ततो वटेश्वरन- गरं गच्छन्तः सर्वानपि स्वशिष्यानूचुः-प्रातरहत्पत्तनं प्रति गन्तव्यं. तद्भवद्भिः सावधानेन स्थातव्यमिति. सर्वे च शिष्यगणा इमामाचा- र्यवाचं निशम्य सन्तुष्टा निर्भया अभवन. अथ प्रातरेव वटेश्वरनगरं प्रविशत्सु यथामर्यादं शिप्यगणवेष्टितेपु दिव्यतेजसा पश्यतां मनांसि आकर्पयत्सु आचार्यपादेपु ते जिनमतानुयायिनः सरभसमग्रेभूय तैः समं विवदितुमारभन्त. आचार्या अपि तान स्वशिष्यैः स्वावासा- गमनाय बोधयित्वा गृहागतान तान सन्मानेनासनदानादिभि- रनुजगृहु:- एवं सत्कृतास्ते जिनपण्डिताः सहसाऽपृच्छन् कोऽयं युष्माकं धर्मः ! भवन्मते दया धर्मो न वा ! भवन्मते प्रमाणं किम् ! तत्र चाधिकारी कः ! इति.

८४ श्रीमद्वल्लभाचार्यचरिते एवंपृष्टा आचार्याः प्रत्युत्तरदानाय स्वशिष्यं समाज्ञापयन. सोऽपि निर्मलमतिर्गुरुचरणकमले प्रणम्य सावधानेनावदन्. भोजैन- पण्डिताः ! शृणुत. अयं हि धर्मः सकलस्य सनातनधर्मस्य सारभूतः पुष्टिमार्गो नाम साक्षाद्भगवदनुग्रहरूपः. यद्यपीह मृत्युलोके सन्ति नानाविधा धर्मास्तथापि अस्य धर्मस्य तुलां न कोऽपि विभर्ति. अनेकजन्मसुकृतसंचयलब्धभाग्योत्कर्षा एवेमं धर्ममनुसरन्ति. अस्मिन् पुष्टिसंप्रदाये दया प्राधान्येनास्त्येव, परन्तु न युप्माकं धर्मे इव केवलं सा कायिकी किंतु वाचिकी मानसी च. अत्यल्पमिदमु- च्यते-वस्तुतस्तु अस्मन्मते सर्वस्याऽपि जगतो भगवदभिन्नत्वान हिंसायाः कारणीभूता वासनैव नोदेति. ततः कुतो हिंसायाः संभवः. ग्रंथाश्च भागवतादयो भगवत्स्वरूपवर्णनपराः सर्वेऽपि प्रमा- णमेव. अधिकारी च यः सर्व विपयमोहं विहाय केवलं भगवञ्चर- णकमलासक्तमनाः श्रद्धालु:. नात्र विद्यायास्ताहशी अपेक्षा याशी श्रद्धायाः. अत्र च गजेन्द्रादयः प्रमाणं. यस्तु क्षीणकल्मषः स एवेमं संप्रदायं प्रतिपद्यते लभते च कैवल्यमिति इदं च श्रीमतामाचार्यपादानां शिष्यस्य सकलसंदेहहारकं वचनं निशम्य शान्तहृदयास्ते जिनपण्डिता न किमपि प्रत्यवदन्. केचन संजातोपताषा आचार्यचरणशरणा अभवन. एवमेव यदा श्रीमदा- चार्याः पृथ्वीपर्यटनार्थ निर्गता यवनमहत्पदनामकं स्थानमागच्छंस्तदा तत्रत्या बौद्धा महताऽहंकारेण तैः समं विवदितुं सन्नद्धा अभवन. तत्रापि जिनपण्डितवदाचार्यशिष्यैरेव पराजितास्ते शिष्यत्वं स्वीचक्रुः. वाचकाः ! केवलं मया स्वरूपदर्शनार्थ कतिपये वादवृत्तान्ताः प्रदर्शिताः. वस्तुतस्तु प्रतिदिनमगणिता विद्यामदोन्मत्ताः पण्डितं- द्विः पृथ्वीप्रदक्षिणा मन्याः शलभा इव प्रदीपं नानाचार्यचरणान् जेतुमागच्छन परन्तु वीतमनोरथाः शिष्या एव बभूवुः. प्रियपाठकाः ! सर्वेषु मदेषु विद्यामदो हि महान. स च समागतो महता कष्टेन दुरीक्रियते. असेवितभगवचरणारविन्दा अलब्धसुकृतसंचयाः क्षुद्रहृदया जनाः ग्वल्पां विद्याकणिकामासाद्यात्मानं कृतकृत्यान मन्यमानाः सज्जनानु- द्वैजयन्ति. समुद्रकल्पा भगवद्भक्तास्तेपां क्षुदैवर्तनैरनुद्विग्नाम्तान मदुपदेशेनानुगृह्णन्ति. एतदेव नीचोत्तमयोरन्तरं यन्नीचः प्रीन्या सेवितोऽपि अभद्रं करोति. सजनचापकृतोऽपि कल्याणमेव विधत्त. अत्र च निदर्शनं कण्टकमहकारवृक्षयोः. अस्तु.

८ गृहस्थाश्रमप्रवेशः १ भगवदादेशः २ विवाहः ३ तृतीयं पृथ्वीपर्यटनम्. (१) इत्थं समग्रपृथ्वीप्रदक्षिणां द्विविधाय सर्वी लोकपरिस्थितिमव- लोक्य निश्चितकर्तव्याः श्रीमदाचार्यचरणा यदा कस्मिन्नपि स्थल- विशेषे श्रीराधावल्लभस्य मंदिरं विधाय तदनुरोधेन सर्वत्र भारते वर्षे भक्तिमार्ग प्रसारयितुमैच्छंस्तदा श्रीविठ्ठलेशः स्वयं प्रादुर्भूय तानवदत्-वत्स ! श्रीवल्लभ ! त्वं हि मम प्रियतमो भक्तः. साम्प्रतं हीनदीनजने भारतवर्षे मम भक्तिं प्रसारयितुं प्रयतसे. परन्तु यावत्त्वत्सदृशा बहवो नरवरा अस्मिन् कार्ये सक्ता न भवेयुस्ताव- दस्य त्वदीयस्य मनोरथस्य तादृशी सिद्धिर्न भवेत्. एतत्सर्व विचा- हिं त्वदीयः पुत्रो नाम भूत्वाऽवतरिष्यामि. तत्त्वं प्रथमतः सर्वाणि कार्याणि विहाय विवाहं कुरु. त्वदर्थ संपादिता कन्याऽस्यां काश्या- मेव वर्तते. न चैतद्विषयिजनोचितमिति गर्हणीयं ? यथा हि विषयिणः गृहस्थाश्रमप्रवेशः संसारे वर्तन्ते तथैव भक्तवरा अपि. परन्तु यथा विषयिणा- मभिलषितं स्वेन्द्रियसुखं न तथा तेषां. ते हि भगवति समर्पितहृदय- कमलाः अपारसुखसागरनिमग्नाः क्षुद्रजनप्रार्थनीयमिदं वैषयिक सुखं कथं प्रार्थयेरन्. परन्तु ते भगवदभिप्रेतसिध्यर्थ भुवमवतीर्णा- स्तत्सिद्धये विषयोपभोगे प्रवर्तन्ते. तत्त्वमपि शीघ्रमेव सुलक्षणां कन्यां परिणीय भगवदवतारकार्यार्थ सुपुत्रानुत्पादय. भगवान् स्वय- मेवाविर्भूय त्वां स्वप्राकट्यार्थं वदेत् इति. तमिमं भगवदादेशं समाकर्ण्य प्रियब्रह्मचर्यव्रताः संसारे विरक्ताः श्रीवल्लभाचार्या मनस्यचिन्तयन्-यद्यपि मे मनो निसर्गत एव संसारविषयेभ्यो निवृत्तं न तत्र गन्तुमीहते तथापि भगवदा- ज्ञापालनमावश्यकमेव. भगवदाज्ञां शिरसा धारयन्नहं खलु मर्त्यलो- कमागतः. सोऽहं यदि कुतोऽपि कारणाद्भगवदाज्ञां न पालयिष्यामि तदा भक्तिमार्गस्य प्रमृतिः कथं स्यात्. भक्तिमार्गस्य तु मुख्यमिदं तत्वं यत् भगवदाज्ञा सर्वथा पालनीयेति. तन्मयैव तस्मिंस्तत्वे निराकृते च्छिन्नमूलो वृक्ष इव स कथं समर्थो भूत्वा संसाराग्निसंतप्तानां संतापं हरेत् ! तन्मयाऽवश्यमेव भगवदाज्ञापालनीयेति. विचार्य चैवं ते जगन्नाथक्षेत्रं गत्वा पुनाराणसीमाजग्मुः. (२) श्रीविठ्ठलेश एवं श्रीमत आचार्यपादानुक्त्वा काशीनिवासिनं विद्वद्वरं देवंभट्टमपि जगाद. सोऽपि विप्रवरः स्वयं भगवतैवमादिष्ट आत्मानं धन्यंमन्यमानः श्रीमतामाचार्यपादानां शुभागमनवेलां प्रतिपालयामास. यदा श्रीमदाचार्यचरणाः काशीनगरीमागतास्तदा तद्दर्शनार्थ धावतां जनानां मुखेभ्यस्तदागमनवाती निशम्य सोऽपि ८८ श्रीमद्वल्लभाचार्यचरिते तदावासमागतोऽपारतेजोराशीनिव दिव्यशरीरकांतीन् पुण्डरीकलो- चनान श्रीवल्लभाचार्यचरणानवेक्ष्य मोमुद्यमानस्तादृशदिव्यजामातृ- चरणरजःस्पर्शनात्मानमिंद्रादपि श्रेष्टममन्यत. श्रीमदाचार्या अपि भगवदाज्ञामनुसृत्य समागतं तं देवंभट्टमभिनंद्य मातृपादा एव सर्व करिष्यन्तीत्यूचुः. अचिरादेव स्वमातृप्रभृतिसंबंधिगणस्यानयनाथ शिष्यान् प्रैपयन. आगतेषु च तेषु सर्वेषु यथाविधि शुभे मुहूर्ते समावर्तनं विधाय श्रीमदाचार्या गृहस्थाश्रमं प्राविशन. वाचकाः ! यद्यपि भगवदाज्ञापराधीनैः श्रीमद्वल्लभाचाचगृहस्थाश्रमः स्वीकृतस्त- धापि तदीयं मनः सर्वदा श्रीगोपालकृष्णचरणकमलासक्तमेवासीत्. तेन यद्यपि सर्वोऽपि वैवाहिकः समारंभो लोकोत्तर एवाभवत्. अग- णिता नानादेशेभ्यः समागताः शिप्यसंघा असंख्यान्युपायनानि ददुः, तथापि न तल्लोभः क्षणमपि श्रीमदाचार्याणां चेतसि पदमा- दधौ. तस्माद्वयमपि तद्विवाहवर्णने उदासीना एव. नहि श्रीमदाचा- र्यचरणानां विवाहोत्सववर्णनेन कीर्तिस्तोमो वर्धिष्यते ! सन्ति च तेपामद्यापीह भारते वर्षे सनातनधर्मस्य रक्षणार्थ विहितानि पुण्यानि कर्माणि यानि तेपामाचन्द्रार्क यशःप्रकरं पूरयि- प्यन्ति. अस्तु. एवंरीत्या गृहस्थाश्रमं प्रविश्य श्रीमदाचार्याः किंचित्कालं वारा- णस्यां तस्थुः, तत्रापि समागतेभ्यः शिष्येभ्यो भक्तिमार्गमुपादि- शन्. माताऽपि श्रीमदाचार्यपादानां तं विवाहोत्सवं तथा स्वपुत्रस्य लोकोत्तरयोग्यतामवलोक्य नितान्तमहृप्यन्. एवं सकलाश्रमश्रेष्ठं गृहस्थाश्रमं स्वीकृत्य श्रीमदाचार्यचरणाः काश्यां पण्मासपर्यन्तं तस्थुः. तेषु च पट्त्सु मासेपु श्रीमदाचार्यैः श्रीकृष्ण- गृहस्थाश्रमवंशः स्योपासना कृता. तथैव भक्तिमार्गप्रसारप्रतिबंधकदृरीकरणार्थ जपा- धिक महत्तपोऽनुष्ठितं. अथ समाप्तेषु पटसु मासेषु ते पुनरपि पृथ्वी- प्रदक्षिणां विधातुमुद्यता अभवन. अम्मिन समये श्रीमदाचार्या मनस्यचिन्तयन्-प्रथमसमये सर्वा लोकस्थितिं निरीक्ष्य द्वितीयप्रद- क्षिणासमये स्थाने स्थाने शिष्यसंघाअपि स्थापिताः, अस्मिन समये तेषां भक्तानां मनसि प्रादुर्भूतं भक्त्यंकुरं दृढयितुं स्थानेम्याने श्रीगोपालनन्दनस्य देवालयाः स्थापनीयाः. यथा च शालाभ्य ऋते वालका भूयोभूयो विद्याग्रहणार्थमुपदिष्टा अपि न विद्याविशारदा भवन्ति तथैव विनापि देवालयभक्ता अपि स्वभक्त्यं कुगन्न स्थिरीकर्तु प्रभवन्ति इति. विचिन्त्य चैवं शुभसमये कार्शातो निर्गनाः श्रीमदा- चार्यचरणाः प्रथमं वैद्यनाथं तरखण्डं गताः. तत्र कृप्रनिवामाः किंचित्कालं तस्थुः. तत्रैव निशि भगवान् गोवर्धननाथः स्वयमावि- भूय जगाद. बजे भवद्भिः ममागत्य मम मेवाप्रकार: मंपादनीय इति. आचार्या अपि तां भगवदाज्ञां शिरला म्बीकृत्य नवः शिष्यगणैः समं ब्रजमागत्य तत्र गोवर्धननाथम्य सेवाविधिं यथाशाम्नं म्वशि- प्याय निवेद्य ततः प्रचलिता मिथिलायोध्यादिमार्गेण गुर्जरदेशमा- जग्मुः. तत्र च शिप्यवृन्दानां विज्ञन्या स्थानेस्थाने श्रीकृष्णदेवाल- यान स्थापयित्वा क्रमेण बदरिकाश्रममागच्छन्. अम्मिन समये सनातनधर्मद्वेपिभिर्यवनैर्या या मूर्तयो देवालयान्नाशयित्वा भूमौ निक्षिप्रा आसन ताः सर्वा अपि मुप्रतिष्ठा अकुर्वन. तासां मूर्तीनां समुद्धरणेन संजातविश्वासः सनातनधर्मानुयायिजनसमुदायोऽपि नितान्तं मुदितः श्रीमदाचार्यचरणानां शिष्यत्वं जग्राह. प्रतिदिनं परिवर्धमानं श्रीमदाचार्यचरणानां शिप्यसमुदायं वीक्ष्य भीता श्रीमद्वल्लभाचार्यचरिते द्वेषपरा अपि यवनादयः परकीयधर्मानुयायिनो न किंचिदपि प्रती- कर्तु शेकुः. केवलमलौकिकेन श्रीमदाचार्यचरणानां तेजसा तथा तीयेन जनानुरागेण निहनमानसा स्तब्धा अभवन्. प्रतिदिनं प्रौढो रविरिव श्रीमद्वल्लभाचार्याणां प्रतापोऽवर्धत.

९श्रीनाथप्राकट्यम्
१ पूर्ववृत्तम्.
२ भगवत आचार्यचरणान्प्रति आदेशः.
३ भगवत्साक्षात्कारः.
४ गिरिराजे निवासः.
(१)
प्रियवान्धवाः ! श्रीमदाचार्यचरणा यदर्थमिह जगतीतलेऽवतीर्णा,
यदर्थ च तैः पृथ्वीप्रदक्षिणाप्रभृतीनि तपांसि तपानि, तस्य मुख्यस्य
गोवर्धनधारिणो भगवतः श्रीकृष्णस्य प्राकट्यबोधकमिदं प्रकरणमि-
ति सविस्तरं तन्निरूपयामि.
पुरा खलु दीनपालको भगवान् प्रबलैः कंसादिभिः परिपीडितान
सकलजीवानवलोक्य दयाद्रस्तेषां शासनार्थ भारतवर्षेऽवततारेति
सर्वेषां नः सनातनधर्मानुयायिनां नितरां विदितमेव. स च
भगवान् यदाऽवतर्तुमियेप तदा देवकीवसुदेवौ कारागारे निवसन्ती
कथंचिदजीवताम्. कंसश्च क्रमेण संजातान देवकीपुत्रान घातया-
मास. तेन दुःखाकुला सा साध्वी देवकी नितरामशोचत. प्रार्थया-
मास च भगवन्तं तस्य कंसस्य शासनाय.
अथ शीघ्रमेव भगवती देवकी गर्भवती
बभूव.
तां च वाती
निशम्य कंसः परं संतप्तस्तस्मादष्टमात् पुत्रान् स्वस्य नाशमाशंकमानः
सावधानतयाऽवर्तत. पूर्णेषु नवसु मासेषु सा भगवन्तं श्रीकृष्णं
..

९२ श्रीमद्वल्लभाचार्यचरिते सुपुवे. तम्मिन समये भगवतो दुर्निवार्यया मायया मोहिताः सर्वेऽपि निरीक्षका गाढमस्वपन. न कोऽपि जाग्रदासीन्. सा सती देवकी तं स्वपुत्रमलौकिकतेजस्विनमवलोक्य खिन्ना तं क्रोडेकृत्वा रोदितुमारभत. तस्मिन् समये कृतस्वरूपाविभीवो भगवान गोपाल- कृष्णस्तां सान्त्वयितुमुवाच मातः ? अहमम्मि साक्षात त्रैलोक्य- नाथस्तवैव क्लेशान परिहर्तुमिहावतीर्णः. तन्मा रुदिहि. यथैव भवत्या मम निरतिशयमाराधना कृता तथैव यशोदयाऽपि. तन्मां गोकुलं नीत्वा यशोदाधीनं कुछ. तत्र च निवसंस्तव दुःखानि परिहतु प्रय- तिप्य इति. उक्त्वा चेत्थं घृतवालम्पो भगवान अतिमृदुलेन करप- लवेन वसुदेवस्य पादस्था महतीः शृंखलाः पस्पर्श. तस्मिन्नेव क्षणे ताः शृंखला नामशेपा अभवन. तेन संजातविश्वासो वसुदेवस्तदुक्तिं स्वीकृत्य कथमपि देवकीहस्तात्तं वालरूपिणं मुकुन्दं गृहीत्वा गोकुलं गन्तुं तस्मात्कारागाराच्चचाल. भगवान्देवकीनन्दनः पिहितानि महान्ति कपाटयुगलानि पादकमलेन यदायदा पस्पर्श तदातदा तानि स्वयमेवोद्घाटितानि. ततो निर्विघ्नं निर्गतः स महात्मा वसुदेवो यदा यमुनातीरमाजगाम तदोभयतीरवाहिनीं वाजलातिरेकागाधां यमुनां वीक्ष्य खिन्नोऽपि दृढश्रद्धः सहसा तां प्रविवेश. क्रमेण गच्छतस्तस्योरोमात्रं यदा यमुनायाः सलिलमभवत्तदा भगवान् स्वयमेव स्वपादकमलं वहिनिष्कासयित्वा तत् पस्पर्श. स्पृष्टमात्रमेव सलिलं द्विधाऽभवन्. मार्गोऽपि निष्कर्दमः. स च वसुदेवस्तद्वीक्ष्य स्वक्लेशनाशे विचिन्तः क्रमेण यशोदालयं प्रविश्य तदन्तिके तं स्थापयित्वा तदीयां कन्यां प्रत्याजहार. तत्र च क्रमेण वर्धमानः स त्रैलोक्यनाथः श्रीकृष्णः प्रतिदिन- श्रीनाथग्राकट्यम् ९३ मलौकिकीभिः स्वलीलाभिः स्वभक्तानां मनांसि रंजयन् यशोदानन्द- योरानन्दमनल्पं व्यतानीन्. प्रतिदिनं तेन दुष्टेन कंसेन प्रेरितान दुष्ठान जनान हत्वा सकलं गोकुलं ररक्ष. एकदा भगवान यशोदानन्दनः स्वसहचरैः समं गाश्चारयितुं समीपवर्ति वनं जगाम. मुक्त्वा च तत्र सकलं धैनुकं अतिसुन्दरम्य श्रीगोवर्धनगिरेरुपत्यकायां नानाविधाभिः क्रीडाभिः क्रीडितुमारभत. अचिरादेव भगवान पाकशासनः प्रवलाभिरचिरातिविलसिताभिघ- नावलीभिर्वपितुमारभत. ते च भगवद्धता गोपालास्तथा कृत्स्नं धैनुकं तेन वृष्ट्यतिरेकेण तथोद्विग्नं भीतिविह्वलं सत्वरं श्रीकृष्णम्य समीपमाश्रयार्थमागच्छन्. भगवान पाकशासनम्य गर्वमपहर्तुमिच्छः स्वयं गोवर्धनधारिणः श्रीनाथस्य स्वरूपं धृत्वा तं गोवर्धनमेवोद्धृन्य सर्वान ररक्ष. तदिदं श्रीगोवर्धनोद्धारकालिकं म्वरूपमद्यापि श्रीनाथ- द्वारे वर्तते. श्रीमदाचार्यैर्यत्खलु प्रतिष्ठापितं ब्रजे नदिदमेव मपं. यद्यपि भगवान सर्वत्र चतुर्भुजम्नथापि अम्मिन म्वझपे स द्विभुज एव लक्ष्यते. कारणं चात्र भागवत एव निरूपितमिति तत एवावग- न्तव्यं, विस्तरभयादव न लिख्यते. अस्तु. एवं स्वक्रीडाभिर्गोकुल- वासिनो भक्तगणान सुखयित्वोचिते समये स्वावतारकृत्यं कंमवधा- दिकं विधाय स्वावतारं समापयामास. समापयित्वा वैकुण्ठंगतोऽपि भगवानतिरमणीयतया ब्रजभूमीनां परमभागवततया ब्रजवासिनां गोवर्धनोद्धारकालिकरूपेण तत्रैव गोवर्धनगिरौ प्रतिवसति स्म. समये समये च स्वभक्तान स्वरूपं दर्शयामास च. यदा च यवनसंबन्धा- क्रमेण भगवद्भक्ता दुर्लभा अभवन् विद्यमानानामपि भक्तानामन्तः- करणानि पापाक्रान्ततया भक्तिविमुखान्यजायन्त तदा स भगवास्तत्रैव निवसन्नपि न कदापि गोचरोऽभून.

श्रीमद्वल्लभाचार्यचरिते एवं व्यतीतेपु कतिपयवर्षेषु सकलजगन्नाथः परमात्मा नारायणः सनातनधर्मस्य तथा तदनुयायिनां च दुर्दशामवलोक्य खिन्नोऽनुक- म्पया तदुद्धारार्थ कांश्चित्स्वभक्तान भूतले प्रेषयामास. तेषु सर्वेष्वपि श्रीमद्वल्लभाचार्या एव मुख्या आसन्. श्रीमदाचार्याश्च समग्रां पृथ्वीं पर्यटन्तः स्थानेस्थाने शिष्यसंघान् यदा स्थापयामासुस्तदा भगवान् स्वयं पुनरपि गिरिराजे भक्तगणस्य कल्याणार्थमाविर्भवितुमियेष. यदा च श्रीमद्वल्लभाचार्याणां मनसि प्रकटीभूय स्वप्राकट्योत्सववि- धानार्थ भगवानादिदेश, ततः पूर्वमेव स स्वयमेव स्वीयामेकां भुज- लतां बहिर्निष्कास्य स्वागमनं विख्यापयामास. तद्वृत्तमित्थम. एकदा कस्यापि महाभागस्य ब्रजवासिनो गोपालस्य गौः क्रमेण गोवर्धनपर्वतं गत्वा तत्रासायं चरन्ती सायं स्वभवनमागच्छत्. एष च तस्या नियतः क्रम आसीत्. सा च धेनुः सकृत्प्रसूता प्रभूतं दुग्धं ददौ. एवंवृत्ते एकदाऽकस्मात् सा धेनुर्नीरोगाऽपि बिन्दुमात्रं दुग्धं नादात्. तद्वीक्ष्य चिन्ताकुलः स गोपालो बहूनुपायांश्चक्रे परन्तु न यशस्वी बभूव. अथ स गोपालः स्वधेनोः सुस्वभावतां मनसि कृत्वाऽचिन्तयत् कोऽपि चौरःप्रतिदिनमस्या दुग्धमपहरति नूनं, तन्निभृतं गत्वा स द्रष्टव्य इति. विचार्य चैवं द्वितीयदिने तां गामनु- जगाम. सा गौर्यथाक्रमं गोवर्धनपर्वतं गत्वा तत्रासायं चरन्ती गृह- गमनवेलां समुपस्थितामवलोक्यैकस्मिन् स्थले स्थिताऽमृतधाराभिरिव स्तननिर्गताभिर्दुग्धधाराभिरधस्तनं कमपि अभिषिषेच. स च गोपालो वृक्षमध्यलीनस्तद्वृत्तं साक्षात्कृत्य संजातविस्मयो गृहगमनमार्गेण गतायां गवि ततो निर्गत्य तत्स्थलमागतः सर्वशंखचक्रादिचिह्नजात- लांच्छितां भगवतो दिव्यां भुजलतां वीक्ष्य नमस्कृत्य च गृहमाययौ.

श्रीनाथप्राकट्यम् तां चेमा वार्ता स स्वमित्रेभ्यो न्यवेदयत्. तेऽपि सर्वे परं विस्मिता मिलित्वा गोवर्धनगिरिमागतास्तां भुजलतां वीक्ष्य परं विस्मितास्तं देवं प्रकटीकर्तुमैच्छन्. अत्रान्तरे तत्र कश्चन वृद्धतापसस्तीनं तपश्चरन स्थितस्तदुद्धाटन- तत्परांस्तान गोपालानवोचत्. महाभागाः ? अस्मिन् जगतीतले यत्किंचिज्जायते तत्सर्वमीश्वरेच्छयैव. न मानवस्य यांच्छया किमपि भवति. यदि नैवं तदा कथमयमेव भगवान् स्वभुजलतामुन्नमय्य स्वास्तित्वं युष्मभ्यं निवेदयामास. तस्मादस्य भगवतः प्रकटीकरण- व्यापाराद्विरमतम्. यथा हि युष्माकं संचितसुकृतवशो भगवान् स्वभुजलतां स्वयमेवोदनमयत्तथैव स्वमुखारविन्दमपि प्रकटीकरिष्य- तीति. तस्य दिव्यतेजसस्तापसस्येदं वचनं सत्यं मन्वानास्ते सर्वेऽपि गोपालास्तदुद्धरणव्यापारान्निवृत्तास्तां भुजलतामेव पूजयामासुः. ततश्च क्रमेण तां वार्ता निशम्य समागच्छन्तो व्रजवासिनो भगवदा- दरपरा महोत्सवं चक्रुः अथ यदा चंपारण्ये श्रीमदाचार्याः प्रादुरभवंस्तस्मिन्नेव दिने भगवता गोवर्धनधारिणा श्रीकृष्णेनापि स्वमुखं प्रकटीकृतं. तदेतदा- श्वर्य विलोक्य सर्वेऽपि ब्रजवासिनः शुभकालं समागतमवलोक्य सन्तुष्टा भगवदाराधनामारभन्त. यदा श्रीमदाचार्यचरणास्तृतीयपृथ्वीप्रदक्षणार्थ निर्गतास्तदा भग- वान् देवकीनन्दनः स्वयमाविभूय जगाद-'मां प्रकटयित्वा मम सेवाविधि संपादय. तत एव सर्वत्र भक्तिमार्गः प्रसरेदिति'इति मया पूर्वमेव निवेदितं. श्रीमदाचार्याश्वेमां भगवदाज्ञां शिरसा स्वीकृत्य तत एव निवृत्ता मथुरानगरी समागत्य शिष्यैः सममतिष्ठन्.

