Asr,melkote

Mimamsa Koustubha Vol.2

Khand-d'adeva · 2004/12/26

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

November & December 1932. THB CHOWKHAMBA SANSKRIT SERIES, A COLLEC L'ION OF RAR & EXTRAORDINARY SANSKRIT WORKS, NO.419&420. मीमांसाकौस्तुभः ।। (मीमांसासूत्रोपरि काचन विस्तृता टीका) माध्यायस्य द्वितीय पादः द्वितीयाध्यायस्य प्रथमद्वितीयौ पादौ च ।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचिता श्रीकाशीहिन्दूविश्वविद्यालयप्रधानमीमांसाध्यापकेन वेदविशारदेन मीमांसाकेसरिणा पं० अ. चिन्नस्वामिशास्त्रिणा संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । BY MIMAMSA-KAUSTUBHA An exhaustive Commentary of Jaimini Sutras] 2nd Pada of 1st Adhyaya and 1st & 2nd Padas of 2nd Adhyaya, KHANDA DEVA, Edited by “Veda Visarada” Pandit A. Chinnaswami Sastri, Chief Professor of Mimamsa. Benares Hindu University Vol. III. FASCICULUS IV-V४-५. PUBLISHED & SOLD BY THE SECRE CHOWKHAMBA SANSKRIT SERIES OFFICE Vidya Vilas t'ress, Benares City, .933. HORS BY, women KBORG 10-AMROMGok * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ स्तबक:--४३९-४२० Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benaries

THE
CHOWKHAMBA SANSKRIT SERIES
Nos, 402, 405, 408, 419 & 420.
THE
MAMSA-KAUSTUBHA
jaustive Commentary of Jaimini Sutras )
d Pada of 1st Adhyaya and 1st & 2nd
Padas of 2nd Adhyaya)
Ву
KHANDA DEVA
Edited By
«Veda Visārada" "Mimamsa Kesari"
Pandit S. Chinnaswami S'astri
ief Professor of Mimamsa, Hindu University Benares
and
his pupil Pandit Pattabhirama Sastri M, S.
Vol III. Fasciculas I to V 9-4
JAI KRISHNA DAS-HARIDAS CUPTA,
The Chowkhamba Sanskrit Series office,
BENAR ES.
1933,
[ ALL RIGHTS RESERVED BY TAX PUBLISHEK

Registered According to set XXV of 1867,
44 Rights Reserved by the Publisher,
PRINTED, BY
JAI KRISHNA DAS HARIDAS CUPTA
Vidya Vilas Press,
Benares City.
1933

* श्रीः चौखम्बा-संस्कृत-ग्रन्थमाला॥ नं० ४०२, ४०५, ४०८, ४१९, ४२०. मीमांसाकौस्तुभः॥ (मीमांसासूत्रोपरि काचन विस्तृता टीका) (प्रथमाध्यायस्य द्वितीयपादः द्वितीयाध्यायस्य प्रथमद्वितीयौ पादौ च।) पूर्वोत्तरमीमांसापारावारपारीण- श्रीखण्डदेवविरचितः श्रीकाशीहिन्दूविश्वविद्यालयप्रधानमीमांसाध्यापकेन वेदविशारदेन मीमांसाकेसरिणा पं. अ. चिन्नस्वामिशास्त्रिणा तच्छिष्येण पं० श्रीपट्टाभिरामशर्मणा मीमांसाशास्त्राच संशोधितः श्रीजयकृष्णदासगुप्तेन मुद्रापितो विजयताम् । प्रकाशक:- - जयकृष्णदास हरिदासगुप्त:- चौखम्बा संस्कृत सीरिज़ आफिस, बनारस सिटी। सं. १९६० राजकीवनियमानुसारेणाऽस्य सर्वेऽधिकाराः प्रकाशन स्वायत्तीकृता ।

పరాలు Messagawaos PORDCR इस कार्यालय द्वारा “काशीसंस्कृतसीरिज" के अलावा और भी ३. सीरिज यथा चौखम्बासंस्कृतसौरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्य. मालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध शाव की पुस्तके प्रकाशित की गई हैं तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें । इसके अलावा हमारे यहा सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है ॥ - AISE पत्रादि प्रेषणस्थानम्- जयकृष्णदास-हरिदास गुप्तः- "चौखम्बा संस्कृतसीरिज़” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। corecardovendorsovered श्रीः। भूमिका ॥ अद्याऽयं मीमांसाकौस्तुभाख्योऽनुत्तमो मीमांसाग्रन्थोऽध्येतॄणाम- त्यन्तोपकाराय मुद्राप्य प्रकाशं नीयते । केभ्यश्चन वर्षेभ्यः पूर्वमस्मध्य- यनकाले श्रीकाञ्च्यामंशतो मुद्रितोऽर्थवादभावार्थशब्दान्तरपादेष्वेवो- पलब्धिमानासीदयं ग्रन्थः । तदा मद्रपुरीयसंस्कृतमहाविद्यालये विद्या- मिमामधिगच्छद्भिरस्माभिः ग्रन्थस्याऽस्य मुद्रितेतरभागः, अध्ययनार्थ क्वचिद्भादोपिकापनिषत्पन्नानां संशयानामुच्छेदार्थञ्च अडयार् ( Adyar Library) पुस्तकालयादितः स्वहस्तेन लिखित्वैव समानतव्य आसीत् । अध्ययनसमयेऽस्माभिरनेकशो गुरुमुखाच्छुतम्-प्रन्थोऽय- मसाधारणः पूर्वमीमांसाशास्त्र, को वाऽवशिष्टमस्य भागं मुद्राप्योद्धरि- प्यतीति, तथैवाऽध्यापनकालेऽपि स्वयमनुभूतञ्च । अतिसंक्षिप्ताः कठिन- तमा अन्तस्सारा भादीपिकापडयो याः, तास्सर्वा अपि तत्तत्स्थली. यकौस्तुभावलोकनेन तथा विकसिता भवन्ति, यथा नितरां समुल्लसति चेतो निधिलाभ इवेति नेदं तिरोहितं मीमांसामर्मज्ञानाम् । यद्यप्ययं ग्रन्थः स्वतन्त्रसूत्रव्याख्यारूपः, तथाऽपि भाट्टदीपिकाया व्याख्यारूप एव, अथ वा अस्यैव सङ्कुचितं रूपं यद्भाहदीपिका नामे- ति। नवीनं पन्थानमाश्रित्य ग्रन्थमिममारचयता ग्रन्थका न केवलं न- कीनानां शास्त्रान्तरपरिशीलनपरिपक्वशेमुषीणां मनीषिणां मनस्तोषितम्, मीमांसापदार्थास्तत्र तत्र सर्वे तथा सन्निवेशिताः यथा कस्यचित्पदार्थ- स्योपरिज्ञानार्थ अन्यग्रन्थावलुलोकयिषा नोदियात् । भामतमवलम्ब्य ग्रन्थमिमं रचितवताऽनेन मीमांसकशिरोमणिना शबरकुमारिलभवदेव- पार्थसारथिसोमनाथाप्पय्यदीक्षितायुक्तयो युक्तियुक्तान काश्चिदप्युपेक्षिताः अनुक्तिसहा न काश्चिदपि न समालोचिताः। अत एवाऽभियुक्तानां मीमांसापारश्वनामुक्ति:--'यदि कण्ठस्था खण्डदेवग्रन्थत्रयी किम- न्यैर्ग्रन्थैरिति नाऽतिशयोक्तिः । अतोऽस्माभिः पञ्चनदक्षेत्रे (Tiruvadi, 'Panjore ) इदशास्त्राध्यापकपदमधितिष्ठद्भिः भादीपिकाप्रन्धग्रन्थि- भेदनार्थमस्य ग्रन्थस्याऽत्यावश्यकतां पश्यद्भिः तदानीमेवाऽस्य मुद्रणं मनस्यभिसंहितमासीत् । परन्तु तदुचितसामग्रीसम्पदभावेनाऽभिसन्धि- मात्रेणाऽवस्थितं तेन तदा । ततो भगवता जगवित्राऽत्रैव काश्यां वि.

३ भूमिका। श्वविद्यालयेऽध्यापनार्थमानीतोऽहं श्रीमता संस्कृतवाणीपरिचयकजीवि- तेन चौखम्बासंस्कृतपुस्तकमालाध्यक्षेण श्रीजयकृष्णदासगुप्तमहोदयेन सह सजातपरिचयो न्यवेदयमेतन्मुद्रणं तस्मै । स च समनन्तरमेव मदीयां निवेदनां सफलयिष्यनारभतैतन्मुद्रणम् । (१)मदीयं पुस्तकमेकं मुद्रितभागावशिष्टं अडयारपुस्तकालयतो लिखित्वाऽऽनीतम् , (२)अस्मदाचार्यवर्याणां महामहोपाध्यायाधनेकबिरुदावलीरलङ्कुर्वतां श्रीकुप्पुस्वामिशास्त्रिमहोदयानां अनुपमया कृपया प्राच्यग्रन्थसंरक्षणा- लयात् ( Madras Oriental Manuscripts Library ) मदनुजेन तिरुपतिसंस्कृतमहाविद्यालये मीमांसाध्यापकेन पं० रामनाथशास्त्रिणा लिखित्वा लेखयित्वा च दत्तं पुस्तकमेकम् , (३)पण्डितकुलभूषणै राजकीयमहाविद्यालयाध्यक्षैः पं० गोपीनाथ. कविराजमहोदयः पुस्तकालयात्सदयं दापितमेकम् , (४)काशीस्थेभ्यः प्रसिद्धवैदिकेभ्यो बाबूदीक्षित जडे महोदयेभ्यो गृहीतमेकम् , इति पुस्तकचतुष्टयमवलम्ब्य शाधितोऽयं ग्रन्थः । अध्यापना- दिकार्ये ग्रन्थान्तरशोधने च व्यापृतोऽहं शनैश्शनैरेव कार्यमिदं कर्तु- मशकम् । अत एतावान् ज्यायान् विलम्बस्समजनि, तथाऽपि समाप्ति- मेयिवानयं ग्रन्थ इति नितरां प्रमोदस्थानम् । चतसृष्वप्यासु मातृकासु पाठभेदो नाऽस्ति तावानुल्लेखनाह इति नोल्लिखितस्सः। विषयवाक्यानां स्थानादिकं परमन्विष्य यथोपलम्भं सूचितमधष्टिप्पण्याम् । तेषां सङ्के- तशब्दानां विवरणावेदनिका सूचिकाऽपि सन्निवेशिता सर्वपरिज्ञा- नाय । एवं रीत्या सम्मुद्रय प्रकाशितोऽयं मीमांसाकौस्तुभाख्यो ग्रन्थमणिः । (ग्रन्थकर्तृसमयनिर्णयः) अस्य ग्रन्थरत्नस्य निर्माता सर्वतन्त्रस्वतन्त्रः पण्डितकुलललाम- भूतो देवकुलोत्पन्नो दाक्षिणात्यः श्रीखण्डदेव इति । अस्य जीवनकालः वैक्रमी सप्तदशशताब्दी, निर्याणकालश्च १७२३ परिमितो वैक्रमो वत्सर ( 1665. A. D. ) इत्यवोचं मीमांसान्यायप्रकाशभूमिकायाम् । तदुपष्टम्भके प्रमाणे चेमे- वाराणस्यां चित्पावनाख्यदाक्षिणात्यब्राह्मणानामन्येषां च परस्परं कश्चन विवादस्समजनि । तच्छमनार्थ १७१४ वैक्रमे हेमलम्बवत्सरे मुक्तिमण्डपे पण्डितानां महती काचन सभा सम्मिलिता। तत्र व्यव- स्था काचन लिखिता, यस्याः प्रतिलिपिनींचैरुद्धृता-- -- मामका । ३ "मुक्तिभण्डपांतील निर्णय शक १५७६, सन् ई०१६५७ श्रीविश्वेश्वरो विजयतेतराम् । श्रीः । श्रीः । अथ देवर्षिविप्राणां काश्यां श्रीमुक्तिमण्डपे। यतिमिश्रविपश्चिद्भिस्सब्राह्मण्यं विविच्यते ॥१॥ तत्र तावत् पूज्यपादपरमहंसपरिव्राजकमहाराष्ट्रकर्णाटककोंकण- तैलङ्गद्राविडादिसकलज्ञातोयविद्वद्गृहस्थनिचयसम्मत्या वेदशास्त्र. लोकतो विमृश्य देवर्षिब्राह्मणा वेदशास्त्रपुराणेभ्योऽधिगतपरमार्थाः क्रतुयजनयाजनादिसदाचारशीला: पतिपावनाश्शरीरान्वयाः अत्युत्तमब्राह्मण्यशालिनः शिष्टानुष्ठितशरीरान्वयाश्चेति सिद्धान्ति- तम् । दृष्टं चैतत्-भट्टमीमांसकश्रीभट्टरघुनाथाख्यसूरिभिः। मणिकर्णी- त्युपाख्यस्याऽनन्तभट्टस्य कन्यका। देवर्षेः प्रसमुद्वाह्य वाजपेययजिः कृता । भूयांसश्चेदृशा अन्ये तद्वंशीया वयं च ते । ब्रुवाणा दोषमत्रार्थे विद्वद्भिः परिशोधिते । विश्वेशद्रोहिणो ब्रह्मघातिनश्च भवन्ति ते । इति- दिक्॥ लिखितं चैतन्मीमांसकभट्टलक्ष्मणेन विद्वदनुज्ञातेन । संवति कृतवगाब्ज १७१४ सम्मितौ नन्दशैलशरभ १५७६ मितशाके (=1 1657 A. D. ) हेमलम्बशरदि समपत्रं (2) ज्ञायते सकलभूसु. रवृन्दैः ।" इति। व्यवस्थापत्रेऽस्मिन् तदानीन्तनानां वाराणसेयानां सर्वेषां पण्डितानां हस्ताक्षराणि गृहीतानि यन्मध्ये श्रीमतां खण्डदेवमहोदयानामपि हस्ता- क्षराणि विलसन्ति । अतस्तत्कालजीविन इमे इति निश्चप्रचम् । भाट्टदीपिकाव्याख्यायाः प्रभावल्या अन्ते तत्क; श्रीकविमण्डनश म्भुभट्टेन खण्डदेवनिर्याणकाल उल्लिखितस्तच्छिष्येण । स चेत्थम्-- वयें नेत्रद्विसप्तद्विजपतिगणिते (सं० १७२२) मासि...... वारे जैवे प्रभाते सकलपितृतिथौ प्रोष्ठपद्याः परस्याम् । काश्यां श्रीब्रह्मनाले निरुपमचरितः खण्डदेवाभिधानः प्राप्तः श्रीब्रह्मभावं विबुधवरगुरुर्ब्रह्मवर्यो यतीन्द्रः ॥ इति ॥ पण्डितवरेण्यैरेभिः काश्यामेवाऽवस्थाय पूर्वे वयसि गार्हस्थ्यं धर्म यथावदनुष्ठाय चरमे वयसि सन्यासं गृहीत्वा तस्मिन्नाश्रमे श्रीधरेन्द्र- यतीन्द्राभिख्यामवाप्य कञ्चन कालं यापयित्वाऽन्ते ब्रह्मभूयं गतमित्यपि प्रतीयते-पूर्वोदाहृतश्लोके 'ब्रह्मवर्यो यतीन्द्रः' इति विशेषणद्वयोपादानात, एतत्पूर्वोदाहृतश्लोके 'यः खण्डदेवनामाऽऽसीत् श्रीधरेन्द्राभिधां गतः इति लेखनेन च । एतेषां पितरोऽपि श्रीरुद्रदेवनामानः पूर्वोत्तरतन्त्रनिष्णा- ता आसन्नित्यत्र, तेऽपि काश्यामेवाऽवसनित्यत्र च ग्रन्थेऽस्मिन तत्त- भूमिका । .. त्पादान्ते 'श्रीपूर्वोत्तरमीमांसापारावारपारीणधुरीणश्रीरुद्रदेवसूनोः खण्ड- देवस्य कृतौ' इत्येतद्ग्रन्थकर्तृलेखनम् , (१) देवादेवाऽध्यगीष्ट स्मरहर- नगरे शासनं जैमिनीयम्' इति जगन्नाथपण्डितोक्तिश्च प्रमाणम् । एतेषां गुरवः श्रीविश्वेश्वरापरपर्यायाः श्रीगागाभट्टाः दिनकरभट्टपुत्रा इति प्रसिद्धिः। तेषां परम्परा च पण्डितलोकविदितैवेति नाऽत्र विशे- षतो वक्तव्यमस्ति, तथाऽपि (२)भादृदिनकरस्थैः दिनकरभट्टीयैरेव पद्यैस्तत्पुनस्स्मारयामि पण्डितवर्येभ्यः-- विश्वामित्रमुनीश्वरान्वयसुधासिन्धौ सुराणां द्रुमः श्रीरामेश्वरनामधेय उद्भदाम्नायशाखोज्वलः । नानाशास्त्रफलैस्समस्तवसुधावृन्दारकाणां परं सन्तोषं जनयन् रघूदहलसत्सेवालतालिङ्गितः ॥ श्रीरामेश्वरतस्ततस्समभवत् श्रीभट्टनारायणः शास्त्राम्नायपरायणः खलमतध्वान्तकविद्रावणः । काश्यां पातकिविद्रुतं भगवतो विश्वेश्वरस्याऽचलं लिङ्गं भोग्यवशात्सुखाय जगतां संस्थापयामास यः॥ नारायणस्याऽऽत्मज आविरासीत् स रामकृष्णोऽर्चनदृष्टरामः। पराजितो वागधिपोऽपि येन विद्यानवद्यप्रतिभाधिकेन ॥ दिनकर इति रूढस्तत्सुतो ग्रन्थमेनं मतियुतसुखबोध्यं सर्ववक्तव्ययुक्तम् । असृजदथ समर्थानन्दसञ्चित्स्वरूपे रघुपतिपदपद्मे जन्मसार्थक्यमाप ॥ इति दिनकरभट्टानां सूनव इमे गागाभट्टा इति तैरेवोक्तं भाट्टचिन्ता- मणेरादावन्ते च । (श्रीखण्डदेवीयाः ग्रन्थाः) एभिः पण्डितशिरोमणिभिः काश्यामेवाऽवस्थितैः मीमांसाया- मेव ग्रन्थत्रयी निर्मिता--भाट्टकौस्तुभः, भाट्टदीपिका, भाट्टरहस्यञ्चे- ति । तत्र प्रथमः प्रथमाध्यायद्वितीयपादत ( अर्थवादपादतः) आरभ्य तृतीयाध्यायतृतीयपादस्थसप्तमाधिकरण ( बलाबलाधिकरण ) पर्य- न्तः, द्वितीयश्च तत एवाऽऽरभ्य द्वादशाध्यायपर्यन्तः, तृतीयश्चाऽधिक- १ देवादेव खण्डदेवादेवेत्यर्थः' इति प्रदीपे नागेशः । २ भाइदिनकरं नाम शास्त्रदीपिकाव्याख्या दिनकरभट्टकृता।

भूमिका। रणसम्बन्धमनपेक्ष्य लकारार्थधात्वर्थविभक्त्यर्थनिरूपणपरश्शाब्यो- घग्रन्थः। यद्यपि भाट्टदीपिका प्रथमपादमारभ्य महीशूरपुरे मुद्रिता, तथाऽपि खण्डदेवविरचिता भादृदीपिका द्वितीयपादमारभ्यैवेति अध्ययनपरम्परायां प्रसिद्धिः । एवं भाट्टरहस्येऽपि इदानों या- वानुपलभ्यते भागस्तावानेव रचित इत्येव गुरुपरम्पराप्रणाली । कौस्तु- भस्तु बलाबलाधिकरणपर्यन्तमेव रचित इति सुस्पष्टमेव श्रीशम्भुभट्ट एतच्छिष्यः स्वीयप्रभावलीग्रन्थे आदौ--'अत्र च यद्यपि बलाबलाधिक- रणसमाप्तिपर्यन्तं स्वकृतेन कौस्तुभनन्थेन व्याख्यातो भाट्टदीपिके त्यादिग्रन्थेनाऽभिदधाति । यद्यपीमे कौस्तुभे भादीपिकायां च स्वप्राचोनान ग्रन्थकारान् यथावसर खण्डयन्ति, तथाऽपि शास्त्रादीपिकाप्रकाशबालप्रकाशादि- ग्रन्थकर्तृणां श्रीशङ्करभट्टानां खण्डने वद्धादरा आसन्निति प्रतीयते, यतः प्रायशोऽधिकतर तेषामेव खण्डनमुपलभ्यते “यत्वत्र कैश्चित्" "यत्तु कै- श्चित्' इत्यादिना नामोल्लेखनं विना । ते चेतेषां गुरो_तुष्पुत्रा आसन् । यद्यपि शङ्करभट्टखण्डने मतिरतितरां प्रासरदेषाम्, तथाऽपि तदुपरि गौरवबुद्धिरेवाऽऽसीदेषामिति ग्रन्थावलोकनादवगम्यते, यतो नामोल्ले- खनं न केवलं कुत्राऽपि कृतम् , परन्तु मण्डनमिश्रपार्थसारथिमिश्नप्रभृ तिषु विषये "जितं मण्डनेन" "यत्त्वत्र पार्थसारथिः “यन्वत्र पार्थसार- थिना" इत्येकवचनमे सावलं प्रयुञ्जानैरेभिः कैश्चिदिति सामानं बहुवचन प्रयोग एव कृतस्तद्विपये। एवं खण्डदेवग्रन्थेषु प्राथमिकोऽयं ग्रन्थः इदम्प्रथमतया प्रकाशितः । प्रार्थये च बुधवरान् सर्वाङ्गीणसुन्दरममुं यथावदुपयोज्य सफलयन्तु म- दीयं परिश्रममिति । सावधानेन कृतेऽपि शोधने मयंमात्रमुलमा दो- पाः क्वचिदवतिष्ठेरन्नेवेत्यभ्यर्थये तान् तन्मर्षणमपि । मातृकादानेनाऽस्मभ्यं बहूपकृतवद्भ्यः पण्डितवर्येभ्यो बहधमा वयमिति तेभ्यः कृतज्ञतामुपहरामि । शोधनादिकायें नितान्त- मुपकृतवतेऽस्मत्प्रियशिष्याय श्रीपट्टाभिरामशर्मणे मोमांसाशा- स्त्रिमे बह्वीराशिपः प्रयुजे ! आशाले च सुरभारतीसमुद्धरणवद्धवर्मरेगे श्रेष्टिवर्याय श्रीजयकृष्णदासगुप्तमहोदयाय चौखम्बासंस्कृतपुस्तकमाला- ध्यक्षाय श्रेयःप्राप्तिमुत्तरोत्तरामिति शिवम् । आश्विन शुक्ल द्वितीया सं० १६६० चिन्नस्वामिशास्त्री २१. सितम्बर. १९३३. वाराणसी. संशोधकः

No text on this page.

मीमांसाकौस्तुभगतानामधिकरणानां सूची ॥ प्रथमाध्याय २पाद १७ भूमाधिकरणम् अधिकरणानि- १८ लिङ्गसमवायाधिकरणम् १ अर्थवादाधिकरण १९ वाक्याशेषाधिकरणम् २ औदुम्बराधिकरणम् २० सामाधिकरणम् ३ हेतुमन्निगदाधिकरणम् द्वितीयाध्याये १ पादे '४ मन्त्राधिकरणम् अधिकरणानि- प्रथमाध्याये ३ पादे १ प्रतिपदाधिकरणम् अधिकरणानि- २ भावार्थाधिकरणम् १ स्मृत्यधिकरणम् ३ अपूर्वाधिकरणम् २ विरोधाधिकरणम् ४ तानि द्वैधाधिकरणम् ३ शिष्टाकोपाधिकरणम् ६ सम्माधिकरणम् ४ यववराहाधिकरणम् ६ स्तुतशस्त्राधिकरणम् ६ पिकनेमाधिकरणम् ७ विधिमन्त्राधिकरणम् ६ कल्पसूत्राधिकरणम् ८ मन्त्रलक्षणाधिकरण होलाकाधिकरणम् ९ ब्राह्मणलक्षणाधिकरणम् ८ व्याकरणाधिकरणम् १० जहाधमन्त्रताधिकरणम् ९ लोकवेदाधिकरणम् ११ ऋग्लक्षणाधिकरणम् १० आकृत्यधिकरणम् १२ सामलक्षणाधिकरणम् प्रथमाध्याय ४पाद १३ यजुर्लक्षणाधिकरणम् अधिकरणानि- १४ निगदाधिकरणम् १ नामधेयप्रामाण्याधिकरणम् १५ एकवाक्यताधिकरणम् २ उद्भिदधिकरणम् १६ वाक्यभेदाधिकरणम् ३ चित्राधिकरणम् १७ अनुषणाधिकरणम् ४ अग्निहोत्राधिकरणम् १८ व्यवायाधिकरणम् ५ तद्वयपदेशाधिकरणम् द्वितीयाध्याये २ प्रादे ६ वाजपेयाधिकरणम् अधिकरणानि- ७ आग्नेयाधिकरणम् १ शब्दान्तराधिकरणम् ८ बहिराज्याधिकरणम् २ अभ्यासाधिकरणम् ९ प्रोक्षण्यधिकरणम् ३ पौर्णमास्यधिकरणम् १० निर्मन्थ्याधिकरणम् ४ उपांशुयाजाधिकरणम् ११ वैश्वदेवाधिकरणम् ६ आधाराग्निहोत्राधिकरण १२ वैश्वानराधिकरणम् ६ पशुसोमाधिकरणम् १३ तत्सिध्यधिकरणम् ७ संख्याधिकरणम् १४ जात्यधिकरणम् ८ संज्ञाधिकरणम् १५ सारूप्याधिकरणम् ९ गुणाधिकरणम् १६ प्रशंसाधिकरणम् १० गुणशेषाधिकरणम् - RAR- २ मीमांसाकौस्तुभगतानामधिकरणानां सूची। ११ इन्द्रियकामाधिकरणम् १३ वाऽन्यधिकरणम् १२ रेवत्यधिकरणम् १४ हस्तावनेजनाधिकरणम् १३ सौभराधिकरणम् १५ चतुर्धाकरणाधिकरणम् द्वितीयाध्याय ३ पादे तृतीयाध्याये २ पादे अधिकरणानि- अधिकरणानि- १ रथन्तराधिकरणम् १ लिङ्गाधिकरणम् २ अवेष्टयधिकरणम् २ ऐन्द्रयधिकरणम् ३ आधानाधिकरणम् ३ हविष्कृदाबानाधिकरणम् ४ दाक्षायणयज्ञाधिकरणम् ४ वाग्विसर्गाधिकरणम् ६ ईषालम्माधिकरणम् । ५ सूक्तवाकाधिकरणम् ६ वत्सालम्माधिकरणम् ६ सूक्तवाकल्य विभज्यविनियोगाधि. ७वरूपधानाधिकरणम् करणम् ८ पात्नीवताधिकरणम् ७ लिङ्गक्रमसमाख्याधिकरणम् ९ अंश्वदाभ्याधिकरणम् ८ आग्नेय्यधिकरणम् १. चयनाधिकरणम् ९ भक्षाधिकरणम् ११ प्रकरणान्तराधिकरणम् १० गुणाभिधानाधिकरणम् १२ फलसंस्कार्याधिकरणम् ११ इन्द्रपीताधिकरणम् १३ प्रकरणान्तरप्रत्युदाहरणाधिक० १२ अभ्युनीताधिकरणम् १४ आग्नेयस्तुत्यर्थताधिकरणम् १३ पात्नीवते द्विवित्योपलक्षणाधिक. द्वितीयाध्याये ४ पादे रणम् अधिकरणानि- १४ त्वष्टुरदेवतात्वाधिकरणम् १ यावज्जीवाधिकरणम् १५ त्रिंशदधिकरणम् २ शाखान्तराधिकरणम् १६ अनुवषट्कारदेवतानुपलक्षणाधि. तृतीयाध्याये १ पादे करणम् १७ अनेन्द्राग्नभक्षे समन्त्रकं भक्षणा. अधिकरणानि- धिकरणम् १ प्रतिज्ञाधिकरणम् १८ ऐन्द्राग्नभक्षणे मन्त्राभावाधिक २ शेषलक्षणाधिकरणम् १९ भक्षणमन्त्रस्या गायनान्यछन्दस्केऽपि ३ शेषलक्ष्याधिकरणम् विनियोगाधिकरणम् । तेषामर्थाधिकरणम् ६ रूपयाधिकरणम् तृतीयाध्याय ३ पादे ६ अरुणाधिकरणम् अधिकरणानि- ७ ग्रहैकत्वाधिकरणम् १ उच्चस्त्वादीनां वेदधर्मताधिक ८ चमसाधिकरणम् २ गुणमुख्यव्यतिक्रमाधिकरणम् ९ आनर्थक्यतदङ्गताधिकरणम् ३ प्रकरणाधिकरणम् १० अभिक्रमणाधिकरणम् ४ क्रमाधिकरणम् ११ उपवीताधिकरणम् ६ समाख्याधिकरणम् १२ वारणादीनां सर्वयज्ञार्थत्वाधिक ६ बलाबलाधिकरणम् - अ. पा. सू. अ. om २४ २ १ om मीमांसाकौस्तुभगतानां सूत्राणां सूची ॥ सुत्राणि अ. पा. सू.। सूत्राणि अपि वा क्रमसंयोगात् अगुणाच ६ अपि वा नामधेयम् अगुणे तु कर्मशब्दे २ २ २३ | अपि वा प्रयोग- अग्निस्तु लिङ्गदर्शनात २ ३ २१ अपि वो श्रुतिसंयोगात् अप्रहणाद्वा ३ २ ३१ अपि वा सर्वधर्मः अचेतनेऽर्थवन्धनात् अप्रकृतत्वाच्च अचोदकाश्च संस्काराः २ २ १८ अप्राधा चाऽनुपपत्तिः अतुल्यत्वात्तु नैवम् ३६ | अभागिप्रतिषेधात् अतुल्यत्वात्तु वाक्ययोः २ २ २५ | अभिधानन अथाऽतः शेषलक्षणम् १ अभिधानेऽर्थवादः अदव्यत्वात्तु केवले ३ २० अयनेषु चोदनान्तरम् अद्रव्यशब्दत्वात् १ ३ ३१ अर्थलोपादकर्म अद्विवचनम् ४ १६ | अर्थवादोपपत्तेश्च अधिकारे च मन्त्र- २ २१ अर्थवादो वा अनर्थकञ्च तद्वचनम् १ २६ अर्थस्तु विधिशेषत्वात अनर्थकश्योपदेशः ३ २ २३ | अर्थविप्रतिषेधातू अनाम्नातेष्वमन्त्रत्वम् १ ३५ अर्थाच अनित्यत्वात्तु नैवम् ६ अर्थाद्वा कल्पना अनित्यसंयोगात् ६ / अर्थाभिधानसंयोगात् अनित्यसंयोगान्मन्त्रा १ २ ४१ / अर्थासन्निधेश्व अनुमानव्यवस्थानात् १ ३ १५ अर्थेन त्वपकृष्येत अनुषनो वाक्य- १ ४९ अर्थैकत्वादेक वाक्यम् अन्त्ययोर्यथोक्तम् २ १८ | अर्थैकत्वे द्रव्यगुणयोः अन्यदर्शनाच ३ ३२ | अवाक्यशेषाच्च अन्यश्चाऽर्थः प्रतीयते १ २७ अविज्ञेयात् अन्यानर्थक्यात. ४ अविद्यमानवचनात् अन्यायचाऽनेक- १ ३ २६ अविभागातु अभ्यार्था वा पुनः २ ३ २९ अविभागाद्विधानार्थे अपनवाहा ३० अविरुद्धं परम् अपि वा कर्तृसामान्यात् २ अविशिष्टस्तु अपि वा कारणाग्रहणे | अवेष्टौ यज्ञसंयोगात् १ २ ४५ १ caro १ १ १ १८ २ १ १४ ४७ २ ou १ १ १ २ ३६ २८ ३ २ ४६ २ २ ३ २ मीमांसाकौस्तुभगतानां अ. पा. सू. कर्मधर्मो वा ३ १ १९ १ ३ २२ ३ १ २४ १ ४ १२ १६ ३ १२ oc row MCN WWW RN २ १ ३७ ३ १ २ १० २ १ १८ २२ १ गुणश्चाऽनर्थक १ ५ १ 20 १८ सूत्राणि अ. पा. सू. सूत्राणि भव्यवस्था विधीनाम् १ २ ३२ कर्तुर्वा श्रुतिसंयोगात् असंयुकं प्रकरणात ३ ३ ११ कर्तृगुणे तु आ माकालिकेप्सा १४ कर्मण्यपि जैमिनिः आकृतिस्तु क्रियार्थत्वात १ ३ ३३ | कारणं स्यादिति आख्या चैवं तदर्थत्वात् ३ ३ १३ कृतकं चाऽभिधानम् आख्या हि.देशसंयोगात १ ३ १९ | कृत्स्नोपदेशात् माग्नेयस्तुक्तहेतुत्वात् क्रमश्च देशसामान्यात् आग्नेयवत् १६ माघाराग्निहोत्रम् १३ भाधानेऽसर्वशेषत्वात् गोतिषु सामाख्या ४ मानन्तर्यामचोदना गुणमुख्यव्यतिक्रमे ३ १ २४ आनर्थक्यात्तदङ्गेषु गुणवादस्तु आनर्थक्यादकारणम् १ भाम्नातेष्वमन्त्रत्वम् गुणश्चाऽपूर्वसंयोगे १ ३५ गुणस्तु ऋतुसंयोगात् आम्नायल्य क्रियार्थत्वात् १ २ आश्रितत्वात् गुणस्तु श्रुतिसंयोगात् गुणस्य तु विधानाथें उक्त समाम्नायैदमर्थ्यम् १४ १ गुणात्संज्ञोपबन्धः उक्तं तु वाक्यशेषत्वम् २२ गुगादविप्रतिषेधः उकश्वाऽनित्यसंयोगः १२ गुणाद्वाऽप्यभिधानम् उपदेशो वा याज्या- १२ / गुणानां च परार्थत्वात् गुणाभावात ५४ गुणाभिधानात् एक वा संयोगरूपचोदना- २ गुणार्था वा पुन:- १ गुणार्था वा पुनःश्रुतिः ३ १ १३ एकत्वेऽपि परम् गुणार्थो व्यपदेशः १३ एकत्वेऽपि पराणि गुणोपबन्धात् ४ २१ एकदेशत्वाच ग्रहणाद्वाऽपनीतम् एकस्मिन्वा ३ २ चोदना पुनरारम्भः एकस्यैवं पुनःश्रुतिः चोदना वा गुणानाम् चोदना वा प्रकृतत्वात ऐकशब्चे परार्थवत् १ ४ ऐन्द्राग्ने तु चोदना वा शब्दार्थस्य ३ २ ३९ चोदितं तु प्रतीयेत कर्तुस्तु धर्मनियमात ७ / चोदिते तु परार्थत्वात् १ २ १ २ २ ४ لم २ ३ १ २२ ३ २ २६ १ २ ४३ २ oC एकत्वयुक्तमेकस्य २ २ ११ ३३ २ एकस्य तु लिङ्ग- ३ ३ १ ६ २ ६ ऐ ८ १६ १० क 30 ३ सूत्राणां सूची। अ. पा. स. । सूत्राणि सूत्राणि अ.पा. -- छन्द-प्रतिषेधस्तु छन्दश्च देवतावत् १२ जातिः ३ २ ३८ दर्शनाद्विनियोगः ३ २ ४१ दूरभूयस्त्वात् हश्यते १४ २४ द्रव्यं चोत्पत्तिसंयोगात् द्रव्यं वा स्यात् द्रव्यगुणसंस्कारेषु द्रव्यसंयोगाचोदना द्रव्ये चाऽचोदितत्वात १ ३ ४ २ १ ३ २७ | द्रव्योपदेश इति चेत् २ ध २३ १ ४ २३ धर्ममात्रे तु कर्म १ ४ १२ धर्मस्य शब्दमूलत्वात ३ धर्मोपदेशाच occww १ ६ २८ तबोदकेषु मन्त्राख्या तच्छेषो नोपपद्यते तत्प्रख्यखान्यशास्त्रम् तत्र तत्वमभियोग- तत्संयोगात्क्रतुः तसिद्धिः तथा निर्मन्थ्ये तथा फलाभावातू तथा याज्यापुरोरुचोः तथाऽऽह्वानमपोति तथोत्थानविसर्जने तदर्थत्वात्प्रयोगस्य तदर्थशास्त्रात् तदशक्तिश्च तदाख्यो वा तदूगुणास्तु तभेदात्कर्मणः तमपदेशश्च तस्य रूपोपदेवाभ्यां तानि द्वैधम् तुल्यञ्च साम्प्रदायिकम् तुल्यत्वास्क्रिययोः तुल्यं तु कर्तृधर्मेण तुल्यभूतित्वादेत: तेषामथन सम्बन्धः तेषामृग्यत्र तेष्वदर्शनात् त्रयीविद्या च त्रिंशच परार्थत्वात् स्वष्टा तूपलक्षयेत् १ २ २१ ५ न ऋग्व्यपदेशात् १० न कालविधिः ३५ न क्रिया स्यादिति न चैक प्रति- न तदर्थत्वाल्लोकवत ३ २२ न स्वाम्नातेषु न नाम्ना ज्यादचोदना- १९ न पूर्वत्वात् ५ नवा प्रकरणात्प्रत्यक्ष- नशास्त्रपरिमाणत्वात १ २ न श्रुतिसमवायत्वात् न सर्वस्मिन्निवेशात् न स्यादेशान्तरेषु मामधेये गुणश्रुतेः १ १० नामरूपधर्म- १ ३६ | नाऽसनियमात् ८ | निगदो वा चतुर्थम् ४ w w w o w v १ ३ २० १ ४ २ २ १ ३९ ४ ३ २ ३६ परार्थत्वाद्गुणानाम् ३ ३ ३४ ] परिसंख्या मीमांसाकौस्तुभगताना सूत्राणि अ. पा. सू. २ ३२ २ पात्नीवते तु पूर्वत्वात् पात्तीवते तु पूर्ववत् पुनरभ्युनीतेषु पुरुषश्च कर्मार्थत्वात् पूर्ववन्तोऽविधानार्थाः पृथक्त्वनिवेशात् पौर्णमासीवत् प्रकरणं तु पोर्णमास्याम् प्रकरणान्तरे प्रकरणाविभागात् 20NNNN ३ १४ ४१ २१ ३ २ १७ २६ २ अ. पा. सू. | सूत्राणि २ ३ १९ मिथश्चाऽनर्थसम्बन्धात् य २९ यजतिस्तु द्रव्यफल- ६ यजूंषि वा १४ १७ यत्रेति वाथैवत्वात् २० यथार्थ वा तथादेवनं वा यदि च हेतुरवतिष्ठेत ३ २४ यस्मिन्गुणोपदेशः यावजीविकोऽभ्यासः १९ २४ यावदुकं वा कर्मणः येषान्तूत्पत्तावर्थे १४ येषामुत्पत्तौ स्वे यैस्तु द्रव्यं चिकीयते ३१ १ ३ ३० यैस्तु द्रव्यं न चीकीयते १ ३ ११ १ ३ २४ रूपात्प्रायात् ३ १ २ १ प्रकरणे च सम्भवन् २ प्रक्रमाद्वा नियोगेन २ ४ ३ १ प्रतिपतिरिति चेत् प्रत्ययवाऽपि प्रयोगचोदनाभावात् प्रयोगशास्त्रमिति प्रयोगोत्पत्त्यशास्त्रत्वात् प्रशंसा प्रायश्चित्तं निमित्तेन प्राये वचनाञ्च प्रोक्षणीष्वर्थसंयोगात् १ २ ११ १ लिङ्गदर्शनाच २ e AD . १६ ३ २ फलं च पुरुषार्थत्वात् फलम्चाऽकर्म- फलनिवृत्तिश्च १ लिङ्गदर्शनाच्च कर्मधर्मः लिङ्गमविशिष्टम् लिङ्गसमवाया इति २५ लिङ्गक्रमसमाख्यानात् २ १ २९ लिङ्गसमाख्यानाभ्याम् लिङ्गविशेषनिर्देशात् लिङ्गाच १७ लिङ्गाच्च ४ १० लिङ्गाभावाच नित्यस्य फलं तु सह फलश्रुतेस्तु कर्म फलस्य कर्मनिष्पत्तः OM बहिराज्ययोः बुद्धशास्त्रात १८ १ २ ५३ १ २ ३५ / लिङ्गोपदेशश्च ४ ३ लोकवदिति चेत् १ १ वचनात्त्वयथार्थम् १ वचनादिति चेत् ३ १० वचनाद्धर्मविशेषः १ ४ १५ | वशायामर्थसंयोगात् भावार्थाः कर्मशब्दाः भूमा भूयस्त्वेनोभयश्रुति मिथचाइनर्थसम्बन्धः २ १८ १ ४२ १ अ.पा. सू. १ २ #domoromorrorrar mr १ ३ ३ १ OM २६ १ १४ शेषे ब्राह्मणशब्दः शेषे यजुषशब्दः १ २ १४ ३ १ २१ सूत्राणां सूची। सूत्राणि अ. पा. सू. सूत्राणि वशावद्वा गुणार्थम् २ १ १५ शब्दान्तरे कर्मभेदः वषट्कारश्च कर्तृवत् ३८ शब्दे प्रयत्ननिष्प वाक्यनियमात् १ २ ३४ शास्त्रदृष्टविरोधाच वाक्यानां च समानत्वात शास्त्रास्थावा वाक्यासमवायात् ४ १७ शिष्टाकोपेऽविरुद्धम् विकारोवा प्रकरणात् ८ शेषः परार्थत्वात् विद्याप्रशंसा १५ शेषस्तु गुणसंयुक्तः विद्यार्या धर्मशास्त्रम विद्यावचनमसंयोगात् विधिकोपश्चोपदेशे ३ विधिना त्वेकवाक्यत्वात् श्रुतिलिङ्गवाक्य- विधिमन्त्रयोरैकार्थ्यम् श्रुतेर्जाताधिकारः १ विधिर्वा स्यादपूर्वत्वात् विधिशब्दश्च ६५ संज्ञा चोत्पत्तिसंयोगात् विधिश्चाऽनर्थक १ २ २३ संज्ञोपबन्धात् विधौ च वाक्यभेदः १२- २६ | सन्दिग्धे तु व्यवायात् विरोधश्वाऽपि पूर्ववत्, ६ सन्दिग्धेषु वाक्यशेषात् विरोधिनां त्वसंयोगात् २ ४ ३३ / सन्निधौ त्वविभागात् विरोधे त्वनपेक्षम् ३ सम्प्रेषे कर्म- विशये प्रायदर्शनात् १६ संयुक्तस्त्वर्थशब्देन विशेषदर्शनाच संस्कारकत्वात् विहितप्रतिषेधात् २७/ संस्कारश्चाऽप्रकरणे विहितस्तु सर्वधर्मः संस्कारस्तु न भिद्यते वेदसंयोगान प्रकरणेन संस्काराद्वा गुणानाम् वेदो वा प्रायदर्शनात् सतः परमविज्ञानम् वैश्वदेवे विकल्पः १ ४ १३ सदेवतार्थस्तत्संयोगात् व्यतिक्रमे यथाश्रुतीति ३ ६ समाप्तं च फले वाक्यम् व्यपदेशभेदाच १ १७ | समाप्तिः पूर्ववत्वात् व्यपदेशश्च तद्वत् ७ समाधिरविशिष्टा व्यपदेशाच २ १४० समातिवच संप्रेक्षा व्यपवर्गच ४ | समेषु कर्मयुक्तम् व्यर्थे स्तुतिरन्याय्या १ २ २८ समेषु वाक्यभेदः व्यवस्था वाऽर्थस्य संयोगात्३ १ २७ सर्वत्वमाधिकारिकम् व्यवस्था वाऽर्थस्य १ १७ | सर्वत्र च प्रयोगात् व्यवायानाऽनुषज्येत सर्वस्यै वोक्तकामत्वात् सर्वषां भावोऽर्थः शब्दपृथक्त्वाच ३ १ २५ सर्वेषां वा लक्षणत्वात् २ ३ २६ १ ३ २ २ २ २ १२ २ १० ३ १ १३ ३ ३ ३ २ १३ २४ २ २ २ २६ २ १ ४८ १ २ १६ १ ३ १४ २ २ २ १ १४ ६ सुत्राणां सूची। अ. पा. सू. अ. पा. सू. सुत्राणि सौभरे पुरुषश्रुतेः ३ स्तुतशस्त्रयोस्तु संस्कारः २ स्व्यपराधात २३ स्तुतिस्तु शब्दपूर्वस्वात् १ १५ स्याद्योगाच्या हि स्वाध्यायवदवचनात् २ १ १३ २ १३ सूत्राणि सर्वेषां स्वैकमन्यम् सर्वेषां चैककाम् सर्वेषां चोपदिष्टत्वात् सवषामिति चेत् सबंषु वाऽभावात् साकाई वैकवाक्यम् सामान्यादिति सारस्वते विप्रतिषेधात सास्थ्यम् सूकवाके च कालविधिः २१ १ २० स्विष्टकदुमय--- ४ ३८ हध्ये प्रतिप्रसवः १४ २६ हेतुदर्शनाच २ ११ । हेतु स्यादपूर्वस्वात् ३ १ २ २६ पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः। १८३ वाक्यत्वेऽपि न दोषः । अतश्च विष्ण्वादिवाक्येष्वेव तत्तद्देवतो- पांशुत्वविशिष्टयागत्रयविधानम् । यद्यपि तत्र कर्मोत्पन्नतव्यप्रत्ययेन विष्णवादेः प्रा. धान्यं यागं प्रत्यवगम्यते, तथाऽपि सक्त्वादेरिव भूतभाव्युपयो. गाभावाद्विनियोगभङ्गेन विष्ण्वादेः त्यज्यमानहाविरुद्देशकर्मत्वमा. त्रविचक्षणेऽपि प्राधान्यांशाविवक्षया यागं प्रति वैशिष्टयोपप. त्तिः। अन्तरालवाक्यस्थयजिपदं तु तेषामेव यागानामनुवादक. म् । उपांशुयाजपदं तु तेषामेवाऽव्युत्पन्नं सामानाधिकरण्यमा. त्रेणैव नामधेयम् । न तु तत्प्रख्यन्यायेन । उपांशुयाजपदे व्युत्पत्त्य. ङ्गीकारे(१) 'च जोः कुधिण्यतो रित्यनेन चकारान्तस्य जकारा. न्तस्य वा धातोः घिति णिति च प्रत्यये परे कुत्वविधानादुपांशु. याग इति रूपापत्तेः उपांशुयाजपदे उपांशुत्वरूपगुणविधित्व श- ङ्काया एवानुपपत्तेः । अतः सामानाधिकरण्येन रूढमिदं नामधेयम् । अन्तरालकालमात्रं त्विह यागत्रयानुवादेन विधीयते । तच्चान्तस्या- रालकालस्तुत्यर्थम् । समुदायवाक्येऽप्यन्वितस्य जामित्वोपक्रम. स्याऽव्यवहितत्वात् विष्ण्वादिवाक्येष्वप्यनुषङ्गेणाऽन्वयो ना. नुपपन्नः । वस्तुतस्तु तैत्तिरीयशाखायामन्तरालवाक्येऽप्यजामित्वोप. संहारादुपक्रमोऽपि तन्मात्रविषय एव । विष्ण्वादिवाक्येषु त्वजा. मित्वायत्येतावन्मात्रमेवाऽजामित्वसम्पादकान्तरालकालयोगबल. लभ्याजामित्वसम्पादकतानुवादो यागस्तुत्यर्थो न विरुध्यते । तेषु च विष्ण्वादिदेवत्ययागेषु शाखाभेदेन क्रमानातानि वैष्णवप्रा- जापत्याग्नीषोमीययाज्यानुवाक्यायुगलानि लिङ्गादेवाझं भवन्तीति न तेषां सिद्धान्त इव मान्त्रवर्णिकदेवताकल्पकत्वमित्यपि लाघवम् । १. पा. सू. ७.३.५२. २४ मी० को १८४ मीमांसाकौस्तुभे [उपाशुयाजाधिकरण- अत एव विष्ण्वादिवाक्ये यागमात्रविधिः, देवता तु मान्त्र. वर्णिकीत्यपास्तम् , मान्त्रवर्णिकदेवताकल्पनापेक्षया तव्यप्रत्यय- द्वितीयोपात्तदेवताया बलवच्चात् । तव्यादौ हि कर्मत्वमुपात्तमिति त्यज्यमानद्रव्योद्देशकर्मत्वरूपदेवतात्वं झाटित्यवगम्यते, मन्त्रे तु तदपि कल्पनीयम् , इत्यस्त्येव विप्रकर्षः । तस्मात् विष्ण्वादि- वाक्यविहितानां यागानामन्तरालवाक्यमनुवादकमिति सिद्धम् । न च तदप्यन्तरालविशिष्टयागान्तरविधायकमेव किं न स्या- दिति वाच्यम् , भेदकप्रमाणाभावेन यागान्तरत्वानुपपत्तेः । (१)विष्ण्वादियागेषु लिङ्गविनियुक्तानां मन्त्राणामास्मिन् क्रममा- त्रेण मान्त्रवर्णिकदेवताकल्पनायोगेनाऽरूपत्वाच्च । अतस्तत्र वि. डण्वादिवाक्यविहितयागत्रयानुवादेनाऽन्तरालमात्रविधिः । न च पुरोडाशनरन्तींपादितजापितादोषनिवर्तकतानुवाद- बलादेव तसिद्धिः, 'न गिरागिरेति ब्रूया'दि त्यनुवादबलादि- वेरापदस्य तत्स्थानतेति भवदेवोक्तं शक्यम् , अजामित्वानुवा- दान्यथानुपपत्तिकल्पितविधिबलेन सम्भवत्माप्तिकस्याऽपि प्रत्य. क्षविधिना विधातुं शक्यत्वात् । अन्यथा विधेयान्तराभावेनात. न्तरालवाक्ये ऽसम्बद्धम्य जामित्वार्थवादस्य व्यवायेन विष्ण्वा. दिवाक्येष्वप्यन्वयानुपपत्तेः । अस्तु वा विद्वद्वाक्ये ऽर्थवादान्वयवदत्रापि समुदायानुवादे तदन्वयः, तथापि समुदायानुवादप्रयोजनं त्रयाणामपि विष्ण्वा- दियागानां फलसम्बद्धसिद्धिः । एतदभावे हि 'तावता. मग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजनिति वाक्ये अग्नीषोमपदश्रवणात्तयोरुपलक्षणत्वेन विशेषणत्वेनैव वाऽन्व- गावगतेः अग्नीषोमदेवत्यस्यैव विजातीययागस्य पौर्णमासीका. विष्ण्वादिवाक्येषु. इति. ख. पु. १.

