Canegie Mellon Univeristy

Samasachakram

2006/02/27

PDF Proofread

Front matter

No text on this page.

श्री।
समासचक्रम्।
इदं पुस्तक
हरिप्रसाद भगीरथजी
इत्यनेन
मुंबय्यां
जगदीश्वर" यन्त्रालये
मुद्रितम्
आश्विन शुक्ल ११ संवत १९५८ सन् १९०१.

श्री। श्रीवेङ्कटेश्वरायनमः। समासचक्रम्। ॥ श्रीगणेशाय नमः॥ ॥ षोढा समासाः संक्षेपादष्टाविंशतिधा पुनः॥ नित्यानित्यत्व- योगेन लुगलुक्त्वेन च द्विधा॥१॥ तत्राष्टधा तत्पुरुषःसप्तधा कर्मधारयः॥ सप्तधा च ब- हुव्रीहिईिगुराभाषितो द्विधा ॥२॥ द्वंद्वोऽपि द्विविधो ज्ञेयोऽव्ययीभावो द्विधा मतः॥ ते- षां पुनः समासानां प्राधान्यं स्याच्चतुर्विधम् ॥३॥ चकारबहुलो इंहः सचासौ कर्मधार- यः ॥ यस्ययेषांबहुव्रीहिः शेषस्तत्पुरुषःस्मृ- तः॥४॥ कर्तृकर्मक्रियायुक्तः प्रयोगः स्या- सकर्मकः ॥ अकर्मकः कर्मशून्यः कर्मद्वन्दो समासचक्रम् द्विकर्मकः॥५॥ अथ बालबोधार्थ प्रयोग- विधिः कथ्यते॥ प्रयोगाः पंचविधाः॥सक- मकोऽकर्मकः कर्मणि भावे हिकर्मकश्चेति भेदात् ॥ सकर्मकप्रयोगो यथा॥ कृष्णो भ- तान् रक्षति ॥१॥ अकर्मकप्रयोगोयथा॥ कृष्णस्तिष्ठति ॥२॥ कर्मणिप्रयोगो यथा ।। विष्णुना प्रपंचःक्रियते ॥ ३॥भावे प्रयोगो यथा ॥ कृष्णेन स्थीयते ॥४॥हिकर्मकप्रयो- गो यथा ॥ योधरामन्नं दुदोह ॥५॥ इति प्र- योगविधिः ॥ अथ समासविधिः कथ्यते ॥ समासाः षड्डिधाः तत्पुरुषः कर्मधारयो ब- हुव्रीहिदिगुहद्रोऽव्ययीभावश्चेति भेदात् ॥ तल्लक्षणानि तु ॥ पूर्वपदार्थप्रधानोऽव्ययीभा- वः॥उत्तरपदार्थप्रधानस्तत्पुरुषः ॥ उभयप- दार्थप्रधानो द्वंदः ॥ अन्यपदार्थप्रधानो बहु-

समासचक्रम्
व्रीहिः॥ द्विगुकर्मधारयौ तत्पुरुषभेदौ। समा-
सार्थावबोधकं वाक्यं विग्रह इति॥ तत्राष्टधा
तत्पुरुषक्रमः ॥ प्रथमातत्पुरुषो द्वितीयातत्पु-
रुषस्तृतीयातत्पुरुषश्चतुर्थीतत्पुरुषःपंचमीत-
त्पुरुषः षष्ठीतत्पुरुषः सप्तमीतत्पुरुषो नञ्त-
त्पुरुषश्चेति ॥ तत्र प्रथमातत्पुरुषो यथा ॥
अध पिप्पल्याः अर्थपिप्पली॥
पूर्व कायस्ये-
ति पूर्वकायः॥ १॥ द्वितीयातत्पुरुषो यथा॥
कृष्णं श्रितः कृष्णश्रितः॥ ग्रामंगतो ग्राम-
गतः ॥ कांतारमतीतः कांतारातीतः॥२॥
तृतीयातत्पुरुषोयथा ॥ शंकुलया खंडः शंकु-
लाखंडः धान्येनार्थों धान्यार्थः ॥ मासेन
पूर्वो मासपूर्वः ॥३॥ चतुर्थीतत्पुरुषो यथा॥
यूपाय दारु यूपदारु॥ कुंडलायहिरण्यं कुंडल-
हिरण्यम् गुरवे दक्षिणा गुरुदक्षिणा ॥ ४ ॥

