Svclrc
Kavya Mala
Front matter
TITAE
2
WAT IT
+ As ACAAAA
-
Chortt Jun: 1
Totrai K, ,
11t,
Weave Atta
F ME AM A MA
KAVYAMÂLÂ.
A Collection of old and rare Sanskrit Kavyas,
Nâtakas, Champús, Bhậnas, Prahasanas,
Chhandas, Alankâras &c.
PART IX.
EDITED BY
MAHÂMAHOPADHYAYA PANDIT SHIVADATTA
or
JAIPUR
AND
VÂSUDEVA LAXMAN SASTRI PANAS'IKAR.
PUBLISHED BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF TIE "NIRNAYA-SAGAR" PRESS,
BOMBAY.
1916.
Price One Rupee.
All rights reserved by the publislıcı )
1
Dabli lied by 'Lukalam JAVAJA, and Painted by Ramchan 1.
at the "Xinay ya," Press, 23, Kolbhat Lu, B
॥ श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। नवमो गुच्छका। जयपुरवासिमहामहोपाध्यायपण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मात्मज- वासुदेवशर्मणा च संशोधितः । द्वितीयं संस्करणम् । सच मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः खीये निर्णयसागराख्यमुद्रणयन्त्रालये खायसाक्षरैर्मुद्रयित्वा प्रकाशितः । शाका १८३८, खिस्ताब्दः १९१६. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः।) मूल्यमेको रूप्यकः।
अनुक्रमणिका । है १ आनन्दवर्धनाचार्यकृतं देवीशतकम् ( कय्यटकृत टीकया सगेत : २ अवतारकविप्रणीतमीश्वरशतकम् ( सटीकम् ) ३ मधुसूदनकविप्रणीतमन्यापदेशशतकम् ४ लक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका ५ विद्यावागीशकविविरचितं कौन्तेयवृत्तम् ६ उत्प्रेक्षावल्लभकविविरचितं सुन्दरीशतकम् ७ श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः (सटीका).... १२२, ८ श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोप- चारपूजास्तोत्रम् ९ श्रीसुन्दराचार्यकविनिर्मितं गीतिशतकम् १० श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ११ श्रीशंकराचार्यविरचितं चतुःषष्टयुपचारमानसपूजास्तोत्रम् भा काव्यमाला। श्रीमदानन्दवर्धनाचार्यकृतं देवीशतकम् । श्रीकय्यटकृतया टीकया सहितम् । नमोऽस्तु वागधीशाय हयग्रीवाय विष्णवे । कौमोदकीचक्रशङ्ख कमलाङ्कितपाणये ।। प्रणम्य परमं धाम यत्प्रसादाज्वलन्त्यमी । महामोहमहिम्नार्ता रविताराधिपानला ॥ सचिक्षिप्सुरलं स्वबुद्धिरचितै. पर्यायशब्दय॑धा- टीका वल्लभदेव उत्तममतिस्मृत्यै भवानीस्तुतौ । पर्याय क्रियया समं कविकृतान्पाठान्पठन्कय्यट- श्चन्द्रादित्यतनूज इत्थमकरोत्तस्यैव नप्ता नवाम् ॥ आनन्दवर्धनकविप्रवरप्रणीतकाव्ये किमल्पमतिना क्रियते मयैवम् । कि वा पिपीलककुलानि न संश्रयन्ते मत्तेभदन्तपदपशिममेयसाराम् ।। विपमेऽत्र काव्यमार्गे सुरसे वा स्सलति मामकी धिपणा । वालेय निसरणं (2) सप्राप्य शनै शनैस्तदपि याति ॥ सर्वत्र काव्यारम्भे संबन्धाभिधेयप्रयोजनानि ज्ञातव्यानि । “सिद्धिः श्रोतृप्रवृत्तीना सब- न्धकथनायत । तस्मात्सर्वेषु शास्त्रेषु संबन्ध पूर्वमुच्यते ॥ सर्वस्यैव हि शास्त्रस्य कर्मणो १. ध्वन्यानोकायनेकग्रन्थकती श्रीमदानन्दवर्धनाचार्यः कश्मीरेषु ख्रिस्ताब्दीयनवम- शतकोत्तरभाग आसीदित्यसकृदुक्तम्. अयं देवीशतकटीकाकर्ता कय्यटोऽपि भीमगुप्तनरप- तिराज्ये तत्रैव ४०७८ मितेषु गतकलिवयु (९७८ ख्रिस्ताब्दे) टीका प्रणीतवानिति टीकासमाप्तौ विलोकनीयम् अयं कय्यटश्चन्द्रादित्यसूनुवैयाकरणकय्यटस्तु जय्यटात्मज इत्यस्माद्भिन्न . सटीकस्य देवीशतकस्य पुस्तकद्वयमासादितमस्मामि . तत्रैकं पुण्यपत्तनस्थ. राजकीयपुस्तकालयस्थं श्रीयुतभाण्डारकरपण्डितै कृपया प्रहितमासीत् , तत्क-संज्ञकम्, अपर कश्मीरमहाराजाश्रितैोतिर्विदुपाश्रीदयारामपण्डितै प्रहितम् , तत्ख-सज्ञकम् २. 'शङ्खचक्र' ख. ३. 'उन्नतमति' ख. ४. ख.पुस्तके 'बालेयनिसरणं संप्राप्य' इत्यस्य स्थाने त्रुटिचिह्नमस्ति.
२ काव्यमाला। A- वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥' इह तु देव्या स्तोत्रेण स हाराध्यारावनं संबन्ध । तदीयगुणकर्माणि चेहाभिवेयानि । तदभिधानद्वारकस्य च देव्या- राधनस्य दृष्टादृष्टफलभूता भोगापवर्गफलप्राप्ति प्रयोजनम् ॥ तत्रादौ कवि स्तोत्र प्रारिप्सु. पञ्चभि श्लोकै कुलकं चकार- अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥२॥ वपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ ३ ॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुताश्रिया ॥ ४ ॥ तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तस्याः सिध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५ ॥ (कुलकम्) तस्या धिया मातुः पादरेणवो व सिद्ध्यै कल्पन्ताम् । तस्या वर्णयिष्यमाणखरूपाया धियां मातुः प्रज्ञाजनन्या संबन्धिनः पादरेणवश्चरणपांसवो वो युष्माकं सिध्यै समीहितसंप- त्तये कल्पन्तां संपद्यन्ताम् । यां वेधा न वेद । यां देवीं वेधा ब्रह्मा न वेद न वेत्ति न जानाति । अपिशब्दोऽत्रार्थोऽवगम्यते। वेधा अपि न वेत्ति कोऽन्यो वराको ज्ञास्यतीति। यथा-'क्रोधावृतासौ क्षमते न धातुः । धातुः प्रजापतेरपि न क्षमते इत्यर्थ । कि- भूता याम् । अनन्तमहिमव्याप्तविश्वाम् । अनन्तो भगवान्विष्णुस्तस्य महिमा माहात्म्य तेन व्याप्तं पूरितं विश्वं त्रैलोक्यं यया ताम् । हरिमाहात्म्यवशेन हि भगवती जगदापूरय- तीत्यागमः । अथवा अनन्तैबहुभिरप्रमेयैर्महिमभिर्व्याप्तं विश्वं यया ताम् । अथ च या देवी मातेव जननीव प्रणते मानवे प्रहे भक्त नरे दया घृणा भजते पोषयति । यस्या अ- विज्ञेयस्वरूपाया अपि भक्तैर्भक्तिसुलभत्वमुक्तं भवति । यां वेधा अपि न वेद सा भक्त्या सुलभेति स्तोत्रोद्यमे साफल्यम् ॥ १ ॥ अपरम् । यस्यास्तापनी तनुर्भानवी मूर्ति न न तुल्या । सदृशैवेत्यर्थः । तपनस्येयं तापनी । किभूताया देव्या. नतापनीतक्लेशाया.। नतानां भक्तानामपनीता विनाशिताः क्ले- शा रागादयो यया तादृश्याः । कीदृशी च तापनी तनु । सुरारिजनतापनी देवशत्रुमर्दनी। । १. 'अतिसाफल्यम्' क.
देवीशतकम् । ३ । सुरारिजनांस्तापयतीति तच्छीलेति । देव्यप्येवंभूतैवेति तयोस्तुल्यखम् । तथा अदीनतामौ- जित्यमापयति प्रापयत्यसावदीनतापनी । उच्छ्रायप्रदा । इत्युभयोः समानम् ॥ २ ॥ यया देव्या वायूपया विधेब्रह्मणो वक्रपद्मा मुसनलिनानि भान्ति शोभन्ते । कीदृशाः सगलय । ऋच एवालयः [भ्रमरा] ऋगालय वेदसण्डनयं सह तेन वर्तत इति । या च देवी साक्षाद्दया । दयामयीत्यर्थः । तथा या च देवी जनितस्थितिसगलयोदया जनिता विहिता स्थितिसर्गलया पालनोत्पत्तिविनाशा येनासौ जनितस्थितिसर्गलयो भगवान्वि- Lणुस्तत उदयो यस्याः सा । भगवच्छक्तिरेव सा देवीति भाव । अथवा जनित उत्पादि- त: स्थितिसर्गलयानामुदय प्रभवो यया ॥ ३ ॥ अन्यदपि । या पावनतया पवित्रत्वेनाश्रिता सेविता। पवित्रेत्यर्थ । तथा च या देवी यातनाछित् । यातना प्राग्विहितदुष्टकर्मविपाक । अन्यच अनीचया अनूनया धिया प्र- ज्ञया मायाया आयामोऽविद्याप्रपञ्चस्तस्यायास उपपातो निवारणं तं याचनीया प्रार्थनाया। तथा श्रिया लक्ष्म्या स्तुता ॥ ४ ॥ तथा यस्या देव्या. स्तुत्यादरेण स्मरणाभिनिवेशेन तमामि मोहाबोधादयो ध्वंस विना. शमायान्ति प्राप्नुवन्ति तस्या एतादृश्या धियां मातुर्धिपणाना प्रसविच्या सबन्धिन पा. दरेणवश्चरणरजांसि व सिध्यै कत्पन्तामिति ॥ ५ ॥ ऋपीणां सादयामास या तमासि त्रयीमयी । पायावः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥ सा देवी वो युष्मान्पायाद्रक्षतात् । त्रयीमयी ऋग्यजु सामरूपा ऋषीणां मुनीनां तमांस्यज्ञानानि सादयामास नाशयावभूव । त्रय्यामुदितायामृपीणां हि तमांसि नष्टानि । तथा दया करुणा बिभ्रती दधाना । किभूता दयाम् । जगति विश्वस्मिन्नाधिच्छिदं मन पी- डाविनाशिनीम् ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । या चाच्युतोऽपि तुष्टाव तुष्टा वः सास्तु पार्वती ॥ ७ ॥ सा पार्वती हिमवत्कन्या वो युष्माकं तुष्टा प्रसन्नास्तु भवतु । या देवी स्मरद्विपा का- मशत्रुणा ययाचे प्रार्थिता । यया देव्या हेतुभूतया विधे. प्रजापतेरियं प्रत्यक्षदृश्या सृष्टि- लक्षणा क्रिया सिद्धा । यांचाच्युतोऽपि तुष्टाव । हरिहरहिरण्यगर्भादिभि स्तुतेत्यर्थ ॥७॥ या दमावनयागेन खाराधा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ ८॥ प्रतिलोमानुलोमत एवायं द्वितीय. लोक यायताजिविमाया सा यस्या हा बत कैरिह । या रसायनधारा खा न गेयानवमा दया ॥९॥ १. 'उत्तमया' क. २. 'स्मृत्यादरेण' ख.
४ काव्यमाला। सा बुद्धिरुतमालोकः सतामार्या पुनातु वः । यद्भक्तरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १० ॥ (विशेषकम् ) सार्या पूज्या वो युष्मान्पुनातु पवित्रीकरोतु । या दमावनयागेन दम उपशान्तचित्त- ता तेनावनं पालनं तदेव याग इष्टिस्तेन खाराधा सुखमाराध्यतेऽभिमुखीक्रियते । यया नयसारया नीतिपरया हरिकैतवहास्याय हरेरिन्द्रस्य कैतवहास्याय व्याजोपहास्याय साया- मा. सविस्ताराः कृतोद्यमा विजिताः पराभूताः । अभिमानवशेन शक्रमप्युपहास्याय के- चिदाक्रमन्ति तेऽप्यभिभूता ययेति भाव ॥ ८ ॥ या आयताजिविमाया आयते वितते आजी सनामे विमाया विगतप्रपञ्चा। स्पष्टयुद्धा विविधमायाप्रपञ्चा वा । यस्याश्च देव्या साखा दया निजा करुणा अनवमा शोभना हा बत कैर्देवादिभिरिहास्सिजगति न गेया न गातव्या। सवेरेव स्तुत्येत्यर्थ । हावतशब्दो द्वा- वपि विस्मये । यथा 'अहो बतासि स्पृहणीय वीर्य' इति । का च सा दया, या रसाय. नधारा पीयूपसुतिः । आहादकत्वात् ॥ ९ ॥ अन्यच्च । सतां साधूना बुद्धिर्धी । कीदृशीधी । उत्तमालोक उत्कृष्टप्रकाश । प्र- ज्ञाचक्षुर्हि अतरणिशशधरदहनभासोऽपि पश्यति न चर्मचक्षुरिति। रजस्तमोरहितप्रकाशरूपा हि या बुद्धिस्तद्देवीस्वरूपमाहु । तथा च यद्भक्तेर्यदीयसेवनात् उत्तमा उत्खाततमा. वि. नाशितमोहः सन् उद्गततमा अपि वैष लोकोऽयं जनो विशुद्धतामपगतकल्मषलमेति प्रा. नोति ॥ इत्यनुलोमोत्पन्नेन श्लोकेन सह श्लोकत्रयेण विशेषकमिदम् ॥ १० ॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खङ्गेन दीपा देवानां सामरायासहारिणा ॥ ११ ॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ १२ ॥ वताद्वोऽम्बिकाभ्यय॑नामा न न यशोऽभितः । तनोति प्रणतो यस्या ना मानेनयशोभितः ॥ १३ ॥ (इदमपि विशेषकम्) साम्बिका जननी वो युष्मानवताद्रक्षतात् । या सामरा सदेवा सती । अथवा साम सान्वं राति ददाति सामरापि सती साधुत्राणाय सज्जनपरिरक्षणायारिणा शत्रुणा समम- युद्ध युद्धमकाषीत् । कीदृशी देवी । खङ्गेन करवालेन दीप्रा उज्वला । कीदृक्षण देवानाममराणां सामर सङ्ग्रामभवमायासक्लेशं हरति तच्छीलस्तेन सामरायासहारिणा । साशामिकक्लेशविनाशिनेत्यर्थः ॥ ११ ॥ १. 'नयन' क. २ 'नयन' क. -- देवीशतकम् । तथा या देवी नयजयीत्युत्कर्षे रराज शुशुमे । किंभूता । रणाजिरे सङ्गमाङ्गने चर- णाघातनिहतकासरा पादाहतिव्यापादितमहिषासुरा । अन्यत् , अराजसजनानता । रज • प्रतिषेधारतरे तमो निषिद्धम् । तत्सात्त्विकजनप्रणतेत्यर्थ । यथा च 'अरजस्का. परं पदम् ॥ १२॥ अपर यस्या देव्या ना मनुष्यः प्रणत प्रह्वो न नाभित समन्ताद्यश. कीर्ति तनोति विस्तारयति । अपि तु तनोत्येव । स च नाभ्यय॑नामा पूज्याभिधानः । देवी वाम्ययों नामो नमनं यस्या इति । अन्यच्च स पुमान्माननयशोभित ।माननयाभ्यामलंकृत इत्यर्थः१३ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥ या दमानवमानन्दपदमाननमानदा । दानमानमाक्षमानित्यधनमानवमानिता ॥ १५॥ (मुरजबन्धः) सा रक्षतादपारा ते रसकृद्गौरवाधिका। सारक्षतादपारातेरसकृद्रौरवाधिका ॥ १६ ॥ (समुद्गकम् ) (इदमपि विशेषकम् ) सा देवी ते रक्षतादवतात् । यस्या द्विषा शत्रुणा संयतं सनामं याचमानेन प्रार्थयमानेन वध, प्रापि मरणमलम्भि । या च देवी' प्रणतं प्रहं संयतं जनं यमनियमवन्तं लोकं मानेन युनक्ति पूजया संवनाति ॥ १४ ॥ या देवी' दमानवमानन्दपदम् । दमेनेन्द्रियजयेनानवम श्रेष्ठो य आनन्दपद आनन्द- स्थानम् । विद्यया हि शमसुखलाभ. । किं च, आननमानदा । आननस्य मुखस्य मानं पूजा श्लाघारूपा ददाति प्रयच्छति । निरपभ्रंशपदभाषणान्मुखं पूज्यं भवति । एवं च पद- द्वयेन प्रकाशरूपं वाग्रूपं च देव्या आगमोकं प्रकाशितं भवति । तथा दानमानक्षमानित्य- धनमानवमानिता । दानं सत्पात्रे धनसमर्पणम् । मानं ज्ञानम् । क्षमा रोषोपघात । ता एव नित्यमविनश्वर धन वित्तं येषां मानवानां पुंसां तैर्मानिता पूजिता । दानादिभिरेव देव्यर्चिता यथा भवति न तथा पुष्पादिभिरित्यर्थ । एष मुरजबन्धः ॥ १५ ॥ सा अपारा अपर्यन्ता गौर्याक् अवाधिका अविधातिनी रक्षतात् । सारक्षतादुत्कर्यक्षते । असकृत्पुन पुन । रसकृत् रसं रागं करोति छिनत्ति च सा रसकृत् । अभिमतं निरीहं वा वस्तु रक्षतात् । कीदृशस्य ते । अपारातेनि शत्रो । कि च, गौरवाधिका गौरवेण पूजयाधि- कोत्कृष्टा । सर्वेषां गुरुरित्यर्थः । एष समुद्गकबन्ध ॥ १६ ॥ १. 'अरजस्कं' क. २. 'भानन्द' क.
६ काव्यमाला। अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी ह्रियाक्रियाः ॥ १८ ॥ (संदानितकम् ) सा गौरी वो युष्माकमनन्तरागतापायाः अनन्तरमविद्यमानान्तर कृखा आगताः प्राप्ता अपाया विना यासां ता. । अनिष्पन्ना एवोत्पन्नविनाशा या क्रियाश्चेष्टा हियादप- हरतु । दुष्टक्रिया विनाशयत्वित्यर्थः । या देवीमनाश्रिता शरणं न प्राप्ता नरा अनुत्तमोह- राशयोऽप्रेरिताज्ञाननिवहा अविनाशिततमसो भवन्ति संपद्यन्ते । यया गौर्या अनुत्तमो- ऽविद्यमानप्रधानो हराशयो महादेवचित्तं चिर बहुकालं रञ्जित आवर्जित । तथा या देवी भवापद संसारदु खात् । भव एवापत् भवस्येति वा । कीदृश्या भवापदः । अनन्तोऽपर्य- न्तो रागताप स्मरार्तिदाहो यस्यास्ततस्तारयित्री उद्ध: । भवापद' इति कृयोगे कर्मणि पष्ठी । अथवा अनन्ता ये रागजनितास्तापास्तानायस्यति क्षिपतीति देवीविशेषणम्॥१७॥१८ यामायासजिदासक्तशोकजोलस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९ ॥ (गोमूत्रिकाबन्धः) सामरागमनायासं त्यक्त्वा साथै सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २० ॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया । सामोदया जयाशा तैर्गीर्वाणैर्गवतो जहे ॥ २१ ॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥ साव्यागौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरोगच्छन्न रोगच्छन्दमेति च ॥ २३ ॥ (पञ्चभिः कुलकम्) सा गौरी गिरितनया युष्मान्भवत सदा सततमव्यापायात् । या भक्तलोकजालस्य १. "विधाता' क. २. 'अनिष्पन्न विनाशा या 'क. ३. 'विद्याप्रधानो' क.४. द्धरन्ती' ख. ५. 'जातस्य क. ६. 'ययो यो' ख. ७. 'ये ये क. ८. 'जातस्य' क.
देवीशतकम् ।
प्रणतजनसमूहस्य नामायासजित् । याममन्तककृतमायासमुपतापं जयत्यभिभवति । या
माता करुणापरा सती सर्वदा सर्वकालं च भक्तानामेवासक्तशोकजालस्य पातिनी । आस-
तानि संलमानि शोकजानि खेदोद्भवानि यान्यालस्यानि तानि पातयति निहन्त्यवश्य-
मिति । भक्तलोकस्य जालं समूहस्तस्य पालनी गोप्नी च । गोमूत्रिकाबन्ध. ॥ १९ ॥
तथा यद्गणा यस्याः संवन्धिन पार्श्वकिकरा सुरारिभि सार्व दैत्यै सह युधि सङ्ग्रामे
गमनायोद्यता प्रवेष्टुं साहंकारा सामरा सदेवा सन्त आसन्नभूवन । कि कृखा । साम-
राग सान्लसक्तिं त्यक्त्वा परित्यज्य । किंभूतम् । अनायासमक्लेशम् ॥ २० ॥
यया चाजया जन्मरहितया सामोदया सहर्षया शत्रौ विपक्षे शातै शौस्तीक्ष्णैरायु-
धेर्हते निपातिते सति तैविणैिर्देवै सामोदया जयाशा सान्त्योद्भूता विजयाकासा गर्वतो.
भिमानाजहे त्यक्ता । साम्न उदयो यस्या इति सामोदया ॥ २१ ॥
[यया आयाय अयि अया यूयं य य ऽयं येयया एय याम् ।
ययुयायियया इयाय यये अयायाय या आययुक् ॥ २२ ॥ इति पदानि ।]
अयि जना , यया देव्या हेतुभूतया यूयं भवन्त. आयायाविर्भूय अया विष्णुशरणा
भवत । अ भगवन्तं वासुदेवं यान्त्यया संपञ्च वम् । प्रभवस्य हि हेतुर्दैवीति भाव ।
यथा च-'गोविन्दभगिनी देवी तदन्ते तद्गतिप्रदा। भगवती' इत्यागम । य य. अयं लोक.
यामेय या देवी नाप्य ययुयायियया इयाय । ययुभिरवैर्याति गच्छति तच्छीलो ययुयायी
सूर्य तं ययुयायिन यातीति ययुयायिय रविमण्डलभेदी। मुक्त इत्यर्थ । तस्य या गति ।
यानं या । 'अन्यत्रापि दृश्यते' इति कि । तया ययुयायियया सूर्यमण्डलभेदिगत्या ।
'क्विवन्तो वातुत्वं न जहाति' इति परिभापावचनात् 'आतो धातो' इत्याफारलोपे कृते
रूपमेतत् । इयान जगाम । किभूतया गत्या । येयया अवश्यपा'यया यो यो जनता
देवी शरणमेति स स सूर्यमण्डलभेदिगत्या गच्छति । मुच्यते इति तात्पर्यार्थ । अन्यच या
देवी अयायाय यये। अयो ज्ञानं दैवमनुकूलं वा कथ्यते तस्याय अयायः । अयनमाया
प्राप्ति । तदर्थमयायाय ज्ञानप्राप्तये यये शिश्रिये । यस्माद्देवी आययुक् । आयेन ज्ञानेन
धनागमनेन वा युनक्ति संबध्नाति । अयनमाय । भावे घज् । एय इति ईड् आइ.
पूर्वस्य ल्यपि ॥ २२ ॥
तथा या देवी शरणं गच्छन्नर प्रपद्यमान पुमान् । सदायुप्मान शोभनचिरजीवी सन्
समृद्ध्यति समृद्धिं सपत्तिं प्राप्नोति । रोगच्छन्दं च नैति व्याधेरनुवर्तन च न प्राप्नोति ।
व्याधिवशादौपधपायी न जातु भवति । यो देवी शरणमेति स आयुरारोग्यमेश्वर्य लभत
इति वाक्यार्थ. ॥ २३ ॥
कृतास्पदा यया संपदघानि सुरवैरिपु ।
हन्ति या वाङ्मयी दूरादघानि सुरवैरिपुः ॥ २४ ॥
काव्यमाला । 1 । जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५ ॥ (सर्वतोभद्रः) मनोभवारातिमनोभिरामया जरामयापाकरणकढक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया॥२६॥ (विशेषकम् ) तव भवतस्तया आर्यया गौर्या नयस्यास्था नीत्यवस्थिति सदा सर्वकालं क्रियता विधीयताम् । यया देव्या सुरवैरिपु देवशत्रुघु कृतास्पदा लब्धप्रतिष्ठा संपत्समृद्धिरघानि जप्ने हता । या च वाड्मयी परापश्यन्तीमध्यमावैखरीरूपा अघानि पापानि व्यसनानि वा हन्ति हिनस्ति । केन । सुरवै. साधुशब्दै. । सा च दूरहननादिषुरिवेषु. ॥ २४ ॥ या जितानया अविद्यमानो नयो नीतियेषा ते जितायया। तथा या देवी नताजिता. रसाततसारता । नतानां भकानां आजित सङ्ग्रामात् यस्तारस्तारणं विजयस्तत्र या सातता सविस्तारा । आततनमातत इति । सारता दृढता । बहुतरं दाय सा देवीत्यर्थ । न सावना न । सहावनेन रक्षणेन वर्तते इति सावना न न सावना कि तु सावनैव । भक्काना सरक्षणा । किं च अवसानयातनारि । अवसाने अन्तकाले या यातना दुष्कृति- विपाकास्तासामरि शत्रु विनाशिनी । इना खामिनी । सर्वतोभद्र एष । बन्धस्तु प्रसिद्ध एव ॥ २५॥ तया देव्या मनोभवारातिमनोभिरामया चित्तजन्मशत्रुचेतोनुकूलया त्रिनयनचित्तहा- रिण्या । तथा जरामयापाकरणैकदक्षया जरा पलितं आमया व्याधयस्तेषामपाकरण तिरस्कार विनाशनं तन दक्षया चतुरया । अन्यच्च मदक्षयादहंकारविधाताद्धेतोर्निर्मलतां विरजस्कत्वं ददानया वितरन्त्या प्रयच्छन्त्या ॥ विशेपकमिदम् ॥ २६ ॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः॥२७॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सात वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणना मतनमनतमत्राणरक्ता दयापा ॥२८॥ (प्रतिपादं प्रतिलोमानुलोमः) (संदानितकम् ) सा देवी अक्ता व्यक्का पायाव्यात् । येन्द्रहिताय शक्रयोथ रणं सङ्ग्राम समाययौ समाजगाम । एवं व्यक्ताव्यक्तस्वरूपिणी देवीत्युक्त भवति । या समायया सकपटयारि- देवीशतकम् । सेनया शत्रुपृतनया न जिता नाभिभूता । अपि च मुग्यतया कृशतया युक्त. स माश्च- न्द्रो हर महादेवमाश्रितः सदिष्ट. सन् स्फुटं नूनं यया देव्या समा तुल्या मनोज्ञता रामणीयकानि ययाचे प्रार्थयामास । तत्समलावण्येच्छश्चन्द्र स्फुटं हरे याचते ॥२७॥ [या च देवी] सा भावक्षालवर्या । क्षालनं क्षाल भावस्य चेतस. क्षालो नैर्मल्यं तत्र च या वर्या श्रेष्ठा । तथा नुतविभवितनुः । तुता विभविनी महाप्रभावा तनुर्मूर्तिर्यस्याः । बलक्षावभासा । वलक्ष शुद्धोऽवभास प्रभा यस्या । शुद्धप्रकाशरूपेत्यर्थ । कि च जानानस्य ज्ञानिन आशयप्रा अभिलापपूरणी । तथा नवनलिनवनप्रायशस्यानना । प्र. त्यग्रकमलखण्डतुल्यस्तुत्यमुखी । तया अजा जन्मरहिता । कि चाननस्था मुखगता सती सात वर्म श्रेष्ठ कवच । सदैव सतां वाग्रूपेण परमं संनहनं सेत्यर्थः । तथा रहसि विजने रसी रसिको योऽसौ हर शंभुस्तस्य यानि स्थाने नर्माणि अवसरे परिहसितानि तानि अवतंस कर्णाभरणं यस्या सा । रणना सभामनायिणी । अपरं मतनमनतमत्राणरक्ता । अतिशयेन मतमभिप्रेतं नमनं देवीप्रणामो येषां तेपात्राणे रक्का सका। यतो दयापा। दयां करुणां पाति रक्षति आमोति वा । प्रणतानां दयापरेति भाव ॥ २८ ॥ उपासते कृष्टिकृतोदया यां जना सदाराधनमीहमानाः । शंभोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥२९॥ (अर्थत्रयवाची) सा गौरी मृडानी भवतां युष्माकं हितमनुकूलं विधेयात्कुर्यात् । या जनालोका उपा- सते सेवन्ते । यत कृष्टिकृतोदयाम् । कृष्टीनां सूरीणां कृतो विहित उदय आविर्भावो यया ताम् । कीदृशा जनाः । सदा सतत सच्छोभनं वाराधनं संमुखीकरणं सेवामीहमाना कासन्त । किभूता देवी । शंभो शर्वस्य तनुता कायत्वं वहन्ती बिभ्राणा । प्रसिद्धा प्र- थिता ॥ अथ च सागौर्वाणी ईहितमभिमतं विधेयात् । कीदृशी । कृष्टिभि सूरिभि कृत उदयो विकासो यस्याः । शंभोर्ब्रह्मण अतनुतामकृशतां वहन्ती प्रसिद्धा ॥ तस्मिन्त्रीरूपे- णापि सुव्यक्ता स्थिता वागिति भाव । 'शंभू ब्रह्मेश्वरौ ज्ञेयौ' । या जना उपासते । कीदृशा । सता साधूनामाराधनं चित्तग्रहणमीहमाना अभिलपन्त ॥ अन्यच' सा गौर्भूः व. ईहितं विधेयात् । या जना उपासते अधितिष्ठन्ति । कीदृशा. । सदाराः सकलना । धनं वित्तमीहमानाः प्रार्थयमाना । कीदृशीं क्षमाम् । कृष्टिभि कर्पणैहलविलेखनै. कृत उदय कृत्यागम । देवी च वाड्मयी (मही) मूर्तिरपीति वाक्यार्थ ॥ २९ ॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अधानि यस्याः प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥३०॥ यस्याः प्रभावो घुसदां विपक्षसेना वधानन्दयिताहरस्य । मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥ (संदानितकम् ) नव० गु० २ १० काव्यमाला । । सा इना ईश्वरी हरस्य गिरीशस्य दयिता वल्लभा वो भवतां श्रियै लक्ष्म्यर्थमवधानं प्रयत्नमावहतु विदधातु । यां पुमांसो नरा सद्य एव प्रणते. समनन्तरमेव त्रिदशैर्दवै समास्तुल्या नमस्यन्ति प्रणमन्ति । किं च सदानभोगा । सह दानेन त्यागेन भोगैर्विप- यानुभवैश्च वर्तन्ते ये ते । तया यस्या देव्या प्रणता प्रहा नभोगा नभसि गता इति विपक्ष शत्रुभिः समानं सहाघानि पापानि सदा सर्वकालमस्यन्ति क्षिपन्ति ॥ ३० ॥ तथा यस्या देव्या प्रभावो माहात्म्यं धुसदा मुराणा विपक्षसेना वधानन्दयिता अरि- वरूथिनीवधेन हननेनानन्दयिता परितोपथिता । कि चास्य मनोम्वुजस्य चेत.कमलम्य अरिवाह । विकासकलात् । एतद्देव्या प्रभावस्य वा विशेषणम् ॥ ३१ ॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । खापं न यो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । खापन्नवोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥ (महायमकम् ) सुरानिति द्वेपिजनैरभिद्रुतानुदाहरद्या वयमावोद्यता । शिवोऽद्य तापप्रशमरतया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४ ॥ (विशेषकमिदम् ) तथा देव्या प्रशस्तया मजलभूतया तव भवत अद्यास्मिनहनि तत्वदशा सारज्ञानेन शिव श्रेयाननुकूल मसुख इति यावत् । तापप्रशम आध्यात्मिकाधिदैविकावि- भौतिकदोपत्रयस्य प्रशमो विनाशो विधीयतां क्रियताम् । या देवी सुरान्देवान्द्वेषिजनै शत्रुजनैरभिद्वतान्पलायितान्वयमाहवोद्यता सङ्ग्रामसंनद्धा सती इति वक्ष्यमाणप्रकारेणो- दाहरदवोचत् । कथमित्याह-हे जिता अभिभूता सुरा देवा , रणात्सभामादभीतं निर्भयं कृत्वा यात गच्छत । मा भूद्भवता मनामभय मित्यर्थ । भाविता देवराजद्विपस्य ऐरावणस्य क्षमा अशक्तता येते । अपर वो भवता हितं धाम अनुकूलं स्थानं न न नाम वापम् । सुप्रापमेवेल्यर्थ । अन्यच्च या देवसेना सह देवेन इनेन प्रभुणा च सुरा- जिता सुध्छु भ्राजिता ऊहितानां तर्कितानां चित्तविपयाणा शत्रूणां मध्ये भवन संपत्.. ...समस्तश्लोकयमनान्महायमकमिदम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ वकं बिभ्रत्युपहितचन्द्रायासं या समोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥३५॥ (काञ्चीयमकम् ) सा देवी वो युष्मान्पायातू । या उपहितचन्द्रायास वर्क बिभ्रती स्वकान्त्यतिशयेनो- पहितो दत्तश्चन्द्रस्य शशाङ्कस्यायासो ग्लानियेन तादृशं वक्रं मुखं बिभ्रती धारयन्ती । तथा .
-- । देवीशतकम् । ११ समोहो हाद तमस्तत्प्रशमन विनाशने सूर्याकारा भानुतुल्या । सूर्यो यथा तमोविनाशने दक्षस्तद्वद्धार्दतमोनिवृत्तये देवीत्यभिप्राय । तथा या देवी क्षेपत्यक्ता भर्त्सनरहिता अनिन्द्या रणभुवि आहवभूमौ कारानीतामरं बन्धनस्थापितदेवं अरि शत्रु आचिक्षेपाजुहाव। समरार्थ- माहूतवतीत्यर्थ । काञ्चीवन्मेखलावत्स्तम्भनात्काञ्चीयमकम् । जलवरमाला नाम वृत्तम् ३५ हितेहितेऽस्तु ते तुते जिताजितामितामिता। जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६ ॥ (आवलि म यमकमिदम्) जयाख्या देवी ते तव हितेहितेऽनुकूले चेष्टितेऽस्तु भवतु । हितं च तदीहितमिति । वद्धितकार्ये वर्ततामित्यर्थ । कीदृशे । हिते हिते स्तुते प्रशस्त । कीदृशी देवी । जिताजिता लब्धजयसमरतामिता गता। तथा अमिता अपरिच्छन्नखरूपा। अन्यत् , यया हेतुभूतया। जनो लोक. अलमत्यर्थ बल ययौ जगाम लेभे । कीदृश्या यया । अजया जन्मरहितया। कीदृशो जन । अजनः जन्मरहित सन् । जनन जन इति कृत्वा नसमास । प्राप्ततत्त्व- ज्ञान इत्यर्थ । मुमुक्षुर्जनस्त्वत्प्रमादान्मोक्षावाप्तिसामर्थ्य लभत इत्युक्तं भवति।। ३६ ॥ सक्तिं वः सुकृतार्जने विदवती सत्रा यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्तमनसां मुख्या ततां ख्याततां संस्मृत्यैव" [मत्सरभरस्फीतापदां तापदाम् ] ॥ ३७ ॥ .......आयासदा क्लेशदायिनी । तथा साधूत्साहविधाने सजनानामुत्साह- करणे सक्तमनसामभिनिविष्टचेतसा लोकपालाना मुख्या प्रधानम् । अन्यच्च सस्मृत्यैव स्मरणेनैव तता विस्तीर्णा ख्यातता' · · । मत्सरत (भ)रो द्वेषवाहुल्यं स एव स्फीतो विप्रलाप (१) आपद्दर्भािग्यं येषां तेपा तापदा खेदप्रदाम् ॥ ३७ ।। या मूर्ति किमपि सरारिवपुषा धत्ते समायोजितां या दृष्ट्वैव विनाशमाप राहसा शुम्भः समायोऽजिताम् । या नद्रैः सुरसिद्धकिंनरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥ त्रिलोचनवधूईरपत्नी ते भवत अश्रीविनाशस्यालक्ष्मीप्रतिघातस्य हेतुर्निमित्तं भवता- त्सपद्यताम् । या स्मरारिवपुषा मदनरिपुशरीरेण समायोजिता मिश्रिता मूर्ति तनु किमपि केनापि हेतुनाधत्ते वारयति । यो चाजितामपरिभूतां शुम्भाख्यो दैत्य समायः सप्रपञ्चो- ऽपि सन्दृष्ट्वैवावलोक्यैव सहसा झटित्येव विनाशं मरणमाप प्राप लेभे। तथा सुरसिद्धकि- नरनरैर्देवसिद्धगन्धर्वपुरुष खेदं विना आलस्यं विना शस्यते स्तूयते ॥ ३८ ॥ .
१२ काव्यमाला। सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा खैर खैरंशसगैंर्गहनतममहामोहहार्द हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोपा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥ पार्वती वो युष्माकं सर्वत. समस्ताद्दिग्देशकाद्विपदुपशमनी शत्रुमर्दिनी स्ताद्भवतात् । अस्ता क्षिप्ता विनाशिता अदभ्रा महान्तो दोपा मूर्तामूर्त.... 'तथा सायासायाः सोप- तापायात्रिलोक्या भूर्भुव वर्लक्षणाया शरणमभयपदस्थानम् । अन्यच्चाकरुणं निर्दयं कृला क्षुण्णा विनाशिता दैत्यप्रवीरा असुरप्रधाना यया सा । अपि च खैर्निरशसगैरव- यवप्रादुर्भावैः खर शनै शनै कृला गहनतमो दुर्भदो योऽसौ महान्हार्दो हृदयभवो मो- होऽविवेकस्तं हरन्ती निवारयन्ती । अन्यच्च भक्तिभाज सेवासक्तपुंस शस्याशस्य सम्य- क्स्तुत्यामिलापस्य सत स्मृतव यातमात्रैव सफलमशेपमभिमतमादधाना पोषयन्ती ३९ सुरसुरचितचितनवनवभवभवनानादरादरायेये । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४० ॥ (निरन्तरावलियमकम् ) हे देवि, सुरैर्देवै सुरचितेन शोभनरचनया चिता दृष्टा नवा अनन्यकृता नवा स्तवा यस्या सा सुरसुरचितचितनवनवा । तथा भवभवा. संसारसंभूता ये नानादरा बहुप्रकारभयानि तन्निवृत्त्ययमादरेणौत्सुक्येन या आयेया आगन्तव्या । या भवभव- नानादरादरायेया यातव्या । प्रथमा लोकेन (नु) संधानम् । ते तव चरणौ पादौ लयो लीला विलासस्तस्य लयश्चरणं गमनं ययोस्तौ चरणी नतेन नमनेन नमामि न मामि न पर्याप्तो भवामि । तृप्ति न गच्छामीत्यर्थ ॥ ४० ॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च केंकारोऽपि तानवं नारीणाम् ॥ ४१ ॥ या हन्तां च प्रयाता विहायसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिवलेन ॥ ४२ ॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकगोभातिभद्रकालीनतया ॥ ४३ ।। (कलापकम् ) ता देवी नमत नमस्कुरुत या स्मरभिदा मदनहन्त्रा भत्री हरेणाङ्कारोपिता उत्स ङ्गमारोहिता सती नारीणा स्त्रीणां नवमपूर्व विस्मयमाश्चर्य चके । तथा यच्चापस्य य देवीशतकम् । - १३ दीयधनुषश्च संबन्धी केकारोऽपि ध्वनिरप्यरीणामरातीनां तानवं क्षयं न न विदधे अपि तु चके । अपरं या तारा प्रकाशरूपिणी विहायसा आकागेन प्रयाता गता सनी कृष्णो भगवान्वासुदेवस्तव भवत हन्ता हिंसतु इत्यनेन प्रकारेण कंसारख्यं दैल्यमाहाबो- चस्म । कथमित्याह-परमाया विहाय द्विषत्कुसृती परित्यज्य अतिबलेन बाहुना समा हतारातिना निहतशत्रुणा बलेन भगवता संकर्षणाख्येन मात्रा सा सह । तथा या च भद्रकाली कात्यायनी समरेपु युद्धष्वनेकशो बहुधा भाति शोभते । यया च देव्या नतया प्रणतया जनता जनसमूह उज्ज्वल विवेकशोभा प्रकृष्टज्ञानप्रभा सती अतिभद्रका- लीनतया अत्यर्थमङ्गल्यसपृक्ततया हेतुभूतया प्रशस्तया देवी भातीत्यर्थ । ख्याति प्रका- शते व्यक्तीभवतः (१) नमत इति सबन्ध. ॥ ४१ ॥ ४२ ॥ ४३ ॥ तां स्मरत या स्मृतैव हि मानवतामरसमानता राति वलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमानताराति बलात् ॥ ४४ ॥ ता देवी स्मरत चिन्तयत । हि यस्माद्या मानवता ज्ञानिना स्मृतैव ध्यातैव सती अमरसमानता देवतुल्यखानि अमृतखादीनि राति ददाति । तथा यत्प्रणतं यस्या प्रह मानवतामरसं नरनलिनं आनतारातिवलात् आसमन्तानतं धन्धुरकंधर यदरातियलं तत्प- रित्यज्य इति ल्यब्लोपे कर्मणि पञ्चमी तस्मादेत्य श्री (बलात्) श्रयते सेवते ॥ ४४ ।। अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगत्मियतां सतीम् ॥ ४५ ॥ तां सती सतीसंज्ञा साध्वी वा अवनतोऽस्मि अहं प्रणत । कीदृशीम् । या अनवर. सर्वोत्कृष्टो योऽसावग पर्वतस्तत्ममुद्भवदेहता तज्जातशरीरत्वमुपगता जगत्प्रियता च प्राप्ता सती गिरिशेन महादेवेन इहास्सिजगति अनवरागसमुत् अनवेन चिरतनेन रागेण प्रेम्णा समुत् सहपा ददृशे दृष्टा । तथा च कालिदास -'सती सतीयोगविमृष्टदेहा' इति तथा भवदा भवं संसार द्यति सण्डयति ॥ ४५ ॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्ननोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे मुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६ ॥ (यक्षरः) हे नुन्नेनोनमने देवि, नुन्नं प्रेरितं यदेन पापं तदेव नमनं प्रणतिर्यस्या । पापधा- तिनी यस्या सेवेत्यर्थ । तामाहूय तुभ्यमित्यर्थाद न्यूह्यते तेन हे देवि, तुभ्यं नम । वयं वां प्रणमाम इति भावः । तथा हे देवि, मेना हिमवन्महिला उन्मना सोत्कण्ठा सती अनेन तावकेन उमानाम्ना उमेति सज्ञया नूनं निश्चितं माननं पूजनं मेने जले यु- . । १४ काव्यमाला। । नानानुमे, नानाविधा अनुमा' संज्ञा यस्या इत्यनुमा । जो नाम गिमानं न पर्याप्ति । नामशब्दोऽभ्युपगमे । एकेनोमानामा नगी । तवा मानेन तपसा पूताद्युपलक्षणोऽत्र मौनशब्द. नियमेन गाः । मनागमनमानामिनान निमे मममान ममताज्ञानमहंकारस्तेन निम्नमरपीमान ... समागे कृते अमममाननिम्नं यन्मननं ज्ञानं तदेवान्नं शरीरवृत्तिगषा नाकारलानातीनाम इनाननिमे अनस्य भाव ऊनिमा न ऊनिमा अनृनिन शदिननिमा यग्या । टावन्ताया आहानं इनानूनिमे सूर्यसमाने । तथा ? नगमा मुदा पेण मिन्न. निग्ध आननमा मुखचन्द्रो यस्याः ।। इन। अन्यच हे मुनिमनोमानाननोनामः तदस्या अस्ति शी.. ३ । गुनिमनसामेपा जानमाप्याययतीति भावः । तस्य आह्वानमिति सवन तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या । सुधीरम्यति धीररय महामोहमयीं त्वचम् ॥ ४७ ॥ ता देवीमहं वन्दे प्रणतोऽस्मि या धीरस्य विषयानपहृतस्य सुवीः शोमन । नी नानम् बोधमयं न प्रत्यग्रं देहं शरीर विधाय निर्माय महामोहमयी ,' पात कृत्तिमस्यति क्षिपति नाशयति ।। ४७ ।। या नुत्वा यान्ति हृद्यार्थसजायां गिरि शस्यताम् । नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥ ता गिरिशस्य जाया हास्य पत्नी अहमस्मि भक्तिमास्थाय सेवा पुरस्कृत्य मा वा वाहन मायरिति नामि स्तामि । या देवी नुखा प्रणम्य हृद्यार्थमनाया मा प्रयणाया वाचि शस्यता यान्ति प्रशंसां लभन्ते ॥ ४८ ॥ यदानतोऽयदानतो न यात्ययं नयात्ययम् । गिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ ४९ ॥ नापी स्मरेण कामनामितामपरिच्छिन्नामनभिभूता स्मरामि चिन्तयागि दालो गल्या प्रणत पुमान् अयदानतोऽयो देवमनुकूलं तस्य दानं क्षयः । वी । पानो') Fपम् । अतोऽयदानतो हेतोर्नयात्ययं नीतिविघातं न याति न गच्छनि । ir देवीम । शिव शंकरे हिंतामनुकूलाम् । तथा शिवं श्रेय प्रदमीहितं यस्यास्ताम!! - सर खतिप्रसादं मे स्थिति चित्तसरस्वति । सरम्यति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ५० ॥ हे सरखत्यारव्ये देनि, स्वतिप्रसाद सुछु अतिशयेन च प्रसादं सर गच्छ । म्यति- रामर्थे । नधा मे चित्तसरस्वति चित्तमेव सरस्थान्समुद्रस्तन मन समुद्ने मिति । ह विधरम्ब । क्षेत्रं शरीरं तदेव कुरुक्षेत्रसंज्ञ पुण्यस्थानं तत्र नित्यावस्थानात्सरप व मरम्वनी । तस्या आमन्त्रणम् । शरीरे नित्योदितवाग्रूपतया स्थितेति भावः ।। - . .
१५ - । देवीशतकम् । त्वद्भक्तिभावितधियो जगतामन ये बये । जन्मवत्तामहं मन्ये तेपामेवानृणां नृणाम् ॥ ५१ ॥ (विरोधाभासः) हे देवि, ये नरारत्वद्भक्तिभावितधियस्त्वत्सेवाधिवासितधिपणा अत्रास्मिञ्जगति ज- गतां विष्टपानां नये त्रैलोक्ये ये सन्ति तेषामेव जन्मवत्ता सजन्मलमनृणां विनष्टनाण- त्रयामहं मन्ये । अस्मिञ्जगति ऋपिपितृदेवानां ब्रह्मचर्य प्रजायज्ञैर्यदानृण्यं तद्देवीभक्त्या भवतीति भाव । अनये नये, अनृणा नृणां इति विरोधाभासित्वम् ॥ ५१ ॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२ ॥ (अर्धभ्रमोऽयम्) हे देवि, त्वमस्य जगतस्त्रेलोक्यस्य सतिरेका सातिशया गति परायणम् । शरण- मित्यर्थः । कीदृशी । स्थिरानपायिनी । अथाधिका सर्वेप गरीयसीति भावः । तथाना- स्मिञ्जगति असतारा सती अरेर्मोहात्तरसि । सह तारेण वर्तत इति सतारा । न सतारा असतारा । अनायासेन मोहं नाशयसीत्यर्थ । कथम् । अत्रासरसस्थिति कृत्वा । त्रास- ररी अभिनिवेशे स्थिति स्थानं न विद्यते' यस्मिन् । रार्वतोभद्रापेक्षयार्धभ्रमणादर्व- भ्रम कथ्यते ॥ ५२ ॥ त्वन्नामसारणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३ ।। है पार्वति गिरिजे, खन्नामस्मरणाद्भावकसज्ञाचिन्तनादेव लक्ष्मीः श्रीन चपलायते चपलत्वं नाचरति । न चलतीत्यर्थ । तथा क्षिप्रं त्वरितं सनतो दशदिकं सर्वपदार्थ- *योऽलक्ष्मीदौर्भाग्यं पलायते' दूरीभवति ॥ ५३ ॥ जयन्ति भक्ता वित्तेशसमरायरतबाहवे । तुभ्यं नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ॥ हे देवि, तव भवत्या संबन्धिनो भत्ता सेवका आहवे सङ्ग्रामे जयन्ति सर्वोत्क- पण वर्तन्ते । परानभिभूयेत्यर्थ । कीदृशा भक्ताः । वित्तेशेन वैश्रवणेन समस्तुत्यो रा वनं येषा ते वित्तेशसमराय । तस्मात्तुभ्यं भवत्यै नमः । कीदो । त्रयाणां लोकानां समाहारस्त्रिलोकी तदर्थ त्रिलोकीरक्षणार्थ य समरो यद्युद्धं तत्रायरता आ समन्तात्स- यत्ना व्यामृता बाहवो भुजा यस्या इति ॥ ५४ ॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५ ।। (पुनरुक्तवदामासः) -
१६
काव्यमाला ।
हे देवि, विराजसे विगतरजोविकारे हृदि हृदये त्वं भासि शोभसे । किं कृत्वा । स-
म्यग्विधिवत्सत्त्वं चेतोगुणमुन्मील्य प्रकटीकृत्य । तथा द्विपां शत्रूणा संबन्धिनी वाहिनी
चमूमरीणा सारवती सेना सेश्वरां समुदकम्पय कम्पयाचकार कम्पितवती । भासि वि.
