Library
The Samayamatrika
Front matter
No text on this page.
s. V. ORIENTAL COLLEGE LIBR
TIRUATI
Burete
Acc. No. 13011
Call No..
This book should be returned on or
date last marked below or fines will be ler
rate of O05 Ps. per day.
T. T. D. Press-C. 10,000
KAVYAMÂLÀ. 10.
THE
SAMAYAMATRIKA
KSHEMENDRA.
EDITED
PANDIT DURGAPRASAD
AND
KÂSÎNÂTH PANDURANG PARAB.
Second Edition.
PUBLISHED
BY
PÂNDURÁNG JAWAJÎ,
PROPRIETOR OF THE “NIRNAYA-SAGAR” PRESS,
BOMBAY
1925.
Price 10 Annas.
5.7.0. College
Library,
TIRUPATI
Aco. No1-3011
63/2
Data...
[ All rights reserved by the publisher. ]
PUBIASHER :-Pandurang Jawaji, y at the Nirnaya-segar' Press,
PRINTER :-Ramchandra Yesu Shedge, ſ 26-28, Kolbhat Lane, Bombay.
काव्यमाला. १०. महाकविश्रीक्षेमेन्द्रविरचिता समयमातृका। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधिता । द्वितीयावृत्तिः। साच मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशिता । १९२५ मूल्यं १० आणकाः। NA N काव्यमाला। महाकविश्रीक्षेमेन्द्रकृता समयमातृका। प्रथमः समयः। अनङ्गवातलास्त्रेण जिता येन जगत्रयी। विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥ १ ॥ यस्या दुर्धरघोरवत्रकुहरे विश्वक्षये लक्ष्यते क्षुब्धाब्याविव लोलबालशफरी कुत्रापि लोकत्रयी। तामज्ञातविशालकालकलनां तैस्तैः पुराणैरपि प्रौढां देहिसमूहमोहनमयीं काली कराला नुमः ॥ २ ॥ क्षेमेन्द्रेण रहस्यार्थमत्रतत्रोपयोगिनी । क्रियते वाररामाणामियं समयमातृका ॥ ३ ॥ अस्ति स्वस्तिमतां विलासवसतेः संभोगभङ्गीभुवः केलिप्राङ्गणमङ्गनाकुलगुरोर्देवस्य शृङ्गारिणः । कश्मीरेषु पुरं परं प्रवरतालब्धाभिधाविश्रुतं सौभाग्याभरणं महीवरतनोः संकेतसद्म श्रियः ॥ ४ ॥ यत्र त्रिनेत्रनेत्रामिस्तैस्त्यैक्त्वा जगत्रयीम् । पौरस्त्रीत्रिवलीकूले वसत्यसमायकः ॥ ५ ॥ तत्राभूदभिभूतेन्दुद्युतिः कंदर्पदर्पभूः कान्ता कलावतीनाम वेश्या वश्याञ्जनं दृशोः ॥ ६॥ कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः। नेत्रयोः श्यामलत्वेन वेश्यावृत्तमदर्शयत् ॥ ७ ॥ १. प्रवरपुरनाम्ना प्रसिद्धम्,
२
काव्यमाला।
सा हर्म्यशिखरारूढा कदाचिद्गणिकागुरुम् ।
कामिनां नर्मसुहृदं ददर्श पथि नाषितम् ॥ ८ ॥
श्मश्रुराशीचितमुख काचकाचरलोचनम् ।
पीवरं तीरमण्डूकर्मार्जारमिव शारदम् ॥ ९॥
विटानां केलिपटहं तप्तताम्रघटोपमम् ।
दधानं रोममालान्तं स्थूलखल्वाटकर्परम् ॥ १० ॥
ताम्बूलष्ठीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्रांश्चलसंज्ञया ॥ ११ ॥
स समभ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम् ।
पप्रच्छ विस्मितः कृत्वा नर्मप्रणयसंवृतिम् ॥ १२ ॥
ध्यानालम्बनमाननं करतले व्यालम्बमानालकं
लुसव्यञ्जनमञ्जन नयनयोनिःश्वासतान्तोऽघरः ।
मौनक्लीबनिलीनकेलिविहग निद्रायमणि गृह (?)
वेषः प्रोषितयोषितां समुचितः कस्मादकस्माचव ॥ १३ ॥
किं मेखला सदनबन्दिक्धूनितम्बे
घि नच बत गायति मङ्गलानि ।
अङ्गं कृशाकि किसान या
कर्पूरचन्दनरसैन ने लिखबत् ॥ १४॥
प्राप्वं पुरः प्रचुरलाभमसंस्पृशन्ती
भाविप्रभूतविभवाय कृताभियोगा।
केनचित्युचिरसेवननिष्फलेन
मिथ्योपचारवंचनेस नै वञ्चितासि ॥ १५ ॥
१ समयः ] समयमातको । दानोद्यतेन धनिकेन विशेषसङ्गा- सक्तोऽयमित्यथ अनैरवसायितेन । लब्धान्तरखजनमित्रविरोधितेन किं त्वनिकारकुपितेन कृतौ विवाहः ॥ १७ ॥ दत्त्वा सकृत्तनुविभूषणमंशुकं वा यद्वानुबन्धविरलीकृतकामुकेन । यक्षेण सर्वजनतासुखभूः प्रपेव तीक्ष्णेन भीरु किमु केनचिदावृतासि ॥ १८ ॥ वित्तप्रदानविफलेन पलायमाना कौटिल्यचारुक्टुला फीवरी। गूढं वशीकरणचूर्णसुचा कचेषुः केनचिन कुहन वशीकृवासि ॥ १९ ॥ निष्कासितुं हृदयसंचिततीव्रवैरे संडर्शितप्रकटकूटधोपचारे । लोभात्त्वयानपचयैः पुनरावृतेव (1) प्राप्तः किमु प्रसभमर्थवशादनर्थः ॥ २० ॥ कैनिंत्यसंभवनिजं वणिजं त्यजन्त्या यान्त्या तृणज्वलनदीप्तिनियोगलक्ष्मीस् । नष्टे ""वस्त्र विभवे चिरते पुराणे जातस्ताव साबकितोभयान (00२१॥ सिद्धः प्रयत्नविभवैः परितोषितस्य..... 17 : दातुं समुद्यतमतिः स्वयमर्थशास्त्रम् । नीतस्तक ऋचुरमत्सरयात्यया किं गेहानिधिबहुधनः खसखीमुखेन ॥ २२ ॥ : किं वाचसादपदवीमतिवाह्य कष्ट ..लब्धाविकारविभवेन विवर्जितासि ।
काव्यमाला। किं मूच्छितासि विरतासि सुखोज्झितासि ध्यानावधानबधिरासि निमीलितासि ॥ २३ ॥ अप्युद्दामव्यसनसरणेः संगमे कामुकानां भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौशलस्यं । अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः प्रौढोत्साहास्तव सुवदने खस्तिमन्तो विलासाः ॥२ इत्यादि तेन हितसंनिहितेन पृष्टा भूशं विभक्भङ्गभयोद्भवेन । सा तं जगाद सुखदुःखसहायभूतं. चिन्ताविशेषविवशा बहुशः श्वसन्ती ॥ २५ । शृणु कङ्क ममानन्तां चिन्तां संतापकारिणीम् । ययाहमवसीदामि ग्रीष्मग्लानेव मञ्जरी ॥ २६ ॥ सा सखे करभग्रीवा मातुर्माता स्थिरस्थितिः। व्याली गृहनिधानस्य हता वैद्याधमेन मे ॥ २७ ॥ योऽसाववद्यविद्याविद्वैद्यः सद्यः क्षयोद्यतः । दर्पादानुरंकितेच कृतोऽपि तरुणायते ॥ २८ ॥ तेन रोगधसवेन दत्ता रसवती मम । त्रिभागशेषतां नीती लोल्यलोभोद्भवात्तया ॥ २९ ॥ प्रपञ्चवञ्चनावैरात्सातेनातुरतां गता । काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥ ३० हेरण्यवर्णा वसुधां तस्मिन्नन्तक्षणेऽघि सा । प्रष्ट्या मासबकीद्वत्से गृखतां गृह्यतामिति ॥ ३१ ॥ गृह से शून्यतां गतम् । खेच्छया वृतम् ॥ ३२ ॥ यक्सर धवी। मा ३३॥
१ समयः ]
समयमातृका ।
तस्माद्विदेशं गच्छामि नेच्छाम्युच्छृङ्खलां स्थितिम् ।
कथं रक्त विरक्तानां तुल्या खायत्ततां सहे ॥ ३४ ।।
इत्युद्वाष्पदृशस्तस्याः प्रलापं वृद्धनापितः।
आकर्ण्य तां समाश्वास्य सोच्छासं प्रत्यभाषत ॥ ३५ ॥
भवत्या वित्तलोभेन निर्विचारतया परम् ।
भिषग्दुष्टभुजगोऽसौ स्वयमेव प्रवेशितः ॥ ३६ ॥
जनन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः ।
किं कुट्टनीकृतान्तोऽसौ वैद्यो न विदितस्तव ॥ ३७ ॥
स रोगिमृगवर्गाणां मृगयांनिर्गतः पथि ।
इत्यादिभिः स्तुतिपदैविटचेरैः प्रमयते ॥ ३८ ॥
'यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वतीय कालाय सर्वप्राणहराय च ॥ ३९ ॥'
अधुना दुःखमुत्सृज्य मनः स्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः ॥ ४०॥
व्याघ्रीव कुट्टनी यत्र रक्तपानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः॥४१॥
यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।
संध्ययोर्दिवसस्यापि मुहूर्तार्घस्य न क्षणः ॥ ४२ ॥
न भवत्येव धूर्तस्य वेश्यावश्मन्यमातृके ।
चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥ १३ ॥
प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः ।
गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः ॥ ४४ ॥
अकण्टका पुष्पमही वेशयोषिदमातृका ।
मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥ ४५ ॥
अयं पीनस्तनाभोगसौभाग्यविभवोचितः ।
विणोपार्जनस्यैव कालः कुक्लयेक्षणे ॥ ४६॥
काव्यमाला। खला इवातिचपलाः कृतालिङ्गनसंगमाः। न गताः पुनरायान्ति बाले यौवनवासराः॥ ४७ ॥ प्रथम' .... ..."नां पुष्पवतीनां लतानां च ॥ १८ ॥ तस्मान्मानिनि कापि हेमकुसुमारामोच्चयाय त्वया माता तावदनेककूटकुटिला काचित्समन्विष्यताम् । एताः सुभु भवन्ति यौवनभरारम्भे विजम्मामुको वेश्यानां हि नियोगिनासिव शरत्काले घनाः संपदः ॥ ४९ अस्त्येव सा बहुतराकवती तुलेच कालस्य सर्वजनपण्यपरिग्रहेषु । क्षिप्रप्रकृष्टपलकल्पनया ययासौ भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥ बासी रोमामलयजलतागाढसंरोधलीला नियन्त्राणां नियमजननी भौगिनों मनमुद्री । विश्वं यस्याः फलकलनया लक्ष्यतामेति पाणौ तस्या जन्मक्रमपरिंगतं श्रूयतां वृत्तमेतत् ।। ५१ ॥ सवमा वर्णन कोडापा सजायतें बुद्धिविशेषलाभः । तयोपदेशे खयमवादले हस्विमाता त्रिलोकी ॥ ५२॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितार्या समयमांतकीयाँ चिन्तापरिप्रश्नो नाम प्रथमः समयः। -- द्वितीयः समयः। अथ दत्तावधानायां कलावत्। यथाविधि । मकथयत्कङ्कः कुट्टन्याः कपटीश्रयाम् ॥ तामेव भवरकीम् विदामि चीता देवी सर्वमा
२ समयः ]
समयमातृका ।
...
.."कन्यका
जाता घरट्टमालायामर्षटिकाभिधा ॥४॥
सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
तगृहेष्वकरोच्चौरी पूजाभाजनसंक्षयम् ।। ५ ।।
सप्तवर्षैव सा लोभाद्वाक्प्रौढा हट्टतोरणे ।
जनन्या पण्यता नीता लोके जालवधाभिधाम् ।। ६॥
सुवृत्तशङ्खलतिका सकूटकुचकञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥ ७ ॥
कुङ्कुमार्थी वणिक्सूनुरथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्णवर्णसुवर्णवान् ॥
सभायां नेत्रवलनालोलनलास्यविभ्रमैः ।
केतुकवान्भज चपलासंगमं निशि ॥ ९ ॥
सा तस्य क्षैव्यसुप्तस्य निशि कण्ठावलम्बिनी।
निगीर्य शनकै सर्व कर्णाभरणकाञ्चनम् ॥ १० ॥
अङ्गुलीभ्यः समाकृष्य हेमवालकवालिकाः ।
चौरास्तेव चुक्रोश हा हतास्मीति सखनम् ॥ ११ ॥
प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् ।
वाससाच्छादितशिरा ययौ खजनलज्जितः ॥ १२ ॥
ततः सा यौवनक्ती रूचिसभरणाम्बस ।
उवास शंकरपुरे महोति कृताभिधा ॥ १३ ॥
भूरिभाग्यभरैः सक्ता सा कामिकुसुमोचये ।
लेभे संभोगविश्रान्ति न रजन्यां न वासरे ॥ १४ ॥
निर्गच्छता. प्रविशतां प्रतिपालयतां बहिः।
बभूव तद्गृहे संख्या न शुनामिव कामिनाम् ॥ १५ ॥
कूपे प्रपायामुद्याने सूदपौष्पिकवेश्मसु ।
सखीगृहे च तुल्याप्तान्सा सिषेवेऽहि कामुकान् ॥ १६ ॥
काव्यमाला। क्षपारम्भे क्षीबं शिशुकमिव निक्षिप्य शयने जगामान्यं तस्मिन्सुरतघननिद्रापरमपि । निशाशेषे शूलाकुलनिजसखीवेश्मगमना- पदेशेनान्यं सा सततमगमत्वक्रयभरे ॥ १७ ॥ नानावहारकुपितैः सान्विष्टा सुभगैर्भृशम् । फ्लायमाना गुप्तेषु तस्थौ कामुकवेश्ममु ॥ १८ ॥ ततः प्रासादपालेन नन्दिसोमेन सा निशि, गौरीगर्भगृहं रात्री गंगान्धेन प्रवेशिता ॥ १९ ॥ निःश्वासनिद्रया तस्मिन्यात काष्ठभूतताम्, देवालंकरणं सर्व सां गृहीत्वा क्या जवात् ॥ २० ॥ ततः समरसिंहस्य डामरस्यावरुद्धिका । भूत्वा नागरिकांनाम प्रतापपुरवासिनः ॥ २१ ॥ प्रभूतपिशिताहारसंभारैः स्थूलतां गता। सा तस्य भीमसेनस्य हिडिम्बेवाभवप्रिया । सर्वखखामिभावं सा संप्राप्ता तस्य रागिणः । प्रेरणं बन्धुयुद्धेषु विदधे निधनैषिणी ॥ २३ ॥ हते. पिर्तृव्रजे तस्मिन्बद्धमूला परं गृहे । साभूदपरपुत्रस्य श्रीसिंहस्यावरुद्धिता ॥ २४ ... विमलद्यौवना यूनः सा सपत्नीजिगीषया । चकार तस्य स्वीकारं वशीकरणमूलकैः ॥ २५ ॥ मत्स्ययूषघृतक्षीरपलाण्डुलशुनादिभिः । प्रत्यायनप्रसक्ताभूद्यौवनस्य प्रियस्य सा ॥ २६ ॥ ." अथ भूपभयात्तस्य प्रत्यासत्तेऽथ भूतपे (?) । भूरि द्रविणमादाय साविशन्नगरान्तरम् ॥ २७ ॥. । क्तस्तनुतरखच्छवसना विनतानना। रण्डा मृगवती नाम साभूत्स्पर्शस्पृहामही : पाठान्तरम्.
