Bharatiya Vidya Bhavan Library, Mumbai
Shri Pandavcharitra Mahakavya Bhag-1
Front matter
कुरुवंशो-
त्पत्तिः।
पार्श्वनाथः स वः पायाद्, यदङ्गयुतिसागरे । प्रवालकन्दलायन्ते, फणरत्नप्रभाकुराः
जयन्ति वर्धमानस्य, जितदम्भोलिवैभवाः । मोहान्धतमसध्वंसे, हेलयः सत्त्वकेल यः ॥५॥
चरित्रं पाण्डुपुत्राणां, पवित्रमभिदध्महे | श्रुतं हितोपदेशाय, यजने पर्यवस्यति ॥६॥ क वृत्तं पाण्डवेयानां ?, क्व चाहं
जडिमकभूः १ । मेरुमारोदुकामोऽस्मि, महात्मा पङ्गुरप्यतः ॥ ७॥ बहुस्तद्वहुमानस्तु, मामत्यन्तमुदस्यति । समीरणेन किं
रेणु-वृतः से न खेलति ॥८॥
आमीनिमीममाहात्म्प-पदमाद्यो महीभृताम् । प्रथमस्तीर्थनाथानां, नाभिभूरिह भारते ॥ ९॥शतमासन् सुतास्तस्य,
तेपेकः कुरसंसकः । ख्यातं यस्याख्यया क्षेत्र, कुरुक्षेत्रमिति क्षितौ ॥ १०॥ सुतो बभूव हस्तीति, दानोत्तरकरः कुरोः ।
तदुपनं क्षितापस्ति, पुरं श्रीहस्तिनापुरम् ॥ ११॥ स्फुरदम्भःसरोदम्भात् । सैहिकेयभयादिव । राकामृगावाः संभूय,
विमान्ति शरणागताः ॥१२॥ यस्यादर्शोउरले वप्रः, संक्रान्तः परिखाऽम्भसि । आत्मनः कमनीयत्वं, दिक्षुरिव लक्ष्यते ॥१३॥
दारिद्रस्यैप दारिय-मधर्मस्पैर पीडनम् । भयस्यै भयं तस्मि-बन्यायस्यैव निग्रहः ॥१४॥ तत्र हस्त्यन्ययोदन्व-रकौस्तुभाः
स्तुतिभाजनम् । संजज्ञिरे महौजस्काः, परेलक्षाः क्षमाभुजः ॥१५॥ सनत्कुमार इत्यत्र, चक्रवर्ती क्रमादभूत् । चिकित्सति
स्म यो भाव-रोगान् वैराग्यमेपनैः ॥ १६ ॥ शान्तिः कुन्थुररश्चैव, तत्र पित्रासितद्विपः । बभूयुश्चक्रिणो धर्म-चक्रिणोऽपि
१ सूर्याः । २ राहुभयात् । ३ हस्तिराजकुलसागरे कौस्तुभमणयः ।
॥१॥
क्रमात्ततः ॥ १७ ॥ विक्रमाक्रान्तसामन्त-चक्रश्चक्रिसमप्रभः । क्रमादनन्तवीर्योऽभू-तत्र धात्रीपुरंदरः ॥१८॥ ततो दुर्वा- रदोर्वीर्यः, कृतवीर्योऽभवन्नृपः। यस्य दानेन नाभूव-बर्थिनः पुनरर्थिनः ॥ १९ ॥ अथोग्रमहसां भूमिः, सुभूमि(म)श्चक्र- वर्त्यभूत् । अवैरायत वीरेण, यमदग्नेः सुतेन यः ॥ २० ॥ अतिक्रान्तेष्वसंख्येपु, ततो राजस्वजायत । प्रशान्तः शान्तनुर्नाम, तेजोधाम प्रजापतिः॥ २१ ॥ अन्यायकन्दमुच्छि- न्दन , सिञ्चन्यायमहीरुहम् । समस्तक्षितिपालाना-मुपमानं वभूव यः ॥ २२ ॥ कर्म मर्माविदन्योन्यं, प्रजानामस्तु दूरतः। यस्य राज्ये त्रिवर्गोऽपि, नाधावाधां परस्परम् ॥२३॥ निखिलव्यसनत्याग-पवित्रस्यापि शान्तनोः। विवेकिनोऽप्यभूदेकं, मृगव्ये व्यसनं परम् ।।२४। सोऽन्यदाऽनन्यसामान्य-वेगमारुह्य वाजिनम् । दूरवर्धिष्णुपापर्द्धि-बुद्धिर्मगवनं ययौ ॥२५॥ तत्रैकं प्रेमरङ्गेण, कुरङ्गीचाटुकारिणम् । दूरात् कुरङ्गमालोक्य, सोऽधिज्यं विदधे धनुः ॥२६॥ स प्रेयसीं पुरस्कृत्य, संत्रासतरलेक्षणाम् । पलायामास सारङ्गा, कांदिशीकमनाः पुरः ॥२७॥ स वल्लभानुरोधेन, मन्द मन्दं प्लुतोऽपि सन् । मनोऽभिराममारामं, विवेश विवशाशयः ॥ २८॥ वाणगोचरभूतेऽपि, दृष्टिमार्गातिगे मृगे। विशति स्म तमारामं, शरं संहृत्य शान्तनुः ॥२९॥ तत्र प्रासादमालोक्य, समारुह्य च विस्मयात् । एकामालोकयामास, स बाला सप्तमे क्षेणे ॥ ३० ॥ अभ्युत्थाय महीनाथ-मर्थ्य- मादिपूजया । सा सत्कृत्य यथौचित्यं, स्वपल्यङ्के न्यवीविशत् ॥ ३१ ॥ विलोक्यानर्गलप्रेम-रोमाहरकरम्विताम् । सुमुखी संमुखासीनां, भूपालस्तामभापत ॥३२॥ कल्याणि ! काऽसि ? कस्यासि, तनया विनयान्विता। प्रभातेऽम्भोजिनीवासि, किं १ उपरितनभूमौ । २ पूज्यम् ।
मृगानुपदि-
कस्य शा-
न्तनोगङ्गा-
मेलापः॥
चा। कस्माद्विकस्वरा ॥३३॥ इत्याकारेजितनेन, राज्ञा हृष्टेन पृष्टया । ततो दृष्टया तयाऽऽदिष्टा, वयस्यैवं व्यजिज्ञपत् ॥३४॥
विद्याधरपति हु-रस्ति रत्नपुरे पुरे। तस्य पुत्री पवित्राङ्गी, सेयं गङ्गेति गीयते ॥३५|| अन्यदाङ्कस्थितामेतां, जहुः
नेहादवोचत । वत्से रूपानुरूपस्ते, कीदृगालोक्यतां वरः १ ॥ ३६ ॥ एपाऽप्युवाच यस्तात, मदुक्तं नातिवर्तते । सुरूपेणापि
किं भर्मा, यचोऽतिक्रमकारिणा ? ॥३७॥ व्यवस्थयाऽनयाऽनल्पे, जहुना नृपसूनवः । एतदर्थे वृताः किं तु, स्त्रीवशत्वं न
मन्दते ॥ ३८ ॥ दौर्मनस्यमर्थतस्याः, किमप्याविरभूत्तथा । धर्माय स्पृहयामास, यथैकस्मै दिवानिशम् ॥ ३९ ॥ चारण-
मणान् प्राप्य, दुरापं धर्ममाईतम् । ततःप्रभृति सौधेऽस्मि-स्तस्थुपी जिनमर्चति ॥ ४० ॥ जिनार्चनकृतार्थानि, लूनान्यपि
लतामतः । अय॑नस्याः फलन्ति स्म, कुसुमानि मनीपितम् ॥४१॥ यदुद्यानेच पूर्वेद्यु-स्तातेन सह जहुना । एत्य नैमित्तिका
सत्य-वाणिरेनामवोचत ॥ ४२ ॥ भद्रे ! भद्रंकरादस्मात् , सिद्धं धर्मात् तवेप्सितम् । मृगानुपदिकः प्रातः, पुमानेकः समे-
प्यनि ॥ ४३ ॥ मनोऽभिरुचितः पुत्रि !, स ते भर्ता भविष्यति । हस्तिनापुरभूपालं, तं तु जानीहि शान्तनुम् ॥४४॥
तदुक्तियषणादय, प्रासादशिखरस्थयोः। आवयोर्भवतो मार्ग, पश्यन्त्योः सिद्धमीप्सितम् ॥४५॥ अथोचे नृपतिर्गङ्गा, मृगो मे
मृगलोचने! । महोपकारी येनासि, दर्शिता नेत्रकौमुदी ॥४६|| नानोपार्जनो लक्ष्मी-मखिलोऽप्यभिलप्यति । किं घूमस्तस्य
यमियं, स्वयमेवाभिलाषुका ॥ ४७ ॥ त्वद्वचोऽतिक्रमत्यागः, प्रियस्य हितहेतवे । वैद्योपदेशनिर्माण, रोगशान्त्यै हि
१ यं जनम्, इयं लक्ष्मीः 1 २ प्रियहेतवे इति प्रत्यन्तरपाठः ।
॥२॥
रोगिण ॥ ४८ ॥ दण्डोऽयं पुण्डरीकाक्षि!, त्वद्वचोऽतिक्रमेऽस्तु मे । यत्तदैव परित्याग, कुर्वीथाः सर्वथा मम ॥ ४९ ॥ हर्षादिति वदत्येव, नृपे सैन्यमुपागमत् । जगुरप्याययौ तत्र, तनयादर्शनोत्सुकः ॥ ५० ॥ सखीमुखेन निःशेष, तं वृत्तान्त अपानता । गङ्गा रङ्गादथोत्थाय, जनकाय व्यजिज्ञपत् ॥५१॥ सोऽपि पल्लवितप्रीतिः, स्फीतान्योऽन्यानुरागयोः । तयोर्निर्वर्त्त- यामास, पाणिग्रहमहोत्सवम् ॥ ५२ ॥ पाणिमोक्षोत्सवे लब्ध-हास्तिको हस्तिनापुरम् । सदारोऽथ सरोमाञ्च-तनुः शान्तनुराययौ ॥ ५३ ॥ तत्र प्रेमानुरूपाणि, स्फीतराज्योचितानि च। तौ दम्पती यथौचित्यं, सुखान्यनुवभूवतुः ॥५४॥ अन्यदा निविडस्थेम- प्रेमवन्धस्य शान्तनोः । अन्तर्वत्नी बभौ पत्नी, निधिगर्भेव काश्यपी ॥५५॥ धामैकधाम गङ्गाया, गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया, दुरालोकमभूद्वपुः ॥५६॥ महामहिम्नस्तस्याथ, सा गर्भस्यानुभावतः। सुमेरु कन्दुकं मेने, पाथोनाथं च गोष्पदम् ॥ ५७ ॥ सा मुहूर्त शुमे सौम्य, सुखेन सुपुवे सुतम् । यत्प्रभान्यकृतैर्जातं, दीपैचित्रगतैरिव ॥ ५८ ॥ तदा तन्नगर सर्व, सोत्साहजनसंकुलम् । बभूव केवलं शून्य-प्रचार चारकान्तरम् ॥५९।। गगाऽपत्यस्य गाङ्गेय, इति सार्थकमर्थवित् । तस्यात्मजन्मनो नाम, निर्ममे नृपसत्तमः॥ ६०॥ भूपाल मृगयाऽऽरम्भ-गाढसंरम्भमन्यदा। मूर्द्धबद्धाञ्जलिर्गगा, सानुरागंव्यजिज्ञपत्॥६१॥ प्रजाप्रियः प्रियन्याया, प्राणेश! स्थामधामवान् । परोपकारी प्रज्ञावा-नस्ति कस्त्वादृशः क्षितौ ? ॥६२॥ पर परमसौन्दर्य-शालिनस्ते कलावतः। मृगव्यव्यसनं १ प्राप्तहस्तिसमूह । २ स्मा-स्थिरता । ३ गर्भिणी । ४ पृथ्वी । ५ तेजसामेकस्थानम्। ६ तेजस्वि । ७ कारागारमध्यम् । M
दोपो, लक्ष्मेव मंगलक्ष्मणः ।। ६३ ।। अरण्यपद्धरङ्गाणां, कुरगाणां निरागसाम् । व्यापादनेन मृगया, सत्यं पापर्द्धिरुच्यते
॥ ६४॥ वधः कृतापराधानां, निर्मन्तूनां च पालनम् । उपितीनां सर्वेपा-मेप धर्मः सनातनः ॥६५॥ आप, श्वापदान्येनि)वं,
मा स्म नेपीनयोज्वल! । हिंसकानां हि नेदीया-नरकोत्सङ्गसंगमः ॥६६॥ वन्यज व्याधसाधर्म्य, धम्य कर्म समाचर । मम
विज्ञापनामेना, नातिक्रमितुमर्हसि ॥६७॥ अथाऽऽह पृथिवीपालः, प्रिये! साधु त्वमभ्यधाः । इमं चामि निःशेपं, पापव्यापा-
रमात्मनः ॥ ६८ ॥ किं तु कान्ते ! दुरुच्छेदः, सैप मे व्यसनग्रहः । यो लङ्घयति ते वाचं, समयस्मरणोपमाम् ॥ ६९ ॥
इत्युक्त्वा तामवज्ञाय, मृगयामगमन्नृपः । सा च तं घालमादाय, पितुर्मन्दिरमभ्यगात् ॥ ७० ॥ पुरे रत्नपुरे तस्मि-नान्ये
वैताटयमण्डने । तं शिशुं वर्धयामास, सा सती बन्धुवत्सला ॥ ७१ ॥ पत्नीवृत्तं यथावृत्तं, व्यावृत्तो मृगयावनात् । अथ पर्य-
थुरश्रौपी-न्मेदिनीशः परिच्छदात् ।।७२।। तत् सकर्णः समाकर्ण्य, सोऽन्यशेत निजाशये । पश्चात्तापकृते कस्य, न स्याद्यमन-
मादृतम् ॥ ७३ ॥ नृपः स्मृत्वा स्मितस्मेर-मात्मजास्यमखिद्यत । विरहः सुसहः केन, तादृशस्याङ्गजन्मनः ॥ ७४ ॥ अथ
पुत्रकलवाभ्यां, विप्रयुक्तोऽवनीपतिः । अग्निमग्न इवानपी-चतुर्विंशतिवत्सरीम् ॥ ७५ ॥ हायनैः सोऽथ तावद्धि-विस्मृत्य
विरहन्यधाम् | अभूद् भूयोऽपि पापर्द्धि-व्यसनस्य वशंवदः ॥ ७६ ॥
मृगव्यव्यसनी दूरं, विहरनन्यदा नृपः । एत्य विज्ञपयांचक्रे, व्याधेनैकेन हर्पतः ॥ ७७॥ देव ! देव ! सरिचीरे,
नातिरेऽस्ति काननम् । यदेकं ते विनोदाय, पर्याप्तमिति मे मतिः ॥ ७८ ॥ यत्रातिविस्मृतत्रामाः, सन्ति संख्यातिगा
१ चन्द्रस्य । २ सिद्धान्तस्मरणसदृशीम् ।" स्मरणेऽपि " इति प्रतित्रयपाठः ।
सगाऽन्य-
गङ्गायाः
पितृगृहे
गमनम्,
शान्तनो-
मृगयायां
गमनं च॥
।
॥३॥
मृगाः । घोरैघुरघुरारावैः, शूकराव भयंकराः ॥७९॥ सन्ति यत्र महाकाया-चित्रकायाः सहस्रशः । सरिद्गमितमध्याह्र- वासराश्चापि कासराः ।। ८० ॥ ततस्तं लुब्धकश्रेष्ठं, पृष्ठमाधाय तत्क्षणात् । तदुपद्रोतमारेभे, काननं मेदिनीपतिः ॥ ८१ ॥ वागुरापाशवीतंस-विहस्तोभयपाणयः । प्रसस्रुः परितः स्वैर-वादिनस्तत्र सादिनः ॥ ८२ ॥ अमुच्यन्त नवाकल्प-सरमाः सरमासुताः । दधाव विविधारब्ध-कूटः कूटमृगीगणः ॥ ८३ ॥ दुःसाधव्याधहक्काभि-भीमापातनिःस्वनैः । क्षणादलभत क्षोभ, भयात्तत् काननं तदा ॥८॥ आशशंस शशस्त्राणं, कुरङ्गोऽभूत् कुरङ्गकः । समीपी नाभववीपी, किरति स्म किरिः स्मयम् ॥ ८५ ॥ शरभः शरभङ्गाय, पूर्वकायमुदास्थत । भीतः ससार कासार-नीरं सपदि कासरः ॥ ८६ ॥ गोमायुरायुरन्तेऽभू-त- रक्षुर्दिक्षु पुप्लुवे । दूरमुधुशितान दधे, केसरी केसरान् पुनः ॥८७॥ वनमालोडयन्नेवं, मन्दराद्रिरिवार्णवम् । केनाप्येत्य नृपो यूना, मा स्म मा स्मेत्यवार्यत ॥८॥ तध्वनेरध्वनि क्षिप्त-चक्षुः क्षितिपतिः पुरः । मण्डलीकृतकोदण्डं, तूणीरद्वयधारिणम् ॥ ८९ ॥ साक्षादिव धनुर्वेद, वनं रक्षितुमागतम् । युवानमेकं पीनाङ्ग-मनङ्गोपममैक्षत ॥ ९० ॥ (युग्मम् ) तमभ्यधाच भो भद्र, कान्तारान्तरवासिपु । मृगेपु मृगयाशीलान् , कथमस्मानिषेधंसि ? ।। ९१ ॥ सोऽप्युवाच महाभाग !, चन्यानेतानि- रागसः । भैयाान् भव्यनीतिज्ञ !, न जन्तून् हन्तुमर्हसि ॥९२॥ भवन्ति हि भवादृक्षाः, सर्वप्राणिप्रियंकराः । प्राणिनां च प्रियाः प्राणा-स्वायस्व तदिमानहो ! ॥९३।। ऊचे नृपश्चलेग्वेषा, शिक्षा लक्ष्येपु दोभृताम् । मृगयेति विदुः पूर्वे, तदलं विचि- कित्सया ॥९४ ॥ तदितोऽपेहि मुग्धोऽसि, विदग्धैर्विप्रतारितः । विलोकय विनोदं मे, सर्वक्षत्रमनोहरम् ॥ ९५॥ स युवोवाच १ वीतंसः-पक्षिग्रहणाय जालः । २ विहस्तः सहितः । ३ लघुव्याघ्रः । ४ भयानभिज्ञानीतिज्ञ ! इति प्रतित्रयपाठः ।
शान्तनु-
गाङ्गेययो-
गङ्गाया
आगमनम्।
माक्षेप, हुं बातोऽमि धनुर्धरः । शिक्षाक्रमचले लक्ष्ये, गत्वाऽन्यत्र विधीयताम् ॥ ९६॥ इत्थं यदा निषिद्धोऽपि, मृगान् हन्ति
स्म भूपतिः । रुक्षाक्षरमदाक्षिण्यं, तदा तेन व्यभाष्यत ॥ ९७ ॥ घिनिस्त्रिंश ! वृथा वृद्ध !, गर्भव्याध ! न वाधसे। जन्तू-
नरंतुदै गैः, किंतु मामेव वाधसे ॥ ९८ ॥ ततो धर्मविरुद्धेत्र, प्रथयन् पथि पान्थताम् । इदानी दुर्नयस्यास्य, सदृशं फल-
माप्नुहि ॥ ९९ ॥ इत्याक्षिप्य क्षुरप्रेण, लघुहस्ततया तया । स चिच्छेद विसच्छेदं, भूपालरथकेतनम् ॥ १०० ॥ हन्तुमोजा-
पमानोऽपि, कल्लोलिकरुणारसः । स्वापं प्रस्त्रापनास्त्रेण, सोऽनैपीनृपसारथिम् ॥१०१।। नवाभिभवसंभार-प्रबुद्धक्रोधभीषणः ।
क्षितिपोऽपि निचिक्षेप, क्षिप्रं तं प्रति पत्रिणः ।। १०२ ॥ महावलेन ते तेन, सपत्राः पादपा इव । वायुनेव व्यधीयन्त, द्विधा
मार्गेऽपि मार्गणाः ॥१०३॥ वीक्ष्य द्वेधाऽपि वैलक्ष्यं, प्रपेदानमथ प्रभुम् । मृगैरिव मृगारातिः, स रुद्धो नृपसैनिकैः ॥१०४॥
म भटः सुभटालोक-रोमाञ्चिततनुस्तदा । तान् प्रत्येकं शरैरेको, निममे दक्षिणेमणः ॥१०५|| काश्यपीशो दशन् कोपा-दशनै-
देशनच्छदम् । यावद्धनुपि संधत्ते, सायकं शत्रुशायकम् ॥१०६॥ जितकाशी भृशं ताव-निजवाणेन भूपतेः। धनुःस्थं च भुजस्थं
च, गुणं द्वेधापि सोऽच्छिदत् ।।१०७॥ तेन विक्रमिणाऽऽक्रान्तः, सिंहसब्रह्मचारिणा। अभूद्विहस्तो हस्तीव, हस्तिनापुरनायका
।।१०८॥ आससाद विपादस्य, निपादस्येव पाप्मनः । स्पर्शदोषाद्विशामीशः, सर्वाङ्गमलिनात्मताम् ॥ १०९॥
अथ मापालमालिन्य-मपनेतुमिवोत्सुका । विज्ञाय गङ्गा संग्राम-मागमत्तं धनुर्धरम् ॥११०॥ अभ्यधत्त च तं वत्स !,
तव केयमहंयुता? । समं यन्निजतातेन, अहिलः कलहायसे ॥१११॥ ततोऽसौ विस्मयस्मेरः, पृच्छति स्मेति मातरम् । कथ-
१ दक्षिणे ईम-प्रणं येषां तान् दक्षिणपार्श्वविद्धमृगान् तत्सदृशानित्यर्थः । २ ओष्ठम् । ३ शत्रुनिद्राकरम् । ४ व्याकुलः।५ गर्वः।
॥४॥
मेप महीनाथ-स्तातो मे वनवासिनः ॥ ११२ ॥ अथाह जननी वत्स!, पिताऽसौ तव शान्तनुः । मृगव्यव्यसनादस्मा-न व्यरंसीत् कथंचन ।। ११३ ॥जातमात्रं तदादाय, त्वामुपागां गृहं पितुः । पितैव शरणं स्त्रीणा-मविधेये हि भर्तरि ॥११४॥ प्रत्युवाच स तां मात-यद्यप्येवं तथापि मे । तातोऽपि नाधुना तातः, कर्मठो यः कुकर्मसु ॥ ११५॥ असौ प्रत्युत मे शत्रुः, पालितेभ्यो मयाऽनिशम् । पाल्पात् कान्तारजन्तुभ्यो, यदमीभ्योऽपि मुह्यति ॥११६॥ पिता चाऽस्तु परो पाऽस्तु, नामुं मुने कथंचन । प्राणिनो मे प्रियानेता-निर्गुणधेजिघांसति ॥ ११७ ॥ ततो गङ्गा समागत्य, वसुधाऽधिपमभ्यधात् । आर्यपुत्र ! स्वपुत्रेण, कोऽयं ते मीपणो रणः ॥११८॥ एतत्तस्या वचः श्रुत्वा, स्फारिताक्षः क्षमापतिः। इयं गङ्गा कथमयं, गाजेयश्चेत्य- तर्कयत् ॥ ११९ ॥ समुद्धपितरोमाञ्चो, रथादुत्तीर्य पार्थिवः । प्रौढं प्रमोदमारूढ-स्त्वरित सुतमभ्यगात् ॥ १२०॥ अपरोऽप्य- रोप्याशु, चापं पर्यश्रुलोचनः । आगत्य भूमिलठनः, पादयोरपतत्पितुः ॥१२१॥ पिताऽप्युत्थाप्य सर्वाङ्ग-मालिङ्गन्नजं निजम् । तत्सुखं प्राप पीयूप-सेकतोऽप्यतिरेकि यत् ।। १२२ ॥ ॥ परं परस्परस्नेह, वीक्ष्य प्रत्यक्षतस्तयोः । यामुपाह मुदं तो तु, संव जानाति जावी ॥ १२३ ॥ अथ पुण्यपरीपाक-संपन्नामजसंगमः। आलिङ्गन्नयनः प्रीत्या, प्रियां प्रोवाच पार्थिवः॥ १२४ ॥ कस्तूरीस्तवकश्याम- नवश्मश्रुरसो मया । प्रिये ! सुतोऽपि शौण्डीर्य-विस्मयानोपलक्षितः ॥१२५।। कथं कान्तारवास्तव्या, सुतो मे समजायत । कथं वा यौवनावस्था-मिमामानायितस्त्वया ॥१२६॥ गङ्गा जगाद राजेन्द्र !, कथयामि निशम्यताम् । पुरे मातामहस्याय, १ 'पलात्' इति प्रत्यन्तरत्रयपाठः । २ 'याऽस्त्वपरों' इति प्रत्यन्तरमयपाठः।३ 'रोमाऽथ' इति प्रत्यन्तरप्रयपाठः । ४ संहत्य । ५ गगा।
गगाकथि-
तो गाङ्गेय-
वृत्तान्तः॥
नदोपेतः ममं मया ॥१२७॥ अतुलैर्मातुलानीना-मकपर्यकखेलनैः। पञ्चातिकामयन् वर्षा-ण्ययमेकाहलीलया ॥१२८॥ विद्या-
धरामारामां, मध्ये मरयमा स्थितः। तिरथकार रूपाणि, तेजांसीच तयात्मजः ॥१२९॥ युग्मम् ।। ततः पवनवेगेन, मातुले-
नापमादरान् । अध्यापयितुमारेमे, विद्यां विद्यान्तदृश्वना ॥ १३० ॥ पपाठाल्पेन कालेन, विनयात्तनयस्तव । वर्धिष्णुप्रतिभो
पाधि-मगस्तिरित पामयम् ॥१३१॥ अध्यगीष्ट धनुर्वेद-मनिर्वेदमसौ तथा । गुरु: पवनवेगोऽपि, यथाऽत्यन्तं विसिष्मिये
॥ १३२ ॥ नीतस्तेन ततः गर्व-विद्यापारीणतामयम् । तृणवगणयामास, विद्याधरपतीनपि ।।१३३॥ मत्पितुः सदने हास्यात् ,
मुलभं योमहेलनम् । ततः समस्तैस्तैः माधं, पुत्रस्ते कलहायते ॥ १३४ ॥ ज्ञात्युपालम्भतो भीता, त्वत्पाणिग्रहसाक्षिणि ।
प्रामादे निरमाम्यस्मि-नाचरन्ती जिनार्चनम् ॥१३५।। चारणश्रमणश्रेणि-मुखाद्धर्म निशाम्यतः। बभूवास्य दयाधर्मः, सुतरां
हृदयंगमः ॥ १३६ ॥ ततः कालोलितश्रद्धा-निप्पैतद्वाप्पशीकरः । व्यधान्निरपराधानां, निपेधं प्राणिनां वधे ॥१३७ ॥ ततः
कारुण्यनिष्णेन, योजनानि चतुर्दश । यनेऽस्मिन् परितोऽनेन, सत्त्वरक्षा प्रवर्तिता ॥१३८॥ नामुनाऽप्यध्वना व्याधः, कोऽपि
संचरने मिया । अस्मिन् हिनस्ति हिंस्रोऽपि, न विरोधी विरोधिनम् ॥१३९॥ कान्तारेऽत्र कृतान्तोऽपि, श्वापदानामनापदाम् ।
त्वत्पुत्रभीतो नेतेपा, प्रभवत्यपमृत्यवे ॥१४०॥ प्राणसत्रं स्वपुत्रस्य, सर्वसत्रशिरोमणिम् । आर्यपुत्र ! परित्रातुं, सर्वथा तत्त्व-
महसि ।। १४१ ॥ पत्नीमुवाच रोमाञ्च-मतनुं शान्तनुर्वहन् । सर्वाऽप्यतः परं त्यक्ता, त्वद्गिरा मृगया मया ॥ १४२ ॥
तदेहि मह पुरेग, मचरित्रेण संप्रति । उदना जाग्रतु व्यक्तं, पुनमें भाग्यसंपदः ।। १४३ ।। साऽभ्यधादधुना लीनं, मनो मे
१ मातुलपत्नीनाम् । २ 'वाड्मयीम् ' प्रत्यन्तरपाठः । ३ निर्गच्छदश्रुविन्दुः । ४ ' रोमाञ्चकवचं' इति प्रत्य० ।।
.
॥५॥
धर्मकर्मणि । व्यधन्ते तदिनान्यन्तः, प्राच्यान्यप्यफलानि माम् ॥ १४४ ॥ तन्मेऽधुना जिनस्पैच, वासना पर्युपासने । पुत्रं त्वादाय राजेन्द्र , मज शाधि वसुंधराम् ।। १४५ ॥ इत्युदीर्य प्रजानाथं, सा तनूजमयोचत । यत्स ! गच्छ पितुः खस्य, समर्थय मनोरथान् ॥ १४६ ।। ईपास्यास्ति जनकः ?, कस्यास्ति त्वादृशः सुतः १। तदस्तु युवयोर्योगो, बुधचन्द्रमसोरिव ॥ १४७ ॥ ततो जगाद गाङ्गेय-स्त्यक्तुं त्वामम्प नोत्सहे । त्वं मे पिता च माता च, हष्टपूर्यस्मि नापरम् ॥१४८॥ तवो- पचर्याशून्यं मे, मा स्म भूदेकमप्यहः । इत्युक्त्या व्यक्तमुक्ताश्रुः, सोऽपतन्मापादयोः ॥ १४९ ।। अथोत्थाप्य प्रमृज्याथु, जनन्या सोऽन्यनीयत । बलिः क्रियेऽहं पैरसस्य, कातर्यमिदमुत्सृज ॥१५०॥ पुत्र ! त्वमसहायस्य, सहायः स्वपितुभव । सनु- जनयितुमिन्ता-भारहारी हि वार्धके ॥ १५१ ॥ पात्सल्यं वत्सलस्तात-स्तथा ते प्रथयिष्यति । यथा न त्वमिहस्थाया, मम परस ! स्मरिष्यसि ।। १५२ ॥ इत्यादियुक्तिमिर्व्यक्तं, पोधितो बुद्धिमानपि । अम्बायाः स विलम्बेन, वचनं प्रत्यपद्यत ॥ १५३।। गङ्गामापृच्छय गाग्नेय-मादाय दयितः क्षितेः । उचोरणपताकार-गोपुरं पुरमाययौ ॥ १५४ ॥ नृपोऽथ सनये तस्मै, यौवराज्यपदं ददौ । योग्यं सुतं या शिष्यं वा, नयन्ति गुरवः श्रियम् ॥ १५५ ॥ एकातपत्रां सोऽप्युर्वी, फुर्वन्नहितनिग्रहात् । विनीतात्मा तनोति स्म, प्रसादं सदृशं पितुः ।। १५६ ।। विनीततनयोत्खात-चिन्ताशल्यश्चिरं नृपः । स्वच्छन्दोलसदानन्द, पिजहार महीतले ॥ १५७ ॥ १ ते यरस ! ' इति मत्यन्तरप्रयपाठः । २ 'प्रसावसदृशं' इति प्रत्यन्तरमयपाठो न सम्यर प्रतिभाति, उर्यायिशेपणे सु पटतेऽपि फयाश्रित् । ३ रियाविशेषणमेतत् ।
शान्तनो
सत्यवती-
याचना॥
अन्पदा यमुनातीरे, विहरन् स मनोहराम् । कन्यामालोकयामास, कांचिनावि निपेदुपीम् ॥१५८॥ स तस्याः स्पृहणीयेन,
स्पेन तमानमः । काऽसि त्वमिति तामेत्य, पप्रच्छ मदनोत्सुकः ॥१५९॥ जगाद साऽपि भूपालं, कालिन्दीकच्छवासिनः ।
नौतन्त्राधिपतेः पुत्री, कन्या सत्यवतीत्यहम् ॥१६०॥ ताताज्ञां प्राप्य धर्मेण, वाहयामि तरीमहम् । भवेत् कन्या कुलीना हि,
पिपादेशपवदा ॥ १६१ ॥ श्रुत्वेति नीतिवचनः, क्षणेन क्षितिपोत्तमः । तदर्थमर्थी भवितुं, ययौ तत्पितुरन्तिके ॥ १६२ ॥
स्वागतक्रिययाऽऽनन्य, सोऽपि शान्तनुभूपतिम् । देवाऽऽज्ञया प्रसीदेति, विनयेन व्यजिज्ञपत् ।। १६३ ॥ अभापिष्ट निविष्ट
तं, पतिर्धाव्यास्तरीपतिम् । सधर्मचारिणी मेऽस्तु, सुता सत्यवत्ती तव ॥ १६४ ॥ अथाभ्यधत्त नौतन्त्र-स्वामी विनय-
पामनः । गृहमभ्यागतो देव !, त्वमर्थी केन लभ्यसे ? ॥१६५॥ परं पतिवरामेना, न तुभ्यं दातुमुत्सहे । गाङ्गेयः खेचरी-
गेग-पाहुर्यत्तेऽस्ति नन्दनः ॥ १६६ ॥ सति राज्यधरे तस्मिन् , दोप्मदूष्मनिपूदने । अस्या यस्तनयो भावी, तस्य राज्यं
कदापि न ॥ १६७ ॥ वधूनामवरोधत्वं, कारागारं विदुर्बुधाः । यासामभाग्यभाजां हि, राजा भवति नात्मजः ॥ १६८ ॥
तत् प्रसीद कलवार्थ-मन्यत्र व्यवसीयताम् । उदारास्त्वादृशां दाराः, संपत्स्यन्ते पदे पदे ॥ १६९ ॥ अपार्थप्रार्थनः सोऽथ,
आभार म्लानमाननम् । सकृदप्यपराद्धेपु-र्धानुष्कः किं न दूयते । ॥ १७० ।। ध्यौ नृपोऽभ्यधादेप, नौपतिः सोपपत्तिकम् ।
नृपयेनास्य दौहित्रा, कि जामात्रा मया फलम् १ ॥ १७१ ॥ न चान्तरेण गाङ्गेयं, धुर्यो राज्यस्य संभवी । न ह्याकाश-
प्रकाशाय, प्रभुरन्यो विना रविम् ॥ १७२ ॥ दत्तेऽवश्यं न चान्यस्मै, राज्यमूर्जखि शान्तनुः। सुधासर्वस्वमम्भोधि-
१ वीरगर्वनाशके । २ . संभवन्ति' इति प्रत्य० । ३ महत् ।
॥६॥
न्यधात् पुरे फलानिधौ ॥ १७३ ॥ इतः काति तो मे, नौतन्त्राधिपतेः सुता । संकटे पतितोऽमुष्णि-मूढधीः करवाणि किम् ॥ १७४ ॥ इत्थं विकल्पै पालः, काममाकान्तमानसः । मोगफाल इस द्वीपी, निजं पुरमुपाययौ ॥ १७५ ।। तदानीमागतो राज-रोवावसरलालसः । निर्गये तातवयं, चिन्तां शान्तनयो प्यधात् ।। १७६ ।। विनयातिक्रमः किं गे, किमागाऽलदिर केनचित् ।। किं वा सस्मार मे मातु-र्गन्गे श्यामाननः पिता ॥ १७७॥ तातस्तापन सृष्टोऽपि, यथापत् कथयिष्यति । अमात्याचारामधीगः, रावं जानाम्यदः पुनः ॥१७८॥ ततः सत्मिना यतात्, करिष्ये पितुरीप्सितम् । इत्थं पिगृश्य सोऽमात्य, पप्रच्छ विजने सुधीः ॥ १७९ ॥ तस्मानिःशेषमागम्य, सोऽगमनौपतेहम् । विहितस्वागतोन-गवद- यूपनन्दनः ॥१८०॥ महामाग ! महाभाग्गै-रर्थी शान्तनुराप्यते । इत्थं निराकथा यचत्, सुष्ठु नानुठितं त्वया ॥१८१॥ अवदन्नौपतिः प्रीतः, कुमार ! शृणु कारणम् । शान्तनोरपि येनास्मि, प्रार्थनाममहेतवे ॥१८२॥ सोऽन्धकूपे क्षिपेत् पुत्री, ससापत्न्ये ददीत गः। पसन्त्याः शान्तनोगेंडे, सपत्नोऽस्यास्त्वमेव हि ॥१८३ ।। सपत्नीतोऽपि तआतं, नितान्तमति- रिच्यते । कोशातगाः फलेप्पेय, रसः परिसमाप्यते ॥ १८४॥ नररत्न! सपत्नोऽसि, येषां तेषां कुतः सुखम् । जागत्यसबने सिंह, सुखागन्ते कियन्मृगाः १ ॥१८५ ॥ अप्रसमा प्ररानो पा, भवान् येगो द्वरोऽपि ते । आपदा पदमाधाः स्युः, संपदा- गपरे पुनः ॥ १८६ ।। कुमारः। गम दौहियो, यस्तु भावी कथंचन । दूरे महोदयस्तस्य, रामीणे विपदः पुनः ॥ १८७ ।। त्या समुत्सृज्य राज्यश्रीः, श्रीमन् । किं पुणुते परम् । हित्वा पार्धि महासिन्धु, किं तछगुपसर्पति १ ॥ १८८ ॥ यः सर्व- १ पिस्तुल्गात् । २ फाराारम् ।
गाङ्गेय-
नौपति-
संवादः॥
कमनीयायाः, श्रूयते जनमः श्रियः । प्रजानुरागजलधिः, सोऽपि त्वय्येव जृम्भते ॥ १८९ ।। स्नेहतो दुहितुः पश्य-नायतौ
दुःखमायतम् । प्रणयातिक्रमं तेन, कृतपानस्मि ते पितुः ॥ १९०॥
जगाद शान्तनोः मनु-र्मातामह ! महान् भ्रमः । तवैप यदिदं वाक्यं, तुच्छोचितमुदाहरः ॥ १९१ ॥ भिदेलिमा हि
प्रकृतिः, कुरुवंशान्यवंशयोः । भवेत् स्वभावो न होकः, कलहंसवकोटयोः ॥ १९२ ॥ सापत्न्यमिति संवन्धो, विवेकिनि कुरोः
कुले । अभूतपूर्व एवायं, ना विज्ञायते कचित् ॥१९३॥ मम सत्यवती माता, गङ्गातोपि विशिष्यते । संवन्धो जन्मसंवन्धात् ,
प्रतिपनो महाननु ।। १९४ ॥ यस्त्वस्या भविता सूनुः, स ममैवोपयाचितैः । शुभः स देशः कालो वा, यत्र भ्रात्रा समागमः
॥ १९५ ॥ स्वादयिष्यति ते पुत्री, पुत्रेण विहितं मया । सुखं विनयतः पूर्व, पश्चात्तु तनुजैः कृतम् ॥ १९६ ।। दूयते किं च
वातोऽपि, मया भृशमवन्धुना । रथस्यैकरथाङ्गस्य, प्रत्यूहो हि पदे पदे ॥ १९७ ॥ एकां भृणु प्रतिज्ञां मे, बाहुमुत्क्षिप्य
जल्पतः । सत्यवत्यास्तनूजस्य, राज्यं नान्यस्य कस्यचित् ॥१९८॥ अहं तु हन्तुमेतस्य, प्रत्यूहव्यूहमन्वहम् । चापभृत्तां करि-
प्यामि, सुतोऽस्मि यदि शान्तनोः ॥१९९॥ अद्यैवाप्तं मया राज्य, तुष्टाश्च मम देवताः । सत्यवत्या सधर्मिण्या, यत्वातः
सुमना भवेत् ॥२००॥ उदात्तामिति गाङ्गेय-गिरमाकर्ण्य विस्मितैः । स्थिराणि खेचरैयॊग्नि, विमानानि वितेनिरे ।।२०१॥
विग्मयात् फुल्लनयन-स्ततः सत्यवतीपिता । अत्यन्तलुब्धो विश्रब्धं, कुमारं पुनरम्यधात् ॥ २०२॥ माधु साधु कुमारेन्द्र !,
त्वमेव पितृवत्सलः । स्फीतं गुणगणक्रीतं, यदेवं राज्यमुज्झसि ॥ २०३ ॥ राजपुत्रा हि राज्यार्थ-मकृत्यान्यपि कुर्वते ।
१ 'चापभृजागरिष्यामि' इति प्रत्यन्तरद्वयपाठः ।
.
॥७॥
उदात्तं तत् प्रमायातं, को नाम त्वमिव त्यजेत् १ ॥२०४।। परं कुमार ! ये केचिद्भवितारस्तवात्मजाः। न तेऽन्यस्य सहि- प्यन्ते, राज्यमूर्जितयाहवः ।। २०५॥ त्वत्तो ये जन्म लप्स्यन्ते, पवित्रक्षात्रतेजसः । कस्तानीशिष्यते सोद्ध-मन्यः सिंहानि- याहवे ? ॥ २०६ ॥ राज्यमाच्छेत्तुमुसिक्तैः, शक्तैस्ते तनुजन्मभिः । आत्तश्रीः पुनरश्रीको, भविता मत्सुतासुतः ॥ २०७॥ इत्थं नानाऽऽधिवैधुर्य, भावि संभाव्य भूरिशः । सुतायामायती तात !, पुनः स्खलति मे मनः ॥२०८।। इत्युक्तवन्तं तं हृष्य-- नन्तः शान्तनवोऽभ्यधात् । एतामपि तवेदानी, चिन्तां व्यपनयाम्यहम् ॥२०९॥ शृणु त्वं व्योम्नि शृण्वन्तु, सिद्धगन्धर्व- खेचराः । ममैकं मुपिताशेप-पापग्रहमभिग्रहम् ॥ २१० ॥ स्वर्गश्च सोऽपवर्गश्च, यस्य ख्याता फलद्वयी । आजन्म तन्मयो. पात्तं, ब्रह्मचर्यमतः परम् ॥२११॥ माता मातामहस्तातो, भाविनो वान्धवाश्च ये। एपामानन्दधुर्यस्य, व्रतस्यास्य किमुच्यते ? ॥ २१२ ॥ चारणश्रमणैः पूर्व-मिति मे प्रतिपादितम् । प्रथमं च चतुर्थ च, व्रतेष्वनुपमे व्रते ।। २१३ ॥ प्रतिपेदे मया पूर्व, प्राणिनामभयव्रतम् । ब्रह्मववमिदानीं तु, मम भाग्यमहो ! महत् ।। २१४ ॥ अस्तु प्रैस्तविपद्वाः, तार्तीयीकमपि व्रतम् पितृशुश्रूपर्ण नाम, ममाजन्म निरत्ययम् ।।२१५।। इति प्रस्तुवतस्तस्य, श्रद्धालोम॒ग्निं बन्धुरम् । भृङ्गबद्धस्वनोत्कर्प, पुष्पवर्ष दिवोऽपतत् ॥२१६।। उच्चेरुरिति वाचश्थ, देवा धन्याऽसि जाह्रवि! त्वं चासि शान्तनो! श्लाघ्यः, सोऽयमीदृग्ययोः सुतः ॥ २१७ ॥ सर्वेऽपि ज्ञानिनो ब्रूत, पृच्छामः खेचरा वयम् । यद्येतद्रूतमाराध्धं, केनापि गृहमेधिना? ॥२१८।। तरवसत्क- १ 'उदात्तः' इति प्रत्यन्तरद्वयपाठः । २ आत्ता-गृहीता श्रीर्यस्य यस्माद्वा । ३ 'धुर्येन' इति प्रत्यन्तरत्रयपाठः । ४ त्रस्ता विपदां वार्ता यस्मात्तत् । ५ देवि !' इति प्र० द्वयपाठः । , - W
नौपतिना
गाङ्गेयस्य
सत्यवती-
पितृकुलं
कथितम्॥
निःस्पन्द-मयो पदयमाददे । ईग्नवतं भीष्म, भीष्मस्तेनैप गीयताम् ॥ २१९ ॥
सत्यं पेदेमप्यस्ति, किमन्यैर्वहुभिर्गुणैः । तदेव हन्त ! चेन्नास्ति, किमन्यैर्वहुभिर्गुणैः १ ॥२२०॥
अहिंमा ब्रह्मचर्य च, पिवमक्तिश निश्चला । त्रयखिभुवने श्लाघ्याः, शान्तनोस्तनुजे गुणाः ॥ २२१ ॥ भवेत्रतानां
पारीणो, मा स्म रीणः कचिद्भवः । इत्यभिष्टुत्य निश्छम, सद्म स्वं खेचरा ययुः ॥ २२२ ॥ ततो दुहितरं तूर्ण-माहूयोत्सङ्ग-
गजिनीम् । कुर्वन्नुदीरयामाग, कुमारं नाविकेश्वरः ॥ २२३ ।। गुणग्रामैकवास्तव्यो, नास्त्येव त्वत्समः पुमान् । पितुरर्थे
कृतं सपो, यद्रह्मातमद्भुतम् ॥ २२४ ॥ तवानेन चरित्रण, चित्रीयितमनाविरम् । वृत्तान्तमेकमाख्यामि, कुमार ! भृणु
मांप्रतम् ॥ २२५ ॥
कालिन्दीफूलपालीपु, विहरन्नहमेकदा । अशोकानोकहतले, विश्रामाय समागमम् ॥ २२६॥ तदात्यजातां केनापि, तत्र
निसिंगचेतता । मश्रीफामुज्झितामेका-मद्राक्षं मड्क्षु चालिकाम् ॥ २२७ ॥ अपत्यमनपत्योऽहं, स्पृहयालुरहनिशम् । सुरूपां
नामुपादातुं, प्रवृत्तोऽस्मि भविम्मयः ।। २२८ ॥ विजातिर्वा सुजाति, काऽप्यसाविति वेत्ति कः १ । एवं विकल्प्य व्यावृत्य,
चेलितोऽस्मि स्ववेश्मनि ।। २२९ ॥ अत्रान्तरेऽन्तरिक्षान्त-रुल्ललास सरस्वती । अस्ति रत्नपुरे स्वस्ति-धाग्नि रत्नागदो
नृपः ।। २३० ॥ तस्य रत्नवतीकुक्षि-शुक्तिमुक्तेयमात्मजा । खेचरेणापहृत्यात्र, विमुक्ता पितृवैरिणा ॥ २३१ ॥ तामेताम-
तनुप्रेमा, शान्तनुः परिगेष्यति । इति व्योमगिरा पाला, ग्राहितस्तामहं तदा ॥ २३२ ॥ तनयामनपत्यायाः, प्रियायास्ता.
१स्सलितः । २ अनोकहः-वृक्षः । ३ तत्कालोत्पन्नाम् । ४ "चलितश्चास्मि वेश्मनि" प्रत्यन्तरत्रयपाठः ।
॥८॥
मुपानयम् । नामधेयं व्यधां चास्याः, सत्यं सत्यवतीत्यहम् ।। २३३ ॥ मम पत्न्या च यत्नेन, वात्सल्यजलफुल्यया । कैलिकाननवल्लीव-दियं वृद्धिमनीयत ।। २३४ ॥ प्रिलोकीतिलकीभूवा, प्रभूतगुणमन्दिरम् । सेयं सत्यवती पुत्री, कृत्रिमा मम नौरंसी ।। २३५ ॥ पिता भवत्यपत्याना-मीदृशां मादृशः कुतः ? । आस्पदं कल्पवल्ल्या हि, सुमेरुन पुनर्मरुः ॥२३६॥ तदस्या दिव्यवाचैव, निर्णीतः शान्तनुः पतिः । चीक्षितुं पितृभक्तिं तु, त्वदीयामित्यजल्पिपम् ॥ २३७ ॥ तदिदानीमुपाद- स्व, मत्सुता तातहेतवे । अतः परं त्वमेवास्या, विश्रामः सुखदुःखयोः ॥ २३८ ।। इत्यालप्य कुमारस्य, प्रसरत्पुलकाहरः । सुतां सत्यवतीं प्रीता-मर्पयामाम नौपतिः ।। २३९ ।। अलमम्य ! विलम्बेन, रथोऽयमधिरुषवाम् । इति तां रथमारोप्य, पुरं शान्तनयो ययौ ॥ २४० ॥ नभश्चरेभ्यो निःशेपं, वृत्तान्तं ज्ञातपूर्विणः । प्रसन्नस्य पितुर्नीत्वा, स चक्रे तामुपायनम् ॥ २४१॥ पितापि भीष्ममा- ग्लिष्य, निर्भरस्नेहपूर्वकम् । आत्मैकवेद्यमानन्द-ममन्दभरमन्वभूत् ॥ २४२ ॥ दशा पीयूपवपिण्या, श्रीविश्राममहीरुहम् । सिञ्चन्नुवाच गाजेय-मुत्सङ्गस्थापितं पिता ॥२४३ ॥ शृण्वन्ति पितुरादेशं, ये तेऽपि विरलाः सुताः । आदिएं ये तु कुर्वन्ति, सन्ति ते यदि पश्चपाः ॥ २४४ ॥ आत्मना यस्तु विज्ञाय, करोति पितुरीप्सितम् । एक एव स मे मनु-जाह्नवीशुक्तिमौक्ति- कम् ॥ २४५ ॥ ततः परसंहस्राणि, वत्सराण्यायुरस्तु ते । एतस्य कुरुवंशस्य, पताकाश्रियमाप्नुहि ।। २४६ ।। प्रमोदादेव- माशीभिरभिनन्ध निजात्मजम् । नृपः सत्यवती सौम्ये, मुहूर्ते परिणीतवान् ।। २४७ ॥ १ न स्वशरीरजा इत्यर्थः ।
सत्यवती-
शान्तनो-
ततः मययती पत्नी, नाप्रेमा म(मांश)मीयुषः । भूपालस्य पुमर्थेपु, कामः कामं नियोऽभवत् ॥२४८॥ "रति-पुत्रफला
दारा," इति नीतिवचस्तया । सत्यापयन्त्या सुपुवे, पुरचित्रागदाभिधः ॥ २४९ ॥ तेजस्वितिलकः पादै-राक्रमन् भूभृतां
शिरः । योऽभपातमानोऽपि, पालार्क इव दुःसहः ।। २५० ॥ विचित्रवीर्य इत्यासीत् , सत्यवत्याः सुतोऽपरः । बभूव
भूभृतो यम्मा-वंशः प्रांशुः प्रसृत्वरः ॥ २५१ ।। तदा तयोः समग्रेपु, हितकर्मसु जाग्रतः । प्रादुर्बभूव सौभ्रात्रं, गङ्गासुनोर-
कृत्रिमम् ॥ २५२ ॥ सोऽग्रजन्माऽनुजन्मानौ, कृत्वाऽङ्कतलतल्पगौ । उल्लापैः श्रोत्रपीयूपैः, खेलयामास भूरिशः ।। २५३ ।।
धनगोनोचितेस्तैस्तै-रन्यपालविलक्षणैः । एतयोल्यिचापल्यैः, स तुतोप क्षणे क्षणे ॥ २५४ ॥
अथाल्पीयो विदित्वायु-रग्रिमस्तचदृश्वनाम् । शुभध्यानेन तत्याज, शान्तनुर्मानुपी तनुम् ॥ २५५ ॥ विधिवद्विदधे
भीष्मः, पितुः सस्यौर्घदेहिकम् । " इह च प्रेत्य च प्रीत्यै, तादृशा हि सुताः पितुः" ॥ २५६ ॥
सोऽथ चित्रागदं राज्ये, शिशुमेव न्यवीविशत् । " न हि विस्मृतिमभ्येति, प्रतिपन्नं महात्मनाम् ॥ २५७ ।। से
ग्रीष्मेणेव भीष्मेण, तथोग्रं धाम लम्भितः। उदयन्नपि दुष्प्रेक्ष्यो, यथाऽभूद्भानुमानिन ॥२५८॥ अभूत् कश्चित् स भूपानां, हदि
चित्राङ्गदो गदः । नागदो नागदवारः, कोऽप्यासीद्यचिकित्सने ॥ २५९ ॥ तेन नैष्यत भीष्मोऽपि, संविभागी जयेऽपरः ।
अतः मयुद्धमेकाकी, चक्रे साध विरोधिभिः।।२६॥ स निर्मलकलासम, च्छमनाऽभ्येत्य जग्रसे। नीलाङ्गदेन संग्रामे, शीतांशुरिव
राहुणा ।। २६१ ॥ “शिरम्शेपोऽपि चेद्वैरी, तदा बाधेत राहुवत् " । उपानीयत भीष्मेण, सोऽप्यतो नामशेपताम् ॥२६२॥
१ भृशम् । २ रतिपुनी फलं यासा ताः । ३ " स हि प्रीप्मेण भी०" इति प्रत्य०। ४ विनाशितः ।
पुत्रद्वयो-
त्पत्तिः,
शान्तनुम-
रणम्,
चित्राङ्गद-
स्य राज्य-
प्राप्तिस्त-
न्मरणं च।
॥९॥
अथ राज्यं कनिष्ठाय, गरिठो जाहनीसुतः। ददौ विचित्रवीर्याय, बन्धवे बन्धुवत्सलः ॥ २६३ ॥ तं भीष्मचाप- माहात्म्या-दपचक्रे न कश्चन । " यूथनाथान्तिके केन, कलभः परिभूयते ?" ॥ २६४ ॥ चतसृष्वपि विद्यासु, गतावद्यासु कौशलम् । चक्रे कनीयसो भातु-र्भीष्मः संज्ये च धन्वनि ॥ २६५ ।। अनहंयुतयाऽत्यन्तं, भूना पैनयिकेन च । यवन्ध बान्धवस्नेह, भीष्मस्तस्मिन् विशेषतः ॥ २६६ ॥ दाराणामनुरूपाणां, भ्रातुरुद्वादहेतवे । गवेपणाय स प्रैपी-निजान् प्रति दिशं नैरान् ॥ २६७॥ मार्गदत्ताशे तस्मै, कदाचिद्धलिधूसरः । तेपामेकतमोऽभ्येत्य, कथयामासिवानिति ॥ २६८ ॥ देव ! श्रीकाशिराजोऽस्ति, प्रकाशः काश्यपीतले । यस्य मन्दाकिनी नित्य-मना गृहदीपिका ॥ २६९ ॥ अम्बि- काऽम्बालिकाऽम्बा प, तिस्रस्तस्यासते सुताः। विभान्ति पुरतो यासां, तृणवत्रिदिवस्त्रियः ॥२७०॥ तासांतातेन विश्रब्धं, प्रारब्धोऽस्ति स्वयंवरः । रचयांचक्रिरे मञ्चा-स्तत्र वैचित्र्यशालिनः ॥२७१॥ राजानो राजपुत्राथ, शतशः सन्त्युपस्थिताः । आपतन्त्यधुना केचि-दापतिष्यन्ति केचन ।। २७२ ॥ ततः कलाकलापेन, रूपेण वयसाऽपि च । योग्या विचित्रवीर्यस्य, सुतास्ताः काशिभूपतेः ॥ २७३ ।। गाङ्गेयस्तद्वचः श्रुत्वा, तत्वदृष्टिळतयत् । किमहो काशिराजेन, नानुजो मे निम- न्त्रितः ॥२७४॥ न गन्तव्यमनाहूतै-महीपालैः स्वयंवरे । अतो गत्वाऽहमेवैकः करिष्ये सर्वमीप्सितम् ॥ २७५ ॥ एवं विमृश्य गाङ्गेयो, रथेन प्रस्थिनो द्रुतम् । जवनैर्वाजिभिर्वेगा-दगमञ्च स्वयंवरे ॥ २७६ ॥ तत्र सिंहासनासीना-नुचैर्मश्चेषु भूपतीन् । सोऽपश्यद्भासुराकल्पान्, विमाने वमरानिय ।। २७७ ॥ उरोलोलन्मनोहारि-हारास्तिस्रोऽपि बालिकाः । दृष्ट्वा विचित्रवी- १ ज्यासहिते धनुपि च । २ अगर्विष्ठतया । ३ 'पृथिवीतले ' इति प्र० । ४ 'प्रास्थित' इति प्र० द्वय० । ५ दीप्तभूपणान् भीष्मेण कृतमम्बि- कादिक- न्या- नयहरणम्। पा, म हमकरोन्मनः ।।२७८। प्रत्येकमात्मनः कन्या-लाभ संभाव्य भूपतीन् । तांस्तान् विपृण्यतो भावान् , हसति स्म स मानने ॥ २७९ ॥ अथ नामां पुरो धाया, कीर्त्यमानेषु राजसु । रथाचार्य इवोत्कालः, स रङ्गाङ्गणमाविशत् ।। २८० ॥ गतं मरंपरं राज-वनक्रममा कुलम् । याहं पिलोडयामास, पयोधिमिय लीलया ॥२८१॥ आच्छिद्य कन्यारत्नानि, सर्वेपा- मेर पश्यनाम् । रथमारोपयामास, भीष्मो मीप्मपराक्रमः ।। २८२ ॥ स्यन्दने भयनिस्पन्दा, वेपमानवपुलताः । सुताः स काशिराजस्म, निग्धमुग्धमभाषत ।। २८३ ॥ यत्साः ! किमपि मा भैप्ट, नानिष्टं यः करिष्यते । भीष्मोऽस्मि शान्तनोः गनु-भपतीनां प्रियंकरः ॥ २८४ ॥ राजा विचित्रवीर्योऽस्ति, जैनदोर्वीर्यदुर्जयः। एते सर्वेऽपि यस्याग्रे, गुणैर्वहुतणं नृपाः ॥ २८५ ॥ अनुभूग प्रियाभूय, नस्य स्मरसमाकृतेः । हस्तिनापुरसाम्राज्य, चिरं निर्विशताद्भुतम् ॥ २८६ ॥ विनयावर्जितो. न्यन्नं, तस्याहं वन्धुरग्रजः । तदर्थ रधमारुा, युप्मानानेतुमागतः ।। २८७ ॥ तस्मिंस्ता निस्तरङ्गेण, रागेणाक्रान्तचेतसः । इदं गायवननं, तथेति प्रतिपेदिरे ॥ २८८ ॥ प्रतिपत्तिचलन्मौलि-नृत्यत्ताटङ्करश्मिभिः । ताः स्फीतप्रीतयश्चक्रु-स्तस्य नीराजनामित ॥ २८९ ।। गतां मनोरथः सार्ध, रथं भीष्मो न्यवर्तयत् । कुर्वन् कुण्डलितं चाप-मुच्चैःस्वरमुवाच च ॥२९०॥ म शृणुत भो! भूपाः, प्रौढदोःस्थामशालिनः । युष्माकं पश्यतां सैप, भीष्मः कन्या हरत्यमूः ॥२९१।। ततो वः कोऽपि जागति, यदि दोर्दण्डचण्डिमा । तदा कोऽप्यायुधं धत्ता-मयमूर्घदमोऽस्म्यहम् ॥ २९२ ॥ तदा क्षुब्धार्णयनिभो, रङ्गक्षोभ- भवो घनिः । स कविदासीन्मन्येऽसो, विभिदे येन रोदसी ॥ २९३ ।। रभसोत्थास्नुभूपानां, कृष्टाभिः सिचयाञ्चलैः । १ 'नित्यरनेण' इति प्र० द्वय० । २ 'पूर्लोकाः' इति प्रत्य० ।
भूगतामिर्भयं भूरि, प्रसूतमसिधेनुभिः ॥ २९४ ॥ पलायनकृतेऽवश्य, व्यवस्यन्तोऽपि कातराः । संबधिकृतसंरोधाः, अचेलुन पदात्पदम् ॥ २९५ ॥ मुक्ताकलापमुक्तानां, चूर्णैः कीर्णाऽवनिर्बभौ । अमेयगाङ्गेययश-श्चन्दनेनेव चचिंता ॥ २९६ ।। रत्नाङ्गदानामन्योन्य-कोटिघट्टनसंभवः । क्षौमाणि क्षोणिपालाना-मधाक्षीदाशुशुक्षणिः॥ २९७ ॥ तदानीं तत्र केयांचि-दभ्य- स्तस्तेयकर्मणाम् । मूलोन्मूलितदौर्गत्यः, स्तुत्यः शान्तनवोऽभवत् ॥ २९८ ॥ वीक्ष्य भीष्मं भयक्षोभा-च्छिरस्तः स्तब- न्धनः । केनापि राजपुत्रेण, किरीटो नोपलक्षितः ॥ २९९ ॥ नृपपञ्चाननाः केचिल्लीलालालसचेतसः। असिमुष्टिमवष्टभ्य, यथास्थितमवस्थिताः ॥ ३०० ॥ अथ शौण्डीरदोर्दण्डाः, केपि संभूय भूमिपाः । सद्यः संवर्मयामासु-रस्तिवीरा हि काश्यपी ॥ ३०१ ॥ पुलको दमेदस्वि-वपुषां पौरुपस्पृशाम् । तेपां वर्म त्रुटत्संधि, युद्धसन्धां व्यधादृढम् ॥ ३०२॥ काशिराजपुरोगैस्तै-भृशं सर्वाङ्गवर्मितैः । विपक्षक्षितिपैरेत्य, भीष्मो भीष्ममभाष्यत ॥३०३|| हहो। क्षत्रकुलोतंस, किम- क्षत्रं वितन्यते ? । अयं स्वयंवरध्वंसो, महांस्ते हेतुरंहसाम् ॥३०४॥ श्रियः खियो वा मा भूव-नाहूता दुर्नयेन याः। विपदा- वर्तगर्ते यत् , पातयन्त्येव ताः पतिम् ॥ ३०५ ॥ तत् प्रतीच्छ शरैस्तीक्ष्णैः, पापस्यास्य व्यपोहकम् । गुरुस्तवास्मदिवासः, प्रायश्चित्तं प्रदास्यति ॥ ३०६ ॥ अथाभापत गम्भीरं, धीरः शान्तनुनन्दनः । भो! भूमिपालाः ! सुष्कृतं, युष्माभिाय- निष्ठुरैः ॥ ३०७ ॥ परमुर्वी च कन्या च, सर्वसाधारणी भवेत् । गृह्णातु स हि यस्यास्ति, विक्रमो निपुणः पुनः॥ ३०८ ॥ १ संवाधः-अन्योऽन्यसंघर्षः, तेन कृतः संरोधो येषां ते । २ अग्निः । ३ 'अस्तवानधः' इति प्र० द्वय० । ४ वाणः । पणः' इति प्र. द्वय० । -
भीष्मेण
सह स्व-
यंवरागत-
राजाना
युद्धम् ॥
नेवास्ति विक्रमो यस्य, स हास्यः स्पृहयन्निमाम् । दरिद्र इव रसानि, विविधानि धनं विना ।। ३०९ ।। विक्रमेण धनेनैव,
विना यत्तस्करा इव | कन्यारत्नानि गृह्णीथ, तद्यूयमपराधिनः ॥ ३१० ॥ आगस्विनां च दण्डाय, कोदण्डो मम पण्डितः ।
इत्युक्त्वा स क्षुरप्रेण, तेपां केतूनपातयत् ॥ ३११ ॥ अथ तेऽपि स्थश्रेणि-प्रारब्धपरिमण्डलाः। मध्येकृत्य शितैर्भीष्म,
पत्रिभिः पर्यंताडयन् ॥ ३१२ ।। अभ्यापतन्तो युगप-निपीततपनातपाः। तस्य ते विशिखाश्छायां, तेनिरे नापनिन्यिरे
॥ ३१३ ॥ वीरंमन्यतया दृप्ता-नन्यनिन्दापटीयमः। स तानवज्ञयाऽपश्य-न्मृगारातिर्मगानिव ॥ ३१४ ॥ प्रतिक्षिपन्तः
स्वच्छन्द-मायुधान्युद्धतानि ते । जैवस्थामानमात्मानं, मेनिरे जितकाशिनम् ॥ ३१५ ॥ इत्थं प्रगल्भमानेपु, ससंरम्भेषु
तेष्वय । खिन्ना नरेन्द्रनन्दिन्यः, स्वं निनिन्दुर्मुहुर्मुहुः ॥ ३१६ ॥ धिगस्मान्मन्दभाग्यानां, धुरि वर्तामहे वयम् । इतो
भ्रष्टास्ततो भ्रष्टा, भवितास्मोऽधुना ध्रुवम् ॥ ३१७ ।। कैते नृपाः परोलक्षाः, क चायं दोद्वितीयकः । तदिदानीं विपन्नेऽस्मिन् ,
विपन्नं नो मनोरथैः ॥ ३१८ ॥ इत्थं ताः कुमुखी:क्ष्य, भीष्मस्तत् कर्म निर्ममे । मूर्धानं धूनयद्भिर्य-त्रिदर्ददृशे दिवि
॥ ३१९ ॥ निशितैः सर्वतो मुष्टया, तान् प्रत्येकं व्रणाङ्कितान् । शरैश्वकार सुश्लोकां, स्वप्रशस्ति लिखन्निव ॥ ३२० ॥
यावद्विपक्षमक्षेप, लघुहस्तः क्षिपन्निपून् । वीक्षांचक्रे स तैरेको-ऽप्यसंख्यैरात्मसंख्यया ॥ ३२१ । भीष्मग्रीष्मरवेः क्षिप्ता,
मार्गणैः किरणैरिव । काप्यल्पा अपि नैक्ष्यन्त, क्षत्रनक्षत्रजातयः ॥ ३२२ ॥ राजैकः काशिराजस्तु, विच्छायवपुरञ्जसा ।
रणव्योमैकदेशस्थः, स्तोकस्तोकं विलोकितः॥३२॥ हृष्यन्मनोभिः कन्याभि-मुतामिव विलक्षताम् । जाह्नवीसनुरहाय, तदानीं
१ नितरां पीतः सूर्यातपो यैस्ते । २ वाणाः । ३ न स्खलयांचक्रिरे ।
॥११॥
| लाभिर्वलक्षयः । बलवद्भिस्तु रुद्धस्य , न जाने कि भविष्यति ॥ ३३८ ॥ कुरङ्गाक्षीपु नात्यन्त - प्रसङ्गः संगतः सताम् । प्रत्यपद्यत ॥ ३२४ ॥ उपेत्य प्रीणयामास, स तथा काशिभूपतिम् । यथा विचित्रवीर्याय, स्वयं प्रादादसौ सुताः ॥३२५।। स प्रीतिस्फारनेत्राभि-स्ताभिर्षालाभिरन्वितः । हस्तिनापुरमारब्ध-महोत्सवमुपाययौ ।। ३२६ ।। स वैवाहिकमाङ्गल्या- स्तिस्रस्ताः काशिनन्दिनीः । भ्रात्रा विचित्रवीर्येण, प्रमोदादुदवाहयत् ॥३२७॥ ताः प्राप्य नृपतिः प्रेम-रसैककनकालुकाः । सिञ्चन् पश्चापि विषयान्, सिपेवे सोऽतिशावलान् ॥३२८॥ इवन पञ्चापि पञ्चेपुः,प्रक्षिपन्नपि लक्षशः। प्रेयसीनामसौ मान्य, इति तस्य प्रियोऽभवत् ॥ ३२९ ॥ कामोऽनासक्तिसेव्योऽपि, तेनादृश्यत गौरवात् । प्रायेण यौवनान्धानां, सुलभो हि विपर्ययः ॥ ३३० ।। ततो विचित्रवीर्यस्य, संप्राप्तावसरः स्मरः । धर्मार्थों जनसे राहुः, सूर्याचन्द्रमसाविव ।। ३३१ ॥ स प्रेयसीनां तिसंणां, यचतुर्थः सदाऽभवत् । तल्लोके लोकपालानां, भवति स्म न पञ्चमः ॥ ३३२ ॥ कामासक्तस्य तस्येत्थं, प्रावर्तत पलक्षयः । अनङ्गेऽतिप्रसङ्गो हि, विरङ्गायैव केवलम् ॥ ३३३ ॥ क्षीयमाणवलं ज्ञात्वा, गाङ्गेयस्तमवोचत । असौ दोपस्त्वयि स्वच्छे, वत्स! त्रासो मणाविव ।।३३४॥ पीनवर्मितसर्वाङ्गान् , कथं शत्रून् विजेष्यसे । अनङ्गेनापि कल्याणिन् !, यस्त्वमेवम- जीयथाः ॥ ३३५ ॥ धर्मार्थावेव न परं, कामासक्तस्य नश्यतः । मूलं सर्वपुमर्थानां, वपुरप्यपचीयते ॥ ३३६ ॥ दुःसहाः पुष्पवाणस्य, वाणाः पुष्पमया अपि । यत्तेऽभूवंस्ततः प्रौढान् , सोढासि कथमायसान् ? ॥ ३३७॥ व्यधीयत तवैताभि-रव- . १ आलुः-पात्रविशेषः ' झारी' इति भापायाम् । २ (अत्र च दीर्घकरणम् 'न तिसृचतसृ. (६।४।४) इति पाणिनीय- सूत्रविरुद्धं ज्ञेयम्.) “ तिमृणां प्रेयसीनां स" इति वा पाठो ज्ञेयः, प्रतित्रये तिसृणामिति गठः।
भीष्मसत्य-
वतीभ्यां
दत्ता वि-
चित्रवीर्याय
शिक्षा, धृत-
राष्ट्रपुत्र-
अत्यासमाभिरेताभि-रे स्युर्मुखो गुणाः ॥ ३३९ ।।
भीमे विचित्रवीर्याय, शिक्षामेवं प्रयच्छति । तत्र पुत्रानुशिष्यर्थ-माययौ सत्यवत्यपि ॥ ३४० ॥ साऽप्यमापिष्ट
तनयं, बाप्पापिलरिलोचना । अकस्मादेव मे वत्स!, किं छिनत्सि मनोरथान् ॥३४१॥ मुखं स्नुपाणामुवीक्ष्य, मुदमासादयं
पराम् । इदानीमस्मि सोत्कण्ठा, तथापत्यविलोकने ॥ ३४२ ॥ सा तु सांप्रतमेतेन, त्वद्दौर्बल्येन दुर्वला । सहोदयव्यया पुत्रैः,
सवित्रीणां मनोरयाः ॥३४३।। सर्वासां क्षत्रियस्त्रीणां, परं वीरप्रसरहम् । इमं वत्स! ममोत्सेकं, लीलयैव त्वमच्छिदः ॥३४४॥
कुरुवंशकुलखीणां, पुत्रिणीनामहं त्वया । धुरि संस्थापिता वत्स !, स्वयैवोत्थापिताऽधुना ॥ ३४५ ॥ तस्वगोत्रोचिताचार-
व्यभिचार समाचरन्। अस्मिंस्त्वत्पूर्वजो बहि, पथि कः पथिकोऽभवत् १॥३४६॥ तदायुष्मंस्तव ज्यायान्-वन्धुर्घत्ते मुदं यथा ।
यधा सिध्येन्ममेच्छा च, प्रवर्तथास्तथानिशम् ॥ ३४७ ।।
अनुशिष्टिमिति श्रुत्वा, भ्रातुर्मातुश्च सादरम् । विचित्रवीर्यः स्वं कर्म, स्मृत्वा दूरादलजत ॥३४८ ॥ अदीपिष्ट तदादिष्टं,
निर्मले तस्य चेतसि । अर्पितं दर्पणे भानो-भृशमुज्जृम्भते महः ॥३४९॥ शिक्षामादाय तां मूर्भा, प्राञ्जलिस्तौ विसृज्य च ।
राजा धर्मार्थकामेपु, समवृत्तिरजायत ॥ ३५० ॥
आवभाराम्बिका गर्भ-मन्यदोदामदोहदम् । सुलग्ने सुतमुद्दीप्त-प्रभापूतमसूत च ॥ ३५१ ।। भीष्मेण सत्यवत्या च,
महोत्सवपुरस्सरम् । धृतराष्ट्र इति श्लाघ्यं, तस्य नाम विनिर्ममे ॥३५२ ।। स दधौ जनुपाऽन्धत्वं, केनापि प्राच्यकर्मणा। स
१ 'स्वस्वगोत्रो०'प्र. द्वय० ।
जन्म च॥
॥ १२॥
नास्ति प्रानिबद्धे हि, यो रुणद्धि शुभाशुभे ॥३५३॥ अम्बालिकाऽपि तनयं, तस्यानुजमजीजनत् । आजन्म पाण्डुरोगित्वा- यः पाण्डुरिति पप्रथे ॥३५४॥ गुणाम्युनिधिरम्बाया-स्तनूजः समजायत । यं चक्रुर्गुरवः सर्व-विदुरं विदुराभिधम् ॥३५५।। अथ तेषु कुरोवंशं, जन्मनाऽलंकरिष्णुषु । शुभैरुज्जृम्भितं भावैः, प्रलीनमशुभैः पुनः ॥३५६ ॥ सूचकश्चरटचौरः, कृपणः पारदारिकः । एते शब्दास्तदा प्रापु-रभिधेयेन वन्ध्यताम् ॥ ३५७ ॥ लेभे सर्वत्र साम्राज्य-मेकच्छवं नयस्तदा । निरन्वय- विनाशेन, व्यनश्यहुर्नयः पुनः ।। ३५८ ॥ तदा नाधिन च व्याधिधिते स्म जन कचित् । न दुर्चलो बलिष्ठेन, कश्चनाप्य- भ्यभूयत ॥ ३५९ ॥ नावृष्टि तिवृष्टिय, तदा प्रादुरभूद्भुवि । ईतिः प्रीतिविघाताय, नान्याऽप्यासीत् कुटुम्बिनाम् ॥३६०|| पुष्पन्ति स्म फलन्ति स्म, कालेऽवश्यं महीरुहः । पुष्यन्ति स्म रसोत्कर्प, पुष्पेषु च फलेषु च ॥ ३६१ ॥ अनुभावात् कुमा- राणा-मित्यभूदुदयो भुवः । भवेद्वाङ्मनसातीतः, प्रभावो हि महात्मनाम् ॥ ३६२ ॥ किं तु स्त्रीव्यसनेनाति-मनोऽभीष्टेन सर्वदा । चिराय मिलितेनेव, भूयोऽप्यालिङ्गित्तो नृपः ।। ३६३ ॥ ततः क्षीणतनुः सोऽभूत् , प्रियास्वासक्तमानसः । “रामासु भृशमासक्तिः, कारणं राजयक्ष्मणः" ॥ ३६४ ॥ राजयक्ष्मपरीवारः, कासः श्वासोऽपनिद्रता । रुजोऽन्या अपि राजान-माँ- जन्ननुवासरम् ॥ ३६५ ।। चित्रविचित्रवीर्यस्तै-रातकैराकुलीकृतः । संचक्राम परं लोकं, 'कामस्याहो ! दुरन्तता' ॥३६६॥ तस्मिन्नस्तमिते सूनु-भानौ सत्यवती तदा । शोकान्धकारवैधुर्य-मधत्त द्यौरिवाधिकम् ॥ ३६७ ॥ विललाप च हा ! वत्स !, हा! परिच्छदवत्सल ! । हा ! कौरवकुलोत्तंस !, हाऽगमः कामिमां दशाम् ? ॥ ३६८ ॥ इत्थं सा विलपन्त्येव, १ अर्थेन । २ समूलनाशेनेत्यर्थः । ३ ' नापि ' इति प्र० द्वय० । ४ अपीडयन् ।
मन्छिता भूतलेपन् । अस्तोकं शोकसंताप, चदा च न विवेद तम् ॥ ३६९ ॥ मूर्छाव्यपगम प्राप्ता, कथंचिचन्दनादिभिः ।
स्मृत्वा पुनगुणान् भूयो, मुक्तकण्ठं रुदोद सा ॥ ३७० ॥ अभ्युपेत्य तदभ्यर्ण-मुरस्ताडनपूर्वकम् | रुदन्ति स्म गलद्वाष्प-
मम्बिकाप्रमुखाः स्नुपाः ॥ ३७१ ॥ चयमेकपदे सामि-स्त्वयास्तं समुपेयुपा । दुस्थामवस्थामानीता, नलिन्य इव भानुना
॥३७२।। क्रीडादिपपि न क्रीडा-मेकाकी कृतवानसि । इदानीं तु विमुच्यास्मान् , किमेको गतवानसि १ ॥३७॥ विप्रयो-
गामहिप्णूना, त्वदुपास्तिसुखस्पृशाम् । कस्मादकस्मादस्माक-मिदं चैमुख्यमागमः ॥ ३७४ ॥ निजमेनं नियावर्ग, जानासि
विरहामहम् । तदेहि देहि प्राणेश !, द्रुतं प्रतिवचोऽधुना ॥ ३७५ ॥ एवं विलापवैकल्यं, प्राप्ताः संस्थाप्य तास्तदा । चकार
तस्य गानेयो, निनापप्रमुखाः क्रियाः ।। ३७६ ॥ पाल्पचापल्यललिते; कुमाराणां मनोरमैः । स शोकं स्तोकतां निन्ये,
सत्यवत्याः कथंचन ॥ ३७७ ॥
तधाजनि कुमाराणां, बन्धुस्नेहः परस्परम् । यथैपां क्षणमप्यस्था-देको नैकतमं विना ।। ३७८ ॥ पालेयपि कुमारेषु,
सर्गतेऽपि नराधिपे । भयाद्रीष्मस्य राजानो, सीमानं न ललविरे ।। ३७९ ॥ तेषां शस्त्रे च शाखे च, भीष्म एवाभव-
गुरुः । अम्भोधराणामम्भोधि-रेव कुक्षिमरिर्भवेत् ॥ ३८० ॥ नृलोक इव लोकेपु, तेषु विष्वपि बन्धुपु । गोत्राधारतया
पाण्ड-मध्यमोऽपि व्यशिष्यत ।। ३८१ ।। कनिष्ठं धृतराष्ट्रस्तं, गुणज्येष्ठममन्यत । लघीयानपि जायेत, गुणैर्लोकंणगुरुः
॥ ३८२ ॥ धृतराष्ट्रममापिष्ट, भीष्मो मधुरया गिरा। वत्स ! राज्यमिदानीं त्वां, ज्यायांसमुपतिष्ठताम् ॥ ३८३ ।। स
१ तर्पणादिकाः।
पाण्डविदु-
रयोर्जन्म,
विचित्रवी-
यमरणम्,
मत्यवत्या-
दीनां
शोकः॥
॥१३॥
जगाद न योग्योऽस्मि, राज्यस्याहं ध्रुवं ततः । पाण्डमभ्येति राज्यश्री-दिनश्रीरिख भास्करम् ॥ ३८४ ॥ असौ त्रयाणाम- स्माकं, योग्यो राज्यधुरंधरः । उक्तो मुक्ताकलापेपि, मध्यस्थो नायकः परम् ॥ ३८५ ॥ गुणश्रेणिसुधासिन्धु-चन्धोरुजाग- रौजसः । अहं तु नित्यमेतस्य, दास्यायैव कृतस्पृहः ।। ३८६ ॥ इति निर्बन्धतस्तस्य, सुमुहूर्ते महोत्सवात् । राज्याभिषेक- माधत्त, पाण्डोभीष्मः प्रमोदतः ॥ ३८७ ॥ कीर्तिज्योत्स्नाभरव्याप्त-रोदसीकन्दरोदरे । तमोदिते नवे राज्ञि, भृशं मुमुदिरे प्रजाः ॥ ३८८ ॥ भीमे च धृतराष्ट्रे च, धृतराज्पधुरे सति । न विदामास साम्राज्य-चिन्ताभारक्लमं नृपः ॥ ३८९ ।। दुष्टनिग्रहनिःशूक-जागरूकभुजद्वयः । पाण्डुः प्रचण्डदोर्दण्डान् , वशीचक्रे विशांपतीन् ॥ ३९० ॥ कन्दर्पकामिनीरूप-दर्पसर्पस्य जागुलीः। गान्धारीप्रभृतीरष्टा-नुपादायाथ सोदरीः॥ ३९१ ॥ सुबलक्ष्मापतेः सूनु-र्ग- न्धारपतिरन्यदा । शकुनिर्भीष्ममभ्येत्य, बद्धाञ्जलिरभापत ॥३९२ ॥ (युग्मम् ) कुलदेव्योपदिष्टाय, विशिष्टकमशालिने । तिष्ठन्ते धृतराष्ट्राय, स्वसारो मे पतिंवराः ॥ ३९३ ॥ अम्बिकासनुना नून-मन्यूनगुणधारिणा । एतास्तदार्य ! सोत्साह, विवाहयितुमर्हसि ॥ ३९४ ॥ इत्थमभ्यर्थितस्तेन, स्वंद्वि ज(सुतासुतः । एतासां पतिमष्टानां, धृतराष्ट्रमतिष्ठिपत् ॥ ३९५॥ अनुरूपगुणग्रामा, पाण्डोरुडामरौजसः । का कलत्रं भवित्रीति, चिन्ताऽभूभीष्मचेतसि ॥ ३९६ ॥ भीष्मः पाण्डुयुतो जातु, पान्थ राजपथे कचित् । चित्रचित्रपटव्यग्र-कराग्रं कंचिदैवत ॥ ३९७ ॥ नारीरूपं पटे तत्र, दृष्ट्वा पाण्डरचिन्तयत् । एतस्यामेव पर्याप्त, सौन्दर्यकथया ध्रुवम् ।। ३९८ ॥ न ह्येषा रूपरेखा स्या-मानुपीपु पुरंधिपु । तदियं किं रतिः ? किं वा, १ नि शूकः-निस्तुपः स्वच्छ इत्यर्थः । २ सुदिने । ३ उत्कटवलवतः ।
पाण्डोरा-
कमला किमु रोहिणी ॥३९९।। एतस्याः कोमलाकारा-पनी पधेरुहे ध्रुवम् । अहुल्यो यत्र पत्रन्ति, सौन्दर्य मकरन्दति
।। ४०० ॥ जवाफाण्डे किलेतस्या, नाले पादसरोजयोः । रम्भास्तम्भायितं चाम्या-मूरुभ्यां यौवनोत्सवे ॥ ४०१॥ निन-
म्नस्थलमेतस्या, जगभूमिमनोभुनः । यत् सदैवार वास्तव्यः, शास्ति विश्वत्रयीमसौ ॥ ४०२ ।। बलिष्ठ एव मध्योऽस्याः,
योदः ऋशोऽपि हि । यो पलित्रितयाक्रान्तो-ऽप्यधिकं पुष्यति श्रियम् ।। ४०३ ॥ अपूर्व निर्घतिस्थान-मेतस्याः स्तन-
मण्डलम् । मुक्ता व्यक्तं विलोक्यन्ते, या हारिणि भासुराः ॥ ४०४ ॥ एतस्याः सरलाकारा, रोमराजिविराजते । कन्दर्पद-
तिनो विभ-त्यालानस्तम्भरिभ्रमम् ॥ ४०५॥ यदसा बदनौपम्ये, पार्वणेन्दोविलोकनम् । गुआपुजेन साधं त-तपनीयस्य
तोलनम् ॥४०६॥ अस्याः सुफेश्याः कपरी-भारः केनोपमीयते । समालम्बितरोलम्बः, सुस्निग्धो यस्य कालिमा ||४०७॥
इत्ये चिन्तयत्येर, स्मेरवक्ताम्युजे नृपे । सौधमानीय गाङ्गेयः, पृच्छति स्म तमध्यगम् ॥४०८॥ भद्र ! प्रवुद्धराजीव-मुखी
फेयमलिग्यत । इह चित्रपटे नारी, दिव्यनारीविजित्वरी ॥ ४०९॥ पान्धः पुरस्तादस्तोक-विस्मयस्मेरचेतसे । अधासौ
मूलनस्तस्मै, तं वृतान्तमचीकथत् ।। ४१०॥
मधुरेत्यस्ति वास्तव्यैः, श्रीमद्विभूपिता पुरी । आलिङ्गतीव कालिन्दी, यां मुदा वीचियाहुमिः॥ ४११ ॥ तेजोधाम
यदुनाम, नस्यामासीनरेश्वरः । यतोऽभूद्धवनोत्तंसो, वंशो यादवभूभुजाम् ॥ ४१२ ॥ प्रतापी तनुजस्तस्य, शूरः शूरस-
मोऽभवत् । लीनं यत्रोदिते शत्रु-कौशिकैगिरिकन्दरे ॥ ४१३ ॥ तस्य शौरिः सुचीरथ, द्वावभूतां नन्दयौ । कविवर्द्धरपि
१ रिफसिनफमलमुखी । २ कविभिः रचितः गीतेरिति विरोधपरिहारः
ज्यप्राप्ति
धृतराष्ट्रस्य
गान्धारी-
प्रभृति-
कन्यापरि-
णयनम् ॥
॥ १४ ॥
प्रान्तं, भुपि स्वैरं ययोर्गुणैः ॥ ४१४ ॥ राज्यं च यौवराज्यं च, तयोर्दत्त्वा यथाक्रमम् । ययौ तपस्यामध्यास्य, दिवं शूर- नराधिपः ।। ४१५॥ राम-लक्ष्मणयोः साम्यं, तैस्तैस्तौ भेजतर्गुणैः । ताभ्यां परमरातिभ्यो, वनलेशः समर्पितः॥४१६॥ दचा शौरिः सुवीराय, राज्यमुझुम्भवैभवम् । स्वयं कुशार्तदेशेषु, पिजहार यदृच्छया ॥ ४१७ ॥ स तेषु वासवस्पर्धि- शौर्यः शौर्यपुरं व्यधात् । श्रीपतीन् विभ्रता भूरी-अिग्ये येनामरावती ॥४१८॥ अन्धक-वृष्णिप्रमुखा-स्तत्र शौरेस्त- नूरुहाः । पभूहियो बाहु-स्थामसंस्थापितश्रियः ॥ ४१९ ॥ शौरिवितीर्य साम्राज्यं, सुतायान्धकवृष्णये । प्रतिगृह्य परिव्रज्या, शिवश्रियमशिश्रियत् ॥ ४२०॥ संजज्ञिरे सुवीरस्य, भोज-वृष्ण्यादयः सुताः । अम्लायन् यत्प्रतापेन, शत्रु- सीपपणालयः ॥ ४२१ ॥ सुवीरो माथुरं दत्त्वा, साम्राज्यं भोजवृष्णये । सौचीराख्यं पुरं कीर्ति-सिन्धुः सिन्धुषु निर्ममे ।। ४२२ ।। विहरनन्यहं तत्र, वाप्यां वाप्यां पने वने । पुण्यप्रागल्भ्यलभ्यानि, स सुखानि न्यसेवत ॥ ४२३ ॥ भुञ्जतो मथुराराज्यं, भोजवृष्णेमहौजसः । उग्रसेनोऽरिसेनाना-मन्तकृत्तनयोऽभवत् ।। ४२४ ॥ आसीदन्धककृष्णेच, सुभद्रेति सधर्मिणी । निष्ठां यत्र सदाचार-तारतम्यमुपाययौ ॥ ४२५॥ दिशां नाथा इव प्रौढा, दशाभूवन् सुतास्तयोः । येषु नीतिनिपासेपु, नाभवत् कोऽपि गोत्रहा ॥४२६॥ समुद्रविजयः पूर्व-मक्षोभ्यस्तदनन्तरम् । स्तिमितः सागरथैव, हिमवानचलस्ततः ।।४२७॥ धरणः पूरणस्तस्मा-दभिचन्द्राभिधोऽपि च। वसुदेवथ दाशाहों, दशाप्येते प्रकीर्तिताः ॥ ४२८॥ (युग्मम् ) तेपामुपरि पुत्राणां, सुभद्रा सुपुचे सुताम् । परमां मुदमध्यास्त, यजन्मनि जग १ पनिकान, पक्षे विष्णून । २ येन-शौर्यपुरेण, समुद्रवि- जयादीनां जन्म, जन्म। न्मनः ॥ ४२९ ।। यजन्मलप्रमालोक्य तानिनोऽकथयन्निदम् । यद्भवित्री सवित्रीयं, संम्राजामङ्गजन्मनाम् ।। ४३० ॥ जनानां प्रोपिनं दायः, गुपेरुन्मिपितं पुनः । किं न जन्मोत्सवे तस्याः, शुभोदर्कमभूद्भुवि १ ॥४३१॥ पुत्रजन्ममहेभ्योऽपि, विशिष्टो- धष्णिना | तस्या जन्मोत्सवयफे, "प्रीतिरत्र प्रयोजिका" ॥४३२॥ कल्याणपुपि पौपेऽति, दीनोद्धरणपूर्वकम् । प्रीत्या पितृम्यामेतस्या, नाम कुन्तीति निर्ममे ।।४३३।। सा पभूव शिशुत्वेऽपि, कामं पृथुमनोरया । पृथेति प्रथितामाख्या-मपरा- ममजवतः ॥४३४॥ प्रापत् प्रसपत्कन्दपं, सा क्रमानवयौवनम् । यत्र पित्रोर्वरस्यार्थे, चिन्ता जागर्ति चेतसि ॥४३५॥ अस्यां मच्छन्दमुत्मा लिन्यामन्यदा नृपः । ज्येष्ठं समुद्रविजयं, व्याजहार तनूरुहम् ।। ४३६ ॥ एतस्या मम यत्सायाः, को साम भरिना परः । इति मे वत्स ! महती, चिन्तामुच्छेत्तुमर्हसि ॥ ४३७ । सोऽप्यभापिष्ट यद्येवं, प्रेष्यतां कोऽपि पूरुपः । देव ! देगेपशेपेषु, परवीक्षाविचक्षणः ।। ४३८ ॥ यथा स प्रतिमानौढो-ऽभिरूपं रूपशालिनम् । स्वसुर्मे सदृशं शुद्धा-न्वयम- न्वेपते परम् ॥ ४३९ ॥ स्वयंवरे तु दोपोऽयं, यदेकस्मिन् बरे वृते । ईमेया कलहायन्ते, नितान्तमपरे नृपाः॥४४०॥ इति ज्येष्टात्मजगिरा, मामाहूप महीपतिः । आदिशत् सर्पदेशेषु, यथा कोरक ! गम्यताम् ॥४४१॥ वरः कश्चिद्वरेण्यश्रीर्यस्तु- म्पमसभामते । उपागत्य तमस्माकं, बेगेनैव निवेदयेः ॥ ४४२ ॥ भूपालदुहितुस्तस्या, रूपं चित्रपटे ततः । लेशेनालिख्य देगेपु, क्रमादाम्यनिहागमम् ।। ४४३ ॥ असौ रूपेण कन्दर्प-दर्पहा पाण्डभूपतिः । मया दृष्टश्च हृष्टश्च, जातोऽस्मीप्सितला. भतः ॥४४४॥ आर्य! शौर्यपुरेशस्य, सुता तत् पाण्डुभूभुजा । युज्यतामनुरुपेण, द्विरेफेणेव मालती॥४४५॥ किं च १ मार्वभौमानां-महाराजानामिति यावत् .
काशनवर्णाऽस्याः, कनिष्ठाऽस्ति सहोदरा | नाना माद्रीति रूपेण, यस्याः श्रीरेव सोदरा ॥ ४४६ ॥ विख्यातो दमघो- पाय-स्ता पृणीते स्म चेदिपः । ज्यायस्यां किं त्वदाया-मियं नोद्वाहमर्हति ॥४४७॥ तदार्य ! सर्वकार्येषु, तिष्ठते त्वयि निर्णयः । एते मुखिन्यौ कन्ये स्ता-मास्तामन्यद्विकल्पनम् ॥ ४४८ ॥ इत्थं तेनार्थितो भीष्म-स्तत्सर्व प्रत्यपद्यत । "स्वयं पाञ्छितमागच्छन्, को निराकुरुते कृती?" ॥४४९।। अथोत्पाद्य नवं राग, सा मृगाक्षी मनोभुवा । आलिख्यत पटात्तस्मात् , पाण्डोधिनपटे तदा ॥ ४५० ॥ स मध्येमानसं कुन्ती-मश्रान्तं धारयन्नपि । वहिरालोकयामास, स्थाने स्थाने पुरःस्थिताम् ॥ ४५१ ॥ कदा कुन्तीमुखाम्भोजे, मन्नेत्रभ्रमरद्वयी। पाता लावण्यकिअल्क-मित्यासीदुत्सुको नृपः ॥ ४५२ ॥ पृष्ठा सत्यवती शौर्य-पुरे कोरकसंयुतम् । कार्यस्थैर्याय भीष्मः स्वं, प्रेपयामास पूरुषम् ॥ ४५३ ॥ अथ शौर्यपुरे गत्वा, समेतस्तेन कोरकः। कुन्तीविभूपितोत्सा-मपश्यद्यादवेश्वरम् ॥ ४५४ ॥ व्यजिज्ञपच राजेन्द्र ! तयादेशागतोऽस्म्यहम् । अधक्रमात् सदामत्त-हास्तिके हस्तिनापुरे ।। ४५५ ।। उत्फुल्लपुण्डरीकाक्ष-स्तत्र पाण्डक्षितीश्वरः । अदृश्यत दशामेकः, पार्वणश्यन्द्रिकोदयः ॥ ४५६ ॥ नेत्रयोस्तत्र पुंरत्ने, गते विपयतां मया । अद्यापि रखगर्भेति, भूरियं पर्य- भाव्यत ।। ४५७ ॥ तस्य पीनोन्नतावंसी, लीलाशैली नृपश्रियः । विशालं वीरलक्ष्म्याच, तल्पकल्पमुरःस्थलम् ॥ ४५८ ॥ प्रीणिताधिजनस्तस्य, पाणिः कल्पद्रुपल्लवः । विश्ववाणकृतो होः, कः पुरीपरिषः पुरः। ॥ ४५९॥ चक्रवत्यतिवर्तीनि, तदङ्गे लक्षणान्यपि । शक्रोऽपि स्पृहयत्येव, यस्मै सौभाग्य-विक्रमैः ॥ ४६० ॥ पात्रं कलाकलापस्य, विश्वस्य नयनोत्सवः । असौ पोग्यो वरः कुन्त्या, रोहिण्या इव चन्द्रमाः ॥ ४६१ ॥ पितृतुल्यः पितृव्योऽस्ति, पाण्डोर्भीष्म इति श्रुतः । स चित्र-
पाण्डो
परस्पर-
रागः॥
पटवृत्तान्तं, सर्व वेरि स्म मन्मुखात् ॥ ४६२ ॥ कुन्ती वरीतुं तेनायं, अहितो निजपूरुषः । देवः संग्रति कर्तव्य-मेतस्या-
दिशतु स्वयम् ॥ ४६३ ॥ संभाव्य भूमिपालस्त-मौदासीन्यस्पृशा दृशा । प्रातरावेदयिष्याम, इत्युक्त्वा व्यसृजत्तदा ।।४६४॥
उत्थितायां सभायां च, कोरकः स्वं गृहं ययौ । प्रीता पाण्डगुणैः कुन्ती, कन्यान्तःपुरमाययौ ॥ ४६५ ॥ पाण्टोरव-
निमार्तण्ड-स्यावदातान् गुणान् रहः । धाच्या निवेदयांचक्रे, कुन्ती साकूतमानसा ॥ ४६६ ॥ पराक्रमेण रूपेण, विनयेन
नयेन च । असमः सैप मातस्ते, जामाता प्रतिभाति मे ॥ ४६७ ॥ भाग्यान्याविर्भविष्यन्ति, न जाने कीदृशानि मे ।
" विघटन्ते हि कार्याणि, प्रतिकूले विधातरि" ॥४६८ ॥ अथादिष्टो विशां पत्या, प्रातराकार्य कोरकः। पाण्डये
पाण्डुरोगित्वा-न दातास्मि निजां सुताम् ॥ ४६९ ॥ कोरकेण नरेन्द्रोक्तं, पुरुपाय न्यवेद्यत । तेनापि भीष्म-पाण्टुभ्यां,
हस्तिनापुरमीयुपा ॥ ४७० ॥ एकान्ते तं नरं नीत्वा, पाण्डुः पप्रच्छ सादरम् । बेहि राजसुता भद्र !, किं नु मय्यनु-
रज्यते १ ॥४७१॥ सोऽशंसदेव ! तां वेमि, रागिणीमिङ्गितस्त्वयि । यदा त्वां वर्णयामास, कोरकः क्षितिपाग्रतः ॥ ४७२॥
भृशं रोमाञ्चितौ तस्याः, कपोलफलको तदा । निमेपविमुखे जाते, नेत्रे स्फारितपक्ष्मणी ॥ ४७३ ॥ सा श्रोत्रपुटमाधत्त,
निपिद्धविषयान्तरम् । सवेपथु वपुर्यष्टि-मुवाह च मुहुर्मुहुः ॥ ४७४ ।।
मन्मथेनाथ पृथ्वीशः, पञ्चभिर्युगपच्छरैः । प्रहतः प्राप तं तापं, येन नाप रति कचित् ॥ ४७५ ॥ क्षणं तस्थौ नृपः
सौधे, धारायत्रगृहे क्षणम् । क्षण पल्लवपल्यङ्के, कौसुमनस्तरे क्षणम् ॥ ४७६ ।। जलार्दा चन्दनं चन्द्रः, कर्पूराण्यपि भूपतेः ।
१ पुष्पशय्यायाम् । २ आर्द्रव्यजनम् .
॥१६॥
विलम्पन्ति स्म संतापं, न स्मरज्वरसंभवम् ॥ ४७७ ॥ अविन्दनरविन्दाना-मपि तल्पे रति कचित् । ययावुपवने पाण्डः, पुप्पाडम्बरबन्धुरे ॥ ४७८ ॥ कुन्तीविरहदाहार्ति-प्रतीकारचिकीर्षया । तत्र प्रतिद्रु विश्राम्यन् , सोद्भाक्षीत् खदिरदुमम् ॥ ४७९ ॥ तस्य स्तम्बे निरालम्वं, कीलैः कीलितमायसैः । एकं नरं निरुच्छ्वास, दुःखितं स समैक्षत ॥ ४८०.॥ स्मरसो- दरमाकार, तस्यालोक्य क्षितीश्वरः । आचकर्ष वलोत्कर्षा-लीलया लोहकीलकान् ॥ ४८१ ॥ छिन्नद्रुपातमपतत् , सोऽति- मूर्छाविसंस्थुलः । भूपतिर्लम्मयामास, चेतनां चन्दनैश्च तम् ॥ ४८२ ॥ स पुमान्मुद्रिकान्यस्त-मणिलपनवारिभिः । सेचं सेचं व्रणश्रेणी, प्रगुणीकृतवान् स्वयम् ॥ ४८३ ॥ अथोचे पृथिवीनाथः, पृथुना प्रश्रयेण तम् । बेहि कोऽसि महाभाग !, कथं चेयं दशा तय ? ॥ ४८४ ॥ स जगाद जगद्वन्धो ।, चैतादयगिरिमण्डनम् । अस्त्यनेकास्तिमत्पौरं, पुरं हेमपुराभिधम् ॥ ४८५ ।। तस्य स्वामी विशालाक्ष-नामा विद्याधरोऽस्म्यहम् । भ्रमन् स्वैरविहारेण, महीमिह समागमम् ॥४८६॥ वन- स्यास्य श्रियं पश्य-अपेत्य रिपुभिश्छलात् । बद्धोऽस्मि करिणीव्ययः, करीव करिवन्धकैः ॥ ४८७ ॥ यच्छन् प्राणानतुच्छैवं, किं तन्मे यस्य नेशिपे? । तहह्ययं जनः किं ते, प्रियं कर्तुं प्रवर्तताम् ॥४८८॥ अवदन्नृपतितिः, किं ममातः परं प्रियम् । यत्वं विद्याधरेन्द्रत्वं, कुशली पालयिष्यसि ॥ ४८९ ॥ पुनरूचे विशालाक्षः, सशल्य इव लक्ष्यसे । भद्र ! त्वमपि तद्वहि, पुरो मम मनीषितम् ॥ ४९० अथाकथयदुर्वीशः, सर्वमाकूतमात्मनः । आवेदिता हि सुहृदां, फलन्त्येव मनोरथाः ॥४९१ ॥ ततः प्राह विशालाक्षो, प्रीत्या नृत्यन्मना नृपम् । मम वंशक्रमायाता, मुद्रिका गृह्यतामियम् ॥ ४९२ ॥ असौ तव विना १ अनेके अस्तिमन्तः-धनिकाः पौराः यस्मिन् तत् ।
पाण्डुवि-
घाघरयो-
मंत्री,
क्लेश, दाता सपदि कामितम् । " देवतोपहितानां हि, वस्तूनां महिमाऽद्भुतः "॥ ४९३ ॥ अदृश्यीकरणं वश्यी-करणं रणरो-
हणम् । पिपनिग्रहणं चास्याः, प्रथमः कुसुमोद्गमः ॥ ४९४ ॥ शतकृत्वश्च निर्णीत-प्रभावेयमिति जुगन् । पाण्डोम्तामर्पया-
मास, बलाद्विद्याधरेश्वरः ॥ ४९५ ।। इयं संक्रामतु प्रीति-रावयोः पुत्रसंततौ । स किं स्नेहो न यः पुंमां, संतानमनुधावति ?
॥४९६॥ इत्याख्याय विशालाक्षे, सपुरीं समुपेयुपि । मुद्रिकां तां धरित्रीशः, पर्यवत्त निजागुलौ ॥ ४९७ ।। दृष्टप्रतिकृति
कुन्ती, पाण्डुश्चित्ते चकार च । तदात्मानमपश्यच, तर यनास्ति सा नने ॥ ४९८ ।।
तत्र तां निभृतं धाच्या, समं विश्रम्भमापिणीम् । अदृश्य एर शुश्राप, प्रजानामधिभूरिति ।। ४९९ ॥ दुरन्तयाऽनया
मात-दुःस्थयाजस्थया मम। कथंचिदिवसो यातः, कथं यास्यति यामिनी ॥५०० ॥ जलायाऽनया गुप्फ, नुप्फमेभिव
पङ्कजैः । मम निर्वर्ण्यतामेपा, वपुःसंतापवर्णिका ॥ ५०१ ॥ मुक्ता मुक्ताकलापस्य, मुक्ताः संतापशान्तये । ध्यानास्फोटं
स्फुटन्ति स्म, पश्य मातर्ममोरसि ।।५०२॥ मृणालयलयैरेभि-रेभिश्चन्दनचर्चनैः । अलं मातरलं मातः!, किमु स्वं क्लेशयि-
प्यसि ? ॥ ५०३ ॥ कोरकेण समाख्यातः, स शीतद्युतिशीतलः । मातर्मयि कथंकार-मनेरपि विशिष्यते ? ॥ ५०४ ।।
निर्मन्तुमपि मां वाणै-धिते आयुधः । तिरस्कृतोऽपि रूपेण, न तं हन्ति मनागपि ॥ ५०५ ॥ स्मरस्तस्मिन्नपि शर-नि-
शितैः नहरेद्यदि । सुभगः सुस्थितंमन्या, स मां किं न स्मरेत्ततः ॥५०६॥ गण्डोपर्यपरो खेप, रिरुटः पिटकोदयः । उनिद्र-
चन्द्रिकावीचि-रिन्दुर्यदयमुद्गतः ॥ ५०७ ॥ विपर्येति विपर्यस्तै-र्भाग्यैर्भुवनमप्यदः । मम येनोमुकायन्ते, पन्द्रस्यापि मरी-
चयः ।। ५०८ ॥ हेतोः कुतोऽपि तातो मां, न तस्मै दातुमीहते । हा! हा! मातनिराशाऽस्मि, शरणं मृत्युरेव मे ।। ५०९॥
पान्डो
कुन्ती-
ननीये
गमनम्।
कुन्त्यर-
न्यादर्शनं
॥ १७॥
ततस्तामभ्यधाद्धात्री, वत्से ! मा स्मोत्सुका भव । दुष्प्रापः प्राप्यते प्रेयान, कृशोदरि ! किमुत्सुकैः ? ॥ ५१० ॥ उपायं निन्तयिष्यामि, कंचिदव्यभिचारिणम् । जटित्येव यदाकृष्ट, द्रष्टासि पुरतः प्रियम् ॥ ५११ ॥ इत्थमाश्वास्यमानाऽपि, यादवेन्द्रगुता यदा । भृशं लब्धात्मलाभेन, संतापेनाभ्यभूयत ॥५१२ ॥ तदा धात्री ययौ दूरं नवपल्लवहेतवे । " त्वरन्ते भृशमाप्ता हि, सजनव्यसनोदये " ॥ ५१३ ॥ अधान्तचिन्तयामास, यादवेश्वरनन्दिनी । दिष्टघा निरन्तरायोऽयं, समयो मम मृत्यवे ॥५१४॥ विचिन्त्येति दृढाबद्ध- नीविः संयमितांशुका । अशोकपादपस्याधः, सन्नद्धोद्धन्धनाय सा ॥ ५१५ ॥ इह संनिहिताः सर्वाः, शृण्वन्तु वनदेवताः। जन्मान्तरेऽपि भूपालः, पाण्टुरेवास्तु मे पतिः ॥५१६।। अभिधायेति शाखायाः, कण्ठे पाशं न्यधात् पृथा। "अयं प्रायः प्रती- कारः, स्त्रीणां हि व्यसनोदये" ॥५१७॥ (युग्मम्) पाशालम्बितमात्मानं, सा स्म यावद्विमुञ्चति । असिधेनुकरस्ताव-द्धात्रीपति- रधावत ॥५१८॥ एतेनालमलं वाले, साहसेन तवाधुना । इति जल्पन्नृपः कण्ठा-त्तस्याः पाशमपाच्छिदत् ॥५१९॥ अधः पत- न्तीमुद्गच्छ-मोमुत्सङ्गशायिनीम् । कृत्वा पृथ्वीपतिः क्षौम-पल्लवैस्तामवीजयत् ॥५२०॥ संज्ञामासेदुपी साऽथ, चिन्तयामास शक्षिता। पुमानहह ! को नाम, मामेवं वीजयत्ययम् १ ॥५२१।। पाण्डोरन्यस्य हा ! क्रोडे, शेते कुन्त्यपि धिग्विधिम्। "जीवि- तादपि सत्यो हि, धनायन्ति सतीव्रतम् " ॥५२२॥ एपोऽपि कोरकाख्यात-रूपसारूप्यम नुते । नृणामन्योन्यमाकार-संवादो या पदे पदे ।। ५२३ ।। कथमस्य वपुःस्पर्शो, मां सिञ्चत्यमृतद्रवैः । । ममानुकम्पया तरिक, स एवायमुपागमत ? ॥५२४॥ कुतोऽध पा ममैतानि, भागधेयानि जाग्रति ? । इति चिन्तापरा याव-दृशा स्पृशति तद्वपुः ॥५२५।। कारुण्यादिव शीतांशु-
पाण्डकु-
त्योर्गान्ध-
विवाहः।।
रस्यास्ताक्ददर्शयत् । नृपकरणयोः पाण्डु-राजस्यैवाक्षरावलीम् ॥ ५२६ ॥ ततः स्निग्धैथ मुग्धैध, सविकल्पैश्च लोचनैः ।
पश्यन्ती ताममापिष्ट, सप्रेमा पृथिवीपतिः ॥ ५२७ ॥ अलं विकल्पैस्तन्वङ्गि, स एवास्मि तव प्रियः । गुणैः कुन्दावदातैस्ते,
समाकृष्टः समागमम् ।। ५२८ ॥ पटचित्रेऽपि दृष्टा मे, मनः पूर्वमपाहरः । कृशाङ्गि ! वपुरप्यागा-मनोऽनुपदि मेधुना
॥ ५२९ ॥ मण्डलीकतकोदण्डः, स्वयं साहायके स्थितः । ममात्तमार्गणो मार्ग, स्मर एवाभवत्पुरः ।। ५३० ॥ इति वादिनि
भूपाले, तत्र धात्री समे युपी । तैस्तैनिश्चित्य तं पाण्डुं, चिहैः कुन्तीमवोचत ॥५३१॥ वत्से ! पाण्डमहाराज-स्त्वामुपागा-
व प्रियोऽविधिः । प्रधयातिथ्यमुत्थाय, तन्मनःप्रणयोचितम् ॥५३२॥ इत्युक्ता सा समुत्तस्थौ, सलजमवदच ताम् । जानामि
किमहं मात-रुचितं सर्वमाचर ॥ ५३३ ।। तयोविधाय गान्धर्व, विवाहमथ भूपतिम् । उवाच धात्री धात्रीश !, यंते कस्यास्ति
तत्तुलम् ? ॥ ५३४ ॥ यताभूत्रिजगदत्त-शान्तिः शान्तिजिनेश्वरः । द्वेधा क्षमाभृतां चक्रे, चक्रवर्ती बभूव यः ॥ ५३५ ॥
रञ्जितं भवता विश्वं, स्वगुणैर्धरलैरपि । रागं गुणानुरागेण, वदेपाऽपि त्वयि व्यधात् ।। ५३६ ॥ यादवेन्द्रमतिक्रम्य, मया यां
संगमः कृतः । त्वमप्युर्वीश ! कुर्वीथा-स्तयत्तव कुलोचितम् ।। ५३७ ॥ इत्युदीर्य प्रयातायां, तस्यां कापि लतान्तरे । तस्य
प्रेम्णोऽनुरूपेण, यथा तापप्यदीव्यताम् ॥ ५३८ ॥ मन्मथो मिथुने तत्र, भृशमादेशकारिणि । धर्मार्थाम्यां पुमर्थाभ्यां,
पहुंमन्यस्तदाऽभवत् ।। ५३९ ।। स्मरः प्राप परां कोटि-मनयोरेकचित्तयोः । मूलं समरसापत्ति-निकामं काममोक्षयोः ।।
५४०॥ तयोः क्रीडाजुपोः स्वैरं, क्षीणा क्षणमिव क्षपा ! गच्छन् कालः सुखोकी, भूयानपि न लक्ष्यते ॥ ५४१ ।। निशि
१ 'राजस्येत्या 'प्र. द्वय० । २ यत् कुलं ते तवास्ति, तत्युलं कस्यान्यस्य अस्ति ? नास्तीत्यर्थः । ३ 'क'प्र० द्वय० ।
-
-
॥ १८॥
जातप्रभाताया, नृपो धाच्या व्यसृज्यत । युनोः प्रच्छन्नसङ्गे स्यात्, तादृशां हि प्रमाणता ॥५४२॥ अङ्गुलीयकमाहात्म्या- वृपः स्वं स्थानमाययौ । अधिपश्च गभस्तीनां, पूर्वशैलेन्द्रचूलिकाम् ।। ५४३ ॥ संप्राप्तसंगमा प्राट्, पयोदेनेव पाण्डुना । अन्तर्वत्नी विभाति स्म, कुन्ती गूढापरेव भूः ॥५४४ ॥ क्रमाद्धात्री तथा- भूतां, तां विज्ञाय विचक्षणा । किमप्यपाटवव्याज, कन्या छन्नमधारयत् ।।५४५॥ आविर्षभूव शौर्य तत्, तस्या गर्भप्रभा- पतः। विडोजसोऽपि येनौजो, मन्यते स्म तृणाय सा ॥५४६॥ तदा तस्याः कृताश्चर्य-मौदार्य तदजृम्भत । येन सर्वस्वदा- नेपि, किं दनमिति खिद्यते ॥५४७॥ प्रत्याशं प्रसरद्दीप्ति-मण्डले मणिकुण्डले । शस्त्राणि च प्रियाण्यासं-स्तस्याः प्रसुमरौजसः ॥ ५४८ ॥ मार्तण्डमण्डलभ्रान्ति-जनकं निजतेजसा । अथ सा नवमासान्ते, सते स्म सुदिने सुतम् ॥ ५४९ ॥ पुत्रजन्मेति सानन्दा, प्रच्छन्नमिति शकिता । त्याज्योऽयमिति च म्लास्नुः, सा दधौ भावसंकरम् ॥५५०॥ शौण्डीयौ-दार्य-साम्राज्य-चीज वीक्ष्याङ्गलक्षणम् । कुन्ती-धान्यावयेतां, तत्यागोपक्रमे तदा ॥५५१॥ असौ लोकविरुद्धेन, वर्त्मना जात इत्यमुम् । उज्झितुं रत्नमञ्जूपा, ताम्यामानीयत क्षणात् ॥५५२॥ क्षिप्त्वा तत्र स्वयं धान्या, मणिकुण्डलमण्डितः । रहा प्रवाहयांचक्रे, सोऽन्तर्गङ्गं सबाप्पपा ।।५५३शा त्यक्त कुन्ती सुते तस्मिन्नुवाह महतीं शुचम् । “तादृशा पुत्ररत्नेन, वियुक्तः को न खिद्यते"१॥५५४॥ अथाच्छि रहो जातु, धात्री राझ्या सुभद्रया। कथमन्यमिवाकारं, धत्ते कुन्ती सुता मम ॥ ५५५ ।। कथं चान्तः सशल्येव, वहति म्लानमाननम् । अथ तें कथयामास, धात्री वृत्तान्तमादितः ॥५५६॥ राश्यप्याख्यत् क्षितीशाय, तस्याः १ 'नातिप्रभा०' प्रतिद्वय०।२ रानिसदृशानाम् । ३ म्लानिं गता। ४ 'ता' इति पाठश्वेत्साधुः । -
कुन्ती-
सुतस्य
त्यागः।
पाण्डो
माद्रीभ्या
सोऽप्येवमादिशत् । वरान्तरेण पर्याप्त-मधुना दुहितु : प्रिये ! ।। ५५७ ॥ इत्यालोच्य निजः मनु-र्धरणोऽन्धकवृष्णिना।
दचा शिक्षा प्रयायुक्तः, प्रहितो हस्तिनापुरे ॥५५८।। अश्वैरुत्थापितं रेणुं, करेणुमदवारिभिः । स्थापयन्नाप धरणः, पुरं
पाण्डमहीपतेः ।। ५५९ ॥ भागीरथीतनूजेन, प्रत्युद्यातो यदूद्भवः । पुरीपरिसरे रम्ये, निवासान् स्वैरमाददौ ॥ ५६० ।।
रागिणी सानुरागेण, स मुदा मुदिताननाम् । कुमारः पाण्डुराजेन, स्वसारं पर्यणाययत् ।। ५६१ ॥ दत्त दन्तावलशतं, शनानि
दश वाजिनाम् । वराय पाण्डवे तेन, पाणिमोचनपर्वणि ॥ ५६२ ॥ कृत्वा विवाहकार्याणि, कुमारो धरणस्ततः । पाण्डोर.
