Bharti Bhawan Library Allahabad
The Parijatharanachampu
Front matter
KÂVYAMÂLÂ. 14.
THE
PARIJATAHARANACHAMPŮ
OF
S'ESHA S'RÎKRISHNA,
EDITED BY
PANDIT DURGÂPRASAD
AND
KÂSÎNÂTH PANDURANG PARAB.
000
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE “NIRNAYA-SAGARA” PRESS.
BOMBAY
1889.
Price 6 Annas.
(Registered according to act XIV of 1867.) ( All rights reserved by the publisher. ) काव्यमाला. १४. महाकविशेषश्रीकृष्णविरचिता पारिजातहरणचम्पूः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधिता। साच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। १८८९ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।) मूल्यं ६ आणकाः।
“ काव्यमाला। महाकविशेषश्रीकृष्णविरचिता पारिजातहरणचम्पूः। प्रथम उच्छ्वासः । सानन्दं मकरन्दबिन्दुनिकरप्रस्यन्दबन्दीभव- न्मन्दीभूतमिलिन्दतुन्दिलदलन्मन्दारमन्दादरम् । भूयः सौरभलोभसंभ्रमभराढुङ्गीभिरङ्गीकते भामायाः किल पारिजातकुसुमे जीयात्सतृष्णं मनः ॥ १ ॥ कारुण्यामृतकुल्यास्तुल्याः संसारसागरतरीणाम् । स्फुरदघरजनीकल्याः कल्याणं ददतु मङ्गलापाङ्गाः ॥ २ ॥ क्वचित्कनककुण्डलस्तबकमण्डिगण्डस्थलं क्वचित्कुटिलकुण्डलिप्रकटमण्डनाडम्बरम् । क्वचित्कनकसंनिभं वचन शारदाभ्रप्रभ महो महदुपास्महे विहितताण्डवं शांभवम् ॥ ३ ॥ वन्देऽतिसुन्दरमुकुन्दपदारविन्द मन्दाकिनीगलदमन्दमरन्दधारम् । इन्दिन्दिरीभवदमन्दपुरंदरादि- वन्दारुवृन्दमुरुमन्दिरमिन्दिरायाः ॥ ४ ॥ १. अयं कविः काश्यां ख्रिस्ताब्दीयषोडशशतकोत्तरभाग आसीदित्यायुक्तमेव का- व्यमालाया पञ्चविंशेऽङ्के कंसवधप्रारम्भे. एतच्चम्पूपुस्तकं त्वेकमेव जयपुरराजगुरुमि- थिलाभिजनश्रीनरहरिशर्मणां संग्रहादधिगतम्. तत्तु १७४३ मिते विक्रमाब्दे लिखितं प्रायः शुद्धं मनोहरं चास्ति. प्रारम्भे पत्रत्रयं केवलं जलदोषेण मनाङ्मलानिमुपगतं वर्तते. अस्य पत्राणि विंशत्यङ्गुलदैयाणि पञ्चाङ्गुलपरिणाहानि पञ्चचत्वारिंशत्सन्ति. प्रतिपत्र ६ पतयः, प्रतिपति च ४४-५६ अक्षराणि वर्तन्ते.
काव्यमाला । शारदा शारदाम्भोदविशदा भक्तसारदा । सा रदांशुहृतध्वान्ता पायात्सर्वविशारदा ॥ ५ ॥ नलिने पुलिने [च वामलूरे कृतजन्मा कवितावतारबीजम् । अनपार्थवचोमनोभिरामो मम कामोपचयं मुनिस्तनोतु ॥ ६ ॥ सन्तः सन्ति महीतले[ऽतिविपुले] द्वित्राः पवित्राः परं यत्पादाब्जपरागपांसुकेतकं पुंसामभिध्यायताम् । नैवाभ्येति सरस्वती विरसतां पारुष्यकालुष्यजां] स्फूर्जदुर्जयदुर्जनोल्मुकमषीपy च नास्कन्दति ॥ ७ ॥ सदा सानुशयो नीचपरोपकृतिदीक्षितः । सत्समाधिविधानज्ञो निर्ममः किं खलो मुनिः ॥ ८ ॥ अस्तिश्रीमदमन्दमन्दरगिरिग्रावस्थलप्रस्खल- त्वगत्तुङ्गतरङ्गभङ्गिसुभगस्वर्गापगारोधसि । श्रीगौरीशपुरीपुरःपरिसरे सत्संपदामास्पदं स्वःसाम्राज्यविडम्बि ताण्डवपुरं भूमण्डलीमण्डनम् ॥ ९ ॥ तस्मिश्च अस्ति स्वस्तिसमस्तनिस्तुलगुणप्रस्तारविस्तारभू- विश्वप्रस्तुतनिस्तुषामलयशःस्तोमप्रशस्तिश्चिरम् । ध्वस्तापत्क्षितिपालमस्तकमणिः श्रीवास्तकाख्यो महा- वंशो वैरिवधूस्तनाद्रिघुसृणालेपारुणास्ताचलः ॥ १० ॥ लोके यं कलिकालकल्मषमषीवर्षप्रसङ्गोलल- जम्बालैः परिपिच्छिले प्रतिपदं धर्मोऽतिखञ्जः स्खलन् । दौर्बल्यादवलम्बते किमपरं यो वीरहाराङ्कुरो- द्गारः(१) स्फारयशःसिताम्बरधरो धीरो धरायां ध्वजः ॥११॥ तत्रोदारपवित्रचित्रचरिते सद्विश्वविश्वंभरा- लम्बे शम्बरवैरिघस्मरपरिध्यानादवाप्तोदये । १. वल्मीके. २. जलनैर्मल्यसंपादक ओषधिविशेष:. ३. नदीविशेषोऽपि. NIA stian १ उच्छ्वासः] पारिजातहरणचम्पूः। संभूताः कति वा नवा नवनवारम्भातिसंभावित- स्फूर्जच्छारदशीतदीधितिधृताहंकारकीर्तिच्छटाः ॥ १२ ॥ महेश्वरपरः समुन्नयनसिंहरूपोऽभव- द्रुहामभवकारणं युधि समन्ततो माधवः । ततः स्फुरितकीर्तिषु त्रिषु सुगीतगोविन्दतो वरः किल नरोत्तमो जयति काशिराजानुजः (१) ॥ १३॥ अस्ति समस्तसामन्तसीमन्तिनीसीमन्तसिन्दूरपूरसूरास्ताचलः, सकल- जलधिवेलावलयितेलावलयतिलकायमाननिखिलभूपालमौलिमालामिलन्मुकु- टतटनटन्मणिमरीचिमञ्जरीपुञ्जपिञ्जरितमञ्जुपादाम्बुजः, बहलमिलदलिकुल- कलकलाकुलगलदविरलमदजलविलुलितविपुलकपोलपालिशालितुङ्गमातङ्ग- संघवितरणगजपतीकृतीवनीवनीपकः, प्रचण्डभुजदण्डचण्डिमाकर्णकुण्डलि- तकोदण्डहिण्डमानकाण्डप्रकाण्डताण्डवाडम्बरोद्दण्डखण्डितारिमुण्डपुण्ड- रीकखण्डमण्डिताखण्डभूमण्डलः, विलसदनवद्यगद्यपद्याद्यनेकहृद्यविद्या- विनोदोड्योतखद्योतीकतविद्यापतिः, विद्याधरप्रमुखमुखोदीर्यमाणकीर्तिम- धुरमदिरामोदमाद्यदमरनागरीस्मरापस्मारचिकित्सापरवशीकृतसुरसमानः, प्रबलतररिपुनृपतिवंशस्फुरदवन्ध्यविन्ध्याटवीदाहसमिद्धवैश्वानरो नरोत्तमो नाम । यश्च किल कमलोपलालितचरणयुगः, कमलोल्लसद्विलासचतुरान- नोपश्लोकितालौकिकयशाः, विक्रमाक्रान्तदिक्चक्रपाणिः, यशोदयावर्धितः, नित्यसत्यानुरक्तश्च, अनुयशःस्फीतपीताम्बरः, संमानितविबुधाधिराजः, क्षमोहहनधीरताधःकृतभुजगराजः, निकामकामनीयकोपचितसकलकामः, सकलपुरुषार्थसार्थसार्थवाही, पर्यायमात्रान्तरितः पुरुषोत्तमः पुनर्महीम- ण्डलमवातरत् । यश्च किल प्रथमः प्रथावताम, द्वितीय इव कनकाचलस्य, तृतीय इवाश्विनेययोः, चतुर्थ इव सप्तार्चिषाम्, पञ्चम इव पुरुषार्थानाम्, षष्ठ इव कुसुमशरशराणाम्, सप्तम इव ऋतूनाम्, अष्टम इव महर्षीणाम्, नवम इव वसूनाम्, दशम इव खण्डप्रवर्तकानाम्, एकादश इव दिगी- १. इलावलयं भूमण्डलम्. २. निखिलमहीतलयाचकः. -- काव्यमाला। शानाम्, द्वादश इव रुद्राणाम्, त्रयोदश इवार्काणाम्, चतुर्दश इव रत्नानाम् (१), पञ्चदश इव मनूनाम् । यश्च खलु विश्वविश्वंभराभरणव्या- पारभारचिन्तानितान्तपरिश्रान्तस्वान्तस्य भगवतस्त्रिविष्टपसृष्टिपरिक्ति- ष्टस्य विष्टरश्रवसोऽविश्रान्तविश्रान्तिस्कन्धः, स्कन्द इव भूभृदप्रतिहत- शक्तिः, पशुपतिजटाजूट इवोल्डसहोगिसंपन्नवसुधाकराही, गदाग्रज इवो- दग्रभुजबलदलितकुंवलयापीडः, कनकगिरिशिखरोद्देश इव विमलकमलो- दारमानसः, स्वर्वाहिनीप्रवाह इव विशुद्धपक्षपातपरैः श्रुतिमनोहारिव्याहारैः कृतचारुपदक्रमपरिश्रमैः सदाचरणोपाध्यायैरनेकराजहंसकुलैः सदोपास्य- मानः, समानोऽप्यसमानमूर्तिः, समदोऽप्यमदः, सुधर्माधिकृतोऽप्यवधी- रितसुधर्माग्रहः, सुविग्रहोऽप्यविग्रहपरः, शशीव कुवलयाह्लादकारी, तुहि- नगिरिरिव सर्वमङ्गलोद्भवः, भव इव विभूतिभूषितः, चण्डकर इव कराक्रा- न्तभूभृन्निवहः, पुरंदर इवानुरञ्जयति भुवनवलयम् । किं बहुना । शीतांशुर्भुवनं भ्रमन्भ्रमयते यत्कीर्तिलेशाकृति कृत्वा यत्तदमुं विधिः प्रतिनिशं यत्नात्परीक्ष्योज्झति । देवैरावदितं निशासु कषितं तारामिषात्खण्डितं दग्धं चण्डमरीचिरोचिषि ततो व्यक्तीभवच्छचामिकम् ॥१४॥ अपि च । कीर्त्या पारं प्रयान्त्या चरममचरमं लम्भितेन प्रतापा- दब्धीनां शोषवाती स्वसदशि निभृतं केनचित्क्वापि लीनम् । लक्ष्म्या कोषेऽहिनासौ वचसि च सुधया कामधेन्वा कटाक्षे कोपे वेडेन शश्वद्यशसि [च] शशिना वारिणा चारिनेत्रे ॥१५॥ स च सकलशिष्टोपजुष्टपादपीठः, समधिष्ठितोपायचतुष्टयः, कलितस- कलकलाकलापकौशलातिपेशलः, निखिललिपिलिखनशिल्पदेशभाषावि- शारदः, षाडण्यप्रवीणः, निःशेषिताशेषकार्यभारः, कदाचिच्चतुरविदुरस- न्दमध्यमध्यासीनः, कविकुलकलितललितकविताविनोदमोदमानमानसः प- १. रत्नान्यपि चतुर्दश प्रसिद्धानि. २. विष्णोः. ३. श्रीकृष्ण इव. विशेषोऽपि. ५. ज्ञातसमूहः. ४. हस्ति- ५ १ उच्छ्वासः] पारिजातहरणचम्पूः। दवर्णमात्रारसभावादि रसयन्, कदाचिच्च वैणिकोपवीणितमविगीतगीतमधु- रबन्धबन्धुरं प्रबन्धमनुसंदधानः, कदाचिच्च त्रिचतुरचतुरपरिजनावृतो वि- जननालापलीलामनुभवन्, कदाचिन्मृगयाविहारमनुसरन्, भूयांसमनेहस- मतिवाहन्कदाचिदचिन्तयत्- 'राजोचिताचारविचारचुम्बनाच्चेतश्चिरादञ्चति चञ्चलत्वम् । तच्चक्रपाणेश्चरणकचिन्तनान्न प्रच्युतं स्यादिह कः प्रकारः ॥१६॥ ततश्च । भूरिस्फुरन्मदगदाधिगताधिकाधि- चेतोगदीकरणमन्त्रमुपेन्द्रचर्चाम् । सन्नव्यकाव्यगुडजिढिकया चिकीर्ष- नादिक्षदेष किल शेषनृसिंहसूनुम् ॥ १७ ॥ तस्यादेशवशान्नरोत्तमविभोभूपालभूषामणेः कत केशवकेलिकोमलकलालापादपापात्मताम् । प्रस्तौतीह नृसिंहसूरितनयः श्रीशेषवंशोद्भवः कृष्णः संप्रति पारिजातहरणं गद्यैश्च पद्यैः शुभैः ॥ १८ ॥ श्रीकृष्णप्रवणात्मतारसमये महाड्मये सर्वथा दोषं हन्त हरिहरिष्यति यथा चेतःशरीरोद्भवम् । किं त्वाविवशात्मनामिह हठादोषं मृषा पश्यतां पैशुन्यादपकीर्तितो हरिकथाद्रोहाच्च नान्यत्फलम् ॥ १९ ॥ एवमनुश्रूयते-पुरा किल भगवान्वासुदेवः सकलमुनिमनुजवृन्दारक- वृन्दममन्दानन्दसंदोहतुन्दिलं कन्दलयिष्यन्, दलयिष्यंश्च मधुमुरनरककं- सकेशिमुखप्रखरखलनिवहम्, अहमहमिकाकलितललितलीलाकलेवरधरः, स्वयंवराहृतया विदर्भसुभ्रुवा भीमभूपालसौभाग्यवलभीकीर्तिपताकया भीष्म- ककन्यया रुक्मिण्या सुश्रोण्या चापरया मुरवैरिणः शरीरमात्रान्तरजी- वशक्त्या सत्यभामया भामिन्या कुरुविन्दकन्दलीद्वन्द्वकन्दलित इवेन्द्रनी- तरुणतरणिकिरणपरम्परापरिणततुहिनमरीचिचन्द्रिकाभ्यामिव aur काव्यमाला। , प्रभातगगनाभोगः, तुहिनगिरिजढुकन्यकाभ्यामिवेभकत्तिवासाः, प्रज्ञो- त्साहशक्तिभ्यामिवैश्वर्यभारः, श्रुतिस्मृतिभ्यामिव धर्मः, भागीरथीतरणि- तनयाभ्यामिवान्तवैदिप्रदेशः, नित्यसंनिहिताभ्यां हृदयनिहिताभ्यां ताभ्यां सनाथीकृतसंसारसारः, तदितरैरपि सुन्दरीसहस्त्रैः परिवृतः, करिराज इव करेणुभिः, सागर इव सरिद्भिः, तरणिरिव मरीचिभिः, स्तनयित्नुरिव तडि- द्भिः, परमात्मेव प्रकृतिभिः, अभिनववनविहारारामरामणीयकासु रैवतका- धित्यकासु ससुहृद्वन्धुपरिवारोऽभिरेमे । तथाहि । दरदलितकदम्बालम्बिरोलम्बसंप- त्प्रसुमरमधुधारासारसान्द्रासु तासु । अजवनपवनासु खैरमालिङ्गिताङ्गी- ररमयदयमुच्चैरङ्गना मङ्गलश्रीः ॥ २० ॥ तत्र च गिरौ परिमिलितमिलिन्दामन्दहिन्दोललीला- विसमरमकरन्दस्यन्दिमाकन्दसान्द्रे । रुचिरचिकुरभाराः सुन्दरीः स्वर्णगौरी- मुदिर इव मयूरीमोदयामास शौरिः ॥ २१ ॥ प्रतनुपवनवेल्लत्पल्लवा मल्लिवल्लीः पुलकमुकुलिताङ्गीरच्छवक्षोजगुच्छाः । अधरमधु वधूस्ता धूतहस्ताः सलीलं मधुप इव मधुद्विट् संविचिन्वन्विरेजे ॥ २२ ॥ प्रत्यापगं प्रतिवनं प्रतिशैलशृङ्गं प्रत्याश्रमं प्रतितरु प्रतिमञ्जुकुञ्जम् । प्रत्यङ्गनं प्रतिकलं कलयन्विलासां- स्तस्मिन्वसन्त इव कंसरिपुर्विरेजे ॥ २३ ॥ १. मन्दवातासु.