श्रीमद्वल्लभाचार्यचरिते तस्मिन् समये मथुराक्षेत्रे नागरिका जना अतिव्याकुला आसन्. तस्य व्याकुलीभावस्य कारणमिदमासीन्- तम्मिन् समये समग्रभार- तस्य स्वामी यवन एव. स हि प्रकृत्या सनातनधर्मानुयायिनोऽद्वेट्र. मथुराक्षेत्रे श्रीभगवतःप्रादुर्भावनिमित्तं तत्रम्थैर्गोपालैः समारब्धमुत्सव- मवलोक्य नितान्तं क्रुद्धः : स हि कंचन प्रबलमैंद्रजालिकं संप्रेप्य समा- तनधर्मानुयायिनां विडम्बनां समारभत. स चैन्द्रजालिकः स्वमायया यमुनातीरं गतानां सनातनधर्मानुयायिनां शिखामाच्छिद्य तन्मुखानि इमथुलान्यकरोत. तेन भीताः सर्वे ब्रजवासिनः सुतरां शोकाकुलाः स्वधर्मरक्षार्थ परमात्मानं प्रार्थयन्त. एवं व्यग्रेषु सर्वेषु मथुरानगर- वासिपु श्रीमदाचार्याः स्वशिष्यगणैः समं स्नातुं यमुनातीरं गन्तुमा- रभन्त. तस्मिन समये परमव्याकुलास्ते नागरिका आचार्यचरणां- स्तत्र गन्तुं प्रतिपेधन्तः सर्व वृत्तं तेभ्यो न्यवेदयन. परमात्मकृपाशालिनस्ते परमभागवताः श्रीमदाचार्यचरणास्तत्मर्व- माकर्ण्य स्मेरवदनकमला गंभीरया वाण्या प्रत्यूचुः 'न भेतव्यं ? सर्वपालकः परमात्मा कदाऽपि स्वधर्महानिं न सहिप्यत इति. उक्त्वा चेत्थं सहसा यमुनातीरमागत्य परमपवित्रे तत्सलिले श्रीकृ- ष्णगात्रसौन्दर्यप्रवाह इव सस्नुः. अन्येऽपि संजातविश्वासास्तैः समं समागता जना अपि तथा शिष्यगणा अपि सुखेन स्नानं चक्रुः. तान सशिखं प्रत्यागतानवलोक्य संजातविस्मयास्ते सर्वेऽपि मथुरा- नगरवासिनः श्रीमदाचार्यचरणानलौकिकान मन्यमानाः सहसा तस्य यवनैन्द्रजालिकस्य गर्वमपहर्तु विज्ञापयासासुः. आचार्यचरणा अपि वृथा त्रासदायिनस्तस्य यवनस्य शासनविधानायोत्सुकाः स्वयमपि एकं तथाविधं यंत्रं दिल्लीनगरे शिष्यहस्तेन प्रेषयामासुः. तेनोद्विग्नः श्रीनाथप्राकट्यम् ९७ स दिल्लीश्वरस्तत्कारणं ज्ञात्वाऽपहृतगर्वस्तं यवनं प्रत्यागन्तुमादिदेश. तस्मिन् यवने मथुराक्षेत्रान्निर्गत्य स्वनिवासं गते सति सर्वे गोपालाः परममुत्सवं चक्रुः. श्रीमदाचार्यचरणान् शरणमागत्य तदाज्ञया वर्ति- तुमंगीचक्रुः अथ शुभमुहूर्ते सर्वैरपि सानन्दैव्रजवासिभिः समं श्रीमदाचार्यचरणा आनन्दातिरेकसमुल्लसन्मानसाः प्रबुद्धस्तत्प्रतिबिंबैरिव तेजस्विभिः शिष्यगणैः समेता गोवर्धनपर्वतं प्रति श्रीगोवर्धनधारिणः श्रीकृष्णस्य दर्शनार्थ प्रातिष्ठन्त. तस्मिन् समये सर्वमपि गोकुलस्थं गोकुलं प्रम- वद्दुग्धधारापूतराजमार्ग तान सानन्दमनुजगाम. ब्रजांगना अपि भक्त्यतिरेकसमुल्लसद्वृदयकमला मजुलैपुरध्वनिभिः सर्व वाचाल- यन्त्यो मधुरैः कण्ठस्वरैर्भगवतो लीलाजातं गायन्त्यः श्रीमतां श्रीव- ल्लभाचार्याणामनु प्रतस्थिरे. श्रीमदाचार्यचरणा अपि तादृशं भक्तगणा- नामुत्साहं तथा भगवद्भक्तिं च विलोक्य तथैव व्रजे स्थानेस्थाने कृष्णावतारे श्रीदेवकीनन्दनेन कृतं लीलासहस्रं म्मरन्तः प्रेमातिशये- नातिविस्तीर्णाभ्यां नयनकमलाभ्यां प्रमोदाश्रुणि विसृजन्तः स्खल- त्पादविन्यासाः शनैः शनैर्ययुः. अथ दूरादेव तं बालपल्लवमण्डितक- दम्बवृक्षसनाथं, अतिमधुरगुंजारवभ्रमरावलिविचुम्बितकुसुमामो- दसुन्दरवनलतासहस्रं, तत्र निवसतो भगवतः श्रीकृष्णस्य सेवार्थ स्वर्गावतीर्णाभिः कामधेनुभिरिव दर्शनीयाभिरसंख्याभिर्धेनुभिः समलंकृतं, मन्दमन्दवाहिनिर्मलसलिलनिर्झरव्याप्तं, श्रीमतां श्रीवल्ल- भाचार्याणां सत्काराय पट्टवस्त्रेणेव शाबलेन समावृतकार्य, निर्भयं संचरन्तीभिर्गोपांगनाभिरिवातिदीर्घनयनाभिर्हरिणांगनाभिर्मण्डितं श्री- गोवर्धनपर्वतं साक्षात्कृत्य भक्तिविवशाः श्रीमदाचार्यचरणास्तं प्र- वल. ७ श्रीमद्वल्लभाचार्यचरिते णेमुः आरभन्त च भगवत्स्तोत्रं. येन च प्रथमं निर्गताया भगवतो भुजलताया दर्शनं कृतं स ‘सदुपांडे' नामा गोपालो मार्गदर्शको नाम भूत्वाऽग्रतः प्रचचाल. पश्चाच श्रीमदाचार्यचरणास्तथा तदीयाः शिष्यसंघाः. सर्वेऽपि ब्रजवासिनः सात्विकभावोत्पत्त्या विदेहा अभ- वन्. तमिमं ब्रजवासिना भाग्योदयं तथा श्रीमतामाचार्यचरणानां च द्रष्टुं देवाः सर्वे स्वस्वविमानस्था वियति एकत्र तस्थुः. दिव्या अप्सरसश्च मह्ता प्रमोदेन भगवद्गुणानुवादान् जगुः. कतिपये दिव्या भक्तगणाः स्वर्ग विहाय तमेव गोवर्धनगिरिं स्वर्गाधिकं म- न्यमानास्तत्रैवागच्छन्. तदानीं श्रीगोवर्धनधारी भगवानपि परम- भागवतानां श्रीमदाचार्याणां स्वदर्शनार्थ तथा स्वप्राकट्यविधानार्थ- मागमनं निशम्य सानन्दः महता प्रेम्णा तस्मात्स्थानान्निर्गत्याग्रे समाययौ. श्रीगोवर्धनोद्धारकं श्रीमतां श्रीवल्लभाचार्याणां सत्कारार्थ- मग्रे समागतमवलोक्य सर्वेऽपि ब्रजवासिनस्तथा नानादेशेभ्यः स- मागताः शिष्यगणाः परं विस्मिता अभवन्. अघोपयंश्चोच्चैर्भगवतः श्रीयशोदानन्दनस्य नाम. ततस्त्वरितं समागच्छन् श्रीगोवर्धनधारी विनयातिशयेन वा प्रीत्यतिरेकेण वा तचरणकमलयोनिपततः श्री- मदाचार्यचरणान् परमविशालेन भुजयुगलेन मध्ये एव समवलंब्य क्रोडेकृत्वा परमाश्लिषन्. तदीयाश्लेषसुखेन श्रीमदाचार्यपादा दिव्यं सुखमनुभवन्तः किंचित्कालं स्वपरभेदं व्यस्मरन्. अथ कथंचित्तदी- यमाश्लेषसुखं विहाय श्रीमदाचार्या आनन्दाश्रुधौतं परमभाग्यराशि- लभ्यं भगवतश्चरणारविन्दं नमस्कृत्य तदीयपादपंकजरजोभिः स्वलला- टपटलमलंचक्रुः. भगवान् वासुदेवः स्वयमवोचत्-वत्स ? श्रीवल्लभ ? त्वं हि मदीयां भक्तिं जगति प्रसारयितुमवतीर्णोऽसि. अद्यपर्यन्तं श्रीनाथप्राकट्यम् त्वया खलु सकलं भारतवर्ष द्विरटित्वा सर्वा लोकस्थितिरवलोकितैव. अस्मिन् पुष्टिमार्गे साक्षाद्भगवतः सेवैव विहिता. सेवां विना नास्मिन मार्गे भगवतः कृपा लभ्यते. तत्त्वं मां मंदिरेऽभिपिच्येत एव सर्वत्र पुष्टिमार्गसम्प्रदायं प्रवर्तय. अचिरादेवाहं स्वयमेव मर्वेषु प्राणिगणेपु तथा प्रेरणां करिष्यामि यथाऽयं सम्प्रदायः सार्वत्रिको भवेदिति. यद्यपि अस्मिन समये श्रीमदाचार्याणां समीपे धनं तादृशं नासी- येन ते शीघ्रमेव महामन्दिरं विधाय तत्र श्रीनाथं स्थापयितुं श- नुयुः, परन्तु परमभागवतास्ते यत्किंचिदपि न विचार्य तां भग- वदाज्ञां शिरसा स्वीकृत्य तत्रैव तेषां सर्वपां व्रजवासिनां माहाय्येन समीचीनमेकं मन्दिरं विधाय तत्र श्रीनाथं स्थापयामासुः. तत्सेवा- प्रकारं च सर्व स्वशिष्येभ्यो निवेद्य स्वयं श्रीनाथम्याज्ञां गृहीत्वा पृथ्वीपर्यटनार्थ ययुः. मार्गे च सर्वत्र प्रकटीभूताः श्रीकृष्णनाथम्य मूर्तीरुद्धृत्य सुन्दरेपु मन्दिरेषु अस्थापयन. यदा च श्रीमदाचार्यपादास्त्रैलोक्यनाथं श्रीवसुदेवनन्दनं श्रीगो- वर्धनगिरौ स्वल्पे मन्दिरे स्थापयामासुस्तदानीं तेपां मनसि महान खेदो बभूव. यो हि साक्षाजगदीश्वरः स मया निर्धनेन साधारणे देवालये स्थापित इति. तं च मनसि कृत्वा दीनदयालुः श्रीनाथः खभक्तस्य अंबालाग्रामवासिनः पूर्णमल्लस्य मनसि मन्दिरनिर्माणार्थ धनदानाय प्रेरणां चक्रे. स तु पूर्णमल्लः साधारणस्तादृशमंदिरस्य निर्माणे द्रव्यव्ययं बहु गणयंस्तावतो द्रव्यस्य संपादनार्थ सोत्साह प्रावर्तत. यदाप्रभृति स भक्तवरः पूर्णमल्लः श्रीनाथस्य मंदिरं विर- चयितुं कृतसंकल्पः स्वव्यवसायमारभत, तदारभ्यैव तदीयं धनं परं १०० श्रीमद्वल्लभाचार्यचरिते ववृधे. अचिरादेवापारं धनं लब्ध्वा सन्तुष्टः श्रीमतां श्रीवल्ल- भाचार्याणां पृथ्वीपर्यटनात्प्रत्यागमनवेलां प्रतीक्षमाणस्तस्थौ. श्रीमदाचार्याश्च यदा क्रमेण तीर्थानि पर्यटन्तस्तदीयं निवास- ग्राममागच्छंस्तदा स श्रुतकीर्तिः सत्वरं गत्वा प्रणम्य श्रीकृष्णस्याज्ञां श्रावयामास. श्रीमदाचार्यचरणा अपि तत्सर्वं जानन्तः शीघ्रमेव तथा विधातुमादिदिशुः. अत्रान्तरे स भगवान् श्रीनाथः स्वयं श्री- मदाचार्यानवदत्. यद्यपि त्वया स्वशिष्येभ्यः कथितं भगवत्सेवेत्थं विधेयेति तथापि तद्विहिता मे न रोचते तत्त्वमेव सत्वरमागत्य मदीयसेवाव्यवस्था संपाद्य पुनरपि तीर्थान्यटितुं व्रजेति. तामाज्ञां शिरसा धृत्वा श्रीमदाचार्यास्तत एव निवृत्ता गिरिराजमागत्य श्रीगो- वर्धनधारिणः सेवां व्यधुः. तत्र च निवसत्सु श्रीमदाचार्यचरणेषु स परमभाविकः पूरणमल्लो लक्षमुद्रासहितस्तत्र समागत्य मन्दिरं वि- रचयितुमाज्ञामयाचत. श्रीमदाचार्याश्च तादृशस्य महतो मन्दिरस्य निर्माणात्पूर्व तदीयं छायाचित्रं निर्मातुमादिशन. यथानियोगं त- निर्माय तेन समानीते तस्मिन् पुनरपि द्वितीयं तथा तृतीयं तन्नि- र्मातुमगदन. गुर्वाज्ञापालनतत्परः स पूर्णमल्लः पुनरपि तस्य च्छा- याचित्राणि विरचय्य प्रादर्शयत्. समागतेषु तेषु त्रिष्वपि भविष्य- द्भगवन्मन्दिरच्छायाचित्रेषु स्वशिष्यानाहूयावदन्-शिष्याः ? इदं हि भगवतो गोवर्धनधारिणः प्रथममन्दिरस्यादिमं शिखरं. इदं चा- त्रैव भविष्यतो मन्दिरस्य. एतच्च यदा यवनत्रासाद्भगवान् वासुदेवः स्वयमेवाऽन्यत्र गन्तुमिच्छेत्तदानीं तत्र भविष्यतो मन्दिरस्य. अस्तु. सम्प्रति पूर्णमल्लोऽत्रैव भगवन्मन्दिरं विधातुमारभतामिति. तामाज्ञां स्वीकृत्य महता प्रमोदेन स पूर्णमल्लो मन्दिरं समारभत परन्तु श्रीनाथप्राकट्यम् शीघ्रमेव सर्वमपि धनं क्षीणं. तेन स पुनरपि प्रभूतं धनं संपाद- यितुं दक्षिणां दिशं ययौ. श्रीमदाचार्यचरणाश्च तत्रैव निवसन्तः सर्व भगवन्मनोरथानु- रूपं व्यवस्थापयामासुः. एकदा भगवान् श्रीनाथ एका गावमानेतुं श्रीमदाचार्यचरणानवदत्. तेऽपि भगवन्मनोगतं जानम्तः शीघ्रमेव सदुपांडेनामकं परमभागवतं गोपालं समाहूय तस्मै सुवर्णवीटिका प्रदाय गामानेतुमगदन. स तु क्रयणेन धेनोगनयने कारणान्तर- मपश्यन विनयेन जगाद. आचार्यचरणाः ? अहमस्मि गोपालः मदीये गृहेऽसंख्या धेनवः सन्ति तासु या भगवते रोचते सा ग्राह्यति. तस्येदं वचनमभिनंद्याऽपि यदा श्रीमदाचायाः मुम्बम्पां गावं क्रीत्वाऽनेतुमवदंस्तदा स गुरुनियोगानुपालनतत्परः शीघ्रमे- वापणं गत्वा सर्वशुभलक्षणान्वितां गामानिनाय. श्रीमदाचार्या अपि तां गावं वीक्ष्य सन्तुष्टा यथाविधि पूजयित्वा श्रीनाथस्य पुरतस्ता- मस्थापयम्. श्रीनाथश्च तां वीक्ष्य परं मुदितम्तस्या एव दुग्धं प्रति- दिनं पपौ. अथ क्रमेण सर्वे एव श्रीमदाचार्याणां शिप्याः मुलक्षणा गावः प्रतिदिनं समानीय श्रीनाथाय ददुः. तेन शीघ्रमेव नत्रासंख्या गावः संमीलिताः. ताः सर्वा एवं समादाय भगवान गोपालैः समं तत्र क्रीडन् श्रीमदाचार्याणां तथा शिव्याणां च परमां मुदं व्यतानीत्. एवं प्रतिदिनं महता प्रयत्नेन श्रीगोवर्धनधारिणः श्रीवासुदेवस्य मनोरथानुरूपां सेवां विधाय तं सन्तोपयन्तस्तत्रैव परमरमणी- येऽतिविमलविकचकमलभासुरसरोवरसुन्दरे विजितवैकुण्ठसौन्दर्ये गिरिराजे निवसन्तः परं सन्तोपमलभन्त. अगणिताः शिष्य- गणा अपि.

१० पुत्रलाभः १ भगवदर्चायाः सातत्यचिन्ता. २ पुत्रप्राप्ति ३व्रजयात्रा. ४ श्रीनाथस्य नूतनालये प्रतिष्ठापनम्. (१) एवं बहुकालं श्रीगोवर्धनधारिणं भगवन्तं श्रीनाथं सम्यक् से- वया सन्तोषयित्वा तदाज्ञयाऽचार्यचरणा वाराणसी प्रत्याजग्मुः. तत्र गृहस्थाश्रमानुरूपं सर्वाणि कर्माणि कुर्वाणाः किंचित्कालमति- ष्ठन्. तत्र च ब्राह्मणभोजनादिकं सर्व समनुष्ठितं. तथैव काशिकैः पण्डितैः समं विवादं विधाय तेषां गर्वोऽपि निरस्तः. एवं प्रयाते काले श्रीमदाचार्यचरणा मनसि विचिन्तयामासुः-मया खलु भग- वदाज्ञात एव परिणीतं. नासीन्मे मनसि प्रथमं विवाहः करणीय इति. परन्तु भगवत्सेवायाः सातत्यार्थ तथा श्रीभगवतो विठ्ठलेशस्य नियोगपालनार्थ च विवाहः कृतस्तथापि न किंचिदपि आशाचिह्न पश्यामि. तत्कथमयं मम भगवतश्च मनोरथः सफलो भवेदिति. एवं विचिन्त्यैकस्मिन्दिने निद्रितेषु श्रीमत्सु आचार्यचरणेषु भग- पुत्रलाभः १०३ वान् श्रीनाथः स्वयमाविर्भूय जगाद-वत्स? सर्वस्याऽपि अस्य भक्तिमार्गस्य चिन्ता मे. यदि भक्तिमार्गो न प्रसरेत् तदा कथं मे 'न मे भक्तः प्रणश्यति' वाक्यं सार्थ भवेत् ? त्वया चिन्ता न करणीया. अचिरादेव मदीयांशभूतः प्रथमः पुत्रस्ते भवेत्. द्विती- यश्च श्रीविठ्ठलेशः स्वयमेव. त्वं च शीघ्रमेव तयोः प्रत्यक्षं करि- ष्यसि इति. निगद्य चैवं तिरोहिते भगवति श्रीमदाचार्याः परं सन्तुष्टाः सम्प्रदायरक्षणे तथा श्रीभगवतो गोवर्धनधारिणश्च सेवा- सातत्ये विचिन्ता अनन्यभावेन भगवतः सेवायां तथा शिष्या- णामुपदेशे स्वकालमयापयन्. यद्यपि श्रीमदाचार्याणां मुख्यः संप्र- दायः पुष्टिमार्ग एवासीत्तत्र तु नास्ति तादृशस्य तपसस्तादृशम्य ज्ञानस्य वाऽपेक्षा यावती श्रद्धायाः, परन्तु श्रीमदाचार्या वेदपठनं तथा शास्त्राभ्यासं चारक्षन्. समये समये च यज्ञान विधाय सर्वान विप्रगणानतोषयन्. (२) अथाचिरादेव सकलस्य भक्तिसम्प्रदायशिष्यसंघस्य कल्याणाय तथा भाविनां सनातनधर्मानुयायिनामुद्धाराय च श्रीभगवतो महा- शक्तिरिव श्रीमदाचार्यचरणानां पत्नी महालक्ष्मीः गर्भमधत्त. यस्मि- न्दिने सा गर्भवती बभूव तस्मिन्दिनेऽतिकल्याणकारीणि शुभसू- चकानि चिह्नानि सर्वत्राभवन्. ततः क्रमेण प्रवर्धमाने तस्मिन् गर्भे सर्वे श्रीमदाचार्याणां शिष्यगणाः परममोदन्त. दोहदादिपूरणे चा- त्यन्तमुदासीनान् श्रीमदाचार्यचरणानवलोक्य ते शिष्यसंघाः श्रीम- दाचार्यचरणानां मातृपादांस्तत्पूरणायावदन्. तेऽपि सानन्दाः स्व- नुषाया दौहदानापृच्छय तान्विज्ञाय परं मुदिता अजायन्त. श्रीम- १०४ श्रीमद्वल्लभाचार्यचरिते दाचार्यचरणा अपि स्वकान्ताया भक्तिमार्गप्रसारैकध्येयान् दोहदान- वगम्य निश्चिन्ता अभवन्, अथ क्रमेण वर्धमानः स गर्भोऽद्वितीयां दिव्यां लावण्यकान्ति बभार. सर्वेऽपि शिष्यास्तन्निरीक्ष्य विस्मिता हृष्टाश्च बभूवुः. ततः क्रमेण नवसु मासेषु परिपूर्णेपु सा माताऽदिशक्तिरिव महालक्ष्मीः प्रथमं सर्वशुभलक्षणान्वितं पुत्रं प्रासूत. यस्मिन् दिने स प्रथमः पुत्रः श्रीमदाचार्याणामिमां भूतलविख्यातां भारतभुवमलंचक्रे तस्मि- न्दिने सर्वत्र नाना शुभचिह्नानि अजायन्त. विशेषतश्च व्रजे सर्वा अपि गावो दुग्धदुग्धा अपि पुनरपि स्तनेभ्यः प्रभूतं पयः समुदसृजन्. सर्वे गोपालाः समं गोपांगनाभिः स्थानेस्थाने कृत- मण्डला मधुरवेणुरवेण सर्वान् मोयन्तोऽनृत्यन्. अगायंश्च भग- वतो लीलास्तोत्राणि. स्वयं भगवान् श्रीगोवर्धनधारी स्वभक्तगणैः समं रासक्रीड्यं चक्रे. तत एवं समुत्पन्नानन्दे जगति प्रमुदितास्ते श्रीमदाचार्यचरणा महोत्सवेन तस्य पुत्रस्य जातकर्मादि विधाय एकादशेऽहनि तदीयं नाम श्रीगोपीनाथ इति चक्रुः. सर्वेऽपि जना भगवता कृतामाज्ञां स्मरन्तः परं सन्तुष्टा अभवन्. सोऽपि बालकः क्रमेण शुक्लपक्षेन्दुरिव वर्धमानः सर्वथा स्वपितृचरणानामनुगुण एव बभूव. . अथ व्यतीते वर्षद्वये भगवान् विठ्ठलेशः स्वयमेवास्य पुष्टिमा- र्गस्य रक्षणार्थमवतर्तु कृतसंकल्पस्तस्य महालक्ष्म्याः परमपवित्रे कुक्षौ न्यवसत्. तदेतत् सर्व वृत्तं जानन्तः श्रीमदाचार्यचरणाः परमतुष्यन्. खवंशस्य तथा भगवत्सेवायाश्चाविच्छेदेन प्रचालनार्थ साक्षाद्भगवन्तमेवावतरन्तमवेक्ष्य कस्य न मोदो भवेत् ? वाचकाः?