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । १८२ लोद्देशेनोपादानात् विद्वद्वाक्ये फलवाक्ये च सङ्ग्रहेण फलसम्ब. धस्याऽपत्तेः इतरयोरङ्गत्वमापयेत । सति त्वेतस्मिन् समुदाया- नुवादे प्रयाणामप्युपांशुयाजसंज्ञकत्वप्रतीतेः 'उपांशु पौर्णमा. स्था मिति नामैकदेशेन कालसम्बन्धोपपत्तेस्त्रयाणामपि चीनप्रवणे वैश्वदेवेन यजेते तिवत् फलसम्बन्धसिद्धिः । न हि तदाऽग्नीषोमीयपदमुपलक्षणं विशेषणं वा सम्भवति, समुदाया- नुवादवैयांपत्या वैश्वदेवपदवदेव तस्य विष्ण्वादिदेवताद्वयो- पलक्षकत्वात् । अतस्त्रयाणां फलसम्बन्धसिद्धिरेव समुदायानु- वादप्रयोजनम् । सूत्रं निगदव्याख्यातम् ॥ ( इति पूर्वः पक्षः) ( अथ सिद्धान्तः) चोदना वा प्रकृतत्वात् ॥ २-२-१० ॥ (सि.) अन्तरालवाक्य एव कर्मचोदना, विष्ण्वादिवाक्ये कर्म- विध्यसम्भवेनाऽनुवादासम्भवात् । तथा हि-वैश्वानरवाक्यन्या. येनोपक्रमोपसंहारक्यादेकवाक्यत्वावगमेन नाऽत्र यागत्रयविधा- नमुपपत्तिमत् । न च प्रत्येकमजामित्वार्थवादाद्भिन्नवाक्यत्वाव- गतिः, तस्य विष्ण्वादिदेवतामु प्रत्येकमजामिताकरणशक्तिपद- र्शनमुखेन तजन्ययागस्तुतिपरतया एकवाक्यत्वेऽप्युपपत्तेः ।। अतो ऽन्तरालवाक्य एवाऽप्राप्तिबलेन लेट्वनिश्चयं कृत्वा याग- विधियुक्तः, न तु प्रैषार्थकेन तव्यप्रत्ययेन, वाक्यभेदालक्षणा. पत्तेश्च । तस्मिंश्च यागे धौवद्रव्यस्य शाखाभेदेनोपांशुयाजक्रमा. स्नातवैष्णवमाजापत्यानीषोमीययाज्यानुवाक्यायुगलैः मान्त्रध- जिंक्या देवतायाश्च प्राप्तत्वेन नाऽरूपत्वम् । नन्वेषमपि मान्त्रवर्णिकदेवताकल्पनापेक्षया तव्यप्रत्ययो. पानदेवतात्वस्यैव विष्ण्वादेविधानं युक्तम् । न च वाक्यभेद, , - १८६ मीमांसाकौस्तुभे [उपांशुयाजाधिकरण- देवतात्रयविशिष्टैकयाग(१)विधानेनाऽवाक्यभेदादिति चेत्- अत्र केचिदाहुः-मन्त्रकल्पितदेवतापेक्षया तव्यद्वितीयोपात्तदे- वतात्वस्य दौर्बल्यम् । अत एव वार्तिके तद्धितचतुर्थ्यपेक्षयैव मन्त्र वर्णस्य दौर्बल्यमुक्तम् । अतश्च नोत्पत्तिवाक्ये विशिष्टविध्यापाद. कविष्ण्वादिविधियुक्त इति मन्त्रवर्णादेव तत्प्राप्तिरिति । वस्तुतस्तु तव्यद्वितीयास्थले विष्ण्वादीनां तद्गतकर्मत्वस्य च क्लुप्तत्वात् केवलमुद्देशनिरूपितत्वमात्रं न व्युत्पत्तिसिद्धमिति कल्पनीयम् । यदि हि यजिस्त्यागविशिष्टमुद्देशमेव विशेष्यतया वदेत्ततोऽपि विशेष्यान्वयस्य व्युत्पत्तिसिद्धत्वादुद्देशनिरूपितत्व- मपि न कल्प्येत । स तु वृद्धव्यवहारादुद्देशविशिष्टत्यागवाची, अतश्च कर्मत्वान्वयाय यागविशिष्टोद्देशे यजिपदस्य लक्षणामा- त्रमङ्गीकृत्य देवतात्वसिद्धिः । अथ वा याजिपदं यथाश्रुतमेवाऽ. ङ्गीकृत्य त्यज्यमानहविरुद्देश्यत्वसमनि यतो देवतात्वरूपाखण्डो- पाधिरेव सम्प्रदानत्वैकदेशभृतो लक्ष्यते तव्यद्वितीयाभ्याम् । ततश्च तस्य सागं प्रत्येवान्वय इति लाघवम् । मन्त्रे तु स्वतन्त्रस्य वाक्यान्तरस्यैव कल्पनात् गौरवमिति स ततो दुर्बल एव । अत एव देवताप्रमाणेष्वेवंविधो दौर्बल्यक्रषोऽनुसन्धेयः सर्वापेक्षया तावत्पबलो हविःपदसमभिव्याहृतस्तद्धितः, तस्य स्मृतिवृद्धव्यवहाराभ्यां त्यज्यमानद्रव्योद्देश्यत्वरूपे देवतात्व एव शक्तत्वात् । यस्तु देवताशब्दः (२)"इन्द्रो देवता वा तो देवता" इसादाविव कचित् देवताविधायकः श्रूयेत, सोऽपि तद्धितापेक्ष- या दुर्बल एव, देवताशब्दस्य स्तुतिभाक्त्वहविर्भाक्त्वरूपद्विवि- धदेवतात्ववाचित्वेन साधारणत्वात् , देवतापदेन देवतात्व. स्याऽधिष्ठानोपसर्जनतयाऽभिधानेन तद्धितवद्विशेष्यतयाऽप्रती- १. विधानादिति चेत् इति स्व. पु. २. तै० सं०४.३.८. ..

सिद्धान्तः ] द्वितीयाध्यायस्थ द्वितीयः पादः । १८७ तस्य झटिति क्रियान्वयाप्रतीतेश्च । चतुर्थ्यपि सम्प्रदानत्ववाचिनी तस्य त्यज्यमानद्रव्योद्देश्य- त्वविशिष्टप्रतिगृहीतृत्वरूपस्य ब्राह्मणादाविव देवतायां प्रतिगृही- तृत्वासम्भवेनाऽसम्भवादेकदेशलक्षणया देवतात्वापरपर्यायत्य. ज्यमानद्रव्योद्देश्यत्वरूपभाक्तसम्प्रदानत्वपरा सती ततोऽपि दुर्बलैव । द्वितीया तु पूर्वोक्तविधया देवतात्वं लक्षयन्यपि शक्यताव- च्छेदकाप्रविष्टस्यापि लक्ष्यतावच्छेदकत्वात् न चतुर्थीतुल्येति ततो दुर्बला। तव्यस्य तु कृदन्तत्वात् कर्मत्वोपसर्जनद्रव्यविशेष्यकबोध- जनकत्वव्युत्पत्तेः न केवलं पूर्वोक्तविधया देवतात्वस्यैव लक्षणा, अपि तु तद्विशेष्यताया अपि क्रियान्वयार्थ लक्षणेति ततोऽपि दौर्बल्यम् । मन्त्रस्तु वाक्यान्तरकल्पकत्वात् ततोऽपि दुर्बल इत्युक्त- अन्यथाऽपि समाधीयते-विष्ण्वादीनां हि तव्यप्रत्ययेन देवतात्वे लक्षिते समानाभिधानश्रुत्या तेनैव विधानोपपत्तेः पश्च- मलकारविधेयभावनायां वैशिष्टयाभावाद्वाक्य भेदापत्तिः। ना. च–अत एव तव्येन देवतात्वभानं लक्षयित्वा प्रवर्तनांशेऽनु. वादत्वमङ्गीकृत्य तस्य विधेयभावनावैशिष्टयोपपत्तिरिति वाच्यम् , विष्ण्वादिपदानामजामित्वोपपादकतया अर्थवादत्वेनोपपत्ता- वन्यतस्सम्भवल्लाभविष्ण्वादिदेवताविशिष्टयागविध्यङ्गीकारा. योगात् । अत एव नामधेयत्वेनाऽप्युपपनस्य अग्निहोत्रसमिदादिपद- स्य मन्त्रवर्णेनाऽपि सम्भवल्लाभानिसमिदादिविधायकत्वं नाऽ. ङ्गीकृतम् ; विशिष्टविधिगौरवापत्तेः। अत उत्पत्तिवाक्ये याग. मेवेति ।

१८८ मीमांसाकौस्तुभे [ उपांशुयाजाधिकरण- . मात्रविधिः । नचैवं अर्थवादोनीतदेवताविधिकल्पनयाऽपि त. प्राप्तिसम्भवे मान्त्रवर्णिकतत्कल्पने प्रमाणाभावः । 'मूक्तभाजो हविर्भाजश्च देवता' इति स्मृत्या मन्त्रे तज्जन्यस्तुतिभाकरूपदे- वतात्वस्याऽत्रगतौ हविर्भावरूपस्य तस्य मुकल्पत्वात् । अत एव मान्त्रवर्णिकदेवताकल्पनापेक्षयाऽप्यार्थवादिकदेवताकल्पनं गु. विति ततोऽपि दुर्बलम् । अतश्चोत्पत्तिवाक्ये देवताविध्यभावेऽ. प्यन्तरालोपांशुत्वविशिष्ट एव यागो विधीयते । नचाऽन्तरालकालोऽपि पुरोडाशनैरन्तर्यापादितजामितादो- पापनयनरूपफलबलादेव लभ्य इति तद्विध्यानर्थक्यम् , उपां- शुयाजस्य वक्ष्यमाणरीत्या फलवत्त्वस्य क्लसत्वेन दोषापनयन- स्थार्थवादमात्रत्वात् । अथाऽध्ययवादस्यैवान्तराळकालविध्यु- मायकता भवेत् , तथाऽप्युत्पत्तिवाक्येऽन्तरालपदवैयर्थ्यांपत्तेः कल्प्पविधिप्रवृत्तेः पूर्वमेवाऽनेनाऽभ्युदयशिरस्कत्वार्थमन्तरालका लो विधीयते, उपांशुत्वमपि चोपांशुयाजपदेनैव विधीयते । य. यपि चास्य व्युत्पन्नत्वे कुत्त्वप्राप्तिरावश्यकी, तथापि 'दृष्टा- नुविधिश्छन्दसी' त्यनुसाराच्छन्दसि कुत्वाभावमात्रं वैकल्पि- कम् । न स्वेतावता सर्वमेवेदमव्युत्पन्नं नामधेयम् ; प्रतीयमा. नावयवार्थत्यागेनाऽतिरिक्तशक्तिकल्पने प्रमाणाभावात् । अव. यवार्थाङ्गीकारे चोपांशुत्वस्याऽप्राप्तत्वाद् गुणविधिरेवायमिति न किश्चिदनुपपन्नम् । सूत्रं निगदव्याख्यातम् ॥ गुणोपबन्धात ॥ २-२-११॥ (सि) पुरोडाशनैरन्तर्यापादिताया जामिताया अन्तराळसम्ब- न्धिना विधेयेन निवृत्तिमतीतेयंत्राऽन्तरालकालरूपगुणोपबन्ध- स्तत्र प्राठिति कर्मचोदनाप्रतीतेरन्तराळवाक्ये एक कर्मविधानम् ।।

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । MAD प्राये वचनाच्च ॥ २-२-१२ ॥ (सि) 'शिरो वा एतद्यज्ञस्य यदामे यो हृदयमुपांशुयाजः पादावनी- पोर्मायौं' इत्यर्थवादे प्रधान भूतानेयादिसाहचर्याचोपांशुयाजत्वा- वच्छेदेन प्राधान्यप्रतीतेः भवन्मते चानीषोमदेवत्यस्यैव तस्य तदापत्तेः सामान्यधर्मेण साहचर्यवादानुपपत्तिः । तथाहि- 'तावतामग्नीषोमावाज्यस्वैव नावुपांशु पौर्णमास्यां यज' नित्य न्तरालविधिसन्निधौ श्रुतमपि वचनं तदीयगुणविधिव्यवधानान्न तावत् तदर्थवाद इत्यसन्दिग्धम् । अतश्च विध्यन्तरैकवाक्यत्वा. भावात् पुराकल्पोन्नीतेनाऽपि विधिनाऽत्र न यागविधानम् , अ- न्तरालवाक्ये श्रुतेन विधिना तद्विधानसम्भवे कल्प्यविधिना त. द्विधानस्याऽन्याय्यत्वात् । नाप्युपांशुत्वस्य उत्पत्तिवाक्येनैव प्रा- प्तिसम्भवे तद्विधाने निष्प्रयोजत्वात् । अत एव नाऽऽज्यानीषाम- तयोरपि 'सर्वस्मै वा एतद्यज्ञाये' बनेन मन्त्रवर्णेन च प्राप्त- त्वात् । यज्ञायेति चतुयां तद्विधिसम्भवे षष्ट्या तदङ्गीकारस्या- न्याय्यत्वाच्च । 'ना'चित्यस्य षष्ठीचतुर्थीसाधारणस्य देवताविधी सन्दिग्धत्वाच । अतः परिशेषात् पौर्णमासकालविधिरेवायम् । यद्यपि चाऽसावन्तरालका विध्यन्यथानुपपत्यैव प्राप्यते, तथापि ततः पूर्वमेव विधीयते । तत्पयोजनश्च विद्वद्वाक्येऽधिकार- वाक्ये च पौर्णमास्यादिनामकत्वेन फलसम्बन्धलाभः । अन्यथा श्रुतपौर्णमासीकालसम्बन्धानापेवाऽऽनेयादीनां तन्नामकत्वलाभेन फलसम्बन्धापत्तेः उपांशुयाजस्याऽङ्गत्वापत्तिः । अतः फलस- म्बन्धसिद्ध्यर्थं पौर्णमासीविधिरर्थवान् । तत्र च यागत्रयपक्षेऽनी- षोमपदश्रवणात्तदैवत्यस्यैव यागविशेषस्याऽयं कालविधिस्स्या दिति तस्यैव फलसम्बन्धात् इतरयोर्वेणवप्राजापत्ययोरङ्गत्वमेव योः १९० मीमांसाकौस्तुभे [उपांशुयाजाधिकरण- स्यादित्युपांशुयाजत्वावच्छेदेन प्रधानप्रायपाठो न घटते । न च समुदायानुवादवैय्यांपत्यैव प्राचीनप्रवणादिविधि. वत् कालविधेस्सर्वविषयत्वम् , तस्य यागत्रयार्थवादत्वेनाप्युप- पत्तेः । यागैकत्वपक्षे तु श्रूयमाणस्याऽप्यग्नीषोमपदस्याऽनुवाद्य. गतत्वेनाऽविवक्षितत्वात् । त्रितयदेवत्यस्यापि फल सम्बन्धोपपत्तेः सामान्यावच्छेदेन प्रधानप्रायपाठो युज्यते । न च तवाऽपि काले कर्मण उपादेयस्य स्वरूपेण प्राप्तस्याऽपि प्रयोगविधिविषयत्वेन विधेयत्वात् तद्विशेषणस्याऽनीषोमदेवत्यत्व- स्य समुदायवाक्ये प्रधानत्रयसाहित्यस्यैव विधेयविशेषणत्वेन विवक्षोपपत्तेः कथं देवतात्रययुक्तस्य प्राधान्यमिति वाच्यम् ; प्रयोगस्याऽपि समुदायवाक्यादेव प्राप्तत्वेनेह ‘य इष्ट्ये' त्यादि. वाक्यवत् कालसम्बन्धमात्रकरणात् । अतश्च तद्वदेवानुवाद्यवि- शेषणत्वान्न तद्विशेषणविवक्षा । अनुवाद्याऽपि चास्मिन् वाक्ये यागोत्पत्तिरेव, न तु प्राप्तत्वेऽपि यागप्रयोगः, तस्य फलसम्बन्ध. प्रयोजनकत्वाभावेन कालसम्बन्धाकरणात् । अतश्च वैकल्पिक- देवतात्रययुक्तस्याऽप्युपांशुयाजस्य फलसम्बन्धात् सामान्यतः प्र- धानप्रायपाठो युक्त एव । नचैवं तर्हि ममाऽध्यग्नीषोमदेवताकत्वस्याऽविवक्षितत्वात् सर्वप्राधान्योपपत्तिः, अग्नीषोमदेवताकत्वस्य विशेषणत्वेना. विवक्षायामपि उपलक्षणत्वेनाऽन्वयस्य ग्रहैकत्ववदावश्यकत्वात् , तत्र चोपलक्ष्यतावच्छेदकस्य विजातीययागत्वस्य लाभात्तदव- च्छिन्नस्यैव कालसम्बन्धेन फलसम्बन्धापत्तेरसर्वप्राधान्यानुपप- त्तेः । ग्रहकत्वस्थले तु ग्रहत्त्वातिरिक्तस्योपलक्ष्यतावच्छेदकस्या लाभात तस्य च सर्वग्रहसाधारणत्वात् मर्वग्रहसम्मासिद्धिः । अतएवाऽस्मन्मते सत्यप्यग्नीषोमपदस्योपलक्षकत्वे उपां.

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । .. शुत्वाद्युपलक्षकान्तरमहिम्ना उपांशुधाजत्वस्यैवोपलक्ष्यता- वच्छेदकस्य लाभात् तदनुवादेनैव कालविधिप्रतीतेः देव. तात्रययुक्तस्यैव फलमम्बन्धोपपत्तिः । अत एवोपांशुत्वादीना- मविवक्षितत्वाद्यजिना प्रयाजादीनामप्यनुवादात् फलसम्बन्धा. पत्तिरित्यपास्तम् , तेष प्रविवक्षितत्वेऽप्युपलक्षकत्वेन व्यावर्तक- स्वात् । अतो युक्तोऽस्मन्मते सामान्यमुखेः प्रधानप्रायपाठः । नन्वेतत्सर्वमेतस्य वचनस्य फलसम्बन्धफलकत्वे स्यात् , न त्वेतत्सम्भवति, विनाऽपि श्रोतकालविधिमन्तरालविधित एव पौर्णमासीकालसम्बन्धस्य प्राप्तत्वेन फलसम्बन्धोपपत्तेः । न च तस्य विलम्बितप्रतीनिकत्वेन शीघ्रप्रतीतकालसम्बन्धानामाने- यादीनां फलसम्बन्धाप पत्तेगर्थवद्वचन मिति वाच्यम् , तर्हि एत. द्वाक्यप्रतीतकालसम्बन्धसत्वेऽपि शीघ्रप्रतीतिकोत्पत्तिवाक्यश्रुत- कालसम्बन्धानामेवाऽऽग्नेयादीनां फलसम्बन्धापत्तेः उपांशुया. जस्य तदलाभतावस्थ्यात् । अथ त्वेतद्वचनवैयर्थ्य भयेनैव विलम्बितप्रतीतिकमपि कालं निमीत्तीकृत्य पौर्णमास्यादिनामकत्वाङ्गीकारादुपांशुयाजस्य फ. लसम्बन्धाङ्गीकारः, ततोऽन्तरालस्य पौर्णमास्यामिवाऽमावास्या- यामपि सत्वात् तत्रोपांशुयाजनित्ति फलकतयैतद्वचनसार्थक्योप. पत्तन प्राबल्यसिद्धिः । अमावास्यायामपि कदाचिदस्त्येवाऽऽग्नेय. न्द्रामपुरोडाशद्वयम् । तन्नैयत्यं तु. पौर्णमास्यामपि नास्त्येव, असो. मयाजिनोऽग्नीषोमीयाभावात् । अतः कथं फल सम्बन्धफलकत्व मस्य वचनस्येति चेत् , न ; 'शिरो वा एतद्यज्ञस्य यदानेय' इत्याद्यर्थवादात् 'त्रयोदशाऽमावास्याया' मित्यादेलिङ्गोपहितात् 'यदन्यचौ पुरोडाशा" वित्यर्थवादान्तर्गनपुरोडाशपदस्याऽऽग्नेया. नीषोमीयमात्रपुरोडाशपरत्वे तात्पर्यावगमेनाऽमावास्यायामुपांशु. २९ मो० को s १९२ मीमांसाकौस्तुभे [ उपांशुयाजाधिकरण- याजाप्राप्तः तद्वयावृत्तिफलकपौर्णमासीविधिवैयादेतस्य फल. सम्बन्धमात्रफलकत्वोपपत्तेः । अत एव भवदेवोक्तम्-एताद्विध्यभावेऽन्तरालवाक्याद्यत्र पुरोडाशयान्तरालं तत्रैवोपांशुयाजो न त्वेकपुरोडाशायामिति माप्नुयात् , एतद्विधिसखे तु विधिवैयर्यभयेन पौर्णमासीकर मस्याऽन्तरालकाळनैरपेक्ष्यप्रतीतेरे कपुरोडाशायामप्युपांशुयाजस्य पौर्णमासीसत्वेन प्राप्त्युपपत्तेः तहलेनैव चाऽऽन्तरालपदस्याऽग्नेयो. तरत्वपात्रलक्षणावगतेरेकपुरोडाशायामुपांशुयाजोऽनुष्ठेय इति प्र. योजनमपि एतद्विध्यभावेऽप्यन्तरालवाक्ये पुरोडाशद्वयस्य वल. समयोजनत्वेनोपांशुयाजानत्वात् कालोपलक्षणत्वमाप्रतीतेः कालस्य च शङ्खवेलायामागन्तव्यमित्यादी लोके श्रुतोपलक्ष- णाभावेऽप्युपलक्षकान्तरोपलक्षितस्याऽऽगमनादिक्रियान्वयदर्शनेन सुतरां प्रकृते आद्यपुरोडाशोपलक्षणेनैवाऽन्त्यपुरोडाशरूपोपकक्ष- णाभावेऽपि कालोपलक्षणसिद्धेः तत्रोपांशुयाजानुष्ठानस्य दशमे व- क्ष्यमाणत्वादुपेक्षितम् । तस्मादनन्यप्रयोजनकत्वाद्युक्तं फलस- म्बन्धप्रयोजनकत्वमेवैतस्य वचनस्य । वस्तुतस्तु 'शिरो वा एतद्यक्षस्पे' यादिपौर्णमासीस्थपुरोडा. शतात्पर्यग्राहकवदैतरेयि शाखायां वैष्णवयाज्यानुवाक्यायुगलस्या. प्रेयसान्नाग्यान्तराले समाम्नानेनामावास्यायामप्युपांशुयाजता. पर्यग्राहकस्य सत्त्वात् तनितिफलकत्वोपपत्तेः नोक्तरीत्या फ. लसम्बन्धप्रयोजनकत्वोपपत्तिः । अतः तावतामित्यस्याऽनन्त- रमेव 'उपांशुयाजमन्तरा यजती' त्यस्य कस्याञ्चिच्छाखायामा. म्नानादिति वार्तिकदर्शनादेवं परिहर्तव्यम्-नैव तावता'मि- त्यस्य स्वतन्त्रविध्युन्नायकता, गौरवाद्वाक्यभेदापत्तेश्व; अपि तु 'उपायाजमन्तरा यजती'त्यनेनैकवाक्यतैव । अतश्चाऽनेन पौर्ण- सिद्धान्त: 1 दितीयाध्यायस्य द्वितीयः पादः । मासीकालोपांचत्वान्तरालकालविशिष्टमुपांशुयाजाख्यं कर्म वि- धीयते, न त्वेतावताऽग्नीषोमदेवताऽऽज्यं च विधेयम्, प्रमाणान्तरेण सम्भवत्प्राप्तिकस्य पुनर्विधेः निष्प्रयोजनत्वात् , विशिष्टविधी गौरवाच । अत एवाऽस्मिन्मते उपांशुत्वमप्युपांशुयजन्नित्यनेन विधेयभावनाविशेषणत्वेन समय॑ते, न तुपांशुयाजपदेन, तत्वव्यु: त्पन्नम् , तत्प्रख्यन्यायेन वा नामधेयमित्यवगन्तव्यम् । अन्या. नि तु देवतादिपदानि अनुवादकानि सन्ति स्तावकानीति न दो- पः। एवञ्चाऽग्नीषोमीयपुरोडाशवदेव पौर्णमासीकालस्योत्पत्ति शिष्टत्वात् फलसम्बन्धोपपत्तिः । अमावास्यायां चाऽकरणोपपत्ति- रिति सिद्धम् । बहुचब्राह्मणेऽमावास्यायामप्युपांशुयाजविधानाद्वा तत्रापि तत्करणम् । दाशामिकाधिकरणं तु कृत्वाचिन्तया। 'त्रयोः दशाऽमावास्यायामिति लिङ्ग त्ववयुत्यानुवादः । एतहलादेवाऽ. मावास्यायां विकल्प इति गुरवः ॥ प्रयोजनं पूर्वपक्षे यागत्रयानुष्ठानम् , सिद्धान्त एकस्यैव दे. वता विकल्पनेति स्पष्टम् ॥ इति चतुर्थमुपांशुयाजाधिकरणम् ॥ ४ ॥ अथ पश्चममाघाराग्निहोत्राधिकरणम् ॥ ५ ॥ आधाराग्निहोत्रमरूपत्वात ॥ २-२-१३ ॥ (पू.) ( विषयसंशयौ) दर्शपूर्णमासयोः 'आधारमाधारयतीति प्रकृत्य श्रुतम्-'.- माघारयति, सन्ततमाघारयती'त्यादि । तथा 'अग्निहोत्रं जुहो. तीति प्रकृत्य 'दध्ना जुहोती त्यादि । तत्र किमूवादिवाक्यैः दध्यादिवाक्यैश्च विहितानां कर्मणां संज्ञायुक्तवाक्ये समुदायानु. - १९४ मीमांसाकौस्तुभे [आधारामिहोत्राधिकरण- वादके ? उत तयोरेव विहितयोः कणोरितराणि गुणविधयः; इति सन्देहः। (सङ्गतिः) पूर्वाधिकरणे तव्यस्य श्रुत्या विधायकत्वाभावात् वाक्यभेदापत्तेश्च युक्तमर्थवादत्वम् , इह तु त्वयाऽपि दध्यादिवा. क्यानां विधित्वाङ्गीकारात् शुद्धगुणविधेश्च वक्ष्यमाणरीत्या अ सम्भवेन विशिष्टकर्मविध्यवश्यम्भावाद्युक्तः समुदायानुवाद इति पूर्वपक्षोत्थानादनन्तरसङ्गतिः, पूर्वपक्षे गुणादभ्यासाद्वा कर्मभेदः, सिद्धान्ते नेति पादाध्यायसङ्गतिरपि । (पूर्वपक्षः) तत्र विधेः प्रवर्तनारूपत्वात्तस्याश्च धात्वर्थविशेषावच्छिन्न प्रवृत्तिरूपभावनाव्यतिरिक्तविषयत्वासम्भवेन शुद्धगुणविधाना. नुपपत्तेः दध्यादिवाक्येऽपि धात्वर्थावच्छिन्ना भावनैव विधेया, न च विहितस्य विधानं सम्भवति, इति भेदसिद्धिः। नच विहि- तस्यापि फलकालादिसम्बन्ध इव दध्यादिसम्बन्धेनाऽपि पुनर्षि- धानोपपत्तिः, स्वत उत्पन्नस्यापि फल सम्बन्धे विनियोगाधिका- रयोः कालसम्बन्धे विनियोगमात्रस्य विधेयत्वेन विध्युपपत्ति- वव्यादिसम्बन्धे उत्पत्तेरेवाऽऽवश्यकत्वात्तस्याश्च प्राप्तत्वेन वि- धानायोगाद भेदोपपत्तेः । अतश्च दध्यादिवाक्येषु देवताविधि- वाक्ययोः मन्त्रवाक्ययोश्च होमा एवं गुणादभ्यासाद्वा भिन्ना विधीयन्ते । तेषां च समुदायसिद्ध्यर्थमनुवादोऽग्निहोत्रं जुहोती त्यनेन क्रियते, न तु कर्मान्तरमभ्यासाद्विधीयते, रूपाभावात् , समुदायसिध्यर्थकत्वेनाऽनन्यपरत्वाभावाच्च । न च समुदायसिद्धिवैयर्थ्यम् , 'अग्निहोत्रं जुहोती'त्येतदभावे फलवोक्य निमित्तवाक्ये चाऽग्निहोत्रनामावच्छिन्नेन जुहोतिना पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः । . .. प्रसिद्धाग्निदेवताकस्यैव होमस्य फलादिमम्बन्धः स्यात् , न तु सूर्यदध्यादिहोमानाम् । एतत्सत्त्वे तु सर्वेषामेव 'वैश्वदेवेन यजेते' तिवदनुवादादग्निहोत्रनामकत्वापेपत्तेः फलादिसम्बन्धोपपत्तिः इति सार्थक्योपपत्तेः । नचैत्रं दध्यादिहोमे स्ववाक्यत एवान्यादिदैवत्य होमेषु चाक्षेपेण यत्किश्चिद्रव्योपपत्तावपि दध्यादिहोमेषु स्ववाक्ये दे. वताभावाद्वाक्यान्तरेण देवतामात्रविधेश्च तवाऽनिष्टत्वादाक्षेपण देवताया अप्राप्तेररूपत्वापत्तिरिति वाच्यम् ; एकफलसाधनाना. मेषां एकप्रयोगविधिपरिग्रहेण सान्नाथ्यवत् सकृदनुष्ठानोपपत्तेः, होमान्तरेष्वप्यपेक्षितत्वाद्रव्यदेवतादानां प्रसङ्गेनोपकारक. स्वोपपत्तेः। एवमाघारस्थळेऽप्यूर्ध्वत्वादिगुणानां धात्वर्थावच्छिन्नभावना- विधिमन्तरेण विधानायोगात्तयोरपि विधिप्रतीतेः विहितविधाना- योगेन भेदसिद्धिः । तेषां च ऊर्ध्वत्वादिगुणेन्द्रदेवतादिविशिष्टाघा. राणामवान्तरप्रकरणादुपक्रमस्थत्वाद्वाऽऽ"घारमाघारयती" त्ययं समुदायानुवादः, न तु धौवाधारस्यापि तस्याऽग्निसम्माविधिना व्यवाहितत्वात् । तत्प्रयोजनश्चैन्द्राधारेण सहप्रयोगविध्यवगतयो- गपद्यसिद्ध्या तदीयेन्द्रदेवताकत्वसिद्धिद्वारा यागरूपतासिद्धिः योगपद्यसिद्धिमात्र वा । अन्यथा हि कदाचिदुचरकाले क्रियमा- णेन समिद्यागेनाऽपि योगपद्य प्रसज्येत । तया वृत्तिफलकेन्द्रया. गयोगपसिद्धिः समुदायानुवादप्रयोजनम् । केचित्तु तस्याऽऽघारमाघार्ये' त्यनेन प्रयाजार्थे चतुर्ग्रहीते सं. स्कार्ये सर्वेषां विनियुज्यमानानामाघारकर्मणामेकन्वसिद्धिः समु- दायानुवादप्रयोजनमित्याहुः, तत्स्वयमेवाऽऽघारकर्मणोऽर्थकर्म- त्वस्य तत्प्रख्याधिकरणे साधितत्वात् संस्कारकर्मत्वाङ्गीकारेऽपि . . मीमांसाकौस्तुभे [भाधारामिहोत्राधिकरण- वाराजसूयन्यायेन समुदायानुवादं विनाऽपि तन्त्राभिधानावगत- समुदायाभिपायेणैकवोपपचे रुपेक्षितम् । यवत्र मुले आघाराग्निहोत्रवाक्ययोः समुदायानुवादकत्वे साधकान्तरमुक्तम्-उत्पत्तिवाक्ये रूपज्ञानाभावाद्विधानायोग्य. स्वमिति तस्याऽयमभिप्राय:-रूपवत्ताज्ञानस्य योग्यताज्ञानविधया विधेयताज्ञान प्रति कारणत्वमामेयादिवाक्ये विद्वद्वाक्ये चान्वयव्य- त्तिरेकाभ्यां क्लुप्तम् , नीरूपस्य विधानायोग्यत्वात् , अतः आ- घाराग्निहोत्रवाक्ययोरूपाश्रवणान्न तत्र कर्मणो विधानम् , तदभावे च तदनुवादेनाऽपि गुणविधानायोगान वाक्यान्तरेणाऽपि रूपव. ताज्ञानमिति तत्तु दध्यादिवाक्ये कर्मविधित्वेऽपि च देवताभावेन स्ववाक्ये रूपज्ञानाभावस्य तदवस्थत्वादयोग्यतानिश्चयामावमात्रे. ण च योग्यताज्ञानाभावेऽपि श्रुतशब्दाच्छाब्दबोधस्याऽऽनुभाविक- त्वाद्रूपवत्ताज्ञानस्य करणत्वानुपपत्तेः, तदभावेऽपि अरूपवत्तानि. श्वयाभावमात्रेण विधेयत्वोपपत्तेः, पश्चाच्च रूपज्ञाने सत्यनुष्ठानोप. पत्तेः रूपवत्ताज्ञानस्यैव कारणत्वकल्पनेऽपि वा उत्पत्तिवाक्येऽपी. सामान्यवदनिर्धारितविशेषरूपसामान्यज्ञानमात्रेण विधेयत्वोप- पत्तेः उपेक्षितम् । यदि तु कथञ्चिदेतदुपन्यसनीयमित्याग्रहः, तदा दध्यादिवाक्येष्वपि यदप्रये चेति वाक्यस्थचतुथ्यन्तपदा. नुषङ्गेण स्ववाक्ये रूपलाभापपत्तेः तदलाभचोधं परिहर्तव्यम् तसिद्धमाघारामिहोत्रवाक्ये समुदायानुवादके इति ॥ सूत्रं निगदव्याख्यातम् ॥ संज्ञोपबन्धात् ॥ २-२-१४ ।। (पू) एवं चाऽग्निहोत्रमाघारमिति द्वितीयान्तसंज्ञोपबन्धोऽपि दध्या. दिवाक्यविहितानां कर्मणामांक्षिप्तसाध्यत्वेनाऽनुवादादुपपनो .

सिद्धान्तः] द्वितीयाध्यायस्य वितीय: पाद: । १९७ . - भवति । इतरथा स्वतन्त्रस्य विधेयत्वे तस्य करणत्वात् तृतीयार्थ- लक्षणा स्यात् ॥ अप्रकृतत्वाच्च ॥ २-२-१५॥ (पू) नन्वेवं "अग्निहोत्रं जुहोती" सत्र वाक्यान्तरेण रूपालाभेऽपि स्ववाक्य एच(१) तत्प्रख्यन्यामाभावेन अग्निहोत्रशब्दस्य गुणवि- धित्वापत्या रूपलाभोपपत्तेः दध्यादिवाक्यवद्विनिगमनाविरहेण कर्मविध्यवसायात् कथं समुदायानुवादत्वमिति चन्न तत्मख्या. धिकरणोक्तमार्गेण चतुर्थीसमासस्य व्याकरणलक्षणाननुगत. तया प्रकर्षेणाऽकृतत्वात् देवतारूपगुणविधित्वाशङ्कानुपपत्तेः । अत एव 'मासमग्निहोत्रं जुहोती' सत्र अग्निहोत्रपदस्य गुणविधिः स्त्रमनयैव युक्त्या निराकर्तव्यम् , न तु तत्प्रख्यन्यायेन । तत्म- ख्याधिकरणे तदुक्तिस्तु अभ्युपेत्यवादेनैवेति द्रष्टव्यम् । अतश्च रूपवत्वात्समुदायानुवादावेतौ ॥ ( इति पूर्वः पक्षः) ( अथ सिद्धान्तः) चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्सन्निधेर्ग- णार्थेन पुनः श्रुतिः ॥ २-२-१६ ॥ (सि) अन्यानाक्षिप्तविधिशक्तिकत्वादाधाराग्निहोत्रवाक्ययोः कर्मः चोदनैव प्रत्येतव्या । एवं चाऽनुष्ठापकस्य विधेः स्वशब्दार्थभू- तधात्वर्थावच्छिन्नभावनाविषयत्वात् प्रथमविधिप्रकाराङ्गीकरणा- ल्लाघवम् । अतश्वाऽनन्यपरपुनःश्रवणादपि कर्मविधित्वनिश्च. यः। न च समुदायानुवादप्रयाजनकत्वेनाऽन्यपरता, दध्यादिवा- १. पू. मी. १.४.४.

मीमांसाकौस्तुभे [ आधारामिहोत्राधिकरण- क्येषु पञ्चमविधिप्रकारापक्षया लाघवेन तृतीयविधिप्रकाराङ्गी. करणस्यैव न्याय्यत्वावगमेन कर्मविध्यनुपपत्तेः समुदायानुवा- दायोगात् । न च प्रवर्तनारूपस्य विधेर्धात्वर्थविशेषावच्छिन्नभाव. नारूपप्रवृत्तिविषयतां विना सिद्धरूपगुणविपयत्वानुपपत्तेः न तृती. यावधिप्रकारोपपत्तिरिति वाच्यम् , सिद्धरूपस्य साक्षाद्विधिविष. षयत्वायोगेऽपि विधिविषयीभूतभावनावच्छेदकत्वेन परम्परया विधिविषयत्वोपपत्तेः। यद्यपि विधिगुणयोः नाऽनेन संसर्गेणा- न्वयो व्युत्पन्नः, तथाऽपि गुणो भावनायां कारकतादिसम्बन्धेन प्रकारीभवति, विधिश्च गुणविशिष्टां तां विदधत् फलतो गुण- विषयः सम्पद्यते । न च प्राप्तत्वात् भावनायाः पुनर्विधाने भेदापत्तिः, एकवारं कर्तव्यत्वेन बुद्धाया अपि गुणविशिष्टायाः पुनः कर्तव्यत्वबोधो. पपत्तेः तस्य च विशेष्यांशे अज्ञातज्ञापनरूपविधिफलाभावेऽपि विशेषणांश तत्फललाभेन सार्थक्योपपत्तिः। विशेष्यांशे वसा. वनुवाद एव । अत एव सर्वत्र प्रातीतिके विशिष्टभावनाविधाने सत्यपि फलविषयभेदादेव षड्विधिप्रकारा उद्भिदधिकरणेऽस्मा- भिरुपपादिताः । दौर्बल्यञ्चोत्तरोत्तरं तेषामुक्तम् । वार्तिककारेण च प्रातीतिकभावनाविधिनैरपेक्ष्येणाऽष्टौ श्रुतिप्रकाराः परोक्ता दूषिताः । विस्तराभया तु त इह न प्रपञ्च्यन्ते । अतोऽपि वि. शेष्यांशस्य प्राप्तत्वेऽपि गुणविशिष्टत्वेन रूपेण पुनर्विधानात् फ. लतश्च गुणविधित्वोपपत्तेः तृतीयप्रकारोपपत्तिः । तत्रापि च गुणकरणिकाया भावनायां धात्वर्थस्य कर्मत्वे. नेवाऽन्वयो न तु करणत्वेन, मत्वर्थलक्षणापत्तेः । उपपादितं चैत. (१)दुद्भिदधिकरणे । नचैवं प्राप्ताया अपि भावनाया गुणविधा- १.पू.मी. १.४. २. - सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । अत नार्थं पुनर्विध्यभ्युपगमे विद्वद्वाक्यविहितभावनाया अप्या'नेयो ऽष्टाकपाल' इत्यत्र द्रव्यदेवताविशिष्टत्वेन रूपेण पुनर्विधानो. पपत्तेर्वाक्य भेदानापत्तिः. विधिविषय भावनायामनेकगुणवैशि- घट्योपपत्तावपि विधि फलस्यैकविषयत्वस्वाभाव्येनाऽनेकाविषयत्वे आवृत्यवश्यम्भावात् । एव यत्राऽपूर्वभावनाविधिः तत्र विधिफलस्य विशेष्य एवैकस्मिन् सत्त्वादाथिकेन च विध्यन्तरेण विशे- षणानां विधानानावृत्तिरिति(१)स्पष्ट(२)पौर्णमास्यधिकर. ण। प्रकृते तु विधिफलस्यैकदध्यादिविषयत्वेन वाक्यभेदाभा- वायुक्तस्तृतीयविधिमकार इति प्रकृतकर्माभावानाऽऽयाराग्निहो- वाक्ययोः समुदायानुवादकत्वम् । न च दध्यादिवाक्ये वाक्य- भेदाभावेन कर्मविधायित्वाभावेऽपि 'यदग्नये चेति वाक्याभ्यां प्राप्तकर्मानुबादेनाऽनेकगुणविधाने वाक्यभेदापत्तेः कर्मविध्यचग- मात् , विशेषतश्चोत्पत्तिवाक्यशिष्टदेवतासमुच्चयानुरोधेनाऽऽग्नेय. वदेकै कस्मिन् वाक्ये कमद्वयविध्यवगतेश्चतुर्णा कर्मणामग्निहोत्रं जुहोतीसयं समुदायानुवादो भविष्यतीति वाच्यम् । तत्प्रख्या- धिकरणोक्तमार्गेण तत्राऽपि प्रजापतिमात्रविधानेन सायंप्रातः कालीनदेवतासमुच्चयविशिष्टप्रजापतिमात्रविधानेन वाऽगिन र्यादीनां मन्त्रवर्णैः प्राप्तिमभ्युपगम्य तृतीय विधिप्रकारोपपत्तेः । तस्मादग्निहोत्रं जुहोतीत्यमेव कर्मविधिः । न चैवमने केषां गुणानामेकार्थत्वाद्विकल्पापत्तिः, 'सायं जुहोति' 'प्रात होती ति वाक्याभ्यां तावत्कालविधानेऽपि 'स वै सायं च प्रातश्च जुहोति'त्यनेन च तत्समुच्चयविधानादुत्पन्न शिष्टसमुच्चयानुरोधेन साङ्गस्याऽऽवृत्तिरित्यवगतेः । न च पौर्णमा- १. क्षुण्णं. इति. ग. पु. २. पू. मी. २. २.३ २६ मी० को मीमांसाकौस्तुभे [ आधारामिहोत्राधिकरण- स्यमावास्याकालीनयोः दर्शपूर्णमाससंज्ञयोः कर्मणोभेर्दैन तत्रा. गावृत्युपपत्तावपि अग्निहोत्रसंज्ञस्य कर्मणः सायम्प्रातःकालयोर्भे- देनाऽनुष्ठीयमानस्याऽपि स्वरूपेणैकत्वात् सकृत्कृतैरेवारुपका- रसिद्धेः प्रचारविप्रकर्षेऽपि सवनीये सकृदङ्गानुष्ठानवदिहापि तदु- पपत्तेः कथं साङ्गस्य द्विरात्तिरिति वाच्यम् , उत्पत्तिवाक्ये उत्प- बस्याऽपि कर्मणः सायम्प्रातःकालवाक्याभ्यां प्रयोगद्वयविधा. नात् तस्य च साङ्गप्रधानविषयत्वात् पौर्णमास्यमावास्ययोरिव साङ्गस्याऽप्यावृत्तिसिद्धः । सवनीये तत्पत्तिबाक्य एवाऽऽश्विनन- हग्रहणोत्तर रकालश्रवणात् प्रयोगविधिप्रतीतेः “वपया प्रातस्सवने चरन्ती'त्यादौ च सवनीयमयोगावयवभूतानामेव वपाप्रचारा- दीनां कालविधानात्तन्मात्रोपयोग्यङ्गविशिष्टानां प्रयोगविधानेऽ. पि सबनीयप्रयोगविधिपरिगृहीतानां तदीयपरमापूर्वोपयोगिप्र. याजादीनामुत्पत्यपूर्वोपयोगिनां च साधारणानां वपाप्रचारादि- वाक्यपरिगृहीतत्वेन नाऽऽत्तिरिति वैषम्यम् । ननु- आश्विनं ग्रहं गृहीत्वे त्यस्य क्रमविधित्वात् कालवि. धित्वाभावे न सवनीयप्रयोग(१)विधित्वम् । क्रमस्य पाठादेव प्राप्त्युपपत्तेरस्य कालविधित्वावसायात् । "आश्विन ग्रहं गृहीत्वा त्रिवता यूपं परिवीये"त्यनयोस्त्वान्तयोरुभयोरपि क्रियान्वयव्यु. स्पत्तेः । परस्परं च पागदेव क्रमोपपत्तेः । परिवीयेत्यनेन परि. व्याणान्तरविधायकेन व्यवहितस्य त्वान्तस्य क्रमविधायकत्वानु- पपत्तेश्च । विशिष्य चेदेमकादशे निरूपयिष्यते । तस्माद्युक्तः कालानुरोधेन साङ्गस्याऽभ्यासः । एवमेकैस्मिन्नपि काले दशाहुतिपक्षे 'द्वे आहवनीये जु- होति, चतस्रो गार्हपत्ये, चतस्रोऽन्वाहार्यपचने, दश सम्पद्यन्ते, १. विषय इति क. पा० - सिद्धान्तः ] द्वितीयाध्यायस्थ द्वितीयः पादः । 8 दशाक्षरा विराट्, य एवं विद्वान् विराट्सम्पन्नमग्निहोत्रं जुहो. ती'त्यत्राऽग्निहोत्रवाक्योत्पन्नस्य होमस्य विराट्सम्पत्तिवाक्येनाऽ. प्राप्तिवललभ्यविधिशक्तिकेन दशबाऽत्तिर्विधीयते । तत्र 'द्वे आहवनीये' इति वाक्येनाऽभ्यासद्वयस्याऽप्याहवनीयाधिकरण- कत्वे विहिते ऽवशिष्टाभ्यासेषु तत्तद्वाक्याभ्यां गार्हपत्यान्याहार्यप. चनरूपाधिकरणमात्रविधानात्(१) 'समं स्यादश्रुत्वादिति न्या. येन चैकैकस्मिन् गार्हपत्यान्याहार्यपचनरूपेऽधिकरणेऽभ्याम चतुष्टयप्राप्तेर्दशधाऽभ्याससिद्धिः। न च “यदाहवनीये जुहोती"ति अनारभ्यातिनवाऽभ्या. सद्वय आहवनीयमाप्तेरभ्यासान्तरेषु चाधिकरणविधिबलादेव तद्धोधोपपत्तेः 'वे आहवनीये' इत्यस्य चैय्यथ्यापत्तिरिति वाच्य म् । एतद्विध्य भावे विराट्सम्पत्तिवाक्यविहितेऽपि दशधाऽभ्या. से गाईपयादिवाक्ययोः होमानुवादेनाऽधिकरणमात्रविधाने 'स. मं स्यादिति न्यायनैकैकस्मिन् पञ्चहोमाभ्यासापत्तेश्चतुःपदानु. वादायोगात् चतुस्सङ्ख्याविशिष्टहोमोद्देशेनाऽधिकरणमात्रावियों च वाक्यभेदापत्तेः चतुस्सङ्ख्योद्देशेनैव तद्विधौ चाऽधिकरणच तुष्टथापत्तेः चतुस्सङ्ख्याकोदेशेनाऽधिकरणविधौ चाऽतिप्रसङ्गोपः तो, सङ्घयाधिकरणविशिष्टतावत्कर्मान्तरविध्यवश्यम्भावादष्टा- नामेतेषामग्निहोत्रवाक्यविहितस्य च देवताभेदेन द्विरावृत्तस्यैव कर्मणो विराट्सम्पत्तिवाक्ये लिङ्गसमवायेनाऽनुवादापत्तेः । न चे धापत्तिः, विराट्सम्पत्तिवाक्ये अग्निहोत्रपदस्य गौणत्वेऽङ्गीकृ. तेऽपि फलादिवाक्ये तदङ्गीकारे प्रमाणाभावेनाऽग्निहोत्रवाक्य- विहितस्यैव फलादिसम्बन्धापत्याऽऽपराग्निकहोमानामङ्गत्वा. पत्तेः । अत उक्तविधया तेषामपि फलादिसम्बन्धसिद्ध्यर्थ "द्वे १. जै.सु. १०२० .