२ समयः] समयमातृकान सदा सुरेश्वरौं गत्वा शतधारातटें चिरम् । तिलवालकदर्भाका सा चेके पितृतर्पणम् ॥ २९ ॥ तत्र बन्धुरसारख्यमश्वारोहं महाधनम् । तीर्थस्थिता सा जग्राह मत्स्यं बकबघूरिव ॥ ३० ॥ गृहं मुष्टया गृहीत्वेव चित्तग्रहणकोविदा ।... सर्वायव्ययकार्येषु सैव तस्याभवद्विभुः ॥ ३१ ॥ मासेन सा गते तस्मिन्पञ्चतां बहुसंचये । तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता ॥ ३२ ॥ . तद्वान्धवैर्वार्यमाणा मिथ्यैवारब्धदुर्ग्रहा। ..., धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा ॥ ३३ ॥.... कुले महति वैधव्यं वैधव्ये शीलविष्ठवः । शीलले वियोलोऽयं वहिना मम यास्यति ॥ ३४ ॥ इत्युक्त्वा तीव्रसंकल्पनिश्चलाश्ममयीव सा । तद्वित्तावाप्तहर्षेण सत्त्वव्यक्तिमिवाक्हत् ।। ३५ ।। ततस्तविणखाम्य सजादेशादवाघ्य सा । प्रार्थिता राजपुरुषैस्तस्थौ लीलावलम्बिनी ।। ३६ ॥ अथाश्वशॉलादिविरं स्वीकृत्य रतिवाडवम् । सा चक्रे जीवलोकस्य खनामपरिवर्तनम् ॥ ३७ ॥ तल्लाभसेवया नित्यं सा तस्य खानकोष्ठके । विलासस्खलितालापैर्दिविरस्याहरन्मनः ॥ ३८ ॥ कृत्वा लुण्ठि दिक्समखिल भूरिभूर्जप्रयोगै- भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः । प्रातः स्नानव्यतिकरकलादम्भसंभावनाभू- माि दाहं नयति दिविरः शान्तिमन्तर्जलेन ॥ ३९ ॥ प्रवृद्धापरपुत्राथ दिविसराधनव्रता । निखिलं जीवलोकं सा विक्रीय धनमाददे ॥ ४० ॥ १. माथे मद्यभवम्. SHA २सम.
काव्यमाला। सा वेश्मविक्रयादाने पुत्रैराकृष्य वारिते। गुत्वाधिकरणं चक्रे मठिभट्टोपसेवनम् ॥ ११ ॥ उत्कोचारब्धसंघद्देर्भट्टैः कूटरथादिभिः । सादिष्टाभीष्टसंपत्तिर्जग्राह जयपट्टकम् ॥ ४२ ॥ गृहं विक्रीय सर्वखं गृहीत्वा पुत्रशदिनी ।- सा.चित्रवेषप्रच्छन्ना ययौ शाक्तमठाश्रयम् ॥ ४३ ॥ कृष्णीकृतधेतकंचा रजाभ्यङ्गेन भूयसी नवपण्याइनाभवत् ।। ४४।। चलित्वाभ्यागता इति तस्याः प्रवादेन बभूवाधिकविक्रयः ॥ ४५ ॥ सत्यासत्यकथातत्त्वमविचार्यव धावति । गतानुगनिकत्वेन प्रवादप्रणयी जनः ॥ ४६ ।। क्षीणजिह्वाधरकरा कोषपानेन कामिनाम् । छिन्नाङ्गुलिः सा जग्राह रागवेलां पुनः पुनः ।। ४७ ॥ सा चौरद्रविणादानागृहीता शठचेटकैः प्रत्यक्षापहाववती सुबद्ध विलयले धृता ॥ ४८ ॥ तत्र बन्धनपोलेन मुनगाहवेन संगता निर्विकल्पसुखा.चकै भत्त्यापूपमधुक्षयम् साथ बन्धनपालस्य गाढालिङ्गनसंगमे । क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥ ५० ॥ सन जिहाछेदनिःसंज्ञं तमाक्रन्दविवर्जितम् । सीवेष खासक कृत्वा जगामोक्षिप्तशृङ्खला ॥ ५१ ॥ मध्य रजन्यां विजयेश्वरम् । जगदानुषामाभिधाम् ॥ ५२॥ Alkin amera २ समयः] सा तत्र भोगमित्रस्य प्रीत्या रत्नैरवाकिरतः । पुराणचित्ररूपस्य यौवनस्याल्पशेषताम् ॥ ५३ ॥ यलोक्षिप्तकुचा कचायततया. करे बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना । नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी केयं नूतननिर्गतेति विदधे सा मुग्धसंमोहनम् ॥ ५४ ॥ तामेकवारं दृष्ट्वैव नमां प्रथमकौतुकात् । पथापि तेन वैरस्याच कश्चित्पुनराययौ ॥ ५५ ॥ शीतशालेव शिशिरे दीपमालेव वासरे । जीर्णा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥ ५६ ॥ सा तत्र ग्राहकाभावान्मृष्यन्ती पथिकाँश्चलान् । संध्यायामञ्चलाकर्षेः खल्पमाटीमयाचत ॥ ५७ ॥ तपखिनी शिखाल्या सा सङ्गं चक्रे तपखिना । तत्र भैरवसोमेन भिक्षाभक्तार्धदायिना ॥ ५८ ॥ भस्मस्मेरशरीरसंचितरुचिर्दत्ताक्षिजीवाञ्जना बिभ्राणा स्फटिकाक्षसूत्रममलं वैचित्र्यमित्रं गले । निःसंकोचडिलीनकञ्चककचत्सुस्तब्धबाहुस्तनी साभूलक्षोभविधायिनी हतधियां भिक्षाक्षणे निर्गता ॥ ५९ ॥ जाते तत्राथ दुर्भिक्षे भिक्षाभक्तेऽतिदुर्लभे । सला रात्री देवमात्रादि ययौ हृत्वा तपखिनः ॥ ६ ॥ मात्रामविला बिहारं हारितस्थितिः। भिक्षुकी वज्रघण्टारख्या क्व ध्याननिश्चला ॥.६१ ॥ पात्रं तत्र गुफोचितं करतले कृत्वाथ भिक्षास्पद माकूटराशसह काषायमादाय सा । चक्रे मुण्डनमण्डन परिणाम माण्डवण्डोपम पिण्डायै विटकनापरिषश्रेणीविहार शिरमायो १२ ॥ दिसते इति पाठ..
१२ काव्यमाला। पट्टी मण्डलशिक्षायै प्रणतानां सदैव सा । गृहे गृहे कुलस्त्रीणां ददौ दौःशील्यदेशनाम् ॥ ६३ ॥ वश्यप्रयोगैर्वेश्यानां वणिजामृद्धिवर्धनैः । मन्त्रवादेन मूर्खाणां सा परं पूज्यतां ययौ ॥ ६४ ॥ तत्रोपासकदासेन मङ्गलाख्येन संगता। सा गर्ने दम्भभोगानां मूतै विघ्नमिवादधे ॥ ६५ ॥ विच्छिन्ने पिण्डपाते सा लम्बमानमहोदरी । प्रसूता धर्ममुत्सृज्य जगाम नगरं पुनः ॥ ६६ ॥ कूटकेशवती तत्र चित्रसेनस्य मत्रिणः । पुत्रजन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥ ६७ ॥ सार्धक्षीराभिधा धात्री सिंहपादवृसीस्थिता । बालोत्सङ्गा गृहं सर्व ग्रासीकर्तुमिवैक्षत ॥ ६८ ॥ क्षीरसंक्षयरक्षायै संप्राप्तसरसाशना । सा मान्त्रिभवने धात्रा धात्री पात्रीकृता श्रियः ॥ ६९ ।। कण्ठे विद्रुममालिका श्रवणयोस्ताडीयुगं राजतं स्थूलस्थूलविभक्तिसक्तवटकपोग्भारभाजी भुजौ । गुल्फास्फालविलम्बिकम्बलघनारम्भा नितम्बस्थली धाव्याः संभृतभोजनैरभिनवीभूतं पुराणं वपुः ॥ ७० ॥ ततस्तदपचारेण शिशौ जातज्वरे व्यधात् । वैद्यदत्तोपवासा सा मत्स्यसूपपरिक्षयम् ॥ ७१ ॥ पानीयं विनिवारणीयमहितं भकस्य वातॆव का द्वित्राण्येव दिनानि धात्रिदयया धात्रीरसः पीयताम् । जीवत्वेष शिशुर्भजस्व विविधैरस्योत्सवैः संपदं वैद्येनेति निवेद्यमानमकरोत्सा सर्वमेवाश्रुतम् ॥ ७२ ।। दृष्ट्वा तत्रातुरं बालं तृणवत्सुतरागिणी । सा ययौ निर्दया रात्रौ गृहीत्वा हेमसूतिकाम् ॥ ७३ ॥ १. 'स्थालस्थूल' इति पाठः. २ 'प्राग्भाव' इति पाठः. ३. 'धातृदयया' इति २ समयः] समयमातृका। १३ ततः प्रत्यन्तविषये प्रभूतच्छागगोचरा । ख्याता धनवती नाम स्फीतां चक्रे गृहस्थितिम् ।। ७४ ।। साथ मेघापघातेन तस्मिन्पशुधने वने । खकाय इव सापाये याते चर्मावशेषताम् ॥ ७५ ।। गृहीत्वा पशुपालस्य स्थूलं निक्षेपकम्बलम् । गत्वावन्तिपुरं चक्रे ताराख्यापूपविक्रयम् ॥ ७६ ॥ क्रीत्वा गणेशनैवेद्यमण्डकानां करण्डकम् । पुनः पाकोष्मणा नित्यमकरोद्विक्रयं पथि ॥ ७७ ॥ साभुङ्ग गृहनारीणां भूतोज्जामतण्डुलम् । प्रभूतलाभलुब्धानां मूलस्यापि परिक्षयः ॥ ७८ ॥ पान्थकन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा । मिथ्यासन्नविवाहार्थमयाचत गृहे गृहे ॥ ७९ ॥ ततः सा पैञ्जिका नाम द्यूतशालापुरःस्थिता । कपटाक्षशलाकानामकरोद्ढविक्रयम् ॥ ८० ॥ सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य विक्रयम् । देवप्रासादपालानां मूल्यं भुक्त्वा ययौ निशि ॥ ८१ ।। ग्रामयात्रासु सा वारिसत्रदात्री हिमाभिधा । रङ्गप्रेक्षणबालानां निनाय वलयादिकम् ॥ ८२ ॥ सा नक्षत्रपरावृत्तिं कृत्वा षट्राष्टकेष्वपि । विवाहेप्वकरोद्यनं वर्णाख्या कूटवर्णनैः ॥ ८३ ।। गणविज्ञानिका मुग्धप्रत्ययैः ख्यातिमाययौ । नामाभिज्ञानमात्रज्ञा न तु चौरान्विवेद सा ॥ ८४ ॥ भावसिद्धयभिधाना सा देवतावेशधारिणी । उपहारान्प्रयच्छेति वदन्ती नावदत्परम् ॥ ८५ ॥ १. 'सा भुक्वा' इति पाठः. २. प्रभूतो ज्ञानमण्डलम्' इति पाठः. ३. 'कलशिकाभि- धा' इति पाठः. ४. 'पेचिका' इति पाठः. ५. 'वारिसत्त्वधात्री' इति पाठः.
काव्यमाला। तत उन्मत्तिका भूत्वा सा नमालिङ्गिता श्वभिः । कुम्भादेवीति विख्याता प्राप पूजापरम्पराम् ॥ ८६ ॥ क्षिप्रोपदेशलुब्धेन कुलदासेन मन्त्रिणा । सार्चिता प्रययौ हृत्वा पूजाराजतभाजनम् ॥ ८७ ॥ साथ तक्षकयात्रायां चलहण्ठा दिनत्रयम् । कल्पपाली कलानाम विदधे मद्यविक्रयम् ॥ ८८ ।। कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः । रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥ ८९ ॥ ततः सा भूरिधत्तूरमधुना नष्टचेतसाम् । पान्थानां सर्वमादाय निशि शूरपुरं ययौ ॥ ९० ॥ एवं कृत्वा लवणसरणौ भारिक भर्तृसंज्ञं तस्मिन्निद्रावशमुपगते रात्रिमन्यैः क्षिपन्ती । प्रातर्बवा पृथुकटितटं संकटे दीर्घदाम्ना मू| भारं दिवसमखिल सा विलासैरुवाह ॥ ९१ ॥ निःशुष्कैरतटैर्महाहिमपथैरुलय घोरागिरी- न्बम्बानाम दिनावसानसमये मान्याङ्गनारूपिणी । हेमन्ते वसनावगुण्ठितमुखी पञ्चालधारामठे शीतार्ता घनलम्बकम्बलवती चक्रे स्पृहां कातरा ॥ ९२ ॥ साथ सत्यवती नाम वृद्धा ब्राह्मण्यवादिनी । बभ्राम सागरद्वीपरशनाभरणां भुवम् ॥ ९३ ॥ कचिद्योगकथाभिज्ञा क्वचिन्मासोपवासिनी। कचित्तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ।। ९४ ॥ वेधधूननधूपेन मूर्खश्रद्धाविधायिनी । महतीं प्रतिपत्तिं सा लेभे भूपतिवेश्मसु ॥ ९५ ॥ १. 'युभिः' इति पाठः, २ 'सत्याङ्गना' इति पाठः. ३. 'स्पृहाकारता' इति पाठः. ४. 'धूपन' इति पाठः .
- २ समयः ] समयमातृका । १५ सेनास्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् । भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥ ९६ ॥ केदाराम्बुगयाश्राद्धगङ्गास्नानादिवादिनी । तत्फलं बन्धमाधाय सार्थेभ्यः साग्रहीद्धनम् ॥ ९७ ॥ नष्टच्छायोपदेशार्थ सार्थिता पथि दस्युभिः । रूढा शिबिकया वर्षे प्रपलाय्य ययौ ततः ॥ ९८ ॥ चीनीनकानामण्डानि साथ रुद्राक्षसंज्ञया । ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्यवादिनी ।। ९९ ॥ बिलसिद्धिधृतश्रद्धागृहीताभरणाम्बरान् । सा चिक्षेपान्धकूपेषु पातालललनोत्सुकान् ॥ १०० ।। अङ्गविद्धविषास्मीति सुस्निग्धविषगण्डकैः । सा बबन्ध गले मालां विषजाङ्गुलिकाभिधा ॥ १०१ ॥ शुल्कस्थानेषु सर्वेषु शौकिकेभ्यः स्वभावतः । मुहूर्तमोहनं पुष्पं सा दत्त्वा खेच्छया ययौ ॥ १०२ ।। वर्षाणां मे सहस्रं गतमधिकतरं वेश्यहं धातुवाद सिद्धो मे वाक्प्रपञ्चः करतलकलितं त्रैपुरं कामतत्त्वम् । उर्वयां गर्वखर्वीकृतसकलगुरुग्रामभक्त्या तयास्या- मित्याख्यानेन नीताश्चरणतललिहष्ठकुराः कुक्कुरत्वम् ॥ १०३ ॥ पूजासज्जा भजन्ते जयनुतिषु नतिं दिक्षु काम्बोजभोजाः सेवाशुष्कास्तुरुष्काः परिचरणरसे किं च चीनीः प्रलीनाः । उत्कण्ठार्तास्त्रिगर्ताः परिचरण विधौ पीडयन्त्येव गौडा दम्भारम्भेण तस्या विदधति कुसुमोत्सङ्गतामङ्गवङ्गाः ॥ १०४ ॥ भ्रान्त्वा महीं जलनिधिप्रथितामशेषां मायाविनीतिविदिताविरतोन्नतिः सा । १. 'आदाय' इति पाठः. २. 'दीनानकानां' इति पाठः. ३. 'मुहूर्ते योहरे' इति पाठः. ४. 'शर्वखर्वी-' इति पाठः. ५. 'भिक्षुकाम्भोजभोगाः' इति पाठः. ६. 'मीनाः' इति पाठः.