राजसे, द्विपामरीणाम्, सेनां वाहिनीम् , उदकं पय , इति पुनरुक्तभासनात्पुनरुक्तवदा
भामोऽयं न तु पुनरुक्त ॥ ५५ ॥
दूरागतरसा धन्यः सेवते यस्तव स्तुतीः ।
दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६ ॥
हे देवि, यो बन्यः पुरुष पुण्यवांस्तव भवत्या स्तुती प्रशंसाः सेवते विदधाति
तस्य पुंस सिद्धयो मनोरथा अणिमाद्या वा करपन्ते सपद्यन्ते । किंभूता सिद्धय ।
दूरागतरसा दूरमत्यर्थमागतो रस सक्तिर्यासु ताः । अभिलषणीया इति यावत् ।
तथा दूरागो दुष्टासक्तिस्ततस्तर उत्तरणं साधयन्ति सपादयन्ति तच्छीलास्ता ॥ ५६ ॥
मोहं हत्वास्पदं यासि सात्वमम्ब रवासिना ।
या न संस्तूयसे केन सा त्वम्बरवासिना ॥ ५७ ॥
हे अम्ब मात , सा त्वं वक्ष्यमाणखरूपा केनाम्बरवासिना धुसदा देवेन न स्तूयसे।
सर्वैरपि देवै स्तूयस इति भाव । सा त्वं का । या भवती रवासिना अनाहतखनेन मो-
हमज्ञानं हवा विनाश्य प्रकाशात्मकसत्त्वगुणमयमास्पदं स्वकीयं प्रकाशस्थानं यासीत्यर्थ ।
तथा चोक्तम्-'अनाहते पात्रकर्णे भग्नशब्डे सरिहुते (१) । शब्दब्रह्मणि निष्णात पर
ब्रह्माधिगच्छति ॥ ५७ ॥
प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली ।
प्रज्ञात्मनेनविमला स्थिता दृश्यसि विद्वताम् ॥ ५८ ।।
(अपशब्दाभासः)
हे देवि, असि त्वम् । विद्वताम् वेदनं वित् ज्ञानं विद्यते येपा तेषा संबन्धिन्यां इशि
बुद्धौ प्रज्ञात्मना ज्ञानरूपेण विवेकात्मना प्रकाश्य प्रकटीकृला इनविमला आदित्यरूपा ति-
सीत्यर्थ । कीदृशी लम् । गृह्यास्वत्सेवोधता ये पुमांसस्त एव सस्य शालिस्तस्य खेद
आयासस्तस्य च्छेदे विनाशेऽम्बुदावलीत्यर्थः । गृह्य, प्रज्ञात्मनेन, दृश्यसि, विद्वताम् , इ-
त्यपशब्दवदाभासनादपशब्दाभास ॥ ५८ ॥
भवानि ये निरन्तरं तव प्रणामलालसाः ।
मनस्तमोमलालसा भवन्ति नैव तु कचित् ॥ ५९ ।।
हे भवानि शर्वभार्ये, ये जना निरन्तरमविरतं कृखा तव भवत्या प्रणामलालसा
प्रणतिपरास्ते मनस्तमोमलालसा चित्तमोहकलङ्कनि.शोभा न क्वचिन्न कुत्रचिद्भवन्ति
संपद्यन्ते ॥ ५९॥
देवीशतकम् । १७ विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६० ॥ हे देवि, त्वयि विभौ व्यापिन्यां वद्विषये क्रमेण यथोक्तविधिना अनाकुला स्थिरा नि- श्वला भावना भक्ति अतिस्थिरेतरे अतिशयेन स्थिरादितरे विनश्वरे वपुषि शरीरे निता- न्तमेवात्ययं पुष्यति पुष्टा । प्रकृष्टेत्यर्थ ।अस्थिरेऽस्मिन्ससारे लद्भक्तिरेव सारमित्यर्थ ६०॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेनमहोदयानामवधीरणेन ॥ ६१ ॥ (पादाभ्यासयमकम् ।) न दयन्ते रक्षन्तीत्यदया हिसास्तेपामदयाना महस्तेजः रणेन सग्रामेण या लमहो आश्चर्य दयानामवधीरणेन तिरस्कारेणावधी निहतवती । निर्दयतया हिस्रात्वं समर महोदयानामुत्सवोत्पत्तीनामवधीरणेनावधिक्षपणेन निरवधिसुखोत्पादनेन महोदया म- हान्तो बृहन्त ये उदया अयो ज्ञानं दैवमनुकूलं वा । उद्गतश्वासावय उदय महान्त उदया येषा तेपा धीरणेनं धीरयतीति वीरणं धैर्यकर्तारमिनमीश्वर प्रभुमय रक्षख । महाज्ञानाना धैर्यकर्तार प्रभु पालयेति यावत् ॥ ६१ ॥ न मजनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ।। ६२ ॥ हे अम्बिके मात , तव भवत्या संबन्धिना तीर्थानामागमानां सेवया समाश्रयणेन नमज्जनेन प्रणतजनेन यच्छुभं फल श्रेय प्राप्यते लभ्यते' तत्तीर्यानामृपिसेवितजलाना मजनेन न प्राप्यते ॥ ६२ ॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वत्प्रसादाजनः सारभारतीव्रतमेत्ययम् ॥ ६३ ॥ हे देवि, अयं जनो लोकस्त्वत्प्रसादात्त्वदीयेन कारणेन सारभारतीव्रतं सारा प्रधाना चासौ भारती वाक् तद्गतं तत्परतामेति प्राप्नोति । पश्यन्तीखरूपं लभत इत्यर्थः । वा वित्रतये हि प्रधाना पश्यन्ती। तथा चोक्तम्-'अविभागा तु पश्यन्ती सर्वत सहृतकमा। खरूपज्योतिरेवान्त सूक्ष्मा वागनपायिनी ॥' कस्मिन्समये । मोहेऽज्ञानेऽत्ययं विनाशं प्रयाति गच्छति सति । कीदृशे मोहे । नि सारभारतीव्रतमे नि सारस्य दुर्बलस्य यथा भार आयामहेतुस्तद्वनीव्रतमे दृढतमे । अविषयायासद इत्यर्थ ।। ६३ ॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्ब तिमिरच्छिदः ॥ ६४ ॥ हे अम्ब जननि, याः सता साधूना सूरीणा सबन्धिन्य शास्त्रप्रभावेण पदवाक्यप्रमा.
१८ काव्यमाला। णाना माहात्म्येन हसिता गिरो वाचो निर्मला अकलङ्का निरपशब्दास्तास्त्वं शास्त्रप्रभा आयुधदीधितयस्तिमिरच्छिदोऽन्धकारन्यो वहसि बिपि धारयसि । निरपशब्दा चावो मोह यलवायुवमिलथै ॥ ६४ ॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५ ॥ हे देवि, ते तव समानत सम्यक्प्रणतो य इह ससारेऽत्रसन्नबिभ्यन्सन् न विभौ भगवति वासुदेवार ये ब्रह्मणि इत न गत । मोक्ष न प्राप्त इति भाव । शमी जिते- न्द्रियः सन् सनयो विद्यमाननीति । अत्र ससारे विभावितो लक्षितो मानतो ज्ञानाद्धेतो सश्रयत ईहते चेष्टते' य । मसारसक्ततया भगवन्त विष्णुं न श्रितः सोऽपि ला पणत - ओत्तद्विद्यमाननीति. शमी च प्राप्तज्ञानो विश्व प्राप्तोतीति भाव ॥६५॥ मातरं त्या पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥ ६६ ॥ हे देवि, खा मातरमम्बिका ये जना लोका आश्रितास्ते कथं केन प्रकारेण सधरत- रक्षणमेव आपदं दुर्गति मा तरन्तु मा लड्वयन्तु । दु समुत्तीर्य वर्तन्त इति भाव । ला कीदृशीम् । सत्पदं शोभनस्थानम् । जना कीदृशा । आद्यमग्रिम श्रेय शिव समा- श्रिता अधितिष्ठन्त ॥ ६६ ॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ।। हे अम्ब मात , लत्तनुसश्लेषे लत्कायसङ्गे सति पुरनुत्रिपुराराति शंभुर्भाति शोभते । ते तव सबन्धि च सत्सत्यं ध्रुवं वपु पश्यन्तीवाग्रूपं शरीर ससाराब्धौ जगज्जलधौ स. त्तर शोभनं प्लवं अनुत्तरमविद्यमानापरमाहुर्च्यते । तत्त्वविद एवं गायन्तीत्यर्थ । अवि- वातोरम्बाशब्दनिद्धे कयं केवलौष्टयतया मकार परमवर्ण (१) दन्त्योष्टयोर्द्वयोरपीति यमहम्यामद ॥६७ ॥ यच्छ मे नित्यससङ्गि यच्छमे तदिदं मनः । खच्छलो भक्तियोगस्ते खच्छलो कविवेकसूः ॥ ६८ ॥ हे देवि, यत् शमे विपयाणामसङ्गे मनश्चेतो नित्यसंसशि सततानुरक्तं तदिदं तथावि- धर्मतन्मे मम यच्छ देहि । यतस्ते तव सबन्धी यो भक्तियोग सेवासङ्ग स स्वच्छल सुष्टु अविद्यमानन्छलो निच्छिद्र' सन्' स्वच्छं निर्मलं लोकाना जनाना लोकयोर्वा इहामुत्र व विवेक प्रकृतिपुरुषोत्तमोत्कर्ष सूते जनयति । अत एव इहात्र परत्र च स्वच्छता ॥६८॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे । केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९ ।।
देवीशतकम् । १९ हे देवि, त्वत्प्रणतास्वत्प्रह्वा जना वितन्वन्तकृतः वितनोरनङ्गस्यान्तकृतो विनाशका- रिणो भवे संसारे के वलन्ते के आविर्भवन्ति । लत्प्रणता जितकामा विमुच्यन्त इति भाव । ते केवलमनन्यव्यापारा सन्तो निर्मलाममोहां धियं बुद्धि वितन्वन्तो विस्तारयन्त आसते तिष्ठन्ति । यावत्ससारस्तावद्विमोह । भूयश्च खत्प्रणता भवे न निवर्तन्ते ॥ ६९ ॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । दरस्य शुधसंतानं तेनासौ भ्राजते तथा ॥ ७० ॥ हे देवि, त्वं हररय गिरिवरतनया ववस्य शिवस्य निर्दग्धकामस्य भस्मीभावितमीनके- तनस्य तथा निरावरणात्मन निर्गतमावरणं परिवानमात्मनो यस्य आशाम्बरस्य दिग्वा- सस शुभसतानं पुण्यप्रतान श्रेयोविस्तारस्तेन कारणेनासौ हस्तथा माहात्म्ययुक्तो श्रा- जते शोभते । अत्र च क्रिया प्रत्याकाझैव नास्ति । विमृश्यमानश्चार्यो नान्वय (१) एवं क्रियाया अभावात् शुभसतानमिति द्वितीयानुपपत्तेस्वमिति प्रथमाया असामानाधिकर- ण्याच एतत्प्रतीयमानार्थसंवन्धिनी किया गोपिता भवति । अत्रैव च व्याख्यानान्यते। तदा चान्वयो भवति-~-यथा देवि, निर्दग्धकामस्य निरभिलापग्य तथा निरावरणात्मन प्रक्षीणश्लेशजालस्वभावस्य यतस्खमशुभमतानमावरणसतति हरसि निवारयसि तेनाशुभ- संतानहरणेनासौ तथा भाजते दीयते ॥ ७० ॥ द्विपद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनस्वसः ।। ७१ ॥ हे मधुमथनमगिनि कात्यायनि जननि मात , अतोऽस्माद्वक्ष्यमाणाद्धेतो. क पुमान् युधि संग्रामे जयाशयारिपरिभवाभिलाषेण स्तवान्स्तुतीन करोति न विदवाति । सर्वलोको जिगीपुस्तव स्तुतीविरचयतीत्यर्थः । यतो यस्मात्कारणात्तव भक्त्या आनत' प्रह्व जननि- जया लोकात्मीयया द्विपद्भिया शत्रुभीत्या का शयानकोऽपि निरुद्यमोऽपि सपदि तत्क्षणमेव प्रणामानन्तरमेव विमुच्यते त्यज्यते ततो हेतोरिति संबन्धः ॥ ७१ ॥ ज्यायोनिष्ठारिवाधिनियमनवरस्वैरदत्तायताज्ञा खाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ।। ७२ ॥ प्रतिलोमानुलोमतयात एवायं द्वितीय लोक.. स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानता धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना ।
काव्यमाला। सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधरावा ज्ञातायत्तादरस्वैरवनमयनिधिर्या वरिष्ठानियोज्या ॥ ७३ ॥ (अनेन सह संदानितकम् ।) हे देवि, स्या समस्तानव । स्येति त्यदो रूपं सत्वे कृते । तेन स्था त्वं सा भवती इहा- स्मिञ्जगति समस्तान्समग्रानव रक्ष । या खमित्थंभूता ज्यायसां जगच्छेष्ठानां निछा परा कोटिः । तथारिवर्याणा शत्रुप्रधानाना आधीनां मन पीडानां च नियमनाय निवारणाय वरस्याङ्गीकारस्य स्वैरं खातम्येण दत्ता वितीणी आयता दीर्घा अविनाशिनी आज्ञा शा. सनं यया । अथ वा दत्तं दानं यस्या या तथा । यताति पृथगुक्ति । खाराधत्वे. त्यादि । वाराधत्वेन सुखसेव्यतया समानि स्वप्रतिमानि ध्यानिनां योगिना यानि यज. नानि याना. (१) तानि जनयति या तस्या आमन्त्रणम् । ज्ञेये ज्ञातव्येऽर्थे मुस्यो निश्चलो. ऽवभास प्रकाशो यस्या सा ज्ञेयसुस्थावभासा । तथा नानापुण्यागमस्थानानाविधेषु बहु- प्रकारेषु पुण्यागमेषु धर्मशास्त्रेषु तिष्ठसि त्वम् । तथा जननमनमयकाननन्द्या जनानां नमनमयं प्रणाममयं खत्मणामादागतं यज्ज्ञान तेन नन्द्या । विद्यारूपा सती नन्दनीयेत्यर्थ । वरा श्रेष्ठा धीश्च खम् । तथा नुतसरलमनः नुतेन स्तवेन सरलं मनश्चेतो यस्यास्ताशि देवि । तम एव तामसम् । प्रशादिलात्स्वार्थे ण । तस्य तामसस्य मोहस्यावहास्ये त्वं विभुलमीशत्वं याता गता नव्या स्तव्या । अपर हे अमलरसतनु। अविद्यमानो मलरस आवरणं रागस्तनी शरीरे यस्यः तस्या आहूतिः । त्वं भवती भुवि भूमौ व्यानता विधिव- नमस्कृता । अर्या खामिनी । धीरा धैर्ययुक्ता । वन्द्या प्रणम्या । न न ज्ञा अपि तु ज्ञा सर्वदर्शिनी । यमनमननजस्थामगण्या च । यमेन अहिंसास्तेयसत्यब्रह्मचर्यापरिग्रहादिवि. धिना, तथा मननेन ज्ञानेन जातं यत्स्थाम बलं तेन गण्या परिच्छेद्या । तथा पुनाना पवि- श्रीकुर्वाणा च सती हे सुयज्ञे शोभनयजने । तथा अनिनजनजयनि अनीश्वरलोकपरि- भवकारिणि । सा एवंप्रकारा आयत्तादरस्वै आयत्तो वश्योदरोऽभय व आत्मा येषा तै भावस्था आशयस्था ज्ञाता युद्धा । तथा ध्यामसत्त्वाधरावा ध्यामानां धूसराणां त- मोमयाना सत्त्वाधरा ' ....."आत्मीया । अवनमयविधिः पालनमयं विधानम् । तथा वरिष्ठा श्रेष्ठा । अनियोज्या न केनचित्प्रेर्यते स्वतन्त्रेति भाव ॥ ७२ ॥ ७३ ॥ अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ॥ (भाषाषट्कसमावेशः ।) हे देवि चण्डि, पाहि रक्ष । अलोला अचपलापि त्वं कमला लक्ष्मी अलोलकमला। ताशि । तथा चित्तमेव ललामकमलं प्रधानपञ तदेवालयः कुलायो यस्या महामोहस्य जन्मलक्षाव्यस्ताया अविद्याया भङ्गे विनाशे भीममुग्रं बलं सामर्थ्य यत्तेना- मलेऽकलके । अमलज्ञानरूपिणी सती अज्ञान निहंसीति भावः । संस्कृतमहाराष्ट्रपिशा- । तथा देवीशतकम् । २१ चमागधसूरसेनापभ्रंशात्मिका: षडपि भापा अन समाविष्टा यदा तदा भापापदकस- मावेशोऽयम् । पण्णामपि भाषाणा साधारणा (2) न भिद्यन्त इति वाक्यार्थ ॥ ७४ ॥ दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५ ।। हे देवि । तव भवत्या सबन्धि चरितमाचारश्चित्रमाश्चर्यप्रदम् । यत हे मातर्जननि, दुर्गापि कात्यायन्यपि अविदितपरमार्थापि भक्त्या सेवया सुलभासि । तथा भवानुकूलापि हरानुरक्तापि भवं क्षिणोषि ससार निहंसि । अपि च व्येयापि चिन्तनीयापि सती अध्ये. यतां पठनीयत्वं सदैव सर्वकालं यासि गच्छसि । अपिरिह संभावनायाम् । या दुर्गा दु- र्गमा सा सुलभा, या भवानुकूला सा भवनी, या ध्येया सा अध्येयता यातीत्यपिश- व्देन विरुद्धवदाभासनाविरोधाभासोऽयम् ॥ ७५ ॥ महदेसुरसंधम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं त चित्तमोहमवसर उमे सहसा ॥ ७६ ॥ (संस्कृतमहाराष्ट्रभाषाश्लेषः ।) प्रकृतत्वात्संस्कृतशब्दार्थस्तावत्-हे देवि, महदे उत्सवदायिनि मे मम सुरसंध सुरा देवा. संघिरवधिर्यस्य तम् आगमाहरणे शास्त्रार्जने समासझं सम्यगासक्तिश्रद्धामव रक्ष। शास्त्रासक्तिर्देवैरपि न परित्यक्तेति भाव । यदुक्तम्-'तस्माच्छास्त्रं प्रमाणं ते कार्याका- यव्यवस्थितौ' इति । तथा हे उमे हे अगजे, हसनं हस सह हसेन वर्तत इति सहसा सामोदा सती अवसरे प्रसङ्गे वहुसरणमत्यन्तव्यापार तं चित्तमोहं चेतोजाध्यं हर वि- नाशय । कविवैचित्र्यरचितमहाराष्ट्रभाषाशब्दार्थोऽधुना-हे हरबहु शिववधु, धम्मे धर्मे पुण्ये रस रागं देसु देहि ददख विधत्व । तथा णे न अस्माकं गमागमा संसारातू तमवसं तमोवशां अविद्याप्रपञ्चायत्ता आसं आशा हर छिन्धि विनाशय । मोक्षं देही- त्यर्थ । मह मम तं त्वं सरणं शरणं परायणम् । सहसा झगित्येव चित्तमोहं मानसम- ज्ञानं चित्तमोहं वा चित्र नानाविधं मोह मोघं विफलमर्थात्ससार अवसरउ अपसरतु प्रयातु इतिक्रियानितयेन द्वितीयभापाशब्दार्थः ॥ ७६ ॥ वन्द्या प्रभातसंध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयी निशाम् ॥ ७७ ॥ हे देवि, त्वं वन्द्या प्रणम्या । सूरीणां विदुषामालोकप्रवर्तिनी प्रकाशदायिनी ज्ञानदा सती महामोहमयीमज्ञानस्वरूपां निशामविद्या निवर्तयसि द्रावयसि । अत एव प्रभात- संध्येव उप प्रत्यूषयोरन्तरं यथा । सा हि संध्या सर्वेपा चन्द्या भवति तथा सूर्यालोक- प्रवर्तिनी महान्धकारां निशां निवर्तयति ॥ ७७ ।। नव० गु० ३ २२ काव्यमाला । संवादिसारसंपत्तीसदागोरिजयेसुदे। तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ।। (संस्कृतसूरसेनभाषाश्लेपः ।। तन्न संस्कृतशब्दार्थस्तावत्-हे देवि, असुदे प्राणदायिनि, तव संवन्धिन्यो द्वे सत्ते । भावावित्यर्थ । तत्रैका विद्यमानताअपरा उज्ज्वलता ते सत्ते सद्विद्यमानमागोऽपराधोयेपा तेपा सागसा सापरावानामरीणा शत्रूणा जयेऽभिभवे पराभवविपये सवादिसारसंपत्ती सवा- दिनी ज्ञायमाना सारस्य वलस्य सपत्ति समृद्धिर्ययोस्ते सत्ते । सापराधा अरयो यथा जनेन जीयन्ते तथा तव संनिधानमौज्वत्यं च लक्ष्यत इत्यर्थ । तथा ते सत्ते द्वे भवसागरे सत्तीरदे शोभनपारप्रदे। त्वयि सत्या बन्प्रभावेण वा संसारसागरादुत्तीर्यत इति भाव । तथा सुसमा- नमपभ्रंशमानं ददत । अथवा सुसमं ब्रह्मादिस्तम्बपर्यन्तं चतुर्दशविधे भूतसर्गे नित्योदित- तया समत्वेन साधारणत्वेनावस्थितं शब्दं शब्दब्रह्म ददत । तच्च संसारसागरसमुत्तरणप्लवम्। तथा च वाळूची श्रुति --'रचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदु । यस्तै न वेद किमृचा करिष्यति य एतद्विदुःस्त इमे समासते।' इति । सूरसेनभापार्योऽधुना-हे गोरि हे गौरि, जयेमु जगत्सु त्रैलोक्यं दे ते तवसत्ती तप प्रभाव सदा सर्वकालं संवादिसारस- पत्ती शम्वातिसारसप्राप्ति शम्बवद्वज्रवदतिसारातिढा संप्राप्तिलाभो यस्या सा शम्बाति- सारसप्राप्तिः । यदुक्तममरसिंहेन-'हादिनी वज्रमस्त्री स्यात्कुलिशं मिदुर पवि. । शत- कोटि वरु शम्बो दम्भोलिरशनियो ॥' इति । अनपायिनी वत्तप शक्तिरित्यर्थ । कीदृशि गौरि । सत्ती रद सत्त्वे रते चेतोविकारजयासक्ते । कीदृशे सत्त्वे । ससारे श्रेय प्र- याने । तथा हे गौरि, सुसमानदे सुशमानते सुशमै सुष्टुचित्तोद्रेकजयिभिरानते प्रणते । मुमुक्षवस्वा प्रणमन्तीति भाव । यतश्चित्तजय एव मोक्ष । यदुक्तम्-'चित्तमेव हि स- सार रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' इति ॥ ७८ ॥ आगममणिमुढमहिमसमसंमढकृदपरजस्सु । किर सविभयवदितो समय उज्जलभावसहस्सु ॥ ७९ ॥ संस्कृतापभ्रंशश्लेषः द्विपथकाख्यं वृत्तम् । इहापि सस्कृतशब्दार्थस्तावत्प्रकृतलात्-हे देवि, अपरज सु अपगतरजस्केपु गलितमोहेषु नृयु इतोऽस्मात्संसारादसमयेऽनवसरे आगममणिमुदमहि- मसमसमदकृत् आगमा शास्त्राणि त एव प्रकाशकलान्मणय इव मणयः तथा शोभनो यो दमश्चित्तोपशम स एव निर्धापकलाद्धिमं तत्संवन्धी योऽसौ समोऽनाकुल. संमदो हर्षस्तं कृन्तति छिनत्ति यत्तत्किर उत्क्षिप । अज्ञानं विनाशयेति वाक्यार्थः । कथम् । सविभयवत् सवो यज्ञोऽस्यास्तीति सवी यायजूकस्तेषां भयवद्भीतिवत् । यज्वनां यथा भयं किरसि तद्वदज्ञानं नाशयेत्यर्थः । तथा कीदृशेषु नृषु । उजलमावसहस्सु उद्तो देवीशतकम् । २३ योऽसौ जलभावो जटभावो जाज्यं तत्र सहो बलं येपा तेयु । लडावेकरूपावित्या. नाय. । अथ प्राकृतापभ्रंशभापार्थ ।-जस्सु पर यस्य पर केवलं आगम मणि आगमा शास्त्राणि मणि मनसि तथा सुदम हिम श्रुतमहिमा शास्त्राववोध , तथा सम शम विष- यनिग्रह एते च सर्वे समद साम्यदा साम्यमनाकुलत्वं ददाना किर स वि किल सोऽपि भयवदितोसमय उजलभावसहस्सु भगवतीतोषमयमुज्वलभावसहस्रम् । सहस्र- शब्दो बाहुल्यार्थे । तदपि किल देवीपरितोपागतं निर्मलपदार्थसहस्रमित्यर्थः । देवीप्रमा- दविलसितं तत्तस्येति वाक्यार्थः ॥ ७९ ॥ अथ चक्रम्- त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विपः ।। ८० ॥ (अप्रत्यभिज्ञायमकमिदम् ।) हे देवि वरटेऽभिलषितदायिनि, वादे खपक्षपरपक्षपरिग्रहे शास्त्रसङ्गिन्या शास्त्रस- जायां वाचि भारत्या त्वं भवती भासि शोभसे। तया दिवौकसो लेसा देवारतव भ. वत्या संवन्धिन आदेशास्त्रसस्कारान् आदेश आज्ञा तदेवास्त्र विनाशायाभिनिर्मित द्रव्यं तत्संस्कारात्तद्भावनावलाद्धेतोर्द्विप शत्रून् जयन्यभिभवन्ति । वादे शास्त्रसमिति पचा- क्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकमेतत् ॥ ८० ॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१ ।। (गोमूत्रिकाबन्धद्वयेन जालाकारबन्धसंबन्धादयं जालबन्धः ।) हे देवि, अजस्रमनवरतं शिवता श्रेयस्खानि ददासि प्रयच्छसि । कीदृशी शिवता । सदा सर्वकालमव्याजैर्निर्दम्भव शिभिर्जितेन्द्रिय याताश्चिन्तिता । तथा सच्छोभनं कृत्वा आत्तजपैहीतमन्त्रावर्तनै शिक्षिता अभ्यस्ताः । अन्यच सूदात्ताजदिशि स्थिता मुठ्ठ उदात्ता ऊर्जिता प्रधाना या अजदिक् विष्णुस्थान पर ब्रह्म तत्र स्थिता । परब्रह्मण आगता इति भाव । अनन्तरप्रकान्ताप्रत्यभिज्ञायमकश्लोकेन सहामुना गोमूत्रिकावन्धेन सह जालबन्धोऽयम् । केचित्त्वनेन (केवलेन) गोमूत्रिकाबन्धेन केवलेनैव जालाकृति विलिखन्ति तत्र यथानुरूपे युक्तायुक्तविचारे जालस्य प्रयोगतत्त्वविद श्चित्रकाव्यकरणकु शलाः कवय. प्रमाणम् ॥ ८१ ॥ हरेः खसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति खसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२॥ हे देवि, जनता जनसमूहस्खा खा भगवती हरे खसार गोविन्दस्य भगिनीमादित्य संसेव्य तत्त्वत सत्यत वसार निजमुत्कर्प वेत्ति जानाति । कथम् । योगेन चेतोवृत्तिनि- काव्यमाला। रोधेन देविला व्यवहत्य क्षपिताशुभा विनाशितकिरिबषा । तथा च मनु -'प्राणायामै- हरेद्दोपान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च कित्विपम् ॥ समस्ते- न्द्रियवृत्तिहिं प्राणो वायु प्रकीर्तित । तजयादिन्द्रियाण्याशु विजितानि भवन्ति हि ॥ प्राणस्यैव जयो योग प्राणस्यैव जयस्तप । प्राणस्यैव जयात्सर्व प्राप्यते नात्र संशयः॥' इति । तथा च छान्दोग्योपनिषदि. -'यथा शकुनि. सूने बद्धो दिशं दिशं पतिखान्यत्रा- यतनमल वा बन्धनमेवोपाश्रयतेएवमेव सल सोम्य तन्मनो दिशं दिशं पतिखान्या त्रायतनमल वा प्राणमेवोपाश्रयते । प्राणनिबन्धन हि सोम्य मनः ।' तथा च बा- हची श्रुति --'सप्त युञ्जते रथमेकचक्रमेकोऽवो वहति सप्तनामा। बिनाभिचक्रमजरम- नवधं यन्त्रेमा विश्वा भुवनाधितस्थुः ॥' इति ॥ ८२ ॥ सदानोति यतिज्योतिस्तादृशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३ ॥ हे देवि, त्वत्प्रभावतस्त्वन्माहात्म्यात् यतिश्चतुर्थाश्रमी संयमी या तादृशं तथाविधं सच्छोभनं ज्योति प्रकाशमान्तरं तेज आप्नोति लभते येन ज्योतिपा करणभूतेन हेतुना वा मोहनुत्तितो मोहविनाशाद्धेतोः प्रभा दीप्तिर्विद्यते यस्येति तस्य प्रभावत सूर्यस्य सम- तुल्य करपते समर्थो भवति । संपद्यत इत्यर्थ । एवं देव्या असकृन्नादरूपिणीत्वं प्रति- पाद्यानेन लोकेन बिन्दुरूपता प्रदर्शिता । पर ज्योतिर्हि बिन्दुशब्देनोच्यते । यदुक्तम्- 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि माम- कम् ॥' तथा चोपनिषत्सु ज्योति स्थानमसकृच्चागमेयु चोक्तम्-'नेत्रयोरुभयोर्मन्ये नासावंशस्य मूलत । हृदयं तद्विजानीयाद्विवस्यायतन महत् ॥' इति ॥ ८३ ॥ त्वं सद्गतिः सितापारा परा विद्योत्ततीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४ ॥ (अयं गूढचतुर्थः ।) हे अम्ब हे मात , ससारादुत्तितीर्षत उत्तर्तुमिच्छो पुंसस्त्वं सद्गति शोभनं परा. यणं शरणम् । कीदृशी । सिता निर्मला । अपारा अपर्यन्ता । परा उत्कृष्ट विद्या तत्त्व- ज्ञानार्यदा । अत्र संसारे सत्त्व प्राणिनं विपत्तित आपद आर्तेस्त्वं पासि रक्षसि । चतु- थोऽयं पादोऽत एव पादत्रयालयत इत्यस्य गूढचतुर्थता ॥ ८४ ॥ परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियां शरणमाहताः ॥ ८५ ॥ है जना पुमास परमत्यर्थमाहता सादरा सन्त आर्याया देव्या. सबन्धिनी ता स्मृति तत्स्मरणं शरणमायात आश्रयं श्रयध्वम् । स्मृति किविधाम् । परमा प्रकृष्टा तपो- वृत्तिनियमव्रतवर्तनम् । देव्या स्मरणमेव परमं तप इत्यर्थ । किमर्थ धिया बुद्धीना पो.
देवीशतकम् । २५ पाय वृद्धये । अष्टप्रकारा बुद्धिरिति बहुवचननिर्देशः । यदुक्तम्-'शुभ्रूपा श्रवणं चैव ग्रहणं धारण तथा । ज्ञानं विज्ञानमूहश्चापोहो बुद्धि स्मृताष्टधा ।।' इति ॥ ८५ ॥ प्रवादिमतभेदेपु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६ ।। हे देवि, प्रवादिना वारिग्मनां मतभेदेषु बुद्धिनानात्वेषु ते तव दृश आलोका भान्ति शो- भन्ते यान्येव प्रवादिनी भिन्नानि ज्ञानानि तास्वदीया एव दृष्टय इति तात्पर्यार्थः । कि- भूता दश । महिमाश्रयो माहात्म्यस्थानम् । खत्रिशिखस्येय भवत्रिशूलस्य यथा शिसाना कोटीनामसमा विषमास्तीक्ष्णा आश्रयो धारा भाजन्त एवम् । एतादृशा इत्यर्थः ॥८६॥ यच्चेष्टया तवे स्फीतमुदारवसु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ॥ ८७ ॥ (गोमूत्रिकावन्धः। संदष्टयमकम् ) हे देवि, तव भवत्याश्चेष्टया व्यापारेण श्रवणचिन्तनाध्ययनलक्षणेन इन्द्रियादिनियमेन वा । यत एषैव वागीशायाश्चेष्टा । यत उक्तम्---'मनस्युपरतं कुर्यादक्षग्रामं वहि स्थि- तम् । चित्तं बुद्धी विनिक्षिप्य सा बुद्धिर्शानगोचरे ॥ ज्ञानभावनया कर्म कुर्याद्वा पारमा- र्थिकम् ।' इति । अत एव तया चेष्टया स्फीतं विकसितं यच्चैतः अवहितं च सावधान सयतं मन अत एवोदारवसु परमनश्वरं धनं तचेतो मुदा हणोपलक्षितं सत् धामतो ज्योति स्थानान्मोक्षलक्षणात्स्थानात रवसुधा शब्दामृतं याति प्राप्नोति । शब्दब्रह्मोदयं लमत इत्यर्थ । यदुक्तम् --'ओमित्येकाक्षर ब्रह्म ।' तथा चोपनिपत्सु-'एतदेवाक्षर ब्रह्म एतदेवाक्षर परम् । एतदेवाक्षरं ज्ञाला यो यदिच्छति तस्य तत् ॥' गोमूत्रिकाब- न्योऽयं यमकश्च । प्रस्तारस्त्वेकदा दर्शित ॥ ८७ ॥ सुरदेशस्य ते कीर्ति मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥ (अर्धगोमूत्रिकाबन्धयमकम्) हे देवि वरदे, अभिमतदायिनि, यधीरैरविकृतचित्तैर्भवती त्वं भुवि भूमौ ससारे देवता शरणं शस्यते स्तूयते ते पुमांस कीर्ति प्रथा सुरदेशस्य देवसदनस्य मण्डनत्वं भूपणत्वं नयन्ति प्रापयन्ति ।। ८८ ॥ तत्त्वं वीतावतततुत्तत्त्वं ततवती ततः । वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९ ।। (यक्षरः) हे देवि, वित् विद्ये, वत आश्चर्य वीतावीतवता सांख्यानाम् । वीतसंज्ञा अवीतसज्ञा च सांख्यानाम् । प्रधानपुरुपसद्भावावेदकादेशहेतव ते विद्यन्ते येपाम् । ततो हेतोस्तव भ- वत्सा वित्तत्वं धनत्वं वित्तं ज्ञानम् । सार इत्यर्थः । ते हि ज्ञानादेव मोक्षमाचक्षते । य- २६ काव्यमाला। स्मात् तत् त्वं तत्त्वं ततवती तद्वती तत्त्वं परमार्थ परब्रह्मखरूपं ततवती विस्तार- यन्ती । कीदृक्तत्त्वम् । वीतावतततुत् वीता विगता अवतता विस्तीर्णास्तुदो व्यथा पत्र तत् । सांख्यानां त्यमेव सर्वप्रधानमिति तात्पर्यार्थ ॥ ८९ ॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रस्वदोपा पासि नोदने ।। ९० ॥ (पादगोमूत्रिकाबन्धद्वयेन तूणबन्धः) हे तारे ताराभिख्ये विमले, त्वं भवती शरणमुयन्ती आश्रितत्राणायोत्तिष्ठन्ती उदन- स्वदोषा उत्कटनिजवाहुना दोपापासिना दुरितविनाशकेन उद्यमैापारीदने प्रेरणे काले सुरेशरणं शक्रसंग्रामं पासि रक्षसि । पालिता देवा भवती शरणमेत्य पुन संग्रामासक्ता संपद्यन्त इति वाक्यार्थ । प्राक्तनेन 'सुरदेशस्य ते कीर्ति' इत्यनेनार्धन गोमू धेन सहामुना पादेनावृत्तिगोमूत्रिकावन्धेन तूणबन्धोऽयम् ॥ न्यास ॥ तत्र प्रकारप- ञ्चकमर व्याख्यायते ॥ १० ॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ।। ९१ ।। हे सुमात , शोभनजननि, जनानां लोकानां नीतेर्नयस्य गुणानां सञ्चरिताना स्थिना स्थर्याणि पासि आयसे । विद्याप्रसादाद्धि जनानां नीती गुणेषु च स्थैर्यमुत्पद्यते । शास्त्र- मार्गानुल्लची व्यापारो नीति । गुणा क्षमादय । कीडशी खम् । अक्षयालोकरक्षया शाश्वतज्योतिस्त्राणेनातं गृहीत मदुदार मनश्वेतो यया । अविनाशप्रकाशरूपिणीत्यर्थः । तथा च वैर्यजनकी धैर्यस्यानाकुलताया उत्पत्ति ॥ ९१ ॥ ख्यातिकल्पनदक्षका त्वं सामय॑जुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२ ॥ (रेफविवर्तितकोऽयम्) हे देवि, त्वं भवती इतोऽस्मिञ्जगति अनवानामकृतानां सामय॑जुपां त्रयाणां वेदा- नामसुस्थिति प्राणरूपा सती । वेदानां हि वागीशी प्राणरूपा जनानां च । तथा च वा- ढची श्रुति -'चत्वारि गृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । निधावद्धो वृपभो रोरवीति महो देवो मानाविवेश ॥' इति । अतः सदा सतत सरक्षसामुख्यदा निरपभ्रंशाभिमुख्यदायिनी । ख्यातेः समृद्धेः कल्पने रचने दक्षा चतुरा । एका नापरा। वेदाना विपर्ययदोपरक्षिणी खमेवेति भाव । रेफ विवर्तनेनायमपरोऽर्थ -सरक्षसां रक्षोभि सहितानां मुख्यदानवानां सामग्यजुपां सामथ्यं समग्रता जुपन्ति सेवन्ते ये तेपाम् । स- मप्राणामित्यर्थ । सदा ख्यातिकल्पनदक्षा प्रथाछेदनचतुरा भवसीयर्थ. । रक्षोदानवयोरत्र १. 'नकारपञ्चकं मिलष्टत्वान्न लिसितम्' इति पुस्तकान्तरे.