KANNEL
७
१ उच्छ्वासः] पारिजातहरणचम्पूः।
अपि च ।
स्वैरं तत्र सरोविहाररसिकः श्रीचन्दनालेपवा-
नन्वीतां मुहुरामृशन्मधुकरैर्माकन्दजां मञ्जरीम् ।
आचुम्बन्नपि पद्मिनीमभिनवामालिङ्गच वासन्तिकां
वासन्तोऽप्यथ भीतभीतवदमुं मन्दं सिषेवे मरुत् ॥ २४ ॥
एवमनवरतसुखसंदोहनिर्भरारम्भगम्भीरविभ्रमभरोदारेऽतिक्रामति कि-
यति समये कदाचिदुचितवचनचतुरा काचिदाचरितोपयाचितव्रतावसानम-
नुसंदधानाया भीमभूपालनन्दनायाः परा प्रतिकृतिरतिप्रणयपात्रं प्रिय-
सखी प्रथमोपनतप्रतीहाराधिगतागमना प्रविश्य सप्रश्रयमवनितलमिल-
दलककुललुलितधूलिना मौलिना प्रणम्य मस्तकन्यस्तहस्तसंपुटमविकट-
स्फुटाक्षरोत्तरमनतिलक्ष्यवैलक्ष्यलज्जाभिजात्यहर्षीत्सुक्यविस्मयमसृणमनति-
दूरादेव वासुदेवमवादीत्-'भगवन्भुवनभागधेय, विदर्भराजनन्दिनी तत्र-
भवन्तं सप्रणामप्रणयमिदं मन्मुखेन विज्ञापयति-
अद्यानवद्यचरितव्रतपारणायां
त्वत्संनिधि निधिमिवाधिहरं समीहे ।
त्वां खं मनोरथमिवाथ समाजयामि
पातिव्रतीर्जगति येन सभा जयामि ॥ २५ ॥
देवर्षिसिद्धनरकिंनरयक्षरक्षः-
क्षेत्रज्ञयज्ञफलदैवत दैवतं त्वाम् ।
हित्वान्यदस्ति कतरत्परितोषणीयं
तीर्थव्रतादिषु विशिष्य तु मादृशीनाम् ॥ २६ ॥
वासुदेवस्तु
आकर्ण्य वाचमुपकर्णवितीर्णचारु-
श्रीलोचनाञ्चलचलाचलकर्णपूरः ।
हर्षातिपीवरकलेवरपीतपर्व-
पाथोधिगर्वनिकरोऽधिकरोचमानः ॥ २७ ॥
INE
८
काव्यमाला।
स्मितसुभगकपोललोलमौलिः सरभससादरसानुरागचेताः ।
सपदि सदनमाससाद भैष्म्या द्रुतपदमुत्तरयन्फलेन दूतीम् ॥२८॥ (युग्मम्)
मरकतमणिवेश्मरश्मिजालैः कवलितमण्डल एष चण्डरोचिः ।
परिणतकुरुविन्दकन्दलश्रीहसितविलक्ष इवेक्ष्यते स्म यस्मिन् ॥ २९ ॥
स्फटिकभवनभाभियंत्र मित्रेऽभिभूते
हरितशिखररोचिश्चुम्बितादभ्रगर्ने ।
विधुरयमिति शङ्कां चक्रवाकी वराकी
परिहरति चकोरीचञ्चुमुद्रामुदीक्ष्य ॥ ३० ॥
प्रतिपथमथ पाथसाभिषिक्तं मृगमदनन्दनचन्दनोपलिप्तम् ।
कलितसुरभिधूपभूमधूमं घनघनसारपरागपूरगौरम् ॥ ३१ ॥
सरसकुसुमसंपदावकीर्ण भुवि पदमैन्द्रमिवात्मनावतीर्णम् ।
उपवनपवनोल्ललत्पताकाकुलकलितामलसौधतुङ्गशृङ्गम् ॥ ३२ ॥
अलिपिककुलकाकलीनिलीनस्वकलकलाकुलकामिनीकलापम् ।
द्विजगुरुसुरबन्धुतासपर्यापरपरिचारकसंभृतोपचारम् ॥ ३३ ।।
वलद्वलयवल्लरीपरिणमत्वणत्किङ्किणि-
प्रपञ्चितसुपञ्चमालपितगीतितालोत्तरम् ।
सलीलगतिसंभ्रमभ्रमिसुचारुचारिस्फुर-
त्प्रनृत्तपरिचारिकासहजचेष्टितैवेष्टितम् ॥ ३४ ॥
व्रतवेश्म विवेश केशवो निजशक्त्येव जयश्रियेव तत् ।
अधिदेवतयेव कुण्डिनाधिपपुत्र्या समधिष्ठितं चिरम् ॥ ३१ ॥
(सप्तभिः कुलकम्)
द्विजपूजनदेवसेवनादौ गुरुशुश्रूषणकर्मणि प्रसक्ताम् ।
परितः परिवारमादिशन्ती हृदयं कृष्णपदे निवेशयन्तीम् ॥ ३६॥
यदुवल्लभवल्लभासहस्रं परिवारं परमप्यपारमारात् ।
विनयप्रणयोपदर्शनेनानुनयन्ती परमां मुदं नयन्तीम् ॥ ३७ ॥
HLNIRNA ९ १ उच्छ्वासः] पारिजातहरणचम्पूः। परिचर्य शुभाश्चिरं चिरण्टीरुपगृह्याशिषमादरेण तासाम् । निजमागमनं प्रतीक्षमाणां स विदोद्भवसुभ्रुवं ददर्श ॥ ३८ ॥ (त्रिभिर्विशेषकम्) सचकितमुदतिष्ठद्यावदेषा न तन्वी स्तनजघनभरार्ता नाणोद्यावदङ्गम् । सरभसमभिस्त्याकस्मिकं सस्मितां तां गलवलयितबाहुर्दागुपावेशयत्सः ॥ ३९ ॥ सोदस्थादथ पुलकोद्गमेन तस्मै स्वेदाद्भिः समुदितपाद्यमाद्यपुसे । हृत्पद्मासनमधिरोप्य तं चिराय स्तम्भेनास्तमितरसान्तरं निदध्यौ ॥ ४० ॥ आनन्दकन्दलितसान्द्रविसारिवारि- पारिप्लवोत्पलविकस्सरचारुतारम् । 'आकुञ्चिताञ्चलमुदश्चितपक्ष्म किंचि- त्सा लोचनं हरिमभि न्यधिताय॑मर्घम् ॥ ४१ ॥ अथ रथचरणायुधं विधानाद्बहुविधनव्यपदार्थसार्थभव्यैः । परिजनरचितैर्गुरूपचारैरुचितमसौ न चिरेण पर्यचारीत् ॥ ४२ ॥ तदनु दनुजवैरिणः प्रियाणां प्रणयभरात्प्रणिनाय सा प्रियाणि । अदित बहु मुहुर्मुदा तदानी चिररचिताञ्जलि चास्थिताग्रतोऽस्य ॥ ४३ ॥ हुतहुतवहधूमश्यामलापाङ्गरिङ्ग- न्मसृणमुकुलरज्यन्नेत्रमास्यं स तस्याः। विलुलदलकमुद्यत्स्वेदबिन्दून्नमय्य स्मितसुभगममार्जीत्स्वोत्तरीयाञ्चलेन ॥ ४४ ॥ हरिकरपरिरम्भोज्जम्भिलास्यं तदास्यं प्रतियुवतिमुखेषु न्यक्षिपत्स्वेदलक्ष्मीम् । किमिदमधृत खेदस्वेदमालिन्यनेत्रा- रुणिमविनिमयेनाशेषशोभाममीषाम् ॥ ४५ ॥ १. सुवासिनी:. २. रुक्मिणीम्. । । है N ou काव्यमाला। परमपुरुषसेवालम्बते नो विलम्ब न च गिरमनुरुन्धे नैव वाम्यं फलन्ती । यदयमनवरोधः सावरोधोऽपि चैवं त्रिभुवनसुभगानां मूर्ध्नि तामभ्यषिक्त ॥ १६ ॥ एवमभिनवमहोत्सवपरम्परापरिचयपरिणतपरमपरितोषपोषिताशेषसुर- नरनिकरे हुतहुतभुजि पूजितद्विजसमाजे सभाजितमुरजिति सुभोजितदीना- न्धवधिरमूकानाथपान्थसार्थकलकलाकुलितदशदिशावकाशेऽवशेषितातिथि- भागधेयेऽवसरे व्रतावसानशंसि मूर्तमिव विधिफलं भगवतो विधेविधेयाशे- घसुरासुरोरगनरनिकरस्यात्मसंभवः प्रकृत्या कलहवल्लभो ब्रह्मिष्ठो ब्रह्म- पिनारदोऽम्बरतलादवततार । जटाजूटं मौलौ भसितधवलं पुण्ड्रमलिके दधानश्चैणेयीं त्वचमपि दधामोऽसफलके । वसानोऽन्यां वार्सीमपि कटितटे स्कन्धनिहित- वणवीणाक्वाणश्रवणवलितापाङ्गमुकुलः ॥ ४७ ॥ करकलितचलाक्षमालभारी स्फटिककमण्डलुदण्डमण्डनश्रीः । सुरवरनरकिंनरोपगीतः सुकनकपीतबेहपवीतवीतः ॥ ४८ ॥ मुनिरथ कलहप्रियः प्रकृत्या समुपससाद स सादरं सदारम् । मनुजमैनुजमादितेयभर्तुर्विभुमवतीर्णमिहात्मनैव पूर्णम् ॥ ४९ ॥ अथ हरिरभिसृत्य तं ववन्दे लघु सहसा सह सापि तेन भैष्मी । पदकमलविलोलकुन्तलालीमिलदलिपालिभृता नतेन मूर्ती ॥ १० ॥ ब्रह्मनिष्ठमकनिष्ठचेष्टितं विष्टपत्रितयशिष्टवरिष्ठम् । ब्रह्मसूनुमथ विष्टर श्रवा विष्टरे समुपविष्टमयष्ट ॥ ५१ ॥ धर्मधाममहसेऽर्व्यमनध व्यातनोदनघमय॑तमाय । पाद्यमाद्यमुनये विनिवेद्य स्वाद्यमार्पिपदथो मधुपर्कम् ॥ १२ ॥ १. वृक्षसंबन्धिनीं त्वचम् .. २. अनेकयज्ञसूत्रपरिवेष्टितः, ३. आदितेयभरिन्द्र स्यानज श्रीकृष्णम । S E PERSAREE S ।
HindGONS.NNN52 Heath १ उच्छ्रासः] पारिजातहरणचम्पूः । 'मन्दगन्धवहवन्दनचर्चाचित्रमाल्यवसनाभरणाद्यैः । वर्मखेदमपनीय मुरारिस्तं जगाद विनयप्रणयाभ्याम् ॥ १३ ॥ 'किं पुरा चकम पुण्यमगण्यं कैव्रतक्रतुभिरीजिम देवान् । यन्मनोरथपथातिथिमद्य त्वां हशा सकलया कलयामः ॥ १४ ॥ जन्म तन्मम जगन्महनीयं जीवनं भुवनपावनमुच्चैः । श्रीपतित्वमपि निश्चलमेवं यस्य मेऽद्य समभूः प्रतिभूस्त्वम् ॥१६॥ त्वत्समागमभवां मुदमन्तः संनियन्तुमपि न प्रभवामि । स त्वदागमफलं प्रतिकतु प्रष्टुमूहितुमहो कथमीशे ॥ ५६ ॥ अद्य सा बहु मता मम तावद्भीष्मजात्रभवता भवतास्याः । वैधसव्रतविधेरवसाने यत्समर्थितमिहातिथिभूयम् ॥ १७ ॥ कायवाङ्मनसशुद्धिसमृद्धैर्यस्तपोभिरघसंघमहार्षीः । त्वं सुरासुरसुरक्षणदक्षः पृच्छचसे स किमनामयमत्र' ॥ १८ ॥ इत्युदीरितगिरं स गरीयान्व्याजहार बहुगौरवगर्मम् । निर्भयं भवति बिभ्रति विश्वं मादृशां कथमिवाशिवशङ्का ॥ ५९॥ त्वत्कोपवह्निपरिदग्धहिरण्यकेशि- लकेशशङ्खमुखदानववंशबीजा । विटसुन्दरीनयननीरझराप्लुतापि दुःखाङ्कुरं कथमहो वसुधा तनोतु ॥ ६० ॥ अष्टाङ्गयोगश्रुतिशीलनाद्यैरधोक्षजं त्वामपरोक्षयन्तः । हर्ष व्रजामो न वयं यथेत्थमाराधयन्तोऽद्य सदारमारात् ॥ ११ ॥ अद्याभिवाद्येन्दुकलाकिरीटं शैवात्पदात्प्रत्यभिवर्तमानः । सानन्दमिन्द्रं सुरसुन्दरीभिर्बद्धोत्सवं नन्दनसीम्यदर्शम् ॥ ६२ ॥ विदर्भजां कल्पतरुप्रसूनफलोपदाभिः परिवर्धयन्तीम् । ससंभ्रमामिन्द्रवधूमप्टच्छं दिवौकसां कारणमुत्सवस्य ॥ ६३ ॥ अथ सा ससंभ्रममतिदूरावनतिवित्रस्तकर्णावतंसेन शिरसा परमोन्नति- रमणीयपरिणाममभिप्रणम्य समुत्फुल्लपुण्डरीकप्रतिमल्लनयना सस्मितम- वादीत् ।
१२ काव्यमाला। बहुना। 'मद्देवरोपेन्द्रवधूः पतिव्रता व्रतावसानेऽद्य सुरद्विजव्रजान्' । आबालगोपालमसौ तनोति भोः प्रकाममानन्दरसेन तुन्दिलान् ॥१४॥ आकर्ण्य तां कर्णसुधासवर्णा वार्ता व्रतोद्यापनजामुपागाम् । अकुण्ठितोत्कण्ठमिहाहमैन्द्रं पूजाप्रतिच्छन्दनमप्रतीच्छन् ॥ ६५ ॥ 'नानोपचारार्चननिष्क्रयेण प्रादादनुद्रुत्य सुदूरमिन्द्रः । यत्स्वर्गसर्वस्वतया तयापि शच्यादरावेशवशाद्वितीर्णम् ॥ ६६ ॥ अनन्यसामान्यगुणं वरेण्यं तत्पारिजातं क्षपितारिजात । तुभ्यं वितीर्य प्रतियातयामि त्वनिर्मितं प्रेममहार्घमय॑म् ॥६७॥(युग्मम्) कि नानापुष्परसेष्टगन्धवसनालंकारशृङ्गारस- चेष्टासौभगधर्मधर्मशिशिरान्सूते चिरं चिन्तितान् । ध्वान्तं हन्ति च बाह्यमान्तरमपि विटक्षुत्पिपासाजरा- जन्यं दैन्यमपाकरोति कुसुमं शौरे विधेः शासनात् ॥ ६८ ॥ इत्युदीर्य मुनिनामुनार्पितं पारिजातकुसुमं प्रणयेन । सादरं समभिसृत्य संदधे पाणिपल्लवयुगेन मुरारिः ॥ ६९ ॥ सुचिरमथ विचिन्त्य चक्रपाणिविरचयितुं रुचिराश्रयादशोच्यम् । व्यधित तदवतंसकं प्रियाया नयनचलाञ्चलचुम्बि कर्णमूले ॥ ७० ॥ मधुकररचिताधरोष्टदंशव्यसनविधूभितपाणिपल्लवाग्रा । विधृतविकचपारिजातपुष्पा परिशुशुभे सुशुभेव कल्पवल्छी ॥ ७१ ॥ अदरदलितकेसरारुणाङ्गैरलिभिरलम्भि चिराय तत्प्रसूनम् । सपदि च कुटिलैः प्रतिप्रियाणामुपचितरोषकषायितैरपाङ्गैः ॥ ७२ ॥ ततश्च रुक्मिणी चक्रपाणिचक्षुरुत्क्षेपलीलासमुन्नीतभावा भूयोऽपि भग- स्वयंभुवोऽङ्गसंभवमभिनवलावण्यलक्ष्मीनिक्षेपकलशेनेवाविरलतार- कानुकारिकुसुमनिकरकरम्बितालकावलीतिमिरभरातिसान्द्ररजनीप्रसङ्गसंकु- चितकमलमुकुलेनेव विरचितरुचिरसिन्दूरपूरपरिपूरितसीमन्तसीमोपसंजात- १. अस्वीकुर्वन्, २. पारिजाततरुप्रसूनस्. वन्तं HTTE । ।