काव्यमाला। प्राप्ता पुनर्निजपदं तनुवीरशेषा क्षीणोऽपि देहमिव कस्त्यजति स्वदेशम् ॥ १०५ ॥ सा सर्वदेशपरिशीलितवेषभाषा प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा । छिन्नाकुलिर्दशनखण्डितनासिकाया लालाटनीलतिलकैर्विदिता ममैव ॥ १०६ ।। सा चेप्रकीर्णधनगेहनिधानसपी गृह्णाति लोभजननी जननीपदं ते । तत्कामिलोकसकलार्थसमृद्धिमेतां यत्नाद्विना सुतनु हस्तगतामवैहि ॥ १०७ ॥ तस्मात्तामहमेव कूटकुटिलां गत्वा स्वयं त्वत्कृते सर्वज्ञां सकलार्थसार्थसरणेः सिद्ध्यै समभ्यर्थये। किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया नास्त्यन्या गतिरित्युदीर्य हितकृत्तूर्णं ययौ नापितः॥१०८॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्र निर्मितायां समयमातृकायां चरितोपन्यासो नाम द्वितीयः समयः। तृतीयः समयः। अथ सर्वार्थजननी जननी वेशयोषिताम् । मित्रे स्वभावमलिनामानेतुं गन्तुमुद्यते ॥ १ ॥ संकोचक्लेशसंजातां शूरतामिव रागिणाम् । आसन्नश्रीवियोगानां खापग्लानिरजायत ॥ २ ॥ शनैर्दिनधने क्षीणे स्वल्पशेषाम्बरः परम् । अलम्बत क्षणं रागी संध्याधाम्नि दिनेश्वरः ॥ ३ ॥ संध्यया क्षिप्ररागिण्या निरस्तः परितापवान् । नीरोगः सागरजले चिक्षेप तपनस्तनुम् ॥ ४ ॥ १. 'रजनी' इति पाठः. २. 'निरागः' इति पाठः.
३ समयः] समयमातृका। ततस्तिमिरसंभारैरिरामाप्रसाधने । कृष्णागुरुभरोद्भूतधूपधूमोद्गमायितम् ॥ ५ ॥ यामिनीकामिनीकीर्णकेशपाशोपमं तमः । दीपचम्पकमालाभिर्विश्रान्तिनियमं ययौ ॥ ६ ॥ अथ स्वर्वेशवनितासापत्न्यकलहच्युतम् । अदृश्यत शशाङ्काधै दन्तपत्रमिवाम्बरे ॥ ७ ॥ रजनीरमणीकान्ते दिनान्ते तुहिनविषि । उदिते मुदिते लोके बभूव मदनोत्सवः ॥ ८॥ भुक्तां सहस्रकरसंपदमम्बरश्रीः कृत्वा जनस्मरणमात्रदशावशेषाम् । वेश्येव काममनपेक्षितपक्षपाता क्षिप्रं शशाङ्कविभवाभरणा बभूव ॥ ९॥ ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्रवर्त्मसु । विटेषु मधुलुब्धेषु निर्व्यापारं गतागतम् ॥ १० ॥ द्वाराग्रदत्तकर्णासु ग्रहणग्रहणेप्सया । कुट्टनीषु तृणापातेऽप्युन्मुखीषु मुहुर्मुहुः ॥ ११ ॥ दिनकामुकनिर्माल्यमाल्यताम्बूलिनी भुवम् । संमृज्य सज्जशय्यासु वेश्यावन्यप्रतीक्षया ॥ १२ ॥ आस्तीर्यमाणखट्वान्तः किङ्किणीकाणसंज्ञया । पारावतेषु विरुतैर्बजत्सु स्मरवन्दिताम् ॥ १३ ॥ गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः । पूर्व किं नागतोऽसीति वदन्तीष्वपरासु च ॥ १४ ॥ उदराबद्धवसनैर्जटाग्रन्थिनिपीडनम् । कुर्वाणैर्वारकलहे प्रारब्धे शठदेशिकैः ॥ १५ ॥ खयं मात्रा च युगपगृहीते ग्रहणद्वये । वारे प्राप्ते तृतीये च यान्तीष्वन्याखदर्शनम् ॥ १६ ॥ १. 'मठदेशिकैः' इति पाठः.
१८ काव्यमाला। अनायाते परिचिते प्रत्याख्याते नवागते । उभयभ्रंशशोकेन सीदन्तीष्वपरासु च ॥ १७ ॥ भुक्तोज्झितानामन्यासु पुनः प्राप्तार्थसंपदाम् । जननी दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥ १८ ॥ यदि त्वां सा सुजननी न जानीयात्सुधामयम् । अभविष्यदुपायो मे तत्कोऽसौ प्राणधारणे ॥ १९ ॥ नित्यावहारकुपितं सर्वार्थरुपकारिणम् । ऋजुमावर्जयन्तीषु विदग्धासुतवैरिषु(?) ॥ २० ॥ अन्यनाम्ना प्रविष्टानां कलहे कूटकामिनाम् । कुट्टनीषु रटन्तीषु घण्टारणरणोत्कटम् ॥ २१॥ प्रसुप्तकटकक्षीबक्षीणक्षुद्राभृते गृहे । सखीभवनमन्यासु यान्तीष्वादाय कामुकम् ॥ २२ ॥ बालमार्जारिकाह्वानव्याजेनान्यासु वर्त्मनि । कटाक्षैः कलयन्तीषु दूरात्कामुकमामिषम् ।। २३ ॥ एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्यायैव दुर्ग्रहः । किं करोमीति जननीं पृच्छन्तीष्वपरासु च ॥ २४ ॥ निशा दीर्घा नवः कामी तनयेयं कनीयसी । व्यत्येति कालहाराय वृद्धावर्गे कथोद्यते ॥ २५ ॥ नाज्ञातादृह्यते भाटी चरन्ति म्लेच्छगायनाः । इत्यन्यासु वदन्तीषु शून्यशय्यासु लजया ॥ २६ ॥ आयाते वार्यमाणेऽपि निर्माने क्षीणकामुके । व्याजकुक्षिशिरःशूलाक्रन्दिनीषु परासु च ॥ २७॥ मुग्धकामुकमित्राणां खेच्छया व्ययकारिणाम् । प्रस्तुते स्थिरलाभाय कुट्टनीभिर्गुणस्तवे ॥ २८ ॥ १. 'दण्डं' इति पाठः. २. 'स्वास्तवैरिषु' इति पाठः. ३. 'दृते', 'वृते' इति पाठः, ४. 'व्यग्रेति' इति पाठः.
३ समयः] समयमातृका । लज्जामहे वयं स्वल्पधनेनेति विभाविनि । गण्यमाने दशगुणे धूतैः प्रथमकामिनाम् ॥ २९ ॥ प्रवाससक्तेरधिकारिसूनोः स्थितावरुद्धा तनया ममेति । काचिद्वदन्ती विजने विगृह्य जग्राह भाटी त्रिगुणां समृद्धात् ॥ ३० ॥ अल्पं ममैतदुहितुन योग्यं न च क्षणोऽस्ति त्वमदृष्टपूर्वः । इति ब्रुवाणापि विटं पटान्ते गाढं गृहीत्वा न मुमोच काचित् ॥ ३१ ॥ अमात्यपुत्रेण सुताय नीता क्षमख रात्रिं प्रणयान्ममैकाम् । उक्त्वेति काचिज्जरती चकार रिक्तस्य सक्तस्य च विप्रलम्भम् ॥ ३२ ॥ दातव्यं न ददाति वारविरहे टकोऽद्य लब्धस्थलः क्रूरः सैन्यपतिः प्रयाति रिपुतां सद्यैव वारं विना । वृत्तिर्देवगृहात्कथं नु दिविरे वारोज्झिते लभ्यते वाटीपेटकवारतां गतवती प्रोवाच काचित्सखीम् ॥ ३३ ॥ अन्यास्ताः सखि कूटपाशनिचयैराकृष्टमुग्धश्रियः कुर्मः किं वयमेव वञ्चनकलां जात्या न जानीमहे । सद्भावे सततं स्वभाव विमुखः सर्वाभिशङ्की जनो वाक्यैः काचिदिति प्रकाशमकरोत्सतार्जवावर्जनम् ॥ ३४ ॥ ...."सकलैव सा रसवती नीता क्षणेन क्षपा पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः । इत्युद्वेगपरिग्रहग्लपितधीः पृष्टः सहासैविटै- ाचष्टे कटुकुट्टनीकुटिलतामक्लिष्टकूटां विटः ॥ ३५ ॥ नास्मद्नेहप्रवेशः सगुणजनकथाकेलिमात्रोपचारै- यापारारम्भसारप्रवसदवसरे वासरे कामुकानाम् । वृत्तिवृत्तानुरोधात्कथमपि विदितागृह्यते यामवत्या इत्युच्चैः काचिदूचे बहुगतगणिकावर्गगर्बोपशान्त्यै ॥ ३६ ॥ कुरु तरलिके हारं कण्ठे गृहाण मनोहरे वलययुगलं लीले लोलां विलोकय मेखलाम् । १. 'विभाविने' इति पाठः. २. उपचारे' इति पाठः. ३. 'पर्वोपशान्त्यै' इति पाठः.
२० काव्यमाला । भज मलयजं चित्रे रात्रिः प्रयाति कठोरता- मिति चतुरताचार्यस्तासां बभूव सखीजनः ॥ ३७ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां प्रदोषवेश्यालापवर्णनं तृतीयः समयः। चतुर्थः समयः। अस्मिन्नवसरे धूर्तवार्तालीना सुकुट्टनी । नापिताख्येन तमसा रजनीव सहाययौ ॥ १ ॥ अस्थियन्त्रशिरातन्त्री लीनानोदरकृत्तिका । शुष्ककायकरङ्काङ्कावृतेव कटपूतना ॥ २ ॥ वहन्ती सुबहुच्छिद्रं शरीरं चर्मबन्धनम् । अन्तर्गतजगद्व्याजशिक्षाशकुनिपञ्जरम् ॥ ३ ॥ सर्वस्वग्रहणेनापि लम्बमानमुखी सदा । तुलेवाङ्कसहस्राङ्का त्रैलोक्यतुलने कलेः ॥ ४ ॥ समा समधने पापे सपापाधमगाधमे । धात्रा कृत्रिमरागस्य स्वरमालेव निर्मिता ॥ ५ ॥ सुस्पष्टदृष्टदीर्घोग्रदशना भीषणाकृतिः । प्रसवक्रूरकोपेन संस्थितास्थिरता शुनी ॥ ६ ॥ उलूकवदना काकग्रीवा मार्जारलोचना । निर्मिता प्राणिनामङ्गरिव नित्यविरोधिनाम् ॥ ७ ॥ वेश्यावनैकपालिन्या यया रागमहाव्रते । कृता कामुकलोकस्य खट्वाङ्गशरणा तनुः ॥ ८ ॥ सक्ताश्रुपातजननीं तां विलोक्य कलावती। अभिचारहुतस्यानेः काली धूमशिखामिव ॥ ९ ॥ ससंभ्रमोत्थिता तस्याः कृत्वा चरणवन्दनम् । दत्त्वा निजासनं चके स्तुतिं पूजापुरःसराम् ॥ १० ॥ १. 'शाखाशकुनि' इति पाठः. २. 'चापि' इति पाठः. ३. 'समदने' इति पाठः.
४ समयः ] समयमातृका। - वेश्योपदेशविषये चतुराननत्वा- न्मायाप्रपञ्चनिचयेन जनार्दनत्वात् । रिक्तप्रसक्तकलहैरतिभैरवत्वा- त्सर्गस्थितिक्षयविधातृगुणा त्वमेव ॥ ११ ॥ उद्भिन्नयौवनमनोहररूपशोभा- संभाविताभिनवभोगमनोभवानाम् । एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः ॥ १२ ॥ तस्माद्भजस्व परिकल्पितपुत्रिकां मां भक्तामनन्यशरणां शरणं प्रपन्नाम् । आत्मार्पणप्रणयिनां नवदर्शनेऽपि जात्यैव पेशलधियः सदया भवन्ति ॥ १३ ॥ इत्यर्थिता कलावत्याः प्रत्यासन्नसुखस्थितिः । मनुष्यामिषकङ्काली कङ्काली तामभाषत ॥ १४ ॥ संक्रान्तहृदयस्नेहा निःशूलप्रसवोद्भवा । गर्भभारं विना पुत्रि त्वं सुताभिमता मम ॥ १५ ॥ ककेन जन्मसुहृदा त्वदर्थमहमर्थिता । स्यूतेयं मे विटच्छिन्ना नासा येन पुनः पुनः ॥ १६ ॥ पात्रं मदुपदेशस्य त्वमेव त्रिदशोचिता । सद्भित्तिलिखितं चित्रं चित्रतामेति नेत्रयोः ॥ १७ ॥ श्रूयतां प्रथमं पुत्रि भूत्यै यत्कथयाम्यहम् । कलाकोषं तु कालेन नित्याभ्यासादवाप्स्यसि ॥ १८ ॥ न कुलेन न शीलेन न रूपेण न विद्यया । जीविताभ्यधिकं बुद्धिलभ्यं धनमवाप्यते ॥ १९ ॥ प्रायेण जगति प्रज्ञा नाना" 'स्ति कस्यचित् । इयती जगतीं वेद्मि पूर्णामूर्णायुभिर्जडैः ॥ २० ॥ १. 'संतुष्टा' इति पाठः. २. 'उत्सवाः' इति पाठः. ३. 'जनैः' इति पाठः. ३ सम०
२२
काव्यमाला ।
अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशपच्यमानाः ।
जगत्रये देवमनुष्यनागाः प्रज्ञादरिद्राः खलु सर्व एव ॥ २१ ॥
ज्येष्ठेन तावत्परमेष्ठिनैव विचारशून्येन कृतं किमेतत् ।
यत्कामिनीपीनपयोधराणां विद्युद्विलोला किल यौवनश्रीः ॥ २२ ।।
का नाम बुद्धिहीनस्य विधेरस्ति विदग्धता ।
कूष्माण्डानां न यश्चके तैलमूर्णा च दन्तिनाम् ॥ २३ ॥
रत्नार्थिना जलनिधौ मधुसूदनेन
क्लेशः किलाद्रिवलनप्रभवोऽनुभूतः ।
किं सैव पूर्वमखिलार्थविलुण्ठनाय
कान्ताकृतिः कपटकाममयी न सृष्टा ॥ २४ ॥
निद्रा महीभारपरिग्रहश्च श्रीसंश्रयत्वं परयाचनं च ।
अत्युन्नतत्वं गुणहीनता च किं युक्तमेतत्पुरुषोत्तमस्य ॥ २५ ॥
कृशः शशी गणा नग्ना भार्या वस्त्रार्घहारिणी ।
शंभोर्धनपतिप्रीतिर्न विद्मः कोपयुज्यते ॥ २६ ॥
भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्तक-
निःसङ्गः सततं गणेषु रमते यः किं स सत्यवतः ।
यः सक्तः परमेश्वरोऽपि वृषभृद्वर्गे स किं नीतिमा-
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धीधनः ॥२७॥
किं कामिनीप्रणयिना दिननायकेन
संशातितं भ्रमकृता कृतिना खतेजः ।
अर्थेन किं न विहिताभिमुखा मृगाक्षी
वित्तेन तीक्ष्णतरमप्यबला सहेत ॥२८॥
चन्द्रस्येश्वरसेवया कृशतनोः क्षण्यं न निर्मूलितं
मानी मूर्ध्नि जडः स्थितः कथमिव प्राप्नोति संपूर्णताम् ।
वृद्ध्यर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं
हन्त्येव खसमीहितं गुणमदादुच्चैः स्थितिः सेवकः ॥२९॥
४ समयः]
समयमातृका।
२३
यातः प्रतारयितुमीश्वरमङ्गानायां
मारः पुरा किमिति कार्मुकबाणपाणिः ।
नाग्रे ततान वनितागुणवर्णनानां
यत्सौ...तेन नियतं विननाश मूर्खः ॥ ३०॥
रक्तोऽप्यशोकविटपी परपुष्टबन्धोः
प्राप्नोति यस्य विभवे चरणप्रहारम् ।
तस्मै समृद्धिसचिवैर्मधुपैनिपल्य
धूनिपीतमधवे मधवे नमोऽस्तु ॥ ३१ ॥
खाम्यं सर्वजगत्सु दिव्यमुनयस्तत्रोचिता मन्त्रिणो
राष्ट्रं खर्गमही महामणिगुरुः कोषः सुधाम्भोनिधिः ।
दुगै मेरुशिरः खसैन्यममराः श्रीमान्मुरारिः सुहृ-
त्सा बुद्धिर्विबुधाधिपस्य तु यया व्याप्तं भगाकैर्वपुः ॥ ३२ ॥
लुब्धस्याफलकालकूटकटुकक्रोधस्य निस्तेजसः
सर्वाक्रान्तिनिपीडितस्य जलधेर्दातुं प्रवृत्तस्य ते ।
संख्यातीतसमस्तरत्नवसतेर्मूर्खाः किमेतावता
मोहादेकगजाश्वपादपसुरामात्रेण तुष्टाः सुराः ॥ ३३ ॥
रामेण हेमहरिणाहरणोत्सुकेन
कूटाक्षकेलिसरणेन युधिष्ठिरेण ।
ईर्ष्यारुषा द्विजरुषा जनमेजयेन
दत्तः परं मनुजवर्मनि मौग्ध्यसेतुः ॥ ३४ ॥
नागस्तार्क्ष्यसमर्पितं तदमृतं यत्नश्रमैर्दुर्लभं
नो पीतं न विलोकितं न पिहितं मोहात्परं हारितम् ।
तस्मान्नास्ति जगत्रयेऽपि विमलः प्रज्ञाकणः कस्यचि-
सर्वः प्राक्तनजन्मकर्म..."वशादोद्यमे धावति ॥ ३५॥
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥ ३६ ॥
काव्यमाला। मुग्धः प्रत्ययमायाति प्रत्यक्षेऽप्यन्यथा कृते । मायाप्रपञ्चसारश्च वेश्यानां विभवोद्भवः ॥ ३७ ॥ पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः । ताम्बूलकल्ककलितं ष्ठीवितं हास्यलीलया ॥ ३८ ।। मुग्धस्ततोऽवमानेन सोऽभिजातोऽभिमानवान् । जनसंसदि जज्वाल क्रोधादात्मवधोद्यतः ॥ ३९ ॥ साधो धातुप्रकोपेन मिथ्या पश्यसि विभ्रमम् । न मया ष्ठीवितं किंचिद्भित्तौ पाणिः प्रमृज्यताम् ॥ ४० । जात्या चर्ममयं चक्षुस्तस्मिन्कः प्रत्ययस्तव । मम सद्भावशीलायाः प्रमाणं वचनं न किम् ॥ ४१॥ इत्युक्त्वा तीव्रशपथैर्गलहस्तादिवादनैः । स मया प्रकृति नीतस्तथेति प्रत्ययं ययौ ॥ ४२ ॥ पदे पदे जगत्यस्मिन्निधिदेवेन निर्मितः। विटचारणवेश्यानां बुद्धिहीनावलम्बनम् ॥ ४३ ॥ नवयौवनकाले मे गृहं विप्रसुतः पुरा । विवेश रात्रिभोगाय नाम्ना शंकरवाहनः ॥ ४४ ॥ शाण्ठ्यादिवातिकठिनं पीनं प्रथमयौवनम् । तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहमचिन्तयम् ।। ४५ ॥ कठिनोऽयं निशा दीर्घा क्षपिता कामुकैरहम् । तस्माद्भोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥ ४६ ।। इति संचिन्त्य सुचिरं मया तैस्तैः कथाक्रमैः । आसन्नशय्यावसरे यामः पूर्वोऽतिवाहितः ॥ ४७ ।। आस्तां किमन्यद्वक्तव्यं श्रुतमेतदितस्ततः । पतिता नेत्रयोनिद्रेत्युवाच स पुनः पुनः ॥ ४८ ॥ कथाबन्धेऽथ विरते तत्संगमनिवृत्तये । शूलापदेशेन मया कृतः कृतकनिःखनः ॥ ४९ ॥ १. 'मधुरकाख्यस्य' इति पाठः. २. 'तेन' इति पाठः.