देवीशतकम् । भेदः । अथवा दासानि भृत्यानि अप्रधानानि यानि रक्षांसि तानि दासरक्षासि । सह तैवर्तन्ते ये ते सदासरक्षस. तेपा सदासरक्षसाम् । सपरिवाराणामित्यर्थ । अथवा मह दासै रक्षोभिश्च वर्तन्ते ये तेषामिति । अत्र श्लोके र्यवर्णस्थरेफस्य विपर्ययात् ग्य इति जायते तेन रेफविवर्तकोऽयम् ॥ ९२ ॥ सिता ससत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ ९३ ॥ (घ्यक्षर.) हे देवि, सा असि सा त्वं ततो हेतो सूति' शोभना ऊति रक्षा । अवते. तिनि. पातनाद्रूपम् । यस्मात्त भवत्या सवन्विन्या स्तुते नुते हेतोः सत साधोः सततं सदा ससत्सु सभासु सत्ता प्रशस्तता निर्मला आस्ते तिष्ठति । तथा तम्य रातस्तता अस्तिता एति विस्तीर्णा विद्यमानता आयाति । दीर्घमायुरारोग्यमैश्वर्य च लभते आविर्भवतीति भाव' । कीदृशी अस्तिता । तस्तेतिसूति तस्ता क्षपिता ईतीनां व्याधीना सूति प्रसवो यस्याम् ॥ १३ ॥ त्वदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्व समिद्धमरिनुत्तितः ॥ ९४ ॥ (गोमूत्रिकाबन्धोऽयम्) हं देवि, मलनुत् आवरणनिवारिणि, त्वदाज्ञया भवच्छासनेन जगत्सर्वं त्रैलोक्यं रा- मगं ( त्रैलोक्य)ज्ञानशक्तेरिच्छाशक्त्यात्मकं भवतीति भाव । यतो यस्मात्कारणादरिनु- त्तित. शत्रुप्रेरणाद्विपक्षनाशाद्धेतो. लया भवत्या समिद्धं संलब्धज्ञानं सगन्धर्व सदेवकु. शीलवमेतजगद्भासिनं प्रकाशितम् । मलं हि भामो विपक्षं तं च त्वं तुदमि । प्रस्तारोऽम्य प्राग्वत् ॥ १४ ॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५ ।। (श्लोकाध छाक्षरम्) हे देवि, मति बुद्धिं मम तायतां में विस्तार्यताम् । कीदृशीम् । तमोतीतां विगतत- मस्काम् । यया मत्या प्रतो याति यतो निवर्तते ततोऽत्येति ततो विनश्यत इति भाव । कीदशी मति । माता जननी । तया अमिता अपरिच्छिन्ना । उत्तमतमा प्रकृष्टा ज्ञानमयी । एते षोडशश्लोकाश्चके पोडशाराः । एत एव च पुनरनुलोमतो लिग्निता अन्ये षोडश एवं द्वात्रिंशदरा. ॥ ९५ ॥ महत्ता संश्रिता दासजनं मोहच्छिदा वस । यच्छुद्धत्वं गतः पापमन्यस्य प्रसमं जय ॥९६ ॥ द्विप्रकारो दासजन एको निवृत्तपापावरण अपर पापान । तत्र मोहच्छित् अना- २८ काव्यमाला। ननाशिनि देवि, त्वं भवती महत्तां श्रिता माहात्म्यमास्थिता सती य शुद्धत्वं दासजनो गत नमत्यं प्राप्त तमावस अधितिष्ठ । अन्यस्य सपापस्य पापं कल्मषं प्रसभं वला- जय निवर्तय ॥ १६ ॥ त्वं साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७ ॥ हे मातन्त्रैलोक्य जननि, सुवर्मसु सन्मार्गविषयाखाज्ञासु निरूपणासु त्वं भवती मुख्या प्रधाना प्रज्ञा बुद्धि स्पष्टं ज्ञाता मुव्यक्तं विदिता तदा तत्पृथुत्वं प्रज्ञापृथुत्वं बुद्धि विस्तार समुद्भासि समुद्भासते यत् तत्प्रदर्शय प्रकटीकुरु ॥ ९७ ॥ अस्मादेव श्लोकादक्षराण्युचित्येयमाया भवति- आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्मसु प्रज्ञा । मासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८ ।। अर्थोऽस्याः-हे देवि, जगन्मानस्त्रिलोकजननि, शोभनं वर्म मार्गों येपा पुंसां तद्वि- पया या आज्ञास्तासु त्व सा ज्ञाता विदिता मुख्या प्रज्ञा भासि । स्पष्टं समुत् प्रकटमा- नन्दरूपं सत्पृथुत्वं महिमानं प्रदर्शय ॥ ९८ ॥ हन्यो रुपः क्षमा एता सदक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥ ९९ ।। हे देवि, क्षमा एतास्त्वं एता प्रसिद्धा या. क्षान्तयो दर्पनिहतयस्ता भवती इति भावः । कीदृशा क्षमाः। रुपो हन्न्यः क्रोधविनाशिन्य । तथा सदक्षोभाः सत्याश्चाक्षोभाश्च । श्रेष्ठा अधिकाश्चेत्यर्थः । ता. क्षमा सततमजन य उन्नत प्रधानपुरुष. सता ईहितः शो- भनेन मार्गेण व्यापारित सन्सेवत आश्रयते स ते भक्त्या हितोऽनुकूल ॥ ९९ ॥ करोपि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १०० ॥ हे देवि, उत्खातमोहस्थाने, उत्सातान्युन्मूलितानि मोहस्थानानि मदादयो यया तस्या आहूति । यतस्त्वं स्थिरा मती मैत्र्यादिका धिषणा अचला. करोषि संपादयसि । अतो हेतो यतिर्मुमुक्षु सुतपसा शोभनेन निर्दम्भेन व्रतादिना सशुक्लिम शुक्लिमा शुक्लगुणत्वं तेन शुक्लिन्ना सह वर्तते यत्तत्सशुक्लिम सत्त्वगुणसहितं रजस्तमोरहितं पदं स्थानं लभते पाप्नोति । चखार एते नेमिश्लोका । एभ्यश्च प्रथम (प्रथममक्षरं) त्रीणि त्रीण्यक्षराणि लि- सिला चतुर्थमक्षरं लोकप्रान्ते च भवतीति नेमेर्द्वितीयमध मीलितं भवति । एवमेव चा- न्तर्लिसिखा मध्यानामिमीलनं भवति । एवं चक्रप्रस्तार. ॥१०० ।। अत एव द्वात्रिंशतो नेमिस्थानान्नामितो वा भ्रमं दत्त्वा तृतीयं तृतीयमेकोनत्रिशमेको. ।
देवीशतकम् । २९ नत्रिंशं चाक्षरमादाय यथा लिखितदर्शनानुसारमङ्कचिह्नानि वीक्ष्य वर्णद्वात्रिंशत. लो- कोऽयमुत्पद्यते---- देव्या खप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१ ॥ इत्यक लोकोऽयमुत्पद्यते । अर्थोऽस्यायम्-एतामेवमुक्तप्रकारां नुति स्तुति नोणसुतो नोणाख्यस्य कस्यचित्पुत्र आनन्दवर्धननामा आधाद्विहितवानकार्षात् । कीदृशीम् । देव्या वागीश्वर्या स्वप्नोदमे निद्राविर्भावे आदिष्टा निरूपिता देवीशतकमिति संज्ञा तया देशिता- नुपमाम् । तल्लक्षणो देशो निदेश आज्ञा विद्यते यस्या सा देशिनी तस्या भायो देशिता स्थानविशेप तया देशितया अविद्यमानान्यप्रशंसामनुत्तमाम् । देवीस्तोत्रतया सर्वाति- शायिनीमिति भाव ॥ १.१॥ हार्दध्वान्तनियन्तृभाखरवपुः खर्वासिनां सर्वतो दुरारिपरिक्षयं विदधती ध्यातैव निर्वाणसूः । देहा) निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥१०२॥ (पहेलिकेयम् ) हे देवि, लमिन जगति कापरा भवतीतुल्या त्रिभुवने कान्या विद्यते । वत्सदृशी त्रै- लोक्येऽपि नान्या विद्यत इत्यर्थ । हार्दध्वान्तं खहन्मोहस्तस्य नियन्तृ प्रमाथि भास्वर दीप्तिमद्वपु शरीरं यस्या सा तथाविधा । तथा सर्वासिनां दिवौकसा सर्वत समन्तात् दुर्वारारिपरिक्षयमजेयशत्रुशमनं विदधती कुर्वाणा । तथा ध्यातव निर्वाणसू चिन्तितैव 'निर्वाणं मोक्षं सूते प्रयच्छति । अपरं देहाथै निहिता भवेन (देवेन द्योतनशीलेन) भवेन शिवेन शरीरार्धे नियोजिता खशरीरवामभागे स्थापिता । हरेण प्रभुणा कीदृशेन । भुव- नत्राणैकतानात्मना भुवनाना त्रयाणां लोकाना त्राणे रक्षायामेकतान एकरस सर्वदा प्र- सृत (प्रवृत्त) आत्मा प्रकृति स्वभावो यस्य तेन । त्वं च कीदृशी । सत्केसरीन्द्रस्थिति शोभनसिहराजे स्थितिवरस्थानं यस्या सा । अथ च वमिवापरा जगति का इति प्रश्ने कृते सत्केसरीन्द्रस्थितिरित्युत्तरम् । खत्तुल्या का इति पृच्छाया भगवन्नृसिंहमूर्तिरित्युत्तर. दानात्प्रहेलिकेतीयमुच्यते । व्याख्या तु समाना सर्वत्र । केवलं देहाथै निहिता भवेनेत्य. नाकारप्रश्लेषो व्याख्यायते । तथा अभवेनाविद्यमानसंसारणाजेन भगवता विष्णुना दे- हार्वे शरीरोपरिभागे निहितेत्येतावान्स्तुतिविशेप । प्रहेलिकेयम् ॥ १०२ ॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् ।
३० काव्यमाला । दुर्गे न कचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ।। (चतुरर्थः) इतिशब्द पूर्वक्किप्रकारापेक्षाया वर्तते । भर्तुरमिन्नया पत्यु सदृश्या स्तुत्या नुत्या त्वं भवती विबुधैर्देवैर्मनीषिभिवा श्रीरिव लक्ष्मीरिव स्तूयसे नूयसे । अर्थवशाद्विभक्तिव- चनलिङ्ग विपरिणाम इति लक्ष्मीर्यथा भर्तुरभिन्नया स्तुत्या स्तूयते तथा त्वं स्तूयस इति । एवममूनि स्तुतिपदानि चतुर्णा भवभवानीकमलाकान्तकमलाना योज्यन्ते । तत्रोपमा- नयो कमलाकान्तकमलयोस्तावत्स्तुतिप्रकारा व्याख्यायन्ते । हे श्री , भवहानन्दैक- हेतो समार(निवर्तक)स्य भगवतो विष्णोरानन्दे चित्ताहादने एकहेतो एकनिमित्तभूते, त्वं भवती सता साधूना क्लेशोन्माथकरी अविद्याविनाशिनी' करीति आनुलोम्ये टचि डीप् । तथा त्वं जगतां त्रयाणां लोकाना गुरु प्रधानम् । माता जननी । तथा विभवा सर्व समृद्धिगुणा सकलास्तवानुग्रहाद्भवत्प्रसादाद्भवन्ति सपद्यन्ते । अन्यत् , सद्भक्तिपू- ताशयो जन भवत्सेवापवित्रीकृतमना लोक दुर्गे दुर्गतौ न क्वचिदेव न कुत्रचिदेव सी- दति मज्जति । भर्तुरभिनया स्तुत्येति तद्भ. पक्षे योजना-हे भवहर ससारनिवर्तक विष्णो, तथा आनन्दैकहेतो, त्वं सतां क्लेशोन्माये अविद्याविनाशने करी हस्ती । आनन्दैकहेतुला- न्मोक्षप्रद इत्यर्थ । तथा त्वं जगता गुरु माता मापकश्च । त्रिभिः क्रमैरिति भाव । भवन्ति विभवा सायुज्यादय सर्वे तवानुग्रहात् । दुर्गे संसारवन्धने न क्वचिदेव सी- दति जनस्वद्भक्तिपूताशय । उपमेयपोरधुना सबन्ध । तत्र भवान्यास्तावत्-सतां क्लेशोन्माथकरी भव । लोण्मय- मपुरुपैकवचनमेतत् । हे दुर्ग विन्ध्यवासिनि, हरस्यानन्दैकहेतो । शिष्टं श्रीस्तुत्या समानम्। एत्तद्भर्तुर्गिरिशस्याधुना-हे भव हे हर हे आनन्दैकहेतो, त्व जगता गुरु माता हिसिता । त्रैलोक्यसहर्ता रुद्र इत्याम्नायः । मीनाते. कृतावस्य तृचि मातेति रूपम् । तवानुमहान्सर्वे विभवा अणिमाद्या ऋद्धयो भवन्ति । शिष्ट श्रीपतिस्तुत्या समानमिति । एवमर्थचतुष्टयवाची ॥ १०३ ॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ॥ अस्याग्ययमर्थ --तेन कविना नोणतनयेनानन्दवर्धनेन एतदेवमुक्तप्रकार स्तोत्रं नवनं भक्त्या सेवया आरिराधिपया कृतं दृब्धं रचितम् । कीदृशं स्तोत्रम् । सुदुष्कर शोभना दुष्कराश्चक्रवन्धादयो यत्र सुष्टु वा दुष्कर नान्येन केनचित्कर्तुं शक्य मिति । केन कविनेत्याह-येनानन्दकथाया विषमबाणलीलाया निदशानन्देऽर्जुनचरिते च वाणी भारती लालिता विनोदिता । विषमबाणलीलार्जुनचरितविरचयितु कवे कृतिरेतत्स्तोत्र- मिति वाक्यार्थः ॥ , ईश्वरशतकम् । वल्लभदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामारचय द्विवृति देवीशतस्तोत्रे ॥ एवं वागीश्वर्या खरूपमाख्याय यन्मयावाप्तम् । पुण्यं तेन जगत्स्यात्प्रतिजन्मावाप्तपरबोधम् ।। वसुमुनिगगनोदधि(४०७८)समकाले याते कलेस्तथा लोके । द्वापश्चाशे वर्षे रचितेयं भीमगुप्तनृपे । कर्मस्थानोदिता साहिमकरशशमृद्वह्निचकान्तरस्थ- क्षेत्रज्ञोबोधनाय प्रलयरविकरामाभतेजोविरामा । नित्यं मन्दालिघोपा कचटतपयशालापिनी मध्यवाहा बालाग्रात्सूक्ष्मरूपा त्रिभुवनजननी पातु वागीश्वरी वः ॥ एकायनस्याच्युततुल्यमूर्तेराचार्यनारायणगर्तनाम्न । शिष्येण दृव्धेयमनन्तशास्त्रवेत्तुः सदृक्षेण च कय्यटेन ।। इति नोणात्मजश्रीमदाचार्यानन्दवर्धनविरचितं कय्यदप्रणीतया टीकया समेतं देवीशतकम् । काश्मीरिकश्रीमदवतारकविप्रणीतं ईश्वरशतकम् । सटीकम् । स वः पायाद्येन निन्ये वासुकिर्निजहारताम् । तपोपायात्तनुं कोपाद्यः स्मरस्य जहार ताम् ॥ १ ॥ स व पायादित्यादिग्रन्थारम्भे त्रिविवविघ्नोपघातार्य कविना नमस्कारवाक्यवदुचितं १ सटीकस्येश्वरशतकस्य प्रणेता श्रीमदवतारकवि कश्मीरेषु कदा समुत्पन्न इति न निश्चय कितु स्तुतिकुसुमाञ्जलिटीकाकर्तृ राजानकरत्नकण्ठस्य पितामहोऽग्यवतारनामा- सीदिति 'सकलविषश्चिद्वर्य प्रज्ञाजितवृत्रहामात्य । अवतारोऽजनि तस्मात्पाण्डित्यस्यार. तार इव ॥ इति स्तुतिकुसुमाञ्जलिटीकासमाप्तिस्थान प्रतीयते. रत्नकण्ठेन च स्तु- तिकुसुमाञ्जलिटीका १७३८ मिते विक्रमाब्दे प्रणीतेति तत्रैव स्फुटम् , अतोऽवतारोऽपि १६२२ मितरिसस्ताब्दासनकाल आसीत् यदि स एव सटीकस्यास्य शतकस्य निर्माता- वतारकवि स्यात्तदा निर्णीत एव तत्सत्तासमय . सटीकस्यास्य शतकस्य पुस्तकद्वयम. स्माभिरासादितम् तत्रैकं श्रीयुतभाण्डारकरपण्डितै पुण्यपत्तनस्थराजकीयपुस्तकालया- स्कृपया प्रहितम् अपर कश्मीरनगराज्ज्योतिर्विदुपाह्वश्रीदयारामपण्डितै प्रेषितम्. पुस्तकद्वयेऽपि प्रायो नारित भेद , द्वयं च कश्मीरलिसितमिति समानमातृकमेवेति प्र- तीयते. एतदाधारेणैवैतन्मुद्रणमुपक्रम्यत इति शिवम्, ३२ काव्यमाला। . सूचितम् । येन भगवता स्वतन्त्रेण धराधराणयोग्यो वासुकिहीरतां नीत । एतेन वि- श्वाधारत्वं ध्वनितम् । तथा तपोपायासंयमविघ्नविधायिलात् न त्वीयया कोपात्तां वि- श्वस्य प्रसिद्धा स्मरस्य तनु जहार दिदाहेति प्रतीयते । तामित्यनुभवगोचराम । अत एव यच्छब्दोपादानं न कृतम् । यदाहु -'प्रक्रान्तप्रसिद्धानुभूतविषयस्तच्छब्दो यच्छन्दो- पादानं नापेक्षते' । तत्र नमस्कार खातच्यकर्तृलाद्भगवत सर्वातिशायिखादर्थादेवा- क्षिप्त ॥१॥ रक्षावतारं गम्भीरं भवमुग्रं हरेश्वर । नय नीतिगुणं तं तु ममताप्रियतामिमाम् ॥ २ ॥ हे ईश्वर परमात्मन् , तदुक्तम्-'क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वर'। तत्सबोधनम् । भवं संसार गम्भीर त्वं हर निवारय । कथंभूतं भवम् । उप्र कठिनम् । त्वं भक्तानामवतारमवतरणं भवात्पुन पुनरागमनं रक्ष । कविना च अवतारमवतारना- मानं मा पाहीति खनाम ध्वनितम् । तु पक्षान्तरे । इमा प्रत्यक्षा सर्वेपा ममताप्रिय- तामहंकृतिहेवाकितां तं प्रसिद्ध लोकोत्तर नीतिगुणं नय प्रापय । अन्न च रक्ष अव, तारं गम्भीर, भवं उग्रं, हर ईश्वर, नय नीति, गुण तन्तुं, अमत अप्रिय, इति द्वयो- ईयोः शब्दयोरर्थस्य पौनरुक्त्यमिवावभासते। मिन्नार्थखात्तु पुनरुक्तवदाभास. । 'आ- मुखावभासनं तु पुनरुक्तवदाभासम्' इति ॥ २॥ वदामि ते खं रमयन्नमोऽहं वहामि संसारमयं न मोहम् । तनुर्मुदायोगवता मितेन मुक्तः स्फुरद्योग बतास्मि तेन ॥ ३ ॥ अहं ते तुभ्यं नमो वदामि नमस्कार करोमि । अनेन कायवाक्चित्ताना प्रह्वीभाव सूचित । अत एव खमात्मानं रमयन्नानन्दयन्ससारमयं मोहमज्ञानरूपं न वहामि । यदुक्तम्-'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इति । हे भगवन्स्फुरद्योग, बत आश्चर्ये । अहं तनुस्तुच्छोऽपि मानुपादज्ञानात् मुदा हाणां निरतिशयप्रीतिस्पाणाम् आसमन्तात् योग आयोग तद्वता मुदागोगवता खानु भवैकगोचरेण स्मितेन अभिम- तप्रापल्या हसितेनोपलक्षित सन्मुक्तोऽस्मि । यमकम् ॥ ३ ॥ सृष्टिस्थिती प्राग्मजता कृतापवर्गोधमेनाथ भवान्धकारे । धृतं त्वया विश्वमतो हतारिवर्गोऽद्य मे नाथ भवान्धकारे ॥ ४ ॥ हे नाथ हे अन्धकारे अन्धकासुररिपो, प्राक् सृष्टिस्थिती भजता कुर्वता त्वया अ- थानन्तरं भवान्धकारे संसाररूपान्धकारे कृतापवर्गाद्यमेन कृतो भक्तानामपवर्गार्थमुद्यमो येन तथाविधेन । त्रिविधकृत्यकारिणा खयैव विश्वं वृतम् । अतो ममापि अद्य हतारि- वर्गो भव । हता अरयो मुख्या कामादयो येन तादृश । पादयमकम् ॥ ४ ॥ सजातसज्जाततलोचनाग्रे संध्यात संध्यातपसा सुरौघैः । माधीनमाधीनपरिग्रहेण कालेन कालेन हतं कृथा माम् ॥ ५॥ - ईश्वरशतकम् । ३३ .. रत् अकृत्रिमं जातं जन्म यस्य स सज्जात सजः संनद्ध आततो विस्तीर्णो विश्व. पेत्यालोचनाग्निर्यस्य तदामन्त्रणं सजातसजाततलोचनामे । तथा सुरौघह्मविष्णुप्र- भिर्देवसमूहैः संध्यातपसा त्रिसंध्यं समाधानेन संध्यात सम्यग्ध्यात. 1 कालेन अ- वर्णेन । भयंकरेणेति यावत् । तथा आधीनपरिग्रहेण आधीना मन पीडानां ये इनाः नेनो ज्वरादयो रोगास्तेपा परिग्रह. परिवारो यस्य स तादृशेन कालेन मृत्युना हतं । मां माधीनं कृथा सपादय । (यद्वा) मायाः शोभाया आधीनमायत्तं माधीनम् । राजर्षिवदित्यर्थः । आदियमकम् ॥५॥ भवोत्सुकानामसमाधिभिन्नः कश्चिन्मदन्यो न समाधिभिन्नः । ये त्वां प्रशंसन्ति सदा सभार्यास्त एव जीवन्ति सदासभार्याः ॥ ६॥ २ नोऽस्माकमुत्सुकानां सोत्कण्ठानामसमाधिभित् असमा अनल्पा ये आधयो म. नस्तान्भिनत्तीति ताक् भव संपद्यस्व । यतो मत्सकाशात् अन्यो जन' समाधिभि- तैकाम्यबहिष्कृतो नास्ति । ये त्वां सदा सर्वकाल समासु मध्ये अर्या निष्पापा. न्ति स्तुवन्ति त एव सदासभार्याः सह दासैर्भार्यया च वर्तन्ते ये ते सपरिवारा 4 । जीवन्ति । पुन ससारावृत्ति न लभन्ते । अनश्वरपदप्राप्ते । अन्ये तु संसा- नानाजन्मोपलव्ध्या जीवन्तोऽपि मृता एव । 'ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे ज- |जातनष्टा ' इति यावत् । आदियमकम् ॥ ६ ॥ दैत्यद्विषा त्वच्चरणावलीनामिवाम्बुजे भन्मरणावलीनाम् । स्तुवन्त्यतो निःशरणा वलीनां त्वमूर्तिमीतेः सरणावलीनाम् ॥ ७ ॥ त्यद्विषा देवानां खच्चरणौ अलीना भ्रमराणामिवाम्बुजे पद्मे भवतः विश्रान्तिस्थानं भिलपितप्राप्ते. स्त इत्यर्थः । कयंभूताना दैत्यद्विपाम्, भन्ना पराजिता रणावलयः मसमूहा यैस्तथाविधानाम् । अतो हेतो. नि.शरणा मादृशा अपि ईते. ससारोपद्र- सरणौ मार्गे अलीनामश्लिष्टां त्वन्मूर्ति स्तुवन्ति । कयंभूताम् । वबयोरैक्यावलि- ना स्वामिनीम् । तदधिष्ठातृवात् । सर्वपादान्तयमकम् ॥ ७ ॥ भवेतिभिन्नः कुलपामराणां भवेऽतिभिन्नः कुलपामराणाम् । सदासकान्ताय न मोहराय सदा सकान्ताय नमो हराय ॥ ८॥ है अमराणां देवानां कुलप, त्वं नोऽस्माकं कुलमध्ये पामराणामयोग्यत्वाद्वालिशाना- भित् दुर्गतिनिहन्ता भव । अतस्वमेव भवे संसारेऽतिभिन्न उत्तीर्ण । सह दासर्व- कान्तश्च य । सर्वाभिलाषदायित्वात् । सदासकान्तः । तस्मै । तथा मोहं राति ति मोहर अज्ञानदायी । न मोहर तस्मै न मोहराय । सदा सर्वकालं सकान्ताय शक्तिपरिवृताय हराय नमः । सपुटयमकम् ॥ ८॥ नव० गु०४ काव्यमाला। राजते विष्टपाकारा राकापाहिफणावरा । रावणाराधिताक्षारा राक्षाताम्राक्षि तेऽजरां ॥ ९॥ पद्मबन्धः ॥ तनुरद्रिसुताकान्त कान्तलावण्यवाहिनी । वाहिनीवामृतमयी मयीह विमलातनुः ॥ १० ॥ शृङ्खलायमकम् ॥ (युग्मम्) हे अद्रिसुताकान्त पार्वतीश, तव सबन्धिनी तनुर्मूर्ति राजते । कथंभूता । विष्टपा. कारा विष्टपं जगत् तदाकारा। तथा राकाप पूर्णचन्द्र तथा अहिफणा ताभिर्वरा उ- त्कृष्टा । तथा रावणेनाराधिता सेविता । अक्षारा न क्षारा। (मधुरा) सौम्यखभावेत्यर्थ । तथा राक्षा लाक्षा तद्वत्ताम्रमक्षि यत्रेति क्रियाविशेषणम् । राक्षाताम्राक्षि राजते इत्यर्थः । तथा अजरा जन्मादिरहितत्वात् । कान्तलावण्यवाहिनी अमृतमयी वाहिनी नदीव । अ- तनुबहला । युगलकम् । आय लोक पद्मबन्धः । द्वितीय शृङ्खलायमकम् ॥९॥१०॥ दरवति वरदय भटभयदपणक्षणपथरथपर पुरशरसमरे । मदमयरणरय जय जय खमत क्षतमखसुरवरसुखद शिव ॥ ११ ॥ महादेवबन्धः । जागेश्वरबन्ध इत्यर्थः । हे शिव, त्वं जय जय । किविध । दरवति सभये मादृशे वरदय वरा उत्कृष्टा दया यस्य । अन्धकादीना विश्वकण्टकानामपि पुनर्दयया गाणपत्यप्रतिपादकलात् । तथा भ- टाना भयद पणो व्यवहारो यस्य तादृश । तथा क्षणं पन्था यस्य तादृग्यो रथस्तत्र पर उद्योगवान् तदामन्त्रणं भटभयदपणक्षणपथरथपर । तथा पुराणा त्रिपुराणां शरसमरे बाणयुद्धे मदमय. साहंकारो रणरय संग्रामवेगो यस्य तदामन्त्रणम् । तथा खमत सा- नामिन्द्रियाणा मताभिप्रेत । तदधिष्ठातृवात्सर्वेन्द्रियाणाम् । तथा क्षतो मखो दक्षा- ध्वरो येन । तथा सुरवराणा सुसं ददातीति तत्सबोवनम् ॥ ११ ॥ क्रूरा नराणां भवता शोधनीयाविभागतिः । चराचराणा भवता बोधनीया शुभा मतिः ।। १२ ॥ क्रूरा दु.सहा संसारे रता नराणां भक्ताना भवता स्वामिना अविभागतिस्तामसी 8 गति. शोधनीया । चराचराणां जङ्गमस्थावराणां शुभा मतिर्भवतैव बोधनीया । अयं गोमूत्रिकाबन्धः ॥ १२॥ नरकं कालमालाभरणा हि तरसा श्रिताः । नरकङ्कालमालाभरणाहितरसाश्रिताः ॥ १३ ॥ काञ्चीगोमूत्रिकाबन्धौ समुद्यमकम् ॥
ईश्वरशतकम् । ततेतितति तातैता मम मा मामिमाममाः । ललल्लोलालिलीलालैरुरुरोराररैररम् ॥ १४ ॥ 'पादैकाक्षरः ॥ यमवाराङ्गनाः कान्तैरवसादरतापदैः । समं त्रस्ता भवभक्तिरवसादरतापदैः॥ १५ ॥ त्रिभिः श्लोकर्वाक्यार्थतिलकम् ।। हे तात पूज्य, ता यमवाराङ्गना मृत्युस्त्रियो भवद्भक्तिरवसादरतापदैः भवति विपये यानि भक्तिरवाणा सादरता तस्या पदानि वाक्यानि तै उस्ता भीता कान्तर्भर्तृभि समं सह । कथंभूतैर्भर्तृभि । अवसादरतापदै अवसादं विनाशं रान्ति ददति तापं च ददति तादृशैर्भर्तृभि. साकं त्रता भीता । भवदीयभक्तजनस्तुतिवाक्यं श्रुत्वैव त्रस्ता इत्यर्थ । इमा मम संबन्धिनी मां लक्ष्मी मा एता न प्राप्ता माशब्दो निषेधार्थ । अमा अश्रीका । पुन कयंभूता. । तरसा वलेन हि निश्चयेन नरकं बिता । तता विस्तीर्णा या ईतिततय ईतीना विघ्नाना तनय समूहा यत्र तयाविवं कृखा कालमालाभरणा का. लस्य मा लक्ष्मीस्तल्लाभार्थ रणो यासा तथाविधा । पुन कथम् । नरककालमालाभर- गाहितरसाभि । नराणां कङ्कालमालाभियोन्याभरणानि तैराहित रसाश्रि रसपर्यन्तो यत्र तथा । पुनः कयंभूतैर्भर्तृभि । ललल्लोलालिलीलालैः ललन्त उल्लसन्तो लोलाव तेऽलय- स्तल्लीलां लान्ति कृष्णलात ये तै । उरुरोराररै उरु बहुलं च तत् रोर दारियं उरुरोरं तथा अरीणा समूह आरं उरुरोर च आरं च तत् उरुरोरारं तं गन्ति ददति तथाविधै । अरमत्यर्थम् । अत्र वाक्यार्थतिलकेन प्रथम समुद्कयमकं काञ्चीगोमूत्रिकाबन्धौ च । द्वितीय पादेकाक्षर । तृतीयः पादयमकम् ॥ १३ ॥ १४ ॥ १५ ॥ प्रलापिनं मा रसेनाभयप्रद यमाकुलम् । आगत्य त्वरितं तीव्रप्रभावोचितविग्रह ॥ १६ ॥ हे तीव्रप्रभ, तथा उचितविग्रह, अभयप्रद, त्वं मा कर्मभूतं अव रक्ष । केन । रसे- नादरेण । मा कीदृशम् । यमाकुलं यमादाकुलम् । तथा प्रलपति तच्छीलः प्रलापी तं प्रलापिनम् । सरितमागत्य । गूढकर्मक्रियोऽय श्लोकः ॥ १६ ॥ चिरार्तिचित्तेतिचितैरिताराचराचराचारचरित्रचार । चारुता चित्रतराचिरा रीति रतारैरुरुचौररोरैः ॥ १७ ॥ ध्यक्षरः ॥ हे भगवन् चराचराचारचरित्रचार, चराचराणां जगमस्थावराणा यदाचारचरित्रं तत्र चारश्चरणं यस्य तत्सबोधनम् । रैचारुताया धनाना चारुता ऐश्वर्य चित्रतरा साश्चर्या क्ष- :
काव्यमाला। । णिकत्वादचिराचियो विद्युतो रीतिमिता प्राप्ता । कै. हेतुभूतैः । उरवो बहला ये चौरास्तथा रोराणि दारिद्याणि (तै ) उरुचौररोरै. । कै । रतारै रतस्य चित्तविश्रान्तेराराणि अरि- समूहा इव तैः । पुन कथंभूतैः । चिरं या आर्तिस्तथा चित्तेतिश्चित्तबाधा च तया चि- तैया॑प्तैश्विरार्तिचित्तेतिचितैः । आराद्दूरतः । त्र्यक्षरोऽयं श्लोक ॥ १७ ॥ मुदात्तसारा धुसभासमाना सभासमानाङ्गमुदात्तसारा । विभावसुस्थान भव प्रभा ते भवप्रभाते रविभावसुस्था ॥ १८ ॥ व्यावृत्तयमकम् ॥ हे भगवन् भव, विभावसोनॆत्राश्रयस्य वढे. स्थान आश्रय, भवप्रभाते ससारोदये सति ते तव संबन्धिनी प्रभा रविभाववत्सुस्था सामस्थ (स्वास्थ्य )वती । यत मुदा हणात्तं सार यस्या. मुदात्तसारा । धुसभाया देवसदसि समाना सह मानेन पूजया वर्तते या । सभासमानानि रुचिराण्यानि यत्र तथाविधं कृखा उदात्तमुद्भटं बलं यस्याः।। व्यावृत्तयमकम् ॥ १८ ॥ देहान्तकाले खरसेन पाहि यमात्प्रभो भाखरलोचनाज । शमैकसर्वख सभूरिकामां मां यच्छ देवेश जहीहि मां मा ॥ १९ ॥ वज्रबन्धः ॥ हे भाखरलोचन धामनयनेत्र, अज अनादे, शमैकसर्वख उपशमैकसाधन, त्वं मां देहान्तकाले मरणसमये खरसेन कृपया यमान्मृत्योः पाहि । तथा भूरयो बहलाः कामा मनोरथानि यस्या सा तादशी सर्वाभीष्टप्रदां मां लक्ष्मी यच्छ वितर । मां च मा ज- हीहि । मा परित्यज ॥ वनबन्धः ॥ १९ ॥ तनुस्त्वदीया भगवनस्सरारे रसासुखं मुक्तिमुखं सुसार। शुभावहा भक्तिपरायणानां सादान्तताकृत्तकृतान्तदासा ।। २० ॥ हे भगवन् सुसार शोभनबल, स्मरारे, तव संबन्धिनी तनुर्मूर्ती रसायां सुखं लक्षणया भूतलस्थानां जनाना सुखदायिनी। तथा मुक्तिसुखम् । भोगमोक्षप्रदेत्यर्थः । अत एव भ- कितपरायणानां शुभावहा । तथा सादस्यावसादस्यान्तताविच्छेदस्तेन हेतुना कृत्तादिछन्ना. कृतान्तदासा यमभटा यया । सद्भक्तेभ्यस्ते निराशा पलायन्ते नन्दिरुद्रवत् ॥ २० ॥ स्थिरासुरापक्षपरा सुरास्थिमालावरासन्नसरावलामा । वादे हिता मन्त्रमताहिदेवातिभाविता नुत्यनुता विभाति ॥ २१ ॥ प्रतिलोमानुलोमपादः । युगलकम् ॥ खदीया तनुरित्यनेन पूर्वश्लोकस्थेनान्वयः त्वदीया तनुर्विभाति । कीदृशी। स्थिरा येऽसुरा अन्धकादयस्तेषामपक्षपरा प्रतिपक्षभूता । सुराणां ब्रह्मादीनां चास्थिमालादिभि- 1
ईश्वरशतकम् ।
३७
चरा उत्कृष्टा । तया आसना निकटा सरावा नादयुक्ता लामा उत्कृष्टरूपा देवता यस्यां
सा आसन्नसरावलामा । तथा वादे चतुर्दश विद्यास्थानविशारद (विचार)विपये हिता ।
भक्तविद्वजनेभ्य इति शेषः । तथा मन्त्रैर्मननत्राणधर्मादिभिर्देवतोच्चारकपदैर्मता भाविता।
यदाहुः--'मन्त्रमूर्तिस्तु देवता' इति । तथा अहिभिनागैर्देवैश्वातिभाविता अनिध्याता ।
तथा नुत्या स्तुत्या ये ब्रह्मादयस्तैरपि नुता नुत्यनुता । एवंविधा वदीया तनुर्विभाति ।
'अमनमता' [इति पाठे] अमत्रेभ्य पात्रेभ्यो मता अहय सपी यस्या तादृशी देवा.
तिभाविता च । [इत्यर्थ.] । युगलकम् । आद्यो युक्पादप्रतिलोमः । द्वितीयः प्रतिलो-
मानुलोमपादः ॥२१॥
तनोति ते तात नुतौ नितान्तं नूनं नतानां तनुतां न नीतिः ।
नेनेन नो नूतनतां तु नीता तेनोन्नतानन्ततनो ततेतिः ॥ २२ ॥
ब्यक्षरः ॥
हे भगवन् , तात पूज्य, उन्नतानन्ततनो, उन्नता अनन्ता पृथ्व्यादयस्तनवो मूर्तयो
यस्य तत्संबोधनम् । ते तव सबन्धिनी नीति नताना भक्ताना नुतौ स्तुतो सत्यां नूनं
निश्चितं तनुतां लघुतां न तनोति । दार्थमेव पोपयति । तु पक्षान्तरे । तेन हेतुना इ.
नेनार्थीद्भवता खामिना नोऽस्माकं तता विस्तीणी ईति ससारबाधा नूतनतां नवत्वं न
नीता । भवनुतिमात्रेण वय मुक्ता इति सूचितम् । श्लोकोऽयं यक्षर. ॥ २२ ॥
हर प्रभो परं वन्ध रक्षोभागेऽस्थिरो भव ।
प्रभावितदमो रोरं भोगातत्त्व सदस्थिप ॥ २३ ॥
अर्धभ्रमः ॥
हे प्रभो भय, त्वं रोरं दारिद्यं हर निवारय। परमत्यर्थ वन्ध बन्दनीय । कथंभूतस्त्वम्।
रक्षसा हिंसापराणामपि भागे सविभागेऽस्थिरश्चञ्चल । दानादावपि सर्वलो(प)कहित-
हेतुना कीलितः। पुनः कथंभूतः। प्रभावितः सर्वजनोपलक्षितो दम इन्द्रियजयो यस्य ।
तथा प्रभो कथंभूत । भोगातत्त्व भोगा अतत्त्व यस्य । आभासमानखात् । पुनः कथंभूत
प्रभो, सदस्थिप सन्ति शोभनान्यस्थीनि भूषणतया पाति रक्षतीति तादृश ॥ अर्धभ्रम ॥२३
काष्ण्येन भगवन्नास्ति तव कण्ठच्छवेः समा ।
कालिकाकालिकालालीलीलाका परवीरप ॥ २४ ॥
त्रिशूलबन्धः ॥
परा उत्कृष्टा ये वीरास्तान्प. पाति ताश परवीरप । 'वीतरागभयद्वेपो रहित सर्व-
सशयैः । सर्वभूतानुकम्पी च वीर इत्युच्यते बुधैः ।।' इति । तव संबन्धिन्याः कण्ठच्छवेः
कान्या समा अस्ति । कीदृशी । कालय तथा काकानामालयः पतयः तथा कालाना-
माली च तासामिव लीला विच्छित्तिर्यस्यास्तादृशी कृष्णत्वेन ॥ २४ ॥
काव्यमाला। महर्मेसररिर्मारोऽमरारामोऽरमोऽरिरः । मुरारिरामा रोरोऽरमुमारामी ममोरुराः ॥ २५ ॥ व्यक्षरः ।। मम मेरु सर्वदेवताविश्रान्तिस्थानमपि मनिर्जलप्रायो देश इव नावर्जक । भार' कामोऽपि सर्वजनवालभोऽरि शत्रु । तया अमराणा देवानामारामो विश्रान्तिप्रदो नन्द- नादिप्रदेश सोऽपि अरम शोभारहित । अतएव अरिर अरीन् रातीति असुसखाच्छत्रुद इव । मुरारेविष्णो रामा लक्ष्मीभगवती रोरो दारिधम् । अरमत्यर्थम् । उमारामी उभया सह योऽवश्य रमते रा पार्वतीवल्लभः स एव उरुरा. महदुत्कृष्टं निधानभूतं धनम्॥२५॥ विहाय सस्यसंपन्नां सेव्यः खामी शिवं भवेत् । येनाप्यो दिवि पन्थानो राजेनत्वं च तिष्ठति ॥ २६ ॥ अपशब्दाभासः ॥ नोऽस्माकं सस्यसंपन्ना धान्यादिसमृद्धिमत्त्वं विहाय स्वामी विश्वेश्वर सेवनीय । येन हेतुना शिवं कल्याणं भवेत् । दिवि च य. पन्था सचाग्य प्राप्य । राजेनत्वं राज्ञा मध्ये इनत्वं प्रभुत्वं च तिष्ठति । अत्र विहासस्य, संपन्ना, शिव, खामी, सेव्य , पन्थान., आप्य , राजेन, त्वं तिष्ठति इति सर्वेऽपि शब्दा अपशब्दा इवाभासन्ते अतोऽपशब्दा- भासोऽयम् । अर्थान्तरप्रतीतो निर्दोषः ॥ २६ ॥ न भासते ते समा न भाविताममता विभा। सता वदे देवतास ते मदेन नदेऽमते ॥ २७ ॥ सर्वतोभद्रः ॥ भग्ना वयं भवमये नोद्धृताः पशवस्त्वया । यास्त्ववस्था रुजां भामामाभाजां रुद्र ताहर ।। २८ ।। परशुबन्धः ॥ युगलकम् ॥ द्वयोष्टीका-हे भगवन् देवतास, देवतानां ब्रह्मविष्णुप्रभृतीनामासनं स्थिति रक्षणं क्षेपणं विनाशो वा यस्मात् तत्सबोवनम् । ते तव सभा न न भासते । अपि तु सर्वोत्तमा भासते एव । कि विधा । भाविताना नन्दिप्रभृतीना अममता निरहंकारता तया विभा दीप्तिर्य स्याम् । सता सत्यरूपेण ब्रह्मणा बढे । वदे इति 'सभासनोपसंभाषाज्ञानयत्नविम- त्युपमन्त्रणेषु वद.' इत्यात्मनेपदम् । ते तब वयं मदेनाहकारेण नदे भवमये अमते अनीप्सिते दुस्तरे तडाके भमा बुडिताः सन्त. पशव इत्यज्ञानपरत्वात् त्वया नोद्धता । हे रुद्र रुजा दु'खाना भामः क्रोधः अमा अलक्ष्मीस्तद्धाजा रुजा या अवस्थास्ता हर निवारय । इति युगलकम् । एक सर्वतोभद्रो द्वितीयः परशुबन्ध ॥ २७ ॥ २८ ॥ कलिकालकलालीककेलिः कलकलाकुले । कालेऽलिकोकिलाकाले कोऽलं लोले कुले किल ॥ २९ ॥ धक्षरः ॥ ।
ईश्वरशतकम् । ३९ । , को नामालं समर्थी भवति । अपि तु न कश्चित् । कुले गृहे । शरीर इत्यर्थ । कुले शरीरे लोले अस्थिरे सति यत कलिकाले या कलास्तामियदलीकं तदेव केलि खेलन यस्य । तथा कलकलैर्नानाविधोत्कलिकाभिराकुले क्षुभिते । तथा काले मृत्यौ जामती- त्यर्थः । तथा अलयो भ्रमरास्तथा कोकिलाश्च तद्वत्काले तामसे ॥ २९ ॥ आभातिमाति भवतस्तव कालमार्कि संचिन्तय स्मरहरोग्रतनुं कृशाङ्गम् । मां मास्य मुञ्च भव भीममलं कलङ्क हन्तातिकष्टममराधिप देव तेन ॥ ३० ॥ पुनरुक्तवदाभासः सर्वपदाश्रयः ॥ हे स्मरहर, हे देव, हे अमराधिप, हे भव, एतान्यामन्त्रणानि भीतोतया च पुनरु- क्तानि तवाभा शोभा अतिभाति अतिशयेन भाति । आर्कि उग्रतर्नु रौद्रशरीर संचिन्तय । कथंभूतमार्किम् , कालमतिमलीमसम् । तथा भवतो जन्महेतो मा कृशाङ्गमतिमीत्या क्षा- मतनुं सचिन्तय। अतिदयालुतयेति शेष । तेन हेतुना हन्ता वधक तादृशानामुग्रशरीरा. णामपीत्यर्थ । समस्य कालस्य भीमं भयदायकमतिकष्टं कलङ्क मा मुञ्च । कलङ्क सर्वथा जहीत्यर्थ । अत्र च आभाति भाति, भवत तव, कालं आर्कि, सचिन्तय स्मर, हर उग्र, तनुं कृशाझं, मा मा, अस्य मुञ्च, भव भीम, मलं कलङ्क, हन्त अतिकष्ट, अमराधिप देव- तेन, इति सर्वपदाश्रयत्वं पुनरुक्तवदाभासस्य । देवतानामिनो देवतेनस्तदामन्त्रणम् ॥३० यजने बर धीसाररसामानससारस । सरसासनमासाररसाधीरवने जय ॥ ३१ ॥ दक्ष दासवरासारनद मत्तकृतारव । वरताकृत्तमदन रसाराव सदाक्षद ॥ ३२ ॥ युग्मम् ।। हे भगवन, त्वं जय । किंभूत । यजने यज्ञे वर उत्कृष्ट । तथा धीसाराणा योगिना या रसा भूमि सैव मानसं तत्र सारस हंस । तथा दक्ष निपुण । तथा दासाना निजभक्ताना वरा एव आसारस्तत्र नद सरोविशेप । तथा मत्तेषु कामायुन्मादयुक्तेषु कृत आरावस्त्रा- णवाग्रूपो येन । तथा वरतया उत्कृष्टतया कृत्तो मदनो येन तादृश । तथा रसो रस- युक्त । अर्शआदिलादच् । आराव सजत्पो यस्य तदामन्त्रणम् । तथा सदा सर्वदाअ- क्षान्भवपाशरूपान् धूतपाशकान् द्यति हन्तीति तादृश सदाक्षद' । कस्मिन् । सरसासन- मासार रसाधीरवने । सरसमासनं स्थितिर्येषां ते माया लक्ष्म्या साराः रसायां भूमौ ये धीरास्वदेकताना भावुकास्तेषा वनं समूहस्तत्र । युगलकम ॥ ३१ ॥ ३२ ॥ तवैव मूर्तिः शिव धर्मराजसुहृत्समानामसुहृत्समाना । शुभावहा तत्त्वजुषां निरस्तधनादराणां निधनादराणाम् ॥ ३३ ॥ ~
४०
काव्यमाला ।
हे भगवन् शिव, तवैव मूर्ति असुहृत् प्राणहृत् भवति । केषाम् । धर्मराजसुहृत्स-
माना यममुहृत्सदृशानां तत्प्रियलोकाना तत्किकराणां वा । कथंभूता समाना सह मानेन
पूजया वर्तते या सा । पुन किविया । निरस्तधनादराणा दूरीकृतधनाभिलापाणां तत्त्व-
जुषा खदेकतानाना जनाना अराणामश्रिसमूहानां भवपाशरूपाणा निधनात्कर्तनाच्छु-
भावहा शुभदा । युक्पादाद्यन्तयमकोऽयं श्लोक ॥ ३३ ॥
भूयाद्भक्तिस्त्वय्युमाकान्त तीवासारा दक्षामोक्षादरा सा ।
नो चेन्नैपा जीयते कालसेना या कालिन्ना नित्यनिम्नालिकाया ॥३४॥
युक्पादप्रतिलोमः॥
हे भगवन् उमाकान्त, खयि सा भक्तिर्मम तीव्रासारा अविच्छिन्ना भूयात् । पुनः
किभूत । दक्षा निपुणा । पुन किभूता । अमोघ सफलो मोक्षे आदरो यस्याम् । नो
चेद्भक्तिस्तव स्यात् तडंपा कालसेना मृत्युचमूर्जन्ममरणादिरूपा न जीयते । केनापी-
त्यर्थः । एषा कालसेना का । या कालिम्ना मलीमसत्वेन नित्यनिनोऽतिनीचोऽलिकायो
भ्रमरकायो यस्याः सा । भ्रमरकायादप्यत्यन्तमलिनेत्यर्थ ॥ ३४ ॥
न नानान्नानि नूनं नो न ना नीनानना न नः ।
नानु नानेन नुन्नैना ननु नेनाननेन नौः ॥ ३५ ॥ एकाक्षरः ॥
दृष्टेन लभ्या भवता नयनानलसाधुना ।
मुक्तिरूपा भवाब्ध्यन्ता नयनानलसाधुना ॥ ३६ ॥
पादयमकम् ॥ युग्मम् ॥
नूनं निश्चये नोऽस्माकं नानान्नानि नानाविधानि अन्नानि न भवन्ति । यत नीना नि-
गत इन खामी येषा ते नीना खामिरहिता । अनना अविद्यमाना अनाः प्राणा येपा
ते अनना । निष्प्राणा एवेत्यर्थः । नानुना इत्यादि । अनेन हेतुना अनु अविद्यमाना
नौर्यस्मिन्कर्मणि तत् । अनु न भवति काका भवत्येवेत्यर्थ । ना नर स्वामी न भवति
केषाम् । न । ननु निश्चये। इनाननेन इनस्याननं मुखं यस्य स इनाननो लक्ष्मीवान् नेनाननो
दरिद्रस्तेन नेनाननेन दरिद्रेणापि मुक्तिरूपा नौलन्या । कदा । अधुना । केन हेतुना । भ-
वता । कथंभूतेन दृष्टेन । पुन कथंभूतेन । नयनानलसाधुना नयनानलेन साधु प्रष्टास्था (१)
तेन । मुक्तिरूपा नौ. कर्थरूपा । भवाब्ध्यन्ता भवाब्धेरन्तो यस्याः सा । पुनः कथंभूताः ।
नयनानलसा नयने प्रापणे अर्थाद्भवोत्तारणे अनलसा सज्जा इति । मुक्तिरूपा नौ पुन. कथं.
भूता । नुनैना नुनं नोदितमेन. पापं यया (युग्मम्) इति भक्तजनं प्रति । आर्योक्ति । (अ.
