University Library,gurukul Kangri Vishwavidyalaya
सिवारप्रतापम
Front matter
मिवार प्रतापम्। (नाटकम्) ७--- महामहोपाध्याय-महाकवि-भारताचार्य- श्रौयुक्तहरिदाससिद्धान्तलागीमभट्टाचार्य- प्रणीतम् Ining कलिकाता ४१ संख्यक-देवलेन-नामक- जन्मस्थ-सिद्धान्तविद्यालयात थोहिमचन्द्रतर्कवागीश-भट्टाचार्य गा प्रकाशितम्। स्टाक प्रमाणीकरण १९८४-१९८५ १३५४ वङ्गाब्द सौराग्रहायगामामे।
कलिकाता ४१ संख्यक देवलेन स्थित-सिद्धान्तयन्त्र श्रोहमचन्द्रभट्टाचार्येण मुद्रितम्
CONTH
.KAM
महामहोपाध्याय-महाकवि-भारताचार्य-श्रीहरिदाससिद्धान्तवागीशः ।
निवेदनम् । . १३४८ वङ्गाब्दोयसौराषाढ़मासस्य सप्तविंशदिवसरजन्यां कोटालि- पाड़ान्तर्गत जनशियाग्रामे मद्भवने प्रथमो वनौयप्रतापस्थाभिनयः, १३५२ वङ्गान्दीयसौरज्य ष्ठमासस्य नवमदिवसरजन्यां कलिकाता- गजधान्या मिना रामचे हितोयस्तस्याभिनयः, १३५२ वङ्गाब्दीय- मौरश्रावणस्य कादशदिवसरजन्यां कलिकाताराजधान्यामेव टाररङ्गमञ्चे टतीयच तस्याभिनयः मञ्जातः । तेषु च त्रिष्व व कालेषु रचनाया अभिनयस्य . च गरीयानेवाभवत् प्रशसावादः। तेन चानन्दातिरेकात् उत्माहातिशयाच १३५२ वङ्गाब्दसौराषाढ़सप्तदशदिवमै समारभ्य तद- व्दीयसौरकात्ति काष्टाविंशदिवसे ममापितमिति द्वादशदिवसाधिकमास- चतुष्टयेन मिवारप्रताप नाम नाटकमिद मया निरमायि। इदमपि च १३५२ वसाव्दमौरफालगुनमाससप्तदशदिवमरजन्यां कलिकाता- राजधान्यां टाररङ्गमञ्चे प्राच्यवाणी-प्रतिष्ठानोदयोगेन प्रथममभिनौतम् । अत्रापि सञाता रचनाया अभिनयस्य च भूयसी प्रशंसा। एष च कलिकातागताभिनयेषु थोमान् शशिपोखरविद्यारत्नकाव्यतीर्थ : सुष्ठ, परिचालयन् विशेषेण यशम्बो जातः । तदिदमपि मिवारप्रताप- नाटक भगवदनुग्रहेण मुद्रापितम्। श्रद्दे यास्तत्रभवन्तः सुधियः सदयहृदयेण पश्यन्विति सविनया प्रार्थना परिशेष १ सक्षोभः सलज्ज श्वायमनुरोधः, यत्, संशोधकप्रैथिल्यात् मुद्राकरवालिश्याश्च वङ्गोयप्रतापे मिवारप्रतापे च विद्यमानमनेकमशद्ध दयया संशोध्यमिति । १३५४ वजाब्दीय- विनौत- सौरकार्तिकदशमदिवसीयम्। श्रीहरिदासदेवशम्र्मणः ।
नाठ्योल्लिखितव्यक्तिगणः । पुरुषगणः । १ । मूत्रधारः प्रस्तावसूचकः। २। सुप्रभदेवोपाध्यायः राजपण्डितः। ३। शान्तिशरणमिश्रः राजपरोहितः । ४। प्रतापसिंहः मिवाराधिपतिः । ५। शम्भ सिंहः प्रतापसिंहसामन्तः । ६ ! रणजित्सेनः प्रतापसिंहसेनापतिः । ७। भोममि: प्रतापसिंहमन्त्री। ८। रहुवीरः भिल्लराजः। वादमाहः भारतसम्राट् आकवरः । १०। मानमिहः आकवरमेनापतिः । ११ । सैलिमः आकवरपुत्रः। १२ । शक्तसिहः प्रतापसिंहस्य वेमाले यो भ्राता। १३ । ' अमरसिंह प्रतापसिंहस्थ पुतः। १४। साइवाजखा देवीदुर्गाध्यक्षः । १५॥ मवारकः माहवाजस्य वयस्तः । १६ । नुरमहम्मदः साहवाजस्य मन्त्री। १७। सोलमानः साच्वाजस्थ सेनापतिः। दृतः प्रतापसिंहप्रेरितः। १९ । माधुकः प्रतापसिंहभृत्यः । २० । मधुकः प्रतापसिंहभृत्यः । खस्ययनकरणार्थिनस्त्रयो व्राह्मणा:, लयो भिल्ला:, दौवारिकः, सैलिमसैनिकः खोगमानी मूलतानी च । समाप्तिकाले भरतगणश्च, मध्ये चारणगणञ्च, उभयपक्षस न्याश्च । .
स्त्रीगणः ।
१। नटी
कमला
३। उद्यानपालो
४। गौरी
५। इन्दिरा
६। प्रतिहारिणी
७। भगवती दामो
सूत्रधारयत्नौ।
पृथ्वीराजपती।
आकवरस्य उद्यानरक्षिका।
प्रतापसि हहिौ।
प्रतापसिंह कन्चा।
माहवाजस्य अन्तः घुरहती।
कालोमन्दिरकिरो।
नत्तकोगगाव।
,
शत्रुमल्ल इत्येतत् शत्रुधर्षणशक्त्यतिशयात् सिद्धम् । तच्चास्मत्प्रहसने 'राजन्वा- नस्तु शक्तिप्रशमितरिपुणा शत्रुभल्लेन लोकः' इति भरतवाक्य श्लोकपादे गृही- तमेव । अननिभाजन - गुणभर - मत्तविलासविरुदानि तु ‘स व्या- तावनिभाजनं दिशतु वो दिव्यः कपाली यशः' इति मङ्गलश्लोके, 'जोव्व- णगुणभरमत्तविलासप्पहसणं' इति नटीवाक्ये चोपात्तानि । तत्रापि गुण. भरविरुदम् उच्चावच सद्गुणातिशययोगान्नूनं निष्पन्नम् । स च सद्गुणातिश- ययोगः 'प्रज्ञादानदयानुभावधृतयः' (श्लो० ३) इत्यादिना प्रकाशित एव । प्रहसनवस्तुभूतकपालरूपभाजनदानसूचनानुगुण्येन अवनिभाजनशब्दस्य य- चमत्कारकारि संघटनं, तन्निबन्धनः संघटयितरि कवौ अवनिभाजनपदन्य- पदेशो विदग्धैर्मन्ये प्रवर्तितः । एवं मत्तविलासपदव्यपदेशोऽपि तत्पदसंघट- ननिबन्धनः, अर्थान्तरपरेण तेन पदेन प्रहसननामधेयस्य मुद्रालङ्कारभझ्या संसूचनात् । महेन्द्रविक्रमवर्मणो जीवितसमयस्तु ऊस्ताब्दीयस्य षष्ठशतकस्य पूर्वो भागः, यस्मात् स मद्रमण्डलपुराणवस्तुविमर्शकैः ६०९तम ऊस्ताब्दा. वाप्तराज्याधिपत्यस्य चालूक्यस्य द्वितीयपुलकेशिनः समकालिको निर्णीतः । अस्य प्रहसनस्य संशोधनाधारभूतौ केरलप्रन्थलिपी तालपत्रात्मको त्रिचतुरशतवर्षवृद्धौ द्वावादी । तत्रैकः १९०९तमे कैस्ताब्दे मणलिकर- मठान्मयोपलब्धः, द्वितीयः १९१४ तमे (माजानम्) नीलकण्ठचाक्यार्- महाशयसकाशादासादितः ।। त. गणपतिशास्त्री. अनन्तशयनम्, १४-५-१९१७.