४ समयः] समयमातृका। २५ सोऽथ मुग्धः प्रकृत्यैव सत्यप्रत्ययमोहितः । चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्गमर्दनम् ॥ ५० ॥ सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः । प्रययौ सोपरोधेव क्षणदा क्षणवन्मम ॥ ५१ ॥ ततः प्रभाते तद्भोगवञ्चने चिन्तितं मया । पशुबुद्धिर्वराकोऽयं मया शूलेन वाहितः ॥ ५२ ॥ अनेन मेषमुग्धेन दत्ता भाटी चतुर्गुणा । भोगावहारन्यायेन ध्रुवं तामनुयाचते ॥५३ ।। तस्मादेषे रतिस्पृष्टीकार्यस्तावद्यथा तथा । न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥ ५४ ॥ इति ध्यात्वाहमारब्धरतिभोगा क्षपाक्षये । प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥ ५५ ॥ आरूढरतियन्त्रो मे शूलक्लेशकृपाकुलः । अलं मत्संगमेनेति सानुरोधोऽवदत्स माम् ॥ ५६ ॥ आवर्जनाय तस्याथ निर्व्याजार्जवचेतसः । मया मिथ्या प्रियालापैर्विहितो रञ्जनक्रमः ॥ ५७ ॥ अहो बतामृतस्पर्शस्तवाङ्गेषु विभाव्यते । अधुनैव मया दृष्टं यस्य प्रत्यक्षलक्षणम् ॥ ५८ ॥ गूढाङ्गेन त्वया स्पृष्टे ममास्मिन्रमणस्थले । न जाने व गतं शूलं मत्पुण्यस्त्वमिहागतः ॥ ५९ ।। इति श्रुत्वैव मद्वाक्यं सहसा साश्रुलोचनः । रत्यर्धरवितः शोकात्सोऽन्तः सानुशयः परम् ॥ ६० ॥ निजं वक्षो ललाटं च ताडयित्वा स पाणिना। हा कष्टं हा हतोऽस्मीति वदन्मामिदमब्रवीत् ॥ ६१ ॥ पूर्व नैतन्मया ज्ञातं यन्मदङ्गसमागमः । शूलं हरति नारीणां मणिमन्त्रौषधादिवत् ॥ ६२ ॥ १. 'जज्ञे' इति पाठः. २'ईषद्रतिस्पष्टीकार्यः' इति पाठः.
२
२६
काव्यमाला।
मन्दपुण्यस्य जननी वात्सल्यजननी मम ।
सुचिरस्थायिना भद्रे शूलेन निधनं गता ॥ ६३ ।।
विदितोऽयं प्रकारश्चेदभविष्यदसंशयः ।
तज्जनन्या वियोगो मे नाभविष्यद्विचेतसः ॥ ६४ ॥
इत्युक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ ।
पुरुषाकारसंदिग्धनिर्विषाणवृषोपमः ॥ ६५ ॥
नित्यं भोजनमैथुनप्रणयिनस्त्यक्तान्यकार्याः परं
लोकेऽस्मिन्गलगतमात्रसुखिनः सन्त्येव शून्याशयाः ।
ये मेषप्रतिमाः क्षयोद्यतमतेः सर्वस्वहर्तुः क्षणा-
दाप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कमके शिरः ॥ ६६
इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
कूटपण्यैरसामान्यैस्तारुण्यमतिवाह्यते ॥ ६७ ॥
असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः।
एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः ॥ ६८ ॥
सत्यं विनाशाय पराङ्गनानामसत्यसारा गणिकागणश्रीः ।
सत्येन वेश्या किल दृष्टसारा दरिद्रशाला इव कस्य सेव्याः ॥ ६९
दानेन नश्यति वणिश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुनश्यति कृपया च कायस्थः ॥ ७० ॥
वेश्याजनस्य कितवस्येव वञ्चनमायया ।
अहो वैदग्ध्यमित्युक्त्वा परोऽपि परितुष्यति ॥ ७१।।
पुराहं पृथिवीमेतां भ्रान्त्वा जलधिमेखलाम् ।
प्राप्ता वेश्यास्पदं लोभात्पुरं पाटलिपुत्रकम् ॥ ७२ ॥
कुट्टन्यस्तत्र सर्वज्ञा दृष्ट्वा मामल्पकौशलाम् ।
जहसुः सखनं येन हीताहं क्षमामिवाविशम् ॥ ७३ ।।
ततस्तेनावमानेन गणेशायतनाग्रतः ।
स्थिता कृतोपवासाहमहंकारविवर्जिता ॥ ७४ ॥
४ समयः]
समयमातृका।
२७
अथ स्वप्ने गणेनाहं पृष्टा शंकरसूनुना ।
उपवासाः कियन्तस्ते प्राप्ता इति पुनः पुनः ॥ ७५ ।।
स मयाभिहितः कूटकृतप्राणान्तचेष्टया ।
मासद्वयमतिक्रान्तं व्रतादनशनस्य मे ॥ ७६ ॥
तच्छ्रुत्वा स स्मितमुखः सर्वज्ञः प्राह मां गणः ।
अहो व्रतेऽपि स्वप्नेऽपि नासत्यादस्ति ते च्युतिः ।। ७७ ॥
परितुष्टोऽस्मि ते भद्रे निश्चलासत्यनिश्चयात् ।
महामायामयकला लब्धभोगा भविष्यसि ॥ ७८ ॥
गणेशानुचरः पूर्वमिति मह्यं वरं ददौ ।
असत्येनैव वेश्यानां भवन्ति धनसंपदः ॥ ७९ ॥
धनप्रधानं जनजीवभूतं लोकेषु तत्रापि विशेषयोगात् ।
जनाभिसारप्रतिपत्तिभाजां महीभुजां वेशमृगीदृशां च ॥ ८० ॥
धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् ।
प्रज्ञार्थो जीवलोकेऽस्मिन्परस्परनिबन्धनौ ॥ ८१ ॥
ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः ।
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥ ८२ ॥
स एवाहृदयो राहुरलसः स शनैश्चरः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥ ८३ ॥
सुजातस्य प्रयातस्य माङ्गल्यस्पृहणीयताम् ।
धनिकस्य विकारोऽपि क्षीबस्येव जनप्रियः ॥ ८४ ॥
धनिनश्चन्दनस्येव सच्छायस्य मनोमुषः ।
निष्फलस्यापि लोकोऽयं संपर्क बहुमन्यते ॥ ८५ ॥
निस्त्रिंशा अपि सस्नेहा भवन्ति श्रीमतः परम् ।
खकेशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ।। ८६ ॥
सेव्यः कविबुधादीनां गुरुः शूरकलावताम् ।
गतिप्रदोऽर्थवानेव व्योममार्ग इवोन्नतः ॥ ८७ ॥
२८
काव्यमाला।
विक्रीय स्वगुणं निःखः वयं मांसमिव द्विजः ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥ ८८ ॥
गुणिनां चित्तवैकल्याद्गुणा निर्गुणवाञ्छया ।
हृदयेष्वेव सीदन्ति विधवानामिव स्तनाः ॥ ८९ ।।
विद्वद्भिः परिवारिताः सगुणतामायान्ति वित्तैनराः
शूरत्वं सुभटैः कुलोन्नततरैः प्रख्यातसद्वंशताम् ।
तस्माद्वित्तसमाश्रये गुणगणे वित्ते च नान्याश्रये
वित्तं वित्तमनन्यचित्तनियताः संपन्निमित्तं नुमः ।। ९० ॥
अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य ।
नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ ९१ ॥
अशेषदोषापगमप्रकाशमित्रागमोत्साहमहोत्सवाहम् ।
विकासशोभा जनयत्यजस्रं धनं जनानां दिनमम्बुजानाम् ।। ९२ ।।
वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः
सद्भिर्जन्तुरुपैति साधुपदवी किं वा बहु ब्रूमहे ।
वित्तेन व्रततीर्थसार्थसरणक्लेशाभियोगं विना
तीर्यन्ते ततपातकव्यतिकरास्ते ब्रह्महत्यादयः ॥ ९३ ।।
श्रूयतां यत्पुरा वृत्तं वाराणस्यां स्वयं मया ।
श्रुतं विश्रुतसत्त्वस्य चरितं गृहमेधिनः ॥ ९४ ॥
तत्राभवद्गृहपतिर्घरातलधनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान् ॥ ९५ ॥
अर्थिकल्पतरोस्तस्य राजाहवरभोजनैः ।
अवारितमभूद्गहे भोज्यसत्रं सदार्थिनाम् ॥ ९६ ॥
तस्य विप्रसहस्रेषु भुञ्जानेषु सदा गृहे ।
लोके युधिष्ठिरकथा श्लथादरकथां ययौ ।। ९७ ॥
ततः कदाचिदाचारनिधेस्तस्य समाययौ ।
नियतात्मा यतिगेंहं ज्ञानात्मा नाम दिव्यधीः ॥ ९८ ॥
४ समयः
समयमातृका।
२९
स पूज्यः पूजितस्तेन श्रद्धयोपनिमत्रितः ।
पाकशालां ययौ द्रष्टुं भक्ष्यराशिशतान्विताम् ॥ ९९ ॥
तत्रापश्यत्स सर्वान्नव्यञ्जनादिगणोपरि ।
सितयज्ञोपवीताकं लम्बमानतनुं शवम् ॥ १००॥
स्रवद्भिस्तस्य गात्रेभ्यः सूक्ष्मशोणितबिन्दुभिः ।
अन्नं सर्वजनादृष्टैः सिच्यमानं ददर्श सः ।। १०१॥
दृष्ट्वा तदतिबीभत्सं घृणासंकुचिताशयः ।
संस्पृष्टकर्णः स ययौ ततस्तूर्णमलक्षितः ॥ १०२ ॥
अथ संवत्सरे याते पुनरभ्येत्य कौतुकात्
सोऽपश्यन्मांसहीनं तत्स्नायुबद्धं कलेवरम् ॥ १०३ ।।
शिरामुखशतैस्तस्य क्लिन्नस्नेहकणैश्चितम् ।
स दृष्ट्वा भोज्यमगमज्जुगुप्सामीलितेक्षणः ॥ १०४ ।।
वर्षेण पुनरायातः सोऽस्थिशेषशवस्रुतैः ।
अन्नव्यञ्जनमद्राक्षीद्व्याप्तं द्वित्रैर्वसाकणैः ॥ १०५ ॥
कौतुकाद्वत्सरे याते सोऽपश्यत्पुनरागतः ।
कपालशेषकलनादन्नोपारे रजश्च्युतम् ॥ १०६ ॥
षभिर्मासैरथायातः शुद्धं शवविवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितमुवाच सः ॥ १०७ ।।
अहो गृहपतेरस्य महासत्रेण पातकम् ।
क्षीणमल्पेन कालेन लीढं याचककोटिभिः ॥ १०८॥
बभूव पूर्वपुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्महत्या शतवती सात्र दानात्क्षयं गता ॥ १०९ ॥
यैस्तस्य भवने भुक्तं तैस्तत्पापं समाहृतम् ।
पापमन्नाश्रयं पुंसां भोक्तारमुपसर्पति ॥ ११० ॥
ब्रह्महत्या भवस्यापि या बभूव भयप्रदा ।
धनेन क्षपिता सेयमहोधनमहोधनम् ॥ १११ ॥
३० काव्यमाला। इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात् । पुरोहितेनाय॑मानः प्रययौ ज्ञानलोचनः ॥ ११२ ।। वाच्यमानः स विद्वद्भिः कस्तवाद्भुतवादिभिः (१)। श्लोकार्थगौरवरसान्मया तत्र स्वयं श्रुतः ॥ ११३ ।। शमयति चितं पापं शापं विलुम्पति दुःसहं कलयति कुलं कल्याणानां कलङ्ककणोज्झितम् । धनमकलुषं तीर्थं पुंसां तदेव महत्तपः सुकृतनिधये श्रद्धाधाम्ने धनाय नमो नमः ॥ ११४ ।। एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया । नीतं [द]शापदेशानां समये सारतन्त्रताम् ॥ ११५ ॥ कुरु चित्तार्जनं तूर्णं......."भवति योषिता । ने यौवनसहायोऽयं तनये कायविक्रमः ॥ ११६ ॥ तनुवल्लीवसन्तश्रीर्वदनेन्दुशरन्निशा । पयोघरोद्मप्रावृट् चपला यौवनद्युतिः ॥ ११७ ॥ तारुण्ये तरले सुधूर्तीमद्भूभङ्गविभ्रमे । स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः ॥ ११८ ॥ अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी । न यौवनमदोदयश्चरति चारुकान्तिच्छटा- कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥ ११९ ॥ आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् । पलायते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति ॥ १२० ।। युवतितटिनीप्रावृट्कालः सपीनपयोधरः कृतमदभरारम्भः कामी विलासशिखण्डिनाम् । मदनपवनालोल "॥१२१॥ १ 'शतं' इति पाठः, २. 'नवयौवन-' इति पाठः. .....।
४ समयः ]
समयमातृका।
३१
क्रीडावल्लीकुसुमसमये रागपद्माकरा
दर्पोद्याने वदनशशभृत्कौमुदीकार्तिकेऽस्मिन् ।
याते मुग्धद्रविणतुलया यौवने कामिमित्रे
पण्यस्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥ १२२ ॥
न तु यौवनमात्रेण लभन्ते ललनाः श्रियम् ।
भोगार्हा वृद्धकरिणी तरुणी हरिणी वने ॥ १२३ ॥
रूपवत्यद्भुतास्मीति कान्ते त्याज्यस्त्वया मदः ।
वने मयूराः शुष्यन्ति बलिमश्नन्ति वायसाः ॥ १२४ ।।
पूर्णा वक्रचला.