ALLAHABAD १ उच्छासः] पारिजातहरणचम्यूः । १३ मञ्जुमाणिक्यमञ्जरीजरीज़म्भमाणशोणकिरणनिकुरुम्बेनेव सर्वाङ्गीणलाव- ण्यलतानूतनकिसलयेनेव शिरास विनिहितेन करयुगलेन कथंकथंचिदुद- ञ्चदुत्तरीयाञ्चला हरिणगृहिणीचक्षुराक्षेपदीक्षागुरुणा लक्ष्यमाणगतागतेन दरवलितापाङ्गभङ्गिरिङ्गणालिङ्गितापराङ्गनाभूविभङ्गभीषणकूरकटाक्षवीक्षण- प्रपञ्चेन ईषदुन्मिषितापरभागपरभागेण स्मेरतरतरलतारकेण जाह्नवीनी- रनिझरेणेव धौतकर्पूरपूरेणेव स्नेहसुधासारेणेव ईर्ष्यावेशविवशकामिनीकु-- टिलकटाक्षपङ्कसंकरप्रसङ्गकलुषितमिव वासुदेववदनं स्नपयता नयनयुगलेन मुनिमुखाभिमुखमूर्ध्वमुच्छ्वसितपक्ष्मणा नीहारगौरवैरिश्चरुचिपरम्परापरिचयो- ल्लसन्नयननीलनीरजप्रभापटलघटितसुरतरङ्गिणीतरणितनयासंगमालिङ्गित- मिवान्तरालमावेदयन्ती तं मुनि प्रणनाम । सोऽपि चैनां चतुर्वेदोदीरिताभि- राशीभिरभ्यवर्धयत्-'भद्रे, निःसीमसौभाग्यभाजनं भूयाः । शैलजेव तुहिनातिमौले रोहिणीव किल शीतमरीचेः । त्वं शचीव नमुचिप्रतिहन्तुर्वल्लभासु सुभगा भव भर्तुः ॥ ७३ ॥ भ्रूविभङ्गकुटिलान्यतुलेावेशरोषकलुषाण्यरुणानि । बिभ्रतु भ्रमरविभ्रममुच्चैस्त्वन्मुखेऽन्यवनितानयनानि ॥ ७४ ॥ वीतगर्वगरलास्तरलाक्ष्यः श्वासधूमपरिधूसरिताशाः । मन्युसंतमसनेत्रपयोदरेद्य दुर्दिनधियं जनयन्तु ॥ ७९ ॥ श्रीपतेर्निवससि त्वमेकिका चेतसीति सुचिरान्निरचैषम् । सर्वगर्वमतिखर्वयन्नयं यद्वतंसयति पुष्पमिदं ते ॥ ७६ ॥ कुसुमं ददतस्तवाद्य शौरेबहु मन्ये विषमे विवेचकत्वम् । पदमेतदनीटशीषु कुर्वन्न कथं शोच्यतमां दशामधास्यत् ॥ ७७ सौन्दर्यसौधवलभी त्वमिहासि नूनं नेत्रोत्पलप्रकरतोरणवत्यनेन । कण कृतेन हरिणा हरिणाक्षि यस्या- मादीपि दीपकलिकाकृतिनानुरागः ॥ ७८ ॥ अलभ्यमेवत्सुरसुन्दरीभिलब्धं त्वया पुष्पमहो निशम्य । देव्यो निजं जाम्बवतीपुरोगा विनिग्रहीष्यन्ति कथं नु रोषम् ॥७९॥ Innn भारती भवन RS काव्यमाला। सात्राजिती सात्र जितत्रिलोकीसौभाग्यभाग्याद्य विनिन्द्य रूपम् । उत्कर्षमाविवशा भवत्याः श्रुत्वा कथं वा सहसा सहेत' ॥८० ॥ इति विविधवचोभिस्तेजयिष्यन्सपत्नी- गुणगणगरिमाणं पारिजातस्य तस्य । अपरयुवतिदूतीकर्णकुम्भोम्भनीयं विदधदभिदधे तां भीष्मजां ब्रह्मसूनुः ॥ ८१ ॥ त्रिभुवनकमनीयं पारिजातप्रसूनं मुनिकथितमुदारं तत्प्रभावप्रकर्षम् । हरिविरचितमस्याः साधुसौभाग्यमुच्चै- रथ कथयितुमीषुश्चेटिकाः स्वामिनीभ्यः ॥ ८२ ॥ वैरिस्वैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छ्वासः किल पारिजातहरणे पूर्वोऽप्यपूर्वोऽभवत् ॥ ८३ ॥ द्वितीय उच्चासः। अथ तथाविधान्योन्यविविधविरोधवन्धबन्धुराः कथाः कथयति वि- धितनूजे उपजापकुशलास्तत्कालकलितकोपकुटिलकंधरमालोकयन्त्यः स्ख- लच्चटुलचरणविन्यासा मुहुर्मुहुर्मुनिकथाकर्णनवितीर्णकर्णा व्रजन्त्योऽन्तःपुरं परिचारिकाः समासेदुः । अथ ताः साभ्यसूयं सनिर्वेदं साधिक्षेपं सबाप्प- गद्दं पारिजातप्रसूनवृत्तान्तावेदनेन सकलावरोधवधूरुत्तेजयांचक्रुः । ताश्च तद्वृत्तान्तगरलमापीय विलुप्तसकलसंस्काराः स्तिमिताखिलकरणाः सद्यः- स्खलत्कुसुमाम्बराभरणाः शोणदृशः सर्वाङ्गीणस्वेदसलिलकलिताः काश्चि- कपायिताशया जुपूर्णिरे । काश्चित्समुज्झितविभ्रमविहाराः सोष्मनिःश्वसि- तधूमधूसराः कलितबहलकोपकृशानुसमिद्धा विन्ध्यविपिनवीथय इव प्रज- ज्वलः । काश्चिच चण्डनिःश्वसनसमुत्कम्पिपयोधरा वाष्पनीरधारासारहा- - सत्यभामा २ उच्छ्वासः] पारिजातहरणचम्पूः । रिण्यः साहंकारहुंकाररसिता विलक्षाननसुधांशवो वर्षानिशा इवान्धतमसे निममज्जुः । इतराश्च तत्र भूयो भूयः स्वदूतीः ससंभ्रमं प्रच्छन्त्यः पर- स्परं मन्त्रयमाणाः कर्णाकर्णिकयोपवर्णयन्त्यस्तमुदन्तं सत्यभामाकर्णपथा- तिथीचक्रिरे । अत्रान्तरे सरसिजासनसूनुसेवा- संभावनापरवशां प्रसमीक्ष्य भैष्मीम् । ईर्ष्याकषायकलुषं परिभाव्य शौरिः शुद्धान्तमाशु परिसान्त्वयितुं जगाम ॥ १ ॥ निष्क्रम्य रम्यतरहऱ्यातलात्स भैष्म्या व्याजेन सम्यगुपगम्य नियम्य वाचम् । चित्राणि तत्र तरुणीगणचेष्टितानि स्वैरं चरन्सुचिरमाकलयांचकार ॥ २ ॥ तथा हि। अंसानमत्करतलाप्तिपाण्डुगण्डा निःश्वासधूमकथितान्तरहव्यवाहाः । स्तम्भावलम्बितनवः स्खलदुत्तरीयाः काश्चिन्मुहुर्मुहुरलं मुमुहुर्विदग्धाः ॥ ३ ॥ उन्मीलिते मणिगृहे स्वमुखेन्दुबिम्बे काश्चिन्निरन्तरपरित्रवदस्वनीराः । निःस्पन्दमन्दमतयः स्फुटचन्द्रकान्त- पाञ्चालिकातुलकलाः कलयांबभूवुः ॥ ४ ॥ काश्चिद्रुषा विचकरुर्मणिहारहीर- चीराणि नीरजदृशोऽथ विधूय धैर्यम् । वीरायितं किमपि तत्र रुषोपदिष्टां येनाचिरेण बिभिदुः प्रकृति निसृष्टाम् ॥ ५ ॥ काश्चिद्विचुक्रुशुरुपेन्द्रममृष्यमाणाः काश्चित्प्रदुद्रुवुरथ द्रुहिणाङ्गजाय । MangaPRIY ६ काव्यमाला। काश्चित्क्रुधा विरुरुधुश्च विदर्भजातां दैवं च काश्चन निनिन्दुरनिन्दिताङ्गयः ॥ ६ ॥ अन्योन्यमेनां प्रशशंसुरन्या धन्याद्य मान्या ननु भीष्मकन्या । अर्हा हि दाशार्हपतेः प्रियाणां सत्पुत्रमित्राभिजनप्रबन्धैः ॥ ७ ॥ का मुह्यतु द्रुह्यतु का प्रसह्य सह्यं त्विदं नह्यसमञ्जसं नः । दंदह्यते यत्किल कूपकुल्या तुल्यायते. हन्त सुरस्त्रवन्त्या ॥ ८ ॥ काचाङ्कुरं काञ्चतु काञ्चनेन का वञ्जलं मञ्जुलयेच्च मल्लया। का स्पर्धयेत्सौधसुधां सुधां वा ज्योत्स्नी तमिस्त्रामपि रूपयेत्का ॥९॥ जाने जने तुल्यजनोपजन्यं जन्यं च सौजन्यमपीह मान्यम् । स्पर्धा तु का मेरुनमेरुरेण्वोः पिपीलिकापर्वतयोश्च मैत्री ॥ १० ॥ तथा कथाः कर्णपथातिथीनथ प्रियाजनस्योपनयन्नयन्नयम् । क्वचित्प्रकाशं क्वचिदप्रकाशवन्मुग्धावरोधं विचचार कौतुकात् ॥ ११॥ अथासां तथाविधोपनतकोपरूक्षाक्षरा अपि श्रुतिमनोहारिणीनिः- स्नेहा अपि सुधासारोद्गारिणीर्वाणीः शृण्वन्नमन्दानन्दसंदोहसागरावगाह- मन्वभूत् । चिन्तितवांश्च- 'मानुष्यस्य विभूषणं तरुणता तस्याः पुनर्वेभवं तस्यानामयमस्य चोन्नतकुचद्वन्द्वाङ्गनालिङ्गनम् । तस्याप्यश्रुकुलाकुलांसवलितग्रीवप्रतीपाङ्गना- वकालोकनमस्य च प्रणयिनीमानापनोदक्रमः ॥ १२ ॥ अपि च । उन्मीलत्कमनीयकोमलपदन्यासाः सहासाः स्फुर- च्छृङ्गारादिरसप्रपञ्चितसुधामाधुर्यधुर्याः परम् । सद्भावाः सदलंक्रियातिललिताः प्रौढाः प्रियासूक्तय- श्वेतः कस्य न मजयन्ति सहसा ब्रह्मप्रमोदार्णवे ॥ १३ ॥ तथा हि । अस्याः पद्मपलाशपेशलदृशः शृङ्गारवारी भरैः कामः काममुरोजकुम्भयुगलं स्वैरं चिरादुम्भति ।
- २ उच्छासः] पारिजातहरणचम्पूः। उत्सित्तादिह हन्त संतततरा तेषां यदुत्सर्पिणी धारा हारलतावितानकपटादुच्चैः समुन्मीलति ॥ १४ ॥ इयं च किंचित्कुचितलोचन विरचितभूभङ्गमभ्युन्नम- न्मध्यं वेल्लितबाहुवल्लि सरसव्याकोशवाम्बुजम् । प्रोदश्चत्कुचमानमत्तनु गलद्वेणीमिलद्भूतलं सज्या कामधनुर्लतेव हरति व्याजृम्भमाणा मनः ॥ १५ ॥ अस्याश्च कुचगिरिमधिरुह्योत्सर्पिणी भोगिनीव व्यथयति कबरीयं हारनिर्मोकमुक्ता । इह बहिरुपयान्त्या नाभिमूलागभीरा- त्सरणिरुदयतेऽस्या रोमराजीमिषेण ॥ १६ ॥ अत्रान्तरे सहचरीपरिचारिकाभ्यः साकूतकौतुकमवेत्य स सत्यभामाम् । सापत्न्यमत्सरचिरार्जितसत्यभामां तामाससाद सहसा मुरजित्सशङ्कम् ॥ १७ ॥ अथ किंचिदवाञ्चितानना विमना मानवती विमानिता । हरिणा परिणाहिसंज्वरा ददृशे साश्रुमुखी सखीटता ॥ १८ ॥ गुरुपीनपयोधरस्थलस्खलदच्छोच्छलदुष्णबाष्पवर्षेः । श्वसितैः परुषायतैश्चिरं परिवारं परतो निवारयन्ती ॥ १९ ॥ करतलकलितालकाकुलास्या बहलगलढिमलाश्रुशून्यशून्याम् । जनमुपनतमन्तिके स्टशन्तीमपि मुकुलामरुणां दृशं दधाना ॥ २० ॥ तरुणितकरुणाभिस्तामवष्टन्नतीभि- श्चटुलचटुभिर श्रुक्षामरुद्धाक्षराभिः । अकृतककृतकाकुव्याकुलाभिः सखीभिः प्रतिपदमनुनीयोन्मृज्यमानाश्रुपूरा ॥ २१ ॥ १. सत्यकोचाम. ARREST MES ३ Ashish काव्यमाला। पाणिशोणिममुखारुणिमभ्यां क्लुप्तकोकनदकोमलकान्ति । पङ्कजं नखमुखैर्विलिखन्ती घातुमात्तमपि मर्मरयन्ती ॥ २२ ॥ अनुहनु विनिविष्टपाणि जानुप्रणिहितबाहु मुखार्पिताङ्गुलीकम् । असकदपि शिरो विधूनयन्ती धृतरुदितस्मितविस्मयस्मयोमिः ॥ २३॥ परिसरमपहायोपास्यमाना सुदूरा- सभयमनुचरीभिः साञ्जलि प्राञ्जलाभिः । किमपि मनसिकृत्य प्रोत्पतन्ती पतन्ती कमपि च बत भूतावेशमाबिभ्रती वा ॥ २४ ॥ कौसुम्भं सहसा विहाय मलिनं वासो वसाना सितं भालालेपितरक्तचन्दनरसा बढेकवेणी चिरम् । वासःखण्डमकाण्ड एव सरुजेवाबध्य मध्यशिर- श्चन्द्राभं प्रियरोषचिह्नमपरं संत्यज्य भूषाभरम् ॥ २५ ॥ तल्पेऽनल्पतरे मृगाङ्करुचिरे बाहूपधाने मुहु- स्तापात्पार्श्वविवर्तनव्यतिकरेष्वालम्बितालीकरा । क्लिश्यन्ती सरसैर्मृणालवलयैः श्रीखण्डचर्चाचयै- स्तोयानलिनीदलैः किसलयैः किं चानिलैः शीतलैः ॥ २६ ॥ त्यज मलयजपकं भूरिभारं च हारं परिहर हरिणाङ्कं सानुकम्प पिधेहि । अयि मलयसमीरं प्राशय प्राशयामु बिसविषधरसनित्यनुव्याहरन्ती ॥ २७ ॥ दृष्ट्वा च तां क्रमेण क्रशिमाक्रान्तकलेवरां प्रियसहचरीकरोपनीत- नूतनतरतरुकुसुमकिसलयोपकल्पितानल्पतल्पमध्यमधिशयानां पन्नगीमिव निःश्वसन्ती निदाघदग्धदावहरिणीमिव कांदिशीकां नीरससरःशफरिका- मिव बहुशो विपरिवर्तमानां तथाविधमवस्थान्तरमनुभवन्ती नयनोपान्त- निपतद्वाप्पधारां सात्राजिती ग्रहग्रस्तामिव पहिलामिव मत्तामिव व्या- ध्यभिभूतामिव स्मरापस्मारपरवशामिवाशङ्कमानश्चिरं चिन्तयांचकार-