वाससत्कारः, संप्राप्तः स्वपुरं क्रमात् ॥ ५६३ ॥
अथो कुमुदती नाम, देवफक्षितिपात्मजा । विदुपा विदुरेणापि, प्रेमतः पर्यणीयत ।। ५६४॥ माद्रीति मद्रराजस्य,
मुतां सर्वगुणान्विताम् । राज्यवृद्धोपरोधेन, पुनः पाण्डुरुपायत ॥ ५६५॥ भीमे च धृतराष्ट्रे च, भक्तिः पाण्डोरनुत्तरा ।
नित्यमभ्युदयाशंसि, मनस्तस्मिंस्तयोरपि ॥ ५६६ ॥ अथ पालयतः पाण्टो, राज्यं निर्जितशात्रवम् । अभ्याजगाम सुरभिः,
पुप्पैस्तमिव सेवितुम् ॥ ५६७ ॥ रसालस्निग्धकण्ठीमिः, पिकीभिः पञ्चमच्छलात् । प्रावेशिकी वसन्तस्य, ध्रुवा ध्रुवमगीयत
॥ ५६८ ॥ पान्थनिर्मन्थनियूंढ-गादनौटियने चने । मल्ली भल्लीय भाति स्म, स्मरभिल्लस्य भासुरा ॥५६९॥ चवौ विचित्र-
चीर्यस्य, सुतानामधिमानसम् । कुसुमायुधजागर्या, दक्षिणो दक्षिणानिलः ॥ ५७०॥ कदाचिन्मदनादेशात, ते त्रयोऽपि प्रिया-
मखाः । दिनानि निन्युः स्वच्छन्द, दोलान्दोलनकेलिभिः ।। ५७१ ॥ प्रेसाप्रेसोलनप्रेस-द्भयोर्मिम्यो मुहुर्मुहुः । प्रियाभ्यस्ते
१ प्रौदि:-महत्ता । २ कामजागरणेन । ३ प्रेड्साया आन्दोलनेन स्पृशन्त भयोर्मयः यासा ताभ्यः ।
सह वि-
वाहा।
॥ १९ ॥
लभन्ते स्म, गाढालिगनकौतुकम् ।। ५७२ ॥ प्रेसासुखप्रकर्षस्य, न तृप्यन्ति स्म तत्प्रियाः । समं प्रियतमैस्तादृक्-संगमो हि कुतोऽन्यथा ॥५७३|| प्रेयसीभिः समं ताभिः, काननेषु कदाचन । स्वैरं ते विहरन्ते स्म, स्मरादेशवशंवदाः॥५७४॥ चम्पको- सविधिना, मल्लीधम्मिल्लवन्धनैः । ते स्वयं रचयांचाः, प्रेयसीनां प्रसाधनम् ।। ५७५ ॥ मालाकारोपनीतेपु, पुष्पाकल्पेष्व- नेकशः । वासां दूमनास्थाऽभूत्, न हि ते प्रियकर्तृकाः ॥५७६॥ उत्फुल्लमल्लीनिष्पन्न-पुष्पाऽऽभरणशालिनः। ते भृशं बिभरा- मागु-मधोमूर्तिमतः श्रियम् ॥५७७॥ श्रान्ता वनविहारेण, जलकेलिचिकीर्षया । क्रीडावापीपुरम्यासु, तेऽवतेरुः प्रियान्विताः ॥५७८|| हतास्तोयेन कान्तैस्ताः, प्रमोदेन प्रपेदिरे । अहतास्तु विपादेन, "विपरीतो हि मन्मथः" ॥५७९।। साधं प्रियाभि- रम्यस्त-चिलासायुधशासनै चन्द्रिका चन्द्रशालासु, वासन्ती तैरसेव्यत ॥५८०॥ मधोरतिक्रमे काम, जलार्द्रा-चन्द्र-चन्दनः। अलम्पन्त तदभ्पर्ण-सेवावसरवासराः ।। ५८१ ॥ सेकातिरेकसान्द्राणि, मध्येकदलिकाननम् । निकामं कार्यमानानि, कामि- मिस्तैः सिपेविरे ।। ५८२ ।। प्राथषि प्रेयसीवर्ग-संसर्गप्रीतचेतसाम् । बभूवुः केकिनां केका-स्तेषां हकहेतवः ॥ ५८३ ॥ उज्जृम्भितैर्भमङ्ग-निकरैर्मकरन्दिभिः। प्रेयसी पयामासु-स्ते कदम्बकदम्बकैः ॥५८४॥ मिलत्परिमलश्रीपु, मालतीपु प्रियासु च ! भृङ्गयूनां च तेषां च, पर्याप्तं भोगसंपदा ॥५८५॥ हित्वा मनोहरान् हारान् , दूरतस्ता मृगीदृशः । पर्यधुग्रंथिता नाथैः, शारदेन्दीवरसजः ।। ५८६ ॥ मृगनेत्राः प्रियाः प्राप्य, हैमिनीर्यामिनीव ताः । स्मरपारायणं साङ्ग-मध्यगीपत तेऽखिलम् ।। ५८७ ॥ ते प्रियाणां तदा कण्ठे, गण्डयोः स्तनमण्डले । मसृणघुरणक्षोदै-लिलिखुः पत्रवल्लरीः ।। ५८८ ।। प्रियावक्षो- १ एणगृहाणि । २ फदम्यपुष्पसमूहः । ३ शारदफमलमालाः । ४ कुलमचूर्णैः ।
ऋतु-
वर्णनम् ।
गान्धारी-
गर्भः॥
अपोर्मि-निरम्नतुहिनापदाम् । शिशिरोऽप्यकरोत् तेपां, मधुवचन्दने स्पृहाम् ।। ५८९ ॥ दयितादशनौपम्य-सुभगंभावुकं
तदा । आसीविशेषतस्तेषां, उन्दमानन्दहेतये ॥ ५९० ।। सौधे कदाचन कदाचन काननेपु, वाप्यां कदाचन कदाचन
केलिगेले । पचपुमायकसहाः सह वल्लभाभिः, सर्वर्तुचक्रमतिचक्रमुरेवमेते ॥ ५९१ ॥
इनि मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः॥१॥
अथ द्वितीयः सर्गः।
अथाऽन्येधुरतिस्फीता, पत्यौ प्रीतिमुपेयुपी । बभार गर्भ गान्धारी, शमीवानिलेसारथिम् ॥१॥ उन्मीलितमहौद्धत्यो,
जन्नेऽन्तर्मनसं मदः । पहिरापीनभायश्थ, तस्या वक्षोजकुम्भयोः ॥ २ ॥ अवसादः शरीरस्य, तस्या गर्भभवोऽभवत् । जगदा-
क्रमणोत्साहन्थेतमस्तु व्यजृम्भत ॥ ३ ॥ गर्भेणाभ्यधिकं तस्याः, कृतमुज्वलमाननम् । अजायेतां तु वक्षोजौ, कामं श्या-
ममुखौ तदा ॥ ४ ॥ ससच्चा धृतराष्ट्रस्य, सा बभूवातिवल्लभा । कृषिः कृपीवलस्येव, संपन्नान्तःफलोदया ॥ ५॥ तस्या
गर्मानुमावेन, दोहदैर्जातमुद्धतैः । “अन्तर्द्रव्यानुरूपा हि, पयस्यामोदसंपदः" ॥ ६॥ उग्रेण विग्रहेणैव, विपदामुदयेन च ।
बनानां जायमानेन, तस्याः संपेदिरे मुदः ॥ ७ ॥ तस्याः सैनीडसंपन्ना, निगडध्यानयन्धुराः । यवन्धुर्वन्धनागारे, हाकार-
१ अप्रिम् । २ विकसितं महत् औद्धत्यं यस्मिन् सः । ३ समीपे प्राप्ताः ।
॥ २० ॥
धनयो तिम् ॥ ८ ॥ तया निफारणक्रोध-विकटभकुटीजुपा । पूज्येष्वपि विसृज्यन्ते, न्यकारविरसा गिरः ।। ९॥ मत्त- मातङ्गमारुस, पुरे पुरुपयेपभृत् । सा स्वच्छन्दविहारेण, पूरयामास दोहदम् ॥ १०॥ प्रौदभावं यभारान्त-स्तस्या गर्भो यथा पथा । क्रूरकर्मसु हेवाकः, पाकमागाचथा तथा ॥ ११ ॥ पृथातः प्रथमं गर्भो, ममाभूदिति गर्विता । विनयस्य विपर्यासं, सा चकार गुरुमपि ॥ १२॥ पृधाऽपि ततिरस्कार-जागरूकमनलगा । स्पृहयालरपत्याय, धर्ममेव विनिर्ममे ॥ १३ ॥ फलैः फलार्थिनी तैस्तैः, परि- णाममनोरमैः । वीतरागं तदेकान-स्थिरभक्तिरूपास्थित ॥ १४ ॥ प्रावर्तयद्भयार्तानां, प्राणिनामभयोत्सवम् । साधर्मिकाणां पात्गल्यं, विधिवत् सा व्यधच च ॥१५॥ सा दीननिवहोद्धार-धुरीणा पाणिभूपणम् । कारणादि गुणीकृत्य, दानं मुख्यतया व्यधात् ॥ १६ ॥ अन्येशुः सागरं मेरु, सूर्य चन्द्रमसं श्रियम् । दृष्ट्वा स्वमानिमान् पञ्च, साऽथ राज्ञे व्यजिज्ञपत् १७॥ | गाम्भीर्यादिगुणस्तोम-संदानितजगपयः । सुतस्ते भविता देवि !, तस्यै सोऽप्येवमभ्यधात् ॥१८॥ आरभ्य तहिनादेवी, गर्भ- माणिक्यमासदत् । “सुरोपितः फलत्येष, सद्यः सुकृतपादपः" ॥१९॥ स्तनयोरपि पीनत्वं, पाण्डुभावथ गण्डयोः । लावण्यं च शोस्तस्या, गर्भ च्यानों रंहसा ॥ २० ॥ अन्तवती विशां पत्युः, पती भृशमधारयत् । अन्तःसंक्रान्तशीतांशु-पीयूप- सरसीथियम् ॥ २१ ॥ नानायिपदयस्कन्द-दीनवृत्तिपु जन्तुषु । कारुण्यलहरीसान्द्रा-स्तस्याः पेतुर्दशस्तदा ॥ २२ ॥ आसक्ति- जिनधर्मेए, गा तस्याः समजायत । सा नार्थेऽर्थेपिणो दृष्टा, न कामे कामुकस्य च ॥ २३ ॥ परोपकारः कारान्तः प्लान्तमा- १ मनोऽभिप्रायः। २ अप्रधानीफरय। ३ संदानितं-यधम्-वशीकृतमित्यर्थः । ४ "ध्यानम्जुरक्षसा" इति प्रतिद्वय० । ५ धनेच्छोः।
गान्धारी-
कुन्न्यो
दोहदः,
युधिष्ठिर-
जन्म ॥
णिपिमोचनम् । मारिवारणमश्रान्त-मयं तदोहदोदयः ॥ २४ ॥ पत्युः प्रसादादेतस्याः, सर्वोऽपूरिष्ट दोहदः । पाण्डौ भर्तरि
लोकेषु, तस्याः किं नाम दुर्लभम् १ ॥ २५ ॥
अध ज्येष्ठायुते चन्द्रे, वारे मगलनामनि । वृश्चिकाख्ये शुभे राशा-युचस्थेपु ग्रहेष्वपि ॥ २६ ॥ अजायत सुतस्तस्या,
मुहर्ने तत्र कुत्रचित् । आक्रान्तचतुराशान्ता, जायन्ते यत्र चक्रिणः ॥२७॥ (युग्मम् ) परां तजन्मनि प्रीति, स्थावराणि चराणि
च । भूतान्पनुभवन्ति स, " सर्वमत्यद्भुतं सताम् " ॥२८॥ भीष्मं च धृतराष्ट्रं च, पाण्डं च विदुरं तथा । दियाऽमन्
वर्धयामामु-र्जनाः शुद्धान्तवासिनः ॥२९॥ अम्बालिका-म्बिका-म्बानां, सत्यवत्याश्च सत्वरम् । गत्वा दास्यः प्रसन्ना-
स्याः, पुप्रजन्म न्यवेदयन् ॥ ३० ॥ जातमात्रे सुते तस्मिन् , बालार्कसमतेजसि । उच्चचार वियत्युच्चै-रशरीरा सरस्वती ॥
३१ ॥ असौ सत्यवतां मुख्यः, सतामय्यः समग्रधीः । शौण्डीर्य-स्थैर्य-गाम्भीर्य-वसतिविनयी नयी ॥३२॥ धर्मवद्धरतिर्भूपः,
सार्वभौमो भविष्यति । यार्द्धके व्रतमादाय, निर्वाणं च गमिष्यति ॥ ३३ ॥ (युग्मम् ) तत्समाकर्णनान्न स्यु-भीष्मादीनां
मुदः कथम् ? । अपरेपामपि तदा, हर्षे नाख्यातुमीश्महे ॥ ३४ ॥ स्वयमेव पुरे पौरै-रुत्सवो निर्मितस्तदा। आदेशस्तु विशां-
पत्यु-रभवत् सिद्धसाधनम् ॥ ३५ ॥ निःशेषदिविपद्वर्ग-प्रमोदपिशुनास्तदा । समाकर्ण्यन्त सानन्दं, दुन्दुभिध्वनयो दिवि ॥
३६ ॥ सुतस्य तस्य भीष्माद्यैः, किंचिद्वीक्ष्याङ्गलक्षणम् । युधिष्ठिर इति श्लाध्य-मन्वर्थ नाम निर्ममे ॥३७॥ तपोधर्मेक-
निष्ठायाः, पृथाया जात इत्यसौ । लेभे नाम्नी तपासूनु-धर्मसूनुरिति क्षितौ ॥ ३८ ॥ तस्य पश्चादजातारि-रिति त्रैलो-
१ 'वानायाः' प्रतिद्वय० ।
॥ २१॥
क्यविश्रुतम् । तेन तेनावदातेन, नामधेयमजायत ॥ ३९ ॥ समाजग्मुर्महीपालैः, प्रहितानि सहस्रशः । प्राभृतानि सहस्राणि, पाण्डोरात्मजजन्मनि ॥ ४०॥ उपायनमुपादाय, कुन्त्याः पितृगृहादपि । आययौ विकसद्रोम-कोरकः कोरकस्तदा ॥४१॥ गौरवाईविशेषेण, तं पाण्डपृथिवीपतिः । सत्कृत्य कृत्यनिष्णातः, स्नेहसारमवार्तयत् ॥ ४२ ॥ महीतलमिलन्मौलि-मावास्य विहितानतिम् । कुन्ती नितान्तवात्सल्यात्, पृच्छति स्मेति कोरकम् ॥ ४३ ॥ श्वभूमिः सकृदप्यस्मि, न विसृष्टा पितुर्गृहे । तद्रूहि कुशलं कचि-बन्धुवर्गस्य मेधुना ? ॥४४॥ बन्धुसंतानध्या च, मामानन्दय संप्रति । इति पृष्टोऽभवद्धृष्टो, व्याकरोति से कोरका ॥ ४५ ॥ श्रूयतां देवि ! साम्राज्य, देवेनान्धकवृष्णिना । समुद्रविजये न्यस्य, प्रेत्रज्या खयमाददे ॥ ४६ ।। भोज- णेच तनयो, मथुराराज्यमूर्जितम् । उग्रसेनः करोतीति, प्रागपि ज्ञातवत्यसि ॥४७॥ ततःप्रभृति मे स्वामी, समुद्रवि- जयोऽनुजान् । आत्मनोऽप्यधिकं पश्य-नपाच्छौर्यपुरप्रजाः ॥ ४८ ॥ पूर्वोपार्जितसौभाग्यः, स्वच्छन्दं विचॅरन् पुरे । वसु- देवकुमारस्तु, रेमे बन्धुप्रसादतः ॥ ४९ ॥ अन्यदा वसुदेवस्य, तत्रत्यः पुत्रमात्मनः । वणिक् सुभद्रः कंसाख्य-मर्पयामास सेवकम् ॥ ५० ॥ तथा कलाभिस्तेनापि, कुमारः पर्यचर्यत । समानमात्मनो मेने, स यथा तमहर्निशम् ॥५१॥ अस्ति चान जरासंधी, राजा राजगृहे पुरे । स्वर क्रीडति यस्याज्ञा, त्रिखण्डक्षितिमण्डले ॥ ५२ ॥ विसृज्य दूतमेतेन, भूमण्डलबिडोजसा । अकस्मात् स्वामिनोऽस्माक-मादिष्टमिदमन्यदा ॥५३॥ अस्ति निर्व्याजशौण्डीर्य-सिंहः सिंहपुरे पुरे । १ 'माशास्य' प्रतिद्वय० । २ "पृष्टः स हृष्टोऽथ," प्रतिद्वय० । ३ 'तपस्या' प्र० द्वय० । ४ 'विहरन्' इति प्रत्य० ।
नृपः सिंहरयो नाम, स चाज्ञा नो न मन्यते ॥५४॥ जीवग्राहं गृहीत्वाऽमुं, बद्धा पाप्मानमानय | आनीते तत्र दास्यामि, कोरक-
स्वां जीवयशसं सुताम् ॥ ५५ ॥ रुचितं पुरमेकं च, काञ्चनाञ्चितमन्दिरम् । ततो विसृज्य तं दूतं, प्रतस्थेऽस्मत्प्रभुः स्वयम् । कथितो
॥५६॥ (युग्मम् ) प्रणम्य वसुदेयोऽध, ज्येष्ठवन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य, चपेटोत्पाटनं मृगे? ॥ ५७ ।। वृत्तान्तः
मति मग्यपि भृत्ये च, स्वयं कोऽयमुपक्रमः । “अरुणे प्रगुणे ध्वान्तं, न ह्यपाकुरुते रविः" ॥१८॥ एवमावद्धनिर्बन्धं, कुन्ती-
बान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य, जयाय व्यसृजन्नृपः ॥ ५९ ॥ सोऽपि शौर्यावतंसेन, कंसेन सह जग्मिवान् । समीपे।
बद्धा सिंहरथं वन्धो-दिनैरल्पैरुपानयत् ॥६०॥ कृत्वा जयोत्सवं यान्तं, मुदा राजगृहं नृपम् । क्रोष्टुकिः समभापिष्ट, ज्ञानी
जरासन्ध
रहसि मानुजम् ॥ ६१ ॥ येयं जरासन्धसुता, कर्मण्यत्र पणीकृता । क्षयकृल्लक्षणैरेपा, पितृश्वशुरपक्षयोः ॥ ६२ ॥ इत्यूचि सिंहरथयो
यांसं विद्वांसं, विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः, शुभोदकर्कोऽस्ति नैप नः ॥ ६३ ॥
घृत्तान्तः।
ततो व्यज्ञपयद्राक्षे, यसुदेवः कृताञ्जलिः । सा स्यात् कन्या यथाऽन्यस्य, तथोपायोऽस्ति मे स्मृतः ॥६४|| सावधानोऽधुना
देवः, श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशा-दस्मि सिंहपुरे गतः॥६५॥ कन्दरादिव निर्गत्य, सिंहः सिंहरथः पुरात् ।
भटान्नखासयामास, चलाद्दन्तावलानिव ॥ ६६ ॥ ममाप्यत्यद्भुतैस्तैस्तै-र्भुजविक्रमवैभवैः । तेन प्रादुरभाष्यन्त, भाले धर्मज-
लोर्मयः ॥ ६७॥ प्रसादपात्रं पीनांसः, कंसाख्यो मम सारथिः । भगुरं बलमालोक्य, रथात्तूर्णमवातरत् ॥६८॥ रथं सिंह-
रथस्यासौ, जितशक्रपराक्रमः । भुजदम्भोलिना भूभृ-द्रचौरमचूरयत् ॥ ६९ ॥ मयूरवन्ध बद्धा च, ततः सिंहरथो रथी ।
१ मुजवण । २ भूभृतां-राज्ञां गिरीणां च गर्व चूरयित्वा ।
॥ २२ ॥
मन्मानसैकईसेन, कंसेनाक्षेपि मे पुरः ॥ ७० ॥ ततो विपस्वसुस्तस्या, दुहितुर्मगधेशितुः। असौ सिंहरथानेता, परिणेताऽस्तु संप्रति ॥७१।। उवाच श्रीसमुद्रोऽथ, समुद्रविजयो वचः। गतापायमुपायं मे, मनोहरमुदाहरः ॥७२॥ परं पुरा वणिक्पुत्र- स्त्वयाऽसौ प्रतिपादितः। तदस्मै वणिजे पुत्रीं, जरासन्धो न दास्यति ॥७३॥ इति जल्पत एवास्य, कंसः सेवार्थमागमत् । वसुदेवश्च तं राज्ञे, कंसोऽसावित्यचीकथत् ॥ ७४ ॥ तेजः साक्षादिव क्षात्रं, तमूर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य, नृपतिः पुनरभ्यधात् ॥७५॥ अत्यद्भुतोऽयमाकारः, सुलभो न वणिकुले । ततोऽस्य पितरं पृष्ट्वा, क्रियते कुलनिर्णयः॥७६॥ अथाहय महीभा, पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ, सर्व कंसस्य पश्यतः ॥ ७७ ।। यमुनायामनुस्रोतो, वहन्तीमहमेकदा । अपश्यं कांस्यमापा, प्रातः शौचार्थमीयिवान् ।। ७८ ॥ आदाय तामथोद्घाट्य, पार्वणेन्दुसमाननम् । उच्छृङ्गलप्रभाजाल-मिममालोकयं सुतम् ॥ ७९ ॥ उग्रसेनस्य नामाङ्का-मेतां च मणिमुद्रिकाम् । एतच पत्रमत्रेदं, लिखितं वाच्यते यथा ॥ ८॥ (युग्मम्) उग्रसेनसधर्मिण्या, धारिण्या गर्भकतकः । अभवदोहदो भर्तृ-मांसभक्षणलक्षणः ॥८॥ कथंचित् पूरिते तस्मि-नमात्यैर्मतिशालिमिः । पौपे कृष्णचतुर्दश्या, पिष्टौ सूनुरजायत ॥८२॥ तं दोहदानुभावेन, निर्णाय जनकद्विपम् । विन्यस्य कांस्यपेटाया-मुद्भटाकारधारिणम् ।।८।। माताऽपि तदहर्जातं, मधुरातोऽथ धारिणी । पत्युः क्षेमाय चिक्षेप, गम्भीरे यमुनाम्भसि ॥ ८४ ॥ (युग्मम् ) इति पत्रार्थतो देव, ज्ञातोऽसावुग्रसेनजः । पुत्रस्नेहस्तथाऽप्यत्र, तदा प्रादुरभून्मम ॥ ८५ ॥ अथानीय निजं गेह-मस्योत्सवपुरस्सरम् । कांस्यपेटोपलब्धत्वा-नाम कंस इति व्यधाम् ॥ ८६ ॥ असावपुष्णाधिष्णु-स्तेजः क्षत्रकुलोचितम् । ततः क्रीडन् बलादेप, बालकैः कलहायते ॥८७॥ जनेभ्योऽहमुपालम्भ, लेभेच
नृपः सिंहरथो नाम, स चाज्ञा नो न मन्यते ॥५४॥ जीवग्राहं गृहीत्वाऽमुं, बद्धा पाप्मानमानय | आनीते तत्र दास्यामि,
स्वां जीवयशसं सुताम् ॥ ५५ ॥ रुचितं पुरमेकं च, काञ्चनाश्चितमन्दिरम् । ततो विसृज्य तं दूतं, प्रतस्थेऽस्मत्प्रभुः स्वयम्
॥५६॥ (युग्मम् ) प्रणम्य वसुदेयोऽथ, ज्येष्ठबन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य, चपेटोत्पाटनं मृगे ? ॥ ५७ ।।
मति मग्यपि भृत्ये च, स्वयं कोऽयमुपक्रमः । " अरुणे प्रगुणे ध्वान्तं, न ह्यपाकुरुते रविः " ॥५८|| एवमावद्धनिर्वन्धं,
वान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य, जयाय व्यसृजनृपः ।। ५९ ॥ सोऽपि शौर्यावतंसेन, कंसेन सह जग्मिवान् ।
बद्धा सिंहरथं वन्धो-दिनैरल्पैरुपानयत् ॥६०॥ कृत्वा जयोत्सवं यान्तं, मुदा राजगृहं नृपम् । फ्रोष्टुकिः समभापिष्ट, ज्ञानी
रहसि मानुजम् ॥ ६१ ॥ येयं जरासन्धसुता, कर्मण्यत्र पणीकृता । क्षयकुल्लक्षणैरेपा, पितृश्वशुरपक्षयोः ॥ ६२ ॥ इत्यूचि-
यांसं विद्वांसं, तं विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः, शुभोदर्कोऽस्ति नैप नः ॥६३ ॥
ततो व्यज्ञपयद्राक्षे, वसुदेवः कृताञ्जलिः। सा स्यात् कन्या यथाऽन्यस्य, तथोपायोऽस्ति मे स्मृतः ॥६४॥ सावधानोऽधुना
देवः, श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशा-दस्मि सिंहपुरे गतः ।। ६५॥ कन्दरादिव निर्गत्य, सिंहः सिंहरथा पुरात् ।
भटान्नस्त्रासयामास, बलाद्दन्तावलानिव ॥ ६६ ॥ ममाप्यत्यद्भुतैस्तैस्तै-र्भुजविक्रमवैभवैः । तेन प्रादुरभाव्यन्त, भाले धर्मज-
लोमयः ॥ ६७ ॥ प्रसादपात्रं पीनांसः, कंसाख्यो मम सारथिः । भङ्गुरं बलमालोक्य, रथातूर्णमवातरत् ॥६८॥ रथं सिंह-
रथस्यासो, जितशक्रपराक्रमः । भुजदम्भोलिना भूभृ-दर्यचौरमचूरयत् ॥ ६९ ॥ मयूरवन्धं बद्धा च, ततः सिंहरथो रथी।
१ मुजवप्रेण । २ भूभृतां-राज्ञां गिरीणां च गवं चूरयित्वा ।
कथितो
वृत्तान्त:
कुन्ती-
समीपे।
जरासन्ध-
सिंहरथयो-
घृत्तान्तः।।
॥२२॥
मन्मानसकहंसेन, कंसेनाक्षेपि मे पुरः ॥ ७० ॥ ततो विपस्वसुस्तस्या, दुहितुर्मगधेशितुः । असौ सिंहरथानेता, परिणेताऽस्तु संप्रति ।।७१॥ उवाच श्रीसमुद्रोऽथ, समुद्रविजयो वचः। गतापायमुपायं मे, मनोहरमुदाहरः ॥७२॥ परं पुरा पणिकपुत्र- स्वपाऽसौ प्रतिपादितः। तदस्मै पणिजे पुत्री, जरासन्धो न दास्यति ॥७३॥ इति जल्पत एवास्य, कंसः सेवार्थमागमत् । पसुदेवा तं राणे, कंसोऽसावित्यचीकथत् ।। ७४ ॥ तेजः साक्षादिव क्षात्र, तमूर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य, नृपतिः पुनरम्पधात् ।।७५॥ अत्यनुतोऽयमाकारः, सुलभो न पणिपुले । ततोऽस्य पितरं दृष्ट्वा, क्रियने कुलनिर्णयः ।।७६॥ अधाय महीभी, पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ, सर्व कंसस्य पश्यतः ।। ७७ ॥ यमुनायामनुस्रोतो, पहन्तीमहमेकदा । अपश्यं कांस्पमभूपा, प्रातः शौचार्थमीयिवान् ।। ७८ ॥ आदाय तामथोद्घाट्य, पार्वणेन्दुसमाननम् । उच्टालप्रभाजाल-मिममालोकयं सुतम् ॥ ७९ ॥ उग्रसेनस्य नामाका-मेतां च मणिमुद्रिकाम् । एतच पत्रमनेदं, लिखितं वान्यते यथा ॥ ८० ॥ (युग्मम् ) उग्रसेनसधर्मिण्या, धारिण्या गर्भकर्टफः । अभवदोहदो भर्तृ-मांसभक्षणलक्षणः ॥८॥ कथंचित् पूरिते तस्मि-अमात्यैर्मतिशालिमिः । पौपे कृष्णचतुर्दश्यां, विष्टौ सूनुरजायत ॥८२॥ तं दोहदानुभावेन, निर्णीय जनकद्विपम् । विन्यस्य कांस्यपेटाया-मुझटाकारधारिणम् ॥८३॥ माताऽपि तदहर्जातं, मधुरातोऽथ धारिणी । पत्युः क्षेमाय निक्षेप, गम्भीरे यमुनाम्भसि ।। ८४ ।। (युग्मम् ) इति पत्रार्थतो देव, ज्ञातोऽसावुग्रसेनजः। पुत्रस्नेहस्तथाऽप्यत्र, तदा प्रादुरभून्मम ॥ ८५ ॥ अधानीय निजं गेह-मस्योत्सवपुरःसरम् । कांस्यपेटोपलब्धत्वा-नाम कंस इति व्यधाम् ॥ ८६ ।। असायपुष्णाधिष्णु-स्तेजः क्षत्रकुलोचितम् । ततः कीडन् बलादेप, पालकैः कलहायते ।।८७।। जनेभ्योऽहमुपालम्भ, लेमे च
कंस-
त्तान्तः॥
प्रतिवासरम् । कुमारवसुदेवस्य, ततोऽमुं सेवकं व्यधाम् ॥ ८८ ॥ ततो जगाद सानन्दं, समुद्रविजयो नृपः । अस्मद्गो-
वाहते कस्य, दृश्यते वलमीदृशम् ॥ ८९ ॥ इत्युक्त्वा सह कंसेन, गत्वा राजगृहे च सः । चक्रे सिंहपुराधीश-मुपदां
मगधेशितुः ॥ ९० ॥ अस्यायमवदातस्य, कंसः कर्तेति सादरम् । नृपो निवेदयामास, मगधानां महीभुजे ।। ९१ ॥ ततः
प्रीत्या ददौ पुत्री, कंसाय मगधेश्वरः । प्रतिपन्नं युगान्तेऽपि, नान्यथा हि महात्मनाम् ॥९२॥ उग्रसेननृपढेपा-मथुरा-
मेव सादरम् । कंसाय याचमानाय, स दत्ते स्म प्रसादतः ॥ ९३ ॥ अथ सिंहरथोऽप्युच्चै-रुत्खातप्रतिरोपितः । नत्वा
प्रसादयामास, तं फलैः फलमो यथा ।।९४ ॥ जरासन्धेन सत्कृत्प, पिसृष्टाः स्वपुरं प्रति । जग्मुस्तिग्मेन वेगेन, समुद्रवि-
जयादयः।। ९५॥
सत्यसन्धजरासन्ध-ममर्पितवलो बली । कंसस्तु मधुरां गत्वा, तातं निष्करुणोऽरुधत् ॥९६ ॥ सेनाभिरुग्रसेनोप,
तेन सार्धमयुध्यत । अखिद्यत जयश्रीस्तु, तयोयुद्धे गतागतैः ॥ ९७ ॥ कथंचनापि निर्जित्य, कंसः क्रूरशिरोमणिः । साक्षे-
पचेताविक्षेप, पितरं काष्ठपञ्जरे ॥ ९८ ॥ दृढं निगडबद्धोऽपि, ज्ञाते तस्मिन्निजात्मजे । सुतेन विजितोऽस्मीति, पिता तु मुद-
मावहत् ॥ ९९ ॥ सुभद्रवणिजं शौर्य-पुरादानाय्य सोऽजसा । कृतज्ञमानी संपूज्य, पर्युपास्ते स्म तातवत् ॥ १०० ।।
इतश्च केलिशैलेषु, प्रासादेपु वनेष्वपि । शौरिः शौर्यपुरेऽत्यन्तं, पिजहार यदृच्छया ॥ १०१ ॥ वसुदेवः सुनेत्राणां,
नेत्राणाममृताञ्जनम् । मनसस्तु सदा ध्येयो, मत्रोऽभूचतुरक्षरः ॥१०२॥ समुद्रविजयः पौरै-रेत्य विज्ञापितोऽन्यदा । देव!
१ 'कलभो' इति पाठः सर्वप्रतिषु दृश्यते, स साधुः प्रतिभाति । २ नारीणाम् ।
.
॥ २३ ॥
त्वयाऽपि नाथेन, वयमत्यन्तदुखिताः ॥१०३॥ कन्दर्पस्य सरूपेण, रूपेणाक्षिप्तचेतसः । शौरिमेवानुधावन्ति, त्यक्त्वा वेश्मानि नः शियः ॥ १०४ ॥ अनुगामुकतां शौरे-स्तासु प्राप्तासु सर्वतः । कलत्रकर्तृका काऽपि, शुश्रूपा नास्ति नः प्रभो! ॥ १०५ ॥ अथ पृथ्वीपतिः प्रीत्या, सान्त्ययित्वा विसृज्य तान् । वसुदेवं समाहूय, रहस्येवं समादिशत् ॥१०६॥ वत्स! स्वच्छन्दनर्याभि-रभूरत्यन्तदुर्यलः । कुरु सर्पकलाभ्यासं, सौधमध्यस्थ एव तत् ॥ १०७ ॥ कुर्वन्नुर्वीपतेराशा-मेवं राजानु- जोऽन्यदा । एकामपश्यदायान्ती, दासीमन्तःपुरोदरात् ॥ १०८ ॥ विलेपनं करात्तस्याः, सोऽलुम्पनर्मलीलया । ततः सकोपं साक्षेपं, यसुदेवं जगाद सा ॥१०९।। कुमार ! मेदुरामोद-मगरागं किमाच्छिदः १ । देवाय शिवया देव्या, प्रेमतः प्रहितो पसौ ।।११०॥ सौधमध्ये निरुद्धोऽसि, स्थाने देवेन धीमता । विशत्यविनयादेव, पअरे सिंहशावकः ॥१११।। साऽथ पृष्टा कुमारेण, निजसंरोधकारणम् । तत्पुरः पौरपृतान्त, सर्व मूलादचीकथत् ॥११२॥ ततो म्लानमुखाब्जश्री-र्व्यतीत्य कथमप्यहः । पसुदेवो विभावर्या-मेकाक्येय कचिद्ययौ ॥ ११३ ॥ प्रातरन्वेपणे पूर्व-प्रतोलीद्वारि दूरतः । दग्धमानुपसंस्थानो, भस्मरा- शिरश्यत ॥ ११ ॥ प्रतोल्यां लम्बमानं च, पप्रमेकमुदैक्ष्यत । शुनोचैर्वाचयामास, समुद्रविजयः स्वयम् ॥ ११५ ॥ पुंसो यस्य गुरून् याव-दुपालम्भः प्रवर्तते । तस्य श्रेयस्करो मृत्यु-र्जीवितं तु प्रपाकरम् ॥ ११६ ॥ ततः शौरिः कृतोद्वेगो, गुरूणामगुणकभूः । पिरषग्य चितामत्र, कृशानुमविशत् स्वयम् ॥ ११७ ॥ तदेवं वाचयन्नेव, देवो मूर्छामुपागमत् । ज्ञात्वा विपन्नं सोदर्य, को हि धैर्य न मुञ्चति १ ॥ ११८ ॥ व्यलपचाप्तचैतन्यो, हा! वत्स! गुरुवत्सल।। दचा नः शोकमस्तोक- १ अतिमुगन्धम् । २ ' स्थाने ' इति सम्यगर्थेऽव्ययम् । ३ तथोश० प्रतिद्वय०। ४ गुरुन् यावत्-गुरुसमीपे इति भावः ।
वसुदेव-
वृत्तान्तः॥
मगमः कामिमां दशाम् ॥११९॥ भाग्यैकलभ्यं सौभाग्यं, वसुदेवस्य संस्मरन् । राजानमनुचक्रन्द, सर्वोऽपि विधुरो जनः
॥ १२० ॥ जनन्यास्तु सुभद्रायाः, सुतशोकाशुशुक्षणिः । तथा नितान्तं जज्वाल, प्राणानप्यहरयथा ॥ १२१ ।। न गीत
गीतशालासु, न लास्यं लास्यवेश्मनि । बभूव शौरिशोकेन, न च तूर्यध्वनिः क्वचित् ॥ १२२ ॥ वसुदेवशुचा देवो, न
दिदेव शरद्यपि । वसन्तेऽपि चसन वेश्म-न्यरोदीद्दीनलोचनः ॥ १२३ ॥ एवं वर्षाणि भूयांसि, भूशक्रस्यातिचक्रमुः। एत्या-
न्यदा निमित्तज्ञो, बभापे क्रोष्टुकिर्नुपम् ॥ १२४ ॥ दिष्ट्या दृष्टं निमित्तेन, भृशं निश्चिन्वता मया । यञ्जीवति प्रफुल्लथी-
वसुदेवो निरामयः ॥१२५।। एवं तद्गिरमाकर्ण्य, कर्णपीयुपसारणिम् । भूयोऽपि राजकार्येषु, किंचित् प्रावर्तत प्रभुः ।।१२६।।
स्वयंवरेऽथ रोहिण्या, सुताया रुधिराह्वयः । अरिष्टनगरस्वामी, स्वामिनं नः समाह्वयत् ॥ १२७ ॥ देवोऽपि
पन्धुभिः साधं, महर्धिकपरिच्छदः । शौरिशोकविनोदार्थ, न कन्याथं पुनर्ययौ ॥१२८॥जरासन्धमहाराज-प्रमुख राजमण्डले।
आसीने मञ्चमत्युच्च-मध्युवास नृवासवः ॥१२९॥ मन्मथाङ्कररोहिण्या, रोहिण्याऽथ कटाक्षिताः । भूपाः स्वं रोचयांचाः,
स्फुटिताननचेष्टिताः ॥ १३० ॥ परं धात्रीपते(या, संकीर्तितगुणश्रियाम् । तेषामेकोऽपि रोहिण्या, रोचते स्म न कथन
॥१३१॥ राज्ञोऽवज्ञाय सर्वांस्ता-नेकं पाटहिकं दृशा । ईक्षांबभूव साकासं, सा मृगाक्षी मुहुर्मुहुः ॥१३२॥ सोऽप्येवं वादयामास,
पटहं प्रकटाक्षरम् । अकालक्षेपमेणाक्षि !, सजा क्रीणीहि मामिति ॥ १३३ ॥ गुणैः कुमुद-कुन्देन्दु-सुन्दरैः सा वशंवदा ।
१ पुत्रशोकामिः । २ चिक्रीड । ३ " सष्टितानेकचेष्टिताः" इति प्रत्यन्तरत्रयपाठः साधुः। ४ धान्यां' प्र०। ५ 'रोहिण्यै'
इति प्रत्यन्तरपाठः साधुः । ६ हे मृगाक्षि !
॥ २४॥
वस्य कण्ठे निर्चिक्षेप, सजं कुजाकृतेरपि ॥ १३४ ॥ कृतकोलाहलाः सर्वे, घृते पाणविके तया । जरासन्धाज्ञया योद्ध-मुपचक्रमिरे नृपाः ॥ १३५ ॥ तं पाटहिकमप्यूरी- कुणं रुधिरं प्रति । तं पराक्रमिणश्चक्नुः, कुन्ताकुन्ति शराशरि ॥ १३६ ॥ उदुद्धप्रवलक्रोधो, रुधिरस्तानयोधयत् । न हि क्षुभ्यन्ति शौण्डीराः, प्रत्यर्थिषु बहुपपि ॥१३७।। अथ प्रत्यर्थिभूपाल, रुधिरे विधुरीकृते । तैः समं तौर्थिकस्तूर्ण, समरायो- दतिष्ठत ॥ १३८॥ नभश्वरोपनीतेन, सायुधेन रथेन सः । तानेकोऽपि पिनष्टि स्म, स वैरितिमिरार्यमा-॥१३९॥ अवलं स्ववलं वीक्ष्य, जरासन्धो धराधवः । देवं समुद्रमादिक्ष-तस्याक्रमणहेतवे ॥१४०॥ तौर्यिकोऽयमिति ज्ञात्वा, सावज्ञमभिपेणयत् । तेन निर्लम्पता सैन्यं, निन्ये देवोऽपि विस्मयम् ॥ १४१ ।। रूपाद्विसदृशं तेज-स्तस्य पश्यन् स्वयं ततः । देवः शौर्यपुरा- धीशः, शरं धनुपि संदधे ।। १४२ ॥ तेनापि प्रहितं देवो, विनीतमिव-सेवकम् । एवं साक्षरमद्राक्षीत् , पादाने पतितं शरम् ॥ १४३ ॥ कौतुकेन तमादाय, व्यक्तां मुक्ताफलोपमाम् । तत्रोचैर्वाचयामास, देवस्तामक्षरावलीम् ॥ १४४ ॥ शवदाहमयं छम, कृत्वाऽगायः पुरा पुरात् । साते पादाम्बुजं देव !, वसुदेवो नमस्यति ॥१४५॥ मुक्त्वा स्यन्दनमानन्द-स्यन्दमा- नाथुलोचनः । आगच्छ वत्स । वत्सेति, देवो जल्पस्तमभ्यगात् ॥१४६॥ सोऽपि स्वरूपमास्थाय, रथादुत्तीर्य वेगतः। ववन्दे देवपादाज, लपयनयनाम्युभिः॥१४७ ॥ गाढमालिङ्गय देवेन, स पुरो विनयान्वितः । कुत्र वर्षशतं वत्स !, स्थितवानि- त्यपृच्छयत ॥१४८|| सोऽपि व्यज्ञापयद् देव !, त्वत्प्रभावादगजितः । कृतरूपपरावर्तः, स्वैरं भ्रान्तोऽस्मि भूतले ॥१४९॥ १ तौर्थिफेण ॥२ 'एक' प्रतिद्वय० । ३ अतिरस्कृतः ।
वसुदेव-
वृत्तान्तः।
इत्पं वदा पिदित्वा तं, समुद्रविजयानुजम् । प्रमोदमेदुरं चेतो, दधिरे रुधिरादयः ॥१५०॥ ततः स रोहिणी रोह-द्विशे-
पप्रेमविनाम् । उपायंस्त सदानन्द-चन्द्रमा इव रोहिणीम् ॥ १५१ ॥ शौरि जगाद देवोऽथ, वत्सागच्छ निजां पुरीम् ।
"महा अपि परक्षेत्रा-च्लाध्याः स्वं क्षेत्रमागताः" ॥१५२॥ ततः शौरिरभापिष्ट, त्वदादिष्टं तथेति मे | परं स्वपुरमेष्यामि,
कालेन कियताऽप्यहम् ॥ १५३ ।। स्नुपा चः शतशः सन्ति, नरखेचरकन्यकाः । ततस्ताः शीघ्रमादाय, प्रणन्तास्मि भवत्क्रमौ
॥१५४॥ एवमाच्छय निर्घन्धात्, स जगामोत्तरां दिशम् । देवोऽपि सपरीवार', पुरमात्मीयमाययौ ॥१५५॥ शौरिशौर्य-
फयावन्धः, समयं गमयन्सुदा । अश्रौपीदेकदा देवः, कौवेयर्या सूर्यनिःस्वनम् ॥१५६ ॥ दृशौ व्यापारयंस्तस्या-मपश्यन्मणि-
निर्मितम् । खामी श्रेणी विमानाना-मभ्यायान्तीं विहायसा ॥ १५७ ॥ नभोनिभालनोत्फुल्ल-नयनस्य नरेशितुः । एत्य
शौरिः समेतीति, कथिदूचे नभश्वरः ॥१५८॥ प्रत्युद्गम्य ततो देवः, प्रवर्तितमहोत्सवे । उत्तुगतोरणश्रेणी, शौरि प्रावीविशत्
पुरे ॥ १५९ ॥ मधुरातः समागम्य, कंसः संस्मृतसौहृदः । शोरेश्वकार माङ्गल्य-मन्यराजन्यजित्वरम् ॥ १६० ॥
अध देवमनुज्ञाप्य, चिरं शुश्रूपणेच्छया । विनयादनयच्छौरिं, मधुरां मथुरापतिः ॥ १६१-॥ पुत्रीं निजपितृव्यस्य,
देवकस्य स देवकीम् । सुरूपामनुरूपेण, शौरिणा पर्यणाययत् ॥ १६२ ॥ सवन्युर्विविक्तात्मा, मुक्तिकामोऽतिमुक्तकः।
उत्सवे तत्र भिक्षार्थी, शमवान् मुनिराययौ ।। १६३ ॥ कंसपत्नी जीवयशा, यौवनोन्मादमैदुरा । तदानीं संमुखीनाऽऽसी-
निःसीमतपसो मुनेः ॥ १६४ ।। असौ शिथिलधम्मिल्ला, मुनि सस्तस्तनांशुका । क्षीया श्लथीभवन्नीवी, दृश्यनाभिस्तम-
१ लघुभ्रातृपल्यः-मम भार्याः इत्यर्थः । २ उत्तरस्याम् । ३ मदोन्मत्ता।
॥२५॥
म्पधात् ॥ १६५॥ एहि देवर ! नृत्यायः, स्वसुस्तव महोत्सवे । तमित्यालप्य सा दोया, कण्ठे सामहमग्रहीत् ॥१६६॥ आ! तारुण्यमहारण्य-मल्लूकि ! निरपत्रपे ! । अपेहीति स तां रूक्ष-मधिक्षिप्योक्तवानिति ॥ १६७ ॥ यद्विवाहोत्सवे मत्ता, नृत्य- स्यत्पन्तगर्विता | तस्याः सप्तमगर्भेण, तव घातिष्यते पतिः ॥१६८॥ एवं वाणयमन्त्रेण, चित्रासितमदोदया । साऽमुश्चच्च मुनेः कण्ठं, सोऽगमग यथागतम् ॥ १६९ ।। सा कंसस्य तदाचख्यौ, सोऽपि क्षोभमगाभृशम् । " मृत्युदौर्गत्ययोर्वार्ता, न स्यात् कस्यातिहेतवे?" ॥ १७० ॥ मृत्युतो विभ्यदन्येद्युः, कंसः कूटैककोविदः । दाक्षिण्यस्य निधि नीत्वा, रहः शौरिमभापयत् ॥ १७१ ॥ कृतार्थिता. पिनं मित्र!, किंचित् त्वामहमर्थये । ये गर्भाः सप्त देवक्या, भवेयुस्ते भवन्तु मे ।। १७२ ।। पलभद्रादयः सन्ति, भूयां- सोऽपि ममात्मजाः । एमिः सप्तभिरेपोऽस्तु, ममापत्यैरपत्यवान् ॥ १७३ ॥ एपोऽप्यमून्यपत्यानि, स्नेहतो लालयिष्यति । इत्यालोच्य प्रियां शौरि-स्तथेति प्रतिपन्नवान् ॥ १७४ ॥ (युग्मम् ) जातमात्रानपि फ्रूरः, संरक्ष्यारिष्टमंन्दिरे । ततः फंसोऽग्रहीद्गर्भान्, देवक्याः पडपि क्रमात् ॥ १७५ ॥ मथुरायामियं वार्ता, प्रावर्तत समन्ततः । सुताः पडप्यहन्यन्त, ते फंसेन दुरात्मना ॥१७६॥ खेदोऽभूच्छौरिदेवक्यो-रिमां श्रुत्वा जनश्रुतिम् । “पुत्रव्यापादनोदन्तः, पीडायाः परमोऽवधिः" ॥ १७७ ॥ दधौ सप्तमहास्वम-सूचितं निश्चितोदयम् । उदारमन्यदा देवी, देवकी गर्ममद्भुतम् ॥ १७८ ॥ पत्युः शशंस सा स्वमान् , प्रातस्तामरसानना । भरतार्धपतिः पुत्रो, भावीत्याख्यत् स तत्फलम् ॥ १७९ ॥ अवादीद् १ 'संरक्षा०' प्रतिद्वय० । २ सूतिफागहे । ३ फमलमुसी।
वसुदेव-
वृत्तान्तः।
कृष्ण
जन्म।
देवकी देवी, स्वामिनात्मजलाभतः । कंसदौठ्याच मे चेतः, प्रसीदति विपीदति ॥ १८० ॥ त्वयि नाथेऽप्यनाथाऽस्मि,
प्रभो ! धिष्मामपुण्यकाम् । पुत्रं यजातमात्रं मे, कंसो विध्वंसते मुहुः ॥ १८१ यद्येनमप्यसौ पुत्रं, पापो व्यापादयिष्यति ।
देवक्यपि तदा स्वामिन् !, विपन्नैव न संशयः ॥ १८२ ॥ अथांभापत शौरिस्तां, प्रिये ! जीवन्मृतोऽस्म्यहम् । यस्य मे
पश्यतः कंसो, जपान पशुवत् सुतान् ॥१८३।। तन्मया तनयः सोऽयं, संरक्ष्यः कंसराक्षसात् । स्वगर्भ दोहदैईधैः, पालयेर्मा
स्म खियधाः ॥ १८४ ॥ रक्षोपायस्त्वसावस्ति, नन्दो मे गोकुलाधिपः । तनूजमेनं यत्नेन, स गुप्तं वर्धयिष्यति ॥१८५।।
इति पत्या कृताश्वासा, जातविश्वासमानसा । देवकी पालयामास, गर्भ सुखसुखेन तम् ॥ १८६ ।। अयं मे हन्त ! हेन्तेति,
मीतः कंसोपि पत्तिभिः । रक्षा सप्तमगर्भस्य, करोति स्म विशेषतः ॥ १८७ ॥ अथोर्जस्विप्रभाजालं, श्रीवत्साङ्कितवक्षसम् ।
श्रावणस्यासिताप्टम्यां, लगे लोकोत्तरे निशि ॥ १८८ ॥ लक्षणाख्यातसंभाव्य-भरतार्धमहर्द्धिकम् । देवताधिष्ठितं देवी, देवकी
सुपुवे मुतम् ।। १८९ ॥ (युग्मकम् ) ये तत्र गर्भरक्षार्थ-मासन् कंसपदातयः । ते भरतार्धदेवीभि-निद्रामानिन्यिरे तदा
॥ १९० ॥ ज्ञात्वा निद्रावतस्तांस्तु, देवी शौरिमजूहवत् । सोऽपि तं वालमादाय, प्रतस्थे गोकुलं प्रति ॥ १९१ ।। देवमु-
तपतत्पुप्प-दन्तुरीभूतभूतलम् । प्रचलद्दीपिकाश्रेणि-विश्राणितनवथियम् ॥१९२।। शौरिः सुरै तच्छत्र-मुद्भूताद्भुतचामरम् ।
वनयं तं नयनुम-सेनेनाजल्पि गोपुरे ॥१९३॥ (युग्मम्) किमेतदृश्यते नेत्र-प्रियं भावुकमद्भुतम् । कथय प्रथय श्रोत्र-पुटे
पीयूपसारणिम् ।। १९४ ॥ ततः स्मेरमुखः शौरि-रेतस्मात् काठपञ्जरात् । यस्त्वां मोचयिता सोऽय-मिति मन्दमचीकथात्
१ पावकः । २ 'आश्विनस्य' इति क्वचित्पाठो दृश्यते, स न साधुः । ३ 'अथ' इति प्रतिद्वय० ।
,
.
॥२६॥
॥ १९५ ॥ सोऽप्यूचे कंसतः प्राप्तो, बन्धोऽप्येष धिनोति माम् । येन जागरितोऽद्राक्ष-मपूर्वमिदमद्भुतम् ॥१९६॥ शिशोस्त- स्यानुभावेन, सुखोचारमिति द्रुतम् । उत्तीर्य यमुनां शौरि-रगमन्नन्दगोकुलम् ।। १९७ ॥ तदैव दैवयोगेन, यशोदा नन्दगेहिनी । तनयां जनांचक्रे, मनोरमतमाकृतिम् ॥ १९८ ॥ तामादाय यशोदायाः, समर्प्य च तनूरुहम् । कृतकृत्यमनाः शौरिः, स्वस्थानं पुनराययौ ॥ १९९ ॥ तां नन्दपुत्री देवक्याः, स च वेगादुपानयत् दूरीकृतप्रमादास्ते, पत्तयश्च जजागरुः ॥ २०० ॥ बालिका तामुपानिन्यु-स्ते कंसाय निरादराः । सावशं वीक्ष्य सोऽप्येना- मकरोल्लूननासिकाम् ॥२०१॥ प्रीत्या भीत्या च योऽथान्तं, स्मर्यते मित्रशत्रुभिः । वध्यः सोऽप्यनया कंसः, कूटसत्यं मुने- चः ॥२०२ ।। इत्थं हसित्वा सोल्लुण्ठ-मतिमुक्तमहामुनिम् । स मृत्युंजयमात्मानं, मन्वानो राज्यमादधे ॥२०३॥ (युग्मकम्) कन्यामवज्ञया कंसो, देवक्याः पुनरार्पयत् । “ उड्डामरभुजस्थाना-मनास्था क्षामधामसु" ॥ २०४ ॥ अथाभूगोकुलं सर्वे, शिशुना तेन कान्तिमत् । पूर्वाद्रेरिख बालेन, पालेयातिना शिरः ।। २०५ ॥ तदाऽऽसीदुद्यदानन्द, मनो नन्द-यशोदयोः । तादृशस्य सुतस्याप्ती, को हि नाम न हृष्यति ॥२०६॥ नन्दोऽथ तस्य कृष्णत्वा-नाम कृष्ण इति व्यधात् । अङ्कमारोप्य गोप्यस्तं, लालयन्ति स्म विस्मिताः ॥ २०७ ॥ ववृधे गोकुले बालः, पाल्यमानो यशोदया सिच्यमानः शचीदेव्या, कल्पद्रुरिव नन्दने ॥ २०८ ॥ गच्छन्नुत्सङ्गमुत्सङ्गात् , पाणिं पाणेश्च संचरन् । स गोकुलमृ- गाक्षीणा-मभूदत्यन्तवल्लभः ॥२०९ ॥ तं तमुत्सवमुद्दिश्य, तनयालोकनोत्सुका । अगमगोकुले देवी, वात्सल्येनान्तरान्तरा ॥ १ अधिकबाहुबलानाम् । २ हीलतेजस्सु । ३ सूर्येण.
कृष्णस्य
वाल्यक्रीडा
कलाग्र-
हणं च॥
२१० ।। साऽपीप्यत् सनये स्तन्यं, स्नेहतः प्रसुतस्तनी । मुहुरुल्लापयांचक्रे, विविधोल्लापपण्डिता ॥ २११ ॥ ध्रुवं भाग्यैरहं
त्यक्ता, त्यक्ताऽनेन सुतेन यत् । इति स्वमन्तर्निन्दन्ती, नन्दपत्नीमुनाच सा ॥२१२।। त्वं यशोदे ! त्रिभुवन-स्त्रीणामुपरि
वर्वसे । तनयेनामुना नित्य-मस्ते यदलंकृतः ।। २१३ ॥ कुलं वा गोकुलं वाऽपि, रम्यं यत्रैप खेलति । प्रशस्यैवं यशोदा
सा, मन्धरं मधुरां ययौ ॥ २१४ ।। पैरं पूर्वमथ स्मृत्वा, पूतना शकुनिस्तथा । विद्याधर्यावुपागत्य, विष्णोनिधनमीपतुः।।
२१५॥ ते च देवतया मृत्यु, लम्भिते कृष्णगृह्यया। " स एव निधनं गच्छे-दिच्छेदत्याहितं सताम्" ॥२१६॥ रिकन्नस्वलितं
कृष्णः, कण्ठीरवकिशोरवत् । गोकुले दधिदुग्धानां, हठाद्भाण्डान्यलूलुठत् ॥२१७॥ सोऽभूत्तथापि गोपाल-प्रेयसीनामविप्रियः।
पश्य कस्यापि न द्वेष्य-स्तपनोऽतितपन्नपि " ॥ २१८ ॥
सप्ताहायनः सोऽथ, यशोभिानशे दिशः । चम्पकप्रसवो नव्यः, स्फुटन् परिमलैरिव ॥ २१९ ॥ गुणैलोकोत्तरैस्तैस्तै-
रिदानी नन्दनन्दनः। विजयी गोकुलेऽस्तीति, पप्रथे मथुरान्तरे ॥ २२० ॥ कीर्तिकोलाहलं श्रुत्वा, तं सूनोः
कंसशङ्कितः। हिताय प्राहिणोच्छौरि-चलदेवं तदन्तिके ॥ २२१ ॥ कृष्णः प्रीत्या तमद्राक्षी-दविदन्नपि वान्धवम्
"जन्मान्तरकृतः स्नेहः, प्रह्वयत्येव मानसम्" ॥२२२॥ वलदेवान्तिकेऽध्यैप्ट, स कलाः सकला अपि । उपाध्यायश्च बन्धुश्व,
स तस्य द्वयमप्यभूत् ॥ २२३ ॥ अगस्तेः पिवतो वा/न् , कालो यावानभूव पुरा । तावानेव चतुर्विद्या-बोधे कृष्णस्य
युध्यताम् ॥ २२४ ।। रम्ये वपुषि कृष्णस्य, बाल्य-यौवनयोः समम् । त्रुखच्च वर्धमानं च, प्रभुत्वमभवत्तदा ॥२२५॥
१ मरणम् । २ आनन्दयति ।
॥२७॥
अभिरूपेण रूपेण, जितः कृष्णेन मन्मथः । जघान स तु गोपस्त्रीः, कोपात् तत्रानुरागिणीः ॥ २२६ ॥ ताडिताः पञ्चभि- चणैिः, पञ्चवाणेन तास्तदा । कृष्णमेव न्यपेवन्त, तेजेतारमहर्निशम् ।। २२७ ॥ काश्चिदत्युचरोमाश्चाः, सानन्दाश्चन्दनद्वैः। मांसलेंऽसस्थले तस्य, लिलिखुः पत्रवल्लरीः ॥२२८॥ उचित्य शिखिपिच्छानि, प्रोच्छलत्पुलकाङ्कराः । चक्रुः काश्चन कृष्ण- स्य, मौलिमण्डनमद्भुतम् ॥२२९॥ वेपमानकराः कावि-नवैः कुसुमदामभिः। वक्षःस्थलमलंचकु-स्तस्य श्रीवत्सलाञ्छितम् ।। २३०॥ गोप्यस्ताः परितः कृष्णं, मण्डलीवन्धवन्धुरम् । प्रदत्ततालमुन्मील-लील हल्लीसकं जगुः ॥२३१।। रतिस्तावत् सुखं तावत्, तावदानंदैथुः पृथुः । गोपालसुदृशां तासां, यावत् कृष्णस्य दर्शनम् ॥ २३२ ॥ ताभिरध्यापितः सोऽथ, ललितं मान्मथं तथा । यथा कामकथावादे, पराजीयन्त तेन ताः ॥ २३३ ॥ बन्धुना बलदेवेन, रक्ष्यमाणः प्रतिक्षणम् । इति कृष्णः सुखं क्रीडन् , गोकुले कालमत्यगात् ॥ २३४ ॥ इतश्च श्रीशिवादेवी, स्थिता शौर्यपुरे पुरे । एकदा कार्तिक कृष्ण-द्वादश्यां क्षणदाऽत्यये ॥ २३५ ॥ गर्भावतारपि- शुनान, महास्वमांश्चतुर्दश । दृष्ट्वा चित्रागते चन्द्रे, निद्रामुद्रां व्यमुञ्चत ॥२३६॥ (युग्मकम्) प्रहृष्टा यावदाचष्टे, देवी देवाय तान् प्रगे । क्रोष्टुकिस्ताचदागच्छ-चारणश्रमणोऽपि च ॥२३७॥ तान् निशम्य वरस्वमां-स्तत्फलं तावशंसताम् । तीर्थ- कराणां जननी, राजनेतान् समीक्षते ॥२३८।। ततो जगत्रयत्राण-व्यवसायविशारदः । लोकोत्तरप्रभावोऽयं, भावी तीर्थकरः सुतः॥ २३९ ।। श्रुत्वेति राजा राज्ञी च, पीवरां प्रीतिमीयतुः । ज्ञानिनो (नौ) बहुमानेन, नत्वा व्यसृजतां च तौ ॥२४॥ १ कामजेतारम् । २ आनन्दः ।
देवी विशेपलावण्यं, देववाभ्युदयं परम् । देशश्च दुरितध्वंस, लेभे गर्भानुभावतः ॥२४१॥ श्रावणे श्वेतपञ्चम्या, चन्द्रे चित्रागते
निशि । लने सौम्यग्रहैदृष्टे, शिवया सुपुवे सुतः ॥२४२॥ तदानीं दिक्कुमारीभिः, सूतिकर्म विनिर्ममे । स्नात्रं च चके शक्रेण,
तस्येत्यत्रोपमाप्ततः ॥ २४३ ।। कुन्ति ! देवि ! मयापीद-मीक्षितं चक्षुपा पुनः । यद्देवैर्यादवेन्द्रस्य, रनः सौधमपूर्यत ।
२४४ ॥ आजन्मानाप्तसौख्याना-मपि प्राणभृतां तदा । जातमात्रेऽप्यहो ! तत्र, सुखाद्वैतमजायत ॥ २४५ ॥ तस्य जन्मो-
त्सवे देवः, कारागारमशोधयत् । अमारिं घोपयामास, दीनांचोपचकार च ॥२४६।। सोऽरिष्टानि पिनष्टि स्म, तदा नेमिलता
इन । अरिष्टनेमिरित्यस्य, ततो नाम विनिर्ममे ॥२४७॥ उपास्यमानः स सुरै-नन्यमानश्च यादवैः । पाल्यमानश्च घात्रीभिः,
सुखं सुखमवर्धत ॥२४८॥ निर्ममे शौरिणा पूर्व, कृष्णे जातेऽपि नोत्सवः । मथुरायां ततश्चक्रे, तजन्मनि विशेषतः ॥२४९॥
आगतो देवकी द्रष्टुं, कंसः शौरिगृहेऽन्यदा । छिन्नैकनासिकां कन्यां, क्रीडन्ती तामुदैवत ॥ २५० ॥ तामालोक्य
मुनेक्यिं, स्मृत्वा सोऽभूद् भयातुरः । “ न मृत्युसदृशं दुःखं, न संतोपसदृक्सुखम् " ॥२५१।। स सौधमेत्य पप्रच्छ, कंचिन्नै-
मित्तिकं रहः । मुनिना यन्मयि प्रोक्तं, तत्सत्यं किमुतान्यथा ? ॥२५२ ॥ सोऽयोचनृप ! तत् सत्यं, नान्यथा मुनिभापितम् ।
जीवत्येव तनाराति-वक्याः सप्तमः सुतः ॥२५३ ॥ न वेदि क्वचिदस्तीति, ज्ञानोपायं तु ते मुवे । प्रदीपेनेव ते वैरी,
येनावश्यं प्रकाश्यते ॥२५४॥ वपुष्मानिस दर्पोष्मा, श्यामलो विन्ध्यवान्धवः । ऊर्जस्विगजितो यस्ते, दुष्टो रिष्टाभिधो वृपः
॥ २५५ ॥ यश्वास्ति भृशमभ्यस्त-दो शील्यः केशिसंज्ञकः । लोकोपद्रवनिःशंकः, शूफैलस्ते तुरङ्गमः ॥२५६।। एताचानीय
१ रथचक्रधारा । (२ निर्दयः । ३ दुर्विनीत ।)
अरिष्टनेमि-
जन्म।
नैमित्तिकेन
कंमस्य-
वधकना-
नोपाय:
कधितः॥
॥२८॥
पीनत्व-मुद्दाममद दुरौ । मुच्येता मथुरापुर्या, पहिः स्वच्छन्दचारिणौ ॥२५७।। तावुभाविभवन्मचौ, हेलया यो हनिष्यति । केसरीवान्तकृत्तेऽसौ, राजकुञ्जर ! नान्यथा ॥२५८॥ शाङ्ग यदस्ति ते धानि, दुःस्पर्शमितरैर्जनैः। तस्याधिज्यस्य यः कर्ता, प्राणहर्ता तवापि सः ।। २५९ ॥ शाङ्गं तु शार्ङ्गपाणेस्त-द्रविष्यति भविष्यतः । एतत्वादिष्टमुत्कृष्ट-ज्ञानमुनिवरैः पुरा ॥ २६० ॥ (युग्मम् ) मल्लस्तेऽप्रतिमल्लो यः, शूरवाणूरसंज्ञकः । यस्तं हन्ता स ते हन्ता, मा कृथाः कंस'! संशयम् ॥ २६१ ॥ गजौ स्तस्ते श्रियः पद्मो, यो पद्मोत्तर-चम्पको । एतयोर्जीवितान्तस्य, यो विधाता तवापि सः॥ २६२ ॥ वास्तव्यो योऽस्ति कालिन्द्यां, कालियो नाम पन्नगः । यस्तस्य दमकः स्वैरं, प्राणानां शमकः स ते ।। २६३ ।। श्रुत्वेति प्रोल्लसत्कम्पः, कंसः कातरलोचनः । तं विसृज्य समादिक्षत् , तूर्णमामन्त्र्य मत्रिणम् ॥२६४॥ स्वादुभिर्मूदुभिर्घासै-रेतावानीय पीनताम् । वृपा-वौ स्वेच्छया मुञ्च, यमुनावनराजिषु ॥ २६५ ॥ चाणूर-मुष्टिको पुष्टि-मुपानय रसायनैः । यथा नियुद्धे जीयेते, तौ च मल्लौ न केनचित् ॥ २६६ ॥ मत्रिणा प्रौढमत्रेण, यथादिष्टमनुष्ठितम् । निस्तन्द्रचन्द्रशालिन्या, शरदा च विजृम्भितम् ॥ २६७ ॥ जगुर्जगचमत्कारि, कलं कलमगोपिकाः । मदः सप्तच्छदामोदैः, सहैव करिणामभूत् ॥ २६८ ।। सरोजानां रजःपुजै-रयुज्यन्त जलाशयाः । दिगन्तास्तु व्ययुज्यन्त, पयोदानां कदम्बकैः ॥ २६९ ।। गोष्ठोपकण्ठे सोत्कण्ठ- गोपीयुक्तोऽथ रासकैः । चन्द्रिकोन्निद्रचन्द्रासु, कृष्णश्चिक्रीड रात्रिपु ॥२७०॥ दिवसे तु स धेनूनां, वृन्दं वृन्दावने वने । पालयामास गोपाल-चालकै परिवारितः ॥ २७१ ॥ १ मल्लोऽस्त्यप्रति० इति प्रत्य० । २ " नैव मल्लेन केनचित्" इति प्रतिद्वय० । (३ कलमः शालिधान्यविशेपः।)
कृष्णेन
हती अरि-
एकेशिनौ।
कसस्य
चिन्ता॥
अथ फूलेपु कालिन्या-स्वदा स्वच्छन्दचारिणौ । अरिष्ट-फेशिनौ दुष्टो, क्रमाद्गोष्ठम्नुपैयतुः ॥२७२॥ तत्र तौ चक्रतु-
लोक, सशोकमुपमर्दनात् । पयांसि पेपतुस्तक्र-मन्थनीच ममन्थतुः ॥२७३॥ आभ्यां वृप-तुरङ्गाभ्यां, चक्रे गोकुलमाकुलम् ।
वत्सः कृष्णोज नास्तीति, नन्दः खेदमुपासदत् ॥२७४।। गोपेभ्यस्तदुपश्रुत्य, धनाद् गोष्ठमुपागतः । दुर्नयप्रहमाहास्त,
कृष्णस्तं दुर्मदं वृपम् ॥२७५।। सोऽपि शृङ्गे महाभीष्मे, रोपादाधाय संमुखे। अधावत् कृष्णमाहन्तुं, यमसैरिभसंनिभः ॥२७६।।
मृणालकन्दलीमोटं, मोटयित्वा शिरोधराम् । निष्ठुरं मुटिना हत्वा, सोऽन्तं कृष्णेन लम्भितः ॥२७७॥ यः कृष्णे मुष्णति
प्राणां-स्तस्याभूद्विधुरो ध्वनिः । स एवासीत् तदा नान्दी, कंसविध्वंसनाटके ॥२७८|| कृष्णे जयिनि गोपीनां, योऽभूजय-
जयारवः । स तद्यशःप्रबन्धस्य, प्रथमः पणवोऽभवत् ॥ २७९ ॥ तदैवाथ जनोन्माथ-प्रवृत्तं वीक्ष्य केशिनम् । कृष्णस्त-
मक्षरै रूक्षैः, साक्षेपमिदमभ्यधात् ॥२८०॥ दुर्विनीत ! विनेवारं, कि रे! मां न निरीक्षसे । अनाथमिव मनासि, यदेवं मम
गोकुलम् ॥ २८१ ॥ इत्याक्षिप्तः स कृष्णेन, खुरैः कुद्दालयन् महीम् । दशनैर्दशनान् पिंप-नाभिमुख्यमुपागमत् ॥२८२॥
प्रक्षिप्य कूपरं तस्य, यमदण्डोपमं मुखे । कृष्णस्तं जीर्णपटवत् , पाटयामास लीलया ॥ २८३ ॥ अञ्चलोत्तारणैद्धा-स्तरुण्य-
स्त्ववगृहनैः । तस्य प्रचक्रिरे घोप-योपितः पारितोपिकम् ।। २८४ ।।
नन्दनन्दनचापल्य-कर्तृकोऽरिष्ट-केशिनोः । वधः शशंसे कंसाय, योपान्तश्चारिभिश्चरैः ॥२८५॥ तं निशम्य मुनेर्वाचं,
सत्यां निचित्य सोऽन्यदा । आहूयाभिदधेमात्य, मृत्युभीतो वृहस्पतिम् ॥ २८६ ॥ अस्त्यमास्य । ममारातिः, सानन्दो
१ पिवतः स्म । २ सैरिभ:-महिपः ।
॥२९॥
नन्दगोकुले । ततस्तद्ब्रहणोपाय, निरपायं विचिन्तय ॥२८७॥ बृहस्पतिरथोवाच, देव! देवसभोपमम् । रङ्गं शााधिरोपाय, l निर्मापय मनोरमम् ।।२८८॥आहूयन्तां च भूपाला-श्रापारोपमहोत्सवे। विहायाहवशौण्डीरान् , दशानि सुतवत्सलान् ॥२८९॥ इदं चाघोप्यतां चापं,यः समारोपयिष्यति । तस्मै कंसः स्वसारं स्वां,सत्यभामांप्रदास्यति ॥२९०॥ निजैरनुत्सुकैः छेकैः शौण्डी- रैरुद्रटैर्भटैः। धृतासिदण्डैः कोदण्ड-मण्डपः परिवेथ्यताम् ॥२९१॥ आयातश्च ततश्चाप-समारोपणकर्मणि । स तैर्गोपस्तवाराति- जीवग्राहं ग्रहीष्यते ॥ २९२॥ इत्यासत्रितमन्नं तं, मन्त्रिणं मथुरापतिः । त्वमेवेदं विधेहीति, सप्रसादं समादिशत् ॥ २९३॥ मन्त्रिणाऽनुष्ठिते तस्मिन् , मिलत्सु क्षोणिभर्तृषु । इमं वृत्तान्तमज्ञासी-दनाधृष्टिर्यलाग्रजः ॥२९४॥ छन्नं शौर्यपुरात् सोऽथ, प्रस्थितो मथुरां प्रति । अवात्सीद्वन्धुवात्सल्या-गोकुलेज्नाकुलो निशि ॥२९५॥ वलं वलादनुज्ञाप्य, कृष्णमादाय गच्छतः । प्रातर्दुमाकुले मार्गे, पटेऽस्य स्यन्दनोऽस्खलत् ।।२९६॥ रथं महारथो नेत, नालं ज्येष्ठो यदाग्रतः । तदा दूर्वामिवो- न्मूल्य, कृष्णो दूरेऽक्षिपदटम् ॥२९७।। वीक्ष्य विष्णोर्भुजस्थाम, हृष्टोऽनाधृष्टिरजसा । तमालिलिङ्ग सर्वाङ्ग, भूयो भूयश्शु- चुम्ब च ।। २९८ ।। उपेत्य मथुरां सोऽथ, पुष्पप्रकरदन्तुरम् । मुक्तमुक्ताफलोचूलं', संप्रापचापमण्डपम् ।।२९९।। उच्चमञ्च- स्थितान् पश्यन् , स्वःपतीनिव भूपतीन् । रथं मुक्त्वा बहिस्तत्र, स विवेश सकेशवः ॥ ३०० ॥ मण्डपान्तः कृतार्चस्य, धन्वनोऽन्ते निपेदुपीम् । निर्जितामर्त्यरामां स, सत्यभामां न्यमालयत् ॥ ३०१॥ निपेतुः सत्यभामायाः, पीवरांसस्थले हरौ। मुग्धाः स्निग्धा विदग्धाच, पञ्चेपुविवशा दृशः ॥ ३०२ ॥ कलिङ्ग-वङ्ग-काश्मीर-कीरप्रभृतिभूमिपाः । आगम्य १ त्यक्त्वा । २ ' अनेकैः' इति प्रत्य० । ३ उभूल:-वितानम् । .
सत्यभामा-
स्वयंवरे
कृष्णेन
धनुरा-
रोपितम् ॥
धनुरानम्य, स्वं स्वं मञ्चं पुनर्ययुः ॥ ३०३॥ हसित्वा ताननाधृष्टि-भृष्टो धन्यजिघृक्षया । व्यापारितकरो दूराव, पतति स्म
सिंस्थुलः ॥ ३०४ ॥ भरमाणिक्यमुकुटः, त्रुटन्मुक्तालतश्च सः। सतालं सत्यभामाया, वयस्याभिरहस्यत ॥ ३०५ ॥
कोदण्डं चण्डदोर्दण्डः, कोपादारोप्य तं तदा । विष्णुरुत्थापयत् तासां, हास्यस्थानेद्भुतं रसम् ॥३०६।। कोऽयं दुर्वारदोर्यि,
इति चिन्ताकुले जने । पत्याऽमुना च भामायां, कृतार्थमन्यचेतसि ॥ ३०७ ॥ प्रसह्य गृह्यतामेप, चापारोपणलम्पटः । मा
स्म यासीदमौ येन, रुष्टोऽस्मै मधुरापतिः ॥३०८।। इति कंसभटोत्तंस-हक्कां केशिनिसूदनः। धीरं शुश्राव गोमायु-निना-
दमिर केमरी ॥ ३०९ ।। (त्रिभिर्विशेषकम् ) धनाधृष्टिं पुरस्कृत्य, तदानीमकुतोभयः । निरगात् तान् भटान् भित्त्वा, कृष्णो
भानुर्घनानिन ॥ ३१० ॥ याति यात्येप गृहीत, गृह्णीताहाय सादराः। इति बुवाणाः सुमटा, यावद्धावन्ति पृष्ठतः ।।३११।।
रथाचवेगतस्तार-दनाधृष्टिर्जनार्दनम् । गोष्ठे बलान्तिके मुक्त्वा, ययौ शौर्यपुरे स्वयम् ॥ ३१२ ॥
नायमस्मादृशां साध्य, इत्युपागत्य ते भटाः । कंसायावेदयामासु-स्तस्योर्जितमनुत्तरम् ॥ ३१३॥ तदाकर्ण्य भृशं
कीर्ण-ज्वलिताङ्गारदुःसहम् । मनोदुःखं वहन् कंसः, प्रकृतिव्यत्ययं ययौ ॥३१४॥ आराध्यमप्यनाराध्यं, गुरुमप्यगुरुं तदा।
मयुराधिपतिर्मने, प्रत्यासन्नविपत्तिकः ।। ३१५ ॥ कोप-प्रसादावस्थाने, व्यवस्थाया व्यतिक्रमम् । न्यायस्यापि विपर्यासं,
स चक्रे भरणातुरः ॥ ३१६ ॥ नियुद्धच्छद्मना पेष्टु-मरिष्टारिं स दुष्टधीः। चापस्योत्सवमारोप्य, पुनर्भूपानजूहवत् ॥ ३१७॥
१ . रुग्ल,'' रुग्लु' इति प्रत्यन्तरपाठी न सम्यक्, ' रुग्ण' इति स्याचेत् सम्यक् । २ 'रस्थापयत्' इति प्रत्य० ।
३ कीर्णाः-विस्तृताः । ४ 'मारभ्य०' प्रतिद्वय० ।
.
॥३०॥
वसुदेषोऽथ दुर्भावं, तस्य ज्ञात्वाऽऽप्तमानुषात् । रामाय दापयामास, सर्वां शिक्षा मनोगताम् ॥ ३१८ ॥ समुद्रवि. जयादीनां, सर्वेपाममजन्मनाम् । शौरिविंशापयामास, कंसाधरणमादितः ॥ ३१९ ॥ अजूहया शौरिस्तान् , कृष्णाव- एम्भहेतवे । अन्यैव हि मनःस्फूर्ति-गुरुष्वभ्यर्णवर्तिषु ॥ ३२० ।। अथ कंसाज्ञया राज्ञः, प्रतीहारो यथोचितम् । तदोपदेश- यामास, पृथग्मश्चेषु गौरवात् ॥ ३२१ ॥ ततः क्षोमतोल्लोचं, मश्चमेकं मनोरमम् । कंसोऽपि स्वयमध्यास्त, विमानमिव पासपः ॥ ३२२ ॥ दशार्हा दशदिक्पाल-समाः शौरिनिमन्त्रिताः ।न्यवेश्यन्त कृतोचूले, मञ्चे कंसेन सादरम् ॥ ३२३ ॥ अथालोक्य नृपान् कावि-इच्छतो गोकुलाध्वना । अवोचत पलं विष्णु-मल्लालोकनकौतुकी ॥३२४॥ मथुरामार्य ! गच्छावः, पश्यायो मेहसंयुगम् । प्रसीद माऽन्यथा कापी, पूर्यतां मे मनोरथः ॥ ३२५ ॥ एतस्प पितुरादेश-माख्यातुं समयोऽधुना । इति रामो विनिधित्य, यशोदामभ्यधासदा ।। ३२६ ।। मधुरां गन्तुमिच्छाव-स्ततो नौ रुपय द्रुतम् । सा प्रत्यूपे न युवयोः, सपनावसरो मम ॥ ३२७ ॥ फोधारुणाक्षः साक्षेप, पलस्तां प्रत्यभापत । अरे ! दासि ! न जानासि, स्वा- स्मानमतिगर्विता ॥३२८॥ शामित्युक्त्या करे धृत्वा, कृष्णं कृष्णमुखे रुपा। सानायाद्वाय कालिन्दी, कोलिन्दीकर्षणो ययौ ॥३२९॥ उपनीरं स पानीर-तले विष्णुमभापत । वत्स पिच्छायवंदनः, किमिदानी विलोक्यसे १ ॥३३०॥ हरिः प्रत्याह दासीति, किमात्य मम मातरम् ? । मातुर्यकारमाकर्ण्य, सकों हि क्षमेत का?॥३३१|| रोहिणीतनयः कृष्णं, मूर्मि नुम्ब- भवोचत । यशोदा नैव ते माता, न च नन्दः पिता तव ।। ३३२ ॥ देवकागभवा देवी, देवकी जननी तव । स्तन्यं या १. ऽपि' इति प्रतिद्वय० । २ मल्लयुद्धम् । ३ घलः । .
घलेन कृतो
वोधः
कृष्णस्य,
कृष्णेन कृत
कालिय-
नाग-
तम्यमम्येत्य, ददाति स्मान्तरान्तरा ॥३३३।। पिता च वसुदेवो नौ, सुभगः खेचरार्चितः । कुशााधिपतिर्यस्य, समुद्रवि-
जयोऽग्रजः ॥३३४॥ ममार्य! किमु सोदर्य ?, इत्युक्तो विष्णुना पलः। अवदद्वत्स बन्धुस्ते, वैमानेयोऽस्मि केवलम् ॥३३५॥
उद्दामपहुधामानो, यादरा बातयस्तव । भरतार्धपतिस्त्वं च, ज्ञानिभिः कथितोऽसि नः ।। ३३६ ॥ ईदृशि त्वादृशां जन्म, न
गोपालाले भवेत् । मरुस्थले हि कल्पद्रु-रात्मलाभ लभेत किम् ? ॥३३७॥ देवकीवसुदेवाभ्यां, वत्सवात्सल्यतः परात् ।
पितृभ्यां गोरमर्वस्वं, गोपितोऽसि भयादिह ॥३३८॥ कृष्णः पप्रच्छ संभ्रान्तः, कुतो भयममूदृशाम् ? । येन क्षिप्तोऽस्मि पिना-
ऽस्मिन् , गोकुले गोपसंकुले ॥३३९।। ततस्तं कंसवृत्तान्त, व्याजहार हरेर्यलः। कर्षकेणेच सद्धीज-मुप्त काले फलेवचः।।३४०॥
अथ पन्धुपधोदुद्ध-रोपोऽरिष्टारिरभ्यधात् । सर्वे मे सिद्धगन्धर्वाः, प्रतिज्ञा शृणुत क्षणम् ।।३४१।। सर्वेषां पश्यतां राज्ञां,
पापं कंसं न हन्मि चेत् । ध्रुवं तदाऽहं गृह्येय, तदीयभ्रूणहत्यया ॥३४॥ रोहिण्यगरुहो रोह-रपुलकाङ्करदन्तुरः । ततो भ्रात-
रमालिङ्गर, निजगाद प्रमोदतः ॥३४३॥ साधु वत्स । त्वयाऽऽत्मीय-कुलस्य तिलकायितम् । भूभृदाक्रमणोर्जस्वि, तेजो यस्य
रखेरिस ॥ ३४४ ।। तदिदानामिह खात्या, जावो मधुरां प्रति । इत्युदीर्य बलः कृष्णं, निनाय यमुनाजले ॥३४५॥ तत्र
दृष्टिविषः कालः, कालियो नाम पन्नगः । तीरवासी जले क्रीडन् , कृष्णं दप्टुमधावत ॥ ३४६ ॥ निःशंकं दन्दशूकं तं,
लोकः स्फारस्फटोत्कटम् । हरिं च यालमालोक्य, हाहारवपरोऽभवत् ॥३४७॥ सोतिभीष्मो विपोल्काभिर्यावद्दशति केशवम् ।
अमौ तमग्रहीत्ताव-लीलया गलफन्दले ॥ ३४८ ॥ लीलाकमलनालेन, नस्तयित्वा जनार्दनः । आरुह्य चाहयामास, तमहिं
१ निर्दयम् । २ नासिका विध्वा ।
दमनम् ॥
॥३१॥
जात्यवाजिवत् ॥ ३४९ ॥ दुर्दमं दम्यमानं तं, पन्नगं वीक्ष्य विस्मिताः। तस्थुधृत्वा विमानानि, नभोभागे नभश्चराः॥३५०॥ कृष्णेन दृढमूरुभ्या-माक्रम्य दमितस्तथा । स यथा सर्वथा जज्ञे, निर्विपो मरणावधि ।।३५१॥ प्रेमीतप्रायमालोक्य, लोको- त्तरकृपापरः । दूरादुत्सृज्य तं विष्णुः, स्नात्वा तीरमुपागमत् ॥ ३५२ ॥ यमुनातीरवास्तव्य-धीतविनैस्तपस्विभिः । स यथार्थाभिराशीमि-रभ्यनन्धत भूरिशः ॥ ३५३ ॥ तेन नव्यावदातेन, सानन्दैनन्दनन्दनः । घोपादागत्य वेगेन, गोपालैः पर्यवार्यत ॥३५४॥ गायद्भिः कृष्णगीतानि, वादयद्भिश्व शृङ्गिकाः। तैः समं राम-गोविन्दौ, चेलतुर्मथुरां प्रति ॥३५५॥ विस्मयोत्फुल्लनयनैवीक्ष्यमाणः पुरीजनैः । मधुरागोपुरं गोपै-रुपेतः प्राप केशवः ॥३५६।। अतुल्ययोः प्रतोल्यन्त-विंशतो राम-कृष्णयोः । कंसादिष्टमहामात्र प्रयुक्तौ मदविह्वलौ ॥३५७॥ पद्मोत्तरो हरिं हन्तुं, चम्पकच हलायुधम् । उद्धरौ सिन्धुरो प्रेत-पतिप्रायावधावताम् ॥ ३५८ ॥ युग्मम् ॥ लीलायितशतैस्तैस्तैः, पद्मोत्तरमनुत्तरैः । कुशलो गजशिक्षासु, खेल- यामास केशवः ॥३५९॥ उत्खाय दन्तमुशले, सलील तस्य दन्तिनः। निष्ठुरैर्मुष्टिभिर्विष्णु-र्ददौ कीनाशदासताम् ॥३६०॥ कण्ठीरव इवोत्प्लुत्य, भिया कुम्भस्थलं वलात् । हन्ति स्म रौहिणेयोऽपि, निष्कम्पश्चम्पकद्विपम् ।। ३६१ ।। विपुलं वालु. काकीर्ण, विकीर्णकुसुमोत्करम् । सश्रीकमुत्पताकं तो, जग्मतुर्मल्लमण्डपम् ॥३६२।। रॉ विशति गोविन्दे, निवृत्तविषयान्तराः। लोकस्य विस्मयस्मेरा, निपेतुर्युगपदृशः ॥ ३६३ ॥ स एप केशिकीनाशः, स एप धूपमर्दनः । नन्दस्य नन्दनः सोऽयं, सोऽयं सर्पस्य दर्पहा ॥ ॥ ३६४ ॥ गोपालतिलकः सोऽयं, सोऽयं सिन्धुरघातकः । श्लाध्यमानो जनैरेव-मदर्यात परस्प- १ मृतप्रायम् । २ कीनाशः-यमः। सिंहः ।
कृष्ण-
वलाम्या
हतौ गजौ।
तयोमेथु-
रायां
प्रवेशः॥
रम् ॥ ३६५ ॥ अपरं जनमुत्सार्य, सोत्साहः सपरिच्छदः । आरुरोह दुरारोह, मश्चमेकं जनार्दनः ॥ ३६६ ॥ अथाभ्य-
धन तं रामो, वत्स ! सोदर ! वत्सल ! । व्यापार्यतामितो दृष्टि-पिवृष्टिद्विपजने ॥ ३६७ ॥ इमं किरीटकेयूर-हारकुण्डल-
मण्डितम् । उचैःसिंहासनासीनं, पश्य फंसं स्ववैरिणम् ॥ ३६८ ॥ असौ ते अन्धुविध्वंस-नवनाटकसत्रभृत् । तदस्य दर्यता-
मझो, मृत्युनामाघ नूतनः ॥३६९॥ इतोऽपि शातिवर्ग स्वं, दृशा स्वीकुरु सान्द्रया । असौ तव पिता ज्येष्ठः, समुद्रविजयो
नृपः ॥३७०॥ अयं च वसुदेवाख्यः, ख्यातो जनयिता तव । अङ्कराधास्तवैतेऽत्र, बन्धयः शौर्यसिन्धयः ॥३७१॥ इतथा-
न्येऽपि राजानो, जानन्तस्त्वामुदित्वरम् । विस्मयेन निरीक्षन्ते, निरीक्ष्यन्तां त्वयाऽप्यमी ॥३७२॥ कंसे च ज्ञातिवर्गे च, द्विष्टे
प्रीतिपरेऽप्यथ । मोरक्षा यहुस्नेह-मुग्धाश्वासन् दृशो हरेः॥३७३॥ समुद्रविजयो राजा, कृष्णं नेत्रपुटैः पियन् ।। पसुदेवं
प्रति स्निग्धां, मुदा गिरमुदाहरत् ।। ३७४ ॥
वत्स! प्रसेदुरस्माक-मद्यैव कुलदेवताः । सुतखैलोक्यमाणिक्यं, यदसौ ददृशे दृशा ॥३७५।। इयन्तं समयं याव-वञ्चिते
मम लोचने । वत्सः कृष्णः सतृष्णाम्यां, यनैताम्यामपीयत ॥ ३७६ ॥ अथाभाष्यत कंसेन, हरिं वीक्ष्य बृहस्पतिः ।
शत्रावमुत्र जैत्रे स्यु-चः कथमृषेम॒पा ? ॥३७७|| अरक्ष्यत कथं चासौ, मयि वैरिणि शौरिणा । अथवा सति चाणूरे,
रक्षितोऽपि न रक्षितः ॥३७८॥ इति कसे वेदत्येव, तुजूटोद्भटाकृती । चन्दनद्रवलिप्ताङ्गो, न्यस्तांसस्थासकौ तदा ॥३७९।।
दृढं चण्डातको चण्ड-भुजौ पुष्टेवपुष्टरौ । अध्यूपतुः समामध्ये, हृष्टौ चाणूरमुष्टिको ।। ३८० ॥ (युग्मम् ) ततोऽभ्यर्णी-
१ स्थासकः-सुगन्धितैलेन मर्दनम्। २ पुष्टशरीरौ ।
॥३२॥
भवन्मृत्युः, कातरो मधुरापतिः। नियुद्धायादिशदूरा-चाणूरं दृष्टिसंज्ञया ॥ ३८१॥ कृष्णं कटाक्षयन् दृष्ट्या, चाणूरः क्रूरमानसः । वाचमुच्चारयांचक्रे, राजचक्रस्य पश्यतः ।। ३८२ ॥ योनास्ति क्षत्रियोत्तंसः, शूरंमन्यश्च यः किल । अधुना मल्लयुद्धेन, स मया सह युध्यताम् ॥ ३८३ ।। इत्याक्षिप्तो हरिः शिप्रं, फालयोत्तीर्य मञ्चतः । चाणूरस्याग्रतो भूत्वा, प्रंग- ल्भमिदमस्यधात् ॥ ३८४ ॥ एषोऽस्मि क्षत्रियोत्सः, शूरमानी तथास्म्यहम् । तयास्मि रे ! कृतान्तथ, विपक्षक्षोददीक्षितः ॥ ३८५ ॥ अथावोचत चाणूरः, सिन्दूरारुणलोचनः । अरे रे ! वाल! गोपाल !, किमलीकं प्रगल्भसे ? ॥३८६॥ नाद्यापि ते मुखस्यास्य, स्तन्यगन्धो निवर्तते । ततखपन्ते गात्रेऽस्मिन् , पतन्तो मम मुष्टयः ॥३८७|| पयःपानेन पीनत्व-मानीतो गोष्ठतर्णकः। रे! कक्षाकोटरे क्षिप्तो, मया क्षिप्रं विनायसि ॥३८८॥ अरिष्टारिरभापिष्ट, ततो धीरोचितं वचः । विकत्थनं तवापीत्थं, मल्लराज! न राजते ॥३८९॥ आजन्म विहिताभ्यासः, क्व त्वं मालमतल्लिका ? । गोपालकुलविद्यानां, पारदृश्वा क चास्म्यहम् १ ॥३९०॥ किं त्वनेन नियुद्धेन, द्रक्ष्यतेऽन्तरमावयोः । चण्डेन पवनेनैव तूलफूल-नगेन्द्रयोः ॥३९१॥ इत्युक्त्वा सभुजास्फोटं, केशवे वल्गु वल्गति । हाहाकारपरो लोका, परस्परमभापत ॥ ३९२ ॥ तरुणः क नु चाणूरः , क चासौ गोकुलार्भकः । न युक्तमनयोयुद्ध, धूप-तर्णकयोरिव ॥३९३॥ एवमाकर्ण्य लोकोक्तिं, कंसः कोपादवोचत । असौ यहच्छा- लापेषु, दक्षो दुःशिक्षितो जनः ।। ३९४ ।। इह केन समाहूता-चायातौ गोपदारको १ । दुग्धमत्तौ स्वयं होती, युध्येते को निषेधति । ॥३९५॥ इत्याक्षेपवचः श्रुत्वा, शूरसेनमहीपतेः 1 लोकस्तदा तदाकूतं, मत्वा मौनमशिश्रियत् ।। ३९६ ।। गर्वात् १ शत्रुचूर्णने दीक्षितः । २ श्रेष्ठमलः । ३ ' पूग०' प्रतिद्वयः ।
कृष्णवल-
योर्मला-
भ्यां सह
युद्धम् ॥
कुर्वन् भुजास्फोटं, स्फोटयन्निव रोदसी । ततश्चाणूरमल्लोऽपि, नियोद्धमुप चक्रमे ॥ ३९७ ॥ तयोर्नवनवोन्मील-मल्लविज्ञान-
दर्शिनः । तदेकताना राजानो, जाताचित्रार्पिता इच ।। ३९८ ॥ वाल्यचापल्यललितै-हरेर्मल्लातिशायिभिः । समुद्रविजया-
दीनां, तदा कन्दलिता मुदः ।। ३९९ ॥ विष्णुर्विज्ञाननिष्णात-स्तदानीं पाददर्दरैः । कंसस्य मनता माध, कम्पयामास
मेदिनीम् ॥ ४००॥
भीतस्ततो हरिं हन्तु-मपरं मथुरापतिः । दुष्टं मौष्ठिकमादिक्ष-नास्त्यकृत्यं दुरात्मनाम् ॥ ४०१॥ श्रीपति
प्रति धावन्तं, दृष्ट्वा मौष्टिकमादरात् । सीरपाणिरभाषिष्ट, रोपपाटललोचनः ॥ ४०२ ।। रे रे ! दुष्ट ! दुराचार ,योदुमु-
निष्ठसे कथम् । चण्डदोर्दण्डकण्डूति-मेप व्यपनयामि ते ॥ ४०३ ।। इत्युदीर्य समुत्तीर्य, मश्चाद्रोमाञ्चितो हली। द्राग्योध-
यितुमारेभे, स मुष्टामुष्टि मौष्टिकम् ॥ ४०४ ॥ आहतो हृदये विष्णु-चाणूरेणाथ मुष्टिना । यादवानां समं पाप्पैः,
पतति स्म भुवस्तले ॥४०५ ॥ हरिं मूर्छालमालोक्य, चक्रे हाहारवं जनः । उच्छलनासनात् कंसः, पुनः किलकिलारवम्
॥ ४०६ ॥ हरेः पुनः प्रहाराय, स स्वं मल्लं समादिशत् । “ भवेदासन्नपातानां, मर्यादाया व्यतिक्रमः"॥ ४०७॥
समुद्यते हरिं हन्तुं, तस्मिन्नुत्सृज्य मौष्टिकम् । तं दृढः कूपरापातै-चलाद्वयावर्तयदलः ॥ ४०८ ॥
अथोन्मीलितचैतन्यः, स्फारोजागरपौरुपः । उत्तस्थौ केशवः साकं, यादयानां मनोरथैः ।। ४०९ ।। मूर्छामेघावली-
मुक्त-स्तेजस्तीवं वहन् हरिः । कंसस्य कौशिकस्येव, भानुवदुःसहोऽभवत् ॥४१०॥ कृष्णेन विकसद्वक्त्रा-म्भोजमोजायितं
१ पदापातेः । २ मल्ले
॥३३॥
तथा । चाणूरेण यथा वेगात्, कृतान्तस्यातिथीयितम् ॥४११॥ कंसस्य पदनाम्भोजे, समुद्रविजयस्य च । हिमांशुश्चा- हिमांशुश्च, विष्णुरेकोऽप्यभूत्तदा ॥ ४१२ ॥ मृत्युमेभिरभिज्ञान-त्विारिष्टादिदारिभिः। कंसः कक्षीकृतक्षोमः, स्वान् भटानिदमब्रवीत् ॥४१३॥ रे! रे! गृह्णीत गृहीत, चाणूरपरिपन्थिनम् । स्वयंभूमल्लमुन्मत्त-मेनं गोपालपालकम् ॥४१४॥ एतद्धश्च संगृह्य, निग्राह्यो निर्भयैः परः । “चौरस्वीकारकर्ताऽपि, शीर्पच्छेद्यो हि चौरवत् " ॥ ४१५ ॥ व्याजहार हरिः कंसं, विकटभ्रकुटिस्ततः । किं दुरात्मन्ननात्मज्ञ !, जिह्वामालोच्य नोच्यते ॥ ४१६ ।। अस्मिन् रङ्गग- हान्तर्मे, भुजैसूर्योष्मणा कृतः । त्वया दुष्कर्मकिपाक-परीपाकोऽनुभूयताम् ॥ ४१७ ॥ इति व्याहृत्य संहर्तु, कंसं संतमसोप- मम् । हरिस्तन्मश्चमारोह-दुदयाचलसोदरम् ॥४१८॥ बालबान्धवविध्वंस-स्मरणारुणलोचनः । तत्रारूढः पुनः प्रौढ-मभ्यधत्त स निर्भयः॥ ४१९ ॥ सन्ति ये तव मित्राणि, सन्ति ये ते च चान्धवाः । राजानस्ते महौजस्काः, सन्तु त्राणाय तेऽधुना ।। ४२० ।। अरे ! स्मरसि निस्त्रिंश !, जातमात्रान्ममाग्रजान् । निःशूकहृदय ! स्फार-शिलास्वास्फालयिष्यसि ॥ ४२१ ।। आसीहोर्दण्डशौण्डीर्य-गर्वः खर्वेतरस्तव । तत्वया त्रातुमात्मान-मायुधे दीयतां मनः॥ ४२२॥ इत्युक्त्वाऽद्धिमहारेण, भडक़्त्वा मुकुटमुद्भटम् । क्षितौ चिक्षेप तं मचा-दृत्त्वा केशेषु केशिजित् ॥ ४२३ ॥ रामोऽपि युद्धमा मौष्टिकेन समं द्वैः बन्धैस्तथा यथा मञ्चाः, सर्वेऽप्युचैः प्रचुक्रुशुः ॥ ४२४ ॥ प्रस्विद्यद्वेपमानाङ्गः, साश्रुणी भयकातरे । दिक्षु रक्षणसाकाहः, कंसश्विक्षेप चक्षुपी ॥ ४२५ ॥ १ एतस्य पक्षपाती । २ 'भुजशौर्यो० ' प्रतिद्वय० । ३ बहुतरः । , कृष्णेन कृतः कंमधः। कृष्णस्य पिगृहे गमनम् ॥ अत्रान्तरे कृतान्ताभाः, सुभटा मधुरापतेः । अरे! पापमिमं गोपं, हिंस्त हिंस्तेति वादिनः ॥४२६॥ केचित् कुन्तकराः केचि-तीक्ष्णनिस्त्रिंशपाणयः । युगपत्ते हरिं हन्तुं, स्वामिभक्त्या डुढौकिरे ।। ४२७ ।। (युग्मम् ) रुद्धं कंसभटैः कृष्णं, वीक्ष्य दो पाशपीडनात् । रामेण मौष्टिकयक्रे, चाणूरपरिचारिकः ॥४२८॥ ततः स मश्चादेकस्मा-दुत्पाट्य स्तम्भमुत्कटम् । मटानाटयांचक्रे, तांस्तायः पन्नगानिव ॥४२९।। मध्येरॉ विडम्ब्योचै-हृदि पादप्रहारतः । कीनाशग्रासतां निन्ये, कंसः केशिविनाशिना ॥ ४३० ॥ कंसेन कृष्णभीतेन, स्वात्मरक्षणकाक्षिणा । जरासन्धस्य यत् पूर्व-मानिन्ये सैन्यमुद्भटम् ॥ ४३१ ।। हन्तुं कंसस्य हन्तार-महंकारवशादृशम् । सर्व संवर्मयामास, नहुर्योधमुदायुधम् ॥४३२।। समुद्रविजयानीकै- स्तरलं मगधेशितुः । प्रभञ्जनैरिव रज-स्तूर्ण निन्ये विशीर्णताम् ।।४३३।। बन्धुविध्वंससामर्पः, फंसं स्वकुलपांसनम् । रङ्गा- दहिर्निचिक्षेप, धृत्वा केशेषु केशवः ॥ ४३४ ॥ इतः किलकिलाराव-मुखराः शौरिवेश्मनि । दत्त्या श्रीस्थानमास्थानं, तस्थुः सर्वेऽपि यादवाः ॥४३५।। दृष्टो रथमना- धृष्टि-र्यलेन सह केशवम् । आरोप्य प्रापयामास, शौरिमन्दिरमादरात् ॥४३६।। कृष्णमायान्तमालोक्य, लोकोचरवपुः- श्रियम् । पिबन्तो नेत्रपुटकैदिवाः प्रययुर्मुदम् ।। ४३७ ॥ शौरिस्तु निस्तुपापत्य-स्नेहसोल्लासमानसः। प्रत्युद्याय हृषी- केश-माशिश्लेप मुहुर्मुहुः ॥४३८॥ पादारविन्दं गोविन्दो, ववन्दे ज्यायसः पितुः । तं सोऽप्युद्धररोमालि-रालिङ्गयाङ्के न्यवेश- यत् ॥ ४३९ ।। समुद्रविजयः पश्य-त्रास्यतामरसं हरेः । संपन्नसुमनोभावः, स्वं चक्रे निनिमेपताम् ॥ ४४० ॥ अभ्येत्य १. ('निर्घाटयांचक्रे' इति स्यात् । ) २ खीचने प्रतिद्वय० । ।।३४॥
देवकी तत्र, प्रसवक्किन्नकञ्चका । चिरेण पुत्रगात्रस्य, स्पर्शसौख्यमशिश्रियत् ॥ ४४१ ॥ चकार मथुरानाथ-मुग्रसेनं नरेश्वरः । सत्यभामां सुतां सोऽपि, जिष्णवे विष्णवे ददौ ॥ ४४२ ।। दिव्यस्य धनुपः पूर्व-मारोपणपणीकृताम् । गुरु- भिस्तामनुज्ञातः, परिणिन्ये जनार्दनः ॥ ४४३ ॥ इतः परीतः शोकेन, कंससीमन्तिनीजनः । विललाप विलिप्साङ्गः, सर्वतः क्षोणिरेणुभिः ॥ ४४४ ॥ समस्ताभिः सप- लीभिः, समेताऽत्यन्तदुःखिता। ययौ जीवयशास्तत्र, यत्र कंसोस्ति संस्थितः ॥४४५॥ व्यात्तदीनाननं दूरा-द्रजोभिरव- गुण्डितम् । तमुवीक्ष्य मृगाक्ष्यस्ताः, समस्ता मुमुहुर्मुहुः॥४४६॥ अवसाने च मूर्छायाः, प्रोच्छलच्छोकविह्वलाः । सोरस्ताडं सपूत्कार-मरुदन्मेदिनीगताः ॥४४७॥ अथ कंसस्य संस्कारे, जातेऽपि मगधात्मजा । यादवेष्वतिसाक्षेपा, न निवापाञ्जलिं ददौ ॥४४८॥ उचैरवोचदेतच, सरामैः सजनार्दनैः । यादवैः सह दास्यामि, प्राणेशाय जलाञ्जलिम्॥४४९॥ सप्रतापाजरा- सन्धात् , क्क दवादिव यादवाः। कान्दिशीकाः प्रयास्यन्ति, शरणाय मृगा इव ॥४५०॥ इति प्रतिज्ञामेतस्या, निशशाम विशां- पतिः। उगुद्धक्रोधकल्लोल-लोलमेतजजल्प च ॥४५१॥ प्रगल्भते किमत्रैवं, मुधा मगधनन्दिनी। यच्छिक्षितं तदाख्यात, पितुर्ग- त्वाऽधुनैव सा ॥४५२॥ इत्यवज्ञागिरं राज्ञः, श्रुत्वा साऽथ समुत्सुका । जगाम ग्रामनगरा-ण्युल्लङ्घय पितुरालयम् ॥ ४५३ ॥ राजा राजगृहे याता-मेतां विज्ञाय सादरम् । अभीत इव भीतोऽपि, सर्वानाह्वास्त यादवान् ॥४५४॥ अथ क्रोष्टुकि- माहूय, नृपः पप्रच्छ तैः सह । विरोधिनि जरासन्धे, यत्कर्तव्यमतः परम् ॥४५५॥ स व्याजहार राजस्ते, भवितारौ सुता- १ व्याप्तम्.
कंसस्त्री-
विलापः।
यौरेसमु.
द्रतीरे गम-
नम् । द्वा-
रकास्था-
रिमौ । भरताधमहीना, विश्रामौ राम-केशयौ ॥४५६॥ किं तु क्षेत्रं च कालं च, समाश्रित्य शरीरिणाम् । भवन्ति भागधे-
पानि, सिविधानि न संशयः ॥ ४५७ ॥ ततः क्षेत्रमिदं मुक्त्या, पश्चिमाम्भोधिरोधसि । युप्माभिः सपरीवारै-गम्यतामधुना
दुतम् ॥ ४५८ ॥ तस्मिन् यत्र स्थिता कृष्ण-भाग्यजागरडिण्डिमौ । सत्यभामा सुतौ सूते, तत्र स्थाप्या पुरी वरा ॥४५९॥
इत्युपश्रुत्य सत्कृत्य, वे विसृज्य प्रजेश्वरः । कृशातमधुरालोकैः, सह प्रस्थानमादधे ॥ ४६०॥ विभ्राणो भाविकल्याण-पिशुनैः
शनैर्मुदम् । मरिभूधरकान्तारा-ण्यतिचक्राम स क्रमात् ॥४६१।। स क्रोष्टुकिसमादिष्टे, पश्चिमाम्भोधिरोधसि । सैन्यं निवेश-
पामाम, रितीर्णनगरभ्रमम् ॥४६२॥ सुतावत सत्यापि, तत्र सौस्थ्येन तस्थुपी। कल्पद्रुमावनिद्राण-सुवर्णा मेरुभूरिव॥४६३॥
ततो नैमिनिकादेशात् , केशवो लवणाधिपम् । सुस्थितं संमुखीकर्तु-मकादिष्टमं तपः ॥४६४॥ आहूतस्तपसा तेन,
रत्नप्रभृतसंभृतः । उपेन्द्रमुल्लसत्पीति-रुपतस्धेऽथ सुस्थितः ॥ ४६५।। व्याहरच हृषीकेशं, निदेशस्थितमात्मनः । जनमेनं
विजानीहि, ततः कार्य नियोजय ॥४६६॥ प्रीत्या प्रत्याह गोविन्द-स्तोयधेः (धे!) संविधेहि मे । प्रवरं नगरीस्थानं,
पूर्वकेशवरूदितः ॥४६७॥ इत्युक्तो नगरीभूमि, पाञ्चजन्यं च म लम् । कौस्तुभं च मुकुन्दाय, प्रदायान्तर्दधेऽम्युधिः ॥४६८॥
अहोरात्रेण नवेन्द्र-निदेशाद्धनदः स्वयम् । चक्रे द्वारवती नाम, विजितस्त्रापुरी पुरीम् ॥४६९॥ वप्रो वनमयस्तस्यां, नमः-
स्थमपिशीर्पकः । अभ्रंलिहानि वेश्मानि, नानामणिमयानि च ॥४७०॥ दिनानर्धचतुर्थांश्च, यक्षा वैश्रवणालया। रत्नैरनर्धे-
पुर्जर्वपापना इव ॥४७॥ तत्राभिरामानारामा-नन्दनोद्यानबान्धवान्। किंकरः कारयामास, कुवेरो वासवाज्ञया ॥४७२॥
पनम् ॥
१ दियमान ।
॥३५॥
ततो द्वारवतीराज्ये, समुद्रविजयादिभिः । मुकुन्दः प्रोद्यदानन्द-सौरभ्यैरभ्यपिच्यत ॥४७॥ पुरन्दरपुरीसख्यां, राज- वत्यां सुरा इव । तस्यां पुरि सदानन्दाः, स्वैरं नन्दन्ति यादवाः॥ ४७४ ॥ लीलावनेपु वापीपु, क्रीडाद्रिपु यदृच्छया । समं नेमिकुमारेण, रेमाते राम-केशवौ ॥ ४७५ ॥ आश्चर्य पश्चिमा येयं, ज्योतिषामस्तकारिणी । यादवानां पुनः साऽपि, महाभ्युदयहेतवे ॥ ४७६ ॥ इति प्रीतस्य देवस्य, जनार्दनमहोदये । सांप्रत त्वेतदायात-मुत्सवादुत्सवान्तरम् ।।४७७।। यदेवि ! कुन्ति! ते पुत्र-जन्मना यादवेश्वरः । दिव्येति वर्धितश्चारै-रायातह- स्तिनापुरात् ॥४७८॥ पुत्रोत्पत्तिं तवाकर्ण्य, मुदमुहताऽधिकम् । त्वन्माङ्गल्याय देवेन, तदद्य प्रहितोऽस्म्यहम् ॥ ४७९ ॥ इति पृद्धि स्ववन्धूनां, श्रुत्या सर्वातिशायिनीम् । कुन्ती वहन्ती रोमाञ्चं, प्रत्यवोचत कोरकम् ॥४८०।। साधु कोरक साधु त्वं, कथा- मिपामचीकथः। महोत्सवानुवन्धी मे, जातोऽयं तनयोत्सवः॥४८१।। बान्धवा मम जीयासु-जर्जीयासुर्वन्धुसनवः । ममाशिपमिमा तेषां, प्रियंवद ! निवेदयेः॥४८२॥ इत्थमाभाष्य सत्कृत्य, कुन्त्या कृत्येपु दक्षया। कोरकः प्रोद्गतप्रीति-गमनाय व्यसृज्यत । ४८३॥ युधिष्ठिरकुमारोऽपि, वालकल्पानिपोपमः । मातृवात्सल्यपीयूषैः, पोपितो ववृधे कमात् ।।४८४॥ अव्यक्तवर्णरमणीय- वचःप्रचारो, रिन् कदाचन कदाचन पादचारी । नव्योल्लसद्दशनहास्यमनोहरास्यः, कस्य प्रतिक्षणमभून्न मुदे कुमारः। ॥४८५॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कृष्णनेमिजन्मद्वारिकास्थापन- युधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः॥२॥ १ थर्मिष्ठनृपाधिष्ठितायाम् । २ 'मालप्य' इति प्रतिद्वय० ।
युधिष्ठिर-
जन्म।
कुन्त्या
द्वितीय-
गर्भः।
अथ तृतीयः सर्गः
धर्मकल्पद्रुमस्याध, पुनरेव फलार्थिनी। नासिक्येऽकारयत् कुन्ती, श्रीचन्द्रप्रभमन्दिरम् ॥ १॥ प्रदीपा यत्र निवास-
नानामणिविनिर्मिते । प्रभाध्यस्ततमःस्तोमे, मगलायैव केवलम् ॥२॥ प्रसादभुक्तिरात्मीया, नासिक्यमिति तत्र सा। गत्या
गत्वा पुनश्चक्रे, जिनधर्मप्रभावनाम् ॥३॥ धर्मकर्मैकनिर्माण-व्यसनव्यवसायिनी। पुनरापन्नसत्त्वाऽभूत्, पाण्डुराजसधर्मिणी
॥ ४ ॥ तस्याः स्वमेऽक्षिपद्धृक्ष-भञ्जनोऽथ प्रभञ्जनः । आनीय नन्दनोद्याना-दके कल्पमहीरुहम् ॥ ५॥ पत्ये शशंस सा
स्वम-मेनमेनोपिनाकृता । तदर्थमर्थिकल्पद्रु-स्तत्पुरः सोऽप्यपीकथत् ॥६॥ पवमानोपमानस्ते, बलिष्ठैकशिरोमणिः । प्रदत्त-
जगदाश्वासो, भविता तनयोऽद्भुतः ॥७॥ इत्याकर्ण्य दधौ साऽन्यं, हर्परोमाञ्चकञ्चकम् । " उत्कल्लोलं भवेतः, श्रुतेऽपि
तनुजन्मनि" ॥८॥ उत्पाटयामि शैलेन्द्र-मपि निर्दलयामि वा । तस्याः प्रादुरभूदेवं, स्फूर्तिर्गर्भानुभावतः ॥९॥ दूरमुजाग-
रोजस्का, वज्रमप्यहुँलीमुखैः। सा तदा पक्वकर्पूर-कणचूरमचूरपत् ॥ १० ॥ गर्भावि वितस्थाम-जनितोत्साहसाहसा ।
अमन्दोन्माघदानन्दा, सा दिनान्यत्यवाहयत्.॥ ११ ॥
इतश्च गर्भदौरात्म्यात्, कृतैरौपयिकैरपि । गान्धारी प्रसर्व प्राप, न मासैविंशताऽपि हि ॥ १२ ॥ उदरं विभ्रती
रै-मलिञ्जरसहोदरम् । क्लेशावेशवशाचित्ते, गान्धारीदमचिन्तयत् ॥ १३ ॥ अहो ! मे दत्ततापस्य, पापस्य परमो विधिः।
१ त्रासो मणेर्दोपविशेषः । २ एनः पापं, तद्रहिता इत्यर्थः । ३ स्वप्नभावम् । ४ अमुल्यमैः । ५ महत् । ६ 'ऽवधिः' इति स्यात् ।
गन्धारी.
गर्भः।
॥३६॥
यदेतभारकं दुःख-मिहैवानुभवाम्यहम् ॥१४॥ यत्त्वीदृशं पुरस्तान्मे, कुन्ती सुतमजीजनत् । पश्य सर्वकपस्यापि, सा दुःख- स्यापि चूलिका ॥१५॥ अधुनाऽपि निराधिर्य-निकटप्रसवा पुनः । तन्मामन्तः शितैः कुन्तैः, कुन्ती हन्ति प्रतिक्षणम् ॥१६॥ इति चिन्तापरस्वान्ता, नितान्तं दुःखविह्वला । उदरं ताडयामास, सा शीघ्रप्रसवार्थिनी ॥१७॥ पीडोत्पीडकृता वाढ-माधिना ताडनेन च । अभूदपरिपूर्णोऽपि, गर्भस्तस्यास्तदा बहिः॥१८॥ मांसपिण्डोपमं सा तं, पश्यन्ती साश्रुलोचना । विपादमा- सदडूरं, " दत्ते क्रुद्धो विधिर्न किम् ॥ १॥ १९ ॥ त्वं मे मनोरथानित्थं, किं निकृन्तसि निष्कृप ।। इति दैवमुपालन्ध, लन्धातिः सा मुहुर्मुहुः ॥ २० ॥ विस्रेण मांसपिण्डेन, किमनेन ममाधुना। इत्युत्स्रष्टुं समारेभे, सा बहिस्तमवज्ञया ॥२१॥ अथ ज्ञातप्रबन्धाभि-रेत्य पृद्धाभिरादरात् । प्रत्यपिध्यत सा वादं, मा मा मेत्युक्तिपूर्वकम् ।। २२ ॥ अजल्पंश्च पपातेदं पुत्ररत्न तवोदरात् । अभाग्येनार्धनिष्पन, वायुनेव तरोः फलम् ।। २३ ।। एतत्तु तव कल्याणि, न मौग्ध्यं ज्ञातुमीश्महे । यदुपक्रमसे त्यक्तु-मषस्करमिवात्मजम् ॥ २४ ॥ अथ साऽकथयत्तथ्य, मातरः! शृणुत क्षणम् । गर्भाधाने ममामुष्मिन, प्रवृत्तमिति चेतसा ॥ २५ ॥ महं महीपतेः पत्नी, न तावदभवं पुरा । भविष्यामि महीपाल-माता त्वेतत्प्रसादतः ॥२६॥ इत्थं मयि कृताशायां, कुन्त्यसूत युधिष्ठिरम् । तां संप्रत्यहमीप-मासनप्रसयां पुनः ।। २७॥ ततो मेदस्विनिर्वेदात् , स्वं निन्दन्ती मुहुर्मुहुः । तूर्णप्रसवसाकाक्षा, कुर्ति निजमकृट्वयम् ॥ २८ ॥ उशन्ति सत्यमेवैत-दुद्धिः कर्मानुसारिणी । तदिदं जातमीक्षध्वं, धूत यत्तत्करोम्यहम् ॥ २९ ॥ ततस्तामध्यधुर्वृद्धा, आधिं वत्से ! मुधा व्यधाः । कर्माणि हि प्रतिप्राणि, पृथ- १ प्राप्ता मया । २ अतिखेदात् । 1
मीम-
योधनयो-
जन्म।
कप्रसस्ते फलम् ।। ३० ।। वत्से ! मात्सर्यमुत्सार्य, परमार्थे मनः कुरु । पश्यैकाग्रमनाः कुन्ती, धर्ममाराधयत्यलम् ॥ ३१ ॥
धर्मप्रभासंपन्न-निःशेपाभीष्टसंपदि । ततश्च मत्सरं वत्से !, धत्से कुन्त्यां कथं घृथा १ ॥ ३२ ॥ स्वल्पैः कल्पद्रुमनायै-धर्म
नोपमिमीमहे । संकल्पतुलया ते हि, यल्लोकमुपकुर्वते ॥ ३३ ॥ यदीच्छावीरुधं वत्से !, विधातासि फलेग्रहिम् । धर्मालवाल-
मेतस्याः, सिञ्च श्रद्धामृतस्ततः ॥ ३४ ॥ लक्ष्यते लक्षणैरेमि-र्भावी बहुँयुधिष्ठिरः । तवात्मजोऽपि तन्मा स्म, खिद्यधा:
सर्वथा शुभे ॥ ३५ ॥ असौ ते त्रिंशतं मासान् , गर्भे तस्थाविदं कि यत् । द्वादशापि समाः कश्चि-त्तिष्ठत्युदरकन्दरे ॥ ३६ ॥
इदानीं तु सुतस्यास्य, जीविताय यतामहे । इत्युक्त्वा ताभिरम्यक्तः, सर्पिपा तूलसंचयः ॥ ३७ ॥ तेन प्रावृत्य तं वालं,
स्वर्णकुंट्यां निधाय च । एकान्ते तां व्यवस्थाप्य, निधानमिव दधिरे ॥ ३८ ॥
अथ संपूर्णसर्वाङ्गो, मातुः स्तन्येन सोर्भकः । दधौ वृद्धिं परां बाल-विटपीय घनाम्भसा ॥ ३९ ॥ अमृत दिवसे
यस्मिन् , गान्धारी तं तनूरुहम् । तस्मिन् यामैखिभिः पश्चात् , सुतं कुन्त्यप्यजीजनत् ॥ ४० ॥ तयोर्भाग्यमहो भिन्न-
मप्येकदिनजातयोः। यदायोजनि दुर्लग्ने, सुलग्ने कुन्तिमः पुनः ।। ४१ ॥ उद्दिश्य पाण्डुजन्मान-मभून्नभसि भारती ।
विजयी वनकायोऽय-मुद्दामबलमन्दिरम् ॥४२॥ भक्तः सहोदरे ज्येष्ठे, जगद्विधुवान्धवः । भावी मोहच्छिदाच्छेकः, क्रमा-
त्सिद्विवधूवरः ॥ ४३ ॥ ( युग्मम् ) प्रीता कुन्ती सुतेनैव, दिवि देवा महोत्सवम् । चक्रुश्चकार पाण्डुस्तु, युगपत् सुतयो-
योः ।। ४४ ॥ दुर्योधन इत्याद्यस्य, भीम इत्यपरस्य च । धृतराष्ट्रश्च पाण्डुश्च, पुत्रयो म चक्रतुः ॥ ४५ ॥ भीम-
१ कल्पवृक्षस दशैः कामघटादिभिरित्यर्थः । २ अत्यन्तं युधिष्ठिरसदृशः इत्यर्थः ।
॥३७॥
स्यातोऽभवन्नाम, मरुत्तनय इत्यपि । स्वमे कल्पद्रुमव्याजा-दत्तोऽसौ मरुता यतः॥४६॥ पश्चमिालितौ यता-द्धात्रीभि- तिवत् सदा । तौ क्रमाजग्मतुर्वृद्धि, पञ्चास्यपृथुकाविव ॥ ४७ ॥ रिसन् दुर्योधनः पश्चा-देत्य भीमेन रिहता । बलिना बालचापल्या-दृत्वा पादे व्यकृष्यत ॥४८॥ कदाचिच स भीमेन, प्रीत्या मात्रा समर्पितम् । भक्ष्यं हठेन हस्ताग्रा- दाच्छियोथैररोद्यत ।। ४९ ॥ मिथः कलिकरौ जातु, जातु केलिपरायणौ । एकामत्रभुजी जातु, तावभूतामनारतम् ॥५०॥ हासयन्नथ वासन्ती, चन्द्रिकाचन्दनाचितः । मल्लिकामोदसुरभिः, सुरभिः समजृम्भत ॥ ५१ ॥ वसन्तेनोपनीतानि, प्राप्य चूताकुरच्छलात् । नवान्यस्त्राणि पुष्पात्र-स्तुणं जगदजीगणत् ।। ५२ ॥ जगजिंगीपोः पञ्चेषोः, प्रयाणे जयशंसिनः । ध्वनयोऽदुन्दुभीयन्त, मधुराः पिकयोपिताम् ॥ ५३॥ गलदहुलकिजल्क-पकिलीभूतभूतलम् । पुष्पडम्मरितं पाण्डा, क्रीडावनमथागमत् ।। ५४ ॥ भीमं पण्मासदेशीय-मादाय मधुराकृतिम् । पत्या सह ययौ कुन्ती, बसन्तश्रियमीक्षितम् ।। ५५॥ विकाशिकेशरे पुष्प-तिलके चारुचम्पके। पत्या साधं वने राजा, विजहार मनोरमे ॥५६॥ लीलयाऽपि क्षिपन् पाणिं, पालः सुलभचापलः । मूलादुन्मूलयामास, विविधान् सविधंदुमान् ।। ५७ ॥ प्रियया सार्धमासाद्य, दोलान्दोलनकौतुकम् । आररोह महीपाला, सहेलः केलिपर्वतम् ॥ ५८ ॥ कुन्त्यपि प्रेक्षितुं शैल-ग्रामणीरामणीयकम् । समारोहवरारोहा, पत्यानु- पदिकी मुदा ॥ ५९ ॥ स्वैरमाराममारामं, वापी वापी सर: सरः । सर्वमालोकयांचक्र, गिरेस्तस्य नृपनिया ॥६० ॥ पपतशिखरस्याने, समासादितजन्मनः । ककेलिपादपस्याधः, सा विधते स्म विश्रमम् ।। ६१ ॥ कुरुवंशनवोस, जगन्ने १ सिंहकिशोरको । २ एकपात्रभुजौ। ३ कामः । ४ जेतुमिच्छोः । ५ समीपवृक्षान् ।
पाण्डक
न्त्योर्वस-
न्तक्रीडा।
भीमस्य
गिरेः
पतनम्।।
प्रमुधाकर! । इत्यमुल्लापयामास, भीमं कृत्वाऽखेलिनम् ॥६२॥ एवमुल्लाप्यमानस्य, भीमस्योत्सङ्गसङ्गिनः । श्रमध्वंसाय
पात्रीव, निद्राभून्नेत्रगोनरा ॥ ६३ ॥
वने च विहरन् सैर-ममन्दानन्दकन्दलः । स्वयं चम्पकपुष्पाणां, सजं जग्रन्थ पार्थिवः ५६४॥ तामुपादाय दायाद-तुल्यां
निजतनुश्रुतेः । आत्मसंमुखमायान्तं, कुन्ती कान्तं व्यलोकयत् ॥ ६५ ॥ त्वं कण्ठ ! वर्धसे दिष्ट्या, प्रेम्णा प्रेयानिमां सजम् ।
पत्तुभ्यमुपनेतेति, मुदः साऽभूद्वशंवदा ॥ ६६ ॥ पिबन्ती लोचनैर्नाथ-मभ्युत्तस्थौ झटित्यसौ । विस्मृतात्मा न चाबोधि,
भीममुत्सद्गशायिनम् ॥ ६७ ।। तदैव नृपतिः कान्ता-कण्ठे चिक्षेप च स्रजम् । भीमोऽतिनिःसहवपु-स्तदुत्सङ्गात् पपात च
॥ ६८ ॥ करौ व्यापारयामास, पुत्ररक्षार्थमेकतः । खजोऽर्थे चान्यतः कण्ठं, सा शोक-प्रमदाकुला ॥ ६९ ॥ ततः शृङ्गाल्लु-
ठन् पालो, हाहारवमुखैर्जनः । गण्डशैलकलां वित्, साश्रुनेत्रैरदृश्यत ॥७०॥ अधोऽधः पततस्तस्य, शिलासोपानतः क्रमात् ।
प्रादुर्बभूवुष्टात्काराः, कुन्तीहन्मर्ममेदिनः ।। ७१ ।। पूर्वकायनता कुन्ती, विलापतुमुला सुतम् । तत्पीडागमनायेव, सिञ्चति
स्माथुवीचिभिः ।। ७२ ॥ पश्यतामेव सर्वेषां, लोठं लोठं वटात्तटे । स पालः स्थूलपाषाणा-मुपागमदुपत्यकाम् ॥ ७३ ॥
लवंगमा इवोत्प्लुत्य, जद्धाला वायुरंहसः । तस्यानुपदमुत्ताल-मुत्तेरुर्नुपपत्तयः ॥ ७४ ॥ हा ! वत्स! कासि ? दृश्योऽसि,
मया जीवन् पुनः कदा । द्रतः पेतुपो वत्स !, यद्वा ते जीवितं कुतः ॥७५॥ इत्थं विलापैरत्यन्त-करुणमर्ममेदिभिः ।
उचैः प्रतिरवव्याजा-द्रोदयन्ती गिरीनपि ॥७६ ॥ कुन्ती शोकाकुला जात-डिम्बेन सह पाण्डना। पुत्रालोकनसोत्कण्ठा,
१ 'विभ्रदश्रुने० ' प्रतिद्वय १२ जनावलवन्तः । ३ डिम्बा-हाहारकः ।
M
स
॥ ३८॥
शनैः शोकादवातरत् ॥ ७७ ॥(त्रिभिर्विशेषकम् ) उवाच राज्ञी प्राणेशं !, केनैताचूर्णिताः शिलाः । न जानामीति तेनोक्ते, देवी पुनरभापत ॥ ७८ ॥ अमून् भीमद्रुहः को हि, दारुणान् दारयिष्यति ? । शङ्के स्वेनैव पापेन, शीर्णास्तु कणशः स्वयम् ।। ७९ ॥ तेनानवाप्तपूर्वेण, नगोत्तारक्लमेन च । पुत्रशोकेन चात्यन्तं, कुन्ती वैक्लव्यमागमत् ॥ ८ ॥ • अथातिरंहसा कांश्चि-याकोशास्यकुशेशयान् । पत्तीनागच्छतो दूरा-दीक्षांचक्रे क्षितीवरः ।। ८१ ॥ तत्प्रमोदानुमानेन, परिज्ञाय नृपोऽभ्यधात् । देवि ! त्वं वर्धसे दिष्ट्या, कुशली तव नन्दनः ।। ८२ ॥ इति वर्धयतो राज्ञी, राज्ञस्तेऽपि व्यजिज्ञपन् । अग्रेऽसौ विजयी स्वामि-नक्षताङ्गस्तवात्मजः ॥ ८३ ।। देवीक्रोडस्थितस्येव, त्वत्पुत्रस्य मनागपि । पेतुपोऽपि गिरेः शृङ्गा- न्मुखरागो न भिद्यते ॥८४॥ एतत् कथितमस्माभि-रन्यदत्यद्भुतं पुनः । पुरो गत्वा स्ववालस्य, स्वयमालोकयिष्यसि ॥८५॥ इति वार्तासुधापान-प्रोपिताशेपवैशसा । त्वरितं त्वरित भीम-जननी पुरतों ययौ ॥ ८६ ॥ राजाऽपि राजमानास्यः, प्रेयसी- पृष्ठतो वजन् । समाससाद तं देशं, यत्रास्ति क्षेमवान् सुतः ॥ ८७॥ शिलाचूर्णमये तल्पे, सुखोत्तानशयं सुतम् । अक्षतं शत- पत्राक्षं, तो निरीक्षांबभूवतुः ॥ ८८ ॥ तमुवीक्ष्य तयोरासीत् , प्रीतिर्वाचामगोचरा । तो समालोक्य पालोऽपि, हर्यादुदाहु नृत्यति ॥ ८९ ॥ ऊर्ध्वमूर्ध्व लसद्धाहुं, भीममादाय वक्षसा । कुन्ती सानन्दमालिङ्गथ, चुचुम्ब प्रस्तुतस्तनी ॥ ९ ॥ तप्रत्यूहमुत्फुल्ल-लोचनः पाण्डुभूपतिः । बलादाच्छिद्य पत्नीतः, सानन्दं सस्वजे सुतम् ॥ ९१ ॥ पृथा पप्रच्छ पृथ्वीश- मार्यपुत्र ! द्रढीयसी । असौ शिला समग्राऽपि, विभिदे कणशः कथम् ? ॥ ९२ ॥ पार्थिवः कथयामास, प्रिये ! तव तनूरुहः । १ विकसितमुखकमलान् । २ नष्टसर्वविघ्ना।
कुल्या
तृतीयो
गर्भः॥
पनकायोऽयमाख्यायि, भारत्या ननु दिव्यया ॥ ९३ ॥ तदस्य वपुपा पादं, वज्रेणेवाभिताडिता । शिलेयं केलिशैलस्य,
चूमिावमुपाययौ ॥९४॥ योऽपि खण्डीकृतो दृष्टः, प्रस्तरोऽद्य त्वया पथि । तदपि त्वतनूजस्य, तपातविजृम्भितम् ॥१५॥
तच्छुत्या विस्मितस्वान्ता, कुन्ती कान्तिमुपेयुपी । आदाय दयिताद्भीम-मालिलिङ्ग मुहुर्मुहुः ॥१६॥ प्रपातभूमि भीमस्य,
भूद्गारावर्जितैः । निपिच्य श्रेयसे वृद्धाः, क्षणादान रक्षतैः ॥ ९७ ॥ ततो मुदितयोपात्त-सुतया प्रियया समम् । उत्तम्भि-
तघजां रावा, राजधानीमुपाययौ ॥ ९८ ॥
अभ्रमनल्लभारूद, निशाशेपे कदाचन । समे महेन्द्रमद्राक्षीत् , पृथा पृथुमनोरथा ॥ ९९ ।। सा समं कथयामास,
पत्युः प्रातः प्रमोदिनी । तस्यै सोऽपि समाचख्यौ, शक्रामं भाविनं सुतम् ॥ १०० ॥ ततः प्रीति परां प्राप्ता, श्लाघ्यं गर्भ
पभार सा । " प्रातःकालोपलब्धो हि, स्वमः सद्यः फलप्रदः" ॥१०१ ॥ स्वयं सागरपर्यन्तां, मेदिनीमनुपद्रवाम् । मण्ड-
लीकृतकोदण्डा, कर्तुमीहांरभूव सा ॥ १०२॥ समयेऽपि समागत्य, प्रजाः संहरतस्तदा । कृतान्तस्यापि सा कर्तु, स्पृहया-
मास निग्रहम् ॥ १०३ ।। सूर्याचन्द्रमसौ जातु, यत्तुतोद विधुतुदः। तस्मिन्नपि वभूवेय-मभिपेणनकाक्षिणी ॥ १०४ ॥
इत्थं गर्भप्रभावोत्थ-धीरोदात्तमनोरथा । तनयं जनयामास, सा मुहूर्ते मनोहरे ॥ १०५॥ तदैव दिवि वाग्देवी, सर्वतः
शुश्रुवेतराम् । अमावाराधितज्येष्ठो, जगदेकधनुर्धरः ॥ १०६ ॥ दुर्धर्षोऽत्यन्तसौम्यास्यः, सामर्पो नयवत्सलः । भविष्यति
क्रमात् कर्म-निर्मुक्तो मुक्तिवल्लभः ॥ १०७॥ ( युग्मम् ) तदनन्तरमाकाशे, संगीतमुदजृम्भत । रम्भो-शीप्रभृतयो, नृत्यम-
१ तन्'-दारीरम् । २ ऐरावणगजारूढम् । ३ राहुः । ४ सक्रोधः ।
॥ ३९॥
प्सरसो व्यधुः ॥ १०८ ॥ जगुर्जगन्मनोहारि-मर्छनं किन्नरेश्वराः । अजायत पुनर्वाद्य-नादाद्वैतं तथा दिवि ॥ १०९ ॥ प्रदत्तत्रिदशानन्दे, तस्मिन्नात्मजजन्मनि । प्रमोदकृतसंवाद, पाण्डुश्चक्रे महोत्तवम् ॥ ११० ॥ तं चकार स नाम्नाऽपि, गुणै- रंजुनमर्जुनम् । इन्द्रस्य ! दर्शनात् स्वप्ने, जातोऽसाविन्द्रसरिति ।। १११ ॥ अथ श्लाध्यतमस्वप्न-सूचितौ निचितौ श्रिया । यमलौ जनयांचक्रे, मद्रराजसुता सुतौ ॥ ११२ ॥ तावप्याकाशभारत्या, कथितौ यद्भविष्यतः । सच्चशौर्ययुतौ सिद्धि-गामिनी गुरुवत्सलौ ॥ ११३ ॥ प्रदत्तया पितृभ्यां तो, विनीतौ नयशालिनी । नकुलः सहदेवश्चे-त्याख्यया ख्यातिमीयतुः॥११४ ॥ अमी कुमाराः पश्चापि, दिविपत्पादपा इव । यशाकुसुमसौरभ्य- सुभगाः ख्यातिमाययुः ॥ ११५ ॥ गान्धारीप्रमुखाचाष्टौ, धृतराष्ट्रस्य याः प्रियाः। अजायन्त सुतास्तासां, क्रमाहुर्योधनानुजाः ॥११६॥ पुत्राणां नव- नवति-स्तेषां नामानि तद्यथा । आसीहुःशासनः पूर्वो, दुःसहो दुःशलस्तथा ।। ११७ ॥ रणः श्रान्तः समाढ्यश्च, विन्दः सर्वसहोऽपि च । अनुविन्दः सुभीमश्च, सुबाहुर्दुष्प्रधर्षणः ॥ ११८ ॥ दुर्मर्पणः सुगात्रश्च, दुष्कर्णी दुःश्रवास्तथा । वरवंशो विकीर्णश्व, दीर्घदर्शी सुलोचनः ॥ ११९ ॥ उपचित्रो विचित्रश्च, चारुचित्रः शरा- सनः । दुर्मदो दुष्प्रगाहश्च, युयुत्सुर्विकटाभिधः ॥१२०॥ ऊर्णनाभः सुनाभश्च, तथा नन्दो-पनन्दको । चित्र- याणश्चित्रकर्मा, सुवर्मा दुर्विमोचनः ।। १२१ ॥ अयोवाहुर्महाबाहुः, श्रुतवान् पद्मलोचनः । भीमवाहुर्रम- १ जगतो मनोहारिणी मूर्छना यस्मिन् कर्मणि यथा स्यात्तथा । २ इन्द्रसदृशम् । ३ 'चित्रवर्मा' प्र० द्वय० ।
यलः, सुपेणः पण्डितस्तथा ॥ १२२ ॥ श्रुतायुधः सुवीर्यश्च, दण्डधारो महोदरः। चित्रायुधो निपङ्गी च, पाशो
ऍन्दारकस्तथा ॥ १२३ ॥ शचुंजयः शत्रुसहः, सत्यसन्धः सुदुःसहः । सुदर्शनश्चित्रसेनः, सेनानीर्दुप्परा-
जयः ॥१२४॥ पराजितः कुण्डशायी, विशालाक्षो जयस्तथा । दृढहस्तः सुहस्तथ, वातवेग-सुवर्चसौ ॥१२५॥
आदित्यकेतुर्यहाशी, निर्वन्धोऽपि प्रयास्यपि । कपची रणशौण्डश्च, कुण्डधारो धनुर्धरः ॥ १२६ ।। उग्ररथो
भीमरथा, शूरवाहरलोलुपः । अभयो रौद्रकर्मा च, तथा दृढरथाभिधः ॥ १२७ ॥ अनाधृष्यः कुण्डभेदी,
विराजी दीर्घलोचनः । प्रमयश्च प्रमाथी च, दीर्घालापश्च वीर्यवान् ॥ १२८॥ दीर्घयाहुमहावक्षा, दृढवक्षाः सुल-
क्षणः । कनकः काञ्चनचैव, सुध्वजः सुभुजस्तथा ॥ १२९ ॥ विरजाथेत्यमी सर्वे, रणकर्मविशारदाः । सर्वे शौण्डी-
रदोर्दण्डाः, सर्वे सर्वास्त्रकोविदाः ।। १३० ॥
धृतराष्ट्रोऽथ भीष्मादी-नुपवेश्य परेचवि । मौहूर्तिकान् समाहूय, पप्रच्छ स्वच्छमानसः ॥ १३१ ॥ आख्यातमशरी-
रिण्या, भारत्या यशुधिष्ठिरः । भविता भुवनश्लाघ्यो, न कोऽप्यत्रास्ति संशयः ॥ १३२ ॥ किं त्वनन्तरमेतमा-द्राजा दुर्यो
धनः किमु । भविष्यति न वेत्येवं, ज्ञानेनालोच्य शंस नः ।। १३३ ॥ अत्रान्तरे दिगन्तेपु, रजोभिः परिजृम्भितम् । उदति-
छन्त निर्घाता-चकम्पे च वसुंधरा ।। १३४ ॥ शिवाथाशिवशंसिन्यो, विरेसुविरसं तथा । मार्तण्डमण्डलं चाभूत् , परिवेपेण
भीपणम् ॥ १३५ ॥ एतानि दुनिमित्तानि, प्रेक्ष्य तलक्षणानि च । ज्ञानिनः सर्वविदुरं, विदुरं प्रत्यचीकथन् ॥ १३६ ।।
१ 'प्रयाद्यपि'.प्रतिद्वय० ।
अर्जुन-
नकुल-
सहदेव-
जन्म।
धृतराष्ट्र
पुत्राणां
नवनरते-
जन्म।
॥४०॥
अयमूर्जस्वलो राजा, राजचक्रविजित्वरः । भविष्यति परं कालः, कुलस्य च जनस्य च ॥१३७ ॥ इति नैमित्तिकादिष्ट-मनिष्टं विदुरस्ततः । सभासमक्षमाचल्यो, धृतराष्ट्रस्य पृच्छतः॥१३८॥ तचाकर्ण्य विपं कर्ण-पुटयोरम्बिकासुतः। पुनः पर्यनु- युले स्म, कुले शान्तिः कथं भवेत् १ ॥ १३९ ॥ अथ संदेहसंदोह-च्छिदुरो विदुरस्तथा । अंप्रेयोऽपि वचः पथ्यं, तथ्यं च तमुदाहरत् ॥ १४० ॥ निखिलस्य कुलस्या- स्य, क्षेमं चेत् कर्तुमिच्छसि । तदैनमेनसां पात्रं, दुष्पुत्रं त्यक्तुमर्हसि ॥१४१॥ तनयेनापि किं तेन, कुलप्रलयकारिणा ? । तेन हेम्नाऽपि किं कार्य-मार्य ! कौँ छिनत्ति यत् ॥ १४२ ॥ आसतां शतमेकोन-मपि स्वस्तिकृतः सुताः । अल्पमल्पेतरस्यार्थे, त्याज्यमित्थं विदुयुधाः ॥१४३॥ आम्बिकेयस्तदाकर्ण्य, न यावत् प्रत्यभापत । पाण्डुरुड्डामरप्रीति-स्तावद्विदुरमभ्यधात् ॥१४४ ॥ ईशानि न लभ्यन्ते, पुत्रभाण्डानि कुत्रचित् । ममोपयाचितैरेप, जातो दुर्योधनः सुतः॥ १४५ ॥ क्षयः कुलस्य चेत् पुत्रा-दृद्धिस्तहि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे, प्रकाशः स्यात् कुतस्ततः १ ॥१४६॥ युधिष्ठिरादपि ज्येष्ठः, पूर्व गर्भावतारतः । असौ राज्याजसविता, भविता गोत्रवर्धनः ॥ १४७ ॥ तच्छिवाः सन्तु पन्थानः, स्वस्थानगमनाय यः । अभिधायेदमास्थाना-दुदस्थात् भाण्डुभूपतिः ।।१४८॥ दुर्योधनस्य दुःशल्या, नाम यामिर्वभूव या। सिन्धूनामधिरा- जस्ता-मुपयेमे जयद्रथः ॥ १४९ ॥ अथ ते धृतराष्ट्रस्य, वर्धन्ते स्म शतं सुताः। दोष्णोउँपां स्म जागति, स्फूर्तिस्त्रैलोक्यतोलने ॥ १५० ॥ धार्तराष्ट्राः १ बलवान् । २ अप्रियमपि । ३ बहोः प्रयोजनाय । ४ स्वसा।
पाण्डव-
फौरवाणा
पालकीया।
शतं पञ्च, पाण्डयास्ते तु संहताः। शतं पशोचर सैरे, रेमिरे हस्तिनापुरे ॥ १५१ ॥ भीष्म प धृतराष्ट्रं ग, पाण्डे
च विदुरं च ते । प्रतिप्रभातमभ्येत्य, नमस्यन्ति स्म भक्तिः ॥ १५२ ॥ ततः सत्यवती पूज्या-मम्पिफाऽम्यालिफे
तथा। अम्पा-गन्धारिका-कुन्ती-मुख्याच प्राणमन्नमी ॥१५३॥ मातॄणां च पितॄणां च, तया पात्सल्यवरागा । निर्षिशेष
मनस्तेपु, " गुरयो हि समाशयाः" ॥ १५४ ॥ शैशवादप्यजायन्त, पाण्याः परमाहताः । “गस्स गारपपरो लोक-स्तस्म
पेटा हि ताशी" ॥ १५५ ॥ दिवा या यदि वा नक्तं, भक्तिप्रालीकता इस । चेतस्तेषां मुशान्ति, पश्चापि परमेहिनः
॥ १५६ ॥ रंहस्तितापरीक्षार्थ, निर्णीतपणपूर्वकम् । सहस्ततालमुनाला-स्ते कदाचिधाविरे ॥ १५७ ।। गङ्गायाः पुलिने
जात, सिकताकणकोमले । सर्वे कुमाराधिक्रीड-स्ते शश्वत् पांशुकेलिभिः ।। १५८ ।। तुमानटीविटवाने, जलकेलिहुलूहलान् ।
यमुनायां कदाचिग, झम्पापातं वितेनिरे ॥ १५९ ॥ रहाकलि-रज केलि-जलकेलिए लीलया । तान् पन्भूनधरीनने, पलोदारो
पृकोदरः॥ १६० ॥ सदाऽवदातप्रकृति-धर्मात्मा धर्मनन्दनः । पयन्ध पन्ना रनेदं, विशेषेण सुगोधने ॥ १६१ ॥ परस-
लोऽपि निमर्गेण, वान्धवेषु घृकोदरः । क्रीडयाऽलोलयद्वालान्, दुःशासनमुखानिति ॥ १६२ ।। क्षिप्ताः कदाचित् कक्षागा,
भीमेन भुजपीडनात् । वामावरोधदौस्थ्येन, संस्थिता इस तेऽभवन् ॥ १६३ ॥ भीमः कदापिदेतेषा-मन्योन्यं शिरमा
शिरः। नालिकेरद्वयारफाल-मास्फालयदनेकशः ।।१६४॥ त्या कदाचित् पादाने, कोशगायो गुवं नगन् । नासा-जानु-लला.