२०२ मीमांसाकौस्तुभे [ आधाराग्निहोत्राधिकरण- आहवनीये" इत्यस्य सार्थक्योपपत्तिः । ननु त्वदुक्तरीत्याश्रयणेऽपि 'द्वे आहवनीये' इत्यत्र द्वित्व विशिष्टहोमोद्देशेनाऽऽहवनीयविधौ वाक्यभेदापत्तेः न तावत् सा- मान्यविधितः पूर्वमेवैतद्विधिप्रवृत्यङ्गीकरणं युक्तम् , न च त्रै दोप्यमङ्गीकृस्याऽपि लक्षणया अभ्यासद्वयभिन्नेष्वभ्यासेष्वाह- वनीयनिवृत्तिर्विधीयत इति युक्तम् ; तथा सति तेष्वाहवनीयप्रा. वैधत्वेन(१) 'न तो पशौ करोती तिवद्विकल्पापत्तेः । अतः कथं स्वदुक्तस्याऽपि सिद्धिरिति चेत् ? न, अभ्यासद्वयभिन्नाभ्या. सेष्वाऽऽहवनीयभिन्नमधिकरणं कुर्यादित्येवं पर्युदासाङ्गीकरणेन विकल्पानापत्तेः । नचैवं लक्षणापत्तिः, वचनव्यक्त्यन्तरासंभ वेनाऽगात्याऽङ्गकिारात् । न ह्याहवनीयमुद्दिश्य द्विरभ्यासविनि- योगविधिः सम्भवति, आहवनीयाङ्गत्वापत्तेः । नाऽऽप्याहवनीये निमित्त तद्विधिः, तस्य नियतत्वेन निमित्तत्वानुपपत्तेः । यदि तु 'गार्हपत्ये जुहोति, (२)अन्वाहार्यपचने जुहोती' ति बाक्यान्तरा. भ्यां तस्य पाक्षिकतया निमित्तत्वमुच्यते, ततः प्राकरणिकत्वेन ताभ्यां तस्य बाधादेव नित्तित्वानुपपत्तिः । अतो युक्तो लक्ष. णया पर्युदासः । यद्यपि च न पर्युदासमा तत्फलम् , तस्याऽ धिकरणान्तरविधिबलादेव सिद्धेः, तथाऽप्यापराग्निकहोमानां फलादिमम्बन्धसिद्धिरुक्तविधया फलं भवतीति न कश्चिद्विरोधः । यवत्र कैश्चित न्यायसुधाकृदुक्तपक्षान्त रावलम्बनेनोक्तप- १. तो आज्यभागी पशुयागे नाऽनुतिष्ठेदित्यर्थः । अत्र निषेधार्थ आज्यभागयोः दर्शपूर्णमासत अतिदेशावश्यंभावेन अतिदिष्टस्य शा. स्त्रीयत्वेनाऽत्यन्तबोधायोगात् विकल्पे पर्यवसानमिाते सिद्धान्तितं दशमाष्टमे। २. अन्वाहार्य दर्शपूर्णमासयोदक्षिणात्वेन देयमोदनम् , तत् पच्यते यस्मिन् इत्यवाहार्यपचनो दक्षिणाग्निः । , -- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । कारेऽस्वरसीजमुक्त्वा मुधोक्तं पक्षान्तरपुपपाय विधिरसाय. नदूषणाय प्रवृत्तम् ; तथाहि-न तावत् 'दे आहवनीये' इति परि- सङ्ख्याफलकोऽपूर्वविधिसम्भवति, सामान्याविधेशपि प्रत्यक्ष. वेन ततः पूर्वमेतद्विधिप्रवृत्यनुपपत्ते, दिग्भ्यासोदेशनावनी यविधौ सामान्यविधिनोपसंहारापत्तेश्च । नाऽपि प्राप्तपरिसंङ्ख्या, त्रैदोष्यापत्तेः । अतश्च त्रिष्वपि वाक्येषु सङ्ख्यैव विधीयते । सा च यद्यपि न होमानुकादेन विधातुं शक्या, तथात्वे आधिक रणानां सात्तिषु साङ्खयापत्तेः । सङख्यानां तु समुच्चयेन सङ्. ख्यान्तरोपजननापत्तेश्व, विकल्पे चतुस्सख्याविधायिवाक्य. यवैययापत्तेश्च, तथापि 'गाईपरपे जुहोति, अन्वाहार्यपचने जुहोती' ति वचनान्तरप्राप्ततत्तदधिकरणताकोद्देशेन विधीयते । तासां च विकल्पे प्राप्ते(१) 'तां चतुर्भिरादत्त' इतिवत् विराट- सम्पत्तिवाक्येन समुच्चयो विधीयत इति । तत्रेदं वक्तव्यम् यस्तावदस्वरसः स पर्युदासाङ्गीकरणादेव निरस्तः । यदपि च पक्षान्तरमुक्तम् , तदपि गाईपत्यान्वाहार्यपचन वाक्याभ्यामना. रम्याधीताहवनीयवाच्यबोधादाहवनीयाधिकरण ताया अप्राप्तेः तदुद्देशेन द्वित्वविधानानुमपत्तेरा हवनीयाधिकरणकत्वस्याऽपि च प्रतिप्रसवविधौ कर्मान्तरत्वापत्तेस्तस्य चामिहोत्रपदबाच्य. स्वाभावेन फलसम्बन्धानापत्तेः परिहर्तव्यम् । किञ्च द्विराकृत्यादीनां केन समुच्चयसिद्धिः ? विराड्वाक्ये. नेति चेत् ! तत्र समुच्चयवाचकपदाभावेन तद्विध्यनुपपत्तेः, 'तां चतुर्भि' रित्यत्र तु न समुच्चयो विधीयते । अपि तु समुच्चयफ लकचतुस्सङ्ख्यैव विधीयत इत्युक्तम् , प्रकृते तु दशवसङ्ख्या- १. चयनप्रकरणस्थं वाक्यमिदम् । तां अनिं खनित्रं चतुर्भिमन्त्रैः देवस्यत्वेत्यादिभिः मृत्खननार्थ हस्ते गृह्णीयादित्यर्थः ।

" मीमांसाकौस्तुभे [ अघाारामिहोत्राधिकरण- विध्यङ्गीकारे तत एव द्विरावृत्यादेः प्राप्तत्वात् न विधिसम्भवः । न च समुच्चय विध्यभावेऽपि त्रयाणामग्नीनामदृष्टार्थत्वेन समुच्च. यात तन्निमित्तकानामभ्यासनामपि समुच्चयापत्तिः, प्रक्षेपस्य प्रेक्ष प्यद्रव्याधारं विनापि पूर्वाधारवियोगमात्रेणोपपत्तेः आहवनीयः संयोगस्याऽदृष्टार्थत्वेऽपि सप्तमीश्रुत्या आधारताजननरूपदृष्टद्वा. रैवाऽदृष्टार्थत्वावसायात् दृष्टावान्तरकार्थत्वेन विकल्पोपपत्तेः। अत एव पदादिनाऽऽहवनीयादे धोऽपि सङ्गच्छते । नचैव अग्नी- नां दृष्टार्थत्वे प्रतिनिध्यापत्तिः, प्रतिनिधावदृष्टरूपाग्निसादृश्यसत्वे प्रमाणाभावेन तदनापत्तेः । अत एव काचित्को (१)ब्राह्मणपा. ध्यादिविधिरभावे विधिरेव । अतः प्रकारान्तरेणाऽपि न समु. चय सिद्धिः । तस्मादुक्तप्रकार एव श्रेयान् । नचैवं गार्हपत्ये जुहोत्यवाहार्यपचने जुहोती' ति वचना- न्तरेणैव 'समं स्या' दिति न्यायसहकृतेनाऽभ्यासचतुष्टये तत्तद. धिकरणप्राप्तः 'चतस्रो गार्हपत्य' इति वचनद्वयवैय्यर्थ्यमिति वा- च्यम् , 'चतस्रो गार्हपत्य' इत्यादेरुपसंहारार्थत्वेन वचनचतुष्टय. सार्थक्योपत्तेः । अथ वा-अस्तु 'द्वे आहवनीय' इत्यस्य शाब्दप. युदासरूपपरिप्तरूपाविधेरिदं वाक्यद्वयम् , शेषो विधेयस्तुत्यर्थः । सर्वधा 'ट्रे आहवनीये' इत्यस्याऽऽपराग्निकहोमानां फलादिसम्ब. न्धसिध्यर्थत्वमिति सिद्धम् । तस्मादेकैकस्मिन्नपि काले दशधा- भ्यासात् तदेवताप्रन्त्रादीनां सर्वेषामेव समावेशोपपत्तेः न विक- ल्पः । एवं च 'द्वे आहवनीये, द्वे गार्हपत्ये, द्वे अन्वाहार्यपचने जुहोति, षद् सम्पद्यन्त' इति शाखान्तरवचनात् षडाहुतिपक्ष 'सप्त च शतानि विंशतिश्च संवत्सरे सायमाहुतयः । सप्त चो एव शतानि विंशतिश्च संवत्सरे प्रातराहुतय' इति लिङ्गगानु. १. यद्यन्यं न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष बा अग्निवैश्वानरो यब्राह्मणः । इत्यादि । , सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः। मितविधिबलेन वा द्वयाहुतिपक्षे च तावदेवतामन्त्रादीनां न विकल्पः। नचैवं वाचनिकाभ्यासविधिवशादेव प्रजापतरग्न्यादि. समुच्चयसिद्धौ पुनः 'यदग्नये च' त्यत्र तद्विधानानुपपत्तिः, लिङ्गानुमितविधिना इतराहुतीनां पाक्षिकत्वमापणेऽपि अस्यां शाखायां याहुतिसमुच्चयस्य 'यदग्नये चेति वाक्याधीनत्वात् दध्याधिद्रव्याणाञ्चकस्मिन् कर्मणि विकल्पोऽगया इष्ट एव । तस्मान्नाऽऽघराग्निहोत्रवाक्यं समुदायानुवाद इति सिद्धम् । प्रयोजनम्-अग्निहोत्रवाक्ये पूर्वपक्षे दध्यादिदशद्रव्याणि सानाय्यवत् सम्प्रतिपन्नदेवताकत्वेन सहोपादाय सकृद्यागः, सिद्धान्ते तु विकल्पनेति न्यायसुधोक्तमेव द्रष्टव्यम् । यत्वत्र केचित्र-पूर्वपक्षे दध्यादिहोमेषु देवताप्राप्तिमुपपाद- यितुमशक्नुवन्तः तत्रत्यजुहोतेः प्रक्षेपमात्रलक्षकत्वेन पूर्वपक्षमुप- पाद्य, न्यायसुधाकृतं बहुभाषित्वेन दूषयन्ति । तत् प्रसङ्गादनुष ङ्गतो वा देवताप्राप्तेः पूर्वपक्षे उपपादितत्वात् जुहोतेः प्रक्षेपमात्र लक्षणायां प्रमाणाभावेनोपेक्षणीयम् । यदि तु दध्यादिवाक्ये गुणमात्रविधित्वाङ्गीकारेऽपि 'यद. 'ग्नये चे' ति वाक्यद्वये विहितकर्मणामेव समुदायानुवादोऽग्नि- होत्रवाक्यमिति पूर्वपक्षीक्रियेत, तदाऽन्यदपि प्रयोजनम्-मासा. ग्निहोत्रे सायम्प्रातः कर्मणां मध्य एकस्य सौर्य द्वयोराग्नेययो. मध्ये एकस्यैव कस्यचिदिकल्पेन धर्मातिदेशात् मासाग्निहोत्रे सायंप्रातर्वा विकल्पेन मासपर्यन्तं कार्यम् । न चाऽऽत्यन्तसंयो. गवाचिद्वितीयान्तमासपदोपदिष्टसातत्यानुरोधेनोऽतिदेशिककाल बाधात् सर्वदैव कर्तव्यत्वापत्तिः, आहारविहाराद्यावश्यककार्या नुरोधेन सातत्यवाधावश्यम्भावे जातेष्टिन्यायेनाऽऽतिदेशिक काला मीमांसाकौस्तुभे [पशुसोमाधिकरण- नुरोधेनाऽपि तत्सम्पादनस्य सङ्कर्षे वक्ष्यमाणत्वात् । नचैवमपि 'उपसद्भिश्चरित्वे' ति क्त्वाप्रत्ययेनोपसदनन्त- रकर्तव्यतारूपक्रमविधानादातिदेशिककालबाधावश्यम्भावः, उप- सदिनोत्तरदिनेष्वबाधेऽपि वा तद्दिनेषु तद्वाष आवश्यक एवेति वाच्यम् । व्यवाहिताव्यवाहितसाधारण्यन पूर्वकालतामात्रवाचि. क्त्वाप्रत्ययस्याऽसति प्रमाणन्तरेऽव्यवाहितत्त्वरूपक्रमपरत्वेऽपि. सायम्प्रातः कालपापकचोदकसत्त्वे पूर्वकालतामात्रपरत्वाङ्गीका. कारात् । अतो युक्तं मासाग्निहोत्रे सायप्रातर्वा विकल्पेनानुष्ठानं पूर्वपक्षे, सिद्धान्ते तु समुच्चयेनेति । आधारवाक्ये तु पूर्वपक्षे ऊर्ध्ववादीनां मध्ये यस्यैव दैवा- दन्तरायस्तयुक्तस्यैव कर्गण आवृत्तिः, सिद्धान्ते तु गुणलोपनि मित्तं प्रायश्चित्तमात्रम् , न तु प्रधानात्तिरिति द्रष्टव्यम् । नच पूर्वपक्षेऽपि क्षरणरूपपदार्थस्य निष्पन्नत्वाद्रुणलोपनावृत्तिरिति वाच्यम् , क्षरणमात्रनिष्पत्तावपि ऊर्ध्वत्वैकाभिव्यङ्गयजात्यव- च्छिन्नस्याऽनिष्पत्तेः । सूत्रं निगदव्याख्यातम् ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ ५॥ . अथ षष्ठं पशुसोमाधिकरणम् ॥ ६ ॥ द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥२-२-१७॥ (पू.) ( विषयसंशयी) "यो दीक्षितो यढग्नीषोमीयं पशुमालभते" इति प्रकृत्य, ते.सं.६.१.११. १.

द्वितीयाध्यायस्य द्वितीयः पादः। २०७ "हृदयस्याऽग्रेऽवधति, अथ जिह्वाया, अथ वक्षस" इत्यादि श्रुतम् । तथा "सोमेन यजते"ति प्रकृत्य, “ऐन्द्रवायवं गृहाति, मैत्राव. रुणं गृह्णाति, आश्विनं गृहाती"ति । तत्र सन्देहः-किमबदा- नवाक्येषु ग्रहणवाक्येषु च विहितानां कर्मणां यथायथं पशुवा- क्ये सोमवाक्ये च समुदायसिद्ध्यर्थमनुवादः, उत तयोरेव तत्त. द्गुणविशिष्टयागविधिः, इतरेषु तु तदीयद्रव्योद्देशेनाऽबदानग्रह गादिरूपसंस्कारविधिरिति । (सङ्गतिः) पादाध्यायसङ्गती पूर्ववत् । अनन्तरा तु-दध्यादिवा- क्यैराग्निहोत्रवाक्यविहितकर्मानुवादेन गुणमात्रस्य विधातुं शक्यत्वात् प्रकृतकाभावेनाऽग्निहोत्रवाक्ये समुदायानुवादत्वं नाङ्गीकृतम् , प्रकृते तु पशुसोमवाक्यविहितयागीयद्रव्योद्देशन हृदयादिविषयकावदानादिरूपसंस्कारविध्ययोगादवश्यमवदाना दिवाक्येषु कर्मविध्यवगतेः प्रकृतकर्मसद्भावेन समुदायानुवाद- स्वोपपत्तिरिति पूर्वपक्षात्थानात् प्रत्युदाहरणरूपा । (पूर्वपक्षः) तत्र पशुवाक्ये तावद्यद्यपि आग्नेयादिवाक्यवदेव द्रव्यदेव- ताविशिष्टयागावधिनानुपपन्नः, तथापि तत्र यागविधावुत्पत्ति- शिष्टस्य पशोरवदानेन नाशापत्तेः श्रुतयागसाधनताविघाताना. वदानवाक्य तद्वाक्यविहितयागीयद्रव्यसंस्कारविधिरुपपद्यते; न चोत्पत्तिशिष्टस्याऽपि पुरोडाशस्य मध्यपूर्वाधावदा- नरूपसंस्कारवत् तदुपपत्तिः, मध्यपूर्वावदानेऽपि पुरो- डाशत्वजातेः प्रत्यभिज्ञायमानत्वेनाऽनपायात् मध्यपूर्वा- धौदेरपादानमात्रतया श्रवणेनानदानं प्रति प्रकरणात २७ मी०को अत मीमांसाकौस्तुभे [ पशुसोमाधिकरण- द्विहविषोऽवद्यती"ति कर्मणिषष्ठीश्रवणाच्च पुरोडाशस्प संस्कार्य- त्वोपपत्तावपि "हृदयस्याऽग्रेऽवद्यती"त्यादौ “तानि द्विविद्या ती"त्यादौ च कर्मत्वेन निर्दिष्टानां हृदयादीनामेवावदानसंस्कार्य त्वश्रवणेनावदानस्योत्पत्तिवाक्यशिष्टपशुसंस्कारकत्वायोगाच । नच हृदयादिपदैर्लक्षणया पशोरेव संस्कार्यत्वावगतिः, तथा. ङ्गीकारेऽपि वाक्यान्तरवैयापत्तेः । न चाऽस्तु हृदयादीनुद्दिश्यै. वाऽवदानसंस्कारविधिः, तेषां भूतभाव्युपयोगाभावेन संस्कारा- नईत्वात् । न च संस्कारविधिवलादेव तत्कल्पनम् , सक्तुष्वपि त. दापत्ते, उत्पत्तिशिष्टपशुसाधनताविरोधेन तत्साध्ये यागे हृद. यादीनामुपयोगासंभवाच । एव नानुनिष्पन्नस्याऽपि लोहितनिरसनादिवदिय प्रतिपत्तिः, पशोरेव साधनत्वेन हृदयादीनामनुनिष्पन्नत्वा- भावात् । किंच हृदयादीनामुपयोगकल्पने तेष्वतिदेशेनैवाऽवदा. नप्राप्तिसम्भवात् तद्विधानानर्थक्यम्; तस्मादेवं वाच्यम् -हृद. यायुद्देशेनैवाऽवदानाख्यसंस्कारविधिः, पूतीकोद्देशेनेवाऽभिषव. विधिः । तत्र च यद्यपि पूतीकेषु सोमाभिषवस्यैव प्रत्यभिज्ञाय- मानस्य पूतीकसम्बन्धित्वेन विधानात् तस्य च यागीयद्रव्यसं. स्कारकत्वदर्शनात् पूतीकानां यागीयत्वानुमानवत् सान्नाय्याव- दानस्यैव यागीयद्रव्यसंस्कारकत्वेन क्लप्तस्यापि अपत्यभिज्ञाय- मानत्वेन हृदयायुद्देशेन विधानायोगात् न तेषां यागीयत्वानु मानं सुकरम् . तथाऽपि प्रकरणान्तरन्यायेन स्वतन्त्रमेवावदानं हृदयाजुद्देशेन विधीयते । न चाऽतिदेशेन तस्य प्रत्याभज्ञानम् , तस्य यागविध्य- धीनत्वेन तदानीमसत्वात् । अतः स्वतन्त्रस्यैवाऽवदानस्य प्रा- णिप्रभवद्रव्यकावदानत्वसामान्यात् सानाय्यावदानप्रकृतिक- पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः । २०१ . त्वावगतेरतिदेशेन यागीयद्रव्यवृत्तित्वस्याऽपि प्राप्त वदानमवदेयद्रव्याणां यागसाधनता कल्प्यमाना प्रत्यवदान यागभेदमाक्षिपति । अतश्च पूतीकवदेव विवक्षितगत्या हृदया. दिद्रव्यकयागविधिसिद्ध्यर्थमेवाऽवदानविधिः, न तु प्राकृतकार्या- बदानप्राप्तयर्थः, तस्य यागविध्युत्तरकालमतिदेशेनाऽपि प्राप्तिस. म्भवात् ।तांश्च सर्वान् यागानालभतिना लक्षणयाऽन्द्याऽग्नीषोमै, देवताविधीयते । न चैवं पशुप्रकृतिकत्वस्यापि विधाने वाक्यभेदः, देवतातद्धितस्य पशुपदसामानाधिकरण्यानुपपत्तिश्चेति वाच्यम् , "छागस्य हविष" इति मन्त्रवर्णात् हृदयादीनां छागप्रकृतिक- त्वप्राप्तौ पशुपदेन लक्षणया हृदयादीनामेवानुवादाद एवं च पशुवाक्ये विशिष्टविध्यनङ्गीकाराल्लाघवमपि । वस्तुतस्तु यागीयद्रव्यत्तित्वस्य प्रकृतौ सान्नाय्यावदाना. ङ्गत्वाभावेन इहाऽनविदेशादुक्तरीत्या यागानुमानासम्भवेऽपि हृदयादिवाक्य एव सक्तुन्यायेन विनियोगभङ्गं प्रकल्प्य हृदया. दिषिशिष्टावदानविधाने कृते आलभतिना लक्षणया तान्यनूय पूर्ववदेवताविधी कृते देवतास्वनिर्वाहार्यमाघारयतिवदुत्पत्ति- वाक्यस्थोऽवद्यतिर्यागपरोऽवधार्यते तत्र त्वयं विशेषो-यदाघार. यतावजहत्स्वार्थ लक्षणया यागोपस्थितिः अवद्यतौ तु निर्वपत्तिवत् जहस्त्वार्थलक्षणेति न त्वेतावता यागविधान कश्चिविशेषः । अथ वा हृदयादिवाक्येष्वपि हृदयााद्देशेनाऽवदानान्यत्र विधीयन्ते । तेषाञ्चोपयोगापेक्षायां पशुवाक्ये पशुपदेन लक्षणया तान्यनूध देवता विधीयते, आलभतिश्चाऽस्मिन् पक्षे अवदाना- क्षिप्तस्पर्शानुवादमात्रम् । हृदयादिसम्बन्धश्च देवताया यागं वि. नाऽनुपपन्न इति यावद्धृदयादि यामाः कल्प्यन्ते नच प्राजापयाधिकरणपूर्वपक्षन्यायादेकपदोपादानात् सहितानां हृद- २१० मीमांसाकौस्तुभे [पशुसोमाधिकरण- यादीनां एकदेवतासम्बन्धोपपत्तेः कथमनेकयागकल्पनमिति वाच्यम्', तद्वदिह साहित्यस्याऽनुवाद्यगतत्वेन विवक्षासम्भवात् । अतः सिद्धं पशुवाक्यस्थालभतिः पशुपदं च समुदायानुवाद इति । एवं च "हृदयस्याऽग्रेऽवद्यती"त्यादिक्रमदर्शनं "एकादश वै पशोरवदानानी"त्यादिसमुच्चयदर्शनं चोपपन्नं भवति; अन्यथा एकस्मिन् यागे हृदयादीनां विकल्पापत्तेः क्रमसमुच्चयदर्शनं नोपपद्येत ॥ तथा 'सोमेन यजेते त्यत्रापि न सोमविशिष्टयागविधिः, तथात्वे उत्पत्तिशिष्टस्य सोमाख्यस्य लताद्रव्यस्याऽभिषवादसं. स्कारैः विनाशप्रसङ्गेन तद्वाक्येषु सक्तुन्यायेन विनियोगभङ्गापत्तेः। एवं "ऐन्द्रवायवं गृह्णाती" सादावपि तद्धितस्य प्रकृतधारासमर्थद्रव- द्रव्यवाचित्वेन लतोद्देशेन ग्रहणाख्यसंस्कारविष्ययोगाद्व द्रव्यस्य च भूतभाव्युपयोगाभावेन विनियोगभङ्गापत्तिः । एतेन सोमवाक्ये सोमविशिष्टयागविधिरेव, अभिषवादि. वाक्यानि त्वर्थकर्माणि, ग्रहणवाक्येषु गृह्णातिना यागं लक्षण. याऽनुद्य देवतामात्रविधिरित्यपास्तम् , तद्धितस्य द्रवद्रव्यवा- चित्वेन सोमपरत्वासम्भवात् । “दशैतान युः प्रातस्सवने ग्रहान् गृह्णाति, आश्विनो दशमो गृह्यते, तं तृतीयं जुहोती"ति क्रमसमुच्चयदर्शनस्य देवतानामेकस्मिन्यागे विकल्पप्रसङ्गेनास्मिन्न- पि पक्षेऽनुपपत्तेश्च । किञ्च भवन्मते "ऐन्द्रवायवं गृह्णाती"त्यादौ कि विधीयते ? न तावत् ग्रहणम् , तस्यार्थप्राप्तत्वात् । न हि पूतमृदाधवनी- यद्रोणकलशेषु विद्यमानः सोमरसो ग्रहचमससाधनकेन होमेना. ऽगृहीत्वा संस्कर्तुं शक्यते, अतो न तावत् ग्रहणम् । तस्य च गृह्यमाणसंस्कारार्थत्वमर्थसिद्धत्वादेव न विधेयम् ।

पूर्वपक्षः] दितीयाध्यायस्य द्वितीयः पादः । २११ नाऽपि तदनुवादेन देवता इन्द्रचाय्यादिः, तस्याः देवतात्वेन ग्रहणे अन्वयस्य बाधितत्वात् ; देवतात्वं हि यागक्रियानि- रूपितमेव, न तु क्रियान्तरनिरूपितम् ; न च ग्रहणे देव. तात्वेनाऽन्वयानुपपत्तावपि सम्बन्धसामान्ये ऐन्द्रवायवादित. द्धितमङ्गीकृस तत्कालीनाष्टार्थोच्चारणविषयत्वसम्बन्धेनेन्द्र- वायवादेहणे अन्वयोपपत्तिरिति वाच्यम् ; एवमपि मरुत्वती. यादौ(१)"द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमबास्त्रोष्पतिगृहमेधा. चे"ति सूत्रेण देवताधिकारपतितेन देवतात्वमात्राभिधानावगतेः 'मरुत्वतीयं गृह्णाती'त्यादौ देवतात्वसम्बन्धेन ग्रहणे अन्वयस्या शक्यत्वात् । नच देवताया यागातिरेकेण निर्वापक्रियायामन्य. यवत् ग्रहणेऽप्यन्वयोऽस्त्विति वाच्यम् , देवतात्वस्य त्यागैकनि- रूपितत्वेन निर्वापेऽपि जुष्टपदोपात्तयागद्वारैवाऽन्वयस्य नवमे वक्ष्यमाणत्वात् । प्रकृते तु यागस्य स्वाक्येऽनुपादानान्न तद्वारा ग्रहणेऽन्वय इति वैषम्यम् । अत एव देवताविशिष्टग्रहणविधि- रिति सिद्धान्त्यभिमतः पक्षोऽपि निरस्तः । किश्च सोमवाक्ये ग्रहणवाक्ये च विशिष्टविध्यङ्गीकारा. पेक्षया वरमेकत्रैव ग्रहणवाक्ये विशिष्टविध्यङ्गीकरणम् , अतश्च द्र- व्यदेवताविशिष्टा यागा एवं गृह्णातिलक्षिता गुणाद्भिन्ना विधीय. न्ते, तद्धितोक्तद्रव्यविशेषतात्पर्यग्राहकश्च 'अण्व्या धारया गृह्णाति' इत्यादिवाक्योनीतो(२) द्रवद्रव्याधिकारः। अत्र ह्यर्थप्राप्तग्रहणानुवादेन धारामात्रविधानेऽपि धाराया द्रवद्रव्यैकविषयत्वात् तदधिकारासिद्धिः। धाराशब्दस्य च ससम्बन्धिकत्वात् गृहातेश्च सकर्मकत्वात प्रतिस- म्बन्ध्यपेक्षायां प्रकृतः पावनादिसंस्कृतः पृतमृदाधवनीयपात्रस्थः सोमरस एव तत्वेन सम्बध्यते न च संस्कारविध्यन्यथानुपपत्त्या १.पा. सू.४.२.३३. २. वाक्योपत्ति इति ग.घ. पुस्तकयोः।

- . मीमांसाकौस्तुभे [ पशुसोमाधिकरण- विनियोगकल्पनायोगात् पावनादिविधीनामर्थकर्मत्वं शक्यम्, 'अ ध्वर्यु वृणीत' इतिवत् संस्कारविध्यन्यथानुपपत्त्यापि तत्कल्पने बाधकाभावात् । अत एवोत्पत्तिशिष्टसोमावरोधात् सक्तुषु न तत्कल्पनमित्युक्तं सम्मार्गाधिकरणे । अतः सोमप्रकृतिकत्वस्याऽपि प्रमाणान्तरेण सिद्धे स्सोमवाक्ये ऐन्द्रवायवादियागा एव यजि. नाऽनूयन्ते, न तु सोमविशिष्टकर्पान्तरविधानम् , रूपालामात् ; तत्तद्याज्यापुरोरुचोश्च लिङ्गपकरणक्रमरैन्द्रवायवादियागेष्वेव नि- वेशोपपत्तौ प्रकरणमात्रेणाऽश्रुतवैकल्पिकदेवताकल्पनानुपपत्तेश्व; अतोऽनुवाद एवायम् । सोमपदं च तत्प्रख्यन्यायात्तेषां नाम. धेयम् । सत्यपि च ज्योतिष्टोमनामकत्वे न्यायाविशेषादस्यापि नामत्वं नानुपपन्नम् । न चाऽनुवादे प्रयोजनाभावः, नामस्वसिद्धे- रेव प्रयोजनत्वात् । प्रयोजनान्तरमपि अस्तुतशस्त्राणां सोमया गानां फलादिसम्बन्धसिद्धिः । अन्यथा हि ज्योतिष्टोमपदेन त्रि. दादीनि ज्योतिषि स्तोमा एषामिति व्युत्पत्या सस्तुतशस्त्राणा- मेवोपादानात् फलादिसम्बन्धापत्तिः, नान्येषाम् ; अस्मिन् समुदायानुवादे तु सति नामधेयानुरोधेन सोमद्रव्यकयागमा- त्रानुवादात् तद्वैयर्थ्यपरिहारार्थ ज्योतिष्टोमपदेनाऽपि गौण्या वृत्या सर्वेषामेव फलसम्बन्धोपपत्तिः । नचैवं तर्हि सिद्धान्ते स्तोमसम्बन्धरहितसोमयागाभ्यासानां फलसम्बन्धानापत्तिः, स्तोमयुक्तयागाभ्यासानामेव फलसम्बन्धे तद्वाक्यस्थयजेरभ्यासलक्षणाप्रसङ्गेन सोमयागत्वावच्छिन्नस्यैव फलसम्बन्धात् । ज्योतिष्टोमपदं तु सोमयागमात्रस्य स्वसम्बन्ध्य- भ्याससमुदायाश्रयवृत्तित्वसम्बन्धेन त्रिसदादिस्तोमसम्बन्ध सत्त्वामानुपपन्नम् । तसिद्धं सनामधेयस्यापि समुदायानुवादस्य समयोजनत्वम् ।

.. पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः। २१३ अथ वा सोमवाक्ये यजिना द्रवद्रव्यकयागानन्ध सोमस्तदी- यद्रव्यप्रकृतित्वेन विधीयते, साक्षाद्विधिसरचे संस्कारविध्यन्यथा- नुपपत्त्या तत्कल्पनस्याऽन्याय्यत्वात् ; सत्यपि प्रमाणान्तरेण सम्भवत्याप्तिकत्वे ब्रीह्यादिवदभ्युदयशिरस्कत्वकल्पनयापि सोम. पदेनैव तद्विधानस्याऽभ्युपगन्तुं न्याय्यत्वाच । यस्त्वत्र प्रदेयत्वेनैव लताविधिरिति पक्षो मूलोपन्यस्तः, चोत्पत्तिनिष्टद्रव्यावरोधादतिशयार्थ इत्युपेक्षितः। एवं चात्राऽपि यागानामदृष्टार्थत्वेन समुच्चयात् विभिन्नदेवताकानां च क्रमाले, क्षणात् “आश्विनो दशमो गृह्यते तं तृतीयं जुहोति । दशैतानधन युः प्रातस्सवने ग्रहान् गृह्णाती"त्यादिक्रमसमुच्चयदर्शन मुफ्ष- नं भवति । ननु यागक्रमसमुच्चयोपपत्तावपि भवन्मते गृहातिना यागानामेव लक्षणया विधानात् ग्रहणविध्यप्रतीतेः प्रहर णक्रमसमुच्चयदर्शनानुपपतिस्तदवस्थैवेत्ति चेत् ? गृह्णातिना ग्रह- णविशिष्टयागलक्षणाङ्गीकाराददोष इति केचित् । तन्नः ल. क्ष्यतावच्छेदके गौरवापत्तेः । अत एवं परिहर्तव्यम्-दशमुष्टि. परिमितस्सोमरसः क्रयाभिषवपावनपूत मृदादिपात्राधारत्वादि- संस्कारसंस्कृतः तत्तद्यागाङ्गत्वेन विनियुज्यते, तस्य च 'अल्प जुहोती'ति वाक्येन चतुरवत्तोद्देशेन होमविधिवदल्पमुद्दिश्य हो- माख्यसंस्कारविधानाद्धोमानुवादेन च 'ग्रहै होती त्यादिवाक्यैः जुहादिवत् ग्रहचमसादिरूपपात्रविधानात् पूतमृदादिपात्रस्थस्य च ग्रहणमन्तरेण ग्रहादिपात्रकरणकहोमसंस्कार्यत्वानुपपचे। यावद्यागं ग्रहणभेदोपपत्तिः । नच सर्वयागाङ्गभूतस्य दशमुष्टिपरिमितस्य सोमस्य साधारणत्वात् सकृदेव होमोपपत्तेः न ग्रहणभेदापचिर, २१४ मीमांसाकौस्तुभे [ पशुसोमाधिकरण- पूर्वपक्षे दशमुष्टिपरिमितस्याऽपि सोमरसस्य तत्तधागाङ्गत्वा- वगतेः प्रतिप्रधानं पुरोडाशादिवदेव द्रव्यभेदार होमभेदो. पपत्तेः । अतो ग्रहणानामपि भेदात् तदेशेऽपि क्रमसमुच्च. यदर्शनोपपत्तिः। तव तु यागस्यैकत्वात् गुणभूतग्रहणानुरोधेना- वृत्त्यनुपपत्तेः अनेकेषामपि च ग्रहणानां दृष्टविधया यागीयद्र- व्यसंस्कारार्थत्वेनै कार्यात् बन्धनार्थखादिरत्वपालाशत्वादिवद्वि- कल्पापत्तेः उभयोरपि क्रमसमुच्चदर्शनानुपपत्तिः । न च ग्रहणा. नां दृष्टार्थत्वेऽपि तदङ्गभूतदेवतासंयोगानामदृष्टार्थत्वादुभयोरपि. समुच्चयोपपत्तिः, अङ्गिभूतानां ग्रहणानां विकल्पे प्रमिते वि. जातीयग्रहणप्रयोगे विजातीयदेवतासंयोगानामार्थत्वे तस्यैवा. दृष्टार्थस्याप्यनुष्ठानोपपत्तेः । तस्मात् समुदायानुवादौ । सूत्रं तु-हृदयादिवाक्यं ग्रहातिवाक्यं च कर्मचोदना प्र. स्येतव्या, अन्यत्राऽसम्भवन्निवेशस्य हृदयरसादिद्रव्यस्य संयोगाद तथा हि-पशुसोमवाक्ययोरुत्पत्तिचोदनात्वे सति प्रकरणसापेक्षोऽ. वद्यतिगृह्णातिवाक्येषु, द्रव्यसंयोगो हृदयरसादिद्रव्यसंस्का रो विधीयमानो न यागाङ्गत्वं प्रपद्यते, उत्पत्तिशिष्टपशुसोमावरो. धेन हृदयरसादीनां साधनत्वानुपपत्तेः, न हि तस्योत्पत्तिशिष्टस्य द्रव्यस्याऽवदानग्रहणादि संस्कारकं सम्भवति, नाशकत्वादिति व्याख्येयम् । भाष्यकारेण तु इदं सूत्रं सिद्धान्तपरत्वेनैव व्याख्यातम् । पशुसोमरूपापूर्वव्यसंयोगात् पशुसोमवाक्ययोरेव कर्मचोदना, यतो द्रव्ये संयोगः पशुशब्दः सोमशब्दश्व प्रकृते हृदयादावन. र्थकः, लक्षणाप्रसङ्गात् , न हि हृदयादिवाक्यविहितयाग एवं प्रदेय प्रकृतित्वेन पशुसोमविधिः सम्भवति, पशुवाक्ये प्राप्तकर्मा. नुवादेन देवताविधिः प्रदेयप्रकृतिविधिश्चेति वाक्यभेदात् । सो. , सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। २१५ मे तूत्तरसूत्रे वक्ष्यते इति ॥ ( अथ सिद्धान्तः) अचोदकाश्च संस्काराः ॥२-२-१८॥ (सि.) चशब्दस्वर्थस्सन पूर्वपक्षनिराकरणार्थः । बुद्धिस्थयुक्ति- समुच्चयार्थो वा। तथा हि-पशौ तावत् पशुपदे हृदयादिलक्षणैव दोषः । न हि हृदयादिरूपे मांसे पशुशब्दप्रयोगोऽस्ति, पशुत्वाभि- व्यक्ति; न च तर्हि पशुपदं हृदयादिप्रकृतिद्रव्यविधायकमस्तु, तथात्वे देवताया अपि विधाने वाक्यभेदापत्तेः । अतोऽवश्यं. पशुवाक्ये तावद्रव्यदेवतासम्बन्धानुमितो यागस्तद्विशिष्टो विधे. यः। किञ्चाऽवधीतवाक्येषु यागोपस्थापको न तावद्यजतिशब्दः, नाऽपि देवताश्रवणम् , अवदानमात्रस्य तु वत्सालम्भवन्न यागा. नुमापकत्वम् । न च हृदयाघवदानस्य सानाच्यावदानप्रकृतिकवाद- तिदेशेन यागीयद्रव्यवृत्तित्वलाभात् पृतीकवत् यागसाधनत्वा. नुमानोपपत्तिः, यागीयद्रव्यवृत्तित्वस्य प्रकृतावनङ्गत्वेन इहापा- सेः । तद्धि संस्कारस्य फलम् । न च तस्याऽतिदेशोऽस्ति । न चौत्तरकालिकदेवतासम्बन्धबलादेवाऽवधते. यागपरत्वावधारणं शक्यम्, पशुपदे हृदयादिलक्षणाया एवमप्यनिवारणात् । हृद- यायुद्देशेनाऽवदानमात्रविधिसम्भवे हृदयादिविशिष्टयागविधेरव. द्यतो यागलक्षणयाश्चाऽनेकादृष्टानुबन्धिन्या अयोगाच्च । भवन्म- ते अनेकेषामपि यागानां सम्प्रतिपन्नदेवताकत्वेन सह प्रदानापत्तेः 'हृदयस्याऽग्रेऽवद्यती त्यत्र यागक्रमवैशिष्ट्यस्याऽप्यवश्याविधेय. स्वाद गौरवापत्तेश्च । मम त्ववदानमात्रस्य विधेयत्वात् तस्य पाठादेव क्रमसिद्धेः न विधानम् ! २८ मी० को मीमांसाकौस्तुभे [ पशुसोमाधिकरण- योऽपि च पशुवाक्य एव यावद्धृदयादिद्रव्यं यागानुमा- नपक्ष उक्तः, सोऽपि पशुपदे लक्षणापत्तेरनेकादृष्टानुबन्ध्यनेक यागकल्पनस्य च सत्यां गतावन्याय्यत्वादुपेक्षितः । तस्मात् पशु. वाक्यमेव यागविधायकम् , हृदयादिवाक्यानि तु संस्कारमात्र. विधायकानीत्येव युक्तम् । न चोत्पत्तिशिष्टपशुसाधनताया विशसनावदानादिसंस्कार विधिविरोधः शयः, पशुमिति द्वितीयया लक्षितस्य करणत्वस्य हृदयादिपरम्परयाऽप्युपपत्तेः। दृष्टं हि परम्परासम्बन्धेऽपि करणत्वं 'गोमयेन पचति' 'नीहिभिर्यजेते'त्यादौ । अत एव तादृशस्थले न लक्षणापि, साक्षात्परम्परासाधारण्येन करणत्वस्यैव तृतीयार्थ- स्वात् । असति तु परम्पराग्राहकप्रमाणे साक्षादेव तदित्याश्रीयते । अस्ति तु प्रकृते विशसनादिसंस्कारविधानमेव परम्पराग्राहकं प्रमाणम् । अतश्च पशोः परम्परया यागसाधनत्वमिव देवतास. म्बन्धित्वमपि नैवाऽनुपपन्नम् । अतश्च पसुसंस्कारकविशसनविधि- रूपतात्पर्यग्राहकसहकृतपशुशब्देनैवार्थाद्धृदयादीनां साधनत्वा- वगते तदुद्देशेनाऽत्रदानाख्यसंस्कारावधिरप्युपपन्न एव । अत बीयुद्देशेनाऽवघातविधिरूपतात्पर्यग्राहकसहकृतेन त्रीहि- पदेनैवात्तिण्डुलादीनापपि साधनतावगतः तदुद्देशेन पेप णादिविधिरप्युपपन्न एव । नचैवं पश्ववयवानामपि प्रदेयत्वरूपयागसाधनत्वलक्षणहवि. ष्टवावगतः तत्संस्कारार्थस्य मध्यपूर्वार्धापादानकस्याऽवदानस्याऽति- देशेनैव प्राप्तेः तद्विधियथ्यम् , अतिदेशपाप्तस्याऽप्यवदानस्य हृद- यादिसंस्कारार्थत्वेन पुनर्विध्युपपत्तेः । तत्प्रयोजनं च तेषां प्रत्येक हविष्टसिद्धिः। एतद्विध्यभावे हि पशोशिसनविधानादवयवद्वारा. साधनत्वावगतावप्यवयवानां न प्रसेकं साधनत्वावगमः, अवय.

- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। विनो व्यासज्य सर्वावयवनिष्ठत्वेन तत्साधनत्वान्यथानुऽपपत्यावय. वानामपि समुदितानामेव साधनस्वावगतः। अतः समुदितस्यैवाड- वयवजातस्य हविष्ट्वावगमात् समुदितसंस्कारार्थत्वेन सकृदेवमध्य. पूर्वार्धापादानकमत्रदानं प्राप्नुयात् , एतद्विधिसत्वे तु प्राकृतावदान. स्य हविस्संस्कारार्थत्वेन क्लुप्तस्यैवाऽतिदेशसन्निधापितस्य प्रत्येक हृदयादिसंस्कारार्थत्वेन विधानात् पूतीकानां यागसाधनत्वमिव हृदयादीनामपि प्रत्येकं हविष्ट्वावगगात् प्रत्येकं मध्यपूर्वार्धावदा. नसिद्धिः । ततश्च हृदयाघेकादशावदानद्रव्यमात्रवृत्तिहाविष्टुता. त्पर्यग्राहकसहकृतः पशुशब्दोऽपि तन्मात्रप्रकृतितयैव पशुं विधत्त इति तदितरेषामवयवानामवदानपरिसंख्याफलिका यागसाधन- स्वरूपहविष्ट्रपरिसंख्याऽपि 'हृदयस्याग्रेऽवधती सादिवाक्यजातस्य फलमिति सिद्ध्यति । अत एव यद्यप्येतद्विध्यभावे अवयविसाध. नत्वान्यथानुपपत्त्या अवयवानामपि प्रत्येकमेव साधनत्वमवगम्येत ततश्च प्रत्येकमेवावदानं प्राप्नुयात् , तथापि तदितरावयवगतहवि ष्ट्रपरिसंख्या एतद्वाक्यजातफलमित्युपपन्नमेव । यवत्र न्यायमुधायां 'एकादश वै पशोरवदानानि तानि द्विर्द्वि रवद्यती'त्यस्याऽवयवान्तरपरिसंख्याफलकत्वमित्युक्तम् ,तत् पञ्चावदानसम्पादकहविरबदानत्रित्वबाधेन तद्वित्वविधायकस्य तानीत्यस्य विशेषसमर्पकत्वेन 'एकादश बैं' इत्यस्य तदेकवा. क्यत्वोपपत्तौ परिसंख्पाफलकत्वाङ्गीकारेण भिन्नवाक्यत्वे प्रमा. णाभावात् , तस्यैव परिसंख्याफलकत्वाङ्गीकारे च 'हृदयस्याने वद्यती'त्यादेः वैयापत्तेरुपेक्षितम् । न चैवं 'एकादश वै' इत्येतदपेक्षितद्रव्यविशेषसमर्पकत्वेनैव 'हृदयस्याग्रेऽवद्यतीत्यादिवाक्यजातस्योपपत्तौ अवयवान्तरपरि- संख्याफलकत्वे प्रमाणाभावः, तथा सति हृदयादिश्रवणमात्रेण २१८ मीमांसाकौस्तुभे [ पशुसोमाधिकरण- विशेषसमर्पणसिद्धी अवधतिश्रवणस्य चयापत्तेः । तस्मात् प्राकृतावदानस्यैव हृदयादिसंस्कारार्थत्वेन विहि तस्येतरावयवप- रिसंख्याफलकत्वमेव युक्तमित्युत्पश्यामः । एवं च यद्यपि चतु. रवची यजमानः पञ्चावत्तव वपा कार्ये'त्यनेन प्राकृतावदानानु. वादेन पञ्चत्वविधानादुद्देश्यस्य चाऽवदानस्य वपया विशेषणस- म्भवात् हृदयाघवदानेऽपि पञ्चत्वसिद्धिरजामदग्नयानामव्याहतैव। पञ्चत्वप्रकारः परं वपाया उपस्तरणाभिधारणद्वयं हिरण्यशकल- द्वयं वपेत्येवं वाचनिकः । अत एव प्राकृतस्य पञ्चत्वप्रकारस्य बाधः । तत्र च प्रकरणलभ्यावदानानुवादेन पञ्चत्वप्रकारविशे- पस्य वपोद्देशेनैव विधानात् वपाग्रहणाविवक्षायां कारणाभावेन तस्य प्रकारस्याऽङ्गेष्वप्राप्तेः बाधकामावेन प्राकृतप्रकारप्राप्तौ जा. तायां इविरवदानत्रित्वे प्राप्ते 'तानि द्वि'िरित्यनेन प्रकरणल. भ्यावदानमनद्यैव हृदयायुद्देशेन द्वित्वविधानात् पञ्चत्वसम्पत्तिर- भिधारणद्ध्या सम्पादनीया । वस्तुतस्तु पञ्चावत्तवाक्येऽवदानानुवादेन पञ्चत्वविधाने एकप्रसरतामङ्गापत्तेरवदानान्तरमेव प्राकृतावदानकार्यापन्नं वि- धीयते, तस्यैव च वपोद्देशेनैव विधानादङ्गेष्वप्राप्तावपि 'हृदय- स्याग्रेऽवद्यती'त्यादिवाक्यैः हृदयादिसंस्कारार्थत्वेन विधिः, न प्राकृतस्य ; तस्य हृदयादिवाक्याभावे पञ्चावत्तवाक्यविहितावदा. नान्तरेण वाधितस्याऽतिदेशेनाऽप्राप्तः । न चोत्पत्तिशिष्टसंस्कार्या- वरोधात् संस्कार्यान्तरसम्बन्धानुपपत्तेः कर्मान्तरत्वापत्तिः, पञ्चा. वत्तवाक्ये उत्पन्नवपोद्देशेन विनियुक्तस्य चाऽवदानस्य हृदयाद्यु. देशेन विनियोगमात्रकरणात् विनियोगविधिभेदेऽप्युत्पत्तिभेदाभा. बेन तन्निबन्धनकर्मान्तरत्वाप्रसक्तेः। अत एव स्ववाक्योपात्त. फलावरुदस्याऽप्युद्भिदादेवि विदिषावाक्येन ज्ञानााद्देशेन विधि , .

सिद्धान्त: । द्वितीयाध्यायस्य द्वितीयः पादः । रभ्युपगम्यत एव । अतश्च वपायामिव हृदयादिष्व प्यवदानपृष्ठ भावेन पश्चत्वप्राप्तेः पूर्ववदेवोभयत्राऽपि तत्सम्पादनप्रकारो द्रष्टव्यः। पार्थसारथेस्तु पञ्चावत्तवाक्ये अवदानान्तरस्वीकारेऽपि वपाग्रह- णस्योपलक्षणार्थत्वं बदतोऽभिप्रायं न विद्मः । या च "तानि द्विद्धि"रियस्य वैय्यापत्तेः वपादिपदं हृदयादीनामुपलक्षकमिः त्युपपत्तिरुक्ता, सा जामदग्नयानिमित्त पञ्चावत्ता सम्पादकहविस्त्रित्व. वाधेनाऽपि द्वित्वविध्युपपत्तेरुपेक्षणीयेयस्मदुक्तप्रकार एव श्रेयान् । विस्तरेण चैतद्दशमे वक्ष्यामः । तस्मादवदानविधिवैयाभावात् पशुवाक्य एव यागविधिरिति सिद्धम् । हृदयादीनां चाऽवयविसा. धनत्वान्यथानुपपत्त्या समुच्चितानामेव साधनत्वावगतः क्रमस- मुच्चयदर्शनस्याऽपि नाऽनुपपत्तिः । प्रयोजनम्-पूर्वपक्षे सवनीयादेः हृदयादियागानां मध्येऽ. न्यतमस्य विध्यन्तानकादशावदानगणप्राप्तिः, सिद्धान्ते तु सेति द्रष्टव्यम् । मोमेऽपि च ऐन्द्रवायवादिवाक्येषु देवताविशिष्टश्रुतग्रहणवि. घिसम्भवे नाऽश्रुतयागकल्पनमुपपत्तिमत् । तथा हि-यद्यपि तावद्दे. वतावं यागाक्रियानिरूपितमेव, तथाऽपि तद्धितोपात्तस्य इन्द्रवायुनि ठदेवतात्वस्य ग्रहणकालीनोच्चारणकर्मीभूतत्तित्वसम्बन्धेन ग्रहणे ऽपि वैशिष्ट्यं न विरुध्यते । अतथोक्त सम्बन्धेन देवतास्वविशिष्टे ग्रहणे गृह्यमाणसंस्कारार्थ विहिते देवतात्वस्य सागैकघटितत्वाद्या. गापेक्षायां प्रकृतसोमवाक्योपात्तयागसम्बन्धोपपत्तिः । यथैव हि 'दनेन्द्रियकामस्ये'त्यादौ तृतीयोपात्तकरणत्वविशिष्टं दधि दधि. विशिष्टं वा करणत्वं करणतासंसर्गेण इन्दियोद्देशेन विधीयते इति पक्षयोः तृतीयोपात्तकरणत्वस्य निरूपकरूपाश्रयापेक्षायां प्रकृत. होमान्वमा तथानापीति द्रष्टव्यम् ।

२२० मीमांसाकौस्तुभे [पशुसोमाधिकरण- यवत्र कैश्चित् ग्रहणान्वयार्थमैन्द्रवायवादिवाक्येध्वषि याज- कल्पनाङ्गीकारेऽपि न तत्र यागविधिः, अपि तु सोमवाक्य एव, ग्रहणवाक्ये तु कल्पितयजिषदमनुवादमात्रमित्युक्तम् । तधजिक- ल्पनं विनाऽप्युक्तप्रकारेण ग्रहणान्वयोपपत्तौ तत्कल्पने प्रमाणा- भावात् तदन्बयस्य दुरुपपादत्वाच्चोपेक्षणीयम् । यदपि च भवदेवेन ग्रहणस्य यागावयवत्वात् देवतायाः तदन्वयोपपत्तेः अवयवान्तरापेक्षयैव च प्रकृतयागसम्बन्धोप. पत्तेः न किंचित् बाधकमित्युक्तम् । तदप्यगृहीतस्यापि यागोप- पत्तेवार्तिक एवोक्तत्वात् ग्रहणस्य यागावयवत्वकल्पनानुपवत्तेः; कल्पनेऽपि वा ग्रहणरूपावयवान्वयस्य पुनरपि दुरुपपादत्वोच्चा. पेक्षितम् । तस्मादुक्तप्रकारेणैव देवताविशिष्टग्रहणविधिः । अत एव देवताया वाक्येन ग्रहणाङ्गत्वावसायादुभयाकाङ्क्षालक्षणप्रकर- णेन यागं प्रति दधिवदेव जनकत्वमात्रावगमेऽप्यङ्गत्वानवग- मात् यागस्याऽव्यक्तत्वमिद्धिः । न च ग्रहणे देवतात्वान्वयोपप. सावपि तत्संस्कार्यस्य तद्धितोपात्तस्य द्रव्यस्य सन्निधानात द्रवरूपत्वावसायातस्य च सोमवाक्यविहिते यागे उत्पत्तिशिष्ट- सोमावरोधेनाऽपि विनियोगायोगात संस्कार्यत्वानुपपत्तिः, उत्पत्तिवाक्ये सोमस्य साक्षात्परम्परासाधारण्येन करणत्वमात्रे ऽवगते सोमसंस्कारकाभिषवविधिरूपतात्पर्यग्राहकबलेन परम्पर. या करणत्वाङ्गीकारात् हृदयादिवट्वस्याऽप्यर्थात् साधनत्वा- वगतेः तदुद्देशेन ग्रहणाख्यसंस्काराविध्युपपत्तेः । अतएव पशुवत् सोमस्यापि रसप्रकृतित्वेन विधिरिष्टः । ननु न सोमवाक्ये सोमविधिविशिष्टविधिगौरवापादको युक्तः स हि न तावत् प्रदेयत्वेनेष्टः, संस्कारविधियोपत्तेः, सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः। १२१ व . नाऽपि प्रकृतित्वेन, तस्य संस्कारविध्यन्यथानुपपत्यापि प्राप्ति सिद्धः । तथाहि-ग्रहणवाक्ये तावत्तद्धितोपात्तस्य द्रव्यस्य ग्रहणसंस्कृतस्य विनियोगापेक्षायां देवतासम्बन्धान्यथानुपपत्य. वगततत्तद्यागाभ्यासेषु प्रदेयत्वेन विनियोगकल्पनं नाऽनुपनम् , सर्वनामार्थकस्य च तद्धितस्य द्रव्यविशेषतात्पर्यग्राहकापेक्षायां सनिधानाद्धारावाक्यपमितद्रवद्रव्यविशेषसिद्धिः । तत्र हि तत्त द्वाक्यप्राप्तग्रहणविशेषानुवादेन धारामात्रस्य विधानम् , न त्व. णुत्वस्याऽपि, चाक्य भेदापत्तेः; अल्पपरिमाणेषु पात्रेषु स्थूळया ग्रहणे कृते पात्रात् बहिरपि पातापत्तेरणुत्वस्य प्राप्तत्वाचा धा- रायाश्च प्रतिसम्बन्ध्यपेक्षत्वात् गृह्णातेश्च कर्माकाङ्कवादुत्तरा- र्धादिवत् स्वतन्त्रजलादिप्रतिसम्बन्ध्याक्षेपकत्वानुपपत्तेः प्रकृत 'सोमं पावयती' त्यादिवाक्यप्रतीतसोमप्रकृतिकद्रवद्रव्यविषय- त्वम् पावनवाक्ये हि सोमशब्दो न लतापरः, तस्यां पावन. संस्कार्यत्वानुयपत्तेः। अपि तु लक्षणया तद्रसपरः। अतश्च सोमप्रकृतित्वस्यापि तत्तत्संस्कारविधिबलादेवावगतिसिद्धेः न सोमवाक्ये तद्विधानाङ्गीकरणं युक्तम् । अत एव क्रयाभिषवादि- वाक्यस्थोऽपि सोमशब्दः तत्तद्यागाभ्यासापूर्वसाधनरसप्रकृ. तिभूतसोमपर एव । नच संस्कारविध्यन्यथानुपपत्त्या विनियोगकल्पने सक्तु. ध्वपि तदापत्तेः सोमतद्रसयोः विनियोगाभावे क्रयादिवाक्याना- मर्थकर्मविधायित्वमेव स्यादिति वाच्यम् , 'अध्वर्यु वृणीते' 'स्वाध्यायोऽध्येतव्य' इत्यादौ संस्कारविध्यन्यथानुपपत्त्याऽपि विनियोगस्य सहस्रशः स्वीकृतत्वात् ; सक्तुषु तूत्पत्तिशिष्टद्रव्य. विरोधान्न तत्कल्पनमित्युक्तमेव । नचैवमपि प्रत्यक्षविधिसत्त्वे संस्कारविध्यन्यथानुपपत्या तत्कल्पनानुपपत्तिः, यथा कथचि.

-- मीमांसाकौस्तुभे [पशुसोमाधिकरण- दपि सम्भवत्प्राप्तिकत्वे प्रत्यक्षस्यापि विधेरनङ्गीकारात् । अत एव मान्नवर्णिकीमपि प्राप्तिमङ्गीकृत्य समिदादीनां नामधेय - त्वमिष्टम् । नचैवं संस्कारविध्यन्यथानुपपत्या ब्रीहीणामपि प्राप्ति सम्भवात् तद्विध्यनापत्तिः, तद्वाक्ये विधेयान्तराभावेन अगत्या भ्युदयशिरस्कत्वसिध्यर्थं तद्विध्यङ्गीकारात् ; प्रत्यक्षविध्यनुरो. धेन संस्कारवाक्यस्थतीहिपदस्य यवलक्षकत्वापत्तेः तेषाममा. सत्वाच्च सत्यामपि संस्कारविध्यन्यथानुपपत्तौ प्रकृतितासम्ब- न्धेन पुरोडाशात या वीहिप्राप्तौ यागाङ्गत्वेन तद्विध्युपपत्तेश्च । तत्मयोजनं च पुरोडाशाङ्गत्वे तदङ्गभूतानेकपरिमाणशेषकार्या. दिलोपप्रसङ्गेनैकत्रीहिमात्रबाधस्य युक्तत्वात् अल्पसचे न तदु. पादानम् , अपि तु नीवारोपादानमेव । यागाङ्गत्वे त्वगगुणवि- रोधन्यायेन पुरोडाशाङ्गभूतानामनेकेषामपि शेषकार्यादीनां लोपस्य युक्तत्वादल्पत्रीहिसत्त्वे यागाङ्गभूतबीयुपादानमेवेति षष्ठोक्तम् । नचेदृक् सोमविधेः प्रयोजनमस्ति, अतोऽनुवादः तत्पख्यन्यायेन वा नामधेयं सोमपदमिति चेन्न; इहापि तत्त दभ्याससाधनीभूतरसाङ्गत्वेन प्राप्तिसम्भवेऽपि यागाङ्गत्वस्या- प्राप्सत्वेन विधिसम्भवात् । तत्मयोजनं च-तत्तद्रसाङ्गत्वे प्रतिप्रधा. नावृत्तिन्यायेन तत्तदभ्यासापूर्वसाधनीभूतरसप्रकृतित्वेन विहि- तस्य दशमुष्टिपरिमितस्य सोमस्य चतुर्मुष्टिपरिमितव्रीहिभेदवत् भेदः पाप्नुयात् । न च क्रयस्य स्वतन्त्रकालाम्नानात्तदासस्य सोमस्य पशु. त्रयार्थदीक्षाच्छिन्नयूपस्येव सर्वाभ्यासार्थ तन्त्रत्वापत्तिः, क्र. याप्राप्तस्य दशमुष्टिपरिमितस्य सोमस्याऽभिषुतस्य पूतस्याऽऽध. वनीयादिस्थस्य 'आधवनीयात् गृह्णाती'त्यपादानत्वेन श्रवणा- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। २२३ देकाभ्यासापूर्वमाघनीभूतरसन्यत्त्यपादनस्याऽऽधवनीयस्थस्यप- योद्रव्य कमन्थ्यादिवदभ्यासान्तरापूर्वसाधनभूितरसव्यक्त्यन्तरा- पादानत्वानुपएत्तेरनेकरसव्यक्तिभेदेन तदपादानभूताधवनीयस्थ- सोमरसभेदावगमात् तद्भदेन च तत्प्रकृतिभूतसोमभेदोपपत्तेः । यागाङ्गत्वे तु यागत्वपर्याप्त्यधिकरणताकोद्देशेनैव सोपविधाना- त्तादृशस्यैव च दशमुष्टिपरिमाणक्रयादिसंस्कारविधानात् सत्यपि तत्तदश्यामापूर्वसाघनीभूतरसव्यक्तिभेदे तत्मकतिभूतस्य सोमस्य तत्पकृतित्व सिद्धिः। अत एव 'आधचनीयात् गृहाती'त्यपादान- स्वश्रुतिरप्यवयवावयविसाधारण्येनोपपादनीया । अतस्तन्त्रतया प्रदेयप्रकृतिभूतस्य सोमस्याऽमाप्तत्वाद्विध्युपपत्तिः । प्रयोजना. न्तरं च मोमबत् सक्तूनामपि विकल्पेन विनियोगकल्पनाप्रसक्ती तब्धावृत्तिः । न च विशिष्टविधिगौरवभिया भेदं विकल्पं चाऽङ्गीकृत्याऽपि. नामधेयत्वं शङ्ख्याम, ज्योतिष्टोमनामावरुद्धस्य कर्मणो नामधेया- न्तरवैयापत्तेः प्रयोजनलिप्सया 'सृष्टीरुपदधाती'त्यत्रेच गौर- वस्याऽप्यङ्गीकारात् । अतो युक्तं सोमवाक्ये सोमस्य विधेय. त्वेऽपि यागस्याऽपि श्रुतस्य विधेयत्वाङ्गीकारात्तस्यैव च सर्वदेव. तासम्बन्धोपपादकत्वोपपत्तेः न ग्रहणवाक्येऽतिरिक्तयागान्तर- कल्पना युक्तेति । नन्वेवं "सप्तदश प्राजापत्यान् पशुनालभते" 'आनेयमष्टा. कपालं निपेत्' 'सौम्यं चरुमि'त्यादावपि वाजपेयवाक्यवैश्व. देववाक्यविहितयागस्यैवोपपादकस्य सत्त्वात् माजापत्यादिवा क्येषु देवताविशिष्टालम्भनिर्वापमात्रविधानोपपत्तेः न यागान्तर कल्पनापत्तिरिति चेत् ? न, वाजपेये तावदेवं सति बलीयसा द्रव्यसादृश्येन पशुविध्यन्तापत्तेः ब्रह्मसामादिरूपसोमधर्मश्रा २९ मी० को २२४ मीमांसाकौस्तुभे [ पशुसोमाधिकरण- प्त्यभावात् 'तान् ब्रह्मसाम्यालभत' इति कालविध्यनुपपत्तेः । वैश्वेदेवेऽपि द्रव्यसादृश्येनैष्टिकविध्यन्तप्राप्तौ निर्वापस्याऽपि प्राप्ति- सम्भवात् तदनुवादेनाऽत्र देवताविधिर्वाच्यः। तत्र च निर्वापमात्रो. देशे अग्न्यादिदेवतानामनियताष्टाकपालादिद्रव्यसम्बन्धिनिर्वा- पसम्बन्धापत्तेः, 'आग्नेयमष्टाकपालमिति सामानाधिकरण्याव. गतपरस्परनियमानुपपत्तिः । अष्टाकपालविशिष्टनिर्वापोद्देशे तु वाक्य भेदः । निर्वापाख्य कर्मान्तरविधिस्तु भेदकप्रमाणामा. वादेवाऽसिद्धः । न छत्र प्रकरणान्तरमस्ति, अतिदेशेनोपस्थित. त्वात् । अतिदेशावधृते निर्वापे सर्वासा देवतानामुत्पन्नशिष्टत्वाच्च न गुणोऽपि । अतस्तत्र कल्पितयागविधिरेवाऽगत्या समा. श्रितः । प्रकृते तु वक्ष्यमाणरीसा ग्रहणानामेव विधेयत्वादवि. धेयत्वेऽपि वा तदुद्देशेन देवतानामेव विधेयत्वोपपत्तेः न यागक. ल्पने प्रमाणमस्तीति वैषम्यम् । सूत्रं तु-ग्रहणावदानवाक्यानि न यागस्य, चोदकानि क- ल्पकानि, संस्कारविधायित्वेनाऽप्युपपनेरिति व्याख्येयम् ।। ( इति पशुवाक्ये सिद्धान्तः) तद्भेदात कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकंहि स्यात् भेदो द्रव्यगुणीभावात् ॥२-२-१९ ॥ ( अथ सोमवाक्ये सिद्धान्तः ) नम्वेवं सोमवाक्यविहितस्य यागस्यैऽकत्वात् क्रमसमुच्चय दर्शनोपपत्तिः कथम् ? तथा हि-यागैकत्वे तावत् प्रदेयभूतं तद्- द्रव्यमप्येक्रमेव, अतश्च सर्वोऽपि सोमरसः सकदेव पुरोडाशवत् त्यक्तव्यः, 'अल्पं जुहोतीति वचनाच तदेकदेशः सकृदेव यव- .

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २२५ . दानवद्धोतव्यः, एकदेशान्तरस्य तु भक्षणादिप्रतिपित्तिरिति प्रा. प्नोति । अस्तु वा 'ऐन्द्रवायवमि' यादौ यथाकथश्चित् प्रदेयद्रव्यः भेदप्रतीतिः, तथाऽपि तेषामेकस्मिन् यागे विकल्प एव प्राप्नोति, गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वात् । तद्वाक्यप्रमितनिरपेक्षसं- स्कार्यत्वान्यथानुपपत्या नैरपेक्ष्येणैव साधनत्वप्रतीतेश्च । उत्प. त्तिवाक्यादिप्रमितसमस्तसोमसाधनता तु प्रदेयव्यापादानतया प्युपपन्नेति न विरोधः; एवं सत्यपि यदि ग्रहणानां केनचित्म. माणेन समुच्चयोऽवधार्येत तदा गृहीतस्य पुनर्ग्रहणासम्भवादवि- नियुक्तसंस्कारायोगेन च भवेत् ग्राह्यद्रव्यभेदेन यागात्तिः, न तु तदस्ति, द्रव्याणां विकल्पे तत्संस्काराणां ग्रहणानामष्टार्थाना- मपि विकल्पस्यैवाऽऽपत्तेः। वस्तुतस्तु आधचनीयादिस्थस्य सोमरसस्य ग्रहादिपात्रक. रणकहोमसंस्कार्यतासम्पत्यर्थत्वात् ग्रहणस्य नैवाऽदृष्टार्थत्वम् । अत एवाऽर्थप्राप्तत्वान्नैन्द्रवायवादिवाक्येष्वपि तस्य विधेयता । अत एव न तद्भेदोऽपि; सयपि द्रव्याणां समुच्चये ग्रहणात्यैत्र सर्वेषां संस्कार्यत्वोपपत्तेः तद्भेदे प्रमाणाभावात् , देवतानामुत्प- अशिष्टतया भेदकत्वायोगाच्च । ऐन्द्रयायवादिवाक्यैरपि च ग्रहणविध्यङ्गीकारेण तत्रोत्पन्नस्यैव वाक्योपात्तसंस्कार्यस. म्बन्धेन विनियुक्तस्याऽपि वाक्यान्तरे संस्कार्यान्तरसम्बन्धेन विनियोगमात्रकरणादुत्पत्तिभेदाभावेनोद्भियागस्येव विविदिषा- वाक्ये ज्ञानाद्यर्थत्ववत् भेदानुपपत्तेः । न चैवर्मकस्यैव ग्रहणस्याऽनेकसंस्कार्यसम्बन्धोपपत्तावपि उ. त्पत्तिशिष्टैकदेवतावरोधे देवतान्तरनिवेशानुपपत्तेः गुणा दोप- त्तिरिति वाच्यम्; ग्रहणे देवतासंयोगानामदृष्टार्थत्वेनैककार्यत्वे प्रमा णाभावेन गुणन्यायाविषयत्वात् । आमिक्षायागस्य हि वाजिन मीमांसाकौस्तुभ [पशुसोमाधिकरण - कार्ये आमिक्षयैव जनिते तद्विषये निराकांक्षस्य बाजिनाग्राहक- स्वाद्युक्ता वाजिनस्य भेदकता; ग्रहणे तु मित्रावरुणदेवताकार्ष- स्येन्द्रवायुदेवतयाऽजननान्नैराकांक्ष्यानुपपत्तेः न गुणान्वय. विषयत्वमिति विशेषः । अस्तु वा ग्रहणानां भेदः, तथाऽपि ग्राह्याद्रव्याणां विकल्पेन यागसाधनत्वात् ग्रहणानामपि विकल्पापत्तेः तदङ्गभूतदेवता नामपि चाऽदृष्टार्थानामपि कार्यविकल्पवलेन व्यवस्थोपपत्तेः समु. चये प्रमाणाभावेन नाऽदृष्टार्थदेवतासमुच्चयानुरोधेन ग्रहण समु. चयो यागात्तिा युक्ता समाश्रयितुम् । वस्तुतस्तु ग्रहणे देवतोहेशानामपि नाऽदृष्टविधयाऽङ्गता नि वांप इत्र वक्ष्यमाणदेवतास्मरणार्थत्वनाऽभ्यासान्तरसाधनीभूत- द्रव्यच्यावृत्तिफलकैतदभ्याससाधनीभूतद्रव्योपलक्षणार्थत्वेन वा दृष्टद्वारैव ग्रहणेऽपि देवतोद्देशोपपत्तेः । च तत्राऽऽग्नेयादिवाक्ये यागाङ्गत्वेन प्रमिताय। देवताया युक्तो निर्वापे दृष्टविधया सम्बन्धः, प्रकृते तु ग्रहणसम्बन्धोचरकालभावित्वाद्यागसम्बन्धस्य सम्बन्धवेलायां दृष्टार्थत्वकल्पनेति वाच्यम् ; उत्पतिवाक्ये इष्टसामान्यस्य भाव्यत्वावगमवत् ग्रहणवाक्ये ग्रहणवाक्ये दृष्टादृष्टसा. धारण्येन भाव्यत्वावगमे जाते यागसम्बन्धोत्तरकालं दृष्टा- थत्वनिर्णयोपपत्तेः । अतश्च निर्वापवत् ग्रहणेऽपि देवतासंयोगो दृष्टार्थ एव । तत्र त्वयं विशेषः-यदेवताया याग एवाङ्गत्वं न तु निर्वापे, उपकारकतामात्रेणैव तत्सम्बन्धोपपत्तेः; प्रकृते तु विप. रीतमिति । न त्वेतावताऽदृष्टार्थत्वापत्तिः । वस्तुतस्तु तत्तद्देव सयाज्यापुरोरुगादिमन्त्रान्नानाद्यागेऽपि मा. न्त्रवर्णिकदेवताकल्पनस्य प्रथमत एव प्रतीने: ग्रहणसंयोगोऽपि .. न कथं ग्रहण सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । खेन चाऽर्थादेव प्राप्तत्वात् , देवतानामुपकारकत्वेनैव ; अत एव यागस्य देवताइकत्वादव्य. क्तत्वमपि दुर्वचम् । अतो ग्रहणवाक्ये देवताविशिष्टग्रहणवि- धिरप्युपकारकतासम्बन्धेन प्रत्येतव्यः । वस्तुतस्तु ग्रहणवाक्ये ग्रहणस्य स्वरूपेण ग्राह्यसंस्कारार्थ- तस्मिंश्च देवतानां "उपयाम. गृहीतोऽसीन्द्रवायुभ्यां त्वा जुष्टं गृहामी" सादिमन्त्रलिङ्गादेव निर्वाप इव प्राप्तिसम्भवात् , विधेयाभावेन तव मते तवाक्यवेय- र्थ्यमपि । अतो द्रव्याणां तत्सत्कारग्रहणानां तदङ्गदेवतासंयो. गानां च विकल्पापः क्रमसमुच्चयदर्शनानुपपत्तिरिति चेत् ? अत्र केचित् पार्थसाराथिमतानुयायिनो लिङ्गदर्शनोपपत्ति. मात्रमेवमाहुः-(१)"ग्रहै होती त्युपादेयगतपात्रसाहित्यस्य विवक्षितत्वात् तदनुरोधेन दृष्टार्थानामपि ग्रहणानां समुच्चयावगतेः यथागृहीतानामेव च होमात् तदभ्यासप्रतीतेः क्रमसमुच्चयदर्श नोपपत्तिरिति । तन्न, ग्रहाणां चमसानां च निरपेक्षसाधनत्वश्र- वणेन समुच्चयाप्रतीते, तद्वृत्तिग्रहणानां तत्साध्यहोमाभ्यासानां च समुच्चयस्यैवमपि दुरुपपादत्वात् । एकस्यैव ऋतुपात्रादेरनेक- देवत्यग्रहणसाधनत्वश्रवणेन ताशग्रहणानां विकल्पस्यैवमप्य. निवार्यत्वाच्च । अत एवं परिहर्तव्यम् - अन्यतस्सम्भवत्मा- प्तिकत्वे सत्यप्यैन्द्रवायवादिवाक्येषु देवताविशिष्टग्रहणविधिरेव विधेः पूर्व प्रवृत्त्यङ्गीकारेणाऽऽश्रीयते । तथा हि-ऐन्द्रवायवमित्य- त्र तद्धितार्थद्रव्यभेदस्तावत् प्रकृत्यर्थदेवताभेदाच्छन्दान्तरन्यायेन गुणन्यायेन वा सुप्रसिद्ध एव । अतश्च तत्तद्वाक्ये तत्तव्योहे- शेन तत्तद्देवताविशिष्टतत्तद्ग्रहणविधिः । तत्पयोजनं च देवतांशे तावत् प्रत्ययार्थभेदासद्धिः ग्रहणाङ्गत्वसिद्धिद्वारा यागस्याऽव्यक्त- १. अनेनग्रहशब्दस्य रसाधारभूतपात्रवाचित्वमितिफलति ।

२२८ मीमांसाकौस्तुभे [ पशुसोमाधिकरण- स्वसिद्धिश्च । एतद्विध्यभावे हि याज्यापुरोरुगादिमन्त्रान्नानाद्या- गाङ्ग भूतानामेव देवतानां निर्वाप इव ग्रहणे तन्मन्त्रवर्णात् उप- कारकतामात्रं स्यात् । सति त्वस्मिन् प्रत्यक्षविधौ ग्रहणाङ्गत्वप्र- तीतेः यागे उपकारकतामात्रावसायात याज्यादिमन्त्राणामपि तदकल्पकतया यागस्याऽव्यक्तत्वसिद्धिः । तत्प्रयोजनमपि चो. द्भिदादीनां तद्विकृतित्वसिद्धिः । ग्रहणांशे तु द्रव्यसंस्कारतया अर्थतः प्राप्तस्याऽपि स्वतन्त्रादृष्टार्थत्वसिद्धिः। एतद्वाक्ये हि ग्रह- णपुनर्विधिः प्रयोजनाकांक्षस्सन् प्रयोजनान्तरासम्भवात् ग्रहण- स्य प्रयाजादिवदारादुपकारकता प्रकरणात् कल्पयति । अत एव सत्यपि वाक्यीये द्रव्यसंस्कारार्थत्वे ग्रहणानां प्रकरणग्राह्यत्वमाकरेऽभिहितम् । अत एवं विधिपुनःश्रुतिबला. द्वाक्यायस्याऽपि द्रव्यसंस्कारार्थत्वस्याऽऽनुषङ्गिकता प्राकरणि- कस्यापि चादृष्टार्थत्वस्य प्रयोजकताङ्गीक्रियते । अन्यथा अह- ष्टार्थत्वमात्रस्याऽप्रवृत्तिविशेषकरत्वेन विधिवैयर्थ्यतादवस्थ्यात् । अतश्च प्रयोजकाभूतादृष्टानुरोधेन ग्रहणानां तत्तद्देवतानां प्रया. जानुयाजवत् समुच्चयावगतेस्तदनुरोधेन च ग्राह्यद्रव्याणामपि समुच्चयप्रतीतेः विभिन्नदेवताक द्रव्य भेदबलेन यागात्तिासद्धिः । यद्यपि प्रयोजनान्तरमपि किञ्चित् ग्रहणविधेः सम्भाव्येत, तथापि क्रमसमुच्चयदर्शनरूपतात्पर्यग्राहकबलादुक्तप्रयोजनस्या- प्यावश्यकत्वान्न कश्चिद्विरोधः । नन्विदं प्रयोजनं ग्रहणाविधिसत्त्वे खल्वावश्यकम् , तत्रैव तु प्रमाणाभावः, ऐन्द्रवायवादिवाक्येऽर्थप्राप्तग्रहणानुवादनाऽव्य. क्तत्वफलकदेवतामात्र विध्युपपत्तिरिति चेत् ? "उपांशु गृह्णाति, अन्तर्याम गृहाती" त्यादौ संज्ञायुक्तवाक्ये तावद्विधेयान्तरा. भावेन ग्रहणस्यैव विधेयत्वादुक्कायोजनोपपत्तेः ऐन्द्रवायवादि- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। २२९ वाक्येऽपि प्राप्तग्रहणानुवादेन देवताविधिः तत्तत्संस्कार्य सम्बन्ध श्वेति वाक्यभेदापत्तेः ग्रहणविध्यावश्यकत्वात । ग्रहणमात्रानुवा. देन देवताविधाने वेदिबर्हिायेन प्राकरणिक यत्किञ्चिद्रव्य- ग्रहणेऽपि तदापत्तश्च । यवस्मिन् पक्षे ऐन्द्रवायवपदे एकप्रसरतामापतेः ग्रहणा. नुवादेन देवताविधिरेवयुक्त इति कैश्चिदुक्तम् तदेतादृशस्थले उद्दे. श्यद्रव्यस्य विधेयदेवतानिरूपित्तत्वाभावेन एकप्रसरतामङ्गस्या. दोषत्वात् (२) सृष्टीरुपदधाती' त्यादौ च मन्त्रविशिष्टोपधानस्ये. कासंस्कारार्थत्वेन विधेः स्वयमेव स्वीकृतत्वादुपेक्षितम् । नचैवं तर्हि विशिष्टविधिगौरवापत्तेः ग्रहणमात्रमेव विधीय. ताम् , ऐन्द्रवायवादिपदंतु ग्रहणमन्त्रवर्णप्राप्तानुवाद एवाऽस्त्वि- ति वाच्यम् , ऐन्द्रबायवादिपदवैयर्थ्यभयेन विशिष्टविधेरप्यङ्गी. कारात् । तत्प्रयोजनंत्वव्यक्ततासिद्धिरित्युक्तमेव । अत एवं संज्ञायुक्तग्रहणेष्वपि देवताङ्गकत्वबोधको विधिरन्वेष्टव्यः । अत एव गुणादेव ग्रहणभेदः, प्राप्तग्रहणानुबादेन देवतासंस्कार्योभय- सम्बन्धकरणे वाक्यभेदापत्तेः, तदापादकस्यैव गुणस्य भेदकत्वा- दुत्पत्तिशिष्टदेवतावरोधनिमित्तकस्याऽपि गुणस्य सत्त्वाच । देव. तानां दृष्टविधयैव ग्रहणाङ्गत्वाङ्गीकाराच्च एकयैव देवतया ग्रहणस्य नैराकांक्ष्यमपि सुवचम् । वस्तुतस्तु गुणन्यायेनैव नैराकांक्ष्यप्रवेशः, अपि तु गुण. स्थाऽनिविशमानत्वमात्रम् , अस्ति चात्र देवतानामदृष्टविषया ग्रहणाङ्गताङ्गीकारेऽपि तत् । तथाहि-एकस्मिन् ग्रहणे अनेकासां देवतानामदृष्टार्थानां न तावत् विकल्पो युक्तः, प्रयाजादिवदेवैका- र्थत्वे प्रमाणाभावात् । समुच्चयस्तु एकस्मिन् प्रहणे किं सर्वेषां १. तै. सं. ५.३. ।

२३० मीमांसाकौस्तुभे [ पशुसोमाधिकरण- देवताप्रातिपदिकानामन्ते चतुर्थी समुच्चारणीयेत्येवंविधः, किंवा- प्रत्येकं चतुर्थ्यन्तपदान्युच्चार्याऽन्ते ग्रहणमित्येवंविधः ? नाऽऽधः; प्रत्येकं तद्धितश्रवणानुपपत्तेः'। अन्त्येऽपि किं सकृयागकरणं ग्रह- णवत्, उत यागात्तिः ? नाऽऽधः, मित्रावरुणादीनामुपपादकी. भूतयागसम्बन्धाभावेन देवतात्वानुपपत्तेः । नान्यः, प्रकृत्यर्थ- देवताभेदेन प्रत्ययार्थभूतद्रव्यभेदावगमादनेकेषां द्रव्याणां सक. दनुष्ठीयमानग्रहणसंस्कार्यवायोगात् । न चैवमप्याश्यापि सर्व- संस्कारापेपत्तेः न ग्रहण भेदावश्यम्भावः, संख्यावत् गुणस्याऽपि स्वसम्बन्धिभेदकत्वसम्भन्ने तत्सम्बन्ध्यभ्यासभेदापादकत्वायो- गात् । अन्यथा वाजिनस्यापि तदापत्तेः । अतो निविशमानेना. पि गुणेन ग्रहणभेदावगमायुक्तस्तेषामुक्तविधया समुच्चयः । न चास्तु ग्रहणानां समुच्चयः, ताबद्रहणसंस्कृतद्रव्यैस्तु युमपदेव यागसिद्धेः न तदात्ती प्रमाणमस्तीति वाच्यम् , समु- चितानेकदेवताकत्वात्सकृदनुष्ठानानुपपत्तेः । न हि सर्या उद्दिश्य सकृत्यागः सम्भवति, देवतोद्देशसमकालीनत्यागस्यैव याग पदार्थन या वृद्धव्यवहारसिद्धत्वेन सर्वेषां देवतोद्देशानां त्यागतमा नकालीनत्वानुपपत्तेः। अत एव यत्र मन्त्रवर्णेनाऽनेकानि देवतास्वाधिष्ठानान्युच्य. न्ते, तत्र देवतात्वस्य लाघवादेकस्यैव कल्पनेनाऽधिष्ठानोद्देश. समकालीनत्वासम्भवेऽपि देवनात्वोद्देशसमकालता नाऽनुपपन्ना । अत एव तादृशस्थले क्वचित् केषाञ्चित् प्रत्येकचतुर्थ्यन्त पदोच्चा- रणं निर्मूलमेव । अत एव सूक्तवाकादौ तत्तत्यागे अग्न्यादीनां प्रत्येक देवतात्वेऽपि उपयुक्तदेवतापदत्तिदेवतात्वस्यै कस्यैव प्रस्तरादियागे कल्पनात् त्यागसमकालता उपपन्ना । यत्र तु "अग्नये कृत्तिकाभ्यः पुरोडाश" मित्यादौ द्वयोरप्यधिष्ठानदेव.

'सिद्धान्तः] द्वितीयाध्यायस्थ द्वितीयः पादः। २३१ तात्वयोर्भेदः, तत्रैकवाक्योपादानावगतसाहित्यबलात् समका- लतावाधेऽपि न क्षतिः। प्रकृते तु प्रयोगविध्यवगतसाहित्यस्यो. त्तरकालिकत्वेन दुर्बलत्वान्न समकालत्वबाधतेति वैषम्यम् प्रकृते च याज्यापुरोरुचोर्भेदात् सुतरां सकृदनुष्ठानानुपपत्तिः, पृथग्गृहतिानां द्रव्याणां विना वचनं मेलनासम्भवाच । अत एन च यत्रैकस्मिन्नेव पात्रे वायवे इन्द्रवायुभ्यां च ग्रहण तत्र वचनान्मेलनेऽपि न दोषः । मेलनासम्भवेनैव चाऽमिष्टुति "आग्रेया ग्रहा भवन्नी"ति वचनादग्निमात्रदेवत्यमाकृतसर्वग्रहण- वति सम्प्रतिपनदेवताकत्वेऽप्यावृत्तिसिद्धिः। तस्माद्यागावृत्तेरपि न्यायसिद्धत्वाद्यक्तं क्रमसमुच्चयदर्शनम् । अथवाऽस्तु तद्विधायकम्, तेनैव चाऽग्निष्टुत्यावृत्तिसिद्धिरिति ध्येयम् । प्रयोजनं पूर्व पक्षे उत्पत्तौ यागार्थतया देवताश्रवणात् नो. द्भिदादौ तद्विध्यन्तः, अपि तूपांशुयाजीया, मिद्धान्ते स्वव्य- क्तत्वात् सौमिकविध्यन्तः, सर्वाभ्यासविध्यन्तसमुच्चयाच यथाप्र. कृत्यनुष्ठानमिति द्रष्टव्यम् । सूत्रं तु-तद्भेदात् देवतोदेशभेदात्, कर्मणः ग्रहण- स्य, अभ्यासः भेद इति यावत् । नन्वर्थप्राप्ते ग्रहणे सर्वेषां देवतासंयोगानां विधानोपपत्तेः कथं तावन्मात्रेण भेदसिद्धिः, अत आह-द्रव्यपृथक्त्वात् प्रकृयर्थदेवताभेदादेव संस्कार्यद्रव्यपृ. थक्त्वावगमात् , असश्च प्राप्तग्रहणानुवादेनोभयविधाने वाक्य भे. दापत्तेः युक्तो ग्रहणभेद इत्याशयः । नचैवमपि तेषां दृष्टार्थतया कथं समुच्चयः ? विधिबलेन दृष्टार्थताया अप्यङ्गीकारात्, विधिजातं अनर्थकमेव स्यात् , थत्वात् समुच्चयः । खादिरादिद्रव्याणां तु बन्धनक्रियां प्रति गुणभूतत्त्वाद्विकल्प इति भेद इति ग्रहणक्रमसमुच्चयदर्शनोपप. अन्यथा अतो दृष्टा. ३० मी० को मीमांसाकौस्तुभे [संख्याधिकरण- तौ व्याख्येयम् । होमक्रमसमुच्चयदर्शनोपपत्तौ तु, तद्भेदात् समुचित्तदेवतोदेशभेदात्, कर्मणः यागस्य, अभ्यासःआर. त्तिः, संस्कार्यद्रव्यस्य पृथक ग्रहणाद्वचनं विना मेलनानुप- पत्ते, अन्यथा पृथक् ग्रहणमनर्थकं स्यात्, न चै यागभेदा. पत्तिः, देवतारूपस्य द्रव्यस्य ग्रहणं प्रत्येव गुणत्वेन स्ववाक्ये यामाकल्पकत्वात् अतो यागावृत्तिमात्रबोधनाद्युक्ता होमेऽपि क्रमसमुच्चयदर्यानोपपतिरिति व्याख्येयम् । इति षष्ठं पशुसोमाधिकरणम् ॥ ६ ॥ अथ ससमं संख्याधिकरणम् ॥ ७ ॥ पृथक्त्वनिवेशात संख्यया कर्मभेदस्स्यात् ॥२-२-२०॥ (विषयसंशयौ) (१)"तिस आहुतीर्जुहोति" (२)"द्वादश द्वादशानि जुहोति" (३)"आज्यभागौ यजति" (४)"पार्वणौ जुहोती"त्यादौ कि यावत्संख्यं धात्वर्थभेदो भावनाभेदश्च, किं वा एक एव धात्वर्थों भावना चेति विचार्यते । ( सङ्गतिः) अत्र पादाध्यायसङ्गतिरस्पष्टा । अभ्यासापवादत्वेन च पूर्वाधिकरणोत्थानात् तत्समाप्तया बुद्धिस्थेऽभ्यासेऽप्तकृच्छ्रव- णात् युक्ता भेदकता, प्रकृते तु सकृच्छ्रवणात् न भेदकत्वोपप- तिरिति पूर्वपक्षोत्थानादभ्यासाधिकरणेनाऽपि प्रत्युदाहरणरूपा। १. तै. सं. २. ३. ४.३. २. तै. सं.५. ४. ८.२. ३ तै. सं. २. ६. २.१. ४. आप. श्री. १. ३. २०.५.