२ उच्छ्वासः] पारिजातहरणचम्पू: ।
'एतस्याः कमनीयकोमलकलालीलानिधेवेधसः
कान्ताकल्पनशिल्पसंभृतपरीणामातिचित्राकृतेः ।
रम्यो यौवनवच्चिराय विकृति ना(?) समुन्मीलय-
न्भावः कोऽयमहो महोत्सवमयः प्रत्यङ्गमालिङ्गति ॥ २८ ॥
तथा हि।
दौर्जन्यं किमहो मनोजहतकस्यैतत्समुज्जृम्भते
किं वादृष्टचरो ग्रहव्यतिकरो घोरः समुन्मीलति ।
यद्दावानलदह्यमानदमनोद्दामापदा(?)लम्बिभिः
कष्टं भोः परिपेलवैरवयवैः कान्ता चिरं ताम्यति ॥२९ ।।
अथवा कृतं संदेहेन।
सूदनं सदनन्तानां गुणानामृषिणार्पितम् ।
पारिजातमिदं जातमलेरिव कलेः पदम् ॥ ३० ॥
तस्मिन्विचिन्तयत्येवं निभृतं पश्यति प्रिये ।
विषसादाधिकं भामा शयने निषसाद च ॥ ३१ ॥
अवगुण्ड्य शिरस्तिरः शयानामतिमानामवगत्य सत्यभामाम् ।
स्मितगर्भमुखार्पिताङ्गुलीकं सशिरःकल्पितमुहहन्व्यलीकम् ॥ ३२ ॥
उपचारपरालिनिर्विशेष कलयन्पाणितलेन तालवन्तम् ।
स्वनिवेदनतो निषिध्य दासीरथ पार्श्व हरिराससाद तस्याः ॥ ३३ ॥
अथ तथाविधे व्यतिकरे करकलितकान्ताकर्णावतंसीकृतचारुपारिजात-
कुसुमपरागवासनासंभवश्चटुलितमदकलमिलदलिकुलकलितम गुञ्जारवस्ता-
लसन्तान्दोलनोन्मीलदनिलबहलितोऽन्तःपुरान्तरालेऽननुभूतपूर्वः कोऽपि
परिमलः समुल्ललास ।
तमथ कमपि गन्धं बन्धुरं सोपलभ्य
प्रभवमिह समाना तस्य जिज्ञासमाना ।
स्तिमितकरणवृत्तिागपावृत्य वक्र
किमपि तरलिताक्षी विस्मयाब्धौ ममज ॥ ३४ ॥
२० काव्यमाला। 'कथयत कथमेष प्रादुरासीत्कुतो वा कलयत च किमीथः(१) कर्षतीवेन्द्रियाणि' । प्रतिपदमिति वारंवारमाघ्राय गन्धं मधुमथनमहेला सा सखीरन्वष्टच्छत् ॥ ३५ ॥ अतरलसरलाङ्गुलीवृतास्यं कृतकरुषा हरिणोपरुध्यमानाः । मुहुरपि च तयानुयुज्यमानाः समदिहताधिहतास्तदा तदाल्यः ॥३६॥ सचकितमितरतरं दिशन्त्यस्तरलतराक्षि दिशो निरीक्षमाणाः । कृतकृतकविवादहेतुवादाः क्षणमथ तामतिवाहयांबभूवुः ॥ ३७ ॥ अकथयति तदा तदालिवर्गे स्वयमतियत्नसमुद्यतोवंकायम् । अलसवलितकंधरं समन्तादिशि दिशि साथ भृशं दृशं दिदेश ॥३८॥ स्वाधिकाधिपरिबाधितगात्रं सा विषादमिव मूर्तमुपेतम् । तं दृशा विकलया कलयापि प्राप्य रोषकलुषेण दिदीपे ॥ ३९ ॥ कोपपाटलितलोललोचनप्राञ्चलेन परिचुम्ब्य तमीपत् । द्राग्विवर्तितमुखी सखीजने भूविभङ्गकुटिलां दृशमूहे ॥ ४० ॥ रोषपोषितमुखाक्षिविकारा स्तम्भिताश्रुकुलसंकुलकण्ठा । नोपकल्पितमपि स्वहृदासौ मानिनी वचनचापलमाप ॥ ११ ॥ यत्तया न विभिदे मुखमुद्रापूर्य तद्वपुरमानिव मानः । कज्जलाविलगलज्जलदम्भादूरिधारमवहन्नयनाम्याम् ॥ ४२ ॥ अतिकृच्छ्रमुदस्य कण्ठकूपान्नयनद्रोणियुगप्रवर्तितेन । गलताश्रुजलेन सा तदानी सहसापूरि शुभावुरोजकुम्भौ ॥ ४३ ॥ सहसानुचरीः परीतपार्थाः सुदती सा नुदती सतीव्रतापम् । उदवेजयदश्रुमिश्रितास्या हृदयेशं ग्लपयांबभूव भूयः ॥ ४४ ॥ अयमवसर इत्युदीक्ष्य सख्यः समुपससाद संसाध्वसं मुरारिः । अथ करकलितं पटाञ्चलेनाननमपिधाय पुरश्चिरं रुदत्याः ॥ ४५ ॥ द्रुतपदमुपसुत्य स प्रियाया नयनजनीरभरैरपूरि पाणी । विलयमुपनिनीषिताय नूनं तदनुशयाय जलाञ्जलि विवित्सुः ॥ १६ ॥ १. सर हे प्राप्त PRIMARCAMERA २ उच्छ्वासः] पारिजातहरणचम्पू: । दयितानयनोदबिन्दुवृन्दव्यतिषङ्गी स तदञ्जलिर्जिगाय । स्फुटमौक्तिकपूर्णताम्रपर्णीजलपूरप्रविकीर्णशुक्तियुक्तिम् ॥ ४७ ॥ ललनावदनानुबिम्बचुम्बी प्रजहासाञ्जलिरच्युतस्य नाभिम् । विगलन्मकरन्दबिन्दुधारानिकरोन्मीलदनिन्दितारविन्दम् ॥ १८ ॥ ततश्च तत्कालगलदमलललनाविलोलनयननीरधारासारैरापूरयन्नञ्जली- न्भूयो भूयः प्रतिक्षिपन्नन्यानन्यान्मुहुर्मुहुराददानस्तर्पयन्निवेष्टदेवता द- यिताप्रसादासादनायार्चयन्निवोपनतसमुदयां प्रसादपूर्वसंध्यामुपहरन्निव क- रकमलकान्तिसंक्रान्तिरक्तीकताम्बुधारारुधिरचषकान्कोपकरालकालिकायै समुपशमयन्निवातिमानदावानलज्वालाकलापमासिञ्चयन्निव प्रतियुवतिसौभा- ग्यगर्वकशानुपरिशोष्यमाणां प्रियाप्रणयकल्पवली तल्लीनमना मनागुन्मा- जयन्कठिनकुचस्थलस्खलनसंचूर्णिताश्रुशीकरान्परामृशंश्च नयनयुगलम- दरदरकलितकम्पेनोत्तरीयाञ्चलावलम्बिना पाणिना करकलितचारुचिबुकंमा- स्यमुन्नमयन्ननुनयन्नेनां मानापनोददक्षाणि श्लक्ष्णानि वचांसि वक्तुमारेभे- 'विरम विरम वामेऽमङ्गलादश्रुपाता- दलमलमतिमात्रं गात्रसंतापनेन । न खलु न खलु कान्ते कारणं तर्कयामः कथय कथय किं स्यादत्र बीजं गरीयः ॥ ४९॥ वपुषि विशदमेतत्संदधानाम्बरं वं किमिव सुमुखि शोभां शारदीमादधासि । यदिह विषमतापोत्रासमस्माकमित्थं वितरसि बहुधान्यैर्लक्षणैर्लक्ष्यमाणा ॥ १० ॥ विलुलदलकजालः केशपाशो न शोभा कलयति कुचपीठे संलुठन्मुक्तमाल्यः । प्रणिहितसुमनस्कः स्नेहसंवर्धितोऽसौ कुटिलमलिनवृत्तिवन्धनस्यैव योग्यः ॥ ११ ॥ तव शिरसि ललाटारोधि नोषणीषखण्डं रमयति मम चेतः श्वेतमेतत्सुकेशि
२२
काव्यमाला।
उपनमति किमिन्दुः सेवितुं त्वन्मुखेन्दं
ग्रसितुमुत तमस्त्वत्केशपाशापदेशम् ॥ ५२ ॥
अयमपि तव भाले चन्दनालेपपङ्कः
कलयति बत बाले कं न रक्तो विरक्तम् ।
चिकुरनिकरराहुग्रस्यमानानुरज्य-
त्परिसरमुखचन्द्रभ्रान्तिमुच्चैर्ददानः ॥ १३ ॥
किमिति किल कपोले लोलबाष्पाम्बुधारा-
व्यतिकरहतकान्ति वासनामात्रशेषाम् ।
मदुपरचितचित्रां पत्रवल्लीमतल्ली
ग्लपयसि धिगधीरे मन्मनोनिर्विशेषम् ॥ १४ ॥
अधरितमधुसिन्धुः साधुबन्धूकबन्धु-
वलितकमलगन्धो बन्धुरस्तेऽधरोष्ठः ।
प्रथमगलितराजत्साञ्जनाश्रूदबिन्दुः
कलयति किल गुञ्जापुञ्जम त्वमेषः ॥ १५ ॥
वदनमदनदिव्यस्यन्दनालोलचक्र
रतिरतिपतिदूराष्टकोदण्डबिम्बे ।
कुसुमविशिखलक्ष्याभ्याससंधानयन्त्रे
कथय कथमहासीः कुण्डले मण्डने ते ॥ ५६ ॥
सुमुखि शिशिररोचिर्वक्रमेतद्यदीया-
श्रितनयनचकोरद्वन्द्वमन्तमयूखैः ।
जडमतिसुहितत्वादुद्दमत्य श्रुदम्भा-
दमृतमिव कलङ्कस्यन्दपङ्कप्रसङ्गम् ॥ १७ ॥
अयि वदनमिदं ते स्त्यानपीयूषपात्रं
द्विरदरदनखण्डापाण्डुगण्डस्थलथि ।
अविरतपरितापात्प्रस्रवदरिधार
यदसलदहहापक्षीयते पक्ष्मलाक्षि ॥ १८ ॥
२ उच्छासः] पारिजातहरणचम्पूः । करकिसलयशय्याशायि निःश्वासतापा- दविरलगलदश्रु त्वन्मुखं मां दुनोति । द्विजपतिमभिभूयोद्भूतपापानुतापं कुचशिवमभिषिञ्चत्वं किमेतत्पुनीते ॥ १९ ॥ किं खिद्यसे मलयजैर्मलयानिला किं वा मृणालवलयैर्नलिनीदलैर्वा । संशीलितापि ननु शीतलसंविधानै- हो हन्त हन्त हृदयं मम दन्दहीषि ॥ ६० ॥ अयि विमुञ्च रुषं मयि कोपने वद कमप्यथवा मम दुर्नयम् । किमिति राञ्जन(३) मञ्जनवारिभिः सुमुखि संजनयस्यसमञ्जसम् ॥६१॥ हृदि कदापि च कापि चकास्ति चेत्त्वदपस तदवैषि यथातथम् । मम हृदेव परं भवती यतः सकलवृत्तिषु साक्षितया स्थिता ॥ १२ ॥ प्रतियुवतिमुखादनार्यमायें किमपि वचस्तव गोचरः किमासीत् । कथय मम कयात्मनानुरागे वचनमयेऽपि कृतो बतान्तरायः ॥ ६३ ॥ कपटविकटचेटिकावचोभिर्गमयितुमर्हसि नो मनोविकारम् । रचयितुमितरेतरं वियोगं कलिकुतुकग्रहिलाः खला भवन्ति ॥ ६४ ॥ त्वमसि मम मनोविनोदभूमिः परमपरा मुखरागमात्रपात्रम् । वद वदनविनिजितेन्दुरन्या जयतितमां कतमातिमानयोग्या ॥ १५ ॥ खप्नेऽपि चेद्वेषमुपाचरं ते द्वेषं न कि जीवितमात्मरूपे । तद्वैशसं सुन्दरि मां दुनोति त्वद्वेषमातन्वदतीव शोच्यम् (१) ॥६६॥ किं च । वं चन्द्रिका चेत्तदहं चकोरस्त्वं दीपिका चेत्तदहं प्रकाशः । कादम्बिनी त्वं यदि चातकोऽहं मामन्यथा मानिनि मा स्म बुद्धः॥६॥ नित्यं प्रियं मामवगत्य सत्यं सत्ये द्वितीयं त्वदभिन्नरूपम् । आरोपयस्यद्य वरोरु वाच्यं नूनं तदज्ञानवशंवदं ते ॥ ६८॥ ANTAR
२४
काव्यमाला।
किं बहुना।
उदश्चय विलोचनं रचय पद्मसंकोचनं
समालप विकस्वरं ननु पिकस्वरं नीचय ।
स्मितं रचय विन्दतां सपदि मन्दतां चन्द्रमा
विधेहि परिरम्भणं त्यजतु जम्भणं चन्दनम् ॥ ६९ ॥
तापं मुश्च विमुञ्च कञ्चुक चिरावक्लेदि(१) बाष्पायितं
संयच्छालकमस्तु वस्तुनि मया ख्याते मनागादरः ।
सान्द्रप्रेमपरम्पराभृति मयि प्राप्तेऽपि हन्त प्रिये
नन्तुं मन्तुमहो न मन्तुमुचितं क्षन्तुं परं भामिनि' ॥ ७० ॥
ततश्चेत्थमनुनयति भगवति रथाङ्गपाणौ शिरःसंजिताञ्जलौ कुञ्जराधी-
शकुम्भदम्भप्रतिपक्षवक्षोजचुम्बिचामरचारुचिकुरनिकरा बाष्पबिन्दुवृन्द-
तारकोपास्यमानास्यतुहिनकिरणा मुहुर्मुहुविनिःश्वसन्ती कथंकथंचिन्निरु-
ध्यमाना श्रुमिश्रकण्ठगुनु(१)गद्गदं सोपालम्भं सत्यभामा क्षामाक्षरोत्तरमिद-
मवादी-
'अलमलं कमलाधिपते व्रज व्रजजनप्रिय नाथ नमोऽस्तु ते ।
अपि कृतं कितव श्रितकैतवैरनुनयैर्ननु यैरवहस्यते ॥ ७१ ॥
ऋजुतया स्वतयाहमबोधिषं ननु भवन्तमियन्तमनेहसम् ।
कपटनाटितके घृतपाटवे चिरसमुत्स्यधुना मधुनाशन ।। ७२ ॥
निरणयं प्रणयं तव माधव ध्रुवमबोधमहं तव शुद्धताम् ।
बहिरिवान्तरपि प्रथयस्यहो परिजनेऽरिजनेऽपि च कृष्णताम् ॥७३॥
अपि बलिच्छलनात्कुहनानटी विकटवामनतां तु तवामनन् ।
यदि जनस्त्वयि विश्वसिति स्फुटं महदहो ननु मोहविजम्भितम् ॥७४॥
नरहरे भवतः प्रथिता परं दिति जनिर्दलनाय कठोरता ।
संपदि माशि तामबलाजने न कृपणे उप्यवलम्बितमहसि ॥ ७ ॥
ऋजुमदुप्रकृतौ कृतसंश्रये माय जने जनयन्ननयं स्वयम्
विदधदीदृशमच्युत वञ्चनं फलमहो मनसीह किमीहसे ॥ ७६ ॥