टादौ, त्वचयामास तानगौ ॥ १६५ ॥ तान् वध्या बापाशेन, मसगिता चिरं जले । भीमः फेलिप्रियो जात, मृगपागा-
१ पेगयत्तापरीक्षार्थम् । २ मृताः ।
॥४१॥
नमुञ्चत ।। १६६ ॥ धार्तराष्ट्राः कनीयांसः, क्रीडन्तस्ते कदाचन । कुतूहलात् कपित्थादी-नुचानारुरुहुस्तरून् ॥ १६७ ॥ ततः पादप्रहारेण, तानाहत्य महीरुहान् । फलैः सार्धमपात्यन्त, ते भीमेन भुवस्तले ॥ १६८ ॥ खेदिता अपि भीमाय, न ते किंचन चुक्रुधुः । लेहोऽयं न पुनद्रोह-स्तस्येति शातपूर्विणः ॥ १६९ ॥ लब्धास्पदं मनोधाव्यां, पैरभूरुहकारणम् । मात्स- र्यचीजमा पाल्या-दभूर्योधनस्य यत् ॥ १७० ।। तदानीं भीमसेनस्य, घल-विस्फूर्ति-कीर्तिभिः। तचक्रे किंचिदुच्छूनं, नन्याभिरिव पृष्टिभिः ॥ १७१॥ ओजाषितानि भीमस्य, खिद्यमानांध चान्धवान् । वीक्ष्यावलेपात कोपाच, बाद दुर्योदनोऽभ्यधात् ।। १७२ ॥ कद- यन्ते कथं भीम, भ्रातरोऽमी स्तनधयाः । तब दोर्दण्डकण्ड्डूति-हरोऽस्मि तदुपेहि माम् ।। १७३ ।। तेनेत्थं स्पर्धमानेन, समाहूतो वृकोदरः । अभ्यधत्त महाभाग !, नाहं बन्धुपु दुर्मनाः ॥१७४ ॥ परमित्थं मम लेह-चापल्यं पर्यवस्यति । वनेषु दन्तिनो दन्त-क्रीडाऽपि तरुभजिनी ॥१७५ ॥ ततोऽवलेप कोपं वा, मुधा दुर्योधन ! व्यधाः ।" यद्वा नैवास्ति मर्यादा, काऽप्यनालोच्य वादिनाम् " ॥ १७६ ॥ त्वया हि मम दोकण्डू-न मनागप्यपोयते । “न खेरण्डो गजेन्द्रस्प, फटकण्डूयने क्षमा" ॥ १७७ ॥ अस्ति चेत्तव दोर्दो, यद्वाऽसूया पलीयसी । तदेहि त्वं नियुध्यस्व, युध्यस्व बलमात्मनः ॥ १७८ ॥ इत्या- क्षिप्तः स भीमस्य, नियुद्धाय पुरोऽभवत् । " किं लोकाधिकधामानः, सहन्ते तेजसो वधम् ?" ॥ १७९ ॥ यदा विरमतो नैती, निरोधरि युधिष्ठिरे । तदा तौ परितस्तस्थुः, कुमाराः प्रेक्षकाः परे ॥ १८० ॥ मर्मप्रहारनिर्मुक्त-मनलंकृतरम्ययोः । नियुद्धमेतयोरासी-दशिक्षितमनोहरम् ।। १८१ ॥ तयोर्द्वयोरपि ख्यात-पलिम्पोऽपि बलिष्ठयोः । पावर्ततौचराधर्य-परापतिः
पाण्डव-
कौरवाणां
बालक्रीडा।
धणे क्षणे ॥ १८२ ॥ दिनेन्दु-दिननाथाभै-स्तयोर्जयपराजयो । दुःशासना-र्जुनादीना-मकथ्येता मुखैस्तदा ॥ १८३ ।।
नियुध्यमानो वनागः, मीडयाऽपि वृकोदरः । क्रमादुर्योधनं दूरा-निन्ये निःसहदेहताम् ॥१८४॥ चिरादर्दनं वित्राणः, परा-
जयपराभवम् । श्यामास्यः प्रययौ पन्यु-मध्याहुर्योधनः शनैः ॥ १८५ ॥
तथैयावस्थित रङ्गे, भीममेत्य युधिष्ठिरः । रजोऽवगुण्डितं प्रेम्णा, प्रममा स्ववाससा ॥ १८६ ॥ बन्धोर्नियुद्धखिन्नस्य,
वपुर्पिपुलममलम् । नेहाच संवाहयामास, मृदुपाणिर्धनंजयः ॥१८७॥ नकुलः सहदेवश्च, प्रमोदादमितः स्थितौ । स्वाञ्चल-
पवनीम, पीजपांचमतुधिरम् ॥ १८८ ॥
दुर्योधनो रहास्थाने, स्थित्वा चके जडोचितान् । निजाशयप्रमाणेन, विकल्पानजनालवत् ॥ १८॥ अर्धराज्यहरो
योपि, सोऽपि वध्यो महौजसाम् । किं पुनर्च्महे तस्य १, सर्वराज्यहरो हि यः ॥ १९० ॥ ततः सर्वप्रकारेण, मम वध्यो
युधिष्ठिरः। "उदीयमानोऽप्युच्छेद्यो, विरोधी व्याधिवबुधैः” ॥१९१॥ किं त्वसाध्यः परीतोऽयं, भीमेन विजयेन च ।
भूपाल इस संपन्नो, विक्रमेण नयेन च ॥१९२॥ ततो भीमा-र्जुनादेव, पुरस्ताद्वधमर्हतः । यो दुर्वारमहावीर्या-वजातारे -
जाविध ॥ १९३ ।। तत्रापि प्रथमं निर्भी-भीमो निःसीमविक्रमः । कीनाशपुरवास्तव्यः, कर्तव्यः प्रसभं मया ॥ १९४ ।।
व्यापादिते मयाऽमुस्मिन् , युधिष्ठिर-किरीटिनौ । भवितारौ हठात् कष्ट-स्तम्भप्रासाददुर्बलौ ॥१९५॥ तदा नियुद्धसंवद्ध रजः-
परिचयादिव । मलीमसामिमा सन्धां, चक्रे दुर्योधनो रहः॥१९६॥ ततश्छिद्राणि दुष्टात्मा, भीमस्य स्वच्छचेवसः । नित्य-
१॥ दिनेश-दिनचन्दामः" इति प्रतिद्वयपाठः । २ प्रभूतम् । ३ युधिष्ठिरस्य । ४ कीनाश:-यमः । ५ बलात् ।
॥ ४२ ॥
मन्वेषयामास, स नटः कूटनाटके ॥ १९७ ।। परं पिविधकेलीभि-गङ्गायाः कूलपालिषु । समं सर्वैः कुमारैस्तैः, सोऽपि चिक्रीड सर्वदा ॥ १९८ ॥ कुमारान् क्रीडतस्तम, विदित्वा सुतवत्सलः । भूपतिः कापमानानि, कमनीयान्यकारयन् ॥ १९९॥ क्रीडा- शौण्डतया तेपु, मुक्तिं गुप्तिं च ते व्यधुः। सर्पदाऽप्यधिकः किं तु, भीमोऽभूझोजनादिभिः ।। २००॥ फूले परेणुर्गनायाः, सौगन्धिकसुगन्धिनि । सुष्पाप सिकतातल्पे, केलिश्रान्तो वृकोदरः ॥२०१॥ आहारं मधुरं स्निग्ध, तस्प भुक्तवतस्तदा । बभूव सुखनिद्रापि, दीर्घनिद्राविजित्वरी ॥ २०२ ।। इदमन्तरमासाप, दुष्टबुद्धिः सुयोधनः । भीम पढ्दा लवापाशैः, प्रचिक्षेप छलाअले ।। २०३॥ लतापाशान् विमच्छेद, छेकश्छित्या वृकोदरः। लात्वा क्षणेन गङ्गायाः, करीन्द्र इप निर्गयौ ॥२०४॥ निद्रायमाणमन्येषु-स्तं तथैवाङ्गमर्मसु । धार्तराष्ट्रोऽतिष्टात्मा, देन्दशूरदंशयत् ॥ २०५॥ सफोपाः सफणाटोपा, दंष्ट्रया गरलोरया । तीक्ष्णाग्रया दशन्तोऽपि पिभिदुस्ते न तचचम् ॥२०६ ।। क्रमाागरितो निर्मी- भीमस्तानवहेलया । रेणापोयनागा-शिशुनागानिव क्षणात् ।। २०७॥ ततः सुयोधनो दौएषा-दीमे भोकुसुपस्थिते । अज्ञावमशनस्यान्त-विषमं विपमधिपत् ॥२०८॥ सद्यःप्राणदरे तस्मिन्, दने भीमं सुयोधनः । कतान्तदन्तयन्मान्त-र्गत- पन्तममन्यत ।। २०९ ॥ प्रत्युतोर्जितमातेने, तेन भीमस्य तत्क्षणात् । “पुंसां जानरसु भाग्येपु, विपचिरपि संपदे" ॥२१०॥ क्रीडामात्रमिदं सर्व-मेतस्येति विचिन्तयन् । भीमोन कोपमलिनं, मनशके मनागपि ॥२११॥ धृतराष्ट्रतनूजास्त, निष्फ- लारम्भदुरस्थिताः । तेजोमिः पाप्पुनाणा, दन्दहान्ते स केवलम् ।। २१२ ।। १ राणगाणि। २ पतुरः । ३ सः ।
पाण्डव- कौरवाणां बालक्रीडा। तेषां कला- म्यासः॥ विदित्या विदुरस्तेपा-मेनमुच्छृहलं कलिम् । विजने भीष्ममुख्यानां, पुरस्तादिदमभ्यधात् ॥ २१३ ।। अमी वर्महराः सर्वे, प्रतिमोत्कर्षशालिनः । कुमाराः समजायन्त, तन्नोपेक्षितुमर्हथ ॥ २१४ ॥ कलाकलापोपनिष-विपण्णमनसो यथा । एते भान्त्युपाध्यायात्, प्रपतघं तथा धुना ॥ २१५ ।। अस्त्वेषां का कलाचार्यः, सर्वविद्यान्धिपारगः । साकासमिति पृष्टस्तै- राचष्ट विदुरः पुनः ॥२१६ ॥ अत्रैवास्ति कृपो नाम, कलाचार्यः प्रसिद्धिमाक । देवस्य शान्तनोनित्यं, यत्रासी पुत्रवा- सना ।। २१७ ॥ स वा प्रार्थनया विद्वा-नेतानध्यापयिष्यति । लभ्यतेऽयमुपाध्यायः, पुण्यैरत्यन्तपीवरैः ॥२१८॥ तत्समा- कर्ण्य गाङ्गेयः, कुमारानिखिलानपि । समाकार्य कृपाचार्य-मध्यापयितुमार्पयत् ।। २१९ ।। अध्यगीपत ते शाखं, शब्दपा. रायणादिकम् । ततः पारेभिरेऽध्येतुं, धनुर्वेदमनिर्चिदः ॥२२०॥ लघुसंधान-विच्छेद-प्रहारच्छेकपाहवः। तेषामभूवन भूयांसः, शौः सब्रह्मचारिणः ॥ २२१ ॥ इतोऽभूत् तत्र वास्तव्यः, सधर्मा विश्वकर्मणः। पुमानतिरधिर्नाम, सदाचारैकमन्दिरम् ॥२२२॥ विधोरिवानुराधाऽभूत्, तस्य राधा सधर्मिणी। कदाचिदपि या नैव, ज्येष्ठोपास्तिमपास्थत ।।२२३।। तयोः कर्ण इति ख्यातः, सुतः सत्चैकभूरभूत् । यत्रौदार्य च शौर्य च, द्वयं निःसीमतां गतम् ॥ २२४ ॥ पोपमे कुले तस्मिन् , परां वृद्धिमुपेयुपः। नलिनस्येव तस्यासीत् , उत्तमैरेव संगतिः ॥२२५॥ कलोकूपारपाराय, स्पृहयालरहनिशम् । स शिक्षा शस्त्र-शाखाणा-मियेप गुरुसंनिधौ ।।२२६॥ प्रणिपत्य कृपाचार्य-मेत्य सोऽपि खेलूरिकाम् । कुमारैः सममाधत्त, शस्त्रश्रममनारतम् ।। २२७ ॥ कृपाचार्योपदेशाल्प- १ शस्त्रैः सदृशाः । २ सहशः । ३ कलासमुद्रपारगमनाय । (४ शस्त्राभ्यासभूमिम् ।) ॥५३ ।।
स्वातिवर्षस्य सर्वतः । तेषु कर्ण-किरीटिभ्यां, मुक्ताशुक्तिपुटायितम् ॥२२८॥ आतेऽपि विद्यासर्वस्वे, कृपाचार्याद समंवतः। किरीटि-कर्णयोः प्रज्ञा, मनागपि न तृप्यति ॥ २२९ ।। क्रीडाजुषां कुमाराणां, पुरीपरिसरेज्यदा । तदीयाघातभीत्येव, कूपान्तः कन्दुकोऽपतत् ॥ २३० ॥ विदधुर्विविधोपायान्, कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते, वृथारम्भास्तु लेभिरे ॥ २३१ ॥ तेष्वेवं क्लिश्यमानेषु, वर्षीयान् पथिको द्विजः । विप्रेण सममेकेन, यूना कश्चिदुपागमत् ॥२३२॥ ततो जगदिरे तेन, कुमा- रास्ते द्विजन्मना । एतस्य कन्दुकस्यार्थे, कथं ताम्यत (थ) पुत्रकाः1 ? ॥२३३॥ इयं वो मधुरा मूर्ति-रियं यः स्फूर्तिरुत्तरा। इयं वश्चातुरी चापे, किणसंचयसूचिता ॥२३४॥ तदल्पीयसि कार्येऽस्मिन् , किमारम्भोऽयमीदृशः । “करप्राप्ये फले को हि, समारोहति भूरुहम्?" ॥२३५॥ तदेपोऽहमिदानी वः, करिष्यामि समीहितम् । इत्युक्त्वाऽदर्शयत् तेषा-मिपीकाः करवर्तिनीः ॥ २३६ ॥ मयाऽभिमन्त्रिता होताः, समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत् तासा-मेकां विप्रोऽनुकन्दुकम् ॥ २३७॥ विभेद कन्दुकं सद्यः, सा च नाराचलीलया। "सुहस्तहस्तमुक्तानि, वाणायन्ते तृणान्यपि" ॥२३८॥ अन्ते तामन्ययाऽविध्यत् , तामप्यपरया तथा । एवं परम्परायोगा-दुपादत्त स कन्दुकम् ।। २३९ ॥ भुवनाद्भुतभूतेन, कर्मणा तेन विस्मिताः। प्रणम्य बद्धाञ्जलयः, कुमारास्तं व्यजिज्ञपन् ।। २४०॥ आर्येक्षांचक्रिरेऽस्माभि-थापाचार्याः सहस्रशः। परं नृलोके नालोकि, कस्यापि प्रौढिरीशी ॥२४१॥ गुरुर्या त्वं पिता वा त्व-मस्माकमसि संप्रति । एते स्मः किंकराः सर्वे, बेहि किं करवाम ते?॥२४२॥ १ अतिवृद्धः । २ शरशलाकाः ।
पाण्डव- कौरवाणां बालक्रीडा। तेषां कला- भ्यासः॥ विदित्वा विदुरस्तेषा-मेनमुलं कलिम् । विजने भीष्ममुख्यानां, पुरस्तादिदमम्यधात् ॥ २१३ ।। अमी धर्महराः सवे, प्रतिभोत्कर्षशालिनः । कुमाराः समजायन्त, तन्नोपेक्षितुमर्हथ ॥ २१४ ॥ कलाकलापोपनिप-निषण्णमनसो यथा । एते भवन्त्युपाध्यायात्, प्रयतचं तथाऽधुना ।। २१५ ।। अस्त्वेषां कः कलाचार्यः, सर्वविद्याब्धिपारगः । साकासमिति पृष्टस्तै- राचष्ट विदुरः पुनः ।।२१६ ।। अत्रैवास्ति कृपो नाम, कलाचार्यः प्रसिद्धिभाक । देवस्य शान्तनोनित्यं, यत्रासीद पुत्रवा- सना ।। २१७ ॥ स व प्रार्थनया विद्वा-नेतानध्यापयिष्यति । लभ्यतेऽयमुपाध्यायः, पुण्यैरत्यन्तपीवरैः ।।२१८॥ तत्ममा- कर्य गाङ्गेया, कुमारानिखिलानपि । समाकार्य कृपाचार्य-मध्यापयितुमार्पयत् ।। २१९ ।। अध्यगीपत ते शास्त्रं, शब्दपा- रायणादिकम् । ततः प्रारेभिरेऽध्येतु, धनुर्वेदमनिर्विदः ॥२२०॥ लघुसंधान-विच्छेद-प्रहारच्छेकपाहवः। तेपामभूवन भूयांसः, शस्तैः सत्रह्मचारिणः ॥ २२१ ॥ इतोऽभूत् तत्र वास्तव्यः, सधैर्मा विश्वकर्मणः । पुमानतिरथिर्नाम, सदाचारकमन्दिरम् ।।२२२।। विधोरिवानुराधाऽभूद, तस्य राधा सधर्मिणी । कदाचिदपि या नैव, ज्येष्ठोपास्तिमपास्थत ॥२२३।। तयोः कर्ण इति ख्यातः, सुतः सबैकभूरभूत् । यत्रौदार्य च शौर्य च, द्वयं निःसीमतां गतम् ॥ २२४ ॥ पङ्कोपमे कुले तस्मिन् , परां वृद्धिमुपेयुपः। नलिनस्येव तस्यासीत् , उत्तमैरेव संगतिः ५२२५॥ कलाकूपारपाराय, स्पृहपालुरहनिशम् । स शिक्षा शस्त्र-शास्त्राणा-मियेप गुरुसंनिधौ ॥२२६॥ प्रणिपत्य कृपाचार्य-मेत्य सोऽपि खैलूरिकाम् । कुमारैः सममाधत्त, शस्त्रश्रममनारतम् ॥ २२७ ॥ कृपाचार्योपदेशाख्य- १ शौः सदृशाः । २ सदृशः । ३ कलासमुद्रपारगमनाय । (४ शस्त्राभ्यासभूमिम् ।) - खातिवर्षस्य सर्वतः । तेषु कर्ण-किरीटिभ्यां, मुक्ताशुक्तिपुटायितम् ॥२२८|| आवेऽपि विद्यासर्वस्वे, कृपाचार्यात् समंवतः। किरीटि-कर्णयोः प्रज्ञा, मनागपि न तृप्यति ॥ २२९ ।। क्रीडाजुषां कुमाराणां, पुरीपरिसरेऽन्यदा। तदीयाघातभीत्येव, कूपान्तः कन्दुकोऽपतत् ॥ २३० ॥ विदधुर्विविधोपायान्, कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते, वृथारम्भास्तु लेभिरे ॥ २३१ ॥ तेष्वेवं क्लिश्यमानेषु, वर्षीयान् पथिको द्विजः । विप्रेण सममेकेन, यूना कश्चिदुपागमत् ॥२३२॥ ततो जगदिरे तेन, कुमा- रास्ते द्विजन्मना । एतस्य कन्दुकस्यार्थे, कथं ताम्यत (थ) पुत्रकाः ! १ ॥२३३॥ इयं वो मधुरा मूर्ति-रियं वः स्फूर्तिरुत्तरा। इयं वश्चातुरी चापे, किणसंचयसूचिता ॥२३४॥ तदल्पीयसि कार्येऽस्मिन् , किमारम्भोऽयमीदृशः । “करप्राप्ये फले कोहि, 'समारोहति भूरुहम् १" ॥२३५।। तदेषोऽहमिदानीं वः, करिष्यामि समीहितम् । इत्युक्त्वाऽदर्शयत् तेषा-मिपीकाः करवर्तिनीः ॥ २३६ ॥ मयाऽभिमन्त्रिता घेताः, समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत् तासा-मेकां विप्रोऽनुकन्दुकम् ।। २३७॥ निभेद कन्दुकं सद्यः, सा च नाराचलीलया। "सुहस्तहस्तमुक्तानि, बाणायन्ते तृणान्यपि" ॥२३८॥ अन्ते तामन्ययाऽविष्यत् , तामप्यपरया तथा । एवं परम्परायोगा-दुपादत्त स कन्दुकम् ॥ २३९ ।। भुवनाद्भुतभूतेन, कर्मणा तेन विस्मिताः। प्रणम्य बद्धाञ्जलयः, कुमारास्तं व्यजिज्ञपन् ॥२४०॥ आर्येक्षांचक्रिरेऽस्माभि-चापाघार्याः सहस्रशः। परं नृलोके नालोकि, कस्यापि प्रौढिरीदृशी ॥२४१॥ गुरुर्वा त्वं पिता वा त्व-भस्माकमसि संप्रति । एते स्मः किंकराः सर्वे, बेहि किं करवाम ते?॥२४२॥ १ अतिवृद्धः। २ शरशलाकाः ।
पाण्डव- कौरवाई कला- कुरुवंशे पजायप-मघनीनाः सदयनि । इत्याश्वास्य द्विजः सर्वान् , प्रसन्नांस्तानवोचत ॥२४॥ अध्र्वश्रमाविलं दूर-मनेन विनयेन कः । मनो मे कतफेनेव, वारि निन्ये प्रसन्नताम् ॥ २४४ ॥ दर्शयध्वमुपाध्याय, ममेदानीं तमात्मनः । ननु युष्मा- कमातिभ्यं, भवतादिदमेव मे ॥ २४५ ॥ स हि युष्मदुपाध्यायः, कृपाख्यः स्वजनो मम । तस्यान्तेवासिनो युष्मान् , दृष्ट्वा हृष्टोऽस्मि संप्रति ॥ २४६ ॥ इत्युक्तर्मण्डलीभूय, सर्वैस्तैः परिवारितः । पार्थदत्तभुजालम्बा, प्रविवेश द्विजः पुरे ॥ २४७ ॥ गृहाभिमुखमायान्तं, तमालोक्य गुणालयम् । प्रत्युजगाम रोमाञ्च-संवर्मितवपुः कृपः ॥ २४८ ॥ स्वच्छन्दनिर्यदान- न्द-बाप्पवीचिविलोचनः । पञ्चाङ्गालिङ्गितक्षोणि-नमस्यति च तं कृपः ॥ २४९ ॥ कृपं दृशा पिवन सोऽपि, प्रसारितभुज- द्वयः । तथालिङ्गंधथा जाती, तावेकवपुपाविव ॥ २५० ॥ कृपः सिंहासने भक्या, निवेश्य तमभापत । अद्येदं मन्दिरं पूर्त, यदाक्रान्तं भवत्क्रमैः ॥ २५१ ॥ संवत्सरे समग्रेऽपि, वासरोऽयं सुवासरः । अवतारः सरस्वत्या-स्त्वं यत्रातिथिरागतः ॥ २५२ ।। अनमस्पत् कृपाचार्य-मादरेग द्विजो युवा । अभ्यनन्दत् तमाशीभिः, सोपि स्वजनवत्सलः ॥ २५३ ।। कोऽयं महात्मा? यस्येत्यं, कुरुम्चे पर्युपासनाम् । इति राजसुतैः पृष्टः, कृपः पुनरवोचत ॥ २५४ ॥ वत्साः ! सोऽयं गुरुयॊणः, कलानां कुलमन्दिरम् । अयमेव रहस्यज्ञो, धनुःपारायणे पुनः॥२५५॥ प्रख्यातः सूनुर- स्पाय-मश्वत्यामेति नामतः । नापर पितरं मूल्, योऽनुचक्रे गुणैरपि ॥ २१६ ॥' इत्याख्याय विसृष्टेषुः कुमारेषु मुदा १ ध्वजायिध्वध्वजायित्व० ' इति प्रतिद्वयपाठो'न सम्यक् प्रतिभाति । २ पान्थाः । ३ मार्गश्रमेण मलिनं-व्याकुलं मे मनः । ४ 'नमस्यामास तं' प्रतिद्वयः। द्रोणा- श्वत्थामा गमनम्। - ॥ ४४.
कृपः । द्रोणाचार्याय विधा-वातिथ्यमतिथिप्रियः ॥ २५७ ॥ प्रसन्नमन्यदा द्रोणं, व्याजहार रहः कृपः। प्रणयात् प्रार्थ्यसे किंचि-नान्यथा कर्तुमर्हसि ॥२५८|| चापाचार्यस्त्वदन्योऽस्ति, यथा न भुवनत्रये । तथाऽमीभ्यः कुमारेभ्यो, नास्तिा सप्रतिभः परः ॥ २५९ ॥ व्याकुरुष्व तदेतेभ्य-श्वापोपनिषदं निजाम् । स्थानन्यासेन विद्याया-त्रैलोक्यमथितो भव ॥२६०॥ शालिबीजं च विद्यां च, वप्तुकामैर्मनीपिभिः । सुक्षेत्रं च सुपात्रं च, विना पुण्यैर्न लभ्यते ॥ २६१ ॥ एतावद्भिर्दिनैरेते, भित्तियचित्रकर्मणाम् । मया त्वदुपदेशाना-मुपानीयन्त योग्यताम् ॥ २६२ ॥ तथेत्यङ्गीकृते तेन, गत्वा भीष्मान्तिकं कृपः। सर्वमावेदयामास, द्रोणवृत्तान्तमादितः ।। २६३ ॥ द्रोणाचार्यम- थाकार्य, सत्कृत्य कनकोत्करैः । अर्पयामास गाङ्गेयः, पौत्रान् ग्राहयितुं कलाः ।। २६४ ॥ तदा वैकटिकस्येव, माणिक्येपु सुजातिपु । संस्कारस्तेषु सर्वेषु, दिदीपे सुतरां गुरोः ॥२६५॥ संयोगो गुरुशिष्याणा-मन्योन्यं प्रीतिशालिनाम् । तेपामत्यजुतः सोऽभू-दिन्दुकैरवयोगवत् ।।२६६ ।। वृष्टिं मेघ इवाचार्यः, शिक्षा समतया ददौ । सा त्वाधारवशाधे, परिणाम पृथक् पृथक् ॥२६७ा उपदिष्टं धनुर्वेद, सर्व वेत्ति स्म फाल्गुनः । विवेदानुपदिष्टं तु, स्वयं शुश्रूपणं गुरोः ॥२६८॥ धनंजयस्य गुर्वग- संवाहनभवश्रमः । महान्तमपि हन्ति स्म, शस्त्राभ्यासपरिश्रमम् ॥ २६९ ॥ सुधास्वादु गुरोः पाद-पयः पीत्वा रजस्वलम्'। निजां कपिध्वजश्के, चित्रं प्रज्ञामनाविलाम् ॥२७०) विनयं कुर्वताऽत्यर्थ-मर्जुनेन विशेषतः । सर्वशिष्यप्रियस्यापि, गुरोरा- वजितं मनः ॥२७१।। गुरुभक्तिसुधासेक-संपच्या सितवाजिनः। शिक्षावल्लि: फलस्फाति-माततानातिशायिनीम् ॥२७२॥ १ मणिपरीक्षकस्य । २ अर्जुनः ।
मतिमापिसोध-मकरन्दकरम्पिते । शिष्यप्रश्नपुओऽस्मि-नर्जुनेनाम्बुजायितम् ॥ २७३ ॥ लक्ष्ये स्थिरे चले दूरे-ऽनप-
राद्धामर्जुनम् । पश्याने मकणोऽपि, को मनसि मत्सरी ॥२७४|| असौ साधारणः पन्थाः, पुत्रो भवति यत् प्रियः । गुणै-
गुरोस्ततोऽप्यागात् , प्रियतामर्जुनः पुनः ॥२७५॥ अबोचदेकदाऽऽचार्यो, विनयावर्जितोऽर्जुनम् । कर्तास्मि त्यां गुणैरेभि-
जगत्येकधनुर्धरम् ॥ २७६ ॥ प्रसादः स गुरोस्तच, चापचातुर्यमद्भुतम् । पार्थस्येदं द्वयं बाई, बाधते स्म सुयोधनम्
॥ २७७ ।। ।। मद्गुणैः पाण्डवैः मार्ध-मुच्छलन्मत्सरौ तदा । कर्ण-दुर्योधनौ मैत्री-मन्वभूतां परस्परम् ॥ २७८ ॥
अनघ्यायदिने कापि, गोधाधारी धनुर्धरः । बने पुप्पकरण्डाख्ये, किरीटी क्रीडितुं ययौ ।।२७९॥ अपश्यन् तत्र तूणीवत्,
पूर्णास्यमफलैः शरैः। मारमेयममेयान्त-विस्मयः कंचिदर्जुनः॥२८०॥ अभूत् तस्य मनस्येवं, तं वीक्षितवनस्तदा। अस्ति क्वापि
प्रदेशेऽस्मिन् , धुर्यः कश्विद्धनुष्मताम् ॥२८१॥ अथामावग्रतो गच्छन् , योग्यानिरतमुन्नतम् । एकं पुमांसमद्राक्षी-लक्ष्यभेदैकको-
पिदम् ॥२८२॥ संधाना-ऽऽदान-मोक्षेपु, तस्य संप्रेक्ष्य लाघवम्। पार्थस्त विस्मितोऽपृच्छन् , कोऽसि त्वं ? कश्च ते गुरुः ॥
२८३ ॥ मोऽयदद्भद्र । पल्लीन्दो-हिरण्यधनुपः सुतः । एकलव्याभिधानोऽस्मि, पुलिन्दकुलसंभवः॥२८४॥ शस्त्रतचाम्यु-
विद्रोणी, द्रोणाचार्यश्च मे गुरुः । श्रूयते धन्निनां धुर्यः, शिष्यो यस्य धनंजयः ।।२८५॥ प्रत्यावृत्तस्ततः पार्थो, विच्छाय-
बदनः पथि।आगच्छन्नुच्छलन्मन्यु-मनस्येवमचिन्तयत् ।।२८६।। कुन्दे-न्दुधवलैरेप, मां पराजयते गुणैः । शङ्के शिष्यप्रसादोऽपि,
चऽस्य गुरुणाधिकः ॥२८७॥ इति चिन्तामपीलेप-श्यामलः साथुलोचनः पार्थो व्यर्थश्रममन्यो, गुर्वन्तिकमुपाययौ ॥२८॥
१ हन्तयन्धनचर्मपट्टाधारी । २ योग्यायां-शनाभ्यासे निरतं-तत्परम् ।
द्रोणपार्थे
कुमाराणा
कला-
भ्यासः।
अर्जुनपु-
लिन्दयो
समागमः
॥ ४५ ॥
अथोन्नमय्य चिबुकं, तं स्नेहाद्गुरुस्त्रवीत् । दिनेन्दुवत् कथं वत्स!, वहसि म्लानमाननम् ॥२८९॥ कृतान्तः कुपितस्तस्य, तस्य संनिहितोऽशनिः। साक्षेपस्तक्षकस्तस्य, निकारं ते चकार यः॥२९०॥ यथार्थमवदत् पार्थः, काप्रभो ! न्यकरोति माम्।। "कि केशरिकिशोरोऽपि, केनचित् परिभूयते?"। ॥२९१॥ किं त्वाश्लिष्य पुरा प्रोक्त-स्त्वयाऽहं वत्स! ते समः । मम शिक्षा- मधीयानो, न धन्धी भविता परः ॥२९२॥ इति प्राक् सुकृताऽऽसाद्यात् , प्रसादाद्यदुदीरितम् । वचस्तत् ते भवन्मिथ्या, मनाति मम मानसम् ।।२९३॥ यत् ते शिक्षाग्रणीरेको, मयाऽद्य ददृशे वने । अहं प्रभो! पुरस्तस्य, कलां नामोमि पोडशीम् ॥२९४॥ उजगार गुरुवत्स , शिष्यो मे नास्ति कश्चन । यस्त्वया हन्त तुल्योऽपि, त्वदाधिक्ये तु का कथा ? ॥ २९५ ॥ एवं वादि- नमाचार्य-मर्जुनो विनयान्वितः । एतं वो दर्शयामीति, बदन् निन्ये तदन्तिके ।।२९६!। पादपान्तरितो भूत्वा, तत्तादृक् तस्य लाघवम् । गुरुः प्रथममालोक्य, जगाम पुरतस्ततः ॥२९७॥ आयान्तमेकलव्योऽपि, द्रोणमुद्वीक्ष्य दूरतः । आगत्य भूमि- लुठनैर्व्यपतत् तस्य पादयोः ॥२९८॥ ज्याकठोरप्रकोष्ठाई, प्रशान्तं ब्रह्मचारिणम् । चिरं संभावयामास, द्रोणस्तं सान्द्रया दृशा ॥२९९ ॥ अनवीच कुतो वत्स !, सैप शिक्षाक्रमस्तव ? । न हीदृशममाम्नायं, भवेत् कार्मुककौशलम् ॥३००। विहस्य गुरवेऽ- शंस-देकलव्यः कृताञ्जलिः । विदांकुरुत मे विद्या, द्रोणाचार्याअगद्गुरोः॥३०१॥ नासौ विद्योपदेशस्ते, मत्तः किं भाषसे मृपा ? । यथार्थ भद्र ! जल्पेति, गुरुस्वं भृशमभ्यधात् ॥ ३०२ ॥ एवमुक्तो विनीतात्मा, पल्लीपतितनूरुहः । मृण्मयं दर्शयामास, स द्रोणं द्रोण-पार्थयोः ।। ३०३ ।। पार्थः पृथुलवे- • १ अपमानम् । २ सदभ्यासं विना ।
द्रोणार्जुन पुलिन्दा समागमा दिस्यां, नफरचिंतार्चनाम् । तां गुरोः प्रतिमां वीक्ष्य, वन्दते स्म मुहुर्मुदा ॥३०४॥ एकलव्यं च पप्रच्छ, भ्रातरावेद्यतां मम । आजगाम गुरुद्रोणः, कुत्र ते नेत्रपात्रताम् ॥३०५।। सोऽप्यस्मै कथयामास, महाभाग ! मयकदा । गुरुरभ्यर्थित- थाप-गिधाहेतो रहास्थितः ॥३०६॥ तदा विनयननोऽपि, योग्योऽयोग्योऽप्यहं सखे!। हेतोः कुतोऽपि गुरुणा, सर्वधाऽपि निराकृतः ॥ ३०७ ॥ गुरुपादाः प्रसादाय, ध्यानाध्यक्षीकता अपि । भवन्त्येवेति निश्चित्य, प्रदेशेऽत्र समागमम् ॥ ३०८ ॥ माक्षादिय गुरुं पश्य-नभ्यर्य प्रतिमामिमाम् । दिवानिशमिपूनस्र्य-त्रभ्यासमहमादधे ॥ ३०९ ॥ नमोऽस्तु गुरवे तस्मै, प्रमादायस्य पश्यत । मादृशो मलिनात्माऽपि, विधत्ते चापचापलम् ॥ ३१० ॥ यो हि स्मरणमात्रेण, हन्ति संतमसं भृशम् । वामोतु गुरोस्तस्प, तरणिः करणिं कथम् । ॥ ३११ ॥ इति जल्पन्तमानन्दात्-तं सरोमाञ्चकचकम् । अतुच्छपार्थवात्सल्य-विवशो गुरुरब्रवीत् ॥३१२|| पल्लीन्द्रपुत्र! चेदस्मि, गुरुरगीकृतस्त्वया । तदनार्थे कृतार्थेन, दीयतां गुरुदक्षिणा ।। ३१३ । एकलव्यस्तदाकर्ण्य, विकस्वरमुखाम्युजः । तं यमापे प्रभो ! हि, यस्तु किं तेऽस्तु दक्षिणा ? ॥३१४॥ विभवो वा शिरो वाऽस्तु, मदीयं तव दक्षिणा । एतेनाप्याघमात् ते, न विमुच्येय निधिनम् ।। ३१५ ।। इत्युक्तो गुरुरप्यचे, याचं निखिंशतोचिताम् । वामेतरकराङ्गुष्ठो, निक्षूय मम दीयताम् ॥३१६॥ तनिमम्य प्रसन्नास्या, कृतार्थमन्यमानसः । सोऽसिधेनुकया छिच्चा, गुरवेऽहुप्ठमार्पयत् ॥ ३१७ ॥ पुष्पवृष्टिः सुरैर्मुक्ता, नम्योपर्यपतत् तदा । गुरुभक्तिद्वितीयेन, कः सत्त्वेन न रज्यते ? ॥३१८॥ द्रोणाचार्योऽपि साश्चर्यः, प्रीतचेतास्रपानतः। तमा- १ ध्यानेन प्रत्यक्षीकताः । २ क्षिपन् । ३ गुरुभक्तिः द्वितीया यस्मिन् तेन । ॥४६.।
शिष्याभ्यधावत्स !, दुष्करं कृतवानसि ॥ ३१९ ।। अतःप्रभृति कोदण्ड-मगुलीमिरपि स्फुटम् । आकर्षन्नपराद्धेपुः, कदाचिन्न भविष्यसि ॥ ३२० ॥ इति प्रीत्या तमाश्वास्य, व्यावृत्तो वर्त्मनि व्रजन् । गुरुर्धनंजयेनैत-द्विनयादन्वयुज्यत ॥३२१॥ तैस्तैः शिष्यगुणैः काम-मुपेतोऽपि प्रभो ! त्वया । असौ गुणैकगृह्मण, कथं न ग्राहितः श्रमम् ? ॥३२२॥ इति पर्यनुयुक्तोऽथ, द्रोणाचार्योऽप्यचीकथत् । शृणु कारणमत्रार्थे, वत्स ! त्वं गुरुवत्सल ! ॥३२३॥ शस्त्रे शास्त्रे च केनापि, मा स पार्थोऽति- शय्यताम् । इयं मम प्रतिज्ञाऽस्मि-नवज्ञाहेतुतां ययौ ॥३२४॥ यथार्थमिदमासाद्य, गुरोरुत्तरमर्जुनः । मेने प्रत्युपकाराय, प्राणानपि न किंचन ॥ ३२५ ॥ अथागत्य विनीतांस्ता-शिष्यानध्यापयद्गुरुः । अमुक्ते करमुक्त च, शस्त्रे तेऽपि व्यधुः श्रमम् ॥ ३२६ ॥ अशिक्षेतां गदायुद्धं, भीम-दुर्योधनौ पुनः । कलापारंगमैर्जातं, कुमारैरखिलैः क्रमात् ॥३२७॥ शिखिपिच्छमवस्थाप्य, तालपादपमू- र्धनि | द्रोणाचार्योऽथ कोदण्डे, तानारेभे परीक्षितुर ॥ ३२८ ॥ लक्ष्याभिमुखमालीढं) स्थानमास्थाय तिष्ठत । शरस्तु' मदिरा मोच्यो, गुरुस्तानित्यशिक्षयत् ॥ ३२९ ॥ मण्डलीकृत्य कोदण्डं, गुर्वादेशानुसारतः । निक्षिप्तचक्षुपो लक्ष्ये, ते तस्थुः स्थिर- चेतसः ।। ३३० । प्रत्येकं तेऽन्नयुज्यन्त, गुरुणा किमु पश्यथ । मां च पृक्षं च लक्ष्यं च, बन्धूनेतांच पुत्रकाः। ॥ ३३१॥ तेऽप्यमापन्त पश्याम-स्त्वां चैनं च महीरुहम् । सर्वांश्च बान्धवानेतान्, लक्ष्यं चैतत् पुरःस्थितम् ॥ ३३२ ॥ तेन तद्वचसाऽs- चार्यः, सध्यथोऽन्तरचिन्तयत् । अजात्यरनवदमी, योग्या नोत्तरकर्मणः ॥ ३३३ ॥ अथ पार्थ व्यवस्थाप्य, तथैव गुरुरादि- १ स्सलितवाणः ।
कुंमाराणां मिसमातिः। शत् । प्रेक्षे चन्द्रकमेवाई, पिच्छेऽस्मिन्निति सोऽवदत् ॥ ३३४ ॥ तामर्जुनगिरं श्रुत्वा, निश्चिक्ये मुदितो गुरुः । राघावेधोप- देशस्य, योग्योऽयमिति चेतमि ।। ३३५ ।। अन्यदा स्वर्णदीतोये, मञ्जनाय गुरुर्ययो । कुमारा अपि सर्वेऽपि, सुबिनीवास्त- मन्वयुः ॥ ३३६ ॥ मजन्तमन्त सलिलं, गम्भीरिमगुरुं गुरुम् । जङ्घाकाण्डेऽथ जग्राह, ग्राहः कश्चिदृढग्रहः ॥३३७ ।। स विक्र- मकलासारान् , कुमारानखिलानपि । अलंभूष्णुरपि ग्राह-निग्रहाय समादिशत् ॥ ३३८ ॥ अगाधजलदुर्गस्थं, ते च तं हन्तु- मक्षमाः । उदासांचक्रिरे सर्वे, गुरोः पार्श्वचराश्विरम् ।। ३३९ ।। अकिंचित्करतां तेपां, विभाव्य गुरुरादरात् । मुखमालोकया- भास, प्रयाहोः किरीटिनः ॥३४०॥ गुरुं रक्षन् निजग्राह, ग्राहं पार्थः पतत्रिभिः। "हस्तवांश्च मनस्वी च, किं न कुर्याद्ध- सुर्धरः ?" ।। ३४१॥ द्रोणाचार्योऽथ पार्थाय, पृथुदोर्यिशालिने । राधावेधोपदेशाख्यं, प्रददौ पारितोपिकम् ॥ ३४२ ॥ प्रदत्तोपनिपत्तेन, भृशं रेजे धनंजयः । वार्धिविश्राणितसुधा-सर्वस्व इव वासवः ।। ३४३ ।। आकलय्य कुमारांस्तान् , सर्वविद्यास्वधीतिनः । द्रोणाचार्योऽथ भीष्मा-रुपेतं पाण्डुमभ्यगात् ।।३४४ ॥ सत्कृत्य विष्टरेऽभ्यर्ण, स भूपेनोपवेशितः । अभापत समां दन्त-ज्योत्स्नाभिः नपयनिर ॥ ३४५ ॥ महाराज ! कुमारास्ते, समस्ते- ऽप्यसनमनि । परमां प्रौढिमारूढाः, परीक्ष्यन्तां ततोऽधुना ॥ ३४६ ।। अभिनन्ध गुरुं प्रीत्या, राजा विदुरमादिशन् । पुरी- परिमरे रम्ये, पत्ता रङ्गभूरिति ॥३४॥ अपशल्यां समां सौम्या, सुवमभ्यर्णपाथसम् । अदर्शयत् तदोपेत्य, विदुरस्य गुरु- स्ततः ॥ ३४८ ॥ तत्रादृतेन गुरुणा, निर्मिते बलिकर्मणि । विदुरोऽपि क्षितीशार्थ, प्रेक्षागारमकारयत् ॥ ३४९ ।। अवरोध- १ गगानदीजले । २ समुद्रण दत्तं सुधासर्वस्वं यस्य सः । ३ जलसमीपस्थाम् । PHin सज्यता प्रतिद्वय०।४ पाहतो-फ़ैदिकाल गरीगसी । उशिवर्गयोग्यांक्ष, मनानुशाननीकरत् ॥ ३५० ॥ दिने गुरुसमादिटे, दूताहता महीभुजः । गल गभानसंगा-गिरीनिय गुगारगः ॥ ३५१ ॥ सहितो धृतराष्ट्रेण, जाहषीयेन गान्तिः । प्रेक्षागारमगात् पाण्डा, पुपतिशारिसमा ॥ २५२ ॥ कुन्सी निजानजाना, पिकमालोफनोरगुफा । सरायरयादिभिस्ता, समं श्वश्रूभिराययो ॥ १२ ॥ माराखपरीशाया मागर-योगपारिणाग । रेगे समाजो निवर्गाज-प्रीतिसंमीलितस्तदा ॥३५४॥ द्रोणाचार्य- छापालामौ.विधायुपपाणिनिः । रानुपातिक सार्भ, जे पागिशसा सदा ॥ ३५॥ युधिष्ठिरं तदा भीम-कर्ण-दुर्यो- भमा-गार । मलाषा गुरुर पारा-पता भगदर्शने ॥ २५६ ॥ कैपित ते मारेष. गणा-भाधपिरोविणः । कोदण्डे दर्शगामासु-निज शिक्षारा फौशलम् ॥३५७॥ तेपामा गाणसंधाना- मेरपि । एकमे ना 'का. फरागागासिगास्तदा ॥ २९८॥ रांगरत्सु गशालक्ष्णं, ताणेषु नभोगणे । भयेन रोजगन्ति म. सतपेसिपी बनाः ॥१९॥ राजगतनगोपो, रक्षणभेदे पदे पदे । साधु साध्विति लोकस्य, कलः कल- फसोभात् ॥ २० ॥ स्थिर सौ फेषि-शाप मुष्टिताम् । पापिला दर्शगागासु-स्ते राङ्गादिपु कौशलम् ॥ ३६१॥ 'नो गल्तानी ग. पाणिभुक्तापासपर । समस्तेऽप्यायुधे फेषि-पुरुशिक्षा विपक्षणाः ॥ ३६२ ॥ भयोगमा शासनविधो गुधिष्ठिरः। तोफष सा निक्षेप, सग्दामसपशो पशः ॥ ३६३ ॥ एका लक्ष्ये निचि- ory litil Kit गुनिभताम् । तस्मिन् वीरगयनिष्पन्पा, फोटिसंख्या जनः पुनः॥३६४॥ असावचिन्त्यमाहात्म्य-प्रवीकृतtime नि भनागरिता ३ रामपुपको।
कुमाराणा
परीक्षा।
भीमदुर्यो-
धनयोः
परीक्षा
जगत्रयः । असावशेपशौण्डीर-चूडारत्नमनुत्तरम् ॥ ३६५॥ असावनुपमन्याय-पथैकपथिकोत्तमः । असावनन्यसामान्य-सत्य-
पूवरचाक्रमः ॥ ३६६ ।। इत्थं लोककृतां श्लाघां, श्रुत्वाऽतिप्रीतयेतसः । पुण्डरीकोपमाः पाण्डो-दृशः पेतुर्युधिष्ठिरे॥३६७॥
(विभिर्विशेषकम् ) रथी सोऽथ रथारूढा, प्रौदविक्रमसंक्रमः । निशेष दर्शयामास, शस्त्रकौशलमात्मनः ॥३६८ ॥
अथ तौ नित्यसंहृष्टौ, दुर्योधन-वृकोदरौ । गदायुद्धाय संनद्धौ, रङ्गोत्सङ्गेऽवतेरतुः ॥ ३६९ ॥ रङ्गेण रङ्गगगने, सूर्या-
चन्द्रमसाविव । ती प्रदक्षिणचारीभि-रभितश्चेरतुश्विरम् ॥ ३७० ॥ तौ विस्मयेन पश्यन्त-स्तदा दिविपदो दिवि । फलमाक-
लयामासु-नेत्रयोनिनिमेषयोः॥३७१|| दुर्योधने च भीमे च, पक्षपातात् पृथक् पृथक् । एकाऽपि परिपत् तत्र, द्वैधीभावमुपा-
ययौ ॥ ३७२ ॥ धैर्य दुर्योधनस्याहो !, भीमस्याहो सुसौष्ठवम् । इति लोकप्रशंसाभिः, शब्दाद्वैतं तदाऽभवत् ।। ३७३ ।।
ततो हदि स्थितो भीम-प्राणनाशोपदेशकृत् । गुरुर्दुर्योधनस्योच्चै-गिरामास मत्सरः ॥ ३७४ ॥ ततो लोचनोः किंचि-
गान्धारीतनुजन्मनः । क्रोधाश्रयाशज्जालेव, प्रादुरास पिशङ्गता ॥ ३७५ ॥ धृतराष्ट्रतनजस्य, क्रोधान्धस्य शरीरतः ।
स्वेदविन्दुबजव्याजा-निर्ययुर्मत्सरोर्मयः ॥३७६।। ततो वीक्ष्य तदाकार, निर्विकल्पमना अपि । विदाञ्चकार परित-स्तदाकृतं
वृकोदरः ॥ ३७७ ।। क्रोधधूमधजस्फूर्ज-मसंचयसंनिभः । उज्जृम्भते स्म भीमस्य, मूर्ध्नि मूर्धरुहोचयः ॥ ३७८ ॥
क्षणाद्दशनभीत्येव, स्फुरति स्मौष्ठपल्लवः । तस्याङ्गान्यपि रोमाञ्च-व्याजात् प्रासानसज्जयन् ॥३७॥ कोपाटोपादधावेतां,-
तावुद्गुणगदौ ततः । संहारमारुतोता-विव विन्ध्य-हिमालयौ ।। ३८० ॥ संजग्माते न तो यावत्, प्रहाराय परस्परम् ।
१ 'ससृष्टौ' इत्यपि क्वचित् पाठः । २ आश्रयाश:-अग्निः । ३ धूमध्वजा-अमिः । ४ कुन्तास्राणि । ५ उत्क्षिप्तगदी।
॥४८॥
अभापिष्ट गुरुस्ताव-दश्वत्थामानमात्मजम् ॥३८१॥ वत्स ! वत्सौ महावीरौ, निवारय जवादिमौ । मा भूत् क्षोभः क्षणादेवं, रङ्गस्यास्य गरीयसः ॥३८२॥ उभावपि ततस्तेन, वारितौ गुरुखनुना | ताघुपाविशतां स्थानं, साहित्यौ निजं निजम् ।।३८३।। निवार्य तूर्यनिष|पं, रोदसीभेदभैरवम् । कोलाहलं च लोकानां, गुरुर्गिरमवोचत ॥ ३८४ ॥ यो मे पुत्रादपि प्रेयान् ,. प्राणेभ्योऽपि प्रियंकरः । सर्वाताम्मोधिपारीण-स्तं पार्थं पश्यताधुना ॥ ३८५ ॥ आनद्धोभयतूणीरः, करोपहितकार्मुकः । बद्धगोधानुलित्राणः, कवचच्छन्नविग्रहः ॥ ३८६ ॥ ततो विवेश बीभत्सु-गिरान्तःसदर्स गुरोः। मध्येसुरपुरं यन्तु-यत्तेनेव सुरद्विपः ।। ३८७ ॥ (युग्मम् ) त्रिजगत्येकवीरोऽय-मयमस्रविदां वरः । कुरुगोत्रप्रदीपोऽय-मयं भुवनरक्षिता ।। ३८८ ॥ तेजसामेकधामाय-मयं न्यायनिकेतनम् । कीर्तीनां कुलवेश्माय-मयमुत्साहमन्दिरम् ॥ ३८९ ॥ इत्यानन्दाजनैरुक्ताः, शृण्व- न्त्याः सर्वतो गिरः । प्रस्रवेण समं कुन्त्याः, पेतुः प्रीत्याऽश्रुविनुषः ॥३९० ॥ (त्रिभिर्विशेषकम् ) धृतराष्ट्रस्य पाण्डोश्च, पुलकच्छमना पहिः । फाल्गुनं पश्यतोर्जाताः, शुभेस्नेहारा इव ॥ ३९१ ॥ दिदृक्षयेव पार्थस्य, लोकवक्त्रेषु राकया । एत्यामावस्यया तस्थे, गान्धारीवदने पुनः ॥ ३९२ ॥ संर्सजनोत्थितैस्तैस्तै-रर्जुनस्तुतिघट्टनैः। दिदीपे कोपसप्ताःि, सुयोधनशमीतरौ ॥ ३९३ ॥ कर्णस्तु सर्वशस्त्राब्धि-कर्णधारभुजोर्जितः । सार्जुनं तं जनं हन्तु-मियेप प्रस्तुतस्तुतिम् । ॥ ३९४ ॥ कलितोद्दण्डकोदण्ड-मालीढस्थानमास्थितः। किरीटी ददृशे साक्षा-द्धनुर्वेद इवाङ्गवान् ॥ ३९५ ॥ जन- स्याभून्मुदा तूर्य-निनादैरभिनन्दितः । ब्रह्माण्डमाण्डमेदीय, कलः कोलाहलो महान् ॥ ३९६ ॥ उपजग्मुषि विश्रान्ति-मथ १ स्वस्थौ । २ अर्जुनः । ३ नियन्तुः । ४ अर्जुनम् । ५ ‘सुतस्ले० ' प्रतिद्वय० । ६ ससत्-सभा ।
कुमाराणां
परीक्षा।।
तस्मिन् कथंचन । अनकौशलमात्मीयं, दर्शयामास फाल्गुनः ॥ ३९७ ॥ लक्ष्ये चले स्थिरे स्थूले, लघीयसि च लाघवम् ।
के नाम विस्मयं नापुः, पश्यन्तः सव्यसाचिनः १ ॥ ३९८ ॥ दृढानि दृढमुष्टित्वा-हुभेद्यान्यपि मिन्दिना । जिष्णुना
वैरिवारस्य, दृढ़ चेतोऽप्यभियत ।। ३९९ ।। तस्मिन् बहूनि चित्राणि, विचित्राणि वितन्वति । चित्रीयन्ते स्म के नाम, न
मायदोर्मदा अपि ॥ ४०० ॥ शरग्रहण-संधान-समाकर्षण-मुक्तयः। शतशो लक्ष्यभेदाश्च, तस्यैक्ष्यन्त समं जनैः॥ ४०१॥
न पत्र निपतन्ति स्म, नायना अपि रश्मयः । लक्ष्यं तत्राप्यणीयोऽपि, भिन्दन्ति स्मार्जुनेपवः ॥ ४०२ ॥ चक्रवद्रमतो
लोह-वपुपो यत्रपोत्रिणः । निचखान मुखे पश्च, बाणान् युगपदर्जुनः॥४०३ ॥ राधावधादिकं तत्तत् , पार्थोऽन्यदपि
दुष्करम् । करोति स्म यदालोक्य, सुरैरपि विसिमिये ॥ ४०४ ॥ चक्र-प्रास-गदा-खड्ग-प्रभृतिष्वपि कौशलम् । शस्त्रेषु श्वेत-
वाहस्य, निर्वाहमगमत् परम् ॥ ४०५ ॥ क्षणात् प्रांशुः क्षणाद्रस्वः, क्षणाद्भूमौ क्षणादिवि । क्षणावू क्रीडनयकोहे, तत्र
जिष्णुरदृश्यत ।। ४०६ ॥ मत्रास्त्राण्यप्यनुध्यान-मात्रजातोदयानि सः । आनेय-पारुणादीनि, कुरुभर्तुरदर्शयत् ॥ ४०७ ॥
ततः समर्थितप्राये, तस्मिन् महति कर्मणि । सभालोके च सर्वस्मि-नानन्दमकरन्दिते ॥४०८।। संवर्त-पुष्करावर्त-निवा-
नप्रियवान्धवः । भुजास्फोटघनिः कर्ण-स्फोटकृतैरवोऽभवत् ।। ४०९ ॥ ( युग्मम् ) भूभृतः किमु शीर्यन्ते ?, दीर्यते किम
मेदिनी । पतन्ति विद्युतः किंस्वित् ?, क्षुभ्यन्ति किमुताब्धयः ॥ १० ॥ विकल्पजातमित्यन्तः, कुर्वन्नद्रान्तमानसः ।
विसंस्थुलं समुत्तस्यौ, सर्वोऽथ स समाजनः ॥ ४११ ॥ (युग्मम् ) आवत्रे पञ्चभिनॊणः, पाण्डवैः सायुधैस्तदा । मूर्तिमान्
१ अर्जुनस्य । २ यन्त्रवराहस्य । ३ अर्जुनस्य । ४ उन्नतः ।
॥४९॥
परमात्मेप, महाभूतैः शरीरिभिः ॥ ४१२ ॥ अश्वत्थामान्विताः स्थाम-बन्धुरा बान्धवाः शतम् । तारका इव शीतांशु, परिवनुः सुयोधनम् ॥ ४१३ ॥ अमन्दमन्दरक्षुब्ध-क्षुभ्यदम्भोधिभैरवम् । कातरीकृतशौण्डीरं, सिंहनादं समावहन् ।।४१४॥ भुजास्फोटानुसारेण, प्रक्षिप्तनयनाम्बुजैः। विस्मयस्तिमितैस्वास-लोलैचालोकितो जनैः ॥ ४१५ ॥ भीमाकृतिरतिप्रांशुः, सासि-तूणीर-कार्मुकः । काञ्चनं कवचं बिभ्रत् , सुमेरुरिव जङ्गमः॥४१६॥ बीभत्सुं प्रति वीभत्से, क्षिपन् गुआरुणे दृशौ । रङ्गमध्यमथाध्यास्त, कर्णः शौर्यमहार्णवः ॥४१७॥ (चतुर्भिः कलापकम्) ततः कर्णः कृपाचार्य, द्रोणं च द्रुहिणोपमम् । ननाम नामिताराति-नीतिप्रहान्तराशयः ॥४१८।। ततः सगर्व सोऽवोचत्, पार्थ ! माऽनेन कर्मणा । मंस्थाः कर्मठमात्मानं, मामा- लोकय संप्रति ॥४१९॥अथ पार्थों यथा यद्यत् , कर्म निर्मितवान् पुरा। कर्णः सातिशयं तत्तत् , प्रथयामासिवांस्तथा ॥४२०॥ ततः सहर्षमुत्थाय, धृतराष्ट्रात्मजाग्रणीः । कर्णं निरिडमालिङ्गय, प्रणयादित्यवोचत ॥ ४२१ ॥ कर्ण ! त्वमेकवी- रोऽसि, त्वं त्रिलोकीविभूपणम् । त्वं धनुर्वेदविद्यायाः, परां सीमानमीयिवान् ॥४२२॥ त्वमेव चैरिदोर्दर्प-संपदा पैश्यतोहरः। त्वमेव कीर्तिनिर्यास-डिण्डिमः सर्वधन्विनाम् ॥ ४२३ ॥ इदं राज्यमिमे प्राणा, इमाः कुरुकुलश्रियः। सर्व त्वदीयमेवैत-द्रहि येन प्रयोजनम् ॥ ४२४ ॥ कर्णोऽप्युवाच मेऽस्त्येव, समस्तं सुहृदि त्वयि । प्रार्थये केवलं भूयात, सौहार्द ते मयि स्थिरम् ॥ १२५ ॥ किं तु पार्थस्य दोर्दण्ड-कण्डूतिज्वरितात्मनः । इच्छति द्वन्द्वयुद्धेन, भुजो भिपजितुं मम ॥ ४२६ ॥ गिरमाकये कर्णस्य, तामधिक्षेपपांशुलाम् । हुतो पहिरिख कोधा-अलितः फाल्गुनोऽभ्यधात् ।। ४२७ ॥ कर्ण! निर्नाम ! निर्मअन् । १ क्षुब्धः-मन्थानः । २ प्रमोपमम् । ३ चौरः । ४ अधिक्षेपेण-तिरस्कारेण पांशुलां-सपापाम् ।
कुमाराणा परीक्षा। मदीयशरसागरे । अस्रोदकैनिजस्त्रीणां, दृशः किं प्लावयिष्यसि ? ॥ ४२८ ॥ कर्णस्ततोऽत्रवीत् कोपात्, पार्थ केयं विमी- पिका । गृहाणास्त्रं हराम्येप, सर्व गर्व तयाधुना ॥ ४२९ ॥ ततो द्रोणाम्यनुज्ञातः, प्रगृह्य सशरं धनुः । युद्धश्रद्धाय कर्णाय, कपिकेतुरतिष्ठत ॥ ४३०॥ तयोः समरसंरम्भ-दर्शनोत्सुकचेतसाम् । आसीत् कुसुमितेर धौ-विमानैत्रिदिवौकसाम् ॥ ४३१ ॥ तदीयसमरारम्भ- विलोकनकुतूहली । अनूरुसारथिस्तस्थौ, स्थिरीकृतरथः क्षणम् ॥ ४३२ ॥ तो प्रजाभिरदृश्येतां, रणायान्योन्यसंमुखौ । विन्ध्या- दिविपिनोत्सङ्गे, मनौ दन्तावलाविव ।। ४३३ ।। अभवन् कर्णतः केचित् , केचिदर्जुनतः पुनः । खेचरामरमानां, तदा द्वैध- मजायत ।। ४३४ ॥ पुरः कर्णस्य को जिष्णु-रिति दुर्योधनादयः । कः कर्णोऽग्रेऽर्जुनस्येति, दधु मादयो मुदम् ।। ४३५ ।। कुन्ती तु कुन्तभिन्नेव, तनयत्नेहविक्लवा । मूर्छान्धकारविधुरा, पपात जगतीतले ॥ ४३६ ॥ तां तथा विदुरः प्रेक्ष्य, प्रेष्याभिश्चन्दनद्रवैः । क्षणादाश्वासयामास, शीतैश्च व्यजनानिलैः ॥ ४३७ ॥ विपमैव गतिः काम, समरस्येवि कातरम् । पाण्डोर्वदनमालोक्य, राधेयमवदत् कृपः॥ ४३८ ॥ कुन्तीकुक्षिसरोहंसः, कुरुवंशैकमौक्तिकम् । पाण्डहेमाद्रिकल्पद्रु-वीभत्सुर्यिदितोऽस्ति नः ।। ४३९ ।। तत्त्वमप्यात्मनो ब्रूहि, मातरं पितरं कुलम् । ताम्यतस्तव चेद्राहू, रणाय कपिकेतुना ।। ४४० ॥ तां कृपस्य कृपाणाग्र-शितामाझप मार- तीम् । झटित्युत्थाय संरम्भा-दभापत सुयोधनः ॥ ४४१ ॥ किं कुलेन पितृभ्यां वा, गौरवं हि गुणैर्नृणाम् । अधिरोहति १ अर्जुनः । २ सूर्यः । ३ 'नूतनले० ' प्रतिद्वय० । ४ कर्णम् । ५ अर्जुनः । ॥५०॥ .
मुर्षान-मरविन्द किमन्वयम् ॥ ४४२ ।। रणः शौण्डीरिमापेक्षा, कुलं न काप्यपेक्षते । शौण्डीरस्तबलात् कर्णः, फाल्गुनं योधयिष्यति ।। ४४३ ॥ कि नाम सोऽपि शौण्डीरः १, क्षमते यः परानपि । न नाम सहते सिंहो, गर्जाभिः स्फूर्जतो धनान् ॥ ४४४ ॥ अथ जल्पथ नाराज्ञा, विधत्ते युद्धमर्जुनः । राज्ये कर्णस्तदङ्गाना-मभिषिक्तो मयाऽधुना ॥ ४४५ ॥ इत्युदीर्य कृपाचार्य-प्रभृतीन् धृतराष्ट्राः । कर्णराज्याभिषेकाय, तत्कालमुपचक्रमे ॥ ४४६ ॥ पुरोहितमथाहय, कर्ण स्वर्णासनस्थितम् । स्वभुक्ते सोऽगसाम्राज्ये-ऽभ्यपिश्चत् तीर्थयारिभिः॥४४७|| निष्कलङ्कमृगाकाभ, तस्य च्छामधार्यत । अर्जितं निजदोर्दण्डै-र्यशः स्वमिव पिण्डितम् ॥ ४४८ ॥ प्रेकीर्णकानि कर्णस, धूयन्ते स्म वधूजनैः। अभिपेक्तुं तमायाता, गणोर्मय इवाम्बरात् ।। ४४९ ।। चिरं जयागराजेति, शब्दोद्गारपुरःसरम् । तस्स भोगावली पेठ-4- न्दिनो विश्वनन्दिनः ॥ ४५० ॥ कर्णः प्रत्युपकाराय, ययाचेऽथ सुयोधनम् । स्थेमानमर्थयांचक्रे, सोऽपि सौहार्दसंपदः ॥ ४५१ ॥ सौहार्द हि कियन्मानं ?, प्राणा अपि तवैव मे । इत्युक्तवन्तं राधेयं, मुदाऽश्लिष्यत् सुयोधनः ॥ ४५२ ॥ ततः प्राप्ताङ्गसामाज्यः, पुनरादाय कार्मुकम् । रणारम्भाय राधेयो, दूरादाह्रास्त फाल्गुनम् ।। ४५३ ॥ साम्राज्यमद्देशाना-मुपश्रुत्यात्मजन्मनः । सरदानन्दसंदोह-विसंस्थुलपदक्रमः ॥४५४॥ स्रस्तोत्तरीयसिचयः, प्रफुल्ल- नयनोत्पलः । कर्णस्य जनकोऽभ्यागात् , तत्रातिरथिसारथिः ॥४५५॥ युग्मम् ।। कर्णः पितरमालोक्य, दूरादुत्सृज्य कार्मु- कम् । पपात पादयोस्तस्य, “देवतं हि परं पिता" ॥४५६।। अझराज्याभिषेका-मानन्दाश्रुकणोदकैः । पुनरुक्तं शिरः सोऽपि, १ पामराणि । २ स्तुतिम् । ३ मुयोधनः ।
कुमाराणां
कला-
परीक्षा।
कर्णस्य
वृत्तान्तः॥
वनजस्याम्यपिञ्चत ॥ ४५७ ।। आलिङ्गति स्म सर्वाङ्ग, सुखमुत्थाप्य सारथिः । उन्मीलत्पुलको मूप्रिं, भूयो भूयश्चचुम्ब
च ॥४५८|| विशाय विज्ञतिलक-स्तमित्य सारथैः सुतम् । कर्णमम्पर्णमागत्य, वदति स्म वृकोदरः ॥४५९॥ सूतात्मज !
न पार्थेन, कथंचिद्योजुमर्हसि । गृह्यतां प्राजनं चाप-मपहाय कुलोचितम् ।। ४६० ॥ अङ्ग ! त्वमङ्गसाम्राज्य-योग्योऽसि न
कथंचन । मृगारातिपदे हन्त, गोमायुः किमु जायते ॥ ४६१ ॥ इति व्याहरति स्वैरं, भीमे भीमभुजोजिते । आगत्य
रममाद्भात-मध्यादुर्योधनोऽम्पधात् ।।४६२।। वीराचारानभिज्ञोऽसि, भीम ! यत् कुलमीक्षसे । जुलुकाचान्तसप्ताब्धेः, कुलं
उम्भोगवस्य किम् । ॥४६३॥ तत्वान्तरं किमप्येतत् , कर्ण इत्युदित भुपि। दिव्यागलक्षणं सूती, न सूते सुतमीदृशम् ।।४६४॥
अथातिरधिराह स्म, साधु साधु सुयोधन! । असौ मे नाङ्गजः सूनु-र्यथा प्राप्तस्तथा शृणु ॥४६५।। त्रिसोतःस्रोतसि
पुरा, प्रभाते गतवानहम् । अपश्यं रत्नमञ्जूपां, पुण्यलक्ष्मी निजामिव ॥ ४६६ ॥ गृहे नीत्वा पुरः पल्या-स्तामुद्धाट्य
तदन्तरे । सकुण्डलं स्फुरत्कान्ति, बचनागोचरश्रियम् ।। ४६७ ।। राजकुअरदर्पोप्म-ध्वंससंभाविताकृतिम् । एकमालोकयं
वालं, सिंहाकमिवोगटम् ।। ४६८ ॥ (युग्मम् ) तमालोक्य कृतालोकं, पत्नी राधामथाभ्याम् । अनपत्या प्रिये ! संप्र-
त्यनेन भव पुत्रिणी ।। ४६९ ।। इत्युक्ता साऽपि मामाह, प्राणेश ! घुरोणारुणे । जाते प्राच्या दिशो वक्त्रे, स्वमोऽद्य ददृशे
मया ॥४७०।। जानामि भानुमानेत्य, सप्रसादं जगाद माम् । वत्से ! संपत्स्यते तेऽद्य, शौण्डीरतिलकः सुतः ॥४७१॥ तं
दृष्ट्वा दधती हर्ष-मुआगरमजागरम् । तदैव च त्वयाऽनेन, दिष्ट्या पुत्रेण वर्धिता ॥ ४७२ ॥ इत्याख्याते शुभे स्वमे, प्रियायाः
१ अश्वनोदनयष्टिः । २ अगस्त्यमुनेः । ३ सारथिभार्या । ४ कृतप्रकाशम् । ५ कुकमारुणे।
॥ ५१॥
पुलकस्पृशः । मपातः समाप्य, वम पालमक्षिपम् ॥४७३॥ कर्णस्याधः करं कृत्वां, सुप्तः प्राप्तोऽयमित्यसौ । प्रापितः कर्ण इत्याख्या, तनयः सुदिने मया ॥ ४७४ । स्वमे रविवितीर्णत्वा-दपरं रविभूरिति । अस्योद्यद्भागधेयस्य, नामधेयम- जापत ॥ ४७५ ॥ भवन्ति स्म गुणा पाल्या-दस्मिन्नस्मत्कुलातिगाः । पङ्के पक्केहो पृद्धिः, सौरमं तु स्वतोभवम् ।। ४७६ ॥ अगौ राजाले फापि, लब्धजन्मा न संशयः । इति कुन्दोउपलैरस्य, गुणैरनुमितं मया ॥ ४७७ ॥ असो मवंशजत्वेन, यद- विक्षिप्यते मुहुः । काकोलकुलजत्येऽपि, कुत्सनं कोकिलस्य तत् ॥ ४७८ ॥ इमामाकर्ण्य कर्णस्य, कथामतिरथेर्मुखात् । दधुः सभासदः सर्वे, विस्मयस्तिमितं मनः ॥ ४७९ ।। कुन्ती तु चिन्त- यामाग, दिष्टया जीववि मे मुतः । नेत्रयोविराबाय, ममाभूत् पारणाविधिः ॥ ४८० ॥ सैवेयं यन्मणिस्तोम-मण्डिता कुण्डलद्वयी । अहमेकैच धन्याऽस्मि, यस्याः कर्णा- नौ सुतौ ॥४८॥ कोऽन्यः स्पर्धेत पार्थेन ?, यो हि न स्यात् सहोदरः। अमृतेनादृतामीशु-रेव स्पर्धितुमर्हति ॥ ४८२ ॥ कर्णो वः सोदरो पन्धु-रिति संबन्धमादितः । समये धर्मजादीना, ज्ञाप- यिष्यामि जातचित् ।। ४८३ ॥ एवं विकल्पकल्लोलैः, कुन्त्यामानान्तचेतसि । सभायां भुजमुत्क्षिप्य, क्रुधा दुर्योधनोs- म्पधात् ।। ४८४ ॥ अभिषिक्तोऽयम पु, यादृशस्तादृशो मया । नाभीष्टो यस्य कस्यापि, स नामयतु कार्मुकम् ॥ ४८५ ॥ वामाकर्ण्य गिरं पाण्डु-गृनुपु ज्वलितात्मसु । भयोगान्तस्य लोकस्य, जज्ञे कोलाहलो महान् ।।४८६।। पाण्डोणमभापिष्ट, प्रतिद्वय० । २ फाकोल:-द्रोणकाका-काकजातिविशेपः इत्यर्थः । ३ चिरफालेन । ४ 'भीएं' प्रतिद्वय। १ चन्द्र: । ५ --
कुमाराणां
कला-
परीक्षा।
दृष्ट्वा तदसमञ्जसम् । प्रचण्ड पुत्रभाण्डाना-मकाले कलहः किमु । ॥ ४८७ ॥ एपामस्माभिरात्रि, कलामात्रपरीक्षणम् ।
कुमाराणां विरोधोऽयं, तदाचार्य ! निवार्यताम् ।। ४८८ ।। मिथो विरोधं वन्धूना-मवेक्षितुमिवाक्षमः । तदानीं च पति -
मा-मस्तगहरमाविशत् ।। ४८९ ॥ अथोरिक्षप्य भुजं द्रोणः, पाण्डवान् कौरवानपि । सिंहपोतानिवान्योन्यं, युध्यमाना-
न्यवारयत् ।।४९०।। भुजोत्कर्षाच बीभत्सोः, कुमाराणां च मत्सरात् । आनन्दश्च विपादश्च, समं पाण्डोरभूद्वयम् ||४९१॥
धृतराष्ट्र-कृप-द्रोण-गाङ्गेयादिभिरन्वित्तः । विसृज्य संमदं पाण्डु-निजमन्दिरमासदत् ॥ ४९२ ॥ कृतकर्णस्तुतिः
कश्चित् , कश्चित् पार्थस्तवोल्वणः । कश्चिदुर्योधनस्तोता, जनः स्वं स्वं गृहं ययौ ॥ ४९३ ॥
इतरेतररन्ध्रवीक्षिणस्ते, विनयाच्छादितमत्सराः कुमाराः ।
सकलासु कलासु केलियोग्या, मिलिता एव वितन्वते स्म नित्यम् ।। ४९४ ॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीम-दुर्योधनादिजन्मकुमारकलारोप-
णास्त्रदर्शनवर्णनो नाम तृतीयः सर्गः ॥३॥
॥५२॥
अथ चतुर्थः सर्गः। अथान्यदाऽवदातश्रीः, श्रीमान् पीनांसकुट्टिमः । खण्डितारातिदोष्काण्डः, पाण्डः संसदमासदत् ॥ १॥ हिरण्मयमयं भेजे, शारदाम्भोधरद्युतिः । भद्रासनं शशिकान्त-सुमेरुशिखरोपमम् ॥२॥ दधार रत्नकेयूरे, स प्रभाऽरुणिताम्बरे । वमन्या- मिव बाहुभ्यां, प्रतापं मूर्चतां गतम् ॥ ३॥ अरातिकीर्तिसर्वस्व-मावत्यैव विनिर्मितम् । स बभारोज्वलं हार-मुररस्थलविल- म्विनम् ॥ ४ ॥ शिरस्युवाह पीतानां, विपक्षमहसामिव । अमान्तमन्तः संदोहं, स रत्नमुकुटच्छलात् ॥ ५॥ कपोलदर्पणे द्रष्टु-मात्मीयकमनीयताम् । विकर्तनाविवायाती, स दधौ स्वर्णकुण्डले ॥६॥ जयप्रशस्तिमेतस्य, चामरग्राहिणीगणाः । कवणीपरणत्कार-कैतवेन वितेनिरे ॥७॥ हारयष्टिं महीपृष्ठे, तस्येव विशदं यशः । पुजयन्तः क्षितीशास्तं, प्रणम्योपावि- शन् पुरः ॥ ८॥ मणिकोटीरसंक्रान्त-मूर्तिरातेकवान्धवः । उद्यमान इव श्रेजे, शिरोभिः सोऽवनीश्वरैः ॥९॥ स्त्यानीभूयं- गतैमूर्ति-मनिः कामरसैरिव । निर्मिताः परितो चार-नार्यस्तं पर्यवृण्वत ॥१०॥ गाङ्गेय-धृतराष्ट्रादि-गुरुवर्गोऽपि गौरवात् । अलंचक्रे तदास्थान-मानन्दभरमेदुरः ॥ ११॥ यथास्थानमथासीने, सामन्ता-मात्यमण्डले । स्तुवत्सु तद्यशो विश्व-श्रोत्रानन्दिषु बन्दिपु ॥ १२ ॥ पुष्पावचूलरोलम्ब-कदम्बध्वनिडम्बरैः । मुहुर्निद्भूयमानासु, गाथकीकलगीतिपु १ सूर्यो । २ कोटीरः-मुकुटः । ३ रोलम्बा-भ्रमराः ।
॥ १३ ॥ नानासक्तीः कवीन्द्रपु, रसभङ्गितरङ्गिताः। उद्विरत्सु जनश्रोत्र-पुटपीयूपवर्पिणीः ॥ १४ ॥ विशारदेषु पुरतो, पाण्डुसभा. भरतादिमहीभुजाम् । प्रथयत्सु कथास्तथ्या, नितान्तमंघमर्पणीः ।। १५ ।। अभ्येत्य भूमिन्यस्तैक-जानुरानम्य भूपतिम् । ' यां द्रुपद- मूर्धन्यअलिमाधाय, प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥ देव सेवककल्पद्रो, द्रुपदस्य महीपतेः । आकारविदिताकृतो, दूतस्ते द्वारि वर्तते ॥ १७ ॥ जाह्नवेय धृतराष्ट्र गमनम्।। विदुराणामधाशयम् । ज्ञात्योपतिरादिक्षत्, तत्प्रवेशाय तं भुवा ॥ १८ ॥ आक्षिप्तचक्षुरालान-लालितैः केलिलोलुपैः । सविनमानमातङ्ग-बन्धुभिर्गन्धसिन्धुरैः ॥१९॥ बनायुदेश्यैर्देवाश्व-देशीयैर्मन्दरोदरे । भृशमोजस्विभिः कृप्त-नेत्ररणास्तुरङ्गमैः ॥२०॥ संगीतरङ्गनिःसङ्ग-मृदङ्गध्वनिलासिभिः । हृष्यन्नजस्रविसम्भा-दलोलैः केलिकेकिमिः ॥२१॥ वपुर्विसारिसौरभ्य- संभावितनभोऽन्तरे । निविष्टदृष्टिरुत्फाले, केलिकस्तूरिकामृगे ॥२२॥ स दूतः पूतवाभिन्दन्, संसदं शामिन्यवीम् । उपतस्थे नृपास्थानं, प्रतीहारपुरःसरः ।। २३ ॥ ( पञ्चभिः कुलकम् ) स प्रणम्य यथास्थान-मुपविश्य विशांपतिम् । विज्ञो विज्ञ- पयामास, मौलिकुलिताञ्जलिः ॥ २४ ॥ अरिबातकृतासेव !, देव ! द्रुपदभूपतिः। प्राहिणोदनणुप्रेम-प्रणयी मां त्वद- न्तिके ॥ २५ ॥ सुताऽस्य द्रौपदीत्यस्ति, प्राणेभ्योऽपि प्रियंकरा | इमां स यस्मै कस्मैचि-हातमुत्सहते न हि ॥ २६ ॥ व्यक्तं च वक्ति यः कोऽपि, राधावेवं विधास्यति । तस्मै सुतेयमस्माभिर्दास्यते पारितोपिकम् ॥२७॥ आम्नातिनो धनुर्वेदे, १ पापक्षयकारिणीः । २ अभ्रमातङ्ग-ऐरावणः । ३ वनायुदेशे-अरवस्थाने भवाः तैः । ४ अश्वशालामध्ये । ५ ' दालोले: प्रतिद्वय० । ६ इन्द्रसंवन्धिनीम् । ७ सदभ्यासवन्तः । ' .
। सर्वामित्वाऽराकोविदान् । वर्तन्ते भवतो विश्व-विश्वानन्दननन्दनाः ॥ २८॥ ततः सत्यपि दोदण्ड-मण्डने राजमण्डले । नेतुनः पूरयिष्यन्ते, नूनमेतैर्मनोरथाः ॥२९।। मचद्विपकपोला हि, मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य, नाऽऽलेख्यकरिणां कटाः ॥ ३० ॥ जगत्यामे कथानुफै-रागत्य सह सूनुभिः। सयंवरं भुवो भर्तु-स्तदलंकर्तुमर्हसि ॥ ३१ ॥ मतमादाय गाङ्गेय-प्रभृतीनां फुरुद्वहः । दूतस्य भारतीमेता-मोमिति प्रत्यपद्यत ॥३२॥ रन-कुण्डल केयूर-कारणाद्यैरनेकशः । काम- मानन्ध तं दूतं, विससर्ज विशापतिः ॥ ३३ ॥ अथ प्रतस्थे काम्पील्यं, पृतनाभिः प्रकम्पयन् । मेदिनीमण्डलं पाण्ड- मभोगीन्द्रधारितम् ॥ ३४ ॥ प्रस्थानमङ्गलं तस्य, महितस्य तनूरुहः । विदधे कुलवृद्धामि-मूर्ताभिरिव सिद्धिभिः ॥ ३५ ॥ तत्कालोन्मीलदानील-दानाम्भाश्रु(सु)- तिमि यि । द्वैतीयिकी वितन्वन्तं, कलिन्दतनयामिव ॥ ३६ ।। गर्जाभिः स्निग्धमन्द्रामिः, शिखण्डिकुलताण्डवम् । कुर्वाणं वारणाधीश-मारुरोह महीपतिः ॥ ३७॥ (युग्मम् ) दुङले कलयामास, स प्रयाणक्षणोचिते । दधचन्द्रातपाश्लिष्ट-गिरीश- गिरिविन्नमम् ॥ ३८ ॥ नासौ मदुपजीव्यस्य, रवेस्तेजः क्षमिष्यते । इति छत्रच्छलान्मन्ये, तस्येन्दुरुपरि स्थितः ॥ ३९ ॥ युधिष्ठरादयः पश, शतं दुर्योधनादयः । विविधं यानमारूढाः, परिव स्तमात्मजाः ॥४०॥ यौघहेपितैर्दन्ति-हितैरुप- पॅहितः । आविर्वभूव गम्भीर, प्रयाणपटहृध्वनिः ॥४१॥ चाहिनी हास्तिका-वीय-रथ्या-पादातमेदुरा । तमन्वगच्छदवाय, जादवीय भगीरथम् ।। ४२ ॥ निस्वाननिस्वनस्तस्य, दारयन् गिरिकन्दरान् । उधार स्वमाधार-सम्बरं स्फारयनिय ॥४३॥ १ अरमार्फ नेसुः-दुपदनृपस्य । २ गुमः-अपनतः । ३ गिरीशस्य-महादेवस्य गिरिः-फैलासपर्वतः । ४ ऊर्व पचार ।
पाण्डव
कौरवाणां
काम्पील्यं
प्रति-
गमनम् ।।
अनुकूलानिलोजूताः, स्वयंवरदिक्षया । पुरो गन्तुमिवेच्छन्त्यो, वैजयन्त्यो विरेजिरे ॥ ४४ ॥ अनुयातः स सामन्तैः, सम-
न्तात् परमर्दिभिः । साक्षात् सुरैरिव हरिः, परीतो ददृशे जनैः ॥४५॥ असौ कुन्त्या च माद्या च, याप्ययानाधिरूढया ।
वभौ गङ्गा-मुंडानीभ्यां, चन्द्रचूड इवान्वितः ॥४६॥ धृतराष्ट्रादिभिः सर्वैः, स्वस्वशुद्धान्तशालिभिः । स वभौ वल्लभावद्ध-
सझैझरिव द्रुमः ॥४७॥ सैन्धवोद्भूत लीभिः, पिदधे धर्मदीधितिः। तद्यशश्चन्द्रमाः काम, जगत्यामद्युतत् पुनः ॥४८॥ नेत्रैः
सेन्दीपरा पक्ौः, सेन्दयोऽङ्ग सवीरुधः । तदिक्षुमृगाक्षीणां, विरेजुः पुरवीथयः ॥४९।। अभिरामगुणग्राम-गरीयान् नगरथि-
यम् । अवेक्षमाणः स प्राप, प्रतोलीमतुलद्युतिः॥५०॥ अन्योन्यजङ्घासंघट्ट-सीदन्निखिलसादिका । दूत्रस्तजनोर्जस्वि-गर्जत्तुङ्ग
मवङ्गजा ॥ ५१ ॥ जाह्ववीय तुपाराद्रि-सद्मपग्रहदोदरात् । निर्जगाम चमूः पाण्डोः, शनकैः पुरगोपुरात् ॥५२॥ (युग्मम्)
कुरूणां प्रपरैश्छाया-प्रवाल-फल-फुगलैः । प्रथयामासुरातिथ्य, जाह्ववीतीरभूरुहः ॥ ५३ ॥ सैनिकानां नगोत्तुङ्ग-वीचिसं-
चारमन्धरैः । स्वेदाम्युततिराचेमे, गाङ्गेयैः पयनोमिमिः ॥५४॥ हैयङ्गवीनगोमुख्यै-ग्रामीणोपायनैरसौ। मुमुदे मेदिनीपाला,
कालः प्रत्यर्थिनां पथि ॥५५॥ रथा-श्वे-मादिभिः सीम-सामन्तानभ्युपस्थितान् । स पश्यन्नन्दयामास, प्रसादलिग्धया दृशा
॥५६॥ मनोहरसरःशैल-केलिदुर्ललिता क्रमात् । कौरवी दूरमध्वान-मतिचक्राम सा चमूः ॥ ५७ ॥
काम्पील्यस्याथ सीमान-माससाद कुरूद्वहः । प्रमोदस्तु विवेशान्त-रुत्फुल्लजनसूचितः ॥ ५८ ॥ तमभ्यगच्छदुत्स-
पि-बलोर्मितुमुलैर्दिशः । द्रुपद्रो वधिरीकुर्वन् , मृगाङ्गमिव नीरधिः ॥५९।। अम्भोदरवगम्भीरः, परस्परचमूचरैः । दूरमाक-
१ गङ्गापार्वतीभ्याम् । २ शिवः । ३ कुङ्गलः-पुष्पकलिका ।
॥ ५४॥
र्णयामाहे, वाहिनीतुमुलध्वनिः ॥६०॥ तुरङ्गमखुरक्षुण्णः, क्षोणिरेणुः परस्परम् । सस्वजे प्रणयेनेव, सैन्ययोरुभयोरपि ॥६॥ द्वयोरपि वरूथिन्यो-दुन्दुभिध्वनिभिस्तयोः । स्वैरं दिगन्तविश्रान्तः, प्रतिशब्दायितं मिथः ॥ ६२ ॥ चलौषः पाण्डजन्मा प, द्रौपदी च पताकिनी । अयुध्येतां तदा ताव-दान्यर्थपिशुनाविय ॥६३॥ ते वाहिन्यौ तदाऽन्योन्य-मेकीमायमुपागते । पकामामासतुर्गणा-पतङ्गतनये इव ॥ ६४ ॥ पदाती दुपदे जाते, संत्यज्य जयकुञ्जरम् । उज्झांचफार करटि-प्रकाण्ड पाण्डभूपतिः ॥ ६५ ॥ तौ पितत्य भुजौ प्रीत्या, सस्वजाते यशस्विनौ । अन्योन्यं विकटं पक्षो, मिमानाविव पक्षसा ॥६६॥ पार्लेपायज-नीलाम-कुरुविन्दकरम्बितम् । पिडौजसा जितेनेव, प्रतापैरुपदीकृतम् ॥ ६७ ।। रथं पवनजबालो-चालकाम्बो- जवाजिनम् । उपानिनाय काम्पील्य-काश्यपीनाथसारथिः॥६॥ (युग्मम् )॥ दत्तहस्तावलम्बस्तं, स्वयं काम्पील्यभूभुजा । पुर: प्रेहत्यताकार-मारुरोह कुरूद्वहः ॥ ६९ ॥ क्रान्तविश्वस्य तेजोभि-रुष्णरश्मेरिवारुणः । चकार कुरुनाथस्य, सारथ्यं पृथिवीपतिः ॥ ७० ॥ प्रियालापमिवान्योन्यं, प्रीत्या हातेयजातया | कुर्वाणे किक्षिणीफाणै-स्तयोश्छ। विरेजतुः ॥ ७१।। दुन्दुभिध्वनिभिस्तारै-रवश्यमुभयैरभूत् । ब्रह्माण्डमाण्डनिर्भेद-शाही पदेहासनः ॥७२॥ ईक्षांबभूव काम्पील्य-मावासै रवनी- भुजाम् । परीतं परितः प्रीत्या, पाण्डः शाखापुरैरिव ॥ ७३ ॥ तरङ्गहस्तविन्यस्त-विकस्वरसरोरुहा । मुदाऽर्धमुत्क्षिपन्तीव, ददृशे तेन जागवी ॥ ७४ । उदारमअरीसार-सहकारप्रियंकरे । विकासिपकुले फुल्ल-मल्लिकामोदमालिनि ॥ ७५ ॥ कदम्ब- द्रुपदनपसंपन्धिनी । २ ' तदाऽतीवभाव्य० ' प्रतिद्वय० । ३ पतगतनया-सूर्यपुत्री-यगुना इत्यर्थः । ४ वालवायजः- पैडूर्यमणिः । ५ कुरुविन्त:-रत्नविशेपः । ६ शातित्वेन जातया । ७ प्रहा। .
पाण्डव.
कौरवाणां
काम्पील्ये
निवासः॥
जम्यू-जम्पीर-निकुरुम्बकरम्बिते । विपाकपिङ्गनारग-पिशशितदिगन्तरे ॥ ७६ ।। असङ्गभृङ्गसंगीत-सुभगंभायुकद्रुमे । रसा-
लापाचाल-कोकिलालापशालिनि ॥ ७७ ॥ द्रुपदस्य गिराऽगृहा-निवासान् भूमिवासवः । वसन्त इव कुत्रापि, स्वःसरि-
तीरकानने ॥ ७८ ॥ (कुलकम् )
तस्मिन् विलासवापीपु, स्नायं स्नायमनेकशः । विनिन्ये सैनिकैर्दूर-मार्गचड्रमणक्लमः ॥ ७९ ॥ हित्वा हिरण्यकोटीरान् ,
फुरुपिन्दाकराशिवान् । चक्रुः सकिंशुकैः केचि-चम्पकैरवतंसकान् ॥८०॥ नित्यमेकधुरीणानि, पूर्णेन्दुकरकेन्दलैः । केचिन्मृ-
पालनालानि, मुक्ताहारपदे दधुः ॥ ८१ ॥ नवसस्तरमास्तीर्य, कि( क )केल्लिद्रुमपल्लवैः । केपि च्छायासु सान्द्रासु, पथि-
श्रान्ता विशश्रमुः ॥ ८२॥ पीयूपरसगण्डप-मदमोपीणि हर्पुलैः। नालिकेरीफलाम्भांसि, कैश्विदापपिरे भृशम् ।। ८३ ॥
मृगारिकरजाकारान्, वीक्ष्य किंभुककोरकान् । वारणेन्द्राः प्रणश्यन्तः, कथंचित्तत्र धारिताः ॥ ८४ ॥ सैकते कुसुमभ्रश्य-
परागपरिपिञ्जरे । चाहीकान् घेल्लयांच-रक्रमेण तुरगिणः ॥८५|| भारावरोहणायान्यैः, कृतयत्नशतैरपि । नाक्षम्यतीक्षक
नेतुं, सारणीवणलोलपम् ॥ ८६ ॥ क्षुद्रेतरैः परिक्षिप्ते, कदलीकेलिकाननैः । आदर्शदर्शितातङ्क-मृगागमणिकुट्टिमे ॥ ८७।।
सारणीशीकरासार-लघुसंचारमारुते । उन्मीलन्मुकुलामोद-मदिरामोदितालिनि ।। ८८ ॥ सान्द्रशीततरच्छाये, बकुलो-रु-
हस्तले । द्रुपदादेशिनस्तेनुः, पाण्डवं पटमण्डपम् ॥८९॥(त्रिभिविशेषकम् ) स्थलेभ्योऽभ्यधिकं देर्वा-सहजास्तरणा व्यधुः ।
प्रमोदमवरोधाना-मतिमुक्तकमण्डपाः ॥ ९० ॥ स्मेरयन्तोऽधिकं दर्प, श्रियः साक्षादिवर्तवः । महीरुहः श्रयन्ति स्म, सामन्ताः
१ कन्दलं नवाङ्करः । २ अश्वान ( 'बाहीक' इत्यमरकोपे) । ३ वृपयूथम् । ४ दूर्वा एव स्वाभाविकम् आस्तरणं येषु ते ।
॥५५॥
केपि कानपि ॥ ९१ ।। तस्मिन् युधिष्ठिरप्रष्ठ-कुमारकुलकैतवात् । कानने विहरन् रेजे-ऽनेकमूर्तिरिय स्मरः ॥ ९२ ॥ काम्पील्यनाथः कल्याणी-भक्तिः प्रीतेन पाण्डुना । अनुज्ञातोऽथ सानन्द-मन्तनगरमाविशत् ॥ ९३ ॥ गोऽ- श्रीणयत् तथा पाण्डो-रुपचारैश्वमूचरान् । निजस्य न यथा काम, स्मरन्ति स्म पुरस्य ते ॥ ९४ ॥ शिल्पिमिः कलयामास, सर्वस्वैर्विश्वकर्मणः। संधर्माणं सुधर्मायाः, स स्वयंवरमण्डपम् ॥ ९५ ॥ महानीलमयी तत्र, बभार तल- मेदिनी । प्रतिच्छायाच्छलादन्त-द्वितीयमिव मण्डपम् ॥ ९६ ॥ नीलाश्मकुट्टिमे तस्मिन् , श्वेतसोपानभूर्वभौ । कालिन्दी- शङ्कयोद्वीचि-रारोहन्तीव जाह्नवी ॥ ९७ ॥ स्तम्भाः स्वर्णमयास्तस्मि-नश्मगर्भमयक्षितौ । वातोत्थयमुनापा-पांसुदण्ड- निभा बभुः ॥९८ ।। तस्मिन् स्वयंवरालोक-कौतुकाखिदिवाङ्गनाः। प्रतिस्तम्भमुपारूढाः, शालभञ्जीनिभा चभुः ॥ ९९ ॥ नीलवेदीपरिक्षिप्ता, क्वचिदिन्दूपलक्षितिः । वनीवलयितक्षीर-नीरधिश्रियमश्नुते ॥१०० ॥ तस्मिन् हरिन्मणिस्तम्भाः, परागप्रभाञ्चिताः । लीना(ला)नीलत्विषः कापि, तन्वते पीतवाससः.॥ १०१॥ क्वचित् कार्तस्वरस्तम्भा-स्तस्मिन्नी- लाश्मकन्दलैः । मेरं विडम्बयामासु-र्जम्बूराजिविराजितम् ॥ १०२ ॥ कचिन्नीलमणिक्षोणी-परितोऽकश्मिवेदिका । दधेऽम्भोधितटाश्लिष्ट-निर्दृष्टाम्भोदविभ्रमम् ॥ १०३|| कर्केतना-कमाणिक्य-वज-चैडूर्यकान्तिभिः । तस्य च्छन्नः करामर्शा- द्वारदेशोऽध्यगम्यत ॥१०४ ॥ नीलाश्मद्वारशाखांशु-श्रेणिरुत्पलकोमला । तत्र शाश्वतिकं दधे, कदलीस्तम्भविभ्रमम् ॥१०५॥ संभ्याम्भोदसनामीनि, तत्प्रदेशेष्वनेकशः । शिल्पिनः पञ्चरूपाणि, वितानानि वितेनिरे ॥१०६॥ तस्मिन् मुक्तावचूलेपु, स्थान- १ कालिन्दी-यमुना । २ कृष्णस्य ।
स्वयंवर-
मण्डप
रचना ॥
स्थानावलम्बिपु । पेतुर्मधुव्रतवाताः, पुष्पस्तवकशङ्किनः ॥१०७॥ तस्मिन् भान्ति स्म संक्रान्त-कान्तपालम्बमौक्तिकाः। पुप्पो-
पहारहारिण्यः, सदैव मणिभूमयः ॥१०८॥ कुर्चतः सर्वतः स्वर्गि-विमानश्रीविमाननाम् । नृपस्तं परितो मश्चा-नुच्चकैर्निरमापयत्
॥१०९ ॥ विश्वकर्माऽपि निर्माण-नैपुण्यमवलोकयन् । मन्ये तच्छिल्पिनामैच्छ-दन्तेवासित्वमात्मनः॥११०॥ नानारतमयं
तेपा-मैकैकमपि पश्यतः। द्रुपदे स्वर्गलुण्टाक-वासना कस्य नाभवत् १॥१११॥ तानालोक्यात्मनः संप-छोपाशङ्कापिशाचकी।
भूमौ लुठन रमत्युच्चै-रद्यापि ध्रुवमर्णवः॥११२॥ सुदुस्तपतपाक्लेश-प्राप्त नूनमवेक्ष्य तान् । अनिन्धत गतानन्दः, सुरैः स्वसिवै-
श्रमम् ।। ११३ ॥
स्तम्भमुत्तम्भयामास, हेमं मध्येवयंवरम् । पञ्चालभूपति म्यू-द्वीपान्तर्मेरुविभ्रमम् ॥ ११४ ॥ रेजुर्भमन्ति चत्वारि,
पामं चत्वारि दक्षिणम् । रत्नचक्राणि नक्षत्र-चक्राणीवास्य मूर्धनि ।। ११५ ।। भाति स्म रत्नपाञ्चाली, मूभिं तेपामवादमुखी
। तद्धमोग्रजवालोक-कौतुकेनेव निश्चला ॥ ११६ ॥ अधः स्तम्भस्य दम्भोलि सारैरिव विनिर्मितम् । राजाऽमुश्चत् क्रमायातं,
देवताधिष्ठितं धनुः ॥ ११७ ॥
अथ मौहूर्तिकादिष्टे, दृष्टे पूर्णशुभग्रहैः । उच्चस्थैश्वास्थिते लग्ने, प्रीतिनिर्मनमानसः ॥ ११८ ॥ पञ्चालपृथिवीपालः, साय-
मर्वाचि वासरे । प्रातराहूतये दूतान् , प्राहिणोत् प्रतिपार्थिवम् ॥११९॥ (युग्मम् ) तदा रविरलंकर्तु-मिव द्रुपदनन्दिनीम् ।
रत्नमारमुपादातु-माशु रत्नाकरेऽविशत् ।। १२० ॥ वयं दैवीयोवास्तव्याः, स्वयंवरकुतूहलम् । न द्रक्ष्याम इतीवाशा-स्तमः-
१ वैशसं-विनः । २ प्रथमे ।.३ दूरतरनिवासिन्यः ।
॥५६॥
श्यामास्यतां दधुः ।। १२१ ॥ कला काऽप्यस्ति भूपानां, द्रौपदीप्राप्तिकारणम् । इति ज्ञातुमना मन्ये, कलानां निधिरुद्ययौ ॥१२२ ॥ पाञ्चाली नयनौपम्य-महमेव लमे परम् । इत्यवश्यमिदं हर्पा-दुन्मिमील महोत्पलम् ।। १२३ ॥ पाञ्चालीस्पृह- यालूनां, भूभुजामथ मन्मथः । मुमोच मार्गणश्रेणि-मीर्ण्ययेव समं हृदि ॥ १२४ ॥ अरोप्वनल्पसंकल्प-सूनुसंतापशान्तये । रचयांचक्रिरे केचि-आडवीमसरोरुहाम् ॥ १२५ ॥ द्रौपदीयदनाम्भोज-प्रतिस्पर्धितया स्फुटम् । अभूत् केपांचिदानन्द-निन्दु- रप्यास्पदं रुपाम् ॥१२६॥ नहोलयद्भिरत्युष्ण-निःश्वासपवनोमिमिः । शातितः शीतिमा कैश्वित्, कदलीदलमारुतैः ।। १२७॥ भ्रातर्जानी हि जातेय-मस्मदुत्सङ्गसगिनी । सुहृदं केचिदित्यूचुः, कार्मुकाभ्यासकर्मठाः॥१२८ ॥ अङ्गारीयति हारोऽयं, हिमां- शुस्तपनीयति । तमस्तोमीयति ज्योत्स्ना, स्वैगुप्तीयति पङ्कजम् ॥ १२९ ॥ नाडिका यामकल्पाऽद्य, यामोऽभूधामिनीसमः । यामिनी वर्षदेश्या च, धिफेयं विपरीतता ॥ १३०॥ द्वीपान्तरेऽपि कस्याश्चित् , स्वयंवरमहोत्सवम् । रविरालोकयत्यद्य, नाभ्यु- देति किमन्यथा ? ॥१३१॥ इति द्रुपदकन्याग-संगमोत्सवमिच्छताम् । बभूव सर्वभूपानां, कोटियामेव यामिनी ॥ १३२ ॥ (चतुर्भिः कलापकम् । ) अन्तर्विचिन्त्य पाण्डस्तु, दोर्दण्डानात्मजन्मनाम् । अपास्तचिन्तासंतापः, सुखी सुष्वाप निर्भरम् ॥१३३॥ कुरुवंशाहराणां त-द्विलोक्य ललितं वपुः। पणं पश्चालभूपालः, स्वं निनिन्द मुहुर्मुहुः ।। १३४ ॥ इत्थं पृथ्वीभुजां नाना-विकल्पाचान्तचेतसाम् । कृच्छुलब्धाल्पनिद्राणां, विरराम विभावरी ॥१३५॥ दिगुद्भूतारुणो दा, बभासे शार्तमन्यवी १ सङ्कल्पसूनुः-फामः । २ उच्छलद्भिः । ३ नाशितः ध्वस्त इत्यर्थः । ४ चन्द्रः। ५ स्वगुप्ता-लताविशेपः 'रीसामणी इति भापायाम् । ६ ऐन्द्री-पूर्वा इत्यर्थः । ,
द्रौपदी-
स्वयंवरा
सकाश्मीरागरागेव, पत्यौ भास्वत्युपेष्यति ॥ १३६ ।। राजाऽस्मि निर्वसुः प्रात-लजिष्ये राजमण्डले । इत्यालोच्येच पीपूप-
पुर्तिर्देशान्तरं ययौ ।। १३७ ॥ मुक्ताकणभ्रमादुचैः, पाश्चालीहारहेतवे । उचितानीव केनापि, नक्षत्राणि क्षणाद्ययुः॥ १३८ ।
कलयपि ममोच्छेद-कारीन्दुः किमु निर्मलः।। कृष्णास्येन्दुर्विधातेति, भियेव विभिदे तमः॥ १३९ ।। संमुखं सर्वभूपाल-
मनोभिरभिभावितैः । रविः करेजिनाकृष्य, पूर्वाद्रिमधिरोपितः ॥ १४० ॥ राजन्यमुखराजीव-सरोराजीवकानने । तुल्यमु-
ल्लासयन् भानु-नभोगणमगाहत ॥ १४१ ॥
अथ काम्यतमाकल्प-कल्पनाल्पेतरश्रियः । मञ्चानारोढुमौत्सुक्या-द्धावन्ति स्म धराभुजः ॥ १४२ ॥ मजुलैमङ्गलातो.
यै-न्दिकोलाहलैरपि। विहाय विकमचक्षुः, शनैनिंद्रां सुखासिकाम् ॥१४३॥ विधाय विधिवत्सर्व-प्रातःकृत्यानि कृत्यवित् ।
प्रतिपाल्य मिलसैन्य-सामन्तामात्यमण्डलम् ॥ १४४ ।। औचित्यरचिताकल्पान्, कल्पवृक्षारानिव । कुमारान् स्वान् पुर-
स्कृत्य, नित्यदोर्दण्डमण्डनान् ॥ १४५ ॥ ययौ स्वयंपरं पाण्डु-रखण्डमहिमोदयः । रम्यं च मञ्चमारोहत् , काम्पील्यपति-
दर्शितम् ॥ १४६ ॥ (चतुर्भिः कलापकम् ) सिंहासने स नीलाश्म-मयूखपरिवेपिणि । स्वरक्षार्थमयःशाल-शालिनीव
न्यविक्षत ।। १४७ ॥ यद्वकायानिव न्याया-नुत्साहानिव देहिनः । वपुष्मन्तीव तेजांसि, मूर्वान् कीर्तिचयानित्र ।। १४८ ॥
कुमारान् मारजैत्रांस्तान् , पश्यतां काश्यपीभुजाम् । राज्येऽप्यभवदाच्छेद-शङ्कापकाविलं मनः ॥१४९॥ (युग्मम्) साक्षादिव
धनुर्वेद, वीरं रसमिवाङ्गिनम् । ज्योतिर्विवर्तमुत्तीर्ण-मादिपुंस इवाचनौ ॥ १५० ॥ तेषामपि विशेषेण, विलोक्य कपिकेतनम् ।
१ इष्टतमभूपणानां रचनयाऽनल्पशोभावन्तः । २ ज्योतिषां समूहः । ३ अर्जुनम् ।
॥५७॥
नात्मानमपि के नाम, विस्मरन्ति स्म भूभुजः ।। १५१ ॥ (युग्मम् ) तनूरुहपरीवार-स्तस्मिन् रेजे स राजके । पाण्डुर्वद्ध- फला कल्प-शिखरीवावशिषु ॥ १५२ ॥ अथ स्वयंवरागार-मानेतुं नित्ययौवनाम् । साधु प्रसाद(घ)यामासुः, प्रीतिप्रहाः प्रसाधिकाः ॥ १५३॥ अलक्तकरस- स्तस्याः, पादयोनिहितो वभौ । जितैः पङ्केरुहैः शङ्के, स्वकान्तिरुपदीकृता ॥ १५४ ॥ तस्याः स्वर्णाभमत्यच्छ-चन्दनच्छु- रितं वपुः । विभर्ति स्माभ्रकच्छन्न-प्रदीपकलिकोपमाम् ॥ १५५ ॥ तस्या विम्बोष्ठयोर्व्यक्त-मलक्तकरसच्छलात् । आदधे रागसर्वस्व-निधानं कुसुमायुधः ॥ १५६ ।। अरौलनीलभ्रूवल्लि-प्रतिविम्बविडम्बिनी । बभौ कपोलयोस्तस्याः, कस्तूरीपत्रव- छरी ॥ १५७ ॥ तस्याः शके दृशौ पुष्प-धन्वनः केलिदीर्धिके । लावण्यजलजॅम्बाल-मञ्जुलं कजलं पुनः ॥१५८ ॥ तस्याः स्म भासते भाले, गनाभिललाटिका । कृताक्रान्तिरिय क्रुद्धो, विधुवुद्ध्या विधुतुदः ॥ १५९ ॥ धम्मिल्लो मल्लिदा- माक-स्तस्या मूर्धन्यधारयत् । मुक्तवैरमिथःश्लिष्ट-शशिर्वर्भानुविभ्रमम् ॥ १६० ॥ असौ विशदकौशेय-संवीतवपुरावभौ । तपस्यासमये गङ्गा-धीचिश्लिव पार्वती ॥१६१॥ तस्याश्चकासे माणिक्य-किरीटकिरणोत्करः । उदेष्यत इवानङ्ग-तरणेररुणो- दयः ॥ १६२ ॥ निर्मलः संपदे सद्यः, श्रितानामिति नान्यथा । द्विरुक्तिमीयतुस्तस्याः, कुण्डले तेन गण्डयोः ॥ १६३ ॥ कर्णोतंसमणिव्याजा-देत्त्य देवः स्वयं स्मरः । तस्याः कटाक्षविक्षेप-निदेशाकाहया स्थितः॥१६४ ॥जगजिगीपोः कामस्य, तस्या वक्षःस्थकाश्रमे । तपस्यतोऽक्षमालेव, भाति स्मैकावलिच्छलात् ॥ १६५ ॥ परितो रत्नकेयूर-मरीचिपटलच्छलात् । २ वन्ध्यवृक्षेषु । २ द्रौपदीम् । ३ अराला-वक्रा । ४ जम्माल:-सेवालः । ५ कस्तूरितिलकम् । ६ स्वभानुः-राहुः । ७ अभ्रकः ।
द्रौपदी-
स्त्रयवरः॥
रागोऽन्तर्मानसं तस्याः, प्रविविक्षुरिवैश्यत ॥ १६६ ॥ लक्ष्म्यादिललनाकीर्ति-मावत्येव विनिर्मिते । करयोः कङ्कणे मुक्ता-
मये तस्या विरेजतुः ।। १६७॥ तस्याश्वकासे जपने, रसनागुणनिस्वनः । तुमुलः कामसैन्यस्य, निवासानिव गृङ्गतः ।।
१६८ ।। सकारमुखरौ तस्याः, पादपोर्मणिनू पुरौ । विभ्राजेते स्म सर्वाङ्ग लक्ष्मीवैतालिकाविव ॥ १६९ ॥ इति प्रसाधिता
माऽभू-दतिमानमनोहरा । कामं रम्या हि वासन्ती, वसन्तश्रीवतंसिता ।। १७० ।।
अथ बन्धुपुरंधीणा-मुलूलुपनिवन्धुरे । स्फुरत्यम्भोधिगम्भीरे, विश्वतस्तूर्यनिःस्वने ॥ १७१ ॥ उन्मीलत्यभितो वैता-
लिककोलाहले मुहुः । वेत्रिणां यद्धतमुले, मूर्च्छत्युत्सारणाघनौ ॥ १७२ ॥ किंकिणीकाणनिर्वाण-पुष्पोचूलालिनिक्कणम् ।
तपनीयपताकान्त-मूर्छन्मार्तण्डदीधिति ॥ १७३ ॥ विमानरबमारुह्य, नरवाद्यं नृपात्मजा । व्योमाकमिन्दुलेखेव, स्वयंवर-
मनातरत् ।। १७४ ॥ ( चतुर्भिः कलापकम् )
तां भवानीभ्रमानेत्रै-रेकहेलानिपातिभिः । भूपाः सौभाग्यभाग्याय, भेजुरिन्दीवरैरिव ॥ १७५ ॥ तस्मिशिल्पाद्भुते
विश्व-शिल्पिनः कन्पफामये । दूदिौ)त्यायेव मनः सर्वे, प्राहिण्वन्नवनीभुजः ॥१७६॥ तां पश्यन्तोऽतिनिर्बन्धात् , सर्वेऽप्यु-
भुजस्तदा । स्वनेत्रायापि तेऽकुप्य-निमेपमधिकुर्वते ॥ १७७ ॥ तां दृशामुत्सवज्योत्सा-मेवमेवापि पश्यते । ईर्ष्यामा-
सुर्मुहुः प्राण-प्रियाय सुहृदेऽपि ते ॥ १७८ ॥ समस्तकरणस्तोम-स्तैस्तदा निखिलैरपि । व्यापार लोचनस्यैव, कलयनभ्य-
लक्ष्यत ॥ १७९ ॥ तेषामनीक्षमाणस्य, मृगाक्षीं तां शतक्रतोः। निन्दास्पदं तदा नेत्र-सहस्रतयमप्यभूत् ॥ १८०॥
१ 'निक्वणः' प्रतिद्वय० । २ किङ्किणीशब्देन शान्तः पुष्पमयध्वजपटस्थभ्रमराणां शब्दः यस्मिन् तत् । ३ 'मूर्छ' प्रतिद्वय० ।
॥ ५८॥
प्रलोभनाय तचेतो-मृगस्य स्वैरचारिणः । रोमहर्पमिपादेते, दधुर्दूहरोत्करान् ।। १८१ ॥ जगन्नयनपीयूप-नवकादम्बिनी- मिमाम् । पश्यन्तश्चिन्तयामासु-रन्तः सर्वेऽपि भूभुजः ॥१८२॥ भुवनस्य य एवास्य, निर्माताऽस्याः स एव न । तदीयशिल्प- सीमा हि, स्थिता गौरी-न्दिरादिपु ।। १८३ ।। यद्वा तस्यापि यः कवि-दाचार्यः शिल्पकर्मणि । त्रिलोकीमण्डनं नून- मियं तेनैव निर्ममे ॥१८४ ॥ मुखेन्दू रचयत्यस्या, नित्यराकामयीं महीम् । जडप्रकृतिरेवाय-मुद्गच्छन्मृगलाञ्छनः ॥ १८५ ।। चक्षुर्निमञ्जदेतस्या, लावण्यक्षीरसागरे। उरोऽन्तरीपमासाद्य, नितिं लभते यदि ॥ १८६ ॥ इत्यादीन् कोटिशस्ता- स्तन्वन्तः स्मेरितस्मराम् । विलोकयन्तः पाञ्चाली-मचेष्टन्तेति भूभृतः॥ १८७ ॥ तस्याः किमिह वास्तव्या, लक्ष्मीरभ्येति तुल्यताम् । इतीवालोकयांचक्रे, कश्चिल्लीलासरोरुहम् ॥१८८ ॥ अन्यस्य कर- मारूढा-मप्याच्छेत्तुमलंतमाम् । इमामहमितीयांसं, मुहुः कश्चिदवैक्षत ॥१८९॥ निपतन्ति मयि स्वैरं, कुतोऽमी स्मरमार्गणाः ।। इतीव पार्वतः कश्चित् , पश्यति स्म मुहुर्मुहुः ॥१९०॥ कश्चिदैक्षिष्ट कस्तूरी-तिलकं रत्नकङ्कणे । भालाक्षरलिपीस्तस्या, लाभा- येव निभालयन् ॥ १९१ ॥ राधावेधे तवैवास्मिन्, मुखमीक्षामहे वयम् । इतीव भुजमस्पृक्षत् , कोपि केयूरकैतवात् ।।१९२॥ कश्चित् कृषितपुष्पेपु-शरपातभयादिव । प्रावारवाससा चक्रे, सर्वाङ्गमवगुण्ठनम् ॥ १९३ ॥ कश्चिन्नागरखण्डानि, खण्डयन् दशनाकुरैः । प्रकुप्यतः स्मरस्याग्रे, क्षिपतीव मुखेऽङ्गुलीः॥१९४॥ वहिविभाव्यमानाऽपि, योगिनीवेयमीक्ष्यते । कथमन्तरितीवा- न्यो, हृदयं मुहुरैक्षत ॥१९५॥ परिभ्रष्टमिव क्वापि, निजमालोकयन्मनः । लिलेख कश्चिदानम्रः, पादाङ्गुष्ठेन पीठिकॉम् ॥१९६।। १ 'मुखेन्दौं' प्रतिद्वय० । २ उर एव द्वीपम् । ३ 'स्मारित' प्रतिद्वय० । ४ पृथ्वीम् ।
द्रौपदी-
स्वयंवरः।
इत्यापि नभावेपु, तेषु सर्वेषु राजसु । चिक्षेप क्षोणिभृत्कन्या, स्वभावसरलां दृशम् ॥१९७॥ पाण्डोः पुत्रांस्तु पञ्चापि, विभा-
व्य मधुगकृतीन् । धृति यवन्ध ताक्षुः, पणमुवीक्ष्य चाधृतिम् ॥१९८|| विमानादथ रम्भेव, देवभूमीभृतस्तले। हेममूर्तेरधो राधा-
स्तम्भस्येयमवातरत् ।।१९९॥ तस्मिन्नूटमधस्तिर्य-संक्रान्तप्रतियातना । पाञ्चाली काममेकापि, वभार बहुरूपताम् ।।२००॥
ऊर्धाकृत्य भुजं लोक-तुमुलं प्रतिषिध्य च । धृष्टद्युम्नस्ततो वाच-मुवाच द्रुपदात्मजः ॥२०१॥ दोर्दण्डचण्डिमा-
कान्त-जगतो जगतीभृतः। गिरमेतामुभाकर्णि, सर्वेऽप्याकर्णयन्तु मे ।। २०२ ॥ साक्षीकृत्य वियत्यर्क-सिद्ध-गन्धर्व-खेच-
रान् । धितौ च ललना-चाल-गोपालप्रमुखं जनम् ॥ २०३ ॥ इदमस्मत्कुलोत्सं, देवताशतसेवितम् । चापमारोप्य यः
कोपि, राधावेधं विधास्यति ॥ २०४ ॥ भुवनाद्भुतसौभाग्य-भागिनी भगिनी मम । शौण्डीर्यवेतनं तस्मै, कृष्णेयं
कल्पयिष्यते ।। २०५ ॥ (त्रिभिर्विशेषकम् )
अधाम्युनिष्ठतो भूपान्, कार्मुफ़ारोपकर्मणि । प्रगल्भवाक्प्रतीहारी, याज्ञसेन्यै व्यजिज्ञपत् ॥२०६ । भूपतिर्दमदन्तो-
ऽयं, रिपुदन्तिमदान्तकृत् । चापारोपार्थमुत्तस्थौ, देवि ! त्वामभिलापुकः ॥ २०७॥ श्रियो विहितविश्रान्ते-र्यस्य दोर्द-
ण्डमण्डपे । भाति वैयपर्यक, इब ज्याकिणपद्धतिः ॥ २०८ ॥ संमुखीनक्षुतेनाय-मागच्छन् विनिवारितः । आसने पुनरमा-
स-तेजोहानिरुपाविशत् ॥ २०१॥
उत्तिष्ठत्येप वामाक्षि !, घरो नाम धराधवः । नवालवालं (लो) यत्कीर्ति-वीरुधो मथुरापुरी ॥ २१० ।। यच्छुद्धान्त-
१ नेरुपर्वतस्य
| 8 प्रतियातना-प्रतिमा । २ 'वेतने' इति वा पाठः । ३ द्रौपद्ये ।
॥ ५९॥
पधूनेत्र-कअलैलकेलिपु । हतैरिव यभूवेयं, कालिन्दी कालिमास्पदम् ॥ २११ ॥ यमुनाया इवासः, प्रकामश्यामलत्विषः । तन्यते तन्नि ! यन्नेत्रा-नन्दं पृन्दावनद्रुमाः ।। २१२ ।। उपत्यकावने यस्य, क्रीडतः प्रेयसीजुपः । विलासवेश्मतां यान्ति, गोवर्धनगिरेगुहाः ।। २१३ ॥ किमेप पर्पदं राज्ञा-मवज्ञायोपहासिनीम् । अवतीर्यावनौ मञ्च, पुनरप्यधिरोहति ॥ २१४ ॥ विराटाधिपतिः सोऽय-मासनादुचलनिय | लक्ष्यते मृगशावाक्षि !, वीरलक्ष्मीस्वयंवरः ॥ २१५॥ कान्ती कीर्ति- संहति घामारोदुमियोचकैः । देवि ! यस्यांसशैलान-मश्रान्तं श्रीरशिश्रियत् ॥ २१६ ।। करसंपर्कमासाद्य, यस्य सूते धनु- लता | शरश्रेणी च कीर्ति च, युगपद्वैरिदुःसहाम् ॥ २१७ ॥ भूपतिः किमयं भूमि-मागत्य कियतीमपि । जातस्तम्भ इवा- कस्मा-त्तस्थौ चित्र इवार्पितः ॥ २१८ ॥ असौ चैरिमनःशल्यं, शल्यो नाम सुमध्यमे !। उअिहीते जगन्नेत्रा-नन्दी नन्दिपुरेश्वरः ॥ २१९ ।। आरोहति परां कोटिं, गुणवापस्य चास्य च । परेभ्यः शरणायाता-नरातीनपि रक्षतः ॥ २२० ॥ यत्खड्गदण्डे निःश्वास-पवनं पीवयत्यपि। स्फुरन्ति चित्र शत्रूणां, भाले घर्मोदविन्दवः ।। २२१ ।। उल्लसदैवतज्योतिः-पराहतविलोचनः । चापमप्येतदन्जाक्षि, क्षमते नायमीक्षितम् । ॥ २२२ ॥ फुमारः सहदेवोऽयं, देवि ! देवसमाकृतिः । दूरादुपहसन्नेनं, झगित्यासनमत्यजत् ॥ २२३ ॥ अस्ति दोर्विक्रमाक्रा- न्त-विखण्डक्षितिमण्डलः । जैत्रकीर्तिर्जरासन्धो, राजा राजगृहेश्वरः ।। २२४ ॥ आहुतीकृत्य भूदेवो, यश्चक्रोदर्चिपि द्विपः । १ 'प्रेयसीयुतः 'प्रतिद्वय । २'संह' प्रतिद्वय० । ३ पर्धयति । ४ पकानी । .