पुत्रलाभः १०५ यथा हि सांसारिका जनाः पुत्रानिच्छन्ति तत्प्राप्त्या च मोदन्ते तथैव भगवद्भक्ता अपि. तथापि तत्र महद्वैलक्षण्यमस्ति. प्रथमास्तु केवलं स्त्रीपुत्रादिभ्यः स्वस्य सुखं वांच्छन्त एव तानिच्छन्ति. च- रमास्तु केवलं परोपकारतत्पराः सदा भगवदाराधनपरास्तदर्थमेव. नहि भगवत्सेवां विनाऽन्यत्किमपि निरतिशयप्रेमास्पदं भगवद्भ- तानाम्. स हि गर्भो यथायथाऽवर्धत तथातथा मातुर्महालक्ष्म्या मुख- कान्तिः परं विलक्षणा बभूव. सा च सती पूर्ववृत्तं किमपि न जानन्ती यदा सदैव हसन्तं पुरतस्तिष्ठन्तं विट्ठलेशमपश्यत्तदा शंकाकुला तद्वृत्तमाचार्यपादेभ्यो रहसि जगाद. ते तु तदाकर्ण्य सन्तुष्टाः सर्व वृत्तं कथयित्वा तां प्रत्यवदन् , संकल्पितो मनोर- थोऽचिरादेव सफलो भविष्यति इति. अथ शुभमुहूर्ते परिपूर्णेपु नवमासेषु सकलस्य भारतस्योद्धारार्थ साक्षाद्विट्ठलेश एव बालरूपेणावततार. अवतीर्णे च तस्मिन सर्वत्र महाप्रमोदो बभूव. न केवलं पुष्टिमार्गानुयायिन एव सन्तोषसा- गरमग्ना अभवन् किंतु सर्वे सनातनधर्मानुयायिनः. विधर्माणश्च परं भीतिविह्वलाः. श्रीमदाचार्याश्च श्रीविठ्ठलेशस्य प्रादुर्भावेनात्यन्तं सन्तुष्टा महतोत्सवेन तदीयं जातकर्मादिकं चक्रः. एकादशेऽहनि प्राचीनं वृत्तं सर्व वृत्तं जानन्तः सत्यमेव तदीयं श्रीविठ्ठलेश” इति नाम चक्रुः. सोऽपि बालोऽतितेजस्वी प्रतिदिनं तथाऽवर्धत यथा पश्यतां तेषां सर्वेषामपि महान्विस्मयो बभूव. श्रीमदाचार्यपादाश्च तत्पुत्रद्वयं निरतिशययोग्यताशालि पुष्टिमा- र्गस्य प्रसारार्थमत्युपयोगि निरीक्ष्य सन्तुष्टाः सर्वं तदीयं शिक्षणा- श्रीमद्वल्लभाचार्यचरिते दिकं भागवतसम्प्रदायानुरूपं चक्रुः. अथ योग्ये समये श्रीमदाचार्य- घरणास्तावुपनीय वेदाभ्यासार्थ समीचीनान गुरूनुपायुंजत. तावपि शीघ्रमेव सकलवेदशास्त्रपारंगतौ विद्वद्वरावभूताम्. (३) एवं भगवदार्चायाः सातत्यचिन्ता श्रीगोवर्धनधारिणा पुत्रद्वयं वितीर्य दूरीकृतेति परमसंतोषभाजः श्रीमदाचार्यचरणास्तद्दर्शनार्थ काशीक्षेत्रान्निर्गत्य व्रजभूमिमागन्तुं मनश्चक्रिरे. न्यवेदयंश्च सर्वतो दृतमुखेन तं संकल्पं स्वशिष्येभ्यः. ते च चिरादेव श्रीमदाचार्यच- रणानां चरणारविन्ददर्शनार्थमुत्सुका व्रजयात्रायां भविष्यन्ति नाना- विधानि कौतुकानि द्रष्टुं सत्वरमुपागमन. प्रायो बहवः शिष्यसंघाः काशीमेव समागत्य तत एव श्रीमदाचार्यचरणैः सह ब्रजमाययुः. श्रीमदाचार्यचरणाश्चागणितशिष्यमंडलीभिः समं व्रजं गन्तुं निर्ययुः. यदा च प्रौढप्रतापाः श्रीमद्वल्लभाचार्यचरणा भगवतो दर्शनार्थ का- शीतो निर्गतास्तदा तेषां सेवाविधानार्थ राजानस्तथा भूतलकुबेराय- माणा धनिका जना अहमहमिकयाऽग्रेऽगच्छन्. श्रीमदाचार्याश्च प्रयागं प्राप्य तत्र महायागं विधाय बहुब्राह्मणभोजनमकार्षः. नानादेशेभ्यः समागतेभ्यो विविधविद्यापरिगतेभ्यो विद्वद्वरेभ्यः प्रभूतां दक्षिणां वितीर्य तान संतोषयामासुः. तेऽपि भूदेवा अनेन सत्कारातिशयेन परं सन्तुष्टास्तेषां यशः प्रसृतं चक्रुः. ततोऽपारशिष्यगणैः समं ते परम- भागवताः श्रीमदाचार्यचरणाः श्रीभगवतो गोवर्धनधारिणः श्रीना- थस्य दर्शनार्थमत्युत्कण्ठिता अतित्वरया समागच्छन् ब्रजस्य समीपं देशं. अथ तत्रैव सर्व राजकीयमैश्वर्य हस्त्यश्वादिकं स्थापयित्वा महति प्रत्यूषे शिष्यगणैः समं ब्रजं गन्तुं निरचिन्वन्. तदानीं पुत्रलाभः १०७ , सायंसंध्याया उपासनार्थमेकाकिनः स्थिताः श्रीमदाचार्यचरणा अ- तिमनोहरं सकलत्रिभुवनसौन्दर्यसारभूतं, स्थानेस्थाने मधुरसह- कारसमूहवर्धितं, विकचकुसुमस्तबकालंकृतनवमल्लिकाभिः, प्ररोहश्यामलैः प्रमत्तवृपभहुंकारनादितैः क्षेत्रैः, अतिमधुरचरणनू- पुरशिक्षितग्रहणतत्परहंसकदम्बकविनितगमनाभिर्गोपीभिः, वेणुनि- नादश्रवणव्यग्रत्यक्तरोमन्थेन धैनुकेन, धेनुनिनादमिश्रेण गोपालानां गीतध्वनिना, तासां त्रैलोक्यवंद्यानां व्रजभूमीनां परिबंहितं सौन्दर्य वीक्ष्य परं मुदिताः क्षणमात्रं विगतदेहाभिमाना वैकुण्ठनिवाससौ- ख्यमलभन्त. प्रमुदितहृदयकमलास्ते परमात्मानमित्थमन्तुवन- सकलचराचरपालक ? दयानिधे ? भक्तवत्सल ? श्रीराधारमण ? त्वं हि नो भक्तानां केवलः शरणं. यदा हि सती पांचाली कौरवस- भायां दुर्योधनस्याज्ञया दुष्टेन दुःशासनेन नितरां पीडिता वसना- पहरणेन लज्जापयितुमिष्टा तदा त्वमेवासंख्यकरः वस्त्रदानेन तां ररक्षिथ ? नाथ ? यदा नकाक्रान्तं गजेन्द्रं त्यक्त्वा सर्वे सुखबा- न्धवास्तदीया दायादा अन्यत्र जग्मुस्तदा तु एकाकी अनाथो ग- जेन्द्रस्त्वामेव स्वरक्षणार्थमयाचत. तदापि त्वमेव तमपालयः, यदा च दुष्टः कंसः सती देवकी निरपराधां निष्कारणमपीडयत्तदाऽपि त्वमेव तस्याः संभूतो नाम भूत्वा तमनाशयः. नाथ ? एवं स्वाश्रि- तरक्षणे सदैव जागरूकेऽपि त्वयि केचन विषयोपभोगमदोन्मत्ता- स्त्वामसन्तमेव वदन्ति. मन्ये नायं तेषामपराधः किंतु तदीयस्या- ज्ञानस्य. यथा हि नेत्रहीनः प्रौढप्रकाशं सकलजगत्कर्मसाक्षिणं सूर्यमपश्यन्नसन्तमेव तं वदति तथैवेमेऽज्ञानिनो जना अनादिवि- षयवासनारूषितचेतसस्त्वां द्रष्टुमपारयन्तोऽसन्तमेव वदन्ति. न श्रीमद्वल्लभाचार्यचरिते तदुक्त्या सन्तो दूयन्ते. परन्तु भक्तास्तेषामज्ञानमपहर्तु त्वां भूयो- भूयः प्रार्थयन्ते. सकलपालके त्वयि ते न विश्वसन्तीत्यत्रापि का- रणं तेषामज्ञानमेव. त्वमेव हि समये समयेऽवतीर्य भक्तगणमा- नन्दयसि. तथा रक्षसि च प्राणिजनस्योन्नतिकरं भक्तिमार्ग. सर्वथा त्वमेव सर्वेषां जीवानां प्रेममयी माता. यथा हि विनीता- निवाविनीतानपि स्वपुत्रान् माता पाति तथैव त्वमपीति. इत्थं चिरादेव श्रीगोवर्धनधारिणं स्तुवन्तो ध्यायन्तश्च तस्थुः. रात्रौ च महति प्रत्यूषे समुत्थाय स्नात्वा श्रीगोवर्धनधारिणो दर्शनाय गन्तुं निश्चित्य शिष्येभ्यः स्वनिश्चयं न्यवेदयन्. अथ कथमपि सा दीर्घदीर्घा रात्रिः प्रलयकालरात्रिरिव दु:- खदा समाप्तिं ययौ. शुभसमयं समागतं बोधयन्तीव पक्षिसंहतिः किलकिलशब्दैः सकलं भुवनं मुखरमकरोत्. सा कृष्णरूपधरा रात्रिः पूतनेव कृष्णदर्शनभीता शनैःशनैरपासरत्. आकाशपट- लस्थस्तारागणो रात्रिसहचर इव मन्दतेजा बभूव. अचिरादेव स- मागच्छतः सूर्यनारायणस्याग्रदूतिरिवाथवाऽचिरादेव समागच्छतः सूर्यकान्तस्य स्मेरमुखश्रीरिव प्रभा प्राची दिशमुज्ज्वालयामास. श्री- गोवर्धनधारिणः श्रीनाथस्य दर्शनार्थ समुत्सुका भक्तगणा इव सर्वा अपि धेनवस्तं पर्वतं गन्तुमारभन्त. गोप्योऽपि सानन्दं भगवतो गुणान् गायन्त्यो दधि अमनन्. सौभाग्यवत्यो गृहिण्यो वेलातिक्र- मभीताः संमार्जनकर्म समारभन्त. अतिनिर्मलसलिलाया महापा- पिजनपापदूरीकरणवित्ताया भगवच्चरणारविन्दस्पर्शपरिपूताया यमु- नायाः सर्वेऽपि जलावतारपथा भावुकैर्जनैाप्ता अभवन्. अति- निबिडाज्ञाननिर्मुक्तं ज्ञानिहृदयमिव घनान्धकारमुक्तं सर्वमपि ज- पुत्रलाभः १०९ गत् प्रसन्नतां भेजे. श्रीमदाचार्यचरणास्तु सततं श्रीगोवर्धनधारिणः श्रीनाथस्य प्रबलया दिदृक्षया रात्रावप्यलब्धनिद्राः समुपस्थितं प्रभा- तकालं स्वसोदरमिवाभिनंद्य सत्वरं श्रीकालिन्द्या अतिपवित्रे सलिले कृतावगाहनाः संध्यामुपास्य श्रीनाथस्य दर्शनार्थ प्रातिष्ठन्त. श्रीमदाचार्यपादान् श्रीगोवर्धनगिरिं प्रति प्रस्थितान्निशम्य स- ोऽपि ब्रजवासी जनस्तस्य श्रीगोवर्धनधारिणः श्रीमदाचार्यपादैः समं संमेलनस्य शोभां द्रष्टुं गिरिराजमधावत्. तेन प्रायः सकल- मपि ब्रजस्थानं रिक्तमभवत्. श्रीमदाचार्याश्च भागवते व्यासोक्तानि श्रीकृष्णस्य लीलास्थानानि पश्यन्तो भक्त्यतिरेकेण विस्तीर्णनयन- कमलाभ्यामानन्दाश्रुपटलं विसृजन्तस्तत्समावस्थैरपि शिष्यगणैः कर्तव्यबुद्ध्या दर्शितमार्गा गिरिराजस्योपत्यकामाययुः. तत्र च समा- गमनश्रमापनोदाय भगवता श्रीनाथेन प्रेषित इव विकचकुसुमप- रिमलमधुरो गिरिनिर्झरशीकरवाही पवनो मन्दमन्दं वहन् श्रीम- दाचार्याणां शैलावरोहपरिश्रमक्लेशं दूरीचकार. श्रीमदाचार्यचरणाश्च दूरादेव स्वल्पस्यापि महायशसः श्रीगोवर्धनधारिदेवालयस्य वैज- यन्तीं प्रेक्ष्य कृतसाष्टांगप्रणिपाताः परं प्रेम्णा धावन्तो वेगेन तं त्रैलोक्यनाथमपि भक्तसेवकं दुर्लभमपि भक्तिसुलभं गोवर्धनधारिणं कण्ठे जगृहुः. भगवान् श्रीगोवर्धनधार्यपि चिरविरहजन्यं दुःखमि- बानन्दाश्रुपटलं व्यसृजत्. श्रीमदाचार्याश्च तत्रैव निवसन्तो भगवतः सेवां व्यधुः. (४) अथ शीघ्रमेव द्रव्यसंपादनार्थ दक्षिणां दिशं गतः स पूर्णमल्ल- स्ततो रत्नानि चन्दनकाष्ठानि च गृहीत्वा प्रत्यागत्य स्वदेशे तत्सर्व ११० श्रीमद्वल्लभाचार्यचरिते व्यक्रीणात्. अस्मिन् व्यवहारे सोऽपारं धनं लेभे. तत्सर्वमपि धनं परमात्मना प्रदत्तमिति मन्वानः स श्रेष्ठी पूर्णमल्लः सत्वरं तेन धनराशिना समं तत्रैवाजगाम. आगतं तं वीक्ष्य श्रीमदाचार्यच- रणाः सन्तुष्टा अवशिष्टस्य देवालयस्य विधानार्थमनुमितिं दर्शया- मासुः. स च परमभागवतः श्रीगोवर्धनधारिणः सेवाविधाने परम- दक्षः शीघ्रमेव सर्व देवालयं पूर्णमकरोत्. प्रथमतः पाषाणमयं त- द्विधायोपरि सर्वमपि चन्दनमयं व्यतानीत्. तेन सर्वासु दिशासु तस्य पूर्णमल्लस्य भक्तिः समं तच्चन्दनगन्धेन प्रासरत्. श्रीमदाचार्य- पादा अपि तस्मिन्नतिसुन्दरे देवालये श्रीनाथं स्थापयित्वा वर्षपर्यन्तं तस्य सेवाविधिं तन्मनोरथानुरूपं विधाय सर्व व्यवस्थापयन. स महाभागवतः पूर्णमल्लश्च तस्मिन् देवालये प्रतिष्ठितं तं श्रीगोवर्धन- धारिणं विलोक्य परं प्रसन्नः स्वजन्म सफलं मेने. यस्मिन् दिने श्रीमद्वल्लभाचार्याः स्वयं भगवतः सेवां व्यधुस्तस्मिन् दिने स पूर्णमल्लो भगवतः संमुखमुपविष्टो नितान्तमहृप्यत्. तं च प्रसन्न- वदनकमलं परमभक्तं समीपस्थं वीक्ष्य श्रीमदाचार्यचरणाः प्रत्यव- दन्-वत्स ? पूर्णमल्ल ? त्वया खलु स्वधनस्य सम्यक् व्ययः कृतः. परिवर्तिनि संसारे कस्य वा धनमेकान्ततो दृष्टम्. यथाह्यनिशं भ्रमतो घटीयंत्रस्य क्षुद्रा घटा अधोगता गृहीतजला अपि उपरिष्टा- समागता रिक्ता एव भवन्ति तथैव प्राक्तनसुकृतराशिना लब्ध- द्रव्यनिचया जनाः किमपि अकुर्वन्तः समाप्ते सुकृते पुनरपि नि- र्धना एव भवन्ति. तत् धीमता नरेण त्वयेव चंचलाद्धनादचंचलं सुकृतं यशश्च संपादनीयं. एतञ्च मन्दिरं तथाऽयं वृत्तान्तो याव- स्थास्यति यावच्च भगवद्भक्ता इहागत्य भगवन्तं गोवर्धनधारिणं सा- पुत्रलाभ: १११ क्षात्कृत्य सन्तुष्टा अपारं सुकृतं लप्स्यन्ते तावत्ते यशः स्थिरं भवेत् ? अस्तु. त्वया खलु महदिदं कार्यमनुष्ठितं तेनाहं परं सन्तुष्टः, तत्क- थय किं तेऽभीष्टं करोमि. यदिच्छसि तन्निःशंकं वद. सर्वथा ते मनोरथमहं पूरयामीति. स च भक्तवरः पूर्णमल्लो लौकिकविषयकामनारहितो मुकुलित- हस्तकमलः सविनयमवदत्. प्रभो ? अहं च न वाच्छामि लौकिकं विपयजातं. केवलं मया महता प्रयत्नेन समानीतः परमसुरभिर्म- लयचन्दनः समं कतिपयैः सुगन्धिभिर्द्रव्यैरुपेतो भगवतः श्रीना- थस्य गात्रे स्वहस्तेन समर्पणीय इति मनीपा वर्तते. यदि नात्र किमपि अन्यथा तदेमां मनीषां पूरयितुं श्रीमदाचार्यपादाः प्रभव- न्तीति. इमां तदीयां मनीषां निशम्य सन्तुष्टाः श्रीमदाचार्यचरणा- स्तथाकर्तुमनुमुमुदिरे. तेन स भाग्यशाली पूर्णमल्लः स्नात्वा यथा- विधि महता प्रेम्णा तेनापूर्वेण चन्दनगन्धेन सर्व परमपवित्रं श्री- गोवर्धनधारिणः कलेवरं पूजयामास. ततोऽतिदुर्लभैर्मुक्तादिरत्न- हारैस्तं भूपयामास. परस्मिन् दिने श्रीमन्तः परमसंतोपेण आचार्यचरणास्तद्भगवतो देहावतारितं चन्दनं तस्मै समर्प्य स्वहस्तेन तस्मै बहुमूल्यं नेपथ्यं व्यतरन्. तद्गृहीत्वा स पूर्णमल्ल आत्मानं कृतकृत्यममन्यत. एवं विरचितगोवर्धनधारिप्रतिष्ठापनास्तं पूर्णमल्लमनुगृह्य भग- वतः सेवाविधिनियमांश्चक्रुः. तत्र मुख्यतः श्रीभगवतः पाकशालायां कमपि परमभक्तं नियोक्तुमिच्छन्तः श्रीमदाचार्यपादास्तं सदूपांडे- नामकं भक्तं गोपालं पुनरवदन्. परन्तु सोऽवदत्. वयं न ब्राह्मणा येन पाकसिद्धिः समीचीना न भवेत्. तदित्थं भवतु-अत्र च के- श्रीमद्वल्लभाचार्यचरिते चन वंगीया ब्राह्मणास्तत्रभवतश्चैतन्यस्य शिष्या निवसन्ति. ते च भगवदाराधनोत्सुका अपि. यदि आज्ञा स्यात्तदा तानाहूय पृच्छामि इति. श्रीमदाचार्यचरणैराज्ञप्तः स तानाहूय तेभ्योऽदर्शयत्. तानपि परमवैष्णवान् वीक्ष्य सन्तुष्टाः श्रीमदाचार्यास्तानेव पाककर्मणि कुशलान् श्रीनाथस्य पाकशालायां नियोजयामासुः तेषां च मुख्यं माधवेन्द्रपुरीनामकं वैष्णववरं चक्रुः. एवं सर्वत्र योग्यान् भगव- सेवाविधानदक्षानियुज्य तेषां योगक्षेमार्थ तस्मात् श्रीनाथस्य प्रसा- दादंशान व्यतरन्. तेऽपि परममोदेन तं स्वं स्वं नियोगं परिपाल- यन्त आनन्देन श्रीनाथमसेवन्त.

११ पुष्टिमार्गप्रसारः १ ग्रंथनिर्माणम्. २ पुष्टिमार्गतत्वानि. ३ अन्यभक्तिमार्गतोऽस्य वैलक्षण्यम्. ४ अस्यैव सर्वथा सेवनीयत्वे कारणानि. (१) एवं श्रीनाथप्राकट्यं तथा तदीयं रमणीयं देवालयं विधाय श्री- मदाचार्या अज्ञलोकस्य मनसि भक्तिवीजान्यवपन. तानि च प्रति- दिनं क्रमेणांकुरशालीनि सर्वेपामपि भक्तानां चेतांसि अमोदयन्त. प्रतिदिनं वर्धमानं श्रीगिरिराजे श्रीनाथस्य दर्शनार्थ समागच्छताम- तिदूरदेशवासिनां जनानां समुदाय प्रेक्ष्य पूर्णमल्लप्रभृतयः श्रीना- थस्य सेवकाः परमतुष्यन. अन्येऽपि बहुकालं दुर्वृत्ता अपि जनाः सहसा दुराचरणानि विहाय सुवृत्तयोऽभवन. किंबहुना यथा प्रा- भातिकस्य सूर्यनारायणस्य केवलं प्राच्यामेव वर्तमानस्यापि प्रभा सर्वत्र प्रसरति तथैव गिरिराजे वर्तमानस्य श्रीगोवर्धनधारिणः श्री- नाथस्य महिमा सर्वत्र प्रासरत्. तेन समाकृष्टहृदया अगणिता भक्तगणाः प्रतिदिनमागत्य तं साक्षात्कृत्य स्वजन्म सफलं चक्रुः. वल्०८ ११४ श्रीमद्वल्लभाचार्यचरिते इदं सर्वमालोच्य सन्तुष्टाः श्रीमदाचार्यचरणा मनसि चक्रुः ‘म- दीयावतारकृत्यस्यार्ध तावत्समाप्तमेव. प्राय इह जगतीतलेऽज्ञानिन एव बहवः' तेपामुद्धारार्थमतिसरल एव मार्गः श्रेयान ? नास्माद्भ- क्तिमार्गादन्यः सुलभो मार्गः प्राणिनां भाग्योदये ! तस्मादिदं स- मीचीनमेव संवृत्तम्. परन्तु अस्य मार्गस्य रक्षार्थ निर्विघ्नतासंपत्त्यर्थ च विद्वद्वाऽपि साहाय्यत्वेन संपादनीय एव. विद्वांसश्च शास्त्राभ्या- सातिरेककठोरहृदया न सहसा प्रेममये भक्तिमार्गे श्रद्धधते. ते च मदैव तर्काभ्यासरतास्तकेंणैव सिद्धं वस्तु आदरयन्ति. तत एवं कारणात् परमप्राचीनैासदेवप्रमुखैमहर्पिभिर्ब्रह्मसूत्रप्रभृतयो ग्रंथाः कृताः. तदुपरि भाग्यादयश्च नूतनाः सहस्रशो ग्रंथाः संभूताः. यथा- चास्मत्पूज्यैासदेवैर्भागवतं विधायाज्ञजनानामुपकारः कृतः, ब्रह्म- सूत्राणि निर्माय विद्वांसोऽनुगृहीतास्तथैव मयाऽपि करणीयम. सा- म्प्रतं हि अज्ञजनानां कृतेऽयं भक्तिमार्गः प्रचालित एव, विद्वजनसं- ग्रहार्थ ग्रंथनिर्मितिरपेक्ष्यते साऽवश्यं सम्प्रति विरचनीया. अपिच-यद्यपि विद्वज्जना अतिविरलाः, अज्ञा एव जना बह- वस्तथापि ते विद्वांसस्तानज्ञजनान स्ववशानेव विदधति. प्रायः सर्व- त्रैव देशे सुबहवोऽपि अज्ञजना अल्पविज्ञवशा एव दृश्यन्ते. तन्मतिमता नरेण स्वकार्यस्य सिद्धयर्थं यथाऽज्ञजनसंग्रहोऽवश्यं क्रियते तथैव विद्वज्जनसंग्रहोऽप्यवश्यमेव कर्तव्यः. यस्तु विदुषोऽ- ल्पसंख्याकान मत्वा तत्संग्रहे समुदास्ते स कदाऽपि यशस्वी न भवति. प्रत्युत बलवानपि तैराक्षिप्तः समूलं नश्यति. विद्वांसश्च यथा विद्ययैव सन्तुष्यन्ति न तथाऽन्येन केनाप्युपायेन. तस्माद- धुना ग्रंथरचना विधेयेति.'