IN *HAIN २५ ३ उच्छ्वासः] पारिजातहरणचम्पूः । श्रव्यं श्रुतं दृश्यमपीह दृष्टं लब्धं फलं माधव जीवितस्य । द्रष्टास्मि भूयः कियदय कष्टं येनासवो नाशु बहिर्भवन्ति ॥ ७७ ॥ नाथामि नाथामितमेतदेकं दास्यस्मि तावद्यदि दास्यसि त्वम् । तपः सपत्नीविजिताद्य कुर्या येनानुकुस् तव वल्लभायाः ॥ ७८ ॥ उपचितगुरुमन्यूत्पीडबाष्पार्धरुद्धा- क्षरमिति हरिमुक्त्वा भूरि भूयो रुरोद । वदनमपिदधाना तस्य पीताम्बरेण प्रसभमुपहसन्ती सा तडित्वन्तमुच्चैः ॥ ७९ ॥ वरिस्वररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छासः किल पारिजातहरणे जातो द्वितीयः परः ॥ ८० ॥ तृतीय उच्चासः। अथ तथा विपरिदेवमानां तत्कालकरुणार्णवष्ठवमानमानसो वासुदेवो- ऽप्येनां ससंभ्रममतिस्नेहं भुजाभ्यां परिरभ्य प्रेमनिर्भराणि वचांसि वक्तु- मारेभे–'देवि सात्राजिति, कथमनवबोध्यैवापराधमुपालम्भवाक्शरप्रहा- रैरित्थं कदर्थ्यतेऽयं जनः । येनैतास्तव तरलनयननीरधाराः परिक्लेदय- न्तितमां मन्मनोवृत्तिम् । एते च निःश्वासानिला वरविषधरफूत्कारविषमा मर्मभेदिनो जर्जरयन्ति मे हृदयम् । न चात्यन्तमसंस्तुतं तवातिकोपका- रणमिदमुत्प्रेक्षितुं क्षमम् । तत्कथय कोऽत्र हेतुः । कया विरोषितासि । कयावज्ञातासि । कयासूयितासि । शापितासि मे जीवितेन । न खल्वप- राधमनवबोध्यैव प्रभवः प्रभवन्ति परिजनानुपालन्धुम् । तदावेदय नि- दकारणम् । अनुगृहाण माम्' इत्यभिदधानमियमप्यपमृज्य लोचनजल- मवनताननं सगद्गदमिदमवादीत् - १. अपिदधाना पिदधती. - २६ काव्यमाला। 'सैषापरा मम नृशंस विडम्बनान्यै- रुद्धोष्यमाणमपमानमहो मदीयम् । भूयोऽनुवादयास यत्किल मन्मुखेन जानन्नपि स्वकृतिमज्ञ इवाकृतज्ञः ॥ १ ॥ विश्वंभरं भुवनसाक्षिणमामनन्ति त्वां तद्भवानथ कथं स विदांकरोतु । मवेदनां बत शठा न हठात्प्रयान्ति स्वायत्ततामकरुणास्तरुणा भवन्ति ॥२॥ यत्वं मम प्रियतमा चलचित्तदन्ति- संदानमित्यभिहितं यदि विस्मरेस्त्वम् । चित्रं न तत्र मदवद्यमिहाद्य कृत्वा जातिस्मरोऽपि लघु विस्मृतवानसीत्थम् ॥ ३ ॥ अयि मयि स्वयमेव यदर्पितं जगति सौभगवैभवमद्भुतम् । अपहृतं यदि हन्त न नः क्षतिर्निजपरिश्रम एव वृथाकृतः ॥ ४ ॥ तदपहार्यमभूद्यदि ते हृदि प्रिय किमित्यहहास्मि विडम्बिता । त्रिचतुराहमुदुह्य समुन्नतं प्रतिजनं विनमद्दधती शिरः ॥ ५ ॥ यन्नारदस्तेऽदित पारिजातं तत्वप्रियायै ददता त्वयाद्य । मानोऽभिमानोऽपि मनोऽपि किं वा नादायि नाहारि ममेह किं वा॥६॥ वाचाटतां स्पष्टयतो द्विजाच्चिरादाकर्णयंस्तद्गुणवर्णनानि चेत् । सुदुर्भगोऽयं परिहासभाजनं जनः किमर्थं तदिहामिभाषितः ॥ ७ ॥ त्वामाश्रवं खाश्रयमाप्य सर्वा गर्वात्पराभूय पराः सपत्नीः । स्वप्नेऽपि नाशङ्किषि मानभङ्गं यमङ्ग संप्रत्यहमन्वभाविषि ॥ ८ ॥ शृण्वन्गृणन्विप्रियमाचरन्मे त्वं धूर्त चेन्नात्रपथास्तथापि । सात्राजिती सा त्रपया खमास्यं किं दर्शयेइत्यसुहृत्समाजे ॥ ९ ॥ धिक्तं निजे यो विदधाति कैतवं निजं च धिग्यः सहसा न दीर्यते । अलं वचोभिर्विदितोऽसि संप्रति प्रिय प्रतिप्रेयसि गच्छ सत्वरम्' .॥ १०॥ १. 'वचने स्थित आश्रवः'. का २७ ३ उच्छ्वासः] पारिजातहरणचम्पूः । इति निशम्य गिरं गुरुगद्गदां स दयितां निजगाद गदाधरः । विधुरतामधरक्षरदक्षरद्रवसुधाभिरथ प्रशमं नयन् ॥ ११ ॥ 'अयि निधेहि विधेयजने दृशं भृशममुं च विमुञ्च शुचां चयम् । न खलु भामिनि भामिनि भालय(?) त्वदवधीरणया विधुरीकृतः ॥१२॥ यदि रुषा [परुषा]क्षरमात्थ मा यदि कलं कलकण्ठि समालपः । तदपि मामवगच्छ वशंवदं किमधिकं प्रभवेऽद्य निवेद्यते ॥१३॥ यदि विदर्भभुवे स नतभ्रुवे खयमदात्कुसुमं मुनिरादरात् । प्रणयदक्षिणतादि निरीक्ष्य तन्न खलु मामनुयोक्तुमिहार्हसि ॥१४॥ यदववर्णददो गुणगौरवं न कलयापि किलाशृणवं तदा । त्वदवतंसविधावुचितं परं सुरतरुप्रसवं परिचिन्तयन् ॥ १५ ॥ यदि ददत्कुसुमं स मुनिर्गुणानभिदधञ्च निवारयितुं क्षमः । आये हृदापरुषा परिभावयेनिरनुरोधतमा हि तपोधनाः ॥ १६ ॥ सुरतरुप्रसवं तु यदीहसे तदियदर्थमियत्किमु खिद्यते । अपि हरि परिभूय तरुं दिवस्तव चिरादजिरेऽपि निवासये ॥ १७ ॥ सत्यभामा तु तदाकर्ण्य घुणाक्षरन्यायागतमिव रभसवादमिममाशङ्क- माना मनागभिनवजलदजलधारोपसिक्ता क्षितिरिवोच्छसन्ती प्रभातवेलेव विगलन्मोहतिमिरपटला उत्तरसं(व)ध्येवावन्ध्यरागशिथिलपरितापा समु- पसन्नतरणिसमुदया सरोजिनीवेषदुल्लसितमुखाम्बुजा निजाशयातिशायिभु- जगशायिवचनमेव ससंभ्रमं द्रढयन्ती भूयोऽपि तमेवमाबभाषे-'आर्य, यद्येतदपि वाङ्मात्रमेव तदलमायास्य वाग्देवताम् । नैतावतापि प्रत्याख्या- तप्रकृतिः परप्रत्ययोत्पादनाय प्रभवसि । हृदयमुखसंवादितां तु तावकीनां सदनुसारिणी कृतिरेवावेदयिष्यति । वाङ्मूला हि व्यवहारा महायसाम् । तथा हि। वाचमेव परां देवीं भूतानि समुपासते । सुरासुराः सृष्टिलयौ सत्यासत्ये श्रुतिस्मृती ॥ १८ ॥ धर्मस्तेन हतः सर्वो येन वागुपहन्यते । अयं चासौ च लोकौ द्वौ वे कुले चाकुले कृते ॥ १९ ॥ -
२८
काव्यमाला ।
तदिह यदि कथंचित्पारिजातद्रुमः क्षमा-
मवतरति विधातुं सुन्दरं मन्दिरं मे ।
प्रतियुवतिषु धन्या विश्वमान्या मुरारे
सपदि विगतशोका पूर्णकामा भवेयम् ॥ २० ॥
तदाकर्ण्य वासुदेवोऽपि 'देवि सात्राजिति, परमनुगृहीतोऽस्मि यदिय-
न्मात्रेणैव कर्मणा मामानृण्यमुपनिनीषसि । किं बहुना भाषितेन, सुदुर्ल-
मेऽपि तवाभिलषिते न विषण्णतामेति मञ्चेतः, किं पुनर्दक्पातमात्रवित्रा-
सित्रिदिवपतिविततपतन्निःश्वासवात्यापातनीये पारिजाततरौ। तन्निवारय
नेत्रवारि वारिजाक्षि । धारय धैर्यम् । नाशय शोकमशोककिसलयशये ।
परिहर सितवसनमसितनयने । परिगृहाण मय(१)मण्डनानि चण्डरोषे ।
अनुजानीहि मामहंकारमिव महेन्द्रस्य दिव्यतरुमवतारयितुम् । अवजा-
नीहि पुरंदरसुन्दरीम् । अयमहमक्रमविक्रमाक्रान्तशक्रः सुरतरुमाहरामि ।
तदुत्तिष्ठ । संभावय द्विजदेवपूजोपकरणनियोजनेन परिजनम्' इत्यभिद-
धानस्तत्कालसमुल्लसितवदननयननीरजां शरदमिव पूर्णकामां सत्यभामामा-
लिङ्गच करकिसलयेनालम्बमानोऽह्वायाह्निककरणायोदतिष्ठत् । उत्थाय
च ससंभ्रमोपनतपरिचारिकाकृतोत्कर्षकीर्तनाकर्णनापूर्णकर्णकलशगौरवादि-
वेषदवनमितशीर्षया सुरतरुहरणवितर्कभ
सुरतरुहरणवितर्कभङ्गुरभूलतया तयानुगतो नितान्त-
कान्तं निशान्तमाविवेश । प्रविश्य च विश्वात्मा विविधसंविधानं ध्याना-
वधानाह्वानसद्यःसमुपनतमत्यादरेण सत्यभामया सह साधु सत्कृत्य [कृत्य]-
विदशेषविश्ववन्दनीयचरणनीरोऽपि तदीयपादप्रक्षालनसाललसंग्रहपुरःसर-
मुपचारचतुरश्चतुराननतनयमनल्पकल्पितैराकल्पैरलंकृत्य रस्यलेयचोष्यपे-
यभक्ष्यभोज्यकल्पनाविकल्पितैरन्नैः परमात्मा हेममये भाजने समभोजयत् ।
अथ जगद्गुरुणा हरिणादरादनुमतं बुभुजेऽभिमतं मुनिः ।
अशनजातमजातपरिश्रमः क्रमविदेष ददेऽथ शुभाशिषः ॥ २१ ॥
स च ततोऽनुमतो मुनिनामुना हरिरभामनया सह भामया ।
समघसहिघसं परया मुदा जगदघोघविघातविशारदः ॥ २२ ॥
समनुभूय चिरं स मुखासिकामथ परस्परमिष्टसुखादिभिः
निगमिषुस्त्रिदिवं मुनिपुंगवस्तमनुदारमुदारमुदाहरत् ॥ २३ ॥
२९
वाद,
३ उच्छ्वासः] पारिजातहरणचम्पूः।
'आप्टच्छे त्वाममरनगरी गन्तुकामो महशं
सोमं सोमोज्ज्वलमनुमतास्तत्र वृत्रस्य हन्त्रा।
उद्गास्यन्ति त्रिदशसमितावद्य गन्धर्वसंधा-
स्तगान्धर्वाकलनकुतुकेनाहमामन्त्रितोऽस्मि' ॥ २४ ॥
तदाकर्ण्य चाकर्णितत्रिपुरहरणपरिचरणानुस्मरणक्षणस्तिमितसकलेन्द्रि-
यत्तिः सद्यः सतन्द्रनयनमुकुलगलदमलहर्षबाष्पशीकरासारसंस्नपितह-
दयपीठः परमेष्ठितनयविरहवेदनामिवावेदयन्नविकस्वरविस्वरां गिरमुदा-
हर्तुमारेभे-'भगवन्महर्षे, प्रत्यूहव्यूहबहलानि श्रेयांसीति सत्योऽयं प्र-
यदनेककालकल्पितानल्पसंकल्पजालकलनया कथंकथंचिदुपाकृष्टो-
ऽपि स भगवान्सुरपुरपुरहरमहोत्सवालोकनकुतूहलेन दूरमपद्वियसे । तह-
रमीश्वराराधनान्तरायाचरणाद्विरहवेदनानुभव एव मादृशाम् । तद्गच्छ
खच्छन्दमिन्द्रसदनम् । ममापि महेन्द्रपादपद्मदिदृक्षोत्तरलयति मान-
सम् । तदनुज्ञापेक्षा तु क्षपयति समयम् । किं तु
सदनमुपगतेन श्रीमताद्यामराणां
दनुतनुभववंशोदामदावानलौजाः।
प्रणयविनयपूर्वं पूर्वमुक्त्वा प्रणामा-
निदमथ मम वाच्यो वाचिकं नाकपालः ॥ २५ ॥
कि च।
न हारे नाहारे न च वनविहारे न च हरे
न शस्त्रे नो शास्त्रे न परिचरणे नापि च रणे ।
मनागप्यासङ्गं कलयति कदाचिच्चिरभव-
द्भक्त्पादाम्भोजाकलनकुतुकोत्कं मम मनः ॥ २६ ॥
अपि च ।
अवति भवति विश्वं क्रीडतो वीतचिन्तं
मम मनसि कदापि क्वापि केनापि नापि
पदमिह कलुषेण प्रायशस्त्वाधयो मां
विदधति दुरवस्थं संप्रतीमे प्रतीपाः ॥ २७ ॥
३०
काव्यमाला।
तथा हि।
एकेनानेककामान्कलयितुमनसा याचितः प्रागदित्या
सद्यस्तुष्टेन सृष्टस्त्रिभुवनसुभगंभावुकः कश्यपेन ।
शच्या रुच्यास्पदं यो व्यरचि तरुवरोऽदायि दानं वधूमि-
देवानां पुण्यकाख्यव्रतचरणविधौ पारिजातोऽभिजातः ॥ २८ ॥
श्रुत्वैतद्भातृपत्न्यस्तव चिरममराधीश काङ्क्षन्ति वृक्षं
कर्तु पुण्यव्रतं तत्कतिचन दिवसान्द्वारवत्यामुपेत्य ।
सत्याया निर्मिमाणः सुरपुरमजिरं राजतां पारिजात-
स्तात प्रातः किलाथ व्रतचरणविधेः स्वर्गमभ्येतु भूयः ॥ २९ ॥
अपरमपि तथा तथा यतेथाः स माय दयेत यथा ददेत वृक्षम् ।
अहमिह परिभाव्यपौरुषं ते मुनिवर दूत्यविधौ नियोजयामि ॥ ३० ॥
नारदस्तु तदाकर्ण्य सद्यः स्मितसुधाधोरणिधवलितगदाधरकलेवरो
नासाग्रविनिविष्टढष्टिः क्षणमनुध्यायन्किचिदाधूतमूर्धा विमनायमान इव
वासुदेवमिदमवादीत्-
'अयि केशिनिषूदन व्रजेयं कथयेयं तव वाचिकं मघोने ।
तदपीह विधेयसिद्ध्यसिद्धी मनास खे विमृशाथ संदिशाशु ॥ ३१ ॥
महतामहताशिषां परस्मात्फलसिद्धियदि नाधिकः प्रकर्षः ।
अथ मर्म भिनत्त्यसिद्धिपक्षे मरणादप्यातदारुणोऽपकर्षः ॥ ३२ ॥