ते जनाः।
क्षीणोऽपि वृद्धिमायाति कुटिलैककलः शशी ॥ १२५ ॥
भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहरं
वकं न्यकृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः ।
रूपं नेत्ररसायनं किमपरं सुश्रोणि तत्रापि ते
शिक्षाहीनतया मदद्विरदवत्प्राप्नोति नार्थाक्रियाम् ॥ १२६ ॥
तवेयं यौवनतरोश्छाया विस्मयकारिणी ।
यया कामुकलोकस्य स्मरतापः प्रवर्तते ॥ १२७ ।।
रागसागरसंजातविद्रुमद्रुमपल्लवैः ।
तवाधरे स्मितरुचिः करोति कुसुमभ्रमम् ॥ १२८ ॥
भाति सचन्दनतिलकं कालागुरुकुटिलपल्लवाभरणम् ।
वदनं नन्दनमेतद्भूलतिकालास्यललितं ते ॥ १२९ ॥
यातः सुन्दरि सुतरां स्तनभारपरिश्रमः शनकैः ।
प्रोषितशैशवशोकादिव मध्यः कृशतरत्वं ते ॥ १३० ।।
तथाप्युपायशून्येन रूपेणानेन सुन्दरि ।
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव संपदः ॥ १३१ ॥
गुणवती ललितापि न शोभते तनुतरार्थकदर्थनयान्विता ।
सुकविसूक्तिरिवार्थवती परं व्रजति वेशवधूः स्पृहणीयताम् ॥ १३२ ॥
३२
काव्यमाला।
संसक्तेषु सुरामयी धनगुणाधानेषु लक्ष्मीमयी
स्फीतार्थेषु सुधामयी विषमयी निष्क्रान्तवित्तेषु च ।
वेश्या शङ्खमयी नितान्तकुटिला सद्भावलीनेषु या
देवानामपि सुभ्र मोहजननी क्षीरोदवेलेव सा ॥ १३३ ॥
इति तया वचनामृतमर्पितं श्रवणपेयमवाप्य कलावती ।
जननि मे द्रविणाधिगमोचितं परिचयं कथयेति जगाद ताम् ॥१३४।
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां पूजाधरोपन्यासो(?)नाम
चतुर्थः समयः।
पञ्चमः समयः।
अथ मन्मथमत्तानां करिणामिव कामिनाम् ।
बन्धाय बन्धकीशिक्षामाचचक्षे जरच्छिखा ॥ १ ॥
श्रूयतां पुत्रि सर्वत्र विचित्रोपायवृत्तये ।
मया दुहितृवात्सल्यादर्थ्य किंचित्तदुच्यते ॥ २ ।।
पूर्व भावपरीक्षैव कार्या यत्नेन कामिनाम् ।
ज्ञातरागविभागानां कर्तव्यौ त्यागसंग्रहौ ॥ ३ ॥
कुसुम्भरागः सिन्दूररागः कुङ्कुमरागवान् ।
लाक्षारागोऽथ माञ्जिष्ठो रागः काषायरागभृत् ॥ ४ ॥
हारिद्रो नीलरागश्चेत्यष्टौ वर्णानुकारिणः ।
सुवर्णरागस्ताम्राख्यो रीतिरागस्तथापरः ॥ ५ ॥
रागः सीसकसंज्ञश्च लौहो मणिसमुद्भवः ।
काचरागस्तथा शैलो ह्यष्टौ धात्वनुकारिणः ॥ ६॥
सांध्यरागस्तथा चान्द्रस्तथेन्द्रायुध एव च ।
वैद्युताङ्गारकेत्वाख्यरविरागास्तथैव च ॥ ७ ॥
राहुरागोऽष्टमश्चेति रागा गगनसङ्गिनः ।
श्रोत्ररागोऽक्षिरागश्च रसनासंश्रयस्तथा ॥ ८॥
५ समयः ]] समयमातृका। त्वग्रागो घ्राणरागश्च मानसो बुद्धिसंभवः । अहंकाराभिधानश्चेत्यष्टाविन्द्रियसंज्ञकाः ॥ ९ ॥ वृषरागोऽश्वरागश्च कृकलासाह्वयस्तथा । मेषरागः श्वरागश्च खररागस्तथापरः ॥ १० ॥ मार्जाररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदजाः । शुकरागो हंसरागस्तथा पारावताभिधः ॥ ११ ॥ मायूरश्चटकाख्यश्च कृकवाकुसमुद्भवः । कोकिलो जीवजीवाख्यश्चेत्यष्टौ पक्षिजातयः ॥ १२ ॥ केशरागोऽस्थिरागश्च नखाख्यः पाणिसंगतः। दन्तरागस्तथा पादरागस्तिलकरागवान् ॥ १३ ॥ कर्णपूराभिधानश्चेत्यष्टावङ्गविभाविनः । छायारागस्तथा भूतरागोऽपस्मारवानपि ॥ १४ ॥ ग्रहरागोऽथ गान्धर्वो यक्षाख्यः क्षोभरागभृत् । पिशाचराग इत्यष्टौ महारागाः प्रकीर्तिताः ॥ १५ ॥ कौसुमः कुम्भरागश्च नारङ्गाङ्कोऽथ दाडिमः । मद्यरागः कुष्ठरागो विसर्पाख्यश्चिताभिधः ॥ १६ ॥ भ्रामरोऽप्यथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः । भ्रमाख्यः स्मृतिजन्मा च रतिरागो ग्रहाभिधः ॥ १७ ॥ रागो रुधिरसंज्ञश्च षोडशैते प्रकीर्णकाः । संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयतामिदम् ॥ १८ ॥ कौसुम्भो रक्षितः स्थायी क्षणान्नश्यत्युपेक्षितः । खभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥ १९ ॥ अल्पलीनः सुखायैव घनो दुःखाय कौङ्कुमः । तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥ २० ॥ तप्तः शीतश्च माञ्जिष्ठः स्थिरभोगक्षमः समः । स्थिरो रौक्ष्येण काषायः स्नेहयोगेन नश्यति ॥ २१ ॥ १. 'नारङ्गकोऽथ' इति पाठः. ४ सम०
काव्यमाला।
सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देहक्षयस्थायी वार्यमाणोऽपि निश्चलः ।। २२ ॥
सौवर्णश्छेदनिर्घर्षतापैस्तुल्यरुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्रसंज्ञस्य नान्यथा ॥ २३ ॥
रीतिनाम्नस्तु.मालिन्यं स्नेहेनाप्युपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥ २४ ॥
तीक्ष्णखभावाल्लोहस्य काठिन्याच्च न नम्रता ।
मणिनामा च निर्व्याजः सहजखच्छनिश्चलः ॥ २५ ॥
खभावभिदुरः काचसंज्ञश्छलनिरीक्षकः ।
शैलोऽपि गौरवस्थायी हृदयाभावनीरसः ॥ २६ ॥
सांध्यश्चलश्च नित्यश्च कल्पदोषो दशाश्रयः ।
चन्द्ररागः प्रशान्तार्तिशीतलः क्षयवृद्धिमाकू ॥ २७ ॥
ऐन्द्रायुधो बहुरुचिर्वक्रमायाविलासभूः ।
वैद्युतस्तरलारम्भदृष्टनष्टविकारकृत् ॥ २८ ॥
अङ्गारः स्त्रीजनावज्ञाज्वलितो लोहिताननः ।
केतुसंज्ञः स्फुटानर्थकारी बन्धवधादिभिः ॥ २९ ॥
आर्कस्तीक्ष्णतया नित्यसंतापः सततोदयः ।
मित्रायैषी विषमो राहुरागो महाग्रहः ॥ ३० ॥
श्रौत्रः कर्णसुखाभ्यासाद्गुणाकर्णनतत्परः।
अक्षिजन्मा परं रूपमा परिणतस्पृहः ।। ३१ ॥
रासनो विविधाखादभोज्यसंहारलौल्यवान् ।
त्वङ्मयः सर्वमुत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥ ३२ ॥
प्राणाख्यः पुष्पधूपादिभूरिसौरभलोभभृत् ।
मानसः सतताभ्यस्तस्पृहामात्रमनोरथः ॥ ३३ ॥
बुद्ध्याख्यो गुणवत्कान्तासक्तिव्यसनवर्जितः ।
अहंकाराभिधः श्लाघ्यसंगमोन्नतिलक्षणः ॥ ३४ ॥
५ समयः]
समयमातृका।
वृषसंज्ञश्च तारुण्यात्कायदर्पबलोद्भवः ।
अश्वस्तु रतमात्रार्थी तत्कालोद्यतकातरः ॥ ३५ ॥
कृकलासाभिधानश्च स्त्रैणदर्शनचञ्चलः ।
मेषाख्यः शष्पकवलाभ्यासतुल्यरतिस्पृहः ॥ ३६ ॥
श्वाख्यो रत्यन्तविमुखः स्त्रीरहस्यप्रकाशकः ।
गार्दभः क्रूरसंमदतृप्तिमात्रपरायणः ॥ ३७ ॥
मार्जारजन्मा सातत्यादत्यन्त निकटस्थितिः ।
कौञ्जरः क्लेशबन्धादिनिरपेक्षसमागमः ॥ ३८ ॥
शुकाभिधोऽन्तर्निःस्नेहः कामं मुखसुखस्थितिः ।
हंससंज्ञः सुखस्थित्या गुणदोषविभागकृत् ॥ ३९ ॥
पारावताख्यः सस्नेहरतिसर्वस्खलक्षणः ।
मायूरः खवपुःस्फीतरूपप्रमदनृत्तवान् ॥ ४० ॥
बहुशः सुरतासङ्गमात्रार्थी चटकाभिधः ।
कृकवाकुभवः कान्ताक्लेशलेशविभागवान् ॥ ११ ॥
कोकिलो मधुरालापः प्रभूतप्रसरत्कथः ।
जीवजीवकसंज्ञश्च परिचुम्बननिश्चलः ॥ ४२ ॥
केशाख्यः सप्तदिवसस्थायी कृच्छ्रानुरञ्जकः ।
अस्थिसंस्थोऽन्तरस्थश्च प्रच्छन्नस्नेहजीवितः ॥ ४३ ।।
नखाभिख्यो मासमात्रस्थायी याति शनैः शनैः ।
प्राणिनामा प्रबुद्धोऽपि बद्धमुष्टेर्ने लक्ष्यते ॥ ४४ ॥
दन्ताभिधो यस्ताम्बूललीलामात्ररुचिः सदा ।
पादाख्यश्चरणालीनः प्रणामैरेव केवलम् ॥ ४५ ॥
तिलकप्रतिमो नीचस्योत्तमस्त्रीसमागमः ।
कर्णपूरश्च कौटिल्यात्कर्णलग्नोऽतिकत्थनः ॥ ४६ ॥
सर्वत्रानुचरः शोषकारी छायाग्रहाभिधः ।
अज्ञातचित्तः स्तब्धाख्यो भूतसंज्ञो विचेतनः ॥ ४७ ॥
काव्यमाला।
अपस्माराभिधः क्रूरकोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चलग्राही सजने विजने पथि ॥ १८ ॥
गान्धर्वो गीतनृत्तादिरससंसक्तमानसः ।
यक्षः क्षिप्तो न निर्याति गृहावृत्तिविचक्षणः ।। ४९ ॥
यत्तत्प्रलापमुखरः क्षोभाख्यस्त्यक्तयन्त्रणः ।
पैशाचश्चाशुचिरतस्तीव्रक्षतविदारणः ॥ ५० ॥
कौसुमः क्षणिकोदारः पूजामात्रपरिग्रहः ।
भग्नोऽपि कौम्भः शकलश्लेषे श्लिष्ट इवेक्ष्यते ॥ ५१ ।।
नारङ्गः सरसोऽप्यन्तर्बहिस्तीक्ष्णः कटुः परम् ।
बहुगर्भतया रूढो हृदये दाडिमाभिधः ॥ ५२ ॥
क्षण:ब्योपमो माद्यः स्वस्थो वैलक्ष्यलक्षणः ।
बीभत्साचारवरस्यात्कुष्ठाख्योऽतिजुगुप्सितः ।। ५३ ॥
वैरूप्यं च समायाति च्छेदेनेवाङ्गमर्मणाम् ।
चिताभिधानः सर्वाङ्गदाही वश्यप्रयोगजः ॥ ५४ ॥
भ्रामरः कौतुकास्वादमात्रो नवनवोन्मुखः ।
पातङ्गः कामिनीदीप्तिरसिकः क्षयनिर्भरः ।। ५५ ।।
वृश्चिकाल्यो व्यथादायी द्वेष्योऽप्यत्यन्तनिश्चलः ।
यक्ताहारोऽतिसंतापनष्टच्छायो ज्वराभिधः ॥ ५६ ॥
भ्रमनामा मतिभ्रंशाच्चक्रारूढ इवाकुलः ।
स्मरणाख्यः प्रियस्मृत्या कृतान्यस्त्रीसमागमः ॥ ५७ ॥
रतिग्रहः सदा खप्ने संप्राप्तसुरतोत्सवः ।
रौधिरः कलहे रक्तपातैर्नीचस्य वर्धते ॥ ५८ ॥
इत्यशीतिः समासेन रागभेदाः प्रकीर्तिताः ।
विस्तरेण पुनस्तेषां कः संख्यां कर्तुमर्हति ॥ ५९ ।।
सुहृज्जनार्जनं कुर्यात्पूर्व वारविलासिनी ।
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥ ६० ॥
५ समयः ] समयमातृका। ...... सुहृद्भिरेव जानाति कामुकानां धनं गुणम् । हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ॥ ६१ ।। महाधनस्य सुहृदां कामिनां प्रेमशालिनाम् । प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥ ६२ ।। एको वित्तवतः सूनुः पितृहीनः सुयौवने । मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥ ६३ ॥ नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः । ..."प्रच्छन्नकामो जाड्य धनः ॥ ६४ ॥ नपुंसकप्रवादस्य प्रशमार्थी फलाशनः । मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥ ६५ ॥ ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः । सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥ ६६ ॥ गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः । नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥ ६७ ॥ प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्युदाहरेत् । जनस्यायं स्वभावो हि सुलभामवमन्यते ॥ ६८ ॥ शिरःशूलादिकं व्याधिमनित्यमजुगुप्सितम् । अवहारोपयोगाय पूर्वमेव समादिशेत् ॥ ६९ ।। पलीव कुर्यादनुवृत्तिपूर्वं पूर्व महार्थस्य वरोपचारम् । द्रव्यैस्त्वया मन्त्रजपादिभिर्वा वशीकृतास्मीति वदेच सर्वम् ॥ ७० ॥ स्वयं प्रदत्तेऽपि नखक्षते च शङ्केत तद्भक्तिविवादशीलम् । निन्देत्प्रकामं जननी विरुद्धां गच्छेत्स्वयं वेश्म च कामुकस्य ।। ७१ ॥ विदेशयात्रामपि मन्त्रयेत तेनैव साधु विहितानुबन्वा । सुप्तस्य कुर्यात्परिचुम्बनं च गुणस्तुति चार्धविवोधभाजः ।। ७२ ॥ खप्ने सदैव प्रलपेत्सरागं सर्व च तन्नामनिबद्धमेव । न चास्य तृप्तिं सुरतेषु गच्छेव्ययस्य कुर्याच्च मुहुनिषेधम् ।। ७३ ।। १. 'जटाधरः' इति पाठः.