॥श्रीः॥ मत्तविलासपहसनं श्रीमहेन्द्रविक्रमवर्मप्रणीतम्। (नान्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः भाषावेषवपुःक्रियागुणकृतानाश्रित्य भेदान् गतं भावावेशवशादनेकरसतां त्रैलोक्ययात्रामयम् । नृत्तं निष्प्रतिबद्धबोधमहिमा यः* प्रेक्षकश्च स्वयं स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः॥ भोः! समासादितः खलु मया यवीयसी भार्यामधिकृत्य समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसा- दनोपायः, यच्चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्मः । तद् यावदेनामुपसर्पामि । (नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्त वत् । (प्रविश्य) नटी-(सरोषम् ) (क) अय्य! किं चिरस्स काळस्स जोव्वणगुणभरमत्तविळासप्पहसणं (ओ'द)सेदुं आअदो सि। (क) आर्य! किं चिरस्य कालस्य यौवनगुणभरमत्तविलासपहसनं दर्श- यितुमागतोऽसि । करोतीत्यध्याहर्तव्यम् । GP, 1; 1045...100. 19-6-1092, मत्तविलासप्रहसनम् । यथाह भवती। सूत्रधारः नटी (क) ताए एव दाव दंसेहि, जा तुए रमइद- व्वा । सूत्रधारः त्वया सह दर्शयिष्यामीति । नटी-(ख) किं ताए एव्व णिउत्तो सि । सूत्रधारः - एवमेतत् । अपिच , तत्र गता महान्तम. नुग्रहं लप्स्यसे । नटी (ग) तव एव्व खु एदं जुज्जइ। सूत्रधारः - भवति ! किमिव न युज्यते । त्वत्प्रयोग- परितोषिता परिषदनुग्रहीष्यतीति । नटी (सहर्षम् ) (घ) एवं । ळडो अय्यमिस्साणं प- , - सादो । प - सूत्रधारः बाढम् । लब्धः। नटी (ङ) जइ एवं , किं दे पिअक्खाणि देमि। सूत्रधारः अलं प्रियाख्यानिकपुनरुक्तेन । पश्य उद्भिन्नरोमाञ्चकपोलरेख- माविर्मयूखस्मितमश्चितभ्रु । (क) तयैव तावद् दर्शय, या त्वया रमयितव्या । (ख) किं तयैव नियुक्तोऽसि । (ग) तवैव खल्वेतद् युज्यते । (घ) एवम् । लब्ध आर्यमिश्राणां प्रसादः । (ड) यद्येवं, किं ते प्रियाख्यानिकं ददामि ।
मत्तविलासप्रहसनम् । लब्ध्वा प्रिये! दुर्लभमाननं ते भूयोऽपि किं प्रार्थयितव्यमस्ति ॥ २ ॥ नटी-(क) किं दाणि अय्येण पउज्जिदव्वं । सूत्रधारः ननु त्वयैवाभिहितं मत्तविलासप्रहसन- मिति । नटी- (ख) Yणं इमरिंस पक्खवादी मे कोवो, जेण अभिप्पाआणुरूवं भणाविद मि । अय्य! कदमो उण सो कवी, जो इमाए किदीए पआसीअदि । सूत्रधारः-भवति! श्रूयताम् । पल्लवकुलधरणिमण्डल- कुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आख- ण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतरा. जराजस्यः श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपरः परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रवि- क्रमवर्मा नाम । अपिच, प्रज्ञादानदयानुभावधृतयः कान्तिः कलाकौशलं सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः। अप्राप्तस्थितयः समेत्य शरणं यातायमेकं कलौ कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥ -- (क) किमिदानीमार्येण प्रयोक्तव्यम् । (ख) नूनमस्मिन् पक्षपाती मे कोपः , येनाभिप्रायानुरूप भाणितास्मि । आर्य ! कतमः पुनः स कविः, योऽनया कृत्या प्रकाश्यते । १. 'गदं भ' ख. पाठः मत्तविलासप्रहसनम् । किञ्च, आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् । *अर्घन्ति बहु सूक्तानि सतां सारलघून्यपि ॥ ४ ॥ नटी--(क) किं दाणि अय्येण विळम्बीअदि । णं अ. पुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ। सूत्रधारः सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निमतां नीतः। (नेपथ्ये) प्रिये ! देवसोमे! अहं तु, सूत्रधारः युवतिसख एष सुरया कपालविभवः कपालीव ॥५॥ (निष्क्रान्तौ।) स्थापना। (क) किमिदानीमार्येण विलम्ब्यते । नन्वपूर्वतया त्वरितमनुष्ठातव्योऽयं प्रयोगः । अर्घति मूल्यप्राप्त्यर्थको धातुः । बहु इति क्रियाविशेषणम् । बहु अन्ति बहु मूल्यं प्राप्नुवन्ति श्लाघामनल्पां लभन्त इति यावत् । यः स्वयं गुणोत्तरसूक्ति- रत्ननिधिः सन् परकीयसूक्तान्यल्पगुणान्यपि नावमन्यते , प्रत्युत श्लाघत एव केवल. मति तात्पर्यम् । यस्मिन्निति वैषयिक सामीपिके बाधिकरगे सप्तमी।
मत्तविलास प्रहसनम् । (ततः प्रविशति सपरिग्रहः कपाली।) कपाली (क्षीबतां रूपयित्वा) प्रिये! देवसोमे! सत्यमे- वैतत् - तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः। तव हि, उहिन्नश्रमवारिबिन्दु बदनं सचूलताविभ्रमं खलं यातमकारणानि हसितान्यव्यक्तवण गिरः। रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयो- रंसोपान्तविलम्बिनश्च विगलन्मालागुणा मूर्धजाः ॥६॥ देवसोमा (क) भअवं! मत्तं विअ मत्तं विअ म भणासि । कपाली --किमाह भवती । देवसोमा (ख) ण ह किच्चि भणामि । कपाली- किन्नुखलु मत्तोऽस्मि । देवसोमा -(भअवं! परिब्भमइ परिब्भमइ पुहुवी। पुरो वदामि विअ । अवलम्ब दाणि मं । कपाली-प्रिये ! तथास्तु । (अवलम्बमानः पतनं रूपयित्वा) (क) भगवन् ! मत्तामिव मत्तामिव मां भणसि । (ख) न खलु किञ्चिद् भणामि । (ग) भगवन् ! परिभ्रमति परिभ्रमति पृथिवी । पुरः पतामीव । अवलम्ब. स्वेदानी माम् ।
मत्तविलासपहसनम् । प्रिये! सोमदेवे ! किं त्वं कुपितासि, यदवलम्बितुमुपसर्पतो मे दूरीभवसि । देवसोमा-(क) अहोणुखु आअदकोबा सोमदेवा, जा तुए सीसेण पणमिअ अणुणीअमाणा वि दूरीहोइ। कपाली ननु त्वमेवासि सोमदेवा । (ध्यात्वा) नहि, देवसोमा। देवसोमा-- (ख) भअवं! णं तहा वळ्ळहा सोमदेवा, णार्हदि मम णामकेणाभिधाडं। कपाली--भवति! सुलभपदस्खलितो मे मदोऽयं तवा, वापराहः। देवसोमा-(ग) दिट्ठिआ ण तुवं । कपाली--कथं मद्यदोषो मामेवं सङ्कामयति । भवतु भवतु । अद्यप्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि । देवसोमा (घ) भअवं! मा मा मम कारणादो वदभ ड्रेण तवो खण्डेदुं । (पादयोः पतति । ) , (क) अहोनुखल्वागतकोपा सोमदेवा, या त्वया शीर्षण प्रणम्यानुनीय- मानापि दूरीभवति । (ख) भगवन् ! ननु तथा वल्लभा सोमदेवा, नाहति मम नामकेनाभिधा- तुम्। (ग) दिष्ट्या न त्वम् । (घ) भगवन् ! मा मा मम कारणाद् व्रतभङ्गेन तपः खण्डयितुम् ।