पुष्टिमार्गप्रसारः ११५ विचिन्त्य चैवं श्रीमदाचार्यचरणाः परमप्रबलानां परमात्म- विरोधतत्पराणां कर्मकाण्डवादिनां पूर्वमीमांसकानां स्वमार्गविरो- धित्वं मनसिकृत्वा प्रथमतस्तदीयप्रमाणभूतेषु जैमिनीयेषु सूत्रेषु भाष्यमकुर्वन, तत्र यथा कृत्स्नस्य वेदस्य परमात्मसेवायामेव ता- त्पर्य तथा सम्यग् यथाशास्त्रं प्रदर्शयामामुः. ततश्च मकलमान्येषु उपनिषद्व्याख्याभूतेषु अगणिताचार्यवरकृतव्याख्यानेषु श्रीवेदव्यास- प्रणीतेषु ब्रह्मसूत्रेषु 'अणुभायं' नाम सर्वत्र विश्रुतं स्पष्टालौकिक- प्रतिभं भाष्यं चक्रः. वाचकाः ? इदानीमपि सन्ति ब्रह्मसूत्रव्या- ख्यान्वेन प्रसिद्धानि द्वादशभाप्याणि तथापि भक्तिरसम्य परिपोपकं परमात्मशरणीकर्तव्यताबोधकमन्यदणुभाप्यान्नास्ति भाग्यम. श्रीम- दाचार्यचरणानामिमां दिव्यां ग्रंथनिर्मितिं निरीक्ष्य तदानींतनाः सर्वेऽपि विद्वांसः परं विस्मिता अभवन. श्रीमदाचार्यपादेरम्मिन ग्रंथे ये ये खलु अन्यैर्भाष्यकारैरुत्प्रक्षिता दोपास्ते सर्व एव निरस्ताः. प्रतिपादितं च सर्वैरपि प्राणिभिः स्वश्रेयसे परमात्मा श्रीनाथ एवं संसेवनीय इति. तादृशभक्त्यंकुरम्योत्पादनाय तपश्चर्यादिकमपि कथमाचरणीयमिति तत्रैव सम्यक् निरूपितम इत्थं ब्रह्मसूत्रेषु व्याख्यां विधाय श्रीमदाचार्यचरणाः सर्वपुराणसारभूतं निबन्धाख्यं प्रवन्धं विरचयामासुः. तत्र साकल्येन भक्तिप्रकारांम्ते वर्णयामासुः. तं विधाय सकलश्रुतिस्मृत्यादिप्रमाणैराहतं भक्तिरसमयं सकलसना- तनधर्मानुयायिमिः शिरोधृतं भागवतं व्याचक्रुः. पाठकाः ? श्रीमदा- चार्यचरणानां हृदयकमले भगवतः श्रीगोवर्धनधारिणः श्रीनाथस्य भक्तिः कियत्यासीदिति तैलिखिता श्रीमद्भागवतटीका सुबोधिन्येव बोधयति. श्रीमदाचार्यचरणानां व्याख्यानरीतिमवेक्ष्याधुनिका अपि ११६ श्रीमद्वल्लभाचार्यचरिते ? जना नितरां विस्मयन्ते. तत्र तत्र स्थलेषु संदेहास्पदेषु संशयनिवा- रणार्थ कृतानि व्याख्यानानि विलोक्य विद्वानपि पाठकः परं विस्म- यमापद्यते. एवं नानाविधानि स्तोत्राणि चक्रुः. इत्थं च ब्रह्मसूत्रा- दिषु भाष्यादिकं विधाय विद्वजनः संगृहीतः. श्रीमद्भागवतादिषु च व्याख्यां विधाय भावुको जनोऽनुगृहीतः. बान्धवाः इह जगती- तले यद्यपि विद्वांसो विरलास्तथापि तदपेक्षया भगवद्भक्ता अतिवि- रलतमा एव. तेषामर्थे श्रीमदाचार्यचरणैः सुबोधिनीटीकाऽतिसुगमा कृतेत्यत्र न संशयः. प्रसंगतः स्थाने स्थाने वादिनिराकरणमपि कृतमिति ज्ञेयम्. अस्तु. प्रकृतमनुसरामः. (२) निरूपिता श्रीमदाचार्यचरणानां ग्रंथनिर्मितिः संप्रति तैरंगीकृ- तस्य पुष्टिमार्गस्य तत्वानि निरूपयामि, यद्यपि केवलं पुस्तकाभ्यास- लब्धज्ञानलेशोऽसेवितपरमपूज्यगुरुचरणारविन्दो मादृशो जन्तुः क, क चागणितैर्भक्तशिरोमणिभिः स्वीकृतः पुष्टिमार्गस्तथापि केवलं स्वरूपज्ञानार्थ यथाशक्ति प्रयते. (१) श्रीमदाचार्यवरप्रोक्तस्य पुष्टिमार्गस्येदं मुख्यं तत्वं यत् निष्कामतः श्रीहरेः सेवा. यथा हि सतीष्वपि अन्यासु देवतासु पतिव्रतानां स्वपतिरेव शरणं तथा भगवद्भक्तानां कृते सत्स्वप्यन्येपू- पायेषु श्रीनाथ एव शरणं. तादृशभक्त्यविरोधेन हि सर्वत्र सांसा- रिकेषु वा वैदिकेपु वा कर्मसु प्रवृत्तिः. अत्यल्पमिदमुक्तं. वस्तुतस्तु- यद्यत् श्रीहरेः सेवाविरुद्धं स्यात्तत्सर्वमेवानिष्टं मत्वा हेयमिति ता- त्पर्य. इह जगतीतले येकेचनानिष्टा वा सुखदायिनो वा प्रसंगाः स्युस्तत्र श्रीभगवत इच्छैव कारणमिति मत्वा सर्वथा श्रीहरिभक्ति- ~ पुष्टिमार्गप्रसारः ११७ रेव करणीया. स च त्रैलोक्यनाथः श्रीनाथः सर्वमपि अनिष्टजातं स्वभक्तानां दूरीकरिष्यतीति विश्वासोऽपि करणीय एव. इह भार- तवर्षे ऽद्यावधि ये खलु साधवो वा भगवद्भक्ता वा जातास्तेषामिद- मेव तत्वमासीद्यत् सत्स्वपि लोकोद्धाररूपकार्यस्य बहुपूपायेषु ते भगवन्तमेव शरणमकुर्वन. यथाहि लौकिका जनाः कस्यापि का- र्यस्य सिद्धये नानोपायान् कुर्वाणाः सिद्धिमलब्ध्वा विरमन्ति नि- राशा वा स्वघाताय प्रवर्तन्ते न तथा भगवच्छरणाः साधवः. ते तु सततमुद्यमशालिनो भगवन्तमेव स्वकार्यसिद्धिकारणं मन्वानाः फलस्याप्राप्तावपि अनुत्सुका न भवन्ति. अतएव जगति ये ये धर्मपथा वा ज्ञानमार्गा वा प्रचाल्यमाना दृश्यन्ते ते सर्वेऽपि ए- भिरेव साधुवरैर्भक्तशिरोमणिभिः प्रचालिताः. नैकोऽपि पशुवद्विष- यप्राप्तौ लौकिकानेव स्वबुद्धिपरिकल्पितानुपायान्प्रयुंजता लौकिकेन- मानवेन प्रचालितो दृश्यते. तस्माद्यस्यकस्यापि कार्यस्य सिद्धौ स- र्वथा परमात्मेच्छैव कारणमिति मतिर्निसंशयं प्रबलं कारणम्. इय- मेव हि महामान्यम्य श्रीमद्वल्लभाचार्यचरणप्रकाशितस्यानादेः पुष्टि- मार्गस्यादिम तत्वमा २ द्वितीयं तत्वं खलु भगवदाराधना. सकलज्जगञ्चालकः पर- मात्मा श्रीहरिः सर्वदा सर्वस्य कल्याणायैव प्रवर्तते. न खलु तस्य कदाचिदपि कचिदपि काऽपि प्रवृत्तिः कस्यापि अश्रेयसे भवति. ये खलु तस्य शत्रवः कंसादयस्तानपि स स्वसाक्षात्कारकृपयाऽन्व- गृह्णादेव, तदा स स्वानुयायिनोऽनुगृह्णीयादित्यत्र नास्ति संदेह- लेशोऽपि. एवं सकलपाणिगणस्य कल्याणायानिशं प्रयतमानस्य सत्यसंकल्पस्य भगवतः श्रीनाथस्य सततमाराधनैव कर्तव्या. साहि ११८ श्रीमद्वल्लभाचार्यचरिते , सततमनुष्ठिता महते कल्याणाय भवति. सा च न केवलं कस्यापि कार्यस्य सिध्यै किंतु निष्कामतया. यथाहि लौकिकाः पुरुपा य- किमपि फलं वांच्छन्तो लौकिकमेव राजानं सेवन्ते तथा न पर- मात्मा सेवनीयः सेवितश्च सर्वज्ञः स विमनायमानो न भद्रं करि- प्यति. लौकिकश्च राजाऽज्ञः कथनं विना न जानाति, परन्तु सर्वज्ञ ईश्वरः सर्व जानात्येव. अतस्तत्र कस्यापि कार्यस्य सिध्यर्थ न संकल्पः करपीयः, नापि तदनुरोधेन तदाराधना करणीया. ३. तृतीयं तत्वं-तस्मिन् परमात्मनि निविशेष प्रेम विधेय- मिति. सामान्यतः सर्वेऽपि प्राणिगणा यथा स्वस्मिन प्रेम कुर्वन्ति स्वसंबन्धिनि वा न तथाऽन्येपु.किमत्र कारणं ?. ऋते भेद्भावान्नान्यत्. भेदभावो हि मानवस्य प्रीतिं परिच्छिन्नां करोति. यत्र च भेदभा- वोऽपैति तत्र प्रीतिः स्वयमेव वर्धते. नचायमभेदः काल्पनिकः ? तस्य वास्तवत्वात्. अतएव श्रीमदाचार्यचरणानां शुद्धाद्वैतवादोऽभि- मत इति बोध्यम्. अद्वैतवादे शुद्धाद्वैतवादे चायं विशेषो यत्प्रथमः ब्रह्मतत्वं सत्यं स्वीकुर्वाणो दृश्यस्यासत्यत्वं मायाजन्यत्वं स्वीकरोति. श्रीमदाचार्यचरणास्तु 'वासुदेवः सर्व' इति श्रीमद्भगवद्गीतोक्तं सिद्धान्तं स्वीकुर्वन्तो दृश्यस्य मायिकत्वं न स्वीकुर्वन्ति. यथा त- थास्तु. श्रीमदाचार्यचरणानां प्रीतिनाशको भेदो नाभिप्रेतः. पुष्टिमार्गे परमभागवतः 'न मे किमपि सर्वमिदं भगवतः श्रीहरेरेव' इति मन्यमानः सर्वदा परमात्मसेवायां निमग्नो मोदते. तेन श्रीहरेरेव सर्ववस्तुरूपत्वात्तत्र निरवकाशा प्रीतिः सुलभैव. ४ चतुर्थ तत्वं तु यथा भगवान् सर्वथा भक्तानां सेव्यस्तथैव लब्धभगवदनुग्रहो गुरुरपि. यथा हि बालको निसर्गतो बुद्धिमा- पुष्टिमार्गप्रसारः ११९ नपि गुरुसाहाय्यं विना न पण्डितो भवति, नापि स्वध्येयं लभते; तथैव मानवः संस्कृतचित्तोऽपि गुरुसाहाय्यं विना भगवतः स्वरूपं न ज्ञातुं शक्नोति. युक्तं चेदं-अन्यथा सांसारिके स्वल्पेऽपि कार्ये यदि योग्य मार्गदर्शकं विना न वयं तत्कार्य विधातुं प्रभवामस्तदा दुज्ञेयेऽनुभवैकगम्ये परमात्मस्वरूपे कुतो न गुरुसाहाय्यापेक्षा ! सोऽपि गुरुः शिष्यविश्वाससहायस्तं शिष्यं बोधयितुं शक्नोति ना- न्यथा. यथा कश्चिदिभ्यो भवितुमिच्छन मूलद्रव्यं विना न स्वेच्छां सफलयितुं प्रभवति तथैव शिष्यविश्वासहीनः सुमहानपि स गुरुस्तं शिष्यं न समुद्धतु. तस्मादस्मिन पुष्टिमार्गे यथा हि भगवान मर्वेपां भक्तानां निरतिशयप्रेमास्पदं, तथैव तद्दर्शको गुरुरपीति बोधितम. तेनात्र गुरोर्निरतिशयं माहात्म्यम. ५ पंचमं तु-श्रीहरेव्यभिचारिणी भक्तिः. यथा हि स्वामिनिष्ठः सेवकः स्वस्वामिनमेव सेवते नान्यमत्त्युत्तममपि अन्यं स्वामिनं, तथैव भक्तेन सर्वदा भगवान हरिरेव सेव्यः. इयमेवाव्यभिचारिणी भक्तिर्नाम. यथा पतिव्रता स्वपति सेवमाना न स्वप्नेऽपि अन्यं पु- रुषं ध्यायति, अथ ध्यायति चेद्यथा पतिव्रताशीलात प्रच्यवते तथैव भक्तोऽपि. तस्मात्सततं यथाशक्ति महता मावधानेन भक्तैरियं सर्वकामदुघा भक्तिकामधेनुः संरक्षणीया. वाचकाः ? सर्वश्रेष्ठोऽयं पुष्टिमार्गोऽगणितोत्तमोत्तमतत्वालंकृतः, कियद्वोदाहरामि. यथा रत्नाकरवर्णनं कृपणेन कर्तव्यं तथैव मया क्षुद्रमतिनाऽस्य पुष्टिमार्गस्य कानिचित्तत्वानि वर्णितानि. विस्तरभ- यादधुना विरमामि. यस्य चाधिकं जिज्ञासा स्यात्तेन श्रीमदाचार्य- चरणप्रणीता आकरग्रंथा एव द्रष्टव्याः.

१२० श्रीमद्वल्लभाचार्यचरिते (३) अस्मिन् भारते वर्षे चत्वारः खलु वैष्णवाः सन्ति. ते च रा- मानुजमाध्ववल्लभनिंबारकमतानुयायिनः. सर्वेऽप्येते कर्मकाण्डप्रा- माण्यं स्वीकुर्वन्तोऽपि भक्तिमार्गमेव मानवानां श्रेयस्करं वदन्ति. यद्यपीदं सर्व सत्यं तथापि श्रीमन्महाप्रभुवल्लभाचार्यस्थापितस्य पु- ष्टिमार्गस्यान्येभ्यो महद्वैलक्षण्यं. तथाहि. श्रीरामानुजमतानुया- यिनः श्रीवैष्णवा विशिष्टाद्वैतवादिनो भेदं तात्विकमेव मन्यमाना- स्तादृशीं प्रीतिं परमात्मनि कर्तुं न प्रभवन्ति यादृशीं 'वासुदेवः सर्वं' इति मन्यमानाः पुष्टिमार्गानुयायिनः कुर्युः. माध्वाश्च सत्यमे- वात्यन्तिकद्वैतवादिनः. तेषु च नाद्वैतस्य लेशोऽपि. निम्बारकाश्च द्वै- ताद्वैतवादिन इति शुद्धाद्वैतस्याभावान्न निरतिशयप्रेम्णोऽवसर एषु त्रिषु वैष्णवेषु. ये च शांकरा अद्वैतवादिनस्ते तु 'अहं ब्रह्मास्मि' इति मन्यमाना उपास्योपासकभावमेव समूलमुच्छिन्दन्ति. तेन सर्वथा भगवदनुग्रहशालिनोऽस्मात् पुष्टिमार्गान्नान्य उत्तमोऽन्यो भक्तिमार्गः किंच-रामानुजमतानुयायिनो भक्तिं मोक्षसाधनमाहुः. तथैव माध्वादयोऽपि. श्रीमद्वल्लभाचार्यानुयायिनस्तु भगवतः प्रसाद एव भक्तेः फलमाहुः. वस्तुतस्तु अभ्युपगम्येदमुक्तं. परमार्थस्तु पुष्टिमार्गे भगवद्भक्तेः फलमेव नास्ति. यथाहि सदपि सततं वर्तमानयोः श्वासोच्छ्रासयोर्जीवनं न फलं किंतु लाक्षणिक्या वृत्त्या तथोदीर्यते एवं पृष्टिमार्गानुयायिनो महाभागवतस्य भक्तेः फलं भगवत्प्रसाद इति. यो हि परमवैष्णवः किमपि फलमनपेक्षमाणः परमात्मानं श्रीहरिं सेवते तदुपरि भगवान् स्वयमेव कृपां करोति. यथा वा स्मयमानस्य पुष्टिमार्गप्रसारः १२१ वाऽस्मयमानस्य वा बालकस्योपरि समाना मातुः कृपा, मातृसंतोपाय स्मितविधानं तु बालकस्य कर्तव्यं, तथैव प्रकृतेऽपीति ज्ञेयम्. तेन महद्वैलक्षण्यमस्य पुष्टिमार्गस्यान्यभक्तिमार्गत इति संक्षेपः. (४) पाठकाः ! निरूपितमस्य पुष्टिमार्गस्यान्यभक्तिमार्गतो वैलक्षण्यं. संप्रति अस्यैव सेवनीयत्वे कारणानि उदाहरामि. मानवस्य जात- मात्रस्य यस्मिन् कस्मिन्नपि तत्वे श्रद्धा भवत्येव. तां च श्रद्धां क्रमेण दृढीभावमापद्यमानां पण्डिता जना धर्मशब्देन व्यपदिशन्ति. तत्र प्रथमं धर्मस्य स्वरूपं प्रस्तावनोक्तरीत्या कर्ममयमेवासीत. यच्च प्रमाणीभूतेन वेदेन बोधितं कर्म तत्कर्तव्यमेव न तत्र फलजिज्ञासाया अवसर इति खलु तत्स्वरूपम. ततश्च विचारशीला मानवश्रेष्टा यथायथाऽधिकं विचारयामासुस्तथातथा केवलमन्धवत्कस्मिन्नपि श्रद्धापरपर्याया प्रामाण्यबुद्धिर्न कमपि चिरं प्रवर्तयितुं प्रभवति यथेष्टसाधनत्वबुद्धिः. वालको हि लड्डुकभक्षणे यथा झटिति प्रवर्तते नैवं केवलं मातुराज्ञापालने. ततो मोक्षरूपसर्वेष्टसाधनत्ववादः समाययौ. तस्य च कारणं न कर्माचरणं किंतु ज्ञानमिति यदा सिद्धान्तः प्राचलत्तदा कर्मकाण्डं तदुक्तानि कर्माणि च हीनबलान्य- भवन. यदा च मोक्षेच्छया प्रवर्तितं ज्ञानकाण्डं प्रबलमभूत्तदा प्रायोऽयोग्याः पुरुषा अलसाः समाजस्थितिमदृपयन्. न ते कर्तव्य- बुद्ध्या स्वस्वकर्माणि समाचरन्. तेन समाजः परं दुबलो दुरवस्थोऽ- भवत्. एतस्य सर्वस्यानर्थजातस्य दूरीकरणायायं भक्तिमार्गः श्रेष्ठैः साधुभिः प्रचालितः. अस्मिन् भक्तिमार्गे मोक्षरूपेष्टसाधनत्वमपि विद्यते कर्तव्यबुद्ध्या क्रियमाणा भगवतः सेवाऽपि. तथाचोभययोरपि कर्मकाण्डज्ञानकाण्डयोः सारभूतोऽयमिति स्पष्टमेवोक्तं भवति. अस्तु.

१२२ श्रीमद्वल्लभाचार्यचरिते वाचकाः! उपरितननिरूपणेन भवद्भिरवगतमेव भवेद्यत् भक्ति- मार्गस्य परमं प्रयोजनं मोक्षरूपात्यन्तिकसुखपरिदानपूर्वकं समाज- सुव्यवस्थाविधानं. तत्र मोक्षस्य व्यक्तिसुखातिशयरूपत्वात् स कस्याऽपि कृपयैव संपादनीयो भवेत्. तथाच योऽस्य जगतः पाल- यिता श्रीहरिस्तस्य कृपयैव स संपाद्यो भवेत्. सज्जनानां स्वभावोऽयं यत्ते हीनमपि मानवं स्वसमानगुणकं विदधति. यद्येवं तदा कैव कथा परमात्मशरणीकरणे. समाजव्यवस्था च सदा सदाचरण- तत्परैरेव भवति. सदाचरणं च यद्यपि सर्वत्र परमात्मसत्वं भाव- यन्तः साधवोऽनुतिष्ठन्ति तथापि तत्तादृशं सदाचरणानुष्ठानं न भवति यादृशं सर्व परमात्मरूपं भावयन्तः पुष्टिमार्गानुयायिनोऽनुतिष्ठेयुः. तस्मात्सर्वत्र परमात्माऽस्तीति भावयद्भ्योऽन्यभक्तेभ्यः पुष्टिमार्गा- नुयायिनो निःसंशयं सदाचरणपरा इति वक्तव्यमेव. अयमत्र- भावः—विषयसत्ता स्वीकृत्योदितायां पापभावनायां परमात्मनिरी- क्षणभिया तस्यास्त्यागात्तादशभावनाया अनुदय एव श्रेयानिति. तादृशभावनाया अनुदये च कारणं विपयाणां पृथक्सत्तास्वीकारा- भावः. यो हि परकान्तां कान्तामभावयन परमात्मस्वरूपामेव तां मन्यते स तां वीक्ष्य कथं पापवासनाशाली स्यान्. तस्माद्विषयसत्तां पृथक् स्वीकृत्य तत्र तत्र परमात्मसत्तां स्वीकुवद्भ्योऽन्यभक्तिमार्गेभ्यः 'सर्व वासुदेवः' इति वदन पृथक् विषयसत्तां च खण्डयन पाप- वासनाजालं समूलं घातयन श्रीमदाचार्यचरणैः स्थापितोऽयं पुष्टि- मार्गः कस्य संतोषाय न भवेत् ? किंच-यो हि सर्वत्र परमपवित्रं सन्मान्यं स्वोपास्यदैवतं पश्यति स तत्र पापान्याचरितुं न शक्नोति प्रवृत्ताऽपि पापवासना ततो एवंस्थितेऽनुगगस्या- पुष्टिमार्गप्रसारः १२३ निवर्तत इति सर्वेषामनुभवसिद्धमेव. परंतु तस्य स्वोपास्यदैवतस्या- नादरभीत्या वा कोपभीत्या वा निवृत्ताऽपि चित्तवृत्तिर्न स्वोपास्यदैवते प्रीतिं समुत्पादयितुं शक्नोति. प्रसिद्धं चैतल्लोके यत् राज्ञः सकाशा- साधारणा जना बिभ्यतीत्यत्र कारणं न तेषां राज्ञि विद्यमानोऽ- नुरागः किंतु दण्डभयं. अपकुर्वतोऽम्मान्ऋग्दण्डो राजा दण्डयेदिति भीताः सांसारिका जना न पापमाचरन्ति. वकाश एव न. पतिकोपभिया पतिं सेवमाना पत्नी तादृशमनुगगं न बध्नाति यादृशं सैव भीतिरहिता. तम्मान स्वम्य पृथक् मत्वं स्वीकुर्वद्भिरन्यैरामानुजमुनिप्रभृतिभिः स्थापितेभ्यो भक्तिमार्गेभ्यः सर्वत्र 'वासुदेवः सर्व' इतिवादी सर्व प्रेममयं जगत्कुर्वाणोऽयं पुष्टिमार्ग एव निःसंशयं मानवानां कल्याणकरः. अपिच-मानवा इहलोके केवलं सुखलाभार्थमेव प्रयतन्ते न दुःखलाभायेति सर्वेषां सम्मतं. तत्र जीवः खलु विषयलाभत आत्मानं सुखिनं मन्यते इत्यपि दृष्टचरं. यदि विषयत्यागस्तरमै उपदिश्यते तदा स स्वसुखनाशमुत्प्रेक्षमाणो न संतोपेण तमनु- तिष्ठति. तस्मात्तेषां विषयत्वं दूरीकृत्य यदि परमात्मस्वरूपत्वमेव तेषामुच्यते तदा सोऽवश्यं नित्यसुखी भवेन्. श्रीमदाचार्यचरण- स्थापितोऽयं पुष्टिमार्गो नेतरभक्तिमार्गवद्विपयत्यागं ब्रूते नापि अद्वैत- मार्ग इव विपयान्मिथ्या वदति किंतु ये खलु जगति विषया दृश्यन्ते ते नागमापायिनो जडरूपाः किंतु 'वासुदेवः सर्व' इति श्रीमद्भगवद्गीतोक्तरीत्या सर्वे भगवत्स्वरूपा एवेति. ततोऽस्मिन्कुतोऽ- निष्टस्य संभवः. बान्धवाः ! अतिगूढोऽयं भक्तिमार्गः. माहशो जन्तुश्च तं कथं वर्णयितुं शक्नुयात. तथापि स्वल्पं साहसं कृतं, अधुना विस्तरभयादुपरम्यते.

१२ वैकुण्ठप्राप्तिः। १ काशीविजयः. २ भागवतरीत्या संन्यासग्रहः ३ परमहंसदीक्षया वृत्तिः. ४ भागीरथीप्रवाहप्रवेशः. (१) प्रियबान्धवाः ? निरूपितं खलु पुष्टिमार्गस्य महत्त्वं. साम्प्रतं श्रीमदाचार्यचरणानां वैकुण्ठप्राप्तिं वदामि. यद्यपीदं प्रकरणं श्रीमदा- चार्यचरितस्यान्तिमं, तथापि नित्यतत्वस्वरूपाणां भगवद्भक्तानां नान्तो नादिरिति न खेदस्यावसरः. अस्तु. प्रकृतमनुसरामः. श्रीमदाचार्य- चरणाः पूर्वोक्तरीत्या श्रीगोवर्धनधारिणं श्रीगिरिराजे स्थापयित्वा तथा सर्वेषां परमवैष्णवानां चेतांसि समतोषयन्. ग्रंथनिर्मिति विधाय च विदुषां चेतांसि भक्तिमार्गगामीन्यकार्पः ततो महता संतोषेण ते स्वशिष्यगणैः समं भगवतः श्रीगोवर्धनधारिणः श्रीकृ. प्णस्य सेवाविधिं व्यवस्थाप्य स्वयं वाराणसीमाययुः. तत्र च निवसन्तः श्रीमदाचार्यचरणाः स्वमातृपादानामाज्ञया त्रिंशत्सहस्रब्राह्मणभोजनसंकल्पमकुर्वन्. तद्वोधनार्थ च ते संकेत- ध्वज समारोपयन्. श्रेष्ठी पुरुषोत्तमदासोऽपि तत्रानुकूलो बभूव.