अवयन्नरिदन्तिदन्तकुन्तक्षतवक्षःकिणसंक्ष्णुताशनि तम् ।
कथमर्थयितुं रथाङ्गपाणे सुरराजं तरुमीहसे हृदापि ॥ ३३ ॥
अमुमर्थितवान्पुरा पुरारिः किल गौरीपरितोषणाय यत्नात् ।
अनुनीय शचीठले गिरशिं समरक्षि द्युतरुः पुरंदरेण ॥ ३४ ॥
सबलः स बलस्य निग्रहीता बलदेवानुज जातु पारिजातम् ।
अनुलोमतमं पुलोमजायास्तव नो दास्यति जीवनिर्विशेषम् ॥ ३५ ॥
तदिदं प्रथमं प्रथावतस्ते प्रथताडन्त न लाघवं मघोनः ।
समुपक्षिप पङ्कजाक्ष साक्षान्न सहस्त्राक्षमहो विपक्षपक्षे' ॥ ३६ ॥
Nand ३ उच्छ्वासः] पारिजातहरणचम्पूः। अथ वासुदेवोऽपि तत्कालतरल इव कलहंमुनेः सुनासीरगौरवादरस- मृद्धानि समिध्यमानापमानसूचिताभिमानवैश्वानराणि सविनयोपहासलेश- पेशलानि वचनानि निःशेषमवगत्याभ्याशवर्तिसत्यभामासौहित्योपहिताम- हितापितापकरीमापातमधुरां विधुरपरिपाकां गिरमुदाजहार- 'न जहार हरः सुरेन्द्रपत्न्याः प्रियमेतं यदि नाम पारिजातम् । उचितं तु तदस्य भूतभर्तुः स किल ज्येष्ठतमः सुरासुराणाम् ॥ ३७॥ अहिहन्तुरहं तु यत्कनीयाननहंकारपरोऽपरोपितारिः । सदयं स जयन्तवन्ममोच्चैस्तदयं लालनमर्हतीह कर्तुम् ॥ ३८ ॥ प्रभवन्विषमेक्षणः शचीच्छामनुरुन्धन्यमुदास्त तं महेन्द्रः । न कथं तरुमेव याचमानाः स्ववधूय स्ववधूरपत्रपेत ॥ ३९ ॥ स भवान्बहुधा दधातु यनं तरुरत्ने स्तनयिनुवाहनाग्रे । वितरिष्यति सोऽपि मे हितैषी न सपत्नं सहसा स मां विद्ध्यात् ॥४०॥ सत्याः पुरस्तात्कृतमप्यसत्याकृत्याद्य वृक्षाहरणं दिवस्तत् । सत्यप्रतिज्ञत्वभवं त्रिलोक्यां यशो यशोदाङ्गभुवोऽवसीदेत् ॥ ११ ॥ न चेदयं दास्यति याच्यमानो विमानयां नः प्रभुताभिमानात् । तदा गदा मेऽद्य गदाग्रजस्य सद्यः समानेष्यति पारिजातम् ॥ ४२ ॥ न देवदैत्या न च सिद्धसाध्या न यक्षरक्षांसि मम क्षमन्ते । विहन्तुमाज्ञामिह हन्तु किं तु संकोचयत्यत्र गुरोविरोधः ॥ ४३ ॥ व्रज मुनिवर नाकं मन्त्रयेन्द्रेण साकं शमय विषमपाकं वैरमस्माकमुद्यत् । यदपरमुचितं स्यादत्र गोत्रप्रह। तदुपदिश महर्षे वेत्सि नौ तारतम्यम् ॥ ४४ ॥ गिरमिति मुरहन्तुस्तामुदारां निशम्ये प्रणयविनयशौर्यक्रौर्यसद्भावगर्भाम् । कलहमुनिरथोच्चैरासनादुच्चचाल द्विजपतिरिव पूर्वक्ष्माधरादम्बरान्तः ॥ ४५ ॥ १. अहितापी शक्रः. R HOMENRNET काव्यमाला। वैरिस्खैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छ्वासः किल पारिजातहरणे जातस्तृतीयः शुभः ॥ १६ ॥ चतुर्थ उच्छासः। अथ नारदोऽप्यमरपुरपरिसरसरणिमनुसरन्सरभससमुपनतानतसुरसिद्ध- विद्याधरकिंनरनिकरचिरविरचितपरिचर्योपचारपरम्परापराभूयमानयानवेगो विमानयानैः सरभसमपसरद्भिरभितो वितीर्णपद्यः सद्यः समुद्यताहिकाने- कमहर्षिविततकुशकुसुमतिलशबलपुलिनसमृद्धां सिद्धाङ्गनाकुचकलशकुख- माङ्गरागपङ्कपिञ्जरितनीरपूरोच्छलच्छटाछलादखिलभुवनवलयकलुषचुलुक- नाय प्रतिक्षणोक्षिप्तजिह्वासहस्तैरिव क्वचिद्विविधमधुगन्धलोभमिलदलिकु- लाकुलितललितकमलमालावलीतरलसलिलमभिरिङ्गणोज्जम्भमाणमोक्षल- क्ष्मीकटाक्षभरङ्गैरिव तरङ्गैः समुद्भासितपरिसरां गीर्वाणतरङ्गिणीमुपस्टशं- स्त्रिदशपरिषदमुपाससाद । तत्र च परिनृत्यत्सुरतरुणीसहसे संगर्वगन्धर्व- मेलकालपितपञ्चमोद्गीतगीतप्रबन्धबन्धुरे धमधमायमानमधुरमुरजे विविधवि- कीर्णनन्दनोद्यानसमुद्भूतकुसुमामोदमोदितमधुरमधुकरपटलगुञ्जानि नादमञ्जु- ले निखिलभुवनसमुद्घोष्यमाणजयजयारवे पुरहरमहोत्सवे दत्तावधानं वि- बुधपरिषन्मध्यमध्यासीनं सुनासीरमद्राक्षीत् । क्रमेण चातिक्रान्ते त्रिपुरान्तकाराधनसमारम्भे सभाजितेषु द्विजातिषु विसर्जितेषु देवर्षिसिद्धविद्याधरप्रभृतिषु स्वसदस्यौढिमित्रैः समुपास्यमानं देवराजमुपाजगाम । शतक्रतुरपि ब्रह्मिष्ठं ब्रह्मसूनुमभ्यागतं विभाव्य सद्यः ससंभ्रममभ्यु- त्थाय प्रश्रयातिशयशालिना मौलिना विकटमुकुटशिखरशिखोल्लिखितच- रणनखप्रेवन्मयूखं प्रणम्य निजासन्नोच्चासने कुशान्तरिते समुपविष्टं मधु- पर्कादिभिरपनीतवम॑खेदं प्रीतमना मनाङ्जनसानुचिन्त्य प्रियालापगोष्टीर- न्वतिष्ठत-भगवन्नम्भोजसंभवोद्भव, १. दत्तमार्गः ४ उच्छासः] पारिजातहरणचम्पूः । के देशाः कान्यरण्यानि के शैलाः के तपोधनाः । के पुण्यभाजः सम्राजस्त्वयातिथ्येन सत्कृताः ॥ १ ॥ किमद्राक्षीः किमप्राक्षीः किमश्रौषी ऋषीश्वर । अपूर्व पूर्वदेवेषु देवेष्वन्येषु वा नृषु' ॥ २ ॥ नारदस्तु तदाकर्ण्य 'कथं प्रस्तुतमेवेन्द्रेण, यदस्माभिः प्रस्तावनीयम्' इत्यभिसंदधानः सविस्तरं पारिजातप्रसूनजातस्त्तान्तं सत्यभामामामान्त- मावेदयन्वासुदेववाचिकमवादीत्- इन्द्रोपेन्द्रः प्रणमनमतिप्रीतिपूर्वं तु पूर्व संदिश्य त्वां कुशल कुशलप्रश्नमाशु प्रयुज्य । कंसध्वंसी शतमखमथो वाचिकेनाययाच- द्यदेवेश प्रणयविनयोपेतमेतन्निबोध ॥ ३ ॥ त्वत्तो लब्धं प्रसूनं यददित स मुनिर्भीष्मजायै तदद्य श्रुत्वा सा सत्यभामा समजनि सहसान्वर्थनामा तदर्थम् । त्वत्तः संभाव्यलभ्यं तरुमपि तदिह प्रातिभाव्यं समर्थ्य ग्रन्थि प्रामुमुचं तदि निहितमहं हन्त मानग्रहस्य ॥ ४ ॥ अदितिरदित यस्मिन्कश्यपं पश्य बड़ा निधिपतिमपि ऋद्धी रोहिणी चापि चन्द्रम् । अपि च किल शची त्वां मोचितं निष्क्रयेण द्रुममिममिदमर्थ याचतेऽद्य स्नुषा ते ॥ ६ ॥ अहमपि तव वध्वा तत्र बड्डा वितीर्ण- स्त्वमिव तु कलयेयं विक्रयं निष्क्रयेण । समनुभवतु सापि त्वत्प्रसादादिहापि त्रिदशभवनभोगांस्त्वत्प्रियानिर्विशेषान् ॥ ६ ॥ तनुजवदनुजस्ते लालनीयोऽस्मि शश्व- त्परिचरणपरात्मा विक्रमश्लाघनीयः । सुरतरुमनुरुध्य प्रार्यमानं वधूभि- खलु समुचितं ते तत्र वैमुख्यरौक्ष्यम्' ॥ ७ ॥ ने Page
काव्यमाला।
जम्भारिरपि निजानुजानुस्मरणमसृणमना मनागार्भ(?)वत्सदयहृद-
यानुक्षणक्षणक्षरत्स्नेहरसद्रवैरिवाश्चशिशिरनीरशीकरैरलंकतनयनकमलस-
हस्रः क्षणं विचिन्त्य विरञ्चितनुसंभवं प्रत्युवाच-
'मुनिवर परमः प्रियंकरस्त्वं नृहरिकथासुधयासिचो यतो माम् ।
स्मरति मम चिरात्पुरा मुरारिविषयरसर्विषमैर्वशीकृतात्मा ॥ ८॥
तमनु(?) मनुजरूपं मेऽनुजन्मानमित्यं
कथय कुशलप्टच्छापूर्वमुर्वी प्रयातः ।
उचितमयमयाचत्पारिजातं झुजातं
यदिह स वसुजातं सर्वमहत्युपेन्द्रः ॥ ९ ॥
खयमिह हि पुराणः पूरुषो विश्वभर्ता-
भजत मदनुजत्वं गौरवं वर्धयन्मे ।
स किल सकललोकाधीशिता मामयाच-
यदि किमधिकमन्यज्जीविताद्यन्न दद्याम् ॥ १० ॥
मुनिवर परमेतत्तत्र चित्रं करोति
त्रिभुवनजनसीमां संविधायात्मनैव ।
कथमिव स विदग्धो मुग्धनारीगिरा मा-
मखिलभुवनसाक्षी भङ्गुमादेक्ष्यतीति ॥ ११ ॥
स्वलॊकसारान्विभवैरुदारानगण्यपुण्योपचयावरेयान्(?) ।
अमर्त्य भोग्यान्स वितीर्य मत्यै नरामराणां नियति भनक्ति ॥ १२ ॥
मुनेऽमुनेत्थं भुवि दिव्यभोगैः संभाविते हन्त जने चिराय कः ।
पराङ्मुखः स्वर्गसुखे मखेच्छां करोतु कल्पावधि नो घिनोतु कः ॥ १३ ॥
याते भुवं संप्रति पारिजाते जातेऽद्य नामान्तरिते द्युलोके ।
पुरेव को देवपुरेऽनुरंस्यते प्रियापि मामद्य तृणाय मस्यते ॥ १४ ॥
निवर्त्य मत्येष्ववतारकार्यमार्य सभार्य तमिहोपयातम् ।
संभावयिष्यामि सुरोपचारैः सभाजनाभाजनमात्मबन्धुम् ॥ १५ ॥
चित्राणि वस्त्राण्यनणीयसो मणींश्चिरत्नरत्नानि निजं गजं हयम् ।
दास्येऽपरं चापि परं मुरारये न हापयिष्ये तु तरुं भुवं दिवः ॥१६॥
PARAMERA ४ उच्छ्वासः] पारिजातहरणचम्पूः । मुने न किं वेत्ति भवान्प्रियायै भवोऽन्वभूत्प्रार्थ्य तरुं पराभवम् । सुदुर्लभं वस्तु समीहमाना न किं महान्तोऽपि वृथा प्रयान्ति' ॥१७॥ नारदस्तु तदाकर्ण्य सस्मितमिदमाचचक्षे-'भगवन्नमरनिकरमौलिमा- ल्य, यथार्थमाह भवान् । न परं त्वद्य तवाज्ञा(:)। एतच्चान्याश्चाख्यमाख्यायिकास्ते न्यायप्राया भ्रातुरग्रे किलाहम् । मानाध्मातः पारिजातापहारे दुर्मोच्योऽस्य त्वाग्रहग्रन्थिबन्धः ॥१८॥ देवाधीश प्रायशः कामचारं निर्दाक्षिण्यं निघृणं निर्विवेकम् । द्विष्टात्मीयं पूरुषं संविधत्ते नूनं स्वल्पोऽपीश्वरत्वाभिमानः ॥ १९ ॥ दृष्टोऽदृष्टो वापि शिष्टो निजेष्टं ब्रूयात्तथ्यं पथ्यमित्यामनन्ति । तत्त्वां वच्मि स्वस्तरुं प्रेषयास्मै यावत्कोपो नास्टशत्तस्य चेतः ॥२०॥ क्षोणी वृक्षं विश्वनेता स नेता देवानेतान्धीरचेतावजेता। नूनं जिष्णोऽवव्यभव्ये तदस्मिन्मा स्माकस्मात्सद्यशस्तेऽवसीदेत् ॥२१॥ अनाख्येयमप्येतदाख्यामि सद्यो यथाधोक्षजो वाचिकं ते जगाद । सुखोदर्कमापाततिक्तं विविच्य प्रवक्तुं प्रभुभ्यो हिता नोद्विजन्ते ॥ २२ ॥ न दाता विडोजा यदा पारिजातं तदा मे गदा द्यावदाता वदाता(?) । शचीचन्दनालेपविक्षोभदक्षं वलक्षं यशोभिः सहस्राक्षवक्षः ॥ २३ ॥ न देवा न दैत्या न सिद्धा न साध्या न यक्षा न रक्षांसि नागा न नागाः । न वा किंनरा वा नरा वानरा वा मदीयां प्रतिज्ञा क्षमन्ते विहन्तुम् ॥२४॥ यथेत्थं प्रकृत्यासि धीरोऽपि वीरो बभाषे बभासे तथात्याहितं मे । नियोद्धा विरोद्धाबुधानुग्रधामा स मानी समानीयतां नारिपक्षम् ॥ २५ ॥ इति व्याहरन्तं तमव्याहताज्ञः स्फुटं वृत्रशत्रुर्मुनि व्याजहार । रुषारक्तनेत्रव्रजव्याजहारस्रजा पूजयन्वृत्रशस्त्रप्रहारान् ॥ २६ ॥ न मे विस्मयोऽनेन लोकेशयोने स्मयोऽनेकधा यद्वयधाय्यच्युतेन । स्ववाचालमाबालगोपालसिद्धो निसर्गप्रसिद्धोऽस्य वाचालभावः ॥ २७ ॥ समर्पणात्पालनलालनार्थापित्रोरथाज्ञाग्रहगौरवाच्च । स्नेहादजुत्वादपि चाग्रजत्वादागांसि भूयांसि सहेऽस्य भूयः ॥ २८ ॥ १.न-अगा:.