मत्तविलासप्रहसनम् জুতা মু कपाली- (सहर्षमुत्थाप्यालिङ्गय) धृर्ण धृर्ण नमः शिवाय । प्रिये! पेया सुरा प्रियतमामुखमीक्षितव्यं ग्राह्यः स्वभावललितो विकृतश्च वेषः । येनेदमीदृशमदृश्यत मोक्षवर्म दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥ ७ ॥ देवसोमा (क) भअवं! णं तहा भणिदव्वं । अघन्ते मोक्खमग्गं अण्णहा वण्णअन्ति । कपाली भद्रे! ते खलु मिथ्यादृष्टयः। कुतः, कार्यस्य निःसंशयमात्महेतोः सरूपतां हेतुभिरभ्युपेत्य । दुःखस्य कार्य सुखमामनन्तः स्वेनैव वाक्येन हता वराकाः ॥ ८ ॥ देवसोमा (ख)सन्तं सन्तं पावं। कपाली शान्तं शान्तं पापम् । नखलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति , ये ब्रह्मचर्य-केशनिर्लोटन-म- लधारण-भोजनवेलानियम-मलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानी कुतीर्थसङ्कीर्तनोपहतां जिहां सु- रया प्रक्षालयितुमिच्छामि । (क) भगवन् ! ननु तथा भणितव्यम् । अर्हन्तो मोक्षमार्गमन्यथा वर्णयन्ति । (ख) शान्तं शान्तं पापम् ।
मत्तविलासग्रहसनम् । प्रिये! तथास्तु। देवसोमा-(क) तेण हि अण्णं दाणिं सुरापणं ग- च्छामो। कपाली (उभौ परिकामतः।) कपाली- अहोतुखलु विमानशिखरविश्रान्तधनरसि- तसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्या- पणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य का- ञ्चीपुरस्य परा विभूतिः। अपिच, अनतिशयमनन्तं सौख्यमप्रत्यनीक समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः । तदिह निरवशेषं दृष्टमेतत् तु चित्रं यदुत करणभोग्यं कामभोगात्मकं च ॥ ९ ॥ देवसोमा (ख) भअवं! भअवदी वारुणी विअ अण- वगीअमहुरा कञ्ची। कपाली-प्रिये ! पश्य पश्य। एष सुरापणो यज्ञवाटवि- भूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः, सुरा सोमः शौण्डा ऋत्विजः, चषकाश्चमसाः, शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः स्रुवाः, तर्षोऽग्निः, सुरापणाधिपतिर्यजमानः । (क) तेन ह्यन्यमिदानीं सुरापणं गच्छावः । (ख) भगवन् ! भगवती वारुणीवानवगीतमधुरा काञ्ची ।
मचविलासपहसनम् । देवसोमा-(क) अह्माअं पि एत्य भिक्खा रुद्दभाओ भविस्सदि। कपाली अहो दर्शनीयानि प्रहतमर्दळकरणानुग- तानि विविधाङ्गहारवचनभूविकाराणि उच्छ्रितैकहस्तावल- म्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितल- यानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि । - me- देवसोमाः (ख) अहो रसिओ खु आअय्यो कपाली एषा भगवती वारुणी चषकेष्वावर्जिता प्र.. त्यादेशो मण्डनानाम् , अनुनयः प्रणयकुपिताना, पराक्रमो यौवनस्य, जीवितं विभ्रमाणाम् । किंबहुना, मिथ्या त्रिलोचनविलोचनपावकेन भस्मीकृतां मदनमूर्तिमुदाहरन्ति । स्नेहात्मिका तदभितापवशाद् विलीना सेयं प्रिये! मदयति प्रसभं मनांसि ॥ १० ॥ देवसोमा- (ग) भअब ! जुज्जइ एवं । णहि ळोओव- आरणिरदो ळोअणाहो कोअं विणासेदि । (उभौ कपोलपटहं कुरुतः ।) (क) आवयोरप्यत्र भिक्षा रुद्रभागो भविष्यति । (ख) अहो रसिकः खल्वाचार्यः । (ग) भगवन् ! युज्यत एतत् । नहि लोकोपकारनिरतो लोकनाथो लोकं विनाशयति।
t मे मत्तविलासपहसनम् । कपाली भवति ! भिक्षां देहि । (नेपथ्ये) (क) भअवं! एसा भिक्खा । पडिगण्हदु भअवं । कपाली एष प्रतिगृह्णामि । प्रिये ! क कपालम्। देवसोमा- (ख) अहं वि ण पेक्खामि । कपाली-(ध्यात्वा) आ, तस्मिन्नेव सुरापणे विस्मृत- मिति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः । देवसोना- (ग) भअवं ! अधमो खु एसो आदरो वणीदाए भिक्खाए अप्पडिग्गहो । किं दाणि करम्ह । कपाली-आपद्धर्म प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्य- ताम् । देवसोमा (घ) भअवं! तह । (प्रतिगृह्णाति ।) (उभौ परिक्रम्यावलोकयतः।) कपाली कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः! माहेश्वराः! अस्मदीयं भिक्षाभाज. नमिह भवद्भिः किं दृष्टम् । किमाहुर्भवन्तः --नखलु वयं - (क) भगवन् ! एषा भिक्षा । प्रतिगृह्णातु भगवान् । (ख) अहमपि न पश्यामि । (ग) भगवन् ! अधर्मः खल्येष आदरोपनीताया भिक्षाया अप्रतिग्रहः । किमिदानी कुर्वः। (घ) भगवन् । तथा ।
मत्तविलासप्रहसनम् । ११ - पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः। केनाहमिदानी कपाली भविष्यामि । भोः! कष्टम् । येन मम पानभोजन- शयनेषु नितान्तमुपकृतं शुचिना। तस्याद्य मां वियोगः सन्मित्रस्येव पीडयति ॥ ११ ॥ (पतितः शिरस्ताडनं रूपयित्वा) भवतु । अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः। (उत्तिष्ठति ।) देवसोमा (क) भअवं ! केण खु गहीदं कवाळं । कपाली-- प्रिये ! तर्कयामि शूल्यमांसगर्भत्वाच्छना वा शाक्यभिक्षुणा वेति । देवप्लोमा-(ख) तेण हि अगेत गणिमित्तं सव्वं कश्ची. उरं परिभमामो । कपाली प्रिये ! तथा । (उभौ परिकामतः । ) (ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।) शाक्यभिक्षुः ग) अहो उबासेअस्स धणदाससे. ट्ठिणो सव्वावासमहादग्णमहिमाणो, जहिं मए अभिमदव. (क) भगवन् ! केन खलु गृही। कपालम् । (ख) तेन ह्यन्वेषणनिमित्तं सर्व क चौपुरं परिभ्रमावः । (ग) अहो उपासकम्य धनदासश्रेष्ठिनः सर्वावासमहादानमहिमा, य. स्मिन् मयाभिमतवर्णगन्धरसो मत्स्यमांसप्रकारबहुलोऽयं पिण्डपातः प. 