द्रौपदी- स्वयंवरः॥ प्रतापं वर्धयामाम, यशश्वागमयद्दिवम् ।। २२५ ॥ नमद्भूपालभालेपु, राजेति लिपिमुल्पणाम् । असूययेव लुम्पन्ति, यस्य पादरजःकणाः ॥ २२६ ॥ आस्थानीमास्थिते यस्मि-निदेशैकाभिलापिणः । अश्रान्तमेव तिष्ठन्ति, देवा अप्यौपंजानुकाः ॥ २२७ ।। तस्मादमौ महातेजाः, प्रदीप इव पावकात् । अजायत जगजैत्रो, जयन्त इव वासवात् ॥ २२८ ।। शुचिर्यद्विक्रमस्ता- लु-बारीणि रिपुयोपिताम् । भालन्योमाङ्कमारोप्य, वर्पत्यथुकणच्छलात् ॥ २२९ ॥ आत्मनैकधुरीणेऽस्मिन् , न्यस्तविश्वंभरा- भरः । अपरां पियग्राम-चिन्तां वितनुते पिता ॥ २३० ॥ कोदण्डमिदमादाय, कौन्तिदायादचन्द्रिके! । पुनर्विमुञ्चत्यानम्य, मोऽयमप्युल्लमप्रपः ॥ २३१ ॥ कृशाङ्गि शिशुपालोऽयं, दीनामधिदैवतम् । वान्धवैरुपरुद्धोऽपि, राधावेधाय धावति ॥२३२।। खड्गेनाम्बुभृता सिक्ताः, प्रतापग्रीप्मतापिते । हृदये नोदगुः कस्य, यस्य विक्रान्तिवीरुधः ।। २३३ ।। शौण्डीहिंकृतीः काम, निर्वास्य चिरवासिनी (नी) तेनिरे येन वास्तव्या, विद्विपां हृदये भियः॥ २३४ ॥ क्षगं वाणावलीयपन् , जिहीर्णोः किल रुक्मिणीम् । चक्रे यश्चक्रिणो- ऽप्यन्तः, शङ्कापकाकुलं मनः ।। २३५ ॥ अरिकीर्तीः क्षिपस्ताराः, पद्मोल्लासं दिशन् युधि । प्राक्सन्ध्यां करिसिन्दूरै-र्यस्य काल: करोत्यमिः ॥ २३६ ॥ कार्मुकं नमयन् बाहु-सारसर्वाभिसारतः । अयमप्यवनीपालैः, सस्मितैरवलोक्यते ॥ २३७ ॥ देवि ! ददिनुत्थास्तु-रपि मित्रोपरोधतः । नृपः कोऽयमभ्यर्ण-मम्येति धनुपः शनैः ॥ २३८ ॥ धनुर्वेद- १ जानुसमीपे स्थायिनः । २ भोगसमूहचिन्ताम् । ३ कान्तिविभागग्राहिणि ! चन्द्रिकावत् आनन्ददायिनि । ४ शिशुपालस्य । 'कृती' प्रतिप्रयपाढो न सम्यग् भाति । ६ 'वासिनी' प्रतिचतुष्टयपाठो न सम्यग् भाति ।
कृतं शान-चक्षुरागवस्थितम् । प्रयोगे पुनरेतस्य, ततोऽपि पुरतोऽगमत् ॥ २३९ ॥ समरे येन निर्माय, मण्डपं काण्डपतिमिः । पाणौ चक्रे परामना, द्विषां श्रीरपि रक्षिता ॥ २४० ॥ मार्गणाः संगरे यस्य, पश्चान्मुश्चन्ति कार्मुकम् । द्विषां प्राणास्तु तद्भेद-भियेव पुरतो ययुः ॥ २४१ ॥ संयुगे यस्य पश्यद्भि-रिष्वासाभ्यासलाघवम् । स्वीर ः कृतकृत्येव, मन्यते निर्निमेपता ॥ २४२ ॥ दत्ते लक्ष्यमसौ प्राणा-नप्यस्य रिपर्वः पुनः । तत्कं स्तुम इतीवावा-मुखा यन्मार्गणा रणे ॥२४३॥ अथास्यामिति जल्पाक्या-मुन्मीलेत्स्वेदमेदुरा । श्यामीभवन्मुखाम्भोजा, पाञ्चालीदमचिन्तयत् ॥२४४॥सूर्तसूति- रिति ख्यातो, जगत्येकधनुर्धरः । अस्मिंश्च रमते हन्त, मनो मे न मनागपि ॥ २४५ ॥ रति त्वेतेऽङ्गजन्मानः, पाण्डोस्ता- ण्डवयन्ति मे । विडम्बयितुमारब्धा, तत्कि नामास्मि वेधसा ? ॥ २४६ ॥ मया पद्धोञ्जलि ढ-मयं वः कुलदेवताः।। रक्षणीयः पतिः पाण्डो-रात्मजेभ्यो ममापरः ॥ २४७ ॥ इति पृथ्वीपतेः पुत्री-मन्तश्चिन्तां वितन्वतीम् । व्याजहार प्रती- हारी, पुनः श्रोत्रामृतं वचः॥ २४८ ॥ हेलया चापमारोप्य, हठग्रहकुतूहली । राधावेधी न राधेयो, जनन्या नामसाम्यतः ॥ २४९ ॥ परं त्वत्कुलदेवीनां, प्रभावग्रहतौजसः । न हि स्वयंवरक्षोमे, कस्यापि प्रभविष्णुता ॥ २५० ॥ बल प्रद्युम्न-साम्पाद्यैः, प्रवीरैः परिवारितः। अद्याप्यासीन एवास्ते, कृष्णः केनापि हेतुना ।। २५१ ॥ अन्धसा कंसरूपेण, कीनाशं भोजयिष्यता । चाणूराद्याः कृता १ . श्रीरपरिक्षता' प्रतिवयपाठः। तत्र न परिक्षवा-नष्टाऽखण्डितेति यावत् । २ देवैः। ३ ' लक्ष० प्रतित्रयपाठः ४ 'रिपयस्तु नः' प्रतिद्वय. 'रिपवस्तु न' इत्येका प्रतिः । ५ 'लखेद०' प्रतित्रय० । ६ सूतपुत्रः-कर्णः । ७ ओदनेन । - - .
द्रौपदी-
स्वयंवरः।।
चैन, तेऽफलाः फेलिकापदे ॥ २५२ ॥ कंसक्षेत्रेषु भावान् यत्, प्रतापः पत्रवल्लरीः । अशोपयत्तथा भूयः, प्ररोहन्ति स्म नो
यथा ॥ २५३ ॥ वैराज्यस्य द्विपन् कचित्, स्वदायादमवेक्षितुम् । विवेश हृदि नो कस्य, यद्भुजस्तम्भविक्रमः ? ॥ २५४ ॥
वैरिनारीदृशो यस्य, ददतीवाश्रुतिवात् । प्रियस्यास्तमुपेतस्य, विलासस्य जलाञ्जलिम् ॥२५५|| वक्षोऽङ्कितं द्विपद्दन्ति-दन्ता-
घातकिर्णार्पदैः । यस्य श्रीराश्रयदुर्ग-मियानेकोऽद्रिदुर्ग्रहम् ॥ २५६ ।। असौ लोलेक्षणे ! सर्व-कर्माणभुजवैभवान् । कर्मणीह
कृतोत्साहान, सुतानपि निषेधति ॥ २५७ ।।
धृतराष्ट्राङ्गभूर्योध-लक्षयोधी सुयोधनः। स एप मातुर्गान्धार्या, रोमाञ्चेन सहोत्थितः ॥ २५८ ॥ यस्यांसशैल-
मालम्ब्य, पनपल्लवितश्रियम् । कुरुवंशः परां कांचि-दुत्तंसयति संपदम् ॥ २५९ ॥ आकृप्य प्रीतिलुण्टाकी, सुहृच्चेतोनिकेत-
नात् । योऽसूत्रयद्भियः शत्रु-मनःकाराकुटुम्विनीः ॥२६०॥ केचित्तत्कालमानम्राः, क्षणात् केऽपि पलायिताः । नास्यं यस्या-
भ्यमित्रस्या-प्यपश्यन् वैरिणो रणे ॥ २६१ ॥ त्राणाय शटुभिर्यस्य, बृहत्कटकशालिनः । उभयेऽपि निपेव्यन्ते, महीयांसो
महीभुजः ।। २६२ ॥ दर्पादिप्वाममादात, नम्रीभूतोऽपि भामिनि ! । हेतोः कुतोऽप्यसौ काम, नमस्यति महाभुजः॥२६३ ।।
अन्येपि धृतराष्ट्रस्य, सुता दुःशासनादयः । दोर्वैभवावधिं वीक्ष्य, निपीदन्ति विपादिनः ।। २६४ ।। एते तु भगदत्ता-
श्व-त्थाम-भूरिश्रवा-शलाः । जयद्रथ महासेन-चारुदेष्णादयोऽपि च ॥ २६५ ।। तथैव तस्थुर्दोःस्थाम, निजमालोच्य
१ शाकस्थाने । २ कंसभार्यासु । पक्षे सुगमार्यः । ३ चन्दनादिलेपान् । ४ अर्बुद:-पर्वतविशेषः । अम्बुदैः" इति
प्रतिपाठो न सम्यग् भाति । ५ नेकारि०' इति प्र० । ६ पर्वताः राजानश्च ।
आयुधैः।
॥६१॥
चेतसि | सतामात्मज्ञता नाम, महद्धिंमहिमास्पदम् ।। २६६ ॥ (युग्मम् ) प्रचलुमश्चतः पश्य, देवि ! भ्रूसंज्ञया हरेः। विणयस्मेरराजन्य-नेत्रनीराजिताननाः ॥ २६७ ॥ कटाक्षकोटिभिः प्रत्यु- द्याताः कस्याथिदादरात् । स्मरेपव इवोचण्डाः, पाण्डोः पश्चापि सूनवः ॥ २६८ ॥ (युग्मम् ) देवि! पञ्चभिरप्येतैः, कुलं. कुरुनरेशितुः। पाण्डवैर्मडयांचक्रे, शरीरं करणैरिख ॥ २६९॥ रसौ वीरश्च शान्तथ, व्योम्नीवार्कनिशाकरौ । तिष्ठतो यत्र किं । नाम, तस्याजातरिपोः स्तुवे ? ॥ २७० ॥ भुजैर्युद्धेष्वरिस्तोम-यमयोर्यमैयोरपि । स्वरङ्गदृशां भर्तृ-सुभिक्षं निर्ममे- तमाम् ॥ २७१ ॥ रिपुमं युधि नामापि, भीम-फाल्गुनयोः पुनः । हेरेवित्रासयत्येव, प्रतिशब्दोऽपि दन्तिनः ॥ २७२ ॥ व्योग्नि प्रस्तसुरणे, प्रहितैः कलितैः पुनः । युधि क्रीडति भीमोऽयं, कुअरैः कन्दुकैरिव ॥ २७३ ॥ अर्जुनस्य पुनर्वाणाः, शत्रुप्राणापहारिणः । अमुक्ता अपि चापेन, विविशुः कस्य नो हदि १ ॥ २७४ ॥ शरैर्यस्यारिनारीणां, लूनाः पत्रलतास्तथा । यथा सह व्यलीयन्त, कटाक्षसुमनोलिहः ॥ २७५ ॥ ईदमस्थास्नु कल्पान्त-स्थायिन्येषां तु भूरिति । मन्ये यन्मार्गणा लक्ष्य- मादायापि श्रयन्ति ताम् ।। २७६ ॥ यस्य बाणा रणे वक्षो, मनन्ति प्रतिपन्थिनाम् । तच्छुद्धान्तवधूनां तु, संसन्ते हारवल्लयः ॥ २७७॥ केयमात्तविमुक्तीना-मपि नः कर्मनिपता ? । इत्यादित्यमिव प्रष्टुं, द्यां ययुर्यच्छरा रणे ॥ २७८ ॥ धनुर्वेदोपनिषदं, पश्यन् यत्रात्मनोऽधिकाम् । गुरुर्दोणोऽपि नियतं, यं गुरुं कर्तुमिच्छति ।। २७९ ॥ इत्यस्यां वेत्रधारिण्या, धात्रीशदुहितुः पुरः । निगदन्त्यां मुदा प्राप, चापसामीप्यमर्जुनः ॥ २८० ॥ १ इन्द्रियैः । २ युगलयोः-सहदेवनकुलयोः । ३ देवीनाम् । ४ सिंहस्य । ५ हस्ते गृहीतैः । ६ लक्ष्यम् ।
द्रौपदी-
स्वस्वरा
कस्यापि विस्मयस्मेराः, कस्याप्युत्प्रासपांशुराः । क्रोधतानाच कस्यापि, दृशः पेतुः किरीटिनि ॥२८१॥ क्षणात् प्र-
दक्षिणीकृत्य, प्रणिपत्य च कार्मुकम् । ज्येष्ठबन्धोरथादेशा-दुचिक्षेप कपिध्वजः ॥ २८२ ॥ साहंकारस्सतस्तार-मुजगार
पृकोदरः । एतदत्यद्भुतं कर्म, कुर्वाणे कपिकेतने ॥ २८३ ॥ दो तो यस्य कस्यापि, शिरःशूलमुदेष्यति । गदेयमगदं-
कारः, तस्य जागर्ति मामकी ॥ २८४ ॥ (युग्मम् ) पार्थोऽप्यनमयच्चापं, समं मानैर्महीभृताम् । निनाय शिञ्जिनीकोटि-
मात्मना सह धन्विषु ॥ २८५ ॥ तदानीमासदन् कान्ति, सुहृदां वदनेन्दवः ॥ तत्प्रणुन इव ध्वान्तो, मुखमाशिथियविपाम्
॥ २८६ ॥ अमुञ्चदकुरान् कुन्ती, मनस्यानन्दकन्दलान् । गान्धारी हृदि तु स्वैर-मप्रीतिविषवल्लरीम् ॥ २८७ । आसन्
युधिष्ठिरादीनां, प्रमोदविशदा दृशः । तदा दुर्योधनादीनां, पुनर्दोपकपायिताः ॥ २८८ ।। अभूत् कर्मेदमेताय , पुरो
भवतु देवता । इत्याशंसारसा जे, द्रौपदी विवंशां दशाम् ॥ २८९ ॥ पाण्डं च धृतराष्ट्रं च, भीष्मं च गुरुरब्रवीत् ।
अर्जुनस्य भुजौर्जित्य-मितः पश्यत पश्यत ।। २९० ॥ शनकैराकृपेवत्स !, चापमेतचिरंतनम् । सहिप्यते न ते सार-मिति
भीमेऽनुशासति ॥ २९१ ॥ आसनाद्रमसोत्ताल-वाचालवदनोदरें। पश्यति द्रुतमुत्थाय, पृथिवीपालमण्डले ॥ २९२ ॥
कुतूहलान्मिलन्तीना, सिद्धगन्धर्वयोपिताम् । व्योम्नि वक्त्रैर्विमानान्त-लक्षितैः शतर्चन्द्रिते ॥ २९३ ॥ सुहृद्वपुषि रोमाञ्चः,
प्रस्वेदो द्वेपिवमणि । काण्डः कोदण्डदण्डे च, संदधे सव्यसाचिना ॥ २९४ ॥ (चतुर्भिः कलापकम् ) अथान्तस्तैल-
१ उपहासेन पापिष्ठाः । २ प्रत्यञ्चामम् । ३ 'न्दला' प्रतित्रयपाठः। ४ 'वल्लरी' प्रतित्रयपाठः। ५ 'विशदा दर्श
'विवशां दृशाम् 'प्र० । ६ शतचन्द्रवति कृते सति । ७ शरः ।
,
-
.
॥ ६२॥
कुण्डस्य, प्रतिविम्बवतामधः । जवेन भ्राम्यतां तेषां, चक्रकाणामरान्तरे ॥२९५॥ लक्ष्यीकुर्वन् नमद्वक्त्रो, राधाया वाम- मीक्षणम् । ऊर्वीकृत्य देशं पूर्वां, वक्षोऽन्तमपरां नयन् ॥ २९६ ॥ कटाक्षैः सह कृष्णायाः, कुन्त्याः प्रस्रवनिर्झरैः । पितुरानन्दवाप्पैश्च, चकर्ष धनुरर्जुनः ॥ २९७ ।। (त्रिभिर्विशेषकम् ) तथाभूतः स भाति स्म, हन्तुं देवानिवोद्यतः । दीनं च तन्मुखाम्भोज-मनीक्षितुमना इव ॥२९८॥ अदभ्रसंभ्रमैः कैश्चि-दासनात् पतयालुभिः । स्थगयद्भिः श्रुती पाणि-पल्लवाभ्यां च कैचन ॥ २९९ ॥ उद्बुद्धसाध्वसैः कैश्चित् , परिभ्रष्टोत्तरीयकैः । अतिभूरिभयोद्धान्तै-वेपमानैश्च कैश्वन ॥ ३०॥ भिन्दा- नोऽद्रितटीस्तन्वन , शब्दाद्वैतमयं जगत् । फाल्गुनाकृष्टकोदण्ड-फ्रेंकारः श्रूयते स्म सः॥३०१॥ (त्रिभिर्विशेपकम् ) मन्ये तस्माद्धनुर्धानात् , जस्तैरश्वैर्विवस्वतः । एकचक्रो रथचक्रे, मेरोरास्फाल्य सानुपु ॥ ३०२ ॥ भुजैः सह महीशानां, मार्गणो गुणमत्यजत् । विभेद मक्षु लक्ष्यं च, तदीयहृदयैः समम् ।। ३०३ ॥ क्षणार्ध्व शरः प्राप, शरैव्यं सव्यसाचिनः । लोकाग्रं पुनरासेदु-र्भुजविस्फूर्तिकीर्तयः ॥ ३०४ ॥ पुष्पवर्ष मरुत्पर्प-दुपरिष्टात् किरीटिनः । दिवोऽङ्कादमुचत् प्राप्त-मानन्द- मिव मूर्त्तताम् ॥ ३०५ ॥ विलेसुर्दिवि गीर्वाण-दुन्दुभिध्वनयोऽधिकम् । धनंजयधनुर्ध्वान-प्रतिध्वानसनाभयः ॥ ३०६ ॥ मुदा लोकस्य सर्वस्या-प्युल्ललास जयध्वनिः । सूत्रयन्मातृकां देवीं, वर्णद्वयमयीमिव ॥ ३०७ ॥ आनन्दैकमयं संप-न्मयं स्फीतयशोमयम् । तदा कुन्त्याश्च पाण्डोश्व, बभूव निखिलं जगत् ॥ ३०८ ॥ साकासमथ पश्यन्ती, दृशः कोणेन कोटिशः । सुतान् पश्चापि पाञ्चाली, पाण्डोरुद्दण्डविक्रमान् ॥३०९॥ रोमहर्पमिपा- १'दृढं.' प्रतित्रय 101 २ बाणः । ३ लक्ष्यम् ।
द्रौपदी-
स्वयंवरः॥
अल्प-स्मराकरकरेम्बितम् । वपुर्लीलापनं भूना, सिञ्चन्ती स्वेदवारिभिः ॥ ३१० ॥ स्वैरमुज्जृम्भितस्तम्भा, पृथुप्रथितवेपथुः ।
मदौ-मुक्प-प्रपा-दर्प-माध्यसस्फारचारिमा ।। ३९१ ।। परीतुकामा पश्चापि, लोकनिर्वादशङ्किता । दौवारिकीकराब्जाभ्यां,
कण्ठपीठे किरीटिनः ।। ३१२ ॥ वरमालां निचिक्षेप, सा तु दिव्यानुभावतः । लोकैः प्रत्येकमेकाऽपि, तेषां कण्ठेष्वदृश्यत
॥ ३१३ ॥ (पञ्चभिः कुलकम् ) उन्नचार ततस्तारा, व्योम्नि वागशरीरिणी । साधु साधु वृतं राज-कन्यया मा स्म शङ्कय-
ताम् ॥ ३१४ ॥ चिन्ता चतुर्णामन्येपा-मनुरूपा स्नुपाऽस्तु मे । इदानीमपयातेय-मिति कुन्ती मुदं दधौ ॥ ३१५ ॥
फिमेपामपि भाग्येन, दतभूयिष्ठसौष्ठवः । कर्मेदमादधे जिष्णु-रिति पाण्डुर्विसिष्मिये ॥ ३१६ ॥ पेरिवेत्ता भविष्यामि,
नाहमुद्वाहमालिनि । तपासुते च भीमे चे-त्यप्रीयत कपिध्वजः ॥ ३१७ ।। पञ्चभ्यस्तनयामेकां, नामीभ्यो दातुमुत्सहे ।
ददानो हि गमिप्यामि, माधूनामुपहास्यताम् ।।३१८॥ वरमाला च पञ्चाना-मपि कण्ठे लुलोठ । सा दिव्यवाक् केयमुत्तस्थौ ?,
तत् किं नाम भविष्यति ? ॥३१९॥ इति चिन्तातुरो याव-दभूद्रुपदभूपतिः । चारणश्रमणः कश्चि-त्तावदागादिवोऽध्वना
॥ ३२० ॥ (त्रिभिर्विशेषकम् )
दिशः काञ्चनकान्ताभि-दिहानं देहकान्तिभिः। परमज्योतिपःप्राप्तं, विवर्तमिव मूर्जताम् ॥ ३२१॥ तमभ्युदस्थुः पाञ्चाल-
विष्वक्सेनादयो नृपाः । स्फुरदम्भोरुहाराम-पर्वमानमिवालिनः ।। ३२२ ॥ (युग्मम् ) तमासयित्वा सर्वेऽपि, रत्न-
१ करम्वितं-सहितम् । २ प्राप्तस्तब्धता । ३ चारिमा-सुन्दरता । ४ महती । ५ " परिवेत्ताऽनुजोऽनूढे, ज्येष्ठे दारपरि-
महान् ” इत्यमरः । ६ लिम्पन्तम् । ७ पवमानः-वायुः ।
॥६३ ॥
सिंहासने मुनिम् । धात्रीलुठितमूर्धानः, प्रणेमुः पृथिवीभुजः ॥ ३२३ ॥ अथावसरमासाद्य, देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पाञ्चाल्या ?, इत्यपृच्छजनार्दनः ॥ ३२४ ॥ सोऽब्रवीदेतया पूर्व--जन्मोपात्तनिदानया । घृताः पञ्च धवास्तहोः।, कृतं मीमांसयाऽनया ॥ ३२५ ।। पुरा हि पुरि चम्पायां, भूमिदेवा- खयोऽभवन् । सोमदेव-सोमभूति-सोमदत्ताः सहोदराः ।। ३२६ ॥ तेपामासन् क्रमात्तिस्रः, प्रेमजन्मभुवः प्रियाः । नाग- श्रीरथ भूतश्री-यक्षश्रीश्चेति नामतः ॥ ३२७ ॥ मिथः स्निग्धतया तेषा-मियमासीयवस्थितिः । यत् पर्यायेण भोक्तव्यं, सर्वैरेकस्य वेश्मनि ।। ३२८ ॥ अथ क्रमात् समायाते, भुक्तिवारकवासरे । नागश्रीराश्रितानेक-रसां रसवतीं व्यधात् ॥३२९॥ कढ़तुम्बीफलं तस्या-मनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत् , पाकान्ते च कथंचन ॥ ३३० ।। नानावस्तुव्ययोद्भूतं, कार्प- ण्येन न साऽत्यजत् । केवलं कचिदेकान्ते, निधाय तदधारयत् ॥३३१॥ तदन्यैर्विविधैर्भोज्यैः, स्वादुभिः पति-देवरान् । भोज- यामास सा प्रीता, क्षणात् तेऽपि वहिर्ययुः ॥३३२॥ तदा सुभूमिभागाख्ये, पुरोधाने महामनाः। धर्मघोषाभिधः सूरि- निवान् समवासरत् ॥ ३३३ ।। तस्य धर्मरुचिः शिष्यो, मासक्षपणपारणे । किरात्या इच कल्पद्रु-र्गृह नागश्रियो ययौ ॥ ३३४ ॥ पृथा मा भूदिदं ताव-द्भवेदेपोऽपि तोपितः । इत्यालोच्य तया तस्मै, तत्तुम्बीव्यञ्जनं ददे ॥३३५ ॥ अपूर्वमिति संचिन्त्य, ततॊहानुग्रहेच्छया । असौ वसतिमागत्य, गुरूणां तददर्शयत् ।। ३३६ ।। तेऽपि तद्न्धमाघाय, वात्सल्यादिदमूचिरे। यदीदं भोक्ष्यसे वत्स !, सद्यो मृत्युमवाप्स्यसि ॥ ३३७ ।। विशुद्धे स्थण्डिले मङ्घ, तत् परिष्ठापय क्वचित् । इत्यादेशाद्गुरोः १ . सर्वेपामेव वेश्मनि' इत्येकप्रतिपाठः । २ 'व्ययोद्भूतका०' प्रतित्रयपाठः । ३ प्रहः-आग्रहः । ,
मोऽपि, जगाम नगरादहिः ॥३३८॥ विन्दौ निपतिते तस्य, कथंचित् तत्र पात्रतः। सक्ताः स मुनिरद्राक्षी-न्नियमाणाः पिपी- द्वौपदी-
लिकाः ॥ ३३९ । दध्यौ च बद्वसंवेगो, विन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता, तत्सर्व किं करिष्यति ? ॥ ३४० ॥ पूर्वभवः॥
वरमेकस्य मे मृत्युः, कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाञ्च-स्तदसौ युभुजे स्वयम् ॥ ३४१ ॥ सिद्धप्रत्यक्षमालोच्य,
ममाधिमधुरं मनः। दधत् सर्वार्थसिद्धेऽगा-न्मुनिः प्राणान् विहाय सः॥३४२॥ वहिर्धर्मरुचेः कस्मा-द्विलम्ब ? इति वेदितुम् ।
गुरुः श्रीधर्मघोपोऽथ, निदिदेश परान मुनीन् ॥ ३४३ ॥ तं परासु बहिर्वीक्ष्य, तद्रजोहरणादिकम् । आदाय गुरुपादानां,
तेऽपि मर्व न्यवेदयन् ॥ ३४४ ॥ विज्ञायातीन्द्रियज्ञानो-पयोगेन यथास्थितम् । सर्व मुनीनां नागश्री-वृत्तान्तं तेऽप्यचीक-
धन् ॥३४५॥ ज्ञात्वा कथंचिल्लोकानां, वाक्परम्परया जनाः । सोमदेवादिविप्राणां, तस्या दुश्चेष्टितं जगुः ॥३४६॥ काम-
माक्रुश्य विप्रास्ते, तां गृहान्निवासयन् । लोफैधिक्रियमाणा च, साऽपि बभ्राम सर्वतः ॥३४७॥ कास-श्वास-ज्वरो-कम्प-
कुष्ठायैः क्रान्तविग्रहा । रोगैः पोडशभिलेमे, साऽत्रैव नरकव्यथाम् ॥३४८॥ क्षु-त्पिपासादिता लोकै-निन्द्यमाना पदे पदे ।
दुःखं भ्रमन्ती मा मृत्वा, पष्ठं नरकमासदत् ॥ ३४९ ॥ तस्मादुत्पद्य मीनेषु, सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य, तस्मि-
नेव जगाम सा ।। ३५० ।। द्विढेिरेवं सिपेवेऽसौ, नरकान् सकलानपि । पृथीकायादिपूत्पेदे, तदुद्वृत्ता च भूरियः ॥ ३५१ ॥
चम्पायामध सा कर्म-लाघवात् सुकुमारिका । सुता सागरदत्तस्य, सुभद्राकुक्षिभूरभूत् ॥३५२।। जिनदत्तात्मजस्तत्र,
भद्राजथास्ति सागरः । वेश्मस्थां तत्पिताऽन्येद्यु-र्ददर्श सुकुमारिकाम् ॥३५३॥ तनयस्य मदीयस्य, योग्येयमिति चिन्त-
यन् । सह बन्धुमिरभ्येत्य, पितरं तामयाचत ।। ३५४ । सोऽप्यूचेऽतिप्रिया मेऽसौ, न भवाम्यनया विना । ममास्तु गृहजा ॥ ६४॥
माता, सागरस्तत् तवात्मजः ॥३५५॥ सुतमालोचयामीति, जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्या, मौनमालम्ब्य स स्थितः ॥ ३५६ ॥ अनिपिद्धं हनुमत-मिति न्यायेन तत्पिता । मेने सागरदत्ताय, गृहजामातरं सुतम् ॥३५७॥ आश्चर्य- कृत्योर्जज्ञे, पाणिग्रहमहोत्सवः । नक्तं शिथियतुस्तौ च, पल्यई वासवेश्मनि ॥ ३५८ ।। पूर्वकर्मवशात्तस्याः, स्पर्शमगार- सोदरम् । आसाद्य सागरस्तस्थौ, क्षणं तत्र कथंचन ॥३५९॥ तस्यां सुखप्रसुप्तायां, स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्त-मपश्यन्ती च सा भृशम् ॥३६०॥ अथादिष्टा तयोर्दन्त-शौचहेतोः सुभद्रया । प्रातक्षिष्ट तां चेटी, रुदन्ती वल्लभो- ज्झिताम् ॥ ३६१ ॥ सा गत्वाऽऽख्यत् सुभद्रायै, साऽपि स्वप्रेयसे क्षणात् । पितुरेपोऽपि जामातु-रुपालम्भं ददौ स्वयम् ॥३६२॥ सोऽप्याह तनयं वत्स !, न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत् तत्र, माऽन्यथा मद्वचः कृथाः॥३६३॥ साग- रोऽप्यूचिवानगी, वरं झम्पा तनोम्यहम् । न पुनस्तात ! गन्तास्मि, वेश्म तस्याः कदाचन ॥ ३६४ ॥ इद सागरदत्तोऽपि, तत्कुड्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा, निराशः सुकुमारिकाम् ॥ ३६५ ॥ कथंचित् सर्वथा वत्से !, विरक्तः सागरस्त्वयि । तन्मा खिद्यस्व कोऽप्यन्यः, पतिस्तव विधास्यते ॥३६६ ॥ कौपीनाम्परमात्रैक-कर्परं मक्षिकावृतम् । भिक्षुकं कंचिदद्राक्षीत्, स गवाक्षस्थितोऽन्यदा ॥३६७ ॥ आहूय तेन सोऽम्भोभिः, स्नपयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्य- वासांसि परिधाप्य च ॥ ३६८ ॥ ऊचे तुभ्यं मया दत्ता, पुत्रीयं सुकुमारिका । मदीयां विलसन् लक्ष्मी, सुखमास्स्व सहा- नया ॥ ३६९ ॥ (युग्मम् ) इत्युक्तः सोऽविशद्वास-वेश्म साकं तया निशि। मेने च तद्वपुःश्लेप-मग्निप्लोपभिवात्मनः ॥३७०॥ १ अमिदाहम् ।
द्रौपदी-
पूर्वभवः॥
महमोत्याय वेपं स-मादाय म पलायितः । तथैव रुदतीं तां च, विलोक्य जनकोऽब्रवीत् ॥ ३७१ ।। सोऽयं प्राकर्मणां वत्से,
रिपाकोन्पन्न कारणम् । तदास्त ददती दानं, शान्तात्मा मम वेश्मनि ॥ ३७२ ॥ तथैव कुर्वती तस्थौ, सा धर्मैकपरायणा ।
प्रापुम्नद्गृहमन्येद्युः, माध्न्यो गोपालिका इति ॥३७३।। शुद्धैरशनपानाद्यैः, सा भक्त्या प्रतिलाभ्य च । तन्मुखाद्धर्ममाकर्ण्य,
विरक्ता व्रतमग्रहीत् ॥ ३७४ ॥ तपोऽथ कुर्वती नित्यं, तुर्य-पष्ठा-टमादिकम् । आर्यिकाभिः सहैतामि--विहारमकरोदियम्
॥ ३७५ ।। आर्यास्ताः मा कदाऽप्यूचे, तनोम्यातापनामहम् । सुभूमिभागोद्यानस्था, दत्तदृष्टिविस्वति ॥ ३७६ ॥ सा
प्रत्यमिदधे तामि-रिति ह स्मागमोक्तयः । आतापना न साध्वीनां, कल्पते वसतेहिः ॥ ३७७ ॥ अनाकर्ण्य च तद्वाचं,
पने तस्मिन्नुपेत्य सा | यावदारभने क्षिप्त-चक्षुरातापनां खौ ॥ ३७८ ॥ तावदुत्सङ्गमेकस्य, श्रयन्तीमपरस्य तु । अङ्के
न्यस्ताद्विमन्येन, यध्यमानावतंसकाम् ॥ ३७९ ॥ परेण विधृतच्छत्रां, वीजितामितरेण च । गणिकामागतां तत्र, देवदत्तां
ददर्श सा ॥ ३८० ॥ (त्रिभिर्विशेषकम् ) तां वीक्ष्यापूर्णभोगेच्छा, निदानमिति साऽकरोत् । भवेयं तपसाऽनेन, पञ्चप्रेयस्य-
साविच ॥ ३८१ ॥ तन्यती देहशौचाद्य-मम्युक्षन्ती धणे क्षणे । वार्यमाणेयमार्याभि-मनसीदमधारयत् ॥ ३८२ ॥ पुरा बहु-
मवाऽभूव-मार्यिकाणामगारिणी । तिरस्कुर्वन्ति मामेवा, भिक्षुकीमधुना पुनः ॥ ३८३ ॥ इत्यालोच्य विनिर्गत्य, विभिन्न-
चमतिस्थिता । व्रतं सा पालयामास, चिरं स्वच्छन्दवर्तिनी ॥ ३८४ ॥ मासान् संलेखनामष्टौ, कृत्वाऽनालोच्य संस्थिता ।
नापल्योपमायुफा, मौधर्मे देव्यभूदियम् ॥ ३८५ ॥ च्युताऽभवच कृष्णेयं, प्राचीनाच निदानतः । भर्तारो जज्ञिरेऽमुण्याः,
१ मृता।
॥६५॥
पश्चैते कोऽन विस्मयः॥३८६॥ इत्येतां गिरसुद्गीर्य, जगाम नमसा मुनिः। कुर्वते चिरमेकत्रा-वस्थितिं न हि तादृशाः ॥३८७॥ पाण्डवानां वधूलाभे, दधुः स्वजनभूभृतः । विकासमुदये भानो-ररविन्दाकरा इव ।। ३८८ ॥ अथ वैवाहिकं कर्म, प्रार- भेते स्म तत्क्षणात् । पाण्डः पाञ्चालभूपश्च, लक्ष्मीसंभारभासुरम् ॥ ३८९ ॥ प्रमोदोत्फुल्लनेत्राभिः, सौधमानीय सादरम् । पाञ्चाली कुलवृद्धाभिः, स्नानपीठे न्यवेश्यत ॥३९०॥ उद्गिरन्ती बहिः स्नेहं, पाण्डुपुत्रेष्विवाऽऽन्तरम् । कृष्णा सुगन्धिभि- स्तैलैः, कृताभ्यङ्गा स्म भासते ॥ ३९१ ॥ तस्याः पिष्टातकशोद-क्षरदुद्वर्तनीमिपात् । विक्षिप्तं यौवनेनाङ्गात् , खण्डयित्वेव शैशवम् ॥ ३९२ ॥ रतेरिव निधानानि, श्रीखण्डतिलकानव । तस्याः सहर्पमञ्जपु, चक्रिरे कुलयोपितः ॥ ३९३ ॥ नवीनयो- बनावास-हेतोरिव तदङ्गके । तर्कसत्रमिपात् सूत्रं, स्वगोत्राविधवा दधुः ॥ ३९४ ।। जृम्भते स्म भृशं विश्व-श्रोत्रपीयूपवर्पिणः । कुललीलावतीवर्ग-मङ्गलध्वनयस्तदा ॥३९५।। चिक्षिपुः कुलवामाक्ष्यो, द्रौपदीमिति वर्णके । तथैव तस्याः सानन्द-मुद्वर्णक- मपि व्यधुः ॥३९६॥ अथान्तःक्षिप्तकर्पूर-कस्तूरी-कुडमैरिमाः । वारिभिः स्नपयांचक्रुः, कवोष्णैर्नित्ययौवनाम् ॥ ३९७ ॥ मार्जितं गन्धकापाय्या, पाञ्चाल्याः शुशुमे वपुः । नवमाणिक्यपाञ्चाल्या, इव तत्कालसंस्कृतम् ॥ ३९८ ॥ आचार इति तास्तैस्तै-भूपणैस्तामभूपयन् । न हि प्रकृतिरम्याणा-माहाँय काऽप्यलंकृतिः ॥३९९ ॥ लावण्यवारिधाराभि-वर्यन्तीव दशा- मिषात् । पारिणेत्रदुकूलानि, सा तदा पर्यधाप्यत्त ।। ४०० ।। उत्पाट्य योपितो हर्षा-दिमां मागृहेऽनयन् । आसयंश्च स्मर- स्मेर-लोचनां काश्चनासने ॥४०१॥ पाण्डवा अपि निर्वृत्त-वर्णको-द्वर्णकक्रियाः। निर्माय मङ्गलस्नान-मामुक्तोचितभूपणाः १ कमलाकराः। २ कृत्रिमैः ।
॥४०२ ।। औपपाह्यानथारुहा, वारणेन्द्रान् पृथक् पृथक् । समं पश्चापि पाञ्चाली, परिणेतुं प्रतस्थिरे ।। ४०३ ॥ (युग्मम् ) द्रौपदी- मौलिनीलमणिज्योति-भानुज्योतिःपराहतम् । म्ीव पिण्डितं तेपा, मायूरच्छत्रमावभौ ॥ ४०४ ॥ रेणुर्मगलतूर्याणि, पुरस्ते विवाहः।। पामनेरुगः । तारैराकारयन्तीव, दिशामीशान् प्रतिस्वनैः ॥ ४०५॥ पश्चादुच्चेरुरद्रीन्द्र-कन्दरादारणोल्यणाः । शात्रवावस्थिति- कोषा-दिव निस्वाननिस्वनाः॥४०६ ॥ सर्वकपेषु तेजस्वि-तेजसां पाण्डसूनुपु । पतन्ति नित्यमेतस्य, जगत्यां किममी 0 कराः ॥ ४०७॥ मिलत्स्सजनभूपाल-तुरङ्गमखुरोद्धतः । इतीव स्थगयामास, पांशुरंशुमतो वपुः ॥ ४०८ ॥ (युग्मम् ) अध्यामितुं मदोतो, भूपाकुसुमदाम च । सामन्तसामजेन्द्राणां, द्विरेफाः समशेरत ।। ४०९ । स्वजनो/पतिश्वेत-च्छत्रैश्छन्नं नभो बभौ । विवाहमीक्षितुं सर्व-राकेन्दुभिरिनागतैः ॥ ४१० ॥ ध्वजैविरेजे वेल्लगि-रनुकूलेन वायुना । द्रौपदीकौतुकागार- वर्तनीदेशकैरिस ।। ४११ । नारीमङ्गलसंगीत-श्रवणप्रवणाविरम् । सादिनं खेदयामासु-स्ते पतङ्गतुरङ्गमाः॥ ४१२ ।। तदा कुन्ती च माद्री च, गान्धारीप्रमुखा अपि । भृङ्गारैरद्भुतैः प्रापु-र्देवानामप्यवेक्ष्यताम् ॥ ४१३ ॥ श्रुतीमत्सरिणां तूर्यः, स्फोटपद्भिः स्फुटारवैः । आलोकनाय लोकं च, विकर्षद्भिरितस्ततः ॥ ४१४ ॥ सर्वतः स्तूयमाने च, वन्दिभिर्भुजवैभवे । अथ क्रमात् समाजग्मु-मण्डपद्वारि पाण्डवाः ॥४१५।। ( युग्मम् ) कृतं प्रतीक्ष्य श्वश्रूमि-रवतारणमङ्गलम् । मातृगेहमुपाजग्मु- स्तेय तिग्मांशुतेजसः ॥ ४१६ ॥ पाश्चाल्या दक्षिणः पाणि-स्तदीयैर्दक्षिणैः करैः । तत्र संगमयांचक्रे, वेधसेव पुरोधसा ।। ४१७ ॥ वृद्धावचोभिः पाञ्चाली, त्रपातरलितां दृशम् । कथंचिन्मिश्रयामास, दृशा पाण्डुतनूरुहाम् ॥४१८॥ ततो दधन्ति १ दध्वनुः । २ वाजिनध्वनयः । ३ सूर्यस्य । ४ सूर्यस्य ।
पश्चाङ्ग-मत्राङ्गाणीव मूर्तताम् । साक्षालक्ष्म्येव काम्पील्य-नाथनन्दनयान्विताः ॥४१९॥ वैवाहिकीचोऽधीत्य, हुतं हव्यै- व॑िजन्मना । दक्षाः प्रदक्षिणीच-स्ते वेद्यां जातवेदसम् ॥ ४२० ॥ (युग्मम् ) द्रुपदोऽप्युपदीचक्रे, पाणिमोचनपर्वणि । पाण्डवानां विना दारान्, गृहसर्वस्वमात्मनः ॥ ४२१ ॥ पिकीपञ्चमनिर्बाद-कलमङ्गलगीतयः । दुन्दुभिध्वनिभिस्तारै- राहूतपुरयोपितः ॥ ४२२ ॥ राजलक्ष्मीमिवाध्यक्षा-मादाय द्रुपदात्मजाम् । पाण्डवा रथमारुह्य, निजावासमुपागमन् ॥ ४२३ ॥ (युग्मम् ) कृष्णादिभिराप्तैः, सदारैः स्वात्मजन्मभिः । अनुद्रुतः प्रतस्थेऽथ, पाण्डुर्निजपुरं प्रति ॥ ४२४ ॥ अनुगच्छन्तमा- कम्य, कियतीमपि मेदिनीम् । बलान्निवर्तयामास, पाण्डुर्द्वपदभूपतिम् ॥ ४२५ ।। अथ प्रत्यालयोन्मील-नीलवन्दनमा- लिकम् । सर्वराजपथोत्क्षिप्त-पताकापीतपुष्करम् ॥ ४२६ ।। स्थानस्थानोल्लसन्मश्च-विमानितविमानकम् । ककुप्कुक्षिभरिक्षु- भ्य-नादकम्पितमानकम् ॥४२७॥ प्रेक्षाकौतूहलाहूत-नारीनयनपतिभिः । नवेन्दीवरकेदार-करम्बितमिवाभितः ॥४२८॥ अनुयातः सहायात-स्वजनोीशमण्डलैः । तैः सदारैः कुमारैच, पाण्डुः स्वपुरमाविशत् ॥ ४२९॥ (चतुर्भिः कलापकम् ) विहाय कृष्णं सत्कृत्य, हास्तिका-धीय-काश्चनैः । विससर्ज स्वदेशेभ्यः, सर्व राजाऽथ राजकम् ॥४३०॥ लीलाशैलोचयो- धान-केलिवापीपु पाण्डवाः। दिनान्यतीयुः क्रीडन्तः, समं कृष्णेन यामवत् ॥ ४३१॥ अथालोच्यायति स्नेहात्, कृष्णः शुभफलोदयाम् । समाहूय रहः किंचि-द्यावद्वदति पाण्डवान् ॥ ४३२ ॥ तावयोम्ना महापुञ्ज-धौतदिपुञ्जकालिमा । १ पुष्करम्-आकाशम् । १२
पाण्डवानां
नारदो-
पदेशः॥
आययौ नेत्रपीयूष-नीरदो नारदो मुनिः ॥ ४३३ ॥ प्रीतान्तःकरणः काम-मभ्युत्थानासनादिभिः । पाण्डवेभ्योऽनुशिष्टिं
स, विततार हरेगिरा ॥ ४३४ ॥
आकर्ण्य कर्णपीयूपं, युष्मदुद्वाहमङ्गलम् । प्राप्तोऽस्मि परमब्रह्म-लयादप्यधिको मुदम् ॥ ४३५ ॥ वत्साः किं त्वेकजा-
नित्वं, किंचिदन्तर्दुनोति वः । धैरवारिधरील्लास-प्रापः खलु योषितः ॥ ४३६ ॥ आरूढस्य परां प्रोटि, बन्धुनेहमहीरुहः ।
हन्त दावानलज्वाला-माहुर्मगविलोचनाम् ॥ ४३७ ॥ स्रोतस्विनीप्रवाहाणा-मिव बान्धवचेतसाम् । द्वैधीभावकरी शैल-तटीय
वरलेक्षणा ॥ ४३८ ॥ वत्साः ! कुटुम्बसंहार-कारणं हरिणेक्षणा । यथा समभवत् पूर्व-माकर्णयत तां कथाम् ॥ ४३९ ॥
अस्ति रत्नपुरं नाम, पुरं भरतभूपणम् । न यत्रार्थिजनाभावात्, कोपि त्यागीति. विश्रुतः ॥ ४४०॥ तत्र श्रीपेण
इत्यासी-दासीभूतरिपुर्नुपः । न्यायविक्रमयोपेन, धर्मः संधिकरः कृतः॥४४१|| तस्याभिनन्दितेत्याद्या, द्वितीया शिखि-
नन्दिता । प्रिये वभूवतुः प्रीति-रती इव मनोभुवः ॥४४२॥ सतीललाम सूते स्म, नन्दनावभिनन्दिता । जगदुद्दयोतनौ
प्राची, सूर्याचन्द्रमसाविव ॥४४३॥ इन्दुपेण इतीन्दुश्री-रायोऽभून्नयनोत्सवः । स्मरलीलालताकन्दो, विन्दुपेणस्ततोऽपरः
॥ ४४४ ॥ कुमारयोस्तयोः शङ्के, शास्त्रस्पर्धाऽनुवन्धतः । शस्त्रमप्यभवत् सर्व-जगतो मात्रयाधिकम् ॥ ४४५ ॥ क्रमान्मद-
सरस्वीर-सान्द्रदुर्विनयगुमम् । ती स्मरानेकपक्रीडा-वनं यौवनमीयतुः॥१४६॥ गुरुस्ताभ्यां गुणाराम-राजिनी राजकन्यकाः।
अनेकरसपीयूप-वाहिनीरुदयाहयत् ।। ४४७ ॥ तस्मिन्नेव पुरे सर्व-कलानां पारदृश्वरी । गणिकाऽनङ्गसेनेति, गुणानां जन्म-
१ दाता । २ अनेकपः-हस्ती ।
॥६७॥
भूरभूत् ।। ४४८ ॥ तस्यां लावण्यपीयूष-सरस्यां रागिणां दृशः। मजन्त्यः प्राप्य वक्षोज-कुम्भौ प्रीतिं ययुः पराम् ॥४४९॥ यूनां तदीयवैदग्ध्य-वागुरापतितं मनः । स्वच्छन्दमदनन्याध-विद्धं न पदमप्यगात् ॥ ४५० ।। द्वावप्युर्वीपतेः पुत्रौ, तस्या- सक्तमानसौ । तौ मिथः कलहायेतां, करिण्यां करिणाविव ॥४५॥ कुर्वाणो कलहं नित्य-मत्यन्तोत्रासितत्रपौ । खेदाद- न्येाराहूय, तौ महीपतिरन्वशात् ॥४५२॥ वत्सौ ! किमिदमारब्धं, मलीमसकुलोचितम् ? । कलहायेत नान्योऽपि, वेश्यार्थे किमु चान्धवौ ? ॥ ४५३ ॥ स्वल्पाऽप्युज्जृम्भते यासु, न प्रेमसलिलार्द्रता । सुखशाखिप्ररोहोऽस्तु, कस्तास्वद्रिशिलास्विव ? ॥४५४ ॥ विलोकन्तेऽन्यमन्यस्य, कण्ठाश्लेषं वितन्वते । चित्ते दधति याश्चान्यं, तासु वेश्यासु का रतिः ॥४५५|| यासां काऽप्यार्द्रता ताव-द्यावदानाम्बुवृष्टयः। वेश्यासु मरुदेश्यासु, तासु रज्येत कः सुधीः १ ॥४५६॥ निर्धनत्वादिपुष्पस्य, नरका- दिफलस्य च । मूलं वेश्यैव जानीतं, महाव्यसनशाखिनः ॥ ४५७ ॥ नित्यमित्यादिभिर्वाक्य-भूभृता बोधितावपि । तौ नितान्तमयुध्येता-मत्यन्तोसिक्तमत्सरौ ॥ ४५८ ।। तयोः संरब्धयोरेवं, द्रष्टुं मृत्युमनीश्वरः । विपमं विषमास्वाद्य, परलोकं ययौ नृपः ॥४५९ ।। पत्युर्विपत्तिशोकेन, विक्ल ते अपि द्रुतम् । विपेदाते तथैवाभि-नन्दिता-शिखिनन्दिते॥४६०॥ बद्धानुरागावत्यन्तं, तस्यां तदपि नित्रपौ। मिथः क्रोधोद्धतौ युद्धा, मृत्यु तावप्यवापतुः ॥ ४६१ ॥ इत्थं कुटुम्बसंहारः, स्त्रीनिमिचोऽभवत् पुरा । अनर्थवीजं राजीव-चक्षुपो हि प्रचक्षते ॥ ४६२ ॥ वत्सास्तद्वो रिंगना-मेकामेव मृगीदृशम् । क्षेमं खलु न पश्यामि, तत एवागतोऽस्म्यहम् ॥ ४६३ ॥ तत्सर्वैरपि युष्माभि- १ अतिनिर्लजौ । २ कुपितयो । ३ कमलनेत्राः स्त्रियः । I
पाण्डवानां
नारदो-
पदेशः॥
रात्मनः शिवतातिभिः । अनेन समयेनैव, वर्तितव्यमहर्दिवम् ।। ४६४ ॥ यदा युष्माकमेकस्य, द्रौपदी वासवेश्मनि । कार्य-
तोऽपि तदाऽन्येन, न गन्तव्यं कथंचन ॥ ४६५ ॥ कथंचिदथ या कोऽपि, भिनत्ति समयं यदि । वनवासाय गन्तव्यं,
तेन द्वादशवत्सरीम् ॥ ४६६ ॥ मुनेगिरमिमां काम-मायतिक्षेमकारिणीम् । अनुमेने मुकुन्दोऽपि, कौन्तेयानां
हितेच्छया ॥४६७ ॥ तां वाचमुररीचकु-चिंयमपतेर्मुदा। पाण्डवा अपि को नाम, नात्मैनीनाय धावति ॥४६८ ॥
मुनीन्द्रोऽपि यथार्थाभि-राशीभिरभिनन्ध तान् । विकस्वरमनाः स्वैर-मुत्पपात विहायसा ॥४६९।। काम हृष्यन् हपीकेशो-
ऽप्युपचारैरनेकशः । पाण्डं पाण्डुतनूजान-प्यापृच्छय द्वारकां ययौ ॥ ४७० ॥
इति समयनिरुद्धकामचाराः, प्रणयप्रहधियः परस्परेण ।
सहविहितसमस्तकेलिरम्य, गमयन्ति स्म दिनानि पाण्डवेयाः ॥ ४७१ ॥
इति मलधारिश्रीदेवप्रभसूरिरचिते पाण्डवचरिते महाकाव्ये
द्रौपदीस्वयंवरवर्णनो नाम चतुर्थः सर्गः ॥४॥
१ मङ्गलश्रेणिमिः। २ प्रतिज्ञया । ३ आत्महिताय ।
॥ ६८॥
अथ पञ्चमः सर्गः। अथानुजग्मुपां तेपा-मन्वहं समयं मुनेः । परस्परमभूत् प्रीति-रखण्डा पाण्डजन्मनाम् ॥१॥ मनोभिः पञ्चभिस्तेषां, कृतमेकं महन्मनः । तेनैव नियतं ख्याता, महामनस इत्यमी ॥२॥ अवश्यमेक एवात्मा, तासु मूर्तिपु पञ्चसु । न खल्वे- कैव पत्नी स्या-द्भूयसां पतिदेवता ॥३॥ अविशेपकृतोपास्तिः, शशिलेखेव शूलिनाम् । निष्कलकैच पाञ्चाली, तेपामासीद- तिप्रिया ॥४॥ पतिव्रता न गङ्गाऽपि, हरादम्भोधिमीयुपी । श्रयन्ती हन्त पञ्चापि, द्रौपदी तु पतिव्रता ॥५॥ पञ्चभ्योऽपि क्रमात् तेभ्यः, प्रियेभ्यस्त्रिजगत्प्रियान् । लोकपालोपमान् पश्च, पाञ्चाली मापदात्मजान् ॥ ६ ॥ पाञ्चालीलब्धजन्मत्वात् , पृथग्भिन्नाभिधा अपि । एते पञ्चापि पाञ्चाला, इति पप्रथिरे भुवि ॥ ७ ॥ सौमात्रं पाण्डपुत्राणां, द्रौपद्याश्च सतीव्रतम् । अवलोकितुकामेव, ततः शरदुपागमत् ॥ ८॥ भेजे विप्रोपितप्रायड्- भुजङ्गीविपवल्गितैः । औषधीशकरामर्शा-दिव वैशयमम्बुदैः ॥९॥ धनोपरोधनिर्मुक्तो, ध्वस्तध्वान्तरिपुः शशी । भाति स्म दिग्यक्षिप्त-नक्षत्रैरक्षतैरिव ॥ १० ॥ नम्रीभूतशिरःपक्क-शालिकेदारकं बभौ । जनकस्येव जीमूत-कालस्य विरहासहम् ॥ ११ ॥ जिगीपुनृपसैन्याश्व-रजोमलिनमम्बरम् । अहसन्नमलाः स्मेरा-म्भोजव्याजाअलाशयाः ॥१२॥ दिशः शरदमायाता, चिरात् १ चन्द्रकिरणस्पर्शात् ।
पश्वपावा-
लजन्म ।
तस्करहतं
पुरधैनुकं
अर्जुनेन
प्रत्याहृतम्।
प्रियसखीमिव । आलपन्त्य इवैश्यन्त, सरसैः सारसारवैः ॥१३॥ मरालैः कमलोत्तंसाः, सरस्यः पुनराश्रिताः । सेव्यते हि प्रभुः
प्रायो, विशदैरपि संपदि ॥ १४ ॥ दृप्तसप्तच्छदामोदा, विरेजुर्वनभूमयः । क्रीडत्कामेभसंभूत-दानाम्भःसौरभा इव ॥ १५ ॥
संपन्नमर्वसस्यौघ-मण्डितां पाण्डुसूनवः । शरदं निर्विशन्ति स्म, शश्वदुद्यानकेलिभिः ॥ १६ ॥
गोचरेऽपररात्रस्य, निर्गत पहिरन्यदा । समस्तमप्यपाहारि, तस्करैः पुरधैनुकम् ॥ १७ ॥ तत्क्षणादक्षिणेर्माण-स्तस्कर-
श्रेणिमार्गणैः । भूशकस्यैत्य पूचक्रु-मन्दिरद्वारि वल्लवाः ॥ १८॥ तदीयध्वनिमाकर्ण्य, कर्णयोः क्रकचोपमम् । उज्झांचकार
बीभत्सु-निंद्रातन्द्रालुता क्षणात् ॥ १९ ॥ ततो जीवधनं दस्यु-हृतं विज्ञाय तन्मुखात् । शौण्डीरचूडामाणिक्य-मन्तर्जज्वाल
फाल्गुनः ॥ २० ॥ अर्जुनेन प्रजाकार्य, प्राणानपि जिहासता । तदा संमयमेदोऽपि, सानन्दमुररीकृतः ॥ २१ ।। ततो धनुः
सतूणीर-मादातुं फाल्गुनोऽविशत् । वासवेश्मनि कृष्णायाः, क्रोडक्रीडयुधिष्ठिरे ॥२२॥ आदाय विजयस्तस्मा-निज-
तूणीरकार्मुके । तस्करानुपदं वीरः, क्रोधावेशादधावत ॥ २३ ॥ स वीरग्रामणीर्वाणे, रणे निर्जित्य तस्करान् । प्रीत्याभिनन्दितः
पौरः, पुरस्कृत्याऽऽनिनाय गाः ॥२४॥ विगाहते स्म गायद्रि-स्त जस्फूर्तिचर्चरीः । गोपैरेत्य घृतः प्रीत्या, नरो नारायणो-
पंमाम् ॥ २५ ॥ पार्थस्येव यशः साक्षात् , क्षरन्त्यः क्षीरमुज्वलम् । स्वस्ववत्सोत्सुका गायः, स्वं स्वं धामोपतस्थिरे ॥२६॥
कचिदम्येत्य वीभत्सो-रादेशादय पार्थिवम् । कुन्ती-युधिष्ठिरप्रेष्ठ-कुटुम्बोपेतमभ्पधात् ॥ २७ ॥ दिष्टया त्वं वर्धसे
१ हंसः । २ रात्रिचरमसमये । ३ पारधिना दक्षिणपाधै विद्धो मृगो दक्षिणेमोच्यते, स प्राणधारणे निराशो भवति तत्सदृशा
इमे वल्लवाः-गोपाः। ४ अर्जुनः । ५ प्रतिज्ञाभङ्गः। ६ पमः, पमा. पमम . इति प्रतिपाठाः । 1600-मुख्यः।
॥६९ ॥
देव !, भुजैः पार्थस्य पैस्तव । पुरजीवधनत्राणात्, कीर्तयः सुरभीकृताः॥२८॥ पुरद्वारि स्थितो मूले, सहकारमहीरुहः । किं तु विज्ञापयत्येवं, देव ! त्वां कपिकेतनः ॥ २९ ॥ अभिद्यतं मुनेरद्य, प्रजार्थे समयो मया । विवेचयन्ति नो किंचित् , कुरुवंश्या हि तत्कृते ॥ ३० ॥ करिष्ये तीर्थयात्रां त-दने द्वादशहायनीम् । ताः प्रमाणीभवन्त्वद्य, गरीयस्यो मुनेर्गिरः॥ ३१ ॥ तन्मे तीर्थाद्रिकान्तार-विहाराय प्रसीदत । अविघ्नं च करिष्यन्ति, युष्मत्पादाः स्थिता हृदि ॥ ३२ ॥ तामाकर्ण्य गिरं दुःख-जननीमवनीपतिः । संपरीवार एव द्रा-ग्जगामोपकपिध्वजम् ॥ ३३ ।। स्वेदमेदस्विनिःश्वासः, करे धृत्वा किरीटिनम् । सोऽन्वशात् किं त्वयाऽऽरब्धं, वत्स ! विश्वकवत्सल ! १॥३४॥ नवे वयसि कोऽयं ते, तीर्थारण्यम- नोरथः । । सुतोपहितभारा हि, कुरवो वनवासिनः ।। ३५ ।। तदस्मस्कृत्यमेवैत-नैव त्वं कर्तुमर्हसि | भारे महोक्षवाटे हि, किमु दैम्यो नियम्यते ? ॥३६॥ सर्वतोऽस्मत्प्रतापाग्ने-बैरिवंशान् दिधक्षतः । प्रेभञ्जनायते वत्स, तवैव भुजविक्रमः ॥ ३७॥ मा गास्ततः कचिद्देहि, नेत्रानन्दं चिराय में । इति जल्पति भूपाले, कुन्ती साश्रुरवोचत ।। ३८ ॥ पितुर्वाचमिमां वत्स !, नान्यथाकर्तुमर्हसि । प्रायश्चित्तं गुरूणां हि, वांसि निखिलैनसाम् ॥ ३९ ॥ मामुदश्रुमुखीमेवं, त्यक्तमुत्सहसे कथम् । हा! मम त्वां विना वत्स!, वत्सरीयति वासरः ॥४०॥ दाधिकैरथ सार्पिकैः, पायसैरपि पोपितम् । कथं वर्तिष्यते वत्स !, वन्याहारैर्षपुस्तय ? ॥ ४१ ॥ रुद्धस्पर्शः पुरा छत्रै-र्भानुः सेय॑ इवाधुना । तापसर्वाभिसारेण, पथि त्वां व्यथयिष्यति ॥ ४२ ॥ नवानुरागकल्लोलां, स्नुपामिन्दुमुखीमिमाम् । पर्यथुलोचनां वत्स ! विहातुं कथमीहसे? ॥ ४३ ॥ १ अकथयत् । २ दमनयोग्यो वत्सतरः । ३ वायुरिवाचरति । ४ देहि' प्रतिद्वय० ।
प्रतिज्ञा
भङ्गेऽर्जु
वने
गमनाय
प्रार्थनम् ॥
जनन्यामिति वादिन्यां, पन्धुज्येष्ठो युधिष्ठिरः । स्फुरदस्तोकशोकोमि-पीतप्रीतिरभापत ॥ ४४ ॥ त्वद्वियोगासही वीर!,
पितरौ मावमानय । नातिक्रान्तगुरूणां हि, क्रिया काऽपि फलेग्रहिः॥४५॥ समयोऽपि मुनेरय, त्वया कोऽयमभिद्यत ? । अत्या-
हिते हि साधूना-मतिभूमिर्न पिता ॥ ४६॥ भिन्न एवाथवा तस्य, प्रायश्चित्तमपि त्वया । एताः पौरगवीः किं नु, न प्रत्या-
हरता कृतम् ॥ ४७ ॥ मनसेव न मन्येऽह-मन्तरं वपुपाऽपि ते । आत्मन्यन्तः स्थिते भेदः, समयस्य न चात्मनः।। ४८ ॥
प्रतिध्वान इवैतां च, वाचमाजातशात्रवीम् । अनुगम्य गिरं दीनां, निजगाद पृकोदरः ॥४९॥ गन्तुकामोऽपि मां भ्रात-रव-
स्थानाय मानय । हृदयं स्फुटतीवेदं, भवद्विरहकातरम् ॥ ५० ॥ यमावप्यूचतुर्भ्रातः !, कान्ताराय गते त्वयि । नित्यं विविध-
केलीमिः, को हि नौ लालयिष्यति ? ॥ ५१ ॥
अथ स्फुटमवष्टभ्य, धैर्य धीमानवोचत । स्वप्रतिश्रुतनिर्वाह-बद्धबुद्धिर्धनंजयः ॥ ५२ ॥ पृथग्जनोचिता हन्त !, केयं
कातरताऽद्य वः । भवन्मनस एवाय-मन्तेवासी पविन तु ॥ ५३ ।। ममाङ्गीकृतनिर्वाह-व्रतचर्यावकीर्णिनः । युष्मानेवायशः
कामं, नन्विदं लञ्जयिष्यति ।। ५४ ॥ तद्वलादनुमन्यध्व-मरण्यगमनाय माम् । सत्याः सन्तु मुनेर्वाचो, ममापि पुरुषव्रतम्
॥ ५५ ॥ इति सस्नेहमापृच्छय, वीभत्सौ गन्तुमिच्छति । तमस्तान् व्यानशे सर्वान् , दिक्कुजानिव भास्वति ।। ५६ ।।
अथानम्य क्रमान्मन्यु-गद्गदाशीगिरो गुरून् । प्रीत्याऽऽलिङ्गयानुगच्छन्ती, कनीयांसौ न्यवर्तयत् ॥ ५७ ॥
अमगल्यधिया वाष्प-बिन्दुपातं निरुन्धती । प्रस्थितं पार्थमभ्येत्य, जगाद द्रुपदात्मजा ।। ५८ ॥ पुंसां मतीः क्वचि-
१ अतिभयजनके कार्ये । २ प्रतिश्रुतं-प्रतिज्ञा । ३ अवकीर्णी-भगकारकः । ४ मन्यु:-शोकः ।
॥ ७० ॥
। घोषि-न्मतयो नातिशेरते । तदप्युदीर्यसे नाथ !, त्वयाऽऽरब्धं न साध्विदम् ॥ ५९॥ यदियं मन्मनःप्रीतिः, प्रस्थिता पुरतस्तव । गणनाभिर्दिनानां तु, धरिष्ये यदि जीवितम् ॥६०॥ पन्थानस्तीर्थशैलानां, शिवाः सन्तु तथापि ते । निष्प्रत्यूह वितन्वन्तु, सर्वतः कुलदेवताः ॥६१॥ भ्रमन् कान्तारमेकाकी, मा भूत् (भूः) कापि प्रमद्वरः । मलीमसानि चेतांसि, साधुष्वपि हि पाप्मनाम् ॥ ६२ ॥ संचरन् पुरुषान् पश्यन् , प्रतिस्थानं नवान्नवान् । विद्याः कीर्तीच लक्ष्मीच, नूतनाः काश्विदर्जयेः ॥६३ ॥ तथा किमपि मा काी-4मन् देशाननेकशः। यथा नाथ वयं स्याम, वैमनस्यवशंवदाः ॥ ६४ ॥ पावितं सुकतैर्नाना-तीर्थाभिगमजन्मभिः । त्वामुपागतमालिङ्गथ, मयाऽऽत्मा पापयिष्यते ॥ ६५ ।। मया ते स्खलितस्वैर-संचारस्य पदे पदे । मा भूत् पुण्यक्रियाविन, इत्यागच्छामि नो समम् ॥ ६६ ॥ इति ब्रुवाणां प्रणय-प्रवीभूतान्तराशयाम् । आलिङ्गय मुहुरालप्य, वचोमिः स्नेहनिमेरैः॥ ६७ ॥ अनुव्रजन्ती दयिता- मवस्थाप्य कथंचन । प्रतस्थे पुरतः पार्थः, सतूणधृतकार्मुकः ॥ ६८ ॥ (युग्मम् ) आ लोचनपथात् पार्थ, पथिकं सा पपौ दृशा । प्रेम्णा सोऽप्यचलन्मन्द-मन्दं वलितकंधरः ॥ ६९ ॥ मन्द्रारघट्टनिर्घोप-शिखण्डिकतताण्डवान् । माद्यन्मधुव्रतवात- झकारमुखरोदरान् ॥७०।। सान्द्रनैकगुमच्छाया-निपीततपनातपान् । पश्यन् परिसरारामान्, स जगाम शनैः शनैः ॥७॥ (युग्मम् ) तीरप्ररोहसानन्द-माकन्दप्रायपादपम् । कूजत्कुररहारीत-कपिञ्जलजलद्विकम् ॥ ७२ ॥ तारुण्ये तरणेः क्षोणि- मतीत्य कियतीमपि । पार्थः क्षीरोदेदायाद-माससाद महासरः ॥७॥ (युग्मम् ) तत्रागशौचमाधाय, प्रणिधाय जिनेश्वरम्। १ मन्द्रः-गभ्भीरध्वनिः । २ द्विकः काकः । क्षीराब्धिसदृशम् ।
अर्जुनस्य वनवासः॥ आहारं सरसस्तैस्तैः, फलौषैः फाल्गुनो व्यधात् ॥ ७४ ॥ असङ्गभृङ्गसंगीत-मतिमुक्तकमण्डपम् । सपुप्पतल्पमध्यास्य, स मध्यंदिनमत्यगात् ।। ७५ ।। इति क्रामन् क्रमाजिष्णु-बहुकौतूहलां महीम् । विवेश भैरवाभोग-दत्तमोहां महाटवीम् ।।७६।। केलिहुंकारिणः कापि, क्रूरा हरिणवैरिणः । मृगानुपदिकाः कोप-साटोपा द्वीपिनः कचित् ॥ ७७ ॥ काप्यन्योन्यरणारम्भ-प्र- हपोत्राच पोत्रिणः । तस्यां किमपि न क्षोभ, कुर्वते स्म किरीटिनः ।। ७८ ॥ (युग्मम् ) स्वैरमस्यां च वीभत्सु-रभीगच्छन् पुरः पुरः । गिरिं घात्रीशिरोरत्न, रत्नसानुमुदैवत ॥ ७९ ॥ यस्य निर्झरझात्कार- शन्दाद्वैतकताम्किी । दुमेरभ्रंकपैः केपी, मुदे नाभूढुंपत्यका ? ॥ ८० ॥ अध्यास्यन्ते स्म तिग्मांशु-गमस्तीनामसंस्तुताः। यस्य विद्याधरैर्विद्या-सिद्धिक्षेत्राणि कन्दराः ॥ ८१ ॥ किंनरीकेलिसंगीत-निरङ्गा मृगा अपि । यस्मिनत्यन्त मोक्षाय, प्राणायामोल्वणा इव ॥८२॥ द्रुमैः कुसुमितैस्तैस्तै-विलोभितविलोचनः । सव्यसाची गिरौ तस्मि-नारुरोह कुतूहलात् ॥८॥ इन्द्रनीलावितद्वारं, शोणसोपानपद्धतिम् । शातंकुम्भमयस्तम्भ-कुम्भसंभारभासुरम् ।। ८४ ॥ नीरैरनुक्षेप चन्द्र-करव्यतिकरो- नौः । अदेवमातृकोन्माद्य-दुद्यांनजगतीरुहम् ॥ ८५ ॥ तत्रोकालप्रभाजाल-निपीताहर्पतिद्युति । चन्द्राश्ममयमद्राक्षी- दर्जुनो जिनमन्दिरम् ।। ८६ ॥ (निभिर्विशेषकम् ) क्षालिवाङ्गदुधान-दीपिकाम्भसि रहसा। मेदुरामोदमादाय, तदीयक- मलोत्करम् ॥ ८७ ।। तस्मिन्नमरनिर्मुक्त-पुष्पप्रकरदन्तुरे । अविक्षत् कौतुकाक्षिप्त-चक्षुः क्षितिपनन्दनः ॥ ८८ ।। (युग्मम् ) १ पोत्रं-किरिमुसाप्रम् । २ किरयः वराहा इति यावत् । ३ तर्कशास्त्रसंबन्धिनी । ४ पर्वतस्यासन्ना भूमिः । ५ सूर्यकिरणा- नाम् । । ६ निस्तरङ्गा-निश्चलाः । ७ शातकुम्भ-सुवर्णम् । ८ अनुरात्रम् । ॥७१।।
FORT AN तत्र प्रदक्षिणीकृत्य, त्रियुगादिजिनेश्वरम् । बद्धरोमाञ्चमभ्यर्च्य, स तुष्टावेति तुष्टिमान् ॥ ८९॥ जय नाभिकुलक्षीर-नीराकर- निशाकर ।। जयाशेपजगदुःख-निदाघजलदागम ! ॥९॥ देव ! संसारकान्तार-पर्यन्तपुरपादपाः । पादास्तव भवक्लान्ति- विच्छेदाय भवन्तु मे ॥९१॥ इत्यभिष्टुत्य नाभेयं, निकेतं परितोऽपि तत् । विलोक्य कलयामास, वीभत्सुर्नयनोत्सवम् ।।९२॥ गिरेरधित्यकाराम-रामणीयकलोलुपम् । चक्षुर्विनोदयन् यावत् , पार्थः प्रस्थान्तरं ययौ ॥ ९३ ॥ तावन्मुहुर्मुहुमालिं, खेलयन्त्या पदाम्बुजैः । अङ्गुलीवंदने दैन्यात् , प्रक्षिपन्त्या मुहुर्मुहुः ॥ ९४ ॥ मुहुर्मुहुवितन्वत्या, प्रीत्या चाटूनि कोटिशः । उत्तरीयपटप्रान्त-माकपन्त्या मुहुर्मुहुः ॥ ९५ ॥ कयाचिद्योपिता रुद्ध-स्वैरचारं पदे पदे। युवानमेकमैक्षिष्ट, गत्वाऽभापिष्ट चादरात् ॥ ९६ ॥ (त्रिभिर्विशेपकम् ) तव प्रसादनप्रहा-मिमामत्यन्तदुःखिताम् । किं नाम भद्र ! कल्याणी, त्वमेवमवम- न्यसे १ ॥ ९७ ।। प्ररूढप्रणयं सन्तों, नान्यमप्यवजानते । किं पुनः प्रेमसर्वस्व-विक्तवामवला कचित् १ ॥ ९८ ॥ एतस्या- माकृतौ शङ्क, न व्यलीकलवं क्वचित् । कथ्यतां गदि नाकथ्य, तदस्यां कोपकारणम् ।। ९९ ।। पाणिसंपुटमाबध्य, सोऽभ्यधत्त धनंजयम् । महती खलु वार्तेयं, पुरस्तात् कस्य कथ्यते ? ॥ १०० ॥ परं विश्वकविश्वास्य-मूर्तेः किं गोप्यमस्ति ते । किं तु त्वां कर्तुमिच्छामि, न दुःखौघविभाँगिनम् ॥ १०१ ॥ वीभत्सुरभ्यधाद्भूयः, स्खलितव्यं न हि त्वया। परिज्ञाय कुरून् विश्व-दुःखत्राणेंकदीक्षितान् ।। १०२ ॥ ससौष्ठवं तदाकर्ण्य, वचः स पूनरत्रवीत् । चैताढ्ये दक्षिणश्रेण्या-मस्ति रत्नपुरं पुरम् ॥ १०३ ॥ वैरिदोर्दण्डकण्हूति- १ अन्यशिखरम् । २ विक्लवा-व्याकुलाम् ।
अर्जुनस्य
वनवासः
वणे विद्याधरेश्वरः । ख्यातचन्द्रावतंसाख्य-स्तत्र धात्रीपवोऽभवत् ॥ १०४ ॥ पतिव्रतामयं ज्योतिः, सौभाग्यव्रतदेवता ।
मतेंव श्रीरभूव तस्य, प्रिया कनकसुन्दरी ॥१०५॥ वात्सल्यवाहिनीसिन्धु-मणिचूडस्तयोः सुतः । आसीत् कन्दलितानन्दा,
नन्दना च प्रभावती ॥१०६ ॥ कुमारः केलिलीलाभिः, सोऽतिवाहितशैशवः । पितृभ्यां ग्राहयामास, गुरुभ्यः सकलाः
कलाः॥१०७ ॥ लावण्यंसरसीं पुण्य-तारुण्यवनसानुमान् । चन्द्राननामुपायंस्त, चन्द्रापीडसुतामसौ ॥ १०८ ॥ दत्ता
प्रभावती सापि, कलाकुलनिकेतनम् । हिरण्यपुरनाथाय, हेमाङ्गदमहीभुजे ॥ १०९ ॥ कुलक्रमागताः सर्वाः, पिता
विद्याः परेचवि । मणिचूडकुमाराय, विततार तरस्विने ॥११०॥ तस्मिन्नसिद्धविद्येऽपि, साधनकमवेदिनि । सद्यो मागदा-
वेगः, पिता लोकान्तरं ययौ ॥ १११ ।। कृप्ताभिपेकसंभारः, प्रेक्षमाणः शुभं क्षणम् । न यावत् पदमात्मीयं, सोऽध्यासामाम
पैटकम् ॥ ११२ ॥ तावदागत्य दायादः, खेचरानीकिनीवृतः । विद्युद्वेगस्तमाक्रम्य, नगरान्निरवासयत् ॥ ११३ ॥ दायाद.
हृतसाम्राज्यं, त्याज्यमेतद्वपुर्मया । इत्यन्तश्चिन्तयन् दुःखा-देकाङ्गः सोऽचलत् ततः ॥ ११४ ॥ तमन्वगाद्विसृष्टाऽपि, प्रमद्य
पित्वेश्मनि । चन्द्रानना प्रिया तस्य, कुलस्त्रीणां व्रतं ह्यदः ॥११५॥ सोऽस्मिन् पदाभ्यामभ्येत्य, रत्नसानुगिरौ क्रमात् ।
संसारमरुकल्पट्ठ-मद्राक्षीदृपभध्वजम् ।। ११६ ॥ पुण्यपायेयमादाय, नाभिनन्दनदर्शनात् । सांप्रतं सोऽहमिच्छामि,
स्वर्लोकपथपान्थताम् ॥ ११७ ॥ इयं तु मे प्रिया चन्द्रा-नना प्रणयकातरा । प्राणत्यागाय गच्छन्तं, मां रुणद्धि पुनः पुनः
॥ ११८ ॥ असौ मन्मृत्युमत्यन्त-मनलंभूष्णुरीक्षितुम् । विहातुमीहते प्राणान् , हन्त प्रथममेव हि ॥ ११९ ॥ दयां मयि
१ निर्गमितवाल्यावस्थः । २ ' लावण्यसारणी (णी)' प्रतित्रयपाठः तत्र प्रथमा विभक्तिश्चिन्त्या । ३ गदः-व्याधिः ।
॥७२॥
तदाधाय, बन्धो ! संबोध्यताभियम् । येनासनाशु मुञ्चामि, प्रस्थेऽस्मिन् सार्वकामिके ॥ १२० ॥ अथोजगार गाण्डीवी, भाले ताण्डवयन् ध्रुवौ । कोऽयं मरणनिर्वन्धो, बान्धवे मयि सत्यपि ? ।। १२१ ॥ अपि देवे- न्द्रदेशीयै-मार्गणैरिणं रणे । निहत्य वितराम्येप, पैतृकी ते पुनः श्रियम् ॥१२२॥ अवैधव्याध्वरे नित्य-दीक्षितेयं मृगेक्षणा। चिरं त्वदङ्गसङ्गेन, दत्तानन्दा च नन्दतु ॥ १२३ ।। क्माण मणिचूडोऽथ, प्रातरस्यास्तवाकृतेः । असाध्यं नाम नास्त्येव, स्वाराज्यमपि तेऽन्तिके ॥ १२४ ॥ किं तु व्योमाङ्गणस्वैर-संचाराः खेचराः खलु । शक्यन्ते ते पराजेतुं, न विद्यैश्वर्यव- र्जितैः ॥ १२५ ॥ ततोऽनवद्य! मे विद्यास्त्वं गृहाण यथाविधि । साधिताशेषविद्यस्य, द्विपन्नीपज्जयः स ते ॥ १२६ ॥ तासां सत्त्वैकसाध्यानां, विद्यानां च त्वमास्पदम् । वाहिनीनां हि सर्वासा-माधारो वारिधिः परम् ।। १२७ ॥ विलुप्तसत्त्वतत्वस्य, शात्रवैः समराङ्गणे । नाधुना साधने तासां, मम तु क्रमते मतिः ॥ १२८ ॥ सोभिधायेति निर्बन्धा-दाक्षिण्यक्षीरनीरः । अनिच्छतोऽपि बीभत्सो-विद्यास्तास्ताः प्रदत्तवान् ॥ १२९ ।। विज्ञायाथ विधि विज्ञ-ग्रामणीर्मणिचूडतः । तासां क्रमादुपास्त, साधनाय धनंजयः॥१३०॥ नानक्रियां वितन्वाना, शश्वत् कासारवारिणि । विधाय विधिवत् सर्वां, पूर्वसेवा महामनाः ॥ १३१ ॥ वशी निविविशे सोऽथ, पश्यन् सिद्धिं कर- स्थिताम् । तस्यैव भूभृतः कापि, कन्दरामन्दिरोदरे ॥ १३२ ।। (युग्मम् ) बभूव सर्वकर्मीणः, स एवोत्तरसाधकः । विद्या- धरकुमारोऽस्य, दूरावस्थापितनियः ॥१३३ ॥ बद्धपद्मासनो नासा-प्रान्तविश्रान्तलोचनः । पार्थः पाण्मासिकं जाप्य-विधि- १ 'देवेन्द्रदेशीय' इति प्रतित्रयपाठः साधुः देवेन्द्रसदृशं वैरिणमिति योगः। २ स्वर्गराज्यम् । ३ आरभत । ४ सर्वकर्मसमर्थः ।
अर्जुनस्य विद्या- साधनम् ॥ मारब्धवान् सुधीः ॥ १३४ ॥ तस्मिन् मनागसंपूर्ण-निर्माणे जाप्यकर्मणि । आविर्मभूवुः क्रन्यादा, व्यादाय मुखमुल्षणम् ॥ १३५ ॥ मांमखण्डानि चर्वन्तः, स्वादयन्तोऽसुंगासवम् । साट्टहासमटीकन्त, साटोपाः केऽपि तत्पुरः॥१३६॥ कर्तिकाभिः पुरस्तस्य, दारं दारं शवोदरम् । चित्राभिरन्त्रमालाभिः, केऽपि हारं वितेनिरे ॥ १३७ । केचिदुत्तुगमातङ्ग-रूपाः कोपान्ध- चेतसः । तत्संमुखमधावन्त, दन्तक्रीडाविधित्सया ॥१३८॥ केऽपि कण्ठीरवीभूय, भूयोभूयस्तलं भुवः । घोरक्ष्वेडारवा रौद्रैः, पुच्छाघातरताडयन् ॥ १३९ ॥ विसङ्कटस्फुटाभोगा, भुजङ्गमवपुर्भूतः । भोगैरावेटपामासु-राविष्टाः कैपि तद्वपुः॥ १४० ॥ कदाप्यागत्य केऽप्यूचु-स्त्वदानयनहेतवे । कुरूणामग्रणीर्देवा, स्नेहेन प्रजिघाय नः ॥ १४१ ॥ केचिदभ्यधुरम्येत्य, त्वदी- यविरहातुरा । नित्यमभूणि मुश्चन्ती, कुन्ती निर्मम! ताम्यति ॥ १४२ ॥ ऊचुः केचिदपि स्वमे, त्वदालिङ्गनमङ्गलम् । प्राप्य पश्चादपश्यन्ती, कृष्णा त्वां खिद्यतेतमाम् ॥ १४३ ॥ इत्यामुपद्रवैस्तैस्तैः, कोटिशः पिशिताशिनाम् । प्रतीपैरप्रतीपैश्च, चकम्पे न कपिध्वजः ॥ १४४ ॥ विधौ पाण्मासिके तस्मिन् , परिपूर्तिमुपेयुपि । ध्यानासीनस्य तस्यावि-रासीत् कापि सुरागना ।। १४५ ।। साऽब्रवीनन्वितो दृष्टि-विष्टपाश्रय ! दीयताम् । देव्यो विज्ञापयन्त्यष्टौ, त्वां प्रज्ञप्तिपुरःसराः ॥१४६॥ लोकाद्भुतैर्भवत्सत्व-चेष्टितैस्तोपिता वयम् । अन्तर्षिचिन्स्प तद् बहि, किं नाम तव कुर्महे ॥१४७|| अथोन्मील्य दृशौ सत्यं, तदे(द)वेत्या नोऽभ्यधात् । कुमारमणिचूडोऽयं, भगवत्यनुगृह्यताम् ॥ १४८ ॥ सा विहस्य पुनः प्राह, परोपकृतिकर्मठ ।। नन्वेतदेव ते सच, देवतातोपहेतवे ॥ १४९ ॥ किं तु क्रमोऽयमस्माक-माराध्यति य एव नः । कामं तस्यैव तुष्यामो, १ रुधिरमद्यम् । २ अचरन् । ३ मांसाशिनां-राक्षसानाम् । ।। ७३॥
नापरस्य कदाचन ॥ १५० ॥ तवास्मिन्नपि चेतश्चे-दुपकारतरङ्गितम् । तदस्य तोपमेष्यामः, सकदाराधनादपि ॥१५१ ॥ ततः किरीटिना काम, भवत्वेवमितीरिते । सा गीर्वाणमृगीचक्षु-रन्तर्धानमुपागमत् ॥१५२॥ वाचं जय जयेत्युचै-रुचरन्ती कृतानतिः। क्षणादाविरभूत् तस्य, विर्यचरचमू पुरः ।। १५३।। नेत्रकोणेन कौन्तेय!, सप्रसादमुदीक्ष्यताम् । स्मृतिमात्रा- दुपस्थेयं, भूयोऽपीति विसृष्टवान् ॥ १५४ ।। मणिचूडस्तदालोक्य, कलितोत्साहसाहसः । विद्याः साधयितुं जिष्णो-निदे- शादुपचक्रमे ॥ १५५ ।। स्वल्पैरेव दिनैः पार्थे, स्वयमुत्तरसाधके । विद्यास्तस्याभवन् सर्वा, निर्विमं निवृत्तयः ॥ १५६ ॥ अथोद्यत्किङ्किणीकाण-झणस्कारिदिगन्तरम् । मूर्छितार्कच्छविस्वर्ण-पताकाशतभूषितम् ॥ १५७ ॥ विद्युदुद्दथोतसधीची- मरीची परितः किरत् । विमानद्वयमाकाशा-मणीमयमवातरत् ॥१५८॥ (युग्मम् ) ततोऽवतीर्य पर्याय-वर्जमूर्जस्वलद्युतः। पार्थ च मणिचूडं च, प्रणेमुर्योमचारिणः ॥ १५९ ॥ तदात्वमङ्गमुद्वर्त्य, दिव्यैरुद्वर्तनैस्तयोः । सपयांचक्रिरे केचित, कवोष्णैर्गन्धवारिभिः॥१६०॥ गोशीर्पचन्दनक्षोदै-विलिप्यानैवलेपिनः । तावुभौ रभसा केचि-दिव्यवासांस्यवासयन् ॥१६॥ हारकुण्डलकेयूर-किरीटकटकादिभिः। माणिक्यखचितैः केचि-भूपणैस्तावभूषयन् ॥ १६२ ॥ कैश्विद्वारिभराभुग्न-नूतना- म्भोदसोदरम् । तयोरुपरि मायूर-मातपत्रमधार्यत ॥ १६३ ।। अनेकप्रहतातोय-वेणुवीणालयानुगम् । पुरः सङ्गीतमातेनु- स्तयोर्विद्याधराङ्गनाः ॥ १६४ ॥ तयोनि सीमसत्वथी-प्रशस्तिविशदाक्षरम् । अकठोरगिरः पेतु, पुरः खेचरपन्दिनः ॥१६॥ १ देवाङ्गना। २ विद्याधरसेना । ३ आगन्तव्यम् । ४ वशवर्तिन्यः । ५ अनुक्रम वर्जयित्वा ६ तदात्वं-तत्कालम् । ७ अगर्विष्ठाः नम्रा इति यावत् ।
मणिचूड-
स्य विद्या
साधनम्।
विद्युद्वेगो-
परिद्वयोर्ग
मनम् ॥
चन्द्राननामधादाय, मेरीभाकारडम्बरैः । हयौघहेपितैर्दन्ति-हितैर्भटगर्जितैः ॥१६६॥ नमो विभित्सुना सैन्य-सं-
भारेण नभःसदाम् । तावुभौ द्राक् प्रतस्थाते, विजयागिरिं प्रति ॥१६७।। (युग्मम् ) प्रभापल्लवितैः क्षुद्र-विमानैः परिवा-
रिते । चक्रतुस्वद्विमाने घा-मपराकेन्दुतारकाम् ॥ १६८ ॥ तौ वाहुवीर्याद्वैताढ्यौ, वैतादयगिरिमूर्धनि | बलोमिदुर्धरौ
रत्न-पुरद्वारमुपेयतुः ॥ १६९ ॥ तत्राप॑त्रासमावासान् , परिगृह्य धनंजयः। क्षणेन प्राहिणो दूतं, विद्युद्वेगाय चाग्मिनम्
॥ १७० ॥ स विशुद्वेगमभ्येत्य, कृतावष्टम्भमभ्यधात् । जल्पति त्वामनल्पोजा, मध्यमः पाण्डवोर्जुनः ॥१७१ ॥ मदीय-
सुहृदश्चन्द्रा-वतंसतनुजन्मनः । अर्पय श्रियमागत्य, मार्गणी मार्गयन्ति मे ॥ १७२ ॥ नो चेदमी पुरस्तावत् , कलान्तरपदे
शिरः । भवदीयं ग्रहीप्यन्ति, ततोऽनु सुहृदः श्रियम् ।। १७३ ॥ तन्निशम्य वचः स्माह, स क्रोधान्धभविष्णुधीः । भूमिगो-
चरकीटोऽय-मरे ! को नाम सोर्जुनः ? ॥ १७४ ।। द्रुममैवार्जुन विनः, स चेत् कश्चिदिहागतः। तस्योच्छेदाय जागर्ति,
सैप कौक्षेपको मम ॥ १७५ ॥ मद्दोनलस्याद्य, मणिचूडं दिधक्षतः। भविष्यति ध्रुवं सोऽय-मर्जुनः प्रथमेन्धनम्
॥ १७६ ॥ तदरे ! सत्वरं गत्वा, ब्रूहि त्वं निजमर्जुनम् । अयमायात एवास्मि, रणाय प्रगुणो भव ॥ १७७ ॥
इत्युदीर्य स दोर्वीर्य-गर्ववरितमानसः। अनभिज्ञातदैन्यानि, सैन्यानि समवर्मयन् ॥१७८]। दूतोऽपि चाग्निकारं त-माग-
त्याऽऽख्यत् किरीटिने । रिपोरनामनीनेन, तेनाभूत सोऽपि सस्मितः॥१७९॥ पार्थोऽपि नातिसंरम्भा-दनीकं समनीनहत् ।
मृगोच्छेदेऽपि किं काम, सिंहः संरम्भते क्वचित् ॥१८०॥ विद्युद्वेगोऽथ निर्गत्य, नगरात् पृतनाभरैः । क्षणादरौत्सीहीभत्सु,
१ भयरहितं यथा तथा । २ वाणाः । ३ वाचाऽपमानम् । ४ आत्मनोऽहितेन |
॥ ७४ ॥
घनैरिव रवि नभः ॥१८१॥ साक्षेपः प्रतिचिक्षेप, पार्थाकस्तान् सुदुःसहैः। आदायेमिवेष्वासं, मार्गणैः किरणैरिव ॥१८२॥ ततः कार्मुकमारोप्य, रोपात् कोपारुणेक्षणः । खेचरः स्वयमारेमे, बीभत्सुमभिवर्षितुम् ॥१८३॥ ववर्ष शरधाराभि-रन्दवत् स यथा यथा । प्रकर्षमगमल्लक्ष्मी-रर्जुनस्य तथा तथा ॥१८४ ॥ पाण्डवेयस्य दोर्दण्ड-चण्डिमानं विलोकयन् । भीत- चेतास्ततः सोऽभू-दितिकर्तव्यविक्लवः ॥ १८५ ॥ काममुत्थातुकामोऽपि, मणिचूडो रणाङ्गणे । जिष्णोः सर्वरिपूञ्जिष्णो-न लेमेऽवसरं कचित् ॥ १८६ ।। वीरव्रतविपर्यास-संपन्नतणलाघवः । पक्षवातैरिव क्षिप्तः, क्वापि कौन्तेयपत्रिणाम् ॥ १८७॥ विद्युद्वेगो रणक्षोणेः, पलायामास रंहसा । संवर्तमारुतावर्ते, फियद्दीपः प्रदीप्यते ।। १८८ ॥ प्राणत्राणाय संभूय, बीभ- त्सुमभयंकरम् । आगत्य विगलन्मान-मानेमुस्तचमूचराः ॥ १८९ ॥ मणिचूडं पुरस्कृत्य, विजयो विजयोर्जितः । पुरं विवेश पौराणां, मनचानन्दमेदुरम् ॥ १९० ।। प्रविश्य तत्र धात्रीश- धाग्नि सत्यप्रतिश्रवः । मणिचूडं पदे सद्यः, सोऽभ्यपिश्चत पैतृके ॥ १९१ ।। स प्राप्य पुनरात्मीयां, संपदं संमंदप्रपाम् । चकाशेऽधिकमम्भोद-मुक्तरोंकामृगावत् ॥ १९२ ॥ तैस्तैस्तद्भक्तिकल्लोलैः, प्रथमानैः पृथासुतः। बहून्मुहूर्तवत् तत्र, वासरानत्यवाहयत् ॥ १९३ ॥ मणिचूडमथान्येधु-मन्युपयर्चुलोचनम् । आपपृच्छेऽप्यनिच्छन्तं, पार्थस्तीर्थदिदृक्ष्या ॥ १९४ । ततो विमानमारुह्य, जिष्णुर्वर्धिष्णुधर्मधीः । एनःसेनाभिरस्पृष्ट-मष्टापदगिरिं ययौ ॥ १९५ ॥ भगवानादितीर्थेशो, यत्र पत्रलभूरुहि । चिरं १ आश्विनमासम् । २ मानरहितं यथा तथा। ३ हर्षस्य प्रपारूपाम् । ४ राकामृगाङ्कः-पूर्णिमाचन्द्रः। ५ मन्युः-शोकः । ६ पापसमूहै।
विद्युद्वेगं जित्वा म- णिचूडस्य राज्यामि- पैकं कृत्वा विश्रान्तिमातेने, निर्वाणनगराध्वगः ।। १९६ ॥ किंनरीः कान्तकेलीपु, तमस्तोमामिलापिणी । खेदयन्ति सदोद्दयोता, यस्य काञ्चनकन्दराः ॥ १९७ ॥ नाभेयदर्शिनः काम्य-कन्दरोद्यानखेलिनः । स्वर्गिवर्गस्य भाग्यानां, जन्मभूर्भोगभूश्च यः ॥ १०८ ॥ तस्मिन् पवितुमात्मान-मायातैस्तोयदैरिव । आनीलबहलच्छायैः, काननैः परिवेष्टितम् ।। १९९ ॥ लीलावापी- भिरम्यस्त-क्षीरोदक्षीरकेलिभिः । स्मेरदम्भोजखण्डाभि-मण्डितोपान्तभूतलम् ।।२००॥ ददर्श दर्शनोन्मृष्ट-निःशेषजनकरमपम् । प्रासादमादिनाथस्य, पार्थो भरतकारितम् ॥ २०१॥ (विभिर्विशेषकम् ) सपरीवार एवायं, राजीववनराजिनि । दीपिका- वारिणि स्नान-माततान ततः सुधीः ॥ २०२ ॥ हेमाम्भोजततीदिव्य-शाखिना कुसुमानि च । अथावचाययांचक्र, परिवार- नमश्वरैः ॥ २०३ ॥ धीमानवस्त पर्यस्त-दुग्धोदलहरीमदे । स धौतवाससी दिव्ये, निजं मन इवामले ॥२०४ ॥ सर्वस्वर्गि- गणाकीर्णे, सर्वाश्चर्यनिकेतने । सर्वरत्नमये तस्मिन् , स विवेश जिनौकसि ॥ २०५ ॥ यथाविधि सुधीस्तिस्रः, कृतपूर्वी प्रद- क्षिणाः। समाहितमनाः सोऽय-मानर्च वृपलाञ्छनम् ॥ २०६ ॥ मृदङ्गपणवादीनि, रचितोचण्डताण्डवाः । स्वच्छन्द वादयामासु-रातोघानि नभश्चराः ॥ २०७ ॥ खेचरेषु क्षणान्नीचैः, कलसंगीतशालिषु । अथाभिष्टोतुमारेमे, नाभेयं जिन- मर्जुनः॥ २०८ ॥ देव ! दुःखाग्निनिर्दग्ध-जगत्पीयूपवारिद ! । फलेग्रहि विलोक्य त्वां, नेत्रनिर्माणमद्य मे ॥ २०९ ॥ तद्भाग्यमपि भूयोभिर्भाग्यैरेवोपलभ्यते । येन त्वं दीसे देव !, शेवधिः शिवसंपदाम् ॥ २१० ।। स्वामिन् पुरातनैर्भाग्यै- बभूव तव दर्शनम् । त्वदर्शनमवैर्भावि, यत्तु किं तस्य कथ्यते । ॥ २११ ॥ कृतस्तुतिरिति प्रह-चेताः श्वेताश्ववाहनः । १ उन्मृष्टं-ध्वस्तम् | २ ततिः-श्रेणिः । ३ पर्यधात् । ४ पर्यस्त:-निरस्तः । ५ अर्जुनः । अर्जुनोऽष्टा- पदं गतः॥ ॥७५ ।।
नमस्यति स्म नाभेय-मवनिन्यस्तमस्तकः ॥ २१२ ॥ प्रत्येकं स्वस्वसंस्थान-मानवर्णादिशालिनः । नमश्चकार तीर्थेशान् , प्रयोविंशतिमप्यसौ ॥ २१३ ॥ भ्रश्यद्वभ्रमीसादः, प्रासादकमनीयताम् । निर्गत्यालोकयञ्लायो, कुर्वन् भरतसंपदः॥ २१४ ॥ मूतं धर्ममिव ज्ञान- ज्योतिर्विश्वतमोपहम् । चारणं मुनिमेकान्त-लीनमेकं ददर्श सः ॥ २१५ ॥ युग्मम् ॥ सोऽभिवन्ध तमानन्दा-दुपविश्य तदन्तिके । भवाम्भोधितरीकल्पा-मश्रौपीद्धर्मदेशनाम् ।। २१६ ।। धर्मोऽयं यैः श्रियो रक्षा-कोविदः सौविदः कृतः । चिराय ते भजन्त्येता-मखण्डितसतीव्रताम् ॥२१७॥ जगद्भयंकरः स्मेर-मुखः संसारकेसरी । धर्मद्रुमाधिरूढानां, यदि न प्रभवत्यसो ॥ २१८ ॥ सिच्यन्ते धर्मकुल्याभि-मुक्तिशर्ममहीरुहः । तासां तटतृणायन्ते, सुरासुरनरश्रियः ॥२१९॥ अयं च निर्ममे धर्म- स्तथा प्राग्जन्मनि त्वया । निःशेषभुक्नोर्जस्वी, यथेदानीमजायथाः ।।२२०॥ इदं च जगदाधाय, दोस्तम्भैरकुतोभयम् । भवि- प्यसि भवेऽत्रैव, मोक्षलक्ष्मीस्वयंवरः ।।२२२॥ इत्याकर्ण्य गिरं कर्ण-कीर्णपीयूषविप्नुपम् । आनन्दाम्भोधिनिर्मग्न-मन्तरात्मान- मुद्वहन् ।। २२२ ।। मुनिमानम्य तं मौलि-लालिताद्रिसरोरुहः (हम् )। विमानेन ततः पार्थः, प्रतस्थे मरुतां पथा ॥ २२३ ॥ (युग्मम् ) शिवथीदत्तसंकेतः, समेतप्रभृतिष्वसौ । तीर्थष्ववन्दत ध्वस्त-समस्तवृजिनाजिनान् ॥ २२४ ॥ अतीत्य तीर्थसेवाभिः, सोऽथ द्वादेशहायनीम् । प्रत्यचालीचिरोत्कण्ठा-विहस्तो हस्तिनापुरम् ॥ २२५ ॥ पृथुकीर्तिः पृथासूनु-गच्छन् गगनवर्त्मना । आक्रन्दमिश्रमश्रौपी-दधस्तात्तुमुलध्वनिम् ॥२२६॥ स वीरः सपदि प्रैपीत् , तदानुपदिकी १ सादः-खेदः । २ अन्तःपुररक्षकः । ३ धर्मकुल्यानाम् । ४ 'सकेत-संमेत' इति एकप्रतिपाठः साधुः। ५ वृजिनं-दुःखम् ।
अर्जुनस्य हस्तिनापुरे गमनम्। मार्गे खेच रस्य मी. लनम् ॥ दृशम् । ईक्षांचके च शोकात-लोकसंकुलितं वनम् ॥ २२७ ।। खेचरं केसरं नाम, तस्योदन्तं स वेदितुम् । प्राहिणोत् करुणा- वेश्म, गत्वाऽभ्येत्य च सोऽभ्यधात् ।। २२८ ।। हिरण्यपुरमित्यस्ति, पुरमिन्द्रपुरोपमम् । स्वामिस्तस्मिन्नरिग्राम-गदो हेमाङ्गदो नृपः ॥ २२९ ॥ प्रेयसी तस्य निःशे- प-सवीसीमन्तमौक्तिकम् । देहातिजितस्वर्ण-प्रभासंपत् प्रभावती ॥२३०।। तामद्य यामिनीशेपे, चन्द्रशालाऽधिशायिनीम् । कैलविकीमिव श्येनः, कोऽप्यकस्मादपाहरत् ॥ २३१ ।। आर्यपुत्रार्यपुत्रेति, तदीयकरुणध्वनिः । समं हृदयशोकेन, राजानम- जजागरत् ॥ २३२ ।। भ्रुकुटीभीषणः कर्षन्, कृपाणमकृपाशयः । दधावे भूधवचौर ! तिष्ठ तिष्ठति विब्रुवन् ।।२३३॥ अपश्यंश्व पुरः किंचि-द्धावित्वा कियती भुवम् । फालच्युत इव द्वीपी, तस्थौ दोःस्थाम निर्वदन् ॥२३४॥ ततो रिपुमपाकर्तु, प्रत्याहा च वल्लभाम् । तेन संवर्मयांचक्रे, चक्रं शक्रसमश्रिया ॥२३५॥ ततः कुतोऽप्यविज्ञात-दयितादस्युपद्धतिः। किंकर्तव्यविमूदात्मा, स तस्थौ पृथिवीपतिः ॥ २३६ ।। स्त्रीजातिस्नेहसंक्रान्त-दुःखेवाथ निशीथिनी। जगाम तां धराधीश-प्रेयसीमनुधाविता ॥२३॥ तत्याज राजलोकस्य, हृदयेष्विव सर्वतः । संक्रान्तः क्षणदाध्वान्तो, रोदसीकन्दरोदरम् ॥ २३८ ॥ प्रियापहारिणं हन्तु-मुघ- तस्य महीपतेः । प्रेतिग्रहमिवाधातु-मधावत पतिस्त्विपाम् ॥ २३९ ॥ तस्याः शिथिलधम्मिल्ल-माल्यो] निपेतृषीम् । करैरदर्शयन् भास्वान् , कृपयेवावनीपतेः ॥ २४०॥ चचाल पृथिवीपाल-स्तया कुसुमलेखया । दर्शिताचा चमूचान-मछु १ शत्रुसमूहे व्याधिरूपः । २ चटकाम् । ३ 'निर्विदन् '-निन्दन इत्येकप्रतिपाठः साधुः । ४ पद्धतिः-मार्गः। ५ स्वीकारं- साहाय्यमिति यावत् । ॥७६ ।।
कुक्षिभरिदिशाम् ॥ २४१ ॥ इयती भुवमायातः, स पुष्पश्रेणिमाश्रयन् । अभाग्यस्य निधिश्रीवत् , तस्यादृश्यान साऽप्यभूत ॥२४२।। तस्मिन्नस्तोकशोकार्ति-विक्लवे विफलक्रियम् । कान्दिशीकं ततोऽनीकं, भ्राम्यतीदमितस्ततः ॥ २४३ ॥ सुदुःश्रवामुपश्रुत्य, केसरस्येति भारतीम् । कपिकेतुः किमप्यन्त-भिन्तयन्निदमब्रवीत् ॥२४४॥ हिरण्यपुरभूपाल- हेमाङ्गदसर्मिणी। प्रभावती न खल्वेपा, मणिचूडस्य सोदरा ॥ २४५ ॥ हन्त स्वसा ममैवेय-मपरा पाऽस्तु साऽपि मे । कृपालोननु सोदर्या, वार्या व्यसनवारिधेः ॥ २४६ ॥ तद्याहि ब्रूहि राजानं, मा स्म खेदं वृथा कृथाः। अर्जुन: पाण्डवेयोऽयमाहर्ता तव गेहिनीम् ॥ २४७ ॥ जानीहि हत एवाय-मिदानीमहितस्तव । तिग्मद्युतेः परित्रस्त-स्तमःस्तोमः क लीयते । ॥२४८॥ क्षणं तद्भवताऽत्रैव, स्थेयमव्यवसायिना । इत्युदीर्य पुनर्जिष्णुः, प्रेषयामास केसरम् ॥२४९॥ सोऽपि प्रियावियोगार्ति-प्रतप्ताय महीभुजे । कथयित्वा यथाऽऽदिष्ट-मुपार्जुनमुपागमत् ॥ २५० ॥ किंवेदन्ती प्रभावत्याः, सर्वां संविद्ये विद्यया । व्योमाध्वना दधावेऽथ, क्रोधाध्मातः कपिध्वजः॥ २५१ ॥ धनुर्धरैकधौरेये, विद्याविस्फूर्जितोजिते । प्रियोपलम्भं संभाव्य, जिष्णो नाग्रेऽगमनृपः ॥ २५२ ॥ अथ केऽप्यग्रकान्तारे, गत्वा हृदयपीडया । भूवल्लभममापन्त, प्रत्यागत्य तुरङ्गिणः ॥ २५३ ॥ दिष्टया त्वं वर्धसे देव, झगित्यागम्यतां पुरः । अस्ति प्रभावती देवी, कुर्वाणा कुसुमोचयम् ।। २५४ ॥ संपन्नहृदयाश्वासः, सोऽथ त्वरितमभ्यगात् । मनोभीष्टे हि 'नेदिष्ठे, को न धावति वस्तुनि ? ॥ २५५ ॥ पुरः प्रभावती देवी-मपश्यत् काश्यपीधवः । परं चानन्दसंदोई, १ कथाम् । २ ज्ञात्वा । ३ समीपस्थे ।
अर्जुनेन
कृता
प्रभावती-
शुद्धिः॥
गाहते स्मान्तरात्मना ।। २५६ ॥ प्रेस्तौति प्रणयालापं, यावदभ्येत्य भूपतिः । अकस्माद्दन्दशूकस्ता-मदशत्तावदुत्कणः
॥ २५७ ॥ आर्यपुनार्यपुत्राहं, दष्टा दुष्टात्मनाऽहिना | इति प्रलापवाचाला, चाला मूर्छालतामगात् ।। २५८ ॥ ततः क्षिति-
पतिः क्षोभा-दवधीरितधीरिमा । क्रन्दन् विपागदंकारा-जपादाह्वास्त विह्वलः ॥२५९ ॥ यावत् किंचिदुपक्रान्तं, प्रचण्डैराहि-
तुण्डिकैः । तावत् तेपामचैतन्यं, पश्यतामेव साऽभ्यगात् ॥ २६० ॥ क्षणप्रीतस्य राज्ञोऽथ, शोकः शतगुणोऽभवत् । कृतवि-
ध्यातदीपस्य, तमो हि बहुलायते ॥ २६१ ॥ ततो विस्रस्तधम्मिन्छः, क्षिप्रक्षौमो लठनुजः। निमीलिताक्षो मूर्छालः,
क्ष्मापालःक्ष्मातलेऽपतत् ।। २६२ ।। अथ द्विगुणशोकस्य, कोकस्येव दिनात्यये । लोकस्य दरमुत्तस्थु-राक्रन्दध्वनयोऽधिकाः
॥ २६३ ॥ वीजितः परिवारेण, वनान्तकदलीदलैः। कथंचित् कलयामास, चैतन्यमवनीपतिः ॥ २६४ ॥ ततः प्रियतमां
प्रीत्या, कुर्वन्नुत्सङ्गसङ्गिनीम् । रोदयन्नटवीसत्यान, विललापेति भूपतिः ॥ २६५ ॥
हन्त ! हेमाङ्गदे धातः!, कुतोऽपि कुपितोऽसि चेत् । ततः प्रथममस्यैव, प्राणान् हरसि किं न हि ? ॥२६६॥ प्राणेश्व-
मिमुन्यां वा, सत्यां हर्तुमनीश्वरः । मन्ये पूर्व तदेतस्या, जीवितव्यमपाहरः ॥ २६७ ॥ देवि ! बुध्यस्व युध्यस्व, दीनो
जल्पत्ययं जनः । किंकरं न कदाचिन्मां, त्वमवज्ञातपूर्विणी ॥२६८॥ कोपश्चेत् कोऽपि ते किंचि-न्न स्वमांगः स्मराम्यहम् ।
पुरावधीरितथास्मि, नापराधशतैरपि ॥२६९॥ किं नाम तदकाण्डेऽपि, न पश्यसि दृशापि माम् । आसतां भवदुद्दाम-प्रेम-
पल्लविता गिरः ॥२७० ॥ परं निरनुरोधाऽसि, मयि त्वं न कदाचन । किं त्वेतत्ते हरत् प्राणान्, दैवमेवापराध्यति ॥२७१॥
१ 'प्रीणाति प्रणयालापैः' इत्येकप्रतिपाठः । २ 'प्रथममस्या मे' प्रत्यन्तरपाठोऽपि साधुः । ३ अपराधम् । ४ अननुकूला।
-
॥७७॥
ममाप्यमीभिः किं प्राणै-स्त्वद्वियोगमलीमसैः । वैरैङ्गिको मृगाकोऽपि, कौमुदीरेचितः सताम् ॥ २७२ ॥ भूपालमतिवाचाल- मित्यादिपरिदेवितैः । काममुद्यच्छमानं च, जीवितान्ताय कर्मणे ॥ २७३ ।। पौरामात्यादयः पाद-पीठाऽऽलुठितमौलयः । मुहुः प्रसादयामासुः, साश्रुनेत्रममृत्यवे ॥ २७४ ॥ (युग्मम् ) ततो विदन्निदं भूमि-विडोजस्त्वं विडम्बनाम् । जानञ्जीवितमप्येत-दापदं च पदे पदे ॥ २७५ ॥ प्रेयसीविप्रयोगातः, प्रकाममवमन्य तान् । चितामासूत्रयामास, मेदिनीपतिरात्मने ॥ २७६ ॥ युग्मम् ॥ ततः पताकिनीलोकः, समस्तोऽपि पृथक पृथक् । निर्ममेऽनुमहीपालं, देहत्यागोचिताश्चिताः ॥ २७७ ॥ अर्धमुरिक्षप्य धर्माशो-रर्थिभ्योऽर्थ वितीर्य च । प्रदक्षिणयति स्माग्नि, चित्यमौचित्यविनृपः ।। २७८ ॥ चितामध्यं ततो लोके, हाकारमुखरानने । प्रियामुत्सङ्गमारोप्य, विशति स्म विशा- पतिः ॥ २७९ ॥ अपरोऽपि महीपाल-प्रसादविवशाशयः । अन्तश्चितं चमूलोकः, प्रवेष्टुमुपचक्रमे ।। २८०॥ चितासप्तार्चिपि ज्वाला, यावद्भपस्य नोदगुः । तावत् सह प्रभावत्या, पार्थोऽभ्यागानभोऽध्वना ।। २८१ ।। बिभ्राणं नवसंवर्त-पुष्करावर्त- विभ्रमम् । व्याप्सान्तरिक्षमद्राक्षी-मस्तोमं कपिध्वजः ॥२८२॥ शुश्राव दुःश्रवाः सैन्य-लोकाक्रन्दगिरोऽर्जुनः। विश्राण- यन्तीरश्रूणि, वनान्तर्वयसामपि ॥२८३॥ स्वकीयैरिव विध्याय-मानाः शोकाचवारिभिः। धूमायमानाः सोऽपश्यत्, कोटिशो रचिताचिताः ॥ २८४ ॥ सममश्रुजलोत्पीडः, कश्चिदर्याञ्जलिं जनः । रवेरुदस्यन्नुत्पश्यः, फाल्गुनेन विलोकितः॥२८५॥ १ विरागवान-कान्तिरहित इत्यर्थः । २ ज्योत्स्नारहितः। ३ पौरामात्यादीन् । ४ सेनाजनः। ५ चितासंवन्धिनं वहिं । ६ चिताग्नौ । ७ यनमध्यपक्षिणाम् ।
प्रभावती-
विरहे
तत्पतेः
हेमाङ्गद-
स्यावस्था।।
जानन् जलमिव ज्याला, चितावति कियानपि । लोकः प्रदक्षिणीकुर्वन् , वीक्षितः सितवाजिना ॥२८६ ।। देवि! तीर्णासि चेत्
कना-दपहारमहोदधिम् । किमिदानी दशेयं ते?, विधेरहह. वामता ॥ २८७॥ स्वर्लोकपथिकी देवि!, राजापि वामनुव्रजन् ।
आनृण्यमिच्छति प्रीतेः, का कथा मादृशां पुनः १ ॥ २८८ ॥ देवि ! त्वद्विरहे प्राणाः, क्षणं न स्थातुमीशते । ततस्तवैव
सार्थेन, प्रार्थयन्ते त्रिविष्टपम् ॥ २८९ ॥ एतावतो जनस्यास्य, प्राणान् हर्तुमनाः समम् । कोऽप्यहिच्छद्मना मन्ये, देवो
दैत्योऽधयाऽऽगतः ॥२९०॥ निशम्येति परीवार-परिदेवितभारतीम् । कौन्तेयस्याभवत् काम, द्विधेव हृदयं तदा ॥२९१॥
तदुवीक्ष्य क्षणान्मर्म-च्छेदमूर्छालमानसा । इत्यचिन्तयदुद्भूत-दुःखभारा प्रभावती ।। २९२ ॥ हा विधे! विदधे किं
नु, भवतेयं प्रभावती ? । विहितापीयतः किं वा, कृता दुःखस्य भाजनम् ? ॥ २९३ ॥ प्रतारितस्तया दुष्ट-विद्यया तस्य
पाप्मनः । कृतनो मत्कृते प्राणान् , प्रियस्तत्याज मे ध्रुवम् ॥ २९४ ॥ तमनु प्रस्थिता नूनं, सर्वेऽप्येतेऽनुजीविनः । शोषिते
हि न पायोधौ, जीवन्ति जलजन्तवः ॥ २९५ ॥ तन्मे प्राणेश्वरः प्राप्तः, किंचिदत्याहितं यदि । मङ्गु मोक्ष्यति तन्नूनं,
प्रभावत्यपि जीवितम् ।। २९६ ॥ विकल्पानिति कुर्वन्त्यां, तस्यां पर्यश्रुचक्षुपि । विशदाश्वोऽपि निश्वासान् , विमुञ्चनि-
त्यचिन्तयत् ॥ २९७ ॥ ममाफलित एवाय-मुपकारमहीरुहः । हा! किमुन्मूलयांचक्रे हतेन विधिदन्तिना ? ॥ २९८ ।।
बभूव भूपतेः किंचि-यदि तावदमङ्गलम् । तदसावप्यमन्मुञ्चेत् , सत्यो हि दयितानुगाः ॥ २९९ ॥ विपत्तिर्दर्शिताऽनेन,
भगिन्या भगिनीपतेः । तजीवितेन किं नाम, फाल्गुनोऽपि करिष्यति ? ॥ ३०० ॥ एवमालोचयन्नुचै-रन्तः श्वेतहयो
१ अपहार एव महासमुद्रस्तम् । २ प्राणत्यागरूपमनर्थम् । ३ 'विपत्तिदर्शिनाऽनेन' प्रतित्रयपाठः ।
N
॥७८॥
ययौ । तत्कालज्वलितोदर्चि-महीपतिचितान्तिकम् ॥ ३०१ ॥ मत्रपूतैः प्रभावत्याः, पाणिसंस्पर्शपावितैः । भूमिमर्तु- चिताऽम्भोभिः, सिपिचे सव्यसाचिना ॥३०२ ॥ राजलोकस्य सर्वस्य, तत्क्षणोत्थितहेतैयः । तेनै व्योमचरैरन्याः, सेचयांचक्रिरे चिताः ॥ ३०३ ॥ प्रभावत्याश्च जिष्णोश्च, साकं शोकहविर्भुजा । ततः प्रशान्ति तत्काल-माललम्बे हुताशनः ॥ ३०४ ॥ विमुक्तस्फारफेत्कारा, तदोत्सङ्गान्महीपतेः । पलायामास वेगेन, सा प्रपञ्चप्रभावती ॥ ३०५ ॥ ततो विश्वभराभर्ता, विस्मयस्मेरलोचनः । निर्जगाम चितामध्यात् , प्रेयसीविरहादिव ॥ ३०६॥ वियोगार्तिमनु प्राप्तः, शोक एव परासुताम् । न तु प्रभावती देवी, न चान्यः कोऽपि तामनु ॥३०७॥ प्रमोदाविष्टया, दृष्ट्या भूयः (4) संभाव्य वल्लभाम् । पीयूपाइदनिर्मन-मिवात्मानममन्यत ॥३०८ ॥ केसरश्च पुरोभूय, भूमिवल्लभमभ्यधात् । अर्जुनः पाण्डुपुत्रोऽय- मानिनाय तब प्रियाम् ॥ ३०९ ।। ततः स सहसाऽभ्येत्य, बीभत्सुमभिपस्वजे । तदीयाङ्गपरिष्वङ्गैः, स्वमङ्गं पावयनिव ॥ ३१० ।। वृत्तान्तेन ततस्तेन, प्रेङ्गोलितमनास्तदा । किमेतदिति बीभत्सु-मन्वयुङ्ग महीपतिः ॥ ३११ ॥ अथास्मै कथयामास, पार्थादेशेन केसरः । वदेयुरवेदानं हि, सन्तो नात्मीयमात्मना ॥ ३१२ ॥ तदानीं त्वामवस्थाप्य, राजजिष्णोनिदेशतः । पुनस्त्वरितमेतस्स, पादान्तिकमुपागमम् ॥ ३१३ ॥ विमानरत्नमारूढो, मनसोऽप्यधिकत्वरम् । किरीटी हेमकूटाख्यं, क्षणावीन्द्रमासदत् ।। ३१४ ॥ तत्रैकच्छत्रसाम्राज्य-सगर्वतिमिरे कचित् वृक्षलक्षपरिक्षिप्ते, प्रभुने: कन्दरेऽविशत् ॥ ३१५ ॥ मत्येकीटेन ते देवि !, कतसर्वाङ्गसमतेः । मां विधाय धवं धातु-रद्य १ हेति:-अमिशिखा । २ अर्जुनेन । ३ पराक्रमम् ।
केमरेण
कथितो-
ऽर्जुनस्य
पराक्रमः॥
.