4 पूर्वपक्षः ] द्वितीयाध्यायस्थ द्वितीयः पादः । (पूर्वपक्षः) तत्र न तावद संख्यायाः साक्षादेव भावनाभेदबोधकत्वम् । सत्यपि प्रथमत संख्यायाः अपि विशेष्यभूतायां भावनाया. मन्वये धात्वर्थवाच्याहुतिपदसामानाधिकरण्यदर्शनात् स्वाश्रय. करणकत्वसम्बन्धेन तदाश्रयणात् , संख्यायाश्चैकत्वातिरिक्ता- यास्स्वसमानाधिकरणस्वाश्रयप्रतियोगिकभेदव्यासत्वरूपपृथक्त्व. निवेशित्वस्वाभाव्याव , सत्यपि स्वाधारत्तिभेदवोधकत्वे तद. नाधारभावनाभेदबोधकत्वानुपपत्तेः । नाऽपि धात्वर्थभेदबोधन द्वारा, संख्यायाः पदान्तरोपात्तत्वेन समानपदप्रमितैकत्वसंख्या- वरुद्ध धात्वर्थे साक्षात्सम्बन्धेन वृत्तित्वानुपपत्तेः । यद्यपि 'नु. होती'त्याख्यातोपात्तैकत्वं कर्तृगामित्वान्न धात्वर्थवृत्तित्वेन प्रमि. तम् , तथापि अनवच्छिन्नस्य धात्वर्थस्य भावनान्वयित्वानुप- पत्तेः अवच्छेदकीभूतसंख्यापेक्षायां प्रथमातिक्रमे कारणामावादे- कत्वस्यैव धात्वर्थवृत्तित्वप्रमा नाऽनुपपन्ना । अतश्च यथैव "एका. दश प्रयाजान् यजती'सादौ धात्वर्थसम्बन्धित्वेन श्रुताऽप्येकाद. शत्वसंख्या पञ्चत्वावरुद्ध धात्वर्थे साक्षाद्वृत्तितया निवेशमलभः माना धात्वर्थप्रयोगवृत्तित्वेनाऽऽश्रीयते इति सत्यपि प्रयोगरूपा- भ्यासभेदे सोमयागवदेव न कर्मभेदकता, तथाऽत्रापि न धात्व- र्थभेदकतेति द्रष्टव्यम् । अत एवाऽनन्तरसङ्गतिरपि; न चैकत्वसंख्याया अनुमित. त्वेन न सामानाधिकरण्यप्रामितश्रुतसंख्यावृत्तिधात्वनिष्ठत्वबा. धकतेति वाच्यम् , एकत्वस्याऽनुमितत्वेन पावल्यात्; अन्यथा प्रयाजगतस्य पञ्चत्वस्य प्रत्येकैकत्वस्य च प्रकृताचार्थिकत्वेन प्राबल्यानुपपत्तेः । अत एव "तिस आहुती"रितिसामानाधिक. रण्यमपि प्रयोगद्वारकमेव व्याख्येयम् ।

. पपत्तेः मीमांसाकौस्तुभे [संख्याधिकरण- अस्तु वा धात्वर्थमात्रवृत्तिताङ्गीकारेण तद्भेदकता, तथाऽपि भावनाभेदे प्रमाणाभावः, न तावत्संख्या, तस्यास्तद्भेदकत्वा. नुपपत्तेरुक्तत्वात् । नाऽपि संख्यया धात्वर्थभेदस्त द्भदे च शब्दा- न्तरन्यायेन भावनाभेद इति वाच्यम् , प्रकृतिभेदे हि तदर्थी- नुबद्धाय भावनायां प्रकृत्पन्तरार्थस्य निवेशासम्भवायुक्तो भावनाभेदः; प्रकृते स्वनेकेषामपि धात्वर्थानामकेन धातुनो पादानात् सर्वेषामेकस्यामेव भावनायां समूहालम्बनवनिवेशो. न शब्दान्तरन्यायविषयत्वम् । किश्च भावनानेकत्वे विधेयानेकमुख्यविशेष्यकत्वाच्च वाक्यभेदोऽपि; अतः 'समिधो. यजती'तिवत् सत्यपि संख्याश्रवणे न भेदः इति प्राप्ते- ( सिद्धान्तः) अभिधीयते-"तिस्र आहुती"रिति सामानाधिकरण्याद्धा स्वर्थवत्तित्वप्रतीतेः तद्भेदकत्वमेव संख्याया: । न च प्रयाजैका दशत्वन्यायविषयत्वम् , एकादशत्वविधितः पूर्व प्रकृतौ प्रयाजा नां प्रयकैकत्वेन वा पचयाशष्टपञ्चत्वेन वा नितिसंख्यत्वात् । प्रकृते तु यावन्यायेन धात्वर्थे संख्याऽनुमातुमारभ्यत तावत् प्रत्यक्षश्रुतया संख्यया निराकाङ्क्षीकृते नाऽनुमानप्रसरः समस्ति । किश्च कारणाभावे एव खल्वेकत्वकल्पको न्याय्यः । न चाऽत्र सोऽस्ति, त्रित्वश्रवणस्यैव कारणस्य सत्वात् अतश्च प्रत्यक्षश्रुतसंख्यासचे धात्वर्थेन स्वपरिच्छेदार्थमे कत्वसंख्यानुमानायुक्तस्तया धात्वर्थभेदः । न चैवं यत्रा. प्युत्पचिवाक्ये संख्या न श्रुता वाक्यान्तरे च तस्याः श्रवणं तत्रापि श्रुतसंख्यासत्वे तदाक्षेपानवतारात् संख्यया कर्म- भेदापत्तिः, तादृशस्थले श्रुतसंख्याबोधकवाक्यस्य प्रवृत्तेः पूर्व मेव तदुपजीव्येनोत्पत्तिवाक्येनैकत्वस्यैवाऽनुमानात् । तथा हि- . - .

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २३५ सर्वत्र पदश्रवणक्रमेण प्रथमतः पदार्थोपस्थितिः, पश्चात् सर्वेषां प्रत्यासत्तिक्रमेण भावनान्वयः, विशिष्टप्रतीत्युत्तरकालं च तस्यां विध्यन्वयः, तदुत्तरं चाऽपरिच्छिन्नानां क्रियान्वयायोगात् परि- च्छेदकीभूत संख्यानुमानमिति वस्तुस्थितिः। तद्यत्रोत्पत्तिवाक्य एव संख्याश्रवणं तत्रानुमानप्रवृत्तेः पूर्वमेव संख्याया भावना- न्वयात् तन्निहार्थ तस्या धात्वर्थसम्बन्धावश्यम्भावात्तयैव निराकाङ्कत्वोपपचे पश्चात् न संख्यान्तरानुमानप्रसक्तिः। यत्रो- त्पत्तिवाक्ये सा न श्रता, उत्पन्नवाक्यस्य च तदनुवादेन संख्या- विधायकत्वात् तदुपजीवकत्वेन तदुत्तरप्रवृत्तिकत्वम् , तत्रोल्प- त्तिवाक्येन स्ववाक्यार्थावधारणवेलायां परिच्छेदकीभूतसंख्या- नुमाने तावन्न किश्चिद्बाधकमस्ति । न चाऽनुमितस्याऽप्युत्तरकालं श्रुतेन बाधः, दुर्बलस्याऽपि पूर्वप्रवृत्तस्यऽतदुपजीव्य प्रवृत्तेनोत्तरेण बाधायोगात् । अन्यथा प्रथ. मप्रतीतस्याऽपि दुर्बलस्य यागगतकरणत्वस्योत्तरकालिकेन श्रुतेन सोमकरणत्वेन बाधापत्तेः । न च उत्पन्न शिष्टस्याऽऽनर्थक्यम् ; अ. भ्यासद्वारकतयाऽप्युपपत्तेः । प्रकृते स्वश्रत सख्यानुमानात् पूर्वमेव श्रुतायाः संख्यायाः भावनान्वयद्वारा विध्यन्वयप्रतीतेरौत्तर- कालिकत्वाभावेनाऽनुमानपतिबन्धायुक्ता भेदकतेति वैषम्यम् । अत एव यत्र संख्यायाः उत्पत्तिवाक्यगताया अपि सम्भ वत्प्राप्तिकाया विशिष्टविधिगौरवापत्तेर्न भावनान्वयद्वारा विध्य- न्वयः। तत्र तस्याऽनुमानप्रतिबन्धकत्वाभावान धात्वर्थभेदकता । यथा-(१) समियो यजती'त्यत्र समिध इति बहुवचनं (२)"स- मिधो अम आंज्यस्य व्यंत्वि"ति मन्त्रवणे समिदेवतागतत्वेन बहुत्वस्य प्राप्तत्वात् बहुत्वसंख्याविशिष्टयागविधौ च गौरवापत्तेः ते.सं. २.६.१. २.ते. ब्रा.३.१.६. १.

PRIOR २३६ मीमांसाकौस्तुभे [संख्याधिकरण स्वाश्रयदेवत्ययागवृत्तित्वसम्बन्धेनैकत्वलक्षणार्थ सत् समित्मा. तिपदिकलक्षिततत्तद्देवत्ययाग एवाऽन्वेतीति शक्यार्थस्य बहुत्वस्य विध्यन्वयाभावान धात्वर्थभेदकता । अतश्चोत्पद्यमानकर्मस. मानाधिकरणा विधेया संख्या कर्मभेदिकेति सिद्धम् । कर्मसा- मानाधिकरण्यामावादेव च "त्रिर्वेदिं प्रोक्षती"त्यादौन कर्मभेदः, त्रिरित्यस्य क्रियाभ्यावृत्तिगणनार्थसुष्प्रत्ययान्तत्वेनाऽभ्यासह त्तिसंख्याप्रतिपादकस्य कर्मसामानाधिकरण्याभावात् । अतः सिद्धः संख्यया धात्वर्थभेदः। न चैवमपि भावनाभेदकाभावः, शब्दान्तरस्यैव सत्वात् । यद्यपि च समानपदोपात्तधात्वर्थावरोधे पदान्तरोपाचधात्वर्थस्या- वच्छेदकत्वायोग इत्येवंविधो गुणन्यायसङ्कीर्णो मूलाक्तशाब्दा- न्तरन्यायो नाऽत्र भावनाभेदकत्वेन सम्भवी, तथाऽपि कार्यताव. च्छेदकतत्तथागत्वादिभेदात् कारणतावच्छेदकयत्नत्वेऽपि वैजा- त्यमित्येवंविधोऽस्मदुक्तश्शब्दान्तरन्यायस्तु प्रकृतेऽपि सम्भवत्ये. वेति न कश्चिद्विरोधः । सत्यपि च विधेयभावनानेकत्वे एकप- दोपादानाद्युगपत्यतीते न वाक्य भेदः । अत एवाऽस्माभिः भिन्न प्रतीतिविषयानेकमुख्यविशेष्यराहित्यमर्थैकत्वलक्षणमुक्त(१)पक- वाधिकरणे । तस्मायुक्तः संख्यया कर्मभेदः । न च संख्या न स्वतन्त्र मानम् , एकस्मिन् कर्मण्यनिविश. मानत्वसाम्येन गुण एवाऽन्तभादिति वाच्यम् ; अनिविशमा- नत्वसाम्येऽपि उत्पत्तिगतायाः संख्यायाः प्रमाणान्तरसिद्धोत्प. त्तिकस्यैव कर्मणोऽनेकत्वमात्रबोधकत्वात् । 'तिस्त्र आहुती' रिसत्र हि शब्दान्तरादिनैवोत्पत्तिपरत्वावधारणम्, न तु संख्यायास्तत्र व्यापारः, अपि त्वनेकत्वमात्रबोधे, गुणस्य तु सत्यप्यानयादा बुत्पत्तिवाक्यगतस्य भेदकत्वे उत्पन्नवाक्यगतस्याऽप्यनिविशमा- सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । नत्वेन स्वविशिष्टकर्मोत्पत्तिबोधनद्वारा भेदबोधकत्वमिति वै. षम्यम् । एवं संज्ञातोऽपि संख्याया बैलक्षण्यं द्रष्टव्यम् । तस्मात् सं. ख्यापि स्वतन्त्रं प्रमाणम् । प्रयोजनं-एतदङ्गभूतो मन्त्रः वेदिप्रोक्षणमन्त्रवत् सक- देव प्रयोज्यः पूर्वपक्षे, सिद्धान्ते त्वावर्तनीय इति । तथा एत. कर्माश्रितो गुणः प्रत्यभ्यास सायम्प्रातरावृत्तहोमाश्रितदधि. वदावर्तनीयः पूर्वपले, सिद्धान्ते त्वाश्रयापेक्षायां प्रत्येकमेवाऽऽश्र. यत्वकल्पनादनियमेन यस्मिन् कस्मिंश्चित होमेऽनुष्ठेय इति । सूत्रं स्पष्टम् ॥ भाष्यकारेण तु कर्मसमानाधिकरणायाः संख्याया भेदक. स्वस्य स्फुटत्वात् तदनाहर "सप्तदश प्राजापसान् पशुनालभत" इति द्रव्यसमानाधिकरणसंख्याया भेदकत्वं विचारितम्-कि- मत्र सप्तदशपशुद्रव्यक एको यागो विधीयते ? किंवा एकैकपशु- द्रव्यकास्सप्तदश यागाः ? इति । तत्र पादाध्यायप्रकरणसङ्गतयः पूर्ववदेव । अनन्तरा तु पूर्वाधिकरणे भिन्नवाक्योपात्तानामनेके. षामपि देवतात्वानामेकेन यागेनोपपत्तायुक्तायामेकवाक्योपात्तैकदे- वतात्वस्य सुतरामेकेन यागेनोपपत्तिरिति पूर्वपक्षोत्थानात् द्रष्टव्या । तत्र प्राजापानिति पदे प्रकृया प्रजापतिस्तद्धितेन देव. तास्वविशिष्टद्रव्यं सन्निहितं पश्वाख्यं द्वितीयया करणत्वं बहुव. चनेन बहुत्वमुच्यत इति तावद्वस्तुस्थितिः, पशुपदं च द्रव्याविशेष तात्पर्यग्राहकम् , तत्र पदद्वयेऽपि बहुत्वस्य प्रथमतः करणत्वेना. वितस्याऽपि पार्टिकः पश्वाख्यद्रव्येणैवान्वयः पश्वकत्वाधिक- रणवक्ष्यमाणन्यायेनाऽवगम्यते, न तु देवतात्वविशिष्टद्रव्येण । न च पशुपदे तथान्वयेऽपि प्राजापत्यपदे बहुत्वस्य देवतास्व- २३८ मीमांसाकौस्तुभे [ संख्याधिकरण- विशिष्टद्रव्य एव तद्धितार्थेऽन्वयो युक्तः प्रत्ययानां प्रकृत्यर्था- न्वितस्वार्थाभिधायकत्वनियमादिति वाच्यम्, संख्यारूपप्र- त्ययार्थस्य प्रकृत्यर्थविशेष्यान्वयित्वव्युत्पत्तेः; अन्यथा द्वौ त्रय इत्यत्र द्वित्वादिविशिष्टे संख्यान्वये चतुणों नवानां चा प्रतीत्या. पत्तेः श्रुतविशेष्याऽन्वयबाधे हि कचित् विशेषणस्यैव विशेष्य. स्वलक्षणयाऽन्वयः, यथा-"येकयोर्दिवचनैकवचने" इसादौ, तु काऽपि विशिष्टेऽन्वयो दृष्टचरः । अत एव(१) “पञ्च पञ्चाशतत्रिवृतरसंवत्सरा" इत्यत्र पश्चाश- सख्यायामेव विशेष्यभूतायां पञ्चत्वान्वयः, संवत्सरसामाना धिकरण्यं तु संवत्सरपदस्य संवन्सरवृत्तिमल्लक्षणयोति न वि. रोधः । अतो देवतात्वविशिष्टद्रव्ये तद्धितार्थेऽपि बहुत्वान्वयो द्रव्य एवेति सिद्धम् । स चोभयथा सम्भवी, द्रव्ये देवतात्वान्वयोत्तरं, ततः पूर्व वा, तत्र यद्युत्तरं ततो देवतासम्बन्धस्य प्रतिसम्बन्धिनि द्रव्ये साहियानवगमात् प्रत्येकं देवतासम्बन्धप्रतीतेः स्यादनेक. यागकल्पनम् , पूर्वभाविनि तु तस्मिन् साहित्यावच्छिन्नस्यैव प्रतिसम्बन्धित्वात् सत्यप्याधिष्ठानभेदे प्रतिसम्बन्धितापाप्त्ययधि करणतावच्छेदकस्यैकत्वेन द्रव्यदेवतासम्बन्धैक्यप्रतीतेरेकयागक- ल्पनम् । तदेवमुभयोपपत्तावनेकयागतदपूर्वकल्पनागौरवभिया बहुत्वान्वयस्य पूर्वत्वमेवाऽऽश्रीयते । एवं च पशुपद इव तद्धितेऽपि बहुत्वान्वयात् पूर्वमेकशेषः क्रियमाणो द्रव्य एवाऽश्रितः स्यात् न तु देवतात्वे प्रजापतिरूपे च प्रकृत्यर्थेऽपीत्यपि लाघवम् । एवञ्च यद्यपि कचित् बहुत्वस्य विशिष्टेऽप्यन्वयो दृष्टचरो भवेत् , तथाऽपि विशेष्यमात्रेऽप्यन्वयदर्शनादुभयथा व्युत्पत्तिसत्त्वे पूर्वोक्तविध. याऽत्रोभयथाऽप्युपपत्तौ च लाघवस्यैव नियामकत्वाद्युक्तमेकयाग कल्पनम् ।

पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः । २३९ तड्य नन्वतिदेशशास्त्रस्य नियामकत्वसम्भवेन लाघवारूपन्या- यस्य नियामकता युक्ता; स हि प्रकृतित एकपशुनिष्पनैकादशा- वदानगणमेकं प्रापयति । प्रकृतौ हि 'पशुमालभेते ति हृदयादिप्र. कृतिभूतपशुगतमेकत्वं विवक्षितम् । 'हृदयस्याऽग्रेऽवद्यती स्वादि. वपि च संस्कारविध्यन्यथानुपपत्त्या विनियोगकल्पनदशाया अध्वर्युगतैकत्ववद्धृदयादिगतैकत्वस्य विवक्षितत्वादेक एवाबदा- नगणोऽङ्गम् । अतश्च तस्य यागैकत्वे आतिदेशकत्वादेकस्यैव पाले सप्तदशपशुप्रकृतिकत्वानुपपत्तिः । यद्यपि चौपदेशिक्या पशुसंख्यया आतिदेशिक्याः तस्या बाधस्स्यात् , तथाऽपि हृदयाघेकत्वस्य भिन्नविषयत्वाद बाधकामावेन सप्तदशपशुप्रकृतिकत्वानुपपत्तिस्तद. वस्थैन । बागभेदे तु प्रतियागमतिदेशभेदात तावतां गणानां प्राप्तेर्युक्ता तावत्पशुप्रकृतिकतेति । अतोऽतिदे. शेनैव वाक्यशेषस्थानीयेन निर्णयोपपत्तेः देवतात्वान्ययोत्तरं द्रव्यमाने बहुत्वान्बयो विशिष्ट एव वा स इसङ्गीकर्तुं युक्त मिति चेत्-न ; अतिदेशस्योभयथाऽप्युपपत्तावनिर्णायकत्वात् । तथाहि- प्रकृतौ पशुशास्त्रस्य विशसनादिरूपतात्पर्यग्राहकबलेन सर्वांव- यवद्वारा पशुसाधनताबोधकत्वे प्राप्त हृदयादिशास्त्रं परिसंख्यार्थमि- त्युक्तम् ; स्थास्यति च । अतः पशुशास्त्रमेवार्थावृदयादिसाधनता. विधायकं नाऽवदानशास्त्रम् । तत्र च पशुगतैकत्वेन हृदयाघेकत्व. स्थाऽर्थसिद्धत्वान्न तदंशेऽपि विधिकल्पनम् । एवं च यद्यप्यवदान- विध्यन्यथानुपपत्त्यैव हृदयादिविधिकल्पनम् , तथाऽप्यर्थसिद्धस्या- कत्वविशिष्टस्य तस्य । अतश्च हृयदादिगणस्य यागसाधनस्यापि यथैव पशुगतैकत्वानुरोधेन प्रकृतावेकत्वं तथैवाऽत्र तद्गतसप्तदवारका- - ३१ मी० को २४० मीमांसाकौस्तुभे [ संख्याधिकरण- नुरोधेन सप्तदशत्वमिति न कश्चित् यागैकत्वेऽपि तस्य विरोधः । अतो द्रव्यदेवतासम्बन्धस्यैकत्वे लाघवन्यायस्यैव नियामकत्वात युक्त यागैकत्वम् । अस्तु वा यथाकथञ्चित् सम्बन्धभेदः, तथाऽपि सर्वसम्ब. न्धोपपादकत्वेन सोमयागवल्लाघवेनैकस्यैव यागस्य कल्पनो. पपत्तेः नाऽनेकत्वे प्रमाणमस्ति । तेन यथैव सिद्धान्ते सकृदः नुष्ठानेनैवाऽनेकयागनिष्पत्तिः, तथा मन्मतेऽप्ये केनैव यागेन सर्व- देवतासम्बन्धोपपत्तिः । अतो न कर्मान्तरम् । यत्त्वत्र न्यायसुधाकुता तद्धितोत्तरबहुवचनमात्रालोचने विशिष्ट एव तद्धितार्थे बहुत्वान्वयापत्तेः पूर्वपक्षानुत्थानप्रसङ्गात् न तन्मात्रालोचनेनाऽत्र पूर्वपक्षः, किन्तु तद्धितस्य सर्वनामार्थः वृत्तित्वात् सर्वनाम्नश्च सन्निहितपशुपरामार्शत्वात् बहुवचनान्त- पशुपदानुरोधेन सर्वनान्न एवैकशेषत्वकल्पनया बहुत्वसंख्याव. च्छिन्नसर्वनामार्थ एव तद्धितोत्पादात् तदुत्तरबहुवचनस्याऽत एवा- नुवादत्वात् बहूनां पशूनामेकदेवतासम्बन्धेन कर्फेकत्वमित्येव पूर्वः पक्ष इत्युक्तम् ; तत् बहुत्वान्वयस्य विशेष्य एव व्युत्पन्नतया अश्रुतसर्वनामैकशेषत्वकल्पने प्रमाणाभावाच्चोपेक्षितम् । अतः प्रा- गुक्त एव पक्षो युक्तः इति प्राप्ते- (सिद्धान्तः) अभिधीयते-सत्यं संख्याया विशेष्यान्वय एवं व्युत्पन्ना, तथापि तु समानाभिधानश्रुत्या संख्यान्वयात् पूर्वमेव देवतात्वं द्रव्येऽन्वेति, पश्चादेव पदश्रुया संख्या । अतश्च देवतात्वस्य प्र- तिसम्बन्धिनि द्रव्ये साहित्यानवगमात् पशुत्वस्यैव प्रतिसम्ब- धितावच्छेदकत्वप्रतीतेः उत्तरकाले बहुत्वान्वयेन पशुत्वावच्छि - :

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । २४१ अभेदप्रनीतेः सम्बन्धितापर्याप्त्यधिकरणताभेदेन देवतासम्ब- न्धानामपि योग्यताबलेन भेदप्रतीतिः । न च पशुत्वस्य पशुपदा- धीनप्रतीतिकत्वात् तस्य च बहुवचनान्तत्वेन सामानाधिकरण्य- सम्बन्धेन बहुत्वविशिष्टस्यैव तस्य प्रतिसम्बन्धितावच्छेदकत्व- प्रतीतिरिति वाच्यम् , पशुत्वविशेषावधारणस्य उत्तरकालमप्यु- पपत्तौ तद्धितस्य पशुपदाधीनप्रवृत्तिकत्वे प्रमाणाभावात् । न च तात्पर्य ग्राहकज्ञानस्य तद्धितपदजन्यपदार्थोपस्थितावेव सहकारिकारणत्वाभ्युपगमात् कथं तद्धितपदस्य पशुपदाधीनप्र. त्तिकत्वाभाव इति वाच्यम् , तात्पर्य ग्राहकज्ञानाभावेऽपि तद्धित- पदमात्रश्रवणेनाऽनिर्धारितद्रव्याविशेषबोधे बाधकामावात् । अन्य था तद्धितमात्रश्रवणात द्रव्यविशेषसंशयानुपपत्तेः । अतोऽनिर्धा- रितद्रव्यविशेषे बुद्धेऽपि विशेषणान्तरव्यावृत्तिमात्रफलकत्वं तात्पर्य ग्राहकस्येति द्रष्टव्यम् । अस्तु वा गुणाधिकरणवार्तिकस्वारस्यात् तात्पर्यग्राहक स्य पदार्थोपस्थितावेवोपयोगः, तथाऽपि तत्त्वेन पशुपातिपदि- कस्यैवोपयोगः, योग्यत्वात् , न तु बहुवचनादेरपि, बहुवचनस्यो: भयथाप्युपपन्नत्वेन तात्पर्यग्राहकत्वाभावाच । तथाहि-बहु त्वस्य पार्टिको द्रव्यसम्बन्धो द्वेधा सम्भाव्यते-करणत्वानां बहु- त्वेनैकत्वेन वा । तद्यत्र प्रमाणान्तरेण प्रत्येकत्तिकरणत्वमवगतम् , यथाऽऽग्नेयादिषु तत्तदुत्पत्तिवाक्ये, यथा वा(१)"तां चतुर्भिरादत्ते" त्रिदाहिष्पवमान"मित्यादौ, तत्तन्मन्त्रदृश्यर्थप्रकाशनकरणत्वे लोकव्युत्पत्तितः तत्र प्रत्येककरणताश्रयाणामेव पार्डिको बहु- त्वाम्वयः । अत एव तत्र करणानां समुच्चयो, न तु समुदितानां करणत्वमेकम् ; यत्र तु प्रमाणान्तरेण न तद्भेदावगमः तत्र लाय. १.श.प्रा.३.३.१.४३. २. ता.वा.

, २४२ मीमांसाकौस्तुभे [संख्याधिकरण- वेन करणत्वस्यैकस्यैव कल्पनादेककरणताश्रय एव पार्टिको बहुत्वान्वयः। अत एव तत्र समुदितानामेकं करणत्वम् । शक्यते तु ताशस्थलेऽपि प्राथमिककरणतान्वयवेलायां बहुत्वानवच्छि. अस्यैव प्रातिपदिकार्थस्य करणत्वान्वयप्रमापणात् तन्निर्वाहार्य पार्टिको बहुत्वान्वयोऽपि करणीभूतप्रातिपदिकार्थत्येव प्रतीयत इति तत्रापि करणानामेव समुच्चयो, न तु समुचितानां करणत्व. मिति वक्तुम् । अतो यत्र प्रमाणान्तरेणैवैका करणता प्रतीयते तत्रैव समुदितानां करणत्वमिति द्रष्टव्यम् । तदिह पशूनामपि यागकरणत्वं योग्यतया प्रत्येकमेवाच- गतम् । न हि पशुसमुदाये एकं स्वत्वम् , प्रमाणाभावात् , यथे- ष्टविनियोगादिरूपस्य स्वत्वकार्यस्य प्रत्येकं दर्शनाच, समुदायस्य स्वातन्त्र्येण यथेष्टविनियोगानहत्वाच्च । अतः प्रत्येकं पशूनां स्व- त्वाश्रयत्वात् तद्ध्वंसानुकूलव्यापाराख्ययागकरणत्वमपि प्रत्ये. कमेवाऽवगम्यते । अत एवाऽत्र करणानामेव समुच्चयो, न तु समुदितानां करणत्वम् । अतश्च प्रत्येकमेव यागसाधनत्वाख्यह- विष्ट्वावगतेः तदर्थविहितदेवतातद्धितेनाऽपि प्रत्येकमेव देवता. त्वसम्बन्धावगतिः । अत एव करणत्वविशिष्टपशुबोधकस्यैव शब्दस्य तात्पर्य- ग्राहकता न बहुवचनस्यापि । तदर्थस्य हविष्वानवच्छेदकत्वात् । यद्यपि च पशुपदमात्रश्रवणेन यागसाधनत्वरूपं हविष्टं न प्रती. यते, तथापि देवतातद्धितश्रवणाद्देवतात्वसम्बन्धात् पूर्व तत्प्र- तीतिरावश्यकी। अन्यथा "सूक्त हविषोरिष्टि" रिति स्मृत्वा तस्य नियतविषयत्वादुत्पश्यनापत्तेः । अतो हविष्ट्वे पशूना(१)म. मिते देवतासम्बन्धः, तदुत्तरं च यागस्य प्रमाणान्तरेणान. १. प्रतीते इति. व. पु.

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २४३ . बममात् कल्पनेत्यवधेयम् । यद्यपि च प्रदेयत्वाख्यं हृदयादीनामेव हविष्टम् , तथापि प्रदेयप्रकृतित्वाख्यं हविष्टुं पशूनां देवतासम्बन्धसिद्ध्यमिहोक्त. मिति न विरोधः। नचैवमपि हविष्वस्य स्वरूपसत एव तद्धितोत्पत्तावुपयोगान बानापेक्षेति वाच्यम् , तथात्वे सर्वनामार्थस्यापि स्वरूपसत एवो पयोगोपपत्तौ देवतात्वमात्रस्य वाच्यताप्रसङ्गेन द्रव्यविशेषस्या- ऽप्यवाच्यतापत्तेः । अतश्च यथैव सूत्रकुदुक्तः अस्यशब्दार्थों बायकोटिप्रविष्ट इति गुणाधिकरणे वक्ष्यते तथा भाष्यकृदुक्तो हविरादिविशेषोऽपि वाच्यकोटिप्रविष्ट एवेति तत्पतीतिरपि देव- तासम्बन्धात् पूर्वमावश्यकी । अतश्च यागसाधनत्व योग्यतावच्छेद- कपशुत्वावच्छिन्नस्यैव बहुत्वानवच्छिन्नस्य देवतासम्बन्धात् तस्य व प्रतिसम्बन्धितापर्याप्त्यधिकरणभेदेन भिन्नत्वात् भेदसिद्धिः। अत एव(१) वसन्ताय कपिञ्जलानाल मेते" सत्रापि चतुर्युपा- तस्य त्यज्यमानद्रव्योद्देश्यत्वाख्यस्य देवतात्वस्य त्यज्यमानद्रव्य- त्वरूपहविष्ट्वं विनानुपपत्तेः कपिञ्जलानां च प्रत्यकमेव याग- साधनत्वाख्यहविष्ट्वयोग्यत्वात् पूर्ववदेवतासम्बन्धभेदोपपत्तिः । अत एव पार्थसारथेः तदनुयायिनां चैकपशुनिष्पन्नैकादशा. पदानगणैकताप्रापिचोदकानुरोधेनैव देवतासम्बन्धभेदोपपादनं निर्मळमेव । किश्चैवं सति(२)सप्तदश मारुतीः विवंत्सा उपाकरोति सन्त. दश प्रश्नीनुक्ष्णः तान् पर्यग्निकतानुत्सृजन्ति प्रेयतराआलभन्ते" इत्यत्रोक्षवाक्ये पर्यप्रिकरणान्तागरीतिविधानादेकादशावदानग- प्राप्त्यभावन कथं देवतासम्बन्धभेदसिद्धिः ? यद्यपि वनाऽने- १.मै. सं. ३. १४.१. २. ता.ना.२१.१४.८.

भीमालाकौस्तुभे संख्याधिकरण- कमातायागविधायुपाकरोत्यनुषजनाददैरप्यार्थमुलस्वापि अने- कियागकल्पनं भाक्यत्ते वक्तुम्, तथाषि(१) ईशनाथ परस्वत आ. लमत" इत्यत्र तदभावात् पर्यनिक निकरणान्ताङ्गीतिविधानेन च एकादशावदान गणमाल्या भावाद्याभदो दुरुपपादः । न च तत्राऽस्तु यागैकत्वम् , तदा हि परस्वतां प्रत्येक कर- णीभूतानां समुच्चय स्वीक्रियते, समुदितानां वा करणता नाधः तथा सति बहुत्वस्य करणतावच्छेदकत्वादस्मदुक्तप्रका- रेण यागभेदस्यैवाऽऽपत्तेः। अत एव प्राजापत्योदाहरणे यागैक्यसिया पूर्वपले समु. चितानामेव करणत्वमुक्तं वार्तिककृता । नान्हाः, तथाचे प्रतिपा- रस्वतं नियोजनोपाकरणादिसंस्कारानापत्तेः । प्रकृती हि यागसा- धनीभूते पूर्वसाधनतापर्याप्त्याधि करणे संस्काराः कृताः, इहापि तादृशे समुदाये कर्तव्य न समुदायाधिष्ठानेषु प्रत्येकम् । नहि बाहिसंस्काराः प्रतिव्यक्ति क्रियन्ते, अपि त्वपूर्वसाधनतापर्या- त्यधिकरणे चतुर्मुष्टिपरिमिले सशुदाये । अतएव वार्तिके आग्ने यादीनां समुदितानां साधन ने न प्रत्येकमितिकर्तव्यतान्वय, अपि तु प्रत्येक साधनस्व एवैत्यसकृत् क्षुण्णम् । न चैत्र(२) नबमे इष्टकासमुदायस्याग्निपदवाच्यत्वमङ्गी- कृत्य हिरण्यशकलप्रोक्षणस्य प्रतीष्टकं कर्तव्यतारूपपूर्वपक्षकरणा- नुपपत्तिः, तत्रत्य समुदायस पदस्य सनिवेशविशेषविशिष्टेष्टकारू. पसमुदायिपरत्वस्यैवाऽङ्गीकाराट् । तस्मात् समुदायस्थ साधनत्वे प्रतिपशु संस्कारानुपपत्ते परवद्वाक्ये यागैक्योतिर्मुधैव । किञ्चैवं वसन्तवाक्येऽपि यागैक्यं किमिति नाऽङ्गीक्रियते ? एकादशावदानगणानुपपत्तेः प्रकृतावकत्वस्याऽर्थिकत्वेन परिहर्तु ६. मै. वं. है. -१४. १० २. यू.मी. ९.१६८. कर्तव्याः, .

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । २४५ शक्यत्वात् । अथाऽस्तु भवदुक्तक्त्यैव परस्त्रद्वाक्ये कर्मभेदः, ततो वसन्तवाक्येऽपि तत एव भेदसिः किमव्यापकेन स्वरू- पासिद्धेन कादशावदानगणानुपपत्युपन्यासेन ? । तस्मात् सिद्धः प्राजापत्यवाक्ये अन्येष्वप्येवजातीयकेषु कर्मभेदः । अत एवैकपशुसाध्यताऽप्यतिदेशप्राप्तानुगृहीता भवति । अन्यथा सा. सदश्येन तद्वाधापत्तेः । अत एव सम्बन्धभेदाङ्गीकारेऽप्यनेकस- म्बन्धोपपादकैकयागकल्पनैव लाघवादस्त्वित्यप्यपास्तम् , सम्ब. न्धानामुभयथाऽप्येकानेकयागकल्पनयैवोपपत्तौ लाघवाख्यन्या- यापेक्षया पश्चैकताप्राप्यतिदेशशास्त्रस्यैव नियामकत्वौचित्यात् । अत एवाऽनेकयागकल्पनायां गौरवमपि प्रामाणिकम् । एवं चित्रे. यादावपि द्रव्यैकताप्रापिचोदक एव नियामकः । यत्वत्र मूले अवदानगणैकताप्राप्त्या सिद्धान्तकरणम् , नद- लिशयार्थमिति द्रष्टव्यम् । तस्मात् सिद्धो धात्वर्थभेदः । तद्भेदा- च भावना भेदः पूर्ववत् । अपूर्व भेदस्तु भाष्यभूतापूर्वभेदं विना भावनाभेदानुपपचेष्टव्यः । प्रयोजनम्-पूर्वपक्षे सम्बन्धकत्वपक्षे अवदानप्रकृतिभूत- पशुगतसमुदायस्य देवतासम्बन्धात् तस्य चैकत्वेन प्रकृतिमाप्त- देवतासम्बन्धवृत्तिप्रोक्षणापाकरणादिधर्मजातं सकृदेवं कार्यम् । दृष्टाथै तु(१) नियोजनविशसनादि प्रतिपशु प्रयोजनानुरोधेन का. यम् । तथैकस्य पशो शे तघटितसमुदायस्य नाशेन तवृत्ति- संस्काराणामपि नाशादानीयमानपशुसहितैतत्पशुसमुदायान्तरे पुनरपि संस्कारः कार्यः, तत्पशुविशसनोत्तरमेतत्पशुनाशे तु पश्चन्तराण्युत्पाद्यानि, सम्बन्धभेदपक्षे खेकपशुविस्मरणेऽपि या- गस्यैकस्य जातत्वान्न तदर्थं पुन: करणम् । सिद्धान्ते तु पशू- १. अञ्जनोपाकारणादि.

D मीमांसाकौस्तुभे [संज्ञाधिकरण- नामेव देवतासम्बन्धात् गृह्यमाणविशेषत्वेन प्रतिपशु प्रोक्षणादि, एकपशुनाशे च तत्रैव संस्कारकरणम्, विशसनोत्तरमप्येकस्यै- वोत्पत्तिः, विस्मरणे पुनर्यागकरणमिति ध्येयम् ॥ सूत्रं स्पष्टम्।। इति सप्तमं संख्याधिकरणम् ॥ ७ ॥ अथाऽष्टमं संज्ञाधिकरणम् ॥ ८ ॥ संज्ञा चोत्पत्तिसंयोगात् ॥ २-२-२१ ॥ (विषयसंशयो) ज्योतिष्टोमं प्रकृत्य श्रूयते-(१) अथैष ज्योति:" *(२). थेष विश्वज्योतिः" (३) अथैष सर्वज्योतिः।" "एतेन सहस्रदक्षि. न यजेत, एतेन ऋद्धिकामो यजेते" ति; तया(४)"अथैष गौ (4) अथैष आयु" रित्यादि च । तत्र किं ज्योतिष्टोमात् कर्मान्तरा. ण्येवंसंज्ञकानि विधीयन्ते ? उत तस्यैवैताः संज्ञा? इति विचार। ( सङ्गतिः) पादाध्यायसङ्गती स्पष्टे । अनन्तरा तु सङ्ख्यावत् संज्ञायाः स्वसमानाधिकरणस्वाश्रयमतियोगिकभेदव्याप्तत्वरूपपृथक्त्वनिवे. शिवाभावान भेदकतेति पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपा । (पूर्वपक्षः) तत्र “अथैष ज्योति" रित्यादीनि तावद्विभज्यमानसाका- ? १. ता. ब्रा १६ ८.१. ३. ता. ब्रा. १६. १०. १. ५. ता.ब्रा. १६. ४.१. २ ता. बा.१६,.१. ४. ता. ब्रा. १६.३.१.

पूर्वपक्षः] वितीयाध्यायस्य द्वितीयः पादः । २४७ - , क्षत्वाभावात(२) त्रीणि वाक्यानि, "एतेने" सध्यनुषङ्गे प्रमाणा- भावात् 'तस्मिन् सीदे' तिवच्चतुर्थमित्यप्यविवादम् । तत्र "अ थैष ज्योति" रियादिवाक्येषु प्रथमान्तत्वादस्तीत्येतदध्याहियते । तेन च भेदकप्रमाणाभावात् प्रकृत एव यागोऽनूद्यते । तथाहि- न तावदत्र शब्दान्तरमस्ति, तस्य भावनामात्रभेदकत्वेनाऽसि. धातोश्च भावनानवच्छेदकत्वेनाऽभावात् । सिद्धे हि यागान्तरे तस्याऽप्राप्तत्वात् विधिः भावना वा कल्प्येत, न च तसिद्धिः शब्दान्तरन्यायप्रमाणिका । अत एव विधिपुनःश्रवणाभावा- नाऽभ्यासोऽपि । सहस्रदक्षिणादिवाक्ये तत्सत्त्वेऽपि वाऽनन्य. परत्वाभावात् नाऽभ्यासता; ऋध्याख्यफलसम्बन्धपरत्वस्याऽपि स्वर्गवदुपपत्तेश्च । न च गुणः ; ज्योतिरादिशब्दानां नाम- स्वस्य साधितत्वात् , गवादिशब्दानामपि दक्षिणात्वेन फ. लत्वेन च गवादीनां प्राप्तत्वात् तत्पख्यन्यायेनैव ज्योतिष्टो- मनामत्वात् । न च गोस्तत्त्वेन प्राप्तावपि हविष्ट्वेन विधानोप- पत्तेः प्रकृते च कर्मण्युत्पत्तिशिष्टमामावरोधाग्निवेशानुपपत्तेः भे- दावश्यम्भाव इति वाच्यम् ; गुणवाचिपदस्य नामधेयत्वेनाऽप्यु. पपत्तौ अपूर्वान्तरकल्पनानुबन्धिकर्मान्तरकल्पकत्वे प्रमाणामा वात् । न च वाजिनवत् कर्माण प्रवृत्तिनिमित्ताभावः, गोसम्ब- न्धस्य प्राप्तत्वेन समिदादिवल्लक्षणया नामत्वोपपत्तेः। अतो न तावत् ज्योतिरादिपदवाच्यगुणस्य भेदकत्वम् । नापि सहस्रद. १. अत्रेद चिन्त्यम्-ताण्ड्यं षोडशेऽध्यायऽष्टमकण्डिकारम्भे "अथैष ज्योतिः" इति वाक्यं श्रूयते । नवमदशमयोः कण्डिकयोरा. दा वग्रिमे वाक्ये । मध्ये बहुभिर्वाक्यैव्यवधानदेषामेकवाक्यत्वसं शयः कथमुदेति ? यदभावबोधनार्थ विभज्य मानलाकालवाभावो हेतूक्रियते इति । अथ चा क्षणाफलवाक्यसहितं वाक्यत्रयमिदं कस्यां चिच्छाखायामेकत्रैव पठितं भवेत् , इति विभावनीयम् । ३२ मी० को २४८ मीमांसाकौस्तुभ [संज्ञाधिकरण- , . क्षिणादेः, तस्योत्पत्तिशिष्टगुणविरोधित्वात् भेदकत्वानुपपत्तेः । नाऽपि प्रकरणान्तरम् , अनुपादेयगुणाभावात् । ऋद्धिवाक्ये तत्सत्वेऽपि प्रकरणात् पूर्वपरामर्शितच्छन्दयोगाचोपस्थितिसवे- नाऽसानिध्याभावाच्च । नन्वधिकारार्थाथशब्दश्रुत्या कर्मान्तराविषयाधिकारावगमात् पूर्वकर्मप्रसभिज्ञाबाधेन प्रकरणस्य व्यापारासम्भवात्, एतच्छब्द- स्य च जघन्यत्वेन दुर्बलत्वात्तदुपमर्दकत्वानुपपत्तेः, वस्तुतः तदा- दिसर्वनाम्नां पूर्वप्रकृतपरामर्शित्वेऽपि एतच्छब्दस्योभयसाधा- रण्येन सन्निहितप्रत्यक्ष एवं प्रयोगानुसारेण शक्त्यवधारणात् , अथशब्दानुरोधेन वक्ष्यमाणपरामर्शित्वस्याऽप्युपपत्तेरसन्निधिस- वेन तत्सहकृत्तफलरूपानुपादेयगुणस्य प्रकरणान्तरन्यायेन भेद. कत्वोपपत्तिः । न चाऽत्राथशब्दस्याऽऽनन्तयर्थिकत्वं शक्यते शकि- तुम् , तव मते आनन्तर्यप्रतियोगिनः कर्मान्तरस्याऽसत्वेन तदर्थ- कत्वानुपपत्तेः, काम्यानां कर्मणां भिन्नप्रयोगविधिपरिग्रहेण क्रमा. सम्भवाच, उत्तरकालतामात्रस्य च प्राप्तत्वेनाऽथशब्दवैयापत्तेश्च। अत एव पूर्वप्रकृतापेक्षत्वपरत्वस्याऽनुपपत्तिः, तद्धि संहत्य फलसाधनत्वाद्वा स्यादङ्गाङ्गिभावाद्वा ? अतिदेशसिद्धयर्थं वा ? नाऽऽधौ, नैरपेक्ष्येण फलसाधनत्वात् । नाऽन्यः, अथशब्दं विना. ऽपि तत्सिद्धेः । अत एव पूर्वप्रकृतकर्मापेक्षित्वपरवानगीकारेऽपि अनुवादार्थ पूर्वप्रकृतज्योतिष्टोमविध्यपेक्षित्वपरत्वं भविष्यतीत्य- पास्तम् । तदभावेऽपि “दध्ना जुहोती" तिवत् तसिद्धेः। अतः परिशेषात् "(१)अथ शब्दानुशासन" मितिबदधिकारार्थत्वाव. गमायुक्तमेव प्रकरणान्तरन्यायेन कर्मान्तरत्वमिति चेत्- न; ज्योतिरादिसंज्ञकज्योतिष्टोमप्रयोगविशेषाधिकारार्थत्वेना. , १. व्याक. महाभा. १.१. १.

पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः । प्यथशब्दस्य सार्थक्येन प्रत्यभिज्ञाविच्छेदानुपपत्तेः । तथाहि- ज्योतिरादिसंज्ञास्तावदेताः ज्योतिष्टोमस्यैव, प्रकरणात , तत्रैव वक्ष्यमाणरीत्या प्रवृत्तिनिमित्तसत्त्वाच्च । तथा चैतासां ज्योतिष्टोमसंज्ञया विकल्पेन सङ्कल्पादावुल्लेखः । अतश्च ज्योति रादिसंज्ञोल्लेखयुक्तयागप्रयोगाधिकारार्थोऽथशब्दः । तत्प्रयो. जनं च ज्योतिष्टोमसंज्ञोल्लखयुक्तयागप्रयोगप्रत्यभिज्ञानोच्छेदात तत्र सहस्रदक्षिणादिव्यावृत्तिः। एतदभावे हि सर्वप्रयोगेष्वेव तत् प्राप्नुयात् , सति त्वस्मिन् पूर्वाधिकृतानामेव प्रयोगविशे. षाणामेतेनेत्यनेन परामर्शात् सहस्रदक्षिणादिकमपि तत्रैवेति सिद्धयति । अत एव सहस्रस्य द्वादशशतेनाऽष्टदोषदुष्टो विकल्पः कमैं- कत्वपक्षे प्रसज्यते, 'सहस्रदक्षिणेन यजेते' त्येतावतैवार्थसिद्धेः वाक्यान्तराण्येतद्वाक्यगतश्चतच्छब्दोऽनयंकः स्यादित्यपास्तम् । तस्मादथशब्दस्य प्रयोगविशेषप्रत्याभज्ञोच्छेदकत्वेऽपि कर्मप्रत्य- भिज्ञोच्छेदकत्वाभावान्न प्रकरणान्तरन्यायेन कर्मान्तरत्वम् । अत एवाऽनुपादेयगुणाभावेऽप्यथशब्दमात्रेणैवास्तु भेद इत्य- पास्तम् । न चाऽलमनङ्गीकृतभेदकप्रमाणोपन्यासेन, संजयैव स्वत्र भेदोपपत्तेः कथं कर्मैक्यामिति वाच्यम् ; संज्ञा हि संख्या- वत् पृथक्त्वनिवेशित्वस्वाभाव्याद्वा भेदिका ? गुणवत् पूर्वकर्मण्य. निविशमानत्वाद्वा ? नाऽऽद्य संज्ञायास्त्वया पूर्वकर्मवाचित्वानभ्यु. पगमेन शकतासम्बन्धेनाऽपि पूर्वकर्मधारीवाभावाव्यासज्यत्ति- स्वाभावाच्च स्वसमानाधिकरणस्वाश्रयप्रतियोमिकभेदव्याप्तत्व- रूपपृथक्त्वनिवेशित्वासम्भवात् । नच तथाविधपृथक्त्वनिवेशित्वासम्भवेऽपि योस्संबयोः परस्पराश्रयाभिन्नचित्वव्यातत्वरूपस्य तस्य सम्भवः,घटकलशा- मीमांसाकौस्तुभे [ संज्ञाधिकरण- दिपर्यायेषु योस्संज्ञयोरेकाश्रयत्वस्याऽपि दर्शनात् । नाऽन्त्य! तथात्वे गुण एवान्तर्भावप्रसङ्गात् । किवाऽनिविशमानत्वमपि किमनेकशक्तिकल्पनप्रसङ्गभिया, इत वैयर्थ्यप्रसङ्गेन ? नाऽऽद्यः; अनेकशक्तिकल्पनस्य कर्मान्तर. त्वपक्षेऽपि तुल्यत्वात् ; प्रत्युत मम शब्दभेदात्तदाश्रितशक्तिमे देऽप्यर्थस्यैकत्वात् तद्विषयैकत्वकल्पने लाघवम् । अन्यच्च का. न्तरापूर्वान्तरभावनान्तरतद्वाचकविधिवाचकपदकल्पनामावाल्ला- घवम् । ज्योतिरादिवाक्येषु हि प्रकृतं ज्योतिष्टोममेतच्छन्दे. नाऽनूध विद्वद्वाक्यवत् सहस्त्रदक्षिणादिव्यवस्थाफलकज्योतिरा. दिसंज्ञामानं क्रियत इति न विधिभावनावाचकपदापेक्षा । वस्तुतस्तु ज्योतिष्टोमपदेऽपि ज्योतींषि स्तोमा यस्मिन् इत्य- न्यपदार्थस्य यागस्य लक्ष्यत्वात् सर्वज्योतिर्विश्वज्योतिःपदयो. रपि तथैव यागस्य लक्षणीयत्वात् ज्योतिःपदेऽपि च भामा सत्य. भामेतिवत् स्वार्थवाचकपदघटितपदगम्यत्वसम्बन्धेन "वसन्ते वसन्ते ज्योतिषा यजेते"ति वद्यागस्य लक्षणीयत्वावगतेः । अ. न्यथा तत्रापि कर्मान्तरत्वापत्चेर्दुर्निवारत्वात् । आयुर्गोपदयो. रपि च स्वशक्यसम्बन्धेन लक्षणावगतेन काऽपि शक्तिकल्पना. प्रसङ्गः । तवैव परमुक्त शक्यसम्बन्धानां यागकल्पनातः पूर्वम- प्रसिद्धत्वात् शक्तिकल्पनेति गौरवम् । नान्त्यः; सहस्रदक्षिणा. दिव्यवस्थाफळकत्वेन सार्थक्यस्यक्तित्वात् । किञ्च तक मते संज्ञात्वसिद्धावेव प्रमाणाभावः । न तावद्रु- द्भिन्न्याय:, रूढत्वेन तुल्यववृत्तिकत्वाभावात् । नाऽपि वाक्य भेदः, गुणान्तरानुपादानात् । तत्पख्यन्यायस्तु कर्मा- न्तरसिध्युत्तरकालं सम्भवन्नपि ततः पूर्वमनुपस्थितेन नामधेय- त्वबोधक इति कथं तदोधात् कर्मान्तरत्वबोधः ? । न च कर्मा- सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । - न्तरे प्रवृत्तिनिमित्तमास्ति, उक्तप्रवृत्तिनिमित्तस्य ज्योतिष्टामेकवि- षयत्वात् । अतो धर्मिग्राहकप्रमाणेन सिद्धस्य संज्ञात्वस्य ज्योति- टोमविषयत्वावधारणान संज्ञयाऽपि भेदसिद्धिः। तेन सिद्धं भेदकप्रमाणाभावान्न कर्मान्तरमिति प्राप्ते- ( सिद्धान्तः) अभिधीयते-भेदकान्तराभावेऽपि संज्ञाया एव भेदकत्वात कर्मान्तरत्वसिद्धिः । तथा हि संज्ञात्वमेव तावदेवं सिद्ध्यति- ज्योतिरादिशब्दास्तावन्न ज्योतिष्टोमे गुणविधयः, उत्पत्तिशि- ४(१)सोमावरोधेन तत्र गुणविधानासम्भवात् । अतः कर्मान्तर. त्वापेक्षया लघुभूतं संज्ञात्वं तावत्प्रथमतोऽवधार्यते । तच्च यद्यपि प्रकृतत्वात् प्रवृत्तिनिमित्तावगमाच्च ज्योतिष्टोमविषयकत्वेनेवाड- वधारितम् , तथाऽपि वक्ष्यमाणरीत्या तद्विषयकत्वबाधेऽपि न संज्ञात्वस्याऽपि बाधः । न हि ज्योतिष्टोमविषयकवाभावव्याप्तः संज्ञात्वाभावः, अन्य विषयिण्या अपि संज्ञायास्सम्भवात् । अतश्चा- ऽन्यविषयत्वासम्भवनिश्चयाभावदशायां संज्ञात्वं पूर्व प्रमितं बा- घकाभावेनाऽवतिष्ठमान पूर्वविषयासम्भवाद्विषयान्तरं स्वसङ्गतये कल्पयतीति युक्तः संज्ञाप्रमाणको भेदः । न च कर्मान्तरे प्रवृत्तिनिमित्तानवगम एवाऽभ्यविषयत्वा. सम्भवनिश्चायकस्सन् भवति बाधकः, अग्निहोत्रवत्पूर्व प्रवृत्ति निमित्तानवगमेऽपि वक्ष्यमाणरीत्या कर्मान्तरबोधोत्तरकालमवग- मसम्भवात् । अत एव उत्पत्तिवाक्ये इष्टसामान्यस्येव पूर्व सामा- न्यत: किश्चिदस्य प्रवृत्तिानमित्तं भविष्यतीत्यवधार्य संज्ञात्वे निर्णीते ततो भेदावधारणोचरं तद्विशेषनिश्चये नैव बाधकं पश्यामः १. झोमाघरोधादिनेति. स. पु.

ated २५२ मीमांसाकौस्तुभे [ संज्ञाधिकरण- न चाऽवधारितेऽपि कर्मान्तरे ज्योतिरादिपदानां तत्र गुण- विधित्वोपपत्तो संज्ञात्वे प्रमाणाभावः । अतश्च कर्मान्तरत्वावधा- रणात्पूर्व निश्चितमपि संज्ञात्वं उत्तरकालं गुणविधित्वोपपत्त्या बाध्यताम् , अतश्च वाजिनवत् परं गुणादेव कर्मभेद इत्यवधार्य- तामिति वाच्यम् । विशिष्टविधिगौरवाभिया गुणविधित्वाभाव. निश्चयेन संज्ञात्वे बाधकाभावात् । एवं सत्यपि यदि सोमवाजिन. वदत्र प्रवृत्तिनिमित्ताभावोऽवधार्येत, ततो विशिष्टविधिगौरवा. पादकमपि गुणविधित्वमेव निश्चित्य संज्ञात्वं बाध्येत, न तु तदस्ति। अतो यत्र संज्ञात्वं पूर्व प्रमितमुत्तरकालमपि च न बाध्यते तत्र संज्ञया भेदः, अन्यत्र तु गुणादिति विवेकः । किं पुनरत्र प्रतिनिमित्तम् ? तदुच्यते-ज्योतिश्शब्दादी- नां तावत् द्योतते(१) "द्युतेरिसिन्नादेश्च ज" इत्योणादिके इसि. न्प्रत्यये कृते आदिभूतस्य दकारस्य जादेशाज्ज्योतिश्शब्दव्यु. स्पत्त्यवगतेः स्वफलसाधनतया द्योतनरूपमुख्यार्थयोगेनैव ज्योति- शाब्दप्रवृत्तिः समस्तफलसाधनत्वाचेतरयोरपि द्रष्टव्या । यद्यपि चेदं प्रवृत्तिनिमित्तमतिप्रसक्तम् , तथाऽपि कर्मान्तरे रूढिकल्पनया प्राचीनप्रयोगस्य सहकारिकारणत्वकल्पनया वा नाऽतिप्रसङ्गः । गवादिशब्दानां त्वतिदेशप्राप्तगोसम्बन्धेन वा. क्यान्तरप्राप्तायुःफलसम्बन्धेन च लाक्षणिकत्वात् प्रवृत्तिनिमि- तोपपत्तिः । ज्योतिरादिपदेष्वपि वाऽतिदेशेन ज्योतिःपदगम्य त्रिवृदादिसमस्तस्तोमसम्बन्धात् लाक्षणिकत्वोपपत्तिः । अतः कर्मान्तरेऽपि प्रवृत्तिनिमित्तस्य सत्चात् संज्ञात्वनिश्चयोपपत्तेः युक्तं तत्पमाणकं कर्मान्तरत्वम् । न च संज्ञात्वसिद्धावपि तस्यो- तविधया ज्योतिष्टोमविषयत्वस्यैवोपपत्तौ विषयान्तरकल्पक- १.पा.उ. सू. १२७ ।

सिद्धान्त] द्वितीयाध्यायस्य द्वितीयः पादः। २५३ .. स्वानुपपत्तिः, प्रकृतसोमयागस्य ज्योतिष्टोममंज्ञावरुद्धत्वेन संज्ञा. न्तरविषयत्वानुपपत्तेः । तथा हि --- संज्ञाकार्यस्य व्यवहारस्यैकेनैवोपपत्तौ संज्ञान्तरस्य तावद्वै. यर्थ्य मेव । न च विनिगमनाविरहाद्वैकल्पकी वीहियवादिवन्य- वहारहेतुता, अथशब्देन सोमयागाधिकारविच्छेदार्थकेन विनि- गन्तुं शक्यत्वात् । सोमयागाधिकारवर्तिनी हि संज्ञा तद्विषयि- णीति शीघ्रं निश्चीयते, न विच्छिन्नाधिकारिकेति कथं विनिगः गमनाविरहः ? न चाऽथशब्देन पूर्वसंज्ञावच्छिन्नभयोगस्यैवाऽधि कारविच्छेदात् तदनुरोधेन चैतच्छब्दस्य मंज्ञान्तरयुक्तप्रयोगपरा. मर्शित्वावगतः तत्र सहस्रदक्षिणादिव्यवस्थार्थत्वेन संज्ञान्तरसा. थक्यमिति वाच्यम् । कर्मण एव प्रधानत्वेन पुरस्स्फूर्तिकस्या- थशब्देनाऽधिकारविच्छेदात् , सर्वनाम्नामुपस्थितार्थमात्रपरत्वेनै. तच्छब्दस्य ज्योतिरादिपद वाच्यकर्ममात्रपरामर्शित्वावगतः, अ. व्युत्पत्तिसिद्धसंज्ञायुक्तकर्मप्रयोगपरामर्शित्वाङ्गीकारस्थाऽयुक्त- त्वाच्च । न हि घटोऽस्ति एनमानयेत्यादौ घटपदयुक्तस्य सर्वना. ना परामर्शः कचित् दृष्टः । अतः सहस्रदक्षिणादिव्यवस्थाफल- कत्वासम्भवात् कर्माधिकारविच्छेदार्थकनाऽथशब्देन पूर्वसंज्ञातो ज्योतिरादिसंज्ञानां विलम्बितत्वावधारणान व्रीहियवादिवद्वि. कल्पोपपत्तिः। अत एव यत्र न किञ्चिनियामकं लभ्यते तत्र विकल्पो ऽङ्गीक्रियत एव । यथा-"वैश्वानरो ज्योतिष्टोमः प्रायणीय. महर्भवति" इत्यत्र वैश्वानरप्रायणीयपदयोः । अत्र हि वैश्वा. नरदेवत्यग्रहणाम्नानाद्यागेऽपि प्रसङ्गेन तद्देवताजन्योपकारला. भाद्वैश्वानरपदवाच्यत्वोपपत्तेः वैश्वानरपदं तत्पख्यन्यायन ना. मधेयम् । प्रायणीयपदमपि प्राथम्यगुणयोगेन । एतयोश्च वि- . २५४ मीमांसाकौस्तुभे [संज्ञाधिकरण- निगमनाविरहेण द्वयोरप्येकस्मिन्नेव कर्मणि निवेशावगमादेक- संज्ञावरुद्ध संज्ञान्तरस्य वैयमित्येवंविधस्य च संज्ञाभेदकत्व. न्यायस्याऽभावेन कर्मान्तरबोधकत्वासम्भवात अगत्या ब्राह्या. दिवत् सङ्कल्पादावेकस्या उल्लेख इत्येवंविधो विकल्प एव । ज्यो. तिष्टोमपदं तु ज्योतिष्टोमविध्यन्तप्रतिप्रसवार्थ सन्नामातिदेशकम् । एतदभावे हि गणत्वसामान्यावादशाहविध्यन्त एवं प्राप्नुयात् , न ज्योतिष्टोमविध्यन्त इति विरोधे तस्यैव प्राप्त्यर्थ ज्योतिष्टोम- पदम् । तेन यत्र पूर्वस्मिन् कर्मण्ये कसंज्ञावरुद्धेऽपि संज्ञान्तरस्य कार्यान्तरकल्पनया सार्थक्यम् , यत्र वा विनिगमनाविरहेण द्वयोरपि बिकल्पः तत्र संज्ञायाः कर्मभेदकत्वाभावेऽपि यत्र पूर्व. कर्मण्येकसंज्ञावरुद्धे संज्ञान्तरस्य वैश्यर्थ्यप्रसङ्गः तत्र तेन स्ववि. षयसिद्ध्यर्थ कर्मान्तरकल्पनाऽऽवश्यक्येव । अस्ति च प्रकृते ज्यो. तिष्टोमसंज्ञाया उत्पत्तिशिष्टत्वाभावेऽप्यविच्छिन्नेऽधिकारे समाना. नेन तया शीघ्रमवरोधः, ज्योतिरादीनां च विच्छिन्नेऽधिकारे समानानात् कार्यान्तराभावाच्च वैयर्यप्रसङ्गेन तैरनवरोधः । अत एव "वसन्ते वसन्ते ज्योतिषा यजेते" त्यत्राऽविच्छिन्ने- ऽधिकारे समाम्नानात् ज्योतिसंज्ञायाश्च ज्योतिष्टोमसंकदेशत्वेन तदानुगुण्यान कर्मान्तरत्वम्। न वा "अथैष ज्योति रित्यस्यैव निमित्तसम्बन्धः, अपितु ज्योतिष्टोमस्यैव । अत एव यत्र तदानु- गुण्यम् , यथा-उद्भिदादौ, तत्र पूर्व संज्ञावरुद्ध सोमयागे उद्भि- संज्ञायाः कथमपि सार्थक्यासम्भवादसमप्यधिकारविच्छेदे संज्ञया केवलयैव कर्मान्तरत्वसिद्धिः । द्वयोरपि संज्ञयोरुत्पत्तिशिष्टत्वाभावा- विशेषाद्विकल्पो वैपरीत्यं वा किं न स्यादिति वाच्य. म; ज्योतिष्टोमपदप्रहात्तिनिमित्तस्य त्रिसदादिस्तोमसम्बन्ध- सिद्धान्तः ] द्वितीयाध्यायस्थ द्वितीयः पादः । २५५ . स्य(१) "प्रहं वा मृहीत्वे" ति वचनेन सोमयोग शीघ्र बुध्यमा. नत्वात् । अतः क्लुप्तप्रवृत्तिनिमित्तकज्योतिष्टोपसंज्ञावरुदे सो. मयागे उद्भित्संज्ञायाः सार्थक्यासम्भवायुक्तं तया कर्मान्तरमवम् । न चैवं गुणान्तर्भावः शङ्कनीयः, संज्ञाया हि पूर्वस्य कर्षणो नियमेन तत्कार्य नैराकांक्ष्यावगमे सत्येव स्ववैयर्थ्यभिया भेद- कत्वम् , गुणे तु पूर्वकर्मणो नैराकांक्ष्यनियममनादृत्य तत्र स्वस्था- ऽनिविशमानत्वमात्रेणैव भेदकत्वम् । न हि वाक्यभेदापादकगु. गभेदस्थ के पूर्वस्य विद्वद्वाक्यविहितस्य कर्मणो नैरपेक्ष्यं सम्भ- वति । अतो निवेशासम्भवेन गुणस्य भेदकता, वैयर्थेन तु संज्ञाया इति वैलक्षण्यम् । तस्मात्सिद्धः संज्ञया कर्मभेदः । एवं च तत्तद्विजातीययागत्वप्रकारकयागविशेष्यकशा. ब्दत्वावच्छिन्नं प्रति प्रवृत्तिनिमित्त सम्बन्धेन तत्तत्पदवत्ताज्ञानस्य कारणत्वकल्पनाल्लाघवम् । अन्यथा कर्मान्तरत्वानभ्युपगमा- त् तत्पदवत्ताज्ञानाभावेऽपि पदान्तरवत्ताज्ञानेन ताशका. यतावच्छदेकावच्छिन्नजननात् व्यभिचारापत्तेः शादिपर्यायवत तत्तत्पदश्रवणाव्यवहितोत्तरतादृशशाब्दत्वावच्छि- नं प्रति तत्तत्पदवत्ताज्ञानस्य कारणत्वमिति कल्पनात् कार्यता- वच्छेदके गौरवापत्तेः । अतः “अथैष ज्योति"रियादिषु त्रिषु वाक्येषु त्रीणि कर्माणि तत्तत्संज्ञानि विधीयन्ते । तेषां च या. गरूपत्वं अव्यक्तत्वसादृश्यप्रमाणकातिदेशोत्तरं गुणवाक्ये या. गानुवादाद्वा निश्चीयते । तानि च कर्माण्येतच्छब्देऽनूद्य सहस्रदक्षिणाविधानम् । फलवाक्ये च तेषां फले विधानम् । एतेनेत्येकवचनं च समुदायाभिप्रायेण राजसूयवत् बहुवलक्षणा• थम् । विश्वज्योतिरादिवाक्ययोश्चाऽथशब्दो न पूर्वयागाधिका- १. तै. सं. ३. १. २. ३३ मि० को । घटकल मीमांसाकौस्तुभे [ गुणाधिकरण- रविच्छेदकः, अपि तु यागान्तरोत्पश्यधिकारार्थः । अन्यथा पूर्व- आगे फलकरपनापत्तेः । सर्वथा सिद्धो भेदः । प्रयोजनं पूर्वपक्षे सहस्रदक्षिणायाः प्रकृतिभृतसोमयागार स्वादाद्यप्रयोगेऽपि तदनुष्ठानम् , सिद्धान्ते तु विकृतिविशेषाङ्ग- त्वान्नेति द्रष्टव्यम् । सूत्रं तु संज्ञाऽपि भेदिका, उत्पत्तावेव संज्ञान्तरेण संयोगादिति व्याख्येयम् । इत्यष्टमं संज्ञाधिकरणम् ॥ ८॥ अथ नवमं गुणाधिकरणम् ॥ १॥ गुणश्वाऽपूर्वसंयोगे वाक्ययोस्समत्वात ॥२-२-२२ ॥ (विषयसंशयौ) चातुर्मास्येषु वैश्वदेवे पर्वणि “वैश्वदेव्यामिक्षा बाजिभ्यो वाजिन"मिति श्रुतम् । तत्राऽमिक्षावाक्ये तावत् प्राप्तकर्मानुवादेन ट्रव्यदेवतारूपानेकगुणविधानाद्वाक्य भेदापत्तेः पौर्णमास्यधिकरणे प्रसङ्गादुक्तेन वाक्य भेदापादकेन गुणेनैव कर्मविधित्वमविवादम् । वाजिनवाक्ये तु किं पूर्वयागानुवादेन द्रव्यदेव तान्यतरविधिः, उत कर्मान्तरविधिरिति विचार्यते । (सङ्गतिः) पादाध्यायसङ्गती पूर्ववत् । अनन्तरा तु सत्यप्प सम्भववै- स्याभ्यां संज्ञागुणयोरवान्तरभेदे अनिविशमानत्वसाम्यात संज्ञाविचारानन्तरं गुणविचार इत्रि सङ्गतिः ।

.. पूर्वपक्षः ] द्वितीयाध्यायस्थ द्वितीयः पादः । २५७ ( पूर्वपक्षः) तत्र यद्यपि वाजिपदमश्वे प्रसिद्धम् , तथापि तेषां चतुर्यु- पात्तदेवतात्वेनाऽप्रसिद्धत्वात् वाजिपदस्य यौगिकत्वावगतेः वा. जमन्नं विद्यते येषां त इति व्युत्पत्या वाजिशब्दस्याऽऽमिक्षा. ख्यवाजरूपानयोगेन पूर्वोपस्थितविश्वदेवपरत्वावगत: तत्सम्ब. न्धेनैवाऽत्र वाजिनं द्रव्यं विधीयते, न त्वपूर्वदेवतासम्बन्धेन । ततश्च द्रव्यदेवतासम्बन्धाद्यागः कल्प्यमानो नाऽपूर्वः कल्प्यते, किन्तु विश्वदेवदेवत्ययागमेव कल्पितयजिपदेनाऽनूध तत्र वा. जिन विधीयते, ततश्च विवक्षितगत्या वाजिपदं कल्पितयजि. पदस्याऽऽमिक्षायागतात्पर्यग्राहकमित्येवं द्रष्टव्यम् । अत एव विश्वदेवदेवत्ययामोद्देशेन वाजिनविधानात् विशिष्टोद्देशे बाक्य- भेदोऽपि नाऽशयः, यजिपदस्यैव तात्पर्यग्राहकानुरोधेन वि. जातीययागपरत्वाङ्गीकारात् । कल्पितयजिपदेन वाजिनान्वया. ङ्गीकारादेव च कारकसम्बन्धप्रसङ्गात् चतुर्थ्यन्तवाजिपदानन्वयो. प्यनाशङ्ख्याः। न च तात्पर्यग्राहकस्याऽपि वाजिपदस्य वाजिप्सम्बन्धाविः शेषेण प्रकृतसर्वदेवतोपस्थापकत्वापत्तेः बहुवचनस्याऽधिष्ठाना. भिप्रायकत्वाङ्गीकारेऽपि चाऽप्रकृतमन्त्रदेवतोपस्थापकत्वस्याऽ. प्यापत्तेरामिक्षायागमात्रतात्पर्यग्राहकत्वानुपपत्तिरिति वाच्यम् ; वाजिशब्दस्य सर्वनामार्यकत्वात् तस्य चाव्यवहितपरामर्शकत्व सम्भवे व्यवहितपरामर्शकत्वस्याऽव्युत्पत्तिसिद्धत्वात् , विश्वदेव- मात्रोपस्थापकत्वसम्भवेनाऽऽभिक्षायागतात्पर्यग्राहकत्वोपपत्तेः । न चैवमुत्पत्तिशिष्टद्रव्यावरोधेनाऽनिवेशः शङ्यः, सामाच- नेनैव तस्मिन्यागे वाजिनविधानात् । अतश्च यथैव तस्मिन्यागे वाजिनमिति वाक्ये सति नात्पत्तिशिष्टप्राबल्यमभ्युपगन्तुं श. त - २५८ मीमांसाकौस्तुभे [गुणाधिकरण- क्यम् , वचनस्याति भाराभावात् , तथैवाऽत्रापीति द्रष्टव्यम् । तेना ऽऽमिक्षयाऽपि सह वाजिने समुच्चयो विकल्पो वा । यदि तात्पर्य- ग्राहके वाजिपदे बाजरूपाया आभिक्षायाः विशेषणत्वं ततः स. मुच्चयः, यापलक्षणत्वं ततो विकल्प इति द्रष्टव्यम् । अथवा अस्तु वाजिनपदमामिक्षायामनामधयेम्, वाजिन- स्याऽऽमिक्षानुनिष्पन्नतया शकल्लोहितादिवत्तद्यागसम्बन्धित्वेन प्राप्यत्वात् । अतश्च तत्पख्यन्यायेन वाजिनपदेनाऽऽमिक्षायागमा- मनूध वाजिदेवता उत्पन्न शिष्टाऽपि वचनाद्विधीयते । न च वाजिशब्दार्थस्य न देवतात्वम् , तत्त्वेमाऽप्रसिद्धेरिति शङ्यम् , तत्वेनामसिद्धानामपि वसन्तादिवदेवनात्वोपपत्तेः । एवञ्च वा. जिपदस्य न रूढार्थत्यागोऽपि । न चाऽस्मिन् पक्षे यजिपदकल्प- नाऽप्यावश्यकी, वाजिनपदेनैव तदुपस्थितेः । तस्मात् भेदकममा. णाभावात् प्रकृतहानाप्रकृतयागभावनापूर्वकल्पनाविशिष्टविधिगौ. रवाधभावाच्च कर्मैक्यमेव युक्तम् । किश्च सत्यप्युत्पन्न शिष्टत्वे यथा संरूषायाः पूर्वकर्मण्यनिवि- शमानाया आप न स्वसङ्गतये कर्मोत्पत्तिपरत्वम् , अपि त्वभ्या- सापादनेस लत्रैव निवेशः, तथा गुणस्याऽप्यभ्यासापादनेन विक- ल्पसमुच्चयाभ्यां वा तत्रैव निवेशोपपत्तेः न स्वसङ्गलये कर्मोत्प- त्तिपरत्वम् । अन्यथा हि(१) तत्रापि(२) तदापचेः इति प्राप्ते । (सिद्धान्तः) अभिधीयते-स्ववाक्योषात्तयोः द्रव्यदेवतयोः वाक्या- स्तरोपात्तद्रव्यदेवतापेक्षया शीघ्रोपस्थितिकत्वेन ताभ्यामेव या. गस्य नैराकाश्यप्रतीतेः न वाक्यान्तरोपात्तयोः तत्र निवेशो युक्तः । न चोत्पत्तिवाक्ये वैशिष्टयप्रतीत्या नैराकक्ष्यावगमेऽपि (१) बा . इति ख. ग. घ.। (२) तवापि इति घ पु.। :

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २५९ विशेष्यमात्रस्याऽनुवादादाभिधानिकाकाङ्कोपपत्तेः वास्तविक्या अपि च तद्वलेन कल्पनादुत्पन्नशिष्टस्याऽपि निवेशोपपति, क्ल- साकाङ्क्षाइतुकसम्बन्धेन कल्प्पाकासाहे तु कसम्बन्धस्य द्रव्यदेवत- स्यैवमपि बाघोपपत्तेश्च वाजिनवाक्यस्थयजेरधिकाराख्यप्रकरण. सापेक्षस्य प्रकृतयागोपस्थापकत्वात् तदनपेक्ष्यैवोपस्थापकस्या. ऽऽमिक्षावाक्य स्थस्य यजे द्रव्यदेवतापदान्वये सन्निकर्षाच्च । किचोभयत्रापि यजिकल्पकत्वमाधपक्षे द्रव्ये देवतासम्बन्धः, स चामिक्षायामेकपदोपादानात् प्रतीयते, वाजिनस्य तु पदान्त रोपादानादिति विप्रकर्षः । तथाहि-"वैश्वदेवी"ति तद्धिते ताव- द्विश्वे देवाः प्रातिपदिकार्थः, तद्धितार्थस्तु देवतास्वविशिष्टो द्रव्यविशेषो यः प्रकृतः, तद्धितस्य "साऽस्य देवते"ति सर्वना. मार्थे स्मरणात् । सर्वनाम्नां हि बुद्धिस्थप्रकारावच्छिन्नबोधक- त्वमनुभवासिद्धम् , अतश्च लाघवेन शक्तिकल्पनायां बुद्धिस्था- कारे एव घटत्वादौ तव्यक्तित्वादौ वा शक्तिः, न तु तदवच्छि. बेऽपि, तस्य व्यक्तिन्यायेन लाभोपपत्तेः । अत एवामिक्षापदस- मानार्थकत्वं सर्वनाम्नामुक्तं वार्तिककृता। न चैवं बुद्धिस्थत्व एव लाघवात् शक्तिरस्तु ? तस्य शाब्दबोधे मानाभावेन शक्ति- विषयत्वानुपपत्तेः। न चैवं तत्तत्प्रकाराणां युगपदनुपस्थितेः शक्तिग्रहासम्भवः शङ्या, बुद्धिस्थत्वस्यैवैकस्य शक्तिग्रहे उपलक्षणत्वात् । शक्ति- ग्रहे उपलक्षणस्यैव शक्यतावच्छेदकत्वमित्युत्सर्गस्तु मानाभा- वादपोदित इति न कश्चिद्विरोधः। सर्वनामार्थे च देवतात्ववि. शिष्टे तद्धितस्य शक्तिः । तथाहि-तद्धितपदश्रवणोत्तरं तावत् तद्वो. ध इत्यवश्यमङ्गीकर्तव्यम् , इतरथा देवतात्वमात्रवोधे आमिक्षाप- दसमानाधिकरण्यानुपपत्तेः, अतश्च सर्वनामार्थबोधस्याऽप्यावश्य- Cate २६० मीमांसाकौस्तुभे [गुणाधिकरण- कत्वात् तत्रापि शक्तिः । न च तस्य व्यक्तिन्यायेन बोधसम्भवः, तथात्वे (१)"साऽस्य देवते"ति सर्वनामार्थकत्वानुशासनबैय्या- पत्तेः । तदा हि (२)"सम्प्रदाने चतुर्थी तिवद्देवतायां तद्धित इसेवानुशिष्येत । एतेन देवतात्वस्य प्रकृतिप्रत्ययार्थसंसर्गबलादेव भानोप. पत्तेः सर्वनामार्थ एव तद्धितस्य शक्तिरङ्गिक्रियतामिति निर- स्तम् , संसर्गविधया भासमानस्य पदार्थानुशासनप्रवृत्तैरनुशा- सनानुपपत्तेः । अतो देवतात्वविशिष्टसर्वनामार्थ एव तद्धितस्य शक्तिः । सर्वनामार्थस्य देवतात्वं प्रति विशेष्यतायां च विभ- क्त्यान्वय एव बीजम् । विश्वेदेवास्तु सेत्यनुशासनेनाऽनुशिष्टा अपि न तद्धितार्थः, प्रकृतिपदार्थत्वात् । तस्य चाऽऽधेयत्वं देव. तात्वे संसर्मः । देवतात्वस्य च निरूप्यत्वं सर्वनामार्थे वैशि- ट्यमिति प्राश्चः । अस्तुवा देवतात्वस्यैव वा तद्धितवाच्यता, सर्वनामार्थस्य तु व्यक्किन्यायेन बोधः, सर्वनामार्थ एव शक्तिः, देवतात्वे कृदन्त इव कृती निरूढलक्षणा; अनुशासनस्याऽबोधव्युदासमात्र. फलकत्वेन निरूढलक्षणाज्ञापकत्वेन वोपपत्तेः । दृष्टं हि तादृशम- प्यनुशासनं "कमणि षष्ठी"खादि । तेन सर्वथा द्रव्यविशेषप्रत्य. यस्य तद्धिवपदादेव जायमानत्वादेकपदोपात्तस्तत्र द्रव्यदेवतास. म्बन्धः । न चैवमामिक्षापदवैय्ययं शक्यम् , तेनाऽऽमिक्षात्वा- नुपास्थितौ तद्धितस्य बुद्धिस्थप्रकारवाचिनस्वार्थबोधकतानुप- पत्तेः । तेनाऽऽमिक्षापदं तात्पर्यग्राहक सत्तद्धितपदार्थबोधे व्या. प्रियत इति देवताया आमिक्षासम्बन्धोऽपि तद्धितान्तपदा- योपस्थितिवेलायामेवेति न तस्य वाक्यीयत्वम् । २. पा. सू.२.३..१३. १.पा.स.४.२.२४.

सिद्धान्तः] द्वितीयाध्यायस्थ द्वितीयः पादः । २६१ अस्तु वा तद्धितान्तपदमात्रश्रवणे आमिक्षापदाश्रवणेऽपि द्रव्यविशेषसंशयोत्पादात् तद्धितान्तपदादेवाऽनिर्धारितद्रव्यविशे- षप्रतीतिः, आमिक्षापदं च पश्चादेव तन्निधारणार्थमिति न तस्य तद्धितपदार्थोपस्थितौ व्यापार इति, तथाऽप्यामिक्षापदस्य वि. शेषान्तरव्यावृत्तिमात्रफलकत्वेनाऽनिर्धारितद्रव्यविशेषे देवदास- म्बन्धस्य पदश्रुतिमात्रप्रमाणकत्वमव्याहतम् । वाजिभ्य इति चतुर्थीपञ्चमीसाधारणत्वाच्छन्दत एव तावत्सन्दिग्धम् , कथ. श्चिचतुर्थीत्वेन निणीयते, चतुर्थ्यपि च सम्पदानस्वमात्रचा. चिनी प्रतिगृहीतृत्वासम्भवात् देवतात्वमेव तावल्लक्षणया वदेव तु द्रव्यसम्बन्धम् , देवता हि स्वपतिसम्बन्धिनं द्रव्यमाक्षिपेदाप- पत्तिविधया, न तु शाब्दबोधे तस्य भानम् , आक्षेपोऽपि च सर्वप्रमाणप्रवृत्त्यस्तमये भवेत् , अस्ति चाऽत्र वाजिनपदसभि. व्याहार एव तत्र प्रमाणम् , अतो वाजिभ्य इति पदाद तद्विष यिणी आकाळेव केवलं भवेत् , न तु द्रव्यसम्बन्ध इति तस्य पदान्तरगम्यत्वादामिक्षासम्बन्धापेक्षया वाजिनसम्बन्धस्य वि. प्रकृष्टत्वम् । वाजिनपदस्य नामधेयत्वपक्षेऽपि च उपांशुयाजा- धिकरणोक्तप्रकारेण तद्धितोपात्तदेवतात्वैः विश्वैः देवरवरुद्ध यागे चतुर्युपात्तदेवतात्वानां वाजिनां निवेशायोगो द्रष्टव्यः । उत्पत्युत्पन्न शिष्टादिबलाबलं च समस्त्येव । न च पक्षद्वयेऽपि तस्मिन्नेव यागे वाजिनमितिवदत्रामिक्षायागानुवादाभावे आन. यक्यम् , कर्मान्तरविधानेनाऽपि चारितार्यात् । यच्चात्र संख्यावदभ्यासाद्यापादनेन पूर्वकर्मणि निवेश इत्यु. क्तम् , तद्वित्वादिसंख्यायाः पूर्वावधारितैकत्वादि संख्यासमा नाधिकरणत्वस्वभावतया तथाङ्गीकारेऽपि गुणे तदभावान्न नि वेशोपपत्तिः । कर्मस्वरूपे त्वेकत्वे सत्येवाऽभ्यस्ते तस्मिन्नेकादमा. , Gadwa २६२ मीमांसाकौस्तुभे [गुणाधिकरण- त्वं निविशते । वाजिनस्य स्वामिक्षासामानाधिकरण्येनानिये. शादभ्यस्तस्थाऽपि पूर्वकर्मणस्तत्त्वानपायेनाऽऽमिक्षयाऽवरोधान वाजिननिवेश इति वैषम्यम् । अतो द्रव्यदेवतासम्बन्धकल्पितं यागान्तरमेव सान्नाय्यप्रकृतिकं आमिक्षानुनिष्पन्नवाजिनप्रति. पत्यर्थतया आमिक्षायागमात्राङ्गत्वेन विधीयते । गुणश्चाऽत्र पूर्व कर्मण्यनिविशमानो भेदकः । अनिवेशश्च कचिद्वाक्यभेदापत्या । तदुदाहरणं च प्रसङ्गात् पर्णिमास्यधिकरण एव दर्शितम् । क- चिच्चैकप्रसरतामङ्गादिना तत्र तत्र वक्ष्यते । प्रकृते च सत्रिक- विप्रकर्षादिभिः । अत एव पार्थसारथ्युक्तद्वैविध्यमप्येकपसर- ताभङ्गादेरपि गुण एवान्तर्भावात् नातीवाऽऽदर्तव्यमित्यप्युक्तं पौर्णमास्यधिकरणे। यवत्र न्यायसुधाभवदेवाभ्याम् --उत्पत्तिशिष्टेकहा यन्यव- रुद्धेऽपि क्रये "(१)वाससा क्रीणाती"त्यादिना वासाप्रभृतिद्र व्यान्तरविधानम् , न हि तत्रोत्पन्नशिष्टानां गुणानां निवेशोऽस. म्भवी, आनतिरूपकार्यभेदात् । न चानतीनामेवैकसोममाप्तिज नकत्वेन विरोधसम्भवः, द्वारभूतस्य विक्रेतृमनस्समाधानस्या- नेकैरपि जननेनाऽविरोधसम्भवात् । अत एव तेषां द्वादशे समु- चय उक्तः, न च विनिगमनाविरहात् क क्रयविधिः क वा गुण. मात्रविधिरिते निश्चयासम्भवः, एकहायनीवाक्ये अनेकगुणोपा. दानस्यैव नियामकत्वात् इत्युक्तम् । तन्न, सोमचमसादिवैकृत. दक्षिण या प्राकृतदक्षिणाबाधस्य तन्त्रिदक्षिणया दक्षिणाप्रसङ्ग- सिद्धेश्च शतशो निरूपयिष्यमाणत्वेन विक्रेत्रानतिवशेन समुच्च- यस्य वक्तुभनुचितत्वात् । अत एव विक्रेताऽपि ऋत्विग्वत्तादृश एव सम्पायेत, य १. तै. सं.६. १.६ .

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २६३ एकमात्रद्रव्यानतः । द्वादशोक्तस्तु समुच्चयो "दशभिः क्रीणाती". वचनात् क्रयाणामेव सम्पद्यत इति न विरोधः । यदि तु क्रयैक्यमावश्यकम् , ततो "दशभिः क्रीणाती"नि वचनादेवो- त्पत्तिशिष्टद्रव्यावरोधेऽप्युत्पन्नशिष्टद्रव्याणां निवेशो वक्तव्यः। वस्तुतस्तु उक्तवचनस्य क्रयममुञ्चयो क्रयममुञ्चयार्थत्वेनाऽप्युपपत्ती द्रव्याणामवगतस्य परस्परनरपेक्ष्यस्य गुणविधया क्रयभेदकत्वस्य च बाधे प्रमाणाभाव एव । तस्मात्सर्वत्रैव गुणस्य पूर्वकर्मसं. योगासम्भवे भेदकत्वम् । न च पूर्वकर्मनिवेशासम्भवेऽपि वैश्वदे. ववाक्यवत् भेदकत्वाभावः शयः, विधायकत्वांशे आमिक्षावा. क्यस्य वाजिनवाक्यस्य च समत्वेनाऽनुवादकत्वशङ्कानुपपत्ते. रिति सूत्रार्थः ॥ २३ ॥ प्रयोजनं स्पष्टम् ॥ इति नवमं गुणाधिकरणम् ॥९॥ अथ दशमं गुणशेषाधिकरणम् ॥ १० ॥ अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत ॥२-२-२३॥ यत्रोत्पत्तिवाक्ये गुणो नैव श्रूयते, उत्पन्नवाक्येषु चैकैक एव श्रूयते, यथा-दध्यादौ, तत्राऽपि कर्मैकत्वे विकल्पमसङ्गाद पूर्वकर्मनिवेशानुपपत्तेः तत्तद्गुणविशिष्टतत्तत्कर्मण एव तत्चद्वा. क्ये विधेयत्वावगतेयुक्तो भेदः । न च विकल्पस्योचरकाली- नत्वात् पूर्वपमितविशेषणमात्राविधिलाघवेनाऽवगतस्य पूर्वकर्मनि- वेशस्य बाधानुपपत्तेः कथं भेदावगतिरिति वाच्यम् । अष्टदो- षदुष्टविकल्पानुरोधेन पूर्वप्रमितस्याऽपि निवेशस्य बाधोपपत्तेः । ३४ मी० कौ० मीमांसाकौस्तुभे [गुणशेषाधिकरणम् अन्यथा "नाऽनूयाजेषु ये यजामहं करोती"त्यादौ विकल्पप्रस- क्रेनाऽभावकाचिनो नमोऽन्योन्याभावलक्षकत्वमङ्गीकृत्याऽन्याज- भिन्नेष्विति पर्युदासाङ्गीकरणं न युज्यते । अतो विकल्पानुरोधे- नाऽप्यनिविशमानत्वोपपत्तेः पूर्वाधिकरणवदेव युक्तो भेद इति प्राप्ते- अभिधीयते-नान पूर्वकर्मानिवेशः, गुणमात्रविधानेन तदुपपत्तेः । न च विकल्पमसङ्गस्तद्वाधकः, तस्य तत्तद्वाक्या. थपर्यालोचनकालेऽनुदयेन फलमुखत्वात् । 'नानूयाजेष्वि'त्यत्र तु प्रतिषेधपक्षे तस्य प्राप्तिसापेक्षत्वात् प्रापकप्रमाणप्रत्युत्तरकाळ. प्रतित्वावगतः, तस्य च शास्त्रत्वेनाऽत्यन्तबाधायोगाद्विकल्पस्य वाक्यार्थबोधवेलायामेव प्रतीतेयुक्तं तदनुरोधेन लक्षणाश्रयणम् । वस्तुतस्तु अन्योन्याभाववत्यपि "तदन्यतविरुद्ध तदभावेषु नम्" इति प्रसिद्ध नः शक्तिरेवेत्यनूयाजपदमनूयाजभिन्नलक्ष- कम् , नञ्पदं तात्पर्यग्राहकम् , प्रत्ययार्थान्वयानुरोधात् । अत एव प्रतिषेधापेक्षया पर्युदासो दुर्बल इति वक्ष्यते । प्रकृते तु द. ध्यादिविधीनामन्योन्य सम्बन्धानादरेण प्रधानविधिमात्रसम्ब- न्धिनामेकवाक्यार्थबोधवेलायामितरापेक्षाभावात् विकल्पस्योत्त. रकालिकत्वमिति विशेषः । न चैवमपि पाठक्रमेण प्रधानविधेरेकसम्बन्धावगमोत्तरम. न्यसम्बन्धायोगात् वाजिनन्यायेन भेदोपपत्तिः, प्रधानविधेः पर्यायेणाऽङ्गताग्राहकत्वस्य(२)एकादशे निषेत्स्यमानत्वेन पाठस्या- ऽनियामकत्वात् । अत एव तादृशस्थलेऽनुष्ठानवेलायामप्यनि- यामकः पाठो नान्तरीयकत्वात् पारायणादावेवोपयुज्यत इति द्रष्टव्यम् । अतः सर्वेषां युगपत् सम्बन्धान वाजिनन्यायनाऽपि भेदकत्वमिति । १. पू. मी. ११.१.८.

द्वितीयाध्यायस्य द्वितीयः पादः । प्रयोजनं-पूर्वपक्षे दध्यादिहोमानां समुच्चयः, सिद्धान्ते द. ध्यादीनां विकल्प इति । अथवेदं सूत्रं वाजिनन्यायप्रत्युदाहरण- मेव, न त्वधिकरणान्तरम् । सूत्रं स्पष्टम् ॥ २३ ॥ इति दशमं गुणशेषाधिकरणम् ॥ १० ॥ अथैकादशमिन्द्रियकामाधिकरणम् ॥ ११ ॥ फलश्रुतेस्तु कर्म स्यात फलस्य कर्मयोगित्वात्॥२-२-२४॥ ( विषयसंशयौ) अग्निहोत्रं प्रकृय "दन्नेन्द्रिय कामस्य जुहुया"दिति श्रुतम् । तत्र किं तस्यैव कर्मणो दधिविशिष्टस्य फले विधानम् ? उत कर्मान्तरस्य दधिविशिष्टस्य ? उत दन एवं फले विधानं, होम. स्त्वाश्रयत्वेन प्रकरणप्राप्तोऽनूधत ? इति विचारः । (सङ्गतिः) आधपक्षे भावनाभेदाभावादितरयोश्च गुणप्रमाणकस्य तस्य सत्त्वात् पादाध्यायसङ्गती स्पष्टे । अनन्तरा तु पूर्वसूत्रस्य प्रत्युदाहरणत्वपक्षे पूर्वाधिकरणोक्तवाक्यभेदापादकगुणस्याऽप वादाद्रष्टव्या। न च तस्य पौर्णमास्यधिकरणे निरूपितत्वान्न पूर्वाधिकरणविषयत्वमिति वाच्यम् । गुणमात्रस्य पूर्वाधिकरण. विषयत्वेऽपि प्रसादन्यत्र निरूपणे बाधकाभावात् , वाजिनवा- क्येऽपि पूर्वयागानुवादेनोभयविधौ तस्य वक्तुं शक्यत्वाच । अधिकरणान्तरत्वपक्षेऽपि च "गुणस्तत्र प्रतीयेते"ति पूर्वसूत्रो. काया गुणस्य पूर्वकर्मागताया अपवादाद्रष्टव्या।

मीमांसाकौस्तुभे [इन्द्रियकामाधिकरण- (पूर्वपक्षः ) तत्रेन्द्रिय कर्मिकायां भावनायां भावार्थाधिकरणन्यायन होमस्यैव करणत्वोपपत्तौ न तावत् गुणस्य करणत्वोपपत्तिः । नाऽपि कर्मान्तरम् , भेदकप्रमाणाभावात् । तथा हि-भेदकपमा- णानां मध्ये गुणस्त्वया भेदकत्वेन शक्यते ? प्रकरणान्तरं वा ? नाऽऽद्य: उत्पत्तिशिष्टगुणान्तराभावेन वाजिनन्यायेन तस्याऽभे- दकत्वात् । ननु तथाऽप्युत्पत्तिवाक्ये कर्मणः प्राप्तत्वात् तदनुवादेन फ- लसम्बन्धस्य गुणसम्बन्धस्य च विधौ वाक्यभेदापत्तेः तदापा- दकस्य गुणस्य भेदकत्वं भविष्यत्येव । न च गुणस्य "दना जु. होती"त्यनेनैव प्राप्तत्वात् तदाचकपदस्याऽनुवादकत्वेन नामधे. यत्वेन चोपपत्तेः केबलफलसम्बन्धमात्रकरणान्न वाक्यभेद इति वाच्यम् । अग्निहोत्रे द्रव्यान्तरस्याऽपि विहितत्वेनेन्द्रियकामप्रयोगे दध्नो नियमेन प्राप्त्यभाबाद पाक्षिकानुवादकत्वनामधेयत्वयोर- सम्भवेन विधेयत्वापत्ते वाक्य भेदानिवारणात् गोदोहनादानां कदाचिदपि प्राप्यभावेन एतत्परिहारानुपपत्तेश्चेति चेन्न; उत्पन्न स्याऽपि कर्मणः फलोद्देशेन विधेयत्वात् , तत्र गुणविशिष्टस्य वि. धानोपपते, अन्यथा "राजा राजसूयेने पत्र प्राप्तस्याऽपि राज. ध्यस्थ राजकविशिष्टस्य फळे विधानानुपपत्तेः । न च तत्र राजपदस्य स्वाराज्यकामपदसमभिव्याहारादधि. कारिविशेषणत्वमात्राङ्गीकाराग्वैतादृशवाक्याांजीकरणमिति वा- व्यम् । तथात्वे उद्देश्यविशेषणत्वेन स्वाराज्यकामपदोपात्तपुंस्त्व- बद्राजत्वस्याऽप्यविवक्षापत्तेः । अत एव शुचित्वाहितामित्वादीन्यपि तचत्यमाणप्रमिता- न्येव मिलित्वा स्वातस्येणाऽधिकारविधि कल्पयान्ति, न तु २६७ पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः । श्रूयमाणे विधौ विशेषणतां प्रतिपद्यन्ते । अतश्च राजत्वस्य कर्तृत्वेनैव यागविशेषणत्वस्य वाच्यत्वात् कर्तृविशेषणस्याऽपि चाऽर्थादधिकारिविशेषणत्वेन कल्पनोपपत्तेः फलोद्देशेन विशि- ष्टयागविधानादेव वाक्यभेदपरिहारो वाच्यः । न च राजत्वस्योपादेयकर्तृविशेषणत्वे तत्पदोपात्तस्य पुंस्त्व. स्याऽपि विवक्षापत्तिः, प्रमाणान्तरेण स्त्रिया अध्यधिकारावगमेन "वसन्ते ब्राह्मणोऽनीनादधीते"तिवत् कस्यचिल्लिङ्गस्य साधु- स्वार्थ वक्तव्यस्याऽवर्जनीयतया पुंस्त्वानुवादेन गौरवापादकविधे. यताङ्गीकारानुपपत्तेः । अतो यथैव राजत्वविशिष्टस्य प्राप्तस्या- ऽपि राजसूयस्य फलोद्देशेन विधानान्न वाक्य भेदः, तथात्राऽपीति द्रष्टव्यम् । अवश्यं चाऽयं प्रकार: "त्रिदाग्निष्टुदग्निष्टोम" इत्यु. त्पत्तिवाक्यप्राप्ताग्निष्टुत एव "वायव्यास्वेकविंशमामिष्टोमसाम कृत्वा ब्रह्मवर्चसकामो घेतेन यजेते"ति फलवाक्ये अग्निष्टोम- कत्तिवायवादिगुणविशिष्टस्य फलोद्देशेन विघानादङ्गीकर्तव्यः । दर्शपूर्णमासवाक्ये च साहित्यविशिष्टानां प्राप्तानामप्यामेयादीनां फले विधानात् । तस्मान्न तावत् गुणात् भेदः । एव फलरूपानुपादेयगुणयोगादनुपादेयगुणवि- शिष्टस्य कर्मणो मासाग्निहोत्रवदुत्सर्गतः प्राप्तस्य विधेयत्वस्याऽ. पबादकाभावात् प्रत्यभिज्ञायाश्च प्रणयनादिमात्रविषयिण्यो भिन्न- विषयत्वेन गोदोहनविशिष्टप्रणयनवृचिविधेयतापादकत्वायोगात् दध्यादावपि दधिमात्रविशिष्टहोमवृत्तिविधेयताया दशद्रव्यवि- शिष्टहोमविषयकासभिज्ञयाऽपवादायोगस्य तुल्यत्वादनुपादेयगु. णसहकृतानुपस्थितिरूपमकरणान्तरमेव मूळोक्तं भेदकं प्रत्युक्तम् । राजसूयादिस्यले विशेष्यमात्रप्रत्यभिज्ञायाः तन्मात्रवृत्युत्पत्ति विधिविषयतारूपविधेयताप्रतिबन्धत्वस्यैव प्रकृतेऽपि सम्भवात् । अत ESSA २६८ मीमांसाकौस्तुभे [इन्द्रिकामाधिकरण- तस्मात् भेदकप्रमाणासम्भवेन कर्मान्तरत्वायोगात् तदेव कर्म गुणविशिष्टं फलोद्देशेन विधीयत इत्येकः पक्षः । तत्र पूर्वसूत्रमपि योजयितुं शक्यत इत्येवं योज्यम्-अगुणेऽपि कर्ममापके शब्द इति तत्र फलसम्बन्धकरणे गुणोऽपि वैशिष्टयेन प्रतीयेतेति । द्वितीयस्तु-गुण एव वाक्यभेदापादको भेदकः । तथाहि- विधिस्तावत् चतुर्विधः-उत्पत्तिविधिः विनियोगविधिः प्रयोगवि. धिरधिकाराविधिरियविवादम् । अङ्गान्यपि च कानिचिद्रव्य. देवतादीन्युत्पत्तौ, कानिचित् साहित्यादीनि विनियोगे, कानिचिच्च कर्तृदेशकालादीनि प्रयोगेऽन्वीयन्ते (१)इत्यप्येका. दशे वक्ष्यते । अत एव द्रव्यादीनां प्रधानमात्रे कादीनां च साले प्रधाने निवेशो लभ्यते । अत एव यत्रैकस्मिन्नेव वाक्ये विधिचतुष्टयं विधित्रयं विधिद्वयं वा तत्र पूर्वविशिष्टापराविध्यङ्गी- कारेऽपि यथायोगमकानामन्वयो द्रष्टव्यः । तदिह दनः उत्प- तावन्वयायोग्यस्य विनियोगान्वयादिन्द्रिय कामवाक्ये च तव मते विनियोगमात्रकरणेनोत्पत्त्यविधानाद्वैशिष्ट्यासम्भवेन प्राप्तो- त्पत्त्यनुवादेन दधिविधिः, इन्द्रियोदेशेन च होमविनियोगविधि- रिति वाक्यभेदो दुरपह्नवः । देशादिवाक्ये तु साहित्यस्य वि. नियोगविधावन्वययोग्यत्वेन फलोद्देशेन विधेयविनियोगविशेष. णत्वोपपत्तेः विशिष्टविधिसम्भवान भेदः। एवं राजसूयवायव्यादिवाक्येष्वपि विषयस्य विशिष्टविधि. सम्भवेन वाक्यभेदः परिहर्तव्यः । यधपि चाऽनुमत्यादीनां प्र. त्येक दैशिककालिकप्रयोगा देशकालविधिषु प्राप्ताः, तथाऽपि अप्राप्तकर्तृसम्बन्धेन प्रयोगान्तरविधिः कालसम्बन्धन प्राप्तेऽपि दर्शपूर्णमासप्रयोगे समवाक्ये देशसम्बन्धेन प्रयोगान्तरराविधि- १. पृ.मी. ११. २.१.