-. वैकुण्ठप्राप्तिः १२५ तदानीं सकलभारतवर्षप्रसृतं श्रीमदाचार्यचरणानां यशःप्रकरमालो- क्यापूर्वविचारसरणिमण्डितां तेषां ग्रंथरीतिं साक्षात्कृत्य मात्सर्यदोप- दूषिताः केचन पण्डितंमन्याः 'काशीविजयध्वजोऽयं' इति मिथ्यैव घोषयन्तः स्वसदृशानन्यान कोपयामासुः. ते सर्वेऽपि क्षुद्रमतयः सरोषमागत्य विवदितुमारभन्त. श्रीमदाचार्यचरणाश्च तैः समं विव- दितुं शक्तानपि स्वशिष्यगणानिवार्य स्वयमेव तान बोधयितुमुद्यता अभवन्. श्रीमदाचार्यचरणानेव वादोद्यतानवलोक्य भीतास्ते खल- पण्डिताः सहसा सर्वतो गत्वा पाण्डित्यभारवाहिन उपेन्द्रमुख्यान यतीन् वादविधानार्थ प्रार्थयामामुः. ते च पण्डिता अपि मानवम्व- भावमत्यजन्तस्तत्प्रार्थनां स्वीकृत्य वादार्थ निीते स्थल उपतस्थिरे. श्रीमदाचार्यचरणाश्च स्वशिष्यस्य श्रेष्ठिनः पुरुषोत्तमदासस्य पंचगंगा- तीरवर्तिनि विस्तीर्णे महाप्रासादेऽवसन. ते च वादार्थ समागतांस्ता- नुपेन्द्रप्रभृतीन् यतीन सादरं सत्कृत्य प्रश्नान प्रष्टुमादिशन. ते च वादार्थमागता अपि प्रतिपक्षिणस्तामाचार्यपादानां दिव्यतेजःशालिनी मूर्ति विलोक्य खिन्ना अपमदाः केवलं जिज्ञामाबुद्ध्या कांश्चित्प्रश्नां- श्चक्रुः. साक्षादग्निदेवावतारभूताः : श्रीमदाचार्यचरणास्तान प्रश्नांस्तथा- व्याचक्रुर्यथा सर्वोऽपि तत्रोपस्थितो लोकसंघस्तद्धापणं निशम्य चित्रगत इव बभूव. वादिगणमुख्य उपेन्द्रयतिश्च विमूढमतिः किमपि प्रतिवक्तुमपारयन् सत्वरमुत्थाय परमपवित्रं विविधभक्तगण- शिरोधृतधूलिकं श्रीमदाचार्यचरणानां चरणसरोजं स्वहस्तयुगलेन धृतवान. तं च शरणागतमवलोक्य परं हृष्टाः पुष्टिमार्गानुयायिनो वैष्णवा आनन्देन भगवन्नामविजयघोषं चक्रुः. श्रीमदाचार्याश्च परमोदारहृदयकमलास्तान्निषिध्य जगदुः. सकलोऽयं संसारः खलु १२६ श्रीमद्वल्लभाचार्यचरिते तत्रभवतः श्रीहरेरेव. अत्र च निवसन्तः प्राणिगणाः सर्वेऽपि तस्यै- वानुचराः. तद्यदि कश्चन मोहात्सदपि तदनुचरत्वं नांगीकुर्यात्तदा मुझेन स बोधनीयः. बोधितो यदि तत्प्रतिपद्यते तदा वरमेक. अन्यथा तु तस्यैव महती हानिः. तथाचान्येषु भगवदनुचरत्वं स्वीकुर्वत्सु अस्वीकुर्वत्सु वा भगवद्भक्तस्य न कोपि लाभो हानिर्वा. एवंसति किमर्थ गगद्वेपौ ? किमर्थं च तद्योतनाय विजयघोषणा ? अनेन कर्मणा भगवद्भक्ता रागद्वेषशालिन इतरजनवत्तिरस्काराही भवन्ति. तस्माद्भगवद्भक्तेन सर्वदा महता सावधानेन वर्तनीयं. यस्मिन् कस्मिन्नपि कार्ये रागद्वपौ न विधेयौ. यथा हि सूर्यो जन्मान्धैरवीक्षितोऽपि सर्व जगत्प्रकाशयति तथा तेन सर्वे जना बोधनीयाः. तं च बोधं सांसारिका जनाः स्वीकुर्वन्तु मा वा. अनेन मार्गेण वर्तमानस्य भगवद्भक्तम्य कल्याणं जायते. एवं भाग्य- शाली सोऽन्येषामपि कल्याणं कर्तु प्रभवति इति. निशम्य चेमाममृतमयीं श्रीमदाचार्यचरणानां वाणी तत्रस्थाः सर्वेऽपि जनाः परं समतुष्यन. ततश्च सर्वैः काशिकैः पूजितास्ते श्रीमदाचार्यचरणा स्वसंकल्पं पूरयित्वा सर्वान ब्राह्मणान् समतोषयन्. (२) एवं काशिकान्विजित्य लब्धसत्कारास्ते श्रीमदाचार्यचरणाः स्वावतारं समापयितुकामा मनसि चक्रुः. मया हि भगवतोऽतिप्रियं भक्तिमार्ग प्रसारयितुं भुवि अवतीर्णेन यथाशक्ति तत्कार्यमनुष्ठित. यथाहि अस्य भक्तिमार्गस्य कर्मकाण्ड विरुद्धं तथैव ज्ञानकाण्डमपि. परन्तु तस्मिन् मया भाष्यादिकं विधाय तत् खलु भगवतो भक्तिमेव प्रतिपादयतीति दर्शितं. यथा च भगवद्भक्तिमन्ये आश्रमाः साध- वैकुण्ठप्राप्तिः १२७ यन्ति तथा न चम्मः संन्यासाश्रमः तत्र तु शिखायज्ञोपवीतादिकं विहाय केवलं तूष्णीमवस्थान विधीयते. तच्चानिष्टं. न च स संन्या- साश्रम एव ममुन्मूलयितुं शक्यः. तस्य सकलशात्रसंमतत्वात. तस्मात्सोऽपि भक्तिमार्गाविरोध्येव करणीयः. ममाऽपि सर्व गृहस्था- श्रमकर्म समाप्रमेव. पुत्रौ च स्ववंशाधारभूतौ भगवत्सेवां करिष्यत एव. तदधुनाऽहमेव संन्यासाश्रमं म्बीकृत्य तत्रापि भगवतो भक्ति- विशेषं कृत्वा दयिष्यामि एप संन्यासाश्रमोऽपि भक्त्यविरोधीति. विचिन्न्य चैवं श्रीमदाचार्यचरणाः संन्यामाश्रमं प्रवेणुं मतिमकु- वन. अत्रान्तरे भगवान भवद्भिलीलायामागन्तव्यमिति श्रीमदाचा- र्यचरणानाज्ञापयामास. तामाज्ञां गृहीत्वा भूतलवमनि म्वम्य स्वल्पां मन्वानाः शीघ्रमेव संन्यासाश्रमग्रहणाय निरचिन्वन, ततः सर्वानपि शिष्यगणानाहूय भगवदाराधने म्बम्य ज्येष्टं पुत्रं श्रीगोपीनाथं नियुज्य तदाज्ञया वर्तनाथ सर्वानपि दमोदरदासादीनादिश्य तमपि श्रीनाथ- सेवाविधानार्थमाग्रहेण कयित्वा संन्यासाश्रमप्रवेशाय स्वपत्न्यनुज्ञा- मयाचन्त. अवदंश्व-भार्ये : इदानीमहमाश्रमान्तरं प्रवेष्टुकामोऽम्मि. गृहस्थाश्रममनुष्ठीय संतानं च संपादितं. तदिदानी मामनुज्ञातुमर्हसि. त्वं हि जानास्येव भगवत्सेवां विना न मे किंचिदन्यद्रोचत इति. तदिदं तेषां श्रीमदाचार्यचरणानां निश्चयबोधकं वाक्यं निशम्य दुःखाकुलाऽपि सा सती परमानन्देन संन्यासाश्रमप्रवेशायानुमति प्रदर्शयामास. स्वभार्याया अनुमतिं वीक्ष्य सन्तुष्टाः श्रीमदाचार्यच- रणा भागवतरीत्या संन्यासाश्रमं स्वीचळ:. वाचकाः ! संन्यासाश्रमस्य सामान्यतः स्वरूपं विपयत्यागरू. गृहस्थः पुत्रभार्यादिपरिमितपरिवारस्तस्यैव पालने सततं प्रयतमानो १२८ श्रीमद्वल्लभाचार्यचरिते न किमपि सर्वस्य जगतः कल्याणं साधयितुं प्रभवति. अतस्तस्य सिध्यर्थ चरमे वयसि अयमाश्रमः शास्त्रेण व्यपदिश्यते. युक्तमपीदं. यतः सर्वदा पशुवत्स्वपुत्रकलत्रभरणे प्रयतमाना यदा सर्वे एव मानवाः स्युस्तदा जगति परोपकारस्तथा धर्मस्य वा भगवद्भक्तेर्वा तत्वज्ञानस्य वा प्रसारः केन करणीयः ! असत्सु चैतेषु अय मानव- गणो द्विपादपशुसंघ एव भवेत्. तस्मान्मानवैर्नियतकालपर्यन्तमेव गृहस्थाश्रमः करणीयः. अनन्तरं सकललोकोपकाराय तेनाश्रमान्तरं स्वीकर्तव्यमेव. यथा सकलभूतात्मबुद्धिः संन्यासी जगतः कल्याणं कुर्यान्नैवं परिच्छिन्नपुत्रकलत्रादिपरिवारात्मबुद्धिर्गृहस्थः. तत्र च संन्यासाश्रमवर्तनेऽस्ति द्वैविध्यं. तत्र केचन शिखासू- त्रादिकं त्यक्त्वा केवलं परमात्मतत्वध्यानपरा न किंचिदप्यनुतिष्ठन्ति. इमं संन्यासं च स्मात संन्यासं वदन्ति. अन्ये च शिखासूत्रादिकं धारयन्त एव काषायांबरवसनाः पुत्रकलत्रादिकं परित्यज्य भगवदारा- धनपरा भक्तिमेवाधिक्येन समाचरन्ति. इमं द्वितीयं संन्यासं भाग- वतसंन्यासं वदन्ति. अनयोरुभयोरपि संन्यासयोः शास्त्रप्रमाणान्वि- तयोः सतोः श्रीमदाचार्यचरणाः परमभागवताः सदा भगवत्सेवा- मेव वांच्छन्तो द्वितीयं संन्यासविधिमेव प्रशशंसुः. युक्तं चेदं. कथ- मन्यथा सर्वदा भगवत्सेवाविधानमेव मानवानां परमं कर्तव्यं कर्मेति तैरुक्तः सिद्धान्तः सर्वमान्यो भवेन् ?. अस्तु. एवं निर्णाय ते परमपवित्रचरणारविन्दाः श्रीमदाचार्यचरणाः सर्वैः शिष्यैः समेताः काषायांबरधारिणः शिखासूत्रादिकं धारयन्तः त्रिदण्डशालिनः परममान्यं भागवतसंन्यासं जगृहुः. श्रीमदाचार्य- चरणान् संन्यासाश्रमं प्रविष्टान्निशम्य नानादेशेभ्योऽगणिताः शिष्य- संघास्तेषां दर्शनार्थमाजग्मुः. ..

वैकुण्ठप्राप्तिः . (३) एवं संन्यासाश्रमं गृहीत्वा श्रीमदाचार्यचरणाः पूर्णानन्देति नूतनं नाम धारयन्तो भागवतसंन्यासरीत्या सर्व दैनिकं विधिं समाचरन्तः स्वगृह एव भुंजानाः पड् दिनानि तम्थुः. ततो बहृदकाश्रमं गृहीत्वा गङ्गातीरे वसन्तः स्वसंवन्धिनां गृहेषु भिक्षां याचन्तोऽटौ दिनानि मोदेन यापयामासुः. ततो हंसाश्रमं प्रविष्टाः क्रमेण काशीक्षेत्रमागन्तुं प्रातिष्ठन्त. मार्गे च मान्येभ्यः परमभागवतेभ्यो भर्जितधान्यसक्तु- फलादिकमत्यल्पं भिक्षित्वा तद्भगवते निवेद्य भूतेभ्यो विभज्य दत्वा भगवच्चरणारविन्दजलमिश्रं भक्षयामामुः, अनिशं च समागतान वैष्णवजनान भागवतकथाः श्रावयन्तः समय समये नियतान भगवदुत्सवान कारयन्तो महताऽनन्देन काशी प्राप्य हनुमान्घट्ट स्थिता रात्रिंदिवं भगवत्सेवादक्षा अभवन. वाचकाः ! यद्यपि संन्यासाश्रम एव चतुर्थ आश्रमः. म चैक- स्तथापि तत्रोत्तरोत्तरमाधिक्यबोधनार्थमिमेऽवान्तगश्रमभेदाः कल्पि- ताः. यथा हंसपरमहंसप्रभृतयः, न चैतावता तेषां तद्भिन्नत्वं. गृह- त्यागरूपस्य सर्वत्र सामान्यरूपेणावस्थानात. तत्र च हंसाश्रमधारिणां श्रीमदाचार्यचरणानां दर्शनार्थ सर्वेऽपि नानादेशवासिनः पुष्टिमार्गा. नुयायिनो वैष्णवगणा आगच्छन. तेन प्रथमत एव विपुलजन- संमर्दशालिन्यपि सा वाराणसी अगणितजनशालिन्यन्यैवाभवत्- सर्वेऽपि वैष्णवा रात्रिंदिवं भगवन्नामघोपं कुर्वन्त आचार्याणामभितः तस्थुः. बान्धवाः! यद्यपि बहवः खलु कापायवस्त्रधारिणः संन्या- सिनो दृश्यन्ते. परंतु ते केवलं बाह्यत एव तथा न पुनरन्तरतः. यदा हि लोभो न त्यज्यते यदा च पुत्रकलत्रादिपु वर्तमानो मोहो न विधूयते तदा केवलं परवंचनैकफलैः कापायवस्त्रैः किं भविष्यति ? केवलं शिखासूत्रस्य त्यागेन पातकमेव लभ्यते इति मन्तव्यं. अस्तु. वल्ल० ९ १३० श्रीमद्वल्लभाचार्यचरिते एवं हंसाश्रमं प्रविश्याष्टदिनपर्यन्तं स्थितास्ते श्रीमदाचार्यचरणाः स्वावतारसमापनवेलां समीपमागतामवलोक्य परमसंतोपेण परम- हंसाश्रममन्तिमं स्वीकर्तुकामास्ते सर्वानपि प्रमुखान् स्वशिष्यानाहूय तान् महता प्रेम्णा श्रीनाथभक्तिमुपदिदिशुः. जगदुश्च-वत्साः ! श्रीभगवतो गोवर्धनधारिणो नियोगतोऽहमचिरादेव तल्लीलायां समा- विष्टो भविष्यामि. अम्मिन भूतलेऽपि तस्यैवाज्ञातस्तदीयां भक्तिं प्रसारयितुमागनः, अत्र संसारे सकलदुःखमये विषयवासनाजाल- भयंकरे केवलं मुखदायिनी हरिभक्तिरेव. एषा च मातेव वत्सं स्वाश्रितं पाति. न खल्वेषा केवलं पारलौकिकमेव फलं स्वर्गादिकं ददाति किंतु ऐहिकमपि पुत्रकलत्रस्वास्थ्यादिकं तथा धनधान्यादि- समृद्धिरूपमपि ददाति. तस्मान्मानवेन केनाऽपि कारणेन परमात्म- भक्तिन त्यक्तव्या. यो हि मदोद्वतो वा विपयलालसासक्तो वा पर- मात्मानं न भजते, मन्ये स दुःखं जीवति. प्राक्तनपुण्यसंपादितं सुखलवं भुजानस्तन्मोहेन यदा तत्कारणं परमात्मभक्तिं विस्मरति तदा स बीजभोजी कृपीवल इव परं विपद्यते. तत् वत्साः! भवद्भिः कस्मिन्नपि संकटसमये परमात्मभक्तिर्न हातव्या. स्वयमनुष्ठीय च परान्प्रति उपदेष्टव्या. सज्जनस्य स्वभाव एवेदृशो यत्स चन्दन इव सर्वदा परसन्तोषार्थ प्रयतते नतु मक्षिकेव स्वयं विनष्टः परान्नाश- यति. विशेषतश्च पुष्टिमार्गानुयायिभिर्जगत्कल्याणाय महान् यत्न आस्थेयः, यतस्ते एव सततं परोपकारान् कुर्वन्ति ये दुःखराशि- भिराहन्यमाना अपि न स्वोद्योगान्मुंचन्ति. एतादृशास्त एव भवन्ति ये सर्व खलु परमेश्वराधीनमिति मन्यन्ते. पुष्टिमार्गस्येदं प्रधानं तत्वं यत् सर्वमपि सुखदुःखादिकं सकलचराचरपालकस्य श्रीहरेरिच्छा- धीनं. स्वतत्रेच्छःस यदिच्छति तत्करोति. न तत्र जिज्ञासायाः कस्या- वैकुण्ठप्राप्तिः १३१ प्यस्ति अधिकारः. मानवेन खलु स्वसुखदुःखोदासीनेन सर्वथा परकल्याणायैव यतनीयं. मानवजातिकल्याणं च केवलं परमात्मभ- त्यधीनमिति मया भूयोभूय उक्तमेव. तत् सावधाना भूत्वा याव- जीवं परमात्मभक्तिं कुरुत. परमात्मानुग्रहादन्यं लाभं न मनुत. माद- शान सेवकान श्रीहरिभूयोभूयो मानवजातिकल्याणाय प्रेपयेदेव तथापि परमप्राचीनमिमं पुष्टिमार्ग परिपालयत. भगवन्तं श्रीगोवर्धन- धारिणं स्वकल्याणकारिणमनलसाः सेवध्वं. अयं हि साक्षान् कल्प- द्रुम इव स्वभक्तमनोग्थान पूरयितुमिहावतीर्ण इति वः सर्वेषां प्रत्यक्षमेव. इत ऊर्ध्वमहं मौन धारयिष्यामि तदिदानीमहं चरम वदामि सदैव श्रीनाथं सेवमानानां पुष्टिमार्गानुयायिनां सतत कल्याणमेव भवेदिति. इति. इमं चामृततुल्यं श्रीमदाचार्यपादानामुपदेशं निशम्य सर्वेऽपि शिष्याः सावधानाः परमसंतोपान्विता बभूवुः. अचिरादेव परम- माननीयाः श्रीमदाचार्यचरणाः सर्वाश्रमजातस्यान्तिममाश्रमं परम- हंसरूपं स्वीकृत्य मौनमवलंब्य तस्थुः. (४) अथ परमहंसाश्रमरीत्या केवलं कौपीनं स्वीकृत्य सप्तदिनपर्यन्तं श्रीमदाचार्यचरणाः परमपवित्राया विष्णुपद्यास्तीरे निवसन्तो भगव- लीलाप्रवेशसमयं महतोत्सुक्येनापालयन. यथा च परमपतिव्रता चिरं पतिदर्शनरहिता प्रामादागच्छन्तं स्वपतिमौत्सुक्येन ध्यायति यथा वा बालो वत्सः स्वमातुर्वनान्तरादागमनवेलां प्रतिपालयति तथैव श्रीमदाचार्यचरणा अपि भगवतो वैकुण्ठे लीलादर्शनार्थ पर- मौत्सुक्येन कथंचिदवर्तन्त. ततः शीघ्रमेव सप्ताशीत्युत्तरपंचदश- १३२ श्रीमद्वल्लभाचार्यचरिते ताब्दीयापाढशुक्लपक्षस्य द्वितीयो दिवसः समाययौ. पुष्यनक्षत्रा- न्वितं तं समयमनुकूलं मन्वानाः श्रीमदाचार्यचरणाः प्रातरारभ्य केवलं परमात्मनाम घोषयन्तः सर्व वासुदेवस्वरूपं पश्यन्तः परमा- नन्देन ववर्तिरे. सर्वे शिष्याश्च प्रभातमारभ्य तत्रैव न्यवसन्. अथ भगवान् सहस्ररश्मिः श्रीमदाचार्यचरणेभ्यः श्रीवैकुण्ठमार्ग प्रदर्शयितुमिव स्वामिभक्तसेवक इव वियन्मध्यमारुरोह. दिनमगौ वियन्मध्यमारूढे सति दिव्या दुन्दुभयः स्वर्गेऽनदन. तान दुन्दुभि- नादानाकर्ण्य सर्वे देवास्तथा देवर्पयः श्रीमदाचार्यचरणानां सत्का- राय वैकुण्ठमार्गमलंचक्रुः. सर्वा अप्सरसः समं गन्धर्व किन्नरैरनृत्यन. देवसेवकाश्च मन्दारपुष्पाणि भुवि चिक्षिपुः. एवं सर्व सन्नाहं वीक्ष्य श्रीमदाचार्यचरणाः श्रीगोवर्धनधारिणस्तृतीयाज्ञां स्वीकृत्योत्थिताः कौपीनमात्रवसनाः सानन्दं प्रणिपततः सर्वान शिष्यगणान्विलोक्य परमपवित्रं भागीरथीजलं प्राविशन. अत्रान्तरे श्रीगोपीनाथप्रभृतयः सर्वे संबन्धिन आययुः. तानपि केवलं प्रेक्ष्य पाषाणखण्डे सर्वसारभूतं श्लोकत्रयं लिखित्वा भगवतो नाम घोपयन्तो ज्वालापुञ्जरूपेण वैकुण्ठमागच्छन्. तदानीं वियति विमानसंहतिरतिनिबिडाऽभवत्. अविरतं दिव्यपुष्पवृष्टिरपि. सर्वे वैष्णवाश्च स्नेहातिशयेन श्रीमदाचार्यचरणवियोगविह्वला अपि तत्कृत- मुपदेशं तथा कर्तव्यं च सम्यक् स्मरन्तो भगवद्भक्तिविधाने कृत- निश्चया भगवल्लीलादिकं विधाय सर्वान् संतोषयामासुः.

१३ सिंहावलोकनम्. १ गुर्जराणामुद्धारः. २ प्रायःसर्वसनातनधर्मानुयायिषु कृपा. ३ भक्त्युत्कर्षः. ४ परस्परद्वेषनिरासः. समाप्तकल्पमेव श्रीमदाचार्यचरणानां पावनं चरितं. अधुना श्रीमदाचार्यचरणैरस्मिन् भूतलेऽवतीर्य किमनुष्ठिनं तत्सिंहावलोकन- न्यायेन संक्षेपतोऽनुवदामि. (१) श्रीमदाचार्यचरणैरनुष्ठितेषु सर्वेषु कार्येषु प्रथमं कार्य गुर्जगणा- मुद्धार इत्यहं मन्ये. वाचकाः ! अस्य सम्यक् विज्ञानार्थं प्रथम गुर्जरवृत्तं सविस्तरं निरूपयामि. एते सर्वेऽपि गुर्जरदेशनिवासिन आर्याणां वंशजा एव. आर्या- णामागमनात्पूर्व ये खल्वत्रानार्या अवसन ते च संप्रति तत्र न सन्त्येव. सन्तोऽपि वाऽत्यल्पा एव. यदा च सर्वे तद्देशवासिन आर्यवंशजाः कर्मकाण्डोक्तरीत्या कर्माणि समाचरन्तो यज्ञान व्यधु- स्तदा तत्र हन्यमानानां पशूनां संघातं वीक्ष्य केषांचिन्मनसि दया पदमादधौ. अत्रान्तरे मगधदेशे बुद्धो नाम शुद्धोदनपुत्रः कश्चन परमतपस्वी विद्वान् प्रादुरभवन्. स च यज्ञादिषु क्रियमाणां पशु- १३४ श्रीमद्वल्लभाचार्यचरिते हिंसां वेदोक्तामपि अन्याय्यां मन्यमानस्तनिषेधाय प्रायतत. क्रमेण स्वसमानचित्तवृत्तीन् सहायांल्लब्ध्वा प्रबलो बभूव. अचिरादेव मर्वस्मिन्नपि आर्यावर्ते सर्वानपि यज्ञान प्रतिबबन्ध. अयं गुर्जर- देशोऽपि तत्समीपवर्ती शीघ्रमेव तदनुयायी बभूव. एवं प्रबलीभूते बौद्धवादे प्रतिबद्धेषु च यज्ञादिपु हिंसानिवृत्ता अपि जनास्तस्यान्यानि सनातनधर्मस्य मुख्यतत्वविरोधीनि तत्वानि स्वीचक्रुः तत्र प्रधानं निरीश्वरवाद इति. तस्य हि बुद्धस्येदमभिमतं यन्नास्ति कोऽपि अस्य जगतोऽधिष्टातेति. एवं निरीश्वरवादे प्रबले तदनुयायिनः सर्वेऽपि क्रमेण तमेव वादमाश्रित्य चिरं संचितामास्तिक्यबुद्धिमत्यजन. तेन बहुलदुःखपरं- परासु समापतितासु भगवान परमात्मा विभिन्नस्थले नानासाधुवरा- नु पाद्य तहारा सर्वत्रास्तिक्यभावं स्थापयामास. परन्तु वणिग्बहुले गुर्जरदेशेऽज्ञानाधिक्येन तैर्जिनप्रभृतिभिः स्थापितं नास्तिक्यं न दूरमभवत्. तदज्ञानं प्रौढप्रतापैः श्रीमद्वल्लभाचार्यचरणैर्निराकृत्य सर्वेऽपि गुर्जरदेशवासिनोऽनुगृहीता इति निःसंशयं भगवद्भक्तानां संतोषदं. बान्धवाः ! यथा वयं सर्वेऽपि आर्यवंशजा भगवद्भक्तिमा- श्रित्य सुखं लभामहे तथा सर्वैरपि भूतलवासिभिरवश्यं सुखिभिर्भा- व्यमिति वाच्छामः. न भगवद्भक्ताः कृपणाः, यथा हि भगवानत्यु- दारशीलस्तथैव तदीया दासा अपि. (२) गुर्जरदेशवासिनः सनातनधर्मानुयायिनो विधाय श्रीमदाचार्यच- रणैर्न केवलं त एवोपकृताः किंतु सर्वे सनातनधर्मानुयायिनः. तथाहि सनातनधर्मस्य न खलु तत्वं यज्ञादि, किंतु कयापि रीत्याऽखण्डस्य सिंहावलोकनम् १३५ तस्मात् जगञ्चालकस्य चेतनतत्वस्याज्ञेभ्यो जनेभ्यो बोधनं. तम्य बोधनायै- बेमे सर्वेऽपि यज्ञादयो विधयः. एवंस्थिते यदि तस्यैवोच्छेदो भवे- नूनं सनातनधर्म एवोच्छिन्नो भवेत्. बौद्वैस्तु क्षणभंगवादिभिर्यज्ञादि- हिंसानिषेधेन न सनातनधर्मविरोधः कृतः, किंतु सर्वस्य तथा तत्का- रणस्याऽपि क्षणिकत्वस्वीकारेण. सर्वत्र श्रीहरेर्देवालयानि विधाय भक्तिमार्गप्रसारयद्भिरस्ति स्वतंत्रेच्छं चेतनं तत्वमिति घोप- यद्भिः श्रीमदाचार्यजरणैः कृत्स्नस्यापि सनातनधर्मस्य महदुपकृतम. (३) श्रीमदाचार्याणां तृतीयं महाकार्य भक्त्युत्कर्षः. श्रीमदाचार्यचर- शानां प्रादुर्भावात् पूर्वमपि भक्तिरासीत्, परं च सांगत्वेन नतु मुख्यतया. रामानुजादयो हि मोक्षसाधनत्वेन भक्तिं म्वीकुर्वन्ति म्म. अद्वैतवादिनोऽपि तथैव. कर्मकाण्डिनम्तु केवलं कांगत्वेन. श्रीम- दाचार्यचरणाः परमात्मभक्तिमेव परमं फलमुक्त्वा मोक्षं वैकुण्टप्राप्ति- लक्षणं गौणं फलमाहुः. नैवं केनापि अन्येनाचार्येणोक्तं. तम्मादाधु- निको दृश्यमानः सर्वोऽपि भक्त्युत्कर्ष आचार्यचरणैरेव कृत इति निःसंशयं वदामि. (४) वाचकाः ! पूर्वोक्तरीत्या श्रीमदाचार्यचरणैर्योऽयं भक्तिमार्गः स्थापितस्तस्येदमपि प्रयोजनं यत्तेन चतुर्णामपि वर्णानां परम्परद्वेपो नामशेपोऽभूदिति. तथाहि. यदा खल्विमे चत्वारो वर्णाः स्वस्वविहि- तकार्याणि कुर्वन्त आसंस्तदा ते सर्वेऽपि सांसारिकस्य सुखस्य परां काष्ठां प्रापुरिति सर्वेऽपि जना जानन्ति. साम्प्रतमैश्वर्यस्य परां काष्ठामारूढाः पाश्चात्यदेशा यदा केवलमश्रूयमाणनामान आसं- १३६ श्रीमद्वल्लभाचार्यचरिते स्तदाऽयं देशः सर्वमान्य आसीदिति सार्वजनीनं. अथ गच्छति काले ते सर्वेऽपि चत्वारो वर्णाः स्वोत्कर्षस्य कारणं परस्परैकमत्यं विस्मरन्तः परस्परमद्विपुः. तेन च द्वेषेण दुर्बलानस्मानिमे महंमदीयाः पराजित्य बन्दिनश्चक्रः. ते च राजनीतिचतुराः परस्परद्वेषं सम्यक्प्र- ज्वालयन्तः सुखेन राज्यान्यत्राकार्षः. तदिदमनर्थजातमालोक्य सर्वे पुरुषधौरेयास्तत्कारणं नाशयितुं परं प्रायतन्त, परंतु यावत्कालं लौकिक इव पारमार्थिकेऽपि कर्मणि न चतुर्णामपि वर्णानां समाना- मर्हतां स्वीचक्रुस्तावत्सामग्र्येण न यशोऽलभन्त. एतत्सर्वमालोच्य साधुवरा वैदिकं कर्मकाण्डोक्तं कर्माचरणं प्रतिबध्नन्तस्तस्य स्थाने परमात्मभक्तिमेव निवेशयामासुः. श्रीमदाचार्यचरणैश्च सर्वथा तुल- सीमालां वितीर्य श्रीहरेभक्तिरेवोपदिष्टा. तेन शान्तपरस्परद्वेषा भार- तवासिन ऐक्यमत्येन वर्तमाना यवनान् परमबलाढ्यानपि अजयन. रजपूतक्षत्रियाश्चानेनैव कारणेन स्वपावित्र्यमरक्षन. सर्वेष्वपि तैस्तै- रामानुजप्रभृतिभिराचार्यवरैः स्थापितेभ्यः संप्रदायेभ्य एष पुष्टिमार्गः परं परस्परद्वेषं शमयितुं प्रायतत. तेनायमेव प्राधान्येन भारतभूमौ विख्यात इति ज्ञेयम्. प्रियबान्धवाः! यैः खलु स्वीयं पवित्रमायुर्दीनानां भारतवासिना जनानामुद्धाराय यापितं. यैश्च सर्वत्र लौकिकालौकिकोभयसुखदा भक्तिः सर्वत्र प्रसारिता. अगणितानि दुःखानि विषह्य पृथ्वी- पर्यटनानि विधाय समया लोकस्थितिः प्रत्यक्षीकृता; तेषां खलु जगद्वंद्यानां श्रीमहाप्रभुवल्लभाचार्याणां कार्यराशेर्लवमपि गणयितुं कः शक्नुयात्. ! तस्मात् कृतमिदं चापलं विनयेन तच्चरणयोः समर्प- यित्वा प्रकृतमनुसरामि.