पाप्मा विलुप्यताम् ॥ ३१६ ॥ देवि ! विद्याधरीपाणि-पल्लयोद्धतचामरम् । वैडूर्यपुरसाम्राज्य-मुपभोक्तुं प्रसीद मे ॥ ३१७ ॥
सयः कन्दलिते विद्या-वैभवेन नवे नवे । प्रासादपर्वतोद्याने, देवि ! क्रीड मया सह ॥ ३१८ ॥ देवि ! हित्वा प्रतीपत्वं,
द्वीपशैलाननेकशः । व्योमयानेन वीक्षस्त्र, मदुत्सङ्गैकसङ्गिनी ॥ ३१९ ॥ इति प्रभावती तत्र, मेघनादः प्रसादयन् ।
ददृशे खेचरो वैरि-केतुना कपिकेतुना ॥ ३२० ॥ (पञ्चभिः कुलकम् )
आः पाप! चापलं मुञ्च, जीवितं विजहासि किम् । मम पत्युः पुरो हन्त!, पुरुहूतोऽपि कातरः ॥३२१॥ मकान्तराज्ये
स्वाराज्य-गर्वसर्वकपे सति । स्तुतेविद्याधरादीनां, न पदं राज्यसंपदः ॥ ३२२ ॥ नानाचर्यमयद्वीप-शैलालोकनकौतुकम् ।
चिरायुर्मणिच्डो मे, सोदरः पूरयिष्यति ॥ ३२३॥ निद्राणे मस्त्रिये चौर!, मामहापीस्त्वमक्षतः। मृगारौ जागरूके हि, का
मृगस्य प्रेभूष्णुता १ ॥ ३२४ ॥ पारदारिक ! चैत् पाणि, मदने लगयिष्यसि । तेनैव पाप्मना मङ्घ, भस्मसाचं भविष्यसि
॥३२५॥ सिद्धविद्यः स चेद्विद्या-मद्वन्धुप्रियवान्धवः । पार्थः कथां कुतोऽप्येना, ततस्त्वमसि किं कचित् १ ॥३२६।। विद्या-
घरं तमित्यादि, विब्रुवाणां प्रभावतीम् । निध्याय मुदमध्यात्म, स्फारयामास फाल्गुनः ॥ ३२७ ॥ ( सप्तभिः कुलकम् )
कोऽयं हेमाङ्गदो नाम?, कः सोऽपि फपिकेतनः । मणिचूडोऽपि कस्तन्वि!, तन्वाने मयि धन्विताम् ? ॥३२८॥ स्वयं
दीर्घाक्षि ! दास्याय, जनोऽयमनुमन्यताम् । पठन् हठकठोरत्वं, पुनः केन निपेत्स्यते ॥३२९।। इत्यादिभिर्वचोभिस्तं, भीप-
यन्तं प्रभावतीम् । जगाद जगतां सौद-हरः श्वेतहरिः क्रुधा ॥३३०॥ (त्रिभिर्विशेषकम् ) दूरतो भव रे विद्या-धरस-
१ पापम् । २ प्रतिकूलताम् । ३ सामर्थ्यम् । ४ 'पुरः' प्रतित्रयपाठः । ५ दुःखहरः ।
॥ ७९ ॥
न्तानपासन! । मैतां पतिव्रतां श्वास-पवनैरपवित्रय ॥ ३३१ ॥ पतिव्रतामयं ज्योति-रिमामपहरिष्यतः । वपुस्तव क्षणादेव, किं बभूव न भससात् १ ॥३३२॥ वन्धुः पतिर्वा यद्यस्या, गणितौ नावलेपतः । त्वयाऽन्तश्चिन्तिताः किं न, फाल्गुनस्यापि बाहवः ॥३३३ ॥ सतीचिन्तामणेरस्या-स्तनुसंस्पर्शपाप्मनः। प्रायश्चित्तं विधाता ते, क्षणात् कौक्षेयको मम ॥ ३३४ ॥ तदा प्रमोदकल्लोले-राकुलीकृतमानसा । इत्यन्तश्चिन्तयामास, फुल्लचक्षुः पभावती ॥३३५।। चेतस्त्वं वर्धसे दिया, मम भ्रातुः प्रियः सुहृत् । कुतोऽप्यत्र बताऽऽयातः, स एवायं धनंजयः ॥ ३३६ ॥ प्रभावोऽस्ति प्रभावत्याः, सत्यं सुकृत- संपदः । सतीव्रतसरःसेतुः, कपिकेतुर्यदागमत् ॥ ३३७ ॥ सरलैकखभावोऽयं, मा स्म मायाविनाऽमुना । खेचरेण रणे शान्तं, यद्वा नन्वेष फाल्गुनः॥३३८॥ सर्वाः संभूय वीभत्सो-र्भवत्यः कुलदेवताः । शरीरमधितिष्ठन्तु, यथा स्याद्विजयी युधि ॥ ३३९ ॥ पतिव्रताव्रतस्यास्य, कोऽपि मे महिमाऽस्ति चेत् । किरीटिना दुरात्माऽयं, जीयतां तन्नभश्चरः ॥ ३४० ॥ अस्साममूदृशानल्प-विकल्पाकुलचेतसि । उवाच विजयो वाचं, खेचरापसदं पुनः ॥ ३४१ ॥ गृहाण रे क्षणात् पाणौ, किमप्यायुधमात्मनः। खगोऽयं दुष्ट ! ते रुट-स्तदेप न भविष्यसि ॥ ३४२ ॥ ऊचे च फाल्गुन वल्गु, स वल्गन् समराङ्गणे । रे! मनुष्यकमे! नश्य, किमु रोदयसि प्रियाम् ? ॥ ३४३॥ विद्याधरवधूवर्ग-वैध- व्यव्रतदीक्षिता । कष्टं कृपाणयष्टिमें, पतन्ती त्रपते त्वयि ॥ ३४४ ॥ बाला को नाम मत्पाणे-रेतामाच्छेतुमिच्छति । को हि कण्ठीरवाक्रान्तां, मृगीमाक्रष्टुमीश्वरः १ ॥ ३४५ ॥ ममामर्पहुताशेऽस्मि-नाहुतीयन्मुधा ततः । कथं मनुष्यलोकस्य, कौतु. १ पांसनः-अधमः । २ विद्याधराधमम् ।
केमरेण
कथितो-
ऽर्जुनस्य
पराक्रमः
कान्यपनेप्यसि ? ॥ ३४६ ॥ इत्युदीरयति खैरं, तस्मिन् वक्ति स्म पाण्डवः । रे! न शौण्डीरिमा वाचि, भुजेवेवावतिष्ठते
॥ ३४७ ॥ किं तु दुर्दान्तवृत्तीनां, शासनाय भवादृशाम् । उद्यता अपि नो पूर्व, प्रहरन्ति कुरुद्धहाः ॥ ३४८॥ ततः स्थमान-
मानीप, मानसं साध्वंसाकुलम् । निपातयतु निस्त्रिंशं, नृशंस ! प्रथमं भवान् ॥३४९॥ इत्याक्षेपगिरा सोऽपि, दोजागरपौरुषः।
अपकोशमसिं कृत्वा, प्रजहार कपिध्वजम् ॥ ३५०॥ तेन गाढप्रहारेण, दक्षिणेर्मा धनंजयः । तमूर्जितभुजं दृष्ट्वा, कष्टजय्य-
ममन्यत ।। ३५१ ।। ततः कपिध्वजो धौत-धारेण तरवारिणा । बाह्वोः सर्वाभिसारेण, तं हन्तुमुदतिष्ठत ॥३५२॥ निहतः
स तथा शत्रुः, स्कन्धकोटौ किरीटिना । यथा पपात मूर्छालः, शुष्कतालुर्भुवस्तले ॥३५३॥ चेलान्ततालवृन्तेन, तमुपानीय
चेतनाम् । सुधीः मधैर्यप्रागल्भ्य-मम्पत्त धनंजयः॥३५४॥ हहो ! विद्याधराधीश!, द्रमालम्ब्य दोर्चलम् । पुनः प्रहर निःशक,
मा फलकय पौरुपम् ।।३५५॥ इत्यवष्टम्भसंरम्भ, विभाव्य भयभङ्गुरः । विहाय सहसा खड्ग-मानमत् खेचरोऽर्जुनम् ॥३५६॥
नीचैरूचे च तं वीर !, व्यलीकं क्षम्यतामिदम् । भूर्भुवःस्वस्खयीलोक-त्राणशौण्डा हि पाण्डवाः ॥ ३५७ ॥ शौण्डीरचूडारत्नेन,
परखीप्रिययन्धुना । सर्वथैव त्वया नाथ !, विजिग्येऽहमनीदृशः ॥ ३५८ ॥ चारणेभ्यो भुजस्तम्भ-स्फूर्तयस्ते मुहुः श्रुताः।
खलीकृतोऽसि विधेश !, साक्षात्कर्तु मयाऽद्य ताः ॥३५९॥ परं बद्धरणारम्भ-संरम्भे हरिणद्विपि । न द्विपेन्द्रोऽप्पलं स्थातुं,
का कथा हरिणस्य तु ॥३६०|| धर्म-न्याय-सदाचार-परोपकृतयस्तव । सहायास्तत्त्वया वीर!, जगजितमहं तु कः ?॥३६१॥
किं चोपकृतमप्यस्या-मिदं भावि तैवाफलम् । यदि पथावने देव !, संप्रत्येव न धावसि ॥ ३६२ ॥ मुक्ताऽस्ति मार्गकान्तारे,
१ पराक्रमः । २ भयाकुलम् । (३ दक्षिणे ईमें प्रणमस्येति ।) ४ अपराधः । ५ 'तथा' ''तमा' इति प्रत्यन्तरपाठी न सम्यक् ।
॥ ८०॥
माया मेधाविना मया । विद्या प्रभावतीरूप-धारिणी यत् प्रतारिणी ॥३६३॥ सर्वोऽप्यनुपदी लोक-स्तया हन्त प्रतारितः । विनयति क्षणादेव, छद्मना को न वश्च्यते ? ॥ ३६४ ॥ तदुपादाय दीर्घाक्षी-मेतां गत्वा च सत्वरम् । भ्रातस्त्रायस्व विश्वस्य, जन्तुजातस्य जीवितम् ॥३६५।। अहं तु गन्तुमिच्छामि, भावज्ञ ! त्वदनुज्ञया । नातः परं तवाप्यस्मि, मुखं दर्श- यितुं क्षमः ॥३६६।। ततो विसृज्य तं प्रीत्या, प्रणिपत्य प्रभावतीम् । यानमारोप्य च स्वैरं, दधावे श्वेतसैन्धवः ॥३६७॥ भवत्प्राणपरित्यागा-शङ्कातरलिताशयः । देवस्त्व (व! त्व) रितमेवाय-मुद्देशमिममागमत् ॥ ३६८ ॥ कपिध्वज-प्रभाव- त्यो-दृष्ट्वैतत्त्व वैशसम् । भूपाल ! यदभूदुःखं, जानीतस्तदिमौ परम् ॥३६९॥ नश्यति स्म ततो देवी-पाणिपूताम्बुसेकतः । विध्यातायाश्चितायास्ते, सेयं विद्या प्रतारिणी ॥ ३७० ॥ परप्रमोदसंभार-संभूतपुलकाङ्कुरः । ततो हेमाङ्गदो राजा, व्याजहार कपिध्वजम् ॥ ३७१ ॥ शङ्के परोपकाराय, सृष्टि वि भवादृशाम् । “निर्माणं हि सहस्रांशो-र्जगदालोकहेतवे" ॥३७२॥ वीरोत्स! त्वया देवी-मिमामाहरताऽधुना । इयतो जन्तुजातस्य, संहारः परिरक्षितः ॥ ३७३ ।। कोटिशः श्रुतमद्वैतं, त्वद्भुजस्तम्भवैभवम् । साक्षात्कृतमिदानीं तु, दैवादेव- मिदं मया ॥ ३७४ ॥ वस्तु नास्त्येव तद्येन, तव स्यात् प्रत्युपक्रिया । जनोऽयमनुमन्तव्यः, किंकरत्वाय केवलम् ॥३७५।।. इति व्याहृत्य भूपेन, प्रश्रयेण गरीयसा । अनुनीय तदा निन्ये, हिरण्यपुरमर्जुनः ।। ३७६ ।। उत्सवैकमयं स्मेर-दानन्द- लहरीमयम् । सर्वसंपन्मयं स्वर्ग-सर्वाङ्गीणकलामयम् ।।३७७|| प्रत्याहर्ता प्रभावत्या, बतायमयमर्जुनः । इति निर्दिश्यमानो- १ विघ्नम्-हिंसाम् इत्यर्थः । २ कथयित्वा ।
ऽसौ, लोकैः प्रीत्याऽविशत् पुरम् ।।३७८॥ (युग्मम्) राज्ञा च राजपल्या च, राजवेश्मन्यनुद्रुतः। विवेश विक्रम-श्रीभ्यां, मूर्वि-
ममामिवार्जुनः ॥३७९|| तत्र सिंहामने हैमे, निवेश्य विवशो मुदा | जगाद पार्थिवः पार्थ-मित्थं विनयवामनः ॥ ३८० ॥
प्रीतिकीतानिमान् प्राणान् , भुजक्रीतीरिमाः श्रियः । गुणक्रीतमिदं राज्यं, कृतार्थय यथारुचि ॥ ३८१॥ पार्थोऽब्रवीदसामा-
न्य-सौजन्यस्वजने त्वयि । स्वर्गाधिपत्यमप्येत-ममैव किमिवापरम् । ॥ ३८२ ॥
प्रौदप्रणयमन्योऽन्य-मित्युल्लापवतोस्तयोः । क्षणेन मणिचूडोऽपि, तत्र व्योमाध्वनाऽऽगमत् ॥ ३८३ ॥ प्रणिपत्य
यथौचित्यं, तानशेपान् विशेषवित् । स खेचरपतिः पार्थ-मुवाच रचिताञ्जलिः ॥३८४॥ भगिनीहरणोद्भूतं, जयोदाहरणं तव ।
उपगीतमुपश्रुत्य, खेचरैरहमागमम् ॥३८५। एकैकमवेदानं ते, वागीशस्यापि नेशते । गरीयस्यो गिरो वक्तुं, किं पुनर्मादृशा-
मिमाः १ ॥३८६॥ कृते किं तु प्रभावत्याः, प्रत्यानयनकर्मणि । राज्यदानाधमोऽहं, ब्रवीमि किमतः परम् ? ॥ ३८७ ॥
तमूचेऽथ पृधासूनु-रहो ! किमिदमुच्यते । । आत्मन्येवात्मनः किं स्या-दुत्तमर्णाधमर्णता ? ॥३८८॥ किं च मामुल्लमत्त्रीति-
भगिनीयं प्रभावती । शश्वत्रैलोक्यजैत्राभि-राशीर्भिरभिनन्दतु ॥३८९॥ ततस्तद्भक्तिसंभार-रज्जुसंदानिताशयः । निनाय
दिवमान् पाण्ड-पुत्रस्तत्रैव कांचन ।। ३९० ॥
कश्चिदप्यन्यदा पूर्व-संस्तुतो हस्तिनापुरात् । अभ्येत्य भसोत्फालः, फाल्गुनाय व्यजिज्ञपत् ॥३९१॥ कुमार !
चारचक्रेभ्यो, निशम्य त्वामिहागतम् । स्नेहादाबातमहाय, पिता ते प्रजिघाय माम् ॥ ३९२ ॥ वार्द्धकाऱ्याः क्रियाः कर्तु,
१ पराक्रमः । २ 'आत्मनैवा०' प्रत्यन्तरम् । ३ सदानित:-बद्धः ।
अर्जुनस्य
हेमाङ्गद-
नगरे
गमनम् ।
तत्र मणि-
चूडस्या-
गमनम् ॥
॥८१ ॥
राम राज्ये तपासतम्। अभिषेकुगनार काम-गुर्षीशस्त्वामपेक्षते ॥ ३९३ ॥ प्रतिप्रातरपश्यन्ती, कुन्ती त्वद्वदनं Hit ललसमसारम-जपालजटिले शौ ॥ २९४ ॥ इत्युपभुत्ल तयाप-गाचान्सहदगो मुदा । पिठोः गोहेन पीभ- Re-rear ॥ ३९५ ॥ ततस्तमाद मीमरा-रा शगये जिनम् । नगरकगागागात, पण त्वं उ पुरो ३९ ॥ इति । शयं-जगं पति जगा । सा भूरोपरेलामा पनि रग गिहागगा ॥ ३९७ ॥ पास ५१५२५१ या लिने परम्परागत -शनापण्डितोमः॥२९॥ परयुजगागगोपिन्व- तथा नीलम TAIो पानी ॥ ३९९ ॥ तो विधा गरिरमाणे, अगमपागनिसानिग । भASTRAITarift || या सापा, पोलतो! । निम्मे परिनि भाग, रापरीपार- मान 8.hiruin मुसित समय नि भानरचना ॥ १०२॥ मोय स्वागती है। सचना भागती विपनामानि ॥ १०३ ॥ गादगीमतो- नीति कापीयूवतीया । पशुपदिगोलि तपासणीसा | MP पानिमाविको जिष्णो-पभूगोऽष्णदिरात । ETHAT ति सारित वामन 04 ॥ वितीकसितोगुणे-जिEETणानुरोगा। उत्सगैकमगार मानीमा पास ॥६॥ Apron. it it सुभदया। हरितगापुरसार KMT. पारणे फपिरानः ॥ ४०७ ॥ ततः स । | 414141 MIोना। २ ।।
द्वारका
गतस्या-
र्जुनस्य
सुमद्रया
विवाहः।
ततो ह.
खेचरानीक-विमानैस्तिरयन्नमः । चचाल मणिचूडेन, समं हेमाङ्गदेन च ॥ ४०८ ॥ विमानमनुकामीन-मध्यासीनो
विलोकयन् । सर:-मरि-बगा-राम-पुर-ग्राममयीं महीम् ।। ४०९ ॥ खेचरेन्द्र-नरेन्द्राम्या, श्रिताभ्यामभितोन्तिके । दत्ततालं
मिथस्तास्ताः, कुर्वन् प्रमदसंकथाः ।। ४१० ॥ पुष्यन्तं चादवीयस्त्वा-तापैस्तीवैर्विवस्वतः। शुष्यन्तं च धत्स्वेदं, वही-
योभिनमोनिलैः ॥४११।। वहन् हर्षभरोल्लुण्ठ-मुत्कण्ठतरलं मनः । आसीदत् सीददानन्द, हस्तिनापुरमर्जुनः ॥ ४१२ ॥
( चतुर्भिः कलापकम् ) धावन्तः खेचराः काम-महंपूर्विकया ततः । आयान्तं पृथिवीभर्तुः, पृथासूनुमचीकथन् !!
४१३ ॥ शोकमानन्दतां निन्ये, मेदिनीशस्य तद्वचः । शुद्धः सिद्धरसः शुल्वं, महारजततामिव ॥४१४ ॥ हर्षाश्रुः
विन्दुसंदोहः, स्थाने शोकाश्रुविनुपाम् । पृथायाः पप्रथे कृत्स्नो, ज्योत्स्नेव तमसां पदे ॥ ४१५ । बभूव रभसाचेतः, सोद-
राणां विकस्वरम् । भास्वत्युदीयमाने हि, किमु जीवति नाम्बुजम् ? ॥ ४१६ ॥ आदिश्य पुरि तत्काल-मुत्सवं सपरिच्छदः।
तन मनसः पश्चा-भूपतिः प्रत्युबजत् ॥४१७। मेदिनीपतिमा(रा)गत्य, पुरद्वारखनावनौ । अनेदीयांसमुद्दयोत-संभारंभृशमै-
क्षत ॥ ४१८॥ मार्तण्डमण्डलैः पूर्ग-तिथैरिव मरुत्पथः । व्याप्यमानो विमानौधै-स्ततः मापेन वीक्षितः ॥ ४१९ ॥
क्षणादैत्यन्त सामन्त-मायुरातपवारणैः । सैन्यानि पितुरुधान-भ्रम पुष्णन्ति जिष्णुना ॥४२०॥ महीयोभिर्महापुञ्ज-मुहुर्म-
अरयदिशः । विमानमवनम्पैक-माजिहीत महीतलम् ।।४२१॥ नरेन्द्र-खेचरेन्द्राभ्यां, ताभ्यां तस्मादनुद्रुतः। नितान्तमुदि-
तस्वान्तः, कपिकेतुरवातरत् ॥ ४२२ ॥ पित्रोः क्रमात् क्रमाम्भोज-माकुलालिकुलायितैः । ममार्जावर्जयन्मौलिं, कौन्तेयः
१ इच्छानुसारि । २ ताम्रम् ।.३ पूगीफलतुल्यैः ।
स्तिनापुरे
गमनम्॥
॥८॥
कुन्तलोचयैः ॥ ४२३ ॥ उत्थाप्य रभसाचाम्या-मानन्दाथुकणोत्करैः। सिच्यमानतनुः स्वैर-मालिलिङ्गे धनंजयः ॥४२४॥ तीर्थतोयाभिपकोत्थ-पावित्र्यस्येव काम्यया । ताभ्यां कपिध्वजो मूर्भि, मुहुर्मुहुरचुम्ब्यत ॥ ४२५ ॥ समस्तजाह्नवेयादि- गुरुवर्गे समन्ततः । प्रतिपेदे यथौचित्य-माचारः सव्यसाचिना ॥४२६॥ स ननाम क्रमाज्ज्येष्ठ-बान्धवान् विश्ववान्धवः । श्लिष्यति स्म च सानन्दं, वन्दमानान् कनीयसः ॥ ४२७ ॥ भूपतिप्रमुखं सर्व, ततः स्वजनमण्डलम् । आरोहयद्विमानं तत् , स्वयमप्यारुरोह सः॥४२८ ॥ झणज्झणिति माणिक्य- किङ्किणीमालभारिणा । मार्जनोर्जस्वलस्वर्ण-वैजयन्तीविराजिना ।। ४२९ ॥ सौरभोदारमन्दार-कुसुमोचूलशालिना । अनत्य न्तीनया नीचै-त्या तेनाथ गच्छता ॥४३०।। प्रमोदविंशदैः पौर-नेत्रै राजितोऽर्जुनः। अविशद्दिव्यसङ्गि-शृङ्गारमधुरं पुरम् ॥ ४३१ ॥ (त्रिभिर्विशेषकम् ) विस्मयस्मेरनेत्राभिर, खेचराणामितस्ततः । विमानानि मृगाक्षीभि-निरीक्षांचक्रिरेत- राम् ॥ ४३२ ॥ दध्वान दुन्दुभिर्वाद, हतो विद्याधरैदिवि । तत्संहादिव क्षोणी-पीठे वैण्ठैश्च ताडितः ॥ ४३३ ॥ कौमी- नामपामाप्य, पशिवः संगमोत्सवम् । नालमुत्थातुमश्वीय-खुरक्षुण्णा अपि क्षितेः ॥ ४३४ ॥ राजवर्त्मध्वजा रेजु-मरुद्वेल्लित- पल्लवाः । विद्याधरविमानानां; कुर्वन्तो गणनामिव ।।४३५॥ पश्यन्तः परितः पौर-योपितः पोपितथियः। हस्तिनापुरमेव द्या- ममन्वत नभश्वराः ॥४३६॥ निध्यायन्तः सरोमाञ्चं, मञ्चान् गगनचारिणः। विमानेषु मनश्चक्रु-रनास्थाशिथिलं मुहुः॥४३७॥ पार्थमेकमनेकासा, पौरसारङ्गचक्षुपाम् । नेत्रपत्रैः पिबन्तीनां, युक्तं यन्नाशितंर्भवः ॥४३८॥ इभालोकभिया भ्रष्ट-नीविः १ अनतित्वरया । २ 'मधुरः' प्रतिद्वयपाठः । (३ भृत्यैः।) ४ तृप्तिः ।
अर्जुनस्य हस्तिनापुरे प्रवेशः॥ सस्तोत्तरीयका । काऽप्युच्चैर्दर्शयांचक्रे, खेचरैः सस्मितैमिथः ।। ४३९ ॥ वदनाम्भोजसौरम्य-भ्रमभृङ्गकुलाकुला। नर्तयन्ती करौ काचित् , खेलयामास खेचरान् ॥४४०|| पार्थालोकनलाम्पट्यात् , पणांस्तांस्तान् प्रतिश्रुतान् । गाढालेपमुखान् पत्या, काचिदस्मार्यताधिकम् ॥४४१॥ प्रतिस्थानमथ स्यूत-चूतपल्लवतोरणम् । रम्भास्तम्भपरीरम्भ-मीलत्तरणिदीधिति ॥ ४४२॥ प्रतिद्वारमलिन्देषु, मुदा गोत्राङ्गनाजनैः । मौक्तिकस्वस्तिकोदात्त-दत्तकुडमगोमुखम् ॥ ४४३ ॥ कक्षान्तरगवाक्षस्थ-पाञ्चाली- लोचनैर्मुहुः । प्रत्युद्यातः शनै,जे, राजमन्दिरमर्जुनः ॥ ४४४ ॥ (त्रिभिर्विशेषकम् ) सकत्यविच पुरस्कृत्य, भूपतिप्रभृवीन् गुरून् । जगन्मानसमारूढो, विमानादवतीर्णवान् ॥ ४४५ ॥ प्रीत्या कुत्या कृतं तत्त-दरतारणमङ्गलम् । प्रतिगृह्य प्रतीहारै-ईरमुत्सारितप्रजः ॥ ४४६ ॥ सर्वतः खेलदुत्ताल-चन्दिकोलाहलाकुलम् । मध्यम- न्द्रिसौघस्य, विशति स्म धनंजयः ॥ ४४७॥ आस्थानीपीठमास्थाय, पाण्डवण्डांशुतेजसा । स्नेहालापैचिरं तस्थौ, भक्तिनश्रेण सूनुना १४४८॥ तपोरानत्रतामाजोः, सुतस्य प्रियमित्रयोः। आवासौ स निंजावास-देशीयावदिशन्मुदा ।।४४९॥ स्वस्थानं मेदिनीभर्तु-रादेशागतयोस्तयोः । प्रणम्य प्रणयप्रहः, पार्थः स्वावसथं ययौ ॥४५०॥ आग्रहात् प्रतिजग्राह, तत्र दाक्षिण्यदीक्षितः । पौर-जानपदा-मात्य-सामन्तोपायनान्यसौ ॥ ४५१ ॥ हर्पसोत्कर्षमाभाष्य, विसृज्य निखिलं जनम् । प्रेमपष्टवितः सोऽप, सैरंध्रीसौधमाविशत् ॥४५२॥ चेतसा प्रथमं पार्थ-मभ्युत्तस्थौ ततो दृशा । देहेन तदनु स्वेद-रोमाच- मनिवेन मा ॥४५३।। अनीशाऽपि भृशोन्मील-साध्यसा प्रतिपत्तये । कामं बहुमता जज्ञे, याज्ञसेनी किरीटिनः १४५४।। १ गोमुग्र-लेपः । २ निजावासतुल्यौ । ३ द्रौपदीसौधम् ।
बलादातन्वतोनॆत्र-प्रवर्तन-निवर्तने । पश्यन्त्यां तं रणस्तस्या-मौत्सुक्य-त्रपयोरभूत् ॥ ४५५ ॥ कृष्णा जिष्णो चिरानेह- मुपेयुपि ददौ मुदा । कटाक्षपटलव्याजा-दय॑मिन्दीवरैरिव ॥ ४५६ ।। क्षेप्तुकाम इवात्यन्त-मन्तदेहं कपिध्वजः । भुजोप- पीडं प्रक्रीड-प्रीतिरालिङ्गति स्म ताम् ॥ ४५७ ॥ तदाश्लेपसुखास्वाद-निमीलितविलोचनः । चिरप्रयसनक्लेश-मपनिन्ये धनंजयः ॥ ४५८ ॥ साऽपि विश्वत्रयीं मेने, तदा तत्संगमोत्सवे । सुधामयीमिवानन्द-परिस्पन्दमयीमिव ॥४५९॥ अध्या- सामास पल्यत, तुल्यः कुसुमधन्वना । जिष्णुरध्यासयांचक्रे, तां च प्रतिकृति रतेः॥ ४६० ॥ प्रेमवास्तिया साध, तास्ताः कुर्वन् कपिध्वजः । तदमन्यत निःशेप-महोरात्रमपि क्षणम् ॥ ४६१ ।। हेमाङ्गदश्च भूपालो, मणिचूडश्च खेचरः । चिरं सितयप्रीत्या, पुरे तस्मिन्नतिष्ठताम् ॥ ४६२ ॥ मेदिनीपतिरन्येद्यु-राहूय विजयं रहः । विश्वस्य कुशलोदर्क, वितर्क स्वमचीकथत् ॥ ४६३ ॥ वत्स ! वीक्षस्व कर्णान्त- पलितंकरणी जराम् । इयं प्रर्वतयत्यद्य, धर्मकर्मणि मां बलात् ॥ ४६४ ॥ विषयाः सहवास्तव्याः, श्यामलैरेव कुन्तलैः । सितीभूतैः पुनर्धमः, सख्यं हि समशीलयोः ॥ ४६५ ।। जरस्यपि मनः कुर्व-त्ररो भोगाभिलापुकम् । प्राकृतैरपि हस्येत, किं पुनर्विशदाशयः । ॥ ४६६ ॥ धर्मपीयूपकूपस्य, पीतपूर्वी पयः पुमान् । मृत्यु मरुमिवातीत्य, यानि मुक्तिपुरी सुखम् ॥४६७॥ तनिक्षिप्य क्षमाभारं, सर्वज्येष्ठे युधिष्ठिरे। धा एव क्रियाः काम, कर्तुमिच्छति मे मनः ।। ४६८ ॥ ग्रहीभूतस्तथा लोको, गुणोधैर्धर्मजन्मनः । तत्कथाभिर्यथा जज्ञे, नित्यमुजागरः पुरे ॥ ४६९ ॥ गुणैरस्येन्दुदायादै-मनोवेश्मनिवासिभिः । अर्वे १ कामदेवेन । २ कुशलपरिणामम् । ३ चन्द्रसदृशैः । ४ मूल्यम् ।
अर्जुनसं-
मत्या युधि-
छिरराज्या-
मिषेको
पक्रमः॥
क्रय इस प्रीतिः, प्रकृतीनामदीयत ॥ ४७० ।। गाङ्गेय-धृतराष्ट्राधा, ज्यायांसोऽपि तपःसुते । राज्यधुर्योऽयमेवेति, सर्वे
मनसि मन्वते ॥ ४७१ ।। अस्तु राजन्वती भूमि-स्तदेतेन चिरादियम् । सर्वस्याप्यस्य लोकस्य, पूर्यन्तां च मनोरथाः
॥ ४७२ ॥ वत्स! प्रतीक्षितोऽसि त्व-मेवावन्ति दिनानि तु । मघोरभ्युदयः श्रेयान् , विना न मलयानिलम् ।। ४७३ ॥
उभाकीदमाकर्ण्य, वचः प्रीत्या महीपतेः । सव्यसाची ततो वाच-मुवाच विनयान्विताम् ॥ ४७४ । इदं तातस्य
को नाम, वचो न बहु मन्यते । “ कोविदः को हि कुर्वीत, मीमांसामागमोक्तिपु?" ॥ ४७५ ।। प्रियंकरा च नो कस्य,
श्रीसंक्रान्तिस्तपःसुते ? । " श्रयन्तीह सुधारश्मि, न मुदे कस्य कौमुदी १" ४७६।। गिरमेतां च तातस्य, यः प्रमाणयिता
न हि । मामकास्तस्य मूर्द्धानं, सहिष्यन्ते न सायकाः ॥१७७॥ इत्यात्मजन्मनो वाचा, प्रीतचेताः क्षितीश्वरः । धर्मात्मजा.
मिपेकाय, तत्कालमुपचक्रमे ॥ ४७८॥
कुष्णादीनवनीपालान्, तैराहाययन्नृपः । दूरात पुप्पंधयान् पुष्प-सौरभैरिव भूरुहः ॥ ४७९ ॥ निवासाः माभुजा
रेजुः, परितो हस्तिनापुरम् । सर्वतोऽपि तुपारांशु-मालिनं तारणा (का) इव ॥४८०॥ तूर्यप्रणादमेदस्वि-नारीमङ्गलगीतिभिः ।
सन्दाद्वैतमयस्तस्मिन् , पुरे प्रावर्ततोत्सवः ॥ ४८१ ।। व्योमलक्ष्मीविनीर्मीय-माणनिर्जिनश्रियः । वैजयन्त्यो जनस्तस्मिन् ,
समुचिक्षिपिरे पुरे ॥ ४८२ ॥ हर्षाकुलवलचेटी-कुचसंघट्टचूर्णितैः । राजवेश्मभुवो हारै-क्रिरे बद्धसैकताः ॥ ४८३ ॥ तोर-
णानि जनैः स्वस्व-मन्दिरेषु चिकीर्षुभिः । निप्पत्राचक्रिरे कैलि-काननाम्रवणश्रियः ।। ४८४ ॥ प्रतिमन्दिरमुत्क्षिप्त-कदलीस्त-
१ विचारणाम् । २ भ्रमरान् । ३ चन्द्रम् ।
-
॥८४॥
म्भकान्तिभिः । नगरं तन्महानील-शिलामयमिवावभौ ॥ ४८५ ॥ राजते स्म जनैर्दिव्य-नेपथ्याभरणोज्वलैः । तत्पुरं साम- रेव घौ-रवतीर्णा महीतलम् ॥४८६॥ नानायामागतग्राम्य-सैणपाणिधमाध्वनि । अपूर्यत पुरे तस्मिन् , पौराणां नेत्रकौतुकम् ॥ ४८७ ॥ मिलनिखिलभूपाल-सुरजपुरखण्डितम् । अभिपेकजलप्लाव-भियेव यां ययौ रजः ॥ ४८८ ॥ गान्धारी-मा. द्रिकामुख्य-मालोक्यान्तःपुरीगणम् । रचितानेकरूपेव, मन्यते स्म शची जनैः ॥ ४८९ ॥ तपःसुताभिषेकाय, माणिक्यमयमझुतम् । विमानं मानवेन्द्रेण, पर्यकलप्यत शिल्पिभिः ॥ ४९० ॥ तत्र धात्रीपतिर्विप्रैः, कृतनीराजनाविधिम् । वशी निवेशयामास, भद्रपीठे युधिष्ठिरम् ॥ ४९१ ॥ पुरोहित पुरस्कृत्य, मंत्रसंस्कारपावितैः । पार्थि- वस्तीर्थपाथोभि-रभ्यपिश्चत्तपःसुतम् ॥ ४९२ ॥ सर्वेऽप्युर्वीभृतः स्वर्ण-फलशावर्जितैस्ततः । सहर्षमभ्यपिश्चन्त, वारिभिर्ध- मनन्वनम् ॥ ४९३ ॥ पतन्तः पयसामोया-तस्य मूभि विरेजिरे । प्रायपेण्यपयोवाह-प्रभवा इव भूभृतः ॥ ४९४ ॥ चित्रं तस्यारिभूमीभृ-शदादविर्भुजः। अभिपेकजलैर्लक्ष्मी-मगाहत महः परम् ॥ ४९५ ॥ प्रवाहः पयसां धर्म-पुत्रगात्रावित्रितः। पुपूपुखि तत्कालं, पपात स्वःसरिताले ॥४९६ ॥ मूखि यशोपीजै-हिरकरम्वितैः । अवाकिरंस्तमाचार-लाजै राजीवलो- गनाः ॥ ४९७ ॥ गम्भीरमधुरैस्तूर्य-निनदैरुच्छितोच्छूितैः । कल्याणशंसिभिः प्रीति-रजागर्यत कस्य न १॥ ४९८ ॥ गोत्र- गागीशसंवान-स्तुतिपूतास्तपःसुतः। शुश्राव श्रवणानन्द-स्पन्दिनीर्यन्दिना गिरः ॥ ४९९ ॥ १ सोपा गौ:-स्वर्ग इव । (२ अन्धकारागृते।) पाणिं धमतीति पाणिधमः । ३ अकार्यत । ४ 'तत् कामम्' इति गरे गा-गकागलं, फाग-अतीव इत्यर्थः कर्तव्यः । .
युधिष्ठिर
भिषेकः।
अधिम्पः स ददौ ताव-द्रव्यमव्याहताशयः । यावता जज्ञिरे तेऽपि, शश्वदर्थिजनार्थिनः ॥ ५०० ॥ मुश्चन् सत्कृत्य
धाराल-वैरकूरात्रिपूनपि । स क्षणादकरोत् कारा-विशोधनमधिद्युतिः॥५०१।। अधर्मद्रुमसंतान-च्छेदनादभ्रमावहः । दीयते
स्म तदादेशा-दमारिपटहः पुरे ॥ ५०२ ।। दग्धकर्पूरघूमोत्थ-नवमेघालिमालिपु | स पुरेऽकारयजैन-मन्दिरेषु महोत्सवम्
॥ ५०३ ॥ निधीशनिधिसर्वस्व-भ्रमकारीणि भूभुजाम् । मङ्गलोपायनान्यस्य, प्रविशन्ति स वेश्मनि ॥ ५०४ ॥
ततस्तमभिषेकान्ते, कक्षान्तरनिवेशिनम् । दिव्यैः प्रसाधिकास्तैस्तै-नेपध्यैरुपतस्थिरे ॥ ५०५ ॥ तास्तस्य भ्रमरश्यामा-
नयनिनिपिरीमंताम् । केशानुद्वापयामासु-धूमैरगरुजन्मभिः ॥ ५०६ ॥ तस्य मूर्द्धनि धम्मिल्लं, मल्लिकादामगर्भितम् । मुक्ता-
चलयितोपान्तं, रचयन्ति स तास्ततः ॥ ५०७ ॥ छादितादित्यमत्यच्छं, शरदभ्रं जिगीपुभिः । चन्दनैश्च तदीयाङ्गं, व्यलिम्पं-
श्रम्पकयुति ॥ ५०८ ॥ शरजयोत्स्नासमुच्छेक-च्छेदच्छेकतराती । ताः पर्यधापयन्नेनं, दुकूले हंसलक्ष्मणी ॥५०९॥ उदया-
दिशिरथुम्पि-चण्डरोचिर्विडम्बनम् । कार्तस्वरकिरीटं च, तदीये मूर्द्धनि न्यधुः ॥ ५१० ।। तथ्यगीरथदेश्याऽऽस्य-चक्रद्वयम-
नोरमे । न्यस्यन्ति म्म तथा तस्य, कर्णयो रत्नकुण्डले ।। ५११ ॥ माणिक्यनिष्कसधीची-मामुञ्चन् हारवल्लरीम् । कण्ठे चास्य
मिता कीर्ति, प्रतापकलितामिव ।। ५१२ ।।
अधोत्थाय ततो चार-स्त्रैणचालितचामरः । मृगाङ्कमण्डलाकार-श्वेतच्छवविराजितः ॥ ५१३ ।। मुदितैर्वन्दिसंदोहै-रुदी-
रितजयपनिः । धावद्दौवारिकवात-विहितालोकनिःस्वनः ॥५१४॥ तत्कालं फाल्गुनादेशा-न्मणिचूडेन निर्मिताम् । समां
( १ सान्द्रताम् ।) २ निष्कम्-वक्षोभूपणविशेषः ।
॥८५॥
IN रत्नमयी दिल्या-मध्यतिष्ठगुधिष्ठिरः ।। ५१५ ॥ (त्रिभिर्विशेषकम् । ) नभःस्फटिकभित्नीना, यस्यामचिदितान्तरः । तम. सीप फरसा-दालोकेऽप्यचलजनः॥ ५१६ ॥ ज्वलन्माणिक्यतेजोभि-रलक्षितनतोन्नताः । यस्यामन्तःपतन्तः के, नागमञ्जन. हास्पताम् ॥ ५१७ ॥ द्युतिसादृक्ष्यदुर्लक्ष्य-जले नीलाश्मकुट्टिमे । दिव्या यस्यामभून्मन-मधुपालिर्मणालिनी ॥५१८ ॥ इन्द्रनीलक्षितिर्यस्या-मश्मिपरिवारिता । वभौ ज्योत्स्नामिरावृत्य, रुद्धव तिमिरावलिः ॥ ५१९ ।। नानारत्नान्तरस्तम्भ- कान्तिसंक्रान्तितो यभुः । यस्यां ज्योतीरसस्तम्भाः, मर्वरत्नमया इव ॥५२० ॥ आश्रितानेकवर्णाढय-वितानप्रतियातना । सवितानेप माति स्म, यस्यां भूरप्यधस्तनी ।। ५२१ ॥ रत्नस्तम्मेषु विश्रान्त-सर्वाङ्गप्रतिमास्तदा । यस्यां वारविलासिन्यः, पाशालीतुलनां दधुः ॥ ५२२ ॥ नमः स भूपतिस्तस्या, मणिसिंहासनं महत् । आक्रान्तवान् सुनासीरः, सुधर्मायामिवा- चमौ ।। ५२३ ॥ प्रणेमे मणिकोटीर-कोटिकुट्टितकुट्टिमैः । स राजाभिनवो भूपै-राज्ञाभारानतैरिव ॥ ५२४ ॥ सतः सचिवसामन्त-पौरजानपदादयः। ते रत्ना-श्व-करिप्रायै-रुपतस्थुरुपायनैः ॥ ५२५ ॥ सेवायातैर्दिशामीशै-रिव सामीप्यपर्तिभिः । बभौ साक्षादियोपायः, स चतुर्भिः सहोदरैः ॥५२६ ॥ अथ तस्य पयोराशि-रसनायामपि क्षिती। आज्ञालेखा विनिर्जग्मुः, प्रतापा इव जगमाः ॥५२७ ॥ मयि सत्यपि को नाम, जगत्यस्मिन्निनोऽपरः ? । इतीवाश्वखुरो- रखात-पांशुपीतार्फमण्डलः ॥ ५२८ ॥ खेचरा अपि पश्यन्तु, राजपाटीक्रमं मम । इतीव दन्तिदानाम्भ:-शमिताशेप- भूरजाः ॥ ५२९ ॥ मा स्म दिकुञ्जरेन्द्रेभ्यः, कुप्यन्तु मम दन्तिनः । इतीय सैन्यमायूर-च्छत्रच्छन्नदिगन्तरः ॥ ५३० ॥ १ प्रतियातना-प्रतिमा-प्रतिकृतिरित्यर्थः । २ साम-दाम-दण्ड-भेदाः एते चत्वार उपायाः । ३ स्वामी ।
युधिष्ठिरस्प
राज्या-
भिषेकः॥
नयनाअलिभिः पौर-नारीभिचालिताञ्चलम् । पीयमानो मुहुः प्रीत्या, हास्तिनं सोऽत्यहस्तयत् ॥ ५३१ ॥ (चतुर्भिः कला-
पकम् ) वन्धुप्रीत्या गुरूणां च, पर्यालोचेन तरक्षणात् । दुर्योधनं स राजान-मिन्द्रप्रस्थेऽभ्यपिञ्चत ॥ ५३२ ।। अन्येषामपि
वन्धूनां, धृतराष्ट्रात्मजन्मनाम् । पार्थिवः स यथौचित्यं, ददौ देशान् पृथक् पृथक् ॥ ५३३ ॥ उत्सर्पदुत्सवमयं स विभुः
समाप्य, राज्याभिषेकमहमिद्धमहाप्ररोहः । सत्कृत्य कैटभरिपुप्रभृतीनरेन्द्रान्, रत्नोत्करैर्निजनिजान् प्रजिघाय देशान्
॥५३४॥ इति जितपुरुहूतः स्फीतपुण्योपहृतः , प्रतिनतनृपतिश्रीसेव्यमानाधिपाः । ससुरभिगुणमालो मालतीदामकुन्द-स्त-
वकविशदकीर्तिः पूंगमहां निनाय ।। ५३५ ।।
इति मलधारिश्रीदेवमभसूरिविरचिते पाण्डवचरिते महाकाव्ये पार्धतीर्थयात्रा-
युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥
अथ षष्ठः
सर्गः।
अथ पाण्डुर्विमुक्तथी-रात्मारामैकमानसः । मुक्तावुत्थातुकामोऽपि, तत्रैवास्थात् सुताग्रहात् ॥ १॥ धृतराष्ट्रं पुनः
सूनु-भक्तमानी सुयोधनः । इन्द्रप्रस्थ व्यवस्थावि-निनाय सममात्मना ॥२॥ युधिष्ठिरगुणग्राम-कामसंदानिताशयाः।
१ 'प्रतिनव०' प्रतित्रयपाठः । २ समूहम् । ३ 'व्यवस्थायै' प्रतिद्वय० ।
॥८६॥
गाङ्गेय-विदुर-द्रोणा, हास्तिने व्यवतस्थिरे ॥३॥ पाण्डोस्तपःसुते वाद, रेजिरे राज्यसंपदः । भृशायन्ते हि तेजांसि, प्रदीपे जातवेदसः॥ ४ ॥ सौम्ये च दुःप्रध च, तस्मिन् पल्लविता भृशम् । वनराजीव राज्यश्रीः, शिशिरोष्णे मधाचिव ॥५॥ प्रतापदुःसहे तस्मिन् , पुष्णाति स्म तरङ्गितः । कीर्तिकल्लोलिनीर्धों, धर्माविव नीरधिः ॥६॥ तत्तेजोऽग्निस्तनूपाः, प्रताप्य विरसा द्विपाम् । तारैर्यशोभिरावय, पूरयामास रोदसी ॥७॥ ध्वान्तध्वंसिनि सत्येव, गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मि-मनन्दुरधिकं प्रजाः ॥८॥ दिग्जिगीषाकृतोन्मेपं, तस्य ज्ञात्वा मनोऽन्यदा । कनीयांसः समं नत्वा, चत्वारोऽपि पभापिरे ॥ ९॥ किं नाम जग- दुशोत-हेवाकेषु गभस्तिए । तमःसंभारभेदाय, भानुरुद्यच्छते सयम् ? ॥१०॥ देव ! दक्षिणवाते-न्दु-वसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय, कामः किं धावति स्वयम् ? ॥ ११ ॥ पुरस्सरेषु किं नाम, तरङ्ग-समिरो-मिषु । जलाशयः स्वयं पान्ध-खेदच्छेदाय सादरः १ ॥ १२ ॥ सत्सु तत्रिजगज्जैत्र-भुजेपु निजवन्धुपु । दिशां जयाय देवेन, न प्रस्थातव्य- मात्मना ।। १३ ॥ इत्याकर्ण्य वचस्तेपां, जहर्ष जगतीपतिः। निदेश्यैहि जयो राज्ञां, कीर्तिमावहते पराम् ।। १४ ॥ क्रमा- म्भोजनतानीति-चतुरचतुरोऽपि तान् । अंसयोरामृशन् प्रीत्या, स दिशो जेतुमादिशत् ॥ १५ ॥ राजाशेत्यन्वमन्यन्त, चतुरजां चमूममी । मृगेन्द्रः करिणो हन्ति, किं मृगैः परिवारितः ? ॥ १६ ॥ कुन्ती-मायादिभिगोत्र-युद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यै-श्चत्वारोऽपि पृथक पृथक ॥१७॥ भीमः प्राची दिशं जिष्णु-रसाची नकुलः पुनः । प्रतीची सहदेवस्तु, किलोदीचीमशिश्रियत् ॥ १८॥ चतुर्भिरप्पनीकैस्तै-राक्रान्तां
युधिष्ठिरा-
वया मी-
मादीनां
दिग्यात्रा-
गमनम् ॥
परितः क्षितिम् । यभार समभारत्या , सुखमेव फणीश्वरः ॥१९|| एभिः प्रसभमारब्धाः, कुर्युः किं नाम भूमिपाः ? । इतीन
द्रष्टुमुचैर्या-मारोहदाहिनीरजः ॥ २०॥ निशेपारिखधूनेत्र-सलिलैः कुलमुद्रुजाः । सवन्तीनौभिरुत्तेरु-स्ते गुल्फद्वयसीरपि
॥ २१ ॥ दिनिकुजेषु मूर्च्छन्त-स्तेषां निखाननिस्वनाः । भूभृतां दारयामासु-दरीश्च हृदयानि च ॥ २२ ॥ आत्मीयमपि ते
वाहो-रूग्माणमसहिष्णयः । केतनालिच्छलान्मन्ये, कदलीवनसेविनः ॥ २३ ॥ क्षुण्णा हरिसुरैर्दन्ति-पादपातैर्मतीताः ।
भुवस्तत्कीर्तिचीजाना, वापयोग्या इवावभुः ॥ २४ ।।
अथ भीमः क्रमात् काम-रूपान् भीमभुजो ययौ । सैन्यदन्तिमदस्पार्द्ध-कालागुरुरसस्रुतीनं ॥२५।। तदीया श्रियमादाय,
म ततार सुरापगाम् । लम्मयन् कुम्भिनां दान-र्यमुनासंगमोत्सवम् ॥२६॥ ततोङ्गान् भक्तिनम्रागान, सुह्माजिनितवि-
कमान् । स्वानमाद्वङ्गबद्धाङ्गान् , स चकार भुजौजसा ॥ २७ ॥ स वितेने रणारम्भ-निष्कलानुत्कलानपि । कलिङ्गानपि
निर्मुक्त-राजलिङ्गानसूनयत् ॥ २८ ॥ अथारोप्य जयस्तम्मान् , गङ्गासागरसंगमे । उन्मूलयन् स पाश्चाल-डहालादीन्य-
वर्तत ॥ २९ ॥ अर्जुनोऽप्यर्जुनच्छाय-मर्जयन्मार्गणैर्यशः । नतेष्वक्षुण्णदाक्षिण्यो, दक्षिणामाविशद्दिशम् ।। ३० ॥ भ्रष्टराष्ट्रान्
महाराष्ट्रान्, कर्णाटांश्वाटुकारिणः । तिलगानगुलिव्यगान् , कुर्वाणः स रणे शरैः ॥ ३१ ॥ केरली-कुरलान् लुम्पन्,
वैदींविधमान् हरन् । द्रमिलीलिमुल्लुम्प-न्मलयोपत्यकां ययौ ॥ ३२ ॥ (युग्मम् ।) तस्यामालानितैस्तस्य, चन्दनद्रुम-
१ सैन्यधूलिः । • तटभेदिन्यः । ३ धजश्रेणिमिपात् । ४ समीकृताः 'मनीकृताः' ' मलीकृता. इति अत्यन्तर०
मुति -स्रकः । ६ “स्वानमान्यद्वद्वद्गान्" स्वानमान्वगवद्वानान्" प्रत्यन्तर० ।
॥ ८७॥
फानने । नामसाम्यादिव मुद्ध-न गर्नागा निरासिरे ॥ ३३ ॥ ता तस्य लवझै ला-लवलीस्वादलालसाः। सल्लकी. पछवग्रासे, मुख्यमभजन् गजाः ॥ ३४ ॥ पाण्डवः सह मुक्ताभिः, पाख्यानामाहरन् यशः। ताम्रपर्णीयुजि प्राप, दक्षिणाम्भोधिरोधसि ॥ ३५ ॥ तमोत्तम्म्य जयस्तम्भान् , सेतुबन्धकबन्धुरे । द्वैराज्यं रामकीर्तीनां, चकार निजकीर्तिभिः ॥ ३६ ॥ सादं नागरखण्डाना, वनवासस्थलीपु सः । लम्भयन् सैनिकांस्तस्थौ, कुन्तलीलोलुपविरम् ।। ३७ ॥ कौङ्कणी- करणान् भअ-नालिकेरीनुमैः सह । लाटीकटाक्षलण्टाका, सोऽथ व्यावर्तत क्रमात् ॥ ३८ ॥ यशः कुसुमसौरभ्ययासितक्षितिमण्डलः । नकुलोऽपि पिवेशान्तः, प्राचेतस्या दिशस्तदा ॥ ३९ ॥ प्रापयनन्तमत्यन्त- मावन्तीनपनाअनम् । उच्छिन्दन पहलच्छायाः, सौराष्ट्रीपत्रमल्लरीः ॥ ४० ॥ महार्णव-सरस्वत्योः, प्रियमेलकपावितम् । प्रभासक्षेत्रमक्षोभ्य-चलोमिनकुलो ययौ ॥ ४१ ।। ( युग्मम् ) प्रक्षाल्य मलमुद्वीक्ष्य, तत्र चन्द्रप्रभप्रभुम् । जयस्तम्भान् महारम्भो, न्यस्यति स्म स धीरधीः ॥ ४२ ॥ शृण्वन् स द्वारिकालोक-गीतं कसंजितो यशः । पूर्गपूगवता कच्छान्, कन्छेनैवाम्बुधेर्ययौ ॥ ४३ ॥ गापयित्या निजां कीर्ति-विस्फूर्ति तत्र चारणान् । पारसीकाननीकेन, स चकारात्मकिकरान् ॥४४॥ तपास्य पिण्ड-खर्जूर-स्वादमेदस्विसंमदैः । चिरमध्यूपिरे कच्छाः, सैनिकैः पश्चिमाम्युधेः ॥ ४५ ॥ यवनीवदना- म्भोज-विकासतुहिनोत्करः । शकीसंभोगशृङ्गार-समुद्रकलशोद्भवः ॥ ४६ ॥ माद्यत्पश्चनदस्त्रैण-मदामोदमलिम्लुचः । सैन्धवीवर्गवैधव्य-व्यसनी स न्यवर्तत ॥ ४७ ।। १ कुन्तलदेशस्त्रीपु लुब्धः । २ कृष्णस्य । ३ पूगवृक्षसमूहवता । ४ तीरेण । ५ कलशोद्भवः-अगस्त्यः ।
भीमादयो
दिग्यात्रा
कृत्ता
गवा:॥
सहदेवोऽपि देवेन्द्र-देश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः, कुवेरचरितां दिशम् ।। ४८॥ संदिशन् हारसंहारि-
जागलीनाममङ्गलम् । आस्कन्दति स्म काम्बोजा-नोजस्विभुजविक्रमः॥४९॥ उपनीय हयानुचैय॑श्चितोचैःश्रवःश्रियः ।
तदुर्वीपतिरात्मान-भवति स्म कुरुवहात् ॥ ५० ॥ तस्य नेपालभूपालः, कैलिकस्तूरिकामृगान् । उपदीकृत्य पाति स्म, श्रियं
पूर्वक्रमार्जिताम् ।। ५१॥ क्षुण्णकुमकेदार-पांशुपूरपिशङ्गिताः । कश्मीरेषु हयास्तस्य, विभ्रति स्मैकवर्णताम् ॥ ५२ ।।
हिमालयमथारुह्य, पार्वतीयान् विजित्य च । निचखान जयस्तम्भां-स्तदुच्छायं विवर्धयन् ॥ ५३ ॥ नानाचर्यमयात्तस्मा-
दवरुन गिरेः शनैः । आदिदेश स हणीना-मुरःकुट्टनपाटवम् ॥५४॥ पिवन् कीरयशक्षीरे, ग्वसश्रीरसमाहरन् । नितान्त-
पुष्टमङ्गः, स प्रत्याववृते ततः ॥ ५५ ॥
इत्यादाय दिशा लक्ष्मी, नगरे नागसाह्वये । तपःसुनोः कनीयांस-श्चत्वारोऽप्याययुः समम् ॥५६॥ दिकुक्षिभरिभिः
सैन्यै, राजा प्रत्युजगाम तान् । प्रवाहानिय सिन्धूना-मूर्मिभिर्मकराकरः ।।५७॥ तेन बन्धुवलौघास्ते, चत्वारोऽप्यालुलोकिरे ।
पयोधय यायाताः, सेवितुं तमिव स्वयम् ॥ ५८ ॥ ततो निलीयमानानि, सैन्ये महति भूपतेः । ब्रह्मणीच स्फुलिङ्गौघा-
स्तानि सैन्यानि रेजिरे ॥ ५९ ।। तान्यनीकानि पञ्चापि, तत्र प्राप्तानि संगमम् । शरीरिणां शरीरेपु, भूतानीय यभासिरे
॥ ६०॥ प्रीतिप्रहाः प्रणेमुस्ते, कनीयांसस्तपःसुतम् । तानालिङ्गय मुदा सोऽपि, ब्रह्मानन्दमिवान्वभूत् ॥ ६१ ॥ मरुत्प्रे-
बोलितानेक-घजताण्डवमण्डितम् । कस्तूरी मिश्रकाश्मीर-सिक्तघण्टापथक्षिति ॥ ६२ ॥ उम्भिदुन्दुभिध्यान-प्रतिध्यानि-
१ उत्तराम् । २ ('ब्रह्मास्वादम्' इति ख. ग. ) प्रतित्रयपाठः । ३ घण्टापथो-राजमार्गः ।
॥८८॥
तमन्दरम् । दीप्यमानमनोराग-नागरोत्सर्पदुत्सवम् ॥ ६३ ॥ विमानलक्ष्मीलुण्टाक-मञ्चरोमाञ्चितप्रजम् । स्मेरपौरवधूवर्ग- नेत्रफैरवकाननम् ।। ६४ ॥ वारसारङ्गनेत्राभिः, प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते, निजं नगरमाविशन् ।। ६५॥ (चतुर्भिः कलापकम् ) सिंहासने निवेश्याथ, राजानं मन्दिराजिरे। पादपकेरुहोत्सझे, भृङ्गीकृत्य शिरोरुहान ॥६६॥ गी- णगिरिदायादार, पुरस्तस्यानुजन्मभिः । दिगन्तसंपदा कूटा-स्त्यक्तकूटैवितेनिरे ॥६७ ॥ (युग्मम् ) विश्वे विश्वंभराभर्तु-स्ते परीणाहशालिनः । वेदिका इव भान्ति स्म, प्रमोदपृथिवीरुहाम् ।।६८॥ विशांपत्युर्यशक्षीर-नीरराशेविंसारिणः । सर्वैरभ्रंक- पैरेतै-रभ्यन्तरगिरीयितम् ॥ ६९ ॥ अपि पुण्यजनाधीश-मप्यनेकनिधीश्वरम् । राजराजमपि ख्यात-मपीश्वरसुहत्तया ॥७०॥ भूपः सुपर्वधर्मत्या-द्विश्वाशाः परिपूरयन् । जिगाय मर्त्यधर्माण-मुत्तराशावलम्बिनम् ॥ ७१ ॥ (युग्मम् ) समुत्पेदे तदाऽन्योऽपि, नृपस्यानन्दकन्दलः । पार्थवघ्याः सुभद्राया-स्तनूजो यदजायत ॥ ७२ ॥ कृतार्थानर्थिनः कत्वा, स्वापतेयैर्यधेप्सितैः । काश्यपीपतिरस्पाख्या-मभिमन्युरिति व्यधात् ॥ ७३ ॥ सिनश्रद्धाजलैर्धर्म-फलाकाझी प्रतिक्षणम् । सप्तक्षेत्र्यां वसन्येप, वपति स्म गतस्मयः ॥७४ ॥ दृढे जन्मान्तरद्वीप-क्षेमगामिन्यनारतम् । स सहस्रगुणीकर्तु, धर्मपोते श्रियो न्यधात् ॥ ७५ ॥ अवाप्तजन्मनस्तत्र, तत्र वृद्धिमुपेयुपः । तत्रैव चक्रवर्तित्व-लक्ष्मीदीक्षादिशालिनः॥७६॥ नानारत्नैरधःकुर्वन् , गर्व गीर्वा- णवेश्मनाम् । विहारः कारयांचक्रे, तेन शान्तिजिनेशितुः॥७७॥ (युग्मम्) ज्वलत्कनकमाणिक्य-मयमालोक्य तं जनः । १ 'मन्दिरं' इति प्रतिप्रय० । २ वेश्याभिः । ३ मेरुतुल्याः। ४ विस्तारशालिनः । ५ कुरम् । (६ धनैः।)
अभिमन्यु
जन्म।
शान्ति-
जिनचैत्य
निर्माणम् ॥
पकार मुरगेलेन्द्र-दिक्षाशिधिलं मनः ।। ७८ ॥ इन्द्रनीलमयद्वार-शाखांशुश्रेणिकैतवात् । सान्द्रच्छायोल्लसत्तीर-वनराजी-
पिराजिनी ॥ ७९ ॥ तत्र स्फटिकमोपान-प्रभाव्याजेन जाह्नवी । रेले पवितुमात्मान-मागतेव तरङ्गिता ॥ ८०॥ ( युग्मम् )
भावेलम्मीयाम्भोप-प्रतिविम्वैZडम्बपत् । नीलामकुट्टिमं तस्मिन् , सहेमकमलां यमीम् ॥८१॥ ज्योतीरसमयक्षुद्र-जैन-
वेश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्ण-ताटक इस स व्यभात् ।। ८२ ॥ शश्वदभ्रंलिहे तस्य, स्फाटिकस्य शशी निशि |
ज्योतिर्जालजले मअन् , सस्मार क्षीरनीरधेः ।।८३॥ तत्रालोक्य ध्रुवं रूप-शालिनीः शालभञ्जिकाः । अमरैरमरीरूप-शिल्पी
काममनिन्द्यत ।। ८४ ॥ यदि वा नास्ति तत् स्वर्ग, नावनौ न रसातले । यदुपैत्युपमानत्वं, तस्य यच्चोपमेयताम् ।। ८५ ॥
विश्वावृतश्रियस्तस्य, ध्वजारोपणपर्वणि । दुतैराहाययामास, सर्व राजा स राजकम् ॥ ८६ ॥ प्रहित्य नकुलं प्रौढ-
प्रश्रयप्रवणाशयः । प्रीत्या निमन्त्रयामास, केशवं धरणीधवः ।। ८७ ॥ बन्धुवात्सल्यसोल्लास-मना दुर्योधनं पुनः । सह-
देवेन भूमीन्द्रः, मवान्धवमहान् ॥ ८८ ॥ स्वस्वदेशप्रसूतानि, तस्य चेतःप्रसत्तये । उपायनान्युपादाय, तत्राजग्मुर्महीभुजः
॥ ८९ ॥ पराभूतानमातः, पौरस्त्याः पृथिवीभुजः । मदामोदिकपोलैस्तं, करीन्द्ररुपतस्थिरे ॥९० ॥ वजवैडूर्यमुक्तादि-
रत्नजानमधिद्युति । आदाय तमुपासीदन्, दाक्षिणात्याः क्षितिक्षितः ॥ ९१ ॥ दिव्यैः कौशेयवासोभि-भूपणैश्च हिरण्मयैः ।
अपरान्तमहीपाला-स्तमभ्येयुभयापहम् ॥१२॥ स्वस्वदेशोद्भवैस्तैस्तैः, सुरसैन्धंयवान्धवैः। उपसेदुस्तमश्वीयै-रौत्तराहा महीभृतः
।। ९३ ।। मनुष्यमयमश्वेम-मयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः, संगतैर्नगरं तदा ॥ ९४ ॥
(१ शातकुम्भं स्वर्णम् ।) २ यमुनाम् । ३ राजानः । ४ सैन्धवः-अश्वः ।
।
॥८९॥
अथ लमदिने धासि, पोउशस्य जिनेशितुः । विश्वं संगमयांचके, राजन महीपतिः ।। ९५॥ रामं । सर्वसामन्तै- रुत्सयेन गरीयसा । पार्थिवस्तीर्थबारीणि, पीपरप्रीतिरावहत् ॥ ९६ ॥ रक्षामन्त्रादिसंस्कार-क्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्री, सत्यामेवाश्रयनृपाः ॥ ९७ ॥ कृपाणपाणयः केऽपि, प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु, भूनेतारोऽवत. स्थिरे ॥ ९८ ॥ वेदिरक्षाकते केचि-इधतो वैणवी लताम् । कुर्वन्तस्तदवीयांसं, लोकं तस्थुर्महीभृतः ॥ ९९ ॥ उदस्तकलशाः केनि-अलाहरणहेतवे । इतस्ततः सरांरम्भ, धापन्ति स्म धराधनाः ॥१०० ॥ सानीयानि जलस्यान्त-पधानि न्यधुः परे। ऊरत्युगकैरन्ये, खात्रसूक्तानि भूभृतः ॥१०१॥ भूमीभृतधातुःपष्टि-र्वजदण्डं हिरण्मयम् । रापयांचक्रिरे स्वैरं, पारानटादश क्रमात् ॥ १०२ ॥ खात्रान्तरेषु व्योमान्तः-सुनितामोदितोयदम् । धूपमुशिक्षिपुः केऽपि, कर्पूरागुरुरांभवम् ॥ १०३ ॥ तिल- फानपरे पनुः, सरसचन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः, स्नात्राणामन्तरान्तरा ॥ १०४ ॥ मन्त्रैर्यथोदितस्तैस्तै-राहूताखिल- दैवतम् । नन्दायतै परे यत्ना-द्रक्षन्ति स्म क्षितीश्वराः ॥१०५॥ दधिरे नामरान् केचि-दपरे दर्पणं दधुः। धारयामासुरन्ये तु, सर्पि-दध्यादिभाजनम् ॥ १०६ ॥ इतरे दौकयामासु-क्फिलाफलिकादिकम् । गन्ध-सर्वोपधी-पृद्धि-प्रासादि दधिरे परे ॥ १०७ ॥ इति भूमीन्दुसंदोहे, विश्वव्यापारहारिणि । शुभायां लगवेलाया-मनुकूलग्रहाश्रयात् ॥१०८॥ श्रीवुद्धिसागरा- चार्य-स्तम श्रीशान्तिवेश्मनि । अचीकरगजारोपं, यथाविधि युधिष्ठिरः॥ १०९ ॥ (युग्गम् ) रा तिरेने पाजः प्रेश- गरुत्कलोललोलितः । रजो विश्वभ्रमासक्तं, तत्कीविनयनित ॥ ११०॥ विस्मयस्मेरराजन्य-गीक्षितं क्षितिवासवः । १' पिमुगन्तः ' प्रतिपय ।
दावाहिकोन्म गर्क, संपत्संभारभामुरम् ॥१११॥ ततः प्रवर्धमानेन, श्रद्धाशुद्धेन चेतसा । सतमभ्यर्चयांचक्रे, यथौचित्य स कल्परिन् ॥ ११२।। मरुत्य वस्तुभिम्नेस्तै-स्तदानीतोपदाधिकः । अथ भूमीभुजो राजा, प्रैपीद्देशं निजं निजम् ॥ ११३ ॥ मन्द्राजियाहाना-दुल्गुरूं धर्मनन्दनः । औचितीचश्रुरम्पर्य, विमसर्ज गदाग्रजम् ।। ११४ ।। दुर्योधनं पुनर्वन्धु-प्रेम- प्रहादिमानमः। दिनानि कतिचिना, धात्रीपतिरपारपत् ॥ ११५ ॥ साकं शकुनिना तत्र, मातुलेन सुयोधनः । पान्डाम्मानिनोऽपि, गूदाकारोऽधमचिरम् ॥ ११६ ॥ लीलाशिलोचय-क्रीडा-यापी-केलिवनादिपु । चिक्रीड पाण्डवैः माध, गुमनोभिः ग दमंनाः ।। ११७ ॥ पिपिकपरिसारण, पूर्वमुभृिताधिताम् । अपरेयुः सभां दिव्यां, विवेश धृतराष्ट्रसूः॥ ११८ ।। तबाप इति विज्ञाय, नाटिकादिमे । दुल्लाथलमुर्ला-नहस्यन म किकरैः ॥ ११९ ॥ स्थलान्जिनीधिया धाव-नादातुमरविन्दिनीम् । स गुहे नजले मत-बहने यायुसूनुना ।। १२० ॥ नतः स्मेरकपोलाक्ष-स्तत्क्षणादनुजीविभिः । तस्यापराणि वासांसि, काश्य- पीपनिगर्पयन् ।। १२१ । नेनाकरितकोपोऽपि, निगृहन्नाकृति निजाम् । अनालोकितकेनैव, स धीमांस्तानि पर्यधात् ॥१२२॥ रंगेयतामपि कापि, जानीमनुन्नताम् । स्वलित्वा स पतन्नुञ्चै-रुपाहस्यत जिष्णुना ॥ १२३ ॥ अपावृतादपि द्वारा- १ बनितिः। शिन्दोदयः-पर्वतः । ३ " कपोलबालमध्येऽसौ, विरोधदुरिवाङ्गवान् । बभौ फलाय कस्मैचि-द्विलक्ष- निापुरितः ।।२०।। धिग्गनाऽस्मि समप्रक्षमा-पतिभयनिमित्तताम् । इत्यन्त:पतिते तत्र, चकम्पे केलिवापिका ॥ २१ ॥” इति मोकारनेररयां प्रावधिक रायने शान्ति- जिन- प्रतिष्ठा। युधिष्ठिरस्य दिव्य- सभार्या दुर्योधन- प्रवेशा॥ ९०॥ " ९०॥
माभिराष्ट्रतशङ्कया । प्यावृत्तं हसतः स्मैनं, दत्ततालं मियो यमौ ॥१२४ ॥ इत्यायैः पाण्डवेयाना-मुपहासैर्मुहुर्मुहुः । फौरवाधिपतेरन्त-रुजजागार मत्सरः ॥ १२५ ॥ सतत्प प्रणयाइँण, प्रेषितः पाण्डसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ, सोऽभिमानी समातुलः ॥ १२६ ॥ स दीनवदना- म्भोजः, शून्यात्मा निश्वसन मुहुः । यदा किंनिहदी कामं, जल्प्यमानोऽपि नोत्तरम् ॥ १२७॥ तदा सविधमभ्येत्य, मातुल: सोपलो पलात् । जगाद पथि गच्छन्तं, करे भूत्वा सुयोधनम् ॥१२८॥ किमेतत् ते मुखं धत्ते, प्रातः शीतरुचो रुलम् । इति जत्पन्तमस्वल्पं, गान्धारेगस्तमभ्ययात् ॥ १२९ ॥ जीर्वअगति किं नाम, वर्तते मग मातुलः । एवमत्पन्तमध्यन्ति, पश्यतो गस्य शरवः ॥ १३० ॥ सहसशो मणिज्योति-निर्मिताऽगरकार्मु(मु)का । सुधर्मागप्यधाकरम, नृम्भते शुपि सा रामा ॥१३१॥ दिगन्तसंपदः संप्र-स्यहपूर्षिकगासिला धर्मनन्वनमागान्ति, जीपवरग इनाणाम् ॥ १३२ ॥ आदाग सरकर- ग्रीष्म-गास्वानप इन पिणः । सांप्रत परितो पर्पन, हर्षगत्पसिलामिणम् ॥१२२॥ गुमेरीनिशेष-नीला चियः । तस्य न्यामुर्वते गर्न, गीणेन्द्रप्रियागपि ॥ १२४ ॥मिहार हेगकोटीरे, मूमि सगागाशिते । सीसे स्म, शारानं मेदिनीभृतः ॥१३५॥ पाजारोपोत्सपे साग-रागाऽप्यारोक्तिसं तथा । गमाऽस्य पक्षगान में, राज किरागितम् ॥१६॥ तथाऽस्य सर्वथा जरे, काश्यपी पशवार्तनी । फरैः पतशिरस्थाने-ऽज्यसो नोजिसे गमा ॥ १३७ ॥ एतापगता समे, १ तस्यापे सादिशी मिति-गागमागासः । TWE सलिने गौणी से पुरसुन्। ॥ २६ ॥" प्रति लोगो गाधिपो दृश्यते । २ "जीयजग० गातुल ! " शसि प्रसिरमाणेऽपि साधुः। (३ नसीपको भाग)
दुर्योधनस्य
पाण्डवोपरि
द्विष्टस्य
शकुनिना
सह मत्रः॥
प्राप्तनिष्ठं युधिष्ठिरे । कामं ममान्तरात्मानं, दहतीव हुताशनः ॥ १३८ ॥ वलीयः पुण्यमेवैकं, न पुनः पौरुपं क्वचित् ।
पाण्डवा हन्त जीवन्ति, यनिर्मूलयतोऽपि मे ॥ १३९ ॥ इदानीमप्यहं शस्तानुच्छेत्तुमलतमाम् । सहायमद्भुतं कंचित्, किंतु
पश्यामि नात्मनः ॥ १४० ॥ इमामुद्दीक्षितुं लक्ष्मी, विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्ध्य, तन्मरिष्याम्यसंशयम् ॥१४१॥
त्वं पुनमें पितुर्गत्वा, सर्वमेवनिवेदयेः । इत्युक्त्वा विरते तस्मिन् , पुनः शकुनिरब्रवीत् ॥ १४२॥
धार्तराष्ट्र ! न खल्वेत-दाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्द-कन्दलाः स्वजनोदये ॥१४३॥ पैञ्यमेव क्षितेः
खण्ड, पाण्डवैरुपभुज्यते मिनागपिन वन्यून-मुपभुते भवानपि ॥१४४॥ भुवनाद्भुतसौभाग्य-र्भाग्यरेतावतीं यदि । तल्लक्ष्मी-
रगमत् कोर्टि, नामर्षस्तेध सांप्रतम् ।। १४५ ॥ भ्रातृभिर्यदि भूमर्तु-स्तस्य संगरभङ्गुराः। किङ्करीचक्रिरे भूपाः, किमानन्दाय
ते न तत् ॥ १४६ ।। यत्तु व्याकुरुपे तार-चसहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं, तामेतां ते मनागपि ॥ १४७ ॥
जगतीगीतदो कीर्ति-प्रबन्धा बान्धवास्तव । पयोधय इवोद्वेलार, पृथिवीष्ठावनक्षमाः ।। १४८ ॥तेष्वप्यरातिभूपाल-मौलिला-
लितशासनः । रणे दुःशासनः पाक-शासनेनापि दुःसहः ॥ १४९ ॥ तव प्रत्युपकारैक-लम्पटः सुभटाग्रणीः ॥ सर्वारिहृदयो-
स्कीर्णः, कर्णः प्राणाअिहासति ॥ १५० ॥ अहमेकधुरीणस्ते, समरेषु ससोदरः । तत् सहायैरिमामेतैः स्वच्छन्दं
मेदिनीं जय ॥ १५१ ॥
अथाह कौरवस्तीह, विजये पाण्डवान् पुरः । एतैर्जितैजितवेय-मखिलाऽपि वसुंधरा ॥१५२॥ सौवलोऽप्यभ्यधाभ्यः,
१ कुलीनोचितम् । २ इन्द्रेण ।
॥ ९१॥
सेयं मिथ्या मतिस्तप । न सोऽप्याखण्डलः पाण्डु-पुत्रायुधो युधि ॥१५॥ निहन्ति यत्प्रतापोऽपि, शौण्डीरजडिमज्वरम् । कः सहेत तमभ्यर्ण, तपासुतरविं रणे ॥१५॥ भीमेतिनामसाधर्म्य-शहिवैरिव कुअरैः। युद्धे गजासुराकारः, प्रणेशे पव- नात्मजात् ॥१५५॥ सन्यते विशिसैर्जिष्णो-रिवक्षःस्थलक्षितिः। अम्भासिरास्तु जृम्भन्ते, नेत्रयोस्तन्मृगीदृशाम् ॥१५६।। ॥ कालिन्दीसोदरं कान्त्या, करपालं यमोपमम् । धारयन्तौ करे युद्धे, दुनियम्यौ यमावपि ॥ १५७ ॥ विष्वक्सेनादय- स्तेपा, सुहृदस्तु रणे मुहुः । असृक्पानोत्सवं चा-येपामपि पैत्रिणाम् ॥ १५८ ॥ तदित्यजय्यदोर्दण्ड-ताण्डवाः खलु पाण्डवाः । शस्त्राशस्ति विनाऽप्येकः किं तूपायोऽस्ति तजये ॥ १५९ ॥ अथोत्फुलमुखाम्भोज-मभ्यधत्त सुयोधनः । को नामायं झगित्येव, कथ्यतां कथ्यतामिति ।। १६० ॥ यभापे सौयल: श्रीमन् !, देवता इस देवनाः। परं मयि प्रसीदन्ति, नातिकामन्ति मे मनः ॥१६१ ॥ नित्यं दुरोदरक्रीडा-त्यक्तवीडो युधिष्ठिरः । असौ क्रीडितुमाहूतः, क्षणं न स्थातुमीहते ॥ १६२ ॥ देवितुं च न वेत्येव, चीर ! खिद्यस्व मा स्म तत् । फेनापि छमना स्वस्मि-नयमाहूयतां पुरे ॥ १६३ ॥ तल्लक्ष्मीमखिला येन, करमारोहयामि ते । परं सर्वोऽयमालोचा, पितुः सस्प निवेद्यताम् ॥ १६४॥ दुर्योधनोऽभ्यधामाह-माख्यातुमिदमीश्वरः । सर्वमेतन्महीभर्तु-स्त्वमेव कथयिष्यसि ॥१६६॥ इत्यन्योऽन्यकृतालोच-त्रितोपायनियो । शकुनिर्धार्तराष्ट्रच, ताविन्द्रप्रस्थमीयतुः ॥ १६६ ॥ प्रविश्य सहसा वन, धृतराष्ट्रमहीपतिम् । न्यश्चत्पश्चाङ्गमानम्य, तावुपाविशतां पुरः ॥ १६७ ॥ मुखकूलंकपोचाल-निश्वासलहरीमुचम् । १ जे-जेतृ आयुधं यस्य सः। २ पाणानां सिंचानकपक्षिविशेषाणां च । ३ द्रूतमीडाः । ४ विचारः ।
शकुनि- दुर्योधन- योधृतराष्ट्र समीपे गमनम् ॥ दुर्योधनं प्रियं पुत्रं, धरित्रीपतिरब्रवीत् ॥ १६८ ॥ वत्स ! वल्गन्ति निःश्वासा, दीर्घदीर्घाः किमद्य ते १ । प्रस्तुतस्तंत्र केनापि, किं तयापि पराभवः १ ॥ १६९ ॥ जातवेदसिको दातुं, झम्पासंपातमीहते ? । आच्छेत्तुमिच्छति स्वैरं, का फणीन्द्रफणा- मणिम् ? ॥ १७० ॥ ततः शकुनिरह्वाय, महीपतिमवोचत । राजन् ! सुतं तवेन्द्रोऽपि, पराभवितुमप्रभुः ।। १७१ ॥ अन्यत्किमपि तदुःख-मस्त्यन्तस्तनयस्य ते । येनैष म्लानिमानिन्ये, तरुवत् कोटराग्निना ॥ १७२ ॥ उवाच भूपतिर्वाचं, चिन्ताचान्तमनाः पुनः । चिन्तयन्नपि पश्यामि, न ते दुःखस्य कारणम् ।। १७३ ॥ विनयाश्चितमूर्धानो, वान्धवाः सुहृदो- ऽप्यमी । गुरोगिरमिवानान्तं, नातिकामन्ति ते वचः ॥ १७४ ।। दुरापास्तकिरीटेषु, गलन्माल्येषु मौलिपु । वत्सेदानी तवा- शेव, भूभृतामवतंसति ।। १७५ ।। किं च ते पुरमप्येतत्, कुवेरपुरजिस्परम् । जुगुप्सिवाप्सरोरूपा-स्तव शुद्धान्तयोपितः ॥ १७६ ॥ जितदिग्दन्तिसंतान-मिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्व-देशीयं जृम्भते तव ॥ १७७॥ तव श्रीवेश्मनि स्मेर-प्रभापिञ्जरिताम्बराः। दृश्यन्ते सुरशैलेन्द्र-सपत्ना रत्नराशयः ॥ १७८ ॥ तव सौधं विनिर्धत-विमानं मानवेश्वर ।। अनासि च यथास्वादु, स्वैरं परिदधासि च ॥१७९॥ तदित्यालोचयन् खेद-निदानं ते न वेदयहम् । अन्यत् किमपि चेत् कथ्यं, कथ्यतां वत्स! तन्मम ॥ १८०॥ व्याजहाराथ नीहार-स्पृष्टपकेरुहाननः । मन्युसंभारसोत्कम्प-वपुरुचैः सुयोधनः ॥ १८१ ॥ तात ! यत् सत्यमस्त्येव, श्रीर्ममेयमनुत्तरा । शश्वन्मनसि वास्तव्या, यस्य त्वत्पादपांसवः ॥१८२|| तृणाय सर्वमप्येतत् , किं तु मन्येऽहमात्मनः । झल- १ 'स्तन्नु' इत्येकस्यां प्रतौ। ॥ ९२ ।।
ज्झतापिता एमा, तपस्तनयसंपदम् ॥ १८३ ॥ नदी मोदयते ताप-द्यापनालोक्यतेऽर्णवः । तावदालोकदीपो, यावन्नोदेति मानुमान ॥ १८४ ॥ किंश्रियो यामु नोत्कर्ष-तारतम्यस्य विश्रमः । किंशूरः समरे यस्मै, तितेऽन्योऽपि दोर्मदात् ॥१८५।। चित्ररुपाऽपि मे संपत्, सनवर्णमनोरमा । चण्डैः पाण्डुसुतौनत्य-धूमेया॑मलिताऽधुना ॥ १८६ ।। क्षीयेऽहमसिते पक्षे, यामिनीकामिनीमवत् । विरोधिनस्तु वर्धन्ते, तमस्तोमा इयान्वहम् ।। १८७ ॥ हेमन्तहिमसंभारे, स्फारीभवति वैरिणि । माति मेोऽपि निलओ, निस्तेजाः सं प्रकाशयन् ॥ १८८ ॥ स्तुमो जलधिमेबैक-मशेपितजलाशयम् । वल्गत्यपि रिपो ग्रीष्मे, यस्याभ्युन्नतिरीदृशी ॥ १८९ ।। नानारत्नप्रभाजाल-दरसंघ्यानविभ्रमाम् । संसदं तां तपासूनो सवोऽप्यभिला- पुरुः ॥ १९० ॥ पापन्ति हृदये नित्य, विस्मृताशेपदेवताः । परब्रह्मेष भूपाला-स्तस्याज्ञामेच केवलम् ॥ १९१॥ नमन्न- पतिकोटीर-गणीनामपि दुर्धराः । सहन्ते न महस्तस्य, पादाम्भोजरजःकणाः ॥ १९२ ॥ हाङ्गणे नृपास्तस्य, मण्डलीयन्ध- शालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते, प्रस्तुतान्योऽन्यसंकथाः १९३ ॥ भूपालोपायनायातै-गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दान-निर्जिनसि नीरदैः ॥१९४१॥ तसुरासुरोत्सातैः, पांशुभिस्तलिनाजनिः । पभूव भूभृतोऽप्यास प्रत्युगाः शृङ्गसगिभिः ॥ १९५ ॥ नटेश्मन्युपदारन-कूटकान्तिविरोहितः । लक्ष्यतेऽम्युदितोऽप्यर्कः, सभाकमलिनीस्मितैः ।। १९६ ॥ तदेतचात ! निाग, पश्यास्तस्य मन्दिरे । विधेव हृदयं मेऽभू-द्विदलत्संधिपन्धनम् ॥ १९७ ॥ १ 'भरममरे' प्रतिद्वयपाठो न सातः । २ पन्द्रयत् । ३ 'जलाशये' इतोफप्रतिपाठोऽपि साधुः । ४ देयते' इत्येस- प्रणिपाठोऽपि सातुः । ५ पुस ।
धृतराष्ट्रेण
कृतो दुर्यो-
धनस्यो-
पदेशः॥
अयाभ्यधत्त संरम्भा-द्धृतराष्ट्रः सुयोधनम् । घिग्वत्स! मत्सरः कोऽय-मस्थाने ते गरीयसः ॥ १९८ ॥ लक्ष्मी-
रसंस्तुतानाम-प्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्व-शालिनां कुलजन्मनाम् ? ॥१९९॥ वलक्षमुदये भानोः, पुण्डरीकं
विकस्वरम् । मलिनं पश्य संकोच-मन्दमिन्दीवर पुनः ॥ २०० ॥ ममैवेति तपासूनोः, किं न चिन्तयसि श्रियः १ । प्रथन्ते
मन्मथस्यैव, वसन्तस्य हि संपदः ॥२०१ ॥ नन्वात्मनीन एवाय-मात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेलक्ष्मी-मु-
दये मृगलक्ष्मणः १ ॥ २०२ ॥ तदानन्दपदे वत्स !, विपादस्ते न सांप्रतम् । कोऽयं राकानिशीथिन्या-मन्धकारः प्रगल्भते ?
॥२०३ ॥ इत्यूचिवांसमाह स्म, धराधीशं सुयोधनः । न तथा बाधते तात , तल्लक्ष्मीर्मामनुत्तरा ॥ २०४ ॥ यथा तस्यां
सभायां तैः, पाञ्चालीसचिवैः कृतः । ग्रहासो पाधते तं च, मातुलः कथयिष्यति ॥ २०५ ॥ युग्मम् ॥
अथाख्यद्धृतराष्ट्राय, मूलतः सौबलस्तदा। यथा यथा हसन्ति स्म, पाण्डवेयाः सुयोधनम् ॥ २०६ ॥ दुर्यो-
धनोऽभ्यधाभूयः, कृष्णया सममाददे । संपदं यदि तेपां तत्, तात ! जीवामि नान्यथा ॥२०७॥ किं गण्यते स जीवन् ?
यः, परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि, यः पयोदैस्तिरोहितः ॥२०८॥ खञ्जिताङ्ग्रेवने दैवा-दतविक्रमतेजसः ।
वरं मृत्युर्मगाराते-न करिम्यः पराभवः ॥ २०९ ॥ इति व्याहरति क्रोधात् , तस्मिन्नीामलीमसे। धृतराष्ट्रः पुनर्वाच-मु-
वाच गरिमोचिताम् ॥ २१० ॥ पाण्डवेयैः सहासाकं, शस्त्राशस्त्रिकथामपि । कुर्वतां खर्वति क्षिप्रं, कीर्तिर्लज्जा तु दीर्घति
।। २११ ।। स्वयंश्यैः सभरारम्भ-नूतनाम्भोदवारिभिः । करोपि कुरुवंशेऽस्मिन् , किं कलङ्कनवाकरम् १ ॥२१२ ॥ वर्षी
१ उज्वलम् । २ अतिवृद्धः ।
॥९३॥
यानपि भूपालः, पुत्रवात्सल्यपिच्छिलः । नूनं जातस्तनूजानां, यच्छिनत्ति न मत्सरम् ॥ २१३ ॥ इति विश्वेऽपि कि विश्वे, परीवाद ददासि मे । तदेतस्मादपस्मारा-द्विनिवर्तितुमर्हसि ॥ २१४ ॥ (युग्मम् ) सर्वैरप्यात्मनो मा गाः, सहायैस्त्वमहं- युताम् । नयेयुः पाण्डवेया हि, वीरलक्षानपि क्षयम् ॥ २१५ ॥ इति भापिणि भूमीन्दौ, जगाद शकुनिः शनैः । एकमौपयिकं वेद्मि, स्वीकारे पाण्डवश्रियः ॥२१६ ॥ पतन्ति पत्रिणो यस्मि-नाङ्गे कस्यापि संगरे । अकीर्तिश्च न विस्फूर्ति-मियति जगति क्वचित् ॥२१७ ॥ द्यूतक्रीडामहं वेभि, न पुनस्तपसः सुतः । तया हरामि तल्लक्ष्मी-मनुजानाति चेद्भवान् ॥२१८॥ धार्तराष्ट्रोऽब्रवीत् तात!, त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपाया-मिमां मातुलभारतीम् ॥२१९॥ ऊचे नृपतिराहय, विदुरं गजसाह्वयात् । तस्यालोचेन निश्चेष्ये, स्थितो यस्यास्मि शासने ॥ २२० ॥ खिन्नः सुयोधनोऽप्याह, त्वं चेदालोचयिष्यसि । न दास्यति मतं तेऽसौ, ततो मृत्युर्मम ध्रुवम् ॥ २२१ ॥ मृते च मयि राजेन्द्र !, विदुरेण सुखी भव । उभावपि समेतौ च, भुञ्जीयाथां महीमिमाम् ।। २२२ ॥ उन्नमय्य मुखं स्नेहात् , पाणिना शिरसि स्पृशन् । अथ रुष्टमभापिष्ट, धृतराष्ट्रस्तनूद्भम् ॥ २२३ ॥ लक्ष्मीस्ते हास्तिकप्रा- ज्या, स्वाराज्यस्यापि जित्वरी । धर्मात्मजन्मनो लक्षम्याः, किंचनापि न हीयते ॥ २२४ ॥ अथाद्भुता सभा ताह-ङ्मम नास्तीति खिद्यसे । मा खिद्यस्व तथा कुर्वे, यथा स्याः पूर्णवाञ्छितः॥ २२५॥ तनूजं सान्त्वयित्वेति, धृतराष्ट्रोऽतिशायिनीम् । सभां निर्मातुमादिक्षत् , तत्क्षणं स्थपतीश्वरान् ॥२२६॥ निर्ममे १ पुत्रवात्सल्येन पिच्छिल:-अम्लकांजीसदृशः मूढ इति यावत्। २ गर्विष्ठताम् । ३ 'त' प्रतिद्वय० ।
धृतराष्ट्रस्य
पुरो विदु-
रिण कविता
। नलकूबर
कथा ॥
तैस्तपासूनु-सभासब्रह्मचारिणी । शतद्वारा मणिस्तम्भ-सहस्रसुभगा सभा ॥२२७|| सर्वसंदेहसंदोह-भिदुर विदुरं ततः ।
आप्तैराकारयामास, भूपतिर्हस्तिनापुरात् ॥ २२८ । आगत्य प्रणयप्रवः, प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविक्षत् ,
प्राअलिविंदुरः पुरः ।। २२९ ।। सुत-सौयलयोः सर्व, कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य, तमालोचमचीकथत् ।।
२३० ।। अथोरे विदुरस्तीव-विपादच्छिदुराशयः । युष्मन्मत्रोऽयमन्त्राणि, इहा | मेऽन्तर्निकृन्तति ।। २३१ ।। वचो विद्या-
नद्यानां, नान्यथा भवति कचित् । कुलारण्यैकदावाग्नि-रुत्थितोऽयं सुयोधनः ॥२३२।। किं न श्रुतं यथापूर्व, नल-कूयर-
योरपि । अनर्थफल एवाय-मभूद् द्यूतविपद्रुमः ॥ ॥ २३३ ॥
तथा हि कोसले वस्ति, कोशास्तधनदैर्जनः । अलकाविजयप्रौढ-कौशला कोशला पुरी ॥ २३४ ॥ तस्यामासीद्यशो-
म्भोभिः, प्लापिताशेपभूतलः । कृतवैरिवधूहार-निषेधो निपघो नृपः ।। २३५ ॥ तस्याभूत् तनयो पैरि-कुलकालानलो नलः ।
द्वितीयः खण्डिताराति-डम्बरः कूवरः सुतः ।। २३६ ॥ वेत्रिणाऽऽवेदितोऽन्येद्यु-रुपगम्य प्रणम्य च । दूतः कश्चिन्महीपालं,
मीलिताञ्जलिरब्रवीत् ॥२३७॥ विदर्भेष भुवः कर्ण-कुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीय-स्तस्मिन् भीमरथो नृपः
।।२३८॥ तस्य निःसीमरूपश्री-दमयन्तीति विश्रुता । तनयाऽस्ति जगन्नेत्र-कुमुदाऽऽनन्दकौमुदी ॥ २३९ । नेत्रपीयूपयापी
ता, निर्माय नियतं विधिः । स एवाहमुतान्योऽस्मि, विस्मयादित्यचिन्तयत् ॥२४०॥ हित्वा जलाशयान् हंसाः, कैलासमरसी.
मिव । गुणाः स्वयं श्रयन्ति स्म, संश्रयस्पृहयैव ताम् ॥ २४१ ॥ तनोति नित्यमद्यापि, देवी वाचामधीश्वरी । अक्षावलिच्छ-
१ 'यशोम्भोधिप्ला०' प्रतिद्वय० । २ जपमालामिपात् ।
॥ ९४॥
लात् तस्या, गुणौषगणनामिव ॥२४२॥ शश्वन्मनसि कुर्वाणा, केवलं धर्ममार्हतम् । तत्यजे तद्भयेनेव, पापवार्ताभिरप्यसौ ॥ २४३ ॥ अनुरूपो वरः कश्चि-दुहितुर्मे भवत्विति । स्वयंवरमुपास्त, तत्कृते भीमभूपतिः ॥ २४४ ॥ सर्वानाहातमुशिा- नन्यान् वैदर्भभूपतिः । प्राहिणोदपरान् देव-दूतानाकूतकोविदान् ॥ २४५ ॥ अहं तु देवपादाना-मन्तिके मेदिनीभृता । प्रहितः परमात्मेव, स्वस्वरूपे मुमुक्षुणा ॥२४६ ॥ तन्निजाभ्यां कुमाराभ्यो, सहाभ्येत्य स्वयंवरम् । भूमीन्दो! भीमभूपाल- मानन्दयितुमर्हसि ।। २४७ ॥ मेदिनीशोऽथ तद्वाच-मोमिति प्रतिपद्य ताम् । आदिदेश विदर्भपु, प्रस्थानाय वरूथिनीम् ॥ २४८ ॥ प्रजासंजनितत्रासं, निग्रहीतुमिवान्तकम् । प्रत्यपाची दिशं सैन्यैः, प्रतस्थेऽथ प्रजापतिः ॥२४९॥ क्रमात् प्रत्युद्गतः प्रीत्या, विदर्भपृथिवीभुजा । विवेश क्षोणिपद्खण्ड-मण्डनं कुण्डिनं नृपः ।। २५० ।। नलं विलोक्य कंदर्प-कल्पगुनवकन्द- लम् । दीयति स वैदर्भ-जनोऽन्यानवनीभुजः ॥ २५१॥ कुण्डिनेशनिदेशेन, नेदीयः केलिकानने । निवासानग्रहीत् प्रीत्या, महीपतिपताकिनी ॥ २५२ ॥ यथौचित्यधृताकल्पा-स्तेऽथ कल्पद्रुमा इव । मश्चानुचैरलंचक्रुः, क्षोणिशकाः स्वयं- परे ॥ २५३ ॥ कोशलापतिरप्येकं, माणिक्पमयमद्भुतम् । कुमाराभ्यां समारोह-न्मश्चमुचूलशालिनम् ॥२५४॥ क्षत्रियाणा- मगालक्ष्मी-नक्षत्राणामिव क्षणात् । विश्वभास्वत्युपारूढे, मञ्चपूर्वाचलं नले ॥ २५५ ॥ नवपर्युप्तवैडूर्य-मौक्तिकप्रायभूपणा । मधुव्रतकुलाकीर्ण-पुष्पास्तीर्णेव माधवी ॥ २५६ ॥ हर्पोत्फुल्लचलचेटी-कृतालोक- घनिस्ततः । लक्ष्मीमूर्ते वैदी, विवेशान्तःस्वयंवरम् ॥ २५७ ।। (युग्मम्) इमां रति-शची-लक्ष्मी-पार्वतीरूपजि- १ 'प्रजामअरितत्रासं' प्रतित्रयपाठः, तत्र प्रजायाः मञ्जरिता--विकसितः त्रासः यस्मात्तम् इत्यर्थः । २ तृणीयति ।
नलकवर कथायां दमयन्ती स्वयंवरः॥ त्वरीम् । निर्माय महतो जज्ञे, निर्वादस्य पदं विधिः ॥ २५८ ।। स्मरेन्द्र मुरजि-त्कण्ठे-काललीलाजयी न यत् । अनेन निर्ममे कश्चि-दित्यतकि जनैस्तदा ॥ ॥ २५९ ॥ (युग्मम् ) मनोभिः सर्वभूपानां, वितन्वद्भिर्गतागतम् । अन्तराध्या तदनानां, तदा पाणिधमोऽभवत् ॥ २६० ॥ शृङ्गाररसपूर्णायां, केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्या-ममिलापो महीभुजाम् ॥२६१॥ तां वीक्ष्य पुण्यतारुण्यां, नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धि-मृडः कामं विडम्बितः॥२६॥ अथ तस्याः स्मरोद्रेक-सूत्रितानेकविधमान् । नामग्राहं महीपालान् , दर्शयामास वैत्रिणी ॥ २६३ ॥ देवि ! तैस्तैर्गुणैः सोऽय-मगाधो मगधाधिपः । वपुलविण्यकल्लोले-जितानङ्गोऽयमगरात् ।। २६४ ॥ एप विद्विपतां लुप्त-सप्ताङ्गो बगभू- पतिः । वारितारिकुरङ्गाक्षी-शृङ्गारोऽयं कलिङ्गराद् ॥२६५ ॥ असौ मगरिपुषैण-कङ्कणः कुकणेश्वरः। शत्रुवित्रासनाट्यक- नटोऽयं लाटनायकम्।।२६६॥ प्रत्यर्थिप्रार्थितप्राण-त्राणोऽयं हूगदैवतम् । असौ जनितविद्वेषि-डिम्यः कम्बोजभूमिभुक्॥ २६७।। इत्थमस्थानुमेतेपु, सिन्दुवारेष्विवालिनीम् । दृशमुवीक्ष्य वैदाः, पुनर्दीवारिकी जगौ ॥२६८॥ देवि ! पश्य पुरः सोऽयं, निपधाया विशेषकः । विवेक-विक्रम-न्याय-निधिनिपधभूपतिः ॥ २६९ ॥ एतौ च पुरतोऽमुष्य, तनयो नल- कूपरौ । शम्भोरसूययेवाभूद्, द्विमूर्तिरिख मन्मथः ॥२७०॥ सारिणीवारिपचक्षु-स्तस्याः सिञ्चन्नृपदुमान् । पपात वृहदावाले, शाखिनीव नले चिरम् ॥ २७१ ॥ उच्चरत्प्रौढरोमाञ्च-मथ सैतदचिन्तयत् । देवः किमागतः कामः, स्वयमेव स्वयंवरम् ? ।। २७२ ।। अनेकविरहित्रैण-हत्यापातकिनोऽथवा । कुतस्तस्येशी मूर्ति-मसलतीदलकोमला। ॥ २७३ ॥ प्रकामकमनी- १ दुर्गादेव्या । २ शिवः। ।। ९५॥
येऽस्मि-निर्मितेऽम्भोजभूर्भुवम् । अनुरूपगुणग्राम-निर्माणे विष्ठयोऽभवत् ॥ २७४ ॥ नमोऽस्तु विधये तस्मि-नोपकारो ममापरः । कतार्थयितुकामेन, येन मामयमादधे ॥२७५॥ चिन्तयन्तीदमानन्दा-हमयन्ती सवेपथुः । वरमालां निचिक्षेप, नलस्प गलकन्दले ॥ २७६ ॥ तत्पाणिनखमाणिक्य-मयूखैररुणीकृता । गुम्फितेच बभौ पुष्पैः, साऽनुरागगुमोद्भवैः ॥२७७।। उपन्य भूभृतः सर्वान् , पैदर्भासरिता थिते । नलाम्भोधौ बभूवुस्ते, श्यामास्तत्सैवलैरिव ।। २७८ ॥ भीमस्य निपधस्यापि, स्वजनप्रीतिगङ्गया। द्विपदप्रीतिकालिन्द्या, तत्प्रयागीयितं सदः ।। २७९ ।। कोशलेश्वर-भीमाभ्यां, यथामनसमुचकैः । आरेमे नल-वैदयों- विवाहमहिमोत्सवः ।। २८० ॥ अतःप्रभृति जन्मान्तं, प्राणा अपि ममैव ते । इतीव दक्षिणं पाणि-माददातामिमौ मिथः ॥ २८१ ॥ मन्ये पिलीय निर्गत्य, पाणिपीडनपर्वणि । तयोरगच्छतामैक्यं, मनसी स्वेदकैतवात् ॥ २८२ ॥ प्रदक्षिणीकृते वहौ, हस्तमोचनपर्वणि । भीमो नलाय दचे स्म, रला-वे-भादिकं बहु ॥ २८३ ॥ निपधापतिरादाय, सवधूकमथात्मजम् । भीमेनानुगतो हो-दचलत् कोशलां प्रति ॥ २८४ ।। कांचिदप्पयनीं गत्वा, निदेशात् कोशलेशितुः । निवृत्तः कुण्डिनाधीश-स्तनूजामन्वशादिति ॥२८५॥ व्यसनेऽपि भवेत्से, पतिवानुवर्तिनी । पतिमेव परं प्राहु-दैवतं हि मृगीदृशाम् ॥ २८६ ॥ प्रतिगृह्य नमन्मौलि-रनुशिष्टिमिमां पितुः। नलस्य रथमारुह्य, प्रतस्थे भीमनन्दिनी ॥ २८७ ॥ नलः कान्तावपुःस्पर्श-लालसः किल वर्मनि । स्यन्दनं सादिनाऽच- १ प्रक्षा । २ परमाला । ३ नृपान्, पक्षे पर्वतान् ।
नलो दमय-
त्या वृतः।
कोशलां
प्रति
गमनम् ॥
न्या-मुद्धातिन्यामनाययत् ॥ २८८ ॥ ज्ञातेऽप्यगादिकप्रश्ने, गद्दे तद्वःप्रियः । किं ब्रवीपीति भूयोऽपि, भैमी वक्ति स्म
नैपधिः।।२८९॥ अनुरागो नले भैम्या, दिनान्ते वा ममाधिकः । इति ज्ञातुमिवागच्छत् , संध्या सैन्यस्य गच्छतः ॥२९०।।
पापन्दिप्रहार काम-माकर्पन्ती विदर्भजाम् । आगातमी तमःसैन्यः, सखीव हृदयंगमा ॥ २९१ ॥ नवं नलकरपर्श-
चुम्बना-लिङ्गनादिकम् । वेत्रीय दर्शयन भैम्या, जजृम्भे तिमिरोत्करः ॥२९२ ।। तथापि पथि नाऽऽवासा-नग्रहीनिपधा-
पतिः । स्वपुरं प्रति लोकाना-मुत्कण्ठा हि बलीयसी ॥ २९३ ॥
नलेन दमयन्त्या च, ब्रजमामथ वर्त्मनि । कर्णामृतमिवाश्रावि, रोलॅम्बतुमुलध्वनिः ॥ २९४ ॥ नलं भैमी वभा-
पेऽथ, नाथ! नात्र विभाव्यते । रम्या दुमावलिः काचित् , तत् किं कोलाहलोऽलिनाम् ।।२९५॥ रम्भोरु! तिमिरैः किंचित् ,
कारणं नावगम्यते । निवेदिते नलेनेति, भैमी भालं स्वमामृशत् ॥ २९६ ॥ तदैवाविरभूत् तस्या-स्तिग्मदीधितिवान्धयः ।
वामयन् सैन्यलोकस्य, लोचने तिलको लिके ।। २९७ ॥ ततोऽपृच्छन्नलस्तन्वि !, किमेतदिति विस्मितः । साऽप्युवाच मम
स्वामि-अन्मसब्रह्मचार्यसौ ॥ २९८ ॥ तदुद्योतेन मत्तालि-कुलदंशत्रुनासृजम् । तौ मुनि कंचिदैवेतां, दम्पती प्रतिमास्थि-
तम् ॥ २९९ ॥ गण्डकण्डूमपाका, केनचिद्वनदन्तिना । घट्टितोऽयं स्फुटं ध्यान-स्थेमवान् स्थाणुशङ्कया ॥ ३०० ॥ तदीय-
मदसंसक्तै-विरेफैरप्यनुद्वतः। समाधे यमभ्रश्यत् , तद्वहत्यस्य कस्तुलाम् १ ॥३०१॥ इत्यन्तस्तर्कयन्तौ त-माधाय निरुपद्र-
वम् । उल्लसत्पीतिकल्लोल-विक्लयौ तौ प्रणेमतुः ॥ ३०२ ॥ (त्रिभिर्विशेषकम् ) प्रतिमामुपसंहृत्य, मुहूर्तेन महामनाः ।
१ विपमायाम् । २ पर्वतादिसंवन्धिप्रथे। ३ तस्या वचः प्रियं यस्य । ४ रोलम्बः-भ्रमरः। ५ 'भासयन्' एकप्रति०। ६ असृग-रुधिरम् ।
॥९६॥
जगाद स मुनि नी, धर्मस्थेमकरी गिरम् ॥ ३०३ ।। न धर्मो नूतनः कोऽपि, युवयोरुपदिश्यते । ययोर्भूतं भवद्भावि-जन्म- धर्मकबन्धुरम् ।। ३०४ ॥ चतुर्विशतिमुद्दिश्य, दमयन्ती जिनेश्वरान् । तपश्चके ददौ रत-तिलकांच पुरा भवे ॥ ३०५ ॥ तेनास्याः शाश्वतं भाल-स्थलालङ्करणं नवम् । अस्मिजन्मनि मार्तण्ड-विडम्बी तिलकोऽभवत् ।। ३०६ ॥ जन्मान्तरे तथा सिक्तः, कुमार ! भवताऽप्यसौ । धर्मद्रुः फलितः शश्व-असे तैस्तैः फलैर्यथा ।। ३०७ ॥ अधिगम्याऽऽर्हतं धर्म-मागामिन्यपि जन्मनि । सर्वकल्याणकल्लोल-पारावारौ भविष्यथः ॥ ३०८ ॥ तामित्यमृतसधीची, तो निशम्य मुनेगिरम् । प्रतस्थाते रथारूदौ, प्रौढप्रहादमेदुरौ ।। ३०९ ।। पुरीपरीसराऽऽराम-मुपेयुपि नृपे क्रमात् । नलः प्रमोदसंफुल्लः, प्रेयसीमित्यवोचत ।। ३१०॥ देवि ! पश्य निजश्रीभि- र्जयन्तीममरावतीम् । तव श्वशुरसंतान-राजधानीमिमां पुरीम् ॥ ३११ ॥ इतः क्रीडातडागानि, केलिंधात्रीधरा इतः । इतो लीलावनश्रेणि-रितः प्रमददीधिकाः ।। ३१२॥ इत्यादि तत्तदुन्मील-प्रमोदलहरीजुपः । अदर्शयन्नयादर्शी, विदर्भदुहितुर्नलः ॥ ३१३ ।। (युग्मम् ) वधूवरं पुरस्कृत्य, प्रारब्धविविधोत्सवम् । विवेश निपधः शक्र-संकाशः कोशलापुरीम् ।। ३१४ ।। तस्यामुवीक्ष्य वैदर्भी, जिनवेश्मानि भूरिशः । पत्या नलेन मेने स्वं, पुमर्थत्रयशालिनम् ॥ ३१५ ॥ समं नलस्य निर्मडं, फ्रीडतः कान्तया तया । दिनर्यामायितं काम, क्षणदाभिः क्षणायितम् ।। ३१६ ॥ क्रीडाद्रिललितेर्जातु, जातु काननकेलिभिः । दोलालीलायितैर्जातु, जातु वारिविगाहनैः ॥ ३१७ ।। कुसुमावचयैर्जात, जातु मालाभिगुम्फनैः । उत्तंसरचनैर्जातु, नयतः १.अमृततुल्याम् । २ क्रीडापर्वताः । ३ 'त्सवाम् ' एकप्रति० ।
नलस्य
राज्या-
भिपकः।
कूबरेण
सह द्यूत-
क्रीडा च।
म्म दिनानि नौ ।। ३१८ ॥ युग्मम् ॥
अधान्यढा नलं न्यस्य, राज्ये निपधभूपतिः। कूपरं यौवराज्ये च, परिव्रज्यामुपाददे ॥ ३१९ ॥ तस्मिन्त्राज्ञि प्रजाः
गर्मा-स्तरङ्गिनयनोदये । अध्यारोहन् परां लक्ष्मी, तपात्यय यापगाः ॥ ३२० ॥ चूर्गीकृत्य प्रतापानी, रिपुस्त्रीहारवल्लरीम् ।
म कामं धरलीन, यमाप्रामादमात्मनः ॥ ३२१ ॥ प्रतापमिर कल्पानि-संपन्नमसहिष्णवः । ममज्जुद्धिपदुर्वीश-त्रियस्त-
स्पामिगरिणि ॥ ३२२ ।। म मैन्यैः साधयामास, भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव, गगनार्धमशेपतः ।। ३२३ ॥ भर-
वाधिराजस्य, राजानस्तस्य तेनिरे । संभ्य भूरिसंभार-मभिषेक हरेरिव ॥ ३२४ ॥
कुयर करनेवास्तु, तस्य राज्याभिलापुकः । रन्ध्राण्यन्वेषयामास, मृगारेरिव जम्बुकः ॥ ३२५ ॥ नलस्तु सह तेनैव,
रान्याप्रीतिपन्धुरः । नित्यं दुरोदरक्रीडा, तनोति विशदाशयः ॥ ३२६ ॥ अन्येास्तु गेम-चर-बन्ध-मोक्षसुधीरपि । कूपरं
देवनैर्दया-अतुं नालं नलोऽभवत् ॥ ३२७ ॥ नलस्य कासितो नाक्षः, पतति स्म कथंचन । मारयामास तच्छारीन्, भूयो.
भूयस्तु कृयरः ।। ३२८ ॥ नगर-ग्राम-खेटादि, हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे, शशीव विशेदेतरे ॥३२९ ॥
विपनाद जनः मर्मः, घरस्तु मुदं ययौ । “ दुःखी धान्ते हि लोकोऽय-मुलूकः पुनरुन्मदः" ।। ३३० ॥
आरुग्ये लोकहाकार-कोलाहलमुदित्वरम् । अम्पधान्नलमभ्येत्य, समयं भीमनन्दिनी ॥ ३३१॥ स्वामिन् ! कोऽयं विप-
यमिः, संप्रत्यभिनयस्ता ? | विनोदमात्रमेत-दुरोदरमुदीरितम् ॥ ३३२ ॥ त्वादृशा अपि चेदस्मिन् , मजेयुर्व्यसनार्णवे ।
१ (गमचरावभगतप्रभेदौ,) गमे च परे च वन्ये च मोक्षे च निपुणः । २ कृष्णे ।
॥ ९७॥
ततस्तारयिता कः स्या-न्मजतां मन्दमेधसाम् ? ॥३३३॥ प्रतिपक्ष इवाक्षोऽयं, तवाद्य प्रातिलोमिकः । इयत्यपि गते तस्मा- दपाकुरु दुरोदरम् ॥ ३३४ ॥ अभिपिश्च स्वयं राज्ये, भ्रातरं कूबरं वरम् । प्रसह्य हृतराज्यस्तु, बाढमुत्प्रासयिष्यसे ॥ ३३५॥ गिरमित्यादिकामुचै-रुच्यमानां नलस्तया । न विन्दति स्म गम्भीर-वेदीव निशितां शृणिम् ॥ ३३६ ॥ अथासपुरुभैमी- निदेशाजगदे नलः । वृथैव पृथिवी किं नु, हार्यते कृच्छतोऽजिता ? ॥ ३३७ ॥ किं न द्यूतं परित्यज्य, जीवयस्यनुजी- विनः १ । शुष्के हि सरसि ग्रीष्मे, कियनन्दन्ति दर्दुराः १ ॥ ३३८ ॥ इत्येपामप्यनादृत्य, वचधिक्रीड नैपधिः। “विपर्येति भृशं पुंसां, बुद्धिः कुद्धे हि वेधसि" ॥ ३३९ ।। नलस्ततोऽवरोधेन, समं भैमीमहारयत् । तारकाभिः सह प्रातः, कौमुदीमिव चन्द्रमाः॥ ३४० ॥ हारयामास भूपाला, शरीराभरणान्यपि । वसन्तस्य व्ययारम्भे, कुसुमानीव चम्पकः ॥ ३४१॥ जगर्ज जगतीनाथ-श्रीलामे कूवरोऽधिकम् । दुर्धराः सरितामोधाः, प्राप्तौ ह्यम्भोदसंपदः ॥ ३४२ ॥ राज्यभ्रंशे भुवो भर्तुः, प्रजाश्चकन्दुरुचकैः । कुलायभूरुहो भने, पत्रिणामिव पश्यः ॥ ३४३ ॥ कूपरो नलमित्यूचे, मदीयां मुश्च मेदिनीम् । पिता दत्ते स्म ते राज्य, ममेदानीं तु देवनः ॥ ३४४ ॥ गर्व कमपि मा कापी-न दूरे दो तां श्रियः। इत्युक्त्वाऽम्बरखण्डैक-मात्रश्रीरचलनलः ॥ ३४५ ॥ मया जिताऽसि मा यासी-मैदन्त:- पुरमाश्रय । नलानुयायिनों भैमी-मित्यवोचत कूबरः ॥३४६।। ततस्तमूचिरे पौराः, किमेतां प्रतिषिध्यसि । मृत्युमामोति १ दुर्धरहस्तीच । २ 'नाथः' प्रतिद्वय० । ३ नीडवृक्षस्य निवासवृक्षस्येति यावत् ।
द्यूते हारि-
नलस्य
प्रवासः ॥
गाईन्याः, पतीयन् मृगधूर्तकः ॥ ३४७॥ माट्यद्दयितां भातु-स्तचमेतां महासतीम् । प्रणम्य रथमारोप्य, प्रेपय प्रेयसा
मह ॥ ३४८ ।। इत्युक्तस्तैनमस्कृत्य, वैदर्भी रथमार्पयत् । अलं तव रथेनापि, नलेनेति न्यपेधि सः ॥ ३४९ ॥ नृपागा-
रान पुरस्कृत्य, प्रेयसीमतिधीरधीः। नलोऽचलन्मुखाम्भोजाद, पदार्थ इव भारतीम् ॥ ३५० ॥ प्रियानुव्रज्य यातस्य
प्रस्थितस्य शनैः शनैः । प्रयाणपटहैर्जात-माक्रन्दैरनुजीविनाम् ॥ ३५१ ॥ लीलाकुरमक-क्रीडा-सारिका-केलिबहिणः ।।
गृहपारावताः! सम-कीर-चापीसितच्छदाः। ॥ ३५२ ॥ प्रेयांसमनुगच्छन्ती-मनुजानीत मां मनाम् । वदन्तीति तदा
भैमी, कस्पाद्रं नाकरोन्मनः । ॥ ३५३ ॥ (युग्मम् ) पुरे पौरवधूनेत्रैः, प्रारब्धप्रापि क्षणात् । तस्याः प्रियानुगामिन्याः,
प्रमसुः प्रीतिवीरुधः ।। ३५४ ॥ विग्विधि यो नलस्यापि, दशामेतामदर्शयत् । न धिग्याऽस्य स्वभावोऽयं, चन्द्रमस्यपि
दृश्यते ॥ ३५५॥ चिकीयं तवासीचेत् , किं विधे ! भरतार्धभुम् । चक्रे नलस्त्वया ? यद्वा, “महाऽऽरोहो महापदे" ॥ ३५६॥
यां मती शापशहीप, करैः मरोऽपि नास्पृशत् । सहते सा कथं भैमी, पादचकमणक्लमम् ॥३५७॥ धिकूपरं कुतोऽस्यापि,
स्थैर्यमेष्यन्ति संपदः । भ्रातरं भ्रातृजायां च, य एवं निरवासयत् ॥ ३५८ ॥ इति ब्रजति वैदर्भी-सहाये नलभूपतौ ।
अन्तर्नगरसुनेरु-नांगरागां गिरस्तदा ।। ३५९ ॥ (पञ्चभिः कुलकम् ।)
तदा भैमीक्रमस्पर्श-पूर्तमन्येव मेदिनी । धावत्पौरजनोद्भूत-रजोव्याजादिवं ययौ ॥ ३६० ॥ पौरामात्यादिभिर्लोक-
रुपनीतानि कोटिशः । निराकुनिलो याना-न्यगच्छन्नगराद्राहिः ॥३६१ ॥ सह प्रस्थानवः कामं, कुलामात्याः क्षमामृता ।
तेस्तैयिः ममं पौरै-यवत्यन्त कथंचन ॥ ३६२ ।। दुःखादभ्येत्य वैदा, विभाव्य मुखमुज्वलम् । पौर्यः पुनर्ययुर्धाम,
॥ ९८॥
तत्सतीत्वविकस्वराः ॥ ३६३ ॥ भीमात्मजानिभाल्लक्ष्मी-मिवादाय नलोऽचलत् । गतेऽस्मिन् सर्वमप्यासी-निर्लक्ष्मीक कुतोऽन्यथा १ ॥ ३६४ ॥ पुरीपरिसराराम-चारिमायैर्विनोदयन् । विदर्भदुहितुचक्षु-र्नलोऽगच्छत् पुरः पुरः ॥ ३६५ ॥ भैम्याः पुराऽभवत् प्रीति-रातपन तावती । पत्या धृतोत्तरीयायाः, सातपे पथि यावती ॥ ३६६ ॥ पार्थिवस्तां पथि थान्ता, यत्र तत्रोपवेशिनीम् । निर्व्याजं वीजयामास, स्वेदिनी सिचयाञ्चलैः ॥३६७॥ कापि श्रमेण विश्रान्तां, संवाह्य चरणी चिरम् । पार्थिवः प्रार्थयांचके, पुरस्ताद्गमनाय ताम् ॥ ३६८ ॥ तां कचिन्मार्गखेदेन, तरुच्छायानिपादिनीम् । नलोऽब्जिनी- दलानीतं, पयः शीतमपाययत् ।। ३६९ ॥ कचिच सत्त्वमालम्ब्य, पादसंवाहनोद्यता । भूपालेन वलाझैमी, स्मितपूर्वमवार्यत ॥ ३७० ॥ अतीयतुः फलैस्तैस्तै-स्तो मध्याह्नं कृताद्विको । सेव्यमानी सरस्तीरे, शिशिरैरूमिमारुतैः ॥ ३७१ ॥ अन्यो- ऽन्यनिविडाऽऽश्लेप-चीतचङ्कमणक्कमौ । तौ लतामण्डपे कापि, निन्यतुः पथि यामिनीम् ॥ ३७२ ॥ अन्येचुरुन्मदोत्काल-व्यालव्याकुलितोदराम् । एकच्छत्रद्रुमच्छाया-मीयतुस्तौ महाटवीम् ॥ ३७३ ॥ तामवस्थामि- चोप्णांशु-स्तयोरीक्षितुमक्षमः । विधौ क्रोधादिवाताम्रो, जगामास्तनगान्तरम् ॥ ३७४ ॥ अधावन्नभितो दिग्भ्य-स्ततास्ति- मिरवीचयः । वनान्तगहनध्वान्त-बन्धुस्नेहोत्सुका इव ॥ ३७५ ॥ कान्तारसरितं कांचि-गत्वा धौताऽऽस्य-दोक्रमौ । ततो भूपश्च भैमी च, यथेच्छं पपतुः पयः ॥ ३७६ ॥ विश्रामाय लतावेश्म-क्रोडे कोल्लिपल्लवैः । नलः शिलातले रम्ये, कापि तल्पमकल्पयत् ।। ३७७ ॥ वृन्तैरपि वपुग्लानि-उँदा मा स्म भूदिति । उत्तरीयपटप्रान्तं, स व्यधत्तोत्तरच्छदम् ॥ ३७८॥ १ निभात्-मिषात् । २ चारिमा-सौन्दर्यम् । ३ व्याल:-सर्पः । ४ विस्तृताः ।
नलस्य वनवासः। ममुगार्य ततः पश्न-परमेष्ठिनमस्क्रियाम् । तौ स्म संविशतस्तस्मिन् , मिथः, संसक्तदोलतौ ॥ ३७९ ॥ अयामाग्यभरैभम्याः, मापालोऽन्तरचिन्तयत् । गन्तच्याया भुवः कान्तो, पिन्दुरस्त्यर्णवः पुरः ॥ ३८०॥ देवीमन्वय गन्तास्मि, तस्य पारीणतां कुतः १ । पथि स्वच्छन्दवारस्य, प्रत्यूहो हि त्रियो महान् ।। ३८१ ॥ तद्याम्येतां परि- त्यज्य, ग्नेऽस्मिन् मुखशायिनीम् । प्रावर्गच्छेदियं वेश्म, पितुर्वा कूवरस्य वा ॥३८२॥ इत्यालोचयतस्तस्य, निद्राति स्म विदर्भजा । "मार्गसंपातखिन्नानां, निद्रा ह्यम्पर्णवर्तिनी" ॥३८३॥ ततः शनैः परीरम्भ-मुद्रां निर्भिध नैपधिः। ऋष्टु- कामो निजं भैमी-भुजसंवलितं भुजम् ॥ ३८४ ॥ गाढविश्रम्भसंरम्भा-दतिस्वच्छन्दशायिनीम् । तामजागरयन्नूचे, नीचकै- निपधापतिः ।। ३८५ ॥ (युग्मम् ) मुश्च मुञ्च नलं मुग्धे, चण्डालं कुलपांसनम् । स्पर्शनाप्यस्य पापस्य, पातकैरुपलिप्यसे ॥ ३८६ ॥ मुप्तामेकाकिनीमेव, बने विश्वस्तमानमाम् । प्रेमामृतस्रवन्तीं य-स्त्वामपि त्यक्तुमिच्छति ॥ ३८७ ॥ कल्पद्रुम- प्रमान्मुग्धे, श्रिताऽमि विपपादपम् । तदशामुहि निःशेपं, फलं तस्यात्मकर्मणः ॥ ३८८ ॥ धिग्धातः ! कुर्वता मूढ !, वैदर्भानलसंगमम् । हंसीकारोलयोः कोऽयं, त्वयाऽकारि समागमः १ ॥ ३८९ ॥ यदि वा सर्वदेवासि, त्वमनौचित्ययोग- छन् । अमेध्यदोहदश्के, केतक्या (क्याः) कथमन्यथा' ॥३९०॥ इत्याकृष्य भुजं भूयो, मन्द मन्दं नलोधदत् । देवीक्रान्तमिदं गान-दछेनुं पाहो ! प्रमीद मे ॥ ३९१ ।। यद्वा पूर्व समेवास्या, व्याप्तोऽसि करग्रहे । जातस्त्वमेव साग-सौरभ्यप्रथमा- तिथिः ॥ ३९२ ॥ तेन मन्येऽहमेतस्यां, दाक्षिण्यं दक्षिणस्य ते । सदा संधीचि किं नाम, नलेऽसि त्वमदक्षिणः १ ॥३९३।। १ आलिद्गनमुद्राम् । • विष्ठाया. दोहदः । ३ सहचारिणि । । ९९॥
तद्विधायाउरोधं त्व-मसिधेनुमलंकुरु । क्षुरिकायामिति स्वैरं, क्षितीशः पाणिमक्षिपत् ॥ ३९४ ॥ तामूचे च मया कोशः, समं राज्येन तत्यजे । तते केयं मदीयायाः, कोशेऽप्यत्यागवासना ? ॥ ३९५ ॥ मम पाणिग्रहे यद्वा, त्वमपि त्यागशकिनी । मूदासि न हि भैमीव, भवत्यप्यदिशृङ्खला ॥ ३९६ ॥ इत्याकृष्य स्वतेजोभि-स्तमाकल्पान्तशिल्पिभिः । हसन्तीमिव तां चक्रे, पटसंश्लेपिणी नलः ॥३९७॥ पुनर्जगाद तां देवी-क्रान्तस्य मम वाससः । छेदाय क्षुरिके ! देवि!, प्रसीदायं कृतोऽञ्जलिः ॥३९८।। यद्वा स्त्रीजातिकारुण्य-विक्कवा न व्यवस्यति(सि) । कारुण्यं किं हि निस्त्रिंश-सुतायास्तव ? कथ्यताम् ॥३९९॥ इति - चिच्छेद मेदस्वि-पतदश्रुकणादितम् । मन्युसंभारनिर्मिन-चेताशेलाञ्चलं नलः ॥ ४०० ॥ अब्रवीच दृशौ देव्याः, कामं निद्रे ! निमीलयेः । मा स्म भून्मम हिजीरः, स्निग्धमस्या विलोकितम् ॥४०१॥ अस्मि त्यक्तस्त्वया देवि !, न व्यलीकश- तैरपि । निळलीकामपि त्वां तु, हा ! दुरात्मा त्यजाम्यहम् ।। ४०२ ॥ मन्ये मे नेदमप्याग-स्त्वय्यागस्त्वं गमिष्यति । नाविर्भवति कौमुद्यां, कजलस्यापि कालिमा ॥४०३।। इयमापृच्छयसे देवि !, प्रणामोऽयमपश्चिमः । त्वामपि क्षेप्तुमिच्छामि, नात्मीयव्यसनार्णवे ॥ ४०४ ॥ सतीव्रतपवित्रायाः, कोऽपि नोपद्रवस्तव । परं पूजैव ते गेहे, पितुर्वा श्वशुरस्य वा ॥ ४०५॥ इत्युक्त्वा तत्पटप्रान्ते, लिखति स्म निजासृजा । अक्षराणि क्षरद्वाप्प-विन्दुक्लिन्नाननो नलः ॥ ४०६ ॥ वामतोऽयं वटेनाध्वा, विदर्भामुपतिष्ठते । दक्षिणेन पुनः स्मेरैः, किंशुकैः कोशलां पुरीम् ॥४०७॥ देवि! तत्र व्रजेयंत्र, कुत्रापि प्रतिभाति ते । अहं तु खल्लु न क्वापि, मुखं दर्शयितुं क्षमः ॥४०॥ मामक्यास्तव केयं तत्" इति प्रतिद्वयपाठः । २ (निगडः) बन्धनशृङ्खलेति यावत् ।
नलेन कृतो
दमयन्त्या
त्यागः॥
वर्णावलि लिखित्वेति, चचाल वलिताननः । पश्यन् भैमी तथा सुप्तां, मन्दं मन्दं रुदन्नलः ॥ ४०९ ।। पुनावृत्य
वैरी-मुखमालोक्य निर्भरम् । जगाद दैवदुष्फर्म-विद्धमा महीपतिः ।। ४१० ॥ हा विधै ! विहितेयं चे-दीदग्विश्वाति-
शायिनी । तत्किमेतावती दीना-मवस्थां लम्भिता त्वया ? ॥ ४११ ॥ नान्योऽपि स्वयमारोप्य, छिनत्ति बदरीमपि । फलि-
ताशेपसंकल्पां, किं पुनः कल्पवल्लरीम् १ ॥ ४१२ ॥ यदि वा जड एवासि, मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय,
कदर्थयमि राहुणा ॥४१३।। मम पिनापना सर्वाः, शृण्वन्तु वनदेवताः । दुर्युद्धिविधिवद्देव्या-मस्यां मा भूत निर्दयाः ॥४१४||
तथा कुरुत केनापि, यथोपद्रूयते न हि । मार्ग च विन्दति प्रात-रसौ स्वजनवेश्मनः ॥ ४१५ ।। इत्युदीर्य मुहुर्जायां, पश्यन्ना-
पृत्तकन्धरः । गच्छति स्म नलस्ताव-द्यावदागाददृश्यताम् ।। ४१६ ॥ वन्यसचोद्भवः शङ्के, स्यादस्याः कोऽप्युपद्रवः ।
तल्लतापत एवैतां, रक्षाम्येकाङ्गशायिनीम् ।। ४१७ ॥ प्रबोधसमये प्रात-र्गमिष्यामि यथारुचि । गच्छत्वेपाऽपि केनापि,
मदावेदितयोः पयोः ॥ ४१८ ॥ इत्यालोच्य निवृत्त्याशु, नलस्तस्थौ लतान्तरे । तथाभूतां च तां दृष्ट्वा, पुनरन्तरचिन्तयत्
॥ ४१९ ॥ अहो नलस्य शुद्धान्त-मयंपश्यमीदृशम् । वासवेश्मनि शेते च, कीदृश्युच्चूलशालिनी ॥ ४२० ।। हा दुरात्म-
नल ! क्षिग्रं, कथं यामि न भस्ममात् । इत्याद्यालोचयत्यस्मिन् , विरराम विभावरी ॥४२१॥ निलीनमिव तत्कालं, नलस्य
मनमोऽन्तरे । सर्वतोऽपि दिगन्तेपु, तुच्छत्वमगमत् तमः ॥४२२॥ उदेति न रविर्याव-द्यापजागर्ति न प्रिया । साश्रुनेत्रो
नलस्ताव अगाम त्वरितक्रमम् ।। ४२३ ॥
१ 'नासो' प्रतिद्वय० । २ मूढदैववत् ।
॥१०॥
गच्छन्नच्छिन्नसंचार-मभ तस्मिन् वनान्तरे । धूमस्तोमं स पर्द्धिष्णु, विन्ध्यस्पर्द्धिनमैक्षत ॥४२४॥ भीमास्तदन्तरुत्तस्थु- ालाः कालानलोपमाः। निर्गता रसगर्भाया, गर्भरतप्रभा इव ।। ४२५ ॥ क्षणेन व्यानशे सर्व, वनं तद्दावपावकः । मानसं कोशलामतु-रिव शोकहुताशनः ॥ ४२६ ।। जन्तूनां दह्यमानाना-माक्रन्दानुपकर्णयन् । मानुपी गिरमश्रौपी-नलो गच्छंस्त- दन्तिकम् ।। ४२७ ॥ ऐश्वाक ! नलभूपाल , जगत्यार्तेकवान्धव ! | दावाग्निदह्यमानाचं, महात्मत्रक्ष रक्ष माम् ॥ ४२८ ॥ रासा वानोऽनुसारेण, नलः प्रहितलोचनः । यल्लीवलयमध्यस्थं, ददर्शकं भुजङ्गमम् ॥ ४२९ ॥ तं सोऽभ्यधाबुजङ्गेन्द्र, मम नामाच्चयो कथम् । जानासि त्वं कथं चेत्थं, पे मनुजभापया ? ॥४३०॥ आद साहिर्मनुष्योऽह-मभूवं पूर्वजन्मनि । तरसंस्कारानवेऽप्यस्मिन् , गानुपी मे सरस्वती ॥ ४३१ ॥ निधिमवधिज्ञान-मप्यस्ति मम भूपते ! । करस्थमिव पश्यामि, तेन विश्वं चराचरम् ॥४३२।। तत्रायस्व जगताण-पत्र ! धूमध्वजादितः । त्वां प्रत्युपकरिष्यामि, निरपेक्षमपि क्षणात् ॥४३३॥ तेनेत्युक्ते भुजङ्गेन, नलः कारुण्यनीरधिः । अन्तर्लतावितानं स्व-मुत्तरीयमलम्बयत् ॥ ४३४ ।। स भोगी वपुपा वृक्षं, वल्लीप नदवेष्टयत् । उदपानावरांव-गकर्पोषं च नैपधिः ॥ ४३५ ॥ भूतले तृणकाष्ठादि-रचिते तममुश्चत । यावदुर्वीपतिस्ताव- दृश्यते स करेऽमुना ।। ४३६ ॥ नलः क्षोणीतले पाणि-माच्छोट्य तमपातयत् । विपादाचाब्रवीत् सेयं, तव प्रत्युपकारिता ॥ ४३७ ॥ यद्वा हन्यान्मृगारिस्तं, य एवोन्मीलयेदृशौ । य एव. पाययैत् क्षीरं, त्वात्याऽपि स दश्यते ॥ ४३८ ॥ इत्यादि निगदनेव, तदीयविपवैभवात् । अधिज्यधनुराकार, कलयामासिवानलः ॥ ४३९ ॥ तया कुन्जतयाऽत्यन्तं, राजा पैराग्य- १ पृधिव्याः । २ रजुयात् ।
पितृदेव-
कृतो नल-
स्य रूप-
परावर्तः,
मुंसुमार-
पुरे गमनं
मीयिवान् । जीवितव्यानपेक्षोऽभू-द्रतादानमनाः क्षणात् ॥ ४४० ॥
ततोऽपश्यदहिस्थाने, नलः कन्दलितप्रभम् । तमम्पद इयोद्योतं, दिव्यमूर्ति पुरः सुरम् ॥ ४४१ ।। जल्पति म्म स
भूपालं, कथं वत्स ! विपीदसि १ । हितैकवद्धहेवाक-स्तवास्मि निपधः पिता ॥४४२॥ तदा व्रतमुरीकृत्य, तपस्तत्वाति-
दुस्तरम् । कृतानशनकर्माऽन्ते, ब्रह्मलोके सुरोऽभवम् ॥ ४४३ ॥ परिज्ञायावधिज्ञाना-दिमं ते व्यसनोदयम् । आयातोऽहमिदं
सर्व, मम मायाविजृम्भितम् ।। ४४४ ॥ तदात्मनीनमेवैत-द्विद्धि बैरूप्यमात्मनः । अनेनानुपलक्ष्यं त्वां, नोपद्रोप्यन्ति शत्रवः
॥ ४४५ ।। अधुनै बतादान-स्पृहामपि हि मा कृथाः। भोक्तव्यमेव तेऽद्यापि, तावदेवावनीतलम् ।। ४४६ ॥ यदा वत्म !