'झया। ख..पाठ. २. 'घ' क. पाठः, १२ मत्तविलासपहसनम् ण्णगन्धरसो मच्छमंसप्पआरबहुळो अअं पिण्डवादो समा- सादिदो । जाव दाणि राअविहारं एव्व गच्छामि । (परिक्रम्य मात्मगतम् ) भोः! परमकारुणिएण भअवदा तहागएण पासादे. सु वासो, सुविहि(अ)सय्येसु पज्जङ्केसु सअणं, पुव्वण्हे भो. अणं, अवरण्हे सुरसाणि पाणआणि, पञ्चसुग(न्धव्यो ?न्धोव)- हिअं तम्बोळं, सण्हवसणपरिधाणं ति एदेहि उवदेसेहि भि. क्खुसङ्घरस अणुग्गहं करन्तेण किण्णुहु इत्थिआपरिग्गहो सुरावाणविहाणं च ण दिटुं । अहव कहं सव्वो एवं ण पेक्खदि । अवस्सं एदेहि दुट्टबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजगाणं मच्छरेण पिडअपुत्थएसु इथिआ. सुरावाणावहाणाणि पळामिट्ठाणि त्ति तक्केमि । कहिणुहु अविगढमूळपाठं समासादएअं । तदो सम्पुण्णं बुद्धवअणं ढोए पआसअन्तो सोवआरं करिस्सं । (पारेकामात ।) . मासादितः । यावदिदानी राजावहारमंव गच्छामि । भो ! परमकारुणिकेन भगवना तथागतेन प्रामादपु वासः, सुविहितशय्येषु पयङ्केषु शयनं, पूर्वाह्न भो. जनन , अपराल मरमाने पानकान, पञ्च पुगन्धा राहत ताम्बूलं. लक्ष्णवसनपरि. धानमितरुपदेशभिक्षुमन यानुग्रहं कुर्वता किन्नुग्वलु स्त्रीपारग्रहः सुरापानवि. धानं च न दृष्टम् । अथवा कथं सर्वज्ञ एतन्न पश्यति । अवश्यमेतैर्दुष्टत्रु. थविरोनिरुत्साहरम्माकं तरुा जनानां मत्परण पिटकपुन्केपु स्त्रीसुगपान. विधानानि परराष्टानीति तर्कगामि । कुत्रनुखल्वविनष्ट मूलपाठं समासादये- यम् । ततः सम्पूर्ण बुद्धवचन लोके प्रकाशयन् सोपकारं करिष्यामि । 'वोधिों क. पाठः। १. 'वअणा' ख. पाठः ।
मचविलासपहसनम् । १३ - देवसोमा (क) भअवं! पेक्ख पेक्ख । एसो रत्त- पडो इमरिंस विस्सत्थपुरिससम्पादे राअनग्गे सहास- व्यङ्गो उभयपक्खसञ्चारिददिट्ठी सकिदपदविखेवो तुरिअ. तुरिअं गच्छइ । कपाली-प्रिये! एवमेतत् । अपिचास्य हस्ते चीव- रान्तःप्रच्छादितं किमप्यस्तीव । देवसोमा (ख) भअवं! तेण हि ओळम्बिअ आसा- दिअ जाणीमो। कपाली भवति! तथा। (उपगम्य) भो भिक्षो! तिष्ठ । शाक्यभिक्षुः-(ग)कोणुबु मं एवं भगादि। (नित्यावलोक्य ) अइ अयं एअंववासी दुटुकवाळिओ । भोदु, इमस्स सुरावि- ब्भमरस ळक्खं ण होमि । (सत्वरं गच्छति :) कपाली प्रिये ! हन्त कब्धं कपालम् । अस्य हि मदर्शनजनितभयात् त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमु. पगम्याग्रतो रुणद्धि ।) आः धूर्त ! क्वेदानी गमिष्यसि । (क) भगवन् ! पश्य पश्य । एष रक्तपटोऽस्मिन् विश्व नपुरपस-पाले राज. मार्ग सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारिसदृष्टि: दशावतपदवितरितरित गच्छति । (ख) भगवन् ! तेन हि अवलम्व्यामाद्य जानीयः । (ग) कोनुखलु मामेवं भगति । अमि अयमेकाम्रवामी दुष्टकापालिकः । भवतु , अस्य सुराविभ्रमस्य लक्ष्य न भवामि । २. 'अविळ', ३. स्वरिता ग' ख. पाठः,
१.
मत्तविलासप्रहसनम् ।
शाक्यभिक्षुः (क) कवाळिआउस! मा मा एवं । कि
एदं । (आत्मगतम्) अहो लळिअरूवा उवासिआ ।
कपाली-भो भिक्षी! दर्शय तावत् । यावदेतत् ते
पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि ।
शाक्यभिक्षुः (ख) किं एत्थ पेक्खिदव्वं । भिक्खाभा.
अगं खु एदं ।
कपाली - अत एव द्रधुमिच्छामि ।
शाक्यभिक्षुः (ग) आ, उस! मा मा एवं । पच्छण्णं खु
एदं णेदव्यं ।
कपाली--पूनमेवमादिनच्छादननिनित्तं बहुचीवरधारणं
बुद्धेनोपदिष्टम् ।
शाम्यभिः --- (4) सचं एवं ।
काली - इदं तत् संवृतसत्यम् । परमार्थसत्यं श्रोतु-
मिच्छामि ।
शास्यभिक्षुः- (ङ) भोदु एत्तओ परिहासो । अदिक्क.
माद भिक्खावळा । साहमि अहं । (प्रतिष्ठते ।)
(क) कापालिका पासक! मा मेयम् । किमेतत् । अहो लालतरूपा उपा-
सिका।
(ख) किमत्र द्रष्टव्यम् । भिक्षाभाजनं स्वल्येतत् ।
(ग) आ, उपासक! मा मैवम् । प्रच्छन्नं खल्येतन्नेतव्यम् ।
(घ) सत्यमेतत् ।
(ङ) भवत्वेतावान् परिहासः । अतिकामति भिक्षावेला । साधयाम्यहम् ।
मत्तविलासप्रहसनम् । १५ - - - कपाली आः, धूर्त! क गमिष्यसि । दीयतां मे क. पालम् । (चीवरान्तमालम्बते।। शाक्यभिक्षुः- (क) णमो बुडाअ । कपाली नमः खरपटायेति वक्तव्यं , येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः । कुतः, वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि । विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥ १२ ॥ शाक्यभिक्षुः (ख) सन्तं पापं सन्तं पापं । कपाली--एवं सुवृत्तस्य तपस्विनः कथमिव पापं न शाम्यति । देवसोमा (ग) भअवं! परिस्सन्तो विअळक्खीअसि। ण एवं सुहोवाअसुळहं कवाळं । ता एदिणा गोसिङ्गेण सुरं पिबिअजादबळो भविअ इमिणा सह विवादं करेहि । कपाली तथास्तु । (देवसोमा कपालिने सुरां प्रयच्छति।) कपाली (पीत्वा) प्रिये ! त्वयापि श्रमापनोदः कर्तव्यः। देवसोमा (घ) भअवं! तह । (पिबति ।) - (क) नमो बुद्धाय। (ख) शान्तं पापं शान्तं पापम् । (ग) भगवन् ! परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालम् । तदेतेन गोशृङ्गेण सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु । (घ) भगवन् ! तथा ।
मत्तविलासप्रहसनम् ।
-
कपाली अयमस्माकमपकारी । संविभागप्रधानः
स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् ।
देवसोना (क) जंभअवं आणवेदि।गह्नदु भअवं
शाक्यभिक्षुः (आत्मगतम् ) (ख) अहो सुहोवणदो अ.