धुना इदानीम्) आद्य एकाक्षरः द्वितीयं पादयमकम् । इह शब्दपौनरुक्त्यभ्रान्तिभिन्न-
लिङ्गलान ग्राह्या । माघकाव्यकिरातार्जुनीयादिकाव्येषु बहुष्वपि पदार्थानां पौनरुक्त्यं
दृश्यते तच्च पूर्वाचायःसमर्थितम् । यथा--'यमकश्लेषचित्राणा नातिपदक्षोद कार्य'इति ।
अस्य कवेः क्वचित्पौनरुक्त्यादिचमत्कृतेः (१) । चित्रकाव्यस्य दुष्करत्वात् ॥ ३५ ॥ ३६ ॥
ईश्वरशतकम् । ४१ सुसुररससभाभा खखदादाववक्र- क्रममनुनुततत्त्वा स्वाततप्रप्रजाजा । ननव वधधनानाञ्चञ्चला लाभभव्य- व्यस सततममन्दान्दाससङ्गङ्गते ते ॥ ३७ । आवलिः ॥ मयि तनुमुचितां तां दर्शयस्येदृशी या रविजजविरणत्रा ब्राणरक्तातिभाति । जय जय जगतस्त्वं तत्त्वतज्ज्ञोऽसि भासि- रसिक सदसदासस्ते भवे भर्ग भव्यः ॥ ३८ ॥ एतस्य श्लोकस्य प्रथमार्धेन त्रिशूलबन्धः, द्वितीयार्धन गदाबन्धः । मा लिनीवृत्ताभ्या युगलकम् ॥ हे भगवन् भर्ग, न [नव ] नव्य आदि [भूत ] लाभभव्यव्यस्य लाभेन हेतुनोत्कृष्टो व्यसो विशेषेणासनं त्यजनं यस्य हेतो. 1 पदार्थानामनन्तफलदत्वात् । तथाविध । हे भा- सिन् भासनशील रसिक भक्तजनप्रिय, ईदशी तनुं मयि ते तव दाससङ्गं गते आशु बरितं दर्शयख । या तव तनुरेवंभूतातिभाति सातिशया शोभते । कथंभूता । सुसुररससभाभ सुषु सुराणा रसा यस्यां तथाविधाया सभायामाभा यस्याः। आदावादावेव खखदा मरु- तादिभ्यो भक्तेभ्यः खमात्मीयं स्वं धनं ददातीति तथा । अवक्रक्रम कला अकौटिल्येन अनु पश्चान्नुतं तत्त्वं यस्या सा । तु पक्षान्तरे आतता विस्तीर्णा प्रकृष्टा प्रजा प्रप्रजा सप्तर्षिप्रभृतिसकलनिर्माणं यस्यास्तथाविधा । स्वयं पुनरजा जन्मरहिता। तथा वधध- नानां हिंसाजीवनानामसुरादीनां चञ्चलास्थिरा । सततं सर्वकालममन्दा नित्योद्युकाम् । ता तनुमिति सबन्ध । तथा या च ते तनुः रविजस्य यमस्य ये जविनो वेगवन्तः । अर्थाद्भटाः । तैः सह यो रणस्ततस्त्रायते तथाविधा । अत एव सर्वेषां त्राणरक्का । अत एव त्वं जगता तत्त्वविषये तज्ज्ञोऽसि विचारनिपुणः । जय जय । सदसतोर्नित्यानि- त्ययोर्य आस आस्थारूपस्ते तव भवे संसारे भव्य उत्कृष्ट । सत. सत्त्वेन स्थितिर्भ- वता कल्पिता, असतोऽपि खपुष्पादेय॑वधानायासत्त्वेन । यदाहु:--'कस्तु भवतला- न्यत्वेन नातिकामति' इति । प्रमेयमनुरूपेण प्रमाणेन प्रमीयते प्रत्यक्षवत्प्रमाणमध्यपति- तखादसतोऽपि व्यवस्थानादिसिद्धेश्वरनिर्माणवैचित्र्यात् ॥ अत्र युगलके एक आवलिः । द्वितीयश्लोकस्याद्याधैन त्रिशूलबन्धः । द्वितीयार्धेन च गदाबन्ध. ॥ ३७ ॥ ३८ ॥ सुखदोनवमत्वेन सुवर्णाकृतिविग्रहः । नागरागप्रथात्यक्तो गिरीशो जयतादसौ ॥ ३९ ॥ अर्थत्रयवाचकोऽयम् ॥
काव्यमाला। -- असौ गिरीशो महादेव , गिरीणामीशो मेरु , गिरि वाचि ईशो बृहस्पतिश्चेति त्रय उक्ता । तनाद्येऽर्थे-गिरीशो महादेवो जयति । सु शोभनानि सानि ददातीति सुखद । तथा अनवमत्वेनोत्कृष्टत्वेन सु शोभनाना वणीना ब्राह्मणादीनामक्षराणा वा आ सम- न्तात्कृति सृष्टियस्मात्स सुवर्णाकृतिस्तादृशो विग्रह शरीरसनिवेशो यस्य । नागराजा- दीना प्रथया प्रसिध्या त्यतो विरहित सर्वाङ्गभूपणवात् । तत्सहित । एकोऽर्थ. ॥ मे. रुरपि-सु शोभना सदा गहराणि यस्य स मुसद । नवोत्कृष्टा मा लक्ष्मीर्यस्य तद्भा- वैनोपलक्षितः । सुवर्णमयी आकृतियत्य । विविधाना वस्तूना ग्रहो ग्रहणं यस्य च । न अगराजनयात्यक्त पर्वतराज एव । द्वितीयोऽर्थ ॥ बृहस्पति -नवमत्वेन सुखद. 'जीव सप्तनवद्विपञ्चमगत' इति । तथा सुवर्णा शोभनवर्णाकृतिर्यस्य तथाविधो विग्रह सनिवेशो यस्य । भासमानाकृतिलात् । 'वृहस्पति जख' इति श्रुति । विशिष्टो ग्रहो वा विग्रह । नागराजस्य दन्तिन प्रथया त्यक्त । गजवाहनलात् । प्रथया अति अक्तो घा सर्वोत्कर्षेण वर्तनात् । इति तृतीयोऽर्थ ॥ ३९ ॥ भवभव्य भवातीत तत्त्वतज्ज्ञ तमोहर । रणे रक्त रसेनैहि हिताहिसहितार्थद ॥ ४० ॥ दयादक्ष दहापानि निन्द्यानि त्वं विरामय । यमायत्तं यतित्वाव वर वन्द्य वरेण्य माम् ॥ ४१ ॥ द्वाभ्यां गदाबन्धः ॥ युगलकम् ।। हे भव भव्य सर्वोत्कृष्ट । भवं संसारमतीत निर्मुक्त । तत्त्वेन परमार्थेन तज्ज्ञ सम्य- परमार्थज्ञ तथा जानातीति तज्ज्ञ । तमोहर सर्वजनानामज्ञानध्वान्तन । रणे विश्व- । कण्टकोद्धरणार्थ रक्त हेवाकिन् । भैरवलात् । रसेन कृपाविशारद आदरेण एहि । हित- सर्वजनेभ्य , अहिभ्य शेषादिभ्य , सहितमरुत्तादिभ्यो भक्तेभ्योऽर्थद । दयायां दक्ष कुशल अधानि पापानि दह शान्ति नय । निन्द्यानि पापानि विरामय अध कृतोरग ।। यमस्यायत्तं मा मरणधर्मिखान्मांनां यतिला प्रयत्नपूर्व अव रक्ष । वर वन्ध वरेण्या , इत्यामन्त्रणपदानि ॥ ४० ॥ ॥ ४१ ॥ न तनुता दधती तततोदिता तुदति नीतिनिधे निधने तनुम् । निधिदनाथ ततं ननु नूतनं नुतिधनं तदिदं निददानि ते ॥ ४२ ॥ तवर्गबन्धः ॥ हे निधिदनाथ कुबेरस्य खामिन् , हे नीतिनिधे, तततोदिता तोदा रोगाः । तततो. दिता बहुलरोगिता निधनेऽन्तसमये तर्नु देहं तुदति व्यथयति । यतस्तनुता न दधती । बहुलेत्यर्थ । ततोऽस्माद्धेतोरहं ते तुभ्यं नूतनमिदं नुतिधनं स्तुतिरेव वित्तं निददानि । नीतेर्विश्वस्थितिरूपाया निधे आस्पद । ततं विस्तीर्णम् । ननु समुखीकरणे । द्रुतविल- म्बिताक्षराभ्यां तवर्गबन्धः ॥ ४२ ॥ । । ।
ईश्वरशतकम् । सा राजते तनुरलं वरदा परासा- सारापदारहित सन्महासदासा । सादासहाहतभवोत्करकाविलासा सालाविकारपृथु साक्षततेऽजरासा ॥ ४३ ॥ अष्टदलपद्मबन्धः ॥ भगवन् , असारायोग्या चासावापत्तया रहित असारापदारहित, तथा सह अक्ष- तत्याक्षमालया पाणिगया मह वर्तते य स तदामन्त्रणं साक्षतते, ते तव संबन्धिनी सा तनु राजते । वरान्ददातीति वरदा । परानस्यतीति परासा। परेपा शत्रूणामासः कोपो वा यस्या. सकाशात् । सन्मह उत्कृष्टोत्सवो हास. प्रमोदो येषा तथाविधा दासाः सेवका यस्या सा सन्महहासदासा । तथा सादं न सहन्ते इति सादासहा मृदयस्ते- षामा समन्ताद्धतो भव एवोच्चै. करकाणा वर्षीपलाना विलासो बाहुत्यं यया सा सादा- सहाहतभवोत्करकाविलासा । कथम् । सालपदविकारपृथु निर्विकारप्राशु कृला । तथा अ- जरासा न विद्यते जराया आसा आस्था यस्या. ॥ पद्मवन्धोऽयं वसन्तवृत्तेन ॥ ४३ ॥ चरा सारवरासारपराभवपरा भव । समुद्वृत्ता समुद्वृत्तातनुस्तव तनुस्तव ॥ ४४ ॥ यमकावली ।। हे भगवन् भव, समुद्वृत्तातनुस्तव सम्यग् उच्चैयुत्तानि छन्दासि अनुष्टुप्प्रभृतीनि येषु तथाविध । अतनवो बहला स्तवा स्तोत्राणि यस्य तादृश, तव संवन्धिनी तनुर्वरो- त्कृष्टा । तथा सारा मुख्या ये वरास्तेपामासारो बहलवर्पणं तत्र परोद्युक्ता सारवरासा- रपरा । तथा अभवं मोक्ष पिपर्ति पोपयति अभवपरा। तथा समन्तादुत्ता भैरवला- दुत्कटा ॥ ४४ ॥ साध्या मूर्तिर्गुणैर्या ते भावितत्वमतारसा । सारताबाधितविभा रविजस्य सदैव सा ॥ ४५ ॥ क्षुरिकाबन्धः ॥ सा तव मूर्तिर्यमनियमादिभिर्गुणैः सा-याराध्या । सा काया भाविनत्वेन मता प्रिया मावितलमता । तया अरसा वीतरागा । तथा सारतयोत्कृष्टत्वेन बाधितोपशमिता वेभा यया। कस्य । रविजस्य मृत्यो । सदा सर्वदैव ॥ इति क्षुरिकावन्ध ॥ ४५ ॥ कुरवे काले साव यमारेऽरस सुकुमार सदानव देव । अनवदयाचित भव मदनारेऽचल मामुक्तियते मयि हेव ॥ ४६ ॥ सस्कृतकाश्मीरापभ्रंशश्लोकः ।।
काव्यमाला .. हे भव, कौ भूमौ रवे सूर्यवत्प्रकाशद कुरवे, मदनस्यारे मदनारे, काले समये है साव सहावेन रक्षणेन वर्तते यस्तत्सबोधनम् । अहं स्मरामि मद्भक्त नयामि परमां गति- मिति यावत् । यमस्यारे यमारे ! अरस संसारवासनोज्झित । सदा नित्यं नव तरुण । देव दिवु क्रीडाव्यवहारादिधार्थवाचक । अनवदयया कृपया चित व्याप्त । अचल स्थिर । उक्तिषु यते उद्युक्ते उक्तियुक्ते मयि विषये । अत एव मामव' । इति पुराणपु- रुषसंस्कृतभाषार्थः ॥ कुरवे काले काश्मीरभाषया सर्व मारिताः। रससुकुमाराः सदा नवा देवा । अनवद' भापया निरवधीत्यर्थ । याचितभव प्रार्थितसंसार इति मदनारे इति मदवहिना मुक्ता । तादृशा अपि । इति कदमीरभाषार्थ ॥ एवं संस्कृतकाश्मी- रापभ्रंशभाषाश्लेष ॥ ४६॥ सा रसावर सारम्भ तरसावरसारता । तारसाररसा भक्तिस्थिर सावरसाभया ।। ४७ ॥ उल्लसद्विजरानन्द शिव सद्विजराज यत् । मूर्तिराभाति ते भव्या सा स्थिराभातितेजसः ॥ ४८ ॥ अयं तूणबन्धः ॥ युग्मम् ॥ हे शिव, सद्विजराज चन्द्रभूपण, रसायां भुवि वरो मुख्य. सहारम्भेण वर्तते विश्व- कर्मणा वर्तते यरतदामन्त्रणम् । तया भक्तिस्थिर । तथा उल्लसन् विजरो जरारहित- स्तरुण आनन्दो निरतिशयप्रीतिलक्षणो मोक्षपर्यायो यस्य स तथाविध । तव संबन्धिनी सा मूर्ति व्योत्कृष्टा आभाति । अतितेजस परमानन्दस्यामा स्फुरत्ता। यदाहु ----‘देव स कोऽपि जगतीप्रकाश' इति, 'तदलं खात्मावबोधं पुष्णाति तेजोमयोऽमृतमय. पुरु- पोऽयमेव स' इत्यादि, 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयममिः । तमेव भान्तमनुमाति सर्व तस्य भासा सर्वमिदं विभाति ॥' इति रीत्या 'सूर्यनिर्मलपरमेष्ठिमिः' इत्यादिभिः संवादै. सर्वदर्शनेपु परमात्मन सर्वतेजास्यतिशय्य सर्वेश्वरत्वं विश्वकर्तृव मिति सुसिद्धम् । इह काव्यमात्र प्रस्तावेन किचिव नितम् । अत्र विस्तरभयात्प्रकृतानुपयोगाच न वितत्य प्रपञ्चितम् । दीप्ति तरसा अव रसेष्ववगतर- सेपु बालिशप्रायेपु अरतासक्ता । तारे ससारोत्तारणे सार समर्थो रसो यस्याः सा तथा- विधा । घरेषु साभया अभयदायिनी। एवंरूपा तवैवेति ॥ द्वितीयस्तूणबन्ध. ॥४७॥४८॥ चर्चाशिक्षितमन्नतत्त्व विभवोदारप्रतीतिर्भृशं स्मर्ता वन्धभवप्रदोऽसि विदितस्त्वं कृत्तवैरिन्भुवि । विश्वस्तुत्य हिताय ते दिवि नमो धूतार्यजेयध्वने नेत्रामौ च हुतस्मराय विभवे शर्वाय विद्यात्मने ॥ ४९ ॥ कविनामगर्भश्चक्रबन्धः ॥
। । ईश्वरशतकम् । ४५ 'शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति ॥ चर्चया पुनः पुनः पर्यालोचनया अन्यैः स्वत: शान इति नीत्या पारम्पर्यक्रमेण य. शिक्षितो मन्त्राणां तत्त्वस्य परमार्थस्य विभव. स्फाररूपो महिमा तेनोदारा प्रतीतिर्यस्य तथाविधोऽसि । विश्वगुरोर्गुरो कविना- मगर्भश्चक्रवन्ध 'शिवस्तुतिरियमवतारकृता' इति लोकान्निर्गच्छति 'स त्वं मानवि- शिष्ट--' इति माघचक्रवन्धवद्वहिस्तृतीयावर्ते 'शिवस्तुति -' इत्यादि द्वादशाक्षरी निर्ग- च्छति । भवान्खविमर्शो गुरु । अतश्चर्चया, न तु शिक्षया । भृशं स्मरति भृशं सता । भक्तजनाना वन्द्यं ज्ञानयुक्तं भवं जन्मभुक्तिमुक्तिसाधकं ददाति यः स तथाविध· । म- नुष्यजन्मना हि बुद्धिबलेन सर्व सान्यते । अत एव भुवि सर्वजनाना विदितः सम्य- म्ज्ञातः । हे कृत्तवैरिन् , कृत्ता वैरिण कामादय आन्तरा , बाह्याश्चान्धकासुरादय । हे विश्वस्तुत्य विश्वस्मिन्सर्वोत्कृष्टत्वात्स्तुत्य तुभ्यं शर्वाय विभवे विश्वात्मने नमः । दिवि देव- भूमौ अर्थात् स्थितेभ्यो हिताय । सुरा. सत्त्वप्रधानास्तदुपरि भगवत' सकृपलमुचितम् । धूता आकम्पिता अरयो येन स धूतारिः । तथा अजेयो दुरवगाहो ध्वनि दरूपो यस्य स तथाविध । तथा नेत्रानो हुत. स्मरो येनैवंविधाय सर्वोत्कर्पवते । विद्या सम्यग्ज्ञान- रूपाविद्यातिरस्कारिणी भगवतो रूपम् । 'विद्ययामृतमश्नुते' । सर्वागमेषु च 'महाविद्या ज्ञानयोग' इति चतुष्टयं विद्या आत्मस्वरूपं यस्य तादृशाय ते नम' ॥ ४९ ॥ मारासुघ्नाविपक्षादरवरवरदक्षापविना सुरामा सामासक्ता रणना रिपुरसुरपुरि त्राणरक्तासमा सा । शापाकृष्टामृदुखा बत सरस तव खादुमृष्टा कृपासा नामा सत्या कृतज्ञा तनुरजरनुतज्ञातकृत्या समाना ॥ ५० ॥ प्रतिलोमानुलोमपादः ॥ हे भगवन् , सरस नित्यानन्दमय, अजर नित्यतरुण, बत आश्चर्ये तव सबन्धिनी तनुः मारस्य कामस्य असून्हन्तीति मारासुन्ना । अविपक्षा प्रतिपक्षवर्जिता । तथा अदर निर्भयं कृला खातन्त्र्येण वरेभ्य उत्तमेभ्यो वरे दक्षा कुशला । अपविना निर्विघ्ना । सु शोभना रामा पार्वती यस्यां सा । साग्निवेदे आसका संनिहिता । रणात्रायते इति रणत्रा । असुराणा पुरि नगर्या रिपुः । अत एव त्राणे सकलरक्षणे रक्तानुरागवती । असमा न विद्यते समस्तुल्यो यस्याः । सा विश्वप्रसिद्धा । शापेनाकृष्ट. अमृदूना क्रूरा- त्मनां स्व आत्मा यया । स्वादुना मृष्टा सर्वजनरुचिदा खादुमृष्टा । कृपया आसः स्थि- तिर्यस्याः सा कृपासा ॥ अत्र चित्रकाव्ये शसयोरमेद.। न अमा अविद्यमाना मा यस्याः सा, अपि तु सश्रीका । सत्याविनश्वरा । कृतज्ञा भक्तानां सेवयान्तरज्ञा । अज- राणां देवाना यन्नुति (त) स्तुति तेन ज्ञातं कृत्यं यस्याः । अत एव सह मानेन वर्तते या समाना ॥ स्रग्धरा वृत्तं प्रतिलोमानुलोमपादतः ॥ ५० ॥ नव० गु०५ ४६ काव्यमाला। 7 * पिता सुराणां क्षपितासुराणां भवस्यनूनं विभवस्य नूनम् । खराजिताना मुखराजितानां सदाशिव त्वं तु सदा गिवत्या । " सर्वपादाय हे सदाशिव, खमेव तु सदा सर्वकालं क्षपितासुराणां मारितदत्याना प्रभृतीना सयन्धिनो विभवस्यश्वर्यस्य पिता निर्माता भवसि । नूनं ना कृला खे आकाशे राजितानाम् । तथा मुखरैनिन्दापरैर्वाचालैः प्रतिपक्ष शिवत्वं शिवस्य भाव शिवत्वं कल्याणभाव. ॥ सर्वपादाद्यन्तयमकम । अहीनभोगाभ रणादराय सदानयज्ञान्त कविग्रहाय । सुभूति चेतो हरवीरकाय वरायते सज नमोऽक्षदाय !! अहीनभोगाभरणादराय सदानयज्ञान्तकविग्रहाय । सुभूतिचेतोहरवीरकाय वराय ते सज्जनमोक्षदाय ।। ५ ।। महायमकम् ॥ हे हरवीरकाय, तथा वर उत्कृष्ट, अहीनभोगादिषु राज्यादिषु .. सोऽहीनभोगाभस्तदामन्त्रणम् । तथाविध । सर्वत्र भवद्दीप्तेरेव स्फुर८. " कम्-'न सा जीवकला काचित्सतानद्वयवर्तिनी । व्याप्त्री विश्वकला व * न विद्यते ॥' इति । तुभ्यं नमः । अक्षाणीन्द्रियाणि दयते पलायते । न. सर्वेन्द्रियाणा याद्यपदार्थांना च तदधिष्ठानमन्तरेण ग्राहकलग्राह्यलासिद्ध 'आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन' इति । रणादराय . माददरो निर्भयस्तस्मै रणादराय सदालन्धजयखात् । सदान. सदक्षिण ५. हेतो । सर्वय[संपादनवेलाया रुद्रप्रीत्यर्थमेव दक्षिणादि यजमाना विनर्स ! ' यज्ञस्य पूर्णता न भवति । 'मृतो यज्ञस्वदक्षिण' इति नीत्या यजमानमृते । मूर्तिर्विग्रहो यस्य तथाविधाय, अष्टमूर्तिवात् । शोभना भूतिरैश्वर्य यन्त्र मन ! श्वर्यण भोग. समोक्ष ईश्वरेच्छया प्राप्यते तथाविवं कृत्वा । च' समुच्चये । इन " ! चेत , इति पदच्छेद । आयते मुक्तिमार्गे सज्ज भक्तजननिस्तारेण सनद, ने । अक्षदाय । एकोऽर्थः ॥ अर्थान्तर यथा-वराय वरार्थ सज्जनाना मोक्षद ! .. अहीनामिना नागराजास्तेषां ये भोगाः शरीरसंनिवेशास्तदाभरणे आदरों पर। .: सर्वकालं नयं ससारस्थिति जानाति यस्तत्संबोधनम् । अन्तकं प्रति विग्रहो । सः । तथा सुभूत्या भस्साझरागेण चेतोहरो वीरको नाम गणो यस्य स तथा 4 '. इति महायमकम् ॥ युग्मम् ॥ ५२ ॥ ५३ ॥ साध्यं सुकृतिभिर्यत्नैरमरैर्नुतमञ्जसा । साहसानां निधिं गम्यं न दुरासदतेजसा ॥ ५४ ॥ N । के ईश्वरशतकम् । साध्यार्चितं स्तुवे येन वरेयं भूषिता रसा । साधुवृत्तं साररूपं त्रिनेत्रमतिसादरम् ॥ ५५ ॥ द्वाभ्यां खड्गबन्धः ॥ युगलकम् ॥ सुकृतिभिः सत्कर्मभि साध्यं यत्नानधारणातपोमि अमरैब्रह्मादिभिर्नुतं स्तुतम. असा स्पष्ट साध्यैर्देवविशेषैरर्चितं पूजितम् । येन भगवता इयं रसा भूभूषिता । तथा साधु वृत्तं यस्य स तादृशम् । तथा सार रूपं यस्य तथाविधं त्रिनेत्ररूप व्यक्तं भक्तज- नेषु सादरं साहसानां त्रिपुरदाहादीनां निधि स्थानम् । दुरासदेन तेजसा हेतुना सवै कैश्चिदेव भक्तैरगम्यमेवं विधं सर्वोत्तममहं तुवे ॥ इति श्लोकाम्या सगबन्धः ॥ युगल- कम् ॥ ५४ ॥ ५५॥ सारखं च सदाचारतापच्छिदमुमावरम् । रंहसा नौम्यधिपतारम्यं मुक्तिफलप्रदम् ॥ ५६ ।। मुसलबन्धः ॥ सारं मुक्तितत्त्वं जानातीति तयाविवं सदाचाराणां समयिना तापं त्रिविध छिनत्ति यस्तमुमावल्लभलादुमावर सर्वातिशायिनं रहसा खरया अधिपतया सर्वेश्वरत्वेन रम्यम् । तथा मुक्तिफलं प्रददाति यस्तमहं नौमि ॥ मुसलबन्ध ॥ ५६ ॥ साधुचक्रनुतं वन्दे रेणुकोद्भवशौर्यदम् । दंष्ट्रा विपाटिता येन गजस्य विजिता रसा ॥ ५७ ॥ धनुर्बन्धः ॥ साधुचर्नुतं नियमिसमुहैः स्तुतम् । रेणुकोद्भवो जामदग्न्यस्तस्य शौर्यदम् । शस्त्रास्त्र- कर्मशिक्षाप्रतिपादनेन । येन दुर्जयस्य गजासुरस्य दंष्ट्रा विपाटितोन्मूलिता। अत एव रसा भूर्विजिता ॥ इति धनुर्बन्ध ॥ ५७ ॥ सावर्ता मित्रपरमाणवोऽपि कतमे स्थि(स्ति)सा (१)। सा भा नैकस्य तेभ्योऽपि देव मत्तनुरञ्जसा ।। ५८ ॥ शरबन्धोऽयम् ॥ संसारे पितृपुत्रभ्रातृसुहृत्प्रभृतय. सावर्ती भ्रमन्तो नवनवाः कतमे तावत् असख्या विस्तारणायोग्यखादगण्याः, तेभ्यो मध्यान्मत्तनु. एकस्यापि न सा भा सा दीप्ति. आ- त्मनो वा तेषां भवत्राणासमर्थेति (१) मित्रस्य वा परमाणवः ॥ ५८ ॥ सामर्थ्यद सुमूर्तिस्ते सदा जीयात्प्रभोऽरसा । सा रसासार सारास्थिस्थिरासा विदिता भुवि ॥ ५९॥ त्रिशूलबन्धः ॥
४८ काव्यमाला। । । सामर्थ्य ससारसागरतरणयोग्यं ददाति यस्तथाविध, तव मूनिस्ते मक रसासार रसाया मध्ये सार उत्कृष्ट, अरसा वीतरागा सारास्थि कृखा लि तिर्यस्या । तथा भुवि विदिता ॥ इति त्रिशूलबन्धः ॥ ५९ ॥ सा विडम्बकता नीत्वाप्तवती क्रूरतां विभो । विसारे कुरुते कालसेना दोषं मयि स्थिरा ॥ ६०॥ डमरुवन्ध कालसेना मयि विसारे दुर्वले विषये दोषं कुरुते । विडम्बकत्वं कृत "१२ । डमरुबन्धः ॥ ६ ॥ सारा बन्धैर्नाज विभो भियाती मे मतिः परा। सा राजते विनैव त्वां भगवन्नेहि रंहसा ॥ ६१ ॥ हलबन्धोऽयम् ।। खगबन्धात्प्रभृतिभिः सप्तभिरमीभिर्बन्धैः कविनामगर्भश्चक्रबन्ध चक्रमिदं बन्धैरवतारेण सप्तभिः' इति निर्गच्छति ॥ हे अज भगवन् , इयं मे मतिनैव विराजते । वन्वैराणवमायीयकार्मग. ।। यंत उपलक्षिता । सारा दुर्लभमनुष्यजन्मप्राध्या भव्या सती भिया यमनी । परा उत्कृष्ट त्वं रहसा सरितं एहि । मा पाहीत्यर्थ ॥ इति हलवन्ध ।। मिदं वन्धेरवतारेण सप्तभि' इत्यक्षराणि चक्रादुन्चित्य निर्गच्छन्ति ॥ ६ ॥ सो हेममग्गसग्गो सोहारोहक्खमो विसुद्धो सि । सिद्धो सुविमोक्खहरो हासोग्गो सग्गममहेसो ॥ ६२ ।। प्रतिलोमानुलोमगाथा । एतस्याः संस्कृतीकरणम्- 'स हेममार्गसर्गः शोभारूपक्षमो विशुद्धोऽसि । सिद्धः सुविमोक्षहरो हासोग्रः संगममहेशः ॥' स हेममार्गसर्ग. मरुत्तं प्रति शोभारूपा क्षमा यस्य । सुविमोक्षः। वर... संबन्धी अट्टहास उग्रः । सङ्गमेत्यामन्त्रणम् ॥ ६२ ।। पथेन साधुना माय कुसुमेषुस्यदक्षते । परमस्मै सतेजाय भोनमस्तेनमस्तव ।। ६३ ।। अपशब्दाभामा भगवन् , इन खामिन् , हे अनमस्तव न अमा अनमा: सश्रीकाः स्तवामस्य - ग्विध । अविद्यमाना मा लक्ष्मीर्येषा तेऽमाः । तथा कुसुमेषो. कामस्य यः स्वदोद .
ईश्वरशतकम् । शयस्तस्य क्षते हानौ अमाय निष्प्रपञ्च, सुकरलात् । साधुना पथा उपलक्षित, ते तुभ्यं नम । अस्मै अनुभवगोचरखात्संविद्रूपेण वर्तमानाय । 'पथेन' इति, 'साधुनामाय' इति, 'कुसुमेषुस्य' इति, 'दक्षते' इति, 'परमस्सै' इति 'नमस्ते नमस्तव' इति, एते आमुखे अपशब्दा भासन्ते इति अपशब्दाभासा. ॥ ६३ ॥ किन्ते कार्य भर्गभयं कामद काला- चिन्तेयं मे मन्युममेयं जनयित्री । व्यङ्गे भालादग्निदलाभां तव दृष्टि- भुते नैन मन्दमतिं] नैपुणतः किम् ॥ ६४ ॥ मत्तमयूरेण नन्दिकावर्तबन्धः ॥ हे कामद सर्वाभिलषितदायिन् , इयं मम चिन्ता अमेयं बहुलं मन्यु जनयित्री। जन- यिष्यतीत्यर्थ । इयं का । यत्कालाद्भयं कार्य छिन्ते तव संवन्धिनी दृष्टि लाललाटात् अग्निदलाभा वह्निखण्डद्युति व्यक्ते प्रकाशयति सा दृष्टिरेनं मन्दमति तुच्छहृदयं नैपुणतो दाणेन किं न भुते । किमिति भस्मसान्न करोतीत्यर्थ ॥ मत्तमयूरेण नन्द्यावर्तबन्ध ॥३४॥ गिरिभिद्विधिजिद्विद्धि द्विषि च्छिन्द्धि स्थिति गिरि । श्रियि सिद्धिर्धियि विधिर्विच्छित्तिरिति चिद्भियि ।। ६५ ॥ इकारान्त एकखरः ॥ हे गिरिभिद्विधिजित् गिरिभिदिन्द्रः, विधिर्ब्रह्मा तौ भुजस्तम्भेन शिरश्छेदेन च जित- चान् । तत्संबोधनम् । समिति विद्धि जानीहि । किम् । द्विषि वैरिणि या गीतस्यां स्थिति सनिधि छिन्द्धि विदारय । अत एव नोऽस्माकं श्रियि सिद्धि', घियि प्रज्ञाया विधिविधानम् । चिद्भियि चितोऽपरिमितज्ञानाचा भीति ससारभ्रमणात् तस्या विच्छि- त्तिविच्छेद. । भवतीति सर्वत्र योज्यम् ॥ इकारान्तखरोऽयम् ॥ ६५ ॥ शर्व नयः शुभो वितरणे गुणे रत विभो तिष्ठति ते श्रियेऽजर परं चिरं परजये। तत्कृपया सुचारुरव मा क्षमावररुचा दर्शय सद्धिते परसुखं सुखं सुरपते ॥ ६६ ॥ स्फुरबन्धः ॥ हे शर्व विभो, गुणे रत, अजर जरारहित, ते तव नयो नीतिराचार• शुभस्तिष्ठति । वि- तरणे दान विषये परमत्ययं चिर श्रिये पर उत्कृष्टो यो जयस्तस्मिन्सति । तस्मात् हे सुर- १. आदर्शपुस्तकयोस्तु किन्ते' इत्येव पाठ उपलभ्यते, परतु टीकाया 'छिन्ते' इति व्याख्यानस्योपलभ्यमानखात् 'छिन्ते' इत्येव पाठ. स्यातू.
५० काव्यमाला। " 2 पते, त्वं कृपया सुचारू रमणीयः । मा अव मामव रक्ष क्षमया सामध्यन ' . या रुक्तया सङ्ग्यो हिते विषये यत्परमतिसौख्यं तथाविधं सुख सुष्टु सानी... तद्दर्शय ॥ स्फुरबन्धोऽयं श्लोक ॥६६॥ कालाक्रान्ता तनुरमरनुत त्रस्तेयं मे विदितहित दिवि नश्यत्यये तव सरस बत ग्लानिः सेयं वशिदमद शिव ।। ३ प्रतिलोमानुलोमपादाय ! हे अमरनुत, हे दिवि विदितहित, हे सरस लब्धात्मविश्रान्ते, हे यदि याणां दमद सर्वसहत्वदायिन् , मम संबन्धिनीयं तनु, कालेनामन्ता बना। तव प्रभोरने नश्यति सेयं ग्लानि. शिव सर्वेषां श्रेयस्कर ॥ भ्रमरविलगित 10 दानासन्ना पवित्रानुतजनितरणत्रा रिपुत्वे न जेया माराभिख्यासचर्याविरतकृदरमद्यापि दक्षा पराका । शापाकृत्यायनज्ञावनमनजनिमुक्तारगत्यानपाया या सा रम्यागदत्वा शिवतनुरमदत्वातिहत्तापरासा ॥ ६. .! सारापत्ताहृतित्वादमरनुतवशित्वादगम्यारसा या या पानत्यागरक्ता मुनिजनमनवज्ञा नयत्याकृपाशा । कारापक्षादपि द्यामरदकृतरविर्या च सख्याभिरामा याजेनत्वे पुरि त्राणरतनिजतनुनाविपन्ना सनादा ॥ ६ ॥ प्रतिलोमानुलोमाभ्यां स्रग्धराद्वयम् ॥ 5 ) सा शिवतनु एवंविधा सती मुनिजनं भक्तलोकं कारापक्षात्संसारबन्धादपि .. यति । यतः । दाने आसन्नाभ्यर्णवर्तिनी । तथा पवित्रा । आ समन्तातुन । तथाविधैरानतर्भक्तजनैर्जनितो यो रणो विपक्षैः सह कलहस्ततस्त्रायते आगुन . . . . । रिपुत्वे सति असुरादिभिने जेया । मारस्य कामस्य याभिख्या रूपलाययका... - च्छोभा तया समानचर्या । तद्युक्तेत्यर्थ । विरुद्धं यद्रतं रमणं संसारासरित छिनत्तीति विरतकृत् । अरमत्यर्थ अद्यापि अविच्छिन्नप्रवाहेण दक्षा पर ... ।। परान् शत्रून् अकति कौटिल्येनोल्लङ्घयति पराका । शापोऽकृत्यं यस्या शापा . पया वरदायिनीवात् । अयनं मुक्तिगमनं जानाति अयनज्ञा। अवनमन नमारे जनेर्जन्मनो मुञ्चति अवनमनजनिमुक् । तारगत्या विस्तारकेणोपायेन अनाया, श्वरी । एवंविधा या प्रसिद्धा सा रम्यमगदलमारोग्यं यस्याः सा रम्यागदखाया मदत्वं दीनतामतिशयेन हरति यस्तस्य भावोऽमदातिहत्ता तेजःप्रसादस्तेन परान क्षिपति परासा अमदातिहत्तापरासा एवंविधा । सारा बहला या आपदस्तासा नार. . । - .
इश्वरशतकम् । सारापत्ता तस्या हृतित्वं हरणभावस्तस्मात्सारापत्ताहतिखात्, तथा अमरनुतयशिखात्सु- रस्तुतजितेन्द्रियखादगम्या दुष्प्रापा । अरसा वीतरागा च । या च पाने रक्षणे त्यागे च भक्तजनाय इष्टदाने रक्ता हेवाकिनी । तथा अनवज्ञा न विद्यतेऽवज्ञा भक्तजनं प्रत्य- वहेला यस्याः । तथा आ समन्तात् कृपया आशा यस्या सकाशात् । तथा-अरदः कृतो रविर्यया पूष्णो दन्तदलनादरदकृतरविः । या च तनु सख्या सेवयाभिरामा भ- कानभिरमयति । या कारापक्षादपि अर्थात्संसाररूपात्कारागृहाद् द्या स्वर्ग नयति । या अजा आद्या शक्तिः । इनत्वे सति प्रभुत्वे सति पुरि भवने त्राणरता पालनोद्युक्ता या निजतनुः क्षित्यादिरष्टविधा तामपि त्रायते परेण रूपेणाधितिष्ठते । अत एव अविपन्ना कल्पादावयनश्वरी । सनादा सशब्दोल्लासा । यतः 'न सोऽस्ति प्रत्ययो लोके या शब्दा- नुगमारते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥' इति वचनाच्छब्दात्मकं परं ब्रह्म- रूपम् ।। युगलकम् ॥ ६८ ॥ ६९ ।। सुरद्विपां धामनिवारणाय तुभ्यं समिद्धामनि वारणाय । नमोऽस्तु भव्याय भवाकुलाय संसाररक्षाप्रभवाकुलाय ॥ ७० ॥ यमकम् ।। हे भगवन् , तुभ्यं नमोऽस्तु । सुरद्विपा दैत्यानां धामनिवारणाय तेजोग्लापनाय । तथा समिद्धामानि वारणाय समिद्धामनि दन्तिनो(१) क्षोभकखात् । भव्याय सर्वोत्कृ- टाय । अकुलाय जन्मरहितत्वात् । ससाररक्षाप्रभवैराकुलाय व्यग्राय ॥ ७० ॥ रसारसासारसार सारसाररसार सा । रसा रसासारसारसारसाररसारसा ॥ ७१ ॥ मरुस्थलीत्वं त्वदृते मयीह सति धामनि । अतो मां यमसेनेामही हसति धामनि ॥ ७२ ॥ अत्राद्यो यक्षरो द्विखरोऽसंयुक्ताक्षरोऽर्धभ्रमः सर्वतोभद्रः, समुद्गय- मकम्, मालायमकम् , आवृत्तयमकम् , गूढचतुर्थः, गूढतृतीयः, गूढत्रिंश- दक्षरो वा, गोमूनिकादयश्च बहवो बन्धा अत्र श्लोके पृथक्प्ररतार्य प्रेक्ष- णीयाः। द्वितीयः पादयमकः ॥ हे भगवन् , रसारस रसेभ्यः शृङ्गारादिभ्योऽरसो विमुसरतदामन्त्रणं हे रसारस, तथा असारसार असारात्संसारात्सार. तादृश हे असारसार । अरीणां समूहमारम्, सह आरेण वर्तते यत्तत्सारम् , सारं च तत्सारं बलं तत्र रसो यस्य सः । तद्विधा सा लोको- तरा रसा भूमि आर जगाम । मरुस्थलीत्वं मयि विपये धामनि खे तेजसि सत्यपि इह ससारे । यतः । कीदृशी भू । रसासारसारसारसाररसारसा। रसस्य जयस्य ये असारास्ते , काव्यमाला। साराणि येषु तानि रसासारसाराणि, तथा सारसानां हंसानामारं गमनं राति ददाति एवंविधानि सारसानि सरःसमूहा यस्या वारुण्या जलपूर्णा तथाविधापि मां तापयतीति। अतो हेतोर्यभसेना ईामयी मा हसति । धामनि गृहे ॥ ७१ ॥ ७२ ॥ अक्षय्यं क्षीणसादं नृबुधहतभयं सत्फलं धीरचित्तं तुङ्गं श्रीसाररक्षोसुरहतिरभसं त्वा सगङ्गं श्रितं वा । चर्यालक्षेण लोकक्षममलयमहासक्रम खैरसज्ज स्थाणो खाबद्धसाहबगरिमगुणं के तु नेह स्तुवन्ति ॥ ७३ ।। अयं श्लोको गाथागर्भः ॥ हे स्थाणो, इह संसारे के लोन स्तुवन्ति, अपि तु सर्व एव । यत. अक्षय्यं क्षेतु शक्यः क्षय्य न क्षय्य अक्षय्य , तादृशम् । 'जिक्षे शक्ये' इति यः। तथा क्षीण साद संसारावसादो यस्मात् , तादृशम् । तथा नृणा बुधानां देवानां च हतं भयं येन स तादृशं च । सतां फलं भुक्तिमुकिरूपं यस्मात् । धीरे स्थिरं भक्तानुग्रहं प्रति चित्तं यस्य । तुङ्गमत्युन्नतं सर्वोपरिवर्तित्वात् । निया सारा ये रक्षोसुरास्तेपा हतौ रभस आ- दरो यस्मात् । चर्यालक्षेण बहुलचर्यामि. सर्वदर्शनाना पृथक्प्रस्थापनलादाचारभेदै श्रित सेवितम् । सगङ्गं गङ्गाधरम् । लोकेषु सप्तसु मध्ये तु क्षमं सर्वसहम् । अलयोऽवि- नश्वर महान् संक्रमो यस्य । स्वैर स्वातन्त्र्येण सज्ज पञ्चकृत्यसनाहम् । स्वेनात्मना आवद्धा. सर्वाहवेषु दैत्ययुद्धेषु गरिमगुणा येन दुरासदत्वात् । एवंविधम् ।। गाथागर्भोऽ- यम् ।। गाथा यथा-'अय्य णदबुहभमल रत्ता सारसुहरसासनम् । तं चलणकमलम- समं रज्जं णो वसहगमण तुहः ॥' इति । अस्य संस्कृतीकरणम्--'आर्य नतबुधभ्रमर रक्ताचं सारशुभरसासङ्गम् । तव चरणकमलमसमं राज्यं नो वृषभगमन तव ॥ इति । अस्या गाथाया. स्पष्टोऽर्थ. ॥ ७३ ॥ सुरासुराजये जयेऽदरादरादमादमा । सदा सदारतारता विभो विभोगता गता || ७४ ।। आवलिः ।। सुरासुराणामाजये संग्रामाय जये विषये अदरो निर्भय आदरो यथा तथाविध अद- रादर हे विभो विभोगता । विशिष्टभोगता इति यावत् । सदा सर्वकालं सदारताया गार्हस्थ्ये रतासका । अमा अविद्यमाना लक्ष्मीर्यस्याः निः]श्रीका म(१)... गता ॥ आवली ॥ ७४ ॥ जय प्रसन्न तत्त्वद खतनसर्गतत्पर । जगत्रयप्रवर्धन क्षतस्मर प्रहर्षद ॥ ७५ ।। अयमेकस्बरः श्लोकः ॥ ......
ईश्वरशतकम् । हे हर हर रोराही होरां रहोहरारिराहुहरे । रोहाहारैरहरहरहिहारेहाहरां हा हा ॥ ७६ ॥ अयं श्लोको ध्यक्षरः ॥ आर्यावृत्तम् ॥ हे हर, अहि[हार] वासुकिभूषण, त्वं होरा लग्नस्थिति रोराही दारिद्यावहां हर निवा- रय । रहोहर रणे वेगहारो योऽरि. शत्रु स एव राहुस्तस्य खमेव हरि शिरोहरत्वात् । तदामन्त्रण रहोहरारिराहुहरे, रोहाः कन्दमूलादयस्तेषामाहारैर्भक्षणैरहरह प्रतिदिनम् । हा कष्टे । ईहा चेष्टां हरति तथाविधां होरां हर ॥ यक्षर ॥ ५५ ॥ ७६ ॥ सारतास्थिरवरस्थिता रसाभारसौम्य गणगम्यसौरभा । राजते स्तुतिमतिस्तुतेऽजरा दक्ष मान्य धनधन्यमाक्षदः ॥ ७७ ॥ खर्गमार्गद निरर्गलातनुः सा मतात्तकृतकृत्ततामसा । इन्दुमण्डितशिरःस्थजाहवीतीरभाव्यभयभव्य भारती ॥ ७८ ।। प्रतिलोमानुलोमपादाः ॥ युगलकम् ।। हे स्वर्गमार्गद, तथा हे इन्दुमण्डितं च तच्छिरस्तत्र तिष्ठतीति तादृशी या जाह्नवी तस्यास्तीरभावि यदभयं तेन भव्य उत्कृष्ट । तथा हे दक्ष सर्वत्र कुशल, हे मान्य पूज्य, तथा हे धनधन्यम धनेन मरुत्तादिभ्यो दत्तेन धन्या मा शोभा यस्य तादृश, तथा हे अक्षद' अक्षाणि दिव्येन्द्रियाणि दूरदर्शनश्रवणयोग्यानि ददाति यस्तादृश, तथा हे रसा. भारसौम्य रसाभारे भूभारोद्वहने सति ....... ... असौ निर्विकारा ते तव भारती राजते । कीदृशी । सारतास्थिरवरस्थिता सारतया स्थिराश्च ते वरास्तेघु स्थिता । पुन: कीदृशी । गणगम्यसौरभा गणैनन्दिप्रभृतिभिर्गम्यं प्राप्यं सौरभ यश परिमलो यस्या. तथा किभूता । स्तुति(मति ) स्तुतौ मतिर्यस्या । तथा निरर्गला निनिरोधा । अजरा नित्यतरुणा । पुन कथंभूता । मतात्तकृतकृत्ततामसा । मतेन आत्तं च तत् कृतं पुण्यं तेन कृतं छिन्नं तामस यया । पुनः कीदृशी । अतनुरखल्पा ॥ रथोद्धता ॥ युग्मम् ॥ ७७ ।। ७८॥ समाधिकारा सुरसारसादरा समाधिकारासुरसारसादरा । समाधिकारासुरसा रसादरासमाधिकारासुरसारसादरा ॥ ७९ ॥ सुदर्शनस्येव युधि द्विपां वधे मतिः सुतीक्ष्णा भवतो जयत्यसौ । नमामि शंभो शमिमानवाभयं नयं भवानर्थजितं भवाततम् ॥ ८० ॥ आधः पादाभ्यासयमकम् । द्वितीयस्त्रिशूलबन्धः ॥ हे शंभो, कीदृश । समाधिकार समाधि चित्तैकाम्यं करोति समाधिकारस्तादृश, भवतो मतिरसौ सुतीक्ष्णा जयति । कथंभूता । समाधिकारा सह मया वर्तते य. स सम. स- श्रीकोऽधिकारो यस्या. सा । तथा किभूता । सुरसारसादरा सुरसारेषु विष्णुप्रभृतिषु सादरा सानुग्रहा। पुनः कीदृशी । समाधिकारासुरसारसादरा समाधिकाराः तुल्यबलवीर्य , ।
काव्यमाला। तथा अधिक' अरो गमनं वाणादौ येषा तादृशा येऽमुरास्तेयां सारस्य बलस्य सादं सादं राति ददाति तादृशी । तथा किंविधा । [आ]सुरसा नतेयु [समन्तात् ] शोभनरसा । पुनः किविधा । रसादरा रसायां भूमौ अदरा निर्भया । तथा असमाधिकारासुरसार- सात् अस्मा आधय. तथा कारा बन्धनगृहं येषु ते तादृशा ये असवस्तेषु यो रसो हेवाकस्तत्र आरं अरीणां समूह आरं सर्वसारसपत्र आरसात् द्विषां बधेन तेषामेव अरा धारा सुदर्शनस्येव । सा च अरिभटाना बधे मुतीक्ष्णा सवास आरात्परिसमूहा इव अहं तव नयं नमामि । त्वं कि शमिमानवा भयशमिनो मानवास्तेषां अभयमभयप्रदलात् । आयुधं तमिति न्यायेन यतो भवानिर्जितः । नयं कथभूतम् भवानर्थजितं संसारानर्थभे- दिनम् । आततं विस्तीर्णम् ॥ ७९ ॥ ८ ॥ कृतानवतनुप्राज्ञ खाभासुरसमाधिकृत् । स्थिताज्ञाहिसितत्वाप्य दमासक्ताव मा व्यरि ॥ ८१॥ सुरमात्व स्थितिसम संतताथाद्वयखन । सरसारमना माक्षामतिसारतमोद्यम ।। ८२ ।। द्वाभ्यामष्टदलपद्मबन्धः ।। (कुलकम्) हे कृतानवतनुप्राज्ञ कृता अनवा आद्यास्तनवः पृथ्व्यादयो येन तथाविधश्चासौ प्रा- ज्ञश्च तादृश । तथा हे खाभ शोभनदीप्ते । तथा असुरसमाधिकृत् । असुराणां समाधि कृन्तति छिनत्ति तद्विघ्नकारिखात् । तथा हे स्थिताज्ञा हिसितल स्थिता आज्ञाश्चाहयश्च सितत्वं च यस्य तद्विध । आप्य भक्तजनैः प्राप्य । तथा हे दमासक्त दमे आसक्त, मा मामित्यर्थः । खमव रक्ष । कथम् । व्यरि विगता अरयो यन्त्र तथाविवं कृला । तथा हे सुरमालस्थितिसम शोभनं यद्रमालमैश्वर्य तत्य या स्थितिस्तस्या सम अनुद्रित । तथा हे संतत अविनश्वर । तथा हे अद्वयस्खन अद्वय स्वन आज्ञारूप शब्दो यस्य स तादृश । तथा हे माक्षामतिसारतमोद्यम भया लक्ष्म्या तथा अक्षैरिन्द्रियैरा समन्तात् मतिसारतम उद्यम् कर्तव्यता यस्य तादृश । त्वं कथंभूतः सन् । रससारमना आदी मुराचित्तः सन् ॥ युगलकम् ॥ ८१ ॥ ८२ ॥ वरतास्थिरसामन्त सारतातिसमाहित । सुकृताक्तासन खाज्ञादमाससुमतावसि ॥ ८३ ।। त्वमध भव्य साज्ञत्वानुकृताप्राप्य सद्वर । नाम सुस्थिर मोक्षाय ममाधिरिति सा तथा ॥ ८४ ॥ एतदुक्तचतुरङ्गाश्वपादपूरणश्लोकयुगलकम् ।। हे शंभो, वरतया प्राधान्येन स्थिराः सामन्ता. सेवका यस्य स तादृश वरतास्थिरसा. मन्त । तथा हे सारतातिसमाहित सारतयोत्कृष्टत्वेन अतिसमाहित । तथा हे सुकृता- १. 'समाधि' काखा ईश्वरशतकम् । ५५ तासन सुकृतेन वर्मणाक्तं सेवितमासनं यस्य तद्विध । तथा हे खाज्ञादमासमुमत शो. भनाश्च ते आज्ञादमाश्च तेपा य आसस्तेन शोभना मता यस्य तादृश । अद्य । मामित्य- थीत् । त्वमवसि रक्षसि । तथा हे [सालानुकृतप्राप्य [सा जलम्य यदनुद्धतमनुक- रणम् । नपुसके भावे क्तः। तेन प्राप्य ।सतां वर । नाम सभावनायाम् । इत्यतो हेतो मो- क्षाय मम । तथा य आधिमनोरुक् । नय खमवसीति स्पष्टीकृतं पुन ॥ ८३ ॥ ८४ ॥ कृतानतज्ञसुरमाहितत्वाप्यवताद्वय । रसारक्षासारतम कृतज्ञ सुर माप्यव ॥ ८५ ॥ अष्टापदान्निर्गतसमजसबोधो गूढचतुर्थः कृतमानतं जानन्ति ये तादृशाः कृतानतज्ञा देवा योगिनस्तेपा या मुग्मा शोभना चासौ रमा लक्ष्मीस्तस्यै हितत्व यस्य तथाविध हे कृतानतज्ञसुरमाहितल, तथा हे आप्य भक्तिगभ्य । तथा हे अद्वय । तथा हे रसाया रक्षतया सारतम कृतज्ञ हे सुर देव म अपि माभपि खमव ।। ८५ ॥ सुप्रज्ञानतसारज्ञ सकृतान्ततनुव्यय । रक्षावतारमद्य त्वमतिभासुर सुस्थिर ॥ ८६ ॥ अष्टापदनिर्गतः कविनाम्ना कुसुमोचयबन्धः ॥ हे सुप्रज्ञ शोभनश्चासौ प्रज्ञस्तथाविध, तथा आनतसार आनताना भक्ताना सार- मुत्कर्ष जानाति यस्तद्विध, तथा हे सह कृतान्ततनुव्ययेन वर्तते नद्विव, अवतार र- क्षेति कविराशास्ते आत्मनि । हे अतिभासुर दीप्तिमन् । हे सुस्थिर अविनम्बर ॥ अष्टा- पदानिर्गतकविनाना कुसुमोच्चयबन्धः ॥ ८६ ॥ वेद वेदविदां वादविद्देवो दिवि दावदः । वादो वादेवदेवादिविद्यो वादियदे विदम् ॥ ८७ ॥ एकान्तरितब्यक्षरः ॥ हे देवदेव, अहं वदे व्यक्तं वदामि । देव देवादिवस्तुभावि वेद जानातीत्यर्थ । वेदविदा मध्ये वादवित् दिवि दावमुपतापं दैत्यकृतं यति खण्डयति य स दावद । आदिवित् सर्वज्ञवात् । देवी विदं अहं न झटित्यविदम् ॥ ८७ ।। कथाभोगजडो मूढवया आरोषणामुखः । आद्या फलायदिशतो नाहं झटिति चाबुधः ॥ ८८ ॥ अपुनरुक्तव्यञ्जनः ॥ अहं कथाभोगजड', मूढ व्यर्थ वयो यस्य, आ समन्तात् रोषणतया आमुख, अच- रफलायासापदिशतः । अबुधश्च ॥ ८८ ॥ १. 'सारकृत' काख.
काव्यमाला।
.
स्थिर सुरवरमुप्रसाद क्षमोपेत हा मोघमोहातपे मोक्षद त्वामज
दिवि भुवि च विभु कृपादे (वे)शहीनाविमौ कालकामौ विनाहीशदेहाङ्गदम्।
जितरणगुणरत्न तो रोरवीयाधिदी मा किमादौ धिया वीररौद्रौ यतः
किमु भव भवभङ्गदोपागते पागवे साधुसावेशपाते गदा नन्त्यलम्।।८९||
चण्डव्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ।।
स्थिर अविनधर, मुरवरेपु ब्रह्मविष्णुप्रभृतिषु शोभनः प्रसादो यस्य तथाविध, क्षमो.