परिव्रज्या-समयस्ते भविष्यति । ज्ञापयिष्यामि दैवज्ञ, इवाभ्येत्य स्वयं तव ॥ ४४७ ॥ फलं तु श्रीफलस्येद-मिमां चापि
करण्डिकाम् । गृहाण द्वयमप्येतत् , काम रक्षेः प्रयत्नतः ॥ ४४८ ॥ यदा च रूपमास्थातु-मात्मीयं ते स्पृहा भवेत् । निर्भिद्य
श्रीफलं दिव्य-दुकूलानि तदाऽऽकृपेः॥ ४४९ ॥ अस्याः करण्डिकायाच, हाराद्याभरणोत्करम् । क्षणादमीभिरामुक्तै-निज
रूपमवाप्स्यसि ॥ ४५० ॥ ( युग्मम् ) इत्युक्त्वा तद्वयं देवः, समय पुनरत्रवीत् । किं भ्राम्यसि वने ? स्थानं, नयामि
त्वां यियासितम् ॥ ४५१ ॥
नलोऽप्युपाच मां तात, सुंसुमारपुरे नय । इति जल्पन् स्वमैधिष्ट, तस्य द्वारि पुरस्य सः ॥ ४५२ ॥ यावच्चचाल
विस्मेर-मानसः पुरसंमुखम् । तावदहलमश्रौपी-अनकोलाहलं नलः ॥ ४५३ ॥ पलायध्वं पलायचं, सर्वतस्त्वरितं जनाः ।
क्षणादित्यश्ववाराणां, ध्वनि शुश्राव नैपधिः ॥४५४॥ किमेतदिति संचिन्त्य, यावत् तस्थौ कचिन्नलः । तापन्निर्मुक्तग्मार्गः,
॥१०१॥
WW प्रतिकारैरपि द्रुतम् ॥ .४५५ ॥ तिर्यक्प्रवृत्तदानाम्भः-स्त्रपितप्रतिमानकः । स्वच्छायायामपि क्रोध-क्रूरः परिणमन्मुहुः ॥ ४५६ ॥ नभस्वन्तमपि स्वैरं, विधुन्वनासनस्पृशम् । मुहुर्विहङ्गमस्यापि, धावन् विस्फुरतः पुरः ॥ ४५७ ॥ मठा-डालक- शाला-दु-मन्दिरादीनि पातयन् । कल्पान्तमातरिश्व, भजन्नुद्यानपादपान् ॥४५८॥ प्राकारगोपुरारूढे-क्षितचकितैर्जनैः। निशिताऽऽराकरैः पश्चा-दारिकैः परिवारितः ॥ ४५९ ॥ दत्तझम्पान् द्रुमान्तेभ्यो, हिंसन् हस्तिपकाग्रणीन् । अग्रतः कृष्टबा- ल-शी-वृद्धः कौतुकिभिनेरैः ॥ ४६० ॥ पूत्कारसीकराऽऽसार-कृप्तझञ्झासमीरणः । धूननोतसिन्दूर-पूरपिञ्जरिताम्बरः ।। ४६१ ।। सप्तश्रोतःस्रवद्दान-पकिलीकृतभूतलः । गतो मातङ्गरूपेण, समवर्तीव मूर्तताम् ।। ४६२ ॥ दूरतो दधिपणेन, राज्ञाऽनुगतपद्धतिः । नलेनोन्मूलितालानः, कोऽप्यदृश्यत कुञ्जरः ॥ ४६३ ॥ (नयभिः कुलकम् ) तं कस्मिन्नपि नागेन्द्र, वशीकर्तुमनीश्वरे । ऊ/कृत्य भुजं राजा, व्याजहारेति भारतीम् ।। ४६४ ॥ वारणेन्द्रमिमं व्यालं, यः कोऽपि कुरुते चशे । अवश्यं तस्य वश्यत्वं, लक्ष्मीमेतां नयाम्यहम् ॥ ४६५ ॥ इत्युक्तवति भूपाले, नला कल्लोलिविक्रमः । अस्पृशन्निव पादाभ्यां, भुवं वेगादधावत ॥ ४६६ ॥ निवर्तस्य निवर्तस्व, कुन्ज ! माऽऽविश माऽऽविश । इति लोकैनिषिद्धोऽपि, नलः सिंह इवाविशत् ॥ ४६७ ॥ नलो नागमभापिष्ट, लेप्दैना प्रणि- हत्य तम् । रे! रे! मातङ्ग एवासि, स्त्री-पालादीनुपद्रवन् ॥ ४६८ ॥ तदेतत्सर्वमुत्सृज्य, ममैवानुपदीभव । अयमग्रेऽस्मि ते दान-पृष्ट्यवर्ग्रहदुर्ग्रहः ॥ ४६९ ॥ इत्युक्तः सोऽप्यधाविष्ट, क्रोधादन्धंभविष्णुदृक् । साक्षाद्विन्ध्य इवोत्पात-बातेधूतो नलं १ हस्तिपकैः । २ प्रतिमानः-ण्डस्थलाधोभागः । ३ कल्पान्तवायुः । ४ यम इव । ५ मृत्पिण्डेन । ६ अवग्रहः-प्रतिबन्धः ।
नलेन
गजो
वशीकृतः॥
प्रति ॥ ४७० ॥ धापातु भ्रमातु, लेष्टुभिर्जातु ताडयन् । पतञ्जातु लुठञ्जातु, वचोमिर्जातु भयिन् ॥ ४७१ ॥ जातु
पुच्छान्तमालम्ब्य, चक्रवनयन्मुहुः । नलस्तैस्तैः प्रकारैस्तं, खेदयामास दन्तिनम् ।।४७२॥ (युग्मम्) हर्पकोलाहलैर्जात, जातु
हाहारवोत्करैः । जनानां पश्यतामासी-च्छब्दाद्वैत पुरे तदा ॥४७३॥ खिन्नस्यापि भृशं कोपाद , कुञ्जरस्यानुधावतः । क्षिपति
स्म पुरः क्षिप्र-मुत्तरीयपटं नलः ॥ ४७४ ।। पपात पुरतो रूप-मित्यस्मिन् परिणामिनः । नतारवपुपः स्कन्ध-मास्कन्द-
दन्तिनो नलः ।। ४७५ ॥ ततः कण्ठपरस्त्रायां, प्रक्षिप्य चरणो नलः । आस्फालयन् करैः कुम्भे, कुञ्जरं तमसान्त्वयत् ॥
४७६ ॥ पश्चादेत्य प्रतीकारै-रादायोल्लालितां गिम् । नलो दन्तावलेन्द्रं त-मन्वालानमचालयत् ॥ ४७७॥
मायाकुब्जः सुरः कोऽपि, किमेप भुवमागतः । यश्चक्रे हस्तिमल्लस्य, प्रतिमल्लमिमं वशे ।।४७८॥ इत्यन्तर्विस्मितो राजा,
स्वयमारुह्य गोपुरम् । रतदाम न्यधात् कण्ठे, तस्साधस्तादुपेयुपः ॥ ४७९ ॥ कुब्जावदानमेदस्वि-हर्पवाप्पायितेक्षणाः । वभू-
पुर्जयशन्दैक-मुखराः सर्वतः प्रजाः ॥ ४८० ॥ श्रमानुत्तानमालाने, गजमाकलयन्नलः । सर्वपौरजनानां तु, प्रमोदमधिमा-
नसम् ॥ ४८१ ॥ ततः सलीलमुत्तीर्य, कुब्जः कक्षावरत्रया । अभ्यर्णे दधिपर्णस्य, त्रयस्यचदुपाविशत् ॥ ४८२ ॥ अलंकारान्
दुकूलानि, तुष्टस्तस्मै ददौ नृपः । स्वान्तिकेऽस्थापयचैनं, गौरवेण गरीयसा ॥ ४८३ ।। अभ्यधात् संविधासीनं, तमन्येधुर्मही-
पतिः। कलेयं गजशिक्षायां, कुन्ज! कौतस्कुती तव ॥४८४॥ कथासिक च वास्तव्यः १, कुत्र चामिजनस्तव । कला
नियतमन्याऽपि, काऽपि संभाव्यते त्वयि ॥ ४८५ ॥ कुब्जेनाभिदधे राज-जन्मभूर्मम फोशला । सर्वः स्वजनवर्गोऽपि, शश्व-
१ श्रमेण नम्रमुखम् । २ समीपे स्थितम् ।
॥१०२॥
सय वर्तते ।। ४८६ ।। हुण्डिका सपकारोऽस्मि, नलस्य पृथिवीपतेः । स एच हि कलाः सर्वाः, प्रीतिपाने मयि न्यधात् ॥ ४८७ ।। किंग वेनिस वा वर्ग-पाफा रसवती भुवि । अहं वा तत्पदोपास्ति-प्रसादादेमि नापरः ॥ ४८८ ॥ सोऽधुना कृपरे पन्धौ, क्षोणि मंच दुरोदरे । हारयित्या सदारोऽपि, जगाम जनवद्वनम् ॥ ४८९ ॥ विपेदे तत्र स त्वां तु, कलानिलय- मागमम् । धितोऽहमविशेपर्श, मायिनं न तु परम् ॥४९०॥ आकर्ण्य दधिपर्णस्तां, नलमृत्युकथामथ । रुरोद प्रेतकृत्य च, कार सपरिच्छदः ॥ ४९१ ॥ जातुनित सूर्यपाकार्या, रसवत्यां कुतूहली । हुण्डिकाय नृपः शालि-प्रमुखं सर्वमार्पयत् ॥४९२।। स स्थालीरातपे न्यस्य, वियां वैषसती स्मरन् । पके रसपती दिल्या-मशेपरसपेशलाम् ॥ ४९३ ॥ तया च भोजयामास, राजानं सानुजीविनम् । प्रीतभास्मै ददौ सोऽपि, वरनालंकरणादिकम् ॥ ४९४ ॥ लक्षमेकं च टवाना, ग्रामपञ्चशतीमपि । सर्वमेतद्विना ग्रामान् , हुण्डिकोऽप्याहीपदा ॥ ४९५ ॥ ततो भूयोऽपि भूपालः, प्रीतिमांस्तमभापत । कुन्ज ! सर्व ददे तत्ते, यदन्यदपि वाञ्छसि ॥ ४९६ ।। इत्युक्तः क्षोणिपालेन, कुन्जः स्मेरेक्षणोऽप्रदत् । राजन् ! यापशुवः खण्डं, भुजादण्डः प्रशास्ति ते ॥४९७॥ पूर्त मयं मृगव्यं च, तावति प्रतिपिध्यताम् । इत्यस्य वचसा सर्व, तगकार धराधवः ॥ ४९८ ॥ (युग्मम्) तत्रैव परगं राज- प्रसादमधिजग्गुपः । परातस्तस भूयांसि, हायनान्यविचक्रमुः ॥ ४९९ ॥ परेपपि सरस्तीरे, नुमन्छायो निपेदुपः । कुन्जस्याभ्यर्णमभ्येत्य, विप्रः कभिदुपापिशत् ।। ५०० ।। सोऽथ सर्वाङ्गमा- १ सूर्यसंपन्पिनीम् ।
।
दधिपर्ण-
समीपे
तस्पो
नलस्प
द्विजेन का
धितो द.
लोक्य, कुन्जमाकूणितेक्षणः । जगौ श्लोकद्वयीमेतां, नलनिन्दाविशारदाम् ॥ ५०१ ॥
निघृणानामलज्जाना, निःसत्त्वानां दुरात्मनाम् । नलस्यैव धुरीणत्वं, सुप्तां तत्याज यः प्रियाम् ५०२
सुप्तामेकाकिनी स्निग्धां, विश्वस्तां दयितां सतीम् । गतः किं नवने त्यक्तु-काम एव न भस्मसात्? ५०३
इत्युपश्रुत्य तद्गीतं, कुजः पर्यश्रुलोचनः । तमभ्यधादहो रक्त-कण्ठोऽसि द्विजसत्तम ! ॥ ५०४ ॥ गीतेनानेन ते काम-
मुद्यत्करुणवीचिना । ममाप्येताः कृताः पश्य, चक्षुषोरथुवित्रुपः ॥ ५०५ ।। ततः कथय कोऽसि त्वं ?, कुतश्चागम्यतेऽधुना ? ।
दुर्धियथ नलस्याय-मुदन्तः क त्वया श्रुतः १ ॥५०६॥ सोऽप्याख्यत् कुशलाख्योस्मि, कुण्डिनाचाहमागमम् । तत्रा-
श्रीपमिमा सो, नलभूमीपतेः कथाम् ॥५०७॥ कुञोऽभ्यधात्ततो विभ्र-द्विकाशविशदे दृशौ । श्रुता ब्रह्मन्! पुराणीयं, भैमी-
त्यागावधिः कथा ॥ ५०८ ॥ ततः परं यदातेने, भीमभूविरहातुरा । तत्स्वरूपं समस्तं मे, निवेदयितुमर्हसि ॥५०९ ॥
जगादाथ द्विजो भैमी, परित्यज्य गते नले । निशि प्रभातप्रापायां, स्वममेवं ददर्श सा ॥ ५१० ॥ यदहं पत्रलं
। बद्ध-मञ्जरीकं सपद्पदम् । फलितं चूतमारूढा, तत्फलान्यादमिच्छया १५११॥ तं चाभ्येत्य करी कश्चि-दकस्मादुदमूलयत् ।
अहं च तत्परिभ्रष्टा, पतिताऽस्मि भुवस्तले ॥ ५१२ ॥ ततो जागरिता प्रात-रदृष्ट्वा प्रियमन्तिके। दिक्षु चक्षुर्निचिक्षेप,
भीमभूर्भपविक्लवा ॥ ५१३ ॥ अचिन्तयच मे देव-मद्यापि प्रातिलोमिकम् । व्यालाकीणे वनान्तेऽस्मिन् , मां प्रियोऽपि
यदत्यजत् ।। ५१४ ।। यद्वा सलिलमानेतु-मास्यक्षालनहेतवे । प्रयातः सरसि कापि, प्राणेशो मे भविष्यति ॥५१५ ॥रन्तुं
मयन्ती-
वृत्तान्त।
॥१०३॥
N विद्याधरी काचित् , कापि वा वनदेवता । सुभगं तमपाहापीत् , सोऽन्यथा न जहाति माम् ॥ ५१६ । नर्मणा वा किम- स्त्येप, मतत्यन्तरितः क्वचित् । तत्समुत्थाय पश्यामि, क गन्ता स ममाग्रतः १ ॥५१७ ॥ इत्युत्थाय प्रतिक्षोणी-रुहमुद्वी- धणादपि । निजं कान्तमपश्यन्ती, रुदत्युशैर्जगाद सा ॥ ५१८ ।। एहि त्वरितं नाथ !, याति मे हृदयं द्विधा । चिर न राल नर्मापि, शर्मदं भवति कचित् ।। ५१९ ।। इत्याद्यैर्वननैः कान्ते, दृग्गोचरमनीयुपि । विदर्भदुहितेत्यन्तः, स्वमस्यार्थ ग्यनारयत् ॥५२०॥ यथतो मत्प्रियः सोऽयं, राज्यं पुष्पफलादिकम् । तद्भोगक्ष फलास्वादः, पट्पदाथ परिच्छदः ॥५२१॥ मूलादुन्मूलनं यग, पूतस्य पनदन्तिना । मदीयप्रेयसो राज्या-नंशनं कूबरेण तत् ।। ५२२ ॥ यच्चाहं पतिता नूवात् , प्रियेण विरहः स मे । तत्समेनामुना नूनं, पालभो दुर्लभोऽधुना ॥ ५२३ ॥ इत्यालोच्य ययौ मूछा, दुःखसंभारनिर्भरा । उचैव प्राप्तचेतन्या, रुरोद ग्यलपत्र सा ॥ ५२४ ॥ हा ! नाथ ! किं तवाभूवं, हताऽहं भारहेतवे । स्थूले अपि निजे शृङ्गे, भाराय पभस्य किम् ? ॥ ५२५ ।। न दएः फाप्यं पन्थाः, साचिकानां विवेकिनाम् । यदीरशि वने पाणि-गृहीती त्यज्यते प्रिया ॥ ५२६ ॥ नैप ते यदि या दोपो, मत्कौवापराध्यति । भवेन्मतिविपर्यास-स्त्वादृशामपि कि फचित् ? ॥ ५२७ ॥ जल्पं जल्पमितिप्रायं, तार पूर्वती मुहुः । अरोदयद्वने भैमी, श्वापदान् पादपानपि ॥ ५२८ ॥ पटनान्ते चिरात् कान्य-प्यक्ष- राणि निरीक्ष्य सा । वारयामास सानन्दं, दध्यो चान्तास्मिताशया ॥ ५२९ ॥ दियाऽद्याप्यस्मि ततः-केतकीकानना- लिनी । ददौ मे गमनाऽऽदेशं, यत्स्वयं लिखिताक्षरैः ।। ५३० ॥ तन्यग्रोधाध्वनाऽनेन, पितुर्वेश्म प्रजाम्यहम् । नारीणों १ हारयेन । २ अमाते सति ।
द्विज-
कथितो:
दमयन्ती-
वृत्तान्तः॥
पतिशून्यानां, पितैर हृदयार्तिहत् ।। ५३१ ॥ पति विना तु तद्गहे, वसन्त्या निस्तनूरुहः । साध्व्या अपि कुरङ्गाक्ष्याः, परा-
भूतिः पदे पदे ।। ५३२ ॥
इत्यालोच्य पितुर्गेह, प्रत्यचालीनलप्रिया । कांदिशीका दृशौ दिक्षु, प्रक्षिपन्ती मुहुर्मुहुः ॥ ५३३ ।। दर्भसचिव्ययोद्भूत-
शोणितारुणितक्रमा । पाटितोभयजसा च, क्षुद्रकैदरीवणैः ॥ ५३४ ॥ मलीमसांशुका स्वेद-मेदुरा रेणुरूपिता ।। विकीर्ण-
कुन्तला वक्त्र-मभितस्तरलेक्षणा ॥५३५॥ प्रेयोविरहपीडाभि-निंगीर्णनिखिलव्यथा । दरिद्रस्त्रीव सा मागें, त्वरित त्वरितं ययौ
।। ५३६ ।। (त्रिभिर्विशेषकम् ) जाङ्गुलीमिव भोगीन्द्राः, सिंहीमिव वनद्विपाः । वद्विज्वालामिव व्याघा-स्तां सती वीक्ष्य
दुद्रुः ॥ ५३७ ॥ यान्ती चाचिन्तययावत्, सार्थः कश्चिद्भवेद्यदि । तेन साकमरण्यस्य, पारमस्य बजाम्यहम् ॥ ५३८ ॥
तापरपुरः पराभोग-भासुरं लोकसंकुलम् । संकटं शकटवातैः, सार्थ कंचिदुदैवत ॥ ५३९ ॥ (युग्मम् ) तमासाद्याभवन्द्वैमी,
यावत् स्वस्थमना मनाक् । तावत् सरुधे हक्का-मुखरैर्दस्युभिः क्षणात् ।।५४०॥ सा तानूर्षभुजाऽवादी-दरे रे! यात तस्कराः!।
आरम्मोऽस्मिन् मया त्राते, सार्थेऽनर्थफलो हि वः ॥५४१॥ तामवज्ञाय भूतात्ता-मिव वातकिनीमिव । यदा लुण्टयितुं
मार्च-स्तरीलादुपचक्रमे ॥ ५४२ ॥ ध्वस्तद्विपदहंकारान् , हुंकारान् सामुचत्तदा । सिंहीरवैरिवामीभि-स्ते कुरङ्गा इवानशन् ॥
५४३॥ ततो नः पात्यसो नूनं, काऽप्यस्मत्कुलदेवता । इति सार्थपतिर्भक्त्या, तां ससार्थजनोऽनमत् ।।५४४॥ पृच्छति स्म च
१ . नियमन्त्यास्तनूरुहः ' प्रतिद्वय० । २ निगीर्णा-अन्तर्भाविता निसिला व्यथा यया सा। ३ जाजुली विषविद्या ।
४ 'पुराभोग.' प्रतित्रयः।
॥१०४॥
कल्याणि !, कासि त्वं महिमैकभूः १ । अस्मिन्नेकाकिनी किं वा, वने भ्राम्यसि निर्जने ? ॥ ५४५ ॥ ततोऽस्मै वान्ध- चायेव, भारत्या दैन्यशून्यया । भीमभूरानलद्यूता-निजामकथयत् कथाम् ॥ ५४६ ॥ रक्षणान्नलपत्नीत्व-ज्ञानाचैप विशेषतः । प्रीतिमन्तर्वहन् भैमी, निन्ये पटकुटी निजाम् ॥५४७॥ स्नान-भुक्त्यादिना तत्र, हृतश्रान्तिमधारयत् । स तैस्तै- रुपचारैस्ता-माराध्यदेवतामिव ॥ ५४८ ॥ • अथ प्रववृते प्रावृ-गर्जामुरजनिस्वनैः । जनेभ्यः शिखिना नृत्तं, दर्शयन्ती वने वने ॥ ५४९ ॥ ततो मुशलधाराभिः, पुष्करावर्तकोपमाः । विरामरहितं मेघा-स्त्रिरात्रं ववृपुस्तराम् ।। ५५० ॥ तदा शकटसंचार-भङ्गमञ्जरितोर्जितः। चिक्रीड विपिने पङ्कः, क्षोभयन् पथिकबजान् ।। ५५१ ॥ चिरावस्थानमाशङ्कय, सार्थस्य नलवल्लभा । केनाप्यविदिता वृष्टि-पर्यन्ते निर्ययौ ततः॥ ५५२ ।। पान्ती च पुरतो रौद्र-मजनाचलसोदरम् । फेत्कारनिर्यदास्योल्का-निरस्तसतडिद्धनम् ॥५५३॥ नरास्थिभूपणं दंष्ट्रा-करालं कर्चिकाकरम् । साक्षादिव यमं भैमी, कंचिदैक्षिष्ट राक्षसम् ॥ ५५४ ।। (युग्मम् ) भापते स्म स तां भीति-कल्लोलतरलेक्षणाम् । क यासि ? भक्षयिष्यामि, त्वामेप क्षुधितचिरात् ।।५५५॥ ततः सौष्ठवमालम्ब्य, जगाद नलगेहिनी । निशम्य मद्गिरं कुर्या-स्तुभ्यं यदिह रोचते ॥ ५५६ ॥ न नाम परमाहत्याः, किंचिन्मृत्युभयं मम । “ मृत्योर्हि संभृतानेक-सुकृतो नाभिशङ्कते" ।।५५७॥ किं तु मामनिशं पूत-मानसां परमेष्ठिभिः । पराङ्गनां स्पृशन्नेव, भद्र! यास्यसि भस्मसात् ।। ५५८ ॥ राक्षसस्तामवष्टम्भ-मयीमाकर्ण्य तद्गिरम् । ऊचे कल्याणि ! तुष्टोऽस्मि, सत्वेनैव तवामुना ॥ ५५९ ॥ १ ' लक्षणा०' प्रतिद्वय० । २ 'माराध्यन् देव० 'प्रतित्रय०। ३ उल्का -तेजोविशेषः । --
दमयन्ती-
वृत्तान्तः॥
बेहि तस्किमिदानी ते, मनोऽभीष्टं करोम्यहम् । निशम्येति वचस्तस्य, कुण्डिनेशसुताऽवदत् ॥५६०॥ यदि तुष्टोऽसि मे सत्यं,
राक्षस ! व्यन्तरेश्वर ।। तदाचक्ष्व कदा भावी, पत्या मम समागमः ॥५६॥ विलोक्यावधिना सद्य-स्तामयोचनिशाचरः।
अतिक्रम्य परित्याग-दिनाद्वादशहायनीम् ॥ ५६२ ॥ पितृधाम्नि स्थितायास्ते, भविता पतिसंगमः । तदादिशसि चेतवां,
तत्र वेगानयाम्यहम् ।। ५६३ ।। (युग्मम् ) अथोचे भीमभूर्भ-समागमनिवेदनात् । किं नाम नोपचके मे, त्वया दाक्षि-
ण्यसिन्धुना ? ॥ ५६४ ॥ किं त्वन्यपुरुषैः साकं, क्वचिन्नैव प्रजाम्यहम् । तद्गच्छ स्वस्ति ते भूया-द्धर्मगृह्यो भवैश्विरम् ॥५६५।।
ततः प्रेवत्प्रभाजाल-मालोलमणिकुण्डलम् । दर्शयित्वा निजं रूपं, तस्यै रात्रिंचरोऽगमत् ॥ ५६६ ।।
अथ द्वादशवर्षान्ते, विज्ञाय पतिसंगमम् । भैमी सतीव्रतोत्तंसा-नग्रहीदित्यभिग्रहान् ॥ ५६७ ॥ रक्तवासांसि ताम्बूलं,
कुसुमाभरणानि च । विकृतीश्व ग्रहीष्येऽह-माग्न प्रियदर्शनात् ।। ५६८ ।। सा चलन्ती पुरो नाना-फलितद्रुमशालिनीम् ।
चेतःस्वास्थ्यकरी प्राप, कंदरां कस्यचिगिरेः ।।५६९।। तत्राम्भोदागमं नेतु-मवस्थानं चकार सा । प्रतिमा मृन्मयीं शान्ते-
स्तकोणे च न्यबीविशत् ॥ ५७० ॥ स्वयंगलितपुष्पैस्ता-मर्चयन्त्यनुवासरम् । धर्मध्यानामृताम्भोधि-स्नानसानन्दमानसा
॥ ५७१ ॥ चतुर्थादि तपः शश्व-द्वितन्वाना निरत्ययम् । कुर्वाणा पारणां वृक्ष-फलैः स्वरसपातिभिः ॥ ५७२ ॥ एकाकि-
न्यपि निर्भीका, स्मरन्ती चार्घमर्पणम् । परमेष्ठिनमस्कार-मन्त्र सा कालमत्यगात् ।। ५७३ ॥ (त्रिभिविशेषकम् )
सोऽथ सार्थपतिः साथै, तामपश्यनितस्ततः । मा स्म भूत् कचिदक्षेम-मित्यानुपदिकोऽभवत् ॥ ५७४ ॥ कंदरां तां
२ पापनाशनम् ।
॥१०॥
क्रमादेत्य, भैमी कुशलशालिनीम् । अर्चयन्तीं जिनस्यार्चा, स निध्याय दधौ मुदम् ॥ ५७५ ॥ नत्वा चोपाविशत् पार्थे, भीमजापि समाप्य ताम् । देवाचा स्वागतप्रश्न-पूर्वकं तमवार्तयत् ॥५७६॥ सोऽथ पप्रच्छ तां कस्य, देवस्यायमर्च्यते । साऽपि शान्तिजिनेशस्य, पोडशस्येत्यचीकथत् ॥५७७॥ आकर्यैतां तयोर्वाच-मन्योन्यालापशालिनीम् । आसन्नाश्रमवास्त- व्या-स्तत्रायान्ति स्म तापसाः ॥ ५७८ ।। सार्थेशाय ततो भैमी, तेषु संनिधिवर्तिपु । विशुद्धमार्हतं धर्म-महिंसाद्यमुपादिशत् ॥ ५७९ ॥ सोऽप्युन्मीलन्मनोभाव-त्रुट्यत्कर्मततिस्ततः । भैमीमेव गुरूकृत्य, तं धर्म प्रत्यपद्यत ॥५८०॥ ऊचे चाहं पुरा नाना, वसन्तोऽस्म्यधुना पुनः । सत्यीकृतस्त्वया धर्म-तिलकस्यास्य सौरभेः ॥५८१॥ तत्रान्तरे च धाराभिः, सगोत्राभिः शरोत्करैः । वर्पितुं कलितोत्कर्ष-मारेभे स्तनयित्नुभिः ।।५८२।। ताभिरम्भोदधाराभि-राहतास्ते तपस्विनः । वश्चयामः पयः कैत-दित्यभूवन भयाकुलाः ॥५८३॥ ततो मा भैप्ट मा भैष्ट, तापसा ! इति वादिनी । कुण्डिनेशात्मजा कुण्डं, यष्ट्या तान् परितोऽकरोत् ॥५८४॥ उचैरूचे च यद्यस्मि, सती यद्यस्मि चाहती। ऋजुस्वान्ता च यद्यस्मि, मास्मिन् वर्षतु तद्धनः॥५८५॥ तत्तथैवाभवत्तेऽथ, तापसा इत्यचिन्तयन् । काचिद्देवीयमन्यस्याः, शक्ति-रूपेन हीदृशी ॥५८६॥ धृष्टेरुपरमे धर्म, निन्दन्तः स्वं दयोज्झितम् । विस्मितास्ते तदाख्यातं, धर्म सम्यक् प्रपेदिरे ।। ५८७ ।। पुरमुडामरश्रीकं, तत्र सार्थपतिबंधात् । चैत्यं च शान्तिनाथस्य, काम्याकारमकारयत् ॥५८८॥ यतः पञ्च शतान्यस्मिन् , प्रत्ययुध्यन्त तापसाः । तेन ख्यातिमगाद्धाच्यां, तत्तापसपुराख्यया ॥ ५८९ ॥ नैगमप्रमुखाः सर्वे, पुरुषार्थनिकेतने । तत्राम्येत्य वसन्ति स्म, स्वैरमुच्चावचाः प्रजाः ॥५९०॥ १ दृष्ट्वा । २ मेघैः । ३ ' सर्वपु०' प्रतिद्वय० ।
दमयन्ती-
वृत्तान्तः॥
स च मार्थपतिस्ते च, तापमाः सा च भीमसूः । प्रजास्ताथावसंस्तस्मि-नहद्धर्मपराश्विरम् ॥ ५९१ ।।
अन्यदा जितमार्तण्ड-मण्डलद्युतिरक्ष्यत | मध्यराने शिरस्यद्रे-रुद्दयोतो नलकान्तया ॥ ५९२ ॥ उत्पतन्तः पतन्तथ,
तयाऽध विहगा इव । विस्मयस्मेरमैक्ष्यन्त, सुरा-सुर-नमथराः ॥ ५९३ ।। तसंपातभवैः कोला-हलैर्जागरिताः क्षणात् ।
तानुत्पश्यदृशः पौरा, अप्यपश्यन् सविस्मयाः ॥ ५९४ ॥ ततः सार्थपतिभमी, ते च सर्वे तपस्विनः । पौरा अप्यखिलाः
शैल-शिरस्पारुरुहुः क्षणात् ।। ५९५ ।। सिंहकेसरिणः साधो-नवकेरलसंपदः । कुर्वतो महिमानं ते, ददृशुः सुर-खेचरान्
॥५९६॥ ततः कन्दलितानन्दा, नत्वा केवलिनं पुरः । भैमी च सार्थवाहन, पौराश्च समुपाविशन् ।। ५९७ ॥ तदानीं श्री-
यशोभद्र-सूरयो गुरसो मुदा । तं केरलिनमानम्य, न्यविक्षन्त तदन्तिके ।।५९८॥ यथौचित्यमथासीने, जने सुर-नरादिके।
कर्ममर्माविधं धर्म-देशना केली व्यधात् ॥ ५९९ ॥ संमारेऽस्मिन्न नित्यानि, जीवित यौरनं श्रियः । सक्तैरेवर हा मूहै-
मानुषं जन्म हार्यते ॥ ६०० ।। अस्य मानुष्यकल्पद्रोः, फलं मुक्तिसुखं परम् । उत्तिष्ठधं जनास्तस्मै, विमुच्य मृगतृष्णिकाम्
।। ६०१ ॥ देशनान्ते पुनः स्माह, केवली संशयच्छिदे । तेषां तपस्विनां तस्य, सार्थेशस्य च धीमतः ।। ६०२ ॥ यदाल्य-
द्दमयन्तीयं, धर्मतत्चमनुत्तरम् । तत्तथैव न कर्तव्यः, संशयोऽस्मिन्मनागपि ॥ ६०३ ॥ इयं हि धार्मिकी सत्य-पूतपार पर-
माईती । सती सर्वजनीना च, जातु जल्पति नान्यथा ॥६०४ ॥ दस्युनाशादिरम्भोद-पृष्टिस्तम्भादिकोऽपि च । कस्को
नाम प्रभावोऽसाः, प्रत्यक्षोऽभून्न वः पुरा ॥ ६०५ ॥ अस्मिन्नपि वने व्याघ्र-मिल्ल-मल्लूकसंकुले । प्रभावपरिपीताप-निर्वि-
१ सर्वलोकहितकारिणी।
॥१०६॥
शङ्का वसत्यसौ ॥६०६॥ इत्येतया मुनेस्तस्य, गिरा संवेगभाग्भृशम् । प्रीतो ययाचे विमल-मतिः कुलपतिव्रतम् ।। ६०७॥ मुनिरूचे यशोभद्र-सूरिरेप महामतिः । दीक्षां दास्यति ते भद्र , गुरुर्यस्मान्ममाप्यसौ ॥६०८॥ ततः कुलपतिर्भूयो, बभापे स्मेरविस्मयः । गृहीते स्म कथं नाम, प्रव्रज्यां भगवन् ! भवान् ॥ ६०९॥ अथाख्यत् केवली राजा, कोशलायां नलोऽभवत् । यदीया दमयन्तीयं दयिता पतिदेवता ॥६१०|| कनीयान् कूयरो नाम, बान्धवस्तस्य विश्रुतः । शास्तीदानीं तदीयं यो, राज्यमुजागरोर्जितः ॥ ६११ ॥ तस्याहं तनयः सिंह-केसरी सां- प्रतं त्वहम् । राज्ञः केसरिणः शृङ्गा-पुरीशस्य यशस्विनः ॥ ६१२ ॥ पाणौकृत्य सुतां बन्धु-मती गच्छन् पुरीं निजाम् रम्यामुपत्यकामस्य, गिरेरध्यासिपि क्रमात् ॥ ६१३ ।। (युग्मम् ) भाग्यैरत्र यशोभद्र-सूरीनेतानवन्दिपि । चक्रुश्च देश- नामेते, संसारानित्यतामयीम् ॥६१४॥ तदन्ते मे कियत् स्वामि-नायुरित्युदिता मया । ज्ञात्वा पञ्च दिनानीति, ज्ञानिनो मां बभापिरे ॥ ६१५ ।। ततो मृत्युभयाद्दीन-मुखं संभ्रान्तलोचनम् । मां विलोक्यावदनेते, विश्ववात्सल्यवार्धयः ॥ ६१६ ॥ मा भैपीवत्स मा भैपी-व्रतमादत्स्व संप्रति । जन्म-मृत्युभयं हन्ति, कृतमेकाहमप्यदः ॥ ६१७ ॥ तदैवैतगिरा लक्ष्मी, प्रियां वन्धुमतीमपि । हित्वाऽमीपां पदाम्भोज-मूलेऽहं जगृहे व्रतम् ।। ६१८॥ एतदादेशतः शैल-शृङ्गमारूढवानिदम् । निहत्य घातिकर्माणि, केवलालोकमासदम् ॥ ६१९ ।। इत्युक्त्वा सूत्रयन् योग-निरोधं स मुनीश्वरः । निरंशीकृत्य कर्माणि, जगाम परमं पदम् ॥ ६२० ।। तत्कायस्याग्निसंस्कार, पुण्यक्षेत्रे व्यधुः सुराः । व्रतं कुलपतिः पार्थे, यशोभद्रस्य चाग्रहीत् ।। ६२१ २ पर्वतस्यासन्नां भूमिम् । SON
दमयन्ती-
वृत्तान्तः॥
चैदी याचमानां च, व्रतं स गुरुरवीत् । त्वं भोगान् भोक्ष्यसेऽद्यापि, तद्दीक्षा ते न युज्यते ॥ ६२२ ॥
प्राग्भवे हि नलो राजा, मम्मणोऽभून्महीपतिः । त्वं तु वीरमती नाम, तस्याभूर्दयिता किल ॥ ६२३ ॥ युवाभ्यां
जातु गच्छद्भयां, क्रीडया मृगयावने । सार्थेन सार्धमागच्छन् , संमुख मुनिरक्ष्यत ॥६२४॥ कोपादशकुनं सोऽय-मिति स्वैः
पत्निभिस्तदा । तं संग्राह्य निवृत्याशु, युवामागमतं गृहम् ।। ६२५॥ कथंचिदपि विस्मृत्य, कोपमाकार्य तं मुनिम् । क गन्तासि ?
तथागा ? इत्यवार्तयतं युवाम् ॥ ६२६ ॥ ततस्तद्गिरमाकर्ण्य, शमामृततरङ्गिताम् । सान्द्रानन्दं तमभ्यर्च्य, मुनि व्यसृजतं
युवाम् ॥ ६२७ ॥ युवाभ्यां यत्तदा रुद्धः, साधुर्वादशनाडिकाः। तेनायं विरहो जज्ञे, युवयोर्द्वादशाब्दिकः ॥ ६२८ ॥ वर्षस्य
द्वादास्यान्ते, तेन पत्या समेयुपी । पुनस्त्वं तादृशानेव, भोगान् वैदर्भि! भोक्ष्यसे ॥६२९ ।। गतायामथ यामिन्यां, यशो-
भद्रगुगिरेः । उत्तीर्यालंकरोति स्म, तत्तापसपुरं पुरम् ॥६३०॥ शान्तेचैत्यं प्रतिष्ठाय, स तस्मिन् देशनाम्बुधिः। सम्य-
क्वारोपणं चक्रे, पौरलोकस्य कोटिशः ।। ६३१ ॥ विदर्भजन्मनस्तत्र, निवसन्त्या गुहागृहे । अतीयाय जिनोपास्ति-परायाः
सप्तहायनी ॥ ६३२॥
अन्यदा कश्चिदम्येत्य, तद्गुहाद्वारमध्वगः । सुधामुचमिमां वाच-मवोचन्नलवल्लभाम् ॥ ६३३ ॥ वैदर्भ त्वत्पति -
ति-रे देशे मयेक्षितः । उत्सुकोऽहं तु गन्तास्मि, सार्थो मे न प्रतीक्षते ॥ ६३४ ॥ इत्युदीर्य प्रयाति स्म, स पान्थस्त्वरि-
तक्रमम् । साऽपि तच्छन्दमाकर्ण्य, गुहातो निरगाजवात् ॥६३५॥ भद्र ! भद्र ! त्वया सोऽयं, क दृष्ट ? इति भापिणी । पान्थं
तमनुधावन्ती, भीमभूर्विपिनेऽपतत् ॥ ६३६ ॥ गच्छन्त्याश्च पुरस्तस्या, निःस्वाया इव शेवधिः । पान्थः सोऽगाद-
॥१०७॥
दृश्यत्वं, ततो व्यावर्तते स्म सा ॥ ६३७ ॥ कंदरायाः पुनर्मार्ग-मज्ञात्वा गहने वने । भीमभूरुभयभ्रष्टा, दुःखक्लिष्टेत्य- चिन्तयत् ॥ ६३८ ॥ अहो ! किमपि मे दैव-मपकारि पदे पदे । येनाभवदिदानी मे, न पान्थो न च कंदरा ॥ ६३९ ॥ किं करोमि क गच्छामि, घोरेऽस्मिन् पतिता बने ? । भावी मृत्युरपि श्रेया-नार्तध्यानस्पृशोन मे ।।६४०॥ इत्याकुलमना- स्तस्मि-नश्रुपूराऽऽविलेक्षणा । ययौ तस्थावुपाविक्ष-बलुठवलपच्च सा ॥६४१॥ भ्राम्यन्ती च वने काचि-तामपश्यन्निशा- चरी । मा स्म गा भक्षयिष्यामि, भवन्तीमित्युवाच च ॥६४२॥ तां वीक्ष्य भयसंभ्रान्ता, वभाषे भीमनन्दिनी । नलादन्यं पुमांसं चेत्, स्पृशत्यपि न मे मनः ॥६४३॥ ममार्हन्नेव देवश्चे-दुरवश्चेत् सुसाधवः । रतिश्चेजैनतत्वे च, हताशा भव राक्षसि ! ॥ ६४४ ॥ (युग्मम् ) इति तस्या गिरा मत्र-वाचेव च्युतविक्रमा । ययौ नक्तंचरी नत्वा, "सत्यो हि दुरतिक्रमाः” ॥६४५॥ ततो दत्तजलभ्रान्ति-मूर्मिमसिकताचिताम् । क्वचिद्गिरिनदी कांचि-दुदैन्यन्ती जगाम सा ।। ६४६ ॥ तामनम्भसमालोक्य, सा जगाद तृपार्दिता । मनो मे यदि सम्यक्त्व-सौरभ्यसुरभीकृतम् ॥ ६४७ ॥ तदेतस्यां पयः प्रादु-रस्तु द्रागमृतोपमम् । इत्युक्त्वा पाणिंना स्वैरं, महीतलमताडयत् ।।६४८।। ( युग्मम् ) साऽभूत् कूलंकषाऽन्यर्थ-नामाऽम्भोभिस्तदुत्थितैः । स्नात्वा पीत्वा पयश्वास्यां, भैमी निन्ये परिश्रमम् ॥ ६४९॥ पुरो यान्ती च सा खिन्ना, न्यग्रोधस्य तले क्वचित् । निविष्टा पथिकैः कैचित् , सार्थाऽऽयातैरभाष्यत ॥ ६५० ॥ भद्रे ! काऽसि ? किमत्रासि, वटस्याधो निपेदुपी ? । ईदृगद्वैतरूपा त्वं, काचिनु वटदेवता । ।। ६५१ ॥ अथाह भीमभूर्नाह, देवता किं तु मानुपी । वणिक्पुत्री समं पत्या, यान्त्यभूवं पितुर्गृहे ॥६५२॥ १ उदकमिच्छन्ती । २ नदी ।
दमयन्ती-
वृत्तान्तः॥
सुप्तामेकाकिनीमत्र, मां संत्यज्य पतिर्ययो । गान्धवा ! गमयध्वं मां, तत्तापसपुरावना ॥ ६५३ ॥ तेऽप्यूचुर्यत्र सूर्योऽस्त-
मेत्यवाऽस्य पुरस्य सः । तं तु दर्शयितुं नाल-मिदानीमुत्सुका वयम् ॥ ६५४ ॥ आगताः स्म इहाम्मोऽयं, सार्थादायासि
तत्र चेत् । कुत्रापि वसतिस्थाने, नयामस्त्वां सुखेन तत् ।। ६५५ ।। साऽथ तैः सह सार्थेना-द्धनदेवस्य तेऽपि ताम् ।
कथामाख्याय तत्प्रोक्तां, सार्थनेतुरदर्शयन् ॥६५६॥ साथैशोऽपि ममासि त्वं, सुता नेष्यामि तत् सुखम् । त्वां स्थाने वसती-
त्युक्त्या, सानादिभिरनन्दयत् ॥ ६५७ ॥
तामारोप्याद्भुते याने, सार्थेशोऽथाचलत् प्रगे। नीत्वाऽचलपुरद्वारि, क्रमाचैनां मुमोच सः ॥ ६५८ ॥ तत्राध्यचक्रम-
क्लान्ता, वाप्यां कस्यांचिदप्यसौ । प्रविश्य जलपानादि, विधाय पहिरागमत् ।।६५९॥ आकाशुपतितेवासी, पावयन्ती दृशा
पुरम् । किंकर्तव्यजडा वापी-द्वारवेद्यामुपाविशत् ॥ ६६० ॥ ऋतुपर्णो जनाकर्ण्य-कीर्तिस्तत्र नृपस्तदा । चन्द्रोपमयशा-
श्चन्द्र-यशावास्य प्रियाऽभवत् ॥ ६६१ ॥ तस्याश्चेव्यस्तदा वाप्यां, नीरमाहर्तुमागताः । तामपश्यञ्जगतो-हारिरूपां
सविस्मयम् ॥ ६६२ ।। वाप्यन्तर्वलितग्रीवं, ताः पश्यन्त्योऽथ तां मुहुः । शनैःशनैर्विशन्ति स्म, निरीयुश्च शनैःशनैः ॥६६॥
गत्वा कौतुकिताश्चन्द्र-यशसे तां न्यवेदयन् । आनेतुं साऽपि तां प्रीत्या, भूयोऽपि प्रजिघाय ताः ॥६६४॥ एत्य तास्तत्र
तामूनु-देवी चन्द्रयशाः शुभे!) त्वामाइपति भूपस्या, पुत्रीमीत्या नृपनिया ॥ ६६५ ॥ एत्य तत्प्रेमपीयूपै-स्तापं निर्वा-
पयाऽऽत्मनः । त्वं स्थिताऽत्र पुनः शून्य-चेताः स्थलमवाप्स्यसि ॥ ६६६ ॥ इत्यासां वचनभैमी, प्रहीभूतमना मनाक् ।
१ निजेलप्रदेशम्।
॥१०८॥
प्रश्रयोहारिवपनामि-स्तामिः परिणताऽचलत् ॥६६७॥ मम चन्द्रयशा मातुः, पुष्पदन्त्याः सहोदरा। इति शातेयमशासी-न जातु नलपल्लभा ॥६६८॥ जामेयी दमयन्ती मे-ऽस्तीत्यजानासुपप्रिया । तदानीं पाल्यदृष्टत्यात्, ता नोपालक्षयत् पुनः ॥ ६६९ ॥ साऽभ्येत्यालिझदायान्ती, पुनीप्रेम्णा तथापि ताम् । तरवेनानिदितेऽप्यर्थे, प्रमाणं हि मनः मताम् ॥६७०|| प्रक्षिप्तशिरसं मार-लेहेनाङ्गिसरोरुहे । उत्थाप्प सावद मी, प्रीविकलोललोलिता ॥६७१॥ वत्से ! त्वमसि मे पुण्या-मन्द्रयस्याः प्रियस्वसा । उमे अपि युवां लक्ष्मी, तत्सतार्थयतं मम ।। ६७२ ॥ परमात्मस्वरूपं मे, कथयेत्युदिता- नया । सार्थपुंसां यदाख्यातं, तदेवारुगसलमिया ॥ ६७३ ॥ दीनानाथकृते चन्द्र-यशोदेव्याः पुरावहिः । वर्तते गुरुसोदारं, सपागारगपारितम् ॥६७४॥ भैम्यूचे तां ततः सो, दानं दास्येऽहमन्वहम् । यदि नाम पति वीक्षे, जात्वस्मिन् भोजनाधिनम् ॥६७५।। ओमित्युक्ते तगा भैमी, सने दानं ददौ स्वयम् । तेन तोपं विशेषेण, कलयामासुरर्थिनः ॥ ६७६ ॥ सापश्यत् कंचिदन्येषुः, समस्या पद्धमग्रतः । चौरमारक्षकैर्नीग-मानमाहतउिण्डिमम् ॥ ६७७ ॥ रा ता वीक्ष्यापददीनं, रक्ष मा देषि । रक्ष माम् । सा कृतं किमनेनेति, पप्रच्छारक्षकांस्ततः ॥ ६७८ ॥ तेऽप्यूचुरमुना चन्द्र-वत्या रखकरण्डिका। जो रोग यध्यत्वा-बीयते वधभूमिकाम् ॥ ६७९ ॥ ततः साध्वोचदारक्षा-नेनं मुशत गुभत । सर्वोत्तरमेतस्म, कर्तास्मि फिगराः परम् ॥६८०॥ इत्युक्तेऽपि तपा गायत् , ते न मुशान्ति तस्करम् । तावत् साऽऽछोटपगन्धा-स्तस्याम्पलकैलिमिः ॥६८१॥ ते पाटित्याटस्तस्य, तत्सतीत्वप्रभावतः । नागराणां ततो जो, बर्षकोलाहलो महान् ॥१८२॥तमुपश्रुत्य संमान्त-स्तम १ प्रेगोद्गारि गुरां थासो गाभि. । २ प्रक्षितं शिरो यया पाम् ।
द्विज-
कथितो
दमयन्ती-
वृत्तान्तः॥
राजाम्प्युरागमन् । नदीप कौतुकं भैमी, दृष्टोऽप्येवमुवाच सः ॥ ६८३ ॥ धर्मः क्षोणीभृतां शिष्ट-पालनं दुष्टनिग्रहः ।
मोरस्यो न्यायोन्पपा वत्से , भवेद्भुवनपस्मरः ॥६८४॥ लोकेभ्यः करमादाता, चौरेम्पस्तानरक्षिता । तदीयैलिप्यते राजा,
पानमैरिति हिम्मृतिः ॥ ६८५ ।। तन्मोचयसि चेदेनं, भविष्यत्यव्यवस्थितिः । इत्युक्ता भूभुजा भैमी, दयालुरिदमत्रवीत्
॥ ६८६ ॥ तात ! दस्युर्विपघेत, यदि दृष्टोऽप्यसौ मया । तदर्हद्धर्मवेदिन्याः, केयं मम कृपालुता ? ॥ ६८७ ॥ तदाग्रहमिति
पात्ता, राजा दस्युममोचयत् । माननीया महासत्यो, इन्त भूमीभुजामपि ॥ ६८८ ॥ स दस्युस्तत्पदाम्भोज-मानम्येति
तदाउदन् । देवि ! माताऽमि मे नव्य-जन्मदानादतःपरम् ॥ ६८९॥ इत्युक्त्वा स जगाम स्वं, स्थानमानन्दमेदुरः ।
अम्पत्य गानमग्नित्यं, मातेत्यस्याः क्रमाम्बुजम् ॥ ६९० ॥
पृष्टोऽन्यदा म यैदा, स्वं स्वरूपमचीकथत् । वसन्तः सार्थवाहोऽस्ति, यस्तापसपुरप्रभुः ॥ ६९१ ॥ तस्याहं
पिनलो नाम, दामन्तत्लदनेऽन्यदा। खात्रं दत्वाऽपहत्याध, रत्नजातं पलायितः ॥६९२॥ मार्गेऽन्यै प्टितचौरैः, "क्षेमं दुष्टा-
स्मनां कुतः ।।" अत्रायातः क्रमेणाहं, राजसेवामसूत्रयम् ॥६९॥ परेयवि नृपावासे, संचरन्ननिवारितः । वीक्ष्य शून्याम-
पाहा, ना माणिक्यकरण्डिकाम् ॥ ६९४ ॥ वेगान प्रक्षिप्य कक्षायां, तां सर्वाङ्गावगुण्ठनः । राज्ञा निर्यनलक्ष्येऽहं, दक्षा
हीगिनवेदिनः ॥६९५।। ममारघकाग्रग्यः सोऽय मां वध्यमादिशत् । तत्पुंभिर्नीयमानं च, हन्तुं स्वामिन्यमोचयः ॥६९६।।
नदेवि त्वत्प्रमादस्य, कापि नानृण्यमस्ति मे । कादम्विन्याः कथं नाम, जीवलोकोऽनृणी भवेत् १ ॥ ६९७ ॥
१ एको महामत्स्योऽन्य लघुमरस्यं बादति, वं चान्यः, तं चान्य इति न्यायः ।
॥१०९॥
अपरं च यदा देवि !, त्वं तापसपुराद्गता । सार्थवाहस्तदा दुःखा-दुक्तिमप्यत्यजत् सुधीः ॥ ६९८ ॥ बोधितः श्रीय- शोभद्र-गुरुणाऽन्यैर्जनैव सः । सप्ताहादुभुजे सार्थ-वाहो निर्वाहिसंगरः ॥ ६९९ ॥ उपायनमुपादाय, रतस्वर्णाधनेकशः। नृपं कूयरमद्राक्षीत् , कोशलामेत्य सोऽन्यदा ॥ ७०० ॥ तया चोपदया तुष्ट-स्तं तापसपुरेश्वरम् । राजानमकरोभूप- इछत्रचामरलाञ्छितम् ।। ७०१ ॥ नाम्ना चैनं वसन्तश्री-शेखरं स विनिर्ममे । प्राहिणोच पुरे प्रीत्या, भम्भया ताडय- मानया ।। ७०२ ।। प्रविश्योत्सवसोत्साहः, शास्तीदानी पुरं स तत् । साऽपि त्वन्महिमप्रौदिः, स्वामिन्येवं थियोऽस्य यत् ॥ ७०३ ॥ ऊचेऽथ भीमभूर्वत्स !, पाप्मनोऽस्य छिदाकरीम् । दीक्षामादत्स्व सोऽप्यङ्गी-चक्रे तद्वचनं मुदा ॥ ७०४ ॥ शुद्धः सत्कृत्य पानान्नै-मुनिद्वितयमन्यदा । भैमी वक्ति स्म यद्यस्ति, पिङ्गलस्यास्य योग्यता ॥ ७०५ ॥ तदस्मै व्रतदा- नेन, भगवन्तौ प्रसीदतम् । मुनी अप्यूचतुर्दीक्षा--योग्य एवैप पिङ्गलः ॥ ७०६ ।। प्रार्थितावथ तेनापि, चैत्ये नीत्वा तदैव तम् । प्रव्राज्य तौ मुनी सार्ध-मेतेनान्यत्र जग्मतुः ॥ ७०७ ॥ हरिमित्रोऽन्यदा विप्रः, कुण्डिनात् पूर्वसंस्तुतः । एत्य भूमिपतिं दृष्ट्वा, ययौ चन्द्रयशोऽन्तिके ॥७०८॥ बद्धाञ्जलि निविष्टं त-मग्ने भूपप्रियाऽभ्यधात् । विदर्भभूभुजः क्षेम, पुष्पदन्त्याच, मे स्वसुः । ॥ ७०९ ॥ दम्पत्योरनयोदेवि !, क्षेमलक्ष्मीः सनातनी । नलस्य दमयन्याश्च, सा तु चिन्त्याऽस्ति सांप्रतम् ।। ७१० ॥ संभ्रान्तया किमात्थेति, तयोक्तः सोऽब्रवीत् पुनः । जातु शुश्राव नः स्वामी, लोकाख्यातामिमां कथाम् ॥७११॥ यथा नलो महीमः, कूबरेण स्वबन्धुना । हारिनो निरगा मी, पुरस्कृत्य पुरान्निजात् ।। ७१२ ॥ तामरण्ये परित्यज्य, सोऽगमत् तदनन्तरम् । वार्ताऽपि न तयोर्विश्वे,
द्विज-
कधितो
दमयन्ती-
वृचान्तः॥
काऽपि त्रापि वर्तते ॥७१३॥ तदुपथुत्य नः खामी, स्वामिनी पुष्पदन्त्यपि । वजाहताविवोन्मील-दुःखभारौ मुमूर्च्छतुः
॥ ७१४ ॥ मूर्ध्वान्ते विलपन्तौ च, समन्वेष्टुमितस्ततः । जामातरं तनूजां च, ग्राहैप्टां तौ तदैव माम् ।। ७१५ ॥ प्रत्यरण्यं
प्रतिग्राम, प्रतिपचनमप्यहम् । भ्राम्यन् क्रमान्महीमेवा-मिहेदानीमुपागमम् ॥ ७१६ ॥ न तयोः पुनरोपं, वार्तामात्रमपि
कचित् । तत्क्लेशफलमेवैत-दभूव भ्रमणं मम ॥ ७१७ ॥ श्रुत्वेति गिरमानन्द-मुच्चैश्चन्द्रयशा व्यधात् । नलस्य कुर्वती
निन्दा, तां तां भैम्याः स्तुति पुनः ॥ ७१८ ॥ क्रन्दद्भिरनु तां लोकः, शोकाद्वैतं तदाखिले । जातं राजकुले नेतु-रनुगा
धनुजीविनः ।। ७१९ ।। ततः स विप्रः क्षुत्क्षाम-कुक्षिः क्षितिपमन्दिरात् । निर्गत्य भोजनाकासी, दानशालां जगाम ताम्
।। ७२० ॥ तत्र सोऽधिकृतां प्रेक्ष्य, भैमीमुत्फुल्ललोचनः । प्रधान्य रमसा तस्याः, पादपकेरुहेपतत् ॥ ७२१ ।। ऊचे च
दिष्टया दृष्टाऽसि, भ्राम्यता भुवनं मया । अद्य स्वस्त्यस्तु सर्वेषां, मवजीवितजीविनाम् ॥७२२।। अथैत्य स जवाचन्द्र-यशो-
देवीमवर्धयत् । तच्छोकाश्रुपदेऽभवन् , क्षणात् प्रीत्यश्रुविग्रुपः ।। ७२३ ॥ सत्रागारमुपेत्याथ, सा मुदाऽऽलिङ्गय भीमजाम् ।
माशुरूचे बलिस्तुभ्यं, क्रियेऽस्यां चावतारणम् ।। ७२४ ॥ हा हा घिग्मामियत्कालं, न मयाऽप्युपलक्षिता । जगद्विलक्षणाऽपि
त्व-मेलॊकंपृणैर्गुणैः ।। ७२५ ।। वञ्चिताऽस्मि कथं वत्से !, त्वया कृत्वा स्वगोपनम् ? । मातृस्वसापि मातैव, तत्पुरः का
खलु पा? ॥ ७२६॥ किं त्यक्ताऽसि नलेन त्वं १, नलस्त्यक्तस्त्वयाऽथवा ? । यदि वा न पर्ति जातु, त्यजसि त्वं पति-
व्रता ।। ७२७ ॥ विडम्बितसहस्रांशु-र्ललाटतिलकः क ते १। सेति मार्टि स्म तद्भालं, सनिष्ठीवेन पाणिना ॥ ७२८ ॥
१ भवत्या जीविवेन जीविनाम् . ( भवतीशब्दस्य पुस्त्वमन चिन्त्यम् ।
॥११०॥
प्रादुरास ततस्तस्याः, स भालविलकः क्षणात् । यस्यान्तेवासितामन्य-तेजांसि दधतेऽन्वहम् ॥ ७२९ ॥ तां धृत्वाऽथ करे नीला, वेश्मन्युशवालभा । स्वयमलापयद्गन्ध-वारिभिर्देवतामिव ॥ ७३०॥ परिधाप्य दुकूले च, ज्योत्स्नासब्रह्मचारिणी । तेस्तैः प्रेमोपचारैस्ता, रामी काममनन्दयत् ॥ ७३१ ॥ तां चालम्ब्य करे गत्वा, राज्ञोऽभ्यर्णमुपाविशत् । सोऽप्यपृच्छत् ततो भैमी, राज्यभंशादिकां कथाम् ।। ७३२ ।। साऽप्युदश्चच्छुचे तस्मै, साधुराख्यदधोमुखी। नल-कूबरयोः सर्वां, तां कथामा- दुरोदरात् ॥ ७३३ ॥ राजाऽप्युन्मार्जयनच, तस्याः प्रावारवाससा । ऊचे खिद्यस्व मा वत्से !, बली को नाम कर्मणाम् ? ॥ ७३४ ।। तमोमिस्तिस्यन् विश्वं, तदा चास्तं रविर्ययो । चकास्ति स्म प्रकाशस्तु, मध्येसंसत्तथैव सः ॥ ७३५ ॥ रात्री किमयमुयोत ? इति विस्मितमानसम् । राज्ञी चन्द्रयशाः स्मेर-चक्त्रा भूपालमभ्यधात् ।। ७३६ ॥ वैदर्भीतिलकस्यास्य, देव ! लीलयमद्धता । भैमीभालं पितेवाथ, पाणिना पिदधे नृपः ॥ ७३७ ॥ सभान्तरस्फुरद्धान्तः, सूचिभेद्यथ तत्क्षणात् । पुनः पाणिमपाकर्पत , स विस्मयमना नृपः ॥ ७३८ ॥ वदा कनिदियोऽभ्येत्य, संसदि द्युतिभासुरः। भूमिलन्मौलिरानम्य, भैमीमित्यवदत् सुरः ॥७३९॥ देवि ! त्वया पुरा बान-शोरो यः पिगलाभिधः । प्रतियोध्य सुधाकल्पै-क्यैिश्चाग्राह्यत प्रतम् ॥ ७४० ॥ क्रमेण विहरन भूमौ, स तापसपुरं ययो । तत्र प्रतिमया तस्थौ, स्मशाने निशि जातुचित् ॥ ७४१॥ तदा चाभ्यर्णमायाते, चितावद्विभवे दवे । स साचि- कशिरोरत्नं, व्यधादाराधनां स्वयम् ॥ ७४२ ।। समाधेरच्युतः सोऽहं, ज्वालासंवलितस्ततः । वपुः संत्यज्य सौधर्मे, सुरोऽभूवं १ शिष्यत्वम् । २ ज्यालया व्याप्तः ।
दमयन्ती-
वृवान्तः॥
महर्दिकः ॥ ७४३ ॥ तत् प्रयोध्य तदा चेन्मां, व्रतं नाग्राहयिष्यथाः । गतस्य नरके तन्मे, काभविष्यन्निमाः श्रियः ?
॥ ७४४ ॥ सर्वस्तव प्रसादोऽयं, चिराय विजयख तत् । इत्युक्त्वाऽगात् सुरो हेनः, सप्त कोटीः प्रवृष्य सः ॥७४५॥ साक्षा-
स्कृत्य महीनायो-ऽप्यहधर्मस्य तत्फलम् । प्रत्यपद्यत तं हर्प-भरव्यातान्तराशयः ॥ ७४६ ॥
अथावसरमासाद्य, हरिमित्रोऽभ्यघान्नृपम् । स्थिताज सुचिरं भैमी, यात्विदानीं पितुहे ॥ ७४७ ॥ पुष्पदन्ती
च मा माता, पिता च स विदर्भराट् । प्रवासश्रवणादस्या-स्तिष्ठतो देव ! दुःखितौ ॥ ७४८ ॥ ततश्चन्द्रयशोदेव्या,
मतमादाय तत्क्षणात् । ओमित्युक्त्वा ततो भैमी, प्राहिणोत् सह सेनया ॥ ७४९ ॥ तामायान्ती सुतां श्रुत्वा, भीमभू-
पतिरभ्यगात् । निरीक्ष्य पितरं साऽपि, दूरतो यानमत्यजत् ।। ७५० ॥ धावित्वा रभसाझैमी, पादयोरपतत् पितुः । तयोः
प्रीत्यथुवर्षेण, पक्किला तत्र भूरभूत् ॥ ७५१ ॥ मातरं च सहाऽऽयावां, वीक्ष्याश्लिप्यत् प्रमोदिनीम् । तस्याः कण्ठे लगित्वा
च, वारतारं रुरोद मा ।। ७५२ ॥ सुतां भूपः पुरं कप्त-महोत्सवमवीविशत् । मुदा च गुरुदेवाचा, सप्तरातमकारयत् ॥
७५३ ॥ पृष्टा भूमीभुजा कुब्ज !, जातचिन्मम पश्यतः । तामेतां भीमभूः सर्वां, निजामकथयत् कथाम् ।। ७५४ ।। ऊचे
च पृथिवीनाथ-स्तां म वात्सल्यया गिरा । वत्से ! विदधती धर्म, वसास्मत्सदने सुखम् ॥ ७५५ ॥ करिष्यते तथा कश्चि-
दतः परमुपक्रमः । यथा कुतश्विदभ्येत्य, पतिस्तव मिलिष्यति ॥ ७५६ ॥ ददौ च हरिमित्राय, ग्रामपञ्चशतीं नृपः ।
तुष्टोऽभ्यधाच राज्याधं, तुभ्यं दास्ये नलागमे ॥ ७५७ ॥
अन्यदा दधिपर्णस्य, भूपतेः स्नेहवर्मना । दूतस्तत्र ययौ धीमान्, सुंसुमारपुरादितः ॥ ७५८ ॥ स जातु वार्ता-
॥११॥
प्रस्तावे-मथपङ्गीमभूभुजः। यथाऽस्मत्स्वामिनः पार्थे, प्राप्तोऽस्ति नलस्पकत् ।। ७५९ ॥ स वेत्ति सूर्यपाकाया, रसवत्या विधि सुधीः । वक्ति चास्यामुपाध्यायो, बभूव नल एव मे ॥ ७६० ॥ श्रुत्वैतल्लोकतो भैमी, भूपमेत्य व्यजिज्ञपत् । न तो रसवतीं तात !, वेत्ति कश्चिन्नलं विना ॥ ७६१ ॥ तत् प्रेष्य कंचिआनीहि, किंरूपः किंकलय सः । अवश्यं गोपितात्मैव, नल एप स वल्लमः ।। ७६२ ॥ मामाहूय ततो दवा, शिक्षा प्रैपीद्विदर्भराटू । क्रमादत्रैत्य भद्र ! त्वां, पृच्छन् पृच्छन्नि- हागमम् ।। ७६३ ॥ एवंरूपं च वीक्ष्य त्यां, विपादादित्यचिन्तयम् । काचे मरकतान्ति-चैदाः किमभूदियम् ? ॥७६४॥ नलः फ दिविपद्देश्यः?, कुञ्जनायं कर सूपकृत् । क सर्पपः१ क मेरुश्च , क खद्योतः क चार्यमा? ॥७६५॥ तथाऽप्येनं परीक्षिप्ये, विचिन्त्येति पठंस्त्वया । नलाक्षेपमयौ श्लोका-चापृच्छथेऽहं कथामिमाम् ।। ७६६ ॥ तदस्तु स्वस्ति ते यामि, व्यापत्य नगरं निजम् । यथादृष्टं च वैदा-स्त्वत्स्वरूपं निवेदये ।। ७६७ ॥ भैमीस्मरणसंभूतं, कथंचन ततः सुधीः । पाप्पपूरं निरुन्धानः, कुजः कुशलमत्रवीत् ।। ७६८॥ पूज्योऽसि कथयन् विन, पुण्यपात्र! कथामिमाम् । तदागच्छ ममा- ऽऽयासं, गृहाण मम सस्कृतिम् ॥ ७६९ ।। इत्युदीर्य द्विजन्मान-मानीय स गृहे निजे । रसवत्या तया सूर्य-पाकया तम- भोजयत् ।। ७७० ॥ अभूग भूधवालन्धं, यकाभरणादिकम् । तत् प्रदायाखिलं कुञ्जो-ज्नुमेने गमनाय तम् ।। ७७१ ।। सोऽथ विप्रो विदर्भायां, समभ्येत्य विपादवान् । भैमी-भूमीभुजोः कुब्ज-स्वरूपं तदचीकथत् ।। ७७२ ।। स्वयं रसवतीं तो च, भुक्तामाख्याय स द्विजः । टलक्षादि तत्सर्व, कुञ्जदत्तमदर्शयत् ॥ ७७३ ।। सुंसुमारजनाऽऽख्याताः, करीन्द्रद- मनादिकाः । कुन्जस्य ताः कला राज-प्रसादं च न्यवेदयत् ।। ७७४ ॥ अथाऽऽह भीमभूस्तात !, त्वजामातैव स ध्रुवम् ।
दमयन्त्या
भूयः
स्वयंवरा
कुन्नत्वमगमत् सैप, नूनं केनापि हेतुना ॥ ७७५ ॥ यतः सा रसवत्येताः, कलाः सेयमुदारता । त्रैलोक्येऽपि न कस्यापि,
तब जामातर विना ।। ७७६ ॥ तत् कथंचिदिहानीय, वीक्ष्यते स खलु स्वयम् । इङ्गितैर्लक्षयिष्यामि, यद्यस्ति नल एव सः
।। ७७७ ॥ यमापे भूपतिर्वत्से, पुनर्गतपतेस्तव । कृत्वा स्वयंवरव्याज, दधिपर्णो निमन्त्र्यते ॥७७८॥ निशम्यैतत् स दुजो-
ऽपि, तेन सार्ध ममेष्यति । न खल्वात्मनियां यान्ती-मन्यत्र सहते सुधीः ॥ ७७९ ॥ भूपः मोऽभूचदाकाझी, प्राक्तनेऽपि
स्वयपरे । त्वया वृते नले त्वेष, विलक्षोऽभूशं तदा ॥ ७८० ॥ तदासनदिनाऽऽहूतं, तूर्णमागन्तुमक्षमम् । ताम्यन्तं
त्वत्कृते काम-मारोप्य जपिनं रथम् ।। ७८१ ॥ तं चेदानेष्यते कुजः, म ध्रुवं नल एव तत् । हृदयं हि तुरङ्गाणां,
वेति नान्यो पिनाऽमुना ॥ ७८२ ॥ युग्मम् ॥ इत्यालोच्य वितीर्याथ, शिक्षामक्षामधीगुणः । भूभुजे दधिपर्णाय,
दूतं प्रातिष्ठिपनृपः ॥ ७८३ ॥
स तनगरमासाद्य, कुब्जे संनिधिवतिंनि । आचख्यो दधिपर्णाय, भीमभूपालवाचिकम् ।। ७८४ ।। यथा न ज्ञायते
तावत् , स फचिन्नलभूपतिः । करिष्यति ततो भैमी, देव ! भूयः स्वयंवरम् ।। ७८५ ॥ चैत्रस्य शुद्धपश्चम्यां, प्रातः स
भविता ध्रुवम् । यथाऽस्मिन्नुपतिष्ठेथाः, कुर्भाधास्त्वं तथा नृप । ॥ ७८६ ॥ इत्याख्याय गते दूते, स कुजोऽन्तरचिन्त-
यत् । महमित्रमहो कुर्या-द्यद्धैम्यप्यपर वरम् ॥७८७॥ सादेवमपि वा जातु, क्लीयान् खलु मन्मथः । जीवतो मम वैदी,
कः पुनस्तां ग्रहीष्यति ।। ७८८ ॥ किं नु केनापि गृह्यन्ते, जीवतोऽपि हैरेः सटाः १ । तक्षकस्य फणारत्नं, कृष्यते श्वसतोऽपि
१ चेष्टितैः । २ दत्त्वा । ३ आगच्छे. । ४ सिंहस्य ।
॥११२॥
किम् ? ।। ७८९ ।। सोऽथ तं पृथिवीपालं, निमीलन्मुदमभ्यधात् । जृम्भते भूप! किं नाम, दौर्मनस्यं तवाप्यदः ॥ ७९०॥ यस्य सोऽहं सहायोऽस्मि, सर्वकर्मीणतास्पदम् । तस्यापि तत्किमप्यस्ति, नैव यत्' करगोचरम् । ॥ ७९१ ॥'यामाः स्वयंव- रादन, पट् सन्त्यद्यापि तद्यदि । मनस्ते भीमजन्मानं, तां मृगीदृशमिच्छति ॥ ७९२ ॥ तदर्पय रथं कंचि-दृढं जात्यांश्च वाजिनः । दर्शयामि यथा प्रात-(वं कुण्डिनमण्डिताम् ॥ ७९३ ॥ युग्मम् ॥ गृहाण स्वेच्छयेत्युक्तः, क्षितीशेन स बुद्धि- मान् । जग्राह रथमश्वांश्च, सर्वलक्षणलक्षितान् ।। ७९४ ॥ । सजीकृत्य रथ युक्त-वाहमाधाय च क्षणात् । इहाऽऽरोहेति तं कुञ्जः, क्षोणिपालमभापत ॥ ७९५ ॥ राजा स्थगीधर- श्छत्र-धारवामरधारिणौ । कुब्जश्चेति पडारोह-नरास्तस्मिन् वरुथिनि ।।७९६ ॥ ततो बिल्वकरण्डौ यौ, दत्तौ निपधना- किना । तावावध्य कटौ कुब्जा, प्राजति स्म तुरंगमान् ॥ ७९७ ॥ कुञ्जनं प्रेरितान् वीक्ष्य, वाहाननिलरंहसः । दधि- पणेनरेन्द्रोऽथ, विस्मयादित्यचिन्तयत् ॥ ७९८ ॥ अहो कश्चित् पुमानेप, मानत्येति सर्वतः । अद्यापि रत्नगर्भेयं, वहते नाम सान्वयम् ॥ ७९९ ॥ कचिद्वेगानिलोदूते, वारे पतिते भुवि । नृपोऽवोचत् पटों गृहे, भियन्तां कुब्ज! वाजिनः ॥ ८०० ।। कुब्जोऽप्यूचे सितास्यस्तं, यत्र ते पतिता पटी । ततः स्थानादतिक्रान्ता, पञ्चविंशतियोजनी ।। ८०१॥ इमे हि मध्यमा एक, पाहावेत्तु स्युरुत्तमाः। पञ्चाशयोजनीं राज-कुवेरनियतं ततः ।। ८०२ ॥ वृक्षमक्षाख्यमुद्वीक्ष्य, काप्यथो फलमांसलम् । कुब्ज राजाऽभ्यधादात्म-कलोत्कर्ष विशेषयन् ॥८०३।। फलानां भूरुहस्यास्य, संख्यामगणयन्नपि । वेदम्यहं १ हर्षरहितम् । २ सर्वकर्मणि समर्थतास्पदम् । ३ प्रहराः । ४ रथे । ५ उत्तरीयवखे ।
दधिपणेन
सह नलख
विदर्भ
गमनम् ॥
कथयिष्यामि, व्यावृत्तः कुब्ज ! ते क्षणात् ॥ ८०४ ॥ कुन्जो ऽब्रवीदिदानीं त्वं, कालक्षेपाद्विमेपि किम् ? । मा भैपीरधु-
नैवैतां, राजमाख्यातुमर्हसि ।। ८०५ ॥ अष्टादश सहस्राणी-त्युक्ते भूपतिना ततः । आहत्य मुष्टिना कुब्ज-स्तं फलौघमपा-
तयत् ।। ८०६ ॥ रथादुचीर्य भूपेन, सत्रिते गणनाविधौ । तावत्येवाभवत् संख्या, न च न्यूना न चाधिका ।।८०७॥ भूभुजे
यावते विद्या, तुरङ्गहृदयात्मिकाम् । दुत्वाऽस्मादाददे संख्या-विद्यां कुन्जोऽथ विस्मयात् ॥ ८०८ ॥
अथाऽऽयादुर्दयप्रस्थ, स्यन्दनोऽ सारथैः । विदर्भनगरद्वारि, कुब्जसतो रथः पुनः ॥ ८०९॥ तदा झगिति निम्शेपैः,
सरोरुहवनैः ममम् । अवाप दधिपर्णस्य, विकाशं मुखवारिजम् ।। ८१० ॥ तस्मिन्नेव निशाशेपे, खममैक्षिष्ट भीमजा ।
उत्थाय शयनीयाच, प्रीता पितुरचीकथत् ॥ ८११ ॥ अद्य प्रातर्मया स्वमे, प्रैक्षि निर्वृतिदेवता । तयेहानीय मे व्योनि,
दर्शितं कोशलावनम् ।। ८१२ ॥ रसालं फलपुष्पाट्य-मारोहं तत्र तद्गिरा । विकचं शवपत्रं च, ममाlत करे तया ॥८१३॥
पुराऽऽरूटो झटित्येव, विहगः कोऽपि भूतले । अकस्मादपतचस्मा-चूतादध्यासितान्मया ॥ ८१४ ॥ भीमोऽप्यूचे त्वया
दृष्टः, पुति ! स्वमोऽयमुत्तमः । तथा हि माग्यसंभारः, प्रत्यक्षस्तव निर्वृतिः ॥ ८१५॥ कोशेलापाभवं तद्यत्, कोशलो-
यानदर्शनम् । माकन्दपादपाऽऽरोहः, साक्षात् ते प्रियसंगमः ॥ ८१६ ॥ माकन्दायस्त्वदाक्रान्ता-झंशः कस्यापि पक्षिणः ।
पातः पातकिनो नूनं, माम्राज्यात् कूपरस्य सः ।। ८१७ ॥ निशावसाने स्वमस्य, दर्शनानलसंगमः । अब भावी प्रभाते हि,
स्वमः सयाफलेग्रहिः ॥ ८१८ ॥ तदोपेतं पुरद्वारि, दधिपणं ससंभ्रमः । अभ्येत्य मद्गलो नाम, कोऽप्याख्यद्भीमभूमुजे॥
१ याचमानाय ! • उदयाचलशिसरे । ३ सूर्यस्य । ४ कोशलायाः प्रभुत्वम् ।
॥११३॥
८१९ ।। भीमोऽभ्येत्य तमायान्तं, प्रीत्याऽऽश्लिष्य वयस्यवत् । सौधार्पणाधमाधाय, स्वागतं चेत्यवोचत ॥८२०॥ कुब्ज- स्ते सूपकृत् सूर्य-पाका रसवतीमसौ । वेत्तीति श्रूयते तां मे, दर्शयास्ति कुतूहलम् ॥ ८२१ ॥ गिराऽथ दधिपर्णस्य, कुब्जो रसवीं स ताम् । निष्पाद्याभोजयदीम-भूपालं सानुजीविनम् ॥ ८२२ ॥ दधिपों- परोधेन, तत्स्वादं च परीक्षितुम् । आनाय्य भैम्यपि स्थाले, कृत्वा तां बुभुजे स्वयम् ॥ ८२३ ॥ तत्वादमुदिता भैमी, जगाद पितरं रहः । कुजः खोऽस्तु वा तात !, नलः सैप न संशयः ॥ ८२४ ॥ मुनिर्ज्ञानी ममाऽऽचख्यौ, पुरा होतद्यथा भुवि । नलो रसवतीं सूर्य-पाका जानाति नापरः ॥ ८२५ ॥ परीक्षान्तरमप्यस्ति, स्वसंवेदनसिद्धिकम् । संस्पर्शमात्रतो- ऽप्यस्य, स्यां सरोमाञ्चक का ॥८२६ ॥ दधिपर्णमथाहूय, स्वगृहे सपरिच्छदम् । वैदर्भस्त्वं नलोऽसीति, कुज वक्ति स्म सादरः ।। ८२७ ॥ कुब्जोऽप्यूचे स्मितं कुर्व-त्रयं कः क इव भ्रमः । क नलः स्मरसंकाशः १, क चाहं दृग्वि- पाजनम् ॥ ८२८ ॥ भैम्यवोचत्ततस्तात !, मनागपि वपुर्मम । अङ्गुल्या संस्पृशत्वेप, कुर्वे येनास्य निर्णयम् ॥ ८२९ ॥ राजाऽऽदेशात्ततः कुब्ज-स्तस्याः सूक्ष्मनिपातया । वक्षवास्पृशदगुल्या, जातं च पुलकारैः ॥ ८३० ॥ आः शठोऽसि परिज्ञातः, क यास्यसि ममानतः । इत्याधुदीर्य तं भैमी, बलादम्पन्तरेऽनयत् ।। ८३१॥ भैम्याः प्रेमोचितैस्तैस्तै-क्यै रागीभवन्मनाः । तस्माद्विल्वात् करण्डाच, दुकूलाभरणानि सः ॥ ८३२ पर्यधाच समाकृष्य, रूपं चासादयनिजम् । विरहो- पचितप्रेमा, तामाश्लिष्यत् प्रियां नलः ॥ ८३३ ।। युग्मम् ॥ १ प्रासादस्य अर्पणादिकम् ।
नलदम
यन्त्यो
समागमः॥
पुनरि समायातं, परिरम्योपवेश्य च । निजे सिंहासने भीम-स्तं कृताञ्जलिरब्रवीत् ॥ ८३४ ॥ एताः श्रिय इमे
प्राणा-स्त्वदीया एव भूपवे ।। तत्कृत्यमादिशेत्युक्त्वा, भीमो वेत्रित्वमातनोत् ॥ ८३५ ॥ दधिपर्णोऽपि संभ्रान्तः,
प्रणम्य नलमम्यपात् । देव ! प्राचीनमज्ञाना-दपराध क्षमस्व मे ॥ ८३६ ॥ त्यक्तकुन्जत्ववैरुप्यो, नलः स्वं रूपमास्थितः।
निर्मुक्त इव भोगीन्द्र-स्तदानीं दिद्युतेतराम् ॥८३७ ।। सार्थेशो धनदेवोऽथ, सोपायनकरस्तदा । कुतोऽपि भीमभूपालं,
द्रष्टुकामः समागमत् ।।८३८|| प्रा(प्राक)कृतोपकतेस्तत्त-द्वन्धुवत्तस्य गौरवम् । कृतज्ञा कारयामास, वैदर्भी भीमभूभुजा॥
८३९ ॥ पातुपर्णनृपं चन्द्र-यशश्चन्द्रवतीयुतम् । दूतस्तं च वसन्तश्री-शेखरं भैम्यजूहवत् ॥ ८४०॥ भीम-
भूमीभुजा नित्य-मुपचारैवैनवैः । ते कृतप्रीतयः सर्वे, निन्युर्मास मुहूर्तवत् ।। ८४१ ॥
अन्येयुः कश्चिदम्येत्य, भीमसंसदि कान्तिमान् । सुरः पश्यत्सु सर्वेषु, वैदर्भीमित्यवोचत ॥ ८४२ ।। भैमि !
स्मरसि संवोध्य, यं पुरा तापसेश्वरम् । प्रापयिष्यसि सम्यक्त्वं, प्रव्रज्यां च शुभोदयाम् ।। ८४३ ॥ सोऽहं तवा तपोऽत्युग्रं,
सौधर्म धर्मभाग्मृतः । श्रीकेसरसुरोऽभूवं, विमाने केसराह्वये ॥ ८४४॥ यस्त्वयाऽऽकृप्य मिथ्यात्वा-दर्हद्धर्मेऽस्मि रोपितः।
तस्यैवैतत्फलं तन्मे, त्वमत्यन्तोपकारिणी ॥ ८४५ ॥ इत्युक्त्वा तपनीयस्य, सप्त कोटीविकीर्य सः । कृतज्ञचूडामाणिक्यं,
पयागतमगाव सुरः ।। ८४६ ॥ वसन्त-दधिपर्ण-तु-पर्णा, मीमोऽपरेऽप्यथ । अभ्यपिश्चनलं राज्ये, महीयांसो महीभृतः
॥ ८४७ ॥ ते नलादेशमासाद्य, कम्पयन्तोऽथ काश्यपीम् । सर्वाणि स्वस्वदेशेभ्यः, सद्यः सैन्यान्यमेलयन् ॥ ८४८॥
१ कञ्चुकरहितः।
॥११४॥
अथ प्रतस्थे दैवज्ञ-दत्तेऽति सहितो नृपः। कोशलां प्रति लक्ष्मी स्वां, ग्रहीष्यन् बलवानलः ॥ ८४९ ॥ स क्रमात्ति- स्यन् सैन्य-पांशुपूरैरहस्करम् । अध्यतिष्ठदयोध्यायाः, काननं रतिवल्लभम् ॥ ८५० ॥ बहिरुद्यानमायात-माकातिबलं नलम् । कूबरस्य मनोऽकात् , संकथां मृत्युना समम् ॥८५१।। तं दूतेन नलोऽवादी-दीव्यं भूयोऽपि देवनैः । त्वलक्ष्म्यः सन्तु मे हन्त, मल्लक्ष्म्यस्तव सन्तु वा ॥ ८५२ ॥ मृत्युभीतिमथापास्य, कूबरः प्रीतिबन्धुरः । भूयो धूतमुपास्त, लब्धाऽऽ- स्वादो हि तत्र सः ॥८५३|| क्षणात् कूबरतोऽजैपीत् , काश्यपी निखिलां नलः। “पुंसांभाग्येऽनुकूले हि, सिध्यन्ति सकलाः क्रियाः" ॥ ८५४ ॥ राज्यं भूयोऽप्यलंचक्रे, नलोऽनलसविक्रमः । नमोऽङ्गणमिव प्रात-र्देवः कर्मलिनीपतिः॥८५५।। जित- श्रीरपि दुष्टोऽपि, सबन्धुरिति कूबरः । राज्ञाऽऽर्द्रमनसा चक्रे, पूर्ववद्यौवराज्यभार ॥ ८५६ ॥ तचदाऽभून्नलः काम, सता श्लाघास्पदं परम् । कूबरः स पुनः क्रूर-कर्मा निन्दानिकेतनम् ।। ८५७ ।। प्राज्यभाग्ये नले भूयः, स्वराज्यमधितस्थुपि । माङ्गल्योपायनान्येयु-र्भरतार्धमहीभुजाम् ॥ ८५८ ॥ नलश्च दमयन्ती च, राज्यश्रीमिरलंकृतौ । बद्धोत्सवं पवन्दाते, कोश- लाचैत्यमण्डलीम् ॥ ८५९ ॥ भरतार्धधराधीश-शिरोभिधृतशासनः । भूयास्यन्दसहस्राणि, मेदिनीमभुनग्नलः ॥८६०॥ आख्यातसमयोऽभ्येत्य, निपधस्वर्गिणा दिवः । पुष्कलाख्ये सुतेऽन्येा-य॑स्य राज्यभरं नलः ।।८६१॥ जातसंसार- पैराग्यो, चैदा सह कान्तया । जिनसेनाभिधाऽऽचार्य-पादान्ते व्रतमग्रहीत् ॥ ८६२ ॥ युग्मम् ॥ अन्तेऽनशनमाधाय, मृत्युमाप्य समाधिना । नलः सुरः कुवेरोऽभू-अज्ञे भैम्यपि तत्प्रिया ॥ ८६३ ॥ १ सूर्यः । २ आजग्मुः। २.
नलस्य
इतीयमम्बिकासनो !, नलक्यरयोः कथा । मया ते कथिता तत्त्व-मस्याः सम्यग्विचार्यताम् ।। ८६४ ॥ कूवरेण जिता
घुत-छपनेयं वसुंधरा । न नाम स्थास्नुवामागात् , "कियत्क्रूरघियां श्रियः? " ॥८६५।। प्रत्युताभूत् परा मान-ग्लानिरेतस्य
दुधियः । “पदादम्यामिता पात-पाकारी हि दोष्मताम्" ॥८६६॥ तदेवं कूबरस्येव, जयोऽप्यस्मिन् दुरोदरे । नाऽऽभाति
शुमोदर्क-स्त्वदीयतनुजन्मनः ॥ ८६७ ॥ जितामपि महीमेते, पाण्डवा नार्पयन्ति चेत् । तदा को नाम गृह्णीया-दत्यन्त-
बलवानपि ।। ८६८ ॥ कर्ता वा कलहं कंचि-चंद्रहीतुमहंकृतः । तत्तै_तिष्यते नूनं, सुतस्ते सह वान्धवैः ॥ ८६९ ।। सत्य-
वाक् तपसासूनु-र्पयेदा जितां महीम् । तथापि शाश्वती नास्य, जीवतोभीम-पार्थयोः ॥८७०||आच्छिन्नश्रीर्वलात्ताभ्यां,
स कूपर इवोच्चकैः । यास्यति त्वत्सुतोऽवश्यं, लोकस्यैवास्य हास्यताम् ।। ८७१ ॥ किं चन्द्रप्रस्थमप्यस्य, तदा न स्थास्नु
मन्यते । तल्लाममिच्छतो मूल-क्षतिः शकेऽस्य भाविनी ॥ ८७२ ॥ न कश्चिन्नलतुल्योऽस्ति, कूपरस्येव यः पुनः । श्रियं
तव तनुजस्प, क्रूरस्यापि प्रदास्यति ।। ८७३ ॥ देशत्यागं तदा कुर्यात् , सैप युद्धा नियेत वा । प्रच्युतप्राभवैः स्थातुं, न शक्यं
संस्तुते जने ॥ ८७४ ॥ तदेनं कथमप्यस्मा-निवर्तय कदाग्रहात् । द्यूतं हि नाऽऽयतिक्षेम-करं कस्यापि दृश्यते ॥ ८७५ ॥
इत्यसौ विदुरस्योक्ति- धृतराष्ट्रहृदि क्वचित् । पूर्णेऽम्भोविन्दुवत् कुम्मे, नावकाशं समासदत् ॥८७६॥ तावदाप्तगिरो धर्म-
कृत्यमायतिचिन्तनम् । गृहाति देहिनां मोहो, यावन्मनसि न स्थितिम् ।। ८७७ ॥ उदारदुःखसंभार-विभिन्नहृदयस्ततः ।
रचितोपेक्षमुत्याय, सस्थानं विदुरो ययौ ॥ ८७८ ।।
१ नष्टप्रभुत्वैः । २ परिचिते ३ 'गिरा' इति प्रत्यन्तरे । ४ कृतोपेक्षं यथा स्यात्तथा ।
राज्यपा-
प्तिर्दीक्षया
स्वर्गमनं
च । विदुरो
धृतराष्ट्र
मुपदिश्य
स्वस्थान
गतः ॥
॥११५॥
मभावलोकनप्पाजा-दधाहातुं तपःसुतम् । हास्तिनं नगरं प्रेपी-द्धार्तराष्ट्रो जयद्रथम् ॥ ८७९॥ हस्तिनापुरम- म्पत्य, स वेगाद्वाग्मिनां वरः । स्नेहदाक्षिण्यभूयिष्ठ, युधिष्ठिरमभापत ॥८८०॥देव ! दुर्योधनस्तुभ्यं, मया विज्ञापपत्यदः । पान्धयेणु ममग्रेषु, त्यमेव मम जीवितम् ।। ८८१ ॥ तन्ममाभिनयां दिव्यां, संसदं द्रष्टुमर्हसि । मनोज्ञमपि नाभी?-रदृष्टं हि मुदे सताम् ॥ ८८२ ॥ इन्द्रप्रस्थं ततः प्रेस्थ-मेयानन्दं त्वदागमे । अवास्तु नूतनोत्सर्प-दुत्सवक्षीवंतां गतम् ॥ ८८३ ॥ इत्याकर्ण तपासूनु-र्जयद्रधसरस्वतीम् । इन्द्रप्रस्थं ततः प्रीत्या, चचाल सरलाशयः ॥ ८८४ ॥ सह दुपदनन्दिन्या, फनीयांसस्तमन्वयुः । पौरस्त्पमारुतं साध, विद्युतेय पयोमुचः ॥ ८८५ ॥ तरङ्गपवनोद्धृत-मनुस्वर्धनि गच्छतः । सहगामीव धर्मोऽस्य, विरेजे कैतकं रजः ॥ ८८६ ॥ तस्यासेदे चलैः संप-न्माद्यदुद्यानमण्डिता । अरिबातमनःशल्यै-रिन्द्रप्रस्थोपश- ल्पभूः ॥८८७॥ तं प्रत्युदगमत् सैन्यैः, पृष्ठतो धृतराष्ट्रसूः । पूर्व वामानिलानीत-स्तत्परागस्त्वभाग्यवत् ॥८८८।। सहानी- कैरजातारि-मनोरथ इवागवान् । प्राविशनगरं तस्य, तत्कालकलितोत्सवम् ॥ ८८९ ॥ बहिर्विकीर्णवात्सल्यं, धृतराष्ट्र युधिष्ठिरः। सपान्धवोऽपि याह्या, शमीतरुमिवानमत् ॥८९०।। तथा दुर्योधनस्तस्य, तास्ताः स्वागतिकीः क्रियाः । करोति स्म गथा मेने, तस्मिन्नैकात्म्यमेय सः ॥ ८९१ ॥ भिद्यन्ते हि अंदीयांसः, प्रेमभिः कृतकैरपि । दोरवीयोऽपि नारानो, भिनत्ति कदलीद्रुमम् ॥ ८९२ ॥ भीष्म-द्रोणादयो वृद्धाः, स्नेहयहिलचेतसः । चिरयत्यात्मजे पाण्डो-रिन्द्रप्रस्थमु- पाययुः ॥ ८९३॥ १ प्रस्थः परिमाणविशेषः, तेन मेय आनन्दो यस्य यस्मिन् था। २ क्षीवता-मत्तता । ३ अतिगृदवः । ४ काष्ठनिर्मितः।
दिव्यसभा-
चलोकनाय
युधिष्ठिरस्य
इन्द्रप्रस्थे
गमनं, तत्र
द्यूतक्रीडनं
अथ कवन निःमन-चतुरङ्गदुरोदराम् । कचिद्गम-चरो-दार-शारक्रीडामनोहराम् ।।८९४|| कचित् प्राप्तजयद्यूत-कारखा-
पालगालिकाम् । फनिश कलितोत्कर्ष-शलाकाकैलिशालिनीम् ॥८९५॥ प्रतिपढें प्रतिस्तम्भ, प्रत्यसि प्रतिपुत्रिकम् । अशक्य-
दर्शनामेक-देशमग्रेक्षणत्वतः ।। ८९६ ॥ स्वरामणीयकाक्षिप्त-स्वःसदं संसदं निजाम् । दर्शयामास गान्धारी-तनयो धर्म-
मूनवे ।। ८९७ ।। (चतुर्मिः कलापकम् । ) भ्राम्यन्तौ तौ ततस्तस्यां, वीक्षमाणावितस्ततः । युवां क्रीडिष्यथः किं ने-त्य-
बस्पेलिप्ये)तां महाक्षिकः ।। ८९८ ।। दुर्योधनोऽप्यभापिष्ट, विष्टपश्रीविशेषक! । माननीया महान्तोऽमी, दीच्यामो देवनैः
धणम् ॥ ८९९ ॥ ओमित्युक्तेश्य धर्मात्म-जन्मना तावुभावपि । क्रीडितुं प्रक्रमेते स्म, देवनैरित रेतरम् ॥ ९००॥ तदा
मरलतोमि-तृभिः परिवारितः । रेजे धर्मात्मजः पारि-जातः कल्पद्रुमैरिख ।। ९०१॥ धार्तराष्ट्रोऽष्यधाहुटै-राघृतः
मौयलादिभिः । कण्टफिद्रुपरीतस्य, विलासं विषशाखिनः ॥ ९०२ ॥ द्वौ द्विको द्वौ चतुष्को च, दश चेत्यादिवादिनोः ।
वतमनुस्यूतं, ततः प्रमटते तयोः ॥ ९०३ ।। क्रीडामात्रकमित्यादौ, पत्रपूगादिकः पणः । ततोऽङ्गुलीयकायोऽभू-ट्यूते
पृद्धिमुपेयुपि ॥ ९०४ ॥ यदा यस्य जयस्तस्य, तदानी पारिपार्श्वकाः । मोदन्ते स्म रविर्यत्र, तत्रैव कमलोत्सवः ॥ ९०५ ॥
ताम्पूलं वामरो रात्रि-संक्तिपानादिकाः क्रियाः । जगाम विस्मृति सर्व, तयो रङ्गेण दीव्यतोः ॥९०६ ॥ आसीजयस्तयोरन्य-
तरस्याप्युभयोरपि । जने पराजयोऽप्येवं, यावद्यूतमभूजु ॥ ९०७ ॥
गान्धारीकुक्षिसूगृङ्खः, शकुनिप्रमुखस्ततः । कौटिल्यसमभिश्छम-यूतं तैरुपचक्रमे ॥९०८ ।। अन्धव-मित्रविष्टब्ध-
१ गमादयो गतभेदाः । २ युधिष्ठिरस्य संवोधनमिदम् । विशेषतः' इति प्रत्यन्तरे । ३ प्रथितम् ।
॥११६॥
दृष्टिव-द्वद्धपट्टवत् । पतितोऽपि ततो नैक्षि, स्वदायो धर्मसूनुना ।। ९०९ ॥ गान्धारखामिना पूर्वो-पदिष्टात् करकैतवात् । अपातयत् पुन त्र-मेवाक्षं धृतराष्ट्रभूः ॥ ९१० ॥ समूर्द्धन्यमणीन्यङ्ग-भूपणानि तपःसुतः । मरुत्पथ इव प्रात- नि सेन्दून्यहारयत् ॥ ९११ ।। कर्णादीनां ततः प्रीति-धीजैरुच्वसितं मनाक । कौशिका हि सहस्रांशु-व्यसनस्पृहयालयः ॥९१२॥ कियदेतदिति भ्रात-मण्डली पाण्डुजन्मनः । न विव्यथेलिमालेव, द्वित्रपुष्पव्यये वने ॥९१३॥ अहारयत् क्रमात् कोश- संभृतं वेसु धर्मसूः । ग्रीष्मर्तुपिण्डितं चण्ड-धामेव जलदागमे ॥ ९१४ ॥ ततः संतापधर्मर्तु-रावसत् सुहृदां हृदि । विद्विपा- मुदुमीलंस्तु, मनस्याह्लादमल्लिकाः ॥९१५ ।। क्रीडारसात् पणीकुर्वन् , रथ्यों साश्चीयहास्तिकाम् । अभ्यधीयत संभ्रान्तै-गाङ्गे- यायैस्तपःसुतः ॥ ९१६ ॥ क्रीडामात्राय वां द्यूत-मस्माभिर्वह्वमन्यत । संप्रत्युन्मत्तमेतत्तु, नानुमन्यामहेतमाम् ।। ९१७ ॥ द्यूताद्यैवेद्विजेप्यन्ते, व्यसनैस्त्वादृशा अपि । देवस्तदुष्णधामापि, तमोभियंकरिष्यते ॥ ९१८ ॥ व्यसनैः सह वास्तव्याः, किं नाम स्युर्गुणाः कचित् ? । दृष्ट क्वाप्येकपात्रस्थं, पीयूषं च विपं च किम् ? ।।९१९।। द्यूतदावानलादस्मात् , तन्निवर्तितुमर्हसि । ज्वलत्येक्षेप ते पश्य, हहा ! गुणमयः पटः ।। ९२० ॥ इत्येतां न गिरं तेपा-मजातारिरजीगणत् । सतामपि विधौ क्रुद्धे, विपर्यस्पति शेमुपी ॥ ९२१ ॥ द्यूतासक्तमनीशास्त-मीक्षितुं केचिदत्यजन् । त्यजन्ति राजहंसा हि, मेघाऽऽलिमलिनं तमः॥ ९२२ । हारितेभरथाश्वीयः, स कणादीनमोदयत् । घनास्तग्रहतारेन्दु, व्योमेव तिमिरोत्करान् ॥ ९२३ ॥ अथाकर-पुर-ग्राम-समग्रमवनीतलम् । ग्लहीकुर्वति कौन्तेये, सभ्याः संभ्रान्तमभ्यधुः ॥ ९२४ ॥ न नाम भवति १ घकाः । २ धनं, पक्षे किरणसमूहम् । ३ रथसमूहम् ।
युधिष्ठिरेण
द्यूते
हारितम्॥
क्षोणि-पणोऽयमवधिं विना । हन्त दुर्योधनस्यापि, मद्रकारोऽवधिः कृतः ॥ ९२५ ।। सर्वथा निजसाम्राज्य-निराशान्
पाण्डवानमून् । को निवारयिता विश्वे-ऽप्यपणीकुर्वतः पणम् ॥ ९२६ ॥ सूत्रिते त्ववधौ राज्य-प्रत्याशासुस्थिताशयाः ।
अन्यायं वाविपर्यास-लजयाऽपि न तन्वते ॥ ९२७ ।। इत्याकर्ण्य गिरं कर्णः, सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मि-
वस्तु द्वादशवत्सरी ॥ ९२८ । नां कर्णभारतीमोमि-त्युररीकृत्य देवितम् । पुनः प्रावर्तिपातां तौ, द्यूतकारावुभावपि ॥९२९॥
हारितायां क्षणादक्ष-कैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे, बान्धवान् धर्मनन्दनः ।। ९३० ॥ तैश्च दासेरवद
कर्म, कर्तव्यं चूतहास्तैिः । अधिमन्दिरमाजन्म, धृतराष्ट्राङ्गजन्मनः ॥ ९३१ ।। दुःखस्फुटितहृन्मर्म-कीसंघनिवान्धवः ।
उदगात् पारिपद्यानां, महान् हाहारखो मुखात् ॥ ९३२ ॥ शरीरमिदमात्मीय-मस्यैव हि पुनः क्व तत् । यत्र कुत्रचिदित्यन्तः,
खेदिनस्तस्य नानुजाः ॥ ९३३ ।। राधेय-सौबलादीना-मनिन्दन केऽपि कैतवम् । निनिन्दुर्धार्तराष्ट्रस्य, केपि विश्व-
स्तपातिताम् ।।९३४॥ निन्दन्ति स्म तपासूनोः, केचिदत्यार्जवं मुहुः। धृतराष्ट्र सुतस्नेह-मोहितं केऽप्यनिन्दिषुः ॥९३५॥
( युग्मम् ) क इवैतादृशो ज्येष्ठ-बन्धुः स्वाधीनजीवितः । इति वायुसुतादींस्तु, तुष्टाः सर्वेऽपि तुष्टुवुः ॥९३६।। हारितेषु
प्रतीपेन, वेधसाऽवरजेष्वपि । अजातरिपुरात्मानं, चकाराकृपणः पणम् ॥९३७|| मा मेति परिपद्वाक्यै-राक्रन्दैरनुजीविनाम् ।
लोकशोकप्रवादैव, शब्दाद्वैतं तदाऽभवत् ॥ ९३८ ॥ शृङ्गाग्रवद्गिरेरापः, प्रतिषेधपरा गिरः। भीष्मादीनामवस्थानं, लेभिरे
न युधिष्ठिरे ॥ ९३९ ॥ पणाभावात् पृथासूनु-स्थाऽऽत्मन्यपि हारिते । आसीकिकार्यतामूढ-स्तरुभ्रष्टप्लवङ्गवत् ॥९४०॥
१ ( मद्रकारः क्षेमंकर इति शब्दकल्पद्रुमः । २ 'कृतोऽवधिः' इति अन्वयः) । ३ क्रीडितुम् । ४ फीकसम्-अस्थि ।
॥११७॥
ततस्तं स्वजनीभूय, बभापे सुपलात्मजः । पणस्तवास्ति पाञ्चाली, तयाऽऽत्मानं विमोचय ॥९४१॥ इत्युक्ते तेन चैक- ल्य-पल्याङ्कः सह कीर्तिभिः। द्रौपदीमपि कौन्तेयो, निनाय पणतां तदा ॥ ९४२ ॥ गान्धारीसुतगृह्याणा-मपि केपां- चिदक्षिषु । तदाऽऽविरासन्नश्रूणि, गुणाः सर्वप्रियंकराः ॥ ९४३ ॥ दुर्जनैकधुरीणाय, तस्मै द्यूतसृजे नमः । येन कामप्यनी- यन्त, महान्तोऽपीदृशी दशाम् ॥ ९४४ ॥ द्रौपदीपणमाहात्म्या-द्यदि नाम तपःसुतः । इदानीं जयतीत्यादि, तदाऽन्योन्यं जगुर्जनाः ॥ ९४५ ॥ क्षणेनाथ भुजाऽऽस्फोट-नादकन्दलितोदयाः । जितं जितमिति स्वैर-मुच्चेरुः शकुनेर्गिरः ॥ ९४६ ॥ स्तम्भिता इव मूर्छाला, इव चित्रार्पिता इव । मृता इव ग्रहग्रस्ता, इव सभ्यास्तदाऽभवन् । ९४७ ॥ शत्रवः पाण्डुपुत्राणां, हरन्तो राज्यसंपदम् । तेनुरुद्भूतसवाना, निःसपलां सुखश्रियम् ॥९४८॥ कौरवाः पर्यपूर्यन्त, संमदैः क्षयहेतुभिः । अन्याय संभृताऽऽभोगै-भिवैरिव दस्यकः ॥ ९४९ ॥ अथ दुर्योधनादेशा-यावदुःशासनो मुदा । वासांसि पाण्डवेयाना-मपक्रप्टुमचेष्टत ॥ ९५० ॥ तावत्ते स्वयमुत्सृज्य, चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्प-छुपाविक्षन्नवाङ्मुखाः ॥ ९५१ ॥ (युग्मम् ) अत्रैवाऽऽनीयतां सापि, पुंश्चली पञ्चवल्लभा । इत्यादिशत् कनीयांसं, मन्दमेधाः सुयोधनः ॥ ९५२ ॥ ततो दुःशासनो लुप्त-गरीयःसाधुशासनः । स्मेरवक्त्राम्युजोऽभ्येत्य, पाश्चलीमित्यवोचत ॥९५३ ॥ तेन दुर्मेधसा पत्या, हारिताऽसि दुरोदरे । त्वं जिताऽसि च पाश्चालि ! धार्तराष्ट्राग्रजन्मना ॥ ९५४ ॥ ततः स भवतीं प्रीति-प्रहमाह्वयति द्रुतम् । न चेदेष्यसि नेष्यामि, तद्रलादपि १ क्रियाविशेषणमेतत् ।
युधिष्ठिरेण
यूते
हारितम् ।।
भामिनि ! ॥९५५।। पाश्चालदुहिताऽवोच-नन्वद्यास्मि रजस्खला । एकांशुका च तत्संसापागच्छाम्यहं कथम् १ ॥९५६।।
किं च किंचन पृच्छामि, किंस्विदात्मनि हारिते। अहारित वा तेनास्मि, हारिता जगतीमुजा? ॥९५७ ॥ हारिताऽपि न
तेनास्मि, हारिता हारिताऽऽत्मना । स्वकायेऽप्यस्वतन्त्रस्य, का नाम प्रभविष्णुता? ॥९५८॥ प्रातरुचण्डमार्तण्ड-रोचिरा-
चान्तदीधितिः। जानीहि रजनीनाथो, रजन्या अप्यनीश्वरः ॥९५९॥
तामित्युक्तवती क्रुध्य-न्नूचे दुर्योधनानुजः । धिग्वाचालाऽसि पाञ्चालि1, पुरो भवसि किं न हि १ ॥९६०॥ धर्मस्थैर्ये
त्वमेवासि, सांप्रत किमधीतिनी ? । जाने तमपि जानासि, बृहस्पतिमकोचिदम् ।। ९६१ ।। इत्युदीर्य स कस्तूरी-भराहरित-
कान्तिपु । चकर्ष विहितामर्पः, केशेषु द्रुपदात्मजाम् ॥९६२।। आः! पाप ! कुरुभूपाल-गोत्रकिपाकपादप ! । किं मामेवं
विधामेव, नेतासि गुरुसंनिधौ ॥९६३।। नीरङ्गीस्थगित यस्याः, कोऽपि नापश्यदाननम् । हा ! सर्वेऽनावृताङ्गीं तां, द्रक्ष्यन्ति
गुरखोऽद्य माम् ॥९६४॥ दुरात्मन् ! किं भवत्कर्म, कर्मसाक्ष्यपि नेक्षते १ । यन्न क्षणाक्षिणोति त्वां, परस्त्रीस्पर्शपांशुलम् ॥
९६५ ॥ क्रन्दन्तीति गलन्नेत्र-नीरनीरजितक्षितिः । तेनाकृष्टा जनैदृष्टा, सा मृगीव मृगारिणा ॥९६६॥ शतशः शपमानानां,
तदा दुःशासनं सताम् । नवसारस्वतोल्लास-लासिनी रसनाऽभवत् ॥९६७॥ तपासूनोरपि ज्ञान-धर्म-न्याय-शमादिपु । जनः
सावज्ञ एवाभूत , क्लिश्यमानां विलोक्य ताम् ॥९६८॥ नेत्राश्रुसलिलैः कूल-कपस्रोतस्विनीमयी । नूतना प्राडारेमे, लोकैः
शोकाफुलैस्तदा ।। ९६९ ॥ तामेकवसनामश्रु-विक्लवाक्षी त्रपानताम् । निनाय न्यायशून्याऽऽत्मा, हठाहुःशासनः सभाम् ॥
१ 'धर्मशाने' इति प्रतिद्वयः । २ कृतक्रोधः । ३ सूर्यः । ४ नीरजिता रजोविनाकृता ।
॥११८॥
९७०॥ उल्लसदैन्यमालिन्यां, सा मपीकूर्षिकामिव । तत्र व्यापारयामास, मुखेषु प्रेयसां दृशम् ॥९७१।। तामालोक्य तथाभूतां, त्रपाकलुपिताऽऽशयाः। प्रेक्षामासुः सुताः पाण्डो-र्विविक्षव इव क्षितिम् ॥९७२॥ गृहेऽप्येतदरक्षन्तः, किं द्रष्टव्याऽऽनना वयम् ? । इतीव पिदधुर्वक्त्रं, हिया भीष्मादयोऽशुकैः ॥९७३॥ दृशो द्रुपदनन्दिन्यां, नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः, कामपल्लविता इव ।।९७४॥ कृशोदरि ! चिरादासी-दनुरागो मम त्वयि । हन्तायमन्तरायोऽभूत् , पाण्डवैः पाणिपीड- नम् ।।९७५॥ इदानीमप्युपागत्य, झटित्येवास्यतामितः । इत्यूरुं दर्शयामास, याज्ञसेन्याः सुयोधनः ॥ ९७६ ॥ (युग्मम् ) अथावोचत पाञ्चाली, कोपकम्प्रतराधरा । कुरुराजान्वयोदन्व-त्कालकूट ! कुलाशने ॥९७७|| भस्मसात् किं न जातोऽसि, चिन्तयाऽप्यनया मयि । कोटरान्तर्गतोऽप्यग्नि-दहत्येव महीरुहम् ॥ ९७८ ॥ (युग्मम् ) यदि गोत्रगरीयांसः, केपि स्यु- महिमोनताः । वल्लभा अपि केपि स्यु-यदि मे भुजशालिनः ।। ९७९ ।। मर्पयेयुस्तदेतस्य, किमेतदनुजस्य च । जीवितव्य- कथाकन्था-मित्थमन्यायवर्तिनोः ॥ ९८० ॥ (युग्मम् ) किं चान्तःस्वान्तमालोच्य, कथयन्तु सभासदः । हारितस्वात्मना भा, भवेयं यदि हारिता ॥ ९८१ ॥ अथाभ्यधत्त राधेयः, सभ्यान् किमियमङ्गना । विजिते राज्यसर्वस्वे, न तदन्तर्गता जिता ? ॥९८२ ॥ अथैकवास- सोऽमुष्या, मध्येसंसन्मतं न वः । बलादानयनं कोऽपि, नेयमप्यव्यवस्थितिः ॥ ९८३ ।। एक एव पतिलोंके, योपितामुपगी- १ प्रवेष्टुमिच्छवः, प्रतित्रये - विवक्षवः' इति पाठो दृश्यते, स न सम्यक् । २ कुले- वंशे अश निः-वसमानः, तत्सबुद्धौ। ३ 'क्वापि' प्रत्यन्तरपाठः । . ,
द्रौपद्याथी-
वरा-
कर्पणम् ॥
यते । अनेकप्रेयसीयं तु, बन्धक्येव न संशयः ॥ ९८४ ॥ तदेकवसनत्वं वा, वस्त्रराहित्यमप्यथ । पर्पदानयनं वाऽपि, नैत-
स्याः खल्वसांप्रतम् ॥ ९८५ ॥ इति कोक्तिमाकर्ण्य, क्रोधाध्माताशया अपि । दुर्योधनमिया सम्या-स्तूष्णीमेवालेलम्बिरे
॥ ९८६ । गान्धारेयोऽभ्यधात् क्रोध-स्फुरदोष्ठपुटोऽनुजम् । जितैवेयं मया सम्यै-रजल्पद्भिनिवेदिता ॥ ९८७ ॥ तत्
सतीमानिनीमेना-मुन्मोच्यावेतनाम्बरम् । परिधाप्य जरद्दण्डी-खण्डं दासीपु निर्दिश ॥ ९८८ ॥ इति दुःशासनो दुष्ट-ज्ये-
ठवान्धवशासनात् । नितम्पादम्परं पाण्डु-स्नुपायाः स्वैरमाकृपत् ॥ ९८९ । मा मेति दीनजल्पाक्याः, प्रक्षिपन्त्या मुखेड-
गुलीः । रुन्धत्यास्तत्करौ कामं, पश्यन्त्याः पर्षदाननम् ॥ ९९० ॥ दुष्टात्मनांशुके कृष्टे, तेनास्या ददृशुर्जनाः । दैवतेनानु-
भावेन, ताडगेवान्यदंशुकम् ॥ ९९१ ।। (युग्मम् ) मनुष्यपांसनः क्षिप्र-माचकर्म तदप्यसौ । भूयोऽप्याविरभूत्ताह-फ्तस्याः
श्रोणितटेऽम्वरम् ।। ९९२ ।। इत्यमाकर्पतस्तस्य, वभूव वसनोत्करः । क्लान्तवायमपीयाय, दृष्टः स्मेराननर्जनैः ॥ ९९३ ॥
अथ क्रोधोदयाचाम्र-चक्षुरूर्द्धजकुन्तलः । रोमाञ्चकवची स्वेद-मेदुराङ्गः सवेपथुः ॥ ९९४ ॥ पाणिना पाणिमुत्पिपन् ,
सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः, प्रत्यज्ञासीढुकोदरः ॥ ९९५ ॥ युग्मम् ॥ येनानीता सभां कृष्णा, वला-
दालम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः, श्रोणेराकृष्टमम्बरम् ॥ ९९६ ।। वाहुदण्डं न चैत्तस्य, मूलादुन्मूलयाम्यहम् । कयो-
प्णैश्वाभिपिश्चामि, न वक्षःशोणितैः क्षितिम् ।। ९९७ ॥ येन च सरकल्लोल-केलिभिर्लोलितात्मना । द्रौपद्या दर्शितः स्वैर-मूरु-
देशो रिंसुना ॥ ९९८ ।। तस्योरं गदया तूर्ण, चूर्णीमावं नये न चेत् । तन्न मे पाण्ड्डना जन्म, न च क्षत्रव्रतं कचित् ।।
१ वावलम्बिरे' प्रतिद्वयः । २ 'रुद्धर्पिकुन्तलः' इत्येकप्रतिपाठः साधुः ।
॥११९॥
९९९ ॥ इत्युदीरितवत्युचै-भीमे संभावितौजसि । सभाक्षोभोऽजनि क्षीर-पाथोधिमथनोपमः ॥ १००० ॥ मध्येसभमथोत्थाय, धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोक-संभारभिदुराशयः ॥ १००१॥ प्रसूतमात्र एवाय, पुराऽऽख्यायि मयाऽपि ते । दुरात्मा कुलकल्पान्त-धूमकेतुः सुयोधनः ॥१००२॥ किमीक्रियते कर्म, चण्डालानां कुले- ध्वपि । कैतवेन विजीयन्ते, प्रातरोऽपि यदात्मनः ॥ १००३ ॥ पुरो गुरूणामानीय, केशैरादाय तत्प्रियाम् । तन्नितम्बस्थ- लाद्वासो, निःशई यच कृष्यते ॥१००४॥ तत् कथं सहतां नाम, भीमः कान्तापराभवम् ? | न प्रियागःसहास्तेऽपि, पक्षिणः किमु दोर्भूतः १ ॥१००५ ॥ अदुःशासनमद्रोण-मकर्णमसुयोधनम् । अभीष्म-धृतराष्ट्रं च, राष्ट्र भीमः करिष्यति ।। १००६ ।। तत् कथं सर्वसंहार-मिदानीमप्युपेक्षसे ?। पातय क्रूरकर्माण-मेनमेकं सुयोधनम् ॥ १००७ ।। नैवं चेचदमुं पापं, पापादसानिवनय । अमी वनाय गच्छन्तु, पाञ्चाल्या सह पाण्डवाः॥१००८ ॥ पुनरेत्यावधेरन्ते, सुजन्तां जगतीं निजाम् । न चेत् कुंटुम्बसंवर्त-स्तवाद्यायमुपस्थितः ॥१००९॥ इति भ्रातुर्गिरा भीति-प्रथमानाङ्गवेपथुः । पभापे भृशमाक्रोशन्, धृतराष्ट्रः सुयोधनम् ॥१०१०॥ आः ! पापकर्मचाण्डाल !, सदाचारवनद्विप! । निरपत्रप! नाद्यापि, दुष्कर्मभ्यो निव- तसे १ ॥१०११॥ विसृज स्वैरचाराय, वान्धवान् सह जायया । न चेन्मत्करवालोऽयं, शिरस्ते न सहिष्यते ॥१०१२॥ पितुर्गिरमिति श्रुत्वा, मनःकलुपसुचकः । भीष्मादीनां च संभाव्य, भापते स सुयोधनः ॥ १०१३ ॥ ममाप्येक वचस्तर्हि, वर्षीयांसो ! भवत्वदः । नेतव्यं पाण्डवैः कापि, गुप्तर्वपं त्रयोदशम् ॥ १०१४ ॥ निगूढानप्यमूस्तसिं-श्रेजानामि कुटुम्बप्रलयः ।
पाण्डवानां
वन-
गमनम् ॥
कथंचन । तन्मेदिनीमिमां भुजे, पुनादशवत्सरीम् ॥ १०१५ ॥ अमीभिस्तु पुनस्तावद्-विधातव्या वने स्थितिः । इत्युक्ति
पाण्डयास्तस, गुदेशात् प्रपेदिरे॥१०१६ ॥ निदेशाद्धृतराष्ट्रस्य, द्रोण-गाङ्गेययोरपि । आर्पयत् पाण्डपुत्राणां, पावा-
रान् कौरवाग्रणीः ॥ १०१७ ॥ गुरूणामनुरोधेन, पाण्डवेयानधोमुखान् । नित्ययौवनया सार्ध-मनुमेने बनाय सः॥
१०१८॥ याज्ञसेनी पुरस्कृत्य, मूर्ती धृतिमिवात्मनः । पदातयः सुताः पाण्डो-रिन्द्रप्रस्थात् प्रतस्थिरे ॥१०१९ ॥
जाह्नवेयादयो पद्धाः, स्नेहसंदोहमोहिताः । मन्यूमिमलिनास्यास्ता-नन्वगुः पादचारिणः ॥ १०२० ।। संतताश्रुपयःपूर-
पकिलीकृतवर्मभिः । ते तथा पथि गच्छन्तो, निरीक्षांचक्रिरे जनैः ॥ १०२१ ॥
हारिताखिलनरेन्द्रसंपदः, पाण्डवाः स्फुरदखण्डतेजसः।
मातरं च पितरं च वीक्षित, हस्तिनापुरमुपागमन् पुनः ॥ १०२२ ॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवचरिते नलोपाख्यानद्यूत-
वर्णनो नाम पष्ठः सर्गः॥६॥
१ वनाणि । २ मुखः प्रतिद्वय ।
॥१२०॥
अथ सप्तमः सर्गः। अथ धर्मसुतः सत्य-निर्वाहस्पृहयालुना । मनसा वनवासाय, प्रतस्थे हस्तिनापुरात् ।।१॥ भीमादयः सह व्रज्या- बतसंनद्धबुद्धयः । स्वस्वशस्त्रादिसामग्री-समग्राश्चेलुरग्रतः ॥२॥ पाण्डुश्च धृतराष्ट्रश्च, भीष्मश्च स्नेहमोहिताः। निर्यद्वाष्प- जलोत्पीडाः, पाण्डवाननु वबजुः ॥ ३ ॥ सत्यवत्यादयः सर्वाः, शोकार्ता ज्येष्ठमातरः। दासीहस्तकृतालम्बा, बभूवुः पाण्डवानुगाः ॥ ४ ॥ भद्रं तवास्तु क्रीडाद्रे !, क्रीडावापि ! नमोऽस्तु ते । क्रीडावन ! तव क्षेमः, पुनर्वः संगमः कुतः ? ॥५॥ हो ! बार्हनहो ! हंस, हैले ! हरिणि ! हे शुक! । कुशलं वोऽस्त्वसौ दैवा-द्याति कः परिचारिका ॥ ६ ॥ इत्या- पृच्छथ पतद्वाप्पा, केलिपात्राणि सर्वतः । यद्धा परिकर कृष्णा, कुन्तीपृष्ठस्थिताऽचलत् ॥७॥(त्रिभिर्विशेषकम् ) लोकोऽपि पुरवास्तव्यो, गुणगृह्यतया परम् । विहाय गृहसर्वस्वं, धर्मनन्दनमन्वगात् ॥ ८॥ सर्वैः साकं सशोकैस्तैः, पार्वणेन्दुसमा- ननः । धर्मात्मजः पुरान्निर्य-मूतों धर्म इवावभौ ॥ ९॥ विसंकटेऽपि संघट्ट-संकटे पथि गच्छताम् । परस्परस्य लोकानां, मिथः पथिरे कथाः॥१०॥ निजं नलेन साम्राज्यं, पुरा द्यूते पणीकृतम् । हा! हा ! युधिष्ठिरेणापि, तदिदानीमनुष्ठितम् ।। ११॥ धिग्धिग्दुर्यो- धनं येन, महात्मा धर्मनन्दनः । कृत्वा द्यूतमयं छद्म, त्याजितो राज्यसंपदम् ॥ १२ ॥ दुर्योधनस्य न स्थास्नु, राज्यमा- १ ज्या-प्रयाण सैव व्रतम् । २ ‘हला' प्रतित्रय० । .
पाण्डवानां
वन-
गमनम् ॥
समपि भुपम् । यायद्विजयिनावेती, वृकोदर-किरीटिनौ ॥ १३ ।। किं चान्यत् प्रतिपाञ्चालि, यदनेन प्रपश्चितम् । ऑल-
प्पालं तदस्माक-मेतस्यैव फलिष्यति ॥ १४ ॥ जनानां सानुरागाणा-मित्थमुत्तस्थिरे गिरः । केषां न पक्षपातः स्या-त्ताह-
शेषु महात्मसु ? ॥ १५ ॥
अथान्यमनसं कृष्णां, क्रूरः किर्मीरराक्षसः। अकस्मान्नमसोऽभ्येत्य, भापयामास वर्मनि ॥१६॥ मपीकृष्णवपुः पिङ्ग-
विकीर्णधनमूर्द्धजः । स मौलिप्रज्वलद्दावो, विन्ध्याचल इवापभो॥१७|| गक्लश्यामलो विन-दुङ्गारसदृशौ दृशौ । जहास प्रलया-
काश-मुदिताङ्गारकद्वयम् ॥१८॥ भुजगीतरलां जिहां, विभ्राणं द्रौपदीपुरः। दन्तः कृतान्तकुन्ताम-र्भीम सव्याददौ मुखम् ॥१९॥
ततो भयार्तमत्युच-मुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेद-कोविदं विदधे ध्वनिम् ॥ २० ॥ तेनाथ ध्वनिनाऽऽकृष्टः,
कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयांचक्रे, किमिदं पाप ! चापलम् ।।२१।। दीर्घावपथिकी श्रान्तां, प्रवासेन विषेदुपीम् ।
प्रियां भीपयसे मे त्व-मधुना भुञ्ज तत्फलम् ॥ २२ ॥ इत्याक्षिप्य गदाघातै-स्तं नीत्वाऽन्तं वृकोदरः । योऽस्ति
दुर्योधने क्रोध-स्तन्मुष्टि कृष्टवांस्तदा ॥ २३ ॥ दुर्योधनवधारम्भे, किरिं तस्य वल्लभम् । निहत्यास्थापयशीमो,
मद्रायोंकारमादिमम् ॥ २४ ॥ इमं किौरवृत्तान्त-मविदन्नेव भूपतिः। आजगाम लतारम्यं, काम्यकं नाम काननम् ॥
,२५ ।। तदा विर्तनः कर्तु-मात्मानमिव पावनम् । अध्यास्य नमसो मध्य-मास्यं तस्यास्पृशत् करैः ॥२६॥ कुकर्मकर्मठेड-
त्यन्त-क्रोधादिव सुयोधने । कर्मसाक्षी तदा मस, जज्वाल ज्वलनोपमः ॥२७॥ मातापिजनः सर्वः, पादचारेण खिद्यते ।
१ उक्त्वाऽलम् । २ अङ्गारकः-भौमग्रहः । ३ सिन्नाम् । ४ सूर्यः । ५. सूर्यः ।
॥१२॥
तत् पश्चरात्रमत्रैव, देवावस्थीयतामिति ॥ २८ ॥ मुहुर्विज्ञापितो भीम-सेनेन वसुधाधिपः । सर्वेपामपि लोकाना-मप्रयाणं
समादिशत् ॥ २९ ॥ (युग्मम् ) अपाथेयो जनस्तत्र, तपनातपविक्लवः । बाहूपधानः सर्वोऽपि, सुष्वाप प्रतिपादपम् ॥३०॥
तादृशे वनवासेऽपि, तेपामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म, धर्मनन्दनमानसम् ॥३१ ॥ ज्ञात्वा तादग्मनो राज्ञः,
पार्थः सस्मार सत्वरम् । विद्यां मनोहराहार-समाहरणकोविदाम् ॥ ३२ ॥ ततस्तयोपनीतायां, रसवत्यां पृथाज्ञया । तं जनं
भोजयामास, प्रमोदाद्रुपदात्मजा ॥ ३३ ॥ विनयानिजवन्धूनां, राज्यसौख्यातिशायिनाम् । सुखेन धर्मसूनुस्तं, गमया-
मास वासरम् ॥ ३४॥
अपरेधुर्महापाहः, पित्रादेशात् स्वदेशतः । पाश्चालदुहितुर्वन्धु-घृष्टगुम्नः समाययौ ।। ३५ ।। प्रणम्य धर्मपुत्रादी-
नुपतस्थे स सोदराम् । अवादीच कथं दीन-मित्थं धत्से मुखं स्वसः। ॥३६॥ हस्तिनापुरचारिभ्य-धारेभ्यश्छमना कृतम् ।
श्रुत्वा प्रवासमेवं व-स्तातेन प्रहितोऽस्म्यहम् ॥ ३७ ॥ इदानीमपि सोदर्ये ।, निजशौर्येण विष्टपम् । अदुर्योधनमा-
दध्यां, मन्यते तु पतिर्ने ते ॥ ३८॥ ततः सत्यजडों याव-दने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति, तावदेहि गृहं .