Trum १४ संक्षेपणाग्रिमवृत्तसंग्रहः १ श्रीविठ्ठलेश्वरचरितम्. २ श्रीनाथस्य नाथद्वारागमनम् . ३ सुवर्णसूत्ररचना. ४ अद्यपर्यन्तं तद्वृत्तम्। (१) एवं सर्वत्रापि भारते परममान्यं सनातनधर्मरक्षकं भक्तिमार्ग प्रचार्य वैकुण्ठंगतेषु तत्रभवत्सु सकललोकवन्दनीयचरणारविन्देषु श्रीमहाप्रभुवल्लभाचार्यचरणेपु सर्वेऽपि तदीया अनुयायिनः परं शोकमग्ना अभवन. तथापि तैरुपदिष्टस्य पुष्टिमार्गस्य सेवनं तथा वर्धनमेव स्वकर्तव्यं मन्यमाना विवेकावधूतशोकावेगाः सर्वे वैष्णवाः श्रीमदाचार्याणां ज्येष्ठं पुत्रं श्रीगोपीनाथसंज्ञकं पुरस्कृत्य पुष्टिमार्ग- तेऽपि श्रीगोपीनाथाचार्याः सर्वेषां पुष्टिमार्गानुया- यिनामाग्रहं वीक्ष्य कथमपि स्वपितृचरणवियोगदुःखं विस्मृत्य तदीय- मौर्ध्वदेहिकं संन्यासाश्रमानुरोधेन व्यधुः. ततश्च ते श्रीगोपीनाथाचार्याः कतिपयदिवसैर्भगवतः श्रीनाथस्य सेवार्थ श्रीगिरिराजयात्रामका[:. साक्षात्कृत्य च श्रीनाथं तदीय- सेवाभाण्डानि सर्वाण्यपि रजतमयानि अकुर्वन. एवंव्यतीतेषु त्रिपु वर्षेषु एकदा श्रीगोपीनाथाचार्याः स्वपुत्रेण पुरुषोत्तमेन समं श्रीनाथ- पीठाधीश्वरं चक्रुः ! १३८ श्रीमद्वल्लभाचार्यचरिते सेवार्थ गिरिराजमागत्य न्यवसन. तत्र श्रीपुरुषोत्तमः परमसुन्दर इति भगवान् श्रीनाथस्तं स्वहस्तेन गृहीत्वा स्वलीलायां स्थापयामास. श्रीगोपीनाथाचार्याः स्वपुत्रस्य बाल्य एव भगवल्लीलाप्रवेशं विलोक्य संतुष्टाऽपि लोकरीतिमनुमृत्य खिन्नाः कतिपयमासं तत्रैवावसन. ततश्च ते सपरिवारं जगन्नाथक्षेत्रं गतास्तत्रैव भगवल्लीलायां समाविष्टा अभवन. एवमल्पेनैव कालेन श्रीमद्वल्लभाचार्यचरणानां ज्येष्ठ पुत्रान् श्रीगोपीनाथाचार्यान वैकुण्ठवासिनो विलोक्य सर्वे वैष्णवाः खिन्ना अपि श्रीमदाचार्याणां द्वितीयपुत्रं श्रीविठ्ठलेश्वरं पीठाधीश्वरं चक्रुः. वाचकाः ! यथा हि प्रौढप्रतापशालिनः श्रीमदाचार्यमहाप्रभुचरणा अस्य पुष्टिमार्गस्य प्रवर्तका अभवंस्तथैव तस्य पोषका अपि इमे विठ्ठलेश्वरदीक्षिता एव. यदि श्रीमदाचार्यचरणेभ्योऽनन्तरं श्रीवि- ट्ठलेश्वरदीक्षिता नाभविष्यंस्तदाऽयं पुष्टिमार्गो दृढसमारोपितमू- लोऽपि नैतावतीं वृद्धिमलप्स्यत. तस्माद्यथा श्रीमद्वल्लभाचार्याणां चरितं हृदयंगमं तथैवैतेषामपीति तद्यथामति सविस्तरं निरूपयामि. जगदीशस्य नियोगेन श्रीगोपीनाथाचार्येषु वैकुण्ठंगतेषु सत्सु तदीयाः कनिष्ठबन्धवः श्रीविठ्ठलेश्वराः पीठाधीश्वरा अभवन्निति पूर्व- मेव निवेदितं. तस्मिन् समये श्रीगोपीनाथाचार्याणां पत्नी केनापि कारणेन दूषितमानसाऽकलहायत. कलहायमाना च सर्व ग्रंथभाण्डारं तथा द्रव्यसंग्रहं च स्वायत्तमकरोत्. अत्युदाराः श्रीमद्विठ्ठलेश्वरा यत्किंचिदपि प्रतीपमनाचरन्तः सर्वमेव नूतनमकार्षः. अचिरादेव तेषां तपःप्रभावेण तथा श्रीनाथसेवामाहात्म्येन समाकृष्टा वैष्णवाः प्रतिदिनमगणितास्तत्सेवार्थमागच्छन्. तेन तेषामैश्वर्य परमवर्धत.

अग्रिमवृत्तसंग्रहः १३९ श्रीविठ्ठलेश्वरदीक्षिताश्च गृहकलहं शान्तकल्पमवेक्ष्य प्रथमं श्रीनाथसे- वाविधिं पुनर्व्यवस्थापयामासुः. ये खलु श्रीनाथपाकशालायां श्रीम- दाचार्यचरणैर्वगवासिनः श्रीचैतन्यशिष्याः स्थापितास्ते च लौकिकी बुद्धिमनुसृत्य श्रीनाथसेवायां तथा सावाधाना नालक्ष्यन्त. तांश्च पुनः पुनः प्रबोध्यापि अनवहितानवलोक्य श्रीविठ्ठलेश्वरदीक्षितास्तान श्रीनाथसेवातो दूरीकृत्य भगवतः श्रीनाथस्याज्ञया तत्स्थाने गुर्जर- ब्राह्मणान् स्थापयामासुः. तेऽपि निसर्गत एव भगवद्भक्तिपरा महता प्रेम्णा श्रीनाथसेवां चक्रुः. एवं व्यवस्थाप्य श्रीविठ्ठलेश्वरदीक्षिताः स्वयं श्रीनाथसेवाव्ययमपि व्यवास्थापयन. प्रतिवर्ष लक्षमुद्राव्ययः श्रीनाथसेवार्थ नियमित आसीत्. तथैव सर्वेऽपि उत्सवाः श्रीभगवत आज्ञामनुमृत्य निय- मिताः. तेन भाविकजनानामतीव संतोपः समभवत्. प्रतिदिनं श्रीम- थुरानिवासिगोपालेभ्य एकं दधिभाण्डमानीयान्यत्सर्वमपि दुग्धद- ध्यादिकं श्रीनाथमन्दिर एव स्थापितानां गोरत्नानां भगवतो भोगार्थ स्थापयामासुः. एवं सर्वतः श्रीनाथस्य सेवासामंजस्यार्थ प्रयतमानेषु श्रीविठ्ठले- श्वरदीक्षितेषु एकदा भगवतो भोगार्थ स्थापितेषु दधिभाण्डेपु गोपा- लानीते दधिभाण्डे ते किमपि दोषचिह्नमपश्यन्. तेन खिन्नास्ते सत्वरं पाकशालाध्यक्षं रामदासनामानमाहूय जगदुः ? श्व आरभ्य श्रीमथुरावासिगोपालानीतं दधि भगवतो भोगे न स्थापनीयमिति. द्वितीये दिने तदाज्ञामंगीकृत्य तथैव तेनानुष्ठिते भगवान् भक्तव- त्सलः श्रीनाथो रुष्टः प्रतिदिनमिव तस्मिन्दिने न स्वीचकार भोग- विषयान्. तदवलोक्य दुःखाकुलाः श्रीविठ्ठलेश्वरदीक्षितास्तत्कारणं १४० श्रीमद्वल्लभाचार्यचरिते निरूपयन्तोऽपि तदलब्ध्वा सचिन्ता भगवन्तमस्तुवन्. दीनवत्सलः श्रीनाथः स्वयं प्रकटीभूय गोपालानीतस्य दधिभाण्डस्य त्यागमेव तत्कारणत्वेनादर्शयत्. श्रीविठ्ठलेश्वरदीक्षिताश्च भगवतः श्रीनाथस्य स्वभक्तपु प्रेमातिशयं वीक्ष्य साश्चर्याः सानन्दाः पुनरपि तस्य दधि- भाण्डस्य स्थापनाय तं पाकशालाध्यक्षमादिशन्. इत्थं सर्व व्यवस्थाप्य श्रीविठ्ठलेश्वरदीक्षिताः स्वाभिमतपुष्टिमा- र्गस्य पोषार्थ ग्रंथनिर्मितिं विधातुं मतिमकुर्वन. यद्यपि श्रीमदाचार्य- चरणैरणुभाष्यादिकं ग्रंथरत्नराशिं विधाय परमात्मसंमतः पुष्टिमार्गः समर्थित एव तथापि तत्र केवलं स्वमतमेव प्रदर्शितं. न खलु तेपां तेषामन्यदर्शनकाराणां मतानि खण्डितानि. प्रकृत्यैव भगवच्चरणाराध- नतत्पराः श्रीमदाचार्यचरणाः. तत एव तैः स्वग्रंथे बाहुल्येन परमतं न खण्डितम्. तदिदं तेषामशक्तिमूलकं भावयन्तोऽन्ये वावदृका अस्य पुष्टिमार्गस्य कल्पद्रुमकल्पस्य खण्डनार्थ प्रायतन्त. तदेतत्सर्वमवलोक्य श्रीविठ्ठलेश्वरदीक्षिताः : परमतखण्डनप्रधानं विद्वन्मण्डनाख्यं ग्रंथमरचयन्. तस्य च विद्वन्मण्डनमिति नाम स्थापयतां श्रीविठ्ठलेश्वरदीक्षितानामयमभिप्रायो यत् परमतखण्डनं हि विदुषामेव शोभते न पुनर्भगवद्भक्तानां. भगवद्भक्तास्तु सदैव परमा- त्मभक्तावेव निमग्ना न किमपीदं रागद्वेषमूलकं कर्म कुर्वन्ति. विद्वां- सस्तु खण्डनमण्डनप्रधानव्यवसायाः स्वव्यवसायं सम्यक् कुर्वन्तीति. अस्मिन् परमतनिराकरणपरे ग्रंथे प्रादुर्भूते सति अन्यमतानुवर्तिभिः साधारणमतिभिः कापुरुषैरुत्प्रेक्षिताः पुष्टिमार्गदोषाः प्रभाते तमोरा- शथ इव क्षणादनश्यन्. पण्डितवर्गोऽपि तं ग्रंथमवलोक्य पुष्टिमार्ग- तत्वानां जिज्ञासामारभत. एवमन्येऽपि ये जनाः केवलमिमं मार्ग अग्रिमवृत्तसंग्रहः १४१ पौराणिकं श्रद्धामूलकममन्यन्त तेऽपि युक्त्यादिप्रमाणोपष्टब्धमिमं ग्रंथ समवलोक्य मूका अभवन. अन्ये च स्वमतखण्डनादन द्वेषमवचन. एवंप्रवृत्त सर्वेऽन्यमतानुयायिन इमं पुष्टिमार्ग बलवत्तरं खण्ड- यितुमशक्नुवन्त इत्थमुद्घोषयन-अयं मार्गः केनापि भगवद्भक्तन प्रचारितः, तस्य न जगद्गुरुत्वं, नापि सकललोकमान्यत्वं, तेन तस्य निराकरणेऽस्माभिर्न प्रयत्यत इति. तमिमं तेषां दुराग्रहमूलकं वृथा- दोपारोपं निशम्य सर्वे पुष्टिमार्गानुयायिनः परं क्रुद्धा अस्य दोपा- भासस्य परिहाराय प्रायतन्त. ते च सर्वे मिलित्वा श्रीविठ्ठलेश्वग्दी- क्षितान गोस्वामीति विरुदं धारयितुं विज्ञापयामासुः. प्रकृत्यैव सर- लास्ते श्रीविठ्ठलेश्वरदीक्षिता इमां तेपां विज्ञप्तिमाकर्ण्य विस्मितास्त- माग्रहं त्यक्तुं तानकथयन परन्तु तेपामत्याग्रहात्तदपि विन्दं धारया- मासुः. वाचकाः ? तदिनमारभ्य तदेवेदं गोस्वामीति विमदं मर्वेऽपि पुष्टिमार्गपीठाधीश्वरा धारयन्ति. एवंरीत्या निराकृतेपु अन्यदुर्मतानुयायिदृपणाभासेषु पुष्टिमार्ग- कल्पवृक्षो निष्प्रतिबन्धं ववृधे. प्रवृद्धश्चागणितान सजनान सुखयति म्म. श्रीविठ्ठलेश्वरदीक्षिताश्च श्रीनाथस्य सेवां तथा चक्रुर्यथा भगवान् वासुदेवः सन्तुष्टस्ताननुजग्राह. एकदा श्रीविठ्ठलदीक्षितेषु स्वगृहवासिषु सत्सु महति प्रभाते भग- वान् गोवर्धनधारी श्रीनाथः श्रीविठ्ठलदीक्षितानां भक्तिं परीक्षितुमि- च्छुस्तत्राजगाम. तमागतमवलोक्य हातिरेकेण मूर्च्छन्त इव परम- भागवतास्ते विठ्ठलदीक्षितास्तत्परमभाग्योदयलभ्यं हरिचरणारविन्द संपूज्य सर्वस्वं दक्षिणात्वेन वितीर्य बहिरागत्य तस्थुः, तथा सर्वानपि १४२ श्रीमद्वल्लभाचार्यचरिते स्वस्य पुत्रान स्नुपाश्च बहिरागन्तुमकथयन्. तत्रैका स्नुषा स्वना- सिकायां मुक्तालंकारं स्थापयित्वा समागच्छन्. तमवेक्ष्य श्रीविठ्ठल- नाथाः क्रुद्धास्तमलंकारं भगवते समर्पणाय जगदुः. इमं च श्रीविठ्ठ- लेश्वरदीक्षितानां भक्तिविशेपं वीक्ष्य सन्तुष्टः. श्रीनाथस्तान प्रत्यवदत्. भक्तश्रेष्ट ? त्वया न मे सर्वस्वं दत्तं किंतु अहमेव त्वया हृतः. त्वया चानेन भक्त्यतिरेकेण श्रीमदाचार्यचरणाः सन्तोपिताः. विमलीकृतं च तयं यशोमण्डलं. धन्योऽसि. वत्स ! अस्मिन् मृत्युलोके मां विस्मृत्य रात्रिंदिवं धनतृष्णापरायणाः पामरा जना धनं संपादयन्ति न ते सत्यं किमपि संपादयन्ति किंतु धनाभासं. येन तु सर्वा विषयतृष्णां त्यक्त्वाऽहमेवार्जितस्तेनैव सर्वमर्जितमिति मन्ये. दुर्लभा इह जगतीतले त्वादृशा नरपुंगवाः. यावच्चन्द्रसूर्यो दिवि तिष्ठतस्ताव- दयं पुष्टिमार्गः समं त्वदीयेन यशसा प्रवर्तेतेति तुभ्यमाशीर्वचनं ददामीति. एवमनुगृह्य श्रीनाथः पुनरपि गिरिराजं प्रति प्रचचाल. वाचका ! भगवद्भक्तानां पश्यत सामर्थ्य. यैः स्वप्रेमातिशयेन त्रैलोक्यनाथोऽपि स्वाधीनः कृतः. धन्यास्ते भक्तमुकुटमणयो, धन्यः स भक्तिमार्गो यत्रैतादृशानि रत्नान्यभवन्. अस्तु. एवं सर्व व्यवस्थाप्य श्रीनाथसेवां व्यवस्थापयितुमिच्छवस्ते विचारयामासुः. यतस्तेपां सप्त पुत्रा आसन्. ते च परस्परं कलहं विधाय कदाचित्परमात्मसेवां त्यक्ष्यन्तीति मन्वानाः श्रीविठ्ठलदीक्षि- तपादास्तान् सर्वानपि श्रीगिरिराजधारिणः श्रीनाथस्य पुरतो निधाय तं विज्ञापयामासुः. भगवन् ! अचिन्त्यशक्तिस्त्वं. त्वदीयामिच्छां को वा ज्ञातुं शक्नुयात्. तन्ममैतेषु सर्वेष्वपि पुत्रेषु कस्ते रोचत इति वद. स एव त्वां सेविष्यते यस्तुभ्यं रोचत इति. एवंविज्ञप्तः स त्रैलो- अग्रिमवृत्तसंग्रहः १४३ क्यनाथः केवलं गिरिधररायमेव स्वाभिमतत्वेन प्रदर्शयामाम. अन्यांश्च जगाद-भवद्भिर्मदीयान्यन्यानि स्वरूपाणि स्थाने स्थाने स्थाप. यित्वा भक्तिमार्गवृद्धिः करणीया. समये समये च मदीयसेवाऽपि करणीया. अनेन भक्तिमागोऽपि वर्धेत. सर्वेषां जनानां कल्याणमपि स्यादिति. एवं भगवतैव विहितां व्यवस्थामवलोक्य सन्तुष्टाः श्रीविठ्ठलेश्वर- पादास्तीर्थयात्रां चक्रुः. एकदा श्रीविठ्ठलेश्वरपादाः श्रीद्वारकानाथं साक्षात्कर्तुं स्वनिवासा- निर्गता मार्गे परमरमणीये मेवाडनाम्नि राजस्थानान्तर्गते देशे कानि- चिदिनानि तस्थुः. तत्र सिंहाडानामकं रमणीय स्थलमवेक्ष्य परम- सन्तुष्टाः श्रीविठ्ठलेशदीक्षिताः स्वसहचरानवदन. अस्मिन स्थले श्रीनाथः कतिपयवानन्तरं स्वयमागत्य निवसेन्. किंतु यावदह जीवामि तावद्भगवान गिरिराजं न मुंचेदेवेति निश्चितमिति. तेऽपि तदिदमद्भुतं वृत्तमाकर्ण्य विस्मितास्तूष्णीं तस्थुः. सकललोकविख्या- तान् श्रीविठ्ठलदीक्षितचरणांस्तत्र समागतान कर्णाकर्णिकया निशम्य सानन्दो मेवाडाधिपतिर्महाराज उदयसिंहः स्वयमागत्य कृताभिव- न्दनः शतं सुवर्णमुद्राणां तथा सुसम्पन्ननागरिकं ग्रामं चोपायनीचक्रे. श्रीविठ्ठलेशचरणा अपि तं भगवद्भक्तं सजनादरतत्परं क्षत्रियश्रेष्ठं मेवाडाधिपं विलोक्य सन्तुष्टा भगवत्प्रसाददानेन तमन्वगृह्णन. प्रणम्य स्वावासं गते तस्मिन राजनि तदीया पत्नी समं स्वकन्यया श्रीविठ्ठलदीक्षितानां दर्शनार्थमाययौ. सा च कन्या निसर्गत एव भगवदनुरागशालिनी तादृशमलौकिकतेजःशालिनं भगवद्भक्तं वीक्ष्य सानन्दा तमेव गुरुं विधातुं कृतनिश्चया जगाद-भगवन् ! अहमस्मि १४४ श्रीमद्वल्लभाचार्यचरिते अनाथा कथमपि दुस्तरे संसारसागरे निपतिता. अहं चास्मादुः- खार्णवान्निर्गन्तुकामा त्रैलोक्यनाथं श्रीनाथं शरणीकर्तुमिच्छामि. परन्तु तत्रास्ति कस्यापि गुरोः साहाय्यस्यापेक्षा. तन्मे भगवञ्चरणार- विन्ददर्शनार्थ सहायो भब इति. परमोदाराः श्रीविठ्ठलेश्वरदीक्षितास्तस्या राजकन्याया इदं सरलं भापणं निशम्य सन्तुष्टास्तां भगवद्भक्तिं समंत्रामुपदिदिशुः. साऽपि राजकन्या तावतैव कृतकृत्या तां भक्तिरीतिमुपास्यमानाऽग्रे गन्तुं प्रस्थितांस्तान गोस्वामिचरणान्विलोक्य सद्गदमवदन्-इतः परं सद्गु- रुदर्शनं मे दुर्लभं भविष्यतीति. गोस्वामिचरणाश्च तदुक्तिमाक- या॑ऽपि गभीराः सस्नेहमवदन-वत्से ! अस्माकमेकत्रावस्थानं दुर्लभं. भगवानेव प्रतिदिनं गिरिराजादत्रागत्य तुभ्यमात्मानं दर्शयेदिति. इत्थं निगद्य द्वारकाक्षेत्रं प्रयातेषु श्रीविठ्ठलनाथगोस्वामिचरणेषु भक्तवशः परमात्मा गिरिराजधारी श्रीनाथः प्रतिदिनं तत आगत्य तस्या राजकन्याया मंदिरे क्रीडंस्तां समतोपयत्. एवं प्रयातेपु केषु- चिन्मासेपु सा राजकन्या भगवतो गमनागमनक्लेशं स्वनिमित्तमव- लोक्य दुःखायमाना श्रीनाथं जगाद-भगवन ! मदर्थमत्र प्रतिदिन- मागच्छतम्तेऽगणिताः क्लेशा भवन्ति. तत्किमिति गिरिराजमुत्सृज्या- त्रैव न निवससि. स्वतंत्रेच्छस्य सर्वशक्तेस्ते न किमपि अशक्य- मिति. श्रीनाथोऽपि तस्या राजकन्याया इदमनुरागमयं भाषणं समा- कर्ण्य मुदितः प्रत्युवाच-यद्यपि त्वदीयां भक्तिमालोक्याहमत्रैव स्थातु- मिच्छामि, तथापि अस्मिन् भूतले यावद्विट्ठलदीक्षिता विराजन्ते तावदहं गिरिराजादन्यत्र यत्रकुत्रापि गन्तुं न पारयामि. यथा हि श्रीविठ्ठलदीक्षिता मम प्रिया न तथा कोऽपि. तस्मात्तेषु मदन्तिकमा- गतेषु अहमत्रागत्य निवत्स्यामीति.