समासचक्रम् पंचमीतत्पुरुषो यथा॥ अर्थात अपेतःअर्था- पेतः ॥ सिंहात् भयं सिंहभयम् ॥ वृश्चिका- तु भीः वृश्चिकभीः ॥ ५॥षष्ठीतत्पुरुषो य- था। कृष्णस्य भक्तःकृष्णभक्तः ॥ आम्रस्य फलं आम्रफलम् ॥राज्ञः पुरुषो राजपुरुषः॥ ॥६॥ सप्तमीतत्पुरुषो यथा ॥ अक्षेषु शौंडः अक्षौंडः ॥ कर्मणि कुशलः कर्मकुशलः ॥ विद्यायां निपुणः विद्यानिपुणः ॥ ७॥ नञ्त- त्पुरुषो यथा ॥ न ब्राह्मणः अब्राह्मणः ।। न वृषभः अवृषभः॥ पापाभावः अपापम् ॥ धर्मविरुद्धोऽधर्मः॥८॥ इति तत्पुरुषः॥अथ कर्मधारयः कथ्यते ॥ स च विशेषणपूर्वपदो विशेष्यपूर्वपदोविशेषणोभयपद उपमानपूर्व- पदउपमानोत्तरपदः संभावनापूर्वपदोऽवधा- रणापूर्वपदश्चेति भेदात्सप्तविधः। तत्र विशेष- ६ समासचक्रम् णपूर्वपदकर्मधारयो यथा॥ कृष्णश्चासौसर्प- श्च कृष्णसर्पः॥ कृष्णौ च तौ सपौ च कृष्ण- सौ ॥ कृष्णाश्च ते साश्च कृष्णसर्पाः रक्ता चासौ लता च रक्तलता॥रक्ते च ते लते च रक्तलते ॥ रक्ताश्चताः लताश्च रक्तलताः॥ नीलं च तत् उत्पलं च नीलोत्पलम् ॥नीले च ते उत्पले च नीलोत्पले॥ नीलानि च तानि उत्पलानि च नीलोत्पलानि ॥१॥ विशेष्यपूर्वपदः कर्मधारयो यथा ॥ वैयाक- रणश्चासौ खसूचिश्च वैयाकरणखसूचिः॥ गोपालश्चासौ बालश्च गोपालबालः॥२॥ विशेषणोभयपदः कर्मधारयो यथा ॥ शीतं च तत् उष्णं च शीतोष्णम् ॥३॥ उपमा- नपूर्वपदः कर्मधारयो यथा ॥ मेघ इव श्या- मो मेघश्यामः कंबुवत् ग्रीवा कंबुग्रीवा ॥ चंद्रवत् मुखं चंद्रमुखम् ॥४॥ उपमानोत्तरप- समासचक्रम् ७ दः कर्मधारयो यथा॥ पुरुषव्याघ इव पुरुष- व्याघ्रः नरः सिंह इव नरसिंहः॥ ५॥ सं- भावनापूर्वपदः कर्मधारयो यथा॥ गुणः इति बुद्धिः गुणबुद्धिः ॥६॥ अवधारणापूर्वपदः कर्मधारयो यथा॥ विद्यैव धनं विद्याधनम् ॥ अविद्यैव शृंखला अविद्याशृंखला॥७॥म- ध्यमपदलोपी समासो यथा ॥ शाकप्रियः पार्थिवः शाकपार्थिवः ॥ देवपूजको ब्राह्मणः देवब्राह्मणः॥इति कर्मधारयः अथ बहुव्रीहिः कथ्यते ॥ सच द्विपदो बहुपदः सहपूर्वपदः संख्योत्तरपदः संख्योभयपदोव्यतिहारलक्ष- णो दिगंतराललक्षणश्चेतिभेदात्सप्तविधः ॥ तत्र द्विपदबहुव्रीहिर्यथा॥चित्राः गावो यस्य सः चित्रगुःगोपः॥ प्राप्तं उदकं यं सः प्राप्तो- दको ग्रामः॥भुक्तं ओदनं येनसः भुक्तौदनो- समासचक्रम् भूपः ॥ निर्जितः कामो येन सः निर्जित- कामः शिवः ॥ विभक्तं धनं यैस्ते विभक्त- धनाबंधवः॥ दत्तः सूपो यस्मै सः दत्तसूपो ब्राह्मणःउद्धृतं धनं यस्मात्तत् उद्धृतधनं कुंडम् ॥चक्र पाणौ यस्य सः चक्रपाणिः हरिः। कर- स्थितं धनं यस्य सः करस्थितधनो वणिक्॥ पुष्पिता द्रुमाःयस्मिन् सः पुष्पितद्रुम आरा- मः ॥ बहवो यज्वानो यस्यां सा बहुयज्वा शाला ॥ पुष्पिताःद्रुमाः यस्मिन् तत् पुष्पि- तद्रुमं वनम् ॥खरस्य मुखमिव मुखं यस्य सः खरमुखस्तुरगः ॥ उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखो यक्षः॥उच्चर्घटो यस्याःसा उच्चैर्घटा नारी॥ अंगगात्रोदरस्तनकंठौष्ठदं- तमुखाक्षिकेशाः स्त्रियां बहुव्रीहौ ईबंता भवं- ति ।। ते च यथा ।। सुंदरं अंगं यस्याःसा सुं- दरांगी। शोभनं गात्रं यस्याः सा सुगात्री ।।