भुदओ। एत्तओ दोसो-महाजणो पेक्खिस्सदि । (प्रकाशम्)
भोदि ! मा मा एवं । ण वड्ढदि अह्माणं । (सृक्कणी लेढि ।)
देवसोमा-(ग) धंस । कुदो दे एत्तिआणि भाअधे.
आणि ।
कपाली-प्रिये ! इयमस्येच्छाविरोधिनी वाग् मुखप्रसे-
केन स्खल(य ?)ति ।
शाक्यभिक्षुः-(घ) इदाणिं वि णस्थि दे करुणा ।
कपाली-यद्यस्ति करुणा, कथं वीतरागो भविष्यामि।
शाक्यभिक्षुः- (ङ) एवं वीदरागिणा वीदरोसेण वि
होदव्वं ।
कपाली वीतरोषो भाविष्यामि, यदि मे स्वकं दास्यति।
-
(क) यद् भगवानाज्ञापयति । गृह्णातु भगवान् ।
(ख) अहो सुखोपनतोऽभ्युदयः । एतावान् दोषः -- महाजनो द्रक्ष्यति।
भवति ! मा मैवम् । न वर्धतेऽस्माकम् ।
(ग) ध्वंसस्व । कुतस्ते एतावन्ति भागधेयानि ।
(घ) इदानीमपि नास्ति ते करुणा ।
(ङ) एवं वीतरागिणा वीतरोषेणाापे भवितव्यम् ।
.. 'दुई अ' क. पाठः.
मत्तविलासप्रहसनम् । १७ home- शाक्यभिक्षुः (क) किं दे सअं। कपाली कपालम् । शाक्यभिक्षुः (ख) कहं कवाळं । कपाली-कथं कपालमित्याह । अथवा युक्तमेतत । दृष्टानि वस्तूनि महीसमुद्र- महीधरादीनि महान्ति मोहात् । अपहुवानस्य सुतः कथं त्व- मल्पं न निहोतुमलं कपालम् ॥ १३ ॥ देवसोमा (ग) भअवं! केवलं काळीयमाणो ण दइ- स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो । कपाली -प्रिये ! तथा । (आच्छेत्तुं व्याप्रियते । ) - meme- शाक्यभिक्षुः पादेन ताडयति ।) (घ) धंस दुट्ठकवाळिअ ! । (हस्तेन नुदन कपाली कथं पतितोऽस्मि । (क) किं ते स्वकम् । (ख) कथं कपालम् । (ग) भगवन् ! केवलं लाल्यमानो न दास्यति । तदेतस्य हस्तादाच्छिद्य गच्छावः। (घ) ध्वसस्व दुष्टकापालिक !
१८ मत्तविलासप्रहसनम् । १ देवसोमा-(क) मुदो सि दासीएवुत्त!। (केशापकर्षर्ण रूप- यित्वा निरालम्बना पतिता ।) शाक्यभिक्षुः- (आत्मगतम् ) (ख) अधं बुद्धस्स विण्णा - णं, जेण मुण्डणं दिटुं । (प्रकाशम् ) उठेहि उद्धेहि उसिए! उठेहि । (इति देवसोमामुत्थापयति ।) कपाली-पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षु- नामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् । शाक्यभिक्षुः (ग) आ बुस ! मा मा एवं । धम्मो खु अह्माणं विसमपदिदाणुकम्पा । कपाली--- किमयमपि सर्वज्ञधर्मः । नन्वहं पूर्व पति- तोऽस्मि । भवतु, किमनेन । इदानीं तव शिरःकपालं मम भिक्षाकपालं भविष्यति । (सर्वे कलहं रूपयन्ति।) शाक्यभिक्षुः- (घ) दुक्खं दुक्खं । कपाली-पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षु- नामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाकन्दति । भवतु, अहमप्याक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् । (क) मृतोऽसि दास्याःपुत्र! । (ख) अर्ह (अर्घ वा) बुद्धस्य विज्ञानं, येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ उपासिके उत्तिष्ठ । (ग) आ उपासक ! (आयुष्मन् ! वा) मा मैवम् । धर्मः खल्वस्माकं विषम पतितानुकम्पा । (घ) दुःखं दुःखम् । . १. 'किदं।' क. पाटः.
मत्तविलासप्रहसनम् । १९ (ततः प्रविशति पाशुपतः । ) पाशुपतः-- सत्यसोम! किमर्थमाकन्दसि । कपाली-भो बभ्रकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति। पाशुपतः --- (आत्मगतम्) यदस्माभिरनुष्ठेयं, गन्धर्वैः तद- नुष्ठितम् । एष दुरात्मा, तां क्षौरिकस्य दासी मम दयितां चीवरान्तदर्शितया। आकर्षति काकण्या बहुशो गां ग्रासमुष्टयेव ॥१४॥ तदिदानी प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि। (प्रकाशम् ) भो नागसेन ! अप्येवमेतद् , यथायमाह । शाम्यभिक्षुः ---- (क) भअवं! तुवं पि एवं भणासि । अ. दिण्णादाणा वेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खा- पदं । अब्बम्हचय्या बेरमणं सिक्खापदं । पाणादिपादा वेरम णं सिक्खापदं । अकाळभोअणा वेरमणं सिक्खापदं । अह्मा- अं बुद्धधम्म सरणं गच्छामि । पाशुपतः सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् । (क) भगवन् ! त्वमप्येवं भणसि । अदत्तादानाद्विरमणं शिक्षापदम् । मृषावादाद्विरमणं शिक्षापदम् । अब्रह्मचर्याद्विरमणं शिक्षापदम् । प्राणातिपा- ताद्विरमणं शिक्षापदम् । अकालभोजनाद्विरमणं शिक्षापदम् । अस्माकं बुद्ध- धर्म शरणं गच्छामि । १. 'म्हअच', २. 'दं । भोअणकाळत्थेरावे' क, पाठः, २० मत्तविलासपहसनम् । कपाली नन्वस्माकमनृतं न वक्तव्यमिति समयः । पाशुपतः उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः। शाक्यभिक्षुः- (क) बुद्धवअणं पमाणीकरअन्तो भि- क्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदु । पाशुपतः-- नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धि- रस्ति । -- कपाली-प्रत्यक्षे हेतुवचनं निरर्थकम् । पाशुपतः कथं प्रत्यक्षमेव । देवसोमा (ख) भअव ! एदस्स हत्थे चीवरान्तप्प- च्छादिदं कवाळं । पाशुपतः श्रुतं भवता। शाक्यभिक्षुः (ग) भो भअवं! एदं कवाळं ण परnew- केरअं। - कपाली तेन हि दर्शय तावत् । शाक्यभिक्षुः कपाली-पश्यन्तु पश्यन्तु माहेश्वराः कापालिकेन कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च । (घ) तह । (दर्शयति ।। (क) बुद्धवचनं प्रमाणीकुर्वन् भिक्षुः सुराभाजनं गृह्णातीति कोऽत्र हेतुः । (ख) भगवन् ! एतस्य हस्ते चीवरान्तःप्रच्छादितं कपालम् । (ग) भो भगवन् ! एतत् कपालं न परकीयम् । (घ) तथा। कपालिने कू' क. पाठः.