अग्रिमवृत्तसंग्रहः १४५ इदं च भगवतः श्रीनाथस्य स्वगुरुचरणेपु प्रेम वीक्ष्य सन्तुष्टा सा राजकन्या तूष्णीं तस्थौ. एवं सर्व श्रीनाथसेवाविधिं व्यवस्थाप्य तथा शास्त्रप्रक्रियामपि नूतनग्रंथविधानेन निर्दोषां संपाद्य कृतकृत्या अगणिततीर्थयात्राविधा- नेन लब्धपुण्यसंचयाः श्रीगोस्वामिपदभूपणाः श्रीविठ्ठलनाथदीक्षिता उचिते काले स्वावतारं समापयित्वा भगवदन्तिकमगच्छन. तदानी- मपि सर्वेषां पुष्टिमार्गानुयायिनां वैष्णवजनानां श्रीमदाचार्यचरणवि- योगजन्यमिव महादुःखमभवन. तथापि तत्सर्वमपि विहाय ते दृढ- मतयस्तेषां पुत्रं गिरिधरराजमेव पुष्टिमार्गपीठाधीश्वरं चक्रः. अन्ये च सर्वे तत्पुत्राः परमोदारा ऐकमत्येनावर्तन्त. वाचकाः ! यथा हि श्रीमदाचार्यमहाप्रभुचरणैः म्वयमवतीया- स्मिन मर्त्यलोके कल्पवृक्ष इवेष्टकामप्रदः पुष्टिमार्गः स्थापितस्तथैव श्रीविठ्ठलेशचरणैः स्वयमवतीयप प्रसारित इति तदीयमपि चरितं सविस्तरं लिखितुं योग्यं, तथापि तन्मया विस्तरभयान्नानुष्टितं. तथापि तेषां सकललोकमान्यत्वं श्रीमदाचार्यचरणानामिवेत्यत्र न संशयः. यथा हि पुष्टिमार्गानुयायिनो वैष्णवाः श्रीमद्वल्लभाचार्यचरणान प्रति सादरास्तथैव गोस्वामिपदवीभूपणान श्रीविठ्ठलेशदीक्षितान प्रतीति. सर्वैरवधारणीयम्. (२) एवं वैकुण्ठवासिषु श्रीगोस्वामिविठ्ठलदीक्षितेषु तदीयः पुत्रो गिरिधरराजः श्रीनाथसेवां यथासम्प्रदायमकरोत्. तस्मिन् समये नानादेशतो विविधा जनाः समागत्य श्रीनाथं साक्षात्कृत्य स्वजन्मानि सफलानि चक्र:. एवंप्रयाते कियति काले भारतवर्पस्य दुर्दैवेनानर्थ- वल्ल०१० १४६ श्रीमद्वल्लभाचार्यचरिते परंपरा परापतत्. वाचकाः ! अस्या अनर्थपरंपरायाः सम्यग्ज्ञानार्थ- मितिहासगतं वृत्तं लिखामि. इदं मृत्युलोकगतं नन्दनवनमिव सकलरमणीयं भारतवर्प यदा क्षत्रियकुलोत्पन्नाः श्रीरामचन्द्रवंशजाः क्षत्रियराजा अपालयंस्तदाऽ- त्र सकलमपि सौख्यं न्यवसत्. परन्तु यदाऽऽत्रत्यं सौख्यातिरेक वीक्ष्य लुब्धाः परकीया यवना व्यवहारमिपेणात्रागत्य स्थातुमैच्छं- स्तदा तैः समं तेषां घोराणि युद्धान्यभवन. प्रथमतश्च निसर्गतः शूराः क्षत्रियश्रेष्ठास्तान् यवनान् पराजित्य कांदिशीकांश्चक्रुस्तथापि दृढोद्यम- शीलास्ते भूयोभूयः समागत्यायुध्यन्त. अत्रत्यान बलाढ्यान राज्ञोऽपि समुपाजापयन. तेन दुर्बलास्ते क्षत्रियराजाः क्रमेण क्षीणबला नाम- शेषा अभवन. यवना अपि प्रथमतः स्वशत्रून्निराकृत्य पश्चात्स्वसहा- यान क्षत्रियानपि अनन्. तेन निर्भया यथेच्छं वर्तमानाः सनातन- धर्मस्य देवालयानि तथाऽर्याणां वधूश्च अदूषयन्. तेनोद्विग्ना भारतव- पंस्थाः सर्वे जनाः परमात्मानं स्वरक्षणार्थ प्रार्थयामासुः. यथा यथा च यवनानां विजयमानानामैश्वर्यं निरतिशयं तद्वा- न्धवा अद्राक्षुस्तथा तथा तेऽपि तल्लोभाकुला अत्रागच्छन्. आगताश्च पूर्व स्थितैः खबान्धवैः सममयुध्यन्त. इत्थं प्रवृत्ते घोरे युद्धे दीनाः प्रजाजना अगणिताः प्रतिदिनं प्राणानमुंचन. कस्यापि स्वास्थ्यं लेश- तोऽपि नासीत्. वाचकाः ! वयं नात्र भारतवर्पस्येतिहासं लिखितुं प्रवृत्ताः किंतु श्रीनाथस्य मेवाडदेशागमनं. तत्र कारणीभूतः को वा यवनराज इति प्रसंगानिरूपयामः. अस्तु. एवं व्यतीतेषु बहुषु वर्षेषु बहूनि यवनकुलान्यत्रागत्य पूर्व स्थितान् नृपानिहत्य स्वयं राज्यमकुर्वन्. चरमो मोंगलकुलभूषणं अग्रिमवृत्तसंग्रहः बाबरनामा यवनो यदाऽत्रागत्य दिल्लीश्वरोऽभवत्तदा सोऽवशिष्टान् सर्वानपि महंमदीयानामशेषानकरोत्. यदा च श्रीमदाचार्यचरणा इमां भारतभुवं समलंचक्रुस्तदा मोंगलकुलसंभवः सुप्रसिद्धस्य अक- बरस्य पुत्रो जहांगीरनामा दिल्लीश्वर आसीन्. पश्चाच्च तदीयो ज्येष्ठः पुत्रः शहाजहानो दिल्लीश्वरोऽभूत. अस्मिन् यवनपतौ भारतं शासति सति स्थाने स्थाने विद्यमाना अपि यवनराजा अतिदुर्बला न तं पीडयितुमशकन्. तेन प्रजानां साधारणतः स्वास्थ्यमेवासीत्. अयं च रजपूतक्षत्रियकन्याजन्यत्वेन तादृश आर्यशत्रुरपि नासीत. तेन सनातनधर्मपीडाऽपि नाभवत. एवं गच्छति काले यदाऽयं वृद्धो बभूव तदा तदीयाश्चत्वारः पुत्रा राज्याथै कलहायमाना दुर्निवार्या अभवन. तेपु सर्वेष्वपि कनीयान अवरंगजेबनामा पुत्रोऽतिकूटमतिः सनातनधर्मद्वेषपर एव. स च क्रमेण सर्वान स्वबन्धून यमालयं प्रेपयित्वा पितरं च कारागृहवा- सिनं विधाय स्वयं दिल्लीश्वरोऽभूत्. स दिल्लीपतिसिंहासनमधिरुह्य प्रथमतः स्वशत्रून्नानाविधैरुपायैर्नामशेपान्विधाय ततः स्वधर्मम्य वृद्ध्यर्थ सनातनधर्म पीडयितुमारभत. वाचकाः ! यद्यपि कस्यापि धर्मस्य वृद्धिरन्यस्य कस्यापि धर्मस्य नाशेन न भवति. यतः सर्वे धर्मपथाः कस्याऽपि एकस्य महाधर्मस्य शाखाभूता एव. नोकरयां शाखायां छिन्नायां तदाश्रयीभूतो वृक्षो वर्धत इति दृष्टचरं, तथापि मूढा जना इत्थममन्वानाः परोत्कर्षासहिष्णवः सर्वदा परधर्मोच्छे- दाय प्रयतन्ते. तेन रुष्टास्तद्धर्मानुयायिनो जनाः प्राणप्रियस्य स्वध- र्मस्य नाशं द्रष्टुमनुत्सुकाः स्वात्मानमेव तद्रक्षणार्थभर्पयन्ति. तथा- सति उभयोरपि धर्मयोर्हानिर्भवति. एतस्य सर्वस्यानिष्टस्य परिहाराय सज्जनाः परधर्म न द्विषन्ति. अस्तु.

१४८ श्रीमद्वल्लभाचार्यचरिते यदा चायं क्रूरो दिल्लीश्वरः स्वशत्रूस्तथा स्वारिमित्राणि च नामशेषा- ण्यकरोत्तदाऽयं सनातनधर्मस्य नाशार्थ मतिं चक्रे इति उपरिष्टान्नि- वेदितमेव. स हि मेने यावत्कालमिमे सनातनधर्मानुयायिनः स्वध- ममेवोपासमाना अस्माभिर्जिता अपि जीवन्ति तावत्कालमस्माकं राज्यं न निरावाधं. यत इमे सर्वेऽपि मूर्तिपूजका अस्मान्विलासदुर्ब- लानवलोक्य कदाचित् संभूयोत्थाय स्वराज्य स्थापयेयुः. तस्मायेन केनापि प्रकारेण ते सनातनधर्म प्रति वीतानुरागाः करणीया इति. विचिन्त्य चैवं स दुरात्मा यवनराजः सनातनधर्मानुयायिनः प्रति राजधर्मास्वीकारदोषेण द्रव्यदण्डेनायोजयत्. ते च प्रथमत एव नानाविधैः क्रूरैर्दण्डैयाकुला अपि प्राणप्रियस्य स्वधर्मस्य त्यागात् परिमितं वित्तत्यागमेव स्वीचक्रुः. दिल्लीश्वरश्च तेन प्रतिवर्षमपारं द्रव्य- राशिमलभत. एवं कृत्वाऽपि यदा सनातनधर्मस्य हानि स नापश्यत्तदा स स्थाने स्थाने विद्यमानानि सनातनधर्मस्य रक्षकाणि तीर्थस्थानानि दूपयितुं प्रायतत. न केवलमेतावदेव किंतु सुप्रसिद्धान् देवालयान भूमिसात्कृत्वा तत्रस्थदेवप्रतिमा अपि नाशयितुमारभत. सनातनध- मस्याधारभूता इव ये खलु विद्वांस आसंस्तान स वलादेव समा- नीय स्वधर्मानुयायिनो व्यधात्. तदानीं चागणिता जनाः स्वधर्मया- गमपेक्ष्य मरणमेवांगीचक्रः. एवं मदोन्मत्तं तं दिल्लीश्वरमवलोक्य श्रीनाथः स्वयमचिन्तयत्. मया हि श्रीविठ्ठलदीक्षितानां पश्चान्मेवाडवासार्थ निश्चयः कृतः. परमभक्तिशालिनी मेवाडाधिपतिकन्याऽपि प्रतिदिनं तत्रागन्तुं प्रार्थ- यते. अहमपि तत्र गन्तुमुत्सुक एव. परन्तु अस्मिन्गिरिराजे श्रीम- अग्रिमवृत्तसंग्रहः १४९ दाचार्यचरणैरहं सशास्त्रं पीठे स्थापित इति नाहमेवान्यत्र गन्तुं प्रभ- वामि. तदन्यं कंचन पापिनं मदीयपीठच्छेदनाय प्रेरयामि. येनाहं. तत्र गंतुं प्रभवेयमिति. विचिन्त्य चैवं तमेव क्रूरकर्माणं दिल्लीश्वरं निभृतं प्रैरयत्. सोऽपि तत्प्रेरणामादृत्य त्वरितमेव तत्सकलसनातन- धर्मानुयायिमिरादृतं गिरिराजगतं पीठं नाशयितुं मतिमकरोत. वाचकाः ! दुर्जनाः स्वकार्याणि निष्प्रतिबन्धं सिद्धान्यवलोक्य म्मयमाना आत्मानमेव धन्यं मन्यन्ते परन्तु न ते जानन्ति म्वम्य दुरितसंचयः क्रमेण परिपाकाभिमुखीभवति. यथा हि बाह्यतो नीरोगी दृश्यमानोऽपि मानवो राजयक्ष्मणाऽन्तःम्ववशीकृत: केवल- मज्ञजनान मोहयति तथैवेमे दुर्जना अन्यायसंपादितवैभवातिशयेन मूढानेव मोहयन्ति न विदुपः. यतस्ते सम्यग्जानन्ति यदेतेऽधःप- तनशीला इति. तस्मात् केनापि शुभाकांक्षिणा मानवेन स्वप्नेऽपीदं न करणीयं यदन्यायनैश्वर्य वर्धत इति. अस्तु. प्रकृतमनुसरामः अचिरादेव स दुरात्मा दिल्लीश्वरः समग्रवाराणसीप्रभृतितीर्थवृन्द दूषयन्नपारं पापराशिमर्जयन गिरिराजमपि दूपयितुकामः श्रीनाथ- सेवकानां पुष्टिमार्गाध्यक्षाणां समीपे दूतं प्रैपयन. तदानीं च पीठा- धीश्वराः श्रीगिरिधरलालजीचरणानामात्मजा:श्रीदाऊजीपादा आसन परन्तु तेषां बालतया सर्वमपि व्यवहारं तदीयाः पितृव्यचरणा एवा- पश्यन्. स तु सेवकानीतो दूतस्तानवदत्-प्रतापशाली दिल्लीपतियुप्मा- नाज्ञापयति यद्यस्ति कश्चन विशेषो युष्मासु वा युष्मद्देवतायां वा तदा स शीघ्रमेव दर्शनीयः. अथवा राजधर्मो वा स्वीकरणीयः इत- रथा गति स्ति. यदि मदीयराज्ये यूयं स्थातुमैच्छत तदा मदीयध- मस्वीकार आवश्यक इति.

१५० श्रीमद्वल्लभाचार्यचरिते इदं च तदुग्रं दूतस्य भाषणं निशम्य सर्वे चिन्तामग्ना अभवन. तदा पितृव्यचरणाः सहसा यथाविधि श्रीनाथं पूजयित्वा विशेषद- शनायानुज्ञामयाचन् परन्तु अतळप्रभावशाली श्रीनाथस्तां न ददौ. तेन तेऽपि परं निराशा अभवन्. एवं स्तब्धेषु सर्वेषु मुख्याः पीठा- धीश्वरा दाऊजीचरणाः सर्वानवदन्-दिल्लीपतिरपि भगवतैव विहितो भगवदाज्ञां कथमतिकाम्येत्. तदधुना सर्वैरपि भवद्भिश्चिन्ता बिहाय स्वस्वकार्याणि करणीयानि. सायंकाले भगवान स्वयमेव कर्तव्यं बोधयेदिति. तदिदं तेपां प्रतिवचनमाकर्ण्य सर्वे वैष्णवास्तूष्णीमतिष्ठन्. स दिल्ली- श्वरदूतोऽपि प्रत्युत्तरापेक्षी तत्रैव तस्थौ. अथ दिल्लीश्वरस्य सुकृत इव मन्दीभवति सूर्यपरितापे, परिजन इव तं त्यक्त्वाऽन्यत्र गच्छति पक्षिवृन्दे, सकलभारतजनहृदयपटल इव कोपातिरक्ते वियति, सूर्यः शनैः शनैः पश्चिमे तीर्थराजे निर्म- मज. तं चान्तर्हितमवलोक्य तमःसमागमभीता इव जनाः स्वस्व- निवासेपु दीपान प्राज्वालयन. तदानीं शयनसेवां विधाय पिहितेपु श्रीनाथमन्दिरकपाटेषु सर्वेषु अन्येषु जनेषु सुप्तेषु सत्सु पितृव्यच- रणानेकाकिनश्चिन्तामग्नानवलोक्य दुःखाकुलो भगवान् श्रीनाथः स्वसमीपवर्तिनो गिरिधरजीमहाराजानवदत्-भक्तवर ! त्वं हीतो गत्वा मदीयं मेवाडगमनवृतान्तं सर्व निवेद्य तं चिन्तान्तुरं विचिन्तं कुरु इति. महाभागवताः श्रीगिरिधरजीमहाराजाः सत्वरमेव ततो निर्गत्य चिन्तामग्नानां श्रीपितृव्यचरणानां समीपमागत्य जगदुः- बन्धो ! चिन्तां त्यज. स्वयं हि भगवान् श्रीनाथो मेवाडदेशं गन्तु- मिच्छुस्तं निमित्तं चकार. तदिच्छवः संध्यासमये रथं सन्नाहय. तमा- .

अग्रिमवृत्तसंग्रहः १५१ रुह्य भगवान मेवाडदेशं प्रति गमिष्यति. स च स्वयमेव स्वविशेष प्रदर्शयंस्तं मूढं दिल्लीश्वरं विस्मितं करिष्यतीति. उक्त्वा चेत्थं ते पुनरपि श्रीनाथसेवार्थ शयनमन्दिरमाजग्मुः. प्रभाते च ते पितृव्यचरणाः सर्वेभ्यस्तदपूर्व वृत्तं कथयामासुः. सर्वे च मथुरावासिनस्तन्निशम्य परं दुःखाकुलाः स्वयमपि तेनैव समं मेवाडदेशं गन्तुं निरचिन्वन. अथ समाप्ते राजभोगोत्सवे सर्वे महाप्रभुवंशजाः समं पुष्टिमार्गपीठाधीश्वरेण श्रीनाथं प्रस्थातुं विज्ञा- पयामासुः. परन्तु यावत्कालं सर्वे ब्रजवासिनो गोपालाः समागत्य नाक्रोशंस्तावत् स प्रभुर्न ततश्चचाल. ततश्च रथमारुह्य तस्य दिल्ली- श्वरस्य निवासस्थानं आग्रानामकं नगरमभिलक्ष्याश्वांश्चोदयितुं स सारथिमवदत्. तदाज्ञामनुमृत्य सर्वे वैष्णवास्तथा गोपाला रथमभितो वर्तमानाः प्रातिष्ठन्त. रथस्य पुरतस्तु बाबूमहादेवनामा वृद्धः सेवकः करदीपिकां गृहीत्वा प्रचचाल. अचिरादेव निर्विघ्नं तन्नगरस्थितं स्वमन्दिरं श्रीनाथः मुग्वेन समाजगाम. सर्वेषु द्वारपालेपु मुनेष्वपि अनायासेन अन्तःप्रविश्य सर्वानपि अन्तः प्रावेशयत्. तत्र निवसन्नेकदा श्रीनाथः स्वयमेव दिल्लीश्वरस्य पुरतः प्रादुर्भूय कोपतो निजगाद-रे म्लेच्छापसद ! मत्कृपया त्वं भारतवर्पस्य राज्यं लब्ध्वा मामेवावमन्यसे ! मद्भक्तान पीडयसि ? तदित ऊर्ध्व यद्येवं स्यात्तदा क्रूरेण दण्डेन दण्डितो भविष्यसीति. स तु पापः श्रीभग- वतस्तदुग्रं रूपं विलोक्य भीतिविह्वलस्तूष्णीं तस्थौ. ततः श्रीनाथोऽ नकूटमहोत्सवपर्यन्तं तत्र स्थातुं स्वमतिमदर्शयत्. तदाज्ञां स्वीकृत्य सर्वेऽपि वैष्णवा निर्भयमानसास्तत्रैवातिष्ठन्. अथ समाप्तेऽन्नकूटम- १५२ श्रीमद्वल्लभाचार्यचरिते होत्सवे भगवान् श्रीनाथोऽग्रे गन्तुं सर्वानादिशत्. ततश्च सर्वे ते प्रवसन्तो ‘दंडोतीघाट'नामकं स्थलं प्रापुः. तत्र च सेवादिकं विधि सर्व स्वीकृत्याग्रे प्रचलितो भगवान चर्मण्वत्यास्तीरे स्वनिवासमक- ल्पयत्. तदानीं च कश्चन यवनाधिकारी समं यवनसैन्येन तत्र समुपस्थितं श्रीगोवर्धननाथं निशम्य द्वेषेणानुधाव. अनुधावतस्तान यवनानवलोक्य सर्वे वैष्णवाः सचिन्ता अजायन्त. भगवान दीन- वत्सलः श्रीनाथस्तान सर्वानपि आश्वास्य तान यवनांस्तथाऽभीपयत् यथा ते सर्वेऽपि कांदिशीका अभवन्. प्रालपंश्च परस्परं नाबास्ति कश्चन देवः किंतु घोरः पर्वतो भयंकरैः सिंहैरावृत इति. एवंरीत्या सर्वान् विघ्नान्निराकृत्य भगवान श्रीनाथः परमशूरजन- रक्षितस्य धर्मावासभूतस्य राजस्थानस्य सीमां प्राप. तं च समागत- मवलोक्य बुन्दीनरेशः परमधार्मिको महताऽनन्देन प्रत्युजगाम. सादरमसेवत च. प्रार्थयत चात्रैव स्थातुं. तथापि श्रीनाथो मेवाड- देशं गंतुं कृतनिश्चयस्तत्र स्वप्रतिमा स्थापयितुमन्वमोदत. ततश्च जोधपुरनगरं समागत्य तत्रत्येन राज्ञा कृतं स्वागतं स्वीकृत्य पुष्कर- राजतीर्थे स्नात्वा कृष्णगडनगरं जगाम. ततश्च निर्गतः 'चापसेनी'- ग्राममाययो. तत्र चतुर्मासपर्यन्तं स्थित्वा महता मोदेन कालमनयत्. तत्र स्थितं श्रीनाथमवलोक्य पितृव्यपादाः श्रीगोविन्ददीक्षिताः सत्वरं मेवाडाधिपतेर्यवनधूमकेतोः राजसिंहस्य समीपमागत्य श्रीना- थागमनं तस्मै निवेदयामासुः. सोऽपि तदिदमानन्दप्रदं वृत्तमाकर्ण्य परं सन्तुष्टः स्वर्ग हस्तगतमिव मन्यमानः सादरं प्रत्युद्गम्य प्रणम्य परमपवित्रं श्रीनाथस्य चरणारविन्दं प्रार्थयामास-भगवन् ! इयं हि सर्वा मेवाडमेदिनी तथाऽयं देहः सर्वमपीदं भगवत एव. तद्यत्र अग्रिमवृत्तसंग्रहः १५३ रोचते तत्रैव भगवता स्थातव्यं. यावदहं जीवामि यावच्च मदीया वंशजा जीविष्यन्ति तावद्युप्मत्सेवायां कदापि न्यूनं न भविष्यतीति. विज्ञप्य चैवं सर्वानपि श्रीदाऊजीमहाराजप्रमुखान् महाभागवतान् संतोषयामास. अथ तस्माद्वामान्निर्गतः श्रीनाथः क्रमेण मेवाडदेशं प्रविश्यान्तर्ग- च्छन्नकस्मात्कस्यापि विशालस्य वटवृक्षस्याधस्तान स्वरथं स्थापयामास. श्रीनाथस्य च रथं तत्रैव स्थितमवलोक्य विस्मिता यदा कारणमजि- ज्ञासन्त तदाऽत्रैव सा राजकन्याऽवसत्तनामप्यत्रैव वत्स्यामीति जगाद. निशम्य चेमां भगवदाज्ञां पितृचरणाः श्रीगोविन्ददीक्षिताः सत्वरं सर्वानाहूय श्रीनाथस्य मन्दिर निर्मातुमाज्ञापयन. मेवाडाधि- पतिरपि सर्वसामग्रीसमेतस्तन्मन्दिरं विधातुं परमसाहाय्ययत्. अचि- रादेव परमविशालं श्रीनाथम्य मन्दिरं सन्नद्धमभवन्. सन्नद्धे च तस्मिन पितृव्यचरणाः श्रीगोविन्ददीक्षिताः श्रीदामोदरलालमहारा- जानां हस्तेन वैदिकविधिमनुसृत्य यथाशास्त्रं श्रीनाथं पीठाधिष्ठितं चक्रः. परमधार्मिकः सन्मान्यो मेवाडाधिपती राजसिंहोऽपि भगवन्तं त्रैलोक्यनाथं श्रीनाथं स्वराज्यवासिनमवलोक्य म्वजन्म मफलं मेने. नाथसेवार्थ बहून ग्रामान ददौ. श्रीनाथं च मेवाडवासिनं निशम्य सर्वे राजस्थानवासिनो जनास्तथा राजानः सानन्दं तत्रागत्य बहू- न्युपायनानि वितेरुः. तेन श्रीनाथस्य कृष्णभांडगृहं कुबेरभव- नमिवाशोभत. स च कपटी दिल्लीश्वरो मेवाडाधिपतिना पूर्वमेव बद्धवैरस्तत्रैव निवसन्तं श्रीनाथमवगम्य कोपातिरेकप्रनष्टविवेकः स्वसेनां सन्नाह्य मेवाडदेशमाक्रमितुं निरगात्. तां च वार्तामाकर्ण्य निर्भयो मेवाडाधि- १५४ श्रीमद्वल्लभाचार्यचरिते पतिरपि श्रीनाथकृपाशाली महतोत्साहेन तं पराजेतुं प्रातिष्ठत. अचि- रादेव तौ द्वावपि सेनासमूहौ परस्परदृष्टिविषयावभूताम्. युद्धव्यव- स्थार्थ च किंचित्कालं तूष्णीमतिष्ठताम्. अत्रान्तरे एकदा तस्य दिल्लीश्वरस्य राज्ञी बहुसेनागोपिता अरवलि- पर्वतश्रियं द्रष्टुकामा तस्य स्कंधावाराजगाम. मेवाडाधिपतेः सका- शाद्भयमुत्प्रेक्षमाणः स कपटी दिल्लीश्वरस्तद्रक्षार्थ बहु सादिमण्डलम- दात्. सा च तेन सैन्येनान्विता सादिमण्डलेन रक्षिता क्रमेण अरवलिपर्वतमध्यं गत्वा तत्र च विविधविकचकमलरुचिराणि सरांसि पश्यन्ती तस्य पर्वतराजस्योन्नतानि शृंगाणि विलोकयन्ती चिरमरमत. सायं च ततः प्रतिनिवर्तमानाऽकस्मात् स्वस्कन्धावार- गमनमार्ग व्यस्मरत. सर्वे सैनिका अपि विस्मृतमार्गाः राजकोपभिया परं व्याकुला अभवन. सर्वेऽधिकारिणोऽपि किंकर्तव्यतामूढा अजायन्त. अथ तदानीमेव कश्चन प्रज्वलितकरदीपिकाधारी गोपालस्तत ए- वागच्छन्नदृश्यत. स च पृष्टस्तत्स्कन्धावारगामिनं मार्ग तेभ्यो दर्श- यितुं स्वीचक्रे. सर्वे च यवनसैनिकास्तथा स्वयं राज्ञी तमनुमृत्य जग्मुः. स च क्रमेण गच्छन्नकस्मान्मेवाडाधिपस्कन्धावार प्राप. खस्कन्धावारे समागतान रिपूनवलोक्य महाराजस्तान् बन्दीकर्तुमा- दिदेश. न्यवेदयच्च तद्वृत्तं दिल्लीश्वराय. स तु तन्निशम्य मूर्ध्नि अश- निना ताडित इव मुमूर्च्छ. धर्मशीलो मेवाडाधिपती राजसिंहस्तां दिल्लीश्वरस्य पत्नी स्वस्कन्धावारागतामपि भगिनीमिवाहत्य तदन्तिके प्रेषयामास. साऽपि स्वपतिसमीपं गता तमवोचत्. नाथ अधुना युद्धेनालं. यो हि साक्षात् परमात्मेव न्यायचतुरो धर्मशीलश्च कथं ?

अग्रिमवृत्तसंग्रहः १५५ तेन सह मानवानामम्माकं युद्ध ! ये हि वयं केवलं परद्रव्यकान्ता- लोभाकुला अगणितान मानवान्निहत्य स्ववासनाशान्त्यर्थ युध्यामहे . स तु धर्मात्मा केवलं स्वमातृभूमिस्वातंत्र्यरक्षार्थ युध्यते. नाम्मिन युद्धेऽस्माकं विजयस्याशाऽपि. तत्त्वरितमनेन संधाय स्वराजधानी प्रयातु स्वामीति. कपटशीलोऽपि दिल्लीश्वरः स्वभार्यायाः मुखेन प्रत्यागमनं विलोक्य तथा तत्कृतं सदुपदेशं च निशम्य शान्तहृदयः मत्वरं स्वराजधानी गन्तुं मनश्चक्रे. मेवाडाधिपोऽपि दिल्लीश्वरं त्यक्तवैरं स्वराजधानी प्रति गच्छन्तं निशम्य तदादरपरोऽभवत. मिलितं तं जगाद दिल्ली- श्ररः-राजन ? भगवत्सहायस्य ते कथं मत्तः पराजयः. तस्मि- न्दिने साक्षाच्छीनाथेन गोपालरूपधारिणा मदीया पत्नी त्वत्स्कन्धा- वारं नीता. त्वयाऽपि धर्मशीलेन सा भगिनीवाहत्य मदन्तिकं प्रेपिता. तद्धर्मशालिनो भगवत्सहायम्य तव पराजयः शक्रेणाऽपि अशक्य इति विरमामि साम्प्रतमस्मात् साहसात. यावत्कालं त्वद्वं- शजेपु इयं धर्मबुद्धिः स्थास्यति अयं च श्रीनाथस्त्वंशजानां रक्षक- स्तावत्कालं कालोऽपि न त्वां जेतुं शक्नुयादिति. प्रबले दिल्लीपतावेवंरीत्या पराभूय स्वराजधानीं गते सति स महात्मा मेवाडस्वामी श्रीनाथकृपया लब्धं जयं मन्यमानस्तं परमादरेणासेवत. वाचकाः ! एवंरीत्या केवलं मेवाडाधिपतिराजकन्याभक्त्यतिरेक- समाकृष्टः श्रीनाथः सम्प्रत्यपि उदयपुराधीशेन सेवमानः सकलजग- कल्याणाय तत्रैव वर्तते. सकलभारतवासिनो वैष्णवा भक्त्या तत्रागत्य तं साक्षात्कृत्य स्वपापराशिं नाशयन्तः स्वजन्मसा- फल्यं लभन्ते.