पेत क्षान्तियुक्त, हा कष्टम् । मोघे निष्फले मोहातपे अज्ञानतापे मोक्षद, खामजं हि
दिवि भुवि च विभुं द्यावापृथिव्यो खामिनम् , अहीशाना नागराजाना देहा अगदा यस्य
तथाविधम् , विना इमो ता कालकामौ विना रौरवीयाधिदौ रवीया आधिः पीडा
तत्प्रदौ, विया प्रज्ञया वीररोद्रो कि मा मादोद्यता (2) सण्डयत । किमु तव जितरण-
गुणरत्न हे भव भवभन्नदोपागते पाशवे पशोरयं पाशवस्तस्मिन्पाशवे, तथा साधुसावे-
शपाते सति गदा रोगा जरादयो नन्त्यलं तत्सर्व देवदेव देवो देवी वा इति ॥ चण्ड-
व्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्ध ॥ ८९ ॥
तुभ्यं जगत्रयत्राणससपज्जयते नमः ।
शिव संयत्सभाशील जय सज्जनवत्सल || ९० ॥
'जय सज्जनवत्सल' इति चतुर्थः पादः समासेन प्रतिलोमेनैव पाठेन
निर्गच्छति भ्रान्तिसमञ्जसबोधो गूढचतुर्थः ।।
हे शिव, जगत्रयत्राणे सह सपद्भिरष्टाभिर्ऋद्धिमयीभिर्वर्तते यस्तत्सबोधनम् । जगत्र-
यत्राणससंपद तुभ्यं जयते सर्वोत्कृष्टाय नमः ॥ सयसभाशील संग्रामपर्पत्परायण स-
त्पुरुषवत्सल त्वं जय ॥ तुभ्यमित्यस्मात् 'जय सज्जनवत्सल' इति चतुर्थ पाद समज-
सप्रतिलोमेनैव पाठेन निर्गच्छति ॥ समजसवोधो गूढचतुर्थ ॥ ९० ॥
सुधीसारज्ञताभव्यजय मासामगक्षम ।
मुसाज्ञ भज मामक्षधीरताव्यय सागम ॥ ९१ ।।
प्रथमार्धादेकान्तरितान्यक्षराण्युञ्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव
चतुर्थपादः ॥
सुघिया शोभनप्रज्ञया या सारज्ञता तया हेतुभूतया भव्य उत्कृष्टो जयो यस्य तद्विध।
मा शोभा तया सामगा सान्वगा क्षमा यस्य तद्विध, सर्वसहेत्यर्थः । सुसाश शोभनवासी
साज्ञश्च तदामन्त्रणम् । अक्षैर्या धीरता तया अव्यय । सागम सर्वागमसम । [मां भज।]
प्रथमार्धाटेकान्तरितान्यक्षराण्युचित्य तृतीयपाद , शिष्टाक्षरैस्तथैव चतुर्थपादः ॥ ९१ ॥
ईश्वरशतकम् । नूनं नमन्मेनमनिम्नमेनमुमामनोमानननुन्नमौनम् । मानं मिमानं मुनिमानिनीनामनूननामानमिनं नमामि ॥ ९२ ॥ ध्यक्षरः ॥ अहमेनमिनं स्वामिनं अनूननामानं नमामि । अनन्ताभिधानम् । 'असंख्यात. सह- स्राणि' इति वेदश्रुते । तथान्यत्रागमेऽपि-'नवकोट्यस्तु चामुण्डा तावद्रूपाणि शंकर । कृतवास्ताश्च भजते पतिरुपेण भैरव ॥' इति नीत्या भगवतोऽनूनानि [नामानि ] । नूनं निश्चितम् । [नमन् प्रणमन् ] माया इनो मेन लक्ष्मीपतिर्यस्य तथा । अनिम्नमत्यु- नतम् । तथा उमाथा मनोमाननाय चेतोरजनाय नुन्नं निवारितं मानं येन तम् । मुनि- मानिनीना मानं भर्तृ विषय [कं] संयमं मिमानं हिंसन्तम् । देवदारुवनप्रवेशात् ॥ ९२ ॥ हृदि लसमान समा नो हियते [ते] शाश्वती समान समानः । कान समानसमानः करोप्यतस्त्यान्धकास मानसमा नः ।। ९३ ।। पादान्तयमकम् ॥ सर्वेपा हृदि लसमान, 'तथा स्थानं हृत्पङ्कजसमुद्ग कम्' इति नीत्या । हे अन्वकास, अन्धकदैत्यमस्यति यस्तत्सबोवनम् । केचिदपि ते तव सबन्विनी समान पूज्य शाश्वती समा अनन्तकाल न(नो) हियते नापलायते । सम. आन. आननं जीवनं [यस्य] तयाविध । कान न समान सश्रीकान् करोषि । यत [अ]समान अतुल्य । [नः] अस्माकं मानसमा मानसस्य चेतस मा शोभा मानसमा चेतःशीभा अतस्त्या अत आ गता ॥ सर्वपादान्तयमकम् ॥ ९३ ॥ चित्ते सद्धासमत्ते समिदपरमहोऽजो गदासंकरोसा- वाहेमासारवाही कदवरसमहामोहसत्तापहारी । पातादोजोगसत्तोऽविरलसुरणदोऽसच्चलासोऽकलको- ऽकाले कामेऽन्तको वोऽवितरततरसासज्जसंपत्तिदो वा ।। ९४ ।। अय श्लोकः संस्कृतप्राकृताभ्यां भाषाश्लेषः ।। असौ अकाले असमये । असंग्रामे इत्यर्थः । कामे विषये अन्तको वो युष्माकं पाताद्र- क्षतु । अवितर, विगतः तर. तरणं यस्मात् स वितरः, न वितर , तत अवितरततः । अथ च रसाया भूमौ सजा चासौ सपत्तिश्च, ता ददाति रसासजसपतिद । तथा ओ- जोगसत्त. । ओजोगानां तेजोगामिना सत्ता अस्तित्वं यस्य । परप्रकाशरूपत्वात् । तथा अविरलमुरणद । अविरलं कृखा सुष्ठ शोभनान् सुसदायिनो रणान्ददाति । तथा अस- चलासः । असत्सु वेद्यादिषु चला अस्थिरा आसा आस्था यस्य । अत एव अकलङ्क । १. 'समूर्ते' क, 'ससत्ते' ख. नव० गु०६ काव्यमाला। चित्त चेतसि गमागमत्ते सति सन् हासो विकास तेन मस्ते सति । समित्सु मग्रामेयु अपर मह उत्सव । भगवत स्मरणादणे सर्वेपाग जज जन्मरहित । तथा गदासकर । न विद्यते गदै सह संकरो राम । समन्तात् हन्न सुवर्णस्य वर्पणं वहति । आहेमासारवाही । कदवर ' . हारी । कत् कुत्सित अवरसो महामोह तस्य सत्ता स्थितिमपहरनीति ।। - सस्कृतमापा लेप [चित्रे श्रद्धासमाप्तौ शमितपरमखो यो गताशङ्करोपा- ब्राधे मासारवाहि कृतवरसुमहामोघसत्ताप्रथारिः । पातायो योगसक्तो विरलसुरनतः सत्यलास्यः कलाङ्क: काले कामेऽन्तको वा वितरतु तरसा सदृशं प्राप्तिदो या ।। चित्रे आश्चर्यवति श्रद्धासमाप्ती आदरनिवृत्तौ । शमितपरमस [rit दक्षाध्वरो येन । तथा गताशङ्करोपात् । वहिवाधे सति मासारवाहि , म लक्षिता' सारवा अहयः वासुक्यादयो यस्य । तथा कृतवरमुमतामो कृतवर सुमहा आत्मोत्सवात् मोघसत्ता या प्रथा तस्या अरि । पाताया चिरलै कतिपय ब्रह्मादिभिर्नत सम्यक्प्रार्थनया नमस्कृत वहर सन्ति मक्ता सन्ति सहस्रश । प्रसादपानमाश्वस्ता द्वित्रा एव, इति नीत्या । योगसक्त. । सत्यलास्य । सत्यं लारयं नटनं यस्य गन । त्पान्तादो नृत्यति । तथा कलाङ्क । कला चान्द्री अको यस्य स वा । काले क्रमेण कोप । वितरतु । तरसा वेगेन । सैजसदृशं प्रानिदो पा ! . कृतभापालेपेण सस्कृतप्राकृतभाषाभ्या श्लेपोऽयम् ॥ ९४ ॥ कमलभ्यमलीकविधौ कमलं वय आननशोकमल कमलम् । कुरुषे न विशङ्कमलं कमल सवितेव लसत्कमलं कमलम् ॥ सर्वपादान्तयमकं तोटकचन त्वं क जलं गागमलभ्यं दुस्तर अलीकविधौ मुकुटचन्द्रे, न तु नर्मल्ला । माणं आननशोकमलं वय सुखभगा (१) तया कं न [कमलं ] जलं राणे सर्व सुसया यसि । अलं विशवं कृला। कमिव । सविता रवि, कमलमिव । लसन्ती कमला लक्ष्मीर्यत्र तथाविधम् ॥ ९५ ॥ +- NA १. (सज्जस) सदृशं' इति पाठो भवेत्. २. इत. प्राक् 'विभो प्रगम ... न्तदीप्तयोऽजां नपश्यस्यतुलप्रताप । घिया दरिद्रस्य कृतावसाद दाई ।, प्रसीद ॥ इति श्लोको दृश्यते, स चाचमत्कारतया क्षेपक इति प्रतिभाति. - ईश्वरशतकम् । ५ ९ भीमारारा रामा मारा मारारारा मारारामा । [रामारारारारामा] मारारारामामा मा मारा ॥ ९६ ॥ मारारातेराघाते सातेऽद्यासातेसा मा सेना । नादे नासादेनामानानादे सानाशादेशा ते ॥ ९७ ॥ आद्यः श्लोकस्तुरगपदस्यक्षरः । द्वितीयो गजपदवन्धः । गजपदबन्ध- स्यासंयुक्तद्विस्वरत्वम् ॥ हे भीम भगवन्', रामा नायिका । अरा कुटिला आरा गतिर्यस्या तथाविया सती मारा मारणं मारस्तत्सहितेत्यर्थ । मारणपरैव यत । तया मारस्य आराश्चक्रधारा. ता राति तादृशी मारारारा इत्यर्थ । मारारामा मारम्यारामा विश्रान्तिस्थानं रामा भवति धनेनेति यतः आरामा । मीम कीदृश । रामारार । रामस्य जामदग्यस्य आर शत्रुस- मूह तस्य आर भौम । नाशकलात् तत्सबोधनम् । मा लक्ष्मीस्ता रातीति तादृशी [मारा ] इत्यर्थं ॥ हे अनादे, तव संवन्विनी सा भा दीप्ति भासुरता मे मम मारा । अरातेवैरिण आघाते गते सति । अनाश[ ] अविनाश[ ] आदेश आज्ञा यम्या सा । तथा सेना नादे सति सासास्था अद्यासा अद्यति(१) अस्यति निवारयति राह(१) आशया आदेश तस्य आशा दिक् । तवादेशेन मुक्तिरित्याशयस्थानम् ॥ विद्युन्मा- लाभ्यां युगलकम् ॥ ९६ ॥ ९७ ॥ स्फूर्जन्महाः प्रसन्नास्ते क्षणादेव त्वयि स्तुते । स सन्महानमुत्रास्ते यस्त्वां देव नमोऽस्तु ते ॥ ९८ ॥ काञ्चीबन्धः ॥ स्पष्टोऽर्थ ॥ ९८॥ 'निजजानि नुन्नानाजी नूनं नानाजनानजान्नानि(द)। निजानेनजानिनानुजजानूनानिजजनैः() ॥ ९९ ॥ ध्यक्षरः ॥ हे इन खामिन् , ननु ऊनान् जनेर्जन्मन. हेतो एतान् । कान्' निजजन वा भार्या, तथा नुन्नानीन् (१) नाना जनान् सुभटान् अजाश्चन्द्रागा(१) अन्नानि च अननं जीव- नम् । अजिनानि राङ्कवादीनि प्रावरणानि । अनुजा. स्वपरादय निजा मित्रादय । [ नूनं] निश्चितम् । ननु प्रश्ने । एतानि जने पुन पुन संसारभ्रमणात् । ऊनानुजनेनि. सरतीत्यर्थ (१) लत्पादसेवा विनेति प्रतीति. ॥ ९९ ॥ केन क्रौञ्चो विभिन्नः कमवनतगताः के दिनेशस्य तीक्ष्णा अन्तस्थाद्यक्षरं किं द्विजकुलमधिका वक्ति का जातिमय्याम् । १. 'निजजानि ननु निजान्नून नानाजनानि न । जानेननाजिनान्नानि नुन्नेनो जननीजने ॥ इति स्यात् काव्यमाला॥ । भृत्यानां कुत्र भक्तिः किमुचितमजयन्क्ष्मां नरेन्द्राः किमर्थ कस्सै भक्ता अजसं प्रविदधति नमः खामिने शंकराय ॥ १० ॥ प्रहेलिकान्तापिकाख्येनेति स्वामिने शंकरायेति पदच्छेदेनोत्तरम् ॥ यथा--केन क्रौञ्च शैलो विभिन्न । अत्रोत्तरम्-खामिना इति कुमारेण । के अ. वनतगता । कं नत्वा गताः । लोका इति शेप । अत्रोत्तरम्-ईशं महादेवम् । के दिनेशस्य रवेस्तीक्ष्णा । अत्रोत्तरम्-करा रश्मय । अन्तस्थाना आयक्षरं किम् । अत्रोत्तरम्य इति । द्विजकुलं ब्राह्मणवर्गः अधिकां श्रेष्ठामय्या का जाति वक्ति । अनोत्तरम् ---स्वाम् । मृत्यानां कुत्रभक्ति । अनोत्तरम् ---इने स्वामिनि । किमुचितं युक्तम् । अत्रोत्तरम्-शं कल्याणम् । राजान मा भूमि किमर्थमजयन् । अनोत्त. रम्----कराय प्रजाभ्यो ग्राह्यवल्यर्थम् । भक्ता कस्मै नम अजस्रं प्रविदधति । अनो. त्तरम्- शंकराय महादेवाय । इति स्पष्ट प्रहेलिकार्थ ॥ १०० ।। रिपुरोपारोपपर प्रोरुपापपरैररम् । रोरैरपाररूपैरापपे पुररिपो पुरा ॥ १०१ ॥ ध्यक्षरः ॥ हे पुररिपो । कथंभूत । रिपुरोपारोपपर शत्रुकुन्तारोपणे उद्युक्त ! पुरा पूर्व प्राग्ज- न्मन प्रभृति अपाररूपै. अनन्तै दौर्गत्यक्लेशै प्रोरुपापपरे प्रकर्षेण उरूणि यानि पा- पानि तान्येव परं परमार्थों यत्र तथाविधै पापै प्राकर्मवैचित्र्यादेव जन्मादिदौगयोप. लब्धे । अरमत्यर्थम् ॥ १०१ ॥ अपरुषो गतनिर्विभवासवः स्वयमिनः श्रितसत्यकलादयः । क्षततमा असुहृत्कलितापदस्त्वमसि नाथ वयं [च] तवार्थिनः।। १०२॥ हे नाथ, त्वं अपरुषः, न परुप. अपरुप । पारुष्यरहित । वयं च ससारं प्रति अपगतरुपः । तेनैव बावितलात् । त्वं गतनिर्विभवासवः, गतो निर्विभ निष्कान्ति वासव इन्द्रो यस्मात् । खत्सकाशाद्वासव ....... स्तम्भनानिष्प्रतिभत्वं गत त्यर्थः । वयं च गतनिर्विभवासव , गता अस्मभ्यं पशुभ्य इव इति शेषः । निर्विभवा. असवः प्राणा येषां ते । तथा त्वं स्वयमिन सर्वेश्वर । वयं च वयमिन । त्वं श्रित- सत्यकलादयः, सत्यकला व दया च [त्रि]ते सत्यकलादये येन स । वयं च श्रिता सत्यकलादय क्वचिद्व्यवहारार्थ सत्यं कचिच्च कलादयो य. तादृशा । तथा त्वं क्षत. तमाः, क्षतं तमो येन स । वयं च क्षततमा , अतिशयेन क्षता । त्वं असुहृता यम- भटानां युद्धरूपेण कलितापदं ददाति सः । वयं च असुहृद्भिरमित्रै कलिता आपदो येषा तादृशा' वयं च तवार्थिन' यानापरा सेवका पालनीया इति प्रार्थयमाना वि- ज्ञप्तिः । इत्येकवचनबहुवचनश्लोक । उक्तं चालंकारिकैः श्लेषलक्षणे-'वर्णपदलिङ्गभा- पाप्रकृतिविभक्तिवचनानामष्टविधः श्लेपः ॥ १०२ ॥ ।
ईश्वरशतकम् । ६१ भाविदासहिते साररसा ते हि रमामय । यममारतनुत्यागगत्या नुत सदा विभा ॥ १०३ ।। हे रमामय लक्ष्मीमय तव संबन्धिनी विभा सातिशया दीप्तिः भाविदासेभ्यः भा- विभ्यो दासेभ्यो हिते सार उत्कृष्टो रसो [यस्या सा] यममारयो तनुत्यागेन या गति- विच्छित्तिस्तया हेतुभूतया । सर्वैर्नुत स्तुत ॥ भद्रकावर्तबन्धः ॥ १०३ ॥ सादासन्ना रिपूणां परमुखसुरपक्षोतितखस्थिरासा सारास्थिस्वच्छभावा विभवनवभवित्राणभव्योत्तमासा । सामात्तव्योमरूपा तनुरमरनुतत्वात्पुरस्ताद्विलासा सालाद्विस्तारलाभातियजन जयति खःप्रसन्ना सदासा ॥ १०४ ॥ भद्रकावर्तबन्धः अष्टदलपद्मबन्धः, षोडशदलश्च ।। हे अतियजन, तव तनुर्जयति । अतिशयितानि सर्वोत्कृष्टानि यजनानि यस्य ता. दृश । सर्वयोपु रुद्रस्य मुख्यत्वात् । कीदृशी । रिपूणा सादे विनाशे आसन्ना सादा- सन्ना । पुन कीदृशी । परमुखे सुरपक्षे च तत्स्यन्तेन (2) स्थिरासा । सार अस्ति (स्थि) स्वच्छभावो यस्या तथा विभवेन ऐश्वर्येण नवभविना नूतनसंसारिणा त्राणे रक्षणे भव्या उत्कृष्टा अपरुपा । सामात्ता() आत्तं व्योमरूपं यया । अमरनुतलात् । सर्वदेवस्तुतत्वात् । पुरस्तानिहिता विलासा यस्याः । तथा सालाद् देवदारोरपि वि. स्तृता, सालप्राशु । ख. देवाना प्रसन्ना । सह दारौर्वर्तते या सदासा ॥ १०४ ॥ भव जलवायुनभोजनरुचिकर- म(मृ)दनलराजरमा(सा)मयदेह । अव मामतिमोहकमारसहर हर नम इह ते पुरभयदेह ॥ १०५ ॥ हे भव, जलवायुनभोजनरुचिकर, म(म)दनलराज [ सा]मयदेह' । जलधि (लादि) रसान्तानां चार्थे द्वन्द्वः । तेपामष्टानां मूर्तिरूपा या प्रकृतिस्तन्मयदेह । जनशब्दो यज- मानवाचकः । तद्रूपशरीर । त्वं मामय रक्ष । यतः कीदृश। अतिमोहकोऽयं मारसो लक्ष्म्यमिलाप तन्निवारक । हे हर, इह सर्वत्र भुवनान्तरे ते तुभ्यं नम । तथा कथं- भूत । पुरभयदेह, पुराणां भयं ददाति । तथा ईहा यस्य तत्संबोधनम् । इति संस्कृत- कश्मीरापभ्रंशा या लेष. ॥ १०५ ॥ 'विविधधररसासाभ भव्य व्यसासा- धुधुततनन सासादद ज्ञज्ञ सासा । १. मालिनीवृत्तगन्धि वृत्तान्तरमेततू. ।
६२ काव्यमाला । - - ततसुसुर रसासारर खख सासा- ववननररसासावर न्यन्यसासा ।। १०६ ॥ जयसि जलमनन्तं नन्दनं चाम्बुधे, नवमनमव धृत्वा देवदेवेशभृत्यः । जयसि जनमनन्तं नन्दयंश्चाविधेये अनवन नत कस्ते देवदेवेश भृत्यः ॥ १०७ ॥ आवली । युग्मम् । एकेन एकावली द्वितीयेन च्छन || विविधधररसाया सर्वमयवहुरूपपर्यंतभूमौ साभ सदीप्ते। भव्य उत्कृष्ट । । शेषेण अगो गमनं यस्य । असाधूना धुत धूतं तननं येन तथाविधः । असा रणं ददाति तथाविध । ज्ञा देवास्तेया मध्ये खमेव ज्ञ । देवदेव इति । साना ! आसेन आस्थया वर्तते सासा सास्था । एवंविधा तनुर्जयति । ततमुमुरा [ मन देवा येन हेतुना तद्विध । रसायां भूमौ सार सुवर्णवर्षणं राति । भाय। नम्ब आत्मधन । अवनेन रक्षणेन नरेषु विपये रसो यस्याः । असौ । इनम अवनी भूमौ अन्येषु दैत्येघु विषयेषु विरुद्धघु सासासासा सास्था ॥ हे अनयम संघाना मरो देव, स त्वं जयसि । गङ्गाजलमनन्तं यथा अम्बुधे समुद्रस्य ।। चन्द्र पृला धारयिखा अनन्तं जनं च नन्दयन् । अविधेये दैत्यखार्थे अनसन नत । सर्य ला नता । त्वं न केचित् । इह हि तेनैव देवदेवेश भृत्य ।। गोमूनिकावन्धश्च ॥ १०६ ॥ १०७ ॥ यमादजावद्भयमादिदेव वदेयमे यद्भवितार्थिनोज । जनोऽर्थिताविद्भविता ततो हि हितोऽव तावद्भवजादमाय ।। १०८।। यमागताकृत्यमवेहि येन नयेन वै सत्यसदासमेत । तमे सदासत्यनुते मिमान नमामि ते नुत्यकृतागमाय ॥ १०९ ।। यठा तमोपेततया ज्ञ चारुरुचाज्ञया तत्त्वमतोवधान । न धावतोऽमतनुमोनतेन नते नमोनुत्तममोक्षदाय ॥ ११० ॥ यताकृते पर्वतजे निवासे सेवा निजेतर्वशताकृतेन । न ते कृताशंस(मान)मदा मयामिभिया सदा सर्वपते कृताय ॥ १११ ॥ चतुर्भिः श्लोकैः प्रतारः ।। हे आदिदेव, मम यमाद्भयमस्ति । अजावच्छागलीवत् । दुवैलवत् दुर्वललाः । . वनस्खामर्धयन्ते इति भावः । हे अज, यतः रणन्तो जनः अर्यिताविद्भपिला | . . ܓܕ १॥
- ईश्वरशतकम् । ६३ प्रति अर्थिलस्य अन्तरज्ञो भविष्यतीति । भवजान्समारजात् । तत नमय रक्ष । हित. सन् । अमाय मायावर्जित । सत्यानुतिर्यम्य नन्सोवनम् । यम मिमान हिंसन् । यमा- दागतं यदकृत्यं तदवेहि । येन नयति, विचारयेत्यर्थः । तुम नमामि । नुल्याकृता आ- गमा सर्वजनोपदेशार्य शास्त्राणि येन तस्मै । वे मत्यै चश्चये च । एन फग्वर्ण, हे भगवन् , ज्ञ अनन्त स्वामिन । ततः सात्वतं(1) जाजया चारचा मापरीयार पर्थव- वान । यमनियममयेत्यर्थः । अनो हेनोर्यदा समुनया यकारित्वेन अमेमन (1) मन. सकाशाद्वायत भ्रमणात् अन्य तनुम अपनी नालि । तुभ्य (न) ते नमे विधी अनुत्तममोक्षदाय उत्कृष्टमोक्षदायिने परिवार नम । हे गर्व (गर्वपते) यताले न- युतात्मन , निजेत नि शेषेण जयनशील, इन यामिन , मया मिनाहा जापनता. कारिणा, पर्वतजे निवामे सेवा न कृता । अमित गमनान जीवस्य जगान । सदा कृताय पुण्यसचयायायम् । न विद्यते मदो यग्गा साइनमेवमपि मा पा अवति पूर्वोक्तवाक्यार्य । चतुर्मि कुलकम् (कालायकम् ) ॥ १०८ ॥ १० ॥ ११०॥ १११ ॥ महामते मन्त्रपते परं पदं विना विभुं विन्दति को तिगृतिमान् । कृपाकृते कृत्तयमाय मायते नमो नमो नम्रहिते हि पाहि माम् ॥ ११२॥ हे महामते विशुद्धरणे दल, तथा मन्त्रपने 'समाप्ततिकोटीना मन्त्राणा प्रगुर?' इत्यागमे । खा प्रभु पिना परिहत्य को जन पर पद मुक्ति निन्दनि लभते । अति- शयन भूतिमान् । अष्टविनर्ययुक्त । नम्रहितप्राण ..गदा समय मा पाहिदी। (मा) सते, तुभ्यं कृपाकृते करुणापराय । कृत्त[य]मा । छिनकालाय नम । नुमंदा- देवखस्तिकवन्ध ॥ ११२ ॥ भो भो भविभुमावीभविभावैभव भीभुव । भवाव भववा भाविभवाभिभवभावभित् ॥ ११३ ॥ भो भो भव महेश्वर, भाना नक्षत्राणा विभु चन्द्र । जूटेन्दुरित्यर्थ । तस्य [] मा दीप्तय , तामिविगता इभस्य गजासुरस्य निभा वैभवं यस्मात्ताश, समय रन । मामित्यर्थः ।... "अर्थ. प्रकरणं दिगम्' इत्यलंकारज्ञ । भावीय भवाभिभव नसा- रसलीकारस्तस्य यो भाव सत्ता तदित् । भव वाशब्दो विकरपे । 'भो भो' इति प्र. धानामन्त्रण । अव [२] । कृतान्तान् । नियो भयस्य (भवस्य) भूरपत्तिमानम् ॥ अक्षरोऽयं लोक ॥११३ ॥ इति श्रीमहाकव्यवतारकृतमीश्वरशतकं सटीक समाप्तम् । . --- ६४ काव्यमाला। श्रीमधुसूदनकविग्रणीतम् । अन्यापदेशशतकम् । कालीयाहिफणाली क्रमणकरालीभवन्नघक्षाली । गोपालीकरतालीनर्तनशाली पुनातु वनमाली ॥ १ ॥ पद्मालयासादरहक्चकोरीपेपीयमानाननचन्द्रबिम्बः । विघ्नौधविध्वंसविधि विधत्तां राधामयूरीमुदिरो मुकुन्दः ॥ २ ॥ विद्वन्मनोविनोदाय सद्युक्तिपरिशीलितम् । अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥ मर्यादानुपमैव शीलममृतोत्पत्त्यैव निर्वर्णितं नेमल्यं निजधर्म एव वचसां पारे तु गम्भीरता । कि वाच्यो महिमा तवार्णव रमाप्रेयानपि प्रार्थने ताहक्कौस्तुभभाजनेन भवता वैदग्ध्यमध्यापितः ॥ ४ ॥ हे पीयूषमयूख भूपणमणिः शंभोस्त्वमम्मोनिधे- रुत्पन्नोऽसि तवैव दैवतकुलं प्रीणाति साध्वी सुधा । विश्वेपामुपरि स्थितिर्ननु तनुस्तत्तत्कलाभाजनं किं वाच्या विभुता धराध्वरभुजां राजा त्वमाजानिकः ॥ ५॥ उन्मीलन्ति कियन्ति न क्षितितले पुष्पाणि नानाविधा- न्युन्मीलन्तु परंतु निर्भरमिदं किंचिद्वदामो वयम् । धन्यं जन्म तवैव चम्पकतरो यत्कोरकाणां पुरो हेम्नः श्रीरपि जायतेऽतिमलिना गण्या किमन्या रुचिः ॥६॥ भाभि सितमम्बरं वितिमिरं क्षोणीतलं निर्मितं चक्रे चक्रकुलव्यथाहतिरथादिष्टाः ऋतूनां क्रियाः । अम्भोजानि विकासितानि भवता सद्यो ननु योमणे निर्जी बत कैरवोपरि परिक्षिप्तं किमन्धं तमः ॥ ७ ॥ १. अस्य श्रीमधुसूदनकवेर्देशो मिथिला, जनकः पद्मनाभ , माता शुभदा, इत्युपा- न्यश्लोकात् 'दुजती(उचिती) कुलम्' इत्यन्तिमलोकात्प्रतीयते. कालस्य तु न निश्चयः २. अस्य काव्यस्य पुस्तकमेकमेव १८२२ संवत्सरलिखितं श्रीमता डॉक्टर पीटर्सनेन मधुरात आनीय काव्यमालार्थ दत्तमिति तदाधारेणैवास्य शोधनमकारीति ज्ञेयम्.
अन्यापदेशशतकम् । ६५ लक्ष्मी लेभे मुरारिः समलभत सुधा स्वर्गिवर्गः समग्रां तत्तद्वस्तूनि वास्तोष्पतिरपि सहसैरावतादीन्यवाप । पाथोधे त्वत्त एवं प्रमथपतिरथ प्रापदापत्करं य- रक्ष्वेडं तद्युक्तमेवाजनि जनिदिवसादेष यद्वामदेवः ॥ ८ ॥ पाण्डित्यं त्वयि ताण्डवानि तनुते शेते स नारायण- स्त्वामध्यास्य कृतस्त्वदेककलया शीर्णः प्रलम्बासुरः । धन्योऽसि त्वमनन्त संततमसौ यत्रातिसौख्योदया- द्विश्रामं लभते चराचरभराक्रान्तान्तरा मेदिनी ॥ ९॥ माकन्दा मकरन्दबिन्दुविधुरा व्यग्रो गजग्रामणी- रप्यन्तर्मदशोषदोषकलितं चक्रे हरेहुं कृतैः । त्वं हे कल्पतरो करोषि नहि चेदन्तः कृपाकोमलं कुत्रायं भ्रमरो मनागपि मनो विश्राममालम्बताम् ॥ १० ॥ त्वं तावन्निरुपाधिरम्बुद सुधासारानुकाराः पयो- धारा मुञ्चसि विश्वमोदजननीः सर्वत्र साधारणीः । द्वित्रा एव पतन्ति यत्पुनरमुष्यान्तर्मुखे बिन्दव- स्तगाढं जयतीह चातकशिशोर्दुर्दैवदुश्चेष्टितम् ॥ ११ ॥ चापल्यं परिमुञ्च चातकशिशो नैवार्तनादं वृथा कुर्याश्चिन्तय निश्चलेन मनसा धाराधरानन्वहम् । एषां जीवनमुन्नतिं च सहजामन्यार्थमेवासृज- द्धाता त्वं पुनरेतदेकशरणस्त?र्यमालम्ब्यताम् ॥ १२ ॥ नोचैर्जल्पति वारिदो यदधुना कासार तन्मा मनो- मालिन्यं समुपैहि हन्त महतां नैसर्गिकोऽयं क्रमः । काले बर्षितुमुद्यतो यदि भवेदेकक्षणार्धे तदा युप्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥ श्रीखण्डाचलगण्डशैलशिखरप्रान्ताटवीसंस्थिताः पाटीरा निभवन्ति शाल्मलिमुखा निःसारभूमीरुहाः ।
काव्यमाला।
मालत्याः सजि गुम्पितानि कुटजान्यप्यामुवन्ति स्फुट
विवहृन्दशिरोधिरोहणकृतामुच्चैस्तरामुन्नतिम् ॥ १४ ॥
अङ्के कि न कलकतामपि गतं धत्ते मृगं चन्द्रमाः
कि वा शल्यमिवान्तरा वहति नो मैनाकमम्भोनिधिः ।
त्रायन्ते तरवो दहन्तमनल वृष्टेः स्थितं कोटरे
किं किं नाश्रितपालनाय सहते कष्टं शरण्यो जनः ॥ १५ ॥
स्फीता शीतांशुकान्तिर्मुदमथ कुमुदान्यापुराशा विकाशा-
नाजग्मुरिमुग्भिः प्रखरमुखरता दूरतो दागपास्ता ।
नैर्मल्यं वारि भेजे शरददयदिनारम्भ युप्मत्प्रसादा-
स्रोतः स्रोतखतीनां कथय कथमहो र॑ण्यम येति भूयः ॥ १६ ॥
विश्वोपकारकरणाय गुरुप्रयत्ना-
त्सृष्टः सरोरुहभुवा स्फुटमम्बुवाहः ।
धाराः स्वयं पुनरयं परितो विमुञ्च-
कि नामिपिञ्चति लतां विपिने विषस्य ॥ १७ ॥
चञ्चू चारुतरे चिराय विहिते मञ्जिष्ठरागारुणे
पक्षौ चापि कृतौ हरिमणिनिभौ दूर्वाद्रवालेपनैः ।
काकैवं भवता शुकस्य समता निर्बन्धतो निर्मिता
सा संसारमनोविनोदजननी वाणी क लभ्या पुनः ॥ १८॥
यस्मिन्नम्बुरुहाणि जातसुदृढप्रेमाणि यस्मिन्धना-
नन्द विन्दति चक्रवाकपटली यस्मिन्प्रसन्ना दिशः।
तस्मिन्विश्वविकाशितेजसि रवौ रज्यत्युलूको न चे-
द्धानि. कैव तदा रवेः परमसौ हास्यास्पदं जायते ॥ १९ ॥
म्लानान्भूमिरुहोऽभिषिञ्च परितः शुष्काः सवन्तीः पुन-
र्धाराभिः परिपूरय प्रतिदिशं संप्लावयोर्वीमिमाम् ।
अम्भोवाह परं त्वकीर्तिदमिद पानीयपानाशया
स्तोकोऽसौ भवदेकवृत्तिरनिशं यद्रारटीत्याकुलः ॥ २०॥
६७ अन्यापदेशशतकम् । उच्चैरुत्पथगा नदीः प्रकुरुषेऽनच्छं च नीराशयं पन्थानं मलिनीकरोषि परुप मौखर्यमालम्बसे । प्रावृष्येव कियन्त्यहान्यधिकृतस्त्वं वारिदैवं क्रिया नो जाने चिरमेषि चेदधिपतां स्यात्करतदोपद्रवः ॥ २१ ॥ कान्तिः काञ्चनरूपदर्पदमनी सौरभ्यमभ्याहतं मध्यं चापि न धूलिधूसरतरं रोचिष्णुरुच्चैः स्थितिः । सर्वे विश्वविलक्षणास्तव गुणाः किं चम्पकैतावता नो चेत्त्वय्यनुरज्यते क्षणमपि क्षीणोऽपि पुष्पधयः ॥ २२ ।। कः सबन्धो यदभिरमते वीक्ष्य मेघ मयूरी कैवासत्तिर्यदमृतरुचौ सानुबन्धा चकोरी । को वा हेतुः पतति परितो यत्कृशानौ पतङ्गः प्रायेणैवं विधिपरवशा प्राणिनां चित्तवृत्तिः ॥ २३ ॥ मन्दारो विविदे व्यलोकि बकुलं संशीलितश्चम्पकः पर्यालोचनयावधारितमिदं वन्यस्तु चाम्पेयकः । येनैकेन विधीयते मधुभराकृष्टालिमालागरु- द्वातोद्भूतपरागसौरभभरैरामोदिता मेदिनी ।। २४ ।। कुन्दं वारिभिरुक्ष यच्छ सुमना(नो)मूले मृदं यूथिका- पर्यन्ते रचयावृतिं कुरु मुहुर्मल्लीतले कर्षणम् । मालाकार विशेषतः पुनरसौ सेव्यो रसालस्त्वया सर्वेषामुपयोगिनी फलवती वृद्धिर्यदस्यैव हि ॥ २५ ॥ दत्त्वा स्कन्धतले पदं विनमितां कृत्वा तु शाखाशिखां सर्वेषां कुसुमावलीमवचिनु स्वच्छन्दमुर्वीरुहाम् । किं त्वस्मिन्वनपाल केतकतरौ यनैनिदध्याः करौ स्यातां कण्टककोटिभिः कवलितौ नो तावदेतौ यथा ॥ २६ ॥ आरोहो निशिताङ्कुशेन कतिधा कुम्भं भिनत्ति क्रुधा पश्चाद्वंशचयैरयोमयमुखैनिम्नन्ति चान्ये जनाः ।
६८
काव्यमाला।
कापि स्थैर्यमुपागतस्य सहजेनाग्रे पदान्यर्पितुं
स्वेच्छाचारपरस्य पेचकिपते रोमापि न स्पन्दते ॥ २७ ॥
फेत्कुर्वन्त्यपि फेरवोऽतिपरुपं चेत्पाईयोराश्रिताः
काकाश्चेदुपरि स्थिताः प्रतिदिशं कुर्वन्ति कोलाहलम् ।
मन्दं मन्दमुपान्तमीलितहशो मार्गे पदं न्यस्यतः
कि भेदं समुपैति कुञ्जरपतेर्मानोन्नता भ्रूलता ॥ २८ ।।
यथाधिपपालितेन भवतारण्या वने निर्जिता
हे दन्तावलडिम्भ किं भवति ते तत्कीर्तये पौरुषम् ।
यूथेशे समयेन कालवशतां प्राप्तेऽथ कुत्रापि चे-
विकचित्सेत्स्यति ते बलं तदमलं कर्ता यशोमण्डलम् ।। २०,
चन्द्रस्तावदलंकरोतु रजनी भासां भरैर्मुद्वती
व्याधत्ता च कुमुद्धती विनयतु ध्वान्तोपरोधं दिशाम् ।
किं च क्लान्तचकोरचेतसि मुदं पुष्णातु किं तावता
यद्येता मलिनीकरोति पुरतस्ताराः सुदारानपि ॥ ३० ॥
माकन्दे कुरु मञ्जरीभिरशन कणे सुधावर्षिणी
वाणी व्याहर किंतु कोकिल शुकस्पर्धा वृथा मा कृथाः ।
योऽसौ काञ्चनपञ्जरे परिलसन्नाकर्णितान्युच्चर-
देवीभिः समुपास्यते सविनयं दुग्धौदनप्राशनैः ॥ ३१ ॥
स्वच्छन्द कलहस संचर सुखं निद्राहि पारावत
त्व चोच्चै रट हे शिखावल शिखामारुह्य भूमीरुहाम् ।
अस्माभिः शुक एव केवलमिहारण्ये समन्विष्यते
यसै राजनितम्बिनी स्पृहयति श्रोतु गिरां पाटवम् ।। ३२ ।।
अङ्गीकृतः प्रसवबन्धनतो वियोगः
सोढानि तानि करजक्षतिपीडितानि ।
उद्यानपाल तदिदं तु मनो दुनोति
प्रश्नासि यत्कुरुबकैः सह मालती माम् ॥ ३३ ॥
अन्यापदेशशतकम् । लवङ्गि द्रागङ्गीकुरु सुरभितामाहर मन- स्त्वमप्यम्भोजश्रीः कुमुद मुदमाधेहि हृदये । नमस्या सा कापि स्फुरति पुनरन्यैव लतिका गतवीडं कीडन्पिबति मधु यस्या मधुकरः ॥ ३४ ॥ कियत्यः श्रीमत्यः कुसुमकुलसौरभ्यसुभगा दृगानन्दं यूनां जगति जनयन्त्येव हि लताः । परं त्यासां मध्ये सफलजनिरेकैव सुमना विना सङ्गं यस्या दलति हृदयं हा मधुलिहः ।। ३५ ॥ धन्याः स्पृशन्ति मधुपास्तव पल्लवाली- मन्तर्निविश्य मधु किंतु पिबन्ति पुष्पे । एतावतैव सफलं मम जन्म जात- माकस्मिकं यदिह मालति वीक्षितासि ।। ३६ ॥ रे काक कालवशतो यदि सौधपृष्ठ- मारूढवानसि तथापि हि काक एव । जम्बालजालपतितोऽपि मरालवालः कैर्नाद्रियेत रमणीगमनोपमायाम् ॥ ३७ ॥ स्पर्धा जातिकृतां भजन्तु भवता सार्धे परे सागराः किंवा दुग्धपयोनिधे तव तुलामभ्येतुमेते क्षमाः । त्वं तादृङ्महिमालयो विजयते तत्तादृशं ते यशो देव्या सिन्धुभुवा समं यदुदरे निद्राति दामोदरः ॥ ३८॥ केऽमी दिक्करिणो रणोद्धुरतरश्चेदस्मि कस्मिंश्च वा शक्तिस्तादृगिहास्ति यस्य न भयं जागर्ति मद्दर्जिते । एवं केवलमात्मनैव गुरुतामात्मन्यभिद्योतय- न्साहंकारमितस्ततो विहरते कूपोदरे दर्दुरः ।। ३९ ॥ द्वित्राम्भोधरवारिबिन्दुजटिले गर्ने स्थितः खा तनुं वीक्ष्य वर्णसमां किमित्यतितमा जल्पन्मुधा मोदसे । नव० गु०७ काव्यमाला। रे रे बर्बर दर्दुर स्फुटमिदं जानीहि वर्षात्यये यनेनापि गवेषितः कुतुकिभिः कुत्रापि न प्राप्यसे ॥ ४० ॥ तुङ्गः साहजिकोऽसि नम्रतरतामभ्येषि भूयः फलैः पुप्पामोदभरेण करय न मनोमोदं विधत्तेतराम् । कस्ते हे बकुलान्यजन्मदुरितोद्रेको गरीयानयं येनेयं वनितावितीर्णमदिरागण्डूषपानस्पृहा ।। ४१ ।। मोढा श्रीविगमव्यथातिविषमा कल्लोलकोलाहलै- रन्तस्तापभरा न वाभिलपिता दत्ता मणीनां चयाः । उच्चैर्मन्दरमन्थनेन हृदये व्यालोलितेऽतीव भू- मर्यादा न विलविता तु भवता वन्द्योऽसि वारांनिधे ॥ ४२ ॥ य सलौ सुरसिन्धुनीरनिकरे नित्यं निदाघार्दितो हेमाम्भोजवनीपरागपटलैश्चके रजःक्रीडनम् । निःशङ्क समवाप नन्दनवने खेच्छाविहारोत्सवं सोऽयं कालविपर्ययात्करियुवा शुष्कं सरः सेवते ॥ ४३ ॥ यत्राजायत कौस्तुभो हि ककुभो भासा समुद्दीपय- नुत्पन्नो हिमदीधितिस्तरुवरो जज्ञेऽथ कल्पद्रुमः । शम्बूका अपि सभवन्ति शतशस्तत्रैव पाथोनिधौ विख्यातस्त्रिजगत्सु तस्य महिमा किं तावता हीयते ॥ ४४ ॥ मा खदं समुपेहि चेतसि सखे पद्माकरोप्मागमे शुप्कोऽसीति मरीचिमालिजटिलज्वालानिपीतोदकः । भावी कोऽपि स वासरः पुनरपि प्रावृट्पयःपूरितो यत्र लं भवितासि वारिजवृतो दृश्यो दृशा कोटिभिः ॥ ४५ ॥ अग्रे कूप इतीव लोकमुखतः श्रुत्वा निदाघादितः पास्यामीह यथाभिलाषमुदकं पान्थः समुत्कण्ठितः। धावित्वाथ समागतोऽस्य सविधं हा हन्त कूपः पुनः पाताले विनिवेश्य वारिपटलं व्यादाय व स्थितः ॥ ४६॥ .