मत्तविलासप्रहसनम् । शाक्यभिक्षुः-- (क) अदिण्णादाणा वेरमणं सिक्खा- पदं *(इति पुनस्तदेव पठति ।) Rom (उभौ नृत्यतः।) शाक्यभिक्षुः (ख) हद्धि । लज्जिदव्वे काळे णचदि। कपाली आः को नृत्यति । (सर्वतो विलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु । शाक्यभिक्षुः (ग) भअवं! केण कारणेण एवं ण ळ- क्खीअदि । भो ! आचिक्खदु भैअवं । इमस्स अअं वण्णो । कपाली किमत्र वक्तव्यम् । ननु मया दृष्टम् । काका- दपि कृष्णमिदं कपालम्। शाक्यभिक्षुः (घ) तेण हि एवं समकेरअं ति सअं एव अभुवगदं। कपाली-सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपु- ण्यम् । पश्य, (क) अदत्तादानाद्विरमणं मुनिशिक्षापदम् । (ख) हा धिक् । लज्जितव्ये काले नृत्यति । (ग) भगवन् ! केन कारणेनैतन्न लक्ष्यते । भोः ! आचष्टां भगवान् । अस्यायं वर्णः । (घ) तेन ह्येतन्मदीयमिति स्वयमेवाभ्युपगतम् । १. भव' ख. पाठ:. * .. . पूर्वोक्त सर्वं पुनलिखितं क. ग्रन्थे, पुनरित्यादि न लिखितं च ।
मत्तविलासप्रहसनम् A यदेतदासीत् प्रथम स्वभावतो मृणालभङ्गच्छविचोरमम्बरम् । ननु त्वया नीतमचिन्त्यकर्मणा तदेव बालारुणरागताम्रताम् ॥१५॥ अपिच, आवृतं बहिरन्तश्च कषायेणानपायिना। त्वां प्राप्तं स्यात् कथं नाम कपालमकषायितम् ॥१६॥ देवसोमा--- (क) हा हदह्मि मन्दभाआ। सव्वळक्ख- णसम्पण्णदाए कमळासणसीसकवाळाणुभावस्स पुण्णमासिसो- मदंसणस्स णिञ्चसुरागन्धिणो एदस्स मळिणपडसंसग्गेण इअ ईदिसी अवस्था संवुत्ता । (इति रोदिति ।) कपाली---प्रिये ! अलमलं सन्तापेन । पुनः शुचिर्भ- विष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्म- षाणि भवन्ति । तथाहि आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः। नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस्तनूजं पुरा हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥ १७ ॥ भो बभ्रकल्प ! नन्वेवमेतत् । (क) हा हतास्मि मन्दभागा। सर्वलक्षणसम्पन्नतया कमलासनशीर्षकपा- लानुभावस्य पौर्णमासीसोमदर्शनस्य नित्यसुरागन्धिन एतस्य मलिनपटसंसर्गे- णेयमीदृश्यवस्था संवृत्ता। AomramALI मत्तविलासप्रहसनम् । २३ पाशुपतः आगमानुगतमभिहितम्। शाक्यभिक्षुः- (क) भो ! वण्णो दाव मए किदो। इमस्स सण्ठाणपरिमाणं केण णिम्मिदं । कपाली ननु मायासन्तानसम्भवाः खलु भवन्तः । शाक्यभिक्षुः -- (ख) केत्तिअं वेळं भवन्तं अक्कोसामि । गण्हदु भअवं। कपाली-नूनमेवं बुद्धेनापि दानपारमिता पूरिता। शाक्यभिक्षुः---- (ग) एवं गदे किं दाणिं मे सरणं । कपाली-ननु बुद्धधर्मसङ्घाः । पाशुपतः-नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः । देवसोमा (घ) भअवं! जइ एवं, णमो कवाळरस । पाशुपतः कोऽभिप्रायः। देवसोमा-(ङ) एसो उण अणेअविहारभोअसम- धिगदवित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि (क) भोः ! वर्णस्तावन्मया कृतः । अस्य संस्थानपरिमाणं केन निर्मितम् । (ख) कियती वेलां भवन्तमाक्रोशामि । गृह्णातु भगवान् । (ग) एवं गते किमिदानी मे शरणम् । (घ) भगवन् ! यद्येवं, नमः कपालाय । (ङ) एष पुनरनेकविहारभोगसमधिगतवित्तसञ्चयो यथाकाममधिकरणका- रुणिकानां मुखानि पूरयितुं पारयति । अस्माकं पुनरहिचर्मभूतिमात्रविभse मत्तविलासप्रहसनम् । पूरेदं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरि- बकवाळिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिढुं। पाशुपतः नैतदेवम् । अजिझैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः। तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥ कपाली कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति। शाक्यभिक्षुः-- (क) भो भअवं! तुमं दाव अग्गदो हो(दु : हि)। पाशुपतः बाढम् । (सर्वे परिक्रामन्ति । (ततः प्रविशत्युन्मत्तकः ।) (ख) एशे एशे दुट्ठकुक्कुळे । शुळ्ळमंशगभं कवाळं गहिअ धावशि । दाशीएपुत्त ! कहिं गमिश्शिशि | एशे दाणि कवाळं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावइ । (दिशो विलोक्य ।) इमिणा पत्थळेण दन्ताणि शे भंजिश्शं । कहं कवाळं उझिअ पळाशि । उम्मत्ते दुट्ठकु- - वस्य दरिद्रकापालिकस्य परिचारिकाणां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् । (क) भो भगवन् ! त्वं तावदनतो भव । (ख) एष एष दुष्टकुकुरः। शूल्यमांसगर्भ कपालं गृहीत्वा धावसि । दास्या:- पुत्र! कुत्र गमिष्यसि । एष इदानी कपालं निक्षिप्य मां खादितुकामोऽभिमु. खमाधावति । अनेन प्रस्तरेण दन्तानन्य भक्ष्यामि । कथं कपालमुज्झित्वा पला. 1. 'य', २. 'हम् । प्रथमः शल्पः स पाठः, मत्तविलासप्रहसनम्। क्कुळे ईदिशेण णाम शूळत्तणेण मए शह वि ळोशं कळे- शि । गामशूगळं आळुहिअ गगणमुप्पदिदेण शागळेण पडि- भञ्जिअलावणं बळा गहीदे शक्कशुदे तिमिङ्गळे । अइ एळण्डळुक्ख! किं भणाशि अळिअं अळिअं त्ति । णं एशे मुशळशमविशाळळम्बहत्थे दद्दळे मे शक्खी । अहव तेळोवविदिअपळकमश्श शक्खिणा किं कय्यं । एवं क- ळिश्शं । कुकिळखादिअशेशं मंशखण्डं खादिश्शं । (खादन् भ्रान्तः।) हा हा माळिदो म्हि बप्फेण माळिदो म्हि । (रुदित्वा विलोक्य) के एशे में ताळेशि । (विलोक्य) दुट्ठदाळआ! जश्श वा कश्श वा भाउणेओ खु अहं , भीमशेणश्श घटुक्कओ वि। अविअ शुणाथ, गहीदशूळा बहुवेशधाळिणो शदं पिशाआ उदळे वहन्ति मे शदं च वग्घाण णिशग्गभीशणं मुहेण मुञ्चामि अहं महोळए ॥ १९ ॥ यसे । उन्मत्तो दुष्टकुक्कुर ईदृशेन नाम शूरत्वेन मया सहापि रोषं करोषि । ग्रामसूकरमारुह्य गगनमुत्पतितेन सागरेण प्रभञ्ज्य रावणं बलाद् गृहीतः शक्रसुतस्तिमिडिलः । अयि एरण्डवृक्ष ! किं भणसि अलीकमलीकमिति। नन्वेष मुसलसमविशाललम्बहस्तो दर्दुरो मे साक्षी । अथवा त्रैलोक्यविदित- पराक्रमस्य साक्षिणा किं कार्यम् । एवं करिष्यामि । कुक्कुरखादितशेषं मांसखण्डं खादिष्यामि । हा हा मारितोऽस्मि वाष्पेण मारितोऽस्मि । क एष मां ता- डयसि । दुष्टदारकाः! यस्य वा कस्य वा भागिनेयः खल्वहं, भीमसेनस्य घटो- त्कच इव । अपिच शृणुथ, गृहीतशूला बहुवेषधारिणः शतं पिशाचा उदरे वहन्ति मे । शतं च व्याघ्राणां निसर्गभीषणं मुखेन मुञ्चाम्यहं महोरगान् ॥ १९ ॥ - २६ मत्तविलासप्रहसनम् । कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दाळअभट्टा । इमश्श मंशखण्डश्श काळणादो मा में बाहेह । (अग्रता विलोक्य) एशे खु अम्हाणं आआलिए शूळनन्दी । जाव णं उवशप्पामि । (इति धावति ।) पाशुपतः अये ! अयमुन्मत्तकः इत एवाभिवर्तते । य एषः, निर्विष्टोज्झितचित्रचीवरधरो रूक्षैनितान्ताकुलैः केशैरुद्धतभस्मपांसुनिचयैर्निर्माल्यमालाकुलैः । उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानी गणे- भूयान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥ उन्मत्तकः (क) जाव णं उवशप्पामि । (उपमृत्य) महाशाहुणो चण्डाळकुक्कुळश्श शआशादो अहिअदं एवं कवाळं पडिगण्हदु भअवं पाशुपतः (मदृष्टिक्षेपम् ) पात्रे प्रतिपाद्यताम् । उन्मत्तकः (ख) महाबम्हण ! कळिअदु पशादो । शाक्यभिक्षुः (ग) एसो महापासुवदो एदस्स जोग्गो Manima AD MAHARI कथं मां वाधन्ते । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः । अस्य मांसखण्डस्य कारणाद् मा मां बाधध्वम् । एष खल्यस्माकमाचार्यः शूरनन्दी । यावदेनमुप- सामि । (क) यावदेनमुपसर्पामि । महासाधोश्चण्डालकुक्कुरस्य सकाशादधिगतमे- तत् कपालं प्रतिगृह्णातु भगवान् । (ख) महाब्राह्मण ! क्रियतां प्रसादः । (ग) एष महापाशुपत एतस्य योग्यः ।
मत्तविलासप्रहसनम् । उन्मत्तका (कपालिनभुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणी- कृत्य पादयोः पतित्वा) (क) महादेव! कळीअदु पशादो । एशो दे अञ्जळी। कपाली अस्मदीयं कपालम् । देवसोमा (ख) एवं एदं। कपाली- भगवत्प्रसादात् पुनरपि कपाली संवृत्तः । (ग्रहीतुमिच्छति।) उन्मत्तकः (ग) दाशीएपुत्त ! विशं खादेहि । (कपा- लमाच्छिय गच्छति । कपाली (अनुसृत्य) एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्यतां भवन्तौ। उभौ--- (घ) होदु । अम्हे दे सहाआ होम । (सर्वे रुन्धन्ति । कपाली भोः ! तिष्ठ तिष्ठ । उन्मत्तकः ङ) किश्श मं लुन्धन्ति । कपाली अस्मदीयं कपालं दत्त्वा गम्यताम् । उन्मत्तकः (च) मूढ ! किं ण पेक्खशि, शुवण्णभाअ. णं खु एदं। mas- - ------in-enhasan. (क) महादेव ! क्रियतां प्रसादः । एष तेऽञ्जलिः। (ख) एवमेतत् । (ग) दास्याःपुत्र ! विषं स्वाद। (घ) भवतु । आवां ते सहायौं भवावः । कस्मान्मा रुन्धन्ति । (च) मूढः किं न पश्यसि, सुवर्णभाजनं खल्वेतत् ।
२८ मत्तविलासप्रहसनम् । कपाली एवंविधं सुवर्णभाजनं केन कृतम् उन्मत्तकः (क) एदिणा शुवण्णवण्णपडावुदेण शुव- ण्णकारावुत्तएण किद त्ति भवअं! शुवण्णभाअणं त्ति भणामि। शाक्यभिक्षुः- (ख) किं भणासि । उन्मत्तकः (ग) शुवण्णभाअणं त्ति । शाक्यभिक्षुः- (घ) किमअं उम्मत्तओ। उन्मत्तकः (ङ) उम्मत्तओ त्ति बहुशो एवं शदं शु- णोमि । एवं गहिअ दळिशेहि उम्मत्त । (कपालिने कपाल प्रयच्छति ।) कपाली- (कपालं गृहीत्वा ) अयमिदानी कुड्येनान्त- हितः । शीघ्रमनुगम्यताम् । उन्मत्तकः (च) ळद्धप्पशादे मि । (निष्क्रान्तो जवेनोन्मत्तकः ।) शाक्यभिक्षुः- (छ) अहो अच्छरिअं। परवक्खस्स ळाभेण अहं परितुट्ठो ह्मि । (क) एतेन सुवर्णवर्णपटावृतेन सुवर्णकारावुत्तेन कृतमिति भगवन् ! सुव- भाजनमिति भणामि । (ख) किं भणसि । (ग) सुवर्णभाजनमिति । (घ) किमयमुन्मत्तकः । ङ) उन्मत्तक इति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयो. न्मत्तकम्। (च) लब्धप्रसादोऽस्मि । (छ) अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टोऽस्मि ।
मत्तविलासपहसनम् । कपाली (कपालं परिष्वज्य) चिरं मया चरितमंखण्डितं तपो महेश्वरे भगवति भक्तिरस्ति मे। तिरोहितः स तु सहसा सुखेन न- स्त्वमद्य यत् कुशलि कपाल ! दृश्यसे ॥ २१ ॥ देवसोमा (क) भअवं!. चन्दसमागदं विअ पओसं भअवन्तं पेक्खन्तीए अज्ज आणन्ददी विअ मे दिट्ठी । पाशुपतः -दिष्टया भवान् वर्धते । कपाली-नन्वभ्युदयो भवतामेव । पाशुपतः (आत्मगतम् ) सत्यमेतत् - नास्त्यदोषवतां भयमिति, यदयमद्य भिक्षुयाघ्रमुखात् परिभ्रष्टः। (प्रकाशम् ) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो धूमवेला प्रतिपालयामि । अयं चाद्यप्रभृति, विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः। परस्परप्रीतिकरः किरातार्जुनयोरिव ॥ २२ ॥ (निष्क्रान्तः पाशुपतः।) कपाली भो नागसेन! यन्मयापराधः कृतः, तत् प्रसन्नहृदयं त्वामिच्छामि । - (क) भगवन् ! चन्द्रसमागतमिव प्रदोषं भगवन्तं पश्यन्त्या अद्यानन्दतीव मे दृष्टिः। ranhwanamurraimer-ms- १. क. पाठः, मत्तविलासप्रहसनम् । शाक्यभिक्षुः- (क) किं एवं पि अब्भत्थणीअं । किं दे पिअं करोमि । कपाली यदि मे भगवान् प्रसन्नः, किमतः परमह- मिच्छामि। शाक्यभिक्षुः- (ख) गच्छामि दाव अहं । कपाली-गच्छतु भवान् पुनर्दर्शनाय । शाक्याभक्षुः-- (ग) तह होदु । (निष्क्रान्तः।) कपाली प्रिये देवसोमे! गच्छावस्तावत् । (भरतवाक्यम् ) शश्वद् भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु । उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापदाचन्द्रतारं राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः ॥२३॥ (निष्क्रान्तौ ।) मत्तविलासप्रहसनं समाप्तम् । 43, ५५ शुभं भूयात् । (क) किमेतदप्यभ्यर्थनीयम् । किं ते प्रियं करोमि । (ख) गच्छामि तावदहम् । (ग) तथा भवतु।