सिद्धान्तः] दितीयाध्यायस्थ द्वितीयः पाद: २६९ ०० अतो रूपसवात् बन्नाऽनुपपन्नः । अयश्चैकः प्रयोगो मुख्यकर्तृविषयः, प्रत्येक दक्षिणान्नानात्तु ऋत्विकर्तृविषया भिन्ना एव प्रयोगा इति द्रष्टव्यम् । वायव्यवाक्येऽपि च क्त्वाप्रत्ययोपात्तस्य पूर्वकालत्वादेः प्रयोगविशेषणत्वात् न वाक्यभेद इत्युत्तराधिकरणे निरूपाय. व्यामः । तस्मादधिवाक्ये वाक्य मेदसम्पादकस्य गुणस्यैव भेद- कस्य सत्त्वात् कर्मान्तरत्वोपपत्तिः । न च रूपाभावाद्विधानयोग्यत्वम् , सत्यपि दर्वीहोमत्वे आ. कांक्षावशेन दघिद्रव्यहोमवसादृश्येन चाऽग्निहोत्रधर्मातिदेशोप- । न द:होमानामपूर्वस्वमिति राजाज्ञा, कृत्स्नविधानत्वात् प्रकृतिविशेषनिर्णयाभावाच्च तदिति हि(१) वक्ष्यते । न चाऽत्र तद्वयमप्यस्ति, कर्मान्तरत्वमेव युक्तम् । सूत्रं तु-फले होमविनियोगस्य श्रवणात् तत्र च दध्याध. न्वयायोगेन कर्मान्तरमेव विधेयं स्यात् । न च गुणफलसम्बन्ध- शङ्का, फलस्य भावार्थाधिकरणन्यायेन कर्मयोगित्वावगमादिति व्याख्येयम् ।। २४ ॥ ( इति पूर्वः पक्षः) ( अथ सिद्धान्तः) अतुल्यत्वादाक्ययोर्गुणे तस्य प्रतीयेत ॥२-२-२५॥ तत्र भावार्थाधिकरणन्यायो यत्र धात्वर्थादनुत्तारणं विधेः । तदपि च यत्र धात्वर्थमात्रममाप्तम् , धात्वर्थनामार्थावुभावप्राप्तौ, यत्र वोभी सम्भवत्माप्तिको, प्राप्तौ वा, यथा-"अग्निहोत्रं जुहो. ति" "सोमेन यजेत" "उरुमथस्वेति पुरोडाशं प्रथयति" १. भाट्टदीपिकायामष्टमाध्याये चतुर्थपादे । .

२७० मीमांसाकौस्तुभे [ इन्द्रियकामाधिकरण- "ऐन्द्रवायचाग्रान् गृह्णीयाधः कामयेत यथापूर्व प्रजाः कल्पेर- भि"त्यादौ । अत्र हि ऐन्द्रवायवाग्रतायाः पाठाद्रहणानां च तत्तद्विधिभ्यः प्राप्तत्वेऽपि प्रजाफलसम्बन्धो ग्रहणानामेव भावा- र्थाधिकरणन्यायेनेति (१)दशमे वक्ष्यते । यत्र तु नामार्थ एवाऽप्राप्तः तत्र तन्मात्रसंक्रान्तत्वाद्विधि- शक्तधात्वर्थविधाने गौरवापत्तेरन्यतः प्राप्तधात्वर्थानुवादमपेक्ष्य गुणमात्रं विधिविधत्ते । तत्र धात्वर्थाशे विधेयताया अभावेन प्रयोजनाकाङ्क्षत्वात् फलसम्बन्धस्य पक्षेऽप्यप्राप्तत्वेन प्रयासत्ते- रनियामकत्वाद न भावार्थाधिकरणन्यायप्रवृत्तिरिति नामार्थस्यैव विधेयत्वेन प्रयोजनसाकाङ्कत्वात् फलसम्बन्धः स्वीक्रियते । एवं नामार्थेष्वपि यत्र कश्चिदेवार्थोऽप्राप्तः अन्ये तु प्राप्ताः, तत्राऽपि तस्यैव फलसम्बन्ध इति द्रष्टव्यम् । अत एव "साकं प्रस्थायीयेन यजेत पशुकाम" इत्यादौ सहत्वमानं फलाय विधी- यते न तु यागः प्रस्थानं वेति (२)वक्ष्यते । तदिह धात्वर्थस्याs. भ्यतः प्राप्तत्वात् गोदोहनादेश्वगुणस्याऽप्राप्तः दध्यादेश्च नियमे- नाऽमाप्तः तस्यैव फलसम्बन्धः । यद्यपि च दधिहोमयोरुभयोरपि स्वरूपेण प्राप्तिः इन्द्रिय. सम्बन्धेन चाऽप्राप्तिस्तुल्या, तथाऽपीन्द्रियकामपदाभावे द. धिनियमं कर्तुमारभमाणस्य विधेः दधिमात्रविषयत्वप्रतीतेः त. स्यैव फलसम्बन्धात् । न च दधिनियमस्याऽपि “दना जुहोती" त्यनेनैव प्राप्तवादैन्द्रवायवादिग्रहणवद्धार रात्वर्थस्यैव फलसम्बन्धी युक्त इति वाच्यम् । तथात्वे दधिपदस्य पाक्षिकानुवादवैय्या. पत्तेः दधिविशिष्टधात्वर्थस्य फलसम्बन्धे गौरवापत्तेः दधिमा- त्रस्य फलप्सम्बन्धाङ्गीकारात् । १. पू. मी. १०. ५.१८. पू. मी. २.३.४, २.

- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। २७१ ऐन्द्रवायवाग्रत्वस्य तु शुक्राग्रत्वेन पाक्षिकानुवादाद्या- पत्तावपि न फलसम्बन्धः, तथात्वे काम्यत्वेन बृहत्सामत्व- पक्षेऽपि तदापच्या "यदि रथन्तरसामे"त्येतद्वाक्यावगताया रथन्तरसामकत्वाभाचे ऐन्द्रवायवाग्रत्वाभावव्याप्तेर्भङ्गापत्तेः । अतस्तात्पर्यग्राहकानुरोधेन तत्र पाक्षिकानुवादत्त्वमङ्गीकया. ऽपि धात्वर्थस्यैव फलसम्बन्धः, न तु प्रकृते । अतो दधि- पदवाच्या दधित्वादिजातिरेव तल्लक्षितव्यक्तिर्वा फलार्थ वि. धीयते । तस्याश्चाऽऽश्रयत्वेन प्रकरणप्राप्त एव होमो जुहोतिना. ऽनूयते प्रत्ययसाधुत्वाय । तथा हि-दध्यादेस्तावन सिद्धरूपत्वेन न यागादिवत् क्रियान्तरानपेक्षस्य फलजनकत्वम् , तथात्वे वि- धिं विनाऽपि फलकामनायां सत्यां कारणस्य सत्त्वेन फलोत्पत्यु. पपत्तौ कारणविधिवैयापत्तिः। न हि कार्यकारणभावो विधि- ना जन्यते, अपि तु बोध्यते । न च तद्वोधस्य यागादाविव कि. श्चित्फलमस्ति, तमन्तरेणापि कारणस्य सत्वेन फलोपप सेः । अत एवेतिकर्तव्यताविधय एव परमुपयुज्यन्तां, न तु दधिरूप- करणविधिरपि । अतो विधिसार्थक्याय दृष्टविधया कृतिसाध्य. घात्वर्थविशेषरूपाश्रयसम्बन्धित्वमवश्यमपेक्षणीयम् । तत्र च यद्यपि योग्यताबलेन स्त्रोत्पादनस्वसाध्यभोजन- होमायनेकधात्वर्थविशेषसम्बन्धी नियमेन प्रसज्यते, तथापि प्र. करणेनाऽधिकाराख्येन विधिकल्पनद्वारा होमस्यैवोपनयान्नेतर. धात्वर्थानामाश्रयत्वप्रसक्तिः । अत एव न कल्पितेनाऽपि विधिना दधिहोमयोरङ्गाङ्गिभावो बोध्यते, गौरवात् , क्लुप्तप्रयोजनत्वाच्च अपि तु लोकसिद्धकार्यकारणभावनियममात्रम् -दना होमः क- . तव्य इति । न च दधिजन्यहोमकर्तव्यताया अपि “दधा जुहोती"त्य- ३५ मी० का० २७२ मीमांसाकौस्तुभे [इन्द्रियकामाधिकरण- नेनैवाऽवगतिसिद्धेर्दधिविशिष्टहोमानुष्ठानेनैव फलोपपत्तौ पुन रपीन्द्रियकामवाक्यवैयापत्तिः, इन्द्रियकामनाया अधिकारि. विशेषणत्वज्ञापनफलकत्वेन सार्थक्यात् । एतद्विध्यभावे हि दधिविशिष्टहोमानुष्ठानस्य नेन्द्रियोद्देश्यकता सिध्यतीति तत्सि. ध्यर्थमिन्द्रिय कामविधिरर्थवानव । प्रकरणकल्पितविधिबलादेव वाऽऽश्रयलाभसिद्धेः न “दना जुहोती त्यादेराश्रयसमर्पकत्व. माशङ्कनीयम् । अतोऽनन्यलभ्यत्वात्तेन क्रत्वर्थतेव बोध्यत इति ध्येयम् । अन्यकभ्यत्वादेव चेन्द्रियकामवाक्यस्थजुहोतिना ऽप्याश्रयतासम्बन्धेन होमविशिष्टदधिविधानमङ्गीकृत्याऽऽश्रय. विधिरित्यपि निरस्तम् । यथा च प्रकारान्तरेणाऽपि न वाक्ये. नाऽऽश्रयविधिः तथाऽग्रिमाधिकरणे वक्ष्यते । अङ्गतासम्बन्धेन होमविशिष्टदधिविधिस्तु होमस्य प्रयोजनानाकाङ्कत्वानिराकर्त- व्यः । अतोऽत्र दधिमात्रमेव फलोद्देशेन विधीयते । होमस्वाश्र. यतासम्बन्धेन प्रकरणप्राप्तो जुहोतिना साधुत्वार्थमन्द्यते । अत एव भावनाया दधिकरणिकाया अवच्छेदकीभूतधा. स्वर्थविशेषापेक्षायां समानपदश्रुत्युपात्तो होमोऽवच्छेदकतयाऽन्वि. तोऽपि न तदंशेऽपि विधिव्यापारकल्पना, होमावच्छेदस्य महा. प्रकरणात् प्रणयनाद्यवच्छेदस्य चाऽवान्तरप्रकरणाल्लाभोपपत्तेः । अत एव करणविधिवैयर्थ्यस्याऽऽश्रयत्वनियामकत्वात् भावनाया अवच्छेदकापेक्षाऽपि तन्नियामिकेति द्रष्टव्यम् । किञ्च यत्र ससम्बन्धिक एव पदार्थोऽप्राप्तत्वेन फलोद्देशेन विर्धाय ते, तत्र तस्य सत्यपि यागादिवत् साक्षात्कृतिव्याप्यत्वे ससम्बन्धिकत्वादेव प्रतिसम्बन्धिरूपाश्रयलाभो न विरुध्यते, यथा-"पशुकाम उक्थ्यं गृहीया"दित्यादौ, उक्थ्यादिपदाभि- धेयायास्संस्थायास्समापयतिधातुवाच्यत्वेन यागादिवत्साक्षा- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २७३ स्कृतिसाध्यत्वेऽपि ससम्बन्धिकत्वादेव प्रतिसम्बन्धिभूतज्योति- टोमरूपाश्रयलाभः । यदा तु सौभराधिकरणन्यायसुधाकदुक्तरीत्या उक्थ्या. दिपदवाच्यग्रहयागाभ्यासा एव फले विधीयन्ते, तदाऽप्यभ्या. सस्य प्रतिसम्बन्धियागापक्षयैव ज्योतिष्टोमस्याऽऽश्रयत्वम् । यथा- चाऽयं पक्षो दुश्लिष्टस्तथा (१)संस्थाधिकरणे वक्ष्यामः । सर्वथा कृतिसाध्यधात्वर्थविशेषसम्बन्धित्वं दृष्टविधया फलार्थ विधीय. मानस्य गुणस्य स्वनिष्ठकरणतासम्पादकत्वेनाऽपेक्षितम् । अत एव न विर्धायमानगुणजन्य त्वमेवाऽऽश्रयत्वम् , तदभावेऽपि "मन्थ्य मानभिचरन्" इत्यादौ ग्रहणानां मन्थिग्रहाग्रत्वरूपगु: णाश्रयत्वदर्शनात् । अपि तु अदृष्टाद्वारकसम्बन्धेन गुणविशेषाव. च्छिन्नत्वम् । अष्टाद्वारकेति पदकृत्यं तु वारवन्तीयादेरग्निष्टो. मस्तोत्रजन्यादृष्टद्वारा यागेन सम्बन्धात् तस्याऽऽश्रयत्वव्यावृत्ति रित्युत्तराधिकरणे वक्ष्यते । तदेवं दध्यादौ यागादिवत्फल. निरूपितैव करणतेति पक्षमाश्रित्य करणविधिवैयादिना आश्र. याकांक्षोपपादिता । यदा तु दनेति तृतीयोपाचं करणत्वं नेन्द्रियनिरूपितम् , अपि तु करणतासंसर्गेणैवेन्द्रियेऽन्वेति, अतश्च करणत्वविशिष्टस्य दन्नो दधिविशिष्टस्य वा करणत्वस्य करणतासंसर्गेणेन्द्रिये सम. न्वयो न तु यागादिवत्तृतीयोपात्तस्य करणत्वस्य निरूपकता. संसर्गेणेति पक्ष आश्रीयते, तदा तृतीयोपात्तस्य करणत्वस्य नि- रूपकापेक्षायां प्रतिसम्बन्धिविधयैव प्राकरणिकायलाभो न विरुध्यते । परन्तु निरूपकतासंसर्गापेक्षया करणतासंसर्गस्य गुरु- भूतत्वाधागादिलक्षण्ये प्रामाणाभावाचाऽयं पक्षो नातावाऽऽद्रि- १. पू.मी. ३.६.८.

२७४ मीमांसाकौस्तुभे [इन्द्रियकामाधिकरण- यते । सर्वथा प्रकरणादायलाभोपपत्तेरनेन गुणमा विधीयते । भावनाऽपि च सैव, धात्वर्थवत्तस्या अपि प्रत्यभिज्ञायमानत्वात् । न च प्राप्तभावनानुवादेन गुणसम्बन्धः फलसम्बन्धश्च विधीयेतेति वाक्य भेदापादकगुणादेव भेदः, भावनायाः फलसम्बन्धस्य राग- प्राप्तत्वेनाविधेयत्वादिति भवदेवः । वस्तुतस्तु इन्द्रियाख्यफलस्य जन्यत्वेन व्यापारमात्र जन्य. स्वावगमेऽपि लोकाद्विजातीययत्नजन्यत्वानवगमाद्विशेषतश्चाऽग्नि- होत्रहोमानुकूल यत्ने स्वर्गादिजनकत्वेनाऽवगते इन्द्रियजनकत्वस्य प्रमाणान्तरेणाऽनवगतेाक्येनैव विधेयत्वापातात् दधिरूपद्रव्यस्य चोत्पत्तावन्वयेन राजम्यन्यायाविषयत्वादाक्य भेदावश्यम्मा वेन गुणात् भेद एव । न ह्यत्र धात्वर्थाविवक्षावद्भावनाया अप्य. विवक्षामङ्गीकृत्य गुणफलयोरेव मिथोऽन्वयो वक्तुं युक्तः, कार. कान्वयस्याऽव्युत्पन्नत्वात् । अतो भावना भिन्नैव । सकृदनु. छानेऽपि सान्नाय्यादिवत् तत्तज्जात्यवच्छिन्न व्यक्तिद्वयोत्पत्त्यजी- कारान्नैकव्यत्याश्रितजातिद्वयाङ्गीकारापत्तिः । अस्तु वा तत् , तथाऽपि न साङ्कर्यम् । होमविधिविधेय. तावच्छेदकजातेर्गुणविधिविधेयतावच्छेदकजातिव्यतिरेकेण स स्वेऽपि तस्यास्तव्यतिरेकेणाऽन्यत्राऽसत्वात् । व्यक्तिभेदपक्षे तु यत्नद्वयस्याऽप्यवच्छेदकीभूतो धात्वर्थ एक एव, प्रमाणवलेन चैकस्य धात्वर्थस्य युगपदुत्पद्यमानयनद्वयजन्यतापि जायमाना न विरुध्यते । तस्मादत्र दधिकरणकमिन्द्रिय कर्मकं भावनान्तर- मेव विधीयत इति सिद्धम् । अपूर्व तु दधिजन्यमेकमिन्द्रियजनकम् , होमजन्यं च स्वर्गादि- जनकमपरम् । अपूर्वस्य शक्तिरूपत्वेन शक्तिमझेदे भेदस्याऽऽवश्य. कत्वात् । आश्रयस्य प्रणयनादेईष्टविधया स्वकार्योपयोगे तु गुणज.

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः ! न्यमेव पश्वादिजनकं न विन्द्रियाउनुकूलं होमजन्यमपरम् , होम- स्योत्तरक्षण एव दधिनिष्ठकरणतामम्पादकत्वेनाऽपूर्वाजनकत्वाद। यदि ह्याश्रयत्वं नामाऽवान्तरव्यापारत्वमुच्येत, ततः क्षणिकस्य होमस्येन्द्रिय जनकत्वायोगात् तदनुकूलमप्यपूर्व कल्प्येत । न तु तच्चे प्रमाणमस्ति, करणविधेः तज्जन्यत्वमात्रेणाऽप्युपपत्तेः तज्जन्यज- नकत्वस्याऽपि कल्पने गौरवात् । अतो गुणफल सम्बन्धस्थ ले भावनाभेदात् गुणजन्यमप्यपूर्व भिन्नमेव । भावनान्तरस्य चेतिकर्तव्यतापेक्षायामाश्रयतो धर्मातिदेशः । तथा हि-न तावदाश्रयस्यैव प्रकरणादितिकर्तव्यतात्वेनापि ग्रहणं शक्यम् , वाक्येन स्वर्गादिसंयुक्तस्य होमस्य प्रकरणावि. षयत्वात् । न चाऽङ्गत्वाभावेऽप्याश्रयस्य सतः प्रसङ्गेनेतिक तव्यताका निवर्तकत्वोपपत्तेः नाऽतिरिक्ततिकर्तव्यताकाङ्के ति वाच्यम् । आश्रयस्य करणतानिर्वाहकत्वेन करणकोटावन्त भावात् तदनुग्राहकेतिकर्तव्य ताया भेदेनैवाऽपेक्षितत्वात् । आश्र. याकाङ्क्षा करणाकाङ्क्षातो भिन्नति मते आश्रयस्य करणकोटाव. नन्तर्भावेऽप्याश्रयस्य दृष्टविधया करणतासम्पादकस्याऽदृष्टार्थाया भावनाया अदृष्टोपायापेक्षत्वात् न तदुपकारकत्वं सम्भवतीति युक्तं तव्यतिरिक्ततिकर्तव्यतापेक्षणम् । यद्यप्याश्रयान्तरकरणे फलानुत्पत्तेराश्रयनियमादृष्टस्याऽ. प्युत्पत्रावश्यकत्वात् तद्वारा तन्निपमस्पतिकर्तव्य तात्वमाशझ्येत, तथाऽपि दध्यादिगुणसन्निपत्योपकारस्य क्रयसम्पादनादरपोक्षि- तत्वात् आश्रयसमानविधानत्वस्य च (१)संस्थाधिकरणे निषे. स्यमानत्वात् युक्त आश्रयतो धर्मातिदेशः । न चैवमपि साह. श्याभावात्कथं कल्पितवचनातिदेशः ? सादृश्यकार्यस्य प्रकृति - १. पृ.मी. ३. ६. ८.

Mamta ? मीमांसाकौस्तुभे [इन्द्रियकामाधिकरण- विशेषोपस्थापनस्य प्रकरणेनैवेह सिद्धेः तदनपेक्षणात् । यद्यपि च ये प्रकृतावाश्रयस्वरूपसिध्या देवतादयः तेषामिह गुणस्व. रूपसिध्यर्थत्वासम्भवात् बाध एव प्राप्नोति, तथाऽपि तदन्येषाम- तिदेशः, ते त्वाश्रयसिध्यर्थं क्रियमाणा अपि न गुण उपकुर्वन्ति । न च येऽपि प्रकृतौ प्रधानद्वारा तदपूर्वसाधनीभूतद्रव्यसं. स्कारार्थावज्वलनादयः, तेऽपि कथं प्राकृतप्रणाडीरहिते गुणे माप्नुयुः १ सयमेवं न प्राप्नुवन्ति, तथाऽपि दध्यादौ क्रत्वर्थ. स्वस्याऽपि सत्वात् गोदोहनादेश्च नित्यचमसस्थानत्वात् स्था- नापत्तिरूपातिदेशेन प्रणयनानगभूतेऽपि प्रणयनोपकारके गोदोहने धर्माः प्राप्नुवन्येव । परं तु ते प्रणयनादिकार्यप्रयुक्ता एव न तु गुणापूर्वप्रयुक्ताः । गुणस्याऽपि त्वपेक्षिताः कचित्सम्पादनप्रक्षा. लनादयः प्रसङ्गादुपकुर्वन्ति, अन्ये त्वारादुपकारका जपोपस्था- नादयो गुणभावनायामतिदेशेन प्राप्नुवन्ति । तत्राऽपि तज्ज- न्या उपकारा एवाऽतिदिश्यन्ते, न तु तज्जनकीभूताः पदार्था अपि, गुणस्य स्वर्गादिप्रयुक्ताश्रयोपजीवित्वेन तत्तन्त्रमध्यपाता. वगमात् प्रसङ्गेन तदर्थानुष्ठिताङ्गजन्योपकारलाभोपपत्तेः स्वा- तन्व्येण जनकानपेक्षत्वस्य(१) द्वादशे वक्ष्यमाणत्वात् । अत एव गोदोहनादेः दर्शपूर्णमासापूर्वप्रयुक्तपणपनायुपजीवित्वात् सौ. र्यादावनतिदेश इति वक्ष्यते । आश्राननुष्ठापकत्वं त्वाश्रयस्याऽ. नगत्वात् क्लप्तानुष्ठापकान्तरयुक्तत्वाच स्पष्टमेव । तस्मात्सिद्धं गुणादेव फलमिति । प्रयोजनम्-आद्यपक्षे दध्यपचारे प्रतिनिध्युपादानमार म्भोत्तरम् , ततः प्राक् दध्य भावेऽनारम्भ एव । द्वितीय पक्षे यद्यपि "वि वा एतद्यज्ञश्छिद्यते यदन्यस्य तन्त्रे प्रतते अ. १. पू. मी.

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः।
न्यस्य तन्त्रं प्रतायत" इति वचनादेकपयोगमध्येऽपरस्य काम-
स्य प्रयोगसामान्य तो निषिद्धः, तथाऽपि द्वयोरनयोरग्निहोत्र.
कर्मान्तरयोरेककालत्वात्तन्त्रप्रयोगापत्तेः सङ्कल्पादौ तत्तत्फलार्थ
कर्मद्वयमपि तन्त्रेण करिष्य इत्युल्लेखः प्रयोजनम् । गोदोहनो.
दाहरणे तु प्रयोगात् बहिः प्रणयनानुष्ठानम् ।
यत्तु वार्तिके प्रणयतीत्यस्य कर्भसाकाहत्वात् “अपः प्र.
णयती"ति वाक्यान्तरश्रुतद्वितीयान्ताप्पदानुषङ्गावगतेरपां चोप-
योगसत्त्वेन तत्संस्कारार्थस्यैव प्रणयनस्य फलार्थत्वावगमात्
परप्रयुक्तसंस्कार्योपजीवित्वेन पक्षद्वयेऽपि क्रतुप्रयोगमध्यकर-
णोपपत्तेः नाऽनुष्ठाने भेदो लभ्यत इत्युक्तम् ; तदनुषक्तस्या-
प्यपदस्य संस्कार्यपरत्वे उद्देश्यानेकत्वकृतवाक्य भेदापत्तेः सक्तु.
न्यायेन विनियोगभङ्गावसायाल्लौकिकापसाधनकपणन यनस्य
पश्वर्थत्वावगतेरतिशयार्थम् ।
सिद्धान्ते तु तत्तत्फलार्थकेन गुणेन सहाश्रयं स्वफलार्थ
करिष्य इत्युल्लेखः प्रयोजनं द्रष्टव्यम् ।
सूत्रं तु-यागादिवाक्यस्य दध्यादिवाक्यस्य च भावा.
र्थाधिकरणप्रवृत्त्यप्रवृत्तिभ्यां
तुल्यत्वाभावात् तस्याऽऽश्रयस्य
फलसम्बन्धिनि गुण एव दध्यादिवाक्यस्थं फलं प्रतीयेतेति
योज्यम् ॥
इत्येकादशमिन्द्रियकामाधिकरणम् ॥ ११ ॥

अथ द्वादशं रेवत्यधिकरणम् ॥ १२ ॥ समेषु कर्मयुक्तं स्यात् ॥ २-१-२६ ॥ (विषयसंशयो) ज्योतिष्टोमप्रकृतिकोऽग्निष्टुधागः समानात:-(१)"त्रिवृद- ग्निष्टुदग्निष्टोमः, तस्य वायव्यास्वेकविंशमनिष्टोमसाम कृत्वा ब्रह्म वर्चसकामो ह्येतेन यजते"ति । अत्र च प्रथमान्तत्रयस्य यजेते- त्यनेनान्वयात् कर्तव्यपदाध्याहारेण भिन्नवाक्यत्वं ताव. दावश्यकम् । तत्र च त्रिवृत्पदं तावदातिदेशिकचतुस्तोम- स्वव्यावृत्तिफलकतया सर्व स्तोत्रेषु त्रिवृत्स्तोमविधायकम् । अग्नि- ष्टुत्पदं "मानेयीषु स्तुवत" इति वचनादाग्निदेवत्यमन्त्रसाध्यस्तो. त्राङ्गकत्वात् तत्प्रख्यन्यायेन नामधेयम् । आग्निष्टोमपदं चाग्नि- होमसंस्थाकत्वप्रतिप्रसवार्थम् । यद्यपि हि ज्योतिष्टोमात् नियतमेवाऽग्निष्टोमसंस्था नित्य- त्वात् प्राप्यते, तथाऽप्येतत्पूर्वभावियागस्योक्थ्यसंस्थाकस्य नि- कायित्वेन एतद्यागप्रकृतित्वावसायात् ततः उक्थ्यसंस्थाया एव प्राप्स्यमानत्वेन प्रतिप्रसवत्वोपपत्तिः । राजन्यनिमित्तकाग्निष्टोम- संस्थाविकारभुतायग्निष्टोमताव्यावृत्तिफलको वाऽयं सर्वसाधा. रण्येनाऽग्निष्टोमसंस्थाविधिरिति द्रष्टव्यम् । गुणद्वयविशिष्टापूर्व- कर्मविधानाच्च न वाक्यभेदः । तस्येति वाक्येन तु राजसूयन्या. येन वायव्यमन्त्रीकविंशस्तोमविशिष्टाग्निष्टोमस्तोत्रभावनोत्तरका. लतादिविशिष्टो यागप्रयोगः फलोद्देशेन विधीयते । तत्र वायव्य- मन्त्राणामतिदेशप्राप्तमन्त्रबोधनाऽऽग्नेयीमन्त्रबाधेन वा निवेशः । १. ता. बा. १७. ६१. अस्य विवरणमधिकरणान्ते करिष्यामः ।

पूर्वपक्षः ] द्वितीयाध्यायस्य छित्तीयः पादः । २७९ यद्यपि चात्राऽमिष्टोमसामपदसमभिव्याहारादाधारतासम्ब. न्धेन साम्नि मन्त्राणां विशेषणत्वं प्रतीयते, तथाऽपि अक्लप्कार्य- कल्पनापत्तेः न सामाङ्गत्वेन मन्त्राविधिः, किन्तु पार्टिकान्वयलभ्यं समसम्बन्धमन्य विशेषणप्रधानमग्निष्टोमशब्दमङ्गीकृय स्तोत्रा- तयैव मन्त्रविधिः । एवमेकविंशस्तोमकताप्रतिप्रसवोऽपि तत्रै व । प्रकृतितो हि अग्निष्टोमस्तोत्र एकविंशस्तोमकत्वे प्राप्ते आति- देशिकेन त्रित्सामान्यविधिना निवर्तमाने ऽयं प्रतिप्रसवः । अतश्चोभयविशिष्टानिष्टोमस्तात्रभावनोत्तरकालादिविशिष्टयागप्रयो. गाविधिरेवाऽयम् । यद्यपि चाऽग्निष्टोमस्तोत्रभावनोत्तरकाला- धतिदेशतः सम्भवत्प्राप्तिकम् , तथाऽप्येकवाक्यत्वसिध्यर्थ विशिष्टविधिसन्दष्टन्यायेन वाऽतिदेशप्राप्तः पूर्वप्रवृत्यङ्गीकरण वा तस्य विधिर्नाऽनुपपन्नः । यद्यपि चाऽग्निष्टोमस्तोत्रस्य प्रकृती सर्वान्त्यत्वान्न यागप्रयोगपूर्वकालत्वं सम्भवति, तथाऽपि सर्वा- कानुष्ठानसौकर्यार्थमादितोऽवधारणादग्निष्टोमस्तोत्रस्याऽपि तव. स्सिद्धेः प्रतिपत्तिपूर्वकालत्वाभिप्रायेण तदिति मूलानुयायिनः । वस्तुतस्त्वेतादृशविषये मुखं व्यादाय स्वपितीतिवत् सम- कालत्वमेव प्रयोगमध्यवृत्तित्वरूपं लक्षणया कापस यार्थो विधी- यते वाक्यभेदपरिहारार्थम् । अथवा अस्तु समानतकत्वमात्रमत्र तदर्थः । यद्यपि च ऋत्विकर्तृकस्तोत्रसमानकर्तृकत्वं यजमानकर्तृके यागे न मुख्यम् , तथाऽपि प्रयोजककर्तृत्वाभिप्रायेण तदुपपत्तेने विरोधः, तत्पक- रणे च 'वारयन्तीयमग्निष्टोममाम कार्यमिति श्रुतेन वाक्येन प्राकृत यज्ञायज्ञीख्याग्निष्टोमस्तोत्रं वारवन्तीयं विहितम् । तदनन्तर "चैतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते"ति श्रुतम् । तत्र च पूर्ववदेव त्रेधा सन्देहः । पादाध्या- यसङ्गती स्पष्टे । आपवादिकी त्वनन्तरा । 18 मी०को मीमांसाकौस्तुभे [ रेवत्यधिकरण- (पूर्वपक्षः) तत्र प्रकृतप्रत्यभिज्ञानादेतच्छन्दश्रुतेः प्रमाणाभावाच न ता- वकर्मान्तरम्, सिद्धान्ले वक्ष्यमाणरीत्येव चाऽऽश्रयाभावान्नाऽपि गुणफलसम्बन्धः, अतो वायव्य वाक्यवदेव रेवतीमात्राविशिष्टाग्नि- टोमस्तोत्रभावनोत्तरकालतादिविशिष्टो यागप्रयोगः फलार्थ विधी. यते । न ह्यत्र दधिन्यायेन गुणस्योत्पत्तावन्वययोग्यत्वम् , अपि तु कालादिरूपत्वाद्राजसूयन्यायेन प्रयोगविशेषणत्वमेव, अतो. ऽत्र गुणविशिष्टस्य तस्यैव कर्मणः फलोद्देशेन विधानमित्येकः पक्षः । द्वितीयस्तु नाऽत्र राजसूयन्याय:, प्रयोगस्य वायव्यवा. क्येनैव प्राप्तत्वाद, फलान्तरवणेऽपि च विविदिषावाक्यव- द्विनियोगमात्रकरणेन प्रयोगान्तरस्याऽविधानोपपत्तेः । न विनिगमनाविरहः, प्राथम्येन वायव्यवाक्य एव प्रयोगविधे. नियन्तुं शक्यत्वात् । एवं सत्यापे यदि विशेषणीभूतस्य रेवतीमात्रविशिष्टाग्निष्टो. मस्तोत्रभावनोत्तरकालतादेराप्तिः स्यात् ततोऽवेष्टेः “यदि. ब्राह्मणो यजेते"त्यादौ विधेयकर्तृकालादिरूपानेकगुणवशादिव प्रयोगान्तरमपि विधीयते, न त्वेतदस्ति, तस्याऽपि वायव्य. वाक्येनैव प्राप्तत्वात् । न ह्यत्र ततः पूर्वप्रवृत्तिश्शक्यते वक्तुम् , प्रापकस्याऽपि प्रत्यक्षत्वात् । न च प्राप्तस्याऽपि विशिष्टविधि- सन्दष्टन्यायेन विधेयतामापाद्य प्रयोगभेदकत्वम् , अन्योन्याश्र. यापत्तेः । सति हि प्रयोगविधौ विशिष्टविधिसन्दष्टता, (१)यस्यां च विधेयत्वात प्रयोगनिधिरिति । अतः परिशेषाद्रेवतीमा प्राप्ताग्निष्टोमस्तोत्रोत्पत्यनुवादेन विधेयम् , फलोद्देशेन यागविनि- योगश्चेति वाक्यभेदतादवस्थ्यात् दधिन्यायेनाऽत्र लाघवात १. तस्यामिति क. पु. - पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः। २८१ गुणफलसम्बन्धविधिरेव । तत्राऽपि रेवतीमात्रस्याऽप्राप्तत्वात यद्यपि विधिस्तन्मात्र एवं संक्रमते, लथाऽपि नाऽत्र तासां फलसम्बन्धः । तथात्वे तासां विलिङ्गसङ्घयत्वादतेच्छब्दन तृतीयान्तेन फलसाधनतयाऽपादानानुपपत्तेः, किन्तु प्राप्तस्या- ऽपि रेवतीविशिष्टस्य वारवन्तीयस्यैव । यद्यपि चाऽत्राऽप्यक्ल- प्लकार्यकल्पनापत्तेः रेवतीनामाग्निष्टोमस्तोत्र एवाऽङ्गत्वम् , तथाs- पि पाढिकान्वयलभ्याधारतासम्बन्धेनैव सान्नि रेवतीनां वैशि. ष्टयं नाऽनुपपन्नम् । अत एवैतच्छब्दोपपत्तावपि नाऽग्निष्टोमस्तोत्रस्यैव रेव. सङ्गकस्य फल सम्बन्धः, अग्निष्टोमसामपदस्य विशेषणप्रधानत्वे लक्षणापत्तेः । न च रेवतीवारवन्तीययोः पृथक्पदोपात्तकारक- त्वेन कथं वैशिष्टयोपपत्तिः ? फलकमकभावनाया विधेयत्वेन त- स्यामुभयोः प्रथमतरसम्बन्धाङ्गीकरणेन सोमादिवत्पश्चात् परस्परवैशिष्टयोपपत्तेः । कुन्वाशब्दश्रवणेन रेवतीषु कृत्वा वारवन्तीयं तेन फलं भावयेदित्यर्थावगमाद्वैशिष्टयोपपत्ते- श्च । अतो(१) रेवतीविशिष्टस्य वारवन्तीयस्य फलसम्ब, धः, तस्य च स्वरसमाहारात्मकस्य सौभरादिवत् सि. रूपत्वेनाऽऽश्रयापेक्षायां प्राकृतस्य यागस्यैवाऽऽश्रयत्वम् । न हि गायतिधातुवाच्यत्वात् सान्नः क्रियात्मकत्वाशङ्का, 'गोड वदनैकदेश' इसादौ गण्डादीनां धातुवाच्यत्वेऽपि सिद्धरूपत्व. वत् । सामशब्दस्य “सामाथो यः कश्च रोवणः स्वर' इति श्रुतेः षड्जादिस्वरसमाहारवाचित्वात् स्वरशब्दस्य च "मा. रुतस्तूरास चरन्मन्द्रं जनयति स्वर"मित्यादि सङ्गीतशास्त्रपर्या लोचन या सिद्धरूपवायवीय संयोगविभागजनितध्वन्यात्मकशब्द- १. युक्तो रेवतीविशिष्टस्यति. क. पु.

२८२ मीमांसाकौस्तुभे [ रेवत्यधिकरणम् विशेषवाचित्वावगमेन वारवन्तीयादेः सिद्धरूपत्वप्रतीतेः। अ. तश्च तस्याऽऽश्रयापेक्षायां युक्तमेव यागस्थाऽऽश्रयत्वम् । शक्यते हि साम्ना ऋगक्षराभिव्यक्तिद्वारा स्तोत्रमिव यागस्साधयितुम् । अतश्च सौभरसाम्नस्तोत्राश्रितत्वमिव वारवन्तीयस्याऽपि या. गाश्रितत्वं तदीययाज्यादिमात्राधारत या उच्चैष्ट्वादिवन विरुध्यते। रेवतीनामपि चाऽत एव याज्यादिकार्ये निवेशोऽप्युन्नेयः। काम्येन च वारवन्तीयादिना सामान्यविधिप्राप्तस्य वाऽतिदेशमा. तस्य वैकश्रुत्यादेर्वाधोऽपि सुवच एव । (१)यदि चाऽग्निष्टोमसा. मेत्य नुवादानुपपत्तिराशयेत, ततोऽग्निष्टोमस्तोत्रद्वारैव यागस्य जन्यत्वापरपर्यायमाश्रयत्वम् । इष्यत एव हि ब्रीह्यादौ परम्परा सम्बन्धेन जन्यत्वम् , आश्रयत्वमपि च सौभरादौ स्तोत्रादेः । अस्तु वा यागस्याऽग्निष्टोमस्तोत्रजन्यत्वात् परम्परासम्ब. न्धेन जन्यत्वापरपर्यायाश्रयत्वायोगेऽप्यानर्थक्यत्तदन्यायेनाऽ. ग्निष्टोमस्तोत्रेऽवतारः। इध्यते चोक्थ्यादिस्तोत्रनिरूपितसमाप्ति- प्रतियोगित्वरूपस्याऽऽश्रयत्वस्य साक्षात् प्रकृते यागेऽसम्भवेन (२)प्रयोगे चाऽवतारः 'पशुकाम उक्थ्यं गृहीया"दियादौ । न च स्तोत्राणामपि प्रकृतयागाङ्गत्वादग्निष्टोमस्त्रोत्र एवाऽवतारे प्रमा- गाभावः, अग्निष्टोमस्तोत्रस्य वायव्यवाक्ये विहितत्वेन वारवन्ती. यवाक्येऽनुवादेन चाऽतिदेशिकस्तोत्रान्तरापेक्षया विशिष्योपस्थि- तत्वात् शास्त्रस्याऽबाधपक्षपातित्वेन काम्यस्याऽपि वारवन्ती. यस्य स्तोत्रान्तरे निवेशः । आतिदेशिकसामबाधापत्तेः वारव. न्तीयाङ्गकाग्निष्टामस्तोत्रमात्रनिवेशावगमाच । एनेन यत् सिद्धान्तवार्तिके पुरुषार्थवारन्तीयस्य क्रत्वर्थेन सहाऽभेदाद्वाऽनिष्टोमस्तोत्रत्तित्वं भवेत् त्वर्थस्य तवृत्तिदर्श- १. यदि विति. क. पु. २. तदीये प्रयोग इति क. पु.

पूर्वपक्षः] द्वितीयाध्यायस्य द्वितीयः पादः । २८३ ? नेनाऽत्राप्यनुमानाद्वा एतस्य तत् , स्थानापन्नत्वाद्वा ? नाऽऽधः, एकस्य देवदत्तस्य युद्धभोजनादिकार्यभेदेन एकस्थानानियम- वदेकस्थानत्वे प्रमाणाभावात् । न द्वितीयः, सामान्यतो दृष्टस्या- ऽप्रयोजकत्वात् , वारवन्तीयत्वहेतोराधानेऽनैकान्तिकत्वाच्च आग्निष्टोमस्तोत्रवृत्तित्वस्य च साधनतापरपर्यायस्य सामप्रयोजन- वेन सामानङ्गतया कार्यापच्याऽप्यनतिदेशान्न तृतीयोऽपि । अ तो नाऽग्निष्टोमस्तोत्रमात्रवृत्तिता सम्भवतीत्युक्तम् , तदपि परा- स्तम्, अबाधेनोपपत्तौ बाधायोगादिति न्यायेनैव तदुपपत्तेः । यस्त्वस्मिन् पक्षे रेवतीभिर्वायव्याबाधः, सस्तोत्रान्तरेऽप्यातिदे- शिकऋगन्तरवाधातुल्य इसकिञ्चित्करः। अतो युक्त एव(१) आनर्थक्यतदङ्गन्यायेनाऽग्निष्टोमस्तोत्रमात्रेऽवतारः । अस्तु वाऽग्निष्टोमस्तोत्रस्यैव विशिष्योपस्थित्यादिनाऽऽश्रय. लम् , तस्य च धर्मिग्राहकप्रमाणेनाऽग्निष्टुवागसम्बन्धिन एव लाभाधजिः, षष्ठ्यन्तै तच्छब्दः क्त्वाप्रय यश्च सर्वमनुवादः । अथ वा वारवन्तीयमग्निष्टोमसामकार्यमिति प्राकरणिक- वाक्येनैव लाघवादाश्रयसम्बन्धी विधीयते, न त्वङ्गाङ्गिसम्बन्धः, गौरवात् । दध्यादिवाक्येषु त्वन्यलभ्यत्वादाश्रत्व यस्याऽगत्या गौरवाङ्गीकरणम् । तदेवं वारयन्तीयस्यैव फलसम्बन्ध इति मृलोक्तः पक्ष उपपादितः । अथ वाऽस्तु रेवतीनामेवाऽप्राप्तत्वात् तस्यैव विधिसंक्रमणा- वगतेस्तासामेव फलसम्बन्धः । सप्तमी चेयं यद्यपि स्तोत्रनिरू. पितं सामनिरूपितमेव वाऽधिकरणत्वं वदति, तथाऽप्यतच्छब्देन तृतीयान्तेन रेवतीविशिष्टचारबन्तीयस्यैव पूर्वोपस्थितस्य परामर्शा. व तत्र च विशेष्यस्य प्राप्तत्वेनाऽविधेयत्वादप्राप्तरेवतीरूपविशेषण- १.पू. मी. ३. १.९. .

.. मीमांसाकौस्तुभे [रेवत्यधिकरण- स्यैव दाक्षायणयज्ञपदे आवृत्तेरिव फल सम्बन्धोपपत्तिः। अत एवैतच्छब्दस्य विलिङ्गसंख्यत्वान्न रेवतीपरामर्शकत्वामित्यप्य. पास्तम् , विशिष्टपरामर्शकत्वेनाऽविरोधाद । न चैतस्मिन्पक्षे रेवतीनामग्निष्टोमस्तोत्रमात्रवृत्तित्वस्य पूर्वो- क्तविधयाऽप्य लाभात् कथं गुणफलसम्बन्धोपपत्तिः, प्रकरणेन तदलाभेऽपि वाक्येनाऽऽश्रयलाभापपत्तेः । तथा हि-दध्यादा- वपि सम्भवत्येव वाक्येनाऽऽश्रयविधिः । न च वाक्य भेदः, होमविशिष्टदनः फलोद्देशेन विधानोपपत्तेः । न चैवं होमस्य दध्यङ्गत्वापत्तिः, क्लुप्तप्रयोजनत्वेनाऽङ्गतासम्बन्धेन वैशिष्ट्या- नङ्गीकारात् , अपि स्वपेक्षावशादाश्रयतासम्बन्धेनैव । अतश्च यथैव "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते"त्यादौ न दर्शपू- र्णमाप्तयोः सोमाङ्गत्वमुत्तरकालाङ्गत्वं वा, अपि तु निरूपकता. सम्बन्धेनैवोत्तरकालतायां वैशिष्ट्यम् , तथाऽत्राऽप्याश्रयतासम्ब- न्धेन तदङ्गीकारे न कश्चिद्विरोधः । स तु तत्र नाऽऽश्रितः, अन्यत एव लाभोपपत्तेः । प्रकृते तु प्रकरणेनाऽऽश्रय प्राप्तेः(१). असम्भवाद्वाक्येनैवाऽमिष्टुद्यागवृत्यनिष्टोमस्तोत्रसाधनीभूतरेवती विधानाद्वाक्यभेदं विनैवाऽऽश्रयलाभोपपत्तिः । अथ वा अग्निष्टोमस्तोत्रस्यैवाऽऽश्रयतासम्बन्धेन वैशिष्ट्यम् , तस्य तु प्रकरणात् प्रणयनादरिवाऽग्निष्टुद्याग सम्बन्धिन एवो- पस्थितेष्षष्ट्यन्तैतच्छन्दो यजिश्व वारवन्तीयपदवदनुवादः । किश्चाऽस्मिन् पक्षे यथैव सिद्धान्ते रेवत्यादिविशिष्टस्तोत्र. भावनाविशिष्टयागभावनाविधानं कृत्वाशब्दमाहिम्ना न दुष्यति, तथैव ममाऽप्याश्रय भावनाविशिष्टगुणभावनाविधानमिति सर्व था आश्रयप्राप्तस्सत्वाद्गुणफलमम्बन्धविधिरेव युक्त इति प्राप्ते- १. असम्भवेऽपीति क. पु.