१५६ श्रीमद्वल्लभाचार्यचरिते (३) वान्धवाः ! एवं श्रीनाथं मेवाडदेशे सकलशूरजनावासे निसर्गत एव दुर्गमपर्वतावलिपरिवेष्टिते प्रतिष्ठाप्य निश्चिन्तास्ते श्रीमहाप्रभुवल्ल- भाचार्यवंशजाः पुनरपि ग्रंथान्निर्मातुं मतिं चक्रुः. प्रथमतः श्रीमदाचार्य- चरणैः सकलादरपात्रेपु ब्रह्मसूत्रेपु अणुभाप्यं विधाय तत्र सकला- नुवादित्वं दर्शितं. परन्तु पश्चात्कैश्चित्कुतार्किकैस्तत्राक्षेपः कृत इति तन्निराकरणाय श्रीविठ्ठलदीक्षितैर्विद्वन्मण्डनं कृतं. तथापि सकलमता- न्यनूद्य तेषां खण्डनं केनाऽपि न कृतमिति सर्वेऽपि जनास्तादृशग्रंथ- स्यावश्यकतां परमभावयन. एवंस्थिते मेवाडदेशं प्राप्य लब्धस्वा- स्थ्येषु सर्वेषु सर्वे वैष्णवगणाः श्रीपुरुषोत्तममहाराजांस्तादृशग्रंथनि- र्माणार्थ विज्ञापयामासुः. ते च श्रीविठ्ठलदीक्षितानां तृतीयतनुजश्री- बालकृष्णमहाराजानामात्मजाः परं शास्त्रपारगाः परमभागवताः श्रीनाथकृपाशालिनस्तादृशं ग्रंथं विधातुं मतिं चक्रुः. अस्मिन्नर्थे साहा- य्यदानाय याचितः श्रीनाथस्तद्विज्ञप्तिं स्वीकृत्य तथाकर्तुमादिदेश. अचिरादेव सुवर्णसूत्रव्याख्यां लिखितुं श्रीपुरुषोत्तमजीमहाराजा आरभन्त. ते च निसर्गत एव विमलमतयोऽपारशास्त्रज्ञानसंभार- भासुरा भगवत्कृपाशालिनस्तथाऽणुभाष्यस्य टीका लिलिग्बुर्यथा तां वीक्ष्य सर्वोपि पण्डितजनः सुतरां व्यस्मयत. अधुनाऽपि तादृशी सकलशास्त्रार्थप्रतिपादिनी टीका संस्कृतवाङ्मयेऽप्यन्या न दृश्यते. तत्र च निःपक्षपातेन अनुकृतानि विविधवादिनां मतान्यवलोक्य साधारणमतिरपि विद्वान श्रीमतां श्रीपुरुषोत्तममहाराजानां पाण्डित्ये संजातादरो जायत एव. यद्यप्यस्मिन भाष्ये वार्तिकं नास्ति तथापि इमामेव टीकां वार्तिकत्वेन संभावयामि. कः खलु अलौकिकप्रज्ञा- विरहितो भगवत्कृपाशून्यस्तां द्रष्टुमपि प्रभवेत् दूरे च तां ज्ञातुं. इत एव तादृशटीकाया विधातुः कीदृशी प्रज्ञेति वाचकैरनुमातव्यम्.

अग्रिमवृत्तसंग्रहः १५७ तादशटीकाऽलंकृतं भाष्यं शाणोल्लिखितो मणिरिव परमशोभत. भाष्यदृपकाश्च क्वापि पलाय्य निभृतमतिष्ठन. त्रैलोक्यनाथमान्यः पुष्टिमार्गः सर्वथा दूरीकृतविन्नो महता प्रेम्णा वैष्णवैरसेव्यत. (४) एवं मेवाडदेशे निवसन्तः सर्वेऽपि श्रीवल्लभाचार्यचरणवंशजाः सकलजगन्मान्याः श्रीनाथसेवातत्पराः परमानन्देनावर्तन्त. ममये समये समागतान यवनराजान्नाशयितुं मेवाडाधिपममाहाय्ययन. तेऽपि परमादरेण तान पूजयन्तः श्रीनाथमसेवन्त. तत्र निवमतां तेषां भक्तिं निर्विशेपामवलोक्य ते ते राजस्थानवासिनः सनातनध- मानुयायिनो राजानः म्बम्बराज्येपु समागत्य निवामार्थ तान्विज्ञाप- यामासुः. परन्तु ज्येप्टो वंशस्तम्य श्रीनाथस्य सेवार्थ मेवाडदेश एव तिष्ठन्नान्यत्र ययौ. अन्ये च कनिष्ठवंशाः सर्वत्र श्रीहरेभक्तिप्रमार: पुष्टिमार्गन्य परं तत्वं श्रीमदाचार्याणामभिमनं चेति मन्वा तेषु तेपु बुन्दीकोटाप्रभृतिसनातनधर्माभिमानिनृपवरपालितेषु राज्येषु कृतनि- वासास्तत्र तत्र पुष्टिमार्ग प्रसारयामासुः. समये समये श्रीनाथद्वार- मागत्य श्रीनाथं पूजयामामुश्च. तद्वंशजा अपि तैस्तै पालैस्तथा तत्प्रजाजनैः सम्मानिताः सुखं वर्तन्ते. श्रीनाथद्वारे मुख्याः श्रीपुष्टिमार्गपीठाधीश्वराः श्रीगोवर्धनलालजीमहाराजा विराजन्ते. अपि श्रीदामोदरलालजीमहाराजाः, महाराजानां श्रीनाथचरणयोरद्वितीयां भक्तिं, तथा भक्तजनेषु वात्सल्यं, विद्वज- नेपु अनुरागः सर्वमिदमाश्चर्यमयमेवास्ति. श्रीदामोदरलालजीमहारा- जानां पितृप्रतिबिंवरूपाणां विशेपतो बुद्धिवैभवं परं विस्मयकरमस्ति. परममान्या योग्या एव ते. तेपां गुणवर्गने कः प्रभवेत्. वयं च तं १५८ श्रीमद्वल्लभाचार्यचरिते श्रीनाथमेतेषां चिरंजीवित्वाय प्रार्थयामहे. अस्तु. यथा चैते महामा- न्यास्तथा मोहमय्यां गोकुलनाथमहाराजा अपि. विशेषतश्चैतेषां विद्यानुरागो भक्तिमार्गप्रसारे प्रीतिश्च सर्वविश्रुता इति नास्ति वर्णनस्यावश्यताकता. भगवान् गोकुलनाथ इमानमपि चिरंजीविनो विधातु.

१५ उपसंहारः १ क्षत्रियराजेष्वनुग्रहः. २ गोरक्षा. ३ वैश्यसंग्रहः. ४ आस्तिक्यभाववृद्धिः. (१) वाचकाः ! समाप्तकल्पमेवेदं परमपवित्रं सकललोकमान्यानां पर- मभागवतानां पुष्टिमार्गसम्प्रदायप्रवर्तकानां श्री १०८ श्रीमहाप्रभुव- ल्लभाचार्यचरणानां तथा तद्वंशजानां चरितं, तथापि अन्ते संक्षेपतो गुणानुवाद उपसंहारप्रसंगेन करणीय इति ग्रंथकृद्रीतिः. तामनुसृ- त्याहं यत्किंचिल्लिखामि. यद्यपि अगणितजनगीतः श्रीमदाचार्यचर- णानां गुणसागरः क, कचाहं साधारणो मानवस्तथापि स्वकार्यनिर्वा- होऽवश्यं कर्तव्य एव. बान्धवाः ! श्रीमदाचार्यचरणानां ये खलु सद्गु- णास्ते खलु सिंहावलोकनप्रसंगेन पूर्व निरूपिता एव. सम्प्रति पर- ममान्येन पुष्टिमार्गसंप्रदायेन तथा तत्पीठाधीश्वरैर्ये खलु जगति उपकारराशयः कृतास्तानेव संक्षेपतोऽनुवदामि. तत्र च प्रथम उपकारः क्षत्रियराजेष्वनुग्रहः. यदा खलु श्रीम- दाचार्यचरणा न प्रादुरभवंस्तदा सर्वेऽपि क्षत्रियराजाः सन्तोऽपि !

१६० श्रीमद्वल्लभाचार्यचरिते परस्परैकमत्याभावादसत्कल्पा एवासन. इमे यवनाश्च प्रथमं भारत- वर्ष प्रविश्यात्रत्यान् भूपालान परस्परद्वेषपरानवलोक्य भेदनीतिमा- श्रित्य सर्वाननन. महाराजसंग्रामसिंहो यावत्कालं मेवाडमेदिनीमपा- लयत्तावद्यवनानां प्रवेशो राजस्थाने नाभवदिति सार्वजनीनं. तस्मिंस्तु भेदनीतिचतुरेण बाबरनामकेन दिल्लीश्वरेण यवनेन विजिते सर्वे राजस्थानवासिनोऽपि राजानो दीनवद्यवनवशा एवाभवन. बहवस्तु दिल्लीश्वराय स्वकन्याः प्रदाय स्वरक्षा व्यधुः. इमं च क्षत्रियाणां स्वाभिमानाभावमनर्थकरं विलोक्य सर्वे भारतवासिनः परं दुःखाकुला अभवन. परन्तु न ते तमभिमानं प्रोज्वालयितुमश- कन. यदा खलु श्रीमदाचार्यचरणा अस्य जगतः कल्याणाय प्रादुर्ब- भूवुस्तदा ते सर्वत्र प्रसृतं यवनसाम्राज्यं विलोक्य खिन्नाः सनातन- धर्मोद्धारमिपेण तान हीनोत्साहानपि क्षत्रियवंशजान प्रोत्साहयितु- मारभन्त. वान्धवाः ! विषयलाभलोभापेक्षया धर्मलोभ एव बलवान् सुखदश्च. यथा हि विषयलोभाकुला मानवा ऐकमत्येन कार्याणि कुर्युस्ततोऽपि अधिकं धर्मलोभाकुलाः. किंतु नैते विपयिण इव परान पीडयेयुस्तस्मात् सर्वथा कस्याऽपि कार्यस्य सिद्धये धर्मपथ- स्वीकार एव वरमिति सजना आमनन्ति. एतत् सर्वमालोच्य श्रीम- दाचार्यचरणाः श्रीगोवर्धनगिरौ श्रीनाथप्राकट्यं विधाय तद्भक्तिं सर्वत्र प्रसारयामासुः. तत्र च प्रवर्धमानं तेषामैश्वर्य विलोक्य अव- रंगजेवप्रभृतयो दिल्लीश्वराः संदिग्धाः स्वराज्यस्य ततोऽपायमाशंक- मानास्तन्नाशार्थ प्रायतन्त. यथा यथा ते प्रायतन्त तथा तथा सर्वे वैष्णवास्तथा सनातनधर्मानुयायिनो भूपालाः परमकुप्यन्. कोपो हि लौकिकसम्पदः कारणं. यद्यपि कोपः परमात्मभक्तौ तथा मोक्षे उपसंहार: १६१ चात्यन्तं प्रतिबन्धकस्तथापि व्यवहारे सोऽत्यन्तमुपयोगी. इतरथा स तमुद्योगं न कुर्याद्येन स व्यावहारिकी सम्पदं लभेतेति ज्ञेयम्. अस्तु. यथा यथा ते भूपालाः स्वधर्मस्य तथा स्वोपास्यदेवतायाश्च हानि विलोक्याकुप्यंस्तथा तथा विद्यमानं चिरारूढमपि सर्वानर्थकरं परस्प- रद्वेपं व्यस्मरन्. परस्परद्वेषं विस्मृत्य प्रीतिं कुर्वत्मु तेपु बलाढ्या अपि यवना दिल्लीश्वराः स्वकार्याणि विधातुं नाशकन. यथा हि पर- स्परद्वेषभिन्नेषु जनेपु परोपजापः शीघ्रमेव पदमाधत्ते न तथा पर- स्परैक्यरक्षितेपु. वान्धवाः ! श्रीमद्भिः श्रीवल्लभाचार्यवंशजैः क्षत्रिय- राजाः कथं रक्षिता इत्यत्रैकमेव निदर्शनं पर्याप्न. तदपि राजस्थान- स्यैव. राजस्थाने च प्रायः सर्वे एव भूपालाः स्वातंत्र्यमण्डिता अधु- नाऽपि दृश्यन्ते. किमत्रान्यत्कारणं स्याहते श्रीवल्लभाचार्यवंशजाना- मनुग्रहात्. तस्मात् क्षत्रियराजेष्वनुग्रहो निःसंशयं तत्कारणमिति ज्ञातव्यम्. (२) बान्धवाः ! यथा हि श्रीवल्लभाचार्यवंशजैः क्षत्रियराजेप्वनुग्रह विधाय तेषां तथाऽन्येपामपि शीलं रक्षितं तथैव गोधनमपि परं तैरेव रक्षितं. सकलेपु ऐहिकमुखेपु गोधनमपि परं मुखसाधनं. तद्विनाऽयं लोकः सत्यमेव मृत्युलोको भवेन्. यस्य च गृहे स्वल्पमपि गोधनं नास्ति स कनकराशिमण्डितोऽपि केवलं सुवर्णखनिरिव न जीवत्येव. अस्य च भारतवर्पस्य सकलमपि सौख्यं गोधनायत्तमेव. तद्विना मृत्युलोकामृतायमानं दुग्धमपि दुर्लभम्. वृषभं विना कृषि- रयशक्या. कृषि विनाऽन्नमपि दुर्लभमिति वक्तुं नास्त्यावश्यकता. तस्माद्भारतवासिनः सर्वधनापेक्षया गोधनमेवाऽत्युत्कृष्टं मन्यन्ते. .. वल्ल० ११ १३२ श्रीमद्वल्लभाचार्यचरिते एतत्सर्वमवधार्य श्रीवल्लभाचार्यास्तथा तदीया वंशजाश्च तस्यास्य गोधनस्य रक्षार्थ परं प्रायतन्त. यद्यपि सर्वे एव साधुवरा अनाथस्य सकललोकोपयोगिनो गोधनस्य रक्षार्थमुत्सुका आसन , यथाशक्ति तद्रक्षार्थमचेष्टन्त च, तथापि यथा पुष्टिमार्गानुयायिनां तथा तत्पीठा- धीश्वराणां तत् प्रधानं कर्तव्यं न तथाऽन्येपामिति खलु भेदः. श्रीव- ल्लभाचार्यास्तथा तद्वंशजाश्च श्रीकृष्णस्य सेवकतया गोधनस्य च भग- वतोऽतिप्रियतया तद्रक्षणे परं सावधाना आसन्. किंबहुना अधुना- ऽपि तेषु तेषु श्रीवल्लभाचार्यवंशजांकितेपु देशेषु अतिविपुलमेव गोधनं वर्तते. श्रीनाथाधिष्ठिते नाथद्वारे तु गावः खलु स्वर्गन- न्दिन्य इवातिशान्ताः प्रभूतदुग्धदायिन्यः प्रेक्षकाणां मनांसि संतो- षयन्ति. प्रेक्षका अपि दुर्लभदुग्धदेशेभ्य आगतास्तत्रागणिता गा वीक्ष्य सन्तुष्टाः श्रीवल्लभाचार्याणां तथा तदन्वयजानां यशांसि गायन्ति. समग्रे राजस्थाने यथा स्वतंत्रा राजानोऽधुनाऽपि विराजन्ते तथैव तत्रैव निर्भयं निवसन्त्यो गावो निःसंशयं श्रीमदाचार्याणां तथा तत्संतानजानां पुरुपवराणां यशोविख्यापका इत्यत्र न संदेहल- वोऽपि. बान्धवाः ? अधुनाऽपि सर्वत्र गोहत्यायां जायमानायामपि राजस्थाने सा न जायत इत्यत्रापीदमेव कारणमिति भवन्तो विहां- कुर्वन्तु. प्रकृतमनुसरामः. (३) बान्धवाः ? निरूपितं खलु सकललोकमान्यानां पुष्टिमार्गपीठाधी- श्वराणां लोकोपकारकं कार्यद्वयं. अधुना ततोऽप्यधिकं लोकोपयोगि कार्य ब्रवीमि. तच्चेत्थम्. सामान्यतो यदा चातुर्वर्ण्य भारतवर्षे सुव्य- वस्थितमासीत्तदा सर्वेऽपि वर्णाः स्वस्वकार्याणि कुर्वन्तः परस्परमुप- उपसंहारः १६३ कुर्वन्तो मोदेनावसन्निति न आर्याणामितिहास एव प्रमाणं. परन्तु यदाप्रभृति अमी महंमदीया इमां भारतभुवं प्रविश्यात्रत्यां क्षत्रिय- जाति नामशेषां विधातुं प्रारभन्त तदारभृत्येव कृत्स्नं चातुर्वर्ण्य अव्यवस्थितमभवत्. तत्र ब्राह्मणाश्च केवलं पारलौकिकफलध्येयाः संसारचिन्तायामत्युदासत. तेन बुद्धिमन्तोऽपि वैश्याः केवलं धना- जनप्रधानव्यवसाया लौकिकज्ञानाभावाद्यथेच्छमवर्तन्त. अत्रान्तरे केचन साधारणाः पुरुषाः साधवो नाम भूत्वा यथेच्छं लौकिकमु- खसाधनं धर्माभासमुपदिशन्तस्तान् स्वपक्षपातिनश्चक्रुः. तेऽपि तेपा- मनुयायित्वे लौकिकमुखलाभं पश्यन्तः स्वपूर्वजानां धर्मपथं विहाय नूतनमेव धर्ममगृह्णन. तेन प्राचीनधर्मानुयायिभ्यस्ते म्यान्मानं भिन्नं मन्यमानास्तानद्विपुः. समये समये च परैः पीडितान वीक्ष्यात्युदा- सत. प्रायः कृत्स्नेऽपि वैश्यगणे एवं विपरीतवृत्तौ अन्ये मर्वेऽपि त्रैवर्णिकाः परं दुःखमाप्नुवन. वाचकाः ? अस्मिन मृत्युलोके यत् खलु मुखं तत्सर्व स्वास्थ्यमूलकमेवेति सर्वेषां सम्मतं. तदपि स्वास्थ्यं वित्तमूलकमेवेति. एवंस्थिते वित्तसंपादके वैश्यवर्गे प्रतिकूले कुतः सुखस्याशाऽपि. क्षत्रियाश्च परकीयैर्यवनादिभिः पीडिता नामशेषीकृताश्च. ब्राह्मणवर्णस्तु केवलं विद्यामग्नः पारलौकिकी- मेव चिन्तामकरोत्. शूद्रस्तु यस्य कस्याऽपि सेवया धन्यंमन्यो विशेषतः परकीयानामेव सेवया सुखममन्यत. एवं सर्वतः प्रति- कूले वृत्ते सनातनधर्म को वा रक्षतु. तेन निराश्रयः सनातनधर्मः कथमपि अजीवत्. इदं सर्वमालोच्य श्रीमदाचार्यचरणाः प्रथमतो वैश्यवर्ग सनात- नधर्मानुयायिनं विधातुं प्रायतन्त. ते च सर्वे जैनधर्मानुनायिनो १६४ श्रीमद्वल्लभाचार्यचरिते बौद्धधर्मानुयायिनो वाऽऽसन्. तांश्च महता प्रयत्नेन श्रीकृष्णोपासका- विधाय श्रीमदाचार्यचरणाः सर्वाणि कार्याणि चक्रुः. साम्प्रतमपि अन्यमतानुयायिनामुत्कर्षापेक्षयाऽस्य य उत्कर्षो दृश्यते तत्रापि कारणं खलु वैश्यसंग्रह एव. अन्याचार्याणां यावन्तो वैश्या अनुयायिनस्ततोऽप्यधिका एवास्य पुष्टिमार्गस्य. तेन सर्वस्यापि कार्य- जातस्य कारणीभूतस्य द्रव्यस्य नास्ति तावती चिन्ता. वित्तहीना हि परमबलाढ्या बुद्धिमन्तोऽपि न स्वकार्याणि कर्तुं प्रभवन्तीति नः प्रत्यक्षमेव. तस्माद्वैश्यसंग्रहं कुर्वद्भिः श्रीमदाचार्यचरणैस्तथा तद्वंश- जैर्महदुपकृतं सनातनधर्मस्येति वक्तव्यमेव. (४) वाचकाः ! निरूपिताः खलु श्रीमदाचार्याणां तथा तद्वंशजानां कृता उपकाराः. परन्तु ते लौकिकी दृष्टिमनुसृत्य. वस्तुतस्तु तैः श्रीकृष्णोपासनां सर्वत्र प्रचार्य योऽयमुपकारातिशयः कृतस्तस्य तुला- मपि नैतेऽर्हन्ति. सोयमुपकारः सर्वत्रास्तिक्यबुद्धिवर्धनरूपः. तथाहि. ये खलु जनाः स्वतोऽप्यधिकशक्तिशालिनी परमात्मशक्तिर्वा राजश- क्तिर्वाऽस्तीति स्वीकुर्वन्ति ते हि विनयेन वर्तमानाः स्वमर्यादां न त्यजन्ति. तेन लौकिकं सुखमपि ते लभन्ते. परन्तु ये स्वात्मानमेव निरतिशयश्रेष्ठं मन्यन्ते, स्वसुखमेव सुखं तदेव ध्येयं नान्यत्किम- पीति जानन्ति ते यथेच्छं वर्तमानाः स्वमर्यादामुल्लंघ्य स्वयमधोग- च्छन्तः परानपि अधोगमयन्ति. वान्धवाः ! यस्मिन् देशे निवासी मानवसमाजः सुशिक्षितः परोपकारी परदुःखनिवारणतत्परः स देश उन्नत इति विद्वांसो जना मन्यन्ते. इतरथाऽवनतः. तदेतत् सर्वं पर- मात्मसत्तास्वीकारमूलकमिति विदुषामगोचरं न. ये खलु परमात्मसत्तां उपसंहारः। १६५ न स्वीकुर्वन्ति ते राजसत्तामपि नांगीकुर्वन्तीति वक्तव्यमेव. बहिः प्रचण्डदण्डभिया राजसत्तामादरयन्तोऽपि अन्तःकरणेन परद्रव्यका- न्तालुण्ठनोत्सुका एव. एवंसति परस्परप्रेमविश्वासमूलकस्वास्थ्यसंभ- वस्य मृत्युलोकसुखस्य कुतः संभवः. तस्मात्सर्वैरपि स्वस्य तथा म्वम- माजस्य स्वसंतानस्य च कल्याणार्थ सर्वदोपवारिकेयमास्तिक्यबुद्धि- वर्धनीया. ये हि जडशक्तिं स्वबुद्धिचातुर्येण वशीकृत्यात्मानं सर्वम- मर्थान् मन्यन्ते ते स्वयमसमर्थाः समये प्राप्ते स्वसमाजैः समं नाम- शेषा भवन्ति. मानवं वा मानवसमाज वा यथाऽत्यारूढा मदाहंका- रादयो घातयन्ति तथा न भयंकरा अपि रोगाः. इमे हि अनुवंशि- करीतिमनुसृत्य तद्वंशजानपि नाशयन्ति. तम्मान् केनापि भव्यशी- लेन जनेन स्वसमाजकल्याणं वांछता प्रथममिमे दोपाः ममृलमुन्म- लनीयाः. अस्य दोपस्य कारणं हि निरतिशयाहंकारः. अम्याऽपि कारणं स्वशासकान्तराभावकल्पनैव. इमां दुर्बुद्धिं समाजेऽन्याम्ढां नाशयितुं प्रयतमानाः साधव ईश्वरास्तित्वं महता प्रयत्नेन स्थापयन्ति. प्रायः सर्व एव समाजोद्धारका हीनं स्वसमाजमुद्धर्तुकामाः परमा- त्मास्तित्वं प्रतिपादयन्तः समाजोत्क५ प्रति आस्तिक्यबुद्धिरेव कारण- मिति सिद्धान्तं प्रदर्शयन्ति. सज्जनाः ! इमामेवास्तिक्यबुद्धिं समा- जस्य वा मानवानां दुर्दैवतः क्षीणां पुनरपि प्रोत्कर्पयितुं श्रीमदाचा- र्यचरणाः परं प्रायतन्तेति महास्तपामुपकारः. किंच-निसर्गत एव सरलमतयो भारतवासिन आस्तिकाः परमा- त्मतत्वं स्वीकुर्वन्तो नीत्यैव वर्तन्ते. परन्तु समये समये यवनादयः केवलं वैषयिकसुखलोलुपाः सामान्यतः पशुकल्पा जनाः केवलं शारीरकबलेन विजित्य तान् महति लशोधावपातयन्. तेन केच- .

१६६ श्रीमद्वल्लभाचार्यचरिते नाग्रिमा जनाः शारीरकबलमेव श्रेयःसाधनं नास्तिक्यमेव कल्याण- प्रदमिति मन्वाना भ्रान्ताः स्वसमाजापक विदधते. तामिमां तेषां नास्तिक्यबुद्धिं विनाशयितुं सज्जनाः प्रयतन्ते. श्रीमदाचार्यचरणानां समये सर्वत्र विजयमानान् यवनान् अवेक्ष्य ताननुकुर्वन्तो भारत- वासिनः स्वस्य योग्यतां व्यस्मरन. तेन तान सुपथे स्थापयितुं भग- वान् देवकीनन्दनः स्वभक्तानचोदयत्. ते च भक्ताः परमात्मभक्ति- मुपदिशन्तस्तयाऽलौकिकानि कार्याणि कुर्वाणा नास्तिक्यभावं दूरीकु- वन्तः परममावश्यकं सर्वकार्यमूलकारणं विश्वासं समपादयन्. तेन सर्वेऽपि राजस्थानभूपालाः समं समशीलैः प्रजाजनैः स्वधर्म रक्ष- यितुं प्राभवन. बलाढ्यानपि दिल्लीश्वरप्रभृतीन् यवनाधिपान्विजिय स्वोत्कर्प चक्रुः वान्धवाः ? एवंरीत्या सर्वत्र कृष्णभक्तिमुपदिशद्भिः श्रीमद्वल्ल- भाचार्यचरणैः सर्वत्रास्तिक्यबुद्धिमुत्पाद्य वयं परमुपकृताः. दिग्दर्श- नमात्रमेतत्. वस्तुतस्तु ये खलु जगति अद्यावधि अन्यैः परोपकार- परैरुपकाराः कृतास्ततोऽपि अधिका एभिरुपकारराशयः कृता इति मन्ये. सज्जनाः ? यावन्त उपकाराः श्रीभगवतो देवकीनन्दनस्य तावन्त एव तद्भक्तानामपीति सत्यं. केवलं मया क्षुद्रबुद्धिना यथा- शक्ति निरूपितमिदं चरितं श्रीमद्वल्लभाचार्याणां तथा तदन्वयजन्या- नामपि. वस्तुतस्तु तादृशां यथार्थगुणवर्णने न कस्यापि शक्तिरिति साम्प्रतं तान् सर्वानपि प्रणम्य विरमामि.

No text on this page.

Shriimaddammabhaacharyacharitam

Author
Hasuuraropaha Shriipaadashaastri
Title
Shriimaddammabhaacharyacharitam
File name
Shriimaddammabhaacharyacharitam
Text
OCR done
Citation
1940
Publisher
Shripad Vaman Hasurkar, Indore City
Language
Sanskrit
Pages
176
DLI number
325786
Barcode
1990010003821.00
Scanning centre
IISc, Bangalore
VMLT id
yj5LRaVoYdg
Download PDF

Shriimaddammabhaacharyacharitam