काव्यमाला। तस्माच्च पुत्रार्थमनोरथा स्यात्प्राणात्ययं तद्विरहे वदेच्च । इत्यादिभिः खीकरणाद्युपायैर्निबद्धबुद्धेर्द्रविणं लभेत ॥ ७४ ॥ तावच्च तूर्णं धनमाहरेत यावत्स रागेण विनष्टसंज्ञः । प्रशान्तरागानलशीतलस्तु स लोहपिण्डीकठिनत्वमेति ॥ ७५ ॥ याचेत सर्व सुरतार्तिकाले तमूरुबन्धेन निरुद्धकायम् । प्रायेण तृप्ताय न रोचते हि विनम्रशाखापरिपक्कमाम्रम् ॥ ७६ ॥ संधारयेत्तं च विशेषवित्तं यावन्न निःशेषधनत्वमेति । पुनः पुनः स्नेहलवावक्त्रा दीपं यथा दीपकदीपवर्तिः ॥ ७७ ।। निष्पीतसारं विरतोपकारं क्षुण्णेक्षुशल्कप्रतिमं त्यजेत्तम् । लब्धाधिवासक्षयकारिशुष्कं पुष्पं त्यजत्येव हि केशपाशः ॥ ७८ ॥ हेमन्तमार्जार इवातिलीनः स चेन्न निर्याति निरस्यमानः । तदेष कार्यस्तनुमर्मभेदी प्रवर्धमानः परुषोपचारः ॥ ७९ ॥ शय्यावहारैर्वचनप्रहारैः कोपप्रकारैर्जननीविकारैः । कौटिल्यसारैर्विविधप्रसारैर्विपद्विचारैर्गणितापचारैः ॥ ८० ॥ याच्याविवादैरधनापवादैर्दत्तानुवादैः परसाधुवादैः । निन्दाप्रवादैः परुषप्रवादैविटप्रवादैः कथितावसादैः ॥ ८१ ॥ मुहुः प्रवासैः कलहोपवासायानिवासैः कटुकाधिवासैः । सभ्रूविलासैर्व्यसनोपवासैनिष्कासनीयः स पृथुप्रवासैः ॥ ८२ ॥ स चेत्पुना रागजतुप्रसक्तस्तीत्रावमानैरपि न प्रयाति । तदा तमुत्क्षिप्तभुजान्यवक्त्रा दासी वदेद्वित्तवियोगदीनम् ॥ ८३ ।। यत्राभवत्कामुकलोकयात्रा विचित्ररूपा सततं विभूतिः । गृहे चतुर्थ दिनमद्य तस्मिन्दृष्टस्य दृष्टस्य वधूत्सवस्य ॥ ८४ ॥ क्लीबस्य यस्यास्ति न भोगसंपत्स किं भुजिष्याभवने करोति । न यस्य हस्ते तरमूल्यमस्ति स किं समारोहति नावमग्रे ॥ ८५ ।। प्रक्षीणवित्तेन निरुद्यमेन किं रूपयुक्तेन करोति वेश्या । विच्छिन्नदुग्धा न पुनः सगर्भा सा कस्य गौश्वारुतयोपयुक्ता ॥ ८६ ।।
ब
६ समयः]
समयमातृका।
मथ्यैव रिक्तः कुरुते जडानामावर्जनैः प्रेममयैर्वचोभिः ।
क्षीरक्षये चुम्बनलालनेन बालस्य वृद्धिं विदधाति धात्री ॥ ८७ ॥
इत्यादिभिस्तद्वचनावमानस्तस्मिन्गते ग्रीष्मतुषारतुल्ये।
क्षीणं निरस्तं पुनराप्तवित्तं भजेत यत्नाहृतवित्तमन्यम् ।। ८८ ॥
प्राप्ते कान्ते कथमपि धनादानपात्रे च वित्ते
त्वं मे सर्व त्वमसि हृदयं जीवितं च त्वमेव ।
इत्युक्त्वा तं क्षपितविभवं कञ्चकाभं भुजंगी
त्यक्त्वा गच्छेत्सधनमपरं वैशिकोऽयं समासः ॥ ८९ ॥
उद्देशलेशेन यदेतदुक्तं तत्कार्यकाले विविधप्रयोगम् ।
तस्मात्स्वबुद्ध्यैव विचार्य कार्यमुक्त्वेति तूष्णीं जरती चकार ॥ ९० ॥
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां रागविभागोपन्यासो नाम
पञ्चमः समयः।
षष्ठः समयः।
अथ क्षणक्षीणधनायमाने शनैः शनैर्निष्प्रतिभे शशाङ्के ।
द्यौर्दोषयुक्तेव विलोकनेन सविप्लवा मीलिततारकाभूत् ॥ १ ॥
इन्दौ प्रयाते कृतरात्रिभोगे प्रवेशकाले चिरकामुकस्य ।
वेश्येव संध्या गगनाङ्गनायं निर्दिष्टताराकुसुमं चकार ॥ २ ॥
अथोदिते स्वस्थितिदानदक्षे बाले रवी श्रीमति पङ्कजिन्याः।
विकासकाले मधुपानकेलिरभूविटानामिव षट्पदानाम् ॥ ३ ॥
कलावती मौक्तिकभूषणाङ्का धम्मिल्लमाल्यप्रणयप्रसक्तैः ।
भृङ्गता दर्पणमीक्षमाणा सतारका चन्द्रवती निशेव ॥ ४ ॥
सराङ्गनाकेलिशुकायमानकरस्थताम्बूलविलासपूर्णा ।
समातृका नापितदत्तहस्ता कान्तां तनुं पण्यदशां नयन्ती ॥ ५ ॥
सलीलमाक्रान्तिविलोलकाञ्चीरवेण पारावतदत्तसंज्ञा ।
अर्थार्थिनी राजपथप्रकारं हम्यै प्रियोत्सङ्गमिवारुरोह ॥ ६॥
काव्यमाला।
तामब्रवीत्तत्परिभोगयोग्यं प्रातर्नवं कामुकमीक्षमाणः ।
विलोक्य कङ्कः शयनोस्थितानां पण्याङ्गनानां गणयन्विचेष्टाः ॥ ७ ॥
आसन्नमित्रागममुच्यमानसमागमे वासरवल्लभस्य ।
निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ॥ ८ ॥
एष प्रबुद्धः सहसा जटाभृल्लीलाशिवः कुक्कुटकूजितेन ।
गृहान्नलिन्याः परिहृत्य राजरथ्यां कुमार्गेण मठं प्रयाति ॥ ९ ॥
एते निधेर्निग्रहभट्टसूनोः पृष्टा विटा रात्रिसुखं प्रभाते ।
कर्तुं प्रवृत्ताः पृथुभोज्यभूरिव्ययाय भद्राभवने विभागम् ॥ १० ॥
प्राप्ते गृहद्वारमनङ्गसारे महाविटे पश्य वसन्तसेना ।
शून्यप्रसुप्तापि पुरः समेत्य निशीथभोगं कथयत्यसत्यम् ॥ ११ ॥
भग्नाङ्गदा त्रोटितकर्णपाली मतङ्गनाम्ना गणपालकेन ।
आत्मापराधं विनिगूहमाना विरौति रामा जननीजनाग्रे ॥ १२ ॥
निर्गच्छतो ग्रामनियोगिनोऽस्य ददाति गुप्तस्य समेत्य पश्चात् ।
इदं तथेदं च पुरः प्रहेयमित्यादि संदेशशतानि वृद्धा ॥ १३ ॥
संप्रस्थितेयं सह माधवेन कोशं ध्रुवं पातुमनङ्गलेखा ।
अग्रे यदस्या मधुकुम्भवाही मेषं विकर्षन्पुरुषः प्रयाति ॥ १४ ॥
टक्कस्य साच्चलितस्य......"विप्राय यत्स्कन्दकदानकाले ।
प्रसाधनाय खयमेव गन्तुं समुद्यता पश्य शशाङ्कलेखा ॥ १५ ॥
उद्यानलीलागमने निशायां सुनिश्चिते मल्लिकयार्जुनस्य ।
कृतः प्रभाते नवचीनवस्त्रदानं विना पश्य मुहूर्तविघ्नः ॥ १६ ॥
मेषप्रदस्पेन्द्रवसोर्द्विजस्य मुक्त्वा प्रभूतं निशि कालखण्डम् ।
विषूचिकार्ता विटहर्षहेतुवैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥ १७ ॥
वैद्योऽप्यसौ मण्डलगुल्मनामा प्रभातचारी नगरार्जितानि ।
समुद्यतः पूगफलानि दातुं कुरङ्गिकायै निजमुष्टिपूरैः ॥ १८ ॥
कक्षालनाम्ना निशि गायनेन वारावहारान्निशमनभाण्डा ।
गृह्णाति का नो चरणस्पृशोऽस्य वरांशुकं कुण्डघटादिमूल्यात् ॥ १९ ॥
६ समयः] समयमातृका। प्राप्तस्य शंभोर्वणिजस्तु वारे सुप्तस्य शून्ये शयने निशायाम् । नन्दा समेत्यापरकामिगेहात्सविप्रलम्भं शपथं करोति ॥ २० ॥ पितुर्ग्रहाद्भूरिविभूषणानि प्राप्तं गृहीत्वा मदनं मृणाली । निगूह्य संदर्शयति खगेहं शून्यं तमन्विष्टुमुपागतानाम् ॥ २१ ॥ भोज्यं विना पाटलिका प्रविष्टं मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् । शुष्कान्नदाता पितृकार्यमेतत्किं किं करोषीत्यसकृद्रवीति ॥ २२ ॥ मार्जारजिहा जननी हरिण्याः पद्मस्य भोज्यं निशि लुण्ठितं यत् । तस्मिन्गते तद्विजने विशङ्का पश्य प्रभाते कवलीकरोति ॥ २३ ॥ ईर्ष्याविशेषात्कृतकोपवादसंमूर्छितायां मलयं रमण्याम् । विभूषणं तोषणमाशु किंचिदस्यै प्रयच्छेति वदन्ति सख्यः ॥ २४ ।। रागेण कृष्णीकृतकेश एष वलीविशेषस्फुटवृद्धभावः । । योगागृहं शम्बरसारनामा यागाय युग्येन गुरुः प्रयाति ॥ २५ ॥ अयं जनस्थानविनाशहेतुः केतुः खरक्रूरतया प्रसिद्धः । आस्थानभट्टश्चिटिवत्सनामा प्रयाति युग्येन विशीर्णवस्त्रः ॥ २६ ॥ उच्चैश्चिरात्सौघनिषक्तदृष्टिरश्वाधिरूढः कमलोऽधिकारी । कलावति त्वामयमीक्षमाणः शूलार्पिताकारतुलां बिभर्ति ॥ २७ ॥ श्रीखण्डोजवलमल्लिकातिलकवानक्षामहेमाङ्गद- श्छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः । एष त्वामवलोक्य मालवपतेर्दूतः प्रपञ्चाभिधः पश्योद्वेष्टविवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥ २८ ॥ एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्भः श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः । दृष्ट्वा दूरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः पश्याक्ष्णा दत्तसंज्ञः मितचलचिबुकः स्तोतुमेतां प्रवृत्तः ।। २९ ॥ पातालोचालतालुप्रविततवदनस्पष्टदृष्टोग्रदंष्ट्रा विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोद्भान्तजिह्वा ।
४२ काव्यमाला। मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥ एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः शङ्खाख्यस्य महाघहट्टवणिजः पङ्काभिधानः सुतः । आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः सुश्रु त्वां तुषराशिलोलचटकाकारः समुद्रीक्षते ॥ ३१ ।। एष निधिर्विधिना तव नूनं मेषमतिविधितः प्रहितो वा । स्थूलमुखः पृथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः॥ ३२ ॥ इत्यादि कङ्केन वितर्यमाणं वणिक्सुतं दृक्पतितं विचार्य । मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच ॥ ३३ ॥ निर्यताम्बूललालालवशबलवलदीववावलोकी रकोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः । एवंरूपोऽतिमुग्धः शिशुरखिलधनावाप्तये बन्धकीना- मक्लेशाराधनाहः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥ कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः । निवेदितोऽये तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः ॥ ३५ ॥ पार्थे त्वमेषां ब्रज कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते। तयेति दत्तोचितशासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ।। इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्टः समयः । सप्तमः समयः। अथाययौ शनैः श्रीमान्नवोद्भुतमनोभवः । लतालिङ्गनकृडालः कालः कुसुमलाञ्छनः ।। १ ।। संभोगसुखसंपत्तिः पराधीनेव कामिनाम् । आललम्बे धनेशाशामितीवाकलयरविः ।। २ ॥ १. 'चर्ममुण्ड' इति पाठः. २. "निर्गुट' इति पाठः,
७ समयः]
समयमातृका।
४३
दक्षिणानिलसोच्छ्रासा लसत्कुसुमपाण्डुराः।
जातजृम्भा ययुस्तन्व्यो लताः सोत्कण्ठतामिव ॥ ३ ॥
दग्धेऽन्धकद्विषा रोषात्पुराणे पञ्चसायके ।
नवं विनिर्ममे काममृतुराजः प्रजापतिः ॥ ४॥
प्रस्खलत्कोकिलालापा गायत्यो भृङ्गशिञ्जितैः ।
वेश्या इव मधुक्षीबा विरेजुर्वनराजयः ॥ ५ ॥
नवकिसलयलेखापङ्किसङ्गे लतानां
नखमुखलिपिलीलालोभिनीमाकलय्य ।
मधुमदपरिरम्भे भेजिरे लोहितत्वं
स्थलकमलवनानामीर्ण्ययेवाननानि ॥ ६ ॥
क्षैण्यक्षामं शिशिरसमयं वृद्धमुत्सृज्य दूरे
त्यक्त्वा शीतं तरुणमसकृद्धाढरागानुबन्धम् ।
उद्यानश्रीर्मधुमभिमतं बालमेवालिलिङ्ग
प्रायः स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥ ७ ॥
अथ नापितदूतेन कृतद्वित्रगतागता ।
मिथ्या कृतनिषेधापि ग्रहणाग्रहणे शिशोः ॥ ८॥
कथंचिदभ्यर्थनया गृहीतार्था कलावती ।
संध्यायां मण्डनासक्ता ययौ वासकसज्जताम् ॥ ९॥(युगलकम् )
कपोले कस्तूरीस्फुटकुटिलपत्राङ्कुरलिपि-
ललाटे कापूरं तिलकमलकालीपरिसरे ।
तनौ लीना हेमद्युतिपरिचिता कुङ्कुमरुचिः
स तस्याः कोऽप्यासील्ललितमधुरो मण्डनविधिः ॥ १० ॥
प्रौढकामुकसंभोगसाक्षिणी बालसंगमे ।
नोचितास्मीति तामूचे लज्जया नतमेखला ॥११॥
हारिणी सा तनुलता हारिणी च कुचस्थली ।
दृष्टिश्च हारिणी तस्या बभौ स्मरविहारिणी ॥ १२ ॥
काव्यमाला।
अत्रान्तरे वणिक्सूनुर्विवेश गणिकागृहम् ।
आसन्नलाभाभिमुखैरावृतं क्षेत्रवासिभिः ॥ १३ ॥
कर्णसंसक्तमुक्ताङ्ककनकस्थूलवालकः ।
बहुहेमभराक्रान्तिसव्यथश्रवणद्वयः ॥ १४ ॥
कण्ठाभरणमध्यस्थहैमरक्षाचतुष्टयः ।
जननीहस्तविन्यस्तसर्षपाङ्कितचूलिकः ॥ १५ ॥
राजावर्तमणिस्थूलगुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटकद्वयम् ॥ १६ ॥
मुहुर्दीर्घाञ्चलदशां स्रस्तां संकलयन्पटीम् ।
बहुचूर्णकताम्बूलदग्धास्यकृतसीत्कृतः ॥ १७ ॥
स प्रविश्य प्रकाशाशां ददर्शादर्शमादरात् ।
कलावती कलाकान्तललितामिव शर्वरीम् ॥ १८ ॥
कथं लालनयोग्योऽयं बालः संभोगभाग्भवेत् ।
इतीव तारहारेण सस्मितस्तनमण्डलात् ॥ १९ ॥
द्रविणक्षयदीक्षायां वैचक्षण्यकृतक्षणाः ।
ऋत्विजः सप्त विविशुः पुरस्तस्य महाविटाः ॥ २० ॥
निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः।
रेचको भरताचार्यः क्षुण्णपाणिस्तुलाधरः ॥ २१ ॥
गणकः सिंहगुप्तश्च तिक्तनामा भिषक्सुतः ।
कटिः कुटिलकश्चेति भोगाम्भोरुहषट्पदाः ॥ २२ ॥
वेश्यासमागमे शैली शिक्षितः स विटैबहिः ।
प्रविश्य कामिनीपार्श्वे प्रौढवत्समुपाविशत् ॥ २३ ॥
वाससाच्छाद्य नासार्धमप्रस्तावकटूत्कटाम् ।
नर्मगोष्ठी स विदधे शिक्षितां शुकपाठवत् ॥ २४ ॥
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।
रञ्जनाय पुरश्चक्रे विटानां कपटस्तुतिम् ॥ २५ ॥
४५ ७ समयः] समयमातृका। धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य संगतिः। युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते ॥ २६ ॥ शिशुरप्ययमस्माकं कामुकोऽभिमतः परम् । बाल एव सहस्रांशुः कमलिन्या विकासकृत् ॥ २७ ।। इत्यादिभिः स्तुतिपदैः कुट्टन्या विटमण्डले । स्वीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला ॥ २८ ॥ ततः काली कलावत्या धात्री वेतालिकाभिधा । ताम्बूलदानावसरप्रहर्षाकुलितावदत् ॥ २९॥ अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः । नास्माकमन्यवेश्यानामिवासंख्यः परिग्रहः ।। ३० ।। कङ्कः प्रथमपूज्योऽयं देवाकृतिरुदारधीः । यस्यानुरोधात्सुलभा दुर्लभापि कलावती ॥ ३१ ॥ जामाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः । शाजिकः कमलो नाम संमानं पूर्वमर्हति ॥ ३२ ॥ अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही। ह्यः पर्वदिवसावाप्त......"शक्तिर्महाव्रती ॥ ३३ ॥ अयं स्थलपतेः सूनुः कपिलः कलशाभिधः । गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः ॥ ३४ ॥ मृदङ्गोदरनामायं कलावत्याः खसुः पतिः । मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥ ३५ ॥ इयं दत्तकपुत्रस्य कलावत्याः कलायुषः । घात्री कलावती नाम रुग्णचन्द्रश्च तत्पतिः ॥ ३६ ।। अयं भरतभाषाज्ञः काम्बो भागवतात्मजः । गायनः खरदासोऽयं महामात्यस्य वल्लभः ।। ३७ ।। निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः । बकश्छत्रधरश्वायं खञ्जनो युग्यवाहनः ।। ३८ ॥ . ५सम० काव्यमाला। रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् । आरामिकः करालोऽयं कीलवर्तश्च नाविकः ॥ ३९ ।। उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः । चर्मकृद्धर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४० ॥ बहिरास्ते च चाण्डाली क्रोशन्ती घर्घराभिधा । डोम्बश्चण्डरवाख्यश्च कोष्ठागारप्रहारिकः ॥ ४१ ॥ ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु । सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥ उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता वैतालिका विविधवेशवनीप्रविष्टाः । चक्रुः प्रभूतमधुपानविघूर्णमाना- स्ताम्बूलदानबहुमानगतागतानि ॥ ४३ ॥ ततः क्षीरसंभाव्यं कत्थमानैर्विटैः परम् । उद्वेजितेव रजनी धूपव्याजेन निर्ययौ ॥ ४४ ॥ नृपस्य बाहुर्युघि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम् । मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं मे ॥ ४५ ॥ त्रैलोक्यवृत्तं गणितेन वेद्मि मयैव भोजस्य कृता चिकित्सा । भुक्ता मया भूपतयः स्वसूक्तैरित्यूचिरे मद्यमदोद्धतास्ते ॥ ४६॥ विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया । निर्ययुः कलयन्तोऽन्तर्भाविनी भोज्यसंपदम् ॥ ४७ ।। अथ विततवितानं हंसशुभ्रोपधानं शयनममलचीनप्रच्छदाच्छादिताग्रम् । अभजत हरिणाक्षी क्षीबमादाय बालं निजपरिजननर्मस्मेरवनाम्बुजश्रीः ॥ ४८ ॥ १. 'गेहशान्तिकृत्' इति पाठः