पितुः ॥ ३९ ॥ इत्युक्ता प्रत्यभाषिष्ट, पाञ्चालनृपतेः सुता । दुर्योधनवधे विमो, राजैव भीम-पार्थयोः॥४०॥
पाण्डवानां पदैर्यानि, पावनानि वनान्यपि । मह्यं तान्येव रोचन्ते, कृतं पिटगृहेण मे ॥ ४१ ॥ केवलं सरलान् : बालान्,
भागिनेयानिजानमून् । पञ्चाप्यादाय पाञ्चालान् , ब्रज त्वं विजयी भव ॥ ४२ ॥ एवमुक्तस्तया स्नेहा-धर्मसूनोरनुज्ञया ।
धृष्टगुम्नः पतद्वाष्प-स्तान् गृहीत्वा गृहं ययौ ॥४३॥
युधिष्ठिर-
समीपे
धृष्टद्युम्न-
स्याग-
मनम् ।
अन्येयुरभ्रमकान्त-कान्तदन्तायलं चलम् । विभ्रन्नारायणः प्रीत्या, युधिष्ठिरमुपाययौ ॥४४॥ प्रत्युद्गम्य तमायान्तं,
प्रणमन्ति स्म पाण्डवाः । ववन्दे द्रुतमभ्येत्य, सोऽपि कुन्तीपदाम्बुजम् ॥ ४५ ॥ कंसध्वसी सुखासीनो, निविष्टं विष्टरे
पुरः। मनःसंक्रान्ततहुःखो, धर्मनन्दनमम्यधात् ॥ ४६ ॥ दुर्योधनकवीन्द्रेण, स्पष्टाभीष्टार्थदृष्टिना । दुरोदरप्रवन्धोऽयं,
व्यधायीति श्रुतं मया ॥ ४७ ।। दुर्योधननरेन्द्रस्य, द्यूतमन्त्रैकसाधने । उभावभूतां शकुनिः, कर्णवोत्तरसाधकौ ॥४८||
अभविष्यन्निकारोऽयं, मयि संनिहिते न ते । रोहिणीरमण राहु-प्रंसते न बुधान्तिके ॥ ४९ ॥ इमौ तु विभितस्तुभ्यं, भीमौ
भीम-धनंजयो । अन्यथा कुरुतो ह्येतो, वसुधामसुयोधनाम् ॥ ५० ॥ इदानीमप्यमु दृप्स, रिपुमुच्छिन्दतो ध्रुवम् । तवायं
सत्यनिर्वाह-जडिमैव ममार्गला ॥५१॥ यत्तु दुअरितं तस्य, पाञ्चाल्याः केशकर्षणम् । तदेतया ममामीभिर्वाष्पैः पश्य निवे-
द्यते ॥ ५२ ॥ नूतनो मम कोपामिः, पाञ्चालीनयनाम्बुभिः । ज्वलितोऽतीव गान्धारी-दुरपत्यं दिधैक्षति ।। ५३ ।। ततः
सतीतिरस्कार-पाप्मनामधुना फलम् । तं दुष्टं लम्भयिष्यामि, मा स्म प्रत्यूहमावह ॥ ५४॥
इत्युक्त्वा विरते विष्णौ, कृष्णाहृदयवल्लभः । मूर्धा प्रणम्य सद्बुद्धि-द्धाञ्जलिरदोऽवदत् ॥ ५५ ॥ कंसान्तक ! त्वयि
क्रुद्धे, न हि शक्रोऽपि विक्रमी । मनुष्यक्रमयः केऽमी, पुनर्योधनादयः १ ॥ ५६ ॥ सत्यातिक्रमकौलीनं, मदीयं किं तु
लोकतः । समाकर्ण्य त्वमेवात्र, विश्वनातखपिप्यसे ॥५७॥ निषिद्धौ वान्धवावेतौ, मयाऽऽदेशवशंवदौ । त्वं तु व्यावत(त्य)से-
( १ कोपेपूपलभ्यमानस्याघ्रमुशब्दस्य हस्वत्वाहीर्घत्वमत्र चिन्त्यम् । ) अभ्रमुकान्तः-ऐरावणः.
२ सिद्धिना' 'वृष्टिना' इति प्रत्यन्तरपाठ । ३ पराभवः । ४ चतुर्थी चिन्या । ५ दग्धुमिच्छति ।
कृष्णोऽपि
पवादा-
गतः॥
॥१२२॥
ऽमुष्मा-दारम्भाचेत् प्रसीदसि ।। ५८ ॥ इत्थं हरौ शमं नीते, विनीतो नीतिकोविदः। धर्मजो पान्धवैः सार्ध, भीष्मस्या- भ्यर्णमभ्यगात् ।।५९।। अब्रवीच बृहत्तात-गुरुभ्योऽपि गुरुभवान् । व्यसनत्रासिनीं शिक्षा, देहि मे पारिपाश्चिकीम् ॥ ६०॥ अथाभापत भीष्मोऽपि, कुरुगोत्रशितयुते ।। विश्वत्रयीसंचननं, तवैवेदग्गुणार्जनम् ॥ ६१ ॥ मित्रा-मित्रपरीक्षार्थ, मन्ये व्यसनमप्यदः । त्वयैवात्तं स्वयं नो चेत्, क भवान् ? क दुरोदरम् ? ॥ ६२ ॥ जगजैत्रकलाः पार्थे, यस्यैते सन्ति वान्धवाः । सोऽपि द्यूते विजीयेत, स्यान्न चेद्भवितव्यता ॥ ६३ ॥ एकाकिनैव कान्तार-विहारस्पृहयालुना । नियतं त्यक्तुमारब्धा, वयमेकपदे त्वया ।। ६४ ॥ भूत्वा समस्तवस्तूनां, संविभागपरः पुरा । इदानीं कथमेकाकी, भोक्ष्यसे वनसंप- दम् ॥ ६५ ।। तन्मामप्यनुजानीहि, सहागमनहेतवे । चूडाचन्द्र महेशोऽपि, न जातु त्यजति कचित् ॥ ६६ ॥ कुर्वन्नित्या- ग्रहं भीष्मः, पादावाधाय मूर्धनि । विनयाद्धर्मपुत्रेण, वारितः पुनरब्रवीत् ।। ६७ ॥ ग्राह्याः प्रतिभुवः पञ्च, चौरास्तु त्रिगु. णास्ततः । निग्राह्याः क्षोणिपालेन, श्रियःस्थेमानमिच्छता ॥६८॥ दान १ मौचित्यविज्ञानं २, सत्पात्राणां परिग्रहः ३ । सुकृतं ४ सुप्रभुत्वं ५ च, पञ्च प्रतिभुवः श्रियः ॥६९॥ सदा वशंवदैरेतैः, प्रतिभूभिरभून्नृपः। एतेभ्यस्त्रिगुणान् वत्स!, विद्धि राज्यहरान् पुनः ॥७० ॥ अरिपैड्वर्गसंसर्गः ६, प्रकृतौ ७ योग्यकर्मसु । नये ९ धर्मे १० प्रतापे ११ च, विमुखत्वमनारतम् ॥७१॥ अज्ञान १२ मनृतं १३ लश्चा, १४ निखिलव्यसनं १५ तथा । एते राज्यहतौ वत्स !, स्युः पञ्चदश दस्यवः ॥७२॥ प्रत्येकमेपां राज्यश्री-हरणे प्रभविष्णुता । पश्यैकेनापि ते द्यूत-व्यसनेन कियत् कृतम् १ ॥ ७३ ।। उच्छेदाय तदेतेपां, यते- १ लोकत्रयवशीकरणम् । २ साक्षिणः । ३ कामः १ क्रोधः २ लोभः ३ मोहः ४ मदः ५ मत्सरश्च ६ ।
युधिष्ठिरेण
कृतं
मीष्मादीनां
निवर्तनम् ॥
पास्तात ! मर्वथा। पुनराच्छिद्य तैरात्ता-माददीथाः श्रियं यथा ॥ ७४ ॥ वर्तेयाश्च तथा तात !, मानसेनाप्रमादिना ।
पूर्णेऽवधौ निवर्तेथाः, काननात् कुशली यथा ।। ७५ ॥ इत्याभाष्य गृहान् भीष्मे, प्रत्यावृत्ते युधिष्ठिरः। द्रोणाचार्य-
कृपाचार्या-वापृच्छत वनेच्छया ॥७६ ॥
द्रोणोऽवादीदविद्राण-वात्सल्यो वत्स ! वत्स्यसि । आकल्पममुना सत्य-व्रतेन हृदये सताम् ॥ ७७ ॥ वत्स ! धर्मेण
सत्वेन, विनयेन नयेन च । अमुना भुवनस्यास्य, भवितासि निदर्शनम् ॥ ७८ ॥ द्रोणो गुरुरमी सर्वे, शिष्याः पाण्डव-
कौरवाः । यद्यप्येवं तथाऽप्यस्मि, युष्मासु सविशेषक् ।। ७९ ॥ तत्रापि पुत्रवात्सल्या-दस्त्रे निष्पादितस्तथा । मया पार्थों
यथा तैस्तै-र्गुणैर्जयति मामपि ।। ८० ॥ तदेवस्मिन् समीपस्थे, न ते प्रत्यूहसंभवः । दुस्तरे सन्तु कान्तारे, पन्थानः शिव-
तातयः ॥ ८१ ।। उपोपितानां पीयूप-बन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे, नेत्राणां पारणोत्सवः ॥ ८२ ॥ इत्युदीर्य
गते द्रोणे, सकृपे साथुलोचने । निर्व्याज व्याजहारेति, धृतराष्ट्रं युधिष्ठिरः ॥ ८३॥
ज्येष्ठतात ! नमस्तुभ्यं, प्रसन्ना देहि नो दृशः । दुर्योधनस्य संदेश, गतो न्याहर्तुमर्हसि ॥ ८४ ॥ प्रातः ! कुरुकुलो-
स, तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीर्ति-नाश्नुते म्लानतां यथा ॥ ८५ ॥ तस्य वैनयिकं पश्यन् , स्वसूनो -
नयं पुनः । अपत्रपिष्णुस्तूष्णीको, धृतराष्ट्रः पुरं ययौ ॥ ८६ ॥ ज्यायस्यः सत्यवत्याद्याः, प्रसाद्य नतिपूर्वकम् । धर्म-
जेन वने यातु-मन्वज्ञाप्यन्त मातरः ॥ ८७ ॥ अभिनन्य तमाशीभि-निभिन्नहृदया इव । अतुच्छशोकमूर्छाला-स्तास्ततः
१ तेभ्यस्ता०' प्रत्यन्वर० । २ प्रभूतवात्सल्यः । ३ कल्याणश्रेणयः । ४ चन्द्रेण ।
.
॥१२३॥
फषमप्यगुः ॥ ८८ ॥ अथ कार्यविदाकार्य, लोकमस्तोकमेकतः । नगराय निवर्तध्व-मिति भूपतिरादिशत् ॥८९॥ लोकोऽप्य- जल्पदाकल्प-मस्माकमनुजीविनाम् । पादा नन्दन्ति यौते, तत्रैव नगरं प्रभो ।।।९० ।। आत्मानुयायिनी छायां, ज्यावर्तयसि पेदिमाम् । तदा पयं महीनाथ !, व्यापर्तेमहि नान्यथा ॥ ९१ ॥ सं तथा परनिर्यन्ध, जनं जानन युधिष्ठिरः । अनुमत्य सहायान्त-मवादीद्विदुरंततः ।। ९२ ॥ वितनोपि त्वमेवार्य 1, प्रीतिमस्मासु पैट्कीम् । देवस्याजनि पाण्डोस्तु, केवलं जन्मकर्तृता ॥ ९३ ॥ एतावस्मद्वियोगार्ति-कातरौ पितरौ पुरः । राहेव नेतुं मोक्तुं या, बेहि किं मम सांप्रतम् १ ॥ ९४ ।। जगाद विदुरो वत्स!, मत्सरी ते सुयोधनः। अतः सर्वकुटुम्वेन, समं गन्तुं न युज्यते ॥९५॥ तदनैव तटस्थेन, स्धेयं देवेन पाण्डना । देवी स्थास्यति कुन्ती तु, नैव वो विरहासहा ।। ९६ ॥ एनमादृत्य तन्मन्वं, नत्वा पाण्टुं युधिष्ठिरः। सवाप्पं स्थापयामास, विनीतो विदुरान्तिके ॥ ९७ ॥ अवियोगाद्वियो- गाग, तदानीं पुनभर्तृभिः । अपाप युगपत् कोटिं, कुन्ती हर्षविषादयोः ॥ ९८ ॥ तवासौ पर्यवस्थाता, न स्थाता स्वव्यव- स्थया । तन्नः सावधानस्त्व-मधनीनो बनाध्वनि ॥ ९९ ॥ इति धर्मसुतं नेहा-दनुशास्य सगद्गदम् । रुदन्तीं विदुरः कुन्ती-मनमनममस्तकः ॥ १०० ॥ (युग्मम् ) अथ साश्रुमुखः पाण्ड-रमापिष्ट युधिष्ठिरम् । कान्तारेणु कथं वत्स!, सकुटुम्बो भ्रमिष्यसि ॥१०१॥ कथं च त्वद्वि- युक्तोऽहं, भविष्यामि हताशयः । विना चन्द्रं समुद्रस्य, दशा जायेत कीदृशी ॥१०२ ॥ न शक्नोमि परं वत्स!, वचस्ते १ न विरुखमाचरिष्यति ।
युधिष्ठिरः
पितरं
निवर्त्य
कृष्णेन सह
कर्तुमन्यथा । क्षेमपानचिरेणैव, दर्शयेर्मुखमात्मनः ॥ १०३ ॥ किंच रत्नमयीमेतां, स्फुरद्धामोमिमिकाम् । गृहाणार्तिप्रहा-
णाय, धारयः पारिपार्श्विकीम् ॥ १०४ ॥ इत्युदीर्य निवेद्यास्याः, सर्व संभवमादितः । प्रीतश्चिक्षेप पाण्डुस्तां, ज्येष्ठात्मजक-
रागुलौ ॥ १०५ ।। कुर्सीथाः पुत्रभाण्डेपु, देवि ! यत्नमिति त्रुवन् । आपृच्छय प्रेयसी पाण्डु-र्ययौ सविदुरः पुरम् ॥ १०६॥
मातस्तातमहोरात्रं, शुश्रूपस्वेति धर्मजः । उदीर्य सादरं माद्री, मुमोच पितुरन्तिके ॥ १०७ ॥ वत्सौ ! वान्धवसेवायां, कु-
यति निश्रितं मनः । इत्यादिश्य यमौ सापि, जमाम सह पाण्डुना ॥ १०८ ॥
अथ प्रतस्थे पुरतः, पौरोपेतः पृथासुतः। केवलं केशवेनासौ, त्याजितः पादचारिताम् ॥ १०९ ॥ कोऽपि रंहस्विनं
वाह-मारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्त-मतगजमतल्लिकाम् ॥ ११० ।। अन्ये विमानमन्यानि, याप्ययानानि
लीलया । प्रामादरुन्दमानन्द-स्यन्दिनं स्यन्दनं परें ॥१११॥ युग्मम् ॥ स एवं वाहनारूढः, प्रौढथीभिः खवान्धवैः । साकं
नासिक्यनगरं, महितो हरिणाऽभ्यगात् ।। ११२ ।। तत्र निर्मापितां मात्रा, श्रीमचन्द्रप्रभप्रभोः । असौ मणिमयीमर्चा-
मानर्च पिकचाम्युजैः ॥ ११३ ॥ गोविन्दः पुनरानन्द-बाष्पाविलविलोचनः। चिरं चन्द्रप्रभं देव-मुपासामास भक्तितः
॥ ११४ ॥ स्तोचिौरभिष्टुत्य, तौ कुन्ती-देवकीसुतौ । निजं सौधं समध्यास्य, युभुजाते जनैः सह ॥ ११५॥ जिनप्र-
भावनारम्भ-निशुम्भितनिजांहसः । ते सर्वे गमयामासु-सिराणि कियन्त्यपि ॥ ११६ ॥
उपेत्यान्येधुरासीनं कृष्णाभ्यणे युधिष्ठिरम् । ऊचे पुरोचनो नाम, दुर्योधनपुरोहितः ॥ ११७ ॥ आवद्धपाणि-
१ स्फुरत्प्रभातरगाम् । २ मुद्रिकाम् । ३ प्रासादसदृशम् ।
नासिक्य-
नगरे
गतः॥
॥१२४॥
मुकुल-स्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेदं, विज्ञापयति सादरम् ॥११८॥ आर्य ! धुर्यस्त्वमार्याणा-मनार्याणामहं
पुनः । त्वमग्रणीगुणवतां, निर्गुणानामहं पुनः ॥ ११९ ॥ उत्तंसः सज्जनानां त्वं, दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां,
दुर्बुद्धीनामहं पुनः ॥१२०॥ शेखरस्त्वं कृतज्ञानां, कृतघ्नानामहं पुनः । त्वमुत्तमानां माणिक्य-मधमानामहं पुनः ॥१२॥
आदिमस्त्वं महेच्छाना-मल्पेच्छानामहं पुनः । त्वमाद्यः कृतविद्यानां, निर्विद्यानामहं पुनः ॥ १२२ ॥ मया विवेकशून्येन,
यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात्, कुरुवंशे तु का कथा? ॥१२॥ तानीदानी व्यलीकानि, त्वं मम क्षन्तुमर्हसि ।
स्खलितं यत् कनिष्ठस्य, बन्धोज्येष्ठस्य तन्मुदे ॥ १२४ ॥ भवन्त्युच्चावचा वाचो, याः काश्चन दुरोदरे । तासामनुपदी का
स्या-द्विशेषेण भवादृशः ॥१२५॥ तत् प्रसीद समभ्येहि, गृहाननुगृहाण माम् । संचरस्व पुनः स्वैरं, हस्तिना हस्तिनापुरे
॥ १२६ ॥ यजज्ञे त्वय्यवज्ञाभिः, पुरा कितवकैतवे । स्वक्रमाम्भोजरजसा, रजस्तन्मे प्रमृज्यताम् ॥ १२७ ।। सदाऽस्तु
मालतीपुष्प-स्तवकमातिवेश्मिकी । अतः परं तवाज्ञा मे, मौलिपल्यङ्कखेलिनी ॥ १२८ ॥ अथ चेदार्य ! तेऽत्यन्तं, सत्यव्रत-
विपर्ययात् । राज्योपभोगैर्लजेत, चेतः केतकनिर्मलम् ।। १२९ ।। सदाऽमुनाऽध्वना ये हि, साधवः संचरिष्णवः । स्यात्तेषां
व्रतनिर्वाहे, जाडथमुड्डामरं परम् ॥ १३० ॥ ततोऽनुग्रहमाधाय, संविधाय स्थिरं मनः । स्वस्थेन स्थेयमार्येण, नगरे वार-
णावते ॥ १३१ ॥ आर्यस्य सानुजस्यापि, स्वैरं तत्रापि तिष्ठतः । आत्मचेतोऽनुरूपाणा-मुपनेतास्मि संपदाम् ॥ १३२ ॥
इति विज्ञापितं तुभ्य-मधुना तेन बन्धुना । अन्वहं च नियुक्तोऽह-मादेशाग्रेसरस्तव ॥ १३३ ॥ इत्याख्याय स्थिते तस्मि-
स्तूष्णीं कृष्णादयो मुदा । अर्थः समर्थ एवाय-मेतस्येत्यनुमेनिरे ॥ १३४ ॥
दुर्योधन-
संदेशेन
पाण्डवानां
वारणावते
गमनम् ॥
अनुग्रजन्मनस्तेपा, तदानीं धर्मनन्दनः । वचः प्रमाणमेवेद-मित्युवाच पुरोचनम् ।। १३५ ।। स चचाल सुष्कृणोऽपि,
पुरोचनपुरोगमः । पन्धुभिः सममारूढ-चारणैर्यारणावतम् ॥ १३६ ॥ तद्वास्तव्यः समस्तोऽपि, जनः प्रीतितरङ्गितः ।
माल्योपायनस्तस्य, संमुखीनः समागमत् ॥१३७|| फुल्लपक्वारविन्देन, गोविन्देन समं पुरम् । प्रविवेश विशामीशः, स्वः-
पतिः स्वःपुरे यथा ॥ १३८ ॥ स तत्र- चित्रशालाभि-पिशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त, मध्यास्तविविधासनम्
॥ १३९ ।। उपचर्याश(न)स्तैस्तै-रजस्रं धर्मजन्मने । आत्मानं रोचयांचके, चातुर्येण पुरोचनः ॥ १४० ॥ अतिस्तुतिपदं
वस्तु, समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्य-मुपदीकुरुते तदा ।। १४१ ॥ तथा पृथ्वीभुजा सर्वः, सममाजग्मि-
वाअनः । प्रसादिवो यथा जातु, न सस्मार निजं गृहम् ॥ १४२ ॥ सवित्री पाण्डपुत्राणां, दानकरुचिमानसा । पाणिं
व्यापारयामाम, दीनोद्धरणकर्मणि ॥ १४३ ॥ प्रियेषु सानुरागेपु, मनीपितविधायिषु । नोदकण्ठत पाञ्चाली, कदाचिनृपति-
श्रिये ॥ १४४ ॥ इत्थं कुटुम्बसौस्थ्येन, सुयोधनगिराऽपि च । अभूत् तत्रैव वासाय, स्थिरचेता युधिष्ठिरः ।। १४५ ॥
हस्तिनापुरमाम्राज्य-सपिण्डो पाण्डयश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तै-जंगाम द्वारकां हरिः॥ १४६ ।। मातुरुत्कण्ठिता
सार्ध-मात्मजेनाभिमन्युना। सुभद्रा मह कृष्णेन, प्रहिता पाण्डुसूनुना ॥ १४७॥ तानथो सुस्थितमन्यः, पौरानप्यश्रु-
वर्षिणः । कथंचिदपि संवोध्य, हास्तिनं पाहिणोन्नृपः ॥ १८ ॥
अन्यदा द्रुतमभ्येत्य, विदुरप्रहितो रहः । अन्वितं भीम-पार्थाभ्यां, तं जगाद प्रियंवदः ॥ १४९ ॥ देव ! त्वां
विदुरः प्राह, यदिहोपेयुषा मया । धृतराष्ट्रान्तिकस्थेन, रहो दुर्योधनः-स्थितः ॥१५०|| कर्ण-दुःशासनादीनां, मत्रेण
॥१२५॥
विगतत्रपः । पुरोचनं त्रुपने, निगूढ शुश्रुवे स्वयम् ॥ १५१ ॥ (युग्मम् ) परिच्छदबहुत्वेऽपि, निजत्वेन निरन्तरम् । मह्यं स्वदपरः कश्चित्, पुरोचन ! न रोचते ॥ १५२ ॥ भद्र ! त्वमपि जानासि, पाण्डवान्मम चैरिणः । जीवत्सु तेषु राज्य मे, गन्धर्थनगरायते ॥ १५३ ।। वढेरुद्दीपनैर्द्रव्यैः, सण-सर्जरसादिभिः । आचितं जातुपं सौधं, विदध्या चारणावते ॥१५४॥ सकुटुम्बमवस्थाप्य, विनयात् तत्र कृत्रिमात् । कुर्यास्तं धर्मजं कृष्ण-चतुर्दश्यां कृशानुसात् ।। १५५ ।। सा परं न परिज्ञाता, काऽपि कृष्णा चतुदर्शी । ततोऽवधानमाधेयं, प्रतिकृष्णचतुर्दशि ॥ १५६ ॥ इत्याख्यायि मया तुभ्य-मिदं विदुरवाचिकम् । प्रमादितां तदत्रार्थ, पृथिवीनाथ ! मा कृथाः ॥ १५७ ॥ तस्याकये विषाकीर्णा, गिरमेतां युधिष्ठिरः । सक्रोधैर्वन्धुभिः साधं, परीक्षामास तद्गृहम् ॥ १५८ ॥ असौ सममय छद्म, तन्निर्णीय गुणार्णवः । मातृभावकलत्राणां, प्रत्येकं मन्त्रमग्रहीत् ॥ १५९ ॥ पूर्व भीमोऽभ्यधादाय !, विदार्य हृदय रिपोः । आदिश द्रुतमम्येमि, किमद्यापि विलम्बसे १ ॥ १६० ॥ अर्जुनोऽप्यनवीदार्य !, मम लघ्वार्यदर्शितः । पक्षोऽयमु- चितो भाति, गूढं वा गम्यतेऽग्रतः ॥१६१॥ प्रकाशमेव वा स्वैरं, व्योमयात्रैच सूज्यते । तव भ्रूक्षेपसापेक्षा, विमानानां यतः श्रियः ॥ १६२ ॥ बन्धुभ्यामुद्धतं धीर-मुदीरितमिदं वचः । निशम्य सम्यगालोच्य, मनसाऽवोचदग्रजः ॥ १६३ ॥ यत्सौ ! यच्छौर्यधुर्याणा-माकल्प तदजल्पता(त)म् । दुर्योधनवधे किं तु, सत्यं स्यान्मे मलीमसम् ॥१६४॥ गच्छन्तोऽपि पथि च्छन्न- मुच्छन्नानीकसौष्ठवाः । निलेजेन वयं तेन, लक्ष्येमहि पदे पदे ।। १६५ ॥ वशीकृतदिगन्तस्य, तस्यानन्तबलौजसः। वयमेका. १ योग्यम् । २ नष्टं सैन्यसौष्ठव येषां ते ।।
विदुरसंदे-
शेन पाण्ड-
वैःसुरगा
कारिता॥
फिनः पान्थाः, स्थाने स्थाने न दुर्ग्रहाः ॥ १६६ ॥ न च विद्यावलेनापि, गन्तुं संप्रति युज्यते । सत्यस्य निफपो ह्येवं, न
मे प्रादुर्भवद्भृशम् ।। १६७ ।। श्रूयतां तु ममाकूत-मवधाय मनोऽधुना । अतिगुप्तेगिताकारै-रास्यतेऽत्रैव वेश्मनि ।। १६८ ॥
यदा स्वामिनिदेशार्थ-मुत्सहेत पुरोचनः । तदाऽस्माभिरितो गेहा-निर्गन्तव्यं सुरगया ॥ १६९ ॥ ततश्च दग्धान् विनाय,
कोऽप्यन्विष्यति नैव नः । तदेवमेकमस्माकं, श्रेयः स्यादपरं त्विदम् ॥ १७० ॥ पाण्डवेयाः प्रचण्डेन, ज्वालाजटिलम्-
तिना । सुखं मम प्रपञ्चेन, दन्दह्यन्ते स्म वह्निना ॥ १७१ ॥ मुदं मेदस्विनीमेतां, हृदि धत्ते सुयोधनः । गमयामः सुखेने-
त्यं, वयं द्वादशवत्सरीम् ॥ १७२ ॥ (युग्मम् ) निगमोऽस्तु सुरङ्गायाः, प्राच्या द्वैतवनाधना । संप्रत्यालोक्यतां
कोऽपि, सुरङ्गाखनकः पुनः ॥ १७३ ।। इत्युक्ते धर्मपुत्रेण, भूयोऽवादीत्प्रियंवदः । प्रहितो विदुरेणास्ति, खनकः शुनका.
भिधः ॥ १७४ ।। अयं तव पितृव्यस्य, बहिर्मन इस स्थितम् । विश्रम्भस्य परा भूमि-रात्मेव वपुरन्तरे ॥ १७५ ।।
इत्याख्याय ममाहूय, नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं, भूतलन्यस्तमस्तकः ॥ १७६ ॥ भद्र ! भद्रां सुरङ्गां नः,
स्वैस्चारमनोहराम् । कुरुप्येति पतिभूमेः, सप्रसादं समादिशत् ।। १७७ ॥ पुरवायगृहस्पान्तः, स्थित्वा सोऽपि प्रतिष्पम् ।
दिवाऽन्यत् कर्म कुर्वाणः, खनति स्म शनैः शनैः ॥ १७८ ॥ अधस्ताद्भीमतल्पस्य, विलद्वारं विधाय सः । निजव्यापार-
पारीगं, सं नृपाय न्यवेदयत् ॥ १७९ ॥ अविश्वासाः सविश्वास, निर्मुदः समुदं तदा । लोकेम्यो दर्शयामासु-रात्मानं तेऽपि
पाण्डवाः ॥ १८० ॥ प्रतिप्रत्यूपमुत्थाय, जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान् , विदामास वृकोदरः ॥ १८१ ॥
१ 'क्षिपम् ' प्रतित्रयपाठोऽपि साधुः, क्षिपाशब्दोऽपि रात्रिपर्यायोऽस्ति कोपे।
॥१२६॥
कुन्त्याश्च याज्ञसेन्याश्च, यमयोश्च कनीयसोः अभ्यासार्थ पृथासूनुः, सुरङ्गान्तरदर्शयत् ।। १८२॥ पश्चापि चन्द्रशालायां, निषण्णास्ते नभोगतैः । नक्षत्रैः क्षत्रमार्तण्डा, निशि निश्चिक्यिरे पथः ॥१८३॥ कुन्ती शुभाय पुत्राणा-माहारैः सुमनोहरैः। दीनानाथजनं सर्व, प्रीणयामास सर्वतः ॥ १८४ ॥ अर्चामभ्यर्चयामास, श्रीशान्तेः शान्तकल्मपाम् । परमेष्ठिमयं मन्त्र, ध्वस्तपापं जजाप च ॥१८५॥ विश्वस्त बन्धुभिः सार्ध, दृष्ट्वा हृष्ट युधिष्ठिरम्। पूर्णामेव निजां मेने, रुचि पापः पुरोचनः॥१८६।। अथ कृष्णचतुर्दश्यां, कस्यांचित् पश्चभिः सुतैः । स्नुपया चैकया साकं, वृद्धा काचिदुपाययौ ॥ १८७॥ पञ्चपुत्रपवित्रां च, घृद्धामालोक्य तां पृथा । आत्मतुल्यतया मेने, भगिनीमिव सोदराम् ॥१८८।। मधुरस्निग्धमाहारं, तां वृद्धामृजुमानसा। सात्मजा भोजयामास, कुन्ती देवी सगौरवम् ॥ १८९॥ आमृशद्भिर्मुहुस्तुन्दं, सुतैः सौहित्यशालिभिः । सार्ध वृद्धाऽध्वना खिन्ना, तत्रैवाशेत निःसहा ।। १९० ।। दुनिमित्तैस्तमी भीम-स्तां संभाव्य भयंकरीम् । सकुटुम्ब सुरजायां, युधिष्ठिरमति- छिपत् ।। १९१ ॥ निर्विलम्ब कुटुम्बेन, समं जग्मुपि वान्धवे । भीमसेनः स्वयं तस्थौ, द्वारि संचारिलोचनः ॥ १९२ ॥ द्वारतो दीपयन्नु-रचिष्मन्तं पुरोचनः । उन्निद्रमनसा तेन, दुष्टो दृष्टः स्वचक्षुषा ॥ १९३ ॥ धूमधूंमध्वजो पाव-नालिङ्गति नभोऽङ्गणम् । तस्य क्रोधानलस्ताव-ज्वालाजालममुश्चत ॥ १९४ ॥ ततः पुरोचनं धृत्वा, तं केशेषु विसंस्थुलम् । आचकर्ष हठेनासौ, हरिणं हरिणारिवत् ॥ १९५ ॥ तं नीत्वा मुष्टिना मृत्यु, स दम्भोलिसनाभिना । प्रदीप्य जातुपागारं, चकार द्रुतम- मिसात् ॥ १९६ ॥ सोत्कण्ठमानसो वात-तनयोऽपि सुरङ्गया । एत्य संघट्टितः पश्चा-ज्झटित्येवाग्रजन्मना ।। १९७ ॥ १ तृप्तिशालिभिः । २ रात्रिम् । ३ वषसदृशेन । ४ जन्मनः' प्रतिद्वय० . २२
पाण्डवानां
सुरगाया
निर्गमनम्।।
अचिरेणैव पुंनागा, नागलोकोपमादिलात् । विनिर्याय प्रयान्ति स्म, पथि ते स्थवर्जिताः ॥ १९८॥ तेषां प्रदीपनोद्योतः,
पृष्ठतस्तीबवेगतः । दिष्ट्या पुरोचनो दग्ध, इत्याख्यातुमिवाययौ ॥ १९९ ॥ अस्तं नीत्वा तमास्तोमं, सेनालोकेन दर्शितः ।
हस्वदीपोपमेनपा-मच्चा सौष इव ध्रुवम् ॥२०० ।। संपत्पुटैकिनीखण्ड-मार्तण्डाः पाण्डवा इमे । त्वमेतान् किं मुधाऽधाक्षी,
रे हताश! हुताशन! ॥२०१॥ आपन्नार्तिच्छिदाछेक-दोर्दण्डाः पाण्डवा इमे।। एतान् हन्त दहनेवं, पुरोचन ! किमाचरः ?
।। २०२ ॥ दीनानाथसमुद्धार-पण्डिताः पाण्डवा इमे । एतांस्ते निमतः कीदृक्, सुयोधन ! धनार्जनम् १ ॥ २०३ ।।
त्रैलोक्यत्राणभौण्डीर-कोदण्डाः पाण्डवा इमे। अमूनेवं तिरस्कुर्वन् , वैधेयोऽसि विधे! ध्रुवम् ॥२०४॥ परिदेविववाक्यानि,
लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः, पुस्तस्ते प्रतस्थिरे ॥२०५॥ ( पञ्चभिः कुलकम् ) भाग्यराशिरिवामीपा-मालोकः
स विरोदधे । बन्धुर्दुर्योधनस्यैव, प्रादुरास तमश्चयः ॥ २०६ ।। युगपद्धान्तमध्वा च, द्वयमेतदुपागतम् । तनोति स्म श्रमा-
हानं, तत्सवित्री-कलत्रयोः ॥२०७॥ आलोकशब्दमाधत्ता, पुरो भीम-किरीटिनौ। राज्ञः प्रथमपान्थस्य, तथाऽप्यस्खलवां
क्रमौ ॥ २०८ ॥ नकुलः सहदेवश्थ, पथि श्रान्तावुमावपि । ज्यायसां मा स्म खेदोऽभू-दिति तूष्णीमगच्छताम् ।।२०९ ॥
पादचार सैंदाचार-भूमीरुहसवोरपि । मातुः पत्न्याश्च निघ्यायन् दध्यो विश्वंभराधिपः ॥ २१० ॥ यस्यां कथंचिना-
पैति, सुतानामघमर्णता । मयाऽद्य निष्क्रयो मातु-स्तस्याः क्लेशोऽयमर्यते ॥२११॥ कष्टं दृष्टं यया नैव, पितुर्भतथ वेश्मनि।
मातेयममितं केलं, मयैवमनुमान्यते ॥ २१२ ॥ अहो ! पाणिगृहीतीय, पाण्डवानां महौजसाम्। दरिद्रगृहिणीचार, चरत्येव
१ पुटकिनी-पद्मलता पद्मसमूहो वा । २ भूर्खः । ३ विलापवचनानि । ४ सदाचारवृक्षाणा स्थानयोः ।।
॥१२७॥
वनापनौ ॥ २१३ ॥ पश्यतां पाण्डुपुत्राणां, कलत्रस्य कुशाङ्कः। अम्भोजमेद मियेते, हहा ! चरणपल्लचौ ।। २१४ ॥ न जानाति प्रिया दुःख-मेकस्मिन्नपि भर्तरि । पश्चस्वपि प्रियेष्वेका, क्लिश्यते दुपदात्मजा ।।२१५।। इत्यस्मिंश्चिन्तयत्येवं(च), मार्गे दुर्गे तमोमरैः । श्रान्ता कुन्ती च कृष्णा च, निःसहं अवि पेततुः ॥२१६॥ राज्यभ्रंशं मयं शत्रो, रात्री पंगयां पला-, यनम् । घिम्मिधिं यो व्यधादेवं, पाण्डवानां विउम्पनम् ॥ २१७ ॥ उष्णाभिरपच्छत्रैः, शीतालुमिरनंशुकैः । बुभुक्षुभिर- पाययैः, पन्थानो दुरविक्रमाः ॥ २१८॥ शिरीपसुकुमाराङ्गयो, निपतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे, कथमेते भविष्यतः? ॥२१९॥ इति खेदपरं दृष्ट्वा, नृपमूचे वृकोदरः । आकुलो मा स्म भूर्दैव!, पदातौ प्रगुणे मयिः ॥२२०॥(चतुर्भिः कलापकम्) वतोऽम्यां दक्षिणे स्कन्धे, वामे प्रियतमा पुनः । अध्यारोप्य ययौ भीमो, भअन् मार्गमहीरुहः ॥ २२१ ॥ उभावपि कनीयांसो, पश्चादान्तरस्थितौ । मार्गखेदोच्छलच्कासौ, मन्दं मन्दमुपेयतुः ॥ २२२ ॥ व्यवस्थाप्य त्रिकस्थाने, तावुभाव- मिवस्तदा । निन्ये भीमो भुजालम्बा-द्धर्मपुत्रा-र्जुनावपि ॥२२३।। निशीथमारुतः शीत, कुमुदामोद दुरः । आचचाम श्रमं सस्प, दपालुखि दूरतः ॥२२४॥ न निद्रोपद्रवस्तस्य, वैधुर्य नान्धकारजम् । ललझे पथपाथोधि, पूर्ववत् पवनात्मजः ॥ २२५ । पिलोक्य शान्तिमायाती, धर्मपुत्रा-र्जुनावपि । महेभ इब भीमस्तान् , सर्वान् पृष्ठेऽध्यरोपयत् ।। २२६ ॥ महापनि निममाना-मगाधे जलधाविव । यानपानायितं तेन, स्ववन्धूनां महात्मनाम् ॥ २२७ ॥ आससाद -सदारम्भ- संभृक्श्रेयसो भृशम् । भीमस्याध्यतिरोधान-पापेनेव क्षपा क्षयम् ॥२२८॥ कुन्देन्दुसितकौन्तेय-कीर्तिवित्रासितैरिवः। तमो- १.राग्यभ्रशो' इति प्रत्यन्तरपाठ' साधुः । २ पृष्ठे ।
पाण्डवानां
बने वासः॥
मिरिलीभूतं, प्रभूतैरपि सर्वतः ॥२२९॥ वृकोदरमुखाम्भोज-विलोकनकुतूहली । कर्मसाक्षी किलारोह-दुदयाचलचूलिकाम्
॥२३०॥ स्वपन्धुमक्तमीक्षघ्वं, द्रादेत्य घृकोदरम् । इति स्वां जातिमाह्वातु-मिवाकूजन विहंगमाः ॥२३१ ॥ शङ्के पाण्डु-
कुटुम्पस्य, करालम्बनदित्सया । करान् व्यापारयामास, वासराणामधीश्वरः ॥ २३२ ॥ सुखदुःखे समं तेषा-मारोहति रवी
नमः । मार्गालोकाच तापाच, शनैः प्रादुर्बभूवतुः ॥ २३३ ।। ते ललाटंतपे भानौ, खिन्नाङ्गाः पाण्डुसूनवः । वनोद्देशैक-
देगस्था, रहः कापि विशश्रमुः ॥२३४॥ अथोचे विजयं राजा, वत्स! कप्टे महत्यपि । न स्मर्तव्या त्वया विद्या, प्रसिध्ध्येक
निवन्धनम् ॥ २३५ ।। सन्तः स्रोतस्विनीस्रोतः-श्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते, पुनरुन्नतिकाक्षिणः ॥ २३६ ॥
उपनीतानि पार्थेन, कन्दमूलफलान्यथ । भोजयित्वा पतीन् वधू, पाञ्चाली बुभुजे स्वयम् ॥ २३७ ॥
अथैवं पथि कप्टेन, पृथायाः सूनवः पुनः । मध्याह्नंगमयामासु-मेंदुरस्वेदविन्दवः ॥२३८॥ तृष्णातिशुष्कतालूना-मुष्णा-
लूनामनारतम् । पयो देवीयोऽप्यानीय, भीमस्तेपामढौकयत् ॥ २३९ ॥ क्रमेण वारुणीशैल-शिरःसस्तकरे रवौ । वनमेक-
मनेकद, प्रापुस्ते निरुपद्रवाः ॥२४०॥ भूरपि त्रासकृयत्र, रौद्राकारा दुमा अपि । मार्गोऽपि कीकसैर्दुर्गः, क्रूरा दूरं मृगाअपि
॥२४१॥ तत्र प्रविष्टमात्राणां, तेपामस्तं रविर्ययौ । क्रुद्धो विधिरुपाधचे, विपदो हि पदे पदे ॥२४२॥ साम्राज्य पुनरुज्जृम्भि,
विभाव्य तमसां तदा । आरोहमवरोहं च, विपदां तेऽपि जज्ञिरे ॥ २४३ ।। भीपणेऽपि वने तत्र, ध्वान्तेनान्धमविष्णवः । ते
विश्रान्तिजुपस्तस्यु-निशाविश्रामकाम्यया ॥ २४४ ॥ ककेलिपादपस्याध-स्ते ध्यातपरमेष्ठिनः । पल्लवैभीमविन्यस्तान्,
सूर्यः । २ अर्जुनम् । ३ ' तथैव पथिकत्वेन' प्रतिद्वय० । ४ अतिदूरस्थम् ।
॥१२८॥
सस्तरानध्यशेरत ।। २४५॥ आपृच्छथ बन्धून वात्सल्या-दुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं, मध्यमः पाण्डुनन्दनः ॥ २४६ ॥ गव्यूति- मात्रमध्वान-मतिक्रम्य स विक्रमी । सारसस्वरनिर्णीत-माससाद पुरः सरः ॥२४७॥ उपेयिवानुपादाय, पयःपुटकिनीपुटे । अक्षामनिद्रमद्राक्षीत् , स्वकुदुम्यं वृकोदरः ॥ २४८ ॥ तत्तथाभूतमालोक्य, शोकेन विवशीकृतः। विललाप विमुच्यापः, स पाप्पाविललोचनः ।। २४९ ॥ पल्यझं यः सतूलीक-मध्युवास नृवासवः । धिग्विधिं सोऽधुनाऽध्यास्ते, स्थपुटं सस्तरं भुवि ॥२५०॥ पुरोपतल्पं यस्यासी-निःसीमो गीतनिस्वनः । वर्तते सांप्रतं तस्य, भैरवः फैरवो वः ॥२५१॥ कस्तूरीसंस्तुतैः पूर्व, यस्याभूचन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं, पांशुभिर्मार्गसंभवैः ॥ २५२ ।। दृष्टौ कप्टेन यस्याङ्गी, सेवायातैर्नृपैरपि । नर- व्याघस्य जिघन्ति, शृगालास्तस्य सांप्रतम् ॥.२५३ ।। पूर्व व्योनि विमानेन, यो वभ्राम सविभ्रमम् । रकस्वापं स्वपित्येवं, कान्तारे सोऽयमर्जुनः ॥२५४ ॥ द्विपद्यशस्तुपारांशु-राहयो यस्य बाहवः । सहते सोदरादेशात् , क्लेशं सोऽपि कपिध्वजः ।। २५५ ॥ एतौ सदापि नः क्रोड-क्रीडादुर्ललितौ पुरा । हा! शयाते कनीयांसो, दरिद्रपथिकाविव ।।२५६॥ पाण्डवाना- मियं माता, पत्नी पाण्डमहीपतेः । क्रमचंक्रमणक्लान्ता, शेते कुन्ती हहा! भुवि ॥ २५७ ।। कथं सहिष्यत क्लेशं, नासौ यस्यास्तनूरुहाः । वयं प्रोदामशौण्डीर्य-प्रपश्चाः पञ्च पाण्डवाः ॥ २५८ ॥ इयं निद्रायते भूमी, कष्टं द्रुपदनन्दिनी । एतामवस्थामेतस्याः, पश्यन् भीमोऽपि जीवति ॥ २५९ ॥ अरण्यपान्थैरसाभिः, पश्यत प्रेयसी निजा । असौ कान्तारसं- १ वन्धुसमीपमागतः । २ विषमम् । १ वक्रोक्तिरियं प्रतिभाति ।
वनवासे
भीमस्य
हिडम्बा-
मेलापः॥
चार-शिक्षामध्याप्पते हहा! ॥२६॥
इत्पविलपन् भीमो, मीपणाकारधारिणीम् । एका युवतिमायान्ती, पिङ्गलाक्षीमुदैक्षत ।। २६१ ।। भीमस्याम्यर्णम-
भ्यागा-युवतिः सा यथा यथा । रूपं प्रकाशयामास, मनोहारि तथा तथा ॥ २६२ ॥ भीमः समीपमायातां, तामुवाच
सुलोचने!। काऽसि ? मीप्मं च सौम्यं च, रूपम्प्यकृथाः कथम् १ ॥२६३॥ वभाषे साऽपि सुश्रोणिः, सुभग! श्रूयतां त्वया।
अस्ति दत्तजगडिम्बो, हिडम्पो नाम राक्षसः ।।२६।।। इदमस्याख्यया ख्यातं, हिडम्बवनमुत्कटम् । नास्मिन्मनुष्यजातीयः
कश्चित् संचरते पथा।। २६५ ॥ कथंचिदैवदुर्योगा-देतस्यां वनसीमनि । नरः शूरोऽपि यद्येति, रक्षसाऽनेन भक्ष्यते ॥ २६६ ॥
अस्प चाहमहंकार-मन्दिरस्य सहोदरा । अनूदाऽस्मि हिडम्बेति, बन्धुगेहनिवासिनी ॥२६७॥ ममाप्यस्ति क्रमाऽऽयाता,
विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे, वन्धुर्मामभ्यधादिदम् ।। २६८॥ अधुना मानुपो गन्धः, क्षुधं मे बोधयन्न-
यम् । प्रियंमविष्णुर्माणस्य, कुतोऽप्येति सहोदरे! ॥ २६९।। तन्मानवानवेक्ष्यतान् , कुतोऽप्यानय सत्वरम् । येनेयं चिरागाय,
शममभ्येति मत्क्षुधा ।। २७० ॥ तदहं दहनज्वाला-लोले कृत्वा विलोचने । विधित्सुन्धियादेशं, देशमेनमुपागमम् ॥२७॥
वने मानवसंघात-मेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं, बुभुक्षोपशमक्षमम् ॥ २७२ ॥ विलोक्य त्यांच कन्दर्प-रूपदर्पा-
पई पुरः । विस्मृत्य भ्रातुरादेश, सराऽऽदेशे स्थिताऽस्म्यहम् ॥ २७३ ॥ यजातोऽसि महावाहो !, मम नेत्रसुधाजनम् ।
असौ रूपपरावर्तः, प्रावर्तत जवाचतः ॥ २७४ ॥ तदाधेहि प्रसादं मे पाणिपीडनकर्मणि । सत्योपयाचिताः सन्तु, सकला:
१ डिम्बः युखम् ।
॥१२९॥
इलदेवताः ।। २७५ ॥ वसान्मा स विलम्बस्व, पुरा नन्वेति राक्षसः । अपां विहाय मां रात्रि-चरी सहचरी कुरु ॥२७६ ॥ मपि ते सहनारिण्या-मसौ ट्रेऽस्तु राक्षस: । नान्येऽपि प्रभविष्यन्ति, प्रबला वनवैरिणः ॥ २७७ ॥ अयामापिष्ट भीमस्तां, मदे ! प्रेमाद्रमम्पधाः । पुण्यप्रागल्भ्यतो लम्या, त्वामारी' स्वयंवरा ॥ २७८ ॥ सुगात्रि । परमत्रार्थे, कारणं मे निशम्यताम् । ममैते धान्धवाः सन्ति, चत्वारोऽपि शयालवः ॥ २७९ ।। ऋद्धा गुणैरियं वृद्धा, या तु सपिति निर्भरम् । जानीहि जननीमेना-मसाकं मेरलोचने । ।। २८० ॥ एपा शिरीपमृद्गी, सुखं सोपुप्यते तु या। पमानामपि साऽसाफ, प्राणेभ्योऽपि प्रिया प्रिया ॥२८१॥ एकयाऽपि सर्मिण्या, साधारण्याऽनया वयम् । कृतार्थाः पुरुषा- धे, निखिलेप्पपि निर्मिताः ॥ २८२ ।। अनुमन्यामहे नान्यां, प्रेयसी श्रेयसीमपि । प्राप्य कल्पलतां स्वल्पाः, कोऽनुरुध्येत पीरुषः ॥ २८३ ।। उपन्यस्तस्त्वया यस्तु, लोमः साहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां, दोर्दण्डानां नपाकरः ।।२८४ ॥ पारामाहाम्गसापेक्षं, क्षणं यो मा स्म भून्मनः। इत्यस्मासु स्वदोर्वीर्य-निष्ठं ज्येष्ठस्य शासनम् ॥ २८५ ॥ इति •सा प्रतिपि- द्वापि, सदैन्यं पुनरम्यधात् । मामात्मशरणां स्वामिन् ! यद्यपीथमपाकृथाः ॥ २८६ ॥ यावजीवं त्वमेवासि, जीवितेशस्त- पापि मे । तयदा रोचते नाथ!, कुरु मामात्मसात्तदा ।। २८७ ॥ किं त्वेतामधुना ताव-द्विद्यामादत्स्व चाक्षुपीम् । यया ते मवितोयोत-स्तामसीप्लपि रात्रिषु ॥ २८८ ॥ सैवमाख्याय भीमाय, , संमैदानामदात्तदा ।। तस्मै पठितमात्रैव, सा प्रकाशमायत् ।। २८९ ।। १ अङ्गीकुर्महे । २ दर्शितः । ३ हर्षात् -
मीमहिड-
म्बयो-
युद्धम् ॥
आन्तरे ददत्रास-मट्टहासेन भीपणः । आजगाम हिडम्योऽपि, प्रेतनाथं विडम्बयन् ॥ २९० ॥ वेपथु-स्वेद-रोमा-
जै-र्यामिमागम्य कामुकीम् । प्रसमं सोऽम्यधादेना, भ्रकुटीविकटाननः ॥ २९१ ॥ आः पापे ! प्रौढकंदर्पा-कुले 1 कुलकल-
विनि ! । बुभुक्षितमुपेक्ष्यैवं, मामभूरिह कामुकी ॥ २९२ ॥ त्वां विधायेन्धनं पूर्व, जाठरस्याशुशुक्षणेः । ततोऽमूनाहुतीभावं,
लम्भयिष्यामि मानवान् ।। २९३ ॥ एवमाक्षिप्य कोपेन, रक्तचक्षुः स राक्षसः । दूराच्चपेटामुत्पाव्य, दधावे सोदरां प्रति
॥ २९४ ॥ ततस्तमाह माहात्म्य-भूमिर्मीमः ससौष्ठवम् । निरागसं निजां यामि-मरे ! मोघं जिघांससि ॥ २९५ ॥ रक्षो-
वंशानुरूपं तत्, यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे साक्षा-न स्त्रीहत्यामहं पुनः ।। २९६ ॥ उत्तिष्ठ निष्ठुरं कर्म, मुश्चेदं
किंचिदायुधम् । करे कुरु कुरुश्रेष्ठा, न हि मन्ति निरायुधम् ॥ २९७ ॥ इति क्रोधादधिक्षिप्त-स्तामत्याक्षीत् स राक्षसः। एकं
पादपमुद्यम्य, भीमं च प्रत्यधावत ॥२९८॥ भीमोऽपि गतमीरेकं, विधायाऽऽयुधमडिपम् । जाग्रतु भ्रातरो मेति, तूष्णीको
युद्धमादधे ।। २९९ ॥ चण्डोजसा हिडम्वेन, निर्विलम्बं बलीयसा । प्रहतः प्रसभं भीमः, क्षणाद्वृक्षेण वक्षसि ॥ ३०० ।।
पाण्डवोऽपि हिडम्याय, ददौ पीडा प्रहारतः। यया तत्प्रथमं निन्ये, सोऽपि मूर्छारसज्ञताम् ॥ ३०१ ॥ मूर्छाविरामे स
क्ष्वेडा-मबीडः क्रीडयाऽकरोत् । यया युधिष्ठिरादीना-मभून्निद्रादरिद्रता ॥ ३०२॥
कुन्ती पुरस्तादुद्वीक्ष्य, हिडम्यामिदमभ्यधात् । का त्वं पुत्रि ! कथं चात्र ?, तथ्यं मे कथ्यतामदः ॥ ३०३ ।।
साऽप्यस्यै निजमावेद्य, सर्व वृत्तान्तमादितः । आख्याति स्म तनूजस्ते, युध्यते रक्षसा सह ॥ ३०४ ॥ उच्छलत्सिंहनादेन,
१ यमराजम् । ० अनेः ।
॥१३०॥
रक्षसा अहतो हृदि । धाव्यतां देवि ! पुत्रस्ते, हहा! पतति मूछितः ॥३०५ ॥ इत्युक्ते धर्मपुत्राया, भीमाभ्यर्णमुपाययुः । तं च मूर्छालमालोक्य, जननी पर्यदेवत ॥ ३०६ ॥ अस्माकं मार्गपनां, वोढा त्वं प्रौढविक्रमः । दुष्टेन रक्षसा वत्स !, गमितः कामिमां दशाम् १ ॥३०७॥ निरालम्बकुटुम्बस्य, करालम्ब ! त्वया विना । दूरात् पानीयमानीय, तृपं नः कोऽपने- प्यति । ॥ ३०८ ॥ कुसुमानि समानीय, वन्यान्येतां तपस्विनीम् । नव्यधम्मिल्लवन्धेन, वधू कोऽलंकरिष्यति ॥ ३०९॥ तवाय समुत्थाय, देहि प्रतिवचो मम । नयास्मान् पुरतोऽध्वानं, पुरोऽभ्येति रिपोश्चमूः ॥ ३१० ।। इत्थं विलापवैधुर्य- धुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे, भीमं प्रगुणमर्जुनः ॥ ३११ ॥ अथोत्थाय नियुद्धाय, स्पृहयालयकोदरः। प्रति प्रत्यर्थिनं धावन् , बभाषे ज्येष्ठबन्धुना ॥३१२॥स्थिरो भव तव भ्राता, भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स ! तच्छत्री, दुष्टे कष्टायसे कथम् ? ॥ ३१३ ।। इत्युक्तः सोऽवदद्देव!, मम संप्रति दोर्ष- लम् । तव दृष्टया सुधावृष्टया, सिक्तं पल्लवितं पुनः ॥ ३१४ ॥ तवानुजस्य पुरतः, कोऽयं राक्षसपासनः । पुरो हि पूष्णः पुष्णन्ति, न चयं ध्वान्तवीचयः ॥ ३१५ ॥ वीक्षमाणस्य देवस्य, प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पञ्चत्वं, पञ्चानन इव द्विपम् ॥ ३१६ ॥ अमानुपप्रचारेऽस्मिन् , कानने निरुपद्रवः । प्रसादेन तवेदानी-मस्तु पन्थाः सुसंचरः ॥ ३१७ ॥ तदस्तु फाल्गुनः शत्रोः, करिष्ये फल्गु वल्गितम् । इति व्याहृत्य संहत, स रिपुं प्रत्यधावत ॥ ३१८ ।। अथाहवं महावाबो-हि- बाहवि कुर्वतोः । तयोर्जयश्रीर्दोलेव, करोति स्म गतागतम् ॥ ३१९ ॥ पाण्डवश्च हिडम्बश्च, वल्गन्तौ क्षोणिरेणुभिः । १ अशोचत् । २ सूर्यस्य ।
भीमेन
कृतो
हिडम्ब-
घातः॥
तमानि मामलीभावं, लम्भयामासतस्तदा ॥ ३२० ॥ दृष्ट्वा हिडम्बदोर्दण्ड-चण्डिमानं युधिष्ठिरः। अभीमं जगदद्येति,
विदर्जुनमम्यघात् ।। ३२१ ॥ त्वर्यतां त्वर्यतां वत्स !, गच्छ क्षपय राक्षसम् । दोर्दण्डाभ्यां हिडम्वेन, पीड्यतेऽसौ तवा-
प्रजः ॥ ३२२ ॥ जल्पत्ये तपासूनौ, भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन, पशुमारममारयत् ।। ३२३ ॥ कुन्ती'
मुतस मानन्द-मुदतारयदश्चलम् । भ्रातुर्वपुरजातारिः, सरजस्कममार्जयत् ॥ ३२४ ॥ अर्जुनाद्या कनीयांस-स्तस्य चेला-
बलानिलः । रणखेदमवस्वेद-च्छेदमातेनिरेतराम् ।। ३२५ ॥ क्षणादेकान्तमासाद्य, भीमं रोमाञ्चशालिनी । स्तनोपपीड-
मालिङ्ग-दानन्दाद्रुपदात्मजा ॥ ३२६ ॥ कंदर्पण हिडम्बाया-स्तदा वन्धुवियोगजः। शोकः शोकापनोदेन, गुरुणा विर-
लीकृतः ॥ ३२७॥ शुश्रुपा-बहुमानाम्या, निविडाम्यां हिडम्बया । कुन्ती-दुपदनन्दिन्यो-मनः परवशीकृतम् ।।३२८॥
अयो निशीविनीशेपे, पन्थानं ते प्रपेदिरे । प्रमाद्येत् का सविद्यो हि महीयसि विरोधिनि? ॥ ३२९ ॥ आश्वासयन कनी-
यांमौ, तेषां पृष्ठंगमोर्जुनः। निजाग्रजन्मनो दत्त बाहुर्भीमः पुरोगमः ॥३३०॥ पृष्ठे वहन्ती कुन्ती च, कृष्णां च विन-
पाश्चिता । अम्बरेण हिडम्या च, तेषां मध्यस्थिताञ्चलत् ॥ ३३१ ॥ युग्मम् ॥ अन्यदा. तु. महाटव्या-मत्युत्कटपिपासया ।
भीमग्रीष्म(प्मा)तपश्रान्ता, कुन्ती मूर्छामुपाययौ ॥३३२॥ वीभत्सुरेकतो वेगा-दन्यतस्तु वृकोदरः। प्रत्याशमतिसंभ्रान्ती,
तोयहेतोरंधावताम् ॥ ३३३।। मातरं मूछितां पश्य-न्मत्वेवाम्भोऽतिदुर्लभम् । निजाम्यामेव नेत्राभ्या-मानिन्येऽम्बु युधिष्ठिरः
॥ ३३४ ॥ अचिन्तयच रे देव!, सदैव प्रत्यनीकताम् । सर्वकषां किमसासु, निर्वाहयसि केवलम्.१ ॥ ३३५ ॥ दशा पीयू-
१ 'वत्स!' प्रत्यन्तरे । २ 'कुन्ती प्रतिद्वयः।
॥१३॥
पवर्षिण्या, सिझन्वी या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं, साऽपि प्रापदिमा दशाम् ॥ ३३६ ॥ प्रियापरिभवो राज्य-भंशः पथपरिश्रमः । नेते तथा व्यथन्ते मां, यथा मातुरियं दशा ॥ ३३७ ॥ इति चिन्तातुरे राशि काप्यप्राप्य पयस्तदा । आज- ग्मतुनिरानन्दौ, कोवर-किरीदिनौ ॥ ३३८ ।। एतावपि महावाहू, विह्वलावुपरि स्थितौ । कदुष्णैर्नयनाम्भोभि-जननी पर्यपिचताम् ।। ३३९ ।। निराशमनसो तेपो, क्षिपतां दिक्षु।चक्षुपी। आनीयोपानयत्रीरं, हिडम्याः पिसिनीदले ॥३४०।। तेषां नयनपानेम्यो, निर्झरेभ्य इवाधिकम् । वाप्पैस्तथैव निर्यात-मानन्दशिशिरैः परम् ॥ ३४१ ।। सस्यानामिव शुष्काणां, शोक-चिन्ता-तपालमात् । आपुरापस्तदा तेपा, ताः खात्यम्युपिडम्बनाम् ॥ ३४२॥ अस्मत्कुटुम्पजीवातु-र्मातुरातुरपातिनी । निजेति रोपां चेतासु, हिडम्या प्रतिविम्बिता॥ ३४३ ॥ मातुः- संवाहयन् पादौ, स्थाने स्थाने युधिष्ठिरः। पन्थानमति-- पकाम, प्रत्यहं सह वान्धवैः ॥ ३४४ ॥ एकदा कापि पश्यन्ती, कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्ट्वा, कान्दिशीका पलायत ॥३४५ ॥ प्रचण्डः पुण्डरीको ऽपि, पुण्डरीकविलोचनाम् । वामन्यगच्छदौत्सुक्यात्, क्रमःरात्मनामयम् ॥३४६।। तदानुपदिके तस्मिन्, सा भयोत्थितवेपथुः।। नितम्बस्तनभारेण, न शशाक पलायितुम् ॥ ३४७ ॥ दंष्ट्राकरालमुत्फाल-मालोक्य तमुपागतम्।। साध्वतस्थे समालम्ब्य), धैर्यमूर्ध्वदमा पुरः ॥ ३४८ ॥ अत्रापि धर्मपुनो मे, त्रातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां, सा. विधायेदमम्यधात्। ॥ ३४९ ॥ यदि मे प्राणनाथेन, सत्यरेखानि लहिता । तदा त्वमप्यमूं. रेखां, मा स्म शार्दूल ! लस्य ॥ ३५० ॥ तयेत्युक्ते १ व्यामम् । २ व्यामा | द्रौपद्या वने पाण्डवेभ्यो विश्लेपः॥ स तेप्वेष, पदेषु सपदि स्थितः । अहो! महानुभावानां, प्रभावो दुरतिक्रमः ॥ ३५१ ॥ मुक्ता विधुतुदेनेव, द्वीपिना तेन पाप्मना । सितदीधितिलेखेव, सा भृशं शुशुमे तदा ॥ ३५२ ॥ त्रिभिर्विशेपकम् । प्रियोपस्थायिनं मार्ग-मविदन्ती मनागपि । धन्युतकुरङ्गीव, शून्यं बभ्राम सा वने ॥ ३५३ ।। निःशूकं दन्दशूकेन, सा बजन्ती यदृच्छया । दुष्टेन दष्टुमारब्धा, तमप्येव- मवोचत ।। ३५४ ॥ कायेन मनसा वाचा, चेत् पश्चापि न वञ्चिताः । मया कदापि प्रेयांसः, सर्प । सर्प तदान्यतः ।।३५५॥ इत्याक्षिप्तस्तया मधु, ययौ सोऽपि भुजंगमः । वाचस्पतेरपि सती-महिमा न हि गोचरः ॥३५६ ॥ यदुष्णकिरणः कृष्णां, सवीं पादरुपास्पृशन् । तन्मन्ये सद्य एवायं, मजति स्म वदाम्युधौ ॥ ३५७ ॥ अथाचक्राम दिरुचक-मुच्छ्वलतमं तमः । सर्वातिशायी शोकच, पाञ्चालदुहितुर्मनः ॥३५८॥ प्रेयोभिर्विप्रयुक्तायाः, कयं याति यामिनी । एपा ममेति सा चिन्ता-क्रान्ता यावदजायत ॥ ३५९ ॥ हिडम्यां पुरतस्ताव-दालोकत कृताञ्ज- लिम् । व्यानशे च प्रमोदेन, सुधासेकसनामिना ।। ३६०॥ फुल्लत्कपोलफलका, बभापे सा हिडम्बया । आयें। त्वद्विरहात् प्रापुः, पाण्डवाः शोकवाण्डवम् ॥ ३६१ ।। यदान्विष्य बनान्तस्त्वां, ते कुत्रापि न लेभिरे । ततो धूलीविलिप्ताङ्गा, वसुधां परिरेमिरे ॥ ३६२ ॥ तेषां संप्रति बाप्पाम्बु-धाराधोरणिभिः पुरः । जातानि जानुदनानि, पल्बलानि भुवस्तले ॥ ३६३ ।। श्वापदैरापदं रात्रौ, द्रौपदी नेष्यते ध्रुवम् । तां विना जीवितेनापि, पर्याप्तमधुनाऽमुना ॥ ३६४ ॥ इति निचित्य ते सन्ति, प्राणत्यागविधित्सवः । जीविते निःस्पृहा जल्ने, पृथापि तनयाऽनुगा ॥३६५॥ (युग्मम् ) इत्यमत्याहितं तेषा, विलोक्याकुल- १ निःशूकं निर्दयम् । २ गच्छ । ३ अनर्थम् ।
मानसा । कान्तारार्णवमालोड्य, तवाम्यर्णमुपागमम् ॥ ३६६ ॥ इति वृत्तान्तमावेद्य, समुत्प्लुत्य विहायसा । सा द्रौपदी- मुपादाय, पाण्डवानामुपानयत् ॥ ३६७ ।। स्रोतस्विनीररण्यानी-स्ते बहूंश्च शिलोचयान् । हेलयैव हिडम्बायाः, साहा- व्येन ललविरे ॥ ३६८॥ अथाधमर्णमन्याभ्यां, हिडम्बायाः पदे पदे । निवेश्य कुन्ती कृष्णाभ्या-मभ्यधीयत सा रहः ॥ ३६९ ॥ भद्रे ! तवोपकाराणा-मियत्व न विद्यते । आवां त्वस्यामवस्थायां, किं ते प्रत्युपकुर्वहे ? ।। ३७० ॥ तथाऽपि ब्रूहि कल्याणि !, किंचिदीप्सितमात्मनः । काचिदानृण्यकरणा-यथा स्यात् प्रीतिरावयोः ॥३७१॥ अथोवाच हिडम्बाऽपि, कुन्ती प्रति कृताञ्जलिः । विश्वोयकारिणि ! काहं १, क च त्वं पाण्डवप्रसूः ॥ ३७२ ।। किं तवोपकरिष्यन्ति, राक्षस्यो देवि!मादृशः । उपकुर्वीत किं नाम, दरिद्रश्चक्रवर्तिनः ॥ ३७३ ॥ उपकुर्वन्ति सन्तस्तु, पूर्वानुपकृता अपि । केनाप्युपकृता किं नु, लोकं प्रीणाति चन्द्रिका ? ॥ ३७४ । विज्ञापयामि तदपि, स्वं किंचन मनीपितम् । पुत्रस्ते दृष्टमात्रोऽपि, मया पत्रे वृकोदरः ॥ ३७५ ॥ तत् प्रसीद तथाऽऽधेहि, यथा स्यादेप मे वरः । एवं संवन्धमाधाय, खस्य मां कुरु किंकरीम् ॥ ३७६ ॥ इत्याख्याते तया कुन्ती, स्नुपाया मुखमैक्षत । साऽपि विज्ञा कृतज्ञा च, जगाद मुदितानना ।। ३७७ ॥ प्राणैरपि प्रियं कर्तु-मेतस्याः स्पृहयाम्यहम् । तुच्छानां मर्दभोगानां, संविभागे तु का कथा ? ।। ३७८ ॥ ततः स्वयं समुत्थाय, ताभ्याम- भ्येत्य चान्तिके । अनिच्छन्नपि भीमस्तां, पंसह्य परिणायितः ॥ ३७९ ।। सर्वर्तुरमणीयानि, कृत्वोद्यानानि विद्यया। कृत्रिमं १ पर्वतान् । २ पूर्वमनुपकृताः । ३ बलात् ।
गौपमापाय, रेमे भीमेन सा समम् ॥३८०॥ सैकतेपु स्रवन्तीनां, शैलानां शिखरेषु च । नीत्वा यदृच्छया भीम, रमया भीमहिड-
माग मा गुग्यम् ।। ३८१ ।। स्वाधीनपतिका प्राप्य, कामानतिमनोरमान् । क्रमादापन्नसच्चाऽसौ, जने पुण्यजनेश्वरी ॥३८२॥ म्वयोः
अप क्रमादतिक्रम्प, पन्धानं पाण्डुसूनवः । नगर्यामेकचक्रायां, काननान्तःकृतस्थितिम् ॥ ३८३ ॥ सुवर्णकमला- पाणिग्र-
मीनं, दिगन्तं धर्ममुत्तमम् । वपुप्मदिव चारित्रं, बानिनं ददृशुर्मुनिम् ॥ ३८४ ॥ (युग्मम् ) मुनेर्दर्शनमात्रेण, सुधारनपन-
हणम् ।
चन्पुना । तेषां श्रद्धाजुपामघ-श्रमः सर्यो व्यलीयत ॥३८५।। तेऽन्तर्मलमपाकर्तु-मुनालमनसस्तदा। मुनिपादारविन्दस्य,
एकचक्रा-
वन्दनार्यमुपाययुः ।। ३८६ ॥ भवम्रान्तिपरिक्लान्त-जन्तुविश्रान्तिपादप !। परोपकारनिर्व्याज!, मुनिराज! नमोऽस्तु ते नगरीवने
॥ ३८७ ॥ इत्यानन्दपतद्वाप्प-मभिष्टुत्य युधिष्ठिरः । सभान्तः संकुचनानुः, सानुजः समुपाविशत् ॥३८८॥ दरिद्रपान्थ-
पाण्डवानां
वेशेष, दिविपन्मूर्तिधारिषु । तदानीं तेषु सम्पानां, निपेतुर्युगपदृशः ॥ ३८९ ॥
गमनम्,
अपाऽऽपदार्पगोचारे, द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण, मुनिराधत्त देशनाम् ॥३९०॥ एक एव पुमर्थेषु,
साधुदेश-
धर्मयुद्धामणीयते । दया च सर्वसचेपु, तस्यापि तिलकायते ॥ ३९१ ॥ प्रापाथोदवीथी च, करुणा चाप्यकृत्रिमा । वनरा-
नाश्रवणं
जी च राज्यं च, नवतां नयतः पुनः ॥३९२॥ दया प्राणिपु सर्वेषां, गदानामगदः परः । अनयमायुर्दैर्घ्यस्य, कारणं करुणां
च॥
विदुः ।। ३९३ ॥ शुक्तिरुनतिमुक्तानां, मुक्तिसंगमतिका । दया नियतमेकाऽपि, सर्वकल्याणकारणम् ।। ३९४ ॥ इत्याकर्ण्य
हिडम्याऽध, राधमान्यपदुर्लमम् । निर्मन्तुत्रसजन्तूनां, प्रतिपेषं वधे व्यधात् ।। ३९५ ॥ देशनाऽन्ते स्वयं कुन्ती, संशया-
१ नहीनाम । २ राममी। ३ अमृतस्नानसरशेन । ? आपगा-नदी ।
॥१३३॥
पगमक्षमम् । मुनि पर्यनुयुते स्म, विनयाद्विहिताअलिः ॥ ३९६ ॥ पराभवसहस्राणां, पदमापदमीदृशीम् । किमेते निस्तरि- प्यन्ति, कदापि मम सनवः ॥३९७|| त्रिलोकी हस्तविन्यस्त-कुर्वलीफललीलया। पश्यन्मुनिरिमां वाचं, व्याजहार मनोहराम् ॥ ३९८ ॥ विभावय महाभागे !, भवितारः सुतास्तव । क्रमेणानुपमानाया, भुक्तेर्मुक्तेश्च भाजनम् ॥ ३९९ ॥ पुनरेव निर्ज राज्य, कैबिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता, कर्ता धर्मप्रभावनाम् ॥ ४०० ॥ क्रमात् कर्माणि निर्मूल्य, संयमाराध- नादूमी । पश्चापि विश्ववातारो, यातारः पञ्चमी गतिम् ॥ ४०१॥ इमां निशम्य ते वाचं, वाचंयमशिरोमणेः । पीयूपसेकसो- दर्या-मासेदुः परमां मुदम् ॥ ४०२ ॥ तत्र ज्ञानसुधाम्भोधा-वन्यत्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान्, हिडम्यां पाण्डवोऽभ्यधात् ॥४०॥ निष्का- रणोपकारिण्याः, शुभे! साहाय्यकाचव । अटवीतटिनीप्रायः, पन्था दुर्गोऽपि लचितः ॥ ४०४ ॥ चयं नगर्यामेतस्यां, स्थास्यामः कतिचिदिनान् । तद्गच्छ भद्रे ! स्वभ्रातुः, सनाथां कुरु संपदम् ॥ ४०५ ॥ गर्भाभिधाने मद्भातु-निधाने यतमा- तनु । पात्रे न्यासीकृता संप-दधिकां पृद्धिमनुते ॥ ४०६ ॥ स्मृता तु समये वत्से, समुपस्थातुमर्हसि । मनोऽभ्युपेतनिर्वाहे, सावधान महात्मनाम् ॥४०७॥ अथाङ्गीकृत्य ततस्थौ, हिदम्बा वनमेत्य सा । वीतरागसपर्यासु, पर्याकुलकराम्बुजा ॥४०८॥ मुद्रामादृत्य विप्राणां, तदाचारमनोहराम् । एकचक्रामुपाजग्मु-नगरी पाण्डुनन्दनाः॥४०९ ॥ अदृश्यन्त विशन्तस्ते, पुर्यामार्येण वर्त्मनि । द्विजेन जनतादत्त-शर्मणा देवशर्मणा ॥४१०॥ उपलभ्योसंग्राह्यान् , गुणगृह्यः स तान् कृती। गत- १ पृच्छति स्म । २ कुवलीफलं बदरीफलम् । ३ वन्दनयोग्यान् ।
छया निजं सब, नीत्वा काममपूजयत् ।। ४११ ।। अभणच गुणश्रेष्ठं, ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव !
योजितः किंचिदर्थ्यसे ॥ ४१२ ।। इदं में वेश्म तामेतां, पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमा पुनी, जानीयाः सर्वमा-
रमनः ॥ ४१३ ।। वमन् गेहे सुखेनात्र, पवित्रय पुरीमिमाम् । सरत्ना रत्नगर्भति, जनो जानातु संग्रति ।। ४१४ ॥ तथेति
प्रार्थना गुपी, प्रतिश्रुत्य युधिष्ठिरः । चक्रे' कुटुम्बसंमत्या, निवास तस्य वेश्मनि ॥ ४१५ ॥ विप्राचारभृतो वाह्ये, स्वान्ते तु
परमाईताः । ते धर्मकर्मठास्तत्र, वासरानत्यवाहयन् ॥ ४१६ ॥ श्वश्रूशुश्रूषणग्रीत-चेताः पाञ्चालनन्दिनी । पुत्रीप्रीतिपरा
तस्या, कुन्ती चानचतुर्जिनम् ।। ४१७ । कुटुम्बस्यानुकूल्येन, प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांच-रेकचक्रा-
निवासिनः ।। ४१८ । सावित्री नाम तस्यास्ति, कलत्रं देवशर्मणः । तया चैनयिकात् कुन्त्या, मनः परवशीकृतम्
॥ ४१९ ॥ कुन्ती कृष्णासधर्माणं, स्नुपा तामप्यजीगणत् । पौत्रावेव च तत्पुत्री, गगा-दामोदराभिधौ ॥ ४२० ॥ सा
तेन महवासेन, विस्मृतात्मनिकेतना । अनेकान् गमयामास, मासानेकाहलीलया || ४२१ ।।
अन्यदा पवमानस्य, तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः, स्वैरसंचारशालिपु ।। ४२२॥ देवशर्मकुटुम्बस्य, कटु-
माक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन, मिन्नेव हृदयेऽभवत् ॥ ४२३ ॥ युग्मम् ॥ गत्वाऽय देवशर्माणं, सा जगाद
सगद्गदम् । तब वत्स ! कुवोऽमूल-मेवहुःखं सुदुःसहम् ? ॥ ४२४ ॥ अथासौ कथयामास, कथां कुन्त्याः सुदुःश्रवाम् ।
अस्यां पुरि पुरारिट-मतिकप्टमजायत ।। ४२५ ।। पुरोपरि शिला गुर्वी, दर्शिताकाण्डविड्रा । समालोक्पत कल्पान्त-
१ पृथ्वी । २ पुत्री च पुनश्चेत्येकशेपे पुत्री ।
युधिष्ठिरा-
देशेन
हिडम्बा
गर्भवती
स्वस्थानं
गता ।
गण्डवाना
मेकचकार्या
निवासो
ब्राह्मण
गृहे ॥
॥१३४॥
पुष्करावर्तसोदरा ॥ ४२६ ॥ युगान्तज्वलनोपज्ञ-धूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं, पुरीजनमजीजनत् ॥ ४२७ ॥ खण्डयन् भूरुहां खण्डान्, प्रवौ चण्डः समीरणः । कनीयान् वान्धवो यस्य, किल कल्पान्तमारुतः ॥ ४२८ ॥ अदृष्टपर- चक्रार्ति-मेकचक्रां पुरीं तदा । भयस्याभिज्ञतां निन्यु-स्तान्यरिटानि सर्वतः ॥ ४२९ ॥ अबलाभिश्च पालैश्च, प्राणान्तिक- भयाकुलैः । भर्तृणां च पितॄणां च, चक्रे कण्ठग्रहस्तदा ॥ ४३० ॥ प्रत्येकं कुलदेवीना-मीपुर्जानुस्थिताः पुरः । उपयाचित- लक्षाणि, पुरीद्धपुरंध्रयः।। १३१।। नैमित्तिका निमिचानि, ग्रहान् मौहूर्तिकाः पुनः । शकुन शकुनज्ञाथ, सर्वेऽप्यालोकयंस्तदा ॥४३२।। नृपश्च पौरमुख्याथ, बद्धाञ्जलिपुटाः समम् । धूपमुत्क्षिप्य निक्षिप्य, दृशमूर्ध्वमथाभ्यधुः।। ४३३ ।। यक्षो वा यदि वा रक्षो, योऽस्ति क्रुद्धः पुरीं प्रति । अस्मास्वाज्ञाविधेयेपु, सांप्रतं स प्रसीदतु ॥ ४३४ ॥ अथाकस्मान्मपीकालः, कालरात्रिस- होदरः । पिङ्गाक्षि-चिकुरः क्रः, कश्चित्तैर्ददृशे दिवि ॥ ४३५ ॥ भीतास्ते कम्पमानाङ्गा-स्तमूचुः प्रश्रयाश्चिताः । कोऽसि ? ब्रूहि महाभाग !, देवो वा दानवोऽथवा ॥ ४३६ ।। असौ संहारसंरम्भः, समारेभे कुतस्त्वया? । तव नेतुं विना मन्तु-मन्तं जन्तून सांप्रतम् ॥ ४३७ ॥ क्लिश्यन्ते हि महात्मानः, परोपकृतिकाम्यया । तरणेः कारणं किं नु ?, यद्भाम्यति नमोऽङ्गणे ॥ ४३८ ॥ दधत्यात सुखीकर्तु, कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि, तरवस्तपनातपम् ॥ ४३९ ॥ ततस्त्वमपि विश्वस्य, शल्पमुद्धर्तुमर्हसि । एतत्कर्तुमकर्तव्यं, किं पुनस्तव युज्यते ॥ ४४० ॥ एवमुचैस्तरामुक्तः, सोऽभ्यधत्त नभःस्थितः। अरे ! विद्याधराधीशं, मां जानीत वकाभिधम् ॥ ४४१ ॥ रत्नशैलाभिधे शैले, पुरीसविधवर्तिनि । दुःसाधा साधयां- व्याकुलम् । २ ऐच्छन् ।
चक्रे, मया विद्याऽद्य राक्षसी ॥ ४४२ ॥ ततः स्वविद्यामाहात्म्य-विलोकनकुतूहली । पुरीसंहारमधुना, विधित्सुरयमस्म्यहम् । बकासुरो-
॥ ४४३ ।। अरे ! घराकाः मपदि, सरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्ण-मिदानी न भविष्यथ ॥४४४ ॥ तेऽथ तेनैव-
माधिप्ताः, पुनरेवं वभापिरे । विद्या विद्याधराधीश !, किं न कुर्यादसंशयम् १ ॥ ४४५ ॥ नैतावतैव कार्येण, पुरीं संहर्तुमर्हसि ।
को नाम कीलिकाहेतोः, प्रामादोच्छेदमिच्छति ? ॥ ४४६ ॥ इदं विद्यापरीक्षायै, पुरीसंहरण वृथा । भस्मने भस्मसात्कुर्यात्,
को हि चन्दनकाननम् ? ॥४४७॥ तदेनमेनसामेकं, संक्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय, विद्या व्यापार्यतामियम्
॥ ४४८ ॥ मोपरोधमिति प्रोक्तः, सोऽभ्यधानिष्कपः पुनः । मांसैकलुब्धमनसो, दैन्यगृह्या न राक्षसाः ॥ ४४९ ॥ अस्ति
युप्माकमेकस्तु, पणः प्राणप्रियंकरः । मम दत्तोपहारं चे-देकं मानवमन्यहम् ॥ ४५० ॥ मदीयपुरनेदीयः-कान्तारे भैरवा-
मिधे । मत्प्रमादार्षिभिः प्रांशुः, प्रासादव विधाप्यताम् ॥ ४५१ ॥ जातु नैवं कृतेऽवश्यं, भविता वः पराभवः। सदैव दैवते-
म्योऽपि, परचक्रातु का कथा ? ॥ ४५२ ॥ इदं वोऽस्तु पुरीं त्रातु-मेकमौपयिकं परम् । तदरे ! रोचते यद्व-स्तदाचरत संप्रति
॥ ४५३ ।। इति व्याहृत्य विरते, दुर्नयाऽऽसेपके वके । अनिष्टामपि तां पौरा-स्तद्गिरं प्रतिशुश्रुवुः ॥ ४५४ ॥
जयेन्द्रजालिकेनेव, राक्षसेन्द्रेण तत्क्षणात् । अपासार्यत सर्वोऽपि, शिलादिदिवि डम्बरः ॥ ४५५ ।। ततः कुमारिकाकृष्ट-
नामपानियोगतः । पर्यस्थाप्यत पर्यायः, परिः पुरनिवासिनाम् ॥ ४५६ ॥ वकमूर्विसनाथश्च, प्रासादो निरमाप्यत । बलिनश्च
विधातुथ, नियोगः केन लश्यते । ॥ ४५७ ॥ एकस्ततः प्रभृत्यम्प ! पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च, शाल्योदन-
१ आरम्भम् । २ दैन्येन प्रहीतुं शक्याः । ३ नेदीयः-समीपम् ।
॥१३५॥
मयो चलिः ॥ ४५८ ॥ तदेनं पलिमादाय, मातर्नुपनिदेशतः। पर्यायोपगतः सोऽहं, यास्यामि विपिनेऽधुना ॥ ४५९ ॥ तनिराशं निरालम्ब, कुटुम्ब मम रोदिति । आश्रयद्रुमनाशे हि, दीनाः क्रोशन्ति पक्षिणः ॥ ४६० ॥ किं चान्यत् संकटं यन्मे, तन्मातः ! शृणु संप्रति । यदेपा बामणी वक्ति, मामिदानी पुनःपुनः ॥ ४६१ ॥ किं कार्यममुना नाथ !, त्वां विना जीवितेन मे। सापत्याऽपि भृशं लप्स्ये, त्वदृते हि पराभवम् ।। ४६२ ॥ ततोऽहमुपहाराय, तस्य यास्यामि रक्षसः । कल्पायुस्त्वं पुनर्भूया, भुआनो भूयसीं श्रियम् ॥ ४६३ ।। त्वत्प्राणवाणकारिण्याः, कुलेऽस्तु कलशो मम । भतुर्विपदमाच्छेतु-मतिच्छेकाः कुलस्त्रियः ॥ ४६४ ॥ भुक्तं सृष्टं सुखं स्पृष्टं, दृष्टं मुखमपत्ययोः । त्वत्तः किं किं मया नातं ? नास्ति मृत्योभयं मम ॥ ४६५ ।। वजन्तं केला नेयं, मां रुणद्धि सर्मिणी । असावप्यात्मजेदानी, सुदती वदतीति नौ ॥ ४६६ ॥ मा मातर्मा स्म वा तात, गच्छतं रक्षसो मुखे । आहारमुपहारं च, कर्तुं तस्योद्यताऽस्म्यहम् ।। ४६७ ॥यालो यद् युवयोरेव, जीतोरेप जीवति । मातापि तात- शुश्रूषां, करोत्वाकल्पजीविनी ।। ४६८ ॥ यदि मां नानुमस्येथे, युवा नास्मि तथाप्यहम् । युवयोर्गवास्तव्या, परार्थी हि पतिवराः ॥ ४६९ ।। इति कुन्ति ! कुटुम्ब मां, नानुजानाति मृत्यवे । अनुमन्येऽहमप्येतत् , कथं रक्षोमुखे पतत् । ॥४७०॥ आदेशस्तु नरेशस्य, सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः, पतितोऽस्म्यत्र वैशंसे ॥ ४७१ ॥ इति विप्रे वदत्येव, काशकम्यां विलोलयन् । वेगादागत्य बालस्ता-नवोचत् पञ्चहायनः ।। ४७२ ॥ मा रोदीस्तात ! मा स्माम्ब ! रोदीर्मा स्म रुदः स्वसः। अनया कम्बया गत्वा, तं हनिष्यामि राक्षसम् ॥ ४७३ ॥ मुहुर्मुहुर्चुवनेवं, चालयंस्तां १ पर्यायेण-अनुक्रमेण उपगतः-प्राप्तः । २ स्वादिष्ठम् । ३ विघ्ने ।
बकासुरो-
पद्रवः॥
ततां शिशुः । बाप्पप्लुते दृशौ तेषां, प्रममा पुनः पुनः ॥ ४७४ ॥ तेपामेकैकशो नेत्रे, स ममा यथा यथा । अम्भस्तथा
तथा ताम्या, निर्झराम्यामिवाम्यगात् ।। ४७५ ॥
अघ कुन्ती बलोदाना, तां वालस्य सरस्वतीम् । रक्षोवधैकपिशुना-मुपश्रुतिममन्यत ॥ ४७६ ।। द्विजन्मानमवादीच,
दयालुहृदयाऽधिकम् । हतमेवेति तं वत्स , लक्षये राक्षसाधमम् ॥ ४७७ ॥ वध्यवेपममुं मुञ्च, किं च सिञ्चन् कुटुम्बकम्
वात्सल्यामृतकुत्यामि-श्छायां नय पुरातनीम् ॥ ४७८ ।। शौण्डीयोपचिताः पञ्च, ममामी सन्ति सूनवः । तेपामेकतमो गत्वा,
तं इनिप्पति हेलया ॥ ४७९ ॥ इति कुन्तीवचः श्रुत्वा, हसन्नाह द्विजोचमः । न जानासि जगजैत्रं, त्वमम्ब ! वकविक्रमम्
॥ ४८० ।। तम्मिशौण्डीर्यशौण्डानां, दोर्दण्डबलडम्बरम् । अन्तर्मअति मार्तण्डे, तेजस्तेजस्विनामिव ॥ ४८१॥ अहमेव वरं
मात-यांतः कीनाशदासताम् । न तु विश्वजनीनात्मा, तनयस्तव कश्चन ॥ ४८२ ॥
इति द्विजन्मनो वाचं, व्याख्यातयकविक्रमाम् । आकर्ण्य मातुरभ्यर्ण-वर्ती भीमस्तमभ्यधात् ॥ ४८३॥ त्वया पुत्रवतीं-
मन्या, माता नः सर्ववत्मला । पश्यन्त्यपायमायात-मन्तः संतप्यतेतराम् ॥ ४८४ ॥ जननीयं कृतज्ञानां, त्वं च विश्वोपकारि-
णाम् । धौरेयतामयामिष्ट-मिति पश्यति मे मतिः ॥४८५।। भवन्तमन्तकमाया-द्योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीय-
मम्बा मननि मन्यते॥४८६॥ तदहं विहितोत्साहो, मातुराधातुमीप्सितम् । त्वं तिष्ठ निष्ठुरं दुष्ट-मुपस्थातास्मि राक्षसम् ॥४८७॥
देवशर्मा ततः प्राह, मैवं वद महामते । । न क्षमे श्रोतुमप्येता-मब्रह्मण्यां गिरं तव ॥ ४८८ ॥ उररीकृत्य ते मृत्यु,
१ सनम् । २ पराक्रमदक्षाणाम् । ३ विश्वजनहित आत्मा यस्य सः ।
॥१३६॥
नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन, कः काचं परिरक्षति ॥ ४८९॥ मादृशस्य द्विजस्यार्थे, नररत्नं भवादृशम् । राक्ष- सायोपनेतव्य-मिति कोऽन्योऽपि मन्यते ॥ ४९० ॥ त्वादृक्षो विरलः कोऽपि, परोलक्षास्तु मादृशाः । स्वल्पः कल्पतरुलॊके, भूयांसोऽन्ये हि भूरुहः ॥ ४९१ ।। प्रियन्ते पञ्चपाण्येव, मानुपाणि मृते मयि । अस्या मूर्तेर्विपत्तौ तु, सर्वा सीदति मेदिनी ॥ ४९२ ।। एतौ तव भुजौ वीक्ष्य, स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं, न पुनर्यकराक्षसः ॥ ४९३ ॥ धक एच घको यद्वा, तव दोःपाशयोः पुरः । केवलं केवलिप्रोक्ता, गिरः संशयकारणम् ।। ४९४ ॥ यतोऽमुष्यां पुरा पुर्या, केवली मुनिराहतः । उदियाय पुरः शैल-चूलायामिव भास्करः ॥ ४९५ ॥ सर्वे वन्दारवः पौरा-स्तदभ्यर्णमुपाययुः । सोऽपि कारु- णिकस्तेभ्यः, परं धर्मभुपादिशत् ॥ ४९६ ।। तेनोपदेशपीयूप-पानेन प्रसरन्मुदः । समये विश्वमार्तण्डं, मुनीन्द्रं तेऽन्वेयुञ्जत ॥ ४९७ ॥ प्रभो ! प्रसीद सीदन्ति, पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य, राक्षसोपद्रवः कदा ? ॥ ४९८ ॥ मुनिनाथोऽप्यथाऽऽचख्यो, भो ! भद्राः पाण्डसूनवः । जिता धूते यदैष्यन्ति, वनवासक्रमादिह ॥ ४९९ ॥ असौ तदानीं भविता, नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचां, महिमा हि महात्मनाम् ॥ ५०० ॥ इत्याख्याय स लोकाय, जगाम मुनि. पुङ्गवः । तादृशां हि महीं सर्वां, प्रियीकर्तुमुपक्रमः॥५०१॥ तेन चन्द्रातपेनेव, मुनिन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोले-नांगराः सागरा इव ॥ ५०२ ॥ वर्णा अपि सुधाकीर्णाः, पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति, पुमांसः कीदृशाः पुनः १॥ ५०३ ॥ इत्युक्तः कुलदेवीभ्यः, पाण्डवागम- १ वन्दनशीलाः। २ अपृच्छन् । ३ 'प्रिया'' प्रियां' इति प्रत्यन्तर० । ४ अक्षराणि ।
वकासुरो- पद्रवः॥ नैपिभिः। उपयाचितलक्षाणि, परिः प्रत्येकमीपिरे ॥ ५०४ ॥ (युग्मम् ) हस्तिनापुरमार्गेण, नानोपायनपाणयः। प्रत्युद्ययुश्च ते नित्यं, पाण्डवेयान् प्रति प्रगे ॥५०५॥ जनानां जानतामेता-नयश्वीनसमागमान् । एकदा पथिकः कश्चि-दाययौ तेन पर्मना ॥ ५०६ ॥ म तैरप्रच्छि भोः पान्थ !, कथयास्मिन् पथि कचित् । उदन्तः पाण्डवेयानां, कश्चित् क्वचित्त्या श्रुतः ॥ ५०७ ॥ संम सोऽपि भोः पौराः , पधि चंक्रमणक्रमात् । आगतोऽस्मि श्रियो वास-वारिजे वारणावते ॥५०८॥ जनेम्पस्तनिवासिम्यः, सयाप्पेभ्यः पदे पदे । इति कर्णविपं तस्मि-नश्रीपमतिदारुणम् ॥ ५०९॥ दुर्योधनस्य वचसा, वसन्तो जातुपे गृहे । इह चण्डाः सुताः पाण्डो-दहिं प्रापुः प्रदीपनात् ।।५१०॥ इहानुजीविभिस्तेषां, विरचय्योचिताश्चिताः । प्राणा- स्तेनैव सार्थेन, प्रहिताः प्रभुवत्सलैः ॥ ५११॥ वीक्ष्य भस्मस्थलीः स्थूलाः, कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त, वाप्पैः कूलंकपा दृशः ॥५१२॥ अथावेद्य कथामेतां, स पान्थः प्रस्थितः पुरः। आनन्दथैकचक्रायां, चक्रेऽतितुमुला दिशः ॥ ५१३ ॥ न मातुर्न पितुर्ने, स्वामिनो मृत्युवार्तया । अभवत्तादृशः शोकः, पौराणां यादृशस्तदा ॥ ५१४ ॥ निःप्रत्याशै- निरानन्दै-स्ततः प्रभृति नागरैः । पूर्यते यातुधानस्य, विशेषेण मनीपितम् ॥ ५१५ ।। तदिदानी द्रुतं यामि, प्रणम्य कुलदे. वताम् । मषेपामेव पुष्माकं, जज्ञेऽनुज्ञाञ्जलिमम || ५१६ ॥ इति व्याहृत्य धैर्येण, संवर्मितमनास्ततः। सकुटुम्योऽप्यगाद्विप्रः, प्रणन्तुं कुलदेवताम् ॥५१७॥ अधाम्पधात् पृथा भीम, वत्स ! त्वयि तनूरुहे । एकस्यापि द्विजस्यास्य, नाभूवमभयप्रदा ॥ ५१८ ॥ धन्यास्ते सति १ राप्रसस्य। ।।१३७॥
सामध्यें, घरायां वार्धिसीमनि । ये सर्वप्राणिरक्षार्थ, ददत्यमयडिण्डिमम् ॥ ५१९॥ ये तूपकारकस्यापि, विपनद्यां निपेतुपः । निबिडं नोडुपायन्ते, तेषामजननिर्वरम् ॥ ५२० ।। महाऽऽपदमपाकर्तु-मेतामस्योपकारिणः । अहं न चेदलंभूष्णु-स्तन्मां धिक धिक् च मे सुतान् ।। ५२१ ॥ तद्गच्छ बलिमादाय, निवासं तस्य रक्षसः । विदधीथास्तथा तत्र, सत्यः स्यात् केवली यथा ॥ ५२२ ।। एवमादेशमासाद्य, मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप, बकोद्यानं वृकोदरः ॥५२३॥ पश्यन् स्मेर- मुखस्तस्य, वनस्य कमनीयताम् । पुरतः पुरुप कंचि दृष्ट्वाभापिष्ट पाण्डवः ॥ ५२४ ॥ शंस मे भद्र ! कस्यायं, प्रासादः प्रांशुरणतः ? । कश्च त्वं ? कुत्र वा तिष्ठे-द्रक्षोभक्ष्यः पुमानिह १ ।।५२५।। सोऽवोचत् कारितः पौरैः, प्रासादः सैप राक्षसः । स्थाने चास्मिन् बलिः शेप-राक्षसेभ्यो निधीयते ॥ ५२६ ।। अहं तु पौरनिर्दिष्टः, प्रासादपरिचारकः, । पर्यायोपगतोऽध्यास्ते, वध्यो वध्यशिलामिमाम् ॥ ५२७ ॥ महात्मन् ! कौतुकात् किं तु, किंचित् पर्यनुयुज्यसे । त्यादृग्लोकत्रयीजैत्र-भुजः कोऽप्यत्र नाययौ ॥ ५२८ ॥ नाप्यस्ति वध्यवेपस्ते, न च ते दीनमाननम् । लम्बते निम्बमाला च, न तवाधिशिरोधरम् ।। ५२९ ॥ इति प्रश्नपरे तस्मि-नकस्मादेव दुःश्रयः । पुरो याहि पुरो याही-त्येवं कोलाहलोऽभवत् ।। ५३० ॥ तं श्रुत्वा स पुनः प्राह, नन्दसावेति राक्षसः । ततो व्यवहितो भूत्वा, देव ! स्थास्यामि संप्रति ॥ ५३१ ।। इत्युक्त्वाऽन्तर्हिते तस्मिन् , दूरादायाति राक्षसे | पल्यविकामिव शिलां, लीलयाऽध्यास्त पाण्डवः ।। ५३२ ।। अथोपेतः समं प्रेत-पिशाचैः स निशाचरः। सुखोत्तानशयं क्रूरः, प्रेक्षांचक्रे वृकोदरम् ॥५३३।। अचिन्तयच कोऽप्यद्य, १ पतितस्य ।
बकासुरो-
पद्रवः।
पीररोरुमहोदरः । आगाद पुमान्न यो माति, विपुलेऽपि शिलातले ॥ ५३४ ॥ असौ बुभुक्षाक्षामस्य, भूत्वा कुक्षिभरिर्मम ।
पीनः परिदस्थापि, भविष्यत्युदरमरिः ।। ५३५ ।। इति प्रमुदितस्त्रान्तो, दन्तान् सोज्यन्तदारुणः । देहे व्यापारयामास,
मागले पाण्डजन्मनः ।। ५३६ ॥ भीमस्य पञकायस्य, काये व्यापारिता अपि । अवापुः कुष्ठतां तस्य, दन्ताः कुन्ता
मनि ॥ ५३७ ॥ भीमपक्षःस्थले स्थूलं-मावुकक्षुत्कुमोदयः । खननोपक्रमं चक्रे, नखकुद्दालकैर्वकः ॥ ५३८ ॥
अटकारकराम्नस्प, नखरास्ते खरा अपि । मृणालकदलीभञ्ज, भज्यन्ते स्म समन्ततः ॥ ५३९ ॥ विस्मितश्च विलक्षश्च,
नाजिनः मजितम मः । रक्षोनिवहमाहास्त, समस्तं स्वस्य संनिधौ ॥५४०॥ ऊचे च नरमेकैक, स्वादयन्नहमन्वहम् । अस्मिन्
भूभृनि भूयांग-मनेहनमलपम् ।। ५४१ ॥ परं न कोऽप्यभूदी-पुरुषः परुपच्छविः । न च स्थिरो न च स्थूल-वपुर्ना-
प्पस्तोमयः ॥ ५४२ ॥ नदेनं स्वे नगे नीत्या, तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि, सर्वेपामार्शितंभवम् ।।५४३।।
तदरम्पमुदस्यव-मेनं मानुपमादरान् । इत्युक्तास्ते तथा चक्रु-रुदामबलशालिनः ।। ५४४ ॥ भीमभारभराकान्ता, मुखेनो-
दानशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ।। ५४५ ॥ अथ संभूय भूयोभि-स्तैः समं वकराक्षसः। भीमं
कपंनिदुत्पाटा, निनाय निजभूधरम् ॥ ५४६ ॥
इतः मा कुटुम्बेन, रिलापविफलात्मना । प्रणम्य सर्वदेवेभ्यो, देवशर्मा गृहे गतः ॥५४७॥ दूरादधिगृहद्वार-मदृष्ट्या
अम्टं चलेः । म द्विजो द्विजवाचालं, जहालः काननं ययौ ।। ५४८॥ (युग्मम् ) तत्रालोक्य गदा पाद-संमदं च शिलान्तिके।
१ कालम् । २ भोजनम् । ३ पक्षिभिर्वाचालम् । ४ धावकः ।
॥१३८॥
स प्रत्यासनमासन मूर्छः पप्रच्छ देवलम् ॥ ५४९॥ ब्रूहि पन्धो प्रबन्धोऽय-मधुना कीदृशोऽभवत् १ । वनमायातपूर्वी च, लक्ष्यते राक्षसो यतः ॥ ५५० ॥ शशंस सोऽपि भो विप्न!, कोपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य, तूलिकामिव लीलया ॥ ५५१॥ वेगादागत्य तमिती, द्वितीयमिव पर्वतम् । निरीक्ष्यः रक्षसां नेता, "निनाय निजभूधरम् ।। ५५२ ॥ एतावत्यन्तरे. कूरै-रुत्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचक्रे, स रक्षोभिर्युभुक्षितैः ।। ५५३ ॥ त्वां वध्यवेपमुवीक्ष्य, ध्रुवं संभावयाम्यहम् । कश्चित्तवैव पर्याये, सुकृती - त्यक्तवानमन् ॥ ५५४ ॥ तच्छ्रुत्वाऽतीय चक्रन्द, वजाहत इव द्विजः । हा परोपकृतिप्रौढ , निव्यूढाद्भुतसाहस ॥ ५५५ ॥ ममाघमर्पोमाधाय, गत्वा राक्षसासनम् । विश्वरक्षाक्षमैर्धातः 1, ग्राणैर- 'प्रीणयः कथम् ॥ ५५६ ॥ न त्यया विदधे 'साधु, प्राणैर्मामपि रक्षता । • यतस्तृणमणिस्थाने, "हन्त चिन्तामणिर्गतः ॥५५७ ॥ सा विप्रो विलपन्ने, निजं. संप्रेष्य .मानुपम् । पृथायाः कथयामास, कथां दत्तव्यथामिमाम् ॥ ५५८ ॥ पृथाऽपि सह पाश्चाल्या, पक्किलं मार्गमश्रुभिः । कुर्वती वनमभ्यागात् , ' साधं धर्मसुतादिभिः ॥ ५५९ ॥ काम्येऽपि कानने तस्मि-नस्पृशन्तो रति क्वचित् । संर्गताः केसरस्याध-रते सर्वे देवशर्मणा ॥ ५६० ॥ अथ शोकेन पक्ष्मान्त-वान्ताश्रुकणधोरणिः ।युधिष्ठिरमभाषिष्ट, द्विजः खानुशयाऽऽशयः ॥५६१॥ इदं विश्वजनीनेन, मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रम(वीतेन, त्वद्धात्रा कर्म निर्ममे ॥५६२।। प्रणन्तुं कुलदेवीम्यो, यद्गतोऽस्मि दुनोति तत्। तत्रान्तरे महात्माऽसौ, गत्वा रक्षोमुखेऽपतत् ॥ ५६३ ॥ अथोवाच तपासूनुः,सनृतैकनिकेतनम् । मा विपीद महाभाग !, १ देवपूजकम् । २ स्थाने 1.३ सुन्दरे । ४ मिलिताः । ५ सत्यैकगृहम् । ।
बकासुरो-
पद्रव
पर्याप्त परिदेवितैः ॥ ५६४ ॥ न जातु यातुधानेन, मबन्धुः परिभूयते । तमस्काण्डेन चण्डांशुः, किं कदापि विलुप्यते ?
।। ५६५ ॥ भीमस्य भुजपाशेन, लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता, चको बक इव ध्रुवम् ॥ ५६६ ।। इति
तस्मिन् वदत्येव, मुक्तसूत्कारमम्परात् । पपात मुण्डमुच्चण्ड-गण्डशैलोपमं पुरः ॥ ५६७ ॥ चकम्पे काश्यपी शैलाः, पेतुर्यस्मि-
निपेतपि ।। तत्किमेतदिति क्षोभा-ते प्रेक्षन्त मुहुर्मुहुः ॥ ५६८ ॥ भीमस्य प्रथितस्तेऽथ, चिनिश्चिक्यिरे शिरः । वदैव
मुक्तकण्ठं च, सर्वे परिदिदेविरे ॥ ५६९ ॥
चक्रन्द नन्दनः पाण्डो-या॑यानुज्झितधीरिमा । हा! वत्स ! विश्वसाधार, हा! हिडम्बविडम्बन ! ॥ ५७० ।।
अवधीस्त्वं नरव्याघ्र !, पुरा राक्षसकुञ्जरान् । किमिदानीं यकेनापि, लम्भितोऽसि दशामिमाम् ? ॥५७१ ॥ वकं हत्वा ध्रुवं
पार्थो, विधाता वैरयातनाम् । त्वयाऽधुना विमुक्तास्तु, भवितास्मः कथं वयम् ? ॥५७२॥ सुखं निद्रायमाणाना-मतिश्रान्ति-
जुपा पथि । को नाम यामिकोऽस्माकं, भविष्यति विना त्वया ? ॥ ५७३ ॥ प्रचण्डतरसाऽस्माक-मगाघेऽध्वमहाम्थुधौ।
उपाचोदात्तकाप्ठेन, वत्स ! पोतायितं त्वया ॥ ५७४ ॥ मामिदानीं त्वया सौम्य-त्यक्त विधुमिवाधुना । बाढं वाधिष्यते क्रूरः,
सुयोधनविधुतुदः ॥ ५७५ ॥ अथवा तब सार्थेन, यास्यतो मम निचितम् । विरोधे सावधानोऽपि, किं विधाता सुयोधनः?
॥ ५७६ ॥ इत्यं विलापविकलो, यावदालोकते पुरः । तावद्धर्मात्मजः कुन्ती, जातमूर्छा मुदैवत ।। ५७७ ॥
१ शोकैः । २ 'तोद्योत.'' तोद्यत० ' प्रत्यन्तर० । ३ (सौम्यो बुधः,) तेन त्यक्तो रहितस्तम् । (४ ' ग्रहपश्चकसंयोग,
दृष्ट्वा न प्रहणं वदेत् । यदि न स्यादुधस्तत्र, तं दृष्ट्वा ग्रहणं वदेत् ॥'एतदनुगामिनीयं कल्पना ।)
.
,
॥१३९॥
तनूजैस्तैस्ततः कुन्ती, वीजिता प्राप्य चेतनाम् । पर्यदेवत हा ! वत्स !, सत्त्वोदार ! वृकोदर ! ॥ ५७८ ॥ मुनिभिर्व- चकायस्त्वं, कथितस्तत् कथं बकः । मृणालकन्दलीछेद-मिदं चिच्छेद ते शिरः॥ ५७९ ॥ तवैतस्योत्तमाङ्गस्य, क्रियेऽह- मवतारणम् । पुरा येन गिरिमावा, भस्मचमचूर्यत ।। ५८० ॥ प्रकाशः प्राग्ययोरासी-तामसीष्वपि रात्रिपु । नेत्राभ्यामधुना ताभ्यां, कथं मामपि नेक्षसे ? ॥ ५८१ ॥ तेषु तेष्ववदातेषु, मुहुराधायि यो मया । सोऽयं सन्मूर्द्धजो मूर्द्धा, कथं लुठति भूतले १ ॥ ५८२॥ इत्थं विसंस्थुलं कुन्त्यां, विलपन्त्यां मुहुर्मुहुः । तमुपादाय मुनि, द्रौपदी विदधे हृदि ॥५८३।। व्यलपत्तुमुलं साऽपि, पादपान्तरिता ततः । हा ! नाथ ! मथिताराते !, क गतोऽसि विहाय माम् ॥ ५८४ ॥ मया प्राणेश ! ये केशा, विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी, विलुठन्ति भुवस्तले ॥ ५८५ ॥ विद्रुमाभः पुरा योऽभूत् , सुधास्वादुस्तवाधरः । धिविधि सोऽधुना धत्ते, अम्लानेन्दीवर श्रियम् ॥ ५८६ ॥ अध्यशेत ममोत्सङ्गे, यः शयालरनेकधा । अयं स एव मौलिस्ते, गाहते ही महीतलम् ॥ ५८७ ॥ जानीयास्त्वमिदानीं मा-मात्मान्तिकमुपेयुपीम् । एवं क्लिप्य पाञ्चाली, चितामारचयत्तदा ॥ ५८८ ॥ राज्यभ्रंशं प्रवासं च, विना भीमेन दुःसहम् । विभाव्य धर्मपुत्राद्यै-मरणायोपचक्रमे ॥ ५८९ ॥ अहमेवाभवं हेतु-रेत- स्मिन्नसमोंसे । इति निश्चित्य संनद्धं, भृत्यवे देवशर्मणा ।। ५९० ।। अथाश्रूयत तैः सर्वे-ब्रह्मस्तम्बोदरंभरिः । गुहागह्वरवर्धिष्णु-र्मुहुः किलकिलारवः ।। ५९१ ।। श्रुत्वा तं चिन्तयामास, १ सुकेशः । २ अयोग्ये।
बकासुरो-
पद्रवः॥
मक्षोभं धर्मनन्दनः । भीमं हत्वाऽयमभ्येति, हन्तुमस्मानिशाचरः ।। ५९२ ।। शीर्पच्छेद्यो ह्यसौ दिष्ट्या, स्वयमेत्यस्मदन्ति-
कम् । वैरं निर्यात्य भीमस्य, करिष्यामः स्वमीप्सितम् ॥ ५९३ ॥ विचिन्त्येत्यवदत् पार्थ, वत्सागच्छति राक्षसः । अस्य
जीवितमादाय, भीममुजीवय द्रुतम् ॥ ५९४ ॥ इत्यादिष्टः सकोपेन, किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय, तस्थौ
रसोदिशं प्रति ॥ ५१५ ॥ कुन्ती तु चिन्तयामास, पार्थः कर्षति संप्रति । राक्षसापसदस्यास्यो-दरादाशु वृकोदरम्
॥ ५९६ ।। अस्मिन् कृतान्तपादान्त-परिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव, "भीममत्यन्तवत्सलम् ॥ ५९७ ॥
चक्रे मनसि कृष्णापि, भयात् कृष्णमुखी ततः। हा! हताऽस्मि पतीनेतान् , हन्तुमेति क्षपाचरः ।। ५९८ ॥ यत्र निर्नाम
निर्मग्रं, भीमस्यौजो महौजसः । तत्र पार्थस्य शौण्डीयं, किं नु नाम करिष्यति ? ॥ ५९९ ॥ दुष्टस्य यस्य नियूंढ-चण्डांशा-
वपि चण्डिमा । ग्रसते स सुधारश्मि, राहुस्त्र किमद्भुतम् ॥ ६०० ।। तन्मे भर्तृवधं वेधा, दुर्मेधा दर्शयिष्यति । न च वीक्षि-
तुमेतं च, क्षमेते मम लोचने । ६०१ ॥ इत्यालोच्य चिताभ्यणे, निमील्य नयने निजे । तथैव भृशमस्वस्था, तस्थौ द्रुपद-
नन्दिनी ॥ ६०२ ॥ देवशर्माऽपि सावित्री, स्वकलत्रमभापत । उत्पातस्याहमेतस्य, संजातोऽस्मि निवन्धनम् ॥ ६०३ ॥
निहतो पन्धुरेतेषां, दृशोरविपये मम । रक्षसा हन्यमानांस्तु, द्रष्टुं शक्ष्याम्यमून् कथम् १ ॥६०४॥ तचेदुद्वन्धनं कुर्या, विशेयं
वा महीं यदि । विदीर्येयं स्वयं चेद्वा, स्यात्तदैव मम प्रियम् ॥ ६०५ ॥ इति जल्पत एवास्य, कुर्वन् किलकिलारखान् ।
बभूव भीमः सर्वेषां तेषां लोचनगोचरः ।। ६०६ ॥
१ वालयित्वा । २ अनुगमिष्यामि । ३ नामरहितम् ।
॥१४॥
अथ व्यापारितस्फार-फालमालोक्य तं तदा । तेषां रोमोगमन्याजात् , सर्वाङ्गमुदित मुदा ॥६०७॥ अथ स्फूर्जदवष्टम्भ- ममापिष्ट युधिष्ठिरः । बन्धुर्भामो मदीयः किं, राक्षसः परिभूयते १ ॥ ६०८ ॥ भवितारस्तरां पश्चा-प्यजय्या जगतोऽ. प्यमी । इयं नो भारती दिव्या, जन्मोत्था हि किमन्यथा १॥६०९ ॥ गतिं भवन्तो गन्तारः, क्रमात् पश्चापि पञ्चमीम् । इत्याख्यायि मुनीन्द्रैर्य-तदसत्यं भवेत्किम १॥ ६१० ॥ एवमस्मिन् वदत्येव, वेगादेत्य वृकोदरः । कुन्ती च ज्येष्ठबन्धु च, नमस्यामास सादरम् ॥ ६११॥ दात् प्रणमतो बन्धून् , समालिङ्गथ कनीयसः । स्मितोत्फुल्लमुखो भीमः, पप्रच्छ क्षोभ- कारयाम् ॥ ६१२ ॥ अथ पार्थः समाचख्यो, यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप, चक्षुः कृष्णादिक्षया ॥६१३॥ । दृष्ट्वा कृष्णां तथाभूतां, चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः, पाणिभ्यां क्रीडया दृशौ ॥ ६१४ ॥ भयेन वेपमानाङ्गी, कृष्णाऽथ गिरमाददे । रात्रिचर ! दुराचार !, रे ! पाप ! परतो भव ॥ ६१५ ।। आर्यपुत्रस्य भीमस्य, च्छलाद्वधविधानतः । अद्रष्टव्यमुखोऽसीति, मया नेत्रे निमीलिते ॥ ६१६ ॥ मम प्रियवधे हस्तौ, यो तव व्याप्तौ पुरा । उग्रदण्डोचितौ दुई , तावेतौ दूरतः कुरु ।। ६१७ ॥ हतैवाहं पुरा हन्त !, जीवितेशवधावया । रे! दुरात्मनिदानीं तु, कुरुपे मृतमारणम् ।। ६१८॥ कान्तमन्वेतुकामाऽह-मारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप !, मा मा मां मलिनीकुरु ।। ६१९ ॥ नावाप्यसो भयं शत्रो मुञ्चतीति विचिन्तयन् । अपसार्य निजी पाणी, भीमस्तामिदमभ्यधात् ॥ ६२० ॥ प्रिये ! द्रौपदि ! मा भैपी-र्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो, रक्षोपाती तु ते प्रियः ॥६२१॥ पङ्कजोत्फुल्लनयना, नयना- भ्यासुदैवत । सा प्रेयांसमुदाराज, नोत्तमाङ्गं तु तत्पुरः ॥ ६२२ ॥ दिष्ट्या मे जीवितव्येशः, कुशलीति मुदं पराम् । किंतु
मीमेन
शमितः
बकासुरो-
पद्रवः॥
मायाविनो माया, राक्षसस्येति संभ्रमम् ॥ ६२३ ॥ क्व नु तेनोत्तमाङ्गेन, प्रयातमिति विस्मयम् । मया रक्षोभयात् प्रोक्त-
मसंबद्धमिति पाम् ॥ ६२४ ॥ इत्थं वहन्ती संकीर्णान् , भावान् प्रियतमेन सा । तथाऽऽ श्लेपि यथा तन्त्रो-भैंदवादो
न्यवर्तत ।। ६२५ ।। (त्रिभिविशेषकम् । ) स्तनोपपीडमाश्लिष्टा, प्रेयसा सा रसान् परान् । मुक्त्वा जितसुधासेक-मेकमान-
न्दमन्वभूत् ।। ६२६ ॥ प्रियाप्रेम्णाऽतिरेकेण, तेनासंप्राप्तपूर्षिणा । अनेशदाशु भीमस्य, सर्वोऽपि समरश्रमः ॥ ६२७ ॥
अनवद्यैर्महावाद्यः, शङ्खाधैमेंदुरीकृतः। तस्याथ दुन्दुभिध्यानः, कर्णजाहमगाहत ॥६२८॥ ज्ञातप्रवन्धमायान्त-मेकचक्रा-
नरेश्वरम् । सोऽपश्यदन्वितं पौरै- नामङ्गल्यपाणिभिः ॥ ६२९ ।। पार्थदत्तासनासीन-तपासूनुपदान्तिके । वेगादागत्य
विनयी, निपसाद वृकोदरः ॥ ६३० ॥ अकृत्रिमत्रपारङ्ग-नीरङ्गी सुभगाकृतिः । श्वश्रूपार्श्व समेयाय, द्रुतं द्रुपदनन्दिनी
॥६३१।। चक्रवत्येकचकायाः, समेत्याथ युधिष्ठिरम् । वर्धयामास माङ्गल्यै-रङ्गे रोमाकुरं वहन् ।। ६३२ ।। अहंप्रथमिकापूर्व,
सर्वेऽपि नगरीजनाः । ज्यायमः पाण्डवेयस्य, मङ्गलानि वितेनिरे॥६३३।। अस्मत्कुटुम्बजीवातो, जीव त्वं जीवितेन नः ।
इत्याशास्य पुरीवृद्धा, भ्रमयामासुरश्चलम् ॥ ६३४ ॥ विहिताद्भुतशृङ्गाराः, शृङ्गाराखस्य सायकाः । तत्र नृत्यं स्त्रियः काश्चि-
यधुः कुलवधूचितम् ॥ ६३५ ॥ हल्लीसकप्रबन्धेन, वीररत्नप्रवरिति । अमन्दानन्दसंदोहाः, कुन्तीं काथिजगुर्मुहुः ॥ ६३६ ॥
नूतनोलूलकल्लोले-नि:सीमं भीमविक्रमम् । काचिदकवधाधान-मनोहरमुदाहरन् ।।६३७॥ इत्थं मनसि काये वा, न पौराणां
ममुर्मुदः । प्रीत्यै शुभोदयोऽन्योऽपि, किं पुनर्जीवितागमः ॥ ६३८ ।।
१ कामदेव य ।
॥१४॥
पिता हतः । मयाऽऽख्याथि महाकाय त् पुमान् बलिः ॥६५३ ॥ जज्ञेतमा तमालोक्य , स्वामिनो नो मनोरथैः । बद्धाञ्जलिरथोवाच, भूपतिस्तपसःसुतम् । एकचमाप्रजाप्राण-सनिन् ! कल्याणमस्तु ते॥६३९।। यतः प्रभृति कल्याणि -नुपागा नगरीमिमाम् । ततः प्रभृति पौराणा-मभूदभ्युदयो महान् ॥६४०॥ इदानीं तु समानीते, बके कीनाशदासताम् । संजातोऽस्यशरण्याना, प्रजानामभयप्रदः ॥६४१॥ अतः परं प्रजाः सन्तु, पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च, पुत्रा- र्थमुपयाचितम् ॥६४२।। जनन्योऽनुपमहाः, पालयन्तु तनूरुहान् । चिराय वरिवस्यन्तु, सवित्रीः स्वाः सुता अपि ॥६४३।। एतत्तु कथ्यतां सौम्य !, कतमस्ते स बान्धवः । इन्द्रेण पाकवचक्रे, चको येन यमातिथिः १ ॥६४४ ॥ ततो धर्मात्मज- स्तस्मै, कथयामास लीलया । पन्धुः सैप कनीयान्मे, संहर्ता सकलापदाम् ॥ ६४५ ॥ तदुपश्रुत्य सर्वेषा-मेकचक्रानिवासि- नाम् । मुग्धाः सिग्धाः सुधासान्द्रा, विकसत्पक्ष्मसंपुटाः ॥ ६४६ ॥ निमेपविमुखाः फोडी-कृतानन्दाश्रुपिन्दवः । जीवित- व्यप्रदे भीमे, निपेतुर्युगपदृशः ॥६४७॥ ( युग्मम् ) अथ पप्रच्छ निःशोको, लोको बकनिमूदनम् । कथ्यता प्रथयांचक्रे, कथं यवधस्त्वया ॥६४८॥ इमामुदाहरिष्यामि, कथां कथमिवात्मनः । । इति तूष्णीं स्थिते भीमे, जने चावहितेऽधिकम् ।। ६४९ ।। अवतीर्य नमःक्रोडात् , पुरतः पाण्डुजन्मनाम् । उभौ युवा च युद्धश्च, पुरुषावेत्य तस्थतः ॥६५०॥ ( युग्मम् ) तयोरुयाच वर्षीयान् , विस्मितं धर्मनन्दनम् । बकराक्षसराजस्य, दुद्धिः सचिवोऽस्म्यहम् ।। ६५१॥ अयं महायलो नाम, धाम धाम्नां तदात्मजः । निजान्वयपुरी लहां, समयेऽस्मिन् गतोऽभवत् ॥६५२॥ व्यावृत्तस्त्वधुनाऽपृच्छत् , केनेत्थं मे १ यमराजदासत्यम्-मरणमित्यर्थः । २ पूजयन्तु । ३ मातः । ४ पुत्राः ।
बकासुर-
वृत्तान्तः॥
गधा चिरान कुटुम्यस्य, मरत्वयार्शितंभवः ॥६५४॥ स्वाम्यादेशात्ततः शैले, समानीतं कथंचन । वीक्षमाणैरमुं रात्रि-चरैचि-
पीयितं चिरात् ॥६५५।। सूर्यहाममसि कष्वा, प्रजिहीर्घः प्रहर्पतः। तेनाथ भूतलोत्थाय-मभ्यधीयत नः प्रभुः ॥६५६।। रे रे !