७१
अन्यापदेशशतकम् ।
काकुं चातकपोत नाकुलतया कुर्या वृथा शारदे
यावद्वारिभरव्ययेन नितरां रिक्तीकृते वारिदे ।
त्वत्तृष्णा न विराममेष्यति परं काका पयोविग्रुपो-
ऽप्युत्सर्गे हतशक्तिरेप भविता ब्रीडां ब्रजः केवलम् ॥ ४७ ।।
स्थाने स्थाने सुमेरुप्रभृतिगिरिवराः सन्ति नोव्या कियन्तः
किं तैरेको.... मलय महिमा पूजनीयस्तवैव ।
चञ्चत्पाटीरवाटीप्रभवनवनवामोदसपत्समृद्ध्या
यस्त्वं शश्वत्समामोदयसि निरुपधिः सर्वतो दिङ्मुखानि ॥ ४८ ॥
सद्वृत्तोऽसि गुणान्वितोऽसि विमलच्छायोऽसि पृथ्वीपति-
त्रस्यच्चारुचमूरुशावकदृशामभ्येषि दन्तोपमाम् ।
मुक्ताहार परं त्वरंतुदमपि ब्रूमो वयं यद्भवा-
नन्तःशून्यतरोऽस्ति तत्प्रतिपलं चेतः समुत्ताम्यति ॥ १९ ॥
भूयांसो जलबिन्दवो जलमुचा खातौ विमुक्ताः परं
निःपीता खल शुक्तिकाभिरिह ये ते पिन्दवो विन्दवः ।
तद्गर्भ परिणामतः परिणता मुक्ता नृपप्रेयसी-
पीनोत्तुङ्गपयोधरोपरि सुखं खेलन्ति हारस्थिताः ॥ ५० ॥
भ्रातः पट्पद यत्र तत्र कुसुमे तृष्णातुरो न भ्रमः
खल्पाहेन विराममेष्यति सरोजाना विपच्छै शिरी ।
अन्तारूढबिसप्रसूनमुकुलामोदैरिदं सूच्यते
द्वित्रैरेव दिनैः प्रफुल्लकमलाकीर्ण सरः स्यादिदम् ।। ५१ ॥
भ्रमर भ्रमतोऽपि केतकीनां विपिनं नैव कदाचिदप्युपेहि ।
रसलब्धिरिहास्तु वा न वास्तु नियतः कण्टकसकटे निपातः ॥ ५२ ॥
दूषणान्यपि महान्ति धीमतां संवृणोति समुपार्जितो गुणः ।
स्रग्विलुम्पति गुणेन केवलं मौक्तिकी प्रकटरन्ध्रमात्मनः ॥ ५३ ॥
मोहितो मधुप रूपसंपदा कर्णिकारकुसुमं किमीहसे ।
नेह सौरभसमागमस्तव व्यक्तिमेप्यति परं तु मूढता ॥ ५४ ॥
७२
काव्यमाला।
सिन्धुवन्धुममुमम्युलिप्सया सेवसे किमु निदाघबाधितः ।
सेवनस्य परिदेवनं फलं लप्स्यसे न कणमप्यपां पुनः ।। ५५ ।।
यत्र नैव कलहंसकूजित नाथ पङ्कजसमूहसंभवः ।
नापि कापि जलखेलनक्रिया तत्किमम्बुजलमुच्यते जलम् ॥ ५६ ॥
यद्विशालजघनाङ्गनागणस्नानधौतकुचकुङ्कुमारुणम् ।
उन्नदजलपतत्रिचित्रितं तत्सरोवरपयः पयः स्मृतम् ।। ५७ ॥
हंसैर्मोनमकारि वारिजकुलैरासादितं मुद्रणं
शोकः कोकमवाप कामपि दिशं भेजे दिनश्रीरपि ।
अस्ते भास्वति हा दिगम्बरतलं व्याप्तं तमोभिर्दिशो
भीमाः फेरव(पू)त्कृतिव्यतिकरैर्नृत्यन्त्यमी पेचकाः ॥ ५८ ॥
ज्योत्स्नाभिः ककुभो विभूषय तमोमालाजटालाम्बरं
द्रागुल्लासय वासयापि कुमुदामोदैर्मही त्वं विधो ।
सर्व सम्यगिदं तथापि किमपि ब्रूमो वयं कुप्य मा
यादृक् श्रीर्जगतां रवौ न तु पुनस्तेनैव सा भाविनी ॥ ५९ ।।
वासन्ती न विलोकिता कमलिनी नालिङ्गिता नेक्षिता
यूथी नापि कुमुद्रती परिचिता नापेक्षिता मालती ।
युप्मदानसमीया मधुलिहा हन्त त्वयायं पुन-
दूरादेव निवार्यते गजप किं कर्णस्य विक्षेपणैः ॥ ६० ॥
यावन्नृत्यं कलयितुमलं सज्जते नीलकण्ठे
यावच्चञ्चूमपि च विवृणोत्यम्बुने चातकोऽपि ।
संनद्धोऽयं वियति जलदस्तावदुत्पातवातै-
रागत्योच्चैरहह सहसा काप्यपाकृष्य नीत ॥ ६१ ।।
एकत्रैव कुलायकोपकुहरे वृद्धि परां प्राप्तयो-
रेकाकारजुपो रसालशिखरे साकं समासीनयोः ।
इत्थं कोकिलकाकयोः कथमहोत्पद्येत भेदग्रहो
नो चेजातिनियन्त्रितेह वचसा व्यक्तिर्भवेद्भेदिका ॥ ६२ ॥
अन्यापदेशशतकम् । ३ यः प्रासूत सुतं सुधाकरमुमाप्राणेशचूडामणि लक्ष्मीर्यस्य सुता हरिप्रियतमा यः कालकूटाश्रयः । पातुं पाणिपुटे कृतस्य मुनिनागस्त्येन तस्याम्बुधे- र्जाता' केऽपि न रक्षणक्षमतमा दैवं ततो व्येतु कः ॥ ६३ ॥ यो दिमण्डलमुद्धरत्युरुतमोग्रासादनायासतो येनानन्दमनिन्दितेन लभते चित्ते कुमुद्वानपि । यं चाश्रित्य जगज्जयत्यतनुरप्येवंगुणोऽसौ विधू राहोरास्यकरम्भतामुपगतः कस्सै किमावेद्यताम् ॥ ६४ ॥ कैरविणीकुलबन्धो हिमकर सिन्धोरवाप्तजन्मासि । इति तव महदयशस्यं मलिनयसि यदम्बुजश्रेणिम् ।। ६५ ॥ संगम्य दुग्धनिवहैरविशेपबुद्ध्या किं वारिपूर बहुदूरमुपेहि मोदम् । दुग्धाभिलाषिणि विवेकिनि राजहंसे हा हा क यास्यति पदं भवतोऽभिमानः ।। ६६ ॥ यो मन्दारमरन्दबिन्दुनिवहैः संवर्धितः शैशवे तारुण्ये मदमाचचाम बलभिद्रुतण्डगण्डस्थले । सोऽयं जीर्णतनुर्निनीपति जनुः कार्पासपुष्पेष्वलि- दुर्दैवव्यवसायतोऽस्य तदपि प्रायोऽभवदुर्लभम् ॥ ६७ ॥ नादत्तेऽनुचरोपनीतकवलं सर्पिःसिताप्लावितं यत्नेनापि न पातुमिच्छति मनोहारीणि वारीण्यपि । विन्ध्यासन्नवनीवियुक्तकरिणीचिन्तादुरन्ताधिवा- मूर्धानं विधुनोति बन्धनगतः स्तम्भेरमः केवलम् ।। ६८ ।। देशोऽयं मरुरुद्तो विधिवशादमिंस्तडागोल्पक- स्तत्रैकाजनि मद्विधालिनिकरप्राक्पुण्यतः पद्मिनी । तामुन्मूलयितु समुद्यतफरस्त्व तावदुत्कण्ठसे हे दन्तावल ते कथं न चलते दृष्टिः कृपाकोमला || ६९ ॥
७४
काव्यमाला ।
कसै दैन्यमुपैतु काननतले कोऽन्यो गरीयानितो
यं वालम्ब्य करेण कर्षति वपुस्तीरे न तादृक्तरुः ।
गृधेयॊग्नि शिवागणैर्भुवि मुहुर्जिज्ञासितासुव्ययो
हा धिक् पङ्कपराभवे निपतितो दन्तावलो हीयते ॥ ७० ॥
पस्पर्धेऽञ्जनपर्वतेन सह यरतन्वा तदन्वाययौ
साधर्म्य श्रुतसप्तधामदपयःसारेण धाराभृताम् ।
दिग्दन्तावलराजिमाजिषु रदाघातैर्जिगायौजसा
सोऽयं दैवनिबन्धनं विषहते दन्तावलो बन्धनम् ॥ ७१ ॥
अजनि रजनिजानिर्यद्यपि क्षीरसिन्धो-
रलभत पदमुच्चैर्मूर्ध्नि कंदर्पशनोः ।
तदपि यदि जडात्मत्वात्कलङ्कावगुण्ठं
वहति हृदयमध्ये कस्तदा किं करोति ।। ७२ ॥
शरद्धने गर्जति वारिवाञ्छा कदापि रे चातक नैव कार्या ।
इदं तु नियूंढमवेहि तत्त्वं गर्जन्ति ये ते न फलोपलब्ध्यै ॥७३॥
रे काक किं रटसि कर्णभिदः कटूक्ती-
चालता नहि विदग्धविनोदभूमिः ।
पश्येति कोकिलयुवा समये कदाचि-
सूक्ति लपन्नभिमतो न जनस्य कस्य ।। ७४ ॥
वैदग्ध्यमन्दिर मनोहररूपमात्रा-
दिन्दिदिर भ्रमणमिच्छ न कर्णिकारे ।
अस्मिन्नुदेष्यति न कोऽपि रसोपलम्भः
सौरभ्यदुर्भगमिदं जगति प्रसिद्धम् ॥ ७५ ।।
अकाले संनद्धो नभसि मुदिरो मेदुरतरः
परीतस्तोयाशाविवृतवदनैश्चातकगणैः ।
तथानेनारब्धं किमपि चरितं येन करका-
निपातैरेतेपां सपदि शतधाभिद्यत शिरः ॥ ७६ ॥
अन्यापदशशतकम् ।
यद्यपि सन्ति बहून्यपि कुसुमानि तथापि वारिज वन्दे ।
निशि निशि मधुपयुवायं यन्मधुने बन्धनं सहते ॥ ७७ ।।
तुल्यैव रूपरचना गणनापि धातु-
मध्ये समैव समता घटते तथापि ।
हेम्ना समं न दहने प्रविशारकूट
व्यक्तीभविष्यति यतो भवतो विशेषः ॥ ७८ ।।
द्रुमानतिक्रामति पल्लवश्रीः प्रवालशोभां हरति प्रसूनम् ।
तरोरशोकस्य तथापि नाभूदुर्दैवतः साधुफलोपलब्धिः ॥ ७९ ॥
नैव त्वत्सदृशी परागपटली कुत्रापि पुष्पान्तरे
नो वा सौरभमुग्रमीदृशमथो नैतादृशी सुच्छविः ।
अन्यस्मै स्पृहयन्ति किं मधुलिहो हित्वा भवन्त तदा
प्रातः केतक कण्टकैः कटुमुखैस्त्वं स्या न चेदावृतः ।। ८० ॥
स्निग्धं न वीक्षितमसिक्षितिलास्यमास्यं
मुग्धे मुधा हलिकनारि कुचेष्टितेन ।
अन्यानि तानि ललितानि विलासिनीनां
यैराहतानि हृदयानि हरन्ति यूनाम् ॥ ८१ ॥
एकः स एव धरणीधरचक्रवर्ती
भूभृत्सु वन्द्यमहिमा हिमवान्न चान्यः ।
योऽसौ तपोभिरधिगम्य सुतामपर्णा-
मर्थीचकार सुरसारमपीन्दुमौलिम् ॥ ८२ ॥
इतस्ततः श्रावणवारिवाह किमूषरे वारिभरव्ययेन ।
त्वमुर्वरां शश्वदिमां निषिञ्च जीवातुभूता जगतां यदेषा ॥ ८३ ॥
उपरि चरणपातं कुर्वती मौक्तिकाना
हरिहतकरिकुम्भप्रच्युतानां समन्तात् ।
वनमटति किराती चिन्वती सक्षु गुञ्जां
हसति किमु महत्त्वं येन मुक्तामणीनाम् ॥ ८४ ॥
पालनाथ ।
उच्चैविरौति परितो यदि सारमेय-
स्तस्मिन्भवन्ति किमु केऽपि कृतावधानाः ।
धीरं ध्वनत्यवनिभृत्कुहरे हरीन्द्रो
दिग्दन्तिनां सपदि शुप्यति दानधारा ॥ ८५ ॥
ध्वनति मधुरमम्भोमुक्शरथेष भावी
झटिति जलनिपातोऽपीत्यनन्दकुमुद्वान् ।
तदिह पुनरनेनाकारि येनास्य जाता
रुचिरपि हिमरश्मेर्दुर्लभा सैव वृष्टिः ॥ ८६ ।।
कतिविधा विलसन्ति मधुप्लुताः कुसुमभारनता न लता वने ।
कमलिनीविरहव्यथितो रतिं वितनुते किमु तासु मधुव्रतः ॥ ८७ ।।
नेवासाकति सन्ति नैव कति वा के के न वा भाविनो
राजानो जनकस्य जातु किममी कतु तुलामीशते ।
सीताकल्पलताप्रतिग्रहमिह क्षोणीभुजामग्रतः
स्वस्तीत्युक्तवते त्रिलोकपतये रामाय योऽयं ददौ ॥ ८८ ॥
रे हंस संचर सरोरुहवृन्दमध्ये
त्वं चापि चक्र चर चंक्रमणं ततः किम् ।
योऽन्तर्निगूढमकरन्दरसोऽस्य यो
गृह्णाति तं परमसौ रसिको द्विरेफः ॥ ८९॥
वन्ध्ये किमन्ध शुक सीदसि काञ्चनारे
पुष्पश्रिये पटुरसौ न फलागमाय ।
उड्डीय गच्छ फलितं तरुमन्यमाशु
भ्रातर्न चे पुनरुपेप्यति तेऽनुतापः ॥ ९ ॥
एधन्तां त्वयि पीनमीननिवहनासैका निर्भर
पकेरुट्फलमूलशैवलगणानश्नन्तु कारण्डवाः ।
अन्ये चापि चिरं चरन्तु विगाः स्वच्छाश्च पाकर
भ्रातां पुनरभ्युदेति सुषमा हंसैरमीभिर्न सा ॥ ९१ ॥
७७ अन्यापदेशशतकम् । ने स्थाने विकचकमलश्रेणिगुञ्जविरेफा न भ्राजन्ते किमिह सलिलोदीर्णरागास्तडागाः । शुत्यायं तदपि कुधियां दर्दुराणां समूहः कस्मात्कूपे निपतति वयं तत्र बीजं न विमः ॥ ९२ ॥ चेदेकदा न सरसीपु न वा नदीपु वारीण्यवाप दुरवग्रहदूषितासु । तरिक तृषार्तिविभवाकुलितोऽपि तोय- पानाय कूपमनुधावति वारणेन्द्रः ॥ ९३ ॥ स्मै हस्तिपते प्रसारय कर कूपाय तृष्णातुरो भावी नैव तव प्रसारितकरस्याप्यम्बुलाभोऽप्यतः । त्राणीह दिनानि धेहि हृदये धैर्य भविष्यन्त्यमी द्राग्धाराभिरितस्ततो जलमुचा पूर्णास्तु पद्माकराः ॥ ९४ ॥ कि गर्वमुद्वहसि कच्छप गाधतोये पद्माकरे समवहेलितदिव्यकूर्मः । स्यादेप चेपुनरवग्रहदोषशुष्क- स्तत्रावधारय विधिं निजजीवनस्य ॥ ९५ ॥ निदाघे छायायै तरणिकिरणोत्तापिततनु- टं यावद्विन्ध्येऽनुसरति समृद्धं करियुवा । तथा तुङ्गश्चायं दवदहनकीलैः कवलितो यथाभूदामूलं दहनमहसा भस्मनिचयः ॥ ९६ ॥ यदृच्छा जाताभूदुपवनतटे काचन शमी समृद्धिं योऽधानाधिकृतपुरुषैः प्रापि कृपया । तथाकस्माद्यस्यां हुतभुगुदियायान्तरगतो यथाभूदासन्नद्रुमनिवहदाहाय कुशला ॥ ९७ ॥ संतोषयाह्नि मकरन्दभरेण भृङ्गा- नम्भोज संपदि वरो हि परोपकारः ।
काव्यमाला। दोषागमोऽयमतिरांनिहितो यदरिल- कान्तिनं तेन मधुना गमनं त्वगीपाम् ।। ९८ ॥ अन्येऽपीह लसन्ति किं न कुसुमश्रेणीसमृद्धश्रिय- ते ते चम्पककाञ्चनारबकुलाशोकादयो भूरुहः । हे माकन्द तथापि भेदविदुषामिन्दिन्दिराणां मनः सान्द्रानन्दमहनिशं रसवति त्वय्येव विश्राम्यति ॥ ९९ ॥ यज्जातोऽपि चतुःपथेऽत्र विषये निःशाखिभूमण्डले शाखाभिर्निबिडाभिरुन्नततरच्छायोऽसि यत्त्वं पुनः । तं न्यग्रोधतरो राहत बहलच्छायाभिलापाय त- त्यान्थानामुपरोधखेदमधुना नैदाघमध्यदिने ॥ १०० ॥ विश्वेषां त्रिदिवौकसामपहरन्नाति हृदामन्वहं यद्यप्याकुल एव तिष्ठति भवाखानाम्यहं तत्त्वहो । हंहो कल्पतरो परोपकृतये सृष्टोऽसि यद्वेधराा तत्त्वत्तोऽहमपीप्सितामुपकृति किंचित्समीहेतमाम् ॥ १०१ ॥ तिष्ठामो विपिने सरःसु सलिलं खैरं पिबामस्तृणा- न्यझो यद्यपि सर्वतो भयपराधीनाश्च वर्तामहे । निजि प्रहरन्ति हन्त तदपि व्याधा इमेऽस्मान्मृगा- नीदृश्येव विधातृनिर्मितिव(र)तः किं कुर्म एते वयम् ॥ १०२ ।। धन्या रोहणभूरियं सहजतो यस्या मणिश्रेणयः पर्यन्तेषु लुठन्त्यकुण्ठितरुचिव्यालिप्तदिग्भिचयः । किं त्वस्याः पुनरन्य एव महिमा श्लाघ्यः समन्तान्मणी- न्यो गृह्णाति निजेच्छयैव सरसं गृह्णातु ना समतिः ॥ १०३ ॥ मातङ्गाश्चलताप्यतस्त्वमपि हे शार्दूल दूर वन त्वं चान्यत्र वराह निःसर पुरो यावस्थितं तत्स्थितम् । सोऽय दीर्घकरीन्द्रकुम्भनखरकोडस्थमुक्तावली- भासा दन्तुरयन्दिशो निविशते पञ्चाननः कानने ॥ १०४ ॥ " अन्यापदेशशतकम् । ७ ९ चेदङ्गीक्रियते न मत्तकरिणा भृङ्गीयुवा गौरवा- यादस्य गुणालयस्य तदये चित्तव्यथा किं वृथा । सौरभ्यस्रवनिझरभ्रमदलिभाजप्रसूनप्रभा- स्तास्ताः सन्ति लवङ्गिकाप्रभृतयश्चेतोमुदे चेल्लताः ॥ १०५ ॥ करटिकठिनदन्तोल्लेखसंकर्षिताया- मविरलघनवारासारसेकाप्लुतायाम् । अपि सुभगमुहूर्ते यत्नतो बीजमुप्त गिरिशिखरशिलायां रोहते कि कदापि ॥ १०६ ॥ एतस्यां वनसीम्नि यद्यपि वसत्युग्रोऽपि कण्ठीरवो निःशङ्क करिशाव संचर तथाप्याकर्ण्य वार्तामिमाम् । अन्ये ते करिणो मदोत्कटकटस्थानभ्रमच्छापद- श्रेणीगुञ्जितरञ्जितेपु हरयो येपु प्रहारप्रदाः ॥ १०७ ॥ रे रे शूकरयूथनाथ महता तारुण्यदर्पोप्मणा दन्ताभ्यामिह पातनाय यतसे शालद्रुमस्यास्य किम् । जग्मुर्यत्र कठोरपर्वतशिलातुल्यत्वचि प्रांशवो दन्ता निष्ठुरवज्रकोटिकठिना दिग्दन्तिनां कुण्ठताम् ॥ १०८ ।। लेभे य शुभदा तपोभिरमलैः श्रीपद्मनाभात्सुतं यद्देशो गिथिलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥ १०९ ॥ निरवद्यमद्य शतमेतदतिप्रकटार्थवर्ण पदसंवलितम् । दुज(उचि)तीकुलाम्बुजवनीरविणा मधुसूदनेन कविना रचितम् ॥११० ॥ इति मैथिलमधुसूदनकृतमन्यापदेशशतकं समाप्तम् ।
काव्यमाला। * . श्रीलक्ष्मणाचार्यप्रणीता चण्डीकुचपश्चाशिका । श्रियं नौमि देवी परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १ ॥ आशादासीभिरूज़ करविधृतचतुष्कोणभागाभखण्डैः खण्डैराळ्या पटानां विधुरविघटिता शुष्कतावासयेया । खात्मानाधः पतन्ती सजवमसकृदाकर्षणक्लान्तिपति- श्वासोद्धासौधपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ २ ॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थ तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ ३ ॥ मध्ये पीयूषसिन्धोधनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवा । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणी तूर्ण चिन्तामणेामपि सदसि सदाश्लिष्य सिंहासनेऽस्ति ॥ ४ ॥ बन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाश्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्खारापिकाल्याभ्रगुणा विभाति ॥५॥ यन्नोदग्रहरिन्मणिप्रविलसत्सौधावराणां गणै- रुद्रीणनिजगर्भतश्च चणकैः साम्यं गतानां नवैः । मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ ६ ॥ १. राधावेणीमाधवयोतनूजन्मा सामगोपनामकोऽत्रिवंशमुक्कामणिर्दाक्षिणात्यप्रकाण्ड लक्ष्मणाचार्यः सह्याविप्रान्तवर्तिनि वाईसंज्ञके नगर आसीदित्यादि सर्व प्रकृतनिबन्धस्य. कादशद्वादशत्रयोदशश्लोकैरुपसंहाराच्च व्यक्ततरमारते. भाति चायं नवीन:. २. अस्सा पञ्चाशिकाया एकं पुस्तकं राजगुरु-पर्वणीकरोपनामक भहनीनारायणशास्त्रिभिः स्वहस्तेन विलिख्य काव्यमालार्थमसम्यं दत्तम्, तदाधारेणैतन्मुद्रणमजनीति तेषां विद्वन्मणीना महान्तमुपकास्मुरीकुर्मः.
चण्डाकुचपश्चाशका । पादारविन्दस्य पुरंदरोऽपि सेवां विधातास्म्यहमेव देव्याः । नाहस्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७ ॥ बिडौजसि पदाम्बुजे निबिडतेजसि त्र्यम्बक- स्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकारुणके जयाम्ब जगदम्बिके जयजयेति यत्र ध्वनिः ॥ ८ ॥ तत्रैकदा निखिललोकचरित्रविद्भिः संप्रार्थिता भगवती प्रणिधीनवगैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्म- दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ ९ ॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुख. कवीनाम् । यत्काव्यमन्यकविता विधुनोति जीर्णा जायामिवाभिनवमुग्धवधूतनश्रीः ॥ १० ॥ असह्यभरसह्यभूधरमणौ महाराष्ट्रके महाबलजटाढ्य निप्प्रथितकृष्णवेणी धुनी । तदम्बुलहरीप्लुता जयति वाञिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या स्वया ॥ ११ ॥ वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः । अत्रिौत्रपुमांश्च यस्य कविता चेतोहरा सामगो- पाह्वो यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ १२ ॥ यस्य गुरुयों जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३ ॥ स त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसदोहद- स्यन्दन्म मरन्दसुन्दरमधुव्यालोलरोलम्बकः । नव० गु०८ काव्यमाला। सत्पोतेतरताविनीतवनितासंभोगशून्यः पुन- योऽसौ संप्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४ ॥ तस्यैव चेकिमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न कयापि न मृद्विकासः ॥ १५ ॥ श्रुत्वादेशं दूतवगैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा खामिनीपादपझे कāत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६ ॥ सावधाना ततो देवी काव्यश्रवणकर्मणि । जातेत्यालोच्य सहगवगैः काव्यं प्रवर्ण्यते ॥ १७ ॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८ ॥ पालेयशैलजनुपः सुहिरण्यवहया गौर्याः पयोधरविचित्रफलं पिबामि । यस्पर्शनादपि बभूव स शूलिनोऽपि मृत्युंजयत्वविभवैकपदेऽभिषेकः ॥ १९ ॥ कल्याणावलिमातनोतु नितरां कर्पूरपूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहदि सोऽनङ्गोऽपि रङ्गे नटः ॥ २० ॥ आजीवं तदुपासाहेऽद्विदुहितुः कर्पूरगौरं कुच- द्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्गखेन्द्रवितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेपे मयि प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ण्यया ॥ २१ ॥ प्रत्यूहावलिमालनातु दयया यश्चार्धनारीकुच- प्रान्तोतुङ्गपटीरपकमदनीमीनैकमुद्राङ्कुरः ।
चण्डीकुचपञ्चाशिका ।
यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितखेदतो
यातः सात्त्विकतां हि तत्कज इति ध्यात्वा सरार्तोऽभवत् २२
शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका-
काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् ।
यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता
वेण्येवेत्यवधारयन्निव ममजानन्यवृत्तिश्विरम् ॥ २३ ॥
नित्यं पायादपायाजगदिह तु शरच्चन्द्रगौरप्रभासौ
गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला ।
चण्ड्या मे नाथचेतोविहरणनिपुणेतीर्ण्यया तत्र बद्धां
गङ्गा निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४ ॥
नुमोऽपर्णारामस्थलहृदयकासारतटग-
प्रवल्गद्वक्षोजच्छलमिलितचक्रायुगलम् ।
दरालोकाच्छंभोः शिशिरशशिरेखानखगता
स्मरन्ती सापत्य व्यथयति नितान्तं यदिह सा ॥ २५ ॥
वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाजद्वयं
दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् ।
नित्यास्पेन्दुविकासनान्मुकुलितं पडुकवक्राम्बुजैः
पीतं किं किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ २६॥
मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लस-
न्मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला ।
यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभव-
पायात्सा निखिला हि विष्टपलता ससारझञ्झानिलात्२७
तुषारगिरिकन्यकाकुचतटीपटीराटवी-
विपाटयतु कङ्कटोद्भवकठोरतापं हि सा ।
यदीयदरदर्शनादपि गरप्रलीढो हरः
सुखेन धनसारति स्मररियुर्महोग्रः शिवः ॥ २८ ॥
८४ काव्यमाला। रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्वल- स्कनककलशत्विबीजं तन्निशुम्भरिपोश्चिरम् । तदपि च मुहुर्दशैं दर्श कपालिकरोच्छ्रित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यही ॥ २९ ॥ दूरीकरोतु दुरितानि पुरारिदार- वक्षोजशैलमिथुनं जितमन्दरादि । येनाभवद्भवमनोऽर्णवतः प्रमोद- पीयूषमन्त्र हुतमन्मथजीवनाय ॥ ३० ॥ अपारां संपत्तिं दिशतु कुचरत्नक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् । यदीये मूर्ध्नि श्रीगलकरनखालिद्युतिभर- स्फुरगङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१ ॥ तं कासरासुरविमर्दसमुत्थशोण- शोणार्दशोणितकणं रतनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छंभुहृद्यपि कटं स्मरणीबभूव ॥ ३२ ॥ उद्दामद्विपकुम्भदर्पदमनं पालेयशैलाङ्गजा- वक्षोजद्वयमत्र भद्रमनिशं धत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखरणीसृणिस्थापन- प्रद्योत""थुभाजनं समभवत्युप्पायुधायोधने ॥ ३३ ॥ सौवर्णाचलसानुसंमितकुचद्वन्द्रं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायितम् । ईशो नैजकरोरुभूपणगणं मत्वेति भूयरतरा- मादातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ ३४ ॥ मालरदुफलपदर्पशमन पालेयभूमीधर- प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् ।
चण्डीकुचपञ्चाशिका। यद्भोगैकशः पिशाचनृपतेर्वक्षःस्थले जानती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ ३५ ॥ दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्रुतम् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत्(?) ।। ३६ ॥ स्मरारातेः वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थरतद्दननयनाजं मुकुलयन् । दधचूचं लक्ष्म प्रकटयति चक्राहयुगलं निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥ प्रालेयाचलकन्यकाकुचतटीपाटीरमोट्टायितां पापाटोपकठोरकष्टपटलान्यापाटयन्ती स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठ- ध्यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८ ॥ मातः पर्यभिवादये सुरपुरोधानान्तरालोल्लस- द्भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् । यस्यान्तः परमेश्वरस्य करतः समर्दनव्याप्ती भूतिः संक्षरति क्षपापरिवृढार्भप्रेड्यचूडामणेः ॥ ३९ ॥ परिधीमहिते कुचस्थली मणिकान्तिधुनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डली निजमौलौ विनिधाय या स्थिता ॥ ४०॥ मातुनौमि पयोधरौ त्रिजगतामारम्भकुम्भौ शुभौ भावत्को भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षड्नऋद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ ४१ ॥ वक्षःपीठे पटाढ्यं सितविबुधधुनीनिझरैश्चाभिषिक्तं मातर्वक्षोजराजं श्रितपविमणिरुक्चामरं ते नमामि । 1 काव्यमाला । 7 छन्नं क्षीरं पिपासोनिटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥ ४२॥ पटासक्तं वक्षोजनियुगमपूर्व गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुशोत्सङ्गे मृगधरधराक्षानुसरणं कराजव्यापारैः सममनिशमुन्मूलतितराम् ॥ ४३ ॥ धयत्येतो धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तब कुचौ । इति प्रेक्षं प्रेक्षं खयमपि हरो मर्दयति तौ जगत्समयाभ्यसति किमु विद्यामभिनवाम् ॥ ४४ ॥ भवेतां क्षेमाय मरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवखान्तप्रचुरतरकासारगतया यया तव्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ ४५ ॥ उदश्चन्तौ मातस्तव कुचहरी हृद्दरिमुखा- स्कुरङ्गानां तारौ शिवहृदटवीसीमनिहताम् । निहत्यैनःश्रेणीमददुरधिरोहद्विपपति प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६ ॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणा- वहं ध्याये मातदितिजतृणराश्यगरवरौ । विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरघाटीव्यतिकरे ॥ १७ ॥ दृढं कूर्पासेन प्रतिपिहितमुधिरसुते भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं सरमपरमासाद्य सुहृदं स्थित संलीयेति व्यथयति हरो यत्पटगृहे ।। ४८ ॥
चण्डीकुचपश्चाशिका वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्य मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत्प्रविलोकनेन ॥ ४९ ॥ धनं वक्षो ते नव[न]वहिरण्याकृतिधरं नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुफ्मनखालित्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरः ॥ ५० ॥ वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शंभुहृदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ।। ५१ ॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववर्मस्थितम् । विकासयति संततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ ५२ ॥ स्मरान्तकरवल्लभे तव पयोधरश्रीफल- द्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोधयन्स्मृतभवत्कुचश्रीः स्वयं समुद्रमथने पपावपि गरं हरः श्रीफलः ॥ ५३ ॥ स्मृता तव कुचद्वयी तुहिनशैलबाले हर- त्यसावधभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली ध्रुवम् ॥ ५४ ॥ उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः।
काव्यमाला । यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ ५५ ॥ वक्षःस्थं दितिजरिपोस्तवाभिवन्दे तारुण्योदधिजमुरोजकौस्तुभं तम् । यत्स्थाने मरजनकं महो हि किंचि- संमोहं सपदि महेशितुश्चकार ॥ ५६ ॥ तारुण्याम्भोधिजन्मा दलितसुमकरः कामदले प्रकामं कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातनुजातः । दैत्यवातातपन्नः पदगतजगती छायया वै रसौधै रक्षस्तृप्ति च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ ५७ ॥ मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्र तव प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि । यत्पान गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः शंभोर्मुग्धमभूरभूवतुरहो व्यापूर्णिते च क्षणात् ।। ५८ ॥ शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्ति क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरि ते । यस्योपास्तिप्रभावात्पितृगहनगतो वासुकि कालकूट कण्ठे बिभ्रच्च शूली नयनगहुतभुक्सोऽपि मृत्युंजयोऽभूत्।।५९॥ चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला- लोलाल्पाकं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् । यस्यालोकैर्विनिद्रं भवति भवमन कैरवं हर्षितं च क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः॥ ६० ॥ क्षीराशसंसकलकामदमावके ते वक्षोजनुः सुरभिरूपमकं निहन्तु । यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्वरसनावसनैविरेजुः ॥ ६१ ॥ .
चण्डीकुचपश्चाशिका ।
विचित्रालेखाढ्य समरदसुचातुर्यकलितं
दधे मातस्त ते हृदि हृदयजैरावणमहम् ।
यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः-
सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६२ ॥
भगवति तव वक्षोजन्मरम्भावरूपं
शुकहदि सुफलस्य भ्रान्तिदं दर्शनेन ।
दिशतु मम शिवं तन्नृत्यतीशस्य चेतः
कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३ ॥
उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे
सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् ।
पयः पातुं श्लिष्टद्विरदमुखषड्नक्रवदना-
न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ।। ६४ ॥
दितिजजनविनाशकं नमस्ते भगवति कुचकूट कालकूटम् ।
यदिह हृदि हरस्य कण्ठलमं किमिति मदन्यदितीर्ण्ययावतस्थे ।। ६५ ।।
कर्पूरकुङ्कुमसुनाभिजचित्रलेख
मन्ये कुचं वलयितं जननीन्द्रचापम् ।
यस्योद्भवे स्मररिपोः प्रववर्ष शंभो-
रानन्दजाश्रुसलिलं नयनाम्बुवाहः ॥ ६६ ।।
शर्वाणि ते तरुणिमोदमसिन्धुजातं
मन्ये कुचं दरमहं वृजिनावलिघ्नम् ।
यं कुर्वतो निजकरे शशिशेखरस्य
जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७ ॥
धराधरसुते सुतत्रिदशपेयमाशास्महे
तव स्तनजनुःसुधारसमसारसंसारहम् ।
स्मरामि नयनोजलज्वलनजालदग्धोऽप्यसा-
वनङ्ग इह यत्पदे कृतपदेन संजीवितः ॥ ६८॥
काव्यमाला।
-
-
-
अलमलममलोहैः श्लोकजालैः कवेरते-
यदिदमखिलमेतैः क्रीतमेवारसदीयम् ।
पुनरपि यदि चैवं वर्ण्यते तद्यहं स्यां
तदपि भवतु चेत्कि पारितोषीयमस्य ॥ ६९ ॥
इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि
श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुरतथा तैः परम् ।
भूयः किंचिदुदञ्चितस्तबकया वाचेदमन्विष्यते
यच्चोक्तं किल पारितोपिकमिति स्याम्कि तदुक्तं वद ॥ ७० ॥
स्तोत्रं गृहीतमनघं रतनपाललक्ष्म्या
शुल्कं मदीयमखिलं हि मयारय दत्वा ।
शिष्टाहमस्मि मदभेदमनर्धमेतं
दास्यामि तस्य परितोषणिक सुखेन ॥ ७१ ।।
एतदेव कविराजमानसे काङ्कितं लसति संततं किल ।
अन्यदेकमपि दीयते खतः श्रूयतामनुचरेश्वराः स्फुटम् ॥ ७२ ।।
इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम
प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् ।
कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ
लभेत किल वाञ्छितं सहृदि सुन्दरीणां स्मरः ॥ ७३ ॥
मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः
क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः ।
अनेकनवपद्मिनीस्तनगिरीन्द्र कान्तिच्छटा-
जटालहृदयान्तरो(रः) [सद]सि संस्थितो राजते ॥ ७४ ॥
यः श्रद्धया मम धनस्तनकुम्भलक्ष्म्याः
स्तोत्रं पठेत(?) किल संशृणुयात्सलोकः ।
गीर्वाणवामनयनानयनारविन्द-
जालप्रभासरणिकजलतामुपैति ॥ ७५ ॥
चण्डीकुचपञ्चाशिका । Hindu-4 in + 444 1 ---- - 1 पृथिव्यां भूपालो भवति नववामोरुनयन- प्रफुल्लाम्भोजन्मधुमणिरपि वाचा सुरगुरुः । निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी- रतवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ ७६ ।। यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्य सकलकलासु सोऽयमेति । आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लभेत भक्तिम् ॥ ७७ ॥ रमापि सदने सदा कृतपदा मुदा दासव- द्विपुर्भवति मित्रवधुवतिसंगमो मोक्षवत् । अवागपि कवीशवद्भवति पातकं पुण्यव- द्यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८ ॥ चण्डीकुचपञ्चाशत्संज्ञमिम यः स्तवं नवं पठति । स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ ७९ ॥ तथास्तु किल तत्परं तव जयन्तु मातः प्रभो पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् । यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत- स्ततः स भविता न किं जगति मुक्तिकान्तापतिः ॥ ८० ॥ इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता- दम्बापदाम्बुजनुषो(जनिता) मकरन्दधारा । या स्यन्दिता शिरसि मे कविलक्ष्मणस्य स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८१ ॥ यावच्छिवार्धगतमस्ति वपुस्त्वदीयं यावत्वदधिकमलं च पुनाति विश्वम् । तावत्तवाम्ब चरणाम्बुजयोर्निपत्य याचाम्यहं (महे)किमपि यः शयनोस्थितस्त्वाम् ॥ ८२ ॥ काया ९२. काव्यमाला। वाकायचित्तप्रकृतिखभाव- बुद्ध्यात्मभिः सदसतोरपि संगमेन । यद्यत्कृतं यदपि भाव्यमशेषमात- यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ ८३ ॥ इति श्रीमदनिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुतरसालंकारपारा- वारपारीणलक्ष्मणाचार्यकृता श्रीचण्डीकुचपञ्चाशिका संपूर्णा ॥ श्रीविद्यावागीशकविविरचितं कौन्तेयवृत्तम् । प्रथम सर्ग । दिश्युत्तरस्यां निकषा हिमाचलं चकारित शैलः किल गन्धमादनम् । अन्वर्थमुद्रां निजनाम्नि योजयन्प्रसूनसंपत्तिविसारिसौरभैः ॥१॥ सिञ्चन्ति चेतः सुखवृत्तिधारया यत्कन्दराभ्यन्तरवासिनश्चिरम् । मुञ्चन्ति किं चानुचिताः सनातनीनिरन्वयं बन्धनवासनाः समाः ॥२॥ सदा सदारैरनुदारमानसैर्मुदा यदारामविहारसादरैः । सनादनालोकितभानुभानुभिर्विद्याधराद्यैरतिनीयते तपः ॥ ३ ॥ गाढं परिष्वज्य रसासुन्दरीरासां पिबन्तो रदनच्छदामृतम् । हिमागमे यत्र हि मायता दरीरध्यासते धन्यतरा निरन्तरम् ॥ ४ ॥ अधिश्रयन्तो यदधित्यकावनं न शाखिनः किं परिणाहशालिनः । करम्बितास्तारकमौक्तिकश्रिया स्फुरन्ति नित्यं निशि पुष्पिता इव ॥५॥ शृङ्गाणि यस्मिन्निशि भान्त्यनारतं विचित्ररत्नप्रचुराणि कानिचित् । विसृत्वरैरूर्ध्वमुखं मरीचिभिः किरियन्त्यन्तिकतारकागणम् ॥ ६ ॥ १. अस्य श्रीविद्यावागीशकवेर्देशकालौ न ज्ञायेते, परतु समाप्तिलेखे 'माधवभट्ट- तनय' भट्टाचार्य इति त्रुटिपूरणस्योपल यमानत्वेन भट्टाचार्यपदस्य वङ्गेषु प्रसिद्धत्वेन बन देश. कदापि भवेत् मातापितरौ तु सर्गसमाप्तौ 'रमामाधवा' खयमेव स्तवीति. २. अस्य काव्यस्य पुस्तकमेकमेव शुद्धप्रायं सप्तपत्रात्मक प्राचीन श्रीकृष्णचन्द्र भट्टै काव्यमालार्थ प्रत्तमिति तेषामुपकारवर्णनेऽशक्तास्ताश्चिरायुष्ट्वाशिषा योजयाम, ३. सर्वा इत्यर्थः ४. सदा इत्यर्थः, 14-- प्र -- ---- कौन्तेयवृत्तम् । यत्रास्त किंचित्पुरुषायितश्रमास्तल्पान्तमध्यास्य शरन्निशान्तरे । सलीलमिन्दावरविन्दनालकैः पिबन्ति पीयूषरस सुराङ्गनाः ॥ ७ ॥ प्रभिन्नसप्तच्छदगन्धिभिर्मदैनिरस्तविन्यस्तपदैरपि क्रमात् । यस्मिन्मदान्धद्विपदर्शनोत्सुका मार्ग मृगेन्द्रा मृगयन्ति मानिनः ॥ ८॥ पञ्चापि पार्थास्तु विना धनंजयं पञ्चालभूपालजया जयान्विताः । तीर्थाश्रमारामगतिप्रसङ्गतो गिरीन्द्रमेनं समया समाययुः ॥ ९ ॥ संभेदमुन्नादतरं तरङ्गिणं वनानि मञ्जून्यवनानि नेत्रयोः । निरूपयन्तस्तदुपत्यकासु ते सुतेजसस्तत्र विचेरुरश्रमाः ॥ १० ॥ विचित्रधातुद्रवनिर्झरस्फुरन्नानामणीनिर्मितरामणीयकम् । अन्तर्विलोकोत्कलिकासमाकुलैस्तद्धर्मराजादिभिरारुरुक्षितम् ॥ ११ ॥ अथैकमत्या मिलिता जितश्रमा. प्रपातभागानपहाय ते समान् । अकृत्रिमेणैव गतागताध्वना नगं तमारोदुमुपोपचक्रमुः ॥ १२ ॥ अथाञ्जसा स्वेदषन्तिसतति मुक्तामणिश्रेणिमिवातिमञ्जलाम् । शिरीषमृद्वी स्तनभारमन्थरा बभार मालाभरणं नितम्बिनी ॥ १३ ॥ स्रवरसुधे वऋविधौ तथाविधे चलाञ्चले श्वासबलादुरःस्थले । सकम्पयोः कि च तदूरुदण्डयोम॒दुश्रियोः शोणपदारविन्दयोः । समाधिमन्तः स्तिमितातिकातराः पेतुश्चतुणी मसृणा हगंशवः ॥ १४ ॥ विलासिनीनामिव चारुवीरुधामथाङ्गहारानुपशिक्षयन्निव । बनाधिदेव्या मृदुचञ्चलीकृतात् ितालवृन्तादुपलम्भमागतः ॥ १५ ॥ समीरणः शीकरसारमुदिरम्परागसङ्गी मकरन्दमेदुरः । आनन्दयामास नितम्बिनीमिमां विश्रान्तिमेतेऽपि वितेरुरन्तरा ॥१६॥ तामाश्रयन्तीमथ मन्थरां गतिं तथानुकुर्वन्ननुरागसागरः । धर्मात्मजन्मा प्रथमामधित्यकां जगाम यामेन समं सहोदरैः ॥ १७ ॥ १. अख. क्षिप्त , नष्ट इति यावत्. २. जयेनान्विता , अजयायोनिजया वा. ३. नदीसगममित्यर्थः. ४ पृषन्तिशब्दोऽपि रायमुकुटे खीकृत.. ५. आदर्श सार्धश्लोके- को दत्त.. नव० गु०९ काव्यमाला। It 19 . विधृनयदिग्निमितान्तनूरुहान्विहंगमैरन्तिकतो निवेदितम् । अन्विप्य तम्या विमलापमाप सा सुधारस पश्चतयी सरोवर अतिप्रकागेन तलावलम्बिनी विलोकमानेन कणामणीयसीम । नटम्पलीमाश्रयताप्यनाविलं क्षणं न साक्षाक्रियते यदजमा । अजयचक्षु प्रमरावरोधिनो निखातभूमीवदनावलम्बिनः । चामत. स्फाटिकपट्टकस्य यत्तुलामुपास्ते चतुरस्रताभृतः ॥२ समम्नमन्तर्गतमन्तसशयं निवेदयन्नुल्लसितप्रभाप्रभम् । जानाति मन्ये जनता सरस्तया समीरणान्दोलितसंवरेण यत । विराजिकादम्बनितम्बिनीगिरं रथाङ्गनारीरतिकेलिमन्दिरम् । परुह स्तोमतिरोहितान्तरं तदन्तिके भाति वरं सरोऽन्तरम नितान्तदीव्यत्कलहसकध्वनिः प्रतीकचञ्चन्मुंकुरोर्जुनोमिका । मनोहरन्ती रुचिरेव पद्मिनी रसोत्तरेयं सरसी विराजते ॥ २२ । सदारविन्दद्युतित्सरोहिता समुल्लसच्चञ्चलचारुपुष्करा । तिम्मालपोचापतिरस्कृतिक्षमा कादम्बिनी सा सरसीति निधय । • उमेव गोरीयमथापि पार्वतीश्रिया युता किंच हरेस्तनृरिव । हिजरुपाम्यारुणशोणपुष्करा प्रभातवेलेव विभाति निर्भरम ॥२॥ लसन्ति चास्या कमलानि मङ्गलं मृगेक्षणाया वदनं विलोकिनुन । तद्देवनायाः कृतमूर्तिसंततेः समुद्तानीव मुखानि कौतुकात ॥२६ य. सूचयनस्य नगाधिराजतां दधाति शैलस्य किलातपत्रताम। सोऽयं विशालोन्मुखसुन्दराग्रणीरन्तस्तयोरस्ति पुराणरोहिणः ।। निःसधिसौगन्ध्यसमृद्धिशालिना पर्यन्तविस्तारिपटीरशाखिना । निरन्तरं सौरभसारसक्रमान्निसर्गगन्धा निजभङ्गमापितः॥२८॥(.. अग्नि प्रशम्नोपलजालकल्पिता तन्मूलमालम्ब्य विशालवेदिका । समान्तलक्षच्छदगर्भशोभया विभाति गारुत्मतनिर्मितेव या ।। १ मवर जलम्. २ हंसा , कटकाच. ३. मुकुरा वकुला., आदर्शाच. 6. मक्षः, धवलच. ५ ऊर्मिकास्तरङ्गा , अकुलीय च. ६. पद्मिनी स्वीविशेष बती च. ७. कृत् कारिका, नाशिका च. ८. सरोहिता सरोभ्यो हिता, रोहिन. । च. ९. पुष्करो मेघः, जलं कमलं वा. . . m क कौन्तेयवृत्तम् । ९५ अथो मृणालानि मृदूनि कानिचिन्मरन्दसाराणि सरोरुहाणि च । आदाय मध्येऽहनि विश्रमाय ते निषेदुरध्यासितसाधुवेदिकाः ॥३०॥ आहतुकामो विहितेन हेतुना समानुमत्यात्तरसं रसोत्तरम् । भव्ये मृगव्ये विनिधाय मानस जगाम जड्डालतयार्जुनाग्रजः ॥ ३१ ॥ महीरुहच्छायमदभ्रमाश्रितं युवानमेकं तृणतृप्तमसलम् । सकृष्णसारं शरपातसंमितां महीमतीत्य स्थितिमन्तमैक्षत ॥ ३२ ॥ स यावदिष्वासनिषङ्गसङ्गिनं विभाव्य भीमं बलते पलायितुम् । संधाय बाणं पवमाननन्दनो जगाम तावत्तदुपान्तिके जवात् ॥ ३३ ॥ प्रस्कन्दमानं वसुहस्तपातिनं पश्यन्तमत्यन्तमधीरया दृशा । आलक्ष्यलक्ष्य चलमेनमञ्जसा बिभेद भीमो निशितेन पत्रिणा ।। ३४॥ तेने ततस्तेन तदेतदद्भुतं गुणावतंसेन विसारि सौरभम् । विचित्रचेतोहरमाधुरीभरं करम्बित नूनमनूनतेमनैः ॥ ३५ ॥ विभज्य भोज्यं मृदुमेदुरोज्वले शिलातले वल्लभयोपकल्पितम् । आखाद्य सर्वेऽपि विधाय विश्रमं विहारकासारमुपेयुरुत्सुकाः ॥ ३६ ॥ यथोचितं तान्यवचित्य कौतुकाददूरपद्माकरवारिजानि ते । प्रसन्नवारिण्यवसन्निपद्वरे सरोवरे चिक्षिपिरे विलासिनः ॥ ३७ ॥ तस्मिन्भवं ते भजमानमञ्जसा योगेन पद्माकरनामधेयताम् । आश्लेषलेशादपि तापभञ्जनं शनै. शनैरेव सरो जगाहिरे ॥ ३८ ॥ पयोभिरुच्चैः करतालचालितैः पाणिद्वयीयन्त्रविनिर्गतैरपि । तौ सारसासारसिकेलिसंगरं जायापती विभ्रमतो वितेनतुः ॥ ३९ ॥ तदा रसाईण हृदा कृतादरावनेकजातीयजलादिकेलिपु । श्रियं दधानौ रतिपञ्चबाणयोर्जगन्ति जाने जयतः स्म जम्पती ॥ ४०॥ तत्रारविन्दच्छदभाजि वक्षरा भुजक्षिपाभिश्चरणप्रचारणैः । निममभङ्गया शयनीयशीलनैस्तेरुः कलाकौशलकल्पनैरमी ॥ ४१ ॥ निर्गम्य तस्मात्सरसो रसोत्तरास्ताम्रारविन्दच्छदचारुचक्षुपः । आयासनिश्वाससमीरसंगमैरभ्यासमामोदमयं विधायिनः ॥ ४२ ॥ १. असलं पुष्टम्. .
काव्यमाला। । हर्षावगाहोद्भवदेहलाघवाः खेलासमारम्भनिबद्धमध्यमाः । विश्रामकामा दयितामपीदृशीं निपीयमानाः सुदृशं विशश्रमुः ॥४३ ॥ मुदं दधानेन तपानुबन्धिना दिनेन तेनेत्थमुदित्वरश्रियम् । सीमानमुल्लङ्घय निसर्गनिर्मितां पराबभूवे कतमो न वासरः ॥ ४४ ॥ चित्रार्चियो रोचिरुदञ्चयन्करैः संकोचयन्कंचन भानुसंचयम् । अचण्डचञ्चद्रुचियुग्विरोचनश्चचुम्व चूलं किल पाश्चिमाचलम् ॥ ४५ ॥ आसन्नविश्लेषमलीमसश्रियां विश्वासमाधातुमिहाम्बुजन्मनाम् । समाचरन्सत्यमिवात्मसंगमे दधार मध्येऽग्नि करं स रागवान् ॥ ४६॥ दिवाधिकारादपनिद्रपद्मया जगन्ति सतोष्य चरत्करश्रिया । दैवादियं संकुचतीति भावयन्नदृश्यतां नूनममन्यतोचिताम् ॥ ४७ ॥ जपावसाने जगतीविलोचनं बद्धवा विवस्वन्तमुपासितुं मुदा । काले तदा कुङ्मलदम्बुजन्मनां (तां) दधुस्तला(मा)मञ्जलयो द्विजन्मनाम् ।। निर्गम्य माहेन्द्रमहीप्रकंदरादुद्दाममाखन्मणिमौलिमञ्जुना । निपीतकिंचित्पयसा पयोनिधौ न्यमज्यताहीनदिनेन पश्चिमे ॥ ४९ ॥ प्रसादयन्निर्भरमम्बरस्पृशा करेण माहेन्द्रदिगङ्गनामुखम् । ततश्चिरोत्कण्ठचकोरचक्षुपामासेचनश्चारु चचार चन्द्रमाः ॥ ५० ॥ ततः प्रसन्नामुदिते कलानिधौ कुमुद्वतीं योपितमात्ममन्दिरात् । पद्मासना सत्वरमेत्य संमुखी शृङ्गारयामास मुदेव नन्दिनी ॥ ५१ ॥ श्रीसंनिधानत्रपया तया समं न प्राप साक्षात्परिरम्भसंभ्रमम् । प्रभाभिरेनां परिरभ्य निर्भरं प्रमोदयामास परं कलानिधिः ॥ ५२ ।। नीलैकभागं तदखण्डमण्डल प्राकल्पि लोकैः किल शुक्तिसपुटम् । गलन्ति यत्तारकवृन्दकैतवात्समौक्तिकानीति गृहीतयुक्तिभिः ॥ ५३ ॥ ते कौमुदीसंगतचन्द्रकान्तस्रवत्सुधानिर्झरमञ्जुनादम् । निपीयमानाः किल कीरकण्ठीमालापयन्तो मधुरेति हान्तः॥ ५४ ॥ यामान्तरोज्जृम्भितवनचन्द्राः प्रमीलदम्भोरुहचारुनेत्राः । तयापि तादृग्विधया समेतास्तिरस्कृतोद्यदतिकामदाः ॥ ५५ ॥ १. चित्रार्चिपो वहः.