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पाद । २८५ - . (सिदान्त:) अभिधीयते-नाऽत्र गुणान् फलम् , आश्रयालाभात । तथा हि-वारवन्तीयस्य फलमुम्बन्धित्वपक्षे तावन्नाश्रयलाभः । स हि प्रकरणादभिप्रेतो वाक्याद्वा ? आयऽपि किं यागस्यैवा- ऽऽश्रयत्वम् , अग्निष्टोमस्तोत्रस्य का ? तत्राऽपि किं यागस्य साक्षादग्निष्टोमस्तोत्रद्वारा वा ? नाऽद्यः, अग्निष्टोमसामेत्यस्याऽ. नुवादानुपपत्तेः । न द्वितीय:, स्तोत्रस्याऽदृष्टविधया यागाङ्ग त्वात् तद्वारा यागस्याऽऽश्रयत्वानुपपत्तेः । इष्टविधया हि कृति. साध्यधात्वर्थसम्बन्धित्वं गुणस्याऽपेक्षितमित्युक्तं पूर्वाधिकरणे । अदृष्टद्वारा हि तदाश्रयणे गुणस्याऽऽश्रयं विनाऽपि फलकरण- त्वस्याऽदृष्टद्वारोपपत्तेः कृतमाश्रयाकाङ्कया । न चेष्टापत्तिः, करणविधिवैयापत्तेरुतत्वात् । न चैवमपि पूर्वकालतादिरूपष्टसम्बन्धेनेचाऽनिष्टोमस्तोत्रस्य द्वारत्वोपपत्तेः युक्तमेव परम्परया यागस्याऽऽश्रयत्वमिति वा. च्यम् । एवमपि यागस्यैव तदीयऋगाधारत्वेनाऽऽश्रयत्वोपपत्तेः स्तोत्रद्वारकपरम्परायामेव प्रमाणाभावात् । न च अग्निष्टोमसामे'. अनुवादानुपपत्तिः प्रमाणम् , तथास्त्रे तस्याऽपि तत्र तात्पर्यक- रुपनेन वाक्यभेदस्याऽपरिहार्यत्वात् । किश्चाऽस्तु वा यागस्य साक्षात्सामाश्रयत्वयोग्यत्वम् , त. थाऽप्यग्निष्टोमस्तोत्रस्यैव द्वारत्वानिवेशे किं मानम् ? तस्यौपदेशि- क्युपस्थितिरिति चेत् ? तस्या द्वारत्वाभाव साधकत्वेन विरुद्ध- स्वाद । न ह्यातिदेशिकस्तोत्रवृत्ति ऋग्वाधसम्भवे औपदेशिकस्तो. वृत्त्यापदेशिकवायव्याबाधो रेवतीभिर्युक्तः । तस्मादौपदेशिक- त्वस्य दारत्वासाध वादमिष्टामस्तोत्रस्यैव न द्वारत्वे प्रमाणम. ।

२८६ मीमांसाकौस्तुभे [ रेवत्यधिकरण- मस्ति । एतेन तस्यैव विशिष्योपस्थितेः साक्षादाश्रयत्वं यागे, आनर्थक्येन वा तत्रैवाऽवतरणं प्रत्युक्तम् । किश्च नाऽयमानर्थक्यतदङ्गन्यायस्य विषयः । सर्वत्र हि श्रुतशब्दजन्य शाब्दबोधे योग्यताज्ञानाभावेऽप्ययोग्यतानिश्चया. भावमात्रेण शाब्दबोधस्याऽऽनु भाविकत्वात् तनिश्चयः प्रतिबन्ध- कमात्रम् । अतश्च “सप्तदशारनिर्वाजपेयस्ये"त्यादौ श्रुतषष्ट्या अयोग्य तानिश्चयाभावमात्रेण शाब्दबोधे जाते पश्चाद्योग्यतालोच- नादशायां साक्षादसम्भवेऽप्युक्तपरम्पराश्रयणम् । यत्र तु कल्पि- तशब्देन शाब्दबोधः, तत्र शब्दकल्पनायां योग्यताज्ञानस्यैव का. रणत्वम् , अयोग्यतानिश्चयाभावसत्त्वेऽपि योग्यताज्ञानाभावे शब्दकल्पनानुदयस्याऽऽनुभविकत्वात् । अतश्च यागगतयोग्यता. ज्ञानाभावेन सद्ताश्रयत्वबोधकशब्दस्यैव प्रकरणेनाऽकल्पनात् कुतस्तदसम्भवे अङ्गेष्ववतारः । यत्तु प्रकरणेनाश्रय लाभाभावेऽपि वारवन्तीयवाक्येनैव तल्लाभोपपत्तिरित्युक्तम् , तन्नः तथात्वेऽग्निष्टुद्यागमात्रवृत्यग्नि- टोमस्तोत्रस्यैवाऽऽश्रयत्वे प्रमाणाभावात् । न ह्यग्निष्टोमपदस्याऽ. विशेषप्रवृत्तस्याऽनपेक्षत्वे सति अधिकाराख्यप्रकरणमात्रेण सङ्कोचो युक्तः, (१)तुल्गेषु नाऽधिकारस्स्यादिति न्यायात् । यद्यपि च प्रयुक्तिशक्तिकल्पनागौरवपरिहारार्थं क्रतुप्रयागवृत्ति. त्वमग्निष्टोमस्तोत्रस्याऽपेक्ष्यते, तथाऽपि क्रत्वन्तरप्रयोगवत्तित्व. स्याऽपि सम्भवात् नाऽधिकारेण सङ्कोचः । ननु नेदं कुशकाशावलम्बनं युज्यते, गुणविधेः प्रयुक्तिश. क्तिकल्पनापरिहारार्थ हि प्रणयनाइरिवाऽग्निष्टोमस्तोत्रस्याऽपि प्रयोजकान्तरापेक्षायां युज्यत एव प्रकृतक्रत्वाधिकारस्य सङ्कोचक- १. जै. सू. ९. १. ११.

सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः। २८७ . त्वम् । अत एव यदपि वार्तिके वारवन्तीयवाक्यस्य गुणफलवा- क्यस्य च योरपि यागोत्पत्तिवाक्येनैवाऽन्वयात् परस्परान्वया. भावन न वारवन्तीयवाक्यस्याऽऽश्रयसमर्पकत्वं युज्यत इति समाहितम् , तदप्यपेक्षावशेन व्यूढाद्युत्पत्तिवाक्यवत् वारवन्तीय- वाक्यस्याऽपि गुणफलवाक्यैकवाक्यतयाऽऽश्रयसमर्पकत्वोपपत्ते. रकिञ्चित्करम् । यदपि च पाकरणिकाश्रयपक्षे अग्निष्टोमस्तोत्रमात्र- त्तित्वासम्भवे कारणमौपदेशिकऋग्वाधायोगरूपमुक्तम् , तदपि स्तोत्रान्तरस्याऽऽश्रयत्वे ऋचा साम्नश्च बाधापत्तेरुभयबाधापे. क्षया चैकस्यैवोपदेशिकस्याऽपि बाधौचित्यात् कुशकाशा- वलम्बनमिति कथं रेवत्याधारस्य वारवन्तीयस्याऽऽश्रयालाभात फलसम्बन्धानुपपत्तिरिति चेत् १ सत्यम्, वारवन्तीयस्य फल- सम्बन्धानुपपत्तौ नाऽऽश्रयालाभः प्रयोजकः, अपि तु माप्तत्वेन ततो विध्युत्तारणमेव यागादिभ्य इव, अतश्च परिशेषान्मूलानु. तोऽपि रेवतीमात्रफलसम्बन्धपक्ष एवं मुख्यपूर्वपक्षत्वेन सम्भा- वनीयः । तस्य चाऽश्रयलाभानिराकरणं युक्तमेव । न हि तदा प्रकरणादाश्रयो लभ्यते, ऋङ्मात्रबाधस्याऽऽतिदेशिकेष्वेव युक्त. त्वेनाऽग्निष्टोमस्तोत्रवृत्तित्वस्य वारवन्तीयमात्राधारत्वस्य वाऽप्रा- सत्वादनुवादानुपपत्तेः । वारवन्तीयवाक्यस्य त्वाश्रयसमर्पकत्वम- स्मिन् पक्षेऽनाशक्यमेव । न च प्रकारान्तरेणाऽऽश्रयालामेऽपि वाक्येनैव तल्लाभोपप. त्तिः, तेनाऽपि ह्यग्निष्टोमस्तोत्रमात्रस्यैवाऽऽश्रयत्वं विधीयते, याग. विशिष्टस्य वा ? नोभयथाऽपि सम्भवति । तथा हि-सर्वत्रैव ताव- दृध्यादौ न वाक्येनाऽऽश्रयविधानं युक्तम् । तदा त्वाश्रयस्य प्रथ- मत एव तावन्न गुणं प्रति वैशिष्टयं सम्भवति, कारकत्वात् , ३७ मी० को.

मीमांसाकौस्तुभे [ रेवत्यधिकरण- अतः सोमादिवदेव भावनासम्बन्धोत्तरकालं पार्टिकं तदित्या. श्रयणीयम् । न च गुणभावनायामाश्रयस्याऽन्य यस्सम्भावयितुं शक्यः । स हि न तावत् करणत्वेन, तथात्वे भावार्थाधिकर जन्यायप्रवृत्त्या तस्यैव फलसम्बन्धापत्तेः, करणत्वेनोपस्थितस्य गुणसम्बन्धायोग्यत्वाच्च । क्लुप्तप्रयोजनत्वात् गुणाङ्गत्वापत्तेश्व नेतिकर्तव्यतात्वेन । अतः परिशेषात् कर्मत्वेनाऽन्वयो वाच्यः । तत्राऽपि यदीप्सितकर्मत्वरूपेण भाव्यत्वेन, तत उद्देश्यानेकत्वा- द्वाक्य भेदो गुणस्याऽऽश्रयागत्वापत्तिश्च । यदि तु अनीप्सित- कर्मत्वेनाऽन्वयः, तदाऽपि फलस्य कर्मत्वेनाऽन्वयात् प्रत्ययस्य द्विकर्मकत्वापत्तिः। न चेष्टापत्तिः, करोतिपर्यायत्वेन प्रताय. नुसारेण चैककर्मकत्वस्य (१)सम्माधिकरणे स्थापितत्वात् । न च दध्यादावाश्रयस्य वाक्येनाऽविधानेऽपि प्रकृते कृत्वा- शब्दोक्तभावनायामन्वितस्याऽग्निष्टोमस्तोत्रस्य सानो वा गुणे वैशिष्टयोपपत्तेवाक्येन तद्विधानोपपतिः। कृत्वाशब्दोक्तभावना हि क्रत्वथैव चा? भावनान्तरं वा ? गुणफलभावना वा ? नाऽऽद्या, तस्था हि गुणफलभावनासम्बन्धाभावेन वैशिष्टयानुपपस्या सि द्धान्तिवदेकभावनाविशिष्टापरभावनाविधानानुपपत्तेः । न द्वितीयः, तस्याः प्रयोजनान्तराभावेन गुणभावनाङ्गत्वापत्ती तत्सम्बन्धिनरस्तोत्रादेरपि तदङ्गत्वापच्या बहिःक्रत्वनुष्ठानापत्तेः, यजेतेत्यनुवादानुपपत्तेश्च तस्याऽपि तु विधाने भावनाया द्विक- मकत्वापत्तिस्तदवस्थैव । तृतीयस्तु क्रियाद्वयाभावेन क्त्वाप्रत्य यानुपपत्तेरनाशक्य एव । तस्मात् कथमप्याश्रयालाभात गुण , १. पू. मी. २. १.५.

सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । २८९ फलसम्बन्धानुपपत्या(१) पूर्वकर्मण्यनिविशमानात् रेवतीरूपात गुणादेव कर्मान्तरम् । तत्र चाऽपूर्वकर्मविधित्वाद्वाक्यभेदं विनैव यद्यपि सर्वमेव विधातुं शक्यम् , तथाऽपि (२)"न चेदन्येन शिष्टा" इति न्यायेन यदप्राप्तं तदेव विधीयते, इतरत्तु प्राप्तमन्यत इति नाऽतीव गौरवम् न चैवमपि फलादेशेन यागविधिः, तत्र चाऽतिदेशादेवाग्नि टोमस्तोत्रस्य निकायित्वेन च पूर्वयागातिदेशाद्वारवन्तीयमा- नो वाऽमाप्तत्वात् तदुद्देशेन रेवत्तीविधिरिति वैशिष्ट्यासम्भ- वाद्वाक्य भेदस्स्यादेवेति वाच्यम् । वैशिष्ट्यसम्पत्तये विशिष्टवि- घिसन्दष्टन्यायेन चाऽतिदेशपातेः पूर्वप्रवृत्यङ्गीकारेण वाऽग्नि- टोमस्तोत्रभावनोत्तरकालताविधेर्वायव्य वाक्यन्यायेनाऽङ्गीकर. णात् । अत एव तावतैव रेवतीविधिसिद्धेनं वारवन्तयिस्या- प्युक्तरीया विध्यङ्गीकरणम् । न च विनिगमनाविरहः, अक्ल. सकार्यकल्पनाभिया सामाङ्गत्वासम्भवेन स्तोत्राङ्गत्वस्यैव न्या. व्यत्वात्। अत एवाऽग्निष्टोमसामेत्यपि विशेषणप्रधानतया स्तोत्रपर- मेव, वारवन्तीयपदं तु निकायितया प्राप्तवारवन्तीयानुवादः । रेवतीनां च स्तोत्रं प्रत्यपि तदनुकूलपदशक्त्याधारत्वेन “आ. यीषु स्तुवत" इतिवदधिकरणत्वोपपत्तेः सप्तमी यथाश्रुतैव, करणत्व लक्षणार्था वा । अतश्च रेवतीमात्रविशिष्टस्तोत्रभावना उत्तरकालादिसम्बन्धेन यागभावनाविशेषणमिति तद्विशिष्टो यागः फलोद्देशेन विधीयते इति सिद्धम् । न च भावनाया अ. कारकत्वात् कथं भावनान्तरविशेषणत्वम् , क्त्वाप्रत्ययादिस्यले १. अनुपपत्तो. इति स्व. पु. २. जै. सू. १.४.९.

२९० मीमांसाकौस्तुभे [ रेवत्यधिकरण- उत्तरकालतादिसम्बन्धेनाऽपि विशेषणत्वव्युत्पत्तेः। अत एव पूर्वभावनाया मुख्यविशेष्यत्वाभावेऽपि रेवत्यादिकारकाणां त- त्रैवाऽन्वय इत्युक्तं भावनानिरूपणे । अत एव पश्वकत्वाधिकरणपूर्वपक्षन्यायेन मुख्यविशेष्य. भूतभावनाविशेषणविशेषणीभूतासु रेवतीषु विशेषणविधिकल्प. नायोगात् तासामविवक्षेत्यप्यनाशक्यम् , मुख्यविशेष्यभूतभा- वनाविशेषणत्वाभावेऽपि कृत्वाशब्दोक्तभावनाविशेषणत्वस्य सत्त्वेन पश्वेकत्वाधिकरणपूर्वपक्षन्यायाविषयत्वात् । अपि च यत्र लिङ्गसंख्यादौ कारकान्वयद्वारा भावनान्वयो व्युत्पत्तिसिद्धः तत्र तेषां तदनादरेण द्रव्यान्वये विशेषणविशेषणत्वान विधि. कल्पनेति तद्विषयोऽसौ न्यायः । न तु यत्राऽपि कारकातिरि- क्तसम्बन्धेन समासादौ द्रव्यान्वयद्वाराऽपि भावनान्वयव्यु: त्पत्तिः, यथा-"लोहितोष्णीषा ऋत्विज" इत्यादौ, तत्र विशेषणविशेषणेऽपि विशेषणविधिकल्पनायां न न किञ्चित् बाधकमस्ति । अतस्तादृशस्थळे प्राप्तकर्मानुवादेनाऽपि परस्परवै. शिष्ट्यस्य पूर्वमेव प्रमितत्वादनेकविधानेऽपि न वाक्यभेदः । चित्रयेसादौ च लिङ्गस्य प्रातिपदिकार्थेऽन्वयोऽव्यु. त्पन्न इति वैशिष्ट्यस्य पूर्वमप्राप्तत्वात् प्राप्तकर्मानुवादे नाऽनेकविधाने युक्तो वाक्यभेदः । प्रकृते तु रेवतीनां भावनान्वयस्याऽपि सत्त्वात् भावनायाश्चोत्तरकालतादिसम्बन्धेन मुख्यभावनाविशेषणत्वोपपत्तर्युक्तं विशिष्टविधानम् । तस्मात् कर्मान्तरविधिरेवाऽयम् । नन्वेवमपि न कर्मान्तरत्वे प्रमाणमस्ति, “यदि ब्राह्मणो यजेते" त्यादाववेष्टेरिवाऽग्निष्टुत एव प्रयोगान्तरोपेपत्तेः; न ह्यु. भयत्राऽपि वाजिनन्यायेन कर्मान्तरत्वाशङ्का सम्भवति । वाजि- सिद्धान्तः] द्वितीयाध्यायस्य द्वितीयः पादः । २९२ नस्य द्युत्पत्यन्वायनस्तद्विधिभेदापादकस्य युक्तं कर्मान्तरत्वा- पादकत्वम् , कर्तृतकालादिरूपस्य गुणस्य तु प्रयोगविध्यन्वयि. त्वेनोत्पत्यनन्वयानोत्पत्तिविधिभेदनिबन्धनकर्मभेदापादकत्वम् अत एव कालोऽपि यः प्रयोजनविशेषार्थमुत्पत्तावेवाऽन्वेति, यथाऽऽग्नौ, तत्रेष्ट एव तेनाऽप्याग्नेयकर्मभेदः, "यदि ब्राह्मणो यजेते"त्यादौ तु ब्राह्मणादेः कर्तुः प्रयोगान्वयित्वात् तद्भेदकत्व- मेवाऽङ्कीकरिष्यत इति तन्न्यायेन प्रकृतेऽप्युत्तरकालतादिरूपस्य गुणस्य प्रयोगभेदकत्वस्यैव व युक्तत्वान्न कर्मभेदकता युक्तेति चे. त्-न क्वाप्रत्ययोपात्तस्य गुणस्याऽतिदेशत एव सम्भवत्प्राप्ति- कतया स्वरूपेण विशेषणविध्याविषयस्याऽत्र भेदकत्वाभावात् । सर्वत्र हि संख्यावत् गुणोऽपि विधेय एव भेदकः, न त्ववि. धेयः । 'यावज्जीव'मित्यादावपि च निमित्तस्य स्वरूपेण विधे- यस्याऽपि नैमित्तिकसम्बन्धित्वेनाऽप्राप्ततया विधेयत्वात् विनि. योगभेदकत्वाविघातः। अत एव “यदि ब्राह्मणो यजेते"त्यादौ ब्राह्मणादिकत. कत्वस्याऽप्राप्तत्वाद्युक्ता भेदकता । प्रकृते तु क्त्वाप्रत्ययोपात्त. स्याऽनिष्टोमस्तोत्रोत्तरकालतादेस्स्वरूपेण कर्मसम्बन्धित्वेन चा. ऽतिदेशादेव प्राप्तत्वात् नैवाऽस्ति भेदकत्वम् ; नैवाऽस्ति भेदकत्वम् ; अपि तु रेवती- रूपस्य गुणस्यैव । तस्य चोत्यच्यन्वयित्वात् कर्मभेदकत्वमेव न प्रयोगभेदकत्वम् । न चैवं रेवतीरूपस्य गुणस्याऽग्निष्टोमस्तोत्र एवाऽन्वयात् त द्भेदकत्वमेव स्यात् न कर्मभेदकत्वमिति वाच्यम् । तथात्वे फलो. देशेन यागप्रयोगान्तरस्याऽप्यवश्यविधेयत्वापत्तलाघवेन कर्ममात्र भेदकत्वस्यैवाऽङ्गीकारात् । अत एव विवक्षितगत्या परम्परा- सम्बन्धेन रेवतीविशिष्टयागविधिरेवाऽयम् । शान्दबोधेऽन्वयनि- मीमांसाकौस्तुमे [सौभराधिकरण- हाथै तु सम्भवत्याप्तिकस्याऽप्यनिष्टोमस्तोत्रादेविशिष्टविधिस- न्दष्टन्यायादिना विधेयत्वाङ्गीकरणम् , न वस्तुतः। अतश्च वि वक्षितगत्या रेवतीरूपस्य गुणस्य यागान्वयिततयैव विधेयत्वाद्यु. क्ता तत्स्वरूपभेदकता । अतस्सिद्धं कर्मान्तरमेवाऽत्र फलोद्देशेन विधीयत इति । न चैवमपि षष्ट्यन्तैतच्छब्देन पूर्वकर्मागतयाऽप्येतविधिप्र. तीतेः कथं फलोद्देशेन कर्मान्तरविधानमिति वाच्यम् । तस्योद्दे श्यानेकत्वकृतवाक्यभेदभिया निकायितया प्राप्तपूर्वयागप्रकृति. स्वरूपसम्बन्धानुवादकत्वाद वाक्येन च फलोदेशेन विधानात् । प्रकरणात् पूर्वयागाङ्गत्वं त्वनाशयमेव । तस्मात् फलार्थ क. मन्तिरमेव विधीयते । तृतीयान्ततच्छब्दस्तु “अथैष ज्योति" रितिवत् प्रस्तोष्यमाणकर्मवचन इति न विरोधः। प्रयोजन स्पष्टम् । सूत्रं स्वाश्रयतया परस्परानन्वयात् समेष्वेषु वाक्येषु कर्मयुक्तमेव फलं स्यादिति व्याख्येयम् ।। इति द्वादशं रेवत्यधिकरणम् ॥ १२ ॥ अथ त्रयोदशं सौभराधिकरणम् ॥ सौभरे पुरुषश्रुतेनिधने कामसंयोगः ॥२-२-२७॥ (विषयसंशयौ) ज्योतिष्टोमे सौभराख्यं साम त्रेधा समानातं-नित्यं नैमित्तिक काम्यं च । तत्र षोडशिसंस्थावान्तरप्रकरणे “सौभरमुक्थ्यानां पूर्वपक्षः ] द्वितीयाध्यायस्य द्वितीयः पादः। ब्रह्म साम भवती"त्यनेन नित्यतया विहितम् । अत्र हि ब्रह्म सामाख्य स्तोत्रोद्देशन समानायाऽवगतं सौभरं विधीयते, प्रक- रणाच्च षोडाशिसंस्थापूर्वसाधनीभूतता स्तोत्रे लभ्यते, तस्य च स्तोत्रस्य वस्तुत उक्थ्याख्यस्तोत्रत्रयमध्यमत्वात् 'उक्थ्याना' मित्यनुवादः। नैमित्तिकतया तु अतिरात्रसंस्थावान्तरप्रकरणे "यदि बृहत्सामाऽतिरात्रस्स्यात् साँभरमुक्थ्यानां ब्रह्मसाम का- यमि" बनेन विहितम् । अत्राऽप्यतिरात्रसंस्थायामतिदेशप्राप्ते बृहस्सामचे निमित्ते तदपूर्वसाधनीभूतब्रह्माख्यस्तोत्रोद्देशेनैव सौभरं विधीयते । तत्रैवाऽतिदेशमा रथन्तरसामकत्वे निमित्ते तु “यदि रथन्तरं सौभरमुक्थ्येषु कुर्यादि"त्यनेनाऽतिरात्रसं. स्थापूर्वसाधनीभूतोक्थ्यस्तोत्रोद्देशेन सौभरं विधीयते । पुनश्च नित्यविधिसनिधौ "यो दृष्टिकामो योऽन्नाधकामो यस्स्वर्गका. म: स सौभरेण स्तुवीते"त्यनेन फलत्रयार्थ सौभरं विधीयते । अत्र चोद्देश्यानेकत्वात् 'सौभरेण स्तुवीते" त्यस्याऽनुषङ्गाङ्गी- कारेण वाक्यत्रयं द्रष्टव्यम् । सौभरस्य च षड्जादिस्वरसमा- हारात्मकस्य ध्वन्यात्मकशब्दत्वेन सिद्धरूपस्य दध्यादिवदे. वाऽऽश्रयापेक्षायां षोडशिसंस्थाङ्गभूतब्रह्माख्य स्तोत्रमेव प्रकर- णात्मणयनादिवदाश्रयत्वेन सम्बध्यते । यत्वत्र पार्थसारथिना भवदेवेन च सौभरस्य गीतिरूप- क्रियावाचित्वादाश्रयापेक्षाभावेन 'स्तुचीते' बनुवादानुपपत्तिमा. शङ्ख्य, अनुवादान्यथानुपपत्त्यैव तृतीयान्तेन सौभरपदेन करण- स्वविशिष्टस्यैव सौभरस्य करणतासम्बन्धेन फलोद्देशेन विधा- नादाद्यकरणत्वस्य निरूपकापेक्षायां प्रकरणात पूर्व स्तोत्रविशेष सम्बन्धोपपत्तिरित्युपपादनायोपन्यस्तम् , तत् गीतेरपि षड्जा. दिस्वरसमाहारात्मकत्वस्य पूर्वाधिकरणे साधितत्वादुपेक्षितम् ।

२९४ HD . मीमांसाकौस्तुभे [सौभराधिकरण- न च सौभरस्याऽपि ऋत्वर्थत्वेन प्राप्तत्वादुभयप्राप्ती ऐन्द्र- वायवाग्रानितिवद्धात्वर्थस्य स्तोत्रस्यैव फलोद्देशेन विधिरस्त्विति वाच्यम् । तथा सति स्तोत्रस्यैव बहिःक्रतुप्रयोगापत्तौ तत्र सौः भरस्याऽप्राप्तत्वात् , तथाऽपि विधाने विशिष्टविधिगौरवापत्ते, सौभरस्य फलसम्बन्धाङ्गीकारात् । अतस्सिद्धं सौभरस्य काम्य- स्वमपि । तस्य च ममानकाले शाखाभेदेन निधनाख्यान्तिम- सामावयवाधारत्वेन 'ही, ऊ, ऊ' इयादीनि स्तोभाक्षराणि ममान्नातानि । तदेवंविधं सौधरं प्रकृत्य श्रूयते,-"हीषिति वृष्टि- कामाय निधनं कुर्यात् , ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामा- ये"ति। तत्र किं हीषादिस्तोभाक्षराणि प्रकृतसौभराश्रितानि वृष्ट्याद्यर्थत्वेन विधीयन्ते, उत वृष्ट्याद्यर्थे सौभर एवाऽनिय. मेन प्राप्तानि नियम्यन्त इति विचारः । (सङ्गतिः) वाक्यभेदापादकगुणप्रमाणकभावनाभेदाभेदविचारात् पादा- ध्यायसङ्गती स्पष्टे । इन्द्रिय कामाधिकरणरेवत्यधिकरणयोयो- रप्यपवादात्वनन्तरा। (पूर्वपक्षः) तत्र दृष्टिकामपदस्य तावत् स्वर्गकामाधिकरणन्यायेन फलपरत्वात् तादर्थ्यचतुझं तदर्थत्वेन हीषादिकं दध्यादिवत् गुणसंक्रान्त शक्तिकेन विधिना विधीयते । अत एव निधनप. दमाश्रयतया प्राप्तनिधनसम्बन्धानुवादः । तथा हि-हीषाद्यक्ष- राणि तावत्सिद्धरूपाणि सामभागपरिपूरकत्वेन योग्यत्वाव प्रकृतसौभराख्यं सामैवाश्रयत्वेनाऽवलम्बन्ते । युक्तं डि तस्य स्वावयवद्वारा स्तोभाक्षराधारत्वात् दृष्टविधया हीषादिस- पूर्वपक्षः ] द्वितीयाध्यायस्थ छितीयः पादः । २९५ म्बन्धित्वम् । अतश्च यथैव स्तोत्रादेः स्वसाधनीभूतऋगक्षराभि- व्यक्त्यर्थकसौभरादिसाध्यत्वात् परम्परासम्बन्धेऽप्याश्रयत्वा. विघातः, तथा सान्नोऽपि स्वावयवद्वारा स्तोभाक्षरसाध्यत्वा. दाश्रयत्वोपपत्तिः । न छत्र चारचन्तीयादिवददृष्टं द्वारतया प्रवि. टम् , येनाऽऽश्रयत्वं विहन्येत । न चैवमपि भवन्मते सान्नः सिद्धरूपत्वेनाऽऽश्रयत्वोपप. ति, सिद्धपस्याऽप्युच्चारणक्रियाविशिष्टत्वेन कृति साध्यत्वात् रूपादिवदाश्रयत्वोपपत्ते, ध्वन्यात्मकशब्दस्य नियत्वानी. काराच । न चैवमपि सौभरस्याऽनेकभागत्वान्निधनस्यैवाश्रय. वे प्रमाणाभावः, निधनाधारतया होषादिपाठस्यैव लाघवेना. श्रयतानियामकत्वात् , अन्यथा क्रत्वर्थनिधनाङ्गतया हीषादिवि. धौ गौरवापत्तेः । अस्तु वा तस्य तत् , तथाऽपि भागान्तरे हीषादिनिवेशे स्तोमान्तरबाधापत्तेः कचिच्च प्रधानभूतऋगक्षरान्तरस्यैव वा- धापत्रबाधपक्षपातिना शास्त्रेण क्रतुसादगुण्यार्थं निधनाधार- तयाऽवश्यप्रयोज्यस्य हीषादेस्तन्मात्राश्रयत्वलाभो नाऽनुपप. नः । अतश्च निधनानुवादोपपत्तेः रेवत्यधिकरणन्यायेन ही. पादिविशिष्टनिधनान्तरविध्याशङ्कानुपपत्तेर्दध्यादिवगुणसंक्रान्त शक्तिना विधिना इन्द्रिय कामाधिकरणन्यायेन हीषादिकमेव त- तत्फलोद्देशेन विधीयते । न च रेवसधिकरणन्यायापेक्षया लधुभूतन्द्रिय कामाधिक- रणन्यायेन गुणफल सम्बन्धविध्युपपत्तावपि गुणफलसम्बन्धे अपूर्वविध्यापत्तेस्ततोऽप्यतिलघुभूतनियमविध्यापादकं तत्तत्फ. लकसौभरसम्बन्धिनिधनाधारतया हीषादिविधिरिति पक्षा. न्तरमेव किमिति नाऽऽश्रीयत इति वाच्यम् । उक्तविधोद्दश्यम- त्यायकाभावेन ताशवचनव्यक्तिपक्षस्याऽनुक्ति सहत्वात् । त. ३८ मी० को , मीमांसाकौस्तुभे [ सौभराधिकरण- था हि निधनपदं वोद्देश्य समर्पकम् १ दृष्टिकामादिपदं वा ? नाऽऽद्यः, निधनमात्रोद्देशेन विधानस्य तावत्पाठप्राप्तिसम्भवे. नाऽनुपपत्तेः । वृष्टिकामपदेन वृष्टिसाधन सौभरीयत्वविशेषणे तु विशिष्टोद्देशे वाक्यभेदः। सौभरीयत्वस्य दृष्टिकामपदशस्या- Sलाभात् लक्षणापत्तिश्च । अत एव न द्वितीयः । न चैकं पदं वृष्टिसाधनसौभरमम्बन्धिनिधन धनलक्षकम् अन्यच्च तात्पर्यग्रा- हकमिति शक्यते वक्तुम् , विनिगमनाविरहात् । तात्पर्यग्राह- कस्याऽपि शाब्दबोधसामग्रथन्तर्गतत्वेन वाक्य भेदानिवारणाच । अन्यथा हविरुभयत्वविवक्षाया दुर्निवारत्वात् । किश्च वृष्ट्यादिसाधन सौभरवृत्तिनिधनोद्देशेनाऽपि हीषादेः पाठत एवं प्राप्तत्वान्न विधिसम्भवः । यदि तु वृष्टिसाधनीभू. तसौभरनिधन इव तदसाधनसौभरनिधनेऽपि कदाचिद्धीषः, प्राप्तिसम्भवात् तत्र तयावृत्ति फलकनिय मस्यैव फलस्वोपपत्तेः विधिसम्भव इत्युच्यते, ततो नित्यनैमित्तिकसौभरप्रयोगे निध. नाधारस्तोभाक्षराभावेन सापेक्षत्वापत्तिः । अतो लघुभूतस्या- ऽपि नियमविधेरसम्भवात् वृष्टिकामपदस्य शक्त्युपस्थापितफ- लार्थत्वसम्भवे लाक्षणिकवृष्टिसाधन सौभरवृत्तिनिधनार्थत्वकल्प- ने. प्रमाणाभावाच्च गुरुभूतोऽपि गुणफलसम्बन्धपक्ष एवाऽऽश्री. यते । एवं च कारणवैजात्येन कार्यवैजात्यस्याऽऽवश्यकत्वात् सौ. भरजन्यवृष्टयादिभ्यो होषादिजन्यवृष्टयादीनि व्यक्तितो जाति- तश्च मिन्नानीत्यषि द्रष्टव्यम् । सूत्रं तु-सौभरसम्बन्धिनिधनाश्रिते हीषादौ कामान्तर- संयोग एव दृष्टिकामपदेन प्रत्येतव्यः, श्रुखादिवृष्टिकामशब्देन दृष्टिकामस्यैव पुरुषस्योक्तत्वेन दृष्टिसाधन सौभरवृत्तिनिधनकाम- परत्वे लक्षणापत्तेरिति व्याख्येयम् ॥ ( इति पूर्वपक्षः ) सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २९७ (अथ सिद्धान्तः) सर्वस्यैवोक्तकामत्वात् तस्मिन कामश्रुतिस्या- निधनार्था पुनश्श्रुतिः ॥ २-२.२८ ॥(सि) आश्रयालाभादेव तावन्नाऽत्र गुणफलसम्बन्धो युक्तः । न ह्यत्र सौभरमनेकावयवात्मकं सिद्धरूपश्चैकाक्षराश्रयत्वेनाऽन्वेतुं योग्यम् । यद्यपि निधनद्वारा निधनमेव वा कथञ्चिद्योग्यं स्यात्, तथाऽपि तस्य विशेषत उपस्थित्यभावान्नाश्रयत्वेन द्वारत्वेन वा सम्बन्धः । वस्तुतस्तु शास्त्रस्याऽबाधपक्षपातित्वस्वाभाव्येन निधनस्यैव तदुपपत्तेः मूलाक्तकुशकाशावलम्बनेनाऽऽश्रयाला. भोपपादनासम्भवानियमविधिलाघवानुरोधेनैव गुणविधिपक्षो निराकर्तव्यः। तथा हि-फलत्रयार्थमपि सौभरं(१)योगसिध्य. धिकरणन्यायेन सकृदुचरितमे कस्मिन्प्रयोगे एकमेव फलं मा. धयति नेतरत् । तत्र चैकार्थत्वादेकलौभरेऽनियमेन हीषादीनि त्रीण्यपि निधनानि प्राप्येरन् । ततश्च दृष्टिफलार्थे सौभरप्रयोगे यथा ही प्राप्यते तथाऽन्यान्यपि विकल्पेन प्राप्येरन् । यदा चा. न्यानि प्राप्यन्ते तदा होषोऽप्राप्तेर्युक्तो नियमः । नियमोऽप्य यं वृष्ट्यर्थसौभरप्रयोगे हीपेवेत्येवविधः शेषस्येव, न तु वृष्ट्यर्थ सौभरप्रयोग एव हीष् इयेवंविधः शेषिणः, विधेयशेषगतनियम- फलसम्भवे उद्देश्यगतस्य तस्याऽन्याय्यत्वात् । न ह्ययं प्राप्त नियमः, येन होषोऽविधेयत्वामाशङ्ख्येत, प्रत्यक्षस्याऽपि पाठस्य विधिकल्पनया सामान्यमुखेन च वृष्टि कामप्रयोगमुपारूढस्य म- न्थरप्रवृत्तिकतया ततः पूर्वप्रवृत्यङ्गीकारणाऽत्र हीष एव विधेय- १. पू. मि. ४. ३. ११.

. २९८ मीमांसाकौस्तुभे [ सौभराधिकरण- त्वात् । अतश्च तद्तस्यैव नियमस्य फलत्वोपपत्तिः । एवञ्च शेषिनियमाकरणानित्यनैमित्तिकसौभरप्रयोगे हीषाधप्राप्तिः । न चैवमपि प्रवलेन वाक्येन चतुर्थीश्रुत्या वा वृष्ट्यर्थसौ- भरप्रयोगविशेषाङ्गतया हीषादिविधौ लिङ्गादिवदेव दुर्बलस्य श्रुत्यकल्पकत्वात् कथं नित्यनैमित्तिकप्रयोगे हीषादिप्राप्तिः ? दुर्बलस्याऽपि पाठस्याऽत्यन्त वैयर्थ्यप्रसङ्गेन चमसिनां भक्षे स माख्याया इव पौर्णमासीस्थवेदिकरणादौ प्रकरणे पाठादेरिव च नित्यनैमित्तिकप्रयोगविषये हीषादिविधिकल्पकत्वस्याऽङ्गीका. रात् । लिङ्गादेस्तु गार्हपत्यादौ लक्ष्ये शक्यसम्बन्धार्थमेवोपपत्तेः नेन्द्रादिविषये तस्य श्रुतिकल्पकत्वम् । नन्वेवं पाठल्याऽपि वृष्ट्याद्यर्थसौभरप्रयोग एव निधना. ख्यद्वारसम्बन्धेन कृतार्थत्वान्न नित्यनैमित्तिकयोगेन श्रुतिकल्प- कत्वापत्तिः ? न हि विधिवाक्ये वृष्ट्यर्थसौभरसम्बन्धिनिधन. स्यैवोद्देश्यता सम्भवति, येन पाठं विनैव निधनसम्बन्धो लभ्येत, वृष्टिकामपदेन तु वृष्टिसम्बन्धिप्रकृत सौभरमात्रलक्षणेऽपि निधः नलक्षणायामेव प्रमाणाभावात् न तदन्तस्योद्देश्यत्वम् , अत: पा- उस्यैव निधनसम्बन्धप्रयोजकत्वात् नैमित्तिकप्रयोगे हीपाद्यमा. प्तिस्तदवस्थैवेति चेत्-न; दृष्टि सम्बन्धिसौभरमात्रस्यैवोद्देश्य स्वेऽपि हीविधेळघुभूतनियमफलकत्वलाभाय निधनस्थानक- त्वलामोपपत्तेः । एतद्विध्य भावे हि पाठेन निधन एवाऽनियमेन हीषादिः प्राप्येत, ततश्च विधिफलसामर्थ्यादेवाऽत्र निधनस्था- नकत्वलाभः, न तु पाठात् , तस्य वस्तुतो नित्यनैमित्तिकप्रयोग- मात्रविषयत्वात् । अत एव पाठेन सामान्यतो यत्किञ्चित्प्रयोगवृ. त्तिसौभरीयनिधनसम्बन्धित यैव कल्पिताऽपि श्रुतिः विशेषवि. धिना बाधादाहवनीयादिशास्त्रवद्भाध्यविषयातिरिक्तविषयाऽव- सिद्धान्तः ] द्वितीयाध्यायस्य द्वितीयः पादः । २९९ तिष्ठत इति युक्तं तस्य नियनैमित्तिकप्रयोगमात्रविषयत्वम् । हीषादेश्च विधिफलसामर्थ्यात् निधनस्थानकत्वम् । नियम. फलकत्वादेव च वृष्टिपदेन वृष्ट्यवच्छिन्नमकृतसौभरलक्षणा- ऽपि नाऽतीव दोषमावहति । इष्यत एव हि नियमविधि- लाघवाद्यनुरोधेन "वातघ्नी पौर्णमास्याम्" इत्यादौ पौर्ण- मासीपदेन पौर्णमासीप्रधानसम्बन्ध्याज्यभागलक्षणा प्रयाजशे- षाभिधारणादौ च द्वितीयाद्यर्थलक्षणा । वृष्टयवच्छिन्नसौ. भरत्वस्यैव च लक्ष्यतावच्छेदकत्वात् न युगपत्तिद्वयाविरोधः, नाऽपि विशिष्टोद्देशे वाक्यभेदः । वस्तुतस्तु न लक्षणाऽपि, विधिफलसामर्थ्यानुरोधेन प्रकर- जावगतसौभराङ्गत्वानुरोधेन च दृष्टयर्थत्वस्यैव परम्परासम्बन्धे. नाश्रयणात् । अतश्च यथैव "वासिष्ठानां नाराशंसो द्वितीयःप्र. याज" इत्यदौ नाराशंसमन्त्रस्य वासिष्ठार्थत्वं प्रमाणान्तरावग- तद्वितीयप्रयाजाङ्गत्वनिर्वाहाय तत्रैव शाखान्तरमाप्ततनूनपान्म- न्त्रव्यावृत्तिफलकनियमलाभाय च वासिष्ठाभिलषितफलसाधन दर्शाद्यङ्गद्वितीयप्रयाजद्वारैव समाश्रष्यिते, तथा प्रकृते सत्यपि च. तुर्थीयोगे युक्तितौल्यात् परम्परासम्बन्धाङ्गीकिरणे न दोष इति लक्षणाश्रयणेऽपि प्रमाणाभावः । अतो वृष्टौ हीषेव परम्परास- म्बन्धेन कर्तव्य इति नियमफलकोऽयं विधिरिति सिद्धम् । अत एव परम्परासम्बन्धे प्रकृत सौभरप्रवेशात् कार्या दिजन्यवृष्टी हीषभावेऽपि न विघातः । अत एव परम्परासम्ब. न्धघटकत्वेन विजातीयसौभरविशेष एव विवक्ष्यते न तु सौभर स्वावच्छिन्नानि सर्वाणि । शाखाभेदेन हि सौभराणि तत्तद्गीति. विशेषभिन्नान्येव समाम्नातानि । कचित् समानगीतिकान्यपि ! अत एव गीतिभेदभिन्नछु न शाखान्तराधिकरणन्यायम.

३०० मीमांसाकौस्तुभे [सौभराधिकरण- त्तिरिति तत्र सौभराणां भेद एव । अतश्च विजातीये सौभरे हीषः पक्षेऽध्यप्राप्तत्वात्तस्य हीषादिनियमविषयत्वायोगेन न तस्य परम्परासम्बन्धघटकत्वम् । ततश्च वृष्टौ हाषेत्र विजातीय- सौभरद्वारा कुर्यादित्येतद्वाक्यार्थः फलितो भवति । एवञ्च वृष्ट्य. थसौभरविधावपि विजातीयानां सौभराणां विकल्पेन वृष्टयर्थ प्राप्तानां हीनिधनकस्यैव सौभराविशेषस्य दृष्टिसाधनता ना. ऽन्येषामित्यपि नियमः फलितो भवति । न ह्यन्यथा वृष्टौ हीषे. वेति नियमः कथमपि सम्पादयितुं शक्यः, निधनान्तरयुक्तस्या. पि सौभरान्तरस्य तदर्थ क्रियमाणत्वात् । अतो हीनियमवि- धेः समानजातीयसौभरस्थले शाखान्तरायोगादिनिधनान्तर- व्यावृत्तिफलकत्वेऽपि होपभिन्नानिधनयुक्तविजातीयसभिरस्थले तस्य वृष्टयर्थताव्यावृत्तिफलकत्वमपि कांस्यभोजिन्यायेन न विरुध्यते । अत एव यत्र न कांस्य भोजिन्यायः, यथा कार्या. दौ, तत्र न तस्य कृष्टयर्थता व्यावय॑ते, वृष्टयर्थसौभरविधेस्तु हीनिधनकसौभरमात्रग्रहणेन चारितार्थ्यात् युक्ता विजातीय सौभरव्यावृत्तिफलकनियमफलकतेति विशेषः । अतः सौभरा. न्तरस्याऽपि नियनैमित्तिकप्रयोगविषयत्वमेव, न तु काम्यप्रयोग- विषयत्वमित्यपि द्रष्टव्यम् । अतः सिद्धं हीपादिविधौ विधि. लाघवानुरोधेनैव न गुणफलसम्बन्धः, न वा तदर्थ गुणाद्भा. वनाभेद इति । प्रयोजनं--पूर्वपक्षे वृष्टययं सर्वसौभरानुष्ठानेऽपि अनाथा- धर्थमूर्गादिनिधानानुष्ठानं वृष्टयन्तरार्थं वा हीष एवाऽनुष्ठानम् , सिद्धान्ते तु नेत्यादि स्पष्टम् । सत्रं तु-सर्वस्य सौभरस्योक्तकामत्वेन प्रत्यभिज्ञानात्त.

सिद्ध
द्वितीयाध्यायस्य द्वितीयः पाद ।
.
सिम त ५. येव हीषादेः कामश्रुतिस्स्यात् । न चैवं सौभ-
भरे हीषादेः पाठादेव प्राप्तत्वात् विधानानर्थक्यम् , दृष्टिसाधनी.
भूतविजातीय सौभरवृत्तिनिधनव्यवस्थार्थत्वेन पुनःश्रुतिसार्थ-
क्यादित्येव व्याख्येयम् ।।
मीमांसाम्बुनिधि प्रमथ्य मुदृढायोच्चयैर्निरैः
कृत्वा जैमिनिसूत्रमन्दरममुं वेदं तथा वासुकिम् ।
यद्धालाहलसंज्ञमेव कलितं ग्रन्थान्तरं सज्जनः
श्रीकृष्णस्य तु भूषणाय स परं यः कौस्तुभाख्यो मणिः ॥
श्रीरुद्रदेवसुनोः कृतिरेषा खण्डदेवस्य ।
मीमांसाकौस्तुभाख्या भेदाध्याये द्वितीयोऽनिः॥
..
इति श्रीमत्पूर्वोत्तरमीमांमापारावारपारीणधुरीणश्रीरुद्रदेव सूनु-
खण्डदेवविरचितमीमांसाकौस्तुभे द्वितीयाध्यायस्य
द्वितीयः पादः ॥ २॥

No text on this page.

No text on this page.

Mimamsa Koustubha Vol.2

Author
Khand-d'adeva
Other authors
Chinnasawami Sastri A
Title
Miimaan'saakaustubha: Vol.3 Part 3
File name
Mimamsa Koustubha Vol.2
Text
OCR done
Citation
1924
Published
2004/12/26
Publisher
Chowkambha Sanskrit Series Office , Banares
Language
Sanskrit
Pages
144
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Mimamsa philosophy
DLI number
383184
Barcode
1990020047476.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
zK9WQgnpHfF
Download PDF

Mimamsa Koustubha Vol.2