३६ काव्यमाला। । स्मरस्यदः पाण्डवसारथिर्भवन्नखण्डधारं घनचण्डमण्डलम् । आखण्डलोद्योजितमाशु खण्डयन्स खाण्डवाग्निं ज्वलयिष्यति क्षणात् ॥२९ स्मरस्यदो मद्विमुखे ब्रजेस्त्रे (१) वृष्टया मया विप्लवमानिनीषिते । तत्रान्तरायं सहसान्तरा यं प्रोद्धृत्य गोवर्धनमाचरिष्यति ॥ ३० ॥ स्मरस्यदो वृत्रवधे सहायः स्वयं मयामायमयं पुरार्थितः । उपेक्षमाणो यदहं समानः सर्वेषु भूतेष्विति मां वदिष्यति ॥ ३१ ॥ यद्वास्तवोऽप्यात्मगुणः स्तुतः स्वयं महाजनानां विरुणद्धि धर्मम् । तथापि लब्धेऽवसरे नियन्त्रितुं शक्या रसज्ञा न कदापि कैश्चित् ३२ धिगस्तु तृष्णां विषयेषु कृष्णो जिष्णुं गुरुं भ्रातरमात्मतत्परम् । स्त्रिया जितः कामवशोऽवशात्मा मुनेऽशृणोस्त्वं यदधिक्षिपत्यसौ॥३३ यदि हृदि स गदां मे मोक्तुमिच्छत्यवश्यं तदलमिह विलम्बेनैतु संनह्य शौरिः । प्रहरतु मयि पूर्व सर्वशस्त्रैस्ततोऽहं यदि सहजदया मां विक्लवं नो करोति ॥ ३४ ॥ ब्रज वजावर्जनदक्ष". मं वदावदं तं वद संगराहते । न मायया नो दयया न या."मत्तोऽद्य पत्रार्धमपीह लप्स्यसे' ॥३५॥ नारदस्तु तदाकर्ण्य 'देव संक्रन्दन, नैतदात्मनीनमामन्त्रयसे । परवशा हि खलु संप्रति ते रोषावेशस्य बुद्धिः, न दूरदर्शिनी । अवश्यभाविनि चा- र्थेऽलं तवाप्यत्याग्रहेण, यदवजानासि प्राकृतमिव मनुष्यमात्रमेनम् । किं न जानासि तव मातुरदितेस्तपःप्रभावात्प्रसन्नं वैष्णवं ज्योतिरात्मनावतीर्ण त्वत्प्रीतयेऽनुजत्वं प्रपेदे । देवपक्षपातेन चामरवैरिणो निहन्तुमात्मना मही- मवततार । तदस्तु स्वस्ति देवेभ्यः । संपालय त्रिदशालयम् । लालयात्म- जान् । शीलय स्वर्गभोगान् । भ्रातॄणामन्योन्यभेदो हि · न श्रेयसे । किं न पश्यसि ज्ञातिभेदादामूलमुन्मूलितं शितिकण्ठपालितमपि लङ्केश्वरम् । तन्निवर्तस्व दुर्विपाकादस्मादारम्भात्' इत्यवादीत् । अथ 'मुने, जानाम्ये- २. 'अभिज्ञावचने लट्, । । ।
HALLENGENORIES ANSAR ४ उच्छासः] पारिजातहरणचम्पूः । ३७ नमेवंप्रभवमुदात्तहृदयम् । अत एवाल्पकेन पारिजातेन हेतुना महाप्रभावो भगवान्भ्रात्रा ज्यायसा न विरोत्स्यते । तद्गच्छ। आवेद्यतां द्वारकाधीशो महाचिकम्' इतीन्द्रेण विसृष्टः स्रष्टुः सुतः समेत्य वासुदेवाय सर्वमिद- मावेदयांचक्रे । सोऽप्यशेषमिदमाकलय्य मनसोपहूतं गरुडमारूढः प्रद्युम्नसात्यकिसनाथेनान्तरिक्षगामिना रथेनानुगम्यमानो विमानयानव- विनगाहे । ततश्च अनिमिषपुरमीयुपा निमेषादथ मिषतां द्विषतां खगेश्वरेण । समगमि वसुदेवनन्दनस्तं तरुमधिनन्दनमेष पारिजातम् ॥ ३६ ॥ विविधविबुधयोधैरुद्यदुद्दामशस्त्रैः प्रतिपथमथ रुद्धं कल्पक्षोपरुद्धम् । अचिरमुदमुमूलत्पारिजातं धुजातं यश इव बलभर्तुर्मूर्तमुच्चैः प्ररूढम् ॥ ३७ ॥ तनुमतनुमवस्थितं विधाय धुतरुममुं परिसान्त्व्य भीतमेषः । खगपतिमधिरोप्य संप्रतस्थे दिवमभिमण्डलयन्प्रदक्षिणेन ॥ ३८ ॥ वियति विहगवेगाडीरधारायमाणै- विततकनकपक्षोक्षिप्तभासां वितानैः । सुरपुरमनुचक्रे तत्र बाणासुरीयां पुरमनलकलापाक्रान्तदिक्चक्रवालाम् ॥ ३९ ॥ सपदि विपिनपाला विस्मयत्रासभाजः किमिह महदकस्मादेतदौत्पातिकं नः । हरति भुवनरत्नं प्राकृतः कोऽप्ययत्ना- दिति चकितमुपेत्य द्रामघोने शशंसुः ॥ ४० ॥ सपदि समुदभूदभूतपूर्वः सुरनरकिंनरसिद्धचारणानाम् । वियति कलकलः स कोऽपि कृष्णं प्रसभमभिद्रवतां तरुं हरन्तम् ४ १ वैरिस्वैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः माभृतां दीक्षितः । १. कुङ्कुमद्रवतुल्यैः.
३८ काव्यमाला। तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निमिता- वुच्छासः किल पारिजातहरणे तुर्यः स धुर्यप्रियः ॥ ४२ ॥ पञ्चम उच्छ्वासः । अथोद्यानपालव्रजान्नाकपालः समाकर्ण्य कृष्णं तरं तं हरन्तम् । विचक्राम चक्रायुधेनाभियोढुं भृशं तत्वरे तत्त्वरेः प्रेक्ष्य रोक्ष्यम् ॥ १ ॥ जयन्तं जयन्तं विपक्षाननेकान्सहादाय साहायकाय प्रतस्थे । समारुह्य चैरावणं वृत्रशत्रुः पुरद्वारि च द्वारकेशं ददर्श ॥ २ ॥ स कृष्णं प्रति प्राह तुष्टो न शिष्टोपजुष्टो 'हरे सेवितः सैष पन्थाः । यदस्मान्विमत्याविजित्यापि कान्तानुरोधान्ममाचूचुरः पारिजातम् ॥ ३ ॥ अशेषस्य विश्वस्य भर्तुः प्रहर्तुढेिषां भ्रातुरीज्यस्य विस्त्रम्भिणो मे । अयं राजसर्वस्वचौर्यापहारो न ते भूयसे श्रेयसे नायुषे च ॥ ४ ॥ बल्लवीवल्लभोल्लासयन्मल्लतां तुल्यपल्लीजने हारिहल्लीसकः । अप्यपात्रं भवन्नित्यभोगेष्वहो देवसेव्यं कथं वृक्षमाकाङ्क्षसि ॥ ५ ॥ यदि हृदि परमास्ते शूरवंशाभिमानः किमिति समिति शूरंमन्य तन्मामजित्वा । तमपहरसि चौरंकारमारावितोऽपि प्रकटय सुभटत्वं मा स्म भोः कातरोऽभूः ॥ ६ ॥ गृहाण शस्त्रं विगृहाण जिष्णुना गदाभिघातैनिगृहाण वक्षसि । वचो निजं चानुगृहाण शाखिना साधं गृहांश्चाथ निजान्गमिष्यसि ॥ ७॥ इति क्रुधा विस्फुरिताधरेण गदाधरो वजधरेण तेन । प्रोक्तः प्रतिप्राह हसन्प्रणम्य तं प्रश्रयानम्रतरेण मम ॥ ८ ॥ भवद्वधूटीकरणीयपुण्यकव्रतावताराय तरूं नयामि । न तेऽत्र जिष्णोरसहिष्णुतोचिता नालोचिता धर्मनियोजकस्य ॥ ९ ॥ यन्मां रणायाह्वयसे महेन्द्र कथं गुरोस्ते सुशकोऽभियोगः । किं तु त्वदाज्ञानतिवर्तनाय प्रवर्तये संगररङ्गकेलीः' ॥ १० ॥ १. हल्लीसकं रासनाम्ना प्रसिद्धं स्त्रीनां मण्डलिकानुत्तम्. २. चौरंकारं चौरशब्द- मुच्चार्य, Lallant MER 209 Naan ५ उच्छ्रासः) पारिजातहरणचम्पूः। ३९ इति गिरं स गृणन्गरुडासनो बलभिदो बिभिदे करिणं शरैः । हरिहयोऽप्यथ विष्णुरथं रुषा भृशमपीडयदाशु तमाशुगैः ॥ ११ ॥ रुन्धानावितरतरं गुरुतरैः शस्वैरथास्त्रैः शितै- श्छिन्दानौ धनुषी ध्वजं प्रहरणान्यन्योन्यमेकैकशः । भिन्दानौ च परस्परं तनुमनु प्रोद्यद्दयाविक्लवा. विन्धानौ निजतेजसा समहतां शार्दूलविक्रीडितौ ॥ १२ ॥ घनतरघनघोषभीषणेन प्रतिनददद्रिदरीविदारकेण । अमुहदिह मुहुर्मुहुस्त्रिलोकी हरिधनुषो गुरुणा गुणारवेण ॥ १३ ॥ क्षुभ्यत्क्षोणि विदीर्यदद्रि निपतत्तारावलि प्रज्वल- दम्भोलि ध्वनदुद्धतोदधि चलच्चण्डांशुशीतद्युति । कुप्यत्पत्रिपति त्रसत्पुरतति स्विद्यड्युलीलावति स्पर्धेद्धं मुरवैरिभूधरभिदोर्युद्धं तदाभून्महत् ॥ १४ ॥ व्यासक्तं हरिमवलोक्य शक्रसूनुर्बुद्राव द्रुतममरद्रुमं हरिष्यन् । रक्षन्तं तमथ चिराय रौक्मिणेयं तीक्ष्णाग्रैरभियुयुजे भुजे शरौधैः ॥१५॥ प्रद्युम्नोऽप्यथ विशिखैरवाकिरत्तं तं चास्त्रैः प्रसभमथावतस्तरेऽन्यः । प्रत्यस्त्रं प्रतिविधिमाशु संदधानौ तेनाते युधि कुशलत्वमैन्द्रिका ॥१६॥ विचकार शराशरासनं तद्यदलक्ष्यानधिलक्ष्यमाशु लक्षम् । न तदद्भुतमस्य लब्धकोटिद्वितयो राजति चेद्गुणो गरीयान् ॥ १७ ॥ समरः समभूदभूतपूर्वः सुचिरेणानिधनावहस्तयोः सः । यमुदीक्ष्य दधुर्विमानवाहा निजैबाहाबलगर्वखर्वणानि ॥ १८ ॥ अथ वासवभूरतिक्रमिष्यन्हरिसूनुं तपसा तमुग्रमस्त्रम् । समधत्त धनुष्यधृष्यतेजःस्फुरदुल्काशतदीपितान्तरिक्षम् ॥ १९ ॥ क्षुधितोअकरालकालजिह्वानिवहाद्वायकमापतत्तदस्त्रम् । क्षयकालघनाघनातिघोरैर्घनघोधिरीचकार विश्वम् ॥ २० ॥ अथ सत्वरमेतदित्वरं तरसा शम्बरवैरितेजसा । हतवीर्यमुपेत्य मन्थरं रथमेवास्य बलादजिज्वलत् ॥ २१ ॥ १. देवाः. २. निजभुजबलगर्वसंकोचम्. तिला काव्यमाला । ज्वलतोऽथ रथान्नभो निपत्य प्रहसन्भानुनिभो विभोस्तनूजः । अवदद्वदतां वरो वरौजाः स जयन्तं द्विषतः सदा जयन्तम् ॥ २२ ॥ 'अपि दर्शय सर्वशस्त्रविद्याभ्यसनोचव्यसनोपयोगमद्य । परिदह्य नु मायिकं रथं मे ननु मा स्म स्मयथा वृथास्तशस्त्रः ॥२३॥ कुतुकं महदेव तन्ममासीद्भवदस्त्रागमकौशलं निशम्य । विदितोऽसि तदद्य धेहि धैर्य न किमद्यापि समावृतोऽस्त्रशस्त्रान्' ॥२४॥ तदरंतुदवाक्शरप्रहारैस्त्रिदशेशप्रभवो यथा व्यथिष्ट । न तथायमयोमयास्त्रवर्षेरचिकित्स्यं हृदि वाङ्मयं हि शल्यम् ॥ २५॥ अजनि जनिजुषां भयंकरं प्रतिकृतसंस्कृतशस्त्रसंकरम् । अविरतशरसंचरत्करं प्रधनमतीव विलुप्तभास्करम् ॥ २६ ॥ प्रवरः प्रवरः प्रभाविणामथ शक्रस्य सखा द्विजोत्तमः सहसोपससाद सादरं समरायामरपादपाशया ॥ २७ ॥ समुपस्थितमाततायिनं शिनिपौत्रोऽथ निहन्तुमीहमानः । 'अयि मारय मा निवारणामुं' द्विजमित्थं जगदे गदाग्रजेन ॥ २८ ॥ प्रवरस्य च सात्यकेस्तदाभूदतुलं तत्तुमुलं यशोनुकूलम् । शरजर्जरितेतरेतराङ्गारदुष्णक्षतजोक्षितक्षमाङ्कम् ॥ २९ ॥ अवधीरितजीवितव्यतृष्णौ शरधीभूततनू अनूनवीर्यो । यदुविप्रवरौ लघुक्रियौ तौ रुरुधाते किल रोदसी शरौधैः ॥ ३० ॥ विशिखैः परिविध्यतोऽस्य चापं शिनिपौत्रः स्वशरैस्त्रिभिश्चकर्त । अपरैस्तमरुंतुदैरनेकैस्तिलशः संतुतुदे प्रतिप्रतीकम् ॥ ३१ ॥ प्रवरोऽप्यथ सात्यकेर्धनुज्या विशिखैरच्छिनदुञ्चकर्त चाङ्गम् । धनुरन्यदुपाददानमेनं गदयासावदयान्तरो जघान ॥ ३२ ॥ अथ सोऽप्यचिरेण लब्धसंज्ञस्तमधावद्विधृतासिचर्मवर्मा । प्रवरः परिहृत्य तत्प्रहारं हृदि विव्याध रुषा तमात्मशक्त्या ॥ ३३ ॥ विकलं कलयञ्शिनेः स पौत्रं तरुमाहर्तुमुपाजगाम ताय॑म् । सरथं तमथो विधूतपक्षानिलविक्षोभजवान्निरास्थदुच्चैः ॥ ३४ ॥ १. तथा-अयं-अयोमय(लोहमय)-अस्त्रवर्षः. २. सात्यकिः.