९ समासचक्रम् कृशं उदरं यस्याःसा कृशोदरी॥ चारू स्त- नौ यस्याः सा चारुस्तनी ॥ इंदीवरे इव अक्षिणी यस्याः सा इंदीवराक्षी ॥ कंबुरिव कंठो यस्याःसा कंबुकंठी॥ कुटिला केशाय- स्याःसा कुटिलकेशी॥इतरेषांअंगादिवाचका- नांस्त्रीत्वेऽपि आबंतत्वमेव ॥ चारुदेहा विस्तृ- तालका आवृतकुचा कुंददशनेत्यादि ॥ उरु- पृथुलघुबहुपटुक्रजुस्वादुचारुमृदुशब्दानां स्त्री लिंगविशेषणत्वे ईबंतत्वमपि ॥ यथा॥ मृ- ही शाटी लध्वीभाषेत्यादि॥ इति द्विपदबहु- व्रीहिः॥बहुपदो यथा॥अधिक उन्नतःअंसो यस्य सः अधिकोन्नतांसः॥ सहपूर्वपदो य- था॥ सह कृष्णेन वर्तत इति सकृष्णः॥सह पुत्रेणवर्तत इति सपुत्रः ॥ रामेण सह वर्तत इति सरामः ॥ संख्योत्तरपदो यथा ॥ दशा- १० समासचक्रम् नां समीपे ये संतिते उपदशाः॥ संख्योभ- यपदो यथा॥द्वौ वा त्रयो वा हिताव्यति- हारलक्षणो यथा ॥ केशेषुकेशेषु गृहीत्वा इदं युद्धं प्रवर्तत इति केशाकेशि युद्धम् ॥ दंडैदैडैः कृत्वा इदं युद्धं प्रवर्तत इतिदंडादंडियुद्धं ॥ दि- गंतराललक्षणो यथा ॥ दक्षिणस्याःपूर्वस्या- श्च दिशोर्यदंतरालं सा दक्षिणपूर्वा ॥ इति बहुव्रीहिः॥अथ द्विगुः ॥ द्विगुसमासो द्विवि- धः एकवद्भावी अनेकवद्भावी चेति ॥ एकव- द्भावी द्विगुर्यथा ॥त्रयाणां शृंगाणां समाहा- रस्त्रिशंगम् ॥ पंचानां फलानां समाहारः पं- चफली ॥ अनेकवद्भावी द्विगुर्यथा ॥ सप्त च ते ऋषयश्च सप्तर्षयः अथ हंदः॥ हंहोऽपि द्विविधः इतरेतरसमाहारभेदात् ॥ इतरेत- रबंदो यथा ॥प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रो- धौ॥रामश्च कृष्णश्च रामकृष्णौ। समाहार- समासचक्रम् ११ हंद्रो यथा ॥हरिश्च हरश्च गुरुश्च एषां समा- हारः हरिहरगुरुः॥ प्राणितूर्यसेनांगानां इंदै- कवद्भावः ॥ प्राण्यंगे यथा ॥ पाणी च पादौ च मुखं च पाणिपादमुखम् ॥ तूयोगे यथा ।। मादगिकश्च वैणविकश्च मादगिकवैणविक- म् ॥ शंखश्च पटहश्च शंखपटहम् ॥ सेनांगे यथा॥राजन्याश्च रथाश्च अश्वाश्च राजन्यर- थाश्वम् ॥ इति इंदः॥अथाव्ययीभावः।।स यथा ॥ तटं तटं प्रत्यनुतटम्।।गिरिंगिरिं प्र- त्यनुगिरि ॥क्रममनतिक्रम्य वर्तत इति यथा- क्रमम् । वेलायामित्यधिवेलम् ॥ कुंभस्य स- मीपे वर्तत इत्युपकुंभम् ॥ मक्षिकाणामभावो निर्मक्षिकम् ॥ हिमस्य अत्ययःअतिहिमम् ॥ अव्ययीभावस्याव्ययत्वात्रिषु लिंगेषु समानं रूपम् ॥ इति षट्समासा निर्णीताः ॥अथ समासचक्रम् लुक्समासोऽलुक्समासश्च ॥ लुक्समासो यथा॥ तनुरेव लता तनुलता ॥ कृष्णा एव मेघाः कृष्णमेघाः॥अलुक्समासो यथा॥ वने चरतीति वनेचरः॥ पंके रोहतीति पंकेरुहम् ॥ मत्वर्थीयादयो यथा॥बुद्धिरस्यास्तीति बु- द्धिमान॥धनमस्यास्तीति धनवान् ॥धीरस्य भावो धीरता ॥ जनानां समूहोजनता॥घ- टस्य भावो घटत्वम् ॥ वृक्षशाखा तत्पुरु- षः श्वेताश्वः कर्मधारयः॥रक्तवस्त्रो बहुव्री- हिहश्चंद्रदिवाकरौ १॥ यलिंगं यह- चनं या च विभक्तिर्विशेष्यस्य ॥ तल्लिंगं तहवचनं सैव विभक्तिविशेषणस्यापि ॥ ॥२॥ सदृशं त्रिषु लिंगेषु सर्वासु च विभ- क्तिषु॥वचनेषु च सर्वेषु यन्न व्येति तदव्यय- म् ॥३॥ आदौ कर्तृपद वाच्यं द्वितीयादिप- ततः॥ क्वातुमुन्ल्यपूच मध्ये तु कुर्यादंते दं समासचक्रम् १३ क्रियापदम् ॥४॥ अथ कारकमुच्यते॥ क- र्ता कर्म च करणं संप्रदान तथैव च ॥ अपा- दानाधिकरणमित्याहुः कारकाणि षट् ॥५॥ निर्देशे प्रथमा प्रोक्ता सैव चामंत्रणेष्वपि ॥ द्वितीया कर्मणि प्रोक्ता तृतीया कर्तृकरणयोः ॥६॥ज्ञानज्ञाप्येऽगविकारे हेतावपि च इ- ष्यते॥तादर्थ्य संप्रदाने चचतुर्थी स्याच्च स- र्वदा ॥७॥ हेत्वपादानयोः पंचमी षष्टी तु क- र्तृकर्मसंबंधे ॥ अधिकरणनिमित्तेसति सप्त- मी स्याञ्च विषयेऽपि ॥८॥ यदा कर्तरि प्रथ- मा स्यात्कर्मणि द्वितीया तदा॥ यदा कर्तरि तृतीया स्यात्कर्मणि प्रथमा तदा ॥९॥वि- शेषणं पुरस्कृत्य विशेष्यं तदनंतरम् ॥ कर्तृक- मक्रियायुक्तमेतदन्वयलक्षणम्॥१०॥ प्रथ- मांतस्तृतीयांतः षष्ठयंतः कर्ता ॥ द्वितीयांतं समासचक्रम् षष्ट्यंतं कर्म ॥ तृतीयांतं करणम् ॥ चतुर्थ्यंत संप्रदानम् ॥ पंचम्यंतमपादानम् ॥ षठ्यर्थः संबंधः॥ सप्तम्यंतमधिकरणम् ॥ इति कार- काणितो ते तीत्या ते ती॥॥त्यातें त्यां ते त्याप्रत त्यांप्रत तीतें त्यांतें तीप्रत त्यांप्रत ॥२॥त्याने त्याणे तेणें त्यांनी त्यांणी त्यांहीं तेणेकरून त्यांकरून त्यांहींकरून त्याशी त्यांशी त्यासहवर्तमान त्यांसहवर्तमान त्या- सह त्यांसह तिने तिणें तीकरून तीणेकरून त्यांकरून तिशी त्यांशी तीसह त्यांसह ॥३॥ त्याकारणे त्यांकारणें तीसाठी त्यांसा- ठी तदर्थ ॥४॥ त्यापासून त्यांपासून त्याहू- न त्यांहून त्यास्तव त्यांस्तव त्यापेक्षा त्यांपे- क्षां तीपासून त्यांपासून तीहून त्यांहून ती- स्तव त्यांस्तव तीपेक्षा त्यांपेक्षां॥५॥त्या- चा त्यांचा त्यास त्यांस तिचा त्यांचा तीस समासचक्रम् त्यांस॥६॥ त्याचेठायीं त्यांचेठायीं त्याम- ध्ये त्यांमध्ये त्यांच्यामध्ये त्याजमध्ये त्यां- जमध्ये त्यांत त्यांच्यांत त्याविषयी त्याच्या- विषयी त्याजविषयी त्यांविषयी त्यांच्यावि- षयी त्यांजविषयी त्या निमित्त त्याच्यानिमि- त्त त्याजनिमित्त त्यांनिमित्त त्यांजनिमित्त तो- असतां ते असतां तिचेठायीं त्याचेठायीं ती मध्ये तिच्यामध्ये तिजमध्ये त्यामध्ये त्यां- च्यामध्ये त्यांजमध्ये तींत तिच्यांत त्यांत त्यांच्यांत तीविषयीतिच्याविषयी तिजविष- यी त्यांविषयी त्यांच्याविषयी त्यांजविषयी तीनिमित्त तिच्यानिमित्त तिजनिमित्त त्यांनि मित्त त्यांच्यानिमित्त त्यांजनिमित्त ती अस तां ते असतां ती असतां॥७॥हे अरे अगा अहो हो भो हे अगे गेअहो हो भो हे॥ सं बोधनम् ॥ इतिसमासचक्रं समाप्तम् ॥