श्लोकानुक्रमणी पृष्ठम्. श्लोकः. अजिझैः सार अनतिशय १७ २६ ८ आकरे सूक्ति ३ १ पृष्ठम्. श्लोकः. २४ दृष्टानि वस्तूनि निर्विष्टोज्झित पेया सुरा प्रि २२ प्रज्ञादानद भाषावेषव मिथ्यात्रिलो यदेतदासीत् येन मम पान २५ विरोधः पूर्व वेदान्तेभ्यो १९ शश्वद्भूत्यै सम्प्रति सङ्गी २ ९ आवृतं बहि आस्थाय प्र उद्भिन्नरोमा उद्भिन्नश्रम कार्यस्य निस्सं गहीदशूळा चिरं मया च तां क्षौरिकस्य २२ २९ १५ २० ४ READY FOR SALE RS. AS. P. * (Stuti) by H. H. Svâti Sri Rama Varma Mahârâjah. 10 Trivandrum Sanskrit Series. 1 () No. L (Vyâkarana) by Deva with Puru. shakára of Krishnalilásukamnuni. No.: 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ .by Krishnalilâsukamuni. û No. 3-tea: (Kavya) by Vamana Bhatta. Bana, 04 0 No. 4mforasteroia: (Kâvya) by Nilakantha Dîk. shita 2 ) No: 5mghfaat: (Alankara) by Mahima Bhatta with commentary. 2 12 2 12 0 No. 6-megie: (Vyakarana) by Saranarleva. 2 0 0 No. 7-सतत्त्वप्रकाशिका (Vedânta) by Salâ. sivendra Sarasvati 24 No. 8-cena (Nataka) by Ravi Varma Bhîpa 10 No. 9-formatika (Vedânta) by Virâpâkshanâtha with the commentary of Vidyâchakravartin. 0 No. 10-AFIT (Gajalakshana) by Nilakantha. O 08 No. 11-manau (Nataka) by Kulasekhara Varma with the commentary of Sivarama. 24.0 No. 12 THI IH (Vedânta) by Bhagavad Alisesha with the commentary of Ragharananda. 0.80 No. 13-MITH Nataka) by Kulasekhara Värma with the conimentary of Sivarina 2 0 0 0 RS. AS. P. . No. 14-ihert: (Niti) by Kâmaudaka, with the commentary of Sankarârya. 3 8 0 No. 15-FTRIACA (Nâtaka) by Bhâsa. (Second Edition) 1 8 0 No. 16-slatioara (Nâtaka) by Bhâsa. 1 8 0 No. 17 TTTTA Do. Do. 1 0 0 No. 18-arcroftth (Stuti) by Nârâyana Bhatta with the commentury of Desamangala Vârya. 400 No. 19--ATTERT: ( Mîmâmsa) by Narayana Bhatta and Nârâ yana Pandita. 1 4 0 No. 20-yarhree (Nâtaka) by Bhâsa. 1 8 0 No. 21---10afah Du. Do. 0 No. 22--#7HITTIT -दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभङ्गानि (Nâtaka) by Bhâsa. 1 8 0 No. 23-trarerfolgreinta: (kosa) by Kesavaswâmin (Part I, 1 & 2 Kândlas) 1 12 0 No. 24 yanvargura: (Kavya) by Chakrakavi. 1 0 0 0 No. 25----Orging (Nyâya) by Gangadharasûri. ( 12 0 No. 26--17h (Nataka) by Bhása. 0 12 0 No. 27-ATTERT: (Kavya) by Kálidasa with the two commentaries, Prakásikâ of Arunagirinatha and Vivarana of Nârâyana Pandita (Part 1, 1 & 2 Sargas) 1 12 0 No. 28_aanga: (Dharmasútra) by Vikhanas. 0 8 0 No. 29 Tareforretan: (Kosa) by Kesavaswamin (Part II, 3rd Kânda) 2 4 0 No. 30-naredfaut (Silpa) 0 120 No. 31.marciorarsinta: (Kosa) by Kosavaswamin (Part III, 4th, 5th & 6th Kândas) 100 3 RS. AS. No. 32---Area: (Kavya) by Kálidâså with the two commentaries, Prakâsikâ of Arunagirinātha and Vivarana of Nârâyana Pandita (Part II, 3rd, 4th & 5th Sargas) 2 8 0 No. 33----TEAT: (Vyâkarana) with the commentary Dipaprabhâ of Narayana 08 No. 34-fra for: (97891278a:) (Nyâya) hy Râjachûdâmanimakhin. 1 4 0 No. 35--- After: (313HCE:) (Nyâya) by Gopinatha. 1 8 0 1 80 No. 36-maa: (Kâvya) by Kálidâ sa with the two commentaries, Prakasika of Arunagirinâtha and Vivarana of{Nûriyana Pandita (Part III, 6th, 7th & 8th Sargas) 3 () O No. 37– 3113=ET (Smriti) by Vararuchi with the commentary. Ot 0) No. 38-FITTIHAH (Koxa) by Ainarasimha with the commentary Tikâsarvasva of Vandyaghatîya Sarvånanda (Part I Ist Kânda) 2 0 0 No. 39.6EE (Nâtaka) by Bhâsit. 0 12 0 No. 40mq (Alankâra) by Râjânaka Sri Ruyyaka with the Alankârasarvaswa of Sri Mankhuka and its commentary by Samudrabandha. 2 8 0 No. 41-TEATEETH (Kalpa) by Apastamba with Vivarana of Sri Sankara Bhagavat Pada 0 () No. 42-sahnarzt (Nataka) by Bhâsa. No. 43-—-festuan (Kosa) by Amarasimha. with the two commentaries, Amarakosodghatana of Kshiraswamin and. Tikasarvaswa of Vandyaghatiya-Sarvanandı (Part II, 2nd Kanda 1-6 Vurgas) 2 8.0 0 No, 44- (Tantrn) by Bhattâraka Sri Vedottama, 0 4 0 No. 45-49677# (Prapanchahridaya) No. 46-Fatura: (Vyakarana) by Nilakantlia Dikshita, 0. No. 47-- TETEH (Vedanta) by Sri Krishnananda Sarasvati. (Part I) 1120 No. 48- Do. Do. (Part II) 200 No. 49_seatfat (Jyotisha) by Parameswara. No. 50-Tagunt: ( Alankara ) by Singa Bhopala. 0 0 No. 51... FASHTETIT (Kosa) by Amarasimha with the two commentaries, Ainarakosodyhâtana of Kshiraswâmin and Tíkásarvaswa of Vandyaghatiya Sarvananda (Part III, 2nd Kanda 7 - 10 Vargas) 2 0 0 No. 52-ACETINGTH (Rosa). by Amarasimha with the commentary Tikâsarvaswa of Vandyaghatîya Sarvananda (Part IV, 3r<l Kanda) 1 No. 53-4817: (Vedanta) by Prakasutinayatindra.. 0 12 0 No. 54---FickTimeart: (Vyakarana) 040 No. 5.5mm aramaF (Nataka) by Sri MahendravikramaFarman 08.0 $ . Apply to: The Agent for the sale of Government Sanskrit Publications, Trivandrum, 中