८ समयः]
समयमातृका।
शिशुतररमणेऽस्याः कौसुमामोदलुभ्य-
अमरभरनिपातैपूर्णमानाः प्रकामम् ।
प्रसरदगुरुधूमश्यामलाग्रा बभूवु-
वलितविरतवत्रा लज्जयेव प्रदीपाः ॥ ४९ ॥
इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समयः
अष्टमः समयः।
अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी ।
प्राभातिकसलिललवखेदवती क्षामतां प्रययौ ॥ १ ॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी ।
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २ ॥
शृणु मातः शिशुवयसस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् ॥ ३ ॥
आरोपितः स चेट्या खटामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुहूर्त धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४ ॥
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया ।
तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥ ५ ॥
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलाम् ।
दत्त्वा वक्षसि हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ॥ ६ ॥
लब्धावादः स ततश्चटकरतिर्मा प्रजागरो मूर्तः ।
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥ ८ ॥
रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम् ।
तेन ममाधरबिम्ब पश्य शुकेनेव खण्डितं बहुशः ॥ ९ ॥
मुहुरारोहणहेलापरिरम्भैमिनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचयुगलम् ॥ १० ॥
काव्यमाला।
अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्धजनसंगमेऽनानाम् ॥ ११ ॥
उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विग्ना ।
क्षोणी निरीक्षमाणा वैलक्ष्येण क्षणं तस्थौ ॥ १२ ॥
तामवदत्कङ्काली सस्मितवदना विटकदंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥ १३ ॥
एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् ।
प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् ॥ १४ ॥
पितृभवनहृतं नियतं हस्तगतं विद्यते धनं तस्य ।
भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य ॥ १५ ॥
बिलनिहितद्रविणकणश्वपलगतिर्मूषकोऽप्यलं प्लवते ।
दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते ॥ १६ ॥
विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमं सहसा ।
गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् ॥ १७ ॥
अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् ।
दासीसुताः किमेते खादन्ति विटाः प्रसङ्गेन ॥ १८ ॥
इत्युक्त्वा तूर्णतरं शय्याभवनस्थितं समभ्येत्य ।
शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण ॥ १९ ॥
अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता ।
बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् ॥ २० ॥
ध्यानं वलनं जृम्भणमुच्छ्सनं वेपनं परिस्खलनम् ।
त्वत्संगमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥ २१ ॥
लचिततरुणसमुद्रा कलावती यत्पटाञ्चले लग्ना ।
यामर्थयते दूतैर्दक्षिणदिग्वल्लभो भोजः ॥ २२ ॥
जन्मान्तरेऽनुबद्धा यदि नेयं संगतिः कृता विधिना ।
तत्कि त्वयि मम जाता परलोके पुत्रकार्याशा ॥ २३ ॥
८ समयः ] समयमातृका । ४९ विघ्नस्तु संगमेऽस्मिन्नेकः परिचिन्तितोऽस्ति मे भयदः यदयं विटसंघातः कण्टकजालायते परितः॥ २४ ॥ भुक्त्वा पीत्वा भवतः परधनवर्णाः स्ववित्तपरिहीणाः । धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति ॥ २५ ॥ तस्माद्यदि दिनमेकं तिष्ठसि सुतरामदृश्यरूपस्त्वम् । तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः ॥ २६ ॥ इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सूनुः । तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् ॥ २७ ॥ अस्ति ग्रन्थिनिबद्धं मम किंचिजनकमाण्डशालात्तम् । तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् ।। २८ ।। इत्युक्त्वा सारतरं दत्त्वा तस्यै शिशुर्गुरुद्रविणम् । तत्संदर्शितमविशच्छन्नपथं पृथुलहर्म्यतलकोष्ठम् ॥ २९ ।। तं प्रच्छाद्य सहर्षा कृत्वा मिथ्या मुखं नवविषादम् । अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे ॥ ३०॥ आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् । उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः ॥ ३१ ।। दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्सुतव्याजात् । रत्नाभरणाकीणे प्रवेशितोऽस्मद्गृहं रात्रौ ॥ ३२ ॥ अन्यगणिकाप्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् । तत्किं स्त्रीवधसदृशं क्रियते पृथुसाहसं पापम् ॥ ३३ ॥ स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् । आदाय हारसहितं केयूरयुगं गतः कामी ॥ ३४ ॥ श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः । निजदेवताप्रसादात्कलावती किं तु मुक्ताय ।। ३५ ।। तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति । प्रतिभूर्भवद्विधानां व गृहीतः पण्यललनाभिः ॥ ३६ ।। १. 'पुरतः' इति पाठः.
काव्यमाला ।
पश्यत पश्यत लोकाः कलिकालः कीदृशः प्रवृत्तोऽयम् ।
स्निग्धाः सुहृदः सधनाः स्त्रीवधपापं भजन्ते यत् ॥ ३७॥
को वेत्ति गुणविभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुज्ञेयं कुटिलानां चेष्टितमन्यद्वचश्चान्यत् ॥ ३८ ॥
इत्युक्त्वा गृहपरिजनकलकलहोदनदुःसहविकारा ।
कङ्काली राजपथे चुक्रोश गतागतैस्तारम् ॥ ३९ ॥
तद्भीत्यैव विटास्ते सपदि विवर्णा निरुत्तरप्रतिभाः ।
निर्गत्योत्पथविवरैर्दूरतरे संगमं चक्रुः ॥ ४० ॥
अथ ते विचार्य सुचिरं भोगभ्रष्टाः समापतितकष्टाः ।
मिथ्यापवादनष्टा विफलक्लिष्टा मिथो जग्मुः ॥ ४१॥
जाताक्षपटलदोषैरिव नास्माभिर्तीजन्वणिग्दृष्टः ।
कङ्काल्यैव हृतोऽसावित्यवदन्निर्गुटस्तत्र ॥ ४२ ॥
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम् ।
कुट्टन्यैव कृतोऽयं परिशोचन्नब्रवीदिविरः ॥ ४३ ।।
विहिताङ्गहारयुक्तिः कुट्टन्या पूर्वरङ्गयोग्योऽयम् ।
अस्मन्नृत्तं वृत्तं किमन्यदिति नाट्यविप्राह ॥ ४४ ॥
कपटतुलां कङ्कालीमङ्कशताङ्कामहं वेनि ।
विहितस्तया भ्रमोऽसावित्याह तुलाधरः कोपात् ॥ ४५ ॥
आकृष्य मेषभोगाइरतरं मित्रमण्डलं वणिजः ।
कालकलयेव नीतं कङ्काल्या गणक इत्यूचे ॥ ४६ ।।
पेया मद्यसमृद्धिस्तयैव सा कृतचिकित्सायाम् ।
लङ्घनमिदमुपदिष्टं तापादित्यब्रवीद्वैद्यः ॥ ४७ ॥
नवसुखचरितं नष्टं कष्टं विभ्रष्टनियमवृत्तानाम् ।
अस्माकमेतदनुपममित्याह कविः श्वसन्विरसः ॥ ४८ ॥
इति दुःखकोपविस्मयलज्जाकुलिताः कथां मिथः कृत्वा ।
कुसुमारामभ्रष्टा इव मधुपास्ते विटाः प्रययुः ॥ १९ ॥
८ समयः ] समयमातृका। अथ कङ्काली गूढं निःशल्यां कामभोगसामग्रीम् । आखाद्य निशामनयन्निःशब्दमहोत्सवोत्साहा ॥ ५० ॥ प्रातर्विचिन्त्य युक्तिं सा गत्वा हट्टभाण्डशालाग्रम् । कामिजनकस्य वणिजः स्फीतार्थसमृद्धिमद्राक्षीत् ॥ ५१ ॥ सोऽपि महाधनसंचयलाभविशेषेऽपि सदाहः । पुत्रहृतहेमचिन्तासंतापात्कातरतरोऽभूत् ॥ ५२ ।। उन्नतबृसीनिविष्टः कोटित्रयलेख्यसंपुटीहस्तः । अर्थिजनवदनदर्शनमीलितनयनप्रसक्तसततान्ध्यः ॥ ५३ ॥ बन्धादिमोक्षणागतलाभपरित्यागयाचने बधिरः । अत्यल्पपण्यदानप्रश्नप्रतिवचनजल्पने मूकः ॥ ५४ ।। तैलमलकलललाञ्छितमूषकजग्धार्घटुप्पिकाविकटः । शीर्णोर्णाप्रावरणप्रलम्बधनकञ्चकाञ्चलालोलः ॥ ५५ ॥ नमोरुजानुजर्जरघूमारुणपृथुलशिथिलमोचोटः । रूक्षश्मश्रुकलापस्थूलप्रचलल्लटुम्पकप्रन्थिः ॥ ५६ ॥ निजगृहदिवसपरिव्यययाच्जागतकन्यकाप्रहारोग्रः । रज्जुग्रथितबुभुक्षितमार्जारीरावनिर्दयप्रकृतिः ॥ ५७ ॥ दूराद्वितर्यमाणः स तया नासार्पिताङ्गुलीलतया । ख्यातः स एव वणिगयमिति विदधे स निश्चितं तस्य ।। ५८॥ साथ शनैरुपसृत्य प्रविरलजननिर्मलावसरे । तमभाषत भाण्डपते वक्तव्यं किंचिदस्ति मम विजने ॥ ५९ ॥ पुत्रस्ते मुग्धमतिमंगशिशुरिव लुब्धकैविटैः कृष्टः । S... College हारितभूषणवसनः संध्यायां ह्यो मया दृष्टः ॥ ६० ॥ दयया प्रवेशितोऽसौ मया खगेहं मनोहराकारः। अविशत्क्षणं न जाने केन पथा मत्सुताहृदयम् ॥ ६९॥13011 स तया स्नानानन्तररुचिराम्बरभूषणार्पणप्रणयैः । राजाह विविधभोगैः काम इवाभ्यर्चितो भक्त्या ॥ ६॥ %D Imandarrape
५२
काव्यमाला।
वंशजगौरवयोगात्सुवृत्तताश्लाघ्यरूपसंभारः ।
कण्ठे हार इवासौ कृतस्तया गुणगणोदारः ॥ ६३ ॥
कायपणार्जितबहुविधराजसुतामात्यबहुधनेन सह ।
अधुना त्वत्तनयोऽस्याः खामी प्राग्जन्मसंबन्धात् ॥ ६४ ॥
उचिततरसङ्गसुभगां [दृष्ट्वैव] कलावती रागयौवनोन्मत्ताम् ।
तव हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् ॥ ६५॥
यातायां मयि तीर्थ कंचित्कालं त्वया कलावत्याः ।
मुद्रामुद्रितमखिलं सर्वखं पालनीयं तत् ॥ ६६ ॥
अद्य तु भवता कार्यः पुत्रस्नेहास्नुषानुरोधाच्च ।
अस्मद्देहे स्वल्पो भोज्योत्सवमङ्गलाचारः ॥ ६७ ।।
उक्त्वेति साश्रुनयना कङ्काली तस्य वजहृदयस्य ।
निपपात चरणयुगले सुतलाभविशेषतुष्टस्य ।। ६८ ॥
स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् ।
किं तु त्वद्गमनं मे नाभिमतं सह गमिष्यावः ॥ ६९ ।।
परभोजननियमवता भोक्तव्यं त्वद्गृहे कथं नु मया ।
संभोजनमूल्यं मे गृह्णासि तदा गमिष्यामि ॥ ७० ॥
इत्युक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् ।
तामन्तः मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् ।। ७१ ।।
तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसंभोगम् ।
निर्व्ययभोज्यसमृद्धया निश्चिन्तः प्रीतिमानभवत् ॥ ७२ ।।
कपूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा ।
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥ ७३ ॥
सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि ।
एवंविधस्तु न पुनः कार्यः स्थूलव्ययारम्भः ॥ ७४ ।।
इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिकृताशः।
लाभप्रदर्शन किल लुब्धधियां वञ्चनोपायः ॥ ७५ ॥
८ समयः] समयमातृका। ५३. अन्येधुर्दिवसव्ययमानेतुं कुटिलचेतसस्तस्मात् । चित्तग्रहणाय निजां विससर्ज कलावती दासीम् ॥ ७६ ॥ सुचिरात्समेत्य दासी शरावचञ्चत्सहिङ्गुकणभूर्जा । हस्तेन विस्फुटन्ती कलावती सस्मितामवदत् ॥ ७७ ॥ श्वशुरेण ते महाघः प्रहितोऽयं भूरिभोज्यसंभारः । उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धुवर्गश्च ।। ७८ ।। तैलस्य तोलकमिदं तोलकयुगलं च चूर्णलवणस्य । दत्त्वा मामिदमूचे भृकुटीकुटिलाननः स परम् ॥ ७९ ।। तैलमिदं लवणमिदं शाकाय श्वेतिकाद्वयं दत्तम् । वेश्यायाः किं कामी ददाति दिवसव्यये लक्षम् ।। ८० ॥ इत्युक्त्वा तत्प्रहितं दासी संदर्य थूत्कृतं बहुशः । क्षिप्त्वा दूरे तन्मुखदर्शनमलिनां निनिन्द दृशम् ॥ ८१ ।। अन्येधुः कङ्काली विचिन्त्य तद्वञ्चने सुखोपायम् । प्रययौ कृत्वा विजने कलावतीं विदितवृत्तान्ताम् ॥ ८२।। सा वर्णमानमुद्रासदृशसमुद्गद्वयं विधाय नवम् । एकस्मिन्नाभरणान्यन्यस्मिन्नुपलखण्डिकां विदधे ।। ८३ ।। स्थूलतरतूलपटिकामावरणं प्राप्य भाण्डशालाग्रम् । सा कक्षाञ्चलसंवृतसमुद्गयुगलावदद्वणिजम् ॥ ८४ ॥ वाराणसीप्रयाणे नक्षत्रं क्षिप्रकृन्ममोपनतम् । नास्ति पुनर्वसुनांतरदर्शनमात्रं त्वयि गतायाम् ॥ ८५ ॥ इदमाभरणं सर्व समुद्गकन्यस्तमस्ति रत्नाङ्कम् । स्त्रीबालधनं भवता प्राणसमं सर्वथा रक्ष्यम् ॥ ८६ ॥ इत्युक्त्वा तत्सर्वं संदर्य पुनः सुमुद्रितं कृत्वा । निक्षिप्य पुरः प्रचुरं सा तमवादीत्सहेलैव ॥ ८७ ।। पाथेयमतः पृष्ठाल्लाभे न ममोपयुज्यते लक्षम् । त्वं दातुमर्हसि सखे देवालयधान्यभुक्तिसंशोध्यम् ॥ ८८ ।। १. वराटकद्वयमित्यर्थः.