नाम ४ १ ४ १ जाहिरात । किं. डा. म. सिद्धान्तचन्द्रिका मुबोधिनीटीका और तत्त्वदीपिकाटीकासे सहित सारस्वतचन्द्रकीतिटीकासहित सिद्धांतकौमुदी अष्टाध्यायी, गणपाठ, धातुपाठ, लिङ्गानुशासन पाठ, अक्षर मोठा जिल्द अति उत्तम अष्टाध्यायी, सूत्रपाठ रघुसिद्धांतकौमुदी टिप्पणसहित - ४ सम्पूर्ण पाठको और विद्यानुरागी महाशयोंसे निवे- दन है कि इस पुस्तकालयमें संस्कृत अथवा भाषाकी नीति काव्य नाटक उपन्यास वैद्यक वेदान्तादिकी पुस्तकें सर्वदा समयपर तैयार रहती हैं. जिनको आव- श्यकता हो मंगावे यदि सूचीपत्र देखनेकी इच्छा हो तो निम्न लिखित ठिकाने परसे मंगवाना। हरिप्रसाद भगीरथजीका पुस्तकालय-कालकादेवीरोड़ रामवाड़ी मुंबई,

No text on this page.

Samasachakram

Author
Unknown
Title
Samaasa Chakrama~
File name
Samasachakram
Text
OCR done
Citation
1901
Published
2006/02/27
Publisher
Haripradasa Bhagirathi And Jagadishwara Press,mumbai
Language
Sanskrit
Pages
18
Library
Canegie Mellon Univeristy
Classification
Mathematical And Applied Linguistics. Phonetics. Graphemics. Grammar. Semantics
Keywords
A primer on Compound words of Sanskrit language
DLI number
495379
Barcode
1990020084721.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Copyright Permitted
VMLT id
zG5qVEijLhQ
Download PDF

Samasachakram