" कौन्तेयवृत्तम् । A मन्दं वहत्युत्पलगन्धवाहे समन्ततश्चन्दनकाननान्तः । शिलामिलत्पल्लवतूलिकायां निद्रामवापुः प्रमदाचित्ताः ॥ ५६ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुष्यतां मधुभिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमदावत्यवसितः सर्गोऽयमौपक्रमः ॥ ५७ ॥ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने काव्ये स्नेहविहारो नाम प्रथम सर्गः। - - । " द्वितीयः सर्ग । अथ सुप्तोत्थितानेतानसेवत समीरणः । कलारसारसुरभिधीरो नीरेणुरौत्तरः ॥ १ ॥ तदीयसौरभमरैरुत्तरोत्तरपीवरैः । अनाघ्रातचरैस्तेषामञ्जसा हृतचेतसाम् ॥ २ ॥ आनन्दोच्छुसदङ्गाना दर्शनोत्कलिकावताम् । विषयान्तरसंचारं मनागपि न बिभ्रताम् ॥ ३ ॥ दत्तसादरदृष्टीनामुत्तरायतवर्मनि । कथंचित्सहमानानां तदालोकविलम्बनम् ॥ ४ ॥ कियतापि क्षणेनेदम मून्नयनगोचरः । अभ्यासमेष्यदानीतमनुकूलेन वायुना॥५॥(पञ्चभिः कलापकम्) जधनाभोगभारेण भत्तवारणगामिनी । मनोरथेनाभिययौ द्रुतं द्रुपदनन्दिनी ॥ ६ ॥ उत्पक्ष्मणैकलक्षेण चक्षुषा वीक्षमाणया । करद्वये तदूर्वाग्रे जगृहे महदेतया ॥ ७ ॥ सौगन्धिकमदो रेजे तन्वङ्या करधारितम् । विकासिनीव राजीवे स्मेरं सरसिजान्तरम् ॥ ८ ॥ प्रकृत्या पुण्डरीकेण सदृशं पाणिपल्लवे । धार्यमाणमिदं सद्यो दधे कोकनदद्युतिम् ॥ ९ ॥ तन्मुखाम्भोजकलारमन्तरा दृग्धुतिच्छटा । रेजे द्विरेफराजीव राजीवद्वयसंगता ॥ १० ॥ ।
काव्यमाला।
अनुजैः पूजितायेदं प्रेयसे धर्मजन्मने ।
ददौ स्मेराननं सुभ्रूर्मुदा मदिरलोचना ॥ ११ ॥
इदमात्तवतस्तस्य दत्तं दयितया तया ।
विचकास हृदम्भोजमुखाजनयनाम्बुजम् ॥ १२ ॥
न स्पर्शन न रूपेण न सौरभमरेण च ।
तथा तं प्रीणयामास तद्वितीर्णतया यथा ॥ १३ ॥
अथ सौगन्धिकैरेव विहाँ विहितस्पृहा ।
मितेनासिञ्चदधरं विवक्षास्फुरितं प्रिया ॥ १४ ॥
प्रेम्णातिशयमग्नेन धर्मराजेन तां प्रति ।
समुन्नीतविवक्षेण वचश्चतुरमाददे ॥ १५ ॥
यत्ते स्मितसुधासिक्तं स्फुरत्यधरपल्लवम् ।
तदिन्दुवदने किंचिद्विवक्षन्तीव लक्ष्यसे ॥ १६ ॥
निजाधीने जने सुभ्रूः किंच सकोचमञ्चसि ।
विपञ्चीवाणि कल्याणि विकासय तदाशयम् ॥ १७ ॥
विन्यस्यन्ती भर भीमे हशा कर्णान्तिकस्पृशा ।
जगाद मधुरस्निग्धं तमवन्ध्यमनोरथा ॥ १८ ॥
नाथ निर्मातुमिच्छामि साधुसौगन्धिकसजः ।
कान्त कामं मम खान्तमेतैः खेलितुमीहते ॥ १९ ॥
देशैवाशयमुन्नीय नस्या धर्मानुजन्मना ।
वितेने सूनृता वाणी मन्वानेनात्मनो जयम् ॥ २० ॥
चारुकहारसभारं मुदे हृदयदेवते ।
अहं समाहरिप्यामि हंसमालासमविषम् ॥ २१ ॥
इत्युक्त्वा वन्दमानस्य एवमानात्मजन्मनः ।
गदायुद्धप्रसिद्धस्य बलसपत्तिशालिनः ॥ २२ ॥
प्रस्थानं भीमसेनस्य प्रयुञ्जानः शुभाशिषम् ।
अनुमेने धर्मसूनुः सत्यवादिधुरंधरः ॥ २३ ॥
कौन्तेयवृत्तम् । अथ प्रतस्थे परितः पादपान्प्रक्षिपन्पदा । पार्थः पन्थानमपथे प्रथयन्पवनोपमः ॥ २४ ॥ कियड्रमतिक्रम्य स शूरस्तनिताकृतिम् । निरुध्य सरणि सन्तं हनुमन्तमलोकत ॥ २५ ॥ मुञ्च पन्थानमित्युक्तो नाहं चलितुमुत्सहे । त्वमेव मामितः क्षिप्र क्षिति छद्मनाब्रवीत् ॥ २६ ॥ गिरं गृहीत्वा भूतार्थी यतः क्रमविवर्धितैः । मनागपि स्पन्दयितुं न क्षमः अणनाम तम् ॥ २७ ॥ गम्भीरकरुणाम्भोधेः प्रकाशितनिजाकृतेः । तस्माद्विदितवृत्तान्तः श्रीदपद्माकरं ययौ ॥ २८ ॥ अन्तरायतया प्राप्ता यक्षा रक्षाधिकारिणः । क्षणेन भीमसेनस्य गदया विकलीकृताः ॥ २९ ॥ तमुपद्रवमाकर्ण्य धनदः प्राहिणोन्मुहुः । कटकं तमहो भीममरुत्तॄण्यामिवाक्षिपत् ॥ ३० ॥ अथ खयमुपायातः कुबेरः परिचिन्त्य तम् । पूजयामास संपत्त्या तत्कार्य चान्वमन्यत ॥ ३१ ॥ अवन्ध्यवीक्षणास्त(तस्मादधिगम्य प्रभाविताम् । सौगन्धिकान्युपादाय यथेच्छमथ सोऽभ्ययात् ॥ ३२ ॥ ततस्तेन समागम्य त्रयस्ते पाण्डुनन्दनाः । पाञ्चाली प्रमदं पूर्णमवापुः सिद्धलालसाः ॥ ३३ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुप्यतां मधुमिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमदाङ्कवत्यवसितः सर्गों द्वितीयः शुभः ।। ३४ ॥ इति श्रीविद्यावागीशकृतो कौन्तेयवृत्ताभिधाने काव्ये सौगन्धिकाहरणो नाम द्वितीय सर्ग.। समाप्तमिदं कौन्तेयवृत्ताभिधानं काव्यम् ॥
१०० काव्यमाला। श्रीमत्प्रेक्षावल्लभकविरचित सुन्दरीशतकम्। जयति विलासक्तीनां नेत्रप्रान्तावलोकनप्राणः । वदनेन्दुद्युतिसदनः स्मितमाध्वीमेदुरो मदनः ॥ १ ॥ सहृदयहृदयग्राह्यं मदनमहीपालशासनादेव । विरचयति सुन्दरीशतमुत्प्रेक्षावल्लभ. सुकविः ॥ २ ॥ चन्द्राधिकरुचयोऽपि क्षालनशुचयोऽपि चन्द्रकान्तेन । सुन्दरि तव नखमणयो न नयो यत्तापयन्ति मनः ॥ ३ ॥ वरवणिनि तव चरणौ कस्य न हृदयानुरञ्जनं कुरुतः । परमेष्ठिनोऽतिनिष्ठुरपाणितलस्पर्शतस्ताम्रौ ॥ ४ ॥ सुन्दरि जङ्घायुगमिदमुपासनस्तम्भविभ्रमं धत्ते । इपुभिरतनोर्मनो मे विद्ध यल्लम्ममात्रमिह ॥ ५ ॥ सुन्दरि काश्चनकदली कर्पूरोत्पत्तिशालिनीत्यनया । चन्द्रोद्वर्तनसुरभिस्तवोरुरुपमीयते कविभिः ।। ६ ।। विपरीतरतसमुद्यमपुलकप्रथमानमासलाभोगम् । सुरतसुखैकनिधानं सुन्दरि जघनस्थल जयति ॥ ७ ॥ वलिभिर्बन्धमकरसादुपेत्य मध्यस्तनूभवत्यस्याः । आनन्दीति नितम्बः समुन्नति निर्भरं धत्ते ॥ ८ ॥ अम्बरचुम्बिनमेनं नितम्बमधिरुह्य मुग्धनयनायाः । दूरात्पश्यति यूनां मनासि पाटच्चरो मदनः ॥ ९ ॥ - १. अस्य कवेर्देशो न ज्ञायते. गोकुलनाम्नश्चास्योत्तमकाव्यनिर्मित्या 'उत्प्रेक्षावल्लभ' इति नाम जातमिति चरमश्लोकतो ज्ञायते. आदर्शपुस्तकसमाप्तौ 'चिन्तामणिभट्टानामिदं' पद्यम्-'अनलशररसधाराङ्के वर्षे माघस्य शुक्लशुभपठ्याम् । गुरुवारे रेवत्या सपूर्ण सुन्दरी- शतकम् ॥' इत्युपलभ्यते. तथा च विक्रमसवत् १६५३ (खिस्ताव्दा १५९४) काल स्फुट एव. २. अस्य काव्यस्य पुस्तकं त्वेकमेव शुद्ध जीर्ण प्राप्तम्. तच कदाचित्कर्तृ- समयलिखितमेव भवेत.
सुन्दरीशतकम् ।
१०१
.
अस्मिन्प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः ।
सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ १० ॥
या तव गात्रे यौवनतपनरथारोहनेमिनवरेखा ।
सुन्दरि सैव जनानां जनयति रोमावलिभ्रान्तिम् ॥ ११ ॥
स्मररविपुरःसरीकृतयौवनमायातमभिमुखं सुतनोः ।
आलक्ष्यते यथेपा रोमालिच्छमतश्छाया ॥ १२ ॥
सुतनोरियप्रदेशे तिष्ठतु नवरोमराजिभुजगीती ।
त्रिवलित्रिसत्यरेखा वय:फणिग्राहिणाकारि ॥ १३ ॥
वक्षसि सुमुखि भवत्या मनोहरं कान्तिमण्डलं जयति ।
भ्रामितमभिनयवयसा कामनृपादेशचक्रमिव ॥ १४ ॥
वयसा कुम्भकृतास्याः परिभ्रमत्कान्तिमण्डलच्छलतः ।
अभ्रमि किमुरसि चक्रं कुचकुम्भं कर्तुकामेन ॥ १५ ॥
कृतचन्दनाङ्गरागो मदनसखः श्रीफलद्वेपी ।
सुन्दरि सुवर्णवर्णो वक्षोजः कीदृशो रुद्रः ॥ १६ ॥
करनखललितभुजायाः पल्लवकुसुमाभिरामलतिकायाः ।
अनयोर्विशेषदर्शी सुन्दरि कुसुमेपुरैवैकः ॥ १७ ॥
यस्य स्वरेण विजितः प्रिये पिकोऽभूद्वनप्रियः सपदि ।
उपमामुपैतु शङ्खः कण्ठे तस्मिन्निधित्वेन ॥ १८ ॥
वदनमिदमृतमयमिति न तर्कितं किं तु तत्प्रमितम् ।
मुग्धे दग्धरतिप्रियजीवनमेव प्रमाणमिह ॥ १९ ॥
इन्दोरखण्डमण्डलनिर्यत्पीयूपमृष्टरसनो यः ।
अधरदलं तव सुन्दरि वर्णयितुं कल्पते यदि सः ॥ २० ॥
सुन्दरि तव दृक्तुलनामारोढुं विकसितं सरोजेन ।
विधिना तदैव दत्तं परागविषतो मुखेऽस्य रजः ॥ २१ ॥
लोचनयोः श्रीभृतयोः कर्णान्तिकवासिनोः पृथुक्रमयोः ।
अनयोस्तन्धि किमुचिता बद परहृदयापहारिणी रीतिः ॥ २२ ॥
१०२
काव्यमाला।
सुन्दरि तव नयनाम्बुजभालकलानाथखण्डयोर्मध्ये ।
अन्योन्यकलहशान्त्यै भ्रुकुटिभ्रमरावली व्यरचि ॥ २३ ॥
तव नयनवारिरुयोः संकोचो भालचन्द्रमुवीक्ष्य ।
मा भूदिति कमलभुवा भ्रूलेखा व्यरचि किं मध्ये ॥ २४ ॥
तव निर्मलौ कपोलौ सौन्दर्यासारसुन्दराभोगौ ।
कि वर्णयामि सुन्दरि चुम्बनयोग्याकृती कृतिनः ॥ २५ ॥
सीमन्तिनि तव कुटिलनिग्धायतमेचकः कटाक्ष इव ।
हा हन्त केशहस्तो हृदयं हस्ताद्विहस्तयति ॥ २६ ॥
युवजनमारणशाला सुन्दरि वेणीकृपाणिकोपेता।
तव चरममङ्गमेतत्कवयित्वा पातकी कः स्यात् ॥ २७ ॥
कुसुमशरनृपनिदेशात्सुतनौ चकितं नवं वयो विशति ।
नवसेवक इव पार्थिवसमनि दत्तप्रवेशोऽपि ॥ २८ ॥
शरणमिव याचमानं कचित्कचिवाल्यमङ्गेषु ।
भ्रमति मनोजनिदेशादधिकारिणि यौवने भवति ॥ २९ ॥
कुसुमशरनृपतिशासनमभिनवसौन्दर्यसारसौभाग्यम् ।
युवजनमनोविनोदो जयति प्रथमं वयस्तस्याः ॥ ३० ॥
जयति स्मितप्रकारः स्फुरदधरोपान्तविश्रमस्तस्याः ।
कुसुमाञ्जलिरिव दत्तो नवेन वयसा रतीशाय ॥ ३१ ॥
सुन्दरि तव स्मितेन स्फुरिताधरपल्लवाङ्कमिलितेन ।
मकरध्वजनृपहस्ते वद कस्य मनो न विक्रीतम् ॥ ३२ ॥
अॉ कोमलमङ्गादधरोऽधरतोऽपि चन्द्रमुखि वचनम् ।
वचनादपि स्मितं ते तत्कथमन्तर्भिनत्ति मम ॥ ३३ ॥
अधरदलोपरि निहितं मुक्ताचूर्ण दरमित तस्याः ।
आखाद्योच्छूनमिदं मनो मम नेहमभिलपति ॥ ३४ ॥
समितमुखमवधीरितचेलाञ्चलमीपदानतग्रीवम् ।
तिर्यग्विलोकयन्त्या कोऽपि कृती लक्षितः क्रियते ॥ ३५ ॥
सुन्दरीशतकम् । १०३ Fg । तरुणि तरलनयनान्तं वलितग्रीव वधूतचेलान्तम् । भवनद्वारि विशन्त्यास्तव दृष्टं द्रष्टुमुत्कण्ठे ॥ ३६ ॥ पश्यत्यसंमुखं मां मयि पश्यति साथ समुखीभवति । स्मरमेकतोऽवरोहैः श्रमयति कोटिद्वये मौर्वी ॥ ३७ ॥ तव सुन्दरि मधुरमितमेदुरमच्चक्षुरभिमुखं चक्षुः । शरदिन्दुकिरणतुन्दिलकुमुदोन्मुखमधुपमनुहरते ॥ ३८ ॥ सुन्दरि विवृत्य दृष्टः कप्टमपाङ्गेन भुजगेन । अधरामृतेन जीवति सोऽयमुपायान्तरासाध्यः ॥ ३९ ॥ कुञ्चन्मृदुकरशाखाकृष्टाञ्चलकोणतिर्यगुल्लसितः । लक्षीकरोति धन्यं सुन्दरि दीर्घः कटाक्षरते ॥ ४० ॥ निष्ठुरपञ्जरकोपे नवसंयमितस्य खञ्जनस्येव । गुरुजनसमक्षमक्षिव्यापारो जयति मुग्धाक्ष्याः ॥ ४१ ।। तव नयनपुण्डरीकात्प्रिये कटाक्षकमा विराजन्ते । विकसितविचकिलकुसुमात्कुसुमानीवावतीर्णानि ॥ ४२ ॥ किंचिदुदञ्चय चञ्चलमञ्चलमचिरेण लोचनाशुकयोः । सुन्दरि कर्णवतंसः कैरवमिन्दीवरं भवतु ॥ १३ ॥ चक्षुरपाङ्गमपाङ्गः कर्ण कोऽपि दूतिकावचनम् । अवधत्ते मम तपसामुदारसारः क्रमः सोऽयम् ।। ४४ ॥ कातरनयननिवेदितनिर्दयकंदर्पवेदनातिशयम् । दृष्टं निखातमन्तः प्रियया प्रस्थानवेलायाम् ॥ ४५ ॥ संसदि सखीजनानां गोष्ठी कर्तुं पुरः प्रवृत्तायाः । गोत्रस्खलनविलक्षं सुन्दरि मुखमीक्षणीयं ते ॥ ४६ ॥ अरविन्दद्युतिशोणं लोचनकोणं सरोजाक्ष्याः । प्रणमति मय्यथ सदयं हरिहरि(१) हृदयं न विस्मरति ।। ४७ ॥ सागसि मयि मन्दपदं पश्चादेत्य स्थिते सरोजदृशम् । मुकुरं प्रदर्शयन्त्या तत्सख्या किमिव नोपकृतम् ॥ ४८ ॥ ram १०४ काव्यमाला । सस्मितमरुणकपोलं रचितभ्रूभङ्गमञ्चितवीडम् । संपृक्तभावरुचिरं वदनं तस्याः स्मरामि सखे ॥ ४९ ।। ज्ञातासि गृहजनैरिति कथिते संभ्रान्ततारकं दूत्या । अरुणमपि मानवत्याः स्मरामि पाण्डूभवद्वदनम् ॥ ५० ॥ प्रेमासपोन्मदिष्णोः प्रणयतनीयासि तानि वचनानि । करणीयानि न हृदये दयिते यदयं दयावसरः ॥ ५१ ।। तव विरहानलतप्तं स्नेहकटाहं मदन्तरात्मानम् । सुन्दरि चन्दनशाखे शीतलय स्पर्शमात्रेण ॥ ५२ ॥ सहचर कुशलं तस्याः कुशलवती कथय किमपि सदिष्टम् । क संदिशतु कृशाङ्गी न तत्र मरुतोऽपि यद्गमनम् ॥ ५३ ।। अवधिदिवसप्रयाणाः प्रियतम तस्या मृगीदृशः प्राणाः । तिष्ठन्ति कतिपयाहं कृत्वा प्रस्थानमधिकण्ठम् ॥ ५४ ।। गच्छति वर्षाकाले जलधरपटली यथा यथा रिक्ता । वर्षति लोचनयुगली तथा तथा पुण्डरीकदृशः ॥ ५५ ॥ नदति कलापिकलापे नवजलदच्छायशान्तसतापे संशयदोलारूढं जीवितमस्याः स्मरेण कृतम् ॥ ५६ ॥ किं वा कृतैः प्रयत्नैरेतैस्तुहिनोपचारसमवेतैः । उष्णीभवति यदस्याः परितः शीतोऽपि सचरन्पवनः ॥ ५७ ॥ अग्निश्चन्दनलेपो विषममृतं मरणमेव जीवातुः । सुन्दरि विरहिजनानां काचन लोकोत्तरा रीतिः ॥ ५८ ॥ विरहार्तिदलनमौषधमेकं चेष्टासु तासु तादात्म्यम् । सुन्दरि यस्मिञ्जाते ब्रह्मानन्दोऽपि नाकाङ्क्षयः ॥ ५९ ॥ सुन्दरि रहस्यमालिषु कल्याणी स्फूतिरेव तव वेद । गोत्रस्खलनभयेन त्यक्ता यगौरवी ससद् ॥ ६० ॥ सुन्दरि वसन्तपथिकान्रजनिभुजङ्गी यथा यथा दशति । तद्विषसंक्रान्तिवशात्तथा तथा क्षीयते दैर्ध्यात् ।। ६१ ॥
। -- सुन्दरीशतकम् । १०५ सुन्दरि समुदितशशिकरधौततमा नेयमष्टमी रात्रिः । विरहिजनमसितभुजगी विदृश्य परिवर्तितोत्ताना ॥ ६२ ॥ पर्यङ्कपार्श्वलग्नां गलदश्रुप्लावितैकभुजमूलाम् । अश्चलसंवृतवदनां तामन्तश्चिन्तयामि चिरम् ॥ ६३ ।। अश्रुप्लुतमतिकातरमनिमिषमस्पन्दतारकं तस्याः । लोचनयुगलं स्मरतः स्मरतो मम केवलं भीतिः ॥ ६४ ॥ प्रत्येकमिन्द्रियाणामास्तां भिन्नैव देवतान्यस्य । परिणमति मम तु सैका सकलेन्द्रियदेवतात्वेन ॥ ६५ ॥ अयि पथिक रक्ष जीवं परिहर दूरेण केतकीकुसुमम् । इह वसति पुष्पधन्वा सरहरनयनान्निरातङ्कः ॥ ६६ ॥ तव रथ्या राजगृहं प्रेमधनं किं च परिजनो बन्धुः । सख्यो मूर्ताः प्राणाः सुन्दरि किमतो ममाकाङ्क्षयम् ॥ ६७ ॥ साहसभवनमदूतिकमवलोकनदानवर्धमानमिदम् । जयति कचिदपि धन्ये सुन्दरि सहजं तव प्रेम ॥ ६८ ॥ शितिकण्ठकण्ठकान्तिप्रतिमल्ले स्फुरति सर्वतस्तिमिरे । धन्याय वदति सुन्दरि तवागमं परिमलोत्कर्षः ॥ ६९ ॥ मन्त्रो मनसा द्वेषश्चन्द्रमसा हन्त परिचयरतमसा । सुन्दरि तवाभिसारे परिपाटी काचिदन्यैव ॥ ७० ॥ आसारस्लपिते यत्प्रयासि पथि दुतरे पयोदजलैः । प्राक्तनमुदवासतपः फलोन्मुखं कस्यचित्कृतिनः ॥ ७१ ॥ द्विगुणीकृतान्धतमसं वर्षति रुद्धानिलं पयोवाहे । आकसिकमागमनं कान्त्यानुमितं सखे तस्याः ॥ ७२ ॥ अतिमन्दवर्षदम्बुदशीकरशिशिरार्द्रसान्द्रवसनायाः । आकस्मिकागतायाः कण्ठग्रहणं फलं जनुषः ॥ ७३ ॥ सितवसनमौक्तिकावलिचन्दनचर्चासहायशालिन्याः । ज्योत्स्नाभिसारिणि तव च्छाया परिपन्थिनी भवति ।। ७४ ॥ नव० गु० १० १०६ काव्यमाला। यावत्पतति न चरणं छाया दुर्वारवैरिणी शिरसि । ज्योत्लाभिसारवेषः सहचरि नेशः कृतार्थयितुम् ।। ७५॥ वचनरचनैः कृतं तव कितवप्रणिपातमानसाध्यायाः । अस्या मानकदल्याः फलावसानः परीपाकः ॥ ७६ ॥ भ्रूभङ्गभङ्गिभुमं तिर्यक्चललोचनं मुखं दधती । सुरतप्रार्थनवेलाकृतावहेला वधूर्जयति ॥ ७७ ॥ विश्लथयति किमपि नीवीं कलकण्ठि रतस्य कूजितं यत्ते । शिक्षाविस्मृतिरेषा गुरोरभक्तिं निवेदयति ॥ ७८ ॥ मधुधौतमधुरमधुरं धृतधम्मिल्लं धवे धयति । कवलयति किमपि कम्पितकान्ताकरकंकणकणितम् ॥ ७९ ॥ अर्चितचण्डीचरणप्रसादफलमन्यदुर्लभं तरुणः । सुन्दरि हसितकरम्बितमखण्डपुण्येन खण्डयत्यधरम् ॥ ८० ॥ मेरानने मुखं तव सुधानिधेर्मण्डलेन तुलयन्तम् । एनं निजाधरसुधादानेन न किं विलक्षयसि ॥ ८१ ॥ निबिडीकृतोरुबन्धं वेलितवदनेन्दुनिलुतोच्छ्वासम् । तस्याः स्मरामि सुरतं तत्करभररुद्धमन्नाभि ।। ८२ ।। सस्मिततिर्यग्वेलितमुखपर्यन्तप्रकीर्णकबरीकम् । अतिभाग्यवान्भवत्याः सुन्दरि पुरुषायितं लभते ॥ ८३ ॥ प्रतिपणितमेकवारं पातुं द्यूते जितं पिबन्नधरम् । आवृत्तिद्वयभीत्या नायं निश्चूषते धूर्तः ॥ ८४ ।। आश्लेषोऽधरदानं चुम्बनमनिमेषवीक्षणं सुरतम् । इत्येकैकपणेन क्रीडति मिथुनं जितान्योन्यम् ।। ८५ ।। संस्पृष्टपमिनीको यथा यथार्कः करान्प्रसारयति । सुन्दरि मानवतीयं संकुचति तथा तथा छाया ।। ८६ ॥ प्रातः पृच्छति निभृतं सखीजने रजनिकेलिवृत्तान्तम् । मन्दस्मितादजायत रहस्यभेदः सरोजाक्ष्याः ।। ८७ ।।
सुन्दरीशतकम् ।
१०७
दोरान्दोलनसुभगं नितम्बभरमन्थराशिविन्यासम् ।
तव गजगामिनि गमनं कुरुते यतिचित्तसंयमनम् ॥ ८८ ।।
चरणक्रममनुविलसद्युगविन्यासमानतग्रीवन् ।
नृत्यन्नितम्बबिम्बं गतमस्या कं न मोयति ॥ ८९ ॥
चरणतलगलदलक्तकवलत्पदं वर्त्म चकितनयनायाः ।
अनुरागबन्धपद्धतिरियतीति परं निवेदयति ॥ ९० ॥
नतवदनमुन्नतभ्रूः पश्यन्ती वदनमूर्मिकामुकुरे ।
सुन्दरि मृदु स्मयन्ती कस्य न नयनं कृतार्थयसि ॥ ९१ ॥
अधरोत्तरासमथै मदनपुमर्थ स्मितेन परिपुष्यत् ।
कस्य न करोति कदनं वदनं दष्टाधरं तस्याः ॥ १२ ॥
त्रिवलीतरनतरलितनखाङ्कमीनं झपाङ्ककैवर्तः ।
तस्यां सुधासरस्यां वलयति रोमालिबडिशेन ॥ ९३ ॥
सुन्दरि तब रोमावलिमुखाग्रजापन्नखाङ्कलेखेयम् ।
प्रत्यग्रविधृतभुजगी दंष्ट्राकोटिश्रियं वहति ॥ ९४ ॥
दरविकसदम्बुजास्या भाति रवेः संमुखस्थिता नलिनी ।
हिमकरकरोपनीतां कदर्थनां वक्तुकामेव ॥ ९५ ॥
सौधशिखराधिरूढा मन्दानिलकम्पमानवसनान्ता ।
कस्यापि धन्यजनुषः पुण्यपताका परिस्फुरति ॥ ९६ ।।
पुनरुक्तभूषणानां हृदयाभिन्ने निवेद्यमानानाम् ।
सुन्दरि तव चरितानां कथमपि कथया न तृप्यामि ॥ ९७ ।।
अङ्कगतस्तव कुमुदिनि मत्तो मधुपः प्रसुप्त इति मन्ये ।
संभावयति सरोजं यन्न विनिद्रं समागत्य ॥ ९८॥
अपकृतये तव पद्मिनि सहवासो भवति हन्त कुमुदिन्याः ।
त्वयि निशि निशि स्वपत्यामनया यन्नीयते मधुपः ॥ ९९ ।।
त्वमधिकगुणासि मालति मल्लीलवलीलवङ्गलतिकाभ्यः ।
सकललतिकानुसारी यया निबद्धः षडभिरपि ॥ १०० ॥
१०८ काव्यमाला। मधुकर तवैव धन्यं जनुरभितो बन्यमन्यदुत्सृजतः । यस्य प्रेमाबन्धो मालत्यां यत्र तस्याश्च ॥ १०१ ॥ किं कृतमनेन मरुता माधविकाकुसुमसौरभं वहता । आश्लिष्टभ्रमरीकोऽप्यौत्कण्ठ्यं मधुकरो नीतः ॥ १०२ ॥ स्थास्यति कुवलयकलिका कर्णे तव तावदेव कमलाक्षि । विकसति न यावदेषा चन्द्रकरस्पर्शदुर्ललिता ॥ १०३ ॥ आश्लिष्य जिघ्र पिब मधु मधुकर तोषोदयाय मालत्याः । निर्दय सुगन्धिवल्लीरेताश्चरणैः किमाक्षिपसि ॥ १०४ ॥ ईशस्याप्युपकुरुते कचित्कलावान्निसर्गकुटिलोऽपि । भूर्भवति चन्द्रलेखा सुन्दरि शंभोस्तृतीयदृशः ॥ १०५ ।। केतकि तब यदि न कृतं परिशीलनमादरान्महेशेन । इयता न कापि हानिः सौरभ्याकृष्टमधुपायाः ॥ १०६ ॥ प्रकटितकपटाचारं रथ्यामुखरचितमन्दिरद्वारम् । युवतीहृदयस्तेन युवानमेनं नमस्कुर्मः ॥ १०७ ।। कति कति नात्र युवत्यो जडीभवन्ति स्खलन्ति वेपन्ते । इदमुदवसितोपान्तं तत्साध्व्यो दूरमुज्झन्ति ।। १०८ ॥ अधिभवनमुच्चपीठे पामरवध्याहृते सुखासीनः । अभिलषितमुत्तमर्णः कटाक्षयंस्तामवानोति ॥ १०९ ॥ कुसुमेषुशास्त्रचर्चा सरसहृदां भावनीय यत् । तब्यरचि......"सुन्दरमुत्प्रेक्षावल्लभेनेदम् ॥ ११० ॥ भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥ १११ ॥ - इति श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकं समाप्तम् ।
शिवस्तुतिः । १०९ श्रीमल्लिकुचिसरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः। (सटीका ।) स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम- स्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ भवस्यान्त. समासीनं भवतापनिवारकम् । सकर्षणं समानस्य व्याकरिष्ये शिवस्तुतिम् ॥ स्फुटमिति । हे शितिकण्ठ, मे वीक्षणं ते वपुः कदा न्यवेक्षत इत्यन्वयः। शिति कण्ठे यस्यासौ शितिकण्ठः तस्य संवुद्धिहे शितिकण्ठ नीलकण्ठ । 'शिती धवलमेचको' इत्यमरः । मे मम वीक्षतेऽनेनेति कर्तृ ते तव वपुः शरीर कर्म कदा नु कस्मिन्वा समये स्फुटं यथा भवति तथा क्रियाविशेषणमेतत् । अवेक्षतेऽवेक्षिष्यते । करणे त्यो(कर्तृत्वो)पचारः । कीदृशं वपुः । स्फटिकसप्रभं तत् । पुनः । स्फुटितहाटकश्रीजटं स्फुटितं (तत्) संतप्तं तत् हाटकं च सुवर्ण तस्य श्रीरिव श्रीर्यास ता एवंविधा जटा यस्य तत् । पुन । श- शाकदलशेखरं शशाङ्कस्य दलं शशाङ्कदलं खण्डं शेखरे यस्य शिरोभूषणं यस्य तत् । पुनः । कपिलफुल्लनेत्रत्रयं कपिलं पिङ्गलं विकसितं नेत्रत्रयं यस्य तत् । पुनः । तरक्षु- वरकृत्तिमत् । तरक्षोर्व्याघ्रस्य वरा श्रेष्ठा या कृत्तिश्चर्म तद्यस्यास्तीति । तद्यथा-व्या. घ्रचर्मपरिधानम्' इति रुद्राध्याये । पुन । भुजगभूषणं भुजगाः सर्पा ते भूषणमलंकारो यस्यास्तीति । पुन । भूतिमत् । 'भूतिर्भस्मनि संपदि' इत्यभिधानम् ॥ त्रिलोचन विलोचने लसति ते ललामायिते सरो नियमघस्मरो नियमिनामभूद्भस्मसात् । खभक्तिलतया वशीकृतवती सतीय सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥ त्रिलोचनेति । त्रीणि लोचनानि यस्यासौ त्रिलोचन तस्य संबोधनं हे त्रिलोचन । ते तव विलोचने ललामायिते रत्नवदाचरिते विशिष्टे तृतीयनेने लसति भासमाने सति स्मरः काम. भस्मसात्कृत. भस्म सपद्यत इति भस्मसात् अभूत् । किलक्षणः । नियमिनां निय- मवता नियमस्य घस्मरो नाशकः । इयं सती साध्वी सती उमा स्वभक्तिरेव लतानया लां वशीकृतवती वशीचकार । भवान् वशी खतन्त्रः तथापि स्वभक्तवशत. स्वकीया भक्तास्तेषा वशतोऽधीनखतः त्वं मह्यं प्रसीद प्रसन्नो भव ।। ।
११० काव्यमाला। महेश महितोऽसि तत्पुरुष पूरुषाय्यो भवा- नघोर रिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ।। ३ ।। महेशेति । हे महेश, महितोऽसि पूजितोऽसि । इन्द्रादिभिरिति शेष हे तत्पुरुष, तस्य परमात्मनः पुरुषो दास. तस्य सवुद्धि. हे वामदेव, वाम सुन्दरो देयो यस्यासौ वामदेव । भवान् पुरुषेषु अग्य श्रेष्ठ । हे अघोर भक्तानामभयंकर। हे अनवम न अवमस्तस्य सं. बुद्धिः । हे वामदेव तथोक्तसबुद्धि । अनवमश्चासौ वामदेवश्वानवमवामदेव इत्येकं पदं चा। 'वामः सव्ये प्रतीते दक्षिणे वाथ सुन्दरे' इत्यभिधानम्। ते तुभ्यमञ्जलिरस्तु। हे सपदिजात. सद्योजात, ते तुभ्यं नम । इत्यनेन प्रकारेणाश्चित. पश्चरूपस्त्वं पञ्चवृत् 'मनो बुद्धिरहंकार श्चित्तं चेतनम्' इति पञ्चप्रकारमित्यर्थः । एवं मनोऽन्त करणं प्रपञ्चय विस्तारय । पश्च- वृत् पञ्चप्रकारम् । तमोमोहमहामोहतामिसमिति पञ्चधा मिनं तमोऽविद्या ताडय नाशय। अन श्रुति:--'ईशान. सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति, 'तत्पुरुषाय विद्महे' इति, 'अघोरेभ्योऽथ घोरेभ्यः' इति, 'वामदेवाय नमः' इति, 'सद्योजातं प्रपद्यामि' इति । रसाधनरसानलानिलवियद्विवस्खद्विधु- प्रयष्तषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहंभिदे ॥ ४ ॥ रसाधनेति । हे अज हे महारुद्र । 'अजा विष्णुहरच्छागाः' इत्यभिधानम् । रसा पृथिवी, धनरस जलम्, अनलोऽग्निः, अनिलो वायुः, वियदाकाशम्, विवस्वान सूर्यः, विधुश्चन्द्रः प्रयष्टा सोमयाजी, तेषु निविष्टं मूर्त्यष्टकमहं भजामि । प्रशान्तं मनोहरमुत अन्यत् भीषणं भयंकर भुवनमोहनं भुवनशब्देन तनिष्ठो जनो लभ्यते । जनव्यामोहमहंकारमित्यर्थः । गुणपुंषि ज्ञानभक्तिवैराग्यादिगुणपूर्णादीनि वपूषि रूपाणि चाहं भजामि । कथंभूतस्य तव। अहमात्मनः अहमित्यव्ययमहंकारवाचकम् । अहंकारस्यात्मा अभिमान्यहमात्मनः । कस्मै प्रयोजनाय अहमिदे देहादावहममबलक्षणाभिमाननिवृत्तये ॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथंचिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥ + । mer -- शिवस्तुतिः । -- विमुक्तिपरमेति । प्रसिद्धा निगमवेदिनो धामदेवादय नषयःभगवतैव ज्ञानमुक्तिवैरा- ग्यादिगुणवतैव त्वया उपशिक्षिता. सन्तो विमुक्तिपरमाध्वना विमुक्तौ परमा असका एते- धामध्वनामागमभूतानां षडध्वनां षड्दर्शनानामास्पदं विषयत्वेनाश्रयीभूतं तव पदं पद्यत इति पदं ज्ञेयं पर ब्रह्मतत्त्वरूपं वा कथंचिन्महतायासेन यथाकचित् केनचित्प्रकारेण न तु सामस्त्येन संविद्रते जानन्ति । 'समो गम्वृच्छिप्रच्छिखर त्यर्तिश्रुविदिभ्यः' इति विदे- रात्मनेपदम् । 'वेतेर्विभाषा' इति रुट् । यद्वा सविद्रते संविदि ज्ञाने रतिर्यस्य स संविदति- स्तस्य सबुद्ध. तदा जानन्तीति शेष. । हे उमेश विरलान्तराः विरलमत्पविषयमन्तर मनो येषां ते विरलान्तरा वयं तु विशेषेण तत् पर ब्रह्म तव स्वरूपं कथं मन्महे जानी- महे । अदा विज्ञा वामदेवादयो भवदुपदिष्टा. सन्तस्तदुपास्यं पर ब्रह्म खरखरूपं वा का- न्येन ज्ञातुमशक्कातदाल्पज्ञा वयं कथं विशेषेण सामस्त्येन जानीमहे इति भावः ॥ कठोरितकुठारया ललितशूलया बाहया रणड्डमरया स्फुरद्धरणया सखट्वाङ्गया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत- श्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ कठोरेति । हे महेश, कठोरितकुठारया कठोरित कुठारो यस्यां सा तया । ललितं शूलं यस्यां सा तया । रणड्डमरो यस्या सा तया । स्फुरद्धरणया । एवंविधया बाया। जातावेकवचनम् । बाहाभिर्वाहुभिश्चलाभिश्चञ्चलामिरचलाभि. स्थिरामिरगणितामिर- सख्यामिः । अतिनर्तनवृत्तिभिरिति विशेष्यपदाध्याहारो बोद्धव्यः । उन्नत्यत उच्चैनैर्तनं कु. वतस्ते तव चतुर्दशजगन्ति चतुर्दशभुवनानि तन्निष्ठा जना वा युवत् (१) जय जयेति न- न्दन्तो विस्मयमयुः प्रापु ॥ पु (प) रत्रिपुररन्धन विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षवलहर्षित क्षुभितवृत्तनेत्रोज्ज्वल- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ पुरेति । हे महारुद्र, पु(प)राणामन्याभेद्यत्वेनोत्कृष्टानां त्रयाणां पुराणां रन्धनं भस्मी- करणम् । विविधदैत्यविध्वंसनम् । इत्याद्याः परा अपि पराक्रमाणां परम्परा अपि ते वि. स्मयो न आश्चर्यो न । हे अमर्षवलहर्षित, अमर्षवलाभ्या कोपसामाभ्यां हर्षितो हर्ष प्राप्तः । लोकानां भुवनाना त्रयं तव सुमितवृत्तनेत्रोज्वलज्वलज्वलनहेलया क्षुभितं क्षोभ- युक्तं वृतं वर्तुलं यन्नेत्रं तत्सामर्थ्यादुज्वल. प्रकाशमानो ज्वलन् दहन् ज्वलनोऽग्निस्तस्य हेलया ज्वालाविलासेन 'हेला विलासे-' इत्यभिधानम् । शलमितं हि शलभवत् सजातं हि । यथा शलभोऽनौ प्रविष्टो भस्मीभवति, तद्विद्भस्मीभूतमित्यर्थः ।।
काव्यमाला। सहस्रनयनो गुहः सहसहस्ररश्मिर्विधु- वृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमा ययुः प्रार्थिनां भवान्सुरतरुर्दशं शिव(दिश) शिवां शिवावल्लभ ॥ ८ ॥ सहनेति । हे रुद्र, सहस्रनयन इन्द्र', गुह स्कन्द , सहस्र रश्मयो यस्यासौ सह- स्वरदिमः सूर्य , तेन सहवर्तमान एवं भूतो] विधुश्चन्द्रः, बृहस्पतिः । उतशब्दोऽप्यर्थः । अप्पतिरपा पतिर्यरुणा, शकाद्या इति शेष (१) । ससुरसिद्धविद्याधरा• सर्वे तत्तयोगजना भवत्पदं भवदुपास्य ब्रह्म परमयनमाश्रयो येषां ते भवत्पदपरायणाः सन्त इमां तद्योग्यां श्रियं सपदं ययुः प्रापुः । यतो भवान्प्रार्थिनां सुरतरु. कल्पवृक्ष । सुचिन्तितमनोरथ- प्रद । हे शिवावल्लभ उमाकान्त, त्वं मह्यं शिवा मजला दृशं दृष्टिं दिश देहि ॥ तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं घृतं वयमिव श्रियोवल्लभम् । विभिद्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः॥९॥ तवेति । लघुबुद्धय क्षिप्रवुद्धय । सूक्ष्मार्थदर्शिन इति यावत् । 'लघु क्षिप्रमर द्रुतम्' इत्यमरः । एवंविधा. पण्डिता तव प्रियतमावस्तुतोऽतिप्रियतमं निरुपाधिविषयम् एका- न्तभक्तलात् । तदुक्तम्-'एकान्तानां न कस्य चिदर्थ नारायणो देव सर्वमन्यत्तदर्थ- कम्' इति । सदैव स्वपरपक्षयोः पूर्वपक्षसिद्धान्तयो लक्ष्यवत् आचरितमान्तरमन्तरे व- र्तमानं कथमिव पयस्युपहितं वयं स्वेच्छया रतं धृतमिव श्रियो वल्लभं लक्ष्मीकान्तं चि. मिथ वेद्य । तन्मीमांसा यथा क्षीरे तत्स्थितं घृतं क्षीरादिविवेक्षण (केन) जानन्ति तथा वदन्तर्गतं ब्रह्म ज्ञाला पठन्ति । शिष्येभ्य उपदिशन्तीति भावः । शठहृदः परव- श्वनचित्ता ये के ब्रह्मवादिनस्ते शुचा शोकेन शुण्ठिताः स्तम्भिता. सन्तो लुठन्ति । नित्यं निरये पतन्तीत्यर्थ । उक्तं च श्रीमद्भागवते-'एवं तत्समुपासीना न मुह्यन्ति शुचार्पिता:' इति । तथा जीवात्मभेदज्ञानमेव मोक्षसाधनं नाद्वैतज्ञानमिति भाव ॥ निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवतः पदं शिव शिवेत्यदो जल्पता- मकिंचन न किंचनावृजिनमस्ति भसीभवेत् ॥ १० ॥ निवासेति । हे महेश चिता श्मशानभूमिः तव निवासनिलयो निवासस्याश्रयः शिर- सति शिर.परम्परा तव भालिका, ते करे कपालमपि विद्यते, समनन्तर्धियां बहिर्ट- शिवस्तुतिः । ११३ टीना पामराणामशिवोऽमझलोऽसि । यद्यप्येवम् ,तथापि हे अकिचन अविद्यमानकिचन, किमप्यासमन्ताद्वर्तमानं पापं नास्ति । कि तु सर्व भस्मीभवेदित्यर्थः ॥ त्वमेव किल कामधक्सकलकाममापूरय- न्सदा त्रिनयनो भवान्वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवा- विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥ खमेवेति । हे विरुद्धचरित, खमेव कामं कन्दर्प दहतीति कामधा किल सकलानां योग्याना काममभिलाषमापूरयन्वर्तसे । अत्र शब्दमात्रसामान्येन विरोधभाव. । अर्थ- भेदाद्विरोधपरिहार । सदा त्रिनयनस्त्रिनेत्रः, अत्रिनेत्रोद्भवं चन्द्र वहसि च। विषधरान् दधत् सन् विषं पिबसि तेन विषपानेनानन्दवाश्च भवसि । हे जगदधीश, ते भिक्षुता न्याय्या । अत्र विरोधाभासोऽलंकार ॥ नमः शिवशिवाशिवाशिव शिवार्ध कृन्ताशिवं नमो हर हराहरहरहरान्तरी मे दृशम् । नमो भव भवाभवप्रभव भूतये ते भवन् नमो मृड नमो नमो नम उमेश तुभ्यं नमः॥ १२ ॥ नमः शिवेति । हे शिव शिव, शिवानां योग्यजीवाना शिवं करोतीति (शिवं भव. तीति) शिवः अस्य संबुद्धिः शिव । 'तत्करोति तदाचष्टे' इति णिजन्ताच्छिवयतेः- ब्धातोः 'अप्रत्ययात्' इति अप्रत्यय (2)। हे अशिवाशिव, अशिवानामयोग्यजीवानाम- शुभोऽशुभकरस्तत्सबुद्धि । नमस्तुभ्यमिति शेष । हे शिवाध, शिवा अर्धे यस्यासौ त. थोक्तः तत्सबुद्धिः त्वं मम अशिवममङ्गलं कुन्त नाशय । हे हर हर । आदराद्विरुक्तिः। तुभ्यं नम । अहरह निरन्तर वीप्सायामव्ययीभाव. (१) । अन्तरोऽन्तरे सर्वं यस्य रं. स्थत (१) इत्यन्तरो विष्णुस्तत्सबन्धिनी दृशं ज्ञान मह्यमाहर देहि । हे अभव, तुभ्यं नम । हे अभवप्रभव । अभवस्य प्रभव उत्पाद को यस्य सोऽभवप्रभवस्तत्संबुद्धिः तुभ्यं नम । हे भवन् , मद्भूतये भवेति । हे मृड, तुभ्यं नमो नमः । अनादरलैरन्तर्याच्या नमो नमः कर्तव्यमिति पुनः पुनरुक्ति ॥ सतां श्रवणपद्धति सरतु संनतोक्तेत्यसौ शिवरय करुणाङ्कुराप्रतिकृतात्सदा सोदिता । १. अस्य 'स्त्रियाम् इत्यधिकारे विधानाच्चिन्त्यमिदम् , तस्मात्पचादेराकृतिगणवाद प्रत्ययो बोध्यः .
११४ काव्यमाला। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुः सुधीः ॥ १३ ॥ सतामिति । सासौ शिवस्तुतिः सता साधूना श्रवणपद्धतिं कर्णमार्ग सरतु गर; भूता। सनतोक्ता संनता (तेन) नम्रेणोक्ता । पुन । प्रतिकृतात् शिवस्य करा.', त्सदोदिता । उता । नारायणो नाम लिकुचिसूरिसूनुरिमा शिवां शिवस्तुति व्यधिन । तवान् । किंभूतः । प्रथितं ख्यातं मानस यस्य सः ।। इति श्रीलिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता सव्याख्या शिवस्तुति समामा ! -- स . श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मम न भजनशक्तिः पादयोस्ते न भक्ति- नं च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥ व्याप्तं हाटकविग्रहर्जलचरैरारूढदेववजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैः शृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- गीताकर्णननिश्चलाखिलमृगं द्वीप नमस्कुर्महे ॥ ३ ॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् । आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चश्चलचश्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥ Noun ܝܙ १. 'शकि' क. 'भकि' ग. २. 'कुल' क.
त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । ११५ परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥ रम्यद्वारपुरप्रचारतमसा संहारकारिप्रभ- स्फूर्जत्तोरणभारहारकमहाविस्तारहारधुते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद- प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६ ॥ उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः सत्कृष्णागुरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मञ्चेतसि द्योतताम् ॥ ७ ॥ कापि प्रोद्भटपद्मरागकिरणबातेन संध्योयितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् । मध्यालम्बिविशालमौक्तिकरुचा ज्योत्सायितं कुत्रचि- मातः श्रीमणिमन्दिरं तब सदा वन्दामहे सुन्दरम् ॥ ८॥ उत्तुगालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैनवत्तॄणाकीर्णस्थलीशङ्कया । नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्माते- वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशतिनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः । कथमपि मणिगेहादुच्चकैरुञ्चलन्ति ॥ १० ॥ -- " 1 १. 'सुर' क-ग. २. 'धारक' क. ३. 'मण्डपं' क. ४. 'मण्डलीमालो' क.
काव्यमाला। भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञात गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः॥ ११ ॥ विदरमुक्तवाहनैर्विननमौलिमण्डलै- निर्बद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः । विरश्चिविष्णुशंकरादिभिर्मुदा तबाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥ ध्वनन्मृदङ्गकाहलः प्रगीत किंनरीगणः प्रवृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकवजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः खकृत्यरतमानसै- बहिःस्थितामरावलीविधीयमानभक्तिभिः । विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितविचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिनिरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानस त्वदीयतुङ्गतोरणः ॥ १५ ॥ इन्द्रादीश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्खदिक्षु निहितान्संचिन्त्य हृत्पङ्गजे । शङ्ख श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥ २ १. 'इन्द्रादीन्दिगधीश्वरा' क. २. 'नियता' क. ३. रक्तं' का १ त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । ११७ गायन्तीः कलवीणयातिमधुर हुंकारमातन्वती- राभ्यासकृतस्थितीरिह सरखत्यादिकाः पूजयन् । द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदा मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥ कस्तूरिकाश्यामलकोमलाङ्गी कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥ विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि । तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥ १९ ॥ प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः । उपोढकजलच्छविच्छटाविराजिविग्रहाः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥ स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- दीपोद्भासिशरावशोभितमुखैः कुम्भैनवैः शोभिना खाबद्ध विचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥ आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारौन्वित दीप्तानेक्रमणिप्रदीपसुभगं राजद्वितानोत्तमम् । धूपोद्भारिसुगन्धिसंभ्रममिलद्भुङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥ २२ ॥ कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे । कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥ १. 'मधिकमोहमुग्धाशयाम् क. २ 'पोद्भा' क. ३. 'राचितम्' क. 1 ५ नव० गु०११ 1 - ११८ काव्यमाला। सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भाम मुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्ती दृशा सपश्यन्परदेवतां परमहो मन्ये कृतार्थ जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमि विलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५ ॥ पाद्यं ते परिकल्पयामि पदयोरयं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिराखादय । तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थीकुरु ॥ २६ ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि खीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोन्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमाखादय ॥ २७ ॥ निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् । महेशि करुणानिधे तव दृगन्तपातोत्सुका- विलोकय मनागमूनुभयसंस्थितान्दैवताम् ॥ २८ ॥ हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ २९॥ कनककलशजालस्फाटिकस्तानपीठा- धुपकरणविशालं गन्धमत्तालिमालम् । स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मजनागारमेहि ॥ ३० ॥ १. 'समभ्युच्छ्रिता' का 1.