काव्यमाला।
इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा ।
लक्षं क्षणाहीत्वा जगाम निजवेश्म कङ्काली ॥ ८९ ।।
अथ निर्वर्तितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात् ।
शङ्खसुतं हर्म्यगता प्रोवाच कलावती विजने ॥ ९० ॥
त्वयि मे हृदयकममादन्तः सक्तं बलान्न निर्याति ।
त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का ॥ ९१ ।।
दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः ।
तदपि विवाहे मोहादविचारतरादराः पशवः ॥ ९२ ॥
नित्यप्रसूतिहतसुस्थिरयौवनेषु
वेशोपचाररहितेषु मदोज्झितेषु ।
गोष्ठीविलासरसकेलिनिरादरेषु
दारेषु का स्मररुचिः कलहाङ्कुरेषु ।। ९३ ॥
जात्यैव कामिजनरञ्जनजीवितासु
वेशोपचारनिरतासु ससौरभासु ।
कामप्रमोदममकासु सविभ्रमासु
वेश्यासु कस्य न रतिः सततस्मितासु ॥ ९४ ।।
कुरु मे प्रत्ययहेतोधनधारणपत्रिकां विवहे [त्वम् ] ।
विहिता सैव तवास्ते मत्तगजस्याङ्कुशशिखेव ।। ९५ ।।
इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत् ।
नाम्ना विक्रमशक्तेर्नुपमहिषीभ्रातृपुत्रस्य ॥ ९६ ॥
अथ शय्याभवनगतं प्रातः स्वयमेत्य कङ्काली ।
जामातरमिदमवदन्मिथ्यैव सखेदवदनेव ॥ ९७ ॥
आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः ।
क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ ९८ ॥
स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसंकाशाः ।
ह्यः कन्यकाद्य तरुणी प्रातर्वृद्धा भवत्येव ॥ ९९ ॥
समयः ] समयमातृका। मासादधिकायातं दिनद्वयं पुष्पदर्शनखाने । अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥ १०० ।। यौवनविभ्रमशापस्तनुनलिनीतुहिननिकरघनपातः । प्रसवदिनं नारीणां पातकमुग्रं स्तनयुगस्य ॥ १०१॥ प्रसवहृतयौवनानामधोमुखे लज्जयेव कुचयुगले । भवति न पण्यवधूनां विक्रयचर्चा तृणेनापि ॥ १०२ ॥ स्थविरत्वे पुरुषाणां भवन्ति सुखजीविकाः परिज्ञानैः । यौवननाशे वेश्या यदि परमटति स्फुटं भिक्षाम् ॥ १०३ ।। तस्माजनकाभावादविकलमापत्स्यमाननिजविभवम् । अधिकरणपत्रलिखितं प्रयच्छ सुमते कलावत्यै ॥ १०४ ।। इत्युक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्तनयः । आपत्स्यमानमखिलं प्रददौ हृष्टः कलावत्यै ॥ १०५ ॥ अथ शिथिलादरया[स]द्विवैर्दिवसैः समेत्य कङ्काल्या । कृतसंकेतः कङ्कः......."श्रुत्यै कलावतीमूचे ॥ १०६ ॥ अयि रागदग्धहृदये कलावति व्रतवतीव कस्य त्वम् । एष त्वामर्थयते ठक्कुरपुत्रो रणविलासः ॥ १०७ ॥ देवगृहगञ्जदिविरस्तव सततप्रार्थनानुबन्धेन । पदमुक्तिधन्यकाले गणयति चण्डं मकरगुप्तः ॥१०८ ॥ अद्यापि महामात्यः सत्यरथस्त्वत्कृते समर्षदिने । प्रहिणोति वस्त्रयुगलं न च प्रसादस्त्वयास्य कृतः ॥ १०९ ।। प्रेक्षणके त्वां दृष्ट्वा साहसराजेन राजपुत्रेण । त्वद्गत[स]रभसमनसा वासवसेनावरुद्धिका त्यक्ता ॥ ११० ॥ विरजसि वयसि नवेऽस्मिन्नेकश्चेदीप्सितस्तव स्वामी । तत्किं यौवनभने ददाति कश्चिद्धनं मुग्धे ॥ १११ ।। याभियौवनसमये रागेण धनार्जनं परित्यक्तम् । ता एताः पर्यन्ते भस्माझ्यश्चीवरिण्यश्च ॥ ११२ ॥ 'ममार्घ दिने' इति पाठ- ५६ काव्यमाला। कुचकाञ्चनकलशवती नितम्बसिंहासना स्मितच्छत्रा । एकपुरुषोपसेव्या नूनं त्वं रतिरमणराज्यश्रीः॥ ११३ ॥ भुक्तं मयास्य वित्तं दाक्षिण्यमिति प्रनष्टविभवेऽपि । मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्तिकरम् ॥ ११४ ।। दासी दासी तावद्यावत्पुरुषस्य किंचिदस्ति करे। क्षीणधनपुण्यराशेर्दुष्प्रापा खर्गनगरीव ॥ ११५ ॥ ह्यो दत्त्वार्थ कथमिव गच्छाम्यद्येति निवसते प्रायम् । कः कुरुते वेश्यानां तत्क्षणधनदानभोग्यानाम् ॥ ११६ ॥ इति कङ्कवदननिर्गतवचनशरैर्दारितो वणिक्तनयः । निश्चेष्टः क्षणमभवद्वैलक्ष्याद्वीक्ष्यमाणः माम् ॥ ११७ ।। अथ शूलबन्धुनिधनव्यसनाद्यङ्गप्रसङ्गकथनाद्यैः । शय्यावहारमकरोत्कलावती शङ्खतनयस्य ।। ११८ ॥ अद्य व्रतनियमो मे दुःखप्ननिरीक्षणात्परं मातुः । षष्ठीप्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥ ११९ ।। अद्य वयस्यासूनोश्चूडाकरणं मृगाङ्कदत्तस्य । इत्यादिभिरपदेशैः सा प्रययौ कामिनां भवनम् ॥ १२० ॥ त्वरिता ततः प्रभाते कदाचिदभ्येत्य कम्पविकलाङ्गी । कङ्काली शङ्खसुतं जगाद भयसंभ्रमातेव ॥ १२१ ।। उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किंचिदविभाव्यम् । अस्मत्कृतेऽद्य यूनोः सपत्नकलहे वधो वृत्तः ॥ १२२ ॥ नगरपतिर्विषमतरः कलावती मित्रमन्दिरं याता । त्वं तु वणिक्सुत साधुर्धनगन्धे धावति क्षमापः ॥ १२३ ॥ तूलपटीं त्यज पृष्ठागृहाण तूस्ती (1) घरट्टमालातः । को जानीतें वर्त्मनि किं कुरुते कः परिज्ञाय ॥ १२४ ॥ इत्युक्ते कवाल्या मिथ्यैव विशल्यवेश्मकरणाय । कृत्वा तदुक्तमखिलं पङ्कः प्रययौ कुमार्गेण ॥ १२५ ।।
८ समयः ] समयमातृका। ५७ वेश्यालताः सरागं पूर्व तदनु प्रलीनतनुरागम् । पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥ १२६ ॥ इति समयमातृकायाः कङ्काल्या बुद्धिसंविभागेन । भुक्त्वा वणिजः सकलं कलावती पूर्णविभवाभूत् ।। १२७ ।। इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (१) । वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति ॥ १२८ ।। समयेन मातृका सा कृत्रिमरूपा कृता कलावत्या । तन्नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥ १२९ ॥ इति श्रीक्षेमेन्द्रकृतायां समयमातृकायां कामुकप्राप्ति माष्टमः समयः । सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया वक्रा सादरचर्वणा रसवती मुग्धार्थलब्धा परम् । आश्चर्योचितवर्णनानवनवास्वादप्रमोदार्चिता वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ॥ १ ॥ संवत्सरे पञ्चविंशे पौषशुक्लादिवासरे । श्रीमतां भूतिरक्षायै रचितोऽयं स्मितोत्सवः ॥२॥ अद्रिच्छिद्रविनिद्ररौद्रफणिनामत्रास्ति कालं कुलं मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा । .. १. तद्देशप्रसिद्ध लौकिकाब्दे. अर्थात् १०५० मिते ख्रिस्ताब्दे क्षेमेन्द्रेण समयमा- का प्रणीता. गतकलिवर्षेषु पञ्चविंशतिरहितेषु शतभक्तेषु यदवशिष्यते, स एव लौकि- ब्दः. तस्यैव सप्तर्षिसंवत्सरशस्त्रसंवत्सरादिनाना काश्मीरादिषु पर्वतदेशेषु व्यवहारः. जतरङ्गिणीकर्तापि प्रायो लौकिकाब्देन व्यवहरति. 'कलेगतैः सायकनेत्रवधैः सप्तर्षि. स्त्रिदिवं प्रयाताः । लोके हि संवत्सरपत्रिकायां सप्तर्षिमान प्रवदन्ति सन्तः ॥' इति स्यचित्पद्यम् . पञ्चविंशतिरहितः कलिगताब्दगणः सप्तर्षिसंवत्सरो भवति, तत्र शतस- यया भजनं तु केवलमसंकोचार्थमिति ज्ञेयम् . ६ सम. ..
५८ काव्यमाला। इत्यातिप्रतिबद्धवृद्धशबरी वर्गेण मार्गाग्रगा यद्वैरिप्रमदाः सदा वनमहीगाढग्रहे वारिताः ॥ ३ ॥ वीरस्यार्तदयाविधेयमनसः शीलवतालंकृते- निस्त्रिंशः परदारकृजयविधौ यस्यैककार्यः सुहृत् । तस्यानन्तमहीपतेविरजसः प्राज्याधिराज्योदये क्षेमेन्द्रेण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् ॥ ४ ॥ इति श्रीक्षेमेन्द्रकृता समयमातृका समाप्ता ।
निर्णयसागरेऽङ्कितानि क्रियपुस्तकानि । रामार्चनचन्द्रिका. परमहंसमुकुन्दवः शिष्यानन्दवनप्रणीता. हा ग्रंथ नितांक कोही विधीनी मिश्र असा सर्वमान्य प्रमाण निबंध असून याच्या पांचही पटलांमध्ये श्रीरामजान्या अंगोपांगांचे सत्रा विवेचन उत्कृष्ट रीतीने केले आहे. ज्या दिर.ने पाहिजे असेल त्या इष्टदेवतेचा पूजासमारंभ करता येणार. अमोटवार जयसिंधु, धर्मसिंधु वगैरे ग्रंथांतून ठिकठिकाणी प्रमाणाकरितां या नांवमात्र सर्वश्रुत होते पण ग्रंथ उपलब्ध नव्हता, तो सर्वाला मुलभ व्हावा म्हणून आह्मीं मोठ्या प्रयत्नाने संपादून छापून प्रसिद्ध केला आहे. किं. १रु., ट. ख. ४ आणे. - जैमिनिपद्यामृत. सुलकन्दलीवृत्तिसहित. हा ज्योतिषाचा अपूर्वग्रंथ विद्वत्संग्रहहे. याची प्रवाह नांवाची आ" प्रकरणे आहेत. जसीं पूर्वमीमांसाप्रतिपादक सूत्रे आहेत, तीच यांत सुद्धा मूळ जैमिनिसूत्रे अनून सूत्रांतून संक्षेपानें वर्णिलेले ज्योतिर्विषय मूलकंदली, उदाहरणें, व वृद्धकारिका इलादिकांचा जोड देऊन सर्व विषय आदर्शाप्रमाणे सर्वांला स्पष्ट कळावे म्हणून शक्य तक प्रयत्न केला आहे. यांत फार प्राचीन. कालीन जातकासंबंधी बराच विचार असल्याने याचा मोटा उपयोग होईल अशी उमेद आहे. किं.१०.द.ख.४ आणे. आर्यासप्ततिः. (ज्योतिषग्रंथ.) भट्टोत्पलाचार्यकृता मुकुन्दरामकृत-आशुबोधिनीटीकासहिता. या ग्रंथाच्या फक्त १० बाय अल त्यांमध्ये त्रिस्कंधात्मक ज्योतिषापैकी प्रश्नविषयाचे विवेचन उत्कृष्ट रीतीने केलेले आहे. व मध्येमध्ये इतर ग्रंथांची भरपूर प्रमाणे दिली आहेत सामुळे ज्योतिषी विद्वानाला प्रश्नांचे कामी याचा विशेष उपयोग होईल. किं.४ आ.स.१ आणा. पाण्डुरंग जावजी, निर्णयसागर प्रेसचे मालक.