नियम निरािश, दुराचार! निशाचर निर्मन्तुजन्तुविध्वंस-पापप्राग्भारपछिल॥६५७॥ भवस्येप कथाशेप-स्त्वमिदानीम-
संभयम् । परं प्रहर रे ! पूर्व, हन्तुं प्रामास्मि शिक्षिवः ॥६५८।। इत्थमुनेजितस्तेजः-शालिनामग्रतःसरः । नक्तंचरमहेन्द्रस्तं,
हतांस्तसारिणा ।। ६५९ ॥ तत्राथ यजत्राने, प्रयुक्तमधिपेन नः । क्षणेन मण्डलायं त-जगाम शतखण्डताम् ॥६६०॥
मोऽधारन्मुष्टिना हन्तं, नक्तंचरपति ततः । पर्वतोचतरः क्रूर-चाणूरमिय केशवः ।।६६१ ॥ मुष्टिना ताडितस्तेन, धृतदम्भो-
लिमलिना । पपात भुवि नः स्वामी, सपक्ष इव भूधरः ॥ ६६२ ।। ततः कुमार ! ते ताते, जाते मूर्छाविसंस्थुले । रक्षोभि-
विरतैर्जातं, हतं मैन्यमनायकम् ।। ६६३ ।। तथाऽप्येतस्य कूटेन, कुटुम्ब संहराम्यहम् । विमृश्येति प्राहिण, सुमायं नाम
राधमम् ॥ ६६४ ॥ शिक्षा मम समादाय, गते तस्मिन् स्वसिद्धये । मृच्छौँ शीतोपचारेण, स्वामिनः प्रापयं क्षयम् ।। ६६५ ।।
पट्टिवस्य तथा तेन, करीपारिवाधिकम् । धगद्धगिति जज्वाल, तेजस्तेजस्विनः प्रभोः ॥६६६|| अथ स्वबाहुपाशेन, मोटयित्वा
शिरोधराम् । तमघो न्यस्य नः स्वामी, समारोहदुरास्थलम् ॥ ६६७ । लन्धविक्रमपाकेन, बकेनाक्रम्य वक्षसि । निरुवासां
दर्ता नीतः, प्रेमीत इव सोऽभवत् ।।६६८॥ प्रावर्तत ततो मझु, रक्षाकिलकिलारखः । पुनरासादितोल्लासैः, पुष्पितं मे मनोरथैः
॥ ६६९ ।। ना कृतिममुण्डे च, सुमायेन अपश्चिते । अत्र नः स्वामिनौवं, विस्फूर्जति पराक्रमे ॥ ६७० ।। कुलं लङ्कापते-
१ भोजनेन तृप्तिः । २ असिना । ३ असिः । ४ कपटेन । ५ मृतः ।
॥१४२॥
जैत्र-मित्युत्सेकपरे मयि । तृणं त्रिलोकीमप्येतां, मन्यमाने च नः प्रभौ ॥ ६७१ ।। तेन छाप्रमीतेन, परिवर्तनलाघवम् । तबके ददृशे येनौ-त्तराधर्यविपर्ययः ॥ ६७२ ।।.(त्रिभिर्विशेपकम् ) यकवक्षस्थलारूढः, स प्रौढभुजविक्रमः। 'मुष्टिमुद्गर- मुद्यम्य, नीतिमानिदमभ्यधात् ॥ ६७३ ॥ स्वयं दोष्मन् ! पदे विद्धः, कण्टकेनापि दूयसे । प्राणानपि परेषां तु, नित्यं हरसि लीलया ॥६७४ ॥ अमारिं कारयांचके, लकेशः परमार्हतः । कुलं तस्य किमेतेन, कलङ्कयसि कर्मणा ? ॥ ६७५ ॥ इदा- नीमपि दुष्कर्म, दूरान्मुश्चसि चैदिदम् । तद्भवत्वभयं तुभ्यं, नष्टं नाद्यापि किंचन ॥ ६७६ ॥ तस्य तेनातिसाम्नापि, प्रभुरभ्यधिकं क्रुधा । जाज्वल्यते स्म तप्ताज्य-मिर चन्दनविन्दुना ।। ६७७॥ अस्यधाच किमाचार्य, इव वाचाल ! जल्पसि। एता वाचो न मे किंचि-चरन्ति श्रवणान्तिके ॥६७८॥ क्षुधातः केल्यवर्त त्वां, विधाय विधिनाऽधुना। सर्वासामपि दास्यामि, त्वद्वाचामुत्तरं ततः॥६७९॥ इत्युदीर्य स्वधैर्येण, प्रतिष्ठासुभृशं-प्रभुः। पूर्वकायेन नितरा-मुत्पपात पपात च ॥६८० ॥ आक्रा- न्तस्यापि तेनोचैः, स्वामिनश्चेष्टया तया । रक्षोलोकस्य शोकेऽपि, हास्यमास्ये समुद्ययौ ॥ ६८१ ।। सोऽभ्यधान्नः प्रभुं भूय- स्तदरे । स्मर दैवतम् । महामांसाशिनां कापि, न हि कल्याणसंपदः ।।६८२।। इति व्याहृत्य तेनाथ, नाथोऽस्माकमनाथवत् । मूख्नं मुष्टिना भित्वा, प्राप्यतेकोऽपि पञ्चताम् ॥ ६८३ ।। विद्याविदितवृत्तान्तः, सुमायश्च वदैव सः। विहङ्गराजवेगेन, व्यावृत्त्येह समाययौ ।। ६८४ ॥ श्रुत्वेति विक्रमस्फारः, कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं, स्वीचक्रे सांयुगीनताम् ॥ ६८५ ॥ शक्तेऽस्मिन्नोचितं युद्धं, तद्भक्याऽभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य, रुद्धः संवर्मयन्मया ॥ ६८६ ॥ १ प्रातभॊजनरूपम् । २ गरुडवेगेन । ३ युद्धसजताम् ।
पकासुर
वृत्तान्तः।
एकतानेन साऽनेन, देवी सम्यगुपासिता । यदादिदेश तदसौ, स्वयमावेदयिष्यति ॥ ६८७ ।।
महायलस्ततोऽवोच-न्मदुपास्तियशंवदा । देवी मामादिशद्वत्स !, रुपं त्यज शमं भज ॥ ६८८ ॥ गत्वा सान्वय
सद्भाव-तत्परः पुरुपानमून् । एते हि निहतानीति-प्रपञ्चाः पञ्च पाण्डवाः ॥ ६८९ ॥ मया पुराऽपि ते ताता, समादिष्टो भृशं
यथा । प्रतीपः पाण्डवेयानां, मा स्म भूर्वत्स ! जातुचित् ।। ६९० ॥ भक्त्यानुकूलिता ह्येते, कामदाः कल्पपादपाः। भवेयुः
प्रतिकूलास्तु, विषमा चिपपादपाः ॥ ६९१ ॥ महामांसनिपे, चेत्, त्वत्तातः प्रत्यपत्स्यत । नाहनिष्यत्तदाऽवश्य-मेनं मध्यम-
पाण्डवः ।। ६९२ ।। तद्गत्वा विनयी भूत्वा, तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति तेऽपि त्यां, सन्तो हि नतवत्सलाः
॥ ६९३ ॥ इति देवीसमादेशा-दस्मि युष्मानुपस्थितः । मामप्यात्मविधेयाना-मन्त्यं संख्यातुमर्हथ ।। ६९४ ॥
पश्यतामथ पौराणां, व्याजहार वृकोदरः । आर्यपादाः प्रसन्नास्ते, निवर्तस्व वधानृणाम् ॥ ६९५ ॥ इत्युक्तस्त्यक्त-
वान् सोऽथ, तमधये वधक्रमम् । अभ्यपिञ्चत साम्राज्ये, पैतृके तं तपासुतः ॥ ६९६ ॥ इमे ते विस्फुरत्कीर्ति-ताण्डवाः
पाण्डवा इति । ज्ञातवद्भिस्तदा पौर-भूयोऽपि मुसुदेतमाम् ॥ ६९७ ।। नृपतिश्चैकचक्रायाः, पौराक्ष तपसःसुतम् । समं
विज्ञापयामासुः, पुर्यां पादोऽवधार्यताम् ।। ६९८ ।। विन्यस्तखस्तिका काम, तोरणप्रवणापणाम् । गन्धाम्युसिक्तसर्वाच-पुप्प-
प्रकरदन्तुराम् ॥ ६९९ ॥ सबन्धुर्वन्धुरश्रीका-मेकचक्रां युधिष्ठिरः। महाबलोपनीतेन, विमानेन ततोऽविशत् ॥ ७०० ॥
(युग्मम् ) आगन्तूनामभिज्ञामि-भीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुल्या, सप्रमोदमदर्यत ।। ७०१॥ असो नगरजीवातु-
१ 'निहिता०' प्रतित्रयपाठो न साधुः । २ विधेयः-अधीनः ।
.
॥१४३॥
रसौ पकनिपूदनः । जगुरेवं पुरस्तस्य, बन्दिनो विरुदावलीम् ॥ ७०२ ॥ एकचक्रानरेन्द्रेण, विनयाऽऽनम्रमूर्तिना । निजं सौधमनीयन्त, तदानीं पाण्डुसूनवः ॥ ७०३ ॥ वासराणि व्यतिक्रम्य, पञ्चपाणि युधिष्ठिरः। पितराज्याय सत्कृत्य, विससर्ज महाबलम् ॥ ७०४ ॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-वसरसरभसानां नागराणां गणेन । विपुलतिरने- कास्तत्र मासान् किलैकं, दिवसमिव सवन्धुर्धर्मसूनुनिनाय ॥ ७०५ ।। इति मलधारिश्रीदेवप्रभमूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब-बकवधनिरूपणो नाम सप्तमः सर्गः ॥ अष्टमः सर्गः। एकदा तु कृशां पश्य-वन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास, बन्धुभिर्धर्मनन्दनः ॥१॥ भीमोपज्ञवकध्वंस- कीर्तिकोलाहलोदयात् । अभूम भूमावेतस्या-मवश्यं विदिता वयम् ॥ २॥ इयं च संप्रति ख्यातिः, सर्वथाऽ प्यहितैव नः । संनिपातज्वरार्तानां, हारहरेव हारिणी ॥ ३ ॥ जीवतो जातु जानीया-दस्मान् दुर्योधनो यदि । राज्यश्रीदुर्मदः किंचि-दो- जायेत ध्रुवं तदा ।। ४ ॥ तदुपक्रम्यते गन्तु-मितो नकमलक्षितैः । यः पाहुण्यप्रयोगेषु, कालज्ञः स हि सर्ववित् ॥ ५ ॥ १ सेवितचरणकमलः । २ हारहूरा-द्राक्षा विशेषः ।
पाण्डवान
द्वैतवने
गमनम्।
ओमिति प्रतिपेदानैः, समेतस्तैयुधिष्ठिरः। सहैव कुन्ती-कृष्णाम्यां, रजन्यामचलत्ततः ॥ ६॥ अरण्यपथपान्यानां,
तेपामेको घृकोदरः । विभावर्यामवष्टम्भ-यष्टिरासीत् पदे पदे ॥ ७ ॥ स्कन्धं ममाधिरोहेति, प्रार्थनायां चकद्विपः । वमो
मुखेडलिक्षेपा, पुरो मातुः पुनः पुनः ॥ ८॥ वत्सला शुशुभे कुन्ती, प्रार्थनां तामकुर्वती। अर्थी पुनः पुनदैन्याद्, भीमस्तु
शुशुभेतमाम् ॥ ९॥ नाध्यारोहदधिस्कन्धं, पुत्रक्लमभयात् पृथा । मातस्तु पादचारेण, भीमस्याभूदृशं क्लमः ॥ १० ॥
तेषां भीमोऽभवदीपो, निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि, चाक्षुपी करदीपिका ॥ ११ ॥ स्कन्धारोहार्थनाभङ्ग-
जागरूकरुपि प्रिये । कृष्णा चचाल पश्यन्ती, वलितग्रीवमग्रतः ॥ १२ ॥ अतिश्रमात् स्वयं भूत्वा, भर्तुः कण्ठावलम्पिनी ।
पतिप्रणयमङ्गस्य, प्रायश्चित्तं चकार सा ॥ १३ ॥ आलिङ्गनोपदादानात् , सा तूष्णीमेव तस्थुपी। आदेशाविक्रमक्रुद्ध-मनु-
नीतवती पतिम् ॥ १४ ॥ वक्षोवक्षोजकलशै-लसत्प्रेमरसोमिभिः । निपिच्य कृष्णया पत्यु-स्तापः सर्वोऽप्यपाकृतः ॥१५॥
तस्या निषेधपारुष्य-मकुर्वाणो वृकोदरः । नितान्तमुदिताकार-श्रकार गरिमोचितम् ॥१६॥ मारुतिर्मातरं स्कन्धे, बलादारोप्य
दक्षिणे। प्रियामारोपयद्बामे, क्रमाभिज्ञा हि तादृशाः॥१७॥ तदा पत्तीयितं कापि, कापि तेषां सखीयितम् । सूपकारायितं कापि,
क्वापि तेन स्थायितम् ।। १८ ॥ भीमसाहायकध्वस्त-समस्ताध्यपरिश्रमाः । अहर्दिवं वहन्तस्ते, दीर्घमध्वानमत्यगुः ॥ १९ ॥
क्रमेण रेणुदिग्धाङ्गा-स्ते मलीमसवाससः । ययुपुल्यनिर्लप्त-दैतं द्वैतवनं वनम् ॥ २०॥ कुत्रापि कुररी-कोक कोकिला-
कुलमञ्जुलम् । कुत्रापि वृक-शार्दूल-शृगाल-पालसंकुलम् ।। २१ ॥ कचिचम्पक-पुंनाग-नाग-फेसरभासुरम् । कचिजरत-
१ विस्तारेण नाशितः द्वैतभावो येन तत् ।
॥१४४॥
रक्रीड-दूकघूत्कारदारुणम् ॥ २२ ॥ स्वाध्यायध्वनिवाचाल-तापसाश्रममेकतः। द्विप-दीपिवधकुद्ध-व्याधसंबधिमन्यतः ॥ २३ ॥ ( चतुर्भिः कलापकम् ) विदित्वाऽतिसुलभ्यानि, कन्द-मूल-फलान्यथ । विदधुर्वसतिं तत्र, कानने पाण्डुसनवः ॥ २४ ॥ ते वन्येनापि वेपेण, वहन्ति स्म श्रियं पराम् । त्यजन्ति मणयस्तेज-वपुणोपहिता हि किम् ? ॥२५॥ भीमो नव- नवैर्वन्यै-राहारः सुमनोहरैः । लीलयैव समानीतैः, प्रीणयामास बान्धवान् ॥ २६ ॥ दुकूलकोमलैः स्नेहात् , सहदेवो दिवा- निशम् । वल्कलोपायनैर्नव्य-रुपचक्रे कुटुम्बकम् ॥ २७ ॥ कृत्वा पलाशैः पालाशै-रुटजं विकटाजिरम् । भक्तिं चक्रे कुटु- म्बस्य, नकुलः स्वकुलोचिताम् ॥ २८ ॥ क्षुद्रोपद्रवकर्तृणां, निधनाय धनंजयः । कुण्डलीकृतकोदण्ड-स्तस्थौ जाग्रदहनि- शम् ॥ २९ ॥ स्मरन्ती जिनपादानां, दीने दुःस्थे दयावती । शान्त्यै सुतानां धाणि, कुन्ती कर्माणि निर्ममे ॥३०॥ परमेष्ठिस्मृतौ निष्ठां, ग्राहितास्तनयास्तया । अनारतमजायन्त, तन्मयीकृतचेतसः ॥ ३१ ॥ व्यापिप्रिये तथा कृष्णा, सर्वेपु गृहकर्मसु । यथाऽतीच तदा तेपा-मेधिता गृहमेधिता ॥३२॥ प्रियामेकैकशस्तेऽपि, कुसुमाभरणैर्नवैः । प्रेम्णाऽलंचक्रिरे तत्र, वने सर्वर्तुशालिनि ॥ ३३ ॥ सर्वर्तुसंभवैः पुष्पैः, स्वयं कान्तरलंकृता । विरेजे द्रौपदी साक्षा-दृतूनामिव देवता ॥३४॥ पुलिन्दप्रामृतैर्टन्ध, कुम्भिकुम्भोत्थमौक्तिकैः । हारं मनोहरं भीमा, प्रेयसी पर्यधापयत् ।। ३५ ॥ विनयात्तनयानां च, स्नुषा- याथातिनिस्तुपात् । सस्मार राजसौख्यानां, नैव कुन्ती कदाचन ॥३६॥ द्रौपद्या च कलनेण, कुन्त्या मात्रा च पाण्डवाः। कृतार्थमानिनः प्रापुः, सुखं राज्यश्रियोऽधिकम् ।। ३७ ॥ प्रेयोभिस्तैस्तथा श्वश्वा, मेने सानन्दमानसा। निजामनच्युतां १ संबाधं-संकटम् । २ पर्णैः । ३ वृद्धिं गता। २५
द्वैतवने
प्रियंवद-
स्या-
गमनम् ॥
राज्य-संपदं द्रुपदात्मजा ॥ ३८ ॥ चक्रे धर्मसुतो बन्धु-सेवाहेवाकरञ्जितः । हस्तिनापुरसंवासात् , प्रवासमपि तं वरम्
॥ ३९ ॥ अजससेवावमरं, प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः, कृतार्थ जन्म मेनिरे ।। ४० ॥
अन्यदाऽन्तस्तरुणि, दिशत्सु किशलश्रियम् । रखेः करेषु भूपालः, प्रभातास्थानमभ्यगात् ॥ ४१॥ वेद्यां वेत्रासन-
स्थस्य, भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ, संवाहयति भक्तितः॥ ४२ ।। नृपान्तिकनिपण्णायाः, कुन्त्या वचन-
वीचिषु । अर्पितश्रोत्रपात्रायां, देव्या द्रुपदजन्मनि ॥ ४३ ॥ सहदेवे महीभर्तु-रातपत्रविडम्बिनीम् । स्वपटी विनयाधारे,
धारयत्येकतः स्थिते ॥ ४४ ॥ नकुले चालयत्यारा-चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्ति-राजिन्यां राज्यसंपदि ॥४५॥
वेत्रदण्डोपमं पाणी, कोदण्डं धारयन् दृढम् । आयान्तं कथयामास, पान्थमेकं धनंजयः ॥ ४६ ॥ ( पञ्चभिः कुलकम्
व्यापार्याम्भोजसोदाँ, दृशं दूरे महीपतिः । उवाच रममावत्स !, किं नासौ स्यात् प्रियंवदः? ॥४७॥ अथ कृष्णा बिह-
स्याऽऽह, क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमसद्वत् ?, किं वाऽस्माभिः करिष्यति ? ॥ ४८ ॥ ततो विलोकया-
मासु-स्ते सर्व पुस्तो दिशि । क्रमादम्पर्णमायात-स्तैनिश्चिक्ये प्रियंवदः ॥ ४९ ॥ प्रत्युद्यायाथ पार्थेन, प्रदत्ताद्भुतगौरवः।
भूमिपीठलठन्मौलिः, स ननाम युधिष्ठिरम् ॥ ५० ॥ निविडोत्कण्ठमाश्लिष्टो, भुजाभ्यां पृथिवीभुजा । सहदेवार्पिते
नीचे-रुपविष्टः स विष्टरे ।। ५१ ॥ दृशा पीयूपवर्षिण्या, सिञ्चन् भूपस्तमभ्यधात् । कचित् कुशलिनो वत्म !, तातपादाजरे-
पवः । ॥ ५२ ॥ कचिन् कल्याणवान् कल्प-वात्सल्यभरमेदुरः । विदुरो नित्यमस्मासु, क्षेमनिर्माणदीक्षितः । ॥ ५३॥
(१ किशलशब्दोऽपि पल्लनार्थकः ।) २ प्रातःकालसभाम्, यदि वा कान्तियुक्तसभाम् । ३ कल्प-प्रभूतम् ।
॥१४५॥
कगिदस्मत्प्रियः सौम्य !, क्षेमवान्नः पितामहः । द्रोणः कल्याणवान् कचि-द्गुरुः पूज्यतमोत्तमः ? ॥ ५४ ॥ धृतराष्ट्रः सुसी कचि-पिता नः पुत्रवत्सलः । कचिदास्माकमातॄणां, ज्यायसीनामनामयम् ॥ ५५ ॥ कश्चित् पूर्णाभिलापोऽभू-द्वा- न्धवो नः सुयोधनः । तत्र प्रदीपनाचं, किं च किं च तदाऽभवत् ? ॥ ५६ ।। कथं च वयमत्रस्था, विदांचकमहे वया । एतत्सरूपमस्माकं, प्रियंवद ! वदाद्भुतम् ॥ ५७ ॥ अथ प्रियंवदोवादी-देव दुःस्वेऽपि चेतसि । वर्तन्ते वपुपा तावत् , सर्वे कुशलशालिनः ॥ ५८ ।। तस्मिन्ननंलिहज्वाले, कराले जातवेदसि । दान्ते पाण्डवा हा धि-गित्येवं पूत्कृतं जनैः ।। ५९ ॥ लोकः शोकाकुलः काम, तं कृशानुं कृशेत- रम् । वेगाद्विध्यापयामास, बाप्पद्विगुणितै लैः ।। ६० ॥ प्रदीपनेन नानेन, मम किंचन दह्यते । इत्यौदासीन्यसुस्थोऽई, न किंचिदुःखमस्पृशम् ॥ ६१ ॥ नेत्रयोः पात्रतां तत्र, भेटिनीभूतमूर्तयः । दोमन्तो युष्मदाकारा, नागरैर्निन्यिरे नराः ।। ६२॥ असौ धर्मसुतो यस्य, मृतस्यापि मुखाम्युजम् । दासीकरोति निजया, पार्वणेन्दुमपि श्रिया ।। ६३ ॥ एप स्थूलवपुीमो, भुजावानयमर्जुनः । वृहद्न्धुममीपस्थी, मुग्धौ सौम्याविमौ यमौ ॥ ६४ ॥ इयं कुन्ती जगन्माता, न माता भुवनत्रये । तुपाराद्रितपारांशु-शुभ्रा यस्य गुणावली ।। ६५ ।। असौ द्राधीयसीं निद्रा, गता द्रुपदनन्दिनी । या प्रेयस्यपि पश्चाना- मुच्यते स्म महासती ॥६६॥ इत्थं निश्चित्य निश्चित्त्य, देव ! युष्मांस्तथा जनैः । रुद्यते स्म यथा सर्वे, रुदितं पादपैरपि ॥६॥ (चतुर्भिः कलापकम् ।। युष्मद्गुणानुरागेण, वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ञातप्रवन्धस्य, विकल्पो मम चेतसि ॥ ६८॥ (१ भटि-शूलपफमांसम्, अर्धदग्धमित्यर्थः ।)
पाण्डवानां
कथितो
वृत्तान्तः
प्रियंवदेन।
शापि ते पुण्यनामानः, सैर जग्मुः मुरड्या । हा ! दग्धाः पाण्डवा एते, मुधैव विलपन्त्यमी ।। ६९ ॥
ततः कुतूहलाद्गत्वा, ते मया पञ्च वीक्षिताः । युष्मदत्यन्तमादृश्या-मूढोऽथाहमचिन्तयम् ॥ ७० ॥ धूमस्तोमेन
नाद्रातुः, मुरङ्गाद्वारमाकुलाः । तेनामेरिन्धनीभूताः, स्वामिनो मम पाण्डवाः ॥ ७१ ॥ यद्वा कान्तारदौरात्म्या-देतत्ते तेनिरे
माम् । भवेद्धि तादृसी बुद्धिादशी भवितव्यता ॥ ७२ ।। इति प्रत्यक्षतो जात-युष्मद्यापत्तिनिश्चयः । तारपूत्कारपर्याप्त-
रोदोरेन्टमरोदिपम् ।। ७३ ॥ अस्पृशं समतामन्यैः,शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वस्मि-स्तेभ्योऽहमधमाधमः ॥७४ ।।
मन्यानास्तुणरत् प्राणान्, यत्ते त्यामन्यगुस्तदा । दर्शयाम्येप वो वक्र-महं तु प्रियजीवितः ।। ७५ ।।
ततो गजपुरे गत्वा, वार्ताया वः शुचा जनम् । एक दुर्योधनं मुक्त्वा, स्वसधर्माणमादधाम् ॥ ७६ ।। देवेन पाण्डुना
छन-मायण विदुरेण च । पृष्टोऽहं कथ्यतां भद्र !, भद्रं मे तनुजन्मनाम् ॥ ७७ ॥ अचीकथं यथादृष्ट-मिष्टेतरदहं तयोः ।
तावप्यशृणुता पश्चान् , पूर्व मूर्छामगच्छताम् ॥ ७८ ॥ मयोपवीज्य चैतन्यं, लम्भितौ तौ पिलेपतुः । द्वा! वत्साः! स्थ
कचं दग्धा, दहनेन दुरात्मना ।। ७९ ॥ कथं शिक्षाऽस्मदीयापि, विस्मृता वः शुभोदया । यद्वा मतिर्निपर्येति, वेधसि प्राति-
कृलिके ।। ८० । विदुपा विदुरेणाथ, पिता ते समयोध्यत । शोको निर्यतामार्य !, मनो धैर्याय दीयताम् ॥ ८१ ॥
मरें फिमधुना पूर्णाः, पिशुनानां मनोरथाः १ । किं वा प्रियंवदो भ्रान्तः, संशयोऽयं ममाशये १ ॥ ८२ ॥ दिनैः कतिपयैरेन,
मर्पमानिर्भविष्यति । आपदः संपदो वाऽपि, न स्युश्छन्ना महात्मनाम् ॥ ८३ ॥ विदुरस्यानया वाचा, स्वल्पीचक्रे शुचं
१ व्यापत्तिः-मरणम् । २ रोदसी-द्यावापृथिव्यौ। ३ विपरीता भवति ।
॥१४६॥
पहिः । यभार भूयसी देव-स्तामन्तर्मनसं पुनः ॥८४|| मातरः सत्यवत्याद्या, व्यपद्यन्त शुचाऽनया । न हि दावानलज्याला, सहन्ते मालतीलताः ।।८५|| विदुराश्वासनावाक्यै-महापद्वार्तया च वः । देवः पाण्डुरियत्काल-मासीजीवन्मृतोपमः ॥८६।। कीर्तिर्यकरधोद्भूता, स्वधुनीवाधुना तव । पावयन्ती भुवं देव , हस्तिनापुरमभ्यगात् ॥ ८७ ॥ सख्यं मयाः सुधा- याथ, सिताऽपि युगपत्तदा । अलम्भयदमित्राणां, मित्राणां च मुखानि सा ॥८८॥ तदानीं युष्मदीयैस्तैः, श्रुतैरपि यशोजलैः। देवस्त निविडं पाण्डः, शोकपथमपाकरोत् ॥ ८९ ॥ स पाण्डुना परित्यक्तः, सर्वः सुखविपर्ययः । साभिमान इयोशिं, दुर्योधनमशिश्रियत् ।। ९० ॥ न प्रियाक न पल्यके, न बने भवने च न । न स्थले न जले कापि, रतिमालम्यते स्म स: ।। ९१ ।। अथाभ्येत्य तथाऽयस्थ, शकुनिस्तमभापत । धराधव ! तव व्याधि-राधिर्वा कोऽयमुत्कटः १॥ ९२ ॥ येन दावा- नलज्वाला-दग्धस्थाणूपर्म यपुः । वहसे सहसाऽस्माकं, ब्रूहि दंदह्यते मनः ॥ ९३ ।। अथाभ्यधत्त गान्धारी-तनयो दुर्न- पैकभूः । गर्वसहः सहायोऽसि, त्वं मातुल ! ममातुलः ॥ ९४ ॥ पश्य मां विफलारम्भ, कृत्वा जीवन्ति पाण्डवाः । विरो- धिनि विधौ पुंसां, पृथैव स्युमनोरथाः ॥ ९५ ॥ विष पीयूपगण्दूपः, पश्य तेषामजायत । जातुपागारदाहोऽपि, पयोवाहजल- प्लमः ॥ ९६ ॥ हिडम्ब-यक-फिीर-वधाडम्बरडिण्डिमः । भुर्भुवःस्वस्त्रयीरङ्गे, तेपां कीर्तिः अनृत्यति ॥ ९७ ।। आजन्म विद्विषो ये ते, जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा, नन्दन्ति प्रतिपत्तनम् ॥ ९८ ॥ धुर्यो मर्माविधामेप, व्याधिर्मा पाधतेऽधिकम् । तदेतस्यागदंकारः, संप्रत्यप्रतिमो भव ॥ ९९ ॥ १ अम्रियन्त । २ गगा।
पाण्डवानां
कथितो
वृत्तान्तः
प्रियंवदेन॥
इत्युदीर्णमनःखेद-माकलव्य सुयोधनम् । सदा दुर्नयदुर्गन्धो, गान्धारीवान्धवोऽभ्यधात् ।। १०० ॥ त्वयि देवेन्द्र-
शौण्डीर्या-वमन्तरि निहन्तरि । यमगेहाङ्गणारब्ध-ताण्डवान् विद्धि पाण्डवान् ।। १०१॥ पाण्डवाः क ? भवान् भूमी-
मण्डलाखण्डलः क च? । कः साम्यं बहु मन्येत, खद्योतद्युतिमालिनोः ॥१०२|| यर्जितभुजेनेदं, त्वया साम्राज्यमर्जितम् ।
शतांशेनापि तन्नासी-युधिष्ठिरमहीपतेः ॥ १०३ ।। सावलेपास्तपासूनो-राज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जाता-स्त-
वादेशवशंवदाः ॥१०४॥ सन्त्येते हस्तिमल्लस्य, प्रतिमल्ला इव द्विपाः। एते च देवदेवाश्व-बान्धवाः सैन्धवाः पुरः॥ १०५॥
साम्परायिकसंचार-कृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीत-वैरिबातविपत्तयः ॥ १०६ ॥ चमूरदृशी विश्वे, त्वदृते कस्य
दृश्यते ? | तमोपहा रवेरेव, केवलं किरणावलिः ॥ १०७॥ श्रीरियं ते कृतार्थीस्यात् , पश्येयुर्यदि पाण्डवाः । दृष्टा मित्र
रमित्रैश्व, संपत्संपनिगद्यते ॥ १०८॥ गोकुलालोकनव्याजा-द्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्या-मुपेतान् पश्य
पाण्डवान् ॥ १०९ ॥ राजा राज्यव्युतान् भोगी, भोगैः काममपाकृतान् | ससैन्यो निप्परीवारा-नकृशोऽतिकशाङ्गकान्
॥ ११० ॥ यदा वीक्षिप्यसे तांस्ते, तदा मोदिष्यते मनः । अन्याचित्रातपापाये, स्युर्धान्यस्य मुखे श्रियः ॥ १११ ॥ तेऽपि
त्वामद्भुतश्रीक, दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यथन्ते पार्वणे चन्द्रे, दृष्टे दन्ता हि दन्तिनाम् ॥११२॥ यद्वीक्ष्यते विपक्षाणां,
मानिभिः श्रीविपद्गतः । स एव मृत्युरेतेपां, मृत्युस्तु ननु जीवितम् ॥ ११३ ॥ अथ सत्यव्रतं वन्धो-रनपेक्ष्य शुभैस्तय । साम-
पविायुधं धत्तः, करे भीमार्जुनौ यदि ॥ ११४ ॥ ततो जानीहि संजातं, भूमण्डलमपाण्डवम् । महार्णवमिवानीकं, तब को
१ 'मुसश्रियः' प्रतिद्वयः ।
॥१४७॥
हि स्खलिप्यति ? ॥ ११५ ॥ तदिमं शकुनेमन्त्रं, कर्ण-दुःशासनावपि । ज्ञमन्यावनुमेनाते, दुष्टात्मानो हामी प्रयः ॥ ११६ ।। ततोऽस्माच्छकुनेमन्त्रा-दुष्टाशयतया तया । युष्मदन्तिकमागन्ता, कदाचन सुयोधनः ॥ ११७ ।। एवं विभाव्य मनसा, सावधानतया भृशम् । युष्माभिः स्थेयमित्येत-दुक्तं विदुरवाचिकम् ।। ११८ ॥ विदुरेणेद्मा- ख्याय, यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं, कुत्र ते सन्ति पाण्डवाः ? ॥ ११९ ।। विदुरेण समादिष्टं, पूर्वेऽति नृप- संसदि । आयातैरेकचकात-श्वरैरावेदितं पदः ॥ १२० ॥ एकचक्रास्थितैर्देव !, शुश्रुवेऽस्माभिरीदृशम् । पुरस्य निखिल- स्यास्य, दत्ताः प्राणाः पृधात्मजैः ॥ १२१ ॥ चिरं नन्दन्तु भूयोऽपि, राज्यं कुर्वन्तु पाण्डवाः । सूर्याचन्द्रमसौ याव- जीवन्त्यास्माकजीवितैः ॥ १२२ ।। धन्या कुन्त्येय यत्कुक्षि-सरसीसरसीरुहैः । एभिः कृपाजपाराम-रामोदितमिदं जगत् ॥ १२३ ॥ पुरीमाणहरः सोऽयं, पापपयको बकः । अपरेणान्तरेणामून् , किं प्रसह्य निगृह्यते ? ।। १२४ ।। प्रतिपन्थी यथाऽस्माक-ममीभिर्लम्भितः क्षयम् । तथैपामस्मदाशीर्मि-विपक्षः क्षीयतां क्षणात् ।। १२५ ।। अहो ! अमीपां माहात्म्यं, पसेयुर्यन पत्तने । ईतिर्न तब नानीति-न व्याधिन च विप्लवः ॥१२६ ॥ न मारिन च दुर्भिक्षं, न च भीः परचक्रजा । 'केवलं सुखसंपद्भि-मोदन्ते सप्रजाः प्रजाः ।। १२७ ॥ (युग्मम् ) चरेयुर्यदि कान्तारे, प्रच्छन्ना अपि ते फचित् । तत्रापि पादपाः सत्यं, नित्यपुष्पफलर्द्धयः ॥ १२८ ॥ अन्योन्यं कलहायन्ते, न शाश्वतिकवैरिणः । दधते रससौन्दर्य-मन्यद्वन्यफला- न्यपि ॥१२९॥ अथ पृष्टो जनोऽस्माभिः, क ते संग्रति पाण्डवाः । तेनाप्याख्यायि ते भद्रा !, ययुद्वैतवनेऽधुना ॥१३०॥ १ पण्डितमानिनी । २ दुर्योधनसभायाम् ।
पाण्डवानां
कथितो
वृचान्तः
प्रियंवदेन।।
अधागमाम तैश्विकै-यत्र ते सन्ति पाण्डवाः। पुलिन्दवृन्दमध्यस्थां-स्तांश्चापश्याम निश्चलाः ।।१३१ ॥ सहकारतरो ले,
वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधि-व्याधिस्तस्थौ युधिष्ठिरः ॥ १३२ ॥ न केवलं विनीतास्त-मुपासांचक्रिरेऽनुजाः।
दूर मुक्तान्यकर्तव्या, आरण्याः पशयोऽपि च ॥ १३३ ।। पाण्डवेयसभाबन्धो-रुटजद्वारवर्तिनः । परावर्तत न च्छाया, तस्य
माकन्दभूरुहः ॥ १३४ ॥ तेषामद्भुतलक्षाणि, स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण, को वर्णयितुमीश्वरः ॥ १३५ ।।
श्रुत्वेति पाण्डयोदन्तं, तदा जज्ञे सुयोधनः । मपीभिः स्वपितः किं नु ?, नीलिभिः किं नु रञ्जितः ।। १३६ ।।
म विषण्णस्तदास्थान, विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे, न किंचिदपि रोचते ॥ १३७ ॥ ततस्त्वमपि चारोक्तै-स्तत्र
तैस्तैः प्रियंवद ! । लक्षणैर्लक्षयेर्मक्षु, पाण्डवानां निवेशनम् ॥ १३८ ॥ आदिश्य विदुरेणैवं, प्रहितोऽहं हिताय वः ।
एकचक्रां पुरीं पश्यन् , क्रमेणात्र ममागमम् ॥ १३९ ।। नकुलं दन्दशकेन, हरिणं हरिणारिणा | सह क्रीडन्तमालोक्य,
विज्ञासिपमिहास्मि यः ॥१४० ।।
इत्युक्तवन्तमत्यन्त-प्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्र, धार्तराट्रः कथं कथम् १ ॥ १४१ ॥ स किं
शास्त्यधुना धात्री-मनयेन नपेन वा । स्नेहात्तमनुरुध्यन्ते, भीष्म-द्रोणादयोऽपि किम् ॥ १४२ ॥ इति पृष्टो यथा-
दृष्टं, समाचष्ट प्रियंवदः । कुरुप्वीतिरनीतिश्च, नैति राज्ञि सुयोधने ॥ १४३ ॥ पितरीवानिवात्सल्यात् , प्रजाऽभ्युदयत-
परे । संपद्भिः कुरवस्तस्मिन्, प्रशासति चकासति ॥ १४४ ॥ पुरुषार्थाः किलैकत्र, निवासस्पृहयालवः । नवे तत्र धरि-
अगच्छाम । २ ' स्तन ते यत्र पाण्डवाः इति प्रतित्रयः । ३ 'अस्मि' इत्यव्ययममर्थे । ४ 'कुरूनीतिरनी.' प्रतिद्वय० ।
॥१४॥
श्रीशे, न बाधन्ते परस्परम् ॥१४५॥ स प्रज्ञामृतकुल्याभिः, सेचसेचमनारतम् । अनपायमुपायद्-नादत्ते फलमुत्तमम् ॥१४६॥ आकर्णितभवन्मृत्यु-निराशीभूतमानसाः। भीष्माद्याथक्रिरे तेन, सर्वथाऽऽत्मवशंवदाः ॥ १४७ ॥ संप्रत्यावर्जितास्तेन, दानेन विनयेन च । प्राणैरपि समीहन्ते, ते विधातुं तदीप्सितम् ॥१४८॥ आत्मानं मन्यते क्षोणि-पट्खण्डाखण्डलोपमम् । स यद्यपि तथाप्यन्त-भपयो वहते भियम् ॥१४९॥ अर्जुनात्तरुनामोऽपि, स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निःश्वासान् , कम्पते च मुहुर्मुहुः ॥ १५० वने वृकोदरं कापि, दृष्ट्वा स्मृत्वा वृकोदरम् । मृगन्यव्यापृतोऽप्याशु, स खियति भयातुरः॥ १५१ ॥ स्वमे भीमार्जुनौ वीक्ष्य, द्रुतं जागरितो भयात् । स क्षोभ लम्भयत्येव, भृशं भानुमतीमपि ॥ १५२ ॥ इत्याफर्ण्य तपासूनुः, प्रत्युवाच प्रियंवदम् । मद्गिरा भद्र ! विज्ञाप्यौ, तौ तात-विदुरौ त्वया ॥१५३॥ निखिल युप्मदादिष्ट, प्रहृष्टाः प्रतिशुशुमः । नमस्यामय भक्त्या वः, क्षोणीमिलितमौलयः ।। १५४ ॥ स्नेहादापदमस्मासु, नैवाशकि- तुमर्हथ । युष्मदाशीर्भिरस्माकं, रिपुर्न प्रभविष्यति ॥ १५५ ।। ककलासः कृतोल्लास-मारूढः शिखरं घृतेः। व्युत्पश्यन् सतिरस्कार, भास्करस्य करोति किम् ? ॥ १५६ ॥ इति धर्मसुतः प्रीतः, समर्प्य प्रतिवाचिकम् । सत्कृत्य वन्यसत्कारै- विससर्ज प्रियंवदम् ॥ १५७ ।। धाष्टयं तद् धार्तराष्ट्रस्य, श्रुत्वा श्रवणदुःसहम् । विहाय रणमर्यादां, जगाद द्रुपदात्मजा ॥ १५८ ॥ छद्मना मेदिनी जित्वा, कृत्वा मे केशकर्षणम् । दवा कान्तावासं च, रिपुर्नाद्यापि तृप्यति ॥ १५९ ॥ एवं चनेचरानस्मान, येना- गत्य जिघांसति । निर्मर्यादा ह्यकृत्येषु, मत्सरच्छुरिताशयाः ॥१६० ॥ देवि ! वन्ध्येव कुन्ति ! त्वं, नाऽऽसीरप्रसवा
प्रियंवद-
विसर्जनम् ।
द्रौपद्या-
दीनां
क्रोधो-
द्वाराः॥
किमु ।। पुत्रिणीनां त्रपाकारि, कथं क्लीवप्रमूरभूः ॥१६१ ।। अहो ! सुवाहवः पाण्डोः, सूनवोऽभिनवौजसः । पुरतः
पश्यतां येपां, प्रिया केशेषु कृष्यते ॥ १६२ ॥ आर्यपुत्र ! तपासूनुः, सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं, क्षमा
ते कधमन्यथा ? ॥ १६३ ॥ निकारं कुरुवंशोऽपि, संसहेत यदीदृशम् । तर्हि सा नाम निर्नाम, निर्ममज मनस्विता ॥१६४॥
यदि नाम वनक्लेशो, लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते चेतो, बन्धुदत्तापदप्यसौ ?॥ १६५॥ सूक्ष्मक्षौमोचिता
येऽमी, पन्धयस्तव भूधव ! । यल्कलानि वसानांस्तान् , किमु पश्यन्न लजसे ? ॥१६६॥ भ्रातरः सिन्धुरारोह-केलिदुर्ललिता
हि ये । चरन्तः पादचारेण, त्यां व्यथन्ते न ते किमु ? ॥ १६७ ॥ वनेऽस्मिन् क्लिश्यते स्नेह-मोहिता वो हिताय या। देवी
सापि न कि कुन्ती, तवोद्वोधयति धम् ? ॥१६८॥ निश्चिन्तोऽसि किमेवं त्व-मसावम्येति ते रिपुः। उत्तिष्ठस्व ततः स्वामि-
निधेहि दृशमायुधे ॥१६९।। प्रतिज्ञाभङ्गभीतोऽथ, न स्वमुत्सहसे स्वयम् । इहायातमरिं हन्तुं, भीम-पार्थी तदादिश ॥१७०॥
अथैनां द्रौपदीवाच-मिष्टामनुवर्दस्तदा । भीमोऽभ्यधत्त देवास्ति, तवाव ममार्गला ॥ १७१ ।। तबादेशं वहन्मूर्भि,
पुराऽहं नाहनं रिपुम् । तं जिघांसुमिहाऽऽयातं, न सहिष्येऽधुना पुनः ॥ १७२ ॥ देव ! प्रसादितोऽसि त्व-मागतश्चेत्स
दुर्मतिः । तदा मम गुरुर्न त्वं, न विधेयोऽप्यहं तय ॥ १७३ |! हस्तिनापुरसाम्राज्य-गर्वपर्वतमस्तकात् । लीलयैव पराजि-
त्य, पातयिष्यामि विद्विषम् ॥ १७४ ॥ अथास्या भीमभारत्या-स्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थ, भाग्यली-
लायित दधुः।। १७५ ॥
१ क्रियाविशेषणमेतत् प्रसूधातोः । २ तिरस्कारम् । ३ ' दत्तापदो'' दत्तपदो' इति प्रत्यन्तरपाठः । ४ अधीनः ।
॥१४९॥
एनाम्तेषां गिरः थुवा, पानमूचे युधिष्ठिरः । अभ्यधीयत युप्माभिः, धत्रयंशोचितं वचः ॥ १७६ ।। परं ममानुरो- धेन, हायनानि क्रियन्त्यपि । बहुधाऽपि विराध्यन्त, विपक्ष क्षन्तुमर्हथ ॥ १७७ ॥ वनवासापधौ पूर्णे, तीणे सत्यग्रते मया । को युप्मानम्पमित्रीणान् , स्खलिप्पत्यर्णपानिर? ॥ १७८ ॥ तदा भीमाद्रणे भीमा-हुःशासनसमन्वितः । लब्धा दुर्यो- धनः कृष्णा-केशार्पणनिधिक्रयम् ॥ २७९ ॥ तदिदानीमितो गत्वा, सेव्यन्तां स्वःसनामयः । उल्लसछपलीगन्धा, गन्धमापनभूमयः ॥ १८० ॥ निजश्रीगर्पितोऽराति-र्न दृश्येत तथा सति । बननामकृशास्तेन, दृश्येमहि वयं न च ।। १८१ ॥ प्रत्यपधन्त भीमाधा-स्तामानामग्रजन्मनः । अप्पुरलुण्ठधियां घुमां, गुर्यादेशो नवाशः ।। १८२ ।। माव-मात-प्रिगोपेतः, प्रतस्थेऽध महीपतिः । उदाचः सह यूथेन, यूथाधिप इन द्विपः ॥ १८३ ॥ वरिवस्यन् स तीर्थानि, नमस्पंधारणान् मुनीन् । नाना चित्राणि पश्यंत्र, ययौ पूर्वोत्तरां दिशम् ॥ १८४ ॥ क्रमालुवमतिकम्य, तटिनी. शैलसंकटाम् । भूधरं स ययौ साथै, बन्धुभिर्गन्धमादनम् ॥ १८५ ।। नक्तमिन्दपलोद्वान्तारिभिर्यत्र पूरिताः। प्राण्यां तरङ्गिण्यः, शश्वदनुपने श्रियम् ॥ १८६ ॥ प्रियरुपासितोपान्ता, यस्मिन्नादेशयतिभिः । विलासान् दधते तांस्ता-नीप्सिता- नप्यरोगणाः ॥ १८७ ॥ तस्मिन् स्वादुफललाध्ये, भूरिनिहरशालिनि । यपन्धुर्वसतिप्रीति, पाण्डवेया निराधयः ॥१८८॥ सर्वतकमनीयानां, पनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये, तत्र शत्रुपराभवम् ॥ १८९ ॥ कुन्ती क्रियासु धासु, vel तम च्याप्तमानमा । हस्तिनापुरराज्यस्य, न सस्मार मनागपि ॥ १९० ॥ १ वर्गतल्याः । २ सेयमानः । ३ भधव: 'प्रतिद्वय -
पाण्डवाना
गन्ध-
मादन-
पर्वते
गमनम्॥
विदित्वाऽध समीपस्थ-मिन्द्रकीलं नगोत्तमम् । सव्यसाची महीभर्तुर्दर्शयासास विस्मितः ॥ १९१ ॥ देव! यन्नित-
रामिन्द्रः, क्रीडत्या शचीसखः । इन्द्रकील इति ख्याति, ततः प्रापदसौ गिरिः ॥ १९२ ॥ खेचरैव्योमगैरेव, खिन्नश्छाया
महीरहाम् । अबाधोगामितिग्मांशी, सेन्यन्ते सान्द्रशीतलाः ॥ १९३ ॥ वीक्ष्य स्वप्रतिमामन्य-स्त्रीशङ्काकुपिताः प्रिये । सुरीः
प्रमादयत्यब्ज-चायुर्यनाम्युकेलिपु ।। १९४ ॥ असाधु-साधुपुनाभ्यां, पितेवासौ दिवानिशम् । सूर्यकान्ते-न्दुकान्ताभ्यां, तापं
गैत्यं च लभ्यते ॥ १९५ ॥ मध्येमणितटीकोट, परिनाम्यन्नभोमणिः । नित्यं कन्दलयत्यस्मिन् , किनरीणां मणिभ्रमम्
॥ १९६ ॥ तदस्मिन् युष्मदादेशा-दुपेत्य गुरुगह्वरे। आरोधितचरीविद्याः, पुनरावर्तयाम्यहम् ॥ १९७ ।। इत्यापृच्छय नृपं
कुन्ती, प्रणम्य विनयानतः । याज्ञसेनी च संभाष्य, ययौ तस्मिन् धनंजयः॥१९८॥ गच्छतोऽस्य तपासूनु-रङ्गुली-
यकमद्गुलौ । तातख्यापितमाहात्म्य, वलादेव न्यवेशयत् ।। १९९ ।।
जिष्णुमणिमयं तस्मि-नहत्प्रासादमुत्तमम् । अद्राक्षीचर्कयन्नन्यं, भूधरोपरि भूधरम् ॥ २०० ॥ शशाङ्कोपलसोपानां,
विकचोत्पलशालिनीम् । उत्कल्लोलजलां वापी, सोऽपश्यत्तस्य वामतः ॥ २०१ ।। तस्यां स्नात्वा गृहीत्वा च, विकचाम्भो-
जसंचयम् । अर्चामानर्च तस्यान्त-त्याऽऽद्यस्य जिनेशितुः ।। २०२ ।। स्तुत्वा स्तोत्रैर्जिनं जिष्णुः, कृतवानष्टमं तपः।
तपो हि पिहितं तीर्थे, भवेदिष्टार्थसिद्धये ।। २०३ ॥ जिनवेश्मान्तिकेऽध्यास्य, पावनीमानी कचित् । स परावर्तयामास,
विद्योपनिपदं निजाम् ।। २०४ ॥ प्रादुर्बभूवुर्भूयोऽपि, पुरतस्तस्य देवताः। किं कुर्म इत्यजल्पंच, को न भक्तेर्वशंवदः ?
१ सूर्यः । 0 आराधितप्रायाः ।
॥१५०॥
॥ २०५॥ स्मृताभिः संनिधातव्यं, भवतीभिर्द्धतं मम । आहतो वः स्मरिष्यामि, मन्थने परिन्थिनाम् ॥ २०६ ॥ इति विज्ञाप्य सत्कृत्य, सर्वा विद्याधिदेवताः । उपकारोत्सुकाः कामं, विससर्ज धनंजयः ॥ २०७॥ (युग्मम् ) गतासु तासु पार्थोऽपि, शैललक्ष्मीदिदृक्षया । नन्दनोद्यानसधीचि, विजहार वने वने ॥ २०८ ॥ वाणभिन्नवपुः कश्चि- धर्मसैरिभसंनिभः । निःशूकः शूकरस्तेन, दृष्टः संमुखमापतन् ॥ २०९ ॥ धाऽसौ ध्वमभ्येति, नृशंसो मजिघांसया । एवं विमृश्य सोऽधिज्य, धनुष्मान् धनुरादथे ॥ २१ ॥ पार्थेन पोत्रिणः प्राण-मार्गणोऽक्षेपि मार्गणः । दत्त्वा प्राणांस्तिरश्चापि, तेन सोऽथ कृतार्थितः ॥ २११ ॥ आगतः शूकराभ्यर्णे, बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीत्, किरातं कंचिदर्जुनः ॥ २१२ ॥ सगुणं धारयन् धन्व, यमभ्रूभङ्गभङ्गुरम् । शरांश्च पंचपान् पाणी, सोऽप्युपक्रोडमाययौ ॥ २१३ ॥ पार्थोऽथ पश्यतस्तस्य, स्वर्णपुलमनोरमम् । आददानो निजं वाणं, वभाषे तेन सौष्ठवात् ॥ २१४ ॥ सौम्य ! वीक्षे तवाचार-माकार- व्यभिचारिणम् । कान्यथा पुण्यमूर्तिस्त्वं , क च स्तैन्यममूदृशाम् १ ॥२१५॥ वरं तृणमिव प्राणां-स्त्यजन्त्युज्वलबुद्धयः। न पुनर्जातु कर्मेट-गाद्रियन्ते, मलीमसम् ॥ २१६ ॥ सदाचारसमीचीना, भिक्षा माधुकरी वरम् । अतिचार्योऽप्यनाचार- दूताहूता न तु श्रियः ॥ २१७ ॥ तन्मामकीनमारण्य-पशुशोणितपायिनम् । विपदिग्धशिखं नैनं, विशिखं हर्तुमर्हसि ॥२१८।। मयाऽसौ, कुरुचन्द्रस्य, तव द्रोहसमीहया । वराहराहुरागच्छन् , वुधेनेव निवारितः ॥ २१९ ॥ ततः स्वच्छन्दमाच्छिन्दन्, पाणरत्नमिदं मम । हन्त प्रत्युपकारार्थ-मित्थं प्रक्रमसे किमु ? ।। २२० ॥ रिपुव्यापादनपण-क्रीतं मित्रं भविष्यसि । इत्याशा १ शत्रूणाम् । २ यमराजमहिपतुल्यः । ३ शूकरस्य । ४ 'मार्गेणोत्क्षेपि०' प्रतित्रयपाठो न सम्यगाभाति । ५ अतिसुन्दराः।
अर्जुनकृत
शूकरवधः
तद्विषयः
शवरा-
र्जुनयोः
संवादः॥
मम ट्रेऽस्तु, प्रत्पर्धी प्रत्युताभवः ।। २२१ ॥ अमुना संचरन्ते चे-द्वर्त्मना त्यादृशा अपि । पथिकस्तत् पथि न्याय्ये, को
नाम भपिता ? यद ॥ २२२ ॥ अथासि त्वममुं दिव्यं, प्रपत्कमभिलापुकः । त्वन्मैत्रीसुखसाकाई, तत्कि प्रार्थयसे न माम्
॥ २२३ ॥ अर्थिनां प्रार्थनाभङ्गं, विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलम्यो हि, त्यादृशः प्रणयी जनः ।। २२४ ॥ यस्ते
मुक्तापरापेक्ष-मिपोरेप हैठग्रहः । न ते स मामनिर्जित्य, निर्वाहमवगाहते ॥ २२५ ॥
इति व्याहृत्य विरतं, तं वीभत्सुरभाषत । उदीरितमिदं सर्व-मसत्यं सत्यवत्वया ॥ २२६ ।। स्ववाणग्रहणे केय-मुपाल-
म्भपरम्परा ! । लुम्पन्ति हन्त मर्यादा, दुर्जनाः सुजनेष्वपि ।। २२७ ॥ दुर्जनः कालकूटश्च, ज्ञातमेतौ सहोदरौ । अग्रजन्मा-
ऽनुजन्मा वा, न विद्यः कतरोऽनयोः ॥ २२८ ॥ मां चौरंकारमाक्रोशन्, क्रूरचेता मुहुर्मुहुः । भवितासि कथं मित्र-ममित्रः
प्रफटोऽमि यः ॥ २२९ ।। का नाम पामरेणास्तु, संगतिर्मतिशालिनः । तमस्काण्डेन चण्डांशोः, सौहार्द हन्त कीदृशम् ?
॥ २३० ॥ कलयामि न कालुप्यं, दुर्वाक्यैरिमकैस्तव । किमारयैः शृगालाना-मिभारिः क्षुभ्यति क्वचित् ।। २३१॥ एनमहाय
गृहामि, पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्ति-र्यस्यासौ मां निषेधतु ॥ २३२ ॥ न नरेन्द्रो न देवेन्द्रः, खेचरे-
न्द्रोऽपि नो पुरः । त्वय्यप्यधिज्यतां विन-पते हन्त मे धनुः ॥ २३३ ॥
अथाऽऽह शबरस्वामी, सौम्य! मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः, कुर्यात् खगपतेः पुरः १ ॥२३४॥ तत्तिष्ठ सौष्ठ-
१ शरम् । २ अन्यापेक्षारहितं यथा स्यात्तथा । ३ 'स्वयंग्रहः' प्रत्यन्तर० । ४ इति ज्ञातं मया इत्यर्थः कर्तव्यः, अन्यथा
'झावावेतो' इति पाठः स्यात् । ५ सिंहः । ६ गरुडस्य ।
॥१५१॥
पमिदं, मा त्याक्षीमयि योद्धरि । इति जल्पन्ननल्पोजाः, संदधे शवरः शरम् ।। २३५ ॥ वलिगतं फाल्गुनोऽप्यस्य, पश्यन् चाणागने शनैः । रोपेमारोप यांचने, फिरिशोणितशोणितम् ।। २३६ ॥ अखर्वमौर्वीटंकारः, साहंकारस्तयोस्ततः । पिडम्बित- युगावर्तः, प्रावर्तत रणो महान् ॥२३७॥ निपादि-सादिभीमेन, निःसीमेन समेयुपा । तदा गजाश्वपृन्देन, पुलिन्दः पर्यवार्यत ॥२३८॥ यावत् प्रतिभटं पाणान् , मुश्चता सव्यसाचिना। तस्य क्षणादनीकस्य, दिदिशे कान्दिशीकता ।। २३९।। पार्थ- पाणादिताः सैन्या, च्यावर्तन्ते स्म ते यदा । तदाऽसौ दर्शयामास, युद्धकौशलमात्मनः ॥ २४० ॥ तदानीं द्रष्टुकामानां, विमानोमचारिणाम् । व्योमाभोगतडागोऽभूत् , संकुलः कमलैरिव ।।२४१॥ वारंवारमजायन्त, तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य, निःस्वस्येव मनोरथाः ॥२४२॥ अस्मादिनमानेय-मर्जुनः स्फूर्जर्जितम् । दावानलमयो येन, सर्वतोऽजनि पर्वतः ॥२४३।। असमाहत् किरातोऽपि, वारुणं तन्निवारणम् । प्रापेव जलासारै-येनाद्रिनिरवाप्यत ।। २४४ ॥ शस्त्रैरश्व दुर-मवधार्य तमर्जुनः । धनुर्विहाय वाहुभ्यां, योर्बु क्रुद्धः प्रचक्रमे ॥ २४५ ॥ विमुच्य चापमुत्तालः, पुलिन्दोऽपि कला- निधिः । नियुद्धमुद्धतारम्भ-मारेभे कपिकेतुना ॥ २४६ ॥ मदोत्कटभुजास्फोट-रवसंस्तवपीवरैः । अत्रुटन्नद्रिकूटानि, तयोम रंगदर्दुरैः ।। २४७ ॥ दन्तघातानिय तदा, ददतौ तलहस्तकान् । कुअराविय रेजाते, तो किरात-किरीटिनी ॥ २४८ ॥ पूर्वकायोन्नतैर्मल-युद्धमत्युद्धतं तयोः । आसनोत्थायमालोकि, गणैर्दिविपदां दिवि ।। २४९॥ अथावसरमासाद्य, तमुपादाय पादयोः । मूर्धानं परितः पार्थो, भ्रमयामास लीलया ॥२५०॥ शिलायां यावदेकस्या-मास्फालयति फाल्गुनः । १ शरम । २ अजुनस्य । ३ वाहुयुद्धम् । ४ संस्तवः-परिचयः । ५ रणमेधैः ।
किराता-
र्जुनयो-
तमेव ताबदद्राक्षी-दिव्याफारधरं पुरः ॥ २५१ ॥ इन्द्रजालमिदं किंस्वि-दिति विस्मितमानसम् । किरीटिनमभापिष्ट,
सोऽतिहृष्टः कृताञ्जलिः ॥२५२।। तब शौर्यपरीक्षार्थ, मया मायेयमाहिता । वरं वृणीष्व तुष्टोऽह-ममुना विक्रमेण ते ॥२५३॥
प्रसाध्य विद्याः प्रज्ञप्ति-प्रमुखाः प्राप्तवैभवम् । अवैहि मां विशालाक्ष-तनयं चन्द्रशेखरम् ॥ २५४ ॥ सापदः सुहृदः
कार्ये, त्वदन्तिकमुपागमम् । तप्तस्य विष्टपस्यार्थे, क्षीरोदमिव वारिदः ।। २५५ ॥ आस्तां वरस्तावदयं, समये प्रार्थयिष्यते ।
कार्य बहीति पार्थेन, स पृष्टः पुनरभ्यधात् ॥ २५६ ॥
इतोऽस्ति पुरमभ्यर्णे, वैताट्यगिरिमण्डनम् । अवनीवनितारत्न-नूपुरं रथनूपुरम् ॥ २५७ ॥ तत्र शत्रुमृगाक्षीणां, क्षपि-
ताखिलमण्डनः । नमेरभवदाम्नाये, नाम्ना विद्युत्मभो नृपः ॥ २५८ ॥ तस्याभूतां सुतौ तीव्र-तेजसौ विपुलौजसौ
इन्द्राभिधस्तयोरायो, विद्युन्माली तथाऽपरः ॥ २५९ ।। संस्थाप्येन्द्र निजे राज्ये, स्वाराज्यसुहृदि स्वयम् । कनिष्ठं यौव-
राज्ये च, प्रव्रज्यामाददे नृपः ॥ २६० ।। चिरनानां यतीनां च, भूपतीनां च वर्मना । मुनीन्द्रश्च नरेन्द्रश्च, प्रपेदाते परं
पदम् ॥ २६१ ॥ इन्द्रो न नाम नाम्नैव, संपदाऽपि बभूव सः । सर्वे तत्रेन्द्रपर्यायाः, प्रायुज्यन्त जनैस्ततः ॥ २६२ ॥
इन्द्रेण सर्वथा त्यक्तां, युवराट् यौवनोद्धतः । कृपयेव समादत्त, सादरं दुर्विनीतताम् ॥ २६३ ॥ गृहाण दारान् पौराणां,
मर्वस्वानि मुपाण च । पुपाण च महापीडा, स पुरीमित्युपाद्रवत् ॥ २६४ ॥ ततः पौररुपालब्धः, संतप्तैर्नीतिवत्सलः । कृत्वै-
कान्ते कनीयांसं, क्षोणीपतिरशिक्षयत् ॥ २६५ ॥ समजायत वैराय, तस्मिशिक्षाऽपि दुर्मदे । विपाय किं न पीयूष-मपि
१ वंशे । २ स्वर्गसदृशे । ३ पुरातनानाम् ।
किरातेन
दिव्याका-
रेण कथित
इन्द्रराज-
वृत्तान्तः॥
॥१५॥
स्यात् पन्नगेऽर्पितम् । ॥ २६६ ॥ अथ मुक्त्वा पुरी कोपा-दुरात्मा तस्थिवान् पहिः । निजवंशनभश्चन्द्र-मिन्द्रमुच्छेत्तुमि- च्छति ॥ २६७ ।। नियातकवचा नाम, खरदूपणवंशजाः । राक्षसाः सुहृदस्तस्य, सुवर्णपुरवासिनः ॥ २६८ ॥ भूयांसस्ते बलीयांसः, कृतान्तादप्यमीरवः । ततो लोकेन सर्वेण, कीर्त्यन्ते कालकेतवः ॥ २६९ ॥ तालुन्येकपदे विद्धे, समं पाणि- तलेन यत् । विपद्यन्ते निगद्यन्ते, तेन ते तलतालवः ॥ २७० ॥ नित्यं युतस्तैर्दोःप्रौढे-वैताट्याभ्यर्णवर्तिभिः । समास्कन्द- त्ययस्कन्दै-विद्युन्माली स्वमग्रजम् ॥ २७१ ॥ संक्रन्दनस्तदाक्रान्ता-बनलंभूष्णुदोबलः । भीतभीतस्सदैवास्ते, पिहितैः पुरगोपुरैः ।। २७२ ॥ इन्द्रः सोपद्रवं राज्य-माकलय्य कलानिधिः । अन्वयुक्त युधं नाम, नैमित्तिकशिरोमणिम् ॥ २७३ ॥ अमी दुर्वारदोर्वीर्या, दुर्जया मम वैरिणः । कथंचनापि जीयेरन् , यदि तद्भद्र ! कथ्यताम् ॥ २७४ ॥ ज्ञानेनालोक्य सोऽप्याह, देवामी तव शत्रवः । विजीयन्तेऽर्जुनेनैव, नैव चान्येन केनचित् ॥ २७५ ॥ नास्त्येव तत्समो धन्वी, त्रैलोक्येऽपि विलोक्य- ताम् । यचापाद्युगपद्याय-दमित्रं स्युः पतत्रिणः ॥ २७६ ॥ विद्याः प्रसादयन्नद्रा-विन्द्रकीलेऽस्ति सोऽधुना । प्रार्थ्यतां प्रार्थनाशूर-स्तद्गत्वा प्रश्रयोज्ज्वलम् ।। २७७ ।। इत्याख्यातवतस्तस्य, कृत्वा सत्कारमादरात् । मामभ्यर्णस्थितं नेहा-याह- खेचरेश्वरः ॥ २७८ ॥ सखे ! खेदापनोदाय, यतस्वार्जुनमानय । पुस्कुञ्जरेण तेनारी-नुन्मूलय तरूनिव ॥ २७९ ॥ किं चार्जुनेन सौजन्य-मस्त्येव तव पैटकम् । प्राक्पाण्डुना विशालाक्षो, बद्धस्ते मोचितः पिता ॥ २८० इति त्वां मित्र- कार्यार्थ, पार्थ ! सोऽहमुपस्थितः । तदेहि देहि भूयोऽपि, राज्यमिन्द्रस्य पैतृकम् ॥ २८१ ॥ इदं च यत्तवोद्दीप्त-मङ्गुलीय- १ धाटीभिः । २ इन्द्रः । ३ अपृच्छत् । ४ शराः ।
इन्द्रविद्या-
वृत्तान्तः॥
कमद्गुलौ । विशालाक्षस्य पाण्डोश्च, तत्त्रीतेः प्रतिभूमिथः ॥ २८२ ॥ ततः पाण्डुमहाराज-कृतामुपकृति पराम् । सहस्रशो
विशालाक्षः, कथयामास संमदि ॥ २८३ ॥ सन्ति मे व्रणरोह-विहायोगमनादयः । अमुल्याभरणस्यास्य, प्रभावानुभवा
मुहुः ॥ २८४ ॥ तदस्य सपनाम्भोभिः, कुरु दिव्यौपधैरिव । निजाङ्गे गुणमाणिक्य-रोहण ! वणरोहणम् ॥२८५।। इत्युक्त्वा
चिरते तस्मि-नमयः कपिकेतनः । ज्येष्ठबन्धुमिवाश्लिष्य, खेचरेन्द्रमवोचत ॥ २८६ ।। (युग्मम् )
आना युधिष्ठिरस्येव, तपापि ज्येष्ठवान्धव ! | परोपकारसुरभि-मौलिमाल्यायतां मम ॥ २८७ ॥ एतच्च वेदि यत्
पूर्व, प्रस्थितस्य वनं प्रति । अर्पयित्वेदमार्यस्य, पाण्डुस्तातः समादिशन् ॥ २८८ ।। अगुलीयमिदं वत्स ! विशालाक्षेण
मेर्पितम् । महाप्रभारमेतद्धि, सदा दध्याः संनिधौ ॥ २८९ ।। अत्र चागच्छतः क्षिप्त-मार्येणापि ममागुलौ । कनीयसि
गरीयस्पो, ज्यायसां प्रेमसंपदः ॥ २९० ॥ विशालाक्षस्य पाण्डोश्च, द्वयोरपि तयोस्ततः । निष्प्रत्यूहमयं लेहः, संतानमनु-
वर्तताम् ॥ २९१ ।। इत्युक्त्वा पिरतं भूता, स्यन्दने सारथिः खयम् । रूढवणगणं पार्थ-मनैपीचन्द्रशेखरः ॥ २९२ ।।
अनुद्यातं सुखेनाशु, स्थैन मरुता पथि । स गन्छन् दर्शयामास, वैताढ्य सव्यसाचिनः ।। २९३ ॥ स एप भरत-
क्षोणेः, सीमन्तः पुरतो गिरिः । मुदा विद्याधरीवृन्दै-स्त्वद्यशो यत्र गीयते ॥२९४|| पञ्चाशयोजनी पिण्ड-स्तदर्घ च समु-
च्छ्रितः। त्वद्यशोराशिविशदः, सैप राजति राजतः ॥२९५॥ गतायां दशयोजन्या-मुर्घ श्रेण्यावुभे शुभे । अभितः शैलमासाते,
दशयोजनपिस्तुते ।। २९६ ॥ इमां च दक्षिणश्रेणि, वेगतो क्यमागताः । रथो स्थागवाहुभ्यां, पश्याश्लिष्यति काश्यपीम् ।।
१ गुणरत्नाना रोहणाचल
। २ पुत्रपौगादिपरपराम् । ३ रजतमयः रूप्यमयः इत्यर्थः
॥१५॥
२९७ ।। अयं पन्थाः पृथायनो!, प्रयाति रथनपुरम् । अस्ति वास्तोष्पतिर्यत्र, त्यदर्शनसमुत्सुकः ॥ २९८ ॥ अयं वामः पुनः पन्था-स्तद्रिपनुपतिष्ठते । सन्ति येपूद्धता योद्ध-मुद्धतास्तलतालवः ॥ २९९ ॥ अथाऽऽह पार्थः सोत्कण्ठं, प्रतिपन्थिषु मे मनः । मुखमेपामनालोक्य, नैवेन्द्रं द्रष्टुमुत्सहे ।। ३०० ॥ तचन्द्रचूट ! यौते, तत्रैनं स्यन्दन नय । यथा जानामि ते हन्त !, फियन्तः सन्ति शत्रयः ॥३०१॥ ऊचे चन्द्रावतंसोऽथ, तत्र किं गमनेन ते । प्रतिपक्षाः परोलक्षा-स्त्वं तु याहुपरि- नछदः ।। ३०२ ॥ यदा प्रत्यर्थिसैन्ये स्याः, समुद्रे सक्तमुधिवत् । अरण्यरुदितप्राया-स्तदा स्युनों मनोरथाः ॥ ३०३ ॥ इन्द्रादिष्टामधिष्ठाय, पजिनीं तत् कपिधज ।। शत्रूनुच्छेत्तुमागच्छे-मन्त्रस्तावदयं मम ॥ ३०४ ॥ अर्जुनः पुनरप्यूचे, किं पमूभिरमून् प्रति । भिनत्ति कुम्भिनां कुम्भा-निभारिः किं परिग्रहः ? ।। ३०५ ।। खेचरस्तदवष्टम्भ-मुदितोऽथ रथं ततः । नुनोद यत्र शौण्डीर्य-केतवः कालकेतवः ॥ ३०६ ।। दृदं कवचितास्ते च, गृहीतपिविधायुधाः । सव्यसाचिनमायान्तं, पश्यन्तो जगदुर्मिथः ।। ३०७ ॥ रथोऽभ्येति यदैन्द्रोऽयं, चन्द्रशेखरसारथिः। आहूतः पुरुहतेन, पार्थस्तधुवमागतः ॥३०८॥ पञ्चत्वमस्मादस्माकं, मुहुमौहूर्तिकरहो । आदिष्टमिति नो माति, हास्यमा- स्ये प्रसृत्वरम् ॥ ३०९ ॥ अझैः शवैध निःशेपै-रशेपेण भुजौजसा । सबैश्छमप्रयोगैश्य, शत्रुमेतं निशुम्भत ॥ ३१० ॥ इत्या- लोच्य प्रहर्तु ते, प्रावर्तन्त धनंजयम् । पाणैः फणैरिवोत्कालै-वैनतेयमिवायः॥ ३११ ॥ तदा तेषामनीकेपु, रसन्ति स्म समन्ततः । रणतूर्याणि कीनाश-प्रवेशपटहा इव ॥ ३१२ ।। तरणेः किरणश्रेणिं, ते वन्दीचक्रिरे शरैः । तांस्तु च्छिच्या विस- १ इन्द्रः। २ नाशयत । ३ सोः ।
अर्जुनस्य
राक्षस
सह युद्धम्।।
च्छेदं, मोचयामास फाल्गुनः ॥ ३१३ ॥ स्थित्वा स्थले जले व्योग्नि, तेऽयुध्यन्त यथा यथा । तान् रथावस्थितः पार्थः,
प्रतीयेप तथा तथा ॥ ३१४ ॥ किं सारथिमथो रथ्यान् , रथिनं या महारथम् । वर्णयामः किमेतेषां, मुह्यन्ति स्मेत्ति
ग्वेचराः ॥ ३१५॥ कपिकेतुः पुनर्लक्ष्मी-सुपेन्द्रं नेतुमुत्सुकः । रथेन मन्दरेणेव, ममन्थ समरार्णवम् ।। ३१६ ॥ वयो
मधुरमल्पीयः, परं चारिषु पौरुपम् । पश्यन् पार्थकुमारस्य, मुमुदे चन्द्रशेखरः ॥ ३१७ ॥ चलन्तः पार्थमनसा, सांयुगी-
नपदक्रमाः । वाजिनो रेजुरिन्द्रस्य, जयश्रीस्निग्धवन्धवः ॥ ३१८ ॥ प्रत्येकं विशिखांश्छिन्द-कोऽपि कपिकेतनः ।
तेऽभूवन युधि यावन्त-स्तावान् या ददृशे स तैः ॥ ३१९ ॥
मुक्ता यथा तथा वाणा, नैतत्प्राणापहारिणः । पार्थोऽतस्तान चिक्षेप, तांश्चिच्छेद द्विपां पुनः ।। ३२० ॥ न कृता
दक्षिणेर्माणो, दुष्कर्माणः किरीटिना। ततः सर्वामिसारेण, जघ्नुस्ते जितकाशिनः ।। ३२१॥ एकत्र पिण्डितान् शत्रून्,
वीक्ष्य प्रहरतो मुहुः । पार्थः किंचिदिवौत्सुक्या-दवोचचन्द्रशेग्वरम् ॥ ३२२ ॥ प्रगल्भवुद्धयो योद्ध-मलंकसैणचाहवः।
शत्रयो दुर्जया होते, तद्रथं वालय क्षणात् ।। ३२३ । सोऽप्यभापत कौन्तेय !, तवैतन्नोचितं वचः । ऐन्द्रोरिवधनिस्तन्द्रः,
मायुगीनो रथो ह्ययम् ॥ ३२४ ॥ अभ्यस्तमस्य चक्राभ्यां, भूमेराक्रमण पुरः। रणकर्मविपश्चिमां, पश्चात्तु न कदाचन ॥
१ युद्धनिपुणपदक्रमाः (२. अन 'पार्थोऽपि तान् निचिक्षेप चिच्छेद द्विपतां पुनः।' इति गद्यपाण्डवचरितधृतः पाठो
युक्तः प्रतिभाति। ३. दक्षिणे ईमोणि प्रणानि येपां ते । ४. Xदृढमुष्टयः)
* इयं टिप्पणी न सम्यक् प्रतिभाति । - जयशालिनः इत्यर्थः सम्यक् प्रतिभाति ।
॥१५४॥
३२५ ॥ मन्येऽरीणां विधेयानि, भागधेयानि सांप्रतम् । यत्त्वं युद्धधुरीणोऽपि, रणाद्वालयसे स्थम् ॥ ३२६ ॥ पार्थोऽवादी- दहो नाहं, कालं कंचिदपि क्षमे । तवायमञ्जलिर्वद्धो, रथं वालय वालय ॥ ३२७ ॥ कर्णजाहं न गाहन्ते, यद्वा तेऽभूगिरो मम । वरेण प्राक्प्रदत्तेन, रथो व्यावर्त्यतां रणात् ।। ३२८ ॥ इत्युक्तः सोऽथ कृष्णास्यः, स्यन्दनं तं न्यवर्तयत् । ते चानु- पदिकास्तस्य, जैत्रंमन्या दधाविरे ॥ ३२९ ।। जयश्रीवल्लभमन्या, मुखाग्रन्यस्तपाणयः । ते श्वेडों युगपञ्चक्रुः, कृतान्ताद्वान- संनिभाम् ॥ ३३० ॥ स्मृत्वा द्रोणार्पितं मन्त्र-मनेकविशिखप्रसूः। वाणः प्राणहरस्तेपा, मुमुचे सव्यसाचिना ॥३३१ ॥ एकस्मादप्यथैतस्मात् , स्फुलिङ्गा इव पावकात् । यावद्विद्वेषि निर्जग्मुः, प्रेसत्पुह्वाः शिलीमुखाः ॥ ३३२ ॥ युगपञ्चलितास्ते च, तालूनि सह पाणिभिः । अरीणां लीलया भिवा, निर्ययुर्जीवितैः सह ॥३३३।। कशराशनिहताः पेतु-र्भुवि ते पर्वता इव । पपात पुष्पवर्ष च, पार्थमूर्ध्नि नभोऽङ्गणात् ॥ ३३४ ॥ तदत्यद्भुतमालोक्य, श्रुत्वा च दिवि दुन्दुभिम् । यभार सारथिः फुल्ल- त्पुण्डरीकमिवाननम् ।। ३३५ ॥ साधु साधु महावाहो !, धनंजय ! चिरं जय । एते प्रत्यर्थिनः प्रौढा, लीलयैव त्वया जिताः ॥३३६।। इत्यानन्दपरः पार्थ-मभिनन्दन् पुनःपुनः। आलिलिङ्ग स सर्वाङ्ग-मुन्मीलत्पुलकाङ्करः ॥३३७॥ (युग्मम्) अथ व्योम्नि विमानेन, हर्षादायान्तमन्तिके । वासवं दर्शयामास, सारथिः पाण्ड्सूनवे ॥ ३३८ ॥ दिष्ट्या दृष्टिमितो देहि, सखेचरपरिच्छदः । संग्रामकौतुकादेति, पुरतस्ते पुरंदरः ॥ ३३९ ॥ रथस्थ एव पार्थस्तं, प्रीतः प्रत्युद्ययौ दृशा । १ कर्णमूलम् । २ गर्जनाम् । ३ यावन्तो विद्वेपिणस्तान्वतो वाणाः । * अशनिः-वनम् । ४ 'शरासनिहिताः' इति क्वचि- पाठः । ५ इन्द्रं नृपम् ।
इन्द्रा-
र्जुनयो
समागमः॥
कृत्वा विमानमामन्नं, तमिन्द्रोऽप्यध्यरोहयत् ॥३४०॥ पाण्डवं प्राग्दृशा पीत्वा, सस्नेहमुपगृह्य च | निवेश्य चासनस्यार्धे, स
पद्धाञ्जलिरम्यधात् ॥३४१।। ततस्योपकारस्य, मा भून्मे प्रत्युपक्रिया । उपकर्तरि दुःस्थे हि, भवेत् प्रत्युपकारिता ॥३४२।।
तयोपशोकनारायं, किं चूमः ? किं ततः परम् । इदं राज्यममी प्राणा, व्यापार्यन्तां यदृच्छया ॥ ३४३ ॥ नेत्रोत्सवाय
पौराणां, लमेहि स्थनू पुरम् । सेचरीमङ्गलाचारः, संस्तुतोऽस्तु तवाधुना ॥ ३४४ ॥ समानवयसं वीक्ष्य, पाण्डुना तं
धनंजयः। भक्तिभारनमन्मूर्धा, सप्रश्रयमयोचत ॥३४५॥ तातेन पाण्डुनै(ने)वाहं, भवद्भिः परवानिह । केवलं यातुधानानां,
राजधानी ममाधुना ॥ ३४६ ॥ प्रसिद्धं सिद्धकूटं च, द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी, पार्थस्तूष्णीकतां दधौ
॥ ३४७ ।। ( युग्मम् ) हुंकारेण ततः प्रेर्य, विमानं गगनाधना । इन्द्रः प्रीतिपरोऽघादी-निवातकवचनुहम् ॥ ३४८ ।।
अपस्या पर्यवस्थात-सार्थेऽधः पार्थ? वीक्ष्यताम् । त्वया छोपु भन्नेषु, छाया गृधैर्विधीयते ॥३४९॥ रेणवश्चन्दनायन्ते, शोणितं
कुछमायते । रुटेनापि त्वयाऽरीणां, दत्तमङ्गप्रसाधनम् ॥ ३५० ॥ सुखकृत्त्वं प्रतीपोऽपि, यत्ते शत्रून् प्रिया इव । शिवाः
लिप्यन्ति चुम्मन्ति, दारयन्ति नखैरपि ॥ ३५१ ॥ असौ हहा ! कुसंसर्गा-निसर्गसरलाशयः । गतः परासुतां वत्सो,
विद्युन्माली दुनोति माम् ॥ ३५२ ॥ भवत्यपेया पीयूप-गर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गा-दारोहति शिरः सताम्
॥ ३५३ ।। इदं हिरण्यहम्पा, सुवर्णपुरमग्रतः । वयं यत्र स्थितैरेते-मुहुर्मुहुरुपद्रुताः ॥ ३५४ ।। युद्धोपाध्याय ! शत्रूणां,
स्त्रियः शोकं त्वयाऽधुना । अध्यापिताः पुरस्तारैः, पूत्कारैर्गुणयन्त्यमूः ॥ ३५५ ।। काश्चिचिकुरसंभार, त्रोटयन्ति मुहुर्मुहुः
१ निपातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः । २ प्रतिपक्षसमूहे ।
॥१५॥
काचित्प्रतिक्षणं वक्षः-कुट्टिमं कुट्टयन्ति च ॥ ३५६ ॥ क्षिपन्ति दूरमश्रूणि, हारमुक्ताच काचन । मन्यन्ते च दुकूलानि, प्रतिकूलानि काश्चन ॥ ३५७ ॥ त्वत्क्षुरप्रा द्विपां क्षिप्रं, लग्नाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तासां, ललपुः पत्रवल्लरीम् ? ॥ ३५८ ॥ वयं वेगाद्विमानस्प, वैमनस्यविनाशकृत् । अर्हचैत्याश्चितं वत्स, सिद्धकूटमुपागताः ॥ ३५९ ॥ अथोचीय विमानेभ्यः, सर्वे श्रद्धालुचेतसः । तत्र शाश्वततीर्थेशं, वर्धमानं ववन्दिरे ।। ३६० ।। दुष्प्रापं दर्शनं मच्चा, विशेषाजिनमर्जुनः । सात्रानन्तरमानर्च, तुष्टाय च मुहुर्मुहुः ॥ ३६१ ॥ गङ्गाम्युविमला तस्य, जिनोपासनवासना । पाप- पमपाकर्तु-मपुष्णान प्रभविष्णुताम् ॥ ३६२ ॥ पुनर्विमानमारुह्य, कीयमानोऽथ बन्दिभिः । उत्क्षिप्तकेतनां पुप्प-प्रकराश्चि- तचत्वराम् ॥ ३६३ ॥ उत्तोरणा रणचूरू, सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य, राजधानीमुपाययौ ॥ ३६४ ॥ युग्मम् ।। सानन्दैः खेचरीवृन्दै-लाजाक्षेपपुरःसरम् । पीयमानाङ्गलावण्यः, स सौधद्वारमागमत् ।। ३६५ ॥ प्रसुतोल्लुकल्लोलं, लोलाक्षीभिः किरीटिनः । प्रवेशमङ्गलाचारं, चकारेन्द्रप्रिया स्वयम् ॥३६६॥ स्वयं सिंहासनासीन-स्तं कृत्वोत्सङ्गसङ्गिनम् । वासवः कारयामास, पुरः संगीतमङ्गलम् ।। ३६७ ॥ स चिरात् खेचरास्त्राणि, किरीटं कवचं तथा । तदा प्रदाय पार्थाय, स्वं कृतार्थममन्यत ।। ३६८ ॥ अग्रजः सर्वपुत्राणां, मम सूनुरसौ जनैः । ज्ञातव्य इति सर्वत्र, घोपयामास वासवः ॥३६९।। कंचित् कालमिहैव त्वं, विष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयांचक्रे, तदेति त्रिदशेश्वरः ॥ ३७० ॥ ओमित्युक्त्वा कनी- योमि-न्धिवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णु-चिजहार यदृच्छया ॥ ३७१ ॥ १ जीकृतध्वजाम् । २ सूर्यसदृशकान्तिः ।
र्जुनयोर
समागमः॥
कृत्या विमानमामनं, तमिन्द्रोऽप्यध्यरोहयत् ।।३४०॥ पाण्डवं प्राग्दृशा पीत्वा, सस्नेहमुपगृह्य च । निवेश्य चासनस्याधे, स
बद्धामलिरम्यधात् ॥३४१॥ तवैतस्योपकारस्य, मा भून्मे प्रत्युपक्रिया । उपकर्तरि दुःस्थे हि, भवेत् प्रत्युपकारिता ॥३४२॥
तवोपश्लोकनावाक्य, किं ब्रूमः ? किं ततः परम् । इदं राज्यममी प्राणा, व्यापार्यन्तां यदृच्छया ॥ ३४३ ॥ नेत्रोत्सवाय
पौराणां, त्वमेहि रथनू पुरम् । खेचरीमङ्गलाचारः, संस्तुतोऽस्तु तवाधुना ॥ ३४४ ॥ समानवयसं वीक्ष्य, पाण्डुना ते
धनंजयः । भक्तिभारनमन्मूर्धा, सप्रश्रयमवोचत ॥३४५॥ तातेन पाण्डुनै(ने)वाह, भवद्भिः परवानिह । केवलं यातुधानानां,
राजधानी ममाधुना ॥ ३४६ ।। प्रसिद्ध सिद्धकूटं च, द्रष्टुमस्ति कुतूहलम् । इति विज्ञाप्य विनयी, पार्थस्तूष्णीकतां दधौ
॥ ३४७ ॥ ( युग्मम् ) हुंकारेण ततः प्रेर्य, विमानं गगनाधना । इन्द्रः प्रीतिपरोऽवादी-निवातकवचट्ठहम् ॥ ३४८ ।।
अवस्था पर्यवस्थात-सार्थेऽधः पार्थ? वीक्ष्यताम् । त्वया छत्रेषु भन्नेषु, छाया गृधैर्विधीयते ।।३४९।। रेणवश्चन्दनायन्ते, शोणितं
कुछमायते । रुटेनापि त्वयाऽरीणां, दत्तमङ्गप्रसाधनम् ॥ ३५० ।। सुखकृत्त्वं प्रतीपोऽपि, यत्ते शत्रून् प्रिया इव । शिवाः
लिप्यन्ति चुम्बन्ति, दारयन्ति नखैरपि ॥ ३५१ ॥ असौ हहा ! कुसंसर्गा-निसर्गसरलाशयः । गतः परासुतां वत्सो,
1. विगुन्माली दुनोति माम् ॥ ३५२ ॥ भवत्यपेया पीयूप-गर्गरी गरसङ्गिनी । सूत्रं तु पुप्पसंसर्गा-दारोहति शिरः सताम्
।। ३५३ ॥ इदं हिरण्यहाक, सुवर्णपुरमग्रतः । वयं यत्र स्थितैरेतै-मुहुर्मुहुरुपद्रुताः ॥ ३५४ ॥ युद्धोपाध्याय ! शत्रूणां,
खियः शोकं त्वयाऽधुना । अध्यापिताः पुरस्तारैः, पूत्कारैर्गुणयन्त्यमूः ।। ३५५ ।। काश्चिच्चिकुरसंभारं, त्रोटयन्ति मुहुर्मुहुः ।
१ निगरातकवचस्य राक्षसस्य शत्रुम्-अर्जुनमित्यर्थः । २ प्रतिपक्षसमूहे ।
॥१५५॥
काश्चित्प्रतिक्षण वक्षः-कुट्टिी कुट्टयन्ति च ॥ ३५६ ॥ क्षिपन्ति दूरमश्रूणि, हारमुक्ताश्च काश्चन । मन्यन्ते च दुकूलानि, प्रतिकूलानि काश्चन ॥ ३५७ ॥ त्वत्क्षुरपा द्विपां क्षिप्रं, लमाश्छिन्दन्तु कंधराम् । कथं कुचस्थले तासां, लुलुपुः परवल्लरीम् ? ॥ ३५८ ॥ वयं वेगाद्विमानस्य, वैमनस्पपिनाशकृत् । अर्हचैत्याश्चितं वत्स!, मिद्धकूटमुपागताः ।। ३५९ ॥ अथोत्तीर्य विमानेभ्यः, सर्वे श्रद्धालुचेतसः । तत्र शाश्वततीर्थेशं, वर्धमानं ववन्दिरे ॥ ३६०॥ दुष्प्रापं दर्शनं मचा, विशेषाअिनमर्जुनः । स्नानानन्तरमानर्च, तुष्टाव च मुहुर्मुहुः ॥३६१॥ गङ्गाम्युविमला तस्य, जिनोपासनवासना । पाप- पकमपाकर्तु-मपुष्णात् प्रभविष्णुताम् ॥ ३६२ ॥ पुनर्विमानमारुह्य, कीर्त्यमानोऽथ बन्दिभिः । उत्क्षिप्तकेतना पुष्प-प्रकराश्चि- तचत्वराम् ॥ ३६३ ॥ उत्तोरणां रणचूरू, सूर्यप्रतिनिधिद्युतिः । पार्थः खेचरराजस्य, राजधानीमुपाययौ ॥ ३६४ ॥ युग्मम् ॥ सानन्दैः खेचरीवृन्दै-लाजाक्षेपपुरःसरम् । पीयमानाङ्गलावण्यः, स सौधद्वारमागमत् ॥ ३६५ ।। प्रसुतोलुलुकल्लोलं, लोलाक्षीभिः किरीदिनः । प्रवेशमगलाचार, चकारेन्द्रप्रिया स्वयम् ॥३६६॥ सयं सिंहासनासीन-स्तं कृत्वोत्सङ्गसङ्गिनम् । वासवः कारयामास, पुर. संगीतमङ्गलम् ॥ ३६७ ॥ स चिरात् खेचरास्त्राणि, किरीटं कवचं तथा । तदा प्रदाय पाय, स्वं कृतार्थममन्यत ॥ ३६८ ॥ अग्रजः सर्मपुत्राणां, मम सूनुरसौ जनैः । ज्ञातव्य इति सर्वन, घोपयामास वासवः ॥३६९।। कंचित् कालमिहेव त्वं, तिष्ठ लक्ष्मी कृतार्थयन् । पार्थमभ्यर्थयांचक्रे, तदेति त्रिदशेश्वरः ॥ ३७० ॥ ओमित्युक्त्वा कनी- योमि-न्धवैरिव तत्सुतैः । सानन्दोऽस्य पुरे जिष्णु-जिहार यदृच्छया ।। ३७१ ॥ १ अर्वीकृतध्वजाम् । २ सूर्यसदृशफान्ति ।
अर्जुनस्थे-
न्द्रपुरे
गमनम् ।
ततः
प्रयाण
च॥
स्मरार्ताः पुरकामिन्यः, कामयन्ते स्म फाल्गुनम् । वशी पदारसंतुष्टो, न तु ताः स कदाचन ॥ ३७२ ॥ उपेत्यो-
पेत्य तं प्रेम्णा, पृणते स्म पतिवराः । स्मरन् बन्धुवनक्लेशं, प्रतीयेप न ताः स तु ॥ ३७३ ॥ चित्रागद-विचित्राङ्ग-
चित्रसेनादयः शतम् । आययुः खेचरास्ता, फाल्गुनालोकनार्थिनः ॥ ३७४ ॥ इन्दोः संवर्णानाकर्ण्य, गुणान् प्रेक्ष्य च
ते स्वयम् । धनुदादिशिक्षासु, गुरुं चक्रुः किरीटिनम् ॥ ३७५ ॥ लञ्जयामास न द्रोणं, शिक्षादानक्रमेण सः । गुरुवैन-
यिकोत्कर्षे, न च ते सव्यसाचिनम् ॥ ३७६ ॥ अचिरेणैव पारीणा, कलानां तेऽथ जज्ञिरे । विद्यान्धिकर्णधारो हि,
योगः मद्गुरुशिष्ययोः ॥३७७॥ ददुः सर्वस्वमप्येते, बलाजिष्णुवारयत् । इत्यभूत् कलहस्तेपां, गुरुणा दक्षिणाकृते ॥३७८॥
निषिद्धाः पाण्डुपुत्रेण, समयापेक्षिणस्ततः । कृतज्ञाः कल्पयामासुः, प्राणांस्ते गुरुदक्षिणाम् ॥ ३७९ ॥ ते च विद्याधरा-
धीशाः, सर्वेच्छा यावदन्वहम् । तस्थुः प्रतस्थिरे चापि, सहैव कपिकेतुना ॥ ३८०॥ चित्राङ्गदस्तु गन्धर्वो, गीतेन
परिवस्यति । ततोऽस्मिन्नधिकां प्रीति, प्रथयामास पाण्डुसः ॥ ३८१ ॥ इन्द्रवात्सल्यतः पार्थः, शिष्याणां चोपचारतः ।
भूयांसं गमयामास, कालमेकाहलीलया ॥ ३८२ ॥
कदाचिद्रान्धोत्कण्ठा-विवशीकृतमानसः । इन्द्रमामत्रयामास, गमनाय धनंजयः ।। ३८३ ॥ रथं दिव्यं विमानं
च, चन्द्रचूड च मारथिम् । इन्द्रः समर्प्य वाप्पाम्यु-प्लुताक्षो विससर्ज तम् ॥३८४॥ मनोवेगविमानस्थै-चित्रागदपुर:-
सरैः । विद्याधरैरनुगतः, प्रतस्थेऽथ कपिध्वजः ॥ ३८५ ॥ स साश्रुनयनाम्भोजः, पर्यश्रुमनुगामिनम् । आविष्कृतबहुस्नेह,
१ ऐच्छत् २ सहशान् ।
॥१५६॥
चलादिन्द्रं न्यवर्तयत् ॥ ३८६ ॥ प्रथयन्तौ कथास्तास्ता-श्चित्राङ्गद-किरीटिनौ । एकं विमानमारुख, वियन्मार्गेण जग्मतुः ॥ ३८७ ॥ संमेतादिषु शैलेपु, पावनेष्वर्हता पदैः । सर्वविद्याधरोपेतः, पार्थस्तीर्थान्यवन्दत ॥ ३८८ ॥ चारण- श्रमणांचैप, नमस्यन् ज्योम्नि संमुखान् । आगाल्लवङ्गलवली-सुगन्धं गन्धमादनम् ॥ ३८९ ॥ पुरोगखेचराख्यातां, वीक्ष्य व्योनि सुतश्रियम् । निजामुवाच रोमाञ्च-द्वारेणैव मुदं पृथा ॥३९०॥ पश्यन्नपि सुधारन्धु-बन्धुलक्ष्मी युधिष्ठिरः । सानुजः कलयामास, तत्कालमनिमेषताम् ॥ ३९१ ॥ तदानीं विकसन्नेत्र-नीरजा द्रुपदात्मजा । इयेप मनसोत्तुत्य, पत्युरुत्सद्भूसं- गमम् ॥ ३९२ ॥ उन्मुखेषु मुदा तेपु, वेगादागत्य फाल्गुनः । खेचरैः सहितो मातु-रपतत् पादपङ्कजे ॥ ३९३ ॥ मुहुर्मुहुः स्पृशन्त्याऽङ्ग, सुधाशीतेन पाणिना । तयाऽपि नपयांचके, प्रमोदाश्रुभिरात्मजः ।। ३९४ ॥ उभाभ्यामपि पाणिभ्यां, तमुत्था- प्य पृथा वलात् । आजिघन्मुदिता मूर्भि, प्रश्रवक्किन्नवल्कला ॥ ३९५ ॥ अग्रजावनमत् पार्थ-स्तं चोपेत्यानुजौ यमौ । पार्थेनावेदिता नेमुः, खेचरास्तपसासुतम् ॥३९६॥ पासीमान्तमुल्लमय, प्लवमानैस्तिस्ततः । प्रेम प्रकाशयामास, कृष्णा भावैः स्वमर्तरि ॥ ३९७ ।। उपस्थातव्यमाहूतै-युष्माभिः समये पुनः। इत्याभाष्य तपासूनु-र्विससर्ज नभश्वरान् ॥ ३९८ ॥ अथ पप्रच्छ विनयी, बान्धवान् कपिकेतनः । अत्यकामदयं कालः, कथं वो विरहे मम ? ॥३९९॥ तत्तत्तीर्थनमस्या- भि-स्त्वत्कथाश्रवणेन च । गमितः समयोऽस्माभि-रित्याख्यद्धर्मनन्दनः ॥ ४०० ॥ स्मरव्यापारनिपुणा, वियोगगुणितं प्रियात् । आददे द्रौपदी स्वैर, करणग्रामजं सुखम् ॥४०१॥ कालेन भूयसा जातु, तस्याः क्रीडाजुपः प्रियैः । सहस्रपत्र- १ नीरज-कमलम् । २ इन्द्रियसमूहजनितम् ।
अर्जुनस्य
भ्रातृसमीपे
आगमनम्।
भीमस्य
कमला-
नयनाय
मुत्सझे, पपात पानाहृतम् ।। ४०२ ॥ एकं विदधती तद्विः, पाणिपङ्केरुहग्रहात् । विलोकते स्म पाञ्चाली, प्रतिपत्रं पुनः पुनः
॥४०३ ॥ प्रियावक्त्रं च तचापि, वीक्ष्य साक्षादुभे अपि । पाण्डवेयास्तयोराचं, निश्चिक्युर्वसतिं श्रियः॥४०४ ॥ द्वयोरपि
तयोरस्ति, यदप्यनपरागता । तथाप्यधिकसौरम्य, मेनिरे ते प्रियाननम् ॥ ४०५ ॥ तेनाकृष्टमनाः कृष्णा, दृशा भीमम-
याचत । उपानय समानीय, नलिनानीदृशानि मे ॥४०६ ॥ सुमेघास्तदवोधिष्ट, प्रियाऽभीष्टं वृकोदरः। मनोगतं विदन्त्येव,
नित्यं हृदपवासिनः ॥ ४०७ ॥ ज्येष्ठबन्धुमनुज्ञाप्य, प्रस्थितस्याथ मारुतेः । दिदेशानीतराजीव-गन्धो गन्धवहः पथम्
॥ ४०८ ॥ लपयामास सोऽध्यानं, सिन्धुभूधरदुस्तरम् । न पुनः कापि तत् प्राप, सरः सरसिजास्पदम् ॥ ४०९ ॥
इतस्तपःसुतादीना-मदीनमनसामपि । भाव्यर्थपिशुनराशु, दुनिमित्तैर्विजृम्भितम् ॥४१०॥ ततः समादिशद्वन्धू-नाटतो
धर्मनन्दनः । मत्वरं गम्यते तत्र, यत्रास्ति पवनात्मजः ॥ ४११ ॥ तस्मिन् संनिहितेऽस्माकं, विपदः स्युन दुस्तराः।
महानद्योऽपि सुप्राप-पाराः सत्युडुपे नृणाम् ॥ ४१२ ।। तस्याप्यत्याहितं न स्यात्, स्थितेष्वस्मासु संनिधौ । केन वा यूथ-
मध्यस्थः, कलभः परिभूयते ॥ ४१३ ॥ इत्यादेशान्नरेशस्य, ते सर्वेऽपि प्रतस्थिरे । तेषामुपादिशन्मार्ग, भग्ना भीमेन भूरुहः
॥ ४१४ ॥ गिरिभिविपमः पन्था-स्तैर्ललझे कथंचन । एकस्यास्तु महानद्या-स्तीरे खिन्नोऽवदन्नृपः ॥ ४१५॥ भीमः स
नास्ति यस्यासो, महानद्यपि गोप्पदम् । एतामुत्तार्य भीमेन, कोऽस्मान् संगमयिष्यति ॥४१६॥ अथाऽऽह पार्थो मे देव !,
विद्याः सन्ति वशंवदाः। तामामन्यतमाऽप्येतत् , करोत्वीप्सितमादिश ॥४१७॥ ततोवादीदजातारि-महासाहायिकोचिताः।
१ रागसहितत्वम् । २ वायुः । ३ विनः
गमनम् ।।
॥१५७॥
विद्याः स्वल्पे न कार्येऽस्मिन् , व्यापारयितुमहसि ॥ ४१८ । पथि नियूंढसाहाय्या, हिडम्बा तु पुरापि नः । इदानीमपि तामेव, स्मर्तुमिच्छति मे मनः ॥ ४१९ ॥ इत्युदीर्य स्नुषां सद्यः, सस्मार च युधिष्ठिरः । भीमाभ्यर्णस्थमात्मानं, सकुटुम्बं ददर्श च ॥ ४२० ॥ हिडम्बां सह बालेन, सोऽपश्यत् प्रणतां पुरः । अवादीच दृशा सिञ्चन् , सुधावीचिवयस्यया ।।४२१॥ कच्चित् कुशलिनी वत्से !, गुर्यादेशैकतत्परे ? । अयं च कोऽयमनघो, लघु म इवापरः ॥ ४२२ ॥ अथ सा कथयामास, देव ! स्मरसि यत् पुरा। अन्तर्वत्नी विसृष्टाऽह-मेकचक्रावनात्वया ॥४२३।। गताया मे पितुर्गेहे, तनयोऽयमजायत । विद्याभिः पात्रलाभेन, मुदितं यस्य जन्मनि ।। ४२४ ॥ भुजस्थाम्ना निराम्नायान् , पितुः शत्रून् करिष्यति । असाविति ममाख्यायि, मुगुमाइतिकैस्तदा ॥४२५।। अयं मे ज्ञातिचक्रेण, चके नाम्ना घटोत्कचः । कलाथाध्यापितः काश्चित्, काचिदध्येष्यतेऽधुना ॥४२६॥ अथैते तनयलेह-लहरीहृतचेतसः । आश्लिष्यन् रभसाद्वालं, तं सर्वे पाण्डुसूनवः॥ ४२७॥ भक्तिरोमाञ्चिता काम, प्रणाम कृतपूर्विणी । सा कून्ती-याज्ञसेनीभ्यां, सलेहं समभाष्यत ॥ ४२८ ॥ अथोज्जृम्भनवाम्भोज, हृष्टो दृष्ट्वा सरः पुरः । स्नुपां स्वस्थानयानार्थ-मनुमेने महीपतिः ॥ ४२९ ॥ आश्चर्यलहरीहेतोः, सेतोपरि तस्थिवान् । बन्धूनां दर्शयामास, मारुतिः सरसाश्रियम् ॥ ४३० ॥ दिवि दिव्याब्ज- सौरभ्य-लुभ्यद्धृङ्गावलिच्छलात् । छत्रं तडागराजस्य, राजते मेघडम्बरम् ।।४३१॥ लोलैरेतानि कल्लोलैः, शतपत्राणि पश्यत । कृष्णावत्रजितानीव, स्वमन्तर्दधते पुरः॥ ४३२ ॥ इमां भीमगिरं श्रुत्वा, दक्षिणेऽक्षिण स्फुरत्यथ । प्रपेदे द्रौपदी प्रीति- १ सन्ततिरहितान् । २ पालेः ।
पाण्डवान
नागसरस
मजनम्।
मप्रीतिं च मम तदा ।। ४३३ ॥ मातुः पादौ स 'नागः, पुंनागस्य तरोरधः । स्वोत्सङ्गसङ्गिनौ कुर्व-नुपासामास धर्मसूः
॥ ४३४ ॥ पद्धिष्णुफलपुष्पर्द्धि-रम्यासु वनराजिपु । शेपास्तु पाण्डवाः स्वैरं, रेमिरे सह कृष्णया ॥ ४३५ ॥ ददुस्तरून
ममारुह्य, प्रियायै कुसुमानि ते । सा तु तेभ्यः प्रतीच्छन्ती, मुदर्श्वभुजा ददौ ।। ४३६ ॥ कुतूहलात् स्वयं कर्तु, पुष्पावच-
पमिच्छती । सा प्रियैः स्कन्धमारोप्य, चक्रे पूर्णमनोरथा ॥ ४३७ ।। मनोहारीणि निर्माय, कुसुमाभरणानि ते । परिधाप्य
प्रियां प्रेम्णा, परां मुदमलम्भयन् ।। ४३८ ॥ केतकीदलदीपेण, कटाक्षेण वृकोदरम् । प्रियाऽथ प्रेरयामास, कमलाऽऽहरणाय
सा ॥४३९ ।। तरीतुमतिनिष्णात-स्तीरे त्यक्त्वा गदां तदा । स जगाहे तडागं तं, पाथोधिमिव मन्दरः ॥ ४४०॥ विचक्षणः
क्षणान्मज-नुन्मजंश्च क्षणादपि । बन्धूनां दर्शयामास, स्वसंतरणकौशलम् ॥ ४४१॥ संविष्टो वा निविष्टो वा, क्वचिवंद-
मोऽयवा । पहुधा बन्धुहर्षाय, जलकेलिमसौ व्यधात् ।। ४४२ ॥ नलिनानि सनालानि, बहिरुचित्य सोऽक्षिपत् । अग्रहीनीर-
तीरस्था, द्रौपदी मुदितानना ॥ ४४३ ॥ उचित्योचित्य पद्मानि, क्षिपन्नेवं वृकोदरः। तरन् यातः सरोमध्यं, ममजान्तर्जलं
क्षणात् ॥ ४४४ ॥ जले मनोऽन्यदाऽप्येप, चिरेणोन्मजतीति ते । औदासीन्यजुपोऽभूवं-स्तदा सर्वेऽपि वान्धवाः ॥ ४४५ ॥
प्राणेश ! द्रुतमुन्मज, कृतं मजनकेलिना । इत्याकुलमनास्तारं, जगाद द्रुपदात्मजा ॥ ४४६ ॥ अर्जुनार्जुन ! धावस्त्र,
वेगतो भीममाकृप । कविदुष्टाशयो ग्राहः, सूनुं मे नूनमग्रहीत् ॥ ४४७ ॥ इति कुन्तीगिरा पार्थः, समर्थः शत्रुनिग्रहे ।
ददावन्तर्जलं झम्पा, दीपे शलभवद्रुतम् ॥ ४४८ ॥ (युग्मम्) आसेदिवान् प्रदेशं तं, मनः पार्थोऽपि पाथैसि । वृकोदरानु-
१ गृणन्ती । २ नोटयित्वा । ३ जले।
॥१५८॥
गामित्वा-बोन्ममज चिरादपि ॥ ४४९ ॥ उभावपि भुजे धृत्वा, जानीताशु समुद्भुतौ । इति जल्पन् विवेशाशु, नकुलः
प्रणयाकुलः ॥ ४५० प्रवृत्तिरासीत्तस्यापि, प्रत्यावृत्तिस्तु नाभवत् । व्यवसायोऽन्यथा पुंसां, विधातुः पुनरन्यथा ॥ ४५१ ।।
चिरयन्ति कथं मना, बन्धवोऽमी ? इति नुवन् । सहसा सहदेवोऽपि, वेगादेत्य जलेऽपतत् ॥ ४५२ ॥ सत्यं सोऽपि जवा-
द्गत्वा, बन्धूनां मिलितस्तदा । येनोन्मजनवार्ताऽऽसी-न्न तस्यापि कथंचन ॥ ४५३ ॥
हाहा ! किमेतदारब्धं, विधिनेति विचिन्तयन् । नरेन्द्रोऽथ समं कुन्त्या, कृष्णान्तिकमुपागमत् ॥ ४५४ ॥ अजल्प-
नृपत्तिः कुन्ती, किमेतन्मातरुत्थितम् । अकस्मादेव येनामी, निर्ममज्जुर्ममानुजाः ॥ ४५५ ॥ शक्तास्तरीतुमेते हिं, बाहु-
भ्यामपि सागरम् । क्रूराणां संभवो जातु, नास्मिन्नम्मसि यादसाम् ॥ ४५६ ॥ मन्ये मन्युमता योद्धं, रुद्धाः केनापि
वैरिणा । तं निगृह्य प्रसह्याशु, गत्वाऽहं मोचयाम्यमून् ॥ ४५७ ॥ किं तु त्वां त्वद्वधू चैतां, नो शून्ये मोक्तुमुत्सहे । तत्कि-
कर्तव्यतामूढः, संकटे पतितोऽस्म्यहम् ॥ ४५८ ॥ अथाऽऽह जननी वत्स !, गच्छ बन्धून् विमोचय । आवयोः संनिधौ पञ्च,
तिष्ठन्ति परमेष्ठिनः ॥ ४५९ ॥ सिंहा इव श्रयन्तेऽमी, यन्मन:कंदरोदरम् । विपद्विपघटास्तेषां, विघटन्ते दिशो दिशि
॥ ४६० ॥ तवापि हृदयान्मा स्म, क्षणमप्यपयान्त्वमी | उदर्कः कुरुवंशार्क-चिरायोज्जृम्भतां शुभः ॥ ४६१ ॥ रवेरस्तम-
नादाक्, पुनः संनिधिमावयोः । सबन्धुरेत्य विजयी, सनाथीकर्तुमर्हसि ।। ४६२ ॥ नमो नभोमणिः स्वैरं, यावदुद्दयोतय-
त्ययम् । प्राणेभ्यः प्रभविष्याव-स्तावदेव त्वया विना ।। ४६३ ॥ दक्षः शिक्षामिमां मातुः, स ग्रहो बह्वमन्यत । नैसर्गिकी
हि महतां, गुर्वादेशैकतानता ॥ ४६४ ॥
पाण्डवानां
नागसरसि
मजनम्॥
ततः पञ्चनमस्कार-पुरस्सरमसौ सरः। निर्विलम्ब प्रणम्याम्बा, प्राविशद्धर्मनन्दनः ॥ ४६५ ॥ दत्तसादृशोरेव,
सोऽपि माव-कलत्रयोः । तडागान्तर्निमनानां, चतुर्णां पञ्चमोऽभवत् ॥ ४६६ ॥ चिरादपि ततस्तेषा-मनागमनविक्लवाम् ।
कुन्तीं वीक्ष्येव संजने, दिवमोऽपि भृशं कुंशः॥ ४६७ ॥ तदा सरसि निर्मनां-स्तानिवालोक्य दुःखितः । चचाल पश्चिमा-
म्भोधो, पतिप्यन्निव भास्करः ।। ४६८ ॥ ग्रहाणां ग्रामणीः सोऽपि, मजयित्वा महार्णवे । काप्यनीयत कालेन, कालो हि
दुरविक्रमः ।। ४६९ ।। क्रान्तमुत्तिष्ठमानेन, तिमिरेण दिशा मुखम् । कुन्ती-द्रपदनन्दिन्योः, शोकेनेव विसर्पता ॥ ४७० ॥
संचुकोच विना भानोः, सरस्यम्मोजकाननम् । ऋते च पाण्डवेयेम्पो, मुखं मातृ-कलत्रयोः ॥ ४७१ ॥ वाचामगोचरं
प्राप्य, कष्टमिष्टवियोगतः । मूमिगच्छतामाशु, ते सहैव दिनश्रिया ॥ ४७२ ॥ मूर्छाव्यपगमे कुन्ती, नितान्तं पर्यदे-
वत । हा! पत्साखिजगत्प्राण-वाणसोत्साहवाहवः ।। ४७३ ॥ जलान्तःस्वैरसंचार-चातुरीचञ्चवोऽपि किम् । एतामपुनरा-
वृत्ति-दुःस्था प्राप्ताः स्थ दुर्दशाम् ? ॥ ४७४ ॥ युग्मम् ॥ कृष्णाऽपि विललापैवं, क ते पञ्चापि मे प्रियाः ? । तैर्विनाऽसौ
कथं वामा, त्रियामा मम यास्यति ? ॥ ४७५ ॥ न म्लायते तदद्यापि, तैर्दत्तं पुष्पदाम मे । ते तु तामीदृशीं प्राप्ता, ह हा
दैववशादशाम् ॥ ४७६ ।। पालिट्ठमालिनीडानां, युगपत् पक्षिणां स्वैः । तदुःखेनेव संध्यापि, स्निग्धरागा स्म रोदिति ॥४७७॥
अधोवाच स्नुपां कुन्ती, संस्थाप्यात्मानमात्मना । वत्से ! मा स रुदस्तारं, शोकः स्तोको विधीयताम् ॥ ४७८ ।। मुखन्य-
कृतराजीवे !, जीवन्त्येव तब प्रियाः । यतो राज्य पुनस्तेपा-माख्यातं मुनिपुङ्गवैः ।। ४७९ ॥ कुतश्चित् केवलं कांचि-दापदं
ते अपेदिरे । ततस्तस्याः परित्राण-कर्मणे प्रयतावहे ।। ४८० ।। विपत्कन्दच्छिदाछेकं, धर्ममेकं विदुयुधाः । धर्नामावां
ततः
॥१५९॥
कर्म, निर्माय निर्मिमीवहे ॥४८॥ भवेदासत्वनिर्वाह-स्तथा सत्यावयोरपि । अभिधाय स्नुपामेवं विरराम पृथा तदा ॥४८२।। अथावोचत पाञ्चाली, सत्यं मातस्त्वयोदितम् । मदुपज्ञा विपचेपा-मित्येतद्वाधतेतमाम् ।। ४८३ ॥ अनेनानुशयेनात्मा, मुहुर्दन्दह्यते मम । अकापं यत्तदाऽलीक, कमलाहरणाग्रहम् ॥ ४८४ ॥ कुन्ती कृष्णामथोवाच, न ते दोपोऽस्ति कश्चन । अवश्यंभाविनो भावा, निवार्यन्ते न केनचित् ॥ ४८५ ॥ तदानीमेत्य चन्द्रोऽपि, चन्द्रातपपटाञ्चलेः । सौजन्यादिव पर्यश्रु, तदाननममाजर्यत् ॥ ४८६ ॥ तयोः शोके निमीलद्भिः, कमलैः सुजनायितम् । सहसा कृतहासैस्तु, कुमुदैर्दुर्जनायितम् ॥४८७ ॥ ममाहन्नेव देवश्चे-दुरवश्व सुसाधवः । मन्तु विघ्नं सुतानां मे, ततः सम्यग्दृशः सुराः ॥ ४८८ ॥ उक्त्वेति कुन्ती स्मृत्वा च, पश्चापि परमेष्ठिनः । प्रलम्बितभुजावल्लिा, कायोत्सर्गमसूत्रयत् ॥ ४८९ ।। (युग्मम् ) अवादीद्रौपदी हो !, सुर- किंनरखेचराः ! । शेपं विमुच्य व्यापार-मेकं मे श्रूयतां वचः ॥ ४९० ॥ सुधांशुधवलं शीलं, शश्वजानीथ चेन्मम । संनिधत्त ग्रियाणां मे, कचिदापज्जुपां ततः ॥ ४९१ ॥ इति व्याहृत्य साऽप्यन्त-मनसं विभ्रती जिनान् । ग्रावोत्कीर्णेच निष्कम्पा, कायोत्सर्गे व्यवस्थिता ॥ ४९२ ॥ तयोरभीष्टमाधातुं, ध्यायन्त इव देवताम् । पादपा अपि निःस्पन्दाः, प्राणायामं दधुस्तदा ।। ४९३ ॥ विस्मृत्य पयसः पानं, मुक्त्वा चैरं परस्परम् । अतिष्ठन्मण्डलीभूय, तत्पार्धे श्वापदा अपि ।। ४९४ ॥ तयोः पश्यत माहात्म्यं, क्रूरै रात्रिंचरैरपि । संजातं यत्तदा जन्तु-संहारपरिहारिभिः ॥ ४९५ ॥ तयोर्व्यसनसाक्षिण्या, वहन्त्या महतीं शुचम् । वयोविरावैः क्रन्दन्त्या, क्षपयाऽक्षीयत ध्रुवम् ॥ ४९६ ॥ तयोर्दुष्कर्मभिर्नष्टं, तिमिरच्छद्मना तदा । पुण्योदयोतः १ मायारहितं शुद्धमित्यर्थः । २ 'दारब्धनिर्वा' प्रत्यन्तर० । ३ सान्निध्यं कुरत । ४ पक्षिशब्दैः ।
पाण्डवानां
नागसरस
आगमनम्।
प्रभाव्याजाव, प्रादुरासीग सर्वतः ॥ ४९७ ॥ तदानीं तद्वियोगाति-म्लानमूर्ती विलोक्य ते । ययौ वापि तुपारांशु-रन्वेष्टु-
मिर पाण्डवान् ॥ ४९८ ॥ प्रातर्वातोच्छलंद्वीचिं-च्छलतो मैन्तुमात्मनः । प्रमाष्टुमिव पादेपु, लगति स सरस्तयोः ॥४९९॥
मुनीन्द्ररपि दुःमाध्यां, ध्याननिचलतां तयोः । रविर्द्रष्टुमिवारोह-तदा पूर्वाद्रिचूलिकाम् ॥ ५०० ॥
अब व्योनि क्रमाजाते, याममाने त्रयीतनौ । तथैव सावधानेपु, श्वापदेवखिलेष्वपि ।। ५०१ ॥ स्वच्छाम्भसः सरोग-
भां-ज्योतिः ममुदजृम्भत । अनणुः किङ्किणीकागः, शुश्रुवे च श्रुतिप्रियः ॥५०२॥ ततः स्वर्णमयस्तम्भ, नानारत्नाकवेदिकम् ।
विमानं निरगादेकं, नाकस्येव निदर्शनम् ॥ ५०३ ॥ निर्मिमेपाम्बुजव्याजात् , कृत्वा नेत्राणि कोटिशः । नूनं सरोऽप्यनूनधि,
तदालोकत कौतुकात् ।। ५०४ ॥ तीरे ततः समुत्तीर्य, निस्तीर्णविपदर्णवाः । पादपङ्केरहं कुन्त्याः, प्रणमन्ति स्म
पाण्डवाः ॥५०५॥ दिव्यमूर्तिधरः कश्चि-नरस्तः सममागतः । स्फीतप्रीतिः पुरोभूय, कुन्तीं प्राञ्जलिरभ्यधात् ॥ ५०६ ।।
दिया ते फलितो धर्मः, कुन्ति ! पारय पारय । एते लुठन्ति विनयात्, तनयास्तव पादयोः ॥ ५०७ ॥ कायोत्सर्ग
विसृज्याथ, प्रमोदभरमेदुरा । पाणिना मृदु पस्पर्श, कुन्ती प्रत्यङ्गमङ्गजान् ॥ ५०८ ॥ द्रौपदी च करे धृत्वा, सा समा-
धिममोचयत् । पायं पायं पयः सः, प्रतस्थे श्वापदैरपि ॥५०९॥ कुन्ती वहन्ती विजिता-मोजकाननमाननम् । गत्वाऽथ
केसरस्याधो, न्यसीदत् सपरिच्छदा ॥ ५१० ॥ ततः पप्रच्छ तं देव-मात्मजानां कथां पृथा । सोऽपि सानन्दमुन्मील-
चमत्कारमचीकथत् ॥ ५११॥
१ अपराधम् । २ सूर्ये । ३ स्वर्गस्य ।
॥१६॥
महर्षेः कस्यचित् संप्र-त्युदपद्यत केवलम् । इन्द्रस्तत्रोत्सवं कर्तु-मगच्छदमुनाऽध्वना ॥ ५१२ ॥ वृत्रारेरेनमाकाश- प्रदेशमुपसेदुपः । विमानस्य क्षणादासी-दकाण्डे गतिखण्डनम् ॥ ५१३ ॥ विमानं मम को मूों, मुमूर्पः स्खलयत्यदः । असौ भिनत्तु दम्भोलि-स्तस्य मौलिमनाकुलः ॥ ५१४ ॥ इति जल्पन् क्रुधा वजं, वजपाणिः करेग्दधत् । मुहुापारया- मास, क्रूराः प्रतिदिशं दृशः॥५१५॥ (युग्मम्) निरुपाधिसमाधिस्थे, प्रेक्ष्य साक्षायुवां ततः । मां फुल्लाक्षः सहस्राक्षो, बभाषे- ऽभ्यर्णवर्तिनम् ॥५१६॥ पुत्र-भर्तृवियोगाते, सत्यौ श्वश्रू-स्नुपे इमे । समाहिते स्तस्तदयं, विमानो याति नाग्रतः ।।५१७॥ नैगमेपिन्त्रिमे विद्धि, मान्ये सुमनसामपि । मातेका पाण्डवेयाना-मपरा च सधर्मिणी ॥५१॥ माता कुन्तीति विख्याता, यस्य देदीप्यतेऽधिकम् । विपत्पङ्केऽपि सम्यक्त्व-रत्नमत्यन्तभासुरम् ॥ ५१९ ॥ मानसं तीर्थमेवास्याः, सर्वपापतमोपहम् । यदध्यासितमहगि-युगपनिखिलैरपि ॥ ५२० ॥ पत्नी तु द्रौपदी नाना, यां महिनातिशायिनीम् । पतिव्रतामयं ज्योति- रामनन्ति मनीषिणः ॥५२१॥ तत् पाण्डवान् विपत्पा-गत्वा सत्वरमुद्धर । एतयोः स्युर्महासत्यो-यथा पूर्णा मनोरथाः॥ ५२२ ॥ इदं हि नागराजस्य, सरः सागरसोदरम् । स चास्य सहते नैव, विमर्दमपरैः कृतम् ॥५२३ ॥ द्रौपद्या प्रार्थितो भीमः, कमलानि कुतूहलात् । इहाक्रष्टुं प्रविष्टवा-कृष्टश्चाधो भुजंगमैः ॥ ५२४ ॥ हा ! ममा जले भीम, इत्याकुलतया क्रमात् । ददुम्पिा झगित्यत्र, चत्वारो वान्धवा अपि ।। ५२५ ॥ प्रसह्य समगृह्यन्त, तेऽपि नागैर्दुराशयैः । निन्यिरे नागपा- शैश्थ, बद्धा नागपतेः पुरः ॥५२६ ।। तद्रज ध्वजिनीनाथ , द्रुतं मोचय पाण्डवान् । सोऽपि पाण्डुसुतानेतान् , विदित्वाऽ- १ समाधिमत्यौ । २ नागपतिः।
नैगमेपणा
कथितो
वृत्तान्तः॥
नुगयिष्यते ।। ५२७॥
ततोऽहमिममादेश-मुपादाय दिवस्पतेः । प्रीतिप्रह्वीकृतो वेगा-नागराजमुपागमम् ॥ ५२८ ।। तस्यास्थाने दृढं बद्धा-
जयाऽधोमुखांस्तदा । कृशाशोकाश्रुपूर्णाक्षा-नद्रार्थ कुन्ति ते सुतान् ।। ५२९॥ तदा तेषु सुसच्चेपु, गतार्तिपु सुमूर्तिपु ।
निपेतुर्नागराजस्य, भूरिभावस्पृशो दृशः॥५३०॥ व्यज्ञाप्यत ततः प्रह-स्तैर्दिजिह्वरहीश्वरः। एते देव! नराः केचित् , मरोव-
रविमर्दिनः ।। ५३१ ॥ अमीभिः सैरिभप्रायै-जेलं चक्रे रजस्वलम् । लूनानि नलिनीनां च, शिरांसि कमलच्छलात् ॥५३२॥
तैर्विज्ञप्तोऽपि नागेन्द्रः, पाण्डवार्पिनलोचनः । तस्थौ तथैव निष्कम्पः, चिन्तयन्नेव किंचन ॥ ५३३ ॥ मयाऽथ वक्तुमारेमे,
कृतं भोगीन्द्र ! चिन्तया । अमी ते पाण्डवा येषां, ख्यानं नाम जगत्रये ॥५३४ ॥ एषां रामसिको मा स्म, कापीत् कंचि-
दतिक्रमम् । भवानिति सुरेन्द्रेण, प्रहितोऽस्मि त्वदन्तिके ॥ ५३५ ॥ सदा जलचरैहै-रिव तावकपत्तिभिः । छलेन जलके-
लिस्था, रुद्धा येते निरायुधाः ॥ ५३६ ॥ अतः परं यदौचित्यं, स्वयमेतेपु वेत्सि तत् । पर्वसंजातयोगं हि, चन्द्र
मत्कुरुते रविः ।। ५३७ ॥
श्रुत्वेति मामिकां वाचं, प्रीतस्त्वत्तनुजन्मनाम् । नागेन्द्रः स्वयमुत्थाय, नागपाशानपास्थत ॥ ५३८॥ निजामन-
समानेपु, संनिवेश्यासनेष्वमून् । द्वारं निवारयामास, तेषां त्वत्तनयद्विपाम् ॥ ५३९ ॥ सर्वानेकैकशो ज्ञात्वा, नामतः
क्रमतस्ततः । परिष्वज्य महीपालं, पातालप्रभुरभ्यधात् ॥ ५४०॥ एवं भृत्यापराधान्मे, क्ष्मापाल ! क्षन्तुमर्हमि । अवज्ञा
१ प्रीत्या नम्रीकृतः । २ धूलिमयं-मलिनमित्यर्थः ।
॥१६॥
पामरोपज्ञा, न क्रोधाय महात्मनाम् ।।५४१॥ सर्वमेपा विपं हन्ति, जङ्गमस्थावरात्मकम् । एवमादिश्य तेनास्मै, मणिमाले- यमर्पिता ।। ५४२।। नयनोपान्तवास्तव्यं, पाञ्चाल्याः कर्णभूषणम् । एतदस्त्विति सोऽस्य स्वं, लीलाकमलमार्पयत् ॥५४३॥ पञ्चानामपि भर्तृणा-मिदं क्षेमे भविष्यति । भृशं विकस्वराकार-मक्षेमे त्वविकस्वरम् ।।५४४॥ किं च धर्मात्मज ! श्लाध्य- स्त्वमेवासि जगत्रये । यस्य ते वान्धवावेतौ, ख्याती भीम-किरीटिनौ ।।५४५॥ अनयो गनारीभि-दोलाकेलिपु गीयते । किर्मीरादिवधप्राय-मत्रापि चरिताद्भुतम् ॥ ५४६ ।। तत् संप्रति ससोदर्यो, वासराणि कियन्त्यपि । अवनीपाल! पातालं, पवित्रयितुमर्हसि ॥ ५४७ ॥ अथाभापत ते मनु-स्त्वद्वीयमहीश्वर ! । क्षरत्यस्मासु पीयूपं, क्लेशमेनमनाशयत् ॥ ५४८ ॥ वर्तते त्वतिदुःखेन, स्नुपा च जननी च वः । तथा कुरुत जीवन्त्यौ, पश्याम्यहमिमे यथा ॥ ५४९ ॥ ततः पन्नगनाथोऽपि, कथंचन सगौरवम् । विससर्ज ससत्कार-मन्ववाजीच ते सुतान् ।। ५५० ॥ नमस्तमनुगच्छन्त-मवोचत तपासुतः । तडाग- रक्षानागेभ्यः, प्रसीद द्वारसेवया ॥५५१॥ यदानुकूलं कर्तारः, कर्णयुद्धे किरीटिनः । मां पुनः सेवितारस्ते, शङ्खचूडादय- स्तदा ॥५५२॥ इति दत्तोत्तरं धर्म-सूनुः पन्नगपुङ्गवम् । प्रणम्य पादयोः सासं, बलादेव न्यवर्तयत् ॥ ५५३ ॥ (युग्मम् ) तत्कुन्ति ! त्वत्तपःप्रह-पुरुहूतनिदेशतः । अमी मया समानीय, सुताः पश्चापि तेऽर्पिताः ।। ५५४ ॥ इन्द्रादिष्टमिदं चक्रे, मम भक्तिस्त्वतः परम् । नयामि वो विमानेन, यथेदानी तथाऽऽदिश ॥ ५५५ ।। अथाजल्पत् पृथा सौम्य !, त्वन्माहात्म्यं १ पामरजनैः प्रथमं कृता इत्यर्थः, अन " उपज्ञोपक्रम तदाद्याचिख्यासायाम्" (पाणिनि० २-४-२१) इति सूत्रेण समासः, परंतु नपुंसकेन भाव्यम् । २ तटागारक्षना० प्रतिद्वयपाठः ।
पाण्डवानां आगमनम्। किमुच्यते । पुनर्वेगेन तनास्मा-नय द्वैतवने वने ॥ ५५६ ॥ तथा कृत्वा वचः कुन्त्या-स्तानापृच्छय समुत्सुकः । तन्त्रैर- नुयातोऽगा-गमेपी यथागतम् ॥५५५॥ पञ्चवर्षीमतीत्यैव-मन्यान्यवनभूमिपु। पुनद्वैतवनोत्सङ्ग-मधितस्थौ युधिष्ठिरः ॥ ५५८ ।। स्वयं मणिमयं दाम, पर्यवत्त नपासुतः। आरोपयच्च पाञ्चाल्याः कर्णोत्से तदम्बुजम् ॥ ५५९] मातुः पल्याच तेस्तत्र, समाधिस्थैर्यदद्भुतम् । अत्यद्भुतं प्रभावं च, स्मारस्मारममुद्यत ॥५६०॥ प्रीति कदाचिदिन्द्रस्य, नागेन्द्रस्य कदाचन । वर्णयन्तः सुखेन स्म, समयं गमयन्ति ते ॥ ५६१ ॥ कदाचिज्जैनेन्द्रस्ववननवगुम्फव्यतिकरैः, कदाचिन्मार्गस्थश्रमणचरणोपास्तिविधिना । कदाचिनिर्णीतध्वसमयविचारोपनिपदा, दिनानि स्वान्येते,किमपि चरितार्थान्यरचयन् ॥ ५६२ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरित्रे महाकाव्ये किरातार्जुनीय-तलतालवध-कमला- हरणवर्णनो सर्गः ॥८॥ नामाष्टमः १ उपनिषद्-ब्रह्मविद्य ॥१६२।।