११९ त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना रत्नवर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः । हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥ ३१ ॥ तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति- नींचैरुज्झितकञ्चकोपरिहितारक्तोत्तरीयाम्बरा । वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना- कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२ ॥ अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं काश्मीरैरंगरुद्रवैर्मलयजैरुद्वर्तनं कारय । गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३ ॥ कृतपरिकरबन्धास्तुङ्गपीनस्तनाच्या मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः । सुरभिसलिलनिर्यद्गन्धलुब्धा लिमालाः सविनयमुपतस्थुः सर्वतः स्वानदास्यः ॥ ३४ ॥ उद्गन्धैरगुरुद्रवैः सुरमिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि । पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥३५॥ प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं कुर्वे केशकलापमायततरं धूपोत्तमैचूंषितम् । आलीवृन्दविनिर्मितां जवनिकामास्थाप्य रत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ३६ ॥ पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्मं स्निग्धमुरीकुरुप्य वसनं सिन्दूरपूरप्रभम् । १. 'हृता' क. २. 'स्थाय रम्यप्रभा' क. ३. 'चन्द्रानकं' क. -- -- AME १२० काव्यमाला। मुक्तारनविचित्रहेमरचनाचारूपभाभाखरं नीलं कञ्चकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३.७५ विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्व्य द्राक्सखीमंसदेशे गिरिशगृहिणि भूषामण्डपाय प्रयाहि ॥ ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशक्रचापबजे । महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥ स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्कर सीमन्तं विरचय्य चार विमलं सिन्दूररेखान्वितम् । मुक्ताभिग्रंथितालकां मणिचितैः सौवर्णसूत्रैः स्फुट प्रान्ते मौक्तिकगुच्छकोपलतिका प्रश्नामि वेणीमिमाम् ॥ १० । विलम्बिवेणीभुजगोत्तमाङ्गस्फुरन्मणिभ्रान्तिमुपानयन्तम् । खरोचिपोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४२ ॥ त्वामाश्रयद्भिः कबरीतमिर्वन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ।। खमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः । निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भाखरं भवानि भालभूषणम् ॥ ४३ ।। मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् । माध्वीपानमदारुणेऽतिचपले दीर्घ गम्भोरुहे देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ।।४।। १. "विलसत्सिन्दूक. २. 'खनमध्यहाटक' क. - maratre19 1 त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२१ मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाभार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् । उत्सित्ताधरबिम्बकान्तिविसरै मीभवन्मौक्तिका मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥ उड्डकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् । अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं श्रवसि परिनिधेहि खर्णताटङ्कयुग्मम् ॥ ४६ ॥ मरकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥ नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताछटालंकृताम् । मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- नातामम्ब चतुष्किका परशिवे वक्षःस्थले स्थापय ॥ ४८ ॥ अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मजदन्तःकरणविमलतां शोभितेव त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमान- नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९॥ करसरसिजनाले विस्फुरत्कान्तिजाले विलसदमलशोभे चञ्चदीशाक्षिलोभे । विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥ व्यालम्बमानसितपट्टकगुच्छशोसि स्फूर्जन्मणीघटितहारविरोचमानम् । मातर्महेशमहिले तव बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥ -- ।
- १२२ काव्यमाला। विततनिजमयूनिर्मितामिन्द्रनीलै- विजितकमलनालालीनमत्तालिमालाम् । मणिगणखचिताभ्यां ककणाभ्यामुपेतां कलय वलयराजी हरतमूले महेशि ॥ ५२ ।। नीलपट्टमृदुगुच्छशोभिताबद्धनैकमणिजालमञ्जुलाम् । अर्पयामि वलयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ।। आलवालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीषु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥ विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् । अविरतकलनादैरीशचेतो हरन्ती विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥ व्यालम्बमानवरमौक्तिकगुच्छशोभि- विभाजिहाटकपुटद्वयरोचमानम् । हेना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥ विनिहितनवलाक्षापङ्कवालातपौधे मरकतमणिराजीम मञ्जीरघोषे । अरुणमणिसमुद्यत्कान्तिधाराविचित्र- स्तव चरणसरोजे हसकः प्रीतिमेतु ॥ ५७ ॥ निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलकणितमञ्जुलां गिरिशचित्तसंमोहनीम् । अमन्दमणिमण्डली विमलकान्तिकिर्मीरिता निधेहि पदपङ्कजे कनकघुमुरूमम्बिके ॥ ५८ ॥ विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ॥ ५९ ॥ १. 'ललित' क.
- - त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२३ पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेशि नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डली चरणपङ्कजस्थां तव ॥ ६०॥ आरक्तधेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै- देवस्त्रीभिः प्रयत्नादगुरुसमुदितैधूपितां दिव्यधूपैः । उद्यद्न्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्जत्कहारमालां परशिवरसिके कण्ठपीऽठेर्पयामि ॥ ६१ ॥ गृहाण परमामृतं कनकपात्रसंस्थापित समर्पय मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ।। आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैति(तु) गिरिजा यान्ती सभामण्डपम् ॥६३॥ चलन्त्यामम्बाया प्रचलति समस्ते परिजने सवेगं संयाते(?) कैनकलतिकालंकृतिभरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- झणकारैस्तारैझणझणितमासीन्मणिगृहम् ॥ ६४ ।। चञ्चद्वेवकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरवाते समुत्सारिते । रुद्ध निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥ ६५ ॥ ३. 'रणत्कारैस्तारैर्गु- १. 'दिव्यस्त्रीभिः क. २. 'कलितललितालंकृतितरे क. णगुणितमा' क. ४. 'समुदीरिते' क.
१२४ काव्यमाला। 1 वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि हगञ्चलं सुरपति दूरस्थमालोकय । इत्येव परिचारिकाभिरुदिते संमाननां कुर्वती हद्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ।। ६६ ॥ मन्दं चारणसुन्दरीभिरभितोयान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- लिप्स(दित्स)न्ती चरणाम्बुज पथि जगत्पायान्महेशप्रिया॥६७|| अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । संमद शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८॥ अग्रे गायति फिनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरच्यादयः ॥ ६९ ॥ कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धि क्रमा- देकमै भवनिस्पृहाय परमानन्दस्वरूपां गतिम् । अन्यस्सै विषयानुरक्तमनसे दीनाय दुःखापह द्रव्यं द्वारसमाश्रिताय ददती वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदप्रकान्ति कलये यत्किंचिदाद्यं महः ॥ ७१ ॥ . - - १. मन्दोच्चार' ख-ग, २. 'सानन्दं शनकैरपि वपुरतो' क. ३. 'किनरीकुलमिदं' क. ४ -निलये क.
- त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२५ तव दहनसदृक्षरीक्षणैरेव चक्षु- निखिलपशुजनानां भीषयद्भीषणास्यम् । कृतवसति परेशप्रेयसि द्वारि नित्यं शेरभमिथुनमुच्चैर्भक्तियुक्तो नैतोऽस्मि ।। ७२ ॥ कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभा रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ! कर्पूरागुरुगर्भवर्तिकलिकाप्रॉप्तपदीपावली श्रीचक्राकृतिमुल्लसन्मणिगणा बन्दामहे वेदिकाम् ॥ ७३ ॥ खस्थानस्थितदेवतागणवृते विन्दौ मुदा स्थापितं नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् । चश्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४ ।। वदद्भिरभितो मुदा जय जयेति वृन्दारकैः कृताञ्जलिपरम्परा विदधती कृतार्था दशा । अमन्दमणिमण्डलीखचितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५ ॥ कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारक ताम्बूलस्य करण्डक मणिमय चैलाञ्चलं दर्पणम् । विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याँभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६ ॥ त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् । मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥ १. 'दवदहन' ख-ग. २. 'शलभ' क. ३. 'नमामि' क. ४. 'सरसै' ख-ग.५. 'दीप' क. ६. 'कृता तनु' क.७. संवन्धसामान्य विवक्षया पष्ठी. ८. 'यदमलपुनरुद्यत्का' क. ९. 'अर्पयामि' क.
१२६ काव्यमाला) 1 प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं चञ्चन्महामणिविचित्रितहेमदण्डम् । उद्यत्सहस्रकरमण्डलचारु हेम- छत्रं महेशमहिले 'विनिवेशयामि ॥ ७८ ॥ उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदनलोहितमणिच्छेदानुकारिच्छवि । दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥ संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पौधेरैभिपूजितां भगवती त्वां वन्दमाना मुदा । स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तखरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८० ॥ आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च । मित्रेशनाथादिकमत्र नाथचतुष्टयं शैलसुते नतोऽस्मि ॥ ८१ ।। त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टकसंस्थितमासनषट्कं नमामि परमेशि ॥ ८२ ॥ ईशाने गणपं स्मरामि विचैरद्विघ्नान्धकारच्छिदं वायव्ये बटुकं च कजलरुचिं व्यालोपवीतान्वितम् । नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय- नामेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ।। उड्यानजालंधरकामरूपपीठानिमान्पूर्णगिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभागमध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥ लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलाना प्रभु. स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः । १. 'विनिवेदयामि' क. २. 'रपि' क. ३. 'विलस' क. ४. 'औड्यान' क. ५. 'पति' क.
--- त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२७ आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् ॥ ८५ ॥ तारानाथकलाप्रवेशनिगमव्याजागतासुप्रथं(जाद्भुताशप्रभ) त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् । रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ ८६ ।। हृदि भावितदैवतं प्रयत्नाभ्युपदेशानुगृहीतभक्तसंघम् । स्वगुरुक्रमसंज्ञचक्रराजस्थितमोघत्रयमानतोऽसि मूर्धा ॥ ८७ ॥ हृदयमथ शिरः शिखाखिलाये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तितं तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥ त्रैलोक्यमोहनमिति प्रथिते तु चके चञ्चद्विभूषणगणत्रिपुराधिवासे । रेखात्रये स्थितवतीरणिमादिसिद्धी- मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ॥ सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभाजिते विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः । कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा योगिन्यः प्रदिशन्तु कासितफलं विख्यातगुप्ताभिधाः ॥ ९० ॥ महेशि वसुभिर्दलैलेसति सर्वसंक्षोभणे विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि । अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम कासितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥ लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे । स्थिता दधतु मङ्गलं सुभगसर्वसक्षोभिणी- मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥ ९२ ।। १. 'दुपदेशा' क. २. 'चित्रितं' क. ३. 'मिधाना.' क. - - १२८ काव्यमाला। बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः । कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥ अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषण मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीनित्यं वशिन्याचा नमाम्यहम् ॥ ९५ ॥ चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् । रम्य पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥ ९६ ॥ त्रिकोण उदितप्रमे जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ॥ सर्वानन्दमये समस्तजगतामाकासिते बैन्दवे भैरव्यौ त्रिपुराधया विरचितावासे स्थिता सुन्दरी । आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुप्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १० ॥ चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥१०१ ॥ १. निपुरमालिन्या. २. त्रिपुरासिद्धया चक्रेश्वया, ३. त्रिपुरभैरव्या.
१२९ त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । अगरुबहलधूपाजस्रसौरभ्यरम्या मरकतमणिराजीराजिहारिनगाभाम् । दिशि विदिशि विसर्पगन्धलुब्धालिमालां बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यमेतदखिलं हार्द च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- न्नानन्दाम्बुधिमजने प्रलभतामानन्द) सज्जनः ॥ १०३ ॥ धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्भुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्न वर्णविनिर्मितेषु परितः पात्रेषु सस्थापित नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४ ॥ जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ।। १०५ ॥ दुर्गे रोहितखण्डमण्डजपलं कौमाजखाङ्गं पृथ- क्पत्रिंशन्ति(?) सुसाधितानि मृदुना सध्यञ्जनान्यमिना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रबजे ॥ १०६ ॥ माषव्यञ्जनजातमुत्तमतमं मुद्गप्रकारान्बहू- न्हारिद्रवथिकारसैविलुलितापूपांस्तथा चाणकान् । मांस सर्पिपि साधितं बहुतरं शूलाकृतं मारिचं मत्स्यांश्चैव सुसंस्कृतान्परशिवे सस्थापयाम्यग्रतः ॥ १०७ ॥ १. 'शिम्बीसूरणशाकबिम्ववृहतीकूष्माण्डकोशातकी सन्ताकानि पटोलकानि मृदुना संसाधितान्याग्निना' ख. नव० गु० १२ १३० काव्यमाला। निम्बूकाकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥ १०८ ॥ सितयाञ्चितलड्डुकबजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिद च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०९ ।। दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फाणितं शिखरिणी सितासितां सर्वमम्ब विनिवेदयामि ते॥११०॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः । देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥ १११ ।। वामेन खर्णपात्रीमनुपमपरमान्नेन पूर्णा दधाना- मन्येन खर्णदवी निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गी तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णा नमामि ॥ ११२ ॥ पसयोपविष्टान्परितस्तु चक्र शक्त्या वयालिङ्गितवामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११३ ।। परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम् । परमामृतधूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११४ ।। दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ॥ ११५ ॥ त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगता सभामिमां भावयामि परमेशि तावकीम् ॥ ११६॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् । . m ।
त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १३१ जिह्वा वेत्तु न वा रसं मम परं युप्मत्खरूपामृते नित्यानन्दविघूर्णमाननयने नित्यं मनो मजतु ॥ ११७ ।। यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् । यतस्मिन्समये तवार्चन विधावानन्दसान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽय प्रसादस्तव ॥ ११८ ॥ गणाधिनाथं बटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः ॥११९॥ वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै । सौवर्णभृङ्गारविनिर्गतेन जलेन शुद्धाचमनं विधेहि ॥ १२० ॥ ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् । स्फूर्जद्रलसमुद्कमणिहित सौवर्णपाने सितै- दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२१ ॥ काचिद्गायति किनरी कलपदं वाचं धानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव । कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हुँप्यन्ति च ॥१२२॥ ताम्बूलोद्भासिवस्त्वदमलवदनालोकनोल्लासिनेत्रै- श्चक्रस्थैः शक्तिसंधैः परिहृतविषयासङ्गमाकर्ण्यमानम् । गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि- वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥ १२३ ॥ अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२४ ।। १. 'मुक्ताचित्रचतुष्कशालिनि महासौवर्णपाने स्थिते' ख. २. 'सुस्थीकृत्य मनोs- परा' ख. ३. 'हृष्यत्वच 'ख. ४ "विमलीकृते मुहुश्चित्प्रति विश्वानन्दनायचरणेन । मम हृदयदर्पणेऽस्मिन्प्रतिपालिता भावना तेपाम् ॥' इत्यधिका.
१३२ काव्यमाला। यथेप्सितमनोगतप्रकटितोपचारार्चितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलितभूमिरष्टागकै- नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२५ ॥ विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधि प्राप्त मामिह कांदिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेदृग्वा च मे जातु चे- तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२६ ॥ काहं मन्दमतिः क चेदमखिलैरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते खमनसा श्रीपादुकापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मद स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ १२७ नित्यार्चन मिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पधैरनुगृह्णातु सुन्दरी ॥ १२८ ॥ इति श्रीपरमहंसपरिवाजकाचार्यश्रीमच्छंकराचार्यविरचितं श्रीत्रिपुरसुन्दरी- मानसिकोपचार पूजास्तोत्रं समाप्तम् । -- श्रीसुन्दराचार्यकविनिर्मित गीतिशतकम् । कि देवैः किं जीवैः किं भावस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहरणं देवि कान्तिमत्यम्ब ॥ १॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २ ॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसंपदा करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३ ॥ १. गीतिशतकमिदं तिरुनेलवेलिडिस्ट्रिक्टप्रदेशवर्तिकीलपुत्तनेरिनिवासिमिः जयपुरि- कृष्णामाचार्यैः श्रीनिवासाचार्यश्चास्मत्सनिधौ प्रेषितमिति तेषामुपकारगौरवं बिभृम..
३
गीतिशतकम् ।
१३३
अमितां ममतां मम तां तनु तां तनुतां गतां पदाजं ते ।
कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४ ॥
मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् ।
तदपि वदाम्ययि कुरु ता निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५ ॥
न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् ।
असकृत्प्रणम्य याचे त्वच्चरणाजस्य कान्तिमत्यम्ब ॥ ६ ॥
अभजमहं किं सारे कंसारे वीपदेऽपि संसारे ।
रुचिमत्ता शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७ ॥
मामसकृदाप्रसादादुष्कृतकारीति मावमन्यख ।
स्मर किं न मया सुकृत वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८॥
करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् ।
भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९ ॥
अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् ।
समतेर्ण्यया प्रसादं न विद्यत्से किं नु कान्तिमत्यम्ब ॥ १० ॥
द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे ।
हित्वा पयोदपति स्तोकस्य गतिः क कान्तिमत्यम्ब ॥ ११ ॥
कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् ।
किं त्वामुपालभेऽहं विधिरीयान्हि कान्तिमत्यम्ब ॥ १२ ॥
तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या ।
यदुपेक्षसे त्रिलोकीं मातमी देवि कान्तिमत्यम्ब ॥ १३ ॥
निन्दामि साधुवर्ग स्तौमि पुनः क्षीणषज्ञसंसर्गम् ।
वन्दे किं ते चरणे कि स्यात्प्रीतिस्तु कान्तिमत्यम्ब ।। १४ ॥
गीर्वाणवृन्दजिह्वारसायनखीयमाननीयगुणे ।
निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५॥
त्रिनयनकान्ते शान्ते तान्ते खान्ते ममास्तु वद दान्ते ।
कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६ ॥
काव्यमाला।
धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् ।
मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ १७ ॥
गिरितनुजे हतदनुजे वरमनुद्धाजेभिधे च हर्यनुजे ।
गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ।। १८ ।।
गजगमने रिपुदमने हरकमने क्लुप्तपापकृच्छमने ।
कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९ ॥
यन्मानसे पदाजं तव सविद्भाखदाभयाभाति ।
तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २० ॥
दुष्करदुप्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते ।
दलने दृपदा टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१ ॥
कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् ।
रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२ ।।
किंचनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् ।
चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३ ॥
अञ्चति यं त्वदपाङ्गः किंचित्तस्यैव कुम्भदासत्वे ।
अहमहमिकया विबुधाः कलह कलयन्ति कान्तिमत्यम्ब ॥ २४ ॥
किमिदं वदाद्भुतं ते कमिश्चिल्लक्षिते कटाक्षेण ।
हादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २५ ॥
प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे ।
गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६ ॥
करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् ।
सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७ ॥
शंकर नमांसि वाणी किंकरि दैतेयराड्भयंकरिते ।
करवै मुरवैर्यनुजे पुरवैर्य भिकेऽद्य कान्तिमत्यम्ब ॥ २८ ॥
तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतरतनये ।
त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ २९ ॥
गीतिशतकम् । -- -1- + - भवदवशिखाभिवीतं शीतलयेा कटाक्षविक्षेपैः । कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३० ॥ त्वद्गुणपयःकणं मे निपीय मुक्तेरलंक्रिया गिरतु । चेत.शुक्तिमुक्तां भक्तिमिपां देवि कान्तिमत्यम्ब ॥ ३१ ॥ गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते । गुणता कदा नु भजता मम धिषणा देवि कान्तिमत्यम्ब ।। ३२ ।। पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके । वीटीरसेन कविताधाटी कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३ ॥ तव करुणां कि ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् । ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४ ॥ ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वय शक्ताः । किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५ ॥ मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण । हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६ ।। ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य ॥ पदयुगली तव शम्पा लक्ष्मी विदधातु कान्तिमत्यम्ब ॥ ३७ ॥ कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः । जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ।। ३८ ॥ ज्योत्स्नासधीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः । शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९ ॥ रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् । बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४० ॥ विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि । नोच्छ्रसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्ब ॥ ४१ ॥ जित्वा मदमुखरिपुगणमित्वा त्वद्गक्तभावसाम्राज्यम् । गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२ ॥ - . १ , HLimbukusuitm १३६ काव्यमाला। अखिलदिविपदालम्बे पदयुग्मं देवि ते सदालम्बे । जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३ ॥ अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि । वेभि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ ४४ ॥ नाहं भजामि देवं मनसाप्यन्यत्त्वमेव देवं मे । न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ ४५ ॥ खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे । मोदय कृपया नो चेक नु यायां देवि कान्तिमत्यम्ब ।। कार्य खेन स्वहितं को नाम वदेदयं जनो वेत्ति । त्वं वा वदसि किमस्माद्दतिस्त्वमेवास्य कान्तिमत्यम्ब ॥४७॥ धन्योऽस्ति को मदन्यो दिवि वा भुवि बा करोषि चेत्करुणाम् । इदमपि विश्वं विश्वं मम हस्ते कि च कान्तिमत्यम्ब ॥ ४८॥ तरुणेन्दुचूड़जाये त्वां मनुजा ये भजन्ति तेपां ते । भूतिः पदाजधूलिधूलि तिस्तु कान्तिमत्यम्ब ॥ ४९ ॥ स्वामन सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुन्न । हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५० ॥ चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे । किंच सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१ ॥ किरतु भवती कटाक्षाञ्जलजसदृक्षानसेन तादृक्षान् । कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२ ॥ मानसवार्धिनिलीनौ रागद्वेषौ प्रबोधवेदमुषौ । मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३ ॥ मञ्जुलभाषिणि वञ्जलकुङ्मलललितालके लसत्तिलके । पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्ब ॥ ५४ ॥ पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः । शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५ ॥ करुणारसार्द्रनयने शरणागतपालनैककृतदीक्षे । प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६ ॥ . .
गीतिशतकम् । १३७ नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् । किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ ५७ ॥ यदुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् । सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ ५८ ॥ जीवति पञ्चभिरेभिर्न विनास्त्येभिर्जनस्तनुं भजते । तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ ५९ ॥ यमद्विपवदने पडदने वा कुरुष्व तन्मयि ते । जात्वपि मा भूद्धेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६० ॥ शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते । अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१ ॥ मन्मानसपाठीनं कलिपुलिने क्रोधभानुसंतप्ते । सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ ६२॥ यमिनः क वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा । यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ।। ६३ ।। क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् । तत्राप्येवं यदि वद तव किं महिमात्र कान्तिमत्यम्ब ॥ ६४ ॥ वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते । स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५ ॥ प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् । लभ्यमलभ्यं किं नस्तन विना देवि कान्तिमत्यम्ब ॥ ६६ ॥ किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् । घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७ ॥ विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी । संविदसवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८॥ कियदायुस्तन्त्राधैं खप्मेन हृतं कियच्च बाल्याद्यैः । कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९ ।। वेद्मिन धर्ममधर्म कायक्लेशोऽस्त्यदो विचारफलम् । जानाम्येकं भजनं तव शुभद हीति कान्तिमत्यम्ब ॥ ७० ॥ .
१३८ काव्यमाला। निह्यति भोगे द्रुह्यति योगायेदं वृथाद्य मुह्यति मे । हृदयं किमु खतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१ ।। न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते । आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२ ॥ चिन्तामणौ करस्थेऽप्यटनं वीथीपु कि ब्रुवे मातः । वद कि मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ।। ७३ ॥ नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि । क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ।। ७४ ।। त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा क्लुप्तम् । किमपि न सचितममितं वृजिनमये किं तु कान्तिमत्यम्ब ॥ ७५ पापीत्युपेक्षसे चेत्पातुं कान्या भवेद्विना भवतीम् । किमिदं न वेनि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६ ॥ वञ्चयितुं वृजिनाधर्मुग्धान्भवती विनेतरान्नेक्षे । किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥ ७७ । वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन । मास्तु कदापि ममेद कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८ ॥ त्रय्या कि मेऽद्य गुणे तव विदिते यो यतस्तु संभवति । आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ ७९ । अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः । ये खलु भक्तास्तेभ्यः कैवल्य दिशसि कान्तिमत्यम्ब ।। ८० ॥ सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि । प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ ८१ ।। कर्तुं मनःप्रसादं तव मयि चेकि करिष्यति वृजिनम् । जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ।। ८२ ॥ तब तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया । लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३ ॥ शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् । माशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४ ॥ - गीतिशतकम् । १३९ अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेदयतःप्रभृति । अवने वानवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ ८५ ॥ किं वर्तते ममासान्निखिलजगन्मस्तलालितं भाग्यम् । यमिहृदयपद्महंसीं यत्त्वा सेवेऽद्य कान्तिमत्यम्ब ॥ ८६ ॥ कर्तुं जगन्ति विधिवदतु हरिवद्रीिशवद्धर्तुम् । लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ।। ८७ ॥ केचिद्विदन्ति भवती केचिन्न विदन्ति देवि सर्वमिदम् । त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८ ।। शास्त्राणि कुक्षिपूत्यै स्फूत्यै निगमाश्च कर्मणां किं तैः । किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९ ।। किं प्रार्थये पुनः पुनरवने भवती विना विचारः स्यात् । कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ॥ ९० ॥ विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् । करजुपि नवनीते किं दुग्धविचारेण कान्तिमत्यम्य ।। ९१ ॥ प्रणवोपनिषन्निगमागमयोगिमनस्विवातितुङ्गेषु । भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ ९२ ॥ स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् । श्रुतिशिखरशेखरं ते चरणाजं स्तौमि कान्तिमत्यम्ब ॥ ९३ ॥ तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् । स्वप्नेऽपि किंचिदपि मे मा स्म भवद्देवि कान्तिमत्यम्ब ॥ ९४ ॥ विस्मापनं पुरारेरस्साहग्जीविका परात्परमम् । सुपुमामयं खरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५ ॥ मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते । वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६ ॥ आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः । खामिसमृद्धयाशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ।। ९७ ॥
१४० काव्यमाला। निगमैरपरिच्छेद्यं क वैभवं तेऽल्पधीः क चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्य ॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्य तव रूप स्तौमि कान्तिमत्यम्ब ॥ २.:. जय धरणीधरतनये जय वेणुवनाधिराप्रिये देवि । जय जम्भमेदिविनुते जय जगतामम्ब कान्तिमत्यत्र ।। गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्या क्षयतु कटाक्षेण कान्तिमत्यम्ब ।। १०, वप्ता यस्य मनीषिहारतरल: श्रीवेङ्कटेशो महा- न्माता यस्य पुनः सरोजनिलया साध्वीशिरोभूपणाम । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दर देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ! इति तिरुनेल्वेलिसप्रदेशवर्तिविठ्ठलपुरनिवासिमिः, अष्टगोत्रं तिरुमलनागन त्स्यवेङ्कटेश विद्वन्मणितनूजैः, श्रीसुन्दराचार्यकविभिरभिनिर्मित गीतिगर। . - . श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अमृतजलधिमध्योल्लासिरलान्तरीप- प्रस्मरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्वलदलिपटलीभिः क्लुप्तधूपादिकृत्ये ॥ १ ॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी । । १. अस्य कवे स्थान श्रीमथुरा समयश्च तिस्तीयपोडशशतकोना, पूजारत्नादयोऽनेके ग्रन्था कृता . एतस्य पुत्रपौत्रादयोऽपि दीक्षित दयो महाकवयो ग्रन्थकारश्चासन्. एतस्य वंश्यो दीक्षितबालकृष्णशम . राया वर्तते. एतत्सर्व तत्कृतमन्थेभ्योऽवगम्यते. - + १४१ 1 - 7 त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । तदुपरि कृतवासं दत्तबालार्कहास दिशतु शुभमनन्ते देवि सिंहासनं ते ॥ २ ॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गी भावये ज्ञानभङ्गीम् ॥ ३ ॥ द्रुहिणहरिहराणां मौलिसंचारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिहषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४ ॥ गरुडमणिमयूखस्पर्धिदुर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसाथैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणप: पाद्यमाद्यं ददामि ॥ ५॥ फलकुसुमसनाथं नूनरत्नप्ररोह मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नऱ्यामध्ये ददामि ॥ ६ ॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तककोलगन्धम् । शिशिरममलमेतबद्धपीयूषसख्यं सलिलमखिलमातस्त्वं प्रसन्नाचमेथाः ॥ ७ ॥ नवमणियपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरथि । दधिमधुघृतमिश्रं निर्विराजोपनीतं शशिमुखि मधुपर्क त्वं मुखान्तनयेथाः ॥ ८ ॥ १. कुशशिशवी नूतना दी.. . । नव० गु०१३
काव्यमाला।
पुनराचमनं कार्य जगजननि सुव्रते ।
त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९ ॥
त्वरितसहचरीभिर्दत्तहस्तावलम्ब
चरणनलिनमेतत्पादुकास्थं विधाय ।
प्रविश विविधशालं स्नानगेहान्तरालं
पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १० ॥
अपि रसिकविगीतं भक्तचित्तानुमत्यै
सदयहृदयभावे नाहि पञ्चामृतेन ।
शशिमृगमदमुस्तागौरसिद्धार्थचूर्णैः
कुसुमजलविमित्रैः स्वैरमुद्वर्तयाङ्गम् ॥ ११ ॥
परिजनपरिमृष्टे त्यच्छरीरे न याव-
च्छिशिरसलिलधारा कापि चिक्षेप तावत् ।
उदयिनि जनमातः सीत्कृते बद्धभावै-
स्त्रिपुरमथनहासैीडितं क्रीडितं ते ॥ १२ ॥
अथ विमलितरत्नवर्णदुर्वर्णकुम्भै-
स्त्रिभुवनगततीर्थानीतपानीयपूर्णैः ।
स्लपयति सुरनारीवृन्दमेतत्तथापि
प्रणयजलमिद नः स्नानकृत्यं करोतु ॥ १३ ॥
विमलधवलचीनप्रच्छदप्रावृताङ्ग्या-
स्तव शिरसिरुहेभ्यो निहरेऽम्बाम्बुविन्दून् ।
अगरुशकलधूपैयूंप्यतां चाङ्गमङ्गं
सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४ ॥
नवविमलविचित्रे वाससी नूनरत्न-
द्युतिकृतपुनरुक्तायामसंशोभिनी ते ।
अथ कुचपरिणाहाच्छादिनी शंभुनेत्र-
त्रितयभवदसूयां कचुकीमर्पयामि ॥ १५ ॥
३ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । नहनमपि कचाना ककतीभिर्विधाय प्रथितमणिविभूषां देवि वेणी करोमि । निहितनवकिरीटालम्बिमुक्तालताभि- स्ततबहलमयूखां चन्द्रलेखां विदध्याम् ॥ १६ ॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिघटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोपाय भूयात् ॥ १७ ॥ विविधविरचनाभिभिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेषदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८ ॥ दरतरलविलम्बिवर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसंभिन्नमुद्रां जनयतु पुनरुक्ता शृङ्खलामन्तरीणाम् ॥ १९ ॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २० ॥ अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुसाक्षया रञ्जितं ते । मृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु गन्तो बन्धनं भूतभर्तुः ॥ २१ ॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुलुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । १. किरणै.. -- .
१४४ काव्यमाला। अथ नसि कुरु मुक्तां दन्तवासोनुषक्ता मितरुचिपुनरुक्ता नन्दितानेकभक्ताम् ॥ २२ ॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगताना मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्द मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३ ॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शंभोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोमॆदकः कोऽपि धर्मों जनयतु मुदमुच्चैः कुङ्कुम रेडनेत्रे ॥ २४ ॥ युगपदुपगतेन्द्रोपेन्द्ररुद्रादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूपा प्रेतपद्मासनस्य ॥ २५ ॥ अहमहमिकयाधः पातुकानां सुराणा प्रपदमपि शरीरे देवि सयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६ ॥ अगुरुघुसृणचोरीशीरगोरोचनाभि- मलयजमृगनाभिस्फीतकर्पूरपूरैः । कुसुमसलिलघुप्रैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽगकानि ॥ २७ ॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुबकतुलसीभिः केतकीबिल्वपत्रै- दमनकशतपत्रैरर्चये त्वत्पदाजम् ॥ २८ ॥ १. मृगविशेषनयने. 1 त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । १४५ हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९ ॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलं सर्जखण्डा- घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३० ॥ धूपवर्तितरुमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पाईयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१ ॥ सुरसुरभिजसर्पिःपूरिते रत्नपाने हिमकिरणरजोभिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेय निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२ ॥ रजतकनकहीराद्यश्मपात्रेषु मात- विविधरससनाथैश्चोष्यलेखप्रपेयैः । उपहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यै- जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३ ॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४ ॥ पनसकदलजम्बूकर्कटीहारहूरा- मलकबदरनिम्बूदुम्बरैर्वीजपूरैः । अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचितफलैरते वर्धतां बद्धरागा ॥ ३५ ॥ शशिकरधवलानां नागवल्लीदलानां क्रमुककदरजातीचन्द्रसंयोगभाजाम् ।
काव्यमाला ।
मृगमदसुरसूनुस्फीतचूर्णावृतानां
भजतु जननि राग त्वन्मुखाम्भोजमेतत् ।। ३६ ।।
कनकमरितपृची मानुषानन्दमाहु-
स्तदुपरि शतकोटिकामुकानन्दमाहुः ।
जननि तव ददेयं दक्षिणां कां तथापि
प्रथय मयि गन्तं दक्षिणावीक्षणेन ॥ ३७ ॥
त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा-
पटुपटहक झिल्लीतालघण्टानिनादैः ।
उरगसुरवधूभिर्गीयमानं समन्ता-
जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८ ॥
प्राणेषु पञ्चसु निधाय षडात्मवृत्ति-
वर्तीश्चिदमिपरिचुम्बितजातशोभाः ।
नीराजयामि भवती भवतीव्रताप-
निर्वापहेतुमधुना मधुनालसाक्षि ॥ ३९ ॥
उरगतुरगहसीके किशालूरभृङ्गी-
मदकलकलविङ्कीश्येनपारावतानाम् ।
गतिभिरुपचितोऽयं मौलितः पादमूलं
हरतु दुरितजातं देवि' कर्पूरदीपः ॥ ४० ॥
जय देवि जय देव जय विश्वाधारे
दीनानाथोद्धरणप्रवणे जनसारे ।
त्वत्पदपद्मे पझे विधृतव्यापारे
मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१ ॥
अमृतोदधिमध्यस्थितनवरत्नद्वीपे
विप्वग्विकसितसुरतरुनवचम्पकनीपे
नानाकुसुमामोदिनि विधुतागरुधूपे
चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२ ॥
- त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । माणिक्योज्ज्वल चत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भ ।। ४३ ।। दलितजपाकुसुमोपमवसनच्छन्नाङ्गी तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गी कलयन्ती कुचकोशे सुषमा नारङ्गीम् ॥ ४४ ॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमहिता ज्योतिस्त्रितयालंकृतनयनत्रयसहिताम् ॥ ४५ ॥ पशुपतियन्त्रणष्टुतररोमाबलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् । प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६ ॥ काली बगला बाला तारा भुवनेशी वाराही मातगी कमला वचनेशी। छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किंचित्त्वं चिद्रसपेशी ।। ४७ ॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८ ॥ कुलकुण्डे त्वं कुरुपे शयने प्रखापं खाधिष्ठाने मिहिरायुतदीधितितापम् । - १४८ काव्यमाला। vie नीला नाभौ कण्ठे शशिभा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४९ ॥ त्वत्पदपने चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं मौलिमें नमताम् । यातायातक्लेगः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५० ॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ॥ ५१ ॥ मिलदलिपटलीभिः केवलं घातपूर्वः स्फुटितकुसुमगर्भः स्वैरसंचारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ ५२ ।। सकृदपि विनताधिस्त्वां परिक्रम्य मात- र्भवति मखफलेपु क्षीणलोभं मनो नः । सरसिजमकरन्दाखादतृप्तो मिलिन्दः कचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ।। ५३ ॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिमें न लसति पुनरुच्चैः खैरमुद्रीविका चेत् ॥ ५४ ॥ विमलमुकुरबिम्ब पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्ब शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५ ॥ १. शिवता.
ed - त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । १४९ अथ कृतपरिवाराभ्यर्चनं ते समl स्तुतिभिरनुपमाभिः पावये खां रसज्ञाम् । यदपि न रविरश्मिः खोपकारं विधत्ते तदपि कमलमालाम्लानहानि तनोति ॥ ५६ ।। श्रवसि विशति यस्य त्वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्रिवर्गाश्रयत्व परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७ ॥ हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः। दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८ ॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चि- त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ।। ५९ ।। कदा तव पदाम्बुजस्मरणजातरोमोद्गमः सदाशिवमदालसे जननि मातरित्युद्विरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वकपा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६० ।। त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्द्रन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं संतरे ॥ ६१ ॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्रिदिवपतितामाप सुरपः । --
काव्यमाला।
.
इदं को जानीते क्षणमपि हराध प्रजपतां
हसार्ध व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२ ॥
जननि निभृतं यत्ते रूपं वढत्यतिशाश्वतं
लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः ।
स्मरणविषये येन खैरं वरेण विजृम्भता
त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३ ॥
ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुपां
महाधान्नां साम्नां प्रथितयशसोऽथर्वशिरसः ।
हरिब्रह्मेशाद्याः प्रपदकिरणोत्तसमुकुटा-
स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४ ॥
त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माधिनी माद्यतो
जीवंजीवकुलस्य भृङ्गपटलीन्यकारबद्धव्रताम् ।
रडूच्छङ्कुविधायिनी च नलिनश्रीगर्वसर्वकषां
कारुण्यामृतवर्षिणी मयि शिवे दृष्टि मनाङमोटय ॥६५॥
रिङ्गद्धृङ्गकदम्बडम्बरपरिप्वङ्गप्रसङ्गाकुल-
प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वंकषः ।
हक्कोणः करुणाङ्कुराङ्किततनुः कोऽप्यद्रिजे मद्वपु:-
पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥६६॥
समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया
पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया ।
ललल्लीलाभाजा परशिवपरिष्वापरया
धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥ ६७ ॥'
वेदैरशिभिरुज्वलोपनिषदां वृन्दैरधःकल्पितैः
शास्त्राद्यैरपि तिर्यगूर्वकलितैरोंकारमार्गेण च ।
विप्वमाननिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे
कीरी काचन चेतनैकविभवा चित्ते चकास्ताचिरम् ॥ ६८ ॥
चतुःषयुपचारमानसपूजास्तोत्रम् । १५१ तरुणारुणप्रतिमरम्यरुचिं कुसुमेपुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयी भवतीमहर्निशमहं कलये ॥ ६९ ॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७० ॥ इति श्रीसत्यानन्दनायापरनामधेयसामराजदीक्षितविरचिते पूजारत्ने स्थितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । श्रीशंकराचार्यविरचितं चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । उपसि मागधमङ्गलगायनेझटिति जागृहि जागृहि जागृहि । अतिकृपाकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमान दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयगृहमध्यमेहि मातर्मयि कृपया हि समर्चेनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्ष जलधरलैंम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहतोर्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥ तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा । नवरत्नविभूपिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीणे कोटिबालार्कवणे । भगवति रमणीये रत्नसिंहासनेऽस्मि- नुपविश पदयुग्मं हेमपीठे निधेहि ॥ ५॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ १ अस्य स्तोत्रस्य पुस्तकद्वयं समासादितम् तत्रैक क चिह्नितं जयपुरराजगुरुश्री- नारायणपर्वणीकराणां नवपत्रात्मकम् अपरं ख चिह्नितं चातुर्वैदिकोपाख्यगौडराम चन्द्रशर्मतनूजनाथूनारायणशर्मणा चतुर्दशपत्रात्मकं समासादित्तम्. २. 'हेमपूर्णकुम्भ क. ३. 'मण्डपमेतदेहि ख. ४. 'चुम्बि' ख.
१५२ काव्यमाला। . दूर्वया सरसिजान्वित विष्णुकान्तयापि सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदू-संयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नैरर्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजधुतिना करेण जातीफलककोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं भवतीकरेऽर्पितं मधुपर्क जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्त रत्नमये सुवर्णचषके भृङ्गभ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं तन्मया केशेषु भ्रमरप्रभेषु सकलेवोपु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकार्चितैः नानं ते नवरत्नकुम्भविधिना सवासितोष्णोदकैः ॥ १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि बताहमाहतो जननि त्वां पुनरुप्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सेकुसुभैर्गङ्गादितीर्थोदकै माणिक्यद्रवमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकौन्त्रिकान्परिपठन्सानन्दमत्यादरा- स्नानं ते परिकल्पयामि जननि स्नान स्वमङ्गीकुरु ॥ १४ ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तम मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभित्रथितं सुकञ्चकमिदं स्वीकृत्य पीतप्रभं तप्तवर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ १. 'केसरम्' ख. २. 'सुकुसुम' ख. ३. 'क्यामृत' ख. ४. 'मात्रिकान्' ख. ५ 'सस्सवि' क. ६. 'च कञ्चक' ख.
- चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५३ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोनिधीयताम् ॥ १६ ॥ बहुभिरगुरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्जियित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रै—टयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्यून मलिनमपि त्वदक्षिसङ्गाब्रह्मेन्द्राधभिलषणीयतामियाय ॥ १८॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्ची कटौ मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणी करेषु क्रमा- त्ताटके तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मोक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूमिकाः कट्यां काञ्चनकिङ्किणीविनिदधे रनावतसं श्रुतौ ॥ २० ॥ मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलके देहाङ्गराँगं तव । वक्षोजादिषु यक्षकर्दमरसं सिक्तासु पुष्पाक्षतैः पादौ कुङ्कुमलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्या रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपत्राङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोऽयमिदं पटवासकम् । सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिद प्रतिगृह्यताम् ॥२३॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- सिन्दूर ते हृदयकमले हर्षवर्षे तनोतु । १. 'युते' ख. २. 'मजीरान' क. ३ 'विराजिहेमलतिका' ख. ४. 'रागात्तत.' क. ५. 'मयं पटवासकः' ख. -- FA १ - - .
१५४ काव्यमाला। बालादित्यधुतिरिव सदा लोहिता यस्य कान्ति- रेन्तर्ध्वान्तं हरतु सततं चेतसा चिन्तयामि ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्ग पुष्पै- स्त्वां देवि संततमह परिपूजयामि । जातीजपाबकुलचम्पककेतकानि नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीबकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैमल्लिकाबकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिपा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- धूपं ते परिकल्पयामि जननि स्नेहात्त्वमशीकुरु ।। २८ ॥ रत्नालंकृतहेमपात्रनिहितै!सर्पिपा दीपितै- दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः । आताम्रज्वलदुज्वलज्वलनवदनप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥ मातस्त्वा दधिदुग्धपायसमहाशाख्यन्नसंतानिकाः सूपापूपसिताधृतैः सवटकैः सक्षुद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकस्तूरिकासंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यम्बिके ॥ ३० ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि । १. 'रन्तान' क. २. 'कुरण्ट' क. ३. 'अम्बुजैश्च कुसुमैश्च' ख. ४. 'जननी धूपं क. ५. 'सर्पिणोद्दीपित' क. ६. 'प्रदीपैस्तथा' ख. ७. 'कुस्तुम्बरीसरकृतै' ख.
चतुःषयुपचारमानसपूजास्तोत्रम् । १५५ शाकोल्लसम्मरिचजीरकबाल्हिकानि भक्ष्याणि मक्ष जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुत्तम मधु । मातरेतदमृतोपमं त्वया संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हरतौ समुद्रर्तय चन्दनेन ।। ३३ ।। अतिशीतमुशीरवासितं तेपनीयावपने निवेदितम् । पटपूतमिदं जितामृत शुचि गङ्गामृतमम्ब पीयताम् ॥ ३४ ॥ जैम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलाक्रोडसमन्वितानि । सनालिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ।। ३५ ॥ कैलिङ्गकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि संबादराणि फलानि ते चाम्ब समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैलबगसहितैः ककोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः मातः केतकपत्रपाण्डुरुचिभिरताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमगीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि ककोलकर्पूरसमिश्रितानि । ताम्बूलवल्लीदलसयुतानि पूगानि ते देवि समर्पयामि ॥ ३८॥ ताम्बूलवल्लिदलनिर्जितहेमवर्ण खर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । रत्नस्थगिस्थितमिदं खदिरेण युक्त ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपाने स्थापयित्वा विशाला- न्डमरुसदशरूपान्बद्धगोधूमदीपान् । बहुघृतमथ तेपु न्यस्य दीपानुकम्पा- न्भुवनजननि कुर्वे नित्यमारार्तिक ते ॥ ४०॥ १. 'भुइक्ष्व' ख. २ 'तपनीया चमनैर्निवे.' ख. ३. 'आताम्र' ख. ४. 'कुष्माण्डी' ख. ५. 'सजाम्बवानि' ख. ६. 'देवि' ख. ७. 'मिन्दुरुचिमि' क. ८. 'साई' ख. . .
काव्यमाला। porntv - सविनयमथ दत्त्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब साध त्रिवार भ्रमयति मयि भूयात्ते कृपा कटाक्षः ॥ ४१ ।। अथ बहुमणिमित्रैमौक्तिकैरत्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तादिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलश लोकनयाह्लादकम् । भावन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृत छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वय निर्मितम ।। १३ , शरदिन्दुमरीचिगौरवर्णैर्मणिमुक्ताविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वामहमानन्दभरेण वीजयामि ॥ ४४ मार्तण्डमण्डलनिभो जगदम्ब योऽयं भत्तया मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं खकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मुकुटप्रदीपै- नीराजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥ प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः कनकमयविभूपः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थ मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ।। १. 'धरिण्या' क ख.२ 'जननि तव प्रकुर्वे नित्यमारार्तिकं ते ख.३ ।। .. . ४. 'पर्यव' ख.
:
चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५७
मधुकरवृतकुम्भे ग्यतसिन्दूररेणु
कनककलितघण्टः किङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्तान्मत्तमातङ्ग एषः ॥ १८ ॥
द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयमहं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
हयगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तम् ।
अतिबहुचतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
परिखीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते ।
विपुलं धरणीतलाभिधं प्रबलं दुर्गमिदं समर्पितम् ॥ ५१ ।।
शतपत्रयुतैः खभावशीतैरतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखराकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
भ्रमरलुलितलोलकुन्तलाली विगलितकाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
रुचिरकुचतटीनां नाट्यकाले नटीनां
प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् ।
धिमिकितिधिमिधिद्धी धिद्धिधिद्धीधिमिद्धी
धिमिकितिधिमितत्ताथेयथेयेति शब्दः ॥ ५५ ॥
भ्रमदलिकुलतुल्या लोलधम्मिल्लभारा
स्मितमुखकमलोद्यदिव्यलावण्यपूरा ।
अनुपमतमवेषा वारयोषा नटन्ती
परभृतकलकण्ठी देवि धैर्य तनोतु ॥ ५६ ॥
डमरुडिण्डिमझुझुरभल्ली मृदुरवाईघटाघटाहयः ।
झटिति झाङ्कुतिभिर्जगदम्बिके मुहुरिमे हृदयं सुखयन्तु ते ॥ ५७ ॥
1 काव्यमाला । विपञ्चीपु सप्त खरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकान्ता । क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ।। अभिनवकमनीयैर्नर्तनैर्नर्तकीनां क्षणमथ रमयित्वा चेत एवं त्वदीयम् । खयमहमपि चित्रैर्नृत्यवाद्यप्रगीतै- भगवति भवदीयं मानसं रञ्जयामि ॥ ५९ ॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुपु स्तवनं करतव कर्तुमीश्वरः ॥ ६० ॥ पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तां सर्वपापक्षयहेतुभूतां प्रदक्षिणा ते परिकल्पयामि ॥ ६? 11 रक्तोत्पलारक्तलताप्रभाभ्या ध्यजो रेखाकुलिशाकिताभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६२ ।। चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमाला कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्ष तनोतु ॥ ६३ ॥ अथ मणिमयमञ्चकाभिरामे द्युतिमति पुष्पवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन्भगवति वासगृहेऽस्तु ते निवासः ।। तब देवि सरोजचियोः पदयोनिर्जितपद्मरागयोः । अतिरक्ततरैरलक्तकैः पुनरुक्ता रचयामि रक्तताम् ॥ ६५ ॥ अथ मारुतशीतवासितं निजताम्बूलरसेन रञ्जितम् । तपनीयमये हि पट्टके मुखगण्डूपजलं निधीयताम् ॥ ६६ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदे निधाय पादौ । विस्तीर्ण मृदुतरलोत्तरच्छदेऽस्मिन्पर्यके कनकमये निषीद मातः ॥२ । क्षणमथ जगदम्ब मञ्चकेऽस्मिन्मृदुतरतूलिकया विराजमाने । अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु मां हृदि सारन्ती ।।
चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५९ मुक्ताकुन्देन्दुगौरां मणिमयमुकुटां रनताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्ताममयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्ता सुरमुकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननी चेतसा चिन्तयामि ।। ६९ ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा खीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमख । न्यूनं यत्तत्तव करुणया पूर्णतामेति सर्व सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७० ॥ पूजामिमां पठेत्प्रातः पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वान्छितार्थ च विन्दति ॥ ७१ ।। प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ।। ७२ ।। पूजामिमा यः पठति प्रभाते मध्याह्नकालेऽप्यथवा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवतामुपैति ॥ ७३ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितचतुःपष्टयुपचार- मानसपूजास्तोत्रं समाप्तम। .
irrofile {{तील hai .. - . . Arti.! 'וי{{} - । . . '. गुन १ - 41.7 |! [ मा ...,, . - ५ लीतिrict । योनिमा विहारामा आत ! 120 पसीन साहनी ।।।। - तार्णक योतिाका उदा.पण, , ' , Hit I grill - दमन राम 14 - 1 - 1 1 11 जान बचा जाम !! पानामाल! नीर कि ५२२, :.1.1: 1 -- - 4 , ति.. ( मानि.) गलाचार्माता hifief- नोशित भासता. या गया, अमन य"R 1 3 शशी फलेक नगरी गर। भी । परयोतिपो नाज || विसागयोग 1 कि. मांदुरंग गावी निर्णयसागर पराचे मा .. - । ,