Adams182801 ५ उच्छ्वासः पारिजातहरणचम्पूः। उपसृत्य सत्वरमथाक्रमं हरी हरिविक्रमौ भृशममू विमूर्छितौ । परिरभ्य निर्भरमुभी यथोचितं प्रतिचक्रतुः सपदि तीव्रवेदनौ ॥ ३९ ॥ श्रान्तं रणेन सुचिरेण निरीक्ष्य पुत्रं मित्रं च विश्रमयितुं विनिवेश्य पावै । भूयो मृधं विदधतुर्वविधं हरीन्द्रा- वालोकिनाकिकुलमाकुलतां नयन्तौ ॥ ३६ ॥ तत्रोल्लसद्भुजगभोजिविधूतपक्ष- विक्षोभजानिलजवात्परिधीयमानम् । शक्रप्रयुक्तशरचक्रजचक्रवालं चक्रायुधस्य सहसावरणत्वमाप ॥ ३७ ॥ ऐरावणोऽथ रभसादभिपत्य पत्या नुत्तस्तुतोद पददन्तकरण ताय॑म् । ताक्ष्योऽपि तं क्रकचचण्डिमचञ्चुचञ्चू- संचारणैरपि खरैर्नखरप्रहारैः ॥ ३८ ॥ आस्फोटनैर्विकटपक्षपुटाभिघातै- झम्पानिपातमभिपत्य चपेटपातैः । चञ्चप्रतोदकरजावकिरैः करीन्द्र पारीन्द्रवत्स विददार विहंगराजः ॥ ३९ ॥ भूरिक्षरद्वधिरधोरणिधीतविश्वः फुल्लत्पलाशधरभूधरशृङ्गशोभः । भ्रश्यन्नधश्चपलचीत्कृति पारियात्रे तेनाचिराद्विचकरे च करेणुराजः ॥ ४० ॥ तस्मिन्गिरावनुनिपत्य हरी करीन्द्र स्वस्थीभवन्तमसुमन्तमवैक्षिषाताम् । भूयोऽधिभूधरमभूदथ विष्णुजिष्ण्वो- स्तदारुणप्रहरणाभरणो रणोऽसौ ॥ ११ ॥ १. प्रेरित:. २. पारीन्द्रः सिंहः. ३. पर्वतविशेषे. । ६ ४२ काव्यमाला। स गिरिर्गुरुसंगरे विमर्दादविशत्क्ष्मामथ शाणपादतुल्यः(?) । अनिवार्यमनार्यमार्यवैरं खयमालोक्य विलीयते हि साधुः ॥ ४२ ॥ मैदनः सदनं रथाय पित्रा प्रहितोऽसौ सहितोऽथ दारुकेण । सहसोपजगाम कामरूपः सरथस्तं किल पारियात्रदेशम् ॥ ४३ ॥ अथ पतगपतेर्नभोविभागे रुचिरशरीररुचां चयैविभाति । असहन इव तं निकारमारात्परिपतति स्म पयोनिधौ पतङ्गः ॥४४॥ अपि च। त्रिभुवनभरभङ्गारम्भसंभाव्यशक्त्योः समरममरलोकातङ्कशङ्काकरं तम् । कथयितुमिव सून्वोस्तप्यते कश्यपाय द्रुततरमथ सिन्धुं लोकबन्धुर्विवेश ॥ ४५ ॥ मन्दाक्षमन्दमुकुलन्नयनारविन्द- मम्भोजिनीभिरभितोऽभिनिरीक्ष्यमाणः । व्यस्तांशुकोऽस्तगिरिमस्तकतः पपात क्षीवः स्खलन्निव तमः प्रविशन्दिनेशः॥ ४६ ॥ वियदपगतरोचिर्मन्दमम्भोजवन्दं हतगतिरपि पान्थः कोकलोकः सशोकः । गतवति परलोकं लोकबन्धौ महान्धी पतितमिव तमोऽन्धं प्राविशज्जीवजातम् ॥ ४७ ॥ कोकीनिःश्वासधूमः स्मरकरटिघटारात्रिनीलीनिचोलं संध्यावढेरलातं बहिरिव विसरन्मानिनीमानजालम् । मीलत्पद्मालिमाला पथिककुलवधूमूर्छितं स्वैरिणीनां स्रोतः सिद्धाञ्जनस्य प्रसरति सहसा सान्द्रबन्धं तमोऽन्धम् ॥४८॥ अपि च । कर्षन्हर्षातिरेकादधरमथ दिशां ध्वान्तनीलीनिचोलं कुर्वन्विद्राणनिद्राः सपदि कुमुदिनी रञ्जयन्पौरहूतीम् । १. प्रद्युम्नः २. दारुकः श्रीकृष्णसारथिः. ३. महति कूपे.
४३ ५ उच्छासः] पारिजातहरणचम्पूः । चुम्बनुच्चैश्चकोरीवदनमपि करैर्मुद्रयन्नब्जिनीनां नेत्राम्भोजानि भानौ प्रवसति रभसादिन्दुराविबभूव ।। ४९ ॥ करैरिव परामृशन्कुमुदिनी वियोगार्दितां सृजन्निव दिगङ्गनाकुचतटीपटीरस्तुतिम् । किरन्निव यशः सितं जगति दृष्टिदानार्जितं हसन्निव मनखिनीस्तुहिनभानुरुज्जम्भते ॥ ५० ॥ एवमुदयति सकललोकलोचनानन्दसंदोहनिःष्यन्दे श्वेताद्वैतमापाद- यति कुमुदिनीपतौ विरमत्यपरव्यापारपारवश्ये निःशेषितोचितसकलसां- ध्यविधिर्वासुदेवो, देवगुरूपवर्णिततनूजविग्रहाग्रहवैशसः सलिलराशिरो- धस्यनुबद्धतपस्यः कश्यपश्च स्वे स्वे सद्मनि सममेव भगवन्तं भवानी- वल्लभमस्ताविष्टाम् । ततश्च विविधैधैः स्तोत्रप्रबन्धैरभिष्टुतो न चिरादेव देवदेवः प्रीतमनाः स्वयमुपेत्य ताविच्छातिशायिवरप्रदानैरभिवर्धयांचवे। अत्र चान्तरे अथ सुरगुरुणा निवेदितौ द्रागदितिमरीचिसुतौ सुतौ निषेढुस् । सुरमुनिसहितौ हितं त्रिलोक्या रचयितुमीयतुराशु पारियात्रम् ॥५१॥ अधिरजनि चिराय तत्र चित्राः स्वपरकथा विरचय्य तौ तनूजौ । नयविनयहिता हितोपदेशैः समरपराङ्मुखतां शनैरनैष्टाम् ॥ १२ ॥ अथ विलुलिततारा मन्दचन्द्रप्रचारा विरतरतविहारा लुप्तगुप्ताभिसारा । विरहविकलवामा भामिनीत्यक्तभामा रजनिरजनि यामायामिनी यातयामा ॥ १३ ॥ ततश्च। पीतः कैरवकोरकैरवचितश्चञ्चच्चकोरीचयैः क्रोधाताम्रमनुद्रुतारुणकराकष्टापसृष्टांशुकः । शप्तः पान्थवधूभिरुज्झितरुचिः श्रान्तो निशान्तोत्सवै- राक्रुष्टः कुलटाकुलैर्द्विजपतिः प्राप्यापतद्वारुणीम् ॥ ५४ ॥ १. मानवतीः. २. मरीचिसुतः कश्यपः. ३. कृष्णेन्द्रौ. M काव्यमाला। किं च । उच्छ्रासैरथ चक्रयारुपचिता(?) विश्लेक्ष्यमाणाङ्गना- निःश्वासैरतिसान्द्रिता विरहिणीप्राणैरुपष्टम्भिताः । वारस्त्रीवदनारविन्दमदिरामोदातिमेदस्विनः स्वेदाम्भःकणतस्कराः परिवदुर्वैभातिका वायवः ॥ ५५ क्रमेण च उदयगिरिमुरोज रञ्जयन्पौरहत्याः स्वयमरुणकराय़रेष काश्मीररागैः । उदगमदथ कोकप्राणनिर्याणविघ्नः परिणतकुरुविन्दामन्दकान्तिर्दिनेशः ॥ ५६ ।। अपि च । कमलमुकुलकुम्भोज्जम्भिरज्यत्पराग- प्रचुरमधुरसौधैः स्नापितः पद्मिनीभिः । गगनमभिवहद्भिः पिच्छिलं तैरिवासौ यदुपसरति मन्दं मन्दमम्भोजबन्धुः ॥ १७ ॥ निवर्य कृत्यमथ सांध्यमुवाच तातः प्रातः सुतौ ननु कुतोऽद्य युधं व्यधत्तम् । गादनर्थफलकात्कलहात्स्वगृह्या- दस्मद्गिरा विरमतं कुरुतं मतं नौ ।। ५८ ।। संभाव्य एष भवतो भगवान्यवीयां- लीलाकलेवरधरः पुरुषः पुराणः । यद्धृविभङ्गमनुरुध्य विधातृमुख्या विख्यापयन्त्यधिकृता विविधाधिकारान् ॥ ५९॥ देवः स एष नरवेषधरो धराया- मस्मत्तपःपरवशोऽवरजस्तवास्ते ।
५ उच्छ्वासः] पारिजातहरणचम्पूः । संमानयैनमिदमीयविभूतिभोगै- स्तन्मा नय क्रुधममुं न विमानयावाम् ॥ ६ ॥ दारान्पुरातिचरतो भवतो महर्षे- रेष स्वतः परिभवो विधिनैव दृष्टः । तत्पुत्र त्रजयजङ्गमकीर्तिमूर्ते द्विक्षः स्वगोत्रमिह मा हृदि मावरुक्षः ।। ६१ ॥ प्रापय्य शक्रतरुमेष हरिः पुरीं स्वां प्रत्यर्पयिष्यति पुनर्भवते जवेन । सौभ्रात्रमस्तु युवयोः सवयोभिरामं भामं जहीतमहितं न हतं हितं नः ॥ ६२ ॥ इति जनकगिरा चिरान्निषिद्धौ गुरु गुरुसान्त्वनमेव मानयन्तौ । सपितृमुनिसुरं सपारिजातं पुरमथ जग्मतुरच्युताधिदैवम् ॥ ६३ ॥ ततश्च । सुरविजयसमेतं स्वप्रतिज्ञातमेतं मधुमथनमुपेतं पारिजातेन सार्धम् । सपदि समवगत्य प्रत्यगारं गरीयः किमपि नगरनार्यश्चक्रिरे मङ्गलानि ॥ ६४ ॥ तथा हि । जगुर्नगरयोषितः प्रननृतुश्च वाराङ्गना गणाश्च वणिजां निजापणपथानलंचक्रिरे । विरेणुरचिरेण सन्मुरजवेणुवीणानका न का मलयजद्रवैरिह विरेणुरासीत्स्थली ॥ ६५ ॥ ततश्च । स्मितसुभगकपोला लोलसस्नेहतारा सपदि फलितकामा सत्यभामाभिरामा । सह कुलसुभगाभि-प्ररत्नप्रदीपै- रकृत सुकृतकीर्तेस्तस्य नीराजनं सा ॥ ६६ ॥ १. एतदीयविभूतिभोगैः.
काव्यमाला। MARA भारती भवन hinh १८८ BH अमरमुनिसमाजे तत्र सात्राजिती सा गुरुमिरथ नियुक्ता नारदायार्चयित्वा । अदित विदितपुण्ये पुण्यके पारिजातं विधिवदखिलभा वासुदेवेन सार्धम् ॥ ६७ ॥ आत्मारामेऽभिरामे विरचितकुहनाविग्रहे निग्रहीत- युन्मार्गप्रस्थितानां त्रिभुवनशरणे भक्तगृह्ये वितीर्णे । सानन्दं पुष्पवृन्दैः सपदि सुरपुरान्नन्दनीयनिपेते नेदे वाद्यैरथाद्यैः सुरमुनिमनुजैस्तुष्टुवे साधुवादैः ॥ ६८ ॥ जयजयजयवादैर्वेणुवीणानिनादै- नगरयुवतिगीतैः शान्तिघोषैर्द्विजानाम् । अशनवसनभूषापुष्पवर्षादिभिस्त- त्पुरमजनि जनानामुत्सवायोत्सवानाम् ॥ ६९ ॥ तन्निष्क्रयाय भुवनान्यनलं विचिन्त्य सान्तःपुराः सुरनरोरगकश्यपाद्याः । प्रासीसदन्स्तुतिशतैर्मुनिमीश्वरं च प्रामुमुचन्नखिलबन्धविमोक्षदक्षम् ॥ ७० ॥ तं सत्यासखमृषयोऽथ कश्यपाद्या मङ्गल्यैश्चिरमभिषिच्य तीर्थतोयैः । आशीभि शमखिलागमोदिताभिः सत्याभिर्हरिमभिवर्धयांबभूवुः ॥ ७१ ॥ चिरमथ परितोष्य कश्यपादीन्व्यसृजददूरमनुव्रजन्विनीतः । तरुमपि सुचिराद्विसृज्य नाकं मधुमथनः कलयांचकार कामान् ॥ ७२ ॥ वैरि खैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छासः किल पारिजातहरणे पूर्णोऽभवत्पञ्चमः ॥ ७३ ॥ इति [श्री]मन्महाराजाधिराजश्रीमन्नरोत्तमादिष्टशेषनरसिंहसूरिसूनु- कृष्णविरचिता पारिजात हरण]चम्पू: संपूर्णा ।
No text on this page.